SKनमो आदिनाथाय || ईश्वर उवाच || चन्द्रसूर्यस्तथा वह्नि शरीरे दश नाडिकाः | पञ्चस्थावायव पञ्च मनोबिन्दुस्तथैव च ||१|| षट्चक्रं मेरुदण्डञ्च ओड्डियानं तथैव च | जालंधरं कामरूपं पूर्णगिरि श्रीहस्तकः ||२|| प्रकीर्तिः क्षेत्रपुरुषो ब्रह्माविष्णुशिवस्तथा | नदानद्यः समुद्राश्च भुवनानि चतुर्दशः ||३|| ब्रह्माण्डे यै गुणाः संति ते तिष्ठंति कलेवरे | तेषां संक्षेपतः साध्यं प्रवदन्ति शुविस्मृते ||४|| २अ) मेरुशृङ्गे स्थिते चन्द्रो द्विरष्टा कलया युतः | अहर्निशं तुषाराभं शुधां वर्षत्यधो मुखं ||५|| शुधांशुर्द्धि विषश्रावी पीयूष बिंदुमेव च | तरलस्तु शुधाज्ञेया घनोबिंदुरुदाहृतः ||६|| एकबिंदु सदा ब्रह्मा उत्पत्तिस्थितितारकः | बिंदुवर्गस्य साध्येन देहसिद्धिः प्रजायते ||७|| जवाकुसुमसंकाशोवस्थिदेशे सुसोभने | मध्यमामूलसंव्याप्य सूर्यन् तिष्ठति देहिनां ||८|| २ब्) कलाद्वादशभिः सूर्यो वह्निर्दशकला युतः | सर्वेषां देहिनां तिष्थेत् अन्नादिः पावकः सदा ||९|| तुषारं वर्षते चन्द्रो रविः सुध्यति सर्वदा | तत्संयोगे स्थितः प्राणः वियोगात्मरणं भवेत् ||१०|| ऊर्द्धं यातिरवे रस्मिरधचंद्रामृतं सदा | अभ्यासात् कामरूपेन योगं योग विदोविदुः ||११|| अयं योगसमुद्रं च वसन्तः परिकीर्तितः | अरोगी च भवे देवी प्राणापानैक योगतः ||१२|| प्राणश्चन्द्र मयोज्ञायोऽपानः सूर्यमयं तथा | ३अ) अनयोः संगमं सध्यं रजोबीजस्य साधनं ||१३|| ओड्डीयानं दृढं बन्धं कृत्वा रेचकपूरकौ | समानापानयोर्योगः प्राणापानेकयोगतः ||१४|| कामरूपे त्रिर्योगः प्राणापाने समानकौ | नाभिशक्तिः द्वयोर्मध्ये ओड्डियानं तदुच्यते ||१५|| वह्नौ जालंधरो ज्ञेयः कामरूपश्च गर्भके | पूर्णगिरिः हृदिर्मध्ये श्रीहद्वं तालुकोपरि ||१६|| आकुंच्य गुडमूलन्तु चिबुकं हृदयोपरि | ३ब्) नवद्वाराणि संयम्य कुक्षिमापूर्य वायुना ||१८|| चारणं सर्वे नाडीनां देहवह्निः प्रदीपनं | वंह्नेः प्रदीपनात्नित्यं अन्नादेः पाचनं भवेत् ||१९||
SKअन्नादेः पाचनात्नित्यं रसवृद्धिः प्रजायते | स्वभावाद्बीज एवासौ बिंदुविभर्तिनान्यधा ||१९|| अधिकं सर्वगात्रेषु भवन्ति चाष्टधावतः | वायुरेव परो देहे मूलसारः प्रकीर्तितः ||२०|| वायोः प्रसाधना देव आयुर्वृद्धि दिने दिने | हृदिः प्राणो गुडऽपानः समानो नाभिसंस्थितः ||२१|| ४अ) उदानः कण्ठदेशे च व्यानः सर्व शरीरगः | स्थानवायुञ्च संक्षिप्य वस्थिदेशे पुनः पुनः ||२२|| उद्घाते ये चक्र नालं सुषुम्णाया सुगोपितं | ब्रह्मग्रन्थिं ततोतित्वा वायुर्विशति मध्यमां ||२३|| स्वाधि चक्र लिंगमूले ततो वायुर्विशत्यपि | मणिपूरं नाभिदेशे ततो विध्यात्सदा गतिः ||२४|| हृदिमध्ये विष्णुग्रंथिं भित्वा कण्ठगुणाकरं | ४ब्) तालुमूलं सुधाचक्रे भित्वारुद्रालयं व्रजेत् ||२५|| चक्रं चक्र यदाभित्वा वायुर्याति पुरे पुरे | वायुना सहयोगेण बिन्दु तत्रैव गच्छति ||२६|| यावनस्थां व्रजे वायु बिन्दुस्थानेन गच्छति | शंखिनी नालसंप्राप्य चास्थि शून्यं विभर्तिसः ||२७|| ततः क्षीरमयो देहः पिण्डसिद्धो भवेद्ध्रुवं | एवं मभ्यासयोगेण नरो ब्रह्मनि यः स्थितः ||२८|| तस्य पापं क्षयं याति जन्मकोटि शतार्जितं | मासे मासेऽश्वमेधश्च यज्ञस्य च फलं भवेत् ||२९|| ५अ) वर्षणराज सूर्यस्य फलं तस्य न संशयः | दह्यते सर्वपापानि कोटिजन्मार्जितानि च ||३०|| ईहैवाभ्यास योगेण तृणानि वह्निना जपा | तपांसि योनि कथ्यंते यज्ञदानव्रतानि च ||३१|| कोटि कोटि गुणैस्तानि भवत्यभ्यास योगतः | नन्दन्ति पितरः सर्वे पुत्रो योगानुसारिणी ||३२|| भुञ्जस्ते च सुखं सर्वं सर्वदुःखविवर्जिताम् | देव्युवाच || उपायं ध्यान योगस्य ब्रुहि मे शशि सेषर | ५ब्) यल्लब्ध्वा योगिनः सर्वे मुच्यते जन्म बंधनात् ||३३|| ईश्वरोवाच || नाभिमध्ये स्थितो ब्रह्मा हृदि मध्ये तु माधवः | शिरसि शङ्करो ज्ञेया त्रिस्थानं मुक्तिदं स्मृतं ||३४|| नाभि मध्ये परं ज्योतिः प्रदीपं तद्दशाङ्गुलं | ज्योतिपुञ्ज च चक्रवत् हृदिमध्ये च तिष्ठति ||३५||
SKशुद्धस्फटिकसंकाशं चंद्रकोटि समप्रभं | ध्यायेत् मूद्ध्नि शिवज्योति घृतपिण्डसिवोद्धृतं ||३६|| ६अ) अचञ्चलं मनं कृत्वा त्रयाणां ज्योतिषां शनैः | मेलकं वायुबिंदूभ्यां कर्तव्यं मनसा बुधैः ||३७|| कामरूपे चक्रनाले मध्यमां मध्यगोचरे | तथाचक्रेषु सर्वेषु प्रत्यं ज्योतिः प्रदृश्यते ||३८|| यस्मिन्नभ्यासतो वायुर्मनो बिंदुस्तथैव च | ज्योतिषि त्रीणि तत्रैव तेषु चात्मा प्रतिष्ठति ||३९|| नाभिमध्येषु सर्वेषु ज्योतिषां दीप्यते यथा | तत्रैव चास्थि शून्ये तु कालचारः पलायते ||४०|| ६ब्) एवं ध्यानं सदा बुद्ध्या कुर्यात् ज्योतिर्मयं बुद्धः | ज्योटिषां वायु बिंदुर्नामेलकं मुक्तिदायकं ||४१|| एवं ध्यानस्थिरं यस्य न वाक्यं लभ्यते मनः | वायुर्बिन्दु मनश्चात्मा तस्य सर्वस्थिरं भवेत् ||४२|| चले बिन्दौ चले चित्ते चले वायौ च सर्वदा | चलते चलमानोसौ मृत्युमभ्येति शाश्वत ||४३|| ७अ) तस्मादेवञ्चला भूत्वा * * * * * * * *? | भवेत् ||४४|| कथितं ध्यान योगस्य समुद्देशे च विस्मृते | ध्यानातीतं परं ब्रह्म सर्वशास्त्रेषु गोपितं ||४५|| ब्रह्माविष्णुशिवादीनां एकोसौ जनकाविभुः | आधारो भुवनानाञ्च देहस्था देहवर्जिताः ||४६|| ७ब्) एकोव्यापीशसं * *? निर्गुणः प्रकृते परः | जन्म वृद्ध्यादि रहित आत्मासर्वगतान्ययः ||४७|| निरालंवे मनः कृत्वा कुर्याच्छुन्ये मनस्थिरं | अनित्य खण्डयेत् सर्वं यत्किञ्चित् मनसार्जितं ||४८|| खण्डयेत् सततं देवि विनष्टं पञ्चभौतिकं | करणानि मनश्चैव यदा ब्रह्मणि नीयते ||४९|| तदा ब्रह्मपदं प्राप्य योगी मुक्ति पदं व्रजेत् | अनिमादि गुणास्तस्य * * * * * * * *? ||५०|| ८अ) देव्युवाच || इन्द्रियाना * * * * * * * * * * * ||५१|| ईश्वरोवाच || ब्रह्माण्ड * * *? ब्रह्म परं ज्योतिर्मयं शुभं | तदूर्द्धञ्च परं विष्णोः हृदये च गुणान्वितं ||५२|| तदूर्द्धञ्चैव रुद्राणां दृश्यते नात्रसंशयः | तदूर्द्धञ्च महाशून्यं यत्र ब्रह्म यथाश्रमं ||५३||
SKतत्रैव च मनो नीत्वा महाशून्यमयोपरि | कालस्य रक्षयं ज्ञात्वा स्वयं ब्रह्म समो भवेत् ||५४|| ८ब्) अत एव शिवादीनां निद्राव्याजेन पार्वती | प्रत्यद्दे ज्ञानचिन्तायां न किञ्चिदन्यथा भवेत् ||५५|| एवं शक्रादयो देवाः सिद्धाश्च वरवर्णिन | सिद्धाः सिद्धं प्रकुर्वन्ति ते यान्ति परमा गतिः ||५६|| मानुषाश्चास्मि काये च गन्धर्वोरग किन्नरा | एवं योगसमासाध्य गच्छन्तिं परमां गति ||५७|| ९अ) हिंसार्थे च व्रजेत् कालं स्तेन नास्तिक वादिना | असत्यर्नोचता क्रूराः द्विजवेदविनिंदकाः ||५८|| असेवागुरुपादे च सर्वधर्म विवर्जिता | आलसौ पीडिता ये च कामक्रोधप्रपीडिता ||५९|| तथाभ्यास विहीनाश्च योगतः परिहीयते | तेन मुक्ति पदं याति धर्मे नानेन पार्वतै ||६०|| ९ब्) केचित् ध्यानं युगंसंति विज्ञानञ्च परः परं ||६१|| धर्मकर्मादिके ये च विज्ञानमुपदेशतः | साध्यः चानु क्रमं कृत्वा ते यान्ति परमां गतिं ||६२|| यश्चेनं शृणुयान् नित्यं कथा सर्व यथा स्मृतां | सर्वपापक्षयं तस्य ब्रह्मणसदनं भजेत् ||६३|| स्वकृच्छ्रवणमात्रेण ब्रह्महत्यां व्यपोहतिः | १०अ) दिनेकनाश्वमेधानां यज्ञानाञ्च फलं लभेत् ||६४|| यः पठेत् पाठ्ययेद् वापि सर्वयज्ञफलं लभेत् | अतः पुण्यतरं शास्त्रं नोचात्र विद्यते क्वचित् ||६५|| मूलसारेति इति गोरक्षजोगशास्त्रसमाप्तं || ||