The Lamp of the Path of Ignorance

Ajñānadhvāntadīpikā

The Lamp of the Path of Ignorance

Ajñānadhvāntadīpikā

SK
न० - ४९६६ पु. नामः अज्ञानध्वान्तदीपिका कर्ताः श्रीसोमनाथः पत्र सं. ३८ --- सं. विषयः तन्त्रम् अज्ञानध्वांतदीपिका श्लोक ८०० पत्रे ३८ ठाकुरकौलहस्ये अ.ज्ञा.त.दी. पृ० १अ) ॐश्रीगणेशायनमः ॐसीताकान्तंहृदि ध्यात्वासोमनाथोमहेशजः कुर्वेवालाव वोधार्थमज्ञानध्वान्तदीपिकाम् १ सिद्धि दांमात्त्रिकाणांचदैवज्ञानांवशःप्रदां सिद्धिदावालवैद्यानांसंगीतानांसुखप्र दां २ शांतिदांशांतिकर्तॄणांविषजा नांविषापहां कौतुकाशाकुनिनांतुर सज्ञानांतुवृद्धिदां ३ इतिशास्त्रप्रशंसा नुमंत्रेणविनासिद्धिर्जायतेभुविदेहिनां तेनात्रमन्त्रसिद्ध्यर्थंक्रियतेमन्त्रपद्धतिः ४ अकीलितासिद्धमन्त्रातात्कालिकसुख प्रदाः संन्यासाःसप्रयोगाश्चवक्ष्यन्तेत्रस मासतः ५ अथगुरुशिष्यपरीक्षाल क्षणं अवदातान्वयःशुद्धासाचकोज्ञान तत्परः आश्रमीक्रोधरहितःसर्वशास्त्रा र्थतत्ववित् ६ सद्गुणाढ्यस्तुकुलजः कृतज्ञःशिष्यवत्सलाः निग्रहानुग्र पृ० १ब) हेदक्षोमहामंत्रपरायणः ७ र्थहापोहप्र माणज्ञाशुद्धाम्नायकृपालयः इत्यादिल क्षणैःर्युक्तोगुरुस्याद्धरिमाश्रयः ८ इ तिगुरुलक्षणं अथशिष्यलक्षणंशिष्यः शुद्धानुयःश्रीमान्विनीतःप्रियदर्शनः स त्यवान्पुण्यनिरतोदान्तधीदंभवर्जितः ९ युवाविनियताशेषकरुणाकरुणालयः इत्या दिलक्षणैर्युक्ताःशिष्योदीक्षाधिकारभाग् इत्यशिष्यलक्षणं अथदीक्षादिग्रहणे मा साधिफलम् चैत्रेदुःखायदीक्ष्यास्यात् वै शाखेसर्वसिद्धिदा ज्येष्टेमृत्युप्रदाप्रोक्ताआ षाढेवन्धुनाशिनी श्रावणेवृद्धिदानॄणां नभस्येदुःखदामता आश्विनेसर्वसिद्धिः स्यात्कार्तिकेज्ञानवृद्धिदा शुभकृत्मार्ग शीर्षेचपौषेज्ञानविनाशिनी माघेमेधा विवृद्धिस्यात्फाल्गुणेसर्वसस्यकृत् कृष्ण पक्षेथवाशुक्लेदीक्षाचैवप्रशस्यते प्रश स्तास्तिथयःसर्वाकुहूरिक्ताविवर्जिता १४ पौष्णौतुरोरोहिणीषुचित्रामृगशिराश्विनी
SK
श्री पृ० २अ) हस्तपुष्योनुराधाचदीक्षायांशुभदास्मृताः १५ अर्केगुरुसिताज्ञाश्चवाराःशस्ताशशिस्तथा शुभयोगाःशुभास्ताराकरुणानिशुभानि च १६ स्वस्थिराणिचलग्नानिशुभांशक युतानिच इतिदीक्षाग्रहणकालाः अथ विशेषः महाष्टम्यांनवम्यांवादीपमालादि नत्रये चन्द्रसूर्योपरागेचपुष्पार्कार्ककरेषु च सुप्तलब्धेस्त्रियादत्तेसिद्धकालुदाहृतः इतिसिद्धकालः गुरुंसंपूज्यविधिनागन्ध वस्त्रादिभूषणैः पादसंग्रहणंकृत्वादीक्षा ग्राह्यत्वनुतुमा १९ दक्षिणेश्रवणेमन्त्रंवदे वदेद्वारत्रयंगुरुः स्वगृह्योक्तविधानेनहो मपूर्वकमाचरेत् इतिमन्त्रंग्रहणविधानं अथमन्त्रांगकंवक्षेमेरुतंत्रेशिवोदितं मंत्र साधकयोवल्फान्सुरांश्चक्रमशःपृथक् विधायसिद्धसाध्याय्यैर्गणयेन्मंत्रवित्तमः अनुस्वारंविसर्गंचजिह्वामूलीयषांढकं मु क्त्वातुसंयुतंवर्णांगणनांकारयेद्बुधः पितृमातृकृतंनामगुरुणायश्चकीर्तितं २३ पृ० २ब) संहितोश्चारणान्प्राप्तंकवलाक्षरवर्जितं अप भ्रंशाक्षरंत्यक्त्वासाधकोनामशोधयेत् २४ व्यंजनैर्व्यंजनंशोध्यंसुरैर्नामसुरांतथा आद्य माद्येनसंशोध्यंद्वितीयेनद्वितीयकं २५ अ नेनैवप्रकारेणशेषाःशोध्यायथाक्रमं आ द्यंयदक्षरंनाम्नोगणयेश्चतदादितः २६ या वन्मन्त्राक्षरस्थानंमातृकायामयंक्रमः च तुष्कंचचतुष्कंचपरित्याज्यंपुनःपुनः २७ सिद्ध्यसाध्यस्वसिद्धोरिसंख्ययैवयथाक्रमं ए वंक्रमेणमंत्राणांसर्वेषांगणनेकृते २८ कियत्सिध्यंकियत्साध्यंमित्याध्यापिविचा रयेत् यन्त्रमन्त्रेभवेदेतत्सिद्धादीनांचतुष्टयं २९ समंत्रसिद्धित्युक्तःसाध्योवैद्विजवर्जितः रि पुवर्जंत्रयंयाश्चससुसिद्धिहोच्यते ३० सुसि द्धेनविहीनंयत्वयंइच्छतुसंज्ञकं आदिसिद्धो नसिद्धोयमध्यसिद्धोथवाभवेत् ३१ सुसि द्धःसतुविज्ञेयसर्वकामफलप्रदः आदावंते (चसाध्योयःसोतिकष्टेनसिद्ध्यति आदावंन्ते
SK
श्री पृ० ३अ) च??) यःशत्रूसाधकंमाचरेयद्ध्रुवें सुसिद्धोयस्त्रैलो क्यमपिदास्यति ३३ आदावंतेचसाध्योयः सोतिकष्टेनसिद्ध्यति आदावंतेचयःशत्रूसा कंमाचरेयद्ध्रुवं ३४ सिद्धःसिद्ध्यतिकालेन साध्यस्तुजपहोमतः सुसिद्धोग्रहणादेव रिपुःसाधकमारकः ३५ एवंमंत्राशकं ज्ञात्वासुसिद्धंसिद्धमेवच साध्यंवापिकु?चि द्ग्राह्यंसिद्ध्यर्थंमंत्रमुत्तमं ३६ शास्त्राद्वा * गु रुवक्त्राद्वाग्राहयेत्साधयेत्पुनः पुरेवापत्त नेग्रामेखेटकेसिन्धुसंगमे ३७ वनेचोपव नेतीर्थेमहापीठेचसागरे पर्वतेकुलवृक्षे चसिद्धवृक्षेश्मशानके ३८ गुहाभ्यंतर्गृहेपु ण्येवृक्षेवाथश्मशानके सिद्धस्थानेशिव क्षेत्रेगृहेवापियथोदिते ३९ दीपस्थानंवि निश्चित्यकूर्मचक्रंसुसिद्धिदं अष्टवर्गान्लि खेदीमान्मध्येतुसुरयुग्मकं ४० क्षमिशाने पदेक्षेत्रेवेदास्येनवकोष्टके हृदास्यभुजकु क्षंघ्रिपुक्षेवर्गाक्रमास्थिताः ४१ पादानि पृ० ३ब) दीपिसंज्ञानितेषुक्षेत्राधिपाइमे अमृतंवृषभं चैवशूलराजंचवासुकिं ४२ तथाजगरंचै वधूपंशक्तिंपुरस्तथा पद्मयोनिमहाशंख छायाक्षत्रमनुक्रमात् ४३ मध्यात्पूर्वादि तःपूज्यामंत्रमात्रैवकल्प्यतं अथमंत्रः ॐह्रींअमुकक्षेत्रपालसर्वविघ्नान्नाशय २ हन २ अन्नंसुरापिशितमत्स्यवटकचर्वणस हितमाषभक्तबलिंगृह्ण २ खादय २ सपरि वारक्षेत्रपालसर्वदुष्टान्खादय २ स्वाहा अने नमंत्रेणसर्वेक्षेत्रपालासंपूज्यः यत्रयत्रभवे दुर्गेक्षेत्रनामाद्यमंक्षरं तन्मुखंशेषवर्गेषु करक्तक्ष्यंघ्रिकल्पना ४४ मुखस्थलभवे सिद्धिंकरस्थसुल्यभोगभाक् कुपुच्छेस्थिते प्युदासीनः पादास्थोदुःखमाप्नुयात् ४५ पुच्छेस्थितेबुधबन्धंजपन्नाप्नोतिनिश्चितं दीपस्थानंततःक्षेत्रेज्ञात्वामंत्रीशुचिर्भवेत् ४६ क्षेत्रसाधकमंत्राणामेकमेवाद्यमंक्षरं यदि स्यात्सध्रुवोमन्त्रःक्षिप्रमेवसुसिद्ध्यति ४७
SK
श्री पृ० ४अ) इतिमंत्रवाक्यदीपकाः अथजपमालायथा अष्टोत्तरशतंचैवचतुःपंचाशदेवत्तः सप्तविं शतिभिर्वापिकर्तव्याजपमालिकाः ४८ उत्तमामध्यमानीवात्रिधाप्रोक्ताक्रमेणतु व्रह्मग्रंथन्विताप्राओक्तामेरुयुक्ताशिवोदिता ४९ मंत्रप्रत्यकृतासिद्ध्यैशांतिकेवाथपौष्टिके स्फाटिकीमौक्तिकीवापिप्रोतव्यासितसूत्र कैः ५० सर्वकामप्रसिद्ध्यर्थंजपेद्रुदाक्षमा लया धर्मार्थकाममोक्षार्थंजपेपद्माक्षमा लया ५१ सारस्वतेप्रवालोत्थावश्येसैव प्रकीर्तिता पद्मरागमयीवापिससस्तुपु त्रजीवजा ५२ प्रोतव्यारक्तसूत्रैश्चपटसू त्रैरथापिवा शुक्लरक्तंतथापीतंकृष्णवर्णे षुचक्रमात् ५३ सर्वेषामेववर्णानारक्तं सर्वेप्सितंप्रदं त्रिगुणंत्रिगुणीकृत्यग्रंथ येच्छिल्पशास्त्रतः ५४ एकैकंमातृका वर्णंचत्वारःप्रजपन्सुधीः मणिमादाय सूत्रेणग्रंथयेन्मध्यमध्यतः ५५ व्रह्म पृ० ४ब) ग्रंथिविधायेर्थमेकंचग्रंथिसंयुतं ग्रंथथित्वा परामालातत्संस्कारमथारभेत् ५६ मा न्त्रिकामन्त्रतोग्रंथिंविद्यायांवाथकारये त् मुखेमुखंतुसंयोज्यपुछेपुछंनियोज येत् ५७ गोपुच्छसदृशीमालायद्वासर्पा कृतिःशुभा एवंनिर्मायमालांत्तुशोधये त्मुनिसत्तमः ५८ अश्वत्थपत्रनवकैः पद्माकारंतुकल्पयेत् तन्मध्येस्थापये न्मालांमातृकामूलमुच्चरन् ५९ क्षाल येत्पंचगव्येनसद्योजातेनसज्जलैः ततः सद्योजातमंत्रस्तु ॐसद्योजातंप्रपद्यामि सद्योजातायवैनमः भवेभवेनातिभवे भजस्वमांभवोद्भवायनमः इत्यमंत्रेणश तवारंजपन्पंचगवेनक्षालयेत् चन्दनागु रुगन्धाद्यैवामदेव्येतदर्चयेत् ६० वामदेव मंत्रस्तु ॐवामदेवायनमोज्येष्टायनमः श्रे ष्टायनमो रुद्रायनमः कालायनमः क लविकरणायनमो बलविकरणायनमो
SK
श्री पृ० ५अ) वलायनमःप्रमथनायनमः सर्वभूतदम नायनमो मनोन्मनायनमः इतिमंत्रेणाच न्दनादिगुरुगन्धाद्यैशतवारंप्रघर्शयेत् अघोरमंत्रस्तु ॐअघोरेभ्योथघोरेभ्योघोर घोरतरेभ्यःसर्वसर्वेभ्योनमोस्तुरुद्ररूपे भ्यःइत्यमंत्रेणगुग्गुलधूपादिनाशतवारं१०० प्रधूपयेत् तत्पुरुषमंत्रस्तु ॐतत्पुरुषाय विद्महेमहादेवायधीमहितन्नोरुद्राःप्रचोद यात् इतिमंत्रेणचन्दनादिनाशतवारंरक्त चन्दनादिप्रलेपयेत् अथीशानमन्त्रस्तु ॐईशानःसर्वविद्यानामीश्वरःसर्वभूतानां व्रह्माधिव्रह्मणोधिपतिर्व्रह्मशिवोस्तुसदा शिवं इतिमंत्रेणमेरुंशतवारंमभिमन्त्रयेत् अथप्राणप्रतिष्ठा मन्त्रस्य व्रह्मविष्णुमहेश्व राऋषयः ऋग्यजुसामानिछंदांसि श्रीम च्चिह्न?रूपिणीप्राणशक्तिर्देवता आंवीजं ह्रींशक्तिः क्लींकीलकं प्राणप्रतिष्टाप नेविनियोगः अथमन्त्रः ॐआंह्रींक्रौंयं पृ० ५ब) रंवंलंशंषंसंहं हंसःसोहं अमुकदेवतायाःप्राणा इहप्राणः १६ पूर्वजीवानुश्चार्यअमुकदेवाताया जीविहस्थितः १६ पूर्वंजीवानुद्धार्य अमुकदे वताया सर्वेन्द्रियाणित्वक्चक्षुश्रोत्ररसघ्राण वाक्पाणिपादपायूपस्थानिपंचविंशतितत्व सहितानिइहागत्यसुखेनचिरंतिष्टतुस्वाहा इतिसर्वसाधारणप्राणप्रतिष्टा इतिमंत्रत्रयेणा ष्टोत्तरशतवारमभिमंत्रयेत् ॐमालेमालेमहा मालेसर्वतत्वस्वरूपिणी चतुर्वर्गस्त्वयिन्य स्ततस्मात्मेसिद्धिदाभव होमकर्मततःकु र्याद्देवताभावसिद्धयै अष्टोत्तरशतंहुत्वा संपाताज्यविनिक्षिपेत् होमकर्माण्यश क्तिश्चेद्विगुणंजपमाचरेत् तत्रमंत्रजपैन्मं त्रिकंपयेनविधूनयेत् कंपनात्सिद्धिहानिः स्याद्धूननंबहुदुःखदं शब्देजनेभवेद्रोगः करभ्रष्टाविनाशकृत् छिन्नेसूत्रेभवेन्मृत्यु स्तस्माद्यत्नपरोभवेत् अप्रतिष्टितमाला यांमंत्रंजपतियोनरः तत्सर्वंनिष्फलंज्ञेयं क्रुद्धोभवतिदेव * त् तज्जैन्यगुष्टयोगेन
SK
श्री पृ० ६अ) शत्रोरुश्चाटकारकं अंगुष्टमध्यमायोगात्मन्त्रसि द्धिंसुनिश्चितं अंगुष्टानामिकायोगादुच्चाटेछे दनेमते कनिष्टांगुष्टयोगेनजपेमारणकर्म णि जीर्णेसूत्रेपुनःसूत्रंग्रंथयित्वाशतंजपे त् प्रमादात्पतिताहस्ताच्छतमष्टोत्तरंजपे त् जपेतिसिद्धसंस्पशेक्षालयित्वायथोचि तं अथषट्कर्मजपविधिः उदयायामपर्यं तंहेमन्तेपोटिकेजपेत् यामद्वयंपूर्वरात्रौशि शिरेमारणेजपेत् वसन्तेप्राहरादूद्वंयावत्म ध्याह्नकंभवेत् कार्यमाकर्षणंतत्रमन्त्रैरि ष्टिस्यवस्तुनः ग्रीष्मेतृतीयकेयामेजपेद्वि द्वेषकर्मणी ततोऽस्तमयपर्यंन्तंमुश्चायेतो यदागमी अर्द्धरात्रेनिशान्तंचजपेच्छरादि शान्तिकं यस्मिन्कस्मिनृतौकार्यंमन्त्रा णांसाधनंशुभं पूर्वाह्नेचैववश्यार्थंमध्या ह्नैप्रीतिनाशनं उच्चाटनापराह्नेतुसध्या यांमारणंमतं शान्तिकंचार्ष्टरात्रीतुततो र्द्धंसर्वकर्मच शुक्लपक्षेद्वितीयाचतृती यापंचमीतथा बुधदेवगुरुकूपेताशा पृ० ६ब) न्तिकेवापिसप्तमी षष्टित्रयोदशिचैवचतुर्थीव नवमीतथा सोमदेवगुरुपेतापौष्टिकेसंचिता बुधैः अष्टमीनवमीचैवद्वादश्यैकादशीतथा शुक्रभानुसुतोपेताप्रपन्नाद्वेषकर्मणि अतश्च तुर्दशीकृष्णाशनिवारीतथाष्टमी उच्चाटनेति सस्तेयंएतच्छकरभाषितं अमावस्याष्टमीकृष्णा तामृशीभानुना तत्स्ततोपेताभूसतेनाथसंयु ता मारयत्यम्भुतंमोहाद्रक्षतंशंभुनापिवा एवंसिद्ध्यतिकर्माणितिथिवारानुसारतः अथा सनानिलिख्यते यथोक्तासनमारूढोजपंम न्त्रेसमाचरेत् कुशाजिनाम्बरैर्युक्तंचतुरंगुलमु छ्रितं चतुरस्त्रंद्विहस्तंचसुदृढंमृदुनिर्मितं त न्त्रोपरिनियुंजीतयोगमंत्रस्यसिद्धये हिकुंज म्भणहिकुदिविकलीकृतमानसः मन्त्रसिद्धिं नचाप्नोतितस्माद्यत्नपरोभवेत् व्याघ्रचर्मास नंवश्येमोक्षोसाधनसाधने अकृष्टोगजचर्मा स्याद्वारिजंशान्तिपौष्टिके उच्चाटेमहिषंचर्ममा रणेनरकेशजम् सर्वकर्माणिसिद्धिंन्तिचित्रक म्बलविष्टरे शान्तिकेस्वस्तिकंप्रोक्तंपौष्टिकेपद्म
SK
श्री पृ० ७अ) जासनं आकृष्टौपाष्णिकंज्ञेयंविद्वेषेकुकुटासनं अर्धस्वस्तिकमुच्चाटेअर्द्धौत्थानांतुमारणे पूज यित्वाचहुत्वाथजप्त्वाध्यात्वाचदेवता मृदुमेध्यं स्वपक्वंचभुंजीतलघुभोजनं यद्वातद्वापरित्य ज्यदुष्टान्नंकुत्सितोदनं शस्तानंतत्रभुंजीत मिताशीसिद्धिभाग्भवेत् अन्यथाभोजयेनै वसिद्धिहानिश्चजायते इतिसर्वंशिवेनोक्तं मंत्राणांसाधनंशुभं अथमंत्राणांदशसंस्का रालिख्यते जननंजीवनंपश्चात्ताडनंशोदनं तथाभिषेकोविशलीकरणमाप्यायनंततः परं तर्पणंगोपनंगुप्तिदशैतामंत्रसंस्थिया स्वर्णादिपात्रेसंलिख्यमात्रिकायत्रमुतमं काश्मीरचंदनेनापिभस्मनावाथसुव्रतः काश्मीरंशक्तिसंस्कारेचन्दनंवैष्णवेमनौ शैवेभस्मसमाख्यातंमातृकायत्रलेखने मन्त्राणांमातृकामध्यादुद्धारोजननंस्मृतं इतिजननसंस्कारः प्रणवांतरितान्कृत्वा मन्त्रवर्णान्जपेत्सुधीः प्रत्येकंशतवारंतु जीवनंतमुदाहृतं एतज्जीवनमित्याहुमंत्र
SK
पृ० ७ब) तंत्रविशारदः इतिजीवनसंस्कारः मंत्रवर्णान्स मालिख्यताडयेच्चंदनांभसा प्रत्येकंवायुवीजे नताडनंतदुदाहृतं इतिताडनसंस्कारः विलि ख्यमंत्रवर्णसंख्यातेहन्याद्रेफेणबोधनं इतिबो धनसंस्कारः तत्रोक्तविधिनानेनमन्त्रिमंत्रर्ण संख्यया अश्वत्थपल्लवैःसिंचेन्मन्त्रवार्णाविश्व द्वये इत्याभिषेकसंस्कारः संचिंत्यमनसामन्त्री सूषुम्नामूलमध्यतः ज्योतिमन्त्रेणविधिवद्द हेतुस्यमलत्रयं विमलीकरणंप्रोक्तंमुनिभिस्त त्रवेदिभिः ॐहौंइतिज्योतिर्मंत्रः इतिविमलीक रणंसंस्कारः स्वर्णेनकुशतोयेनशुद्धतोयेन वापुनः तेनमन्त्रेणविधिवद्दाप्यायनविधिस्मृ तः इत्याप्यायनसंस्कारः मन्त्रेनवारिणामंत्रे तर्पणंतर्पणंस्मृतं इतितर्पणसंस्कारः तार मायारमायोगोमंत्रेदीपनमुच्यते इतिदीपन संस्कारः जप्यमानस्यमंत्रस्यगोपनंत्वप्रकाश नं संस्कारदशसंस्काराःसर्वतंत्रेषुगोपिता यान्कृत्वासंप्रदायेनमन्त्रीवांछितमाप्नुयात् क र्तव्योयंसदादेविसर्वसाधारणोविधिः इतिमं त्राणांदशसंस्कारः अथमंत्राणांसप्तोपायालि
SK
श्री पृ० ८अ) लिख्यते अनुष्ठितोयथान्यायंयदिमन्त्रोनसिद्ध्यति पुनस्तथैवकर्तव्यंततःसिद्धोभवत्पलं पुनस्त्व मुष्टितोमन्त्रोयदिसिद्धोनजायते उपायास्तत्र कर्तव्यासप्तसंस्कारभाषिताः द्रावणंबोधनं वश्यंपीडनंशोषयोषणं दहनात्तुंक्रमात्कुर्वन् ततःसिद्धोभवेद्ध्रुवं द्रावणंवारुणीवीजेग्रंथनं क्रमयोगतः तन्मत्राद्यंत्रमालिख्यशिलाकर्पू रकुंकुमैः उरसेवनाभ्यांतुमंत्रसंग्रंथितंलिखे त् क्षीराज्यतोयमधुभिर्मध्येतलिखितंक्षिपेत् पूजनाजपनाद्धोमाद्रावित्ताःसिद्धिदोध्रुवं इ तिद्रावनं द्रावितोपनसिद्धश्चेद्बोधनंतस्यकारये त् सारस्वतीनवीजेनसंपुटीकृत्यतंजपेत् एवंबु द्धोभवेत्सिद्धोनोचेत्तंहिवशंकुरु इतिबोधनं आरक्तचन्दनंकुष्टंहरिद्रादनंशिलाएतेस्तुमन्त्र मालिख्यभूर्जपत्रेसुशोभने धार्य्यंकण्ठेभवे त्सिद्ध्योवश्यमेतत्प्रकीर्तितं इतिवश्यं वश्ये कृतोनसिद्धश्चेत्पीडनंतस्यकारयेत् अधरोतुर गोयोगेनपदानिपरिजप्यवै ध्यायेतुदेवतांत द्वदधरोतुरक्तरूपिणीं विद्यामादीत्यदुग्धेन लिखित्वार्कस्यचांघ्रिणा तथाभूतेनमंत्रेण
SK
पृ० ८ब) होमंकार्योदिनेदिने पीडितालजयाविष्टःसिद्ध स्स्यान्नाचशंषयः इतिपीडनं पीडितोपिनसिद्ध श्चेच्छोषणंतस्यकारयेत् द्वाभ्यांचवायुवीजाभ्यां मत्रेकुर्याविदर्भणं एषाविद्यागलेधार्यालिखित्वा वटभस्मना इतिशोषणं शोषितोपिनसिद्ध श्चेत्कार्य्यतस्यचपोषणं नित्यायास्त्रैपुरंवीज माद्यंतेतस्ययोजनं गोक्षीरधुनालिख्यविद्या पाणौचधारयेत् इतिपोषणम् पोषितोपिन सिद्धश्चेद्दहनीयोग्निवीजतः आग्रेयेनचबीजे नमंत्रस्यैकैकमक्षरं आद्यंतमध्यर्थर्द्धंवैयोज येद्वाहकर्मणि वट्टवृक्षस्यतैलेनमंत्रमालि ख्यधारयेत् कंठदेशेततोमंत्रसिद्धःस्याच्छं करोदितं इत्येवंसर्वमंत्राणांमुपायःयाम्भनो दितः एकेनैवकृतार्थास्याद्बहुभिःकिमुसु व्रतो इतिमंत्राणांसप्तौपौयाऽसमाप्तः अथ चक्रसंस्कारोलिख्यते भैरव्युवाच चक्रभीदं महादेवत्वत्प्रसादांमयाश्रुतं इदानींश्रोतुमि च्छामिप्रतिष्टाकर्मनिर्णियं भैरवुवाच स्ना त्त्वासंकल्पयेन्मन्त्रीगुरोरर्चनमाचरेत् पंच गव्यंततःकृत्वाशिवमन्त्रेणमन्त्रितं तत्रचक्रं
SK
श्री पृ० ९अ) क्षिपेन्मंत्रीप्रणवेनसमाकुलं तदुद्धृत्यतत श्चक्रंस्थापयेत्स्वर्णपात्रके पंचामृतंतदुग्धा दिशीतलेनजलेनच पयोदधिघृतक्षौद्रश र्कराद्यैरनुक्रमात् चन्दनेनसुगन्धादिकस्थू रीकुंकुमेनच ततोधूपान्तरैःकुर्यात्पंचामृत विधिपुनः हाटकैःकलशैर्देविस्थापयेत्स्व र्णपात्रके ॐयंत्रराजायविद्महेमहायंत्राय धीमहितन्नोयंत्राप्रचोदयात् स्सृष्टायंत्रंकुशा ग्रेणचायंत्याचाभिमंत्रयेत् अष्टोत्तरशतंदे विदेवताभावसिद्धये आत्मशुद्धिंततःकु र्यात्षडंगर्देवतांयजेत् तत्रावाह्यमहादेवि वीजन्यांसंचकारयेत् उपचारैःषोडशभिर्म हामुद्रादिभिस्तथा फलतांम्बूलनैवेद्यंदे वींतत्रसमाचयेत् पदृसूत्रादिकंदद्याद्वस्त्रा लंकारमेवच मुकुरं | चामरंघंटायथायो ग्यंमहेश्वरी सर्वमेतत्प्रयत्नेनदद्यादा त्महितेरतः ततोजपेत्सहस्रंहिसकले मितसिद्धये बलिदानंततःकुर्यात्प्रणमे श्चक्रराजकं अष्टोत्तरशतंहुत्वासंपाताज्यं विनिक्षिपेत् होमकर्मण्यशक्तिंश्चेद्विगु पृ० ९ब) णंजपमाचरेत् व्रह्मणाभोजयेत्तत्रयथाश क्त्यानुसारतः धेनुमेकांसमानीयस्वर्णशृंगाद्य लंकृतां वस्त्रालंकारणंचैववित्तशाढ्यविव र्जितः गुरुवेदक्षिणांदद्यात्ततोदेव्याविसर्जनं गुरोसंतोषमात्रेणिष्टसिद्धिप्रजायते इतिमा दिषुपिप्रोक्तोविधिरेषवरानने इतिश्रीवाम केश्वरतंत्रेयंत्रप्रतिष्ठानिर्णयःसमाप्तः अथ दीक्षाविधिनिर्णयः तथाचोक्तंनिबन्धे मुहू र्तेसर्वतोभद्रेनवकुम्भंविचक्षणः सोदकंग न्धपुष्पाभ्यामर्चितंवस्त्रसंयुतं सर्वौषधिन वरत्नपंचपल्वसंयुतं ततोदेवार्चनंकृत्वा पुनरष्टोतरंशतं पलासाम्रतथाश्वत्थंवटं वकुलमेवच इतिपल्लवं तथाचोक्तंवाशि ष्टं पनसाम्रंतथाश्वत्थंवटुंवकुलमेवच पंच पल्लवमित्युक्तंमुनिभिस्तत्रवेदिभिः नवर त्नान्यपितत्रोक्तानि मुक्तमाणिक्यवैदुर्येगो मेदानुजविद्रुमौ पद्मरागमरकतंनीलंचेति यथाक्रमात् तथाचोक्तंनिबंधे शिष्यंसुल कृतंवेद्यामुखाग्रेउपवेशयेत् मन्त्रितैःप्रोक्ष
SK
श्री पृ० १०अ) णीस्तोयैःशाक्तिकुंभजलैस्तथा मूलमंत्रे णाष्टशतंमंत्रितैरभिषिंचियेत् अष्टशतैरष्टो त्तरशतैरितिसंप्रदायः अथसंपादयन्मंत्रंह स्तंशिरसिधारयेत् शमस्त्वितिअक्षतान्द द्यात्ततशिष्योर्चयेद्गुरुम् यद्वादीक्षान्तरन्तत्र शंखमभ्यच्येसाक्षतं तदंबुनाभिषिंचाष्टवा रंमूलेनमंत्रयेत् मस्तकेहस्तमारोप्यजपके र्णेत्रिधागुरुः तथाचोक्तंतंत्रे तत्राप्यशक्ति कश्चिश्चेत्तदभ्यर्च्यचसाक्षतं तदंबुनाभिषिं चाष्टवालंमूलेनकेसरं निधायाष्टौजपेत्कर्णे उपदेशेत्वयंविधिः तथाचोक्तंगौतमीतंत्रे न्यासजालंतस्यदेहेगुरुन्यस्यप्रयत्नन्नतः दक्षकर्णेवेदेमन्त्रंत्रिवारंपूर्णमानसः दक्षे तिद्विजातिविवयं तथाचोक्तंतन्त्रे दक्षक र्णेत्रिधाविद्यामेकोच्चारेणचोच्चरेत् एवंवि धिद्विजातीनांस्त्रीशूद्राणांचवामतः दक्षक र्णेजपेन्मत्रंऋषादिकंसमन्वितं तदातस्मि न्क्षणेदेविजपेन्मत्रंशनाष्टकं शारदायांगु रोर्लब्धापरांविद्यामष्टकृतोजपेत्सुधीः देव पृ० १०ब) तागुरुमंत्राणांमेछ्यंसम्भावयनधियः इति वचनंतुतत्तद्भावनामाजपविषयं तत्रगुरुच रणेदंडवत्प्रणिपत्यतिष्टेत् उतिष्ठवत्समुक्तो सिसम्यगाचरवान्भव कीर्तिश्रीकान्तिरतु लाःवलारोग्यंसदास्तुते इतिपठित्वोथाप येत् ततःशिष्यकुशतिलजलान्यादाय ति अद्यकृतैतदमुकमंत्रग्रहणप्रतिष्टार्थंदक्षिणा मिमंस्तवर्णंमग्निदैवतममुकगोत्रायामुक शर्मणेव्राह्मणायगुरवेदक्षिणांतुभ्यमहंसं प्रददे शरीरमर्थंप्राणांश्चसर्वंतस्मैनिवेद येत् ततःप्रभृतिकुर्वीतगुरोःप्रियमनन्य धीः यदादिष्टतमंलोकेगुरुवेतन्निवेदयेत् सुतंत्रेदक्षिणानियमः गुरवेदक्षिणांदद्या त्प्रत्यक्षायमिवात्मने अन्यत्रायुक्तं सर्वस्वद क्षिणांदद्याद्भांवादद्यात्पयस्विनी भूमिवृ त्तिकरीन्दद्यात्स्वर्णंवासमन्वितं गुरोःस न्तोषमात्रेणदुष्टममन्त्रोपिसिद्ध्यति अन्यथा नैवसिद्धिस्यादभिचारायकल्पते दीक्षाग्र हणसामग्रिंगुरवेतानिवेदयेत् तत्रान्तरेपि शतंजपेतदग्रस्थोनिकटेत्रिदिनंवशेत्
SK
श्री पृ० ११अ) नोचेत्संचारिणीशक्तिर्गुरुमेतिनसंशयः ततो मिष्टानपानाद्यैव्राह्मणान्भोजयेत् बन्धुभिस हभुंजीतः शक्तिविषये मत्स्यमांसादिनाकु मारींसुवासिनींभोजयेत् दीक्षादिवसेगुरु शिष्ययोरुपवासेदोषमाह तदुक्तंयोगिनी तंत्रे मन्त्रंदत्वागुरुश्चैवुपवासंयदाचरेत् म हांधकारेनरकेकुम्भिर्भवतिनान्यथा दीक्षां प्राप्ययथामंन्त्रिउपवासंसमाचरेत् यस्येष्टदे वसंक्रधोशापंदत्वाग्रहंव्रजेत् चंद्रसूर्यग्रहे तीर्थेसिद्धक्षेत्रेशिवालये मन्त्रमात्रप्रकथनं उपदेशःप्रकीर्तितः इतिश्रीमहेशनन्दोपा ध्यायश्रीसोमनाथविरचितायांअज्ञानध्वा न्तदीपिकायांमंत्रशोदनमन्त्रदशसंस्कारदीक्षा दिविवर्णनंनामप्रथमाप्रकाशः अथसिद्ध मन्त्रादिकथनं तत्रादौगणेशन्त्राकथ्यते ॐ पंचान्तकंशशियुतंवीजंगणपतेविदुः प चान्तकोगकारःशशियुतंसानुस्वारं तेनगेंए काक्षरोमन्त्रोद्धारःषड्दीर्घभाजावीजेनषड्ग न्यासकल्पना अस्यश्रीमंत्रस्यगणकृषिः रनुष्टुप्छंदः गणपतिर्देवताः शिरसिः
SK
पृ० ११ब) मुखे हृदि न्यासं ध्यानं खर्वंस्थूलतनुंगजेन्दव दनंलम्बोदरंसुन्दरं विघ्नेशंमधुगन्धलुब्धमधुपं व्यालोलगण्डस्थलं दन्तध्वान्तविधारिताहिततनुं सिंदूरशोभाधरं वन्देशैलसुतासुतंगणपतिं सिद्धिप्रदंकामदं ग्रंथान्तरेच सिंदूराभंत्रिनेत्रं पृथुतटजधरंहस्तपद्मैर्दधानंदन्दूंपाशांकुशै ष्टात्पुरकरविलसद्वीजपूराभिरामं वालेदुद्यौ तमौलिंकरपतिवदनंदानपूरांद्रगंडंभोगींद्रा वद्वभूषंभजतगणपत्यंरक्तवस्त्रांगरागं इतिध्या त्वा मानसोपचारैःसंपूजयेत् ततःशोपचा रैर्वायथाशक्त्यापूजनं अस्यपुरश्चरणंवर्तुल क्ष्यजपः तद्दशांशमष्टद्रव्यादिनाहवनंकु र्यात् तद्यथा मोदकैःपृथुकैर्लाजैःसक्त भिसोक्षुपर्वभिः नारिकेलैस्तिलैःशुद्धैःसुप क्वैःकदलीफलैः जुहुयादितिशेषाः अथम हागणपतिमंत्रः श्रीशक्तिस्मरभूविघ्नवीजा निप्रथमंचदेत् ॐगंगणपतिंटेन्तंवरान्तेवर दंपदं उक्तासर्वजनंचान्तेवशमानपठदुयं अष्टाविंशतिक्षरोयंतराद्योमनुरीरितः ॐश्रीं
SK
श्री पृ० १२अ) ह्रींक्लींगौंगंगणपतयेवरवरदसर्वजनंमेवश्यमान यस्वाहा इतिमहागणपतिमंत्रः स्मृतिस्थंमांस मोबिन्दुयुक्तंभूवीजमीरितं स्मृतिर्गकारः मा सलकारः तत्स्थंनादबिन्दुयुक्तं औकारस्तेन ग्लौंइतिमंत्रः अस्यश्रीमहागणपतिमंत्रस्यव्र ह्माऋषिःगायत्रीछन्दः श्रीमहागणपतिर्दे वता ग्लौंवीजं स्वाहाशक्तिः गूंकीलकं धर्मार्थ काममोक्षार्थेजपेविनियोगः षट्वीजादिसर्व वीजेनदीर्घभाजाप्रकल्पयेत् ध्यानं नवरत्नम यंदीपंस्मरीदिक्षुरसांबुधे तद्वविधौतर्पर्य्यन्तंम न्दमारतसेवितं मन्दारपारिजातादिकल्पवृक्ष लताकुलं तद्भूतरत्नधाराभिररुणीकृतभू तलं उद्यद्दिनकरेदुभ्यांतद्भासितदिगन्तदिग न्तरं तस्यमध्येपारिजातंनवरत्नमयंस्मृतेत् ऋ तुभिर्सवितंषड्भिरनिशंप्रीतिवर्द्धनं तस्याधस्त्वा त्महापीठेचिन्तयेमातृकाम्बुजे षङ्कोणातं त्रिकोणस्थंमहागणपतिस्मरेत् हस्तीद्रान नेति ध्येयोवल्लभयासपद्मकरयाश्लिष्टोज्व लोद्भूषया विश्वोत्पत्तिविनाशसंस्थितिकरो पृ० १२ब) विघ्रोविशिष्टर्थदाः अथपूजायन्त्रं त्रिकोणंचैव षट्कोणंवस्त्रपत्रंलिखेत्ततः चतुर्ष्वारसमा युक्तंयंत्ररजप्रकीर्तितम् अथपुरश्चरणं चतु श्चत्वारिंशत्सहस्राधिकचतुर्लक्षजपः तद्द शांशेनअष्टद्रव्यादिभिर्हवनादिकंकुर्यात् अथान्य शक्तिंदुग्धंनिजंवीजंमहागणपतिं वदेत् टेतमग्निंवधूप्रोक्तंमन्त्रोयंद्वादशाक्षरः प्रकाशं ह्रींगंह्रींमहागणपतयेस्वाहा ह्रींहृद ये गंशिरसि ह्रींशिखायां महागणपतयेक वचीस्वाहा नेत्रत्रयेषु समस्तमंत्रंपठित्वास्त्रा यफट् ध्यानं मुक्तागौंरंमदगणमुखंचन्द्र चूडंत्रिनेत्रं हस्तेस्वीयैर्दधतमरविदंचांकुशौ रत्नकुम्भं अंकास्थायास्मरसिजरुचास्त्रध्व जालंविपणेर्देव्यायोनोविनिहितकरंरत्न मौलिंभजाम अस्यपूजायन्त्रंमहागणपति र्यंत्रंवत् अस्यपुरश्चरणंलक्षजपः त्रिमधुर प्लुतैर्मधुकपुंष्पैर्दशांशेनहवनादिकंकुर्या त् गणकृषिःर्गायत्रीछन्दः शक्तिगणेशो
SK
श्री पृ० १३अ) देवता अन्य शक्तिरुद्धंनिजंवीजंवश्यमानय ठद्वयं ताराद्योमनुराख्यातोरुद्धसंक्ष्यक्षरान्वि तः ॐह्रींगंह्रींवशमानयस्वाहा अस्यपूजादि कंसर्वपूर्ववत्कार्यं एकेनादौत्रिभिर्द्वाभ्याम न्तरंसमस्तेनास्त्रमाय्यातमंगिप्तिरियंमता अंगुष्ठायअंगुलीचैवहृदयादिषुचन्यसेत् अथध्यानं हस्तेविभ्रतमिक्षुदक्षिणवदोः पाशांकुशौपुष्करस्पृष्टस्थंप्रमदावरांगमनु याश्लिष्टंध्वजाग्रस्पृशा श्यामांग्यविधृताब्जया त्रिनयनंचन्द्रर्द्रचूडंजवारक्तंहस्तिमुखंस्मरा मिसततंभोगातिलोलंविभुं अस्यपुरश्चरणं लक्षत्रयंजपःदशांशंअपूपैर्घृतयुक्तैहोमिः अथहैरम्बमंत्रः सर्वर्थकारयुक्तोगकारसवि न्दुः प्रणवादिनमातश्चतुर्वर्गफलप्रदः ॐगूंनमः इतिमन्त्रः अस्यश्रीमन्त्रस्यगणक ऋषिर्गायत्रीछन्दः हैरवोदेवता गकारोवी जंविदुशक्तिरभीष्टसिद्धयेजपेविनियोगः षट् दीर्घयुक्तनगकारेणषडंगं अथध्यानं पृ० १३ब) मुक्ताकांचननीलकुन्दमसृणछायैस्त्रिनेत्रान्वि तैर्नागस्यैहरिवाहनंशशिधरंहैरम्बमर्कप्रभुं तप्तंदान्तमभीतिमोदकरदान् टकंशिरोक्षा त्मिकां मालामुद्गरमंकुशंत्रिशिखकंदोभिर्द धानभजे अस्यपूजायन्त्रंपूर्ववत् अस्यपुरश्च रणलक्षत्रयंजपः त्रिमधुरप्लुतैस्तिलैर्दशांशे नहवणादिकंकुर्यात् तथाचक्तंनिबंधे संवर्त कोनेत्रपाश्वैव्रह्मासनोस्थित प्रसादनायहृ न्मंत्रस्ववीजाढ्योदशाक्षरः ॐगंक्षिप्रसादना यनमः इतिमंत्र अस्यश्रीमंत्रस्यगणकृषिः विराट्छंदः क्षिप्रसादानोगणेशोदेवता ए काक्षरवत्करागन्यासौकुर्यात् ध्यानं पाशांकु शौकल्पलताविषाणंदधत्सुशुण्डाहितवीज पूरः रक्तस्त्रिनेत्रस्तरुणेदुमौलिधरोजुलोहस्ति मुखोवतान्तः अस्यश्रीपुरश्चरणंलक्षजपः लक्षंजपेज्जपस्थानेजुहुयादयुतंतिलैःमधुर त्रितयैःर्वाथद्रव्यैरष्टाभिरीरितैः अथहरिद्राग णेशमंत्रः पंचातकोभूमिसंस्थोमन्वींदुयुतम स्तकः एकाक्षरोमहामंत्रसर्वकामफलप्रदः षट्दीर्घभाजाबीजेनकुर्यादंगादिकल्पनां
SK
श्री. पृ० १४अ) ग्लौंमितिमंत्रेण ध्यानं हरिद्राभंचतुर्वाहुंहारि तवसनंशुभं पाशांकुशधरंदेवंमोदकंदन्तमे वच एवंध्यात्वापूजादिकंसर्वमेकाक्षरगणप तिवत् अस्यश्रीपुरश्चरणंचतुर्लक्ष्यजपः त्रि मधुरयुक्तहरिद्राचूर्णमिश्रितैः स्तिलैःदशा शेनहवनादिकंकुर्यात् अथवक्रतुण्डमंत्रः वक्रतुण्डायकवचंदीर्घंषडक्षरः वक्रतुंडाय मायान्तेतत्पश्चाष्टक्षरोमनुं अत्रामायाशब्देन कुर्चंज्ञेयं वक्रतुण्डायहुं वक्रतुण्डायह्रींनमः इतिद्वितीयः अस्यश्रीवक्रतुण्डमंत्रस्यभार्ग वृषिःरनुष्टुप्छंदः वक्रतुंडोदेवता गणप तिममाभिसिद्ध्यर्थेजपेविनियोगः षट्वर्णे णषडंगानिकुर्यान्मत्रीविचक्षणः अथध्यानं स्ववर्णवर्णंभुजगोपवीतंलम्बोदरंवोदरभा स्वरमेकदन्तं वराभयेपाशमथांकुशंचदधा नमिदोकलयावतंसं समाचारतस्त्रीयुगले नयुक्तंषडुक्षरात्मानमनन्यवधं कल्पद्रुम न्तंशरणंप्रपद्येश्रीवक्रतुण्डंकलिशीघ्रसिद्धं इतिध्यात्वाजपेत् भूमौस्वशत्रूप्रतिमाविलिख्य प्रज्वालयेद्वह्निजठरप्रदेशेसिद्धार्थराज्यैर्जूहुया
SK
पृ० १४ब) त्सहस्रंतमारयेत्सप्तदिनेनशत्रून् क्रद्धंगणेशंघन कालवर्णंशत्रूगृहीत्वानिजपुष्करेण क्षिप्तंततम ग्नौवड्वामुखास्वेध्यात्वेवमात्मानमनन्यभावन् जपेत्सहस्रंत्रिदिनेनशक्रमुच्चाटयेच्छुक्रमपिप्र देशात् अस्यश्रीपुरश्चरणंद्वादशसहस्रंजपः तथाचोक्तंतंत्रातरे वश्याकर्षणविद्वेषमार णोच्चाटनेतथा शातिकेकेमोहनेस्तम्भमन्त्र राजषड्क्षरः अन्येषुसर्वकार्येषुसिद्धिकर्तानसं शयः फडन्तेनचतुर्थीषुपक्षयोरुभयोरपि अ पूपानंशतंजुनूवत्सराल्लभतेधानं इत्याख्यातं महामन्त्रंगुरोर्लब्धासमाहिताः व्रह्मचार्यरतः शान्तःसत्यवागुरुपूजकः व्रह्मचर्यरतोदांतो शुचिसंव्यतमानसः जपेद्वार्यशसाहस्रंततः पुरुश्चरणंभवेत् अंगारकदिनेप्रातश्चतुर्थ्यां वासमाहितः प्रारंभंचास्यकुर्वीतततसिद्धो भवेद्ध्रुवं अथहरिद्रागणेशस्यमालामन्त्रस्य मदनृषिः रनुष्टुप्छंदः श्रीहरिद्रोगणप तिदेवतासर्वलोकमोहनार्थेसकलदुष्टानां मुखंबन्धनार्थेदुष्टजीवानांगतिस्तंभनार्थे
SK
पृ० १५अ) जपेविनियोगः अथमंत्रः ॐहूंगंगूंग्लौंहरिद्राग णपतयेवरवरदसर्वजनहृदयस्तंभय २ स्वाहा इतिमालामंत्रः अथषडंगः ॐहूंगेंगूंग्लौंहृदया यनमः हरिद्रागणपतयेशिरसेस्वाहाः वरवरद शिखायैवषट् सर्वजनहृदयंकवचायहुं स्तंभ य २ त्रेत्रत्रयायवौषट्स्वाहा अस्त्रायफट् ध्या नं रक्तमंडलमध्यस्थंरत्नसिंहासनोपरि पीत वर्णांशुकालेपमाल्याभरणभास्वरम् वीरंवी रोजितंदेवंगजवक्त्रंत्रिलोचनं पाशांकुशौक्रो धमुद्रांपरशुंचाभयंवरं दधानंदेवदेवीशंध्याये द्देवमनन्यधीः चतुर्थ्यांशुक्लपक्षेतुजुहुयांत्त द्दशांशकं ततःकल्यानिकर्माणिकुर्याद्वैक र्मसिद्धये अस्यापिद्वादशसहस्रजपरूपपुरश्च रणं अथोछिष्टगणपतिमंत्रः तदुक्तंतंत्रोतरे प्रणवंपूर्वमुच्चार्याशम्भुवीजंततःपरं हरि स्थितप्रभारूढंदक्षनेत्रप्रकल्पयेत् दक्षेने त्राश्रितःशूरश्चतुर्थीवाजरोरितः वृषाघ्नह लिनौकान्तिःपुष्टीभ्यांसहितौपरौ त्रिसुरे णान्वितंदेवनाथवीजंसमन्वितं एकारांता
SK
पृ० १५ब) ततोदुर्गासमुद्धृत्याष्टकंवदेत् वैश्वानरकलत्रंचद शार्णोमनुरीरितः केचिद्गणोशवीजाद्यमनुमेनं प्रचक्षते अथमंत्रः ॐहस्तिपिशाचिलिखेस्वाहा इतिमंत्रोद्धारः तथा नतिथिनचनक्षत्रंनोपवासो विधीयते यथेष्टचेष्टयामन्त्रः सर्वकामफलप्रदः नसिद्धादिनिकूप्योत्रिलक्ष्यमेकंजपेद्बुधः ध्यानं प्रकुर्वतयथोक्तंगुरुपादुःकैः रक्तमूर्तिंगणेशानं रक्ताभरणभूषितं रक्तवस्त्रंत्रिनेत्रंचरक्तपद्मासने स्थितं चतुर्भुजंमहाकायोद्विदन्तंसस्मिताननं वामेमोदकपात्रंचमुखेलंबेनलम्बितं दन्तंच तदधौभागेधारयन्तंचदक्षिणे पाशांकुशौचह स्ताभ्यांजटामण्डलवेष्टितं ललाटचन्द्ररेखा ढ्यांसर्वालंकारभूषितं सदासरूपमदोछिष्टम नाचांतस्तुपूजयेत् अस्यश्रीउछिष्टगणपतिमंत्र स्यसुग्रीवृषिः त्रिवृत्तगायत्रीछन्दसे उछि ष्टगणेशायदेवता गकाराद्येनवीजेनकुर्यागां निकल्पनां अस्यपुरश्चरणंलक्षजपः तद्दशां शेनत्रिमधुप्लुतैस्तिरैसर्षपैहवनादिकंकुर्या त् कृष्णाचतुर्थीमारभ्ययावच्छुक्लाचतुर्थिका
SK
श्री पृ० १६अ) सहस्त्रंहिजपेन्नित्यंपोषिनियमपूर्वकं स्नापयेन्म धुनानित्यंगणेशोहंसदाप्रियः श्वेतार्केणाकृ तिंकृत्वारक्तचंदनकेनवा अंगुष्ठमात्रंप्रतिष्टा प्यद्विज्ञाग्निगुरुसन्निधौ जप्त्वाचषट्साहस्रंसि द्धोमन्त्रोभवेद्ध्रुवं अस्ययंत्रंअष्टदलपद्मंचतुद्वा रात्मकंकुर्यात् ह्रींॐह्रींहस्तिमुखायलंबोध रांयुछिष्टायमहात्मने क्रौंक्रैंह्रींउछिष्टायस्वा हेतिमन्त्र आंह्रींह्रींक्लींगंहस्तिमुखायलम्बोदरा यसर्वफलप्रदायमहात्मनेउछिष्टाय्ॐक्रौंश्रीं खेंखेंउछिष्टायस्वाहा ॐहस्तिमुखायलम्बोदरा युछिष्टायमहात्मने आंह्रींक्लींगंहस्तिमुखा यसर्वकामफलप्रदायुच्छिष्टायस्वाहा षडंग न्यासेतुविशेषः ह्रींॐहस्तिमुखायहृदयाय नमः लम्बोदरायशिरसेस्वाहा ॐउछिष्टाय शिखायैवषट् महात्मनेकवचायहुं आंक्रीं नेत्रायवौषट् ॐह्रींक्लींगंउच्छिष्टायस्वाहा अ स्त्रायफट् ध्यानं पाशांकुशधनुर्वाणलम्वोद रंगजाननं सार्द्धंसिन्दूररक्तांगंनग्ननारिमुखा त्तरं नारियोनिंयोनिस्वादलोलपंक्वाममोहितं स
SK
पृ० १६ब) बामांकमुदाराणांगाढालिंगणतत्परं स्वपाद पद्मयक्षरणमभिष्टफलदायकं प्रयोगः कृ ष्णाष्टमीसमारभ्ययावत्कृष्णाचतुर्दशी नित्यं साहसहस्रंतुजपेन्मंत्रस्यसिद्धये सिद्धोभवेत्स्व यंमंत्रंसर्वकर्मक्षमोभवेत् तर्पणंचाभिषेकं चहोमंकुर्याद्दशांशतं प्रतिवासरसंमन्त्रंतृग णनाथप्रपूजयेत् भक्षैर्भोज्यैःचनैवेद्यैपारी नीयोरमृतोपमै तोषयित्वागणेशानांसिद्धो मंत्रोभवेद्ध्रुवं पुष्पार्केवासमायातीमूलार्के वासमागमे कुरुतेनिंबकाष्टेनअंगुष्टाप्रमा णतः कृत्वावैनायकींमूर्तिषडंगेश्चविभूषि तां यंयंमनसिध्यायेतमन्त्राक्षरस्यमध्यतः तंतंमाकर्षयेत्यवगणनाथप्रसादतः स्मर न्जपेसहस्त्रंतुशतमष्टोत्तरंतुवा इत्यछिष्टग णपतिमन्त्रकल्पः अथांत्तरेअन्यदप्युमस्ति अथोछिष्टगणेशमालामन्त्रस्य ॐह्रींएकद न्तायहस्तिमुखायलम्बोदराय सर्वपापप्रश मनकारकायसर्वविघ्नाधिपतयेसर्वार्थसि द्धिदायकायसर्वदुःखप्रशमनायेह्येहि भगवन्सर्वजनंमेवश्यमानयदुष्टजनमुखं
SK
पृ० १७अ) स्तंभय २ मोहय २ आकर्षय २ ममशत्रून्मा रय २ उच्चाटय २ ठःठःॐआंक्रौंह्रींश्रींक्लीं गौंगूंग्लौंगंगणपतयेवरवरदसर्वजनंमेवश्यंमा नयठःठःस्वाहा मन्त्रोद्धारमहंवक्ष्येशृणुषुकम लानने पचांतकमुद्धृत्यिंन्द्रवीजंसमुद्धरेत च तुर्दशस्वरीणाढ्यंबिंदुभूषितमस्तकं एकाक्षरी महाविद्याकथितापद्मयोनिना अस्यपूजाप्रयो गः प्राताकृत्यादिपूर्वोक्तंमहागणपतिमंत्रवत् पीठनासंविधाय ऋषादिन्यासंकुर्यात् ततःष ड्दीर्घपूर्वस्वबीजेनकुर्यात्तत्रषडंगकं अस्यभेदा तरमस्ति लक्ष्म्यायांवाथकूर्चायाद्यांवाजपत्सु धीः कामद्यांयोजपेद्देविजादिकांतथा वाग्भ वाद्यांजपेद्विद्यांकामधेनुमिवापरा द्युक्षरीच महाविद्यात्रक्षरीचास्त्रसंयुता चतुबिजात्मिका विद्यावैह्रिजायाधिप्रिये एषाविद्यामहाविद्या त्रैलोक्येचात्तिदुर्लभा चतुर्वर्गप्रदासाक्षान्महा पातकनाशिनी एतासंन्यासपूजापुरश्चरणा दिकंसर्वमहागणपतिमत्रकार्य्यम् इतिमहे शपट्टौपध्यायश्रीसोमनाथविरचितायांमज्ञा नध्वांन्तदीपिकायांगणपत्यमंत्रकथनंनाम
SK
पृ० १७ब) द्वितीयःप्रकाशः २ अथभैरवमंन्त्राः ॐनमः शिवायः इतिषडक्षरः ॐह्रींनमः ॐनमःशिवा यह्रीं ॐह्रींह्रींॐनमःशिवाय ॐजूंसः इतिमृ त्युंजयमंत्रः ॐह्रींठः इतिनीलकठःमंत्रः विष द्वयहरःम्यैः इतिचितांमणिमंत्रः दस्येंइतिमंत्रः ॐह्रींदक्षिणामूर्तयेतुभ्यांवटमूलनिवासिने ध्यानैकनिरतांगायनमोरुद्रायशांभवे ॐह्रीं नमोभगवतेदक्षिणामूर्तयेमह्यंमेधांप्रच्छ स्वाहा ॐऔंहृदयायनमः ॐरंशिरसे० ॐजुं शिखा० ऐंकव आंनेत्रत्रयायवौषट् अःअस्त्रा अस्यश्रीदक्षिणामूर्तिमंत्रस्य चतुर्मुखृषिः देवीगायत्रीछंदः दक्षिणासदाशिवोदेवता मंत्र सिद्ध्यर्थेजपेविनियोगः अथवामंत्रसंभूतैःपदैः स्यादंगकल्पना ध्यानं वटवृक्षमहोछायंपद्मरा गफलोज्वलं गारुद्भूतमयैःपत्रैःविचित्रैरुपशो भितं नवरत्नमहाकल्पैर्लवमानैरलंकृते तस्य मूलेस्थितंदेवंचिंतयेल्लोकनायकं व्याख्यामु द्राक्षमालैःकमलसुलिखितैर्वाहुभिर्वामपादं विभ्राणोजानुध्नोपदवलहितापद्विदिश्चन्द्रमध्ये
SK
श्री. पृ० १८अ) सौवर्णेयोगपीठेलिपिमयकमलेनोपनिष्टं त्रिनेत्रं क्षीराभश्चन्द्रमौलिरचयतुविपुलांशु द्धबुद्धिंशिवोनः स्फाटिकैरजतवर्णमौक्तिक मक्षमालाममृतकलशविद्यांज्ञानमुद्राकरा ब्जे विधृतमुद्गरकक्षंचन्द्रचूडंत्रिनेत्रंविधृत विविधभूषंदक्षिणामूर्तिमीड्ये अस्यपुरश्च रणलक्ष्यजपः तद्दशांशेनसघृतैःकमलैः हवनंकुर्यात् ह्रींस्फुर २ घोर २ तरअघोर सवृंचठकहदम २ बंध्व २ घातय २ पातय २ हूंफट् अ इतिअघोरमंत्रः ॐक्लींषुहूंफट् हौं इतिएकाक्षरोमत्रः अस्यपुरश्चरणपंचलक्ष्य जपः तद्दशांशेकरवीरपुष्पैः होमादिकुर्यात् वामदेवस्यृषिः पंक्तिछन्दः सदाशिवोदेव ता ह्ॐहींहूंहैंहः इतिषडंगः इतिशिवमंत्रः अथाष्टौंभैरवमंत्रः अथनामः असितांगोरु रुश्चण्डोक्रोधश्चोन्मत्तभैरवः वटुकोभूतना थश्चसंहारश्चाष्टभैरवः ॐक्षौंक्षेत्रपालाय नमः इतिक्षेत्रपालमंत्रः ॐह्रींह्रींहूंह्रैंह्रौह्रः हन २ स्वाहा इतिसंहारमंत्रः ॐह्रींह्रांहूंह्रैंह्रः स्वाहा
SK
पृ० १८ब) ॐह्रींभूतभैरवायनमःस्वाहा इतिभूतभैरवमन्त्रः ॐनमःपशुपतये अथखङ्गरावणमन्त्रः ॐभूता दिपतयेनमोरुद्रायललत्खड्गायरावणशब्दंवि रहसर २ नृत्य २ श्मशानभस्मार्चितशरीराय घण्टाकपालमालाधरायव्याघ्रचर्मपरिधाना यशशांककृतशेशरायकृष्णसर्पयज्ञोपवीता य वल २ वलावालानिवर्तकपालिनेहन २ भूतान्त्राशय २ कट २ रुद्राकुंशेनशमय २ प्रवे शय २ आवेशय २ चण्डासिधारपतयेरुद्रापयति स्वाहा इतिखड्गरावणमंत्रः ॐभूतादिपतयेस्वाहा ॐहींवटुकायापमुद्धारणायकुरु २ वटुकायह्रीं इतिवटुकभैरवमंत्रः इतिश्रीमहामहोपाध्यायश्रीम हेशभट्टश्रुतसोमनाथविरचितायांमज्ञानध्वांन्त दीपिकायांशिवमंत्रकथनंनामतृतीयाप्रकाशः अथभुवनीश्वरीमंत्रः रकुलीशोग्निमारूढोवा मनेत्राद्वाचन्द्रवान् एकाक्षरीसमाख्यातंविद्या भुवनतारिणी अस्यश्रीभुवनेश्वरीमन्त्रस्य व्रह्मा ऋषिः ................................... हांशक्तिःममाभीष्टसिद्ध्यथेजपेविनियोगः षड्दीर्घभाजालज्जावीजेनषडंगकुर्यात् ध्यानं
SK
श्री. पृ० १९अ) ॐउद्यत्भास्वत्समाभंविजितनवजपामिन्दुखंडा वनद्धां द्योतत्सोलित्रिनेत्रांविविधमणिलसत्कु ण्डलापद्मरागां हाराग्रेवेयकांचीमणिगणवल याद्यैविचित्राम्बराढ्यांमंवापाशांकुशेष्टाभयक रकमलामंबिकांतांनमामि इतिध्यात्वाजपेत् ऐंत्रिपुराभुवनेश्वरीऐंह्रींश्रीं अस्यश्रीभुवनी श्वरीमंत्रस्य व्रह्माऋषिः त्रिष्टुप्छंदः श्रीभुव नीश्वरीदेवता ह्रींवीजं ह्रींश्रींशक्तिः ऐंकील कंममाभीष्टसिद्ध्यर्थेजपेविनियोगः अत्रापिल जावीजेनषडंगन्यासः ध्यानं पूर्ववत् इतिमा याभुवनीश्वरी आंह्रींक्र्ॐइतिपाशादिभुवनेश्व री ॐह्रींहेंऊखेचछैक्षस्त्रींह्रींफट् इतित्वरितामंत्रः अथापरापत्रकंठकीविश्वामन्त्रः ॐक्ष्येंस्त्रींग्लेंॐ ह्रींऐंनित्यक्लिन्नेमदद्रवेऐंह्रींॐस्वाहा इतिपंच दशाक्षरीमहामंत्रः ॐनित्यक्लिन्नेमदद्रवेस्वाहा इतिद्वादशाक्षरीमंत्रः ह्रींक्लींऐंक्रौंनित्यमदद्रवे स्वाहा इतिद्वितीयात्रिपुरा श्रींह्रींक्लीं अथाश्वा रूढामंत्रः ॐआंह्रींक्रींएह्यहिपरमेश्वरिस्वाहा ॐह्रींऐहिपरमेश्वरीस्वाहा ॐह्रींपद्मावतीस्वा हा इतिभुवनेश्वरीमंत्रः अथदुर्गामंत्रः ॐह्रींदुं
SK
पृ० १९ब) दुर्गायनमःस्वाहा ॐह्रींमहिषमर्दिनींस्वाहा ॐ दुर्गेरक्षिणीस्वाहा ॐदुर्गेरक्षिणीस्वाहा ॐह्रीं ज्वालामालिनिगृध्रगणपरिवृत्तेस्वाहा ॐज्वल ज्ज्वलशूलिनिदुष्टग्रहहूंफट्स्वाहा ॐशूलिनि दुष्टग्रहहमनिस्वाहा उतिष्ठपुरुषिकिंस्वपिषि भयमेसमुपस्थितं यदिशक्यमशक्यंवातन्मे भवतिशमयस्वाहा इतिविंध्यवासिनीदुर्गामं त्रः अथदशाक्षरीसरस्वतीमन्त्रः अथदशा क्षरीवाग्वादिनीमंत्रकश्यपृषिविराट्छंदः दशाक्षरीवाग्वादिनीदेवता वंवीजं स्वाहाश क्तिः विद्याप्राप्त्यर्थेजपेविनियोगः वंहृदया यनमः ॐदंशिरसे० वंशिखा० दैंकवचा० वाग्वादिनीनेत्रा० स्वाहा अस्त्राय० ध्यानं अमलकमलसंस्थालेखनीपुस्तकोद्यत्करक मलसरोजाकुन्दमंदारगौरा धृतशशधरख ण्डोल्लासिकोटीरचूडाभवतुभवभयानांभं गिनीभारतीवः ॐवदवदवाग्वादिनीस्वाहा अथापरोमंत्रः नमोभगवतीवाग्वादिनी स्वाहा अपरश्च ॐह्रींऐंह्रींॐसरस्वत्यैनमः |अपरश्च| ऐवाचस्पतेप्रंम्लःलःॐअपरः श्री पृ० २०अ) अस्यश्रीषोडशाक्षरीवाग्वादिनेमंत्रस्य कश्यप ऋषिः विराट्छन्दः श्रीषोडशाक्षरीवाग्वादि निदेवता ऐंवीजंस्वाहाशक्तिः क्रींक्रींकील कंवाक्सिद्ध्यर्थेजपेविनियोगः ॐऐंहृदया० नमोशिर० भगवत्यै० शिखा० वदवदकवचा० वाग्वादिनी नेत्रा० स्वाहा अस्त्रा इतिषडंगः ध्यानं शुभ्राम्वच्छाविलेपमाल्यवसनांशीतां शुखण्डोज्वलां व्याख्यामक्षगणंस्वधाढ्यक लशंपद्मंचहस्ताम्बुजैः विभ्राणाकमलास नांकुचनतांवाग्देवतांसुस्मितां वंदेवाग्विभ वप्रदात्रिनयनांसौभाग्यसंपत्करी इति द्याता ॐनमोभगवतिवाग्वादिनिस्वाहा अ अथहंसारुढा ॐवागीश्वरीमत्रस्यशक्तिऋ षिः देवीगायत्रीछंदः हंसारूढावागीश्वरी देवता वाक्सिद्यवेजपेविनियोगः अत्रवा ग्भववीजेनषडंग ध्यानं वाणींपूर्णनिशा करोज्वलमुखींकर्पूरकुन्दप्रभांचन्द्रार्धांकि तमस्तकांनिजकरैःसंविभ्रतीमादरात् वीणामोक्षगुणंसुधाढ्यकलशंविद्यांच तुंगस्तनीं दिव्यैराभरणैविभूषिततनुंहंसा
SK
पृ० २०ब) धिरूढंभजे इतिध्यात्वा मंत्रायथा ॐह्रींऐंह्रीं ॐसरस्वत्यैनमः अथवालामंत्रः ॐअस्यश्रीवा लात्रिपुरामंत्रस्य दक्षिणामूर्तिऋषिः गाय त्रीछंदः श्रीवालात्रिपुरादेवता ऐंवीजं क्लीं शक्तिः सौंकीलकं ममविद्याप्राप्त्यर्थेजपे विनियोगः मूलमंत्रेणद्विवारपठितेनषडं गं ध्यानंमुक्ताशोभितकुण्डलांगणिगणै ग्रेवेयहारोर्मिकां विद्योततन्दुलयांहिरण्य मलितटसूत्राघुणनूपुरां माणिक्योवरव न्धकाभकवरामिन्दोकलाविभ्रती पाशांकु शपुस्तकाक्षवलयंदक्षोद्धवाह्वादितपूर्णेन्दु प्रतिमांप्रसन्नवदनांनेत्रत्रयोल्लासितांमि क्षुक्षीरवलक्षगात्रविलसन्माल्यानुलेपस्वरां मूलाधारसमुद्गतांभंगवतीहृत्पंकजेचिंत येत् दक्षाःन्रासपुटान्विरेककुसुमेस्वावा हयेन्मेद्वले ऐंक्लींसौः इतिमत्र इतिमहा मोहोपाध्यायमहेशनाथभट्टसुतसोमना थविरचितायामज्ञानध्वांतदीपिकायांदुर्गा मंत्रकथनंनामचतुर्थप्रकाशः अथश्रीमं मंत्रः ॐअस्यश्रीएकाक्षरमंत्रस्यभार्गव पृ० २१अ) ऋषिःरनुष्टुप्छंदः एकाक्षरीश्रीदेवता शंवी जं स्वाहाशक्तिः रंकीलकं महाधनप्राप्त्यर्थे जपेविनियोगः षड्दीर्घभाजावीजेनषडंगन्या समाचरेत् ध्यानं भूयाद्भूयोपिपद्भाभयवरद कराजन्मकर्तास्वराभाशुभ्रार्मिभावयुग्मपय करविधृतकुंभाद्भिरासिंचितारत्नोधावश्चमा लिविमलतरदुकूलास्रगालेपनाढ्यापद्मा क्षीपद्मनाभोरसकुजीरसनिः पद्मनागाश्री श्रिताः इतिध्यात्वा श्रीं || भानुलक्षंजपेन्मं त्रंदीक्षितोविजितेंद्रियाः तत्सहस्रंप्रजुहुयात् कमलैर्मध्वरप्लुतैः जपातेजहुयात्तत्रतिलैर्वा मधुरप्लुतैः विल्वैःफलैर्वाजुहुयात्त्रिभिर्वा साधकोत्तमं अथकरणवासिनीमंत्रः नमः कमलवासिन्यैस्वाहा अस्यश्रीकमलवासि नीमंत्रस्य दक्षप्रजापतिऋषिः विराट्छन्दः कमलवासिनीदेवता रंवीजं स्वाहाशक्तिः नंकीलकं धनप्राप्त्यर्थेजपेविनियोगः ॐ देव्यै हृदया० ॐ पन्यै शिर० ॐविष्णुपत्न्यैनमः शिखा० ॐवरदायैःकवचा० सकलरूपायैन मः नेत्र ॐकमलवासिन्यैनमः अस्त्रायफ०
SK
पृ० २१ब) ध्यानं पद्मस्थापद्मनेत्राकमलयुगवराभीति युग्मेसुरोजःदेहोस्याभिःप्रभाभिः त्रिभुवनभविलंधातुराभासयंती मुक्त्याहारा भिरामोत्तकुचकलशारत्नमंजीरकांचीग्रैवैयै श्चांगदायैधृतमणिमुकुटाश्रेयसेश्रीभवेत्तः दशलक्षपुरश्चरणं त्रिमधुराक्तैःकमलैःदशां शेनहवनादिकंकुर्यात् अथमहालक्ष्मीहृद यमंत्रः महालक्ष्मीदेवता० श्रींवीजं ह्रींशक्तिः क्लींकीलकंलक्ष्मीप्राप्त्यर्थेजपेविनियोगः ॐ ॐश्रींप्रसीदहृदयायनमः ॐह्रींप्रसीदशिर० क्लींप्रसीदशिखा० श्रींह्रींक्लींप्रसीदकवचा० श्रींह्रींक्लींप्रसीदनेत्रत्रयाय० श्रींह्रींक्लींप्रसी दमहालक्ष्मीअस्त्रायफट् ध्यानं हस्तोद्यदुस्व पात्रपंकजयुगादर्शेस्फुरन्त्रीपुराग्रैवेयांगदहा रकंकणमहामौलिस्फुरत्कुंडला पद्मस्थाप रिचारिकापरिवृताशुक्लांगरागांशुकादेवीदि व्यगणार्चिताभवभयप्रध्वंसिनीस्यान्ममः ध्या त्वाजपेत् मन्त्रः श्रींह्रींक्लींकमलालयेप्रसीद महालक्ष्मीनमः श्रींह्रींक्लीं अस्यश्रीमंत्रस्यल क्षमेकंपुरश्चरणंदशांशेनविल्वपत्रैःफलैर्वा
SK
श्री. पृ० २२अ) मधुरत्रयाक्तैःहोमः अथहृदयलक्ष्मीमंत्रः अस्यश्री हृदयलक्ष्मीमंत्रस्यव्रह्माऋषिःगायत्रीछंदः श्रीहृ दयवासिनीलक्ष्मीदेवताः लक्ष्मीप्रीत्यर्थेजपेवि नियोगः ॐऐंहृद ॐह्रीं शिरसे० ॐश्रींशिखा० ॐक्लींकवचा० ॐसौनेत्रा ॐजगत्प्रसूत्यैनमः अस्त्राः ध्यानं वालार्काद्युतिमिन्दुखण्डविल सत्कोटीरचन्द्रोज्वलांरत्नाकल्पविभूषतांमणि मयशालैःकरैःविभ्रतीं पद्मोकौस्तुभरत्नमध्य निचितं संविभ्रतींसुस्मितांकान्तांभोजविलोच नत्रययुतांध्यायेत्परांदेवती इतिध्यात्वा अथमं त्रः ॐऐंह्रींश्रींक्लींसौंजगत्प्रसूत्यैनमः अस्यपु रश्चरणंदशलक्षं घृतैसपद्मैविल्वैश्चप्रसूनक मलयुतंहुनेतु कण्ठमात्रोदकेस्थिताध्यात्वा देवींदिवाकरे तद्वावाहुदृशाचार्केशतमष्टो त्तरंजपेत् आरोग्यंलभतेसद्योधनमाप्नोतिवा छितं शालीभिजुहुयानित्यंअष्टोत्तरसहस्रकं अचिरादेवसतेलक्ष्मीसंजायतेध्रुवं अथचतुर्व र्गप्रदोमंत्रः अस्यश्रीमंत्रस्यभृगुऋषिस्त्रिष्टुप्छं दः चतुर्वर्गप्रदायिनीश्रीदेवताशंवीजंईंश क्तिः रंकीलकंमहाधनप्राप्त्यर्थेजपेविनियोगः
SK
पृ० २२ब) षड्दीर्घभाजेनषडंगंकुर्यात् ध्यानं माणिक्यप्रति सुप्रभांहिमनिभैस्तुंगैश्चतुभिर्गजैः हस्तागाहित रत्नकुम्भसलिलैरासिच्यमानांसदा हस्ताब्जैर्वर दानमंबुजयुगाभीतिंदधानंहरेः कांताकाक्षि तपारिजातलतिकांवेदेसरोजासनां इतिध्यात्वा अथत्रिपुटालक्ष्मीमंत्रः ऐंश्रींह्रींक्लीं द्वादशल क्षपुरश्चरणंत्रिमधुक्तैररुणकमलैरयुतंहोमः मूलमंत्रेणप्राणायामंकृत्वा ऋष्यादिकंपूर्व ॐश्रींहृद० ह्रींशिर० क्लींशिखा० श्रीकव० ह्रीं नेत्रा क्लींअस्त्रा ध्यानं नवकनकभास्वरभवि तरचितमणिमुकुटमेसकलकल्पतनौ नवर त्नवरवृद्धसिंहासनेहितसरोरुहांसमासिनां इतिध्यात्वाजपेत् श्रींह्रींक्लींद्वादशलक्षपुरश्च रणं तद्दशांशंविल्ववृक्षसमिद्भिःवात्रिमधुर प्लुतैहोमः इतिमहामहोपाध्यायश्रीमहेशभ टसुतसोमनाथविरचितंयामज्ञानध्वान्तदी पिकायांलक्ष्मीमंत्रप्रकरणनामपंचमःप्रका शः अथविष्णुमंत्रप्रकरणं ॐनमोभगवतेवा सुदेवाय ॐह्रींह्रींश्रींश्रींलक्ष्मीवासुदेवायनमः
SK
श्री पृ० २३अ) ॐनमोविष्णवेसुरपतयेमहाबलायस्वाहा ॐन मोनारायणाय अनुष्टप्मंत्रःऋग्यजुः सामरू पायवेदाभरणकर्मणे प्रणवोद्गीथपुरुषेमहा श्चशिरसेनमः अथराममंत्रः अस्यश्रीरामषडक्ष रमंत्रस्य अगस्त्यृषिः पंक्तिछंदः श्रीरामचन्द्रो देवता रांवीजं स्वाहाशक्तिः चतुर्विधपुरुषार्थ सिद्ध्यर्थेजपेविनियोगः षड्दीर्घभाजाभीजेन कुर्याभंगानिकल्पना अथध्यानं नीलोत्पल दलश्यामंजटामुकुटमंण्डितं वामभागेजगो द्योनिंप्रकृतिंपरमेश्वरीं सीताचंपकगौरागीं श्वेतवस्त्रविभूषितां दिव्याभरणसंयुक्तांद्वि भुजांरत्नकुण्डलां धनुर्वाणधरौदेवौसीतां पद्मकरांस्मरेत् इतिध्यात्वाजपेत् रांरामाय नमः वर्णलक्षपुरश्चरश्चर्यातद्दशांशमशौ कजैः पुष्पैस्त्रिमधुरोपतेजुहुयात्मत्रेसि द्धये अयंश्रीराममंत्रः षट्प्रोकारः तथा चोक्तंतापिन्यां स्वकामशक्तिषडक्षरः षड्दीर्घस्याश्चतुर्वर्गःप्रदा व्रह्मासंमोहन शक्तिदक्षिणामूर्तिरुच्यते अगस्त्यभ्रातशि वःप्रोक्तोमुनयोत्रक्रमादिह अथवाकामवी
SK
पृ० २३ब) जादिविश्वामित्रोमुनिर्मनोःछन्दोगायत्रीसंज्ञश्च श्रीमद्रामश्चदेवता ध्यानपूजादिकंसर्वंपूर्ववत्प रिकीर्तितं अस्यश्रीरामषडक्षरमंत्रस्यव्रह्माऋषिः गायत्रीछंदः श्रीरामचन्द्रोदेवता रांवीजं स्वाहा शक्तिः ममचतुर्विधपुरुषार्थसिद्ध्यर्थेजपेविनि योगः मंत्रोस्यद्व्यक्षरेणैवषडंगानिप्रकल्पयेत् ध्यानं श्यामंपंकजलोचनंसुषकरंवीरासना ध्यासितं चिन्दुद्रा?दधतंस्वजानुविधृतंदोभ्यांस पीतांवरः सीतापार्श्चेगतांसरोगुहकरांविद्यु न्निभांराघवं पश्यंतिमुकुटांगदादिविविधैर्क ल्पोज्वलांगंभजे वर्णलक्षयेन्मत्रंदशांशंकम लैःशुभैः जुहुयादर्चितेवह्नौव्राह्मणान्भोज येत्ततः पूजयेवैर्णवेपीठेमूलेनैवतुपूजयेत् इतिरामषडक्षरविधिः ॐरामायसीतावल्लभाय स्वाहा इत्येदशाक्षरमंत्रः ॐदशाननविनाशना यस्वाहा इतित्रयोदशाक्षरमत्रः दशास्यांतक मांरक्षदेहिदापयमांश्रियं ऋष्यादिकंसर्वंपू र्ववत् इतिराममत्रसंपूर्णं ॐक्लींहृषीकेशाय नमः श्रींक्लींश्रींश्रींधरायत्रैलोक्यमोहनायनमः ॐनमोभगवतेयुग्वराहरूपायनमः भूर्भुवःस्वौ
SK
पृ० २४अ) पतयभूपतित्वंमेदेहिदापयस्वाहा इतिवराहमंत्रः ॐलौंभगवत्येधरण्येधरणिधरेस्वाहा इतिपृथि मंत्रः हूंइत्यपिवराहमन्त्रः अथगोपालमंत्रः क्लींइत्येकाक्षरः गोपीजनवल्लभायस्वाहा इति दशाक्षरमंत्रः ॐक्लींकृष्णायगोविंदायगोपि जनवल्लभायस्वाहा श्रींह्रींक्लींगोपिजनवल्ल भायस्वाहा ह्रींश्रींक्लींकृष्णायगोविंदायगोपी जनवल्लभायस्वाहा ऐंक्लींकृष्णायह्रींगोविं दायश्रींगोपीजनवल्लभायस्वाहा सौंऐंक्लींह्रीं श्रींगोपीजनवल्लभायस्वाहा श्रींह्रींक्लींकृष्णा यस्वाहा श्रींह्रींक्लींकृष्णायगोविंदायस्वाहा ॐनमोभगवतेरुक्मिनीवल्लभायस्वाहा ह्रीं श्रींक्लींगोपीजनवल्लभायस्वाहा नमःकृष्णा यगोविंदायहूंफट्स्वाहा कृष्णः इतिद्यक्षरः क्लींकृष्णः इत्यत्रिक्षरः क्लींकृष्णायचतुरक्ष रः कृष्णायनमः पंचक्षरः क्लींकृष्णायनमः षडक्षरः कृष्णायक्लींक्लीं पंचाक्षरः गोपाक्षरः गोपालायस्वाहा षडक्षरः श्रीकृष्णायस्वाहा षडक्षरः कृष्णायगोविंदायसप्ताक्षरः क्लींकृष्णाय गोविंदायत्याष्टाक्षरः क्लींकृष्णायगोविंदायक्लीं
SK
पृ० २४ब) नवक्षरः दधिभक्षणायस्वाहा अष्टाक्षरः सुप्रस नात्मनेनमः अष्टाक्षरः श्रींह्रींक्लींकृष्णायक्लीं सप्ताक्षरा क्लींलंक्लींश्यामलांगायनमः अयं दशाक्षरः वालवपुषेकृष्णायस्वाहा दशाक्ष रः श्रींह्रींक्लींकृष्णायक्लीं सप्ताक्षरः वालव पुषेक्लींकृष्णायस्वाहा कृष्णायक्लींक्लींक्लींकृ ष्णायकलरींकृष्णाय इतिचूडामणि क्लींह्रींश्रीं ह्रींश्रींश्रींभ्रांज्रींभ्रींजायकृष्णनिरंतरक्रीडाशक्त प्रमुचितचेतसेनृत्यप्रियायश्रीकृष्णायक्लींगो पीजनवलभायस्वाहा अथमालामंत्रः श्रींह्रीं ऐंॐक्लींश्रींमतन्तवपुषोत्तमअप्रतिमरूपल क्ष्मीनिवाससकलक्षोभणसर्वस्त्रीहृदयविदा रणभुवनमनोर्मदकरसुरमनुष्यसुन्दरीम नांसि जप २ दीपय २ शोषय २ मारय २ स्तं भय २ मोहय २ द्रावय २ आकर्षय २ समस्त परमोपेतसर्वशोभाकरसर्वकामप्रदअमु कंहन २ सुदर्शनचक्रेणकोमोदकेगदया नंदखड्गेनशारंगधनुर्वाणैर्भिधि २ पाशेन वंध २ कटकटअं कुशेनताडय २ तुरु २ श्री पृ० २५अ) किंतिष्ठसिकिमुपेक्षसिममेप्सितं शीघ्रंसिद्धंस र्वंभवतुक्लींहूंफट्स्वाहा अस्यश्रीगोपालश्रीकृ ष्णमालामंत्रस्य नारदृषिःत्रिष्टुप्छंदःगाय त्रीछंदः अव्यक्तप्रकृतिश्रीदुर्गाधिष्टात्रीश्रीगो पालोदेवता क्लींवाजं स्वाहाशक्तिः ममधर्मा थकाममोक्षार्थेजपेविनियोगः ॐनमःकृष्णा यगोविंदायदेवकीपुत्रायहूंफट्स्वाहा ॐक्लीं ग्लौंक्लीनमोभगवतेनन्दपुत्रायवालवपुषेश्या मलागायगोपीजनवल्लभायस्वाहा ॐनन्दनन्द नायस्वाहा ॐनन्दिनेनन्दनप्रदायनंमेदेहिदेव स्वाहा न्यासः ॐक्लींहृद० ॐकृष्णायशिरसे० गोविंदायशिखा० ॐगोपीजनकवचा० वल्लभा य नेत्रा० स्वाहा अस्त्रा० ध्यानं स्मरेद्वदावनेर म्यमोहयन्तंमनोमयं गोविंदंपुण्डरीकाक्षंगो पकन्यासहस्रशः आत्मनोवदनांभोजप्रेषि ताक्षिमधुव्रता पीडिताकामवाणेनक्षणमा श्लेषमिप्सिता मुक्ताहारलसन्मीनतुंगस्त नमनोन्नतः स्रस्तधस्मिल्लवमनामदस्ख लितमानसाः विलोभवन्तीविविधैर्विभ्रमै
SK
पृ० २५ब) र्भावर्गार्वतैः फुल्लेंदीवरकांतिमिदुवदनंवहा वतंसप्रियं श्रीवत्सांकमुदारकौस्तुभधरंपीतां वरंसुन्दरं गोपीनांनयनोत्पलाचिर्ततनुं गोगो पसंघावृतं गोविंदंकलवेणुवदनपरंदिव्यांग भूषंभजे अथध्यानात्तरं द्वारवत्यासहस्रार्कभा रैर्भवनोत्तमैः अनल्पैकल्पवृक्षैश्चपरितेमणि मण्डपैः ज्वालद्रत्नमणिस्तंभतोरणकुण्डपेप्रफु ल्लगुग्गुलुचित्रवितानालंविमौक्तिकेपद्मराग स्थलीराजद्रनद्यौश्चमध्यतः अनारतगलद्रत्न धारीसुरतरोरधः रत्नप्रदीपावलिभिः समानो दितचन्द्रार्कतडित्कोटिसमुद्युतिः सर्वांगसुन्द रःसौम्यः सर्वाभरणभूषितः पीतवासाश्चक्रशं खगदापद्मोज्वलत्करः अनारतोहलद्रत्नधारौ द्यकलशंस्पृशन् वामपादांसत्कलशौत्कुया ना*जितीसुन्दाचदिशक्त्योकलशौतयौः ता भ्यांदक्षवामहस्तेमित्रवृन्दासुलक्ष्मणे रत्नन द्योसमुद्धृत्यरत्नपूर्णेघटौतयोः जाम्बुवतीसु शीलाचदिशात्यौदक्षवामके वहिःषोडशसा हस्राः संख्याचपरितःप्रियाः ध्यायाकनक
SK
पृ० २६अ) रत्नौचधारायुकुलशोज्वलाः तासांदासीगणा स्तत्रअसंख्यातास्थितास्ततः तद्वहिसिद्धयश्चा ष्टौततश्चनिययोनवः पूरयत्त्योधरासर्वायाव तिद्धारकावधिः तद्वहिवृष्णस्सर्वेपूर्ववश्चसुरा दयः इतिगोपालमंत्राणाऋष्यादिध्यानषडंग मर्चयेत् अथनृसिंहमंत्रः ह्रींउग्रंवीरंमहाविष्णुं ज्वलंतंसर्वतोमुखं नृसिंहंभीषणंभद्रंमृत्युमृ त्युंनमाम्यहं ह्रींॐक्षौं अथहयग्रीवमंत्रः ॐउद्गी रत्प्रणवोद्गीथसर्ववागीश्वरेश्वरः सर्वदेवमयाश्चि त्त्यसर्वंबोधेयबोधयस्वाहा अथषडंगः ॐउद्गीरत् हृद० प्रणवोद्गीथशिर० सर्ववागीश्वरशिखा० सर्वदेवमयाश्चित्य कवच० सर्वंबोधय २ नेत्रा० स्वाहा अस्त्रा० अस्यमंत्रस्यत्रयस्त्रिंशलक्षपुर श्चरणं कुन्दपुष्पेस्त्रिमधुप्लतैहोमोदशांशेन कर्तव्या नृसिंहोमंत्र आंह्रींक्षौंक्रौंहुंफट् अस्यमंत्रस्य व्रह्माऋषिः पंक्तिछंदः नृसिं हो मेदेवतां मूलमंत्राक्षरैरेवषडंगकुर्यात् ध्यानं कोपादालोलजिह्वंविवृतनिजमुखं सोमसूर्याग्निनेत्रंपादादानाभिरक्तंप्रभमुप
SK
पृ० २६ब) रिसितंभिन्नदैत्यैन्द्रगात्रं शंखंचक्रंचपाशांकुशकु लिशगदारुणान्युद्गहन्तींक्ष्णाग्रदंष्टंमणिमव विविधाकल्पमीड्यंनृसिंहं अस्यमंत्रस्यषट्लक्ष जपः त्रिमधुक्तैःपायसैर्दशांशेनहोमादिकंवोध व्यं अथगरुडमंत्रः ॐनमोभगवतेगरुडायकाला ग्निवर्णायेह्येहिकालाग्निजिह्वायपातय २ मोह य २ विद्रावय २ भ्रमय २ हन २ धम २ पच २ मथ २ हूंफट्स्वाहा क्षीराब्धिमध्येतत्रोत्पन्नपूर्वो क्तमातृकाक्षरमयममृतात्मकंश्वतेपद्मंविचिंत्य तत्पद्मोष्टदलेदष्टंसंस्मृत्यदष्ट्रस्यमूर्ध्निवक्त्रहृदयां नाभिषुरंहंवंवं इतिबीजचतुष्टयंममृतंश्रीवितत्वे नसंचित्यदष्टशिरसोपरिचन्द्रकान्तवर्णंस्वधामयं गरुडंध्यात्वातद्वस्तस्थितामृतपूरितशंखनिर्गत यामृतधारयादष्ट्रंप्लावयंतंगरुडंध्यापन् मंत्रज पेत् एवंध्यानमत्रेणदष्टोनिर्विषसमुत्थायचिरं जीवेत् ॐनमोभगवतेगरुडायपक्षिराजायहरि वाहनायविनतागर्भरत्नायकश्यपात्मजाय अमृतहारकायमहेंन्द्ररूपायपर्वतशेखरायकार ण्यरूपाय अमितबलपराक्रमायविषंसंहर २ मोच य २ चालय २ पातय निर्विषय २ विषमप्यमृतं
SK
श्री पृ० २७अ) चाहारसदृशं रूपंप्रज्ञापयसिस्वाहा नमःनल २ वरु २ क्षिय २ स्वाहा अनेनगरुडमंत्रेणगरुडोअ भिमंत्रितं विषंभक्षितमप्यमृतंभवति इतिगरु डमंत्रः इतिश्रीमहोपाध्यायश्रीमहेशभटसुत श्रीसोमनाथविरचितायांमज्ञानध्वान्तदीपिका यांवैष्णवमंत्रकथनंनामषष्टप्रकाशः अथसू र्यकथनंनाम तारौघृणिभृगुःपश्चाद्वामक र्णविभूषितः वह्नासनोमहच्छेषः सनेत्रेः ति स्त्यपश्चिमः अष्टाक्षरोमनुःप्रोक्तोभानोरमितते जसः ॐघृणिसूर्यादित्य इतिह्रांह्रींसः तृक्षरः ॐहींसंहंसःसूर्याआदिहंसः अस्यश्रीसूर्यमन्त्रस्य देवभार्गवृषिः गायत्रीछंदः आदित्योदेवता ॐवीजं ह्रींशक्तिः सःकीलकं सर्वरोगप्रशम नार्थेजपेविनियोगः अथषडंगन्यासः सत्यते जोज्वलामणेहूंफट्स्वाहा हृद० ॐव्रह्मणेतेजो ज्वालामणेहूंफट्स्वाहा शिर० ॐविष्णवेतेजो ज्वालामणिहूंफट्स्वाहा शिखा ॐरुद्रतेजोज्वा लामणिहूंफट्स्वाहा नेत्राय० ॐसर्वायतेजोज्वा लामणेहूंफट्स्वाहा अस्त्रा० अथवर्णान्यासः ॐ नमःमूर्द्नि ॐनमःघृहूंफट्स्वाहा मुखे ॐणिंन
SK
पृ० २७ब) मः कंण्ठे ॐसूंनमः हृदि ॐर्यंनमः कुक्षौ ॐ अंनमःनाभौ ॐचिंनमः लिंगे ॐत्यंनमः पाद यो ध्यानं रक्ताब्जयुग्माभयदानहस्तकेयोर द्वारांगदकुण्डलाढ्यं माणिक्यमौलिंदीनना थमीड्येबन्धूककांत्तिंविलमेत्रिनेत्रं वसुलक्षं जपेन्मंत्रंसमिद्भिःक्षीरशाखिनांतत्सहस्रंप्रज्व हुयात्छीराक्ताभिर्जितेन्द्रियः इतिसूर्यमंत्रः अ थप्रकीर्णमंत्रः अस्यश्रीप्राणप्रतिष्ठामंत्रस्य व्रह्माविष्णुमहेश्वराऋषियः ऋग्यजुसामार्थ र्वणछन्दांसिचिद्रूपिणीप्राणशक्तिर्देवता अमुककार्यसिद्ध्यर्थेप्राणप्रतिष्ठाविनियोगः अथषडंगन्यासः ॐअंकंखंगंघंङं आंहृद० ॐ ईंचंछंजंझंञंईं शिर० ॐतंटंठंडंढंणंर्थंशि खा० ॐएंतंथंदंधंनंऐं कवचा० ॐआंपंफंबं भंमंऔं नेत्रत्र० ॐआंयंरंलंवंशंसंहंलंक्षंआः अस्त्रा० ॐयंयकारस्वरूपिणेत्वगात्मनेमज्जात्म नेनमः संसकारस्वरूपिणेशुक्रात्मनेनमः हंहकारस्वरूपिणेवीजात्मनेनमः ॐलंलका रस्वरूपिणेप्रकृत्यात्मनेनमः क्षःक्षकारस्व रूपिणेपरमात्मनेनमः अथप्राणप्रतिष्ठा मंत्रः
SK
श्री. पृ० २८अ) ॐआंह्रींक्रौंयंरंलंशंषंसंहंलंक्षंहंसःसोहंअमु कस्यप्राणाइहप्राणा ॐ १६ अमुकस्यजीवि हस्थितः ॐ १६ अमुकस्यत्वक्चक्षुश्रोत्ररस नाघ्राणवाक्पाणिपादयोस्थंपृथिव्यंप्तेजो वायुआकाशेशब्दस्पर्शरूपरसगंधवचना दा?नगतिविसर्गानन्दात्मकानिइहागत्यमु खचिरंतिष्ठतुस्वाहा इतिप्राणप्रतिष्ठामंत्रः अथलवणपंचृचात्मकंमंत्रस्यांगिराऋ षिःरनुष्टुप्छंदः अग्निरात्रिदुर्गाभद्रकाली देवताहलोवीजानिस्वराशक्तयः लक्षपंच कजपेविनियोगः लवणंत्वमतितीक्ष्णी सिद्धद्वयंतवलवणौदहति पंचतिलवणो छिन्दतिभिन्दतिलवणेहूयमाणेतुकुत्रा निंत्राकुत्ररतिः दहामुकस्यगायत्रीणिदह मांसंदहत्वगस्थिलोमास्थिभ्यांभज्जिका न्दहयतिवसतियोजनशतेनदिनांचशतां तरेगरेलोकैहप्रकल्पसर्पशताकुलेतषु त्यातपसेणिप्रमग्रेर्लवणेतेजसापातेरा त्रिः अल्पाविद्धस्यशूलाग्रारोपिस्यचमाते रात्रिसातेरात्रिर्महानिशात्रत्रस्थंस्ववशेकृ पृ० २८ब) त्वाममवश्येकुरुद्रुतं ॐह्रींचिटिचिटि ६ चांमुडालिनि अमुकं ३ मीवश्यमानय ६ स्वाहा २ इतिषडंगप्रकारः मारणोच्चाटनयो हूंफट्स्वाहा इतिपदंदद्यात् ध्यानं अरुणा पंकजसनेनिषर्णस्तवशक्तिवराभययुक्तक रां अमितार्चिरुचातुगताविलसत्तायनत्री तीयोवतुवोदहनः नीलतरांशुककेशक लापानेततनुनिविविदुनुभाराम् सांकुश पाशकशूलकपालायाभवतीभवतावति नित्यं करकमलविराजतुचक्रंशंखासिशू लापारीलसितकीरीटषोतितनिकदेव्याः त्रिनयनलिखितांगीदेवतीन्द्रादिपूज्यापन निभागीयापातुकान्यायनिव सरौद्रसितदं ष्ट्रिकात्रिनयनोद्योच्यल्लक्षणाकपालपरम्यु लसत् डमरुशक्तित्रिशूलोजालासहस्रकी रणोज्वलारुचिरकिंकिणीमालिकाभावसि द्धयेभवतुभद्रकालीचिरं अस्यमंत्रस्वायुत जपपुरश्चरणं अद्यंतनीजपस्यसहस्रजन पुरश्चरणं आज्यंचतुर्णादशांशेनहवणंकार्य्यं
SK
पृ० २९अ) अष्टमिमारभ्येमावास्यापर्यतं रात्रिषुप्रतिदिनं कुण्डवपरीमितचूर्णंएकत्रयोपेतैरष्टोत्तरशतं सहस्रंवाज्वह्वयात् एवंसप्तरात्रैहोमाः होमेना सद्योसाध्योभवति अवद्योवश्योभवती प्रयोग कालेमंत्रस्थाने अमुकिति यदस्थानेसाध्यना मसंयोज्यजुहुयादिति मंत्रः देवप्रकाशीका मुक्तमस्तिशुक्तीःकर्षद्वयंप्रोक्तंकर्षंलचतुष्टयं प्रसृतिः द्विगुणंकुण्डंवंस्मृतं शांतिकर्मणिहो मःदुग्धदधिघृतंमधुशर्कराः तिलगरीखर्ज रेद्राक्षावदामसिसरीएतानिशुसकर्मणिजु हुयात् घोरकर्मणिघूनाविच्युताभिलावा हरिद्रालवणहरितालमुद्गरादिदालश्वेतस र्षपमारणादिकर्मणिएतानिवस्तुनिएकी कृत्यजुहुयात् इतिलबलप्रयोगः अथव न्दीमोक्षणमंत्रस्य शुक्रृषिःरनुष्टुप्छंदः श्रीवन्दीमोक्षणीदेवता लोहपाशविमोचने विनियोगः षट्दीर्घभाजमायावीजेनषडंगं कुर्यात् ह्रींहिमाचलेकुमारिकेस्वाहा इदंम त्रंप्रतिहंअष्टोत्तरसहस्रंशतंवाजपेत् इदंस पृ० २९ब) प्तदिवसंजपेत् ततोएवंमंत्रपत्रादौलिखित्वा मूलकोपरिस्थापस्थित्वाष्टोत्तरसहस्रंशतवा रंवाजपः वन्दीस्थितस्यपुरुषस्यसापोलिका भक्षणार्थंदेयात्ततोकारगृहाद्वंदीमोक्षंभव ति ततोगृहीआत्मवित्वानुसारेणगुरवेदक्षि णांदयात् इतिवन्दीमोक्षणमंत्रविधिः अ थमातंगीमंत्रः ॐउछिष्टचंडालिनीसमु खेदेवीमहापिशाचिनिह्रींठःठःठः इतिद्वा विंशाक्षरः उछिष्टचांडालिमातंगीसर्ववशं करिनमःस्वाहा इत्येकोनविंशाक्षरः ॐऐं ह्रींश्रींक्लींसौहेज्येष्ठमातंगीनमामीउछिष्ट चांडालिनित्रैलोक्यवश्यंकरिहूंफट्स्वाहा इतिद्वात्रिंशक्षरः एतेवामातंगीमंत्रत्रया णामुत्तुंकृषिगायत्रीछंदः श्रीशीघ्रफ लप्रदायिनीदेवता ऐंह्रींवीजं स्वाहाशक्तिः श्रींक्लींसौंकीलकं सकलमनोभीष्टसिद्ध्य र्थेजपेविनियोगः अथषडंगः उच्छिष्टचांडा लिनी हृद० समुखीशिर० देविशिखा० महा पिशाचिनीकवचा० ह्रींनेत्रत्र० ठंठंठंअस्त्रा०
SK
पृ० ३०अ) अथद्वितीया उच्छिष्टहृद० चण्डालिशिरसेस्वाहा मातंगीशिखा० सर्वेवशंकरी कवचा० न मःनेत्र० स्वाहा अस्त्रा ऐंह्रींश्रींक्लींसौंहृद हेज्येष्टमातंगी शिर नमामी शिखा उछि ष्टचांडालिनीकवचा० त्रैलोक्यवशंकरी ने त्रत्र० हूंफट्स्वाहा अस्त्रा ध्यानं देवींषोडश वार्षिक्यंशवगतांमाध्वीरसाघूर्णितांश्या मागींमरुणाम्बरांपृथुकुचांगुंजावलीशो भितां हस्ताभ्यांदधतींकपालममलंती क्ष्णांतथाकतृकांध्यायेन्मानसपंकजेभ गवतीमुछिष्टचांडालिनी मातंगीनवयाव कार्द्रचरणांभोल्लासिनीनांशुकान्तीक्ष्णोल्ला सिकरांसन्नतकुचांमुक्ताप्रवालधरां कृष्णा गींसितशंखकुंडलधरांविम्भाधरांसुस्मि तामाकीर्णालकवेणिमब्जनयनांध्येयेच्छु कश्यामलां इतिध्यात्वा लक्षपुरश्चरणंकुर्या त् तद्दशांशेनदधिसिद्धार्थतंण्डुलैहोमादि कंबोध्यं अथमहादेविसिद्ध्यमत्रोयथालि ख्यते ॐअस्यश्रीमहादेवीमन्त्रस्यकौशिकवि पृ० ३०ब) श्वामित्रृषिरनुष्टुप्छंदः श्रीमहादेवीदेव ता इंवीजं स्वाहाशक्तिमोक्षकार्यसिद्ध्यर्थेज पेविनियोगः अथषडंगः ॐहृद० इशिर० ईशिखा० रौंकव० ईअस्त्रा० ध्यानं ध्यायेवद्ध मयूरपिछनिवहां श्यामाप्रवालाधरां गुहा धोरधरांधनुःशरकरां नीलांवरांडंबरां भौम वारयुक्ताष्टम्यांकेवलभौमवारीवाजपेत् अथमंत्रः ऐंह्रींश्रींक्लींत्रैलोक्यमोहिनींमेभी ष्टमनोरथंशुव्रं?कुरु २ स्वाहा अस्यमंत्रस्यपु रश्चरणमष्टोत्तरसहस्रमेवपद्दशांशतिलघृता दिनाहोमः इतिश्रीमहापाध्यायश्रीमहेशभ टसुतश्रीसोमनाथविरचितायांमज्ञानध्वान्त दीपिकायांसूर्यादिलवनादिमंत्रवर्णनंनाम सप्तमप्रकाशः ७ गन्धर्वराजविश्वावसोमं त्रः अस्यश्रीगन्धर्वराजमंत्रस्य कौशिक विश्वामित्रृषिः रनुष्टुप्छंदः श्रीविश्वाव सुतर्नामगन्धर्वराजोदेवता ॐवीजंस्वा हाशक्तिर्ममेष्टकन्याप्राप्तिसिद्ध्यर्थेजपेवि नियोगः षडंगन्यासः नमोभगवतेअंगुष्टा० हृद० गन्धर्वराजाय तर्जशिर० विश्वाव
SK
पृ० ३१अ) सुमध्यमा शिखा० ममाभिलषितां अनामि ध्यानं ध्यायंतीखुरसोदधौरथवरेदुग्धेक्षु भिकल्पिते कल्हारस्रजनिर्मिताक्षुयुग ले कन्यागणैःसेविते गन्धर्वाधिपतिंप्र सन्नवदनं विश्वावयंयःपुमान् मंत्रंतस्य जपेल्लक्षमितिनियतंकन्यांमसौकांक्षितां ध्यात्वा ॐनमोभगवतेगन्धर्वराजविश्वासौ ममाबिलषितांअमुकनाम्नींकन्यांप्रयछ स्वाहा मन्त्रातरंच अस्यश्रीगंन्धर्वराजमंत्र स्य कौशिकविश्वामित्रृषिः रनुष्टुप्छं दः श्रीविश्वावसोर्नामगन्धर्वराजदेवता ॐवीजं स्वाहाशक्तिः ममेष्टकन्याप्राप्तिसि द्ध्यर्थेजपेविनियोगः षडंगन्यासः ॐहृद० विश्वावसुर्नामगन्धर्वः शिरसे० कन्यका नामधिपति शिखायै लक्षमितेन कव चा० शिर स्वरूपेसालंकारादेहिमेअमु कनाम्नींकन्यां नेत्रत्र० नमस्तस्मैविश्वा वसेस्वाहा अस्त्रा० ध्यानं अर्करूपदयिता कुचयुग्मकरनिहितकुसुमं कोदण्डाकर कलितमोहनास्त्रंकलयेगन्धर्वनायकं पृ० ३१ब) मनसा रक्तांगरागारुणभूषणायविणाध रंकल्पसितेनयुक्तः गंधर्वकन्यायुतगीयमा नंविस्वावसुंसिद्धिपतिंनमामिः ध्यात्वा ॐविश्वावसोर्नामगन्धर्वः कन्यकानाम धिपतिः लक्षमितेनसुरूपांसालकारांस सुवर्णांदेहिमेअमुकनाम्नींकन्यानमस्तस्मै विश्वावसवेस्वाहा पानीयस्याजलिन्सप्तद त्वामंत्रमिमंजपेत् अष्टोत्तरसहस्रंवाशतंवा माशमात्रतः सालंकारांनरकन्यांलभ्यतेना त्रसंशयः इतिकन्याप्राप्तीगन्धर्वराजविधा नं अथहनुमानमंत्रः अस्यश्रीहनुमानमंत्र स्यरामचन्द्रृषिः गायत्रीछंदः श्रीहनुमा न्महावीरोदेवता मारुतात्मजंवीजं अंजनी सूनुशक्तिः हूंफट्स्वाहाकीलकं ममसर्व कामावाप्तिहेतवेजपेविनियोगः षट्दीर्घ भाजालज्जावीजेनषड्गावीजेनषड्गानिक ल्पयेत् ध्यानं ध्यायेद्वालदिवाकरंद्वितिनि भंदेवारिदर्पापहंदेवेन्द्रंप्रमुखप्रशस्तयश संदेदीप्यमानंरुचा सुग्रीवादिसमस्तवान
SK
पृ० ३२अ) रयुतंसुव्यक्ततत्वप्रियंरक्तारुणलोचनंपवनजं देवंसदाभावयेत् इतिध्यात्वाजपेत् ॐहनुमते वीरांपराक्रमायक्रौंसर्वकार्याणिसाधय २ हूं फट्स्वाहा द्वितीयमंत्रः ॐनमोभगवतेप्रक टपराक्रमाक्रान्तसकलदिंग्मण्डलाययशो वितानधकलीकृतजगत्त्रितयायवज्रदेहा यरुद्रावतारायसदायुद्धतत्परायलंकापुरी दाहकाय उदधिलंघनेविचछणाय दश ग्रीवसन्धानकाय आबालव्रह्मचारिणेगम्भी रशब्दशालिने डाकिनीविध्वंसिकाय ॐह्रीं महाभस्मनेसर्वविषंहरहरपरबलंक्षोभय २ ममसर्वकार्याणिसाधय २ हूंफट्स्वाहा || इतिहनुमान्मालामंत्रः अस्यश्रीमालामंत्रस्य सदाशिवृषिः अनुष्टुप्छंदः श्रीहनुमानो देवता हंवीजं स्वाहाशक्तिः स्वाहाचकील कं सर्वकार्यसिद्ध्यर्थेजपेविनियोगः षडंग न्यासः ॐनमोभगवतेअंजनीयाय हृद० रुद्र मूर्तये शिरसे० वायुपुत्राय शिखा० अंजनी गर्भरत्नायकवचा० रामदूताय नेत्रत्र० व्रह्मा पृ० ३२ब) स्त्रनिवारणायस्वाहा अस्त्रा० ध्यानं स्फुटिका भंसुर्णकान्तिद्विभुजंचकृतांजलिं कुण्डलद्व यसशोभिमुखांभोजहरिजभे अयुतद्वयपुर श्चर्यारामस्यग्रेशिवस्यवा पूजाचवैष्णवेपीठे शैवेवाविदधीत्तवै अथहनुमद्दर्शनार्थेवी रसाधनलिख्यते व्राह्मेमुहूर्तेचोत्थायकृत नित्यक्रियोद्विजः गत्वानदीतत्तः स्नात्वाती र्थमावाह्यपृष्टधा मूलमंत्रंप्रजप्तेनसिंचेदादि त्यसंख्यया पूर्ववासपरित्यज्यवासोन्यत्परिधा यच ततोगंगाधितीरेवाशीखरेपर्वतस्यवा न्यासः आंहृद० इशिरसे० ॐशिखाय० ऐं कव औंनेत्रत्रया० अःअस्त्रा० प्राणायामः अ मुकराशादिशोडशस्वरानुश्चरणन् वामना सापुटेनवायुंरेचयेत् ततःपंचवर्गानुश्चरन् वायुंरेचयेत् एवंप्राणायामंत्रयंकुर्यात् मंत्र वर्णैरंगन्यासंकुर्यात् ध्यायेत् ध्यायेद्रणेहनु मंतंकपिकोटिसमन्वितं धावंन्तंरावणंजेतु दृष्टाशत्वरशालितं लक्ष्मणंचमहावीरंप तितरणभूतले गुरुंचक्रोधमुत्पाद्यगृहीत्वा
SK
पृ० ३३अ) गुरुपर्वतं हाहाकारैर्महानादैकंपयन्तंजगत्त्रयं आव्रह्मश्चसमाविश्यकृत्वाभीमंकलेवरं अथा स्योमंत्रः श्रींवीजंपूर्वमुश्चार्यपवनंचततोवदे त् नन्दनंचततोदेयंटेवसानेनलप्रिया दशा र्णोयंमनुप्रोक्तंभजतांसुरपदपः सप्तदिवसं महाभयंदत्वा त्रिभागशेषासुरात्रिषुनियत मागछति साधकोयदिमायान्तरतितदाईप्सि तंवरमाप्नोति विद्यावापिधनंवापिराज्यंवाश त्रुनाशनं यदिवाकर्मसिद्धिंचअन्यद्वामनसे प्सितं तत्क्षणादेवमाप्नोतिसत्यंसत्यंनसंशयः इतिश्रीहनुमत्कल्पोक्तंसाधनंवीरसनं अथका लीमंत्रः कामत्रयंवह्निसंस्थंरतिविंदुसमन्वितं कूर्चयुग्मंतथालजापुलनंतदनंतरं दक्षिणे कालिकेचेतिपूर्ववीजानिचोश्चरेत् अन्तेवह्नि वधूदत्वाविद्याराज्ञीप्रकीर्तितः क्रींक्रींक्रींहूं हूंह्रींह्रींदक्षिणकालिकेक्रींक्रींक्रींहूंहूंह्रीह्री स्वाहा इतितत्रोक्तंमंत्रोद्धारः अथैकाक्षरमंत्रो द्धारः कौमाक्षरंवह्नीसंस्थंमिदिराविन्दुनाद कः एकाक्षरोमहामंत्रः सर्वकामफलप्रदः
SK
पृ० ३३ब) मंत्रराजमितिख्यातंदुर्ल्लभंपापचेतसां सुलभंचैव भक्तानांसाधकानांमहात्मनां क्रींमित्येकाक्षरः त्रिगुणातुविशेषेणसर्वशास्त्रप्रबोधकः क्रींक्रीं क्रीं एतेषांमंत्राणांभैरवृषिः उष्णिक्छंदः श्रीदक्षिणकालीदेवता लज्जावीजं कुर्चशक्तिः खंवीजकीलकं विद्याप्रीत्यर्थेजपेविनियोगः आद्यावीजेनषट्युक्तेनषडंगानि अथध्यानं भिन्नाजनचयप्रख्यां प्रवीणांशवसंस्थितां मुखमंदस्मितांमोदमोदिनीमदविह्वलां आ रक्तमुखसांद्राभिर्नत्रालीभिविराजितां शव द्ययकृतोतुसांसिंदूरतिलकोज्वलां पंचाश द्वंघटितमालाशोणितलोहितां नानामणि विशेषाढ्यांनानालंकारभूषितां शवास्थि कृतकेयूरशंखकंकणमण्डितां शववक्ष समारूढांलोलिहानांशवकुचित् शवसां सशतग्रासांसाटहासंमुहुर्मुहुः खड्गमुण्ड दरांवामेसिव्येवरभयप्रदां दन्तराचमहारौं द्रींचण्डनादातिभैषिणां शिवाभिघोररूपा भिःवेष्टितांभयनाशिनीं माभैर्माभैःसुभ क्तेषुजल्पतांघोरनिःस्वनैः यूयंकिमिछथ
SK
पृ० ३४अ) व्रतेददामेतिप्रभाषिणि तेषांमंत्राणांलक्षद्वयं पुरश्चरणं लक्षमेकंजपेन्मंत्रंहविषाशीदिवाशु चिः अश्वचिच्चतथारात्रौलक्षमेकंजपेत्ततः दशांशंहोमयेन्मंत्रीतर्पयेदभिषेचयेत् इति दक्षिणकालेमंत्रः अथनक्षत्रः तदुक्तंवारा हकल्पे लज्जावीजंवधूवीजंकुर्चबीजंतथाहि फट् एषापंचाक्षरीविद्यापंचभूतप्रकाशिनी ह्रींस्त्रींहूंफट् तारकत्वात्मदाताराभुक्तिमु क्तिप्रदायिनी उग्रपत्तारिणीयस्मादूग्रतारा प्रकीर्तिता ॐह्रींस्त्रींहूंफट् इतिमत्स्यसूक्ते ऐंह्रींस्त्रींवितातारैकजटाचैषामहामुक्तिक रिमुतातारास्त्ररहितात्पर्णामहानीलसरस्व तिः ह्रींस्त्रींह्रींइयमेवकुल्लवीजंफट्शक्तिः ह्रींवीजं फट्शक्तिः ह्रींकीलकं चतुर्वर्गफ लप्राप्त्यर्थेजपेविनियोगः अथषडंगन्यासः ह्रींअखिलवाग्र्यपिण्यैहृदया० ह्रींअखंडवा ग्रपिण्यैशिर० हूंव्रह्मवाग्रपिण्यैशिखा० ह्रैं विष्णवाग्रपिण्यैकवचा ह्रौंरुद्रवाग्रपिण्यै नेत्रत्रया० ह्रःसर्वाग्रपिण्यैअस्त्रा० नीलसर स्वत्यापिअयमेवखण्डांगः ह्रांएकजटा
SK
पृ० ३४ब) यैहृद ह्रींतारिण्यैशिरसे० हूंयजोदके कवचा० ह्रौंमहाप्रतिसरेनेत्रत्र० ह्रःपिगौग्रैकटायै० अ स्त्रायफट् इत्येकजटाषडंगः ध्यानं प्रत्याली डुपदाघोरांमुण्डमालाविभूषितां खर्वांलम्वो लवोदरींभीमांव्याघ्रचर्मांवृतांकजौ नवयौ वनसंपन्नांचन्द्रमुद्राविभूषितां चतुर्भुजांल लांजिह्वांमहाभीमावरप्रदां खड्गकतृसमा युक्तांसव्येतरभुजद्वयं कपालोत्पलसंयुक्तां सव्यपाणियुगान्वितां पिंगोग्रैकजटाध्याये न्मौलावक्षोभ्यभूषितां इतिध्यात्वाजपेत् अस्यपुरश्चरणंलक्षजपः दशांशंसाज्यैवि ल्वपत्रैफलैर्वाजुहुयात् इतितारामंत्रप्रक रणं अथछिन्वमस्तामन्त्रः प्रचण्डचण्डिका वक्ष्येसर्वकामफलप्रदां यस्याप्रसादमात्रे णसदाशिवेभवेत्नरः लक्ष्मीलजांतथामा यांमात्राद्वादशकामपि वज्रवीरोचनीयेच हूंहूंफट्स्वाहा यायुतः षोडशार्णोमन्त्रप्रो क्तोवांछितार्थफलप्रदाः श्रींह्रींऐंवज्रवै रोचनीयेचहूंहूंफट्स्वाहा यायुतः शोडशा र्णोमनुप्रोक्तोवांछितार्थफलप्रदः श्रींह्रीं पृ० ३५अ) ऐंवज्रवैरोचनीयेहूंहूंफट्स्वाहा कामाद्यावाग्म वाद्यावामायाद्यंवाजपीत्सधीः लक्ष्म्याद्यांवा जपेद्विद्याचतुर्वर्गफलप्रदां अस्यमंत्रस्यभैरव ऋषिः संराट्छंदः प्रचंडचंडिकादेवता ह्रींवी जं स्वाहाशक्तिः अभीष्टसिद्ध्यर्थेजपेविनियोगः षडंगन्यासः आंखड्गायहृद० ईंस्वशांगायशि रसेस्वाहा ऐंपाशाय कवचा० अंअंकुशायने त्रत्रया० अःअस्वरक्षाय अस्त्रा० ध्यानं स्वनाभो गिरीजाध्यायेदर्धविकसितसितं तत्पद्म कोशमध्येतुमंडलंचारुरोचिषं जपाकुसम संकाशंरक्तवधूकसनिभं रजःसत्रतमोगे यायोनिमंडलमंडितं मध्येतुत्वांमहादेवीं सूर्यकोटिसमप्रभां छिन्नमस्तांकरेवामेधा रयंतीस्वमस्तकीं प्रसारितमुखांभीमांले लिहानाग्रजिह्वकां पिवंतेरौधिरांधारांनि जकण्ठविनिर्गतां अस्थिमालांधरांदेवीं नागयज्ञोपवीतिनीं रतिकाचपविष्टांच सदाध्यायंतीमंत्रिणः स दाशोडशवर्षायांपीनोन्नतपयोधरां वि परीतंरतस्थौचध्यायेद्रतिमनोभवौ डा
SK
पृ० ३५ब) किनीवर्णिनीयुक्तांवामदक्षिणयोगताः ना गयज्ञोपवीताढ्यांज्वालातेजोमयाशिवां प्र त्यालीढपदांदिव्यांमुक्ताकेशींदिगंबरां स दाशोडशवर्षीयांसास्थिमालाविभूषितां डा किनींवामपार्शीतुकल्पसूर्यानलोपमां वि द्युजटांत्रिनयनांदन्तपक्तिवलाकिनीं दंष्ट्राक रालवदनांपीनोनतपयोधरां महोदरींमहा घोरांमुक्तकेशींदिगंबरां लेलिहानांमहाजि ह्वांमुण्डमालाविभूषितां कपालकर्तृकांहस्तां वामदक्षिणयोगतः देवीगलोगलप्रस्थाधा रापानंप्रकुर्वतीं करस्थितकपालेनभीष णेनातिभीषणां अभ्यांनिषेव्यमानांतांध्या येद्दीवींविचक्षणाः अस्यपुरश्चरश्चरणल क्षजपः तद्दशांशेनहोमादिकंवोध्यं लक्ष्य मेकंजपेनमंत्रंहविष्याशीजितेंद्रियः पाला शैविर्णजैवापिजुहुयात्कुसुमैःफलैः इतिछिन्नमस्तामंत्रः इतिश्रीमहामहोपा ध्यायमहेशभटसुतश्रीसोमनाथविरविर चितायांगन्धर्वहनुमानादिमंत्रवर्णानाना माष्टमप्रकाशः अथभगलामुखीमंत्रः पृ० ३६अ) अस्यश्रीभगलामुखीमंत्रस्य नारदृषिः उष्णिक् छंदः श्रीभगलादेवता परमुखमतिसैन्यस्तंभना दि कार्यसिद्ध्यर्थेजपेविनियोगः ॐह्लीहृद० बग लामुखी शिर० सर्वदुष्टानां शिखा० वाचंमुखंस्त म्भय कव० जीह्वांकीलकाय नेत्रात्र बुद्धिंना शय २ ह्रींॐह्रींस्वाहा अस्त्रा० इतिषडंगः केचि र्त्तात्रिका अस्यमंत्रस्य प्रणवाद्येनषट् दीर्घभा जामायावीजेनषडंगंकुर्यात् ध्यानं जिह्वाग्रमा दायकरेणदेवींवामेनशत्रून्परिपीडयन्ती गदा भिघातेननदक्षिणेनपीताम्बराढ्यंनमामि ध्यात्वाजपेत् ॐह्रींबगलामुखीसर्वदुष्टानांवाचं मुस्तम्भय जिह्वांकीलयवुद्धिंनाशय २ ॐह्रीं स्वाहा एकलक्षजपेन्मत्रंहविष्याशीजितेंद्रि यः दशांशहवनंकुर्यापीतपुष्पैःघृताप्लुतैः अथकार्तवीर्य्यार्जुनमंत्रः ॐनमोकार्तवीर्य्या र्ज्जुनायहूंफट्स्वाहा ॐनमोभगवतेकार्त वीर्य्यार्जुनायसर्वदुष्टान्तकायतपोवलपरा क्रमायपरिपालितसप्तद्वीपायसर्वराजन्यचू डामणयेमहाशक्तिमतेसहस्रदलनाय अथा नुष्टुप्मंत्रः कार्तवीर्यार्जुनोरामराजावाहुस
SK
पृ० ३६ब) हस्रभृत तस्यस्मरणमात्रेणहृतंनष्टंचलभ्यते अथसर्वेषांमंत्रःणांदत्तात्रेयोऋषिःस्मृतः श्री अनुष्टप्छंदः श्रीकार्तवीर्य्यार्जुनोदेवता मम सकलेष्टकामनासिद्ध्यर्थेजपेविनियोगः ध्यानं सहस्रवाहुंशरसंशचापंरक्ताम्बरंरक्तकीरीट कुण्डलं चौरादिदुष्टभयनाशनमिष्टदन्तंवन्दे महाबलविजृंभितकार्तवीर्य्यं अथमालामं त्रः ॐनमोभगवतेश्रीकार्तवीर्याजुनायहैहय नाथायश्रीकार्तवीर्य्यार्जुनसहस्रसद्दशसर्वदुष्टां तकसर्वसहस्रैभिधि २ स्वहस्तोद्गतखड्गसहस्रै छिधिं २ स्वहस्तोद्गतनादसहस्रैभीषय २ ता पय २ विदारय विदरय स्तंभय २ निकृन्तय २ मारय ३ उछादय उच्चाटय २ विनाशय २ वशीकुरुकुरु २ दत्तात्रेयश्रीपादप्रियायनमः श्रीकार्तवीर्यार्जुनसर्वत उदधेरागन्तकानस्म दुखविलंठकान् चौरस्वमहान् मर्य्यागुन्मूल य २ हूंफट्स्वाहा इतिमालामंत्रत्रयं अस्य मंत्रस्यदत्तात्रेयृषिः प्रियतमाय हृदमहि ष्मतीनाथायशिर० रेवाजलक्रीडाशक्ताय शिखा० हैहयाधिपतये कवचा० ॐसहस्र
SK
पृ० ३७अ) वाहवे अस्त्रा० ध्यानं दोर्दंडैकसहस्रसस्मितकरैरे केष्पजस्तदधुत् कोदंडंसशरैरुदग्रविशिखैरु द्यद्विवस्वत्प्रभु व्रह्माण्डंपरिपूरयन्स्विदखिलं गंडस्थलालोलितद्योतत्कुंडलमंडितंविजय तेका|र्त्तवीर्यार्जुनः ध्यात्वा त्रिसहस्रमंत्रज पेत् मंत्रसिद्धोभवतिपश्चात्मानसेप्सितं नीलकर्माणिसाधयेत् इतिकार्त्तवीर्यार्जु नमंत्रविधानं अथधूमावतीमंत्रः दांताव र्घीशविदन्तोवीजंधूमावतीद्वयं धूमावतीम नुःप्रोक्तशत्रूनिग्रहकारकः अस्यमंत्रस्य पि प्पलादृषिः वृहतीछंदः शब्दनिग्रहका रिणीधूमावतीदेवता धूवीजं स्वाहाशक्तिः शत्रूनिग्रहार्थेजपेविनियोगः अथषडंगः धांधां हृद० धींधींशिर० धूंधूं शिखा० धैंधैं कव० धौंधौंनेत्र० धंधः अस्त्राय० ध्यानं अ त्युश्चामलिनाम्वराखिलजनोद्वेगावहादु त्मना रूक्षाक्षिशितयाविशालरशनासू र्याररिचंचला प्रस्वेदाम्वचिताक्षुधाकुलत नुः कृष्णातिरुक्षप्रभाध्येयामुक्तकचासदा प्रियकलिर्धूमावतीमंत्रिणा एवंध्यात्वा पृ० ३७ब) जपेल्लक्षश्मशानेविगताम्वराः निशांभोजी दशांशेनतिलोर्हवनमाचरेत् इतिश्रीमहा महोत्पाध्यायश्रीमहेशभटसुतविरचितायां मज्ञानधान्तदीपिकायांनवमःप्रकाशःस माप्तम् शुभम् लेखकपाठकयो भद्रम् तत् सत् ॐ || ॐश्रीकालिकायैनमः ॐभ्रांह्रींभ्राकालिका देवीमहामाया अमुकनाम्नींआकर्षय २ आन य २ स्वाहा वार १० हुतापकीजैविवाहमिले मासदोमेंसत्यनिसंदेहः ॐचामुंडेवज्रपा णिप्रलवोघ्नीकोटराक्षीविकृतवदने अटा टहासिनीमहाभैरवीसर्वदुःखविनाशिनी सर्ववंधनमोक्षिणी सर्वत्रभयंकरीसर्वज्व रंनाशयस्वाहा इदंमंत्रंसातवेरपठिसरिसो किपौटलीवान्धियसातसूपसेपाथेवाधि येसर्वमरजाईपह्ययंत्रपिप्पलारेपत्रअष्टगं न्धसोलिखकेभुजामैवान्धित्रिदोषिजुरजा ये || यंत्रचित्र.... पृ० ३८) ट्ःईष् FOळीO ईष् Bळाण्K.......

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. ajñānadhvāntadīpikā [M00622].

Source