The Perfection of Wisdom in Twenty-Five Thousand Lines, Chapters 1-8
Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8
Pअञ्चविंशतिसाहस्रिका Pरज्ञापारमिता, १-८
SK
Pअञ्चविंशतिसाहस्रिका Pरज्ञापारमिता
SK
एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूते पर्वते महता भिक्षुसंघेन सार्धं पञ्चमात्रैर् भिक्षुसहस्रैः सर्वैर् अर्हद्भिः क्षीणास्रवैर् निःक्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिताप्राप्तैः पञ्चमात्रैर् भिक्षुनीशतैर् उपासकैर् उपासिकाभिश् च सार्धं सर्वैर् दृष्टधर्मैर् अपरिमाणैश् च बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं सर्वैर् धारणीप्रतिलब्धैः शून्यताविहारिभिर् आनिमित्तगोचरैः प्रणिधानाकल्पितैः क्षान्तिसमताप्रतिलब्धैर् असङ्गधारणीप्रतिलब्धैर् अच्युताभिज्ञैर् आदेयवचनैर् अकूहकैर् अलपकैर् अपगतज्ञात्रलाभचित्तैर् निरामिषधर्मदेशकैर् गम्भीरधर्मक्षान्तिपारङ्गतैर् वैशारद्यप्राप्तैर् मारकर्मसमतिक्रान्तैः कर्मावरणप्रतिप्रस्रब्धैर् धर्मप्रविचयविभक्तिनिर्देशकुशलैर् असंख्येयकल्पप्रणिधानसुसमारब्धैः स्मितमुखैः पूर्वालापिभिर् विगतभृकुटीमुखैर् गाथाभिर् गीतालपनकुशलैर् अपगतलीनचित्तैर् अनाच्छेद्यप्रतिभानैर् अनन्तपर्षदभिभवनवैशारद्यसमन्वागतैर् अनन्तकल्पकोटीनिःसरणकुशलैर् मायामरीचिदकचन्द्रस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बनिर्माणोपमधर्माधिमुक्तैः सत्त्वगतिचरितसूक्ष्मनानाधिमुक्त्यवतारकुशलैर् अप्रतिहतचित्तैर् अधिमात्रक्षान्तिसमन्वागतैर् याथात्म्यावतारणकुशलैः सर्वबुद्धक्षेत्रानन्तव्यूहप्रणिधानप्रस्थानपरिगृहीतैर् असंख्येयलोकधातुबुद्धानुस्मृतिसमाहितसततसमिताभिमुखीभूतैर् अपरिमितबुद्धाध्येषणकुशलैर् नानादृष्ट्यनुशयपर्यवस्थानक्लेशप्रशमनकुशलैः समाधिविक्रीडितशतसहस्रनिर्हारकुशलैः. तद्यथा भद्रपालेन च बोधिसत्त्वेन महासत्त्वेन रत्नाकरेण च सार्थवाहेन च नरदत्तेन च वरुणदत्तेन च शुभगुप्तेन च (PSP१-१: २) इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रामिणा च नित्योद्युक्तेन च अनिक्षिप्तधूरेण च सूर्यगर्भेण च अनुपमचिन्तिना च अवलोकितेश्वरेण च महास्थामप्राप्तेन च मञ्जुश्रिया च वज्रमतिना च रत्नमुद्राहस्तेन च नित्योत्क्षिप्तहस्तेन च मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन, एवं प्रमुखैर् अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धम्.
अथ खलु भगवान् पुनर् एव सर्वरोमकूपेभ्यः स्मितम् अकरोत्, एकैकतश् च रोमकूपात् षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः, यैर् अयं त्रिसाहस्रमहासाहस्रो लोकधातुर् अवभासितः स्फुटो ऽभूत्, तैश् च पूर्वस्यां दिशि गङ्गानदीबालुकोपमाः सर्वलोकधातवो ऽवभासेनावभासिताः स्फुटाश् चाभूवन्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अधस्ताद् उपरिष्टाद् दिशि गङ्गानदीबालुकोपमा लोकधातवो ऽवभासेनावभासिताः स्फुटाश् चाभूवन्, तेन च रश्म्यवभासेनये सत्त्वाः स्पृष्टास् ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु भगवान् पुनर् एव या सा बुद्धानां भगवतां प्रकृतिप्रभा तया प्रभया त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासयामास, यावत् सर्वासु दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तया प्रभया अवभासिता अभूवन्, ये च सत्त्वास् तया प्रभया स्पृष्टास् ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ शुद्धावासकायिका देवाः शुभकृत्स्ना आभास्वरा ब्रह्मकायिका देवाः परनिर्मितवशवर्तिनश् च निर्माणरतयश् च तुषिताश् च यामाश् च त्रायस्त्रिंशाश् च चातुर्महाराजकायिकाश् च देवास् ते तं तथागतस्यासेचनकम् आत्मभावं दृष्ट्वा दिव्याः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीर् गृहीत्वा दिव्यानि उत्पलकुमुदसौगन्धिकपुण्डरीकपद्मानि गृहीत्वा दिव्यानि च केशरतमालपत्राणि गृहीत्वा येन तथागतस्यासेचनक आत्मभावस् तेनोपसंक्रान्ताः, ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ मनुष्यास् ते ऽपि तं तथागतस्यासेचनकम् आत्मभावं दृष्ट्वा स्थलजलजानि पुष्पाणि गृहीत्वा येन तथागतस्यासेचनक आत्मभावस् तेनोपसंक्रान्ताः.
SK
अथ खलु ते देवास् ते च मानुषास् ताभिर् दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिस् तैश् च स्थलजलजैः पुष्पैस् तं तथागतकायम् अवकिरन्ति स्म, अभ्यवकिरन्ति स्म.
SK
अथ खलु यैस् तैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीवर्षैः स्थलजलजैश् च पुष्पैर् भगवान् अवकीर्णस् तानि च सर्वाणि उपर्यन्तरीक्षे भगवतो ऽधिष्ठानेन त्रिसाहस्रमहासाहस्रलोकधातुप्रमाणम् एकं कूटागारं संस्थितम् अभूत्, ततश् च कूटागारात् तानि दिव्यानि पुष्पपट्टदामानि लम्बन्ते प्रलम्बन्ते स्म, तैश् च पुष्पदामभिः पट्टदामभिश् चायं त्रिसाहस्रमहासाहस्रो लोकधातुर् अतीवाशोभत, तेन च सुवर्णवर्णेन भगवतः प्रभावभासेन दशसु दिक्षु प्रसृतेन एकैकस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः स्फुटावभासिताश् चाभूवन्, अस्मिंश् च त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वेषु चातुर्द्वीपकेषु लोकधातुषु तेषां देवमनुष्याणां (PSP१-१: ७) च एकैकस्यैतद् अभूत्, मम पुरतस् तथागतो निषण्णो धर्मं देशयतीति.
SK
अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषण्णः पुनर् एव स्मितम् अकरोत्, येन स्मितावभासेनायं त्रिसाहस्रमहासाहस्रो लोकधातुः स्फुटो ऽभूत्, यावद् दशसु दिक्षु गङ्गानदीबालुकोपमा लोकधातवः स्फुटा अभूवन्, ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्, तस्यां च पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् ते सर्वे इमां सहालोकधातुं पश्यन्ति स्म शाक्यमुनिं च तथागतं सार्धं भिक्षुसंघेन. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वं दिग्भागे गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्, तेषु च गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् ते सर्वे इमां सहालोकधातुं पश्यन्ति स्म शाक्यमुनिञ् च तथागतं सार्धं भिक्षुसंघेन.
SK
अथ खलु पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातू रत्नावती नाम तत्र रत्नाकरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ समन्तरश्मिर् नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतः पश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् (PSP१-१: ८) अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते पूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकाः, तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलु दक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुः सर्वशोकापगतो नाम तत्राशोकश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ विगतशोको नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् अशोकश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतम् अशोकश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते अशोकश्रीस् तथागतो विगतशोकं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेत उत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा (PSP१-१: ११) येन ते दक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति स्म, यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततः सर्वशोकापगताया लोकधातोः विगतशोकेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलु पश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् उपशान्ता नाम तत्र रत्नार्चिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ चारित्रमतिर् नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नार्चिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नार्चिषम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते रत्नार्चिः तथागतः चारित्रमतिं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतः पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा (PSP१-१: १३) येन ते पश्चिमायां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः सधर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् तत उपशान्ताया लोकधातोश् चारित्रमतिणा बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खल्व् उत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् जया नाम तत्र जयेन्द्रो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ जयदत्तो नाम बोधिसत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवाञ् जयेन्द्रस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं जयेन्द्रम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महताः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते जयेन्द्रस् तथागतो जयदत्तं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतो दक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते उत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन (PSP१-१: १५) प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो जयाया लोकधातोः जयदत्तेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खल्व् उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुः समाध्यलङ्कृता नाम तत्र समाधिहस्त्युत्तरश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ विजयविक्रामी नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् समाधिहस्त्युत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य भगवन्तं तथागतं समाधिहस्त्युत्तरश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् समाधिहस्त्युत्तरश्रीस् तथागतो विजयविक्रामिणं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतो दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति, तस्यायम् ईदृशो ऽनुभावः.
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन (PSP१-१: १७) प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्. तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततः समाध्यलंकृताया लोकधातोर् विजयविक्रामिणा बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलु पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् बोधिमण्डालंकाररुचिरा नाम तत्र पद्मोत्तरश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ पद्महस्तो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् पद्मोत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं पद्मोत्तरश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य चास्यासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् पद्मोत्तरश्रीस् तथागतः पद्महस्तं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतः पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
SK
अथ खलु पद्महस्तो बोधिसत्त्वः पद्मोत्तरश्रियं तथागतम् (PSP१-१: १८) एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहा नाम लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिङ् गतान्.
SK
स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे.
SK
अथ खलु पद्मोत्तरश्री तथागतो नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि पद्महस्ताय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, पद्मोत्तरश्री भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता पद्मोत्तश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः.
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा (PSP१-१: १९) येन ते पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो बोधिमण्डालंकारसुरुचिराया लोकधातोः पद्महस्तेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलु दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् विगतरजःसञ्चया नाम तत्र सूर्यमण्डलप्रभासोत्तमश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ सूर्यप्रभासो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् सूर्यमण्डलप्रभासोत्तमश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं सूर्यमण्डलप्रभासोत्तमश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् सूर्यमण्डलप्रभासोत्तमश्रीस् तथागतः सूर्यप्रभासं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेत उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो विगतरजःसञ्चयाया लोकधातोः सूर्यप्रभासेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलु पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् वशीभूता नाम तत्रैकच्छत्त्रो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ रत्नोत्तमो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् एकच्छत्त्रस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतम् एकच्छत्त्रम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय, अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् एकच्छत्त्रस् तथागतो रत्नोत्तमं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्र इतः पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् (PSP१-१: २२) नाम तथागतो ऽर्हन् सम्यक्संबुब्द्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोअधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो वशीभूताया लोकधातो रत्नोत्तमेण बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खल्व् अधस्ताद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुः पद्मा नाम तत्र पद्मश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ पद्मोत्तरो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् पद्मश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं पद्मश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय, (PSP१-१: २४) अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् पद्मश्रीस् तथागतः पद्मोत्तरं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेत उपरिष्टा दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते ऽधस्ताद् दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकाः, तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततः पद्माया लोकधातोर् पद्मोत्तरेण बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलूपरिष्टाद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् नन्दा नाम तत्र नन्दश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ खलु तत्र लोकधातौ नन्ददत्तो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च (PSP१-१: २६) भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् नन्दश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं नन्दश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय, अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् नन्दश्रीस् तथागतो नन्ददत्तं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्र इतो ऽधस्ताद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन त उपरिष्टाद् दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो नन्दाया लोकधातोर् नन्ददत्तेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य गच्छतो वा तिष्ठतो वा निषण्णस्य वा शयानस्य वा स पृथिवीप्रदेशो वज्रमयः संतिष्ठेतेति प्रज्ञापारमितायां शिक्षितव्यम्.
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्व एव समानो बोधिसत्त्वं न समनुपश्यति, बोधिसत्त्वनामापि न समनुपश्यति, बोधिसत्त्वचर्याम् अपि न समनुपश्यति, प्रज्ञापारमिताम् अपि न समनुपश्यति, रूपम् अपि न समनुपश्यति, एवं वेदनां संज्ञां संस्कारान् विज्ञानम् अपि न समनुपश्यति, तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वो बोधिसत्त्वस्वभावेन शून्यः प्रज्ञापारमिता प्रज्ञापारमितास्वभावेन शून्यः. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, तथा हि शून्यतया न रूपं शून्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शून्यतया शून्यं, नान्यत्र रूपाच् छून्यता, नान्यत्र वेदनायाः शून्यता, नान्यत्र संज्ञायाः शून्यता, नान्यत्र संस्कारेभ्यः शून्यता, नान्यत्र विज्ञानाच् छून्यता. तत् कस्य हेतोः? रूपम् एव शून्यता, वेदनैव शून्यता, संज्ञैव शून्यता, संस्कारा एव शून्यता, विज्ञानम् एव शून्यता, शून्यतैव रूपं, शून्यतैव वेदना, शून्यतैव संज्ञा, शून्यतैव संस्काराः, शून्यतैव विज्ञानम्. तत् कस्य हेतोः? तथा हि नाममात्रम् इदं यद् इदं बोधिसत्त्व इति, नाममात्रम् इदं यद् इदं प्रज्ञापारमितेति, नाममात्रम् इदं यद् इदं रूपं वेदना संज्ञा संस्कारा विज्ञानं, तथा हि मायोपमं रूपं वेदना संज्ञा संस्कारा विज्ञानं, माया च नाममात्रं न देशस्था न प्रदेशस्था असदसंभूतं वितथदर्शनसमं, मायादर्शनस्वभावस्य हि (PSP१-१: ५४) नोत्पादो न निरोधो न संक्लेशो न व्यवदानम्, एवं प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्व उत्पादम् अपि न समनुपश्यति, निरोधम् अपि न समनुपश्यति, संक्लेशम् अपि न समनुपश्यति, व्यवदानम् अपि न समनुपश्यति. तत् कस्य हेतोः? तथा हि कृत्रिमं नाम प्रतिधर्मं, ते च कल्पिताः, आगन्तुकेन नामधेयेन व्यवह्रियन्ते, तानि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सर्वनामानि न समनुपश्यति असमनुपश्यन् नाभिनिविशते.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वः प्रज्ञापारमितायां चरन् नैवम् उपपरीक्षते नाममात्रम् इदं यद् इदं बोधिसत्त्व इति, नाममात्रम् इदं यद् उत बोधिर् इति, नाममात्रम् इदं यद् उत बुद्ध इति, नाममात्रम् इदं यद् उत प्र्ज्ञापारमितेति, नाममात्रम् इदं यद् उत प्रज्ञापारमितायां चर्येति, नाममात्रम् इदं यद् उत रूपम् इति, नाममात्रम् इदं यद् उत वेदनेति, नाममात्रम् इदं यद् उत संज्ञेति, नाममात्रम् इदं यद् उत संस्कारा इति, नाममात्रम् इदं यद् उत विज्ञानम् इति, तद्यथापि नाम शारिपुत्र आत्मेति चोच्यते, न चात्मा उपलभ्यते, न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो ऽप्य् उपलभ्यते, अनुपलम्भशून्यताम् उपादाय. तत् कस्य हेतोः? तथा हि बोधिसत्त्वस् तम् अपि न समनुपश्यति येनाभिनिविशेत, एवं चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति.
SK
स चेच् छारिपुत्रायञ् जम्बुद्वीपः परिपूर्णो भवेच् छारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् अपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति, एवं शारिपुत्र प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभाविता या प्रज्ञा सा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञाम् अभिभवति. तत् कस्य हेतोः? तथा हि शारिपुत्र या बोधिसत्त्वस्य प्रज्ञा सा सर्वसत्त्वानां निर्वाणाय प्रत्युपस्थिता, तिष्ठतु शारिपुत्रायञ् जम्बुद्वीपः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर् (PSP१-१: ५५) भिक्षुभिः.
SK
स चेच् छारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णो भवेच् छारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. तिष्ठतु शारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः.
SK
स चेच् छारिपुत्र पूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र दक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र पश्चिमायां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां (PSP१-१: ५६) चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र उत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनंवा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् (PSP१-१: ५७) उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदिबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य्, उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा, तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्राधस्ताद् दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र ऊर्ध्वं दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं (PSP१-१: ५८) वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आसु सर्वासु शून्यतासु युक्तो युक्त इति वक्तव्यः, स आभिः शून्यताभिः प्रज्ञापारमितायां चरन् न तावद् बोधिसत्त्वो महासत्त्वो युक्तो युक्त इति वक्तव्यो ऽयुक्त इति. तत् कस्य हेतोः? तथा हि न स रूपं न वेदनां न संज्ञां न संस्कारान् न विज्ञानं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति.
SK
इति दुःखसत्याववादः
SK
स न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति, न वेदनाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति न संज्ञाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति, न संस्कारान् उत्पादधर्मिणो वा निरोधधर्मिणो वा समनुपश्यति, न विज्ञानाम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति, न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति, न वेदनां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति, न संज्ञां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति, न संस्कारान् संक्लेशधर्मिणो वा व्यवदानधर्मिणो वा समनुपश्यति, न विज्ञानं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो न रूपं वेदनायां समवसरतीति समनुपश्यति, न वेदना संज्ञायां समवसरतीति समनुपश्यति, न संज्ञा संस्कारेषु समवसरतीति समनुपश्यति, न संस्कारा विज्ञाने समवसरन्तीति समनुपश्यति, न विज्ञानं धर्मे समवसरतीति समनुपश्यति, न धर्मः क्वचिद् धर्मे समवसरतीति समनुपश्यति, तत् कस्य हेतोः? न हि कश्चिद् धर्मः क्वचिद् धर्मे समवसरति प्रकृतिशून्यताम् उपादाय, तत् कस्य हेतोः? तथा हि शारिपुत्र या रूपस्य शून्यता न तद् रूपम्, या वेदनायाः शून्यता न सा वेदना, या (PSP१-१: ६४) संज्ञायाः शून्यता न सा संज्ञा, या संस्काराणां शून्यता न ते संस्काराः, या विज्ञानस्य शून्यता न तद् विज्ञानम्. तत् कस्य हेतोः? तथा हि या रूपशून्यता न सा रूपयति, या वेदनाशून्यता न सा वेदयति, या संज्ञाशून्यता न सा संजानीते, या संस्कारशून्यता न साभिसंस्कारोति, या विज्ञानशून्यता न सा विजानाति, तत् कस्य हेतोः? तथा हि शारिपुत्र नान्यद् रूपम् अन्या शून्यता, नान्या शून्यता अन्यद् रूपं, रूपम् एव शून्यता शून्यतैव रूपम्, नान्या वेदना अन्या शून्यता, नान्या शून्यता अन्या वेदना, वेदनैव शून्यता शून्यतैव वेदना, नान्या संज्ञा अन्याशून्यता, नान्या शून्यता अन्या संज्ञा, संज्ञैव शून्यता शून्यतैवसंज्ञा, नान्ये संस्कारा अन्या शून्यता, नान्या शून्यता अन्ये संस्काराः, संस्कारा एव शून्यता शून्यतैव संस्काराः, नान्यद् विज्ञानम् अन्या शूयता, नान्या शून्यता अन्यद् विज्ञानं, विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्.
SK
इति समुदयसत्याववादः
SK
शून्यता शारिपुत्र नोत्पद्यते न निरुध्यते, न संक्लिश्यते न व्यवदायते, न हीयते न वर्धते, नातीता नानागता न प्रत्युत्पन्ना, या च ईदृशी न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न चक्षुरायायतनं न रूपायतनं न श्रोत्रायतनंन शब्दायतनं न घ्राणायतनं न गन्धायतनं न जिह्वायतनं रसायतनं न कायायतनं स्प्रष्टव्यायतनं न मनआयतनं धर्मायतनम्, न चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञानधातुः, न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः, न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः, न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः, न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः, नाविद्योत्पादो नाविद्यानिरोधः, न संस्कारोत्पादो न संस्कारनिरोधः, न विज्ञानोत्पादो न विज्ञाननिरोधः, न नामरूपोत्पादो न नामरूपनिरोधः, न षडायतनोत्पादो न षडायतननिरोधः, न स्पर्शोत्पादो न स्पर्शनिरोधः, न वेदनोत्पादो न वेदनानिरोधः, न तृष्णोत्पादो न तृष्णानिरोधः, न उपादानोत्पादो नोपादाननिरोधः, न भवोत्पादो न (PSP१-१: ६५) भवनिरोधः, न जात्युत्पादो न जातिनिरोधः न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासोत्पादो न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासनिरोधः, न दुःखं न समुदयो न निरोधो न मार्गो न प्राप्तिर् नाभिसमयो न स्रोतआपन्नो न स्रोतआपत्तिफलं, न सकृदागामी न सकृदागामिफलं, नानागामीनानागामिफलं, नार्हत्त्वं नार्हत्त्वफलं, न प्रत्येकबुद्धो न प्रत्येकबोधिः, न बुद्धो न बोधिः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्तो युक्त इति वक्तव्यः.
SK
इति निरोधसत्याववादः
SK
स प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त इति वा आत्मानं समनुपश्यति, न शीलपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न क्षान्तिपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न वीर्यपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न ध्यानपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न प्रज्ञापारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न रूपे युक्त इति वा अयुक्त इति वा समनुपश्यति, न वेदनायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न संज्ञायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न संस्कारेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न विज्ञाने युक्त इति वा अयुक्त इति वा समनुपश्यति, न चक्षुषि युक्त इति वा अयुक्त इति वा समनुपश्यति, न श्रोत्रे युक्त इति वा अयुक्त इति वा समनुपश्यति, न घ्राणे युक्त इति वा अयुक्त इति वा समनुपश्यति, न जिह्वायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न काये युक्त इति वा अयुक्त इति वा समनुपश्यति, न मनसि युक्त इति वा अयुक्त इति वा समनुपश्यति, न रूपे युक्त इति वा अयुक्त इति वा समनुपश्यति, न शब्दे युक्त इति वा अयुक्त इति वा समनुपश्यति, न गन्धे युक्त इति वा अयुक्त इति वा समनुपश्यति, न रसे युक्त इति वा अयुक्त इति वा समनुपश्यति, न स्प्रष्टव्ये युक्त इति वा अयुक्त इति वा समनुपश्यति, न धर्मे युक्त इति वा अयुक्त इति वा समनुपश्यति, न स्मृत्युपस्थानेषु (PSP१-१: ६६) युक्त इति वा अयुक्त इति वा समनुपश्यति, न सम्यक्प्रहाणेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न ऋद्धिपादेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, नेन्द्रियेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न बलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न बोध्यङ्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न मार्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतुर्षु सत्येषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतुर्षु वैशारद्येषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतसृषु प्रतिसंवित्सु युक्त इति वा अयुक्त इति वा समनुपश्यति, नाभिज्ञासु युक्त इति वा अयुक्त इति वा समनुपश्यति, न दशसु तथागतबलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, नाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, यावन् न सर्वाकारज्ञतायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न सर्वज्ञज्ञाने युक्त इति वा अयुक्त इति वा समनुपश्यति, तद् अनेनापि ते शारिपुत्र पर्यायेणैवं वेदितव्यं बोधिसत्त्वो महासत्त्व एवं प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न शून्यतायां शून्यतया योजयति, न शून्यतायोगः, नानिमित्तम् आनिमित्तेन योजयति नानिमित्तयोगं, नाप्रणिहितम् अप्रणिहितेन योजयति नाप्रणिहितयोगम्. तत् कस्य हेतोः? तथा हि शून्यता न योगो नायोगः, एवम् आनिमित्तम् अप्रणिहितं न योगो नायोगः. एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्माणां स्वलक्षणशून्यताम् अवतरति, एवम् एव तरन् न रूपं योजयति न वियोजयति न वेदनां योजयति न वियोजयति, न संज्ञां योजयति न वियोजयति, न संस्कारान् योजयति न वियोजयति, न विज्ञानं योजयति न वियोजयति, न रूपं पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न रूपम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न रूपं प्रत्युत्पन्नेन योजयति न वायोजयति, प्रत्युत्पन्नम् एव न समनुउपश्यति, न वेदनां पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपाश्यति, न (PSP१-१: ६७) वेदनाम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न संज्ञां पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न संज्ञाम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न संज्ञां प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न संस्कारान् पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न संस्कारान् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न विज्ञानं पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न विज्ञानम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न पूर्वान्तम् अपरान्तेन योजयति नापरान्तं पूर्वान्तेन योजयति, न प्रत्युत्पन्नं पूर्वान्तेन वा अपरान्तेन वा योजयति, नापरान्तं पूर्वान्तेन वा प्रत्युत्पन्नेन वा योजयति, न पूर्वान्तम् अपरान्तेन वा प्रत्युत्पन्नेन वा योजयति, अध्वशून्यताम् उपादाय. एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् एवं युज्यते, यथा युज्यमानो न सर्वाकारज्ञताम् अतीतेन योजयति, अतीतम् एव न समनुपश्यति, कथम् अतीतेन सर्वाकारज्ञतां योजयति. न सर्वाकारज्ञताम् अनागतेन योजयति, अनागतम् एव न समनुपश्यति, कथम् अनागतेन सर्वाकारज्ञतां योजयति. न सर्वाकारज्ञतां प्रत्युत्पन्नेन योजयति, प्रत्युत्पन्नम् एव समनुपश्यति, कथं प्रत्युत्पन्नेन सर्वाकारज्ञतां योजयति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
इति मार्गसत्याववादः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति, न वेदनां सर्वाकारज्ञतया योजयति वेदनाम् एव न समनुपश्यति, न संज्ञां सर्वाकारज्ञतया योजयति संज्ञाम् एव न समनुपश्यति, न संस्कारान् सर्वाकारज्ञतया योजयति संस्कारान् एव न समनुपश्यति, न विज्ञानं सर्वाकारज्ञतया योजयति विज्ञानम् एव न समनुपश्यति, न चक्षुः सर्वाकारज्ञतया योजयति चक्षुर् एव न समनुपश्यति, न श्रोत्रं सर्वाकारज्ञतया योजयति श्रोत्रम् एव न समनुपश्यति, न घ्राणं सर्वाकारज्ञतया योजयति घ्राणम् एव न समनुपश्यति, न जिह्वां सर्वाकारज्ञतया योजयति जिह्वाम् एव न समनुपश्यति, न कायञ् सर्वाकारज्ञतया योजयति कायम् एव न समनुपश्यति, न मनः सर्वाकारज्ञतया योजयति मन एव न समनुपश्यति, न रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति, न शब्दान् सर्वाकारज्ञतयायोजयति शब्दान् एव न समनुपश्यति, न गन्धान् सर्वाकारज्ञतया योजयति गन्धान् एव न समनुपश्यति, न रसान् सर्वाकारज्ञतया योजयति रसान् एव न समनुपश्यति, न स्प्रष्टव्यं सर्वाकारज्ञतया योजयति स्प्रष्टव्यं एव न समनुपश्यति, न धर्मान् सर्वाकारज्ञतया योजयति धर्मान् एव न समनुपश्यति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितां सर्वाकारज्ञतया योजयति दानपारमिताम् एव न समनुपश्यति, न शीलपारमितां सर्वाकारज्ञतया योजयति शीलपारमिताम् एव न समनुपश्यति, न क्षान्तिपारमितां सर्वाकारज्ञतया योजयति क्षान्तिपारमिताम् एव न समनुपश्यति, न वीर्यपारमितां सर्वाकारज्ञतया योजयति वीर्यपारमिताम् एव न समनुपश्यति, न ध्यानपारमितां सर्वाकारज्ञतया योजयति, ध्यानपारमिताम् एव न समनुपश्यति, न प्रज्ञापारमितां सर्वाकारज्ञतया योजयति प्रज्ञापारमिताम् एव न समनुपश्यति, न स्मृत्युपस्थानानि सर्वाकारज्ञतया योजयति स्मृत्युपस्थानान्य् एव न समनुपश्यति, न सम्यक्प्रहाणानि (PSP१-१: ६९) सर्वाकारज्ञतया योजयति सम्यक्प्रहाणान्य् एव न समनुपश्यति, न ऋद्धिपादान् सर्वाकारज्ञतया योजयति ऋद्धिपादान् एव न समनुपश्यति, नेन्द्रियाणि सर्वाकारज्ञतया योजयति इन्द्रियाण्य् एव न समनुपश्यति, न बलानि सर्वाकारज्ञतया योजयति बलान्य् एव न समनुपश्यति, न बोध्यङ्गानि सर्वाकारज्ञतया योजयति बोध्यङ्गान्य् एव न समनुपश्यति, न मार्गान् सर्वाकारज्ञतया योजयति मार्गान् एव न समनुपश्यति, न प्रतिसंविदेइः सर्वाकारज्ञतया योजयति प्रतिसंविद एव न समनुपश्यति, न वैशारद्यानि सर्वाकारज्ञतया योजयति वैशारद्यान्य् एव न समनुपश्यति, नाभिज्ञाः सर्वाकारज्ञतया योजयत्य् अभिज्ञा एव न समनुपश्यति, न दशतथागतबलानि सर्वाकारज्ञतया योजयति दशतथागतबलान्य् एव न समनुपश्यति, नाष्टादशावेणिकान् बुद्धधर्मान् सर्वाकारज्ञतया योजयत्य् अष्टादशावेणिकान् बुद्धधर्मान् एव न समनुपश्यति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न बुद्धं सर्वाकारज्ञतया योजयति बुद्धम् एव न समनुपश्यति, न सर्वाकारज्ञतां बुद्धेन योजयति सर्वाकारज्ञताम् एव न समनुपश्यति, न बोधिं सर्वाकारज्ञतया योजयति बोधिम् एव न समनुपश्यति, न सर्वाकारज्ञतां बोध्या योजयति सर्वाकारज्ञताम् एव न समनुपश्यति, तत् कस्य हेतोः? बुद्ध एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धः, बोधिर् एव सर्वाकारज्ञता सर्वाकारज्ञतैव बोधिः, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
इति बुद्धरत्नाववादः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं भवतीति योजयति न रूपं विभवतीति योजयति, न वेदना भवतीति योजयति न वेदना विभवतीति योजयति, न संज्ञा भवतीति योजयति न संज्ञा विभवतीति योजयति, न संस्कारा भवतीति (PSP१-१: ७०) योजयति न संस्कारा विभवतीति योजयति, न विज्ञानं भवतीति योजयति न विज्ञानं विभवतीति योजयति, न रूपं नित्यम् इति योजयति न रूपम् अनित्यम् इति योजयति, न रूपं सुखम् इति योजयति न रूपं दुःखम् इति योजयति, न रूपम् आत्मेति योजयति न रूपम् अनात्मेति योजयति, न रूपं शान्तम् इति योजयति, न रूपम् अशान्तम् इति योजयति, न वेदना नित्येति योजयति न वेदना अनित्येति योजयति, न वेदना सुखेति योजयति न वेदना दुःखेति योजयति, न वेदना आत्मेति योजयति न वेदना अनात्मेति योजयति, न वेदना शान्तेति योजयति न वेदना अशान्तेति योजयति, न संज्ञा नित्येति योजयति न संज्ञा अनित्येति योजयति, न संज्ञा सुखेति योजयति न संज्ञा दुःखेति योजयति, न संज्ञा आत्मेति योजयति न संज्ञा अनात्मेति योजयति, न संज्ञा शान्तेति योजयति न संज्ञा अशान्तेति योजयति, न संस्कारा नित्या इति योजयति न संस्कारा अनित्या इति योजयति, न संस्काराः सुखा इति योजयति न संस्कारा दुःखा इति योजयति, न संस्कारा आत्मान इति योजयति न संस्कारा अनात्मान इति योजयति, न संस्काराः शान्ता इति योजयति न संस्कारा अशान्ता इति योजयति, न विज्ञानं नित्यम् इति योजयति न विज्ञानम् अनित्यम् इति योजयति, न विज्ञानं सुखम् इति योजयति न विज्ञानं दुःखम् इति योजयति, न विज्ञानम् आत्मेति योजयति न विज्ञानम् अनात्मेति योजयति, न विज्ञानं शान्तम् इति योजयति न विज्ञानम् अशान्तम् इति योजयति, न रूपं शून्यम् इति योजयति न रूपम् अशून्यम् इति योजयति, न रूपं सनिमित्तम् इति वा चरति न रुपम् अनिमित्तम् इति वा चरति, न रूपं सप्रणिहितम् इति वा चरति न रूपम् अप्रणिहितम् इति वा चरति, न वेदना शून्या इति वा चरति न वेदना अशून्या इति वा चरति, न वेदना सनिमित्ता इति वा चरति न वेदना अनिमित्ता इति वा चरति, न वेदना सप्रणिहिता इति वा चरति न वेदना अप्रणिहिता इति वा चरति, न संज्ञा शून्या इति वा चरति न संज्ञा अशून्या इति वा चरति, न संज्ञा सनिमित्ता इति वा चरति न संज्ञा अनिमित्ता इति वा चरति, न संज्ञा सप्रणिहिता इति वा चरति न संज्ञा अप्रणिहिता इति वा चरति, न संस्काराः शून्या इति वा चरति न संस्कारा अशून्या इति वा चरति, न संस्काराः सनिमित्ता इति वा चरति न संस्कारा अनिमित्ता इति (PSP१-१: ७१) वा चरति, न संस्काराः सप्रणिहिता इति वा चरति न संस्कारा अप्रणिहिता इति वा चरति, न विज्ञानं शून्यम् इति वा चरति न विज्ञानम् अशून्यम् इति वा चरति, न विज्ञानं सनिमित्तम् इति वा चरति न विज्ञानम् अनिमित्तम् इति वा चरति, न विज्ञानं सप्रणिहितम् इति वा चरति न विज्ञानम् अप्रणिहितम् इति वा चरति, य एवं चरति स प्रज्ञापारमितायां चरतीति नोपैति न चरतीति नोपैति, चरति च न चरति चेति नोपैति, नैव चरति न चरतीति नोपैति, एवं चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न शीलपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न क्षान्तिपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न वीर्यपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न ध्यानपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न प्रज्ञापारमितायाः कृतशः प्रज्ञापारमितायां चरति, नाविनिवर्तनीयभूमेः कृतशः प्रज्ञापारमितायां चरति, न सत्त्वपरिपाकहेतोः कृतशः प्रज्ञापारमितायां चरति, न बुद्धक्षेत्रपरिशुद्धिहेतोः कृतशः प्रज्ञापारमितायां चरति, न दशानां तथागतबलानां कृतशः प्रज्ञापारमितायां चरति, न चतुर्णां वैशारद्यानां कृतशः प्रज्ञापारमितायां चरति, न चतसृणां प्रतिसंविदां कृतशः प्रज्ञापारमितायां चरति, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां कृतशः प्रज्ञापारमितायां चरति, नाध्यात्मशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न बहिर्धाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाध्यात्मबहिर्धाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न शून्यताशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न महाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न परमार्थशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न संस्कृतशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नासंस्कृतशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नात्यन्तशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानवराग्रशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानवकारशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न प्रकृतिशून्यतायाः कृतशः (PSP१-१: ७२) प्रज्ञापारमितायां चरति, न सर्वधर्मशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न स्वलक्षणशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानुपलम्भशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाभावस्वभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न भावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न स्वभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न परभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न तथतायाः कृतशः प्रज्ञापारमितायां चरति, न धर्मधातोः कृतशः प्रज्ञापारमितायां चरति, न भूतकोटेः कृतशः प्रज्ञापारमितायां चरति, तत् कस्य हेतोः? न हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य संभेदं समनुपश्यति. एवं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दिव्यस्य चक्षुषः कृतशः प्रज्ञापारमितायां चरति, न दिव्यस्य श्रोत्रस्य कृतशः प्रज्ञापारमितायां चरति, न परचित्तज्ञानस्य कृतशः प्रज्ञापारमितायां चरति, न पूर्वनिवासानुस्मृतेः कृतशः प्रज्ञापारमितायां चरति, न ऋद्धिविधेः कृतशः प्रज्ञापारमितायां चरति, तत् कस्य हेतोः? तथा हि प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् एव न समनुपश्यति, कुत एव बोधिसत्त्वं कुत एव सर्वाकारं सर्वाभिज्ञाः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयन् युक्त इति वक्तव्यः.
SK
एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो मारः पापीयान् अवतारं न लभते, सर्वे चास्यान्ये ऽपि लौकिका ये केचित् क्लेशास् ते सर्वे दलिता भवन्ति.
SK
ये ऽपि ते शारिपुत्र पूर्वस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
SK
ये ऽपि ते शारिपुत्र दक्षिणस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका, ये च प्रत्येकबुद्धा, ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
SK
ये ऽपि ते शारिपुत्र पश्चिमायां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः (PSP१-१: ७५) परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
SK
ये ऽपि ते शारिपुत्र उत्तरस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं (PSP१-१: ७६) बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
SK
ये ऽपि ते शारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
SK
ये ऽपि ते शारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
SK
ये ऽपि ते शारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिश्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
SK
ये ऽपि ते शारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिश्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
SK
ये ऽपि ते शारिपुत्र अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च (PSP१-१: ७७) देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति,
SK
ये ऽपि ते शारिपुत्र ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति,
SK
ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, अस्ति स कश्चिद् धर्मो यो धर्मैः सह संयुज्यते वा विसंयुज्यते वा.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, कञ्चिद् अहं क्षिप्रतरं धर्मधातुम् अभिसंबुध्येयं वा न चाभिसंबुध्येयं, तत् कस्य हेतोः? न हि धर्मधातुर् धर्मधातुनाभिसंबुध्यते, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न किञ्चिद् धर्मधातोर् व्यतिरिक्तं समनुपश्यति, नापि धर्मधातोर् धर्मनानाकरणं करोति, नाप्य् अस्यैवं भवति, अयं धर्मधातुर् एवं प्रतिविध्यते न वा प्रतिविध्यत इति, तथा हि न स कञ्चिद् धर्मं समनुपश्यति येन धर्मेण तां धर्मतां प्रतिविध्येद् इति, तथा हि स न धर्मधातुं शून्यम् इति योजयति नाशून्यम् इति योजयति, एवं हि (PSP१-१: ७८) शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न चक्षुर्धातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयन्ति, न रूपधातुं शून्यतया योजयति न शून्यतां रूपधातुना योजयति, न चक्षुर्विज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्विज्ञानधातुना योजयति.
SK
न श्रोत्रधातुं शून्यतया योजयति न शून्यतां श्रोत्रधातुना योजयति, न शब्दधातुं शून्यतया योजयति न शून्यतां शब्दधातुना योजयन्ति, न श्रोत्रविज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयति.
SK
न घ्राणधातुं शून्यतया योजयति न शून्यतां घ्राणधातुना योजयन्ति, न गन्धधातुं शून्यतया योजयति न शून्यतां गन्धधातुना योजयति, न घ्राणविज्ञानधातुं शून्यतया योजयति न शून्यतां घ्राणविज्ञानधातुना योजयति.
SK
न जिह्वाधातुं शून्यतया योजयति न शून्यतां जिह्वाधातुना योजयन्ति, न रसधातुं शून्यतया योजयति न शून्यतां रसधातुना योजयति, न जिह्वाविज्ञानधातुं शून्यतया योजयति न शून्यतां जिह्वाविज्ञानधातुना योजयति.
SK
न कायधातुं शून्यतया योजयति न शून्यतां कायधातुना योजयति, न स्प्रष्टव्यधातुं शून्यतया योजयति न शून्यतां स्प्रष्टव्यधातुना योजयति, न कायविज्ञानधातुं शून्यतया योजयति न शून्यतां कायविज्ञानधातुना योजयति.
SK
न मनोधातुं शून्यतया योजयति न शून्यतां मनोधातुना योजयन्ति, न धर्मधातुं शून्यतया योजयति न शून्यतां धर्मधातुना योजयति, न मनोविज्ञानधातुं शून्यतया योजयति न शून्यतां मनोविज्ञानधातुना योजयति. तत् कस्य हेतोः? एष हि शारिपुत्र परमो योगो बोधिसत्त्वस्य महासत्त्वस्य यद् उत शून्यतायोगः, शून्यतायां शारिपुत्र चरन् बोधिसत्त्वो महासत्त्वो न श्रावकप्रत्येकबुद्धभूमौ पतति बुद्धक्षेत्रं परिशोधयति सत्त्वान् परिपाचयति क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं करिष्यति, न चास्यैवं भविष्यति, मां बुद्धा भगवन्तो व्याकरिष्यन्तीति, अहम् आसन्नीभूतो व्याकरणस्येति, अहं बुद्धक्षेत्रं परिशोधयिष्यामीति, अहं सत्त्वान् परिपाचयिष्यामीति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्तयिष्यामीति. तत् कस्य हेतोः? तथा हि स धर्मधातुं न विविक्तीकरोति, न च धर्मधातोर् अन्यधर्मं समनुपश्यति, यः प्रज्ञापारमितायां चरेत्, यो वा बुद्धैर् भगवद्भिर् व्याक्रियेत अनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न सत्त्वसंज्ञोत्पद्यते. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सत्त्वो नोत्पद्यते न निरूध्यते, अनुत्पादानिरोधधर्मत्वात्, यस्य च नोत्पादो न निरोधः स कथं प्रज्ञापारमितायां चरिष्यति. एवं चरन् बोधिसत्त्वो महासत्त्वः सत्त्वानुत्पादतया प्रज्ञापारमितायां चरति, सत्त्वशून्यतया प्रज्ञापारमितायां चरति, सत्त्वानुपलब्ध्या प्रज्ञापारमितायां चरति, सत्त्वविविक्ततया प्रज्ञापारमितायां चरति.
SK
एवं हि शारिपुत्र बोधिसत्त्वानां महासत्त्वानां परमो योगो यद् उत शून्यतायोगः सर्वान् अन्यान् योगान् अभिभूयावतिष्ठते, अत्र हि शारिपुत्र योगे चरन् बोधिसत्त्वो महासत्त्वो महाकरुणाम् अभिनिर्हरति, महामैत्रीम् अभिनिर्हरति, न च मात्सर्यचित्तम् उत्पादयति, न दौःशील्यचित्तम् उत्पादयति, न व्यापादचित्तम् उत्पादयति, न कुशीदचित्तम् उत्पादयति, न विक्षिप्तचित्तम् उत्पादयति, न दौष्प्रज्ञाचित्तम् उत्पादयति.
SK
इति धर्मरत्नाववादः
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो ऽनेन प्रज्ञापारमिताविहारेण विहरति स कुतश् च्युत इहोपपद्यते, इतो वा च्युतः कुत्रोपपत्स्यते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽनेन प्रज्ञापारमिताविहारेण विहरति स इतश् च्युत इहैव बुद्धक्षेत्रे उपपद्यते, अन्येभ्यो वा बुद्धक्षेत्रेभ्यश् च्युतस् तुषितेभ्यो वा देवेभ्यश् च्युत इहोपपद्यते.
SK
इति बोधिसत्त्वो ऽष्टमकः
SK
तत्र शारिपुत्र यो ऽयं बोधिसत्त्वो महासत्त्वो मनुष्येभ्य एव च्युत्वा मनुष्याणाम् एव सभागतायाम् उपपद्यते, तस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा धन्वानीन्द्रियाणि भवन्ति, न च क्षिप्रं प्रज्ञापारमितायोगं समापद्यते, न चास्य धारणीमुखम् अभिमुखीभवति न च समाधिमुखम्,
SK
यत् पुनः शारिपुत्र एवं वदसि, यो भगवन् बोधिसत्त्वो महासत्त्वैमं प्रज्ञापारमितायोगं समापद्यते स इतश् च्युतः कुत्रोपपद्यत इति, यः शारिपुत्र बोधिसत्त्वो महासत्त्व इमं प्रज्ञापारमितायोगं समापद्यते, स इतो बुद्धक्षेत्राच् च्युतः बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, तत्र बुद्धक्षेत्रे बुद्धान् भगवत आरागयिष्यति, न कदाचिद् बुद्धविरहितो भविष्यति.
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनः ये लोकधातोर् लोकधातुं संक्रामन्ति, ते तत्रोपसंक्रम्य यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दस् तत्रावस्थिताः बुद्धशब्दं च धर्मशब्दं संघशब्दं च सत्त्वानां संश्रावयन्ति, त्रयाणां च रत्नानां वर्णं भाषन्ते, ते तेन बुद्धशब्देन धर्मशब्देन संघशब्देन ततश् च्युता यत्र यत्र बुद्धा भगवन्तो भवन्ति ते तत्र तत्रोपपद्यन्ते.
SK
इत्य् अनागामी
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानान्य् उत्पद्य चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः, ते चोपायकौशल्येन समन्वागताः समाधिसमापत्तिभ्यो निवृत्य कामधाताव् उपपद्यन्ते, क्षत्रियमहाशालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु (PSP१-१: ८३) वोपपद्यन्ते सत्त्वपरिपाकाय.
SK
इत्य् अयं मनुष्यकुलंकुलः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानानि समापद्यन्ते चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः समापद्यन्ते, ते ऽप्य् उपायकौशल्यबलेन ध्यानसमाधिसमापत्तिवशेन वा चातुर्महाराजकायिकानाम् अपि देवानां सभागतायै उपपद्यन्ते, त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां सभागतायै उपपद्यन्ते, ते तत्र स्थित्वा सत्त्वान् परिपाचयन्ति, बुद्धक्षेत्रं च परिशोधयन्ति, बुद्धांश् च भगवत आरागयन्ति.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानानि उत्पद्य चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः, ते ततश् च्युताः सन्त उपायकौशल्येन ब्रह्मलोके यावद् अकनिष्ठे उपपद्यन्ते, ते तत्र भवन्ति ब्रह्माणो महाब्रह्माणस् तेषु ब्रह्मभवनेषु तिष्ठन्ति, ते तत्र स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति, ये च तेषु बुद्धक्षेत्रेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तांस् तथागतान् धर्मचक्रप्रवर्तनायाध्येषयन्ति.
SK
इति देवकुलंकुलः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये चतुर्णां ध्यानानां लाभिनो यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लाभिनस् तेषां चानुबोधाय चरन्ति, चतुर्णाम् आर्यसत्यानां लाभिनो न च तानि प्रतिविध्यन्ति, ते पुनर् बोधिसत्त्वा महासत्त्वा एकजातिप्रतिबद्धा वेदितव्याः.
न खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते, येन कायेन वाचा मनसा मात्सर्यदौःशील्यव्यापादकौसीद्यविक्षेपदौष्प्रज्ञचित्तम् उत्पादयेत्. अस्थानम् एतच् छारिपुत्रानवकाशो यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायवाङ्मनोदौष्ठुल्यम् उत्पादयेत्, नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् कायदौष्ठुल्यं शोधयति, वाग्दौष्ठुल्यं शोधयति, मनोदौष्ठुल्यं शोधयति.
SK
शारिपुत्र आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः कायवाङ्मनोदौष्ठुल्यं शोधयति?
SK
भगवान् आह: यतः शारिपुत्र बोधिसत्त्वो महासत्त्वो न कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते.
SK
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः कायवाङ्मनोदौष्ठुल्यं शोधयति, सचेत् पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय दश कुशलाः कर्मपथा अनुवर्तन्ते, न च श्रावकचित्तं प्रत्येकबुद्धचित्तं चोत्पादयति, सततसमितं चास्य सर्वसत्त्वेषु महाकारुणाचित्तं प्रत्युपस्थितं भवति. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य कायवाङ्मनोदौष्ठुल्यं शुद्धम् इति वदामि.
भगवान् आह: यदा शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते, न दानपारमिताम् उपलभते, न शीलपारमिताम् उपलभते, न क्षान्तिपारमिताम् उपलभते, न वीर्यपारमिताम् उपलभते, न ध्यानपारमिताम् उपलभते, न प्रज्ञापारमिताम् उपलभते, न श्रावकम् उपलभते, न प्रत्येकबुद्धम् उपलभते, न बोधिसत्त्वम् उपलभते, न बुद्धम् उपलभते. अयं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यद् उत सर्वधर्मानुपलम्भो ऽनेन मार्गेण गच्छन् बोधिसत्त्वो महसत्त्वः षट्सु पारमितासु चरन् न शक्यो ऽवमर्दितुम्.
SK
इत्य् अशक्त्यववादः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् न रूपं मन्यते, न वेदनां मन्यते, न संज्ञां मन्यते, न संस्कारान् मन्यते, न विज्ञनं मन्यते, न पृथिवीधातुं मन्यते, नाब्धातुं मन्यते, न तेजोधतुं मन्यते, न वायुधातुं मन्यते, नाकाशधातुं मन्यते, न विज्ञानधतुं मन्यते, न चक्षुर्धातुं मन्यते, न रूपधातुं मन्यते, न चक्षुर्विज्ञानधातुं मन्यते, न श्रोत्रधातुं मन्यते, न शब्दधातुं मन्यते, न श्रोत्रविज्ञानधातुं मन्यते, न घ्राणधातुं मन्यते, न गन्धधातुं मन्यते, न घ्राणविज्ञानधातुं मन्यते, न जिह्वाधातुं मन्यते, न रसधातुं मन्यते, न जिह्वाविज्ञानधातुं मन्यते, न कायधातुं मन्यते, न स्प्रष्टव्यधातुं मन्यते, न कायविज्ञानधातुं मन्यते, न मनोधातुं मन्यते, न धर्मधातुं मन्यते, न मनोविज्ञानधातुं मन्यते, न स्मृत्युपस्थानानि मन्यते, न सम्यक्प्रहाणानि मन्यते, नर्द्धिपादान् मन्यते, नेन्द्रियाणि मन्यते, न बलानि मन्यते, न बोध्यङ्गानि मन्यते, न मार्गं मन्यते, न दानपारमितां मन्यते, न शीलपारमितां मन्यते, न क्षान्तिपारमितां मन्यते, न वीर्यपारमितां मन्यते, न ध्यानपारमितां मन्यते, न प्रज्ञापारमितां मन्यते, न वैशारद्यानि मन्यते, न प्रतिसंविदो मन्यते, न दशतथागतबलानि मन्यते, नाष्टादशावेणिकान् बुद्धधर्मान् मन्यते, न स्रोतआपत्तिफलं मन्यते, न सकृदागमिफलं मन्यते, नानागामिफलं मन्यते, नार्हत्त्वं मन्यते, न प्रत्येकबोधिं मन्यते, न (PSP१-१: ९१) बोधिसत्त्वं महासत्त्वं मन्यते, नानुत्तरां सम्यक्संबोधिं मन्यते. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् वर्धते, न च केनचिद् अवमृद्यते.
भगवान् आह: येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति तेषां च धर्मदेशनां शृणोति, संघं च पर्युपास्ते, बुद्धक्षेत्रविशुद्धिं च पश्यति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिशि गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति, तेषां च धर्मदेशनां शृणोति, संघं च पर्युपास्ते, बुद्धक्षेत्रविशुद्धिं च पश्यति,
SK
येन ज्ञानेन समन्वागतानां बोधिसत्त्वानां महासत्त्वानां न बुद्धसंज्ञा भवति, न बोधिसंज्ञा भवति, न श्रावकसंज्ञा भवति, न प्रत्येकबुद्धसंज्ञा भवति, नात्मसंज्ञा भवति, न परसंज्ञा भवति, न बुद्धक्षेत्रसंज्ञा भवति, येन ज्ञानेन समन्वागतो बोधिसत्त्वो महसत्त्वो दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति, न च पारमितामुपलभते,
SK
येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः स्मृत्युपस्थानानि भावयति, न च स्मृत्युपस्थानान्य् उपलभते, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति, न च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् उपलभते, बलवैशारद्यावेणिकान् (PSP१-१: ९२) बुद्धधर्मान् समुदानयति, न च बलवैशारद्यावेणिकान् बुद्धधर्मान् उपलभते. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य ज्ञानं, येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वबुद्धधर्मांश् च परिपूरयति, न च सर्वबुद्धधर्मांश् च मन्यते.
भगवान् आह: येन शारिपुत्र प्रज्ञाचक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वो न कञ्चिद् धर्मं प्रजानाति, संस्कृतं वा असंस्कृतं वा कुशलं वा अकुशलं वा सावद्यं वा अनवद्यं वा सास्रवं वा अनास्रवं वा संक्लेशं वा निष्क्लेशं वा लौकिकं वा लोकोत्तरं वा संक्लिष्टं वा व्यवदानं वा, येन प्रज्ञाचक्षुषा बोधिसत्त्वेन महासत्त्वेन कश्चिद् धर्मो न दृष्टो न श्रुतो न मतो न विज्ञातः. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं प्रज्ञाचक्षुः,
भगवान् आह: यच् छारिपुत्र बोधिसत्त्वो महासत्त्वो बोधिचित्तानन्तरं वज्रोपमं समाधिं समापद्य एकचित्तक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्नोति, दशभिस् तथागतबलैः समन्वागतः, चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च समन्वागतः, येन च चक्षुषा बोधिसत्त्वेन महासत्त्वेन नास्ति किञ्चिद् अदृष्टं वाश्रुतं (PSP१-१: ९८) वामतं वाविज्ञातं वा सर्वैर् आकारैः. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धचक्षुः.
SK
एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पञ्चचक्षूंषि शोधयितुकामेन षट्सु पारमितासु योगः करणीयः. तत् कस्य हेतोः? तथा हि शारिपुत्र षट्सु पारमितासु सर्वे कुशला धर्मा अन्तर्गताः सर्वश्रावकधर्माश् च सर्वप्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च, यत् खलु शारिपुत्र सम्यग् वदन्तो वदेयुः सर्वकुशलधर्मसंग्रह इति प्रज्ञापारमितां खलु सम्यग् वदन्तोवदेयुः. तत् कस्य हेतोः? तथा हि शारिपुत्र प्रज्ञापारमिता जनयित्री सर्वासां पारमितानाम्, एषां च पञ्चानां बोधिसत्त्वचक्षुषाम्, एषु च शारिपुत्र पञ्चसु बोधिसत्त्वचक्षुःषु शिक्षित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इति पञ्चचक्षुर् अववादः
SK
अत्र शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञापारमितां भावयति, सो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति, पृथिवीम् अपि कम्पयति, एको ऽपि भूत्वा बहुधा भवति, बहुधापि भूत्वा एको भवति, आविर्भावं तिरोभावम् अपि प्रत्यनुभवति, तिरःकुड्यं तिरःप्राकारं तिरःपर्वतम् अप्य् असक्तो गच्छति तद्यथापि नामाकाशे ऽपि क्रामति तद्यथापि नाम पक्षी शकुनिः, पृथिव्याम् अप्य् उन्मज्जनिमज्जं करोति तद्यथापि नामोदके, उदके ऽभिद्यमानो गच्छति तद्यथापि नाम पृथिव्याम्, धूमायत्य् अपि प्रज्जलत्य् अपि तद्यथापि नाम महान् अग्निस्कन्धः, उदकम् अपि कायात् प्रमुञ्चति तद्यथापि नाम महामेघः, इमाव् अपि सूर्याचन्द्रमसाव् एवं महर्द्धिकौ महानुभावौ पाणिना परामृशति परिमार्ष्टि यावद् ब्रह्मलोकाद् अपि कायं वशेन वर्तयति, तया च ऋद्ध्या न मन्यते, तथा हि सताम् ऋद्धिं नोपलभते यया मन्यते तद् अपि न मन्यते येनापि मन्यते स्वभावशून्यताम् उपादाय, स्वभावविविक्तताम् उपादाय, स्वभावानुपलब्धिताम् उपादाय, स न ऋद्धिचेतनाम् अप्य् उत्पादयति न ऋद्ध्यभिनिर्हारचेतनां वा अन्यत्र सर्वज्ञता मनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ऋद्धिविध्यभिज्ञासाक्षात्क्रियाज्ञानम् (PSP१-१: ९९) अभिनिर्हरति.
SK
स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेण शब्दान् शृणोति दिव्यान् मानुष्यकांश् च, न च तेन दिव्येन श्रोत्रेण मन्यते, अहं शब्दान् शृणोमि, तथा हि स तर्न् अपि शब्दं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, स न दिव्यश्रोत्रचेतनाम् अप्य् उत्पादयति, न दिव्यश्रोत्राभिनिर्हारचेतनां वान्यत्र सर्वाकारज्ञतामनस्कारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यश्रोत्राभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति.
तेन च न मन्यते तथा हि तच् चक्षुर् अचक्षुर् अचिन्त्यताम् उपादाय, सो ऽहं पश्यामीति न मन्यते, तद् एव चक्षुर् नोपलभते स्वभावशून्यताम् उपादाय, स्वभावविविक्तताम् उपादाय, स्वभावानुपलब्धिताम् उपादाय, न स दिव्यचक्षुश्चेतनाम् अप्य् उत्पादयति, न दिव्यचक्षुरभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्.
SK
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यचक्षुरभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति, सो ऽनुत्पादसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति, न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, नाप्य् अन्यं कञ्चिद् धर्मम् आशंसति अन्यत्रानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यमीति, स तया आस्रवक्षय साक्षात्क्रियाभिज्ञाज्ञानाभिनिर्हारकुशलतया न मन्यते तथा हि तज् ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय, सो ऽहं प्रजानामीति न मन्यते, तद् एव च ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, न स आस्रवक्षयचेतनाम् अप्य् उत्पादयति नास्रवक्षयाभिज्ञाभिनिर्हारचेतनां वान्यत्र सर्वाकारज्ञतामनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आस्रवक्षयाभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति.
SK
एवं पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः षडभिज्ञाः परिपूर्यन्ते परिशुध्यन्ते च, अभिज्ञाः (PSP१-१: १०२) शारिपुत्र परिशुद्धाः सर्वाकारज्ञताम् अर्पयन्ति,
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो दानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया न च गृहीतताम् उपादाय.
भगवान् आह: नाममात्रम् इदं सुभूते यद् उत प्रज्ञापारमिता इति बोधिसत्त्व इति च, तद् अपि च बोधिसत्त्वनाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, तद्यथापि नाम सुभूते सत्त्वः सत्त्व इति चोच्यते, न च काचित् सत्त्वोपलब्धिः, यच् च तन्नाम तत् प्रज्ञप्तिमात्रं प्रज्ञप्तिधर्मः प्रज्ञप्तिसत्.
SK
इति दुःखे धर्मज्ञानक्षान्तिः
SK
तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, एवम् आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकाः सर्व एते प्रज्ञप्तिधर्माः सर्व एते अनुत्पादा अनिरोधा यावद् एव नाममात्रेण व्यवह्रियन्ते.
SK
एवम् एव सुभूते या च प्रज्ञापारमिता, यश् च बोधिसत्त्वो महासत्त्वो, यच् च बोधिसत्त्वनाम सर्व एते प्रज्ञप्तिधर्माः, सर्व एते अनुत्पादा अनिरोधा यावद् एव नाममात्रेण व्यवह्रियते.
SK
तद्यथापि नाम सुभूते इदम् अध्यात्मिकं रूपम् इति धर्मप्रज्ञप्तिमात्रं (PSP१-१: १११) तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
वेदनेति धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
संज्ञेति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
संस्कारा इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
विज्ञानम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
एवम् एव सुभूते प्रज्ञापारमिता च बोधिसत्त्वश् च बोधिसत्त्वनाम च सर्व एते प्रज्ञप्तिधर्मास् तेषाञ् च प्रज्ञप्तिधर्माणां नोत्पादोन निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
चक्षुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत चक्षुर् इति, तच् च चक्षुर् नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
श्रोत्रम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत श्रोत्रम् इति, तच् च श्रोत्रं नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
घ्राणम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्यास् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत घ्राणम् इति, तच् च घ्राणं नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
जिह्वेति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत जिह्वेति, सा च जिह्वा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
काय इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् (PSP१-१: ११२) नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत काय इति, स च कायो नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
मन इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत मन इति, तच् च मनो नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
रूपम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते रूपम् इति.
SK
शब्द इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते शब्द इति.
SK
गन्ध इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते गन्ध इति.
SK
रस इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते रस इति.
SK
स्पर्श इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, स्पर्श इति.
SK
धर्म इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, धर्म इति.
SK
चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो निरोधो ऽन्यत्र (PSP१-१: ११३) नामसंकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते,
SK
घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्यास् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
मनोधातुर् धर्मधातुर् मनोविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति, बोधिसत्त्व इति, बोधिसत्त्वनामेति च धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
तद्यथापि नाम सुभूते यद् एतद् आध्यात्मिकं शरीरं शरीरम् इति व्यवह्रियते, शिरो ग्रीवा उदरम् अंसौ स्कन्धौ बाहू पृष्ठं पार्श्वकाः कठ्यूरू जङ्घे पादाव् अस्थीनीति व्यवह्रियन्ते, ते च प्रज्ञप्तिधर्मास् तेषां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् तेषां च नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
तद्यथापि नाम सुभूते बाह्यं तृणकाष्ठं शाखापर्णपलाशं सर्वं तं नानानामधेयैर् व्यपदिश्यते, तेषाञ् च नाम्नां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् ते च नानानामधेयैर् व्यपदिश्यन्ते, तेषां च नाम्नां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं सुभूते तद्यथापि नाम स्वप्नप्रतिश्रुत्कामरीचिप्रतिभासमायोपमास् तथागतनिर्मिताः सर्वे ते धर्मप्रज्ञप्तिमात्रास् तेषाञ् च नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्वम् एतद् धर्मप्रज्ञप्तिमात्रं तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसंकेतप्रज्ञप्त्याम् अववादप्रज्ञप्त्यां धर्मप्रज्ञप्त्यां च शिक्षितव्यम्.
SK
इति दुःखे धर्मज्ञानम्
SK
एवं हि सुभूते प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो न रूपं नित्यम् इति समनुपश्यति, न रूपम् अनित्यम् इति समनुपश्यति, न रूपं सुखम् इति समनुपश्यति, न रूपं दुःखम् इति समनुपश्यति, न रूपम् आत्मेति समनुपश्यति, न रूपम् अनात्मेति समनुपश्यति, न रूपं शान्तम् इति समनुपश्यति, न रूपम् अशान्तम् इति समनुपश्यति, न रूपं शून्यम् इति समनुपश्यति, न रूपम् अशून्यम् इति समनुपश्यति, न रूपं निमित्तम् इति समनुपश्यति, न रूपम् अनिमित्तम् इति समनुपश्यति, न रूपं प्रणिहितम् इति समनुपश्यति, न रूपम् अप्रणिहितम् इति (PSP१-१: ११५) समनुपश्यति, न रूपं संस्कृतम् इति समनुपश्यति, न रूपम् असंस्कृतम् इति समनुपश्यति, न रूपम् उत्पन्नम् इति समनुपश्यति, न रूपम् अनुत्पन्नम् इति समनुपश्यति, न रूपं निरुद्धम् इति समनुपश्यति, न रूपम् अनिरुद्धम् इति समनुपश्यति, न रूपं विविक्तम् इति समनुपश्यति, न रूपम् अविविक्तम् इति समनुपश्यति, न रूपं कुशलम् इति समनुपश्यति, न रूपम् अकुशलम् इति समनुपश्यति, न रूपं सावद्यम् इति समनुपश्यति, न रूपम् अनवद्यम् इति समनुपश्यति, न रूपं सास्रवम् इति समनुपश्यति, न रूपम् अनास्रवम् इति समनुपश्यति, न रूपं संक्लेशम् इति समनुपश्यति, न रूपं निःक्लेशम् इति समनुपश्यति, न रूपं लौकिकम् इति समनुपश्यति, न रूपं लोकोत्तरम् इति समनुपश्यति, न रूपं संक्लेशम् इति समनुपश्यति, न रूपं व्यवदानम् इति समनुपश्यति, न रूपं संसार इति समनुपश्यति, न रूपं निर्वाणम् इति समनुपश्यति.
SK
न वेदना नित्येति समनुपश्यति, न वेदनानित्येति समनुपश्यति, न सुखेति समनुपश्यति, न दुःखेति समनुपश्यति, नात्मेति नानात्मेति न शान्तेति नाशान्तेति, न शून्येति नाशून्येति, न निमित्तेति नानिमित्तेति, न प्रणिहितेति नाप्रणिहितेति वेदनां समनुपश्यति, न संस्कृतेति नासंस्कृतेति, नोत्पन्नेति नानुत्पन्नेति, न निरुद्धेति नानिरुद्धेति, न विविक्तेति नाविविक्तेति न कुशलेति नाकुशलेति, न सावद्येति नानवद्येति, न सास्रवेति नानास्रवेति, न संक्लेशेति न निःक्लेशेति, न लौकिकेति न लोकोत्तरेति, न संक्लेशेति न व्यवदानम् इति, न संसार इति न निर्वाणम् इति, वेदनां समनुपश्यति.
SK
न संज्ञा नित्येति समनुपश्यति, न संज्ञानित्येति समनुपश्यति, न सुखेति न दुःखेति नात्मेति नानात्मेति, न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति, न प्रणिहितेति नाप्रणिहितेति संज्ञां समनुपश्यति, न संस्कृतेति नासंस्कृतेति नोत्पन्नेति नानुत्पन्नेति, न निरुद्धेति नानिरुद्धेति न विविक्तेति नाविविक्तेति, न कुशलेति नाकुशलेति न सावद्येति नानवद्येति न सास्रवेति नानास्रवेति, न संक्लेशेति न निःक्लेशेति न लौकिकेति न लोकोत्तरेति न संक्लेशम् इति न व्यवदानम् इति न संसार इति न निर्वाणम् इति संज्ञां समनुपश्यति.
SK
न संस्कारा नित्या इति समनुपश्यति, न संस्कारा अनित्या इति समनुपश्यति, न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इति संस्कारान् समनुपश्यति, न संस्कृता इति नासंस्कृता इति नोत्पन्ना इति नानुत्पन्ना इति न निरुद्धा इति नानिरुद्धा इति न विविक्ता इति नाविविक्ता इति, न कुशला इति नाकुशला इति, न सावद्या इति नानवद्या इति, न सास्रवा इति नानास्रवा इति, न संक्लेशा इति न निःक्लेशा इति, न लौकिका इति न लोकोत्तरा इति न संक्लेशा इति न व्यवदानम् इति न संसार इति न निर्वाणम् इति संस्कारान् समनुपश्यति.
SK
न विज्ञानं नित्यम् इति समनुपश्यति, न विज्ञानम् अनित्यम् इति समनुपश्यति, न सुखम् इति न दुःखम् इति, नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति विज्ञानं समनुपश्यति, न संस्कृतम् इति नासंस्कृतम् इति नोत्पन्नम् इति नानुत्पन्नम् इति, न निरुद्धम् इति नानिरुद्धम् इति न विविक्तम् इति नाविविक्तम् इति न कुशलमिति नाकुशलम् इति, न सावद्यम् इति नानवद्यम् इति न सास्रवम् इति नानस्रवम् इति न संक्लेशम् इति न निःक्लेशम् इति, न लौकिकम् इति न लोकोत्तरम् इति, न संक्लेशम् इति न व्यवदानम् इति, न संसर इति न निर्वाणम् इति विज्ञानं समनुपश्यति.
SK
एवं न चक्षुर्धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति, न रूपधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
न चक्षुर्धातुः सुख इति वा दुःख इति वा समनुपश्यति, न रूपधातुः सुख इति वा दुःख इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् आत्मेति वा अनात्मेति वा समनुपश्यति, न रूपधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न चक्षुर्धातुः शान्त इति वा अशान्त इति वा समनुपश्यति, न रूपधातुः शान्त इति वा अशान्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न चक्षुर्धातुः शून्य इति वा अशून्य इति वा समनुपश्यति, न रूपधातुः शून्य इति वा अशून्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति, न रूपधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न चक्षुर्धातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति, न रूपधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न चक्षुर्धातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति, न रूपधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति, न रूपधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति, न रूपधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति, न रूपधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न चक्षुर्धातुः कुशल इति वा अकुशल इति वा समनुपश्यति, न रूपधातुः कुशल इति वा अकुशल इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न चक्षुर्धातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति, न रूपधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न चक्षुर्धातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति, न रूपधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न चक्षुर्धातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति, न रूपधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः (PSP१-१: ११८) संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति, न रूपधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न चक्षुर्धातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति, न रूपधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न चक्षुर्धातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति, न रूपधातुः संसर इति वा निर्वाणम् इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
एवं न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
नमनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
SK
एवं न सुखम् इति वा न दुःखम् इति वा समनुपश्यति,
SK
नात्मेति वा नानात्मेति वा समनुपश्यति,
SK
न शान्तम् इति वा नाशान्तं वा समनुपश्यति,
SK
न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति,
SK
न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति,
SK
न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति,
SK
न संस्कृत इति वा नासंस्कृत इति वा समनुपश्यति,
SK
नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति,
SK
न निरुद्धम् इति वा नानिरुद्धं वा समनुपश्यति,
SK
न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति,
SK
न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति,
SK
न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति,
SK
न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति,
SK
न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति,
SK
न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति,
SK
न संक्लेशम् इति वा न व्यवदानानम् इति वा समनुपश्यति.
SK
यद् अपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसार इति वा न निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि श्रोत्रशब्दश्रोत्रविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
SK
एवं न सुखम् इति वा न दुःखम् इति वा,
SK
नात्मेति वा नानात्मेति वा,
SK
न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति,
SK
न शून्यम् इति वा नाशून्यम् इति वा,
SK
न निमित्तम् इति वा नानिमित्तम् इति वा,

न संस्कृतम् इति वा नासंस्कृतम् इति वा,
SK
नोत्पन्नम् इति वा नानुत्पन्नम् इति वा,
SK
न निरुद्धम् इति वा नानिरुद्धम् इति वा,
SK
न विविक्तम् इति वा नाविविक्तम् इति वा,
SK
न कुशलम् इति वा नाकुशलम् इति वा,
SK
न सावद्यम् इति वा नानवद्यम् इति वा,
SK
न सास्रवम् इति वा नानास्रवम् इति वा,
SK
न संक्लेशम् इति वा न निःक्लेशम् इति वा,
SK
न लौकिकम् इति वा न लोकोत्तरम् इति वा,
SK
न संक्लेशम् इति वा न व्यवदानम् इति वा समनुपश्यति.
SK
यद् अपि श्रोत्रशब्दश्रोत्रविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि घ्राणगन्धघ्राणविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
SK
न सुखम् इति वा न दुःखम् इति वा,
SK
नात्मेति नानात्मेति,
SK
न शान्तम् इति नाशान्तम् इति समनुपश्यति,
SK
न शून्यम् इति नाशून्यम् इति,
SK
न निमित्तम् इति नानिमित्तम् इति,
SK
न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति,
SK
न संस्कृतम् इति नासंस्कृतम् इति,
SK
नोत्पन्नम् इति नानुत्पन्नम् इति,
SK
न निरुद्धम् इति नानिरुद्धम् इति,
SK
न विविक्तम् इति नाविविक्तम् इति,
SK
न कुशलम् इति नाकुशलम् इति,
SK
न सावद्यम् इति नानवद्यम् इति,
SK
न सास्रवम् इति नानास्रवम् इति,
SK
न संक्लेशम् इति न निःक्लेशम् इति,
SK
न लौकिकम् इति न लोकोत्तरम् इति,
SK
न संक्लेशम् इति वा न व्यवदानम् इति वा समनुपश्यति,
SK
यद् अपि घ्राणगन्धघ्राणविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
SK
न सुखम् इति न दुःखम् इति,

न संस्कृतम् इति नासंस्कृतम् इति, नोत्पन्नम् इति नानुत्पन्नम् इति,
SK
न निरुद्धम् इति नानिरुद्धम् इति,
SK
न विविक्तम् इति नाविविक्तम् इति,
SK
न कुशलम् इति नाकुशलम् इति,
SK
न सावद्यम् इति नानवद्यम् इति,
SK
न सास्रवम् इति नानास्रवम् इति,
SK
न संक्लेशम् इति न निःक्लेशम् इति,
SK
न लौकिकम् इति न लोकोत्तरम् इति,
SK
न संक्लेशम् इति न व्यवदानम् इति समनुपश्यति.
SK
यद् अपि जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति,
SK
न सुखम् इति न दुःखम् इति,
SK
नात्मेति नानात्मेति,
SK
न शान्तम् इति नाशान्तम् इति,

यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि मनोधर्ममनोविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं (PSP१-१: १२८) सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
SK
न सुखम् इति न दुःखम् इति,
SK
नात्मेति वा नानात्मेति,

यद् अपि मनोधर्ममनोविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति.
SK
इति दुःखे ऽन्वयज्ञानक्षान्तिः
SK
तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां प्रज्ञापारमितानाम तं च बोधिसत्त्वं तच् च बोधिसत्त्वनाम न समनुपश्यति, संस्कृते वा धाताव् असंस्कृते वा धातौ तथा हि सुभूते बोधिसत्त्वः प्रज्ञापारमितायां चरन् नैतान् सर्वधर्मान् कल्पयति न विकल्पयति, सो ऽविकल्पे धर्मे स्थित्वा स्मृत्युपस्थानानि भावयति, प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम समनुपश्यति, न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनुपश्यति.
SK
एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमितातथागतबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् भावयति, प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम, न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनुपश्यति, अन्यत्र सर्वाकारज्ञता मनसिकारात्.
SK
इति दुःखे ऽन्वयज्ञानम्
SK
तथा हि तेन प्रज्ञापारमितायां चरता धर्मलक्षणं प्रतिविद्धं भवति, यच् च धर्माणां लक्षणं तन् न संक्लिश्यते न व्यवदायते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिर् अनुबोद्धव्या.
SK
इति समुदये धर्मज्ञानक्षान्तिः
SK
स नामसांकेतिक्या धर्मप्रज्ञप्त्या अवबुद्धया न रूपम् अभिनिवेक्ष्यते, न वेदनाम् अभिनिवेक्ष्यते, न संज्ञाम् अभिनिवेक्ष्यते, न संस्कारान् अभिनिवेक्ष्यते, न विज्ञानम् अभिनिवेक्ष्यते.
SK
न चक्षुर् अभिनिवेक्ष्यते, न रूपम् अभिनिवेक्ष्यते, न चक्षुर्विज्ञानम् अभिनिवेक्ष्यते, न चक्षुःसंस्पर्शम् अभिनिवेक्ष्यते, यद् अपि चक्षुःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
SK
न श्रोत्रम् अभिनिवेक्ष्यते न शब्दं न श्रोत्रविज्ञानं न श्रोत्रसंस्पर्शं, यद् अपि श्रोत्रसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
SK
न घ्राणम् अभिनिवेक्ष्यते न गन्धं न घ्राणविज्ञानं न घ्राणसंस्पर्शम्, यद् अपि घ्राणसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
SK
न जिह्वाम् अभिनिवेक्ष्यते न रसं न जिह्वाविज्ञानं न जिह्वासंस्पर्शं, यद् अपि जिह्वासंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
SK
न कायम् अभिनिवेक्ष्यते न स्प्रष्टव्यं न कायविज्ञानं न कायसंस्पर्शं, यद् अपि कायःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं (PSP१-१: १३०) सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
SK
न मनो ऽभिनिवेक्ष्यते न धर्मान् न मनोविज्ञानं न मनःसंस्पर्शं, यद् अपि मनःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते, नापि संस्कृतधातुम् अभिनिवेक्ष्यते, नाप्य् असंस्कृतधातुम् अभिनिवेक्ष्यते.
SK
इति समुदये धर्मज्ञानम्
SK
स न दानपारमिताम् अभिनिवेक्ष्यते, न शीलपारमिताम् अभिनिवेक्ष्यते, न क्षान्तिपारमिताम् अभिनिवेक्ष्यते, न वीर्यपारमिताम् अभिनिवेक्ष्यते, न ध्यानपारमिताम् अभिनिवेक्ष्यते, न प्रज्ञापारमिताम् अभिनिवेक्ष्यते, न नामापि न लक्षणम् अपि तासाम् अभिनिवेक्ष्यते, न काये ऽभिनिवेक्ष्यते.
SK
न मांसचक्षुष्य् अभिनिवेक्ष्यते, न दिव्यचक्षुष्य् अभिनिवेक्ष्यते, न प्रज्ञाचक्षुष्य् अभिनिवेक्ष्यते, न धर्मचक्षुष्य् अभिनिवेक्ष्यते, न बुद्धचक्षुष्य् अभिनिवेक्ष्यते, नाभिज्ञास्व् अभिनिवेक्ष्यते.
SK
नाध्यात्मशून्यतायाम् अभिनिवेक्ष्यते, न बहिर्धाशून्यतायाम् अभिनिवेक्ष्यते, नाध्यात्मबहिर्धाशून्यतायाम् अभिनिवेक्ष्यते, न शून्यताशून्यतायां न महाशून्यतायां न परमार्थशून्यतायां न संस्कृतशून्यतायां नासंस्कृतशून्यतायां नात्यन्तशून्यतायां नानवराग्रशून्यतायां नानवकारशून्यतायां न प्रकृतिशून्यतायां न सर्वधर्मशून्यतायां न स्वलक्षणशून्यतायां नानुपलम्भशून्यतायां नाभावस्वभावशून्यतायां न भावशून्यतायां नाभावशून्यतायां न स्वभावशून्यतायां न परभावशून्यतायाम् अभिनिवेक्ष्यते.
SK
न तथतायां न भूतकोट्यां न धर्मधातौ न सत्त्वपरिपाके न बुद्धक्षेत्रपरिशुद्धौ नोपायकौशल्ये ऽभिनिवेक्ष्यते. तत् कस्य हेतोः? तथा हि ते सर्वधर्मा न संविद्यन्ते यस् चाभिनिविशेत येन चाभिनिविशेत यत्र चाभिनिविशेत.
भगवान् आह: तत् किं मन्यसे सुभूते यदि व्यस्तेषु प्रतीत्यसमुत्पादाङ्गेषु न बोधिसत्त्वः समस्तेषु भवतु या प्रतीत्यसमुत्पादतथता सा बोधिसत्त्वो ऽन्यत्र प्रतीत्यसमुत्पादतथतायाः प्रतीत्यसमुत्पादतथतायां बोधिसत्त्वो बोधिसत्त्वे प्रतीत्यसमुत्पादतथता अप्रतीत्यसमुत्पादतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: किं पुनस् त्वं सुभूते ऽर्थवशम् उपादायैवं वदसि: न रूपं बोधिसत्त्व इति, न वेदना न संज्ञा न संस्कारा न विज्ञानं न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न रूपाणि न शब्दा न गन्धा न रसा न स्प्रष्टव्या न धर्माः, न चक्षुर् न श्रोत्रं न घ्राणं न जिह्वा नकायो न मनः, न चक्षूरूपचक्षुर्विज्ञानं न श्रोत्रशब्दश्रोत्रविज्ञानं न घ्राणगन्धघ्राणविज्ञानं न जिह्वारसजिह्वाविज्ञानं न कायस्प्रष्टव्यकायविज्ञानं न मनोधर्ममनोविज्ञानं, नाविद्या एवं न संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्व इति, यावन् न स्कन्धधात्वायतनप्रतीत्यसमुत्पादो बोधिसत्त्व इति, न रूपतथता बोधिसत्त्व इति, न वेदनातथता न संज्ञातथता न संस्कारतथता न (PSP१-१: १३९) विज्ञानतथता यावन् न पृथिवीधातुतथता नाब्धातुतथता न तेजोधातुतथता न वायुधातुतथतानाकाशधातुतथता न विज्ञानधातुतथता,
SK
न चक्षुस्तथता न श्रोत्रतथता न घ्राणतथता न जिह्वातथतान कायतथता न मनस्तथता,
SK
न रूपतथता न शब्दतथता न गन्धतथता न रसतथतान स्प्रष्टव्यतथता न धर्मतथता,
SK
न चक्षूरूपचक्षुर्विज्ञानतथता न श्रोत्रशब्दश्रोत्रविज्ञानतथता न घ्राणगन्धघ्राणविज्ञानतथता न जिह्वारसजिह्वाविज्ञानतथता न कायस्प्रष्टव्यकायविज्ञानतथता न मनोधर्ममनोविज्ञानतथता,
SK
नाविद्यातथता न संस्कारतथता न विज्ञानतथता न नामरूपतथता न षडायतनतथता न स्पर्शतथता न वेदनातथता न तृष्णातथता नोपादानतथता न भवतथता न जातितथता न जरामरणतथता यावन् न स्कन्धधात्वायतनतथता न प्रतीत्यसमुत्पादतथता बोधिसत्त्व इति. सुभूतिर् आह: अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो रूपं बोधिसत्त्वो भविष्यति, वेदना संज्ञा संस्कारा विज्ञानं बोधिसत्त्वो भविष्यति.
भगवान् आह: किं पुनस् त्वं सुभूते ऽर्थवशं प्रतीत्य एवं वदसि: न रूपस्य नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न रूपस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
SK
न वेदनाया नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न वेदनायाः प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
SK
न संज्ञाया नित्यताधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संज्ञायाः प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
SK
न संस्कारानां नित्यताधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संस्कारानां प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं (PSP१-१: १४३) बोधिसत्त्व इति,
SK
न विज्ञानस्य नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न विज्ञानस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति.
अत्यन्तया भगवन् वेदना न विद्यते नोपलभ्यते, कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति,
SK
अत्यन्ततया भगवन् संज्ञा न विद्यते नोपलभ्यते, कुतः संज्ञाधिवचनं बोधिसत्त्वो भविष्यति,
SK
अत्यन्ततया भगवन् संस्कारा न विद्यन्ते नोपलभ्यन्ते, कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति,
SK
अत्यन्ततया भगवन् विज्ञानं न विद्यते नोपलभ्यते, कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति.
SK
अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते, कुतो रूपनित्यताधिवचनं बोधिसत्त्वो भविष्यति,
SK
अत्यन्ततया भगवन्न् अनित्यं न विद्यते नोपलभ्यते, कुतो रूपानित्यताधिवचनं बोधिसत्त्वो भविष्यति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति, एवं वेदना संज्ञा संस्काराः,
SK
अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते, कुतो विज्ञाननित्यताधिवचनं बोधिसत्त्वो भविष्यति,
SK
अत्यन्ततया भगवन्न् अनित्यं न विद्यते नोपलभ्यते, कुतो विज्ञानानित्यताधिवचनं बोधिसत्त्वो भविष्यति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं (PSP१-१: १४४) नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति.
SK
भगवान् आह: साधु साधु सुभूते, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपाधिवचनम् अनुपलभमानेन वेदनाधिवचनम् अनुपलभमानेन संज्ञाधिवचनम् अनुपलभमानेन संस्काराधिवचनम् अनुपलभमानेन विज्ञानाधिवचनम् अनुपलभमानेन.
यद् अपि सुभूते एवं वदसि, नाहं तं धर्मं समनुपश्यामि यद् उत बोधिसत्त्व इति, न हि सुभूते धर्मो धर्मधातुं समनुपश्यति, नापि धर्मधातुर् धर्मं समनुपश्यति.
SK
इति मार्गे धर्मज्ञानम्
SK
न सुभूते रूपधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातू रूपधातुं समनुपश्यति,
SK
न सुभूते वेदनाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् वेदनाधातुं समनुपश्यति,
SK
न सुभूते संज्ञाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् संज्ञाधातुं समनुपश्यति,
SK
न सुभूते संस्कारधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् संस्कारधातुं समनुपश्यति,
SK
न सुभूते विज्ञानधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् विज्ञानधातुं समनुपश्यति,
SK
न चक्षुर्धातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुश् चक्षुर्धातुं समनुपश्यति,
SK
न श्रोत्रधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुः श्रोत्रधातुं समनुपश्यति,
SK
न घ्राणधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् घ्राणधातुं समनुपश्यति,
SK
न जिह्वाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् जिह्वाधातुं समनुपश्यति,
SK
न कायधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् कायधातुं समनुपश्यति,
SK
न मनोधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् (PSP१-१: १४६) मनोधातुं समनुपश्यति.
SK
इति मर्गे ऽन्वयज्ञानक्षान्तिः
SK
न सुभूते संस्कृतधातुर् असंस्कृतधातुं समनुपश्यति, नाप्य् असंस्कृतधातुः संस्कृतधातुं समनुपश्यति.
SK
इति मार्गे ऽन्वयज्ञानम्
SK
इति दर्शनमार्गाववादः
SK
न च सुभूते संस्कृतव्यतिरेकेणासंस्कृतं शक्यं प्रज्ञपयितुं, नाप्य् असंस्कृतव्यतिरेकेण संस्कृतं शक्यं प्रज्ञपयितुम्.
SK
एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मं समनुपश्यति, असमनुपश्यन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, न चास्य क्वचिद् धर्मचित्तम् अवलीयते, न विप्रतिसारी भवति मानसम्. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति, वेदनां न समनुपश्यति, संज्ञां न समनुपश्यति, संस्कारान् न समनुपश्यति, विज्ञानं न समनुपश्यति.
SK
चक्षुर् न समनुपश्यति, श्रोत्रं न समनुपश्यति, घ्राणं न समनुपश्यति, जिह्वां न समनुपश्यति, कायं न समनुपश्यति, मनो न समनुपश्यति.
SK
रूपाणि न समनुपश्यति, शब्दान् न समनुपश्यति, गन्धान् न समनुपश्यति, रसान् न समनुपश्यति, स्प्रष्टव्यान् न समनुपश्यति, धर्मान् न समनुपश्यति.
SK
पृथिवीधातुम् अब्धातुं तेजोधातुं वायुधातुम् आकाशधातुं विज्ञानधातुं न समनुपश्यति.
SK
अविद्यां न समनुपश्यति, संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् न समनुपश्यति.
SK
रागं न समनुपश्यति, द्वेषं न समनुपश्यति, मोहं न समनुपश्यति.
SK
आत्मानं न समनुपश्यति, सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजनकपश्यकान् न समनुपश्यति.
SK
कामधातुं न समनुपश्यति, रूपधातुं न समनुपश्यति, आरूप्यधातुं न समनुपश्यति, आकाशधातुं न समनुपश्यति. (PSP१-१: १४७) श्रावकं न समनुपश्यति, प्रत्येकबुद्धं न समनुपश्यति, बोधिसत्त्वं न समनुपश्यति, श्रावकधर्मान् न समनुपश्यति, प्रत्येकबुद्धधर्मान् न समनुपश्यति, बोधिसत्त्वधर्मान् न समनुपश्यति, बुद्धं न समनुपश्यति, बुद्धधर्मान् न समनुपश्यति, बोधिं न समनुपश्यति, यावत् सर्वधर्मान् न समनुपश्यति, सर्वधर्मान् असमनुपश्यन्, नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वश् चित्तचैतसिकान् धर्मान् नोपलभते न समनुपश्यति. एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य नोत्त्रस्यति मानसम्?
SK
भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वो मनश् च मनोधातुं च नोपलभते न समनुपस्यति, एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य नोत्त्रस्यति मानसम्. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्मान् उपलब्ध्य प्रज्ञापारमितायां चरितव्यम्.
SK
सचेत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तां प्रज्ञापारमितां नोपलभते न समनुपश्यति, तञ् च बोधिसत्त्वं, तच् च बोधिसत्त्वनाम, तच् च बोधिचित्तं नोपलभते न समनुपश्यति, एष एव बोधिसत्त्वस्य महासत्त्वस्याववादः प्रज्ञापारमितायाम् एषैवानुशासं.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वकुशलमूलानि परिपूरयितुकामेन यैः कुशलमूलैः परिपूर्णैर् नापायेषूपपद्यते, न हीनकुलेषूपपद्यते, न च श्रावकभूमिं वा न च प्रत्येकबुद्धभूमिं वा पतति, न च बोधिसत्त्वमूर्धामं वा पतति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
शारिपुत्र आह: कथं चायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो मूर्धामं पतति?
एवं रूपं प्रहातव्यम् अनेन रूपं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, एवं वेदना प्रहातव्या अनेन वेदना प्रहातव्येति, एवं संज्ञा प्रहातव्या अनेन संज्ञा प्रहातव्येति, एवं संस्काराः प्रहातव्या अनेन संस्काराः प्रहातव्या इति, एवं विज्ञानं प्रहातव्यम् अनेन विज्ञानं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, एवं दुःखं परिज्ञेयम् अनेन दुःखं परिज्ञेयम् इति, एवं समुदयः प्रहातव्यो ऽनेन समुदयः प्रहातव्य इति नाभिनिविशते नाधितिष्ठति न संजानीते.
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं शिक्षितव्यम्. यथा शिक्षमाणेन रूपं ज्ञातव्यं न च तेन मन्तव्यं, वेदना संज्ञा संस्कारा विज्ञानं ज्ञातव्यं न च तेन मन्तव्यं, चक्षुर् ज्ञातव्यम् एवं श्रोत्रं घ्राणं जिह्वा कायो मनोज्ञातव्यं न च तेन मन्तव्यं, शब्दगन्धरसस्प्रष्टव्यधर्मा ज्ञातव्या न च तैर् मन्तव्यं, दानपारमिता ज्ञातव्या शीलपारमिता ज्ञातव्या क्षान्तिपारमिता ज्ञातव्या वीर्यपारमिता ज्ञातव्या ध्यानपारमिता ज्ञातव्या प्रज्ञापारमिता ज्ञातव्या न च ताभिर् मन्तव्यं, एवं पञ्चाभिज्ञाः पञ्च चक्षूंषि चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा भावयितव्या न च तैर् मन्तव्यं, चत्वारि वैशारद्यानि दशतथागतबलानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा ज्ञातव्या न च तैर् मन्तव्यम्.
SK
एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बोधिचित्तं नाम ज्ञातव्यम् असमचित्तं नामोदारचित्तं नाम ज्ञातव्यं न च तेन मन्तव्यम्. तत् कस्य हेतोः? तथा तच् चित्तम् अचित्तं प्रकृतिश् चित्तस्य प्रभास्वरा.
SK
शारिपुत्र आह: का पुनर् आयुष्मन् सुभूते चित्तस्य प्रभास्वरता?
SK
सुभूतिर् आह: यद् आयुष्मन् शारिपुत्र चित्तं न रागेण संयुक्तं न विसंयुक्तं, न द्वेषेण मोहेन संयुक्तं न विसंयुक्तं, न पर्युत्थानैः संयुक्तं न विसंयुक्तं, नावरणैः संयुक्तं न (PSP१-१: १५४) विसंयुक्तं, नानुशयैः संयुक्तं न विसंयुक्तं, न संयोजनैः संयुक्तं न विसंयुक्तं, न दृष्टिकृतैः संयुक्तं न विसंयुक्तं, न श्रावकप्रत्येकबुद्धचित्तैः संयुक्तं न विसंयुक्तम्. इयं शारिपुत्र चित्तस्य प्रभास्वरता.
तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि यत्र बोधिसत्त्वैर् महासत्त्वैः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा बोधिसत्त्वभूमौ वा शिक्षितव्यम्.
SK
इति सर्वेषां हेतुत्वविशेषः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो ऽहं भगवन् न बोधिसत्त्वं न प्रज्ञापारमितां विन्दामि नोपलभे न (PSP१-१: १५६) समनुपश्यामि. तत् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि? एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं वस्तु न विन्दामि नोपलभे न समनुपश्यामि सो ऽहं भगवन् वस्त्व् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् कतमेन धर्मेण कतमं धर्मम् अववदिष्याम्य् अनुशासिष्यामि? एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं सर्वध्हर्मान् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् नामधेयमात्रेणायव्ययं कुर्यां बोधिसत्त्व इति वा प्रज्ञापारमितेति वा.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्, रूपस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, वेदनाया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, संज्ञाया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, संस्काराणाम् अहं भगवन्न् आयञ् च व्ययञ् चनोपलभे न समनुपश्यामि, विज्ञानस्याहं भगवन्न् आयञ् च व्ययञ्च नोपलभे न समनुपश्यामि, सो ऽहं भगवन् रूपादीनाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति?
SK
अनेन भगवन् पर्यायेण तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्.
SK
चक्षुषो ऽहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, श्रोत्रस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, घ्राणस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, जिह्वाया अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, कायस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, मनसो ऽहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे.
SK
अपि तु खलु पुनर् भगवन् यद् अपि तद् रूपं नाम वेदना नाम संज्ञा नाम संस्कारा नाम विज्ञानं नाम चक्षुः श्रोत्रं घ्राणं (PSP१-१: १५७) जिह्वा कायो मन इति नाम, एतानि नामधेयानि न स्थितानि नास्थितानि न विष्टितानि नाविष्टितानि. तत् कस्य हेतोः? अविद्यमानत्वेन तेषां नामधेयानां, एवं तानि नामधेयानि न स्थितानि नास्थितानि न विष्टितानि नाविष्टितानि, रूपस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे. एवं शब्दगन्धरसस्प्रष्टव्यधर्माणाम् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, सो ऽहं भगवन् रूपशब्दगन्धरसस्प्रष्टव्यधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, चक्षुर्विज्ञानस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, एवं श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, सो ऽहं भगवंश् चक्षुर्विज्ञानस्य श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन्न् अनुपलम्भमानः कस्य नामधेयं करिष्यामि बोधिसत्त्व इति.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, चक्षुःसंस्पर्शस्याहं भगवन् यावच् चक्षुःसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, श्रोत्रसंस्पर्शस्याहं भगवन् यावच् छ्रोत्रसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, घ्राणसंस्पर्शस्याहं भगवन् यावद् घ्राणसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, जिह्वासंस्पर्शस्याहं भगवन् यावद् जिह्वासंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, कायसंस्पर्शस्याहं भगवन् यावत् कायसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, मनःसंस्पर्शस्याहं भगवन् यावन् मनःसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, (PSP१-१: १५८) पृथिवीधातोर् एवम् अब्धातोस् तेजोधातोर् वायुधातोर् आकाशधातोर् विज्ञानधातोर् आयञ् च व्ययञ् च न सनुपश्यामि नोपलभे. एवम् अविद्या यावज् जरामरणस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, एवम् अविद्यानिरोधस्य यावज् जरामरणनिरोधस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, स्कन्धधात्वायतनप्रतीत्यसमुत्पादानाम् अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, रागद्वेषमोहानाम् अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, पर्युत्थानावरणानुशयसंयोजनदृष्टिकृतानाम् अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे.
SK
दानपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, शीलपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, क्षान्तिपारमिताया अहं भगवन्न् आयञ् चव्ययञ् च नोपलभे न समनुपश्यामि, वीर्यपारमिताया अहं भगवन्नायञ् च व्ययञ् च नोपलभे न समनुपश्यामि, ध्यानपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, प्रज्ञापारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
SK
आत्मनो ऽहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
SK
स्मृत्युपस्हानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं सम्यक्प्रहाणर्द्धिपादेनद्रियबलबोध्यङ्गमार्गस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, शून्यताया आनिमित्तस्याप्रणिहितस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, बुद्धानुस्मृतेर् धर्मानुस्मृतेः संघानुस्मृतेः शीलानुस्मृतेस् त्यागानुस्मृतेर् देवतानुस्मृतेर् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, आनापानानुस्मृतेर् मरणानुस्मृतेर् आयञ् च (PSP१-१: १५९) व्ययञ् च नोपलभे न समनुपश्यामि, पञ्चानां चक्षुषाम् अभिज्ञानां वैशारद्यानां दशानां तथागतबलानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, अष्टादशानाम् आवेणिकानाम् अहं भगवन् बुद्धधर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्.
SK
स्वप्नोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं मायोपमानां प्रतिश्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिम्बोपामानां मरीच्युपमानां उदकचन्द्रोपमानां निर्मितकोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. एवं विविक्तस्य शान्तस्यानुत्पादस्यानिरोधस्यासंक्लेशस्याव्यवदानस्य अहं भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. एवं धर्मधातोस् तथताया भूतकोटेर् धर्मस्थितिताया धर्मनियामताया अहं भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
SK
एवं कुशलानाम् अकुशलानां सावद्यानाम् अनवद्यानां सास्रवाणाम् अनास्रवाणां संक्लेशानां निःक्लेशानां लौकिकानां लोकोत्तराणां संस्कृतानाम् असंस्कृतानां संक्लेशानां व्यवदानानां संसारिकाणां नैर्वाणिकानाम् अहं भगवन् धर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
SK
अतीतानागतप्रत्युत्पन्नानां धर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, भगवतो ऽप्य् अहं भगवन् आयञ् च व्ययञ् चनोपलभे न समनुपश्यामि.
SK
पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धनां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् (PSP१-१: १६०) अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पश्चिमस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषुलोकधातुषु, दक्षिणपश्चिमस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, अधो दिशि गङ्गानदीवालुकोपमेषुलोकधातुषु, तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवंस् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामायञ् च व्ययञ् च नोपलंभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, सर्वधर्मतथताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवन् सर्वधर्मतथतायाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्.
SK
इति मध्योष्मगतस्यालम्बनाकारविशेषः
SK
यापीयं भगवन् धर्मसांकेतिकी धर्मप्रज्ञप्तिर् यद् उत बोधिसत्त्व इति, सा न केनचिद् वचनीया स्कन्धेन वा धातुना वा आयतनेन वा यावद् आवेणिकेन वा बुद्धधर्मेण, यावद् एवैषा धर्मप्रज्ञप्तिः, तद्यथापि नाम भगवन् स्वप्नो न केनचिद् वचनीयः प्रतिश्रुत्को प्रतिभासः प्रतिबिम्बं निर्मितकं न केनचिद् वचनीयं, तद्यथापि नाम भगवन् पृथिव्याप्तेजोवाय्वाकाशं नाम न केनचिद् (PSP१-१: १६१) वचनीयम्, तद्यथापि नाम भगवन् शीलम् इति समाधिर् इति प्रज्ञेति विमुक्तिर् इति विमुक्तिज्ञा अनदर्शनम् इति नाम न केनचिद् वचनीयं, स्रोतआपन्न इति नाम न केनचिद् वचनीयं, सकृदागामीति, अनागामीति, अर्हन्न् इति, प्रत्येकबुद्ध इति, यावद् बोधिसत्त्वधर्म इति तथागत इति बुद्ध इति तथतेति बुद्धधर्म इति नाम न केनचिद् वचनीयं, कुशलेन वा अकुशलेन वा सावद्येन वा अनवद्येन वा सुखेन वा दुःखेनवा आत्मना वा अनात्मना वा शान्तेन वा अशान्तेन वा विविक्तेन वा अविविक्तेनवा निमित्तेन वा अनिमित्तेन वा भावेन वा अभावेन वा इमम् अप्य् अहं भगवन् अर्थवशं प्रतीत्य एवं वदामि एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं सर्वधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् नामधेयमात्रेणायञ् च व्ययञ् च कुर्यां बोधिसत्त्व इति.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्, तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, सचेद् भगवन्न् एवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां भाष्यमाणायां चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति, मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नियतं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तणीयायां बोधिसत्त्वभूमौ स्थितो वेदितव्यः सुस्थितो ऽस्थानयोगेन.
SK
इति अधिमात्रोष्मगतस्यालम्बनाकारविशेषः
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यं तेन न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यं, तेन न रूपे स्थातव्यं न शब्दे न गन्धे न रसे न स्प्रष्टव्ये न धर्मे स्थातव्यं, तेन न चक्षुर्विज्ञाने स्थातव्यन् न श्रोत्रविज्ञाने न घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यं, तेन न चक्षुःसंस्पर्शे स्थातव्यन् न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न श्रोत्रसंस्पर्शे न श्रोत्रसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न घ्राणसंस्पर्शे (PSP१-१: १६२) न घ्राणसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न जिह्वासंस्पर्शे न जिह्वासंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न कायसंस्पर्शे न कायसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न मनःसंस्पर्शे न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्. न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यं, तेन नाविद्यायां स्थातव्यं न संस्कारेषुन विज्ञाने न नामरूपे न षडायतने न स्पर्से न वेदनायां न तृष्णायां नोपादाने न भवे न जातौ न जरामरणशोकपरिदेवदुःखदौमनस्योपयासेषु स्थातव्यम्.
SK
तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपत्वेन शून्यं, वेदनावेदनात्वेन शून्या, संज्ञा संज्ञात्वेन शून्या, संस्काराः संस्कारत्वेन शून्याः, विज्ञानं विज्ञानत्वेन शून्यं, या च भगवन् रूपस्य शून्यता न तद् रूपं, न चान्यत्र शून्यताया रूपं, रूपम् एव शून्यताशून्यतैव रूपं, या च भगवन् वेदनायाः शून्यता न सा वेदना, न चान्यत्र शून्यताया वेदना, वेदनैव शून्यता शून्यतैव वेदना, या च भगवन् संज्ञायाः शून्यता न सा संज्ञा, न चान्यत्र शून्यतायाः संज्ञा, संज्ञैव शून्यता शून्यतैव संज्ञा, या च भगवन् संस्काराणां शून्यता न ते संस्काराः, न चान्यत्र शून्यतायाः संस्काराः, संस्कारा एव शून्यता शून्यतैव संस्काराः, या च भगवन् विज्ञानस्य शून्यता न तद् विज्ञानं, न चान्यत्र शून्यताया विज्ञानं, विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यम्.
SK
न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवन् पृथिवीधातुः पृथिवीधातुत्वेन शून्या, या च पृथिवीधातुशून्यता नासौ पृथिवीधातुर् न चान्यत्र शून्यतायाः पृथिवीधातुः, पृथिवीधातुर् एव शून्यता, शून्यतैव पृथिवीधातुः, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुस् तथा हि भगवन् विज्ञानधातुर् विज्ञानधातुत्वेन शून्या, या च विज्ञानधातुशून्यता नासौ विज्ञानधातुर् न चान्यत्र शून्यताया विज्ञानधातुर् विज्ञानधातुर् एव शून्यता, शून्यतैव (PSP१-१: १६३) विज्ञानधातुः. अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यम्.
SK
न रूपे स्थातव्यन् न शब्दे न गन्धेन रसे न स्प्रष्टव्ये न धर्मे स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपत्वेन शून्यं, या च रूपे शून्यता न तद् रूपं, न चान्यत्र शून्यताया रूपं, रूपम् एव शून्यता शून्यतैव रूपं, तथा हि शब्दः शब्दत्वेन शून्या, या च शब्दशून्यता न स शब्दो, न चान्यत्र शून्यतायाः शब्दः, शब्द एव शून्यता शून्यतैव शब्दः, तथा हि गन्धो गन्धत्वेन शून्यो, या च गन्धशून्यता न स गन्धो, न चान्यत्र शून्यताया गन्धो, गन्ध एव शून्यता शून्यतैव गन्धः, तथा हि रसो रसत्वेन शून्यो, या च रसशून्यता न स रसो, न चान्यत्र शून्यताया रसो, रस एव शून्यता शून्यतैव रसः, तथा हि स्प्रष्टव्यं स्प्रष्टव्यत्वेन शून्यं, या च स्प्रष्टव्यशून्यता न तत् स्प्रष्टव्यं, न चान्यत्र शून्यतायाः स्प्रष्टव्यं, स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टव्यं, तथा हि भगवन् धर्मो धर्मत्वेन शून्यो, या च धर्मशून्यता न ते धर्मा, न चान्यत्र शून्यताया धर्मा, धर्मा एव शून्यता शून्यतैव धर्माः.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न शब्दे न गन्धे न रसे न स्प्रष्टव्ये न धर्मे स्थातव्यं, न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यम्.
SK
तत् कस्य हेतोः? तथा हि भगवंश् चक्षुश् चक्षुत्वेन शून्यं, या च चक्षुःशून्यता न तच् चक्षुर्, न चान्यत्र शून्यतायाश् चक्षुश्, चक्षुर् एव शून्यता शून्यतैव चक्षुः, तथा हि श्रोत्रं श्रोत्रत्वेन शून्यं या च श्रोत्रशून्यता न तच् छ्रोत्रं, न चान्यत्र शून्यतायाः श्रोत्रं, श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं, तथा हि घ्राणं घ्राणत्वेन शून्यं, या च घ्राणशून्यता न तद् घ्राणं, न चान्यत्र शून्यताया घ्राणं, घ्राणम् एव शून्यता शून्यतैव घ्राणं, तथा हि जिह्वा जिह्वात्वेन शून्या, या च जिह्वाशून्यता न सा जिह्वा, न चान्यत्र शून्यताया जिह्वा, जिह्वैव शून्यता शून्यतैव जिह्वा, तथा हि कायः कायत्वेन शून्या, या च कायशून्यता न स कायो, न चान्यत्र शून्यतायाः कायः, काय एव शून्यता (PSP१-१: १६४) शून्यतैव कायः, तथा हि भगवन् मनो मनस्त्वेन शून्यं, या च मनःशून्यता न तं मनो, न चान्यत्र शून्यताया मनो, मन एव शून्यता शून्यतैव मनः.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यं, न चक्षुर्विज्ञाने स्थातव्यं न श्रोत्रविज्ञानेन घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यम्.
SK
तत् कस्य हेतोः? तथा हि भगवंश् चक्षुर्विज्ञानं चक्षुर्विज्ञानत्वेन शून्यं, या च चक्षुर्विज्ञानशून्यता न तच् चक्षुर्विज्ञानं, न चान्यत्र शून्यतायाश् चक्षुर्विज्ञानं, चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं, तथा हि श्रोत्रविज्ञानं श्रोत्रविज्ञानत्वेन शून्यं, या च श्रोत्रविज्ञानशून्यता न तच् छ्रोत्रविज्ञानं, न चान्यत्र शून्यतायाश् श्रोत्रविज्ञानं, श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं, तथा हि घ्राणविज्ञानं घ्राणविज्ञानत्वेन शून्यं, या च घ्राणविज्ञानशून्यता न तद् घ्राणविज्ञानं, न चान्यत्र शून्यताया घ्राणविज्ञानं, घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं, तथा हि जिह्वाविज्ञानं जिह्वाविज्ञानत्वेन शून्यं, या च जिह्वाविज्ञानशून्यता न तज् जिह्वाविज्ञानं, न चान्यत्र शून्यतायाश् जिह्वाविज्ञानं, जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं, तथा हि कायविज्ञानं कायविज्ञानत्वेन शून्यं, या च कायविज्ञानशून्यता न तत् कायविज्ञानं, न चान्यत्र शून्यतायाश् कायविज्ञानं, कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानं, तथा हि मनोविज्ञानं मनोविज्ञानत्वेन शून्यं, या च मनोविज्ञानशून्यता न तन् मनोविज्ञानं, न चान्यत्र शून्यताया मनोविज्ञानं, मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानं,
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुर्विज्ञाने स्थातव्यन् न श्रोत्रविज्ञाने न घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यं, न चक्षुःसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शे न घ्राणसंस्पर्शेन जिह्वासंस्पर्शे न कायसंस्पर्शे न मनःसंस्पर्शे स्थातव्यम्.
SK
तत् कस्य हेतोः? तथा हि भगवंश् चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शत्वेन (PSP१-१: १६५) शून्यः, या च चक्षुःसंस्पर्शशून्यता न स चक्षुःसंस्पर्शः, न चान्यत्र शून्यतायाश् चक्षुःसंस्पर्शश्, चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः, तथा हि भगवन् मनःसंस्पर्शो मनःसंस्पर्शत्वेन शून्यो, या च मनःसंस्पर्शशून्यता न स मनःसंस्पर्शो, न चान्यत्र शून्यताया मनःसंस्पर्शो, मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुःसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शे न घ्राणसंस्पर्शे न जिह्वासंस्पर्शे न कायसंस्पर्शे न मनःसंस्पर्शे स्थातव्यम्.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम् एवं यावन् न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं, या च चक्षुःसंस्पर्शप्रत्ययवेदयितशून्यतान तच् चक्षुःसंस्पर्शप्रत्ययवेदयितं, न चान्यत्र शून्यतायाश्चक्षुःसंस्पर्शप्रत्ययवेदयितं, चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितं, एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं, तथा हि भगवन् मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं, या च मनःसंस्पर्शप्रत्ययवेदयितं शून्यता न तन् मनःसंस्पर्शप्रत्ययवेदयितं, न चान्यत्र शून्यताया मनःसंस्पर्शप्रत्ययवेदयितं, मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं, न श्रोत्रसंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न घ्राणसंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न जिह्वासंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते न मनःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यम्.
SK
नाविद्यायां स्थातव्यम् एवं यावन् न जरामरणे स्थातव्यम्. तत् (PSP१-१: १६६) कस्य हेतोः? तथा हि भगवन्न् अविद्या अविद्यात्वेन शून्या, या चाविद्याशून्यता न साविद्या, न चान्यत्र शून्यताया अविद्या, अविद्यैव शून्यताशून्यतैवाविद्या, एवं संस्काराः संस्कारत्वेन शून्याः विज्ञानं विज्ञानत्वेन शून्यं, नामरूपं नामरूपत्वेन शून्यं, षडायतनं षडायतनत्वेन शून्यं, स्पर्शः स्पर्शत्वेन शून्यः, वेदना वेदनात्वेन शून्या, तृष्णा तृष्णात्वेन शून्या, उपादानम् उपादानत्वेन शून्यं, भवो भवत्वेन शून्यः, जातिर् जातित्वेन शून्या, तथा हि भगवञ् जरामरणं जरामरणत्वेन शून्यं, या च जरा अमरणशून्यता न तज् जरामरणं, न चान्यत्र शून्यताया जरामरणं, जरामरणम् एव शून्यता शून्यतैव जरामरणम्.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाविद्यायां स्थातव्यं न संस्कारेषु न विज्ञाने न नामरूपे न षडायतने न स्पर्से न वेदनायां न तृष्णायां नोपादानेन भवे न जातौ न जरामरणे स्थातव्यम्.
SK
एवं स्कन्धधात्वायतनेषु च कर्तव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता स्मृत्युपस्थानेषु न स्थातव्यम्. तत् कस्य हेतोः? स्मृत्युपस्थानानि स्मृत्युपस्थानत्वेन शून्यानि, या च भगवन् स्मृत्युपस्थानानां शून्यता न तानि स्मृत्युपस्थानानि न चान्यत्र शून्यतायाः स्मृत्युपस्थानानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न स्मृत्युपस्थानेषु स्थातव्यं, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु न स्थातव्यम्. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मत्वेन शून्या या च भगवन्न् आवेणिकबुद्धधर्माणां शून्यता न ते आवेणिकबुद्धधर्मा न चान्यत्र शून्यताया आवेणिका बुद्धधर्मा आवेणिका बुद्धधर्मा एव शून्यता शून्यतैवावेणिका बुद्धधर्माः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु (PSP१-१: १६७) न स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न दानपारमितायां स्थातव्यम्. तत् कस्य हेतोः? तथा हि दानपारमितैव शून्या दानपारमितास्वभावेन, या च भगवन् दानपारमितायाः शून्यता न सा दानपारमिता, न चान्यत्र शून्यताया दानपारमिता, दानपारमितैव शून्यता शून्यतैव दानपारमिता, न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां स्थातव्यम्. तत् कस्य हेतोः? तथा हि प्रज्ञापारमितैव शून्या प्रज्ञापारमितास्वभावेन, या च भगवन् प्रज्ञापारमितायाः शून्यता न सा प्रज्ञापारमिता, न चान्यत्र शून्यतायाः प्रज्ञापारमिता, प्रज्ञापारमितैव शून्यता शून्यतैव प्रज्ञापारमिता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न दानपारमितायां स्थातव्यं, न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अक्षरेषु न स्थातव्यं, अक्षराभिनिर्हारेषु न स्थातव्यं, एकोदाहारे द्विर् उदाहारे त्रिर् उदाहारे न स्थातव्यम्. तत् कस्य हेतोः? तथा ह्य् अक्षराणि शून्यान्य् अक्षरस्वभावेन, या च भगवन्न् अक्षरशून्यता न तानि अक्षराणि, न चान्यत्र शून्यताया अक्षराणि, अक्षराण्य् एव शून्यता शून्यतैवाक्षराणि, तद् अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाक्षरेषु स्थातव्यम्.
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपम् अनित्यम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनित्यम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि (PSP१-१: १६८) रूपानित्यता अनित्यतास्वभावेन शून्या, या च भगवन् रूपानित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अनित्यम् इति न स्थातव्यम्.
SK
न वेदनानित्येति स्थातव्यम्. तत् कस्य हेतोः? तथा हि वेदनानित्यतानित्यतास्वभावेन शून्या, या च भगवन् वेदनानित्यताशून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता,
SK
न संज्ञा अनित्येति स्थातव्यम्. तत् कस्य हेतोः? तथा हि संज्ञानित्यतानित्यतास्वभावेन शून्या, या च भगवन् संज्ञा अनित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता,
SK
न संस्कारा अनित्या इति स्थातव्यं, तत् कस्य हेतोः? तथा हि संस्कारानित्यतानित्यतास्वभावेन शून्या, या च भगवन् संस्कारा अनित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता अनित्यतैव शून्यता शून्यतैवानित्यता,
SK
न विज्ञानम् अनित्यम् इति स्थातव्यं, तत् कस्य हेतोः? तथा हि विज्ञानानित्यतानित्यतास्वभावेन शून्या, या च भगवन् विज्ञानानित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानम् अनित्यम् इति स्थातव्यम्.
SK
एवं न रूपं दुःखम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं दुःखम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपदुःखता दुःखतास्वभावेन शून्या, या च भगवन् रूपदुःखता शून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव शून्यता शून्यतैव दुःखता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं दुःखम् इति स्थातव्यं. न वेदना न संज्ञा न संस्कारा न विज्ञानं दुःखम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानदुःखता दुःखतास्वभावेन शून्या या च भगवन् विज्ञानदुःखता शून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव शून्यता शून्यतैव दुःखता, तद् अनेनापि (PSP१-१: १६९) भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानं दुःखम् इति स्थातव्यम्.
SK
एवं न रूपम् अनात्मेति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनात्मेति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपानात्मता अनात्मतास्वभावेन शून्या, या च भगवन् रूपानात्मता शून्यता न सानात्मता, न चान्यत्र शून्यताया अनात्मता, अनात्मतैवशून्यता शून्यतैवानात्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपम् अनात्मेति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनात्मेति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानानात्मता अनात्मतास्वभावेन शून्या, या च भगवन् विज्ञानानात्मता शून्यता न सा अनात्मता, न चान्यत्र शून्यताया अनात्मता, अनात्मतैव शून्यता शून्यतैवानात्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानम् अनात्मेति स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपशान्तता शान्ततास्वभावेन शून्या, या च भगवन् रूपशान्तता शून्यता न सा शान्तता, न चान्यत्र शून्यतायाः शान्तता, शान्ततैव शून्यता शून्यतैव शान्तता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानशान्तता शान्ततास्वभावेन शून्या, या च भगवन् विज्ञानशान्तता शून्यता न सा शान्तता, न चान्यत्र शून्यतायाः शान्तता, शान्ततैव शून्यता शून्यतैव शान्तता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानं शान्तम् इति स्थातव्यम्.
SK
एवं हेतुसमुदयप्रभवप्रत्ययतायां न स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तथतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि तथता तथतास्वभावेन शून्या, या च भगवंस् तथतायाः शून्यता न सा तथता, न चान्यत्र तथतायाः शून्यता, तथतैव शून्यता शून्यतैव तथता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन (PSP१-१: १७०) प्रज्ञापारमितायां चरता तथतायान् न स्थातव्यम्.
SK
एवं धर्मतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मता धर्मतास्वभावेन शून्या, या च भगवन् धर्मतायाः शून्यता न सा धर्मता, न चान्यत्र धर्मतायाः शून्यता, धर्मतैव शून्यता शून्यतैव धर्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यम्.
SK
एवं धर्मधातौ न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मधातुर् धर्मधातुस्वभावेन शून्यो, या च भवगवन् धर्मधातोः शून्यता न स धर्मधातुर्, न चान्यत्र धर्मधातोः शून्यता, धर्मधातुर् एव शून्यता शून्यतैव धर्मधातुः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यम्.
SK
एवं धर्मनियामतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मनियामता धर्मनियामतास्वभावेन शून्या, या च भगवन् धर्मनियामता शून्यता न सा धर्मनियमता, न चान्यत्र धर्मनियामतायाः शून्यता, धर्मनियामतैव शून्यता शून्यतैव धर्मनियमता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतायां न स्थातव्यम्.
SK
एवं भूतकोट्यां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि भूतकोटिर् भूतकोटिस्वभावेन शून्या, या च भगवन् भूतकोटेः शून्यता न सा भूतकोटिर्, न चान्यत्र भूतकोटेः शून्यता, भूतकोटिर् एव शून्यता शून्यतैव भूतकोतिः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वधारणीमुखेषु न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धारणीमुखानि धारणीमुखैः शून्यानि, या च भगवन् धारणीमुखानां शून्यता न तानि धारणीमुखानि, न चान्यत्र धारणीमुखेभ्यः शून्यता, धारणीमुखान्य् एव शून्यता शून्यतैव धारणीमुखानि. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धारणीमुखेषु न स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो ऽहङ्कारममकारपतितेन मानसेन सचेद् रूपे (PSP१-१: १७१) तिस्थति रूपाभिसंस्कारे चरति न चरति प्रज्ञापारमितायां, सचेद् वेदनायां संज्ञायां संस्कारेषु, सचेद् विज्ञाने तिष्ठति विज्ञानाभिसंस्कारे चरति न चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? न ह्य् अभिसंस्कारे चरन् प्रज्ञापारमितां परिगृह्णाति न प्रज्ञापारमितायां योगम् आपद्यते न प्रज्ञापारमितां परिपूरयति, अपरिपूरयन् प्रज्ञापारमितां न निर्यास्यति सर्वाकारज्ञतायाम्.
SK
तत् कस्य हेतोः? तथा हि भगवन् रूपम् अपरिगृहीतं वेदना संज्ञा संस्कारा विज्ञानम् अपरिगृहीतम्.
SK
तत् कस्य हेतोः? यश् च रूपस्यापरिग्रहो न तद् रूपं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा, यश् च विज्ञानस्यापरिग्रहो न तद् विज्ञानं प्रकृतिशून्यताम् उपादाय.
SK
एवं यावद् भूतकोटिर् अपरिगृहीता. तत् कस्य हेतोः? यश् च भूतकोट्या अपरिग्रहो न सा भूतकोटिः प्रकृतिशून्यताम् उपादाय, सापि प्रज्ञापारमिता अपरिगृहीता प्रकृतिशून्यताम् उपादाय.
SK
एवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रकृतिशून्याः सर्वधर्माः प्रत्यवेक्षितव्याः, तथा च प्रत्यवेक्षितव्या यथा न क्वचिद् धर्मे मनसो व्युपचारो भवेत्. इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मापरिगृहीतं नाम समाधिमण्डलं विपुलं पुरस्कृतम् अप्रमाणं नियतम् असंहार्यं सर्वश्रावकप्रत्येकबुद्धैः.
सचेत् पुनः प्रज्ञापारमिता निमित्तत उद्ग्रहीतव्याभविष्यन् नैवेह श्रेणिकः परिव्राजकः शासने श्रद्धाम् अलप्स्यत, अत्र सर्वज्ञज्ञाने कतमा च श्रद्धा? येयं प्रज्ञापारमितायाम् अभिश्रद्दधानता अवकल्पनता अधिमुक्तिश् चिन्तना तुलना व्युपपरीक्षणा तच् चानिमित्तयोगेन, एवम् अनिमित्तत उद्ग्रहीतव्या.
SK
अत्र पुनः श्रेणिकः परिव्राजकः अधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः, सो ऽवतीर्य न रूपं परिगृहीतवान् न वेदनां न संज्ञां न संस्कारान् न विज्ञानं परीगृहीतवान्.
SK
तत् कस्य हेतोः? तथा हि स तेन स्वलक्षणशून्येषु धर्मेषु न कश्चिद् धर्मः परिगृहीतो निमित्तामनसिकारताम् उपादाय.
SK
तत् कस्य हेतोः? तथा हि स नाध्यात्मप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, न बहिर्धाप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, नाध्यात्मबहिर्धाप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, नाप्य् अन्यत्रप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति.
SK
तत् कस्य हेतोः? तथा हि स तं धर्मं न समनुपश्यति, यो वा प्रजानीयाद्, यं वा प्रजानीयाद्, येन वा प्रजानीयात्.
रूपम् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, वेदना न विद्यते नोपलभ्यते, संज्ञा न विद्यते नोपलभ्यते, संस्कारा न विद्यन्ते नोपलभ्यन्ते, विज्ञानम् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, अध्यात्मशून्यता आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, बहिर्धाशून्यता न विद्यते नोपलभ्यते, अध्यात्मबहिर्धाशून्यता न विद्यते (PSP१-१: १७५) नोपलभ्यते, शून्यताशून्यता न विद्यते नोपलभ्यते, महाशून्यता न विद्यते नोपलभ्यते, परमार्थशून्यता न विद्यते नोपलभ्यते, संस्कृतशून्यता न विद्यते नोपलभ्यते, असंस्कृतशून्यता न विद्यते नोपलभ्यते, अत्यन्तशून्यता न विद्यते नोपलभ्यते, अनवराग्रशून्यता न विद्यते नोपलभ्यते, अनवकारशून्यता न विद्यते नोपलभ्यते, प्रकृतिशून्यता न विद्यते नोपलभ्यते, सर्वधर्मशून्यता न विद्यते नोपलभ्यते, स्वलक्षणशून्यता न विद्यते नोपलभ्यते, अनुपलम्भशून्यता न विद्यते नोपलभ्यते, अभावस्वभावशून्यता न विद्यते नोपलभ्यते, भावशून्यता न विद्यते नोपलभ्यते, अभावशून्यता न विद्यते नोपलभ्यते, स्वभावशून्यता न विद्यते नोपलभ्यते, परभावशून्यता न विद्यते नोपलभ्यते, यावत् सप्तत्रिंशद् बोधिपक्ष्या धर्मा न विद्यन्ते नोपलभ्यन्ते, अभिज्ञा न विद्यन्ते नोपलभ्यन्ते, दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा न विद्यन्ते नोपलभ्यन्ते, तथता न विद्यते नोपलभ्यते, धर्मता न विद्यते नोपलभ्यते, धर्मे स्थितिता न विद्यते नोपलभ्यते, धर्मनियामता न विद्यते नोपलभ्यते, भूतकोटिर् न विद्यते नोपलभ्यते, बुद्धाप्य् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, सर्वाकारज्ञताप्य् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, अध्यात्मशून्यताम् उपादाय, यावत् परभावशून्यताम् उपादाय.
SK
सचेत् पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपपरीक्षते एवम् उपनिध्यायति तस्यैवम् उपपरीक्षमाणस्यैवम् उपनिध्यायतश् चित्तं नावलीयते न संलीयते नोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया वेदितव्यः.
शारिपुत्र आह: कथं पुनर् आयुष्मन् सुभूते रूपस्य स्वभावः? कथं वेदनायाः संज्ञायाः संस्काराणां? कथं विज्ञानस्य स्वभावः? कथं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां स्वभावः? एवं विस्तरेण यावत् कथं भूतकोट्याः स्वभावः?
सचेद् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं चरति स प्रज्ञापारमितायां चरति, स प्रज्ञापारमितायां भावयतीति निमित्त एव स चरति, इदं बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलं वेदितव्यम्.
स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽभव्यः श्रावकभूमिं प्रत्येकबुद्धभूमिं वा पतितुं कुतः सो ऽनुत्तरां सम्यक्संबोधिम् (PSP१-१: १८१) अभिसंभोत्स्यते नेदं स्थानं विद्यते. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो वेदितव्यः.
सुभूतिर् आह: य आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् अधितिष्ठति न संजानीते नाधिमुच्यते, वेदना संज्ञा संस्कारान् विज्ञानं नाधितिष्ठति न संजानीते नाधिमुच्यते, एवं यावद् बुद्धधर्मान् नाधितिष्ठति न संजानीते नाधिमुच्यते, स न रूपे चरति न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति, न रूपस्य निमित्ते चरति न वेदनाया न संज्ञाया न संस्काराणां न विज्ञनस्य निमित्ते चरति, न रूपं नित्यम् इति नानित्यम् इति चरति, न वेदना न संज्ञा न संस्कारा न विज्ञानं नित्यम् इति नानित्यम् इति चरति, न रूपं सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति चरति, न वेदना न संज्ञा न संस्कारा न विज्ञानं सुखम् इति न दुःखम् इति नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति चरति, न रूपं शून्यम् इति नाशून्यम् इति चरति न निमित्तम् इति नानिमित्तम् इति चरति, न प्रणिहितम् इति नाप्रणिहितम् इति चरति न विविक्तम् इति नाविविक्तम् इति चरति, एवं न वेदना न संज्ञा न संस्कारा न विज्ञानं न शून्यम् इति नाशून्यम् इति चरति, न निमित्तम् इति नानिमित्तम् इति चरति न प्रणिहितम् इति नाप्रणिहितम् इति चरति, न विविक्तम् इति नाविविक्तम् इति चरति.
SK
तत् कस्य हेतोः? तथा हि आयुष्मन् शारिपुत्र या रूपस्य शून्यता न तद् रूपं, न चान्यत्र शून्यतायाः रूपं, नान्यत्र रूपाच् छून्यता, रूपम् एव शून्यता शून्यतैवं रूपम्,
SK
या वेदनायाः शून्यता संज्ञायाः शून्यता संस्काराणां शून्यता, या विज्ञानस्य शून्यता न तद् विज्ञानं, न चान्यत्र शून्यताया विज्ञानं, नान्यत्र विज्ञानाच् छून्यता, शून्यतैव विज्ञानं विज्ञानम् एव शून्यता.
SK
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु पारमितास्व् अभिज्ञासु अप्रमाणध्यानारूप्यसमापत्तिषु बलवैशारद्येषु प्रतिसंवित्सु आवेणिकेषुबुद्धधर्मेषु, यावद् या बुद्धधर्माणां शून्यता न ते बुद्धधर्मा,(PSP१-१: १८२) न चान्यत्र शून्यताया बुद्धधर्माः, नान्यत्र बुद्धधर्मेभ्यः शून्यता, शून्यतैव बुद्धधर्मा बुद्धधर्मा एव शून्यता.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् भव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स पुनः प्रज्ञापारमितायां चरन् सचेत् कंचिद् धर्मम् उपैति न चरति प्रज्ञापारमितायां, नोपैति न चरति, उपैति नोपैति च न चरति, नैवोपैति न नोपैति च न चरति प्रज्ञापारमितायाम्.
अस्ति रत्नमुद्रो नाम समाधिः, अस्ति सुचन्द्रो नाम समाधिः, अस्ति चन्द्रध्वजकेतुर् नाम समाधिः, अस्ति सर्वधर्ममुद्रो नाम समाधिः, अस्त्य् अवलोकितमूर्धा नाम समाधिः, अस्ति धर्मधातुनियतो नाम समाधिः, अस्ति नियतध्वजकेतुर् नाम समाधिः, अस्ति वज्रोपमो नाम समाधिः, अस्ति सर्वधर्मप्रवेशमुद्रो नाम समाधिः, अस्ति समाहितावस्थाप्रतिष्ठानो नाम समाधिः, अस्ति राजमुद्रो नाम समाधिः, अस्ति बलवीर्यो नाम समाधिः, अस्ति सर्वधर्मसमुद्गतो नाम समाधिः, अस्ति निरुक्तिनियतप्रवेशो नाम समाधिः, अस्त्य् असेचनकप्रवेशो नाम समाधिः, अस्ति दिगवलोकनो नाम समाधिः, अस्ति धारणीमुद्रो नाम समाधिः, अस्त्य् असंप्रमुषितो नाम समाधिः, अस्ति समवसरणो नाम समाधिः, अस्त्य् आकाशस्फारणो नाम समाधिः, अस्ति वज्रमण्डलो नाम समाधिः, अस्ति ध्वजाग्रकेतुराजो नाम समाधिः, अस्तीन्द्रकेतुर् नाम समाधिः, अस्ति स्रोतानुगतो नाम समाधिः, अस्ति सिंहविजृम्भितो नामसमाधिः, अस्ति व्यत्यस्तसमापत्तिर् नाम समाधिः, अस्ति रणंजहो नाम समाधिः, अस्ति वैरोचनो नाम समाधिः, अस्त्य् अनिमिषो नाम समाधिः, अस्त्य् अनिकेतस्थितो नाम समाधिः, अस्त्य् अनिश्चितो नाम समाधिः, अस्तिविपुलप्रतिपन्नो नाम समाधिः, अस्त्य् अनन्तप्रभो नाम समाधिः, अस्ति प्रभाकरो नाम समाधिः, अस्ति वरधर्ममुद्रो नाम समाधिः, अस्ति समन्तावभासो नाम समाधिः, अस्ति शुद्धावासो नाम समाधिः, अस्ति विमलप्रभो नाम समाधिः, अस्ति रतिकरो नाम समाधिः, अस्त्य् अजयो नाम समाधिः, अस्ति तेजोवती नाम समाधिः, अस्ति क्षयापगतो नाम समाधिः, अस्त्य् अनिर्जितो नाम समाधिः, अस्ति विवृतो नाम समाधिः, अस्ति सूर्यप्रदीपो नाम समाधिः, अस्ति चन्द्रविमलो नाम समाधिः, अस्ति शुद्धप्रतिभासो नाम समाधिः, अस्त्य् आलोककरो नाम समाधिः, अस्ति काराकारो नाम समाधिः, अस्ति ज्ञानकेतुर् नाम समाधिः, अस्ति चित्तस्थितिर् नाम समाधिः, अस्ति समन्तावलोको नाम समाधिः, अस्ति सुप्रतिष्ठितो नाम समाधिः, अस्ति रत्नकोटिर् नाम समाधिः, अस्ति वरधर्ममुद्रो (PSP१-१: १८४) नाम समाधिः, अस्ति सर्वधर्मसमता नाम समाधिः, अस्ति रतिजहो नाम समाधिः, अस्ति धर्मोद्गतो नाम समाधिः, अस्ति विकिरणो नाम समाधिः, अस्ति सर्वधर्मपदप्रभेदो नाम समाधिः, अस्ति समाक्षरावतारो नाम समाधिः, अस्त्य् अक्षरावतारो नाम समाधिः, अस्त्य् आवरणच्छेदो नाम समाधिः, अस्त्य् अनिगरो नाम समाधिः, अस्ति प्रभाकरो नाम समाधिः, अस्ति नामनियतप्रवेशो नाम समाधिः, अस्त्य् अनिकेतचारी नाम समाधिः, अस्ति वितिमिरापगतो नाम समाधिः, अस्ति चारित्रवती नाम समाधिः, अस्त्य् अचलो नाम समाधिः, अस्ति विषमशान्तिर् नाम समाधिः, अस्ति सर्वगुणसंचयो नाम समाधिः, अस्ति निश्चितो नामसमाधिः, अस्ति शुभपुष्पितशुद्धो नाम समाधिः, अस्ति बोध्यङ्गवती नाम समाधिः, अस्त्य् अनन्तप्रभो नाम समाधिः, अस्त्य् आगमसमो नाम समाधिः, अस्ति सर्वविक्रमणो नाम समाधिः, अस्ति प्रतिच्छेदकरो नाम समाधिः, अस्ति विमतिविकिरणो नाम समाधिः, अस्ति निरधिष्ठानो नाम समाधिः, अस्त्य् एकव्यूहो नाम समाधिः, अस्त्य् आकारानभिनिवेशनिर्हारो नाम समाधिः, अस्त्य् आकारानवकारो नाम समाधिः, अस्ति निरतिशयसर्वभवतलविकिरणो नाम समाधिः, अस्ति संकेतरूतप्रवेशो नाम समाधिः, अस्ति घोषवती नाम समाधिः, अस्ति निरक्षरविमुक्तो नाम समाधिः, अस्ति तेजोवती नाम समाधिः, अस्ति ज्वलनोल्का नाम समाधिः, अस्ति रक्षानुपरिशोषणो नाम समाधिः, अस्त्य् अनाविलक्षान्तिर् नाम समाधिः, अस्ति सर्वाकारावतारो नाम समाधिः, अस्ति सर्वसुखदुःखनिरभिनन्दी नाम समाधिः, अस्त्य् अक्षयाकारो नाम समाधिः, अस्ति धारणीपतिर् नाम समाधिः, अस्ति सम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः, अस्ति रोषविरोषप्रतिरोषो नाम समाधिः, अस्ति विमलप्रभो नाम समाधिः, अस्ति शारवती नाम समाधिः, अस्ति परिपूर्णविमलचन्द्रप्रभो नाम समाधिः, अस्ति विद्युत्प्रभो नाम समाधिः, अस्ति महाव्यूहो नाम समाधिः, अस्ति सर्वलोकप्रभाकरो नाम समाधिः, अस्ति समाधिसमा नाम समाधिः, अस्त्य् अनयविनयनयविमुक्तो नाम समाधिः, अस्त्य् अनुसरणसर्वसमवसरणो नाम समाधिः, अस्त्य् अनिलनियतो नाम समाधिः, अस्ति तथतास्थितनिश्चितो नाम समाधिः, अस्ति कायकलिसंप्रमथनो नाम (PSP१-१: १८५) समाधिः, अस्ति वाक्कलिविध्वंसनो नाम समाधिः, अस्ति गगनकल्पो नाम समाधिः, अस्त्य् आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
भगवान् आह: रूपं शारिपुत्र न संविद्यते, अध्यात्यशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानं शारिपुत्र न संविद्यते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, यावत् सप्तत्रिंशद्बोधिपक्षा धर्मा न संविद्यन्ते यावद् अष्टादशावेणिकबुद्धधर्मा न संविद्यन्ते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय.
SK
इति तत्रैव द्वितीयो रूपादिस्कन्धविकल्पः
SK
तत्र बाला अविद्यायां तृष्णायां चाभिनिविष्टाः, तैर् अविद्यां तृष्णां च कल्पितां कल्पयित्वा अविद्यातृष्णाभ्याम् अभिनिविश्य उभाभ्याम् अन्ताभ्यां सक्तास् ते उभाव् अन्तौ न जानन्ति न पश्यन्ति, यथा धर्मा न संविद्यन्ते, ते तान् धर्मान् कल्पयित्वा नामरूपे अभिनिविष्टाः, यावद् बुद्धधर्मेष्व् (PSP१-१: १८९) अभिनिविष्टाः.
SK
इति तत्रैव तृतीयो नामरूपाभिनिवेशविकल्पः
SK
ते धर्मेष्व् अभिनिविष्टा असंविद्यमानाव् उभाव् अन्तौ कल्पयन्ति कल्पयित्वा न जानन्ति न पश्यन्ति, किं न जानन्ति न पश्यन्ति?
SK
रूपं न जानन्ति न पश्यन्ति, वेदनां संज्ञां संस्कारान् विज्ञानं न जानन्ति न पश्यन्ति, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न जानन्ति न पश्यन्ति, यावद् अष्टादशावेणिकान् बुद्धधर्मान् न जानन्ति न पश्यन्ति, तेन ते बाला इति संख्यां गच्छन्ति.
SK
इति तत्रैव चतुर्थो ऽन्तद्वयसक्तिविकल्पः
SK
ते अविद्यातृष्णाप्रत्ययं न जानन्ति न पश्यन्ति. किं न जानन्ति न पश्यन्ति? रूपं संक्लिष्टम् इति न जानन्ति न पश्यन्ति, एवं रूपं व्यवदानम् इति न जानन्ति न पश्यन्ति, वेदनां संज्ञां संस्कारान् विज्ञानं संक्लिष्टम् इति न जानन्ति न पश्यन्ति, एवं विज्ञानं व्यवदानम् इति न जानन्ति न पश्यन्ति, ते न निर्यास्यन्ति. कुतो न निर्यास्यन्ति? कामधातोर् न निर्यास्यन्ति, रूपधातोर् न निर्यास्यन्ति, आरूप्यधातोर् न निर्यास्यन्ति, श्रावकप्रत्येकबुद्धधर्मेभ्यो न निर्यास्यन्ति.
SK
इति तत्रैव पञ्चमः संक्लेशव्यवदानाज्ञानविकल्पः
SK
ते न श्रद्दधति. किम् इति न श्रद्दधति? रूपं रूपेण शून्यम् इति न श्रद्दधति, यावद् बोधिर् बोध्यात्मना शून्येति न श्रद्दधति.
SK
ते न प्रतिष्ठन्ते. किम् इति न प्रतिष्ठन्ते? दानपारमितायां न प्रतिष्ठन्ते, शीलपारमितायां न प्रतिष्ठन्ते, क्षान्तिपारमितायां न प्रतिष्ठन्ते, वीर्यपारमितायां न प्रतिष्ठन्ते, ध्यानपारमितायां न प्रतिष्ठन्ते, प्रज्ञापारमितायां न प्रतिष्ठन्ते, अविनिवर्तनीयभूमौ न प्रतिष्ठन्ते, यावद् बुद्धधर्मेषु न प्रतिष्ठन्ते, अनेन कारणेन बाला इत्य् उच्यन्ते.
भगवान् आह: आत्मानं शारिपुत्र नोपलभते न समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं यावत् सर्वाकारज्ञतां नोपलभते न समनुपश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्ये सप्तत्रिंशद्बोधिपक्षा धर्माः?
SK
सुभूतिर् आह: नो भगवन्.
SK
इति तत्रैव पञ्चमो व्यवदानप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या शून्यता अन्या माया अन्यद् आनिमित्तम् अन्या माया अन्यद् अप्रणिहितम्. सुभूतिर् आह: नो भगवन्.
SK
इति तत्रैव षष्ठो दर्शनमार्गप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या ध्यानारूप्यसमापत्तयः?
SK
सुभूतिर् आह: नो भगवन्.
SK
इति तत्रैव सप्तमो भावनामार्गप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्याः सर्वशून्यताः?
SK
सुभूतिर् आह: नो भगवन्.
SK
इति तत्रैवाष्टमो विशेषमार्गप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यानि दशबलानि, अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या बोधिः?
SK
सुभूतिर् आह: न भगवन्न् अन्या माया अन्यद् रूपं, रूपम् एव भगवन् माया मायैव भगवन् रूपं, न भगवन्न् अन्या माया अन्या वेदना, वेदनैव भगवन् माया मायैव भगवन् वेदना, न भगवन्न् (PSP१-२: ४) अन्या माया अन्या संज्ञा, संज्ञैव भगवन् माया मायैव भगवन् संज्ञा, न भगवन्न् अन्या माया अन्ये संस्कारः, संस्कारा एव भगवन् माया मायैव भगवन् संस्काराः, न भगवन्न् अन्या माया अन्यद् विज्ञानं, विज्ञानम् एव भगवन् माया मायैव भगवन् विज्ञानम्.
SK
न भगवन्न् अन्यच् चक्षुर् अन्या माया, न भगवन्न् अन्यद् रूपम् अन्या माया, न भगवन्न् अन्यच् चक्षुर्विज्ञानम् अन्या माया, न भगवन्न् अन्यश् चक्षुःसंस्पर्शो ऽन्या माया, न भगवन्न् अन्यच् चक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा अन्या माया.
SK
न भगवन्न् अन्यच् छ्रोत्रं घ्राणं जिह्वा कायो ऽन्या माया, न भगवन्न् अन्यन् मनो ऽन्या माया, न भगवन्न् अन्ये धर्मा अन्या माया, न भगवन्न् अन्यन् मनोविज्ञानम् अन्या माया, न भगवन्न् अन्यो मनःसंस्पर्शो ऽन्या माया, न भगवन्न् अन्यन् मनःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा अन्या माया.
SK
न भगवन्न् अन्या माया अन्ये बोधिपक्ष्या धर्माः, बोधिपक्ष्या धर्मा एव भगवन् माया मायैव भगवन् बोधिपक्ष्या धर्माः,
SK
न भगवन्न् अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः, अष्टादशावेणिका बुद्धधर्मा एव भगवन् माया मायैव भगवन्न् अष्टादशावेणिका बुद्धधर्माः, न भगवन्न् अन्या माया अन्या बोधिः, बोधिर् एव भगवन् माया मायैव भगवन् बोधिः.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अपि नु मायाया उत्पादो वा निरोधो वा?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, मायायाः संक्लेशो वा व्यवदानं वा?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, यस्य नोत्पादो न निरोधो न संक्लेशो न व्यवदानं स प्रज्ञापारमितायां शिक्षते? ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षते? अप्रमाणध्यानारूप्यसमापत्तिषु शिक्षते? सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु (PSP१-२: ५) शिक्षते? सर्वज्ञतायां निर्यास्यति, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अत्रैषा संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारो बोधिसत्त्व इति. पञ्चसूपादानस्कन्धेषु?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारमात्रेण पञ्चानाम् उपादानस्कन्धानाम् उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा उपलभ्यते?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, यस्य न संज्ञा न समज्ञा न प्रज्ञप्तिर् न व्यवहारो न नाम न नामप्रज्ञप्तिर् न कायो न कायकर्म न वाक् न वाक्कर्म न मनो न मनस्कर्म नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् अपि नु स प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति, अनुपलम्भयोगेन.
SK
सुभूतिर् आह: एवं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन मायापुरुषेणैव शिक्षितव्यं भगवत्य् अनुत्तरायां सम्यक्संबोधौ, तत् कस्य हेतोः? तथा हि भगवन् स एव मायापुरुषो वेदितव्यः, यद् उत पञ्चोपादानस्कन्धाः.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् यान् धर्मदेशनाङ् करोत्य् अनुपलम्भयोगेन इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम् अपरामर्षणता इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां क्षमणारोचनप्रत्यवेक्षणता, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां अनुत्सृष्टिर्, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता, या च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अनवकाशदानता अन्येषाम् अपि वा कुशलानां धर्माणाम् इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता, एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रत्यवेक्षते न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपम्, न वेदनाशून्यतया वेदना शून्या वेदनैव शून्यता शून्यतैव वेदना, न संज्ञाशून्यतया संज्ञा शून्या संज्ञैव शून्यता शून्यतैव संज्ञा, न संस्कारशून्यतया संस्काराः शून्याः संस्कारा एव शून्यता शून्यतैव संस्काराः, न विज्ञानशून्यतया विज्ञानं शून्यं विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्.
SK
एवं न चक्षुःशून्यतया चक्षुः शून्यं चक्षुर् एव शून्यता शून्यतैव चक्षुः, न श्रोत्रशून्यतया श्रोत्रं शून्यं श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं, न घ्राणशून्यतया घ्राणं शून्यं घ्राणम् एव शून्यताशून्यतैव घ्राणं, न जिह्वाशून्यतया जिह्वा शून्या जिह्वैव शून्यताशून्यतैव जिह्वा, न कायशून्यतया कायः शून्यः काय एव शून्यताशून्यतैव कायः, न मनःशून्यतया मनः शून्यं मन एव शून्यताशून्यतैव मनः.
SK
एवं न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपं, न शब्दशून्यतया शब्दः शून्यः शब्द एव शून्यता शून्यतैव शब्दः, न गन्धशून्यतया गन्धः शून्यः गन्ध एव शून्यता शून्यतैव गन्धः, न रसशून्यतया रसः शून्यः रस एव शून्यता शून्यतैव रसः, न स्प्रष्टव्यशून्यतया स्प्रष्टव्यं शून्यं स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टव्यं, न धर्मशून्यतया धर्माः शून्याःधर्मा एव शून्यता शून्यतैव धर्माः.
SK
एवं न चक्षुर्विज्ञानशून्यतया चक्षुर्विज्ञानं शून्यं चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं, न श्रोत्रविज्ञानशून्यतया श्रोत्रविज्ञानं शून्यं श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं, न घ्राणविज्ञानशून्यतया घ्राणविज्ञानं शून्यं घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं, न जिह्वाविज्ञानशून्यतया जिह्वाविज्ञानं शून्यं जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं, न कायविज्ञानशून्यतया कायविज्ञानं शून्यं कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानं, न मनोविज्ञानशून्यतया मनोविज्ञानं शून्यं मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानम्.
SK
एवं न चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शशून्यतया शून्यश् चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः, एवं न श्रोत्रघ्राणजिह्वाकायाः, न मनःसंस्पर्शो मनःसंस्पर्शशून्यतया शून्यो (PSP१-२: ९) मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः.
SK
एवं न चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितं, न श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितशून्यतयाशून्यं श्रोत्रसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैवश्रोत्रसंस्पर्शप्रत्ययवेदयितं, न घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितशून्यतयाशून्यं घ्राणसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव घ्राणसंस्पर्शप्रत्ययवेदयितं, न जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितम् एव शून्यता, शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदयितम्, न कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं कायसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव कायसंस्पर्शप्रत्ययवेदयितं, न मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्.
SK
न स्मृत्युपस्थानशून्यतया स्मृत्युपस्थानानि शून्यानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, न मार्गशून्यतया मार्गः शून्यो मार्ग एव शून्यता शून्यतैव मार्गः, न बलवैशारद्यावेणिकबुद्धधर्मशून्यतया बुद्धधर्माः शून्या बुद्धधर्मा एव शून्यता शून्यतैव बुद्धधर्माः. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्नापारमितायां चरन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
SK
इत्य् उपायकौशलं प्रथमः संपरिग्रहः
SK
सुभूतिर् आह: कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यैः परिगृहीत इमं प्रज्नापारमितानिर्देशं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य रूपम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, (PSP१-२: १०) तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, वेदना संज्ञा संस्कारा, विज्ञानम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अनुपायकुशलो भविष्यति पापमित्रहस्तगतश् च भविष्यति, य इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रसिष्यति संत्रसिष्यति संत्रासम् आपत्स्यते?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ऽपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रज्ञापारमितां भावयति उपलभते, तया च प्रज्ञापारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानपारमितां भावयति उपलभते, तया च ध्यानपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वीर्यपारमितां भावयति उपलभते, तया च वीर्यपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः क्षान्तिपारमितां भावयति उपलभते, तया च क्षान्तिपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलपारमितां भावयति उपलभते, तया च शीलपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानपारमितां भावयति उपलभते, तया च दानपारमितया मन्यते.
भगवान् आह: अपदार्थः सुभूते बोधिसत्त्वपदार्थः. तत् कस्य हेतोः? न हि सुभूते बोधेर् उत्पादो ऽस्तिता वा नास्तिता वा विद्यते वोपलभ्यते, तस्माद् अपदार्थः सुभूते बोधिसत्त्वपदार्थः.
SK
इति गोत्रस्वरूपम्
SK
तद्यथापि नाम सुभूते आकाशे शकुनेः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते स्वप्नस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मरीच्याः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिंबस्य गन्धर्वनगरस्य निर्मितस्यपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इत्य् उष्मगताधारः
SK
तद्यथापि नाम सुभूते भूतकोट्याः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथतायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् अवितथताया अनन्यतथताया धर्मताया धर्मधातोर् धर्मस्थितिताया धर्मनियामतायाः सत्यतायाः पदं न विद्यते नोपलभ्यते, एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते.
SK
इति मूर्धगताधारः
SK
तद्यथापि नाम सुभूते मायापुरुषस्य रूपस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्काराः,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य विज्ञानस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुषः पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं श्रोत्रघ्राणजिह्वाकायाः,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य मनसः पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य रूपशब्दगन्धरसस्प्रष्टव्यधर्माणां पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुरूपचक्षुर्विज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं श्रोत्रशब्दश्रोत्रविज्ञानघ्राणगन्धघ्राणविज्ञानजिह्वारसजिह्वाविज्ञानकायस्प्रष्टव्यकायविज्ञानपदार्थः, (PSP१-२: १९)
SK
तद्यथा ऽपि नाम सुभूते मायापुरुषस्य मनोधर्ममनोविज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति क्षान्तिगताधारः
SK
तद्यथापि नाम सुभूते मायापुरुषस्य अध्यात्मशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य बहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य अध्यात्मबहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, यावद् विस्तरेण,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य पारमितासु स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेष्व् अप्रमाणेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्कन्धेषु धातुषु आयतनेषु प्रतीत्यसमुत्पादेषु ध्यानारूप्यसमापत्त्यभिज्ञासु चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इत्य् अग्रधर्मगताधारः
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य (PSP१-२: २०) महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य वेदना संज्ञा संस्कारा विज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुःपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य श्रोत्रघ्राणजिह्वाकायमनःपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वबोधिपक्ष्यधर्मबलवैशारद्यावेणिकबुद्धधर्मेषु चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते असंस्कृतधातौ संस्कृतधातुपदं न विद्यते नोपलभ्यते, संस्कृतधाताव् असंस्कृतधातुपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्नापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति दर्शनमार्गाधारः
SK
तद्यथापि नाम सुभूते अनुत्पादपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्नापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते अनिरोधानभिसंस्काराप्रादुर्भावानुपलम्भासंक्लेशपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
तत् कस्य हेतोः? रूपस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां, विज्ञानस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते.
SK
तत् कस्य हेतोः? रूपस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां विज्ञानस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते.
SK
तत् कस्य हेतोः? रूपस्य सुभूते व्यवदानपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां विज्ञानस्य सुभूते व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
तद्यथापि नाम सुभूते व्यस्तसमस्तानां स्कन्धानां धातूनाम् आयतनानां प्रत्यीत्यसमुत्पादस्य उत्पादपदार्थो न विद्यते नोपलभ्यते, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवं सप्तत्रिंशद् बोधिपक्ष्यधर्मा प्रमाणध्यानारूप्यसमापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् उत्पादपदार्थो न विद्यते नोपलभ्यते, एवं यावद् व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते आवेणिकानां बुद्धधर्माणां यावत् संक्लेशव्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते रूपस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, वेदनायाः संज्ञायाः संस्काराणां,
SK
तद्यथापि नाम सुभूते विज्ञानस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेष्व् अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते स्मृत्युपस्थानाम् अत्यन्तविशुद्धत्वान्निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् अत्यन्तविशुद्धत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकानां विशुद्धौ पदं न विद्यते नोपलभ्यते, आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकासत्ताम् उपादाय, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति भावनामार्गाधारः
SK
तद्यथापि नाम सुभूते आदित्यस्योदागच्छतः प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति प्रतिपक्षाधारः तद्यथापि नाम सुभूते कल्पोद्दाहे वर्तमाने सर्वसंस्कारे (PSP१-२: २३) पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति विपक्षप्रहानाधारः
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य शीले दौःशील्यपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य समाधौ विक्षेपपदं न विद्यते नोपलभ्यते, तथागतप्रज्ञायां दौष्प्रज्ञपदं न विद्यते नोपलभ्यते, तथागतविमुक्ताव् अविमुक्तिपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यविमुक्तिज्ञानदर्शने विमुक्तिज्ञानदर्शनपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति प्रतिपक्षविपक्षविकल्पप्रहाणाधारः
SK
तद्यथापि नाम सुभूते सूर्यचन्द्रमसोः प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति प्रज्ञाकरुणाधारः
SK
तद्यथापि नाम सुभूते श्रावकप्रत्येकबुद्धग्रहनक्षत्रमणिरत्नज्योतिषां प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा समनुपश्यति, न हानिं न वृद्धिं नागतिं न गतिं न संक्लेशं न व्यवदानं यत्र चायुष्मन् शारिपुत्र न संक्लेशो न व्यवदानं न गतिर् नागतिर् न हानिर् न वृद्धिर् नोत्पादो न निरोधः, तच् च न श्रावकचित्तं न प्रत्येकबुद्धचित्तम्, इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः.
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयति, तस्य सर्वपारमितासु सर्वधर्मेषु च मायास्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बनिर्माणसंज्ञा प्रत्युपस्थिता भवति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां परिपूरयति, यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनैताः षट् (PSP१-२: ३९) पारमिता न निमित्तीकरोति नोपलभते.
SK
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो भवति, एवं च पुनर् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्व एकैकस्यां पारमितायां स्थित्वा षट् पारमिताः परिपूरयति.
SK
इति प्रज्ञापारमितासन्नाहषट्कं षष्ठम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानानि च समापद्यते न च ध्यानान्य् आस्वादयति न च तैः संह्रियते न च तेषां वशेनोपपद्यते, एवम् अप्रमाणानि चारूप्यसमापत्तीश् च समापद्यते न च ता आस्वादयति न च ताभिः संह्रियते न च तासां वशेनोपपद्यते, इयं बोधिसत्त्वस्य महासत्त्वस्योपायकौशलगता प्रज्ञापारमिता वेदितव्या.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानारूप्यसमापत्तिषु विवेकदर्शनेन च विहरति शून्यतानिमित्ताप्रणिहितदर्शनेन च विहरति न च भूतकोटिं साक्षात्करोति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलसन्नाहः.
यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एताश् चाप्रमाणारूप्यसमापत्तीश् च समापद्यते, न च ध्यानाप्रमाणारूप्यसमापत्तिवशेनोपपद्यते, न च ता आस्वादयति न च ताभिः संह्रियते, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ध्यानपारमिता,
SK
यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् ता ध्यानाप्रमाणारूप्यसमापत्तीः समापद्यते च व्युत्तिष्ठते च ताश् चानित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते, न च श्रावकन्यामं वा प्रत्येकबुद्धन्यामं वाभिक्रामति, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतः प्रज्ञापारमिता. इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्व्स्य माहायानम्.
SK
इत्य् अप्रमाणप्रस्थानम्
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्, यद् अध्यात्मशून्यतायां ज्ञानं न चोपलम्भयोगेन, यद् बहिर्धाशून्यतायां ज्ञानं न चोपलम्भयोगेन, यद् अध्यात्मबहिर्धाशून्यतायां ज्ञानं न चोपलम्भयोगेन, यावद् अभावस्वभावशून्यतायां ज्ञानं न चोपलम्भयोगेन. इदं बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
भगवान् आह: कारकानुपलब्धिताम् उपादाय सुभूते सर्वाकारज्ञता अकृता विकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः. तत् कस्य हेतोः? न हि सुभूते रूपं करोति न विकरोति नाभिसंस्करोति, न वेदना न संज्ञा न संस्काराः, न विज्ञानं करोति न विकरोति नाभिसंस्करोति.
SK
न चक्षुः करोति न विकरोति नाभिसंस्करोति, न श्रोत्रं न घ्राणंन जिह्वा न कायो न मनः करोति न विकरोति नाभिसंस्करोति, न रूपं (PSP१-२: ५५) करोति न विकरोति नाभिसंस्करोति, न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्माः कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति.
SK
न चक्षुर्विज्ञानं करोति न विकरोति नाभिसंस्करोति, न श्रोत्रविज्ञानं न घ्राणविज्ञानं न जिह्वाविज्ञानं न कायविज्ञानं न मनोविज्ञानं करोति न विकरोति नाभिसंस्करोति.
SK
न चक्षुःसंस्पर्शः करोति न विकरोति नाभिसंस्करोति, न श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न जिह्वासंस्पर्शो न कायसंस्पर्शो न मनःसंस्पर्शः करोति न विकरोति नाभिसंस्करोति.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति, न श्रोत्रसंस्पर्शप्रत्ययवेदयितं न घ्राणसंस्पर्शप्रत्ययवेदयितं न जिह्वासंस्पर्शप्रत्ययवेदयितं न कायसंस्पर्शप्रत्ययवेदयितं न मनःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते.
SK
आत्मा सुभूते न करोति न विकरोति नाभिसंस्करोति, एवं न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यकः करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते.
SK
स्वप्नः सुभूते न करोति न विकरोति नाभिसंस्करोति, एवं प्रतिश्रुत्का प्रतिभासः प्रतिबिम्बं मरीचिर् न निर्माणं करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते.
SK
अध्यात्मशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मशून्यता अत्यन्ततया न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, बहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा हि बहिर्धाशून्यता न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मबहिर्धाशून्यता न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, यावद् अभावस्वभावशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावशून्यता न विद्यते (PSP१-२: ५६) नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय.
SK
सप्तत्रिंशद् बोधिपक्ष्या धर्मा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते, दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते.
SK
तथता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथता ह्य् अत्यन्ततया न विद्यते नोपलभ्यते, एवम् अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिर् अचिन्त्यधातुर् बोधिः सर्वाकारज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते.
SK
अनेन सुभूते पर्यायेण सर्वाकारज्ञता अकृता अविकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः, येषां कृतशो बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, (PSP१-२: ६४) यद् उत शूरङ्गमो नाम समाधिः, रत्नमुद्रो नाम समाधिः, सिंहविक्रीडितो नाम समाधिः, सुचन्द्रो नाम समाधिः, चन्द्रध्वजकेतुर् नाम समाधिः, सर्वधर्मोद्गतो नाम समाधिः, अवलोकितमूर्ध्वा नाम समाधिः, धर्मधातुनियतो नाम समाधिः, नियतध्वजकेतुर् नाम समाधिः, वज्रोपमो नाम समाधिः, धर्मप्रवेशमुद्रो नाम समाधिः, समाधिराजसुप्रतिष्ठितो नाम समाधिः, रश्मिप्रमुक्तो नाम समाधिः, बलव्यूहो नाम समाधिः, समुद्गतो नाम समाधिः, निरुक्तिनिर्देशप्रवेशो नाम समाधिः, अधिवचनसंप्रवेशो नाम समाधिः, दिग्विलोकितो नाम समाधिः, आधारणमुद्रो नाम समाधिः, असंप्रमुषितो नाम समाधिः, सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः, आकाशस्फारणो नाम समाधिः, तेजोवती नाम समाधिः, अप्रमाणावभासो नाम समाधिः, असंगानावरणो नाम समाधिः, सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः, रणजहो नाम समाधिः, वैरोचनो नाम समाधिः, अनिमिषो नाम समाधिः, अनिकेतस्थितो नाम समाधिः, निश्चित्तो नाम समाधिः, विमलप्रदीपो नाम समाधिः, अनन्तप्रभो नाम समाधिः, प्रभाकरो नाम समाधिः, समन्तावभासो नाम समाधिः, शुद्धसारो नाम समाधिः, विमलप्रभो नाम समाधिः, रतिकरो नाम समाधिः, विद्युत्प्रदीपो नाम समाधिः, अक्षयो नाम समाधिः, वज्रमण्डलो नाम समाधिः, अक्षयापगतो नाम समाधिः, अनिञ्ज्यो नाम समाधिः, विवृतो नाम समाधिः, सूर्यप्रदीपो नाम समाधिः, चन्द्रविमलो नामसमाधिः, शुद्धप्रभासो नाम समाधिः, आलोककरो नाम समाधिः, काराकारो नाम समाधिः, ज्ञानकेतुर् नाम समाधिः, वज्रोपमो नामसमाधिः, चित्तस्थितिर् नाम समाधिः, समन्तावलोको नाम समाधिः, सुप्रतिष्ठितो नाम समाधिः, रत्नकोटिर् नाम समाधिः, वरधर्ममुद्रो नाम समाधिः, सर्वधर्मसमता नाम समाधिः, रतिजहो नामसमाधिः, सर्वधर्मोद्गतपूर्णो नाम समाधिः, विकिरणो नाम समाधिः, सर्वधर्मपदप्रभेदो नाम समाधिः, समाक्षरो नाम समाधिः, अक्षरापगतो नाम समाधिः, आरम्बणच्छेदो नाम समाधिः, अविकारो नाम समाधिः, अप्रकारो नाम समाधिः, नाम निमित्ताप्रवेशो नाम समाधिः, अनिकेतचारी नाम समाधिः, तिमिरापगतो नाम समाधिः, चारित्रवती नाम समाधिः, अचलो नाम समाधिः, विषयतीर्णो नाम समाधिः, सर्वगुणसंचयोपगतो नाम समाधिः, चित्तस्थितिनिश्चितो नाम (PSP१-२: ६५) समाधिः, शुभपुष्पितशुद्धिर् नाम समाधिः, बोध्यङ्गवान् नाम समाधिः, अनन्तप्रतिभासो नाम समाधिः, असमसमो नाम समाधिः, सर्वधर्मातिक्रमणो नाम समाधिः, परिच्छेदकरो नाम समाधिः, विमतिविकिरणो नाम समाधिः, निरधिष्ठानो नाम समाधिः, एकव्यूहो नाम समाधिः, आकाराभिनिर्हारो नाम समाधिः, एकाकारव्यूहो नाम समाधिः, अकारानवकारो नाम समाधिः, निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः, संकेतरुतप्रवेशो नाम समाधिः, गीतनिर्घोषाक्षरविमुक्तो नाम समाधिः, ज्वलनोल्को नाम समाधिः, लक्षणपरिशोधनो नाम समाधिः, अनभिलक्षितो नाम समाधिः, सर्वाकारवरोपेतो नाम समाधिः, सर्वसुखदुःखनिरभिनन्दी नाम समाधिः, अक्षयाकारो नाम समाधिः, धारणीप्रतिपत्तिर् नाम समाधिः, सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः, सर्वरोधनिरोधप्रशमनो नाम समाधिः, अनुसारप्रतिसारो नाम समाधिः, विमलप्रभो नाम समाधिः, सारवती नाम समाधिः, परिपूर्णचन्द्रविमलो नाम समाधिः, महाव्यूहो नाम समाधिः, सर्वाकारप्रभाकरो नाम समाधिः, समाधिसमता नाम समाधिः, अरणसमवसरणो नाम समाधिः, अरणसरणसर्वसमवसरणो नाम समाधिः, अनिलानिकेतो नाम समाधिः, तथतास्थितिनिश्चितो नाम समाधिः, कायकलिसंप्रमथनो नाम समाधिः, वाक्कलिविध्वंसनो नाम समाधिः, गगनकल्पो नाम समाधिः, आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
SK
तत्र कतमः शूरङ्गमो नाम समाधिः? येन समाधिना सर्वसमाधीनां गोचरम् अनुभवति, अयम् उच्यते शूरङ्गमो नाम समाधिः.
SK
तत्र कतमो रत्नमुद्रो नाम समाधिः? येन समाधिना सर्वसमाधयो मुद्रिता, अयम् उच्यते रत्नमुद्रो नाम समाधिः.
SK
तत्र कतमः सिंहविक्रीडितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिर् विक्रीडति, अयम् उच्यते सिंहविक्रीडितो नाम समाधिः,
SK
तत्र कतमः सुचन्द्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयति, अयम् उच्यते सुचन्द्रो नाम समधिः.
तत्र कतमो विमलप्रभो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां बलम् आकर्षयति सर्वसमाधीन् प्रभावयति, तेनोच्यते विमलप्रभो नाम समाधिः.
SK
तत्र कतमो रतिकरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रतिम् अनुभवति, तेनोच्यते रतिकरो नाम समाधिः.
SK
तत्र कतमो विद्युत्प्रदीपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रदीपं करोति, तेनोच्यते विद्युत्प्रदीपो नाम समाधिः.
SK
तत्र कतमो ऽक्षयो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां नैवाक्षयं न क्षयं समनुपश्यति, तेनोच्यते ऽक्षयो नाम समाधिः.
SK
तत्र कतमो वज्रमण्डलो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिमण्डलानि धारयति, अयम् उच्यते वज्रमण्डलो नाम समाधिः.
SK
तत्र कतमो ऽक्षयापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां क्षयं समनुपश्यति तथा च पश्यति यथा अणुम् अपि धर्मं न समनुपश्यति, तेनोच्यते ऽक्षयापगतो नाम समाधिः.
SK
तत्र कतमो ऽनिञ्ज्यो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् नेञ्जयति न मन्यते न स्पन्दति न प्रपञ्चयति, तेनोच्यते ऽनिञ्ज्यो नाम समाधिः.
SK
तत्र कतमो विवृतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् विवृतान् समनुपश्यति, तेनोच्यते विवृतो नाम समाधिः.
SK
तत्र कतमः सूर्यप्रदीपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रश्मिमुखम् अवभासयति, तेनोच्यते सूर्यप्रदीपो नाम समाधिः,
SK
तत्र कतमश् चन्द्रविमलो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अन्धकारं विधमयति, तेनोच्यते चन्द्रविमलो नाम समाधिः.
SK
तत्र कतमः शुद्धप्रभासो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चतस्रः प्रतिसंविदः प्रतिलभते, तेनोच्यते शुद्धप्रभासो नाम समाधिः.
SK
तत्र कतम आलोककरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिमुखानाम् आलोकं करोति, तेनोच्यते आलोककरो नाम समाधिः.
SK
तत्र कतमः काराकारो नाम समाधिः? यत्र समा अधौ स्थित्वा सर्वसमाधीनां कारगताङ् क्रियाङ् करोति, तेनोच्यते काराकारो नाम समाधिः.
तत्र कतमो वज्रोपमो नाम समाधिः? यत्र समाधौ स्थित्वा (PSP१-२: ७०) सर्वधर्मान् निर्विध्यते समाधिम् अपि न समनुपश्यति, तेनोच्यते वज्रोपमो नाम समाधिः.
SK
तत्र कतमश् चित्तस्थितिर् नाम समाधिः? यत्र समाधौ स्थित्वा चित्तं न वर्णयति न विवर्तते न प्रतिभासते न विघातम् आपत्स्यते न चास्यैवं भवति चित्तम् इति, तेनोच्यते चित्तस्थितिर् नाम समाधिः.
SK
तत्र कतमः समन्तालोको नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां समन्तालोकं समनुपश्यति, तेनोच्यते समन्तालोको नाम समाधिः.
SK
तत्र कतमः सुप्रतिष्ठितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु प्रतिष्ठितो भवति, तेनोच्यते सुप्रतिष्ठितो नाम समाधिः.
SK
तत्र कतमो रत्नकोटिर् नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयः समन्ताद् रत्नकोतिर् इव संदृश्यन्ते, तेनोच्यते रत्नकोटिर् नाम समाधिः.
SK
तत्र कतमो वरधर्ममुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयो मुद्रिता भवन्ति, आदिमुद्रामुद्रिताम् उपादाय, तेनोच्यते वरधर्ममुद्रो नाम समाधिः.
SK
तत्र कतमः सर्वधर्मसमता नाम समाधिः? यत्र समाधौ स्थित्वा न कञ्चिद् धर्मं समतानिर्मुक्तं समनुपश्यति, तेनोच्यते सर्वधर्मसमता नाम समाधिः.
SK
तत्र कतमो रतिजहो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिरतिः सर्वधर्मरतीर् जहाति, तेनोच्यते रतिजहो नाम समाधिः.
SK
तत्र कतमः सर्वधर्मोद्गतपूर्णो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्मैश् चोद्गच्छति सर्वधर्मैश् चापूर्यते, तेनोच्यते सर्वधर्मोद्गतपूर्णो नाम समाधिः.
SK
तत्र कतमो विकिरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिः सर्वधर्मान् विकिरति विधमयति, तेनोच्यते विकिरणो नाम समाधिः.
SK
तत्र कतमः सर्वधर्मपदप्रभेदो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां च सर्वधर्माणां च पदानि प्रभिनत्ति, तेनोच्यते सर्वधर्मपदप्रभेदो नाम समाधिः.
SK
तत्र कतमः समाक्षरो नाम समाधिः? यत्र समाधौ स्थित्वा (PSP१-२: ७१) सर्वसमाधीनां समाक्षरतां प्रतिलभते, तेनोच्यते समाक्षरो नाम समाधिः.
SK
तत्र कतमो ऽक्षरापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् एकाक्षरम् अपि नोपलभते, तेनोच्यते ऽक्षरापगतो नाम समाधिः.
SK
तत्र कतम आरम्बणच्छेदो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आरम्बनं च्छिद्यते, तेनोच्यते आरम्बणच्छेदो नाम समाधिः.
SK
तत्र कतमो ऽविकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां विकारं नोपलभते, तेनोच्यते ऽविकारो नाम समाधिः.
SK
तत्र कतमो ऽप्रकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां प्रकारम् अपि नोपलभते, तेनोच्यते ऽप्रकारो नाम समाधिः.
SK
तत्र कतमो नामनिमित्ताप्रवेशो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां नामनिमित्तानि नोपलभते, तेनोच्यते नामनिमित्ताप्रवेशो नाम समाधिः.
SK
तत्र कतमो ऽनिकेतचारी नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां निकेतं नोपलभते, तेनोच्यते ऽनिकेतचारी नाम समाधिः.
SK
तत्र कतमः तिमिरापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधि तिमिरं विशोधयति, तेनोच्यते तिमिरापगतो नाम समाधिः.
SK
तत्र कतमश् चारित्रवती नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चारित्रं समनुपश्यति, तेनोच्यते चारित्रवती नाम समाधिः.
SK
तत्र कतमो ऽचलो नाम समाधिः? यत्र समाधौ स्थित्वा सत्त्वानां चलितं न समनुपश्यति, तेनोच्यते ऽचलो नाम समाधिः.
SK
तत्र कतमो विषयतीर्णो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां विषयम् अतिक्रामति, तेनोच्यते विषयतीर्णो नाम समाधिः.
SK
तत्र कतमः सर्वगुणसंचयोपगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वगुणानां सर्वसमाधीनां च संचयताम् अनुप्राप्नोति, तेनोच्यते सर्वगुणसंचयोपगतो नाम समाधिः.
SK
तत्र कतमश् चित्तस्थितिनिश्चित्तो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चित्तं न प्रवर्तते, तेनोच्यते चित्तस्थितिनिश्चित्तो (PSP१-२: ७२) नाम समाधिः.
SK
तत्र कतमः शुभपुष्पितशुद्धिर् नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु शुभपुष्पितशुद्धिं प्रतिलभते, तेनोच्यते शुभपुष्पितशुद्धिर् नाम समाधिः.
SK
तत्र कतमो बोध्यङ्गवान् नाम समाधिः? यत्र समाधौ स्थित्वा सप्तबोध्यङ्गानि प्रतिलभते, तेनोच्यते बोध्यङ्गवान् नाम समाधिः.
SK
तत्र कतमो ऽनन्तप्रतिभासो नाम समाधिः? यत्र समाधौ स्थित्वा अन्तद्वयं नोपलभते, तेनोच्यते ऽनन्तप्रतिभासो नाम समाधिः.
SK
तत्र कतमो ऽसमसमो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां समसमतां न प्रतिलभते, तेनोच्यते ऽसमसमो नाम समाधिः.
SK
तत्र कतमः सर्वधर्मातिक्रमणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वत्रैधातुकं समतिक्रामति, तेनोच्यते सर्वधर्मातिक्रमणो नाम समाधिः.
SK
तत्र कतमः परिच्छेदकरो नाम समाधिः? यत्र समा अधौ स्थित्वा सर्वसमधीनां सर्वधर्माणां च परिच्छेदं करिष्यति, तेनोच्यते परिच्छेदकरो नाम समाधिः.
SK
तत्र कतमो विमतिविकिरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिविमतिविकिरणम् अनुप्राप्नोति, तेनोच्यते विमतिविकिरणो नाम समाधिः.
SK
तत्र कतमो निरधिष्ठानो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां स्थानं न समनुपश्यति, तेनोच्यते निरधिष्ठानो नाम समाधिः.
SK
तत्र कतम एकव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा न कस्यचिद् धर्मस्य द्वयतां समनुपश्यति, तेनोच्यते एकव्यूहो नाम समाधिः.
SK
तत्र कतम आकाराभिनिर्हारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणां चाकाराभिनिर्हारं समनुपश्यति, तेनोच्यते आकाराभिनिर्हारो नाम समाधिः.
SK
तत्र कतम एकाकारव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् एकाकारतां समनुपश्यति, तेनोच्यते एकाकारव्यूहो नाम समाधिः.
SK
तत्र कतम आकारानवकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् अद्वयतां समनुपश्यति, तेनोच्यते आकारानवकारो नाम समाधिः.
SK
तत्र कतमो निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमधीनां निर्वेधिकं ज्ञानम् अनुप्राप्नोति यस्यानुप्राप्तितो न कश्चिन् न प्रतिविध्यते, तेनोच्यते निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः.
SK
तत्र कतमः संकेतरुतप्रवेशो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां संकेतरुतानि प्रविशति, तेनोच्यते संकेतरुतप्रवेशो नाम समाधिः.
SK
तत्र कतमो गीर्घोषाक्षरविमुक्तो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अक्षरविमुक्तान् समनुपश्यति, तेनोच्यते गीर्घोषाक्षरविमुक्तो नाम समाधिः.
SK
तत्र कतमो ज्वलनोल्को नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधींस् तेजसावभासयति पतति विरोचते, तेनोच्यते ज्वलनोल्को नाम समाधिः.
SK
तत्रकतमो लक्षणपरिशोधनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वलक्षणानि परिशोधयति, तेनोच्यते लक्षणपरिशोधनो नाम समाधिः.
SK
तत्र कतमो ऽनभिलक्षितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अभिलक्षयति अभिलक्षयति, तेनोच्यते ऽनभिलक्षितो नाम समाधिः.
SK
तत्र कतमः सर्वाकारवरोपेतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वाकारवरोपेतो भवति, तेनोच्यते सर्वाकारवरोपेतो नाम समाधिः.
SK
तत्र कतमः सर्वसुखदुःखनिरभिनन्दी नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु सुखदुःखानि न समनुपश्यति, तेनोच्यते सर्वसुखदुःखनिरभिनन्दी नाम समाधिः.
SK
तत्र कतमो ऽक्षयाकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां क्षयं न समनुपश्यति, तेनोच्यते ऽक्षयाकारो नाम समाधिः.
SK
तत्र कतमो धारणीप्रतिपत्तिर् नाम समाधिः? यत्र समाधौ (PSP१-२: ७४) स्थित्वा सर्वसमाधीन् आधारयति, तेनोच्यते धारणीप्रतिपत्तिर् नाम समाधिः.
SK
तत्र कतमः सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः? यत्र समाधौ स्थित्वा समाध्ंआं सम्यक्त्वमिथ्यात्वानि न समनुपश्यति, तेनोच्यते सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः.
SK
तत्र कतमः सर्वरोधनिरोधप्रशमनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रोधनिरोधान् न समनुपश्यति, तेनोच्यते सर्वरोधनिरोधप्रशमनो नाम समाधिः.
SK
तत्र कतमो ऽनुसारप्रतिसारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अनुसारप्रतिसारान् न समनुपश्यति, तेनोच्यते ऽनुसारप्रतिसारो नाम समाधिः.
SK
तत्र कतमो विमलप्रभो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रभामण्डलं नोपलभ्यते, तेनोच्यते विमलप्रभो नाम समाधिः.
SK
तत्र कतमः सारवती नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् असारतां नोपलभ्यते, तेनोच्यते सारवती नाम समाधिः.
SK
तत्र कतमः परिपूर्णचन्द्रविमलो नाम समाधिः? यत्र समाधौ स्थित्वा तस्य सर्वसमाधयः परिपूर्णा भवन्ति, तद्यथापि नम चन्द्रः पूर्णमास्यां, तेनोच्यते परिपूर्णचन्द्रविमलो नाम समाधिः.
SK
तत्र कतमो महाव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा तस्य सर्वसमाधयो महाव्यूहेन समन्वागता भवन्ति, तेनोच्यते महाव्यूहो नाम समाधिः.
SK
तत्र कतमः सर्वाकारप्रभाकरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणां च प्रभां करोति, तेनोच्यते सर्वाकारप्रभाकरो नाम समाधिः.
SK
तत्र कतमः समाधिसमता नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां न विक्षेपं नैकाग्रतां च समनुपश्यति, तेनोच्यते समाधिसमता नाम समाधिः.
SK
तत्र कतमो ऽरणसमवसरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयो न रणन्ति, तेनोच्यते ऽरणसमवसरणो नाम समाधिः.
SK
तत्र कतमो ऽरणसरणसर्वसमवसरणो नाम समाधिः? यत्र (PSP१-२: ७५) समाधौ स्थित्वा सर्वसमाधीनाम् अरणसरणसर्वसमवसरणताम् अनुप्राप्नोति, तेनोच्यते ऽरणसरणसर्वसमवसरणो नाम समाधिः.
SK
तत्र कतमो ऽनिलानिकेतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आलयं न समनुपश्यति, तेनोच्यते ऽनिलानिकेतो नाम समाधिः.
SK
तत्र कतमस् तथतास्थितनिश्चितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां तथतां न व्यतिवर्तते, तेनोच्यते तथतास्थितनिश्चितो नाम समाधिः.
SK
तत्र कतमः कायकलिसंप्रमथनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिकायं नोपलभते, तेनोच्यते कायकलिसंप्रमथनो नाम समाधिः.
SK
तत्र कतमो वाक्कलिविध्वंसनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां वाक्कर्म नोपलभते, तेनोच्यते वाक्कलिविध्वंसनो नाम समाधिः.
SK
तत्र कतमो गगनकल्पो नाम समाधिः? यत्र समाधौ स्थित्वा गगनवद् अवभासते, तेनोच्यते गगनकल्पो नाम समाधिः.
SK
तत्र कतम आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशासङ्गविमुक्तिनिरुपलेपनाम् अनुप्राप्नोति, तेनोच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा श्मशानगतः पश्यति नानारूपाणि श्मशाने ऽपविद्धानि शिवपथिकायाम् उज्झितानि एकाहमृतानि वा द्व्यहमृतानि वा त्र्यहमृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा आध्मातकानि विनीलकानि वा विपूयकानि वा विखादितकानि वा विक्षिप्तकानि वा स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा मृतशरीराणि पश्यति श्मशान उत्सृष्टानि षड्रात्रमृतानि वा सप्तरात्रमृतानि वा तानि काकैर् वा खाद्यमानानि कुररैर् वा गृध्रैर् वा सृगालैर् वा वृकैर् वा श्वभिर् वा तद् अन्यैर् वा नानाविधैः प्राणकजातैः खाद्यमानानि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
यद् उत सम्यक्संबुद्धस्य बत मे प्रतिजानतः, इमे धर्मा अभिसंबुद्धा इति, अत्र च मे कश्चिच् छ्रमणो वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुनर् लोके सह धर्मेण चोदयेद् इति निमित्तम् एतन् न समनुपश्यामि, इदम् अत्र निमित्तम् असमनुपश्यन् क्षेमप्राप्तो ऽभयप्राप्तो विहरामि आर्षभं स्थानं प्रतिजानामि पर्षदि सम्यक् सिंहनादं नदामि ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्राह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेणेति,
SK
क्षीणास्रवस्य बत मे प्रतिजानतः, इमे आस्रवा अपरिक्षीणा इति नैतत् स्थानं विद्यते, अत्र च मे कश्चिच् छ्रमणो वा ब्राह्मणो वा पेयालं यावद् ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेणेति,
SK
ये खलु पुनर् इमे मया आन्तरायिका धर्मा आख्यातास् तान् प्रतिषेधमाणस्य नालम् अन्तरायायेति नैतत् स्थानं विद्यते, अत्र मे कश्चिच् छ्रमणो वा पेयालं यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति,
SK
या मया प्रतिपद् आह्याता आर्या नैर्याणिकी निर्याति तत् कतरस्य सम्यग् दुःखक्षयाय तां प्रतिपद्यमानो न निर्यायात् सम्यग् दुःखक्षयायेति नैतत् स्थानं विद्यते, अत्र च मे कश्चिच् छ्रमणो वा पेयालं, यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति. इमानि चत्वारि वैशारद्यानि. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
नास्ति अत उत्तरि अक्षरव्यवहारः. तत् कस्य हेतोः? तथा हि न कस्यचिन् नामास्ति येन संव्यवह्रियेत येन वाभिलप्येत येन निर्दिश्येत येन लुज्येत येन पश्येत, तद्यथापि नाम सुभूते आकाशम्, एवम् एव सर्वधर्मा अनुगन्तव्याः, अयं सुभूते धारणीप्रवेशो ऽकाराद्यक्षरनिर्देशप्रवेशः, यः कश्चित् सुभूते बोधिसत्त्वो महासत्त्व इदम् अकाराद्यक्षरकौशल्यप्रवेशं ज्ञास्यति, न स क्वचिद् रुते प्रतिहन्यते, सर्वं तं धर्मतया समाधयिष्यति, रुतज्ञानकौशल्यञ् च प्रतिलप्स्यते, यो हि कश्चित् सुभूते बोधिसत्त्वो महासत्त्व इमाम् अकाराद्यक्षरमुद्रां श्रोष्यति श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति परेषां देशयिष्यति रमयति तया सन्तत्या तस्य विंशतिर् अनुशंसाः प्रतिकाङ्क्षितव्याः.
SK
कतमा विंशतिः? स्मृतिमांश् च भविष्यति, मतिमांश् च भविष्यति, गतिमांश् च भविष्यति, धृतिमांश् च भविष्यति, ह्रीमांश् च प्रज्ञावांश् च प्रतिभानवांश् च, इदं धारणीमुखम् अल्पकृच्छ्रेण प्रतिलप्स्यतेन च कथंकथी भविष्यति, विमतिश् चास्य न भविष्यति, न च श्लक्ष्णां वाचं श्रुत्वा परेष्व् अनुनीतो भविष्यति, न च परुषया वाचा प्रतिहन्यते, न चोन्नतो भविष्यति, नावनतः यथास्थित एव भविष्यति, रुतकुशलश् च भविष्यति, स्कन्धकुशलश् च भविष्यति, धातुकुशलश् च भविष्यति, आयतनकुशलश् च भविष्यति, सत्यकुशलश् च भविष्यति, प्रतीत्यसमुत्पादकुशलश् च भविष्यति, हेतुकुशलश् च भविष्यति, प्रत्ययकुशलश् च भविष्यति, धर्मकुशलश् च भविष्यति, इन्द्रियपरिपूर्णज्ञानकुशलश् च भविष्यति, परचित्तज्ञानकुशलश् च भविष्यति, ऋद्धिविधिज्ञानकुशलश् च भविष्यति, दिव्यश्रोत्रज्ञानकुशलश् च भविष्यति, पूर्वनिवासानुस्मृतिज्ञानकुशलश् च भविष्यति, च्युतोपपत्तिज्ञानकुशलश् च भविष्यति, आस्रवक्षयज्ञानकुशलश् च भविष्यति, स्थानास्थननिर्देशकुशलश् च भविष्यति, अतिक्रमणकुशलश् च भविष्यति, ईर्यापथकुशलश् च भविष्यति, इमान् अनुशंसान् प्रतिलप्स्यत इति. इदम् अपि सुभूते धारणीमुखम् अक्षरमुखम् अकारमुखं बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
इति धारणीसंभारः
SK
यद् अपि तत् सुभूतिर् एवम् आह, कथं बोधिसत्त्वो महासत्त्वो (PSP१-२: ८८) महायानसंप्रस्थितो भवतीति, इह सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् भूमेर् भूमिं संक्रामति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो भूमेर् भूमिं संक्रामति यद् उतासंक्रान्त्या सर्वधर्माणाम्. तत् कस्य हेतोः? न हि स कश्चिद् धर्मो य आगच्छति वा गच्छति वा संक्रामति वा उपसंक्रामति वा, अपि तु या धर्माणां भूमिस् तान् न मन्यते न चिन्तयति भूमिपरिकर्म च करोति न च भूमिं समनुपश्यति.
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदिता? या कुशलमूलोपस्तम्भता यैः कुशलमूलैर् उपस्तब्धः, सत्त्वानांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च जातु खेदम् आपद्यते यावन् न सर्वधर्मान् सर्वाकारज्ञतां च परिपूरयति, इयं बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदिता.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः? तथा ह्य् एते आर्यमार्गस्यान्तरायकराः सुगतेर् वा प्राग् एव संबोधेः, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः? तथा हि स न कञ्चिद् धर्मं समनुपश्यति, कुतः पुनर् अधिकं येनाधिमंस्यते, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः.
SK
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः? तथा हि तद् वस्तु न समनुपश्यति यत्र स्तम्भम् उत्पादयेद् एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन स्तम्भो नोत्पादयितव्यः.
SK
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः? सर्ववस्तूनाम् अनुपलब्धिताम् उपादाय, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः.
SK
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या? तथा हि संदेहापगतात् सर्वधर्मान् समनुपश्यति, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या.
SK
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानाम् अधिवासना परिवर्जयितव्या? तथा हि रागद्वेषमोहानां वस्तु न समनुपश्यति, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहाः परिवर्जयितव्याः.
तत्र कथं बोधिसत्त्वेन महासत्त्वेन षड् धर्माः परिवर्जयितव्याः? यद् उत श्रावकचित्तं परिवर्जयितव्यम्. तत् कस्य हेतोः? तथा (PSP१-२: ९७) हि नैष मार्गो बोधये, प्रत्येकबुद्धचित्तं परिवर्जयितव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, परितसनाचित्तं न कर्तव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, याचनकं दृष्ट्वा नावलीनचित्तम् उत्पादयितव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, सर्वस्वम् अपि परित्यज्य न दुर्मनस्को भवति. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, याचनकविक्षेपो न कर्तव्यः. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन आत्मग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया आत्मा न संविद्यते एवं बोधिसत्त्वेन महासत्त्वेन आत्मग्राहो न कर्तव्यः, एवं सत्त्वग्राहो जीवग्राहः पुद्गलग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा ह्य् एते अत्यन्ततया न संविद्यन्ते, एवं सत्त्वजीवपुद्गलग्राहो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन उच्छेदग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न कश्चिद् धर्म उच्छिद्यते, अत्यन्ततयानुत्पन्नत्वात् सर्वधर्माणां नोच्छेदेः, एवम् उच्छेदग्राहो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शास्वतग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा हि यो धर्मो नोत्पद्यते स न शाश्वती भवति, एवं शाश्वतग्राहो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन निमित्तसंज्ञा नोत्पादयितव्या. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया संक्लेशो न संविद्यते, एवं निमित्तसंज्ञा नोत्पादयितव्या.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन हेतुदृष्टिर् न कर्तव्या. तत् कस्य हेतोः? तथा हि स तां दृष्टिं न समनुपश्यति, एवं हेतुदृष्टिर् न कर्तव्या, एवं स्कन्धेषु धातुष्व् आयतनेष्व् अभिनिवेशो न कर्तव्यः. तत् कस्य हेतोः? तथा हि ते धर्माः स्वभावेन न संविद्यन्ते, एवं स्कन्धधात्वायतनेष्व् अभिनिवेशो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वन त्रैधातुके ऽभिनिवेशो न कर्तव्यः. तत् कस्य हेतोः? तथा हि त्रैधातुकस्वभावो न संविद्यते, एवं त्रैधातुके ऽभिनिवेशो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुके ऽध्यवसानं न कर्तव्यम्. तत् कस्य हेतोः? तथा हि तद् वस्तु नोपलभ्यते, एवं त्रैधातुके ऽध्यवसानं न कर्तव्यम्.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुके आलयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि निःस्वभावत्वाद् एवं त्रैधातुके आलयो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन बुद्धधर्मसंघनिश्रयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न बुद्धधर्मसंघदृष्टिनिश्रयाद् बुद्धधर्मसंघदर्शनं, एवं बुद्धधर्मसंघदृष्टिनिश्रयो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शीलदृष्टिनिश्रयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न शीलदृष्टिनिश्रयाच् छीलपरिशुद्धिर् भवत्य् एवं शीलदृष्टिनिश्रयो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यतायां विवादो न कर्तव्यः. तत् कस्य हेतोः? तथा हि सर्वधर्माः स्वभावेन शून्या न शून्यतया, एवं शून्यतायां विवादो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यताविरोधो न कर्तव्यः. तत् कस्य हेतोः? तथा हि सर्वधर्माः शून्या न शून्यता शून्यतां विरोधयति, एवं बोधिसत्त्वेन महासत्त्वेन शून्यताविरोधो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या? स्वलक्षणशून्यताम् उपादाय, परिपूरिर् बोधिसत्त्वस्य महासत्त्वस्य शून्यता परिपूरिर्, एवं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या.
यत् पुनः सुभूतिर् एवम् आह, कुतस् तद् यानं निर्यास्यतीति त्रैधातुकान् निर्यास्यति येन सर्वाकारज्ञता तेन स्थास्यति तत् पुनर् अद्वययोगेन. तत् कस्य हेतोः? तथा हि यच् च महायानं या च सर्वाकारज्ञता उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उतालक्षणौ. तत् कस्य हेतोः? न हि सुभूते ऽलक्षणौ धर्मौ निर्यातौ वा निर्यातो वा निर्यास्यतो वा धर्मधातोः स सुभूते निर्याणम् इच्छेत्, तथतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेद्, एवं भूतकोटेर् अचिन्त्यधातोर् आकाशधातोः प्रहाणधातोर् विरागकोटेर् अनुत्पादस्यानिरोधस्याभावस्यस निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्.
SK
रूपशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं वेदनाशून्यतायाः संज्ञाशून्यतायाः संस्कारशून्यतायाः विज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः?
SK
न हि सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, न वेदनाशून्यता न संज्ञाशून्यता न संस्कारशून्यता न विज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः?
SK
तथा हि सुभूते रूपं रूपेण शून्यं वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या विज्ञानं विज्ञानेन शून्यं,
SK
चक्षुःशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं श्रोत्रशून्यताया घ्राणशून्यताया जिह्वाशून्यतायाः कायशून्यताया मनःशून्यतायाः स सुभूते निर्याणम् इच्छेद्यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं रूपशून्यतायाः शब्दशून्यताया गन्धशून्यताया रसशून्यतायाः स्पर्शशून्यताया धर्मशून्यतायाः,
चक्षुःसंस्पर्शजवेदयितशून्यतायाः श्रोत्रसंस्पर्शजवेदयितशून्यताया घ्राणसंस्पर्शजवेदयितशून्यताया जिह्वासंस्पर्शजवेदयितशून्यतायाः कायसंस्पर्शजवेदयितशून्यताया मनःसंस्पर्शजवेदयितशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः?
SK
न हि सुभूते चक्षुःशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रशून्यता न घ्राणशून्यता न जिह्वाशून्यता न कायशून्यता न मनःशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति,
SK
न हि सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न शब्दशून्यता न गन्धशून्यता न रसशून्यता न स्पर्शशून्यता न धर्मशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.
SK
न हि सुभूते चक्षुर्विज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति न श्रोत्रविज्ञानशून्यता न घ्राणविज्ञानशून्यता न जिह्वाविज्ञानशून्यता न कायविज्ञानशून्यता न मनोविज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.
SK
न हि सुभूते चक्षुःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रसंस्पर्शशून्यता न घ्राणसंस्पर्शशून्यता न जिह्वासंस्पर्शशून्यता न कायसंस्पर्शशून्यता न मनःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.
SK
न हि सुभूते चक्षुःसंस्पर्शजवेदयितशून्यता त्रैधातुकान् निर्यास्यति, न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रसंस्पर्शजवेदयितशून्यता न घ्राणसंस्पर्शजवेदयितशून्यता न जिह्वासंस्पर्शजवेदयितशून्यता न कायसंस्पर्शजवेदयितशून्यता न (PSP१-२: १०५) मनःसंस्पर्शजवेदयितशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चक्षुश् चक्षुषा शून्यं श्रोत्रं श्रोत्रेण शून्यं घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं, एवं रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यः स्पर्शः स्पर्शेन शून्यो धर्मा धर्मैः शून्याः,
स्वप्नस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, विस्तरेण कर्तव्यम्, एवं मरीच्या मायायाः प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिम्बस्य गन्धर्वनगरस्य तथागतनिर्मितस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? न हि सुभूते स्वप्नस्य स्वभवस् त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न मरीच्याः स्वभावो न मायायाः स्वभावो न प्रतिश्रुत्कायाः स्वभावो न प्रतिभासस्य स्वभावो न प्रतिबिम्बस्य स्वभावो न गन्धर्वनगरस्य स्वभावो न तथागतनिर्मितस्य स्वभावस् त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते स्वप्नस्वभावः स्वप्नस्वभावेन शून्यो, मरीचिस्वभावो मरीचिस्वभावेन शून्यः, मायास्वभावो मायास्वभावेन शून्यः, प्रतिश्रुत्कास्वभावः प्रतिश्रुत्कास्वभावेन शून्यः, प्रतिभासस्वभावः प्रतिभासस्वभावेन शून्यः, (PSP१-२: १०६) प्रतिबिम्बस्वभावः प्रतिबिम्बस्वभावेन शून्यः, गन्धर्वनगरस्वभावः गन्धर्वनगरस्वभावेन शून्यः, तथागतनिर्मितस्वभावस् तथागतनिर्मितस्वभावेन शून्यः.
SK
इति दर्शनमार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः
SK
दानपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो दानपारमितायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः तथा हि यः प्रज्ञापारमितायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते दानपारमितास्वभावो दानपारमितास्वभावेन शून्यः, शीलपारमितास्वभावः शीलपारमितास्वभावेन शून्यः, क्षान्तिपारमितास्वभावः क्षान्तिपारमितास्वभावेन शून्यः, वीर्यपारमितास्वभावो वीर्यपारमितास्वभावेन शून्यः, ध्यानपारमितास्वभावो ध्यानपारमितास्वभावेन शून्यः, प्रज्ञापारमितास्वभावः प्रज्ञापारमितास्वभावेन शून्यः.
SK
अध्यात्मशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, बहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, अध्यात्मबहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं यावद् अभावस्वभावशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि यो ऽध्यात्मशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तथा हि यो बहिर्धाशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, तथा हि यो ऽध्यात्मबहिर्धाशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं यावद् यो ऽभावस्वभावशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अध्यात्मशून्यता अध्यात्मशून्यतयाशून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, एवं यावद् अभावस्वभावशून्यता (PSP१-२: १०७) यावद् अभावस्वभावशून्यतया शून्या.
SK
स्मृत्युपस्थानानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः स्मृत्युपस्थानानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि.
SK
सम्यक्प्रहाणानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः सम्यक्प्रहाणानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि.
SK
ऋद्धिपादानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते य ऋद्धिपादानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते ऋद्धिपादा ऋद्धिपादैः शून्याः.
SK
इन्द्रियाणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते य इन्द्रियाणां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते इन्द्रियाणि इन्द्रियैः शून्यानि,
SK
बलानां स सुअभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बलानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बलानि बलैः शून्यानि.
SK
बोध्यङ्गानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बोध्यङ्गानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, तत् कस्य हेतोः? तथा हि सुभूते बोध्यङ्गानि बोध्यङ्गैः शून्यानि.
SK
मार्गस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो मार्गस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते मार्गो मार्गेण शून्यः.
SK
एवम् अप्रमाणध्यानारूप्यसमापत्तीनां स सुभूते निर्याणम् इच्छेद् (PSP१-२: १०८) यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽप्रमाणध्यानारूप्यसमापत्तीनां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिस्वभावेन शून्यः.
SK
दशानां तथागतबलानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यस् तथागतबलानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते दशतथागतबलानि दशतथागतबलैः शून्यानि.
SK
चतुर्णां वैशारद्यानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यश् चतुर्णां वैशारद्यानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चत्वारि वैशारद्यानि चतुर्भिर् वैशारद्यैः शून्यानि.
SK
चतसृणां प्रतिसंविदां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यश् चतसृणां प्रतिसंविदां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चतस्रः प्रतिसंविदश् चतसृभिः प्रतिसंविद्भिः शून्याः.
SK
अष्टादशानाम् आवेणिकानां बुद्धधर्माणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽष्टादशावेणिकबुद्धधर्मस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बुद्धधर्मा बुद्धधर्मैः शून्याः.
SK
इति दर्शनमार्गे द्वितीयग्राह्यविकल्पप्रतिपक्षः
SK
अर्हतः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽर्हतः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अर्हत्स्वभावो ऽर्हतः स्वभावेन शून्यः.
SK
प्रत्येकबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः प्रत्येकबुद्धस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां (PSP१-२: १०९) स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते प्रत्येकबुद्धस्वभावः प्रत्येकबुद्धस्वभावेन शून्यः.
SK
बोधिसत्त्वस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बोधिसत्त्वस्य महासत्त्वस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्वभावो बोधिसत्त्वस्वभावेन शून्यः.
SK
तथागतस्यार्हतः सम्यक्संबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यस् तथागतस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते तथागतस्वभावस् तथागतस्वभावेन शून्यः.
SK
स्रोतआपत्तिफलस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं सकृदागामिफलस्य अनागामिफलस्य अर्हत्त्वस्य प्रत्येकबोधेर् मार्गज्ञतायाः सर्वाकारज्ञतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः स्रोतआपत्तिफलस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि स्रोतआपत्तिफलस्वभावः स्रोतआपत्तिफलस्वभावेन शून्यः.
SK
एवं सकृदागामिफलस्य यः स्वभावो ऽनागामिफलस्य यः स्वभावो ऽर्हत्त्वस्य यः स्वभावः प्रत्येकबुद्धत्वस्य यः स्वभावो मार्गज्ञतायायः स्वभावः सर्वाकारज्ञताया यः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञतायाः स्वभावः सर्वाकारज्ञतास्वभावेन शून्यः.
SK
इति दर्शनमार्गे प्रथमग्राहकविकल्पप्रतिपक्षः
SK
नाम्नः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं निमित्तस्य संकेतस्य व्यवहारस्य प्रज्ञप्तेः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो नाम्नः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते नामस्वभावो नामस्वभावेन शून्यः. एवं संकेतस्ययः स्वभावो व्यवहारस्य यः स्वभावः प्रज्ञप्तेर् यः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? (PSP१-२: ११०) तथा हि प्रज्ञप्तिस्वभावः प्रज्ञप्तिस्वभावेन शून्यः.
SK
अनुत्पादस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽनुत्पादस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यः.
SK
एवम् अनिरोधस्यासंक्लेशस्याव्यवदानस्यानभिसंस्कारस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽनभिसंस्कारस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः.
SK
एवं हि सुभूते न महायानं त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, अचलितं तद् यानम्.
SK
इति दर्शनमार्गे द्वितीयग्राहकविकल्पप्रतिपक्षः
SK
यत् पुनः सुभूतिर् एवम् आह, क्व तद् यानं स्थास्यतीति, न तद् यानं क्वचित् स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अस्थिताः सर्वधर्माः, अपि तु सुभूते अस्थानं न स्थानयोगेन तद् यानं स्थास्यति, तद्यथापि नाम सुभूते धर्मधातुर् न स्थितो नास्थितः, एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं, तद्यथापि नाम सुभूते ऽनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो न स्थितो नास्थितः, एवम् एव सुभूते तन् महायनं न स्थितं नास्थितं, तथा हि सुभूते धर्मधातुर् धर्मधातुना शून्यः. तत् कस्य हेतोः? न हि सुभूते धर्मधातुस्वभावः स्थितो वा अस्थितो व. तत् कस्य हेतोः? तथा हि सुभूते धर्मधातुस्वभावो धर्मधातुस्वभावेन शून्यः, एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अभिसंस्कारो ऽनभिसंस्कारेण शून्यः. तत् कस्य हेतोः? न हि सुभूते ऽनभिसंस्कारस्वभावः स्थितो वा अस्थितो वा. तत् कस्य हेतोः? तथा हि सुभूते अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः, एवं हि सुभूते तद् यानं न क्वचित् स्थास्यति, अस्थितम् अस्थानयोगेन अचाल्ययोगेन.
SK
इति भावनामार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः
SK
यत् पुनः सुभूतिर् एवम् आह, कस् तेन यानेन निर्यास्यतीति, न कश्चित् तेन यानेन निर्यास्यति. तत् कस्य हेतोः? तथा हि सुभूते यच् च तद् यानं येन च निर्यास्यति यश् च निर्यास्यति यतश् च निर्यास्यति सर्व एते (PSP१-२: १११) धर्मा न संविद्यन्ते, एवम् असंविद्यमानानां सर्वधर्माणां कतमो धर्मः कतमेन धर्मेण निर्यास्यति. तत् कस्य हेतोः? तथा हि सुभूते नात्मा उपलभ्यते न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यक उपलभ्यते, आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय, एवं यावत् पश्यकस्यात्यन्तविशुद्धिताम् उपादाय, धर्मधातुर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, स्कन्धधात्वायतनानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, प्रतीत्यसमुत्पादो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, दानपारमिता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. अध्यात्मशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, बहिर्धाशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं यावद् अभावस्वभावशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. स्मृत्युपस्थानानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तयो नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, एवं दश तथागतबलानि नोपलभ्यन्ते चत्वारि वैशारद्यानि नोपलभ्यन्ते चतस्रः प्रतिसंविदो नोपलभ्यन्ते अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, सकृदागामी नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अनागामी नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अर्हन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, तथागतो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपत्तिफलन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं सकृदागामिफलन् नोपलभ्यते अत्यन्तविशुद्धितामुपादाय, अनागामिफलन् नोपलभ्यते, अर्हत्त्वन् नोपलभ्यते, प्रत्येकबोधिर् नोपलभ्यते, तथागतत्वन् नोपलभ्यते, सर्वाकारज्ञता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रमुदिताभूमिर् नोपलभ्यतेअत्यन्तविशुद्धिताम् उपादाय, एवं विमला प्रभाकरी अर्चिष्मती (PSP१-२: ११२) सुदुर्जया अभिमुखी दूरङ्गमा अचला साधुमती धर्ममेघा भूमिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, पूर्वान्तो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अपरान्तो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रत्युत्पन्नो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवम् अगतिर् नोपलभ्यते गतिर् नोपलभ्यते स्थितिर् नोपलभ्यते च्युतिर् नोपलभ्यते उपपत्तिर् नोपलभ्यते हानिर् नोपलभ्यते वृद्धिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय.
सचेत् सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं भावो ऽभविष्यन् नाभावो नैव तथागतस् त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रावर्तयिष्यत्, अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण, यस्मात् तर्हि सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारं धर्मचक्रम् अभावो न भावस् तस्मात् तथगतेन त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रवर्तितम् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण.
यत् पुनः सुभूतिर् एवम् आह, आकाशसमं तद् यानम् इति, एवम् एतत् सुभूते एवम् एतत्, आकाशसमं तद् यानं, यथाकाशस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते, एवम् एव सुभूते तस्य यानस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते,
SK
तद्यथापि नाम सुभूते आकाशं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फाटिकरजतवर्णम्, एवम् एव सुभूते तन् महायानं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न माञ्जिष्ठं न स्फाटिकरजतवर्णं, तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं नातीतं नानागतं न प्रत्युत्पन्नं, एवम् एव सुभूते तन् महायानं नातीतं नानागतं न (PSP१-२: १२३) प्रत्युत्पन्नं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशस्य न हानिर् न वृद्धिः, एवम् एव सुभूते तस्य महायानस्य न हानिर् न वृद्धिस् तेनोच्यते, आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशस्य न संक्लेशो न व्यवदानं, एवम् एव सुभूते तस्य महायानस्य न संक्लेशो न व्यवदानं तेनोच्यते, आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशस्य नोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं, एवम् एव सुभूते तस्य महायानस्यनोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतं, एवम् एव सुभूते तन् महायानं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न दृष्टं न श्रुतं न मतं न विज्ञातं, एवम् एव सुभूते तन् महायानं न दृष्टं न श्रुतं न मतं न विज्ञातं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यं, एवम् एव सुभूते तन् महायानं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न विपाको न विपाकधर्मि, एवम् एव सुभूते तन् महायानं न विपाको न विपाकधर्मि तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं, एवम् एव सुभूते तन् महायानं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशे न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः, एवम् एव सुभूते तत्र महायाने न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो (PSP१-२: १२४) न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादस् तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशे न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृताविभूमिः, एवम् एव सुभूते तत्र महायाने न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृताविभूमिस् तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशे न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वं, एवम् एव सुभूते तत्र महायाने न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशे न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिः, एवम् एव सुभूते तत्र महायानेन श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिस् तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तं, एवम् एव सुभूते तन् महायानं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तंन विसंयुक्तं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं, एवम् एव सुभूते तन् महायानं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं, एवम् एव सुभूते तन् महायानं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न विविक्तं नाविविक्तं नालोको नान्धकारः, एवम् एव सुभूते तन् महायानं न विविक्तं नाविविक्तं नालोको नान्धकारस् तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न लभ्यते नोपलभ्यते, एवम् एव सुभूते तन् महायानं न लभ्यते नोपलभ्यते तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न प्रव्याहारो नाप्रव्याहारः, एवम् एव सुभूते तन् महायानं न प्रव्याहारो नाप्रव्याहारस् तेनोच्यते आकाशसमं तद् यानम्.
एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चासंख्येयं सर्वम् एतन् नोपलभ्यते.
SK
पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अपरिमाणासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् (PSP१-२: १२६) अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चापरिमाणं सर्वम् एतन् नोपलभ्यते.
SK
पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया असंस्कृतासत्ता वेदितव्या, संस्कृतासत्तयाप्रमेयासत्ता वेदितव्या, अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या, असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या, अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यश् च तथागतो यच् चाकाशं यच् च महायानं यच् चासंस्कृतं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया भूतकोट्यसत्ता वेदितव्या, भूतकोट्यसत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यश् च यावज् जानकपश्यको या च भूतकोटिर् यच् चाप्रमेयम् असंख्येयम् अपरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, यावज् जानकपश्यकासत्तया अचिन्त्यधात्वसत्ता वेदितव्या, अचिन्त्यधात्वसत्तया रूपस्कन्धासत्ता वेदितव्या, रूपस्कन्धासत्तया वेदनासंज्ञासंस्कारविज्ञानस्कन्धासत्ता वेदितव्या, विज्ञानस्कन्धासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता (PSP१-२: १२७) वेदितव्या, जानकपश्यकासत्तया चक्षुरसत्ता वेदितव्या, चक्षुरसत्तया श्रोत्रघ्राणजिह्वाकायमनो ऽसत्ता वेदितव्या, मनो ऽसत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया दानपारमितासत्ता वेदितव्या, दानपारमितयासत्तया शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितासत्ता वेदितव्या, प्रज्ञापारमितासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यतासत्ता वेदितव्या, अभावस्वभावशून्यतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
यद् अपि सुभूतिर् एवम् आह, नापि तस्य महायानस्य आगतिर् दृश्यते नापि गतिर् न स्थानं दृश्यत इति. एवम् एतत् सुभूते तस्य महायानस्यागतिर् न दृश्यते नापि गतिर् न स्थानं दृश्यते. तत् कस्य हेतोः? अचला हि सुभूते सर्वधर्मास् ते न क्वचिद् गच्छन्ति न कुतश्चिद् आगच्छन्ति न क्वचित् तिष्ठन्ति. तत् कस्य हेतोः? न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, वेदनायाः संज्ञायाः संस्काराणां, न हि सुभूते विज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते रूपतथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, वेदनायाः संज्ञायाः संस्काराणां, न सुभूते विज्ञानस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते रूपस्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न वेदनायाः स्वभावः न संज्ञायाः स्वभावो न संस्काराणां स्वभावो न सुभूते विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते रूपस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न वेदनाया लक्षणं न संज्ञाया लक्षणं न संस्काराणां लक्षणं न सुभूते विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति (PSP१-२: १३०) न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते चक्षुषः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं न श्रोत्रस्य न घ्राणस्य न जिह्वाया न कायस्य न सुभूते मनसः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते पृथिवीधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं नाब्धातोर् न तेजोधातोर् न वायुधातोर् नाकाशधातोर् न सुभूते विज्ञानधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते धर्मधातोः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न धर्मधातोस् तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते तथतायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न तथतायास् तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते भूतकोटेः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न भूतकोटेस् तथता न भूतकोटेः स्वभावो न भूतकोटेर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते अचिन्त्यधातोः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते अचिन्त्यधातोस् तथता नाचिन्त्यधातोः स्वभावो नाचिन्त्यधातोर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते दानपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न दानपारमितायास् तथता न दानपारमितायाः स्वभावो न दानपारमिताया लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न प्रज्ञापारमितायस् तथता न प्रज्ञापारमितायाः स्वभावो न प्रज्ञापारमिताया लक्षणं कुतश्चिद् (PSP१-२: १३१) आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते स्मृत्युपस्थानानां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न स्मृत्युपस्थानानां तथता न स्मृत्युपस्थानानां स्वभावो न स्मृत्युपस्थानानां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
एवं न सम्यक्प्रहाणानां न ऋद्धिपादानां नेन्द्रियाणां न बलानां न बोध्यङ्गानां नार्याष्टाङ्गस्य मार्गस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नार्याष्टाङ्गस्य मार्गस्य तथता नार्याष्टाङ्गस्य मार्गस्य स्वभावो नार्याष्टाङ्गस्य मार्गस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते अप्रमाणध्यानारूप्यसमापत्तीणां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नाप्रमाणध्यानारूप्यसमापत्तीणां तथता नाप्रमाणध्यानारूप्यसमापत्तीनां स्वभावो नाप्रमाणध्यानारूप्यसमापत्तीणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते दशानां तथागतबलानां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न दशानां तथागतबलानां तथता न दशानां तथागतबलानां स्वभावो न दशानां तथागतबलानां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
एवं न चतुर्णां वैशारद्यानां न चतसृणां प्रतिसंविदां न षण्णाम् अभिज्ञानां न सुभूते अष्टादशानाम् आवेणिकानां बुद्धधर्माणां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां तथता नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां स्वभावो नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते बोधेः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न बोधेस् तथता न बोधेः स्वभावो न बोधेर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते असंस्कृतस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नासंस्कृतस्य तथता नासंस्कृतस्य स्वभावो नासंस्कृतस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति.
न सुभूते शून्यता एका वा द्वे वा तिस्रो वा चतस्रो वा पञ्च वा षड् वा सप्त वा अष्ट वा नव वा दश वा तस्मात् त्र्यध्वसमतया समम् इदं यानं बोधिसत्त्वस्य महासत्त्वस्य, नापि तत्र समम् उपलभ्यते न विषमं, नापि तत्र राग उपलभ्यते न विरागः, न दोष उपलभ्यते नादोषः, न मोह उपलभ्यते नामोहः, न नाम उपलभ्यते नानाम, यावन् न कुशलम् उपलभ्यते नाकुशलं, न सास्रवम् उपलभ्यते नानास्रवं, न सावद्यम् उपलभ्यते नानवद्यं, न क्लेश उपलभ्यते नाक्लेशः, न क्लेशक्षय उपलभ्यते नाक्लेशक्षयः, न लौकिकम् उपलभ्यते न लोकोत्तरं, न संक्लेश उपलभ्यते न व्यवदानं, न संसार उपलभ्यते न निर्वाणं, नाप्य् अत्र नित्यम् उपलभ्यते नानित्यं, न सुखम् उपलभ्यते न दुःखं, नात्मा उपलभ्यते नानात्मा, न शान्तम् उपलभ्यते नाशान्तं, न कामधातुर् उपलभ्यते न कामधातुसमतिक्रमः, न रूपधातुर् उपलभ्यते न रूपधातुसमतिक्रमः, नारूप्यधातुर् उपलभ्यते नारूप्यधातुसमतिक्रमः. तत् कस्य हेतोः? तथा हि तस्य स्वभावो नोपलभ्यते, अतीतं सुभूते रूपम् अतीतेन रूपेण शून्यम्, अनागतं रूपम् अनागतेन रूपेण शून्यं, प्रत्युत्पन्नं रूपं प्रत्युत्पन्नेन रूपेण शून्यम्. एवम् अतीता वेदना संज्ञा संस्काराः, अतीतं विज्ञानम् अतीतेन विज्ञनेन शून्यम्, अनागतं विज्ञानम् अनागतेन विज्ञानेन शून्यं, प्रत्युत्पन्नं विज्ञानं प्रत्युत्पन्नेन विज्ञानेन शून्यम्. तत् कस्य हेतोः?
SK
न शून्यतायाम् अतीतं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतं रूपम् उपलप्स्यते,
SK
न शून्यतायाम् अतीता वेदना उपलभ्यते शून्यतैव तावच् छून्या (PSP१-२: १३३) शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीता वेदना उपलप्स्यते,
SK
न शून्यतायाम् अतीता संज्ञा उपलभ्यते, शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीता संज्ञा उपलप्स्यते,
SK
न शून्यतायाम् अतीताः संस्कारा उपलभ्यन्ते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीताः संस्कारा उपलप्स्यन्ते,
SK
न शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतं विज्ञानम् उपलप्स्यते,
SK
एवं न शून्यतायाम् अनागतं रूपं वेदना संज्ञा संस्काराविज्ञानम् उपलभ्यते.
SK
न शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्नं रूपम् उपलप्स्यते,
SK
न शून्यतायां प्रत्युत्पन्ना वेदना उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदना उपलप्स्यते,
SK
न शून्यतायां प्रत्युत्पन्ना संज्ञा उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञा उपलप्स्यते,
SK
न शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलभ्यन्ते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना संस्कारा उपलप्स्यन्ते,
SK
न शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलप्स्यते.
SK
न शून्यतायाम् अतीतानागतप्रत्युत्पन्नं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्नं रूपम् उपलप्स्यते,
SK
न शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना संज्ञा संस्कारा विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना संज्ञा संस्कारा विज्ञानम् उपलप्स्यते.
भगवन् आह: न हि सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानम् उपदिशसि. तत् कस्य हेतोः? तथा हि सुभूते ये केचित् कुशला बोधिपक्षा धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति.
SK
सुभूतिर् आह: कतमे भगवन् कुशला बोधिपक्षा धर्माः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति?
यच् च सुभूते महायानं या च ध्यानपारमिता या च वीर्यपारमिताया च क्षान्तिपारमिता या च शीलपारमिता या च दानपारमिता, यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं, यच् च चक्षुर् यच् च श्रोत्रं यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यच् च रूपं यश् च शब्दो यश् च गन्धो यश् च रसो यश् च स्पर्शो ये च धर्मा यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो या च चक्षुःसंस्पर्शजा वेदना या च श्रोत्रसंस्पर्शजावेदना या च घ्राणसंस्पर्शजा वेदना या च जिह्वासंस्पर्शजा वेदनाया च कायसंस्पर्शजा वेदना या च मनःसंस्पर्शजा वेदना,
SK
यानि च चत्वारि स्मृत्युपस्थानानि यानि च सम्यक्प्रहाणानि ये च ऋद्धिपादा यानि चेन्द्रियानि यानि च बलानि यानि च बोध्यङ्गानि यश् चार्याष्टाङ्गो मार्गो यानि चाप्रमाणानि यानि च ध्यानानि याश् चारूप्यसमापत्तयो यानि च तथागतबलानि यानि च वैशारद्यानि याश् च चतस्रः प्रतिसंविदो यानि च शून्यतानिमित्ताप्रणिहितानि ये चासंस्कृता धर्मा यच् च दुःखं यश् च समुदयो यश् च निरोधो यश् च मार्गो यश् च कामधातुर् यश् च रूपधातुर् यश् चारूप्यधातुर् या चाध्यात्मशून्यताया च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभावशून्यता ये च समाधयो यानि च धारणीमुखानि ये च यावद् अष्टादशावेणिका बुद्धधर्माः, यश् च तथागतप्रवेदितो धर्मविनयोयश् च धर्मधातुर् या च तथता या च भूतकोटिर् यश् चाचिन्त्यधातुर् यच् च निर्वाणं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
अनेन पर्यायेण सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि. तत् कस्य हेतोः? न हि सुभूते अन्यन् महायानम् अन्या प्रज्ञापारमिता अन्या ध्यानपारमिता अन्या वीर्यपारमिता अन्या क्षान्तिपारमिता अन्या शीलपारमिता अन्या दानपारमिता, इति हि महायानञ् च प्रज्ञापारमिता ध्यानवीर्यक्षान्तिशीलदानपारमिता चाद्वयम् एतद् अद्वैधीकारं, न सुभूते अन्यन् महायानम् अन्यानि स्मृत्युपस्थानानि इति हि महायानं स्मृत्युपस्थानानि चाद्वयम् एतद् अद्वैधीकारं, एवं नान्यन् महायानम् अन्ये सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा इति हि महायानं च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाश् चाद्वयम् एतद् अद्वैधीकारं, नान्यन् महायानं अन्या अप्रमाणध्यानारूप्यसमापत्तय इति हि महायानं चाप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारं, नान्यन् महायानम् अन्ये दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा इति हि महायानं च बुद्धधर्माश् चाद्वयम् एतद् अद्वैधीकारं, अनेन कारणेन सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि.
SK
इति प्राप्तिनिर्याणम्
SK
सुभूतिर् आह: अपि तु खलु पुनर् भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति, रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदना संज्ञा संस्कारा विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्ततता वेदितव्या, रूपं (PSP१-२: १३८) बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्काराः विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं हि भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
SK
अपि तु खलु पुनर् भगवन् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा, एवम् अस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तम्, एवं वेदना संज्ञा संस्काराः कतमत् तद् विज्ञानं यद् अनभिनिवृत्तं, न तद् रूपं वेदना संज्ञा संस्कारा यच् चानभिनिवृत्तं न तद् विज्ञानं तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितयाम् अववदिष्याम्य् अनुशासिष्यामि? न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्, सचेद् एवं निर्दिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्.
केन कारणेनायुष्मन् सुभूते एवं वदसि, रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदना संज्ञा संस्कारा विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या?
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, रूपं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्कारा विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवम् अहं बोधिसत्त्वं महासत्त्वं सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानः, असमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यावद् एव नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा, एवम् अभावस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तं कतमे ते वेदना संज्ञा संस्काराः कतमत् तद् विज्ञानं यद् अनभिनिवृत्तं यच् चानभिनिवृत्तं न तद् रूपं ये (PSP१-२: १३९) चानभिनिवृत्ता न वेदना संज्ञा संस्कारा यच् चानभिनिवृत्तं न तद् विज्ञानं, तत् किम् अनभिनिवृत्तम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, न चान्यत्रानभिनिवृत्ते बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्?
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, सचेद् एवम् उपदिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् इति?
SK
सुभूतिर् आह: सत्त्वासत्तया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वशून्यतया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वविविक्ततया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वास्वभावतया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, एवम् अपरान्ततो मध्यतश् च वक्तव्यम्. तत् कस्य हेतोः? सत्त्वासत्तया शून्यताविविक्ततास्वभावता पूर्वान्तादीनाम् अनुपलब्धेः, न चान्यत्र सत्त्वासत्ताशून्यताविविक्ततास्वभावता अन्यो बोधिसत्त्वो ऽन्यत् पूर्वान्तादि इति हि या च सत्त्वासत्ता यावद् यच् च मध्यं सर्वम् एतद् अद्वैधीकारं,
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, वेदना संज्ञा संस्कारा, विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रूपम् आयुष्मन् शारिपुत्र आकाशसमं, वेदना संज्ञा संस्कारा आकाशसमा, विज्ञानम् आयुष्मन् शारिपुत्र आकाशसमम्. तत् कस्य हेतोः? तद्यथापि नाम आयुष्मन् शारिपुत्र यथा आकाशस्य न पूर्वन्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते.
SK
एवम् एवायुष्मन् शारिपुत्र रूपस्य नैव पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते. तत् कस्य हेतोः? रूपशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य नैवपूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. तत् कस्य हेतोः? विज्ञानशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते, शून्यतेति च व्यवह्रियते.
रूपम् आयुष्मन् शारिपुत्र रूपे रूपं न संविद्यते नोपलभ्यते, रूपं वेदनायां न संविद्यते नोपलभ्यते,
SK
वेदना वेदनायां न संविद्यते नोपलभ्यते, वेदना रूपे न संविद्यते नोपलभ्यते, रूपं वेदना च संज्ञायां न संविद्यते नोपलभ्यते,
SK
संज्ञा संज्ञायां न संविद्यते नोपलभ्यते, संज्ञा रूपे न संविद्यते नोपलभ्यते, संज्ञा रूपवेदनयोर् न संविद्यते नोपलभ्यते, रूपं वेदना संज्ञा संस्कारेषु न संविद्यते नोपलभ्यते,
SK
संस्काराः संस्कारेषु न संविद्यते नोपलभ्यन्ते, संस्कारा रूपवेदनासंज्ञासु न संविद्यन्ते नोपलभ्यन्ते, रूपवेदनासंज्ञासंस्कारा विज्ञाने न संविद्यन्ते नोपलभ्यन्ते,
SK
विज्ञानं विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न संविद्यते नोपलभ्यते.
SK
चक्षुर् आयुष्मन् शारिपुत्र चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रे न संविद्यते नोपलभ्यते,
SK
श्रोत्रं चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रं च घ्राणेन संविद्यते नोपलभ्यते,
SK
घ्राणं घ्राने न संविद्यते नोपलभ्यते, घ्राणं चक्षुषि श्रोत्रे च न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणानि जिह्वायां न संविद्यन्ते नोपलभ्यन्ते,
SK
जिह्वा जिह्वायां न संविद्यते नोपलभ्यते, जिह्वा चक्षुःश्रोत्रघ्राणेषु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाः काये न संविद्यन्ते नोपलभ्यन्ते,
SK
कायः काये न संविद्यते नोपलभ्यते, कायश् चक्षुःश्रोत्रघ्राणजिह्वासु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाकाया मनसि न संविद्यन्ते नोपलभ्यन्ते,
SK
मनो मनसि न संविद्यते नोपलभ्यते, मनश् चक्षुःश्रोत्रघ्राणजिह्वाकायेषु (PSP१-२: १४५) न संविद्यते नोपलभ्यते.
SK
रूपं रूपे न संविद्यते नोपलभ्यते, रूपं शब्दगन्धरसस्पर्शधर्मेषु न संविद्यते नोपलभ्यते,
SK
शब्दः शब्दे गन्धे रसे न संविद्यते नोपलभ्यते, शब्दो ऽन्येषु न संविद्यते नोपलभ्यते.
SK
एवं गन्धो गन्धे ऽन्येषु च न संविद्यते नोपलभ्यते, रसो रसे ऽन्येषु च न संविद्यते नोपलभ्यते, स्पर्शः स्पर्से ऽन्येषु च न संविद्यते नोपलभ्यते, धर्मा धर्मेष्व् इतरेषु न संविद्यन्ते नोपलभ्यन्ते.
SK
चक्षुर्विज्ञानं चक्षुर्व्र्ज्ञाने इतरत्र च न संविद्यते नोपलभ्यते, इतराणीतरेषु च न संविद्यन्ते नोपलभ्यन्ते,
SK
एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं मनोविज्ञाने इतरत्र च न संविद्यते नोपलभ्यते, इतराणीतरेषु च न संविद्यन्ते नोपलभ्यन्ते.
SK
चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शे न संविद्यते नोपलभ्यते, इतरेषु च न संविद्यते नोपलभ्यते, तत्र चेतरे न संविद्यन्ते नोपलभ्यन्ते,
SK
एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्सो मनःसंस्पर्शे न संविद्यते नोपलभ्यते, इतरेषु च न संविद्यते नोपलभ्यते, तत्र चेतरे न संविद्यन्ते नोपलभ्यन्ते.
SK
चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजायां वेदनायां न संविद्यते नोपलभ्यते, तत्रापीतरा इतरासु च सा न संविद्यते नोपलभ्यते,
SK
एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना मनःसंस्पर्शजा वेदना मनःसंस्पर्शजायां वेदनायां न संविद्यते नोपलभ्यते, तत्रापीतरा इतरासु च सा न संविद्यते नोपलभ्यते.
SK
स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न संविद्यन्ते नोपलभ्यन्ते, एवं सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकेषु बुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, तत्रापीतरे इतरेषु च ते (PSP१-२: १४६) न संविद्यन्ते नोपलभ्यन्ते.
SK
अध्यात्मशून्यता अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मशून्यतापि यावद् अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यता अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यतापि यावद् अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते.
SK
समाधिः समाधौ न संविद्यते नोपलभ्यते, समाधिर् धारणीषु न संविद्यते नोपलभ्यते, धारणी धारण्यां न संविद्यते नोपलभ्यते, धारण्यः समाधौ न संविद्यन्ते नोपलभ्यन्ते.
SK
पृथग्जनभूमिः पृथग्जनभूमौ न संविद्यते नोपलभ्यते, एवं गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिर् वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिस् तथागतभूमिः, सर्वज्ञताभूमिः सर्वज्ञताभूमौ न संविद्यते नोपलभ्यते.
SK
स्रोतआपन्नः स्रोतआपन्नत्वे न संविद्यते नोपलभ्यते, एवं सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धः प्रत्येकबुद्धत्वे न संविद्यते नोपलभ्यते, बोधिसत्त्वो बोधिसत्त्वत्वे न संविद्यते नोपलभ्यते, तथागतस् तथागतत्वे न संविद्यते नोपलभ्यते, प्रज्ञापारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमितायाम् अववादानुशासनी न संविद्यते नोपलभ्यते, अववादानुशासन्यां प्रज्ञापारमिता न संविद्यते नोपलभ्यते, एवं ह्य् आयुष्मन् शारिपुत्र सर्वधर्मासंविद्यमानत्वेन अनुपलम्भेन बोधिसत्त्वो न संविद्यते नोपलभ्यते.
SK
इति प्राप्तिनिर्याणे प्रापकप्रतिषेधः
SK
यत् पुनर् आयुष्मन् शारिपुत्रैवं वदसि, केन कारणेन नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, केन कारनेनायुष्मन् सुभूते एवं वदसि, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत बोधिसत्त्व इति, तथा ह्य् आयुष्मन् शारिपुत्र नाम दशभ्यो दिग्भ्यो न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति सर्वधर्माणाम् एव बोधिसत्त्वानां नामापि न कुतश्चिद् एति न क्वचिद् गच्छति न क्वचित् तिष्ठति, आगन्तुकम् एतन् नामधेयं तथा हि यद् रूपं यद् वेदना यत् संज्ञा यत् संस्कारा यद् विज्ञानम् इति नामधेयं न तद् रूपं न (PSP१-२: १४७) वेदना न संज्ञा न संस्कारा न विज्ञानम्. तत् कस्य हेतोः? तथा हि नाम शून्यं नामस्वभावेन यच् च शून्यं न तन् नाम, तेन कारणेनोच्यते बोधिसत्त्व इति नामधेयमात्रम् एतद् इति.
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र नामधेयमात्रम् एतद् यद् उत दानपारमितेति, न च दानपारमितायां नाम न च नाम्नि दानपारमिता, तत् कस्य हेतोः? यच् च नाम या च दानपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, एवं नामधेयमात्रम् एतद् यद् उत शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता नामधेयमात्रम् एतद् यद् उत प्रज्ञापारमितेति न च प्रज्ञापारमितायां नाम न च नाम्नि प्रज्ञापारमिता, तत् कस्य हेतोः? तथा हि यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मन् नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, आगन्तुकम् एतन् नामधेयं प्रक्षिप्त यद् उत बोधिसत्त्व इति, नामधेयमात्रम् एतद् यद् उताध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न चाध्यात्मशून्यतायां नाम न च नाम्नि अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, तत् कस्य हेतोः? तथा हि यच् च नाम या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभावशून्यता सर्व एते न संविद्यन्ते नोपलभ्यन्ते.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, आगन्तुकम् एतच् छारिपुत्र नामधेयं प्रक्षिप्तं यद् उत स्मृत्युपस्थानानीति, न च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च स्मृत्युपस्थानानि उभयम् एतन् न संविद्यते नोपलभ्यते, एवं सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियानि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गो ऽप्रमाणानि ध्यानानि आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उताष्टादशावेणिका बुद्धधर्मा इति न च बुद्धधर्मेषु नाम नाम्नि बुद्धधर्माः. तत् कस्य हेतोः? तथा हि यच् च नाम ये च बुद्धधर्मा उभयम् एतद् न संविद्यते नोपलभ्यते, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत समाधिर् इति, यावत् सर्वज्ञतेति, न (PSP१-२: १४८) च सर्वज्ञतायां नाम न च नाम्नि सर्वज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वज्ञता उभयम् एतन् न संविद्यते नोपलभ्यते.
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र रूपम् अनभिनिवृत्तं वेदना संज्ञा संस्कारा विज्ञानम् अनभिनिवृत्तम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्राभिसंस्कर्त्ता नास्ति,
SK
चक्षुर् आयुष्मन् शारिपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति, एवं श्रोत्रघ्राणजिह्वाकाया मनो ऽनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति.
SK
पुनर् अपरं शारिपुत्र रूपशब्दगन्धरससंस्पर्शधर्मा अनभिसंस्कृताः. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते यावत् सर्वधर्मा अनभिसंस्कृताः. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते, अनेनायुष्मन् शारिपुत्र पर्यायेण रूपवेदनासंज्ञासंस्कारविज्ञानान्य् अनभिनिवृत्तानि. यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन यद् अनभिनिवृत्तं न तद् रूपंन वेदना न संज्ञा न संस्कारा न विज्ञानम् इति.
SK
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र रूपं प्रकृतिशून्यं, यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः, यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते, वेदना संज्ञा संस्कारा विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः, यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते, एवं यावत् सर्वधर्माः प्रकृतिशून्या ये च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययो येषां नोत्पादो न व्ययस् तेषां नान्यथात्वं प्रज्ञायते.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण यद् अनभिनिवृत्तं न तद् रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम्.
पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये सर्वसमाधिधारणीमुखानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समाधिधारणीमुखानीमानि. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति यावद् व्यस्तसमस्तानि स्कन्धधात्वायतनानि प्रतीत्यसमुत्पादं न समनुपश्यति, सप्तत्रिंशद् बोधिपक्षान् धर्मान् न समनुपश्यति पारमिता न समनुपश्यति अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मान् यावत् सर्वाकारज्ञतां न समनुपश्यति. तत् कस्य हेतोः? तथा हि भगवन् यो रूपस्यानुत्पादो न तद् रूपं यो वेदनायाः संज्ञायाः (PSP१-२: १५५) संस्काराणां यो विज्ञानस्यानुत्पादो न तद् विज्ञानम् इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकरम्. यो भगवंश् चक्षुषो ऽनुत्पादो न तच् चक्षुर् यः श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो ऽनुत्पादो न तन् मन इति हि मनश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
SK
यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता, यः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
SK
यो भगवन्न् अध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता, यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न सा अध्यात्मबहिर्धाशून्यता, यो यावद् अभावस्वभावशून्यताया अनुत्पादो न सा अभावस्वभावशून्यता, इति हि अभावस्वभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
SK
यो भगवन् स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञादशबलवैशारद्यप्रतिसंविदो,
SK
यो भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुत्पादो न ते ऽष्टादशावेणिका बुद्धधर्मा इति हि बुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
SK
यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः, यस् तथताया आकाशधातोर् भूतकोटेर् अचिन्त्यधातोर् बोधेर् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा ह्य् अनुत्पादो नैको न द्वौ न बहवो न पृथक् तस्माद् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
SK
यो भगवन् रूपस्य व्ययो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि स्कन्धाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः पञ्चानां स्कन्धानां व्ययो न ते पञ्च स्कन्धाः,
SK
यो भगवन् दानपारमिताया व्ययो न सा दानपारमिता, एवं (PSP१-२: १५६) यः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता इति हि प्रज्ञापारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः पारमितानां व्यायो नताः पारमिता.
SK
यो भगवन्न् अध्यात्मशून्यताया व्ययो न सा अध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो ऽध्यात्मशून्यतया व्ययो न सा अध्यात्मशून्यता एवं यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न सा ध्यात्मबहिर्धाशून्यता यावद् यो ऽभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता इति ह्य् अभावस्वभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो ऽभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता.
SK
यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, इति हि स्मृत्युपस्थानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकरम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि,
SK
एवं यः सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानां यश् चार्याष्टाङ्गस्य मार्गस्य व्ययो न स मार्ग इति हि मार्गश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो मार्गस्य व्ययो न स मार्गः,
SK
एवं यो ऽप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां प्रतिसंविदां वैशारद्यानां दशानां तथागतबलानां यो ऽष्टादशानाम् आवेणिकानां बुद्धधर्माणां व्ययो न ते बुद्धधर्मा इति हि बुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो बुद्धधर्माणां व्ययो न ते बुद्धधर्माः.
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, कतमा उपपरीक्षणेति, इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न नित्यम् इत्य् उपपरीक्षते नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यमिति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं नित्यम् इत्य् उपपरीक्षते, नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तमित्य् उपपरीक्षते.
SK
एवं चक्षुः श्रोत्रं घ्राणं जिह्वां कायं मनो न नित्यम् इति उपपरीक्षते, नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
SK
एवं रूपशब्दगन्धरसस्प्रष्टव्यधर्मान् न नित्या इति नानित्या इति उपपरीक्षते, न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षते, न विविक्ता इति नाविविक्ताइति उपपरीक्षते.
SK
एवं चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं न नित्यं नानित्यम् इति उपपरीक्षते, न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
SK
एवं चक्षुःसंस्पर्शं श्रोत्रसंस्पर्शं घ्राणसंस्पर्शं जिह्वासंस्पर्शं कायसंस्पर्शं मनःसंस्पर्शं न नित्य इति नानित्य इत्य् उपपरीक्षते, न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति (PSP१-२: १५९) नाशान्त इति न शून्य इति नाशून्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
SK
एवं चक्षुःसंस्पर्शप्रत्यया वेदना श्रोत्रसंस्पर्शप्रत्यया वेदना घ्राणसंस्पर्शप्रत्यया वेदना जिह्वासंस्पर्शप्रत्यया वेदना कायसंस्पर्शप्रत्यया वेदना मनःसंस्पर्शपृतत्यया वेदना न नित्या इति नानित्या इत्य् उपपरीक्षते, न सुखा इति न दुःखा इति नात्मा इति नानात्मा इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इति उपपरीक्षते, न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षते.
SK
एवं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति न आत्मेति नानात्मेति न शान्ता इति नाशान्ता इति, न शून्या इति नाशुन्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षते, न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षते.
SK
एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरिक्षते, न विविक्तेति नाविविक्तेत्य् उपपरीक्षते.
SK
एवं स्मृत्युपस्थानानि न नित्यानीति नानित्यानीत्य् उपपरीक्षते न सुखानीति न दुःखानीति नात्मानीति नानात्मानीति न शान्तानीति नाशान्तानीति न शून्यानीति नाशून्यानीति न निमित्तानीति नानिमित्तानीति न प्रणिहितानीति नाप्रणिहितानीत्य् उपपरीक्षते, न विविक्तानीति नाविविक्तानीत्य् उपपरीक्षते,
SK
एवं सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्गो ऽप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा दशतथागतबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः समाधयः सर्वधारणीमुखानि सर्वज्ञता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते, न विविक्तेति नाविविक्तेत्य् उपपरीक्षते.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यो रूपस्यानुत्पादो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञास्व् अष्टादशावेणिकेषु बुद्धधर्मेषु, यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति.
SK
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र शून्यं रूपेण, या चायुष्मन् शारिपुत्र शून्यता न तद् रूपं नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, वेदना संज्ञा संस्कारा, विज्ञानं शून्यं विज्ञानेन, या चायुष्मन् शारिपुत्र शून्यता न तद् विज्ञानं नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो विज्ञानस्यानुत्पादोन तद् विज्ञानम्.
SK
दानपारमिता आयुष्मन् शारिपुत्र दानपारमितया शून्या, या च शून्यता न सा दानपारमिता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, या च शून्यता न सा प्रज्ञापारमिता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता.
SK
अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, या च शून्यता न सा अध्यात्मशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, या च शून्यता न सा अध्यात्मशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो ऽध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता, एवं बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या, या च शून्यता न सा अभावस्वभावशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो ऽभावस्वभावशून्यताया अनुत्पादो न सा अभावस्वभावशून्यता.
SK
स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानैः शून्यानि, या च शून्यता न तानि स्मृत्युपस्थानानि नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञाप्रमाणध्यानारूप्यसमापत्तयो (PSP१-२: १६१) दशबलवैशारद्यप्रतिसंविदः समाधिधारण्यष्टादशावेणिका बुद्धधर्मा सर्वाकारज्ञता आयुष्मन् शारिपुत्र सर्वाकारज्ञतया शून्या, या च शून्यता न सा सर्वाकारज्ञता नोत्पादः, अनेनायुष्मन् शारिपुत्र प्रयायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
SK
शारिपुत्र आह: किं कारणम् आयुष्मन् सुभूते एवं वदसि, यो रूपस्य व्ययो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्य व्ययो न तद् विज्ञानम् इति, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यताबोधिपक्षेसु धर्मेषु पारमितास्व् अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यः सर्वाकारज्ञताया व्ययो न सासर्वाकारज्ञता.
SK
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं या च वेदना या च संज्ञा ये च संस्काराः, यच् च विज्ञानं सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघाः, एकलक्षणा यद् उतालक्षणाः, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताभिज्ञाशून्यताबोधिपक्षेसु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु दशबलवैशारद्यावेणिकबुद्धधर्मसमाधिधारणीमुखेषु यश् च व्ययो यावत् सर्वाकारज्ञतायच् चाद्वैधीकारं सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघाः, एकलक्षणा यद् उतालक्षणाः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो रूपस्य व्ययो न तद् रूपम्, एवं वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्य व्ययो न तद् विज्ञानम्, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतासु बोधिपक्षेसु धर्मेष्व् अभिज्ञापारमिताप्रमाणध्यानारूप्यसमापत्तिषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु समाधिधारणीमुखेषु यावद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
नाहम् अनुत्पादस्य स्रोतआपन्नम् इच्छामि न स्रोतआपत्तिफलं न सकृदागामिनं न सकृदागामिफलं, नानागामिनं नानागामिफलं, नार्हत्त्वं नार्हत्त्वफलं, नानुत्पादस्य प्रत्येकां बोधिम् इच्छामि न प्रत्येकबुद्धत्वं,
SK
नाहम् आयुष्मन् शारिपुत्रेच्छामि बोधिसत्त्वं दुष्करचारिकां चरन्तं नापि बोधिसत्त्वो दुष्करसंज्ञया चरति. तत् कस्य हेतोः? न हि शक्य आयुष्मन् शारिपुत्र दुष्करसंज्ञायां स्थित्वा अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्.
सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र प्राप्तिर् अस्त्य् अभिसमयो न पुनर् द्वयम्, अपि तु खलु पुनर् आयुष्मन् शारिपुत्र लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च प्रज्ञप्यते लोकव्यवहारेण स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते न पुनः परमार्थेन प्राप्तिर् नाभिसमयो न स्रोतआपन्नो न सकृदागामी नानागामी नार्हन् न प्रत्येकबुद्धो न बोधिसत्त्वो न बुद्धः.
SK
शारिपुत्र आह: अनुत्पन्नो धर्म इत्य् आयुष्मन् सुभूते प्रतिभाति मन्त्रयितुम्.
SK
सुभूतिर् आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मन् शारिपुत्र यद् वदसि प्रतिभाति मन्त्रयितुम् इति, अनुत्पादो ऽपि ये आयुष्मन् शारिपुत्र प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यश् चानुत्पन्नो धर्मो यच् च प्रतिभानं ये च मन्त्रा या चानुत्पत्तिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
केन कारणेन लौकिकी? लोको याभिर् भवति, लोकं वा याभिर् निवर्तयति, लोकेन वा याः समाः, लोकाय वा याभिर् दीयते, लोकाद् वा याभिर् निःसरति, लोकस्य वा या भवाय, लोके वा भवा यास् ता लौकिकस्यः.
SK
तत्र कतमा लोकोत्तरा? लोको याभिर् उत्तरति, लोकं वा याभिर् उत्तारयति, लोकेन वा याभिर् उत्तार्यते, आलोकाय वा या भवति, लोकाद् वा याभिर् निःसरति, लोकस्य वा या उत्तरणाय, लोके वा या उत्तरास् ता लोकोत्तरा इति.
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवंधर्मेण धर्मान् योजयति. एवंधर्मेण धर्मान् अभिष्यन्दयन् परिष्यन्दयन् परिपूरयन् परिस्फारन् प्रत्यवेक्षते निरात्मका ह्य् एते सर्वधर्मा आत्मात्मीयविगताः. तत् कस्य हेतोस्? तथा हि यद् बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलचित्तं तद् बोधिचित्तेनासमवहितं यत् परिणामनाचित्तं तद् बोधिचित्तकुशलमूलचित्ताभ्याम् असमवहितं यद् बोधिचित्तं तत् परिणामनाचित्तेनासमवहितं. तत् कस्य हेतोर्? यत् कौशिक बोधिचित्तं तत् परिणामनाचित्ते न संविद्यते नोपलभ्यते. यत् परिणामनाचित्तं तद् बोधिचित्ते न संविद्यते नोपलभ्यते. इयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता यद् एवं सर्वधर्मांश् च प्रत्यवेक्षते न च कंचिद् धर्मम् अभिनिविशते नोपलभते.
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिम् एतद् अवोचत्: कथं भदन्त सुभूते परिणामनाचित्तं बोधिचित्तेनासमवहितं? कथं बोधेश् चित्तं परिणामनाचित्तेनासमवहितं? कथं वा परिणामनाचित्ते बोधिचित्तं न संविद्यते नोपलभ्यते? कथं बोधिचित्ते परिणामनाचित्तं न संविद्यते नोपलभ्यते?
अथ खल्व् आयुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं यथा प्रतिपत्तव्यं रूपं कौशिक रूपेण शून्यं वेदना संज्ञा संस्कारा विज्ञानं कौशिक विज्ञानेन शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक या च रूपशून्यता, या च वेदनासंज्ञासंस्कारविज्ञानशून्यता, या च बोधिसत्त्वशून्यता, अद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक चक्षुश् चक्षुषा शून्यम्. एवं श्रोत्रं घ्राणं जिह्वा कायो मनो मनसा शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि या च चक्षुःशून्यता, या च श्रोत्रघ्राणजिह्वाकायमनःशून्यता, या च बोधिसत्त्वशून्यता, अद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक पृथिवीधातुः पृथिवीधातुना शून्यः. एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् विज्ञानधातुना शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि पृथिवीधातुशून्यता चाब्धातुशून्यता च तेजोधातुशून्यता च वायुधातुसून्यता चाकाशधातुशून्यता च विज्ञानधातुशून्यता (PSP_२-३:६) च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक, अविद्याविद्यया शून्या. एवं संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर् जरामरणं जरामरणेन सून्यम्. अविद्यानिरोधो ऽविद्यानिरोधेन शून्यः. एवं संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर् जरामरणनिरोधो जरामरणनिरोधेन शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति ह्य् अविद्याशून्यता चाविद्यानिरोधशून्यता यावज् जरामरणशून्यता च जरामरणनिरोधशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक दानपारमिता दानपारमितया शून्या. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि दानपारमिताशून्यता च शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
SK
पुनर् अपरं कौशिक अध्यात्मशून्यताध्यात्मशून्यतया शून्या. एवं बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यताभावस्वभावशून्यतया शून्या बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति ह्य् अध्यात्मशून्यता च बहिर्धाशून्यता चाध्यात्मबहिर्धाशून्यता च यावद् अभावस्वभावशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
SK
पुनर् अपरं कौशिक स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञार्यसत्याप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः शून्या बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि स्मृत्युपस्थानशून्यता च यावद् आवेणिकबुद्धधर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
SK
पुनर् अपरं कौशिक समाधिः समाधिना शून्यः. धारणीमुखानि (PSP_२-३:७) धारणीमुखैः शून्यानि बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि समाधिशून्यता च धारणीमुखशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
SK
पुनर् अपरं कौशिक श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं महायानं महायानेन शून्यं श्रावकः श्रावकत्वेन शून्यः प्रत्येकबुद्धः प्रत्येकबुद्धत्वेन शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः बुद्धो बुद्धत्वेन शून्यः, इति हि श्रावकयानशून्यता च यावन् महायानशून्यता च श्रावकशून्यता च यावद् बुद्धशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. इत्य् उष्मगतम्
सुभूतिर् आह: इह कौशिक बोधिसत्त्वेन महासत्त्वेन रूपे न स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु विज्ञाने न स्थातव्यम् उपलम्भयोगेन. चक्षुषि न स्थातव्यं रूपे न स्थातव्यं चक्षुर्विज्ञाने न स्थातव्यं चक्षुःसंस्पर्शे न स्थातव्यं चक्षुःसंस्पर्शजायां वेदनायां न स्थातव्यम्, एवं श्रोत्रघ्राणजिह्वाकायमनसि न स्थातव्यं धर्मेषु न स्थातव्यं मनोविज्ञाने न स्थातव्यं मनःसंस्पर्शे न स्थातव्यं मनःसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन. पृथिवीधातौ न स्थातव्यं अब्धातौ न स्थातव्यं तेजोधातौ न स्थातव्यं वायुधातौ न स्थातव्यम् आकाशधातौ न स्थातव्यं विज्ञानधातौ न स्थातव्यम् उपलम्भयोगेन. स्मृत्युपस्थानेषु न स्थातव्यम्. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञार्यसत्याप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न स्थातव्यम् उपलम्भयोगेन. स्रोतआपत्तिफले न स्थातव्यम् एवं सकृदागामिफले ऽनागामिफले ऽर्हत्त्वफले प्रत्येकबुद्धत्वफले यावद् बुद्धत्वे न स्थातव्यम् उपलम्भयोगेन. इति मूर्धगतम्
शारिपुत्र आह: न क्वचिद् आयुष्मन् सुभूते तथागतः स्थितः. अप्रतिष्ठितमानसः स खलु पुनस् तथागतो ऽर्हन् सम्यक्संबुद्धः स न रूपे स्थितो न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थितो न संस्कृते धातौ स्थितो नासंस्कृते धातौ स्थितः. एवं न व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु न पारमितासु न बोधिपक्ष्येषु धर्मेषु नाप्रमाणध्यानारूप्यसमापत्तिषु नाभिज्ञासु न सत्येषु स्थितो न सर्वशून्यतासु न सर्वसमाधिषु न सर्वधारणीमुखेषु स्थितः, न बलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु स्थितो न सर्वज्ञतायां स्थितः.
SK
अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवं ह्य् आयुष्मञ् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं. यथा तथागतो ऽर्हन् सम्यक्संबुद्धो न रूपे स्थितो नास्थितः, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थितो नास्थितः. एवं ह्य् आयुष्मञ् शरिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं. स्थास्यामीत्य् अस्थानयोगेन. इत्य् अग्रधर्मगतम् इत्य् उक्तः श्रावकमार्गः
सुभूतिर् आह: तथा हि देवपुत्रा एकाक्षरम् अप्य् अत्र न प्रव्याह्रियते, तन् न श्रूयते, तन् न विज्ञायते, तत् कस्य हेतोः? अनक्षरा हि प्रज्ञापारमिता तस्मान् नास्ति ज्ञाता न श्रोता न देशयिता अनक्षरा तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिः. तद्यथापि नाम देवपुत्रास् तथागतो ऽर्हन् सम्यक्संबुद्धो बुद्धनिर्मितं निर्मिमीयाच् चतस्रश् च परिषदो भिक्षुभिक्षुण्युपासकोपासिकाः सो ऽभिनिर्माय तासां चतसृणां परिषदां धर्मं देशयेत्, तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र किंचिद् देशितं वा श्रुतं वाज्ञातं वा.
SK
देवपुत्रा आहुह्: नो भदन्त.
SK
सुभूतिर् आह: एवम् एव देवपुत्राः. सर्वधर्मा निर्मितोपमास् तत्र न केनचिद् देशितं न केनचिच् छ्रुतं न केनचिद् आज्ञातम्. तद्यथापि नाम देवपुत्राः पुरुषः सुप्तः. स्वप्नान्तरगतस् तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्येद् धर्मं देशयन्तं. तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र किंचिद् देशितं वा श्रुतं वाज्ञातं वा.
SK
देवपुत्रा आहुः.: न भदन्त सुभूते.
SK
सुभूतिर् आह : एवं देवपुत्राः स्वप्नोपमाः. सर्वे धर्मास् तत्र न केनचिच् छ्रुतं न केनचिद् देशितं न केनचिद् आज्ञातम्. तद्यथापि नाम देवपुत्रा द्वौ पुरुषौ पर्वतकन्दरे स्थित्वा बुद्धस्य वर्णं भाषेयातां धर्मस्य वर्णं भाषेयातां संघस्य वर्णं भाषेयाताम्. ततो द्वयोर् अपि तयोः प्रतिश्रुत्कास्वरो निश्चरेत्. तत् किं मन्यध्वे? देवपुत्रा अपि नु तया प्रतिश्रुत्कया द्वितीयः. प्रतिश्रुत्काशब्दो विज्ञापितो भवेत्.
SK
देवपुत्रा आहुः: नो भदन्त सुभूते.
SK
सुभूतिर् आह: एवम् एव देवपुत्रः. सर्वधर्माः प्रतिश्रुत्कोपमास् तत्र न किंचिद् देश्यते न श्रूयते न विज्ञायते. तद्यथापि नाम देवपुत्रा दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे तथागतम् अर्हन्तं सम्यक्संबुद्धं निर्मिमीयाच् चतस्रश् च परिषदः सो ऽभिनिर्माय निर्मितानां चतसृणां परिषदां धर्मं देशयेत्. तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र केनचिद् देशितं वा श्रुतं वा विज्ञातं वा भवेत्.
SK
देवपुत्रा आहुः: नो भदन्त सुभूते.
SK
सुभूतिर् आह: एवम् एव देवपुत्रा मायोपमाः सर्वधर्मा न तत्र कश्चिद् (PSP_२-३:१३) देशयिता न श्रोता न विज्ञाता. इति परोपदेशवैयर्थ्यम्
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: न हि देवपुत्रा रूपं गम्भीरं वा सूक्ष्मं वा, न वेदना न संज्ञा न संस्कारा न विज्ञानं गम्भीरं वा सूक्ष्मं वा. तत् कस्य हेतोर्? न रूपस्य स्वभावो गम्भिरो न सूक्ष्मः न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य स्वभावो गम्भीरो न सूक्ष्मः. न चक्षुषः स्वभावो गम्भीरो न सूक्ष्मः न श्रोतस्य न घ्राणस्य न जिह्वाया न कायस्य न मनसः स्वभावो गम्भीरो न सूक्ष्मः. न पृथिवीधातोः. स्वभावो गम्भीरो न सूक्ष्मः, नाब्धातोर् न तेजोधातोर् न वायुधातोर् नाकाशधातोर् न विज्ञानधातोः. स्वभावो गम्भीरो न सूक्ष्मः. न दानपारमितायाः स्वभावो गम्भीरो न सूक्ष्मः, न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः स्वभावो गम्भीरो न सूक्ष्मः नाध्यात्मशून्यतायाः स्वभावो गम्भीरो न सूक्ष्मः, न बहिर्धाशून्यताया नाध्यात्मबहिर्धाशून्यताया यावन् नाभावस्वभावशून्यतायाः स्वभावो गम्भीरो न सूक्ष्मः. न स्मृत्युपस्थानानां स्वभावो गम्भीरो न सूक्ष्मः. एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य सत्यानाम् अभिज्ञानां चतुर्णाम् अप्रमाणानां चतुर्णां ध्यानानां चतसृणाम् आरूप्यसमापत्तीनां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृनां प्रतिसंविदाम् अष्टादाशानाम् आवेणिकानां बुद्धधर्माणां स्वभावो गम्भीरो न सूक्ष्मः न सर्वसमाधिधारणीमुखानां स्वभावो गम्भिरो न सूक्ष्मः, यावन् न सर्वाकारज्ञतायाः स्वभावो गम्भीरो न सूक्ष्मः.
SK
अथ खलु तेषां देवपुत्राणाम् एतद् अभवत्: न खलु पुनर् अस्यां धर्मदेशनायां रूपं प्रज्ञप्तं न वेदना न संज्ञा न संस्कारा न विज्ञानं प्रज्ञप्तं, यावन् न धातवो नायतनानि न प्रतित्यसमुत्पादः प्रज्ञप्तो न पारमिता प्रज्ञप्ता न बोधिपक्षा धर्माः प्रज्ञप्ताः, नाप्रमाणध्यानारूप्यसमापत्तवः, न सर्वशून्यता न सर्वसमाधयः न सर्वधारणीमुखानि (PSP_२-३:१४) न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्माः प्रज्ञप्ताः. नापीह धर्मदेशनायां स्रोतआपत्तिफलं प्रज्ञप्तं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बोधिसत्त्वत्वं प्रज्ञप्तं न बोधिः प्रज्ञप्ता नाक्षराणि प्रज्ञप्तानि.
SK
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् आमन्त्रयामास: एवम् एतद् देवपुत्रा एवम् एतद्, अनभिलप्या तथागतानां बोधिर् अप्रव्याहारा, सा न केनचिद् देशिता न केनचिच् छ्रुता न केनचिद् विज्ञाता. तेन हि देवपुत्रा ये स्रोतआपत्तिफले स्थातुकामाः, ये स्रोतआपत्तिफलं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं, ये प्रत्येकबुद्धत्वे स्थातुकामाः, ये प्रत्येकबुद्धत्वं प्राप्तुकामा नेमां क्षान्तिम् अनागम्य. एवं हि देवपुत्रा बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय प्रज्ञापारमितायां स्थातव्यम् अप्रव्याहाराश्रवणताम् उपादाय. इति प्रत्येकबुद्धानां ग्राह्यविकल्पप्रहाणम्
अथ खल्व् आयुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् एतद् अवोचत्: मायोपमा मम देवपुत्रा धर्मश्रवणिका एष्टव्या निर्मितोपमा मम धर्मश्रवणिका एष्टव्याः. ते नैव किंचिच् छ्रोष्यन्ति न पर्यवाप्स्यन्ति न साक्षात्करिष्यन्ति.
SK
अथ खलु ते देवपुत्रा आयुष्मन्तं सुभूतिस्थविरम् एवम् आहुः: किं पुनर् भदन्त सुभूते मायोपमास् ते सत्त्वा मायोपमास् ते धर्मश्रवणिका निर्मितोपमास् ते सत्त्वा निर्मितोपमास् ते धर्मश्रवणिकाः?
सुभूतिर् आह: निर्वाणम् अप्य् अहं देवपुत्राः स्वप्नोपमं मायोपमम् इति वदामि, सचेद् अहं देवपुत्रा निर्वाणाद् अपि कंचिद् धर्मविशिष्टतरं जानियां, तम् अप्य् अहं स्वप्नोपमं मायोपमं वदेयं. तत् कस्य हेतोस्? तथा हि देवपुत्राः स्वप्नश् च माया च निर्वाणं चाद्वयम् एतद् अद्वैधीकारम्. इति प्रत्येकबुद्धानां ग्राहकविकल्पाप्रहाणम्
SK
अथ खल्व् आयुष्माञ् शारिपुत्र आयुष्मांश् च महामौद्गल्यायन आयुष्मांश् च महाकौष्ठिल आयुष्मांश् च महाकात्यायन आयुष्मांश् च पूर्णो मैत्रायणिपुत्र आयुष्मांश् च महाकाश्यपो ऽनेकानि च देवकोटीनियुतशतसहस्राण्य् आयुष्मन्तं सुभूतिं स्थविरम् एवम् आहुः: के ऽस्या भदन्त सुभूते एवं गम्भीरायाः प्रज्ञापारमिताया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया (PSP_२-३:१६) एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति?
SK
अथ खल्व् आयुष्मान् सुभूतिस् तान् महाश्रावकांस् तांश् च देवपुत्रान् एतद् अवोचत्: अविनिवर्तनीया आयुष्मन्तो बोधिसत्त्वा महासत्त्वा अस्याः प्रज्ञापारमिताया एवं गम्भीराया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति. दृष्टसत्या वा पुद्गला अर्हन्तो वा क्षीणास्रवाः परिपूर्णसंकल्पाः, पूर्वजिनकृताधिकारा बहुबुद्धकोटिष्व् अवरोपितकुशलमूला वा कल्याणमित्रपरिगृहिता वा. ते कुलपुत्राः कुलदुहितरश् चास्याः प्रज्ञापारमिताया एवं गम्भीराया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति.
SK
तेन खलु पुनर् न रूपं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां रूपम् इति विकल्पयिष्यन्ति, न वेदनां न संज्ञां न संस्कारान् न विज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां विज्ञानम् इति विकल्पयिष्यन्ति. न रूपम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं रूपम् इति विकल्पयिष्यन्ति. न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानम् इति विकल्पयिष्यन्ति. न रूपम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं रूपम् इति विकल्पयिष्यन्ति, न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानम् इति विकल्पयिष्यन्ति. एवं नानुत्पाद इति, नानिरोध इति, न शान्तम् इति, न विविक्तम् इति विकल्पयिष्यन्ति. एवं व्यस्तसमस्तानि स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताम्, एवम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् एवं स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गान्य् आर्याष्टाङ्गमार्गम् अप्रमाणध्यानारूप्यसमापत्तीः अभिज्ञासत्यानि दशतथागतबलानि चत्वारि वैशारद्यानि (PSP_२-३:१७) चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् सर्वसमाधीन् सर्वधारणीमुखानि, एवं न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न सर्वाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् आनिमित्तेति विकल्पयिष्यन्ति, नानिमित्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञतां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञतां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न संस्कृतधातुं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुउ अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् (PSP_२-३:१८) असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति.
SK
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: नास्या देवपुत्राः प्रज्ञापारमिताया एवं गम्भीराया यावद् अलमार्यायाः पण्डितविज्ञवेदनीयायाः कश्चित् प्रत्येषको भविष्यति तत् कस्य हेतोस्? तथा ह्य् अत्र न कश्चिद् धर्मो देश्यते न सूच्यते न परिदीप्यते, यथैवात्र न कश्चिद् धर्मो देश्यते न सूच्यते न परिदीप्यते तथैवात्र न कश्चित् प्रत्येषको भविष्यति.
सुभूतिः स्थविर आह: न कौशिक इमान्य् एव पुष्पाण्य् अनिर्जातानि, रूपम् अपि कौशिकानिर्जातं यच् चानिर्जातं न तद् रूपम्. वेदनासंज्ञासंस्काराः विज्ञानं कौशिकानिर्जातं यच् चानिर्जातं न तद् विज्ञानं. चक्षुः कौशिकानिर्जातं यच् चानिर्जातं न तच् चक्षुः, एवं श्रोत्रं घ्राणं जिह्वा कायो मनः कौशिकानिर्जातं यच् चानिर्जातं न तन् मनः. पृथिवीधातुः कौशिकानिर्जातो यश् चानिर्जातो न स पृथिवीधातुर्, एवम् अब्धातुस् तेजोधातुर् आकाशधातुर् विज्ञानधतुः कौशिकानिर्जातो यश् चानिर्जातो न स विज्ञानधातुः. दानपारमिता कौशिक अनिर्जाता या चानिर्जाता न सा दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता कौशिक अनिर्जाता या चानिर्जाता न सा प्रज्ञापारमिता. अध्यात्मशून्यता कौशिक अनिर्जाता या चानिर्जाता न सा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता कौशिक अनिर्जाता या चानिर्जाता न सा अभावस्वभावशून्यता, स्मृत्युपस्थानानि कौशिक अनिर्जातानि यानि चानिर्जातानि न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणान्य् ऋद्धिपादाः इन्द्रियाणि बलानि बोध्यङ्गान्य् आर्याष्टङ्गो मार्गः कौशिक, अनिर्जातो यश् चानिर्जातो न स मार्गः. एवम् अभिज्ञाः सत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकाबुद्धधर्माः कौशिक अनिर्जाता ये चानिर्जाता न ते बुद्धधर्माः. स्रोतआपत्तिफलं कौशिक अनिर्जातं यच् चानिर्जातं न तत् स्रोतआपत्तिफलं, एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं सर्वज्ञत्वं कौशिकानिर्जातं यच् चानिर्जातं न तत् सर्वज्ञत्वं. स्रोतआपन्नः कौशिक अनिर्जातो यश् चानिर्जातो न स स्रोतआपन्नः, एवं सकृदागामी, अनागामी, अर्हन् प्रत्येकबुद्धस् तथागतो ऽर्हन् सम्यक्संबुद्धः कौशिकानिर्जातो यश् चानिर्जातो न स सम्यक्संबुद्धः. इत्य् अधिगमाधारगोत्रम् (PSP_२-३:२२)
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गम्भीरप्रज्ञो बतायम् आर्यसुभूतिः. स्थविरो यत्प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति.
SK
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, गम्भीरप्रज्ञो बतायम् आर्यसुभूतिः स्थविरो यत्प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति.
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति?
SK
भगवान् आह: रूपं कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशस्ति च. वेदनासंज्ञासंस्कारा विज्ञानं कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधत्य् उपदिशति च. तत् कस्य हेतोर्? या धर्मता सा न विरुध्यते या न विरुध्यते तां च सुभूतिः स्थविर उपदिशति न विरोधयति, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु, एवं दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां, एवम् अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां. एवं स्मृत्युपस्थानेषु सम्यक्प्रहाणेष्व् ऋद्धिपादेन्द्रियेषु बलेषु बोध्यङ्गेष्व् आर्याष्टाङ्गे मार्गे ऽप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सत्येषु दशतथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु, एवं स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबुद्धत्वे सर्वज्ञत्वे स्रोतआपन्न इति कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशति च. एवं सकृदागामी, अनागामी, अर्हन् प्रत्येकबुद्धस् तथागतो ऽर्हन् सम्यक्संबुद्ध इति कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशति च. तत् कस्य हेतोर्? या कौशिक धर्मता सा न विरुध्यते, या न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति, एवं हि कौशिक सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति. (PSP_२-३:२३)
SK
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्. यथा भगवता प्रज्ञप्तिमात्राः सर्वधर्मा उपदिष्टा एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञप्तिमात्रान् सर्वधर्मान् विदित्वा प्रज्ञापारमितायां शिक्षितव्यम् एवं शिक्षमाणः पुनः कौशिक बोधिसत्त्वो महासत्त्वो न रूपे शिक्षते न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने शिक्षते. तत् कस्य हेतोस्? थथा हि रूपं न समनुपश्यति यत्र शिक्षते. वेदनां संज्ञां संस्कारान् विज्ञानं न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणः कौशिक बोधिसत्त्वो महासत्त्वो न दानपारमितायां शिक्षते. तत् कस्य हेतोस्? तथा हि स दानपारमितां न समनुपश्यति यत्र शिक्षते. एवं न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां शिक्षते. तत् कस्य हेतोस्? तथा हि स प्रज्ञापारमितां न समनुपश्यति यत्र शिक्षते. अध्यात्मशून्यतायाम् अपि न शिक्षते यावद् अभावस्वभावशून्यतायाम् अपि न शिक्षते. तत् कस्य हेतोस्? तथा हि सो ऽध्यात्मशून्यतां न समनुपश्यति यावद् अभावस्वभावशून्यताम् अपि न समनुपश्यति यत्र शिक्षते. स्मृत्युपस्थानेष्व् अपि न शिक्षते. एवं सम्यक्प्रहानेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु बोध्यङ्गेष्व् आर्याष्टाङ्गेषु मार्गेष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सत्येषु बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेष्व् अपि न शिक्षते. न स्रोतआपत्तिफले न सकृदागामिफले नानागामिफले नार्हत्त्वे न प्रत्येकबुद्धत्वे शिक्षते सर्वज्ञत्वे ऽपि न शिक्षते. तत् कस्य हेतोस्? तथा हि स सर्वज्ञत्वं न समनुपश्यति यत्र शिक्षते.
SK
अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: केन कारणेन भदन्त सुभूते बोधिसत्त्वो महासत्त्वो न रूपं समनुपश्यति न वेदनां न संज्ञां न संस्कारान् न विज्ञानं समनुपश्यति. एवं व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यान् धर्मान् न समनुपश्यति. अप्रमाणध्यानारूप्यसमापत्तीर् न समनुपश्यति. सत्यान्य् अभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न समनुपश्यति यत्र शिक्षते यावत् सर्वज्ञत्वं अपि न समनुपश्यति यत्र शिक्षते?
न रूपस्य हानये शिक्षते न वृद्धये शिक्षते. न वेदनासंज्ञासंस्कारविज्ञानस्य हानये शिक्षते न वृद्धये शिक्षते. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां न हानये न वृद्धये शिक्षते. प्रतीत्यसमुत्पादस्य न (PSP_२-३:२५) हानये न वृद्धये शिक्षते. दानपारमिताया न हानये न वृद्धये शिक्षते. एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया न हानये न वृद्धये शिक्षते. स्मृत्युपस्थानानां न हानये न वृद्धये शिक्षते. एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानां मार्गस्य न हानये न वृद्धये शिक्षते. अप्रमाणानां ध्यानारूप्यसमापत्तीनां न हानये न वृद्धये शिक्षते. अध्यात्मशूयताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया न हानये न वृद्धये शिक्षते. सत्यानाम् अभिज्ञानां दशबलवैशारद्यप्रतिसंविदावेणिकानां बुद्धधर्माणां यावत् सर्वज्ञताया न हानये न वृद्धये शिक्षते. यो रूपस्य न हानये न वृद्धये शिक्षते यावत् सर्वज्ञताया न हानये न वृद्धये शिक्षते स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादानां न परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. एवं पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणम् अप्रमाणध्यानारूप्यसमापत्तीनां सत्यानाम् अभिज्ञानां सर्वसमाधीनां सर्वधारणीमुखानां न परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वज्ञताया न परिग्रहाय नान्तर्धानाय शिक्षते. इति तत्रैव मूर्धगतम्
SK
शारिपुत्र आह: किं कारणम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय नान्तर्धानाय शिक्षते, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य न परिग्रहाय नान्तर्धानाय शिक्षते यावत् सर्वज्ञताया न परिग्रहाय नान्तर्धानाय शिक्षते?
SK
सुभूतिर् आह: तथा ह्य् आयुष्मञ् शारिपुत्र रूपस्य परिग्रहो नास्ति. तत् कस्य हेतोर्? न रूपं रूपं परिगृह्णाति. न वेदना न संज्ञा न संस्कारास् तथा ह्य् आयुष्मञ् शारिपुत्र विज्ञानस्य परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा हि न (PSP_२-३:२६) विज्ञानं विज्ञानं परिगृह्णाति. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां पारमितानां बोधिपक्ष्याणां धर्माणां सत्यानाम् अभिज्ञानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशबलवैशारद्यानां प्रतिसंविदावेणिकानां बुद्धधर्माणां परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा ह्य् आवेणिकबुद्धधर्मा नावेणिकबुद्धधर्मान् परिगृह्णन्ति. तथा ह्य् आयुष्मञ् शारिपुत्र सर्वज्ञतायाः परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा हि सर्वज्ञता न सर्वज्ञतां परिगृह्णाति. अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् उपादाय. एतं ह्य् आयुष्मञ् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मापरिग्रहाय सर्वज्ञतायां शिक्षते सर्वज्ञतायां निर्यास्यति.
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, नान्यत्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, नान्यत्र तथतायास् तथागत उपलभ्यते, न च निरधिष्ठानधर्मतायां तथागत उपलभ्यते, न च तथागते निरधिष्ठानधर्मता उपलभ्यते, न च तथतयां तथागत उपलभ्यते, न च ताथागते तथतोपलभ्यते, न रूपतथतायां तहागत उपलभ्यते, न च तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न च तथागते रूपधर्मता न वेदनातथतायां न संज्ञातथतयां न संस्कारतथतायां न विज्ञानतथतायां तथागत उपलभ्यते, न च (PSP_२-३:२८) तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न च तथागते विज्ञानधर्मता, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमिताभिज्ञासत्येषु सप्तत्रिंशद्बोधिपक्षधर्माप्रमाणध्यानारूप्यसमापत्तिषु सर्वशून्यतायां सर्वसमाधिषु सर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यावन् न सर्वज्ञतातथतायां तथागत उपलभ्यते, न च तथागते सर्वज्ञतातथता उपलभ्यते, न सर्वज्ञताधर्मतायां तथागत उपलभ्यते, न च तथागते सर्वज्ञताधर्मता. तत् कस्य हेतोर्? यः कौशिक तथागतो न रूपतथतायां संयुक्तो न विसंयुक्तो वेदनासंज्ञासंस्कारविज्ञानतथतायां संयुक्तो न विसंयुक्तः. यः कौशिक तथागतो न रूपधर्मतायां संयुक्तो न विसंयुक्तो वेदनासंज्ञासंस्कारविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, न चान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः. न चान्यत्र रूपधर्मतायाः संयुक्तो न विसंयुक्तः. वेदनासंज्ञासंस्कारा न चान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तो न चान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः. विस्तरेण यावद् यस् तथागतो न स सर्वज्ञतातथतायां संयुक्तो न विसंयुक्तः, न सर्वज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, न चान्यत्र सर्वज्ञतायाः संयुक्तो न विसंयुक्तः न चान्यत्र सर्वज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः यो हि कौशिक सर्वधर्मेषु न संयुक्तो न विसंयुक्तः तस्यैषो ऽनुभावस् तस्यैतद् अधिष्ठानम् अनधिष्ठानयोगेन. यत् पुनः कौशिक एवं वदसि: कुतो बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता गवेषितव्येति? न रूपतो गवेषितव्या नान्यत्र रूपतो गवेषितव्या, न वेदनाया न संज्ञाया न संस्कारेभ्यो न विज्ञानतो गवेषितव्या नान्यत्र विज्ञानाद् गवेषितव्या. तत् कस्य हेतोस्? तथा हि कौशिक या च प्रज्ञापारमिता यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न धातुतो गेवेषितव्या नायतनेभ्यो न प्रतीत्यसमुत्पादेभ्यो न पारमिताभ्यो न बोधिपक्ष्येभ्यो धर्मेभ्यो नाप्रमाणध्यानारूप्यसमापत्तिभ्यो न (PSP_२-३:२९) सत्येभ्यो नाभिज्ञाभ्यो न समाधिभ्यो न धारणीमुखेभ्यो न बलेभ्यो न वैशारद्येभ्यो न प्रतिसंविद्भ्यो नाष्टादशभ्य आवेणिकेभ्यो बुद्धधर्मेभ्यो यावन् न सर्वाकारज्ञताया गवेषितव्या नान्यत्र सर्वाकारज्ञताया गवेषितव्या. तत् कस्य हेतोस्? तथा हि कौशिक या च प्रज्ञापारमिता या च सर्वाकारज्ञता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. तत् कस्य हेतोस्? तथा हि कौशिक न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता न वेदना न संज्ञा न संस्कारा न विज्ञानं प्रज्ञापारमिता नाप्य् अन्यत्र विज्ञानात् प्रज्ञापारमिता एवं व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमितासत्याभिज्ञासप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्मा यावन् न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता. एवं न रूपतथता प्रज्ञापारमिता नाप्य् अन्यत्र रूपतथतायाः प्रज्ञापारमिता न वेदनातथता न संज्ञातथता न संस्कारतथता न विज्ञानतथता प्रज्ञापारमिता न चान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता. न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता न वेदनाधर्मता न संज्ञाधर्मता न संस्कारधर्मता न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, यावन् न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता. तत् कस्य हेतोस्? तथा हि कौशिक सर्व एते धर्मा न संविद्यन्ते नोपलभ्यन्ते. एवम् एव सर्वधर्मेष्व् असंविद्यमानेष्व् अनुपलभ्यमानेषु न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता. न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता. न वेदना न संज्ञा न संस्कारा, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता. न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता. न विज्ञानधर्मता प्रज्ञापारमिता (PSP_२-३:३०) नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासत्याभिज्ञासप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः. सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता. न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायाः प्रज्ञापारमिता. न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापरमिता. इति सानुशंसं दर्शनमार्गम् अधिकृत्य दुःखे धर्मज्ञानक्षान्तिः
सुभूतिर् आह: तथा हि कौशिक तथतानन्ततयारम्बणानन्तता, एवं तथतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति प्रत्ययप्रतिषेधः
अथ खलु भगवांश् चतस्रः परिषदो भिक्षुभिभ्षुण्युपासकोपासिका बोधिसत्त्वान् महासत्त्वांश् चतुरो महाराजांश् चातुर्महाराजकायिकांश् च देवपुत्रान् यावद् अकनिष्ठांश् च देवपुत्रान् संनिपतितान् संनिषण्णांश् (PSP_२-३:३६) च सर्वान् साक्षिणः स्थापयित्वा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: ये केचित् कौशिक बोधिसत्त्वा महासत्त्वा भिक्षुभिक्षुण्युपासकोपासिका वा कुलपुत्रा वा कुलदुहितरो वा देवपुत्रा देवकन्या वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति भावयिष्यन्ति परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति योनिशो मनसिकरिष्यन्ति, ये च सर्वाकारज्ञताचित्तेनाविरहिता भविष्यन्ति तेषां मारा वा मारकायिका वा अवतारं न लप्स्यन्ते. तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च रूपशून्यतैव स्वधिष्ठिता भविष्यति. एवं वेदना संज्ञासंस्काराविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोर्? न हि शून्यता शून्यतायाम् अवतारं लभते, नानिमित्तम् आनिमित्ते ऽवतारं लभते, नाप्रणिहितम् अप्रणिहिते ऽवतारं लभते. एवं व्यस्तसमस्ता स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतैव स्वधिष्ठिता भविष्यति. एवं पारमितासत्याभिज्ञाप्रमाणध्यानारूप्यसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति. एवं सर्वशून्यता सर्वसमाधिसर्वधारणीमुखस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यतैव स्वधिष्ठिता भविष्यति. एवं दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतैव स्वधिष्ठिता भविष्यति. यावत् सर्वाकारज्ञताशून्यतैव तैः कुलपुत्रैः कुलदुहितृभिश् च स्वधिष्ठिता भविष्यति. तत् कस्य हेतोस्? तथा हि न शून्यता शून्यतायाम् अवतारं लभते, नानिमित्तम् आनिमित्ते ऽवतारं लभते, नाप्रणिहितम् अप्रणिहिते ऽवतारं लभते. तत् कस्य हेतोस्? तथा हि तेषां स्वभावो न संविद्यते, येनावतारं लभेरन्, यत्र वावतारं लभेरन्, यस्य वावतारं लभेरन्. इति समुदये ऽन्वयज्ञानक्षान्तिः
SK
न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा मनुष्यो वामनुष्यो वावतारं लप्स्यते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च सर्वसत्त्वानाम् अन्तिके मैत्रीकरुणामुदितोपेक्षा भाविता सा चानुपलम्भयोगेन. (PSP_२-३:३७) न च ते कौशिक कुलपुत्रा वा कुलदुहितरो वा विषमापरिहारेण कालं करिष्यन्ति तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च दानपारमितायां चरद्भिः सर्वसत्त्वाः सम्यक्परिचर्यया उपस्थिताः. यैर् वा कौशिक चातुर्महाराजकायिकैर् देवपुत्रैर् इह त्रिसाहस्रमहासाहस्रे लोकधातौ त्रयस्त्रिंशैर् वा यामैर् वा तुषितैर् वा निर्माणरतिभिर् वा परनिर्मितवशवर्तिभिर् वा ब्रह्मकायिकैर् वा ब्रह्मपुरोहितैर् वा ब्रह्मपार्षद्यैर् वा यावद् अकनिष्ठैर् वा देवपुत्रैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं न चायं प्रज्ञापारमिता श्रुता नोद्ग्रहीता न धारिता न वाचिता न पर्यवाप्ता, तैर् देवपुत्रैर् इयं प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या सर्वज्ञताचित्तेनाविरहितैः. इति समुदये ऽन्वयस्ज्ञानम्
SK
पुनर् अपरं कौशिक ये कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति अविरहिताः सर्वाकारज्ञताचित्तेन भविष्यन्ति, न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा शून्यागारगतानां वा अभ्यवकाशगतानां वा उत्पथगतानां वा भयं वा स्तम्भितत्वं वा भविष्यति. तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् चाध्यात्मशून्यता सुभाविता अनुपलम्भयोगेन, बहिर्धाशून्यता सुभाविता अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता सुभाविता अनुपलम्भयोगेन यावद् अभावस्वभावसुन्यता सुभाविता अनूपलम्भयोगेन.
अथ खलु य इह त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानो (PSP_२-३:४५) लोकपालाः शक्रा देवेन्द्रा ये च ब्रह्माणो ब्रह्मा च सहापतिर् यावद् अकनिष्ठा देवपुत्रास् ते सततसमितं तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षावरणगुप्तिं संविधास्यन्ति यत्र कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति लिखिष्यति लिखापयिष्यति योनिशश् च मनसिकरिष्यति. ये ऽपि ते दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तिं संविधास्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति लिखिष्यति लिखापयिष्यति योनिशश् च मनसिकरिष्यति यथा कुशलैर् धर्मैर् न परिहास्यते, कुशलैर् धर्मैर् विवर्धिष्यते. यद् उत दानपारमिताशीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमिताभिर् विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. अध्यात्मशून्यतया विवर्धिष्यते न परिहास्यति. एवं बहिर्धाशून्यतयाध्यात्मबहिर्धाशूम्यतया यावद् अभावस्वभावशून्यतया विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् विवर्धिष्यते न परिहास्यति. अप्रमाणध्यानारूप्यसमापत्तिभिर् विवर्धिष्यते न परिहास्यति. सत्याभिज्ञाभिर् दशबलैर् वैशारद्यैः प्रतिसंविद्भिर् आवेणिकैर् बुद्धधर्मैर् विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. सर्वसमाधिभिः सर्वधारणीमुखैर् विवर्धिष्यते न परिहास्यति, यावत् सर्वाकारज्ञतया विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. इति मार्गे धर्मज्ञानम्
SK
स आदेयवचनश् च मितवचनश् च भविष्यति, न क्रोधाधिभूतो भविष्यति, न मानाभिभूतश् भविष्यति, न मत्सरी भविष्यति, नेर्ष्यालुर् भविष्यति. आत्मना च प्राणातिपातात् प्रतिविरतो भविष्यति, परांश् च प्राणातिपतवैरमणे प्रतिष्ठापयिष्यति, प्राणातिपातविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये प्राणातिपातात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च काममिथ्याचारात् प्रतिविरतो भविष्यति, परांश् च काम मिथ्याचारवैरमणे प्रतिष्ठापयिष्यति, काममिथ्याचारविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये काममिथ्याचारात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च मृषावादात् प्रतिविरतो भविष्यति, परांश् च मृषावादवैरमणे प्रतिष्ठापयिष्यति, मृषावादविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मृषावादात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च पिशुनवचनात् प्रतिविरतो भविष्यति, परांश् च पिशुनवचनवैरमणे प्रतिष्ठापयिष्यति, पिशुनवचनविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये पिशुनवचनात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च परुषवचनात् प्रतिविरतो भविष्यति, परांश् च परुषवचनवैरमणे प्रतिष्ठापयिष्यति, परुषवचनविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये परुषवचनात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च संभिन्नप्रलापात् प्रतिविरतो भविष्यति, परांश् च संभिन्नप्रलापवैरमणे प्रतिष्ठापयिष्यति, संभिन्नप्रलापविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये संभिन्नप्रलापात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: य इमे भगवन् जाम्बूद्वीपका मनुष्या इमां प्रज्ञापारमितां न सत्कुर्वन्ति न गुरुकुर्वन्ति न मानयन्ति न पूजयन्ति नार्चयन्ति नापचायन्ते पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः किं नु भगवञ् ज्ञास्यन्ति एवं महर्द्धिका प्रज्ञापारमितायाः पूजा कृता भविष्यतीति, एवं महानुशंसा प्रज्ञापारमितायाः पूजा कृता भविष्यतीति, उत न ज्ञास्यन्ति? (PSP_२-३:५९)
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तत् किं मन्यसे कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये बुद्धे ऽवेत्यप्रसादेन समन्वागता, ये धर्मे ऽवेत्यप्रसादेन समन्वागता, ये संघे ऽवेत्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा ये धर्मे निष्काङ्क्षा ये संघे निष्काङ्क्षा, ये बुद्धे निष्ठांगता ये धर्मे निष्ठांगता ये संघे निष्ठांगताः?
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: अल्पकास् ते भगवन् जाम्बूद्वीपका मनुष्या ये बुद्धे ऽवेत्यप्रसादेन समन्वागता ये धर्मे ऽवेत्यप्रसादेन समन्वागता ये संघे ऽवेत्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा ये धर्मे निष्काङ्क्षा ये संघे निष्काङ्क्षा, ये बुद्धे निष्ठांगता ये धर्मे निष्ठांगता ये संघे निष्ठांगताः.
SK
भगवान् आह: तत् किं मन्यसे कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां विमोक्षमुखानां लाभिनः, कियन्तस् ते जाम्बाद्वीपका मनुष्या ये ऽष्टानां विमोक्षाणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये नवानुपूर्वविहारसमापत्तीनां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये चतसृणां प्रतिसंविदां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये षण्णाम् अभिज्ञानां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्ना, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये रागदोषमोहतनुत्वात् सकृदागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, कियन्तस् ते जाम्बुद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः?
SK
शक्र आह: अल्पतरकास् ते भगवन् जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतां बोधिपक्ष्यां धर्माणां लाभिनः, ततो ऽल्पतरका ये त्रयाणां विमोक्षमुखानां लाभिनस्, ततो ऽल्पतरका ये ऽष्टानां विमोक्षाणां लाभिनस्, ततो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तीनां लाभिनस्, ततो ऽल्पतरका ये चतसृणां प्रतिसंविदां लाभिनस्, ततो ऽल्पतरका ये षण्णाम् अभिज्ञानां लाभिनः. ततो ऽल्पतरकास् जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ततो ऽल्पतरकास् ते ये रागदोषमोहतनुत्वात् (PSP_२-३:६०) सकृदागामिनः, ततो ऽल्पतरकास् ते ये पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामिनः, ततो ऽल्पतरकास् ते ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, अल्पकास् ते जाम्बूद्वीपका मनुष्या ये बुद्धे धर्मे संघे ऽवेत्यप्रसादेन समन्वागताः, ये बुद्धे धर्मे संघे निष्काङ्क्षाः, ये बुद्धे धर्मे संघे निष्ठांगताः. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरकास् ते ये दशकुशलकर्मपथसेविनस्, तेभ्यो ऽल्पेभ्यो ऽल्पतरकास् ते ये दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभावना युक्ताः. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरकास् ते ये सप्तत्रिंशद्बोधिपक्षान् धर्मान् भावयन्ति. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरका ये त्रीणि विमोक्षमुखानि भावयन्ति. तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये ऽष्ट विमोक्षां भावयन्ति, तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तीर् भावयन्ति, तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरका ये चतस्रः प्रतिसंविदो भावयन्ति, तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये षड् अभिज्ञा भावयन्ति. ततो ऽल्पतरका ये स्रोतआपन्नाः, ततो ऽल्पतरका ये सकृदागामिनः, ततो ऽल्पतरका ये ऽर्हन्तः, ततो ऽल्पतरका ये प्रत्येकबुद्धाः, ततो ऽल्पतरका ये ऽनुत्तरायै सम्यक्संबोधये संप्रस्थिताः. ततो ऽल्पेभ्यो ऽल्पतरका ये बोधाय चरन्ति.
SK
तत् कस्य हेतोस्? तथा हि तैः संसारे संसरद्भिर् न बुद्धो दृष्टः न धर्मः श्रुतः न संघः पर्युपासितः. न दानं दत्तं न शीलं रक्षितं न क्षान्तिर् भाविता न वीर्यम् आरब्धं न ध्यानं सेवितं न प्रज्ञा भाविता, न दानपारमिता श्रुता एवं न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता श्रुता नोपायकौशलं श्रुतं नाध्यात्मशून्यता न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न यावद् अभावस्वभावशून्यता श्रुता न सप्तत्रिंशद्बोधिपक्षा धर्माः श्रुता न समाधयो न सर्वधारणीमुखानि नाप्रमाणध्यानारूप्यसमापत्तयाः श्रुता नार्यसत्यानि नाभिज्ञा न बलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिका बुद्धधर्माः श्रुता न सर्वज्ञता श्रुता न भाविता न बहुली कृताः.
SK
अनेन कौशिक हेतुनाल्पकास् ते सत्त्वा ये बुद्धे ऽवेत्यप्रसादेन समन्वागता ये धर्मे ऽवेत्यप्रसादेन समन्वागता ये संघे ऽवेत्यप्रसादेन (PSP_२-३:६१) समन्वागताः, अल्पकास् ते सत्त्वा ये बुद्धे धर्मे संघे निष्काङ्क्षा, अल्पकास् ते सत्त्वा ये बुद्धे धर्मे संघे निष्ठांगता, अल्पकास् ते जाम्बूद्वीपका मनुष्या ये दशकुशलकर्मपथसेविनः, अल्पकास् ते ये दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभावना युक्ताः, अल्पकास् ते ये सप्तत्रिंशद्बोधिपक्ष्यां धर्मां भावयन्ति. अल्पकास् ते ये त्रीणि विमोक्षमुखानि भावयन्ति. अल्पकास् ते ये ऽष्ट विमोक्षां भावयन्ति अल्पकास् ते ये नवानुपूर्वविहारसमापत्तीर् भावयन्ति. अल्पकास् ते ये चतस्रः प्रतिसंविदो भावयन्ति. अल्पकास् ते षड् अभिज्ञा भावयन्ति. अल्पकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, रागदोषमोहतनुत्वात् सकृदागामिनः, पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् आनागामिनः, पञ्चानम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः. अल्पकास् ते जाम्बुद्वीपका मनुष्या ये प्रत्येकबुद्धयानं संप्रस्थिताः. तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये बोधाय चरन्ति. ततो ऽल्पतरका ये बोधिचित्तम् उपबृंहयन्ति. ततो ऽल्पतरका ये प्रज्ञापारमितायां योगम् आपद्यन्ते. ततो ऽल्पतरका ये प्रज्ञापारमितायां चरन्ति. ततो ऽल्पतरका ये ऽविनिवर्तनीयायां भूमौ स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इहाहं कौशिक पश्यामि अनावरणेन बुद्धचक्षुषा पूर्वस्यां दिशि अप्रमेयाम् असंख्येयां सत्त्वाम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य प्रज्ञापारमितायां चरत उपायकौशलविरहितांस् तत एको वा द्वौ वा बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयत्वे ऽवतिष्ठेयातां, भूयस्त्वेन ते श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते.
SK
तत् कस्य हेतोर्? दुरभिसंभवा हि कौशिक अनुत्तरा सम्यक्संबोधिः कुशीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् हीनसत्त्वैर् दुष्प्रज्ञैः. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु पश्याम्य् अहं कौशिक अनावरणेन बुद्धचक्षुषा अप्रमेयान् असंख्येयान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य बोधाय चरत उपायकौशलविरहितास् तत एको वा द्वौ वा बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयत्वे ऽवतिष्ठेयातां, भूयस्त्वेन ते श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते.
तत् कस्य हेतोः? बोधिसत्त्वनिर्जातानि हि देवयानमनुष्ययानश्रावकयानप्रत्येकबुद्धयानानि, तच् च बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं प्रज्ञापारमितानिर्जातं, येनोपायकौशल्येन षड् पारमिताः परिपूरयति सर्वशून्यतां भावयति सर्वसमाधींश् च समापद्यते सर्वधारणीमुखानि च प्रतिलभते अप्रमाणध्यानारूप्यसमापत्तीश् च समापद्यते सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयति आर्यसत्यानि भावयति अष्ट विमोक्षान् भावयति नवानुपूर्वविहारसमापत्तीश् च समापद्यते अभिज्ञा भावयति त्रिणि विमोक्षमुखानि (PSP_२-३:७२) भावयति दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् प्रतिलभते द्वात्रिंशन्महापुरुषलक्षणानि अशीत्यनुव्यञ्जनानि प्रतिलभते. न च श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात् करोति. सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति बोधिसत्त्वसंपदं च परिगृह्णाति सर्वज्ञतां चानुप्राप्नोति.
SK
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति स एभिः दृष्टधार्मिकैर् गुणैः समन्वागतो भविष्यति.
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कतमैर् भगवन् दृष्टधार्मिकैर् गुणैः कुलपुत्रा वा कुलदुहितरो वा समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति.
SK
भगवान् आह: तेन हि कौशिक कुलपुत्रा वा कुलदुहितरो वा न विषेण कालं करिष्यन्ति नाग्निना न शस्त्रेण नोदकेन कालं करिष्यन्ति यावन् न केनचिद् व्याधिना कालं करिष्यन्ति स्थापयित्वा पूर्वकर्मविपाकं न च राजकुलाद् उपद्रवा भविष्यन्ति. सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलं प्रविशत्य् अस्यावतारप्रेक्षिणो ऽवतारगवेषिणो ऽवतारं न लप्स्यन्ते.
SK
तत् कस्य हेतोस्? तथा ह्य् अस्या एव प्रज्ञापारमितायास् तेजसा. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायंस् तत्र राजकुलम् उपसंक्रमिष्यति, ते चास्य तत्र राजानो वा राजपुत्रा वा राजमहामात्रा वा पूर्वम् आलपितव्यं मंस्यन्ते अभिभाषितव्यं मंस्यन्ते.
SK
तत् कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां च सर्वसत्त्वानाम् अन्तिके मैत्रचित्तं प्रत्युपस्थितं करुणाचित्तं मुदिताचित्तम् उपेक्षाचित्तं प्रत्युपस्थितं भवति. एभिः स कौशिक दृष्टधार्मिकैर् गुणैः कुलपुत्रो वा कुलदुहिता वा समन्वागतो भविष्यति. य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
SK
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा एभिः सांपरायिकैर् (PSP_२-३:७३) गुणैः समन्वागतो भविष्यति. य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. यद् उत न जातु दशभिः कुशलैः कर्मपथे ऽविरहितो भविष्यति, न चतुर्भिर् ध्यानैर् न चतुर्भिर् अप्रमाणैर् न चतसृभिर् आरूप्यसमापत्तिभिर् न पारमिताभिर् न सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् न सत्यैर् नाष्टविमोक्षैर् न नवानुपूर्वविहारसमापत्तिभिर् न त्रिभिर् विमोक्षमुखैर् नाभिज्ञाभिर् न सर्वशून्यताभिर् न सर्वसमाधिभिर् न सर्वधारणीमुखैर् न दशभिर् बलैर् न वैशारद्यैर् न प्रतिसंविद्भिर् नाष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् विरहितो भविष्यति. न लक्षणानुव्यञ्जनैर् विरहितो भविष्यति. स न जातु निरयतिर्यग्योनियमलोकेषूपपत्स्यते. न जात्व् इन्द्रियविकलो भविष्यति न जात्व् अङ्गहीनो भविष्यति न जातु दरिद्रकुलेषूपपत्स्यते न वेणुकारकुलेषूपपत्स्यते न पुष्कसकुलेषूपपत्स्यते न मौष्टिककुलेषूपपत्स्यते न चण्डालौरभ्रिकशाकुनिककुलेषूपपत्स्यते न शूद्रकुलेषूपपत्स्यते क्षत्रियमहाशालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा उदारोदारेषूपपत्स्यते. स ततः प्रभृति सततसमितं द्वात्रिंशन्महापुरुषलक्षणानुव्यञ्जनसमलंकृतकायो भविष्यति यत्र वा लोकधातौ बुद्धा भगवन्तो भविष्यन्ति तत्र बुद्धानां भगवतां पुरतः पद्म औपपादुक उपपत्स्यते. न जात्व् अभिज्ञा विरहितो भविष्यति. स आकाङ्क्षं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, तान् बुद्धान् भगवतः पर्युपासितुं धर्मं च श्रोतुं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयिष्यति.
SK
तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिता उद्गृहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या सर्वज्ञताचित्तेन चाविरहितेन भवितव्यं. स एतैर् दृष्टधार्मिकैर् गुणैः सांपरायिकैर् गुणैर् अविरहितो भविष्यति यावन् नानुत्तरा सम्यक्संबोधिर् अभिसंबुध्यते इति.
एवं च वाचम् अभाषन्त: यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति न तस्य मारा वा मारकायिका वा देवपुत्रा अवतारं लप्स्यन्ते. वयम् अपि भगवं तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामः, शास्तारम् इति भगवंस् तं वयं कुलपुत्रं वा कुलदुहितरं वा मंस्यामहे य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न ते भगवन् कुलपुत्रा वा कुलदुहितरो वावरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. पूर्वजिनकृताधिकारास् ते भगवन् कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. बहुबुद्धपर्युपासिताः कल्याणमित्रपरिगृहीतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति.
SK
तत् कस्य हेतोः? अतो निर्जाता हि सर्वज्ञता यद् उत प्रज्ञापारमिता निर्जाता सर्वज्ञता निर्जाता च प्रज्ञापारमिता.
SK
तत् कस्य हेतोस्? तथा हि नान्या प्रज्ञापारमिता नान्या सर्वज्ञता इति हि सर्वज्ञता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्.
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: तथा हि भगवान् न दानपारमिताया नामधेयं परिकीर्तयति न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति, न सप्तत्रिंशद्बोधिपक्षाणां धर्माणां नामधेयं परिकीर्तयति, नार्यसत्यानां नाप्रमाणध्यानारूप्यसमापत्तीनां नामधेयं परिकीर्तयति, नाष्टानां विमोक्षमुखानां न नवानुपूर्वविहारसमापत्तीनां नामधेयं परिकीर्तयति, न षण्णाम् अभिज्ञानां न सर्वाणां शून्यतानां न समाधीनां न सर्वधारणीमुखानां नामधेयं परिकीर्तयति, न दशानां तथागतबलानां न वैशारद्यानां न प्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां नामधेयं परिकीर्तयति यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: न पुनः कौशिक यैः कुलपुत्रैः कुलदुहितृभिर् वा इयं प्रज्ञापारमिता धारिता वाचिता पर्यवाप्ता योनिशश् च मनसिकृता तेषाम् एतावत एवं गुणान् वदामि.
SK
तत् कस्य हेतोर्? अप्रमाणेन हि कौशिक ते कुलपुत्रा वा कुलदुहितरो वा शीलस्कन्धेन समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. अप्रमाणेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. तथागतप्रतिमास् ते कौशिक कुलपुत्राः कुलदुहितरो वा वेदितव्या य इमां प्रज्ञापारमिताम् उद्ग्रहीयन्ति धारयियन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. यश् च कौशिक सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, यश् च प्रज्ञापारमिताविहारिणां कुलपुत्राणां कुलदुहितृणां च शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः अस्य कौशिक शीलस्कन्धस्य समाधिस्कन्धस्य प्रज्ञास्कन्धस्य विमुक्तिस्कन्धस्य विमुक्तिज्ञानदर्शनस्कन्धस्य सर्वश्रावकप्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अप्य् उपनिषदम् अपि नोपैति.
SK
तत् कस्य हेतोस्? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां च श्रावकप्रत्येकबुद्धभूमेश् चित्तं विमुक्तं, न च कश्चिद् धर्मो नाविगतो न ज्ञातः. ये कौशिक कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस् तेषाम् अपि कुलपुत्राणां (PSP_२-३:८१) कुलदुहितृणां च इमे दृष्टधार्मिकाः सांपरायिकाश् च गुणानुशंसाः प्रतिकाङ्क्षितव्याः. इति स्वपरार्थाधिमुक्तिमध्यमृद्धी
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: अहं भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामि य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च भविष्यति सर्वज्ञताचित्तेन इमां च प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेषां पुनः कौशिक कुलपुत्राणां कुलदुहितृणां वा इमां प्रज्ञापारमितां स्वाध्यायतां बहूनि देवपुत्रशतसहस्राणि धर्मश्रवणायोपसंक्रमिष्यन्ति. तेषां खलु पुनः कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमिताप्रतिसंयुक्तं प्रतिभानं ते देवपुत्रा उपसंहर्तव्यं मंस्यन्ते. यदापि ते धर्म भाणका न मन्त्रयितुकामा भविष्यन्ति तदापि तेनैव देवपुत्रा धर्मगौरवेण प्रतिभानम् उपसंहर्तव्यं मंस्यन्ते. इमम् अपि कौशिक कुलपुत्रा वा कुलदुहितरो वा दृष्टधार्मिकगुणं प्रतिलप्स्यन्ते य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तां च लिखित्वा सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
पुनर् अपरं कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा इमां प्रज्ञापारमितां भाष्यमाणानां चतसृणां पर्षदां पुरतो नावलीनचित्तता भविष्यति को वा ममानुयोक्ष्यते उपालप्स्यते चेति.
SK
तत् कस्य हेतोस्? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां वा इयम् एव प्रज्ञापारमिता रक्षावरणगुप्तिं करिष्यति, तथा ह्य् अत्र प्रज्ञापारमितायां सर्वधर्मा अभिन्ना लौकिकाश् च लोकोत्तराश् च साधारणाश् च कुशलाश् च संस्कृताश् चासंस्कृताश् च श्रावकधर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च.
SK
तत् कस्य हेतोस्? तथा हि ते कुलपुत्रा वा कुलदुहितरो वा अध्यात्मशून्यतायां (PSP_२-३:८२) स्थित्वा यावद् अभावस्वभावशून्यतायां स्थितास् ते उपालम्भं प्रज्ञापारमितायां न समनुपश्यन्ति, यो ऽप्य् उपालभ्येत तम् अपि न समनुपश्यन्ति.
SK
एवं हि तेषां कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमितापरिगृहीतानाम् उपालम्भो न भविष्यति.
SK
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतो योनिशश् च मनसिकुर्वतश् चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
SK
तत् कस्य हेतोस्? तथा हि स कुलपुत्रो वा कुलदुहिता वा वस्तु न समनुपश्यति य आलीयेत वा संलीयेत वा उत्त्रस्येद् वा संत्रस्येद् वा संत्रासम् आपद्यते वा. इमान् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् प्रतिग्रहीष्यति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः इति स्वपरार्थाधिमुक्तिमध्यमध्या
SK
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः स प्रियो भविष्यति मातापितृणां मित्रामात्यज्ञातिसालोहितानां श्रमणब्राह्मणानां, ये ऽपि ते दशदिशि लोके सर्वलोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वाश् च प्रत्येकबुद्धाश् चार्हन्तश् च सर्वे शैक्षाः सर्वे चाशैक्षास् तेषाम् अपि स बोधिसत्त्वः प्रियो भविष्यति स देवकस्यापि लोकस्य स मारकस्य स श्रमणब्राह्मणिकायाः प्रजायाः स देवमानुषासुरायाः प्रजायाः प्रियो भविष्यति मनआपः. इति स्वपरार्थार्धिमुक्तिमध्याधिमात्रा
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा धारायिष्यति वाचयिष्यति पर्यवाप्स्यति तत्र कौशिक ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितास् ते तत्रागत्यैनां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति मनसिकरिष्यन्ति वन्दिष्यन्ति नमस्कृत्वा वन्दित्वा च पुनर् एव प्रक्रमिष्यन्ति. एवं त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपारिषद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा ब्र्हत्फलाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः तत्र ये कौशिक महाब्रह्माणो ऽनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा नमस्कृत्य पुनर् एव (PSP_२-३:८४) प्रक्रमिष्यन्ति. ये ऽपि शुद्धावासकायिका अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवपुत्रास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा नमस्कृत्य पुनर् एव प्रक्रमिष्यन्ति. तेन हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं चित्तम् उत्पादयितव्यं: ये ते दशदिग्लोकधातुषु देवपुत्राश् चातुर्महाराजकायिका यावद् बृहत्फला ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्हिता ये ऽपि शुद्धावासकायिका देवपुत्रा ये ऽपि चान्ये देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽपीहागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा पूजयित्वा पुनर् गच्छन्तु, तेषाम् एतद् धर्मदानं दत्तं भवन्तु. ये ऽपि दशदिग्लोकधातुषु चातुर्महाराजकायिका देवपुत्रा यावद् बृहत्फला देवपुत्रा ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता ये ऽपि शुद्धावासकायिका देवपुत्रास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति वन्दित्वा नमस्कृत्य पूजयित्वा पुनर् एव प्रक्रमितव्यं मंस्यन्ते. तस्य खलु पुनः कुलपुत्रस्य वा कुलदुहितुर् वा य इह त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवा ये ऽपि ते दशदिग्लोकधातुषु चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तिं संविधास्यन्ति. नाप्य् अस्य कश्चिद् अवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते स्थापयित्वा पूर्वकर्मविपाकं, इमान् अपि कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति.
SK
तत् कस्य हेतोस्? तथा हि ये देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितास् ते ऽपि तत्रागन्तव्यं मंस्यन्ते. तथा हि कौशिक देवपुत्रा अनुत्तरायां सम्यक्संबोधौ सर्वसत्त्वानां त्रणाय हितसुखाय संप्रस्थिताः. इति स्वपरार्थाधिमुक्तिर् अधिमात्रमध्या
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् कुलपुत्रो वा कुलदुहिता वा ज्ञास्यति, इह चातुर्महाराजकायिका देवपुत्रा आगच्छन्ति यावद् अकनिष्ठा देवपुत्रा आगच्छन्तीति? एवं समन्ताद् दशभ्यो दिग्भ्य इमां प्रज्ञापारमिताम् उद्ग्रहीतुं वा धारयितुं वा वाचयितुं वा पर्यवाप्तुं वा सत्कर्तुं वा गुरुकर्तुं वा मानयितुं वा पूजयितुं वा.
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा चौक्षसमुदाचारो भविष्यति, तस्य तया चौक्षसमुदाचारतया देवता आगत्येमां प्रज्ञापारमिताम् उद्गृह्य धारयित्वा वाचयित्वा सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा आत्तमनस्का भविष्यन्ति. याश् च तत्र पृथिवीप्रदेशे ऽल्पौजस्का अल्पौजस्का देवता भविष्यन्ति तास् ततो ऽपक्रमितव्यं मंस्यन्ते. तेषां महौजस्कानां महौजस्कानां देवानां तेजश् च श्रियश् चासहमानाः. यथायथा महौजस्का महौजस्का देवता उपसंक्रमिष्यन्ति तथातथा ते कुलपुत्राः कुलदुहितरो वा उदाराधिमुक्तिका भविष्यन्ति. तस्मिंश् च पृथिवीप्रदेशे ऽचौक्षसमुदाचारता न प्रचारयितव्या, पुष्पधूपगन्धमाल्यविलेपनचूर्णचिवरच्छत्रध्वजपताकाभिश् च स पृथिवीप्रदेशो ऽलंकर्तव्यः गन्धलिप्तो मुक्तपुष्पावकीर्णः कारयितव्यः. अवसक्तपटदामकलापश् चैलवितानविततः. अनेकप्रकारं च स पृथिवीप्रदेशो ऽलंकर्तव्यः.
SK
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा कायो न क्लान्तो भविष्यति. कायसुखं भविष्यति. कायलघुतां च बहुजनहिताय बहुजनसुखाय प्रतिपन्नो भविष्यति. स च कौशिक कुलपुत्रो वा कुलदुहिता वा कायलघुतां कायकर्मण्यतां कायसुखतां चित्तलघुतां चित्तकर्मण्यतां चित्तसुखतां च ज्ञास्यति. सुखेन स रात्रौ शय्यां कल्पयिष्यति. इमां एव प्रज्ञापारमिताम् आशयेन कल्पयन् न पापकान् स्वप्नान् द्रक्ष्यति, द्रक्ष्यंश् च पुनः स्वप्नेन तथागतान् एवार्हतः सम्यक्संबुद्धान् द्रक्ष्यति द्वात्रिंशन्महापुरुषलक्षणचित्रितगात्रान् सुवर्णवर्णेन समुच्छ्रयेण भिक्षुसंघपरिवृतान् बोधिसत्त्वगणपरिवृतान् धर्मं देशयमानांस् (PSP_२-३:८६) तेभ्यः षट्पारमिताप्रतिसंयुक्ताम् एव कथां श्रोष्यति. सप्तत्रिंशद्बोधिपक्ष्यधर्मप्रतिसंयुक्तां यावद् अष्टादशावेणिकबुद्धधर्मप्रतिसंयुक्ताम् एव कथां श्रोष्यति. तासां च पारमितानाम् अर्थं श्रोष्यति यावद् अष्टादशानाम् आवेणिकानाम् अर्थं श्रोष्यति. बोधिवृक्षं द्रक्ष्यति. बोधिसत्त्वं महासत्त्वं बोधिमण्डम् उपसंक्रममाणं द्रक्ष्यति. अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यमानं द्रक्ष्यति. अभिसंबुध्याद्वयं धर्मचक्रप्रवर्तयमानं द्रक्ष्यति. बहूनि बोधिसत्त्वकोटीनियुतशतसहस्राणि द्रक्ष्यति धर्मसंगीतिरतानि एवं सर्वज्ञता परिग्रहीतव्या एवं सत्त्वाः परिपाचयितव्या एवं बुद्धक्षेत्रं परिशोधयितव्यम् इति. बहुनां बुद्धकोटीनियुतशतशहस्राणां पूर्वस्यां दिशि शब्दं श्रोष्यति.
स खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमान् एवंरूपान् भद्रकांश् च स्वप्नान् द्रक्ष्यति. स सुखम् एव स्वप्स्यति सुखं च प्रतिभोत्स्यते ओजःप्रक्षिप्तं च कायं संज्ञास्यति. लघुं च कायं संज्ञास्यति न गुरुं. न चास्य बलवती गृद्धिर् आहारे भविष्यति. न चीवरपिण्डपातशयनाशनग्लानप्रत्ययभैषज्यपरिष्कारगृद्धिर् भविष्यति. तद्यथापि नाम कौशिक योगाचारस्य भिक्षोः समाधेर् व्युत्थितस्य मनसिकारसंतर्पितेन चित्तेन न बलवत्य् आहारे गृद्धिर् भवति.
SK
एवम् एव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा न बलवत्य् आहारे गृद्धिर् भविष्यति.
SK
तत् कस्य हेतोस्? तथा हि तस्यामनुष्या ओजः काय उपसंहरन्ति. ये चापि (PSP_२-३:८७) दशसु दिक्षु बुद्धा भगवन्तस् ते ऽपि सदेवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगाः ओजः काये प्रक्षिपन्ति. इमं स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णीते य इमां प्रज्ञापारमिताम् उद्गृह्णीते पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति अविरहितश् च सर्वज्ञताचित्तेन. इति स्वपरार्थाधिमुक्तिर् अधिमात्राधिमात्रा
SK
किं चापि स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां नोद्गृह्णीयान् न धारयेन् न वाचयेन् न पर्यवाप्नुयान् न योनिशश् च मनसिकुर्यान् न परेभ्यश् च संप्रकाशयेद् अपि तु खलु पुनः पुस्तकलिखितां कृत्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
यश् च कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् परेभ्यश् च संप्रकाशयेत् तां च लिखितां सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः अयं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहुतरं पुण्यं प्रसवेत्.
तत् कस्य हेतोर्? न हि प्रज्ञापारमिता ग्रहाय अनुग्रहाय वा स्थिता, न हानाय न वृद्धये नोत्क्षेपाय न विक्षेपाय न संक्लेशाय न व्यवदानाय, न बुद्धधर्माणां दायिका, न पृथग्जनधर्माणां च्छोरिका, न बोधिसत्त्वधर्माणां न प्रत्येकबुद्धधर्माणां न श्रावकधर्माणां न शैक्षधर्माणां नाशैक्षधर्माणां दायिका, न संस्कृतधातो दायिका, नासंस्कृतधातो दायिका, नाध्यात्मशून्यताया यावन् नाभावस्वभावशून्यताया दात्री, न पारमितानां न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाणां नाप्रमाणध्यानारूप्यसमापत्तीनां न बलवैशारद्यप्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां दात्री, न सर्वज्ञताया दात्री.
SK
शक्र आह: एवम् एतद् भदन्त शारिपुत्र यथा वदसि न प्रज्ञापारमिता बुद्धधर्माणां दात्री यावन् न सर्वज्ञताया दात्री. तत् कस्य हेतोर्? न हि प्रज्ञापारमिता द्वयं प्रत्युपस्थिता, अद्वया हि प्रज्ञापारमिता, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, दानपारमिता न द्वयं प्रत्युपस्थिता, अद्वया हि दानपारमिता.
SK
अथ खलु भगवान् शक्रस्य देवानाम् इन्द्रस्य साधुकारम् अदात्: साधु साधु कौशिक एवम् एतद् यथा निर्दिशसि न प्रज्ञापारमिता द्वयं प्रत्युपस्थिता, अद्वया हि प्रज्ञापारमिता, एवं ध्यानपारमिता वीर्यपारमिता, क्षान्तिपारमिता शीलपारमिता, दानपारमिता न द्वयं प्रत्युपस्थिता, अद्वया हि दानपारमिता.
SK
धर्मधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोस्? तथा हि कौशिक धर्मधातुश् च प्रज्ञापारमिता (PSP_२-३:८९) चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, धर्मधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
तथतायाः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्, तत् कस्य हेतोस्? तथा हि कौशिक तथता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, तथता च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
भूतकोटेर् अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्, तत् कस्य हेतोस्? तथा हि कौशिक भूतकोटिश् चाचिन्त्यधातुश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, भूतकोटिश् चाचिन्त्यधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
तत्र कतमा असंस्कृतधर्मा उच्यते? यस्य धर्मस्य नोत्पादो न निरोधो न स्थितिर् नास्थिः, नान्यथात्वं न संक्लेशो न व्यवदानं न हानिर् न वृद्धिः, यावत् सर्वधर्माणाम् अभावस्वभावता. कतमा सर्वधर्माणाम् अभावस्वभावता? या अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता परभावशून्यता. यत् सर्वधर्माणां प्रकृतिशून्यतात्वम् अनुपलम्भो यावद् या सर्वधर्माणां निरभिलप्यता अप्रव्याहारता इयम् उच्यते असंस्कृतधर्मता. इति परार्थाधिमुक्तिर् अधिमात्रमृद्धी
SK
अथ खलु भगवान् सक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्. ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. ये ऽप्य् एतर्हि दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. ये ऽपि ते ऽभूवन्न् अतीतानागताः श्रावका ये च प्रत्येकबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंभोत्स्यन्ते, ये ऽपि स्रोतआपत्तिफलं प्राप्स्यन्ते प्राप्नुवन्ति च, ये ऽपि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्स्यन्ते प्राप्नुवन्ति च. ये ऽपि ते दशदिशि लोके ऽसंख्येयेषु लोकधातुषु श्रावका, ये च प्रत्येकबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्य श्रावकबोधिप्रत्येकबोधिप्राप्तास्. तत् कस्य हेतोस्? तथा ह्य् (PSP_२-३:९८) अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि, तानि पुनर् अनिमित्तयोगेनानुत्पादानिरोधयोगेनासंक्लेशाव्यवदानयोगेनानभिसंस्कारयोगेनानायूहानिर्यूहयोगेनानुत्क्षेपाप्रक्षेपयोगेनानुद्ग्रहानुत्सर्गयोगेन. तत् पुनर् लोकव्यवहारेण न पुनः परमार्थेन. तत् कस्य हेतोर्? न हि प्रज्ञापारमितायाम् अपारं वा पारं वा स्थलं वा निम्नं वा समं वा विषमं वा निमित्तं वा अनिमित्तं वा लौकिकं वा लोकोत्तरं वा संस्कृतं वा असंस्कृतं वा कुशलं वा अकुशलं वा अतीतं वा अनागतं वा प्रत्युत्पन्नं वा प्रज्ञायते. न च कौशिक प्रज्ञापारमिता कस्यचिद् धर्मस्य प्रदायिका न प्रत्येकबुद्धधर्माणां नार्हत्वधर्माणां प्रदायिका. इति परार्थाधिमुक्तिर् अधिमात्रमध्या
SK
शक्र आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. अत्र हि भगवन् बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः सर्वसत्त्वचित्तचरितानि प्रजानन्ति न च सत्त्वम् उपलभन्ते, न जीवं न पोषं न पुरुषं न मनुजं न मानवं न कारकं न वेदकं न जानकं न पश्यकम् उपलभन्ते. न रूपम् उपलभन्ते, न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् उपलभन्ते. न पृथिवीधातुम् उपलभन्ते, नाब्धातुं न तेजोधातुं न वायुधातुं नाकाशधातुं न विज्ञानधातुम् उपलभन्ते. न चक्षुर् उपलभन्ते, न रूपम् उपलभन्ते, न चक्षुर्विज्ञानम् उपलभन्ते, न चक्षुःसंस्पर्शम् उपलभन्ते, यद् अपि तच् चक्षूरूपसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नोपलभन्ते. एवं श्रोत्रं घ्राणं जिह्वां कायं मनो नोपलभन्ते. शब्दगन्धरसस्प्रष्टव्यधर्मान् नोपलभन्ते. श्रोत्रविज्ञानं यावन् मनोविज्ञानं, श्रोत्रसंस्पर्शं यावन् मनःसंस्पर्शं नोपलभन्ते यावद् यद् अपि तन् मनोधर्मसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नोपलभन्ते. स्मृत्युपस्थानानिनोपलभन्ते. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् नोपलभन्ते. अप्रमाणध्यानारूप्यसमापत्तीर् नोपलभन्ते. नार्यसत्यानि नाष्टविमोक्षान् न नवानुपूर्वविहारसमापत्तीर् न षडभिज्ञा उपलभन्ते. (PSP_२-३:९९) न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिकान् बुद्धधर्मान् उपलभन्ते. नाध्यात्मशून्यताम् उपलभन्ते, न बहिर्धाशून्यतां नाध्यात्मबहिर्धाशून्यतां यावन् नाभावस्वभावशून्यताम् उपलभन्ते. न समाधीन् न धारणीमुखान्य् उपलभन्ते. न शून्यतानिमित्ताप्रणिहितान्य् उपलभन्ते. न बोधिं न बुद्धं न बुद्धधर्मान् उपलभन्ते. न हि प्रज्ञापारमिता उपलम्भयोगेन प्रत्युपस्थिता. तत् कस्य हेतोस्? तथा हि स्वभावो न संविद्यते नोपलभ्यते, येनोपलभ्येत यद् उपलभ्येत यत्र चोपलभ्येत.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, तथा हि कौशिक बोधिसत्त्वो महासत्त्वो ऽनुपलम्भयोगेन प्रज्ञापारमितायां चरन् बोधिम् अपि नोपलभते प्राग् एव बोधिसत्त्वधर्मान्.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि. तत् कस्य हेतोस्? तथा हि कौशिक प्रज्ञापारमितानिर्जाताः सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वधर्मा बुद्धधर्माश् च. तिष्ठन्तु कौशिक चातुर्महाद्वीप्द्वीपके लोकधातौ सत्त्वा दशसु कुशलेषु कर्मपथेषु यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापिता, यः कौशिक कुलपुत्रो वा कुलदुहिता वा ये साहस्रे लोकधातौ सत्त्वास् तन् सर्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्, स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबुद्धत्वे प्रतिष्ठापयेद्, यश् च कुलपुत्रो वा (PSP_२-३:१०६) कुलदुहिता वा इमां प्रज्ञापारमिताम् अन्तशः पुस्तकलिखिताम् अपि कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: तिष्ठन्तु कौशिक साहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकायां बोधौ प्रतिष्ठापिता, यः कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा ये द्विसाहस्रे लोकधातौ सत्त्वास् तान् सर्वान् दशसु कुशलेषु कर्मपथेषु यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवेत्. तिष्ठन्तु कौशिक द्विसाहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकबोधौ प्रतिष्ठापिता, ये केचित् कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु पृतिष्ठापयेत् यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेद्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापिताः यावन्तः काउशिक दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्टापयेद् यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टास्, तत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वनियामम् अवक्रान्ता अवक्रमिष्यन्ति अवक्रामन्ति च, यावद् अर्हत्त्वं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. प्रत्येकां बोधिं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. बोधिसत्त्वाश् च महासत्त्वाश् च बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमिष्यन्ति अवक्रामन्ति च. अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतम एव कौशिक (PSP_२-३:१०७) अनास्रवा धर्मास्? तद्यथा पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माश् चत्वारि सत्यानि अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता यावद् अभावस्वभावशून्यता अप्रमाणध्यानारूप्यसमापत्तयो दश तथागतबलानि यावद् अपरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टास् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः प्रज्ञापारमितायां तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवति, तत् कस्य हेतोस्? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा, यैर् धर्मैः क्षत्रियमहाशालकुलानि ब्राह्मणमहाशालकुलानि गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते यावन् नैवसंज्ञानासंज्ञायतनोपगा देवाः प्रज्ञायन्ते, पारमिताः प्रज्ञायन्ते यावत् सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रज्ञायन्ते, सर्वज्ञताः प्रज्ञायन्ते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
पुनर् अपरं कौशिक ये जाम्बुद्वीपकाः सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत्. चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः.
SK
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, इदन् तेन कुलपुत्रेण वा कुलदुहित्रा वा बहुतरं पुण्यं प्रसूतं भविष्यति, न त्व् एव जाम्बुद्वीपकान् सत्त्वांश् चातुर्द्वीपकान् साहस्रे द्विसाहस्रे त्रिसाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु ध्यानाप्रमाणेष्व् आरूप्याभिज्ञासु प्रतिष्ठाप्य. तत्रायं योनिशो मनसिकारो न द्वयचरितो बोधौ प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितो बोधौ ध्यानपारमितां (PSP_२-३:१०८) वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां, न द्वयचरितो बोधौ दानपारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. न द्वयचरितो बोधौ अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां योनिशो मनसिकरिष्यति. न द्वयचरितो बोधौ स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् योनिशो मनसिकरिष्यति. न द्वयचरितो बोधौ अष्टादशावेणिकान् बुद्धधर्मान् सर्वाकारज्ञतां योनिशो मनसिकरिष्यति. इति चतुर्थी स्तोभमात्रा
SK
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा अनेकपर्यायेण प्रज्ञापारमितां परेभ्यो देशयिष्यति विस्तरेण संप्रकाशयिष्यति भावयिष्यति विचरिष्यति उत्तानीकरिष्यति अर्थम् उपदेक्ष्यति. तत्रायं प्रज्ञापारमितार्थो ऽद्वये न प्रज्ञापारमितां द्रक्ष्यति न द्वये, न निमित्ततो नानिमित्ततः नायूहतो न निर्यूहतः, नोत्क्षेपतो न प्रक्षेपतः, न संक्लेशतो न व्यवदानतः, नोत्पादतो न निरोधतः, न ग्राहतो नोत्सर्गतः, न स्थानतो नास्थानतः, न भूततो नाभूततः, न योगतो नायोगतः, न शेषतो नाशेषतः, न प्रत्यंशतो नाप्रत्यंशतः न धर्मतो नाधर्मतः, न तथतातो नातथतातः, न भूतकोटितो नाभूतकोटितः. अयम् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां परेभ्यो विस्तरेण संप्रकाशयिष्यति स्वाध्यास्यति देशयिष्यति भावयिष्यति उत्तानीकरिष्यति अर्थं चोपदेक्ष्यति. न त्व् एव यः केवलम् आत्मने चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. इति पञ्चमी स्तोभमात्रा
SK
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा स्वयं प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, तां च परेभ्यो विस्तरेण संप्रकाशयिष्यति प्रज्ञापयिष्यति प्रस्थापयिष्यति विभावयिष्यति उत्तानीकरिष्यति अर्थं चोपदेक्ष्यति, अयम् एव ततो बहुतरं पुण्यं प्रसविष्यति.
SK
शक्र आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत.
SK
भगवान् आह: एवं खलु कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिता उपदेष्टव्या सार्था सव्यञ्जना, एवम् उपदिशन् कौशिक कुलपुत्रो वा (PSP_२-३:१०९) कुलदुहिता वा अप्रमेयासंख्येयापरिमाणेन पुण्यस्कन्धेन समन्वागतो भविष्यति. इति षष्ठी स्तोभमात्रा
SK
सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा दशसु दीक्ष्व् एकैकस्यां दिश्य् अप्रमेयान् असंख्येयान् अपरिमाणांस् तथागतान् अर्हतः सम्यक्संबुद्धान् यावज्जीवं सुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, यड् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् अनेकपर्यायेण परेभ्यो विस्तरेण देशयेद् अर्थम् अस्या विज्ञापयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद् अयम् एव ततः कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोर्? अत्र हि प्रज्ञापापारमितायां शिक्षित्वा तैर् अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते अभिसंभोत्स्यते च. इति सप्तमी स्तोभमात्रा
SK
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा असंख्येयान् अपरिमाणान् कल्पान् दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितां परेभ्यो विस्तरेण संप्रकाशयेत् कथयेद् यावत् सूचयेत् तच् चानुपलम्भयोगेन, अयन् ततो बहुतरं पुण्यं प्रसवेत्. तत्र कौशिक कतम उपलम्भः? यद् बोधिसत्त्वस्योपलम्भयोगेन दानन् ददतः, एवं भवति; अहं दानन् ददामि, इदं दानन् ददामि, परस्मै दानन् ददतो दानम् एव स्थास्यति, न दानपारमिता. इदं शिलम्, अहं शीलवान्, अमून् सत्त्वान् रक्षामि नेयं शीलपारमिता. अहं क्षान्तिम् आरभे, इमां क्षान्तिं परस्मै क्षमामि, अस्यां क्षान्तौ स्थास्यामि, नेयं क्षान्तिपारमिता. अहं वीर्यम् आरभे, इदं वीर्यम् एषाम् अर्थाय, अस्मिन् विर्ये स्थास्यामि, नेयं वीर्यपारमिता. अहं ध्यानं समापत्स्ये, इदं ध्यानम् एषाम् अर्थाय समापत्स्ये, अत्र ध्याने स्थास्यामि, नेयं ध्यानपारमिता. अहं प्रज्ञां भावयामि, इयं प्रज्ञा एषाम् अर्थाय, अस्यां प्रज्ञायां स्थास्यामि, नायं प्रज्ञापारमिता. एवं हि कौशिक उपलम्भे चरितस्य कुलपुत्रस्य वा कुलदुहितुर् वा न दानपारमिता परिपूर्यते, न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता, न प्रज्ञापारमिता परिपूर्यते.
SK
शक्र आह: कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते? कथं शीलपारमिता परिपूर्यते? कथं क्षान्तिपारमिता (PSP_२-३:११०) परिपूर्यते? कथं वीर्यपारमिता परिपूर्यते? कथं ध्यानपारमिता परिपूर्यते? कथं प्रज्ञापारमिता परिपूर्यते?
SK
भगवान् आह: इह कौशिक बोधिसत्त्वो महासत्त्वो दानन् ददन् न दायकम् उपलभते न प्रतिग्राहकम् उपलभते न देयम् उपलभते, इयम् उच्यते दानपारमिता. न शिलम् उपलभते न शीलवन्तं न सत्त्वम् उपलभते, इयम् उच्यते शीलपारमिता. न क्षान्तिम् उपलभते न क्षम्यं न क्षमिणम् उपलभते, इयम् उच्यते क्षान्तिपारमिता. न वीर्यम् उपलभते न कायं न चित्तम् उपलभते, इयम् उच्यते वीर्यपारमिता. न ध्यानम् उपलभते न ध्यायिनं न ध्यातव्यम् उपलभते, इयम् उच्यते ध्यानपारमिता. न प्रज्ञाम् उपलभते न प्रज्ञावन्तं न प्रज्ञेयम् उपलभते येषाम् अर्थाय भावयति, इयम् उच्यते प्रज्ञापारमिता. एवं चरतः कौशिक बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते, शीलपारमिता परिपूर्यते क्षान्तिपारमिता परिपूर्यते वीर्यपारमिता परिपूर्यते ध्यानपारमिता परिपूर्यते प्रज्ञापारमिता परिपूर्यते. एवं हि कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा अनुपलम्भेनेयं प्रज्ञापारमिता सार्था सव्यञ्जनोपदेष्टव्या. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता अनुपलम्भेनेयं सार्था सव्यञ्जनोपदेष्टव्या. तत् कस्य हेतोर्? भविष्यन्ति कौशिकानागते ऽध्वनि कुलपुत्राः कुलदुहितरश् च ते प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तत्र कुलपुत्रस्य वा कुलदुहितुर् वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितस्य प्रज्ञापारमिताप्रतिवर्णिकाश्रवणेन विनाशयिष्यन्ति तेषाम् अपीयं प्रज्ञापारमिता सार्था सव्यञ्जनोपदेष्टव्या.
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताम् उपदिशन्त एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानः प्रथमायां भूमौ स्थास्यसि यावद् दशम्यां भूमौ स्थास्यसि. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयमानः प्रथमायां भूमौ स्थास्यसि यावद् दशम्यां भूमौ स्थास्यसि. तच् च निमित्तयोगेनोपलम्भयोगेन सर्वाकारसंज्ञया प्रज्ञापारमितां भावयिष्यति, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
SK
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानः श्रावकभूमिं समतिक्रमिष्यसि, प्रत्येकबुद्धभूमिं समतिक्रमिष्यसि, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका. (PSP_२-३:११३)
SK
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां महायानिकानां कुलपुत्राणां वा कुलदुहितृणां वा प्रज्ञापारमिताम् उपदिशन्त एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानो बोधिसत्त्वनियामम् अवक्रमिष्यसि, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
SK
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताम् उपदिशमाना एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानो ऽनुत्पत्तिकधर्मक्षान्तिं प्रतिलप्स्यसे स त्वम् अनुत्पत्तिकधर्मक्षान्तिं प्रतिलभ्य बोधिसत्त्वाभिज्ञासु स्थास्यसि स त्वम् अभिज्ञासु स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यसि बुद्धानां भगवतां सत्करणाय गुरुकरणाय माननाय पूजनायार्चनायापचायनाय, एवम् उपदेक्ष्यन्ति. एवम् उपदिशमानाः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां वा कुलदुहितृणां वा एवम् उपदेक्ष्यन्ति, यः कुलपुत्रः प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशो मनसिकरिष्यति सो ऽसंख्येयम् अप्रमेयम् अपरिमाणं पुण्यस्कन्धं प्रसविष्यति. एवं चोपदिशमानाः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणाम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां यत् कुशलमूलं प्रथमचित्तोत्पादम् उपादाय यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां तत् सर्वम् अनुमोद्य एकतः पिण्डीकृत्यानुत्तरायै सम्यक्संबोधये परिणामय. एवम् उपदिशमानाः कौशिक ते कुलपुत्र वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
शक्र आह: कथम् उपदिशन्तस् ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानसंप्रस्थितानां कुलपुत्राणां वा कुलदुहितृणां वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति? (PSP_२-३:११४)
SK
भगवान् आह: इह कौशिक कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानसंप्रस्थितानां कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावयमानो रूपम् अनित्यतो मा द्राक्षीस्. तत् कस्य हेतोः? रूपं रूपस्वभावेन शून्यं, यश् च रूपस्वभावः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता तत्र रूपन् न नित्यम् इति वा अनित्यम् इति वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि रूपम् एव तत्र न संविद्यते. कुतो नित्यं वा अनित्यं वा भविष्यति? एवं चोपदिशन्तस् ते कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यतो मा द्राक्षीस्. तत् कस्य हेतोर्? विज्ञानं विज्ञानस्वभावेन शून्यं, यश् च विज्ञानस्वभावः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता तत्र विज्ञानं न नित्यम् इति वा अनित्यम् इति वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि विज्ञानम् एव तत्र न संविद्यते. कुतो नित्यं वा अनित्यं वा भविष्यति? एवम् उपदिशन्तस् ते कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु सर्वपारमितासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु सत्येष्व् अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिष्व् अप्रमाणध्यानारूप्यसमापत्तिषु शून्यतानिमित्ताप्रणिहितेषु षट्स्व् अभिज्ञासु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु कर्तव्यम्. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च त्वं कुलपुत्र सर्वज्ञताम् अनित्यतो द्राक्षीस्. तत् कस्य हेतोस्? तथा हि सर्वज्ञता सर्वज्ञतास्वभावेन शून्या, यष् च सर्वज्ञतायाः स्वभावः सो ऽभावो, यो ऽभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता न तत्र सर्वज्ञताया नित्यता वा अनित्यता वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि सर्वज्ञतैव न संविद्यते. कुतः पुनर् नित्यता वा अनित्यता वा भविष्यति? एवं चोपदिशन्तः. कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक कुलपुत्रा वा कुलदुहितरो वा तेषां महायानिकानां कुलपुत्राणां वा कुलदुहितृणां वा एवं न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति, (PSP_२-३:११५) एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च त्वं कंचिद् धर्मं द्राक्षीः, मा च कस्मिंचिद् धर्मे स्थाः. तत् कस्य हेतोस्? तथा हि प्रज्ञापारमितायां न स धर्मः संविद्यते यो धर्मो द्रष्टव्यो यत्र वा प्रतिष्ठातव्यः. तत् कस्य हेतोस्? तथा हि कौशिक सर्वधर्मा स्वभावेन शून्याः, यश् च धर्मः स्वभावेन शून्यः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता सा न कस्यचिद् धर्मस्यायुहलं वा निर्यूहलं वा उत्पादो वा निरोधो वा उच्छेदो वा शश्वतो वा एकार्थता वा नानार्थता वा आगमो वा निर्गमो वा. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं प्रज्ञापारमिताया अर्थो व्यपदेष्टव्यः. एवम् उपदिशन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति. न त्व् एव ते पूर्वकाः कुलपुत्राः कुलदुहितरश् च. इत्य् अष्टमी स्तोभमात्रा
SK
पुनर् अपरं कौशिक ये जाम्बुद्वीपकाः सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो नैकैः पर्यायैः कथयिष्यति देशयिष्यति विभावयिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति. एवं च वक्ष्यन्ति एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृह्णीष्व पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नश् च स्रोतआपत्तिफलं च प्रभाव्यते. तिष्ठन्तु कौशिक जाम्बुद्वीपकाः सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु चातुर्द्वीपकाः सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु साहस्रे लोकधातौ सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु द्विसाहस्रे लोकधातौ सर्वसत्त्वाः स्रोतआपत्तिफले विनीताः. तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्व्स्ः स्रोतआपत्तिफले विनीताः, यावन्तः कौशिक पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सर्वसत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा (PSP_२-३:११६) स्रोतआपत्तिफले प्रतिष्ठापयेत्. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधो गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. य इमां प्रज्ञापारमितां परेभ्यः. सार्थां सव्यञ्जनां विस्तरेण कथयेद् देशयेद् अर्थम् अस्याः संप्रकाशयेद् विभजेद् विभावयेद् विचरेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृह्णीष्व पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नः प्रभाव्यते. इति नवमी स्तोभमात्रेत्य् उक्तः स्तोभः
SK
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा यावन्तो जाम्बुद्वीपकाः सत्त्वास् तान् सर्वान् सकृदागामिफले प्रतिष्ठपयेत्. इति प्रथमा प्रशंसामात्रा
अथ पुनः किं यथैव वस्तु यथैवारम्बणं तथा बोधिस् तथा चित्तं तथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता तथा सप्तत्रिंशद्बोधिपक्ष्या धर्मास् तथा अप्रमाणध्यानारूप्यसमापत्तयः, तथा आर्यसत्यानि तथा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता तथा शून्यतानिमित्ताप्रणिहितानि तथा अष्टविमोक्षास् तथा नवानुपूर्वविहारसमापत्तयस् तथा षडभिज्ञास् तथा सर्वसमाधयस् तथा सर्वधारणीमुखानि तथा दशतथागतबलानि तथा वैशारद्यानि तथा प्रतिसंविदस् तथा अष्टादशावेणिका बुद्धधर्मास् तथा सर्वज्ञता. (PSP_२-३:१२५)
SK
यदि तावद् यथैव वस्तु यथारम्बणं तथा बोधिस् तथा चित्तं तथा रूपं वेदनासंज्ञासंस्कारा विज्ञानं तथा चक्षुः श्रोत्रघ्राणजिह्वाकायमनः तथा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता तथा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः तथा अप्रमाणध्यानारूप्यसमापत्तयस् तथा आर्यसत्यानि तथा अष्टविमोक्षास् तथा नवानुपूर्वविहारसमापत्तयहि तथा त्रीणि विमोक्षमुखानि तथा षडभिज्ञास् तथा सर्वसमाधयस् तथा सर्वधारणीमुखानि तथा दश तथागतबलानि तथा वैशारद्यानि तथा प्रतिसंविदः तथा अष्टादशावेणिका बुद्धधर्माः.
मैत्रेय आह: सचेद् भदन्त सुभूते बोधिसत्त्वाः षट्सु पारमितासु चरिता अभविष्यन्, बहुबुद्धपर्युपासिता अभविष्यन्न्, अवरोपितकुशलमूला अभविष्यन्, कल्याणमित्रपरिगृहीता अभविष्यन्, स्वलक्षणशून्येषु धर्मेषु शिक्षिता अभविष्यन्, न ते तानि वस्तूनि न तान्य् आरम्बणानि न तान् बुद्धान् भगवतो न तानि कुशलमूलानि न तान्य् अनुमोदनासहगतानि पुण्यक्रियावस्तूनि निमित्तिकृत्यानुत्तरायां सम्यक्संबोधौ परिणामयिष्यन्ति.
SK
अपि तु खलु पुनस् तथा परिणामयिष्यन्ति यथा न द्वययोगेन नाद्वययोगेन न निमित्तयोगेन नानिमित्तयोगेन नोपलम्भयोगेन नानुपलम्भयोगेन न संक्लेशयोगेन न व्यवदानयोगेन नोत्पादयोगेन न निरोधयोगेन.
SK
सचेत् पुनर् एते बोधिसत्त्वाः न षट्सु पारमितासु शिक्षिता अभविष्यन्, न बुद्धपर्युपासिता नावरोपितकुशलमूला न कल्याणमित्रपरिगृहीता न स्वलक्षणशून्येषु धर्मेषु शिक्षिता अभविष्यन्, तानि वस्तूनि तान्य् आरम्बणानि तानि कुशलमूलानि तान् अनुमोदनासहगतांश् चित्तोत्पादान् निमित्तीकृत्यानुत्तरायै सम्यक्संबोधये परिणामयिष्यन्ति.
SK
न खलु पुनर् इयं भदन्त सुभूते प्रज्ञापारमिता एवम् उपदिष्टा नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता अध्यात्मशून्यता यावद् अभावस्वभावशून्यतैवम् उपदिष्टा नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या. तत् कस्य हेतोर्? यद् (PSP_२-३:१२६) अपि तस्य स्याच् छ्रद्धामात्रकं प्रसादमात्रकं प्रेममात्रकं गौरवमात्रकं तद् अप्य् अन्तर्धीयेताविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्योपदेष्टव्या यावद् अभावस्वभावशून्यता भाषितव्योपदेष्टव्या. स एवं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. सचेत् कल्याणमित्रपरिगृहीतो भविष्यति पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलो बहुबुद्धपर्युपासित, एवं च पुनर् भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेनानुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयितव्यम्. येन चित्तेनानुमोद्य परिणामयति तच् चित्तं क्षीणं निरुद्धं विगतं विपरिनतं, तानि च वस्तूनि तान्य् आरम्बणानि तानि च कुशलमूलानि क्षीणानि निरुद्धानि विगतानि विपरिणतानि, कतमद् अनुमोदनासहगतं चित्तं? कतमानि वस्तूनि? कतमान्य् आरम्बणानि? कतमानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति? किं चित्तेन चित्तं परिणामयति? यदा द्वयोश् चित्तयोः समवधानं नास्ति, न च यश् चित्तस्वभावः. स शक्यः परिणामयितुम्.
पुनर् अपरं नवयानसंप्रस्थितेन बोधिसत्त्वेन महासत्त्वेन तेषां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रिकाणां पर्यात्तबाष्पाणां मर्दितकण्टकानाम् अपहृतभाराणाम् अनुप्राप्तस्वकार्थानां परिक्षीणभवसंयोजनानां सम्यगाज्ञासुविमुक्तिचित्तानां सर्वचेतवशिपरमपारमिताप्राप्तानां, ये ते दशसु दिक्ष्व् अप्रमेयेष्व् असंख्येयेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति तेषां बुद्धानां भगवतां सश्रावकसंघानां ये पुण्याभिसंस्कारा यैर् वा तत्र कुशलमुलान्य् अवरोपितानि क्षत्रियमहाशालकुलेषु (PSP_२-३:१२८) वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा चातुर्महाराजकायिकेषु वा देवेषु, त्रायस्त्रिंशेषु वा यामेषु वा तुषितेषु वा निर्माणरतिषु वा परनिर्मितवशवर्तिषु वा देवेषु, ब्रह्मपार्षद्येषु वा ब्रह्मपुरोहितेषु वा महाब्रह्मसु वा परीत्ताभेषु वा अप्रमाणाभेषु वा आभास्वरेषु वा परीत्तशुभेषु वा अप्रमाणशुभेषु वा शुभकृत्स्नेषु वा अनभ्रकेषु वा पुण्यप्रसवेषु वा बृहत्फलेषु वा सुद्धावासेषु वा अवृहेषु वा अतपेषु वा सुदृशेषु वा सुदर्शनेषु वा अकनिष्ठेषु वा देवेषु कुशलमूलान्य् अवरोपितानि सर्वान्य् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अग्रयानुमोदनया श्रेष्ठया ज्येष्ठया वरया प्रवरया उत्तमया अनुत्तमया अनुमोदनया अनुमोदेतानुमोद्य चानुमोदनासहगतं कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयितव्यम्. इत्य् अनुपलम्भपरिणामः
SK
मैत्रेय आह: सचेद् भदन्त सुभूते नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वस् तेषां बुद्धानां भगवतां सश्रावकसंघानां सर्वकुशलमूलानि समन्वाहृत्याग्रया अनुमोदनया अनुमोदते अनुमोद्य च यावद् अनुत्तमया अनुमोदनया अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयति. कथं न बोधिसत्त्वस्य महासत्त्वस्य संज्ञाविपर्यासो भवति, न चित्त विपर्यासो भवति, न दृष्टिविपर्यासो भवति?
SK
सुभूतिर् आह: सचेत् मैत्रेय बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतः सश्रावकसंघान् समन्वाहरति, तत्र न बुद्धसंज्ञी न श्रावकसंज्ञी भवति, न कुशलमूलसंज्ञी भवति. येनापि चित्तेन परिणामयति तत्रापि चित्तेन चित्तसंज्ञी भवत्य्, एवं परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो भवति, न चित्तविपर्यासो भवति, न दृष्टिविपर्यासो भवति.
SK
सचेद् बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतस् तानि च कुशलमूलान् समन्वाहृत्य निमित्तीकरोति निमित्तीकृत्यानुत्तरायै सम्यक्संबोधये परिणामयत्य् एवं परिणामयतः संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासो भवति.
SK
सचेत् पुनर् बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतस् तानि च कुशलमूलानि येन च चित्तेन समन्वाहरति तानि तथैव क्षीणानि क्षीणानीत्य् एवं प्रजानाति. यच् च क्षीणन् न तच् छक्यं परिणमयितुम्. येनापि चित्तेन परिणामयति (PSP_२-३:१२९) तस्यापि चित्तस्य सैव धर्मता. यत्रापि परिणामयति तस्यापि सैव धर्मता.
SK
सचेद् एवं परिणामयति समेन परिणामयति न विषमेन, न च मिथ्या परिणामयति, एवं परिणामयितव्यं बोधिसत्त्वेन महासत्त्वेन.
SK
सचेद् बोधिसत्त्वो महासत्त्वो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां यावत् प्रथमचित्तोत्पादम् उपादाय परिनिर्वाणं यावद् च सद्धर्मान्तर्धानं तच् छ्रावकाणां प्रत्येकबुद्धानां च यावद् यैश् च तत्र पृथग्जनैः कुशलमूलान्य् अवरोपितानि, या च धर्मदेशना श्रुता श्रुत्वा च यैश् च तत्र देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः कुशलमूलान्य् अवरोपितानि, कुशत्रियमहाशालकुलैर् वा ब्राह्मणमहाशालकुलैर् वा गृहपतिमहाशलकुलैर् वा चातुर्महाराजकायिकैर् वा देवैर् यावच् छुद्धावासकायिकैर् वा देवैः सद्धर्मः श्रुतः कुशलमूलान्य् अवरोपितानि, चित्तं चोत्पादितम् अनुत्तरायां सम्यक्संबोधौ तत् सर्वम् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वाग्रयानुमोदनयानुमोदते ज्येष्ठया श्रेष्ठया वरया प्रवरया प्रणितया उत्तमया अनुत्तमया असमया असमसमया अनुमोदनया अनुमोदते अनुमोद्य तत् सर्वम् अनुत्तरायां सम्यक्संबोधौ परिणामयति.
SK
सचेत् पुनर् एवं संजानीते क्षीणास् ते धर्मा निरुद्धा विगता विपरिणता सो ऽपि धर्मस्वभावेन शून्यो यत्रापि परिणामयति. सचेद् एवं परिणामयति परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ.
SK
सचेत् पुनर् एवं संजानीते न च धर्माधर्मान् परिणामयन्ति. तत् कस्य हेतोस्? तथा हि स्वभावशून्याः सर्वधर्माः.
SK
सचेद् एवं परिणामयति परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ. एवं हि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां चरतो न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति. तत् कस्य हेतोस्? तथा हि बोधिसत्त्वो महासत्त्वस् तां परिणामनां नाभिनिविशते, तानि कुशलमूलानि तद्बोधिचित्तं च न समनुपश्यति यत्राभिनिवेशेत, इदं बोधिसत्त्वस्य महासत्त्वस्यानुत्तरं परिणामनम्. इत्य् अविपर्यस्तलक्षणपरिणामः
सचेद् एवम् अपि समन्वाहरति निमित्तीकरोति, न परिणामयति तानि कुशलमूलान्य् अनुत्तरायां सम्यक्संबोधौ, एवं चास्य संज्ञाविपर्यासो भवति चित्तविपर्यासो भवति दृष्टिविपर्यासो भवति.
SK
सचेत् तान् बुद्धान् भगवतस् तानि कुशलमुलानि तांश् चाभिसंस्कारांस् तांश् चित्तोत्पादान् संजानीते न निमित्तीकरोति, परिणामितानि तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये भवति. एवं च बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो भवति न चित्तविपर्यासो भवति न दृष्टिविपर्यासो भवति. इति बुद्धकुशलमुलजातीयस्वभावानुस्मृतिपरिणामः
SK
मैत्रेय आह: कथं भदन्त सुभूते बोधिसत्त्वो महासत्त्वो न निमित्तीकरोति परिणामयति च?
SK
सुभूतिर् आह: अत्र हि तानि बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपायकौशलानि शिक्षितव्याम्. अत एव च बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाम् उपायकौशलं वेदितव्यं, न च प्रज्ञापारमिताम् अनागम्य शक्यं पुण्यक्रियावस्तु परिणामयितुम्.
SK
मैत्रेय आह: मा हैवास्य स्याद् भदन्त सुभूते वचनीयम्. न ते बुद्धा भगवन्तः प्रज्ञापारमितायां संविद्यन्ते. नापि तानि कुशलमूलानि, नापि ते ऽभिसंस्कारा, नापि ते चित्तोत्पादा यावन् नानुत्तरायै सम्यक्संबोधये परिणामयति.
SK
सुभूतिर् आह: तत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवं व्युपपरीक्षितव्यं, निरुद्धास् ते आत्मभावा तानि च कुशलमूलानि ते चाभिसंस्कारास् ते च चित्तोत्पादाः. अथ च पुनर् निमित्तीकृत्य विकल्प्यन्ते ते बुद्धा भगवन्तस् तानि च कुशलमूलानि ते चाभिसंस्कारास् ते च चित्तोत्पादा निमित्तीकृत्य विकल्प्यन्ते. न च तथागता अर्हन्तः सम्यक्संबुद्धा एवं निमित्तयोगेन परिणामयतो ऽनुमोदनाम् अभ्यनुजानन्ति. तत् कस्य हेतोः? एष एवास्य महान् उपलम्भो यत् परिनिर्वृतान् बुद्धान् भगवतो निमित्तीकरोति विकल्पयति चोपलभते तस्माद् बोधिसत्त्वेन महासत्त्वेन कुशलमूलानि परिणामयितुकामेन न चोपलभ्य निमित्तीकृत्य परिणामयितव्यानि. न चोपलम्भसंज्ञिनो न निमित्तसंज्ञिनस्, तथागता अर्हन्तः सम्यक्संबुद्धाः परिणामतां महर्द्धिकाम् इति वदन्ति. तत् हस्य हेतोः? सविषः सशल्य एष परिणामः. इत्य् उपायकौशलपरिणामः (PSP_२-३:१३२)
SK
तद्यथापि नाम प्रणीतभोजनं विषसंसृष्टं वर्णेन गन्धेन चोपेतं तद् एव बालजातीयः पुरुषः परिभोक्तव्यं मन्येत, तस्य तत् परिभुञ्जानस्य वर्णतो ऽपि गन्धतो ऽपि रोचेत, परिणामे च दुष्खविपाकं स्यात्. एवम् एव इहैकत्या दुर्गृहीतेन दुरुपलक्षितेन दुःस्वाध्यातेन चार्थम् अजानन्तो ऽबुध्यमाना एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावच् च निरुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच् च सद्धर्माणां अन्तर्हितः, यान्य् एतस्मिन् अन्तरे प्रज्ञापारमितायां चरद्भिः कुशलमूलान्य् अभिसंस्कृतानि, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां चरद्भिः कुशालमूलान्य् अभिसंस्कृतानि. यानि च चतुर्ध्यानप्रतिसंयुक्तानि चतुरप्रमाणप्रतिसंयुक्तानि चतुरारूप्यसमापत्तिप्रतिसंयुक्तानि सप्तत्रिंशद् बोधिपक्ष्यधर्म प्रतिसंयुक्तानि चतुर् आर्यसत्य प्रतिसंयुक्तानि शून्यतानिमित्ताप्रणिहितप्रतिसंयुक्तान्य् अष्टविमोक्ष नवानुपूर्वविहारसमापत्तिप्रतिसंयुक्तान्य् अभिज्ञाप्रतिसंयुक्तानि सर्वशून्यताधारणीमुखप्रतिसंयुक्तानि दशतथागतबलप्रतिसंयुक्तानि चतुर्वैशारद्यप्रतिसंयुक्तानि, चतुःप्रतिसंवित्प्रतिसंयुक्तानि कुशलमूलान्य् अभिसंस्कृतानि, अष्टादशावेणिकबुद्धधर्मप्रतिसंयुक्तानि कुशलमूलान्य् अभिसंस्कृतानि, यैश् च कुशलमूलाभिसंस्कारैर् बुद्धक्षेत्रानि परिशोधितानि सत्त्वाश् च परिपाचिताः, यश् च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः सर्वाकारज्ञताज्ञानम् असंप्रमुषितधर्मताज्ञानं सदोपेक्षाविहारिता तेषां च श्रावकाणां, यैश् च तत्र कुशलमूलान्य् अभिसंस्कृतानि, ये च प्रत्येकबुद्धत्वे व्याकृता, यैश् च तत्र देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः कुशलमूलान्य् अभिसंस्कृतानि तानि सर्वान्य् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अनुत्तरायै सम्यक्संबोधये परिणामयति. एवं हि परिणामो निमित्तयोगेनोपलम्भयोगेन च परिणामितो विषत्वाय कल्पयते. तद्यथापि नाम तत् सविषं भोजनं नास्त्य् उपलम्भसंज्ञिनः परिणामः. तत् कस्य हेतोः? सविषो ह्य् उपलम्भः सनिमित्तः सहेतुकः सप्रत्ययो य एवं परिणामयति तेन तथागतो ऽभ्याख्यातो भवति. न च स तथागतस्योक्तवादी भवति न च धर्मवादी. तत्र बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहित्र्भिश् च नैवं शिक्षितव्यम्. इत्य् अनिमित्तपरिणामः (PSP_२-३:१३३)
SK
मैत्रेय आह: कथं पुनर् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां कुशलमूलान्य् अनुमोद्य परिणामयितव्यानि? प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच् च सद्धर्मस्थितिः सश्रावकसंघानाम् एतस्मिन्न् अन्तरे यानि प्रज्ञापारमितायां चरता कुशलमूलान्य् अभिसंस्कृतानि यावत् सर्वज्ञता प्राप्ता यावद् यैश् च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगमनुष्यामनुष्यैः कुशलमूलान्य् अवरोपितानि? कथं चानुमोद्य परिणामयितव्यानि? कथं च परिणामयतस् तानि कुशलमूलानि परिणामितानि भवन्त्य् अनुत्तरायै सम्यक्संबोधये?
SK
सुभूतिर् अह: इह महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरता तथागतम् अनभ्याख्यातुकामेन, एवं परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरायै सम्यक्संबोधये.
SK
सुभूतिर् आह: इह महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरता तथागतम् अनभ्याख्यातुकामेन, एवं परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरेण बुद्धज्ञानेन, तानि च कुशलमूलानि यज्जातिकानि यत्स्वभावानि यल्लक्षणानि यया धर्मतया संविद्यन्ते. तथाहम् अप्य् अनुमोदे यथा ते बुद्धा भगवन्तो जानन्ति तथाहम् अपि परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये. एवं महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा तानि कुशलमूलानि परिणामयितव्यान्य् अनुत्तरायै सम्यक्संबोधये.
SK
एवं च परिणामयितुकामेन परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरेण बुद्धज्ञानेन, तानि च कुशलमूलानि यज्जातिकानि यत्स्वभावानि यल्लक्षणानि यया धर्मतया संविद्यन्ते. तथाहम् अप्य् अनुमोदे यथा ते बुद्धा भगवन्तो जानन्ति तथाहम् अपि परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये. एवं महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा तानि कुशलमूलानि परिणामयितव्यान्य् अनुत्तरायै सम्यक्संबोधये. एवं च परिणामयंस् तथागतान् नाभ्याचष्टे उक्तवादी च भवति. तथागतस्य धर्मवादी, चैवं बोधिसत्त्वस्य महासत्त्वस्य परिणामो निर्विषो भवति. इति बुद्धानुज्ञातपरिणामः
SK
पुनर् अपरं महायानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां (PSP_२-३:१३४) चरतैवं तानि कुशलमूलानि परिणामयितव्यानि, यथा रूपम् अपर्यापन्नं कामधातुं रूपधातुम् आरूप्यधातुम्, एवं वेदनासंज्ञासंस्कारा विज्ञानम् अपर्यापन्नं कामधातुं रूपधातुम् आरूप्यधातुम्, एवं धातव आयतनानि प्रतीत्यसमुत्पादः प्रज्ञापारमिताप्य् अपर्यापन्ना कामधातुं रूपधातुम् आरूप्यधातुम्, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिताप्य् अपर्यापन्ना कामधातुं रूपधातुम् आरूप्यधातुं, या चापर्यापन्ना न सातीता नानागता न प्रत्युत्पन्ना, एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता अपर्यापन्ना कामरूपारूप्यधातुम्, अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अपर्यापन्नानि कामरूपारूप्यधातुम्, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽपर्यापन्नाः कामरूपारूप्यधातुं, शून्यतानिमित्ताप्रणिहितानि षडभिजाआ अपर्यापन्नाः कामरूपारूप्यधातुं, सर्वसमाधयः सर्वधारणीमुखान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अपर्यापन्नाः कामरूपारूप्यधातुम्, एवं तथता अवितथता अनयतथता धर्मता धर्मधातुर् धर्मनियामता धर्मस्थितिता भूतकोटिर् अचिन्त्यधातुर् अपर्यापन्नः कामरूपारूप्यधातुं, शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानि सर्वाकारज्ञता असंप्रमुषितधर्मता सदा चोपेक्षाविहारिता अपर्यापन्ना कामरूपारूप्यधातुं, यच् चापर्यापन्नं तन् नातीतं नानागतं न प्रत्युत्पन्नं. तत् कस्य हेतोः? यथैव तद् अपर्यापन्नम् एवं परिणामो ऽप्य् अपर्यापन्नो, यत्रापि धर्मे परिणामयति ते ऽपि धर्मा अपर्यापन्ना, यो ऽपि परिणामयति सो ऽप्य् अपर्यापन्नस्, ते ऽपि बुद्धा भगवन्तो ऽपर्यापन्नाः कामरूपारूप्यधातुं, तान्य् अपि कुशलमूलान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, ते ऽपि श्रावकप्रत्येकबुद्धा अपर्यापन्नाः कामरूपारूप्य धातुं, तेषाम् अपि तानि कुशलमूलान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, यच् चापर्यापन्नं तन् नातीतन् नानागतन् न प्रत्युत्पन्नम्.
SK
सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संजानीते, यद् रूपं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापमम्, एवं वेदनासंज्ञासंस्कारा यद् विज्ञानं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापन्नम्, एवं धातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानीति कामधातुरूपधात्वारूप्यधात्वपर्यापन्नानि.
SK
सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संजानीते, यद् (PSP_२-३:१३५) रूपं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापन्नं, तन् नातीतन् तन् नानागतन् न प्रत्युत्पन्नन् तन् न शक्यं निमित्तयोगेन चोपलम्भयोगेन वा परिणामयितुम्. तत् कस्य हेतोर्? न हि तस्य स्वभावः संविद्यते. यस्य च स्वभावो न संविद्यते सो ऽभावो. न चाभावो ऽभावेन शक्यः परिणामयितुम्. एवं वेदनासंज्ञासंस्कारा विज्ञानं धातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गान्य्, एवं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, एवं अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, एवं यावत् सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि षडभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वज्ञता असंप्रमुषितधर्मता सदोपेक्षाविहारिता न कामधातुपर्यापन्ना न रूपधातुपर्यापन्ना नारूप्यधातुपर्यापन्ना, या चापर्यापन्ना न सातीता नानागता न प्रत्युत्पन्ना न सा शक्या निमित्तयोगेन न चोपलम्भयोगेन वा परिणामयितुम्. तत् कस्य हेतोर्? न हि तस्याः स्वभावः संविद्यते. यो न संविद्यते सो ऽभावो. न चाभावो ऽभावेन शक्यः परिणामयितुम्. एवं हि बोधिसत्त्वस्य महासत्त्वस्य परिणामो निर्विषो भवति.
SK
यः पुनर् महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा निमित्तयोगेन चोपलम्भयोगेन च तानि कुशलमूलानि परिणामयति तानि मिथ्या परिणामयति न च मिथ्या परिणामं सम्यक्परिणामं बुद्धा भगवन्तो वर्णयन्ति. यं बुद्धा भगवन्तः परिणामं न वर्णयन्ति स तेन परिणामयति. न दानपारमितायां परिणामयति न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां परिणामयति. न षड्पारमिताः परिपूरयिष्यति. न सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् परिपूरयिष्यति. नाध्यात्मशून्यतां न बहिर्धाशून्यतां नाध्यात्मबहिर्धाशून्यतां न यावद् अभावस्वभावशून्यतां नाप्रमाणध्यानारूप्यसमापत्तिर् नार्यसत्यानि नाष्टविमोक्षान् न नवानुपूर्वविहारसमापत्तिर् न शून्यतानिमित्ताप्रणिहितानि नाभिज्ञा न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिकान् बुद्धधर्मान् परिपूरयिष्यति. न समाधीन् न धारणीमुखानि परिपूरयिष्यति. न बुद्धक्षेत्रं परिशोधयिष्यति. न सत्त्वान् परिपाचयिष्यति. (PSP_२-३:१३६) यो न बुद्धक्षेत्रां परिशोधयिष्यति न सत्त्वान् परिपाचयिष्यति स नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तत् कस्य हेतोस्? तथा ह्य् अस्य परिणामः सविषः.
SK
पुनर् अपरं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवम् उपपरीक्षितव्यं, यथा बुद्धा भगवन्तो जानन्ति, अनया च धर्मतया तत् कुशलमूलं परिणामयितव्यम् इत्य्, एवं परिणामितं भवतीति, तथाहम् अपि तया धर्मतया परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये. इति त्रैधातुकापर्यापन्नपरिणामः
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुततं पुण्यं प्रसवेत्, यः कुशलमूलानि निरुपलेपपरिणामनया परिणामयेद्, एवं हि सुभूते तस्य कुलपुत्रस्य वा कुलदुहितुर् वा कुशलमुलपरिणामो ऽग्र आख्यायते ज्येष्ठ आख्यायते श्रेष्ठ आख्यायते वर आख्यायते प्रवर आख्यायते प्रणीत आख्यायते उत्तम आख्यायते अनुत्तम आख्यायते निरुत्तम आख्यायते इति मृदुमहापुण्योदयपरिणामः
SK
पुनर् अपरं सुह्बुते यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे स्रोतआपन्ना भवेयुः, सकृदागामिनो वानागामिनो वार्हन्तो वा भवेयुस्, तान् सर्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्. तत् किं मन्यसे? सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत. (PSP_२-३:१३७)
SK
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य एवं कुशलमूलं निरुपलेपपरिणामनया परिणामयेत्.
SK
पुनर् अपरं सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे प्रत्येकबुद्धा भवेयुस्, तान् सर्वान् प्रत्येकबुद्धान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्. तत् किं मन्यसे? सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य एवं कुशलमूलं निरुपलेपपरिणामनया परिणामयेत्. इति मध्यमहापुण्योदयपरिणामः
SK
पुनर् अपरं सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रतिष्ठेरन्, तत्र ये पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व एकैकं बोधिसत्त्वं गङ्गानदीवालुकोपमान् कल्पांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुः सर्वसुखोपधानैर् उपतिष्ठेयुर्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधो दिशि गङ्गानदीवाल्कोपमेषु लोकधातुषु ये सत्त्वास् ते सर्व एकैकं बोधिसत्त्वं गङ्गानदीवालुकोपमान् कल्पांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुः सर्वसुखोपधानैर् उपतिष्ठेयुः. तत् किं मन्यसे? सुभूते अपि नु ते कुलपुत्रा वा कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसवेयुः.
अथ खलु भगवांश् चातुर्महाराजकायिकान् देवपुत्रान् यावद् अकनिष्ठान् देवपुत्रान् आमन्त्रयामास: यदि देवपुत्रा ये त्रिसाहरमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता भवेयुस्, ते सर्वे ऽतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानां यानि कुशलमूलानि प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावच् च निरुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे तेषां बुद्धानां भगवतां तेषां च श्रावकाणां तेषां च प्रत्येकबुद्धानां ततो ऽन्येषां च सर्वसत्त्वानां यत् कुशलमूलं दानपारमिता निर्जातम् एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितानिर्जातं शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो ऽन्ये चापरिमाणा बुद्धधर्मास् तत् सर्वम् अभिसंक्षिप्यानुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयेयुर् उपलम्भयोगेन. यश् च कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितो भवेत् सो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानां सप्रत्येकबुद्धानां प्रथमचित्तोत्पादम् उपादाय (PSP_२-३:१४०) यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे तेषां सर्वेषाम् अन्येषां च सर्वसत्त्वानां यत् कुशलमूलं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमित ध्यानपारमिता प्रज्ञापारमिता यावद् अपरिमाणा बुद्धधर्मास् तत् सर्वम् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अनुपलम्भयोगेनाद्वययोगेनानिमित्तयोगेन निरुपलेपयोगेन निरीहधर्मयोगेन, अग्रयानुमोदनयानुमोदित अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयेद्, एवं स कुलपुत्रो वा कुलदुहिता वा तेषां पूर्वकानां कुलपुत्राणां कुलदुहितृणाम् अन्तिकाद् बहुतरं पुण्यं प्रसवेत्. इदं च कुशलमूलं तस्य पूर्वकस्य कुशलमूलस्य शततमीम् अपि कलां नोपैति यावद् उपनिषदम् अपि न क्षमते. इदं बोधिसत्त्वेन महासत्त्वेनानुपलम्भयोगेन परिणामितम् अग्रम् आख्यायते यावद् निरुत्तरम् आख्यायते. इति परिणामकारित्रम् इत्य् उक्तः परिणाममनस्कारः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा स च कुशलमूलानुमोदनापरिणामनापुण्यस्कन्ध एकतः पिण्डीकृतो ऽग्रयानुमोदनया नुमोदितः. कथं भगवन्न् अग्रानुमोदना भवति यावन् निरुत्तरानुमोदना भवति?
SK
भगवान् आह: यदा स कुलपुत्रो वा कुलदुहिता वा अतीतानागतप्रत्युत्पन्नानां तथागतानां अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानाम् अन्येषां च सर्वसत्त्वानां कुशलान् धर्मान् न गृह्णाति न मुञ्चति न मन्यते नावमन्यते नोपलभते. एवं चास्य भवति नैवात्र कश्चिद् धर्म उत्पद्यते न निरुध्यते न संक्लिश्यते न व्यवदायते, न च तेषां धर्माणां हानिर् न वृद्धिर् नागमो न निर्गमो न राशिर् नाभावः, एतेन पर्यायेण यच् चैषाम् अतीतानागतप्रत्युत्पन्नां धर्माणां तथतावितथतानन्यतथता धर्मता धर्मस्थितिता धर्मनियामता तथाहम् अनुमोदे अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयामीति परिणामयेत्. एवम् अनुमोदमानस्य बोधिसत्त्वस्य महासत्त्वस्यग्रानुमोदना भवति यावन् निरुत्तरानुमोदना भवति. अस्याः खलु पुनः सुभूते अनुमोदनाया अन्या या अनुमोदनास् ताः. सर्वा शततमीम् अपि कलां नोपयान्ति यावद् उपनिषदम् अपि न क्षमन्ते. इयं चानुमोदना अन्याभ्यो ऽनुमोदनाभ्यो ऽग्र आख्यायते.
SK
पुनर् अपरं सुभूते नवयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा (PSP_२-३:१४१) वा तेषां अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानां प्रथमचित्तोत्पादम् उपादाय यावच् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् कुशलमूलं दानपारमिताप्रतिसंयुक्तम् एवं शिलं क्षान्तिं वीर्यं ध्यानं प्रज्ञापारमिताप्रतिसंयुक्तं यावद् अपरिमाणबुद्धधर्मप्रतिसंयुक्तं, ततो ऽन्येषाम् अपि सर्वसत्त्वानां यानि कुशलमूलानि दानमयानि शिलमयानि भावनामयानि तानि सर्वाण्य् अनुमोदितुकामेन एवम् अनुमोदितव्यम्. यथाधिमुक्तिस् तथा दानम्, एवं शीलं क्षान्तिं वीर्यं ध्यानं यथाधिमुक्तिस् तथा प्रज्ञा, यथाधिमुक्तिस् तथा रूपं वेदनासंज्ञासंस्काराः यथाधिमुक्तिस् तथा विज्ञानं, यथाधिमुक्तिस् तथा धातव आयतनानि यथाधिमुक्तिस् तथा प्रतीत्यसमुत्पादः, यथाधिमुक्तिस् तथाध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावाशून्यता, यथाधिमुक्तिस् तथा सप्तत्रिंशद्बोधिपक्ष्या धर्माः, यथाधिमुक्तिस् तथाप्रमाणध्यानारूप्यसमापत्तयः, यथाधिमुक्तिस् तथार्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः, यथाधिमुक्तिस् तथा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षडभिज्ञाः, यथाधिमुक्तिस् तथा सर्वसमाधयः सर्वधारणीमुखानि, यथाधिमुक्तिस् तथा दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, यथाधिमुक्तिस् तथा विमुक्तिज्ञानदर्शनं, यथाधिमुक्तिस् तथानुमोदना, यथाधिमुक्तिस् तथा ते ऽतीतानागतप्रत्युत्पन्ना बुद्धधर्माः, यथाधिमुक्तिस् तथा बुद्धा भगवन्तः, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवताम् अभिसंबोधिः, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां परिनिर्वाणं, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां श्रावकाः प्रत्येकबुद्धाः, यथाधिमुक्तिस् तथा श्रावकप्रत्येकबुद्धपरिर्वाणं, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां धर्मता, यथाधिमुक्तिस् तथा तेषां श्रावकप्रत्येकबुद्धानां धर्मता, यथाधिमुक्तिस् तथा सर्वधर्माणां सर्वसत्त्वानां मुक्तानाम् अशान्तानाम् अक्लिष्टानाम् अविशुद्धानां धर्माणां धर्मता, अजातानाम् असंजातानाम् अनुत्पन्नानाम् अनिरुद्धानां धर्माणां धर्मता, ऽतथानुत्तरायै सम्यक्संबोधये परिणामयत्य् असंक्रान्त्यविनाशिताम् उपादाय. इयं सा सुभूते बोधिसत्त्वानां महासत्त्वानाम् अग्रा अनुमोदना यावन् निरुत्तरा अनुमोदना. अनया च सुभूते अनुमोदनया समन्वागतो बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां (PSP_२-३:१४२) सम्यक्संबोधिम् अभिसंबुध्यते.
SK
पुनर् अपरं सुभूते दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये ते बुद्धा भगवन्तः. सश्रावकसंघास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् कश्चिद् एव महायानसंप्रस्थितः. कुलपुत्रो वा कुलदुहिता वा तथागतन् अर्हतः सम्यक्संबुद्धान् सश्रावकसंघान् यावज्जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः परिनिर्वृतानां च तेषां बुद्धां भगवतां रात्रिंदिवम् औत्सुक्यम् आपद्येत सत्करणगुरुकरणमाननपूजनैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, शीले च तिष्ठेद् उपलम्भयोगेन क्षान्तिं भावयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां च भावयेद् उपलम्भयोगेन, यश् च कुलपुत्रो वा कुलदुहित वा अनुत्तरायां सम्यक्संबोद्ःऔ संप्रस्थितो दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्न् अनुपलम्भयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. अस्य पुण्याभिसंस्कारस्य कुशलमूलाभिसंस्कारस्य चासौ पौर्वकः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति यावद् उपनिषदम् अपि न क्षमते. अयं स परिणामः, अग्र आख्यायते यावद् निरुत्तर आख्यायते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता उपायकौशलेनानुपलम्भयोगेन तानि कुशलमूलान्य् अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयितव्यानि. इत्य् अनुमोदनामनस्कार इत्य् उक्तो ऽनुमोदनामनस्कारः
भगवान् आह: एवम् अभिनिर्हृता शारिपुत्र प्रज्ञापारमिता न कंचिद् धर्मम् अर्पयति, यतो न कंचिद् धर्मम् अर्पयति तस्मात् प्रज्ञापारमितेति संख्यां गच्छति.
SK
शारिपुत्र आह: कतमं धर्मं नार्पयति?
SK
भगवान् आह: न कुशलं धर्मम् अर्पयति नाकुशलं धर्मम् अर्पयति. एवं न सावद्यं नानवद्यं न सास्रवं नानास्रवं न संस्कृतं नासंस्कृतं न संक्लेशं न निःक्लेशं न लौकिकं न लोकोत्तरं न संक्लिष्टं न व्यवदानं न संसारं न निर्वाणम् अर्पयति. तत् कस्य हेतोर्? न हि प्रज्ञापारमिता कस्यचिद् धर्मस्योपलम्भयोगेन प्रत्युपस्थिता तेन कारणेन न कंचिद् धर्मम् अर्पयति.
भगवान् आह: यत् कौशिक एवं वदसि, किम् इयं प्रज्ञापारमिता सर्वाकारज्ञताम् अपि नार्पयतीति. एवम् एतत् कौशिकैवम् एतत्, प्रज्ञापारमिता कौशिक न कंचिद् धर्मम् अर्पयति नोपलभते सर्वाकारज्ञताम् अपि नार्पयति नोपलभते.
SK
देवेन्द्र आह: कथं भगवन् प्रज्ञापारमिता सर्वाकारज्ञताम् अपि नार्पयति नोपलभते?
SK
भगवान् आह: न हि कौशिक प्रज्ञाप्रमिता यथा नाम यथा निमित्तं यथाभिसंस्कारस् तथार्पयति.
SK
देवेन्द्र आह: कथैः पुनर् भगवन्न् अर्पयति?
SK
भगवान् आह: यथा नोपैति नोपाददाति नधितिष्ठति न प्रजहाति नाभिनिविशते (PSP_२-३:१४६) तथार्पयति यथा न कंचिद् धर्मम् अर्पयति मुञ्चति न प्रतिगृह्णाति. एवं हि कौशिक प्रज्ञापारमिता सर्वधर्मान् नार्पयति न मुञ्चति न प्रतिगृह्णाति.
भगवान् आह: प्रज्ञापारमितया सुभूते प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति, न वेदना न संज्ञा न संस्काराः न विज्ञानं प्रत्यर्पितं भवति. न चक्षुः प्रत्यर्पितं भवति, न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनः प्रत्यर्पितं भवति. न रूपं प्रत्यर्पितं भवति, न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्माः प्रत्यर्पिता भवन्ति. न दानपारमिता प्रत्यर्पिता भवति, न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता प्रत्यर्पिता भवति. नाध्यात्मशून्यता प्रत्यर्पिता भवति. न बहिर्धाशून्यता प्रत्यर्पिता भवति. नाध्यात्मबहिर्धाशून्यता प्रत्यर्पिता भवति यावन् नाभावस्वभावशून्यता प्रत्यर्पिता भवति. न सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रत्यर्पिता भवन्ति. न दशबलवैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिका बुद्धधर्माः प्रत्यर्पिता भवन्ति. न स्रोतआपत्तिफल्ं प्रत्यर्पितं भवति. न सकृदागामिफलं प्रत्यर्पितं भवति. नानागामिफलं प्रत्यर्पितं भवति. नार्हत्त्वं प्रत्यर्पितं भवति. न प्रत्येकबुद्धत्वं प्रत्यर्पितं भवति. नानुत्तरा सम्यक्संबोधिः प्रत्यर्पिता भवति. (PSP_२-३:१४७)
SK
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमितया प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति यावद् न सर्वाकारज्ञता प्रत्यर्पिता भवति?
SK
भगवान् आह: रूपस्य सुभूते ऽनुपलब्ध्या प्रज्ञापारमिता प्रत्यर्पिता भवति यावत् सर्वाकारज्ञतानुपलब्ध्या प्रज्ञापारमिता प्रत्यर्पिता भवति. एवं खलु सुभूते प्रज्ञापारमितया प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति यावद् न सर्वाकारज्ञता प्रत्यर्पित भवति. इति सर्वधर्मानुपलम्भाभिसमयार्प्यणा
भगवान् आह: नो हीदं सुभूते न हि सुभूते प्रज्ञापारमितायाः श्रोतारो द्रष्टारो न प्रज्ञापारमितां ते पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादय. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां ते न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. स्मृत्युपस्थानानि न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. एवम् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न पश्यन्ति न शृण्वन्ति. बुद्धबोधिं न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. इति दानादिपारमितासमुदागमः
भगवान् आह: एवम् एव शारिपुत्र पश्चिमाया जनताया आलोकः कृतो भविष्यत्य् अनेनासौ धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन महानिरयेषु दुःखम् अनुभविष्यति. या एतस्यैव दुःखस्याप्रमाणता बहुतरं चेयच्चिरं दुःखानि प्रत्यनुभविष्यन्तीति, एष एव शुक्लांशिकस्य कुलपुत्रस्य वा कुलदुहितुर् वा तेभ्यो धर्मव्यसनसंवर्तनीयेभ्यः. कर्मभ्यो निर्वृत्तिर् भविष्यति. ते जिवितहेतोर् अपि धर्मं न प्रतिक्षेप्स्यन्ति. मा भूद् अस्माकम् ईदृशैर् दुःखैः समवधानम् इति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: सुसंवृतकायवाग्मनस्कर्मणा (PSP_२-३:१५३) भगवन् कुलपुत्रेण वा कुलदुहिता वा भवितव्यं मा भूद् ईदृशानां दुःखानाम् अनुभवनम् इति तथागतं वा न द्रक्ष्याम इति धर्मं वा न श्रोष्याम इति संघं वा न द्रक्ष्याम इत्य् अपगतबुद्धोत्पादेषु वा बुद्धक्षेत्रेषूपपत्स्यामह इति मनुष्यदरिद्रेषु वा अग्राह्यवचना वा भविष्याम इत्य्. अनेन भगवन् धर्मप्रतिक्षेपवाक्कर्मणा कृतेनोपचितेन व्यसनसंवर्तनीयं कर्मकृतम् उपचितं भवति.
भगवान् आह: चतुर्भिः सुभूते आकारैस् ते मोहपुरुषा इमां गम्भीरां प्रज्ञापारमितां प्रतिबाधिष्यन्ति. कतमैश् चतुर्भिर्? यद् उत माराधिष्ठिताश् च ते मोहपुरुषा भविष्यन्ति. अनभियुक्ताश् च गम्भीरेषु धर्मेषु भविष्यन्ति (PSP_२-३:१५४) न च प्रसादं प्रतिलप्स्यन्ते. अभिनिविष्टाश् च ते पञ्चस्कन्धेषु भविष्यन्ति पापमित्रहस्तगता. दोषचरिताश् च ते मोहपुरुषा भविष्यन्त्य् आत्मोत्कर्षकाः परपंसकाः. एभिः सुभूते चतुर्भिर् आकारैः समन्वागतास् ते मोहपुरुषा गम्भीरां प्रज्ञापारमितां प्रतिक्षेप्स्यन्ति.
या सुभूते रूपस्य विशुद्धिः फलविशुद्धिर् एव सा, वेदनायाः संज्ञायाः संस्काराणां, या विज्ञानस्य विशुद्धिः फलविशुद्धिर् एव सा. या दानपारमिताया विशुद्धिः फलविशुद्धिर् एव सा. एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, या प्रज्ञापारमिताया विशुद्धिः फलविशुद्धिर् एव सा. याध्यात्मशून्यताया विशुद्धिः फलविशुद्धिर् एव सा. यावद् याभावस्वभावशून्यताया विशुद्धिः फलविशुद्धिर् एव सा. एवं या सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां विशुद्धिः फलविशुद्धिर् एव सा. एवम् आर्यसत्यानाम् अप्रमाणानां ध्यानारूप्यसमापत्तीनां या विशुद्धिः फलविशुद्धिर् एव सा. या शून्यतानिमित्ताप्रणिहितानां विशुद्धिः फलविशुद्धिर् एव सा. याष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां विशुद्धिः फलविशुद्धिर् एव सा. या षण्णाम् अभिज्ञानां विशुद्धिः फलविशुद्धिर् एव सा. एवं या सर्वसमाधीनां सर्वधारणीमुखानां विशुद्धिः फलविशुद्धिर् एव सा. या दशानां बोधिसत्त्वभूमीनां विशुद्धिः फलविशुद्धिर् एव सा. या दशानां तथागतबलानां विशुद्धिश् चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां विशुद्धिः फलविशुद्धिर् एव सा. या बोधेर् विशुद्धिः फलविशुद्धिर् एव सा.
SK
पुनर् अपरं सुभूते या रूपविशुद्धिः फलविशुद्धिर् एव सा, या फलविशुद्धिः प्रज्ञापारमिताविशुद्धिः सा, या प्रज्ञापारमिताविशुद्धिः रापविशुद्धिः. (PSP_२-३:१५६) सा इति हि रूपविशुद्धिश् च फलविशुद्धिश् च प्रज्ञापारमिताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावद् या सर्वाकारज्ञताविशुद्धिः प्रज्ञापारमिताविशुद्धिः सा, या प्रज्ञापारमिताविशुद्धिः. सर्वाकारज्ञताविशुद्धिः. सा इति हि सर्वाकारज्ञताविशुद्धिश् च प्रज्ञापारमिताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति विशुद्धिसामान्यम्
SK
पुनर् अपरं सुभूते या आत्मविशुद्धिः रूपविशुद्धिः सा, या रूपविशुद्धिर् आत्मविशुद्धिः सा इति ह्य् आत्मविशुद्धिश् च रूपविशुद्धिश् चाद्वयम् एतद् अद्वैधिकारम् अभिन्नम् अच्छिन्नम्. एवं या सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकविशुद्धिः रूपविशुद्धिः सा, या रूपविशुद्धिर् यावत् पश्यकविशुद्धिः सा इति हि यावत् पश्यकविशुद्धिश् च रूपविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावद् या पश्यकविशुद्धिः सर्वज्ञताविशुद्धिः सा, या सर्वज्ञताविशुद्धिः पश्यकविशुद्धिः सा इति हि पश्यकविशुद्धिश् च सर्वज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
SK
पुनर् अपरं सुभूते आत्मपरिशुद्ध्या रूपविशुद्धी रूपविशुद्ध्या आत्मपरिशुद्धिर् इति ह्य् आत्मपरिशुद्धिश् च रूपपरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकपरिशुद्ध्या रूपविशुद्धिः रूपपरिशुद्ध्या यावत् पश्यकपरिशुद्धिर् इति हि पश्यकपरिशुद्धिश् च रूपपरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावत् पश्यकपरिशुद्ध्या सर्वज्ञतापरिशुद्धिः सर्वज्ञताविशुद्ध्या पश्यकपरिशुद्धिर् इति हि पश्यकविशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
SK
पुनर् अपरं सुभूते रागपरिशुद्ध्या रूपपरिशुद्धिर् यावत् सर्वज्ञतापरिशुद्धिर् इति हि रागपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं दोषमोहपरिशुद्ध्या रूपपरिशुद्धिर् यावत् सर्वज्ञतापरिशुद्धिर् इति हि दोषमोहपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
SK
पुनर् अपरं सुभूते रागदोषमोहपरिशुद्ध्या रूपपरिशुद्धिर् एवं यावत् सर्वज्ञतापरिशुद्धिर् इति हि रागदोषमोहपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. (PSP_२-३:१५७) इति श्रावकस्य क्लेशावरणविशुद्धिः
SK
पुनर् अपरं सुभूते या रूपविशुद्धिः फलविशुद्धिर् एव सा, एवं वेदनासंज्ञासंस्कारा या विज्ञानविशुद्धिः फलविशुद्धिर् एव सा. एवं यावद् अविद्याविशुद्ध्या संस्कारविशुद्धिः संस्कारविशुद्ध्या विज्ञानविशुद्धिर् विज्ञानविशुद्ध्या नामरूपविशुद्धिर् नामरूपविशुद्ध्या षडायतनविशुद्धिः षडायतनविशुद्ध्या स्पर्शविशुद्धिः स्पर्शविशुद्ध्या वेदनाविशुद्धिः वेदनाविशुद्ध्या तृष्णाविशुद्धिः तृष्णाविशुद्ध्या उपादानविशुद्धिर् उपादानविशुद्ध्या भवविशुद्धिर् भवविशुद्ध्या जातिविशुद्धिर् जातिविशुद्ध्या जरामरनशोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्धिर् जरामरनडोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्ध्या सर्वज्ञताविशुद्धिर् इति हि जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्धिश् च सर्वज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति प्रत्येकबुद्धस्य ज्ञेयावरणैकदेशविशुद्धिः
पुनर् अपरं सुभूते या प्रज्ञापारमिताविशुद्धिः सा रूपविशुद्धिर् या रूपविशुद्धिः सा यावत् सर्वाकारज्ञताविशुद्धिर् इति हि प्रज्ञापारमिताविशुद्धिश् च रूपविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नं, वेदनासंज्ञासंस्कारा या प्रज्ञापारमिताविशुद्धिः सा विज्ञानविशुद्धिर् या विज्ञानविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि प्रज्ञापारमिताविशुद्धिश् च विज्ञानविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं ध्यानपारमिताविशुद्धिर् वीर्यपारमिताविशुद्धिः क्षान्तिपारमिताविशुद्धिः शीलपारमिताविशुद्धिर् या दानपारमिताविशुद्धिः सा रूपविशुद्धिर् या रूपविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि दानपारमिताविशुद्धिश् च रूपविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नं, वेदनासंज्ञासंस्कारा या दानपारमिताविशुद्धिः सा विज्ञानविशुद्धिर् या विज्ञानविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि दानपारमिताविशुद्धिश् च विज्ञानविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति मृदुमृदुमार्गः
SK
पुनर् अपरम् अध्यात्मशून्यताविशुद्ध्या यावद् अभावस्वभावशून्यताविशुद्ध्या सर्वाकारज्ञताविशुद्धिर् इति ह्य् अध्यात्मशून्यताविशुद्धिश् च यावद् अभावस्वभावशून्यताविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. स्कन्धधात्वायतनप्रतीत्यसमुत्पादविशुद्ध्या यावद् दशबलवैशारद्यावेणिकबुद्धधर्मविशुद्ध्या सर्वाकारज्ञताविशुद्धिर् इति हि स्कन्धधात्वायतनप्रतीत्यसमुत्पादविशुद्धिश् च पारमिता बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखविशुद्धिर् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
भगवान् आह: प्रकृतिविविक्तत्वात् सुभूते सर्वधर्माणाम्.
SK
सुभूतिर् आह: नमसिकरोमि भगवन् प्रज्ञापारमितायै.
SK
भगवान् आह: तथा हि सुभूते अकृता प्रज्ञापारमितानभिसंस्कृता न सा केनचिच् छक्याभिसंबोद्धुम्. इति धर्मगम्भीर्यम्
SK
सुभूतिर् आह: सर्वधर्मा भगवन् दुरभिसंबोधाः.
SK
भगवान् आह: तथा हि सुभूते न द्वे धर्मप्रकृती एकैव सुभूते (PSP_२-३:१७०) धर्मप्रकृतिर्, या च बुद्धधर्मप्रकृतिः. साप्रकृतिः, याप्रकृतिः सा प्रकृतिर्, या प्रकृतिः सानभिसंस्कृतः. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन एकां प्रकृतिम् अप्रकृतिम् अनभिसंस्कृतिं जानता पश्यता सर्वाः सङ्गकोट्यो विवर्जिता भवन्ति. इति सर्वसङ्गवर्जनम्
SK
सुभूतिर् आह: दुरभिसंबोधा भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: तथा हि सुभूते प्रज्ञापारमिता न केनचिद् दृष्टा न श्रुता न मता न विज्ञाता नाभिसंबुद्धा. इति दुर्बोधता
SK
सुभूतिर् आह: अचिन्त्या भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: तथा हि सुभूते प्रज्ञापारमिता न केनचिद् विज्ञाता, न रूपेण न वेदनया न संज्ञया न संस्कारैर् न विज्ञानेन ज्ञाता यावन् न व्यस्तसमस्तैः स्कन्धधात्वायतनैः प्रतीत्यसमुत्पादाङ्गैर् न पारमिताभिर् न बोधिपक्ष्यैर् धर्मैर् नाप्रमाणध्यानारूप्यसमापत्तिभिर् नाष्टविमोक्षैर् न नवभिर् अनुपूर्वविहारसमापत्तिभिर् न शून्यतानिमित्ताप्रणिहितैर् नाभिज्ञाभिर् न सर्वशून्यताभिर् न सर्वसमाधिभिर् न सर्वधारणीमुखैर् न तथागतबलैर् न वैशारद्यैर् न प्रतिसंविद्भिर् नावेणिकैर् बुद्धधर्मैर् ज्ञाता.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्, सचेद् रूपे न चरति चरति प्रज्ञापारमितायां, सचेद् न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने न चरति चरति प्रज्ञापारमितायाम्. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु न चरति चरति प्रज्ञापारमितायाम्. एवं सर्वपारमितासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु स्मृत्युपस्थानेषु सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेष्व् आर्याष्टाङ्गे मार्गे न चरति चरति प्रज्ञापारमितायाम्. आर्यसत्येषु न चरति चरति प्रज्ञापारमितायाम्. अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिसु शून्यतानिमित्ताप्रणिहितेषु न चरति चरति प्रज्ञापारमितायाम्. दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु न चरति चरति प्रज्ञापारमितायाम्. सर्वज्ञतायाम् अपि न चरति चरति प्रज्ञापारमितायाम्. इति रूपादिप्रयोगः (PSP_२-३:१७१)
SK
सचेद् रूपं न नित्यं नानित्यम् इति चरति चरति प्रज्ञापारमितायां, रूपं न सुखं न दुःखम् इति चरति चरति प्रज्ञापारमितायां, रूपं नात्मा नानात्मेति चरति चरति प्रज्ञापारमितायां, रूपं न शुभं नाशुभम् इति चरति चरति प्रज्ञापारमितायां, वेदनासंज्ञासंस्कारा विज्ञानं न नित्यं नानित्यम् इति चरति चरति प्रज्ञापारमितायां, विज्ञानं न सुखं न दुःखं इति चरति चरति प्रज्ञापारमितायां विज्ञानं नात्मा नानात्मेति चरति चरति प्रज्ञापारमितायां विज्ञानं न शुभं नाशुभम् इति चरति चरति प्रज्ञापारमितायाम्. एवं व्यस्तसमस्तस्कन्धधात्वायतनानि प्रतीत्यसमुत्पादाङ्गानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वज्ञता न नित्या नानित्येति चरति चरति प्रज्ञापारमितायां, सर्वज्ञता न सुखा न दुःखेति चरति चरति प्रज्ञापारमितायां, सर्वज्ञता नात्मा नानात्मेति चरति चरति प्रज्ञापारमितायां, सर्वज्ञता न शुभा नाशुभेति चरति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? न तद् रूपं तथा संविद्यते यस्य नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शुभं वा अशुभं वा, वेदनासंज्ञासंस्कारा न तद् विज्ञानं तथा संविद्यते यस्य नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शुभं वा अशुभं वा. एवं व्यस्तसमस्तस्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावन् न सा सर्वज्ञता तथा संविद्यते यस्या नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शुभं वा अशुभं वा. इति रूपाद्यनित्यादिप्रयोगः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सचेद् रूपम् अपरिपूर्णं परिपूर्णम् इति न चरति चरति प्रज्ञापारमितायां, वेदनासंज्ञासंस्कारा विज्ञानम् अपरिपूर्णं परिपूर्णम् इति न चरति चरति प्रज्ञापारमितायाम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गान्य् अपरिपूर्णानि परिपूर्णानीति न चरति चरति प्रज्ञापारमितायाम्. एवं सर्वपारमिताः (PSP_२-३:१७२) सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखान्य् अपरिपूर्णानि परिपूर्णानीति न चरति चरति प्रज्ञापारमितायाम्. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारमितायाम्. एवम् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञा अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारमितायाम्. एवं दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारमितायां यावत् सर्वज्ञता अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारैनितायां. तत् कस्य हेतोः? रूपस्यापरिपूर्णता परिपूर्णता वा या न तद् रूपम् एवम् अपि न चरति चरति प्रज्ञापारमितायां, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यापरिपूर्णता परिपूर्णता वा या न तद् विज्ञानम् एवम् अपि न चरति चरति प्रज्ञापारमितायाम्. एवं यावत् सर्वज्ञताया अपरिपूर्णता परिपूर्णता वा या न सा सर्वज्ञता एवम् अपि न चरति चरति प्रज्ञापारमितायाम्. इति रूपाद्यपरिपूरिप्रयोग.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायां, वेदनासंज्ञासंस्कारा विज्ञानं सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायाम्. चक्षुः सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायाम्, एवं श्रोत्रं घ्राणं जिह्वा कायो मनः सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं सर्वायतनेषु धातुषु च दानपारमिता ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम्, एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञापारमिता ससङ्गासङ्गेति न चरति चरति प्रज्ञापारमितायाम्. एवं सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः ससङ्गा असङ्गा इति न चरति चरति प्रज्ञापारमितायां, शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वशून्यताः ससङ्गा असङ्गा इति न चरति चऋअति प्रज्ञापारमितायाम्. एवं दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वसमाधयः सर्वधारणीमुखानि सऋवज्ञता ससङ्गासङ्गेति (PSP_२-३:१७३) न चरति चरति प्रज्ञापारमितायाम्.
SK
एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपं ससङ्गम् असङ्गम् इति, न वेदना न संज्ञा न संस्कारा न विज्ञानं ससङ्गम् असङ्गम् इति संजानीते. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताशून्यताबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञाशून्यतानिमित्ताप्रणिहितसमाधिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न ससङ्गा असण्गा इति संजानीते. प्रज्ञापारमितायां चरन् सर्वज्ञता न ससङ्गासङ्गेति संजानीते. न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबोधिर् नानुत्तरा सम्यक्संबोधिः. ससङ्गासङ्गेति संजानीते. इति रूपादिष्व् असङ्गप्रयोगः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यम् एतद् भगवन् यावद् इयं गम्भीरा प्रज्ञापारमिता देश्यमानापि न हीयते, अदेश्यमानापि न हीयते, देश्यमानापि न वर्धते, अदेश्यमानापि न वर्धते.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते प्रज्ञापारमिता देश्यमानापि न हीयते, अदेश्यमानापि न हीयते, देश्यमानापि न वर्धते, अदेश्यमानापि न वर्धते. तद्यथापि नाम सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो यावज्जीवं तिष्ठन्न् आकाशस्य वर्णं भाषेत अवर्णं वा, न खलु पुनर् आकाशस्य वर्णे भाष्यमाणे वृद्धिर् अवर्णे भाष्यमाणे हानिः, न चाकाशं वर्णेन वर्धते अवर्णेन हीयते. इत्य् अधिकारप्रयोगः
SK
तद्यथापि नाम सुभूते मायापुरुषो वर्णे भाष्यमाणे न वर्धते, अवर्णे भाष्यमाणे न परिहीयते, वर्णे भाष्यमाणे नानुनीयते, अवर्णे भाष्यमाणेन प्रतिहन्यते. एवम् एव सुभूते या धर्माणां धर्मता सा देशितापि तावत्य् एव, अदेशितापि तावत्य् एव. इत्य् अकर्तृप्रयोगः
SK
सुभूतिर् आह: दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां भाष्यमाणायां न संसीदति, न विपृष्ठीभवति मानसम्, अत्र च प्रज्ञापारमितायां योगम् आपद्यते, न च प्रत्युदावर्तते ऽनुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? आकाशभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, न चाकाशे प्रज्ञापारमिता प्रज्ञायते, न ध्यानपारमिता न वीर्यपारमिता न क्षान्तिपारमिता न शीलपारमिता न दानपारमिता प्रज्ञायते. नाकाशे रूपं प्रज्ञायते, न वेदना न संज्ञा न (PSP_२-३:१७४) संस्कारा नाकाशे विज्ञायते. नाकाशे ऽध्यात्मशून्यता प्रज्ञायते, न बहिर्धाशून्यता प्रज्ञायते, नाध्यात्मबहिर्धाशून्यता प्रज्ञायते, यावन् नाभावस्वभावशून्यता प्रज्ञायते. नाकाशे स्मृत्युपस्थानानि प्रज्ञायन्ते. नाकाशे सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः प्रज्ञायन्ते. नाकाश आर्यसत्यानि प्रज्ञायन्ते. नाकाशे ऽप्रमाणध्यानारूप्यसमापत्तयः प्रज्ञायन्ते. नाकाशे ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते. नाकाशे शून्यतानिमित्ताप्रणिहिताभिज्ञाः प्रज्ञायन्ते. नाकाशे समाधिधारणीमुखानि प्रज्ञायन्ते. नाकाशे समाधिधारणीमुखानि प्रज्ञायन्ते. नाकाशे शमथविपश्यना प्रज्ञायते. नाकाशे दशतथागतबलानि प्रज्ञायन्ते. नाकाशे चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः प्रज्ञायन्ते. नाकाशे ऽष्टादशावेणिका बुद्धधर्माः प्रज्ञायन्ते. नाकाशे स्रोतआपत्तिफलं प्रज्ञायते. नाकाशे सकृदागामिफलं प्रज्ञायते. नाकाशे ऽनागामिफलं प्रज्ञायते. नाकाशे ऽर्हत्त्वं प्रज्ञायते. नाकाशे प्रत्येकबोधिः प्रज्ञायते. नाकाशे ऽनुत्तरा सम्यक्संबोधिः प्रज्ञायते.
SK
सुभूतिर् आह: नमस्करोमि भगवन् बोधिसत्त्वेभ्यो महासत्त्वेभ्यो यैर् अयं संनाहः संनद्धः. आकाशस्य ते भगवन् कृतशः प्रयोक्तुकामा यतितुकामा ध्यायतुकामा ये सत्त्वानां कृतशः संनाहं संनह्यन्ते. आकाशं ते भगवन् परिमोचयितुकामा ये सत्त्वानां कृतशः संनाहं संनह्यन्ते. महासंनाहसंनद्धास् ते भगवन् बोधिसत्त्वा महासत्त्वा ये आकाशसमानां धर्माणां कृतशः संनाहं संनह्यन्ते. इत्य् उद्देशदुष्करताप्रयोगः
SK
आकाशं ते भगवन्न् अन्तरीक्षम् उत्क्षेप्तुकामा ये सत्त्वानां कृतशः संनाहं संनह्यन्ते. इति प्रयोगदुष्करताप्रयोगः
SK
महावीर्यपारमिताप्राप्तास् ते भगवन् बोधिसत्त्वा महासत्त्वा ये सत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामाः. तत् कस्य हेतोः? सचेद् भगवन्न् अयं त्रिसाहस्रमहासाहस्रो लोकधातुस् तथागतैः परिपूर्णः स्यात्, तद्यथापि नाम नडस्वनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा, ते तथागताः कल्पं वा कल्पावशेषं वा धर्मं देशयेयुः, एकैकश् च तथागतो ऽप्रमेयान् असंख्येयान् अपरिमानान् सत्त्वान् परिनिर्वापयेत्, न च भगवन् सत्त्वधातोर् ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते. तत् कस्य हेतोः? सत्त्वासद्भूतताम् उपादाय, सत्त्वविविक्तताम् उपादाय. एवम् एकैकस्यां दिशि यावद् दशसु दिक्षु सर्वलोकधातवस् तथागतैः परिपूर्णा (PSP_२-३:१७५) भवेयुः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा, ते च तथागतास् तिष्ठन्तः कल्पं वा कल्पावशेषं वा धर्मं देशयेयुः, एकैकश् च तथागतो ऽप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयेत्, न च भगवन् सत्त्वधातोर् ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते. तत् कस्य हेतोः? सत्त्वासद्भूतताम् उपादाय, सत्त्वविविक्तताम् उपादाय. अनेन भगवन् पर्यायेणैवं वदामि; आकाशं ते भगवन् परिमोचयितुकामा ये सत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामाः. इति कारित्रदुष्करताप्रयोगः.
SK
अथ खल्व् अन्यतरस्य भिक्षोर् एतद् अभवत्: नमस्करोमि भगवन् भगवत्यै प्रज्ञापारमितायै यत्र न कश्चिद् धर्म उपलभ्यते न निरुध्यते, शीलस्कन्धश् च प्रज्ञायते, समाधिस्कन्धश् च प्रज्ञायते, प्रज्ञास्कन्धश् च प्रज्ञायते, विमुक्तिस्कन्धश् च प्रज्ञायते, विमुक्तिज्ञानदर्शनस्कन्धश् च प्रज्ञायते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबुद्धत्वं प्रज्ञायते, तथागतो ऽर्हन् सम्यक्संबुद्धः प्रज्ञायते, त्रीणि रत्नानि प्रज्ञायन्ते, बुद्धधर्मसंघरत्नानि प्रज्ञयन्ते, धर्मचक्रप्रवर्तनं प्रज्ञायते. इत्य् अवन्ध्यप्रयोगः
सुभूतिर् आह: यदा बोधिसत्त्वा महासत्त्वाः स्वप्नम् अपि न मन्यन्ते, स्वप्नेन न मन्यन्ते, स्वप्नं ममेति न मन्यन्ते, स्वप्ने ऽपि न मन्यन्ते. एवं यावद् निर्मितम् अपि न मन्यन्ते, निर्मितेन न मन्यन्ते, निर्मितं ममेति न मन्यन्ते, निर्मिते ऽपि न मन्यन्ते, तदा बोधिसत्त्वैर् महासत्त्वैः स्वप्नोपमाः सर्वधर्मा यावन् निर्मितोपमाश् च सर्वधर्माः परिज्ञाता भवन्ति. इति सप्तविधाभिज्ञानप्रयोग इत्य् उक्तः प्रयोगः
SK
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् (PSP_२-३:१७७) रूपं न मन्यते, रूपेण न मन्यते, रूपं ममेति न मन्यते, रूपे ऽपि मन्यते. स्वप्नं न मन्यते, स्वप्नेन न मन्यते, स्वप्नं ममेति न मन्यते, स्वप्ने ऽपि न मन्यते, यावन् निर्मितं न मन्यते, निर्मितेन न मन्यते, निर्मितं ममेति न मन्यते, निर्मिते ऽपि न मन्यते, वेदनासंज्ञासंस्कारा विज्ञानं न मन्यते, विज्ञानेन न मन्यते, विज्ञानं ममेति न मन्यते, विज्ञाने ऽपि न मन्यते. एवं व्यस्तसमस्ताः स्कन्धधात्वायतनानि प्रतित्यसमुत्पादः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वज्ञतां न मन्यते, सर्वज्ञतया न मन्यते, सर्वज्ञतां ममेति न मन्यते, सर्वज्ञतायाम् अपि न मन्यते, स्वप्नं न मन्यते, स्वप्नेन न मन्यते, स्वप्नं ममेति न मन्यते, स्वप्ने ऽपि न मन्यते, यावन् निर्मितं न मन्यते, निर्मितेन न मन्यते, निर्मितं ममेति न मन्यते, निर्मिते ऽपि न मन्यते. इत्य् उक्ता प्रयोगसमता
भगवान् आह: इह सुभूते मैत्रेयो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य न रूपं नित्यम् अनित्यं वेति धर्मं देशयिष्यति. एवं न सुखं न दुःखं नात्मा नानात्मा, न रूपं शुभम् अशुभं वेति धर्मं देशयिष्यति. न रूपं बद्धं मुक्तं वेति धर्मं देशयिष्यति. एवं वेदनासंज्ञासंस्कारा न विज्ञानं नित्यम् अनित्यं वेति धर्मं देशयिष्यति. एवं न सुखं न दुःखं नात्मा नानात्मा न विज्ञानं शुभम् अशुभं वेति धर्मं देशयिष्यति. न विज्ञानं बद्धं मुक्तं वेति धर्मं देशयिष्यति. न रूपम् अतीतं नानागतं न प्रत्युत्पन्नम् इति धर्मं देशयिष्यति. एवं न वेदना न संज्ञा न संस्कारा न विज्ञानम् अतीतं नानागतं न प्रत्युत्पन्नम् इति धर्मं देशयिष्यति. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सर्वपारमितासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेष्व् अभिज्ञासु दशबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वज्ञता नातीता नानागता न प्रत्युत्पन्नेति एवं धर्मं देशयिष्यति. इति दुष्खे धर्मज्ञानक्षान्तिः
सुभूतिर् आह: यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशो मनसिकरिष्यति, तस्य न चक्षूरोगो भविष्यति, न श्रोत्ररोगो न घ्राणरोगो न जिह्वारोगो न कायरोगो भविष्यति, न मनोरोगो भविष्यति, न हीनाङ्गो भविष्यति, न जीर्णकायो भविष्यति. नापि स कुलपुत्रो वा कुलदुहिता वा विषमापरिहारेण कालं करिष्यति. बहूनि चास्य देवतासहस्राणि पृष्ठतः समनुबद्धानि भविष्यन्ति. धर्मश्रवणिकाः चातुर्महाराजकाय्का देवा यावच् छुद्धावासकायिका देवाः पृष्ठतः समनुबद्धा भविष्यन्ति. अष्टम्यां चतुर्दस्यां पञ्चदस्यां च महान् देवतासंघः संनिपतिष्यति. यत्र सद्धर्मभाणकः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां भाषिष्याते. स खलु पुनः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां भाषमाणो बहुतरपुण्यं प्रसवति. अप्रमेयम् असंखेयम् अपरिमाणम् अचिन्त्यम् अतुल्यं पुण्यं प्रसविष्यति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अप्रमेयम् असंख्येअं अपरिमाणम् अचिन्त्यम् अतुल्यं स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति. य इमां प्रज्ञापारमिताम् अष्टम्यां चतुर्दस्यां पञ्चदस्यां च भाषिष्यते तस्य देवपर्षदः पुरतो ऽनुबद्धा भविष्यन्ति. तत् कस्य हेतोर्? महारत्नम् इदं सुभूते यद् उत प्रज्ञापारमिता. इति निरोधे ऽन्वयज्ञानम्
न च सुभूते रत्नपारमितायां कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा संक्लिश्यते वा व्यवदायते वा परिगृह्यते वा च्छोर्यते वा. तत् कस्य हेतोस्? तथा हि ते धर्मा न संविद्यन्ते ये उत्पद्येरन् वा निरुध्येरन् वा संक्लिश्येयुर् वा व्यवदायेयुर् वा परिगृह्येयुर् वा च्छोर्येयुर् वा. नाप्य् अस्मिन् प्रज्ञापारमितारत्ने कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा कुशलो वा अकुशलो वा सास्रवो वा अनास्रवो वा सावद्यो वा अनवद्यो वा संक्लेशो वा (PSP_२-३:१८३) निःक्लेशो वा लोकिको वा लोकोत्तरो वा संस्कृतो वा असंस्कृतो वा. अनेनापि सुभूते पर्यायेण रत्नपारमितेयं यद् उत प्रज्ञापारमिता. इति मार्गे धर्मज्ञानम्
SK
नापीयं सुभूते रत्नपारमिता केनचिद् धर्मेणोपलिप्येत. तत् कस्य हेतोस्? तथा हि ते धर्मा नोपलभ्यन्ते यैर् उपलिप्येत, तेनेयं सुभूते निरुपलिप्ता रत्नपारमिता. इति मार्गे ऽन्वयज्ञानक्षान्तिः
SK
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् अपि न जानाति, एवम् अपि न विकल्पयति, एवम् अपि नोपलभते, एवम् अपि न प्रपञ्चयिष्यति, चरिष्यति प्रज्ञापारमितायां, भावयिष्यति प्रज्ञापारमितां, बुद्धांश् च भगवतो द्रक्ष्यति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम् अर्चयितुम् अपचायितुं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन् सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, अनुप्राप्स्यति सर्वज्ञताम्. इति मार्गे ऽन्वयज्ञानम् इत्य् उक्तो दर्शनमार्गः
SK
सेयं पुनः सुभूते प्रज्ञापारमिता न कस्यचिद् धर्मस्यावाहिका न निर्वाहिका न दर्शिका न निदर्शिका न दायिका न च्छोरिका नोत्पादिका न निरोधिका नोच्छेदिका न शाश्वतिका नैकार्थिका न नानार्थिका नागमिका न निर्गमिका न संक्लेशिका न विशोधिका न हानिकारिका न वृद्धिकारिका नातीता नानागता न प्रत्युत्पन्ना. इति प्रथमसर्वज्ञताधिकारसमाप्तिदीपनम्
SK
सेयं पुनः सुभूते प्रज्ञापारमिता न कामधातुसमतिक्रमिका वा स्थापिका वा, न रूपधातुसमतिक्रमिका वा स्थापिका वा, नारूप्यधातुसमतिक्रमिका वा स्थापिका वा. न दानपारमिताया दायिका वा न मार्गस्य च्छोरिका वा, न शीलक्षान्तिवीर्यध्यानप्रज्ञोपायप्रणिधिबलज्ञानपारमिताया दायिका वा च्छोरिका वा. नाध्यात्मशून्यताया दायिका वा च्छोरिका वा, न बहिर्धाशून्यताया नाध्यात्मबहिर्धाशून्यताया दायिका वा च्छोरिका वा, यावन् नाभावस्वभावशून्यताया दायिका वा च्छोरिका वा. नाप्रमाणध्यानारूप्यसमापत्तीनां दायिका वा च्छोरिका वा. न चतुर्णाम् आर्यसत्यानां नाष्टानां विमोक्षाणां न नवनुपूर्वविहारसमापत्तीनां न शून्यतानिमित्ताप्रणिहितानां दायिका वा च्छोरिका वा, न षण्णाम् अभिज्ञानां दायिका वा च्छोरिका वा, न दशानां बोधिसत्त्वभूमीनां दायिका वा च्छोरिका वा, न दशानां तथागतबलानां दायिका वा च्छोरिका वा, न स्मृत्युपस्थानानां दायिका वा च्छोरिका वा. एवं न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानां दायिका वा च्छोरिका वा, न बलानां (PSP_२-३:१८४) न वैशारद्यानां न प्रतिसंविदां दायिका वा च्छोरिका वा, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां दायिका वा च्छोरिका वा, न समाधीनां न धारणीमुखानां दायिका वा च्छोरिका वा, न स्रोतआपत्तिफलस्य दायिका वा च्छोरिका वा, न सकृदागामिफलस्य नानागामिफलस्य नार्हत्त्वस्य न प्रत्येकबुद्धत्वस्य न सर्वज्ञताया दायिका वा च्छोरिका वा. इति द्वितियं मार्गज्ञताधिकारसमाप्तिदीपनम्
SK
सा खलु पुनर् इयं सुभूते प्रज्ञापारमिता न बुद्धधर्माणां दायिका वा च्छोरिका वा, न पृथग्जनधर्माणां दायिका वा च्छोरिका वा, न श्रावकप्रत्येकबुद्धधर्माणां दायिका वा च्छोरिका वा, नापि बुद्धधर्माणां दायिका वा च्छोरिका वा, न संस्कृतधातोर् दायिका वा च्छोरिका वा. तत् कस्य हेतोर्? उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता. तां तथागतो ऽभिसंबुध्यते ऽप्य् अभिसमेत्य् अप्य् अभिसंबुध्याभिसमेत्य् आचष्टे देशयति विवृणोति विभजत्य् उत्तानीकरोति संप्रकाशयति.
सुभूतिर् आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. सर्वधर्मस्वभावाश् च सर्वधर्मस्वभावैः शून्याः. बोधिसत्त्वाश् च महासत्त्वाः प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. न कंचिद् धर्मम् अभिसंबुध्यन्ते धर्मचक्रं प्रवर्तन्ति, न कंचिद् धर्मं प्रवर्तयन्ति निवर्तयन्ति वा. न च तैः कश्चिद् धर्मः संदृश्यते, न कश्चिद् धर्मो दृश्यते. तत् कस्य हेतोस्? तथा हि सर्वधर्मा नोपलभ्यन्ते ये धर्माः प्रवर्तन्ते वा निवर्तन्ते वा. तत् कस्य हेतोस्? तथा ह्य् अत्यन्तानभिनिविष्टाः सर्वधर्माः. न हि शून्यता प्रवर्तिका वा निवर्तिका वा, नानिमित्तं प्रवर्तकं वा निवर्तकं वा, नाप्रणिहितं प्रवर्तकं वा निवर्तकं वा. या एवंदेशना सा प्रज्ञापारमितायाः प्रकाशना कथना प्रज्ञापना प्रस्थापना विवरणा विभजना सूचना उत्तानीकरणं संप्रकाशना, इयं सा परिशुद्धा प्रज्ञापारमिताया देशना. या च प्रज्ञापारमिताया देशना न केनचिद् देशिता न केनचित् प्रतीच्छिता, सा न केनचित् साक्षात्कृता. या न केनचित् साक्षात्कृता न तत्र कश्चित् परिनिर्वृतो नापि तया धर्मदेशनया कश्चिद् दक्षिणीयः कृतः. इति तृतियं सर्वाकारज्ञताधिकारसमाप्तिदीपनम् इत्य् उक्ता सर्वज्ञता
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्, पूर्वजिनकृताधिकारास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. तथागतावरोपितकुशलमूलास् ते सत्त्वा भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. कल्याणमित्रपरिगृहीतास् ते सत्त्वा भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. कः पुनर् वादो य उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य तथत्वाय प्रतिपत्स्यन्ते, बहुबुद्धपर्युपासितास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. य इमां प्रज्ञापारमितां श्रुत्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य तथत्वाय प्रतिपत्स्यन्ते परिपृष्ठाश् च पूर्वका अपि तैः कुलपुत्रैः कुलदुहितृभिश् च तथागता अर्हन्तः सम्यक्संबुद्धाः परिप्रश्नीकृताः सेविता भजिताः पर्युपासिताः, य इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. बहुबुद्धकोटीषु ते दानपारमितायां चरिताः, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां बहुबुद्धकोटीषु ते प्रज्ञापारमितायां (PSP_४:९) चरिता, य इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते.
SK
अथ खलु आयुष्माञ् च्छारिपुत्रो भगवन्तम् एतद् अवोचत्: ये भगवन् कुलपुत्रा वा कुलदुहितरो वा इमाम् एवं गम्भीरां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते, श्रुत्वा च उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, यथा अविनिवर्तनीया बोधिसत्त्वा महासत्त्वास् तथा ते कुलपुत्राः कुलदुहितरो वा धारयितव्याः. तत् कस्य हेतोः? गम्भीरा भगवन् प्रज्ञापारमिता. न खलु पूर्वम् अचरितेन षट्सु पारमितासु शक्येयं गम्भीरा प्रज्ञापारमिता अधिमोक्तुम्. ये पुनर् भगवन् कुलपुत्राः कुलदुहितरो वा इमां गम्भीरां प्रज्ञापारमितां प्रतिक्षेप्तव्यां मंस्यन्ते पूर्वान्ततो ऽपि तैः कुलपुत्रैः कुलदुहितृभिश् च इयं गम्भीरा प्रज्ञापारमिता प्रतिक्सिप्ता. तत् कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां चास्यां गम्भीरायां प्रज्ञापारमितायां नास्ति श्रद्धा नास्ति प्रसादो नास्ति प्रेम नास्त्य् अधिमुक्तिस् तैः कुलपुत्रैः कुलदुहितृभिश् च न बुद्धा वा बोधिसत्त्वा वा प्रत्येकबुद्धा वा श्रावका वा परिप्रश्नीकृताः, कथं दानपारमितायां चरितव्यं? कथं शीलपारमितायां चरितव्यं? कथञ् च क्षान्तिपारमितायां चरितव्यं? कथं वीर्यपारमितायां चरितव्यं? कथं ध्यानपारमितायां चरितव्यं? कथं प्रज्ञापारमितायां चरितव्यं? कथम् अध्यात्मशून्यतायां चरितव्यं? कथं बहिर्धाशून्यतायां चरितव्यं? कथर अध्यात्मबहिर्धाशून्यतायां चरितव्यं? यावत् कथं अभावस्वभावशून्यतायाञ् चरितव्यं? कथं स्मृत्युपस्थानानि भावयितव्यानि? कथं सम्यक्प्रहाणानि? कथम् ऋद्धिपादाः? कथम् इन्द्रियाणि? कथं बलानि? कथं बोध्यङ्गानि? कथम् आर्याष्टाङ्गो मार्गो भावयितव्यः? कथम् अप्रमाणध्यानारूप्यसमापत्तयो भावयितव्याः? कथम् आर्यसत्यानि भावयितव्यानि? कथम् अष्ट विमोक्षा भावयितव्याः? कथं नवानुपूर्वविहारसमपत्तयो भावयितव्याः? कथं शून्यतानिमित्ताप्रणिहितानि भावयितव्यानि? कथं षड् अभिज्ञा भावयितव्याः? कथं समाधयः समापत्तव्याः? कथं धारणीमुखानि प्रवेष्टव्यानि? कथं दशतथागतबलानि भावयितव्यानि? कथं वैशारद्यानि (PSP_४:१०) भावयितव्यानि? कथं प्रतिसंविदो भावयितव्याः? कथम् अष्टादशावेणिका बुद्धधर्मा भावयितव्या? इति.
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्. सर्वज्ञज्ञानस्य स नमस्कारं करोति, यः प्रज्ञापारमिताया नमस्कारं करोति. तत् कस्य हेतोः? अतो निर्जाता हि कौशिक बुद्धानां भगवतां सर्वाकारज्ञता, सर्वाकारज्ञतानिर्जाता च प्रज्ञापारमिता प्रभाव्यन्ते. सर्वज्ञतां कौशिकातिक्रमितुकामेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां स्थातव्यम्, एवं मार्गज्ञतायां स्थातुकामेन सर्वाकारज्ञताज्ञानम् उत्पादयितुकामेन सर्ववासनानुसंधिक्लेशान् समुद्घातयितुकामेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन धर्मचक्रं प्रवर्तयितुकामेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां स्थातव्यम्, एवं स्रोतआपत्तिफले सत्त्वान् स्थापयितुकामेन सकृदागामिफले अनागामिफले अर्हत्त्वे सत्त्वान् स्थापयितुकामेन प्रत्येकायां बोधौ सत्त्वान् प्रतिष्ठापयितुकामेन, अनुत्तरायां सम्यक्संबोधौ सत्त्वान् प्रतिष्ठापयितुकामेन, भिक्षुसंघं परिकर्षयितुकामेन इह बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगम् आपत्तव्यम्. (PSP_४:११)
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां प्रतिष्ठितो भवति? कथं वा युज्यते? एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां, कथं दानपारमितायां प्रतिष्ठितो भवति? कथं वा योगम् आपद्यते? कथं वा प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां योगम् आपद्यते यावद् अभावस्वभावशून्यतायां योगम् आपद्यते? कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् सप्तत्रिंसद्बोधिपक्षेषु धर्मेषु योगम् आपद्यते? एवम् अप्रमाणध्यानारूप्यसमापत्तिषु. कथं शून्यतानिमित्ताप्रणिहितेषु योगम् आपद्यते? एवम् अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिषु योगम् आपद्यते. कथम् अभिज्ञासु योगम् आपद्यते? एवं दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु. कथम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रज्ञापारमितायाञ् चरन् योगम् आपद्यन्ते बोधिसत्त्वो महासत्त्वः?
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: साधु साधु कौशिक साधु खलु पुनस् त्वं कौशिक यस् त्वं तथागतम् एतम् अर्थं परिप्रश्नीकर्तव्यं मन्यसे. इदम् अपि ते कौशिक बुद्धानुभावेन प्रतिभानम् उत्पन्नम्. तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं ते. इति चत्वारः प्रयोक्ताकारः
SK
इह कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपे न तिष्ठति, यदा रूपे न तिष्ठति तदा रूपे न योगम् आपद्यते, वेदनासंज्ञासंस्कारेषु, विज्ञाने न तिष्ठति यदा विज्ञाने न तिष्ठति तदा विज्ञाने न योगम् आपद्यते. चक्षुषि न तिष्ठति, एवं श्रोत्रे घ्राणे जिह्वायां काये मनसि न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. रूपे न तिष्ठति, एवं शब्दे गन्धे रसे स्प्रष्टव्ये धर्मेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. चक्षुर्विज्ञाने न तिष्ठति, चक्षुःसंस्पर्शे न तिष्ठति, चक्षुःसंस्पर्शप्रत्ययवेदयिते न तिष्ठति, एवं श्रोत्रघ्राणजिह्वाकाये मनोविज्ञाने न तिष्ठति, मनःसंस्पर्शे न तिष्ठति, मनःसंस्पर्शप्रत्ययवेदयिते न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. पृथिवीधातौ न तिष्ठति, एवम् अब्धातौ तेजोधातौ वायुधातौ आकाशधातौ (PSP_४:१२) विज्ञानधातौ न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. अविद्यायां न तिष्ठति, एवं संस्कारेषु विज्ञाने नामरूपे षडायतने स्पर्शे वेदनायां तृष्णायाम् उपादाने भवे जातौ जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. दानपारमितायां न तिष्ठति, एवं शीले क्षान्तौ वीर्ये ध्याने प्रज्ञापारमितायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. अध्यात्मशून्यतायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते यावद् अभावस्वभावशून्यतायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. स्मृत्युपस्थानेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं चतुर्ष्व् अप्रमाणेषु चतुर्षु ध्यानेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेष्व् अष्टासु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु धारणीमुखेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. तत् कस्य हेतोः? तथा हि स रूपं नोपलभते यत्रावतिष्ठेत यत्र वा योगम् आपद्यते, वेदनासंज्ञासंस्कारा, विज्ञानं नोपलभते यत्रावतिष्ठेत यत्र वा योगम् आपद्यते, एवं धातून् आयतनानि प्रतीत्यसमुत्पादाङ्गानि पारमिताः सप्तत्रिंशद्बोधिपक्षान् धर्मान् सर्वशून्यताः सर्वसमाधीन् सर्वधारणीमुखानि अप्रमाणध्यानारूप्यसमापत्तीः अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् नोपलभते यत्रावतिष्ठेत यत्र वा योगम् आपद्यते. इति रूपाद्य् अनवस्थानप्रयोगः
SK
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वो रूपे न युज्यते, यद् रूपे न युज्यते एवं रूपे योगम् आपद्यते, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने न युज्यते, यद् विज्ञाने न युज्यते, एवं विज्ञाने योगम् आपद्यते. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मशून्यतार्यसत्याप्रमाणध्यानारूप्यसमापत्तिषु शून्यतानिमित्ताप्रणिहिताष्टविमोक्षनवानुपूर्वविहारसमापत्त्य् अभिज्ञासर्वसमाधिधारणीमुखदशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशावेणिकेषु (PSP_४:१३) बुद्धधर्मेषु न युज्यते यद् बुद्धधर्मेषु न युज्यते, एवं बुद्धधर्मेषु योगम् आपद्यते. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वः पूर्वान्ततो रूपं नोपलभते, अपरान्ततो रूपं नोपलभते, मध्यतो रूपं नोपलभते, वेदनासंज्ञासंस्कारान्, पूर्वान्ततो विज्ञानं नोपलभते, अपरान्ततो विज्ञानं नोपलभते, मध्यतो विज्ञानं नोपलभते. एवं धातून् आयतनानि प्रतीत्यसमुत्पादाङ्गानि पारमिताः सप्तत्रिंशद्बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहितानि अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्त्यभिज्ञाः सर्वशून्यताः सर्वसमाधीन् सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् पूर्वान्ततो नोपलभते, अपरान्ततो नोपलभते, मध्यतो नोपलभते. इत्य् अयोगप्रयोगः
भगवान् आह: रूपतथतागम्भीरतया शारिपुत्र गम्भीरा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानतथतागम्भीरतया शारिपुत्र गम्भीरा प्रज्ञापारमिता, एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मतथतागम्भीरतया शारिपुत्र गम्भीरा प्रज्ञापारमिता. इति गम्भीरप्रयोगः
SK
शारिपुत्र आह: दुरवगाहा भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: रूपदुरवगाहतया शारिपुत्र दुरवगाहा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानदुरवगाहतया शारिपुत्र दुरवगाहा प्रज्ञापारमिता. एवं धात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि पारमिताः सर्वशून्यताः सर्वसमाधिः सर्वधारणीमुखानि बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मदुरवगाहतया शारिपुत्र दुरवगाहा प्रज्ञापारमिता. इति दुरवगाहप्रयोगः (PSP_४:१४)
SK
शारिपुत्र आह: अप्रमाणा भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: रूपाप्रमाणतया शारिपुत्राप्रमाणा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानाप्रमाणतया शारिपुत्राप्रमाणा प्रज्ञापारमिता. एवं धात्वायतनप्रतीत्यसमुत्पादाङ्गपारमितासर्वशून्यतासर्वसमाधिधारणीमुखबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माप्रमाणतया शारिपुत्राप्रमाणा प्रज्ञापारमिता. इत्य् अप्रमाणप्रयोगः
SK
शारिपुत्र आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति?
SK
भगवान् आह: सचेच् छारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं गम्भीरम् इति न चरति चरति प्रज्ञापारमितायां, वेदना संज्ञा संस्कारा, विज्ञानं गम्भीरम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा गम्भीरा इति न चरति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि या शारिपुत्र यावद् बुद्धधर्माणां गम्भीरता न ते बुद्धधर्माः. इति गम्भीरप्रयोगापरपर्यायो मृदुः पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं दुरवगाहम् इति न चरति चरति प्रज्ञापारमितायां, वेदना संज्ञा संस्कारा, विज्ञानं दुरवगाहम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमितासर्वशून्यतासर्वसमाधिसर्वधारणीमुखबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा दुरवगाहा इति न चरति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि या शारिपुत्र यावद् बुद्धधर्माणां दुरवगाहता न ते बुद्धधर्माः. इति दुरवगाहप्रयोगापरपर्यायो मध्यः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (PSP_४:१५) चरन् रूपम् अप्रमाणम् इति न चरति चरति प्रज्ञापारमितायां, वेदना संज्ञा संस्कारा, विज्ञानम् अप्रमाणम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अप्रमाणा इति न चरति चरति प्रज्ञापारमितायां. तत् कस्य हेतोः? तथा हि या शारिपुत्र यावद् बुद्धधर्माप्रमाणता न ते बुद्धधर्माः. इत्य् अप्रमाणप्रयोगापरपर्यायो ऽधिमात्रः
SK
शारिपुत्र आह: यथा गम्भीरेयं भगवन् प्रज्ञापारमिता दुरवगाहा अप्रमाणा इयं भगवन् प्रज्ञापारमिता तथा नवयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां पुरतो न वक्तव्या मा ते इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा उत्त्रसिषुः संत्रसिषुः संत्रासम् आपत्स्यन्ते. अविनिवर्तनीयस्य यं बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्यो स इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यति न संत्रसिष्यति न संत्रासम् आपत्स्यते न काङ्क्षयिष्यति न निर्विचिकित्सिष्यति, उत्तरे च श्रुत्वा विमोक्षते.
शक्र आह: सन्ति पुनर् भदन्त शारिपुत्र अव्याकृता बोधिसत्त्वा महासत्त्वा य इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते.
SK
शारिपुत्र आह: न ते कौशिक बोधिसत्त्वा महासत्त्वाश् चिरेण व्याकरणं प्रतिलप्स्यन्ते अनुत्तरायाः सम्यक्संबोधेः. य इमां (PSP_४:१६) प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. ते एकं वा द्वौ वा त्रीन् वा तथागतान् अतिक्रमिष्यन्ति. ततो व्याकरणं प्रतिलप्स्यन्ते अनुत्तरायाः सम्यक्संबोधेः.
SK
अथ खलु भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: एवम् एतच् छारिपुत्रैवम् एतत्, चिरयानसंप्रस्थितास् ते शारिपुत्र बोधिसत्त्वा महासत्त्वा भविष्यन्ति. चिरचरिताः षट्सु पारमितासु बहुबुद्धपर्युपासितास् ते शारिपुत्र बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. उत्तरे च श्रुत्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति यथोपदिष्टायां प्रज्ञापारमितायां स्थास्यन्ति.
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: प्रतिभाति मे भगवन् प्रतिभाति मे सुगत.
SK
भगवान् आह: प्रतिभातु ते.
SK
शारिपुत्र आह: तद्यथापि नाम भगवन् स्वप्नान्तरगतो महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां भावयेत्, ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयेत्, यावद् बोधिमण्डे निषीदेद्, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नी भवत्य् अयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरायाः सम्यक्संबोधेः. कः पुनर् वादो? भगवन् यः प्रतिविबुद्धः प्रज्ञापारमितां भावयेत्, ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयेत्, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नी भवत्य् अयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरायाः सम्यक्संबोधेः. इति व्याकरणलाभप्रयोगः
SK
परिपक्वकुशलमूलास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां लप्स्यन्ते श्रवणाय श्रुत्वा च प्रतिपत्स्यन्ते. चिरयानसंप्रस्थितास् ते भगवन् कुलपुत्रा कुलदुहितरश् च भविष्यन्ति, अवरोपितकुशलमूला बहुबुद्धपर्युपासिताः कल्याणमित्रपरिगृहीतास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. अभ्यासन्नास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेर्व्याकरणस्य व्याकरिष्यन्ति वा, (PSP_४:१७) अविनिवर्तनीया वा ते कुलपुत्राः कुलदुहितरश् चानुत्तरायाः सम्यक्संबोधेर्, येषां स्वयम् इयं प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. इत्य् अविनिवर्तनीयप्रयोगः
SK
तद्यथापि नाम भगवन् पुरुषो योजनशतिकाद् अटवीकान्तारान् निष्क्रामेत्, द्वियोजनशतिकात् त्रियोजनशतिकाच् चतुर्योजनशतिकात् पञ्चयोजनशतिकाद् अटवीकान्तारान् निष्क्रामेन् निष्क्रम्य पश्येद् ग्रामस्य नगरस्य निगमस्य वा पूर्वानि निमित्तानि गोपालकान् वा पशुपालकान् वा सीमा वा आरामान् वा वनानि वा उद्यानानि वा उद्याननिमित्तानि वा ग्रामान् वा नगराणि वा निगमान् वा राजधानीन् वा राष्ट्राणि वा पूर्वनिमित्तानि ग्रामस्य नगरस्य निगमस्य वा दृष्ट्वैवं भवति यादृशानीमानि पूर्वनिमित्तानि दृश्यन्ते अभ्यासन्न इतो ग्रामो वा नगरं वा निगमं वा राजधान्यो वा राष्ट्राणि वा भविष्यन्ति. स आश्वासप्राप्तो भवेत्, न चास्य भूयो भवति चौरभयं वा चण्डालभयं वा चण्डमृगभयं वा बुभुक्षाभयं वा पिपासाभयं वा. एवम् एव भगवन् यस्य बोधिसत्त्वस्य महासत्त्वस्य स्वयम् इयं गम्भीरा प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नो ऽयं बोधिसत्त्वो महासत्त्वो भविष्यति व्याकरणस्यानुत्तरायाः सम्यक्संबोधेर् न चिरेणाभिसंभोत्स्यते. तेन च बोधिसत्त्वेन महासत्त्वेन न भेतव्यं श्रावकभूमेर् वा प्रत्येकबुद्धभूमेर् वा. तत् कस्य हेतोर्? इमानि तानि पूर्वनिमित्तानि यद् उतेमां गम्भीरां प्रज्ञापारमितां बोधिसत्त्वो महासत्त्वो लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय.
प्रतिभातु ते शारिपुत्र भूयस्या मात्रया बुद्धानुभावेन.
SK
शारिपुत्र आह: तद्यथा पि नाम भगवन् पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स गच्छेत् महासमुद्रं दर्शनाय यथा यथा गच्छेत् महासमुद्रं तथा तथा पश्येत् स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तेनैवं वेदितव्यं दूरे इतो महासमुद्रो नासन्न (PSP_४:१८) इतो महासमुद्रः. तत् कस्य हेतोः? न हि महासमुद्रस्याभ्यासे कश्चित् स्तम्बो वा स्तम्बनिमित्तं वा पर्वतो वा पर्वतनिमित्तं वा दृश्यन्ते. तद्यथापि नाम भगवन् पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स यथा यथा गच्छेत् महासमुद्रं दर्शनाय तथा तथा न पश्येत् स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तस्यैवं भवति न दूरे इतो महासमुद्र आसन्न इतो महासमुद्रः. तत् कस्य हेतोः? न हि महासमुद्रस्यासन्ने कश्चित् स्तम्बो वा स्तम्बनिमित्तं वा पर्वतो वा पर्वतनिमित्तं वा दृश्यते, किं चापि स पुरुषश् चक्षुषा महासमुद्रन् न पश्यति. अथ च पुनः स निष्ठां गच्छति, आसन्नो ऽस्मि महासमुद्रस्याभ्यासन्न इतो महासमुद्र इति, नेतो भूयो दूरे महासमुद्र इति. एवम् एव भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन एवं वेदितव्यम्, इमां प्रज्ञापारमितां शृणुता उद्गृह्णता धारयता वाचयता पर्यवाप्नुवता योनिशो मनसिकुर्वता, एवं चिन्तयितव्यं किं चाप्य् अहं तेन भगवता न संमुखं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ इयद्भिः कल्पैर् इयद्भिः कल्पशतैर् इयद्भिः कल्पसहस्रैर् इयद्भिः कल्पशतसहस्रैर् इयद्भिः कल्पकोटीनियुतशतसहस्रैस् त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यस इति.
SK
अथ च पुनर् बोधिसत्त्वेन महासत्त्वेन एवं वेदितव्यम्, आसन्नीभूतो ऽस्म्य् अनुत्तरायाः सम्यक्संबोधेर् व्याकरणस्येति. तत् कस्य हेतोः? तथा ह्य् अहम् इमां गम्भीरां प्रज्ञापारमितां लभे दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय श्रुत्वा चोद्गृह्णामि धारयामि वाचयामि पर्यवाप्नोमि योनिशश् च मनसिकरोमि. इति निरुत्तरप्रयोगः
SK
तद्यथापि नाम भगवन् वसन्ते प्रत्युपस्थिते शीर्णपर्णपलाशेषु स्तम्भेषु आकरजातेषु वेदितव्यं जाम्बूद्वीपकैर् मनुष्यैर् नेतश् चिरेण पत्राणि च पुष्पाणि च फलानि च प्रादुर्भविष्यन्ति. तत् कस्य हेतोः? इमानि तानि पूर्वनिमित्तानि स्तम्बेषु दृश्यन्ते नेतश् चिरेण पत्राणि च पुष्पाणि च फलानि च प्रादुर्भविष्यन्ति, आत्तमनस्का जाम्बूद्वीपका मनुष्या भविष्यन्ति तानि च पूर्वनिमित्तानि दृष्ट्वा स्तम्बेषु, एवम् एव भगवन् यो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवनाय श्रुत्वा (PSP_४:१९) चोद्गृह्णाति धारयति वाचयति पर्यवाप्स्यति योनिशश् च मनसिकरोति परिपक्वकुशलमूलः स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यः, बहुबुद्धपर्युपासितः स भगवन् कुलपुत्रो वा कुलदुहिता वा वेदितव्यः. वेदितव्यम् एतद् भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन पूर्वकैर् एव कुशलमूलैर् उपनीतो ऽस्म्य् अनुत्तरायाः सम्यक्संबोधेः, यो ऽहम् इमां गम्भीरां प्रज्ञापारमितां लभे दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्येयं तत्र देवपुत्राः पूर्वबुद्धदर्शिनो भवन्ति. ते प्रमुदिताः प्रीतिसौमनस्यजाताः पूर्वकाणाम् अपि बोधिसत्त्वानां महासत्त्वानाम् इमान्य् एव पूर्वनिमित्तानि अभूवन् व्याकरणाय न चिरेणायं बोधिसत्त्वो महासत्त्वो व्याकरणं प्रतिलप्स्यते अनुत्तरायां सम्यक्संबोधौ. इत्य् आसन्नाभिसंबोधप्रयोगः तद्यथापि नाम भगवन् स्त्रीगुर्विणी सा यथा यथा आसन्नप्रसवा भवति तथा तथास्याः कायो वेष्टते ऽधिमात्रं च काये वेदनाक्लमथश् च जायते, न च चङ्क्रमणशीला भवति, अल्पस्मृतिश् च भवति, अल्पाहारा च भवति, अल्पस्त्यानमिद्धा च भवति, ताभिर् वेदनाभिर् वर्तमानाभिर् अल्पभाष्या च भवति, न च संवासशीला भवति, तेन पूर्वकेणायोनिशोमनसिकारेणासेवितेन भावितेन निषेवितेन इमाम् एवंरूपां वेदनां प्रत्यनुभवामीति. वेदितव्यम् एवं ततो ऽन्याभिः स्त्रीभिर् यादृशान्य् अस्याः स्त्रियो निमित्तानि दृश्यन्ते न चिरेणैवेयं स्त्री प्रसविष्यति. एवम् एव भगवन् बोधिसत्त्वानां महासत्त्वानाम् अवरोपितकुशलमूलानां बहुबुद्धपर्युपासितानां सुचरितचीर्णचरितानां कल्याणमित्रपरिगृहीतानां परिपक्वकुशलमूलानाम् इयं गम्भीरा प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, वेदितव्यम् एतन् न चिरेणैषां बोधिसत्त्वानां महासत्त्वानां व्याकरणं भविष्यति अनुत्तरायाः सम्यक्संबोधेः.
SK
भगवान् आह: साधु साधु शारिपुत्र इदम् अपि ते शारिपुत्र बुद्धानुभावेन प्रतिभानम् उत्पन्नम्. इति क्षिप्राभिसंबोधप्रयोगः
भगवान् आह: तथा हि सुभूते बोधिसत्त्वा महासत्त्वा बहुजनहिताय बहुजनसुखाय प्रतिपन्ना लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानाञ् च मनुष्यानाञ् चानुत्तरायै सम्यक्संबोधये प्रतिष्ठन्ते बोधिसत्त्वचर्याञ् चरन्तो ऽनेकानि सत्त्वशतानि अनेकानि सत्त्वसहस्राणि अनेकानि सत्त्वशतसहस्राणि अनेकानि सत्त्वकोटिनियुतशतसहस्राणि अनुग्रहीष्यन्ति, चतुर्भिः संग्रहवस्तुभिर् दानेन प्रियवद्येन अर्थचर्यया समानार्थतया दशकुशलेषु कर्मपथेषु समादापयन्ति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु समादापयन्ति. आत्मना चैतेषु धर्मेषु प्रतिष्ठिता भवन्ति. आत्मना च दानपारमितायां चरन्ति परांश् च दानपारमितायां प्रतिष्ठापयन्ति. आत्मना च शीलपारमितायां चरन्ति परांश् च शीलपारमितायां प्रतिष्ठापयन्ति. आत्मना च क्षान्तिपारमितायां चरन्ति परांश् च क्षान्तिपारमितायां प्रतिष्ठापयन्ति. आत्मना च वीर्यपारमितायां चरन्ति परांश् च वीर्यपारमितायां प्रतिष्ठापयन्ति. आत्मना च ध्यानपारमितायां चरन्ति परांश् च ध्यानपारमितायां प्रतिष्ठापयन्ति. आत्मना च प्रज्ञापारमितायां चरन्ति परांश् च प्रज्ञापारमितायां प्रतिष्ठापयन्ति. ते च प्रज्ञापारमिताम् आगम्य उपायकौशल्येन सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयन्ति न चात्मना साक्षात् कुर्वन्ति. एवं सकृदागामिफले अनागामिफले अर्हत्त्वे, प्रत्येकायां बोधौ प्रतिष्ठापयन्ति न चात्मना प्रत्येकां बोधिं साक्षात् कुर्वन्ति. आत्मना चाविनिवर्तनीयां भूमिम् आक्रामन्ति परांश् चाविनिवर्तनीयभूमौ प्रतिष्ठापयन्ति. आत्मना च बुद्धक्षेत्रं परिशोधयन्ति, अन्यांश् च बोधिसत्त्वान् बुद्धक्षेत्रपरिशुद्धौ समादापयन्ति. आत्मना च सत्त्वान् परिपाचयन्ति परांश् च सत्त्वपरिपाके समादापयन्ति. आत्मना चाभिज्ञा उत्पादयन्ति परांश् चाभिज्ञाप्राप्तये समादापयन्ति. आत्मना च धारणीमुखं परिशोधयन्ति परान् अपि धारणीमुखपरिशुद्धये समादापयन्ति. आत्मना च प्रतिभानसंपदं प्रतिलभन्ते परान् अपि प्रतिभानसंपदि समादापयन्ति. आत्मना च रूपसंपदं परिगृह्णन्ति परान् अपि रूपसंपत्प्रतिलाभाय समादापयन्ति. आत्मना च लक्षणसंपदं परिगृह्णन्ति परान् अपि (PSP_४:२१) लक्षणसंपत्प्रतिलाभाय समादापयन्ति. आत्मना च कुमारभूतसंपदं परिगृह्णन्ति परान् अपि कुमारभूतसंपत्प्रतिग्रहाय समादापयन्ति. आत्मना च बोधिपक्ष्यान् धर्मान् निष्पादयन्ति परान् अपि बोधिपक्ष्यधर्मपरिनिष्पत्तये समादापयन्ति. आत्मना च सत्यविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहितधारणीमुखान् उत्पादयन्ति परान् अप्य् एषु समादापयन्ति. आत्मना च चत्वारि वैशारद्यानि उत्पादयन्ति परान् अपि चतुर्षु वैशारद्येषु समादापयन्ति. आत्मना च चतस्रः प्रतिसंविद उत्पादयन्ति परान् अपि चतुरः प्रतिसंविदः प्राप्तये समादापयन्ति. आत्मना च महामैत्रीं महाकरुणां महामुदितां महोपेक्षां विभावयन्ति परान् अपि चतुरप्रमाणा विभावनायै समादापयन्ति. आत्मना चाष्टादशावेणिकान् बुद्धधर्मान् निष्पादयन्ति परान् अपि अष्टादशावेणिकेषु बुद्धधर्मेषु समादापयन्ति. आत्मना च सर्वाकारज्ञताम् अनुप्राप्नुवन्ति परांश् च सर्वाकारज्ञतायां समादापयन्ति. आत्मना च सर्ववासनानुसंधिक्लेशान् विजहन्ति परान् अपि सर्ववासनानुसंधिक्लेशोत्सर्गाय समादापयन्ति. आत्मना चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते परांश् च सम्यक्संबोधिम् अभिसंबोधये समादापयन्ति. आत्मना च धर्मचक्रं प्रवर्तयन्ति परांश् च धर्मचक्रं प्रवर्तनाय समादापयन्ति. इति परार्थप्रयोगः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन्न् आश्चर्यं सुगत यावद् बहुगुणसमन्वागतास् ते बोधिसत्त्वा महासत्त्वा ये सर्वसत्त्वानां कृतशः प्रज्ञापारमितायां चरन्ति अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. कथं भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताभावनापरिपूरिं गच्छति?
SK
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपस्य वृद्धिं न समनुपश्यति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य वृद्धिं समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति.
भगवान् आह: यदा च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपस्य परिहाणिं न समनुपश्यति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य परिहाणिं समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाण ध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां यदा सर्वज्ञतायाः परिहाणिं न समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. इत्य् अवृद्ध्यपरिहाणिप्रयोगः
SK
पुनर् अपरं सुभूते यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्म इति न समनुपश्यति, अधर्म इति न समनुपश्यति, अतीतम् इति न समनुपश्यति, अनागतम् इति न समनुपश्यति, प्रत्युत्पन्नम् इति न समनुपश्यति, कुशलम् अकुशलं व्याकृतम् अव्याकृतम् इति न समनुपश्यति, संस्कृतम् इति न समनुपश्यति, असंस्कृतम् इति न समनुपश्यति, कामधातुन् न समनुपश्यति, रूपधातुन् न समनुपश्यति, आरूप्यधातुन् न समनुपश्यति, दानपारमितान् न समनुपश्यति, शीलपारमितान् न समनुपश्यति, क्षान्तिपारमितान् न समनुपश्यति, वीर्यपारमितान् न समनुपश्यति, ध्यानपारमितान् न समनुपश्यति, प्रज्ञापारमितान् न समनुपश्यति यावत् सर्वज्ञतान् न समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. तत् कस्य हेतोः? तथा हि सुभूते धर्माणां धर्मलक्षणताम् उपादाय अविनिवर्तनीयताम् उपादाय रिक्तताम् उपादाय तुच्छताम् उपादाय असारताम् उपादाय वशिकताम् उपादाय. इति धर्माद्यनुपलम्भप्रयोगः
SK
सुभूतिर् आह: अचिन्त्यं भगवन् देश्यते.
SK
भगवान् आह: रूपाचिन्त्यतया सुभूते अचिन्त्यं देश्यते, वेदना संज्ञा (PSP_४:२३) संस्कारा, विज्ञानाचिन्त्यतया सुभूते ऽचिन्त्यं देश्यते. दानपारमिताचिन्त्यतया अचिन्त्यं देश्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताचिन्त्यतयाचिन्त्यं देश्यते. एवं सप्तत्रिंशद्बोधिपक्षधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सर्वज्ञताचिन्त्यतया सुभूते ऽचिन्त्यं देश्यते. सचेत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अचिन्त्यम् इति न संजानीते, वेदना संज्ञा संस्कारा, विज्ञानम् अचिन्त्यम् इति न संजानीते परिपूरयिष्यति प्रज्ञापारमिताम्. एवं धात्वायतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि पारमिताः शून्यता सर्वसमाधयः सर्वधारणीमुखानि बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा सर्वज्ञताचिन्त्येति न संजानीते परिपूरयिष्यति प्रज्ञापारमिताम्. इत्य् अचिन्त्याकारसंज्ञानिरोधप्रयोगः
SK
सुभूतिर् आह: को ऽत्र भगवन् गम्भीरायां प्रज्ञापारमितायाम् अधिमोक्षते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न कल्पयति न विकल्पयति, रूपनिमित्तं न कल्पयति न विकल्पयति, रूपस्वभावन् न कल्पयति न विकल्पयति, वेदना संज्ञा संस्कारा, विज्ञानन् न कल्पयति न विकल्पयति, विज्ञाननिमित्तं न कल्पयति न विकल्पयति, विज्ञानस्वभावन् न कल्पयति न विकल्पयति. एवं धातून् आयतनानि प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि कामरूपारूप्यधातुं दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां (PSP_४:२४) ध्यानपारमितां प्रज्ञापारमिताम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्यप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् सर्वज्ञतान् न कल्पयति न विकल्पयति, सर्वज्ञतानिमित्तन् न कल्पयति न विकल्पयति, सर्वज्ञतास्वभावन् न कल्पयति न विकल्पयति. तत् कस्य हेतोः? तथा हि सुभूते रूपम् अचिन्त्यं, वेदना संज्ञा संस्कारा, विज्ञानम् अचिन्त्यम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्यप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सर्वज्ञता अचिन्त्या. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति षट्सु पारमितासु तथागतावरोपितकुशलमूलो भवति बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति.
SK
सुभूतिर् आह: गम्भीरा भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: रूपगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिताः, सर्वज्ञतागम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता. इत्य् अविकल्पप्रयोगः
वेदितव्यं तेन शारिपुत्र कुलपुत्रेण वा कुलदुहित्रा वा इमां गम्भीरां प्रज्ञापारमितां लिखता वा धारयता वा वाचयता वा उद्दिशता वा स्वाध्यायता वा योनिशो मनसिकुर्वता वा भावयता वा बुद्धानुभावेनाहम् इमां गम्भीरां प्रज्ञापारमितां लिखामि धारयामि वाचयामि उद्दिशामि स्वाध्यायामि भावयामि योनिशो मनसिकरोमि.
SK
शारिपुत्र आह: यः कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति धारयिष्यति वाचयिष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशो मनसिकरिष्यति भावयिष्यति वेदितव्यं भगवन् (PSP_४:२७) सर्वन् तद्बुद्धानुभावेन, सर्वे च ते बुद्धपरिगृहीता भविष्यन्ति.
SK
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, यथा वदसि यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति धारयिष्यति वाचयिष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशो मनसिकरिष्यति भावयिष्यति वेदितव्यं शारिपुत्र सर्वन् तद्बुद्धानुभावेन सर्वे ते बुद्धपरिगृहीता भविष्यन्ति. इति बुद्धसमन्वाहारज्ञापनगुणः
SK
शारिपुत्र आह: ज्ञातास् ते भगवन् ज्ञानेन कुलपुत्राः कुलदुहितरश् च दृष्टास् ते भगवन् मांसचक्षुषा कुलपुत्राः कुलदुहितरश् च तैर् बुद्धैर् भगवद्भिर् ये ते पूर्वदिग्भागे यावद् दशसु दिक्ष्व् अप्रमेयासंख्येयेषु लोकधातुषु अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाञ् च बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति भावयिष्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय प्रतिपत्स्यन्ते.
SK
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, ज्ञातास् ते शारिपुत्र ज्ञानेन कुलपुत्राः कुलदुहितरश् च दृष्टास् ते शारिपुत्र मांसचक्षुषा कुलपुत्राः कुलदुहितरश् च तैर् बुद्धैर् भगवद्भिर् ये ते पूर्वस्यां दिशि यावद् दशसु दिक्ष्व् अप्रमेयासंख्येयेषु लोकधातुषु अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाञ् च ये बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति भावयिष्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय प्रतिपत्स्यन्ते. इति बुद्धप्रत्यक्षीकरणगुणः
SK
ते खलु पुनर् महायानिकाः कुलपुत्राः कुलदुहितरश् च वेदितव्या अभ्यासन्नी भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेः. इति संबोधाभ्यासीकरणगुणः
SK
ये ऽपि ते शारिपुत्र कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारयिष्यन्ति. ते खलु पुनः शारिपुत्र बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च इह गम्भीरायां प्रज्ञापारमितायाम् अधिमुक्तिबहुला भविष्यन्ति, ये ऽपीमां गम्भीरां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. (PSP_४:२८) ते ऽपि शारिपुत्र बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च ज्ञाता दृष्टाश् च बुद्धैर् भगवद्भिस् तथागताश् च बुद्धचक्षुषा पश्यन्ति, तेषाम् अपि कुलपुत्राणां कुलदुहितृणां च महार्थं महानुशंसं महाफलं महाविपाकं य इमां गम्भीरां प्रज्ञापारमितां लिखित्वा धारयिष्यन्ति. ते तेन कुशलमूलेन न जातु बुद्धैर् भगवद्भिर् विरहिता भविष्यन्ति. ते न जात्व् अपायेषूपपत्स्यन्ते देवमनुष्येषूपपत्स्यमाना बुद्धबोधिसत्त्वैर् अविरहिता भविष्यन्ति. अविनिवर्तनीयां भूमिं चातिक्रमिष्यन्ति, ते च बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरो वा तेनैव कुशलमूलेन न जातु विरहिता भविष्यन्ति षड्भिः पारमिताभिः, अध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया न जातु विरहिता भविष्यन्ति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्यध्यानाप्रमाणारूप्यसमापत्तिभिर् न जातु विरहिता भविष्यन्ति, शून्यतानिमित्ताप्रणिहितैर् विमोक्षमुखैर् न जातु विरहिता भविष्यन्ति, अष्टाभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् न जातु विरहिता भविष्यन्ति, अभिज्ञाभिः समाधिधारणीमुखैर् न जातु विरहिता भविष्यन्ति, दशभिस् तथागतबलैः चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् यावद् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् न जातु विरहिता भविष्यन्ति सर्वज्ञतया च. इति महार्थतादिगुणः
SK
इयं च शारिपुत्र प्रज्ञापारमिता तथागतस्यात्ययेन दक्षिणापथे प्रचरिष्यति, तत्र भिक्षुर् भिक्षुण्य् उपासकोपासिका इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति ते देवमानुषिकीसंपत्तिं प्रत्यनुभवमानाः षड्भिः पारमिताभिर् अभ्युद्गमिष्यन्ति बुद्धांश् च भगवतः सत्कुर्वाणा गुरुकुर्वाणा मानयमानाः पूजयमाना अनुपूर्वेण त्रिभिर् यानैः परिनिर्वास्यन्ति यद् उत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
SK
सेयं शारिपुत्र गम्भीरा प्रज्ञापारमिता दक्षिणापथाद् वर्तन्यां प्रचरिष्यति. तत्रापि भिक्षवो भिक्षुण्य् उपासकोपासिकाश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति (PSP_४:२९) वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति, देवमनुष्यसंपत्तिं प्रत्यनुभवमानाः षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति, बुद्धान् भगवतः सत्कुर्वाणा गुरुकुर्वाणा मानयमानाः पूजयमाना अनुपूर्वेण त्रिभिर् यानैः निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
SK
सा खलु पुनर् इयं शारिपुत्र गम्भीरा प्रज्ञापारमिता वर्तन्या उत्तरापथे प्रचरिष्यति, तत्रापि शारिपुत्र भिक्षवो भिक्षुण्य् उपासकोपासिकाश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति, ते देवमनुष्यसंपत्तिं प्रत्यनुभूय षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति, बुद्धांश् च भगवतः सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति, अनुपूर्वेण त्रिभिर् यानैर् निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
SK
तत्र शारिपुत्र इयं गम्भीरा प्रज्ञापारमिता बुद्धकृत्यं करिष्यति तत् कस्य हेतोर्? न हि शारिपुत्र मण्डप्राप्ते धर्मविनये सद्धर्मान्तर्द्धानं भविष्यति, समन्वाहृतास् ते शारिपुत्र मया कुलपुत्राः कुलदुहितरश् च, य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते, ये ऽपि ते कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति लिखित्वा च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्, ते च खलु पुनः शारिपुत्र कुलपुत्रा वा कुलदुहितरश् च तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति देवमानुषिकीसंपत्तिं प्रत्यनुभूय षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति अभ्युद्गम्य बुद्धान् भगवतः सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तो पूजयन्तो ऽनुपूर्वेण त्रिभिर् यानैर् निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. तत् कस्य हेतोर्? दृष्टा हि ते शारिपुत्र कुलपुत्राः (PSP_४:३०) कुलदुहितरश् च तथागतेन बुद्धचक्षुषा वर्णितास् तथागतेन प्रशस्तास् ते तथागतेन, ये ऽपि ते समन्ताद् दशसु दिक्षु सर्वलोकधातुप्रसरेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तैर् अपि तथागतैर् अपि अर्हद्भिः सम्यक्संबुद्धैर् दृष्टास् ते कुलपुत्राः कुलदुहितरश् च बुद्धचक्षुषा वर्णितास् ते प्रशस्तास् ते कुलपुत्राः कुलदुहितरश् च.
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, इयं शारिपुत्र गम्भीरा प्रज्ञापारमिता पश्चिमे काले पश्चिमे समये उत्तरस्यां दिशि वैस्तारिकी भविष्यति. तत्र शारिपुत्र पश्चिमे काले पश्चिमे समये ते कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति श्रुत्वा च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. चिरयानसंप्रस्थितास् ते कुलपुत्राः कुलदुहितरश् च बहुबुद्धपर्युपासितास् ते तथागतावरोपितकुशलमूला य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति श्रुत्वा च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते.
SK
शारिपुत्र आह: कियन्तस् ते भगवन् कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति?, य इमां गम्भीरां प्रज्ञापारमितां पश्चिमे काले पश्चिमे समये उत्तरे दिग्भागे श्रुत्वा लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते.
SK
भगवान् आह: किं चापि शारिपुत्र पश्चिमे काले पश्चिमे समये उत्तरे दिग्भागे बहवो बोधिसत्त्वा महासत्त्वा भविष्यन्ति, अल्पकाः पुनः शारिपुत्र बोधिसत्त्वा महासत्त्वाः कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. इति देशनिरूपणागुणः (PSP_४:३१)
SK
तेन खलु पुनः शारिपुत्र बोधिसत्त्वा महासत्त्वाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. तत् कस्य हेतोः? अनुबद्धा हि तैः कुलपुत्रैः कुलदुहितृभिश् च तथागता अर्हन्तः सम्यक्संबुद्धाः परिपृच्छिताश् च परिप्रश्नीकृताश् च. तत् कस्य हेतोः? प्रज्ञापारमिता परिपूर्णा हि ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, दानपारमितापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अध्यात्मशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, बहिर्धाशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अध्यात्मबहिर्धाशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, यावद् अभावस्वभावशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. एवं स्मृत्युपस्थानसम्यक्प्रहानार्द्धिपादेन्द्रियबलबोध्यङ्गाष्टाङ्गमार्गपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अप्रमाणध्यानारूप्यसमापत्तिपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, आर्यसत्यपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अष्टविमोक्षनवानुपूर्वविहारसमापत्तिपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, शून्यतानिमित्ताप्रणिहिताभिज्ञापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति समाधिधारणीमुखपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. ते खलु पुनः शारिपुत्र कुलपुत्राः कुलदुहितरश् च कुशलमूलोपस्तब्धाश् च बहुजनस्य च ते ऽथ करिष्यन्ति, इमाम् अनुत्तरां सम्यक्संबोधिम् आरभ्य. इति सर्वानास्रवधर्मपरिपूरणगुणः
SK
तत् कस्य हेतोः? तथा ह्य् अमुत्र मया तेषां कुलपुत्राणां कुलदुहितृणां च सर्वज्ञताप्रतिसंयुक्तैव कथा कथिता, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्, तैर् अपि बुद्धैर् भगवद्भिस् तेषां कुलपुत्राणां कुलदुहितृणां च सर्वज्ञताप्रतिसंयुक्तैव कथा कथिता तेषाञ् जातिव्यतिवृत्तानाम् अपि त एव समुदाचारा भविष्यन्ति, यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य, ते परेभ्यः तथैव कथां करिष्यन्ति, यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य. (PSP_४:३२) इति कथापुरुषतागुणः
SK
ते खलु पुनः शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च संहता भविष्यन्ति, ते न शक्यन्ते भेत्तुं मारेण वा मारकायिकाभिर् वा देवताभिर् अनुत्तरायाः सम्यक्संबोधेः प्राग् एवान्यैः पापेच्छैः पापसमाचारैर्, य इमां गम्भीरां प्रज्ञापारमितां प्रतिलप्स्यन्ते. इत्य् अभेद्यतागुणः
SK
ते खलु पुनः शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च इमां प्रज्ञापारमितां श्रुत्वा उदारां प्रीतिं प्रसादं प्रमोद्यं प्रतिलप्स्यन्ते. ते च बहुजनं कुशलमूलेषु प्रतिष्ठापयिष्यन्ति यद् उतानुत्तराम् एव सम्यक्संबोधिम् आरभ्य. इत्य् असाधारणकुशलमूलोत्पत्तिगुणः
भगवान् आह: तथा हि सुभूते पूर्वम् अपि न चरिताः प्रज्ञापारमितायां, ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां, तथा हि सुभूते पूर्वम् अपि न चरिता दानपारमितायां, तेन कारणेन सुभूते आस्वादं न लभन्ते, इह प्रज्ञापारमितायां (PSP_४:३७) भाष्यमाणायाम् उत्थायासनात् प्रक्रमिष्यन्ति.
सुभूतिर् आह: केन कारणेन भगवन् न व्याकृताः प्रज्ञापारमितायाम् उत्थायासनात् प्रक्रमिष्यन्ति?
SK
भगवान् आह: न खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वा अनवक्रान्तनियामा व्याक्रियन्ते अनुत्तरायां सम्यक्संबोधौ, न ममात्र प्रज्ञापारमितायान् नाम गृहीतम् इति प्रसादन् न प्रतिलप्स्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
पुनर् अपरं सुभूते तेषां कुलपुत्राणां कुलदुहितृणां चेमां प्रज्ञापारमितां लिखतां बहूनि प्रतिभानान्य् उत्पत्स्यन्ते, यानीमां गम्भीरां प्रज्ञापारमितां लिख्यमानां विक्षेप्स्यन्ति. तद्यथापि नाम रूपप्रतिभानं शब्दगन्धरसस्प्रष्टव्यधर्मप्रतिभानं दानपारमिताप्रतिभानं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताप्रतिभानं कामधातुप्रतिभानं रूपधातुप्रतिभानम् आरूप्यधातुप्रतिभानम् उद्देशस्वाध्यायप्रतिभानं वैयावृत्यप्रतिभानं स्मृत्युपस्थानप्रतिभानं सम्यक्प्रहाणप्रतिभानम् ऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गप्रतिभानं सर्वध्यानविमोक्षसमाधिसमापत्तिधारणीमुखप्रतिभानम् अध्यात्मशून्यताप्रतिभानं बहिर्धाशून्यताप्रतिभानम् अध्यात्मबहिर्धाशून्यताप्रतिभानं शून्यताशून्यताप्रतिभानं महाशून्यताप्रतिभानं परमार्थशून्यताप्रतिभानं संस्कृतशून्यताप्रतिभानम् असंस्कृतशून्यताप्रतिभानम् अत्यन्तशून्यताप्रतिभानं, यावद् अभावस्वभावशून्यताप्रतिभानं बलप्रतिभानं वैशारद्यप्रतिभानं प्रतिसंविदावेणिकबुद्धधर्मप्रतिभानं, यावद् अनुत्तरं सम्यक्संबोधिप्रतिभानम्. तत् कस्य हेतोर्? अप्रतिभाना हि सुभूते प्रज्ञापारमिता, अचिन्त्या हि सुभूते प्रज्ञापारमिता, निश्चिन्त्याचिन्त्यापगता हि सुभूते प्रज्ञापारमिता, अनुत्पादानिरोधा हि सुभूते प्रज्ञापारमिता, असंक्लेशा अव्यवदाना हि सुभूते प्रज्ञापारमिता, (PSP_४:४१) अविक्षेपा हि सुभूते प्रज्ञापारमिता, अनभिलाप्या हि सुभूते प्रज्ञापारमिता, अव्यापादा हि सुभूते प्रज्ञापारमिता, अनुपलम्भा हि सुभूते प्रज्ञापारमिता. तत् कस्य हेतोर्? न हि सुभूते इह गम्भीरायां प्रज्ञापारमितायाम् इमे धर्माः संविद्यन्ते. सचेत् सुभूते बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा लिखनेभिर् धर्मो विक्षिप्यते. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति बहुविधविषयविकल्पप्रतिभानोत्पादः सुभूतिर् आह: शक्या पुनर् भगवन् प्रज्ञापारमिता लिखितुम्.
SK
भगवान् आह: नो सुभूते, तत् कस्य हेतोर्? न हि सुभूते प्रज्ञापारमितायाः स्वभावः संविद्यते, न ध्यानपारमिताया न वीर्यपारमिताया न क्षान्तिपारमिताया न शीलपारमिताया न दानपारमितायाः स्वभावः संविद्यते, न सर्वशून्यतानां न सप्तत्रिंशद्बोधिपक्षाणां धर्माणां नार्यसत्यानां स्वभावः संविद्यते, नाप्रमाणध्यानारूप्यसमापत्तीनां न शून्यतानिमित्ताप्रणिहितानां नाष्टानां विमोक्षाणां न नवानुपूर्वविहारसमापत्तीनां नाभिज्ञानां स्वभावः संविद्यते, न सर्वसमाधीनां न सर्वधारणीमुखानां स्वभावः संविद्यन्ते, न दशानां बलानां न वैशारद्यानां न प्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां स्वभावः संविद्यते, न सर्वज्ञतायाः स्वभावः संविद्यते. यस्याश् च स्वभावो न संविद्यते, सो ऽभावो यो ऽभावः. सेयं प्रज्ञापारमिता न चाभावेनाभावः शक्यो लिखितुम्. इति लिखनाभिनिवेशान्तरायः
SK
सचेत् पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरश् च इमां प्रज्ञापारमिताम् अभाव इति संज्ञास्यन्ति इदम् अपि तेषां मारकर्म वेदितव्यम्. इत्य् अभावाभिनिवेशान्तरायः
पुनर् अपरं सुभूते धर्मभाणको भिक्षुर् भिक्षादकुलगुरुको भविष्यति स तया भिक्षादकुलगुरुकतया तानि च कुलान्य् अभीक्ष्णं व्यवलोकयितव्यानि मंस्यते स तयाभीक्ष्णकुलव्यवलोकनतया (PSP_४:५२) धर्मश्रवणिकान् प्रत्याख्यास्यति, अस्ति मया युष्मन्तो भिक्षादकुलान्य् अव्यवलोकयितव्यान्य् उपसंक्रमितव्यानि, स तान् धर्मश्रवणिकान् प्रत्याख्यास्यति प्रत्याख्यातास् ते प्रत्युदावर्तिष्यन्ते, इयम् अपि सुभूते विसामग्री भविष्यति प्रज्ञापारमितां लिखतां भावयताम् उद्दिशतां स्वाध्यायताम् इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कुलव्यवलोकनवैधुर्यम्
SK
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेण तथातथोपायेन चेष्टिष्यते यथायथोपायेन, इमां प्रज्ञापारमितां न कश्चिल् लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: केन कारणेन भगवन् मारः पापीयान् भिक्षुवेषेण तथातथा चेष्टिष्यते यथायथा न कश्चिद् इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति?
SK
भगवान् आह: प्रज्ञापारमितानिर्जातानि हि सर्वसत्त्वानां क्लेशप्रहाणान्य् एवं तथातथोपायेन चेष्टिष्यते यथायथा न कश्चिद् इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति.
पुनर् अपरं सुभूते मारः पापीयान् अनेकानि बोधिसत्त्वशतानि अनेकानि बोधिसत्त्वसहस्राणि उपदर्शयति, ये दानपारमितायां चरिष्यन्ति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिष्यन्ति, ते बोधिसत्त्वास् तेषां मारनिर्मितानाम् अन्तिके स्पृहाम् उत्पादयिष्यन्ति स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. तत् कस्य हेतोर्? न हीह सुभूते गम्भीरायां प्रज्ञापारमितायां रूपं संविद्यते, न वेदना न संज्ञा न संस्काराः, न विज्ञानं संविद्यते, न स्कन्धा न धातवो नायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि संविद्यन्ते, न पारमिता न बोधिपक्ष्या धर्मा नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तयः नाष्टविमोक्षा न नवानुपूर्वविहारसमापत्तयः न शून्यतानिमित्ताप्रणिहिताभिज्ञाः संविद्यन्ते, न सर्वशून्यता न सर्वसमाधयः न सर्वधारणीमुखानि संविद्यन्ते, न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्मा न विमोक्षमुखानि न बोधिः संविद्यते, यत्र च सुभूते न रूपं संविद्यते, न वेदना न संज्ञा न संस्कारा न विज्ञानं संविद्यते, न स्कन्धा न धातवो नायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि न पारमिता न बोधिपक्ष्या धर्मा नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तयो नाष्टविमोक्षा न नवानुपूर्वविहारसमापत्तयो न शून्यतानिमित्ताप्रणिहिताभिज्ञा न सर्वशून्यता न सर्वसमाधयो न (PSP_४:५५) सर्वधारणीमुखानि न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्मा न विमोक्षमुखानि न बोधिः संविद्यते, यत्र न बोधिर् न तत्र बुद्धो न बोधिसत्त्वा न श्रावकाः संविद्यन्ते. तत् कस्य हेतोः? स्वभावशून्या हि सुभूते सर्वधर्माः. इत्य् अयथाविषयादिस्पृहोत्पादः
सुभूतिर् आह: कतमः पुनर् भगवंस् तथागतेन लोक इत्य् आख्यातः?
SK
भगवान् आह: पञ्च सुभूते स्कन्धास् तथागतेन लोक आख्यातः.
SK
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमिताया पञ्च स्कन्धा दर्शिताः?
SK
भगवान् आह: न सुभूते प्रज्ञापारमिता इमान् पञ्च स्कन्धान् लुज्यमानान् दर्शयति, न प्रलुज्यमानान् दर्शयति, नोत्पद्यमानान् (PSP_४:५९) दर्शयति, न निरूध्यमानान् दर्शयति, न संक्लिश्यमानान् न व्यवदायमानान् दर्शयति, न वृद्धिं न हानिं दर्शयति, नायूहं न निर्यूहं नातीतान् नानागतान् न प्रत्युत्पन्नान् धर्मान् दर्शयति. तत् कस्य हेतोर्? न हि शून्यता लुज्यते वा प्रलुज्यते वा, नानिमित्तं लुज्यते वा प्रलुज्यते वा, नाप्रणिहितं लुज्यते वा प्रलुज्यते वा, नानभिसंस्करो नानुत्पादो न निरोधो नाभावो नास्वभावो लुज्यते वा प्रलुज्यते वा. एवं हि सुभूते तथागतेन गम्भीरा प्रज्ञापारमिता लोकस्य दर्शयित्री आख्याता. इति लोकस्य ज्ञानम्
SK
ये ऽपि ते सुभूते अप्रमेयाणां सत्त्वानाम् असंख्येयानां सत्त्वानाम् अपरिमाणानां सत्त्वानां चित्तचरितानि प्रजानन्ति, अप्रमेयाः सत्त्वाः परचित्तविदस् ते ऽपि प्रज्ञापारमिताम् आगम्य प्रजानन्ति. न पुनः सुभूते इह गम्भीरायां प्रज्ञापारमितायां सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते, न रूपं न रूपप्रज्ञप्तिर् उपलभ्यते, न वेदना न संज्ञा न संस्कारा, न विज्ञानं न विज्ञानप्रज्ञप्तिर् उपलभ्यते, न चक्षूरूपं न चक्षुर्विज्ञानं न चक्षुःसंस्पर्शो न चक्षुःसंस्पर्शप्रत्ययवेदना उपलभ्यते, न चक्षूरूपप्रज्ञप्तिर् उपलभ्यते, न चक्षुर्विज्ञानप्रज्ञप्तिर् उपलभ्यते, न चक्षुःसंस्पर्शप्रज्ञप्तिर् उपलभ्यते, न चक्षुःसंस्पर्शप्रत्ययवेदनाप्रज्ञप्तिर् उपलभ्यते, एवं न श्रोत्रं न शब्दो न घ्राणं न गन्धो न जिह्वा न रसो न कायो न स्प्रष्टव्यं न मनो न धर्मो न मनोविज्ञानं न मनःसंस्पर्शो न मनःसंस्पर्शप्रत्ययवेदनाप्रज्ञप्तिर् उपलभ्यते. एवं न पारमिता न बोधिपक्ष्या धर्मा न विमोक्षमुखं न बलवैशारद्यप्रतिसंविदो नावेणिकबुद्धधर्मा यावन् न सर्वाकारज्ञताप्रज्ञप्तिर् उपलभ्यते. एवं हि सुभूते इयं गम्भीरा प्रज्ञापारमिता तथागतानां लोकस्य संदर्शयित्री, सा पुनर् इयं गम्भीरा प्रज्ञापारमिता न रूपस्य दर्शयित्री यावन् न सर्वज्ञताया दर्शयित्री. तत् कस्य हेतोः? प्रज्ञापारमिता एव तावत् सुभूते प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, कुतः पुना रूपम् उपलप्स्यते, वेदनासंज्ञासंस्काराः, कुतः पुनर् विज्ञानम् उपलप्स्यते यावत् कुतः पुनः सर्वाकारज्ञता (PSP_४:६०) उपलप्स्यते. इति सर्वचित्तचरितज्ञानम्
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति? इति हि सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य पञ्चानां चक्षुषां तानि परचित्तानि नावभासम् आगच्छन्ति. एवं हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्ध इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति. इत्य् अदृश्यचित्तज्ञानम् पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां च चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां तानि चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितान्य् एवं प्रजानाति, यानि कानिचित् सत्त्वानां चित्तोन्मिञ्जितानि वा निमिञ्जितानि वा संमिञ्जितानि वा प्रसारितानि वा उत्पद्यमानान्य् उत्पद्यन्ते, सर्वाणि तानि रूपसंनिश्रितानि, वेदना संज्ञा संस्काराः, विज्ञानसंनिश्रितानि वा उत्पद्यमानान्य् उत्पद्यन्ते. (PSP_४:६४)
SK
एवं हि सुभूते तथागतस् तेषाम् इमां प्रज्ञापारमिताम् आगम्य चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति, भवति तथागतः परंमरणाद् इति रूपगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति तथागतः परंमरणाद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, भवति तथागतः परंमरणाद् इति विज्ञानगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति तथागतः परंमरणाद् इति विज्ञानगतम् एतत्.
SK
शाश्वतश् च आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, अशाश्वतः, शाश्वतश् चाशाश्वतश् च, नैव शाश्वतो नाशाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, एवं वेदना संज्ञा संस्काराः, शाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, अशाश्वतः, शाश्वतश् चाशाश्वतश् च, नैव शाश्वतो नाशाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
SK
एवम् अन्तवान् आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, एवं वेदना संज्ञा संस्कारा, अन्तवान् आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. एवम् अनन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, अनन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, अन्तवांश् चानन्तश् चात्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, अन्तवांश् चानन्तश् चात्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, नैवान्तवान् नानन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, नैवान्तवान् नानन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
SK
भवत्य् आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् (PSP_४:६५) इति रूपगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, भवत्य् आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
SK
स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्काराः, स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. एवं हि सुभूते तथागतः परसत्त्वानां परपुद्गलानां चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति. इति चित्तोन्मिञ्जितादिज्ञानम्
भगवान् आह: तथा हि सुभूते अक्षया तथता. कस्माद् अक्षया? सर्वधर्माणाम् अक्षयत्वाद् अक्षया तथता, एषा सा सुभूते तथता तथागतेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्याख्याता यद् उत सर्वधर्मतथता. इति सम्यक्संबुद्धस्य तथतावबोधतत्परसमाख्यानप्रज्ञपनज्ञानानि
SK
अथ खलु यावन्तस् त्रिसाहस्रमहासाहस्रलोकधातौ कामावचरा रूपावचराश् च देवपुत्रास् ते सर्वे दिव्यानि चन्दनचूर्णानि परिगृह्य येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते तिष्ठन्न्, एकान्ते स्थिताश् च ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: गम्भीरेयं भगवन् प्रज्ञापारमिता प्रकाश्यते. किंलक्षणा भगवन् प्रज्ञापारमिता?
SK
भगवान् आह: शून्यतालक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, आनिमित्तलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, अप्रणिहितलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता. (PSP_४:६८)
SK
इति शून्यतानिमित्ताप्रणिहितलक्षणानि
SK
अनुत्पादलक्षणा अनिरोधलक्षणा असंक्लेशलक्षणा अव्यवदानलक्षणा अभावलक्षणा अस्वभावलक्षणा अनिश्रितलक्षणा आकाशलक्षणा अशाश्वतलक्षणा अनुच्छेदलक्षणा अनभिसंस्कारलक्षणा अनेकार्थलक्षणा अनानार्थलक्षणा अनागमनलक्षणा आगमनलक्षणा अलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता. एवंलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, तथागतेन लोकसंकेतेन व्यवह्रियते न पुनः परमार्थेन. इत्य् अनुत्पादानिरोधादिज्ञानम्
SK
न हि देवपुत्रा एतानि लक्षणानि सदेवमानुषासुरेण लोकेन शक्यन्ते विकोपयितुम्. तत् कस्य हेतोः? सदेवमानुषासुरो ऽपि हि लोकस् तल्लक्षण, एवं न हि देवपुत्रा लक्षणं लक्षणं विकोपयति, न लक्षणं लक्षणं प्रजानाति, नालक्षणं लक्षणं प्रजानाति, इति हि लक्षणानि च अलक्षणानि च लक्षणालक्षणानि च, तयोर् द्वयोर् अपि नास्ति संभवः, येन प्रजानीयाद् यो वा प्रजानीयात्. इति धर्मताविकोपनज्ञानम्
SK
न हि देवपुत्रा एतानि लक्षणानि रूपसंस्कृतानि, एवं वेदनासंज्ञासंस्कारा, न विज्ञानसंस्कृतानि न धातुसंस्कृतानि नायतनसंस्कृतानि न प्रतीत्यसमुत्पादसंस्कृतानि न दानपारमितासंस्कृतानि न शीलपारमितासंस्कृतानि न क्षान्तिपारमितासंस्कृतानि न वीर्यपारमितासंस्कृतानि ध्यानपारमितासंस्कृतानि प्रज्ञापारमितासंस्कृतानि न सर्वशून्यतासंस्कृतानि न बोधिपक्ष्यधर्मसंस्कृतानि नार्यसत्यसंस्कृतानि नाप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिसंस्कृतानि न शून्यतानिमित्ताप्रणिहितसंस्कृतानि, नाभिज्ञासंस्कृतानि न सर्वसमाधिसंस्कृतानि न सर्वधारणीमुखसंस्कृतानि न तथागतबलसंस्कृतानि न वैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसंस्कृतानि न सर्वज्ञतासंस्कृतानि. इत्य् अनभिसंस्कारज्ञानम्
SK
न हि देवपुत्रा एतानि लक्षणानि मनुष्याणां वा अमनुष्याणां वा सास्रवाणि वा अनास्रवाणि वा लौकिकानि वा लोकोत्तराणि वा संस्कृतानि वा असंस्कृतानि वा.
SK
अथ खलु भगवांस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् एतद् (PSP_४:६९) अवोचत्: यदि कश्चिद् देवपुत्रा आकाशं किं लक्षणम्? इति वदेद्, अपि नु स सम्यग् वदमानो वदेत्.
SK
देवपुत्रा आहुर्: न भगवन् सम्यग् वदमानो वदेत्. तत् कस्य हेतोः? न हि भगवन्न् आकाशं केनचिल् लक्षणेन संविद्यते असंस्कृतत्वाद् आकाशधातोः. इत्य् अविकल्पज्ञानम्
SK
भगवान् आह: उत्पादाद् वा देवपुत्रास् तथागतानाम् अनुत्पादाद् वा स्थितैवैषा धर्मधातुस्थितिर् एवंलक्षणा, यथा स्थितो लक्षणहेतुः सा भूता तथागतेनाभिसंबुद्धा, तस्मात् तथागतस् तथागत इत्य् उच्यते.
सुभूतिर् आह: यदा भगवन् सर्वधर्मा अजानका अपश्यकाः, कथं तदा प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् सर्वधर्मा अजानका अपश्यकाः, कथञ् च सुभूते सर्वधर्मा अजानका अपश्यकाः? सर्वधर्मा हि सुभूते शून्याः ऋक्तकाः तुच्छका असारकाः, अनेन सुभूते पर्यायेण सर्वधर्मा अजानका अपश्यकाः.
SK
पुनर् अपरं सुभूते सर्वधर्मा अजानका अपश्यकाः, कथञ् च सुभूते सर्वधर्मा अजानका अपश्यकाः? सर्वधर्माः सुभूते अनिश्रिता अपर्यापन्नाः, अनेन सुभूते पर्यायेण सर्वधर्मा अजानका अपश्यकाः. एवं खलु सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. सा च पुना रूपस्यादृष्टत्वाद् दर्शयित्री, एवं वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यादृष्टत्वाद् दर्शयित्री, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्यादृष्टत्वाद् दर्शयित्री. एवं यावत् सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री, एवं खलु सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री.
SK
सुभूतिर् आह: कथं भगवन् रूपस्यादृष्टत्वात्? कथं वेदनायाः संज्ञायाः संस्काराणां? कथं विज्ञानस्यादृष्टत्वाद् दर्शयित्री भवति? कथं स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्यादृष्टत्वाद् दर्शयित्री? कथं यावत् सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री?
SK
भगवान् आह: यदा सुभूते न रूपारम्बणं विज्ञनम् उत्पद्यते, एवं हि सुभूते रूपस्यादृष्टत्वाद् दर्शयित्री. एवं यदा सुभूते न वेदनासंज्ञासंस्कारारम्बणं, (PSP_४:७२) यदा न विज्ञानारम्बणं विज्ञानम् उत्पद्यते, एवं विज्ञानस्यादृष्टत्वाद् दर्शयित्री. यदा न स्कन्धधात्वायतनप्रतीत्यसमुत्पादारम्बणं विज्ञानम् उत्पद्यते, एवम् एषाम् अदृष्टत्वाद् दर्शयित्री. यदा न पारमितारम्बणं विज्ञानम् उत्पद्यते, एवं पारमितानाम् अदृष्टत्वाद् दर्शयित्री. एवं सर्वशून्यतानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां पञ्चानाम् अभिज्ञानां सर्वधारणीमुखानां दशतथागतबलानां वैशारद्यानां प्रतिसंविदां, यदा न आवेणिकबुद्धधर्मारम्बणं विज्ञानम् उत्पद्यते, एवम् आवेणिकबुद्धधर्माणाम् अदृष्टत्वाद् दर्शयित्री. यदा सुभूते न सर्वज्ञतारम्बणं विज्ञानम् उत्पद्यते, एवं सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री. एवं हि सुभूते इयं गम्भीरा प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इत्य् अदृष्टार्थदर्शकज्ञानम्
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अचिन्त्यं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्, एवम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्. रूपम् अपि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमं, वेदना संज्ञा संस्कारा, विज्ञानं सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम्, एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमः. एवं यावत् सर्वज्ञता ऽप्य् अचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा, सर्वधर्मा अपि सुभूते ऽचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा, या सुभूते सर्वधर्माणां धर्मता न तत्र चित्तन् न चैतसिका वा धर्मा उपलप्स्यन्ते. तत् कस्य हेतोः? रूपं हि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते, वेदना संज्ञा संस्कारा, विज्ञानं हि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते. एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो न प्रज्ञायते, यावत् सर्वज्ञता ऽप्य् अचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा न प्रज्ञायते.
SK
सुभूतिर् आह: केन कारणेन भगवन् रूपम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते, वेदना संज्ञा संस्कारा विज्ञानम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते. एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो न प्रज्ञायते. एवं यावत् सर्वज्ञतापि भगवन् केन कारणेन ऽचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा न प्रज्ञायते?
SK
भगवान् आह: रूपस्यापि चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञयते. एवं यावत् सर्वाकारज्ञतायाश् चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञायते.
यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां शृणुयात्, श्रुत्वा च लिखेत लिखित्वा च उद्दिश्येद् योनिशश् च मनसिकुर्यात्. एषां खलु पुनः कुलपुत्राणां कुलदुहितृणाञ् च क्षिप्रतरं परिनिर्वाणं प्रतिकाङ्क्षितव्यं, न त्व् एव तेषां श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा प्रज्ञापारमिताविरहितानाम् अन्येषु सूत्रान्तेषु चरताम्. तत् कस्य हेतोः? तथा हि इह गम्भीरायां प्रज्ञापारमितायां सामुत्कर्षिका धर्मा विस्तरेणोपदिष्टा यत्र श्रद्धानुसारिभिर् धर्मानुसारिभिर् अष्टमकैश् च शिक्षितव्यं, यत्र च स्रोतआपन्नैः सकृदागामिभिर् अनागामिभिर् अर्हद्भिः प्रत्येकबुद्धैर् महायानसंप्रस्थितैर् बोधिसत्त्वैर् महासत्त्वैश् च शिक्षितव्यं, यथा तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः शिक्षमाणैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. इति क्षिप्राभिज्ञताविशेषेन समुदये चतुर्थः क्षणः
SK
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा उदानम् उदानयामासुह्: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता, अचिन्त्यपारमितातुल्यपारमिताप्रमेयपारमितासंख्येयपारमितासमसमपारमितेयं भगवन् यद् उत प्रज्ञापारमिता, यत्र हि नाम भगवन्न् इह गम्भीरायां प्रज्ञापारमितायां शिक्षित्वा श्रद्धानुसारिणो निर्यास्यन्ति धर्मानुसारिणो निर्यास्यन्ति अष्टमकाः, स्रोतआपन्नाः सकृदागामिनो (PSP_४:८१) ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः, यत्र शिक्षित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते. न चास्याः प्रज्ञापारमिताया ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते. इत्य् अनूनापूर्णताविशेषेन निरोधे प्रथमक्षणः
SK
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो ऽन्तिकात् प्रक्रान्ता अभूवन्. ते नातिदूरङ् गत्वा अन्तर्हिता अभूवन्, ये कामावचरा देवपुत्रास् ते कामधातौ प्रातिष्ठन्ते, ये रूपावचरा देवपुत्रास् ते रूपधातौ प्रातिष्ठन्ते.
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि अनुत्तरा सम्यक्संबोधिर् न श्रुता भवति, श्रुत्वा च न परिप्रश्नीकृता भवति, तस्येमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
SK
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपीयं गम्भीरा प्रज्ञापारमिता न श्रुता भवति न परिप्रश्नीकृता (PSP_४:८४) न भाविता न बहुलीकृता न योनिशश् च मनसिकृता, एकं वा दिवसं दिवसद्वयं वा दिवसत्रयं वा चत्वारि वा पञ्च वा षड् वा दश वा दिवसानि, इयं गम्भीरा प्रज्ञापारमिता स संहार्या भवति विरहितश् च भवति प्रज्ञापारमितया. तत् कस्य हेतोः? एवम् एतद् भवति सुभूते येन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता पूर्वान्ततो ऽपि न श्रुता न परिप्रश्नीकृता न भाविता न बहुलीकृता न योनिशश् च मनसिकृता, तस्य कञ्चित् कालं च्छन्दो भवति गम्भीरायां प्रज्ञापारमितायां कञ्चित् कालं च्छन्दो न भवति, स पुनर् एवं संह्रियते चलाचलया बुद्ध्या तूलपिचूपमश् च भवति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो न चिरयानसंप्रस्थितो वेदितव्यो न कल्याणमित्रपरिगृहीतो न सम्यक्संबुद्धपर्युपासितः. न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता उद्दिष्टा न स्वाध्यायिता न योनिशो मनसिकृता न प्रज्ञापारमितायां शिक्षितः, न ध्यानपारमितायां न वीर्यपारमितायां न क्षान्तिपारमितायां न शीलपारमितायां न दानपारमितायां शिक्षितः. नाध्यात्मशून्यतायां शिक्षितः यावन् नाभावस्वभावशून्यतायां शिक्षितः, न स्मृत्युपस्थानेषु शिक्षितः, न सम्यक्प्रहाणेषु नर्द्धिपादेषु नेन्द्रियेषु न बलेषु न बोध्यङ्गेषु नार्याष्टाङ्गमार्गे शिक्षितः, न पञ्चस्व् अभिज्ञासु नाप्रमाणध्यानारूप्यसमापत्तिषु नार्यसत्येषु नाष्टविमोक्षेषु शिक्षितः, न नवानुपूर्वविहारसमापत्तिषु न शून्यतानिमित्ताप्रणिहितेषु शिक्षितः, न समाधिषु न धारणीमुखेषु शिक्षितः, न षट्सु अभिज्ञासु शिक्षितः, न तथागतबलेषु शिक्षितः, न वैशारद्येषु न प्रतिसंवित्सु नाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षितः, न सर्वाकारज्ञतायां शिक्षितः. ते न खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वा नवयानसंप्रस्थिता वेदितव्याः, ते धर्ममात्रकेण च श्रद्धामात्रकेण च प्रेममात्रकेण च समन्वागता, न पुनः सत्कुर्वन्तीमां प्रज्ञापारमितां लिखितुं वा वाचयितुं वा उद्देष्टुं वा स्वाध्यायतुं वा योनिशो मनसिकरणाय यावन् न पुनः सुभूते बोधिसत्त्वयानिकाः कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमितां लिखिष्यन्ति (PSP_४:८५) नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशश् च मनसिकरिष्यन्ति नाप्य् अनया गम्भीरया प्रज्ञापारमितया परम् अनुग्रहीष्यन्ति. एवं ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितया, एवं यावत् सर्वाकारज्ञतया नानुग्रहीष्यन्ति. नापीमां गम्भीरां प्रज्ञापारमिताम् अनुभविष्यन्ति. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां, एवं यावत् सर्वाकारज्ञतां नानुभविष्यन्ति. तेषां द्वाभ्यां भूमिभ्याम् अन्यतरा भूमिः प्रतिकाङ्क्षितव्या, यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च इयं गम्भीरा प्रज्ञापारमिता पूर्वान्ततो ऽपि न लिखिता नोद्दिष्टा न स्वाध्याता न योनिशो मनसिकृता नाप्य् अनया प्रज्ञापारमितया कश्चिद् अनुपरिगृहीतो नापि तैर् बोधिसत्त्वैर् महासत्त्वैर् इयं गम्भीरा प्रज्ञापारमितानुभूता, ते न तेषां कुलपुत्राणां कुलदुहितृणाञ् च भूमिद्वयं प्रतिकाङ्क्षितव्यम्. इति समुदागमविशेषेण निरोधे तृतीयः क्षणः
SK
तद्यथापि नाम सुभूते सामुद्रिका नौर् यदा भिन्ना भवति तदा ये तत्र पुरुषाः काष्ठं वा दृतिं वा मृतकुणपं वा नाध्यालम्बन्ते न परिगृह्णन्ति, वेदितव्यम् एतत् सुभूते अप्राप्ता एव ते पुरुषाः कुलं समुद्रे कालं करिष्यन्ति. ये खलु पुनः सामुद्रिकायां नाविभिन्नायां काष्ठं वा दृतिं वा मृतकुणपं वा पुरुषा गृहीतव्यं वा मन्येयुर् गृह्णीयुर् वा, वेदितव्यम् एतत् सुभूते न ते पुरुषा महासमुद्रे कालं करिष्यन्ति, स्वस्तिना ते महासमुद्राद् उत्तरिष्यन्ति, ते अक्षता अनुपहताः स्वस्तिना स्थले स्थास्यन्ति. एवम् एव सुभूते ये ते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च श्रद्धामात्रकेण प्रसादमात्रकेण प्रेममात्रकेण च समन्वागता, इमां प्रज्ञापारमितां न लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति नाध्यालम्बिष्यन्ते, वेदितव्यम् एतत् सुभूते ते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चान्तरा एवाध्वनि व्यवसादम् आपत्स्यन्ते, अप्राप्ता एव सर्वाकारज्ञतां ते श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात्करिष्यन्ति, यावन् न ध्यानपारमितां न वीर्यपारमितां न क्षान्तिपारमितां न शीलपारमितां न दानपारमितां लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति, (PSP_४:८६) नाध्यालम्बिष्यन्ति. एवं न सप्तत्रिंशद् बोधिपक्ष्यान् धर्मान् न चत्वार्य् आर्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तीः, नाध्यात्मशून्यतां यावन् नाभावस्वभावशून्यतां नाष्ट विमोक्षान् न नवानुपूर्वविहारसमापत्तीर् न शून्यतानिमित्ताप्रणिहिताभिज्ञा न सर्वसमाधिसमापत्तीर् न सर्वधारणीमुखानि न दश बलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकान् बुद्धधर्मान् यावन् न सर्वाकारज्ञताप्रतिसंयुक्तान् सूत्रान्तान् लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति नाध्यालम्बिष्यन्ति, वेदितव्यम् एतत् सुभूते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चान्तराप्य् अध्वनि व्यवसादम् आपत्स्यन्ते, अप्राप्ता एव सर्वाकारज्ञतां ते श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात्करिष्यन्ति. येषां खलु सुभूते बोधिसत्त्वयानिकानां पुद्गलानाम् अस्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, ते च इमां प्रज्ञापारमितां लिखिष्यन्त्य् उद्देक्ष्यन्ति स्वाध्यास्यन्ति अध्यालम्बिष्यन्ते योनिशो मनसिकरिष्यन्ति, पश्य सुभूते कुलपुत्राणां कुलदुहितृणां च श्रद्धां क्षान्तिं प्रेम प्रसादम् अध्याशयं रुचिम् अधिमुक्तिं च्छन्दं त्यागम् अनिक्षिप्तधुरताम् अनुत्तरायां सम्यक्संबोधौ, यैः प्रज्ञापारमिता परिगृहीता ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता परिगृहीता, यैर् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सप्तत्रिंशद् बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणानि ध्यानारूप्यसमापत्तयः परिगृहीताः, यैर् अष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि परिगृहीतानि, यैर् दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद आवेणिका बुद्धधर्माः परिगृहीताः, यैः समाधिधारणीमुखानि पञ्चाभिज्ञाः परिगृहीताः, यैर् यावत् सर्वाकारज्ञता परिगृहीता ते नान्तराप्य् अध्वनि व्यवसादम् आपत्स्यन्ते, ते ऽतिक्रम्य श्रावकभूमिञ् च प्रत्येकबुद्धभूमिञ् च सत्त्वांश् च परिपाच्य बुद्धक्षेत्रं परिशोध्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. इत्य् आलम्बनविशेषेण निरोधे चतुर्थः क्षणः
तद्यथापि नाम सुभूते पुरुषो विंशतिवर्षशतिको जात्या जीर्णो वृद्धो महल्लकस् तस्य कश्चिद् एव शरीरे व्याधिर् उत्पद्येत वातिको वा पैत्तिको वा श्लेष्मिको वा सांनिपातिको वा, तत् किं मन्यसे? सुभूते अपि नु स पुरुषो मुक्तकः शक्तः स्वयम् उत्क्रान्तुम्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: कश्चित् पुनः सुभूते स पुरुष उत्तिष्ठेत्?
SK
सुभूतिर् आह: किं चापि भगवन् स पुरुषो मञ्चाद् उत्तिष्ठेद्, अथ च पुनर् अप्रतिबलः क्रोशान्तं वा प्रक्रमितुं स तया जरया तैश् च व्याधिभिः क्षपितः, किं चापि ततो मञ्चाद् उत्तिष्ठेद्, अथ च पुनः सो ऽप्रतिबलः प्रक्रमितुम्. (PSP_४:९०)
SK
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च प्रज्ञापारमितयापरिगृहीत उपायकौशल्येन चापरिगृहीतो, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितयापरिगृहीतो, अध्यात्मशून्यतया यावद् अभावस्वभावशून्यतयापरिगृहीतः, स्मृत्युपस्थानैर् अपरिगृहीतः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् अपरिगृहीतो, ऽप्रमाणध्यानारूप्यसमापत्तिभिर् आर्यसत्यैश् चापरिगृहीतः, शून्यतानिमित्ताप्रणिहितैर् अपरिगृहीतो, दशबलवैशारद्यावेणिकबुद्धधर्मैर् अपरिगृहीतो, वेदितव्यम् एतत् सुभूते ऽयं बोधिसत्त्वो ऽन्तरा व्यध्वनि श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति. तत् कस्य हेतोः? तथा हि स प्रज्ञापारमितया अपरीगृहीत उपायकौशल्येन चापरिगृहीतो यावत् सर्वाकारज्ञतयापरिगृहीतः. तद्यथापि नाम सुभूते स एव पुरुषो विंशतिवर्षशतिको जात्या जीर्णो वृद्धो महल्लकः, स वातेन वा पित्तेन वा श्लेष्मना वा सांनिपातेन वा परिक्षपितस्, तं मञ्चाद् उत्स्थाप्य द्वौ बलवन्तौ पुरुषौ वामदक्षिणयोः पार्श्वयोर् अबलं व्यानुपरिगृह्य एवं वदेताम्: आगच्छ त्वं भोः पुरुष येनेच्छसि येन कामो ऽनुपरिगृहीतस् त्वम् आवाभ्यां नान्तरा पतिष्यसि यावन् न तत् स्थानम् अनुप्राप्तो भविष्यसि. एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च बोधिसत्त्वः प्रज्ञापारमितया परिगृहीत उपायकौशल्येन च परिगृहीतो, ध्यानपारमितया परिगृहीतो, वीर्यपारमितया परिगृहीतः, क्षान्तिपारमितया परिगृहीतः, शीलपारमितया परिगृहीतो, दानपारमितया परिगृहीतो, ऽध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया परिगृहीतः, वेदितव्यम् एतत् सुभूते नायं बोधिसत्त्वो महासत्त्वो ऽन्तरा संसत्स्यते, प्रतिबलो ऽयं बोधिसत्त्वो महासत्त्वस् तत् स्थानम् अनुप्राप्तुं यद् उतानुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि प्रज्ञापारमितोपायकौशल्येनाविरहितः. (PSP_४:९१)
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वयानसंप्रस्थिताः कुलपुत्राः कुलदुहितरश् चापरिगृहीताः प्रज्ञापारमितोपायकौशलेन चापरिगृहीताः श्रावकभूमिं प्रत्येकबुद्धभूमिञ् च पतन्ति?
SK
भगवान् आह: साधु साधु सुभूते यस् त्वं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतम् अर्थं परिप्रश्नीकर्तव्यं मन्यसे, इह सुभूते बोधिसत्त्वो महासत्त्व आदित एव यद् दानन् ददाति तद् अहंकारममकारपतितया संतत्या ददाति, यच् छीलं रक्षति, यां क्षान्तिं भावयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तद् अहंकारममकारपतितेन चित्तेन भावयति, तस्य तद् दानन् ददत एवं भवति, अहं दानं ददामीदन् दानं ददामि, अस्मै दानन् ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, अहं शीलवान्, अहं क्षमामि, अहं क्षान्तिं संपादयामि, अहं क्षमावान्, अहं वीर्यम् आरभे, ऽहम् आरब्धवीर्यो, ऽहं वीर्यवान्, अहं ध्यानं समापद्ये, अहं ध्यायामि, अहं ध्यानवान्, अहं प्रज्ञां भावयामीमां प्रज्ञां भावयामि, अहं प्रज्ञावान्, स तेन दानेन मन्यते तद् दानं मन्यते दानं ममेति मन्यते, एवं शीलं क्षान्तिं वीर्यं ध्यानं, तया प्रज्ञया मन्यते तां प्रज्ञां मन्यते प्रज्ञां ममेति मन्यते. तत् कस्य हेतोः? न हि दानपारमिताया एते विकल्पाः संविद्यन्ते. तत् कस्य हेतोः? आरमिता हि दानपारमिता, एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न हि प्रज्ञापारमिताया एते विकल्पाः संविद्यन्ते. तत् कस्य हेतोः? आरमिता हि प्रज्ञापारमिता, स च बोधिसत्त्वयानिकः पुद्गलो नारं जानाति न पारं जानाति, सो ऽपरिगृहीतो दानपारमितया शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितयापरिगृहीतो यावत् सर्वाकारज्ञतयापरिगृहीतः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, न निर्यास्यति सर्वाकारज्ञतायाम्. कथञ् च बोधिसत्त्वो ऽनुपायकुशलो भवति? इह सुभूते यो बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा आदाव् एवम् अनुपायेन दानं ददाति, अनुपायेन शीलं रक्षति, अनुपायेन क्षान्तिं संपादयति, अनुपायेन वीर्यम् आरभते, अनुपायेन ध्यानं समापद्यते, अनुपायेन प्रज्ञां भावयति, तस्यैवं भवति, अहं दानं ददामि, इदं दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, अहं क्षान्तिं संपादयामि, इमां क्षान्तिं संपादयामि, अहं (PSP_४:९२) वीर्यम् आरभे, इदं वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, स दानं मन्यते दानेन मन्यते दानं ममेति मन्यते, शीलं मन्यते शीलेन मन्यते शीलवान् अहम् इति मन्यते, क्षान्तिं मन्यते क्षान्त्या मन्यते क्षमावान् अहम् इति मन्यते, वीर्यं मन्यते वीर्येण मन्यते वीर्यं ममेति मन्यते, ध्यानं मन्यते ध्यानेन मन्यते ध्यानवान् अहम् इति मन्यते, प्रज्ञां मन्यते प्रज्ञया मन्यते प्रज्ञा ममेति मन्यते. तत् कस्य हेतोः? न हि दानपारमितायां विकल्पः संविद्यते यथासौ विकल्पयति. तत् कस्य हेतोः? तथा ह्य् आरमितैषा यद् उत दानपारमिता, आरमितैषा यद् उत शीलपारमिता, आरमितैषा यद् उत क्षान्तिपारमिता, आरमितैषा यद् उत वीर्यपारमिता, आरमितैषा यद् उत ध्यानपारमिता. न हि प्रज्ञापारमितायां विकल्पः संविद्यते यथासौ विकल्पयति. तत् कस्य हेतोः? तथा ह्य् आरमितैषा यद् उत प्रज्ञापारमिता, स च बोधिसत्त्वयानिकः कुलपुत्रो नारं जानाति न पारं जानाति, सो ऽपरिगृहीतो दानपारमितया परिगृहीतः शीलपारमितयापरिगृहीतः क्षान्तिपारमितयापरिगृहीतो वीर्यपारमितयापरिगृहीतो ध्यानपारमितयापरिगृहीतः प्रज्ञापारमितयापरिगृहीत, एवं यावत् सर्वाकारज्ञतया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, न निर्यास्यति सर्वाकारज्ञतायाम्. एवं हि सुभूते बोधिसत्त्वः प्रज्ञापारमितया चोपायकौशलेन चापरिगृहीतः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया चोपायकौशलेन च परिगृहीतो न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतति, अनुत्तरां च सम्यक्संबोधिम् आरागयति? इह सुभूते बोधिसत्त्वो महासत्त्व आदाव् एव दानं ददन्, नाहंकारममकारपतितेन चेतसा दानन् ददाति, नाहंकारममकारपतितेन चेतसा शीलं रक्षति, नाहंकारममकारपतितेन चेतसा क्षान्तिं संपादयति, नाहंकारममकारपतितेन चेतसा वीर्यम् आरभते, नाहंकारममकारपतितेन चेतसा ध्यानं समापद्यते, नाहंकारममकारपतितेन चेतसा प्रज्ञां भावयति, तस्य नैवं भवति, अहं दानन् ददामीदन् दानन् ददाम्य् अस्यै दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, एषु शीलं रक्षामि, अहं क्षान्तिं संपादयामि, इमां क्षान्तिं संपादयामि, अस्मै क्षान्तिम् (PSP_४:९३) संपादयामि, अहं वीर्यम् आरभे, इदं वीर्यम् आरभे, अस्यार्थे वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, एषु ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, अस्यार्थे प्रज्ञां भावयामि, स दानं न मन्यते दानेन न मन्यते दानं ममेति न मन्यते, शीलं न मन्यते शीलेन न मन्यते शीलं ममेति न मन्यते, क्षान्तिं न मन्यते क्षान्त्या न मन्यते क्षान्तिं ममेति न मन्यते, वीर्यं न मन्यते वीर्येण न मन्यते वीर्यं ममेति न मन्यते, ध्यानं न मन्यते ध्यानेन न मन्यते ध्यानं ममेति न मन्यते, प्रज्ञां न मन्यते प्रज्ञया न मन्यते प्रज्ञा ममेति न मन्यते. तत् कस्य हेतोः? तथा हि दानपारमितायां विकल्पो न संविद्यते येन मन्यते, एवं शीलक्षान्तिवीर्यध्यानपारमितायां विकल्पो न संविद्यते येन मन्यते, तथा हि प्रज्ञापारमितायां विकल्पो न संविद्यते येन मन्यते, आरमितैषा यद् उत दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता आरमितैषा यद् उत प्रज्ञापारमिता, स च बोधिसत्त्वो महासत्त्व आरमिताञ् च पारमिताञ् च न मन्यते, स दानपारमितया परिगृहीतः, शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया, प्रज्ञापारमितया च परिगृहीतो, यावत् सर्वाकारज्ञतया परिगृहीतो न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतति, सर्वाकारज्ञतां चारागयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया परिगृहीत उपायकौशलेन च परिगृहीतो न श्रावकभूमिं न प्रत्येकबुद्धभूमिं पतति. एवम् उपायकौशलपरिगृहीतो ऽनुत्तरां सम्यक्संबोधिम् आरागयति. इति संपरिग्रहविशेषेण मार्गे तृतीयः क्षणः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन्न् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं? कथं ध्यानपारमितायां शिक्षितव्यं? कथं वीर्यपारमितायां शिक्षितव्यं? कथं क्षान्तिपारमितायां शिक्षितव्यं? कथं शीलपारमितायां शिक्षितव्यम्? कथं दानपारमितायां शिक्षितव्यं? कथं यावद् आवेणिकबुद्धधर्मेषु शिक्षितव्यं?
SK
भगवान् आह: इह सुभूते आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितुकामेन ध्यानपारमितायां वीर्यपारमितायां (PSP_४:९४) क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षितुकामेन यावत् सर्वाकारज्ञतायां शिक्षितुकामेन कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि, ये ऽस्याः प्रज्ञापारमिताया उद्देष्टारः, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया उद्देष्टारः, तस्येमाङ् गम्भीरां प्रज्ञापारमिताम् एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र यद्यद् एव दानन् ददासि तत्तत् सर्वम् अनुत्तरायै सम्यक्संबोधये परिणामय, एहि त्वं कुलपुत्र यद्यद् एव शीलं रक्षसि, क्षान्तिं संपादयसि, वीर्यं आरभसे, ध्यानं समापद्यसे, प्रज्ञां भावयसि, तत्तत् सर्वम् अनुत्तरायै सम्यक्संबोधये परिणामय, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिं रूपतः पराम्राक्षीः, मा वेदनातो मा संज्ञातो मा संस्कारतो मा विज्ञानतः पराम्राक्षीः, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिन् दानपारमितया पराम्राक्षीः, मा शीलपारमितया मा क्षान्तिपारमितया मा वीर्यपारमितया मा ध्यानपारमितया, मा प्रज्ञापारमितया पराम्राक्षीः, मा अध्यात्मशून्यतया मा बहिर्धाशून्यतया मा अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया पराम्राक्षीः, मा स्मृत्युपस्थानैः पराम्राक्षीः, मा सम्यक्प्रहाणैः पराम्राक्षीः, मा ऋद्धिपादैर् इन्द्रियबलबोध्यङ्गमार्गैः पराम्राक्षीः, मा पञ्चभिर् अभिज्ञाभिः पराम्राक्षीः, मा अप्रमाणध्यानारूप्यसमापत्तिभिः मा आर्यसत्यैर् मा अष्टाभिर् विमोक्षैर् मा नवानुपूर्वविहारसमापत्तिभिः, मा शून्यतानिमित्ताप्रणिहितैः पराम्राक्षीः, मा समाधिभिर् मा धारणीमुखैर् मा दशभिस् तथागतबलैर् मा चतुर्भिर् वैषारद्यैर् मा चतसृभिः प्रतिसंविद्भिर् मा अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः पराम्राक्षीः, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिं यावत् सर्वाकारज्ञतां पराम्राक्षीः. तत् कस्य हेतोः? अपरामृष्टं हि रूपम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति, अपरामृष्टा वेदना संज्ञा संस्काराः, अपरामृष्टं विज्ञानम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति, अपरामृष्टा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, अपरामृष्टा प्रज्ञापारमिता, अपरामृष्टा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता, अपरामृष्टानि स्मृत्युपस्थानानि, अपरामृष्टाः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गा, अपरामृष्टा अभिज्ञा, (PSP_४:९५) अपरामृष्टा अप्रमाणध्यानारूप्यसमापत्तयः, अपरामृष्टान्य् आर्यसत्यानि, अपरामृष्टा अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः, अपरामृष्टानि शून्यतानिमित्ताप्रणिहितानि, अपरामृष्टानि समाधिधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि, अपरामृष्टाश् चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, अपरामृष्टा यावत् सर्वाकारज्ञता अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति. मा च त्वं कुलपुत्र प्रज्ञापारमितायां चरन् रूपे स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहं हि कुलपुत्र रूपं, वेदनायां संज्ञायां संस्कारेषु, मा च त्वं कुलपुत्र विज्ञाने स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहं हि कुलपुत्र विज्ञानं, मा च त्वं कुलपुत्र दानपारमितायां स्पृहां कार्षीः, मा शीलक्षान्तिवीर्यध्यानपारमितायां स्पृहां कार्षीः, मा प्रज्ञापारमितायां स्पृहां कार्षीः, मा अध्यात्मशून्यतायां स्पृहां कार्षीः, मा यावद् अभावस्वभावशून्यतायां स्पृहां कार्षीः, मा स्मृत्युपस्थानेषु स्पृहां कार्षीः, मा सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु स्पृहां कार्षीः, मा अप्रमाणध्यानारूप्यसमापत्तिषु, मा आर्यसत्येषु स्पृहां कार्षीः, मा अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु स्पृहां कार्षीः, मा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्पृहां कार्षीः, मा सर्वसमाधिसमापत्तिधारणीमुखेषु स्पृहां कार्षीः, मा च त्वं कुलपुत्र सर्वाकारज्ञतायां स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहा हि कुलपुत्र सर्वाकारज्ञता, मा च त्वं कुलपुत्र स्रोतआपत्तिफले स्पृहां कार्षीः, मा सकृदागामिफले मा अनागामिफले मा अर्हत्त्वे मा प्रत्येकबोधौ स्पृहां कार्षीः, मा बोधिसत्त्वनियामे स्पृहां कार्षीः, मानुत्तरायां सम्यक्संबोधौ स्पृहां कार्षीः. तत् कस्य हेतोः? स्वभावशून्या हि कुलपुत्र सर्वधर्माः. इत्य् अनास्वादनाविशेषेण मार्गे चतुर्थः क्षणः इति विशेषलक्षणम्
SK
सुभूतिर् आह: दुष्करकारका हि भगवन् बोधिसत्त्वा महासत्त्वा भवन्ति, ये स्वलक्षणशून्येषु धर्मेषु अनुत्तरां सम्यक्संबोधिं प्रार्थयन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामाः.
कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य शरनं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मणः सत्त्वा जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोचयन्ति परिमोच्यानुपधिशेषे निर्वाणधातौ प्रतिष्ठापयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा लोकस्य शरणं भवन्ति. इति शरणकारित्रम् (PSP_४:९७)
SK
कथं च सुभूते बोधिसत्त्वा महासत्त्वाः सत्त्वानां लयनं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सर्वधर्माणाम् अश्लेषाय धर्मन् देशयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां लयनं भवन्ति.
SK
सुभूतिर् आह: कथं पुनर् भगवन् सर्वधर्माणाम् अश्लेषो भवति?
SK
भगवान् आह: यः सुभूते रूपस्याश्लेषः स रूपस्यासंबन्धो, यो रूपस्यासंबन्धः स रूपस्यानुत्पादो, यो रूपस्यानुत्पादः स रूपस्यानिरोधो, यो रूपस्यानिरोधः स रूपस्याश्लेषः, वेदनायाः संज्ञायाः संस्काराणां, यः सुभूते विज्ञानस्याश्लेषः स विज्ञानस्यासंबन्धो, यो विज्ञानस्यासंबन्धः स विज्ञानस्यानुत्पादो, यो विज्ञानस्यानुत्पादः स विज्ञानस्यानिरोधो, यो विज्ञानस्यानिरोधः स विज्ञानस्याश्लेषः. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु च सर्वपारमितासु सप्तत्रिंसत्सु बोधिपक्षेषु धर्मेषु आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेष्व् अभिज्ञासु सर्वसमाधिसर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु, यः सुभूते सर्वाकारज्ञताया अश्लेषः स सर्वाकारज्ञताया असंबन्धो, यः सर्वाकारज्ञताया असंबन्धः स सर्वाकारज्ञताया अनुत्पादो, यः सर्वाकारज्ञताया अनुत्पादः स सर्वाकारज्ञताया अनिरोधो, यः सर्वाकारज्ञताया अनिरोधः स सर्वाकारज्ञताया अश्लेषः. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वानां सर्वधर्माश्लेषाय धर्मन् देशयन्ति. इति लयनकारित्रम्
SK
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य परायणं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् एवंधर्मन् देशयन्ति, यद् रूपस्य पारन् न तद् रूपं, वेदनायाः संज्ञायाः संस्काराणां, यद् विज्ञानस्य पारन् न तद् विज्ञानं, यत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य पारन् न ते स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, यत् सर्वपारमितानां पारन् न ताः सर्वपारमिताः, यत् सर्वशून्यतानां पारन् न ताः सर्वशून्यताः, यद् बोधिपक्ष्याणां धर्माणां पारन् न ते बोधिपक्ष्या धर्माः, एवम् आर्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो, (PSP_४:९८) यद् आवेणिकबुद्धधर्माणां पारन् न ते आवेणिकबुद्धधर्माः, यावद् यत् सर्वाकारज्ञतायाः पारन् न सा सर्वाकारज्ञता, यथा च सुभूते रूपन् तथा सर्वधर्मास् तथा सर्वाकारज्ञता.
SK
सुभूतिर् आह: यदि भगवन् यथा सर्वधर्मास् तथा रूपं नन्व् अभिसंबुद्धैर् च भवति बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता. तत् कस्य हेतोः? न हि भगवन् रूपस्य पारे विकल्पः कश्चिद् अस्ति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य पारे विकल्पः कश्चिद् अस्ति. न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां पारे विकल्पः कश्चिद् अस्ति. नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां पारे विकल्पः कश्चिद् अस्ति यावत् सर्वाकारज्ञतायाः पारे विकल्पः कश्चिद् अस्ति. इदं रूपम् इति, वेदना संज्ञा संस्काराः, इदं विज्ञानम् इति यावद् इमे स्कन्धा इमे धातव इमान्य् आयतनानि अयं प्रतीत्यसमुत्पादः, इमानि प्रतीत्यसमुत्पादाङ्गानि इमाः पारमिता इमाः शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्यानि इमा अभिज्ञा इमा अप्रमाणध्यानारूप्यसमापत्तयः, इमानि विमोक्षसमापत्तिधारणीमुखानि इमानि शून्यतानिमित्ताप्रणिहितानि, इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, इयं सर्वाकारज्ञतेति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न हि सुभूते रूपस्य पारे विकल्पः कश्चिद् अस्ति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य पारे विकल्पः कश्चित्. एवं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानाञ् च पारे विकल्पः कश्चिन्, न पारमितानां सर्वशून्यतानां बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनां पारे विकल्पः कश्चिन्, न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां पारे विकल्पः कश्चित्, एवन् न यावत् सर्वाकारज्ञतायाः पारे विकल्पः कश्चिद् अस्ति. अपि नु सुभूते दुष्करं बोधिसत्त्वानां महासत्त्वानां य इमान् एवंरूपान् धर्मान् उपनिध्यायन्ति न चावलीयन्ते. एवं च मयैते धर्मा अभिसंबोधव्या. एवञ् चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यैतान् धर्मान् एवंशान्तान् एवंप्रणीतान् प्रकाशयिष्याम इति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य परायणं भवन्ति. इति सुपरायणकारित्रम् (PSP_४:९९)
SK
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य द्वीपा भवन्ति? तद्यथापि नाम सुभूते ये प्रदेशा उदकपरिच्छिन्ना भवन्ति महानदीषु च महासमुद्रेषु वा ते सुभूते द्वीपा इत्य् उच्यन्ते. एवम् एव सुभूते रूपं पूर्वान्तापरान्तपरिच्छिन्नम्, एवं वेदना संज्ञा संस्कारा, विज्ञानं सुभूते पूर्वान्तापरान्तपरिच्छिन्नम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च पूर्वान्तापरान्तपरिच्छिन्नानि, एवं दानपारमिता पूर्वान्तापरान्तपरिच्छिन्ना, एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिता पूर्वान्तापरान्तपरिच्छिन्ना, अध्यात्मशून्यता पूर्वान्तापरान्तपरिच्छिन्ना बहिर्धाशून्यता पूर्वान्तापरान्तपरिच्छिन्ना, अध्यात्मबहिर्धाशून्यता पूर्वान्तापरान्तपरिच्छिन्ना यावद् अभावस्वभावशून्यता पूर्वान्तापरान्तपरिच्छिन्ना, सप्तत्रिंशद्बोधिपक्ष्या धर्माः पूर्वान्तापरान्तपरिच्छिन्नाः, अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तपरिच्छिन्नाः, आर्यसत्यानि पूर्वान्तापरान्तपरिच्छिन्नानि, विमोक्षसमापत्तिधारणीमुखानि पूर्वान्तापरान्तपरिच्छिन्नानि, शून्यतानिमित्ताप्रणिहिताभिज्ञः पूर्वान्तापरान्तपरिच्छिन्नाः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः पूर्वान्तापरान्तपरिच्छिन्नाः, यावत् सर्वाकारज्ञता पूर्वान्तापरान्तपरिच्छिन्ना. एतेन सुभूते पूर्वान्तापरान्तपरिच्छेदेन सर्वधर्माः परिच्छिन्नाः, यश् च सुभूते सर्वधर्माणां पूर्वान्तापरान्तपरिच्छेदः, एतच् छान्तम् एतत् प्रणीतम् एतद् यथात्म्यं, यद् उत शून्यतानुपलम्भो धर्मो परिच्छेदस् तृष्णाक्षयो विरागो विरोधो निर्वाणम्. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य पूर्वान्तापरान्तपरिच्छिन्नान् सर्वधर्मान् देशयन्तो लोकस्य द्वीपा भवन्ति.
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः सत्त्वानां गतिर् भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो मूढानां गतिकानां सत्त्वानाम् अन्तशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य गतिर् भवति. आकाशगतिकं रूपम् इति सत्त्वानां धर्मन् देशयति, वेदना संज्ञा संस्कारा, आकाशगतिकं विज्ञानम् इति सत्त्वानां धर्मन् देशयति. आकाशगतिका स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि चेति सत्त्वानां धर्मन् देशयति. एवं सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा आकाशगतिका इति सत्त्वानां धर्मन् देशयति. आकाशगतिका सर्वज्ञतेति सत्त्वानां धर्मन् देशयति. अनागतिगतिका रूपशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति, वेदना संज्ञा संस्कारा, अनागतिगतिका विज्ञानशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानाञ् च शून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. एवम् अनागतिगतिका सर्वपारमितासर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. (PSP_४:१०२) अनागतिगतिका स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका अप्रमाणध्यानारूप्यसमापत्तिशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका शून्यतानिमित्ताप्रणिहिताभिज्ञाशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका दशतथागतबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका सर्वाकारज्ञताशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां गतिर् भवति. तत् कस्य हेतोः? शून्यतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते शून्यताया आगतिर् वा गतिर् वोपलभ्यते. आनिमित्तगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते आनिमित्तस्यागतिर् वा गतिर् वोपलभ्यते. अप्रणिहितगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽप्रणिहितस्यागतिर् वा गतिर् वोपलभ्यते. अनभिसंस्कारगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनभिसंस्कारस्यागतिर् वा गतिर् वोपलभ्यते. इत्य् अनाभोगकारित्रम्
SK
अनुत्पादगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनुत्पादस्यागतिर् वा गतिर् वोपलभ्यते. अनिरोधगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनिरोधस्यागतिर् वा गतिर् वोपलभ्यते. असंक्लेशाव्यवदानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽसंक्लेशाव्यवदानस्यागतिर् वा गतिर् वोपलभ्यते. अजाताभावगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽजाताभावस्यागतिर् वा गतिर् वोपलभ्यते. स्वप्नगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते स्वप्नस्यागतिर् वा गतिर् वोपलभ्यते. मायागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते मायाया आगतिर् वा गतिर् (PSP_४:१०३) वोपलभ्यते. प्रतिश्रुत्कागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते प्रतिश्रुत्काया आगतिर् वा गतिर् वोपलभ्यते. प्रतिभासगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते प्रतिभासस्यागतिर् वा गतिर् वोपलभ्यते. निर्मितगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते निर्मितस्यागतिर् वा गतिर् वोपलभ्यते. मरीचीगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते मरीच्या आगतिर् वा गतिर् वोपलभ्यते. गन्धर्वनगरगतिका हि सुभूते सर्व धर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते गन्धर्वनगरस्यागतिर् वा गतिर् वोपलभ्यते. अनन्तापर्यन्तगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते अनन्तापर्यन्तस्यागतिर् वा गतिर् वोपलभ्यते. अनुद्धाराप्रत्युद्धारगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनुद्धाराप्रत्युद्धारस्यागतिर् वा गतिर् वोपलभ्यते. अनागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभोते ऽनागतेर् आगतिर् वा गतिर् वोपलभ्यते. अनायूहानिर्यूहगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनायूहानिर्यूहस्यागतिर् वा गतिर् वोपलभ्यते. अयोगावियोगाश्लेषाविश्लेषगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽयोगावियोगाश्लेषाविश्लेषस्यागतिर् वा गतिर् वोपलभ्यते. आत्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते आत्मन आगतिर् वा गतिर् वोपलभ्यते. सत्त्वगतिका हि सुभूते सर्वधर्मा, जीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकोत्थापकसमुत्थापकगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सत्त्वो न संविद्यते जीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकोत्थापकसमुत्थापका न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. नित्यगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, सुखगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, आत्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, शुभगतिका (PSP_४:१०४) हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते नित्यं सुखम् आत्मा शुभन् न संविद्यते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अनित्यगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दुःखगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अनात्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अशुभगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते अनित्यं दुःखम् अनात्मा अशुभन् न संविद्यते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. रागगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दोषगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, मोहगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दृष्टिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते दृष्टिकृतं वस्तु न संविद्यते, कुतो दृष्टिकृतानि भविष्यन्ति?, कुत एवागतिर् वा गतिर् वा भविष्यति. तथतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते तथताया आगतिर् वा गतिर् वोपलभ्यते, धर्मधातुगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, भूतकोटिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, समतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अचिन्त्यधातुगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते धर्मधातोर् भूतकोटेः समताया अचिन्त्यधातोर् आगतिर् वा गतिर् वोपलभ्यते. अचलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽचलस्य धर्मस्यागतिर् वा गतिर् वोपलभ्यते. इति यानत्रयनिर्याणतत्फलसाक्षात्करणकारित्रम्
SK
रूपगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते रूपन् न संविद्यते, कुतः पुनर् अस्यागतिर् वा गतिर् वा भविष्यति. वेदना संज्ञा संस्काराः, विज्ञानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते विज्ञानन् न संविद्यते, कुतः पुनर् अस्यागतिर् वा गतिर् वा भविष्यति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानि न संविद्यन्ते, (PSP_४:१०५) कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. दानपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते दानपारमिता न संविद्यते, कुतः पुनर् अस्या आगतिर् वा गतिर् वा भविष्यति. एवं शीलपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, क्षान्तिपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, वीर्यपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, ध्यानपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, प्रज्ञापारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिता न संविद्यते, कुतः पुनर् आसाम् आगतिर् वा गतिर् वा भविष्यति. अध्यात्मशून्यतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, यावद् अभावस्वभावशून्यतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते अध्यात्मशून्यता, यावद् अभावस्वभावशून्यता न संविद्यते, कुतः पुनर् आसाम् आगतिर् वा गतिर् वा भविष्यति. स्मृत्युपस्थानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्मृत्युपस्थानानि न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अप्रमाणध्यानारूप्यसमापत्तिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. आर्यसत्यविमोक्षसमाधिसमापत्तिधारणीमुखगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. अभिज्ञादशबलवैशारद्यप्रतिसंविच्छून्यतानिमित्तप्रणिहिताष्टादशावेणिकबुद्धधर्मा गतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सर्वधर्मा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. स्रोतआपत्तिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, सकृदागामिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अनागामिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अर्हत्त्वप्रत्येकबुद्धगतिका (PSP_४:१०६) हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्त्वप्रत्येकबुद्धा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अनुत्तरा सम्यक्संबोधिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते ऽनुत्तरा सम्यक्संबोधिर् न संविद्यते, कुतः पुनर् अस्या आगतिर् वा गतिर् वा भविष्यति.
SK
सुभूतिर् आह: को ऽत्र भगवन् गम्भीरायां प्रज्ञापारमितायाम् अधिमोक्ष्यते?
SK
भगवान् आह: ये सुभूते बोधिसत्त्वा महासत्त्वाः पूर्वचरिता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ, पूर्वजिनकृताधिकाराः पूर्वजिनपरिपाचितकुशलमूला भविष्यन्ति, बहुबुद्धकोटीनियुतशतसहस्रपर्युपासिता भविष्यन्ति, कल्याणमित्रपरिगृहीताश् च त इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते. इति गतिकारित्रम् इति कारित्रलक्षणम्
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: रागविनयविविक्तस्वभावास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहविनयविविक्तस्वभावास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति क्लेशविविक्तस्वभावः
SK
रागलिङ्गविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहलिङ्गविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति तल्लिङ्गविवेकस्वभावः
SK
रागनिमित्तविवेकस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहनिमित्तविवेकस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति तन्निमित्तविवेकस्वभावः
SK
रागारागविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषादोषमोहामोहविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्ष्यन्ते. (PSP_४:१०७)
सुभूतिर् आह: दुष्करकारका भगवंस् ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, यैर् अयं संनाहः संनद्धः सर्वसत्त्वान् परिनिर्वापयिष्याम इति. न चात्र सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारकास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, यैर् अयं संनाहः संनद्धः सर्वसत्त्वान् परिनिर्वापयिष्याम इति. स खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य संनाहो न रूपसंबद्धः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते रूपं न संविद्यन्ते, न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न रूपसंबद्धो ऽयं संनाह इति, वेदना संज्ञा संस्काराः, स खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य संनाहो न विज्ञानसंबद्धः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते विज्ञानन् न संविद्यते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न विज्ञानसंबद्धो ऽयं संनाह इति. न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा संबद्धो ऽयं संनाहः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि वा न संविद्यन्ते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न प्रतीत्यसमुत्पादसंबन्धो न प्रतीत्यसमुत्पादाङ्गसंबद्धो ऽयं संनाह इति. एवं विस्तरेण सुभूते नायं संनाह आत्मसत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकसंबन्धो यावत् सुभूते नायं संनाहः सर्वाकारज्ञतासंबद्धः. तत् (PSP_४:१०८) कस्य हेतोः? अत्यन्ततया हि सुभूते सर्वाकारज्ञता न संविद्यते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते, यावन् न सर्वाकारज्ञतासंबद्धो ऽयं बोधिसत्त्वस्य महासत्त्वस्य संनाह इति. सर्वधर्मसंबद्धो बतायं बोधिसत्त्वस्य महासत्त्वस्य संनाहो यैर् अयं गम्भीरायां प्रज्ञापारमितायां चरद्भिर् एवं संनाहः संनद्धः, एवं सर्वसत्त्वान् परिनिर्वापयिष्यामः. इति दुष्करतास्वभावः
SK
सुभूतिर् आह: अस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वान् परिनिर्वापयिष्यामीति, एवं संनाहसंनद्धस्य स्थानद्वयन् न प्रतिकाङ्क्षितव्यं श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा, अस्थानम् एतत् भगवन्न् अनवकाशो ऽयं स बोधिसत्त्वो महासत्त्व एवं संनाहसंनद्धः सर्वसत्त्वान् परिनिर्वापयिष्यामीति श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? न हि बोधिसत्त्वस्य महासत्त्वस्य सीमाबद्धः सत्त्वानां कृतशः संनाहसंनद्धः. इत्य् ऐकान्तिकस्वभावः
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कं पुनस् त्वं सुभूते ऽर्थवशं संपश्यन्न् एवं वदसि? अस्य बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य इह गम्भीरायां प्रज्ञापारमितायान् न द्वयोः स्थानयोर् अन्यतरान्यतरं स्थानं प्रतिकाङ्क्षितव्यं श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा.
SK
सुभूतिर् आह: तथा हि भगवन् न बोधिसत्त्वेन महासत्त्वेन प्रादेशिकानां सत्त्वानां कृतशः संनाहः संनद्धः, सर्वसत्त्वपरिनिर्वाणाय सर्वाकारज्ञताज्ञानस्य कृतशो भगवन् बोधिसत्त्वेन महासत्त्वेन संनाहः संनद्धः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न प्रादेशिकानां सत्त्वानां कृतशो बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धः, अपि तु खलु पुनः सुभूते सर्वसत्त्वानां परिनिर्वाणाय सर्वाकारज्ञताज्ञानस्य कृतशो बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धः. इत्य् उद्देशस्वभावः
SK
सुभूतिर् आह: गम्भीरा भगवन् प्रज्ञापारमिता सा न केनचिद् भावयितव्या न क्वचिन् न कथंचिद् भावयितव्या. तत् कस्य हेतोः? न (PSP_४:१०९) हि भगवन्न् इह गम्भीरायां प्रज्ञापारमितायां कस्यचिद् धर्मस्य परिनिष्पत्तिर् उपलभ्यते, यो वा भावयेद् यं वा भावयेद् येन वा भावयेत्, आकाशभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, सर्वधर्मा भावनैषा यद् उत प्रज्ञापारमिताभावना, असद्भावनैषा यद् उत प्रज्ञापारमिताभावना, अपरिग्रहभावनैषा यद् उत प्रज्ञापारमिताभावना भावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना.
SK
भगवान् आह: कस्य सुभूते भावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना?
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो रूपं व्यवचारयति, न वेदना संज्ञा संस्कारान् न विज्ञानं व्यवचारयति, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न प्रतीत्यसमुत्पादाङ्गानि व्यवचारयति, न सर्वपारमिता न सर्वशून्यता व्यवचारयति, न बोधिपक्ष्यान् धर्मान् व्यवचारयति, नाप्रमाणध्यानारूप्यसमापत्तीर् नार्यसत्यानि व्यवचारयति, न विमोक्षसमाधिसमापत्तिधारणीमुखानि व्यवचारयति, (PSP_४:११४) न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् व्यवचारयति, न सुभूते बोधिसत्त्वो महासत्त्वो यावत् सर्वाकारज्ञतां व्यवचारयति. तत् कस्य हेतोः? तथा हि सुभूते सर्वाकारज्ञता न केनचित् कृता न कुतश्चिद् आगता न क्वचिद् गता नापि क्वचित् स्थिता न देशस्था न प्रदेशस्था न तस्याः संख्या उपलभ्यते, न गमनं नागमनम् उपलभ्यते, यस्याश् च न संख्या न गमनं नागमनम् उपलभ्यते, सा न शक्या केनचिद् अभिसंबोद्धुं, न रूपेण न वेदनया न संज्ञया न संस्कारैर् न विज्ञानेन न स्कन्धैर् न धातुभिर् नायतनैर् न प्रतीत्यसमुत्पादेन न प्रतीत्यसमुत्पादाङ्गैर्, न दानेन न शीलेन न क्षान्त्या न वीर्येण न ध्यानेन न प्रज्ञया यावन् न सर्वाकारज्ञता ज्ञानेनाभिसंबोद्धुम्. तत् कस्य हेतोः? रूपम् एव सर्वाकारज्ञता, वेदनैव संज्ञैव संस्कारा एव, विज्ञानम् एव सर्वाकारज्ञता. तत् कस्य हेतोः? तथा हि सुभूते या च रूपस्य तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा वेदनायाः संज्ञायाः संस्काराणां, या च विज्ञानस्य तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च पारमितातथता, या च शून्यतातथता, या च बोधिपक्ष्यधर्मतथता, या चाप्रमाणध्यानारूप्यसमापत्तितथता या चार्यसत्यतथता, या च समाधिसमापत्तिधारणीमुखतथता, या च विमोक्षमुखतथता, या चाभिज्ञातथता, या च दशबलवैशारद्यप्रतिसंवित्तथता, या चावेणिकबुद्धधर्मतथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा.
SK
अथ खलु कामावचरा रूपावचराश् च देवपुत्रा दिव्यानि चन्दनचूर्णानि गृहीत्वा दिव्यान्य् उत्पलकुमुदपुण्डरीकसौगन्धिकमान्दरवमहामान्दरवाणि गृहीत्वा येन भगवांस् तेनाक्षिपन्ति स्म, क्षिप्त्वा च (PSP_४:११५) येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तिष्ठन्, एकान्ते स्थिताश् च कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: गम्भीरा भगवन् प्रज्ञापारमिता दुर्दृशा दुरनुबोधातर्कातर्कावचरा शान्ता शूक्ष्मा निपुणपण्डितविज्ञवेदनीया सर्वलोकविप्रत्यनीका यद् उत तथागतानां बोधिर् यत्र नाम तथागता अर्हन्तः सम्यक्संबुद्धाः, एवं गम्भीरां प्रज्ञापारमिताम् एवं निपुणां निर्दिशन्ति, रूपम् एव सर्वाकारज्ञता सर्वाकारज्ञतैव रूपं, वेदना संज्ञा संस्कारा, विज्ञानम् एव सर्वाकारज्ञता सर्वाकारज्ञतैव विज्ञानम्. तत् कस्य हेतोः? या च रूपस्य तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च वेदनायास् तथता, या च संज्ञायास् तथता, या च संस्काराणां तथता, या च विज्ञानस्य तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादः. तत् कस्य हेतोः? या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च यावद् बुद्धानां भगवतां तथता, या च यावत् सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा.
SK
एवम् उक्ते भगवांस् तान् कामावचारान् रूपावचारांश् च देवपुत्रान् एतद् अवोचत्: एवम् एतद् देवपुत्रा एवम् एतत्, रूपम् एव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्रा रूपं, वेदना संज्ञा संस्काराः, विज्ञानम् एव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्रा विज्ञानम्. तत् कस्य हेतोः? या च रूपस्य तथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च वेदनायास् तथता या च संज्ञायास् तथता या च संस्काराणां तथता, या च विज्ञानस्य तथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादः. तत् कस्य हेतोः? या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. दानपारमितैव सर्वाकारज्ञता सर्वाकारज्ञतैव (PSP_४:११६) दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमितैव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्राः प्रज्ञापारमिता. तत् कस्य हेतोः? या च दानपारमितातथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, या च प्रज्ञापारमितातथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. अध्यात्मशून्यतैव सर्वाकारज्ञता सर्वाकारज्ञतैवाध्यात्मशून्यता, एवं यावद् अभावस्वभावशून्यतैव सर्वाकारज्ञता सर्वाकारज्ञतैवाभावस्वभावशून्यता. तत् कस्य हेतोः? या चाभावस्वभावशून्यतायास् तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. स्मृत्युपस्थानान्य् एव सर्वाकारज्ञता सर्वाकारज्ञतैव स्मृत्युपस्थानाइ, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा एव सर्वाकारज्ञता सर्वाकारज्ञतैव सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः. तत् कस्य हेतोः? या च स्मृत्युपस्थानतथता या च सर्वाकारज्ञतातथथा एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. अप्रमाणध्यानारूप्यसमापत्तय एव सर्वाकारज्ञता सर्वाकारज्ञतैवाप्रमाणध्यानारूप्यसमापत्तयः. तत् कस्य हेतोः? या चाप्रमाणध्यानारूप्यसमापत्तितथता या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाअद्वैधीकारा. एवम् आर्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञाविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविद्, आवेणिकबुद्धधर्मा एव सर्वाकारज्ञता सर्वाकारज्ञतैवावेणिकबुद्धधर्माः. तत् कस्य हेतोः? या चावेणिकबुद्धधर्माणां तथता, या च सर्वाकारज्ञतायास् तथथा एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धा, बुद्धा एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धाः. तत् कस्य हेतोः? या च बुद्धानां भगवतां तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. इदम् अपि देवपुत्रा अर्थवशं संपश्यंस् तथागतो ऽल्पोत्सुकतायां चित्तं नामयामास न धर्मदेशनायाम्. तत् कस्य हेतोः? गम्भीरो बतायं (PSP_४:११७) धर्मो दुर्दृशो दुरनुबोधो ऽतर्को ऽतर्कावचरः शान्तः शूक्ष्मः पण्डितविज्ञवेदनीयः सर्वलोकविप्रत्यनीको यद् उतेयं तथागतानां बोधिः, सा न केनचिद् अभिसंबुद्धा न कदाचिद् अभिसंबुद्धा न क्वचिद् अभिसंबुद्धा इयं सा धर्माणां गम्भीरता धर्मता यत्र न द्वयसमुदाचारो नाद्वयसमुदाचारः संविद्यते. इत्य् आलम्बनस्वभावः
एवम् उक्ते देवपुत्रा भगवन्तम् एतद् अवोचन्: सर्वलोकविप्रत्यनीको ऽयं भगवन् धर्मो देश्यते. तत् कस्य हेतोः? नायं भगवन् धर्मो रूपस्योद्ग्रहाय नानुद्ग्रहाय वा देश्यते, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्योद्ग्रहाय नानुद्ग्रहाय वा देश्यते, न (PSP_४:११८) स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानाम् उद्ग्रहाय नानुद्ग्रहाय वा देश्यते. एवं न सर्वशून्यतानां सप्तत्रिंशद्बोधिप्क्ष्याणां धर्माणां दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणाम् उद्ग्रहाय वा नानुद्ग्रहाय वा धर्म उपदेश्यते, न सर्वधर्माणाम् उद्ग्रहाय नानुद्ग्रहाय वा धर्मो देश्यते, नायं भगवन् धर्मः स्रोतआपत्तिफलस्य उद्ग्रहाय नानुद्ग्रहाय वा देश्यते. एवं न सकृदागामिफलस्य नानागामिफलस्य नार्हत्त्वस्य न प्रत्येकबोधेर् यावत् सर्वाकारज्ञताया नोद्ग्रहाय नानुद्ग्रहाय वा धर्मो देश्यते, उद्ग्रहे च लोकश् चरति मम रूपं, मम वेदना मम संज्ञा मम संस्कारा मम विज्ञानं, मम स्कन्धा मम धातवो ममायतनानि मम प्रतीत्यसमुत्पादो ऽहं प्रतीत्यसमुत्पन्नः, मम दानम् अहं दानपतिर् मम शीलम् अहं शीलवान् मम क्षान्तिर् अहं क्षान्तिमान् मम वीर्यम् अहं वीर्यवान् मम ध्यानम् अहं ध्यानवान् मम प्रज्ञा अहं प्रज्ञावान्, ममाध्यात्मशून्यता अहम् अध्यात्मशून्यतां भावयामि यावन् ममाभावस्वभावशून्यताहम् अभावस्वभावशून्यतां भावयामि, मम स्मृत्युपस्थानानि मम सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा ममाप्रमाणध्यानारूप्यसमापत्तयो ममार्यसत्यानि ममाभिज्ञा मम विमोक्षसमाधिसमापत्तिधारणीमुखानि मम शून्यतानिमित्ताप्रणिहितानि अहं शून्यतानिमित्ताप्रणिहितवान् मम दशबलवैशारद्यप्रतिसंविदो ममाष्टादशावेणिकबुद्धधर्मा मम स्रोतआपत्तिफलम् अहं स्रोतआपन्नो मम सकृदागामिफलम् अहं सकृदागामी ममानागामिफलम् अहम् अनागामी ममार्हत्त्वम् अहम् अर्हन् मम प्रत्येकबोधिर् अहं प्रत्येकबुद्धो मम सर्वाकारज्ञता अहं सर्वाकारज्ञताः.
SK
भगवान् आह: एवम् एतद् देवपुत्रा एवम् एतन्, नायं देवपुत्रा धर्मो रूपस्योद्ग्रहाय देश्यते नानुद्ग्रहाय, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्योद्ग्रहाय देश्यते नानुद्ग्रहाय. ये तु देवपुत्रा रूपस्योद्ग्रहाय चरन्ति, वेदनायाः संज्ञायाः संस्काराणां, ये विज्ञानस्योद्ग्रहाय चरन्ति, न ते भव्याः प्रज्ञापारमितां भावयितुम्. ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादानाम् उद्ग्रहाय चरन्ति, ये सर्वपारमितासर्वशून्यतासमाधिसमापत्तिधारणीमुखानाम् उद्ग्रहाय चरन्ति, ये प्रमाणध्यानारूप्यसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणाम् (PSP_४:११९) उद्ग्रहाय चरन्ति, ये देवपुत्राः सर्वाकारज्ञताया उद्ग्रहाय चरन्ति, न ते भव्याः प्रज्ञापारमितां भावयितुं यावन् न प्रतिबला ध्यानवीर्यक्षान्तिशीलदानपारमितां भावयितुं, यावन् न प्रतिबलाः सर्वाकारज्ञतां भावयितुम्. इति सर्वलोकविप्रत्यनीकस्वभावः
अथ खल्व् आयुष्मान् सुभूतिस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् आमन्त्रयामास: यद् एवं देवपुत्रा वदथ, अनुजातो ऽयं भगवन् भगवतः सुभूतिः स्थविरः, किम् इत्य् अनुजातत्वात् सुभूतिः स्थविरो ऽनुजातस् तथागतस्य? यथा तथागतस्य तथानागतागता, एवम् एव सुभूतेर् अपि तथतानागतागता, एवं हि सुभूतिः स्थविरस् तथागतस्यानुजातः. या तथागतस्य तथता सा सर्वधर्मतथता, या सर्वधर्मतथता सा तथागततथता अवितथता अनन्यतथता, एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. या तथागततथता सा स्थितितथता या स्थितितथता सा तथागततथता, एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. यथा तथागततथताविकारा निर्विकारा, एवं हि सुभूतेः स्थविरस्य तथताविकारा निर्विकारा यथा तथागतस्य तथता न क्वचित् प्रतिहन्यते. एवं सर्वधर्मतथता न क्वचित् प्रतिहन्यते. या च तथागततथता या च सर्वधर्मतथता (PSP_४:१२१) एकैवैषा तथताद्वयाद्वैधीकारा न सा कदाचिन् न तथता, यतः सा न कदाचिन् न तथता ततः सा तथताद्वयाद्वैधीकारा. एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. यथा तथागततथता सर्वत्रगाविकल्पा निर्विकल्पा, एवं हि सुभूतितथता सर्वत्रगाविकल्पा निर्विकल्पा. यथा तथागततथता अभिन्ना अभेदतथतानुपलभ्या, एवं सुभूतितथता अभिन्ना अभेदतथतानुपलभ्या. एवं हि सुभूतिस्थविरस् तथागतम् अनुजातः. यथा तथागततथतानन्यतथता सर्वधर्मतथता, या न सा कदाचिन् न तथता, सदा सा तथता तथैव सुभूतिस्थविरो ऽनन्यतथता या तथागतम् अनुजातो न क्वचिद् अनुजातः, एवं हि सुभूतिस्थविरस् तथागतम् अनुजातः. यथा तथागततथता नातीता नानागता न प्रत्युत्पन्ना, एवं सर्वधर्मतथता नातीता नानागता न प्रत्युत्पन्ना. एवं हि सुभूतिस्थविरतथता नातीता नानागता न प्रत्युत्पन्ना, एवं हि सुभूतिस्थविरस् तथागतम् अनुजात इति उच्यते. अतीततथतासमतया तथागततथतासमतातथागततथतासमतयातीततथतासमता, अनागततथतासमतया तथागततथतासमता तथागततथतासमतया अनागततथतासमता, प्रत्युत्पन्नतथतासमतया तथागततथतासमता तथागततथतासमतया प्रत्युत्पन्नतथतासमता. इति ह्य् अतीतानागतप्रत्युत्पन्नतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. रूपतथतया तथागततथता तथागततथतया रूपतथता, वेदना संज्ञा संस्काराः, विज्ञानतथतया तथागततथता तथागततथतया विज्ञानतथता, इति हि तथागततथता च रूपवेदनासंज्ञासंस्कारविज्ञानतथता चाद्वयम् एतद् अद्वैधीकारम्. स्कन्धतथतया तथागततथता तथागततथतया स्कन्धतथता, धातुतथतया तथागततथता तथागततथतया धातुतथता, आयतनतथतया तथागततथता तथागततथतया आयतनतथता, प्रतीत्यसमुत्पादतथतया तथागततथता तथागततथतया प्रतीत्यसमुत्पादतथता, प्रतीत्यसमुत्पादाङ्गतथतया तथागततथता तथागततथतया प्रतीत्यसमुत्पादाङ्गतथता, इति हि स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गतथता च तथागततथता चाद्वयम् एतद् (PSP_४:१२२) अद्वैधीकारम्. अनन्यतथतया तथागततथता तथागततथतयानन्यतथता, एवं सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. दानपारमितातथतया तथागततथता तथागततथतया दानपारमितातथता, एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितातथतया तथागततथता तथागततथतया प्रज्ञापारमितातथता, इति हि दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. अध्यात्मशून्यतातथतया तथागततथता तथागततथतयाध्यात्मशून्यतातथता, एवं यावद् अभावस्वभावशून्यतातथतया तथागततथता तथागततथतया यावद् अभावस्वभावशून्यतातथता, इति ह्य् अध्यात्मशून्यतातथता च तथागततथता च, यावद् अभावस्वभावशून्यतातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. स्मृत्युपस्थानतथतया तथागततथता तथागततथतया स्मृत्युपस्थानतथता, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथतया तथागततथता तथागततथतया मार्गतथता. इति हि स्मृत्युपस्थानतथता च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. अप्रमाणध्यानारूप्यसमापत्तितथतया तथागततथता तथागततथतया प्रमाणध्यानारूप्यसमापत्तितथता, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथतया तथागततथता तथागततथतया सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता, इति ह्य् अप्रमाणध्यानारूप्यसमापत्तितथता च सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. शून्यतानिमित्ताप्रणिहिततथतया तथागततथता तथागततथतया शून्यतानिमित्ताप्रणिहिततथता, आर्यसत्यतथतया तथागततथता तथागततथतया आर्यसत्यतथता, अभिज्ञातथतया तथागततथता तथागततथतयाभिज्ञातथता, इति हि शून्यतानिमित्ताप्रणिहिततथता चार्यसत्यतथता चाभिज्ञातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. दशबलवैशारद्यप्रतिसंवित्तथतया तथागततथता तथागततथतया दशबलवैशारद्यप्रतिसंवित्तथता, आवेणिकबुद्धधर्मतथतया तथागततथता तथागततथतयावेणिकबुद्धधर्मतथता, इति हि दशबलवैशारद्यप्रतिसंवित्तथता (PSP_४:१२३) चावेणिकबुद्धधर्मतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. सर्वाकारज्ञतातथतया तथागततथता तथागततथतया सर्वाकारज्ञतातथता, इति हि सर्वाकारज्ञतातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. इयं सा सुभूते तथागततथतायां तथताम् आगम्य तथागतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस् तथागत इति नामधेयं लभते. अस्मिन् खलु पुनस् तथतापरिवर्ते भाष्यमाणे, यं त्रिसाहस्रमहासाहस्रलोकधातुः षड्विकारम् अष्टादशमहानिमित्तं कम्पते प्रकम्पते संप्रकम्पते, चलति प्रचलति संप्रचलति, वेधते प्रवेधते संप्रवेधते, रणति प्ररणति संप्ररणति, क्षुभ्यति प्रक्षुभ्यति संप्रक्षुभ्यति, गर्जति प्रगर्जति संप्रगर्जति, पूर्वा दिग् उन्नमति पश्चिमा दिग् अवनमति, पश्चिमा दिग् उन्नमति पूर्वा दिग् अवनमति, उत्तरा दिग् उन्नमति दक्षिणा दिग् अवनमति, दक्षिणा दिग् उन्नमति उत्तरा दिग् अवनमति, अन्ताद् उन्नमति मध्याद् अवनमति, मध्याद् उन्नमति अन्ताद् अवनमति.
SK
अथ खलु कामावचरा रूपावचराश् च देवपुत्रा दिव्यैश् चन्दनचूर्णैर् भगवन्तं सुभूतिस्थविरं चाभ्यवकिरन्न् एवं च वाचम् अभाषन्त, आश्चर्यं भगवन् यावद् अयं सुभूतिस्थविरस् तथागततथतया तथागतम् अनुजातः. इत्य् अगतिस्वभावः
SK
अथ खलु सुभूतिस्थविरस् तेषां देवपुत्राणां ताम् एव कथाम् अनुबध्नाति स्म, इति हि देवपुत्राः सुभूतिस्थविरो न रूपम् अनुजातो न रूपस्य तथताम् अनुजातो, नान्यत्र रूपतथताया अनुजातः, वेदना संज्ञा संस्कारा, न विज्ञानम् अनुजातो, न विज्ञानतथताम् अनुजातो, नान्यत्र विज्ञानतथताया अनुजातः न स्कन्धधात्वायतनम् अनुजातो न स्कन्धधात्वायतनतथताम् अनुजातो नान्यत्र स्कन्धधात्वायतनतथताया अनुजातः न प्रतीत्यसमुत्पादम् अनुजातो न प्रतीत्यसमुत्पादतथताम् अनुजातो, नान्यत्र प्रतीत्यसमुत्पादतथताया अनुजातः. एवं सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, (PSP_४:१२४) न सर्वाकारज्ञताम् अनुजातो, न सर्वाकारज्ञतातथताम् अनुजातो, नान्यत्र सर्वाकारज्ञतातथताया अनुजातः. नासंस्कृतम् अनुजातो, नासंस्कृततथताम् अनुजातो, नान्यत्र संस्कृततथताया अनुजातः. तत् कस्य हेतोः? तथा हि ते धर्मा न संविद्यन्ते नोपलभ्यन्ते यो वानुजायेत येन वानुजायेत, यो वानुजन्येत येन वानुजन्येत. इत्य् अजातिस्वभावः
SK
अथ खल्व् आयुष्माच् छारिपुत्रो भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवंस् तथता अवितथता अनन्यतथता धर्मता धर्मधातुस्थितिता धर्मनियामता भूतकोटिर्, यत्र न रूपम् उपलभ्यते न रूपतथता, यदा रूपम् एव नोपलभ्यते कुतः पुना रूपतथतोपलप्स्यते, यत्र न वेदना न संज्ञा न संस्कारा, यत्र न विज्ञानम् उपलभ्यते न विज्ञानतथता, यदा विज्ञानम् एव नोपलभ्यते कुतः पुनर् विज्ञानतथतोपलप्स्यते. यत्र न स्कन्धधात्वायतनान्य् उपलभ्यन्ते न स्कन्धधात्वायतनतथता, यदा स्कन्धधात्वायतनान्य् एव नोपलभ्यते, कुतः पुनः स्कन्धधात्वायतनतथतोपलप्स्यते. यत्र न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि चोपलभ्यन्ते न प्रतीत्यसमुत्पादतथता न प्रतीत्यसमुत्पादाङ्गतथता वा, यदा प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गान्य् एव वा नोपलभ्यते, कुतः पुनः प्रतीत्यसमुत्पादतथता प्रतीत्यसमुत्पादाङ्गतथता वोपलप्स्यते. एवं सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा, यत्र न सर्वाकारज्ञतोपलभ्यते, न सर्वाकारज्ञतातथता, यदा सर्वाकारज्ञतैव नोपलभ्यते, कुतः पुनः सर्वाकारज्ञतातथतोपलप्स्यते.
SK
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतद्, गम्भीरेयं शारिपुत्र तथता, यत्र न रूपम् उपलभ्यते, न रूपस्य तथतोपलभ्यते, रूपम् एव नोपलभ्यते कुतः पुना रूपस्य तथतोपलप्स्यते, यत्र न वेदना न संज्ञा न संस्कारा, न विज्ञानम् उपलभ्यते न विज्ञानस्य तथतोपलभ्यते विज्ञानम् एव नोपलभ्यते कुतो विज्ञानस्य तथतोपलप्स्यते. (PSP_४:१२५) यत्र न स्कन्धधात्वायतनप्रतीत्यसमुत्पादा उपलभ्यन्ते न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य तथतोपलभ्यते, स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव नोपलप्स्यते, कुतः पुनः स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य तथतोपलप्स्यते. एवं यावन् न सर्वाकारज्ञतोपलभ्यते न सर्वाकारज्ञतायास् तथतोपलभ्यते सर्वाकारज्ञतैव नोपलभ्यते, कुतः पुनः सर्वाकारज्ञतायास् तथतोपलप्स्यते. अस्यां खलु पुनः शारिपुत्र तथतायाम् अवितथतायाम् अनन्यतथतायां भाष्यमाणायां भिक्षुशतद्वयस्यानुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, पञ्चानां भिक्षुणीशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धं, पञ्चानां बोधिसत्त्वसहस्राणाम् अनुत्पत्तिकधर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्, षष्टेश् च बोधिसत्त्वानां महासत्त्वानां परिहाणधर्मकाणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि.
भगवान् आह: एवम् एव शारिपुत्र किञ् चापि बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पान् अवगम्य दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानं समापद्यते, तस्य च महत् प्रस्थानं महांश् चित्तोत्पादो ऽप्रमाणपरिग्रहो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स च प्रज्ञापारमितयोपायकौशलेनैव (PSP_४:१२७) विरहितः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञताविरहितेन चित्तेन दानं दत्तं भवति शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानान्य् उत्पादितानि स च बोधिसत्त्वः प्रज्ञापारमितयोपायकौशलेन च विरहितो ऽभूत्, तेन स श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. किञ् चापि स शारिपुत्र बोधिसत्त्वो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनं समन्वाहरति आराधयति निमित्तीकरोति, न च स तथागतानां शीलं जानाति समाधिं जानाति प्रज्ञां जानाति विमुक्तिं जानाति विमुक्तिज्ञानदर्शनं जानाति, सो ऽजानन् न बुध्यमानः शून्यतायाम् आनिमित्ते प्रणिहिते वा शान्तिं शृणोति स तां शान्तिं निमित्तीकरोति निमित्ततश् चानुत्तरायै सम्यक्संबोधये परिणामयति. एवं हि परिणामयन् बोधिसत्त्वः स्थास्यति श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा. तत् कस्य हेतोः? एवम् एतच् छारिपुत्र यः प्रज्ञापारमितयोपायकौशलेन च विरहितो भवति, न च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति, स श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. इति तथतानुपलम्भस्वभावः इत्य् उक्तं स्वभावलक्षणम्
SK
यः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताचित्तेनाविरहितो दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानानि च समापद्यते न च निमित्तीकरोति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति न च निमित्तीकरोति यावत् सर्वाकारज्ञतां भावयति न च निमित्तीकरोति. इति सामान्येन मोक्षभागीयम्
SK
स च प्रज्ञापारमितयोपायकौशल्येन चाविरहितस् त्रैयध्विकान् बुद्धान् समन्वाहरति, तेषां चातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतयश् च शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, तत्सर्वं न निमित्तीकरोति न शून्यतासमाधिं निमित्तीकरोति आनिमित्तसमाधिम् अप्रणिहितसमाधिं न निमित्तीकरोति वेदितव्यम् एतच् छारिपुत्र नायं बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ (PSP_४:१२८) वा स्थास्यतीति, अक्षतो ऽनुपहतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इति श्रद्धात्मकं मोक्षभागीयम्
SK
तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय दानं दत्तं न च निमित्तीकृतं, शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानं समापन्नं प्रज्ञा भाविता न च निमित्तीकृता, अतितानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानि न निमित्तीकृतानि, इदं शारिपुत्र बोधिसत्त्वानां महासत्त्वानां तद् उपायकौशल्यं यन् निमित्तविरहितेन चित्तेन दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानं समापद्यते प्रज्ञां भावयति. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीर् भावयति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि समापद्यते, शून्यतानिमित्ताप्रणिहितानि भावयति न च निमित्तीकरोति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयति यावत् सर्वाकारज्ञतायां चरति न च निमित्तीकरोति. इति वीर्यात्मकं मोक्षभागीयम्
SK
शारिपुत्र आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि, यो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया चोपायकौशल्येन चाविरहिताशयस् तस्यानुत्तरा सम्यक्संबोधिः. इति स्मृत्यात्मकं मोक्षभागीयम् तत् कस्य हेतोः? तथा हि भगवन् तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय न कश्चिद् धर्म उपलब्धो यो ऽभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादो वा प्रतीत्यसमुत्पादाङ्गानि वा सर्वपारमिता वा सर्वशून्यता वा सप्तत्रिंशद्बोधिपक्ष्या वा धर्मा आर्यसत्यानि वा अप्रमाणध्यानारूप्यसमापत्तयो वा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि वा शून्यतानिमित्ताप्रणिहितानि वा अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका वा बुद्धधर्माः सर्वाकारज्ञता वा. ये पुनर् इमे भगवन् बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताविरहिता उपायकौशल्यविरहिताश् च संशयस् तेषां प्रतिकाङ्क्षितव्यो (PSP_४:१२९) ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि भगवंस् तैर् बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा प्रज्ञापारमितोपायकौशल्यविरहितैर् यद्यद् एव दानं दत्तं तत्सर्वं निमित्तीकृत्य दत्तम्, एवं यद्यद् एव शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानं समापन्नं, या चैव प्रज्ञा व्यवचारिता सा सर्वा निमित्तीकृत्य व्यवचारिता. तस्मात् संशयस् तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चानुत्तरायाः सम्यक्संबोधेः प्रतिकाङ्क्षितव्यः. तस्मात् तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितोपायकौशल्याविरहितेन भवितव्यं, प्रज्ञापारमितायाम् उपायकौशल्येन स्थित्वानुपलम्भयोगेन आनिमित्तसहगतेन चित्तेन दानं दातव्यं शीलं रक्षितव्यं क्षान्त्या संपादयितव्यं वीर्यम् आरब्धव्यं ध्यानं समापत्तव्यं प्रज्ञा भावयितव्या. आनिमित्तसहगतेन चित्तेन अध्यात्मशून्यता भावयितव्या, यावद् अभावस्वभावशून्यता भावयितव्या. आनिमित्तसहगतेन चित्तेन स्मृत्युपस्थानानि भावयितव्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आनिमित्तसहगतेन चित्तेनार्याष्टाङ्गो मार्गो भावयितव्यः. आनिमित्तसहगतेन चित्तेनाप्रमाणध्यानारूप्यसमापत्तयः समापत्तव्याः. आनिमित्तसहगतेन चित्तेनार्यसत्यानि भावयितव्यानि. आनिमित्तसहगतेन चित्तेन सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयितव्यानि. आनिमित्तसहगतेन चित्तेन अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा भावयितव्याः, आनिमित्तसहगतेन चित्तेन सर्वाकारज्ञतायां चरितव्यम्. इति समाध्यात्मकं मोक्षभागीयम्
SK
अथ खलु कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: दुरभिसंभवा भगवन् दुरधिमुच्यानुत्तरा सम्यक्संबोधिः, यत्र हि सर्वाकारैश् च नाम बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा ऽभिसंबोद्धव्यास् ते च धर्मा न संविद्यन्ति नोपलभ्यन्ते.
SK
भगवान् आह: एवम् एतद् देवपुत्रा एवम् एतत्, दुरभिसंभवा देवपुत्रा दुरधिमुच्यानुत्तरा सम्यक्संबोधिः, मयापि देवपुत्राः सर्वधर्माः सर्वाकारैर् अभिसंबुद्धाः, न च मे कश्चिद् धर्म उपलब्धो यो ऽभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत. (PSP_४:१३०) तत् कस्य हेतोः? अत्यन्तविशुद्धत्वाद् देवपुत्राः सर्वधर्माणाम्. इति प्रज्ञात्मकं मोक्षभागियम्
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, दुरभिसंभवानुत्तरा सम्यक्संबोधिर् इति, यथा पुनर् अहं भगवतो भाषितस्यार्थम् आजानामि. यथा च मम भवति, तथा स्वभिसंबोधा भगवन्न् अनुत्तरा सम्यक्संबोधिः. तत् कस्य हेतोः? तथा हि भगवन् न कश्चिद् अभिसंबुध्यते न केनचिद् अभिसंबुध्यते न किञ्चिद् अभिसंबोद्धव्यं, शून्या हि भगवन् सर्वधर्माः, शून्येषु भगवन् सर्वधर्मेषु स धर्मो न संविद्यते, यो ऽभिसंबुध्येत येन वाभिसंबुध्येत यं वाभिसंबुध्येत. तत् कस्य हेतोः? तथा हि भगवन् सर्वधर्माः शून्याः, यस्यापि धर्मस्य वृद्धये वा प्रहाणाय वा दानं वा दद्यात्, शीलं वा रक्षेत् क्षान्तिं वा संपादयेत् वीर्यं वा आरभेत ध्यानं वा समापद्येत, एवं यावत् सर्वाकारज्ञतायां वा शिक्षेत, ते च धर्मा न संविद्यन्ते, यश् चाभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत सर्वे ते धर्माः शून्याः. अनेन भगवन् पर्यायेण स्वभिसंबोधा बोधिसत्त्वानां महासत्त्वानाम् अनुत्तरा सम्यक्संबोधिः. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपस्वभावेन शून्यं, वेदना संज्ञा संस्कारा, विज्ञानं विज्ञानस्वभावेन शून्यम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, प्रतीत्यसमुत्पादाङ्गानि प्रतीत्यसमुत्पादाङ्गस्वभावेन शून्यानि, एवं सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः, अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा आवेणिकबुद्धधर्मस्वभावेन शून्याः, सर्वाकारज्ञता सर्वाकारज्ञतास्वभावेन शून्या. इत्य् अधिमात्राणि मोक्षभागीयानि
आत्मना च प्राणातिपातात् प्रतिविरतेन भवितव्यं परे च प्राणातिपातवैरमणो समादापयितव्याः, प्राणातिपातविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन. एवं बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यास्तुकामेन स्थातव्यम्. (PSP_४:१३६)
SK
आत्मना चादत्तादानात् प्रतिविरतेन भवितव्यं, परे चादत्तादानवैरमण्ये समादापयितव्याः, अदत्तादानविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये अदत्तादानात् प्रतिविरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च काममिथ्याचारात् प्रतिविरतेन भवितव्यं, परे च काममिथ्याचारप्रतिविरतौ समादापयितव्याः, काममिथ्याचारविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये काममिथ्याचारात् प्रतिविरता भवन्ति तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवम् अनृतवचनात् परुषवचनात् पिशुनवचनाद् अवद्यप्रलापाद् अभिध्याया व्यापादात्, आत्मना च मिथ्यादृष्टेः प्रतिविरतेन भवितव्यं, परे च मिथ्यादृष्टिविरतौ समादापयितव्या, मिथ्यादृष्टिविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये मिथ्यादृष्टेर् विरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन. आत्मना च प्रथमं ध्यानं समापत्तव्यं, परे च प्रथमे ध्याने समादापयितव्याः, प्रथमध्यानसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये प्रथमं ध्यानं समापद्यन्ते, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवम् आत्मना च द्वितीयं ध्यानं समापत्तव्यं, एवं तृतीयं ध्यानं समापत्तव्यं, आत्मना च चतुर्थं ध्यानं समापत्तव्यं, परे च चतुर्थे ध्याने समादापयितव्याश् चतुर्थध्यानसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये चतुर्थध्यानं समापद्यन्ते, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च मैत्री भावयितव्या, परे च मैत्रीभावनायां समादापयितव्या, मैत्रीभावनायाश् च वर्णवादिना भवितव्यं, ये चान्ये मैत्रीविहारिणस् तेषाम् अपि वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं करुणायां मुदितायां च कर्तव्यम्, आत्मना चोपेक्षाविहारिणा भवितव्यं, परे चोपेक्षाविहारे समादापयितव्या, उपेक्षाविहारस्य च वर्णवादिना भवितव्यं, ये चान्ये उपेक्षाविहारिणस्, तेषाम् अपि वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना चाकाशानन्त्यायतनासमापत्तिः समापत्तव्या, परे चाकाशानन्त्यायतनसमापत्तौ समादापयितव्याः, आकाशानन्त्यायतनसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये आकाशानन्त्यायतनसमापत्तिं (PSP_४:१३७) समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं विज्ञानानन्त्यायतनसमापत्तिर् आकिंचान्यायतनसमापत्तिः, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिः समापत्तव्या, परे च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयितव्याः नैवसंज्ञानासंज्ञायतनसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन. इति मृदुमूर्धगतम्
SK
आत्मना च दानपारमिता परिपूरयितव्या, परे च दानपारमितायां समादापयितव्याः, दानपारमितायाश् च वर्णवादिना भवितव्यः, ये चान्ये दानपारमितां परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, आत्मना च प्रज्ञापारमिता परिपूरयितव्या, परे च प्रज्ञापारमितायां समादापयितव्याः, प्रज्ञापारमितायाश् च वर्णवादिना भवितव्यं, ये चान्ये प्रज्ञापारमितां परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन. इति मध्यमूर्धगतम्
SK
आत्मना चाध्यात्मशून्यता भावयितव्या, परे चाध्यात्मशून्यतायां समादापयितव्या, अध्यात्मशून्यतायाश् च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अध्यात्मशून्यतां भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् आत्मना चाभावस्वभावशून्यता भावयितव्या, परे चाभावस्वभावशून्यतायां समादापयितव्या, अभावस्वभावशून्यतायाश् च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अभावस्वभावशून्यतां भावयन्ति, तेषां च वर्णवादिना न् भवितव्यं समनुज्ञेन.
SK
आत्मना च चत्वारि स्मृत्युपस्थानानि भावयितव्यानि, परे च चतुर्षु स्मृत्युपस्थानेषु समादापयितव्याः, चतुर्णां च स्मृत्युपस्थानानां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाश् चत्वारि स्मृत्युपस्थानानि भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आत्मना चार्यष्टाङ्गो मार्गो भावयितव्यः, परे चार्याष्टाङ्गे मार्गे स्थापयितव्याः, आर्याष्टङ्गमार्गस्य च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा आर्याष्टाङ्गं मार्गं भावयन्ति, तेषां च वर्णवादिना भवितव्यं (PSP_४:१३८) समनुज्ञेन.
SK
आत्मना च शून्यतानिमित्ताप्रणिहितसमाधयो भावयितव्याः, परे च शून्यतानिमित्ताप्रणिहितसमाधौ समादापयितव्याः, शून्यतानिमित्ताप्रणिहितसमाधीनां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाः शून्यतानिमित्ताप्रणिहितसमाधीन् भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च चत्वार्य् आर्यसत्यानि भावयितव्यानि, परे चार्यसत्यभावनायां समादापयितव्या, आर्यसत्यानां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाश् चत्वार्य् आर्यसत्यानि भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना चाष्टविमोक्षा भावयितव्याः, परे चाष्टविमोक्षभावनायां समादापयितव्या, अष्टानां च विमोक्षाणां वर्णवादिना भवितव्यं, ये चान्ये ऽष्टविमोक्षां समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च नवानुपूर्वविहारसमापत्तयः समादापयितव्याः, परे च नवानुपूर्वविहारसमापत्तिषु समादापयितव्या, नवानुपूर्वविहारसमापत्तीनां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा नवानुपूर्वविहारसमापत्तीः समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना चाभिज्ञा निष्पादयितव्याः, परे चाभिज्ञाप्राप्तये समादापयितव्याः, अभिज्ञानां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अभिज्ञा प्रतिलब्धास्, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च दशतथागतबलानि परिपूरयितव्यानि, परे च दशतथागतबलेषु समादापयितव्या, दशानां च तथागतबलानां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा दशतथागतबलानि परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद्, आत्मना चाष्टादशावेणिका बुद्धधर्माः परिपूरयितव्याः, परे चाष्टादशावेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्या, अष्टादशावेणिकानां च बुद्धधर्माणां वर्णवादिना भवितव्यं, ये चान्ये आवेणिकान् बुद्धधर्मान् परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च महामैत्री महाकरुणा च परिपूरयितव्या, परे च महामैत्र्यां महाकरुणायां च समादापयितव्या, महामैत्र्या महाकरुणायाश् च वर्णवादिना भवितव्यं, ये चान्ये महामैत्रीं महाकरुणां च परिपूरयन्ति, (PSP_४:१३९) तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना चनुलोमप्रतिलोमप्रतीत्यसमुत्पादः समापत्तव्यः, परे चानुलोमप्रतिलोमप्रतीत्यसमुत्पादे समादापयितव्याः, अनुलोमप्रतिलोमप्रतीत्यसमुत्पादसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये अनुलोमप्रतिलोमप्रतीत्यसमुत्पादं समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन स्थातव्यम्. इत्य् अधिमात्रमूर्धगतम्
SK
आत्मना च दुष्खं परिजानाति समुदयं च प्रजहाति निरोधं च साक्षात्करोति मार्गञ् च भावयति, परांश् च दुष्खपरिज्ञायै समुदयप्रहाणाय निरोधसाक्षात्क्रियायै मार्गभावनायै समादापयति, दुःखपरिज्ञानस्य समुदयप्रहाणस्य निरोधसाक्षात्क्रियाया मार्गभावनायाश् च वर्णं भाषते, ये चान्ये दुःखं प्रजानन्ति समुदयं प्रजहति निरोधं साक्षात्कुर्वन्ति मार्गं च भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मृद्वी क्षान्तिः
SK
आत्मना च स्रोतआपत्तिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, परांश् च स्रोतआपत्तिफलज्ञानसाक्षात्क्रियायै समादापयति, स्रोतआपत्तिफलज्ञानसाक्षात्क्रियायाश् च वर्णं भाषते, ये चान्ये स्रोतआपत्तिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
एवम् आत्मना च सकृदागामिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, आत्मना चानागामिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति.
SK
आत्मना चार्हत्त्वफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, परांश् चार्हत्त्वफलज्ञानसाक्षात्क्रियायां प्रतिष्ठापयति, अर्हत्त्वफलज्ञानसाक्षात्क्रियायाश् च वर्णं भाषते, ये चान्ये ऽर्हत्त्वफलसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च प्रत्येकबुद्धफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियां साक्षात्करोति, परांश् च प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायां प्रतिष्ठापयति, प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायाश् (PSP_४:१४०) च वर्णं भाषते, ये चान्ये प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मध्या क्षान्तिः
SK
आत्मना च बोधिसत्त्वन्यामम् अवक्रामति, परांश् च बोधिसत्त्वन्यामावक्रान्त्यां समादापयति, बोधिसत्त्वन्यामावक्रान्तेश् च वर्णं भाषते, ये चान्ये बोधिसत्त्वन्यामम् अवक्रामन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
आत्मना च सत्त्वान् परिपाचयति, परांश् च सत्त्वपरिपाकाय समादापयति, सत्त्वपरिपाकस्य च वर्णं भाषते, ये चान्ये सत्त्वपरिपाकायाभ्युद्गतास्, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च बुद्धक्षेत्रं परिशोधयति, परांश् च बुद्धक्षेत्रपरिशोधनाय समादापयति, बुद्धक्षेत्रपरिशुद्धेश् च वर्णं भाषते, ये चान्ये बुद्धक्षेत्रपरिशोधनाय प्रतिष्ठितास्, तेषां च वर्णवादी भवति समनुज्ञः. इति मृदवो ऽग्रधर्माः
SK
आत्मना च बोधिसत्त्वाभिज्ञा उत्पादयति, परांश् च बोधिसत्त्वाभिज्ञासु समादापयति बोधिसत्त्वाभिज्ञानां च वर्णं भाषते, ये चान्ये बोधिसत्त्वाभिज्ञा भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मध्याग्रधर्माः
SK
आत्मना च सर्वाकारज्ञताज्ञानम् उत्पादयति, परांश् च सर्वाकारज्ञताज्ञाने समादापयति, सर्वाकारज्ञताज्ञानस्य च वर्णं भाषते, ये चान्ये सर्वाकारज्ञताज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च सर्ववासनानुसंधिक्लेशान् प्रजहाति, परांश् च सर्ववासनानुसंधिक्लेशप्रहाणतायै समादापयति, सर्ववासनानुसंधिक्लेशप्रहाणस्य च वर्णं भाषते, ये चान्ये सर्ववासनानुसंधिक्लेशान् प्रजहति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च आयुःसंपदं परिगृह्णाति, परांश् च आयुःसंपदि समादापयति, आयुःसंपदश् च वर्णं भाषते, ये चान्ये महापुरुषा आयुःसंपदि स्थितास्, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च सद्धर्मस्थितिं परिगृह्णाति, परांश् च सद्धर्मस्थितौ (PSP_४:१४१) समादापयति, सद्धर्मस्थितेश् च वर्णं भाषते ये चान्ये सद्धर्मस्थितिं परिगृह्णन्ति, तेषाञ् च महापुरुषर्षभाणां वर्णवादी भवति समनुज्ञः.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन भवितव्यम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपायकौशल्ये च स्थातव्यम्. तस्यैवं शिक्षमाणस्यैवं तिष्ठतः, अनावरणं रूपं भविष्यति अनावरणा वेदना अनावरणा संज्ञा अनावरणाः संस्कारा, अनावरणं विज्ञानं भविष्यति, एवं विस्तरेण यावद् अनावरणा सद्धर्मस्थितिर् भविष्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततश् चैवं रूपन् न परिगृहीतं, न वेदना न संज्ञा न संस्कारा, न विज्ञानं परिगृहीतम्, एवं यावत् सर्वाकारज्ञता न परिगृहीता. तत् कस्य हेतोः? तथा हि सुभूते यो रूपस्यापरिग्रहो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, तथा हि यो विज्ञानस्यापरिग्रहो न तद् विज्ञानम्. एवं यावद् यः सर्वाकारज्ञताया अपरिग्रहो न सा सर्वाकारज्ञता. अस्मिन् खलु पुनर् बोधिसत्त्वस्थाने भाष्यमाणे द्वयोर् बोधिसत्त्वसहस्रयोर् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्. इत्य् अधिमात्राग्रधर्माः इत्य् उक्तं निर्वेधभागीयम्
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: या च सुभूते पृथग्जनभूमिर् या च श्रावकभूमिर् या च प्रत्येकबुद्धभूमिर् या च बोधिसत्त्वभूमिर् या च तथागतभूमिर् उक्ता सर्वा सा तथतयाविकल्पा निर्विकल्पाद्वयाद्वैधीकारा, यथा च सा तथताविकल्पा तथैव न विकल्पयत्य्, एवम् अवतरत्य् अविकल्पेन, एवम् अवतीर्णो यथा तथता तथा श्रुत्वा ततो ऽतिक्रम्य न किञ्चिद् विकल्पयति, न हि तास् तथताया एकैकतो नोभयतो नानुभयतो, न च यत्किञ्चित्प्रलापी भवति. अर्थोपसंहितां च वाचं भाषते नानर्थोपसंहितां, न च परस्य च कृताकृतं व्यवलोकयति, सुभाषितगवेषी च भवति, एभिः (PSP_४:१४२) सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति सामान्येनावैवर्तिकलक्षणम्
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व इतो बहिर्धानां येषां श्रमणब्राह्मणानां मुखम् उल्लोकयति, इमे भगवन्तः श्रमणब्राह्मणाज्ञेयं जानन्ति दृश्यं पश्यन्ति सम्यग्दृष्टिं प्रज्ञां च प्रज्ञापयन्तीति नेदं स्थानं विद्यते. न विचिकित्साम् आपद्यते न शीलव्रतं परामृषति न कुदृष्टिं पतति, न कौतुकमङ्गलेन शुद्धिं प्रत्येति, नान्येषां देवानां नमस्कारं करोति. पुष्पैर् वा गन्धैर् वा धूपैर् वा विलेपनैर् वा चूर्णैर् वा चीवरैर् वा च्छत्रैर् वा ध्वजैर् वा पताकाभिर् वा नान्येषां दातव्यं वा कर्तव्यं वा मन्यते, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं द्वितीयम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न मिथ्यादृष्टिको भवति, न नरकेषूपपद्यते न यमलोके न तिर्यग्योन्यां नासुरेषूपपद्यते न प्रत्यन्तेषु जनपदेषूपपद्यते न जडमूको भवति न दीर्घायुष्केषु देवेषूपपद्यते न च स्त्रीभावं परिगृह्णाति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं तृतीयम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो दशकुशलान् कर्मपथान् समादाय वर्तते स आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् पिशुनवचनात् परुषवचनाद् अवद्यप्रलापाद् अभिध्याया व्यापादाद्, आत्मना च मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भाषते, ये चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति, तेषाञ् च वर्णवादी भवति समनुज्ञः, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
भगवान् आह: तथा हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न कंचिद् धर्मं समनुपश्यति रूपं वा वेदनां वा संज्ञां वा संस्कारां वा विज्ञानं वा स्कन्धान् वा धातून् वा आयतनानि वा प्रतीत्यसमुत्पादं वा प्रतीत्यसमुत्पादाङ्गानि वा समनुपश्यति, सर्वपारमिता वा सर्वशून्यता वा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि वा सप्तत्रिंशद्बोधिपक्ष्यान् वा धर्मान् अप्रमाणध्यानारूप्यसमापत्तीर् वा आर्यसत्यानि वा शून्यतानिमित्ताप्रणिहिता वा दशतथागतबलानि वा वैशारद्यानि प्रतिसंविदो वा आवेणिकान् बुद्धधर्मान् न समनुपश्यति, अनुत्तरां वा सम्यक्संबोधिं न समनुपश्यति, यत्र काङ्क्षा वा विमतिर् वा विचिकित्सा वा स्यात्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो (PSP_४:१४५) ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् षष्ठम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽतिक्रामन् वा प्रतिक्रामन् वा न भ्रान्तचित्तो ऽतिक्रामति वा प्रतिक्रामति वा, सो ऽतिक्रामन् वा प्रतिक्रामन् वा उपस्थितस्मृतिर् अतिक्रामति, उपस्थितस्मृतिर् एव प्रतिक्रामति. स्मृतिमांश् चैव गच्छति च क्रमति तिष्ठति निषीदति शय्यां च कल्पयति न सहसा भूमौ पादाव् उत्क्षिपति, न सहसा भूमौ पादौ प्रतिक्षिपति न सहसा भूमौ पादौ निक्षिपति, स्मृतिमान् एव स पादौ उत्क्षिपति प्रतिक्षिपति निक्षिपति, स पश्यन्न् एव भूप्रदेशम् आक्रामति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो (PSP_४:१४६) महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं दशमम्
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च भवति?
SK
भगवान् आह: यथायथा सुभूते बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलानि प्रवर्धन्ते, तथातथा कायचक्रत्वं वाक्चक्रत्वं चित्तचक्रत्वं च कायवाक्चित्तकौटिल्यताञ् च तैः कुशलमूलैः परिशोधयति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च, स तया कायपरिशुद्ध्या वाक्परिशुद्ध्या चित्तपरिशुद्ध्या च श्रावकभूमिं च प्रत्येकबुद्धभूमिञ् चातिक्रामति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य (PSP_४:१४७) कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं त्रयोदशम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न लाभसत्कारगुरुको भवति न पिण्डपातगुरुको भवति यावन् न चीवरगुरुको भवति, स द्वादशधूतगुणसमादाने वर्तते, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं चतुर्दशम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य न मात्सर्यचित्तम् उत्पद्यते न दौःशील्यचित्तम् उत्पद्यते न क्षुब्धचित्तम् उत्पद्यते न कौसीद्यचित्तम् उत्पद्यते नासमाहितचित्तम् उत्पद्यते न दौष्प्रज्ञाचित्तम् उत्पद्यते नेर्ष्याचित्तम् उत्पद्यते एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं पञ्चदशम्
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो न क्षुभ्यति न काङ्क्षति न विचिकित्सति, धर्मतां प्रतिसरति, अनभिसंस्कारम् अनुत्पादं प्रतिसरति, न परस्य श्रद्धया गच्छति, अपरप्रणेयश् च भवति, दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम् अपरप्रणेयश् च भवति यावद् अनुत्तरायां सम्यक्संबोधौ, तद्यथापि नाम अर्हन् क्षीणास्रवो भिक्षुर् न परस्य श्रद्धया गच्छति प्रत्यक्षकारी धर्मतायाम् असंहार्यो भवति मारेण पापीयसा. एवम् एव सुभूते ऽनवमर्दनीयो बोधिसत्त्वो महासत्त्वः श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा, अप्रत्युदावर्तनीयधर्मा च भवति श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा बुद्धयानिकैर् वा अनुत्तरायां सम्यक्संबोधौ, नियतो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयधातौ स्थितो ऽपरप्रणेयश् च भवति, स तथागतस्यार्हतः सम्यक्संबुद्धस्यापि श्रद्धया न गच्छति, प्राग् एव श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा बुद्धयानिकानां वा प्राग् एव मारस्य पापीयसः, प्राग् एवान्यतीर्थिकानां परिव्राजकानां वा श्रद्धया गच्छेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वो न कंचिद् धर्मं समनुपश्यति, यस्य श्रद्धया गच्छेद् रूपस्य वा वेदनाया वा संज्ञाया वा संस्काराणां वा विज्ञानस्य वा, रूपतथताया वा वेदनातथताया वा संज्ञातथताया वा संस्कारतथताया वा विज्ञानतथताया वा, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि बोधिपक्ष्यधर्मान् अप्रमाणध्यानारूप्यसमापत्तीर् आर्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् अनुत्तरां च सम्यक्संबोधिं न समनुपश्यति यावद् अनुत्तरायाः सम्यक्संबोधेस् तथतान् न समनुपश्यति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मूर्धगतावस्थस्यावैवर्तिकलक्षणम् अष्टादशम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, सचेद् एवं शिक्षित्वा यथा तथागतेनाख्यातं तया चर्ययाविरहितस्यैभिः पारमिताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो बोधिसत्त्वो महासत्त्वो न परिहीयते दानपारमितया न परिहीयते शीलपारमितया न परिहीयते क्षान्तिपारमितया न परिहीयते वीर्यपारमितया न परिहीयते ध्यानपारमितया न परिहीयते प्रज्ञापारमितया न परिहीयते अध्यात्मशून्यतया न परिहीयते यावद् अभावस्वभावशून्यतया न परिहीयते स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् न परिहीयते अप्रमाणध्यानारूप्यसमापत्तिभिर् न परिहीयते शून्यतानिमित्ताप्रणिहिताभिज्ञाभिर् न परिहीयते सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैर् न परिहीयते दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मैर् न परिहीयते सर्वाकारज्ञतया.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, यो मारकर्माणि बुध्यते स न परिहीयते ऽनुत्तरायाः सम्यक्संबोधेः एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इत्य् अग्रधर्मगतावस्थस्यावैवर्तिकलक्षणं विंशतितमम्
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो मनसिकारेण समन्वागतो बोधिचित्तेनाविरहितो न रूपगुरुको भवति न क्षणगुरुको भवति नास्रवगुरुको भवति, न दानगुरुको भवति न शीलगुरुको भवति न क्षान्तिगुरुको भवति न वीर्यगुरुको भवति न ध्यानगुरुको भवति न प्रज्ञागुरुको भवति, नाप्रमाणगुरुको भवति नारूप्यगुरुको भवति न समापत्तिगुरुको भवति नाभिज्ञागुरुको भवति न सप्तत्रिंशद्बोधिपक्ष्यधर्मगुरुको भवति न सर्वविमोक्षसमाधिसमापत्तिगुरुको भवति न शून्यतानिमित्ताप्रणिहितगुरुको भवति नार्यसत्यगुरुको भवति न वैशारद्यगुरुको भवति न प्रतिसंविद्गुरुको भवति न सम्यक्संबोधिगुरुको भवति न सत्त्वपरिपाचनगुरुको भवति न बुद्धदर्शनगुरुको भवति न कुशलमूलावरोपनगुरुको भवति. तत् कस्य हेतोः? तथा हि ते सर्वधर्मा आकाशसमा अभावस्वभावाः स्वलक्षणशून्याः. स खलु पुनः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व अने इमेन च मनसिकारेण समन्वागतश् चतुर्भिश् चेर्यापथैर् अभिक्रामति न प्रतिक्रामति न भ्रान्तचित्त आगच्छति न भ्रान्तचित्तो गच्छति न चङ्क्ररैष्यति (PSP_४:१५६) न च स्थास्यति न निषीदिष्यति न शय्यां कल्पयिष्यति स स्मृत एवागमिष्यति गमिष्यति चङ्क्रमिष्यति स्थास्यति निषीदिष्यति शय्यां कल्पयिष्यति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति समुदये धर्मज्ञानक्षान्तिः
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽगारम् अध्यावसन्न् उपायकौशल्येन सत्त्वानां परिपाचनाय पञ्चकामगुणान् उपदिशति सर्वसत्त्वानां दानं ददाति, अन्नम् अन्नार्थिकानां, पानं पानार्थिकानां यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददाति, स आत्मना च दानपारमितायां चरति, परांश् च दानपारमितायां समादापयति दानपारमितायाश् च वर्णं भाषते, ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, स आत्मना च प्रज्ञापारमितायां चरति, परांश् च प्रज्ञापारमितायां समादापयति, प्रज्ञापारमितायाश् च वर्णं भाषते, ये चान्ये प्रज्ञापारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. इति समुदये धर्मज्ञानम्
SK
स खलु पुनः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽगारम् अध्यावसन् जम्बूद्वीपं सप्तरत्नपरिपूर्णं कृत्वा दानं ददाति, एवं चातुर्द्वीपकं लोकधातुं साहस्रं लोकधातुं द्विसाहस्रं लोकधातुं यावत् त्रिसाहस्रं महासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा दानं ददाति, न च कामगुणान् परिभुङ्क्ते सततसमितं ब्रह्मचारी भवति, न च कस्यचिद् अवमर्दनाकारं जनयति येनावमर्दनाकारेण परो ऽनात्तमनाः स्यात्, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सततसमितं वज्रपानिर् यक्षः सदानुबद्धो भविष्यत्य्, अयं बोधिसत्त्वो महासत्त्वो यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यथा ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सततसमितं समनुबद्धो यावत् पञ्चवज्रपाणि कुलानि सततसमितं समनुबद्धानि भविष्यन्ति, स न शक्यते मनुष्यैर् अमनुष्यैर् वावक्रमनायानवमर्दनीयो (PSP_४:१५७) भवति स देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर्लोके सहधर्मेण. इति समुदये ऽन्वयज्ञानक्षान्तिः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो बोधिमनसिकारैः समन्वागतो यानि तानि स्त्रीणाम् आवेशनानि वशीकरणानि मन्त्रविद्यौषधिभैषज्यानि तानि सर्वाणि सर्वेण सर्वं सर्वथा सर्वन् न प्रयुक्ते न च प्रयोजयति न च स्त्रीणाम् आवेशनम् अन्यतरान्यतरं करोति, न स्त्रियाः पुरुषस्य वा आदेशनाप्रातिहार्यं करोति, पुत्रो वा ते भविष्यति धीता वा ते भविष्यति, कुलोद्गतो वा भविष्यति, दीर्घायुष्को वा भविष्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्येषु धर्मेषु निमित्तं न समनुपश्यति, स निमित्तम् असमनुपश्यन्, परिशुद्धाजीवो विहरति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति समुदये ऽन्वयज्ञानम्
भगवान् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिमनसिकारैर् अविरहितो न स्कन्धयोगम् अनुयुक्तो (PSP_४:१५८) विहरति, न धात्वायतनयोगम् अनुयुक्तो विहरति. न प्रतीत्यसमुत्पादाङ्गयोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स शून्यतायां स्थितो न कस्यचिद् धर्मस्य हीनत्वं वा उत्कृष्टत्वं वा समनुपश्यति. इति निरोधे धर्मज्ञानक्षान्तिः
SK
न चौरकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्येषु धर्मेषु न कस्यचिद् धर्मस्याहरणं वा हरनं वा समनुपश्यति. इति निरोधे धर्मज्ञानम्
SK
न सेनाकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स प्रकृतिशून्यतायां स्थितो न कस्यचिद् धर्मस्याल्पत्वं वा बहुत्वं वा समनुपश्यति. इति निरोधे ऽन्वयज्ञानक्षान्तिः
SK
न युद्धकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सर्वधर्मतायां स्थितो न कस्यचिद् धर्मस्यानुनयं वा प्रतिघं वा समनुपश्यति. न ग्रामकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सर्वशून्यतायां स्थितो न कस्यचिद् धर्मस्य निचयं वासंनिचयं वा समनुपश्यति. न नगरकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स आकाशशून्यतायां स्थितो न कस्यचिद् धर्मस्य संग्रहं वासंग्रहं वा समनुपश्यति. न निगमकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सुभूते कोट्यां स्थितो न कस्यचिद् धर्मस्यात्ययं वानत्ययं वा समनुपश्यति. नात्मकथायोगम् अनुयुक्तो विहरति, एवं न सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यककथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? अत्यन्तविशुद्धत्वात् सर्वधर्माणाम् अन्यत्र प्रज्ञापारमिताकथायोगम् अनुयुक्तो विहरति, अविरहितश् च सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः. इति निरोधे ऽन्वयज्ञानम्
SK
स दानपारमितायां चरन् न मात्सर्यकथायोगम् अनुयुक्तो विहरति, शीलपारमितायां चरन् न दौःशील्यकथायोगम् अनुयुक्तो विहरति, क्षान्तिपारमितायां चरन् न प्रतिघकथायोगम् अनुयुक्तो विहरति, वीर्यपारमितायां चरन् न कौशीद्यकथायोगम् अनुयुक्तो विहरति, ध्यानपारमितायां चरन् न विक्षेपकथायोगम् अनुयुक्तो विहरति, प्रज्ञापारमितायां चरन् न दौष्प्रज्ञाकथायोगम् अनुयुक्तो विहरति, सर्वधर्मशून्यतायां विहरन् धर्मकामश् चैव भवति नाधर्मकामः, स धर्मधातौ चरन् न भेद्यस्य धर्मस्य वर्णवादी (PSP_४:१५९) भवति, समित्रकामो भवति नामित्रकामो बुद्धानां भगवताम् अन्तिके बोधिसत्त्वानां च महासत्त्वानां ये च श्रावकप्रत्येकबुद्धयानिकाः कुलपुत्रास् तान् अप्य् अनुत्तरायां सम्यक्संबोधौ समादापयति निवेशयति प्रतिष्ठापयति, स तथागतान् अर्हतः सम्यक्संबुद्धान् आकाङ्क्षति, दर्शनाय यत्र लोकधातौ तिष्ठन्ति ध्रियन्ते यापयन्ति, आकाङ्क्षंस् तत्रोपपद्यते, स इमैर् मनसिकारैर् रात्रिंदिवं विहरति यद् उत बुद्धमनसिकारैः. तत् कस्य हेतोः? तथा हि प्रायेण सुभूते ऽविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः कामधातुप्रतिसंयुक्तान् मनसिकारान् उत्पादयित्वा दशभिः कुशलैः कर्मपथैर् वर्तमानाः तेषु बुद्धक्षेत्रेषूपपद्यन्ते, यत्र संमुखीभूतास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति. तत्र प्रथमं ध्यानम् उत्पादयित्वा यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उत्पादयित्वा तत्रोपपद्यन्ते, यत्र संमुखीभूतास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मार्गे धर्मज्ञानक्षान्तिः
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ऽध्यात्मशून्यतायां स्थितस्य यावद् अभावस्वभावशून्यतायां स्थितस्य स्मृत्युपस्थाने स्थितस्य सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु स्थितस्याप्रमाणध्यानारूप्यसमापत्तिषु स्थितस्यार्यसत्येषु स्थितस्य शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थितस्य सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु स्थितस्याभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्थितस्य नैवं भवत्य्, अविनिवर्तनीयो वाहं न वाहम् अविनिवर्तनीय इति विचिकित्सा चास्य नोत्पद्यते. निःसंशयश् च भवति स्वकायां भूमौ. तत् कस्य हेतोः? तथा हि सो ऽणुम् अपि धर्मं न समनुपश्यति, यो विवर्तते वा न वा विवर्तते. तद्यथापि नाम सुभूते स्रोतआपन्नः स्रोतआपत्तिफलभूमौ स्थितो न काङ्क्षति न विचिकित्सति स्वकायां भूमाव् एवं सकृदागाम्यनागाम्यर्हत्त्वभूमौ स्थितो बुद्धभूमौ स्थितो न काङ्क्षति न विचिकित्सत्य्, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः स्वकायां भूमौ न काङ्क्षति न विचिकित्सति. (PSP_४:१६०) स तत्राविनिवर्तनीयभूमौ स्थितो बुद्धक्षेत्रञ् च परिशोधयति, सत्त्वांश् च परिपाचयत्य्, उत्पन्नोत्पन्नानि च मारकर्माणि बुध्यते, न च मारकर्माणां वशेन गच्छति, सर्वाणि च तानि मारकर्माणि बुध्यते बुद्ध्वा च विध्वस्तानि विरलीकरोति. तद्यथापि नाम सुभूते पुरुष आनन्तर्यकर्मकारी आनन्तर्यचित्तेनाविरहितो यावन् मरणकालम् इत्य् अनुवर्तत एव तद् आनन्तर्यचित्तं, न च तत्रानन्तर्यचित्तं शक्नोति विष्कम्भयितुम्, अनुवर्तते चास्य तत् पर्युत्थानं यावन् मरणकालम्. एवम् एव सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य तद् अविनिवर्तनीयचित्तं भूतं स्थितम् अविनिवर्तनीयभूमाव् अविकम्पन् तच् चित्तं, न शक्यते सदेवमानुषासुरेण लोकेन विवर्तयितुम्. तत् कस्य हेतोः? तथा हि तद् अविनिवर्तनीयचित्तं सदेवमानुषासुरम् अतिक्रम्य सम्यक्त्वनियामम् अवक्रान्तं स स्वकायां भूमौ स्थित्वाभिज्ञापरमपारमिताः प्राप्य बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, तेषु च बुद्धक्षेत्रेषु कुशलमूलान्य् अवरोपयित्वा तांश् च बुद्धान् भगवतः परिपृच्छति परिप्रश्नयति पर्युपास्ते.
SK
स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः तथा स्थितः, स मान उत्पन्नोत्पन्नानि च मारकर्माण्य् अवबुध्यते, उत्पन्नोत्पन्नानाञ् च मारकर्माणां वशेन न गच्छति, तानि च मारकर्माण्य् उपायकौशल्येन भूतकोटीः शोधयति, स्वकायाञ् च भूमौ न काङ्क्षति न विचिकित्सति. तत् कस्य हेतोः? तथा हि स निःकाङ्क्षो भूतकोट्याः, न भूतकोटिम् एकां वा द्वे वा विकल्पयति, तस्य जातिविनिवृत्तस्यापि न श्रावकप्रत्येकबुद्धभूमौ चित्तम् उत्पद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्येषु धर्मेषु न कस्यचिद् धर्मस्योत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यति. इति मार्गे धर्मज्ञानम्
SK
तस्य खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य स्वलक्षणशून्येषु सर्वधर्मेषु न कस्यचिद् धर्मस्योत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यते. जातिविनिवृत्तस्यापि नैवं भवति, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम्, अभिसंभोत्स्य एवाहम् अनुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि सुभूते स्वलक्षणशून्या अनुत्तरा सम्यक्संबोधिः. (PSP_४:१६१)
SK
स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं स्थितः स्वकायां भूमाव्, अपरप्रत्ययः स्वकायां भूमाव्, अनवमर्दनीयः स्वकायां भूमौ. तत् कस्य हेतोः? तथा हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व एवं स्थितो ऽसंहार्येण ज्ञानेन समन्वागतो भवति.
SK
सचेत् खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: ऽहैव त्वम् अर्हत्त्वं प्राप्नु हि, न त्वं व्याकृतो ऽनुत्तरायां सरोयक्संबोधौ, न च त्वयानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धो, येन त्वं व्याक्रियथास् तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ, न च त्वयि ते आकारास् तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते, यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो व्याक्रियते ऽनुत्तरायां सम्यक्संबोधौ.
SK
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वस् तद् वचनं श्रुत्वा नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, न च चित्तस्यान्यथा त्वं भवति वेदितव्यं, सुभूते बोधिसत्त्वेन महासत्त्वेन व्याकृतो ऽहं तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि मम ते धर्माः संविद्यन्ते यैर् धर्मैर् बोधिसत्त्वा महासत्त्वा व्याक्रियन्ते ऽनुत्तरायां सम्यक्संबोधौ. इति मार्गे ऽन्वयज्ञानक्षान्तिः
SK
सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: माराधिष्ठितो वा पुरुषः श्रावकत्वे त्वं कुलपुत्र व्याकृतो न त्वम् अनुत्तरायां सम्यक्संबोधौ, किं ते ऽनुत्तरया सम्यक्संबोध्या.
SK
सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भविष्यति, मारो बतायं पापीयान् बुद्धवेषेणोपसंक्रान्तो माराधिष्ठितो वा पुरुषो, न च तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वं महासत्त्वं श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा समादापयति.
भगवान् आह: धारणधारणीप्रतिलब्धस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य तथागतभाषिताः सूत्रान्ता न विप्रणश्यन्ति.
SK
सुभूतिर् आह: तथागतस्यैव भगवन्न् अर्हतः सम्यक्संबुद्धस्य न श्रावकभाषितानि न देवभाषितानि न नागभाषितानि न यक्षभाषितानि न गन्धर्वभाषितानि नासुरभाषितानि न गरुडभाषितानि न किंनरभाषितानि न महोरगभाषितानि.
SK
भगवान् आह: ये केचित् सुभूते रुतसंकेतघोषाः सर्वत्र बोधिसत्त्वो महासत्त्वो न काङ्क्षति न विचिकित्सति. तत् कस्य हेतोः? यथापि नाम तद् धारणधारणीप्रतिलब्धत्वाद्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
भगवान् आह: रूपं सुभूते शून्यम् असं ख्येयम् अप्रमेयम् अपरिमाणं, वेदना संज्ञा संस्कारा, विज्ञानं सुभूते शून्यम् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्.
SK
सुभूतिर् आह: किं पुनर् भगवन् रूपम् एव शून्यं, वेदना संज्ञा संस्कारा, विज्ञानम् एव शून्यं, न पुनः सर्वधर्मा अपि शून्याः?
SK
भगवान् आह: तत् किं मन्यसे? सुभूते न मया सर्वधर्माः शून्या इत्य् आख्याताः.
SK
सुभूतिर् आह: शून्या इति भगवन् सर्वधर्मास् तथागतेनाख्याता, ये च भगवन् शून्या अक्षया अपि ते, असंख्येया अपि ते अप्रमेया अपि ते, अपरिमाणा अपि ते, न भगवन् शून्यतायाः संख्योपलभ्यते, न प्रमाणम् उपलभ्यते, न परिमाणम् उपलभ्यते, इत्य् असंख्येयादीनां स्वभावलक्षणं, तस्मात् तर्हि भगवन् नैषां धर्माणाम् अर्थतो वा व्यञ्जनतो वा नानाकरणम् उपलभ्यते.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नैषां धर्माणाम् अर्थतो वा व्यञ्जनतो वा नानाकरणम् उपलभ्यते. अनभिलप्यम् एतत् सुभूते तथागतेनाभिलपितम्, अक्षयम् इति वा असंख्येयम् इति वा अप्रमेयम् इति वा अपरिमाणम् इति वा शून्यम् इति वा आनिमित्तम् इति वा अप्रणिहितम् इति वा अनभिसंस्कारम् इति वा अनुत्पाद इति वा विराग इति वा निरोध इति वा निर्वाणम् इति वा देशनानिष्पन्दनिर्देश एष सुभूते तथागतस्याक्षयम् इति यावन् निर्वाणम् इति चेति चोद्यपूर्वकस् तथागतकरुणानिष्पन्दनिर्देशः.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते अनभिलप्या, या सुभूते धर्माणाम् अनभिलप्यता सा शून्यता, न च शून्यता शक्याभिलपितुम्.
SK
सुभूतिर् आह: किं पुनर् भगवन्न् अनभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा?
SK
भगवान् आह: न सुभूते अनभिलप्यस्यार्थस्य नापि वृद्धिर् नापि परिहाणिर्.
SK
सुभूतिर् आह: सचेद् भगवन्न् अनभिलप्यस्यार्थस्य नापि वृद्धिर् नापि परिहाणिः, दानपारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, एवं शीलक्षान्तिवीर्यध्यानपारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, प्रज्ञापारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, चतुर्णां स्मृत्युपस्थानानां न वृद्धिर् न परिहाणिर् भविष्यति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य न वृद्धिर् न परिहाणिर् भविष्यति, अष्टानां विमोक्षाणां न वृद्धिर् न परिहाणिर् भविष्यति, नवानुपूर्वविहारसमापत्तीनाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् आर्यसत्यानां शून्यतानिमित्ताप्रणिहिताभिज्ञानं न वृद्धिर् न परिहाणिर् भविष्यति, दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां न वृद्धिर् न परिहाणिर् भविष्यति अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया न वृद्धिर् न परिहाणिर् भविष्यति, अष्टादशानाम् आवेणिकबुद्धधर्माणां न वृद्धिर् न परिहाणिर् भविष्यति. सचेद् भगवन्न् आसां षण्णां पारमितानां न वृद्धिर् न परिहाणिर् भविष्यति, यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां न वृद्धिर् न परिहाणिर् भविष्यति, तदा अभव्या हि भगवन् सर्वाकारज्ञतानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् इत्य् अनभिलप्यस्य हानिवृद्ध्या भावेन चोद्यम्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नानभिलप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा. सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः प्रज्ञापारमितायां योगम् आपद्यमानस्योपायकुशलस्य नैवं भवति, अहं प्रज्ञापारमितया विवर्द्धे, ऽहं ध्यानपारमितया विवर्द्धे, ऽहं वीर्यपारमितया विवर्द्धे, ऽहं क्षान्तिपारमितया विवर्द्धे, ऽहं शीलपारमितया विवर्द्धे, ऽहं दानपारमितया विवर्द्धे. एष च पुनर् अस्यैवं भवति, नामधेयमात्रम् एतद् यद् इदं दानपारमिता, स दानपारमितायां (PSP_४:१७४) चरंस् तान् मनसिकारांस् तांश् चित्तोत्पादांस् तानि च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथानुत्तरा सम्यक्संबोधिर्, एवं शीलक्षान्तिवीर्यध्यानपारमिता प्रज्ञापारमितायां चरंस् तान् मनसिकारांस् तांश् चित्तोत्पादांस् तानि च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति यथानुत्तरा सम्यक्संबोधिर् इति परिहारः.
भगवान् आह: या सुभूते रूपस्य तथता या वेदनायास् तथता या संज्ञयाः तथता या संस्काराणां तथता या विज्ञानस्य तथता, एवं या स्कन्धतथता या धातुतथता या आयतनतथता या प्रतीत्यसमुत्पादतथता या प्रतीत्यसमुत्पादाङ्गतथता, एवं यावद् या निर्वाणस्य तथता सानुत्तरा सम्यक्संबोधिः, सा नैव विवर्द्धते न परिहीयते. तत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो ऽभीक्स्णं बहुलं विहरति, न कस्यचिद् धर्मस्य वृद्धिं वा परिहाणिं वा समनुपश्यति. एवं खलु सुभूते अनभिलप्यस्यार्थस्य नैव वृद्धिर् न परिहाणिर्, एवं च सुभूते दानपारमिताया न वृद्धिर् न परिहाणिर्, एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताया न वृद्धिर् न परिहाणिर्, एवं शून्यतानां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानाम् अभिज्ञानां शून्यतानिमित्ताप्रणिहितानां दशानां बलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां न वृद्धिर् न परिहाणिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अवृद्ध्यपरिहाणियोगेन. इति बोधिलक्षणम्
सुभूतिर् आह: न भगवन् प्रथमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा न च प्रथमाभिनिपातम् अनागम्यार्चिषः सा वर्तिर् दग्धा, न भगवन् पश्चिमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा, न च पश्चिमाभिनिपातम् अनागम्यार्चिषः सा वर्तिर् दग्धा.
भगवान् आह: शुक्लविपश्यनाभूमिं सुभूते परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, एवं गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनुभूमिं वीतरागभूमिं कृतावीभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् (PSP_४:१७६) अभिसंबुध्यते, श्रावकप्रत्येकबुद्धभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, बोधिसत्त्वभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, बुद्धभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तत्र बोधिसत्त्वो महासत्त्वो दशसु भूमिषु शिक्षमाणो न च प्रथमचित्तोत्पादेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च प्रथमचित्तोत्पादम् अनागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादम् अनागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधिम्. इति दीपदृष्टान्तेन परिहारः
SK
सुभूतिर् आह: गम्भीरो भगवन् प्रतीत्यसमुत्पादो, न च नाम भगवन् प्रथमचित्तोत्पादेन, न च प्रथमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च नाम भगवन् पश्चिमेन चित्तोत्पादेन, न च पश्चिमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्यते च भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम्.
भगवान् आह: तत् किं मन्यसे? सुभूते य एवं चरति, स गम्भीरायां प्रज्ञापारमितायां चरति. सुभूतिर् आह: यो भगवैम् एवं चरति, स गम्भीरायां प्रज्ञा पारमितायां चरति.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते य एवं चरति, स कुत्र चरति.
SK
सुभूतिर् आह: यो भगव्न्न् एवं चरति, स न कुत्रचिच् चरति. तत् कस्य हेतोस्? तथा हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एते समुदाचारा न भवन्ति, न समुदाचरन्ति तथतायां स्थितस्य न भगवन् किञ्चित् समुदाचारति, नापि तत्र कश्चित् समुदाचरति. इति चर्यागाम्भीर्यम्
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां चरति स कुत्र चरति?
SK
सुभूतिर् आह: चरति भगवन् परमार्थे यत्र द्वयसमुदाचारो न संविद्यते.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यः परमार्थे चरति समुदाचारे चरति, स निमित्ते चरति.
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु तेन निमित्तसंज्ञा वानिमित्तसंज्ञा वा विभाविता भवति. (PSP_४:१७८)
एवम् उक्ते मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं नामधेयं मैत्रेयो बोधिसत्त्वो महासत्त्वो विसर्जयिष्यत्य्, उताहो रूपं विसर्जयिष्यति, वेदना संज्ञा संस्कारा, विज्ञानं विसर्जयिष्यति? या रूपस्य शून्यता सा विसर्जयिष्यति, या वेदनाशून्यता या संज्ञाशून्यता या संस्कारशून्यता, या विज्ञानशून्यता सा विसर्जयिष्यति? या च रूपस्य शून्यता न सा प्रतिबला विसर्जयितुं, या वेदनायाः शून्यता या संज्ञायाः शून्यता या संस्काराणां शून्यता या विज्ञानस्य शून्यता न सा प्रतिबला विसर्जयितुम्? तत् किं विसर्जयिष्यति नाहं तं धर्मं समनुपश्यामि, यो धर्मो विसर्जयिष्यति, यं विसर्जयिष्यति, यत्र वा विसर्जयिष्यति? तम् अप्य् अहं धर्मं न समनुपश्यामि, यो धर्मो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, येन व्याकृतो, यत्र वा व्याकृतस्, तम् अप्य् अहं धर्मं न समनुपश्यामि सर्व एते धर्मा अद्वया अद्वैधीकाराः.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यम् इति प्रत्यवेक्षितव्यम्, एवं वेदना संज्ञा संस्कारा, विज्ञानं शून्यम् इति प्रत्यवेक्षितव्यम्, एवं स्कन्धधात्वायतनानि शून्यानीति प्रत्यवेक्षितव्यानि, प्रतीत्यसमुत्पादः शून्य इति प्रत्यवेक्षितव्यः, प्रतीत्यसमुत्पादाङ्गानि शून्यानीति प्रत्यवेक्षितव्यानि, एवं यावत् कामधातुः शून्य इति प्रत्यवेक्षितव्यः, रूपधातुः शून्य इति प्रत्यवेक्षितव्यः, आरूप्यधातुः शून्य इति प्रत्यवेक्षितव्यः. तथा च प्रत्यवेक्षितव्यं, यथा प्रत्यवेक्षमाणस् तच् चित्तं न विक्षिपति, सो ऽविक्षिप्तचित्तस् तं धर्मं न समनुपश्यति, यो धर्मः साक्षात्क्रियेत, स तं धर्मम् (PSP_४:१९३) असमनुपश्यन् न साक्षात्करोति. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यैर् धर्मैः सुशिक्षितो न कस्यचिद् धर्मस्य व्यवच्छेदं करोति, यो वा साक्षात्कुर्याद्, यं वा साक्षात्कुर्याद्, येन वा साक्षात्कुर्यात्, सर्वांस् तान् धर्मान् न संयुक्तान् न विसंयुक्तान् समनुपश्यति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, न बोधिसत्त्वेन महासत्त्वेन शून्या धर्माः साक्षात्कर्तव्या इति. कथं भगवन् बोधिसत्त्वो महासत्त्वः शून्यतायां स्थितः शून्यतां न साक्षात्करोति?
SK
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारवरोपेतां शून्यतां प्रत्यवेक्षते, न च साक्षात्करिष्यामीति प्रत्यवेक्षते, न च साक्षात्कर्तव्येति प्रत्यवेक्षते, परिजयं करिष्यामीति प्रत्यवेक्षते, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते परिजयस्यायं कालो नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते. असमाहित एव बोधिसत्त्वो महासत्त्व आरंबणे चित्तम् उपनिबध्नाति, अत्रान्तरे बोधिसत्त्वो महासत्त्वो न परिहीयते बोधिपक्षैर् धर्मैर्, न चास्रवक्षयं साक्षात्करोति. तत् कस्य हेतोः? एवम् उदारज्ञानसमन्वागतो बोधिसत्त्वो महासत्त्वो भविष्यति. तत् कस्य हेतोः? यो बोधिपक्ष्येषु धर्मेषु स्थित एवं जानाति परिजयस्यायं कालो नायं कालः साक्षात्क्रियाया इति.
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शून्यतायां च परिजयं करोति, शून्यतया च विहरत्य्, आनिमित्ते च परिजयं करोति, आनिमित्तेन च विहरत्य्, अप्रणिहिते च परिजयं करोति, अप्रणिहितेन च विहरति. स्मृत्युपस्थानानि च भावयति स्मृत्युपस्थानैश् च विहरति न च साक्षात्करोति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आर्याष्टाङ्गिकं च मार्गञ् च भावयत्य् आर्याष्टाङ्गिकेन च मार्गेण विहरति न च साक्षात्करोति.
SK
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बोधिपक्ष्येषु धर्मेषु परिजयं करोति, बोधिपक्ष्यांश् च धर्मान् भावयति बोधिपक्ष्यैश् च धर्मैर् विहरति, न च स्रोतआपत्तिफलं साक्षात्करोति न च सकृदागामिफलन् न चानागामिफलन् नार्हत्त्वफलं साक्षात्करोति. इत्य् उपायकौशलप्रयोगः
SK
तद्यथापि नाम सुभूते कश्चिद् एव पुरुषः शूरश् च भवेद्, वीरश् च भवेद्, दृढप्रतिष्ठानश् च भवेद्, अभिरूपश् च भवेत्, प्रासादिकश् च भवेद्, दर्शनीयश् च भवेत्, परमशुभवर्णपुष्करतया समन्वागतश् च भवेद्, इष्वस्त्रे च परमां गतिंगतो भवेद्, दृढानि चानेन प्रहरणानि गृहीतानि भवेयुः, सर्वासु च चतुःषष्ठिषु कलासु परिनिष्पन्नो भवेत्, सर्वत्र च शिल्पस्थानेषु च कर्मस्थानेषु च गतिंगतो भवेत्, बहुजनस्य च प्रियो मनआपो भवेत्, स यां याम् एव च कांश्चित् क्रियाम् आरभेत सर्वत्र तत्र तत्र च लाभसत्कारसमन्वागतो भवेत्, तेन च बहुजनं सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत्, स भूयस्या मात्रया आत्तमनस्को भवेत् प्रमुदितः प्रीतिसौमनस्यजातः स मातापितृपुत्रदारान् गृहीत्वा केनचिद् एव करणीयेन महाभयभैरवम् अटवीकान्तारं प्रविष्टस् स्याद् बालानां भीषणकं स रोमहर्षणं, तत्र च स पुरुषः प्रविश्य तान् मातापितृपुत्रदारान् (PSP_४:१९५) अभयेनाभिनिमन्त्रयेन्, मा भैष्ट मा भैष्टाहं युष्मान् इतो महाभयभैरवाद् अटवीकान्ताराद् बालानां भीषणात् स रोमहर्षणाच् छीघ्रम् एवापक्रामयिष्यामि शीघ्रम् एव परिमोचयिष्यामि. तस्य च पुरुषस्य तत्राटवीकान्तारे बहवो ऽमित्रा वधकाः प्रत्यर्थिकाः प्रत्यमित्राः प्रत्युपस्थिता भवेयुः, स च पुरुषः परमेण प्रज्ञाबलेन समन्वागतो भवेत्, स तान् परिमोचयित्वा मातापितृपुत्रदारांस् तस्माद् अटवीकान्तारान् निष्काशयित्वा पुनर् एव ग्रामं वा नगरं वा निगमं वा जनपदं वा जनप्रदेशं वा गत्वा प्रीतिसौमनस्य जातो विहरेद् अक्षतो ऽनुपहतो, न च तेषां सत्त्वानाम् अन्तिके प्रत्यर्थिकानां प्रत्यमित्राणां वा मनः प्रदुषयेत्. तत् कस्य हेतोः? तथा हि स कृतयोग्यः सर्वासु च कलासु भवेत्, तेन तत्राटवीकान्तारे बहुतराश् च शूरतराश् च दृढप्रहरणतराश् च तेषां प्रत्यर्थिकानां प्रत्यमित्राणाम् अन्ये उदारतराः प्रत्यर्थिकाः प्रत्यमित्रा अभिनिर्मिता भवेयुः, ते तेन भयेन सर्वे ऽपगता भवेयुः. अथ स पुरुषस् तान् मातापितृपुत्रदारान् स्वस्तिना परिमोचयित्वा सुखं विहरेत्.
SK
एवम् एव सुभूते यस्मिन् समये बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अन्तिके मैत्र्यारम्बणेन चित्तेन करुणामुदितोपेक्षारम्बणेन चित्तेन स्फारित्वा विहरत्य् अत्रान्तरे सुभूते बोधिसत्त्वो महासत्त्वो न चानिमित्तेन व्याह्रियते न चानिमित्तसमाधिं साक्षात्क्रियया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा प्रतिष्ठेत्. इत्य् अन्तरायिकधर्मसमतिक्रमणोपायः
SK
तद्यथापि नाम सुभूते पक्षी शकुनिर् अन्तरीक्षे चरति न च भूमौ पतति, आकाशे वान्तरीक्षे विहरति न च तत्र तिष्ठति न प्रतिष्ठते. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः शून्यतायां च परिजयं करोति शून्यतया च विहरति, आनिमित्ते च परिजयं करोत्य् आनिमित्तेन च विहरत्य्, अप्रणिहिते च परिजयं करोत्य् अप्रणिहितेन च विहरति, न च शून्यतां वानिमित्तं वाप्रणिहितं वा साक्षात्करोति, यया साक्षात्क्रियया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतेद्, अपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया चापरिमाणेषु च बुद्धधर्मेषु चरित्वा सर्वाकारज्ञताम् अनुप्राप्नोति. इत्य् अप्रतिष्ठितविहारोपायः (PSP_४:१९६)
SK
तद्यथापि नाम सुभूते बलवान् इष्वस्त्राचार्यो भवेद् इष्वस्त्रशिक्षायां सुशिक्षितः स काण्डम् ऊर्ध्वमुखं क्षिप्त्वा तदन्यैः काण्डैस् तस्य पूर्वकस्य काण्डस्य परंपरया पृथिव्यां पतनं न दद्यात् तावत् काण्डं पृथिव्यां न पतति यावत् स पुरुष आकाङ्क्षेत्. अथ खल्व् एतत् काण्डं पृथिव्यां निपतेत्, स पश्चिमं काण्डम् ऊर्ध्वमुखं नाक्षिपेद्, एवं सा काण्डपरंपरा पृथिव्यां निपतेत्.
भगवान् आह: तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वा अपरित्यक्ताः. यस्य सुभूते सर्वसत्त्वा अपरित्यक्तास् तस्यैवंरूपः प्रणिधानविशेषो भवति, यः सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् अभिनिर्हरति, सर्वसत्त्वा मयापरित्यक्ता मयैते परिमोचयितव्याः, असंविद्यमानैर् धर्मैर् वर्तमानाः शान्तं शून्यतासमाधिविमोक्षमुखम् अभिनिर्हरत्य्, आनिमित्तं समाधिविमोक्षमुखम् अभिनिर्हरत्य्, अप्रणिहितं समाधिविमोक्षमुखम् अभिनिर्हरत्य्, उपायकौशल्यसमन्वागतः स बोधिसत्त्वो महासत्त्वस् तस्मिन् समये वेदितव्यो, न चान्तरा भूतकोटिं साक्षात्करोति यावन् न सर्वाकारज्ञताम् अनुप्राप्नोति. इत्य् असाधारणोपायः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यानीमानि गम्भीराणि स्थानानि प्रत्यवेक्षितुकामो भवति, तद्यथेदम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां (PSP_४:१९७) चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि आर्याष्टाङ्गिकमार्गं त्रीणि विमोक्षमुखानि, तेनैवं चित्तोत्पादो ऽभिनिर्हर्तव्यो, दीर्घरात्रम् इमे सत्त्वा आत्मसंज्ञायां सत्त्वसंज्ञायां जीवसंज्ञायां जन्तुसंज्ञायां पोषसंज्ञायां पुरुषसंज्ञायां पुद्गलसंज्ञायां मनुजसंज्ञायां मानवसंज्ञायां कारकसंज्ञायां वेदकसंज्ञायां जानकसंज्ञायां पश्यकसंज्ञयाम् उपलम्भे चरन्ति, तेषाम् उपलम्भदृष्टिप्रहाणायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यामि. यस्मिन् समये बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखं भावयत्य्, आनिमित्तं समाधिविमोक्षमुखं भावयत्य् अप्रणिहितं समाधिविमोक्षमुखं भावयति समापद्यते च न च भूतकोटीं साक्षात्करोति, यया साक्षात्क्रियया स्रोतआपत्तिफलं प्राप्नुयात्, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुयात्, प्रत्येकां बोधिं प्राप्नुयात्, तस्मिन् समये बोधिसत्त्वो महासत्त्वो न स्रोतआपत्तिफलम् अनुप्राप्नुयाद् न सकृदागामिफलन् नानागामिफलं नार्हत्त्वम् अनुप्राप्नुयात्, न प्रत्येकां बोधिम् अनुप्राप्नुयाद्, एवं चरन् बोधिसत्त्वो महासत्त्वो ऽनेन चित्तोत्पादेन एतैश् च कुशलमूलैः समन्वागतो नान्तरा भूतकोटिं साक्षात्करोति न च परिहीयते चतुर्भिर् अप्रमाणैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गिकेन मार्गेण शून्यतानिमित्ताप्रणिहितसमाधिभिर् अध्यात्मशून्यतया यावद् अभावस्वभावशून्यतया न परिहीयते, दानपारमितया न परिहीयते, शीलपारमितया न परिहीयते, क्षान्तिपारमितया न परिहीयते, वीर्यपारमितया न परिहीयते, ध्यानपारमितया न परिहीयते, प्रज्ञापारमितया न परिहीयते, आर्यसत्यैर् न परिहीयते, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैर् न परिहीयते पञ्चभिर् अभिज्ञाभिर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् न परिहीयते, अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् न परिहीयते, महामैत्र्या महाकरुणया न परिहीयते. एवं बोधिसत्त्वो महासत्त्वस् तस्मिन् समये सर्वबोधिपक्ष्यैर् धर्मैः समन्वागतो न च परिहीयते ततो यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो (PSP_४:१९८) विवर्धते शुक्लैर् धर्मैः, तीक्ष्णतमानि चास्येन्द्रियाणि भवन्ति यथा न श्रावकप्रत्येकबुद्धानाम्. इत्य् अशक्त्युपायः
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, दीर्घरात्रम् इमे सत्त्वाश् चतुर्भिर् विपर्यासैर् विपर्यस्तचित्ता नित्यसंज्ञायां सुखसंज्ञायां शुभसंज्ञायाम् आत्मसंज्ञायाञ् च तेषाम् अर्थाय बोधये चरिष्यामि, तथा चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यामि, यथानित्यम् इति दुःखम् इत्य् अशुभम् इति अनात्मीयम् इति वा समुदाचारो ऽपि न भविष्यति. सो ऽनेन चित्तोत्पादेन समन्वागत उपायकौशल्येन च प्रज्ञापारमितायां चरति, बुद्धधर्मसमाधिं समापद्यते ऽपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च शून्यतानिमित्ताप्रणिहितसमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वो महासत्त्वो भावयति समापद्यते च, न च भूतकोटिं साक्षात्करोति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, दीर्घरात्रम् इमे सत्त्वा उपलम्भचरता आत्मेति, सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यका इति, रूपम् इति वा वेदनेति वा संज्ञेति वा संस्कारा इति वा विज्ञानम् इति वा स्कन्धा इति वा धातव इति वा आयतनानीति वा प्रतीत्यसमुत्पादा इति वा प्रतीत्यसमुत्पादाङ्गानीति वा चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिस् तेषां तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सत्त्वानाम् एते उपलम्भदोषा न भविष्यन्ति, स इमैश् चित्तोत्पादैः समन्वागतो ऽनेन चोपायकौशल्येन प्रज्ञापारमितायां चरन् न भूतकोटीं साक्षात्करोत्य् अपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च शून्यतासमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य भावना परिपूरिं गच्छति. इत्य् अनुपलम्भोपायः
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, दीर्घरात्रम् इमे सत्त्वा निमित्तेन चरिताः स्त्रीनिमित्तेषु वा पुरुषनिमित्तेषु वा रूपनिमित्तेषु वा आरूप्यनिमित्तेषु (PSP_४:१९९) वा, तेषां सत्त्वानां तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, एषां सत्त्वानाम् इमे दोषा न भविष्यन्ति. स तेन चित्तोत्पादेन समन्वागतो ऽनेन चोपायकौशल्येन समन्वागतः प्रज्ञापारमितायां चरन् न चान्तरा भूतकोटीं साक्षात्करोत्य् अपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च तस्य तेन चित्तोत्पादेन समन्वागतस्यानिमित्तसमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य भावना परिपूरिं गच्छति. इत्य् आनिमित्तोपायः
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, दीर्घरात्रम् इमे सत्त्वाः प्रणिधानेन चरिता यद् उत शक्रत्वं ब्रह्मत्वं लोकपालत्वं चक्रवर्तित्वम् अभिलषन्ति रूपम् अभिलषन्ति एवं वेदनां संज्ञां संस्कारान्, विज्ञानम् अभिलषन्ति, तेषाम् अहम् अर्थायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य तथा धर्मं देशयिष्यामि यथैव ते सत्त्वानां प्रणिधानदोषा न भविष्यन्तीति. एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य एभिश् चित्तोत्पादैर् एभिश् च कुशलमूलैर् अनेन चोपायकौशल्येन प्रज्ञापारमितायां चरतः, अप्रणिहितसमाधिविमोक्षमुखं भावना परिपूरिं गच्छति, न च भूतकोटिं साक्षात्करोति, अपरिपूर्णैर् दशभिर् बलैर् वैशारद्यैः प्रतिसंविदावेणिकबुद्धधर्मैर् महामैत्र्या महाकरुणया च यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति, अस्थानैः सुभूते ऽनवकाशो यद् बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन्न् अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां चरंश् चतुर्षु स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु मार्गेषु चरन् शून्यतानिमित्ताप्रणिहितेषु चरन् दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां चरन् यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् परिजयं कुर्वाण, एवं ज्ञानधर्मसमन्वागतो ऽनभिसंस्कारे वा पतेत त्रैधातुकेन वा सार्धं संवसेन् नैतत् स्थानं विद्यते. इत्य् अप्रणिहितोपायः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एषु बोधिपाक्षिकेषु (PSP_४:२००) धर्मेषु चरन् परिजयं कुर्वाणः परिप्रष्टव्यः. कथं बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामो बोधिपक्ष्येषु धर्मेषु चरित्वा परिजयं कृत्वा न शून्यतां साक्षात्कुर्यात्, न च भूतकोटिं प्रतिसंविध्येन्, न स्रोतआपत्तिफलं वा सकृदागामिफलं वा नागामिफलं वार्हत्त्वं वा प्रत्येकां वा बोधिम् अनुप्राप्नुयात्? कथं शून्यताम् आनिमित्तम् अप्रणिहितम् अनभिसंस्कारम् अनुत्पादम् अभावं वा साक्षात्कुर्यात् प्रज्ञापारमितां च भावयेद्? इति.
SK
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वैर् महासत्त्वैर् एवं परिपृच्छमान एवं व्याकुर्याच्, छूनय्ता चैव तेन मनसिकर्तव्या, आनिमित्तं चैव तेन मनसिकर्तव्यम्, अप्रणिहितं चैव तेन मनसिकर्तव्यम्, अनभिसंस्कारो ऽनुत्पादो भावश् चैव मनसिकर्तव्यो, न च सर्वसत्त्वाः परित्यक्तव्या इति. वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य परिजयं सूचयति तं व्याकरोति तं प्रभावयति.
SK
सचेत् पुनः सुभूते पृष्ट एवं व्याकुर्यान्, न तेन शून्यतायां परिजयं कर्तव्यं, नानिमित्ते नाप्रणिहिते नानभिसंस्कारे नानुत्पादे नाभावे न तेन बोधिपक्ष्यैर् धर्मैः परिजयः कर्तव्यो, न च सर्वसत्त्वाः समालम्बितव्या इति. वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् नायं बोधिसत्त्वो महासत्त्वो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य परिजयं तं न सूचयति तं न व्याकरोति तं न प्रभावयति, यः पुनर् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मं तं न सूचयति न व्याकरोति न भावयति, वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् अयं बोधिसत्त्वो महासत्त्वः परिजयं कृत्वा ततो भूमेर् अतिक्रान्तो याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयभूमिः. इत्य् अवैवर्तिकलिङ्गोपायः
भगवान् आह: स्यात् सुभूते यो बोधिसत्त्वो महासत्त्वः षट् पारमिताः श्रुत्वा वाश्रुत्वा वा एवं विसर्जयेद् यथाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, वेदितव्यस् तैर् बोधिसत्त्वैर् महासत्त्वैर् अविनिवर्तनीयो ऽयं बोधिसत्त्वो महासत्त्वः.
SK
सुभूतिर् आह: तेन हि भगवन् बहवो बोधिसत्त्वा महासत्त्वा बोधाय चरन्ति, अल्पकास् ते भगवन् बोधिसत्त्वा महासत्त्वा य एवं विसर्जयिष्यन्ति, यथाविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः परिकर्मभूमौ वा, अपरिकर्मभूमौ वा.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. तत् कस्य हेतोः? तथा हि सुभूते ऽल्पकास् ते बोधिसत्त्वा महासत्त्वा य एवं व्याकृता अविनिवर्तनीयायां ज्ञानभूमौ, ये पुनस् ते व्याकृता भविष्यन्ति त एवं विसर्जयिष्यन्ति, उत्तप्तकुशलमूलास् ते वेदितव्या बोधिसत्त्वा महासत्त्वा असंहार्याः सदेवमानुषासुरेण लोकेन. इत्य् अप्रमाणविषयोपायः इत्य् उक्तम् उपायकौशलम् इत्य् उक्तः सर्वाकाराभिसंबोधः
यञ् च पुनः स मारः पापीयान् विवेकम् उपदेक्ष्यत्य् अरण्यवनप्रस्थप्रान्तशयनासनैर् विहरति, स तेन विवेकेन संकीर्णश् चैव समानः श्रावकप्रतिसंयुक्तैर् मनसिकारैः विहरति प्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विहरति प्रज्ञापारमितायाम् अनभियुक्तः सर्वाकारज्ञतां न परिपूरयति. एवं सो ऽनेन विहारेण विहरन्न् अपरिशुद्धधर्ममनसिकारश् चैव समानस् तदन्यान् अपि बोधिसत्त्वान् महासत्त्वान् अवमंस्यते ये ते ग्रामान्ते विहरन्ति परिशुद्धधर्ममनसिकाराः श्रावकचित्तैर् असंकीर्णाः प्रत्येकबुद्धचित्तैर् असंकीर्णा (PSP_५:९) इहान्यैः पापकैश् चित्तोत्पादैर् असंकिर्णा ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखसत्याभिज्ञापरिपूरिं गताः.
SK
अथ च पुनः सो ऽनुपायकुशलो बोधिसत्त्वो महासत्त्वः, किं चापि योजनशतिकेष्व् अटवीकान्तारेष्व् अपगतव्यादमृगपक्षिष्व् अपगतचौरकान्तारेष्व् अपगतभृशपर्णराक्षसानुविचरितेषु तत्र मध्ये वा संकल्पयेद् वर्षं वा वर्षशतं वा वर्षसहस्रं वा वर्षशतसहस्रं वा वर्षकोटीशतं वा वर्षकोटीसहस्रं वा वर्षकोटीशतसहस्रं वा ततो वा उत्तरि, इमं च विवेकन् न जानाति येन विवेकेन बोधिसत्त्वो महासत्त्वो ऽध्याशयसंप्रस्थितो विहरति, संकीर्णश् चैव विहरति बोधिसत्त्वो महासत्त्वः संक्लिष्टश् चैव तत्र विवेके निश्रित आलीनो ऽध्यवसितो न मे स तावन्मात्रकेण चित्तम् अभिराधयति, यश् च मया विवेक आख्यातस् तस्मिन् विवेके न संदृश्यते.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः सर्वधर्मविविक्ताः सर्वधर्माः सर्वधर्मैः शून्यास्, तत् कथं भगवन् सत्त्वानां संक्लेशं व्यवदानं प्रज्ञायते? न भगवन् विविक्तं वा शून्यता वा संक्लिश्यते वा व्यवदायते वा, न विविक्तं वा शून्यता वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न विविक्ते वा शून्यतायां वा कश्चिद् धर्म उपलभ्यते, यो बोधिम् अभिसंबुध्येतास्य चैवं भगवन् भगवतो भाषितस्य कथम् अर्थं जानीयाम्? इति.
भगवान् आह: एवं खलु सुभूते सत्त्वानां संक्लेशः प्रज्ञायते संसारे संधावतां संसरतां, यत्र सुभूते नाहंकारो न ममकारस् तत्र नोद्ग्रहो ऽनेन ते सत्त्वाः संसारे न संधावन्ति न संसरन्ति. (PSP_५:१३)
SK
एवं खलु सुभूते सत्त्वानां व्यवदानं प्रज्ञायते संसारे न संधावतां न संसरताम्, अपि तु खलु पुनर् न कश्चित् तत्र संक्लिश्यते वा व्यवदायते वा, एवं खलु सुभूते संक्लेशो व्यवदानञ् च प्रज्ञायते. इत्य् एकादशम्
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वो न रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति, न स्कन्धेषु चरति न धातुषु चरति नायतनेषु चरति न प्रतीत्यसमुत्पादे चरति न प्रतीत्यसमुत्पादाङ्गेसु चरति न स्मृत्युपस्थानेषु चरति न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु न मार्गेषु चरति नार्यसत्येषु नाप्रमाणध्यानारूप्यसमापत्तिषु चरति न सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति न शून्यतानिमित्ताप्रणिहितेषु चरति न पञ्चस्व् अभिज्ञासु चरति न बलवैशारद्येषु चरति न प्रतिसंवित्सु चरति नावेणिकेषु बुद्धधर्मेषु चरति न सर्वाकारज्ञतायां चरति. तत् कस्य हेतोः? तथा हि ते धर्मा नोपलभ्यन्ते यो वा चरेत येन वा चरेत यत्र वा चरेत, एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वो ऽनभिभवनीयो भवति सदेवमानुषासुरेण लोकेन. एवञ् चरन् पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धैर् न शक्यो ऽभिभवितुम्. तत् कस्य हेतोः? तथा हि सो ऽनभिभूते स्थाने स्थितो यद् उत बोधिसत्त्वनियामे ऽनभिभूतो हि भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतामनसिकारैर् विहरन्न्, एवञ् चरन् पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताया अभ्याशीभवति. इति द्वादशम् इत्य् उक्तं लिङ्गम्
SK
भगवान् आह: कत् किं मन्यसे? सुभूते ये जाम्बूद्वीपकाः सत्त्वास् ते सर्वमानुष्यकम् आत्मभावं प्रतिलभेरन् प्रतिलभ्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येरंस् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत्, तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिनामयेत्. तत् किं मन्यसे? सुभूते, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं (PSP_५:१४) पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां परेषाम् आख्यायेद् देशयेत् प्रज्ञपयेत् प्रस्थापयेद् विवृणुयाद् विभजेद् विभावयेत उत्तानीकुर्यात् संप्रकाशयेत् प्रज्ञापारमिताप्रतिसंयुक्तैर् मनसिकारैर् विहरेद्, एवं यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽपूर्वाचरमं मानुष्यकम् आत्मभावं प्रतिलभेरंस्, तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेच्, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु स्रोतआपत्तिफले प्रतिष्ठापयेत् सकृदागामिफले अनागामिफले ऽर्हत्त्वे प्रतिष्ठापयेत् प्रत्येकबोधौ प्रतिष्ठापयेद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेत् तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयेत्. तत् किं मन्यसे? सुभूते, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां परेषाम् आख्यायेद् देशयेत् प्रज्ञपयेत् प्रस्थापयेद् विवृणुयाद् विभजेद् विभावयेत उत्तानीकुर्यात् संप्रकाशयेत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरेद्, एवं बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां दक्षिणीयतां गच्छति. तत् कस्य हेतोः? तथा हि न कस्यचित् सत्त्वस्य तादृशो विहारो यथा बोधिसत्त्वस्य महासत्त्वस्य स्थापयित्वा तथागतम् अर्हन्तं सम्यक्संबुद्धम्. तत् कस्य हेतोः? तथा हि ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमितायां चरन्तो महामैत्रीम् अभिनिर्हरन्ति, ते प्रज्ञापारमितायाञ् चरन्तः सर्वसत्त्वान् वध्यगतान् समनुपश्यन्ति ते महाकरुणां प्रतिलभन्ते, ते तेन विहारेण विहरन्तो मुदितया प्रमोदन्ते ते महामुदिताम् अभिनिर्हरन्ति, ते तेन निमित्तेन सार्धं न संवसन्ति ते महोपेक्षां प्रतिलभन्ते, अयं सुभूते बोधिसत्त्वानां महासत्त्वानां महान् प्रज्ञालोको यद् उत प्रज्ञापारमिता ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमितालोकः. अनभिसंबुद्धा अपि ते कुलपुत्रा बोधिसत्त्वानां महासत्त्वानां दक्षिणीयतां गच्छन्ति, न च विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेर् येषाञ् च परिभुञ्जते (PSP_५:१५) चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् प्रज्ञापारमिता प्रतिसंयुक्तैर् मनसिकारैर् विहरन्तो दायकदानपतीनां दक्षिणां शोधयन्ति सर्वाकारज्ञतायाश् चाभ्याशीभवन्ति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनामोघराष्ट्रपिण्डं परिभोक्तुकामेन, सर्वसत्त्वानां पन्थानम् उपदेष्टुकामेन, विपुलम् एव भासं कर्तुकामेन, बन्धनगतान् सत्त्वान् परिमोचयितुकामेन, सर्वसत्त्वानाम् अनुत्तरं प्रज्ञाचक्षुर् विशोधयितुकामेन प्रज्ञापारमिता प्रतिसंयुक्तैर् मनसिकारैर् विहर्तव्यम्. सचेद् बोधिसत्त्वो महासत्त्व एतान् प्रज्ञापारमिताप्रतिसंयुक्तान् मनसिकारान् मनसिकुर्याद् इति, तेन प्रज्ञापारमिताप्रतिसंयुक्ता चैव कथा कथयितव्या. इति प्रथमा विवृद्धिः
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विवर्धते वा परिहीयते वा, न भूतकोटी विवर्धते वा परिहीयते वा, न धर्मधातुर् विवर्धते वा परिहीयते वा. तत् कस्य हेतोः? न हि प्रज्ञापारमिता एका वा द्वे वा. सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भाष्यमाणे चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, निष्ठा तत्र गन्तव्या, स्थितो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयधातौ, चरत्य् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्.
एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: अनिःसरणो मयानन्द धर्मो देशितः श्रावकयानिकानाञ् च पुद्गलानां प्रत्येकबुद्धयानिकानाञ् च पुद्गलानां, तत्रानन्द यो ऽयं बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहं वा भण्डनं वा विग्रहं वा कुर्याद् यावद् विवदेद् वा आक्रोशेद् वा परिभाषेद् वा कलहयित्वा वा भण्डयित्वा वा विग्रहयित्वा वा विवादयित्वा वा आक्रोशयित्वा वा परिभाषयित्वा वा न प्रतिदेशयत्य् अनुशयं वहति अनुशयबद्धो विहरति, नाहम् आनन्द तस्य पुद्गलस्य निःसरणं वदामि, अवश्यं तेन तावत एव कल्पान् संनाहः संनद्धव्यः, सचेद् अस्यापरित्यक्ता सर्वाकारज्ञता.
SK
पुनर् अपरम् आनन्द बोधिसत्त्वो महासत्त्वः कलहयित्वा भण्डित्वा विग्रहयित्वा विवदित्वा आक्रोषित्वा परिभाषित्वा प्रतिदेशयति: मानुशयं वहत्य् आयत्यां संवरम् आपद्यते दुर्लब्धा मे लाभा, यन् मया सर्वसत्त्वानां भार आहर्तव्यस् तद् अहं मन्त्रिते प्रतिमन्त्रयामि, यन् मया सर्वसत्त्वानां संक्रमभूतेन भवितव्यं सो ऽहं परस्याप्रियं मन्त्रयामि प्रतिवचनं च ददामि. एवम् अपि मया न वक्तव्यं जडैडकमूकसदृशेन मया भवितव्यं, अध्याशयश् च मे न विकोपयितव्यो यन् मयैते सत्त्वाः परिनिर्वापयितव्या अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य तद् अहम् अत्र व्यापद्ये तद् अहम् अत्र क्षुभ्यामि न मयात्र व्यापत्तव्यं न मया क्षोभचित्तम् उत्पादयितव्यम्. अस्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् अवतारं न लभते.
SK
पुनर् अपरम् आनन्द बोधिसत्त्वेन महासत्त्वेन श्रावकयानिकैः पुद्गलैः सार्धं न स्थातव्यं सचेत् तिष्ठति तेन न कस्यचिद् अन्तिके व्यापत्तव्यं. तत् कस्य हेतोः? तथा हि नैतन् मम प्रतिरूपं स्यात्, (PSP_५:२७) यद् अहम् एतेषाम् अन्तिके व्यापद्ये वा क्षुभ्येयं वा. तत् कस्य हेतोः? तथा हि ते मयानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वदुःखेभ्यः परिमोचयितव्याः. इति सप्तमी
तद्यथापि नाम सुभूते ऽल्पकास् ते महापृथिवीप्रदेशा यत्र जांबूनदं सुवर्णं जातरूपम् उत्पद्यते, एवम् एव सुभूते ऽल्पकास् ते सत्त्वा य इह शिक्षायां शिक्षण्ते, यद् उत प्रज्ञापारमिताशिक्षायाम् इतो बहुतरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धभूमौ संप्रस्थिताः. इति दशमी
SK
तद्यथापि नाम सुभूते ऽल्पकास् ते सत्त्वा ये चक्रवर्तिराज्यसंवर्तनीयं कर्म समादाय वर्तन्ते, अतः प्रभूततरकास् ते सत्त्वा (PSP_५:३२) ये कोट्टराज्यं संवर्तनीयं कर्म समदाय वर्तन्ते. एवम् एव सुभूते ऽल्पतरकास् ते सत्त्वा य इमं सर्वाकारज्ञतामार्गं समारुहन्ति, अतः प्रभूततरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धमार्गं समारुहन्ति. ये ऽपि ते सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् ततो ऽल्पकास् ते बोधिसत्त्वा महासत्त्वा ये तथतायै प्रतिपद्यन्ते, अतः प्रभूततरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धत्वाय स्थास्यन्ति. ये ऽपि ते सुभूते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरः प्रज्ञापारमितयाविरहिता ये ऽविनिवर्तनीयभूमिम् अवक्रमिष्यन्ति, अतः प्रभूततरकास् ते ये सत्त्वाविनिवर्तनीयभूमिन् नावक्रमिष्यन्ति, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनाविनिवर्तनीयभूमिम् अनुप्राप्तुकामेनाविनिवर्तनीयभूमौ गणनां गन्तुकामेनेहैव गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यम्. इत्य् एकादशी
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न मात्सर्यसहगतं चित्तम् उत्पद्यते, न दौःशील्यसहगतं चित्तम् उत्पद्यते, न क्षोभसहगतं चित्तम् उत्पद्यते, न कौशीद्यसहगतं चित्तम् उत्पद्यते, न विक्षिप्तसहगतं चित्तम् उत्पद्यते, न दौःप्रज्ञासहगतं चित्तम् उत्पद्यते, न रागसहगतं चित्तम् उत्पद्यते, न द्वेषसहगतं चित्तम् उत्पद्यते, न मोहसहगतं चित्तम् उत्पद्यते, न खिलसहगतं चित्तम् उत्पद्यते. इति द्वादशी
SK
न रूपसहगतं चित्तम् उत्पद्यते, न वेदनासंज्ञासंस्कारसहगतं चित्तम् उत्पद्यते, न विज्ञानसहगतं चित्तम् उत्पद्यते न स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गसहगतं चित्तम् उत्पद्यते, एवं न सर्वशून्यताः सर्वपारमिताः सप्तत्रिंशद्बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसहगतं चित्तम् उत्पद्यते, न सम्यक्संबोधिसघगतं चित्तम् उत्पद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायाञ् चरन् न कञ्चिद् धर्मम् उपलभते, अनुपलम्भमानो न कञ्चिद् धर्मचित्तम् उत्पादयति. एवं खलु सुभूते इह गम्भीरायां प्रज्ञापारमितायां शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वाः पारमिताः संगृहीता भवन्ति, सर्वाः पारमिताः समुदानीता भवन्ति, सर्वाः पारमिता (PSP_५:३३) अनुगता भवन्ति. तत् कस्य हेतोः? तथा हि सुभूते इह गम्भीरायां प्रज्ञापारमितायां सर्वाः पारमिता अन्तर्गता भवन्ति. इति त्रयोदशी
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: असारे बतायं चरत्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरति. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्रासारा प्रज्ञापारमिता, असारा ध्यानपारमिता, असारा वीर्यपारमिता, असारा क्षान्तिपारमिता, असारा शीलपारमिता, असारा दानपारमिता, एवं यावद् असारा सर्वाकारज्ञता. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् असारम् एव नोपलभते न समनुपश्यति, कुतः पुनः सारम् उपलप्स्यते, एवं यावद् असारां सर्वाकारज्ञतां, कुतः पुनः सारम् उपलप्स्यते.
SK
अथ खलु संबहुलानां कामावचराणां रूपावचराणाञ् च देवपुत्राणाम् एतद् अभवत्: नमस्कर्तव्यास् ते कुलपुत्राः कुलदुहितरश् च यैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं, ये चेह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां चरन्ति, अत्र चार्थे चरन्तो न च भूतकोटिं साक्षात्कुर्वन्ति, असाक्षात्कुर्वतः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा न तिष्ठेयुर्, अनेन भगवन् पर्यायेण नमस्कर्तव्यास् ते भगवन् बोधिसत्त्वा महासत्त्वा य इमां धर्मसमतां न साक्षात्कुर्वन्ति.
भगवान् आह: केन कारणेन सुभूते बोधिसत्त्वो महासत्त्वो न संसीदति प्रज्ञापारमिताया?
SK
सुभूतिर् आह: असत्त्वाद् भगवन् न संसीदति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां, विविक्तत्वाच् छान्तत्वाद् अनुत्पादत्वाद् भगवन् न संसीदति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्, अनेन भगवन् कारणेन बोधिसत्त्वो महासत्त्वो न संसीदति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि भगवन् स नोपलभ्यते यः संसीदते, येन (PSP_५:४१) वा संसीदते यत्र वा संसीदते सर्व एते धर्मा नोपलभ्यन्ते. सचेद् भगवन्न् एवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति न विषीदति नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि भगवन् सर्व एते धर्मा नोपलभ्यन्ते यो वा संसीदेत् येन वा संसीदेत् यत्र वा संसीदेत्, एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतयो देवा नमस्यन्ति यः प्रज्ञापारमितायां चरति. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न केवलं सुभूते सेन्द्रकैर् देवैः सब्रह्मकैः सप्रजापतिकैर् देवैर् नमस्यनीयो बोधिसत्त्वो महासत्त्वो य एवं प्रज्ञापारमितायां चरति, ये ऽपि ते ऽतिक्रान्तवर्णा देवपुत्राः शुभकृत्स्ना वृहत्फला यावच् छुद्धावासका देवपुत्रास् ते ऽपि सुभूते नमस्यन्ति बोधिसत्त्वं महासत्त्वं य एवं प्रज्ञापारमितायां चरति.
सुभूतिर् आह: न भगवन्, नाहं भगवन् मायोपमं चित्तं समनुपश्यामि. (PSP_५:४५)
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यत्र न माया, न मायोपमं चित्तं तत्र समनुपश्यसि त्वं चित्तम्. सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यत्र मायाया मायोपमाद् वा चित्तात् तं धर्मं समनुपश्यसि यो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
SK
सुभूतिर् आह: न भगवन्, नाहं भगवन् अन्यत्र मायाया मायोपमाद् वा चित्तात् तं धर्मं समनुपश्यामि यो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सो ऽहं भगवन्न् अन्यं धर्मं न समनुपश्यन् तत्कतमं धर्मम् उपदेक्ष्याम्य् अस्ति वा नास्ति वेति? यो धर्मो ऽत्यन्ततया विविक्तो न सो ऽस्तितां वा नास्तितां वोपैति, यो धर्मो ऽत्यन्ततया विविक्तो न सो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, न चासंविद्यमानो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोहोत्स्यते. तत् कस्य हेतोः? तथा हि भगवंस् ते धर्मा न संविद्यन्ते ये संक्लिश्येयुर् व्यवदायेयुर् वा. तत् कस्य हेतोः? तथा हि भगवन् प्रज्ञापारमितात्यन्तविविक्ता, ध्यानपारमितात्यन्तविविक्ता वीर्यपारमितात्यन्तविविक्ता, क्षान्तिपारमितात्यन्तविविक्ता, शीलपारमितात्यन्तविविक्ता, दानपारमितात्यन्तविविक्ता, एवम् अध्यात्मशून्यतात्र्यन्तविविक्ता यावद् अभावस्वभावशून्यतात्यन्तविविक्ता, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा अत्यन्तविविक्ताः, अप्रमाणध्यानारूप्यसमापत्त्यार्यसत्यान्य् अत्यन्तविविक्तानि, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अत्यन्तविविक्तानि, पञ्चाभिज्ञा अत्यन्तविविक्ता, दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा अत्यन्तविविक्ताः, अनुत्तरां सम्यक्संबोधिर् अप्य् अत्यन्तविविक्ता.
SK
यश् चात्यन्तविविक्तो धर्मो न स भावयितव्यो वा विभावयितव्यो वा, नापि कस्यचिद् धर्मस्याहारिका प्रज्ञापारमितात्यन्तविविक्तत्वाद्, यद्य् अत्यन्तविविक्ता प्रज्ञापारमिता तत् कथं भगवन् प्रज्ञापारमितम् आगम्य बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? अनुत्तरापि सम्यक्संबोधिर् अत्यन्तविविक्ता, कथं विविक्तेन विविक्तस्यानुबोधौ भवति?
सचेद् भगवन्न् एवं भाष्यमाणे बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, एवञ् चरं भगवन् बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायां, स चरन् निमित्तम् अपि न समनुपश्यति, प्रज्ञापारमिताम् अपि न समनुपश्यति, अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति न समनुपश्यति.
भगवान् आह: प्रथमचित्तोत्पादम् उपादाय सुभूते न सा काचिद् दानपारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता, न सा काचिच् छीलपारमिता, न सा काचित् क्षान्तिपारमिता, न सा काचिद् वीर्यपारमिता, न सा काचिद् ध्यानपारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता, न सा काचित् प्रज्ञापारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता ये ऽनेनोपायकौशल्येन समन्वागताः.
भगवान् आह: न सुभूते प्रज्ञापारमिता कञ्चिद् धर्मं गृह्णाति वा मुञ्चति वा. तत् कस्य हेतोः? तथा हि सुभूते सर्वधर्मा अगृहीता अमुक्ताः.
SK
सुभूतिर् आह: तत् कतमान् भगवन् सर्वधर्मान् प्रज्ञापारमिता न गृह्णाति न मुञ्चति?
SK
भगवान् आह: रूपं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति, न वेदनां न संज्ञां न संस्कारान्, विज्ञानं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. एवं सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् अनुत्तरां सम्यक्संबोधिं सुभूते प्रज्ञपारमिता न गृह्णाति न मुञ्चति. इति ग्रहणमोक्षणविकल्पः
SK
सुभूतिर् आह: कथं भगवन् रूपम् अपरिगृहीतं भवति, कथं वेदना संज्ञा संस्काराः, कथं विज्ञानम् अपरिगृहीतं भवति?
सुभूतिर् आह: यदि भगवन् रूपं न मनसिकर्तव्यं, वेदना संज्ञा संस्कारा, विज्ञानं न मनसिकर्तव्यं, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा न मनसिकर्तव्यानि, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा न मनसिकर्तव्याः सर्वाकारज्ञता न मनसिकर्तव्या तत् कथं भगवन् रूपम् अमनसिकृत्वा, वेदनां संज्ञां संस्कारान्, विज्ञानम् अमनसिकृत्वा, स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वामनसिकृत्वा, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् अमनसिकृत्वा सर्वाकारज्ञताम् अमनसिकृत्वा कुशलमूलानि विवर्धन्ते? कुशलमूलैश् चाविवर्धमानैः कथं पारमिताः परिपूर्यन्ते? पारमिता अपरिपूर्य कथं सर्वाकारज्ञताम् अनुप्राप्स्यति?
SK
भगवान् आह: यदा सुभूते रूपं न मनसिकरिष्यति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं न मनसिकरिष्यति, स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वा न मनसिकरिष्यति, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्यापरमाणध्यानारूप्यसमापत्तीर् न मनसिकरिष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञा न मनसिकरिष्यति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् न मनसिकरिष्यति, यावद् अनुत्तरां सम्यक्संबोधिं न मनसिकरिष्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलानि विवर्धिष्यन्ते यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अमनसिकृत्वा हि रूपं (PSP_५:५७) वेदनां संज्ञां संस्कारां विज्ञनम् अमनसिकृत्वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गान्य् अमनसिकृत्वा सर्वपारमिताः सर्वशून्यताः सप्तत्रिंसद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् अमनसिकृत्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इति मनसिकारविकल्पः सुभूतिर् आह: किम् अत्र भगवन् कारणं येन रूपम् अमनसिकारं, वेदना संज्ञा संस्कारा, विज्ञानम् अमनसिकारम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा मनसिकाराणि, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अमनसिकारा, अनुत्तरा सम्यक्संबोधिर् अमनसिकारा?
SK
भगवान् आह: अमनसिकारेण हि न श्लिष्यते कामधातौ न श्लिष्यते रूपधातौ न श्लिष्यते आरूप्यधाताव् अमनसिकारेण न क्वचिच् छ्लिष्यते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न क्वचिद् धर्मे श्लिष्यते. इति त्रैधातुकाश्लेषविकल्पः
SK
सुभूतिर् आह: एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न क्वचित् स्थास्यति.
SK
भगवान् आह: एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो रूपे न तिष्ठति, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने न तिष्ठति, एवं चरन् स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु न तिष्ठति, सर्वपारमितासु सर्वशून्यतासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिषु शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु न तिष्ठत्य्, एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अपि न तिष्ठति. इति स्थानविकल्पः
भगवान् आह: अनभिनिवेशेन बोधिसत्त्वो महासत्त्वो न क्वचित् (PSP_५:५८) तिष्ठति. तत् कस्य हेतोः? तथा हि सर्वधर्मान् न समनुपश्यति यत्राभिनिविशेत वा तिष्ठेद् वा, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरत्य् अनभिनिवेश्यास्थानयोगेन. इति भावाभावविकल्पाभिनिवेशविकल्पः
SK
सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं भावयत्य् एवं चरति स प्रज्ञापारमितायां चरति स प्रज्ञापारमितां भावयति, अहं प्रज्ञापारमितायां चराम्य् अहं प्रज्ञापारमितां भावयामि. सचेद् एवं संजानीते दूरीकरोति प्रज्ञापारमितां, स प्रज्ञापारमिताया दूरीभवति, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया दूरीभवति, अध्यात्मशून्यताया यावद् अभावस्वभावशून्यताया दूरीभवति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेभ्यो दूरीभवत्य्, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञाशून्यतानिमित्ताप्रणिहितदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेभ्यो दूरीभवति. तत् कस्य हेतोः? न हि प्रज्ञापारमिता क्वचिद् धर्मे ऽभिनिविशते, न च प्रज्ञापारमितायाः कश्चिद् अभिनिवेशो ऽस्ति. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति यत्राभिनिविशतेः.
तत् कथं प्रज्ञापारमिताभिनिर्हर्तव्या? एवं ध्यानं वीर्यं क्षान्तिः शीलं, तत् कथं दानपारमिताभिनिर्हर्तव्या? यावत् तत् कथं सर्वाकारज्ञताभिनिर्हर्तव्या?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् इति नाभिनिविशते, इदं रूपम् अस्य रूपम्, एवं वेदना संज्ञा संस्कारा, विज्ञानम् इति नाभिनिविशते, इदं विज्ञानम् अस्य विज्ञानम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा नाभिनिविशते, इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि चेति, एवं यावत् सर्वधर्मान् नाभिनिविशते, इमे सर्वधर्मा अस्य सर्वधर्माः. रूपं नित्यतो वानित्यतो वा दुःखतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, वेदना संज्ञा संस्कारा, विज्ञानं नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः (PSP_५:६१) प्रतीत्यसमुत्पादाङ्गानि वा नित्यतो वानित्यतो वा दुःखतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, यावत् सर्वाकारज्ञतां नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति. तत् कस्य हेतोः? न हि धर्मो नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा संविद्यते, न हि स्वभावः स्वभावेन शक्यो ऽभिनिर्हरणाय.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येनेयं सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता प्रत्युपस्थिता, एवं नयति (PSP_५:६२) प्रणयति, अयं मार्गो ऽयम् अमार्ग इति. अप्रमेयाणम् असंख्येयानाम् अपरिमाणानां सत्त्वानां कृत्येन प्रत्युपस्थिता प्रज्ञापारमिता, न कश्चित् सुभूते प्रणयति न रूपं परिगृह्णाति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं परिगृह्णाति, न श्रावकभूमेर् वा न प्रत्येकबुद्द्धभूमेर् वा प्रत्युपस्थिता, सा खलु पुनर् इयं प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य परिणायिकानुत्तरायां सम्यक्संबोधौ, श्रावकभूमेश् च प्रत्येकबुद्धभूमेश् च नोपनायिका, सर्वाकारज्ञतायाश् चोपनायिका. एवम् इयं प्रज्ञापारमिता न कस्यचिद् धर्मस्योत्पादिका न निरोधिका धर्मस्थितितां प्रमाणीकृत्य.
SK
सुभूतिर् आह: यदि भगवन् प्रज्ञापारमिता न कस्यचिद् धर्मस्योत्पादिका न निरोधिका, तत् कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दानं दातव्यं? कथं शीलं रक्षितव्यं, कथं क्षान्तिर् भावयितव्या, कथं वीर्यम् आरब्धव्यं, कथं ध्यानं समापत्तव्यं, कथं प्रज्ञा भावयितव्या?
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेनैवं प्रत्यवेक्षितव्यं, रूपं न संयुक्तं न विसंयुक्तं, वेदना संज्ञा संस्कारा, विज्ञनं न संयुक्तं न विसंयुक्तं, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च न संयुक्तानि न विसंयुक्तानि, एवं सर्वपारमिताः सर्वसून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा न संयुक्ता न विसंयुक्ताः, सर्वाकारज्ञता न संयुक्ता न विसंयुक्ता एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः. इति संयोगविसंयोगविकल्पः
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन न रूपे स्थास्यामीति योगः करणीयः, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने स्थास्यामीति योगः करणीयः, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु न स्थास्यामीति योगः करणीयः, न प्रतीत्यसमुत्पादाङ्गेषु न स्थास्यामीति योगः करणीयः, एवं न सर्वपारमितासु स्थास्यामीति योगः करणीयः, न सर्वशून्यतासु न सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु नार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखेषु न शून्यतानिमित्ताप्रणिहितेषु नाभिज्ञादशबलवैशारद्यप्रतिसंवित्सु नावेणिकेषु बुद्धधर्मेषु स्थास्यामीति योगः करणीयः, न सर्वाकारज्ञतायां स्थास्यामीति योगः करणीयः. तत् कस्य हेतोः? न हि रूपं वा क्वचित् स्थितं, न वेदना न संज्ञा न संस्कारा, न विज्ञानं क्वचित् स्थितं, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा क्वचित् स्थितानि, एवं न पारमिता न शून्यता न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि न विमोक्षमुखानि नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माः क्वचित् स्थिता, न सर्वाकारज्ञता क्वचित् स्थिता. एवम् अस्थानयोगेन बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् (PSP_५:६४) अभिसंबोधव्या. इति रूपादिस्थानविकल्पः
SK
तद्यथापि नाम सुभूते पुरुष आम्रफलानि वा पनसफलं वा भक्षयितुकामः स्यात् तेनाम्रफलं पनसफलं वावरोपयितव्यम्, अवरोप्य चोदकं कालानुकालं दातव्यं केलायितव्यं, तस्यानुपूर्वेण संबद्ध्यमानस्य स्तम्बस्य सामग्री लभमानस्य् आम्रफलैर् वा पनसफलैर् वा सामग्री भविष्यति, स तान्य् आम्रफलानि वा परसफलानि वा भक्षिष्यति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामः षट्सु पारमितासु शिक्षित्वा सत्त्वान् दानेनानुग्रहीष्यति शीलेन क्षान्त्या वीर्येण ध्यानेन प्रज्ञयानुग्रहीष्यति सत्त्वान् संसारात् परिमोचयिष्यति. इति गोत्रविप्रणाशविकल्पः
एवम् उत्क्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां चरन् तं समन्वाहरन्ति, तथा च समन्वाहरन्ति यत्र नैव दानं न शीलन् न क्षान्तिर् न वीर्यन् न ध्यानं न प्रज्ञोपलभ्यते. एवम् अनुपलम्भेन बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, यत्र नाध्यात्मशून्यता यावद् अभावस्वभावशून्यता स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते, यत्र (PSP_५:६६) नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञाशून्यतानिमित्ताप्रणिहितदशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा नोपलभ्यन्ते, यत्र सर्वाकारज्ञता नोपलभ्यते. एवम् अनुपलम्भयोगेन बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति.
SK
पुनर् अपरं सुभूते बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं न रूपतः समन्वाहरन्ति, न वेदनातो न संज्ञातो न संस्कारतो, न विज्ञानतः समन्वाहरन्ति, न स्कन्धतो न धातुतो नायतनतो न प्रतीत्यसमुत्पादतो न प्रतीत्यसमुत्पादाङ्गतः समन्वाहरन्ति, न दानपारमितातो न शीलपारमितातो न क्षान्तिपारमितातो न वीर्यपारमितातो न ध्यानपारमितातो न प्रज्ञापारमितातः समन्वाहरन्ति, नाध्यात्मशून्यतातो यावन् नाभावस्वभावशून्यतातः समन्वाहरन्ति, न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतः समन्वाहरन्ति, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखतः समन्वाहरन्ति, न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मतः समन्वाहरन्ति, न सर्वाकारज्ञतातः समन्वाहरन्ति. इति प्रत्यर्थिकधर्मोपलम्भविकल्पः इत्य् उक्तो नवविधो द्वितीयो ग्राहकविकल्पः
भगवान् आह: अक्षयत्वाद् आनन्द प्रज्ञापारमिताप्रमाणबद्धा विविक्ताद् आनन्द प्रज्ञापारमिता प्रमाणबद्धा, ये ऽपि ते आनन्दाभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाविता न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, ये ऽपि ते आनन्द भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाविष्यन्ते न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, ये ऽपि ते आनन्द एतर्हि दशदिशि लोके तथागता अर्हन्तः (PSP_५:७७) सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मन् देशयन्ति ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाव्यन्ते न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते. तत् कस्य हेतोः? आकाशं स आनन्द क्षयितुं मन्येत यः प्रज्ञापारमितायाः क्षयं मन्येत न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, न ध्यानपारमिता क्षीयते न वीर्यपारमिता क्षीयते न क्षान्तिपारमिता क्षीयते न शीलपारमिता क्षीयते न दानपारमिता क्षीणा क्षीयते क्षष्यते, अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न क्षीणा न क्षीयते न क्षेष्यते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, शून्यतानिमित्ताप्रणिहिताभिज्ञा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न क्षीणा न क्षीयन्ते न क्षेष्यन्ते दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकाबुद्धधर्मा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, सर्वाकारज्ञता न क्षीणा न क्षीयते न क्षेष्यते. न हि तेषां धर्माणाम् उत्पादो ऽस्ति येषाम् उत्पादो नास्ति, कुतस् तेषां क्षयः प्रज्ञास्यते? इत्य् उक्ता क्षयानुत्पादज्ञानात्मिका महाबोधिः
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यसमुत्पादं व्यवलोकयन् न कंचिद् धर्मं समनुपश्यति, अहेतुकम् उत्पद्यमानन् न कंचिद् धर्मं समनुपश्यति, निरुध्यमानन् न कंचिद् धर्मम् आत्मतः समनुपश्यति न सत्त्वतो न जीवतो न जन्तुतो न पोषतो न पुरुषतो न पुद्गलतो न मनुजतो न मानवतो न कारकतो नोत्थापकतो न समुत्थापकतो न वेदकतो न वेदापकतो न जानकतो न जानापकतो न पश्यकतो न पश्यापकतो, न नित्यतो नानित्यतः समनुपश्यति न सुखतो न दुष्खतो नात्मकतो नानात्मकतो न शान्ततो नाशान्ततः.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रतीत्यसमुत्पादो (PSP_५:८१) व्यवलोकयितव्यः प्रज्ञापारमितायाञ् चरता, यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरति तस्मिन् समये रूपं न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा, वेदना संज्ञा संस्कारा, विज्ञानं न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. एवं व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वा न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. एवं सर्वपारमितान् न समनुपश्यति, सर्वशून्यतान् न समनुपश्यति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् न समनुपश्यति, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितान् सर्वविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. सर्वाकारज्ञतान् न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति तस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितान् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण प्रज्ञापारमितां न समनुपश्यति, ध्यानपारमितान् न समनुपश्यति, वीर्यपारमितान् न समनुपश्यति, क्षान्तिपारमितान् न समनुपश्यति, शीलपारमितान् न समनुपश्यति, दानपारमितान् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण यावद् दानपारमितां समनुपश्येत्. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य् आर्यास्ताङ्गमार्गन् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणार्याष्टाङ्गमार्गं समनुपश्येत्. अध्यात्मशून्यतां बहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण यावद् अभावस्वभावशून्यतां समनुपश्येद् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तीर् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तीः (PSP_५:८२) समनुपश्येत्. शून्यतानिमित्ताप्रणिहितां न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति, येन धर्मेण शून्यतानिमित्ताप्रणिहितान् समनुपश्येत्. सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न समनुपश्यति, तम् अपि धर्मन्१ न समनुपश्यति येन धर्मेण सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि समनुपश्येत्. अभिज्ञादशबलवैशारद्यप्रतिसंविदो न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणाभिज्ञदशबलवैशारद्यप्रतिसंविदः समनुपश्येत्. अष्टादशावेणिकान् बुद्धधर्मान् न समनुपश्यति, तम् अपि धर्मान् न समनुपश्यति येन धर्मेणाष्टादशावेणिकान् बुद्धधर्मान् समनुपश्येत्. अनुत्तरां सम्यक्संबोधिन् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणानुत्तरां सम्यक्संबोधिं समनुपश्येत्.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो यद् इदं प्रतिग्राहका आक्रोशन्ति वा परिभाषन्ते वा, असत्याभिश् च परुषाभिर् वाग्भिः समुदाचरन्ति, न च तेषाम् अन्तिके चित्तम् आघातयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोद्धिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दनन् ददतस् ते प्रतिग्राहका यद्य् आक्रोशन्ति वा परिभाषन्ते वा असत्यां वा परुषां वा वाचं समुदाचरन्ति तस्याक्रुष्यमाणस्य वा परिभाष्यमाणस्य वा, असत्यया वा परुषया वा वाचा समुदाचर्यमाणस्य दानबुद्धिर् एव भवति, परित्यागबुद्धिर् एव भवति, दातव्यञ् चैव मया दानन्, न मया न दातव्यं स कायिकञ् च चैतसिकञ् च वीर्यं स व्यञ्जनयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो दानं परित्यजतः सर्वाकारज्ञतायां परिणामयते, न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा चित्तं परिणामयत्य्, अन्यत्र सर्वाकारज्ञतारम्बणम् एव चित्तं प्रवर्तते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति. (PSP_५:८५)
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो दानं परित्यजतः, तस्य मायाबुद्धिर् एव दाने प्रत्युपस्थिता भवति, तेन च दानेन न कस्यचित् सत्त्वस्योपकारं वापकारं वा पश्यत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा प्प्रज्ञापारमितां परिगृह्णाति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो यः कायिकश् च वाचिकश् च चैतसिकश् च संवरस् तेन संवरेन न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा परामृषति, तत्र च शीलपारमितायां स्थितो न सत्त्वान् जीविताद् व्यपरोपयति, नादत्तम् आददाति, न कामेषु मिथ्या चरति, न मृषावाग् भवति, न परुषवाग् भवति न पिशुनां वाचं भाषते, न संभिन्नप्रलापी भवति, नाभिध्यालुर् भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिर् भवति, स तत्र शीलपारमितायां स्थितो यद् दानन् ददात्य् अन्नम् अन्नार्थिकानां पानं पानार्थिकानां यानं यानार्थिकानां वस्त्रं वस्त्रार्थिकानां माल्यं माल्यार्थिकानां विलेपनं विलेपनार्थिकानां शयनं शयनार्थिकानाम् उपाश्रयम् उपाश्रयार्थिकानां प्रदीपं प्रदीपार्थिकानां उपकरणम् उपकरणार्थिकानाम् अन्यतरान्यतराणि मानुष्यकाणि सर्वपरिष्कारोपकरणानि ददाति, तच् च दानं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथा न श्रावकप्रत्येकबुद्धभूमौ वा परिणामयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो दानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्त्वस्य शीलपारमितायां स्थितस्य सर्वसत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा च्छित्वा गच्छेयुस् तत्र बोधिसत्त्वस्य महासत्त्वस्य एकचित्तोत्पादो ऽपि न क्षुभ्यते न व्यापद्यते ऽन्यत्र चास्यैवं भवति, सुलब्धा मे लाभा (PSP_५:८६) यत्र हि नाम मम सत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा च्छित्वा गच्छेयुर्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो न कायेन न चित्तेन वीर्यं स्रसयति, सर्वसत्त्वा मयोत्तारयितव्याः संसारतः अमृते धातौ प्रतिष्ठापयितव्याः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते द्वितीयं ध्यानं समापद्यते तृतीयं ध्यानं समापद्यते चतुर्थं ध्यानं समापद्यते, न च श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वाध्यालम्बते ऽन्यत्र चास्यैवं भवति, इह मया ध्यानपारमितायां स्थित्वा सर्वसत्त्वाः संसाराद् उत्तारयितव्याः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो न कञ्चिद् धर्मं संस्कृतं वासंस्कृतं वा पश्यति, न निमित्तन् नानिमित्तं पश्यति, न कस्यचिद् धर्मस्यास्ति त्वं वा नास्ति त्वं वा पश्यत्य् अन्यत्र सर्वधर्मतथतान् न व्यतिवर्तन्ते, तया च प्रज्ञापारमितयोपायकौशल्येन न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति.
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य (PSP_५:८७) प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य सर्वसत्त्वा यद्य् आक्रोशयेयुः परिभाषेरन्न् अङ्गप्रत्यङ्गानि चाच्छिद्युस् तत्र बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां स्थितस्यैवं भवति, दातव्यं मयैतेषां सत्त्वानां दानं, न मयैतेषां सत्त्वानां दानं न दातव्यं, स तेषां सत्त्वानाम् अन्नम् अन्नार्थिकानां ददाति, पानं पानार्थिकानां ददाति, यानं यानार्थिकानां ददाति, शयनासनवस्त्रहिरण्यसुवर्णमणिमुक्तावैडूर्यमरकतशंखशिलाप्रवालवज्रेन्द्रनीलसर्वरत्नग्लानप्रत्ययभैषज्यपरिष्कारादीनि ददाति यावद् अन्यतरान्यतराणि मानुष्यकाणि परिष्कारोपकरणानि ददाति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा सर्वाकारज्ञतायां परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा दानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो न्महासत्त्वः क्षान्तिपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषन्णो ऽत्रान्तरे न कश्चित् सत्त्वो जीविताद् व्यपरोपितो न दैहिकी बोध्यङ्गताघातदोषक्रिया वा उत्पादिता, नादत्तम् आददाति, न काममिथ्याचारी भवति, न मृषावाग् भवति, न परुषवाग् भवति, न पिशुनवाग् भवति, नाबद्धप्रलापी भवति, नाभिध्यालुर् भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिर् भवति, न चास्य स्रावकप्रत्येकबुद्धभूमौ चित्तं क्रामति, तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, क एष परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां (PSP_५:८८) स्थित्वा वीर्यं स व्यञ्जनयति, नाहं योजनं वा गत्वा योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं वा योजनकोटी नियुतशतसहस्रं वा, लोकधातुं वा लोकधातुशतं वा लोकधातुसहस्रं वा लोकधातुशतसहस्रं वा लोकधातुनियुतशतसहस्रं वा लोकधातुकोटीं वा लोकधातुकोटीशतं वा लोकधातुकोटीसहस्रं वा लोकधातुकोटीशतसहस्रं वा लोकधातुकोटीनियुतशतसहस्रं वा गत्वा तत्रान्तश एकसत्त्वम् अपि शरणगमनशिक्षापदेषु न प्रतिष्ठापयेयं स्रोतआपत्तिफले वा सकृदागामिफले वा अनागामिफले वा अर्हत्त्वफले वा न प्रतिष्ठापयेयं प्रत्येकबोधौ वा न प्रतिष्ठापयेयम् अनुत्तरायां वा सम्यक्संबोधौ न प्रतिष्ठापयेयं, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षानतिपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रथमं ध्यानम् उपसंपद्य विहरति, द्वितीयं ध्यानम् उपसंपद्य विहरति, तृतीयं ध्यानम् उपसंपद्य विहरति, चतुर्थं ध्यानम् उपसंपद्य विहरति, उत्पन्नोत्पन्नांश् चित्तचेतसिकान् धर्मान् कुशलमूलोपसंहितान् सर्वसत्त्वेषु साधारणान् कृत्वा सर्वाकारज्ञतायां परिणामयति, तथा च परिणामयति, यथा ध्यानानि च ध्यानाङ्गानि च तस्मिन् समये नोपलभते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा तस्मिन् समये धर्मे धर्मानुपश्यी विहरति, विविक्तविहारेण वा शान्ताकारेण वाक्षयाकारेण वा न च तां धर्मतां साक्षात्करोति, यावच् च न बोधिमण्डे निषण्णो भवति, तत्र च निषद्य (PSP_५:८९) सर्वाकारज्ञताम् अनुप्राप्स्यति, उत्थाय धर्मचक्रं प्रवर्तयिष्यति, तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति, तथा च परिगृह्णाति यथा नोद्गृह्णाति तावन् नोत्सृजति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा कायेन चित्तेन चरन् न निक्षिपति, अवश्यञ् चैव मयानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या, न मया नाभिसंबोद्धव्यानुत्तरा सम्यक्संबोधिः, सत्त्वानां च कृतेन योजनं वा योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं वा योजनकोटीनियुतशतसहस्रं वा लोकधातुं वा लोकधातुशतं वा लोकधातुसहस्रं वा लोकधातुशतसहस्रं वा लोकधातुकोटीनियुतशतसहस्रं वा गत्वा वीर्यपारमितायां स्थित्वान्तश एकसत्त्वम् अप्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, सचेद् बोधिसत्त्वयानिकं पुद्गलं लभेत तं बोधिचर्यासु प्रतिष्ठापयति. श्रावकयानिकं पुद्गलं श्रावकत्वाय प्रतिष्ठापयति, प्रत्येकबुद्धयानिकं पुद्गलं प्रत्येकबोधौ प्रतिष्ठापयत्य्, अन्तश एकसत्त्वम् अपि दशकुशलेषु कर्मपथेषु समादापयति, स तद् धर्मदानं दत्त्वा आमिषदानेन सत्त्वान् संतर्पयति. स तत् कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा दानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति? (PSP_५:९०) भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय, यावद् बोधिमण्ड एतस्मिन्न् अन्तरे, आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातप्रतिविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः. आत्मना चादत्तादानात् प्रतिविरतो भवति, परांश् चादत्तादानप्रतिविरतौ समादापयति, अदत्तादानविरतेश् च वर्णं भाषते, ये चान्ये ऽदत्तादानात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च काममिथ्याचारात् प्रतिविरतो भवति, परांश् च काममिथ्याचारप्रतिविरतौ समादापयति, काममिथ्याचारविरतेश् च वर्णं भाषते, ये चान्ये काममिथ्याचारात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च मृषावादात् प्रतिविरतो भवति, परांश् च मृषावादविरतौ समादापयति, मृषावादविरतेश् च वर्णं भाषते, ये चान्ये मृषावादात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च परुषवचनात् प्रतिविरतो भवति, परांश् च परुषवचनविरतौ समादापयति, परुषवचनविरतेश् च वर्णं भाषते, ये चान्ये परुषवचनात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च पिशुनवचनात् प्रतिविरतो भवति, परांश् च पिशुनवचनविरतौ समादापयति, पिशुनवचनविरतेश् च वर्णं भासते, ये चान्ये पिशुनवचनात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना चाबद्धप्रलापात् प्रतिविरतो भवति, परांश् चाबद्धप्रलापविरतौ समादापयति, अबद्धप्रलापविरतेश् च वर्णं भाषते, ये ऽपि चान्ये ऽबद्धप्रलापात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना चाभिध्यायाः प्रतिविरतो भवति, परांश् चाभिध्याविरतौ समादापयति, अभिध्याविरतेश् च वर्णं भाषते, ये ऽपि चान्ये ऽभिध्यायाः प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च व्यापादात् प्रतिविरतो भवति, परांश् च व्यापादविरतौ समादापयति, व्यापादविरतेश् च वर्णं भाषते, ये ऽपि चान्ये व्यापादात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भाषते, (PSP_५:९१) ये ऽपि चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. स तया शीलपारमितया न कामधातुं प्रार्थयति, न रूपधातुं प्रार्थयति, नारूप्यधातुं प्रार्थयति, न श्रावकभूमिं प्रार्थयति, न प्रत्येकबुद्धभूमिं प्रार्थयति, अन्यत्र तत् कुशलमूलं सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य मनुष्यभूतो वामनुष्यभूतो वा चित्तविक्षेपं वा कुर्याद् अङ्गप्रत्यङ्गानि च्छित्वा आदाय गच्छेत्, तत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां स्थितस्य नैवं भवति, को मे च्छिनत्ति वा भिनत्ति वा हरति वा, ऽन्यत्र चास्यैवं भवति, सुलब्धा मे लाभा येषाम् एवाहम् अर्थाय कायं परिहरामि, ते चैवागम्याङ्गप्रत्यङ्गानि च्छित्वा गच्छन्ति, धर्मता चास्य प्रकृत्या सुमनसिकृता भवति, तानि च कुशलमूलानि न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्व सत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखं च काये न (PSP_५:९२) प्रतिसंवेदयति यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धञ् चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वसत्त्वेषु सुखसंज्ञामनसिकाराद् मैत्रीम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु दुष्खसंज्ञामनसिकारात् करुणाम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु प्रमुदितासंज्ञामनसिकाराद् मुदिताम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु सुखदुःखसंज्ञामनसिकाराद् उपेक्षाम् अप्रमाणाम् उपसंपद्य विहरति. स रूपे औदारिकसंज्ञायाः प्रहाणाद् आकाशसंज्ञायाश् च मनसिकाराद् आकाशानन्त्यायतनम् उपसंपद्य विहरति, स विज्ञाने शान्तसंज्ञाया मनसिकाराद् विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, स आकिंचन्यायतनेषु शान्तसंज्ञामनसिकाराद् आकिंचन्यायतनम् उपसंपद्य विहरति, स नैवसंज्ञानासंज्ञायाः शान्तसंज्ञाया मनसिकाराद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. स तेषाम् अप्रमाणानाञ् चारूप्यसमापत्तीनां च विपाकन् न प्रतिगृह्णात्य्, अन्यत्र यत्र सर्वसत्त्वानाम् अर्थे कर्तव्यः, तत्रोपपद्यते स तान् सत्त्वान् षट्सु पारमितासु परिपाचयति दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धांश् च भगवतः पर्युपास्ते परिपृच्छति परिप्रश्नीकुरुते कुशलमूलावरोपनतया, तानि च कुशलमूलानि सर्वसत्त्वेषु साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा न दानपारमितान् द्रव्यतः समनुपश्यति न भावतो न निमित्ततो न शीलपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न क्षान्तिपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न वीर्यपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न (PSP_५:९३) ध्यानपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न प्रज्ञापारमितां द्रव्यतः समनुप्सश्यति न भावतो न निमित्ततः. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मार्गं न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, आर्यसत्याप्र्माणध्यानारूप्यसमापत्तीर् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, शून्यतानिमित्ताप्रणिहितानि पञ्चाभिज्ञा न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, दशबलविशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वाकारज्ञतान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वधर्मान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः. स एवं पश्यन् न क्वचिद् धर्मनिकेतं करोति, स यथा वादी तथा कारी च भवति, स तानि कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चैतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखं च काये न प्रतिसंवेदयति यत् तद् आर्या आचक्षते उपेक्सकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धञ् (PSP_५:९४) चतुर्थं ध्यानम् उपसंपद्य विहरति. एवम् आकाशानन्त्यायतनसमापत्तिं विज्ञानानन्त्यायतनसमापत्तिम् आकिंचन्यायतनसमापत्तिं नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, तत्र ध्यानपारमितायां स्थितो ऽविक्षिप्तमानसस् तेषां सत्त्वानाम् आमिषदानं धर्मदानं च ददाति, परांश् चामिषदाने धर्मदाने च समादापयति, आमिषदानस्य धर्मदानस्य च वर्णं भाषते, ये ऽपि चान्ये आमिषदानं धर्मदानञ् च ददाति, तेषां च वर्णवादी भवति समनुज्ञः. तच् च कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो दानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः शीलपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां स्थितस्य न रागसहगतं चित्तम् उत्पद्यते, न दोषसहगतं चित्तम् उत्पद्यते, न मोहसहगतं चित्तम् उत्पद्यते, न विचिकित्सासहगतं चित्तम् उत्पद्यते, अन्यत्र सर्वाकारज्ञता प्रतिसंयुक्तैर् मनसिकारैर् विअहरति तच् च कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति, यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः शीलपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः फेनपिण्डोपमं रूपं प्रत्यवेक्षते, बुद्ब्दोपमां वेदनां प्रत्यवेक्षते, मरीच्युपमां संज्ञां प्रत्यवेक्षते, कदल्युपमान् संस्कारान् प्रत्यवेक्षते, मायोपमं विज्ञानं प्रत्यवेक्षते. तस्यैवं प्रत्यवेक्षमाणस्य पञ्चस्कन्धेष्व् असारकसंज्ञा प्रत्युपस्थिता भवति, तस्यैवं (PSP_५:९५) प्रत्यवेक्षमाणस्यैवं भवति, कस्य वा रूपं, कस्य वा वेदना, कस्य वा संज्ञा, कस्य वा संस्काराः, कस्य वा विज्ञानं, तस्यैवं प्रत्यवेक्षमाणस्यैवं भवति, को वात्राक्रुष्यते वा परिभाष्यते वा, आक्रुष्यमाणस्य वा परिभाष्यमाणस्य वा न व्यापाद उत्पद्यते. स तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलमूलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखञ् च काये न प्रतिसंवेदयति, यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति, स ध्यानानां ध्यानाङ्गानां निमित्तं न गृह्णाति, स एवं समाहितचित्तो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति, विस्तरेण कर्तव्यं, यावद् दिव्येन श्रोत्रधातुना उभौ शब्दौ शृणोति दिव्यञ् च मानुष्यकञ् च, स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं प्रजानाति, विस्तरेण यावद् अनुत्तरं चित्तम् इति यथाभूतं प्रजानात्य्, अनेकविधं पूर्वनिवासम् अनुस्मरति, विस्तरेण यावद् दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन यावद् यथाकर्मोपगान् सत्त्वान् पश्यति, स इह पञ्चस्व् अभिज्ञासु प्रतिष्ठाय बुद्धक्षेत्रेण बुद्धक्षेत्रं गच्छति, बुद्धान् भगवतः पर्युपास्ते परिपृच्छति परिप्रश्नीकरोति कुशलमूलान्य् अवरोपयति, बुद्धक्षेत्रञ् च परिशोधयति, तानि (PSP_५:९६) च कुशलमुलानि न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो रूपं नोपलभते, वेदनां संज्ञां संस्कारान्, विज्ञानं नोपलभते, स्कन्धधात्वायतनानि नोपलभते, प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि नोपलभते, दानपारमितां नोपलभते, शीलपारमितां नोपलभते, क्षान्तिपारमितां नोपलभते, वीर्यपारमितां नोपलभते, ध्यानपारमितां नोपलभते, प्रज्ञापारमितां नोपलभते, स्मृत्युपस्थानानि नोपलभते, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य् आर्याष्टाङ्गमार्गान् नोपलभते, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां नोपलभते, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् नोपलभते, संस्कृतधातुन् नोपलभते, असंस्कृतधातुन् नोपलभते, अनुपलभमानो नाभिसंस्करोत्य्, अनभिसंस्कुर्वाणो नोत्पादयत्य्, अनुत्पादयमानो न निरोधयति. तत् कस्य हेतोः? तथा हि सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मस्थितिता धर्मनियामता सा नैवोत्पद्यते न निरुध्यते, सो ऽविक्षिप्तचित्तसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो भवति. तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्माः शून्या इति समनुपश्यति. कथं च सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माः शून्या इति समनुपश्यति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यताध्यात्मशून्यतेति नोपलभते, बहिर्धाशून्यता बहिर्धाशून्यतेति नोपलभते अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतेति नोपलभते, यावद् अभावशून्यता यावद् अभावस्वभावशून्यतेति नोपलभते. स आसु शून्यतासु स्थित्वा बोधिसत्त्वो महासत्त्वो रूपन् नोपलभते शून्यम् इति वा अशून्यम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं नोपलभते शून्यम् इति वा अशून्यम् इति वा, स्कन्धधात्वायतनानि नोपलभते शून्यानीति वा अशून्यानीति वा, प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि वा नोपलभते शून्यानीति वा अशून्यानीति वा, सर्वपारमिता नोपलभते शून्या इति वा अशून्या इति वा, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभते शून्या इति वा अशून्या इति वा, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो नोपलभते सून्या इति वा अशून्या इति वा, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि नोपलभते शून्यानीति वा अशून्यानीति वा, शून्यतानिमित्ताप्रणिहितानि नोपलभते शून्यानीति वा अशून्यानीति वा, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा नोपलभते शून्या इति वा अशून्या इति वा, अनुत्तरा सम्यक्संबोधिर् नोपलभते शून्येति वा अशून्येति वा, संस्कृतो वा धातुर् असंस्कृतो वा धातुर् नोपलभते शून्य इति वा अशून्य इति वा. स इह प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो यद्यद् एव दानन् ददात्य् अन्नं वा पानं वा शयनं वा आवसथं वा ग्लानप्रत्ययभैषज्यपरिष्कारं वा वस्त्रं वा सुवर्णं वा रूप्यं वा मणिमुक्ताशङ्खशिलाप्रवालादीनि वा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपटाका वा यावद् अन्यतरान्यतराणि मानुष्यकाणि परिष्कारोपकरणानि ददाति. स तद् दानं शून्यम् इत्य् अशून्यम् इति नोपलभते, यो वा ददाति यस्यैवा ददाति तद् अपि शून्यम् इति अशून्यम् इति नोपलभते, तस्य मात्सर्यचित्तस्य चोद्ग्रहचित्तस्य वावकाशो न भवति. तत् कस्य हेतोः? सर्व एते धर्माः प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य (PSP_५:९८) विकल्पा एव भवन्ति, प्रथमचित्तोत्पदम् उपादाय यावद् बोधिमण्डनिषण्णस्य यथा चैव तथागतस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य न मात्सर्यचित्तं वोद्ग्रहचित्तं वोत्पद्यते, तथैव बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो मात्सर्यचित्तं वा उद्ग्रहचित्तं वा नोपपद्यते, एवम् एव सुभूते बोधिसत्त्वानां महासत्त्वानां शास्ता यद् उत प्रज्ञापारमिता, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा दानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा शीलपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्त्वः प्रज्ञापारमितायां स्थित्वा न श्रावकप्रत्येकबुद्धभूमिचित्तानाम् अवकाशं ददाति. तत् कस्य हेतोः? तथा हि स श्रावकप्रत्येकबुद्धभूमिन् नोपलभते, तद् अपि चित्तन् नोपलभते, यच् छ्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयति, स प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषदनात्, प्राणातिपातप्रहाणाय चित्तम् उत्पादयति, आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये ऽपि चान्ये प्राणातिपातात् प्रतिविरता भवन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् परुषवचनात् पिशुनवचनाद् अबद्धप्रलापाद् अभिध्याया व्यापादात्, मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भासते, ये ऽपि चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. तेन च शीलेन न कश्चिद् धर्मं परामृशति श्रावकत्वं वा प्रत्येकबुद्धत्वं वा, प्राग् एवान्यद् वा तानि च कुशलमूलानि सर्वसत्त्वेषु साधारणानि कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा (PSP_५:९९) परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां स्थितस्यानुलोमिकी क्षान्तिर् उत्पद्यते, तस्यैवं भवति, इह न कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा म्रियते वा आक्रुष्यते वा परिभाष्यते वा च्छिद्यते वा भिद्यते वा हन्यते वा तस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य यदि सर्वसत्त्वा आगम्याक्रोषयुर् वा परिभाषेरन् वा लोष्टदण्डशस्त्रप्रहारान् दद्युश् च्छिद्युर् भिद्युर् वा, तत्र चास्यैवं भवति, अहो धर्माणां धर्मता, न इह कश्चिद् धर्म आक्रुष्यते वा परिभाष्यते वा च्छिद्यते वा भिद्यते वा हन्यते वा, स तानि कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिनमयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा वीर्यपारमितां परिगर्ह्नाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा चतुर्भिर् ऋद्धिपादैर् उपायकौशल्येन समन्वागतः कायिकञ् च चैतसिकञ् च वीर्यं संजनय्यान्यं लोकधातुम् अपि गत्वा, लोकधातुशतम् अपि गत्वा, लोकधातुसहस्रम् अपि गत्वा लोकधातुशतसहस्रम् अपि गत्वा लोकधातुकोटीनियुतशतसहस्रम् अपि गत्वा सत्त्वानां धर्मं देशयति. दानपारमितायां प्रतिष्ठापयति, शीलपारमितायां प्रतिष्ठापयति, क्षान्तिपारमितायां प्रतिष्ठापयति, वीर्यपारमितायां प्रतिष्ठापयति, ध्यानपारमितायां प्रतिष्ठापयति, प्रज्ञापारमितायां प्रतिष्ठापयति. सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु प्रतिष्ठापयति, स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयति, अर्हत्त्वे प्रतिष्ठापयति प्रत्येकबोधौ प्रतिष्ठापयति, यावद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, तथा च प्रतिष्ठापयति, यथा न संस्कृते धातौ प्रतिष्ठापयति, नासंस्कृते धातौ प्रतिष्ठापयति तच् च कुशलमूलं सर्वसत्त्वेषु (PSP_५:१००) सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति, यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा, तथागतसमाधिं स्थापयित्वा, यावन्तः केचित् समाधयः श्रावकसमाधिर् वा प्रत्येकबुद्धसमाधिर् वा तान् सर्वान् समापद्यते च व्युत्तिष्ठते च, समाधौ स्थित्वा अष्टौ विमोक्षान् अनुलोमं प्रतिलोमं समापद्यते च व्युत्तिष्ठते च. कतमान् अष्टौ विमोक्षान्? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मं रूपसंज्ञी बहिर्धारूपाणि पश्यत्य्, अयं प्रथमो विमोक्षः. अध्यात्मम् अरूपसंज्ञी बहिर्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षः. शून्यत्वेनाधिमुक्तः शून्यत्वे चाधिमुक्तो भवत्य् अयं तृतीयो विमोक्षः. सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमाद् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरत्य्, अयं चतुर्थो विमोक्षः. स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरत्य्, अयं पञ्चमो विमोक्षः. स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमाद् आकिंचन्यायतनम् उपसंपद्य विहरत्य्, अयं षष्ठो विमोक्षः. स सर्वश आकिंचन्यायतनसमतिक्रमाद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरत्य्, अयं सप्तमो विमोक्षः. स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरत्य्, अयम् अष्टमो विमोक्षः. इतीमान् अष्टौ विमोक्षान् अनुलोमं प्रतिलोमं समापद्यते च व्युत्तिष्ठते च, तत्र समाधौ स्थित्वा नवानुपूर्वविहारसमापत्तिईर् अनुलोमप्रतिलोमं समापद्यते च व्युत्तिष्ठते च. कतमा नवानुपूर्वविहारसमापत्तीर्? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं (PSP_५:१०१) सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति, प्रीतेश् च विरागाद् उपेक्षको विहरति स्मृतिमान् संप्रजानन् सुखं काये न प्रतिसंवेदयते, यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धिं चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमाद् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमाद् नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति. स सर्वश आकिंचन्यायतनसमतिक्रमाद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रयात् संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति. एवम् इमा नवानुपूर्वविहारसमापत्तीर् अनुलोमप्रतिलोमं समापद्यते च व्युत्तिष्ठते च, इमान् अष्ट विमोक्षान् इमाश् च नवानुपूर्वविहारसमापत्तीर् विभङ्गं कृत्वा इमं सिंहविजृम्भितं नाम समाधिं समापद्यते, तत्र च समाधौ स्थित्वा द्वादशाङ्गप्रतीत्यसमुत्पादम् अनुलोमप्रतिलोमं प्रत्यवेक्षते. कतमानि द्वादशाङ्गानि? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽविद्याप्रत्ययाः संस्कारा इति प्रत्यवेक्षते, एवं संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपम्ब् नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययम् उपादानम्, उपादानप्रत्ययो भवो, भवप्रत्यया जातिः, जातिप्रत्ययं जरामरणं, जरामरणप्रत्ययाः शोकपरिदेवदुःखदौर्मनस्योपायासा इति प्रत्यवेक्षते. एवम् अस्य केवलस्य महतो दुष्खस्कन्धस्य लोके समुदयो भवतीति प्रत्यवेक्षते. जरामरणे तस्मिन्न् असति शोकपरिदेवदुष्खदौर्मनस्योपायासा न भवन्तीति प्रत्यवेक्षते, एवं जाताव् असत्यां जरामरणन् न भवति, भवे ऽसति जातिर् न भवति, उपादाने ऽसति भवो न भवति, तृष्णायाम् असत्याम् उपादानन् (PSP_५:१०२) न भवति, वेदनायम् असत्यां तृष्णा न भवति, स्पर्शे ऽसति वेदना न भवति, षडायतने ऽसति स्पर्शो न भवति, नामरूपे ऽसति षडायतनन् न भवति, विज्ञाने ऽसति नामरूपन् न भवति, संस्कारेष्व् असत्सु विज्ञानन् न भवति, अविद्यायाम् असत्यां संस्कारा न भवन्तीति प्रत्यवेक्षते. एवम् अस्य केवलस्य महता दुष्खस्कन्धस्य लोके निरोधो भवतीति प्रत्यवेक्षते. एवम् इमं द्वादशाङ्गं प्रतीत्यसमुत्पादम् अनुलोमप्रतिलोमं प्रत्यवेक्षते, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति. इत्य् उक्तो दर्शनमार्गः
सुभूतिर् आह: बहुषु स्थानेषु शिक्षितव्यं बोधिसत्त्वेन महासत्त्वेन न क्वचिच् छिक्षितव्यम्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बहुषु स्थानेषु शिक्षितव्यं बोधिसत्त्वेन महासत्त्वेन न क्वचिच् छिक्षितव्यम्. तत् कस्य हेतोः? तथा हि ते धर्मा नोपलभ्यन्ते यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यत् पुनर् भगवंस् तथागतेन मे संक्षिप्तेन च विस्तरेण च धर्मा भाषिताः, तत्र बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेनेमाः षट् पारमिताः संक्षिप्तेन च विस्तरेण च पर्यवाप्तव्याः पर्यवाप्य यावद् वाचा परिजिताः कर्तव्या यावद् वाचा परिजिताः कृत्वा मनसा प्रत्यवेक्षितव्या, तथा च चित्तचेतसिका धर्मा न प्रवर्तन्ते, अस्मिन् पुनः संक्षेपविस्तरे शिक्षमाणो बोधिसत्त्वो महासत्त्वः षण्नां पारमितानां सर्वधर्माणाञ् च संक्षेपविस्तरं ज्ञास्यति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वधर्माणां (PSP_५:१०५) संक्षेपविस्तरं ज्ञास्यति?
SK
भगवान् आह: रूपस्य वा वेदनाया वा संज्ञाया वा संस्काराणां वा विज्ञानस्य वा संक्षिप्तविस्तरञ् च तथतां जानानः. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य वा प्रतीत्यसमुत्पादाङ्गानां वा संक्षिप्तविस्तरं तथतां जानानः, एवं सर्वपारमितानां वा सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणां वा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकानां बुद्धधर्माणां वा सर्वाकारज्ञताया वा संक्षिप्तविस्तरं तथतां जानानः, सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति.
SK
सुभूतिर् आह: कतमा सा भगवंस् तथता?
SK
भगवान् आह: यस्यास् तथताया नोत्पादः प्रज्ञायते, न स्थितिर् नान्यथात्वं प्रज्ञायते इयं सा तथता यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्. एवं भूतकोटिं जानानो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति.
भगवान् आह: आकाशधातुर् धर्मधातुर् यस्य धातोर् न च्छेदः प्रज्ञायते न परिच्छेदः. एवं च धर्मधातुं जानानो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति.
SK
सुभूतिर् आह: कथं भगवन् सर्वधर्माणां संक्षिप्तविस्तरं ज्ञातव्यम्?
SK
भगवान् आह: यथा सर्वधर्मा न संयुक्ता न विसंयुक्ताः.
SK
सुभूतिर् आह: कतमे भगवन् सर्वधर्मा ये न संयुक्ता न विसंयुक्ताः?
SK
भगवान् आह: रूपन् न संयुक्तं न विसंयुक्तं, वेदना संज्ञा संस्काराः, विज्ञानन् न संयुक्तन् न विसंयुक्तम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च न संयुक्तानि न (PSP_५:१०६) विसंयुक्तानि, एवं यावत् संस्कृतो धातुर् असंस्कृतो धतुर् न संयुक्तो न विसंयुक्तः. तत् कस्य हेतोः? न ह्य् अस्यास्ति स्वभावो यः संयुज्यते वा विसंयुज्यते वा यश् चास्वभावः सो ऽभावो, यश् चाभावः सो ऽभावेन सार्धं न संयुक्तो न विसंयुक्त, एवं बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा ज्ञातव्याः.
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु स आत्मा वा सत्त्वो वा जीवो वा जन्तुर् वा पोसो वा पुरुषो वा पुद्गलो वा उपलभ्यते.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: अनुपलभमानः सुभूते आत्मानं वा सत्त्वं वा जीवं वा जन्तुं वा पोषं वा पुरुषं वा पुद्गलं वा, कथं सत्त्वधातुं वा यावत् पुद्गलधातुं वा प्रज्ञापयिष्यति. एवं प्रज्ञापारमिताम् अप्य् अप्रज्ञपयमानः सर्वधर्मान् अप्य् अप्रज्ञपयमानः सर्वाकारज्ञताम् अनुप्राप्स्यति.
भगवान् आह: अप्रज्ञपनीया सुभूते प्रज्ञापारमिता, यावत् सर्वधर्माः संस्कृता वासंस्कृता वा श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा यावद् बुद्धधर्मा वा.
SK
सुभूतिर् आह: यदि भगवन्न् अप्रज्ञपनीयाः सर्वधर्माः, कुतः (PSP_५:११३) पुनर् भगवन् नारकाः प्रज्ञायन्ते, तिर्यग्योनिगताः प्रज्ञायन्ते, यमलोका वा प्रज्ञायन्ते, मनुष्या वा प्रज्ञायन्ते, देवा वा प्रज्ञायन्ते, स्रोतआपन्ना वा सकृदागामिनो वानागामिनो वार्हन्तो वा प्रत्येकबुद्धा वा सम्यक्संबुद्धा वा प्रज्ञायन्ते.
SK
भगवान् आह: कत् किं मन्यसे? सुभूते ऽपि नु सत्त्वप्रज्ञाप्तिर् उपलभ्यते.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: अनुपलभमानः सुभूते सत्त्वं कुतो नारकं प्रज्ञापयिष्यति तिर्यग्योनिगतान्, यमलोकं वा मनुष्यं वा देवं वा स्रोतआपन्नान् वा सकृदागामिनो वा अनागामिनो वा अर्हतो वा प्रत्येकबुद्धान् वा सम्यक्संबुद्धान् वा कुतः प्रज्ञापयिष्यति? एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताप्रज्ञपनीयेषु धर्मेषु शिक्षितव्यम्. इति सत्त्वप्रज्ञाप्तिविकल्पः
सुभूतिर् आह: यदि भगवन् रूपं रूपेण शून्यं, वेदना संज्ञा संस्कारा, विज्ञानं विज्ञानेन शून्यम्. एवं यावद् अनुत्तरा सम्यक्संबोधिर् अनुत्तरया सम्यक्संबोध्या शून्या. तत् कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरिर् भवति?
SK
भगवान् आह: अचरिः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताचरिः.
SK
सुभूतिर् आह: केन कारणेन भगवन्न् अचरिः?
SK
भगवान् आह: तथा हि सुभूते सा प्रज्ञापारमिता नोपलभ्यते, बोधिसत्त्वो ऽपि नोपलभ्यते, चरिर् अपि नोपलभ्यते, यो वा चरितो, येन वा चरितो, यत्र वा चरितस्, तद् अपि नोपलभ्यते. एवं हि सुभूते अचरिर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताचरिर् यत्रैते सर्वप्रपञ्चा नोपलभ्यन्ते.
SK
सुभूतिर् आह: यदि भगवन् न चरिः प्रज्ञापारमिताचरिर् भवति, तत् कथं भगवन्न् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्?
भगवान् आह: यावद् द्वयन् तावद् उपलम्भो, यावद् अद्वयन् तावद् अनुपलम्भः.
SK
सुभूतिर् आह: कियता भगवन् द्वयं वा अद्वयं वा भवति?
SK
भगवान् आह: यावच् चक्षुरूपं यावत् मनोधर्माश् च, यावद् बोधिश् च बुद्द्धश् च, इदं सुभूते द्वयं, यावन् न चक्षुरूपं, यावन् न मनोधर्माश् च, न बोधिश् च न बुद्धश् च, इदं सुभूते ऽद्वयम्. इति शून्यत्वविकल्पः
भगवान् आह: न सुभूते बोधिसत्त्वो रूपस्य कृतेन प्रज्ञापारमितायां चरति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य कृतेन प्रज्ञापारमितायां चरति, न स्कन्धधात्वायतनानां न प्रतीत्यसमुत्पादस्य न प्रतीत्यसमुत्पादाङ्गानां कृतेन प्रज्ञापारमितायां चरति, न पारमितानां कृतेन, न शून्यतामुखानां न बोधिपक्ष्यानां धर्माणां कृतेन, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां कृतेन, न शून्यतानिमित्तापरनिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां कृतेन, नानुत्तरायाः सम्यक्संबोधेः कृतेन प्रज्ञापारमितायां चरति.
भगवान् आह: अनभिसंबुद्धा सुभूते तथागतेनानुत्तरा सम्यक्संबोधिः, सा च न क्वचित् स्थिता संस्कृते वा धाताव् असंस्कृते वा धातौ. तद्यथापि नाम सुभूते तथागतनिर्मितो न क्वचित् स्थितः संस्कृते वा धाताव् असंस्कृते वा धातौ, स च तथागतनिर्मितो गच्छति चागच्छति च तिष्ठति च निषीदति च, स दानपारमितायां चरेच्, छीलपारमितायां चरेत्, क्षान्तिपारमितायां चरेद्, वीर्यपारमितायां चरेद्, ध्यानपारमितायां चरेत्, प्रज्ञापारमितायां चरेच्, चत्वारि ध्यानान्य् उपसंपद्य विहरेच्, चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः पञ्चभिर् अभिज्ञाभिश् चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गेन मार्गेण शून्यतासमाधिना अनिमित्तसमाधिनाप्रणिहितसमाधिना (PSP_५:१२१) अध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया, अष्टविमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिः महामैत्र्या महाकरुणया समाधिधारणीमुखैर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् धर्मचक्रप्रवर्तनतया च विहरेत्, स च निर्मितो ऽपरिमाणान् सत्त्वान् अभिनिर्माय त्रिषु राशिषु व्याकुर्यात्. तत् किं मन्यसे? सुभूते ऽपि नु तेन कश्चित् सत्त्वस् त्रिषु राशिषु व्याकृतः.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: एवम् एव सुभूते तथागतेन सर्वधर्मा निर्मितोपमा ज्ञाता, न च कश्चित् सत्त्वो विनीतः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता भावयितव्या, तद्यथापि नाम तथागतनिर्मितेन.
SK
सुभूतिर् आह: अपि नु भगवन् सर्वधर्मा निर्मितोपमाः.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्.
SK
सुभूतिर् आह: यदि भगवन् सर्वधर्मा निर्मितोपमास् तथागतस्य निर्मितस्य च कः प्रतिविशेषः? किं वा नानाकरणं? को वाभिप्रायः?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तथागतस्य च सुभूते निर्मितस्य च न कश्चिद् विशेषो, न किंचित् नानाकरणम् उपलभ्यते, निर्विशेषः सुभूते तथागतश् च निर्मितश् च. तत् कस्य हेतोः? तथा हि यत् तथागतः कर्म करोति, तन् निर्मितः कर्म करोति.
सुभूतिर् आह: कथं यथा पुनर् भगवन् न सति तथागते तथागतनिर्मितः कर्म करोति?
SK
भगवान् आह: तद्यथापि नाम सुभूते सचेत् तथागतो भव्यसत्त्वम् अनुपलभमानो निर्मितन् निर्माय परिनिर्वृतः, तेन च निर्मितेनार्धकल्पं बुद्धकृत्यं स पश्चाद् बुद्धकृत्यं कृत्वा परिनिर्वृत इति जनः संजानीते, न च निर्मितानां कश्चिद् उत्पादो न निर्वाणम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं, (PSP_५:१२२) यद् उत निर्मितोपमान् सर्वधर्मान् अधिमुच्यते. इति यानत्रयविकल्पः
SK
सुभूतिर् आह: यदि भगवन् निर्मितस्य तथागतस्य च विशेषो नास्ति दक्षिणा परिशुद्धिः कथं भविष्यति? य इमे भगवंस् तथागते दक्षिणां प्रतिष्ठापयन्ति, सा न जातु क्षीयते यावत् ते सत्त्वा अनुपधिशेषनिर्वाणधातौ परिनिर्वास्यन्ते, एवम् एव ये निर्मिते दक्षिणां प्रतिष्ठापयन्ति, सा न जातु क्षीयते यावत् ते सत्त्वा अनुपधिशेषनिर्वाणधातौ परिनिर्वास्यन्ति.
SK
भगवान् आह: यया सुभूते धर्मतया तथागतः सदेवकस्य लोकस्य दक्षिणीयो भवति, तयैव धर्मतया निर्मितो ऽपि सदेवस्य लोकस्य दक्षिणीयः. तिष्ठतु तावत् सुभूते तथागतप्रतिष्ठापिता दक्षिणा, तिष्ठतु निर्मितप्रतिष्ठापिता दक्षिणा यः कश्चित् सुभूते कुलपुत्रो वा कुलदुहिता वा तथागतं मैत्रतया मनसिकरिष्यति, सर्वो ऽसौ तस्य कुशलमूलस्य पर्यन्तम् अधिगम्य दुष्खस्यान्तं करिष्यति. तिष्ठतु मैत्रं वा मनसिकारो यः कश्चित् सुभूते कुलपुत्रो वा कुलदुहिता वा आकाशे पुष्पाणि क्षेप्स्यति तथागतं मनसिकृत्वा सर्वो ऽसौ तस्य कुशलमूलस्य पर्यन्तम् अधिगम्य दुष्खस्यान्तं करिष्यति: तिष्ठतु सुभूते मैत्रं वा मनसिकारस्, तिष्ठत्व् आकाशे पुष्पाणि यः कश्चित् सुभूते कुलपुत्रो वा कुलदुहिता वा नमो बुद्धानाम् इति मनसिकरिष्यति, सर्वो ऽसाव् अनुपूर्वेण दुःखस्यान्तं करिष्यति. एवं महर्द्धिका सुभूते तथागतप्रतिष्ठापिता दक्षिणा, एवं महानुशंसा, तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यं, तथागतस्य च तथागतनिर्मितस्य च न किंचित् नानाकरणम् उपलभ्यते धर्माणां धर्मतां प्रमाणीकृत्यम्. इति दक्षिणाविशुद्धिविकल्पः
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं, धर्माणां धर्मतायाम् अवतरितव्यं, सा च धर्मता न विकोपयितव्या, इयं प्रज्ञापारमिताया धर्मतेति न विकोपयितव्या, एवं ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया इयं दानपारमिताया धर्मतेति न विकोपयितव्या, एवं यावत् सर्वधर्मेष्व् इमे सर्वधर्मा इयं सर्वधर्माणां धर्मतेति न विकोपयितव्या.
भगवान् आह: न सुभूते, नामनिमित्ता हि ते धर्मा निर्दिष्टा धर्माणां सूचनकृता, कथं परो ऽवतरिष्यतिति न धर्माणान् धर्मता विकोपिता भवेत्.
SK
सुभूतिर् आह: यदि भगवन् नामनिमित्ता हि ते धर्मा निर्दिष्टाः परेषाम् अवतारणाय, कथं भगवर्म् अनामका अनिमित्ताः सर्वधर्मा नाम निमित्तेन व्याहृताः? इति चर्याविकोपनविकल्पः इत्य् उक्तो नवविधः प्रथमग्राहकविकल्पः
SK
भगवान् आह: न सुभूते व्यवहारो नामनिमित्तम् अभिनिवेशो वा नात्र सुभूते नाम्नि व्यवहरामि, न निमित्ते ऽनिमित्ते ऽभिनिवेशो वा. न हि सुभूते तथागतश्रावको वा नाम्नि निमित्ते वाभिनिविशते. न हि सुभूते नाम नाम्न्य् अभिनिविशते, न निमित्तन् निमित्ते ऽभिनिविशते, न शून्यता शून्यतायाम् अभिनिविशते, नानिमित्तम् आनिमित्ते ऽभिनिविशते, नाप्रणिहितम् अप्रणिहिते ऽभिनिविशते, न तथता तथतायाम् अभिनिविशते, न भूतकोटिर् भूतकोट्याम् अभिनिविशते, न धर्मधातुर् धर्मधाताव् अभिनिविशते, नासंस्कृतम् असंस्कृते ऽभिनिविशते, एवम् एते सर्वधर्मा नाममात्रं, न ह्य् एते नाममात्रे ऽवतिष्ठन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन नाममात्रे स्थित्वा प्रज्ञापारमितायां चरितव्यं, तत्र च नाभिनिवेष्टव्यम्.
भगवान् आह: सर्वमार्गाः सुभूते बोधिसत्त्वेन महासत्त्वेन नोत्पादयितव्याः, सर्वमार्गा ज्ञातव्याः, यश् च श्रावकाणां मार्गो, यश् च प्रत्येकबुद्धानां मार्गो, ये च बोधिमार्गास् ते च मार्गाः परिपूरयितव्याः तैश् च मार्गे मार्गकरणीयं कर्तव्यन् न चानेन भूतकोटिः साक्षात्कर्तव्या.
SK
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वेन महासत्त्वेन भूतकोटिर् न साक्षात्कर्तव्या?
भगवान् आह: एतावद् एव सुभूते सर्वं यावद् एवाध्यात्मिकाश् च बाह्याश् च धर्मास् ते च सर्वश्रावकप्रत्येकबुद्धैर् ज्ञाता, न पुनः सर्वमार्गेण सर्वाकारेण. इति सर्वज्ञतासंमोहविकल्पः
भगवान् आह: न सुभूते ऽसंस्कृतस्य नानात्वम् उपलभ्यते.
SK
सुभूतिर् आह: यदि नोपलभ्यते कुत एतन् निर्दिश्यते? अस्य वासनानुसंधिक्लेशप्रहाणम्, अस्य न वासनानुसंधिक्लेशप्रहाणम् इति. भगवान् आह: न सुभूते वासनानुसंधिक्लेशप्रहाणं, अपि नु तेषां रागदोषमोहप्रहाणम् अस्ति, कायवाग्विकारास् तु प्रवर्तन्ते, ते तु बालपृथग्जनानाम् अनर्थाय प्रवर्तन्ते, न तु श्रावकाणां, ते तथागतस्य न सन्ति.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, स्वलक्षणशून्यानां सुभूते सर्वधर्माणां पूर्वा कोटिर् न प्रज्ञायते, कुतः पुनः पश्चिमा कोटिः प्रज्ञायते, नेदं स्थानं विद्यते, अपि तु खलु पुनः सुभूते ये ते सत्त्वाः स्वलक्षणशून्यान् धर्मान् न जानन्ति, तेषाम् एवं निर्दिष्टम् इयं पूर्वा कोटिर् इयं पश्चिमा कोटिर्, न पुनः स्वलक्षणशून्येषु धर्मेषु पूर्वा कोटिर् न पश्चिमा कोटिर् उपलभ्यते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु प्रज्ञापारमितायां चरितव्यं, स्वलक्षणशून्येषु धर्मेषु चरन् न क्वचिद् अभिनिविशते ऽध्यात्मिकेषु वा बाह्येषु वा संस्कृतेषु वासंस्कृतेषु वा श्रावकधर्मेषु वा प्रत्येकबुद्धधर्मेषु वा.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इह गम्भीरायां प्रज्ञापारमितायाम् अर्थश् चानर्थश् च नोपलभ्यते, तत् कथं बोधिसत्त्वेन महासत्त्वेनेह गम्भीरायां प्रज्ञापारमितायाम् अर्थे चरितव्यम्?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन गम्भीरे ऽर्थे प्रज्ञापारमितार्थे चरतैवं चरितव्यं, रागो मे ऽर्थो ऽनर्थ इति न चरितव्यं, द्वेषो मे ऽर्थो ऽनर्थ इति न चरितव्यं, मोहो मे ऽर्थो ऽनर्थ इति न चरितव्यं, मिथ्यादृष्टिर् मे ऽर्थो ऽनर्थ इति न चरितव्यं, दृष्टिगतो मे ऽर्थो ऽनर्थ इति न चरितव्यम्, इदं दृष्टिगतो मे ऽर्थो ऽनर्थ इति न चरितव्यम्. तत् कस्य हेतोः? न हि रागद्वेषमोहानां तथता कस्यचिद् अर्थम् अनर्थं करोति, न दृष्टिगतानां तथता कस्यचिद् अर्थम् अनर्थं करोति. रूपं मे ऽर्थो ऽनर्थ इति न चरितव्यं, वेदना संज्ञा संस्कारा, विज्ञानं मे ऽर्थो ऽनर्थ इति न चरितव्यं, एवं स्कन्धधात्वायतनानि मे ऽर्थो ऽनर्थ इति न चरितव्यं, प्रतीत्यसमुत्पादो मे ऽर्थो ऽनर्थ इति न चरितव्यं, प्रतीत्यसमुत्पादाङ्गानि मे ऽर्थो ऽनर्थ इति न चरितव्यं, पारमिता मे ऽर्थो ऽनर्थ इति न चरितव्यं, शून्यतामुखानि मे ऽर्थो ऽनर्थ इति न चरितव्यं, बोधिपक्ष्या मे धर्मा अर्थो ऽनर्थ इति न चरितव्यं, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि (PSP_५:१२९) मे ऽर्थो ऽनर्थ इति न चरितव्यं, शून्यतानिमित्ताप्रणिहितानि मे ऽर्थो ऽनर्थ इति न चरितव्यम्, अभिज्ञादशबलवैशारद्यप्रतिसंविदो मे ऽर्थो ऽनर्थ इति न चरितव्यम्, आवेणिकाबुद्धधर्मा मे ऽर्थो ऽनर्थ इति न चरितव्यम्, अनुत्तरा मे सम्यक्संबोधिर् अर्थो ऽनर्थ इति न चरितव्यम्. तत् कस्य हेतोः? तथा हि सुभूते तथागतेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य न कश्चिद् धर्म उपलब्धो यो ऽर्थं वा कुर्याद् अनर्थं वा कुर्याद्, अपि नु खलु पुनः सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता सा नैव कस्यचिद् अर्थं वा करोत्य् अनर्थं वा, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनार्थानर्थो वर्जयित्वा प्रज्ञापारमितायां चरितव्यम्.
सुभूतिर् आह: कथं भगवन् नाद्वयो न द्वयो धर्म उपलभ्यते?
SK
भगवान् आह: अनुपलम्भं प्रति न रूपम् अनुपलम्भेन प्राप्नोति, न वेदनान् न संज्ञान् न संस्कारान्, न विज्ञानम् अनुपलम्भेन प्राप्नोति. इति द्वयाभावसंमोहविकल्पः इत्य् उक्तो नवविधो द्वितीयो ग्राहकविकल्पः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गम्भीरा भगवन् प्रज्ञापारमिता दुष्करकारका भगवन् बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरायां सम्यक्संबोधौ प्रस्थिता न च नामसत्त्व उपलभ्यते न सत्त्वप्रज्ञाप्तिस्, तेषां च सत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् अभिसंप्रस्थिताः. तद्यथापि नाम भगवन् कश्चिद् एव पुरुष आकाशे अप्रतिष्ठाने स्तम्बम् इच्छेद् धापयितुम्, एवम् एव भगवन् बोधिसत्त्वो महासत्त्वः सत्त्वानां कृतेनेच्छेत् सर्वाकारज्ञताम् अनुप्राप्तुम्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारका बोधिसत्त्वा महासत्त्वा ये सत्त्वानां कृतशः सर्वाकारज्ञतार्थम् अभिप्रतिष्ठन्ते, ताञ् च सर्वाकारज्ञताम् अनुबुध्य सर्वसत्त्वान् संसारात् परिमोचयिष्यन्ति. इति सर्वाकारज्ञताया अभावालम्बनज्ञानम्
SK
तद्यथापि नाम सुभूते पुरुषः स्तम्बम् इच्छेद् वापनाय स च पुरुषस् तस्य स्तम्बस्य न मूलं जानीयाद् न शाखां न त्वच्छेदं न पत्त्रं न पलाशं न पुष्पं जानीयात्, स तस्य स्तम्बस्य काण्डं वापयेत वापयित्वा कालेन कालं गोपायतोदकं दद्याद् अर्थं तस्य तत् काण्डम् अनुपूर्वेण शाखासंपन्नञ् च भवेत्, पत्त्रसंपन्नञ् च भवेत्, पुष्पसंपन्नञ् च भवेत्, फलसंपन्नञ् च भवेत्, स तस्य स्तम्बस्य पत्त्राण्य् अनुभुञ्जीत्, पुष्पाणि च फलानि चानुभुञ्जीत. एवम् एव सुभूते बोधिसत्त्वा महासत्त्वाः सर्वसत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् अभिसंप्रस्थिता अनुपूर्वेण षट्सु पारमितासु चरन्तः सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, ततः सर्वसत्त्वानां पत्त्रपुष्पफलोपजीव्या भवन्ति. तत्रेदं सुभूते पत्त्रं बोधिसत्त्वानां महासत्त्वानां यद् आगम्य सत्त्वास् त्रिभ्यो ऽपायेभ्यः परिमुच्यन्ते. तत्रेदं पुष्पं यद् आगम्य क्षत्रियमहाशालकुलेषु ब्राह्मणमहाशालकुलेषु गृहपतिमहाशालकुलेषु (PSP_५:१३१) वा चातुर्महाराजकायिकेषु देवेषूपपद्यन्ते त्रयस्त्रिंशेषु यामेषु तुषितेषु निर्माणरतिसु परनिर्मितवशवर्तिषु ब्रह्मपार्षद्येषु यावन् नैवसंज्ञानासंज्ञायतनेषु उपपद्यन्ते. तत्रेदं फलं यद् आगम्य सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठन्ते, सकृदागामिफले प्रतिष्ठन्ते, ऽनागामिफले प्रतिष्ठन्ते, अर्हत्त्वे प्रतिष्ठन्ते, प्रत्येकबोधौ प्रतिष्ठन्ते, तद् एव च फलम् आगम्य सत्त्वाः सर्वाकारज्ञतम् अनुप्राप्नुवन्ति, सर्वसत्त्वानां फलशालिनो भवन्ति, तत्र ये दक्षिणां प्रतिष्ठापयन्ति ते सर्वे ऽनुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति, यद् उत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा, अनुत्तराम् अपि सम्यक्संबोधिम् अभिसंबुध्यन्ते, न च तत्र सत्त्वः प्रज्ञायते, न च सत्त्वप्रज्ञाप्तिस् ते च सत्त्वा आत्मग्राहतः परिमोच्यन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं, न चेह कश्चित् सत्त्वो वा सत्त्वप्रज्ञाप्तिर् वोपलभ्यते, येषां सत्त्वानाम् अहंकृते न सर्वाकारज्ञताम् अनुप्राप्स्यामीति.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो महासत्त्व इमा यैर् बोधये चरति, स किं षट्सु पारमितासु चरति, सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चरति, सर्वशून्यतार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, शून्यतानिमित्ताप्रणिहितेषु चरत्य्, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, सर्वाकारज्ञतायां चरति, कस्य धर्मस्यागमे वा चरत्य् अपगमे वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय व्यवदानाय वा?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यः सुभूते बोधिसत्त्वो महासत्त्व इमा यैर् बोधये चरति, स न षट्सु पारमितासु चरति, न सप्तत्रिंशत्सु बोधिपक्षेषु धर्मेषु चरति, न सर्वशून्यतार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु (PSP_५:१४१) चरति, न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, न सर्वाकारज्ञतायां चरति, न कस्यचिद् धर्मस्यागमे वा चरत्य् अपगमे वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय व्यवदानाय वा. न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिः प्रज्ञापारमितायां चरत आरम्बणयोगेन प्रत्युपस्थिता आचये वा अपचये वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय वा व्यवदानाय वा प्रत्युपस्थिता.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यो वा, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः समन्वागतो न चास्य दानसंज्ञा भवति, न प्रतिग्राहकसंज्ञा, न दानपतिसंज्ञा. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानो दानपारमितायां चरति, दानपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च दानफलम् उपजीवति यद् दानफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया दानपारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलं रक्षति, तस्य नैव रागे चित्तं पतति न दोषे न मोहे नानुशये न पर्युत्थाने पतति, नान्येष्व् अकुशलेषु धर्मेषु पतति, ये बोधये परिपन्थकास् तद्यथा मात्सर्यचित्तं वा दौःशील्यचित्तं वा क्षुब्धचित्तं वा कौशीद्यचित्तं वा हीनचित्तं वा भ्रान्तचित्तं (PSP_५:१४५) वा दौष्प्रज्ञचित्तं वा मानातिमानो ऽधिमानो ऽस्मिमानः श्रावकप्रत्येकबुद्धचित्तं वा. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणाञ् च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानः शीलपारमितायां चरति, स शीलपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च शीलफलम् उपजीवति यच् छीलफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया शीलपारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तां क्षान्तिं भावयति, स स्वकेष्व् अपि प्राणेषु व्यवरोप्यमानेषु न प्रतिदह्यते, न प्रतिक्रुष्यति न व्यापादोपनाहम् उपनह्यति, स जीविताद् व्यपरोप्यमानो ऽपि सर्वस्वे वापह्रियमाणे दारे वाकृष्यमाणे मृषावाद उच्यमानः पिशुनं परुषं संभिन्नं वोच्यमान आक्रुष्यमाणो वा ताड्यमानो वा च्छिद्यमानो वा न क्षुभ्यति सत्त्वानाम् एव हितम् उत्पादयति. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, स धर्माणां च धर्मलक्षणम् अवतरति, अकिञ्चित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते स कुशलैर् धर्मैर् विवर्धमानः क्षान्तिपारमितायां चरति, स क्षान्तिपारमितायां चरन् सर्वसत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च क्षान्तिफलम् उपजीवति यत् क्षान्तिफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया क्षान्तिपारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वीर्यम् आरभते, दृढसंनाहो दृढपराक्रमो न कौशीद्यं वा अलसचित्तं वोत्पादयति, स बोधेर् अर्थाय दुःखम् अपि न गणपतिदक्षो ऽनलसो ऽपि शक्तिभिर् वार्यमाणो मनुष्यदुष्खम् असुरदुःखं तिर्यग्योनिदुःखं नरकदुष्खम् अपि न गणपतिर् अपि शक्तिभिर् वार्यमाणः. तत् (PSP_५:१४६) कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो वीर्यपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च वीर्यफलम् उपजीवति यद् वीर्यफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया वीर्यपारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानं समापद्यते, चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यञ्जनग्राही भवति, यथाविकरणम् एवं चक्षुरिन्द्रियेणासंवरसंवृतं विहरन्तम् अभिध्या दौर्मनस्याः पापका अकुशला धर्माश् चित्तम् अनुश्रवेयुः, तेषां संवराय प्रतिपद्यते रक्षति चक्षुरिन्द्रियम् एवं श्रोत्रेण शब्दान् श्रुत्वा, घ्राणेन गन्धान् आघ्राय, जिह्वया रसान् आस्वाद्य, कायेन स्प्रष्टव्यं स्पृष्ट्वा, मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यञ्जनग्राही भवति, यथाविकरणम् एवं मनैन्द्रियेनासंवरसंवृतं विहरन्तम् अभिध्या दौर्मनस्याः पापका अकुशला धर्माश् चित्तम् अनुश्रवेयुः, तेषां संवराय प्रतिपद्यते, रक्षति मनैन्द्रियं, स गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो ऽपि शयानो ऽपि भाषमानो ऽपि तूष्णीभूतो ऽपि समाहितावस्थां न जहाति न विजहाति, स भवत्य् अहस्तलोलो ऽपादलोलो ऽमुखरो ऽप्रकीर्णवाग् अविक्षिप्तचक्षुर् अविक्षिप्तेन्द्रियो ऽनुद्धतो ऽचपलो ऽरभसो ऽभ्रान्तकायो ऽभ्रान्तचित्तः, शान्तकायः शान्तवाक् शान्तचित्तो रहस्यरहसि वाविकल्पितेर्यापथो यैः केचिद् अप्य् अन्नपानशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः संतुष्टः सुरभः सुपोष्यः कल्याणाचारगोचरः संगणिकाया अपि विवेकगोचरः लाभे ऽलाभे च स निर्विकारो ऽनुन्नतावनतः सुखे दुष्खे स्तुतौ निन्दायां यशस्ययशसि जीविते च मरणे च समो निर्विकारो ऽनुन्नतावनतः, शत्रौ च मित्रे च साधौ चासाधौ च मनआपवर्तिन्य् अमनआपवर्तिन्य् आर्येषु शब्देस्व् अनार्येषु (PSP_५:१४७) शब्देषु विविक्तेषु व्यवकीर्णेषु च समो निर्विकारो ऽनुन्नतावनतः प्रियाप्रियेषु रूपेष्व् अनुरोधविरोधापगः. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो ध्यानपारमितायां चरति, स ध्यानपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न ध्यानफलम् उपजीवति यद् ध्यानफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया ध्यानपारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न दुष्प्रज्ञो भवति न परप्रणेयो ऽहंकारममकारविगतः, आत्मसत्त्व जीवजन्तु पोषपुरुष पुद्गलमनुजमानवकारकवेदकजानकपश्यकविगतश् च भवति सर्वदृष्टिविगतः सर्वशून्यताविगतो निर्विकल्पो निर्विकारः. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानः प्रज्ञापारमितायां चरति, स प्रज्ञापारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च प्रज्ञाफलम् उपजीवति यत् प्रज्ञाफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया प्रज्ञापारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते, द्वितीयं ध्यानं समापद्यते, तृतीयं ध्यानं समापद्यते, चतुर्थं ध्यानं समापद्यते, चतुरप्रमाणारूप्यसमापत्तीः समापद्यते, प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न च तेषां विपाकं परिगृह्णाति. तत् कस्य हेतोः? तथा हि स तेनोपायकौशल्येन समन्वागतो भवति, येनोपायकौशल्येन समन्वागतस् तानि च ध्यानान्य् अप्रमाणारूप्यसमापत्तीः समापद्यमानः स (PSP_५:१४८) स्वलक्षणशून्यान् धर्मान् जानाति, असद्भुतान् अपरिनिष्पन्नन् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणाञ् च धर्मलक्षणम् अवतरति, अकिंचित्समर्थताञ् च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो ध्यानाप्रमाणारूप्यसमापत्तीश् च समापद्यते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दर्शनभावनाप्रहातव्ये ऽस्मिन् मार्गे चरति, न स्रोतआपत्तिफलम् अनुप्राप्नोति, न सकृदागामिफलं नानागामिफलं नार्हत्त्वम् अनुप्राप्नोति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् सर्वधर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानः सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु चरति, बोधिपक्ष्येषु धर्मेषु चरन् श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमतीयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुत्पत्तिकैर् धर्मैः क्षान्तिः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अष्टविमोक्षान् समापद्यते, स नवानुपूर्वविहारसमापत्तीश् चत्वार्य् आर्यसत्यानि भावयति, शून्यतानिमित्ताप्रणिहितानि च समापद्यते, न च स्रोतआपत्तिफलम् अनुप्राप्नोति, न सकृदागामिफलं नानागामिफलं नार्हत्त्वम् अनुप्राप्नोति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, स धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समथतां सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो विमोक्षसमाधिसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहितेषु चरति, स विमोक्षसमाधिसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहितेषु चरन् श्रावकप्रत्येकबुद्धभूमिम् अवक्रामतीयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुत्पत्तिकधर्मव्याकरणक्षान्तिः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दशसु तथागतबलेषु परिजयं करोति, चतुर्षु वैशारद्येषु (PSP_५:१४९) चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महामैत्र्यां महाकरुणायां च, न च तावत् सर्वाकारज्ञताम् अनुप्राप्नोति, यावद् बुद्धक्षेत्रं न परिशोधितं भवति, सर्वसत्त्वाश् च न परिपाचिता भवन्ति. तत् कस्य हेतोः? तथा हि स स्वलक्षणं शून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारं लक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु महामैत्र्यां महाकरुणायां चरन् बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति. एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: परमबुद्धिमन्तो भगवन् बोधिसत्त्वा महासत्त्वा भवन्ति, य एवं गम्भीरेषु धर्मेषु चरन्ति, विपाकं च न प्रतिगृह्णन्ति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, परमबुद्धिमन्तः सुभूते बोधिसत्त्वा महासत्त्वा य एवं गम्भीरेषु धर्मेषु चरन्ति, विपाकं च न प्रतिगृह्णन्ति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वा महासत्त्वाः स्वभावतो न चलन्ति.
SK
सुभूतिर् आह: कस्मात् स्वभावान् न चलन्ति?
SK
भगवान् आह: अभावतो न चलन्ति, यत् पुनर् आयुष्मान् सुबूतिर् एवम् आह कतमस्मात् स्वभावान् न चलन्ति, रूपस्य स्वभावतो न चलन्ति, न वेदनाया न संज्ञाया न संस्काराणां, विज्ञानस्य स्वभावतो न चलन्ति, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्वभावान् न चलन्ति, प्रतीत्य समुत्पादाङ्गस्वभावान् न चलन्ति, दानपारमितायाः स्वभावान् न चलन्ति, शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स्वभावान् न चलन्ति, अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यतायाः स्वभावान् न चलन्ति, अप्रमाणस्वभावाद् ध्यानारूप्यसमापत्तिस्वभावात् स्मृत्युपस्थानस्वभावात् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गस्वभावाद् आर्याष्टाङ्गमार्गस्वभावान् न चलन्ति, शून्यतानिमित्ताप्रणिहितस्वभावान् न चलन्ति, आर्यसत्यस्वभावाद् अभिज्ञास्वभावाद् (PSP_५:१५०) विमोक्षसमाधिसमापत्तिधरणीमुखस्वभावान् न चलन्ति, दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मस्वभावान् न चलन्ति महामैत्रीमहाकरुणास्वभावान् न चलन्ति. तत् कस्य हेतोः? तथा हि सुभूते य एष धर्मो निःस्वभावः सो ऽभावः. इत्य् उपायकौशले विप्रतिपत्तिः
सुभूतिर् आह: तन् मा हैव भगवन् न प्राप्तिर् नाभिसमयो भविष्यति? यदि नाभावेनाभावस्याभिसमयो, न भावेन भावस्याभिसमयो, नाभावेन भावस्याभिसमयो, न भावेनाभावस्याभिसमयः.
SK
भगवान् आह: अस्याभिसमयो न पुनर् अनेन चतुःप्रकाराभिनिहारेण.
SK
सुभूतिर् आह: कथम् इदानीं भगवन्न् अभिसमयः?
SK
भगवान् आह: नैवाभावो न भावः, स तादृशो ऽभिसमयो यत्रैते प्रपञ्चा न संविद्यन्ते, अप्रपञ्चो निष्प्रपञ्चाभिसमयः. इत्य् अभिसमये विप्रतिपत्तिः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् ये बोधिपक्ष्या धर्मा यावद् या बोधिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ताः, अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः, तत् कथं भगवन् बोधिपक्ष्या धर्मा बोधेर् आहारिका भवन्ति? एवं भगवन् न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा धर्मा न कस्यचिद् धर्मस्याहारिका वापहारिका वा, तद्यथापि नाम भगवन्न् आकाशन् न कस्यचिद् धर्मस्याहारकं वापहारकं वा. एवम् एव भगवन् स्वलक्षणशून्या धर्मा न कस्यचिद् धर्मस्याहारका वापहारका वा.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न सुभूते स्वलक्षणशून्या धर्माः कस्यचिद् धर्मस्याहारका वापहारका वा, ये वा सुभूते सत्त्वाः स्वलक्षणशून्यान् धर्मान् न जानन्ति, तेषाम् अर्थायैवं निर्दिश्यते, इमे बोधिपक्ष्या धर्मा बोधेर् आहारका भवन्ति. इति मार्गे विप्रतिपत्तिः
SK
अपि तु खलु सुभूते यञ् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं ये च स्कन्धा ये च धातवो यानि चायतनानि यश् च प्रतीत्यसमुत्पादो यानि च प्रतीत्यसमुत्पादाङ्गानि या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभाव शून्यता यच् च प्रथमं ध्यानं यच् च द्वितीयं ध्यानं यच् च तृतीयं ध्यानं यच् च चतुर्थं ध्यानं, यच् चाकाशानन्त्यायतनं यच् च विज्ञानानन्त्यायतनं यच् चाकिंचन्यायतनं यच् च नैवसंज्ञाना संज्ञायतनं या च महामैत्री या च महाकरुणा या च महामुदिता या च (PSP_५:१५८) महोपेक्षा ये च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा या च शून्यता यच् चानिमित्तं यच् चाप्रणिहितं ये चाष्टविमोक्षा याश् च नवानुपूर्वविहारसमापत्तयो यानि चार्यसात्यानि याश् चाभिज्ञा ये च समाधयो यानि च धारणीमुखानि याश् च दशबोधिसत्त्वभूमयो यानि च दशतथागतबलानि यानि च चत्वारि वैशारद्यानि याश् च चतस्रः प्रतिसंविदो ये चाष्टादशावेणिका बुद्धधर्मा या च महाकरुणा या च यावत् सर्वाकारज्ञता, आर्ये ऽस्मिन् धर्मविनये सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. ते च खलु पुनः सुभूते तथागतेन सत्त्वानाम् अवतारणार्थाय लोकव्यवहारेण व्यवकृतास् ते धर्मा प्रज्ञापयितव्याः, न पुनः परमार्थेन. तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वत्र शिक्षितव्यं ज्ञानेन च दर्शनेन च शिक्षित्वा केचिद् धर्माः प्रतिबोधव्याः केचिन् न प्रतिबोधव्याः
SK
सुभूतिर् आह: कतमे धर्मा बोधिसत्त्वेन महासत्त्वेन ज्ञानेन च दर्शनेन च शिक्षित्वा न प्रतिबोधव्याः? कतमे धर्माः प्रतिबोधव्याः?
SK
भगवान् आह: श्रावकभूमिः प्रत्येकबुद्धभूमिश् च शिक्षित्वा ज्ञानेन च दर्शनेन च न प्रतिबोधव्या, सर्वाकारज्ञता ज्ञानेन च दर्शनेन च प्रतिबोधव्या, सर्वाकारज्ञताज्ञानेन सर्वाकारैः सर्वधर्माश् च प्रतिबोधव्याः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन आर्ये ऽस्मिन् धर्मविनये प्रज्ञापारमितायां शिक्षितव्यम्.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते श्रावकाः प्रत्येकबुद्धा बोधिसत्त्वाश् च महासत्त्वाश् च तथागता अर्हन्तः सम्यक्संबुद्धा रागेन न संयुक्ता न विसंयुक्ता, दोषेण न संयुक्ता न विसंयुक्ता, मोहेन न संयुक्ता न विसंयुक्ता, सत्कायदृष्ट्या न संयुक्ता न विसंयुक्ता, विचिकित्सया न संयुक्ता न विसंयुक्ताः, शीलव्रतपरामर्शेन न संयुक्ता न विसंयुक्ताः, कामरागव्यापादैर् न संयुक्ता न विसंयुक्ता, रूपरागारूप्यरागैर् न संयुक्ता न विसंयुक्ता, अविद्यया न संयुक्ता न विसंयुक्ता, मानेन न संयुक्ता न विसंयुक्ता, (PSP_५:१५९) औद्धत्येन न संयुक्ता न विसंयुक्ताः, प्रथमेन ध्यानेन न संयुक्ता न विसंयुक्ता, द्वितीयेन ध्यानेन तृतीयेन ध्यानेन, चतुर्थेन ध्यानेन न संयुक्ता न विसंयुक्ता, मैत्र्या करुणया मुदितयोपेक्षया न संयुक्ता न विसंयुक्ताः, आकाशानन्त्यायतनेन विज्ञानानन्त्यायतनेनाकिंचन्यायतनेन नैवसंज्ञानासंज्ञायतनेन न संयुक्ता न विसंयुक्ताः, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेण न संयुक्ता न विसंयुक्ता, आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैर् न संयुक्ता न विसंयुक्ताः, अष्टविमोक्षैर् नवानुपूर्वविहारसमापत्तिभिः पञ्चभिर् अभिज्ञाभिर् न संयुक्ता न विसंयुक्ताः, समाधिभिधारणीमुखैर् न संयुक्ता न विसंयुक्ताः, दानपारमितया न संयुक्ता न विसंयुक्ताः, शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया, प्रज्ञापारमितया न संयुक्ता न विसंयुक्ताः, अध्यात्मशून्यतया न संयुक्ता न विसंयुक्ता, बहिर्धाशून्यतया न संयुक्ता न विसंयुक्ता, अध्यात्मबहिर्धाशून्यतया न संयुक्ता न विसंयुक्ता, यावद् अभावस्वभावशून्यतया न संयुक्ता न विसंयुक्ताः, दशभिस् तथागतबलैर् न संयुक्ता न विसंयुक्ताः, चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशाभिर् आवेणिकैर् बुद्धधर्मैर् न संयुक्ता न विसंयुक्ताः, संस्कृतधाताव् असंस्कृतधातौ न संयुक्ता न विसंयुक्ताः. तत् कस्य हेतोः? तथा हि सर्वधर्मा अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः, ते अरूपिणो ऽरूपिभिः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अनिदर्शना निदर्शनैः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अप्रतिघा अप्रतिघैः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अलक्षणा अलक्षणैः सार्धं न संयुक्ता वा न विसंयुक्ता वा. इति विपक्षप्रतिपक्षयोर् विप्रतिपत्तिः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न पुनर् भगवन् रूपलक्षणे शिक्षितव्यं न वेदनालक्षणे न संज्ञालक्षणे न संस्कारलक्षणे न विज्ञानलक्षणे शिक्षितव्यं, न चक्षुःश्रोत्रघ्राणजिह्वाकायमनोलक्षणे शिक्षितव्यं, न रूपशब्दगन्धरसस्प्रष्टव्यधर्मलक्षणे शिक्षितव्यं, न पृथिवीधातुलक्षणे शिक्षितव्यं, नाब्धातुलक्षणे न तेजोधातुलक्षणे न वायुधातुलक्षणे नाकाशधातुलक्षणे (PSP_५:१६०) न विज्ञानधातुलक्षणे शिक्षितव्यं, न दानपरमितालक्षणे शिक्षितव्यं, न शीलपारमितालक्षणे न क्षान्तिपारमितालक्षणे न वीर्यपारमितालक्षणे न ध्यानपारमितालक्षणे न प्रज्ञापारमितालक्षणे शिक्षितव्यं, नाध्यात्मशून्यतालक्षणे न बहिर्धाशून्यतालक्षणे नाध्यात्मबहिर्धाशून्यतालक्षणे न यावद् अभावस्वभावशून्यतालक्षणे शिक्षितव्यं, न प्रथमध्यानलक्षणे शिक्षितव्यं, न द्वितीयध्यानलक्षणे न तृतीयध्यानलक्षणे न चतुर्थध्यानलक्षणे शिक्षितव्यं, न महामैत्रीलक्षणे न महाकरुणालक्षणे न मुदितालक्षणे नोपेक्षालक्षणे शिक्षितव्यं, नाकाशानन्त्यायतनलक्षणे न विज्ञानानन्त्यायतनलक्षणे नाकिंचन्यायतनलक्षणे नैवसंज्ञानासंज्ञायतनलक्षणे शिक्षितव्यं, न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गलक्षणे शिक्षितयं, न शून्यतानिमित्ताप्रणिहितलक्षणे शिक्षितव्यं, नार्यसत्यलक्षणे शिक्षितव्यं, नाष्टविमोक्षलक्षणे शिक्षितव्यं, न नवानुपूर्वविहारसमापत्तिलक्षणे शिक्षितव्यं, नाभिज्ञालक्षणे शिक्षितव्यं, न समाधिलक्षणे शिक्षितव्यं, न धारणीमुखलक्षणे शिक्षितव्यं, न दशतथागतबललक्षणे शिक्षितव्यं, न चतुर्वैशारद्यलक्षणे शिक्षितव्यं, न चतुःप्रतिसंविल्लक्षणे शिक्षितव्यं, न यावद् अष्टादशावेणिकबुद्धधर्मलक्षणे शिक्षितव्यं, न दुःखार्यसत्यलक्षणे शिक्षितव्यं, न समुदयार्यसत्यलक्षणे शिक्षितव्यं, न निरोधार्यसत्यलक्षणे शिक्षितव्यं, न मार्गार्यसत्यलक्षणे शिक्षितव्यं, नार्ये ऽस्मिन् धर्मविनये लक्षणे शिक्षितव्यं, नानुलोमप्रतिलोमप्रतीत्यसमुत्पादलक्षणे शिक्षितव्यं, न संस्कृतधातुलक्षणे शिक्षितव्यं, नासंस्कृतधातुलक्षणे शिक्षितव्यम्.
SK
सुभूतिर् आह: यदि भगवन्न् एतेषां धर्माणां लक्षणे न शिक्षितव्यं, कथं भगवन् न शिक्षित्वा बोधिसत्त्वो महासत्त्वो धर्माणां धर्मलक्षणे श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमिष्यति? श्रावकप्रत्येकबुद्द्धभूमिम् अनतिक्रम्य कथं बोधिसत्त्वनियामम् अवक्रमिष्यति? बोधिसत्त्वनियामम् अनवक्रम्य कथं सर्वाकारज्ञताम् अनुप्राप्स्यति? सर्वाकारज्ञताम् अननुप्राप्य कथं धर्मचक्रं प्रवर्तयिष्यति? धर्मचक्रम् अप्रवर्त्य कथं सत्त्वान् संसारात् परिमोचयिष्यति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा? (PSP_५:१६१)
भगवान् आह: न सुभूते प्रज्ञापारमिताभावना बोधिसत्त्वस्य महासात्त्वस्यैकलक्षणा अनेकलक्षणा, अलक्षणा भावना बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना भवति.
SK
सुभूतिर् आह: कथं भगवन्न् अलक्षणा भावना प्रज्ञापारमिताभावना भवति?
SK
भगवान् आह: सर्वधर्मभावनाविभावना प्रज्ञापारमिताभावना भवति.
SK
सुभूतिर् आह: कथं भगवन् सर्वधर्मभावनाविभावना प्रज्ञापारमिताभावना भवति?
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् भावसंज्ञिन आनुलोमिकी क्षान्तिर् नास्ति कुतः पुनः प्राप्तिः कुतो ऽभिसमयः? किं पुनर् भगवन्न् अभावसंज्ञिन आनुलोमिकी क्षान्तिः? (PSP_५:१६७) शुक्लविदर्शनाभूमिर् वा गोत्रभूमिर् वा अष्टमकभूमिर् वा दर्शनभूमिर् वा तनूभूमिर् वा वीतरागभूमिर् वा कृतावीभूमिर् वा प्रत्येकबुद्धभूमिर् वा बोधिसत्त्वभूमिर् वा, या च मार्गभावनाम् आगम्य क्लेशान् प्रजहीत श्रावकभूमिप्रतिसंयुक्तान् वा प्रत्येकबुद्धभूमिप्रतिसंयुक्तान् वा, यैः क्लेशैर् आवृतो बोधिसत्त्वनियामम् अवक्रामेत्, बोधिसत्त्वनियामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयात्, सर्वाकारज्ञताम् अनुप्राप्नुवन् सर्ववासनानुसंधिक्लेशान् प्रजहीत. पुनर् भगवन् नाभावसंज्ञिनः कस्यचिद् धर्मस्य स्थानं वा निरोधो वा उत्पादो वा भवति, न चानुत्पाद्यैनान् धर्मान् सर्वाकारज्ञतानुप्राप्तुम्.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतन्, नाभावसंज्ञिन आनुलोमिकी क्षान्तिर्, न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृतावीभूमिर् न प्रत्येकबुद्धभूमिर् न बोधिसत्त्वभूमिर्, न सा मार्गभावनायां मार्गभावनाम् आगम्य क्लेशान् प्रजहीत श्रावकभूमिप्रतिसंयुक्तान् वा प्रत्येकबुद्धभूमिप्रतिसंयुक्तान् वा, यैः क्लेशैर् आवृतो बोधिसत्त्वनियामम् अवक्रामेत्, बोधिसत्त्वनियामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयात्, सर्वाकारज्ञताम् अनुप्राप्नुवन् सर्ववासनानुसंधिक्लेशान् प्रजहीत.
SK
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो भावसंज्ञा वा भावत्य् अभवसंज्ञा वा, रूपसंज्ञा वा वेदनासंज्ञा वा संज्ञासंज्ञा वा संस्कारसंज्ञा वा विज्ञानसंज्ञा वा, स्कन्धधात्वायतनप्रतीत्यसमुत्पादसंज्ञा वा प्रतीत्यसमुत्पादाङ्गसंज्ञा वा पारमितासंज्ञा वा सर्वशून्यतासंज्ञा वा बोधिपक्ष्यधर्मार्यसत्यसंज्ञा वा प्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिसंज्ञा वा धारणीमुखसंज्ञा वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मसंज्ञा वा, रागसंज्ञा वा रागप्रहाणसंज्ञा वा दोषसंज्ञा वा दोषप्रहाणसंज्ञा वा मोहसंज्ञा वा मोहप्रहाणसंज्ञा वा, अविद्यासंज्ञा वाविद्याप्रहाणसंज्ञा वा संस्कारसंज्ञा वा संस्कारप्रहाणसंज्ञा वा विज्ञानसंज्ञा वा विज्ञानप्रहाणसंज्ञा वा नामरूपसंज्ञा वा नामरूपप्रहाणसंज्ञा वा षडायतनसंज्ञा वा षडायतनप्रहाणसंज्ञा वा स्पर्शसंज्ञा वा स्पर्शप्रहाणसंज्ञा वा वेदनासंज्ञा वा वेदनाप्रहाणसंज्ञा वा (PSP_५:१६८) तृष्णासंज्ञा वा तृष्णाप्रहाणसंज्ञा वोपादानसंज्ञा वोपादानप्रहाणसंज्ञा वा भवसंज्ञा वा भवप्रहाणसंज्ञा वा जातिसंज्ञा वा जातिप्रहाणसंज्ञा वा जरामरणसंज्ञा वा जरामरणप्रहाणसंज्ञा वा, शोकपरिदेवसंज्ञा वा शोकपरिदेवप्रहाणसंज्ञा वा दुष्खसंज्ञा वा दुष्खप्रहाणसंज्ञा वा दौर्मनस्योपायाससंज्ञा वा दौर्मनस्योपायासप्रहाणसंज्ञा वा, दुःखसंज्ञा वा दुःखप्रहाणसंज्ञा वा समुदयसंज्ञा वा समुदयप्रहाणसंज्ञा वा निरोधसंज्ञा वा निरोधप्रहाणसंज्ञा वा मार्गसंज्ञा वा मार्गप्रहाणसंज्ञा वा, सर्वाकारज्ञतासंज्ञा वा सर्वाकारज्ञताप्रहाणसंज्ञा वा सर्ववासनानुसंधिक्लेशसंज्ञा वा सर्ववासनानुसंधिक्लेशप्रहाणसंज्ञा वा.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च शीलपारमितायां चरन् दानं ददाति, परांश् च शीलपारमितायां प्रतिष्ठापयति दाने प्रतिष्ठापयति शीलपारमितायाश् च वर्णं भाषते ये चान्ये शीलपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तेन शीलेन सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन च विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागतह्. श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति शीलपारमितयानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च क्षान्तिपारमितायां चरन् दानं ददाति, शीलं च रक्षति परांश् च क्षान्तिपारमितायां प्रतिष्ठापयति दाने शीले च प्रतिष्ठापयति क्षान्तिपारमितायाश् च वर्णं भाषते. ये चान्ये क्षान्तिपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तया क्षान्त्या सत्त्वाञ् शीले प्रतिष्ठापयति समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेन च शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन (PSP_६-८:४) च समन्वागतः, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं च परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्त्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति क्षान्तिपारमितयानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च वीर्यपारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति, परांश् च वीर्यपारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ च प्रतिष्ठापयति, वीर्यपारमितायाश् च वर्णं भाषते, ये चान्ये वीर्यपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञह्. स तेन वीर्येण सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्येणानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. (PSP_६-८:५) इति वीर्यपारमितयानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च ध्यानपारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते, परांश् च ध्यानपारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ वीर्ये च प्रतिष्ठापयति, ध्यानपारमितायाश् च वर्णं भाषते, ये चान्ये ध्यानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. स तेन ध्यानेन सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति ध्यानपारमितयानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च प्रज्ञापारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानञ् च समापद्यते, परांश् च प्रज्ञापारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ वीर्ये ध्याने च प्रतिष्ठापयति, प्रज्ञापारमितायाश् च वर्णं भाषते, ये चान्ये प्रज्ञापारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. स तया प्रज्ञया सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन (PSP_६-८:६) प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति, बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञयानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा प्रज्ञायते ऽनुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति प्रज्ञापारमितयानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपूर्वक्रियायां शिक्षते ऽनुपूर्वशिक्षायाम् अनुपूर्वप्रतिपदि स प्रथमचित्तोत्पादम् उपादाय, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभावस्वभावान् सर्वधर्मान् अधिमुच्य बुद्धानुस्मृतिं भावयति, धर्मानुस्मृतिं भावयति संघानुस्मृतिं भावयति, शीलानुस्मृतिम् भावयति, त्यागानुस्मृतिं भावयति, देवतानुस्मृतिं भावयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो बुद्धानुस्मृतिं भावयति? इह सुभूते बोधिसत्त्वो महासत्त्वः तथागतम् अर्हन्तं सम्यक्संबुद्धं न रूपतो मनसिकरोति, न वेदनातो न संज्ञातो न संस्कारतो न विज्ञानतो मनसिकरोति. तत् कस्य हेतोः? तथा हि रूपस्वभावो नास्ति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः रूपाद्यमनसिकारेण बुद्धानुस्मृत्या. पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न द्वात्रिंशन्महापुरुषलक्षणैर् मनसिकर्तव्यो न सुवर्णकायो मनसिकर्तव्यो (PSP_६-८:७) न व्याममात्रया प्रभया मनसिकर्तव्यो नाशीत्यनुव्यञ्जनैर् मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिर् लक्षणाद्यमनसिकारेण बुद्धानुस्मृत्या.
SK
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न शीलस्कन्धतो मनसिकर्तव्यो न समाधिस्कन्धतो न प्रज्ञास्कन्धतो न विमुक्तिस्कन्धतो न विमुक्तिज्ञानदर्शनस्कन्धतो मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः शीलादिस्कन्धामनसिकारेण बुद्धानुस्मृत्या.
SK
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न दशभिस् तथागतबलैर् मनसिकर्तव्यो न चतुर्भिर् वैशारद्यैर् न चतसृभिः प्रतिसंविद्भिर् मनसिकर्तव्यो न महाकरुणया न महामैत्र्या नाष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिर् दशबलाद्यमनसिकारेण बुद्धानुस्मृत्या.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: नाहं भगवन्न् अत्र धर्मेषु काङ्क्षामि न विचिकित्सामि, अपि तु खलु भगवन् भविष्यन्त्य् अनागते ऽध्वनि भिक्षवः श्रावकयानिकाश् च प्रत्येकबुद्धयानिकाश् च बोधिसत्त्वयानिकाश् च त एवं वक्ष्यन्ति, अभावस्वभावाः सर्वधर्माः को ऽत्र संक्लिश्यते वा व्यवदायते वा न संक्लेशो न व्यवदानं ते जानन्तः शीलविपन्नाश् च भविष्यन्ति दृष्टिविपन्नाश् च भविष्यन्ति, आचारविपन्नाश् च तेषां शीलविपन्नानां दृष्टिविपन्नानाम् आचारविपन्नानां त्रयाणाम् गतीनाम् अन्यतरा गतिः प्रतिकाङ्क्षितव्या, नरकगतिर् वा तिर्यग्योनिगतिर् वा यमलोकगतिर् वा, इदम् अप्य् अहं भगवन्न् अनागतं भयं संपश्यमानस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अर्थं प्र्च्छामि. अपि तु खलु पुनर् भगवन्न् अहम् एतेषु धर्मेषु न काङ्क्षामि न विचिकित्सामि.
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अनुपलंभस्य च भगवन् दानस्य च शीलस्य च क्षान्तेश् च वीर्यस्य च ध्यानस्य च प्रज्ञायाश् चाभिज्ञानां च को विशेषः? किन् नानाकरणम्? (PSP_६-८:१४)
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अनुपलंभस्य च सुभूते दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभिज्ञानां च न किञ्चिन् नानाकरणं येषां खलु पुनः सुभूते ऽनुपलिप्तं दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञाभिज्ञा च तेषां नानाकरणं निर्दिष्टम्.
SK
सुभूतिर् आह: कथं पुनर् भगवन्न् अनुपलिप्तानां दानशीलक्षान्तिवीर्यध्यानप्रज्ञानाम् अभिज्ञानाञ् च न किञ्चिन् नानाकरणं निर्दिश्यते?
सुभूतिर् आह: कथं च भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति न द्वयसंज्ञी भवति? एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां भावयति, न च द्वयसंज्ञी भवति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां भावयति, न च द्वयसंज्ञी भवति, एवं सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् महाकरुणां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनान्य् अभिनिर्हरति, न च द्वयसंज्ञी भवति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां परिपूरयति, स तत्र दानपारमितायां सर्वाः षट्पारमिता अन्तर्गताः कृत्वा दानं ददाति, यावत् सर्वबोधिपक्ष्यान् धर्मान् अन्तर्गतां कृत्वा दानं ददाति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो यस्मिन् समये प्रज्ञापारमितायां चरन् दानं ददाति स तत्रानास्रवे चित्ते स्थित्वा दानं ददाति स तत्रानास्रवे चित्ते स्थितो निमित्तं न समनुपश्यति. कस्मै वा ददामि? किं वा ददामि? केन वा ददामि? स निमित्तापगतेन चित्तेन दानं ददाति, अनास्रवेण विगततृष्णेन विगतभवेन (PSP_६-८:१७) स तद् दानं न समनुपश्यति, तच् चित्तं न समनुपश्यति, तं प्रतिग्राहकं न समनुपश्यति, यावत् सर्वधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन शीलं रक्षति, स तच् छीलं न समस्नुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन क्षान्त्या संपादयति, स तां क्षान्तिं न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन वीर्यम् आरभते, स तद् वीर्यं न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन ध्यानं समापद्यते, स तद् ध्यानं न समस्नुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन प्रज्ञां भावयति, स तां प्रज्ञां भावयन् न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयति, शून्यतानिमित्ताप्रणिहिताभिज्ञा सर्वशून्यता भावयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् महाकरुणां भावयति, द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिपूरयति, स तान् धर्मान् न समनुपश्यति, तच् (PSP_६-८:१८) चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानं ददाति, अन्नपानवस्त्रयानशयनासनहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडजातरूपरजतपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकोपाश्रयान् यावद् अन्यतरान्यतरान् मानुष्योपकरणपरिष्कारान् आध्यात्मिकां बाह्यां वा भार्यापुत्रदुहितृराज्यं वालंकृत्य दानं ददाति याचनकानान् तस्य कश्चिद् एवागत्यैवं वदेत्: किन् ते ऽनेन ईदृशेन दानेन दत्तेनैवं निरूपकारेण तस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, किञ् चापीमे सत्त्वाः परिभाषन्ते, किन् ते ऽनेन वा दानेन वा दत्तेनैवम् आस्फारिकेन दत्तेनार्थस्य च दातव्यम् एवं मया दानं, न च मया न दातव्यम्. स दानं सर्वसत्त्वेषु साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, स तथा परिणामयति यथा परिणामयन् निमित्तं न समनुपश्यति, किं वा ददामि, कस्मै वा ददामि, को वात्र ददाति, किं वा परिणामयति क्व वा परिनामयति, स तद् वस्तु न समनुपश्यति (PSP_६-८:१९) यत्र दत्त्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तत् कस्य हेतोः? अध्यात्मशून्यतया शून्यं बहिर्धाशून्यतया शून्यं यावद् अभावस्वभावशून्यतया शून्यं, स एवं पश्यति को वा परिणामयिष्यति कुत्र वा परिणामयिष्यति किं वा परिणामयिष्यति, तस्यैवं परिणामयतः परिणामो भवति निर्विषः परिणामो धर्मधातुपरिणामः सर्वसत्त्वांश् च परिपाचयति, बुद्धक्षेत्रञ् च परिगृह्णाति, दानपारमितां च परिपूरयति, शीलपारमितां परिपूरयति, क्षान्तिपारमितां परिपूरयति, वीर्यपारमितां परिपूरयति, ध्यानपारमितां परिपूरयति, प्रज्ञापारमितां परिपूरयति, सप्तत्रिंशद्बोधिपक्स्यान् धर्मान् परिपूरयति, शून्यतानिमित्ताप्रणिहितसमाधीन् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयत्य् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, तथा चैव दानपारमितां परिपूरयति, यथा चैव विपाकञ् च न परिगृह्णाति, तद्यथापि नाम सुभूते परनिर्मितवशवर्तिनां देवानां मनसैव सर्वोपकरणानि भवन्ति, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य मनसैव सर्वोपकरणं परिपूरयति, स तेन दानेन बुद्धांश् च भगवत उपतिष्ठति, सदेवमानुषासुरञ् च लोकं संतर्पयति स तान् सत्त्वांस् तया दानपारमितया परिगृह्योपायकौशल्येन त्रिषु यानेषु प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानपारमितां परिपूरयति.
SK
सुभूतिर् आह: कथं च भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितां परिपूरयति.
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तच् छीलम् आर्यम् अनास्रवं मार्गपर्यापन्नं धर्मताप्रातिलंभिकं, शीलं प्रतिलभते, स चास्य शीलस्कन्धो ऽखण्डो भवत्य् अच्छिद्रो ऽशवलो ऽकल्माषो ऽपरामृष्टो ऽभुजिष्यः सुसमात्तो विज्ञप्रशस्तः, तेन च शीलेन कंचिद् धर्मं न परामृशति, रूपं वा वेदनां वा संज्ञां वा संस्कारां वा विज्ञानं वा द्वात्रिंशन्महापुरुषलक्षणानि (PSP_६-८:२०) वाशीत्यनुव्यञ्जनानि वा क्षत्रियमहाशालकुलं वा ब्राह्मणमहाशालकुलं वा गृहपतिमहाशालकुलं वा चातुर्महाराजकायिकान् वा देवांस् त्रयस्त्रिंशान् वा यामान् वा तुषितान् वा निर्माणरतीन् वा परनिर्मितवशवर्तिनो वा ब्रह्मपारिषद्यान् वा ब्रह्मपुरोहितान् वा महाब्रह्माणो वा परीत्ताभान् वा अप्रमाणाभान् वा आभास्वराभान् वा परीत्तशुभान् वा अप्रमाणशुभान् वा शुभकृत्स्णान् वा अनभ्रकान् वा पुण्यप्रसवान् वा बृहत्फलान् वा असंज्ञिसत्त्वान् वा शुद्धावासान् वा अस्पृहान् वा अतपान् वा सुदृशान् वा सुदर्शनान् वा अकनिष्ठान् वा आकाशानन्त्यायतनान् वा विज्ञानानन्त्यायतनान् वा आकिञ्चन्यायतनान् वा नैवसंज्ञानासंज्ञायतनान् वा स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबुद्धत्वं वा चक्रवर्तिराज्याधिपत्यं वा न परामृशति, अन्यत्र सर्वसत्त्वेषु साधारणं कृत्वा सर्वाकारज्ञतायां परिणामयति, अनिमित्तानुपलंभेनाद्वयेन परिणामयति, लोकव्यवहारेण न पुनः परमार्थेन, तया च शीलपारमितया परिपूर्णयोपायकौशल्येन चत्वारि ध्यानान्य् उत्पादयत्य् अनास्वादयोगेन दिव्यं चक्षुर् अभिनिर्हरति, येन दिव्यचक्षुषा विपाकजेन ये पूर्वस्यान् दिशि लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति, तान् पश्यति तच् चास्य दर्शनं च न नश्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, एवं दक्षिणस्यान् दिशि पश्चिमायान् दिश्य् उत्तरस्यान् दिश्य् ऊर्ध्वम् अधो विदिक्षु लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तान् पश्यति तस्य दर्शनं न नश्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्यकेण तेषां बुद्धानां भगवतां शब्दं शृणोति, तच् चास्य श्रुतं तावन् न नश्यति, यावन् न तेन श्रुतेनात्मनः परस्य चार्थं करोति, स चेतःपर्यायज्ञानेन तेषां बुद्धानां भगवतां चेतसैव चित्तं प्रजानाति तेन चेतःपर्यायज्ञानेन सर्वसत्त्वानाम् अर्थं करोति, स (PSP_६-८:२१) पूर्वनिवासानुस्मृतिज्ञानेनातीतं कर्म निर्दिशति येन कर्मणाकृतेन तत् कर्म न विप्रणस्यति, स आस्रवक्षयज्ञानेन च सत्त्वान्, स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयति, अर्हत्त्वे प्रतिष्ठापयति, प्रत्येकबोधौ प्रतिष्ठापयति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, एवं यत्र यत्र प्रतिबलाः सत्त्वाः कुशलेषु धर्मेषु तत्र तत्र प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन शीलपारमितां परिपूरयति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु च पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंभोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानानि समापद्यते प्रज्ञां भावयति स्वप्नोपमांश् च पञ्चस्कन्धान् अलक्षणान् जानाति प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च पञ्चस्कन्धान् अलक्षणान् जानाति. तत् कस्य हेतोः? न हि स्वप्नं तस्य कश्चित् स्वभावो न हि प्रतिश्रुत्काया न हि प्रतिभासस्य न हि प्रतिबिंबस्य न हि मरीच्या न हि मायायाः, न हि निर्मितकस्य न हि गन्धर्वनगरस्य कश्चित् स्वभावो (PSP_६-८:३०) यस्य स्वभावो नास्ति तस्य नास्ति लक्षणं, यस्य च नास्ति लक्षणं स एकलक्षणो यद् उतालक्षणः, तद् अनेन सुभूते पर्यायेणैवं वेदितव्यम् अलक्षणं दानम् अलक्षणो दायको ऽलक्षणः प्रतिग्राहको ऽलक्षणाः सर्वधर्माः. एवं ज्ञात्वा दानं ददाति स दानपारमितां परिपूरयति, स दानपारमितां परिपूरयन् शीलपारमितायां न विवर्तते, क्षान्तिपारमितायां न विवर्तते, वीर्यपारमितायां न विवर्तते, ध्यानपारमितायां न विवर्तते, प्रज्ञापारमितायां न विवर्तते, स आसु षट्सु पारमितासु स्थित्वा चत्वारि ध्यानानि परिपूरयति चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः परिपूरयति, चत्वारि स्मृत्युपस्थानानि परिपूरयति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मार्गान् परिपूरयति, अध्यात्मशून्यतां बहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां परिपूरयति, शून्यतासमाधिम् आनिमित्तसमाधिम् अप्रणिहितसमाधिं परिपूरयति, अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञाः परिपूरयति, पञ्चधारणीमुखशतानि परिपूरयति, चतस्रः प्रतिसंविदश् चत्वार्य् आर्यसत्यानि परिपूरयति, दशतथागतबलानि चत्वारि वैशारद्यान्य् अष्टादशावेणिकबुद्धधर्मान् परिपूरयति, इह विपाकजेष्व् आर्येष्व् अनास्रवेषु स्थित्वा दशसु दिक्षु ये लोकधातवस् तान् ऋद्ध्या गत्वा बुद्धांश् च भगवतः पर्युपास्ते तांश् चोपतिष्ठति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यसर्वोपकरणपरिष्कारैर् यावद् उपभोगपरिभोगैः सत्त्वानाम् अर्थं करोति, ये दानेन संग्रहीतव्यास् तान् दानेन संगृह्णाति ये शीलेण संग्रहीतव्या ये क्षान्त्या संग्रहीतव्या ये वीर्येण संग्रहीतव्या ये ध्यानेन संग्रहीतव्या ये प्रज्ञया संग्रहीतव्यास् तान् प्रज्ञया संगृह्णाति, यावद् ये सर्वैः कुशलैर् धर्मैः संग्रहीतव्यास् तान् सर्वान् कुशलैर् धर्मैः संगृह्णाति कुशलैर् धर्मैः समन्वागतः संसारं चोपाददाति न च संसारावचरैर् दुष्खैर् लिप्यते सत्त्वानां कृतशो देवमानुषिकीञ् च संपत्तिम् उत्पादयति, यया संपत्त्या सत्त्वान् संगृह्णाति, सो ऽलक्षणान् सर्वसत्त्वां ज्ञात्वा स्रोतआपत्तिफलं च जानाति न च तत्र तिष्ठति, सकृदागामिफलं च जानाति न च तत्र (PSP_६-८:३१) तिष्ठति, अनागामिफलं च जानाति न च तत्र तिष्ठति, अर्हत्त्वञ् च जानाति न च तत्र तिष्ठति, प्रत्येकबोधिं च जानाति न च तत्र तिष्ठति. तत् कस्य हेतोः? तथा हि तेन सर्वाकारज्ञतानुप्राप्तव्या यो ऽसाधारणा सर्वश्रावकप्रत्येकबुद्धैः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणान् सर्वधर्मान् ज्ञात्वा षट्पारमिता अलक्षणा जानाति, यावत् सर्वधर्मान् अलक्षणानि जानाति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरं स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा शीलपारमितां परिपूरयति, स खलु पुनः स्वप्नोपमान् पञ्चोपादानस्कन्धान् ज्ञात्वा प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च पञ्चोपादानस्कन्धान् ज्ञात्वालक्षणां शीलपारमितां परिपूरयति, अखण्डाम् अच्छिद्राम् अशबलाम् अकल्माषाम् अपरामृष्टाम् अभुजिष्यां विज्ञप्रशस्तां सुसमात्ताम् आर्याम् अनास्रवां मार्गाङ्गपर्यापन्नां यत्र स्थित्वा समताभिसंस्कारिकं शीलं रक्षति धर्मताप्रतिलंभिकं च विज्ञप्तिशीलं च समुदाचारशीलं च सो ऽनेनैवंरूपेण शीलेन समन्वागतो न परामृशति, अनेनाहं शीलेन क्षत्रियमहाशालकुलानां सहव्रतायोपपद्येयाहं ब्राह्मणमहाशालकुलानां वा सहव्रतायोपपद्येयाहं राजा वा भवेयं चक्रवर्ती कोट्टराजा वा चातुर्महाराजकायिकानां वा देवानां सहव्रतायोपपद्येयाहं त्रयस्त्रिंशानां वा यामानां वा तुषितानां वा निर्मानरतीनां वा परनिर्मितवशवर्तिनां वा देवानां सहव्रतायोपपद्येयाहं ब्रह्मपार्षद्यानां वा ब्रह्मप्रोहितानां वा महाब्रह्माणां वा परीत्ताभानां वाप्रमाणाभानां वाभास्वराणां वा परीत्तशुभानां वाप्रमाणशुभानां वा शुभकृत्स्नानां वानभ्रकानां वा पुण्यप्रसवानां वा बृहत्फलानां वासंज्ञिसत्त्वानां वा शुद्धावासानां वा (PSP_६-८:३२) अस्पृहाणां वा अप्तपानां वा सुदृशानां वा सुदर्शनानां वा अकनिष्ठानां वा देवानां सहव्रतायोपपद्येयाहम् आकाशानन्त्यायतनानां वा विज्ञानानन्त्यायतनानां वाकिञ्चन्यायतनानां वा नैवसंज्ञानासंज्ञायतनानां वा सहव्रत्यायोपपद्येयाहं स्रोतआपत्तिफलं वानुप्राप्नुयां सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिं वानुप्राप्नुयाम्. तत् कस्य हेतोः? तथा हि सुभूते ऽलक्षणाः सर्वधर्मा एकलक्षणां यद् उताभावस्वभावलक्षणाः, न ह्य् अलक्षणो धर्मो ऽलक्षणं धर्मं परिपूरयति, नापि विलक्षणो धर्मो विलक्षणं धर्मं परिपूरयति, नाप्य् अविलक्षणो धर्मो ऽविलक्षणं धर्मं प्रापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अलक्षणां शीलपारमितां परिपूरयति, शीलपारमितां परिपूर्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रान्तो ऽनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते ऽनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभ्य मार्गाकारज्ञतायां चरन् पञ्चाभिज्ञा विपाकजाः प्रतिलभते, पञ्चसु धारणीमुखशतेषु स्थित्वा चतस्रः प्रतिसंविदः प्रतिलभते, चतस्रः प्रतिसंविदः प्रतिलभ्य बुद्धक्षेत्रेण बुध्हक्षेत्रं संक्रामति बुद्धांश् च भगवतः पर्युपास्ते सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, स पञ्चगतिके संसारे संसरति न च संसारावचरेण कर्मणा विपाकजेन लिप्यते, तद्यथापि नाम निर्मितश् चंक्रमति च तिष्ठति च निषीदति च शय्यां च परिकल्पयति, न चास्यागमनं दृश्यते, न गमनं न स्थानं न निषद्यां न शय्यां नासनं न चंक्रमः स सत्त्वानां चार्थं करोति, न च सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं, तद्यथापि नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयति, अपरिमाणान् सत्त्वान् विनीय त्रिभिर् यानैर् न कश्चित् सत्त्वम् उपलभते, यम् अनुत्तरायां सम्यक्संबोधौ व्याकुर्यात् स आयुः संस्कारान् अवसृज्य निर्मितम् अभिनिर्मायानुपधिशेषे निर्वाणधातौ परिनिर्यायात्. स खलु पुनः सुभूते निर्मितः कल्पस्यात्ययेन बोधिसत्त्वं महासत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठाप्य परिनिर्वृतस् तस्य च परिनिर्वृतस्य न कंचिद् (PSP_६-८:३३) वस्तूपलभ्यते, रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शीलपारमितां परिपूरयति, यत् परिपूराव् अन्तर्गताः सर्वधर्मा भवन्ति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वश् चतसृभिः क्षान्तिभिः क्षान्तिपारमितां परिपूरयति, कतमाभिश् चतसृभिः प्रथमचित्तोत्पादम् उपादाय, यावद् बोधिमण्डनिषण्णस्यात्रान्तरे सर्वसत्त्वा आक्रोशेयुर् वा परिभाषेरन् वासत्यया वाचा परुषया वा समुदाचरेयुर् लोष्टदण्डशस्त्रप्रहारान् वा दद्युस् तत्र बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितां परिपूरयितुकामेनैकचित्तोत्पादो ऽपि क्षोभसहगतो नोत्पादयितव्यः, को मे आक्रोशति वा परिभाषते वासत्यया वाचा परुषया वा समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति, तत् कस्य हेतोः? तथा हि सुभूते ऽस्यालक्षणाः, सर्वधर्माः क्षमन्ति तत् किं अस्यैवं भवति, को मे आक्रोशति वा परिभाषते वासत्यया वाचा परुषया वा समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति स एवम् उपपरीक्षमाणः क्षान्तिपारमितां परिपूरयति, सो ऽनया क्षान्तिपारमितया परिपूर्णयानुत्पत्तिकैर् धर्मैः क्षान्तिं प्रतिलभते.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कैषा भगवन्न् अनुत्पत्तिकेषु धर्मेषु क्षान्तिः किं वा एतस्याः प्रमाणं किं वा ज्ञानम्?
भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां सुशिक्षितो बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सुशिक्षितो न चेह शून्यतासु कश्चिद् धर्म उपलभ्यते यत्रावतिष्ठेत्, स्रोतआपत्तिफले वा सकृदागामिफले वानागामिफले वार्हत्त्वे वा प्रत्येकबुद्धत्वे वा यावत् सर्वाकारज्ञतायां वा सापि शून्या शून्यतया, स आभिः शून्यताभिर् बोधिसत्त्वो (PSP_६-८:३७) महासत्त्वो बोधिसत्त्वनियामम् अवक्रामति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न स्वप्नं न स्वप्नदर्शिनं पश्यति, न प्रतिश्रुत्कान् न प्रतिश्रुत्कादर्शिनं, न प्रतिभासं न प्रतिभासदर्शिनं, न प्रतिबिंबं न प्रतिबिंबदर्शिनं, न मरीचिं न मरीचिदर्शिनं, न मायां न (PSP_६-८:३९) मायादर्शिनं, न निर्मितकं न निर्मितकदर्शिनं, न गन्धर्वनगरं न गन्धर्वनगरदर्शिनं च पश्यति. तत् कस्य हेतोः? तथा हि विपर्यासः स्वप्नो विपर्यासः, प्रतिश्रुत्का विपर्यासः प्रतिभासो विपर्यासः प्रतिबिंबं विपर्यासो मरीचिर् विपर्यासो माया विपर्यासो निर्मितको विपर्यासो गन्धर्वनगरं विपर्यास एष बालपृथग्जनानां पुनर् नापि स्वप्नदर्शनं नापि स्वप्नदर्शी न प्रतिश्रुत्कादर्शनं नापि प्रतिश्रुत्कादर्शी न प्रतिभासदर्शनं नापि प्रतिभासअदर्शी, न प्रतिबिंबदर्शनं नापि प्रतिबिंबदर्शी, न मरीचिदर्शनं न मरीचिदर्शी, न मायादर्शनं न मायादर्शी, न निर्मितकदर्शनं न निर्मितकदर्शी, न गन्धर्वनगरदर्शनं न गन्धर्वनगरदर्शी, एवं यावन् नार्हन् न प्रत्येकबुद्धो न बोधिसत्त्वो महासत्त्वो न तथागतो ऽर्हन् सम्यक्संबुद्धः. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावाः सर्वधर्मा अनुत्पन्ना असद्भूता ये ऽभावस्वभावाः सर्वधर्मास् ते परिनिष्पन्नास् तत्र किं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् भावसंज्ञी भविष्यति परिनिष्पन्नसंज्ञी वासद्भूतसंज्ञी वा नेदं स्थानं विद्यते. तत् कस्य हेतोः? न सा प्रज्ञापारमिता स्याद् यदि कस्यचिद् धर्मस्य स्वभावो भवेत् परिनिष्पत्तिर् वा सद्भूतता वा, एवं चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न रूपे सज्जति, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने सज्जति, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सज्जति, न प्रतीत्यसमुत्पादाङ्गेषु सज्जति, न कामधातौ न रूपधातौ नारूप्यधातौ सज्जति, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु न सज्जति, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु न सज्जति, शून्यतानिमित्ताप्रणिहितसमाधौ न सज्जति, आर्यसत्येषु न सज्जति, दानपारमितायां न सज्जति, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां न सज्जति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमां भूमिं परिपूरयति, तत्र च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि तां भूमिं नोपलभते, तत् किं तत्र च्छन्दरागं करिष्यत्य् एवं द्वितीयां भूमिं तृतीयां भूमिञ् चतुर्थां भूमिं पञ्चमीं भूमिं (PSP_६-८:४०) षष्ठीं भूमिं सप्तमीं भूमिम् अष्टमीं भूमिं नवमीं भूमिं दशमीं भूमिं परिपूरयति, तत्र च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि स ता भूमीर् नोपलभते, तत् किन् तत्र छन्दरागं करिष्यति, एवं दशम्यां भूमौ चरन् सर्वधर्माश् च तत्र प्रज्ञापारमितायाम् अन्तर्गतान् पश्यति, तांश् च सर्वधर्मान् नोपलभते. तत् कस्य हेतोः? तथा हि ते सर्वधर्माः सा च प्रज्ञापारमिताद्वयाद्वैधीकाराः. तत् कस्य हेतोः? तथा हि सर्वधर्माणां न कश्चिद् भेदो ऽस्ति धर्मधातुनिर्देशेन तथतानिर्देशेन भूतकोटिनिर्देशेनासंभिन्नाः सर्वधर्माः.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवान्न् असंभिन्नता सर्वधर्माणां तत्र कथं कुशलधर्मनिर्देशो भवति सास्रवाणाम् अनास्रवाणाञ् च धर्माणां निर्देशो भवति, लौकिकलोकोत्तराणां वा संस्कृतासंस्कृतानां धर्माणां निर्देशो भवति.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते या धर्माणां धर्मता सा कस्यचिद् धर्मस्य प्रव्याहारः संस्कृतस्य वासंस्कृतस्य वा स्रोतआपत्तिफलस्य वा सकृदागामिफलस्य वानागामिफलस्य वार्हत्त्वस्य वा प्रत्येकबोधेर् वा बोधिसत्त्वताया वा सम्यक्संबोधेर् वा.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, असंभिन्नाः सर्वधर्मा अलक्षणा अनुत्पन्ना अविनिर्भोगाः सर्वधर्मा न मया सुभूते सर्वां बोधिसत्त्वचर्यां चरता, कश्चिद् धर्मोपलब्धो रूपम् इति वा वेदनेति वा संज्ञेति वा संस्कारा इति वा विज्ञानम् इति वा स्कन्धधात्वायतनानीति वा प्रतीत्यसमुत्पन्ना इति वा, प्रतीत्यसमुत्पादाङ्गानीति वा कामधातुर् वा रूपधातुर् वारूप्यधातुर् वा, कुशलाकुशला वा धर्माः सास्रवा वानास्रवा वा सावद्या वानवद्या वा संस्कृतम् इति वासंस्कृतम् इति वा यावच् छ्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा बोधिसत्त्वता वा सम्यक्संबोधिर् वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबोत्स्यते ऽनुपलंभयोगेन, एवं चरता (PSP_६-८:४१) सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणां स्वभावे कुशलेन भवितव्यं, सर्वधर्माणां स्वभावकुशलो बोधिमार्गञ् च परिशोधयिष्यति, सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, यत्र स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वान् विनयिष्यति, ये विनीतत्वास् त्रिषु भवेषु न दृश्यन्ते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् अलक्षणयोगेन. इत्य् अद्वयलक्षणसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयश् चतुर्थः इत्य् उक्त एकक्षणाभिसमयः
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भूतो धर्मो यो न श्रावकप्रत्येकबुद्धानां संविद्यते?
SK
भगवान् आह: तेन हि सुभूते शृणु साधु च सुष्ठुश् च मनसिकुरु भाषिष्ये ऽहं ते, एवं भगवन्न् इत्य् आयुष्मान् सुभूतिर् भगवतः प्रत्यश्रौषीद्, भगवान् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विपाकजासु षट्सु पारमितासु स्थित्वा पञ्चस्व् अभिज्ञासु सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु धारणीमुखेषु चतसृषु प्रतिसंवित्सु स्थित्वा दशदिग्लोकधातुषु ये सत्त्वा दानेनानुग्रहीतव्यास् तान् दानेनानुगृह्णाति, ये शीलेन ये क्षान्त्या ये वीर्येण ये ध्यानेन ये प्रज्ञया ये प्रथमेन ध्यानेन ये द्वितीयेन ध्यानेन ये तृतीयेन ध्यानेन ये चतुर्थेन ध्यानेन, ये आकाशानन्त्यायतनसमापत्त्या ये विज्ञानानन्त्यायतनसमापत्त्या ये आकिञ्चन्यायतनसमापत्त्या ये नैवसंज्ञानासंज्ञायतनसमापत्त्यानुग्रहीतव्यास् तान् अनुगृह्णाति, ये मैत्र्यानुग्रहीतव्या ये करुणया ये मुदितया ये उपेक्षया ये चतुर्भिः स्मृत्युपस्थानैः, ये चतुर्भिः सम्यक्प्रहाणैः, ये चतुर्भिः ऋद्धिपादैः, ये पञ्चभिर् इन्द्रियैः, ये पञ्चभिर् बलैः, ये सप्तभिर् बोध्यङ्गैर् ये आर्याष्टाङ्गिकेन मार्गेण, ये शून्यतया ये आनिमित्तेन ये ऽप्रणिहितेन समाधिनानुग्रहीतव्यास् तान् शून्यतानिमित्ताप्रणिहितसमाधिभिर् अनुगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानेन सत्त्वान् अनुगृह्णाति?
भगवान् आह: तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यम्, एवम् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, तांश् च भूमौ प्रतिष्ठापयति तांश् च सत्त्वान् विपर्यासात् परिमोचयति, अबद्धामुक्तयोगेन, तत् कस्य हेतोः? तथा हि सुभूते रूपम् अबद्धम् अमुक्तं, वेदना संज्ञा संस्कारा विज्ञानम् अबद्धम् अमुक्तं, या रूपस्याबद्धतामुक्तता न तद् रूपं या वेदनायाः संज्ञायाः संस्काराणां या विज्ञानस्याबद्धतामुक्तता न तद् विज्ञानम्. तत् कस्य हेतोः? तथा ह्य् अत्यन्तविशुद्धं रूपं, वेदना संज्ञा संस्कारा विज्ञानम् अत्यन्तविशुद्धम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च यावत् सर्वधर्मा लौकिका लोकोत्तराः, सास्रावा अनास्रवाः संस्कृता असंस्कृता धर्माः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति, न च सत्त्वान् उपलभते, अनुपलंभे सर्वधर्माणां स्थितो बोधिसत्त्वो महासत्त्वो ऽस्थानयोगेन रूपं शून्यम् इत्य् अस्थानयोगेन, वेदना संज्ञा संस्कारा विज्ञानं शून्यम् इत्य् अस्थानयोगेन, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च शून्यानीत्य् अस्थानयोगेन यावत् सर्वधर्मा लौकिका वा लोकोत्तरा वा सास्रवा वा अनास्रवा वा संस्कृता वा असंस्कृता वा धर्मा शून्या इति अस्थानयोगेन, न हि संस्कृता वा असंस्कृता वा धर्माः क्वचित् स्थिताः? तस्मात् तेषां स्वभावो नोपलभ्यते, यत्र तिष्ठेरन् न ह्य् अभावो ऽभावे तिष्ठति, न हि स्वभावः स्वभावे तिष्ठति, न हि परभावः परभावे तिष्ठति, तत् कस्य हेतोः? तथा हि ते सर्वेण सर्वं सर्वथा सर्वन् नोपलभ्यन्ते, यस्य चानुपलब्धिः स कुत्र तिष्ठेद्? एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः (PSP_६-८:७१) प्रज्ञापारमितायां चरन्न् अनपराधी भवति, बुद्धानां भगवतां बोधिसत्त्वानां च प्रत्येकबुद्धानाञ् च श्रावकानां च सर्वार्याणां च. तत् कस्य हेतोः? तथा हि बुद्धैर् भगवद्भिर् बोधिसत्त्वैश् च प्रत्येकबुद्धैश् च श्रावकैश् च सर्वार्यैश् च एषैव धर्मतानुबद्धानुबध्य च सत्त्वानां धर्मं देशयन्ति, तान् ते धर्माणां धर्मतान् न व्यतिवर्तन्ते. तत् कस्य हेतोः? तथा हि धर्मधातुर् न विनिवर्तते न भूतकोटिर् विनिवर्तते. तत् कस्य हेतोः? तथा हि तेषां स स्वभावो न संविद्यते यो विनिवर्तते.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् धर्मधातुर् न विनिवर्तते न तथता न भूतकोटिर् विनिवर्तते, किं पुनर् भगवन्न् अन्यद् रूपम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये वेदनासंज्ञासंस्कारा अन्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर्, एवं यावद् अन्ये सर्वधर्मा लौकिका वा लोकोत्तरा वा सास्रवा वा अनास्रवा वा, संस्कृता वा असंस्कृता वा धर्माः, अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः?
भगवान् आह: न सुभूते, न हि मार्गं भावयतः सुभूते फलप्राप्तिर् भवति, न च मार्गभावनाफलं प्रापयति, न च सुभूते भावितमार्गस्य फलप्राप्तिर्, न च मार्गेण फलं प्राप्यते, न च पुनर् अमार्गे स्थित्वा फलं प्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां फलव्यवस्थानं करोति, न च भागच्छेदेन संस्कृते वा धाताव् असंस्कृते वा धातौ फलव्यवस्थानम्.
SK
सुभूतिर् आह: यदि भगवन् न भागच्छेदेन संस्कृते वा धाताव् असंस्कृते वा धातौ फलव्यवस्थानं भवति, कथं निर्दिष्टं पुनर् भगवता इदं स्रोतआपत्तिफलं त्रयाणां संयोजनानां प्रहाणं, सकृदागामिफलं कामरागव्यापादतनुत्वम्, अनागामिफलं पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणम्, अर्हत्त्वं पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणं, प्रत्येकबोधिर् यत् किञ्चित् समुदयधर्मि सर्वन्तं निरोधधर्मि, अनुत्तरा सम्यक्संबोधिः सर्ववासनानुसंधिक्लेशप्रहाणम्. स्याद् यथाहं भगवतो भाषितस्यार्थम् आजाने तथा संस्कृतासंस्कृतानां धर्माणां भागच्छेदेन फलव्यवस्थानं भवति.
SK
भगवान् आह: किं पुनः सुभूते स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वानुत्तरा सम्यक्संबोधिर् वा संस्कृता एते उतासंस्कृताः.
SK
सुभूतिर् आह: असंस्कृता भगवन्न् असंस्कृताः सुगत.
SK
भगवान् आह: किं पुनः सुभूते असंस्कृतस्य धर्मस्य भागच्छेदो ऽस्ति?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: किं पुनः सुभूते यस्मिन् समये कुलपुत्रो वा कुलदुहिता वा संस्कृतासंस्कृतान् धर्मान् एकलक्षणान् प्रतिविध्यति यद् उतालक्षणास् तस्मिन् समये कस्यचिद् धर्मस्य भागच्छेदं करोति संस्कृता वासंस्कृता वा धर्मा इति? (PSP_६-८:७४)
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, अभागच्छेदताम् उपादाय. यद् उताध्यात्मशून्यताम् उपादाय बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, आत्मना च न क्वचिद् अभिनिविशते, परञ् च न क्वचिद् अभिनिवेशयति, दानपारमितायां वा शीलपारमितायां वा क्षान्तिपारमितायां वा वीर्यपारमितायां वा ध्यानपारमितायां वा प्रज्ञापारमितायां वा प्रथमे वा ध्याने द्वितीये वा ध्याने तृतीये वा ध्याने चतुर्थे वा ध्याने, मैत्र्यां वा करुणायां वा मुदितायां वा उपेक्षायां वा, आकाशानन्त्यायतनसमापत्तौ वा विज्ञानानन्त्यायतनसमापत्तौ वा आकिञ्चन्यायतनसमापत्तौ वा नैवसंज्ञानासंज्ञायतनसमापत्तौ वा, स्मृत्युपस्थानेषु वा सम्यक्प्रहाणेषु वा ऋद्धिपादेषु वा इन्द्रियेषु वा बलेषु वा बोध्यङ्गेषु वा आर्याष्टाङ्गेषु मार्गेषु वा आर्यसत्येषु वा अष्टविमोक्षमुखेषु वा नवानुपूर्वविहारसमापत्तिषु वा शून्यतानिमित्ताप्रणिहितेषु वाभिज्ञासु वाध्यात्मशून्यतायां वा बहिर्धाशून्यतायां वाध्यात्मबहिर्धाशून्यतायां वा यावद् अभावस्वभावशून्यतायां वा समाधिषु वा धारणीमुखेषु वा दशबलवैशारद्येषु प्रतिसंविदावेणिकबुद्धधर्मेषु वा, महाकरुणायां वा सर्वाकारज्ञतायां वा, सो नाभिनिविष्टो न क्वचित् सज्जति. तद्यथापि नाम सुभूते तथागतनिर्मितो दानं ददाति न च दानफलेषु सज्जति न च दानफलं प्रत्यनुभवत्य् अन्यत्र सत्त्वानां परित्राणाय यावत् सास्रवानास्रवेषु धर्मेषु लौकिकलोकोत्तरेषु संस्कृतासंस्कृतेषु धर्मेषु न क्वचित् तिष्ठति. तत् कस्य हेतोः? तथा ह्य् अस्य सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति.
भगवान् आह: सर्वं सुभूते रूपं निर्मितोपमं सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं भवति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो भवति, यदि सर्वं रूपं निर्मितोपमं सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं निर्मितस्य च न भवति, रूपं वेदना संज्ञा संस्कारा विज्ञानं न संक्लेशो न व्यवदानं न पञ्चगतिकः संसारो यतः संसारात् सत्त्वान् परिमोचयेत्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते ऽपि नु बोधिसत्त्वेन (PSP_६-८:७६) महासत्त्वेन पूर्वं बोओधिस्त्त्वचर्यां चरता कश्चित् सत्त्व उपलब्धो यं नरकाद् वा मोचयेत् तिर्यग्योनेर् वा यमलोकाद् वा मनुष्येभ्यो वा देवेभ्यो वा.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एतत् सुभूते बोधिसत्त्वेन महासत्त्वेन न कश्चित् सत्त्व उपलब्धो यं त्रैधातुकात् परिमोचयेत्. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा निर्मितोपमा ज्ञाता दृष्टा विदिता भवन्तीत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो वेदितव्यः.
SK
सुभूतिर् आह: यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा निर्मितोपमा ज्ञाता दृष्टा विदिताः कस्यार्थाय बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरति चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु बोधिमार्गे च बुद्धक्षेत्रञ् च परिशोधयति सत्त्वांश् च परिपाचयति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते सत्त्वाः स्वयम् एव निर्मितोपमान् सर्वधर्मान् जानीयुर् न बोधिसत्त्वो महासत्त्वो ऽसंख्येयान् कल्पान् सत्त्वानाम् अर्थाय बोधिसत्त्वचर्यां चरेद् यस्मात् तर्हि सुभूते सत्त्वाः स्वयम् एव निर्मितोपमान् सर्वधर्मान् न जानन्ति. तस्माद् बोधिसत्त्वो महासत्त्वो ऽसंख्येयान् कल्पान् षट्सु पारमितासु चरति सत्त्वांश् च परिपाचयति बुद्धक्षेत्रञ् च परिशोधयति.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं जानाति, यथा रूपम् उत्पद्यते, यथा रूपं निरुध्यते, या च रूपस्य तथता.
SK
कथं रूपं प्रजानाति? अत्यन्तच्छिद्रतश् चात्यन्तानृततश् च तद्यथापि नाम फेनपिण्डो ऽसारः, एवं रूपं प्रजानाति. कथं रूपस्योत्पादव्ययौ प्रजानाति? नापि रूपं कुतश्चिद् आगच्छति नापि रूपं क्वचिद् गच्छति कुतश्चिद् आगमनतो न क्वचिद् गमनतः, एवं खलु सुभूते रूपस्योत्पादव्ययौ प्रजानाति. कथं रूपस्य तथतां प्रजानाति? न तथतोत्पद्यते न निरुध्यते नागच्छति न गच्छति, न संक्लिश्यते न व्यवदायते, न हानिर् न वृद्धिर् एवं तथतां प्रजानाति, अपि तु खलु सुभूते तथतैव सा यस्मात् तथतेत्य् उच्यते, नैव सावितथता न तथतेत्य् उच्यते, एवं रूपस्य तथतां प्रजानाति.
SK
कथं वेदनां प्रजानाति? तद्यथापि नामोदकबुद्बुदा रिक्तका उत्पद्यन्ते वा निरुध्यन्ते वा, एवं वेदनां प्रजानाति. कथं वेदनाया उत्पादव्ययौ प्रजानाति? न सा कुतश्चिद् आगच्छति न क्वचिद् गच्छत्य् एवं वेदनाया उत्पादव्ययौ प्रजानाति. कथं वेदनायास् तथतां प्रजानाति? सापि तथता अवितथतानन्यतथता, एवं वेदनायास् तथतां प्रजानाति.
SK
कथं संज्ञां प्रजानाति? तद्यथापि नाम मरीच्याम् उदकम् अत्यन्ततया नोपलभ्यते, एवं संज्ञां प्रजानाति. कथं संज्ञाया उत्पादव्ययौ प्रजानाति? न सा कुतश्चिद् आगच्छति न क्वचिद् गच्छत्य् एवं संज्ञाया उत्पादव्ययौ प्रजानाति. कथं संज्ञायास् तथतां (PSP_६-८:८१) प्रजानाति? सापि तथतावितथतानन्यतथता, एवं संज्ञायास् तथतां प्रजानाति. कथं संस्कारान् प्रजानाति? तद्यथापि नाम कदल्यां सारम् अत्यन्ततया नोपलभ्यते, एवं संस्कारान् प्रजानाति. कथं संस्काराणाम् उत्पादव्ययौ प्रजानाति? न ते कुतश्चिद् आगच्छन्ति न क्वचिच् गच्छन्त्य् एवं संस्काराणाम् उत्पादव्ययौ प्रजानाति. कथं संस्काराणां तथतां प्रजानाति? सापि तथतावितथतानन्यतथता, एवं संस्काराणां तथतां प्रजानाति.
SK
कथं विज्ञानं प्रजानाति? तद्यथापि नाम मायाकारनिर्मितश् चतुरङ्गो बलकाय एवं विज्ञानं प्रजानाति.
SK
कथं विज्ञानस्योत्पादव्ययौ प्रजानाति? न तत् कुतश्चिद् आगच्छति न क्वचिद् गच्छति, एवं विज्ञानस्योत्पादव्यतौ प्रजानाति. कथं विज्ञानस्य तथतां प्रजानाति? सापि तथतावितथतानन्यतथता, एवं विज्ञानस्य तथतां प्रजानाति.
SK
कथं रूपायतनं प्रजानाति? रूपायतनं रूपायतनस्वभावेन शून्यम्, एवं शब्दगन्धरसस्प्रष्टव्यायतनानि, धर्मायतनं धर्मायतनस्वभावेन शून्यं, चक्षुरायतनं चक्षुरायतनस्वभावेन शून्यम्, एवं श्रोत्रघ्राणजिह्वाकायायतनानि, मनआयतनं मनआयतनस्वभावेन शून्यम्.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा स किंचिद् एव द्रव्यम् अधिष्ठाय विविधानि रूपगतानि दर्शयेत्, स्त्रीविग्रहं वा पुरुषविग्रहं वा हस्तिविग्रहं वाश्वविग्रहं वा बलीवर्दविग्रहं वा, उद्यानानि वा नगराणि वा आरामरमणीयानि वा नदीरमणीयकं वा पुष्किरिणीरमणीयकं वा, तत्र विविधान्य् आस्तरणप्रत्यास्तरणानि दर्शयेत्, पुष्पधूपगन्धमाल्यगणांश् च खादनीयं वा भोजनीयं वा दर्शयेत् महता गीतवादितेन जनं रमयेत्, दानं वा ददन् शीलं वा रक्षन् क्षान्तिं वा संपादयमानो वीर्यं वारभमाणो ध्यानं वा समापद्यमानः प्रज्ञां वा भावयेत्. स तत्रैभिर् आकारैः क्षत्रियमहाशालकुलानि वा ब्राह्मणमहाशालकुलानि वा गृहपतिमहाशालकुलानि वा दर्शयेच् चातुर्महाराजाकायिकान् वा देवान् दर्शयेत्, सुमेरुं वा दर्शयेत् त्रयस्त्रिंशान् वा देवान् दर्शयेद् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मपार्षद्यान् ब्रह्मपुरोहितान् महाब्रह्माणः परीत्ताभान् अप्रमाणान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् शुद्धावासान् अस्पृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् दर्शयेद्, आकाशानन्त्यायतनानि वा विज्ञानानन्त्यायतनां वा आकिञ्चन्यायतनां वा नैवसंज्ञानासंज्ञायतनां देवान् वा दर्शयेद्, रूपिणः स्रोतआपन्नान् वा सकृदागामिनो वानागामिनो वार्हतो वा प्रत्येकबुद्धान् वा ये ते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन्ति, शीलपारमितायां चरन्ति, क्षान्तिपारमितायां चरन्ति, वीर्यपारमितायां चरन्ति, ध्यानपारमितायां (PSP_६-८:८६) चरन्ति, प्रज्ञापारमितायां चरन्ति, यावद् दशम्यां भूमौ चरन्ति, बोधिसत्त्वन्यामम् अवक्रामन्ति, ते ऽभिज्ञा अभिनिर्हरन्ति, ताभिश् च विक्रीडन्ति सत्त्वाश् च परिपाचयन्ति, बुद्धक्षेत्रं च परिशोधयन्ति, ध्यानविमोक्षसमाधिसमापत्तिभिश् च विक्रीडन्ति, तह्तागतबलानि निष्पादयन्ति, वैशारद्यानि वा प्रतिसंविदो वा महामैत्रीं वा महाकरुणां वा निष्पादयन्ति, तान् अप्य् आदर्शयेत्, सर्वाङ्गप्रत्यङ्गेसु परिपूर्णं वा बुद्धविग्रहम् आदर्शयेत्. तत्र बालपृथग्जनाः सत्त्वा एवं जानीयुर्, अहो यावत् सुशिक्षितो बतायं मनुष्य इव शोभनं करोति, यद् उतैवं जनं रमेयति विविधञ् च रूपम् आदर्शयति, यावद् बुद्धविग्रहं वा विस्तरशः. ये खलु तत्र मनुष्या भवन्ति पण्डिता मेधाविनो निपुणास् तद्रूपया मीमांसया समन्वागतास् तेषाम् एवं भवति, आश्चर्यम् इदम् अद्भुतो धर्मो, न चात्र कश्चिद् धर्म उपलभ्यते, अयं च मनुष्य इमं जनपदम् एवम् असंविद्यमानेषु धर्मेषु रमयति, तच् चास्य ज्ञानं भवत्य् अद्रव्ये ऽस्मिन्न् एव जनो द्रव्यसंज्ञी. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् न कञ्चिद् धर्मधातुविनिर्मुक्तं समनुपश्यति प्रज्ञापारमितायां चरन्न् उपायकौशल्येन, न च सत्त्वम् उपलभते न च सत्त्वप्रज्ञप्तिः. इति सत्त्वार्थयाथात्म्यनिवेशनकर्म
SK
स आत्मना च दानं ददाति परांश् च दाने नियोजयति, दानस्य च वर्णं भाषते, ये ऽपि चान्ये दानं ददाति तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च शीलं रक्षति परांश् च शीले प्रतिष्ठापयति शीलस्य च वर्णं भाषते, ये ऽपि चान्ये शीलं रक्षन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च क्षान्तिं संपादयति परांश् च क्षान्तौ नियोजयति, क्षान्तेश् च वर्णं भासते, ये ऽपि चान्ये क्षान्तिं संपादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च वीर्यम् आरभते परांश् च वीर्ये नियोजयति, वीर्यस्य च वर्णं भाषते, ये ऽपि चान्ये वीर्यम् आरभन्ते तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च ध्यानं समापद्यते, परांश् च ध्याने प्रतिष्ठापयति, ध्यानस्य च वर्णं भाषते, ये ऽपि चान्ये ध्यानं समापद्यन्ते तेषां (PSP_६-८:८७) च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च प्रज्ञां भावयति परांश् च प्रज्ञायां नियोजयति, प्रज्ञायाश् च वर्णं भाषते, ये ऽपि चान्ये प्रज्ञां भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः. इति षट्पारमितानिवेशनकर्म
SK
आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तते, परांश् च दशकुशलेषु कर्मपथेषु समादापयति, दशानां च कुशलानां कर्मपथानां वर्णं भाषते, ये ऽपि चान्ये दशकुशलान् कर्मपथान् समादाय वर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च पञ्चशिक्षापदसमादाने वर्तते, परांश् च पञ्चशिक्षापदसमादाने समादापयति, पञ्चानाञ् च शिक्षापदानां वर्णं भाषते, ये ऽपि चान्ये पञ्चशिक्षापदसमादाने वर्तन्ते तेषां वर्णवादी भावति समनुज्ञः.
SK
आत्मना चार्याष्टाङ्गसमन्वागतं पोषधम् उपवसति, परांश् चार्याष्टाङ्गसमन्वागते पोषधे समादापयत्य् आर्याष्टाङ्गसमन्वागतस्य च पोषधस्य वर्णं भाषते, ये ऽपि चान्ये आर्याष्टाङ्गसमन्वागतं पोषधम् उपवसन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः.
SK
आत्मना चाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि समापद्यते, परांश् चाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु नियोजयत्य् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाणां च वर्णं भाषते, ये ऽपि चान्ये ऽप्रमाणध्यानारूप्यविमोक्षसमाधिसमाप्त्तिधारणीमुखानि समापद्यन्ते तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयति, परांश् च सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयति, सप्तत्रिंशद्बोधिपक्ष्याणाञ् च धर्माणां वर्णं भाषते, ये ऽपि चान्ये सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु प्रवर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च शून्यतानिमित्ताप्रणिहितानि भावयति, परांश् च शून्यतानिमित्ताप्रणिहितेषु नियोजयति, शून्यतानिमित्ताप्रणिहितानां च वर्णं (PSP_६-८:८८) भाषते, ये ऽपि चान्ये शून्यतानिमित्ताप्रणिहितानि भावयन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च चत्वार्य् आर्यसत्यानि भावयति, परांश् च चतुर्ष्व् आर्यसत्येषु नियोजयति, चतुर्णाञ् चार्यसत्यानां वर्णं भाषते, ये ऽपि चान्ये चत्वार्य् आर्यासत्यानि भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च पञ्चाभिज्ञा निष्पादयति, परांश् च पञ्चस्व् अभिज्ञासु नियोजयति, पञ्चानां चाभिज्ञानां वर्णं भाषते, ये ऽपि चान्ये पञ्चाभिज्ञा निष्पादयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च दशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् भावयति, परांश् च दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु नियोजयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां वर्णं भासते, ये ऽपि चान्ये दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च महाकरुणां भावयति, परांश् च महाकरुणायां नियोजयति, महाकरुणायाश् च वर्णं भासते, ये ऽपि चान्ये महाकरुणां भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि निष्पादयति, परांश् च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनेषु नियोजयति, द्वात्रिंशद्महापुरुषलक्षणाशीत्यनुव्यञ्जनानां च वर्णं भाषते, ये ऽपि चान्ये द्वात्रिंशन्महापुर्षलक्षणाशीत्यनुव्यञ्जनानि निष्पादयन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः. इति बुद्धमार्गनिवेशनकर्म
SK
यदि सुभूते न धर्मधातुर् यथा पूर्वं तथा पश्चात् तथा मध्ये न बोधिसत्त्वो महासत्त्व उपायकौशल्येन धर्मधातुं शोधयेत्, न सत्त्वांश् च परिपाचयेत्. यस्मात् तर्हि सुभूते धर्मधातुर् यथैव पूर्वं तथाइव पश्चात् तथाइव मध्ये तस्मात् तर्हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थाय बोधिसत्त्वचर्यां चरति.
SK
सुभूतिर् आह: यदि भगवन्न् अत्यन्ततया सत्त्वो नोपलभ्यते न च सत्त्वप्रज्ञप्तिः. कस्यार्थाय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति? (PSP_६-८:८९)
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सत्त्वान् दाने प्रतिष्ठापयति, दाने प्रतिष्ठाप्य तस्य दानस्य पूर्वान्तापरान्तम् आचष्टे यथैव तद् दानं पूर्वान्ततः शून्यम् अपरान्ततः शून्यं मध्यतः शून्यं तत् तथा तद् दानफलम् अपि शून्यं, देयम् अपि शून्यं, दानपतिर् अपि शून्यो, दायको ऽपि दायकस्वभावेन शून्यः, प्रतिग्राहको ऽपि प्रतिग्राहकस्वभावेन शून्यः. (PSP_६-८:९०) एवं कुलपुत्र सर्व एते धर्मा भूतकोट्यां न संविद्यन्ते, मा चान्यद् दानं मन्स्यसे, ऽन्यद् दानपतिं मंस्यसे, ऽन्यद् दानफलं मंस्यसे, ऽन्यं प्रतिग्राहकं मंस्यसे, ऽन्यां भूतकोटिं मंस्यसे, यतस् त्वं कुलपुत्र नान्यद् दानं मंस्यसे, नान्यं दानपतिं मंस्यसे, नान्यं दानफलं मंस्यसे, नान्यं प्रतिग्राहकं मंस्यसे, नान्यां भूतकोटिं मंस्यसे, ततस् त एतद् दानम् अमृतावहं भविष्यत्य् अमृतफलम् अमृतपर्यवसानम्, एतेन च त्वं दानेन मा रूपं प्रतिग्रहीष्यसि, मा वेदनां मा संज्ञां मा संस्कारां, मा विज्ञानं प्रतिग्रहीष्यसि. तत् कस्य हेतोः? तथा हि तवैतद् दानं शून्यं दानस्वभावेन, फलम् अपि फलस्वभावेन शून्यं, प्रतिग्राहको ऽपि प्रतिग्राहकस्वभावेन शून्यः, न च शून्यतायां दानम् उपलभ्यते, न दानफलम् उपलभ्यते, न प्रतिग्राहक उपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते धर्माः स्वभावेन शून्याः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् शीले प्रतिष्ठापयति, एहि त्वं कुलपुत्र प्राणातिपातं प्रहाय प्रणातिपातात् प्रतिविरतो भव, एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् पैशून्यात् परुषवचनाद् अबद्धप्रलापाद् अभिध्याया व्यापादाद् एहि त्वं कुलपुत्र मिथ्यादृष्टिं प्रहाय मिथ्यादृष्ठेः प्रतिविरतो भव, नैषां कुलपुत्र धर्माणां कश्चित् स्वभावो विद्यते यथा त्वया कल्पितो ऽहं तत् कुलपुत्रोपपरीक्षे स्वभावं, कतम एष धर्मः प्राणो नाम यो जीविताद् व्यपरोप्यते येन वा व्यपरोप्यते? एवम् अदत्तादानं काममिथ्याचारा मृषावादः पैशून्यं परुषवचनम् अबद्धप्रलापो ऽभिध्या व्यापादः, कतम एष धर्मो मिथ्यादृष्टिर् नाम यो वा मिथ्यां पश्यत्य्? अनेन सुभूते उपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् परिपाचयति, तस्य दानस्य च शीलस्य च फलम् आकाङ्क्षते, तद् अपि दानफलं च शीलफलं च स्वभावेन शून्यं, ततः स कुलपुत्रो ऽनुत्त्रस्तस्य दानफलस्य च शीलफलस्य च फलं स्वभावेन शून्यं विदित्वा (PSP_६-८:९१) तत्र नाभिनिविशते अनभिनिवेशमानो ऽविक्षेपम् उत्पाद्य प्रज्ञाम् उत्पादयति, यया प्रज्ञया सर्वानुशयपर्युत्थानानि च्छित्वानुपधिशेषे निर्वाणधातौ परिनिर्वाति लोकव्यवहारेण न पुनः परमार्थेन. तत् कस्य हेतोः? न हि शून्यतायां कश्चिद् धर्म उपलभ्यते यः परिनिर्वायाद् येन च पर्मिर्वायाद्, अपि तु खलु पुनर् एतद् एव तत् परिनिर्वाणं यद् उतात्यन्तशून्यता.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः परसत्त्वान् परपुद्गलान्, क्षुधान् व्यापन्नचित्तान् दृष्ट्वा एवम् अववदत्य् अनुशास्ति, एहि त्वं कुलपुत्र क्षान्तिं संपादय क्षमी च भवशूरतो दातचित्तो ऽधिवासनजातीयो यत्र त्वं व्यापद्यसे सर्व एते धर्माः प्रकृतिशून्या हन्तोपपरीक्षस्व भावं, कुलपुत्र कुत्राहं व्यापद्ये? को वा व्यापद्यते? कस्य वा व्यायद्यते? सर्व एते धर्माः प्रकृतिशून्या, या च प्रक्र्तिशून्यता न सा जातु न शून्यता, सा च न तथागतैः क्र्ता, न प्रत्येकबुद्धैर् न श्रावकैर् न बोधिसत्त्वैर् न देवैर् न नागैर् न यक्षैर् न गन्धर्वैर् नासुरैर् न गरुडैर् न किंनरैर् न महोरगैर् न चतुर्भिर् महाराजैर् न शक्रेण देवानाम् इन्द्रेण न यामेन देवपुत्रेण न तुषितेन देवपुत्रेण न निर्माणरतिना देवपुत्रैर् न परनिर्मितवशवर्तिना देवपुत्रैर् न ब्रह्मपार्षद्यैर् न ब्रह्मपुरोहितैर् न महाब्रह्मभिर् न परीत्ताभैर् नाप्रमाणाभैर् नाभास्वरैर् न परीत्तशुभैर् नाप्रमाणशुभैर् न शुभकृत्स्नैर् नानभ्रकैर् न पुण्यप्रसवैर् न बृहत्फलैर् न शुद्धावसैर् नातपैर् न सुदृशैर् न सुदर्शनैर् नाकनिष्ठैर् देवपुत्रैर् नाकाशानन्त्यायतनैर् न विज्ञानानन्त्यायतनैर् नाकिञ्चन्यायतनैर् न नैवसंज्ञानासंज्ञायतनैः कृता हन्त कुलपुत्रोपपरीक्षस्व कुत्राहं व्यापद्ये? को वा व्यापद्यते? कस्य वा व्यापद्यते? सर्व एते धर्माः प्रकृतिशून्या न च शून्यता कस्यचिद् अन्तिके व्यापद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् प्रकृतिशून्यतायां नियोजयत्य् अयं हेतुर् इदं फलं प्रकृतिशून्यतायां नियोजयन्न् अनुपूर्वेण यावद् अनुत्तरायां सम्यक्संबोधौ संदर्शयति समादापयति निवेशयति प्रतिष्ठापयति, तत् पुनर् लोकव्यवहारेण न (PSP_६-८:९२) पुनः परमार्थेन. तत् कस्य हेतोः? न हि प्रकृतिशून्यतायां कश्चिद् अस्ति यो वा प्राप्नुयाद् येन वा प्राप्नुयाद् यत्र वा प्राप्नुयाद् इयं सुभूते भूतकोटिर् यद् उत प्रकृतिशून्यता यत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति सत्त्वानां कृतशो नात्र सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिः. तत् कस्य हेतोह्? सत्त्वविविक्तता हि सर्वधर्माः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन समन्वागतः सत्त्वान् हीनवीर्यान् दृष्ट्वा कायिके च चैतसिके च वीर्ये समादापयति, न कुलपुत्र प्रकृतिशून्यतायां कस्यचिद् धर्मस्य संसीदना विद्यते यत्र वा संसीदेद् येन वा संसीदेद् यो वा संसीद्येत्, सर्व एते धर्माः प्रकृतिशून्याः शून्यता नातिवर्तते हन्तेदानीं कायिकं च चैतसिकञ् च वीर्यं जनयित्वा कौशीद्यम् अवसृज्य कुशल एव कर्मण्य् उद्यच्छस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञायां यदि वा ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखेषु यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु यदि वा शून्यतानिमित्ताप्रणिहितेषु यदि वार्यसत्येषु यदि वाध्यात्मशून्यतायां यदि वा बहिर्धाशून्यतायां यदि वाध्यात्मबहिर्धाशून्यतायां यदि वा यावद् अभावस्वभावशून्यतायां यदि वाभिज्ञासु यदि वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यदि वा यावत् सर्वधर्मेषु सर्वान् एतान् कुलपुत्र धर्मान् अनावरणान् प्रेक्षस्व स्वलक्षणशून्यतया न ह्य् अनावरणेषु धर्मेषु कस्यचित् संसीदना विद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां सत्त्वान् समादापयति निवेशयति प्रतिष्ठापयति, तथा च प्रतिष्ठापयति यथा द्वयन् न संविद्यते. तत् कस्य हेतोः? अद्वया हि प्रकृतिशून्यताद्वैधीकारा, न ह्य् अद्वयो धर्मः क्वचित् कौशीद्यम् आपद्यते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतया वीर्यसत्त्वान् अवतारयत्य् अनुशास्ति, एहि त्वं कुलपुत्र वीर्यम् आरभस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञायां यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु (PSP_६-८:९३) यदि वा विमोक्षसमाधिसमापत्तिधारणीमुखेषु यदि वा दशतथागतबलेषु यदि वा चतुर्षु वैशारद्येषु यदि वा चतसृषु प्रतिसंवित्सु यदि वा महाकरुणायां यदि वाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु मा एतान् धर्मान् द्वयतो मनसिकुरु माद्वयतः. तत् कस्य हेतोः? प्रकृतिशून्या ह्य् एते धर्मा न हि प्रकृतिशून्यता द्वयतो मानसिकर्तव्या नाद्वयतः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन बोधिसत्त्वचर्यां चरन् सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्यानुपूर्वेण स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयत्य् अर्हत्त्वे प्रतिष्ठापयति, प्रत्येकबोधौ प्रतिष्ठापयत्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थं करोत्य् उपायकौशल्येन ध्यानभावनायाम् एवावतारयति, एहि त्वं कुलपुत्र ध्यानं भावय मा च विक्षेपसंज्ञी भव. तत् कस्य हेतोह्? प्रकृतिशून्या ह्य् एते धर्मा न च प्रकृतिशून्यतायां कश्चिद् धर्म उपलभ्यते यो विक्षेप्यते वा एकाग्री भवति वा, स त्वम् अत्र ध्याने स्थित्वा यद् यद् एवं कुशलं कर्म करिष्यसि कायेन वा वाचा वा मनसा वा, यदि वा दानन् दास्यसि यदि वा शीलं रक्षसि यदि वा क्षान्तिं संपादयिष्यति, यदि वा वीर्यम् आरभसे यदि वा ध्यानम् उत्पादयिष्यसि यदि वा प्रज्ञा भावयिष्यसि, यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गां भावयिष्यसि, यदि वा विमोक्षसमाधिसमापत्तिधारणीमुखानि, यदि वार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तीर् यदि वाभिज्ञा यदि वा दशबलवैशारद्यप्रतिसम्विदो यदि वा महामैत्री यदि वा महाकरुणा यदि वाष्टादशावेणिकान् बुद्धधर्मान् यदि वा द्वात्रिंशन्महापुरुषलक्षणानि यदि वाशीत्यनुव्यञ्जनानि यदि वा श्रावकमार्गं यदि वा प्रत्येकबुद्धमार्गं यदि वा बोधिसत्त्वमार्गं यदि वा बुद्धमार्गं यदि वा स्रोतआपत्तिफलं यदि वा सकृदागामिफलं यदि वानागामिफलं यदि वार्हत्त्वं यदि वा प्रत्येकबोधिं यदि वा (PSP_६-८:९४) सर्वाकारज्ञतां यदि वा सत्त्वान् परिपाचयिष्यसि यदि वा बुद्धक्षेत्रं परिशोधयिष्यसि, तस्य ते इमे कुशला धर्मा अल्पकृच्छ्रेण प्रादुर्भविष्यन्ति प्रकृतिशून्यतायां चरतः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानाम् अर्थं करोति, प्रथमचित्तोत्पादम् उपादाय न जात्व् अकर्मको ऽभूत्, किं कुशलगवेषी सत्त्वानाम् अर्थं कुर्वन् बुद्धक्षेत्रेण बुद्धक्षेत्रं सततसमितं संक्रामति, बुद्धान् भगवतः पर्युपास्ते, यं च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति, स तस्य जातिव्यतिवृत्तस्यापि न जातु विप्रणक्ष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्याद् धारणीप्रतिलब्धश् च सततसमितं भवत्य् अहीणेन्द्रियो यदि वा कायेन्द्रियेण यदि वा वागिन्द्रियेण यदि वा मनैन्द्रियेण. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञतां सततसमितं भावयत्य् अनया सर्वाकारज्ञतया सुभावितया सर्वमार्गाः सुभाविता भवन्ति, यदि वा श्रावकमार्गो यदि वा प्रत्येकबुद्धमार्गो यदि वा बोधिसत्त्वमार्गस् तस्याभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य सततसमितम् उपकारीभूता भविष्यन्त्य् अविप्रणाशयोगेण, स तासु वैपाकिकीष्व् अभिज्ञासु स्थित्वा सत्त्वानाम् अर्थं करोति न परिहीयते पञ्चगतिके संसारे संसरन्न्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थित्वोपायकौशल्येन सत्त्वानाम् अर्थं करोति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थित्वोपायकौशल्येन सत्त्वानाम् अर्थं करोति, स तया प्रज्ञापारमितया सुभावितया सत्त्वान् एवम् अववदत्य् एवम् अनुशास्ति, एहि त्वं कुलपुत्र यद् यद् एवं कर्म करोषि कायेन वा वाचा वा मनसा वा तत् सर्वम् अमृताधिगमाय परिणामय तथा ते एते धर्माः सर्व अमृताविगमाय भविष्यन्त्य् अमृतपर्यवसानाय च, न च प्रकृतिशून्यतायां कश्चिद् धर्मो ऽभिनिविशते यः परिहीयते. तत् कस्य हेतोः? न हि शून्यता परिहीयते, न च प्रकृतिशून्यतायाः कश्चित् परिहीयते. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता न भावो नाभावस् तत् किम् अभावो ऽभावे धर्मे परिहास्यत्य्, एवं खलु सुभूते बोधिसत्त्वो (PSP_६-८:९५) महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् एवम् अववदत्य् एवम् अनुशास्ति, स एवम् अववदन्न् एवम् अनुशासन् न जात्व् अकर्मको ऽभूत्, स आत्मना च सततसमितं दशकुशलेषु कर्मपथेषु वर्तते, परांश् च दशकुशलेषु कर्मपथेषु समादापयत्य् एवं पञ्चसु शिक्षापदेषु आर्याष्टाङ्गे समन्वागत उपोषधे. आत्मना च ध्यानारूप्यसमापत्तीः समापद्यते परांश् च ध्यानारूप्यसमापत्तिषु समादापयति, आत्मना च सततसमितं मैत्रीविहारी भवति परांश् च सततसमितं मैत्रीविहारे समादापयति, आत्मना च सततसमितं करुणाविहारी भवति परांश् च सततसमितं करुणाविहारे समादापयति, आत्मना च सततसमितं मुदिताविहारी भवति, परांश् च सततसमितं मुदिताविहारे समादापयति, आत्मना च सततसमितम् उपेक्षाविहारी भवति परांश् च सततसमितम् उपेक्षाविहारे समादापयति, आत्मना च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति परांश् च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु समादापयति, आत्मना च शून्यतानिमित्ताप्रणिहितानि भावयति परांश् च शून्यतानिमित्ताप्रणिहितेषु समादापयति, आत्मना च सर्वपारमितासु सर्वशून्यतासु च शिक्षते परांश् च सर्वशून्यतासु सर्वपारमितासु च समादापयति, आत्मना च दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षते परांश् च दशबलवैशारद्यप्रतिसम्विदावेनिकबुद्धधर्मेषु समादापयति, आत्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि परिपूरयति परांश् च द्वात्रिंसन्महापुरुषलक्षणाशीत्यनुव्यञ्जनपरिनिष्पत्तये समादापयति, आत्मना च स्रोतआपत्तिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च स्रोतआपत्तिफले प्रतिष्ठापयति, आत्मना च सकृदागामिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च सकृदागामिफले प्रतिष्ठापयति, आत्मना चानागामिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् चानागामिफले प्रतिष्ठापयति, आत्मना चार्हत्त्वे ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् चार्हत्त्वे प्रतिष्ठापयति, आत्मना च प्रत्येकबोधौ ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च प्रत्येकबोधौ प्रतिष्ठापयति, आत्मना चानुत्तरायां सम्यक्संबोधौ मार्गम् उत्पादयति परांश् च तत्र मार्गे ऽववदत्य् अनुशास्ति प्रतिष्ठापयति. एवं खलु (PSP_६-८:९६) सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचर्यां चरन्न् उपायकौशल्येन न जात्व् अकर्मको ऽभूत्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् प्रकृतिशून्याः सर्वधर्मा न च प्रकृतिशून्यतायां सत्त्वा उपलभ्यन्ते, न धर्मो नाधर्मः, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अभिसंप्रतिष्ठते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि प्रकृतिशून्याः सर्वधर्मा न च प्रकृतिशून्यतायां सत्त्वा उपलभ्यन्ते न धर्मो नाधर्मः, यदि पुनः सुभूते प्रकृतिशून्याः सर्वधर्मा अभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायाम् अभिसंप्रास्थास्यद्, एवं चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य प्रकृतिशून्यं धर्मं देशयेद्, रूपं सुभूते प्रकृतिशून्यं, वेदनासंज्ञासंस्कारा, विज्ञानं प्रकृतिशून्यं तदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चस्कन्धाः प्रकृतिशून्या इति धर्मं देशयति, द्वादशायतनान्य् अष्टादशधातवः प्रकृतिशून्या इति धर्मं देशयति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गमार्गः प्रकृतिशून्य इति धर्मं देशयति, त्रीणि विमोक्षमुखान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्मा द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि प्रकृतिशून्यानीति धर्मं देशयति, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिः, सर्वाकारज्ञता सर्ववासनानुसंधिक्लेशप्रहाणं प्रकृतिशून्यम् इति धर्मं देशयति, यदि पुनः सुभूते ऽध्यात्मशून्यता न प्रकृतिशून्याभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां धर्मम् उद्देक्ष्यद्, एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न प्रकृतिशून्याभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां धर्मम् उद्देक्ष्यन्, न च प्रकृतिशून्यता विनश्यति न च कूटस्था भवति न च सा पुनर् अपक्रामति. तत् कस्य हेतोः? न हि सा देशस्था न प्रदेशस्था न च सा क्वचिद् गच्छति नापि (PSP_६-८:९७) कुतश्चिद् आगच्छति, एषा सा धर्मस्थितिता, यत्र न कस्यचिद् धर्मस्याचयो वा उपचयो वोपलभ्यते, हानिर् वा वृद्धिर् वा उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा एषा सा प्रकृतिधर्माणां, यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुं संप्रस्थिता न कस्यचिद् धर्मस्य प्रस्थाने पश्यति, असंप्रस्थिताः सर्वधर्माः, एषा सा धर्माणां धर्मस्थितिता, यत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् प्रकृतिशून्यान् दृष्ट्वा न प्रत्युदावर्तते ऽनुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? तथा हि न कस्यचिद् धर्मस्यावरणं वा समनुपश्यति, अनावरणं वा समनुपश्यति, तत् किं विचिकित्सिष्यत्य् अनुत्तरायां सम्यक्संबोधौ, यत्र प्रकृतिशून्यतायां न सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिर् नात्मा न सत्त्वो न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यक उपलभ्यते, न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम् उपलभ्यते यावत् सर्वधर्मा नाध्यात्मा न बहिर्धा नाध्यात्मबहिर्धा नोपलभ्यते, यावद् अशीत्यनुव्यञ्जनानि नोपलभ्यन्ते. इति प्रकृतिशून्यतानिवेशनकर्म
SK
तद्यथापि नाम सुभूते तथागतनिर्मितस्य भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा बोधिसत्त्वो वानुप्रबन्धं कल्पं शतसहस्रं धर्मं देशयेत्, तत् किं मन्यसे? सुभूते अपि नु ते निर्मिता भव्याः स्रोतआपत्तिफलं वा प्रापयितुं, सकृदागामिफलं वा प्रापयितुं, अनागामिफलं वा प्रापयितुम् अर्हत्त्वं वा प्रापयितुम्, प्रत्येकबोधिं प्रापयितुम् अनुत्तरां सम्यक्संबोधिं प्रापयितुम्.
SK
सुभूतिर् आह: नो भगवंस् तत् कस्य हेतोः? तथा हि तेषां भगवन् वस्तु नास्ति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अवस्तुकानां सर्वधर्माणां कतमः स सत्त्वो यं बोधिसत्त्वो महासत्त्वो निवेशयति प्रतिष्ठापयति स्रोतआपत्तिफले वा सकृदागामिफले वानागामिफले वा अर्हत्त्वे वा प्रत्येकबोधौ वानुत्तरायां सम्यक्संबोधौ वा (PSP_६-८:९८) ऽन्यत्र विपच्या सापन्नायाः संज्ञाया अविपर्यासे निवेशयति प्रतिष्ठापयति, यश् चासौ विपर्यासः स एवाविपर्यासः कल्पनाभिष्यन्दम् उपादायाविकल्पश् चाविपर्यासो, यत्राविकल्पस् तत्र विपर्यासो नास्ति न तत्रात्मा न सत्त्वो न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यको न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः न प्रतीत्यसमुत्पादाङ्गानि न तत्र पारमिता न शून्यतामुखानि न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञा न शून्यतानिमित्ताप्रणिहितानि न तत्र दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न तत्रानुत्तरा सम्यक्संबोधिर्, एषा सा प्रकृतिशून्यता यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति चरंस् तांश् च विपर्यस्तान् सत्त्वान् सत्त्वसंज्ञाया मोचयत्य्, एवम् आरूप्यरूपसंज्ञाया मोचयति, एवं यावत् सर्वधर्मसंज्ञाया मोचयति, ये ऽपि ते अनास्रवा धर्मास् तद् यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः सो ऽपि न तस्य यथा न परमार्थो यद् उतासंस्कृतम् अनुत्पादो ऽप्रादुर्भावो ऽभावः, एषा सा प्रकृतिशून्यता, एषा सा सर्वबुद्धानां भगवतां बोधिर् यत्र न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यको न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादा न प्रतीत्यसमुत्पादाङ्गानि न पारमिता न शून्यतामुखानि न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न महाकरुणा न द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि न हि बोधिसत्त्वो महासत्त्वो मार्गस्य कृतशो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो ऽन्यत्र प्रकृतिशून्यता परिज्ञानार्थं सा च प्रकृतिशून्यता पूर्वं वा पश्चाद् वा मध्ये वा न जातु साप्रकृतिशून्यता तत्र प्रकृतिशून्यता पारमितायां स्थित्वा बोधिसत्त्वो महासत्त्वः (PSP_६-८:९९) सत्त्वान् सत्त्वसंज्ञिनः सत्त्वसंज्ञाया मोचनार्थं मार्गज्ञतायां चरति स मार्गज्ञतायां चरन् सर्वमार्गेषु चरन् सर्वमार्गेषु चरति, यद् उत श्रावकमार्गेषु प्रत्येकबुद्धमार्गेषु बोधिसत्त्वमार्गेषु, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं च परिशोध्यायुःसंस्कारान् अधिष्ठायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य बुद्धनेत्री नोपच्छिनत्ति यद् उत प्रकृतिशून्यता, एषा सा बुद्धानां भगवतां बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि बुद्धा भगवन्तस् तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते ऽनागते ऽध्वनि भविष्यन्ति बुद्धा भगवन्तः तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते एतर्हि दशदिग्लोकधातुषु बुद्धा भगवन्तः तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, नान्यत्र प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, बुद्धानां भगवतां तेषां चान्तिके तथा बोधिसत्त्वेन महासत्त्वेन प्रकृतिशून्यता पारमितायां चरितव्यं, यथा चरन् न परिहीयते सर्वाकारज्ञतायाः.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते ऽन्यद् रूपं स्याद् अन्या प्रकृतिशून्यता, अन्या वेदना अन्या संज्ञा अन्ये संस्कारा, अन्यद् विज्ञानम् अन्या प्रकृतिशून्यता, अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अन्या प्रकृतिशून्यता, अन्याः पारमिताः, अन्यानि शून्यतामुखानि, अन्ये बोधिपक्ष्या धर्मा, अन्ये आर्यसत्याप्रमणध्यानारूप्यसमापत्तिविमोक्षसमाधिधारणीमुखा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अन्या प्रकृतिशून्यता, अन्या अनुत्तरा सम्यक्संबोधिर् अन्या प्रकृतिशून्यता, न सुभूते रूपं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अभिसंभोत्स्यते, न वेदनां न संज्ञां न संस्कारान् न विज्ञानं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अभिसंभोत्स्यते. यस्मात् तर्हि सुभूते रूपं प्रकृतिशून्यता, वेदना संज्ञा संस्कारा, विज्ञानं प्रकृतिशून्यता, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि प्रकृतिशून्यता, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखानि सर्वविमोक्षाः सर्वसमापत्तयः सर्वाभिज्ञाः सर्वाणि ध्यानानि सर्वाण्य् अप्रमाणानि सर्वा आरूप्यसमापत्तयः सर्वतथागतबलानि सर्वबोधिसत्त्वभूमयश् चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रकृतिशून्यता, अनुत्तरा सम्यक्संबोधिः प्रकृतिशून्यता, तस्मात् तर्हि सुभूते बोधिसत्त्वो महासत्त्वो रूपं सर्वाकारज्ञतायाम् अभिसंबुध्येत, वेदना संज्ञा संस्कारान्, विज्ञानं सर्वाकारज्ञतायाम् अभिसंबुध्येत, यावद् बोधिं सर्वाकारज्ञतायाम् अभिसंबुध्येत. यस्मात् सुभूते प्रकृतिशून्यतैव रूपं रूपम् एव प्रकृतिशून्यता, वेदना संज्ञा संस्काराः, प्रकृतिसून्यतैव विज्ञानं विज्ञानम् एव प्रकृतिशून्यता, प्रकृतिशून्यतैव बोधिर् बोधिर् एव प्रकृतिशून्यता, तस्मात् सुभूते बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यान् सर्वधर्मान् विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं प्रतिष्ठेत्. तत् कस्य हेतोः? न हि तत्र कश्चिद् धर्मो विनश्यति वा कूटस्थो वा भवत्य् अवक्रामति वान्यत्र सदेवको लोकः समारकः सब्रह्मकः सश्रमणब्राह्मणिका प्रजाः, सदेवमानुषासुरा न रूपं यथाभूतं प्रजानन्ति, न वेदनान् न संज्ञान् न संस्कारान्, न विज्ञानं (PSP_६-८:१०१) यथाभूतं प्रजानन्ति, अप्रजानन्तो रूपम् अभिनिविशन्ते, वेदनां संज्ञां संस्कारान्, विज्ञानम् अभिनिविशन्ते ऽभिनिविश्याहंकारममकारे चरन्ति ते ऽहंकारममकाराव् अभिनिविश्याध्यात्मिकबाह्यानि वस्तूनि अभिनिविशन्त उपलभन्ते, अभिनिविश्योपलभ्य रूपं रूपत्वेन परिगृह्णन्ति, वेदनां वेदनात्वेन संज्ञां संज्ञात्वेन संस्कारान् संस्कारत्वेन, विज्ञानं विज्ञानत्वेन परिगृह्णन्ति, ते न परिमुच्यन्ते जात्या जरया मरणेन शोकेन परिदेवेन दुःखेन दौर्मनस्येन न परिमुच्यन्ते, उपायासेन न परिमुच्यते पञ्चगतिकात् संसारात्, तत्र बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतापारमितायां स्थित्वा रूपं न विकोपयति शून्यम् इति वाशून्यम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं न विकोपयति शून्यम् इति वाशून्यम् इति वा, एवं सर्वसमाधीन् सर्वधारणीमुखानि सर्वविमोक्षान्, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबोधिसत्त्वभूमीर् दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न विकोपयति शून्या इति वाशून्या इति वा. तत् कस्य हेतोः? न हि शून्यता विकोपयतीदं रूपम् इयं वेदना इयं संज्ञा इमे संस्कारा, इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादा इमानि प्रतीत्यसमुत्पादाङ्गानि, इयं शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि, इमाः शून्यतानिमित्ताप्रणिहिताभिज्ञा इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा इयम् अनुत्तरा सम्यक्संबोधिः. तद्यथापि नाम सुभूते नाकाशम् आकाशं विकोपयति, अध्यात्मिकं वा बाह्यं वा न चाध्यात्मिकम् आकाशं बाह्यम् आकाशं विकोपयति, न च बाह्यम् आकाशम् आध्यात्मिकम् आकाशं विकोपयत्य्, एवं एव सुभूते न रूपं शून्यतां विकोपयति, न च शून्यता रूपं विकोपयति. तत् कस्य हेतोः? न हि तस्य स्वभावो ऽस्ति य एवं विकोपयत्य् अयं शून्यो ऽयं न शून्यः, एवं विस्तरेण सर्वधर्मेषु कर्तव्यम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न भेदः सर्वध्र्माणां कुतो भगवन् बोधिसत्त्वो महासत्त्वः संप्रस्थितो भवत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं? न (PSP_६-८:१०२) हि भगवन् द्वैधीकारा बोधिर्, न द्वयचरितेन शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न द्वयचरितस्य बोधिर् न द्वैधीकारा बोधिः, अद्वया हि सुभूते बोधिर् अद्वैधीकारा, न सुभूते बोधिसत्त्वो महासत्त्वो ऽद्वैधीकारेण चरति बोधौ, नैव च बोधिसत्त्वस्य महासत्त्वस्य बोधी रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति, न स्कन्धधात्वायतनेषु चरति न प्रतीत्यसमुत्पादेषु चरति, न प्रतीत्यसमुत्पादाङ्गेषु चरति, न प्रतीत्यसमुत्पन्नेषु धर्मेषु चरति, न शून्यतासु चरति, न बोधिपक्ष्येषु धर्मेषु चरति, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, न शून्यतानिमित्ताप्रणिहिताभिज्ञासु चरति, न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरति, न सम्यक्संबोधौ चरति. तत् कस्य हेतोः? न हि बोधिर् अहम् इति शब्दो रूपे चरति, वेदनायां संज्ञायां संस्कारेषु, न बोधिर् अहम् इति शब्दो विज्ञाने चरति, एवं यावन् न बोधिर् अहम् इति शब्दः सम्यक्संबोधौ चरति, न बोधिसत्त्वस्य महासत्त्वस्य सम्यक्संबोधिर् उद्ग्रहे चरति.
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य न बोधिर् उद्ग्रहे वानुद्ग्रहे वा चरति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिर् नोद्ग्रहे वानुद्ग्रहे वा चरति न (PSP_६-८:१०३) रूपे न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति, न स्कन्धधात्वायतनेषु न प्रतीत्यसमुत्पादेषु न प्रतीत्यसमुत्पादाङ्गेषु न पारमितासु न शून्यतासु न बोधिपक्ष्येषु धर्मेषु नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु न शून्यतानिमित्ताप्रणिहिताभिज्ञासु न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न सर्वाकारज्ञतायां चरति. कथं पुनर् बोधिसत्त्वो महासत्त्वो दशसु बोधिसत्त्वभूमिषु चरित्वा षट्सु पारमितासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु सर्वशून्यतासु ध्यानेष्व् अप्रमाणारूप्यसमापत्तिषु विमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिष्व् आर्यसत्येष्व् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेषु दशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महाकरुणायां द्वात्रिंशन्महापुरुषलक्षणेष्व् अशीत्यनुव्यञ्जनेषु पञ्चस्व् अभिज्ञासु स्थित्वा बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रञ् च परिशोध्य सत्त्वांश् च परिपाच्य सर्वाकारज्ञताम् अभिसंभोत्स्यते. न च भगवन्न् अस्थित्वा दशसु बोधिसत्त्वभूमिषु षट्सु पारमितासु सर्वशून्यतासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु महाकरुणायां पञ्चस्व् अभिज्ञास्व् अस्थित्वा बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रञ् चापरिशोध्य सत्त्वाञ् चापरिपाच्य शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि, न शक्यापरिपूरयित्वा दशबोधिसत्त्वभूमीर् दशपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् महामैत्रीं महाकरुणां महामुदितां महोपेक्षां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनान्य् अपरिपूरयित्वानुत्तरा सम्यक्संबोधिर् अभिसंबोधुं, परिपूरयित्वा पुनः सुभूते शक्या दशभूमीर् दशपारमिताः सर्वशून्यताश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र (PSP_६-८:१०४) आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि यावद् आर्याष्टाङ्गमार्गशून्यतानिमित्ताप्रणिहितानि त्रीणि विमोक्षमुखानि यावद् अशीत्यनुव्यञ्जनानि महामैत्री महाकरुणां महामुदितां महोपेक्षां परिपूरयित्वा सर्वाकारज्ञतानुप्राप्तुं, तत् पुनः सुभूते रूपप्रकृतौ स्थित्वा वेदना संज्ञा संस्कारा, विज्ञानप्रकृतौ स्थित्वा यावद् बोधिप्रकृतौ स्थित्वा सा च प्रकृतिर् उपशान्ता न कस्यचिद् धर्मस्योपचयं वा करोत्य् अपचयं वा करोत्य् उत्पादं वा निरोधं वा उच्छेदं वा शाश्वतं वा संक्लेशं वा व्यवदानं वा प्राप्तिं वाभिसमयं वा. इत्य् अद्वयधर्मनिवेशनकर्म
SK
स खलु सुभूते लोकव्यवहारप्रज्ञप्तिधर्मम् उपादाय बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न पुनर् अत्र परमार्थं कश्चिद् अस्ति रूपं वा वेदना वा संज्ञा वा संस्कारा वा, विज्ञानं वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादा वा प्रतीत्यसमुत्पादाङ्गानि वा पारमिता वा शून्यता वा बोधिपक्ष्या वा धर्मा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि वा विमोक्षमुखानि वाभिज्ञा वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा अनुत्तरा सम्यक्संबोधिर् यो वानुत्तरायां सम्यक्संबोधौ चरेत्, सर्व एते धर्मा लोकव्यवहारम् उपादाय प्रज्ञप्ता न पुनः परमार्थेन. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय बोधये चरति, न पुनस् तच् चित्तम् उपलभते न सत्त्वं न बोधिं, तत् किं मन्यसे? सुभूते यस्मिन् समये सुभूतिना क्लेशाः प्रहीना इन्द्रियाणि प्रतिलब्धानि, आनन्तर्यश् च समाधिः प्रतिलब्धः स्रोतआपत्तिफलं वा प्राप्तं सकृदागामिफलं वा प्राप्तम् अनागामिफलं वा प्राप्तं वार्हत्त्वं वा प्राप्तम्, अपि नु तस्मिन् समये स्वप्न उपलभ्यते, चित्तस्य मार्गो वा मार्गफलं वा.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् कथं सुभूतिनाम्ना स्थविरेण त्वयार्हत्त्वं प्राप्तम् इति प्रज्ञप्तम्?
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् उपायकौशल्येन रूपं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि रूपस्य स्वभावो नास्ति यो योजयति वा वियोजयति वा, वेदना संज्ञा संस्कारा, विज्ञानं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि विज्ञानस्य स्वभावो नास्ति यो योजयति वा वियोजयति वा, एवं न दानपारमिता न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता योजयति न वियोजयति. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति यो योजयति वा वियोजयति वा, एवं स्कन्धधात्वायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि न सप्तत्रिंशद्बोधिपक्ष्या धर्मा नाध्यात्मशून्यता न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न यावद् अभावस्वभावशून्यता नाप्रमाणध्यानारूप्यसमापत्तयो नार्यसत्यानि (PSP_६-८:१०७) न शून्यतानिमित्ताप्रणिहितानि न विमोक्षसमाधिसमापत्तिधारणीमुखानि नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा योजयन्ति न वियोजयन्ति. तत् कस्य हेतोः? तथा हि बुद्धधर्माणां स्वभावो नास्ति यो योजयति वा वियोजयति वा.
SK
सारिपुत्र आह: यदि भगवन् न कस्यचिद् धर्मस्य स्वभावः संविद्यते यो योजयति वा वियोजयति वा, कथं प्रज्ञापारमिताया अभिनिर्हारो भवति, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, न ह्य् अशिक्षित्वा प्रज्ञापारमितायां शक्या बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: न खलु पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कश्चिद् उपलंभः. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चित् सत्त्वम् उपलभते ऽन्यत्र संवृत्तिसंकेतेन व्यवहरति, तच् छारिपुत्र बोधिसत्त्वो महासत्त्वो द्वाभ्यां सत्याभ्यां स्थित्वा सत्त्वानां धर्मं देशयति, न हि शारिपुत्र द्वाभ्यां सत्याभ्यां सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिः, अपि तु खलूपायकौशल्येन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, तत् ते सत्त्वा दृष्ट एव धर्म आत्मानं नोपलभन्ते, प्राग् एव यः प्रापयिष्यति, येन वा प्रापयिष्यति, एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति.
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: महोत्पादो बतायं भगवन् बोधिसत्त्वो महासत्त्वो न च नाम भगवन् कस्यचिद् धर्मस्यैकत्वं वा नानात्वं वा पृथक्त्वं वा उपलभते, एवंरूपं च संनाहं संनह्यते येन संनाहेन संनह्य न कामधातौ दृश्यते, न रूपधातौ दृश्यते, नारूप्यधातौ दृश्यते, न संस्कारधातौ दृश्यते, नासंस्कृतधातौ दृश्यते, सत्त्वांश् च त्रैधातुकान् मोचयति, न च सत्त्वं सत्त्वप्रज्ञप्तिम् उपलभते, सत्त्वाप्रज्ञप्त्या सत्त्वाबन्धः सत्त्वामोक्षः सत्त्वाबन्धामोक्षाद् असंक्लेशाव्यवदानम् असंक्लेशाव्यवदानान् न गतिसंभेदः प्रज्ञायते, गत्यसंभेदतया न कर्म न संक्लेशः, अकर्मासंक्लेशस्य कुतो विपाको भविष्यति, येन विपाकेनात्मना सत्त्वाः पञ्चगतिके संसारे संदृश्येरन्.
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवम् एतच् छारिपुत्रैवम् एतद् यथा वाचं भाषसे, सचेत् पूर्वं सत्त्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, बोधिसत्त्वो ऽपि तथागतो ऽपि पूर्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, पञ्चगतिको वा संसारः पूर्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, यस्मात् तर्हि शारिपुत्रोत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैव एषा धर्माणां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतानन्यतथता, तत्र नात्मा न सत्त्वो न जीवो न जन्तुर् (PSP_६-८:१११) न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यकः, तत् कुतो रूपं भविष्यति, कुतो वेदना कुतः संज्ञा कुतः संस्काराः, कुतो विज्ञानम् इति भविष्यति, कुतः स्कन्धधात्वायतनानि कुतः प्रतीत्यसमुत्पादः कुतः प्रतीत्यसमुत्पन्नधर्माः कुतः प्रतीत्यसमुत्पादाङ्गानि भविष्यन्त्य्, असताम् एषां धर्माणां कुतः पञ्चगतिकः संसारो भविष्यति, यतः सत्त्वाः परिमोचयितव्याः स्युर् यस्मात् तर्हि शारिपुत्र इमे धर्मा ईदृशाः स्वभावशून्यास् तद् बोधिसत्त्वो महासत्त्वः पूर्वकाणां बुद्धानां भगवताम् अन्तिकाच् छ्रुत्वानुत्तरायां सम्यक्संबोधौ संप्रस्थितो, न चात्र कश्चिद् धर्मस्वभावो यम् उपलभते यो वा शक्यो ऽधिमोक्तुं, यत्र बालपृथग्जना अभिनिविष्टा अन्यत्र विपर्यासे, तद् बोधिसत्त्वो महासत्त्वः संनाहं संनह्यते येन संनाहेन संनह्य न प्रत्युदावर्तते ऽनुत्तरायां सम्यक्संबोधौ, मया नाभिसंबोद्धव्यानुत्तरा सम्यक्संबोधिर्, अभिसंबोधव्यैवानुत्तरा सम्यक्संबोधिर्, अभिसंबुध्य च धर्मेणार्थं करिष्यामि, येनार्थेन सत्त्वान् विपर्यासात् परिमोचयिष्यामि, तद्यथापि नाम शारिपुत्र मायाकारनिर्मितः पुरुषो बहूनि प्राणिकोटिनियुतशतसहस्राण्य् अभिनिर्मिमीते, अभिनिर्माय प्रभूतेन खादनीयभोजनीयस्वादनीयेन संतर्प्ययेत्, संतर्प्यैवम् उदानम् उदानयेद् बहु मे पुण्यं प्रसूतम् इति. तत् किं मन्यसे? शारिपुत्रापि नु तत्र कश्चिद् भोजितो वा संतर्पितो वा भवेत्.
कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् प्रज्ञापारमितया परिगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् एवम् अववदति, किम् इदं भोः सत्त्वा यूयं प्रज्ञापारमितान् न भावयथ? त एवम् अवोचत्, प्रत्ययवैकल्येनेति, तान् बोधिसत्त्वो महासत्त्वः सत्त्वान् एवम् अववदति, ममोपरि पूरयम् उपकरणं गृह्णीत ममोपर्य् उपकरणं गृहीत्वा दानं ददत, शीलं रक्षत क्षान्त्या संपादयत वीर्यम् आरभध्वं ध्यानं संपादयध्वम्, इमान् आकारान् परिपूर्यैव मीमांसयत, अस्ति कश्चिद् यः प्रज्ञापरमिताभावनायाम् उपलभ्यते? आत्मा वा सत्त्वो वा जिवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनुजो वा मानवो वा कारको वा वेदको वा जानको वा पश्यको वा कामधातुर् वा रूपधातुर् वा आरूप्यधातुर् वा षट्पारामिता वा सर्वशून्यता वा सप्तत्रिंशद्बोधिपक्ष्या वा धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो वा शून्यतानिमित्ताप्रणिहितानि वाष्टविमोक्षा वा नवानुपूर्वविहारसमापत्तयो वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा यावद् अनुत्तरा वा सम्यक्संबोधिः, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मम् उपलभते यम् उपलभ्याभिनिविशेत सो ऽनभिनिवेशमानो न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यत्य् असमनुपश्यन् न कल्पयत्य् अयं नैरयिको ऽयं तिर्यग्योनिको ऽयं यामलौकिको ऽयम् असुरो ऽयं देवो ऽयं मनुष्यो ऽयम् अमनुष्यः, अयं शीलवान् अयं दुःशीलो अयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् प्रज्ञापारमितायां परिगृह्णाति. (PSP_६-८:११८)
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः शून्याः, कथं बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु शिक्षिष्यते? न तु भगवन्न् अप्रपञ्चन् न प्रपञ्चयति, इयन्त इति वा नेयन्त इति वा, अयं धर्मो लौकिको वा लोकोत्तरो वा सास्रावो वा अनास्रवो (PSP_६-८:१२०) वा संस्कृतो वासंस्कृतो वा पृथग्जनधर्मो वार्हद्धर्मो वा प्रत्येकबुद्धधर्मो वा बुद्धधर्मो वा.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत् सर्वधर्माः शून्या, यदि पुनः सुभूते सर्वधर्माः शून्या नाभविष्यन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यस्मात् सुभूते सर्वधर्माः शून्यास् तद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, अपि तु खलु सुभूते यद् एवं वदसि, यदि सर्वधर्माः शून्याः, कथं बोधिसत्त्वो महासत्त्वो धर्मनानात्वं करोति, इयन्त इति वा नेयन्त इति वा, अयं धर्मो लौकिको वा लोकोत्तरो वा सास्रवो वा अनास्रवो वा संस्कृतो वासंस्कृतो वा पृथग्जनधर्मो वार्हद्धर्मो वा प्रत्येकबुद्धधर्मो वा बुद्धधर्मो वेति. किं पुनः सुभूते एते सत्त्वा एवं जानन्ति सर्वधर्माः शून्या इति यदि जानीयुर् नैमां बोधिसत्त्वा महासत्त्वाः सर्वधर्मेषु शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, यस्मात् तर्हि सुभूते न जानन्ति सर्वधर्माः शून्या इति, तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वधर्माणां व्यवस्थानं कृत्वा सत्त्वानां धर्मं देशयति. इति बोधिसत्त्वमार्गनिवेशनकर्म
SK
तत्र बोधिसत्त्वेन महासत्त्वेन बोधिमार्गे चरता प्रथमम् एवम् उपपरीक्षितव्यं, नात्र कश्चिद् धर्मो यः स्वेन भावेनोपलभ्यते ऽन्यत्राभिसंस्कारेण, तत्र खलु धर्माणां स्वभावम् उपपरीक्षेयम् अहम् उपपरीक्षमाणो न क्वचिद् धर्मे ऽभिनिवेशेय यदि वा पारमितासु यदि वा शून्यतासु यदि वा सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु यदि वा स्रोताअपत्तिफले यदि वा सकृदागामिफले यदि वानागामिफले यदि वार्हत्त्वे यदि वा प्रत्येकबोधौ यदि वानुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि स्वभावेन सर्वधर्माः शून्या न हि शून्यता शून्यतायाम् अभिनिविशते, शून्यतैव तावन् नोपलभ्यते प्राग् एव (PSP_६-८:१२१) शून्यतायाम् अभिनिवेक्ष्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽनभिनिविष्टः सर्वधर्मेषु विहरति, अत्र शिक्षायां स्थित्वा सत्त्वान् अवलोकयति, कुत्रेमे सत्त्वाश् चरन्त्य् असंग्रहे तद् बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, सुमोचना बतेमे सत्त्वा असंग्रहात्, तत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन प्रज्ञापारमितायां स्थित्वा एवम् अववदति, एते यूयं भोः सत्त्वा दानं ददत ततो युष्माकम् अवैकल्यं भविष्यति भोगेषु, तेषु च भोगेषु मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं शीले ऽववदति तेन च शीलेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं क्षान्तिसौरत्ये ऽववदति तया च क्षान्त्या मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं वीर्ये ऽववदति मा च तेन वीर्येण मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं ध्याने ऽववदति तेन च ध्यानेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं प्रज्ञापारमितायाम् अववदति तया च प्रज्ञया मा मंस्याध्वं न तत्र किंचित् सारम् अस्ति. एवं स्रोतआपत्तिफले ऽववदति तेन च स्रोतआपत्तिफलेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं सकृदागामिफले ऽनागामिफले, एवम् अर्हत्त्वे ऽववदति तेन चार्हत्त्वेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं प्रत्येकबोधाव् अववदति तया च प्रत्येकबोध्या मा मंस्यध्वम्. एवं बुद्धधर्मेष्व् अववदति तैश् च बुद्धधर्मैर् मा मंस्यध्वं न तेषु किंचित् सारम् अस्ति. स एवम् अववदन् बोधिमार्गे चरति, न क्वचिद् धर्मे ऽभिनिविशते. तत् कस्य हेतोः? अनभिनिविष्टाश् च सर्वधर्मास् तथा ह्य् एषां स्वभावो नास्ति ये नाभिनिविशेत शून्यतास्वभावताम् उपादाय. तत् सुभूते बोधिसत्त्वो महासत्त्वो मार्गे चरन् न क्वचित् प्रतिष्ठते सो ऽप्रतिष्ठानयोगेन दानपारमितायां चरति तत्र च न प्रतिष्ठते, शीलपारमितायां चरति तत्र च न प्रतिष्ठते, क्षान्तिपारमितायां चरति तत्र च न प्रतिष्ठते, वीर्यपारमितायां चरति तत्र च न प्रतिष्ठते, ध्यानपारमितायां चरति तत्र च न प्रतिष्ठते, प्रज्ञापारमितायां चरति तत्र च न प्रतिष्ठते, स प्रथमं ध्यानं समापद्यते तत्र च न प्रतिष्ठते. तत् कस्य हेतोः? तथा हि ध्यानं स्वभावेन शून्यं यद् अपि समापद्यते तद् अपि शून्यं यैर् आकारैः समापद्यते ते ऽप्य् आकाराः शून्याः, एवं (PSP_६-८:१२२) द्वितीयं ध्यानं समापद्यते, एवं तृतीयं ध्यानं समपद्यते, एवं चतुर्थं ध्यानं समापद्यते, एवं मैत्रीकरुणामुदितोपेक्षा एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिंचन्यायतनं नैवसंज्ञानासंज्ञायतनं समापद्यते, एवम् अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीर्, एवं शून्यतानिमित्ताप्रणिहितानि समापद्यते, स्रोतआपत्तिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, सकृदागामिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, अनागामिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, ऽर्हत्त्वं च प्रतिलभते न च तत्र प्रतिष्ठते, प्रत्येकबुद्धभूमिञ् च प्रतिलभते न च तत्र प्रतिष्ठते.
SK
सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वो महासत्त्वो न प्रतिष्ठते?
SK
भगवान् आह: द्वाभ्यां कारणाभ्यां सुभूते न प्रतिष्ठते. कतमाभ्यां द्वाभ्याम्? स्वभावश् च तेषां फलं नास्ति यत्र प्रतिष्ठेत येन वा प्रतिष्ठेत यो वा प्रतिष्ठेत, न च तावन्मात्रकेन तुष्टिम् आपद्यते, न च मया स्रोतआपत्तिफलं न प्राप्तव्यं प्राप्तव्यं मया स्रोतआपत्तिफलं न च तत्र स्थातव्यम्, एवं सकृदागामिफलम् अनागामिफलं, न च मयार्हत्त्वं न प्राप्तव्यं प्राप्तव्यं मयार्हत्त्वं न च तत्र स्थातव्यं, न च मया प्रत्येकबुद्धभूमिं न प्राप्तव्या प्राप्तव्या मया प्रत्येकबुद्धभूमिर् न च तत्र स्थातव्यं, यद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यति, द्वाभ्यां कारणाभ्यां न प्रतिष्ठते. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय नान्यत्र चित्तं प्रतिलब्धम् अन्यत्रानुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रथमाम् अपि भूमिम् उपादाय वर्तमानो ऽन्यत्र न किंचिच् चित्तम् उत्पादयत्य् अन्यत्रानुत्तरायाः सम्यक्संबोधेः. एवं यावद् दशमीं भूमिम् उपादाय वर्तमानो नान्यत्र किंचिच् चित्तम् उत्पादयत्य् अनुत्तरायाः सम्यक्संबोधेः, यावद् बोधिसत्त्वन्यामम् अवक्रान्तेर् नान्यत्र किंचिच् चित्तम् उत्पादितम् अन्यत्रानुत्तरायाः सम्यक्संबोधेर् अतृप्तमानसः. स सुभूते बोधिसत्त्वो महासत्त्वो यावद् एव कायेन (PSP_६-८:१२३) वा पराक्रमते वाचा वा मनसा वा पराक्रमते, नान्यत्र बोधिचित्तात् तद् बोधिसत्त्वो महासत्त्वो बोधिचित्ते स्थित्वाविक्षिप्तमानसो बोधिमार्गम् उत्पादयति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा अनुत्पन्नाः कथं बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्मा अनुत्पन्नास् तत् पुनः कथं येनाभिसंस्कुर्वन्ति, तेषां सर्वधर्मा अनुत्पन्नाः?
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न पुनर् भगवन्न् अनुत्पादाद् वा तथागतानाम् उत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता, ये पुनर् इमां धर्मस्थितितान् न जानन्ति तेषाम् अर्थाय बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति येन मार्गेण सत्त्वान् मोचयति संसारात्. इति सर्वाभिनिवेशप्रहाणनिवेशनकर्म
भगवान् आह: न सुभूते नियतः पतितो बोधिसत्त्वो महासत्त्वो ऽपायेषूपपत्स्यते. तत् किं मन्यसे? सुभूते अपि त्व् अष्टमको वा स्रोतआपन्नो वा सकृदागामि वा अनागामि वार्हन् वा प्रत्येकबुद्धो वा नियतो ऽपायेषूपपत्स्यन्ते.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽपायेषूपपत्स्यते नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि यः पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानं ददाति शीलं रक्षति क्षान्तिं संपादयति वीर्यम् आरभते ध्यानं समापद्यते प्रज्ञां भावयति, मैत्रीं करुणां मुदिताम् उपेक्षां सत्त्वेषु भावयति, सर्वान् अकुशलान् धर्मान् प्रहाय तिष्ठति, सो ऽपायेषूपपत्स्यते नेदं स्थानं विद्यते, दीर्घायुष्केषु वा देवेषूपपत्स्यते नेदं स्थानं विद्यते, यत्रापचारः कुशलानां धर्माणां प्रत्यन्तेषु वा जनपदेषूपत्स्यते नेदं स्थानं विद्यते, मिथ्यादृष्टिकेषु वा कुलेषूपपद्यते नेदं स्थानं विद्यते, तत्र चोपपत्स्यते यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दः श्रुयते नेदं स्थानं विद्यते, अक्रियादृष्टिकेषु वा कुलेषूपपत्स्यते नेदं स्थानं विद्यते, अपि तु खलु सुभूते प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो ऽध्याशयेन दशाकुशलान् कर्मपथान् अध्यापद्येत नेदं स्थानं विद्यते.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्व एवं कुशलधर्मसमन्वागतो यद् उत नाप्रतिरूपेषु स्थानेषूपपत्स्यते, तत् किं तथागतेनात्मना जातकानि निर्दिष्टानि, इमे पुनः कुशला धर्माः क्वगताः?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न पुनः सुह्बूते बोधिसत्त्वो महासत्त्वो ऽसंचिन्त्यतम् आत्मभावं परिगृह्णाति, (PSP_६-८:१३२) येनात्मभावेन सत्त्वानाम् अर्थः कर्तव्यः तम् आत्मभावं सत्त्वानाम् अर्थाय प्रतिगृह्णाति, किं पुनः सुभूते ऽस्त्य् एतद् अर्हतः प्रत्येकबुद्धस्य वा उपायकौशल्यं येनोपायकौशल्येन समन्वागतस् तिर्यग्योनाव् उपपन्नः स्यात्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तथागतस्य तद् उपायकौशल्यम् अस्ति येन तत्रोपपन्नः स्याद्, ये च तत्र वधाय पराक्रमन्ते तान् अनुत्तरायां क्षान्तौ समादापयति विनये प्रतिष्ठापयति तेषाम् एव चार्थे आत्मानं परित्यजयति, न च तेषां सत्त्वानां विहेठना भवति, तद् अनेन ते सुह्बूते पर्यायेनैवं वेदितव्यं तथा बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थाय महाकरुणां परिपूरयमाणो ऽनुत्तरायां सम्यक्संबोधौ तिर्यग्योनौ वर्तते.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानास्रवेण धर्मेण समन्वागतस् तत् तथारूपम् आत्मभावं परिगृह्णाति, येनात्मभावेन समन्वागतः सत्त्वानां कृत्यं करोति, न च तथारूपां वेदनां प्रत्यनुभवति.
SK
सुभूतिर् आह: न हि भगवन् दुष्खा अपाया?
SK
भगवान् आह: तत् किं मन्यसे? सुभूते मायाकारा मायां दर्शयति, हस्तिविग्रहं वाश्वविग्रहं वा बलीवर्दविग्रहं वान्यान् वा विविधान् प्राणकजातान् दर्शयत्य् अपि तु स हस्ती वा भवति, अश्वो वा बलीवर्दविग्रहो वान्ये वा विविधाः प्राणकजाता भवन्ति.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानास्रवेण धर्मेण समन्वागतः सञ्चिन्त्य तथारूपम् आत्मभावं परिगृह्णाति येनात्मभावेण समन्वागतः सत्त्वानां कृत्यं करोति, न च तथारूपां वेदनां प्रत्यनुभवति.
भगवान् आह: कतमो वा सुभूते धर्मोए यः प्रज्ञापारमितायां नान्तर्गतः?
SK
सुभूतिर् आह: यद् भगवन् प्रज्ञापारमितास्वभावेन शून्या, तत् कथं प्रज्ञापारमितायां सर्वधर्मा अन्तर्गताः, न हि भगवञ् छून्यतायां कश्चिद् धर्मान्तर्गतः?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न पुनः सुभूते सर्वधर्माः सर्वधर्मैः शून्याः, न च सर्वधर्माः शून्यतायाम् अन्तर्गताः. इत्य् अप्रमेयसत्त्वार्थनिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मे शून्यतायां स्थित्वा अभिज्ञापारमिताम् अभिनिर्हरति, यास्व् अभिज्ञासु स्थित्वा पूर्वस्यान् दिशि गङ्गानदी वालुकोपमान् लोकधातून् गच्छति, तेषु च लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् पर्युपास्ते धर्मञ् च शृणोति तेषु च बुद्धेषु भगवन्सु कुशलमूलान्य् अवरोपयत्य्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्धवं विदिक्षु गङ्गानदीवालुकोपमान् लोकधातून् गच्छति, तेषु च लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् पर्युपास्ते धर्मञ् च शृणोति तेषु बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयति. (PSP_६-८:१३५)
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ये ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस् तान् सर्वान् शून्यान् पश्यति, ये ऽपि तत्र बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि बुद्धा भगवन्तः स्वभावेण शून्या, अन्यत्र नामसंकेतात् प्रज्ञाप्तिम् उपादाय निर्दिश्यन्ते, सा च सर्वा प्रज्ञप्तिः स्वभावेन शून्या. यदि ते लोकधातवो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि बुद्धा भगवन्तो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि प्रज्ञप्तिसमुदाचारा न स्वभावेन शून्या अभविष्यंस्, तत्प्रादेशिकी शून्यताभविष्यद् यस्मात् प्रादेशिकी शून्यता नोपलभ्यते तस्मात् सर्वधर्मा सर्वधर्मैः शून्याः.
SK
अत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन प्रज्ञापारमितायां चरन्न् अभिज्ञापारमिताम् अभिनिर्हरति, यास्व् अभिज्ञासु स्थित्वा दिव्यञ् चक्षुर् अभिनिर्हरति, दिव्यं श्रोत्रम् ऋद्धिविधिज्ञानं पूर्वनिवासं च्युत्युपपत्तिम् अभिनिर्हरति. आभिर् अभिज्ञाभिर् बोधिसत्त्वेन महासत्त्वेन शक्यानुत्तरां सम्यक्संबोधिर् अभिसंबोद्धुं, यद् इयं बोधिसत्त्वस्य महासत्त्वस्याभिज्ञापारमितायां बोधिर् अन्तर्गता, अभिज्ञासु बोधिर् अन्तर्गता मार्गयितव्यायां मार्गयमाणो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेणात्मनस् तान् कुशलान् धर्मान् पश्यति, परांश् च कुशलेषु धर्मेषु नियोजयति, न च कुशलेषु धर्मेष्व् अभिनिवेक्ष्यते. तत् कस्य हेतोः? तथा हि ते सर्वकुशला धर्माः स्वभावेन शून्याः, न च शून्यता क्वचिद् अभिनिवेक्ष्यते यद् अभिनिवेशम् आस्वादयिष्यति निःस्वभावशून्यता.
तद् बोधिसत्त्वो महासत्त्वो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण पूर्वस्यां दिशि दक्षिणस्यां दिशि पश्चिमायां दिश्य् उत्तरस्यां दिश्य् अध ऊर्ध्वलोकधातुषु यावद् विदिक्षु लोकधातुषु सत्त्वान् पश्यति, (PSP_६-८:१३६) स तत्रर्द्ध्या गत्वा सत्त्वानाम् अर्थं करोति, यदि वा दानेन यदि वा शीलेन यदि वा क्षान्त्या यदि वा वीर्येण यदि वा ध्यानेन यदि वा प्रज्ञया यदि वा सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् यदि वाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखैर् यदि वा श्रावकप्रत्येकबुद्धधर्मैर् यदि वा बोधिसत्त्वधर्मैर् यदि वा बुद्धधर्मैस् तेषां सत्त्वानां कृत्यं करोति.
SK
तत्र ये सत्त्वा मत्सरिणस् तेषाम् एवं धर्मं देशयति, ददत दानन् दुष्खं हि भोः पुरुषा दारिद्र्यन् न च दारिद्र्येण शक्यम् आत्मनो ऽर्थः कर्तुं प्राग् एव परस्य, तस्माद् यूयम् आत्मना च सुखिनो भविष्यथ परांश् च सुखयिष्यथ मा दारिद्र्येणान्येषां मांसानि खादयन्तो न मोक्ष्यथ त्रिभिर् अपायैः.
SK
ये दुःशीला सत्त्वास् तेषाम् एवं धर्मं देशयति, दुःखं हि भोः पुरुषा दौःशील्यं न च दौःशील्येन शक्यम् आत्मनो ऽथः कर्तुं प्राग् एव परस्य, दौःशील्यस्य च यो विपाको नरको वा तिर्यग्योनिर् वा यमलोको वा तत्र यूयं त्रिष्व् अपायेषु प्रपतिता आत्मानम् एव न शक्यथोद्धर्तुं प्राग् एव परं, तद् भवद्भिर् एकदौशील्यचित्तस्याप्य् अवकाशो न दातव्यः, मा पश्चात् प्रभूतं कालं तप्यत.
SK
ये सत्त्वाः प्रतिहतचित्ताः परस्य चं क्रुध्यन्ति व्यापद्यन्ते दोषम् उत्पादयताम् एषाम् एवं धर्मं देशयति, मा भवन्तो ऽन्योन्यं क्षुभ्यथान्योन्यं व्यापद्यध्वे मा दोषम् उत्पादयत क्षुब्धचित्तस्य हि न कश्चित् कुशलो धर्म आमुखी भवति, तद् भवन्तो ऽन्योन्यम् एवं क्षुब्धचित्ता व्यापन्नचित्ताः स्थानम् एतद् विद्यते यन् नरकं वा प्रपतथा तिर्यग्योनिं वा यमलोकं वा, तद् भवद्भिर् एकचित्तेनापि न क्षोब्धव्यं प्राग् एवान्येषां चित्तानाम् अवकाशो दातव्यः.
SK
ये कुशीदाः सत्त्वास् तान् वीर्ये नियोजयति तेषाम् एवं धर्मं देश्यति, मा भवन्तः कौशीद्यम् आपद्यध्वं न कुसीदानां हीनवीर्याणां काचिच् छुभा प्रवृत्तिः स्थानम् एतद् विद्यते यत् कुशीदानान् नरको वा तिर्यग्योनिर् वा यमलोको वा तद् भवद्भिर् एकस्यापि कुशीदचित्तस्यावकाशो न दातव्यः प्राग् एवान्येषां चित्तानाम्.
SK
ये विक्षिप्तचित्ताः सत्त्वास् तान् सर्वान् ध्याने नियोजयति, तेषां एवं (PSP_६-८:१३७) धर्मं देशयति, मा भवन्तो मुषितस्मृतयो विक्षिप्तचित्ताश् च भवतन् मुषितस्मृतीनाम् विक्षिप्तचित्तानां वा कुशला धर्मा भवन्ति स्थानम् एतद् विद्यते, यं मुषितस्मृतीनां विक्षिप्तचित्तानां वा नरको वा तिर्यग्योनिर् वा यमलोको वा तद् भवद्भिर् एकस्यापि विक्षिप्तचित्तस्यावकाशो न दातव्यः, प्राग् एवान्येसाञ् चित्तानाम्.
SK
ये दुष्प्रज्ञाः सत्त्वास् तान् सर्वान् प्रज्ञायां नियोजयति, तेषाम् एवं धर्मं देशयति, मा यूयं दौष्प्रज्ञचित्तम् उत्पादयेध्वं नाप्रज्ञानां सुगतिगमनं भवति स्थानम् एतद् विद्यते यद् दुष्प्रज्ञानां नरको वा तिर्यग्योनिर् वा यमलोको वा, तद् भवद्भिर् एकचित्तोत्पादो ऽपि प्रज्ञाविरहितो नोत्पादयितव्यं प्राग् एवान्येषां चित्तोत्पादानाम् अवकाशो दातव्यः.
SK
ये रागचरिताः सत्त्वास् तान् शुभभावनायां नियोजयति, ये मार्गे ऽस्थिताः सत्त्वास् तान् मार्गे नियोजयति यदि वा श्रावकमार्गे नियोजयति, यदि वा प्रत्येकबुद्धमार्गे नियोजयति तेषाम् एवं धर्मं देशयति, यत्र भवन्तो ऽभिनिविष्टात् ते धर्माः स्वभावेन शून्याः, न स्वभावेन शून्येषु धर्मेषु शक्यम् अभिनिवेष्टुम् अनभिनिविष्टा च शून्यता.
नास्ति स सुभूते बोधिसत्त्वो महासत्त्वो यः शक्तो ऽभिज्ञास्व् अस्थित्वा सत्त्वानां धर्मदेशनां कर्तुम्, उत्पथप्रस्थितान् वा सत्त्वान् मार्गे ऽवतारयितुं नेदं स्थानं विद्यते. तद्यथा सुभूते ऽपक्षः पक्षी न शक्नोत्य् आकाशे क्रमितुम्, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽनागम्याभिज्ञा न शक्नोति सत्त्वानां धर्मं देशयितुं, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः.
SK
स इमाभिर् अभिज्ञाभिर् अभिनिर्हृताभिर् यद् आकाङ्क्षति सत्त्वानाम् अर्थं कर्तुं तत् करिष्यति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण गङ्गानदीवालुकोपमान् लोकधातून् द्रक्ष्यति तत्र सत्त्वा उत्पन्नास् तान् द्रक्ष्यति, दृष्ट्वा च तान् सत्त्त्वान् ऋद्ध्या गत्वा चेतसैव चित्तं प्रज्ञास्यति, चित्तं ज्ञात्वा तथाइव तेषां धर्मं देशयिष्यति, यदि वा दानकथां (PSP_६-८:१३८) यदि वा शीलकथां यदि वा क्षान्तिकथां यदि वा वीर्यकथां यदि वा ध्यानकथां यदि वा प्रज्ञाकथां यावन् निर्वाणकथां वा.
SK
स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेणोभौ शब्दौ श्रोष्यति मानुष्यञ् चामानुष्यञ् च, तत्र ये गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो धर्मं देशयति, तन् दिव्येन श्रोत्रधातुना श्रुत्वा तथाइवोद्ग्रहीष्यति तथाइवोद्गृह्य सत्त्वानां धर्मं देशयति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
SK
तस्य चेतःपर्यायज्ञानं सुविशुद्धं भविष्यति स तेन चेतःपर्यायज्ञानेन सुविशुद्धेन सत्त्वानां चित्तं प्रज्ञास्यति, चित्तं ज्ञात्वा तेषां तथाइव धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
SK
सो ऽनेकविधं पूर्वनिवासम् अनुस्परिष्यति, अप्य् आत्मनः परेषाम् अपि स तेन पूर्वनिवासानुस्मृतिज्ञानेन एवं ज्ञास्यति, एवंनामानि ते ऽभूवन् पूर्वकास् तथागता अर्हन्तः सम्यक्संबुद्धाः सश्रावकसंघास् तत्र ये सत्त्वाः पूर्वनिवासानुस्मृत्यधिमुक्तिका भविष्यन्ति तेभ्यस् तथाइव धर्मं देशयिष्यति दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
SK
सो ऽनेकविविधया ऋद्ध्या समन्वागतो गङ्गानदीवालुकोपमान् लोकधातून् गत्वा बुद्धान् भगवतः पर्युपास्ते तेषु च बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयिष्यति कुशलमूलान्य् अवरोप्य तद् एव पुनर् बुद्धक्षेत्रम् आगमिष्यति, आगत्य तेषां सत्त्वानां धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
SK
तस्यास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञाज्ञानं सुपरिशुद्धं भविष्यति, स तेनास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञाज्ञानेन सुविशुद्धेन सत्त्वानां धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् (PSP_६-८:१३९) निर्वाणकथां वा.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः.
SK
स इमाभिर् अभिज्ञाभिर् निहृताभिर् यं यम् एवाकाङ्क्षिष्यत्य् आत्मभावं प्रतिग्रहीतुं तं तम् एवात्मभावं प्रतिग्रहीष्यति, न च तेन सुखेन वा दुःखेन वा सुमना वा दुर्मना वा भविष्यति, नैवास्यानुनय प्रतिघौ भविष्यथः. तद्यथापि नाम सुभूते बुद्धनिर्मितः पुरुषः सर्वकृत्यानि करोति, न च तेन सुखेन वा दुष्खेन वा लिप्यते.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताभिज्ञाभिर् विक्रीडितव्यम् एवं विक्रीडं बुद्धक्षेत्रं च परिशोधयिष्यति सत्त्वान् परिपाचयिष्यति.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते दुष्खज्ञानेन परिनिर्वान्ति न दुष्खेन, न समुदयज्ञानेन न समुदयेन, न निरोधज्ञानेन न निरोधेन, न मार्गज्ञानेन परिनिर्वान्ति न मार्गेण, या पुनः सुभूते चतुर्णाम् आर्यसत्यानां समता तत् परिनिर्वाणम् उक्तं मया, न पुनर् दुःखेन परिनिर्वान्ति न दुष्खज्ञानेन, न समुदयेन न समुदयज्ञानेन, न निरोधेन न निरोधज्ञानेन, न मार्गेण परिनिर्वान्ति न मार्गज्ञानेन.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सो धर्मो यस्यान्तं पश्यति, तथा च पश्यति यथा न कञ्चिद् धर्मम् उपलभते, अनुपलंभमानः सर्वधर्मा शून्या इति पश्यति, सत्यपर्यापन्नां (PSP_६-८:१४५) वा असत्यपर्यापन्नां वा तं सर्वे शुन्या इति पश्यति, स एवं पश्यन्न् अवक्रान्तनियामो बोधिसत्त्वो महासत्त्वो गोत्रभूमौ स्थितो भवति, तस्य गोत्रभूमौ स्थितस्य न मूर्धविनिपातो भवति येन मूर्धविनिपातेन श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेत्, स इह गोत्रभूमौ स्थित्वा चत्वारि ध्यानान्य् उत्पादयति, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीर् उत्पादयति, स इह शमथभूमौ स्थित्वा सर्वधर्मान् प्रविचिनोति, चत्वार्य् आर्यसत्यान्य् अनुबुध्यते, स दुःखञ् च परिजानाति न च दुष्खारम्बणं चित्तम् उत्पादयति, समुदयञ् च प्रजहाति न च समुदयारम्बणं चित्तम् उत्पादयति, निरोधञ् च साक्षात्करोति न च निरोधारम्बणं चित्तम् उत्पादयति, मार्गञ् च भावयति न च मार्गारम्बणं चित्तम् उत्पादयति, अन्यत्र बोधिनिम्नेन चित्तेन बोधिप्रवेशेन बोधिप्राग्भारेण चित्तेन सर्वधर्मान् यथावत् पश्यति.
SK
सुभूतिर् आह: कथं भगवन् सर्वधर्मान् यथावत् पश्यति?
SK
भगवान् आह: सर्वधर्मान् शून्यान् पश्यति.
SK
सुभूतिर् आह: कथं भगवन् सर्वधर्मान् शून्यान् पश्यति?
SK
भगवान् आह: यद् उत स्वलक्षणशून्यान् सर्वधर्मान् पश्यति, यो ऽनयैवंरूपया विपश्यनया सर्वधर्माः शून्या इति पश्यति, न च कस्यचिद् धर्मस्य स्वभावं पश्यति, यत्र स्वभावे स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
SK
सुभूतिर् आह: एवं सति भगवन्न् अभावस्वभावा बोधिः.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतद्, यथा वदसि, अभावस्वभावा सुभूते बोधिः, सा न बुद्धेन कृता न प्रत्येकबुद्धेन नार्हता नापि तैर् बोधिसत्त्वैर् महासत्त्वैर् य इह समाधौ चरन्त्य् अन्यत्र सत्त्वा न जानन्ति न पश्यन्ति, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति. इति सत्यदर्शनविवेशनकर्म
SK
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् तदा भगवन् प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वशिक्षायां (PSP_६-८:१४६) शिक्षितुकामेन रूपे कथं शिक्षितव्यं? वेदनायां संज्ञायां संस्कारेषु विज्ञाने कथं शिक्षितव्यम्? चक्षुरायतने श्रोत्रायतने घ्राणायतने जिह्वायतने कायायतने मनआयतने कथं शिक्षितव्यम्? रूपायतने शब्दायतने गन्धायतने रसायतने स्प्रष्टव्यायतने धर्मायतने कथं शिक्षितव्यम्? चक्षुर्धातौ रूपधातौ चक्षुर्विज्ञानधातौ, श्रोत्रधातौ शब्दधातौ श्रोत्रविज्ञानधातौ, घ्राणधातौ गन्धधातौ घ्राणविज्ञानधातौ, जिह्वाधातौ रसधातौ जिह्वाविज्ञानधातौ, कायधातौ स्प्रष्टव्यधातौ कायविज्ञानधातौ, मनोधातौ धर्मधातौ मनोविज्ञानधातौ कथं शिक्षितव्यम्? चक्षुःसंस्पर्शायतने श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शायतने कथं शिक्षितव्यम्? अविद्यायां संस्कारेषु विज्ञाने नामरूपे षडायतने स्पर्शे वेदनायां तृष्णायाम् उपादाने भवे जातौ जरामरणे कथं शिक्षितव्यम्? दुष्खसत्ये समुदयसत्ये निरोधसत्ये मार्गसत्ये कथं शिक्षितव्यम्? रूपिषु धर्मेष्व् अरूपिषु सनिदर्शनेष्व् अनिदर्शनेषु सप्रतिघेष्व् अप्रतिघेषु संस्कृतेष्व् असंस्कृतेषु सास्रवेष्व् अनास्रवेषु सावद्येष्व् अनवद्येषु हीनेषु प्रणीतेष्व् अध्यात्मिकेषु वा बाह्येषु वा दृष्टश्रुतमतविज्ञातेष्व् अतीतानागतप्रत्युत्पन्नेषु कुशलाकुशलव्याकृताव्याकृतेषु कामप्रतिसंयुक्तेषु रूपप्रतिसंयुक्तेष्व् आरूप्यप्रतिसंयुक्तेषु शैक्षेष्व् अशैक्षेषु नैवशैक्षनाशैक्षेषु कथं शिक्षितव्यम्? रागे प्रतिघे माने ऽविद्यायां दृष्टौ विचिकित्सायां कथं शिक्षितव्यम्? मात्सर्ये दाने दौःशील्ये शीले व्यापादे क्षान्तौ कौशीद्ये वीर्ये विक्षेपे ध्याने दौष्प्रज्ञे प्रज्ञायां कथं शिक्षितव्यम्? विकल्पे शून्यतायां निमित्ते आनिमित्ते मिथ्याप्रणिहिते सम्यक्प्रणिहिते, शुभे ऽशुभे धर्मे कथं शिक्षितव्यम्? क्लेशे क्लेशप्रहाणे संक्लेशे व्यवदाने संसारे निर्वाणे धातौ कथं शिक्षितव्यम्? बुद्धधर्मेषु कथं शिक्षितव्यम्?
मैत्रेय आह: कथं भगवन् बोधिसत्त्वानां महासत्त्वानां न निर्वाणं भवति? भगवान् आह: परार्थं मैत्रेयारभ्य संसारापरित्यागो न निर्वाणम्, आत्मार्थम् आरभ्य निर्वाणापरित्यागो नानिर्वाणम्.
SK
मैत्रेय आह: सचेद् भगवन् बोधिसत्त्वो महासत्त्वः परार्थम् आरभ्य संसारं न परित्यजति संसारात् परित्यागात् कथम् अनेन निर्वाणं न परित्यक्तं भवति? सचेद् भगवन् बोधिसत्त्वो महासत्त्व आत्मार्थम् आरभ्य निर्वाणं न परित्यजति निर्वाणापरित्यागात् कथम् अनेन संसारो न परित्यक्तो भवति?
SK
भगवान् आह: इह मैत्रेय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् संसारम् अपि संसारतो न विकल्पयति, निर्वाणम् अपि निर्वाणतो न विकल्पयति, तस्यैवम् अविकल्पयतः समम् एतद् भवति (PSP_६-८:१५६) यद् उत संसारश् च निर्वाणश् च. तत् कस्य हेतोः? तथा हि स यथा संसारं संसारतो ऽविकल्पयन् संसारान् नोद्विजति, तथाइव निर्वाणं निर्वाणतो ऽविकल्पयन् निर्वाणतो नोद्विजत्य् एवम् अविकल्पधातुप्रतिष्ठितस्यानया युक्त्या न संसारपरित्यागो न निर्वाणपरित्यागो वेदितव्यः.
SK
मैत्रेय आह: न नु भगवन् प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाविकल्पधातुप्रतिष्ठितेन संसारो यथैव न त्यक्तस् तथा नादत्तः कथम् अत्यक्तो भवति? निर्वाणं यथा न त्यक्तं तथा नादत्तं कथं अत्यक्तं भवति?
मैत्रेय आह: अविकल्पनाया भगवन् कथं समस्तलक्षणं द्रष्टव्यम्?
SK
भगवान् आह: यच् च मैत्रेय रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं यावद् ये च बुद्धधर्मा या च रूपस्य शून्यता या च वेदनाया या च संज्ञाया या च संस्काराणां या च विज्ञानस्य या च यावद् बुद्धधर्माणां शून्यता, तेषां च धर्माणां तस्याश् च शून्यताया या भावाभावाद्वयता या चाप्रपञ्चना इदं मैत्रेय अविकल्पनायाः समस्तलक्षणं द्रष्टव्यम्.
मैत्रेय आह: यो भगवंस् तृतीयः सत्त्वो गोत्रभूमिः, सो ऽर्हत्त्वं प्राप्यानुत्तरां सम्यक्संबोधिम् अभिप्रार्थयमानो ऽनुपपद्यमानश् च कथं प्राप्नोत्य् उपपत्तिश् चास्य भगवता प्रतिपत्तौ च न व्याकृता?
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् ते न बुद्धैः कृता न प्रत्येकबुद्धैर् नार्हद्भिर् नानागामिभिर् न सकृदागामिभिर् न स्रोतआपन्नैर् नापि तैर् बोधिसत्त्वैर् महासत्त्वैः कृतास् तत् कुत एषां धर्माणां नानाकरणं वा व्यवस्थानं वा प्रज्ञायते? इमे नैरयिका इमे तैर्यग्योनिका इमे यामलौकिका इमे देवा इमे मानुष्याः, अनेन कर्मणा नैरयिका अनेन कर्मणा तिर्यग्योनिका अनेन कर्मणा यामलौकिका अनेन कर्मणा मनुष्याः, अनेन कर्मणा कामधातुका देवाः, अनेन कर्मणा ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः, अनेन कर्मणा परीत्ताभा अप्रमाणाभा आभास्वराभाः, अनेन कर्मणा परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः, अनेन कर्मणा अनभ्रकाः पुण्यप्रसवा वृहत्फलाः, अनेन कर्मणा अस्पृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः, अनेन कर्मणा आकाशानन्त्यायतनसमापत्तयो विज्ञानानन्त्यायतनसमापत्तय आकिञ्चन्यायतनसमापत्तयो नैवसंज्ञानासंज्ञायतनसमापत्तयः, अनेन कर्मणा स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो, ऽनेन कर्मणा बोधिसत्त्वो महासत्त्वो, ऽनेन कर्मणा तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभावस्य हि भगवन् न काचित् क्रिया यया नरकं वा गच्छच्छेत्, तिर्यग्योनिं वा यमलोकं वा देवं वा मनुष्यं वा कामधातुं वा रूपधातुं वा आरूप्यधातुं वा गच्छेत्, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिं वा प्राप्स्यति, बोधिसत्त्वो महासत्त्वो बोधिसत्त्वमार्गे वा चरिष्यति, सर्वाकारज्ञतां वा प्राप्स्यति, यान् प्राप्य सत्त्वान् संसारात् परिमोचयिष्यति.
SK
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतद् यथा वदसि, अभावस्य हि सुभूते न कर्म न क्रिया न फलं, बालपृथग्जना हि सुभूते यावद् आर्यधर्मेष्व् अकोविदास् ते अभावस्वभावान् धर्मान् न जानन्ति, ते विपर्याससमुत्थितैर् विकल्पैर् विविधानि कर्माण्य् उपस्थापयन्ति, तेषां तादृशाम् एवात्मभावा भवन्ति, यदि वा नैरयिका यदि वा तैर्यग्योनिका यदि वा यामलौकिका यदि वा मनुष्येषु यदि वा कामधातुषु देवेषु यदि वा रूपधातुकेषु (PSP_६-८:१५९) देवेषु यदि वा आरूप्यधातुकेषु देवेषु यावद् अभावस्य न कर्म न क्रिया न फलं, यः पुनर् अभावो ऽभाव एव सः. यत् पुनः सुभूतिर् एवम् आह: यः स्रोताअपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वो मार्गज्ञतायां चरति तथागतो वा सर्वाकारज्ञताम् अनुप्राप्नोति. तत् किं मन्यसे? सुभूते नाभावो मार्गो नाभावः स्रोतआपत्तिफलन् नाभावः सकृदागामिफलन् नाभावो ऽनागामिफलन् नाभावो ऽर्हत्त्वन् नाभावः प्रत्येकबोधिर् नाभावो यावत् सर्वाकारज्ञता.
भगवान् आह: तत् किं मन्यसे? सुभूते काश्चित् स्वप्ने मार्गभावना भवति, यां मार्गभावनाम् आगम्य न संक्लिश्येत वा न व्यवदायेत वा.
SK
सुभूतिर् आह: नो हीदं भगवन् न वस्तुकः स भगवन् स्वप्नो ऽप्रज्ञप्तिको ऽप्रज्ञपनीयः सर्वपदव्यञ्जनैः.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यदादर्शमण्डले प्रतिबिम्बो दृश्यते किञ्चित् तस्य वस्त्व् अस्ति यत् कर्माभिसंस्कुर्याद् यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्?
SK
सुभूतिर् आह: नो हीदं भगवन् न वस्तुकः स भगवन् प्रतिबिम्बो ऽन्यत्र बालपृथग्जनानाम् उल्लापनात् तत् कुतस् तस्य कर्म भविष्यति, यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
SK
सुभूतिर् आह: नो भगवन् न वस्तुकः स भगवन् प्रतिबिम्बकस् (PSP_६-८:१६१) तत् कुतस् तस्य मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते या सा प्रतिश्रुत्का नदीकुञ्जवनपर्वातकन्दराभ्यवकाशोदकप्रत्यासन्नतो निश्चरति किन् तस्याः प्रतिश्रुत्कायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्?
SK
सुभूतिर् आह: नो भगवन् न वस्तुका सा प्रतिश्रुत्का कुतस् तस्याः कर्म भविष्यति, यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते किन् तस्याः प्रतिश्रुत्का या मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदापयेत.
SK
सुभूतिर् आह: नो भगवन्न् अत्यन्ततया सा भगवन् प्रतिश्रुत्का नास्ति कुतस् तस्या मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत्, न व्यवदायेत्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते या सा मरीच्याम् अनुदके उदकसंज्ञा अनदीषु वा नदीसंज्ञा अनगरेषु नगरसंज्ञा अनुद्यानेष्व् उद्यानसंज्ञा किं तस्या मरीचिसंज्ञायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्?
SK
सुभूतिर् आह: नो भगवन्न् अत्यन्ततया भगवंस् तस्यां मरीच्याम् उदकं नास्ति नैव नदी नैव नगरन् नैवोद्यानम् अन्यत्र संज्ञाविपर्यासश् चक्षुर्मोहनतायास् तत् कुतो ऽस्याः कर्म भविष्यति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते किं तस्यां विपर्यस्तायां संज्ञायां मार्गभावना भवति यां मार्गभावनाम् आगम्य न (PSP_६-८:१६२) संक्लिश्येत न व्यवदायेत.
SK
सुभूतिर् आह: नो भगवन् न हि विपर्यस्तायां भगवन् संज्ञायाम् अस्ति मार्गभावना यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते मायाकारेण विविधा मायाभिनिर्मिता, यदि वा हस्तिकायो यदि वाश्वकायो यदि वा बलीवर्दकायो यदि वा पत्तिकायो यदि वा जनपदकायो यदि वा स्त्रीरूपं यदि वा पुरुषरूपम् अपि नु तस्या मायायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.
SK
सुभूतिर् आह: नो भगवन् न हि मायाया भगवन् वस्त्व् अस्त्य् अन्तशो वालाग्रकोटीनिक्षेपमात्रम् अपि यत्र स्थित्वा कर्माभिसंकुर्याद् यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत् मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.

सुभूतिर् आह: नो भगवन् न वस्तु कस्य भगवन् धर्मस्य कुतो मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यत् पुनस् तथागतनिर्मितो ऽभिनिर्मिणोत्य् अन्यन् निर्मितं किं तस्य निर्मितस्य कर्मास्ति येन कर्मणा नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.
SK
सुभूतिर् आह: नो भगवन् न वस्तुकः स भगवन् निर्मितः.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य निर्मितस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न वयवदायेत.
सुभूतिर् आह: न कश्चिद् भगवन् संक्लिश्येत वा व्यवदायेत वा.
SK
भगवान् आह: यथैव सुभूते न संक्लिश्येत वा न व्यवदायेत वा तथाइव नास्ति संक्लेशो वा व्यवदानं वा. तत् कस्य हेतोः? अहंकारममकारे हि सुभूते स्थिताः सत्त्वाः संक्लिश्यन्ते वा व्यवदायन्ते वा, यथैव भूतदर्शी न संक्लिश्यते वा न व्यवदायते वा तथाइव सुभूते नास्ति संक्लेशो वा व्यवदानं वा. इति निर्वस्तुकविपर्यासज्ञाननिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: भूतं वेति भगवन् न संक्लिश्यते न वयवदायते, अभूतं वेति भगवन् न संक्लिश्यते न व्यवदायते, तथा ह्य् अभावस्वभावाः सर्वधर्माः, अभावस्वभावस्यापि भगवन् न संक्लेशो न व्यवदानं, भावस्यापि भगवन् न संक्लेशो न व्यवदानम्, अभावस्यापि भगवन् न संक्लेशो न व्यवदानं, भावाभावस्यापि भगवन् न संक्लेशो न व्यवदानं तत्र यद् एतद् भगवता व्यवदानन् निर्दिष्टन् तत् कथम् इदं भगवन् भवति?
SK
भगवान् आह: या एषा सुभूते सर्वधर्माणां समता तन् मयोक्तं व्यवदानम्.
SK
सुभूतिर् आह: सा पुनः कतमा सर्वधर्माणां समता?
SK
भगवान् आह: तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता, या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मस्थितिता धर्मनियामता धर्मधातुम् इदम् उच्यते व्यवदानं, तत् पुनर् लोकव्यवहारेण व्यवह्रियते न पुनः परमार्थेनानिरभिलप्यो हि सो ऽप्रव्याहारः सर्वाकारघोषवाक्यथातीतः. इति व्यवदाननिवेशनकर्म
अपि तु खलु पुनः सुभूते सर्व एते धर्मा मार्गस्यावाहनाय संवर्तन्ते, न पुनः फलस्याधिगमाय, य एतेषां धर्माणाम् अनुत्पादो ऽप्रादुर्भावो ऽलक्षणम् अपि तत्, अतो बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यान् कुशलान् धर्मान् नोपलभते, यदि वा दानपारमितां यदि वा शीलपारमितां यदि वा क्षान्तिपारमितां यदि वा वीर्यपारमितां यदि वा ध्यानपारमितां यदि वा प्रज्ञापारमितां यदि वा सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान्, यदि वा अध्यात्मशून्यतां यदि वा बहिर्धाशून्यतां यदि वाध्यात्मबहिर्धाशून्यतां यदि वा यावद् अभावस्वभावशून्यतां यदि वार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि यदि वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मांस् तान् सर्वान् मायोपमा इति जानाति. (PSP_६-८:१६६)
न च बोधिसत्त्वो महासत्त्वो ऽन्यस्य कृतशो ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठते ऽन्यत्र सर्वसत्त्वानां कृतशः स प्रज्ञापारमितायां चरन् सत्त्वो न सत्त्वे सत्त्वसंज्ञायां स्थिता नात्मन्य् (PSP_६-८:१६८) आत्मसंज्ञायां स्थिता, न जीवे जीवसंज्ञायां स्थिता, न जन्तौ जन्तुसंज्ञायां स्थिता, न पोषे पोषसंज्ञायां स्थिता, न पुरुषे पुरुषसंज्ञायां स्थिता, न पुद्गले पुद्गलसंज्ञायां स्थिता, न मनुजे मनुजसंज्ञायां स्थिता, न मानवे मानवसंज्ञायां स्थिता, न कारके कारकसंज्ञायां स्थिता, न वेदके वेदकसंज्ञायां स्थिता, न जानके जानकसंज्ञायां स्थिता, न पश्यके पश्यकसंज्ञायां स्थिता, बोधिसत्त्वो महासत्त्वो विपर्यासाद् विवेचयति, विपर्यासाद् विवेच्यामृते धातौ प्रतिष्ठापयति, यत्र प्रतिष्ठितानाम् एते समुदाचारो न प्रवर्तन्ते, आत्मसंज्ञा सत्त्वसंज्ञा जीवसंज्ञा जन्तुसंज्ञा पोषसंज्ञा पुरुषसंज्ञा पुद्गलसंज्ञा मनुजसंज्ञा मानवसंज्ञा कारकसंज्ञा वेदकसंज्ञा जानकसंज्ञा पश्यकसंज्ञा, स सर्वान् इमान् निमिञ्जितसंमिञ्जितविस्पन्दितप्रपञ्चितान् विवेच्यान्यतमान्यतमेन चेतसा बहुलम् उपसंपद्य विहरति, अनेन सुभूते उपायेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् आत्मना न केषुचिद् धर्मेष्व् अभिनिविशते सर्वसत्त्वांश् चानभिनिवेशे प्रतिष्ठापयति लोकव्यवहारेण न पुनः परमार्थेन. इति व्यवदाननिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवंस् तथागतेन धर्मो ऽभिसंबुद्धः किं पुनः स धर्मो लोकव्यवहारेणाभिसंबुद्धो ऽर्थपरमार्थेन?
SK
भगवान् आह: लोकव्यवहारेण सुभूते व्यवह्रियते ऽयं तथागतेन धर्मो ऽभिसंबुद्धो ऽनेन धर्मेणायं धर्मो ऽसंबुद्धो ऽयं तथागतेन धर्मो देशित इति, न पुनस् तत्र कश्चिद् उपलभ्यते, तत् कस्य हेतोः? उपलंभो ह्य् एषो ऽनेन धर्मेणायं धर्मो ऽभिसंबुद्ध इति, न च द्वयेन काचित् प्राप्तिर् नाभिसमयः.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न द्वयेनाभिसमयः किं पुनर् अद्वयेनाभिसमयः?
SK
भगवान् आह: न द्वयेनाभिसमयो नाद्वयेनाभिसमयः, एष एवात्राभिसमयो यत्र न द्वयं नाद्वयं, तत् कस्य हेतोः? प्रपञ्च एष यो ऽयम् एषाम् अभिसमयो न च धर्मसमतायां प्रपञ्चो ऽस्ति (PSP_६-८:१६९) निष्प्रपञ्चा धर्मसमता.
SK
सुभूतिर् आह: अभावस्वभावानां भगवन् सर्वधर्माणां का समता?
SK
भगवान् आह: एषैवात्र समता यत्र न भावो ऽभावो वा कीर्तितो, न च धर्मसमता परिकीर्त्य तेन चान्यो ऽपि धर्म उपलभ्यते धर्मसमतायां, सर्वधर्मविनिर्वृत्ता हि धर्मसमता, अगतिर् अविषयो धर्मसमता यस्य कस्यचिद् बालपृथग्जनस्य वार्यस्य वा.
भगवान् आह: अविषयः सुभूते सर्वार्याणां श्रद्धानुसारिणां वा धर्मानुसारिणां वाष्टमकानां वा स्रोतआपन्नानां वा सकृदागामिनां वानागामिनां वार्हतां वा श्रावकाणां वा प्रत्येकबुद्धानां वा बोधिसत्त्वानां महासत्त्वानां वा तथागतस्याप्य् अविषयः सर्वधर्मसमता.
SK
सुभूतिर् आह: न पुनर् भगवन् सर्वधर्मविषयवशवर्ती तथागतो ऽर्हन् सम्यक्संबुद्धः?
SK
भगवान् आह: स्यात् सुभूते सर्वधर्मविषयवशवर्ती तथागतो ऽर्हन् सम्यक्संबुद्धः, यद्य् अन्या धर्मसमता स्याद् अन्यस् तथागतो ऽर्हन् सम्यक्संबुद्धो, या च सुभूते पृथग्जनानां धर्मसमता या च श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकाणां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां, या च तथागतस्यार्हतः सम्यक्संबुद्धस्य समता समतैव समता, या च बालपृथग्जनसमता, या चार्यसमता, एकैवैषा समता, एकसमतायां न द्वयम् अस्ति, अयं बालपृथग्जनो ऽयं श्रद्धानुसार्य् अयं धर्मानुसार्य् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः, सर्व एते सुभूते धर्माः समतायां नोपलभ्यन्ते, इमे बालपृथग्जनाः, अयं श्रद्धानुसारी, अयं धर्मानुसारी, अयम् अष्टमको ऽयं स्रोताअपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. (PSP_६-८:१७०)
SK
सुभूतिर् आह: यदि भगवन् सर्वधर्मसमतायां सर्व एते धर्मा नोपलभ्यन्ते, ऽयं बालपृथग्जनो ऽयं श्रद्धानुसारी, अयं धर्मानुसारी, अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः, अविशेषो वा भगवन् भविष्यति बालपृथग्जनानाञ् च श्रद्धानुसारिणां च धर्मानुसारिणां चाष्टमकानाञ् च स्रोतआपन्नानां च सकृदागामिनाञ् चानागामिनाञ् चार्हतां च प्रत्येकबुद्धानाञ् च बोधिसत्त्वानां महासत्त्वानाञ् च तथागतस्यार्हतः सम्यक्संबुद्धस्य च.
भगवान् आह: यदि तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते तदाभिसंबुध्य धर्माणां व्यवस्थानं नाकरिष्यद् अपि नरको वा न प्रज्ञायते, तिर्यग्योनिर् वा यमलोको वा देवो वा मनुष्यो वा चातुर्महाराजिका वा देवास् त्रयस्त्रिंशा वा यामा वा तुषिता वा निर्माणरतयो वा परनिर्मितवशवर्तिनो वा ब्रह्मपार्षद्यो वा ब्रह्मपुरोहिता वा महाब्रह्माणो वा परीत्ताभा वा अप्रमाणाभा वा आभास्वरा वा परीत्तशुभा वा अप्रमाणशुभा वा शुभकृत्स्ना वा अनभ्रका वा पुण्यप्रसवा वा बृहत्फला वा असंज्ञिसत्त्वा वा अस्पृहा वा अतपा वा सुदृशा वा सुदर्शना वा अकनिष्ठा वा देवाः, आकाशानन्त्यायतनसमापत्तयो वा विज्ञानानन्त्यायतनसमापत्तयो वा आकिञ्चन्यायतनसमापत्तयो वा नैवसंज्ञानासंज्ञायतनसमापत्तयो वा, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गा वा, अध्यात्मशून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा, यावद् अभावस्वभावशून्यता वा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि वा शून्यतानिमित्ताप्रणिहितानि वा, अभिज्ञा वा दशबलवैशारद्यप्रतिसंविदो वावेणिकबुद्धधर्मा वा महामैत्री महाकरुणा द्वात्रिंशन्महापुरुषलक्षणानि वाशीत्यनुव्यञ्जनानि वा, दशबोधिसत्त्वभूमयो वा, दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा, उपायपारमिता वा प्रणिधानपारमिता वा बलपारमिता वा ज्ञानपारमिता वा, एवं त्रीणि रत्नानि, बुद्धरत्नं धर्मरत्नं संघरत्नं, श्रावकयानं प्रत्येकबुद्धयानम् अनुत्तरं महायानम्, एवं श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकाः स्रोताअपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वास् तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वाकारवरोपेतञ् च ज्ञानं न प्रज्ञायन्ते?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तस्मात् तर्हि सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् (PSP_६-८:१७२) अयं पुरुषकारो यद् धर्मसमतायाश् च न चलन्ति, धर्माणां च व्यवस्थानं कुर्वन्ति.
SK
सुभूतिर् आह: किं भगवन् यथा चैव तथागतो धर्मतायाश् च न चलति, तथाइव बालपृथग्जनापि न चलति श्रद्धानुसारी धर्मानुसारी अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वस् तथाइव सर्वधर्मा न चलन्ति.
भगवान् आह: यद् आयुष्मान् सुभूतिर् एवम् आह, यदि भगवन् या धर्माणां धर्मता, सैव पृथग्जनानां धर्मता, सैव श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां धर्मता, सैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां धर्मता, य इमे भगवन् विलक्षणा धर्मास् ते कथम् एकलक्षणा विलक्षणानाञ् च धर्माणां धर्मता कथम् एकलक्षणा युक्तेति.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते या रूपस्य धर्मता, किं (PSP_६-८:१७५) न शून्या सा, य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य धर्मता, किं न शून्या सा, या स्कन्धधात्वायतनानां धर्मता, किं न शून्या सा, या प्रतीत्यसमुत्पन्नानां धर्माणां धर्मता, किं न शून्या सा, या प्रतीत्यसमुत्पादाङ्गानां धर्मता, किं न शून्या सा, या लौकिकलोकोत्तराणां धर्माणां धर्मता, किं न शून्या सा, या सास्रवानास्रवाणां धर्माणां धर्मता, किं न शून्या सा, या संस्कृतासंस्कृतां धर्माणां धर्मता, किं न शून्या सा, या बालपृथग्जनानां धर्मता, या श्रद्धानुसारिधर्मता, या धर्मानुसारिधर्मता, या अष्टमकधर्मता या स्रोतआपन्नधर्मता, या सकृदागामिधर्मता, या अनागामिधर्मता, या अर्हद्धर्मता, या प्रत्येकबुद्धधर्मता, या बोधिसत्त्वधर्मता, या तथागतधर्मता, किं न शून्या सा.
SK
सुभूतिर् आह: शून्या सा भगवन् शून्या सा सुगत.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते शून्यतायां विलक्षणा धर्मा उपलभ्यन्ते, रूपलक्षणं वा वेदना संज्ञा संस्कारा विज्ञानलक्षणं वा, स्कन्धधात्वायतनलक्षणं वा, प्रतीत्यसमुत्पादलक्षणं वा, प्रतीत्यसमुत्पन्नधर्मलक्षणं वा प्रतीत्यसमुत्पादाङ्गलक्सणं वा, लौकिकलोकोत्तराणां वा धर्माणां लक्षणं सास्रवानास्रवाणां वा धर्माणां लक्षणं, संस्कृतासंस्कृतानां वा धर्माणां लक्षणं, बालपृथग्जनानां वा लक्षणं श्रद्धानुसारिणां वा लक्षणं, धर्मानुसारिणां वा लक्षणम् अष्टमकानां वा लक्षणं, स्रोतआपन्नानां वा लक्षणं सकृदागामिनां वा लक्षणम् अनागामिनां वा लक्षणम् अर्हतां वा लक्षणं प्रत्येकबुद्धानां वा लक्षणं बोधिसत्त्वानां महासत्त्वानां वा लक्षणं तथागतानां वा लक्षणम्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, या धर्माणां धर्मता न तत्र पृथग्जना नान्यत्र पृथग्जनेभ्यः, न तत्र श्रद्धानुसारी नान्यत्र श्रद्धानुसारिणः, न तत्र धर्मानुसारी नान्यत्र धर्मानुसारिणः, न तत्राष्टमको नान्यत्राष्टमकान्, न तत्र स्रोतआपन्नो नान्यत्र स्रोतआपन्नान्, न तत्र सकृदागामी नान्यत्र सकृदागामिनो, न तत्रानागामी नान्यत्रानागामिनः, न तत्रार्हन् नान्यत्रार्हतः, न तत्र प्रत्येकबुद्धो नान्यत्र प्रत्येकबुद्धान्, न तत्र बोधिसत्त्वो नान्यत्र बोधिसत्त्त्वान्, न तत्र तथागतो नान्यत्र (PSP_६-८:१७६) तथागतात्. इति व्यवदानसंभारनिवेशनकर्म
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न संस्कृता नासंस्कृता, न च संस्कृतव्यतिरेकेणासंस्कृत उपलभ्यते, न चासंस्कृतव्यतिरेकेण संस्कृत उपलभ्यते. तत् कस्य हेतोः? तथा हि सुभूते यश् च संस्कृतो धातुर् यश् चासंस्कृतो धातुर् द्वाव् अप्य् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् अरूपिणाव् अनिदर्शनाव् अप्रतिघाव् एकलक्षणौ यद् उतालक्षणौ, तत् पुनस् तथागतो लोकव्यवहारेण व्यवहरति न पुनः परमार्थेन, न च परमार्थे कश्चित् कायसंस्कारे न वाक्संस्कारे न मनःसंस्कारे नान्यत्र कायसंस्कारान् नान्यत्र वाक्संस्कारान् नान्यत्र मनःसंस्कारात् परमार्थ उपलभ्यते, येषां धर्माणां संस्कृतासंस्कृतानां समता स परमार्थस् तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थतश् च न चलति, सत्त्वानां च कृत्यं करोति.
SK
सुभूतिर् आह: यदि भगवन् सर्वधर्माः शून्यास् तन् न कस्यचिद् धर्मस्य कश्चिद् धर्मः किंचित् करोति, अकिंचित्करेष्व् अकिंचनेषु निष्किंचनेषु चाधर्मेषु कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थतश् च न चलति सत्त्वानां च कृत्यं करोति दानेन वा प्रियवद्यतया वा अर्थक्रियया वा समानार्थतया वा?
भगवान् आह: यत्र पुनः सर्वधर्मा निर्मितास् तत्र कश्चिच् छ्रावकनिर्मितः, कश्चित् प्रत्येकबुद्धनिर्मितः, कश्चिद् बोधिसत्त्वनिर्मितः कश्चित् तथागतनिर्मितः, कश्चित् क्लेशनिर्मितः, कश्चित् कर्मनिर्मितो ऽनेन सुभूते पर्यायेण सर्वधर्मा निर्मितकोपमा अनानाकरणाः. सुभूतिर् आह: यत् पुनर् इदं भगवन् प्रहाणं स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबुद्धभूमिर् वा निर्मिता सर्ववासनानुसंधिप्रहाणम् अपि निर्मितम्?
SK
भगवान् आह: ये केचित् सुभूते धर्मा उत्पादिता वा निरोधिता वा सर्व एते निर्मिताः.
SK
सुभूतिर् आह: कतमो भगवन् धर्मो यो न निर्मितकः?
SK
भगवान् आह: यस्य नोत्पादो न निरोधः स धर्मो न निमितः. (PSP_६-८:१७९)
SK
सुभूतिर् आह: स पुनः कतमो भगवन्?
SK
भगवान् आह: असंमोषधर्मो न निर्मितः.
SK
सुभूतिर् आह: यत् पुनर् भगवतोक्तं शून्यतायाश् च न चलति, न च द्वये नोपलभ्यते, न च कश्चिद् धर्मो यो न शून्यस् तस्माद् भगवन् संमोषधर्मो निर्मितको भवेत्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते स्वभावेन शून्यास् ते न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न बोधिसत्त्वैर् महासत्त्वैः कृता न तथागतैः कृता, या च स्वभावशून्यता तन् निर्वाणम्.