SKॐ नमश्चिद्भैरवात्मने शंकराय अथ विज्ञानभैरवः श्रीमद्भट्टानन्दविरचितविज्ञानकौमुदीटीकोपेतः | श्रीविद्यां श्रीकण्ठमूर्तिं महेशं सोमानन्दं भूतिराजोत्पलेशौ | कालेनास्तंयातशिवागमानां प्रोद्धृत्यै ये मर्त्यलोकेऽवतीर्णाः || १ || नामं नामं तत्पदाम्भोजरेणुं वाक्कायान्तर्वृत्तिभिर्नुत्तपङ्के | चित्तादर्शे मादृशा दृष्टतत्त्वा- वेशाः शोभन्तेऽनिशं सत्सदःसु || २ || (युगलकम्) श्रीलक्ष्मणाभिनवगुप्तमुखांस्त्रिकार्थ- तत्त्वानुशासनमहाम्बुधिशीतरश्मीन् | ध्यात्वा गुरूञ्जडहृदब्जविकासनोद्य- द्भास्वत्प्रभान्वितिमिरीकृतविश्वमार्गान् || ३ || शर्वाननाम्बुजविनिःसृतधारणानां गूढायनेऽपरविभानवलोकनेन | संरच्यते प्रतिपदं स्खलतापि तावद्- विज्ञानभैरवनये पददीपिकेयम् || ४ || (युगलकम्) प्. २) तदिह शास्त्रकृत्स्वयं भैरवः नीलपीतादिविचित्राभिरान्तरवाह्यस्वरूपाभिः तत्तदर्थक्रियाभिः स्वात्मानमाच्छाद्य ततश्च सूर्यमरीचिनिकरवत् बहिर्निःसृता भक्तजना एतज्ज्ञानमार्गद्वारा स्वात्मस्वरूपोपलब्ध्या पुनः प्रविशन्तु तदैक्यमुपयान्तु च इति प्रयोजनमुद्दिश्य स्वविज्ञानस्फारज्ञान-क्रियादिशक्तिद्वारा प्रष्टृरूपात्मना आह श्रीभैरव्युवाच | इत्यादि श्रुतं देव मया सर्वं यामलादिषु भाषितम् | त्रिकभेदमशेषेण सारात्सारविभागशः || १ || अद्यापि न निवृत्तो मे संशयः परमेश्वर | किं रूपं तत्त्वतो देव शब्दराशिकलात्मकम् || २ || किं वा नवात्मभेदेन भैरवे भैरवाकृतौ | त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम् || ३ || नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधकम् | चक्रारूढमनच्कं वा किं वा शक्तिस्वरूपकम् || ४ || परापरायाः सकलमपरायाश्च वा पुनः | पराया यदि तद्वत्स्यात्परत्वं तद्विरुध्यते || ५ || नहि वर्णविभेदेन देहभेदेन वा भवेत् | परत्वं निष्कलत्वेन सकलत्वेन वा भवेत् || ६ || प्. ३) प्रसादं कुरु मे नाथ निःशेषं छिन्धि संशयम् |
SKयत्र यत्किंचित् यामलादिषु शिवशक्तिसंघट्टनात्महेतुषु शास्त्रेषु ब्रह्मविष्णुरुद्रभैरवाख्ययामलेषु तदाख्येषु आगमेषु यत्किंचित् भवन्मुखात् श्रुतं तदैक्योपपत्त्या श्रुतपूर्वमेवास्ति दर्पणप्रतिबिम्बितन्यायेन तदनतिरिक्तं तदतिरिक्तं वा आन्तरतश्चैक्यतया बाह्यतश्च त्रिकभेदनरशक्तिशिवात्मकतया वा इत्यनेनासाधारणतया साधारणतया च श्रुतं श्रुतपूर्वमेवास्ति | इदानीमपि मम संदेहो न निवर्तते | मम भैरवीस्वरूपेण मायादिशक्तिस्वरूपे तदाश्यानतया तत्स्वरूपतादात्म्यात् मम भैरवीति नाम गीयत इत्यर्थः | तस्या मम न संदेहनिवृत्तिः - इदानीमपि न मम त्वदैक्योपपत्तिः संजातेति भावः | स्वात्मभित्तिसंलग्नत्वेन तदुल्लासाद्विश्वभत्रीं विश्वमयत्वेनैव सर्वत्र स्फुरणात्तद्धियमाणा वा संसारभीरूणामभयप्रदत्वेन हितकर्त्री भिया संसारत्रासेन रवतां जनितपरामर्शरूपाक्रन्दवतां हृद्भूमौ स्फुरन्ती वा इत्यादि निरुक्तनिर्दिष्टार्था भैरवी इत्युच्यते | तदेतत्सर्वम् प्रश्नोत्तरतत्त्वनिर्णयं भैरवीभैरवयोः सामरस्यात्मसंघट्टयामलस्वरूपप्रतिपादनं च तन्त्रालोकपरात्रिंशिकादौ वितत्य प्रोक्तं नास्माभिरिह वितन्यते रहस्यतस्करताप्रसङ्गात् | प्रकृतमनुसरामः - तस्य चानुत्तररूपस्य किं रूपं तत्त्वतः सत्यतः तदेव वदेति भावः | तत्र किं शब्दराशिकलात्मकं शब्दब्रह्मात्मकं शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति | इति | अथ वा अकारादि-क्षकारान्तशब्दतया अहमिति स्वरूपतया च वा अ क्ष इत्यात्मतया चेति किं वा नवतत्त्वात्मतया नववामादिशक्तिस्वरूपतया च भैरवे सच्चिदानन्दलक्षणपूर्णाहं- प्. ४)
SKभावस्वरूपभूते भैरवाकृतौ पञ्चकृत्यस्वभावभूते चित्तत्त्वे वा नरशक्तिशिवात्मना त्रिशिरोभेदभिन्नं वा तत् तत्त्वं मातृमानमेयादिव्यापारत्रयात्मना वा इच्छादिशक्तित्रयव्यापारात्मना च वा नादबिन्दुमयेन शिवशक्त्यात्मकशब्दप्रत्ययरूपज्ञानक्रियाशक्त्यात्मना वा प्रणवाङ्गामाख्यार्धचन्द्रनिरोधात्मकव्यापारेण वा षट्पत्रादिचक्रस्थितं किंचित्तत्त्वं कुण्डलिन्याकृतिसार्धत्रिवलयस्फुरितं वा अकारादिक्षकारान्तचक्रारूढस्वभावम् अहमिति स्फुरणं वा अनच्कम् अकारादिषोडशस्वरराहित्येन ककारादिक्षकारान्तरूपं क् ख् ग् घ् ङ् इत्यादि स्वरूपं वा अथ च ॐ नमः श्रीविद्यापादुकाभ्यः इत्येवं स्वरव्यञ्जनसंयुक्तं रूपम् उच्चारवर्जितं निष्कलं रूपम् अ उ म् न् अ मः ᳚ र् ई व् इ द् य् आ प् आ द् उ क् आ भ् यः इत्येवं रूपं वा तत् सर्वं वद वा पराया वाचः स्वरूपं वा अपराया वाचः स्वरूपं वा परापराया वाचः स्वरूपमस्ति ? स्वातन्त्र्यशक्तिरेव हि परा सैव क्रमं स्रष्टुमिच्छन्ती अपरा सैव च क्रमरूपा सती परापरेति कथिता | तथा च तन्त्रालोके स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः | तदेव देवीत्रयमन्तरास्ता- मनुत्तरं मे प्रथयत्स्वरूपम् || इत्यादिना | इत्येवमपरायाः वा परापरायाश्च स्वरूपस्य तादात्म्यात् पराया अपि यदि तद्वदेव स्यात् परत्वं तदिविरुध्येत | परापरापराभेदयोर्भेदोपपत्त्यां तत्राभेदस्वभावात् तत् परत्वं परास्वरूपे विरुध्येतेति तथा परापरापरास्वरूपयोर्हि सकलमेव वेद्यराशिपतितं विरुध्येत परायामिति भावः | अत्र परायां तदभे- प्. ५)
SKओद्पपादनादिति विरुद्धमेतत् न च ब्राह्मणक्षत्रियवैश्यशूद्रादिभेदेन न च देहभेदेन वा न च सुरनरतिर्यगादीनां नानाशरीररचनया तत्परत्वं निष्कलत्वेन सकलत्वेन वा भवेत् ? - इत्येवं वाक्कायमनसामेकीभावनया मम प्रसादं कुरु प्रसाददृष्टिं ददस्व किमिदं किमिदमित्यादिभावनया सर्वं विहाय एककोटिस्पर्शनात् परौन्मुख्यत्यागात् प्रमेयपरिहारात् वा प्रमातृतत्त्वाहंभावनया वा यत्किंचित् प्रमातृतत्त्वं तदेवोपपादयेति भावः | यच्च मम हृदि संशयः किमयम् किमयम् किमिदं किं वा इदम् किमन्यथा इत्यादि भेददशापन्ने निर्णयं वद - एकमेव यत् प्रमातृतत्त्वं स्वप्रकाशं तदेव मे दर्शय येन दर्पणप्रतिबिम्बितन्यायेन स्वात्मनि सर्वस्यास्यानतिरिक्तताप्रसङ्गात् अभेदोपपत्त्या अहमिति स्वरूपविश्रान्तेः सर्वमिदं मत्स्वरूपमिति निर्णयः स्यात् | प्रकर्षेणासादनं प्रसादः भेदापसरणेनाभेदोपपत्त्या स्वात्मैक्यताप्रतिपादनयुक्तिं विरचयेति तात्पर्यम् || १-६ || तदेवं स्वाभिन्नस्वसंविद्भैरवीरूपेणानुयुक्तस्य तत्त्वविषयागमस्य निर्णायकपदस्थः स्वयं परमेश्वरः सिद्धान्तोपदेष्टा भैरव उवाच इत्यादिना तत्र भैरवशब्दार्थस्तदभिन्नस्वरूपत्वेन निर्दिष्टभैरवीशब्दे प्राङ्निर्वाहितः अथ च भैर्भीमादिभिरवति इति भैरवः अहमिति स्फुरणात् इदन्ताया विनाशात् आश्यानस्येव हिमघृतादेरिति भावः | उवाचेति स्वाभिन्नस्वरूपां संविच्छक्तिमभिमुखीकृत्य प्रतिशृणोति | साधु साधु त्वया पृष्टं तन्त्रसारमिदं प्रिये || ७ || प्. ६) गूहनीयतमं भद्रे तथापि कथयामि ते | यत्किंचित्सकलं रूपं भैरवस्य प्रकीर्तितम् || ८ || तदसारतया देवि विज्ञेयमिन्द्रजालवत् | मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम् || ९ || ध्यानार्थं भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम् | केवलं वर्णितं पुंसां विकल्पनिहतात्मनाम् || १० || तत्त्वतो न नवात्मासौ शब्दराशिर्न भैरवः | न चापि त्रिशिरा देवो न च शक्तित्रयात्मकः || ११ ||
SKनादबिन्दुमयो वापि न चन्दार्धनिरोधकः | न चक्रक्रमसंभिन्नो न च शक्तिस्वरूपकः || १२ || अप्रबुद्धमतीनां हि चैता बालविभीषिकाः | मातृमोदकवत्सर्वं प्रवृत्त्यर्थमुदाहृतम् || १३ || दिक्कालकलनातीता देशोद्देशाविशेषिणी | व्यपदेष्टुमशक्या सा न कथ्या परमार्थतः || १४ || अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा | यावस्था भरिताकारा भैरवी भैरवात्मनः || १५ || तद्वपुस्तत्त्वतो ज्ञेयं विमलं विश्वपूरणम् | एवंविधे परे तत्त्वे कः पूज्यः कश्च तृप्यति || १६ || प्. ७) एवंइधा भैरवस्य यावस्था परिगीयते | सा परापररूपेण परा देवी प्रकीर्तिता || १७ || शक्तिशक्तिमतोर्यस्मादभेदः सर्वदा स्थितः | अतस्तद्धर्मधर्मित्वात्परा शक्तिः परात्मनः || १८ || न वह्नेर्दाहिका शक्तिर्व्यतिरिक्ता विभाव्यते | केवलं ज्ञानसत्तायां प्रारम्भोऽयं प्रवेशने || १९ || शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना | तदासौ शिवरूपी स्याच्छैवी मुखमिहोच्यते || २० || यथालोकेन दीपस्य किरणैर्भास्करस्य वा | ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवस्य च || २१ || हे देवि यत् त्वया पृष्टं तत् साधु साधु परमेष्टत्वात् पुनरुक्त्या साधु साधु निर्देशः यत् त्वया तन्त्राणां निश्चयानां सारं पृष्टं तत् त्वया गूहनीयं स्वात्मनि अभेदेन ध्यातव्यमिति भावः न तु वाचा वैखर्यादिना ततोऽपि अहमपि वदामि नान्यथा | यच्च भैरवस्य द्वैविध्येन सकलं निष्कलं च रूपं प्रसिद्धमेतत्सकलं जगद्रूपं नीलानीलघटादिनानावैचित्र्येण तत् सर्वं गन्धर्वनगरवदिन्द्रजालतुल्यमिति शेषः - भुक्त्वा पीत्वा सुखमहमस्वाप्समित्यत्र स्वप्नोपमदृष्टतुल्यं गन्धर्वनगरतुल्यं चेति - तथा अप्रबुद्धमतीनां भ्रान्तमतीनां कर्मप्रधानफलाभिसन्धिवर्तिनां स्थूलध्यानयोगार्थम् अहं विष्णुं यजामि अहं गणपतिं यजामीति स पुत्रं दास्यति प्. ८)
SKमह्यम् इति विकल्पनिहतात्मनां पुंसां वर्णितम् | तत्त्वतो न नवात्मासौ - नवतत्त्वस्वरूपः न वा वामादिनवशक्तिस्वरूपः न चापि नरशक्तिशिवात्मा न वा इच्छाज्ञानक्रियाशक्तित्रयात्मा च न च शिवशक्तिस्वरूपः नादः शक्तिः बिन्दुश्च शिव इति शब्दप्रत्ययरूपं ज्ञानक्रियात्मकं वा न च अमाख्यार्धचन्द्रनिरोधात्मकं च प्रणवस्य न च षट्चक्रादिभेदगं कुण्डलिन्यादिरूपेण वा - अकारादिक्षकारान्तवर्णचक्रग-अहमिति स्वरूपं न वा कुण्डलिन्यादिशक्तिस्वरूपभाक् - परं तु मूढमतीनाम् एता बालविभीषिकाः अभिनिवेशादिप्रशमाय बालो हि विभीषिकाभिर्लाल्यत एव स्वमात्रा अथ चौषधादिभक्षणार्थं स्वमात्रा मोदकं वा शर्करां दास्यामीति लाल्यते | एवं सा परावस्था दिक्षु कालेषु भूतादिषु कलनातीता या आसीत् सास्ति भविष्यति चेति दूरासन्नादिनानात्वेन अविशेषिणी उपदेष्टुमशक्यापि तव उपदिशामिति शेषः | पूर्णाहन्ता स्वप्रकाशैकस्वरूपा निर्विकल्पपरमार्था च पूर्णस्वरूपस्य भैरवस्य या भरिताकारावस्था अहमिति विश्रान्तिमयी तदेव भैरवं वपुर्विज्ञेयमिति भावः | एवमस्मिन् भैरवे तत्त्वे कः पूज्यः को वा तृप्तः वा तृप्यति | एवमनेन रूपेण परावस्था भैरवस्य प्रकीर्तिता | यतश्चानयोः शक्तिशक्तिमतोरभेदस्तस्मात् इयं परा शक्तिरिति कथ्यते | अत्र च दृष्टान्तोऽपि - यथा वह्नेर्दाहिका शक्तिर्न भिन्ना तथेयं शक्तिरपि परा इति एतन्मुखेन भैरवसांमुख्यं स्यादिति भावः | पुनरपि च दृष्टान्तोऽत्र - यथा हि वक्त्रेणैव अयमिति लभ्यते तथा शक्त्यैव शिवोऽयमिति व्यपदेशः | अपरोऽपि च दृष्टान्तः - यथा दीपप्रकाशेन वा सूर्यालोकेन च दिग्विभागादि ज्ञायत एव एवं शक्त्या शिवावभसनमिति सिद्धम् || ७-२१ || प्. ९) श्रीभैरवी उवाच देवदेव त्रिशूलाङ्क कपालकृतभूषण | दिग्देशकालशून्या च व्यपदेशविवर्जिता || या शक्तिर्भरिताकारा भैरवस्योपलभ्यते | कैरुपायैर्मुखं तस्याः परा देवी कथं भवेत् || यथा सम्यगहं वेद्मि तथा ब्रूहि मम प्रभो ||
SKइच्छाज्ञानक्रियात्मशक्तित्रय-भरितस्वरूपसत्तया उपलक्षित ? विश्वस्य च संहारेण स्वात्मनि तत्स्थित्या अस्थिशेषतया विश्वस्य धारणं कपालपाणित्वं सिद्धमीश्वरस्य | दिक्षु दशसु देशे काले भूतादौ शून्या तदविभागा परेति नाम्ना लक्ष्यते तन्मुखं तद्दर्शनं च केनोपायेन भवेदिति शेषः | यथा चाहं त्वत्स्वरूपतया भवामि त्वदभेदोपपत्तेः तथैव मे ब्रूहि - तत्रैव प्रवेशय इति भावः || श्रीभैरव उवाच ऊर्ध्वे प्राणो ह्यधो जीवो विसर्गात्मा परोच्चरेत् | उत्पत्तिद्वितयस्थाने भरणाद्भरितस्थितिः || २४ || ऊर्ध्वे द्वादशान्ते प्राणः प्राणनरूपः जीवनाख्यः चित्तवृत्तिविशेषः संस्थाप्यः अधश्च - हृदि हृदयस्थाने जीवोऽपानः - जीव्यतेऽनेन इति जीवः भक्षणपानादेरधोमार्गप्रसरणात् जीव इति उच्यते तदुपाधिवान् अत एव जीव इति विसर्गात्मा अन्तर्बहिर्भावकरणरूप आत्मा यस्य तेनापि परैव उच्चारमायाति अहमैति अन्तश्चकारूढा एतयोर्द्वयोर्विभेदापत्त्या अहमिति प्रकाशनात् प्. १०) उत्पत्तौ द्वादशान्ते द्वितीये हृदि च धारणात् | तत्र स्थित्या भरितस्थितिः स्यादेव इति सर्वोपाधिविस्मरणात् अहमिति विमर्शवान् स्यात् इति संबन्धः | इति प्रथमा धारणा || २४ || अथ द्वितीयामाह मरुतोऽन्तर्बहिर्वापि वियद्युग्मानुवर्तनात् [युग्मानिवर्तनात् भैरव्या भैरवस्य इति च पाठः] | भैरवं भैरवस्येत्थं भैरवि व्यज्यते वपुः || २५ || प्राणापानरूपस्य मरुतोऽन्तर्बहिर्वियद्युग्मे द्वादशान्ते हृदये चातुवर्तनात् - अनुन्मेषनिमेषणात् | हे भैरवि ? भैरवस्य परमात्मनः वपुः शरीरं स्वरूपं व्यज्यते प्रकाशत एव || २५ || तृतीयां धारणामाह न व्रजेन्न विशेच्छक्तिर्मरुद्रूपा विकासते [विकासिते भैरवरूपता इति च पाठः] | निर्विकल्पतया मध्ये तया भैरवरूपधृत् || २६ ||
SKहृदि यः प्राणः स तु न व्रजेत् तत्स्थानात् नापि विशेत् यत्रैवास्ति निर्विकल्परूपस्तत्रैवास्तु अस्पन्दात्मा | एवमेव द्वादशान्तेऽपि स्पन्दास्पन्दराहित्येन निर्विकल्पसमाधौ तन्मध्ये भैरवरूपाभिव्यक्तिः || २६ || चतुर्थी धारणां निरूपयति कुम्भिता रेचिता वापि पूरिता वा यदा भवेत् | तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते || २७ || प्. ११) शास्त्रमार्गानुसारेण कुम्भकं रेचकं वा पूरकं विधाय तत्तदभ्यासपरिशीलनेन च चक्रभ्रमिवत् शान्तवेगानुभवेन प्रकाशमात्रावस्थोदये परापरस्वभावः प्रकाशत एव | तथा च तिष्ठति संस्कारवशात् चक्रभ्रमिरिव धृतशरीर इत्यन्तेन प्रकाशः प्रकाशत एव | प्रत्यभिज्ञायां चैतत्प्रपञ्चितम् इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता | या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् || इत्यादिना || २७ || इदानीं पञ्चमीमाह आ मूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकाम् | चिन्तयेत्तां द्विषट्कान्ते शाम्यन्तीं भैरवोदयः || २८ || आ मूलात् हृदयात् किरणैर्भासमानां चन्द्रार्कबिम्बवत् भासनस्वभावां क्रमात् क्रमं तनुतां तनुतां श्रयन्तीं च अत एव च सूक्ष्मात् सूक्ष्मतरां नामरूपातीतां द्विषट्कान्ते द्वादशान्ते संचिन्त्य सुसूक्ष्मतमस्यापि ध्येयाकारस्य गलनात् भैरवरूपो भवेदिति शेषः तां च शाम्यन्तीं सतीं संत्यज्येति भावः || २८ || एतदेव दर्शयति षष्ठ्या उद्गच्छन्तीं तडिद्रूपां प्रतिचक्रं क्रमात्क्रमम् | ऊर्ध्वं मुष्टित्रयं यावत्तावदन्ते महोदयः || २९ || कन्दादिब्रह्मरन्ध्रान्तं क्रमात् क्रमेण उद्गच्छन्तीं तडिदाकारसंनिभां प्रोज्ज्वलद्रूपां तद्रूर्ध्वं च चतुरङ्गुलपरिमितां मुष्टिं यावद्- प्. १२) द्वादशान्तं तावदन्ते महोदयः मुष्टित्रयशेषेण महोदयः अहमित्यवमर्शः स्यादेवेति | तथा च श्रीभगवता गीतम् अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते | इत्यादिना | तथा च सर्वो ममायं विभव इत्येवं परिजानतः | विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता || इत्यादिना प्रत्यभिज्ञायामपि || २९ || सप्तमीमाह
SKक्रमद्वादशकं सम्यग्द्वादशाक्षरभेदितम् | स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वा ततः [मुक्त्वान्तत इति पाठः] शिवः || ३० || जन्माग्रमूलकन्दनाभिहृत्कण्ठतालुभ्रूमध्यललाटरन्ध्रशक्तिव्यापिन्या ख्यं यत् चक्राणां द्वादशकं द्वादशस्थाननामभिः प्रसिद्धं तच्च आदौ ध्यानेन स्फुटं ततश्च स्पन्दमानं ततोऽपि ज्योतीरूपतां प्राप्तं सूक्ष्मं परमित्यभिधीयते तदभिधानेन च सर्वजित्त्वात् सर्वत्रावभासकः शिव एव प्रकाशते परमार्थतः || ३० || इदानीमष्टमीमाह तथापूर्याशु [तयापूर्येति पाठः] मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना | निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः || ३१ || प्. १३) जन्मादिचक्रेभ्य ऊर्ध्वोर्ध्वक्रमेण प्राणेन मूर्धान्तं द्वादशान्तं पूरयित्वा उपारोहितयोर्भ्रुवोर्भङ्गेन सेतुनेव वारिप्रवाहं मनो भङ्क्त्वा त्यक्तचापलं विधाय अत एव निर्विकल्पं तन्मनः कृत्वा सर्वोर्ध्वे द्वादशान्तादपि चोर्ध्वे परमाकाशे सर्वव्यापकत्वं स्यादेव इति निश्चयः || ३१ || इदानीं नवमीमाह शिखिपक्षैश्चित्ररूपरिमण्डलैः शून्यपञ्चकम् | ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत् || ३२ || यथाहि शिखिपक्षैर्मयूरपुच्छैश्चित्ररूपैरनेकवर्णैरिव पञ्चेन्द्रियमण्डलानि चित्रवत् भासमानानि चित्रमेतत् शून्यमेव इति ध्यायतोऽनुत्तररूपे शून्ये परमधामनि प्रवेशः परमा गतिः स्यादिति निश्चयः | गन्धर्वनगरतुल्यं चित्रमिवेदम् इति निश्चयेन परमार्थसिद्धिः स्यादेवेति भावः || ३२ || इदानीं दशमीमाह ईदृशेन क्रमेणैव यत्र यत्रापि चिन्तयेत् [चिन्तना इति पाठः] | शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा || ३३ || एवं क्रमेण ध्यायतः परे स्वात्मनि वा अन्यत्र कुड्यादौ वा परपात्रे च एकाग्रभावनादार्ढ्यावाप्तौ मरुच्छक्तिः स्वयं लीना स्यात् - यत्र तत्र परपदपरामर्शैक्यभावेन अहंरूपतादात्म्यताभिमानः स्यादित्यर्थः | तथा च श्रीस्पन्दे प्. १४) यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ||
SKतेन शब्दार्थचिन्तासु न सावस्था न या शिवः | भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः || इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् | संपश्यन्सततं युक्तो जीवन्मुक्तो न संशयः || इत्यादिना निरूपितम् || ३३ || एकादशीमाह कपालान्तर्मनो न्यस्य तिष्ठेन्मीलितलोचनः [तिष्ठन्मीलितेति पाठः] | क्रमेण मनसो दार्ढ्याल्लक्षयेल्लक्ष्यमुत्तमम् || ३४ || कपालकुहरान्तः - शिरःकवाटमध्ये मीलितलोचनोऽन्तःसंकुचितहृदयादिबाह्यान्तरिन्द्रियवर्गः सुषुम्नायामस्तङ्गतप्राणापानादिचारेण तद्दार्ढ्यात् यत् लक्ष्यमस्ति तदेव लक्षयेत् घटोऽयमितिवत् प्रत्यक्षत उत्तमं ज्योतिः पश्यतीत्यर्थः || ३४ || द्वादशीमाह मध्यनाडी मध्यसंस्था बिससूत्राभरूपया | ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते || ३५ || बिसतन्तुतनीयसी इति लक्षिताया ध्यातमन्तर्व्योम यस्यास्तादृश्या भैरव्याः शून्यं रूपं ध्यातं सत् दृष्टिमात्रतो देवः स्वयंप्रकाशः प्रकाशत इति भावः | स्पन्दे च प्. १५) तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे | सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः || इत्यादिना वितत्य दर्शितम् || ३५ || त्रयोदशीमाह कररुद्धदृगस्त्रेण भ्रूभेदाद्द्वाररोधनात् | दृष्टे बिन्दौ क्रमाल्लीने तन्मध्ये परमा स्थितिः || ३६ || कराभ्यां रुद्धानि दृगुपलक्षितानि मुखरन्ध्राणि येन एतादृशस्य योगिनो भ्रूमध्यग्रन्थिविदारणात् बिन्दौ दृष्टे क्रमात् एकाग्रताप्रकर्षेण लीने तन्मध्ये परमा स्थितिः - परभैरवाभिव्यक्तिः स्यादित्यर्थः || ३६ || चतुर्दशीमाह धामान्तःक्षोभसंभूतसूक्ष्माग्नितिलकाकृतिम् | बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः || ३७ ||
SKधाम्नो लोचनवर्तिनस्तेजसोऽन्तःक्षोभेण अत्यन्तनिष्पीडनादिना संभूतं | यद्वा धाम्नो दीपादेस्तेजोमयस्यान्ते निर्वाणताप्राप्तिसमये यः क्षोभश्चाञ्चल्यं ततः संभूतं सूक्ष्माग्नितिलकाकृतिं बिन्दुं ध्यायतः शिखान्ते द्वादशान्ते हृदये गलितलयान्तरे लयः तदैक्योपपत्तिर्भवेत् | गलिते विकल्पे तदवसाने च परमतेजस्तत्त्वसमावेशः स्यादित्यर्थः || ३८ || प्. १६) पञ्चदशीमाह अनाहतेऽपात्रकर्णेऽभग्नशब्दे सरिद्द्रुते | शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति || ३८ || यत् दशधोपलक्षितं शब्दब्रह्म तत्रनिष्ठत्वेन परं ब्रह्मावाप्तिः | शब्दे कथंभूते न वहिः प्रसरणरूपैर्नीलादिभिराहते व्याप्ते अत एव च न पात्रे कर्णौ यस्येति स्थूलशब्दादिव्यतिरिक्तत्वात् अतश्च अभग्नशब्दे न भग्नः शब्दो यस्य अनाहते शब्दे नादभट्टारकशब्दब्रह्मरूपे सरिद्द्रुते च वेगवाहिनि तत्र च दृढनिष्ठः सन् ब्रह्मत्वमाप्नुयादिति भावः || ३८ || षोडशीं धारणामाह प्रणवादिसमुच्चारात्प्लुतान्ते शून्यभावनात् | शून्यया परया शक्त्या शून्यतामेति भैरवि || ३९ || प्रणवादीनां लघूच्चारात् तदनन्तरं च दीर्घोच्चारात् तदनन्तरं प्लुतोच्चाराच्च कुक्कुटरुतवत् व्याप्तेः तदनन्तरं विजित्य तां शून्यावस्थालम्बनेन शून्यातिशून्योच्चारेण शून्यतामुल्लङ्घ्य अन्तर्मुखताभ्यासात् परमा गतिः करबिल्ववत् संभाव्या नान्यथा || ३९ || सप्तदशीमाह यस्य कस्यापि वर्णस्य पूर्वान्तावनुभावयेत् | शून्यया शून्यभूतोऽसौ शून्याकारः पुमान्भवेत् || ४० || प्. १७) पूर्वं शिक्षा ततस्तदनुभवः ततोऽपि गुरुप्रसादादिना तदन्ते तन्निश्चयः ततोऽन्तर्नाडीचक्रादिपरीक्षा ततश्च शून्यातिशून्ययोजनया ओमिति निश्चित्य तं च परब्रह्मणि ततश्च शून्यातिशून्यतामेति - सर्वमिदं गन्धर्वनगरादितुल्यवृत्तान्तं यदन्यत् तद्ब्रह्म इति बुद्ध्या अतिरिच्यते || ४० || अष्टादशीमाह तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः | अनन्यचेताः प्रत्यन्ते परव्योमवपुर्भवेत् || ४१ ||
SKशब्दानुरणनन्यायेन पानकचर्वणन्यायेन च पश्चात् अनुभाव्य किमिदं किमत्र प्रयोजनं वा दे-व-द-ता इति प्रहरप्रहरोच्चारिता वर्णा नानुभवमधिरोहन्ति पश्चात् देवदत्त इति सामीप्यतया उच्चारात् अस्ति किंचिदिति तत्पश्चात् ज्ञानान्तरात् ज्ञानस्य संभवेन देवदत्तो नाम कश्चित् ब्राह्मण इति तदनन्तरं च पौर्वः पाश्चात्यः दाक्षिणः औत्तरो वा इति तदनन्तरं वेदाध्ययनशीलः तदनन्तरमयं वामनदत्तपुत्रः तदनन्तरं च सुखदत्तभ्राता तदनन्तरं च पृथूदर्याः पुत्रः इति जातिनामादियुक्ततया उपलभ्यत एव | तद्वत् तन्त्र्यादिवाद्यभूतेषु क्रमेषु अनन्यचेताः लयत्व- brahmaiva bhavati - paravyomatanuḥ syāditi bhāvaḥ śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati iti prāguktadiśā | atha vā śabdabrahmātivartate iti || 41 || p. 18) idānīmekonaviṃśīmāha piṇḍamantrasya sarvasya sthūlavarṇakrameṇa tu | ardhendubindunādāntaśūnyoccārādbhavecchivaḥ || 42 || pūrvoktanavātmādeḥ vāmādiśaktyādinā vā navatattvādeḥ akārādi- पाश्चात्यरूपमेव निश्चयेन निश्चित्य पर्यवसानेन शून्योच्चारात् शिवो भवेदिति भावः || ४२ || इदानीं विंशतितमीं धारणामाह निजदेहे सर्वदिक्कं युगपद्भावयेद्वियत् | निर्विकल्पमनास्तस्य वियत्सर्वं प्रवर्तते || ४३ || यदि निर्विकल्पमना एकाग्रमनाः स्यात् सर्वासु पूर्वादिदिक्षु वियदेव भावयन् - सर्वत एव शून्यतां भावयन् न नीलपीतादिकं किमप्यस्तीति शुक्ताविदं रजतम् इतिवत् अविषयम् इत्येवं भावनया परमशून्यः स्यादिति यतस्तस्य शून्यादिविकल्प एव | तथा च प्रत्यभिज्ञायामेतन्निर्दिष्टमस्ति चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः | देहे बुद्धावयः प्राणे कल्पिते नभसीव वा || प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात् | विकल्प एव स परप्रतियोग्यवभासजः || प्. १९) इत्यादिना यत्परं शून्यातिशून्यं शिवतत्त्वं तदेव ज्ञेयमिति भावः | यतश्च तत्रैव
SKशून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः | तेषां कार्ममलोऽप्यस्ति मायीयस्तु विकल्पितः || इति निर्धारितम् || ४३ || इदानीमपरां धारणामाह पृष्ठशून्यं मूलशून्यं युगपद्भावयेच्च यः | युगपन्निर्विकल्पत्वान्निर्विकल्पोदयस्ततः || ४४ || [पृष्ठशून्यं मूलशून्यं युगपद्भावयेश यः | शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत् || पृष्ठशून्यं मूलशून्यं हृच्छून्यं भावयेत्स्थिरम् | युगपन्निर्विकल्पत्वान्निर्विकल्पोदयस्ततः || इत्यादिपाठः पद्यद्वयात्मा उद्योते मूलेऽस्ति | अनुमीयते च यदेतन्मध्यमं पादचतुष्टयं श्रीशिवोपाध्यायेर्व्याख्यातं च पुनरुक्ततयाधिकं संभवति अत एवास्मिन्पुस्तके वस्तुतोऽविद्यमानं स्यादिति | ] ऊर्ध्वाधो दक्षिणतोत्तरतः सर्वतोऽपि शून्यमेव ध्यात्वा सर्वं खल्विदं ब्रह्म | इति भावनया विचिन्त्य शिवतत्त्वं करस्थविल्ववत् आभाति इति नाश्चर्यम् || ४४ || अपरामाह तनूदेशे शून्यतैव क्षणमात्रं विभावयेत् | निर्विकल्पे निर्विकल्पो निर्विकल्पस्वरूपभाक् [निर्विकल्पं निर्विकल्पो निर्विकल्पे वा इति पाठः] || ४५ || प्. २०) शिवतत्त्वं विना न किमपि सर्वमेतत् चिद्विलासास्पदमाश्यानतया चित्रितमिव विभाति | तथा च सिद्धान्तमुक्तावल्यां पश्यामि चित्रमिव सर्वमिदं द्वितीयं तिष्ठामि निष्कलवदेक अनेकरूपः | आत्मानमद्वयमनन्तसुखैकरूपं स्मरामि दग्धरशनामिव सुप्रपञ्चम् || आश्चर्यमप्यनुभवामि करस्थबिल्व- तुल्यं शरीरमहिनिर्लुयनीव वीक्षे | एवं च जीवनमपि प्रतिभासनं च निःश्रेयसोऽधिगमनं च मम प्रसिद्धम् || इत्यादिना आम्नातमस्ति | इत्येवं गन्धर्वनगरादिवत् प्रसिद्धमप्रतिष्ठितम् इति सिद्धम् || ४५ || अपरामपि आह सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे | विभावयेत्ततस्तस्य भावना सा स्थिरा भवे || ४६ ||
SKशून्यव्याप्तं सर्वमिदं रज्जुभुजङ्गवत् असत्यस्वरूपसाध्यत्वाद्वा गन्धर्वनगरादिवत् इत्येवं धारणया यत् देहगतं मांसादि द्रव्यं तत् शून्यतया प्रसिद्धम् इति दृढभावनास्थित्या प्रकाशमानप्रकाशः स्यादित्यर्थः || ४६ || प्. २१) अपरमाहा देहान्तरे दिग्विभागं भित्तिमात्रं विचिन्तयेत् | न किंचिदन्तरे तस्य ध्यायन्न ध्येयभाग्भवेत् || ४७ || पञ्चभूतपञ्चीकरणयुक्त्या संबद्धं सत् शरीरमुद्भूतं यच्च स्थूलं विनश्यत्स्वभावं करिकर्णाग्रचपलं च इति नात्र स्थिरता आसीत् अस्ति स्याद्वा इति तथा दिग्विभागादि नास्ति बाह्यजहभित्तिमात्रमिदं दक्षिणपार्श्वम् इदं वोत्तरम् इत्यादिना तस्मात् असदिति समीक्षयेत् | प्रमाता च सदिति सन्निश्चयेन ज्ञानीत्युच्यते || ४७ || अपरामाह हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः | अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् || ४८ || हृत्पद्मे बद्धबाह्याभ्यन्तरेन्द्रियचक्रः तत्पद्मपुटमध्यगश्च अत एवानन्यचेताः परं सौभाग्यमाप्नुयात् - बाह्यविषयोपरमात् आभ्यन्तरोदयः संभवेदित्यर्थः || ४८ || अपरामाह सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात् | दृढबुद्धेर्दृढीभूतं तत्त्वलक्ष्यं प्रवर्तते [त्वग्विभागं भित्तिभूतमिति ध्यायनध्येय इति च पाठः] || ४९ || प्. २२) दृढबुद्धेर्योगिनः दृढीभूतं प्राप्तैकाग्र्यं परप्रकाशरूपं तत्त्वलक्ष्यं प्रवर्तते द्वादशान्ते शून्यातिशून्ये मनसो लयात् वासनाक्षयात् | अथ वा मध्यधाम्नि सुषुम्नायां | तथा च सौषुम्नेऽध्वन्यस्तमितौ हित्वा ब्रह्माण्डगोचरम् इत्यादिना स्पन्दे विशदीकृतम् || ४९ || अपरामाह यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् | प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् || ५० || एवमेव पूर्वोक्तेन प्रकारेण प्रशान्तचाञ्चल्यस्य असामान्यपरभैरवताभिव्यक्तिः स्यादेवेत्यर्थः || ५० || अपरामाह कालाग्निना कालपुरादुत्थितेन स्वकं पुरम् | प्लुष्टं विचिन्तयेदन्ते शान्ताभासः प्रजायते [कालपदादिति शान्ताभासस्तदा भवेदिति च पाठः] || ५१ ||
SKदक्षपादाङ्गुष्ठात् उत्थितेन कालाग्निना देहं दग्धं योगतो विभाव्य योगिनः चिन्मयमूर्तिमान् विभावसुः प्रकाशत इत्यर्थः || ५१ || पपरामाह एवमेव जगत्सर्वं दग्धं ध्यात्वा विकल्पतः | अनन्यचेतसः पुंसः पुंभावः परमो भवेत् || ५२ || प्. २३) एवमेवेति दक्षपादाङ्गुष्ठोद्भवकालाग्निरुद्रज्वालया सर्वं देहस्थं बाह्याभ्यन्तरं दग्धं विभाव्य निर्विकल्पचेतसः पुरुषार्थत्वं परोत्कृष्टतया भवेदिति शेषः || ५२ || अपरामाह स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मान्तराणि च | तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा || ५३ || पृथिव्यादीनि पञ्चभूतानि तद्विकाराणि मांसास्थ्यादीनि यानि च सन्ति तेषां लयं - स्वस्वकारणेषु लीनतां ध्यात्वा पर्यन्ते परा देवी प्रकटा स्यात् मयूराण्डरसन्यायेन परा सर्वमेतदन्तः स्थित-मेव बहिः प्रकाशयेदिति भावः | अयमत्र तात्पर्यार्थः - सर्वभेदाभेदगलनात् पराप्रसादमन्त्रवान् परोदयः स्यादेवेति || ५३ || अपरामाह पीनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे | प्रविश्य हृदये ध्यायन्मुक्तःस्वातन्त्र्यमाप्नुयात् || ५४ || प्राणशक्तिमादौ पीनाम् - अन्नपानादिभोजनदिशा पीनत्वं प्राप्तां ततोऽपि गुरूपदेशमार्गेण कुम्भकादिना सूक्ष्मां भवन्तीं ध्यात्वा ततस्तामेव हृदयादौ प्रावेश्य द्वादशान्ते वा ततः स्वतन्त्रपरमेश्वररूपः स्यादिति निश्चयः || ५४ || प्. २४) अपरामाह भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम् | स्थूलसूक्ष्मपरस्थित्या यावदन्ते मनोलयः || ५५ || भुवनतत्त्वकलापदमन्त्रवर्णाख्यो यः षोढा वाच्यवाचकरूपोऽध्वा तस्याध्वनः स्थूलसूक्ष्मिक्यरूपताभ्यसनात् ततस्तन्त्रैव मनोलयात् पराकाष्ठावगतिरिति भावः | तथा च मालिनीविजये अध्वातीतो भवेच्छिवः इत्यादिनानुशिष्टमस्ति || ५५ || अपरामाहा अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः | अध्वप्रक्रियया तत्त्वं ध्यात्वा शैवं महोदयः || ५६ ||
SKअध्वषट्केषु भुवनाध्वपर्यन्तेषु सामान्यतया विशेषतया वा न किमपि शिवतत्त्वं विना सारभूतम् इति विज्ञाय महोदयः - परमशिवावभासः स्यादित्यर्थः | एतदेव अध्वषट्कादि संत्यज्य जित्वा चेन्द्रियमण्डलम् | कारणैः कृतकृत्योऽसौ राजते सूर्यवद्भुवि || इत्यादिना मालिनीकल्पोत्तरेऽप्यादिष्टमस्ति || ५६ || अपरामाह विश्वमेतन्महादेवि शून्यभूतं विचिन्तयेत् | तत्रैव च मनो लीनं ततस्तल्लयभाजनम् || ५७ || प्. २५) एतत् सर्वं विश्वं चराचरभूतं न किञ्चित् गन्धर्वनगरादितुल्यम् अध्यासात्मकम् असदित्याद्याख्यं नामरूपादिहीनं मायागहनं च यदस्ति तत् स्वप्रकाशात्मकं सदिति लक्षितं च सारं लयभाजनं चेति भावः || ५७ || अपरामाह घटादिभाजने दृष्टिं भित्तिस्त्यक्त्वा विनिक्षिपेत् | तल्लयं तत्क्षणाद्गत्वा तल्लयात्तन्मयो भवेत् || ५८ || अन्तःसुषिरे घटादिवस्तुनि दक्षिणोत्तरपार्श्वादि त्यक्त्वा तत्र आकाशे विश्रान्तत्वात् परमशून्यातिशून्ये मनो लीनं विभाव्य परंब्रह्मसमाविष्टः सन् ब्रह्मैव संपद्यत इति भावः || ५८ || अपरामाह निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत् | विलीने मानसे भावे वृत्तिक्षीणः प्रजायते || ५९ || पर्वतादौ शून्ये मरुद्देशादौ वा तुङ्गादिविषयादौ वा दृष्टिमात्रं निक्षिप्य तत्तदालम्भनाभावात् गलिते मानसे क्षीणसमस्तवृत्तिः प्रजायते - aparāmāha ubhayorbhāvayorjñāne jñātvā madhyaṃ samāśrayet | yugapacca dvayaṃ tyaktvā madhye tattvaṃ prakāśate || 60 || ghaṭo'yaṃ paṭo'yaṃ taṭo'yamityādinānātvena vedyarāśipatitasya sāraṃ vihāya vā tanmadhye ca jñātṛtvāvagamanaṃ kṛtvā atra kaścit p. 26) vedako'stīti tena ca jñātṛjñānajñeyādinānātvena anānātvaṃ vidhāya vibhāgakalpanātyāgāt aikāgryameva pramātṛtattvākhyaṃ tattvamasi iti vat nirvikalpadaśāmāsādya vibhāgatyāgāt aikāgryatāpattiriti suṣṭhu proktamiti || 60 || athāparāmapi āha
SKभावे त्यक्ते [भावे न्यक्ते इति पाठः न्यक्ते अन्तर्हिते इत्यर्थः] निरुद्धा चिन्नैव भावान्तरं व्रजेत् | तदा तन्मध्यभावेन विकसत्यति भावना || ६१ || एकस्मिन् वस्तुनि स्वीकृते निरुद्धा चित् नैव भावान्तरं व्रजेत् अन्यद्वस्तुनि न व्रजेत् तत्र तन्मध्ये शून्यरूपस्थित्या भावना अतिविकसति अद्भुतफुल्लन्यायेन मनश्चातिविकासत्वं यायात् - ब्रह्मैव संपद्यत इत्यर्थः || ६१ || अपरामाह सर्वं देहं चिन्मयं हि जगद्वा परिभावयेत् | युगप्न्निर्विकल्पेन मनसः परमा [मनसा परमोदय इति पाठः] गतिः || ६२ || आ पादात् केशान्तं चिद्रूपं सर्वमिदं जगत् परिभावयेत् अक्रमेण च स्फुरच्चिच्चमत्कारव्याप्त्या मनसो गतिः परमा उत्कर्षरूपा गतिरस्तीति तात्पर्यम् || ६२ || अपरामाह सर्वं जगत्स्वदेहं वा स्वानन्दभरितं स्मरेत् | युगपत्स्वामृतेनैव परानन्दमयो भवेत् || ६३ || प्. २७) आनन्दादेव खलु इमानि भूतानि जायन्ते आनन्दे प्रवर्तन्ते आनन्द एव प्रलीयन्त इति इत्थं दृष्ट्या कृतकृत्यो भवेदिति भावः || ६३ || अपरामाह आयुद्वयस्य संघट्टादन्तर्वा बहिरन्ततः | योगी समत्वविज्ञानसमुद्गमनभाजनम् || ६४ || प्राणापानरूपस्य योजनात् हृदये द्वादशान्ते चान्तःप्रवेशनिर्गमने पर्यवसाने योगी प्रबुद्धः समत्वविज्ञानेन समुद्गमनभाजनं रहस्यस्थानपर्यवसायिप्राणापानादिगोचरः स्यादिति भावः तेन च परमसिद्धिभाग्भवेदित्यर्थः || ६४ || अपरामाह कुहनेन प्रयोगेन सद्य एव मृगेक्षणे | समुदेति महानन्दो येन तत्त्वं प्रकाशते || ६५ || विस्मापकाद्भुतमायादिप्रयोगेन अद्भुतप्रयोगमयः परमानन्दोदयः स्यादिति भावः अहमेव परो हंसः इत्यादिकया युक्त्या पिपीलिकास्पर्शमात्रात् परमोदयव्याप्तिरिति शेषः || ६५ || अपरामाह सर्वस्रोतोनिरोधेन [स्रोतोनिबन्धेनेति पाठः] प्राणशक्त्योर्ध्वया शनैः | पिपीलस्पर्शवेलायां प्रथते परमं सुखम् || ६६ || प्. २८) पञ्चेन्द्रियगुह्योपस्थरन्ध्रनिरोधेन आधारात् द्वादशान्तं यावत् ऊर्ध्वं क्रमेण वहन्त्या प्राणशक्त्या
SKपिपीलिकास्पर्शमात्रात्प्रथते परमं सुखम् इत्येतद्भावनया अन्तर्मुखारामो भवतीत्यर्थः | द्वादशान्त आत्मविषयानुभवसमये पिपीलिकाया इव शनैः शनैः चरतः प्राणस्य यः मूलाधारादिस्थानसकाशात् कन्दादिस्थानपर्यन्तः स्पर्शः तद्वेलायां हि परीक्षन्ते योगिनः अमुतः स्थानात् उत्थाय अमुकस्थानं प्राप्तः प्राणः इति निश्चितमेव इत्येतादृगुक्तभावनयोद्दिष्टसुखसिद्धिरिति भावः || ६६ || अपरामाह वह्नेर्विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् | केवलं वायुपूर्णं वा स्मरानन्दे न [स्मरानन्देन इति तदनुसारेणार्थापितः समस्तः पाठः] युज्यते || ६७ || तद्धारणया सुखधारणया वह्नौ वा विषेऽपि कठिनतरे च सुखभावनयैव चित्तं क्षिपेत् प्राणस्य वा अपानस्य च मध्येऽपि कामानन्दे सर्वविषयविस्मारके न युज्यते कामधारणायां सर्वविषयविस्मरणात् अथ वा वायुपूर्णं केवलं प्राणायामवर्जितमपि तत्रापि भेदगलनेन अभेदापत्तिरिति भावः | यस्मात् दुःखे वह्निविपादौ सुखसंधारणमेव परमार्थ इति परमार्थविदः | स्त्रीसङ्गेन विना स्त्रिया य आनन्दानुभवः स एव परमार्थ इति कथ्यते || ६७ || अपरामाह शक्तिसंगमसंक्षुब्धशक्त्यावेशावसानिकम् | यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यमुच्यते || ६८ || प्. २९) स्त्रीसङ्गमेन य आनन्दोऽनुभूयते तमेव स्त्रियं विना ध्यात्वा आनन्दमयो भवेदित्याद्युक्तम् | उक्तं च जायया संपरिष्वक्तो न बाह्यं वेत्ति चान्तरम् | निदर्शनं श्रुतिं प्राह मूढस्तं मन्यते परम् || न सृष्टिर्जायते लिङ्गान्न भगान्नापि रेतसः | आनन्दोच्छलिता शक्तिः सृजत्यात्मानमात्मना || इत्याद्युक्तरीत्या स्त्रीसङ्गानन्दाविर्भूतानन्दशक्तिसमावेशान्ते यत् सुखं स्त्रीपुरुषादिपर्यालोचनं स्वात्ममात्रनिष्ठं तत् स्वकम् - आत्मन एव संबन्धि नान्यत आयातं भावयेत् स्त्रीसङ्गमस्तु व्यक्तिकारणमेव इत्यादिना प्रोक्तं चान्यत्र अलं चातिविस्तरेण || ६८ || अपरामाह
SKलेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः | शक्त्यभावेऽपि देवेशि भवेदानन्दसंप्लवः || ६९ || परिचुम्बनालिङ्गनदन्तक्षतनखक्षतादिभिर्विशेषैः स्त्रीसुखस्यानुभूतस्य पूर्वं तद्ध्यानमात्रेण इदानीमपि शक्त्यभावेऽपि करसौन्दर्यादौ ध्यातमात्रे य आनदः प्रत्यक्षतयैव सर्वविषयविस्मारकः स एवानन्दोदय इति स्थितम् यतोऽनुभूते स्मरणं प्रत्यक्षतयैव प्रसिद्धमित्याचार्याः || ६९ || अपरामाह आनन्दे महति प्राप्ते दृष्टे वा बान्धवेऽचिरात् | आनन्दमुद्गतं ध्यात्वा तल्लयस्तन्मना भवेत् || ७० || प्. ३०) एवमेव बान्धवे वा सुहृदादौ चिरकालानन्तरं प्रिये वा दृष्टे उद्गतमात्रमेवानन्दं गृहीत्वा तद्भावनान्तर्मनस्कत्वेन परानन्दोदये विश्रान्तः स्यादेवेत्यर्थः | तथा च स्पन्दे अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् | धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः || इत्यादिना अभिहितमस्ति || ७० || अपरामाह जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् | भावयेद्भरितावस्थां महानन्दस्ततो भवेत् || ७१ || अयमत्राशयः - मिष्टान्नपानभोजनक्षीरादिपानाशनाभ्याम् उल्लसद्रसो य आनन्दस्तदनुभवेन आनन्दपूर्णत्वावस्थायां भावयत एकाग्रचित्तस्य परमानन्दप्राप्तिरिति सिद्धम् || ७१ || अपरामाह गीतादिविषयास्वादासमसौख्यैकतात्मनः | योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता || ७२ || गीतादिविषयस्य वंशवीणादेर्मधुरसूक्ष्मशब्दविषयस्य आस्वादात् तच्चर्वणाद्यः परमानन्दोदयः स्यात् तालक्रियाशब्दादिसाम्यं स एव परपरमानन्दोदय इति कथ्यते तत्काले शुभाशुभचिन्तादिविस्मरणादित्यलम् | अनेन च वेद्यराशेर्विस्मरणात् वेदकसत्तामात्रस्थितौ शान्तमेयमानादिव्यापृतौ महानन्दोदय इति निश्चितम् || ७२ || प्. ३१) यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् | तत्र तत्र परानन्दस्वरूपः संप्रकाशते [स्वरूपं संप्रवर्तते इति पाठः] || ७३ ||
SKअयमत्र भावः - यत्र यत्र पञ्चेन्द्रियादिगुणेषु मनो रज्यते एतच्छुभमेतदशुभम् इत्यादिना तत्रैव शुभे वाशुभे विश्रान्तः सन् परपरानन्दमयः स्यात् इति निश्चयः | यत्र शुभे वाशुभे मनो लगति तत्समये परविमर्शविस्मृतेस्तत्रैवानन्दोदय इति निश्चयः || ७३ || अपरामाह अनागतायां निद्रायां प्रणष्टे बाह्यगोचरे | सावस्था मनसा गम्या परा देवी प्रकाशते || ७४ || निद्रा जागरणरूपोन्मग्नावस्था परावस्थेति कथ्यते सैव च स्फुटीकरणावस्था चितेरिति हि स्थितम् | तथाहि निद्रादौ जागरस्यान्ते यो भाव उपजायते | तं भावं भावयन्साक्षादक्षयानन्दमश्रुते || इत्यादिना निरूपितमस्ति || ७४ || अपरामाह तेजसा सूर्यदीपादेराकाशे शबलीकृते | दृष्टिर्निवेश्या तत्रैव स्वात्मरूपं प्रकाशते || ७५ || दिवा सूर्यकिरणप्रकाशेन रात्रौ च चन्द्रज्योत्स्नया शबलीभूतम- प्. ३२) हाकाशसंबन्ध्यूर्ध्वाधोवर्तिस्थानविशेषे गृहैकदेशवर्तिदीपप्रकाशव्याप्तकोष्ठाकाशचित्रस्थाने वा अव्यग्रमनस्कतया दृष्टिबन्धमभ्यस्यतः स्वस्वरूपचिदाकाशैकीभावेन स्वात्मरूपाभिव्यक्तिर्जायते यत्फलं चतुर्दशभुवनज्ञानं ताराव्यूहपरमनोभावाभिज्ञानं च समुत्पद्यते इति || ७५ || अपरामाह करङ्किण्या क्रोधनया भैरव्या लेलिहानया | खेचर्या दृष्टिकाले च परा व्याप्तिः [परावाप्तिरिति पाठः] प्रकाशते || ७६ || विगतचेष्टं करङ्कमात्रं शवमिव विश्वं पश्यन्त्या क्रोधव्यग्रया दृक्शक्त्या भोक्तुमेकाग्रया वा दूरमाकाशदर्शनार्थं प्रसृतया वा दृष्टिकाले परा व्याप्तिः प्रकाशत इति भावः || ७६ || अपरामाह मृद्वासने स्फिजैकेन हस्तपादौ निराश्रये | विधाय तत्प्रसङ्गेन परा पूर्णा मतिर्भवेत् || ७७ || निराश्रये यथाभवति तथा पादौ हस्तौ च कृत्वा सर्वाङ्गेषु प्रत्यंशसाकल्येन चेतयन्ती विगलिततमोरजस्का सत्त्वमयी भवेद्बुद्धिरिति तात्पर्यार्थः | मृद्वासने कोमलासने कटिप्रोथैकेन | कठिनासने उपवेशनेन हि तुङ्गकुब्जाद्युपाधेः समाधिचाञ्चल्यापत्तिरिति हि स्थितम् || ७७ || प्. ३३)
SKअपरामाह उपविश्यासने सम्यग्बाहू कृत्वावकुञ्चितौ [कृत्वार्थकुञ्चिताविति पाठः] | कक्षव्योम्नि निराकुर्वञ्छममायाति तल्लयात् || ७९ || आसने उपविश्य बाहू कक्षव्योम्नि संकुचितौ कृत्वा तल्लयेन शममायाति || ७९ || अपरामाह स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च | अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत् || ८० || विनोन्मेषनिमेषाभ्याम् अत एव स्तब्धां दृष्टिमवष्टभ्य मनो निराधारं कृत्वा किंचिदप्यचिन्तयन् शिवं - परमात्मैक्यतां व्रजेदिति भावः || ८० || अपरामाह मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम् | होच्चारं मनसा कुर्वंस्ततः शान्ते प्रलीयते || ८१ || मध्य अन्तराल एव जिह्वा यस्य ईदृशे विस्तारिते चास्ये सति तन्मध्ये बुद्धिं निक्षिप्य मनसैव ह इत्युच्चारं कुर्वन् शान्तात्मा प्रकाशत इत्यर्थः || ८१ || प्. ३४) अपरामाह आसने शयने स्थित्वा निराधारं विभावयेत् [विभावयन् स्वदेहं क्षणात्क्षीणाशय इति पाठः | लीनं मूर्ध्नि इति (८४) पद्यादनन्तरम् उ० मू० आकाशं विमलं पश्यन्कृत्वा दृष्टिं निरन्तराम् | स्तब्धात्मा तत्क्षणाद्देवि भैरवं वपुराप्नुयात् || इति पद्यमधिकं वर्तते |] | स्वदेहे मनसि क्षीणे क्षणाद्भूताशयो भवेत् || ८२ || देहे नैव आसने देहस्यापि निराधारभावनात् शयने स्थित्वा नाहं देहो न मे देहो इति समानाधारभूतस्य नाधारादिकल्पना इत्येवं परिकल्पनेन क्षीणे मनसि गलिते वेद्यराशौ भूताशयो भूतसिद्धार्थो भवेदिति संबन्धः || ८२ || अपरामाह चलासने स्थितस्याथ शनैर्वा देहचालनात् | प्रशान्ते मानसे भावे देवि दिव्यौघमाप्नुयात् || ८३ || चलासन अश्वादौ शनैर्देहचालनं कुर्वन् प्रशान्ते च मानसे भावे दिव्यानां लोकानां परमयोगिनाम् ओघं समूहं संभूय तत्तेजस्तत्त्वमाप्नुयात् प्राप्नुयादिति भावः || ८३ || अपरामाह लीनं मूर्ध्नि वियत्सर्वं भैरवत्वेन भावयेत् | तत्सर्वं भैरवाकारं तेजस्तत्त्वं समाविशेत् || ८४ || प्. ३५)
SKलीनं श्लिष्टं सर्वं यन्नीलपीतादि तत्सर्वं शिवमयम् इति भावयतो ब्रह्म प्रकाशत इति भावः || ८४ || अपरामाह किंजिज्ज्ञात्वा [किंचिज्ज्ञातमिति ज्ञात्वानन्तेति च पाठः] द्वैतदायि बाह्यालोकस्तमः पुनः | विश्वादि भैरवं रूपं ध्यात्वानन्तप्रकाशभृत् || ८५ || आधौ भेदमयं ध्यात्वा स्थाणुर्वा पुरुषो वा इति ततश्च बाह्यश्चासावालोकः चन्द्रसूर्यादिः ततश्च तमः एतत्सर्वं भैरवरूपं ध्यात्वा नानात्वादनन्तप्रकाशमयो भैरवो भवति || ८५ || अपरामाह एवमेव दुर्निशायां कृष्णपक्षागमे चिरम् | तैमिरं भावयेद्रूपं [भावयन्रूपमिति पाठः] भैरवं रूपमेष्यति || ८६ || मेघच्छन्ना रत्रिर्दुर्निशा तस्यामन्धतामिस्रमहातामिस्रतामिस्ररूपायां यत् कालश्यामलादि भयङ्कररूपं भैरवमुद्रितं भैरवमुद्राङ्कितं भयङ्करत्वाददृश्यं तत् भावयन् अक्षयानन्दमाप्नुयात् - तद्रूपस्य आश्चर्यकारित्वात् || ८६ || अपरामाह एवमेव निमिल्यादौ नेत्रे कृष्णाभमग्रतः | प्रसार्य भैरवं रूपं भावयेत्तन्मयो [भावयंस्तन्मय इति पाठः] भवेत् || ८७ || प्. ३६) स्वनेत्रे च निमील्य कृष्णपाक्षिकरात्र्यभावेऽपि कृष्णाभं तमोरूपं ज्ञात्वा किमेतत् इत्याश्चर्यकारि एतदेव भैरवं रूपम् एतद्रूपेण तन्मयीभावः स्यादिति || ८७ || अपरामाह यस्य यस्येन्द्रियस्यादौ [यस्य कस्येन्द्रियस्यापि इति तत्रैवात्मेति च पाठः] व्याघाताच्च निरोधतः | प्रविष्टस्याद्वये शून्ये तदैवात्मा प्रकाशते || ८८ || बाह्याधिकारनिवृत्तेरज्ञत्वात् तत एव च व्याघातात् विरुद्धसमुच्चयात् अथ च निरोधतः निरोधनाच्च अद्वये द्वयरहिते शून्ये अत एव प्रविष्टः सन् अन्तर्मुखपदाश्रयणेन आत्मा प्रकाशत इति भावः || ८८ || अपरामाह अबिन्दुमविसर्गं च अकारं जपतो महान् | उदेति देवि सहसा ज्ञानौघः परमेश्वरः || ८९ ||
SKअम् इत्यत्र अः इत्यत्र च बिन्दुविसर्गौ परित्यज्य कुम्भकस्थस्य अ इत्येवमेव केवलं जपतः परमेश्वरो ज्ञानौघ उदेति | सर्वविकल्पराहित्येन विकल्पादीन् संत्यज्य यच्छिष्यते तदेव भवतीत्यर्थः | तत्त्वमसि इत्यादिवत् || ८९ || अपरामाह सविसर्गस्य वर्णस्य विसर्गान्ते [विसर्गान्तमिति पाठः] चितिं कुरु | निराधारेण चित्तेन स्पृशेद्ब्रह्म सनातनम् || ९० || प्. ३७) पुनश्चात्र अ इत्येवमेव परित्यज्य यश्च अमित्यत्र अः इत्यत्र च (.) (ः) बिन्दुविसर्गौ परिशिष्टौ तयोरनिर्वचनीयत्वात् प्राप्ता तत्र परा निर्वृतिरिति सिद्धम् || ९० || अपरामाह व्योमाकारं स्वमात्मानं ध्यायेद्दिग्भिरनावृतम् | निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत्तदा || ९१ || अहमेव परो हंसः परमात्मा परात्परः | इति व्योमाकारं स्वमात्मानं कृत्वा तथा दिग्भिर्नीलपीतादिभिरुपाधिभिर्विवर्जितं कृत्वा चितिशक्तिर्निराश्रया स्वं रूपं दर्शयेदिति भावः || ९१ || अपरामाह किंचिदङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः | तत्रैव चेतना युक्ता भैरवी निर्मला गतिः || ९२ || तीक्ष्णसूच्यादिना वा अग्निना शरीरं प्रमथ्य तत्सहनादिना या सहनशक्तिः सैव चेतना इत्यभिधीयते | अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च | इत्यादिभगवद्वाक्यस्मरणात् भैरवसारूप्याप्तिरिति भावः || ९२ || अपरामाह चित्ताद्यन्तःकृतिर्नास्ति ममान्तर्भावयेद्यदि [भावयेदितीति पाठः] | विकल्पानामभावेऽपि विकल्पैरुज्झितो भवेत् || ९३ || प्. ३८) चित्ताद्यन्तःकरणवर्गो ममान्तर्नास्ति अस्त्यपि नास्त्येव इत्येवं बाह्यविषयोपरमाद्दृढभावनस्ततो विकल्पानामभावेन विकल्पैरुज्झितस्त्यक्तः निर्विकल्पतया शुद्धचैतन्यो भवेदित्यर्थः || ९३ || अपरामाह माया विमोहिनी नाम कलायाः कलनं स्थितम् | इत्यादिधर्मं तत्त्वानां कलयन्ना पृथग्भवेत् [कलयन्न पृथगिति पाठः] || ९४ ||
SKइयं माया विमोहिनी नाम तत्त्वानां च इत्यादिधर्मं कलायाः कलनं स्थितम् इत्येवं कलयन् ना पुरुषः पृथक् भवेत् - सर्वोत्तिर्णः कूटस्थ इत्याख्यः स्यादित्यर्थः || ९४ || अपरामाह झगितीच्छां समुत्पन्नामवलोक्य शमं नयेत् | यत एव समुद्भूता ततस्तत्रैव लीयते || ९५ || एवमन्तर्मुखतया विमृश्य यत एव क्षोभमयान्मनस उत्थिता तत्रैव शमं नयेत् प्रापयेत् | तरङ्गा इव तोयेषु बुद्बुदा इव सागरे | इत्यादिवत् ऐक्यमाश्रित्य तत्सर्वं च प्रशमय्य ब्रह्म संपद्यते तदा स्वयमेव || ९५ || अपरामाह यदा ममेच्छा नोत्पन्ना ज्ञानं वा कस्तदास्मि वै | तत्त्वतोऽहं तथाभूतस्तल्लीनस्तन्मना भवेत् || ९६ || प्. ३९) इच्छाज्ञानक्रियादिसन्दोहे समुत्पन्नेऽपि अहं करोमि गच्छामीत्यादिना तेन च ज्ञानं वा समुत्पन्नमपि तत्त्वतोऽहंस्वरूपं एवाहम् तस्मिंल्लीने तन्मयो भवेदिति गुरवः | तथा च स्पन्दे गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः || अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः | पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि || अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये | जाग्रदेव निजं भावमचिरेणाधिगच्छति || इत्यादिना सुस्पष्टतया प्रतिपादितम् || ९६ || अपरामाह इच्छायामथवा ज्ञाने जाते चित्तं निवेशयेत् | आत्मबुद्ध्यानन्यचेतास्ततस्तत्त्वार्थदर्शनम् || ९७ || जातमात्रायामिच्छायां जातमात्रे ज्ञाने वा सति सर्वस्मिन्स्वात्मरूपदृढभावनया अनन्यचेतसस्तत्त्वात्मदर्शनं स्यादेवेति निश्चयः सर्वं खल्विदं ब्रह्म इत्यभ्यसनादिति भावः || ९७ || अपरामाह निर्निमित्तं भवेज्ज्ञानं निराधारं भ्रमात्मकम् | तत्त्वतः कस्यचिन्नैतदेवंभावी शिवः प्रिये || ९८ || भ्रममात्रान्निर्निमित्तं शुक्ताविदं रजतमित्यादिवत् भ्रममात्रस्वभावं सर्वं दृश्यजातम् अत एव च निराधारमनाश्रयात्मकम् प्. ४०) हि सर्वं चिन्मात्रम् चिद्व्यतिरिक्तस्यान्यस्याभावात् इत्येवंभावनादार्ढ्यात् शिव एव स्यादिति भावः || ९८ || अपरामाह
SKचिद्धर्माः सर्व देहेषु विशेषो नस्ति कुत्रचित् | अतश्च तन्मयं सर्वं भावयन्भवजिज्जनः || ९९ || देवासुरनरतिर्यक्स्थावरजङ्गमादिषु मूर्तिषु चिद्धर्माः सामान्येन सन्ति न च तत्र विशेषोऽस्ति कुत्रचित् देहादेरेव विशेषोऽस्ति न तु चितेः इति भावयन् सर्वत्र चिदेव जृम्भते इत्यनुभवदार्ढ्यात् सोहमस्मीति भावयन् भवजित् दुस्तरसंसारोत्तिर्णो जनो भवति || ९९ || अपरामाह कामक्रोधलोभमोहमदमात्सर्यगोचरे | बुद्धिं निस्त्मितां कृत्वा तत्तत्त्वमवशिष्यते || १०० || कामक्रोधादिषु मात्सर्यपर्यन्तेषु बुद्धिमेकाग्रां विधाय विकारानधिगमात् निस्पन्दां कृत्वा तत्तत्त्वं चिन्मात्रबोधमवशिष्यत इति शेषः || १०० || अपरामाह इन्द्रजालमयं विश्वं न्यस्तं वा चित्रकर्मवत् | भ्रमतो ध्यायतः [भ्रमद्वा ध्यायत इति पाठः] सर्वं पश्यतश्च सुखोद्गमः || १०१ || प्. ४१) इत्येवं ज्ञानानुभवयुक्त्या निश्चितया बुद्ध्या सर्वमिदमिन्द्रजालनिभं विश्वं विभाव्य स्वस्पन्दारोहणेन सर्वमिदं भ्रमन्नपि ध्यायन्नपि पश्यन्नपि अक्षयसुखीभवति - सर्वमिदं ब्रह्म इति पश्यन् मुच्यत इत्यर्थः || १०१ || अपरामाह न चित्तं निक्षिपेद्दुःखे न सुखे वा परिक्षिपेत् | भैरवि ध्यायतां मध्ये किं तत्त्वमवशिष्यते || १०२ || सुखदुःखादिविभवे सर्वं सुखं वा दुःखमेव वेदं सर्वं विज्ञाय तदैकाग्र्यतया हे भैरवि ध्यायतां तन्मध्ये भैरवोदयः स्यादित्यर्थः || १०२ || अपरामाह विहाय निजदेहास्थां सर्वमस्मीति भावयेत् | दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी भवेत् || १०३ || निजदेहप्रमातृतां विहाय - न देहोऽहमित्यादिना पश्चात्सर्वमिदमहमेव इति भावयन् सुखी सर्वत्र सर्वदा || १०३ || अपरामाह घटादौ यच्च विज्ञानमिच्छाद्यं वा ममान्तरे | नैव सर्वगतं जातं भावयन्निति सर्वगः [सर्वत्रामस्मीति भावयन् इति पाठः] || १०४ || प्. ४२)
SKसदा सर्वत्र सवास्ववस्थासु यत् दृश्यमानं घटादिविज्ञानेन घटोऽयमित्यादिना तदन्तरे या चेच्छा एवं करोमीत्यादिना तत्सर्वं जातमपि किमपि न भवति निःसारत्वादिति भावयन् सर्वत्र प्रकाशस्वरूपः स्यादिति भावः || १०४ || अपरामाह ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् | योगिनां तु विशेषोऽयं [विशेषोऽस्तीति पाठः] संबन्धे सावधानता || १०५ || सर्वदेहिनां सदाशिवादिकीटान्तानाम् इदं ग्राह्यम् अयं ग्राहक इत्यादिना यो व्यवहारः स सामान्य एव सर्वदेहिनां यदेको जानाति तदपरोऽपि जानाति इत्यनेन सामान्या परंतु योगिनामयमेव विशेषः - संबन्धे ग्राह्यग्राहकस्वरूपावधारणे ग्रहीतृरूपाविस्मरणमित्यर्थः अहं स्मर्तेति सर्वदा प्रकाशस्वरूपः अन्यद्वेद्यमनित्यमसदित्युच्यते || १०५ || अपरामाह स्ववदन्यशरीरेऽपि संवित्तिमनुभावयेत् | अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर्भवेत् || १०६ || तस्य शरीरभूतं जगदिदमिति सर्वं विभावयन् केवलं भिन्नतया स्वशरीरापेक्षां विहाय इदं मम शरीरं नास्तीतरस्मादन्यत् प्. ४३) इत्यनेन परस्मिन्सर्वस्मिन्स्वात्मसंविन्मात्रदृढभावनेन व्यापकरूपोऽसौ तद्दिनैरेव भवेदिति भावः || १०६ || अपरामाह निराधारं मनः कृत्वा विकल्पान्न विकल्पयेत् | तदात्मपरमात्मत्वे भैरवो मृगलोचने || १०७ || सर्वमेतत्त्याज्यं स्वस्वभावाध्यासरूपं स्थाणुर्वा पुरुषो वा इति- svātmanaḥ paramātmatve niṣṭhāṃ prāpya paramātmani ca līnatāṃ saṃprāpya vā vibhāvya bhairavarūpaḥ paramātmaiva bhavatītyarthaḥ || 107 || aparāmāha sarvajñaḥ sarvakartā ca vyāpakaḥ parameśvaraḥ | sa evāhaṃ śaivadharmā iti dārḍhyācchivo bhavet || 108 || sa evāhamahameva saḥ śivasyāyaṃ śaiva sa eva dharmo yasya svātantryādirmama sarvosti anena dṛḍhabhāvanena paramaśivatādrūpyaṃ gamyate || 108 || aparāmāha jalasyevormayo vahnerjvālābhaṅgyaḥ prabhā raveḥ | mamaiva bhairavasyaitā viśvabhaṅgyo vibheditāḥ || 109 ||
SKयथा जलोर्मयः जलादेव वह्नेर्वा ज्वालाः रवेर्वा प्रभाः तथा भैरवस्यैता विश्वभङ्ग्यो गमनागमनभोजनाहवनदानप्रसारणनिर्गमनादीनि सन्तीति भावयेदिति शेषः || १०९ || प्. ४४) अपरामाह भ्रान्त्वा भ्रान्त्वा शरीराणि [शरीरेणेति पाठः] त्वरितं भुवि पातनात् | क्षोभशक्तिविरामेण परा संजायते दशा || ११० || प्रदक्षिणक्रियावत् सहस्रजन्मजन्मान्तरमासाद्य मानुष्यदेवासुरतिर्यगादियोनिषु ततश्च सद्गुरुदृष्टिपातात् क्षीणशोकस्य परा दशा प्रादुर्भवति इत्यर्थः | तथैव यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् | (९ उ.) इत्यादिना स्पन्दे प्रतिपादितमस्ति || ११० || अपरामाह आधारेष्वथ वा शक्त्या ध्यानाच्चित्तलयेन [शक्त्याऽज्ञानाच्चितेति पाठः] संप्रदायं ११२ पद्यादनन्तरम् उ० मू० संकोचं कर्णयोः कृत्वा ह्यधोद्गारे तथैव च | अनच्कमहलं ध्यायन्विशेद्ब्रह्म सनातनम् || ११४ || इति पद्यमधिकमस्ति |] वा | जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः || १११ || पदार्थेषु ज्ञातुमशक्यत्वात् वा ज्ञानादेरभावतो यश्चित्तस्य लयस्तेन यो जातोऽनाश्रितायां शक्तौ समावेशक्षोभस्तदन्ते भैरवं वपुर्व्यज्यत एवेत्यर्थः || १११ || अपरामाह संप्रदायमिमं भद्रे शृणु सम्यग्वदाम्यहम् | कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः || ११२ || प्. ४५) सर्वस्यास्य भेदाभेदमयस्य जगतो विस्मरणादन्तरात्मनि च दत्तदृष्टेर्योगिनो यत्र तत्र चित्तप्रकाशः स्यादेवेत्यर्थः सर्वेषूक्तवक्ष्यमाणानुशासनेष्वेतेषु चिन्मात्रावधारणचित्तैकाग्र्याभ्यसनमभिप्रेतमस्ति || ११२ || अपरामाह कूपादिके महागर्ते स्थिते परिनिरीक्षणात् [स्थित्वोपरीति पाठः] | अविकल्पमतेः सम्यक्सद्यश्चित्तलयः स्फुटम् || ११३ || यद्येवं परिस्फुरति नास्त्यत्र किमपि वेद्यावेद्यपतितं नीलपीतादि परं तु घोरतरं भैरवं वपुरत्राभासमानं भासत इति तात्पर्यार्थः || ११३ || अपरामाह यत्र यत्र मनो याति बाह्ये वाभ्यन्तरे प्रिये | तत्र तत्र शिवावस्था व्यापकत्वात्क्व यास्यति || ११४ ||
SKयत्र यत्र मनो याति स्वतश्चञ्चलमस्थिरम् | ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || इत्यादिभगवन्मुखोक्त्या यत्र यत्र नीलपीतादौ मनो याति अन्तरात्मतया तत्र तत्र शिवावस्था इति निश्चयाद्भैरवाभिव्यक्तिः संजायते | तथा च श्रीस्पन्दे प्. ४६) यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः || तेन शब्दार्थचिन्तासु न सावस्था न या शिवः | भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः || इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् | संपश्यन्सततं युक्तो जीवन्मुक्तो न संशयः || (२८-२९-३०) इत्यादिना प्रतिपादितमस्ति || ११४ || अपरामाह यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः | तस्य तन्मात्रधर्मित्वाच्चिल्लयाद्भरितात्मता || ११५ || यत्र यत्र शिवावस्थाध्यानेन चैतन्यं व्यज्यते विभोः तस्य च तन्मात्रधर्मत्वात् दर्पणप्रतिबिम्बिताभासवैचित्र्येण चैतन्यमात्रस्वभावत्वात् चितौ लयाद्विश्रान्तेर्भरितात्मता अहमेव विश्वमयो महच्चैतन्यभरित इत्यनुभूततात्त्वकावस्थः संपद्यते आश्यानीभूतहिमघृतादिवत् जलमयत्वापत्तेरिति भावः || ११५ || अपरामाह क्षुताद्यन्ते भये शोके गह्वरे वा रणद्रुते [रणाद्द्रुते सत्तामयी दशा इति च पाठः] | कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा || ११६ || अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् | धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः || (२२) प्. ४७) इत्यादिस्पन्दोक्तदिशा निर्दिष्टस्य भैरवरूपस्यामर्शनात् क्षुतादिषु गुरुमुखश्रुतयुक्त्या विभाव्य कृतकृत्यो भवत्येवेत्यर्थः | एतच्च तन्त्रालोकादौ वितत्य निर्णीतमस्ति तत एवावधार्यम् | ग्रन्थविस्तरभयान्नेह प्रतन्यते तद्दिङ्मात्रेण उदाहृतमिति || ११६ || अपरामाह वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस्त्यजेत् | स्वशरीरं निराधारं ततः प्रसरति [कृत्वा प्रसरतीति पाठः] प्रभुः || ११७ ||
SKस्मरणादिशक्त्या दृष्टे देशेऽनुभवशक्तौ स्वाधारभूतायां मनस्त्यजेत् ऐकाग्र्येणादद्यात् स्वशरीरं च निराधारमहिकञ्चुकवदसङ्गं विभातयेत् ततः प्रादुर्भवति स्वयमेव प्रभुरिति निश्चयः | अत्रायं भावः - अनुभवात् स्मरणादौ सूत्र इव मणिगणः प्रोतश्चैतन्यप्रसर इति सिद्धम् अतस्तमेव ध्यायेदिति शेषः || ११७ || अपरामाह क्वचिद्वस्तुनि विन्यस्य शनैर्दृष्टिं निवर्तयेत् | तज्ज्ञानं चित्तसहितं देवि शून्यालयो भवेत् || ११८ || कुत्रचित् दृष्टिं कृत्वा घटोऽयमिति तद्वस्त्वनुभवं तद्वासनायुक्तं चित्ते निधाय शून्यमतिर्भवेत् - ब्रह्म संपद्यत इत्यर्थः || ११८ || अपरामाह भक्युद्रेकाद्विरक्तस्य यादृशी जायते मतिः | सा शक्तिः शाङ्करी नित्यं भावयेत्तां ततः शिवः || ११९ || प्. ४८) भक्त्यतिशयेन विरक्तस्य शान्तचित्तस्य चित्ते चित्तसमाधानेन यादृशी मतिर्जायते सा शांकरी शक्तिरिति गीयते इति तामेव भावयेत् येन तन्मयः स्यात् || ११९ || अपरामाह वस्त्वन्तरे वेद्यमाने शनैर्वस्तुषु शून्यता | तामेव मनसा ध्यात्वा विचित्तोऽपि [विदितोऽपीति पाठः] प्रशाम्यति || १२० || अयमत्राशयः - एकस्मिन्वस्तुनि चित्स्वरूपत्वेन ज्ञायमाने अन्यत्र चाभावबुद्धिः - सर्वस्यास्य जगत् एकरूपत्वापत्तेः तस्मात् एकस्यैव वस्तुनोऽपि चित्स्वभावात् सर्वस्वरूपप्रसंगापत्तेरिति तत्सर्ववेद्यशून्यतां ध्यात्वा विचित्रतया संकल्पविकल्पराहित्येन मुक्तः स्यादिति निश्चयः || १२० || अपरामाह किंचिज्ञैर्या स्मृता शुद्धिः सा शुद्धिः शंभुदर्शने | न शुचिर्ह्यशुचिस्तस्मान्न्रिविकल्पः शिवो भवेत् || १२१ || धर्मशास्त्रविद्भिः कृत्वालं पादशौचं विमलमथ जलं त्रिः पिबेत् | इत्यादिना शुद्धिः कथिता सा चैव शुद्धिः निर्विकल्पसमाधिस्थस्य न शुचिर्नाप्यशुचिरभेदापत्तेरिति पारमार्थिकपरमार्थः | तथा च प्. ४९) तनुं त्यजतु काश्यां वा श्वपचस्य गृहेऽथ वा | तज्ज्ञः कलङ्कं नाप्नोति हेम पङ्कगतं यथा || इत्यादिना स्मृतमस्ति || १२१ || अपरामाह
SKसर्वत्र भैरवो भावः सामान्येष्वपि गोचरः | न च तद्व्यतिरेकेण परोऽस्तीत्यद्वया गतिः || १२२ || दर्पणबिम्बे यद्वन्नगरग्रामादि चित्रमविभागि | भाति विभागेनैव च परस्परं दर्पणादपि च || (प० सा० १२) इत्यादिना सर्वत्र सर्वदा बाह्याभन्तरेषु पदार्थेषु भैरवो भावः स्फुट इति न च तद्व्यतिरिक्तं किंचित् इति संबोधाप्त्या द्वयातीता गतिरद्वैतज्ञानं स्यात् तद्व्यतिरेके हि प्रकाशमानत्वाभावापत्तेः || १२२ || अपरामाह समः शत्रौ च मित्रेच समो मानापमानयोः | ब्रह्मणः परिपूर्णत्वादिति ज्ञात्वा सुखी भवेत् || १२३ || यच्च श्रीभगवता गीतं विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि | शुनि चैव श्वपाके च पण्डिताः समदर्शिनः || प्. ५०) तथा च शान्तरसादिनिदर्शने अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्टे वा बलवति रिपौ वा सुहृदि वा | तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः कदा पुण्येऽरण्ये शिवशिवशिवेति प्रलपतः || पुनश्च सिद्धान्तमुक्तावल्यां स्नातं तेन समस्ततीर्थसलिले दत्ता च सर्वावनि- र्यज्ञानां च कृतं सहस्रमखिला देवाश्च संतर्पिताः | संसाराच्च समुद्धृताः स्वपितरस्त्रैलोक्यपूज्योऽप्यसौ यस्य ब्रह्मविचारणे क्षणमपि स्थैर्य मनः प्राप्नुयात् || इत्येवं इच्छाज्ञानक्रियोल्लासं चिन्मयमेव विश्वप्रपञ्चं विज्ञाय सुखी भवतीति भावः || १२३ || एवं सति अपरामाह न द्वेषं भावयेत्क्वापि न रागं भावयेत्क्वचित् | रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति || १२४ || सर्पादौ द्वेषं हारादौ च रागः तद्विनिर्मुक्तस्वभावापत्तौ ब्रह्म संपद्यत इति भावः || १२४ || अपरामाह यदवेद्यं यदग्राह्यं यच्छून्यं यदभावगम् | तत्सर्वं भैरवं भाव्यं तदन्ते बोधसंभवः || १२५ || यतो वाचो निवर्तन्ते ह्यप्राप्य मनसा सह | आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चन || प्. ५१)
SKन तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः | तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति || आनन्दात्खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं प्रयन्ति अभिसंविशन्ति | (तै० ३०३-६) इत्यादिना प्रतिपादितं सर्वमेतद्ब्रह्मैव भवति इति दृढानुभवबलात् सर्वत्र भैरवस्वरूपबोधवान् भैरव एव भवति - ब्रह्म संपद्यते इत्यर्थः || १२५ || अपरामाह नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते | बाह्याकाशे मनः कृत्वा निराकाशे समाविशेत् || १२६ || इत्येवं नित्यत्वव्यापकत्वानुभूते बाह्याकाश एव शून्यधारणातिशयेन तदभ्यासातिशयाच्छून्यातिशून्यभूतं यद्धाम तत्रैव समाविशतीति भावः || १२६ || अपरामाह यत्र यत्र मनो याति तत्तत्तेनैव तत्क्षणम् | परित्यज्यानवस्थित्या निस्तरङ्गस्ततो भवेत् || १२७ || प्. ५२) अविकल्पसंवेदनरूपेण मनसा तत्क्षणे तत्सर्वं परित्यज्य निरालम्बनप्राप्तियुक्त्या परभैरवस्वरूपवान् भवेदिति भावः || १२७ || अपरामाह भिया सर्वं रवयति सर्वगो व्यापकोऽखिले | इति भैरवशब्दस्य सन्ततोच्चारणाच्छिवः || १२८ || विश्वमिदमखिलं भिया रवयति विमृशति अथ वा अवति रक्षति नीलानीलसुखासुखवेद्यराशेः सर्वस्याहमिति विमर्शनात् - बाह्यान्तरे सर्वत्र अहमस्मि इत्यनुभवदार्ढ्याधिगमाच्छिवः संपद्यते | तथा च न सावस्था न या शिवः इत्यादिना एतदाम्नातमस्ति || १२८ || अपरामाह अहं मम मयेत्यादिप्रतिपत्तिप्रसङ्गतः | निराधारे मनो याति तद्ध्यानप्रेरणाच्छमी || १२९ || अहमिदं मम मया इत्यादिप्रसङ्गेषु निराधारं मनः कृत्वा नेदं नानास्ति किंचित् इति इत्यनेन तद्ध्यानाभ्यसनेन प्रेरणात् अहंविमर्शबलाधिगमात् शमी शान्तद्वन्द्वोऽवाप्तपरनिर्वाणो जायत इत्यर्थः || १२९ || अपरामाह नित्यो विभुर्निराधारो व्यापकश्चाखिलाधिपः | शब्दान्प्रतिक्षणं ध्याय्न्प्रकृतार्थानुरूपतः || १३० || प्. ५३)
SKविभुः सर्वज्ञः सर्वत्र शिव एव इत्येवं प्रतिक्षणं ध्यायन् प्रकृतार्थानुरूपतया पदार्थदृष्ट्या कृतकृत्यो भवत्येवेत्यर्थः जानामि करोमि इत्यत्रैव मुक्तस्वभावः स्यादिति भावः | तथा च स्पन्दे गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः || १९ || अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः | पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि || २० || अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये | जाग्रदेव निजं भावमचिरेणाधिगच्छति || २१ || इत्यादिना निर्णीतमस्ति || १३० || अपरामाह अतत्त्वमिन्द्रजालाभमिदं सर्वं व्यवस्थितम् | किं तत्त्वमिन्द्रजालस्य चेति दार्ढ्याच्छमं व्रजेत् || १३१ || अतत्त्वमसारम् इन्द्रजालवदिति प्रतीत्या - सर्वमिदमिन्द्रजालतुल्यमेव तत्परं सद्वस्तु व्यपदेश्यं प्रमातृतत्त्वमिति भावनादार्ढ्येन तत्त्वविदः निर्वाणपदावाप्तिर्भवेदिति भावः || १३१ || अपरामाह आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया | ज्ञानायत्ता बहिर्भावा अतः शून्यमिदं जगत् || १३२ || प्. ५४) ज्ञानक्रियादिशक्त्ययोगाज्ज्ञेयादिकल्पना कुतः न कुतश्चन | अतो निर्विकल्पात्मकस्य निर्विकल्पमेवेदं जगत्प्रतिभासते इति भावः | तथाच मालिनीविजये या सा शक्तिर्जगद्धातुः कथिता समवायिनी | इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते || सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु | एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् || ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते | एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा || जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रिया मता | एवं यथा द्विरूपैव पुनर्भेदैरनेकधा || अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी | तत्र तावत्समापन्ना मातृभावं विभिद्यते || द्विधा च नवधा भेदैः पञ्चाशद्धा च मालिनी | इत्यादिना प्रकाशितोऽयमर्थः || १३२ || अपरामाह न मे बन्धो न मे मोक्षो बालस्यैता विभीषिकाः | प्रतिबिम्बमिदं बुद्धेर्जलेष्विव विवस्वतः || १३३ ||
SKमायापरिग्रहवशाद्बोधो मलिनः पुमान्पशुर्भवति | (प० सा० १६) इत्यादिना निर्णीतोऽयमर्थः परमार्थसारे सुस्पष्टः | अथ च तत्रैव गच्छति गच्छति जल इव हिमकरबिम्बं स्थिते स्थितिं याति | तनुकरणभुवनवर्गे तथायमात्मा महेशानः || (प० सा० ७) प्. ५५) इत्यादिना एतत्सर्वं बुद्धेः प्रतिबिम्बितमेव सूर्याचन्द्रमसोरिव जलप्रतिबिम्बादौ | इत्थं दृष्टान्तदार्स्टान्तिकयोर्योज्यमिति भावः || १३३ || अपरामाह इन्द्रियद्वारकं सर्वं सुखदुःखादिसंगतम् | इतीन्द्रियाणि संत्यज्य स्वस्थः स्वात्मनि वर्तते || १३४ || द्रष्टा दृश्यं दर्शनं च इति भेदकल्पनात्यागादात्मनि स्वस्थः - स्वात्मैव भवति इत्यर्थः || १३४ || अपरामाह ज्ञानप्रकाशकं सर्वमात्मा चैव प्रकाशकः | एवमेकस्वभावत्वाज्ज्ञानं ज्ञेये विभाव्यते || १३५ || प्रकाशमानं न पृथक्प्रकाशात् स च प्रकाशो न पृथग्विमर्शात् | नान्यो विमर्शोऽहमिति स्वरूपा- दहं विमर्शोऽस्मि चिदेकरूपः || इति नीत्या न किमपि प्रकाशाद्व्यतिरिक्तं भाति वर्तते वा ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् | इत्यादिलक्षणेन च सर्वं चिन्मयमेव विभाव्य यज्ज्ञानं तदेव ज्ञेयादि इत्यादि तत्त्वज्ञाननिष्ठः संभवति इति भावः || १३५ || अपरामाह मानसं चेतना शक्तिरात्मा चेति चतुष्टयम् | यदा प्रिये परिक्षीणं तदा तद्भैरवं वपुः || १३६ || प्. ५६) मानसं मनः चेतना बुद्धिः शक्तिः प्राणशक्तिः आत्मा च एतदुपाधिमयो जीव इति कथ्यते इत्येतच्चतुष्टयमुपाधिमयं मायीयोपाधिगलितं यदा क्षीणं - यदा क्षीयते तदा चिच्छेषतया हिमनिर्मुक्तभास्करवत् प्रकाशमानः प्रकाश एवावशिष्यते - इति दृढानुभवसमधिगमात् साक्षाद्भैरव एव भवतीति भावः || १३६ || अपरामाह निस्तरङ्गोपदेशानां शतमुक्तं समासतः | द्वादशाभ्यधिकं देवि यज्ज्ञात्वा ज्ञानविज्जनः || १३७ || इत्थं मया धारणोपदेशानां द्वादशाभ्यधिकं शतमुक्तम् एतदेव विज्ञाय साक्स्.आद्भैरवसारूप्यमेवैतीति तात्पर्यम् || १३७ ||
SKअत्र चैकतमे युक्तो जायते भैरवः स्वयम् | वाचा करोति कर्माणि शापानुग्रहकारकः || १३८ || एतासु धारणास्वन्यतमनिष्ठावान् मायीयोपाधिसंव्लितवेद्यराशिपतितेन्द्रियगणोऽपि वाचा कथनमात्रेण शापानुग्रहादिकर्माणि करोति तत्रापि तथैव समाध्येकीभावनया तत्तदुज्झित्य निस्तरङ्गप्रकाशवान् भैरवः साक्षाद्भवतीति निश्चयः || १३८ || अजरामरतामेति सोऽणिमादिगुणैर्युतः | योगिनीनां प्रभुर्देवि सर्वमेलापकारकः || १३९ || अपाम सोमममूता अभूम इत्यादिनोक्तधारणाभ्यासदार्ढ्येन अजरामरतां संप्राप्य विज्ञाना- प्. ५७) त्मकसोमपानात् योगिनीनां - ज्ञानक्रियानन्दादिशक्तीनां प्रभुः स्वामी सर्वत्र मेलापकृत् सकलस्यास्य वेद्यवेदकादिराशेः खिलीकृतस्वभावोऽत्यन्तनिर्मलचिद्वपुरद्वैतप्रकाशमयः परमात्मा भैरवः संपद्यते इति तात्पर्यार्थः || १३९ || जीवन्नपि विमुक्तोऽसौ कुर्वन्नपि न लिप्यते | जीवन्मुक्त एवासौ पश्यन्नपि शृण्वन्नपि जिघ्रन्नपि - इत्यादिक्रियाः कुर्वन्न लिप्यते | तथा च भगवान् पश्यञ्छृण्वन्स्पृशन् जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् | प्रलपन्विसृजन्गृह्नन्नुन्मिषन्निमिषन्नपि | (५-८) ब्रह्मण्यादाय कर्माणि सङ्गं त्यक्त्वा करोति यः | लिप्यते न स पापेन पद्मपत्रमिवाम्भसा | (५-१०) इत्यादिना समादिशति | तथा च स्पन्दे गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः || (१९) इत्यादिना निर्णीतमस्ति | तस्मात् कर्माणि कुर्वन्नपि च न लिप्यते इति सिद्धम् || ताद्रूप्येण भेदं संदिहानेव पुनरपि पृच्छन्ती श्रीभैरवी उवाच इदं यदि वपुर्देव परायाश्च महेश्वर || १४० || एवमुक्त्वव्यवस्थायां जप्यते को जपश्च कः | ध्यायते को महादेव पूज्यते कश्च तृप्यति || १४१ || प्. ५८) हूयते कस्य वा होमो यागः कस्य च किं कथम् | स्पष्टमेतत् || उक्तानुयोगनिर्धारणां समादिशन् श्रीभैरव उवाच एषात्र प्रक्रिया बाह्या स्थूलेत्येव मृगेक्षणे || १४२ || भूयो भूयः परे भावे भावना भाव्यते हि या |
SKप्रक्रिया बाह्या - जपपाठतीर्थाटनादिक्रिया परे तत्त्वे बाह्येति कथ्यते || जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः || १४३ || ध्यानं या निश्चला बुद्धिर्निर्विकारा निराश्रया | सोऽहं ब्रह्मेति शब्दस्य अनाहताख्यस्य श्रवणाज्जपः ईदृङ्मन्त्रात्मतया जपाङ्गश्च मन्त्रः वेद्यावेद्यपतितापि समाधानबलान्निवातदीपवद्या निश्चला बुद्धिस्तद्ध्यानमिति कथ्यते अत एव निर्विकारा निराश्रया चेति || न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना || १४४ || पूजा नाम न पुष्पाद्येर्या मतिः क्रियते दृढा | निविकल्पे परे व्योम्नि सा पूजा ह्यादराल्लयः || १४५ || प्. ५९) परे व्योम्नि परचिदाकाशे लयः विश्रान्तिरेव तत्त्वतः पूजेति भावः || १४५ || अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद्दिनम् | भरिताकारता सात्र तृप्तिरत्यन्तपूर्णता || १४६ || अत्र प्रोक्तधारणासु एकतमयुक्तिस्थे सिद्धसमाधानदार्ढ्ये योगिनि उत्तरोत्तरं निर्विकल्पसमाधिरसास्वादाद्या पूर्णस्वात्मस्वरूपोपलब्धिपूर्णता सा तृप्तिरित्यर्थः || १४६ || महाशून्यालये वह्नौ भूतादिविषयादिकम् | हूयते मनसा सार्धं स होमश्चेतना स्रुचा || १४७ || महाशून्यालये शून्यातिशून्यरूपे परभैरवस्वरूपे वह्नौ भूतेन्द्रियतत्त्वादिरूपं सर्वं जगत् संकल्पविकल्पात्मकं विभागकल्पनाहेतुना मनसा सह यत्र चैतनैव स्रुक् तया हूयते स होमस्तत्त्वत इति || १४७ || यागोऽत्र परमेशानि तुष्टिरानन्दलक्षणा | क्षपणात्सर्वपाशानां त्राणात्सर्वस्य पार्वति || १४८ || रुद्रशक्तिसमावेशस्तत्क्षेत्रं भावना परा | उक्तसमाधानोत्थानन्देन तुष्टिरेव यागो देवपूजा पाशक्षपणभवत्राणधर्मत्वादनाश्रितशक्त्यावेश एव क्षेत्रं न च पुनः कुरुक्षेत्रधर्मक्षेत्रादिगमनादि | रुद्रशक्तिसमावेशः - सर्वज्ञत्वादिषटशक्तिप्रादुर्भावश्चेति || १४८ || प्. ६०) अन्यथा तस्य तत्त्वस्य का पूजा कश्च तृप्यति || १४९ || प्रकारान्तरेणाद्वैतसत्तत्त्वस्य पूजनतर्पणादिकर्म व्यतिरिक्तं न संभवतीति भावः || १४९ || सदाचारेषु मुख्यतयानुष्ठेयं स्नानमपि निर्दिशति
SKस्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः | आवेशनं तत्स्वरूपे स्वात्मनः स्नानमीरितम् || १५० || निगदितधारणाभ्यासेनाद्वैतस्वात्मस्वरूपस्य स्वतन्त्रानन्दचिन्मात्रसारतयानुभवात्तत्स्वरूपे लयभावनैव मुख्यं स्नानमित्यर्थः || १५० || यैरेव पूज्यते द्रव्यैस्तर्प्यते वा परापरः | यश्चैव पूजकः सर्वः स एवैकः क्व पूजनम् || १५१ || यैरेव द्रव्यैः कुसुमादिभिः पूज्यते क्षीरखण्डादिभिर्वा तर्प्यते परापर इति परादेव्या सहितः परः भैरवः इति यश्चैव पूजकः स एव पूज्य इत्येने न तत्त्वज्ञानेन क्व पूजनम् स्थूलमार्गेण यत् सर्वस्य पूज्यपूजादेस्तदेकस्वरूपतया क्वापि भिन्नता नेति भावः || ५१ || व्रजेत्प्राणो विशेज्जीव इच्छया कुटिलाकृतिः | दीर्घात्मा सा महादेवी परं क्षेत्रं परात्परा || १५२ || प्राणप्रवेशनसमये अपानस्य संघट्टनात् हृदयादौ | अस्य पद्यस्य विस्तृतो रहस्यार्थस्तन्त्रालोकादौ निगदितस्तत एवावधार्यः तत्रापि प्. ६१) गुरुमुखत एव समाधेयतया नास्माभिरिह वितानित इति क्षन्तव्यम् || १५२ || अस्यामनुचरंस्तिष्ठन्महानन्दमयेऽध्वरे | तया देव्या समाविष्टः परं भैरवमाप्नुयात् || १५३ || षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः | हंस-हंसेति-मन्त्रेण जीवो जपति नित्यशः || ५४ || जपो देव्याः समुद्दिष्टः प्राणस्यान्ते सुदुर्लभः | प्राणस्यान्ते पर्यवसानावस्थायाम् || इत्येतत्कथितं देवि परमामृतमुत्तमम् || १५५ || एतच्च नैव कस्यापि प्रकाश्यं तु कदाचन | परशिष्ये खले क्रूरे चाभक्ते गुरुपादयोः || १५६ || निर्विकल्पमतीनां तु वीराणामुन्नतात्मनाम् | निर्विकल्पमतीनां वीराणां च्छिन्नसंशयानाम् उन्नतात्मनां शुद्धविद्याप्रधानमायोत्तीर्णानाम् || भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया || १५७ || दिव्यौघ-सिद्धौघ-मानवौघादिगुरुपङ्क्तिभक्तानाम् प्रदेयमेतद्रहस्यज्ञानमिति || १५७ || ग्रामं राज्यं पुरं देशं पुत्रदाराकुटुम्बकम् | सर्वमेतत्परित्यज्य ग्राह्यमेतन्मृगेक्षणे || १५८ || प्. ६२)
SKकिमेभिरस्थिरैर्देवि स्थिरं परमिदं धनम् | प्राणा अपि प्रदादव्या न देयं परमामृतम् || १५९ || राज्याद्यस्थिराननुगामिद्रव्यसंपत्त्यागेनैतदक्षयमनुवर्तमानमनुत्तरसु खफलं स्थिरधनं संग्राह्यं यत्सर्वथादेयं निर्दिष्टापात्रेभ्य इति || १५८-१५९ || श्रीभैरवी देव देव महादेव परितृप्तास्मि शंकर | रुद्रयामलतन्त्रस्य सारमद्यावधारितम् || १६० || सर्वशक्तिप्रभेदानां हृदयं ज्ञातमद्य च | इत्युक्त्वानन्दिता देवी कण्ठे लग्ना शिवस्य तु || १६१ || इत्येतानि पद्यानि स्पष्टव्याख्यानानि तस्मादलं विवरणेन || १६०-१६१ || इति श्री विज्ञानभैरवं नाम योगशास्त्रं समाप्तम् | प्. ६३) श्रीविद्यानुग्रहावाप्तप्रेक्षालेशस्त्रिकागमान् | आलोड्यालोच्य तत्तत्त्वसंग्रहार्थं सुविस्तृतम् || १ || विज्ञानभैरवे गूढपथे पदप्रबोधिनीम् | दुर्ध्वान्तभवदुःश्वभ्रविभ्रंशात्पालनोदिताम् || २ || वेदसप्तर्षिवेदान्त्ययुगाब्दमधुपक्षतौ | विज्ञानकौमुदीमेतां भट्टानन्दो व्यकासयत् || ३ || समाप्तेयं विज्ञानकौमुदी नाम विज्ञानभैरवटीका | कृतिस्तत्रभवत्काश्मीरिकभट्टारकानन्दकस्य || सद्विद्यानां संश्रय ग्रन्थविद्वद्- व्यूहे ह्रासं कालवृत्त्योपयाते | तत्तत्सद्धर्मोद्दिधीर्षैकतान- सत्प्रेक्षौजःशालिना कर्मवृत्त्यै || १ || श्रीमत्कश्मीराधिराजेन मुख्यै- र्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य | प्रत्यष्ठापि ज्ञानविज्ञानगर्भ- ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः || २ || प्. ६४) तत्राजीवं निर्विशद्भिर्मुकुन्द- रामाध्यक्षत्वाश्रितैः सद्भिरेषः | पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात् पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् || ३ || (तिलकम्) श्रीस्वात्मशिवार्पणमस्तु ||