The Perfection of Wisdom in Twenty-Five Thousand Lines, Chapters 1-8

Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 · Pअञ्चविंशतिसाहस्रिका Pरज्ञापारमिता, १-८

The Perfection of Wisdom in Twenty-Five Thousand Lines, Chapters 1-8

Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8

Pअञ्चविंशतिसाहस्रिका Pरज्ञापारमिता, १-८

SK
Pअञ्चविंशतिसाहस्रिका Pरज्ञापारमिता
SK
एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूते पर्वते महता भिक्षुसंघेन सार्धं पञ्चमात्रैर् भिक्षुसहस्रैः सर्वैर् अर्हद्भिः क्षीणास्रवैर् निःक्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिताप्राप्तैः पञ्चमात्रैर् भिक्षुनीशतैर् उपासकैर् उपासिकाभिश् च सार्धं सर्वैर् दृष्टधर्मैर् अपरिमाणैश् च बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं सर्वैर् धारणीप्रतिलब्धैः शून्यताविहारिभिर् आनिमित्तगोचरैः प्रणिधानाकल्पितैः क्षान्तिसमताप्रतिलब्धैर् असङ्गधारणीप्रतिलब्धैर् अच्युताभिज्ञैर् आदेयवचनैर् अकूहकैर् अलपकैर् अपगतज्ञात्रलाभचित्तैर् निरामिषधर्मदेशकैर् गम्भीरधर्मक्षान्तिपारङ्गतैर् वैशारद्यप्राप्तैर् मारकर्मसमतिक्रान्तैः कर्मावरणप्रतिप्रस्रब्धैर् धर्मप्रविचयविभक्तिनिर्देशकुशलैर् असंख्येयकल्पप्रणिधानसुसमारब्धैः स्मितमुखैः पूर्वालापिभिर् विगतभृकुटीमुखैर् गाथाभिर् गीतालपनकुशलैर् अपगतलीनचित्तैर् अनाच्छेद्यप्रतिभानैर् अनन्तपर्षदभिभवनवैशारद्यसमन्वागतैर् अनन्तकल्पकोटीनिःसरणकुशलैर् मायामरीचिदकचन्द्रस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बनिर्माणोपमधर्माधिमुक्तैः सत्त्वगतिचरितसूक्ष्मनानाधिमुक्त्यवतारकुशलैर् अप्रतिहतचित्तैर् अधिमात्रक्षान्तिसमन्वागतैर् याथात्म्यावतारणकुशलैः सर्वबुद्धक्षेत्रानन्तव्यूहप्रणिधानप्रस्थानपरिगृहीतैर् असंख्येयलोकधातुबुद्धानुस्मृतिसमाहितसततसमिताभिमुखीभूतैर् अपरिमितबुद्धाध्येषणकुशलैर् नानादृष्ट्यनुशयपर्यवस्थानक्लेशप्रशमनकुशलैः समाधिविक्रीडितशतसहस्रनिर्हारकुशलैः. तद्यथा भद्रपालेन च बोधिसत्त्वेन महासत्त्वेन रत्नाकरेण च सार्थवाहेन च नरदत्तेन च वरुणदत्तेन च शुभगुप्तेन च (PSP१-१: २) इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रामिणा च नित्योद्युक्तेन च अनिक्षिप्तधूरेण च सूर्यगर्भेण च अनुपमचिन्तिना च अवलोकितेश्वरेण च महास्थामप्राप्तेन च मञ्जुश्रिया च वज्रमतिना च रत्नमुद्राहस्तेन च नित्योत्क्षिप्तहस्तेन च मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन, एवं प्रमुखैर् अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धम्.
SK
अथ खलु भगवान् स्वयम् एव सिंहासनं प्रज्ञप्य न्यषीदत् पर्यङ्कं बद्ध्वा ऋजुकायं प्रणिधाय अभिमुखीं स्मृतिम् उपस्थाप्य समाधिराजं नाम समाधिं समापद्यते स्म, यत्र सर्वसमाधयो ऽन्तर्गमान् संग्रहं समवसरणं गच्छन्ति.
SK
अथ खलु भगवान् स्मृतिमान् संप्रजानंस् तस्मात् समाधेर् व्युत्थाय दिव्येन चक्षुषा सर्वलोकधातुं व्यवलोक्य सर्वकायात् स्मितम् अकरोत्, तस्याधस्तात् पादतलयोः सहस्राभ्यां चक्राभ्यां षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः, दशभ्यः पादाङ्गुलिभ्यः षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः, एवं षष्टिषष्टिर् गुल्फाभ्यां षष्टिषष्टिर् जङ्घाभ्यां षष्टिषष्टिर् जानुमण्डलाभ्याम्, एवं द्वाभ्याम् ऊरुभ्यां कटिनाभिमण्डलाभ्यां द्वाभ्यां पार्श्वाभ्यां हृदयश्रीवत्सान् महापुरुषलक्षणात्, एवं षष्टिषष्टिर् दशभ्यो हस्ताङ्गुलिभ्यः षष्टिषष्टिर् द्वाभ्यां बाहुभ्यां षष्टिषष्टिर् द्वाभ्याम् अंशाभ्याम्, एवं ग्रीवायाश् चत्वारिंशद्भ्यो दन्तेभ्यो द्वाभ्यां घ्राणाभ्यां द्वाभ्यां श्रोत्राभ्यां द्वाभ्यां चक्षुर्भ्यां मध्याद् ऊर्णाया उपरिष्टाद् उष्णीषात् षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः. यै रश्मिभिर् अयं त्रिसाहस्रमहासाहस्रो लोकधातुर् अवभासितो ऽभूत् परिस्फुटः, पूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अधस्ताद् उपरिष्टाद् दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्, ये च सत्त्वास् तेन महता रश्म्यवभासेन स्फुटा अवभासितास् ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु भगवान् पुनर् एव सर्वरोमकूपेभ्यः स्मितम् अकरोत्, एकैकतश् च रोमकूपात् षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः, यैर् अयं त्रिसाहस्रमहासाहस्रो लोकधातुर् अवभासितः स्फुटो ऽभूत्, तैश् च पूर्वस्यां दिशि गङ्गानदीबालुकोपमाः सर्वलोकधातवो ऽवभासेनावभासिताः स्फुटाश् चाभूवन्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अधस्ताद् उपरिष्टाद् दिशि गङ्गानदीबालुकोपमा लोकधातवो ऽवभासेनावभासिताः स्फुटाश् चाभूवन्, तेन च रश्म्यवभासेनये सत्त्वाः स्पृष्टास् ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु भगवान् पुनर् एव या सा बुद्धानां भगवतां प्रकृतिप्रभा तया प्रभया त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासयामास, यावत् सर्वासु दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तया प्रभया अवभासिता अभूवन्, ये च सत्त्वास् तया प्रभया स्पृष्टास् ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु भगवांस् तस्यां वेलायां जिह्वेन्द्रियं निर्णामयामास, येनेमं त्रिसाहस्रमहासाहस्रं लोकधातुं जिह्वेन्द्रियेणाच्छादयामास, त्रिसाहस्रमहासाहस्रं लोकधातुं जिह्वेन्द्रियेण स्फुरित्वा तस्माज् जिह्वेन्द्रियात् स्मितम् अकरोत्, यतो ऽनेकानि रश्मिकोटीनियुतशतसहस्राणि निश्चेरुः, रश्मिमुखे चैकैकस्मिन्न् उत्तममयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मान्य् उत्पन्नान्य् अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णाः संस्थिताश् चाभूवन् धर्मं देशयन्तो यद् उत इमाम् एव षट्पारमिताप्रतिसंयुक्तां धर्मदेशनाम्, ते पूर्वस्यां दिशि गङ्गानदीबालुकोपमव्यतिवृत्तासंख्येषु लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति स्म, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् ऊर्ध्वं दिग्विदिक्षु, एकैकस्यां च दिशि दशसु दिक्षु गङ्गानदीबालुकोपमेषु अपरिमाणेषु लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति स्म, यद् उत इमाम् एव षट्पारमिताप्रतिसंयुक्तां धर्मदेशनाम्, ये च सत्त्वास् तां धर्मदेशनां श्म्वन्ति ते नियता भवन्त्य् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषण्णः सिंहविक्रीडितं नाम समाधिं समापेदे, तथारूपं चर्द्ध्यभिसंस्कारम् अभिसंस्करोति स्म यथारूपेणर्द्ध्यभिसंस्कारेणाभिसंस्कृतेनायं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारम् अकम्पत प्राकम्पत संप्राकम्पत, अचलत् प्राचलत् संप्राचलत्, अवेधत् प्रावेधत् संप्रावेधत्, अरणत् प्रारणत् संप्रारणत्, अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्, अगर्जत् प्रागर्जत् संप्रागर्जत्, अन्ते उन्नमति मध्ये अवनमति, मध्ये उन्नमति अन्ते अवनमति, मृदुकः स्निग्धः सर्वसत्त्वसुखजननो ऽभूत्.
SK
अथ खलु तेन क्षणलवमुहूर्तेन ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ निरया वा तिर्यग्योनयो वा यमलोका वा ते सर्वे समुच्छिन्नाः शून्या अभूवन्, सर्वाक्षणाश् चास्तमिता अभूवन्, ये च सत्त्वास् ताभ्यो नरकतिर्यग्योनियमलोकगतिभ्यश् च्युतास् ते सर्वे तेनैव प्रीतिप्रामोध्येन मनुष्याणां सभागतायाम् उपपन्नाश् चाभूवन्, एवं चातुर्महाराजिकानां देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां सभागतायाम् उपपन्नाश् चाभूवन्.
SK
अथ खलु ते मनुष्यास् ते च देवा भगवत एवानुभावेन पूर्वजन्मान्य् अनुस्मरन्ति स्म, अनुस्मृत्य च तेनैव प्रीतिप्रामोद्येन येन भगवांस् तेनोपसंक्रान्ताः, उपसंक्रम्य भगवतः पादौ शिरोभिर् अभिवन्द्य भगवन्तं प्राञ्जलयो भूत्वा नमस्यन्ति स्म, एवं पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधः समन्ताद् दशसु दिक्ष्व् एकैकस्मिन् दिग्भागे गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वे निरयाः सर्वास् तिर्यग्योनयः सर्वे यमलोकाः समुच्छिन्नाः शून्या अभूवन्, सर्वाक्षणाश् चास्तमिता अभूवन्, ये च सत्त्वास् ताभ्यो निरयतिर्यग्योनियमलोकगतिभ्यश् च्युतास् ते सर्वे देवमनुष्येषूपपद्यन्ते स्म, ते च देवमनुष्येषूपपन्ना भगवत एवानुभावेन पूर्वनिवासम् (PSP१-१: ५) अनुस्मरन्ति स्म, अनुस्मृत्य च तेनैव प्रीतिप्रामोद्येन स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र बुद्धा भगवन्त उत्पन्नास् तेषाम् अन्तिकान् उपसंक्रान्ताः, उपसंक्रम्य तेषां बुद्धानां भगवतां पादवन्दनां कृत्वा सर्वे प्राञ्जलयो भूत्वा भगवतो नमस्यन्ति स्म.
SK
अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ जात्यन्धाः सत्त्वास् ते चक्षुषा रूपाणि पश्यन्ति स्म, वधिराः सत्त्वाः श्रोत्रेण शब्दान् शृण्वन्ति स्म, उन्मत्ताः स्मृतिं प्रतिलभन्ते स्म, विक्षिप्तचित्ता एकाग्रचित्ता भवन्ति स्म, जिघत्सिताः पूर्णगात्रा भवन्ति स्म, तृषिता विगतपिपासा भवन्ति स्म, रोगस्पृष्टा विगतरोगा भवन्ति स्म, हीनेन्द्रियाः परिपूर्णेन्द्रिया भवन्ति स्म, अविरहिताकुशलकायवाङ्मनस्कर्मान्ताजीवा विरहिताकुशलकायवाङ्मनस्कर्मान्ताजीवाश् च भवन्ति स्म, सर्वसत्त्वाश् च मातापितृसमचित्ता भवन्ति स्म, भ्रातृभगिनीसमचित्ता मित्रामात्यज्ञातिसालोहितसमचित्ता दशकुशलकर्मपथसेविनश् च भवन्ति स्म, ब्रह्मचारिणः शुचयो निरामयगन्धाः सर्वसत्त्वाश् च सर्वसुखसमर्पिता ईदृशं सुखं प्रतिलभन्ते स्म तद्यथापि नाम तृतीयध्यानसमापन्नस्य भिक्षोः तस्मिन्न् एव च समये एवंरूपया प्रज्ञया ते समन्वागता भवन्ति स्म, यद् अन्यबुद्धक्षेत्रस्था बुद्धा भगवन्त एवम् उदानयन्ति स्म. साधु दमः असाधु शमः साधु संयमः साधु चीर्णो ब्रह्मचर्यावासः साधु प्राणिभूतेष्व् अविहिंसेति.
SK
अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषण्णः, इमं त्रिसाहस्रमहासाहस्रं लोकधातुम् अभिभूय तिष्ठति भासते तपति विरोचते स्म, आभया वर्णेन श्रिया तेजसा च, पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् ऊर्ध्वं दिग्विदिक्षु गङ्गानदीबालुकोपमान् लोकधातून् अभिभूय तथागतस् तिष्ठति भासते तपति विरोचते स्म, आभया वर्नेन श्रिया तेजसा च, तद्यथापि नाम सुमेरुः पर्वतराजः सर्वपर्वतान् अभिभूय तिष्ठति भासते तपति विरोचते स्म आभया वर्णेन श्रिया तेजसा च, एवम् एव भगवान् (PSP१-१: ६) सर्वलोकधातून् अभिभूय तिष्ठति भासते तपति विरोचते स्म, आभया वर्णेन श्रिया तेजसा च.
SK
अथ खलु भगवान् पुनर् एव यादृक् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वानाम् आत्मभावस् तत् समानम् आत्मभावं प्राकृतम् उपदर्शयामास.
SK
अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ शुद्धावासकायिका देवाः शुभकृत्स्ना आभास्वरा ब्रह्मकायिका देवाः परनिर्मितवशवर्तिनश् च निर्माणरतयश् च तुषिताश् च यामाश् च त्रायस्त्रिंशाश् च चातुर्महाराजकायिकाश् च देवास् ते तं तथागतस्यासेचनकम् आत्मभावं दृष्ट्वा दिव्याः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीर् गृहीत्वा दिव्यानि उत्पलकुमुदसौगन्धिकपुण्डरीकपद्मानि गृहीत्वा दिव्यानि च केशरतमालपत्राणि गृहीत्वा येन तथागतस्यासेचनक आत्मभावस् तेनोपसंक्रान्ताः, ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ मनुष्यास् ते ऽपि तं तथागतस्यासेचनकम् आत्मभावं दृष्ट्वा स्थलजलजानि पुष्पाणि गृहीत्वा येन तथागतस्यासेचनक आत्मभावस् तेनोपसंक्रान्ताः.
SK
अथ खलु ते देवास् ते च मानुषास् ताभिर् दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिस् तैश् च स्थलजलजैः पुष्पैस् तं तथागतकायम् अवकिरन्ति स्म, अभ्यवकिरन्ति स्म.
SK
अथ खलु यैस् तैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीवर्षैः स्थलजलजैश् च पुष्पैर् भगवान् अवकीर्णस् तानि च सर्वाणि उपर्यन्तरीक्षे भगवतो ऽधिष्ठानेन त्रिसाहस्रमहासाहस्रलोकधातुप्रमाणम् एकं कूटागारं संस्थितम् अभूत्, ततश् च कूटागारात् तानि दिव्यानि पुष्पपट्टदामानि लम्बन्ते प्रलम्बन्ते स्म, तैश् च पुष्पदामभिः पट्टदामभिश् चायं त्रिसाहस्रमहासाहस्रो लोकधातुर् अतीवाशोभत, तेन च सुवर्णवर्णेन भगवतः प्रभावभासेन दशसु दिक्षु प्रसृतेन एकैकस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः स्फुटावभासिताश् चाभूवन्, अस्मिंश् च त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वेषु चातुर्द्वीपकेषु लोकधातुषु तेषां देवमनुष्याणां (PSP१-१: ७) च एकैकस्यैतद् अभूत्, मम पुरतस् तथागतो निषण्णो धर्मं देशयतीति.
SK
अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषण्णः पुनर् एव स्मितम् अकरोत्, येन स्मितावभासेनायं त्रिसाहस्रमहासाहस्रो लोकधातुः स्फुटो ऽभूत्, यावद् दशसु दिक्षु गङ्गानदीबालुकोपमा लोकधातवः स्फुटा अभूवन्, ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्, तस्यां च पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् ते सर्वे इमां सहालोकधातुं पश्यन्ति स्म शाक्यमुनिं च तथागतं सार्धं भिक्षुसंघेन. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वं दिग्भागे गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्, तेषु च गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् ते सर्वे इमां सहालोकधातुं पश्यन्ति स्म शाक्यमुनिञ् च तथागतं सार्धं भिक्षुसंघेन.
SK
अथ खलु पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातू रत्नावती नाम तत्र रत्नाकरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ समन्तरश्मिर् नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतः पश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् (PSP१-१: ८) अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
SK
अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिताङ् गतान्.
SK
स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे.
SK
अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति, इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः.
SK
अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवमनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता रत्नाकरेण तथागतेन (PSP१-१: ९) नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः.
SK
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते पूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकाः, तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलु दक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुः सर्वशोकापगतो नाम तत्राशोकश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ विगतशोको नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् अशोकश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतम् अशोकश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते अशोकश्रीस् तथागतो विगतशोकं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेत उत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
SK
अथ खलु विगतशोको बोधिसत्त्वो ऽशोकश्रियं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिताङ् गतान्.
SK
स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे.
SK
अथ खलु अशोकश्रीस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि विगतशोकाय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, अशोकश्रीर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता अशोकश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः.
SK
अथ खलु विगतशोको बोधिसत्त्वो ऽशोकश्रियः तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः दक्षिणस्यां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च विगतशोको बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: अशोकश्रीर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता अशोकश्रिया तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः.
SK
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा (PSP१-१: ११) येन ते दक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति स्म, यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततः सर्वशोकापगताया लोकधातोः विगतशोकेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलु पश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् उपशान्ता नाम तत्र रत्नार्चिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ चारित्रमतिर् नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नार्चिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नार्चिषम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते रत्नार्चिः तथागतः चारित्रमतिं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतः पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
SK
अथ खलु चारित्रमतिर् बोधिसत्त्वो रत्नार्चिषं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च (PSP१-१: १२) शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिताङ् गतान्.
SK
स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे.
SK
अथ खलु रत्नार्चिस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि चारित्रमतये बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, रत्नार्चिर् भगवान् भगवन्तम् अल्पबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता रत्नार्चिषा तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः.
SK
अथ खलु चारित्रमतिर् बोधिसत्त्वो रत्नार्चिषस् तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पश्चिमायां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च चारित्रमतिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: रत्नार्चिर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता रत्नार्चिषा तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः.
SK
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा (PSP१-१: १३) येन ते पश्चिमायां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः सधर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् तत उपशान्ताया लोकधातोश् चारित्रमतिणा बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खल्व् उत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् जया नाम तत्र जयेन्द्रो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ जयदत्तो नाम बोधिसत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवाञ् जयेन्द्रस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं जयेन्द्रम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महताः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते जयेन्द्रस् तथागतो जयदत्तं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतो दक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
SK
अथ खलु जयदत्तो बोधिसत्त्वो जयेन्द्रं तथागतम् एतद् अवोचत्: (PSP१-१: १४) गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिताङ् गतान्.
SK
स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे.
SK
अथ खलु जयेन्द्रस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि जयदत्ताय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, जयेन्द्रो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता जयेन्द्रेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः.
SK
अथ खलु जयदत्तो बोधिसत्त्वो जयेन्द्रस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः उत्तरस्यां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनायं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च जयदत्तो बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: जयेन्द्रो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता जयेन्द्रेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः.
SK
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते उत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन (PSP१-१: १५) प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो जयाया लोकधातोः जयदत्तेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खल्व् उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुः समाध्यलङ्कृता नाम तत्र समाधिहस्त्युत्तरश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ विजयविक्रामी नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् समाधिहस्त्युत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य भगवन्तं तथागतं समाधिहस्त्युत्तरश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् समाधिहस्त्युत्तरश्रीस् तथागतो विजयविक्रामिणं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतो दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति, तस्यायम् ईदृशो ऽनुभावः.
SK
अथ खलु विजयविक्रामी बोधिसत्त्वः समाधिहस्त्युत्तरश्रियं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहालोकधातुन् (PSP१-१: १६) तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिङ् गतान्.
SK
स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे.
SK
अथ खलु समाधिहस्त्युत्तरश्रीस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्माणि विजयविक्रामिणे बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैः शाक्यमुनिन् तथागतम् अभ्यवकिरेः, एवं च वदेः, समाधिहस्त्युत्तरश्रीर् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानेतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता समाधिहस्त्युत्तरश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः.
SK
अथ विजयविक्रामी बोधिसत्त्वः समाधिहस्त्युत्तरश्रियस् तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिभासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृत उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मनयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च विजयविक्रामी बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: समाधिसस्त्युत्तरश्रीर् भगवन् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारताञ् च परिपृच्छति, इमानि च तेन भगवता समाधिहस्त्युत्तरश्रिया तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः.
SK
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन (PSP१-१: १७) प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्. तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततः समाध्यलंकृताया लोकधातोर् विजयविक्रामिणा बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलु पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् बोधिमण्डालंकाररुचिरा नाम तत्र पद्मोत्तरश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ पद्महस्तो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् पद्मोत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं पद्मोत्तरश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य चास्यासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् पद्मोत्तरश्रीस् तथागतः पद्महस्तं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतः पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
SK
अथ खलु पद्महस्तो बोधिसत्त्वः पद्मोत्तरश्रियं तथागतम् (PSP१-१: १८) एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहा नाम लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिङ् गतान्.
SK
स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे.
SK
अथ खलु पद्मोत्तरश्री तथागतो नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि पद्महस्ताय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, पद्मोत्तरश्री भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता पद्मोत्तश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः.
SK
अथ खलु पद्महस्तो बोधिसत्त्वः पद्मोत्तरश्रियस् तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि, अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वदक्षिणस्यां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्तस्थितश् च पद्महस्तो बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: पद्मोत्तरश्री भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता पद्मोत्तरश्रिया तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः.
SK
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा (PSP१-१: १९) येन ते पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो बोधिमण्डालंकारसुरुचिराया लोकधातोः पद्महस्तेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलु दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् विगतरजःसञ्चया नाम तत्र सूर्यमण्डलप्रभासोत्तमश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ सूर्यप्रभासो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् सूर्यमण्डलप्रभासोत्तमश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं सूर्यमण्डलप्रभासोत्तमश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् सूर्यमण्डलप्रभासोत्तमश्रीस् तथागतः सूर्यप्रभासं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेत उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
SK
अथ खलु सूर्यप्रभासो बोधिसत्त्वः सूर्यमण्डलप्रभासोत्तमश्रियं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च साक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिङ् गतान्.
SK
स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे.
SK
अथ खलु सूर्यमण्डलप्रभासोत्तमश्रीस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि सूर्यप्रभासाय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, सूर्यमण्डलप्रभासोत्तमश्री भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता सूर्यमण्डलप्रभासोत्तमश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः.
SK
अथ खलु सूर्यप्रभासो बोधिसत्त्वः सूर्यमण्डलप्रभासोत्तमश्रियः तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतो दक्षिणपश्चिमायां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रामत्, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्तस्थितश् च सूर्यप्रभासो बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: सूर्यमण्डलप्रभासोत्तमश्री भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि (PSP१-१: २१) च तेन भगवता सूर्यमण्डलप्रभासोत्तमश्रिया तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः.
SK
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो विगतरजःसञ्चयाया लोकधातोः सूर्यप्रभासेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलु पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् वशीभूता नाम तत्रैकच्छत्त्रो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ रत्नोत्तमो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् एकच्छत्त्रस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतम् एकच्छत्त्रम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय, अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् एकच्छत्त्रस् तथागतो रत्नोत्तमं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्र इतः पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् (PSP१-१: २२) नाम तथागतो ऽर्हन् सम्यक्संबुब्द्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
SK
अथ खलु रत्नोत्तमो बोधिसत्त्व एकच्छत्त्रं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिताङ् गतान्.
SK
स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे.
SK
अथ खलु एकच्छत्त्रस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि रत्नोत्तमाय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, एकच्छत्त्रो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता एकच्छत्त्रेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः.
SK
अथ खलु रत्नोत्तमो बोधिसत्त्व एकच्छत्त्रस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पश्चिमोत्तरस्यां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च रत्नोत्तमो बोधिसत्त्वो (PSP१-१: २३) भगवन्तं शाक्यमुनिम् एतद् अवोचत्: एकच्छत्त्रो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता एकच्छत्त्रेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रहितानि भगवतः.
SK
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोअधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो वशीभूताया लोकधातो रत्नोत्तमेण बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खल्व् अधस्ताद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुः पद्मा नाम तत्र पद्मश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ तत्र लोकधातौ पद्मोत्तरो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् पद्मश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं पद्मश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय, (PSP१-१: २४) अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् पद्मश्रीस् तथागतः पद्मोत्तरं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेत उपरिष्टा दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
SK
अथ खलु पद्मोत्तरो बोधिसत्त्वः पद्मश्रियं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिङ् गतान्.
SK
स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे.
SK
अथ खलु पद्मश्रीस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि पद्मोत्तराय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, पद्मश्रीर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता पद्मश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः.
SK
अथ खलु पद्मोत्तरो बोधिसत्त्वः पद्मश्रियस् तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः अधस्ताद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् (PSP१-१: २५) गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनायं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्तस्थितश् च पद्मोत्तरो बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: पद्मश्रीर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता पद्मश्रिया तथागतेनार्हता सम्यक्संबुद्धेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः.
SK
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते ऽधस्ताद् दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकाः, तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततः पद्माया लोकधातोर् पद्मोत्तरेण बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलूपरिष्टाद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् नन्दा नाम तत्र नन्दश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति.
SK
अथ खलु तत्र लोकधातौ नन्ददत्तो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च (PSP१-१: २६) भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् नन्दश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं नन्दश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय, अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय.
SK
एवम् उक्ते भगवान् नन्दश्रीस् तथागतो नन्ददत्तं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्र इतो ऽधस्ताद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः.
SK
अथ खलु नन्ददत्तो बोधिसत्त्वो नन्दश्रियं तथागतम् एतद् अवोअचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिङ् गतान्.
SK
स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे.
SK
अथ खलु नन्दश्रीस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि नन्ददत्ताय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेर्, नन्दश्रीर् भगवान् भगवन्तम् अल्पबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता नन्दश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः.
SK
अथ नन्ददत्तो बोधिसत्त्वो नन्दश्रियस् तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृत उपरिष्टाद् दिशि तेषु (PSP१-१: २७) गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनायं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च नन्ददत्तो बोधिसत्त्वो भगवन्तं शाक्यमुनिं तथागतम् एतद् अवोचत्: नन्दश्रीर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता नन्दश्रिया तथागतेनार्हता सम्यक्संबुद्धेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः.
SK
अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन त उपरिष्टाद् दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो नन्दाया लोकधातोर् नन्ददत्तेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्.
SK
अथ खलु तेन क्षणलवमुहूर्तेन अयं त्रिसाहस्रमहासाहस्रो लोकधातुः सप्तरत्नमयः संस्थितो ऽभूत् पुष्पाभिकीर्णः, अवसक्तपट्टदामकलापः कल्पवृक्षैर् नानालङ्कारफलावनताग्रविटपैः पुष्पवृक्षैः फलवृक्षैर् गन्धवृक्षैर् माल्यवृक्षैश् चोपशोभितो ऽभूत्, तद्यथापि नाम पद्मावती लोकधातुः समन्तकुसुमस्य तथागतस्य बुद्धक्षेत्रं यत्र मञ्जुश्रीः कुमारभूतः प्रतिवसति सुस्थितमतिश् च बोधिसत्त्वः, अन्ये च महोजस्कामहोजस्का बोधिसत्त्वाः, (PSP१-१: २८) भगवांश् चाद्राक्षीत्, सदेवलोकं संनिपतितं समारकं सब्रह्मकं सश्रमणब्राह्मणिकां प्रजां संनिपतितांस् तांश् च बोधिसत्त्वान् कुमारभूतान्.
SK
इति निदानम्
SK
तत्र खलु भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयामास: सर्वाकारं शारिपुत्र सर्वधर्मान् अभिसंबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः.
SK
इति समासतः संबोधिकामतासहगतश् चित्तोत्पादः
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वाकारं सर्वधर्मान् अभिसंबोद्धुकामेन प्रज्ञापारमितायां योगः करणीयः?
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वास्थानयोगेन, दानपारमिता परिपूरयितव्या अपरित्यागयोगेन देयदायकप्रतिग्राहकानुपलब्धिताम् उपादाय, शीलपारमिता परिपूरयितव्या आपत्त्यनापत्त्यनध्यापत्तिताम् उपादाय, क्षान्तिपारमिता परिपूरयितव्या अक्षोभणताम् उपादाय, वीर्यपारमिता परिपूरयितव्या कायिकचैतसिकवीर्यास्रंसनताम् उपादाय, ध्यानपारमिता परिपूरयितव्या अनास्वादनताम् उपादाय, प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धिताम् उपादाय.
SK
इति व्यासतः संबोधिकामतासहगतश् चित्तोत्पादः
SK
पुनर् अपरं शारिपुत्र दशसु दिक्षु प्रत्येकं गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् तान् सर्वान् अनुपधिशेषनिर्वाणधातौ परिनिर्वापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति समासतः परार्थालम्बनश् चित्तोत्पादः एवं मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन दुःशीलान् शीले व्यापादबहुलान् क्षान्तौ कुशीदान् वीर्ये विक्षिप्तचित्तान् ध्याने दुष्प्रज्ञान् प्रज्ञासंपदि प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति व्यासतः परार्थालम्बनश् चित्तोत्पादः
SK
पुनर् अपरं शारिपुत्र सर्वाकारं सर्वधर्मान् अभिसंबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
इति च्छन्दसहगतः पृथिव्युपमः
SK
एवम् इह शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वास्थानयोगेन दानपारमिता परिपूरयितव्या देयदायकप्रतिग्राहकानुपलब्धिताम् उपादाय, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धिताम् उपादाय.
SK
इत्य् आशयसहगतः कल्याणसुवर्णोपमः
SK
एवं प्रज्ञापारमितायां शारिपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि स्मृत्युपस्थानानि परिपूरयितव्यानि, चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गः परिपूरयितव्यः, शून्यतासमाधिर् भावयितव्यः, आनिमित्तसमाधिर् भावयितव्यः, अप्रणिहितसमाधिर् भावयितव्यः, एवं चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः नवाशुभाः संज्ञा भावयितव्याः. कतमा नव? यद् उत आध्मातकसंज्ञा विधूतकसंज्ञा विपूयकसंज्ञा विलोहितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञा अस्थिसंज्ञा विदग्धकसंज्ञा च, आहारे प्रतिकूलसंज्ञा भावयितव्या, बुद्धानुस्मृतिर् भावयितव्या, धर्मानुस्मृतिर् भावयितव्या, संघानुस्मृतिर् भावयितव्या, शीलानुस्मृतिर् भावयितव्या, त्यागानुस्मृतिर् भावयितव्या, देवतानुस्मृतिर् भावयितव्या, आनापानानुस्मृतिर् भावयितव्या, उद्वेगानुस्मृतिर् भावयितव्या, मरणानुस्मृतिर् भावयितव्या, अनित्यसंज्ञा भावयितव्या, दुःखसंज्ञा भावयितव्या, अनात्मसंज्ञा भावयितव्या, अशुचिसंज्ञा भावयितव्या, मरणसंज्ञा भावयितव्या, सर्वलोके ऽनभिरतिसंज्ञा भावयितव्या, सर्वलोके ऽविश्वाससंज्ञा भावयितव्या, परिजयसंज्ञानं भावयितव्यम्, संवृतिसंज्ञानं भावयितव्यम्, यथारुतसंज्ञानं भावयितव्यम्, सवितर्कः सविचारः समाधिर् भावयितव्यः, अवितर्को ऽविचारमात्रः (PSP१-१: ३०) समाधिर् भावयितव्यः, अवितर्को ऽविचारः समाधिर् भावयितव्यः, अनाज्ञातमाज्ञास्यामीन्द्रियं भावयितव्यम्, आज्ञेन्द्रियं भावयितव्यम्, आज्ञातावीन्द्रियं भावयितव्यम्, अभिभ्वायतनं भावयितव्यम्, कृत्स्नायतनं भवैतव्यम्, सर्वज्ञज्ञानं भावयितव्यम्, शमथविपश्यने भावयितव्ये, तिस्रो विद्या भावयितव्याः. चतस्रः प्रतिसंविदो भावयितव्याः, चत्वारि वैशारद्यानि भावयितव्यानि, अच्युताः पञ्चाभिज्ञा भावयितव्याः, षट् पारमिता भावयितव्याः, सप्त धनानि भावयितव्यानि, अष्टौ महापुरुषवितर्का भावयितव्याः, दश तथागतबलानि भावयितव्यानि, अष्टादशावेणिका बुद्धधर्मा भावयितव्याः, महामैत्री भावयितव्या, महाकरुणा भावयितव्या, महामुदिता भावयितव्या, महोपेक्षा भावयितव्या.
SK
इत्य् अध्याशयसहगतो नवचन्द्रोपमः
SK
सर्वज्ञतां ज्ञानेन दर्शनेन चावलोक्यातिक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता भावयितव्या, मार्गज्ञतां परिपूरयितुकामेन सर्वाकारज्ञताम् अनुप्राप्तुकामेन सर्वसत्त्वचित्तचरितज्ञानाकारतां परिपूरयितुकामेन सर्ववासनानुसंधिक्लेशानुत्पाटयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः. एवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, बोधिसत्त्वन्यामम् अवक्रमितुकामेन श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमितुकामेन, अविनिवर्तनीयभूमौ स्थातुकामेन कुमारभूमिं समतिक्रमितुकामेन, षड् अभिज्ञाः प्राप्तुकामेन सर्वसत्त्वचित्तचरितविस्पन्दितानि विज्ञातुकामेन सर्वश्रावकप्रत्येकबुद्धानां ज्ञानम् अभिभवितुकामेन धारणीसमाधिमुखं प्रतिलब्धुकामेन.
SK
इति प्रयोगसहगतो ज्वलनोपमः
SK
मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धेभ्यो दानानि दीयमानानि एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति दानपारमितासहगतो महानिधानोपमः
SK
दुःशीलान् शीले प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानां शीलम् एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति शीलपारमितासहगतो रत्नाकरोपमः
SK
व्यापन्नचित्तान् क्षान्तौ प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानां क्षान्तिम् एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति क्षान्तिसहगतो महार्णवोपमः
SK
कुशीदान् वीर्ये प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानां वीर्यम् एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति वीर्यसहगतो वज्रोपमः
SK
विक्षिप्तचित्तान् ध्याने प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानां ध्यानम् एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति ध्यानपारमितासहगतः पर्वतोपमः
SK
दुष्प्रज्ञान् सत्त्वान् प्रज्ञायां प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञाम् एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति प्रज्ञासहगतो महाभैषज्योपमः
SK
एकम् अपि कुशलचित्तोत्पादं सर्वाकारज्ञतायाम् उपायकौशल्येन परिणामनयाप्रमेयम् असंख्येयं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, अल्पम् अपि दानं ददता, अल्पमपि शीलं रक्षता, अल्पाम् अपि क्षान्तिं भावयता, अल्पम् अपि वीर्यम् आरभमाणेन, अल्पम् अपि ध्यानं समापद्यमानेनाल्पम् अपि प्रज्ञां भावयता सर्वसत्त्वेभ्यः सर्वाकारज्ञतायाम् उपायकौशल्येन परिणामनयाप्रमेयम् असंख्येयं कर्तुकामेन बोधिसत्त्वेन (PSP१-१: ३२) महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरम् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरता प्रज्ञापारमितायां शिक्षितव्यम्, एवं शीलपारमितायाञ् चरता क्षान्तिपारमितायाञ् चरता वीर्यपारमितायाञ् चरता ध्यानपारमितायाञ् चरता प्रज्ञापारमितायाञ् चरता बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, सर्वसत्त्वानाम् अर्थाय नरकतिर्यग्योनियमलोकदुःखान्य् उत्सोढुकामेन कल्पशतसहस्रसञ्चितम् अपि शीलं सत्त्वोपेक्षया त्यक्तुकामेन बुद्धकुले उपपत्तुकामेन, अशीत्यनुव्यञ्जनानि द्वात्रिंशन्महापुरुषलक्षणानि च निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इत्य् उपायसहगतो मित्रोपमः
SK
पुनर् अपरं शारिपुत्र बुद्धकायं निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, कुमारभूमिम् आक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, बुद्धबोधिसत्त्वैर् अविरहितेन भवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकेन स्वरेण पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् विज्ञापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षु अध ऊर्ध्वम् एकेन स्वरेण गङ्गानदीबालुकोपमान् लोकधातून् विज्ञापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिरत्नवंशस्यानुपच्छेदाय स्थातुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यैः यैः कुशलमूलैर् आकङ्क्षति तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तानि मे कुशलमूलानि समृद्ध्यन्ताम् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति प्रणिधिसहगतश् चिन्तामणिसदृशः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानां मनोरथान् परिपूरयितुकामेन अन्नपानवस्त्रगन्धमाल्यपुष्पधूपचूर्णविलेपनशयनासनगृहधनधान्यालङ्काररत्नमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडजातरूपरजतोद्यानराज्यादिभिर् (PSP१-१: ३३) उपकरणैः प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वसत्त्वान् दानपारमितायां प्रतिष्ठापयितुकामेन शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकम् अपि कुशलचित्तोत्पादम् अक्षयं कर्तुकामेन यावद् बोधिमण्डाभिसंबोधिर् इति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरम् शारिपुत्र ये दशसु दिक्षु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति बलसहगत आदित्योपमः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अध्यात्मशून्यतायां शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतायां महाशून्यतायां परमार्थशून्यतायां संस्कृतशून्यतायाम् असंस्कृतशून्यतायाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायाम् अनवकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां स्वलक्षणशून्यतायाम् अनुपलम्भशून्यतायाम् अभावस्वभावशून्यतायां भावशून्यतायाम् अभावशून्यतायां स्वभावशून्यतायां परभावशून्यतायां शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्मतथताम् अवबोद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं धर्मधातुतथताम् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, सर्वभूतकोटीतथताम् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र त्रिसाहस्रमहासाहस्रलोकधातौ ये पृथिव्यप्तेजोवायुपरमाणवस् ताञ् ज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरञ् जानाति एवं दानं दत्तं महाफलं भवति, एवं दानं दत्तं क्षत्रियमहाशालकुलेषूपपादयति, ब्राह्मणमहाशालकुलेषूपपादयति, गृहपतिमहाशालकुलेषूपपादयति, एवं दानं दत्तं चातुर्महाराजकायिकेषु देवेषूपपादयति, एवं दानं दत्तं त्रयस्त्रिंशेषु देवेषूपपादयति, एवं दानं दत्तं यामेषूपपादयति, एवं दानं दत्तं तुषितेषूपपादयति, एवं दनं दत्तं निर्माणरतिषूपपादयति, एवं दानं दत्तं परनिर्मितवशवर्तिषु देवेषूपपादयति, एवं दानं दत्तं प्रथमध्यानप्रतिलम्भाय संवर्तते, एवं दानं दत्तं द्वितीयध्यानप्रतिलम्भाय संवर्तते, एवं दानं दत्तं तृतीयध्यानप्रतिलम्भाय संवर्तते, एवं दानं दत्तं चतुर्थध्यानप्रतिलम्भाय संवर्तते, एवं दानं दत्तं विज्ञानानन्त्यायतनसमापत्तिप्रतिलम्भाय संवर्तते, एवं दानं दत्तं आकाशानन्त्यायतनसमापत्तिप्रतिलम्भाय संवर्तते, एवं दानं दत्तं आकिञ्चन्यायतनसमापत्तिप्रतिलम्भाय संवर्तते, एवं दानं दत्तं नैवसंज्ञानासंज्ञायतनसमापत्तिप्रतिलम्भाय संवर्तते, एवं दानं दत्तं सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां प्रतिलम्भाय संवर्तते, एवं दानं दत्तं स्रोतआपत्तिफलप्रतिलम्भाय संवर्तते, एवं दानं दत्तं सकृदागामिफलप्रतिलम्भाय संवर्तते, एवं दानं दत्तं अनागामिफलप्रतिलम्भाय संवर्तते, एवं दानं दत्तं अर्हत्फलप्रतिलम्भाय संवर्तते, एवं दानं दत्तं प्रत्येकबुद्धत्वप्रतिलम्भाय संवर्तते, एवं दानं दत्तं सम्यक्संबुद्धत्वप्रतिलम्भाय संवर्तते.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता ज्ञातव्यम्, एवम् उपायकौशलेन दानं दत्तं दानपारमितां परिपूरयति, एवं दानं दत्तं शीलपारमितां परिपूरयति, एवं दानं (PSP१-१: ३५) दत्तं क्षान्तिपारमितां परिपूरयति, एवं दानं दत्तं वीर्यपारमितां परिपूरयति, एवं दानं दत्तं ध्यानपारमितां परिपूरयति, एवं दानं दत्तं प्रज्ञापारमितां परिपूरयति.
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन दानं ददता दानपारमिता परिपूरिता भवति? कथं दानं ददता शीलपारमिता परिपूरिता भवति? कथं दानं ददता क्षान्तिपारमिता परिपूरिता भवति? कथं दानं ददता वीर्यपारमिता परिपूरिता भवति? कथं दानं ददता ध्यानपारमिता परिपूरिता भवति? कथं भगवन् बोधिसत्त्वेन महासत्त्वेन दानं ददता प्रज्ञापारमिता परिपूरिता भवति?
SK
भगवान् आह: अनुपलम्भेन देयस्य दायकस्य ग्राहकस्य च दानपारमिता परिपूरिता भवति, आपत्त्यनापत्त्यनध्यापत्तितः शीलपारमिता परिपूरिता भवति, अक्षोभानभिक्षोभणतः क्षान्तिपारमिता परिपूरिता भवति, कायिकचैतसिकवीर्यास्रंसनतो वीर्यपारमिता परिपूरिता भवति, अविक्षेपासंकल्पनताम् उपादाय ध्यानपारमिता परिपूरिता भवति, सर्वधर्मप्रजानतानुपलम्भयोगेन प्रज्ञापारमिता परिपूरिता भवति, एवं बोधिसत्त्वेन महासत्त्वेन दानं ददता षट् पारमिताः परिपूरिता भवन्ति, एवं शीलपारमितायां सर्वाः षट् पारमिताः परिपूर्यन्ते, एवं क्षान्तिपारमितायां सर्वाः षट् पारमिताः परिपूर्यन्ते, एवं वीर्यपारमितायां सर्वाः षट् पारमिताः परिपूर्यन्ते, एवं ध्यानपारमितायां सर्वाः षट् पारमिताः परिपूर्यन्ते, एवं प्रज्ञापारमितायां सर्वाः षट् पारमिताः परिपूर्यन्ते.
SK
इति ज्ञानसहगतो मधुरसङ्गीतिघोषोपमः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकचित्तोत्पादेन पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् समतिक्रमितुकामेन, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिग्भागे गङ्गानदीबालुकोपमान् लोकधातून् समतिक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र त्रिसाहस्रमहासाहस्र लोकधातौ यो महासमुद्रेष्व् (PSP१-१: ३६) अप्य् अप्स्कन्धो महानदीषु कुनदीषूत्ससरस्तडागेषु पल्वलेषु तं सर्वं शतधाभिन्नया वालाग्रकोट्याभ्युत्क्षेप्तुकामेन च तन्निश्रितान् प्राणिनो ऽविहेठयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिसाहस्रमहासाहस्रं लोकधातुं कल्पोद्दाहाग्निप्रदीप्तम् एकेन मुखवातेन प्रशमयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन या विक्षोभणावातमण्डली वातसंवर्तन्यां वर्तमानायां यावत् सुमेरुमहासुमेरुचक्रवाडमहाचक्रवाडानुपादाय सर्वपर्वतान् सर्वमहापृथिवीं विधुनोति विकिरति निर्मषीकरोति तां विक्षोभणावातमण्डलीम् एकेनाङ्गुलिपर्वाग्रेणाच्छादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिसाहस्रमहासाहस्रे लोकधातौ यावान् आकाशधातुस् तं सर्वम् एकेन पर्यङ्केन स्फारितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिसाहस्रमहासाहस्रे लोकधातौ ये सुमेरुमहासुमेरुचक्रवाडमहाचक्रवाडादयः पर्वतास् तान् एकेन वालेन बद्धा असंख्येयान् अप्रमानान् लोकधातून् समतिक्रामयेयं क्षिपेयम् इति प्रज्ञापारमितायां शिक्षितव्यम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दशसु दिक्षु प्रत्येकं सर्वबुद्धक्षेत्रेषु बुद्धान् भगवतो दिव्येन चक्षुषा द्रष्टुकामेन तेषाञ् च धर्मदेशनां दिव्येन श्रोत्रेन श्रोतुकामेण सर्वसत्त्वचित्तचरितानि च ज्ञातुकामेन तेषां पूर्वनिवासम् अनुस्मर्तुकामेन आस्रवक्षयज्ञानाभिज्ञाम् अभिनिर्हर्तुकामेन च भूतकोटिं साक्षात्कर्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति अभिज्ञासहगतो महाराजोपमः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दशसु दिक्षु प्रत्येकं यावन्तो गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धा (PSP१-१: ३७) भगवन्तः सश्रावकबोधिसत्त्वसंघास् तान् एकेन पिण्डपात्रेण प्रतिपादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपटाकामेघैस् तांस् तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कर्तुकामेन गुरुकर्तुकामेन मानयितुकामेन पूजयितुकामेन प्रज्ञापारमितायां शिक्ष्टव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् तान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन स्रोतआपत्तिफले प्रतिष्ठापयितुकामेन, सकृदागामिफले प्रतिष्ठापयितुकामेन, अनागामिफले प्रतिष्ठापयितुकामेन, अर्हत्त्वे प्रतिष्ठापयितुकामेन, प्रत्येकबोधौ प्रतिष्ठापयितुकामेन यावद् अनुपधिशेषनिर्वाणधातौ प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यथा पूर्वस्यां दिशि एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं प्रत्येकं गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् तान् यावद् अनुपधिशेषनिर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति पुण्यज्ञानसहगतः कोष्ठागारोपमः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेनातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बुद्धगुणान् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन संस्कृतासंस्कृतानां धर्माणां पारं गन्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणाम् अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अवबोधुकामेन धर्माणाम् अनुत्पादकोटिम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति बोधिपक्षसहगतो महामार्गोपमः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वश्रावकप्रत्येकबुद्धानां पूर्वङ्गमेन भवितुकामेन प्रज्नापारमितायां (PSP१-१: ३८) शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धानां भगवताम् उपस्थायकेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धानां भगवताम् अभ्यन्तरपरिवारेण भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन महापरिवारेण भवितुकामेन बोधिसत्त्वं परिवारं प्रतिलब्धुकामेन च प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दक्षिणां परिशोधयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन मात्सर्यचित्तं निग्रहीतुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दौःशील्यचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन व्यापादचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन कौशीद्यचित्तम् उत्स्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन विक्षिप्तचित्तं रिञ्चितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दौष्प्रज्ञचित्तम् अप्रपञ्चितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् दानमयपुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन, शीलमयपुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन, भावनामयपुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन, वैयावृत्यसहगते चौपधिके पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पञ्च चक्षूंष्य् उप्त्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. कतमानि पञ्च? यद् (PSP१-१: ३९) उत मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पूर्वस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
एवं दक्षिणस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पश्चिमायां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
उत्तरस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
उत्तरपूर्वस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पूर्वदक्षिणस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
दक्षिणपश्चिमायां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पश्चिमोत्तरस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
अधस्ताद् दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
उपरिष्टाद् दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यांश् च ते बुद्धा भगवन्तो धर्मान् भाषन्ते तान् धर्मान् दिव्येन श्रोत्रेण श्रोतुकामेन, तेषाञ् च बुद्धानां भगवतां चेतसैव चित्तं यथाभूतं परिज्ञातुकामेन, तेषां बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वताम् अनुस्मर्तुकामेन, तेषाञ् च बुद्धानाम् ऋद्धिविकुर्वितं द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यांस् ते बुद्धा भगवन्तः समन्ताद् दशसु दिक्षु सर्वलोकधातुषु धर्मान् भाषन्ते (PSP१-१: ४०) ताञ् छ्रुत्वा अनाच्छेद्येन स्मृतिबलाधानेन सर्वान् संधारयितुकामेन यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अतीतानां बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन, अनागतानाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. ये चैतर्हि समन्ताद् दश दिशि लोके बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तेषाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति शमथविपश्यनासहगतो यानोपमः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यत् किञ्चिद् दशसु दिक्षु बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च, यद् इदं सूत्रं गेयं व्याकरणं गाथा उदानं निदानम् इतिवृत्तकं जातकं वैपुल्याद्भुता धर्मा अवदानम् उपदेशाः, यच् च श्रावकैर् न श्रुतं तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन, परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यत् किञ्चित् पूर्वस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यत् किञ्चिद् दक्षिणस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यत् किञ्चित् पश्चिमायां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते (PSP१-१: ४१) भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यत् किञ्चिद् उत्तरस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यत् किञ्चिद् उत्तरपूर्वस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यत् किञ्चित् पूर्वदक्षिणस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यत् किञ्चिद् दक्षिणपश्चिमायां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यत् किञ्चित् पश्चिमोत्तरस्यां दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यत् किञ्चिद् अधो दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन (PSP१-१: ४२) तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यत् किञ्चिद् ऊर्ध्वं दिशि बुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति धारणीप्रतिभानसहगतः प्रस्रवणोपमः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यानि पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यानि दक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यानि पश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यान्य् उत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यान्य् उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यानि पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यानि दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यानि पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् (PSP१-१: ४३) अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यानि अधस्ताद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यान्य् उपरिष्टाद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन ये पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये दक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये पश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये उत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये अधस्ताद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये उपरिष्टाद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति धर्मोद्दानसहगत आनन्दशब्दोपमः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु ये सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिता विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते, मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, (PSP१-१: ४५) अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले प्रतिष्ठापयिष्यामीति, अनागामिफले प्रतिष्ठापयिष्यामीति, अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये दक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते, मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये पश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्नगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, (PSP१-१: ४६) अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये उत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, (PSP१-१: ४७) सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु (PSP१-१: ४८) सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
ये ऽधो दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति, प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्,
SK
ये ऊर्ध्वं दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा (PSP१-१: ४९) भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति एकायनमार्गसहगतो नदीस्रोतोपमः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन तथागतेर्यापथे शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्, कदा न्व् अहं नागावलोकितम् अवलोकयिष्यामीति, किम् इत्य् अहं पृथीवीं चतुरङ्गुलम् अस्पृशन् पद्भ्यां गच्छेयम् इति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इत्य् अहं चातुर्महाराजकायिकैस् त्रयस्त्रिंशैर् यामैस् तुषितैर् निर्माणरतिभिः परनिर्मितवशवर्तिभिर् ब्रह्मकायिकैर् ब्रह्मपुरोहितैर् ब्रह्मपारिषद्यैः परीत्ताभैर् अप्रमाणाभैर् आभास्वरैः परीत्तशुभैर् अप्रमाणशुभैः शुभकृत्स्नैर् अनभ्रकैः पुण्यप्रसवैर् बृहत्फलैर् असंज्ञिसत्त्वैः शुद्धावासैर् अस्पृहैर् अतपैः सुदृशैः सुदर्शनैर् अकनिष्ठैश् च परिवृतः पुरस्कृतो ऽनेकदेवपुत्रकोटीनियुतशतसहस्रैर् बोधिमण्डद्रुममूलम् उपसंक्रामेयम् इति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति ये चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपारिषद्यः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः (PSP१-१: ५०) सुदृशाः सुदर्शना अकनिष्ठाश् च देवाः, बोधिमण्डद्रुममूलं प्रतिसंस्तरेयुर् इति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य गच्छतो वा तिष्ठतो वा निषण्णस्य वा शयानस्य वा स पृथिवीप्रदेशो वज्रमयः संतिष्ठेतेति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इत्य् अहं यत्रैव दिवसे निष्कामेयं तत्रैव दिवसे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येयम् इति, तत्रैव दिवसे धर्मचक्रं प्रवर्तयेयम् इति, धर्मचक्रं च मे प्रवर्तयमानस्यासंख्येयानाम् अप्रमेयाणां सत्त्वानां विरजोविगतमलं धर्मेषु धर्मचक्षुर् विशुध्येद् इति, असंख्येयानाम् अप्रमेयाणां सत्त्वानाम् अनुपादायास्र्वेभ्यश् चित्तानि विमुच्येयुर् इति, असंख्येया अप्रमेया सत्त्वा अविनिवर्तनीया भवेयुर् अनुत्तरायाः सम्यक्संबोधिर् इति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे ऽप्रमेयो ऽसंख्येयः श्रावकसंघः स्याद् इति, अप्रमेयाः असंख्येयाः सत्त्वा एकधर्मदेशनाया एकासनिका बोधिसत्त्वा भवेयुर् अविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेर् इति, असंख्येयश् चाप्रमेयश् च बोधिसत्त्वसंघो भवेद् इति, अपरिमितं चायुःप्रमाणं भवेद् इति, अपरिमिता च प्रभासंपद् भवेद् इति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तस्मिन् बुद्धक्षेत्रे रागद्वेषमोहायतनानि सर्वेण सर्वं सर्वथा सर्वं न भवेयुर् इति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्, किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य एवंरूपया प्रज्ञया सत्त्वाः समन्वागता (PSP१-१: ५१) भवेयुर्, यद् अन्यबुद्धक्षेत्रस्था बुद्धा भगवन्तः एवम् उदानम् उदानयेयुः. साधु शमः साधु दमः साधु संयमः साधु चीर्णब्रह्मचर्यवासः साध्व् अविहिंसा सर्वप्राणिभूतेष्व् इति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे परिनिर्वृतस्य सद्धर्मान्तर्धानम् अपि न स्यात्, सहश्रवणेन च मे नामधेयस्य ये दशसु दिक्षु गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वास् ते नियता भवेयुर् अनुत्तरायाः सम्यक्संबोधेर् इति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
यस्मिन् समये शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् गुणान् उत्पादयति, तदा ये त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानस् त एवं चिन्तयन्ति, वयम् अस्मै बोधिसत्त्वाय चत्वारि पात्राणि दास्यामः, यथा दत्तानि पूर्वकैर् महाराजैः पूर्वकाणां तथागतानां त्रयस्त्रिंशाश् च देवा आत्तमनस्का भवन्ति यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा उत्सुका भविष्यन्ति, वयम् अस्य बोधिसत्त्वस्य महासत्त्वस्योपस्थानपरिचर्याः करिष्याम इति, एवम् आसुराः कायाः परिहास्यन्ते दिव्याः कायाः अभिवर्धिष्यन्ते.
SK
आत्तमनस्काश् च त्रिसाहस्रमहासाहस्रे लोकधातौ भवन्ति ब्रह्मपारिषद्या ब्रह्मपुरोहिता महाब्रह्माणः, आत्तमनस्का भवन्ति परीत्ताभा अप्रमाणाभाश् च आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धाभासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश् च देवास् तेषाम् एवं भवति, वयम् एनम् अभिसंबुद्धम् अध्येषिष्यामो धर्मचक्रप्रवर्तनाय, यस्मिन् समये शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विवर्धते षड्भिः पारमिताभिः, तस्मिन् समय आत्तमनस्का भवन्ति बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च वयम् अस्य मातापितरौ भविष्यामो भार्यापुत्रज्ञातिसालोहिता इति.
SK
आत्तमनस्का भवन्ति चत्वारो महाराजानो देवास् त्रयस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मपार्षद्या देवा ब्रह्मपुरोहिता देवा महाब्रह्माणो (PSP१-१: ५२) देवाः परीत्तशुभा देवा अप्रमाणशुभा देवा आभास्वरा देवाः शुभकृत्स्ना देवा अनभ्रका देवाः पुण्यप्रसवा देवा बृहत्फला देवा असंज्ञिसत्त्वा देवाः शुद्धावासा देवा अस्पृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठाश् च देवा बोधिसत्त्वस्य महासत्त्वस्य मैथुनधर्मपरिवर्जनेन, अथ यः प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वो महासत्त्वो ब्रह्मचारी भवति, न संयोजनीयैर् धर्मैः संयुज्यते, तस्यैवं भवति अब्रह्मचारिणः स खलु पुनः कामान् प्रतिसेवमाणस्य ब्रह्मलोकोपपत्तेर् अप्य् अन्तरायो भवति, कः पुनर् वादो ऽनुत्तरायाः सम्यक्संबोधेः, तस्मात् तर्हि बोधिसत्त्वेन महासत्त्वेन ब्रह्मचारिणैव गृहाद् अभिनिष्क्रम्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या नाब्रह्मचारिणा.
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन्न् अवश्यं बोधिसत्त्वस्य मातापितृभ्यां भवितव्यं भार्यापुत्रज्ञातिसालोहितैर् भवितव्यम्?
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: केषांचिच् छारिपुत्र बोधिसत्त्वानां महासत्त्वानां मातापितरौ भवतः भार्यापुत्रज्ञातिसालोहिता वा, केषाञ्चिद् बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादम् उपादाय ब्रह्मचर्यसमादानन् ते कुमारभूता एव बोधिसत्त्वचारिकां चरन्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, केचिद् बोधिसत्त्वा महासत्त्वा उपायकौशल्येन च पञ्च कामगुणान् परिभुज्याभिनिष्क्रम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, तद्यथापि नाम शारिपुत्र दक्षो मायाकारो वा मायाकारान्तेवासी वा सुशिक्षितो भवेन् मायायां, स पञ्च कामगुणान् अभिनिर्माय तैः पञ्चभिः कामगुणै रमेत् क्रीडेत् परिचरेत्, तत् किं मन्यसे? शारिपुत्र अपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा पञ्च कामगुणा आस्वादिताः परिभुक्ता भवेयुः.
SK
शारिपुत्र आह: नो हीदं भगवन्,
SK
भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन च पञ्च कामगुणान् परिभुङ्क्ते सत्त्वानां परिपाकहेतोः, न पुनर् बोधिसत्त्वो महासत्त्वः कामगुणैर् लिप्यते, अनेन पर्यायेण बोधिसत्त्वो महासत्त्वः कामानाम् अवर्णं भाषते, आदीप्ताः कामा जुगुप्सिताः कामा बधकाः कामाः प्रत्यर्थिकाः कामाः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः सत्त्वपरिपाकहेतोः पञ्च कामगुणान् उपाददाति.
SK
इति धर्मकामसहगतो महामेघोपमः
SK
इति उक्तश् चित्तोत्पादः
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्?
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्व एव समानो बोधिसत्त्वं न समनुपश्यति, बोधिसत्त्वनामापि न समनुपश्यति, बोधिसत्त्वचर्याम् अपि न समनुपश्यति, प्रज्ञापारमिताम् अपि न समनुपश्यति, रूपम् अपि न समनुपश्यति, एवं वेदनां संज्ञां संस्कारान् विज्ञानम् अपि न समनुपश्यति, तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वो बोधिसत्त्वस्वभावेन शून्यः प्रज्ञापारमिता प्रज्ञापारमितास्वभावेन शून्यः. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, तथा हि शून्यतया न रूपं शून्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शून्यतया शून्यं, नान्यत्र रूपाच् छून्यता, नान्यत्र वेदनायाः शून्यता, नान्यत्र संज्ञायाः शून्यता, नान्यत्र संस्कारेभ्यः शून्यता, नान्यत्र विज्ञानाच् छून्यता. तत् कस्य हेतोः? रूपम् एव शून्यता, वेदनैव शून्यता, संज्ञैव शून्यता, संस्कारा एव शून्यता, विज्ञानम् एव शून्यता, शून्यतैव रूपं, शून्यतैव वेदना, शून्यतैव संज्ञा, शून्यतैव संस्काराः, शून्यतैव विज्ञानम्. तत् कस्य हेतोः? तथा हि नाममात्रम् इदं यद् इदं बोधिसत्त्व इति, नाममात्रम् इदं यद् इदं प्रज्ञापारमितेति, नाममात्रम् इदं यद् इदं रूपं वेदना संज्ञा संस्कारा विज्ञानं, तथा हि मायोपमं रूपं वेदना संज्ञा संस्कारा विज्ञानं, माया च नाममात्रं न देशस्था न प्रदेशस्था असदसंभूतं वितथदर्शनसमं, मायादर्शनस्वभावस्य हि (PSP१-१: ५४) नोत्पादो न निरोधो न संक्लेशो न व्यवदानम्, एवं प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्व उत्पादम् अपि न समनुपश्यति, निरोधम् अपि न समनुपश्यति, संक्लेशम् अपि न समनुपश्यति, व्यवदानम् अपि न समनुपश्यति. तत् कस्य हेतोः? तथा हि कृत्रिमं नाम प्रतिधर्मं, ते च कल्पिताः, आगन्तुकेन नामधेयेन व्यवह्रियन्ते, तानि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सर्वनामानि न समनुपश्यति असमनुपश्यन् नाभिनिविशते.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वः प्रज्ञापारमितायां चरन् नैवम् उपपरीक्षते नाममात्रम् इदं यद् इदं बोधिसत्त्व इति, नाममात्रम् इदं यद् उत बोधिर् इति, नाममात्रम् इदं यद् उत बुद्ध इति, नाममात्रम् इदं यद् उत प्र्ज्ञापारमितेति, नाममात्रम् इदं यद् उत प्रज्ञापारमितायां चर्येति, नाममात्रम् इदं यद् उत रूपम् इति, नाममात्रम् इदं यद् उत वेदनेति, नाममात्रम् इदं यद् उत संज्ञेति, नाममात्रम् इदं यद् उत संस्कारा इति, नाममात्रम् इदं यद् उत विज्ञानम् इति, तद्यथापि नाम शारिपुत्र आत्मेति चोच्यते, न चात्मा उपलभ्यते, न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो ऽप्य् उपलभ्यते, अनुपलम्भशून्यताम् उपादाय. तत् कस्य हेतोः? तथा हि बोधिसत्त्वस् तम् अपि न समनुपश्यति येनाभिनिविशेत, एवं चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति.
SK
स चेच् छारिपुत्रायञ् जम्बुद्वीपः परिपूर्णो भवेच् छारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् अपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति, एवं शारिपुत्र प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभाविता या प्रज्ञा सा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञाम् अभिभवति. तत् कस्य हेतोः? तथा हि शारिपुत्र या बोधिसत्त्वस्य प्रज्ञा सा सर्वसत्त्वानां निर्वाणाय प्रत्युपस्थिता, तिष्ठतु शारिपुत्रायञ् जम्बुद्वीपः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर् (PSP१-१: ५५) भिक्षुभिः.
SK
स चेच् छारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णो भवेच् छारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. तिष्ठतु शारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः.
SK
स चेच् छारिपुत्र पूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र दक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र पश्चिमायां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां (PSP१-१: ५६) चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र उत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनंवा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् (PSP१-१: ५७) उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदिबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य्, उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा, तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्राधस्ताद् दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
स चेच् छारिपुत्र ऊर्ध्वं दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं (PSP१-१: ५८) वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति.
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: येयं भगवन् स्रोतआपन्नस्य प्रज्ञा सकृदागामिनो ऽनागामिनो ऽर्हतः प्रत्येकबुद्धस्य प्रज्ञा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञा तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रज्ञा सर्वा एताः प्रज्ञा अभिन्ना विविक्ता अनुत्पन्ना अस्वभावाः शून्याः, न च भगवन्न् अभिन्नस्य विविक्तस्य अनुत्पन्नस्यास्वभावस्य शून्यस्य नानाकरणम् उपलभ्यते विशेषो वा, तत् कथं पुनर् भगवन् या बोधिसत्त्वस्यैकदिवसभाविता प्रज्ञा सा प्रज्ञापारमितायां चरतः प्रज्ञा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञाम् अभिभवति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? शारिपुत्र येन कार्येण बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एकदिवसभाविता प्रज्ञा प्रत्युपस्थिता सर्वाकारवरोपेता सर्वज्ञतायां चरतः सर्वसत्त्वानाम् अर्थं कुर्वतः सर्वाकारं सर्वधर्मान् बुद्धा सर्वसत्त्वाः परिनिर्वापयितव्या इति, अपि नु शारिपुत्र तेन कृत्येन सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा प्रत्युपस्थिता.
SK
शारिपुत्र आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? शारिपुत्र अपि नु सर्वश्रावकप्रत्येकबुद्धानाम् एवं भवति, अस्माभिर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वा निरुपधिशेषनिर्वाणधातौ परिनिर्वापयितव्या इति.
SK
शारिपुत्र आह: नो हीदं भगवन्.
SK
भगवान् आह: तद् अनेनापि ते शारिपुत्र पर्यायेणैवं वेदितव्यं, येयं सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा सा बोधिसत्त्वस्य प्रज्ञा या एकदिवसभावितायाः शततमीम् अपि कालं नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् (PSP१-१: ५९) उपनिषदम् अप्य् उपनिशाम् अपि नोपैति, तत् किं मन्यसे? शारिपुत्रापि नु सर्वश्रावकप्रत्येकबुद्धानाम् एवं भवति, वयं षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति.
SK
शारिपुत्र आह: नो हीदं भगवन्.
SK
भगवान् आह: बोधिसत्त्वस्य महासत्त्वस्य पुनः शारिपुत्रैवं भवति, अहं षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्यामीति, तद्यथापि नाम शारिपुत्र न भवति खद्योतकस्य प्राणकजातस्य ममाभया जम्बुद्वीपो ऽवभास्यतेति, ममाभया जम्बुद्वीपः स्फुटो भवेद् इति, एवम् एव शारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां नैवं भवति, एकस्याप्य् अहं षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्यामीति, तद्यथापि नाम शारिपुत्र सूर्यमण्डलम् उदयन् सर्वं जम्बुद्वीपम् अवभासेन स्फुटीकरोति, एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयति.
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धभूमिं चातिक्रम्य अविनिवर्तनीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन् शून्यतानिमित्ताप्रणिहितेषु सर्वेषु स्थित्वा श्रावकप्रत्येकबुद्धभूमिं चातिक्रामति, अविनिवर्तनीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति.
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमस्यां भगवन् भूमौ स्थित्वा बोधिसत्त्वो महासत्त्वः सततसमितं सर्वश्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: प्रथमचित्तोत्पादम् उपादाय शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् यावदा बोधिमण्डाद् अत्रान्तरे सततसमितं सर्वश्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति, तत् कस्य हेतोः? तथा हि शारिपुत्र बोधिसत्त्वं महासत्त्वम् आगम्य सर्वेषां कुशलानां धर्माणां लोके प्रादुर्भावो भवति, यद् उत दशानां कुशलानां कर्मपथानां पञ्चानां शिक्षापदानाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, षण्णां पारमितानां दशानां तथागतबलानाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति, एतेषां च कुशलानां धर्माणां लोके प्रादुर्भावात् क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रयस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, (PSP१-१: ६१) अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, अनभ्रका देवाः प्रज्ञायन्ते, पुण्यप्रसवा देवाः प्रज्ञायन्ते, वृहत्फला देवाः प्रज्ञायन्ते, असंज्ञिसत्त्वा देवाः प्रज्ञायन्ते, शुद्धावासा देवाः प्रज्ञायन्ते, अस्पृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते, आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानानन्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतनादेवाः प्रज्ञायन्ते, स्रोतआपन्ना लोके उत्पद्यन्ते, सकृदागामिनो लोके उत्पद्यन्ते, अनागामिनो लोके उत्पद्यन्ते, अर्हन्तो लोके उत्पद्यन्ते, प्रत्येकबुद्धा लोके उत्पद्यन्ते, बोधिसत्त्वा लोके उत्पद्यन्ते, तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्यन्ते.
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति उत नेति.
SK
भगवान् आह: न हि शारिपुत्र बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति, तत् कस्य हेतोः? आत्यन्तशुद्धैव दक्षिणा बोधिसत्त्वस्य महासत्त्वस्य, तत् कस्य हेतोः? दायकः शारिपुत्र बोधिसत्त्वो महासत्त्वः. कस्य दायकः? कुशलानां धर्माणां दायकः. कतमेषां कुशलानां धर्माणां दायकः? यद् उत दशानां कुशलानां कर्मपथानां पञ्चानां शिक्षापदाणाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतस्माम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां षण्णां पारमितानां दशानां तथागतबलानाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां दायकः.
SK
इति प्रतिपत्त्यववादः
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं (PSP१-१: ६२) युज्यमानो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वो रूपशून्यतायां युक्तो युक्त इति वक्तव्यः. वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः, संज्ञाशून्यतायां युक्तो युक्त इति वक्तव्यः, संस्कारशून्यतायां युक्तो युक्त इति वक्तव्यः, विज्ञानशून्यतायां युक्तो युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वश् चक्षुःशून्यतायां युक्तो युक्त इति वक्तव्यः, श्रोत्रशून्यतायां युक्तो युक्त इति वक्तव्यः, घ्राणशून्यतायां युक्तो युक्त इति वक्तव्यः, जिह्वाशून्यतायां युक्तो युक्त इति वक्तव्यः, कायशून्यतायां युक्तो युक्त इति वक्तव्यः, मनःशून्यतायां युक्तो युक्त इति वक्तव्यः, रूपशून्यतायां युक्तो युक्त इति वक्तव्यः, शब्दशून्यतायां युक्तो युक्त इति वक्तव्यः, गन्धशून्यतायां युक्तो युक्त इति वक्तव्यः, रसशून्यतायां युक्तो युक्त इति वक्तव्यः, स्प्रष्टव्यशून्यतायां युक्तो युक्त इति वक्तव्यः, धर्मशून्यतायां युक्तो युक्त इति वक्तव्यः, चक्षुर्विज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, श्रोत्रविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, घ्राणविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तब्व्यः, जिह्वाविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, कायविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, मनोविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, दुःखशून्यतायां युक्तो युक्त इति वक्तव्यः, समुदयशून्यतायां युक्तो युक्त इति वक्तव्यः, निरोधशून्यतायां युक्तो युक्त इति वक्तव्यः, मार्गशून्यतायां युक्तो युक्त इति वक्तव्यः, अविद्याशून्यतायां युक्तो युक्त इति वक्तव्यः, संस्कारशून्यतायां युक्तो युक्त इति वक्तव्यः, विज्ञानशून्यतायां युक्तो युक्त इति वक्तव्यः, नामरूपशून्यतायां युक्तो युक्त इति वक्तव्यः, षडायतनशून्यतायां युक्तो युक्त इति वक्तव्यः, स्पर्शशून्यतायां युक्तो युक्त इति वक्तव्यः, वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः, तृष्णाशून्यतायां युक्तो युक्त इति वक्तव्यः, उपादानशून्यतायां युक्तो युक्त इति वक्तव्यः, भवशून्यतायां युक्तो युक्त इति वक्तव्यः, जातिशून्यतायां युक्तो युक्त इति वक्तव्यः, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासशून्यतायां (PSP१-१: ६३) युक्तो युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां युक्तो युक्त इति वक्तव्यः, बहिर्धाशून्यतायां युक्तो युक्त इति वक्तव्यः, अध्यात्मबहिर्धाशून्यतायां युक्तो युक्त इति वक्तव्यः, यावत् परभावशून्यतायां युक्तो युक्त इति वक्तव्यः,
SK
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आसु सर्वासु शून्यतासु युक्तो युक्त इति वक्तव्यः, स आभिः शून्यताभिः प्रज्ञापारमितायां चरन् न तावद् बोधिसत्त्वो महासत्त्वो युक्तो युक्त इति वक्तव्यो ऽयुक्त इति. तत् कस्य हेतोः? तथा हि न स रूपं न वेदनां न संज्ञां न संस्कारान् न विज्ञानं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति.
SK
इति दुःखसत्याववादः
SK
स न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति, न वेदनाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति न संज्ञाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति, न संस्कारान् उत्पादधर्मिणो वा निरोधधर्मिणो वा समनुपश्यति, न विज्ञानाम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति, न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति, न वेदनां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति, न संज्ञां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति, न संस्कारान् संक्लेशधर्मिणो वा व्यवदानधर्मिणो वा समनुपश्यति, न विज्ञानं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो न रूपं वेदनायां समवसरतीति समनुपश्यति, न वेदना संज्ञायां समवसरतीति समनुपश्यति, न संज्ञा संस्कारेषु समवसरतीति समनुपश्यति, न संस्कारा विज्ञाने समवसरन्तीति समनुपश्यति, न विज्ञानं धर्मे समवसरतीति समनुपश्यति, न धर्मः क्वचिद् धर्मे समवसरतीति समनुपश्यति, तत् कस्य हेतोः? न हि कश्चिद् धर्मः क्वचिद् धर्मे समवसरति प्रकृतिशून्यताम् उपादाय, तत् कस्य हेतोः? तथा हि शारिपुत्र या रूपस्य शून्यता न तद् रूपम्, या वेदनायाः शून्यता न सा वेदना, या (PSP१-१: ६४) संज्ञायाः शून्यता न सा संज्ञा, या संस्काराणां शून्यता न ते संस्काराः, या विज्ञानस्य शून्यता न तद् विज्ञानम्. तत् कस्य हेतोः? तथा हि या रूपशून्यता न सा रूपयति, या वेदनाशून्यता न सा वेदयति, या संज्ञाशून्यता न सा संजानीते, या संस्कारशून्यता न साभिसंस्कारोति, या विज्ञानशून्यता न सा विजानाति, तत् कस्य हेतोः? तथा हि शारिपुत्र नान्यद् रूपम् अन्या शून्यता, नान्या शून्यता अन्यद् रूपं, रूपम् एव शून्यता शून्यतैव रूपम्, नान्या वेदना अन्या शून्यता, नान्या शून्यता अन्या वेदना, वेदनैव शून्यता शून्यतैव वेदना, नान्या संज्ञा अन्याशून्यता, नान्या शून्यता अन्या संज्ञा, संज्ञैव शून्यता शून्यतैवसंज्ञा, नान्ये संस्कारा अन्या शून्यता, नान्या शून्यता अन्ये संस्काराः, संस्कारा एव शून्यता शून्यतैव संस्काराः, नान्यद् विज्ञानम् अन्या शूयता, नान्या शून्यता अन्यद् विज्ञानं, विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्.
SK
इति समुदयसत्याववादः
SK
शून्यता शारिपुत्र नोत्पद्यते न निरुध्यते, न संक्लिश्यते न व्यवदायते, न हीयते न वर्धते, नातीता नानागता न प्रत्युत्पन्ना, या च ईदृशी न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न चक्षुरायायतनं न रूपायतनं न श्रोत्रायतनंन शब्दायतनं न घ्राणायतनं न गन्धायतनं न जिह्वायतनं रसायतनं न कायायतनं स्प्रष्टव्यायतनं न मनआयतनं धर्मायतनम्, न चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञानधातुः, न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः, न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः, न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः, न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः, नाविद्योत्पादो नाविद्यानिरोधः, न संस्कारोत्पादो न संस्कारनिरोधः, न विज्ञानोत्पादो न विज्ञाननिरोधः, न नामरूपोत्पादो न नामरूपनिरोधः, न षडायतनोत्पादो न षडायतननिरोधः, न स्पर्शोत्पादो न स्पर्शनिरोधः, न वेदनोत्पादो न वेदनानिरोधः, न तृष्णोत्पादो न तृष्णानिरोधः, न उपादानोत्पादो नोपादाननिरोधः, न भवोत्पादो न (PSP१-१: ६५) भवनिरोधः, न जात्युत्पादो न जातिनिरोधः न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासोत्पादो न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासनिरोधः, न दुःखं न समुदयो न निरोधो न मार्गो न प्राप्तिर् नाभिसमयो न स्रोतआपन्नो न स्रोतआपत्तिफलं, न सकृदागामी न सकृदागामिफलं, नानागामीनानागामिफलं, नार्हत्त्वं नार्हत्त्वफलं, न प्रत्येकबुद्धो न प्रत्येकबोधिः, न बुद्धो न बोधिः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्तो युक्त इति वक्तव्यः.
SK
इति निरोधसत्याववादः
SK
स प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त इति वा आत्मानं समनुपश्यति, न शीलपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न क्षान्तिपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न वीर्यपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न ध्यानपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न प्रज्ञापारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न रूपे युक्त इति वा अयुक्त इति वा समनुपश्यति, न वेदनायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न संज्ञायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न संस्कारेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न विज्ञाने युक्त इति वा अयुक्त इति वा समनुपश्यति, न चक्षुषि युक्त इति वा अयुक्त इति वा समनुपश्यति, न श्रोत्रे युक्त इति वा अयुक्त इति वा समनुपश्यति, न घ्राणे युक्त इति वा अयुक्त इति वा समनुपश्यति, न जिह्वायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न काये युक्त इति वा अयुक्त इति वा समनुपश्यति, न मनसि युक्त इति वा अयुक्त इति वा समनुपश्यति, न रूपे युक्त इति वा अयुक्त इति वा समनुपश्यति, न शब्दे युक्त इति वा अयुक्त इति वा समनुपश्यति, न गन्धे युक्त इति वा अयुक्त इति वा समनुपश्यति, न रसे युक्त इति वा अयुक्त इति वा समनुपश्यति, न स्प्रष्टव्ये युक्त इति वा अयुक्त इति वा समनुपश्यति, न धर्मे युक्त इति वा अयुक्त इति वा समनुपश्यति, न स्मृत्युपस्थानेषु (PSP१-१: ६६) युक्त इति वा अयुक्त इति वा समनुपश्यति, न सम्यक्प्रहाणेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न ऋद्धिपादेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, नेन्द्रियेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न बलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न बोध्यङ्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न मार्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतुर्षु सत्येषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतुर्षु वैशारद्येषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतसृषु प्रतिसंवित्सु युक्त इति वा अयुक्त इति वा समनुपश्यति, नाभिज्ञासु युक्त इति वा अयुक्त इति वा समनुपश्यति, न दशसु तथागतबलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, नाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, यावन् न सर्वाकारज्ञतायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न सर्वज्ञज्ञाने युक्त इति वा अयुक्त इति वा समनुपश्यति, तद् अनेनापि ते शारिपुत्र पर्यायेणैवं वेदितव्यं बोधिसत्त्वो महासत्त्व एवं प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न शून्यतायां शून्यतया योजयति, न शून्यतायोगः, नानिमित्तम् आनिमित्तेन योजयति नानिमित्तयोगं, नाप्रणिहितम् अप्रणिहितेन योजयति नाप्रणिहितयोगम्. तत् कस्य हेतोः? तथा हि शून्यता न योगो नायोगः, एवम् आनिमित्तम् अप्रणिहितं न योगो नायोगः. एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्माणां स्वलक्षणशून्यताम् अवतरति, एवम् एव तरन् न रूपं योजयति न वियोजयति न वेदनां योजयति न वियोजयति, न संज्ञां योजयति न वियोजयति, न संस्कारान् योजयति न वियोजयति, न विज्ञानं योजयति न वियोजयति, न रूपं पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न रूपम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न रूपं प्रत्युत्पन्नेन योजयति न वायोजयति, प्रत्युत्पन्नम् एव न समनुउपश्यति, न वेदनां पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपाश्यति, न (PSP१-१: ६७) वेदनाम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न संज्ञां पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न संज्ञाम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न संज्ञां प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न संस्कारान् पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न संस्कारान् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न विज्ञानं पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न विज्ञानम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न पूर्वान्तम् अपरान्तेन योजयति नापरान्तं पूर्वान्तेन योजयति, न प्रत्युत्पन्नं पूर्वान्तेन वा अपरान्तेन वा योजयति, नापरान्तं पूर्वान्तेन वा प्रत्युत्पन्नेन वा योजयति, न पूर्वान्तम् अपरान्तेन वा प्रत्युत्पन्नेन वा योजयति, अध्वशून्यताम् उपादाय. एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् एवं युज्यते, यथा युज्यमानो न सर्वाकारज्ञताम् अतीतेन योजयति, अतीतम् एव न समनुपश्यति, कथम् अतीतेन सर्वाकारज्ञतां योजयति. न सर्वाकारज्ञताम् अनागतेन योजयति, अनागतम् एव न समनुपश्यति, कथम् अनागतेन सर्वाकारज्ञतां योजयति. न सर्वाकारज्ञतां प्रत्युत्पन्नेन योजयति, प्रत्युत्पन्नम् एव समनुपश्यति, कथं प्रत्युत्पन्नेन सर्वाकारज्ञतां योजयति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
इति मार्गसत्याववादः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति, न वेदनां सर्वाकारज्ञतया योजयति वेदनाम् एव न समनुपश्यति, न संज्ञां सर्वाकारज्ञतया योजयति संज्ञाम् एव न समनुपश्यति, न संस्कारान् सर्वाकारज्ञतया योजयति संस्कारान् एव न समनुपश्यति, न विज्ञानं सर्वाकारज्ञतया योजयति विज्ञानम् एव न समनुपश्यति, न चक्षुः सर्वाकारज्ञतया योजयति चक्षुर् एव न समनुपश्यति, न श्रोत्रं सर्वाकारज्ञतया योजयति श्रोत्रम् एव न समनुपश्यति, न घ्राणं सर्वाकारज्ञतया योजयति घ्राणम् एव न समनुपश्यति, न जिह्वां सर्वाकारज्ञतया योजयति जिह्वाम् एव न समनुपश्यति, न कायञ् सर्वाकारज्ञतया योजयति कायम् एव न समनुपश्यति, न मनः सर्वाकारज्ञतया योजयति मन एव न समनुपश्यति, न रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति, न शब्दान् सर्वाकारज्ञतयायोजयति शब्दान् एव न समनुपश्यति, न गन्धान् सर्वाकारज्ञतया योजयति गन्धान् एव न समनुपश्यति, न रसान् सर्वाकारज्ञतया योजयति रसान् एव न समनुपश्यति, न स्प्रष्टव्यं सर्वाकारज्ञतया योजयति स्प्रष्टव्यं एव न समनुपश्यति, न धर्मान् सर्वाकारज्ञतया योजयति धर्मान् एव न समनुपश्यति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितां सर्वाकारज्ञतया योजयति दानपारमिताम् एव न समनुपश्यति, न शीलपारमितां सर्वाकारज्ञतया योजयति शीलपारमिताम् एव न समनुपश्यति, न क्षान्तिपारमितां सर्वाकारज्ञतया योजयति क्षान्तिपारमिताम् एव न समनुपश्यति, न वीर्यपारमितां सर्वाकारज्ञतया योजयति वीर्यपारमिताम् एव न समनुपश्यति, न ध्यानपारमितां सर्वाकारज्ञतया योजयति, ध्यानपारमिताम् एव न समनुपश्यति, न प्रज्ञापारमितां सर्वाकारज्ञतया योजयति प्रज्ञापारमिताम् एव न समनुपश्यति, न स्मृत्युपस्थानानि सर्वाकारज्ञतया योजयति स्मृत्युपस्थानान्य् एव न समनुपश्यति, न सम्यक्प्रहाणानि (PSP१-१: ६९) सर्वाकारज्ञतया योजयति सम्यक्प्रहाणान्य् एव न समनुपश्यति, न ऋद्धिपादान् सर्वाकारज्ञतया योजयति ऋद्धिपादान् एव न समनुपश्यति, नेन्द्रियाणि सर्वाकारज्ञतया योजयति इन्द्रियाण्य् एव न समनुपश्यति, न बलानि सर्वाकारज्ञतया योजयति बलान्य् एव न समनुपश्यति, न बोध्यङ्गानि सर्वाकारज्ञतया योजयति बोध्यङ्गान्य् एव न समनुपश्यति, न मार्गान् सर्वाकारज्ञतया योजयति मार्गान् एव न समनुपश्यति, न प्रतिसंविदेइः सर्वाकारज्ञतया योजयति प्रतिसंविद एव न समनुपश्यति, न वैशारद्यानि सर्वाकारज्ञतया योजयति वैशारद्यान्य् एव न समनुपश्यति, नाभिज्ञाः सर्वाकारज्ञतया योजयत्य् अभिज्ञा एव न समनुपश्यति, न दशतथागतबलानि सर्वाकारज्ञतया योजयति दशतथागतबलान्य् एव न समनुपश्यति, नाष्टादशावेणिकान् बुद्धधर्मान् सर्वाकारज्ञतया योजयत्य् अष्टादशावेणिकान् बुद्धधर्मान् एव न समनुपश्यति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न बुद्धं सर्वाकारज्ञतया योजयति बुद्धम् एव न समनुपश्यति, न सर्वाकारज्ञतां बुद्धेन योजयति सर्वाकारज्ञताम् एव न समनुपश्यति, न बोधिं सर्वाकारज्ञतया योजयति बोधिम् एव न समनुपश्यति, न सर्वाकारज्ञतां बोध्या योजयति सर्वाकारज्ञताम् एव न समनुपश्यति, तत् कस्य हेतोः? बुद्ध एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धः, बोधिर् एव सर्वाकारज्ञता सर्वाकारज्ञतैव बोधिः, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
इति बुद्धरत्नाववादः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं भवतीति योजयति न रूपं विभवतीति योजयति, न वेदना भवतीति योजयति न वेदना विभवतीति योजयति, न संज्ञा भवतीति योजयति न संज्ञा विभवतीति योजयति, न संस्कारा भवतीति (PSP१-१: ७०) योजयति न संस्कारा विभवतीति योजयति, न विज्ञानं भवतीति योजयति न विज्ञानं विभवतीति योजयति, न रूपं नित्यम् इति योजयति न रूपम् अनित्यम् इति योजयति, न रूपं सुखम् इति योजयति न रूपं दुःखम् इति योजयति, न रूपम् आत्मेति योजयति न रूपम् अनात्मेति योजयति, न रूपं शान्तम् इति योजयति, न रूपम् अशान्तम् इति योजयति, न वेदना नित्येति योजयति न वेदना अनित्येति योजयति, न वेदना सुखेति योजयति न वेदना दुःखेति योजयति, न वेदना आत्मेति योजयति न वेदना अनात्मेति योजयति, न वेदना शान्तेति योजयति न वेदना अशान्तेति योजयति, न संज्ञा नित्येति योजयति न संज्ञा अनित्येति योजयति, न संज्ञा सुखेति योजयति न संज्ञा दुःखेति योजयति, न संज्ञा आत्मेति योजयति न संज्ञा अनात्मेति योजयति, न संज्ञा शान्तेति योजयति न संज्ञा अशान्तेति योजयति, न संस्कारा नित्या इति योजयति न संस्कारा अनित्या इति योजयति, न संस्काराः सुखा इति योजयति न संस्कारा दुःखा इति योजयति, न संस्कारा आत्मान इति योजयति न संस्कारा अनात्मान इति योजयति, न संस्काराः शान्ता इति योजयति न संस्कारा अशान्ता इति योजयति, न विज्ञानं नित्यम् इति योजयति न विज्ञानम् अनित्यम् इति योजयति, न विज्ञानं सुखम् इति योजयति न विज्ञानं दुःखम् इति योजयति, न विज्ञानम् आत्मेति योजयति न विज्ञानम् अनात्मेति योजयति, न विज्ञानं शान्तम् इति योजयति न विज्ञानम् अशान्तम् इति योजयति, न रूपं शून्यम् इति योजयति न रूपम् अशून्यम् इति योजयति, न रूपं सनिमित्तम् इति वा चरति न रुपम् अनिमित्तम् इति वा चरति, न रूपं सप्रणिहितम् इति वा चरति न रूपम् अप्रणिहितम् इति वा चरति, न वेदना शून्या इति वा चरति न वेदना अशून्या इति वा चरति, न वेदना सनिमित्ता इति वा चरति न वेदना अनिमित्ता इति वा चरति, न वेदना सप्रणिहिता इति वा चरति न वेदना अप्रणिहिता इति वा चरति, न संज्ञा शून्या इति वा चरति न संज्ञा अशून्या इति वा चरति, न संज्ञा सनिमित्ता इति वा चरति न संज्ञा अनिमित्ता इति वा चरति, न संज्ञा सप्रणिहिता इति वा चरति न संज्ञा अप्रणिहिता इति वा चरति, न संस्काराः शून्या इति वा चरति न संस्कारा अशून्या इति वा चरति, न संस्काराः सनिमित्ता इति वा चरति न संस्कारा अनिमित्ता इति (PSP१-१: ७१) वा चरति, न संस्काराः सप्रणिहिता इति वा चरति न संस्कारा अप्रणिहिता इति वा चरति, न विज्ञानं शून्यम् इति वा चरति न विज्ञानम् अशून्यम् इति वा चरति, न विज्ञानं सनिमित्तम् इति वा चरति न विज्ञानम् अनिमित्तम् इति वा चरति, न विज्ञानं सप्रणिहितम् इति वा चरति न विज्ञानम् अप्रणिहितम् इति वा चरति, य एवं चरति स प्रज्ञापारमितायां चरतीति नोपैति न चरतीति नोपैति, चरति च न चरति चेति नोपैति, नैव चरति न चरतीति नोपैति, एवं चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न शीलपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न क्षान्तिपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न वीर्यपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न ध्यानपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न प्रज्ञापारमितायाः कृतशः प्रज्ञापारमितायां चरति, नाविनिवर्तनीयभूमेः कृतशः प्रज्ञापारमितायां चरति, न सत्त्वपरिपाकहेतोः कृतशः प्रज्ञापारमितायां चरति, न बुद्धक्षेत्रपरिशुद्धिहेतोः कृतशः प्रज्ञापारमितायां चरति, न दशानां तथागतबलानां कृतशः प्रज्ञापारमितायां चरति, न चतुर्णां वैशारद्यानां कृतशः प्रज्ञापारमितायां चरति, न चतसृणां प्रतिसंविदां कृतशः प्रज्ञापारमितायां चरति, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां कृतशः प्रज्ञापारमितायां चरति, नाध्यात्मशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न बहिर्धाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाध्यात्मबहिर्धाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न शून्यताशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न महाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न परमार्थशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न संस्कृतशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नासंस्कृतशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नात्यन्तशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानवराग्रशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानवकारशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न प्रकृतिशून्यतायाः कृतशः (PSP१-१: ७२) प्रज्ञापारमितायां चरति, न सर्वधर्मशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न स्वलक्षणशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानुपलम्भशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाभावस्वभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न भावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न स्वभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न परभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न तथतायाः कृतशः प्रज्ञापारमितायां चरति, न धर्मधातोः कृतशः प्रज्ञापारमितायां चरति, न भूतकोटेः कृतशः प्रज्ञापारमितायां चरति, तत् कस्य हेतोः? न हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य संभेदं समनुपश्यति. एवं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दिव्यस्य चक्षुषः कृतशः प्रज्ञापारमितायां चरति, न दिव्यस्य श्रोत्रस्य कृतशः प्रज्ञापारमितायां चरति, न परचित्तज्ञानस्य कृतशः प्रज्ञापारमितायां चरति, न पूर्वनिवासानुस्मृतेः कृतशः प्रज्ञापारमितायां चरति, न ऋद्धिविधेः कृतशः प्रज्ञापारमितायां चरति, तत् कस्य हेतोः? तथा हि प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् एव न समनुपश्यति, कुत एव बोधिसत्त्वं कुत एव सर्वाकारं सर्वाभिज्ञाः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, अहं दिव्येन चक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
SK
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
SK
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं (PSP१-१: ७३) दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दां श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
SK
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दां श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
SK
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
SK
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा पूर्वदक्षिनस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
SK
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
SK
एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
SK
एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु (PSP१-१: ७४) सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
SK
एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति.
SK
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयन् युक्त इति वक्तव्यः.
SK
एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो मारः पापीयान् अवतारं न लभते, सर्वे चास्यान्ये ऽपि लौकिका ये केचित् क्लेशास् ते सर्वे दलिता भवन्ति.
SK
ये ऽपि ते शारिपुत्र पूर्वस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
SK
ये ऽपि ते शारिपुत्र दक्षिणस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका, ये च प्रत्येकबुद्धा, ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
SK
ये ऽपि ते शारिपुत्र पश्चिमायां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः (PSP१-१: ७५) परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
SK
ये ऽपि ते शारिपुत्र उत्तरस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं (PSP१-१: ७६) बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति.
SK
ये ऽपि ते शारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
SK
ये ऽपि ते शारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
SK
ये ऽपि ते शारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिश्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
SK
ये ऽपि ते शारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिश्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
SK
ये ऽपि ते शारिपुत्र अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च (PSP१-१: ७७) देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति,
SK
ये ऽपि ते शारिपुत्र ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति,
SK
ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः, अल्पकृच्छ्रेण धारणीमुखानि समाधिमुखानि चामुखीभवन्ति सर्वोपपत्त्यायतनेषु च तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति ननु कदाचिद् बुद्धैर् भगवद्भिर् विरहितो भवति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य इति, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, अस्ति स कश्चिद् धर्मो यो धर्मैः सह संयुज्यते वा विसंयुज्यते वा.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, कञ्चिद् अहं क्षिप्रतरं धर्मधातुम् अभिसंबुध्येयं वा न चाभिसंबुध्येयं, तत् कस्य हेतोः? न हि धर्मधातुर् धर्मधातुनाभिसंबुध्यते, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न किञ्चिद् धर्मधातोर् व्यतिरिक्तं समनुपश्यति, नापि धर्मधातोर् धर्मनानाकरणं करोति, नाप्य् अस्यैवं भवति, अयं धर्मधातुर् एवं प्रतिविध्यते न वा प्रतिविध्यत इति, तथा हि न स कञ्चिद् धर्मं समनुपश्यति येन धर्मेण तां धर्मतां प्रतिविध्येद् इति, तथा हि स न धर्मधातुं शून्यम् इति योजयति नाशून्यम् इति योजयति, एवं हि (PSP१-१: ७८) शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न चक्षुर्धातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयन्ति, न रूपधातुं शून्यतया योजयति न शून्यतां रूपधातुना योजयति, न चक्षुर्विज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्विज्ञानधातुना योजयति.
SK
न श्रोत्रधातुं शून्यतया योजयति न शून्यतां श्रोत्रधातुना योजयति, न शब्दधातुं शून्यतया योजयति न शून्यतां शब्दधातुना योजयन्ति, न श्रोत्रविज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयति.
SK
न घ्राणधातुं शून्यतया योजयति न शून्यतां घ्राणधातुना योजयन्ति, न गन्धधातुं शून्यतया योजयति न शून्यतां गन्धधातुना योजयति, न घ्राणविज्ञानधातुं शून्यतया योजयति न शून्यतां घ्राणविज्ञानधातुना योजयति.
SK
न जिह्वाधातुं शून्यतया योजयति न शून्यतां जिह्वाधातुना योजयन्ति, न रसधातुं शून्यतया योजयति न शून्यतां रसधातुना योजयति, न जिह्वाविज्ञानधातुं शून्यतया योजयति न शून्यतां जिह्वाविज्ञानधातुना योजयति.
SK
न कायधातुं शून्यतया योजयति न शून्यतां कायधातुना योजयति, न स्प्रष्टव्यधातुं शून्यतया योजयति न शून्यतां स्प्रष्टव्यधातुना योजयति, न कायविज्ञानधातुं शून्यतया योजयति न शून्यतां कायविज्ञानधातुना योजयति.
SK
न मनोधातुं शून्यतया योजयति न शून्यतां मनोधातुना योजयन्ति, न धर्मधातुं शून्यतया योजयति न शून्यतां धर्मधातुना योजयति, न मनोविज्ञानधातुं शून्यतया योजयति न शून्यतां मनोविज्ञानधातुना योजयति. तत् कस्य हेतोः? एष हि शारिपुत्र परमो योगो बोधिसत्त्वस्य महासत्त्वस्य यद् उत शून्यतायोगः, शून्यतायां शारिपुत्र चरन् बोधिसत्त्वो महासत्त्वो न श्रावकप्रत्येकबुद्धभूमौ पतति बुद्धक्षेत्रं परिशोधयति सत्त्वान् परिपाचयति क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
SK
ये केचिच् छारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य योगास् तेषां प्रज्ञापारमितायोगो (PSP१-१: ७९) ऽग्र आख्यायते श्रेष्ठ आख्यायते ज्येष्ठ आख्यायते वरः प्रवर उत्तमो ऽनुत्तमो निरुत्तमो ऽसमो ऽसमसमः प्रणीत आख्यायते. तत् कस्य हेतोः? निरुत्तमो ह्य् एषः शारिपुत्र योगो यद् उत प्रज्ञापारमितायोगः शून्यतायोग आनिमित्तयोगो ऽप्रणिहितयोगः, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वो व्याकृत इति धारयितव्यः, आसन्नीभूतो व्याकरणस्य.
SK
एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं करिष्यति, न चास्यैवं भविष्यति, मां बुद्धा भगवन्तो व्याकरिष्यन्तीति, अहम् आसन्नीभूतो व्याकरणस्येति, अहं बुद्धक्षेत्रं परिशोधयिष्यामीति, अहं सत्त्वान् परिपाचयिष्यामीति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्तयिष्यामीति. तत् कस्य हेतोः? तथा हि स धर्मधातुं न विविक्तीकरोति, न च धर्मधातोर् अन्यधर्मं समनुपश्यति, यः प्रज्ञापारमितायां चरेत्, यो वा बुद्धैर् भगवद्भिर् व्याक्रियेत अनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न सत्त्वसंज्ञोत्पद्यते. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सत्त्वो नोत्पद्यते न निरूध्यते, अनुत्पादानिरोधधर्मत्वात्, यस्य च नोत्पादो न निरोधः स कथं प्रज्ञापारमितायां चरिष्यति. एवं चरन् बोधिसत्त्वो महासत्त्वः सत्त्वानुत्पादतया प्रज्ञापारमितायां चरति, सत्त्वशून्यतया प्रज्ञापारमितायां चरति, सत्त्वानुपलब्ध्या प्रज्ञापारमितायां चरति, सत्त्वविविक्ततया प्रज्ञापारमितायां चरति.
SK
एवं हि शारिपुत्र बोधिसत्त्वानां महासत्त्वानां परमो योगो यद् उत शून्यतायोगः सर्वान् अन्यान् योगान् अभिभूयावतिष्ठते, अत्र हि शारिपुत्र योगे चरन् बोधिसत्त्वो महासत्त्वो महाकरुणाम् अभिनिर्हरति, महामैत्रीम् अभिनिर्हरति, न च मात्सर्यचित्तम् उत्पादयति, न दौःशील्यचित्तम् उत्पादयति, न व्यापादचित्तम् उत्पादयति, न कुशीदचित्तम् उत्पादयति, न विक्षिप्तचित्तम् उत्पादयति, न दौष्प्रज्ञाचित्तम् उत्पादयति.
SK
इति धर्मरत्नाववादः
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो ऽनेन प्रज्ञापारमिताविहारेण विहरति स कुतश् च्युत इहोपपद्यते, इतो वा च्युतः कुत्रोपपत्स्यते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽनेन प्रज्ञापारमिताविहारेण विहरति स इतश् च्युत इहैव बुद्धक्षेत्रे उपपद्यते, अन्येभ्यो वा बुद्धक्षेत्रेभ्यश् च्युतस् तुषितेभ्यो वा देवेभ्यश् च्युत इहोपपद्यते.
SK
इति बोधिसत्त्वो ऽष्टमकः
SK
तत्र शारिपुत्र यो ऽयं बोधिसत्त्वो महासत्त्वो मनुष्येभ्य एव च्युत्वा मनुष्याणाम् एव सभागतायाम् उपपद्यते, तस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा धन्वानीन्द्रियाणि भवन्ति, न च क्षिप्रं प्रज्ञापारमितायोगं समापद्यते, न चास्य धारणीमुखम् अभिमुखीभवति न च समाधिमुखम्,
SK
यत् पुनः शारिपुत्र एवं वदसि, यो भगवन् बोधिसत्त्वो महासत्त्वैमं प्रज्ञापारमितायोगं समापद्यते स इतश् च्युतः कुत्रोपपद्यत इति, यः शारिपुत्र बोधिसत्त्वो महासत्त्व इमं प्रज्ञापारमितायोगं समापद्यते, स इतो बुद्धक्षेत्राच् च्युतः बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, तत्र बुद्धक्षेत्रे बुद्धान् भगवत आरागयिष्यति, न कदाचिद् बुद्धविरहितो भविष्यति.
SK
इति बोधिसत्त्वश्रद्धानुसारी
SK
यः पुनः शारिपुत्रायं बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यश् च्युत इहोपपद्यते तस्य तीक्ष्णानीन्द्रियाणि भवन्ति, स क्षिप्रम् इमं योगम् आपद्यते, यद् उत प्रज्ञापारमितायोगम्, तस्य जातिव्यतिवृत्तस्याप्य् अमी गम्भीरगम्भीरा धर्मा अभिमुखीभवन्ति, स पश्चात् प्रज्ञापारमितायोगं समापद्यते, यत्र यत्र बुद्धक्षेत्रे उपपद्यते तत्र तत्र तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयिष्यति.
SK
यः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः तुषितेभ्यो देवेभ्यश् च्युत्वा इहोपपन्नो भवति तस्यापि पटुतराणीन्द्रियाणि भवन्ति, अविप्रमुषिताः षट् पारमिताः सर्वधारणीसमाधिमुखानि चाभिमुखीभवन्ति.
SK
इति बोधिसत्त्वधर्मानुसारी
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो घटमाना व्यायच्छन्तः सत्त्वपरिपाकायोपायकौशल्यबलेन स्रोतआपत्तिफलं साक्षात्कुर्वन्ति, न च तेन मन्यन्ते.
SK
इति स्रोतआपन्नः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा अनुपायकुशला ये चत्वारि ध्यानानि निष्पादयन्ति पारमितासु च चरन्ति, तेन च ध्यानलाभेन दीर्घायुष्केषु देवेषूपपद्यन्ते, सचेत् ततश् च्युत्वा मनुष्येषु देवेषु चोपपद्यन्ते, बुद्धांश् च भगवत आरागयिष्यन्ति, तेषाम् अपि धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ध्यानानि च समापद्यन्ते प्रज्ञापारमितायां च चरन्ति, ते चानुपायकौशल्येन ध्यानान्य् उत्सृज्य कामधाताव् उपपद्यन्ते, तेषाम् अपि शारिपुत्र बोधिसत्त्वानां महासत्त्वानां धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि.
SK
इति द्वितीयतृतीयफलप्रतिपन्नकः श्रद्धाधिमुक्तः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानान्य् उत्पाद्य चत्वार्य् अप्रमाणानि समापद्यन्ते, चतस्र आरूप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् समापद्यन्ते, महाकारुणिका उपायकौशल्येन चोपपद्यन्ते, न ध्यानवशेन नाप्रमाणवशेन नारूप्यसमापत्तिवशेन तत्र चोपपद्यन्ते यत्र तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयिष्यन्ति, ते पुनः प्रज्ञापारमिताविहारेणाविरहिता इहैव भद्रकल्पे अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
SK
इति द्वितीयतृतीयफलप्रतिपन्नको दृष्टिप्राप्तः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा एकजातिप्रतिबद्धा ये प्रज्ञापारमितायां चरन्त उपायकौशल्येन चत्वारि ध्यानानि समापद्यन्ते, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति, शून्यतासमाधिं समापद्यन्ते, आनिमित्तसमाधिं समापद्यन्ते, अप्रणिहितसमाधिं समापद्यन्ते, न च तेषां वशेन गच्छन्ति संमुखीभूतांश् (PSP१-१: ८२) च बुद्धान् भगवत आरागयित्वा तत्र ब्रह्मचर्यं चरित्वा पुनर् एव तुषितानां सभागतायै उपपद्यन्ते, ते तत्र यावद् आयुस् तिष्ठन्ति, ते तत्र यावद् आयुः स्थित्वा अहीनेन्द्रियाः स्मृतिमन्तः संप्रजानाना अनेकैर् देवकोटीनियुतशतसहस्रैः परिवृताः पुरस्कृता इहोपपत्तिं दर्शयित्वा नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इति सकृदागामी
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनो ये न कामधातौ न रूपधातौ नारूप्यधाताव् उपपद्यन्ते, अपि तु बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति, तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तः पूजयन्तः.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभिज्ञाभिर् विक्रीडन्तो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति येषु बुद्धक्षेत्रेषु न श्रावकप्रत्येकबुद्धयानस्य प्रज्ञप्तिर् अप्य् अस्ति.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभिज्ञाभिर् विक्रीडन्तो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति येषु बुद्धक्षेत्रेष्व् अमितम् आयुः.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनः ये लोकधातोर् लोकधातुं संक्रामन्ति, ते तत्रोपसंक्रम्य यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दस् तत्रावस्थिताः बुद्धशब्दं च धर्मशब्दं संघशब्दं च सत्त्वानां संश्रावयन्ति, त्रयाणां च रत्नानां वर्णं भाषन्ते, ते तेन बुद्धशब्देन धर्मशब्देन संघशब्देन ततश् च्युता यत्र यत्र बुद्धा भगवन्तो भवन्ति ते तत्र तत्रोपपद्यन्ते.
SK
इत्य् अनागामी
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानान्य् उत्पद्य चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः, ते चोपायकौशल्येन समन्वागताः समाधिसमापत्तिभ्यो निवृत्य कामधाताव् उपपद्यन्ते, क्षत्रियमहाशालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु (PSP१-१: ८३) वोपपद्यन्ते सत्त्वपरिपाकाय.
SK
इत्य् अयं मनुष्यकुलंकुलः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानानि समापद्यन्ते चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः समापद्यन्ते, ते ऽप्य् उपायकौशल्यबलेन ध्यानसमाधिसमापत्तिवशेन वा चातुर्महाराजकायिकानाम् अपि देवानां सभागतायै उपपद्यन्ते, त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां सभागतायै उपपद्यन्ते, ते तत्र स्थित्वा सत्त्वान् परिपाचयन्ति, बुद्धक्षेत्रं च परिशोधयन्ति, बुद्धांश् च भगवत आरागयन्ति.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानानि उत्पद्य चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः, ते ततश् च्युताः सन्त उपायकौशल्येन ब्रह्मलोके यावद् अकनिष्ठे उपपद्यन्ते, ते तत्र भवन्ति ब्रह्माणो महाब्रह्माणस् तेषु ब्रह्मभवनेषु तिष्ठन्ति, ते तत्र स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति, ये च तेषु बुद्धक्षेत्रेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तांस् तथागतान् धर्मचक्रप्रवर्तनायाध्येषयन्ति.
SK
इति देवकुलंकुलः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये चतुर्णां ध्यानानां लाभिनो यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लाभिनस् तेषां चानुबोधाय चरन्ति, चतुर्णाम् आर्यसत्यानां लाभिनो न च तानि प्रतिविध्यन्ति, ते पुनर् बोधिसत्त्वा महासत्त्वा एकजातिप्रतिबद्धा वेदितव्याः.
SK
इत्य् एकवीचिकः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादाय चतुर्णां ध्यानानां लाभिनो भवन्ति, चतुर्णाम् अप्रमाणानां लाभिनो भवन्ति, चतसृणाम् आरूप्यसमापत्तीनां लाभिनो भवन्ति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति, बलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् प्रतिलभन्ते, उपायकौशल्येन ब्रह्मकायिकेषु देवेषु यावद् अकनिष्ठेषु देवेषूपपद्यन्ते, तत्र चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अर्थं कुर्वन्ति.
SK
इत्य् अन्तरा परिनिर्वायी
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादेनैवानुत्तरां (PSP१-१: ८४) सम्यक्संबोधिम् अभिसंबुध्यन्ते, धर्मचक्रं प्रवर्तयन्त्य् अप्रमेयाणाम् असंख्येयानां सत्त्वानां चार्थं कृत्वा निरूपधिशेषे निर्वाणधातौ परिनिर्वान्ति, तेषां परिनिर्वृतानां कल्पं वा कल्पावशेषं वा सद्धर्मस् तिष्ठति.
SK
इत्य् उपपद्यपरिनिर्वायी
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्पारमितासु चरन्तो लोकधातोर् लोकधातुं संक्रामन्ति, तत्र च सत्त्वान् बोधये प्रतिष्ठापयिष्यन्ति, ते नित्यम् उद्युक्ताः सत्त्वानां कृतशो न कदाचिद् अनर्थसंहितां वाचं भाषन्ते, सत्त्वानां कृतशो नित्यम् उद्युक्ता बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति, ते ऽपि बोधिसत्त्वा महासत्त्वाः सत्त्वानां कृतशो ऽसंख्येयैर् अप्रमेयैः कल्पैर् नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इत्य् अभिसंस्कारपरिनिर्वायी
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादेनैव बोधिसत्त्वन्यामम् अवक्रामन्ति, अविनिवर्तनीयभूमौ वावतिष्ठन्ते, सर्वबुद्धधर्मान् वा समुदानयन्ति.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादेनैव प्रज्ञापारमितायां योगम् आपद्यन्ते, ते ऽनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं बुद्धक्षेत्रेण बुद्धक्षेत्रं स्वबुद्धक्षेत्रपरिशोधनाय संक्रामन्ति, नानाबुद्धक्षेत्रेषु चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इत्य् अनभिसंस्कारपरिनिर्वायी
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु चरन्तश् चक्रवर्तिनो भूत्वा दानपारमितां पुरस्कृत्य सर्वसत्त्वानां सर्वसुखोपधानान्य् उपसंहरिष्यन्ति, अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यः, एवं गन्धमाल्यविलेपनचूर्णधूपशयनासनोपाश्रयगृहधनधान्यमणिमुक्तासुवर्णरूप्यप्रवाडाभरणानि जीवितोपकरणानि उपसंहरिष्यन्ति, यावद् दशकुशलकर्मपथेषु सत्त्वान् प्रतिष्ठाप्य ब्रह्मकायिकेषु यावद् अकनिष्ठेषु देवेषूपपद्यमाना नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इत्य् अकनिष्ठपरमः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये चत्वारि ध्यानानि निष्पाद्य ध्यानेभ्यः परिहीणाः प्रथमं ध्यानम् आसाद्य ब्रह्मकायिकेषु देवेषूपपद्यन्ते, ते पुनर् ध्यानानि निष्पाद्याकनिष्ठेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इति प्लुतः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ब्रह्मलोकाच् च्युत्वा शुद्धावासेषूपपद्यन्ते, ते शुद्धावासानाम् एकं वा द्वे वा स्थाने विलङ्घ्याकनिष्ठेषु देवेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इत्य् अर्धप्लुतः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये तथागतसदृशम् आत्मभावम् अभिनिर्माय तुषितभवनं परिशोध्य ब्रह्मकायिकेषु देवेषु यावद् अकनिष्ठेषु देवेषूपपद्योपायकौशल्येन नैरयिकाणां सत्त्वानां धर्मं देशयन्ति, तिर्यग्योनिगतानां सत्त्वानां धर्मं देशयन्ति, यामलौकिकानां सत्त्वानां धर्मं देशयन्ति.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा यादृशस् तथागतकायस् तादृशम् आत्मभावम् अभिनिर्माय गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वानां धर्मं देशयन्ति, तथागतांश् च पर्युपासते, बुद्धक्षेत्रं च निष्पादयन्ति, धर्मं च शृण्वन्ति, एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् ऊर्ध्वम् अधः सर्वासु दशसु दिक्ष्व् एकैकस्यां अदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति, बुद्धक्षेत्राणि च निष्पादयन्ति, बुद्धांश् च पर्युपासते, धर्मं च शृण्वन्ति, ते तेभ्यो बुद्धक्षेत्रेभ्यो निर्मितानि निर्माय श्रेष्ठानि विशिष्टान्य् अनुत्तराणि बुद्धक्षेत्राणि निष्पादयन्ति, एकजातिप्रतिबद्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र तत्र बुद्धक्षेत्रेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इति सर्वस्थानच्युतः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ध्यानारूप्यसमापत्तीर् आसादयन्तो ब्रह्मकायिकेषु यावच् छुभकृत्स्नेषु देवेषूपपद्यन्ते, तत्र आकाशानन्त्यायतने यावद् भवाग्रे उपपद्यन्ते, ततो नानाबुद्धक्षेत्रेषूपपद्यन्ते.
SK
इति भवाग्रपरमः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ध्यानारूप्यसमापत्तीनां लाभिनस् त आकाशानन्त्यायतने यावद् भवाग्रे उपपद्यन्ते, ततो नानाबुद्धक्षेत्रेषूपपद्यन्ते.
SK
इति रूपवीतरागः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्पारमितासु चरन्तो द्वात्रिंशन् महापुरुषलक्षणालंकृतमूर्तयो निरुत्तरैः परिशुद्धैर् इन्द्रियैः समन्वागता भवन्ति, ते तैः परिशुद्धैर् इन्द्रियैः समन्वागता बहुजनस्य प्रियाश् च भवन्ति, मनआपाश् च ये पुनः सत्त्वास् तान् बोधिसत्त्वान् महासत्त्वान् पश्यन्ति, ते तेनैव चित्तप्रसादेनानुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति, एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन कायपरिशुद्धये शिक्षितव्यं वाक्परिशुद्धये शिक्षितव्यं मनःपरिशुद्धये शिक्षितव्यम्.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु चरन्त उत्तप्तानीन्द्रियाणि प्रतिलभन्ते, ते तैर् उत्तप्तैर् इन्द्रियैर् नात्मानम् उत्कर्षयन्ति न परान् पंसयन्ति.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादम् उपादाय दानपारमितायां शीलपारमितायां स्थित्वा नैवं कदाचिद् अपायदुर्गतिविनिपातेषूपपद्यन्ते यावद् अविनिवर्तनीयभूमिम् अनुप्राप्नुवन्ति.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादम् उपादाय न जातु दशकुशलान् कर्मपथान् उत्सृजन्ति, यावद् अविनिवर्तनीयां भूमिम् अनुप्राप्नुवन्ति.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये दानपारमितायां शीलपारमितायां स्थित्वा राजानश् चक्रवर्तिनो भूत्वा दानं सत्त्वेभ्यो दत्त्वा तान् एव दशकुशलकर्मपथेषु प्रतिष्ठापयन्ति.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये दानपारमितायां शीलपारमितायां स्थित्वा अनेकानि चक्रवर्तिराज्यशतानि परिगृह्णन्ति, (PSP१-१: ८७) अनेकानि चक्रवर्तिराज्यशतसहस्राणि परिगृह्णन्ति, तत्र स्थित्वा अनेकानि च बुद्धकोटीनियुतशतसहस्राणि आरागयन्ति, तांश् च बुद्धान् भगवतः सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति, ततो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इति दृष्टधर्मपरिनिर्वायी
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां चरन्तश् चतुर्णां ध्यानानां लाभिनश् चतसृणाम् आरूप्यसमापत्तीनां लाभिनस् ते ताभिर् विक्रीडन्तः प्रथमं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय द्वितीयं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय तृतीयं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय चतुर्थं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय आकाशानन्त्यायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय विज्ञानानन्त्यायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय आकिञ्चन्यायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते.
SK
एवं हि शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपायकौशल्येनावस्कन्दकेन समाधिं समापद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इति कायसाक्षी
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा सत्त्वानां बुद्धधर्मावभासं कुर्वन्ति, आत्मनापि बुद्धधर्मावभासेनाविरहिता भवन्ति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इत्य् अर्हत्त्वप्रतिपन्नकः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ऽबुद्धकेषु लोकधातुषु अपगतश्रावकेषु प्रत्येकां बोधिम् अभिसंबुध्यन्ते, त उपायकौशल्येन (PSP१-१: ८८) बहूनि प्राणिकोटीनियुतशतसहस्राणि त्रिषु यानेषु परिपाच्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इति प्रत्येकबुद्धः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाणां लाभिनो दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्माणां लाभिनः, न च स्रोतआपत्तिफलं प्राप्नुवन्ति, न सकृदागामिफलं नानागामिफलं नार्हत्त्वं प्राप्नुवन्ति, न प्रत्येकबुद्धत्वं प्राप्नुवन्ति, ते प्रज्ञापारमितायां चरन्त उपायकौशल्येन सर्वसत्त्वान् मार्गे ऽवतार्य विशोध्य स्रोतआपत्तिफलं प्रापयन्ति, सकृदागामिफलं प्रापयन्ति, अनागामिफलं प्रापयन्ति, अर्हत्त्वं प्रापयन्ति, प्रत्येकां बोधिं प्रापयन्ति, स्वयम् असाक्षात्कुर्वन्तः परांस् तत्र प्रतिष्ठापयन्ति.
SK
इति श्रावकप्रत्येकबुद्धमार्गलभ्यानि फलानि
SK
यच् छारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां ज्ञानं च प्रहाणं च सानुत्पत्तिकधर्मक्षान्तिप्रतिलब्धस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः.
SK
इति स्वयम् अप्राप्ते धर्मे परप्रतिष्ठापनम्
SK
अमी शारिपुत्र बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया वेदितव्याः, ये ऽनया प्रज्ञापारमितया विहरन्ति.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा तुषितभवनं विशोधयन्ति, ते खलु पुनर् बोधिसत्त्वा महासत्त्वा भद्रकल्पिका वेदितव्याः, अमी शारिपुत्रावैवर्तिका बोधिसत्त्वा महासत्त्वा येषाम् अयम् उदयो बुद्धधर्मेषु तस्मात् तर्हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सावद्यस्य कायवाङ्मनस्कर्मणो ऽवकाशो न दातव्यः कायवाङ्मनस्कर्मपरिशुद्धये च शिक्षितव्यम्.
SK
इतीदम् अवैवर्तिकबोधिसत्त्वसंघपरिदीपनम्
SK
इति संघरत्नाववादः
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमद् भगवन् सावद्यं कायकर्म सावद्यं वाक्कर्म सावद्यं मनस्कर्म?
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, कतमः स कायः, येन कायेन कायकर्म समारभेय, कतमा सा वाग्, यया वाक्कर्म समारभेय, कतमत् तन् मनः, येन मनस्कर्म समारभेय? एवम् उपपरीक्षमाणः कायम् उपलभते, वाचम् उपलभते, मन उपलभते, अयं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य कायवाङ्मनस्कर्मसमारम्भः सावद्यः.
SK
न खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते, येन कायेन वाचा मनसा मात्सर्यदौःशील्यव्यापादकौसीद्यविक्षेपदौष्प्रज्ञचित्तम् उत्पादयेत्. अस्थानम् एतच् छारिपुत्रानवकाशो यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायवाङ्मनोदौष्ठुल्यम् उत्पादयेत्, नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् कायदौष्ठुल्यं शोधयति, वाग्दौष्ठुल्यं शोधयति, मनोदौष्ठुल्यं शोधयति.
SK
शारिपुत्र आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः कायवाङ्मनोदौष्ठुल्यं शोधयति?
SK
भगवान् आह: यतः शारिपुत्र बोधिसत्त्वो महासत्त्वो न कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते.
SK
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः कायवाङ्मनोदौष्ठुल्यं शोधयति, सचेत् पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय दश कुशलाः कर्मपथा अनुवर्तन्ते, न च श्रावकचित्तं प्रत्येकबुद्धचित्तं चोत्पादयति, सततसमितं चास्य सर्वसत्त्वेषु महाकारुणाचित्तं प्रत्युपस्थितं भवति. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य कायवाङ्मनोदौष्ठुल्यं शुद्धम् इति वदामि.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां चरन्तो बोधिमार्गं परिशोधयन्तो दानपारमितायां चरन्ति, शीलपारमितायां चरन्ति, क्षान्तिपारमितायां चरन्ति, वीर्यपारमितायां चरन्ति, ध्यानपारमितायां चरन्ति, प्रज्ञापारमितायां चरन्ति.
SK
शारिपुत्र आह: कतमो भगवन् बोधिसत्त्वानां महासत्त्वानां (PSP१-१: ९०) बोधिमार्गः?
SK
भगवान् आह: यदा शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते, न दानपारमिताम् उपलभते, न शीलपारमिताम् उपलभते, न क्षान्तिपारमिताम् उपलभते, न वीर्यपारमिताम् उपलभते, न ध्यानपारमिताम् उपलभते, न प्रज्ञापारमिताम् उपलभते, न श्रावकम् उपलभते, न प्रत्येकबुद्धम् उपलभते, न बोधिसत्त्वम् उपलभते, न बुद्धम् उपलभते. अयं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यद् उत सर्वधर्मानुपलम्भो ऽनेन मार्गेण गच्छन् बोधिसत्त्वो महसत्त्वः षट्सु पारमितासु चरन् न शक्यो ऽवमर्दितुम्.
SK
इत्य् अशक्त्यववादः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् न रूपं मन्यते, न वेदनां मन्यते, न संज्ञां मन्यते, न संस्कारान् मन्यते, न विज्ञनं मन्यते, न पृथिवीधातुं मन्यते, नाब्धातुं मन्यते, न तेजोधतुं मन्यते, न वायुधातुं मन्यते, नाकाशधातुं मन्यते, न विज्ञानधतुं मन्यते, न चक्षुर्धातुं मन्यते, न रूपधातुं मन्यते, न चक्षुर्विज्ञानधातुं मन्यते, न श्रोत्रधातुं मन्यते, न शब्दधातुं मन्यते, न श्रोत्रविज्ञानधातुं मन्यते, न घ्राणधातुं मन्यते, न गन्धधातुं मन्यते, न घ्राणविज्ञानधातुं मन्यते, न जिह्वाधातुं मन्यते, न रसधातुं मन्यते, न जिह्वाविज्ञानधातुं मन्यते, न कायधातुं मन्यते, न स्प्रष्टव्यधातुं मन्यते, न कायविज्ञानधातुं मन्यते, न मनोधातुं मन्यते, न धर्मधातुं मन्यते, न मनोविज्ञानधातुं मन्यते, न स्मृत्युपस्थानानि मन्यते, न सम्यक्प्रहाणानि मन्यते, नर्द्धिपादान् मन्यते, नेन्द्रियाणि मन्यते, न बलानि मन्यते, न बोध्यङ्गानि मन्यते, न मार्गं मन्यते, न दानपारमितां मन्यते, न शीलपारमितां मन्यते, न क्षान्तिपारमितां मन्यते, न वीर्यपारमितां मन्यते, न ध्यानपारमितां मन्यते, न प्रज्ञापारमितां मन्यते, न वैशारद्यानि मन्यते, न प्रतिसंविदो मन्यते, न दशतथागतबलानि मन्यते, नाष्टादशावेणिकान् बुद्धधर्मान् मन्यते, न स्रोतआपत्तिफलं मन्यते, न सकृदागमिफलं मन्यते, नानागामिफलं मन्यते, नार्हत्त्वं मन्यते, न प्रत्येकबोधिं मन्यते, न (PSP१-१: ९१) बोधिसत्त्वं महासत्त्वं मन्यते, नानुत्तरां सम्यक्संबोधिं मन्यते. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् वर्धते, न च केनचिद् अवमृद्यते.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां स्थित्वा सर्वज्ञज्ञानं परिपूरयन्ति, येन ज्ञानेन समन्वागतानां सर्वाण्य् अपायद्वाराणि पिथितानि भवन्ति, नापि मनुष्यदारिद्र्यविपत्तिम् अनुभवन्ति, नापि तादृशम् आत्मभावं परिगृह्णन्ति, येन निन्द्या भवन्ति सदेवकस्य लोकस्य.
SK
इत्य् अपरिश्रान्त्यववादः
SK
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य सर्वज्ञज्ञानम्?
SK
भगवान् आह: येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति तेषां च धर्मदेशनां शृणोति, संघं च पर्युपास्ते, बुद्धक्षेत्रविशुद्धिं च पश्यति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिशि गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति, तेषां च धर्मदेशनां शृणोति, संघं च पर्युपास्ते, बुद्धक्षेत्रविशुद्धिं च पश्यति,
SK
येन ज्ञानेन समन्वागतानां बोधिसत्त्वानां महासत्त्वानां न बुद्धसंज्ञा भवति, न बोधिसंज्ञा भवति, न श्रावकसंज्ञा भवति, न प्रत्येकबुद्धसंज्ञा भवति, नात्मसंज्ञा भवति, न परसंज्ञा भवति, न बुद्धक्षेत्रसंज्ञा भवति, येन ज्ञानेन समन्वागतो बोधिसत्त्वो महसत्त्वो दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति, न च पारमितामुपलभते,
SK
येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः स्मृत्युपस्थानानि भावयति, न च स्मृत्युपस्थानान्य् उपलभते, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति, न च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् उपलभते, बलवैशारद्यावेणिकान् (PSP१-१: ९२) बुद्धधर्मान् समुदानयति, न च बलवैशारद्यावेणिकान् बुद्धधर्मान् उपलभते. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य ज्ञानं, येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वबुद्धधर्मांश् च परिपूरयति, न च सर्वबुद्धधर्मांश् च मन्यते.
SK
इति प्रतिपत्संपरिग्रहाववादः
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये पञ्चचक्षूंषि प्रतिलभन्ते परिशोधयन्ति, कतमानि पञ्च यद् उत मांसचक्षुः दिव्यचक्षुः प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुः.
SK
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं मांसचक्षुः?
SK
भगवान् आह: अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुः, यद् योजनशतं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यद् योजनशतद्वयं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यज् जंबुद्वीपं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यच् चातुर्द्वीपकं लोकधातुं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत् साहस्रं लोकधातुं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यद् द्विसाहस्रं लोकधातुं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत् त्रिसाहस्रं महासाहस्रं लोकधातुं पश्यति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं मांसचक्षुः.
SK
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं दिव्यचक्षुः?
SK
भगवान् आह: यच् छारिपुत्र चातुर्महाराजकायिकानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् त्रयस्त्रिंशानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् यामानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् तुषितानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यन् निर्माणरतीनां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् परनिर्मितवशवर्तिनां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् ब्रह्मपार्षद्यानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् ब्रह्मपुरोहितानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यन् महाब्रह्मणां देवानां (PSP१-१: ९३) दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् परीत्ताभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अप्रमाणाभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् आभास्वराणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यच् छुभकृत्स्नानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अनब्रकानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् पुण्यप्रसवानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् बृहत्फलानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् असंज्ञिसत्त्वानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यच् छुद्धाभासानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अस्पृहाणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अतपानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् सुदृशानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् सुदर्शानानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अकनिष्ठानां देवानां दिव्यं चक्षुस् तद्बोधिसत्त्वः प्रजानीते.
SK
यत् पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तच् चातुर्महाराजकायिका देवा न प्रजानन्ति, न त्रयस्त्रिंशा देवाः प्रजानन्ति, न यामा देवाः प्रजानन्ति, न तुषिता देवाः प्रजानन्ति, न निर्माणरतयो देवाः प्रजानन्ति, न परनिर्मितवशवर्तिनो देवाः प्रजानन्ति, न ब्रह्मपार्षद्या देवाः प्रजानन्ति, न ब्रह्मपुरोहिता देवाः प्रजानन्ति, न महाब्रह्मणो देवाः प्रजानन्ति, न परीत्तभा देवाः प्रजानन्ति, नाप्रमाणाभा देवाः प्रजानन्ति, नाभास्वरा देवाः प्रजानन्ति, न परीत्तशुभा देवाः प्रजानन्ति, नाप्रमाणशुभा देवाः प्रजानन्ति, न शुभकृत्स्ना देवाः प्रजानन्ति, नानभ्रका देवाः प्रजानन्ति, न पुण्यप्रसवा देवाः प्रजानन्ति, न बृहत्फला देवाः प्रजानन्ति, नासंज्ञिसत्त्वा देवाः प्रजानन्ति, न शुद्धावासा देवाः प्रजानन्ति, नास्पृहादेवाः प्रजानन्ति, नातपा देवाः प्रजानन्ति, न सुदृशा देवाः प्रजानन्ति, न सुदर्शना देवाः प्रजानन्ति, यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अकनिष्ठा देवा न प्रजानन्ति.
SK
तेनैव परिशुद्धेन दिव्येन चक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु (PSP१-१: ९४) लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, तेनैव परिशुद्धेन दिव्येन चक्षुषा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, तेनैव परिशुद्धेन दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, तेनैव परिशुद्धेन दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, अधो दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं दिव्यं चक्षुः.
SK
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं प्रज्ञाचक्षुः?
SK
भगवान् आह: येन शारिपुत्र प्रज्ञाचक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वो न कञ्चिद् धर्मं प्रजानाति, संस्कृतं वा असंस्कृतं वा कुशलं वा अकुशलं वा सावद्यं वा अनवद्यं वा सास्रवं वा अनास्रवं वा संक्लेशं वा निष्क्लेशं वा लौकिकं वा लोकोत्तरं वा संक्लिष्टं वा व्यवदानं वा, येन प्रज्ञाचक्षुषा बोधिसत्त्वेन महासत्त्वेन कश्चिद् धर्मो न दृष्टो न श्रुतो न मतो न विज्ञातः. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं प्रज्ञाचक्षुः,
SK
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः?
SK
भगवान् आह: इह शारिपुत्र बोधिसत्त्वो महासत्त्वो धर्मचक्षुषैवं जानाति, अयं पुद्गलः श्रद्धानुसारी, अयं पुद्गलो धर्मानुसारी, (PSP१-१: ९५) अयं पुद्गलः शून्यताविहारी, अयं पुद्गलो ऽनिमित्तविहारी, अयं पुद्गलो ऽप्रणिहितविहारी.
SK
अयं पुद्गलः शून्यताविहारी, अस्य पुद्गलस्य शून्यताविमोक्षमुखेण पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते, पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यति, आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति, विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति, सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति, अयम् उच्यते पुद्गलः स्रोतआपन्नः, स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः सकृदागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणाद् अयम् उच्यते पुद्गलो ऽनागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानम् औद्धत्यं च प्रहायायम् उच्यते पुद्गलो ऽर्हन्.
SK
अयं पुद्गलो ऽनिमित्तविहारी, अस्य पुद्गलस्यानिमित्तविमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते, पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यति आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति, विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति, सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति, अयम् उच्यते पुद्गलः स्रोतआपन्नः, स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः सकृदागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणाद् अयम् उच्यते पुद्गलो ऽनागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानम् औद्धत्यं च प्रहायायम् उच्यते पुद्गलो ऽर्हन्.
SK
अयं पुद्गलो ऽप्रणिहितविहारी, अस्य पुद्गलस्याप्रणिहितविमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते, पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यति, आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति, विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति, सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति, अयम् उच्यते पुद्गलः स्रोतआपन्नः, स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वादयम् उच्यते पुद्गलः सकृदागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणाद् अयम् उच्यते पुद्गलो ऽनागामी, स (PSP१-१: ९६) तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानम् औद्धत्यं च प्रहायायम् उच्यते पुद्गलो ऽर्हन्. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं जानाति, यत् किञ्चित् समुदयधर्मी सर्वं तन् निरोधधर्मीति प्रजानाति, प्रज्ञापारमितायां चरन् पञ्चेन्द्रियाणि प्राप्नोति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं जानाति, अयं बोधिसत्त्वः प्रथमचित्तोत्पादिको यो दानपारमितायां वा चरति, शीलपारमितायां वा चरति, स ततः शुद्धेन्द्रियं प्रतिलभते, वीर्येन्द्रियं च, स उपायकौशल्येन समन्वागतः संचिन्त्यात्मभावं परिगृह्णाति, कुशलमूलोपलम्भश् च भवति, अयं बोधिसत्त्वो ब्राह्मणमहाशालकुलेषूपपत्स्यते, अयं क्षत्रियमहाशालकुलेषूपपत्स्यते, अयं गृहपतिमहाशालकुलेषूपपत्स्यते, अयं चातुर्महाराजकायिकेषु देवेषूपपत्स्यते, अयं त्रयस्त्रिंशेषु देवेषूपपत्स्यते, अयं यामेषु देवेषूपपत्स्यते, अयन् तुषितेषु देवेषूपपत्स्यते, अयं निर्माणरतिषु देवेषूपपत्स्यते, अयं परनिर्मितवशवर्तिषु देवेषूपपत्स्यते, अयं यावद् अकनिष्ठेषु देवेषूपपत्स्यते, स तत्र स्थित्वा सत्त्वान् परिपाचयिष्यति, सर्वसुखोपधानेन च सत्त्वान् प्रत्युपस्थास्यति, बुद्धक्षेत्रं च परिशोधयिश्यति, तथागतांश् चार्हतः सम्यक्संबुद्धान् आरागयिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति, अयं बोधिसत्त्वो महासत्त्वो न निवर्तते यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं जानाति, अमी बोधिसत्त्वा महासत्त्वा व्याकृता अनुत्तरायां सम्यक्संबोधौ, अमी बोधिसत्त्वा न व्याकृता, अमी बोधिसत्त्वा अविनिवर्तनीयाः, अमी बोधिसत्त्वा नाविनिवर्तनीयाः, एषां बोधिसत्त्वानाम् अभिज्ञाः परिपूर्णाः, एषां बोधिसत्त्वानां न परिपूर्णाः, अयं बोधिसत्त्वो ऽभिज्ञापरिपूर्णः पूर्वस्यां दिशि यावद् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् सत्करोति गुरुकरोति मानयति (PSP१-१: ९७) पूजयति, अयं बोधिसत्त्वो नाभिज्ञापरिपूर्णो यावन् न पूजयति, अयं बोधिसत्त्वो ऽभिज्ञानां लाभी भविष्यति, अयं बोधिसत्त्वो नाभिज्ञानां लाभी भविष्यति, अस्य बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धक्षेत्रं भविष्यति, अस्य बोधिसत्त्वस्य महासत्त्वस्यापरिशुद्धं बुद्धक्षेत्रं भविष्यति, अनेन बोधिसत्त्वेन सत्त्वाः परिशोधिताः, अनेन बोधिसत्त्वेन सत्त्वा न परिशोधिताः, अस्य बोधिसत्त्वस्य महासत्त्वस्य बुद्धा भगवन्तो वर्णं भाषन्ते, अस्य बोधिसत्त्वस्य महासत्त्वस्य न भाषन्ते, अमी बोधिसत्त्वा बुद्धानां भगवताम् आसन्नस्थायिनो भविष्यन्ति, अमी बोधिसत्त्वा महासत्त्वा नासन्नस्थायिनो भविष्यन्ति, अस्य बोधिसत्त्वस्य परिमितम् आयुर् भविष्यति, अस्य बोधिसत्त्वस्यापरिमितम् आयुर् भविष्यति, अस्य बोधिसत्त्वस्य परिमितः संघो भविष्यति, अस्य बोधिसत्त्वस्यापरिमितः संघो भविष्यति, अस्य बोधिसत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य बोधिसत्त्वसंघो भविष्यति, अस्य बोधिसत्त्वस्य महासत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य न बोधिसत्त्वसंघो भविष्यति, अयं बोधिसत्त्वो महासत्त्वो दुष्करचर्यां चरिष्यति, अयं बोधिसत्त्वो महासत्त्वो न दुष्करचर्यां चरिष्यति, अयं बोधिसत्त्वश् चरमभविकः, अयं बोधिसत्त्वो न चरमभविकः, अयं बोधिसत्त्वो बोधिमण्डे निषत्स्यते, अयं बोधिसत्त्वो बोधिमण्डे न निषत्स्यते, अस्य बोधिसत्त्वस्य मारो भविष्यति, अस्य बोधिसत्त्वस्य न मारो भविष्यति. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः.
SK
शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धचक्षुः?
SK
भगवान् आह: यच् छारिपुत्र बोधिसत्त्वो महासत्त्वो बोधिचित्तानन्तरं वज्रोपमं समाधिं समापद्य एकचित्तक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्नोति, दशभिस् तथागतबलैः समन्वागतः, चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च समन्वागतः, येन च चक्षुषा बोधिसत्त्वेन महासत्त्वेन नास्ति किञ्चिद् अदृष्टं वाश्रुतं (PSP१-१: ९८) वामतं वाविज्ञातं वा सर्वैर् आकारैः. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धचक्षुः.
SK
एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पञ्चचक्षूंषि शोधयितुकामेन षट्सु पारमितासु योगः करणीयः. तत् कस्य हेतोः? तथा हि शारिपुत्र षट्सु पारमितासु सर्वे कुशला धर्मा अन्तर्गताः सर्वश्रावकधर्माश् च सर्वप्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च, यत् खलु शारिपुत्र सम्यग् वदन्तो वदेयुः सर्वकुशलधर्मसंग्रह इति प्रज्ञापारमितां खलु सम्यग् वदन्तोवदेयुः. तत् कस्य हेतोः? तथा हि शारिपुत्र प्रज्ञापारमिता जनयित्री सर्वासां पारमितानाम्, एषां च पञ्चानां बोधिसत्त्वचक्षुषाम्, एषु च शारिपुत्र पञ्चसु बोधिसत्त्वचक्षुःषु शिक्षित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इति पञ्चचक्षुर् अववादः
SK
अत्र शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञापारमितां भावयति, सो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति, पृथिवीम् अपि कम्पयति, एको ऽपि भूत्वा बहुधा भवति, बहुधापि भूत्वा एको भवति, आविर्भावं तिरोभावम् अपि प्रत्यनुभवति, तिरःकुड्यं तिरःप्राकारं तिरःपर्वतम् अप्य् असक्तो गच्छति तद्यथापि नामाकाशे ऽपि क्रामति तद्यथापि नाम पक्षी शकुनिः, पृथिव्याम् अप्य् उन्मज्जनिमज्जं करोति तद्यथापि नामोदके, उदके ऽभिद्यमानो गच्छति तद्यथापि नाम पृथिव्याम्, धूमायत्य् अपि प्रज्जलत्य् अपि तद्यथापि नाम महान् अग्निस्कन्धः, उदकम् अपि कायात् प्रमुञ्चति तद्यथापि नाम महामेघः, इमाव् अपि सूर्याचन्द्रमसाव् एवं महर्द्धिकौ महानुभावौ पाणिना परामृशति परिमार्ष्टि यावद् ब्रह्मलोकाद् अपि कायं वशेन वर्तयति, तया च ऋद्ध्या न मन्यते, तथा हि सताम् ऋद्धिं नोपलभते यया मन्यते तद् अपि न मन्यते येनापि मन्यते स्वभावशून्यताम् उपादाय, स्वभावविविक्तताम् उपादाय, स्वभावानुपलब्धिताम् उपादाय, स न ऋद्धिचेतनाम् अप्य् उत्पादयति न ऋद्ध्यभिनिर्हारचेतनां वा अन्यत्र सर्वज्ञता मनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ऋद्धिविध्यभिज्ञासाक्षात्क्रियाज्ञानम् (PSP१-१: ९९) अभिनिर्हरति.
SK
स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेण शब्दान् शृणोति दिव्यान् मानुष्यकांश् च, न च तेन दिव्येन श्रोत्रेण मन्यते, अहं शब्दान् शृणोमि, तथा हि स तर्न् अपि शब्दं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, स न दिव्यश्रोत्रचेतनाम् अप्य् उत्पादयति, न दिव्यश्रोत्राभिनिर्हारचेतनां वान्यत्र सर्वाकारज्ञतामनस्कारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यश्रोत्राभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति.
SK
स परसत्त्वानां परपुद्गलानां चेतसैव यथाभूतं प्रजानाति, सरागचित्तं सरागचित्तम् इति यथाभूतं प्रजानाति, विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति, सदोषं चित्तं सदोषं चित्तम् इति यथाभूतं प्रजानाति, वीतदोषं चित्तं वीतदोषं चित्तम् इति यथाभूतं प्रजानाति, समोहं चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति, वीतमोहं चित्तं वीतमोहं चित्तम् इति यथाभूतं प्रजानाति, सतृष्णं चित्तं सतृष्णं चित्तम् इति यथाभूतं प्रजानाति, वीअततृष्णं चित्तं वीततृष्णं चित्तम् इति यथाभूतं प्रजानाति, सोपादानं चित्तं सोपादानं चित्तम् इति यथाभूतं प्रजानाति, निरूपादानं चित्तं निरूपादानं चित्तम् इति यथाभूतं प्रजानाति, संक्षिप्तं चित्तं संक्षिप्तं चित्तम् इति यथाभूतं प्रजानाति, विक्षिप्तं चित्तं विक्षिप्तं चित्तम् इति यथाभूतं प्रजानाति, परीत्तं चित्तं परीत्तं चित्तम् इति यथाभूतं प्रजानाति, विपुलं चित्तं विपुलं चित्तम् इति यथाभूतं प्रजानाति, महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति, समाहितं चित्तं समाहितं चित्तम् इति यथाभूतं प्रजानाति, असमाहितं चित्तम् असमाहितं चित्तम् इति यथाभूतं प्रजानाति, विविक्तं चित्तं विविक्तं चित्तम् इति यथाभूतं प्रजानाति, अविविक्तं चित्तम् अविविक्तं चित्तम् इति यथाभूतं प्रजानाति, सास्रवं चित्तं सास्रवं चित्तम् इति यथाभूतं प्रजानाति, अनास्रवं चित्तम् अनास्रवं चित्तम् इति यथाभूतं प्रजानाति, साङ्गणं चित्तं साङ्गणं चित्तम् इति यथाभूतं प्रजानाति, अनङ्गणं चित्तम् अनङ्गणं चित्तम् इति यथाभूतं प्रजानाति, सोत्तरं (PSP१-१: १००) चित्तं सोत्तरं चित्तम् इति यथाभूतं प्रजानाति, अनुत्तरं चित्तम् अनुत्तरं चित्तम् इति यथाभूतं प्रजानाति, तेन च न मन्यते, तथा हि तच् चित्तम् अचित्तम् अचिन्त्यताम् उपादाय, सो ऽहं प्रजानामीति न मन्यते, तद् एव चित्तं नोपलभते स्वभावशून्यताम् उपादाय, स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, न स परचित्तचेतनाम् अप्य् उत्पादयति, न परचित्ताभिनिर्हारचेतनां वान्यत्रसर्वाकारज्ञतामनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वचित्तचरिताभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति.
SK
पूर्वनिवासानुस्मृतिज्ञानेन स एकाम् अपि जातिम् अनुस्मरति, द्वे तिस्रो यावज् जातिशतसहस्राण्य् अप्य् अनुस्मरति, स एकम् अपि चित्तम् अनुस्मरति यावच् चित्तशतम् अपि, एकम् अपि दिवसं दिवसशतम् अपि, एकम् अपि मासं मासशतम् अपि, एकम् अपि वर्षं वर्षशतम् अपि, एकम् अपि कल्पं कल्पशतम् अपि, अनेकानि अपि कल्पशतान्य् अनेकान्य् अपि कल्पसहस्राण्य् अनेकान्य् अपि कल्पशतसहस्राण्य् अनेकान्य् अपि कल्पकोटिनियुतशतसहस्राणि अनुस्मरति यावत् पूर्वान्तकोटीम् अप्य् अनुस्मरति, अमुत्राहम् आसम् एवंनामा एवंगोत्र एवंजातिर् एवमाहार एवंचिरस्थितिकः, एवमायुष्पर्यन्तः, स ततश् च्युतो ऽमुत्रोपपन्नः, ततश् च्युत इहास्म्य् उपपन्न इति, स एवं साकारं सादृशं सनिर्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति, तेन च पूर्वनिवासानुस्मृत्यभिज्ञानेन न मन्यते, तथा हि तज्ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय, सो ऽहं प्रजानामीति न मन्यते, स तद् एव ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, न स पूर्वनिवासानुस्मृतिचेतनाम् अप्य् उत्पादयति, न पूर्वनिवासानुस्मृत्यभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पूर्वनिवासानुस्मृतिसाक्षात्क्रियाज्ञानम् अभिनिर्हरति.
SK
स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्यवमानान् उत्पद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतौ दुर्गतौ यथाकर्मोपगान् सत्त्वान् प्रजानाति, अमी भवन्तः सत्त्वाः (PSP१-१: १०१) कायसुचरितेन समन्वागताः वाक्सुचरितेन समन्वागताः मनःसुचरितेन समन्वागताः, आर्याणाम् अनपवादकाः सम्यग्दृष्टयः तेन कायवाङ्मनःसुचरितेन हेतुना सुगतौ स्वर्गलोक उपपद्यन्ते.
SK
इमे पुनर् भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः, वाग्दुश्चरितेन समन्वागताः, मनोदुश्चरितेन समन्वागताः, आर्याणाम् अपवादकाः मिथ्यादृष्टयस् ते मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते.
SK
इति हि दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण दशदिशि लोके सर्वलोकधातुषु धर्मधातुपरमे आकाशधातुपर्यवसाने षड्गतिकानां सत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति.
SK
तेन च न मन्यते तथा हि तच् चक्षुर् अचक्षुर् अचिन्त्यताम् उपादाय, सो ऽहं पश्यामीति न मन्यते, तद् एव चक्षुर् नोपलभते स्वभावशून्यताम् उपादाय, स्वभावविविक्तताम् उपादाय, स्वभावानुपलब्धिताम् उपादाय, न स दिव्यचक्षुश्चेतनाम् अप्य् उत्पादयति, न दिव्यचक्षुरभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्.
SK
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यचक्षुरभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति, सो ऽनुत्पादसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति, न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, नाप्य् अन्यं कञ्चिद् धर्मम् आशंसति अन्यत्रानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यमीति, स तया आस्रवक्षय साक्षात्क्रियाभिज्ञाज्ञानाभिनिर्हारकुशलतया न मन्यते तथा हि तज् ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय, सो ऽहं प्रजानामीति न मन्यते, तद् एव च ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, न स आस्रवक्षयचेतनाम् अप्य् उत्पादयति नास्रवक्षयाभिज्ञाभिनिर्हारचेतनां वान्यत्र सर्वाकारज्ञतामनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आस्रवक्षयाभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति.
SK
एवं पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः षडभिज्ञाः परिपूर्यन्ते परिशुध्यन्ते च, अभिज्ञाः (PSP१-१: १०२) शारिपुत्र परिशुद्धाः सर्वाकारज्ञताम् अर्पयन्ति,
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो दानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया न च गृहीतताम् उपादाय.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः शीलपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया आपत्त्यनध्यापत्तिताम् उपादाय.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः क्षान्तिपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया अक्षोभणताम् उपादाय.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो वीर्यपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया कायिकचैतसिकवीर्यास्रंसनताम् उपादाय.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो ध्यानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया अविक्षिप्तचित्तताम् उपादाय.
SK
सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया दौष्प्रज्ञचित्तपरिवर्जनताम् उपादाय.
SK
एवं खलु शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः षट्सु पारमितासु स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यताम् उपादाय, दानं परिग्रहताम् उपादाय प्रज्ञप्यते, शीलं दौःशील्यम् उपादाय प्रज्ञप्यते, क्षान्तिर् अक्षान्तिताम् उपादाय प्रज्ञप्यते, वीर्यं कौशीद्यम् उपादाय प्रज्ञप्यते, समाधिर् असमाहितताम् उपादाय प्रज्ञप्यते, प्रज्ञा दौष्प्रज्ञम् उपादाय प्रज्ञप्यते, स तीर्ण इति न मन्यते, न तीर्ण इति न मन्यते, दानं परिग्रह इति न मन्यते, शीलं दौःशील्यम् इति न मन्यते, क्षान्तिः क्षोभ इति न मन्यते, वीर्यं कौशीद्यम् इति न मन्यते, समाधिर् असमाहितेति न मन्यते, प्रज्ञादौष्प्रज्ञम् इति न मन्यते, आक्रुष्टो ऽहम् इति न मन्यते, वन्दितो ऽहम् इति न मन्यते, सत्कृतो ऽहम् इति न मन्यते, असत्कृतो ऽहम् इति न मन्यते. तत् कस्य हेतोः? न हि शारिपुत्र अनुत्पाद आक्रुष्टो ऽहम् इति मन्यते, (PSP१-१: १०३) वन्दितो ऽहम् इति मन्यते, सत्कृतो ऽहम् इति मन्यते, असत्कृतो ऽहम् इति मन्यते. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता सर्वमननाः समुच्छिनत्ति, इह शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ये गुणा भवन्ति न ते सर्वे श्रावकप्रत्येकबुद्धानां संविद्यन्ते, स इमान् गुणान् परिपूरयन् सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति सर्वाकारज्ञतां चानुप्राप्नोति.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् अन्तिके समचित्तताम् उत्पादयति, सर्वसत्त्वानाम् अन्तिके समचित्तताम् उत्पाद्य सर्वधर्मसमतां प्रतिलभते, सर्वधर्मसमतां प्रतिलभ्य सर्वसत्त्वान् सर्वधर्मसमतायां प्रतिष्ठापयति, स दृष्ट एव धर्मे बुद्धानां भगवतां प्रियो भवति मनआपश् च, सर्वबोधिसत्त्वानां च सर्वश्रावकानां च प्रत्येकबुद्धानां च प्रियो भवति मनआपश् च, स यत्र यत्रोपपद्यते तत्र तत्र न जातु चक्षुषा अमनआपानि रूपाणि पश्यति, न श्रोत्रेणामनआपान् शब्दान् शृणोति, न घ्राणेनामनआपान् गन्धाञ् जिघ्रति, न जिह्वयामनआपान् रसान् आस्वादयति, न कायेनामनआपान् स्पर्शान् स्पृशति, न मनसामनआपान् धर्मान् विजानाति, न च परिहीयते ऽनुत्तरायाः सम्यक्संबोधेः.
SK
अस्मिन् खलु पुनः प्रज्ञापारमितानिर्देशे निर्दिश्यमाने त्रीणि भिक्षुणीशतानि भगवन्तं यथावृतैश् चीवरैर् अभिच्छादयामासुर् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयामासुः. अथ खलु भगवांस् तस्यां वेलायां स्मितम् अकरोत्.
SK
अथ खल्व् आयुष्मान् आनन्दः समुत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणञ् जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुर्भावाय, नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः स्मितं प्रादुष्कुर्वन्ति?
SK
भगवान् आह: एतान्य् आनन्द त्रीणि भिक्षुणीशतानि एकषष्टितमे कल्पे महाकेतुनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पत्स्यन्ते, तारकोपमे कल्पे इतश् च्युतानि सन्ति अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे उपपत्स्यते, षष्टिश् च देवपुत्रसहस्राणि (PSP१-१: १०४) यानि यान्य् अनया धर्मदेशनया परिपाचितानि तानि तानि मैत्रेयस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके परिनिर्वास्यन्ति.
SK
अथ खलु भगवतो ऽनुभावेन तस्यां वेलायां पूर्वस्यां दिशि बुद्धसहस्रं पश्यन्ति स्म, चतस्रः परिषदो भगवतः शाक्यमुनेः पर्षन्मण्डलाद्, एवं दक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति, पश्चिमायां दिशि बुद्धसहस्रं पश्यन्ति, उत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति, उत्तरपूर्वस्यां दिशि बुद्धसहस्रं पश्यन्ति, पूर्वदक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति, दक्षिणपश्चिमायां दिशि बुद्धसहस्रं पश्यन्ति, पश्चिमोत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति, अध ऊर्ध्वम् एकैकस्यां दिशि बुद्धसहस्रं पश्यन्ति, महतो बुद्धक्षेत्रगुणव्यूहां पश्यन्ति, न चेह सहायां लोकधातौ तान् बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति यान् दशसु दिक्षु तेषां बुद्धानां भगवतां बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति स्म.
SK
अथ खलु भगवतः शाक्यमुनेः पर्षन्मण्डलाद् दशभिः प्राणिसहस्रैः प्रणिधानानि कृतानि वयं तानि पुण्यानि करिष्यामो यैः पुण्यैर् एतेषु बुद्धक्षेत्रेषूपपत्स्यामह इति.
SK
अथ खलु भगवांस् तेषां कुलपुत्राणाम् आशयं विदित्वा तस्यां वेलायां स्मितम् अकरोत्.
SK
आनन्द आह: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुर्भावाय?
SK
भगवान् आह: पश्यसि त्वम् आनन्देमानि दशप्राणिसहस्राणि.
SK
आनन्द आह: पश्यामि भगवन्.
SK
भगवान् आह: एतान्य् आनन्द दशप्राणिसहस्राणि इतश् च्युतानि तेषु दशसु दिक्षु बुद्धक्षेत्रसहस्रेषूपपत्स्यन्ते, न च कदाचित् तथागतविरहितानि भविष्यन्ति, ततः पश्चाद् व्यूहराजनामानस् तथागता लोके उत्पत्स्यन्ते.
SK
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मांश् च महामौद्गल्यायन आयुष्मांश् च सुभूतिर् आयुष्मांश् च महाकाश्यपः, एते चान्ये च संबहुला अभिज्ञाता अभिज्ञाता भिक्षवो बोधिसत्त्वाश् च भिक्षुभिक्षुण्य् उपासकोपासिकाश् च भगवन्तम् एतद् अवोचन्: महापारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अग्रपारमितेयं (PSP१-१: १०५) विशिष्टपारमितेयं प्रवरपारमितेयम् अनुत्तरपारमितेयं निरुत्तरपारमितेयं असमपारमितेयं आकाशपारमितेयं स्वलक्षणशून्यतापारमितेयं सर्वगुणसमन्वागतपारमितेयं, अनवमर्दनीयपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
अत्र हि भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमं दानं दत्तं तैर् असमसमा दानपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः.
SK
तैर् असमसमं शीलं रक्षितं, तैर् असमसमा शीलपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः.
SK
तैर् असमसमा क्षान्तिर् भाविता, तैर् असमसमा क्षान्तिपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः,
SK
तैर् असमसमं वीर्यम् आरब्धं, तैर् असमसमा वीर्यपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः.
SK
तैर् असमसमं ध्यानम् उत्पादितं, तैर् असमसमा ध्यानपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः,
SK
तैर् असमसमा प्रज्ञा भाविता, तैर् असमसमा प्रज्ञापारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः.
SK
अत्रैव च त्वं भगवन् प्रज्ञापारमितायां चरन्न् असमसमस्य रूपस्य लाभी जातो ऽसमसमाया वेदनायाः संज्ञायाः संस्काराणाम् असमसमस्य विज्ञानस्य लाभी जातो ऽसमसमां बोधिम् अभिसंबुद्धो ऽसमसमं धर्मचक्रं प्रवर्तितम्.
SK
एवम् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽत्रैव प्रज्ञापारमितायां चरन्तो ऽनुत्तरां सम्यक्संबोधिं सम्यक्संबुद्धा अभिसंभोत्स्यन्ते च अभिसंबुध्यन्ते च, तस्मात् तर्हि भगवन् सर्वधर्माणां (PSP१-१: १०६) पारं गन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः, नमस्करणीयास् ते भगवन् बोधिसत्त्वा महासत्त्वा ये ऽस्यां प्रज्ञापारमितायां चरन्ति सदेवमानुषासुरेण लोकेन.
SK
एवम् उक्ते भगवांस् तान् संबहुलान् श्रावकांस् तांश् च बोधिसत्त्वान् एतद् अवोचत्: एवम् एतत् कुलपुत्र एवम् एतत्, नमस्करणीयास् ते बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन ये ऽस्यां प्रज्ञापारमितायां चरन्ति. तत् कस्य हेतोः? बोधिसत्त्वं हि शारिपुत्रागम्य लोकस्य लोके प्रादुर्भावो भवति, मनुष्यलोकस्य देवलोकस्य क्षत्रियमहाशालकुलानां ब्राह्मणमहाशालकुलानां गृहपतिमहाशालकुलानां राज्ञां चक्रवर्तिनां चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां देवानां यामानां देवानां तुषितानां देवानां निर्माणरतीनां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मपार्षद्यानां देवानां ब्रह्मपुरोहितानां देवानां महाब्रह्माणां देवानां परीत्ताभानां देवानाम् अप्रमाणाभानां देवानाम् आभास्वराणां देवानां परीत्तशुभानां देवानाम् अप्रमाणशुभानां देवानां शुभकृत्स्नानां देवानाम् अनभ्रकानां देवानां पुण्यप्रसवानां देवानां बृहत्फलानां देवानाम् असंज्ञिसत्त्वानां देवानां शुद्धाभासानां देवानाम् अस्पृहाणां देवानाम् अतपानां देवानां सुदृशानां देवानां सुदर्शनानां देवानाम् अकनिष्ठानां देवानाम् आकाशानन्त्यायतनोपगानां देवानां विज्ञानानन्त्यायतनोपगानां देवानाम् आकिञ्चान्यायतनोपगानां देवानां नैवसंज्ञानासंज्ञायतनोपगानां देवानां लोके प्रादुर्भावो भवति, स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावो भवति, बोधिसत्त्वं हि शारिपुत्रागम्य त्रयाणां रत्नानां लोके प्रादुर्भावो भवति, लौकिकानां च सर्वजीवितोपकरणानाम् अन्नपानवस्त्रशय्यासनग्लानप्रत्ययभैषज्यपरिस्काराणां मणिमुक्तावैडूर्यशंखशिलाप्रवालजातरूपरजतानां लोके प्रादुर्भावो भवति, यावच् छारिपुत्र सर्वसुखोपधानां दिव्यानां मानुष्यकाणां च भवसुखानां च निर्वाणसुखानां च (PSP१-१: १०७) लोके प्रादुर्भावो भवति, सर्वशः शारिपुत्र बोधिसत्त्वम् आगम्य. तत् कस्य हेतोः? बोधिसत्त्वो हि शारिपुत्र चर्याञ् चरन् षट्सु पारमितासु सत्त्वान् नियोजयति, दानं दापयति शीलं समादापयति क्षान्त्यां प्रतिष्ठापयति वीर्यं नियोजयति ध्याने प्रतिष्ठापयति प्रज्ञायां नियोजयति, सर्वे च सत्त्वा बोधिसत्त्वम् आगम्य प्रज्ञापारमितायां चरन्ति, तस्माच् छारिपुत्र बोधिसत्त्वो महासत्त्वो सर्वसत्त्वानां हितसुखाय प्रतिपन्नो भवति.
SK
अथ खलु भगवांस् तस्यां वेलायां जिह्वेन्द्रियं निर्नामयित्वा इमं त्रिसाहस्रं महासाहस्रं लोकधातुं जिह्वेन्द्रियेणाच्छादयामास.
SK
अथ खलु ततो जिह्वेन्द्रियाद् अनेकवर्णा नानावर्णा अर्चिषो निश्चेरुः, निःसृत्य पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः. एवं दक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, पश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, उत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, अधस्ताद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, ऊर्ध्वं दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः,
SK
अथ खलु पूर्वस्यां यावद् ऊर्ध्वं दिशि गङ्गानदीबालुकोपमेभ्यो बुद्धक्षेत्रेभ्यो ऽप्रमेयासंख्येया बोधिसत्त्वास् तान् प्रभाव्यूहान् दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म: कस्यायं भगवन्न् अनुभावो येनायम् एव प्रभावभासः संदृश्यते?
SK
ते बुद्धा भगवन्तस् तान् बोधिसत्त्वान् महासत्त्वान् एवम् आहुः: एष कुलपुत्राः पश्चिमे यावद् अधो दिग्भागे सहायां लोकधातौ शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्द्ःस् तिष्ठति ध्रियते यापयति, तेन जिह्वेन्द्रियं निर्णमय्य पूर्वस्यां दिशि गङ्गानदीबालुकोपमा इओकधातवो (PSP१-१: १०८) ऽवभासेन स्फुटीकृता यावद् ऊर्ध्वं दिशि, एवं दशसु दिक्षु गङ्गानदीबालुकोपमा लोकधातवो ऽवभासेन स्फुटीकृता यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां देशनाय संप्रकाशनाय.
SK
ते बोधिसत्त्वास् तांस् तथागतान् एवम् आहुः: गमिष्यामो वयं भगवंस् तां सहालोकधातुं तं भगवन्तं शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय, तांश् च दशदिक्संनिपतितान् बोधिसत्त्वान् महासत्त्वांस् तां च प्रज्ञापारमितां श्रवणाय.
SK
ते बुद्धा भगवन्त आहुः: गच्छत कुलपुत्रा यस्येदानीं कालं मन्यध्वम्.
SK
अथ खलु ते बोधिसत्त्वा महासत्त्वा दशभ्यो दिग्भ्यः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीर् गृहीत्वा नानारत्नसुवर्णरूप्यपुष्पपुटानि च गृहीत्वा महत्या तूर्यताडावचरसंगीत्या भगवन्तं शाक्यमुनिम् उपसंक्रान्ता अभूवन्.
SK
अथ खलु चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मपुरोहिता देवा महाब्रह्माणो देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा अनभ्रका देवाः पुण्यप्रसवा देवा बृहत्फला देवा असंज्ञिसत्त्वा देवाः शुद्धाभासा देवा अस्पृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठाश् च देवा दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताका उत्पलकुमुदपुण्डरीकमान्दारवकेसरतमालपत्राणि गृहीत्वा येन भगवांस् तेनोपसंक्रामन्.
SK
अथ खलु ते बोधिसत्त्वास् ते च देवास् तैः पुष्पधूपगन्धमाल्यविलेपनैस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् अवकिरन्ति स्म.
SK
अथ खलु तानि पुष्पाणि वैहायसम् अभ्युद्गम्यास्य त्रिसाहस्रमहासाहस्रस्य लोकधातोर् उपरिष्टात् पुष्पकूटागारः संस्थितो ऽभूत् चतुस्थूणश् चतुरस्रो भागतः सुविभक्तो रमणीयो मनोरमः.
SK
अथ खलु ततः पर्षदः प्राणिकोटीनियुतशतसहस्रम् उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां (PSP१-१: १०९) प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: वयं भगवन्न् अनागते ऽध्वनि एवंरूपाणां धर्माणां लाभिनो भवेम यथा तथागतो ऽर्हन् सम्यक्संबुद्धः, एवं च श्रावकगणं परिकर्षेम एवं च पर्षदि धर्मं देशयेम यच् चैतर्हि तथागतो भगवान् धर्मं देशयति.
SK
अथ खलु भगवांस् तेषां कुलपुत्राणाम् आसयं विदित्वा सर्वधर्माणां चानुत्पादायानिरोधायानभिसंस्कारायाप्रादुर्भावाय क्षान्तिं विदित्वा स्मितम् अकरोत्. अथ ततो ऽनेकवर्णा रश्मयो भगवतो मुखद्वारान् निश्चरितास् ते सर्वावन्तं लोकं प्रदक्षिणीकृत्य पुनर् एवागता भगवतो मूर्धन्य् अन्तर्धीयन्ते स्म.
SK
अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जनुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रदुर्भावाय?
SK
अथ खलु भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: एतद् आनन्द प्राणिकोटीनियुतशतसहस्रम् अष्टषष्ट्या कल्पकोटीभिर् बोध्यङ्गपुष्पनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा लोक उत्पत्स्यन्ते पुष्पाकरे कल्पे.
SK
इति षडभिज्ञाववादः
SK
अथ खलु भगवांस् तस्यां वेलायाम् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: प्रतिभातु ते सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् आरभ्य यथा बोधिसत्त्वाः महासत्त्वाः प्रज्ञापारमितायां निर्यायुर् इति.
SK
अथ खलु तेषां बोधिसत्त्वानां महासत्त्वानां तेषां च महाश्रावकाणां तेषां च देवपुत्राणाम् एतद् अभवत्, किं नु खल्व् आयुष्मान् सुभूतिः स्वकेन प्रज्ञाप्रतिभानबलाधानेन बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदेक्ष्यत्य् उताहो बुद्धानुभावेन?
SK
अथ खल्व् आयुष्मान् सुभूतिर् बुद्धानुभावेन तेषां बोधिसत्त्वानां महासत्त्वानां तेषाञ् च महाश्रावकाणां तेषाञ् च देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यत् किञ्चिद् (PSP१-१: ११०) आयुष्मन् शारिपुत्र भगवतः श्रावका भाषन्ते देशयन्त्य् उपदिशन्ति सर्वः स तथागतस्य पुरुषकारो वेदितव्यः. तत् कस्य हेतोः? यो हि तथागतेन धर्मो देशितस् तस्यां धर्मदेशनायां शिक्षमाणास् तां धर्मतां साक्षात्कुर्वन्ति तां धर्मतां साक्षात्कृत्वा यद् यद् एव भाषन्ते देशयन्त्य् उपदिशन्ति सर्वं तद् धर्मतया न विरुध्यते, तथागत एवैष शारिपुत्र उपाययोगेन बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदेक्ष्यति, अविषयो ऽत्र शारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदेष्टुम्.
SK
इति दर्शनमार्गाववादोपक्षेपः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बोधिसत्त्व इति भगवन्न् उच्यते, कतमस्यैतद् भगवन् धर्मस्याधिवचनं यद् उत बोधिसत्त्व इति? नाहं भगवन् धर्मं समनुपश्यामि यद् उत बोधिसत्त्व इति, सो ऽहं भगवन् बोधिसत्त्वम् असमनुपश्यन् प्रज्ञापारमिताम् अप्य् अनुपलभमानः कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायां वदिष्यामि?
SK
भगवान् आह: नाममात्रम् इदं सुभूते यद् उत प्रज्ञापारमिता इति बोधिसत्त्व इति च, तद् अपि च बोधिसत्त्वनाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, तद्यथापि नाम सुभूते सत्त्वः सत्त्व इति चोच्यते, न च काचित् सत्त्वोपलब्धिः, यच् च तन्नाम तत् प्रज्ञप्तिमात्रं प्रज्ञप्तिधर्मः प्रज्ञप्तिसत्.
SK
इति दुःखे धर्मज्ञानक्षान्तिः
SK
तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, एवम् आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकाः सर्व एते प्रज्ञप्तिधर्माः सर्व एते अनुत्पादा अनिरोधा यावद् एव नाममात्रेण व्यवह्रियन्ते.
SK
एवम् एव सुभूते या च प्रज्ञापारमिता, यश् च बोधिसत्त्वो महासत्त्वो, यच् च बोधिसत्त्वनाम सर्व एते प्रज्ञप्तिधर्माः, सर्व एते अनुत्पादा अनिरोधा यावद् एव नाममात्रेण व्यवह्रियते.
SK
तद्यथापि नाम सुभूते इदम् अध्यात्मिकं रूपम् इति धर्मप्रज्ञप्तिमात्रं (PSP१-१: १११) तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
वेदनेति धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
संज्ञेति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
संस्कारा इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
विज्ञानम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
एवम् एव सुभूते प्रज्ञापारमिता च बोधिसत्त्वश् च बोधिसत्त्वनाम च सर्व एते प्रज्ञप्तिधर्मास् तेषाञ् च प्रज्ञप्तिधर्माणां नोत्पादोन निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते.
SK
चक्षुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत चक्षुर् इति, तच् च चक्षुर् नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
श्रोत्रम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत श्रोत्रम् इति, तच् च श्रोत्रं नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
घ्राणम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्यास् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत घ्राणम् इति, तच् च घ्राणं नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
जिह्वेति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत जिह्वेति, सा च जिह्वा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
काय इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् (PSP१-१: ११२) नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत काय इति, स च कायो नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
मन इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत मन इति, तच् च मनो नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
रूपम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते रूपम् इति.
SK
शब्द इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते शब्द इति.
SK
गन्ध इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते गन्ध इति.
SK
रस इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते रस इति.
SK
स्पर्श इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, स्पर्श इति.
SK
धर्म इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, धर्म इति.
SK
चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो निरोधो ऽन्यत्र (PSP१-१: ११३) नामसंकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते,
SK
घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्यास् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
मनोधातुर् धर्मधातुर् मनोविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति, बोधिसत्त्व इति, बोधिसत्त्वनामेति च धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
तद्यथापि नाम सुभूते यद् एतद् आध्यात्मिकं शरीरं शरीरम् इति व्यवह्रियते, शिरो ग्रीवा उदरम् अंसौ स्कन्धौ बाहू पृष्ठं पार्श्वकाः कठ्यूरू जङ्घे पादाव् अस्थीनीति व्यवह्रियन्ते, ते च प्रज्ञप्तिधर्मास् तेषां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् तेषां च नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
तद्यथापि नाम सुभूते बाह्यं तृणकाष्ठं शाखापर्णपलाशं सर्वं तं नानानामधेयैर् व्यपदिश्यते, तेषाञ् च नाम्नां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते.
SK
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् ते च नानानामधेयैर् व्यपदिश्यन्ते, तेषां च नाम्नां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं सुभूते तद्यथापि नाम स्वप्नप्रतिश्रुत्कामरीचिप्रतिभासमायोपमास् तथागतनिर्मिताः सर्वे ते धर्मप्रज्ञप्तिमात्रास् तेषाञ् च नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्वम् एतद् धर्मप्रज्ञप्तिमात्रं तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसंकेतप्रज्ञप्त्याम् अववादप्रज्ञप्त्यां धर्मप्रज्ञप्त्यां च शिक्षितव्यम्.
SK
इति दुःखे धर्मज्ञानम्
SK
एवं हि सुभूते प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो न रूपं नित्यम् इति समनुपश्यति, न रूपम् अनित्यम् इति समनुपश्यति, न रूपं सुखम् इति समनुपश्यति, न रूपं दुःखम् इति समनुपश्यति, न रूपम् आत्मेति समनुपश्यति, न रूपम् अनात्मेति समनुपश्यति, न रूपं शान्तम् इति समनुपश्यति, न रूपम् अशान्तम् इति समनुपश्यति, न रूपं शून्यम् इति समनुपश्यति, न रूपम् अशून्यम् इति समनुपश्यति, न रूपं निमित्तम् इति समनुपश्यति, न रूपम् अनिमित्तम् इति समनुपश्यति, न रूपं प्रणिहितम् इति समनुपश्यति, न रूपम् अप्रणिहितम् इति (PSP१-१: ११५) समनुपश्यति, न रूपं संस्कृतम् इति समनुपश्यति, न रूपम् असंस्कृतम् इति समनुपश्यति, न रूपम् उत्पन्नम् इति समनुपश्यति, न रूपम् अनुत्पन्नम् इति समनुपश्यति, न रूपं निरुद्धम् इति समनुपश्यति, न रूपम् अनिरुद्धम् इति समनुपश्यति, न रूपं विविक्तम् इति समनुपश्यति, न रूपम् अविविक्तम् इति समनुपश्यति, न रूपं कुशलम् इति समनुपश्यति, न रूपम् अकुशलम् इति समनुपश्यति, न रूपं सावद्यम् इति समनुपश्यति, न रूपम् अनवद्यम् इति समनुपश्यति, न रूपं सास्रवम् इति समनुपश्यति, न रूपम् अनास्रवम् इति समनुपश्यति, न रूपं संक्लेशम् इति समनुपश्यति, न रूपं निःक्लेशम् इति समनुपश्यति, न रूपं लौकिकम् इति समनुपश्यति, न रूपं लोकोत्तरम् इति समनुपश्यति, न रूपं संक्लेशम् इति समनुपश्यति, न रूपं व्यवदानम् इति समनुपश्यति, न रूपं संसार इति समनुपश्यति, न रूपं निर्वाणम् इति समनुपश्यति.
SK
न वेदना नित्येति समनुपश्यति, न वेदनानित्येति समनुपश्यति, न सुखेति समनुपश्यति, न दुःखेति समनुपश्यति, नात्मेति नानात्मेति न शान्तेति नाशान्तेति, न शून्येति नाशून्येति, न निमित्तेति नानिमित्तेति, न प्रणिहितेति नाप्रणिहितेति वेदनां समनुपश्यति, न संस्कृतेति नासंस्कृतेति, नोत्पन्नेति नानुत्पन्नेति, न निरुद्धेति नानिरुद्धेति, न विविक्तेति नाविविक्तेति न कुशलेति नाकुशलेति, न सावद्येति नानवद्येति, न सास्रवेति नानास्रवेति, न संक्लेशेति न निःक्लेशेति, न लौकिकेति न लोकोत्तरेति, न संक्लेशेति न व्यवदानम् इति, न संसार इति न निर्वाणम् इति, वेदनां समनुपश्यति.
SK
न संज्ञा नित्येति समनुपश्यति, न संज्ञानित्येति समनुपश्यति, न सुखेति न दुःखेति नात्मेति नानात्मेति, न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति, न प्रणिहितेति नाप्रणिहितेति संज्ञां समनुपश्यति, न संस्कृतेति नासंस्कृतेति नोत्पन्नेति नानुत्पन्नेति, न निरुद्धेति नानिरुद्धेति न विविक्तेति नाविविक्तेति, न कुशलेति नाकुशलेति न सावद्येति नानवद्येति न सास्रवेति नानास्रवेति, न संक्लेशेति न निःक्लेशेति न लौकिकेति न लोकोत्तरेति न संक्लेशम् इति न व्यवदानम् इति न संसार इति न निर्वाणम् इति संज्ञां समनुपश्यति.
SK
न संस्कारा नित्या इति समनुपश्यति, न संस्कारा अनित्या इति समनुपश्यति, न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इति संस्कारान् समनुपश्यति, न संस्कृता इति नासंस्कृता इति नोत्पन्ना इति नानुत्पन्ना इति न निरुद्धा इति नानिरुद्धा इति न विविक्ता इति नाविविक्ता इति, न कुशला इति नाकुशला इति, न सावद्या इति नानवद्या इति, न सास्रवा इति नानास्रवा इति, न संक्लेशा इति न निःक्लेशा इति, न लौकिका इति न लोकोत्तरा इति न संक्लेशा इति न व्यवदानम् इति न संसार इति न निर्वाणम् इति संस्कारान् समनुपश्यति.
SK
न विज्ञानं नित्यम् इति समनुपश्यति, न विज्ञानम् अनित्यम् इति समनुपश्यति, न सुखम् इति न दुःखम् इति, नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति विज्ञानं समनुपश्यति, न संस्कृतम् इति नासंस्कृतम् इति नोत्पन्नम् इति नानुत्पन्नम् इति, न निरुद्धम् इति नानिरुद्धम् इति न विविक्तम् इति नाविविक्तम् इति न कुशलमिति नाकुशलम् इति, न सावद्यम् इति नानवद्यम् इति न सास्रवम् इति नानस्रवम् इति न संक्लेशम् इति न निःक्लेशम् इति, न लौकिकम् इति न लोकोत्तरम् इति, न संक्लेशम् इति न व्यवदानम् इति, न संसर इति न निर्वाणम् इति विज्ञानं समनुपश्यति.
SK
एवं न चक्षुर्धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति, न रूपधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
न चक्षुर्धातुः सुख इति वा दुःख इति वा समनुपश्यति, न रूपधातुः सुख इति वा दुःख इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् आत्मेति वा अनात्मेति वा समनुपश्यति, न रूपधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न चक्षुर्धातुः शान्त इति वा अशान्त इति वा समनुपश्यति, न रूपधातुः शान्त इति वा अशान्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न चक्षुर्धातुः शून्य इति वा अशून्य इति वा समनुपश्यति, न रूपधातुः शून्य इति वा अशून्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति, न रूपधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न चक्षुर्धातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति, न रूपधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न चक्षुर्धातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति, न रूपधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति, न रूपधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति, न रूपधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति, न रूपधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न चक्षुर्धातुः कुशल इति वा अकुशल इति वा समनुपश्यति, न रूपधातुः कुशल इति वा अकुशल इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न चक्षुर्धातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति, न रूपधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न चक्षुर्धातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति, न रूपधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न चक्षुर्धातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति, न रूपधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः (PSP१-१: ११८) संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न चक्षुर्धातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति, न रूपधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न चक्षुर्धातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति, न रूपधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न चक्षुर्धातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति, न रूपधातुः संसर इति वा निर्वाणम् इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
एवं न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति.
SK
नमनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति.
SK
न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
SK
एवं न सुखम् इति वा न दुःखम् इति वा समनुपश्यति,
SK
नात्मेति वा नानात्मेति वा समनुपश्यति,
SK
न शान्तम् इति वा नाशान्तं वा समनुपश्यति,
SK
न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति,
SK
न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति,
SK
न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति,
SK
न संस्कृत इति वा नासंस्कृत इति वा समनुपश्यति,
SK
नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति,
SK
न निरुद्धम् इति वा नानिरुद्धं वा समनुपश्यति,
SK
न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति,
SK
न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति,
SK
न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति,
SK
न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति,
SK
न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति,
SK
न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति,
SK
न संक्लेशम् इति वा न व्यवदानानम् इति वा समनुपश्यति.
SK
यद् अपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसार इति वा न निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि श्रोत्रशब्दश्रोत्रविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
SK
एवं न सुखम् इति वा न दुःखम् इति वा,
SK
नात्मेति वा नानात्मेति वा,
SK
न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति,
SK
न शून्यम् इति वा नाशून्यम् इति वा,
SK
न निमित्तम् इति वा नानिमित्तम् इति वा,
SK
न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति,
SK
न संस्कृतम् इति वा नासंस्कृतम् इति वा,
SK
नोत्पन्नम् इति वा नानुत्पन्नम् इति वा,
SK
न निरुद्धम् इति वा नानिरुद्धम् इति वा,
SK
न विविक्तम् इति वा नाविविक्तम् इति वा,
SK
न कुशलम् इति वा नाकुशलम् इति वा,
SK
न सावद्यम् इति वा नानवद्यम् इति वा,
SK
न सास्रवम् इति वा नानास्रवम् इति वा,
SK
न संक्लेशम् इति वा न निःक्लेशम् इति वा,
SK
न लौकिकम् इति वा न लोकोत्तरम् इति वा,
SK
न संक्लेशम् इति वा न व्यवदानम् इति वा समनुपश्यति.
SK
यद् अपि श्रोत्रशब्दश्रोत्रविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि घ्राणगन्धघ्राणविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
SK
न सुखम् इति वा न दुःखम् इति वा,
SK
नात्मेति नानात्मेति,
SK
न शान्तम् इति नाशान्तम् इति समनुपश्यति,
SK
न शून्यम् इति नाशून्यम् इति,
SK
न निमित्तम् इति नानिमित्तम् इति,
SK
न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति,
SK
न संस्कृतम् इति नासंस्कृतम् इति,
SK
नोत्पन्नम् इति नानुत्पन्नम् इति,
SK
न निरुद्धम् इति नानिरुद्धम् इति,
SK
न विविक्तम् इति नाविविक्तम् इति,
SK
न कुशलम् इति नाकुशलम् इति,
SK
न सावद्यम् इति नानवद्यम् इति,
SK
न सास्रवम् इति नानास्रवम् इति,
SK
न संक्लेशम् इति न निःक्लेशम् इति,
SK
न लौकिकम् इति न लोकोत्तरम् इति,
SK
न संक्लेशम् इति वा न व्यवदानम् इति वा समनुपश्यति,
SK
यद् अपि घ्राणगन्धघ्राणविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
SK
न सुखम् इति न दुःखम् इति,
SK
नात्मेति नानात्मेति,
SK
न शान्तम् इति नाशान्तम् इति समनुपश्यति,
SK
न शून्यम् इति नाशून्यम् इति,
SK
न निमित्तम् इति नानिमित्तम् इति,
SK
न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति,
SK
न संस्कृतम् इति नासंस्कृतम् इति, नोत्पन्नम् इति नानुत्पन्नम् इति,
SK
न निरुद्धम् इति नानिरुद्धम् इति,
SK
न विविक्तम् इति नाविविक्तम् इति,
SK
न कुशलम् इति नाकुशलम् इति,
SK
न सावद्यम् इति नानवद्यम् इति,
SK
न सास्रवम् इति नानास्रवम् इति,
SK
न संक्लेशम् इति न निःक्लेशम् इति,
SK
न लौकिकम् इति न लोकोत्तरम् इति,
SK
न संक्लेशम् इति न व्यवदानम् इति समनुपश्यति.
SK
यद् अपि जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति,
SK
न सुखम् इति न दुःखम् इति,
SK
नात्मेति नानात्मेति,
SK
न शान्तम् इति नाशान्तम् इति,
SK
न शून्यम् इति नाशून्यम् इति,
SK
न निमित्तम् इति नानिमित्तम् इति,
SK
न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति,
SK
न संस्कृतम् इति नासंस्कृतम् इति,
SK
नोत्पन्नम् इति नानुत्पन्नम् इति,
SK
न निरुद्धम् इति नानिरुद्धम् इति,
SK
न विविक्तम् इति नाविविक्तम् इति,
SK
न कुशलम् इति नाकुशलम् इति,
SK
न सावद्यम् इति नानवद्यम् इति,
SK
न सास्रवम् इति नानास्रवम् इति,
SK
न संक्लेशम् इति न निःक्लेशम् इति,
SK
न लौकिकम् इति न लोकोत्तरम् इति,
SK
न संक्लेशम् इति न व्यवदानम् इति समनुपश्यति.
SK
यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति.
SK
यद् अपि मनोधर्ममनोविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं (PSP१-१: १२८) सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति.
SK
न सुखम् इति न दुःखम् इति,
SK
नात्मेति वा नानात्मेति,
SK
न शान्तम् इति नाशान्तम् इति समनुपश्यति,
SK
न शून्यम् इति नाशून्यम् इति,
SK
न निमित्तम् इति नानिमित्तम् इति,
SK
न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति,
SK
न संस्कृतम् इति नासंस्कृतम् इति,
SK
नोत्पन्नम् इति नानुत्पन्नम् इति,
SK
न निरुद्धम् इति नानिरुद्धम् इति,
SK
न विविक्तम् इति नाविविक्तम् इति,
SK
न कुशलम् इति नाकुशलम् इति,
SK
न सावद्यम् इति नानवद्यम् इति,
SK
न सास्रवम् इति नानास्रवम् इति,
SK
न संक्लेशम् इति न निःक्लेशम् इति,
SK
न लौकिकम् इति न लोकोत्तरम् इति,
SK
न संक्लेशम् इति न व्यवदानम् इति समनुपश्यति.
SK
यद् अपि मनोधर्ममनोविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति.
SK
इति दुःखे ऽन्वयज्ञानक्षान्तिः
SK
तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां प्रज्ञापारमितानाम तं च बोधिसत्त्वं तच् च बोधिसत्त्वनाम न समनुपश्यति, संस्कृते वा धाताव् असंस्कृते वा धातौ तथा हि सुभूते बोधिसत्त्वः प्रज्ञापारमितायां चरन् नैतान् सर्वधर्मान् कल्पयति न विकल्पयति, सो ऽविकल्पे धर्मे स्थित्वा स्मृत्युपस्थानानि भावयति, प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम समनुपश्यति, न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनुपश्यति.
SK
एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमितातथागतबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् भावयति, प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम, न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनुपश्यति, अन्यत्र सर्वाकारज्ञता मनसिकारात्.
SK
इति दुःखे ऽन्वयज्ञानम्
SK
तथा हि तेन प्रज्ञापारमितायां चरता धर्मलक्षणं प्रतिविद्धं भवति, यच् च धर्माणां लक्षणं तन् न संक्लिश्यते न व्यवदायते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिर् अनुबोद्धव्या.
SK
इति समुदये धर्मज्ञानक्षान्तिः
SK
स नामसांकेतिक्या धर्मप्रज्ञप्त्या अवबुद्धया न रूपम् अभिनिवेक्ष्यते, न वेदनाम् अभिनिवेक्ष्यते, न संज्ञाम् अभिनिवेक्ष्यते, न संस्कारान् अभिनिवेक्ष्यते, न विज्ञानम् अभिनिवेक्ष्यते.
SK
न चक्षुर् अभिनिवेक्ष्यते, न रूपम् अभिनिवेक्ष्यते, न चक्षुर्विज्ञानम् अभिनिवेक्ष्यते, न चक्षुःसंस्पर्शम् अभिनिवेक्ष्यते, यद् अपि चक्षुःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
SK
न श्रोत्रम् अभिनिवेक्ष्यते न शब्दं न श्रोत्रविज्ञानं न श्रोत्रसंस्पर्शं, यद् अपि श्रोत्रसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
SK
न घ्राणम् अभिनिवेक्ष्यते न गन्धं न घ्राणविज्ञानं न घ्राणसंस्पर्शम्, यद् अपि घ्राणसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
SK
न जिह्वाम् अभिनिवेक्ष्यते न रसं न जिह्वाविज्ञानं न जिह्वासंस्पर्शं, यद् अपि जिह्वासंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
SK
न कायम् अभिनिवेक्ष्यते न स्प्रष्टव्यं न कायविज्ञानं न कायसंस्पर्शं, यद् अपि कायःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं (PSP१-१: १३०) सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते.
SK
न मनो ऽभिनिवेक्ष्यते न धर्मान् न मनोविज्ञानं न मनःसंस्पर्शं, यद् अपि मनःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते, नापि संस्कृतधातुम् अभिनिवेक्ष्यते, नाप्य् असंस्कृतधातुम् अभिनिवेक्ष्यते.
SK
इति समुदये धर्मज्ञानम्
SK
स न दानपारमिताम् अभिनिवेक्ष्यते, न शीलपारमिताम् अभिनिवेक्ष्यते, न क्षान्तिपारमिताम् अभिनिवेक्ष्यते, न वीर्यपारमिताम् अभिनिवेक्ष्यते, न ध्यानपारमिताम् अभिनिवेक्ष्यते, न प्रज्ञापारमिताम् अभिनिवेक्ष्यते, न नामापि न लक्षणम् अपि तासाम् अभिनिवेक्ष्यते, न काये ऽभिनिवेक्ष्यते.
SK
न मांसचक्षुष्य् अभिनिवेक्ष्यते, न दिव्यचक्षुष्य् अभिनिवेक्ष्यते, न प्रज्ञाचक्षुष्य् अभिनिवेक्ष्यते, न धर्मचक्षुष्य् अभिनिवेक्ष्यते, न बुद्धचक्षुष्य् अभिनिवेक्ष्यते, नाभिज्ञास्व् अभिनिवेक्ष्यते.
SK
नाध्यात्मशून्यतायाम् अभिनिवेक्ष्यते, न बहिर्धाशून्यतायाम् अभिनिवेक्ष्यते, नाध्यात्मबहिर्धाशून्यतायाम् अभिनिवेक्ष्यते, न शून्यताशून्यतायां न महाशून्यतायां न परमार्थशून्यतायां न संस्कृतशून्यतायां नासंस्कृतशून्यतायां नात्यन्तशून्यतायां नानवराग्रशून्यतायां नानवकारशून्यतायां न प्रकृतिशून्यतायां न सर्वधर्मशून्यतायां न स्वलक्षणशून्यतायां नानुपलम्भशून्यतायां नाभावस्वभावशून्यतायां न भावशून्यतायां नाभावशून्यतायां न स्वभावशून्यतायां न परभावशून्यतायाम् अभिनिवेक्ष्यते.
SK
न तथतायां न भूतकोट्यां न धर्मधातौ न सत्त्वपरिपाके न बुद्धक्षेत्रपरिशुद्धौ नोपायकौशल्ये ऽभिनिवेक्ष्यते. तत् कस्य हेतोः? तथा हि ते सर्वधर्मा न संविद्यन्ते यस् चाभिनिविशेत येन चाभिनिविशेत यत्र चाभिनिविशेत.
SK
इति समुदये ऽन्वयज्ञानक्षान्तिः
SK
एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनभिनिविष्टः सर्वधर्मेषु दानपारमितया विवर्धते, शीलपारमितया (PSP१-१: १३१) विवर्धते, क्षान्तिपारमितया विवर्धते, वीर्यपारमितया विवर्धते, ध्यानपारमितया विवर्धते, प्रज्ञापारमितया विवर्धते, बोधिसत्त्वनियामम् अवक्रामति.
SK
इति समुदये ऽन्वयज्ञानम्
SK
एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अविनिवर्तनीयां भूमिम् अवक्रामति.
SK
इति निरोधे धर्मज्ञानक्षान्तिः
SK
एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो ऽभिज्ञाः परिपूरयति, अभिज्ञाः परिपूर्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, सत्त्वांश् च परिपाचयति, बुद्धांश् च भगवतः सत्करोति गुरुकरोति मानयति पूजयति तेनैव कुशलमूलेन तेषां बुद्धानां भगवतां चान्तिक उपपद्यते, धर्मं च शृणोति श्रुताश् चास्य धर्मा न जातूच्छेत्स्यन्ते यावदा बोधिमण्डाद् इति धारणीमुखानि प्रतिलप्स्यते समाधिमुखानि प्रतिलप्स्यते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिर् अनुबोद्धव्या.
SK
इति निरोधे धर्मज्ञानम्
SK
तत् किं मन्यसे सुभूते यद् उच्यते बोधिसत्त्वो महासत्त्व इत्य् अपि तु रूपं बोधिसत्त्व इति, वेदना बोधिसत्त्व इति, संज्ञा बोधिसत्त्व इति, संस्कारा बोधिसत्त्व इति, विज्ञानं बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते ऽन्यत्र रूपाद् बोधिसत्त्व इति, अन्यत्र वेदनाया बोधिसत्त्व इति, अन्यत्र संज्ञाया बोधिसत्त्व इति, अन्यत्र संस्कारेभ्यो बोधिसत्त्व इति, अन्यत्र विज्ञानाद् बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते रूपे बोधिसत्त्व इति, वेदनायां बोधिसत्त्व इति, संज्ञायां बोधिसत्त्व इति, संस्कारेषु बोधिसत्त्व इति, विज्ञाने बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते बोअधिसत्त्वे रूपम् इति, बोधिसत्त्वे वेदनेति, बोधिसत्त्वे संज्ञेति, बोधिसत्त्वे संस्कारा इति, बोधिसत्त्वे विज्ञानम् इति?
SK
तत् किं मन्यसे सुभूते अरूपो बोधिसत्त्व इति, अवेदनो बोधिसत्त्व (PSP१-१: १३२) इति, असंज्ञो बोधिसत्त्व इति, असंस्करो बोधिसत्त्व इति, अविज्ञनो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते चक्षुर् बोधिसत्त्वो ऽन्यत्र चक्षुषश् चक्षुषि बोधिसत्त्वो बोधिसत्त्वे चक्षुर् अचक्षुष्को बोधिसत्त्व इति,
SK
श्रोत्रं बोधिसत्त्वो ऽन्यत्र श्रोत्राच् छ्रोत्रे बोधिसत्त्वो बोधिसत्त्वे श्रोत्रम् अश्रोत्रो बोधिसत्त्व इति,
SK
घ्राणं बोधिसत्त्वो ऽन्यत्र घ्राणाद् घ्राणे बोधिसत्त्वो बोधिसत्त्वे घ्राणम् अघ्राणो बोधिसत्त्व इति,
SK
जिह्वा बोधिसत्त्वो ऽन्यत्र जिह्वाया जिह्वायां बोधिसत्त्वो बोधिसत्त्वे जिह्वाजिह्वो बोधिसत्त्व इति,
SK
कायो बोधिसत्त्वो ऽन्यत्र कायात् काये बोधिसत्त्वो बोधिसत्त्वे कायो ऽकायो बोधिसत्त्व इति,
SK
मनो बोधिसत्त्वो ऽन्यत्र मनसो मनसि बोधिसत्त्वो बोधिसत्त्वे मनो ऽमनस्को बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते रूपं बोधिसत्त्वो ऽन्यत्र रूपाद् रूपे बोधिसत्त्वो बोधिसत्त्वे रूपम् अरूपो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते शब्दो बोधिसत्त्वो ऽन्यत्र शब्दाच् छब्दे बोधिसत्त्वो बोधिसत्त्वे शब्दो ऽशब्दो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते गन्धो बोधिसत्त्वो ऽन्यत्र गन्धाद् गन्धे बोधिसत्त्वो बोधिसत्त्वे गन्धो ऽगन्धो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते रसो बोधिसत्त्वो ऽन्यत्र रसाद् रसे बोधिसत्त्वो बोधिसत्त्वे रसो ऽरसो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते स्प्रष्टव्यं बोधिसत्त्वो ऽन्यत्र स्प्रष्टव्यात् स्प्रष्टव्ये बोधिसत्त्वो बोधिसत्त्वे स्प्रष्टव्यम् अस्प्रष्टव्यो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते धर्मो बोधिसत्त्वो ऽन्यत्र धर्माद् धर्मे बोधिसत्त्वो बोधिसत्त्वे धर्मो ऽधर्मो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते चक्षूरूपचक्षुर्विज्ञानानि बोधिसत्त्वो (PSP१-१: १३३) ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना चक्षूरूपचक्षुर्विज्ञानैर् बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते श्रोत्रशब्दश्रोत्रविज्ञानानिबोधिसत्त्वो ऽन्यत्र एभ्य एषु ऽ; सः, एतानि तस्मिन् विना श्रोत्रशब्दश्रोत्रविज्ञानैर् बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते घ्राणगन्धघ्राणविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना घ्राणगन्धघ्राणविज्ञानैर् बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते जिह्वारसजिह्वाविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना जिह्वारसजिह्वाविज्ञानैर् बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते कायस्प्रष्टव्यकायविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना कायस्प्रष्टव्यकायविज्ञानैर् बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते मनोधर्ममनोविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना मनोधर्ममनोविज्ञानैर् बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते पृथिवीधातुर् बोधिसत्त्वो ऽन्यत्र पृब्थिवीधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे पृथिवीधातुर् अपृथिवीधातुको बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते ऽब्धातुर् बोधिसत्त्वो ऽन्यत्राब्धातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे ऽब्धातुर् अनब्धातुको बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते तेजोधातुर् बोधिसत्त्वो ऽन्यत्र तेजोधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे तेजोधातुर् अतेजोधातुको बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते वायुधातुर् बोधिसत्त्वो ऽन्यत्र वायुधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे वायुधातुर् अवायुधातुको बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते आकाशधातुर् बोधिसत्त्वो ऽन्यत्राकाशधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे आकाशधातुर् अनाकाशधातुको बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते विज्ञानधातुर् बोधिसत्त्वो ऽन्यत्र विज्ञानधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे विज्ञानधातुर् अविज्ञानधातुको बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते अविद्या बोधिसत्त्वो ऽन्यत्राविद्याया अविद्यायां बोधिसत्त्वो बोधिसत्त्वे ऽविद्यानविद्यो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते संस्कारा बोधिसत्त्वो ऽन्यत्र संस्कारेभ्यः संस्कारेषु बोधिसत्त्वो बोधिसत्त्वे संस्कारा असंस्कारो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते विज्ञानं बोधिसत्त्वो ऽन्यत्र विज्ञानाद् विज्ञाने बोधिसत्त्वो बोधिसत्त्वे विज्ञानम् अविज्ञानो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते नामरूपं बोधिसत्त्वो ऽन्यत्र नामरूपान् नामरूपे बोधिसत्त्वो बोधिसत्त्वे नामरूपम् अनामरूपो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते षडायतनं बोधिसत्त्वो ऽन्यत्र षडायतनात् षडायतने बोधिसत्त्वो बोधिसत्त्वे षडायतनम् अषडायतनो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते स्पर्शो बोधिसत्त्वो ऽन्यत्र स्पर्शात् स्पर्से बोधिसत्त्वो बोधिसत्त्वे स्पर्शो ऽस्पर्शो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते वेदना बोधिसत्त्वो ऽन्यत्र वेदनाया वेदनायां बोधिसत्त्वो बोधिसत्त्वे वेदनावेदनो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते तृष्णा बोधिसत्त्वो ऽन्यत्र तृष्णायाः तृष्णायां बोधिसत्त्वो बोधिसत्त्वे तृष्णातृष्णो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते उपादानं बोधिसत्त्वो ऽन्यत्र उपादानाद् उपादाने बोधिसत्त्वो बोधिसत्त्वे उपादानम् अनुपादानो बोधिसत्त्व इति,
SK
तत् किं मन्यसे सुभूते भवो बोधिसत्त्वो ऽन्यत्र भवाद् भवे बोधिसत्त्वो बोधिसत्त्वे भवो ऽभवो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते जातिर् बोधिसत्त्वो ऽन्यत्र जातेर् जातौ बोधिसत्त्वो बोधिसत्त्वे जातिर् अजातिर् बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते जरामरणं बोधिसत्त्वो ऽन्यत्र जरामरणाद् जरामरणे बोधिसत्त्वो बोधिसत्त्वे जरामरणम् अजरामरणो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
इति निरोधे ऽन्वयज्ञानक्षान्तिः
SK
भगवान् आह: तत् किं मन्यसे सुभूते ऽपि नु या रूपस्य तथता सा बोधिसत्त्वो ऽन्यत्र रूपतथताया रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूपतथता अरूपतथतो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते या वेदनातथता सा बोधिसत्त्वो ऽन्यत्र वेदनातथताया वेदनातथतायां बोधिसत्त्वो बोधिसत्त्वे वेदनातथता अवेदनातथतो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते या संज्ञातथता सा बोधिसत्त्वो ऽन्यत्र संज्ञातथतायाः संज्ञातथतायां बोधिसत्त्वो बोधिसत्त्वे संज्ञातथता असंज्ञातथतो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते या संस्कारतथता सा बोधिसत्त्वो ऽन्यत्र संस्कारतथतायाः संस्कारतथतायां बोधिसत्त्वो बोधिसत्त्वे संस्कारतथता असंस्कारतथतो बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते या विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानतथताया विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानतथता अविज्ञानतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते यदि व्यस्तेषु स्कन्धेषु न बोधिसत्त्वः समस्तेषु भवतु या स्कन्धतथता सा बोधिसत्त्वो ऽन्यत्र स्कन्धतथतायाः स्कन्धतथतायां बोधिसत्त्वो बोधिसत्त्वे स्कन्धतथता अस्कन्धतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते या चक्षूरूपचक्षुर्विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र चक्षूरूपचक्षुर्विज्ञानतथतायाश् चक्षूरूपचक्षुर्विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षूरूपचक्षुर्विज्ञानतथता अचक्षूरूपचक्षुर्विज्ञानतथतो बोधिसत्त्व इति?
SK
एवं श्रोत्रशब्दश्रोत्रविज्ञानतथता घ्राणगन्धघ्राणविज्ञानतथता जिह्वारसजिह्वाविज्ञानतथता कायस्प्रष्टव्यकायविज्ञनतथताया मनोधर्ममनोविज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र मनोधर्ममनोविज्ञानतथताया मनोधर्ममनोविज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे न्मनोधर्ममनोविज्ञानतथता अमनोधर्ममनोविज्ञानतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते या पृथिवीधातुतथता सा बोधिसत्त्वो ऽन्यत्र पृथिवीधातुतथतायाः पृथिवीधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे पृथिवीधातुतथता अपृथिवीधातुतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते या अब्धातुतथता सा बोधिसत्त्वो ऽन्यत्राब्धातुतथताया अब्धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे अब्धातुतथता अनब्धातुतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते या तेजोधातुतथता सा बोधिसत्त्वो ऽन्यत्र तेजोधातुतथतायाः तेजोधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे तेजोधातुतथता अतेजोधातुतथतो बोधिसत्त्व इति.
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते या वायुधातुतथता सा बोधिसत्त्वो ऽन्यत्र वायुधातुतथतायाः वायुधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे वायुधातुतथता अवायुधातुतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते या आकाशधातुतथता सा बोधिसत्त्वो ऽन्यत्र आकाशधातुतथताया आकाशधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे आकाशधातुतथता अनाकाशधातुतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह:
SK
तत् किं मन्यसे सुभूते या विज्ञानधातुतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानधातुतथताया विज्ञानधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानधातुतथता अन्विज्ञानधातुतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यदि व्यस्तेषु धातुषु न बोधिसत्त्वः समस्तेषु भवतु या धातुतथता सा बोधिसत्त्वो ऽन्यत्र धातुतथताया धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे धातुतथता अधातुतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते या चक्षुस्तथता सा बोधिसत्त्वो ऽन्यत्र चक्षुस्तथतायाश् चक्षुस्तथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षुस्तथता अचक्षुस्तथतो बोधिसत्त्व इति. एवं या श्रोत्रतथताघ्राणतथताजिह्वातथताकायतथता,
SK
तत् किं मन्यसे सुभूए या मनस्तथता सा बोधिसत्त्वो ऽन्यत्र मनस्तथताया मनस्तथतायां बोधिसत्त्वो बोधिसत्त्वे मनस्तथता अमनस्तथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते या रूपतथता सा बोधिसत्त्वो ऽन्यत्र रूपतथताया रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूपतथता अरूपतथतो बोधिसत्त्व इति? एवं याः शब्दगन्धरसस्प्रष्टव्यधर्मतथताः सा बोधिसत्त्वो ऽन्यत्र शब्दगन्धरसस्प्रष्टव्यधर्मतथताभ्यः शब्दगन्धरसस्प्रष्टव्यधर्मतथतासु बोधिसत्त्वो बोधिसत्त्वे शब्दगन्धरसस्प्रष्टव्यधर्मतथता अशब्दगन्धरसस्प्रष्टव्यधर्मतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: यदि सुभूते व्यस्तेष्व् आयतनेषु न बोधिसत्त्वः समस्तेषु भवतु या सुभूते आयतनतथता सा बोधिसत्त्वो ऽन्यत्रायतनतथताया आयतनतथतायां बोधिसत्त्वो बोधिसत्त्वे आयतनतथता (PSP१-१: १३८) अनायतनतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते या अविद्यातथता सा बोधिसत्त्वो ऽन्यत्राविद्यातथता या अविद्यातथताया अविद्यातथतायां बोधिसत्त्वो बोधिसत्त्वे अविद्यातथता अनविद्यातथतो बोधिसत्त्व इति?
SK
एवं या संस्कारतथता विज्ञानतथता नामरूपतथता षडायतनतथता स्पर्शतथता वेदनातथता तृष्णातथता उपादानतथता भवतथता जातितथता,
SK
तत् किं मन्यसे सुभूते या जरामरणतथता सा बोधिसत्त्वो ऽन्यत्र जरामरणतथताया जरामरणतथतायां बोधिसत्त्वो बोधिसत्त्वे जरामरणतथता अजरामरणतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते यदि व्यस्तेषु प्रतीत्यसमुत्पादाङ्गेषु न बोधिसत्त्वः समस्तेषु भवतु या प्रतीत्यसमुत्पादतथता सा बोधिसत्त्वो ऽन्यत्र प्रतीत्यसमुत्पादतथतायाः प्रतीत्यसमुत्पादतथतायां बोधिसत्त्वो बोधिसत्त्वे प्रतीत्यसमुत्पादतथता अप्रतीत्यसमुत्पादतथतो बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: किं पुनस् त्वं सुभूते ऽर्थवशम् उपादायैवं वदसि: न रूपं बोधिसत्त्व इति, न वेदना न संज्ञा न संस्कारा न विज्ञानं न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न रूपाणि न शब्दा न गन्धा न रसा न स्प्रष्टव्या न धर्माः, न चक्षुर् न श्रोत्रं न घ्राणं न जिह्वा नकायो न मनः, न चक्षूरूपचक्षुर्विज्ञानं न श्रोत्रशब्दश्रोत्रविज्ञानं न घ्राणगन्धघ्राणविज्ञानं न जिह्वारसजिह्वाविज्ञानं न कायस्प्रष्टव्यकायविज्ञानं न मनोधर्ममनोविज्ञानं, नाविद्या एवं न संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्व इति, यावन् न स्कन्धधात्वायतनप्रतीत्यसमुत्पादो बोधिसत्त्व इति, न रूपतथता बोधिसत्त्व इति, न वेदनातथता न संज्ञातथता न संस्कारतथता न (PSP१-१: १३९) विज्ञानतथता यावन् न पृथिवीधातुतथता नाब्धातुतथता न तेजोधातुतथता न वायुधातुतथतानाकाशधातुतथता न विज्ञानधातुतथता,
SK
न चक्षुस्तथता न श्रोत्रतथता न घ्राणतथता न जिह्वातथतान कायतथता न मनस्तथता,
SK
न रूपतथता न शब्दतथता न गन्धतथता न रसतथतान स्प्रष्टव्यतथता न धर्मतथता,
SK
न चक्षूरूपचक्षुर्विज्ञानतथता न श्रोत्रशब्दश्रोत्रविज्ञानतथता न घ्राणगन्धघ्राणविज्ञानतथता न जिह्वारसजिह्वाविज्ञानतथता न कायस्प्रष्टव्यकायविज्ञानतथता न मनोधर्ममनोविज्ञानतथता,
SK
नाविद्यातथता न संस्कारतथता न विज्ञानतथता न नामरूपतथता न षडायतनतथता न स्पर्शतथता न वेदनातथता न तृष्णातथता नोपादानतथता न भवतथता न जातितथता न जरामरणतथता यावन् न स्कन्धधात्वायतनतथता न प्रतीत्यसमुत्पादतथता बोधिसत्त्व इति. सुभूतिर् आह: अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो रूपं बोधिसत्त्वो भविष्यति, वेदना संज्ञा संस्कारा विज्ञानं बोधिसत्त्वो भविष्यति.
SK
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते. तत् कुतः पृथिवीधातु बोधिसत्त्वो भविष्यति, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् बोधिसत्त्वो भविष्यति.
SK
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो रूपं बोधिसत्त्वो भविष्यति, एवं शब्दो गन्धो रसः स्पर्शो धर्मो बोधिसत्त्वो भविष्यति, एवं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो बोधिसत्त्वो भविष्यति.
SK
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतश् चक्षूरूपचक्षुर्विज्ञानानि बोधिसत्त्वो भविष्यति, एवं श्रोत्रशब्दश्रोत्रविज्ञनानि घ्राणगन्धघ्राणविज्ञानानि जिह्वारसजिह्वाविज्ञानानि (PSP१-१: १४०) कायस्प्रष्टव्यकायविज्ञानानि, मनोधर्ममनोविज्ञानानि बोधिसत्त्वो भविष्यति.
SK
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्य्ते नोपलभ्यते, तत् कुतो ऽविद्या बोधिसत्त्वो भविष्यति. एवं संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्वो भविष्यति.
SK
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतः पुनर् अस्य रूपतथतोपलप्स्यते, वेदनातथता संज्ञातथता संस्कारतथता विज्ञानतथतोपलप्स्यते.
SK
अत्यन्ततय भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य पृथिवीधातुतथतोपलप्स्यते, एवम् अब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधातुतथतोपलप्स्यते.
SK
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य रूपतथतोपलप्स्यते, एवं शब्दगन्धरसस्प्रष्टव्यधर्मतथतोपलप्स्यते, एवं चक्षुस्तथता श्रोत्रतथता घ्राणतथता जिह्वातथता कायतथता मनस्तथतोपलप्स्यते, एवं चक्षूरूपचक्षुर्विज्ञानतथतोपलप्स्यते, एवं श्रोत्रशब्दश्रोत्रविज्ञानतथता घ्राणगन्धघ्राणविज्ञानतथता जिह्वारसजिह्वाविज्ञानतथता कायस्प्रष्टव्यकायविज्ञानतथता मनोधर्ममनोविज्ञानतथतोपलप्स्यते.
SK
अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्याविद्यातथतोपलप्स्यते, एवं संस्कारतथता विज्ञानतथता नामरूपतथता षडायतनतथता स्पर्शतथता वेदनातथता तृष्णातथता उपादानतथता भवतथता जातितथता जरामरणतथतोपलप्स्यते.
SK
एवम् एकैकशः स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यस्तसमस्तेष्व् अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथतोपलप्स्यते, नैतत् स्थानं विद्यते.
SK
भगवान् आह: साधु साधु सुभूते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सत्त्वानुपलब्ध्या प्रज्ञापारमितानुपलब्धौ शिक्षितव्यम्.
SK
इति निरोधे ऽन्वयज्ञानम्
SK
भगवान् आह: तत् किं मन्यसे सुभूते रूपस्यैतद् अधिवचनं बोधिसत्त्व इति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यैतद् अधिवचनं बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते रूपनित्यताया रूपानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, रूपसुखताया रूपदुःखताया रूपात्मताया रूपानात्मताया रूपशान्तताया रूपाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते वेदनानित्यताया वेदनानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, वेदनासुखताया वेदनादुःखताया वेदनात्मताया वेदनानात्मताया वेदनाशान्तताया वेदनाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते संज्ञानित्यताया संज्ञानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, संज्ञासुखताया संज्ञादुःखताया संज्ञात्मताया संज्ञानात्मताया संज्ञाशान्तताया संज्ञाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते संस्कारनित्यताया संस्कारानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, संस्कारसुखतायाः संस्कारदुःखतायाः संस्कारात्मतायाः संस्कारानात्मतायाः संस्कारशान्ततायाः संस्काराशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते विज्ञाननित्यताया विज्ञानानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, विज्ञानसुखताया विज्ञानदुःखताया विज्ञानात्मताया विज्ञाननात्मताया विज्ञानशान्तताया विज्ञानाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति?
SK
तत् किं मन्यसे सुभूते रूपशून्यताया रूपाशून्यताया रूपनिमित्तताया रूपानिमित्तताया रूपप्रणिहितताया रूपाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति? एवं वेदना संज्ञा संस्काराः,
SK
तत् किं मन्यसे सुभूते विज्ञानशून्यताया विज्ञानाशून्यताया विज्ञाननिमित्तताया (PSP१-१: १४२) विज्ञानानिमित्तताया विज्ञानप्रणिहितताया विज्ञानाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: किं पुनस् त्वं सुभूते ऽर्थवशं प्रतीत्य एवं वदसि: न रूपस्य नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न रूपस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
SK
न वेदनाया नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न वेदनायाः प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
SK
न संज्ञाया नित्यताधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संज्ञायाः प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति,
SK
न संस्कारानां नित्यताधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संस्कारानां प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं (PSP१-१: १४३) बोधिसत्त्व इति,
SK
न विज्ञानस्य नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न विज्ञानस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति.
SK
सुभूतिर् आह: अत्यन्ततया भगवन् रूपं न विद्यते नोपलभ्यते, कुतो रूपाधिवचनं बोधिसत्त्वो भविष्यति,
SK
अत्यन्तया भगवन् वेदना न विद्यते नोपलभ्यते, कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति,
SK
अत्यन्ततया भगवन् संज्ञा न विद्यते नोपलभ्यते, कुतः संज्ञाधिवचनं बोधिसत्त्वो भविष्यति,
SK
अत्यन्ततया भगवन् संस्कारा न विद्यन्ते नोपलभ्यन्ते, कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति,
SK
अत्यन्ततया भगवन् विज्ञानं न विद्यते नोपलभ्यते, कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति.
SK
अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते, कुतो रूपनित्यताधिवचनं बोधिसत्त्वो भविष्यति,
SK
अत्यन्ततया भगवन्न् अनित्यं न विद्यते नोपलभ्यते, कुतो रूपानित्यताधिवचनं बोधिसत्त्वो भविष्यति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति, एवं वेदना संज्ञा संस्काराः,
SK
अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते, कुतो विज्ञाननित्यताधिवचनं बोधिसत्त्वो भविष्यति,
SK
अत्यन्ततया भगवन्न् अनित्यं न विद्यते नोपलभ्यते, कुतो विज्ञानानित्यताधिवचनं बोधिसत्त्वो भविष्यति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं (PSP१-१: १४४) नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति.
SK
भगवान् आह: साधु साधु सुभूते, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपाधिवचनम् अनुपलभमानेन वेदनाधिवचनम् अनुपलभमानेन संज्ञाधिवचनम् अनुपलभमानेन संस्काराधिवचनम् अनुपलभमानेन विज्ञानाधिवचनम् अनुपलभमानेन.
SK
रूपस्य नित्यानित्याधिवचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मनानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन,
SK
वेदनाया नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन,
SK
संज्ञाया नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मनानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन,
SK
संस्काराणां नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन,
SK
विज्ञानस्य नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मानात्माधिवचनम् अनुपलभमानेन (PSP१-१: १४५) शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
इति मार्गे धर्मज्ञानक्षान्तिः
SK
यद् अपि सुभूते एवं वदसि, नाहं तं धर्मं समनुपश्यामि यद् उत बोधिसत्त्व इति, न हि सुभूते धर्मो धर्मधातुं समनुपश्यति, नापि धर्मधातुर् धर्मं समनुपश्यति.
SK
इति मार्गे धर्मज्ञानम्
SK
न सुभूते रूपधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातू रूपधातुं समनुपश्यति,
SK
न सुभूते वेदनाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् वेदनाधातुं समनुपश्यति,
SK
न सुभूते संज्ञाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् संज्ञाधातुं समनुपश्यति,
SK
न सुभूते संस्कारधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् संस्कारधातुं समनुपश्यति,
SK
न सुभूते विज्ञानधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् विज्ञानधातुं समनुपश्यति,
SK
न चक्षुर्धातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुश् चक्षुर्धातुं समनुपश्यति,
SK
न श्रोत्रधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुः श्रोत्रधातुं समनुपश्यति,
SK
न घ्राणधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् घ्राणधातुं समनुपश्यति,
SK
न जिह्वाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् जिह्वाधातुं समनुपश्यति,
SK
न कायधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् कायधातुं समनुपश्यति,
SK
न मनोधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् (PSP१-१: १४६) मनोधातुं समनुपश्यति.
SK
इति मर्गे ऽन्वयज्ञानक्षान्तिः
SK
न सुभूते संस्कृतधातुर् असंस्कृतधातुं समनुपश्यति, नाप्य् असंस्कृतधातुः संस्कृतधातुं समनुपश्यति.
SK
इति मार्गे ऽन्वयज्ञानम्
SK
इति दर्शनमार्गाववादः
SK
न च सुभूते संस्कृतव्यतिरेकेणासंस्कृतं शक्यं प्रज्ञपयितुं, नाप्य् असंस्कृतव्यतिरेकेण संस्कृतं शक्यं प्रज्ञपयितुम्.
SK
एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मं समनुपश्यति, असमनुपश्यन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, न चास्य क्वचिद् धर्मचित्तम् अवलीयते, न विप्रतिसारी भवति मानसम्. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति, वेदनां न समनुपश्यति, संज्ञां न समनुपश्यति, संस्कारान् न समनुपश्यति, विज्ञानं न समनुपश्यति.
SK
चक्षुर् न समनुपश्यति, श्रोत्रं न समनुपश्यति, घ्राणं न समनुपश्यति, जिह्वां न समनुपश्यति, कायं न समनुपश्यति, मनो न समनुपश्यति.
SK
रूपाणि न समनुपश्यति, शब्दान् न समनुपश्यति, गन्धान् न समनुपश्यति, रसान् न समनुपश्यति, स्प्रष्टव्यान् न समनुपश्यति, धर्मान् न समनुपश्यति.
SK
पृथिवीधातुम् अब्धातुं तेजोधातुं वायुधातुम् आकाशधातुं विज्ञानधातुं न समनुपश्यति.
SK
अविद्यां न समनुपश्यति, संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् न समनुपश्यति.
SK
रागं न समनुपश्यति, द्वेषं न समनुपश्यति, मोहं न समनुपश्यति.
SK
आत्मानं न समनुपश्यति, सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजनकपश्यकान् न समनुपश्यति.
SK
कामधातुं न समनुपश्यति, रूपधातुं न समनुपश्यति, आरूप्यधातुं न समनुपश्यति, आकाशधातुं न समनुपश्यति. (PSP१-१: १४७) श्रावकं न समनुपश्यति, प्रत्येकबुद्धं न समनुपश्यति, बोधिसत्त्वं न समनुपश्यति, श्रावकधर्मान् न समनुपश्यति, प्रत्येकबुद्धधर्मान् न समनुपश्यति, बोधिसत्त्वधर्मान् न समनुपश्यति, बुद्धं न समनुपश्यति, बुद्धधर्मान् न समनुपश्यति, बोधिं न समनुपश्यति, यावत् सर्वधर्मान् न समनुपश्यति, सर्वधर्मान् असमनुपश्यन्, नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
SK
सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते?
SK
भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वश् चित्तचैतसिकान् धर्मान् नोपलभते न समनुपश्यति. एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य नोत्त्रस्यति मानसम्?
SK
भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वो मनश् च मनोधातुं च नोपलभते न समनुपस्यति, एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य नोत्त्रस्यति मानसम्. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्मान् उपलब्ध्य प्रज्ञापारमितायां चरितव्यम्.
SK
सचेत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तां प्रज्ञापारमितां नोपलभते न समनुपश्यति, तञ् च बोधिसत्त्वं, तच् च बोधिसत्त्वनाम, तच् च बोधिचित्तं नोपलभते न समनुपश्यति, एष एव बोधिसत्त्वस्य महासत्त्वस्याववादः प्रज्ञापारमितायाम् एषैवानुशासं.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: रूपं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, संज्ञां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्नापारमितायां शिक्षितव्यम्, संस्कारान् परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, विज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन (PSP१-१: १४८) महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
चक्षुः परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, श्रोत्रं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, घ्राणं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, जिह्वां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, कायं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, मनः परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
रूपं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, शब्दं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, गन्धं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, रसं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, स्पर्शं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, धर्मं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
चक्षुर्विज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, श्रोत्रविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, घ्राणविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, जिह्वाविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, कायविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, मनोविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
चक्षुःसंस्पर्शं चक्षुःसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, श्रोत्रसंस्पर्शं श्रोत्रसंस्पर्शजां वेदनां, घ्राणसंस्पर्शं घ्राणसंस्पर्शजां वेदनां, जिह्वासंस्पर्शं जिह्वासंस्पर्शजां वेदनां, कायसंस्पर्शं कायसंस्पर्शजां वेदनां, मनःसंस्पर्शं मनःसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन (PSP१-१: १४९) महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
रागद्वेषमोहान् प्रहातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां शिक्षितव्यम्, एवं सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां कामरागं व्यापादं रूपरागम् आरूप्यरागं संयोजनानुशयपर्युत्थानानि प्रहातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां शिक्षितव्यम्.
SK
पुनर् अपरं चतुरो योगान् ओघान् ग्रन्थान् उपादानानि चतुरो विपर्यासान् प्रहातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां शिक्षितव्यम्.
SK
दशाकुशलान् कर्मपथान् प्रहातुकामेन, दशकुशलान् कर्मपथान् परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुर् ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्यष्टाङ्गमार्गं चतस्रः प्रतिसंविदश् चत्वारि वैशारद्यानि षड् अभिज्ञा दश तथागतबलानि अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयितुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
बोध्यङ्गं नाम समाधिं प्रतिलब्धुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
सिंहविक्रीडितं समाधिं, सिंहविजृम्भितं समाधिं, सर्वधारणीमुखं समाधिं, शूरङ्गमं समाधिं, रत्नमुद्रं समाधिं, चन्द्रप्रभं समाधिं, चन्द्रध्वजकेतुं समाधिं, सर्वधर्ममुद्रागतं समाधिं, अवलोकितमुद्रं समाधिं, धर्मधातुनियतं समाधिं, नियतध्वजकेतुं समाधिं, वज्रोपमं समाधिं, सर्वधर्मप्रवेशमुखं समाधिं, समाधिराजं समाधिं, गगनगञ्जमुद्रं समाधिं, बलविशुद्धं समाधिं, समुद्गतं समाधिं, सर्वधर्मनिरुक्तिनियतप्रवेशं समाधिं, सर्वधर्मज्ञानमुद्राप्रवेशं समाधिं, सर्वधर्ममुद्राधारणीमुखं समाधिं, सर्वधर्मासंप्रमोषं समाधिं, सर्वधर्मसमवसरणाकारमुद्रं (PSP१-१: १५०) समाधिं, आकाशावस्थितं समाधिं, त्रिमण्डलपरिशुद्धिं समाधिं, अच्युतानुगामिन्यभिज्ञां समाधिं, पात्रगतं समाधिं, ध्वजाग्रकेयूरं समाधिं, सर्वक्लेशनिर्दहनं समाधिं, चतुर्मारबलविकरणं समाधिं, ज्ञानोल्कां समाधिं, दशबलोद्गतं समाधिं, आकाशासंगनिरुक्तिनिरूपलेपं नाम समाधिं, एतानि चान्यानि च समाधिमुखानि प्रतिलब्धुकामेअ न भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अभिप्रायं परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वकुशलमूलानि परिपूरयितुकामेन यैः कुशलमूलैः परिपूर्णैर् नापायेषूपपद्यते, न हीनकुलेषूपपद्यते, न च श्रावकभूमिं वा न च प्रत्येकबुद्धभूमिं वा पतति, न च बोधिसत्त्वमूर्धामं वा पतति प्रज्ञापारमितायां शिक्षितव्यम्.
SK
शारिपुत्र आह: कथं चायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो मूर्धामं पतति?
SK
सुभूतिर् आह: यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽनुपायकुशलः षट्सु पारमितासु चरन्न् उपायकौशलम् अजानन् शून्यतानिमित्ताप्रणिहितान् समाधीन् आगम्य नैव श्रावकभूमिं नैव प्रत्येकबुद्धभूमिं वा पतति नैव बोधिसत्त्वन्यामम् अवक्रामति, अयम् उच्यते बोधिसत्त्वमूर्धामः.
SK
शारिपुत्र आह: केन कारणेन आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्यायम् आमः?
SK
सुभूतिर् आह: आम इत्य् आयुष्मन् शारिपुत्र उच्यते बोधिसत्त्वस्य महासत्त्वस्य धर्मतृष्णा.
SK
इति भावनामार्गाववादः
SK
इत्य् उक्तो ऽववादः
SK
शारिपुत्र आह: कतमा आयुष्मन् सुभूते धर्मतृष्णा?
SK
सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अनित्यम् इति नाभिनिविशते नाधितिष्ठति न (PSP१-१: १५१) संजानीते, दुःखं शून्यम् अनात्मकम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, रूपं शून्यम् इत्य् अप्रणिहितम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, वेदनां संज्ञां संस्कारान्, विज्ञानम् अनित्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, दुःखं शून्यम् अनात्मकम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, विज्ञानं शून्यम् इत्य् अप्रणिहितम् इति नाभिनिविशते नाधितिष्ठति न संजानीते. इयम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य आनुलोमिकी धर्मतृष्णा आमः.
SK
इति दुःखसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः
SK
एवं रूपं प्रहातव्यम् अनेन रूपं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, एवं वेदना प्रहातव्या अनेन वेदना प्रहातव्येति, एवं संज्ञा प्रहातव्या अनेन संज्ञा प्रहातव्येति, एवं संस्काराः प्रहातव्या अनेन संस्काराः प्रहातव्या इति, एवं विज्ञानं प्रहातव्यम् अनेन विज्ञानं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, एवं दुःखं परिज्ञेयम् अनेन दुःखं परिज्ञेयम् इति, एवं समुदयः प्रहातव्यो ऽनेन समुदयः प्रहातव्य इति नाभिनिविशते नाधितिष्ठति न संजानीते.
SK
इति समुदयसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः
SK
एवं निरोधः साक्षात्कर्तव्यो ऽनेन निरोधः साक्षात्कर्तव्य इति, एवं मार्गो भावयितव्यो ऽनेन मार्गो भावयितव्य इति, अयं संक्लेश इदं व्यवदानम् इति, इमे धर्माः सेवितव्या इमे धर्मा न सेवितव्या इति, इह चरितव्यम् इह न चरितव्यम्, अयं मार्गो भावयितव्यो ऽयं न भावयितव्यः, इयं बोधिसत्त्वस्य शिक्षा इयम् अशिक्षा, इयं बोधिसत्त्वस्य दानपारमिता, इयं बोधिसत्त्वस्य शीलपारमिता, इयं बोधिसत्त्वस्य क्षान्तिपारमिता, इयं बोधिसत्त्वस्य वीर्यपारमिता, इयं बोधिसत्त्वस्य ध्यानपारमिता, इयं बोधिसत्त्वस्य प्रज्ञापारमिता, इयं बोधिसत्त्वस्य न दानपारमिता, इयं बोधिसत्त्वस्य न शीलपारमिता, इयं बोधिसत्त्वस्य न क्षान्तिपारमिता, इयं बोधिसत्त्वस्य न वीर्यपारमिता, इयं बोधिसत्त्वस्य न ध्यानपारमिता, इयं बोधिसत्त्वस्यन प्रज्ञापारमिता, इदं बोधिसत्त्वस्योपायकौशलम् इदम् अनुपायकौशलम् इति नाभिनिविशते नाधितिष्ठति न संजानीते. अयं बोधिसत्त्वस्य मूर्धामः.
SK
सचेद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् एवं नाभिनिविशते नाधितिष्ठति न संजानीते ऽयं बोधिसत्त्वस्यानुलोमिकी धर्मतृष्णा आमः.
SK
शारिपुत्र आह: कतमः पुनर् आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य न्यामः?
SK
सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नाध्यात्मशून्यतया बहिर्धाशून्यतां समनुपश्यति, न बहिर्धाशून्यतया अध्यात्मशून्यतां समनुपश्यति, न बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतां समनुपश्यति, नाध्यात्मबहिर्धाशून्यतया बहिर्धाशून्यतां समनुपश्यति, नाध्यात्मबहिर्धाशून्यतया शून्यताशून्यतां समनुपश्यति, न शून्यताशून्यतया अध्यात्मबहिर्धाशून्यतां समनुपश्यति, न शून्यताशून्यतया महाशून्यतां समनुपश्यति, न महाशून्यतया शून्यताशून्यतां समनुपश्यति, न महाशून्यतया परमार्थशून्यतां समनुपश्यति, न परमार्थशून्यतया महाशून्यतां समनुपश्यति, न परमार्थशून्यतया संस्कृतशून्यतां समनुपश्यति, न संस्कृतशून्यतया परमार्थशून्यतां समनुपश्यति, न संस्कृतशून्यतया असंस्कृतशून्यतां समनुपश्यति, नासंस्कृतशून्यतया संस्कृतशून्यतां समनुपश्यति, नासंस्कृतशून्यतया अत्यन्तशून्यतां समनुपश्यति, नात्यन्तशून्यतया असंस्कृतशून्यतां समनुपश्यति, नात्यन्तशून्यतया अनवराग्रशून्यतांसमनुपश्यति, नानवराग्रशून्यतया अत्यन्तशून्यतां समनुपश्यति, नानवराग्रशून्यतया अनवकारशून्यतां समनुपश्यति, नानवकारशून्यतया अनवराग्रशून्यतां समनुपश्यति, नानवकारशून्यतया प्रकृतिशून्यतां समनुपश्यति, न प्रकृतिशून्यतया अनवकारशून्यतां समनुपश्यति, न प्रकृतिशून्यतया सर्वधर्मशून्यतां समनुपश्यति, न सर्वधर्मशून्यतया प्रकृतिशून्यतां समनुपश्यति, न सर्वधर्मशून्यतया स्वलक्षणशून्यतां समनुपश्यति, न स्वलक्षणशून्यतया सर्वधर्मशून्यतां समनुपश्यति, न स्वलक्षणशून्यतया अनुपलम्भशून्यतां समनुपश्यति, नानुपलम्भशून्यतया स्वलक्षणशून्यतां समनुपश्यति, नानुपलम्भशून्यतया अभावस्वभावशून्यतां समनुपश्यति, नाभावस्वभावशून्यतया अनुपलम्भशून्यतां (PSP१-१: १५३) समनुपश्यति, नाभावस्वभावशून्यतया भावशून्यतां समनुपश्यति, न भावशून्यतया अभावस्वभावशून्यतां समनुपश्यति, न भावशून्यतया अभावशून्यतां समनुपश्यति, नाभावशून्यतया भावशून्यतां समनुपश्यति, नाभावशून्यतया स्वभावशून्यतां समनुपश्यति, न स्वभावशून्यतया अभावशून्यतां समनुपश्यति, न स्वभावशून्यतया परभावशून्यतां समनुपश्यति, न परभावशून्यतया स्वभावशून्यतां समनुपश्यति.
SK
अयं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वन्यामः
SK
इति निरोधसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं शिक्षितव्यम्. यथा शिक्षमाणेन रूपं ज्ञातव्यं न च तेन मन्तव्यं, वेदना संज्ञा संस्कारा विज्ञानं ज्ञातव्यं न च तेन मन्तव्यं, चक्षुर् ज्ञातव्यम् एवं श्रोत्रं घ्राणं जिह्वा कायो मनोज्ञातव्यं न च तेन मन्तव्यं, शब्दगन्धरसस्प्रष्टव्यधर्मा ज्ञातव्या न च तैर् मन्तव्यं, दानपारमिता ज्ञातव्या शीलपारमिता ज्ञातव्या क्षान्तिपारमिता ज्ञातव्या वीर्यपारमिता ज्ञातव्या ध्यानपारमिता ज्ञातव्या प्रज्ञापारमिता ज्ञातव्या न च ताभिर् मन्तव्यं, एवं पञ्चाभिज्ञाः पञ्च चक्षूंषि चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा भावयितव्या न च तैर् मन्तव्यं, चत्वारि वैशारद्यानि दशतथागतबलानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा ज्ञातव्या न च तैर् मन्तव्यम्.
SK
एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बोधिचित्तं नाम ज्ञातव्यम् असमचित्तं नामोदारचित्तं नाम ज्ञातव्यं न च तेन मन्तव्यम्. तत् कस्य हेतोः? तथा तच् चित्तम् अचित्तं प्रकृतिश् चित्तस्य प्रभास्वरा.
SK
शारिपुत्र आह: का पुनर् आयुष्मन् सुभूते चित्तस्य प्रभास्वरता?
SK
सुभूतिर् आह: यद् आयुष्मन् शारिपुत्र चित्तं न रागेण संयुक्तं न विसंयुक्तं, न द्वेषेण मोहेन संयुक्तं न विसंयुक्तं, न पर्युत्थानैः संयुक्तं न विसंयुक्तं, नावरणैः संयुक्तं न (PSP१-१: १५४) विसंयुक्तं, नानुशयैः संयुक्तं न विसंयुक्तं, न संयोजनैः संयुक्तं न विसंयुक्तं, न दृष्टिकृतैः संयुक्तं न विसंयुक्तं, न श्रावकप्रत्येकबुद्धचित्तैः संयुक्तं न विसंयुक्तम्. इयं शारिपुत्र चित्तस्य प्रभास्वरता.
SK
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते अस्ति तच् चित्तं यच् चित्तम् अचित्तम्?
SK
सुभूतिर् आह: किं पुनर् आयुष्मन् शारिपुत्र या अचित्तता तत्रास्तिता वा नास्तिता वा विद्यते वा उपलभ्यते वा?
SK
शारिपुत्र आह: न खल्व् आयुष्मन् सुभूते.
SK
सुभूतिर् आह: सचेद् आयुष्मन् शारिपुत्र तत्राचित्ततायाम् अस्तिता वा नास्तिता वा न विद्यते वा नोपलभ्यते वा, अपि नु ते युक्त एष पर्यनुयोगः, यद् आयुष्मन् शारिपुत्र एवम् आह, अस्ति तच् चित्तं यच् चित्तम् अचित्तम् इति.
SK
शारिपुत्र आह: का पुनर् एषा आयुष्मन् सुभूते अचित्तता?
SK
सुभूतिर् आह: अविकारा आयुष्मन् शारिपुत्र अविकल्पा अचित्तता या सर्वधर्माणां धर्मता, इयम् उच्यते अचित्तता.
SK
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते यथैव तच् चित्तम् अविकारम् अविकल्पं तथैव रूपम् अप्य् अविकारम् अविकल्पं, वेदनाप्य् अविकारा अविकल्पा संज्ञाप्य् अविकारा अविकल्पा संस्कारा अप्य् अविकारा अविकल्पा विज्ञानम् अप्य् अविकारम् अविकल्पं, एवम् एव चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुर् अविकारो ऽविकल्पः, श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर् अविकारो ऽविकल्पः, घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् अविकारो ऽविकल्पः, जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् अविकारो ऽविकल्पः, कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् अविकारो ऽविकल्पः, मनोधातुर् धर्मधातुर् मनोविज्ञानधातुर् अविकारो ऽविकल्पः. एवम् आयतनानि प्रतीत्यसमुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गवैशारद्यप्रतिसंविद्बलावेणिका बुद्धधर्मा यावद् अनुत्तरा सम्यक्संबोधिर् अविकारा अविकल्पा.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यथैव चित्तम् अविकारम् (PSP१-१: १५५) अविकल्पं तथैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताभिज्ञाबोधिपक्ष्या धर्मा दशतथागतबलवैशारद्याष्टादशावेणिकबुद्धधर्मा यावद् अनुत्तरा सम्यक्संबोधिः.
SK
शारिपुत्र आह: साधु साधु आयुष्मन् सुभूते तद्यथापि नाम भगवतः पुत्र औरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो नामिषदायादः प्रत्यक्षचक्षुधर्मेषु कायसाक्षी यथापि नामाग्रारो ऽरणाविहारिणां भगवता अग्रतायां निर्दिष्टस्यायम् उपदेशः.
SK
एवम् आयुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, अतश् च बोधिसत्त्वो महसत्त्वो ऽविनिवर्तनीय उपपरीक्षितव्यो ऽविरहितश् च प्रज्ञापारमितया वेदितव्यः.
SK
इति मार्गसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः
SK
श्रावकभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या.
SK
प्रत्येकबुद्धभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या.
SK
बोधिसत्त्वभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या.
SK
बुद्धभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या.
SK
तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि यत्र बोधिसत्त्वैर् महासत्त्वैः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा बोधिसत्त्वभूमौ वा शिक्षितव्यम्.
SK
इति सर्वेषां हेतुत्वविशेषः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो ऽहं भगवन् न बोधिसत्त्वं न प्रज्ञापारमितां विन्दामि नोपलभे न (PSP१-१: १५६) समनुपश्यामि. तत् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि? एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं वस्तु न विन्दामि नोपलभे न समनुपश्यामि सो ऽहं भगवन् वस्त्व् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् कतमेन धर्मेण कतमं धर्मम् अववदिष्याम्य् अनुशासिष्यामि? एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं सर्वध्हर्मान् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् नामधेयमात्रेणायव्ययं कुर्यां बोधिसत्त्व इति वा प्रज्ञापारमितेति वा.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्, रूपस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, वेदनाया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, संज्ञाया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, संस्काराणाम् अहं भगवन्न् आयञ् च व्ययञ् चनोपलभे न समनुपश्यामि, विज्ञानस्याहं भगवन्न् आयञ् च व्ययञ्च नोपलभे न समनुपश्यामि, सो ऽहं भगवन् रूपादीनाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति?
SK
अनेन भगवन् पर्यायेण तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्.
SK
चक्षुषो ऽहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, श्रोत्रस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, घ्राणस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, जिह्वाया अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, कायस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, मनसो ऽहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे.
SK
अपि तु खलु पुनर् भगवन् यद् अपि तद् रूपं नाम वेदना नाम संज्ञा नाम संस्कारा नाम विज्ञानं नाम चक्षुः श्रोत्रं घ्राणं (PSP१-१: १५७) जिह्वा कायो मन इति नाम, एतानि नामधेयानि न स्थितानि नास्थितानि न विष्टितानि नाविष्टितानि. तत् कस्य हेतोः? अविद्यमानत्वेन तेषां नामधेयानां, एवं तानि नामधेयानि न स्थितानि नास्थितानि न विष्टितानि नाविष्टितानि, रूपस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे. एवं शब्दगन्धरसस्प्रष्टव्यधर्माणाम् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, सो ऽहं भगवन् रूपशब्दगन्धरसस्प्रष्टव्यधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, चक्षुर्विज्ञानस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, एवं श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, सो ऽहं भगवंश् चक्षुर्विज्ञानस्य श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन्न् अनुपलम्भमानः कस्य नामधेयं करिष्यामि बोधिसत्त्व इति.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, चक्षुःसंस्पर्शस्याहं भगवन् यावच् चक्षुःसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, श्रोत्रसंस्पर्शस्याहं भगवन् यावच् छ्रोत्रसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, घ्राणसंस्पर्शस्याहं भगवन् यावद् घ्राणसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, जिह्वासंस्पर्शस्याहं भगवन् यावद् जिह्वासंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, कायसंस्पर्शस्याहं भगवन् यावत् कायसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, मनःसंस्पर्शस्याहं भगवन् यावन् मनःसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, (PSP१-१: १५८) पृथिवीधातोर् एवम् अब्धातोस् तेजोधातोर् वायुधातोर् आकाशधातोर् विज्ञानधातोर् आयञ् च व्ययञ् च न सनुपश्यामि नोपलभे. एवम् अविद्या यावज् जरामरणस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, एवम् अविद्यानिरोधस्य यावज् जरामरणनिरोधस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, स्कन्धधात्वायतनप्रतीत्यसमुत्पादानाम् अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, रागद्वेषमोहानाम् अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, पर्युत्थानावरणानुशयसंयोजनदृष्टिकृतानाम् अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे.
SK
दानपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, शीलपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, क्षान्तिपारमिताया अहं भगवन्न् आयञ् चव्ययञ् च नोपलभे न समनुपश्यामि, वीर्यपारमिताया अहं भगवन्नायञ् च व्ययञ् च नोपलभे न समनुपश्यामि, ध्यानपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, प्रज्ञापारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
SK
आत्मनो ऽहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
SK
स्मृत्युपस्हानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं सम्यक्प्रहाणर्द्धिपादेनद्रियबलबोध्यङ्गमार्गस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, शून्यताया आनिमित्तस्याप्रणिहितस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, बुद्धानुस्मृतेर् धर्मानुस्मृतेः संघानुस्मृतेः शीलानुस्मृतेस् त्यागानुस्मृतेर् देवतानुस्मृतेर् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, आनापानानुस्मृतेर् मरणानुस्मृतेर् आयञ् च (PSP१-१: १५९) व्ययञ् च नोपलभे न समनुपश्यामि, पञ्चानां चक्षुषाम् अभिज्ञानां वैशारद्यानां दशानां तथागतबलानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, अष्टादशानाम् आवेणिकानाम् अहं भगवन् बुद्धधर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्.
SK
स्वप्नोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं मायोपमानां प्रतिश्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिम्बोपामानां मरीच्युपमानां उदकचन्द्रोपमानां निर्मितकोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. एवं विविक्तस्य शान्तस्यानुत्पादस्यानिरोधस्यासंक्लेशस्याव्यवदानस्य अहं भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. एवं धर्मधातोस् तथताया भूतकोटेर् धर्मस्थितिताया धर्मनियामताया अहं भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
SK
एवं कुशलानाम् अकुशलानां सावद्यानाम् अनवद्यानां सास्रवाणाम् अनास्रवाणां संक्लेशानां निःक्लेशानां लौकिकानां लोकोत्तराणां संस्कृतानाम् असंस्कृतानां संक्लेशानां व्यवदानानां संसारिकाणां नैर्वाणिकानाम् अहं भगवन् धर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि.
SK
अतीतानागतप्रत्युत्पन्नानां धर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, भगवतो ऽप्य् अहं भगवन् आयञ् च व्ययञ् चनोपलभे न समनुपश्यामि.
SK
पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धनां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् (PSP१-१: १६०) अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पश्चिमस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषुलोकधातुषु, दक्षिणपश्चिमस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, अधो दिशि गङ्गानदीवालुकोपमेषुलोकधातुषु, तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवंस् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामायञ् च व्ययञ् च नोपलंभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, सर्वधर्मतथताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवन् सर्वधर्मतथतायाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्.
SK
इति मध्योष्मगतस्यालम्बनाकारविशेषः
SK
यापीयं भगवन् धर्मसांकेतिकी धर्मप्रज्ञप्तिर् यद् उत बोधिसत्त्व इति, सा न केनचिद् वचनीया स्कन्धेन वा धातुना वा आयतनेन वा यावद् आवेणिकेन वा बुद्धधर्मेण, यावद् एवैषा धर्मप्रज्ञप्तिः, तद्यथापि नाम भगवन् स्वप्नो न केनचिद् वचनीयः प्रतिश्रुत्को प्रतिभासः प्रतिबिम्बं निर्मितकं न केनचिद् वचनीयं, तद्यथापि नाम भगवन् पृथिव्याप्तेजोवाय्वाकाशं नाम न केनचिद् (PSP१-१: १६१) वचनीयम्, तद्यथापि नाम भगवन् शीलम् इति समाधिर् इति प्रज्ञेति विमुक्तिर् इति विमुक्तिज्ञा अनदर्शनम् इति नाम न केनचिद् वचनीयं, स्रोतआपन्न इति नाम न केनचिद् वचनीयं, सकृदागामीति, अनागामीति, अर्हन्न् इति, प्रत्येकबुद्ध इति, यावद् बोधिसत्त्वधर्म इति तथागत इति बुद्ध इति तथतेति बुद्धधर्म इति नाम न केनचिद् वचनीयं, कुशलेन वा अकुशलेन वा सावद्येन वा अनवद्येन वा सुखेन वा दुःखेनवा आत्मना वा अनात्मना वा शान्तेन वा अशान्तेन वा विविक्तेन वा अविविक्तेनवा निमित्तेन वा अनिमित्तेन वा भावेन वा अभावेन वा इमम् अप्य् अहं भगवन् अर्थवशं प्रतीत्य एवं वदामि एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं सर्वधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् नामधेयमात्रेणायञ् च व्ययञ् च कुर्यां बोधिसत्त्व इति.
SK
अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्, तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, सचेद् भगवन्न् एवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां भाष्यमाणायां चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति, मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नियतं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तणीयायां बोधिसत्त्वभूमौ स्थितो वेदितव्यः सुस्थितो ऽस्थानयोगेन.
SK
इति अधिमात्रोष्मगतस्यालम्बनाकारविशेषः
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यं तेन न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यं, तेन न रूपे स्थातव्यं न शब्दे न गन्धे न रसे न स्प्रष्टव्ये न धर्मे स्थातव्यं, तेन न चक्षुर्विज्ञाने स्थातव्यन् न श्रोत्रविज्ञाने न घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यं, तेन न चक्षुःसंस्पर्शे स्थातव्यन् न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न श्रोत्रसंस्पर्शे न श्रोत्रसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न घ्राणसंस्पर्शे (PSP१-१: १६२) न घ्राणसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न जिह्वासंस्पर्शे न जिह्वासंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न कायसंस्पर्शे न कायसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न मनःसंस्पर्शे न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्. न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यं, तेन नाविद्यायां स्थातव्यं न संस्कारेषुन विज्ञाने न नामरूपे न षडायतने न स्पर्से न वेदनायां न तृष्णायां नोपादाने न भवे न जातौ न जरामरणशोकपरिदेवदुःखदौमनस्योपयासेषु स्थातव्यम्.
SK
तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपत्वेन शून्यं, वेदनावेदनात्वेन शून्या, संज्ञा संज्ञात्वेन शून्या, संस्काराः संस्कारत्वेन शून्याः, विज्ञानं विज्ञानत्वेन शून्यं, या च भगवन् रूपस्य शून्यता न तद् रूपं, न चान्यत्र शून्यताया रूपं, रूपम् एव शून्यताशून्यतैव रूपं, या च भगवन् वेदनायाः शून्यता न सा वेदना, न चान्यत्र शून्यताया वेदना, वेदनैव शून्यता शून्यतैव वेदना, या च भगवन् संज्ञायाः शून्यता न सा संज्ञा, न चान्यत्र शून्यतायाः संज्ञा, संज्ञैव शून्यता शून्यतैव संज्ञा, या च भगवन् संस्काराणां शून्यता न ते संस्काराः, न चान्यत्र शून्यतायाः संस्काराः, संस्कारा एव शून्यता शून्यतैव संस्काराः, या च भगवन् विज्ञानस्य शून्यता न तद् विज्ञानं, न चान्यत्र शून्यताया विज्ञानं, विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यम्.
SK
न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवन् पृथिवीधातुः पृथिवीधातुत्वेन शून्या, या च पृथिवीधातुशून्यता नासौ पृथिवीधातुर् न चान्यत्र शून्यतायाः पृथिवीधातुः, पृथिवीधातुर् एव शून्यता, शून्यतैव पृथिवीधातुः, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुस् तथा हि भगवन् विज्ञानधातुर् विज्ञानधातुत्वेन शून्या, या च विज्ञानधातुशून्यता नासौ विज्ञानधातुर् न चान्यत्र शून्यताया विज्ञानधातुर् विज्ञानधातुर् एव शून्यता, शून्यतैव (PSP१-१: १६३) विज्ञानधातुः. अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यम्.
SK
न रूपे स्थातव्यन् न शब्दे न गन्धेन रसे न स्प्रष्टव्ये न धर्मे स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपत्वेन शून्यं, या च रूपे शून्यता न तद् रूपं, न चान्यत्र शून्यताया रूपं, रूपम् एव शून्यता शून्यतैव रूपं, तथा हि शब्दः शब्दत्वेन शून्या, या च शब्दशून्यता न स शब्दो, न चान्यत्र शून्यतायाः शब्दः, शब्द एव शून्यता शून्यतैव शब्दः, तथा हि गन्धो गन्धत्वेन शून्यो, या च गन्धशून्यता न स गन्धो, न चान्यत्र शून्यताया गन्धो, गन्ध एव शून्यता शून्यतैव गन्धः, तथा हि रसो रसत्वेन शून्यो, या च रसशून्यता न स रसो, न चान्यत्र शून्यताया रसो, रस एव शून्यता शून्यतैव रसः, तथा हि स्प्रष्टव्यं स्प्रष्टव्यत्वेन शून्यं, या च स्प्रष्टव्यशून्यता न तत् स्प्रष्टव्यं, न चान्यत्र शून्यतायाः स्प्रष्टव्यं, स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टव्यं, तथा हि भगवन् धर्मो धर्मत्वेन शून्यो, या च धर्मशून्यता न ते धर्मा, न चान्यत्र शून्यताया धर्मा, धर्मा एव शून्यता शून्यतैव धर्माः.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न शब्दे न गन्धे न रसे न स्प्रष्टव्ये न धर्मे स्थातव्यं, न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यम्.
SK
तत् कस्य हेतोः? तथा हि भगवंश् चक्षुश् चक्षुत्वेन शून्यं, या च चक्षुःशून्यता न तच् चक्षुर्, न चान्यत्र शून्यतायाश् चक्षुश्, चक्षुर् एव शून्यता शून्यतैव चक्षुः, तथा हि श्रोत्रं श्रोत्रत्वेन शून्यं या च श्रोत्रशून्यता न तच् छ्रोत्रं, न चान्यत्र शून्यतायाः श्रोत्रं, श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं, तथा हि घ्राणं घ्राणत्वेन शून्यं, या च घ्राणशून्यता न तद् घ्राणं, न चान्यत्र शून्यताया घ्राणं, घ्राणम् एव शून्यता शून्यतैव घ्राणं, तथा हि जिह्वा जिह्वात्वेन शून्या, या च जिह्वाशून्यता न सा जिह्वा, न चान्यत्र शून्यताया जिह्वा, जिह्वैव शून्यता शून्यतैव जिह्वा, तथा हि कायः कायत्वेन शून्या, या च कायशून्यता न स कायो, न चान्यत्र शून्यतायाः कायः, काय एव शून्यता (PSP१-१: १६४) शून्यतैव कायः, तथा हि भगवन् मनो मनस्त्वेन शून्यं, या च मनःशून्यता न तं मनो, न चान्यत्र शून्यताया मनो, मन एव शून्यता शून्यतैव मनः.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यं, न चक्षुर्विज्ञाने स्थातव्यं न श्रोत्रविज्ञानेन घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यम्.
SK
तत् कस्य हेतोः? तथा हि भगवंश् चक्षुर्विज्ञानं चक्षुर्विज्ञानत्वेन शून्यं, या च चक्षुर्विज्ञानशून्यता न तच् चक्षुर्विज्ञानं, न चान्यत्र शून्यतायाश् चक्षुर्विज्ञानं, चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं, तथा हि श्रोत्रविज्ञानं श्रोत्रविज्ञानत्वेन शून्यं, या च श्रोत्रविज्ञानशून्यता न तच् छ्रोत्रविज्ञानं, न चान्यत्र शून्यतायाश् श्रोत्रविज्ञानं, श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं, तथा हि घ्राणविज्ञानं घ्राणविज्ञानत्वेन शून्यं, या च घ्राणविज्ञानशून्यता न तद् घ्राणविज्ञानं, न चान्यत्र शून्यताया घ्राणविज्ञानं, घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं, तथा हि जिह्वाविज्ञानं जिह्वाविज्ञानत्वेन शून्यं, या च जिह्वाविज्ञानशून्यता न तज् जिह्वाविज्ञानं, न चान्यत्र शून्यतायाश् जिह्वाविज्ञानं, जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं, तथा हि कायविज्ञानं कायविज्ञानत्वेन शून्यं, या च कायविज्ञानशून्यता न तत् कायविज्ञानं, न चान्यत्र शून्यतायाश् कायविज्ञानं, कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानं, तथा हि मनोविज्ञानं मनोविज्ञानत्वेन शून्यं, या च मनोविज्ञानशून्यता न तन् मनोविज्ञानं, न चान्यत्र शून्यताया मनोविज्ञानं, मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानं,
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुर्विज्ञाने स्थातव्यन् न श्रोत्रविज्ञाने न घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यं, न चक्षुःसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शे न घ्राणसंस्पर्शेन जिह्वासंस्पर्शे न कायसंस्पर्शे न मनःसंस्पर्शे स्थातव्यम्.
SK
तत् कस्य हेतोः? तथा हि भगवंश् चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शत्वेन (PSP१-१: १६५) शून्यः, या च चक्षुःसंस्पर्शशून्यता न स चक्षुःसंस्पर्शः, न चान्यत्र शून्यतायाश् चक्षुःसंस्पर्शश्, चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः, तथा हि भगवन् मनःसंस्पर्शो मनःसंस्पर्शत्वेन शून्यो, या च मनःसंस्पर्शशून्यता न स मनःसंस्पर्शो, न चान्यत्र शून्यताया मनःसंस्पर्शो, मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुःसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शे न घ्राणसंस्पर्शे न जिह्वासंस्पर्शे न कायसंस्पर्शे न मनःसंस्पर्शे स्थातव्यम्.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम् एवं यावन् न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं, या च चक्षुःसंस्पर्शप्रत्ययवेदयितशून्यतान तच् चक्षुःसंस्पर्शप्रत्ययवेदयितं, न चान्यत्र शून्यतायाश्चक्षुःसंस्पर्शप्रत्ययवेदयितं, चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितं, एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं, तथा हि भगवन् मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं, या च मनःसंस्पर्शप्रत्ययवेदयितं शून्यता न तन् मनःसंस्पर्शप्रत्ययवेदयितं, न चान्यत्र शून्यताया मनःसंस्पर्शप्रत्ययवेदयितं, मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं, न श्रोत्रसंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न घ्राणसंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न जिह्वासंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते न मनःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यम्.
SK
नाविद्यायां स्थातव्यम् एवं यावन् न जरामरणे स्थातव्यम्. तत् (PSP१-१: १६६) कस्य हेतोः? तथा हि भगवन्न् अविद्या अविद्यात्वेन शून्या, या चाविद्याशून्यता न साविद्या, न चान्यत्र शून्यताया अविद्या, अविद्यैव शून्यताशून्यतैवाविद्या, एवं संस्काराः संस्कारत्वेन शून्याः विज्ञानं विज्ञानत्वेन शून्यं, नामरूपं नामरूपत्वेन शून्यं, षडायतनं षडायतनत्वेन शून्यं, स्पर्शः स्पर्शत्वेन शून्यः, वेदना वेदनात्वेन शून्या, तृष्णा तृष्णात्वेन शून्या, उपादानम् उपादानत्वेन शून्यं, भवो भवत्वेन शून्यः, जातिर् जातित्वेन शून्या, तथा हि भगवञ् जरामरणं जरामरणत्वेन शून्यं, या च जरा अमरणशून्यता न तज् जरामरणं, न चान्यत्र शून्यताया जरामरणं, जरामरणम् एव शून्यता शून्यतैव जरामरणम्.
SK
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाविद्यायां स्थातव्यं न संस्कारेषु न विज्ञाने न नामरूपे न षडायतने न स्पर्से न वेदनायां न तृष्णायां नोपादानेन भवे न जातौ न जरामरणे स्थातव्यम्.
SK
एवं स्कन्धधात्वायतनेषु च कर्तव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता स्मृत्युपस्थानेषु न स्थातव्यम्. तत् कस्य हेतोः? स्मृत्युपस्थानानि स्मृत्युपस्थानत्वेन शून्यानि, या च भगवन् स्मृत्युपस्थानानां शून्यता न तानि स्मृत्युपस्थानानि न चान्यत्र शून्यतायाः स्मृत्युपस्थानानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न स्मृत्युपस्थानेषु स्थातव्यं, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु न स्थातव्यम्. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मत्वेन शून्या या च भगवन्न् आवेणिकबुद्धधर्माणां शून्यता न ते आवेणिकबुद्धधर्मा न चान्यत्र शून्यताया आवेणिका बुद्धधर्मा आवेणिका बुद्धधर्मा एव शून्यता शून्यतैवावेणिका बुद्धधर्माः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु (PSP१-१: १६७) न स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न दानपारमितायां स्थातव्यम्. तत् कस्य हेतोः? तथा हि दानपारमितैव शून्या दानपारमितास्वभावेन, या च भगवन् दानपारमितायाः शून्यता न सा दानपारमिता, न चान्यत्र शून्यताया दानपारमिता, दानपारमितैव शून्यता शून्यतैव दानपारमिता, न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां स्थातव्यम्. तत् कस्य हेतोः? तथा हि प्रज्ञापारमितैव शून्या प्रज्ञापारमितास्वभावेन, या च भगवन् प्रज्ञापारमितायाः शून्यता न सा प्रज्ञापारमिता, न चान्यत्र शून्यतायाः प्रज्ञापारमिता, प्रज्ञापारमितैव शून्यता शून्यतैव प्रज्ञापारमिता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न दानपारमितायां स्थातव्यं, न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अक्षरेषु न स्थातव्यं, अक्षराभिनिर्हारेषु न स्थातव्यं, एकोदाहारे द्विर् उदाहारे त्रिर् उदाहारे न स्थातव्यम्. तत् कस्य हेतोः? तथा ह्य् अक्षराणि शून्यान्य् अक्षरस्वभावेन, या च भगवन्न् अक्षरशून्यता न तानि अक्षराणि, न चान्यत्र शून्यताया अक्षराणि, अक्षराण्य् एव शून्यता शून्यतैवाक्षराणि, तद् अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाक्षरेषु स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाभिज्ञासु स्थातव्यम्. तत् कस्य हेतोः? अभिज्ञा एव शून्या अभिज्ञास्वभावेन, या च भगवन्न् अभिज्ञा शून्यता न ता अभिज्ञा, न चान्यत्र शून्यताया अभिज्ञा, अभिज्ञा एवशून्यता शून्यतैवाभिज्ञाः, तद् अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाभिज्ञासु स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपम् अनित्यम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनित्यम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि (PSP१-१: १६८) रूपानित्यता अनित्यतास्वभावेन शून्या, या च भगवन् रूपानित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अनित्यम् इति न स्थातव्यम्.
SK
न वेदनानित्येति स्थातव्यम्. तत् कस्य हेतोः? तथा हि वेदनानित्यतानित्यतास्वभावेन शून्या, या च भगवन् वेदनानित्यताशून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता,
SK
न संज्ञा अनित्येति स्थातव्यम्. तत् कस्य हेतोः? तथा हि संज्ञानित्यतानित्यतास्वभावेन शून्या, या च भगवन् संज्ञा अनित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता,
SK
न संस्कारा अनित्या इति स्थातव्यं, तत् कस्य हेतोः? तथा हि संस्कारानित्यतानित्यतास्वभावेन शून्या, या च भगवन् संस्कारा अनित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता अनित्यतैव शून्यता शून्यतैवानित्यता,
SK
न विज्ञानम् अनित्यम् इति स्थातव्यं, तत् कस्य हेतोः? तथा हि विज्ञानानित्यतानित्यतास्वभावेन शून्या, या च भगवन् विज्ञानानित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानम् अनित्यम् इति स्थातव्यम्.
SK
एवं न रूपं दुःखम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं दुःखम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपदुःखता दुःखतास्वभावेन शून्या, या च भगवन् रूपदुःखता शून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव शून्यता शून्यतैव दुःखता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं दुःखम् इति स्थातव्यं. न वेदना न संज्ञा न संस्कारा न विज्ञानं दुःखम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानदुःखता दुःखतास्वभावेन शून्या या च भगवन् विज्ञानदुःखता शून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव शून्यता शून्यतैव दुःखता, तद् अनेनापि (PSP१-१: १६९) भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानं दुःखम् इति स्थातव्यम्.
SK
एवं न रूपम् अनात्मेति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनात्मेति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपानात्मता अनात्मतास्वभावेन शून्या, या च भगवन् रूपानात्मता शून्यता न सानात्मता, न चान्यत्र शून्यताया अनात्मता, अनात्मतैवशून्यता शून्यतैवानात्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपम् अनात्मेति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनात्मेति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानानात्मता अनात्मतास्वभावेन शून्या, या च भगवन् विज्ञानानात्मता शून्यता न सा अनात्मता, न चान्यत्र शून्यताया अनात्मता, अनात्मतैव शून्यता शून्यतैवानात्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानम् अनात्मेति स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपशान्तता शान्ततास्वभावेन शून्या, या च भगवन् रूपशान्तता शून्यता न सा शान्तता, न चान्यत्र शून्यतायाः शान्तता, शान्ततैव शून्यता शून्यतैव शान्तता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानशान्तता शान्ततास्वभावेन शून्या, या च भगवन् विज्ञानशान्तता शून्यता न सा शान्तता, न चान्यत्र शून्यतायाः शान्तता, शान्ततैव शून्यता शून्यतैव शान्तता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानं शान्तम् इति स्थातव्यम्.
SK
एवं हेतुसमुदयप्रभवप्रत्ययतायां न स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तथतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि तथता तथतास्वभावेन शून्या, या च भगवंस् तथतायाः शून्यता न सा तथता, न चान्यत्र तथतायाः शून्यता, तथतैव शून्यता शून्यतैव तथता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन (PSP१-१: १७०) प्रज्ञापारमितायां चरता तथतायान् न स्थातव्यम्.
SK
एवं धर्मतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मता धर्मतास्वभावेन शून्या, या च भगवन् धर्मतायाः शून्यता न सा धर्मता, न चान्यत्र धर्मतायाः शून्यता, धर्मतैव शून्यता शून्यतैव धर्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यम्.
SK
एवं धर्मधातौ न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मधातुर् धर्मधातुस्वभावेन शून्यो, या च भवगवन् धर्मधातोः शून्यता न स धर्मधातुर्, न चान्यत्र धर्मधातोः शून्यता, धर्मधातुर् एव शून्यता शून्यतैव धर्मधातुः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यम्.
SK
एवं धर्मनियामतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मनियामता धर्मनियामतास्वभावेन शून्या, या च भगवन् धर्मनियामता शून्यता न सा धर्मनियमता, न चान्यत्र धर्मनियामतायाः शून्यता, धर्मनियामतैव शून्यता शून्यतैव धर्मनियमता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतायां न स्थातव्यम्.
SK
एवं भूतकोट्यां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि भूतकोटिर् भूतकोटिस्वभावेन शून्या, या च भगवन् भूतकोटेः शून्यता न सा भूतकोटिर्, न चान्यत्र भूतकोटेः शून्यता, भूतकोटिर् एव शून्यता शून्यतैव भूतकोतिः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वधारणीमुखेषु न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धारणीमुखानि धारणीमुखैः शून्यानि, या च भगवन् धारणीमुखानां शून्यता न तानि धारणीमुखानि, न चान्यत्र धारणीमुखेभ्यः शून्यता, धारणीमुखान्य् एव शून्यता शून्यतैव धारणीमुखानि. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धारणीमुखेषु न स्थातव्यम्.
SK
पुनर् अपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो ऽहङ्कारममकारपतितेन मानसेन सचेद् रूपे (PSP१-१: १७१) तिस्थति रूपाभिसंस्कारे चरति न चरति प्रज्ञापारमितायां, सचेद् वेदनायां संज्ञायां संस्कारेषु, सचेद् विज्ञाने तिष्ठति विज्ञानाभिसंस्कारे चरति न चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? न ह्य् अभिसंस्कारे चरन् प्रज्ञापारमितां परिगृह्णाति न प्रज्ञापारमितायां योगम् आपद्यते न प्रज्ञापारमितां परिपूरयति, अपरिपूरयन् प्रज्ञापारमितां न निर्यास्यति सर्वाकारज्ञतायाम्.
SK
तत् कस्य हेतोः? तथा हि भगवन् रूपम् अपरिगृहीतं वेदना संज्ञा संस्कारा विज्ञानम् अपरिगृहीतम्.
SK
तत् कस्य हेतोः? यश् च रूपस्यापरिग्रहो न तद् रूपं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा, यश् च विज्ञानस्यापरिग्रहो न तद् विज्ञानं प्रकृतिशून्यताम् उपादाय.
SK
एवं यावद् भूतकोटिर् अपरिगृहीता. तत् कस्य हेतोः? यश् च भूतकोट्या अपरिग्रहो न सा भूतकोटिः प्रकृतिशून्यताम् उपादाय, सापि प्रज्ञापारमिता अपरिगृहीता प्रकृतिशून्यताम् उपादाय.
SK
एवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रकृतिशून्याः सर्वधर्माः प्रत्यवेक्षितव्याः, तथा च प्रत्यवेक्षितव्या यथा न क्वचिद् धर्मे मनसो व्युपचारो भवेत्. इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मापरिगृहीतं नाम समाधिमण्डलं विपुलं पुरस्कृतम् अप्रमाणं नियतम् असंहार्यं सर्वश्रावकप्रत्येकबुद्धैः.
SK
सापि सर्वाकारज्ञता अपरिगृहीता अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, महाशून्यताम् उपादाय, शून्यताशून्यताम् उपादाय, परमार्थशून्यताम् उपादाय, संस्कृतशून्यताम् उपादाय, असंस्कृतशून्यताम् उपादाय, अत्यन्तशून्यताम् उपादाय, अनवराग्रशून्यताम् उपादाय, अनवकारशून्यताम् उपादाय, प्रकृतिशून्यताम् उपादाय, सर्वधर्मशून्यताम् उपादाय, स्वलक्षणशून्यताम् उपादाय, अनुपलम्भशून्यताम् उपादाय, अभावस्वभावशून्यताम् उपादाय, भावशून्यताम् उपादाय, अभावशून्यताम् उपादाय, स्वभावशून्यताम् उपादाय, परभावशून्यताम् उपादाय.
SK
इति मृदुमूर्धगतस्यालम्बनाकारविशेषः
SK
तत् कस्य हेतोः? तथा हि न भगवन् सर्वाकारज्ञता निमित्ततः उद्ग्रहीतव्या निमित्तं हि क्लेशः.
SK
कतमत् पुनर् निमित्तम्? रूपं निमित्तं वेदना निमित्तं संज्ञा निमित्तं संस्कारा निमित्तं विज्ञानं निमित्तं, चक्षुर् निमित्तं श्रोत्रं निमित्तं घ्राणं निमित्तं जिह्वा निमित्तं कायो निमित्तं मनो निमित्तं, रूपं निमित्तं शब्दो निमित्तं गन्धो निमित्तं रसो निमित्तं स्पर्शो निमित्तं धर्मो निमित्तं, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षरदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतानिमित्ताप्रणिहितानभिसंस्कारधर्मधातुधर्मताइधर्मनियामताभूतकोटिनिमित्तम् अयम् उच्यते क्लेशः.
SK
सचेत् पुनः प्रज्ञापारमिता निमित्तत उद्ग्रहीतव्याभविष्यन् नैवेह श्रेणिकः परिव्राजकः शासने श्रद्धाम् अलप्स्यत, अत्र सर्वज्ञज्ञाने कतमा च श्रद्धा? येयं प्रज्ञापारमितायाम् अभिश्रद्दधानता अवकल्पनता अधिमुक्तिश् चिन्तना तुलना व्युपपरीक्षणा तच् चानिमित्तयोगेन, एवम् अनिमित्तत उद्ग्रहीतव्या.
SK
अत्र पुनः श्रेणिकः परिव्राजकः अधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः, सो ऽवतीर्य न रूपं परिगृहीतवान् न वेदनां न संज्ञां न संस्कारान् न विज्ञानं परीगृहीतवान्.
SK
तत् कस्य हेतोः? तथा हि स तेन स्वलक्षणशून्येषु धर्मेषु न कश्चिद् धर्मः परिगृहीतो निमित्तामनसिकारताम् उपादाय.
SK
तत् कस्य हेतोः? तथा हि स नाध्यात्मप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, न बहिर्धाप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, नाध्यात्मबहिर्धाप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, नाप्य् अन्यत्रप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति.
SK
तत् कस्य हेतोः? तथा हि स तं धर्मं न समनुपश्यति, यो वा प्रजानीयाद्, यं वा प्रजानीयाद्, येन वा प्रजानीयात्.
SK
तत् कस्य हेतोः? नाध्यात्मरूपस्य तज् ज्ञानं समनुपश्यति नाध्यात्मवेदनायास् तज् ज्ञानं समनुपश्यति, नाध्यात्मसंज्ञायास् तज् ज्ञानं समनुपश्यति, नाध्यात्मसंस्काराणां तज् ज्ञानं (PSP१-१: १७३) समनुपश्यति, नाध्यात्मविज्ञानस्य तज् ज्ञानं समनुपश्यति.
SK
न बहिर्धारूपस्य तज् ज्ञानं समनुपश्यति, न बहिर्धावेदनाया न बहिर्धासंज्ञाया न बहिर्धासंस्काराणां न बहिर्धाविज्ञानस्य तज् ज्ञानं समनुपश्यति,
SK
नाध्यात्मबहिर्धारूपस्य तज् ज्ञानं समनुपश्यति, नाध्यात्मबहिर्धावेदनाया नाध्यात्मबहिर्धासंज्ञाया नाध्यात्मबहिर्धासंस्काराणां नाध्यात्मबहिर्धाविज्ञानस्य तज् ज्ञानं समनुपश्यति,
SK
नाप्य् अन्यत्ररूपात् तज् ज्ञानं समनुपश्यति, नाप्य् अन्यत्रवेदनाया, नाप्य् अन्यत्रसंज्ञाया, नाप्य् अन्यत्रसंस्कारेभ्यो, नाप्य् अन्यत्रविज्ञानात् तज् ज्ञानं समनुपश्यति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
अत्र पदपर्याये श्रेणिकः परिव्राजको ऽधिमुक्तः सो ऽत्राधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः सर्वज्ञज्ञाने धर्मतां प्रमाणीकृत्य सर्वधर्मानुपलब्धिताम् उपादाय, एवम् अधिमुक्तस् तेन न कश्चिद् धर्मः परीगृहीतो निमित्तामनसिकारताम् उपादाय, नाप्य् अनेन कश्चिद् धर्म उपलब्धो यं परिगृहीयाद् वा मुञ्चेद् वा सर्वधर्मानुद्ग्रहानुत्सर्गताम् उपादाय. स निर्वाणेनापि न मन्यते सर्वधर्मानुद्ग्रहानुत्सर्गताम् उपादाय.
SK
तत् कस्य हेतोः? यः सर्वधर्माणाम् अपरिग्रहो ऽनुत्सर्गः सा प्रज्ञापारमिता, इयम् अपि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता अपारपारगताम् उपादाय, यद् रूपं न परिगृह्णाति यद् वेदनां न परिगृह्णाति यत् संज्ञां न परिगृह्णाति यत् संस्कारान् न परिगृह्णाति यद् विज्ञानं न परिगृह्णाति, सर्वधर्मापरिगृहीतताम् उपादाय, यावद् व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षरदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतानिमित्ताप्रणिहितानभिसंस्कारधर्मधातुधर्मताधर्मनियमतासमाधिमुखधारणीमुखानि, यावत् समधिं न परिगृह्णाति सर्वधर्मापरिगृहीतताम् उपादाय, न चान्तरापरिनिर्वात्य् अपरिपूर्णैः प्रणिधानैर्, यावद् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः.
SK
तत् कस्य हेतोः? तथा हि सर्वधर्मा अधर्मा, यावत् स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका (PSP१-१: १७४) बुद्धधर्मा अधर्मा, नापि ते धर्मा नाधर्माः. इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता सर्वधर्मापरिगृहीतताम् उपादाय.
SK
इति मध्यमूर्धगतालम्बनाकारविशेषः
SK
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवं व्युपपरीक्षितव्यम्.
SK
कतमैषा प्रज्ञापारमिता? कस्य चैषा प्रज्ञापारमिता? किम् एषा प्रज्ञापारमिता? केनैषा प्रज्ञापारमिता?
SK
सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपनिध्यायति, तत् किं यो धर्मो न विद्यते नोपलभ्यते सा प्रज्ञापारमितेति न चरति प्रज्ञापारमितायाम्.
SK
अथ खलु आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कतमे ते आयुष्मन् सुभूते धर्मा न विद्यन्ते नोपलभ्यन्ते?
SK
सुभूतिर् आह: प्रज्ञापारमिता आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, ध्यानपारमिता आयुष्मान् शारिपुत्र न विद्यते नोपलभ्यते, वीर्यपारमिता न विद्यते नोपलभ्यते, क्षान्तिपारमिता न विद्यते नोपलभ्यते, शीलपारमिता न विद्यते नोपलभ्यते, दानपारमिता आयुष्मान् शारिपुत्र न विद्यते नोपलभ्यते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, शून्यताशून्यताम् उपादाय, महाशून्यताम् उपादाय, परमार्थशून्यताम् उपादाय, संस्कृतशून्यताम् उपादाय, असंस्कृतशून्यताम् उपादाय, अत्यन्तशून्यताम् उपादाय, अनवराग्रशून्यताम् उपादाय, अनवकारशून्यताम् उपादाय, प्रकृतिशून्यताम् उपादाय, सर्वधर्मशून्यताम् उपादाय, स्वलक्षणशून्यताम् उपादाय, अनुपलम्भशून्यताम् उपादाय, अभावस्वभावशून्यताम् उपादाय, भावशून्यताम् उपादाय, अभावशून्यताम् उपादाय, स्वभावशून्यताम् उपादाय, परभावशून्यताम् उपादाय.
SK
रूपम् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, वेदना न विद्यते नोपलभ्यते, संज्ञा न विद्यते नोपलभ्यते, संस्कारा न विद्यन्ते नोपलभ्यन्ते, विज्ञानम् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, अध्यात्मशून्यता आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, बहिर्धाशून्यता न विद्यते नोपलभ्यते, अध्यात्मबहिर्धाशून्यता न विद्यते (PSP१-१: १७५) नोपलभ्यते, शून्यताशून्यता न विद्यते नोपलभ्यते, महाशून्यता न विद्यते नोपलभ्यते, परमार्थशून्यता न विद्यते नोपलभ्यते, संस्कृतशून्यता न विद्यते नोपलभ्यते, असंस्कृतशून्यता न विद्यते नोपलभ्यते, अत्यन्तशून्यता न विद्यते नोपलभ्यते, अनवराग्रशून्यता न विद्यते नोपलभ्यते, अनवकारशून्यता न विद्यते नोपलभ्यते, प्रकृतिशून्यता न विद्यते नोपलभ्यते, सर्वधर्मशून्यता न विद्यते नोपलभ्यते, स्वलक्षणशून्यता न विद्यते नोपलभ्यते, अनुपलम्भशून्यता न विद्यते नोपलभ्यते, अभावस्वभावशून्यता न विद्यते नोपलभ्यते, भावशून्यता न विद्यते नोपलभ्यते, अभावशून्यता न विद्यते नोपलभ्यते, स्वभावशून्यता न विद्यते नोपलभ्यते, परभावशून्यता न विद्यते नोपलभ्यते, यावत् सप्तत्रिंशद् बोधिपक्ष्या धर्मा न विद्यन्ते नोपलभ्यन्ते, अभिज्ञा न विद्यन्ते नोपलभ्यन्ते, दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा न विद्यन्ते नोपलभ्यन्ते, तथता न विद्यते नोपलभ्यते, धर्मता न विद्यते नोपलभ्यते, धर्मे स्थितिता न विद्यते नोपलभ्यते, धर्मनियामता न विद्यते नोपलभ्यते, भूतकोटिर् न विद्यते नोपलभ्यते, बुद्धाप्य् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, सर्वाकारज्ञताप्य् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, अध्यात्मशून्यताम् उपादाय, यावत् परभावशून्यताम् उपादाय.
SK
सचेत् पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपपरीक्षते एवम् उपनिध्यायति तस्यैवम् उपपरीक्षमाणस्यैवम् उपनिध्यायतश् चित्तं नावलीयते न संलीयते नोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया वेदितव्यः.
SK
इत्य् अधिमात्रमूर्धगतालम्बनाकारविशेषः
SK
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया अविरहितो वेदितव्यः?
SK
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र विरहितं रूपस्वभावेन, एवं वेदना संज्ञा संस्कारा विज्ञानम् आयुष्मन् शारिपुत्र विरहितं विज्ञानस्वभावेन. दानपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता दानपारमितास्वभावेन, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता (PSP१-१: १७६) ध्यानपारमिता प्रज्ञापारमिताप्य् आयुष्मन् शारिपुत्र विरहिता प्रज्ञापारमितास्वभावेन. एवम् अप्रमाणध्यानारूप्यसमापत्तयः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षरदशबलवैशारद्याष्टादशावेणिका बुद्धधर्मा विरहिता बुद्धधर्मस्वभावेन, भूतकोटिर् अप्य् आयुष्मन् शारिपुत्र विरहिता भूतकोटिस्वभावेन.
SK
शारिपुत्र आह: कथं पुनर् आयुष्मन् सुभूते रूपस्य स्वभावः? कथं वेदनायाः संज्ञायाः संस्काराणां? कथं विज्ञानस्य स्वभावः? कथं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां स्वभावः? एवं विस्तरेण यावत् कथं भूतकोट्याः स्वभावः?
SK
सुभूतिर् आह: अभाव आयुष्मन् शारिपुत्र रूपस्य स्वभावः, अभावो वेदनायाः, अभावः संज्ञायाः, अभावः संस्काराणाम्, अभावो विज्ञानस्य स्वभावः, अभावो व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां स्वभावः, अभावः शून्यतानिमित्ताप्रणिहितानभिसंस्काराणां जातः स्वभावः, अभावः तथताधर्मधातुधर्मस्थितिताधर्मनियामतानां स्वभावः.
SK
एवं विस्तरेण यावद् अभावो भूतकोट्याः स्वभावः, तद् अनेन त्वयायुष्मन् शारिपुत्र पर्यायेणैवं वेदितव्यम्, यथा रूपं विरहितं रूपस्वभावेन, वेदना विरहिता वेदनास्वभावेन, संज्ञा विरहिता संज्ञास्वभावेन, संस्कारा विरहिताः संस्कारस्वभावेन, विज्ञानं विरहितं विज्ञानस्वभावेन.
SK
एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं, यावद् भूतकोटिर् विरहिता भूतकोटिस्वभावेन.
SK
पुनर् अपरं शारिपुत्र रूपं विरहितं रूपलक्षणेन, वेदना विरहिता वेदनालक्षणेन, संज्ञा विरहिता संज्ञालक्षणेन, संस्कारा विरहिताः संस्कारलक्षणेन, विज्ञानं विरहितं विज्ञानलक्षणेन. एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं, यावद् भूतकोटिर् विरहिता भूतकोटिलक्षणेन, लक्षणस्वभावेनापि लक्षणं विरहितं, स्वभावलक्षणेनापि स्वभावो विरहितः.
SK
शारिपुत्र आह: य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो ऽत्र शिक्षिष्यते स निर्यास्यति सर्वाकारज्ञतायाम्.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यो ह्य् एवम् अत्र शिक्षिष्यते स निर्यास्यति सर्वाकारज्ञतायाम्.
SK
इति मृदुक्षान्तेर् आलम्बनाकारविशेषः
SK
तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अजाता अनिर्याताः सर्वधर्माः.
SK
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते अजाता अनिर्याताः सर्वधर्माः?
SK
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र शून्यं रूपस्वभावेन तस्य नापि जातिर् नापि निर्याणम् उपलभ्यते, वेदना शारिपुत्र शून्या वेदनास्वभावेन तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते, संज्ञा शारिपुत्र शून्या संज्ञास्वभावेन तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते, संस्काराः शारिपुत्र शून्याः संस्कारस्वभावेन तेषां नापि जातिर् नापि निर्याणम् उपलभ्यते, विज्ञानम् आयुष्मन् शारिपुत्र शून्यं विज्ञानस्वभावेन तस्य नापि जातिर् नापि निर्याणम् उपलभ्यते. एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं, यावद् भूतकोटिः शून्या भूतकोटिस्वभावेन तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते.
SK
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् सर्वाकारज्ञताया आसन्नीभवति यथा यथा च सर्वाकारज्ञताया आसन्नीभवति तथा तथा कायपरिशुद्धिञ् च चित्तपरिशुद्धिञ् च लक्षणपरिशुद्धिं चाधिगच्छति, यथा यथा च कायपरिशुद्धिं च चित्तपरिशुद्धिं च लक्षणपरिशुद्धिं चाधिगच्छति तथा तथा बोधिसत्त्वस्य महासत्त्वस्य रागसहगतं चित्तं नोत्पद्यते दोषसहगतं चित्तं नोत्पद्यते मोहसहगतं चित्तं नोत्पद्यते मानसहगतं चित्तं नोत्पद्यते लोभसहगतं चित्तं नोत्पद्यते कुदृष्टिसहगतं चित्तं नोत्पद्यते स रागचित्तानुत्पादाद् दोषचित्तानुत्पादान् मोहचित्तानुत्पादान् मानचित्तानुत्पादाल् लोभचित्तानुत्पादात् कुदृष्टिचित्तानुत्पादाद् न जातु मातुः कुक्षाव् उपपद्यते, सततसमितम् औपपादुको भवति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धांश् च भगवतः पर्युपास्ते, (PSP१-१: १७८) सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न तैर् बुद्धैर् भगवद्भिर् विरहितो भवति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्व आसन्नीभवत्य् अनुत्तरायाः सम्यक्संबोधेः.
SK
इति मध्यक्षान्तेर् आलम्बनाकारविशेषः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: सचेद् भगवन् बोधिसत्त्वो महासत्त्वो ऽनुपायकुशलः प्रज्ञापारमितायां चरन् रूपे चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदनायां चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेत् संज्ञायां चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेत् संस्कारेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञाने चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
SK
सचेद् रूपं नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना नित्या अनित्या वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा नित्या अनित्या वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
SK
सचेद् रूपं सुखं दुःखं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं सुखं दुःखं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
SK
सचेद् रूपम् आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा आत्मानो ऽनात्मानो वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानम् आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
SK
सचेद् रूपं शान्तम् अशान्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं शान्तम् अशान्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
SK
सचेद् रूपं विविक्तम् अविविक्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं विविक्तम् अविविक्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
SK
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलः सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्, एवं यावद् अभिज्ञासु पारमितास्व् अप्रमाणध्यानारूप्यसमापत्तिषु पञ्चसु चक्षुःषु दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु चतुर्षु वैशारद्येषु यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
SK
सचेद् भगवन् बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलेन प्रज्ञापारमितायां चरत एवं भवति, अहं प्रज्ञापारमितायां चरामीत्य् उपलम्भे चरति, अहं चरामीति चरति निमित्ते चरति.
SK
सचेद् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं चरति स प्रज्ञापारमितायां चरति, स प्रज्ञापारमितायां भावयतीति निमित्त एव स चरति, इदं बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलं वेदितव्यम्.
SK
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते इदं बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलं वेदितव्यम्?
SK
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अधितिष्ठति संजानीते ऽधिमुच्यते, वेदनाम् अधितिष्ठति संजानीते ऽधिमुच्यते, संज्ञाम् अधितिष्ठति संजानीते ऽधिमुच्यते, संस्कारान् अधितिष्ठति संजानीते ऽधिमुच्यते, विज्ञानम् (PSP१-१: १८०) अधितिष्ठति संजानीते ऽधिमुच्यते, स रूपम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, वेदनाम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, संज्ञाम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, संस्कारान् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, विज्ञानम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, रूपस्याभिसंस्कारे चरति वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याभिसंस्कारे चरति तत् तस्य जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासकरम् इति वदामि.
SK
पुनर् अपरं शारिपुत्र सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलः, चक्षुर् अधितिष्ठति संजानीते ऽधिमुच्यते, श्रोत्रं घ्राणं जिह्वां कायञ् मनो ऽधितिष्ठति संजानीते ऽधिमुच्यते, रूपम् अधितिष्ठति संजानीते ऽधिमुच्यते, शब्दान् गन्धान् रसान् स्प्रष्टव्यान् धर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् चक्षुःसंस्पर्शम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् चक्षुःसंस्पर्शप्रत्ययवेदयितं सुखं वा दुःखं वा अदुःखासुखं वाधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदयितं सुखं वा दुःखं वा अदुःखासुखं वाधितिष्ठति संजानीते ऽधिमुच्यते.
SK
सचेत् सप्तत्रिंशद्बोधिपक्षान् धर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, एवं पञ्च चक्षूंषि षड् अभिज्ञाः षट् पारमिताश् चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तीर् दशतथागतबलान्य् अष्टादशवेणिकान् बुद्धधर्मान् अर्हत्त्वं प्रत्येकबुद्धत्वं बोधिसत्त्वत्वं बुद्धधर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, सर्वान् बुद्धधर्मान् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, बुद्धधर्माणाम् अभिसंस्कारे चरति, अभिसंस्कारे चरन्न् अपरिमुच्यते, जात्या जरया मरणेन च शोकपरिदेवदुःखदौर्मनस्योपायासैर् न परिमुच्यते दुःखेनेति वदामि.
SK
स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽभव्यः श्रावकभूमिं प्रत्येकबुद्धभूमिं वा पतितुं कुतः सो ऽनुत्तरां सम्यक्संबोधिम् (PSP१-१: १८१) अभिसंभोत्स्यते नेदं स्थानं विद्यते. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो वेदितव्यः.
SK
शारिपुत्र आह: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् उपायकुशलो वेदितव्यः?
SK
सुभूतिर् आह: य आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् अधितिष्ठति न संजानीते नाधिमुच्यते, वेदना संज्ञा संस्कारान् विज्ञानं नाधितिष्ठति न संजानीते नाधिमुच्यते, एवं यावद् बुद्धधर्मान् नाधितिष्ठति न संजानीते नाधिमुच्यते, स न रूपे चरति न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति, न रूपस्य निमित्ते चरति न वेदनाया न संज्ञाया न संस्काराणां न विज्ञनस्य निमित्ते चरति, न रूपं नित्यम् इति नानित्यम् इति चरति, न वेदना न संज्ञा न संस्कारा न विज्ञानं नित्यम् इति नानित्यम् इति चरति, न रूपं सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति चरति, न वेदना न संज्ञा न संस्कारा न विज्ञानं सुखम् इति न दुःखम् इति नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति चरति, न रूपं शून्यम् इति नाशून्यम् इति चरति न निमित्तम् इति नानिमित्तम् इति चरति, न प्रणिहितम् इति नाप्रणिहितम् इति चरति न विविक्तम् इति नाविविक्तम् इति चरति, एवं न वेदना न संज्ञा न संस्कारा न विज्ञानं न शून्यम् इति नाशून्यम् इति चरति, न निमित्तम् इति नानिमित्तम् इति चरति न प्रणिहितम् इति नाप्रणिहितम् इति चरति, न विविक्तम् इति नाविविक्तम् इति चरति.
SK
तत् कस्य हेतोः? तथा हि आयुष्मन् शारिपुत्र या रूपस्य शून्यता न तद् रूपं, न चान्यत्र शून्यतायाः रूपं, नान्यत्र रूपाच् छून्यता, रूपम् एव शून्यता शून्यतैवं रूपम्,
SK
या वेदनायाः शून्यता संज्ञायाः शून्यता संस्काराणां शून्यता, या विज्ञानस्य शून्यता न तद् विज्ञानं, न चान्यत्र शून्यताया विज्ञानं, नान्यत्र विज्ञानाच् छून्यता, शून्यतैव विज्ञानं विज्ञानम् एव शून्यता.
SK
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु पारमितास्व् अभिज्ञासु अप्रमाणध्यानारूप्यसमापत्तिषु बलवैशारद्येषु प्रतिसंवित्सु आवेणिकेषुबुद्धधर्मेषु, यावद् या बुद्धधर्माणां शून्यता न ते बुद्धधर्मा,(PSP१-१: १८२) न चान्यत्र शून्यताया बुद्धधर्माः, नान्यत्र बुद्धधर्मेभ्यः शून्यता, शून्यतैव बुद्धधर्मा बुद्धधर्मा एव शून्यता.
SK
एवम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकुशलो वेदितव्यः.
SK
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् भव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स पुनः प्रज्ञापारमितायां चरन् सचेत् कंचिद् धर्मम् उपैति न चरति प्रज्ञापारमितायां, नोपैति न चरति, उपैति नोपैति च न चरति, नैवोपैति न नोपैति च न चरति प्रज्ञापारमितायाम्.
SK
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते नोपैति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्?
SK
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र प्रज्ञापारमितायाः स्वभावो नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावा प्रज्ञापारमिता, अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरामीति नोपैति, न चरामीति नोपैति, चरामि च न चरामि चेति नोपैति, नैव चरामि न न चरामीति नोपैति. तत् कस्य हेतोः? तथा हि तेन सर्वधर्मा अभावस्वभावा इत्य् अनुगता अनुपात्ताः. सचेद् एवं प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रासम् आपद्यते वेदितव्यम्.
SK
आयुष्मन् शारिपुत्रासन्नीभवत्य् अयं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाः.
SK
इत्य् अधिमात्रक्षान्तेर् आलम्बनाकारविशेषः
SK
सो ऽपि खल्व् आयुष्मन् शारिपुत्र सर्वाकारज्ञताया अद्वया अद्वैधीकारा सर्वधर्माभावस्वभावताम् उपादाय. अयं सर्वधर्मस्वभावानुत्पत्तिर् नाम समाधिर् बोधिसत्त्वानां महासत्त्वानां विपुलः पुरस्कृतो ऽप्रमाणो नियतो ऽसंहार्यः सर्वश्रावकप्रत्येकबुद्धैर् अनेनायुष्मन् शारिपुत्र समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते.
SK
शारिपुत्र आह: कतमैर् आयुष्मन् सुभूते समाधिभिर् विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
SK
सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र बोधिसत्त्वानां महासत्त्वानां (PSP१-१: १८३) शूरङ्गमो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
SK
अस्ति रत्नमुद्रो नाम समाधिः, अस्ति सुचन्द्रो नाम समाधिः, अस्ति चन्द्रध्वजकेतुर् नाम समाधिः, अस्ति सर्वधर्ममुद्रो नाम समाधिः, अस्त्य् अवलोकितमूर्धा नाम समाधिः, अस्ति धर्मधातुनियतो नाम समाधिः, अस्ति नियतध्वजकेतुर् नाम समाधिः, अस्ति वज्रोपमो नाम समाधिः, अस्ति सर्वधर्मप्रवेशमुद्रो नाम समाधिः, अस्ति समाहितावस्थाप्रतिष्ठानो नाम समाधिः, अस्ति राजमुद्रो नाम समाधिः, अस्ति बलवीर्यो नाम समाधिः, अस्ति सर्वधर्मसमुद्गतो नाम समाधिः, अस्ति निरुक्तिनियतप्रवेशो नाम समाधिः, अस्त्य् असेचनकप्रवेशो नाम समाधिः, अस्ति दिगवलोकनो नाम समाधिः, अस्ति धारणीमुद्रो नाम समाधिः, अस्त्य् असंप्रमुषितो नाम समाधिः, अस्ति समवसरणो नाम समाधिः, अस्त्य् आकाशस्फारणो नाम समाधिः, अस्ति वज्रमण्डलो नाम समाधिः, अस्ति ध्वजाग्रकेतुराजो नाम समाधिः, अस्तीन्द्रकेतुर् नाम समाधिः, अस्ति स्रोतानुगतो नाम समाधिः, अस्ति सिंहविजृम्भितो नामसमाधिः, अस्ति व्यत्यस्तसमापत्तिर् नाम समाधिः, अस्ति रणंजहो नाम समाधिः, अस्ति वैरोचनो नाम समाधिः, अस्त्य् अनिमिषो नाम समाधिः, अस्त्य् अनिकेतस्थितो नाम समाधिः, अस्त्य् अनिश्चितो नाम समाधिः, अस्तिविपुलप्रतिपन्नो नाम समाधिः, अस्त्य् अनन्तप्रभो नाम समाधिः, अस्ति प्रभाकरो नाम समाधिः, अस्ति वरधर्ममुद्रो नाम समाधिः, अस्ति समन्तावभासो नाम समाधिः, अस्ति शुद्धावासो नाम समाधिः, अस्ति विमलप्रभो नाम समाधिः, अस्ति रतिकरो नाम समाधिः, अस्त्य् अजयो नाम समाधिः, अस्ति तेजोवती नाम समाधिः, अस्ति क्षयापगतो नाम समाधिः, अस्त्य् अनिर्जितो नाम समाधिः, अस्ति विवृतो नाम समाधिः, अस्ति सूर्यप्रदीपो नाम समाधिः, अस्ति चन्द्रविमलो नाम समाधिः, अस्ति शुद्धप्रतिभासो नाम समाधिः, अस्त्य् आलोककरो नाम समाधिः, अस्ति काराकारो नाम समाधिः, अस्ति ज्ञानकेतुर् नाम समाधिः, अस्ति चित्तस्थितिर् नाम समाधिः, अस्ति समन्तावलोको नाम समाधिः, अस्ति सुप्रतिष्ठितो नाम समाधिः, अस्ति रत्नकोटिर् नाम समाधिः, अस्ति वरधर्ममुद्रो (PSP१-१: १८४) नाम समाधिः, अस्ति सर्वधर्मसमता नाम समाधिः, अस्ति रतिजहो नाम समाधिः, अस्ति धर्मोद्गतो नाम समाधिः, अस्ति विकिरणो नाम समाधिः, अस्ति सर्वधर्मपदप्रभेदो नाम समाधिः, अस्ति समाक्षरावतारो नाम समाधिः, अस्त्य् अक्षरावतारो नाम समाधिः, अस्त्य् आवरणच्छेदो नाम समाधिः, अस्त्य् अनिगरो नाम समाधिः, अस्ति प्रभाकरो नाम समाधिः, अस्ति नामनियतप्रवेशो नाम समाधिः, अस्त्य् अनिकेतचारी नाम समाधिः, अस्ति वितिमिरापगतो नाम समाधिः, अस्ति चारित्रवती नाम समाधिः, अस्त्य् अचलो नाम समाधिः, अस्ति विषमशान्तिर् नाम समाधिः, अस्ति सर्वगुणसंचयो नाम समाधिः, अस्ति निश्चितो नामसमाधिः, अस्ति शुभपुष्पितशुद्धो नाम समाधिः, अस्ति बोध्यङ्गवती नाम समाधिः, अस्त्य् अनन्तप्रभो नाम समाधिः, अस्त्य् आगमसमो नाम समाधिः, अस्ति सर्वविक्रमणो नाम समाधिः, अस्ति प्रतिच्छेदकरो नाम समाधिः, अस्ति विमतिविकिरणो नाम समाधिः, अस्ति निरधिष्ठानो नाम समाधिः, अस्त्य् एकव्यूहो नाम समाधिः, अस्त्य् आकारानभिनिवेशनिर्हारो नाम समाधिः, अस्त्य् आकारानवकारो नाम समाधिः, अस्ति निरतिशयसर्वभवतलविकिरणो नाम समाधिः, अस्ति संकेतरूतप्रवेशो नाम समाधिः, अस्ति घोषवती नाम समाधिः, अस्ति निरक्षरविमुक्तो नाम समाधिः, अस्ति तेजोवती नाम समाधिः, अस्ति ज्वलनोल्का नाम समाधिः, अस्ति रक्षानुपरिशोषणो नाम समाधिः, अस्त्य् अनाविलक्षान्तिर् नाम समाधिः, अस्ति सर्वाकारावतारो नाम समाधिः, अस्ति सर्वसुखदुःखनिरभिनन्दी नाम समाधिः, अस्त्य् अक्षयाकारो नाम समाधिः, अस्ति धारणीपतिर् नाम समाधिः, अस्ति सम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः, अस्ति रोषविरोषप्रतिरोषो नाम समाधिः, अस्ति विमलप्रभो नाम समाधिः, अस्ति शारवती नाम समाधिः, अस्ति परिपूर्णविमलचन्द्रप्रभो नाम समाधिः, अस्ति विद्युत्प्रभो नाम समाधिः, अस्ति महाव्यूहो नाम समाधिः, अस्ति सर्वलोकप्रभाकरो नाम समाधिः, अस्ति समाधिसमा नाम समाधिः, अस्त्य् अनयविनयनयविमुक्तो नाम समाधिः, अस्त्य् अनुसरणसर्वसमवसरणो नाम समाधिः, अस्त्य् अनिलनियतो नाम समाधिः, अस्ति तथतास्थितनिश्चितो नाम समाधिः, अस्ति कायकलिसंप्रमथनो नाम (PSP१-१: १८५) समाधिः, अस्ति वाक्कलिविध्वंसनो नाम समाधिः, अस्ति गगनकल्पो नाम समाधिः, अस्त्य् आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
SK
इमे आयुष्मन् शारिपुत्र समाधयो यैः समाधिभिर् विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अन्यानि चासंख्येयाप्रमेयाणि समाधिमुखानि येषु शिक्ष्यमाणा बोधिसत्त्व महासत्त्वाः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. तत्र कतमः शूरङ्गमो नाम समाधिः? येन समाधिना सर्वसमाधीनां गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः.
SK
तत्र कतमो रत्नमुद्रो नाम समाधिः? येन समाधिना सर्वसमाधयो मुद्रिता भवत्य् अयम् उच्यते रत्नमुद्रो नाम समाधिः.
SK
एवं यावत् तत्र कतम आकाशसङ्गविमुक्तिनिरुपलेपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशासङ्गविमुक्तिनिरुपलेपताम् अनुप्राप्नोत्य् अयम् उच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
SK
इति मृद्वग्रधर्मस्यालम्बनाकारविशेषह्.
SK
अथ खल्व् आयुष्मन् सुभूतिर् बुद्धानुभावेन आयुष्मन्तं सरिपुत्रम् एतद् अवोचत्: व्यकृतो ऽयम् अयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः, ये ऽप्य् एतर्हि दशदिशि लोके तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि तथागता अर्हन्तः सम्यक्संबुद्धास् तं बोधिसत्त्वं महासत्त्वं व्याकुर्वन्ति. य एतैः समाधिभिर् विहरति स समाधिम् अपि न समनुपश्यति, स न च तेन समाधिना मन्यते, अहं समाहित इति, अहं समाधिं समापत्स्ये, अहं समाधिं समापन्नः, अहं समाधिं समापद्ये, सर्व एते विकल्पा बोधिसत्त्वस्य महासत्त्वस्य न विद्यन्ते नोपलभ्यन्ते. इति मध्याग्रधर्मस्यालंबनाकारविशेषः
SK
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते एषु समाधिषु स्थितो बोधिसत्त्वो महासत्त्वो व्याक्रियते तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः?
SK
सुभूतिर् आह: नो हीदम् आयुष्मन् शारिपुत्र. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र नान्या प्रज्ञापारमिता अन्यः समाधिः अन्यो बोधिसत्त्वो बोधिसत्त्व एव समाधिः समाधिर् एव बोधिसत्त्वः.
SK
शारिपुत्र आह: यद्य् आयुष्मन् सुभूते नान्यः समाधिः, नान्यो बोधिसत्त्वः, समाधिर् एव बोधिसत्त्वो बोधिसत्त्व एव समाधिः सर्वधर्मसमताम् उपादाय. तत् किं शक्यः स समाधिर् दर्शयितुम्?
SK
सुभूतिर् आह: न ह्य् एतद् आयुष्मन् शारिपुत्र.
SK
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते स कुलपुत्रस् तं समाधिं संजानीते?
SK
सुभूतिर् आह: नायुष्मन् शारिपुत्र स कुलपुत्रस् तं समाधिं संजानीते.
SK
शारिपुत्र आह: कथं न संजानीते?
SK
सुभूतिर् आह: यथा न विकल्पयति.
SK
शारिपुत्र आह: कथं न विकल्पयति?
SK
सुभूतिर् आह: अविद्यमानत्वेन सर्वधर्माणाम् एवं तं समाधिं न विकल्पयति, अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वो न संजानीते.
SK
शारिपुत्र आह: कथं न संजानीते?
SK
सुभूतिर् आह: अविकल्पत्वेन तस्य समाधेर् बोधिसत्त्वो महासत्त्वो न संजानीते.
SK
इत्य् अधिमात्राग्रधर्मस्यालम्बनाकारविशेषः
SK
अथ खलु भगवान् आयुष्मते सुभूतये साधुकारम् अदात्, साधु साधु सुभूते यथापि नाम ते मया अरणाविहारिणाम् अग्रतायां निर्दिष्टस्य निर्देशः.
SK
एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्सितव्यम्. एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमिअतायां शिक्षितव्यम्.
SK
एवं सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु शिक्षितव्यम्.
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते.
SK
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन. एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां (PSP१-१: १८७) शिक्षते, अनुपलम्भयोगेन,
SK
यावद् विस्तरेण सप्तत्रिंशद्बोधिसपक्षेषु धर्मेषु शिक्षते, अनुपलम्भयोगेन, यावद् अप्रमाणध्यनारूप्यसमापत्तिषु सिक्षते, अनुपलम्भयोगेन, दशबलचतुर्वैशारद्याष्टादशावेणिकेषु बुद्धधर्मेषु शिक्षते, अनुपलम्भयोगेन.
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन.
SK
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन.
SK
शारिपुत्र आह: किम् इति भगवन् नोपलभते.
SK
भगवान् आह: आत्मानं शारिपुत्र नोपलभते, यावत् सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, यावद् व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
SK
दुःखं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, समुदयं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, निरोधं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, मार्गं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
SK
कामधातुं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, रूपधातुं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, आरूप्यधातुं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तीर् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय,
SK
स्मृत्युपस्थानसम्यक्प्रहानर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् नोपलभ्यन्ते, अत्यन्तविशुद्धिताम् उपादाय, पारमिता नोपलभते अत्यन्तविशुद्धिताम् उपादाय, दशबलचतुर्वैशारद्याष्टादशावेणिकान् बुद्धधर्मान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
SK
स्रोतआपन्नं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिनं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, अनागामिनं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, अर्हन्तं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, बुद्धं (PSP१-१: १८८) नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
SK
शारिपुत्र आह: का पुनर् भगवन् विशुद्धिः?
SK
भगवान् आह: अनुत्पादः शारिपुत्र अप्रादुर्भावो ऽनुपलम्भो ऽनभिसंस्कारो विशुद्धिर् इत्य् उच्यते.
SK
इति सामान्येन विकल्पसंप्रयोगाधिकारह्.
SK
शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः कतमेषु धर्मेषु शिक्षते?
SK
भगवान् आह: एवं शिक्षामाणः शारिपुत्र बोधिसत्त्वो महासत्त्वो न कस्मिंश्चिद् धर्मे शिक्षते. तत् कस्य हेतोः? नैते शारिपुत्र धर्मास् तथा संविद्यन्ते यथा बालपृथग्जनानाम् अभिनिवेशः.
SK
शारिपुत्र आह: कथं भगवन्न् एते धर्माः संविद्यन्ते?
SK
भगवान् आह: यथा न संविद्यन्ते तथा संविद्यन्ते, एवम् असंविद्यमानास् तेनोच्यन्ते ऽविद्येति.
SK
इत्य् उष्मगतविकल्पसंप्रयोगे प्रथमो ऽविद्याविकल्पः
SK
शारिपुत्र आह: केन कारणेनोच्यते असंविद्यमाना अविद्येति.
SK
भगवान् आह: रूपं शारिपुत्र न संविद्यते, अध्यात्यशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानं शारिपुत्र न संविद्यते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, यावत् सप्तत्रिंशद्बोधिपक्षा धर्मा न संविद्यन्ते यावद् अष्टादशावेणिकबुद्धधर्मा न संविद्यन्ते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय.
SK
इति तत्रैव द्वितीयो रूपादिस्कन्धविकल्पः
SK
तत्र बाला अविद्यायां तृष्णायां चाभिनिविष्टाः, तैर् अविद्यां तृष्णां च कल्पितां कल्पयित्वा अविद्यातृष्णाभ्याम् अभिनिविश्य उभाभ्याम् अन्ताभ्यां सक्तास् ते उभाव् अन्तौ न जानन्ति न पश्यन्ति, यथा धर्मा न संविद्यन्ते, ते तान् धर्मान् कल्पयित्वा नामरूपे अभिनिविष्टाः, यावद् बुद्धधर्मेष्व् (PSP१-१: १८९) अभिनिविष्टाः.
SK
इति तत्रैव तृतीयो नामरूपाभिनिवेशविकल्पः
SK
ते धर्मेष्व् अभिनिविष्टा असंविद्यमानाव् उभाव् अन्तौ कल्पयन्ति कल्पयित्वा न जानन्ति न पश्यन्ति, किं न जानन्ति न पश्यन्ति?
SK
रूपं न जानन्ति न पश्यन्ति, वेदनां संज्ञां संस्कारान् विज्ञानं न जानन्ति न पश्यन्ति, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न जानन्ति न पश्यन्ति, यावद् अष्टादशावेणिकान् बुद्धधर्मान् न जानन्ति न पश्यन्ति, तेन ते बाला इति संख्यां गच्छन्ति.
SK
इति तत्रैव चतुर्थो ऽन्तद्वयसक्तिविकल्पः
SK
ते अविद्यातृष्णाप्रत्ययं न जानन्ति न पश्यन्ति. किं न जानन्ति न पश्यन्ति? रूपं संक्लिष्टम् इति न जानन्ति न पश्यन्ति, एवं रूपं व्यवदानम् इति न जानन्ति न पश्यन्ति, वेदनां संज्ञां संस्कारान् विज्ञानं संक्लिष्टम् इति न जानन्ति न पश्यन्ति, एवं विज्ञानं व्यवदानम् इति न जानन्ति न पश्यन्ति, ते न निर्यास्यन्ति. कुतो न निर्यास्यन्ति? कामधातोर् न निर्यास्यन्ति, रूपधातोर् न निर्यास्यन्ति, आरूप्यधातोर् न निर्यास्यन्ति, श्रावकप्रत्येकबुद्धधर्मेभ्यो न निर्यास्यन्ति.
SK
इति तत्रैव पञ्चमः संक्लेशव्यवदानाज्ञानविकल्पः
SK
ते न श्रद्दधति. किम् इति न श्रद्दधति? रूपं रूपेण शून्यम् इति न श्रद्दधति, यावद् बोधिर् बोध्यात्मना शून्येति न श्रद्दधति.
SK
ते न प्रतिष्ठन्ते. किम् इति न प्रतिष्ठन्ते? दानपारमितायां न प्रतिष्ठन्ते, शीलपारमितायां न प्रतिष्ठन्ते, क्षान्तिपारमितायां न प्रतिष्ठन्ते, वीर्यपारमितायां न प्रतिष्ठन्ते, ध्यानपारमितायां न प्रतिष्ठन्ते, प्रज्ञापारमितायां न प्रतिष्ठन्ते, अविनिवर्तनीयभूमौ न प्रतिष्ठन्ते, यावद् बुद्धधर्मेषु न प्रतिष्ठन्ते, अनेन कारणेन बाला इत्य् उच्यन्ते.
SK
ते अभिनिविष्टाः. किम् इति अभिनिविष्टाः? रूपवेदनासंज्ञासंस्कारविज्ञानेष्व् अभिनिविष्टाः, चक्षुषि श्रोत्रे घ्राणे जिह्वायां काये मनस्य् अभिनिविष्टाः, स्कन्धधात्वायतनेष्व् अभिनिविष्टाः, रागद्वेषमोहेष्व् अभिनिविष्टाः, दृष्टिकृतेष्व् अभिनिविष्टाः, यावद् बोधाव् अभिनिविष्टाः.
SK
शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते सर्वाकारज्ञतायां निर्यास्यति.
SK
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः (PSP१-१: १९०) प्रज्ञापारमितायां न शिक्षते, सर्वाकारज्ञतायां न निर्यास्यति.
SK
शारिपुत्र आह: किं कारणं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते न निर्यास्यति सर्वाकारज्ञतायाम्?
SK
भगवान् आह: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् अनुपायकुशलः कल्पयत्य् अभिनिविशते, ध्यानपारमितां कल्पयत्य् अभिनिविशते, वीर्यपारमितां कल्पयत्य् अभिनिविशते, क्षान्तिपारमितां कल्पयत्य् अभिनिविशते, शीलपारमितां कल्पयत्य् अभिनिविशते, दानपारमितां कल्पयत्य् अभिनिविशते.
SK
एवम् अप्रमाणध्यनारूप्यसमापत्तीः कल्पयत्य् अभिनिविशते, स्मृत्युपस्थानं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् कल्पयत्य् अभिनिविशते, दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान्बुद्धधर्मान् कल्पयत्य् अभिनिविशते, यावत् सर्वधर्मान् सर्वाकारज्ञतां कल्पयत्य् अभिनिविशते. अनेन शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते सर्वाकारज्ञतायां न निर्यास्यति.
SK
शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते सर्वाकारज्ञतायां न निर्यास्यति.
SK
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते न निर्यास्यति सर्वाकारज्ञतायाम्.
SK
इति तत्रैव षष्ठ आर्यमार्गप्रतिष्ठानविकल्पः
SK
शारिपुत्र आह: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते यथा शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यति?
SK
भगवान् आह: यदा शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां नोपलभते न समनुपश्यति.
SK
एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यत्य् अनुपलम्भयोगेन, एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां नोपलभते न समनुपश्यति, यावद् बोधिं सर्वाकारज्ञतां नोपलभते न समनुपश्यति.
SK
एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यत्य् अनुपलम्भयोगेन.
SK
इति तत्रैव सप्तम उपलम्भविकल्पः
SK
शारिपुत्र आह: कस्यानुपलम्भयोगेन?
SK
भगवान् आह: आत्मानं शारिपुत्र नोपलभते न समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं यावत् सर्वाकारज्ञतां नोपलभते न समनुपश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
इति तत्रैवाष्टम आत्मादिविकल्पः
SK
अनुत्पादः शारिपुत्राप्रादुर्भावो ऽनभिसंस्कारो विशुद्धिः.
SK
इति तत्रैव नवमो विशुद्ध्युत्पादादिविकल्पः
SK
इति प्रथमो ग्राह्यविकल्पः
SK
सो ऽनुपायकुशलो रूपं कल्पयत्य् अभिनिविशते, यावद् विज्ञानं कल्पयत्य् अभिनिविशते.
SK
इति मूर्धगतविकल्पसंप्रयोगे प्रथमो राश्यर्थविकल्पः
SK
चक्षुः कल्पयत्य् अभिनिविशते, एवं यावन् मनः, रूपं कल्पयत्य् अभिनिविशते, एवं यावद् धर्मान्.
SK
इति तत्रैव द्वितीय आयद्वारार्थविकल्पः
SK
चक्षूरूपचक्षुर्विज्ञानधातून् कल्पयत्य् अभिनिविशते, एवं यावन् मनोधर्ममनोविज्ञानधातून्.
SK
इति तत्रैव तृतीयो गोत्रार्थविकल्पः
SK
अविद्यां कल्पयत्य् अभिनिविशते, एवं यावज् जरामरणम्.
SK
इति तत्रैव चतुर्थ उत्पादार्थविकल्पः
SK
सो ऽध्यात्मशून्यतां बहिर्धाशून्यतां अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां कल्पयत्य् अभिनिविशते.
SK
इति तत्रैव पञ्चमः शून्यतार्थविकल्पः
SK
षट्पारमिताः कल्पयत्य् अभिनिविशते.
SK
इति तत्रैव षष्टः पारमितार्थविकल्पः
SK
सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् कल्पयत्य् अभिनिविशते.
SK
इति तत्रैव सप्तमो दर्शनमार्गविकल्पः
SK
स ध्यानाभिज्ञाप्रमाणारूप्यसमापत्तीः कल्पयत्य् अभिनिविशते.
SK
इति तत्रैवाष्टमो भावनामार्गविकल्पः
SK
स दशतथागतबलानि यावत् सर्वाकारज्ञतां कल्पयत्य् (PSP१-१: १९२) अभिनिविशते.
SK
इति तत्रैव नवमः शैक्षमार्गविकल्पः
SK
इति द्वितीयो ग्राह्यविकल्पः
SK
आत्मानं शारिपुत्र नोपलभते, एवं सत्त्वं जीवं पोषं पुरुषं पुद्गलं मनुजं मानवं कारकं वेदकं जानकं पश्यकं नोपलभते. तत् कस्य हेतोः? अत्यन्ततया ह्य् आत्मा न विद्यते नोपलभते.
SK
इति क्षान्तिगतविकल्पसंप्रयोगे प्रथमः स्वतन्त्रात्मकविकल्पः
SK
रूपं शारिपुत्र नोपलभते, यावद् विज्ञानं नोपलभते.
SK
इति तत्रैव द्वितीय एकात्मविकल्पः
SK
चक्षुः शारिपुत्र नोपलभते, एवं यावन् मनः, रूपं नोपलभते, एवं यावद् बुद्धधर्मान् नोपलभते.
SK
इति तत्रैव तृतीयः कारणात्मविकल्पः
SK
चक्षूरूपचक्षुर्विज्ञानानि शारिपुत्र नोपलभते, यावन् मनोधर्ममनोविज्ञानानि नोपलभते.
SK
इति तत्रैव चतुर्थो द्रष्टाद्यात्मविकल्पः
SK
प्रतीत्यसमुत्पादं शारिपुत्र नोपलभते, यावद् आरूप्यधातुं नोपलभते.
SK
इति तत्रैव पञ्चमः संक्लेशाधारात्मविकल्पः
SK
प्रथमं ध्यानं नोपलभते, यावद् आरूप्यसमापत्तीर् नोपलभते.
SK
इति तत्रैव षष्टो वैराग्याधारात्मविकल्पः
SK
आर्यसत्यानि नोपलभते.
SK
इति तत्रैव सप्तमो दर्शनाधारात्मविकल्पः
SK
अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीर् नोपलभते.
SK
इति तत्रैवाष्टमो भावनाधारात्मविकल्पः
SK
दशबलानि नोपलभते, यावत् सर्वाकारज्ञतां नोपलभते, कथं नोपलभते? आत्मत्वेन. तत् कस्य हेतोः? आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय.
SK
इति तत्रैव नवमः कृतार्थताधारात्मविकल्पः
SK
इति प्रथमो ग्राहकविकल्पः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् पृच्छेत् किम् अयं मायापुरुषः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन् निर्यास्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्, यावत् सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु यावत् सर्वाकारज्ञतायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति, सर्वाकारज्ञतां प्राप्स्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्?
SK
भगवान् आह: तेन हि सुभूते त्वाम् एवात्र प्रतिप्रक्ष्यामि, यथा ते क्षमते तथा व्याकुर्याः, तत् किं मन्यसे सुभूते, अन्यद् रूपम् अन्या माया, अन्या वेदना अन्या संज्ञा अन्ये संस्काराः, अन्यद् विज्ञानम् अन्या माया?
SK
सुभूतिर् आह: नो भगवन्.
SK
इत्य् अग्रधर्मगतविकल्पसंप्रयोगे प्रथमः स्कन्धप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षुः, अन्या माया अन्यच् छ्रोत्रं घ्राणं जिह्वा कायः, अन्या माया अन्यन् मनः, अन्या माया अन्यद् रूपं, अन्या माया अन्यः शब्दो गन्धो रसः स्प्रष्टव्यः, अन्या माया अन्ये धर्माः.
SK
सुभूतिर् आह: नो भगवन्. इति तत्रैव द्वितीय आयतनप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षूरूपचक्षुर्विज्ञानं, अन्या माया अन्यच् छ्रोत्रशब्दश्रोत्रविज्ञनं घ्राणगन्धघ्राणविज्ञानं, जिह्वारसजिह्वाविज्ञानं, कायस्प्रष्टव्यकायविज्ञानं, अन्या माया अन्यन् मनोधर्ममनोविज्ञानम्, अन्या माया अन्यश् चक्षुःसंस्पर्शः, अन्या माया अन्यः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो (PSP१_२: २) जिह्वासंस्पर्शः कायसंस्पर्शः, अन्या माया अन्यो मनःसंस्पर्शः.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा? सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यः पृथिवीधातुः, अन्या माया अन्यो ऽब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुः, अन्या माया अन्यो विज्ञानधातुः?
SK
सुभूतिर् आह: न भगवन्न् अन्यः पृथिवीधातुर् अन्या माया, पृथिवीधातुर् एव माया मायैव पृथिवीधातुः, न भगवन्न् अन्यो ऽब्धातुर् अन्या माया, अब्धातुर् एव माया मायैवाब्धातुः, न भगवन्न् अन्यस् तेजोधातुर् अन्या माया, तेजोधातुर् एव माया मायैव तेजोधातुः, न भगवन्न् अन्यो वायुधातुर् अन्या माया, वायुधातुर् एव माया मायैव वायुधातुः, न भगवन्न् अन्य आकाशधातुर् अन्या माया, आकाशधातुर् एव माया मायैव आकासधातुः, न भगवन्न् अन्यो विज्ञानधातुर् अन्या माया, विज्ञानधातुर् एव माया मायैव विज्ञानधातुः.
SK
इति तत्रैव तृतीयो धातुप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यः प्रतीत्यसमुत्पादः?
SK
सुभूतिर् आह: न भगवन्न् अन्या अविद्या अन्या माया, अविद्यैव माया मायैवाविद्या, न भगवन्न् अन्ये संस्कारा अन्या माया, संस्कारा एव माया मायैव संस्काराः, न भगवन्न् अन्यद् विज्ञानम् अन्या माया, विज्ञानम् एव माया मायैव विज्ञानं, न भगवन्न् अन्यं नामरूपम् अन्या माया, नामरूपम् एव माया मायैव नामरूपं, न भगवन्न् अन्यत् षडायतनम् अन्या माया, षडायतनम् एव माया मायैव षडायतनं, (PSP१-२: ३) न भगवन्न् अन्यः स्पर्शो ऽन्या माया, स्पर्श एव माया मायैव स्पर्शः, न भगवन्न् अन्या वेदना अन्या माया, वेदनैव माया मायैव वेदना, न भगवन्न् अन्या तृष्णा अन्या माया, तृष्णैव माया मायैव तृष्णा, न भगवन्न् अन्यद् उपादानम् अन्या माया, उपादानम् एव माया मायैव उपादानं, न भगवन्न् अन्यो भवो ऽन्या माया, भव एव माया मायैव भवः, न भगवन्न् अन्या जातिर् अन्या माया, जातिर् एव माया मायैव जातिः, न भगवन्न् अन्यज् जरामरणम् अन्या माया, जरामरणम् एव माया मायैव जरामरणम्.
SK
इति तत्रैव चतुर्थः प्रतीत्यसमुत्पादप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्ये सप्तत्रिंशद्बोधिपक्षा धर्माः?
SK
सुभूतिर् आह: नो भगवन्.
SK
इति तत्रैव पञ्चमो व्यवदानप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या शून्यता अन्या माया अन्यद् आनिमित्तम् अन्या माया अन्यद् अप्रणिहितम्. सुभूतिर् आह: नो भगवन्.
SK
इति तत्रैव षष्ठो दर्शनमार्गप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या ध्यानारूप्यसमापत्तयः?
SK
सुभूतिर् आह: नो भगवन्.
SK
इति तत्रैव सप्तमो भावनामार्गप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्याः सर्वशून्यताः?
SK
सुभूतिर् आह: नो भगवन्.
SK
इति तत्रैवाष्टमो विशेषमार्गप्रज्ञप्तिविकल्पः
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यानि दशबलानि, अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या बोधिः?
SK
सुभूतिर् आह: न भगवन्न् अन्या माया अन्यद् रूपं, रूपम् एव भगवन् माया मायैव भगवन् रूपं, न भगवन्न् अन्या माया अन्या वेदना, वेदनैव भगवन् माया मायैव भगवन् वेदना, न भगवन्न् (PSP१-२: ४) अन्या माया अन्या संज्ञा, संज्ञैव भगवन् माया मायैव भगवन् संज्ञा, न भगवन्न् अन्या माया अन्ये संस्कारः, संस्कारा एव भगवन् माया मायैव भगवन् संस्काराः, न भगवन्न् अन्या माया अन्यद् विज्ञानं, विज्ञानम् एव भगवन् माया मायैव भगवन् विज्ञानम्.
SK
न भगवन्न् अन्यच् चक्षुर् अन्या माया, न भगवन्न् अन्यद् रूपम् अन्या माया, न भगवन्न् अन्यच् चक्षुर्विज्ञानम् अन्या माया, न भगवन्न् अन्यश् चक्षुःसंस्पर्शो ऽन्या माया, न भगवन्न् अन्यच् चक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा अन्या माया.
SK
न भगवन्न् अन्यच् छ्रोत्रं घ्राणं जिह्वा कायो ऽन्या माया, न भगवन्न् अन्यन् मनो ऽन्या माया, न भगवन्न् अन्ये धर्मा अन्या माया, न भगवन्न् अन्यन् मनोविज्ञानम् अन्या माया, न भगवन्न् अन्यो मनःसंस्पर्शो ऽन्या माया, न भगवन्न् अन्यन् मनःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा अन्या माया.
SK
न भगवन्न् अन्या माया अन्ये बोधिपक्ष्या धर्माः, बोधिपक्ष्या धर्मा एव भगवन् माया मायैव भगवन् बोधिपक्ष्या धर्माः,
SK
न भगवन्न् अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः, अष्टादशावेणिका बुद्धधर्मा एव भगवन् माया मायैव भगवन्न् अष्टादशावेणिका बुद्धधर्माः, न भगवन्न् अन्या माया अन्या बोधिः, बोधिर् एव भगवन् माया मायैव भगवन् बोधिः.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अपि नु मायाया उत्पादो वा निरोधो वा?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, मायायाः संक्लेशो वा व्यवदानं वा?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, यस्य नोत्पादो न निरोधो न संक्लेशो न व्यवदानं स प्रज्ञापारमितायां शिक्षते? ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षते? अप्रमाणध्यानारूप्यसमापत्तिषु शिक्षते? सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु (PSP१-२: ५) शिक्षते? सर्वज्ञतायां निर्यास्यति, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अत्रैषा संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारो बोधिसत्त्व इति. पञ्चसूपादानस्कन्धेषु?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारमात्रेण पञ्चानाम् उपादानस्कन्धानाम् उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा उपलभ्यते?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, यस्य न संज्ञा न समज्ञा न प्रज्ञप्तिर् न व्यवहारो न नाम न नामप्रज्ञप्तिर् न कायो न कायकर्म न वाक् न वाक्कर्म न मनो न मनस्कर्म नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् अपि नु स प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति, अनुपलम्भयोगेन.
SK
सुभूतिर् आह: एवं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन मायापुरुषेणैव शिक्षितव्यं भगवत्य् अनुत्तरायां सम्यक्संबोधौ, तत् कस्य हेतोः? तथा हि भगवन् स एव मायापुरुषो वेदितव्यः, यद् उत पञ्चोपादानस्कन्धाः.
SK
भगवान् आह: तत् किं मन्यसे सुभूते, अपि त्व् अमी पञ्चोपादानस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन्ति?
SK
सुभूतिर् आह: नो भगवंस्, तत् कस्य हेतोः? तथा हि भगवन्न् अभावस्वभावाः पञ्चोपादानस्कन्धाः. एवं स्वप्नोपमाः पञ्चस्कन्धाःस्वप्नश् चाभावस्वभावो नोपलभ्यते, तथैव पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्ते.
SK
भगवान् आह: तत् किं मन्यसे सुभूते प्रतिश्रुत्कोपमाः पञ्चस्कन्धाः, प्रतिभासोपमाः निर्मितकोपमाः प्रतिबिम्बोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन्ति?
SK
सुभूतिर् आह: नो भगवंस्, तत् कस्य हेतोः? तथा हि भगवन्न् अभावस्वभावाप्रतिश्रुत्का, एवं प्रतिभासो निर्मितकं प्रतिबिम्बं तथैव पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्ते, तथा हि भगवन् मायोपमं रूपं मायोपमा वेदना मायोपमा संज्ञा मायोपमाः संस्कारा मायोपमं विज्ञानं, यच् च विज्ञानं तत् षडिन्द्रियं ते पञ्चस्कन्धास् ते चाध्यात्मशून्यतया नोपलभ्यन्ते, बहिर्धाशून्यतया नोपलभ्यन्ते, अध्यात्मबहिर्धाशून्यतया नोपलभ्यन्ते, यावद् अभावस्वभावशून्यतया नोपलभ्यन्ते. सचेद् एवं भगवन् भाष्यमाणो यो बोधिसत्त्वो महासत्त्वो नावलीयते न संलीयते न विप्रतिसारी भवति नोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, वेदितव्यम् अयं भगवन् निर्यास्यति सर्वज्ञतायां निर्यास्यति मार्गज्ञतायां सर्वाकारज्ञताम् अनुप्राप्स्यति.
SK
इति तत्रैव नवमो ऽशैक्षमार्गप्रज्ञप्तिविकल्पः
SK
इति द्वितीयो ग्राहकविकल्पः.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: मा खलु भगवन् नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्व इमं निर्देशं श्रुत्वा अवलीयेत संलीयेत विप्रतिसारी भवेत्, उत्त्रस्येत् संत्रस्येत् संत्रासम् आपद्येत.
SK
भगवान् आह: सचेत् सुभूते नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो भवेन् न च कल्याणमित्रहस्तगतो भवेद् उत्त्रस्येत् संत्रस्येत् संत्रासम् आपद्येत.
SK
सुभूतिर् आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं यत्र चरन् बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनित्यम् इति प्रत्यवेक्षते न चोपलभते, वेदना सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते, संज्ञासर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते, संस्काराः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्या इति प्रत्यवेक्षते न चोपलभते, विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन (PSP१-२: ७) चित्तेनानित्यम् इति प्रत्यवेक्षते न चोपलभते, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं दुःखम् इति प्रत्यवेक्षते न चोपलभते, वेदना संज्ञा संस्काराः, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विज्ञानं दुःखम् इति प्रत्यवेक्षते न चोपलभते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शून्यम् इति प्रत्यवेक्षते न चोपलभते, रूपम् अनात्मेति रूपं शान्तम् इति रूपं विविक्तम् इति रूपं शून्यम् इति रूपम् आनिमित्तम् इति रूपम् अप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन वेदना संज्ञा संस्काराः, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विज्ञानं शून्यम् इति प्रत्यवेक्षते न चोपलभते, विज्ञानम् अनात्मेति विज्ञानं शान्तम् इति विज्ञानं विविक्तम् इति विज्ञानं शून्यम् इति विज्ञानम् आनिमित्तम् इति विज्ञानम् अप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् यान् धर्मदेशनाङ् करोत्य् अनुपलम्भयोगेन इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम् अपरामर्षणता इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां क्षमणारोचनप्रत्यवेक्षणता, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां अनुत्सृष्टिर्, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता, या च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अनवकाशदानता अन्येषाम् अपि वा कुशलानां धर्माणाम् इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता, एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रत्यवेक्षते न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपम्, न वेदनाशून्यतया वेदना शून्या वेदनैव शून्यता शून्यतैव वेदना, न संज्ञाशून्यतया संज्ञा शून्या संज्ञैव शून्यता शून्यतैव संज्ञा, न संस्कारशून्यतया संस्काराः शून्याः संस्कारा एव शून्यता शून्यतैव संस्काराः, न विज्ञानशून्यतया विज्ञानं शून्यं विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्.
SK
एवं न चक्षुःशून्यतया चक्षुः शून्यं चक्षुर् एव शून्यता शून्यतैव चक्षुः, न श्रोत्रशून्यतया श्रोत्रं शून्यं श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं, न घ्राणशून्यतया घ्राणं शून्यं घ्राणम् एव शून्यताशून्यतैव घ्राणं, न जिह्वाशून्यतया जिह्वा शून्या जिह्वैव शून्यताशून्यतैव जिह्वा, न कायशून्यतया कायः शून्यः काय एव शून्यताशून्यतैव कायः, न मनःशून्यतया मनः शून्यं मन एव शून्यताशून्यतैव मनः.
SK
एवं न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपं, न शब्दशून्यतया शब्दः शून्यः शब्द एव शून्यता शून्यतैव शब्दः, न गन्धशून्यतया गन्धः शून्यः गन्ध एव शून्यता शून्यतैव गन्धः, न रसशून्यतया रसः शून्यः रस एव शून्यता शून्यतैव रसः, न स्प्रष्टव्यशून्यतया स्प्रष्टव्यं शून्यं स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टव्यं, न धर्मशून्यतया धर्माः शून्याःधर्मा एव शून्यता शून्यतैव धर्माः.
SK
एवं न चक्षुर्विज्ञानशून्यतया चक्षुर्विज्ञानं शून्यं चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं, न श्रोत्रविज्ञानशून्यतया श्रोत्रविज्ञानं शून्यं श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं, न घ्राणविज्ञानशून्यतया घ्राणविज्ञानं शून्यं घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं, न जिह्वाविज्ञानशून्यतया जिह्वाविज्ञानं शून्यं जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं, न कायविज्ञानशून्यतया कायविज्ञानं शून्यं कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानं, न मनोविज्ञानशून्यतया मनोविज्ञानं शून्यं मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानम्.
SK
एवं न चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शशून्यतया शून्यश् चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः, एवं न श्रोत्रघ्राणजिह्वाकायाः, न मनःसंस्पर्शो मनःसंस्पर्शशून्यतया शून्यो (PSP१-२: ९) मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः.
SK
एवं न चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितं, न श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितशून्यतयाशून्यं श्रोत्रसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैवश्रोत्रसंस्पर्शप्रत्ययवेदयितं, न घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितशून्यतयाशून्यं घ्राणसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव घ्राणसंस्पर्शप्रत्ययवेदयितं, न जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितम् एव शून्यता, शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदयितम्, न कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं कायसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव कायसंस्पर्शप्रत्ययवेदयितं, न मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्.
SK
न स्मृत्युपस्थानशून्यतया स्मृत्युपस्थानानि शून्यानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, न मार्गशून्यतया मार्गः शून्यो मार्ग एव शून्यता शून्यतैव मार्गः, न बलवैशारद्यावेणिकबुद्धधर्मशून्यतया बुद्धधर्माः शून्या बुद्धधर्मा एव शून्यता शून्यतैव बुद्धधर्माः. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्नापारमितायां चरन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
SK
इत्य् उपायकौशलं प्रथमः संपरिग्रहः
SK
सुभूतिर् आह: कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यैः परिगृहीत इमं प्रज्नापारमितानिर्देशं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य रूपम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, (PSP१-२: १०) तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, वेदना संज्ञा संस्कारा, विज्ञानम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य रूपं दुःखम् इति धर्मं देशयन्ति, रूपम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, वेदना संज्ञासंस्काराः, यान्य् अस्य विज्ञानं दुःखम् इति धर्मं देशयन्ति विज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य चक्षुर् अनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि यान्य् अस्य रूपम् अनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, (PSP१-२: ११) अन्यत्र सर्वाकारज्ञतायाः, एवं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मा अनित्या इति धर्मं देशयन्ति, दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति, दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.
SK
एवं श्रोत्रविज्ञानं श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शप्रत्ययवेदयितं, घ्राणविज्ञानं घ्राणसंस्पर्शो घ्राणसंस्पर्शप्रत्ययवेदयितं, जिह्वाविज्ञानं जिह्वासंस्पर्शो जिह्वासंस्पर्शप्रत्ययवेदयितं, कायविज्ञानं कायसंस्पर्शः कायसंस्पर्शप्रत्ययवेदयितं, मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति, दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि यान्य् अस्य स्मृत्युपस्थानान्य् अनित्यानीति धर्मं देशयन्ति, दुःखानीति अनात्मानीति शान्तानीति विविक्तानीति शून्यानीति आनिमित्तानीति अप्रणिहितानीति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.
SK
एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गमार्गो ऽनित्य इति धर्मं देशयन्ति, दुःख इति अनात्मेति शान्त इति विविक्त इति शून्य इति आनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच् (PSP१-२: १२) चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.
SK
एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति, तच् चानुपलम्भयोगेन तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.
SK
एवं वैशारद्यानि प्रतिसंविदो दशतथागतबलानि अष्टादशावेणिका बुद्धधर्मा अप्य् अनित्या इति धर्मं देशयन्ति, दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलनि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि, यैः परिगृहीत इमं प्रज्ञापारमितानिर्देशं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अनुपायकुशलो भविष्यति पापमित्रहस्तगतश् च भविष्यति, य इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रसिष्यति संत्रसिष्यति संत्रासम् आपत्स्यते?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ऽपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रज्ञापारमितां भावयति उपलभते, तया च प्रज्ञापारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानपारमितां भावयति उपलभते, तया च ध्यानपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वीर्यपारमितां भावयति उपलभते, तया च वीर्यपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः क्षान्तिपारमितां भावयति उपलभते, तया च क्षान्तिपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलपारमितां भावयति उपलभते, तया च शीलपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानपारमितां भावयति उपलभते, तया च दानपारमितया मन्यते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (PSP१-२: १३) चरन्न् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अध्यात्मशून्यम् इति मनसिकरोति, रूपं बहिर्धाशून्यम् इति मनसिकरोति, रूपम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् रूपम् अभावस्वभावशून्यम् इति मनसिकरोति, एवम् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वेदना संज्ञा संस्कारा विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तां चाध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् उपलभते ताभिश् च शून्यताभिर् मन्यते उपलम्भयोगेन.
SK
चक्षुर् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन. एवं रूपशब्धगन्धरसस्प्रष्टव्यधर्मेषु कर्त्तव्यं, यावच् चक्षुर्विज्ञानंश्रोत्रघ्राणजिह्वाकायमनोविज्ञानं, एवं चक्षुःसंस्पर्शः श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शः, चक्षुःसंस्पर्शप्रत्ययवेदयितम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन.
SK
एवम् अविद्या यावज् जरामरणम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शूअन्यता उपलभते, तेभिर् मन्यते उपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (PSP१-२: १४) चरन्न् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः स्मृत्युपस्थानानि भावयति तानि च स्मृत्युपस्थानानि उपलभते तैश् च मन्यते उपलम्भयोगेन, एवं सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि मार्गान् अप्रमाणानि ध्यानानि आरूप्यसमापत्तीः, अभिज्ञाः प्रतिसंविदो दशतथागतबलानि वैशारद्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति तांश् च बुद्धधर्मान् उपलभते तैश् च मन्यते उपलम्भयोगेन. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशल इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति संत्रस्यति संत्रासम् आपद्यते.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः पापमित्रपरिगृहीतो भवति, येन पापमित्रपरिग्रहेणेमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति संत्रस्यति संत्रासम् आपद्यते?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य यः प्रज्ञापारमिताया विवेचयति, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया विवेचयति, नात्र शिक्षितव्यम् इति नैतत् तथागतेनार्हता सम्यक्संबुद्धेन भाषितम् इति कविकृतान्य् एतानि काव्यानि नैतानि श्रोतव्यानि नोद्ग्रहीतव्यानि न पर्यवाप्तव्यानि न धारयितव्यानि न वाचयितव्यानि न मनसिकर्तव्यानि नापि परेभ्यो देशयितव्यानि, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं यो ऽस्य न मारकर्माण्य् उपदिशति, न मारदोषान् आचष्टे, इति हि मारः पापीयान् बुद्धवेषेण विवेचयति बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं ब्रवीति: किं ते कुलपुत्र प्रज्ञापारमितया भावितया? किं ते ध्यानपारमितया भावितया? किं ते वीर्यपारमितया भावितया? किं ते क्षान्तिपारमितया भावितया? किं ते शीलपारमितया भावितया? किं ते दानपारमितया भावितया? इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
SK
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेण श्रावकभूमिप्रतिसंयुक्तानि सूत्राणि गेयं व्याकरणं गाथोदानं निदानम् इतिवृत्तकं जातकानि वैपुल्यम् अद्भुतधर्मावदानोपदेशम् उपदेक्ष्यति प्रकाशयिष्यति विभजिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति, इमान्य् एवंरूपाणि (PSP१-२: १५) मारकर्माणि चाख्यातानि नावबोधयति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं वक्ष्यति; न ते कुलपुत्र किंचिद् बोधिचित्तं नापि त्वम् अविनिवर्तनीयो नापि त्वं शक्ष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, य इमान्य् एवंरूपाणि मारकर्माण्य् आख्यातानि नावबोधयति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति; चक्षुः कुलपुत्र शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रं घ्राणं जिह्वा कायो मनः शून्यम् आत्मना चात्मीयेन च, रूपं शून्यम् आत्मना चात्मीयेन च, एवं शब्दो गन्धो रसः स्प्रष्टव्यानि धर्माः शून्या आत्मना चात्मीयेन च, चक्षुर्विज्ञानं शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं शून्यम् आत्मना चात्मीयेन च, चक्षुःसंस्पर्शः शून्य आत्मना चात्मीयेन च, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शः शून्य आत्मना चात्मीयेन च, चक्षुःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च, दानपारमिता शून्या आत्मना चात्मीयेन च, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता शून्या आत्मना चात्मीयेन च, स्मृत्युपस्थानानि शून्यानि आत्मना चात्मीयेन च, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा यावद् आवेणिका बुद्धधर्माः शून्या आत्मना चात्मीयेनच, किं करिष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
SK
पुनर् अपरं सुभूते मारः पापीयान् बोधिसत्त्वं महासत्त्वं प्रत्येकबुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति; शून्या कुलपुत्र पूर्वा दिग् बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधिर् न बोधिसत्त्वो न श्रावकः, एवं समन्ताद् दश दिशः शून्या (PSP१-२: १६) बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधिर् न बोधिसत्त्वो न श्रावकः, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यन्ति, इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्राणि वेदितव्यानि.
SK
पुनर् अपरं सुभूते मारः पापीयान् श्रमणवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेक्ष्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् अनुशासिष्यति अववदिष्यति, य इदम् एवंरूपं मारकर्म नोपदेक्ष्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
SK
पुनर् अपरं सुभूते मारः पापीयान् उपाध्यायाचार्यवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं बोधिसत्त्वचर्याया विवेचयिष्यति सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेचयिष्यति, स्मृत्युपस्थानेषु नियोजयिष्यति सम्यक्प्रहाणेषु ऋद्धिपादेषु इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गे नियोजयिष्यति शून्यतायाम् आनिमित्ते ऽप्रणिहिते नियोजयिष्यति, इमान्य् एवंरूपान् धर्मान् साक्षात्कृत्वा श्रावकभूमिं साक्षात्कुरुष्व, किं ते करिष्यत्य् अनुत्तरां सम्यक्संबोधिं य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
SK
पुनर् अपरं सुभूते मारः पापीयान् मातापितृवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वम् एवं वक्ष्यति; एहि त्वं कुलपुत्र स्रोतआपत्तिफलसाक्षात्क्रियायै योगम् आपद्यस्व सकृदागामिफलसाक्षात्क्रियायै अनागामिफलसाक्षात्क्रियायै अर्हत्त्वफलसाक्षात्क्रियायै योगम् आपद्यस्व किं ते ऽनुत्तरया सम्यक्संबोध्या अभिसंबुद्धया यस्याः कृतशो ऽसंख्येयान् अप्रमेयान् कल्पान् संसारे संसरता हस्तच्छेदाः पादच्छेदाश् चानुभवितव्याः, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् भिक्षुवेषेणोपसंक्रम्य रूपम् अनित्यम् इति देशयिष्यत्य् उपलम्भयोगेन, रूपं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, वेदना संज्ञा संस्कारा विज्ञानम् अनित्यम् (PSP१-२: १७) इति देशयिष्यत्य् उपलम्भयोगेन, विज्नानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, एवं यावत् स्मृत्युपस्थानान्य् अनित्यानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यानि आनिमित्तानि अप्रणिहितानीति देशयिष्यत्य् उपलम्भयोगेन, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि मार्गो ऽनित्यो दुःखो ऽनात्मकः शान्तो विविक्तः शून्य आनिमित्तो ऽप्रणिहित इति देशयिष्यत्य् उपलम्भयोगेन, यावद् बुद्धधर्मा अपि अनित्या दुःखा अनात्मकाः शान्ता विविक्ताः शून्या आनिमित्ता अप्रणिहिता इति देशयिष्यत्य् उपलम्भयोगेन, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यं विदित्वा च परिवर्जयितव्यम्.
SK
इति कल्याणमित्रद्वितीयसंपरिग्रहः
SK
इत्य् उक्तं निर्वेधाङ्गं चतुर्विधम्
SK
सुभूतिर् आह: बोधिसत्त्वो बोधिसत्त्व इति भगवन्न् उच्यते, बोधिसत्त्व इति भगवन् कः पदार्थः?
SK
भगवान् आह: अपदार्थः सुभूते बोधिसत्त्वपदार्थः. तत् कस्य हेतोः? न हि सुभूते बोधेर् उत्पादो ऽस्तिता वा नास्तिता वा विद्यते वोपलभ्यते, तस्माद् अपदार्थः सुभूते बोधिसत्त्वपदार्थः.
SK
इति गोत्रस्वरूपम्
SK
तद्यथापि नाम सुभूते आकाशे शकुनेः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते स्वप्नस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मरीच्याः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिंबस्य गन्धर्वनगरस्य निर्मितस्यपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इत्य् उष्मगताधारः
SK
तद्यथापि नाम सुभूते भूतकोट्याः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथतायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् अवितथताया अनन्यतथताया धर्मताया धर्मधातोर् धर्मस्थितिताया धर्मनियामतायाः सत्यतायाः पदं न विद्यते नोपलभ्यते, एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते.
SK
इति मूर्धगताधारः
SK
तद्यथापि नाम सुभूते मायापुरुषस्य रूपस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्काराः,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य विज्ञानस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुषः पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं श्रोत्रघ्राणजिह्वाकायाः,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य मनसः पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य रूपशब्दगन्धरसस्प्रष्टव्यधर्माणां पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुरूपचक्षुर्विज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं श्रोत्रशब्दश्रोत्रविज्ञानघ्राणगन्धघ्राणविज्ञानजिह्वारसजिह्वाविज्ञानकायस्प्रष्टव्यकायविज्ञानपदार्थः, (PSP१-२: १९)
SK
तद्यथा ऽपि नाम सुभूते मायापुरुषस्य मनोधर्ममनोविज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति क्षान्तिगताधारः
SK
तद्यथापि नाम सुभूते मायापुरुषस्य अध्यात्मशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य बहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य अध्यात्मबहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, यावद् विस्तरेण,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते मायापुरुषस्य पारमितासु स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेष्व् अप्रमाणेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्कन्धेषु धातुषु आयतनेषु प्रतीत्यसमुत्पादेषु ध्यानारूप्यसमापत्त्यभिज्ञासु चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इत्य् अग्रधर्मगताधारः
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य (PSP१-२: २०) महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य वेदना संज्ञा संस्कारा विज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुःपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य श्रोत्रघ्राणजिह्वाकायमनःपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वबोधिपक्ष्यधर्मबलवैशारद्यावेणिकबुद्धधर्मेषु चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते असंस्कृतधातौ संस्कृतधातुपदं न विद्यते नोपलभ्यते, संस्कृतधाताव् असंस्कृतधातुपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्नापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति दर्शनमार्गाधारः
SK
तद्यथापि नाम सुभूते अनुत्पादपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्नापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते अनिरोधानभिसंस्काराप्रादुर्भावानुपलम्भासंक्लेशपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
तत् कस्य हेतोः? रूपस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां, विज्ञानस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते.
SK
तत् कस्य हेतोः? रूपस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां विज्ञानस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते.
SK
तत् कस्य हेतोः? रूपस्य सुभूते व्यवदानपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां विज्ञानस्य सुभूते व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
तद्यथापि नाम सुभूते व्यस्तसमस्तानां स्कन्धानां धातूनाम् आयतनानां प्रत्यीत्यसमुत्पादस्य उत्पादपदार्थो न विद्यते नोपलभ्यते, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवं सप्तत्रिंशद् बोधिपक्ष्यधर्मा प्रमाणध्यानारूप्यसमापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् उत्पादपदार्थो न विद्यते नोपलभ्यते, एवं यावद् व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते आवेणिकानां बुद्धधर्माणां यावत् संक्लेशव्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते रूपस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, वेदनायाः संज्ञायाः संस्काराणां,
SK
तद्यथापि नाम सुभूते विज्ञानस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेष्व् अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते स्मृत्युपस्थानाम् अत्यन्तविशुद्धत्वान्निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् अत्यन्तविशुद्धत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
SK
तद्यथापि नाम सुभूते आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकानां विशुद्धौ पदं न विद्यते नोपलभ्यते, आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकासत्ताम् उपादाय, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति भावनामार्गाधारः
SK
तद्यथापि नाम सुभूते आदित्यस्योदागच्छतः प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति प्रतिपक्षाधारः तद्यथापि नाम सुभूते कल्पोद्दाहे वर्तमाने सर्वसंस्कारे (PSP१-२: २३) पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति विपक्षप्रहानाधारः
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य शीले दौःशील्यपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य समाधौ विक्षेपपदं न विद्यते नोपलभ्यते, तथागतप्रज्ञायां दौष्प्रज्ञपदं न विद्यते नोपलभ्यते, तथागतविमुक्ताव् अविमुक्तिपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यविमुक्तिज्ञानदर्शने विमुक्तिज्ञानदर्शनपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति प्रतिपक्षविपक्षविकल्पप्रहाणाधारः
SK
तद्यथापि नाम सुभूते सूर्यचन्द्रमसोः प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति प्रज्ञाकरुणाधारः
SK
तद्यथापि नाम सुभूते श्रावकप्रत्येकबुद्धग्रहनक्षत्रमणिरत्नज्योतिषां प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इत्य् असाधारणगुणाधारः
SK
तद्यथापि नाम सुभूते चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां देवानां यामानां देवानां तुषितानां देवानां निर्माणरतीनां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मपार्षद्यानां देवानां ब्रह्मपुरोहितानां देवानां महाब्रह्मणां (PSP१-२: २४) देवानां यावद् अकनिष्ठानां देवानां प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
SK
इति परार्थानुक्रमाधारः
SK
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूअते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. तत् कस्य हेतोः? तथा हि सुभूते यया बोध्या बोधिसत्त्वपदार्थः यश् च बोधिसत्त्वपदार्थः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिनो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः, सर्वधर्माणां हि सुभूते बोधिसत्त्वेन महासत्त्वेन असक्ततायाम् असद्भूततायां शिक्षितव्यं, अकल्पनताम् अकल्पनतां चोपादाय, सर्वधर्माश् च सुभूते बोधिसत्त्वेन महासत्त्वेनावबोद्धव्याः.
SK
इत्य् अनाभोगे प्रवृत्तज्ञानाधारः
SK
इत्य् उक्तः प्रतिपत्त्याधारः
SK
सुभूतिर् आह: कतमे भगवन् सर्वधर्माः? कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणाम् असद्भूततायां शिक्षितव्यम्? कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः?
SK
भगवान् आह: सर्वधर्मा उच्यन्ते कुशलाश् चाकुशलाश् च व्याकृताश् चाव्याकृताश् च लौकिकाश् च लोकोत्तराश् च सास्रवाश् चानास्रवाश् च संस्कृताश् चासंस्कृताश् च साधारणाश् चासाधारणाश् च, इमम् उच्यन्ते सुभूते सर्वधर्मा यत्र बोधिसत्त्वेन महासत्त्वेनासद्भूततायां शिक्षितव्यं, इमे सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः.
SK
इत्य् आलम्बनस्वरूपम्
SK
सुभूतिर् आह: कतमे भगवन् कुशला लौकिका धर्माः.
SK
भगवान् आह: कुशला लौकिका धर्मा उच्यन्ते, मात्रेयता पित्रेयता श्रामण्यता ब्राह्मण्यता कुले ज्येष्ठापचायिता, दानम् अयं पुण्यक्रियावस्तु शीलम् अयं पुण्यक्रियावस्तु, भावनाम् अयं पुण्यक्रियावस्तु, वैयावृत्यसहगतम् उपायकौशलं, दशकुशलाः कर्मपथाः, लौकिक्यो नवसंज्ञा, आध्मातकसंज्ञा विपडुमकसंज्ञा विपूयकसंज्ञा विलोहितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञा (PSP१-२: २५) अस्थिसंज्ञा विदग्धकसंज्ञा, लौकिकानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, लौकिक्यः पञ्चाभिज्ञाः, लौकिक्यो दशानुस्मृतयः, यद् उत बुद्धानुस्मृतिर् धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिः त्यागानुस्मृतिर् देवतानुस्मृतिर् आनापानानुस्मृतिर् मरणानुस्मृतिः कायगतानुस्मृतिर् उद्वेगानुस्मृतिः, इम उच्यन्ते कुशला लौकिकाधर्माः
SK
सुभूतिर् आह: कतमे भगवन् लौकिका अकुशला धर्माः?
SK
भगवान् आह: प्राणातिपातो ऽदत्तादानं काममिथ्याचारो मृषावादः पैशुन्यं पारुष्यं संभिन्नप्रलापो ऽभिध्या व्यापादो मिथ्यादर्शनं दशाकुशलाः कर्मपथाः, क्रोधोपनाहौ म्रक्षः प्रदाशो विहिंसा ईर्ष्या मात्सर्यं मानो मिथ्यामानः, इम उच्यन्ते लौकिका अकुशला धर्माः
SK
सुभूतिर् आह: कतमे भगवन्न् अव्याकृता धर्माः?
SK
भगवान् आह: अव्याकृतं कायकर्म, अव्याकृतं वाक्कर्म, अव्याकृतं मनःकर्म, अव्याकृतानि चत्वारि महाभूतानि, अव्याकृतानि पञ्चेन्द्रियाणि, अव्याकृतानि षड् आयतनानि, अव्याकृतानि अरूप्याणि स्कन्धधात्वायतनानि, अव्याकृता विपाकाः, सर्व इम उच्यन्ते अव्याकृताधर्माः
SK
सुभूतिर् आह: कतमे भगवन् लौकिकाः कुशला धर्माः?
SK
भगवान् आह: पञ्च स्कन्धा द्वादशायतनान्य् अष्टादश धातवो दश कुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः ये चान्ये लौकिका धर्माः, इम उच्यन्ते लौकिकाः कुशला धर्माः
SK
सुभूतिर् आह: कतमे भगवन् लोकोत्तराः कुशला धर्माः?
SK
भगवान् आह: चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः, शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखम्, अनाज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियं, सवितर्कः सविचारः समाधिः, अवितर्कः सविचारः समाधिः, अवितर्को ऽविचारः समाधिः, विद्याविमुक्तिः स्मृतिः संप्रजन्यं योनिशोमनस्कारः, अष्टौ विमोक्षाः कतमे अष्टौ? रूपी रूपाणि पश्यति, (PSP१-२: २६) अयं प्रथमो विमोक्षः, अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति, अयं द्वितीयो विमोक्षः, शुभतायाम् अधिमुक्तो भवति, अयं तृतीयो विमोक्षः, सर्वशो रूपसंज्ञानां समतिक्रमात्, प्रतिघसंज्ञानाम् अस्तङ्गमात्, नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति, अयं चतुर्थो विमोक्षः, सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, अयं पञ्चमो विमोक्षः, सर्वशो विज्ञानानन्त्यायतनसमतिक्रमात्, नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति, अयं षष्ठो विमोक्षः, सर्वश आकिञ्चन्यायतनसमतिक्रमात्, नैव संज्ञानासंज्ञायतनम् उपसंपद्य विहरति, अयं सप्तमो विमोक्षः, सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति, अयम् अष्टम् विमोक्षः, इम अष्टौ विमोक्षाः.
SK
नवानुपूर्वविहारसमापत्तयः, चत्वारि ध्यानानि, विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति, प्रीतेर् विरागाद् उपेक्षकश् च विहरति स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयते यत् तदार्या आचक्षते उपेक्षकः स्मृतिमांश् चसुखविहारीति तृतीयं ध्यानम् उपसंपद्य विहरति, सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति, स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशमिति आकाशानन्त्यायतनम् उपसंपद्य विहरति, स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति, स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति, एता नवानुपूर्वविहारसमापत्तयः.
SK
अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः, अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते लोकोत्तराः कुशलधर्माः.
SK
सुभूतिर् आह: कतमे भगवन् सास्रवा धर्माः?
SK
भगवान् आह: पञ्च स्कन्धा द्वादशायतनान्य् अष्टादश धातवश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, इम उच्यन्ते सास्रवा धर्माः.
SK
सुभूतिर् आह: कतमे भगवन् अनास्रवा धर्माः?
SK
भगवान् आह: चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो यावद् अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते अनास्रवाधर्माः.
SK
सुभूतिर् आह: कतमे भगवन् संस्कृता धर्माः?
SK
भगवान् आह: कामधातू रूपधातुर् आरूप्यधातुर् ये ऽप्य् अन्ये केचित् त्रैधातुकपर्यापन्ना धर्माः, सप्तत्रिंशद् बोधिपक्षादयो धर्माः, इम उच्यन्ते संस्कृता धर्माः.
SK
सुभूतिर् आह: कतमे भगवन्न् असंस्कृता धर्माः?
SK
भगवान् आह: येषां धर्माणां नोत्पादो न निरोधो नान्यथात्वं प्रज्ञायते रागक्षयो दोषक्षयो मोहक्षयश् च, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिः, इम उच्यन्ते असंस्कृता धर्माः.
SK
सुभूतिर् आह: कतमे भगवन् साधारणा धर्माः?
SK
भगवान् आह: चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः, इम उच्यन्ते साधारणा धर्माः.
SK
सुभूतिर् आह: कतमे भगवन्न् असाधारणा धर्माः?
SK
भगवान् आह: सप्तत्रिंशद् बोधिपक्षधर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते असाधारणा धर्माः.
SK
तत्र बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु न सक्तिः कार्या, अद्वययोगेन च सर्वधर्मा अवबोद्धव्याः, अवकल्पनताम् अनवकल्पनतां चोपादाय.
SK
इत्य् उक्तं प्रतिपत्त्यालम्बनम्
SK
सुभूतिर् आह: यद् उच्यते भगवन् बोधिसत्त्वो महासत्त्व इति, केन कारणेन भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते? भगवान् आह: इह सुभूते महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति, तेन कारणेन सुभूते बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
SK
सुभूतिर् आह: कतमे भगवन् महासत्त्वराशिर् महासत्त्वनिकायः यस्य बोधिसत्त्वो महासत्त्वो ऽग्रतां कारयिष्यति?
SK
भगवान् आह: महासत्त्वराशिर् महासत्त्वनिकाय इति सुभूते उच्यते यद् उत गोत्रभूमिर् अष्टमकभूमिः स्रोतआपन्नः सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धः प्रथमचित्तोत्पादम् उपादाय यावद् अविनिवर्तनीय इति, अयं स महान् सत्त्वराशिः महासत्त्वनिकायः, अस्य बोधिसत्त्वो महासत्त्वो ऽग्रतां कारयिष्यति, तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन वज्रोपमं चित्तम् उत्पाद्य महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रताः कारयितव्याः.
SK
सुभूतिर् आह: कतमो भगवन् वज्रोपमश् चित्तोत्पादः?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति, अपरिमिते मया संसारे सन्नाहं सन्नह्य सर्वस्वपरित्यागिना भवितव्यं, सर्वसत्त्वानाम् अन्तिके मया समचित्तता उत्पादयितव्या, सर्वसत्त्वा मया त्रिभिर् यानैः परिनिर्वापयितव्याः, सर्वसत्त्वान् अपि मया परिनिर्वाप्य न कश्चित् सत्त्वः परिनिर्वापितो भवति. तत् कस्य हेतोः? अनुत्पादो मया सर्वधर्माणाम् अवबोद्धव्यः, अव्यवकीर्णेन मया सर्वाकारज्ञताचित्तेन षट्सु पारमितासु चरितव्यं, सर्वत्रानुगतायां सर्वधर्मप्रतिवेधपरिनिष्पत्त्यां मया शिक्षितव्यम्, एकतयाभिनिर्हारो मया सर्वधर्माणां प्रतिबोद्धव्यः, यावत् पारमिताभिनिर्हारप्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यं, सप्तत्रिंशद् बोधिपक्षधर्माभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, अप्रमाणध्यानारूप्याभिज्ञाज्ञानाभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, दशबलवैशारद्यावेणिकबुद्धधर्माभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादो यत्र प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां (PSP१-२: २९) कारयिष्यति, तच् चानुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति, यावन्तः सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति, तेषाम् अहम् अर्थाय तां दुःखां वेदनां वेदयेयं तत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यम्, एकैकस्याप्य् अहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखम् अनुभवेयं, यावन् न ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृता भवेयुर् इति, एतेनोपायेन सर्वसत्त्वानां कृतशस् तन् नैरयिकादिकं दुःखम् अनुभवेयं, यावन् न ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृता भवेयुर् इति, पश्चाद् अहम् आत्मनः कृतकुशलम् अवरोप्य कल्पकोटीनियुतशतसहस्रैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येयं, अयं सुबूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादो येन महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन उदारचित्तेन भवितव्यं येन चित्तेन सर्वसत्त्वानाम् अग्रता कारयितव्या, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता यत् प्रथमचित्तोत्पादम् उपादाय न रागचित्तम् उत्पादयति, न दोषचित्तम् उत्पादयति, न मोहचित्तम् उत्पादयति, न विहिंसाचित्तम् उत्पादयति, न श्रावकचित्तम् उत्पादयति, न प्रत्येकबुद्धचित्तम् उत्पादयति, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता यया सर्वसत्त्वानाम् अग्रतां कारयिष्यति, तेन च चित्तेन न मन्यते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन अकम्प्यचित्तेन भवितव्यं, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्याकम्प्यचित्तता यत् सर्वाकारज्ञताप्रतिसंयुक्तम् अपि मनसिकारन् न मन्यते, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्याकम्प्यचित्तता.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अन्तिके हितसुखचित्तेन भवितव्यं, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता या सर्वसत्त्वानां परित्राणता यः सर्वसत्त्वानाम् अपरित्यागः, तेन च न मन्यते, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता. एवं हि सुभूते बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् अग्रतां कारयिष्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मारागेण भवितव्यं धर्मरतेन धर्मारामतायोगम् अनुयुक्तेन भवितव्यं, तत्र कतमो धर्मो? यद् उत सर्वधर्माणाम् असंभेदः, अयम् उच्यते धर्मः, तत्र कतमा धर्मरतिर्? या धर्मे ऽभिरतिर् इयम् उच्यते धर्मरतिः, तत्र कतमा धर्मारामता? या तस्य धर्मस्य भावना बहुलीकरणता, इयम् उच्यते धर्मारामता. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अध्यात्मशून्यतायां स्थित्वा बहिर्धाशून्यतायां स्थित्वा अध्यात्मबहिर्धाशून्यतायां स्थित्वा यावद् अभावस्वभावशून्यतायां स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु स्थित्वा बलेषु वैशारद्येषु प्रतिसम्वित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वज्रोपमसमाधौ स्थित्वा यावद् आकाशासङ्गविमुक्तिनिरुपलेपसमाधौ स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन, एतेषु सुभूते धर्मेषु स्थित्वा बोधिसत्तेन महासत्त्वेन प्रज्ञापारमितायां चरता महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या, तेनोच्यते बोधिसत्त्वो महासत्त्वः.
SK
इति सर्वसत्त्वाग्रताचित्तमहत्त्वम्
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
SK
भगवान् आह: प्रतिभातु ते शारिपुत्र येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
SK
शारिपुत्र आह: आत्मदृष्टेर् भगवन् सत्त्वदृष्टेर् जीवदृष्टेर् जन्तुदृष्टेर् पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकदृष्टेर् (PSP१-२: ३१) च्छेददृष्टेः शाश्वतदृष्टेर् अस्तिदृष्टेर् नास्तिदृष्टेः स्कन्धदृष्टेर् धातुदृष्टेर् आयतनदृष्टेः प्रतीत्यसमुत्पाददृष्टेर् बोधिपक्षधर्मदृष्टेर् बलवैशारद्यदृष्टेर् आवेणिकबुद्धधर्मदृष्टेः सत्त्वपरिपाचनदृष्टेर् बुद्धक्षेत्रपरिशोधनदृष्टेर् बोधिसत्त्वदृष्टेर् बुद्धदृष्टेर् धर्मचक्रप्रवर्तनदृष्टेर् इति, आसां सर्वासां दृष्टीनां प्रहाणाय धर्मं देशयत्य् अनुपलम्भयोगेन, तेनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
SK
सुभूतिर् आह: केन कारणेनायुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य रूपदृष्टिर् भवति, वेदनासंज्ञासंस्कारविज्ञानदृष्टिर् भवति?
SK
शारिपुत्र आह: इहायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो भवति, स रूपम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं विस्तरेण व्यस्तसमस्तं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षराप्रमाणध्यानारूप्यसमापत्तीर् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन.
SK
इति प्रहाणमहत्त्वम्
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
SK
भगवान् आह: प्रतिभातु ते सुभूते.
SK
सुभूतिर् आह: यद् अपि भगवन् बोधिचित्तम् असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः तत्रापि चित्ते ऽसक्तः. तत् कस्य हेतोः? तथा हि तत् सर्वज्ञताचित्तम् अनास्रवम् अपर्यापन्नं त्रैधातुके तत्रापि चित्ते ऽसक्तस् तेन बोधिसत्त्वो महासत्त्व इति संख्यां गच्छति.
SK
शारिपुत्र आह: कतमद् आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः?
SK
सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा समनुपश्यति, न हानिं न वृद्धिं नागतिं न गतिं न संक्लेशं न व्यवदानं यत्र चायुष्मन् शारिपुत्र न संक्लेशो न व्यवदानं न गतिर् नागतिर् न हानिर् न वृद्धिर् नोत्पादो न निरोधः, तच् च न श्रावकचित्तं न प्रत्येकबुद्धचित्तम्, इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः.
SK
शारिपुत्र आह: यद् आयुष्मान् सुभूतिर् एवम् आह, तत्रापि श्रावकप्रत्येकबुद्धचित्ते ऽसक्त इति, नन्व् आयुष्मन् सुभूते रूपम् अप्य् असक्तं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असक्तम्.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र रूपम् अप्य् असक्तं वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असक्तं, यावद् व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादा यावज् जरामरणम् अप्य् असक्तं, एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽप्य् असक्ताः, यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अप्य् असक्ताः.
SK
शारिपुत्र आह: यद् अप्य् आयुष्मान् सुभूतिर् इदम् आह, यद् अपि तत् सर्वज्ञताचित्तम् अनास्रवम् अपर्यापन्नम् इति, नन्व् आयुष्मन् सुभूते बालपृथग्जनानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, ननु सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र.
SK
शारिपुत्र आह: रूपम् अपि सुभूते अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानम् अप्य् आयुष्मन् सुभूते अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, नन्व् आयुष्मन् सुभूते सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यथा वदसि बालपृथग्जनानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् (PSP१-२: ३३) उपादाय, यावत् सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय.
SK
शारिपुत्र आह: यद् अपि तद् आयुष्मान् सुभूतिर् एवम् आह, अचित्तत्वात् तत्रापि चित्ते असक्त इति, नन्व् आयुष्मन् सुभूते ऽरूपे ऽपि रूपम् असक्तम् अवेदनायाम् अपि वेदना असक्तासंज्ञायाम् अपि संज्ञा असक्तासंस्कारेष्व् अपि संस्कारा असक्ताविज्ञाने ऽपि विज्ञानम् असक्तम्.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र.
SK
शारिपुत्र आह: नन्व् आयुष्मन् सुभूते ऽस्मृत्युपस्थानेष्व् अपि स्मृत्युपस्थानान्य् असक्तानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताप्रमाणध्यानारूप्यसमापत्त्यभिज्ञाबलवैशारद्यानि यावद् आवेणिकबुद्धधर्मेष्व् अपि आवेणिकबुद्धधर्मा असक्ताः.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यथा वदसि, रूपे ऽप्य् आयुष्मन् शारिपुत्र रूपम् असक्तं वेदना संज्ञा संस्कारा विज्ञाने ऽपि विज्ञानम् असक्तम्, एवं व्यस्तसमस्ता अपि स्कन्धधातव आयतनानि सत्यानि प्रतीत्यसमुत्पादो ऽप्रमाणध्यानारूप्यसमापत्तयः, पारमिता अभिज्ञा बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदः, आवेणिकेषु बुद्धधर्मेष्व् आवेणिका बुद्धधर्मा असक्ताः, एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तेनापि बोधिचित्तेन असमसमचित्तेन सर्वश्रावकप्रत्येकबुद्धैर् असाधारणचित्तेन न मन्यते नाभिनिविशते सर्वधर्मानुपलम्भयोगेन.
SK
इत्य् अधिगममहत्त्वम्
SK
इत्य् उक्तः प्रतिपत्त्युद्देशः
SK
पूर्णो मैत्रायणीपुत्र आह: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
SK
भगवान् आह: प्रतिभातु ते पूर्ण.
SK
पूर्ण आह: महासन्नाहसन्नद्धः स भगवन् सत्त्वो महायानसंप्रस्थितः स सत्त्वो महायानसमारूढः स सत्त्वस् तेन भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
SK
शारिपुत्र आह: कियता अयुष्मन् पूर्ण बोधिसत्त्वो महसत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते?
SK
पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् दानपारमितायां स्थित्वा दानं ददाति, अपि तु सर्वसत्त्वानां कृतेन दानपारमितायां स्थित्वा दानं ददाति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् प्रज्ञापारमितायां स्थित्वा प्रज्ञापारमितां भावयति, अपि तु सर्वसत्त्वानां कृतेन प्रज्ञापारमितायां स्थित्वा प्रज्ञापारमितां भावयति, न सत्त्वपरिच्छेदेन बोधिसत्त्वो महासत्त्वो महासन्नाहं संनह्यते, इयतः सत्त्वान् परिनिर्वापयिष्यामि, इयतः सत्त्वान् न परिनिर्वापयिष्यामीति, इयतः सत्त्वान् बोधाय प्रतिष्ठापयिष्यामि, इयतः सत्त्वान् बोधाय न प्रतिष्ठापयिष्यामीति, अपि तु खलु पुनः सर्वसत्त्वानां कृतेन सन्नाहं संनह्यते, एवं चास्य भवति, आत्मना च दानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च दानपारमितायां नियोजयिष्यामीति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, आत्मना च प्रज्ञापारमितां परिपूरयिष्यामि, सर्वसत्त्वांश् च प्रज्ञापारमितायां नियोजयिष्यामीति, एवम् अप्रमाणध्यानारूप्यसमापत्तीः, आत्मना च भावयिष्यामि सर्वसत्त्वांश् च तासु प्रतिष्ठापयिष्यामीति, यावत् सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशबलवैशारद्याष्टादशावेणिकेषु बुद्धधर्मेष्व् आत्मना च स्थास्यामि सर्वसत्त्वांश् च तेषु प्रतिष्ठापयिष्यामीति, इयतायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
इति प्रतिपत्तिस्वरूपम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् यावद् दानस्य सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये निर्यातना, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो दानपारमितासन्नाहः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या श्रावकप्रत्येकबुद्धमनसिकाराणां परिवर्जनता, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं (PSP१-२: ३५) ददतः शीलपारमितासन्नाहः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या तेषां क्षमणा रोचना व्युपपरीक्षणा, अयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो क्षान्तिपारमितासन्नाहः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या वीर्यास्रंसनता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो वीर्यपारमितासन्नाहः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो या चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धचित्तस्यानवकाशं दानता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो ध्यानपारमितासन्नाहः.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या मायाकृतसंज्ञोपस्थिता नैव दायकम् उपलभते न प्रतिग्राहकं न देयं, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः प्रज्ञापारमितासन्नाहः, यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन ताः षट् पारमिता न निमित्तीकरोति नोपलभते.
SK
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो भवति.
SK
इति दानपारमितासन्नाहषट्कं प्रथमम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति सर्वसत्त्वसाधारणं कृत्वा अनुत्त्रायै सम्यक्संबोधये परिणामयत्य् अनुपलम्भयोगेन, इयं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो दानपारमिता.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलपारमितायां चरतो या श्रावकप्रत्येकबुद्धभूम्यस्पृहणता प्राग् एव पृथग्जनभूमेः, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः शीलपारमिता.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या धर्माणां क्षमणा रोचना व्युपपरीक्षणा, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः क्षान्तिपारमिता.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या वीर्यास्रंसनता अनवलीनता, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो वीर्यपारमिता.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरतो यच् छ्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां चित्तोत्पादानाम् अनवकाशदानं तस्य कृतशः कुशलमूलस्य सर्वसत्त्वसाधारणी कृतस्यानुत्तरायै सम्यक्संबोधये परिणामना, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो ध्यानपारमिता.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वधर्मेषु मायाकृतसंज्ञाप्रत्युपस्थिता भवति, तच् च शीलं न मन्यते नोपलभते, इयम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितयां चरतः प्रज्ञापारमिता.
SK
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
SK
इति शीलपारमितासन्नाहषट्कं द्वितीयम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, (PSP१-२: ३७) इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतो दानपारमिता, एवं क्षान्तिपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् सर्वबुद्धधर्मसमुदानयनतायै सर्वसत्त्वपरिपाकाय च प्रयुज्यते प्रज्ञया सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् चकुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः प्रज्ञापारमिता.
SK
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
SK
इति क्षान्तिपारमितासन्नाहषट्कं तृतीयम्
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतो दानपारमिता, एवं वीर्यपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उपस्थापयति, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुसलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमिता.
SK
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
SK
इति वीर्यपारमितासन्नाहषट्कं चतुर्थम्
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां (PSP१-२: ३८) चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतो दानपारमिता, एवं ध्यानपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उपस्थापयति, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमिता.
SK
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
SK
इति ध्यानपारमितासन्नाहषट्कं पञ्चमम्
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् त्रिमण्डलपरिशुद्धं दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता, एवं प्रज्ञापारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयति, तस्य सर्वपारमितासु सर्वधर्मेषु च मायास्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बनिर्माणसंज्ञा प्रत्युपस्थिता भवति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां परिपूरयति, यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनैताः षट् (PSP१-२: ३९) पारमिता न निमित्तीकरोति नोपलभते.
SK
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो भवति, एवं च पुनर् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्व एकैकस्यां पारमितायां स्थित्वा षट् पारमिताः परिपूरयति.
SK
इति प्रज्ञापारमितासन्नाहषट्कं षष्ठम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानानि च समापद्यते न च ध्यानान्य् आस्वादयति न च तैः संह्रियते न च तेषां वशेनोपपद्यते, एवम् अप्रमाणानि चारूप्यसमापत्तीश् च समापद्यते न च ता आस्वादयति न च ताभिः संह्रियते न च तासां वशेनोपपद्यते, इयं बोधिसत्त्वस्य महासत्त्वस्योपायकौशलगता प्रज्ञापारमिता वेदितव्या.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानारूप्यसमापत्तिषु विवेकदर्शनेन च विहरति शून्यतानिमित्ताप्रणिहितदर्शनेन च विहरति न च भूतकोटिं साक्षात्करोति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलसन्नाहः.
SK
एवम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धस् तेनोच्यते बोधिसत्त्वो महासत्त्व इति, एवं महासन्नाहसन्नद्धस्यायुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य दशसु दिक्षु बुद्धा भगवन्त उदानम् उदानयन्ति वर्णम् उदीरयन्ति नामधेयं परिकीर्तयमानास् तस्य बोधिसत्त्वस्य महासत्त्वस्य शब्दम् अनुश्रावयन्ति घोषम् उदीरयन्ति, अमुष्मिन् लोकधातुप्रसरे बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इति सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति.
SK
इति सन्नाहषट्कोपसंहारः
SK
इत्य् उक्ता सन्नाहप्रतिपत्तिः
SK
शारिपुत्र आह: कियत् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थितो महायानसमारूढो भवति?
SK
पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् (PSP१-२: ४०) उपसंपद्य विहरति, एवं द्वितीयं तृतीयं चतुर्थं ध्यानं, एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, इमानि बोधिसत्त्वस्य महासत्त्वस्य ध्यानारूप्याणि यदा बोधिसत्त्वो महासत्त्व एतैश् च ध्यानैर् एतैश् चारूप्यैर् दानपारमितायां चरन्न् आकाशाकारलिङ्गनिमित्तैः समापद्यमानो व्युत्तिष्ठमानश् च तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां वाच्यम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चत्वारि ध्यानानि समापद्यते चतस्र आरूप्यसमापत्तीः समापद्यते, यदा बोधिसत्त्वो महासत्त्व एतैश् च ध्यानैर् एताभिश् चारूप्यसमापत्तिभिर् विहरति, स एता ध्यानारूप्यसमापत्तीः समापद्यमानो व्युत्तिष्ठमानश् चाकाशाकारलिङ्गनिमित्तानि मनसिकरोति, प्रज्ञापारमितायां चरंस् तानि च कुशलमूलान्य् अन्यानि च सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
SK
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः षट् पारमितासु चरन् महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति.
SK
इति ध्यानारूप्यसमापत्तिव्युत्थानप्रस्थानम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो यत् सर्वाकारज्ञताप्रतिसंयुक्तं मनसिकारम् उत्पाद्य क्लेशानां ध्वंसनाय सर्वसत्त्वानां धर्मं देशयिष्यामीति चित्तम् उत्पादयति, इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता,
SK
यद् बोधिसत्त्वो महासत्त्वस् तैर् एव सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रथमं ध्यानम् आक्रामति देशयति, तत्र च प्रथमे ध्याने प्रतिष्ठते न चान्येषां चित्तोत्पादानाम् अवकाशं ददाति श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानाम् इयं बोधिसत्त्वस्य महासत्त्वस्य अपरामृष्टा शीलपारमिता,
SK
यद् बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैर् (PSP१-२: ४१) मनसिकारैर् ध्यानारूप्यैर् विहरत एवं भवति, सर्वसत्त्वानां क्लेशक्षयाय धर्मं देशयिष्यामीति, यावत् तेषां मनसिकाराणां क्षमणा रोचना व्युपपरीक्षणा अवबोध उपनिध्यापनम्, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वकुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति वीर्यं च न स्रंसयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता,
SK
यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानारूप्यसमापत्तीश् च समापद्यते न चोपलभते, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता,
SK
यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रथमध्यानाङ्गानि द्वितीयानि तृतीयानि चतुर्थानि ध्यानाङ्गानि अनित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण आनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न चोपलभते, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
SK
इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
इति षट्पारमिताप्रस्थानम्
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यत् सर्वाकारं सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति, सर्वाकारं शून्यतानिमित्ताप्रणिहितविमोक्षमुखसमाधिं भावयति, सर्वाकारं बलानि वैशारद्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति.
SK
इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
इत्य् आर्यमार्गप्रस्थानम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावधेन सर्वत्रानुगतेन सुभाषितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकम् एकां दिशं स्फुरित्वोपसंपद्य विहरति, यावद् दश दिशः स्फुरित्वोपसंपद्य विहरति, एवं करुणासहगतेन मुदितासहगतेन उपेक्षासगतेन चित्तेनविपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन सुभाषितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकं, एकां दिशं स्फुरित्वोपसंपद्य (PSP१-२: ४२) विहरति, यावद् दश दिशः स्फारित्वोपसंपद्य विहरति. इमान्य् उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्याप्रमाणानि.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महसत्त्वो मैत्रीसमाधिं समापद्यते मया सर्वसत्त्वास् त्रातव्या इति निर्णामयति, करुणां च समाधिं समापद्यते क्लीबकारुण्यतां च सत्त्वेषु निर्णामयति, मुदितां च समाधिं समापद्यते अहम् एव मोदयिष्यामीति सत्त्वेषु निर्णामयति, उपेक्षां च समाधिं समापद्यते आस्रवक्षयं च सत्त्वेषु निर्णामयति, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो दानपारमिता,
SK
यदा बोधिसत्त्वो महासत्त्वो ध्यानाप्रमाणाकारलिङ्गनिमित्तानि समापद्यते व्युत्तिष्ठते च न च श्रावकप्रत्येकबुद्धभूमौ परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा शीलपारमिता,
SK
यदा बोधिसत्त्वो महासत्त्वस् ताभिर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् अव्यवकीर्णो विहरति, आभ्यां द्वाभ्यां श्रावकभूमये वा प्रत्येकबुद्धभूमये वा न स्पृहयते सर्वाकारज्ञतैवास्य क्षमते रोचते चेयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतः क्षान्तिपारमिता,
SK
यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अनिक्षिप्तधुरो विहरति अकुशलधर्मप्रहाणाय कुशलधर्मोपसंपदे, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो वीर्यपारमिता,
SK
यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एताश् चाप्रमाणारूप्यसमापत्तीश् च समापद्यते, न च ध्यानाप्रमाणारूप्यसमापत्तिवशेनोपपद्यते, न च ता आस्वादयति न च ताभिः संह्रियते, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ध्यानपारमिता,
SK
यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् ता ध्यानाप्रमाणारूप्यसमापत्तीः समापद्यते च व्युत्तिष्ठते च ताश् चानित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते, न च श्रावकन्यामं वा प्रत्येकबुद्धन्यामं वाभिक्रामति, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतः प्रज्ञापारमिता. इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्व्स्य माहायानम्.
SK
इत्य् अप्रमाणप्रस्थानम्
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्, यद् अध्यात्मशून्यतायां ज्ञानं न चोपलम्भयोगेन, यद् बहिर्धाशून्यतायां ज्ञानं न चोपलम्भयोगेन, यद् अध्यात्मबहिर्धाशून्यतायां ज्ञानं न चोपलम्भयोगेन, यावद् अभावस्वभावशून्यतायां ज्ञानं न चोपलम्भयोगेन. इदं बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यत् सर्वधर्मेषु न शिक्षिष्यते चित्तं समाहितं तज् ज्ञानम्. इदम् अपि बोधिसत्त्वस्य महासत्त्वस्य महायनम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् अस्य न नित्यम् इति ज्ञानं प्रवर्तते नानित्यम् इति, न दुःखम् इति नादुःखम् इति, न सुखम् इति नासुखम् इति, नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति, न शून्यम् इति नाशून्यम् इति, न निमित्तम् इति नानिमित्तम् इति, न प्रणिहितम् इति नाप्रणिहितम् इति ज्ञानं प्रवर्तते. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायनम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् अतीते ऽध्वनि ज्ञानं न प्रवर्तते, अनागते ऽध्वनि ज्ञानं न प्रवर्तते, प्रत्युत्पन्ने ऽध्वनि ज्ञानं न प्रवर्तते, न चास्य त्रिष्व् अध्वस्व् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् अपि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यन् न कामधातौ ज्ञानं प्रवर्तते न रूपधातौ ज्ञानं प्रवर्ततेनारूप्यधातौ ज्ञानं प्रवर्तते, न चास्य कामरूपारूप्यधाताव् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् अपि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यन् न लौकिकेषु लोकोत्तरेषु धर्मेषु ज्ञानं प्रवर्तते, न सास्रवेषु धर्मेषु नानास्रवेषु धर्मेषु न संस्कृतेषु नासंस्कृतेषु न चास्यलौकिकलोकोत्तरसास्रवानास्रवसंस्कृतासंस्कृतेषु धर्मेष्व् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य (PSP१-२: ४४) महासत्त्वस्य महायानम्.
SK
इत्य् अनुपलम्भयोगेन प्रस्थानम्
SK
शारिपुत्र आह: कियतायुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते?
SK
पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमिताम् आरोहति, स नैव दानपारमिताम् उपलभते न दायकं न प्रतिग्राहकं न दानम् उपलभते अनुपलम्भयोगेन, एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वोदानपारमितासमारूढ इत्य् उच्यते, एवं शीलपारमितासमारूढः क्षान्तिपारमितासमारूढो वीर्यपारमितासमारूढो ध्यानपारमितासमारूढः प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् आरोहति, स नैवप्रज्ञापारमिताम् उपलभते न बोधिसत्त्वं न मनसिकारम् उपलभते अनुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितासमारूढ इत्य् उच्यते.
SK
इति त्रिमण्डलपरिशुद्धिप्रस्थानम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन शून्यतानिमित्ताप्रणिहितसमाधीन् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं संजानाति, व्यवहारमात्रम् इदं यद् उत बोधिसत्त्व इति सत्त्वानुपलब्धिताम् उपादाय, इदम् अपि नाममात्रं यद् उत रूपं रूपानुपलब्धिताम् उपादाय, वेदना संज्ञा संस्काराः, नाममात्रम् इदं यद् उत विज्ञानं विज्ञानानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत चक्षुश् चक्षुषो (PSP१-२: ४५) ऽनुपलब्धिताम् उपादाय, एवं श्रोत्रं घ्राणं जिह्वा कायो नाममात्रम् इदं यद् उत मनो मनसो ऽनुपलब्धिताम् उपादाय, एवं व्यस्तसमस्ताः स्कन्धा धातव आयतनानि प्रतीत्यसमुत्पादः सप्तत्रिंशद् बोधिपक्ष्या धर्मा बलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, नाममात्रम् इदं यद् उत अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत बुद्धधर्माबुद्धधर्मानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत तथता धर्मधातुश् च धर्मनियामता च भूतकोटिश् च भूतकोट्यनुपलब्धिताम् उपादाय, नाममात्रं यद् उत बोधिर् बुद्धश् च बुद्धानुपलब्धिताम् उपादाय. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
SK
इत्य् उद्देशप्रस्थानम्
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् बोधिर् अत्रान्तरे बोधिसत्त्वो महासत्त्वो ऽभिज्ञापरिपूर्णत्वात् सत्त्वांश् च परिपाचयति बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति, बुद्धक्षेत्रे बुद्धक्षेत्रे च बुद्धान् भगवतः सत्करोति गुरुकरोति मानयति पूजयति, यो यस्य बुद्धस्य औपयिकपूजासत्कारविधिस् तेभ्यश् च बुद्धेभ्यो भगवद्भ्यो धर्मं शृणोति, यद् उत इदम् एव महायानम्, स तत्र बोधिसत्त्वयाने अभिरुह्य बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति, बुद्धक्षेत्रं च परिशोधयति सत्त्वांश् च परिपाचयति, न चास्य बुद्धक्षेत्रसंज्ञा प्रवर्तते न सत्त्वसंज्ञा प्रवर्तते, सो ऽद्वयभूमौ स्थित्वा यादृशेनात्मभावेन सत्त्वानां शक्नोत्य् अर्थकरणाय तादृशम् आत्मभावं संचिन्त्य परिगृह्णाति, स न जातु तेन महायानेन विरहितो भवति, यावत् सर्वाकारज्ञताम् अनुप्राप्नोति.
SK
इत्य् अभिज्ञाप्रस्थानम्
SK
सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, अप्रवर्तनीयं सर्वश्रावकप्रत्येकबुद्धैर् देवनागयक्षगन्ध्र्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यासुरेण लोकेन, तस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति (PSP१-२: ४६) यशः प्रकाशयन्ति, एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञतानुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति, एषामुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञतानुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
SK
इति सर्वाकारज्ञताप्रस्थानम्
SK
इत्य् उक्ता प्रस्थानप्रतिपत्तिः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महासन्नाहसन्नद्धो महासन्नाहसन्नद्ध इति भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते, कियता भगवन् बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो महायानं सन्नह्य यद् उत दानपारमितासन्नाहं शीलपारमितासन्नाहं क्षान्तिपारमितासन्नाहं वीर्यपारमितासन्नाहं ध्यानपारमितासन्नाहं प्रज्ञापारमितासन्नाहं सन्नह्यते, स्मृत्युपस्थानसन्नाहं सन्नह्य, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसन्नाहंसन्नह्य, अप्रमाणध्यानारूप्यसमापत्तिसन्नाहं सन्नह्य, अध्यात्मशून्यतासन्नाहं सन्नह्य, बहिर्धाशून्यतासन्नाहं सन्नह्य, अध्यात्मबहिर्धाशून्यतासन्नाहं सन्नह्य, यावद् अभावस्वभावशून्यतासन्नाहं सन्नह्य, अभिज्ञाबलसन्नाहं सन्नह्य, वैशारद्यसन्नाहं सन्नह्य, प्रतिसंवित्सन्नाहं सन्नह्य, अष्टादशावेणिकबुद्धधर्मसन्नाहं सन्नह्य, सर्वाकारज्ञतासन्नाहं सन्नह्य, बुद्धविग्रहसन्नाहं सन्नह्य, त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फरति च, षड् विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वाणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्व (PSP१-२: ४७) एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्संबुद्धायेति, ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते, ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति, एवं तिर्यग्योनितो यमलोकतो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति च देवमनुष्योपपत्तिं च परिगृह्णन्ति, एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमान् लोकधातून् अवभासेन स्फरति च षड् विकारं कम्पयति च सर्वेषु नैरयिक भवनेषु च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वाणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्व एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्संबुद्धायेति, ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते, ते तेनैव सुखसौमनस्येन तेभ्यो निरयभ्यो व्युत्थाय तत्र तत्र लोकधाताव् उपपद्यन्ते यत्र यत्र बुध्हान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिं च परिगृह्णन्ति, एवं तिर्यग्योनिभ्यो यमलोकेभ्यो व्युत्थाय तत्र तत्र लोकधाताव् उपपद्यन्ते यत्र यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिं च परिगृह्णन्ति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो निरयांस् तिर्यग्योनियमलोकं च निर्मिमीते निर्माय तेषां सत्त्वानां बुद्धशब्दं धर्मशब्दं संघशब्दम् अनुश्रावयति, ततस् तेन बुद्धशब्देन धर्मशब्देन संघशब्देन तेभ्यो निरयतिर्यग्योनियमलोकेभ्यो व्युत्थाय देवमनुष्येषूपपद्येरन्, अपि तु सुभूते तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वो निरयतिर्यग्योनियमलोकगतिभ्यो व्युत्थापितः?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन असंख्येयेष्व् अप्रमेयेष्व् अप्रमाणेषु लोकधातुषु सत्त्वांस् त्रिभ्यो ऽपायेभ्यः परिमोच्य न कश्चित् सत्त्वः परिमोचितो भवति. तत् कस्य (PSP१-२: ४८) हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय.
SK
एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महायानसमारूढो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
इति करुणासंभारः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा महासन्नाहसन्नद्धस् त्रिसाहस्रं महासाहस्रं लोकधातुं वैडूर्यम् अयं निर्मिमीते वैडूर्यम् अयं निर्माय चक्रवर्तिव्यूहं निर्मिमीते चक्रवर्तिव्यूहं निर्माय अन्नार्थिकेभ्यो ऽन्नं ददाति, एवं यावद् वस्त्रयानगन्धमाल्यपुष्पधूपविलेपनचूर्णपरिष्कारं वासशयनासनप्रावरणजीवितोपकरणभैषज्यसुवर्णरूप्यमणिरत्नप्रवाडशङ्खशिलामुक्ताभरणानि यावद् अन्यतरान्यतरं परिष्कारं ददाति, सो ऽन्नम् अन्नार्थिकेभ्यो दत्वा यावद् अन्यतरान्यतरं परिष्कारं दत्वा तेषां सत्त्वानां धर्मं देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्, ते खलु पुनः सत्त्वास् तां धर्मदेशनां श्रुत्वा न जातु ताभिः पारमिताभिर् विरहिता भवन्ति यवाद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे स्थित्वा महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्मिमीते निर्माय अन्नम् अन्नार्थिकेभ्यो दद्याद् अन्यतरान्यतरं परिष्कारन् तद् अर्थिकेभ्यो दद्यात्. तत् किं मन्यसे? सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कस्मैचित् किञ्चिद् दत्तं भवेत्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन यावच् चक्रवर्तिव्यूहम् अभिनिर्माय अन्नम् अन्नार्थिकेभ्यो ददता यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददता न कस्मैचित् सत्त्वाय यावद् अन्यतरान्यतरा मानुष्यकाः परिष्कारा दत्ता भवन्ति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
इति दानसंभारः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित्वा संचिन्त्योपपत्तिपरिग्रहेण चक्रवर्तिकुले प्रत्याजायते, स तत्र (PSP१-२: ४९) स्थित्वा सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयति, सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु प्रतिष्ठापयति, यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयति, ते च सत्त्वा न जातु विरहिता भवन्ति तया धर्मदेशनया, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत्, यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयेत्, तेन तावतः सत्त्वान् यावद् बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य, यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
इति शीलसंभारः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय, एवं सन्नाहं सन्नह्यते, सचेन् मम सर्वसत्त्वा दण्डलोष्टमुष्टिशस्त्रप्रहारन् दद्युस् तत्र मया एकम् अपि क्षोभचित्तं नोत्पादयितव्यं सर्वसत्त्वाश् चैवंरूपायां क्षान्तौ प्रतिष्ठापयितव्या इति.
SK
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्मिमीते ते ऽपि सर्वे तस्य मायाकारस्य दण्डैर् लोष्टैर् मुष्टिभिः शस्त्रैर् वा प्रहारं दद्युः, स च तेषु एकम् अपि क्षोभचित्तं नोत्पादयेत् तांश् च सत्त्वान् निर्मितान् एवं रूपायां क्षान्तौ प्रतिष्ठापयेत्, तेन तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित् सत्त्वः क्षान्तौ प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते (PSP१-२: ५०) धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
इति क्षान्तिसंभारः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः कायिकचैतसिकवीर्ये प्रतिष्ठितः सर्वसत्त्वान् कायिकचैतसिकवीर्ये समादापयति निवेशयति प्रतिष्ठापयति.
SK
तद्यथापि नाम सुभूते दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः कायिकचैतसिकवीर्ये प्रतिष्ठापयेत्, तेन तांस् तावतः सत्त्वान् कायिकचैतसिकवीर्ये प्रतिष्ठाप्य न कश्चित् सत्त्वः कायिकचैतसिकवीर्ये प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् कायिकचैतसिकवीर्ये प्रविष्ठाप्य न कश्चित् सत्त्वः कायिकचैतसिकवीर्ये प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
इति वीर्यसंभारः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणां समतायां स्थित्वा न कस्यचिद् धर्मस्य विक्षेपं वा अविक्षेपं वा समनुपश्यति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो भवति, स तथैव सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, ते च समादापिता निवेशिताः प्रतिष्ठापिता भवन्ति, न जातु विरहिता भवन्ति ध्यानपारमितया यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति.
SK
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा (PSP१-२: ५१) चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय तं जनकायं ध्यानपारमितायां प्रतिष्ठापयेत्, तेन तांस् तावतः सत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चिद् एकः सत्त्वो ऽपि ध्यानपारमितायां प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
इति ध्यानसंभारः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति? यतः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कस्यचिद् धर्मस्यापारं वा पारं वा उपलभते, एवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो भवति, स तथैव सर्वसत्त्वान् अपि तत्र समादापयति निवेशयति प्रतिष्ठापयति.
SK
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, तेन तांस् तावतः सत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चिद् एकसत्त्वो ऽपि प्रज्ञापारमितायां प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रज्ञा अपारमितायां प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
इति प्रज्ञासंभारः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वास् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, धर्मं च (PSP१-२: ५२) देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्, ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वास् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, धर्मं च देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तं, ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति.
SK
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय षट्सु पारमितासु समादापयति निवेशयति प्रतिष्ठापयति. तत् किं मन्यसे? सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वः षट्सु पारमितासु समादापितो भवति, निवेशितो वा प्रतिष्ठापितो वा भवेत्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् षट्सु पारमितासु प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पारमितासु प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विहरन् नान्येषां चित्तोत्पादानाम् अवकाशं ददाति, इयन्तो मया सत्त्वा दानपारमितायां प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायाम् इयन्तो मया सत्त्वाः प्रज्ञापारमितायां प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति, इयन्तः सत्त्वाः सप्तत्रिंशद् बोधिपक्ष्येषु धर्मेषु प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या, यावद् इयन्तः सत्त्वा अष्टादशस्व् (PSP१-२: ५३) आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्याः, एवं सकृदागामिफले अनागामिफले इयन्तः सत्त्वा अर्हत्त्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः प्रत्येकबुद्धत्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः सर्वज्ञत्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति.
SK
अपि तु खलु पुनर् असंख्येयाः सत्त्वा अप्रमेयाः सत्त्वाः षट्सु पारमितासु प्रतिष्ठापयितव्याः, एवं सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशसु तथागतबलेषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्याः स्रोतआपत्तिफले सकृदागामिफले अनागामिफले अर्हत्त्वे प्रत्येकबुद्धत्वे असंख्येया अप्रमेयाः सत्त्वा बुद्धत्वे प्रतिष्ठापयितव्याः.
SK
इति शमथसंभारः
SK
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायम् असंख्येयम् अप्रमेयं निर्माय तं षट्सु पारमितासु प्रतिष्ठापयेत्, यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठापयेद् एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् असंख्येयान् अप्रमेयान् षट्सु पारमितासु प्रतिष्ठाप्य यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पारमितासु प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां यद् इमां मायाधर्मताम् उपादाय.
SK
सुभूतिर् आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि तथा असन्नाहसन्नद्धो बतायं बोधिसत्त्वो महासत्त्वो वेदितव्यः स्वलक्षणशून्यताम् उपादाय. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपेण शून्यं, वेदना संज्ञा संस्कारा विज्ञानं विज्ञानेन शून्यं, चक्षुश् चक्षुषा शून्यम्, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो मनसा शून्यम्, रूपं रूपेण शून्यं, एवं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मा धर्मैः शून्याः, चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यम्, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं मनोविज्ञानेन शून्यं, चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः, चक्षुःसंस्पर्शप्रत्ययवेदयितं (PSP१-२: ५४) चक्षुःसंस्पर्शप्रत्ययवेदयितेन शून्यम्, एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं, घ्राणसंस्पर्श अप्रत्ययवेदयितं, जिह्वासंस्पर्शप्रत्ययवेदयितं, कायसंस्पर्शप्रत्ययवेदयितं, मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितेन शून्यम्.
SK
दानपारमितापि भगवन् दानपारमितया शून्या, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता प्रज्ञापारमितया शून्या,
SK
अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या,
SK
सप्तत्रिंशद् बोधिपक्षा धर्मा बोधिपक्षैर् धर्मैः शून्याः, दशतथागतबलानि दशभिस् तथागतबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, अष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकबुद्धधर्मैः शून्या, बोधिसत्त्वो ऽपि भगवन् बोधिसत्त्वेन शून्यः, महायानसन्नाहो ऽपि भगवन् महायानसन्नाहेन शून्यः. अनेन भगवन् पर्यायेण असन्नाहसन्नद्धो बोधिसत्त्वो वेदितव्यः.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते यथा वदसि. तत् कस्य हेतोः? अकृता हि सुभूते सर्वाकारज्ञता अविकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः, येषां कृतशो बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः.
SK
सुभूतिर् आह: केन कारणेन भगवन् सर्वाकारज्ञता अकृता अविकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता विकृता अनभिसंस्कृताः, येषां कृतशो बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः.
SK
भगवान् आह: कारकानुपलब्धिताम् उपादाय सुभूते सर्वाकारज्ञता अकृता विकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः. तत् कस्य हेतोः? न हि सुभूते रूपं करोति न विकरोति नाभिसंस्करोति, न वेदना न संज्ञा न संस्काराः, न विज्ञानं करोति न विकरोति नाभिसंस्करोति.
SK
न चक्षुः करोति न विकरोति नाभिसंस्करोति, न श्रोत्रं न घ्राणंन जिह्वा न कायो न मनः करोति न विकरोति नाभिसंस्करोति, न रूपं (PSP१-२: ५५) करोति न विकरोति नाभिसंस्करोति, न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्माः कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति.
SK
न चक्षुर्विज्ञानं करोति न विकरोति नाभिसंस्करोति, न श्रोत्रविज्ञानं न घ्राणविज्ञानं न जिह्वाविज्ञानं न कायविज्ञानं न मनोविज्ञानं करोति न विकरोति नाभिसंस्करोति.
SK
न चक्षुःसंस्पर्शः करोति न विकरोति नाभिसंस्करोति, न श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न जिह्वासंस्पर्शो न कायसंस्पर्शो न मनःसंस्पर्शः करोति न विकरोति नाभिसंस्करोति.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति, न श्रोत्रसंस्पर्शप्रत्ययवेदयितं न घ्राणसंस्पर्शप्रत्ययवेदयितं न जिह्वासंस्पर्शप्रत्ययवेदयितं न कायसंस्पर्शप्रत्ययवेदयितं न मनःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते.
SK
आत्मा सुभूते न करोति न विकरोति नाभिसंस्करोति, एवं न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यकः करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते.
SK
स्वप्नः सुभूते न करोति न विकरोति नाभिसंस्करोति, एवं प्रतिश्रुत्का प्रतिभासः प्रतिबिम्बं मरीचिर् न निर्माणं करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते.
SK
अध्यात्मशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मशून्यता अत्यन्ततया न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, बहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा हि बहिर्धाशून्यता न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मबहिर्धाशून्यता न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, यावद् अभावस्वभावशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावशून्यता न विद्यते (PSP१-२: ५६) नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय.
SK
सप्तत्रिंशद् बोधिपक्ष्या धर्मा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते, दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते.
SK
तथता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथता ह्य् अत्यन्ततया न विद्यते नोपलभ्यते, एवम् अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिर् अचिन्त्यधातुर् बोधिः सर्वाकारज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते.
SK
अनेन सुभूते पर्यायेण सर्वाकारज्ञता अकृता अविकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः, येषां कृतशो बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
SK
इति विदर्शनासंभारः
SK
सुभूतिर् आह: यथाहं भगवतो भाषितस्यार्थम् आजानामि, रूपं भगवन्न् अबद्धम् अमुक्तं, वेदना संज्ञा संस्काराः, विज्ञानं भगवन्न् अबद्धम् अमुक्तम्.
SK
पूर्णो मैत्रायणीपुत्र आह: रूपम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि, वेदना संज्ञा संस्काराः, विज्ञानम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् पूर्ण.
SK
पूर्ण आह: कतमत् तद् आयुष्मन् सुभूते रूपं यद् अबद्धम् अमुक्तम्? कतमे ते वेदना संज्ञा संस्काराः? कतमत् तद् विज्ञानं यद् अबद्धम् अमुक्तम्?
SK
सुभूतिर् आह: यद् एतद् आयुष्मन् पूर्ण स्वप्नोपमं रूपं तद् अबद्धम् अमुक्तम्, य एते स्वप्नोपमा वेदना संज्ञा संस्काराः, यद् एतत् स्वप्नोपमं विज्ञानं तद् अबद्धम् अमुक्तम्, एवं प्रतिश्रुत्कोपमा मायोपमा मरीच्युपमा प्रतिभासोपमा यद् एतद् आयुष्मन् पूर्ण (PSP१-२: ५७) निर्मितोपमं रूपं तद् अबद्धम् अमुक्तम्, य एते निर्मितोपमा वेदना संज्ञा संस्काराः, यद् एतं निर्मितोपमं विज्ञानं तद् अबद्धम् अमुक्तम्.
SK
अतीतम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तम्, अतीता वेदना संज्ञा संस्काराः, अतीतम् आयुष्मन् पूर्ण विज्ञानम् अबद्धम् अमुक्तम्, एवम् अनागतं प्रत्युत्पन्नम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तम्, प्रत्युत्पन्ना वेदना संज्ञा संस्काराः, प्रत्युत्पन्नम् आयुष्मन् पूर्ण विज्ञानम् अबद्धम् अमुक्तम्. तत् कस्य हेतोः? असत्त्वाद् आयुष्मन् पूर्ण रूपस्य, एवं तद् रूपम् अबद्धम् अमुक्तम्, असत्त्वाद् आयुष्मन् पूर्ण वेदनायाः संज्ञायाः संस्काराणाम्, असत्त्वाद् आयुष्मन् पूर्ण विज्ञानस्यैवं तद् विज्ञानम् अबद्धम् अमुक्तम्, एवं विविक्तत्वाच् छान्तत्वाच् छून्यत्वाद् आनिमित्तत्वाद् अप्रणिहितत्वाद् असंस्कृतत्वाद् अनुत्पन्नत्वात् कुशलम् अकुशलं संक्लेशं निष्क्लेशं सावद्यम् अनवद्यं सास्रवम् अनास्रवं लौकिकं लोकोत्तरं संक्लिष्टं व्यवदानम्, आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तम्. तत् कस्य हेतोः? असत्त्वाद् रूपस्यैवं तद् रूपम् अबद्धम् अमुक्तं वेदना संज्ञा संस्काराः, संक्लिष्टं व्यवदानम् आयुष्मन् पूर्ण विज्ञानम् अबद्धम् अमुक्तम्. तत् कस्य हेतोः? असत्त्वाद् विज्ञानस्य एवं तद् विज्ञानम् अबद्धम् अमुक्तम्.
SK
सर्वधर्मा अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ताः.
SK
दानपारमिताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, असत्त्वाद् अबद्धा अमुक्ता, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता.
SK
अध्यात्मशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, बहिर्धाशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, अध्यात्मबहिर्धाशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, यावद् अभावस्वभावशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ता, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता.
SK
सप्तत्रिंशद् आयुष्मन् पूर्ण बोधिपक्ष्या धर्मा अबद्धा अमुक्ता, एवं दश बलानि चत्वारि वैशारद्यानि यावद् अष्टादशावेणिका बुद्धधर्मा अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ताः, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ताः.
SK
बोधिर् अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, सर्वाकारज्ञताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, बोधिसत्त्वो ऽप्य् अबद्धो ऽमुक्तः, तत् कस्य हेतोः? असत्त्वाद् अबद्धो ऽमुक्तः, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धो ऽमुक्तः.
SK
तथताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, अवितथताप्य् अनन्यतथतापि धर्मतापि धर्मधातुर् अपि धर्मनियामतापि भूतकोटिर् अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ता, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता.
SK
एवं ह्य् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो ऽबद्धो ऽमुक्तः, एवं षड् अपि पारमिता अबद्धा अमुक्ताः, यावत् सर्वाकारज्ञताप्य् अबद्धा अमुक्ता, यावत् सर्वाकारज्ञताप्य् अबद्धा अमुक्ता, सत्त्वान् अपि यान् परिनिर्वापयिष्यति, ते ऽप्य् अबद्धा अमुक्ताः, बुद्धक्षेत्राण्य् अपि यानि परिशोधयिष्यति, तान्य् अप्य् अबद्धान्य् अमुक्तानि, यान् अपि बुद्धान् भगवतः पर्युपासिष्यते ते ऽप्य् अबद्धा अमुक्ताः, यम् अपि धर्मं श्रोष्यति सो ऽप्य् अबद्धो ऽमुक्तः, बुद्धैर् भगवद्भिर् न जातु विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, नाभिज्ञाभिर् विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, न पञ्चभिश् चक्षुर्भिर् विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, तथा नान्यैः समाधिभिर् विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, अबद्धाम् अमुक्तां मार्गाकारज्ञताम् उत्पादयिष्यति, अबद्धाम् अमुक्तां सर्वाकारज्ञताम् अवभोत्स्यते, अबद्धम् अमुक्तं धर्मचक्रं प्रवर्तयिष्यति, अबद्धान् अमुक्तान् सत्त्वांस् त्रिभिर् यानैः परिनिर्वापयिष्यत्य् अबद्धो अमुक्तः.
SK
एवं ह्य् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् अबद्धो ऽमुक्तः सर्वधर्मान् अभिसंभोत्स्यते असत्त्वम् उपादाय, एवं विविक्ततां यावद् अनुत्पन्नताम् उपादाय.
SK
एवं ह्य् आयुष्मन् पूर्ण बोधिसत्त्वस्य महासत्त्वस्य अबद्धो ऽमुक्तो महायानसन्नाहो वेदितव्यः.
SK
इति युगनद्धमार्गसंभारः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य महायानम्? कथं भगवन् बोधिसत्त्वो महासत्त्वो महायनसंप्रस्थितो वेदितव्यः? कुतस् तद् यानं निर्यास्यति? क्व वा तद् यानं स्थास्यति? को वा तेन यानेन निर्यास्यति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् सुभूते (PSP१-२: ५९) एवं वदसि, कतमद् बोधिसत्त्वस्य महासत्त्वस्य महायानम् इति. षट् पारमिताः सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. कतमाः षट्? दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् दानं ददाति यद् उताध्यात्मिकबाह्यानि वस्तूनि तानि च सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, परांश् च तत्र समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता.
SK
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः, आत्मना च दश कुशलान् कर्मपथान् समादाय वर्तते, परांश् च दश कुशले कर्मपथे समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अपरामृष्टा शीलपारमिता.
SK
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः, आत्मना च क्षान्तिसमापन्नो भवति, परांश् च क्षान्तौ समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता.
SK
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः पञ्चसु पारमितासु अनिक्षिप्तधुरो विहरति, परांश् च तासु पञ्चसु पारमितासु समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता.
SK
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतापद्यते, (PSP१-२: ६०) न च तेषां वशेनोपपद्यते, परांश् च ध्यानेषु समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता.
SK
सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन सर्वधर्मान् नाभिनिविशते, सर्वधर्माणां च प्रकृतिं प्रत्यवेक्षते, सर्वधर्मप्रकृतिप्रत्यवेक्षायां च सत्त्वांश् च समादापयत्य् अनुपलंभयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
SK
इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
इत्य् उपायकौशलसंभारः
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उताध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता परभावशून्यता.
SK
तत्र कतमा अध्यात्मशून्यता? अध्यात्मिका धर्मा उच्यन्ते चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनः, तत्र चक्षुश् चक्षुषा शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, श्रोत्रं श्रोत्रेण शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, घ्राणं घ्राणेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, जिह्वा जिह्वया शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा, कायः कायेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, मनो मनसाशून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अध्यात्मशून्यता.
SK
तत्र कतमा बहिर्धाशून्यता? ये बहिर्धा धर्मास् तद्यथा रूपशब्दगन्धरसस्पर्शधर्माः, तत्र रूपं रूपेण शून्यम् अकूटस्थाविनाशिताम् (PSP१-२: ६१) उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, एवं शब्दगन्धरसस्पर्शाः, धर्मा धर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते बहिर्धाशून्यता.
SK
तत्र कतमा अध्यात्मबहिर्धाशून्यता? षड् आध्यात्मिकान्य् आयतनानि षड् बाह्यान्य् आयतनानि, इयम् उच्यते अध्यात्मबहिर्धाशून्यता.
SK
तत्र कतमे अध्यात्मिका धर्मा बहिर्धाधर्मैः शून्याः? चक्षुःश्रोत्रघ्राणजिह्वाकायमनांस्य् अध्यात्मिकानि रूपशब्दगन्धरसस्पर्शधर्मैः शून्यान्य् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा.
SK
तत्र कतमे बहिर्धा धर्मा अध्यात्मिकैर् धर्मैः शून्याः? रूपशब्दगन्धरसस्पर्शधर्माश् चक्षुःश्रोत्रघ्राणजिह्वाकायमनोभिः शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते अध्यात्मबहिर्धाशून्यता.
SK
तत्र कतमा शून्यताशून्यता? या सर्वधर्माणां शून्यता तया शून्यतया शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा, इयम् उच्यते शून्यताशून्यता.
SK
तत्र कतमा महाशून्यता? पूर्वा दिक् पूर्वया दिशा शून्या, एवं दक्षिणा पश्चिमा उत्तरा उत्तरपूर्वा पूर्वदक्षिणा दक्षिणपश्चिमा पश्चिमोत्तरा अध ऊर्ध्वा दिक् ऊर्ध्वया दिशा शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् आसाम् एषा, इयम् उच्यते महाशून्यता. तत्र कतमा परमार्थशून्यता? परमार्थ उच्यते निर्वाणं, तच् च निर्वाणेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते परमार्थशून्यता.
SK
तत्र कतमा संस्कृतशून्यता? संस्कृत उच्यते कामधातू रूपधातुर् आरूप्यधातुश् च, तत्र कामधातुः कामधातुना शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, रूपधातू रूपधातुना शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, आरूप्यधातुर् आरूप्यधातुना शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते संस्कृतशून्यता.
SK
तत्र कतमा असंस्कृतशून्यता? असंस्कृत उच्यते यस्य नोत्पादो न निरोधो न स्थितिर् नान्यथात्वम्, इदम् उच्यते असंस्कृतम् (PSP१-२: ६२) असंस्कृतेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते असंस्कृतशून्यता.
SK
तत्र कतमा अत्यन्तशून्यता? यस्यान्तो नोपलभ्यते तद् अत्यन्तम् अत्यन्तेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अत्यन्तशून्यता.
SK
तत्र कतमा अनवराग्रशून्यता? यस्य नैवाग्रं नावरम् उपलभ्यते, तस्य मध्याभावः, यस्य च नादिर् न मध्यं नावरम् उपलभ्यते तस्य नागतिर् न गतिः, आदिमध्यावसानान्य् अपि आदिमध्यावसानैः शून्यान्य् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते अनवराग्रशून्यता. तत्र कतमा अनवकारशून्यता? यस्य धर्मस्य न कश्चिद् अवकारः, अवकारो नाम अविकिरणं छोरणम् उत्सर्गः, अनवकारो ऽनवकारेण शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अनवकारशून्यता.
SK
तत्र कतमा प्रकृतिशून्यता, या सर्वधर्माणां प्रकृतिः संस्कृतानां वा असंस्कृतानां वा न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कृता नापकृता, प्रकृतिः प्रकृत्या शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा, इयम् उच्यते प्रकृतिशून्यता.
SK
तत्र कतमा सर्वधर्मशून्यता? सर्वधर्मा उच्यन्ते रूपं वेदना संज्ञा संस्कारा विज्ञानं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनोरूपशब्दगन्धरसस्प्रष्टव्यधर्मा चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्यया वेदना श्रोत्रसंस्पर्शप्रत्यया वेदना घ्राणसंस्पर्शप्रत्यया वेदना जिह्वासंस्पर्शप्रत्यया वेदना कायसंस्पर्शप्रत्यया वेदना मनःसंस्पर्शप्रत्यया वेदना संस्कृता धर्मा असंस्कृता धर्मा इम उच्यन्ते सर्वधर्माः. तत्र धर्मा धर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते सर्वधर्मशून्यता.
SK
तत्र कतमा स्वलक्षणशून्यता? रूपेणालक्षणं रूपम्, अनुभवलक्षणा (PSP१-२: ६३) वेदना, उद्ग्रहणलक्षणा संज्ञा, अभिसंस्कारलक्षणाः संस्कारा, विजाननालक्षणं विज्ञानं विस्तरेण कर्तव्यं, यच् च संस्कृतानां धर्माणां लक्षणालक्षणं, यच् चासंस्कृतानां धर्माणां लक्षणालक्षणं सर्व एते धर्माः स्वलक्षणेण शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते स्वलक्षणशून्यता.
SK
तत्र कतमा अनुपलम्भशून्यता? ये धर्मा अतीतानागतप्रत्युत्पन्नास् ते नोपलभ्यन्ते. तत् कस्य हेतोः? नातीत अनागता उपलभ्यन्ते नाप्य् अनागत अतीता, न प्रत्युत्पन्ने ऽतीतानागता उपलभ्यन्ते, नाप्य् अतीतानागतयोः प्रत्युत्पन्ना एषाम् इयम् अनुपलब्धिर् आदिविशुद्धित्वाद् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते अनुपलम्भशून्यता.
SK
तत्र कतमा अभावस्वभावशून्यता? नास्ति सांयोगिकस्य धर्मस्य स्वभावः प्रतीत्यसमुत्पन्नत्वात्, संयोगः संयोगेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अभावस्वभावशून्यता.
SK
तत्र कतमा भावशून्यता? भाव उच्यते पञ्चोपादानस्कन्धाः, स च भावो भावेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते भावशून्यता.
SK
तत्र कतमा अभावशून्यता? अभाव उच्यते असंस्कृतं, तच् चासंस्कृतम् असंस्कृतेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अभावशून्यता.
SK
तत्र कतमा स्वभावशून्यता? स्वभावो हि प्रकृतिर् अविपरीतता तस्या या तया शून्यता अकूटस्थाविनाशिताम् उपादाय, न सा ज्ञानेन दर्शनेन च कृता. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते स्वभावशून्यता.
SK
तत्र कतमा परभावशून्यता? या उत्पादाद् वा तथागतानां अनुत्पादाद् वा स्थितैवैषा धर्माणां धर्मता धर्मस्थितिता धर्मधातुर् धर्मनियामता तथता अवितथता अनन्यतथता भूतकोटिस् तस्या या तया शून्यता अकूटस्थाविनाशिताम् उपादाय, न सा परेण कृता. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते परभावशून्यता.
SK
इदम् उच्यते सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
इति ज्ञानसंभारः
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, (PSP१-२: ६४) यद् उत शूरङ्गमो नाम समाधिः, रत्नमुद्रो नाम समाधिः, सिंहविक्रीडितो नाम समाधिः, सुचन्द्रो नाम समाधिः, चन्द्रध्वजकेतुर् नाम समाधिः, सर्वधर्मोद्गतो नाम समाधिः, अवलोकितमूर्ध्वा नाम समाधिः, धर्मधातुनियतो नाम समाधिः, नियतध्वजकेतुर् नाम समाधिः, वज्रोपमो नाम समाधिः, धर्मप्रवेशमुद्रो नाम समाधिः, समाधिराजसुप्रतिष्ठितो नाम समाधिः, रश्मिप्रमुक्तो नाम समाधिः, बलव्यूहो नाम समाधिः, समुद्गतो नाम समाधिः, निरुक्तिनिर्देशप्रवेशो नाम समाधिः, अधिवचनसंप्रवेशो नाम समाधिः, दिग्विलोकितो नाम समाधिः, आधारणमुद्रो नाम समाधिः, असंप्रमुषितो नाम समाधिः, सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः, आकाशस्फारणो नाम समाधिः, तेजोवती नाम समाधिः, अप्रमाणावभासो नाम समाधिः, असंगानावरणो नाम समाधिः, सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः, रणजहो नाम समाधिः, वैरोचनो नाम समाधिः, अनिमिषो नाम समाधिः, अनिकेतस्थितो नाम समाधिः, निश्चित्तो नाम समाधिः, विमलप्रदीपो नाम समाधिः, अनन्तप्रभो नाम समाधिः, प्रभाकरो नाम समाधिः, समन्तावभासो नाम समाधिः, शुद्धसारो नाम समाधिः, विमलप्रभो नाम समाधिः, रतिकरो नाम समाधिः, विद्युत्प्रदीपो नाम समाधिः, अक्षयो नाम समाधिः, वज्रमण्डलो नाम समाधिः, अक्षयापगतो नाम समाधिः, अनिञ्ज्यो नाम समाधिः, विवृतो नाम समाधिः, सूर्यप्रदीपो नाम समाधिः, चन्द्रविमलो नामसमाधिः, शुद्धप्रभासो नाम समाधिः, आलोककरो नाम समाधिः, काराकारो नाम समाधिः, ज्ञानकेतुर् नाम समाधिः, वज्रोपमो नामसमाधिः, चित्तस्थितिर् नाम समाधिः, समन्तावलोको नाम समाधिः, सुप्रतिष्ठितो नाम समाधिः, रत्नकोटिर् नाम समाधिः, वरधर्ममुद्रो नाम समाधिः, सर्वधर्मसमता नाम समाधिः, रतिजहो नामसमाधिः, सर्वधर्मोद्गतपूर्णो नाम समाधिः, विकिरणो नाम समाधिः, सर्वधर्मपदप्रभेदो नाम समाधिः, समाक्षरो नाम समाधिः, अक्षरापगतो नाम समाधिः, आरम्बणच्छेदो नाम समाधिः, अविकारो नाम समाधिः, अप्रकारो नाम समाधिः, नाम निमित्ताप्रवेशो नाम समाधिः, अनिकेतचारी नाम समाधिः, तिमिरापगतो नाम समाधिः, चारित्रवती नाम समाधिः, अचलो नाम समाधिः, विषयतीर्णो नाम समाधिः, सर्वगुणसंचयोपगतो नाम समाधिः, चित्तस्थितिनिश्चितो नाम (PSP१-२: ६५) समाधिः, शुभपुष्पितशुद्धिर् नाम समाधिः, बोध्यङ्गवान् नाम समाधिः, अनन्तप्रतिभासो नाम समाधिः, असमसमो नाम समाधिः, सर्वधर्मातिक्रमणो नाम समाधिः, परिच्छेदकरो नाम समाधिः, विमतिविकिरणो नाम समाधिः, निरधिष्ठानो नाम समाधिः, एकव्यूहो नाम समाधिः, आकाराभिनिर्हारो नाम समाधिः, एकाकारव्यूहो नाम समाधिः, अकारानवकारो नाम समाधिः, निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः, संकेतरुतप्रवेशो नाम समाधिः, गीतनिर्घोषाक्षरविमुक्तो नाम समाधिः, ज्वलनोल्को नाम समाधिः, लक्षणपरिशोधनो नाम समाधिः, अनभिलक्षितो नाम समाधिः, सर्वाकारवरोपेतो नाम समाधिः, सर्वसुखदुःखनिरभिनन्दी नाम समाधिः, अक्षयाकारो नाम समाधिः, धारणीप्रतिपत्तिर् नाम समाधिः, सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः, सर्वरोधनिरोधप्रशमनो नाम समाधिः, अनुसारप्रतिसारो नाम समाधिः, विमलप्रभो नाम समाधिः, सारवती नाम समाधिः, परिपूर्णचन्द्रविमलो नाम समाधिः, महाव्यूहो नाम समाधिः, सर्वाकारप्रभाकरो नाम समाधिः, समाधिसमता नाम समाधिः, अरणसमवसरणो नाम समाधिः, अरणसरणसर्वसमवसरणो नाम समाधिः, अनिलानिकेतो नाम समाधिः, तथतास्थितिनिश्चितो नाम समाधिः, कायकलिसंप्रमथनो नाम समाधिः, वाक्कलिविध्वंसनो नाम समाधिः, गगनकल्पो नाम समाधिः, आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
SK
तत्र कतमः शूरङ्गमो नाम समाधिः? येन समाधिना सर्वसमाधीनां गोचरम् अनुभवति, अयम् उच्यते शूरङ्गमो नाम समाधिः.
SK
तत्र कतमो रत्नमुद्रो नाम समाधिः? येन समाधिना सर्वसमाधयो मुद्रिता, अयम् उच्यते रत्नमुद्रो नाम समाधिः.
SK
तत्र कतमः सिंहविक्रीडितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिर् विक्रीडति, अयम् उच्यते सिंहविक्रीडितो नाम समाधिः,
SK
तत्र कतमः सुचन्द्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयति, अयम् उच्यते सुचन्द्रो नाम समधिः.
SK
तत्र कतमश् चन्द्रध्वजकेतुर् नाम समाधिः? यः सर्वसमाधीनां ध्वजं धारयति, अयम् उच्यते चन्द्रध्वजकेतुर् नामसमाधिः.
SK
तत्र कतमः सर्वधर्मोद्गतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिर् उद्गच्छति, अयम् उच्यते सर्वधर्मोद्गतो नाम समाधिः.
SK
तत्र कतमो ऽवलोकितमूर्ध्ना नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां मूर्ध्नानम् अवलोकयति, अयम् उच्यते अवलोकितमूर्ध्ना नाम समाधिः.
SK
तत्र कतमो धर्मधातुनियतो नाम समाधिः? यत्र समाधौ स्थित्वा धर्मधातोर् निश्चयं गच्छति, अयम् उच्यते धर्मधातुनियतो नाम समाधिः.
SK
तत्र कतमो नियतध्वजकेतुर् नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां नियतध्वजं धारयति, अयम् उच्यते नियतध्वजकेतुर् नाम समाधिः.
SK
तत्र कतमो वज्रोपमो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिर् न भिद्यते, अयम् उच्यते वज्रोपमो नाम समाधिः.
SK
तत्र कतमो धर्मप्रवेशमुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां मुद्रां प्रविशति, अयम् उच्यते धर्मप्रवेशमुद्रो नाम समाधिः.
SK
तत्र कतमः समाधिराजसुप्रतिष्ठितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां राजसुप्रतिष्ठानेन प्रतितिष्ठति, अयम् उच्यते समाधिराजसुप्रतिष्ठितो नाम समाधिः.
SK
तत्र कतमो रश्मिप्रमुक्तो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रश्मीन् अवसृजति, अयम् उच्यते रश्मिप्रमुक्तो नाम समाधिः.
SK
तत्र कतमो बलव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां बलव्यूहं धारयति, अयम् उच्यते बलव्यूहो नाम समाधिः.
SK
तत्र कतमः समुद्गतो नाम समाधिः? यत्र समाधौ स्थित्वा समाधयः समुदागच्छन्ति, अयम् उच्यते समुद्गतो नाम समाधिः.
SK
तत्र कतमो निरुक्तिनिर्देशप्रवेशो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां निरुक्तिनिर्देशं प्रविशति, अयम् उच्यते निरुक्तिनिर्देशप्रवेशो नाम समाधिः.
SK
तत्र कतमो ऽधिवचनसंप्रवेशो नाम समाधिः? यत्र (PSP१-२: ६७) समाधौ स्थित्वा सर्वसमाधीनाम् अधिवचननामधेयानि प्रविशति, अयम् उच्यते अधिवचनसंप्रवेशो नाम समाधिः.
SK
तत्र कतमो दिग्विलोकितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां दिशो व्यवलोक्यन्ते, अयम् उच्यते दिग्विलोकितो नाम समाधिः.
SK
तत्र कतम आधारणमुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां मुद्रा आधारयति, अयम् उच्यते आधारणमुद्रो नाम समाधिः.
SK
तत्र कतमो ऽसंप्रमुषितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयो न प्रमुष्यन्ते, अयम् उच्यते असंप्रमुषितो नाम समाधिः.
SK
तत्र कतमः सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा तस्य सर्वसमाधयः संग्रहं समवसरणतां गच्छन्ति, अयम् उच्यते सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः.
SK
तत्र कतम आकाशस्फारणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आकाशस्फारणतया स्फरति, अयम् उच्यते आकाशस्फारणो नाम समाधिः.
SK
तत्र कतमस् तेजोवती नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां तेजसा च धिया च ज्वलयति, तेनोच्यते तेजोवती नाम समाधिः.
SK
तत्र कतमो ऽप्रमाणावभासो नाम समाधिः? यत्र समाधौ स्थित्वा अप्रमाणम् अवभासते, तेनोच्यते अप्रमाणावभासो नाम समाधिः.
SK
तत्र कतमो ऽसङ्गानावरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसंगरहितताम् उपादाय निरावरणो ऽवभासते, तेनोच्यते असंगानावरणो नाम समाधिः.
SK
तत्र कतमः सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्मेषु प्रवृत्तिं समुच्छिनत्ति तेनोच्यते सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः.
SK
तत्र कतमो रणजहो नाम समाधिः? यत्र समाधौ स्थित्वा (PSP१-२: ६८) सर्वसमाधीनां निमित्तान्य् अपि जहाति प्राग् एवान्यानि निमित्तानि क्लेशानां, तेनोच्यते रणजहो नाम समाधिः.
SK
तत्र कतमो वैरोचनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयति तपति विरोचते, तेनोच्यते वैरोचनो नाम समाधिः.
SK
तत्र कतमो ऽनिमिषो नाम समाधिः? यत्र समाधौ स्थित्वा न कश्चिद् धर्मम् एषति, तेनोच्यते ऽनिमिषो नाम समाधिः.
SK
तत्र कतमो ऽनिकेतस्थितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु न कञ्चिद् धर्मम् अनिकेतं समनुपश्यति तेनोच्यते ऽनिकेतस्थितो नाम समाधिः.
SK
तत्र कतमो निश्चित्तो नाम समाधिः? यत्र समाधौ स्थित्वा निहीनांश् चित्तचैतसिकान् धर्मान् न प्रवर्तयति तेनोच्यते निश्चित्तो नाम समाधिः.
SK
तत्र कतमो विमलप्रदीपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रदीपं धारयति तेनोच्यते विमलप्रदीपो नाम समाधिः.
SK
तत्र कतमो ऽनन्तप्रभो नाम समाधिः? यत्र समाधौ स्थित्वा अनन्तां प्रभां करोति तेनोच्यते ऽनन्तप्रभो नाम समाधिः.
SK
तत्र कतमः प्रभाकरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रभां करोति तेनोच्यते प्रभाकरो नाम समाधिः.
SK
तत्र कतमः समन्तावभासो नाम समाधिः? यस्य समाधेः सह प्रतिलम्भेन सर्वसमाधिमुखन्य् अवभासन्ते, तेनोच्यते समन्तावभासो नाम समाधिः.
SK
तत्र कतमः शुद्धसारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां शुद्धसमताम् अनुप्राप्नोति, तेनोच्यते शुद्धसारो नामसमाधिः.
SK
तत्र कतमो विमलप्रभो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां बलम् आकर्षयति सर्वसमाधीन् प्रभावयति, तेनोच्यते विमलप्रभो नाम समाधिः.
SK
तत्र कतमो रतिकरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रतिम् अनुभवति, तेनोच्यते रतिकरो नाम समाधिः.
SK
तत्र कतमो विद्युत्प्रदीपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रदीपं करोति, तेनोच्यते विद्युत्प्रदीपो नाम समाधिः.
SK
तत्र कतमो ऽक्षयो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां नैवाक्षयं न क्षयं समनुपश्यति, तेनोच्यते ऽक्षयो नाम समाधिः.
SK
तत्र कतमो वज्रमण्डलो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिमण्डलानि धारयति, अयम् उच्यते वज्रमण्डलो नाम समाधिः.
SK
तत्र कतमो ऽक्षयापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां क्षयं समनुपश्यति तथा च पश्यति यथा अणुम् अपि धर्मं न समनुपश्यति, तेनोच्यते ऽक्षयापगतो नाम समाधिः.
SK
तत्र कतमो ऽनिञ्ज्यो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् नेञ्जयति न मन्यते न स्पन्दति न प्रपञ्चयति, तेनोच्यते ऽनिञ्ज्यो नाम समाधिः.
SK
तत्र कतमो विवृतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् विवृतान् समनुपश्यति, तेनोच्यते विवृतो नाम समाधिः.
SK
तत्र कतमः सूर्यप्रदीपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रश्मिमुखम् अवभासयति, तेनोच्यते सूर्यप्रदीपो नाम समाधिः,
SK
तत्र कतमश् चन्द्रविमलो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अन्धकारं विधमयति, तेनोच्यते चन्द्रविमलो नाम समाधिः.
SK
तत्र कतमः शुद्धप्रभासो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चतस्रः प्रतिसंविदः प्रतिलभते, तेनोच्यते शुद्धप्रभासो नाम समाधिः.
SK
तत्र कतम आलोककरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिमुखानाम् आलोकं करोति, तेनोच्यते आलोककरो नाम समाधिः.
SK
तत्र कतमः काराकारो नाम समाधिः? यत्र समा अधौ स्थित्वा सर्वसमाधीनां कारगताङ् क्रियाङ् करोति, तेनोच्यते काराकारो नाम समाधिः.
SK
तत्र कतमो ज्ञानकेतुर् नामसमाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां ज्ञानकेतुं समनुपश्यति, तेनोच्यते ज्ञानकेतुर् नाम समाधिः.
SK
तत्र कतमो वज्रोपमो नाम समाधिः? यत्र समाधौ स्थित्वा (PSP१-२: ७०) सर्वधर्मान् निर्विध्यते समाधिम् अपि न समनुपश्यति, तेनोच्यते वज्रोपमो नाम समाधिः.
SK
तत्र कतमश् चित्तस्थितिर् नाम समाधिः? यत्र समाधौ स्थित्वा चित्तं न वर्णयति न विवर्तते न प्रतिभासते न विघातम् आपत्स्यते न चास्यैवं भवति चित्तम् इति, तेनोच्यते चित्तस्थितिर् नाम समाधिः.
SK
तत्र कतमः समन्तालोको नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां समन्तालोकं समनुपश्यति, तेनोच्यते समन्तालोको नाम समाधिः.
SK
तत्र कतमः सुप्रतिष्ठितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु प्रतिष्ठितो भवति, तेनोच्यते सुप्रतिष्ठितो नाम समाधिः.
SK
तत्र कतमो रत्नकोटिर् नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयः समन्ताद् रत्नकोतिर् इव संदृश्यन्ते, तेनोच्यते रत्नकोटिर् नाम समाधिः.
SK
तत्र कतमो वरधर्ममुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयो मुद्रिता भवन्ति, आदिमुद्रामुद्रिताम् उपादाय, तेनोच्यते वरधर्ममुद्रो नाम समाधिः.
SK
तत्र कतमः सर्वधर्मसमता नाम समाधिः? यत्र समाधौ स्थित्वा न कञ्चिद् धर्मं समतानिर्मुक्तं समनुपश्यति, तेनोच्यते सर्वधर्मसमता नाम समाधिः.
SK
तत्र कतमो रतिजहो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिरतिः सर्वधर्मरतीर् जहाति, तेनोच्यते रतिजहो नाम समाधिः.
SK
तत्र कतमः सर्वधर्मोद्गतपूर्णो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्मैश् चोद्गच्छति सर्वधर्मैश् चापूर्यते, तेनोच्यते सर्वधर्मोद्गतपूर्णो नाम समाधिः.
SK
तत्र कतमो विकिरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिः सर्वधर्मान् विकिरति विधमयति, तेनोच्यते विकिरणो नाम समाधिः.
SK
तत्र कतमः सर्वधर्मपदप्रभेदो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां च सर्वधर्माणां च पदानि प्रभिनत्ति, तेनोच्यते सर्वधर्मपदप्रभेदो नाम समाधिः.
SK
तत्र कतमः समाक्षरो नाम समाधिः? यत्र समाधौ स्थित्वा (PSP१-२: ७१) सर्वसमाधीनां समाक्षरतां प्रतिलभते, तेनोच्यते समाक्षरो नाम समाधिः.
SK
तत्र कतमो ऽक्षरापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् एकाक्षरम् अपि नोपलभते, तेनोच्यते ऽक्षरापगतो नाम समाधिः.
SK
तत्र कतम आरम्बणच्छेदो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आरम्बनं च्छिद्यते, तेनोच्यते आरम्बणच्छेदो नाम समाधिः.
SK
तत्र कतमो ऽविकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां विकारं नोपलभते, तेनोच्यते ऽविकारो नाम समाधिः.
SK
तत्र कतमो ऽप्रकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां प्रकारम् अपि नोपलभते, तेनोच्यते ऽप्रकारो नाम समाधिः.
SK
तत्र कतमो नामनिमित्ताप्रवेशो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां नामनिमित्तानि नोपलभते, तेनोच्यते नामनिमित्ताप्रवेशो नाम समाधिः.
SK
तत्र कतमो ऽनिकेतचारी नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां निकेतं नोपलभते, तेनोच्यते ऽनिकेतचारी नाम समाधिः.
SK
तत्र कतमः तिमिरापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधि तिमिरं विशोधयति, तेनोच्यते तिमिरापगतो नाम समाधिः.
SK
तत्र कतमश् चारित्रवती नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चारित्रं समनुपश्यति, तेनोच्यते चारित्रवती नाम समाधिः.
SK
तत्र कतमो ऽचलो नाम समाधिः? यत्र समाधौ स्थित्वा सत्त्वानां चलितं न समनुपश्यति, तेनोच्यते ऽचलो नाम समाधिः.
SK
तत्र कतमो विषयतीर्णो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां विषयम् अतिक्रामति, तेनोच्यते विषयतीर्णो नाम समाधिः.
SK
तत्र कतमः सर्वगुणसंचयोपगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वगुणानां सर्वसमाधीनां च संचयताम् अनुप्राप्नोति, तेनोच्यते सर्वगुणसंचयोपगतो नाम समाधिः.
SK
तत्र कतमश् चित्तस्थितिनिश्चित्तो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चित्तं न प्रवर्तते, तेनोच्यते चित्तस्थितिनिश्चित्तो (PSP१-२: ७२) नाम समाधिः.
SK
तत्र कतमः शुभपुष्पितशुद्धिर् नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु शुभपुष्पितशुद्धिं प्रतिलभते, तेनोच्यते शुभपुष्पितशुद्धिर् नाम समाधिः.
SK
तत्र कतमो बोध्यङ्गवान् नाम समाधिः? यत्र समाधौ स्थित्वा सप्तबोध्यङ्गानि प्रतिलभते, तेनोच्यते बोध्यङ्गवान् नाम समाधिः.
SK
तत्र कतमो ऽनन्तप्रतिभासो नाम समाधिः? यत्र समाधौ स्थित्वा अन्तद्वयं नोपलभते, तेनोच्यते ऽनन्तप्रतिभासो नाम समाधिः.
SK
तत्र कतमो ऽसमसमो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां समसमतां न प्रतिलभते, तेनोच्यते ऽसमसमो नाम समाधिः.
SK
तत्र कतमः सर्वधर्मातिक्रमणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वत्रैधातुकं समतिक्रामति, तेनोच्यते सर्वधर्मातिक्रमणो नाम समाधिः.
SK
तत्र कतमः परिच्छेदकरो नाम समाधिः? यत्र समा अधौ स्थित्वा सर्वसमधीनां सर्वधर्माणां च परिच्छेदं करिष्यति, तेनोच्यते परिच्छेदकरो नाम समाधिः.
SK
तत्र कतमो विमतिविकिरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिविमतिविकिरणम् अनुप्राप्नोति, तेनोच्यते विमतिविकिरणो नाम समाधिः.
SK
तत्र कतमो निरधिष्ठानो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां स्थानं न समनुपश्यति, तेनोच्यते निरधिष्ठानो नाम समाधिः.
SK
तत्र कतम एकव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा न कस्यचिद् धर्मस्य द्वयतां समनुपश्यति, तेनोच्यते एकव्यूहो नाम समाधिः.
SK
तत्र कतम आकाराभिनिर्हारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणां चाकाराभिनिर्हारं समनुपश्यति, तेनोच्यते आकाराभिनिर्हारो नाम समाधिः.
SK
तत्र कतम एकाकारव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् एकाकारतां समनुपश्यति, तेनोच्यते एकाकारव्यूहो नाम समाधिः.
SK
तत्र कतम आकारानवकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् अद्वयतां समनुपश्यति, तेनोच्यते आकारानवकारो नाम समाधिः.
SK
तत्र कतमो निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमधीनां निर्वेधिकं ज्ञानम् अनुप्राप्नोति यस्यानुप्राप्तितो न कश्चिन् न प्रतिविध्यते, तेनोच्यते निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः.
SK
तत्र कतमः संकेतरुतप्रवेशो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां संकेतरुतानि प्रविशति, तेनोच्यते संकेतरुतप्रवेशो नाम समाधिः.
SK
तत्र कतमो गीर्घोषाक्षरविमुक्तो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अक्षरविमुक्तान् समनुपश्यति, तेनोच्यते गीर्घोषाक्षरविमुक्तो नाम समाधिः.
SK
तत्र कतमो ज्वलनोल्को नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधींस् तेजसावभासयति पतति विरोचते, तेनोच्यते ज्वलनोल्को नाम समाधिः.
SK
तत्रकतमो लक्षणपरिशोधनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वलक्षणानि परिशोधयति, तेनोच्यते लक्षणपरिशोधनो नाम समाधिः.
SK
तत्र कतमो ऽनभिलक्षितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अभिलक्षयति अभिलक्षयति, तेनोच्यते ऽनभिलक्षितो नाम समाधिः.
SK
तत्र कतमः सर्वाकारवरोपेतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वाकारवरोपेतो भवति, तेनोच्यते सर्वाकारवरोपेतो नाम समाधिः.
SK
तत्र कतमः सर्वसुखदुःखनिरभिनन्दी नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु सुखदुःखानि न समनुपश्यति, तेनोच्यते सर्वसुखदुःखनिरभिनन्दी नाम समाधिः.
SK
तत्र कतमो ऽक्षयाकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां क्षयं न समनुपश्यति, तेनोच्यते ऽक्षयाकारो नाम समाधिः.
SK
तत्र कतमो धारणीप्रतिपत्तिर् नाम समाधिः? यत्र समाधौ (PSP१-२: ७४) स्थित्वा सर्वसमाधीन् आधारयति, तेनोच्यते धारणीप्रतिपत्तिर् नाम समाधिः.
SK
तत्र कतमः सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः? यत्र समाधौ स्थित्वा समाध्ंआं सम्यक्त्वमिथ्यात्वानि न समनुपश्यति, तेनोच्यते सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः.
SK
तत्र कतमः सर्वरोधनिरोधप्रशमनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रोधनिरोधान् न समनुपश्यति, तेनोच्यते सर्वरोधनिरोधप्रशमनो नाम समाधिः.
SK
तत्र कतमो ऽनुसारप्रतिसारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अनुसारप्रतिसारान् न समनुपश्यति, तेनोच्यते ऽनुसारप्रतिसारो नाम समाधिः.
SK
तत्र कतमो विमलप्रभो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रभामण्डलं नोपलभ्यते, तेनोच्यते विमलप्रभो नाम समाधिः.
SK
तत्र कतमः सारवती नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् असारतां नोपलभ्यते, तेनोच्यते सारवती नाम समाधिः.
SK
तत्र कतमः परिपूर्णचन्द्रविमलो नाम समाधिः? यत्र समाधौ स्थित्वा तस्य सर्वसमाधयः परिपूर्णा भवन्ति, तद्यथापि नम चन्द्रः पूर्णमास्यां, तेनोच्यते परिपूर्णचन्द्रविमलो नाम समाधिः.
SK
तत्र कतमो महाव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा तस्य सर्वसमाधयो महाव्यूहेन समन्वागता भवन्ति, तेनोच्यते महाव्यूहो नाम समाधिः.
SK
तत्र कतमः सर्वाकारप्रभाकरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणां च प्रभां करोति, तेनोच्यते सर्वाकारप्रभाकरो नाम समाधिः.
SK
तत्र कतमः समाधिसमता नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां न विक्षेपं नैकाग्रतां च समनुपश्यति, तेनोच्यते समाधिसमता नाम समाधिः.
SK
तत्र कतमो ऽरणसमवसरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयो न रणन्ति, तेनोच्यते ऽरणसमवसरणो नाम समाधिः.
SK
तत्र कतमो ऽरणसरणसर्वसमवसरणो नाम समाधिः? यत्र (PSP१-२: ७५) समाधौ स्थित्वा सर्वसमाधीनाम् अरणसरणसर्वसमवसरणताम् अनुप्राप्नोति, तेनोच्यते ऽरणसरणसर्वसमवसरणो नाम समाधिः.
SK
तत्र कतमो ऽनिलानिकेतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आलयं न समनुपश्यति, तेनोच्यते ऽनिलानिकेतो नाम समाधिः.
SK
तत्र कतमस् तथतास्थितनिश्चितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां तथतां न व्यतिवर्तते, तेनोच्यते तथतास्थितनिश्चितो नाम समाधिः.
SK
तत्र कतमः कायकलिसंप्रमथनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिकायं नोपलभते, तेनोच्यते कायकलिसंप्रमथनो नाम समाधिः.
SK
तत्र कतमो वाक्कलिविध्वंसनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां वाक्कर्म नोपलभते, तेनोच्यते वाक्कलिविध्वंसनो नाम समाधिः.
SK
तत्र कतमो गगनकल्पो नाम समाधिः? यत्र समाधौ स्थित्वा गगनवद् अवभासते, तेनोच्यते गगनकल्पो नाम समाधिः.
SK
तत्र कतम आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशासङ्गविमुक्तिनिरुपलेपनाम् अनुप्राप्नोति, तेनोच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
SK
इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो महायानम्.
SK
इति पुण्यसंभारः
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि स्मृत्युपस्थानानि, कतमानि चत्वारि? कायस्मृत्युपस्थानं वेदनास्मृत्युपस्थानं चित्तस्मृत्युपस्थानं धर्मस्मृत्युपस्थानम्.
SK
तत्र कतमत् कायस्मृत्युपस्थानम्? एवं यावत् कतमद् धर्मस्मृत्युपस्थानम्? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, बहिर्धाकाये कायानुपश्यी विहरति, न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, अध्यात्मबहिर्धाकाये कायानुपश्यी विहरति, न च कायसहगतान् वितर्कान् वितर्कयति तच् (PSP१-२: ७६) चानुपलम्भयोगेन, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये, एवम् अध्यात्मं वेदनासु चित्ते, अध्यात्मधर्मेषु धर्मानुपश्यी विहरति, न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, बहिर्धाधर्मेषु धर्मानुपश्यी विहरति, न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, अध्यात्मबहिर्धाधर्मेषु धर्मानुपश्यी विहरति, न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
कथं च सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, इह सुभूते बोधिसत्त्वो महासत्त्वश् चरंश् चरामीति प्रजानाति, स्थितः स्थितो ऽस्मीति प्रजानाति, निषण्णो निषण्णो ऽस्मीति प्रजानाति, शयानः शयितो ऽस्मीति प्रजानाति, यथा यथास्य कायः स्थितो भवति प्रणीतम् अप्रणीतं वा तथा तथैनं प्रजानाति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, अभिक्रामन् वा प्रतिक्रामन् वा संप्रजानचारी भवति, आलोकिते विलोकिते समिञ्जिते प्रसारिते संघाटीपटपात्रचीवरधारणे अशिते पीते खादिते शयिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते तुष्णीम्भावे प्रतिसंलयने एवं संप्रजानचारी भवति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्मृत आश्वसन् स्मृत आश्वसामीति यथाभूतं प्रजानाति, स्मृतः प्रश्वसन् स्मृतः प्रश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा आश्वसन् ह्रस्वं वा आश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति यथाभूतं प्रजानाति, तद्यथापि नाम सुभूते चक्रं भ्रामयन् कुम्भकारः कुम्भकारान्तेवासी वा दीर्घम् आविध्यन् दीर्घम् आविध्यामीति यथाभूतं प्रजानाति, ह्रस्वम् आविध्यं ह्रस्वम् आविध्यामीति (PSP१-२: ७७) यथाभूतं प्रजानाति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः स्मृत आश्वसन् स्मृत आश्वासामीति यथाभूतं प्रजानाति, स्मृतः प्रश्वसन् स्मृतः प्रश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा आश्वसन् ह्रस्वं वा आश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति यथाभूतं प्रजानाति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः काये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व इमम् एव कायं धातुशो यथाभूतं प्रत्यवेक्षते, अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः, तद्यथापि नाम सुभूते गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन शस्त्रेण गां हन्यात् गां हत्वा चत्वारि फलकानि कुर्यात्, चत्वारि फलकानि कृत्वा प्रत्यवेक्षेत स्थितो वा अथ वा निषण्णः, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायं धातुशो यथाभूतं प्रत्यवेक्षते, अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मं काये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायम् ऊर्ध्वपादतलाद् अधः केशमस्तकान् नखरोमत्वक्पर्यन्तं पूर्णं नानाप्रकारस्याशुचेर् यथाभूतं प्रत्यवेक्षते, सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्तास् त्वक्चर्ममांसस्नायवः शोणितम् अस्थिमज्जाहृदयं वृक्का यकृत्क्लोमप्लीहा आममन्त्राणि अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहाणकं पूयं लोहितं पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं कर्णगूथकम् इत्य् अस्मिन् काये यथाभूतं प्रत्यवेक्षते, तद्यथापि नाम सुभूते कर्मकारस्य मूतोडिः पूर्णो नानाधान्यानां शालीनां ब्रीहीनां तिलानां तण्डुलानां मुद्गानां माषाणां यवानां गोधूमानां मसूराणां सर्षपाणाम् अप्यि अन्यश् चक्षुष्मान् पुरुषो मुक्त्वा प्रत्यवेक्षमाणः, एवं जानीयाद् अयं शालिः अयं ब्रिही (PSP१-२: ७८) अमी तिलाः अमी तण्डुलाः अमी मुद्गाः अमी माषाः अमी यवाः अमि गोधूमाः अमी मसूराः अमी सर्षपा इति, एवम् एव सुभूते बोधिसत्त्वो महासत्त्व इमम् एव कायम् ऊर्ध्वं पादतलाद् अधः केशमस्तकान् नखरोमत्वक्चर्मान्तं पूर्णं नानाप्रकारस्याशुचेर् यथाभूतं प्रत्यवेक्षते, सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्तास् त्वक्चर्ममांसस्नायवः शोणितम् अस्थिमज्जाहृदयं वृक्कायकृत्क्लोमप्लीहा आमम् अन्त्राणि अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहाणकं पूयं लोहितं पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं कर्णगूथकम्. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मं काये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा श्मशानगतः पश्यति नानारूपाणि श्मशाने ऽपविद्धानि शिवपथिकायाम् उज्झितानि एकाहमृतानि वा द्व्यहमृतानि वा त्र्यहमृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा आध्मातकानि विनीलकानि वा विपूयकानि वा विखादितकानि वा विक्षिप्तकानि वा स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा मृतशरीराणि पश्यति श्मशान उत्सृष्टानि षड्रात्रमृतानि वा सप्तरात्रमृतानि वा तानि काकैर् वा खाद्यमानानि कुररैर् वा गृध्रैर् वा सृगालैर् वा वृकैर् वा श्वभिर् वा तद् अन्यैर् वा नानाविधैः प्राणकजातैः खाद्यमानानि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यानि तानि पश्यति मृतशरीराणि श्मशान उज्झितानि खादितकानि अशुचीनि विपूतीनि दुर्गन्धीनि, स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थिसंकलां मांसशोणितम्रक्षितां स्नायुविनिबद्धां तां दृष्ट्वा स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यानि तानि पश्यति मृतशरीराणि शिवपथिकायाम् अस्थिसंकलाम् अपगतमांसशोणितस्नायुबन्धनां तां दृष्ट्वा स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थिसंकलां विग्रहबन्धनविप्रयुक्तां विसंयुक्तां यथासंख्याः पृथिव्यां विक्षिप्ताः स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि दिग्विदिशो विक्षिप्तानि यद् उतान्येन पादास्थीनि अन्येन जंघास्थीनि अन्येन उर्वस्थीनि अन्येन श्रोणीकटाहास्थीनि अन्येन पृष्ठवंशास्थीनि अन्येन पार्श्वकास्थीनि अन्येन ग्रीवास्थीनि अन्येन बाह्वस्थीनि अन्येन शिरःकपालास्थीनि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि अनेकवार्षिकाणि अनेकवर्षशतानि वातातपपरीतानि श्वेतानि शङ्खसंनिभानि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि तिरोवार्षिकाणि नीलानि कपोतवर्णानि पूतीनि चूर्णकजातानि पृथिव्यां पांशुना समसमीभूतानि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. एवं वेदनायां चित्ते, धर्मे धर्मानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि सम्यक्प्रहाणानि. कतमानि चत्वारि? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति, उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणां यच् छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति, अनुत्पन्नानां कुशलानां धर्माणां उत्पादाय च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति, उत्पन्नानां कुशलनां धर्माणां स्थितये भूयोभावाय असंप्रमोषाय अपरिहाणाय च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वार ऋद्धिपादाः. कतमे चत्वारः? इह सुभूते बोधिसत्त्वो महासत्त्वश् च्छन्दसमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिगतम्, एवं वीर्यसमाधिचित्तसमाधिमीमांसासमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिगतं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत पञ्चेन्द्रियाणि. कतमानि पञ्च? श्रद्धेन्द्रियं वीर्येन्द्रियं (PSP१-२: ८१) स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत पञ्चबलानि. कतमानि पञ्च? श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत सप्तबोध्यङ्गानि. कतमानि सप्त? स्मृतिसंबोध्यङ्गं धर्मप्रविचयसंबोध्यङ्गं वीर्यसंबोध्यङ्गं प्रीतिसंबोध्यङ्गं प्रश्रब्धिसंबोध्यङ्गं समाधिसंबोध्यङ्गम् उपेक्षासंबोध्यङ्गम्. तत्र कतमत् स्मृतिसंबोध्यङ्गं यावद् उपेक्षासंबोध्यङ्गम्? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्मृतिसंबोध्यङ्गं यावद् उपेक्षासंबोध्यङ्गं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिगतं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत आर्याष्टाङ्गमार्गः. कतम आर्याष्टाङ्गो मार्गः? यद् उत सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत त्रयः समाधयः. कतमे त्रयः समाधयः? शून्यतानिमित्ताप्रणिहितं, तत्र कतमः शून्यतासमाधिः? स्वलक्षणेन शून्यान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः शून्यताविमोक्षमुखमयम् उच्यते शून्यतासमाधिः, आनिमित्तान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिर् आनिमित्तं विमोक्षमुखम् अयम् उच्यते आनिमित्तः समाधिः, अप्रणिहितान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिर् अप्रणिहितं विमोक्षमुखम् अयम् उच्यते अप्रणिहितः समाधिः, इमानि त्रीणि विमोक्षमुखानि त्रयः समाधयः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. एतेषु त्रिषु विमोक्षमुखेषु शिक्षितव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं (PSP१-२: ८२) यद् उत दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं क्षयज्ञानम् अनुत्पादज्ञानं धर्मज्ञानम् अन्वयज्ञानं संवृतिज्ञानं परिजयज्ञानं यथारुतज्ञानम्. तत्र कतमद् दुःखज्ञानम्? यद् दुःखस्यानुत्पादज्ञानम् इदं दुःखज्ञानम्. तत्र कतमत् समुदयज्ञानम्? यत् समुदयस्य प्रहाणज्ञानम्. तत्र कतमन् निरोधज्ञानम्? यद् दुःखनिरोधज्ञानम्. तत्र कतमन् मार्गज्ञानम्? यन् निरोधसाक्षात्करणज्ञानम्. तत्र कतमत् क्षयज्ञानम्? यद् रागदोषमोहक्षयज्ञानम्. तत्र कतमद् अनुत्पादज्ञानम्? यद् अनुत्पादे अनुत्पादज्ञानम्. तत्र कतमद् धर्मज्ञानम्? यत् पञ्चानां स्कन्धानां धर्मोपच्छेदज्ञानम्. तत्र कतमद् अन्वयज्ञानम्? चक्षुर् अनित्यं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यं, एवं यावद् व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु च ज्ञानम्. तत्र कतमत् संवृतिज्ञानम्? यत् परसत्त्वानां परपुद्गलानां चेतसैव चेतसो ज्ञानम्. तत्र कतमत् परिजयज्ञानम्? यत् प्रतिपत् परिजयज्ञानम्. तत्र कतमद् यथारुतज्ञानम्? यत् तत् तथागतस्य सर्वाकारज्ञताज्ञानं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् इदं त्रीणीन्द्रियानि. कतमानि त्रीणि? अनाज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियम्.
SK
तत् कतमद् अनाज्ञातमाज्ञास्यामीन्द्रियम्? यच् छैक्षाणां पुद्गलानाम् अनभिसमितानाम् अनवभासं यद् अविनयं श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् उच्यते अनाज्ञातमाज्ञास्यामीन्द्रियम्.
SK
तत्र कतमद् आज्ञेन्द्रियम्? यच् छैक्षाणां पुद्गलानाम् आज्ञातवतां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियमिदम् उच्यते आज्ञेन्द्रियम्.
SK
तत्र कतमद् आज्ञातावीन्द्रियम्? यद् उताशैक्षाणां पुद्गलानाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियंप्रज्ञेन्द्रियम्, इदम् उच्यते आज्ञातावीन्द्रियम्. इदम् अपि सुभूते बोधिसत्त्वस्य (PSP१-२: ८३) महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत सवितर्कः सविचारः समाधिर् अवितर्को ऽविचारमात्रः समाधिर् अवितर्को ऽविचारः समाधिः. तत्र कतमः सवितर्कः सविचारः समाधिः? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, अयम् उच्यते सवितर्कः सविचारः समाधिः. तत्र कतमो ऽवितर्को ऽविचारमात्रः समाधिः? यः प्रथमस्य ध्यानस्य द्वितीयस्य ध्यानस्यान्तरिको यम् उच्यते ऽवितर्को ऽविचारमात्रः समाधिः. तत्र कतमो ऽवितर्को ऽविचारः समाधिः? यद् द्वितीयं ध्यानं विस्तरेण कर्तव्यं यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिर् अयम् उच्यते ऽवितर्को ऽविचारः समाधिः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत दशानुस्मृतयः. कतमा दश? यद् उत बुद्धानुस्मृतिर् धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिस् त्यागानुस्मृतिर् देवतानुस्मृतिर्, उद्वेगानुस्मृतिर् मरणानुस्मृतिः कायानुस्मृतिर् आनापानानुस्मृतिः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयो ऽष्टौ विमोक्षा, नवानुपूर्वविहारस्मापत्तयः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, दश तथागतबलानि. कतमानि दश? यद् उत इह बोधिसत्त्वो महासत्त्वः स्थानञ् च स्थानतो ऽस्थानञ् चास्थानतो यथाभूतं प्रजानाति, अतीतानागतप्रत्युत्पन्नानां च कर्मणां कर्मसमादानानां च स्थानतो हेतुतो विपाकञ् च यथाभूतं प्रजानाति, नानाधातुकं लोकम् अनेकधातुकं यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानां नानाधिमुक्तिकतां यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानाम् इन्द्रियपरापरज्नानतां यथाभूतं प्रजानाति, सर्वत्रगामिनीं (PSP१-२: ८४) प्रतिपदं यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानां ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानं यथाभूतं प्रजानाति, सो ऽनेकविधं पूर्वनिवासम् अनुस्मरति, स च दिव्येन चक्षुषा सत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, स आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वा उपसंपद्य विहरति, क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरमिथ्यात्वम् इति यथाभूतं प्रजानाति. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि वैशारद्यानि. कतमानि चत्वारि?
SK
यद् उत सम्यक्संबुद्धस्य बत मे प्रतिजानतः, इमे धर्मा अभिसंबुद्धा इति, अत्र च मे कश्चिच् छ्रमणो वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुनर् लोके सह धर्मेण चोदयेद् इति निमित्तम् एतन् न समनुपश्यामि, इदम् अत्र निमित्तम् असमनुपश्यन् क्षेमप्राप्तो ऽभयप्राप्तो विहरामि आर्षभं स्थानं प्रतिजानामि पर्षदि सम्यक् सिंहनादं नदामि ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्राह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेणेति,
SK
क्षीणास्रवस्य बत मे प्रतिजानतः, इमे आस्रवा अपरिक्षीणा इति नैतत् स्थानं विद्यते, अत्र च मे कश्चिच् छ्रमणो वा ब्राह्मणो वा पेयालं यावद् ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेणेति,
SK
ये खलु पुनर् इमे मया आन्तरायिका धर्मा आख्यातास् तान् प्रतिषेधमाणस्य नालम् अन्तरायायेति नैतत् स्थानं विद्यते, अत्र मे कश्चिच् छ्रमणो वा पेयालं यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति,
SK
या मया प्रतिपद् आह्याता आर्या नैर्याणिकी निर्याति तत् कतरस्य सम्यग् दुःखक्षयाय तां प्रतिपद्यमानो न निर्यायात् सम्यग् दुःखक्षयायेति नैतत् स्थानं विद्यते, अत्र च मे कश्चिच् छ्रमणो वा पेयालं, यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति. इमानि चत्वारि वैशारद्यानि. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चतस्रः प्रतिसंविदः. कतमाश् चतस्रः? धर्मप्रतिसंविद् अर्थप्रतिसंविद् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित्. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उताष्टादशावेणिका बुद्धधर्माः. कतमे अष्टादश? यद् उत याञ् च रात्रिं सुभूते तथागतो ऽर्हन् सम्यक्संबोधिम् अभिसंबुद्धः, याञ् च रात्रिम् उपादाय परिनिर्वास्यति, एतस्मिन्न् अन्तरे सुभूते नास्ति तथागतस्य स्खलितं, नास्ति रवितं, नास्ति मुषितस्मृतिता, नास्ति नानात्वसंज्ञा, नास्त्य् असमाहितं चित्तं, नास्त्य् अप्रतिसंख्यायोपेक्षा, नास्ति च्छन्दपरिहाणिर्, नास्ति वीर्यपरिहाणिर्, नास्ति स्मृतिपरिहाणिर्, नास्ति समाधिपरिहाणिर्, नास्ति प्रज्ञापरिहाणिर्, नास्ति विमुक्तिपरिहाणिः, सर्वकायकर्म ज्ञानपूर्वङ्गमज्ञानानुपरिवर्ति, सर्ववाक्कर्म ज्ञानपूर्वङ्गमज्ञानानुपरिवर्ति, सर्वमनस्कर्म ज्ञानपूर्वङ्गमज्ञानानुपरिवर्ति, अतीते ऽध्वन्य् अप्रतिहतम् असङ्गज्ञानं दर्शनं च, अनागते ऽध्वन्यप्रतिहतम् असङ्गज्ञानं दर्शनं च, प्रत्युत्पन्ने ऽध्वन्य् अप्रतिहतम् असङ्गज्ञानं दर्शनं च प्रवर्तते, इमे अष्टादशावेणिका बुद्धधर्माः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन.
SK
इति मार्गसंभारः
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत धारणीमुखानि, यद् उताक्षरनयसमताक्षरमुखम् अक्षरप्रवेशः, कतमो ऽक्षरनयसमता अक्षरमुखम् अक्षरप्रवेशः?
SK
अकारो मुखः सर्वधर्माणाम् आद्यनुत्पन्नत्वात्,
SK
रेफो मुखः सर्वधर्माणां रजो ऽपगतत्वात्,
SK
पकारो मुखः सर्वधर्माणां परमार्थनिर्देशात्,
SK
चकारो मुखः सर्वधर्माणां च्यवनोपपत्त्यनुपलब्धित्वात्,
SK
नकारो मुखः सर्वधर्माणां नामापगतत्वात्,
SK
लकारो मुखः सर्वधर्माणां लोकोत्तीर्णत्वात्, तृष्णालताहेतुप्रत्ययसमुद्घातित्वात्,
SK
दकारो मुखः सर्वधर्माणां दान्तदमथपरिच्छिन्नत्वात्,
SK
बकारो मुखः सर्वधर्माणां बन्धनविमुक्तत्वात्,
SK
डकारो मुखः सर्वधर्माणां डमरापगत्वात्,
SK
सकारो मुखः सर्वधर्माणां संगानुपलब्धित्वात्,
SK
वकारो मुखः सर्वधर्माणां वाक्पथघोषसमुच्छिन्नत्वात्,
SK
तकारो मुखः सर्वधर्माणां तथताचलितत्वात्,
SK
यकारो मुखः सर्वधर्माणां यथावदनुत्पादत्वात्,
SK
स्तकारो मुखः सर्वधर्माणां स्तम्भानुपलब्धित्वात्,
SK
ककारो मुखः सर्वधर्माणां कारकानुपलब्धित्वात्,
SK
सकारो मुखः सर्वधर्माणां समतानुपलब्धित्वात्,
SK
मकारो मुखः सर्वधर्माणां ममकारानुपलब्धित्वात्,
SK
गकारो मुखः सर्वधर्माणां गगनानुपलब्धितः,
SK
स्थकारो मुखः सर्वधर्माणां स्थानानुपलब्धितः,
SK
जकारो मुखः सर्वधर्माणां जात्यनुपलब्धितः,
SK
श्वकारो मुखः सर्वधर्माणां श्वासानुपलब्धितः,
SK
धकारो मुखः सर्वधर्माणां धर्मधात्वनुपलब्धितः,
SK
शकारो मुखः सर्वधर्माणां शमथानुपलब्धितः,
SK
खकारो मुखः सर्वधर्माणां खसमतानुपलब्धितः,
SK
क्षकारो मुखः सर्वधर्माणां क्षयानुपलब्धितः,
SK
स्तकारमुखाः सर्वधर्मास् तच् चानुपलब्धितः,
SK
ज्ञकारमुखाः सर्वधर्माः सर्वज्ञानानुपलब्धितः,
SK
हकारमुखाः सर्वधर्माः हेतोर् अनुपलब्धितः,
SK
च्छकारमुखाः सर्वधर्माश् च्छवेर् अप्य् अनुपलब्धितः,
SK
स्मकारमुखाः सर्वधर्माः स्मरणानुपलब्धितः,
SK
ह्वकारमुखाः सर्वधर्मा आह्वानापगतत्वात्,
SK
सकारमुखाः सर्वधर्मा उत्साहानुपलब्धितः,
SK
घकारमुखाः सर्वधर्मा घनानुपलब्धितः,
SK
ठकारमुखाः सर्वधर्मा विठपनानुपलब्धितः,
SK
णकारमुखाः सर्वधर्मा रणविगतत्वात्,
SK
फकारमुखाः सर्वधर्माः फलानुपलभितः,
SK
स्ककारमुखाः सर्वधर्माः स्कन्धानुपलब्धितः,
SK
जकारमुखाः सर्वधर्मा जरानुपलब्धितः,
SK
चकारमुखाः सर्वधर्माश् चरणानुपलब्धितः,
SK
टकारमुखाः सर्वधर्माः ष्टंकारानुपलब्धितः,
SK
ढकारमुखाः सर्वधर्मा ढंकारानुपलब्धितः.
SK
नास्ति अत उत्तरि अक्षरव्यवहारः. तत् कस्य हेतोः? तथा हि न कस्यचिन् नामास्ति येन संव्यवह्रियेत येन वाभिलप्येत येन निर्दिश्येत येन लुज्येत येन पश्येत, तद्यथापि नाम सुभूते आकाशम्, एवम् एव सर्वधर्मा अनुगन्तव्याः, अयं सुभूते धारणीप्रवेशो ऽकाराद्यक्षरनिर्देशप्रवेशः, यः कश्चित् सुभूते बोधिसत्त्वो महासत्त्व इदम् अकाराद्यक्षरकौशल्यप्रवेशं ज्ञास्यति, न स क्वचिद् रुते प्रतिहन्यते, सर्वं तं धर्मतया समाधयिष्यति, रुतज्ञानकौशल्यञ् च प्रतिलप्स्यते, यो हि कश्चित् सुभूते बोधिसत्त्वो महासत्त्व इमाम् अकाराद्यक्षरमुद्रां श्रोष्यति श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति परेषां देशयिष्यति रमयति तया सन्तत्या तस्य विंशतिर् अनुशंसाः प्रतिकाङ्क्षितव्याः.
SK
कतमा विंशतिः? स्मृतिमांश् च भविष्यति, मतिमांश् च भविष्यति, गतिमांश् च भविष्यति, धृतिमांश् च भविष्यति, ह्रीमांश् च प्रज्ञावांश् च प्रतिभानवांश् च, इदं धारणीमुखम् अल्पकृच्छ्रेण प्रतिलप्स्यतेन च कथंकथी भविष्यति, विमतिश् चास्य न भविष्यति, न च श्लक्ष्णां वाचं श्रुत्वा परेष्व् अनुनीतो भविष्यति, न च परुषया वाचा प्रतिहन्यते, न चोन्नतो भविष्यति, नावनतः यथास्थित एव भविष्यति, रुतकुशलश् च भविष्यति, स्कन्धकुशलश् च भविष्यति, धातुकुशलश् च भविष्यति, आयतनकुशलश् च भविष्यति, सत्यकुशलश् च भविष्यति, प्रतीत्यसमुत्पादकुशलश् च भविष्यति, हेतुकुशलश् च भविष्यति, प्रत्ययकुशलश् च भविष्यति, धर्मकुशलश् च भविष्यति, इन्द्रियपरिपूर्णज्ञानकुशलश् च भविष्यति, परचित्तज्ञानकुशलश् च भविष्यति, ऋद्धिविधिज्ञानकुशलश् च भविष्यति, दिव्यश्रोत्रज्ञानकुशलश् च भविष्यति, पूर्वनिवासानुस्मृतिज्ञानकुशलश् च भविष्यति, च्युतोपपत्तिज्ञानकुशलश् च भविष्यति, आस्रवक्षयज्ञानकुशलश् च भविष्यति, स्थानास्थननिर्देशकुशलश् च भविष्यति, अतिक्रमणकुशलश् च भविष्यति, ईर्यापथकुशलश् च भविष्यति, इमान् अनुशंसान् प्रतिलप्स्यत इति. इदम् अपि सुभूते धारणीमुखम् अक्षरमुखम् अकारमुखं बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
इति धारणीसंभारः
SK
यद् अपि तत् सुभूतिर् एवम् आह, कथं बोधिसत्त्वो महासत्त्वो (PSP१-२: ८८) महायानसंप्रस्थितो भवतीति, इह सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् भूमेर् भूमिं संक्रामति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो भूमेर् भूमिं संक्रामति यद् उतासंक्रान्त्या सर्वधर्माणाम्. तत् कस्य हेतोः? न हि स कश्चिद् धर्मो य आगच्छति वा गच्छति वा संक्रामति वा उपसंक्रामति वा, अपि तु या धर्माणां भूमिस् तान् न मन्यते न चिन्तयति भूमिपरिकर्म च करोति न च भूमिं समनुपश्यति.
SK
कतमच् च बोधिसत्त्वस्य महासत्त्वस्य भूमिपरिकर्म? प्रथमायां भूमौ वर्तमानेन बोधिसत्त्वेन महासत्त्वेन दशभूमिपरिकर्माणि करणीयानि. कतमानि दश?
SK
अध्याशयप्ररिकर्म अनुपलम्भयोगेन,
SK
हितवस्तुतापरिकर्म निमित्ततानुपलम्भताम् उपादाय,
SK
सर्वसत्त्वसमचित्ततापरिकर्म सत्त्वानुपलब्धिताम् उपादाय,
SK
त्यागपरिकर्म दायकदेयपरिग्राहकानुपलब्धिताम् उपादाय,
SK
कल्याणमित्रसेवापरिकर्म तैर् असंतापनताम् उपादाय,
SK
सद्धर्मपर्येष्टिपरिकर्म सर्वधर्मानुपलब्धिताम् उपादाय,
SK
अभीक्ष्णं नैष्क्रम्यपरिकर्म गृहानुपलब्धिताम् उपादाय,
SK
बुद्धकायस्पृहापरिकर्म लक्षणानुव्यञ्जननिमित्तानुपलब्धितामुपादाय,
SK
धर्मविवरणपरिकर्म धर्मभेदानुपलब्धिताम् उपादाय,
SK
सत्यवचनपरिकर्म वचनानुपलब्धिताम् उपादाय,
SK
इमानि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रथमाया भूमेर् दश परिकर्माणि यानि प्रथमायां भूमौ वर्तमानेन बोधिसत्त्वेन महासत्त्वेन दश परिकर्माणि करणीयानि.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो द्वितीयायां भूमौ वर्तमानो ऽष्टौ धर्मान् मनसिकरोति तेषु च प्रतिपद्यते. कतमान् अष्टौ? यद् उत शीलविशुद्धिं, कृतज्ञतां कृतवेदितां, क्षान्तिबलप्रतिष्ठानं, प्रामोद्यप्रत्यनुभवतां, सर्वसत्त्वापरित्यागतया महाकरुणाया आमुखीकर्म, गुरूणां श्रद्धया गौरवं, शास्तृसंज्ञायागुरुशुश्रूषां, पारमितास् तद् योगपर्येष्टिम्, इमान् सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां भूमौ वर्तमानेनाष्टौ धर्मान् मनसिकृत्वा प्रतिपत्तव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन तृतीयायां भूमौ वर्तमानेन पञ्चसु धर्मेषु स्थातव्यम्. कतमेषु पञ्चसु? यद् उत बहुश्रुत्ये ऽतृप्ततायां तत्र चाक्षरानभिनिवेशे, निरामिषधर्मदानविवरणतायां तया चामन्यनतया, बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणामनतायां तया चामन्यनतया, अमितसंसारापरिखेदनतायां तया चामन्यनतया, ह्रीरपत्राप्यव्यवस्थाने तेन चामन्यनतया, एषु सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चसु धर्मेषु तृतीयायां भूमौ वर्तमानेन स्थातव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन दशसु धर्मेषु स्थातव्यं, ते च न परित्यक्तव्याः. कतमेषु दशसु? यद् उत अरण्यवासो, ऽल्पेच्छता, संतुष्टिर्, धूतगुणसंलेखानुत्सर्जनं, शिक्षाया अपरित्यागः, कामगुणविजुगुप्सनं, निर्वित्सहगतश् चित्तोत्पदः, सर्वास्तिपरित्यागता, अनवलीनचित्तता, सर्ववस्तुनिरपेक्षता, इमे सुभूते दश धर्मा बोधिसत्त्वेन महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन न परित्यक्तव्या एषु च स्थातव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन दश धर्माः परिवर्जयितव्याः. कतमे दश? यद् उत गृहिप्रव्रजितसंस्तवः परिवर्जयितव्यः, कुलमात्सर्यं परिवर्जयितव्यः, संगणिकास्थानं परिवर्जयितव्यं, आत्मोत्कर्षणं परिवर्जयितव्यं, परपंसनं परिवर्जयितव्यं, दशाकुशलाः कर्मपथाः परिवर्जयितव्याः, अधिमानस्तम्भौ परिवर्जयितव्यौ, विपर्यासाः परिवर्जयितव्याः, विचिकित्सा परिवर्जयितव्या, रागद्वेषमोहाधिवासनाः परिवर्जयितव्याः. इमे सुभूते दश धर्मा बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन परिवर्जयितव्याः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन षड् धर्मा परिपूरयितव्याः. कतमे षट्? यद् उत षट् पारमिताः परिपूरयितव्याः, अपरे षड् धर्माः परिवर्जयितव्याः. कतमे षट्? श्रावकचित्तं परिवर्जयितव्यं, प्रत्येकबुद्धचित्तं परिवर्जयितव्यं, परितसनाचित्तं परिवर्जयितव्यं, याचनकं दृष्ट्वा नावलीयते, सर्ववस्तूनि च त्याज्यानि न च दौर्मनस्यचित्तम् उत्पादयितव्यं, न च याचनकविक्षेपः कर्तव्यः. इमे सुभूते षड् धर्मा बोधिसत्त्वेन (PSP१-२: ९०) महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन परिपूरयितव्याः, अपरे षड् धर्माः परिवर्जयितव्याः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य विंशतिधर्मा न भवन्ति. कतमे विंशतिः? यद् उत आत्मग्राहो ऽस्य न भवति सत्त्वग्राहो जीवग्राहः पुद्गलग्राह उच्छेदग्राहः शाश्वतग्राहो निमित्तसंज्ञा हेतुदृष्टिः स्कन्धाभिनिवेशो धात्वभिनिवेशः, आयतनम् ऋद्धिस् त्रैधातुके प्रतिष्ठानं त्रैधातुकाध्यवसानं त्रैधातुके आलयो बुद्धनिश्रयदृष्ट्यभिनिवेशो धर्मनिश्रयदृष्ट्यभिनिवेशः संघनिश्रयदृष्ट्यभिनिवेशः शीलनिश्रयदृष्ट्यभिनिवेशः शून्या धर्मा इति विवादः शून्यताविरोधश् चास्य न भवति, इमे सुभूते विंशतिधर्मा बोधिसत्त्वस्य महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य न भवन्ति.
SK
तेन विंशतिर् एव धर्माः सप्तम्यां भूमौ स्थितेन परिपूरयितव्याः. कतमे विंशतिः? यद् उत शून्यतापरिपूरिता, आनिमित्तसाक्षात्क्रिया, अप्रणिहितज्ञानं, त्रिमण्डलपरिशुद्धिः, कृपाकारुण्यं च सर्वसत्त्वेषु तेष्व् अनवमन्यना, सर्वधर्मसमतादर्शनं तत्र चानभिनिवेशः, भूतनयप्रतिवेधस् तेन चामन्यना अनुत्पादक्षान्तिर् अनुत्पादज्ञानम् एकनयनिर्देशः सर्वधर्माणां कल्पनासमुद्घातः संज्ञादृष्टिविवर्तः क्लेशविवर्तः शमथनिध्यप्तिर् विपश्यनाकौशल्यं दान्तचित्तता सर्वत्राप्रतिहतज्ञानचित्तता अनुनयस्याभूमिर् यत्रेच्छाक्षेत्रगमनं तत्र च बुद्धपर्षन्मण्डले स्थित्वात्मभावसंदर्शनम्. इमे विंशतिधर्मा बोधिसत्त्वेन महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन परिपूरयितव्याः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः. कतमे चत्वारः? यद् उत सर्वसत्त्वचित्तानुप्रवेशो ऽभिज्ञाविक्रीडनं बुद्धक्षेत्रदर्शनन् तेषां च बुद्धक्षेत्राणां यथादृष्टिनिष्पादनता बुद्धपर्युपासनता बुद्धकाययथाभूतप्रत्यवेक्षणतया. इमे सुभूते चत्वारो धर्मा बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन परिपूरयितव्याः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः. कतमे चत्वारः? यद् उत इन्द्रियपरापरज्ञानं, बुद्धक्षेत्रपरिशोधनं, मायोपमस्य (PSP१-२: ९१) समाधेर् अभीक्ष्णं समापत्तिर्, यथायथा च सत्त्वानां कुशलमूलनिष्पत्तिस् तथातथात्मभावम् अभिनिर्मिमीते संचिन्त्यभवोत्पादनतया. इमे सुभूते बोधिसत्त्वेन महासत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः. कतमे द्वादश? यद् उत अनन्तप्रणिधानपरिग्रहः, स यथायथा प्रणिदधाति तथातथास्य समृध्यते देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगरुतज्ञानं प्रतिभाननिर्देशज्ञानं गर्भावक्रान्तिसंपत् कुशलसंपद् जातिसंपद् गोत्रसंपत् परिवारसंपद् जन्मसंपन् नैष्क्रम्यसंपद् बोधिवृक्षसंपत् सर्वगुणपरिपूरणसंपत्. इमे सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः.
SK
दशम्यां पुनः सुभूते बोधिसत्त्वभूमौ वर्तमानो बोधिसत्त्वो महासत्त्वस् तथागत एवेति वक्तव्यः.
SK
सुभूतिर् आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्याध्याशयपरिकर्म?
SK
भगवान् आह: या सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वकुशलमूलसमुदानयनता, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याध्याशयपरिकर्म.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य हितवस्तुतापरिकर्म? यद् बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अर्थाय महायानज्ञानपर्येष्टिम् आपद्यते, इदं बोधिसत्त्वस्य महासत्त्वस्य हितवस्तुतापरिकर्म.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वसमचित्ततापरिकर्म? यत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चतुर् अप्रमाणाभिनिर्हरणा मैत्रीकरुणामुदितोपेक्षाणाम्, इदम् उच्यते सर्वसत्त्वसमचित्ततापरिकर्म.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य त्यागपरिकर्म? यत् सर्वसत्त्वेभ्यो ऽविकल्पितं दानं ददाति, इदम् उच्यते त्यागपरिकर्म.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म? (PSP१-२: ९२) यानि बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि सर्वाकारज्ञतायां समादापयन्ति, तेषां मित्राणां सेवना भजना पर्युपासना शुश्रूषा, इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म? यत् सर्वाकारज्ञताप्रतिसंयुक्तेन मनसिकारेण धर्मंपर्येषते न च श्रावकप्रत्येकबुद्धभूमौ पतति, इदं बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म? यत् सर्वजातिष्व् अव्यवकीर्णो ऽभिनिष्क्रामति तथागतशासने प्रव्रजितस्य न चास्य कश्चिद् अन्तरायो भवति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म? यद् बुद्धविग्रहं दृष्ट्वा न जातु बुद्ध मनसिकारेण विरहितो भवति, यावत् सर्वाकारज्ञतानुप्राप्तो भवति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म? यद् बोधिसत्त्वो महासत्त्वः संमुखीभूतस्य तथागतस्य परिनिर्वृतस्य वा सत्त्वानां धर्मं देशयति, आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति, यद् उत सूत्रं गेयं व्याकरणम् इतिवृत्तकं जातकं निदानम् अवदानं गाथा वैपुल्याद्भुतधर्मोपदेशाः, इदं बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म? यद् उत यथा वादि तथा कारिता, इदं बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म.
SK
इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमायां भूमौ वर्तमानस्य दश परिकर्माणि.
SK
तत्र सुभूते कतमानि बोधिसत्त्वस्य महासत्त्वस्य द्वितीयायां भूमौ वर्तमानस्याष्टौ परिकर्माणि? इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिर् यद् उत श्रावकप्रत्येकबुद्धचित्तानाम् (PSP१-२: ९३) अमनसिकारता ये ऽप्य् अन्ये दौःशील्यकरा बोधिपरिपन्थनकरा धर्मास् तेषाम् अमनसिकारः, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिः.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतवेदिता यद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचर्यां चरन्न् अल्पम् अपि कृतम् आ संसारान् न नाशयति प्राग् एव बहु, इयं बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतवेदिता.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानम्? यत् सर्वसत्त्वानाम् अन्तिके ऽव्यापादाविहिंसाचित्तता, इदं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानम्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता? यत् सर्वसत्त्वपरिपाचनता, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता.
SK
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः? यद् बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरत एवं भवति, एकैकस्य सत्त्वस्यार्थायाहङ् गङ्गानदीवालुकोपमान् कल्पान् निरये पचेयं यावन् न स सत्त्वो बुद्धज्ञाने प्रतिष्ठापित इति, एवम् एकैकस्य कृतशः सत्त्वस्य य उत्साहो यो ऽपरिखेदो यम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः,
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य श्रद्धागौरवम्? यद् बोधिसत्त्वस्य महासत्त्वस्य सर्वत्र निहतमानतया सश्रद्धता, इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य श्रद्धागौरवम्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रूषाश्रद्दधानता? यद् गुरूणाम् अन्तिके शास्तृसंज्ञा, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रुषाश्रद्दधानता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य पारमितास्तद्योगपर्येष्टिः? या अनन्यकर्मतया पारमितापर्येषणता, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य पारमितास्तद्योगपर्येष्टिः.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता? यत् किंचिद् बुद्धैर् भगवद्भिर् भाषितम् इह वा लोकधातौ समन्ताद् वा दश दिशि लोके तत् सर्वम् आराधयिष्यामीति या अतृप्तता, इयं बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता? यद् बोधिसत्त्वो महासत्त्वो धर्मं देशयति, स तेन (PSP१-२: ९४) धर्मदानकुशलेनात्मनो बोधिम् अपि न प्रतिकाङ्क्षति, इयं बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणमना? यैः कुशलमूलैर् बुद्धक्षेत्रं परिशोधयनात्मपरिचित्तं परिशोधयति तेषां कुशलमूलानां या परिणामना, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणमना.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदिता? या कुशलमूलोपस्तम्भता यैः कुशलमूलैर् उपस्तब्धः, सत्त्वानांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च जातु खेदम् आपद्यते यावन् न सर्वधर्मान् सर्वाकारज्ञतां च परिपूरयति, इयं बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदिता.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य ह्रीरपत्राप्यव्यवस्थानम्? या सर्वश्रावकप्रत्येकबुद्धचित्तजुगुप्सनता, इदं बोधिसत्त्वस्य महासत्त्वस्य ह्रीरपत्राप्यव्यवस्थानम्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अरण्यवासापरित्यागिता? या सर्वश्रावकप्रत्येकबोधिसमतिक्रमणता, इयं बोधिसत्त्वस्य महासत्त्वस्य अरण्यवासापरित्यागिता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता? यद् बोधिसत्त्वो महसत्त्वो बोधिम् अपि नेच्छति, इयं बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य संतुष्टिः? यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अपि न मन्यते, इयं बोधिसत्त्वस्य महासत्त्वस्य संतुष्टिः.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य धूतगुणसंलेखानुत्सर्जनता? या गम्भीरेषु धर्मेषु निध्यप्तिक्षान्तिर् इयं बोधिसत्त्वस्य महासत्त्वस्य धूतगुणसंलेखानुत्सर्जनता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता? यः सर्वशिक्षाणाम् अप्रचारः, इयं बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता? यः कामचित्तस्यानुत्पादः, इयं बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निर्वित्सहगतश् चित्तोत्पादः? यः सर्वधर्माणाम् अनभिसंस्कारो ऽयं बोधिसत्त्वस्य महासत्त्वस्य निर्वित्सहगतश् चित्तोत्पादः.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वास्तिपरित्यागिता? या अध्यात्मिकबाह्यानां धर्माणाम् अग्रहणता, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वास्तिपरित्यागिता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अनवलीनचित्तता? या यद् विज्ञानस्थितिष्व् अस्य चित्तं नावलीयते, इयं बोधिसत्त्वस्य महासत्त्वस्य अनवलीनचित्तता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता? या सर्ववस्तूनाम् अमनसिकारता, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता? या बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमणता उपपादुकता प्रतिलाभमुण्डकाषायप्रावरणता, इयं बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य भिक्षुभिक्षुणीसंस्तवपरिवर्जनता? यद् भिक्षुणा भिक्षुण्या वा सह अच्छटिकासंघातमात्रम् अपि न तिष्ठति न च तैर् विना परितसनाचित्तम् उत्पादयति, इयं बोधिसत्त्वस्य महासत्त्वस्य भिक्षुभिक्षुणीसंस्तवपरिवर्जनता.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन कुलमात्सर्यं परिवर्जयितव्यम्? इह सुभूते बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यं, यन् मया सत्त्वानां सर्वसुखोपधानं कर्तव्यं त एते सत्त्वाः स्वपुण्यैर् एव सुखिता नात्र मया मात्सर्यचित्तम् उत्पादयितव्यम्, इदं बोधिसत्त्वेन महासत्त्वेन कुलमात्सर्यं परिवर्जयितव्यम्.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन संगणिकास्थानं परिवर्जयितव्यम्? यत्र बोधिसत्त्वस्य महासत्त्वस्य संगणिकास्थानस्थितस्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्ता कथा स्यात् तत् प्रतिसंयुक्तं वा चित्तोत्पादम् उत्पादयेन् न तत्र बोधिसत्त्वेन महासत्त्वेन स्थातव्यम्, इयं बोधिसत्त्वस्य महासत्त्वस्य संगणिकास्थानपरिवर्जनता.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन आत्मोत्कर्षणा परिवर्जयितव्या? या आध्यात्मिकानां धर्माणाम् असमनुपश्यना इयं (PSP१-२: ९६) बोधिसत्त्वस्य महासत्त्वस्य आत्मोत्कर्षणपरिवर्जनता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता? यद् उत बाह्यानां धर्माणाम् असमनुपश्यना, इयं बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः? तथा ह्य् एते आर्यमार्गस्यान्तरायकराः सुगतेर् वा प्राग् एव संबोधेः, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः? तथा हि स न कञ्चिद् धर्मं समनुपश्यति, कुतः पुनर् अधिकं येनाधिमंस्यते, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः.
SK
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः? तथा हि तद् वस्तु न समनुपश्यति यत्र स्तम्भम् उत्पादयेद् एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन स्तम्भो नोत्पादयितव्यः.
SK
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः? सर्ववस्तूनाम् अनुपलब्धिताम् उपादाय, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः.
SK
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या? तथा हि संदेहापगतात् सर्वधर्मान् समनुपश्यति, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या.
SK
तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानाम् अधिवासना परिवर्जयितव्या? तथा हि रागद्वेषमोहानां वस्तु न समनुपश्यति, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहाः परिवर्जयितव्याः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन षड् धर्माः परिपूरयितव्याः? यद् उत षट् पारमिता दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, इमाः षट् पारमिताः परिपूरयितव्याः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन षड् धर्माः परिवर्जयितव्याः? यद् उत श्रावकचित्तं परिवर्जयितव्यम्. तत् कस्य हेतोः? तथा (PSP१-२: ९७) हि नैष मार्गो बोधये, प्रत्येकबुद्धचित्तं परिवर्जयितव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, परितसनाचित्तं न कर्तव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, याचनकं दृष्ट्वा नावलीनचित्तम् उत्पादयितव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, सर्वस्वम् अपि परित्यज्य न दुर्मनस्को भवति. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, याचनकविक्षेपो न कर्तव्यः. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन आत्मग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया आत्मा न संविद्यते एवं बोधिसत्त्वेन महासत्त्वेन आत्मग्राहो न कर्तव्यः, एवं सत्त्वग्राहो जीवग्राहः पुद्गलग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा ह्य् एते अत्यन्ततया न संविद्यन्ते, एवं सत्त्वजीवपुद्गलग्राहो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन उच्छेदग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न कश्चिद् धर्म उच्छिद्यते, अत्यन्ततयानुत्पन्नत्वात् सर्वधर्माणां नोच्छेदेः, एवम् उच्छेदग्राहो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शास्वतग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा हि यो धर्मो नोत्पद्यते स न शाश्वती भवति, एवं शाश्वतग्राहो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन निमित्तसंज्ञा नोत्पादयितव्या. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया संक्लेशो न संविद्यते, एवं निमित्तसंज्ञा नोत्पादयितव्या.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन हेतुदृष्टिर् न कर्तव्या. तत् कस्य हेतोः? तथा हि स तां दृष्टिं न समनुपश्यति, एवं हेतुदृष्टिर् न कर्तव्या, एवं स्कन्धेषु धातुष्व् आयतनेष्व् अभिनिवेशो न कर्तव्यः. तत् कस्य हेतोः? तथा हि ते धर्माः स्वभावेन न संविद्यन्ते, एवं स्कन्धधात्वायतनेष्व् अभिनिवेशो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वन त्रैधातुके ऽभिनिवेशो न कर्तव्यः. तत् कस्य हेतोः? तथा हि त्रैधातुकस्वभावो न संविद्यते, एवं त्रैधातुके ऽभिनिवेशो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुके ऽध्यवसानं न कर्तव्यम्. तत् कस्य हेतोः? तथा हि तद् वस्तु नोपलभ्यते, एवं त्रैधातुके ऽध्यवसानं न कर्तव्यम्.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुके आलयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि निःस्वभावत्वाद् एवं त्रैधातुके आलयो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन बुद्धधर्मसंघनिश्रयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न बुद्धधर्मसंघदृष्टिनिश्रयाद् बुद्धधर्मसंघदर्शनं, एवं बुद्धधर्मसंघदृष्टिनिश्रयो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शीलदृष्टिनिश्रयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न शीलदृष्टिनिश्रयाच् छीलपरिशुद्धिर् भवत्य् एवं शीलदृष्टिनिश्रयो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यतायां विवादो न कर्तव्यः. तत् कस्य हेतोः? तथा हि सर्वधर्माः स्वभावेन शून्या न शून्यतया, एवं शून्यतायां विवादो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यताविरोधो न कर्तव्यः. तत् कस्य हेतोः? तथा हि सर्वधर्माः शून्या न शून्यता शून्यतां विरोधयति, एवं बोधिसत्त्वेन महासत्त्वेन शून्यताविरोधो न कर्तव्यः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या? स्वलक्षणशून्यताम् उपादाय, परिपूरिर् बोधिसत्त्वस्य महासत्त्वस्य शून्यता परिपूरिर्, एवं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य आनिमित्तसाक्षात्क्रिया? यद् उत सर्वनिमित्तानाम् अमनसिकारता, इयं बोधिसत्त्वस्य महासत्त्वस्यानिमित्तसाक्षात्क्रिया.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अप्रणिहितज्ञानम्? यत् सर्वत्रैधातुके चित्तस्याप्रतिष्ठानम्, इदं बोधिसत्त्वस्य महासत्त्वस्याप्रणिहितज्ञानम्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः? यद् उत दश कुशलकर्मपथपरिशुद्धिर् एवं बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः.
SK
तत्र कथं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वेषु कृपाकरुणापरिपूरिः कर्तव्या? यो महाकरुणायाः प्रतिलाभः, एवं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वेषु कृपाकरुणापरिपूरिः करणीया.
SK
तत्र कथं बोधिसत्त्वेन मःआसत्त्वेन सर्वसत्त्वा नावमन्तव्याः? यद् उत मैत्रीपरिपूर्या, एवं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वा नावमन्तव्याः.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्माणां समतादर्शनं यद् उतानुत्क्षेपो ऽप्रक्षेपः सर्वधर्माणाम् इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्माणां समतादर्शनम्.
SK
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः? यः सर्वधर्माणाम् अप्रतिवेधः, अयं बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादक्षान्तिः? या सर्वधर्माणाम् अनुत्पादाय अनिरोधाय अनभिसंस्काराय क्षान्तिर् इयं बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादक्षान्तिः.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादज्ञानम्? यन् नामरूपानुत्पादज्ञानम् इदं बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादज्ञानं.
SK
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य एकनयनिर्देशः? या अद्वयसमुदाचारता अयं बोधिसत्त्वस्य महासत्त्वस्य एकनयनिर्देशः.
SK
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य कल्पनासमुद्घातः? या सर्वधर्माणां कल्पना अयं बोधिसत्त्वस्य महासत्त्वस्य कल्पनासमुद्घातः.
SK
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य संज्ञादृष्टिविवर्तः? या सर्वश्रावकप्रत्येकबुद्धभूमेः संज्ञादृष्टिविवर्तनता अयं बोधिसत्त्वस्य महासत्त्वस्य संज्ञादृष्टिविवर्तः.
SK
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः? यः सर्ववासनानुसंधिक्लेशोत्सर्गः, अयं बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः,
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः? यत् सर्वाकारज्ञताज्ञानम् इयं बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः,
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता? या त्रैधातुके ऽनभिरतिः, इयं बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्याप्रतिहतज्ञानम्? यो (PSP१-२: १००) बुद्धचक्षुःप्रतिलम्भः, इदं बोधिसत्त्वस्य महासत्त्वस्याप्रतिहतज्ञानम्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यानुनयापसरणज्ञता? या षड् आयतनिका उपेक्षा, इयं बोधिसत्त्वस्य महासत्त्वस्यानुनयापसरणज्ञता.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनम्? यद् एकबुद्धक्षेत्रान् न चलति सर्वबुद्धक्षेत्रेषु संदृश्यते, न चास्य बुद्धक्षेत्रे संज्ञोत्पद्यते, इदं बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनम्.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वत्रात्मभावदर्शनम्? यद् यथापर्षन् मण्डले आत्मभावदर्शनम्, इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वत्रात्मभावदर्शनम्.
SK
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तचरितानुप्रवेशः? यद् एकचित्तेन सर्वसत्त्वचित्तचरितज्ञानम्, अयं बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तचरितानुप्रवेशः.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अभिज्ञाविक्रीडना? याभिर् अभिज्ञाभिर् विक्रीडमानो बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति बुद्धदर्शनाय न च बुद्धसंज्ञो भवति, इयं बोधिसत्त्वस्य महासत्त्वस्य अभिज्ञाविक्रीडना.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता? या त्रिसाहस्रमहासाहस्रलोकधात्वीश्वरचक्रवर्तिमूर्तिस्थितस्य सर्वलोकधातुपरित्यागस्यामन्यनता, इयं बोधिसत्त्वस्य महासत्त्वस्य यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता? या बुद्धपर्युपासनता सर्वसत्त्वानुग्रहं प्रति, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथाभूतप्रत्यवेक्षणता? या धर्मकाययथाभूतप्रत्यवेक्षणता, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथाभूतप्रत्यवेक्षणता,
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य इन्द्रियपरापरज्ञानता? या दशसु बलेषु स्थित्वा सर्वसत्त्वानाम् इन्द्रियपरिपूरिप्रज्ञाज्ञानता, इयं बोधिसत्त्वस्य महासत्त्वस्य इन्द्रियपरापरज्ञानता.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता? (PSP१-२: १०१) या सर्वसत्त्वचित्तपरिशोधनता, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता.
SK
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य मायोपमसमाधिः? यत्र समाधौ स्थित्वा सर्वाः क्रियाः करोति न चास्य चित्तप्रचारो भवति, अयं बोधिसत्त्वस्य महासत्त्वस्य मायोपमसमाधिः.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णसमापत्तिः? या बोधिसत्त्वस्य महासत्त्वस्य विपाकजः समाधिर्, इयं बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णसमापत्तिः.
SK
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य संचिन्त्यात्मभावपरिग्रहः? यद् बोधिसत्त्वो महासत्त्वो यथायथा सत्त्वानां कुशलमूलपरिनिष्पत्तिर् भवति तथातथा संचिन्तयात्मभावं परिगृह्णाति, अयं बोधिसत्त्वस्य महासत्त्वस्यात्मभावपरिग्रहः.
SK
तत्र कथं बोधिसत्त्वस्य महासत्त्वस्यानन्तप्रणिधानम्? यद् बोधिसत्त्वो महासत्त्वः षण्णां पारमितानां परिपूर्णत्वाद् यथायथा प्रणिधिं प्रणिदधाति तथातथा समृध्यते, इदं बोधिसत्त्वस्य महासत्त्वस्यानन्तप्रणिधानम्.
SK
तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वरुतज्ञानम्? यद् बोधिसत्त्वो महासत्त्वो निरुक्तिप्रतिसंविदा देवादीनां रुतं प्रतिसंविध्यति, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वरुतज्ञानम्.
SK
तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य परिपूर्णप्रतिभानम्? यद् बोधिसत्त्वो महासत्त्वः प्रतिभानप्रतिसंविदा परिपूर्णप्रतिभाननिर्देशज्ञानं प्रतिविध्यति, इदं बोधिसत्त्वस्य महासत्त्वस्य परिपूर्णप्रतिभानम्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रान्तिसंपत्? इह बोधिसत्त्वो महासत्त्वः सर्वासु जातिषु औपपादुक उपपद्यते, इयं बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रन्तिसंपत्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्? यद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वकुलेषु प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जातिसंपत्? यद् बोधिसत्त्वो महासत्त्वः क्षत्रियमहाशालकुलेषु ब्राह्मणमहाशालकुलेषु वा प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य जातिसंपत्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गोत्रसंपत्? यद् बोधिसत्त्वो (PSP१-२: १०२) महासत्त्वो यस्माद् गोत्रात् पूर्वका बोधिसत्त्व अभूवंस् तत्र गोत्रे प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य गोत्रसंपत्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य परिवारसंपत्? यद् बोधिसत्त्वो महासत्त्वो बोधौ सत्त्वान् प्रतिष्ठाप्य बोधिसत्त्वपरिवार एवं भवतीयं बोधिसत्त्वस्य महासत्त्वस्य परिवारसंपत्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जन्मसंपत्? यज् जातमात्र एव बोधिसत्त्वो महासत्त्वः सर्वलोकधातून् अवभासेन स्फरति, तांश् च सर्वान् षड् विकारं कम्पयति, इयं बोधिसत्त्वस्य महासत्त्वस्य जन्मसंपत्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणसंपत्? यद् बोधिसत्त्वो महासत्त्वः प्रव्रजितो ऽनेकैः सत्त्वकोटीनियुतशतसहस्रैः सार्धम् अभिनिष्क्रामति गृहात्, इयं बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणसंपत्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसंपत्? यद् बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षस्य मूलं सौवर्णं भवति स्कन्धो वैडूर्यमयो भवति, सर्वरत्नमयाः शाखाः पत्राणि सर्वरत्नमयानि तस्य वृक्षस्य पुष्पाङ् गन्धो ऽवभासश् चानन्तान् लोकधातून् अवभासेन स्फुरति, इयं बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसंपत्.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसंपत्? या बोधिसत्त्वस्य महासत्त्वस्य सत्त्वपरिपाकेन बुद्धक्षेत्रपरिशुद्धिर्, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसंपत्.
SK
तत्र कथं बोधिसत्त्वो महासत्त्वो दशम्यां भूमौ स्थितः संस्तथागत एवेति वक्तव्यः? यदा बोधिसत्त्वस्य महासत्त्वस्य दशपारमिताः परिपूर्णा भवन्ति, यावद् अष्टादशावेणिका बुद्धधर्माः परिपूर्णा भवन्ति, सर्वाकारज्ञताज्ञानं च सर्ववासनानुसंधिक्लेशप्रहाणं भवति, महाकरुणा च सर्वबुद्धधर्माः परिपूर्णा भवन्ति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो दशम्याः पुनर् बोधिसत्त्वभूमेः परं तथागत एवेति वक्तव्यः.
SK
तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य दश भूमयः? यद् बोधिसत्त्वो महासत्त्व उपायकौशल्येन सर्वासु पारमितासु चरन् सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु शिक्षितो ऽप्रमाणध्यानारूप्यसमापत्तिषु चरन् दशतथागतबलप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु (PSP१-२: १०३) चरन् गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनूभूमिं वीतरागभूमिं कृतावीभूमिं श्रावकभूमिं प्रत्येकबुद्धभूमिं बोधिसत्त्वभूमिं बोधिसत्त्वो महासत्त्वो ऽतिक्रम्य एता नवभूमीर् अतिक्रम्य बुद्धभूमौ प्रतिष्ठते, इयं बोधिसत्त्वस्य महासत्त्वस्य दशमी भूमिः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थितो भवति.
SK
इति भूमिसंभारः
SK
यत् पुनः सुभूतिर् एवम् आह, कुतस् तद् यानं निर्यास्यतीति त्रैधातुकान् निर्यास्यति येन सर्वाकारज्ञता तेन स्थास्यति तत् पुनर् अद्वययोगेन. तत् कस्य हेतोः? तथा हि यच् च महायानं या च सर्वाकारज्ञता उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उतालक्षणौ. तत् कस्य हेतोः? न हि सुभूते ऽलक्षणौ धर्मौ निर्यातौ वा निर्यातो वा निर्यास्यतो वा धर्मधातोः स सुभूते निर्याणम् इच्छेत्, तथतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेद्, एवं भूतकोटेर् अचिन्त्यधातोर् आकाशधातोः प्रहाणधातोर् विरागकोटेर् अनुत्पादस्यानिरोधस्याभावस्यस निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्.
SK
रूपशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं वेदनाशून्यतायाः संज्ञाशून्यतायाः संस्कारशून्यतायाः विज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः?
SK
न हि सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, न वेदनाशून्यता न संज्ञाशून्यता न संस्कारशून्यता न विज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः?
SK
तथा हि सुभूते रूपं रूपेण शून्यं वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या विज्ञानं विज्ञानेन शून्यं,
SK
चक्षुःशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं श्रोत्रशून्यताया घ्राणशून्यताया जिह्वाशून्यतायाः कायशून्यताया मनःशून्यतायाः स सुभूते निर्याणम् इच्छेद्यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं रूपशून्यतायाः शब्दशून्यताया गन्धशून्यताया रसशून्यतायाः स्पर्शशून्यताया धर्मशून्यतायाः,
SK
चक्षुर्विज्ञानशून्यतायाः श्रोत्रविज्ञानशून्यताया घ्राणविज्ञानशून्यताया जिह्वाविज्ञानशून्यतायाः कायविज्ञानशून्यताया मनोविज्ञानशून्यतायाश्
SK
चक्षुःसंस्पर्शशून्यताया श्रोत्रसंस्पर्शशून्यताया घ्राणसंस्पर्शशून्यताया जिह्वासंस्पर्शशून्यतायाः कायसंस्पर्शशून्यताया मनःसंस्पर्शशून्यतायाश्
SK
चक्षुःसंस्पर्शजवेदयितशून्यतायाः श्रोत्रसंस्पर्शजवेदयितशून्यताया घ्राणसंस्पर्शजवेदयितशून्यताया जिह्वासंस्पर्शजवेदयितशून्यतायाः कायसंस्पर्शजवेदयितशून्यताया मनःसंस्पर्शजवेदयितशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः?
SK
न हि सुभूते चक्षुःशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रशून्यता न घ्राणशून्यता न जिह्वाशून्यता न कायशून्यता न मनःशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति,
SK
न हि सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न शब्दशून्यता न गन्धशून्यता न रसशून्यता न स्पर्शशून्यता न धर्मशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.
SK
न हि सुभूते चक्षुर्विज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति न श्रोत्रविज्ञानशून्यता न घ्राणविज्ञानशून्यता न जिह्वाविज्ञानशून्यता न कायविज्ञानशून्यता न मनोविज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.
SK
न हि सुभूते चक्षुःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रसंस्पर्शशून्यता न घ्राणसंस्पर्शशून्यता न जिह्वासंस्पर्शशून्यता न कायसंस्पर्शशून्यता न मनःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.
SK
न हि सुभूते चक्षुःसंस्पर्शजवेदयितशून्यता त्रैधातुकान् निर्यास्यति, न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रसंस्पर्शजवेदयितशून्यता न घ्राणसंस्पर्शजवेदयितशून्यता न जिह्वासंस्पर्शजवेदयितशून्यता न कायसंस्पर्शजवेदयितशून्यता न (PSP१-२: १०५) मनःसंस्पर्शजवेदयितशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चक्षुश् चक्षुषा शून्यं श्रोत्रं श्रोत्रेण शून्यं घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं, एवं रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यः स्पर्शः स्पर्शेन शून्यो धर्मा धर्मैः शून्याः,
SK
चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं,
SK
चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यो घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यो जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः कायसंस्पर्शः कायसंस्पर्शेन शून्यो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः,
SK
चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजया वेदनया शून्या, श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजया वेदनया शून्या, घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजया वेदनया शून्या, जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजया वेदनया शून्या, कायसंस्पर्शजा वेदना कायसंस्पर्शजया वेदनया शून्या, मनःसंस्पर्शजा वेदना मनःसंस्पर्शजया वेदनया शून्या.
SK
स्वप्नस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, विस्तरेण कर्तव्यम्, एवं मरीच्या मायायाः प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिम्बस्य गन्धर्वनगरस्य तथागतनिर्मितस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? न हि सुभूते स्वप्नस्य स्वभवस् त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न मरीच्याः स्वभावो न मायायाः स्वभावो न प्रतिश्रुत्कायाः स्वभावो न प्रतिभासस्य स्वभावो न प्रतिबिम्बस्य स्वभावो न गन्धर्वनगरस्य स्वभावो न तथागतनिर्मितस्य स्वभावस् त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते स्वप्नस्वभावः स्वप्नस्वभावेन शून्यो, मरीचिस्वभावो मरीचिस्वभावेन शून्यः, मायास्वभावो मायास्वभावेन शून्यः, प्रतिश्रुत्कास्वभावः प्रतिश्रुत्कास्वभावेन शून्यः, प्रतिभासस्वभावः प्रतिभासस्वभावेन शून्यः, (PSP१-२: १०६) प्रतिबिम्बस्वभावः प्रतिबिम्बस्वभावेन शून्यः, गन्धर्वनगरस्वभावः गन्धर्वनगरस्वभावेन शून्यः, तथागतनिर्मितस्वभावस् तथागतनिर्मितस्वभावेन शून्यः.
SK
इति दर्शनमार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः
SK
दानपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो दानपारमितायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः तथा हि यः प्रज्ञापारमितायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते दानपारमितास्वभावो दानपारमितास्वभावेन शून्यः, शीलपारमितास्वभावः शीलपारमितास्वभावेन शून्यः, क्षान्तिपारमितास्वभावः क्षान्तिपारमितास्वभावेन शून्यः, वीर्यपारमितास्वभावो वीर्यपारमितास्वभावेन शून्यः, ध्यानपारमितास्वभावो ध्यानपारमितास्वभावेन शून्यः, प्रज्ञापारमितास्वभावः प्रज्ञापारमितास्वभावेन शून्यः.
SK
अध्यात्मशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, बहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, अध्यात्मबहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं यावद् अभावस्वभावशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि यो ऽध्यात्मशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तथा हि यो बहिर्धाशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, तथा हि यो ऽध्यात्मबहिर्धाशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं यावद् यो ऽभावस्वभावशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अध्यात्मशून्यता अध्यात्मशून्यतयाशून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, एवं यावद् अभावस्वभावशून्यता (PSP१-२: १०७) यावद् अभावस्वभावशून्यतया शून्या.
SK
स्मृत्युपस्थानानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः स्मृत्युपस्थानानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि.
SK
सम्यक्प्रहाणानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः सम्यक्प्रहाणानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि.
SK
ऋद्धिपादानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते य ऋद्धिपादानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते ऋद्धिपादा ऋद्धिपादैः शून्याः.
SK
इन्द्रियाणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते य इन्द्रियाणां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते इन्द्रियाणि इन्द्रियैः शून्यानि,
SK
बलानां स सुअभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बलानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बलानि बलैः शून्यानि.
SK
बोध्यङ्गानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बोध्यङ्गानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, तत् कस्य हेतोः? तथा हि सुभूते बोध्यङ्गानि बोध्यङ्गैः शून्यानि.
SK
मार्गस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो मार्गस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते मार्गो मार्गेण शून्यः.
SK
एवम् अप्रमाणध्यानारूप्यसमापत्तीनां स सुभूते निर्याणम् इच्छेद् (PSP१-२: १०८) यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽप्रमाणध्यानारूप्यसमापत्तीनां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिस्वभावेन शून्यः.
SK
दशानां तथागतबलानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यस् तथागतबलानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते दशतथागतबलानि दशतथागतबलैः शून्यानि.
SK
चतुर्णां वैशारद्यानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यश् चतुर्णां वैशारद्यानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चत्वारि वैशारद्यानि चतुर्भिर् वैशारद्यैः शून्यानि.
SK
चतसृणां प्रतिसंविदां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यश् चतसृणां प्रतिसंविदां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चतस्रः प्रतिसंविदश् चतसृभिः प्रतिसंविद्भिः शून्याः.
SK
अष्टादशानाम् आवेणिकानां बुद्धधर्माणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽष्टादशावेणिकबुद्धधर्मस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बुद्धधर्मा बुद्धधर्मैः शून्याः.
SK
इति दर्शनमार्गे द्वितीयग्राह्यविकल्पप्रतिपक्षः
SK
अर्हतः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽर्हतः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अर्हत्स्वभावो ऽर्हतः स्वभावेन शून्यः.
SK
प्रत्येकबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः प्रत्येकबुद्धस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां (PSP१-२: १०९) स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते प्रत्येकबुद्धस्वभावः प्रत्येकबुद्धस्वभावेन शून्यः.
SK
बोधिसत्त्वस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बोधिसत्त्वस्य महासत्त्वस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्वभावो बोधिसत्त्वस्वभावेन शून्यः.
SK
तथागतस्यार्हतः सम्यक्संबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यस् तथागतस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते तथागतस्वभावस् तथागतस्वभावेन शून्यः.
SK
स्रोतआपत्तिफलस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं सकृदागामिफलस्य अनागामिफलस्य अर्हत्त्वस्य प्रत्येकबोधेर् मार्गज्ञतायाः सर्वाकारज्ञतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः स्रोतआपत्तिफलस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि स्रोतआपत्तिफलस्वभावः स्रोतआपत्तिफलस्वभावेन शून्यः.
SK
एवं सकृदागामिफलस्य यः स्वभावो ऽनागामिफलस्य यः स्वभावो ऽर्हत्त्वस्य यः स्वभावः प्रत्येकबुद्धत्वस्य यः स्वभावो मार्गज्ञतायायः स्वभावः सर्वाकारज्ञताया यः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञतायाः स्वभावः सर्वाकारज्ञतास्वभावेन शून्यः.
SK
इति दर्शनमार्गे प्रथमग्राहकविकल्पप्रतिपक्षः
SK
नाम्नः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं निमित्तस्य संकेतस्य व्यवहारस्य प्रज्ञप्तेः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो नाम्नः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते नामस्वभावो नामस्वभावेन शून्यः. एवं संकेतस्ययः स्वभावो व्यवहारस्य यः स्वभावः प्रज्ञप्तेर् यः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? (PSP१-२: ११०) तथा हि प्रज्ञप्तिस्वभावः प्रज्ञप्तिस्वभावेन शून्यः.
SK
अनुत्पादस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽनुत्पादस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यः.
SK
एवम् अनिरोधस्यासंक्लेशस्याव्यवदानस्यानभिसंस्कारस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽनभिसंस्कारस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः.
SK
एवं हि सुभूते न महायानं त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, अचलितं तद् यानम्.
SK
इति दर्शनमार्गे द्वितीयग्राहकविकल्पप्रतिपक्षः
SK
यत् पुनः सुभूतिर् एवम् आह, क्व तद् यानं स्थास्यतीति, न तद् यानं क्वचित् स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अस्थिताः सर्वधर्माः, अपि तु सुभूते अस्थानं न स्थानयोगेन तद् यानं स्थास्यति, तद्यथापि नाम सुभूते धर्मधातुर् न स्थितो नास्थितः, एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं, तद्यथापि नाम सुभूते ऽनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो न स्थितो नास्थितः, एवम् एव सुभूते तन् महायनं न स्थितं नास्थितं, तथा हि सुभूते धर्मधातुर् धर्मधातुना शून्यः. तत् कस्य हेतोः? न हि सुभूते धर्मधातुस्वभावः स्थितो वा अस्थितो व. तत् कस्य हेतोः? तथा हि सुभूते धर्मधातुस्वभावो धर्मधातुस्वभावेन शून्यः, एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अभिसंस्कारो ऽनभिसंस्कारेण शून्यः. तत् कस्य हेतोः? न हि सुभूते ऽनभिसंस्कारस्वभावः स्थितो वा अस्थितो वा. तत् कस्य हेतोः? तथा हि सुभूते अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः, एवं हि सुभूते तद् यानं न क्वचित् स्थास्यति, अस्थितम् अस्थानयोगेन अचाल्ययोगेन.
SK
इति भावनामार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः
SK
यत् पुनः सुभूतिर् एवम् आह, कस् तेन यानेन निर्यास्यतीति, न कश्चित् तेन यानेन निर्यास्यति. तत् कस्य हेतोः? तथा हि सुभूते यच् च तद् यानं येन च निर्यास्यति यश् च निर्यास्यति यतश् च निर्यास्यति सर्व एते (PSP१-२: १११) धर्मा न संविद्यन्ते, एवम् असंविद्यमानानां सर्वधर्माणां कतमो धर्मः कतमेन धर्मेण निर्यास्यति. तत् कस्य हेतोः? तथा हि सुभूते नात्मा उपलभ्यते न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यक उपलभ्यते, आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय, एवं यावत् पश्यकस्यात्यन्तविशुद्धिताम् उपादाय, धर्मधातुर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, स्कन्धधात्वायतनानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, प्रतीत्यसमुत्पादो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, दानपारमिता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. अध्यात्मशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, बहिर्धाशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं यावद् अभावस्वभावशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. स्मृत्युपस्थानानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तयो नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, एवं दश तथागतबलानि नोपलभ्यन्ते चत्वारि वैशारद्यानि नोपलभ्यन्ते चतस्रः प्रतिसंविदो नोपलभ्यन्ते अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, सकृदागामी नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अनागामी नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अर्हन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, तथागतो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपत्तिफलन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं सकृदागामिफलन् नोपलभ्यते अत्यन्तविशुद्धितामुपादाय, अनागामिफलन् नोपलभ्यते, अर्हत्त्वन् नोपलभ्यते, प्रत्येकबोधिर् नोपलभ्यते, तथागतत्वन् नोपलभ्यते, सर्वाकारज्ञता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रमुदिताभूमिर् नोपलभ्यतेअत्यन्तविशुद्धिताम् उपादाय, एवं विमला प्रभाकरी अर्चिष्मती (PSP१-२: ११२) सुदुर्जया अभिमुखी दूरङ्गमा अचला साधुमती धर्ममेघा भूमिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, पूर्वान्तो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अपरान्तो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रत्युत्पन्नो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवम् अगतिर् नोपलभ्यते गतिर् नोपलभ्यते स्थितिर् नोपलभ्यते च्युतिर् नोपलभ्यते उपपत्तिर् नोपलभ्यते हानिर् नोपलभ्यते वृद्धिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय.
SK
कस्यानुपलब्ध्या नोपलभ्यते? धर्मधातोर् अनुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते धर्मधातुर् उपलभ्यते अनुपलब्ध्या नोपलभ्यते, अनुत्पादस्यानिरोधस्यासंक्लेशस्याव्यवदानस्यानभिसंस्कारस्यानुपलब्ध्या नोपलभ्यते अभिसंस्कारः, स्कन्धधात्वायतनानुपलब्ध्या नोपलभ्यन्ते स्कन्धधात्वायतनानि, प्रतीत्यसमुत्पादानुपलब्ध्या नोपलभ्यते प्रतीत्यसमुत्पादः, दानपारमितानुपलब्ध्या नोपलभ्यते दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितानुपलब्ध्या नोपलभ्यते प्रज्ञापारमिता, अध्यात्मशून्यतानुपलब्ध्या नोपलभ्यते अध्यातमसून्यता, बहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते, अध्यात्मबहिर्धाशून्यता, एवं यावद् अभावस्वभावशून्यतानुपलब्ध्या अभावस्वभावशून्यता नोपलभ्यते, स्मृत्युपस्थानानुपलब्ध्या स्मृत्युपस्थानानि नोपलभ्यन्ते, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानुपलब्ध्यासम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते, अप्रमाणध्यानारूप्यसमापत्त्यनुपलब्ध्या अप्रमाणध्यानारूप्यसमापत्तयो नोपलभ्यन्ते, एवं दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मानुपलब्ध्या अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते. इति भावनामार्गे द्वितीयग्राह्यविकल्पप्रतिपक्षः
SK
स्रोतआपन्नः स्रोतआपन्नानुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते स्रोतआपन्न उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं सकृदागाम्य् अनागाम्य् अर्हन्न् अर्हदनुपलब्ध्या नोपलभ्यते, प्रत्येकबुद्धः प्रत्येकबुद्धानुपलब्ध्या नोपलभ्यते, यावत् तथागतस् तथागतानुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते तथागत उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय.
SK
इति भावनामार्गे प्रथमग्राहकविकल्पप्रतिपक्षः
SK
स्रोतआपत्तिफलं स्रोतआपत्तिफलानुपलब्ध्या नोपलभ्यते, एवं सकृदागामिफलम् आनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं बोधिसत्त्वत्वं बुद्धत्वं बुद्धानुपलब्ध्या नोपलभ्यते. एवं प्रमुदिता भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, विमलाभूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, प्रभाकली भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अर्चिष्मती भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, सुदुर्जया भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अभिमुखी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, दूरङ्गमा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अचला भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, साधुमती भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, धर्ममेघा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय.
SK
पुनर् अपरं सुभूते दश भूमयो भूम्यनुपलब्ध्या नोपलभ्यन्ते. कतमा दश? शुक्लविदर्शनाभूमिर् गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिः वीतरागभूमिः कृतावीभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिर् बुद्धभूमिः.
SK
अध्यात्मशून्यतया प्रथमा भूमिर् नोपलभ्यते, बहिर्धाशून्यतया प्रथमा भूमिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया प्रथमा भूमिर् नोपलभ्यते, यावद् अभावस्वभावशून्यतया प्रथमा भूमिर् नोपलभ्यते, यावद् दशमी भूमिर् अध्यात्मशून्यतया दशमी भूमिर् नोपलभ्यते, बहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते, यावद् अभावस्वभावशून्यतया दशमी भूमिर् नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय.
SK
अध्यात्मशून्यतया सत्त्वपरिपाको नोपलभ्यते, बहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते, एवं यावद् अभावस्वभावशून्यतया सत्त्वपरिपाको नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय.
SK
अध्यात्मशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, बहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, एवं यावद् अभावस्वभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय.
SK
अध्यात्मशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, बहिर्धाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, अध्यात्मबहिर्धाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, एवं यावद् अभावस्वभावशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, अत्यन्तविशुद्धिताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपलम्भयोगेन सर्वधर्माणां महायानेन सर्वाकारज्ञतायां निर्यास्यति.
SK
इति भावनामार्गे द्वितीयग्राहकविकल्पप्रतिपक्षः
SK
इत्य् उक्ता संभारप्रतिपत्तिः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महायानं महायानम् इतीदं भगवन्न् उच्यते, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति तेनोच्यते महायानम् इति, आकाशसमं तद् यानं, तद्यथापि नाम भगवन्न् आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव भगवन्न् अस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. एवं हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य महायानं, तद्यथापि नाम भगवन् आकाशस्य नाप्य् आगमो दृश्यते न निर्गमो न स्थानं दृश्यते, एवम् एवास्य भगवन् महायानस्य नैवागम उपलभ्यते न निर्गमो न स्थानम् उपलभ्यते, तद्यथापि नाम भगवन्न् आकाशस्य नापि पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते अध्यवसमताम् उपादाय. एवम् एव भगवन्न् अस्य महायानस्य न पूर्वान्तो नापरान्तो न मध्य उपलभ्यते, अध्वसमताम् उपादाय, एवम् इदं भगवन् महायानं महायानम् इत्य् उच्यते.
SK
भगवान् आह: एवम् एतत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् इमाः षट् पारमिता, दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत सर्वधारणीमुखानि सर्वसमाधिमुखानि शूरङ्गमः समाधिर् विस्तरेण कार्यः, यावद् असङ्गाकाशविमुक्तिनिरुपलेपः समाधिः, इदं सुभूते बोधिसत्वस्य महासत्त्वस्य महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता, यावद् अभावस्वभावशून्यता, इदं सुभूते बोधिसत्वस्य महासत्त्वस्य (PSP१-२: ११५) महायानम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् आर्याष्टङ्गो मार्गः चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
SK
यत् पुनः सुभूतिर् एवम् आह, सदेवमानुषासुरं लोकम् अभिभूय तद् यानं निर्यास्यतीति, कतमश् च सदेवमानुषासुरो लोको यद् उत कामधातू रूपधातुर् आरूप्यधातुः
SK
सचेत् सुभूते कामधातुस् तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते कामधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति,
SK
सचेत् सुभूते रूपधातुस् तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् इदम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति,
SK
सचेत् सुभूते आरूप्यधातुस् तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते आरूप्यधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् इदम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते रूपं तथताभविष्यद् अवितथता अनन्यतथता (PSP१-२: ११६) अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं वेदना संज्ञा संस्काराः,
SK
सचेत् सुभूते विज्ञानं तथताभविश्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते विज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते चक्षुस् तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुअरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुः कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रं घ्राणं जिह्वा कायः,
SK
सचेत् सुभूते मनस् तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनः कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते रूपं तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय (PSP१-२: ११७) निर्यास्यति, एवं शब्दगन्धरसस्पर्शाः,
SK
सचेत् सुभूते धर्मस् तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते धर्मः कल्पितो विठपितः संदर्शितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते चक्षुर्विज्ञानं तथता सदेवमानुषासुरं भविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुर्विज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं,
SK
सचेत् सुभूते मनोविज्ञानं तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनोविज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते चक्षुःसंस्पर्शस् तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शः कल्पितो विठपितः संदर्शितो अनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः,
SK
सचेत् सुभूते मनःसंस्पर्शस् तथता अभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यो ध्रुवः शाश्वतो (PSP१-२: ११८) ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनःसंस्पर्शः कल्पितो विठपितः संदर्शितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते चक्षुःसंस्पर्शजा वेदना तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शजा वेदना कल्पिता विठपिता संदर्शिता अनित्या अध्रुवा अशाश्वता अविपरिणामधर्मिणी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना,
SK
सचेत् सुभूते मनःसंस्पर्शजा वेदना तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मिणी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनःसंस्पर्शजा वेदना कल्पिता विठपिता संदर्शिता अनित्या अध्रुवा अशाश्वता अविपरिणामधर्मिणी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते धर्मधातुर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते धर्मधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं तथता भूतकोटिः.
SK
सचेत् सुभूते अचिन्त्यधातुर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अचिन्त्यधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्नास्यति.
SK
सचेत् सुभूते दानपारमिता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते दानपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं शीलपारमिता क्षान्तिपारमिता (PSP१-२: ११९) वीर्यपारमिता ध्यानपारमिता,
SK
सचेत् सुभूते प्रज्ञापारमिता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते प्रज्ञापारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते अध्यात्मशून्यताभावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अध्यात्मशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते बहिर्धाशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते अध्यात्मबहिर्धाशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अध्यात्मबहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
एवं यावत् सचेत् सुभूते अभावस्वभावशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अभावस्वभावशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते चत्वारि स्मृत्युपस्थानानि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चत्वारि स्मृत्युपस्थानान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
एवं चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि.
SK
सचेत् सुभूते आर्याष्टाङ्गमार्गो भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते आर्याष्टाङ्गो मार्गो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते अप्रमाणध्यानारूप्यसमापत्तयो भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय (PSP१-२: १२०) निरयास्यत्, यस्मात् तर्हि सुभूते अप्रमाणध्यानारूप्यसमापत्तयो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
एवं दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः.
SK
सचेत् सुभूते अष्टादशावेणिका बुद्धधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अष्टादशावेणिका बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
इत्य् अग्रतानिर्याणम्
SK
सचेत् सुभूते गोत्रभूधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते गोत्रभूधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते अष्टमकधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अष्टमकधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
एवं स्रोतआपन्न्नधर्माः सकृदागामिधर्मा अनागामिधर्मा अर्हद्धर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्माः.
SK
सचेत् सुभूते बुद्धधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते गोत्रभूमिर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते गोत्रभूमिर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
एवम् अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वः.
SK
सचेत् सुभूते बुद्धो भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बुद्धो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते सदेवमानुषासुरो लोको भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते सदेवमानुषासुरो लोको ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
इति प्रहाणनिर्याणम्
SK
सचेत् सुभूते प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य यावद् आ बोधिमण्डाद् एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् आ बोधिमण्डाद् एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानं भावो ऽभविष्यन् नाभावो नैव बोधिसत्त्वो महासत्त्वः सर्ववासनानुसंधिक्लेशान् अभावान् विदित्वा सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अनुप्राप्नुयात्, यस्मात् सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानम् अभावो न भावस् तस्माद् बोधिसत्त्वो महासत्त्वः सर्ववासनानुसंधिक्लेशान् अभावान् इति विदित्वा सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अनुप्राप्नोति, एवं महायानं सदेवनानुषासुरं लोकम् अभिभूय निर्यास्यति.
SK
सचेत् सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशन् महापुरुषलक्षणानि भावो ऽभविष्यन् नाभावो नैव तथागता अर्हन्तः सम्यक्संबुद्धाः सदेवमानुषासुरं लोकं तेजसा च श्रिया चाभ्यभविष्यत्, यस्मात् सुभूते द्वात्रिंशन् महापुरुषलक्षणान्य् अभावो नभावस् तस्मात् तथागता अर्हन्तः सम्यक्संबुद्धाः सदेवमानुषासुरं लोकं तेजसा च श्रिया चाभिभवन्ति.
SK
सचेत् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो भावो ऽभविष्यन् नाभावो नैव तथगतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातून् अवभासेनास्फारिष्यत्, यस्मात् तर्हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातून् अवभासेन स्फारति.
SK
सचेत् सुभूते तथागतस्य षष्ट्यङ्गोपेतः स्वरो भावो ऽभविष्यन् नाभावो नैव तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् (PSP१-२: १२२) लोकधातून् स्वरेणाभिव्यज्ञापयिष्यत्, यस्मात् तर्हि सुभूते तथागतस्य षष्ट्यङ्गोपेतः स्वरो ऽभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्ष्व् अप्रमेयसंख्येयान् लोकधातून् स्वरेणाभिविज्ञपयति.
SK
सचेत् सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं भावो ऽभविष्यन् नाभावो नैव तथागतस् त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रावर्तयिष्यत्, अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण, यस्मात् तर्हि सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारं धर्मचक्रम् अभावो न भावस् तस्मात् तथगतेन त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रवर्तितम् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण.
SK
सचेत् सुभूते सत्त्वा भावो ऽभविष्यन् नाभावो येषां कृतशस् तथागतेन धर्मचक्रं प्रवर्तितं नैव ते सत्त्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यन् यस्मात् तर्हि सुभूते सत्त्वा अभावो न भावो येषां कृतशस् तथागतेन धर्मचक्रं प्रवर्तितं तस्मात् ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वास्यन्ति.
SK
इत्य् अधिगमनिर्याणम्
SK
इति त्रिविधम् उद्देशनिर्याणम्
SK
यत् पुनः सुभूतिर् एवम् आह, आकाशसमं तद् यानम् इति, एवम् एतत् सुभूते एवम् एतत्, आकाशसमं तद् यानं, यथाकाशस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते, एवम् एव सुभूते तस्य यानस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते,
SK
तद्यथापि नाम सुभूते आकाशं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फाटिकरजतवर्णम्, एवम् एव सुभूते तन् महायानं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न माञ्जिष्ठं न स्फाटिकरजतवर्णं, तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं नातीतं नानागतं न प्रत्युत्पन्नं, एवम् एव सुभूते तन् महायानं नातीतं नानागतं न (PSP१-२: १२३) प्रत्युत्पन्नं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशस्य न हानिर् न वृद्धिः, एवम् एव सुभूते तस्य महायानस्य न हानिर् न वृद्धिस् तेनोच्यते, आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशस्य न संक्लेशो न व्यवदानं, एवम् एव सुभूते तस्य महायानस्य न संक्लेशो न व्यवदानं तेनोच्यते, आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशस्य नोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं, एवम् एव सुभूते तस्य महायानस्यनोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतं, एवम् एव सुभूते तन् महायानं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न दृष्टं न श्रुतं न मतं न विज्ञातं, एवम् एव सुभूते तन् महायानं न दृष्टं न श्रुतं न मतं न विज्ञातं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यं, एवम् एव सुभूते तन् महायानं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न विपाको न विपाकधर्मि, एवम् एव सुभूते तन् महायानं न विपाको न विपाकधर्मि तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं, एवम् एव सुभूते तन् महायानं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशे न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः, एवम् एव सुभूते तत्र महायाने न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो (PSP१-२: १२४) न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादस् तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशे न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृताविभूमिः, एवम् एव सुभूते तत्र महायाने न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृताविभूमिस् तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशे न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वं, एवम् एव सुभूते तत्र महायाने न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशे न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिः, एवम् एव सुभूते तत्र महायानेन श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिस् तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तं, एवम् एव सुभूते तन् महायानं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तंन विसंयुक्तं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं, एवम् एव सुभूते तन् महायानं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं, एवम् एव सुभूते तन् महायानं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न विविक्तं नाविविक्तं नालोको नान्धकारः, एवम् एव सुभूते तन् महायानं न विविक्तं नाविविक्तं नालोको नान्धकारस् तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न लभ्यते नोपलभ्यते, एवम् एव सुभूते तन् महायानं न लभ्यते नोपलभ्यते तेनोच्यते आकाशसमं तद् यानम् इति,
SK
तद्यथापि नाम सुभूते आकाशं न प्रव्याहारो नाप्रव्याहारः, एवम् एव सुभूते तन् महायानं न प्रव्याहारो नाप्रव्याहारस् तेनोच्यते आकाशसमं तद् यानम्.
SK
इति समतानिर्याणम्
SK
यत् पुनः सुभूतिर् एवम् आह, यथा आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाश इति, एवम् एतत् सुभूते एवम् एतत्, यथा आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? सत्त्वासत्तया हि सुभूते आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं सर्वम् एतन् नोपलभ्यते.
SK
पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चाप्रमेयं सर्वम् एतन् नोपलभ्यते.
SK
पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया असंख्येयासत्ता वेदितव्या,
SK
एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चासंख्येयं सर्वम् एतन् नोपलभ्यते.
SK
पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अपरिमाणासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् (PSP१-२: १२६) अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चापरिमाणं सर्वम् एतन् नोपलभ्यते.
SK
पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया असंस्कृतासत्ता वेदितव्या, संस्कृतासत्तयाप्रमेयासत्ता वेदितव्या, अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या, असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या, अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यश् च तथागतो यच् चाकाशं यच् च महायानं यच् चासंस्कृतं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया भूतकोट्यसत्ता वेदितव्या, भूतकोट्यसत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यश् च यावज् जानकपश्यको या च भूतकोटिर् यच् चाप्रमेयम् असंख्येयम् अपरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, यावज् जानकपश्यकासत्तया अचिन्त्यधात्वसत्ता वेदितव्या, अचिन्त्यधात्वसत्तया रूपस्कन्धासत्ता वेदितव्या, रूपस्कन्धासत्तया वेदनासंज्ञासंस्कारविज्ञानस्कन्धासत्ता वेदितव्या, विज्ञानस्कन्धासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता (PSP१-२: १२७) वेदितव्या, जानकपश्यकासत्तया चक्षुरसत्ता वेदितव्या, चक्षुरसत्तया श्रोत्रघ्राणजिह्वाकायमनो ऽसत्ता वेदितव्या, मनो ऽसत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया दानपारमितासत्ता वेदितव्या, दानपारमितयासत्तया शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितासत्ता वेदितव्या, प्रज्ञापारमितासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यतासत्ता वेदितव्या, अभावस्वभावशून्यतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया स्मृत्युपस्थानासत्ता वेदितव्या, स्मृत्युपस्थानासत्तया सम्यक्प्रहाणासत्ता वेदितया, सम्यक्प्रहाणासत्तया ऋद्धिपादासत्ता वेदितव्या, ऋद्धिपादासत्तया इन्द्रियासत्ता वेदितव्या, इन्द्रियासत्तया बलासत्ता वेदितव्या, बलासत्तया बोध्यङ्गासत्ता वेदितव्या, बोध्यङ्गासत्तया मार्गासत्ता वेदितव्या, मार्गासत्तया अप्रमाणासत्ता वेदितया, (PSP१-२: १२८) अप्रमाणासत्तया ध्यानासत्ता वेदितव्या, ध्यानासत्तया आरूप्यसमापत्त्यसत्ता वेदितव्या, आरूप्यसमापत्त्यसत्तया प्रतिसंविदसत्ता वेदितव्या, प्रतिसंविदसत्तया दशबलासत्ता वेदितव्या, दशबलासत्तया वैशारद्यासत्ता वेदितव्या, वैशारद्यासत्तया आवेणिकबुद्धधर्मासत्ता वेदितव्या, आवेणिकबुद्धधर्मासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया गोत्रभूम्यसत्ता वेदितव्या, गोत्रभूम्यसत्तया अष्टमकभूम्यसत्ता वेदितव्या, अष्टमकभूम्यसत्तया दर्शनभूम्यसत्ता वेदितव्या, दर्शनभूम्यसत्तया तनूभूम्यसत्ता वेदितव्या, तनूभूम्यसत्तया वीतरागभूम्यसत्ता वेदितव्या, वीतरागभूम्यसत्तया कृताविभूम्यसत्ता वेदितव्या, कृताविभूम्यस्त्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद्ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया स्रोतआपन्नासत्ता वेदितव्या, स्रोतआपन्नासत्तया सकृदागाम्यसत्ता वेदितव्या, सकृदागाम्यसत्तया अनागाम्यसत्ता वेदितव्या, अनागाम्यसत्तया अर्हदसत्ता वेदितव्या, अर्हदसत्तया प्रत्येकबुद्धासत्ता वेदितव्या, प्रत्येकबुद्धासत्तया यावद् आकाशमहायानाप्रमेयासंख्येयापरिमाणसर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया श्रावकयानासत्ता वेदितव्या, श्रावकयानासत्तया (PSP१-२: १२९) प्रत्येकबुद्धयानासत्ता वेदितव्या, प्रत्येकबुद्धयानासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया सर्वाकारज्ञतासत्ता वेदितव्या, सर्वाकारज्ञतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया यावत् सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
SK
तद्यथापि नाम सुभूते निर्वाणधाताव् अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः.
SK
तद्यथापि नाम सुभूते आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः.
SK
इति सत्त्वार्थनिर्याणम्
SK
यद् अपि सुभूतिर् एवम् आह, नापि तस्य महायानस्य आगतिर् दृश्यते नापि गतिर् न स्थानं दृश्यत इति. एवम् एतत् सुभूते तस्य महायानस्यागतिर् न दृश्यते नापि गतिर् न स्थानं दृश्यते. तत् कस्य हेतोः? अचला हि सुभूते सर्वधर्मास् ते न क्वचिद् गच्छन्ति न कुतश्चिद् आगच्छन्ति न क्वचित् तिष्ठन्ति. तत् कस्य हेतोः? न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, वेदनायाः संज्ञायाः संस्काराणां, न हि सुभूते विज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते रूपतथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, वेदनायाः संज्ञायाः संस्काराणां, न सुभूते विज्ञानस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते रूपस्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न वेदनायाः स्वभावः न संज्ञायाः स्वभावो न संस्काराणां स्वभावो न सुभूते विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते रूपस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न वेदनाया लक्षणं न संज्ञाया लक्षणं न संस्काराणां लक्षणं न सुभूते विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति (PSP१-२: १३०) न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते चक्षुषः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं न श्रोत्रस्य न घ्राणस्य न जिह्वाया न कायस्य न सुभूते मनसः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते पृथिवीधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं नाब्धातोर् न तेजोधातोर् न वायुधातोर् नाकाशधातोर् न सुभूते विज्ञानधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते धर्मधातोः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न धर्मधातोस् तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते तथतायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न तथतायास् तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते भूतकोटेः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न भूतकोटेस् तथता न भूतकोटेः स्वभावो न भूतकोटेर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते अचिन्त्यधातोः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते अचिन्त्यधातोस् तथता नाचिन्त्यधातोः स्वभावो नाचिन्त्यधातोर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते दानपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न दानपारमितायास् तथता न दानपारमितायाः स्वभावो न दानपारमिताया लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न प्रज्ञापारमितायस् तथता न प्रज्ञापारमितायाः स्वभावो न प्रज्ञापारमिताया लक्षणं कुतश्चिद् (PSP१-२: १३१) आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते स्मृत्युपस्थानानां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न स्मृत्युपस्थानानां तथता न स्मृत्युपस्थानानां स्वभावो न स्मृत्युपस्थानानां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
एवं न सम्यक्प्रहाणानां न ऋद्धिपादानां नेन्द्रियाणां न बलानां न बोध्यङ्गानां नार्याष्टाङ्गस्य मार्गस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नार्याष्टाङ्गस्य मार्गस्य तथता नार्याष्टाङ्गस्य मार्गस्य स्वभावो नार्याष्टाङ्गस्य मार्गस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते अप्रमाणध्यानारूप्यसमापत्तीणां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नाप्रमाणध्यानारूप्यसमापत्तीणां तथता नाप्रमाणध्यानारूप्यसमापत्तीनां स्वभावो नाप्रमाणध्यानारूप्यसमापत्तीणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते दशानां तथागतबलानां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न दशानां तथागतबलानां तथता न दशानां तथागतबलानां स्वभावो न दशानां तथागतबलानां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
एवं न चतुर्णां वैशारद्यानां न चतसृणां प्रतिसंविदां न षण्णाम् अभिज्ञानां न सुभूते अष्टादशानाम् आवेणिकानां बुद्धधर्माणां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां तथता नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां स्वभावो नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते बोधेः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न बोधेस् तथता न बोधेः स्वभावो न बोधेर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
SK
न सुभूते असंस्कृतस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नासंस्कृतस्य तथता नासंस्कृतस्य स्वभावो नासंस्कृतस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति.
SK
इत्य् अनाभोगनिर्याणम्
SK
यद् अपि तत् सुभूतिर् एवम् आह, नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मान् महायानं महायानम् इत्य् उच्यते, एवम् एतत् सुभूते एवम् एतत्, नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मान् महायानं महायानम् इत्य् उच्यते. तत् कस्य हेतोः? तथा हि सुभूते अतीतो ऽध्वा अतीतेनाध्वना शून्यः, अनागतो ऽध्वा अनागतेनाध्वना शून्यः, प्रत्युत्पन्नो ऽध्वाप्रत्युत्पन्नेनाध्वना शून्यः, त्र्यध्वसमता त्र्यध्वसमतया शून्या, महायानं महायानेन शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः.
SK
न सुभूते शून्यता एका वा द्वे वा तिस्रो वा चतस्रो वा पञ्च वा षड् वा सप्त वा अष्ट वा नव वा दश वा तस्मात् त्र्यध्वसमतया समम् इदं यानं बोधिसत्त्वस्य महासत्त्वस्य, नापि तत्र समम् उपलभ्यते न विषमं, नापि तत्र राग उपलभ्यते न विरागः, न दोष उपलभ्यते नादोषः, न मोह उपलभ्यते नामोहः, न नाम उपलभ्यते नानाम, यावन् न कुशलम् उपलभ्यते नाकुशलं, न सास्रवम् उपलभ्यते नानास्रवं, न सावद्यम् उपलभ्यते नानवद्यं, न क्लेश उपलभ्यते नाक्लेशः, न क्लेशक्षय उपलभ्यते नाक्लेशक्षयः, न लौकिकम् उपलभ्यते न लोकोत्तरं, न संक्लेश उपलभ्यते न व्यवदानं, न संसार उपलभ्यते न निर्वाणं, नाप्य् अत्र नित्यम् उपलभ्यते नानित्यं, न सुखम् उपलभ्यते न दुःखं, नात्मा उपलभ्यते नानात्मा, न शान्तम् उपलभ्यते नाशान्तं, न कामधातुर् उपलभ्यते न कामधातुसमतिक्रमः, न रूपधातुर् उपलभ्यते न रूपधातुसमतिक्रमः, नारूप्यधातुर् उपलभ्यते नारूप्यधातुसमतिक्रमः. तत् कस्य हेतोः? तथा हि तस्य स्वभावो नोपलभ्यते, अतीतं सुभूते रूपम् अतीतेन रूपेण शून्यम्, अनागतं रूपम् अनागतेन रूपेण शून्यं, प्रत्युत्पन्नं रूपं प्रत्युत्पन्नेन रूपेण शून्यम्. एवम् अतीता वेदना संज्ञा संस्काराः, अतीतं विज्ञानम् अतीतेन विज्ञनेन शून्यम्, अनागतं विज्ञानम् अनागतेन विज्ञानेन शून्यं, प्रत्युत्पन्नं विज्ञानं प्रत्युत्पन्नेन विज्ञानेन शून्यम्. तत् कस्य हेतोः?
SK
न शून्यतायाम् अतीतं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतं रूपम् उपलप्स्यते,
SK
न शून्यतायाम् अतीता वेदना उपलभ्यते शून्यतैव तावच् छून्या (PSP१-२: १३३) शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीता वेदना उपलप्स्यते,
SK
न शून्यतायाम् अतीता संज्ञा उपलभ्यते, शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीता संज्ञा उपलप्स्यते,
SK
न शून्यतायाम् अतीताः संस्कारा उपलभ्यन्ते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीताः संस्कारा उपलप्स्यन्ते,
SK
न शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतं विज्ञानम् उपलप्स्यते,
SK
एवं न शून्यतायाम् अनागतं रूपं वेदना संज्ञा संस्काराविज्ञानम् उपलभ्यते.
SK
न शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्नं रूपम् उपलप्स्यते,
SK
न शून्यतायां प्रत्युत्पन्ना वेदना उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदना उपलप्स्यते,
SK
न शून्यतायां प्रत्युत्पन्ना संज्ञा उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञा उपलप्स्यते,
SK
न शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलभ्यन्ते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना संस्कारा उपलप्स्यन्ते,
SK
न शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलप्स्यते.
SK
न शून्यतायाम् अतीतानागतप्रत्युत्पन्नं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्नं रूपम् उपलप्स्यते,
SK
न शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना संज्ञा संस्कारा विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना संज्ञा संस्कारा विज्ञानम् उपलप्स्यते.
SK
पूर्वान्ततः सुभूते दानपारमिता नोपलभ्यते, अपरान्ततो ऽपि सुभूते दानपारमिता नोपलभ्यते, प्रत्युत्पन्नतो ऽपि सुभूते दानपारमिता नोपलभ्यते, त्र्यध्वसमतया दानपारमिता नोपलभ्यते, न सुभूते त्र्यध्वसमतायाम् अतीतो ऽध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना दानपारमितोपलप्स्यते,
SK
एवं पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु शीलपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु क्षान्तिपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु वीर्यपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु ध्यानपारमिता नोपलभ्यते,
SK
पूर्वान्ततः सुभूते प्रज्ञापारमिता नोपलभ्यते, अपरान्ततो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते प्रत्युत्पन्नतो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते, त्र्यध्वसमतया प्रज्ञापारमिता नोपलभ्यते, न सुभूते समतायाम् अतीतो ऽध्वा उपलभ्यते नानागतो न प्रत्युत्पन्नो ऽध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना प्रज्ञापारमितोपलप्स्यते.
SK
पुनर् अपरं सुभूते पूर्वान्तापरान्तमध्येषु स्मृत्युपस्थानानि नोपलभ्यन्ते त्र्यध्वसमतायां स्मृत्युपस्थानानि नोपलभ्यन्ते, न सुभूते समतायाम् अतीतानागतप्रत्युत्पन्नो ऽध्वा नोपलभ्यन्ते, समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्नानि स्मृत्युपस्थानानि उपलप्स्यन्ते,
SK
एवं सम्यक्प्रहाणाब्नि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, ऋद्धिपादाः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, इन्द्रियाणि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, बलानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, बोध्यङ्गानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, आर्याष्टाङ्गमार्गः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, दश तथागतबलानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, चत्वारि वैशारद्यानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, चतस्रः प्रतिसंविदः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, अष्टादशावेणिका बुद्धधर्माः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, त्र्यध्वसमतया आवेणिकबुद्धधर्मा नोपलभ्यन्ते, न सुभूते समतायां (PSP१-२: १३५) अतीतानागतप्रत्युत्पन्नाध्वा उपलभ्यन्ते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना अष्टादशावेणिका बुद्धधर्मा उपलप्स्यन्ते.
SK
पुनर् अपरं सुभूते पूर्वान्ततः पृथग्जनो नोपलभ्यते, अपरान्ततः पृथग्जनो नोपलभ्यते, प्रत्युत्पन्नतः पृथग्जनो नोपलभ्यते, त्र्यध्वसमतया पृथग्जनो नोपलभ्यते. तत् कस्य हेतोः? सत्त्वानुपलब्धिताम् उपादाय.
SK
एवं श्रावकप्रत्येकबुद्धबोधिसत्त्वाः पूर्वान्ततस् तथागतो नोपलभ्यते, अपरान्ततस् तथागतो नोपलभ्यते, मध्यतस् तथागतो नोपलभ्यते, त्र्यध्वसमतया तथागतो नोपलभ्यते. तत् कस्य हेतोः? सत्त्वानुपलब्धिताम् उपादाय.
SK
एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा त्रिष्व् अध्वसु शिक्षित्वा सर्वाकारज्ञता परिपूरयितव्या. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य त्र्यध्वसमतया महायानं, अत्र स्थितो बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरं लोकम् अभिभवन् सर्वाकारज्ञतायां निर्यास्यति.
SK
इत्य् अन्तनिर्याणम्
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: साधु साधु भगवन् सुभाषितम् इदं भगवतो बोधिसत्त्वानां महासत्त्वानां महायानम्, अत्र भगवन् महायाने शिक्षमाणैर् अतीते ऽध्वनि बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता अनुप्राप्ता, अनागता अपि बोधिसत्त्वा महासत्त्वा अत्र महायाने शिक्षमाणाः सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, ये ऽपि भगवन् दशदिशि लोके ऽसंख्येयेषु लोकधातुषु बोधिसत्त्वा महासत्त्वाः प्रत्युत्पन्नास् ते ऽप्य् अत्र महायाने शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति, तस्मात् तर्हि भगवन् महायानम् इदं बोधिसत्त्वानां महासत्त्वानां यद् उत त्र्यध्वसमतानाम्,
SK
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, अत्र महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वाः सर्वाकारज्ञताम् अनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति च.
SK
अथ खलु पूर्णो मैत्रायणीपुत्रो भगवन्तम् एतद् अवोचत्: अयं भगवन् सुभूतिः स्थविरस् तथागतेन प्रज्ञापारमितायाः कृतशो ऽधीष्टो महायानम् उपदेष्टव्यं मन्येत.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: मा हैवाहं भगवन् प्रज्ञापारमितां व्यतिक्रम्य महायानम् उपदिशामि.
SK
भगवन् आह: न हि सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानम् उपदिशसि. तत् कस्य हेतोः? तथा हि सुभूते ये केचित् कुशला बोधिपक्षा धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति.
SK
सुभूतिर् आह: कतमे भगवन् कुशला बोधिपक्षा धर्माः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति?
SK
भगवान् आह: तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखं चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्मा असंप्रमुषितधर्मता सदोपेक्षाविहारिता, इमे सुभूते कुशला बोधिपक्षा धर्माः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति.
SK
यच् च सुभूते महायानं या च ध्यानपारमिता या च वीर्यपारमिताया च क्षान्तिपारमिता या च शीलपारमिता या च दानपारमिता, यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं, यच् च चक्षुर् यच् च श्रोत्रं यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यच् च रूपं यश् च शब्दो यश् च गन्धो यश् च रसो यश् च स्पर्शो ये च धर्मा यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो या च चक्षुःसंस्पर्शजा वेदना या च श्रोत्रसंस्पर्शजावेदना या च घ्राणसंस्पर्शजा वेदना या च जिह्वासंस्पर्शजा वेदनाया च कायसंस्पर्शजा वेदना या च मनःसंस्पर्शजा वेदना,
SK
यानि च चत्वारि स्मृत्युपस्थानानि यानि च सम्यक्प्रहाणानि ये च ऋद्धिपादा यानि चेन्द्रियानि यानि च बलानि यानि च बोध्यङ्गानि यश् चार्याष्टाङ्गो मार्गो यानि चाप्रमाणानि यानि च ध्यानानि याश् चारूप्यसमापत्तयो यानि च तथागतबलानि यानि च वैशारद्यानि याश् च चतस्रः प्रतिसंविदो यानि च शून्यतानिमित्ताप्रणिहितानि ये चासंस्कृता धर्मा यच् च दुःखं यश् च समुदयो यश् च निरोधो यश् च मार्गो यश् च कामधातुर् यश् च रूपधातुर् यश् चारूप्यधातुर् या चाध्यात्मशून्यताया च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभावशून्यता ये च समाधयो यानि च धारणीमुखानि ये च यावद् अष्टादशावेणिका बुद्धधर्माः, यश् च तथागतप्रवेदितो धर्मविनयोयश् च धर्मधातुर् या च तथता या च भूतकोटिर् यश् चाचिन्त्यधातुर् यच् च निर्वाणं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
अनेन पर्यायेण सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि. तत् कस्य हेतोः? न हि सुभूते अन्यन् महायानम् अन्या प्रज्ञापारमिता अन्या ध्यानपारमिता अन्या वीर्यपारमिता अन्या क्षान्तिपारमिता अन्या शीलपारमिता अन्या दानपारमिता, इति हि महायानञ् च प्रज्ञापारमिता ध्यानवीर्यक्षान्तिशीलदानपारमिता चाद्वयम् एतद् अद्वैधीकारं, न सुभूते अन्यन् महायानम् अन्यानि स्मृत्युपस्थानानि इति हि महायानं स्मृत्युपस्थानानि चाद्वयम् एतद् अद्वैधीकारं, एवं नान्यन् महायानम् अन्ये सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा इति हि महायानं च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाश् चाद्वयम् एतद् अद्वैधीकारं, नान्यन् महायानं अन्या अप्रमाणध्यानारूप्यसमापत्तय इति हि महायानं चाप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारं, नान्यन् महायानम् अन्ये दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा इति हि महायानं च बुद्धधर्माश् चाद्वयम् एतद् अद्वैधीकारं, अनेन कारणेन सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि.
SK
इति प्राप्तिनिर्याणम्
SK
सुभूतिर् आह: अपि तु खलु पुनर् भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति, रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदना संज्ञा संस्कारा विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्ततता वेदितव्या, रूपं (PSP१-२: १३८) बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्काराः विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं हि भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
SK
अपि तु खलु पुनर् भगवन् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा, एवम् अस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तम्, एवं वेदना संज्ञा संस्काराः कतमत् तद् विज्ञानं यद् अनभिनिवृत्तं, न तद् रूपं वेदना संज्ञा संस्कारा यच् चानभिनिवृत्तं न तद् विज्ञानं तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितयाम् अववदिष्याम्य् अनुशासिष्यामि? न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्, सचेद् एवं निर्दिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्.
SK
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वोनोपैति?
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदना संज्ञा संस्कारा विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या?
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, रूपं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्कारा विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवम् अहं बोधिसत्त्वं महासत्त्वं सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानः, असमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यावद् एव नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा, एवम् अभावस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तं कतमे ते वेदना संज्ञा संस्काराः कतमत् तद् विज्ञानं यद् अनभिनिवृत्तं यच् चानभिनिवृत्तं न तद् रूपं ये (PSP१-२: १३९) चानभिनिवृत्ता न वेदना संज्ञा संस्कारा यच् चानभिनिवृत्तं न तद् विज्ञानं, तत् किम् अनभिनिवृत्तम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, न चान्यत्रानभिनिवृत्ते बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्?
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, सचेद् एवम् उपदिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् इति?
SK
सुभूतिर् आह: सत्त्वासत्तया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वशून्यतया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वविविक्ततया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वास्वभावतया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, एवम् अपरान्ततो मध्यतश् च वक्तव्यम्. तत् कस्य हेतोः? सत्त्वासत्तया शून्यताविविक्ततास्वभावता पूर्वान्तादीनाम् अनुपलब्धेः, न चान्यत्र सत्त्वासत्ताशून्यताविविक्ततास्वभावता अन्यो बोधिसत्त्वो ऽन्यत् पूर्वान्तादि इति हि या च सत्त्वासत्ता यावद् यच् च मध्यं सर्वम् एतद् अद्वैधीकारं,
SK
रूपासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, रूपशून्यतया रूपविविक्ततया रूपास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं वेदना संज्ञा संस्कारा विज्ञानासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, विज्ञानशून्यतया विज्ञानविविक्ततया विज्ञानास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवम् आयतनेषु धातुषु प्रतीत्यसमुत्पादाङ्गेषु च पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैतीति वक्तव्यम्.
SK
दानपारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतया दानपारमिताविविक्ततया दानपारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतया प्रज्ञापारमिताविविक्ततया प्रज्ञापारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितासत्तायां शून्यतायां विविक्ततायाम् (PSP१-२: १४०) अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वः, अन्या दानपारमिता अन्या शीलपारमिता अन्या क्षान्तिपारमिता अन्या वीर्यपारमिता अन्या ध्यानपारमिता अन्या प्रज्ञापारमिता अन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या चासत्ता यावद् अभावस्वभावता याश् च षट् पारमिता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्.
SK
एवं ह्य् आयुष्मन् शारिपुत्र पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, अध्यात्मशून्यतासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं यावद् अभावस्वभावशून्यतासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र अध्यात्मशून्यतासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावद् अभावस्वभावशून्यतासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या चाध्यात्मशून्यता असत्ता शून्यता विविक्तता अस्वभावता यावद् अभावस्वभावशून्यता असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र स्मृत्युपस्थनासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तयो दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावद् अष्टादशवेणिकबुद्धधर्मासत्तायां शून्यतायां विविक्तायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यानि उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता शून्यता विविक्तता अस्वभावता अन्यानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणारूप्यसमापत्तयो (PSP१-२: १४१) दशबलवैशारद्यप्रतिसंविदो ऽन्ये ऽष्टादशावेणिका बुद्धधर्मा अन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या च स्मृत्युपस्थानासत्ता शून्यता विविक्ता अस्वभावता यावद् यो च अष्टादशावेणिकबुद्धधर्मासत्ता शून्यता विविक्ता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र सर्वसमाध्यसत्तया सर्वधारणीमुखासत्तया धर्मधात्वसत्तया तथतासत्तया भूतकोट्यसत्तया भूतकोटिशून्यतया भूतकोटिविविक्ततया भूतकोट्यस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र समाध्यसत्तायां यावद् भूतकोट्यसत्तायां भूतकोटिशून्यतायां भूतकोटिविविक्ततायां भूतकोट्यस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यः समाधिर् अन्यद् धारणीमुखम् अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिर् अन्यानि पूर्वान्तापरान्तमध्यानि. इति ह्य् आयुष्मन् शारिपुत्र या च समाध्यसत्ता यावद् या च भूतकोट्यसत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि, सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र श्रावकासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तया बोधिसत्त्वासत्तया सर्वज्ञासत्तया सर्वज्ञशून्यतया सर्वज्ञविविक्ततया सर्वज्ञास्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र श्रावकासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावत् सर्वज्ञासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यः श्रावको ऽन्यः प्रत्येकबुद्धो ऽन्यो बोधिसत्त्वो ऽन्यः सर्वज्ञः, अन्यानि पूर्वान्तापरान्तमध्यानि. इति ह्य् आयुष्मन् शारिपुत्रया च श्रावकासत्ता शून्यता विविक्तता अस्वभावता यावद् या च सर्वज्ञासत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि (PSP१-२: १४२) सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.
SK
इति प्राप्तिनिर्याणे प्राप्यप्रतिषेधः
SK
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, वेदना संज्ञा संस्कारा, विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रूपम् आयुष्मन् शारिपुत्र आकाशसमं, वेदना संज्ञा संस्कारा आकाशसमा, विज्ञानम् आयुष्मन् शारिपुत्र आकाशसमम्. तत् कस्य हेतोः? तद्यथापि नाम आयुष्मन् शारिपुत्र यथा आकाशस्य न पूर्वन्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते.
SK
एवम् एवायुष्मन् शारिपुत्र रूपस्य नैव पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते. तत् कस्य हेतोः? रूपशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य नैवपूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. तत् कस्य हेतोः? विज्ञानशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते, शून्यतेति च व्यवह्रियते.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतित्यसमुत्पादेषु यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेषु, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंवित्स्व् आवेणिकबुद्धधर्मा आयुष्मन् शारिपुत्र आकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामायुष्मन् शारिपुत्र आकाशस्य नैवादिर् नान्तो न मध्यम् उपलभ्यते अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते. एवम् एवायुष्मन् शारिपुत्र बुद्धधर्माणां नादिर् नान्तो न मध्यम् उपलभ्यते बुद्धधर्मशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण बुद्धधर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन रूपं बोधिसत्त्व इत्य् एवम् अपि न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न विद्यते नोपलभ्यते इति?
SK
रूपम् आयुष्मन् शारिपुत्र रूपेण शून्यं, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र विज्ञानेन शून्यम्. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र शून्यतायां रूपं संविद्यते नापि शून्यतायां बोधिसत्त्वः संविद्यते, वेदना संज्ञा संस्कारा, न शून्यतायां विज्ञानं संविद्यते, नापि शून्यतायां बोधिसत्त्वः संविद्यते.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण रूपं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते.
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां दानपारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, न शुन्यतायां प्रज्ञापारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते. अध्यातमशून्यता आयुष्मन् शारिपुत्र अध्यात्मशून्यतया शून्या, एवं यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या.
SK
स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि मार्गो ऽप्रमाणानि ध्यानान्य् आरूप्यसमापत्तयः षड् अभिज्ञा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकैर् बुद्धधर्मैः शून्या, धर्मधातुर् धर्मधातुना शून्यः समाधिः समाधिना शून्यो धारणिमुखानि धारणीमुखैः शून्यानि सर्वज्ञता सर्वज्ञतया शून्या मार्गाकारज्ञता मार्गाकारज्ञतया शून्या सर्वाकारज्ञता सर्वाकारज्ञतया शून्या श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं श्रावकत्वेन श्रावकः शून्यः प्रत्येकबुद्धत्वेन प्रत्येकबुद्धः शून्यस् तथागतत्वेन तथागतः शून्यः. तत् कस्य हेतोः? न हि शून्यतायां तथागतो विद्यते शून्यतायां बोधिसत्त्वो विद्यते.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण रूपं बोधिसत्त्व इति, एवम् अपि (PSP१-२: १४४) न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते.
SK
यद् अप्य् आयुष्मन् शारिपुत्र आह, केन कारणेनैवं वदसि, एवम् अहं बोधिसत्त्वं महासत्त्वं सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति?
SK
रूपम् आयुष्मन् शारिपुत्र रूपे रूपं न संविद्यते नोपलभ्यते, रूपं वेदनायां न संविद्यते नोपलभ्यते,
SK
वेदना वेदनायां न संविद्यते नोपलभ्यते, वेदना रूपे न संविद्यते नोपलभ्यते, रूपं वेदना च संज्ञायां न संविद्यते नोपलभ्यते,
SK
संज्ञा संज्ञायां न संविद्यते नोपलभ्यते, संज्ञा रूपे न संविद्यते नोपलभ्यते, संज्ञा रूपवेदनयोर् न संविद्यते नोपलभ्यते, रूपं वेदना संज्ञा संस्कारेषु न संविद्यते नोपलभ्यते,
SK
संस्काराः संस्कारेषु न संविद्यते नोपलभ्यन्ते, संस्कारा रूपवेदनासंज्ञासु न संविद्यन्ते नोपलभ्यन्ते, रूपवेदनासंज्ञासंस्कारा विज्ञाने न संविद्यन्ते नोपलभ्यन्ते,
SK
विज्ञानं विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न संविद्यते नोपलभ्यते.
SK
चक्षुर् आयुष्मन् शारिपुत्र चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रे न संविद्यते नोपलभ्यते,
SK
श्रोत्रं चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रं च घ्राणेन संविद्यते नोपलभ्यते,
SK
घ्राणं घ्राने न संविद्यते नोपलभ्यते, घ्राणं चक्षुषि श्रोत्रे च न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणानि जिह्वायां न संविद्यन्ते नोपलभ्यन्ते,
SK
जिह्वा जिह्वायां न संविद्यते नोपलभ्यते, जिह्वा चक्षुःश्रोत्रघ्राणेषु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाः काये न संविद्यन्ते नोपलभ्यन्ते,
SK
कायः काये न संविद्यते नोपलभ्यते, कायश् चक्षुःश्रोत्रघ्राणजिह्वासु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाकाया मनसि न संविद्यन्ते नोपलभ्यन्ते,
SK
मनो मनसि न संविद्यते नोपलभ्यते, मनश् चक्षुःश्रोत्रघ्राणजिह्वाकायेषु (PSP१-२: १४५) न संविद्यते नोपलभ्यते.
SK
रूपं रूपे न संविद्यते नोपलभ्यते, रूपं शब्दगन्धरसस्पर्शधर्मेषु न संविद्यते नोपलभ्यते,
SK
शब्दः शब्दे गन्धे रसे न संविद्यते नोपलभ्यते, शब्दो ऽन्येषु न संविद्यते नोपलभ्यते.
SK
एवं गन्धो गन्धे ऽन्येषु च न संविद्यते नोपलभ्यते, रसो रसे ऽन्येषु च न संविद्यते नोपलभ्यते, स्पर्शः स्पर्से ऽन्येषु च न संविद्यते नोपलभ्यते, धर्मा धर्मेष्व् इतरेषु न संविद्यन्ते नोपलभ्यन्ते.
SK
चक्षुर्विज्ञानं चक्षुर्व्र्ज्ञाने इतरत्र च न संविद्यते नोपलभ्यते, इतराणीतरेषु च न संविद्यन्ते नोपलभ्यन्ते,
SK
एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं मनोविज्ञाने इतरत्र च न संविद्यते नोपलभ्यते, इतराणीतरेषु च न संविद्यन्ते नोपलभ्यन्ते.
SK
चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शे न संविद्यते नोपलभ्यते, इतरेषु च न संविद्यते नोपलभ्यते, तत्र चेतरे न संविद्यन्ते नोपलभ्यन्ते,
SK
एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्सो मनःसंस्पर्शे न संविद्यते नोपलभ्यते, इतरेषु च न संविद्यते नोपलभ्यते, तत्र चेतरे न संविद्यन्ते नोपलभ्यन्ते.
SK
चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजायां वेदनायां न संविद्यते नोपलभ्यते, तत्रापीतरा इतरासु च सा न संविद्यते नोपलभ्यते,
SK
एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना मनःसंस्पर्शजा वेदना मनःसंस्पर्शजायां वेदनायां न संविद्यते नोपलभ्यते, तत्रापीतरा इतरासु च सा न संविद्यते नोपलभ्यते.
SK
स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न संविद्यन्ते नोपलभ्यन्ते, एवं सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकेषु बुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, तत्रापीतरे इतरेषु च ते (PSP१-२: १४६) न संविद्यन्ते नोपलभ्यन्ते.
SK
अध्यात्मशून्यता अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मशून्यतापि यावद् अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यता अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यतापि यावद् अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते.
SK
समाधिः समाधौ न संविद्यते नोपलभ्यते, समाधिर् धारणीषु न संविद्यते नोपलभ्यते, धारणी धारण्यां न संविद्यते नोपलभ्यते, धारण्यः समाधौ न संविद्यन्ते नोपलभ्यन्ते.
SK
पृथग्जनभूमिः पृथग्जनभूमौ न संविद्यते नोपलभ्यते, एवं गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिर् वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिस् तथागतभूमिः, सर्वज्ञताभूमिः सर्वज्ञताभूमौ न संविद्यते नोपलभ्यते.
SK
स्रोतआपन्नः स्रोतआपन्नत्वे न संविद्यते नोपलभ्यते, एवं सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धः प्रत्येकबुद्धत्वे न संविद्यते नोपलभ्यते, बोधिसत्त्वो बोधिसत्त्वत्वे न संविद्यते नोपलभ्यते, तथागतस् तथागतत्वे न संविद्यते नोपलभ्यते, प्रज्ञापारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमितायाम् अववादानुशासनी न संविद्यते नोपलभ्यते, अववादानुशासन्यां प्रज्ञापारमिता न संविद्यते नोपलभ्यते, एवं ह्य् आयुष्मन् शारिपुत्र सर्वधर्मासंविद्यमानत्वेन अनुपलम्भेन बोधिसत्त्वो न संविद्यते नोपलभ्यते.
SK
इति प्राप्तिनिर्याणे प्रापकप्रतिषेधः
SK
यत् पुनर् आयुष्मन् शारिपुत्रैवं वदसि, केन कारणेन नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, केन कारनेनायुष्मन् सुभूते एवं वदसि, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत बोधिसत्त्व इति, तथा ह्य् आयुष्मन् शारिपुत्र नाम दशभ्यो दिग्भ्यो न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति सर्वधर्माणाम् एव बोधिसत्त्वानां नामापि न कुतश्चिद् एति न क्वचिद् गच्छति न क्वचित् तिष्ठति, आगन्तुकम् एतन् नामधेयं तथा हि यद् रूपं यद् वेदना यत् संज्ञा यत् संस्कारा यद् विज्ञानम् इति नामधेयं न तद् रूपं न (PSP१-२: १४७) वेदना न संज्ञा न संस्कारा न विज्ञानम्. तत् कस्य हेतोः? तथा हि नाम शून्यं नामस्वभावेन यच् च शून्यं न तन् नाम, तेन कारणेनोच्यते बोधिसत्त्व इति नामधेयमात्रम् एतद् इति.
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र नामधेयमात्रम् एतद् यद् उत दानपारमितेति, न च दानपारमितायां नाम न च नाम्नि दानपारमिता, तत् कस्य हेतोः? यच् च नाम या च दानपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, एवं नामधेयमात्रम् एतद् यद् उत शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता नामधेयमात्रम् एतद् यद् उत प्रज्ञापारमितेति न च प्रज्ञापारमितायां नाम न च नाम्नि प्रज्ञापारमिता, तत् कस्य हेतोः? तथा हि यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मन् नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, आगन्तुकम् एतन् नामधेयं प्रक्षिप्त यद् उत बोधिसत्त्व इति, नामधेयमात्रम् एतद् यद् उताध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न चाध्यात्मशून्यतायां नाम न च नाम्नि अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, तत् कस्य हेतोः? तथा हि यच् च नाम या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभावशून्यता सर्व एते न संविद्यन्ते नोपलभ्यन्ते.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, आगन्तुकम् एतच् छारिपुत्र नामधेयं प्रक्षिप्तं यद् उत स्मृत्युपस्थानानीति, न च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च स्मृत्युपस्थानानि उभयम् एतन् न संविद्यते नोपलभ्यते, एवं सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियानि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गो ऽप्रमाणानि ध्यानानि आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उताष्टादशावेणिका बुद्धधर्मा इति न च बुद्धधर्मेषु नाम नाम्नि बुद्धधर्माः. तत् कस्य हेतोः? तथा हि यच् च नाम ये च बुद्धधर्मा उभयम् एतद् न संविद्यते नोपलभ्यते, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत समाधिर् इति, यावत् सर्वज्ञतेति, न (PSP१-२: १४८) च सर्वज्ञतायां नाम न च नाम्नि सर्वज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वज्ञता उभयम् एतन् न संविद्यते नोपलभ्यते.
SK
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेनोच्यते यथा आत्मा आत्मेति चोच्यते, अत्यन्ततया चानभिनिवृत्त आत्मेति, आत्मा शारिपुत्र अत्यन्ततया न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
SK
अत्यन्ततया आयुष्मन् शारिपुत्र सत्त्वो जीवः पोषः पुरुषः पुद्गलो मनुजो मानवः कारको वेदको जानकः पश्यको न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
SK
अत्यन्ततया आयुष्मन् शारिपुत्र रूपं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, वेदना संज्ञा संस्कारा, अत्यन्ततया आयुष्मन् शारिपुत्र विज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
SK
अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर् न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं श्रोत्रं घ्रानं जिह्वा कायो मनः, अत्यन्ततया मनो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति
SK
अत्यन्ततया रूपं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं शब्दगन्धरसस्पृष्टव्यानि, अत्यन्ततयाधर्मा न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति,
SK
अत्यन्ततया चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति,
SK
अत्यन्ततया चक्षुर्संस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तित् भविष्यति, अत्यन्ततया मनःसंस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
SK
अत्यन्ततया चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, अत्यन्ततया श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा (PSP१-२: १४९) वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्य अभिनिवृत्तिर् भविष्यति, अत्यन्ततया मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति.
SK
अत्यन्ततया दानपारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, अत्यन्ततया प्रज्ञापारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति.
SK
अत्यन्ततया अध्यात्मशून्यता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, एवं अत्यन्ततया बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततया स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गः, अप्रमाणानि ध्यानान्य् आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति, अत्यन्ततया अष्टादशावेणिका बुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति.
SK
अत्यन्ततया समाधयो धारणीमुखानि न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति.
SK
अत्यन्ततया श्रावकः प्रत्येकबुद्धो बोधिसत्त्वस् तथागतो ऽर्हन् सम्यक्संबुद्धो न संविद्यते नोपलभ्यते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण आत्मा आत्मेति चोच्यते, अत्यन्ततया चानभिनिवृत्त आत्मा.
SK
पुनर् अपरं यद् आयुष्मन् शारिपुत्र एवम् आह, अभावस्वभावाः सर्वधर्मा इति, एवम् एतत्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः.
SK
शारिपुत्र आह: कस्यायुष्मन् सुभूते नास्ति सांयोगिकः स्वभावः?
SK
सुभूतिर् आह: रूपस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः, (PSP१-२: १५०) वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः,
SK
चक्षुषो नास्ति सांयोगिकः स्वभावः, एवं श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो नास्ति सांयोगिकः स्वभावः,
SK
एवं रूपशब्दगन्धरसस्पर्शधर्माणां नास्ति सांयोगिकः स्वभावः, चक्षुर्विज्ञानस्य श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्य नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शस्य श्रोत्रसंस्पर्शस्य घ्राणसंस्पर्शस्य जिह्वासंस्पर्शस्य कायसंस्पर्शस्य मनःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शजाया वेदनायाः श्रोत्रसंस्पर्शजाया वेदनाया घ्राणसंस्पर्शजाया वेदनाया जिह्वासंस्पर्शजाया वेदनायाः कायसंस्पर्शजाया वेदनाया मनःसंस्पर्शजाया वेदनाया नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शप्रत्ययवेदनाया श्रोत्रसंस्पर्शप्रत्ययवेदनाया घ्राणसंस्पर्शप्रत्ययवेदनाया जिह्वासंस्पर्शप्रत्ययवेदनायाः कायसंस्पर्शप्रत्ययवेदनाया मनःसंस्पर्शप्रत्ययवेदनाया नास्ति सांयोगिकः स्वभावः, नास्ति दानपारमिताया नास्ति शीलपारमिताया नास्ति क्षान्तिपारमिताया नास्ति वीर्यपारमिताया नास्ति ध्यानपारमिताया नास्ति प्रज्ञापारमिताया नास्ति सांयोगिकः स्वभावः. अनेनायुष्मन् शारिपुत्र पर्यायेणास्वभावाः सर्वधर्माः. पुनर् अपरम् आयुष्मन् शारिपुत्र अनित्याः सर्वधर्मा न कस्यचिद् विगमेन.
SK
शारिपुत्र आह: कतमे ते आयुष्मन् सुभूते अनित्याः सर्वधर्मा न कस्यचिद् विगमेन?
SK
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्रानित्यं न कस्यचिद् विगमेन, वेदना संज्ञा संस्कारा विज्ञानम् आयुष्मन् शारिपुत्रानित्यं न कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यद् अनित्यं सो ऽभावः क्षयश् च एवं दुःखा अनात्मानः शान्ताः शून्या आनिमित्ता अप्रणिहिता न कस्यचिद् विगमेन सर्वधर्माः कुशला अनवद्या अनास्रवा निःक्लेशा लोकोत्तरा व्यवदाना असंस्कृताः. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यो ऽसंस्कृतः सो ऽभावः क्षयश् चानेनायुष्मन् शारिपुत्र पर्यायेण निःस्वभावाः सर्वधर्मा न कस्यचिद् विगमेन. पुनर् अपरं शारिपुत्राकूटस्था अविनाशिनः सर्वधर्माः.
SK
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते अकूटस्थाविनाशिनः सर्वधर्माः.
SK
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, एवं कुशलम् अकुशलं सावद्यम् अनवद्यं सास्रवम् अनास्रवं संक्लेशं निःक्लेशं लौकिकं लोकोत्तरं संस्कृतम् असंस्कृतं संक्लेशो व्यवदानं संसारो निर्वाणम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, अनेनायुष्मन् शारिपुत्र पर्यायेणाभावस्वभावाः सर्वधर्माः. यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेन रूपम् अनभिसंस्कृतम् एवं वेदना संज्ञा संस्काराः केन कारणेन विज्ञानम् अनभिसंस्कृतम् इति.
SK
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र रूपम् अनभिनिवृत्तं वेदना संज्ञा संस्कारा विज्ञानम् अनभिनिवृत्तम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्राभिसंस्कर्त्ता नास्ति,
SK
चक्षुर् आयुष्मन् शारिपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति, एवं श्रोत्रघ्राणजिह्वाकाया मनो ऽनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति.
SK
पुनर् अपरं शारिपुत्र रूपशब्दगन्धरससंस्पर्शधर्मा अनभिसंस्कृताः. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते यावत् सर्वधर्मा अनभिसंस्कृताः. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते, अनेनायुष्मन् शारिपुत्र पर्यायेण रूपवेदनासंज्ञासंस्कारविज्ञानान्य् अनभिनिवृत्तानि. यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन यद् अनभिनिवृत्तं न तद् रूपंन वेदना न संज्ञा न संस्कारा न विज्ञानम् इति.
SK
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र रूपं प्रकृतिशून्यं, यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः, यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते, वेदना संज्ञा संस्कारा विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः, यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते, एवं यावत् सर्वधर्माः प्रकृतिशून्या ये च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययो येषां नोत्पादो न व्ययस् तेषां नान्यथात्वं प्रज्ञायते.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण यद् अनभिनिवृत्तं न तद् रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम्.
SK
यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेनैवं वदसि, तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति, यथा ह्य् आयुष्मन् शारिपुत्र या अनभिनिवृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सा अनभिनिवृत्तिः, इति हि प्रज्ञापारमिता चानभिनिवृत्तिश् चाद्वयम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेणैवं वदामि, तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति.
SK
यत् पुनर् आयुष्मन् सारिपुत्र एवम् आह, न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेद् इति, तथा ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नान्याम् अनभिनिवृत्तिम् अन्यं बोधिसत्त्वं समनुपश्यति, इति ह्य् अनभिनिवृत्तिश् च बोधिसत्त्वश् चाद्वयम् एतद् अद्वैधीकारम्.
SK
नान्यत्रानभिनिवृत्ते रूपं समनुपश्यति, नान्यत्रानभिनिवृत्तेर् वेदनां संज्ञां संस्कारान् समनुपश्यति, नान्यत्रानभिनिवृत्तेर् विज्ञनं समनुपश्यति,
SK
इति ह्य् अनभिनिर्वृत्तिश् च रूपं चाद्व्यम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च वेदना संज्ञा संस्काराश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च विज्ञनं चाद्वयम् एतद् अद्वैधीकारम्,
SK
इति ह्य् अनभिनिवृत्तिश् च चक्षुश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रं घ्राणं जिह्वा कायश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनश् चाद्वयम् एतद् अद्वैधीकारम्,
SK
इति ह्य् अनभिनिवृत्तश् च रूपशब्दगन्धरसस्पर्शधर्माश् चाद्वयम् एतद् अद्वैधीकारम्,
SK
इति ह्य् अनभिनिवृत्तिश् च चक्षुर्विज्ञानं चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनोविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्,
SK
इति ह्य् अनभिनिवृत्तश् च चक्षुःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रघ्राणजिह्वाकायसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्,
SK
इति ह्य् अनभिनिवृत्तिश् च चक्षुःश्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदनाश् चाद्वयम् एतद् अद्वैधीकारम्,
SK
इति ह्य् अनभिनिवृत्तिश् च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् चाप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च दशबलवैशारद्याष्टादशावेणिका बुद्धधर्माश् चाद्वयम् एतद् अद्वैधीकारं, यावद् इति ह्य् अनभिनिवृत्तिश् च सर्वधर्मश् चाद्वयम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण नान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्.
SK
यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेनैवं वदसि, सचेद् बोधिसत्त्वस्य महासत्त्वस्य एवम् उपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् इति, तथा ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मान् निरीहान् समनुपश्यति मायोपमान् स्वप्नोपमान् मरीच्युपमान् प्रतिश्रुत्कोपमान् प्रतिबिम्बोपमान् प्रतिभासोपमान् निर्मितकोपमान् गन्धर्वनगरोपमान् समनुपश्यति.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य एवम् उपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपम् एतद् इति, यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये वेदनां संज्ञां संस्कारान् विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति विज्ञानम् एतद् इति, तस्मिन् समये चक्षुर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुर् एतद् इति, एवं श्रोत्रं घ्राणं जिह्वां कायं मनो नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मन एतद् (PSP१-२: १५४) इति.
SK
पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये दानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दानपारमितेयम् इति. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, तस्मिन् समये प्रज्ञापारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रज्ञापारमितेयम् इति, तस्मिन् समये अध्यात्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अध्यात्मशून्यतेयम् इति, तस्मिन् समये बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति यावद् अभावस्वभावशून्यतेयम् इति. पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये स्मृत्युपस्थनानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानानीमानीति, तस्मिन् समये सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियानि बलानि बोध्यङ्गानि आर्याष्टाङ्गमार्गं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मार्गो ऽयम् इति, तस्मिन् समये अप्रमाणध्यानारूप्यसमापत्तीर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समापत्तय इमा इति, तस्मिन् समये दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बुद्धधर्मा इमे इति.
SK
पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये सर्वसमाधिधारणीमुखानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समाधिधारणीमुखानीमानि. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति यावद् व्यस्तसमस्तानि स्कन्धधात्वायतनानि प्रतीत्यसमुत्पादं न समनुपश्यति, सप्तत्रिंशद् बोधिपक्षान् धर्मान् न समनुपश्यति पारमिता न समनुपश्यति अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मान् यावत् सर्वाकारज्ञतां न समनुपश्यति. तत् कस्य हेतोः? तथा हि भगवन् यो रूपस्यानुत्पादो न तद् रूपं यो वेदनायाः संज्ञायाः (PSP१-२: १५५) संस्काराणां यो विज्ञानस्यानुत्पादो न तद् विज्ञानम् इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकरम्. यो भगवंश् चक्षुषो ऽनुत्पादो न तच् चक्षुर् यः श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो ऽनुत्पादो न तन् मन इति हि मनश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
SK
यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता, यः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
SK
यो भगवन्न् अध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता, यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न सा अध्यात्मबहिर्धाशून्यता, यो यावद् अभावस्वभावशून्यताया अनुत्पादो न सा अभावस्वभावशून्यता, इति हि अभावस्वभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
SK
यो भगवन् स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञादशबलवैशारद्यप्रतिसंविदो,
SK
यो भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुत्पादो न ते ऽष्टादशावेणिका बुद्धधर्मा इति हि बुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
SK
यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः, यस् तथताया आकाशधातोर् भूतकोटेर् अचिन्त्यधातोर् बोधेर् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा ह्य् अनुत्पादो नैको न द्वौ न बहवो न पृथक् तस्माद् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
SK
यो भगवन् रूपस्य व्ययो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि स्कन्धाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः पञ्चानां स्कन्धानां व्ययो न ते पञ्च स्कन्धाः,
SK
यो भगवन् दानपारमिताया व्ययो न सा दानपारमिता, एवं (PSP१-२: १५६) यः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता इति हि प्रज्ञापारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः पारमितानां व्यायो नताः पारमिता.
SK
यो भगवन्न् अध्यात्मशून्यताया व्ययो न सा अध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो ऽध्यात्मशून्यतया व्ययो न सा अध्यात्मशून्यता एवं यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न सा ध्यात्मबहिर्धाशून्यता यावद् यो ऽभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता इति ह्य् अभावस्वभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो ऽभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता.
SK
यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, इति हि स्मृत्युपस्थानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकरम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि,
SK
एवं यः सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानां यश् चार्याष्टाङ्गस्य मार्गस्य व्ययो न स मार्ग इति हि मार्गश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो मार्गस्य व्ययो न स मार्गः,
SK
एवं यो ऽप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां प्रतिसंविदां वैशारद्यानां दशानां तथागतबलानां यो ऽष्टादशानाम् आवेणिकानां बुद्धधर्माणां व्ययो न ते बुद्धधर्मा इति हि बुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो बुद्धधर्माणां व्ययो न ते बुद्धधर्माः.
SK
यत् पुनर् भगवन्न् उच्यते, रूपम् इत्य् अद्वयस्यैषा गणना कृता, वेदना संज्ञा संस्कारा, यत् पुनर् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यावद् यत् पुनर् उच्यते रूपं यावत् सर्वाकारज्ञतेत्य् (PSP१-२: १५७) अद्वयस्यैषा गणना कृता.
SK
इति प्राप्तिनिर्याणे प्राप्यप्रापकसंबन्धप्रतिषेधः
SK
अथ खल्व् आयुष्मन् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, कतम आयुष्मन् सुभूते बोधिसत्त्वः, कतमा प्रज्ञापारमिता, कतमा उपपरीक्षमाणा.
SK
सुभूतिर् आह: यद् आयुष्मन् शारिपुत्र एवं वदसि, कतमो बोधिसत्त्व इति, बोधिर् एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति, तया च बोध्या सर्वधर्माणाम् आकाराञ् जानाति न चात्राभिनिविशते.
SK
कतमेषां धर्माणाम् आकाराञ् जानाति, रूपस्याकाराञ् जानाति न चात्राभिनिविशते, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्याकाराञ् जानाति, न चात्राभिनिविशते, एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य सप्तत्रिंशद् बोधिपक्षानां धर्माणाम् आकाराञ् जानाति न चात्राभिनिविशते, एवम् अप्रमाणध्यानारूप्यसमापत्तीनां पारमितानां बलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकानांबुद्धधर्माणाम् आकाराञ् जानाति न चात्राभिनिविशते.
SK
शारिपुत्र आह: कतमे ते सुभूते सर्वधर्माणाम् आकाराः?
SK
सुभूतिर् आह: यैर् आयुष्मन् शारिपुत्र आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः रूपशब्दगन्धरसस्प्रष्टव्यधर्मा वा अध्यात्मिकबाह्या वा धर्माः संस्कृता असंस्कृता वा आकार्यन्ते इम उच्यन्ते सर्वधर्माणाम् आकाराः.
SK
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, कतमा प्रज्ञापारमितेति, आरता आरमितैषा आयुष्मन् शारिपुत्र तेनोच्यते प्रज्ञापारमितेति, कुत आरता आरमिता? स्कन्धेभ्यो धातुभ्य आयतनेभ्यः प्रतीत्यसमुत्पदाद् दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया आरता आरमिता, अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया आरता आरमिता, स्मृत्युपस्थानेभ्य आरता आरमिता, सम्यक्प्रहाणर्द्धिपदेन्द्रियबलबोध्यङ्गमार्गाद् आरता आरमिता, अप्रमाणध्यानारूप्यसमापत्तिभ्य आरता आरमिता, बलेभ्यो वैशारद्येभ्य आरता आरमिता, प्रतिसंविद्भ्य आवेणिकेभ्यो बुद्धधर्मेभ्य आरता आरमिता, यावत् सर्वज्ञताया आरता आरमिता, एषा तेनोच्यते प्रज्ञापारमितेति.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण आरता आरमिता एषा यद् उत प्रज्ञापारमिता.
SK
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, कतमा उपपरीक्षणेति, इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न नित्यम् इत्य् उपपरीक्षते नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यमिति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं नित्यम् इत्य् उपपरीक्षते, नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तमित्य् उपपरीक्षते.
SK
एवं चक्षुः श्रोत्रं घ्राणं जिह्वां कायं मनो न नित्यम् इति उपपरीक्षते, नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
SK
एवं रूपशब्दगन्धरसस्प्रष्टव्यधर्मान् न नित्या इति नानित्या इति उपपरीक्षते, न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षते, न विविक्ता इति नाविविक्ताइति उपपरीक्षते.
SK
एवं चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं न नित्यं नानित्यम् इति उपपरीक्षते, न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
SK
एवं चक्षुःसंस्पर्शं श्रोत्रसंस्पर्शं घ्राणसंस्पर्शं जिह्वासंस्पर्शं कायसंस्पर्शं मनःसंस्पर्शं न नित्य इति नानित्य इत्य् उपपरीक्षते, न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति (PSP१-२: १५९) नाशान्त इति न शून्य इति नाशून्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
SK
एवं चक्षुःसंस्पर्शप्रत्यया वेदना श्रोत्रसंस्पर्शप्रत्यया वेदना घ्राणसंस्पर्शप्रत्यया वेदना जिह्वासंस्पर्शप्रत्यया वेदना कायसंस्पर्शप्रत्यया वेदना मनःसंस्पर्शपृतत्यया वेदना न नित्या इति नानित्या इत्य् उपपरीक्षते, न सुखा इति न दुःखा इति नात्मा इति नानात्मा इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इति उपपरीक्षते, न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षते.
SK
एवं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति न आत्मेति नानात्मेति न शान्ता इति नाशान्ता इति, न शून्या इति नाशुन्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षते, न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षते.
SK
एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरिक्षते, न विविक्तेति नाविविक्तेत्य् उपपरीक्षते.
SK
एवं स्मृत्युपस्थानानि न नित्यानीति नानित्यानीत्य् उपपरीक्षते न सुखानीति न दुःखानीति नात्मानीति नानात्मानीति न शान्तानीति नाशान्तानीति न शून्यानीति नाशून्यानीति न निमित्तानीति नानिमित्तानीति न प्रणिहितानीति नाप्रणिहितानीत्य् उपपरीक्षते, न विविक्तानीति नाविविक्तानीत्य् उपपरीक्षते,
SK
एवं सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्गो ऽप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा दशतथागतबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः समाधयः सर्वधारणीमुखानि सर्वज्ञता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते, न विविक्तेति नाविविक्तेत्य् उपपरीक्षते.
SK
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वओ महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते.
SK
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यो रूपस्यानुत्पादो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञास्व् अष्टादशावेणिकेषु बुद्धधर्मेषु, यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति.
SK
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र शून्यं रूपेण, या चायुष्मन् शारिपुत्र शून्यता न तद् रूपं नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, वेदना संज्ञा संस्कारा, विज्ञानं शून्यं विज्ञानेन, या चायुष्मन् शारिपुत्र शून्यता न तद् विज्ञानं नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो विज्ञानस्यानुत्पादोन तद् विज्ञानम्.
SK
दानपारमिता आयुष्मन् शारिपुत्र दानपारमितया शून्या, या च शून्यता न सा दानपारमिता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, या च शून्यता न सा प्रज्ञापारमिता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता.
SK
अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, या च शून्यता न सा अध्यात्मशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, या च शून्यता न सा अध्यात्मशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो ऽध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता, एवं बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या, या च शून्यता न सा अभावस्वभावशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो ऽभावस्वभावशून्यताया अनुत्पादो न सा अभावस्वभावशून्यता.
SK
स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानैः शून्यानि, या च शून्यता न तानि स्मृत्युपस्थानानि नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञाप्रमाणध्यानारूप्यसमापत्तयो (PSP१-२: १६१) दशबलवैशारद्यप्रतिसंविदः समाधिधारण्यष्टादशावेणिका बुद्धधर्मा सर्वाकारज्ञता आयुष्मन् शारिपुत्र सर्वाकारज्ञतया शून्या, या च शून्यता न सा सर्वाकारज्ञता नोत्पादः, अनेनायुष्मन् शारिपुत्र प्रयायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
SK
शारिपुत्र आह: किं कारणम् आयुष्मन् सुभूते एवं वदसि, यो रूपस्य व्ययो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्य व्ययो न तद् विज्ञानम् इति, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यताबोधिपक्षेसु धर्मेषु पारमितास्व् अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यः सर्वाकारज्ञताया व्ययो न सासर्वाकारज्ञता.
SK
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं या च वेदना या च संज्ञा ये च संस्काराः, यच् च विज्ञानं सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघाः, एकलक्षणा यद् उतालक्षणाः, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताभिज्ञाशून्यताबोधिपक्षेसु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु दशबलवैशारद्यावेणिकबुद्धधर्मसमाधिधारणीमुखेषु यश् च व्ययो यावत् सर्वाकारज्ञतायच् चाद्वैधीकारं सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघाः, एकलक्षणा यद् उतालक्षणाः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो रूपस्य व्ययो न तद् रूपम्, एवं वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्य व्ययो न तद् विज्ञानम्, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतासु बोधिपक्षेसु धर्मेष्व् अभिज्ञापारमिताप्रमाणध्यानारूप्यसमापत्तिषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु समाधिधारणीमुखेषु यावद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
SK
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यद् इदम् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृतेति, वेदना संज्ञा संस्काराः, यद् इदम् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृतेति, यावद् यद् इदम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृतेति.
SK
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र नान्यो ऽनुत्पादो ऽन्यद् रूपम्, अनुत्पाद एव रूपं, रूपम् एवानुत्पादः, वेदना संज्ञा (PSP१-२: १६२) संस्कारा, नान्यो ऽनुत्पादो ऽन्यद् विज्ञानं, विज्ञानम् एवानुत्पादो ऽनुत्पाद एव विज्ञानम्, अनेनायुष्मन् शारिपुत्र पर्यायेण यद् एतद् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृता, वेदना संज्ञा संस्कारा, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
SK
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषुपारमितासु बोधिपक्षेसु धर्मेषु सर्वशून्यतास्व् अप्रमाणध्यानारूप्यसमापत्तिषु अभिज्ञासु बलेषु वैशारद्येषु प्रतिसंवित्सु आवेणिकेषु बुद्धधर्मेषु समाधिधारणीमुखेषु तथा ह्य् आयुष्मन् शारिपुत्र नान्यो ऽनुत्पादो ऽन्या सर्वाकारज्ञता अनुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैवानुत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यद् एतद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता.
SK
पुनर् अपरम् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते तस्मिन् समये रूपस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय,
SK
आत्मनो ऽनुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमनवकारकवेदकजानकपश्यकस्यानुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
SK
एवं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञानाम् अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
SK
दानपारमिताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
SK
अध्यात्मशून्यताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
SK
स्मृत्युपस्थानानाम् अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञाप्रमाणध्यानारूप्यसमापत्तीनां दशबलवैशारद्यप्रतिसंवित्समाधिधारणीमुखाष्टादशावेणिकबुद्धधर्माणां सर्वाकारज्ञताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
SK
पृथग्जनस्यानुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, पृथग्जनधर्माणाम् (PSP१-२: १६३) अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं स्रोतआपन्नस्य स्रोतआपन्नधर्माणां सकृदागामिनः सकृदागामिधर्माणाम् अनागामिनो ऽनागामिधर्माणाम् अर्हतो ऽर्हद्धर्माणां प्रत्येकबुद्धस्य प्रत्येकबुद्धधर्माणां बोधिसत्त्वस्य बोधिसत्त्वधर्माणां बुद्धस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, बुद्धधर्माणाम् अनुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय.
SK
शारिपुत्र आह: यथाहम् आयुष्मतः सुभूतेर् भाषितस्यार्थम् आजानामि तथा रूपम् अनुत्पादो वेदना संज्ञा संस्कारा विज्ञानम् अनुत्पादो यावद् व्यस्ता समस्ता स्कन्धा अनुत्पादो धातवो ऽनुत्पाद आयतनान्य् अनुत्पादः प्रतीत्यसमुत्पादो ऽप्य् अनुत्पादः पारमितानुत्पादः सर्वशून्यतानुत्पादः सप्तत्रिंशद् बोधिपक्षा धर्मा अनुत्पादो ऽप्रमाणध्यानारूप्यसमापत्तयो ऽनुत्पादः, समाधिधारणीमुखानि अनुत्पादो दशबलवैशारद्यप्रतिसंविदो ऽनुत्पादः, अष्टादशावेणिका बुद्धधर्मा अनुत्पादः सर्वाकारज्ञता अनुत्पादः पृथग्जनो ऽनुत्पादः पृथग्जनधर्मा अनुत्पादः, एवं स्रोतआपन्नः स्रोतआपन्नधर्माः सकृदागामीसकृदागामिधर्माः अनागामी अनागामिधर्मा अर्हन्न् अर्हद्धर्मा प्रत्येकबुद्धः प्रत्येकबुद्धधर्मा बोधिसत्त्वो बोधिसत्त्वधर्मा बुद्धो ऽनुत्पादो बुद्धधर्मा अनुत्पादः.
SK
यदि चायुष्मन् सुभूते रूपम् अप्य् अनुत्पादो यावद् बुद्धधर्मा अप्य् अनुत्पादः, नन्व् आयुष्मन् सुभूते प्राप्तैव श्रावकेण श्रावकबोधिः प्रत्येकबुद्धयानिकेन प्रत्येकबुद्धबोधिः, बोधिसत्त्वेन प्राप्तैव सर्वाकारज्ञता भवति, पञ्चानाञ् च गतीनां भेदो न भविष्यति, प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन पञ्चविधा बोधिः.
SK
यदि चायुष्मन् सुभूते सर्वधर्मा अनुत्पादः, किम् अर्थं स्रोतआपन्नेन त्रयाणां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, सकृदागामिना रागदोषमोहानां तनुतायै मार्गो भावयितव्यः, अनागामिना पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, अर्हता पञ्चोर्ध्वभागीयानां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, प्रत्येकबुद्धयानिकैः प्रत्येकबोधिप्राप्तये मार्गो भावयितव्यः, किं कारणं बोधिसत्त्वो दुष्करचारिकां चरति, यानि तानि सत्त्वानां कृतशो दुःखानि प्रत्यनुभवति, किं कारणं तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, (PSP१-२: १६४) किं कारणं तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रं प्रवर्तितम्?
SK
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य प्राप्तिम् इच्छामि नाप्य् अभिसमयं,
SK
नाहम् अनुत्पादस्य स्रोतआपन्नम् इच्छामि न स्रोतआपत्तिफलं न सकृदागामिनं न सकृदागामिफलं, नानागामिनं नानागामिफलं, नार्हत्त्वं नार्हत्त्वफलं, नानुत्पादस्य प्रत्येकां बोधिम् इच्छामि न प्रत्येकबुद्धत्वं,
SK
नाहम् आयुष्मन् शारिपुत्रेच्छामि बोधिसत्त्वं दुष्करचारिकां चरन्तं नापि बोधिसत्त्वो दुष्करसंज्ञया चरति. तत् कस्य हेतोः? न हि शक्य आयुष्मन् शारिपुत्र दुष्करसंज्ञायां स्थित्वा अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्.
SK
अपि तु खलु पुनर् आयुष्मन् शारिपुत्र मातृसंज्ञां सर्वसत्त्वेषु जनयित्वा पितृसंज्ञां भ्रातृसंज्ञां पुत्रसंज्ञाम् आत्मसंज्ञां जनयित्वा शक्यो ऽप्रमेयाणाब्म् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्.
SK
अपि तु खलु पुनर् आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एवंचित्तम् उत्पादयितव्यं, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया अनुत्पन्न आत्मा, एवं सर्वेष्व् अध्यात्मिकबाह्येषु धर्मेषु संज्ञोत्पादयितव्या, सचेद् एवंसंज्ञाम् उत्पादयिष्यति न दुष्करसंज्ञां भविष्यति. तत् कस्य हेतोः? तथा हि ते बोधिसत्त्वाः सर्वेण सर्वं सर्वथा सर्वं कञ्चिद् धर्मं नोत्पादयन्ते नोपलभन्ते.
SK
नाहम् आयुष्मन् शारिपुत्रानुत्पादे तथगतम् इच्छामि, नाप्य् अनुत्तरां सम्यक्संबोधिं, नापि धर्मचक्रप्रवर्तनं, नापीच्छाम्य् अनुत्पन्नेन धर्मेणानुत्पन्नां प्राप्तिं प्राप्यमाणाम्.
SK
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते अनुत्पन्नेन धर्मेण उत्पन्ना प्राप्तिः प्राप्यते, अथ उत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते?
SK
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र उत्पन्नेन धर्मेण अनुत्पन्नां प्राप्तिं प्राप्यमाणाम् इच्छामि, नाप्य् अनुत्पन्ने नोत्पन्नां प्राप्तिं प्राप्यमाणाम्.
SK
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छसि, अथ वोत्पन्नेन धर्मेण प्राप्तिम् इच्छसि?
SK
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छामि, नाप्य् उत्पन्नेन धर्मेण प्राप्तिम् इच्छामि.
SK
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते नास्ति प्राप्तिर् नास्त्य् अभिसमयः?
SK
सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र प्राप्तिर् अस्त्य् अभिसमयो न पुनर् द्वयम्, अपि तु खलु पुनर् आयुष्मन् शारिपुत्र लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च प्रज्ञप्यते लोकव्यवहारेण स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते न पुनः परमार्थेन प्राप्तिर् नाभिसमयो न स्रोतआपन्नो न सकृदागामी नानागामी नार्हन् न प्रत्येकबुद्धो न बोधिसत्त्वो न बुद्धः.
SK
शारिपुत्र आह: अनुत्पन्नो धर्म इत्य् आयुष्मन् सुभूते प्रतिभाति मन्त्रयितुम्.
SK
सुभूतिर् आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मन् शारिपुत्र यद् वदसि प्रतिभाति मन्त्रयितुम् इति, अनुत्पादो ऽपि ये आयुष्मन् शारिपुत्र प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यश् चानुत्पन्नो धर्मो यच् च प्रतिभानं ये च मन्त्रा या चानुत्पत्तिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
शारिपुत्र आह: अनुत्पादो ऽप्य् आयुष्मन् सुभूते मन्त्रः, अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र अनुत्पादो मन्त्रः, अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना, यान् आरभ्य प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र रूपम् अनुत्पादः, एवं वेदना संज्ञा संस्कारा विज्ञानम् अनुत्पादः, एवं व्यस्तसमस्ताः स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादः पारमिताः सप्तत्रिंशद् बोधिपक्षा धर्माः सर्वशून्यता अप्रमाणध्यानारूप्यसमापत्तयः, अभिज्ञासमाधयो धारणीमुखानिबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनुत्पादः, स्रोतआपन्नः सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धो बोधिसत्त्वः सर्वज्ञः सर्वाकारज्ञः सर्वाकारज्ञताप्य् अनुत्पादः.
SK
शारिपुत्र आह: एवम् एतद् आयुष्मन् सुभूते अनुत्पादो मन्त्रः, (PSP१-२: १६६) अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुं, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पदपारमिताबोधिपक्षा धर्माः सर्वशून्यता सर्वधारणीमुखानि सर्वसमाधयो बलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्माः पेयालं, यावत् सर्वाकारज्ञताप्य् अनुत्पादाः.
SK
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च, एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्रैवम् एतत्, यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव लोकव्यवहारेण पञ्चाणां गतीनां संभेदो भवति नात्र खलु पुनः परमार्थेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र परमार्थे न कर्म न विपाको नोत्पादो न निरोधो न संक्लेशो न व्यवदानम्.
SK
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते ऽनुत्पन्नो धर्म उत्पद्यते उताहो उत्पन्नो धर्म उत्पद्यते.
SK
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र उत्पन्नस्य धर्मस्य उत्पादम् इच्छामि नाप्य् अनुत्पन्नस्य धर्मस्य उत्पादम् इच्छामि.
SK
शारिपुत्र आह: कतमस्यायुष्मन् सुभूते अनुत्पन्नस्य धर्मस्योत्पादं नेच्छसि?
SK
सुभूतिर् आह: रूपस्याहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य स्वभावशून्यस्योत्पादं नेच्छामि, एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य पारमितानां बोधिपक्षाणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां सर्वशून्यतानां सर्वसमाधीनां धारणीमुखानां बलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां बोधेर् अप्य् अहम् आयुष्मन् शारिपुत्र अनुत्पापन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
SK
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते उत्पाद उत्पद्यते अथानुत्पाद उत्पद्यते?
SK
सुभूतिर् आह: न ह्य् आयुष्मन् शारिपुत्र उत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यश् चोत्पादो यश् (PSP१-२: १६७) चानुत्पादो द्वाव् अप्य् एतौ धर्मौ न संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उतालक्षणौ.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण नोत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण अनुत्पादो मन्त्रो ऽनुत्पादः प्रतिभानम्, अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्.
SK
शारिपुत्र आह: धर्मकथिकानाम् आयुष्मान् सुभूतिर् अग्रतायां स्थापयितव्यः. तत् कस्य हेतोः? तथा हि आयुष्मान् सुभूतिर् यद् यद् एव परिप्रश्नीक्रियते ततस् तत एव निःसरति.
SK
सुभूतिर् आह: धर्मतैषा आयुष्मन् शारिपुत्र तथागतश्रावकाणाम् अनिश्रितसर्वधर्माणां ते यतो यत एव परिपृच्छ्यन्ते ततस् तत एव निःसरन्ति. तत् कस्य हेतोः? यथापि नामानिश्रितत्वात् सर्वधर्माणाम्.
SK
शारिपुत्र आह: कथम् आयुष्मन् सुभूते अनिश्रिताः सर्वधर्माः?
SK
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
SK
चक्षुर् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, एवं श्रोत्रं घ्राणं जिह्वा कायो मन आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
SK
दानपारमितापि आयुष्मन् शारिपुत्र प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताप्य् आयुष्मन् शारिपुत्र प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
अध्यात्मशून्यता प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
स्मृत्युपस्थानानि प्रकृतिशून्यानि तानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि (PSP१-२: १६८) बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्गः प्रकृतिशून्यः स नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
एवम् अप्रमाणध्यानारूप्यसमापत्त्यभिज्ञासमाधिधारणीमुखबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रकृतिशून्यास् ते नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
SK
अनेनायुष्मन् शारिपुत्र पर्यायेण सर्वधर्मा अनिश्रिताः, प्रकृतिशून्यताम् उपादाय. एवं हि आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता रूपं परिशोधयितव्यं, वेदना संज्ञा संस्कारा विज्ञानं परिशोधयितव्यम्, एवं व्यस्तसमस्ताः स्कन्धा धातवः, आयतनानि प्रतीत्यसमुत्पादः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद् बोधिपक्ष्या धर्माः, अप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः परिशोधयितव्याः, यावत् सर्वाकारज्ञता परिशोधयितव्या.
SK
इति सर्वाकारज्ञतानिर्याणम्
SK
शारिपुत्र आह: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः षट्पारमितासु चरन् बोधिसत्त्वमार्गं परिशोधयति?
SK
सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र दानपारमिता लौकिकी अस्ति लोकोत्तरा, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता अस्ति प्रज्ञापारमिता लौकिकी अस्ति लोकोत्तरा.
SK
शारिपुत्र आह: कतमा आयुष्मन् सुभूते दानपारमिता लौकिकी कतमा लोकोत्तरा?
SK
सुभूतिर् आह: लौकिकी आयुष्मन् शारिपुत्र दानपारमिता इह बोधिसत्त्वो महासत्त्वो दायको भवति दानपतिः, श्रमणब्राह्मणकृपणवनीपकाध्वगेभ्यो याचनकेभ्यो दाता भवति, अन्नार्थिकेभ्यो ऽन्नं ददाति, पानयानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रयप्रतिश्रयजीवितोपकरणशयनासनभैषज्यार्थिकेभ्यो ऽन्नपानयानवसनशयनासनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रयप्रतिश्रयान्यतरान्यतरजीवितपरिष्कारोपकरणभैषज्यदाता भवति, पुत्रार्थिकेभ्यः पुत्रं ददाति, दुहित्र्यर्थिकेभ्यो दुहितरं ददाति, भार्यार्थिकेभ्यो भार्यां ददाति, राष्ट्रार्थिकेभ्यो राज्यानि ददाति, शिरो ऽर्थिकेभ्यः शिरो ददाति, अङ्गार्थिकेभ्यो ऽङ्गानि ददाति, मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जानो ददाति, तच् च संनिश्रितं परित्यजति, (PSP१-२: १६९) तस्यैवं भवति, अहं ददामि एष परिगृह्णीते इदं दानम् अहं निर्मत्सरः सर्वस्वं परित्यजामि, अहं बुद्धाज्ञां करोमि, अहं दानपारमितायां चरामि, अहम् एतद् दानं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयामि तच् चानुपलम्भयोगेन, अनेन च दानेन दानफलेन च सर्वसत्त्वा दृष्ट एव धर्मे सुखिता भवन्तु अनुपादाय परिनिर्वान्तु, स त्रिभिः सङ्गैः सक्तो दानं ददाति, कतमैस् त्रिभिर्? यद् उतात्मसंज्ञया परसंज्ञया दानसंज्ञया च एभिस् त्रिभिः सङ्गैः सक्तो दानं ददाति, इयम् उच्यते लौकिकी दानपारमितेति. तथा हि आयुष्मन् शारिपुत्र लोकतो न चलति नोच्चलति न संक्रामति, तेनोच्यते लौकिकी दानपारमितेति.
SK
तत्र कतमा लोकोत्तरा दानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः. तत्र कतमा त्रिमण्डलपरिशुद्धिः? इह बोधिसत्त्वो महासत्त्वो दानं ददन् नात्मानम् उपलभते प्रतिग्राहकं नोपलभते दानं च नोपलभते, तद् विपाकं च नोपलभते, इयम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः.
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो दानं ददन् सर्वसत्त्वेभ्यस् तद् दानं निर्यातयति, सत्त्वांश् च नोपलभते, आत्मानं च नोपलभते, तच् च दानम् अनुत्तरायै सम्यक्संबोधये परिणामयति, न च बोधिम् उपलभते. इयम् उच्यते लोकोत्तरा दानपारमितेति.
SK
केन कारणेनोच्यते लोकोत्तरा दानपारमितेति? तथा ह्य् आयुष्मन् शारिपुत्र लोकाच् चलति उच्चलति संक्रामति, तेन कारणेनोच्यते लोकोत्तरा दानपारमितेति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
SK
शारिपुत्र आह: कतमायुष्मन् सुभूते प्रज्ञापारमिता लौकिकी, कतमा लोकोत्तरा?
SK
सुभूतिर् आह: लौकिकी आयुष्मन् शारिपुत्र प्रज्ञापारमिता, इह बोधिसत्त्वो महासत्त्वो दानं ददाति उपलम्भनिश्रितो मात्सर्यचित्तं मया निग्रहीतव्यम् इति, तच् चात्मसत्त्वदानसंज्ञानिश्रितः सर्वस्वं परित्यजति बाह्यं वा अध्यात्मिकं वा वस्तु उपात्तं वा अनुपात्तं वा नास्ति किंचिद् यं न परित्यजति, तच् च कुशलमूलं बोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भनिश्रितः,
SK
स शीलं सेवते धूतगुणप्रतिष्ठितः, कायवाक्चित्तोपलम्भनिश्रितस् (PSP१-२: १७०) तांश् च दश कुशलान् कर्मपथान् सेवमानः, आत्मदृष्ट्यां सत्त्वदृष्ट्यां कुशलदृष्ट्यां निश्रितो बोधिम् उपलभ्य सर्वसत्त्वसाधारणानि शीलानि बोधये परिणामयति तच् चोपलम्भेन, आत्मानम् उत्कर्षयति परान् पंसयति.
SK
स सर्वसत्त्वानां दुष्कृतानि क्षमते, आत्मसत्त्वक्षान्तिदृष्टिनिश्रितस् तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेन.
SK
स वीर्यम् आरभते कायम् उपलम्भमानश् चित्तम् उपलम्भमानः पुण्यसंभारम् उपलम्भमानः, ज्ञानसंभारम् उपलम्भमानः, आत्मानम् उपलम्भमानः, बोधिम् उपलम्भमानस् तेन च वीर्यारम्भेन मन्यते, तच् च सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेनानुत्तरायै सम्यक्संबोधये परिणामयति.
SK
स मैत्रीकरुणामुदितोपेक्षां भावयति ध्यानसमापत्तीः समापद्यते व्युत्तिष्ठते च ता आस्वादयति, ता आस्वादयन् मन्यते सर्वसत्त्वसाधारणानि च कुशलमूलानि उपलम्भदृष्टिको बोधाय परिणामयति. इयम् उच्यते लौकिकी प्रज्ञापारमिता.
SK
स शून्यतां भावयन् रूपं शून्यम् इत्य् उपलभते, वेदना संज्ञा संस्कारान् विज्ञानं शून्यम् इत्य् उपलभते, यावद् बुद्धबोधिं चोपलभते उपलम्भयोगेन, तानि कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, तं चोपलम्भयोगेन, सर्वपापं प्रतिदेशयत्य् उपलम्भयोगेन, आत्मनश् च परेषां च पुण्यम् अनुमोदते, आत्मनश् च परस्य चार्थाय उपलभमानः सर्वबुद्धान् अध्येषयते, अनुपायेन त्रिःकृत्वः पुण्यं सर्वज्ञतायै परिणामयति सर्वसत्त्वसाधारणं कृत्वा. इयम् उच्यते लौकिकी प्रज्ञापारमिता
SK
तत्र कतमा लोकोत्तरा प्रज्ञापारमिता? आत्मसत्त्वदेयबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या दानपारमितां परिशोधयति, बोधाय आत्मसत्त्वशीलबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या शीलपारमितां परिशोधयति, बोधाय आत्मसत्त्वक्षमाबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या क्षान्तिपारमितां परिशोधयति, बोधाय चात्मकायचित्तवीर्यपुण्यज्ञानबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या वीर्यपारमितां परिशोधयति, बोधाय आत्मसत्त्वध्यानसमाधिसमापत्तिबोध्यानुपलब्ध्या त्रिमण्डलपरिशुद्ध्या ध्यानपारमितां (PSP१-२: १७१) परिशोधयति, बोधाय आत्मसत्त्वसर्वधर्मानुपलब्ध्या त्रिमण्डलपरिशुद्ध्या प्रज्ञापारमितां परिशोधयति, बोधाय सर्वकुशलमूलानि चानुत्तरायै सम्यक्संबोधये परिणामयति निर्विशेषपरिणामेन, अनुत्तरपरिणामेन, असमसमपरिणामेन, अचिन्त्यातुल्यपरिणामेन, अप्रमेयपरिणामेन. इयम् उच्यते लोकोत्तरा प्रज्ञापारमिता.
SK
केन कारणेन लौकिकी? लोको याभिर् भवति, लोकं वा याभिर् निवर्तयति, लोकेन वा याः समाः, लोकाय वा याभिर् दीयते, लोकाद् वा याभिर् निःसरति, लोकस्य वा या भवाय, लोके वा भवा यास् ता लौकिकस्यः.
SK
तत्र कतमा लोकोत्तरा? लोको याभिर् उत्तरति, लोकं वा याभिर् उत्तारयति, लोकेन वा याभिर् उत्तार्यते, आलोकाय वा या भवति, लोकाद् वा याभिर् निःसरति, लोकस्य वा या उत्तरणाय, लोके वा या उत्तरास् ता लोकोत्तरा इति.
SK
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति.
SK
शारिपुत्र आह: कतम आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः?
SK
सुभूतिर् आह: चत्वार्य् आयुष्मन् शारिपुत्रै स्मृत्युपस्थानानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टान्गो मार्गः शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महाकरुणा. अयम् उच्यते आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
SK
शारिपुत्र आह: कतमस्या आयुष्मन् सुभूते पारमिताया अयं पुरुषकारः?
SK
सुभूतिर् आह: प्रज्ञापारमिताया आयुष्मन् शारिपुत्र अयं पुरुषकारः. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र प्रज्ञापारमिता जनयित्री सर्वेषां कुशलानां धर्माणां श्रावकप्रत्येकबुद्धधर्माणां बोधिसत्त्वधर्माणां बुद्धधर्माणां, प्रज्ञापारमिता आयुष्मन् (PSP१-२: १७२) शारिपुत्र प्रतिग्राहिका सर्वेषां कुशलानां धर्माणां श्रावकप्रत्येकबुद्धधर्माणां बोधिसत्त्वधर्माणां, प्रज्ञापारमितायाम् आयुष्मन् शारिपुत्र शिक्षित्वा तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, अनागता अप्य् आयुष्मन् शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, ये ऽप्य् एतर्हि आयुष्मन् शारिपुत्र दशसु दिक्षु लोके तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति, ते ऽपि सर्वे इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः.
SK
सचेत् पुनर् आयुष्मन् शारिपुत्र अस्यां प्रज्ञापारमितायां भाष्यमाणायां बोधिसत्त्वस्य महासत्त्वस्य न भवति काङ्क्षायितत्वं न भवति धन्वायितत्वं वेदितव्यम् एतद् आयुअष्मन् शारिपुत्र विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेणाविरहितश् चानेन मनसिकारेण यद् उत सर्वसत्त्वपरित्राणाय सर्वसत्त्वापरित्यागमनसिकारेण महाकरुणामनसिकारेण.
SK
शारिपुत्र आह: यद् आयुष्मन् सुभूते एवम् आह, विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेणाविरहितश् चानेन मनसिकारेणेति, एवं सत्य् आयुष्मन् सुभूते सर्वसत्त्वा अपि बोधिसत्त्व भविष्यन्ति. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् सुभूते सर्वसत्त्वा अविरहिता मनसिकारेण.
SK
सुभूतिर् आह: साधु साधु आयुष्मन् शारिपुत्र उपालप्स्ये त्वां अर्थ एवायुष्मता शारिपुत्रेण भूतपदाभिधानेन परिगृहीतः. तत् कस्य हेतोः? सत्त्वासत्तयायुष्मन् शारिपुत्र मनसिकारासत्ता वेदितव्या, सत्त्वसून्यतया मनसिकारशून्यता वेदितव्या, सत्त्वास्वभावतया मनसिकारास्वभावता वेदितव्या, सत्त्वविविक्ततया मनसिकारविविक्तता वेदितव्या, सत्त्वानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, रूपासत्तया रूपशून्यतया रूपास्वभावतया रूपविविक्ततया रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वेदना संज्ञासंस्कारा विज्ञानासत्तया विज्ञानशून्यतया विज्ञानास्वभावतया विज्ञानविविक्ततया विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनतावेदितव्या.
SK
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सत्यबोधिपक्ष्यधर्मपारमिताप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंवित्सु अष्टादशावेणिकेषु बुद्धधर्मेषु सर्वाकारज्ञतासत्तया सर्वाकारज्ञताशून्यतया सर्वाकारज्ञतास्वभावतया सर्वाकारज्ञताविविक्ततया सर्वाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
अनेनायुष्मन् शारिपुत्र विहारेणानेन च मनसिकारणाविरहितो बोधिसत्त्वो महासत्त्व इति.
SK
अथ खलु भगवान् आयुष्मते सुभूतये साधुकारम् अदात्: साधु साधु सुभूते, एवं हि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितोपदेष्टव्या यथा त्वम् उपदिशसि यथापि नाम तथागतानुभावेनैवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं यथा त्वम् उपदिशसि.
SK
अस्मिन् खलु पुनः प्रज्ञापारमिता परिवर्ते आयुष्मता सुभूतिना भाष्यमाणे त्रिसाहस्रमहासाहस्रो लोकधातुः षड् विकारं प्रकम्पितो यावत् पूर्वोत्तरदक्षिणपश्चिमायां विदिश्य् उन्नामावनामं गच्छन्ति स्म. अथ खलु भगवांस् तस्यां वेलायां स्मितम् अकरोत्.
SK
अथ खल्व् आय्तिष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः काः प्रत्ययः स्मितस्य प्रादुर्भावाय?
SK
भगवान् आह: यथैव सुभूते इह लोकधातौ तथागतः प्रज्ञापारमितां निर्दिशति तथैव पूर्वस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां भाषन्ते, एवं समन्ताद् दशसु दिक्ष्व् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां निर्दिशन्ति, अस्मिन् खलु पुनः सुभूतिना प्रज्ञापारमितानिर्देशे निर्दिश्यमाने द्वादशानाम् अयुतानां देवमानुषिकायाः प्रजाया अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो ऽभूत्, तेषाम् अपि बुद्धानां भगवतां समन्ताद् दशसु दिक्षु लोकधातुषु इमां प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषमाणानाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि.
SK
इति मार्गनिर्याणम्
SK
इत्य् उक्ता निर्याणप्रतिपत्तिर्
SK
इत्य् उक्ता सर्वाकारज्ञता
SK
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां सर्वाकारज्ञताधिकारः सुभूतिपरिवर्तः प्रथमः
SK
(PSP_२-३:१) Pअञ्चविंशतिसाहस्रिका Pरज्ञापारमिता II
SK
अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानस् ते सर्वे ऽनेकैर् देवपुत्रसहस्रैः सार्धं तत्रैव परिषदि संनिपतिता अभूवन्, एवं शक्रो देवानाम् इन्द्रो यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या यावन् महाब्रह्माणो ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ परीत्ताभा यावच् छुद्धावासकायिकाश् च देवपुत्रा अनेकैः शुद्धावासकायिकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव परिषदि संनिपतिता. यश् च तेषां चातुर्महाराजकायिकानां देवपुत्राणां कर्मविपाकजः. कायावभासः, यश् च त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां यावच् छुद्धावासकायिकानां देवपुत्राणां कर्मविपाकजः कायावभासः, स तथागतप्रकृतिप्रभायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि नोपैति, न क्षमते तथागतप्रभायाः पुरतः सा देवानां प्रभा. तथागतप्रभैवाग्राख्यते ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीता अनुत्तरा निरुत्तरा उत्तरोत्तरा चाख्यायते. तद्यथापि नाम जम्बूनदस्य सुवर्णस्य पुरतः कृष्णलौहं न भ्राजते न तपति न विरोचते, एवम् एव तथागतस्य प्रकृतिप्रभायाः पुरतः सा देवानां कर्मविपाकजप्रभा न भ्राजते न तपति न विरोचते. तथागतप्रभैव तेषाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठा वरा प्रवरा (PSP_२-३:२) प्रणीता अनुत्तरा निरुत्तरा उत्तरोत्तरा चाखायते. इति ध्यामीकरणभा देयानाम्
SK
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एते भदन्त सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ ये चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा यावच् छुद्धावासकायिका देवपुत्रास् ते सर्वे संनिपतिता आयुष्मतः सुभूतेः प्रज्ञापारमितानिर्देशश्रवणाय प्रज्ञापारमितोपदेशं श्रोतुकामाः. कथं च भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? कतमा च बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता? इति योग्यता
SK
एवम् उक्ते, आयुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक उपदेक्ष्यामि बुद्धानुभावेन बुद्धाधिष्ठानेन बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं, यैश् च देवपुत्रैर् अनुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादितं तैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितव्यम्. ये पुनर् अवक्रान्तनियामास् ते ऽप्रतिबला अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितुं. तत् कस्य हेतोर्? बद्धसीमानो हि ते संसारस्रोतसः. इति विषयप्रतिनियमः
SK
अपि तु खलु पुनस् तेषाम् अप्य् अनुमोदे ते चेद् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयेयुः. इति व्याप्तिः
SK
नाहं तेषां कुशलपक्षस्यान्तरायं करोमि.इति स्वभावः
SK
विशिष्टेभ्यो धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्याः. इति कारित्रम् इत्य् उक्तानि ध्यामीकरणादीनि
SK
तत्र कौशिक बोधिसत्त्वस्य महासत्त्वस्य कतमा प्रज्ञापारमिता, इह बोधिसत्त्वो महासत्त्वः सर्वज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः रूपम् अनित्यतो मनसिकरोति दुःखतो ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतो मनसिकरोति तच् चानुपलम्भयोगेन, वेदना संज्ञा संस्कारा विज्ञानम्. एवं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनः, एवं पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुम् अनित्यतो मनसिकरोति दुःखतो (PSP_२-३:३) ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतो मनसिकरोति तच् चानुपलम्भयोगेन सर्वज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन. एवम् अविद्याप्रत्ययान् संस्कारान् अनित्यतो मनसिकरोति दुःखतो ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् उपादानप्रत्ययो भवो भवप्रत्यया जातिर् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति. एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति तच् चानित्यतो दुःखतो ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतो मनसिकरोति तच् चानुपलम्भयोगेन सर्वज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन. अविद्यानिरोधात् संस्कारनिरोध इति मनसिकरोति निरात्मतः शान्ततो विविक्ततः शून्यतो ऽनिमित्ततो ऽप्रणिहिततो ऽनभिसंस्कारतः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधाद् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधो वेदनानिरोधात् तृष्णानिरोधस् तृष्णानिरोधाद् उपादाननिरोध उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधो जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते. एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति तच् च निरात्मतः शान्ततो विविक्ततः शून्यतो ऽनिमित्ततो ऽप्रणिहिततो ऽनभिसंस्कारतो मनसिकरोति तच् चानुपलम्भयोगेन सर्वज्ञताप्रतिसंयुक्तैर् मनसिकारैः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वज्ञताप्रतिसंयुक्तेन चित्तेन चत्वारि स्मृत्युपस्थानानि भावयति तच् चानुपलम्भयोगेन. एवं चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गं चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तीर् दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् (PSP_२-३:४) बुद्धधर्मान् भावयति सर्वज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तच् चानुपलम्भयोगेन.
SK
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन दानपारमितां चरति तच् चानुपलम्भयोगेन. एवं सर्वज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरति तच् चानुपलम्भयोगेन.
SK
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवंधर्मेण धर्मान् योजयति. एवंधर्मेण धर्मान् अभिष्यन्दयन् परिष्यन्दयन् परिपूरयन् परिस्फारन् प्रत्यवेक्षते निरात्मका ह्य् एते सर्वधर्मा आत्मात्मीयविगताः. तत् कस्य हेतोस्? तथा हि यद् बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलचित्तं तद् बोधिचित्तेनासमवहितं यत् परिणामनाचित्तं तद् बोधिचित्तकुशलमूलचित्ताभ्याम् असमवहितं यद् बोधिचित्तं तत् परिणामनाचित्तेनासमवहितं. तत् कस्य हेतोर्? यत् कौशिक बोधिचित्तं तत् परिणामनाचित्ते न संविद्यते नोपलभ्यते. यत् परिणामनाचित्तं तद् बोधिचित्ते न संविद्यते नोपलभ्यते. इयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता यद् एवं सर्वधर्मांश् च प्रत्यवेक्षते न च कंचिद् धर्मम् अभिनिविशते नोपलभते.
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिम् एतद् अवोचत्: कथं भदन्त सुभूते परिणामनाचित्तं बोधिचित्तेनासमवहितं? कथं बोधेश् चित्तं परिणामनाचित्तेनासमवहितं? कथं वा परिणामनाचित्ते बोधिचित्तं न संविद्यते नोपलभ्यते? कथं बोधिचित्ते परिणामनाचित्तं न संविद्यते नोपलभ्यते?
SK
सुभूतिर् आह : यत् कौशिक परिणामनाचित्तं तद् अचित्तं यद् बोधिचित्तं तद् अचित्तं न ह्य् अचित्तताचित्ततायां परिणामयति. इति हि यद् अचित्तं तद् अचिन्त्यं यद् अचिन्त्यं तद् अचित्तम् अचित्तताचित्ततायां परिणामयति. इयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
SK
इति श्रावकमार्गस्य चतुःसत्यालम्बनषोडशाकारव्यवस्थानम्.
SK
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु (PSP_२-३:५) सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वं बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदिशसि, उत्साहं ददासि.
SK
सुभूतिर् आह: कृतज्ञेन मया भगवन् भवितव्यं नाकृतज्ञेन, तथा हि भगवन् पूर्वं बोधिसत्त्वचर्यां चरन् पूर्वकाणां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके तैः श्रावकैः षट्सु पारमितास्व् अववदितो ऽनुशिष्टः संदर्शितः समुत्तेजितः संप्रहर्षितः समादापितो निवेशितः प्रतिष्ठापितो यतो भगवान् बोधिसत्त्वभूतः षट्सु पारमितासु शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः. एवम् एव भगवन्न् अस्माभिर् अपि बोधिसत्त्वा महासत्त्वाः षट्सु पारमितास्व् अववदितव्या अनुशासितव्याः. संदर्शयितव्याः समादापयितव्याः समुत्तेजयितव्याः संप्रहर्षयितव्या निवेशयितव्याः प्रतिष्ठापयितव्या अस्माभिर् अपि बोधिसत्त्वा महासत्त्वा अववदिता अनुशिष्टाः संदर्शिताः समुत्तेज्जिताः संप्रहर्षिताः समादापिता निवेशिताः प्रतिष्ठापिता अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
SK
अथ खल्व् आयुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं यथा प्रतिपत्तव्यं रूपं कौशिक रूपेण शून्यं वेदना संज्ञा संस्कारा विज्ञानं कौशिक विज्ञानेन शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक या च रूपशून्यता, या च वेदनासंज्ञासंस्कारविज्ञानशून्यता, या च बोधिसत्त्वशून्यता, अद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक चक्षुश् चक्षुषा शून्यम्. एवं श्रोत्रं घ्राणं जिह्वा कायो मनो मनसा शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि या च चक्षुःशून्यता, या च श्रोत्रघ्राणजिह्वाकायमनःशून्यता, या च बोधिसत्त्वशून्यता, अद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक पृथिवीधातुः पृथिवीधातुना शून्यः. एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् विज्ञानधातुना शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि पृथिवीधातुशून्यता चाब्धातुशून्यता च तेजोधातुशून्यता च वायुधातुसून्यता चाकाशधातुशून्यता च विज्ञानधातुशून्यता (PSP_२-३:६) च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक, अविद्याविद्यया शून्या. एवं संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर् जरामरणं जरामरणेन सून्यम्. अविद्यानिरोधो ऽविद्यानिरोधेन शून्यः. एवं संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर् जरामरणनिरोधो जरामरणनिरोधेन शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति ह्य् अविद्याशून्यता चाविद्यानिरोधशून्यता यावज् जरामरणशून्यता च जरामरणनिरोधशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक दानपारमिता दानपारमितया शून्या. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि दानपारमिताशून्यता च शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
SK
पुनर् अपरं कौशिक अध्यात्मशून्यताध्यात्मशून्यतया शून्या. एवं बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यताभावस्वभावशून्यतया शून्या बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति ह्य् अध्यात्मशून्यता च बहिर्धाशून्यता चाध्यात्मबहिर्धाशून्यता च यावद् अभावस्वभावशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
SK
पुनर् अपरं कौशिक स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञार्यसत्याप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः शून्या बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि स्मृत्युपस्थानशून्यता च यावद् आवेणिकबुद्धधर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
SK
पुनर् अपरं कौशिक समाधिः समाधिना शून्यः. धारणीमुखानि (PSP_२-३:७) धारणीमुखैः शून्यानि बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि समाधिशून्यता च धारणीमुखशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
SK
पुनर् अपरं कौशिक श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं महायानं महायानेन शून्यं श्रावकः श्रावकत्वेन शून्यः प्रत्येकबुद्धः प्रत्येकबुद्धत्वेन शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः बुद्धो बुद्धत्वेन शून्यः, इति हि श्रावकयानशून्यता च यावन् महायानशून्यता च श्रावकशून्यता च यावद् बुद्धशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. इत्य् उष्मगतम्
SK
अथ खलु सक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: कथं भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं?
SK
सुभूतिर् आह: इह कौशिक बोधिसत्त्वेन महासत्त्वेन रूपे न स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु विज्ञाने न स्थातव्यम् उपलम्भयोगेन. चक्षुषि न स्थातव्यं रूपे न स्थातव्यं चक्षुर्विज्ञाने न स्थातव्यं चक्षुःसंस्पर्शे न स्थातव्यं चक्षुःसंस्पर्शजायां वेदनायां न स्थातव्यम्, एवं श्रोत्रघ्राणजिह्वाकायमनसि न स्थातव्यं धर्मेषु न स्थातव्यं मनोविज्ञाने न स्थातव्यं मनःसंस्पर्शे न स्थातव्यं मनःसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन. पृथिवीधातौ न स्थातव्यं अब्धातौ न स्थातव्यं तेजोधातौ न स्थातव्यं वायुधातौ न स्थातव्यम् आकाशधातौ न स्थातव्यं विज्ञानधातौ न स्थातव्यम् उपलम्भयोगेन. स्मृत्युपस्थानेषु न स्थातव्यम्. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञार्यसत्याप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न स्थातव्यम् उपलम्भयोगेन. स्रोतआपत्तिफले न स्थातव्यम् एवं सकृदागामिफले ऽनागामिफले ऽर्हत्त्वफले प्रत्येकबुद्धत्वफले यावद् बुद्धत्वे न स्थातव्यम् उपलम्भयोगेन. इति मूर्धगतम्
SK
रूपं नित्यम् इति न स्थातव्यम्, एवम् अनित्यम् इति सुखम् इति दुःखम् इत्य् आत्मेत्य् अनात्मेति शान्तम् इत्य् अशान्तम् इति विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यं, रूपं शून्यम् इत्य् अशून्यम् इति निमित्तम् इत्य् अनिमित्तम् इति प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. वेदना संज्ञा संस्कारा विज्ञानं (PSP_२-३:८) नित्यम् इति न स्थातव्यम् एवम् अनित्यम् इति सुखम् इति दुःखम् इत्य् आत्मेत्य् अनात्मेति शान्तम् इत्य् अशान्तम् इति विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम्. विज्ञानं शून्यम् इत्य् अशून्यम् इति निमित्तम् इत्य् अनिमित्तम् इति प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुपादाङ्गेषु पारमितासु बोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु सत्याभिज्ञासु समाधिषु सर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु यावत् सर्वाकारज्ञतायां सर्वेषु तेषु नित्यम् इति न स्थातव्यम् एवम् अनित्यम् इति सुखम् इति दुःखम् इत्य् आत्मेति अनात्मेति शान्तम् इत्य् अशान्तम् इति विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यं, शून्यम् इति अशून्यम् इति निमित्तम् इत्य् अनिमित्तम् इति प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
पुनर् अपरं कौशिक स्रोतआपत्तिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वम् असंस्कृतप्रभावितम् इति न स्थातव्यं, बुद्धत्वम् असंस्कृतप्रभावितम् इति न स्थातव्यं. स्रोतआपन्नो दक्षिणीय इति न स्थातव्यम्, एवं सकृदागामी, अनागामी, अर्हन् प्रत्येकबुद्धस् तथागतो दक्षिणीय इति न स्थातव्यम् उपलम्भयोगेन. इति क्षान्तिगतम्
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रथमायां भूमौ न स्थातव्यम्. एवं द्वितीयायां भूमौ तृतीयायां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमाव् अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन. प्रथमचित्तोत्पादे स्थित्वा दानपारमितां परिपूरयिष्यामीति न स्थातव्यम्. एवं शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन. बोधिसत्त्वनियामम् अवक्रामयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. बोधिसत्त्वनियामम् अवक्रम्याविनिवर्तनीयभूमौ स्थास्यामीति, एवम् अपि बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. पञ्चाभिज्ञाः परिपूरयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. पञ्चसु बोधिसत्त्वाभिज्ञासु स्थित्वासंख्येयान्य् अप्रमेयान्य् अपरिमाणानि बुद्धक्षेत्राण्य् उपसंक्रमिष्यामीति, (PSP_२-३:९) बुद्धांश् च भगवतो दर्शनाय वन्दनाय पूजनाय पर्युपासनाय धर्मश्रवणाय च श्रुत्वा च तथत्वाय प्रतिपत्स्ये परेषां च धर्मं देशयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. यादृशानि च तेषां बुद्धानां भगवतां बुद्धक्षेत्राणि तादृशानि निष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. सत्त्वान् अनुत्तरायां सम्यक्संबोधौ परिपाचयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. अप्रमेयेष्व् असंख्येयेषु लोकधातुष्व् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् सत्करिष्यामीति गुरुकरिष्यामीति मानयिष्यामीति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकादुष्यकोटीनियुतशतसहस्रैस् तांस् तथागतान् पूजयिष्यामीति, एवम् अपि न स्थातव्यम् अप्रमेयान् असंख्येयान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यं. पञ्च चक्षूंषि उत्पादयिष्यामीति न स्थातव्यं मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयिष्यामीति न स्थातव्यं सर्वसमाधीन् निष्पादयिष्यामीति न स्थातव्यं. येन येन पुनः समाधिनाकाङ्क्षिष्यामि विक्रीडितुं तेन तेन समाधिना विक्रीडिष्यामीति न स्थातव्यं सर्वधारणीमुखानि निष्पादयिष्यामीति न स्थातव्यम्. अप्रमाणध्यानारूप्यसमापत्तिर् निष्पादयिष्यामीति न स्थातव्यम्. दशतथागतबलानि निष्पादयिष्यामीति न स्थातव्यं. चत्वारि वैशारद्यानि निष्पादयिष्यामीति न स्थातव्यं. चतस्रः प्रतिसंविदो निष्पादयिष्यामीति न स्थातव्यम्. अष्टादशावेणिकान् बुद्धधर्मान् परिनिष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. महामैत्रीं महाकरुणां निष्पादयिष्यामीति न स्थातव्यम्. द्वात्रिंशच् च महापुरुषलक्षणानि काये निष्पादयिष्यामीति न स्थातव्यम्. अशीत्यनुव्यञ्जनानि निष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. श्रद्धानुसारी धर्मानुसार्य् अष्टमकः स्रोतआपन्नः सप्तकृत्वो भवपरम इति न स्थातव्यम्. कुलंकुल इति एकवीचिक इति न स्थातव्यम्. समशीर्षः पुद्गल इति न स्थातव्यम्. आयुःक्षये क्लेशक्षये च न स्थातव्यम्. स्रोतआपन्नो ऽविनिपातधर्म इति न स्थातव्यं. सकृदागामी सकृद् इमं लोकम् आगम्य दुःखस्यान्तं करिष्यान्तं करिष्यामीति न स्थातव्यम्. अनागाम्य् अनागामिफलं साक्षात्क्रियायै प्रतिपन्न इति न स्थातव्यम्. अनागामी तत्रैव परिनिर्वायीति न स्थातव्यम्. अर्हन्न् अर्हत्फलं साक्षात्क्रियायै प्रतिपन्न इति न स्थातव्यम्. अर्हन्न् (PSP_२-३:१०) इहैवानुपधिशेषे निर्वाणधातौ परिनिर्वायीति न स्थातव्यम्. प्रत्येकबुद्ध इति न स्थातव्यम्. बोधिसत्त्वो ऽतिक्रम्य श्रावकाभूमिं च प्रत्येकबुद्धभूमिं च बोधिसत्त्वभूमौ च स्थास्यामीति न स्थातव्यम्. मार्गज्ञताज्ञाने न स्थातव्यम् उपलम्भयोगेन. सर्वाकारेण सर्वधर्मान् अभिसंबुद्ध्य सर्ववासनानुसंधिक्लेशक्षयात् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयिष्यामीति न स्थातव्यम्. बुद्धकृत्यं कृत्वासंख्येयान् अप्रमेयान् सत्त्वान् परिनिर्वापयिष्यामीति, एवम् अपि न स्थातव्यम्. चतुर्ष्व् ऋद्धिपादेष्व् इन्द्रियेषु स्थित्वा तथारूपं समाधिं समापत्स्ये यथारूपेण समाधिना गङ्गानदीवालुकोपमान् कल्पान् स्थास्यामीति न स्थातव्यम् उपलम्भयोगेन. अपरिमितं म आयुःप्रमाणं भविष्यतीति न स्थातव्यम् उपलम्भयोगेन. द्वात्रिंशन्महापुरुषलक्षणेष्व् एकैकलक्षणं शतपुण्यपरिनिष्पन्नं भविष्यतीति न स्थातव्यं. यावन्तः पूर्वेण गङ्गानदीवालुकोपमा लोकधातव एवं दक्षिणपश्चिमोत्तरेण गङ्गानदिवालुकोपमा लोकधातवस् तावत् ममैकैकं बुद्धक्षेत्रं भविष्यतीति न स्थातव्यम्. वज्रमयो मे त्रिसाहस्रमहासाहस्रो लोकधातुर् भविष्यतीति न स्थातव्यम्. बोधिवृक्षान् मे तादृग्गन्धो निश्चरेद्, यस् तं गन्धं घ्रायेत तस्य सर्वकायस्य न रागो बाधेत, न द्वेषो बाधेत, न मोहो बाधेत, न कस्यचिच् छ्रावकचित्तं वा प्रत्येकबुद्धचित्तं वा स्यात्, सर्वे च ते सत्त्वा नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ, ये च ते सत्त्वास् तं गन्धं घ्रास्यन्ति तेषां न कश्चिद् व्याधिर् भवेद् इति एवम् अपि न स्थातव्यं. तत्र च बुद्धक्षेत्रे न रूपशब्दो, न वेदनाया, न संज्ञाया, न संस्काराणां, न विज्ञानशब्दो भविष्यतीति न स्थातव्यम्. न दानपारमितायाः शब्दो भविष्यतीति, एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः शब्दो भविष्यतीति न स्थातव्यम्. न स्मृत्युपस्थानशब्दो भविष्यतीति, न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञार्यसत्यदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मशब्दो भविष्यतीति, एवं न यावत् स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धबोधिसत्त्वबुद्धशब्दो भविष्यतीति न स्थातव्यं, विस्तरेण कर्तव्यम्. तत् कस्य हेतोस्? तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य (PSP_२-३:११) सर्वधर्मा नोपलब्धाः. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपलम्भयोगेन न स्थातव्यम्.
SK
अथ खल्व् आयुष्मतः शारिपुत्रस्यैतद् अभवत्: कथं पुनर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? इति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मतः शारिपुत्रस्य चेतसैव चेतःपरिवितर्कम् आज्ञाय आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? त्वम् आयुष्मञ् शारिपुत्र क्व तथागतः स्थित इति
SK
शारिपुत्र आह: न क्वचिद् आयुष्मन् सुभूते तथागतः स्थितः. अप्रतिष्ठितमानसः स खलु पुनस् तथागतो ऽर्हन् सम्यक्संबुद्धः स न रूपे स्थितो न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थितो न संस्कृते धातौ स्थितो नासंस्कृते धातौ स्थितः. एवं न व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु न पारमितासु न बोधिपक्ष्येषु धर्मेषु नाप्रमाणध्यानारूप्यसमापत्तिषु नाभिज्ञासु न सत्येषु स्थितो न सर्वशून्यतासु न सर्वसमाधिषु न सर्वधारणीमुखेषु स्थितः, न बलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु स्थितो न सर्वज्ञतायां स्थितः.
SK
अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवं ह्य् आयुष्मञ् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं. यथा तथागतो ऽर्हन् सम्यक्संबुद्धो न रूपे स्थितो नास्थितः, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थितो नास्थितः. एवं ह्य् आयुष्मञ् शरिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं. स्थास्यामीत्य् अस्थानयोगेन. इत्य् अग्रधर्मगतम् इत्य् उक्तः श्रावकमार्गः
SK
अथ खलु तत्र परिषदि केषांचिद् देवपुत्राणाम् एतद् अभवत्: यानि तानि यक्षाणां यक्षरुतानि यक्षपदानि यक्षमन्त्रितानि यक्षप्रव्याहृतानि प्रज्ञायन्ते तानि जल्प्यमानानि. इदं पुनर् न विज्ञायते यद् आर्यस्थविरः सुभूतिः प्रज्ञापारमितां भाषते प्रव्याहरति देशयत्य् उपदिशति.
SK
अथ खल्व् आयुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःइपरिवितर्कम् आज्ञाय तान् देवपुत्रान् आमन्त्रयामास: न विज्ञायते देवपुत्रा यन् मन्त्र्यते? (PSP_२-३:१२)
SK
देवपुत्रा आहुह्: न विज्ञायते आर्यसुभूते.
SK
सुभूतिर् आह: तथा हि देवपुत्रा एकाक्षरम् अप्य् अत्र न प्रव्याह्रियते, तन् न श्रूयते, तन् न विज्ञायते, तत् कस्य हेतोः? अनक्षरा हि प्रज्ञापारमिता तस्मान् नास्ति ज्ञाता न श्रोता न देशयिता अनक्षरा तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिः. तद्यथापि नाम देवपुत्रास् तथागतो ऽर्हन् सम्यक्संबुद्धो बुद्धनिर्मितं निर्मिमीयाच् चतस्रश् च परिषदो भिक्षुभिक्षुण्युपासकोपासिकाः सो ऽभिनिर्माय तासां चतसृणां परिषदां धर्मं देशयेत्, तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र किंचिद् देशितं वा श्रुतं वाज्ञातं वा.
SK
देवपुत्रा आहुह्: नो भदन्त.
SK
सुभूतिर् आह: एवम् एव देवपुत्राः. सर्वधर्मा निर्मितोपमास् तत्र न केनचिद् देशितं न केनचिच् छ्रुतं न केनचिद् आज्ञातम्. तद्यथापि नाम देवपुत्राः पुरुषः सुप्तः. स्वप्नान्तरगतस् तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्येद् धर्मं देशयन्तं. तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र किंचिद् देशितं वा श्रुतं वाज्ञातं वा.
SK
देवपुत्रा आहुः.: न भदन्त सुभूते.
SK
सुभूतिर् आह : एवं देवपुत्राः स्वप्नोपमाः. सर्वे धर्मास् तत्र न केनचिच् छ्रुतं न केनचिद् देशितं न केनचिद् आज्ञातम्. तद्यथापि नाम देवपुत्रा द्वौ पुरुषौ पर्वतकन्दरे स्थित्वा बुद्धस्य वर्णं भाषेयातां धर्मस्य वर्णं भाषेयातां संघस्य वर्णं भाषेयाताम्. ततो द्वयोर् अपि तयोः प्रतिश्रुत्कास्वरो निश्चरेत्. तत् किं मन्यध्वे? देवपुत्रा अपि नु तया प्रतिश्रुत्कया द्वितीयः. प्रतिश्रुत्काशब्दो विज्ञापितो भवेत्.
SK
देवपुत्रा आहुः: नो भदन्त सुभूते.
SK
सुभूतिर् आह: एवम् एव देवपुत्रः. सर्वधर्माः प्रतिश्रुत्कोपमास् तत्र न किंचिद् देश्यते न श्रूयते न विज्ञायते. तद्यथापि नाम देवपुत्रा दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे तथागतम् अर्हन्तं सम्यक्संबुद्धं निर्मिमीयाच् चतस्रश् च परिषदः सो ऽभिनिर्माय निर्मितानां चतसृणां परिषदां धर्मं देशयेत्. तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र केनचिद् देशितं वा श्रुतं वा विज्ञातं वा भवेत्.
SK
देवपुत्रा आहुः: नो भदन्त सुभूते.
SK
सुभूतिर् आह: एवम् एव देवपुत्रा मायोपमाः सर्वधर्मा न तत्र कश्चिद् (PSP_२-३:१३) देशयिता न श्रोता न विज्ञाता. इति परोपदेशवैयर्थ्यम्
SK
अथ खलु तेषां देवपुत्राणाम् एतद् अभवत्: उत्तानीकरिष्यति बतायम् आर्यसुभूतिः प्रज्ञापारमिताम् इति, अथ पुनर् गम्भिराद् गम्भीरतरं देशयति, सूक्ष्मात् सूक्ष्मतरं देशयति. इति ज्ञानगम्भीरता
SK
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: न हि देवपुत्रा रूपं गम्भीरं वा सूक्ष्मं वा, न वेदना न संज्ञा न संस्कारा न विज्ञानं गम्भीरं वा सूक्ष्मं वा. तत् कस्य हेतोर्? न रूपस्य स्वभावो गम्भिरो न सूक्ष्मः न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य स्वभावो गम्भीरो न सूक्ष्मः. न चक्षुषः स्वभावो गम्भीरो न सूक्ष्मः न श्रोतस्य न घ्राणस्य न जिह्वाया न कायस्य न मनसः स्वभावो गम्भीरो न सूक्ष्मः. न पृथिवीधातोः. स्वभावो गम्भीरो न सूक्ष्मः, नाब्धातोर् न तेजोधातोर् न वायुधातोर् नाकाशधातोर् न विज्ञानधातोः. स्वभावो गम्भीरो न सूक्ष्मः. न दानपारमितायाः स्वभावो गम्भीरो न सूक्ष्मः, न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः स्वभावो गम्भीरो न सूक्ष्मः नाध्यात्मशून्यतायाः स्वभावो गम्भीरो न सूक्ष्मः, न बहिर्धाशून्यताया नाध्यात्मबहिर्धाशून्यताया यावन् नाभावस्वभावशून्यतायाः स्वभावो गम्भीरो न सूक्ष्मः. न स्मृत्युपस्थानानां स्वभावो गम्भीरो न सूक्ष्मः. एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य सत्यानाम् अभिज्ञानां चतुर्णाम् अप्रमाणानां चतुर्णां ध्यानानां चतसृणाम् आरूप्यसमापत्तीनां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृनां प्रतिसंविदाम् अष्टादाशानाम् आवेणिकानां बुद्धधर्माणां स्वभावो गम्भीरो न सूक्ष्मः न सर्वसमाधिधारणीमुखानां स्वभावो गम्भिरो न सूक्ष्मः, यावन् न सर्वाकारज्ञतायाः स्वभावो गम्भीरो न सूक्ष्मः.
SK
अथ खलु तेषां देवपुत्राणाम् एतद् अभवत्: न खलु पुनर् अस्यां धर्मदेशनायां रूपं प्रज्ञप्तं न वेदना न संज्ञा न संस्कारा न विज्ञानं प्रज्ञप्तं, यावन् न धातवो नायतनानि न प्रतित्यसमुत्पादः प्रज्ञप्तो न पारमिता प्रज्ञप्ता न बोधिपक्षा धर्माः प्रज्ञप्ताः, नाप्रमाणध्यानारूप्यसमापत्तवः, न सर्वशून्यता न सर्वसमाधयः न सर्वधारणीमुखानि (PSP_२-३:१४) न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्माः प्रज्ञप्ताः. नापीह धर्मदेशनायां स्रोतआपत्तिफलं प्रज्ञप्तं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बोधिसत्त्वत्वं प्रज्ञप्तं न बोधिः प्रज्ञप्ता नाक्षराणि प्रज्ञप्तानि.
SK
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् आमन्त्रयामास: एवम् एतद् देवपुत्रा एवम् एतद्, अनभिलप्या तथागतानां बोधिर् अप्रव्याहारा, सा न केनचिद् देशिता न केनचिच् छ्रुता न केनचिद् विज्ञाता. तेन हि देवपुत्रा ये स्रोतआपत्तिफले स्थातुकामाः, ये स्रोतआपत्तिफलं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं, ये प्रत्येकबुद्धत्वे स्थातुकामाः, ये प्रत्येकबुद्धत्वं प्राप्तुकामा नेमां क्षान्तिम् अनागम्य. एवं हि देवपुत्रा बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय प्रज्ञापारमितायां स्थातव्यम् अप्रव्याहाराश्रवणताम् उपादाय. इति प्रत्येकबुद्धानां ग्राह्यविकल्पप्रहाणम्
SK
अथ खलु तेषां देवपुत्राणाम् एतद् अभवत्: कियद्रूपाः स्थविरस्य सुभूतेर् धर्मश्रवणिका एष्टव्याः.
SK
अथ खल्व् आयुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् एतद् अवोचत्: मायोपमा मम देवपुत्रा धर्मश्रवणिका एष्टव्या निर्मितोपमा मम धर्मश्रवणिका एष्टव्याः. ते नैव किंचिच् छ्रोष्यन्ति न पर्यवाप्स्यन्ति न साक्षात्करिष्यन्ति.
SK
अथ खलु ते देवपुत्रा आयुष्मन्तं सुभूतिस्थविरम् एवम् आहुः: किं पुनर् भदन्त सुभूते मायोपमास् ते सत्त्वा मायोपमास् ते धर्मश्रवणिका निर्मितोपमास् ते सत्त्वा निर्मितोपमास् ते धर्मश्रवणिकाः?
SK
सुभूतिर् आह: एवम् एतद् देवपुत्रा एवम् एतत्, मायोपमास् ते सत्त्वा मायोपमास् ते धर्मश्रवणिका, निर्मितोपमास् ते सत्त्वा निर्मितोपमास् ते धर्मश्रवणिकाः. रूपम् अपि देवपुत्राः स्वप्नोपमं मायोपमं, वेदना संज्ञा संस्कारा विज्ञानम् अपि देवपुत्राः स्वप्नोपमं मायोपमं. चक्षुर् अपि देवपुत्राः स्वप्नोपमं मायोपमं. एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽपि देवपुत्राः स्वप्नोपमं मायोपमं. रूपम् अपि देवपुत्राः स्वप्नोपमं (PSP_२-३:१५) मायोपमं. एवं शब्दगन्धरसस्पर्शधर्मा अपि देवपुत्राः. स्वप्नोपमा मायोपमाश्. चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शजा वेदना स्वप्नोपमा मायोपमाः. एवं श्रोत्रं घ्राणं जिह्वा कायो मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शजा वेदना स्वप्नोपमा मायोपमा. दानपारमितापि स्वप्नोपमा मायोपमा. एवं शीलपारमिता क्षान्तिपारमीता वीर्यपार्मिता ध्यानपारमिता प्रज्ञापारमितापि स्वप्नोपमा मायोपमा. एवम् अध्यात्मशूम्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यतापि स्वप्नोपमा मायोपमा. स्मृत्युपस्थानान्य् अपि स्वप्नोपमानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तयः, अभिज्ञा सत्यानि दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका अपि बुद्धधर्माः स्वप्नोपमा मायोपमाः. स्रोतआपत्तिफलम् अपि स्वप्नोपमं मायोपमं. स्रोतआपन्नो ऽपि स्वप्नोपमो मायोपमः. एवं सकृदागामिफलम् अपि सकृदागाम्य् अप्य् अनागामिफलम् अप्य् अनागाम्य् अप्य् अर्हत्फलम् अप्य् अर्हन्न् अपि स्वप्नोपमो मायोपमः प्रत्येकबोधिर् अपि स्वप्नोपमा मायोपमा, प्रत्येकबुद्धो ऽपि स्वप्नोपमो मायोपमः. बोधिसत्त्वत्वम् अपि स्वप्नोपमं मायोपमं, बोधिसत्त्वो ऽपि स्वप्नोपमो मायोपमो. अनुत्तरा सम्यक्संबोधिर् अपि स्वप्नोपमा मायोपमा, बुद्धो ऽपि स्वप्नोपमो मायोपमः.
SK
अथ खलु ते देवपुत्रा आयुष्मन्तं सुभूतिम् एतद् अवोचत्: बुद्धत्वम् अपि स्थविर सुभूते स्वप्नोपमं मायोपमम् इति वदसि. तत् किं मन्यसे? निर्वाणम् अपि स्वप्नोपमं मायोपमं.
SK
सुभूतिर् आह: निर्वाणम् अप्य् अहं देवपुत्राः स्वप्नोपमं मायोपमम् इति वदामि, सचेद् अहं देवपुत्रा निर्वाणाद् अपि कंचिद् धर्मविशिष्टतरं जानियां, तम् अप्य् अहं स्वप्नोपमं मायोपमं वदेयं. तत् कस्य हेतोस्? तथा हि देवपुत्राः स्वप्नश् च माया च निर्वाणं चाद्वयम् एतद् अद्वैधीकारम्. इति प्रत्येकबुद्धानां ग्राहकविकल्पाप्रहाणम्
SK
अथ खल्व् आयुष्माञ् शारिपुत्र आयुष्मांश् च महामौद्गल्यायन आयुष्मांश् च महाकौष्ठिल आयुष्मांश् च महाकात्यायन आयुष्मांश् च पूर्णो मैत्रायणिपुत्र आयुष्मांश् च महाकाश्यपो ऽनेकानि च देवकोटीनियुतशतसहस्राण्य् आयुष्मन्तं सुभूतिं स्थविरम् एवम् आहुः: के ऽस्या भदन्त सुभूते एवं गम्भीरायाः प्रज्ञापारमिताया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया (PSP_२-३:१६) एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति?
SK
अथ खल्व् आयुष्मान् सुभूतिस् तान् महाश्रावकांस् तांश् च देवपुत्रान् एतद् अवोचत्: अविनिवर्तनीया आयुष्मन्तो बोधिसत्त्वा महासत्त्वा अस्याः प्रज्ञापारमिताया एवं गम्भीराया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति. दृष्टसत्या वा पुद्गला अर्हन्तो वा क्षीणास्रवाः परिपूर्णसंकल्पाः, पूर्वजिनकृताधिकारा बहुबुद्धकोटिष्व् अवरोपितकुशलमूला वा कल्याणमित्रपरिगृहिता वा. ते कुलपुत्राः कुलदुहितरश् चास्याः प्रज्ञापारमिताया एवं गम्भीराया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति.
SK
तेन खलु पुनर् न रूपं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां रूपम् इति विकल्पयिष्यन्ति, न वेदनां न संज्ञां न संस्कारान् न विज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां विज्ञानम् इति विकल्पयिष्यन्ति. न रूपम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं रूपम् इति विकल्पयिष्यन्ति. न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानम् इति विकल्पयिष्यन्ति. न रूपम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं रूपम् इति विकल्पयिष्यन्ति, न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानम् इति विकल्पयिष्यन्ति. एवं नानुत्पाद इति, नानिरोध इति, न शान्तम् इति, न विविक्तम् इति विकल्पयिष्यन्ति. एवं व्यस्तसमस्तानि स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताम्, एवम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् एवं स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गान्य् आर्याष्टाङ्गमार्गम् अप्रमाणध्यानारूप्यसमापत्तीः अभिज्ञासत्यानि दशतथागतबलानि चत्वारि वैशारद्यानि (PSP_२-३:१७) चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् सर्वसमाधीन् सर्वधारणीमुखानि, एवं न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न सर्वाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् आनिमित्तेति विकल्पयिष्यन्ति, नानिमित्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञतां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञतां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न संस्कृतधातुं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुउ अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् (PSP_२-३:१८) असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति.
SK
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: नास्या देवपुत्राः प्रज्ञापारमिताया एवं गम्भीराया यावद् अलमार्यायाः पण्डितविज्ञवेदनीयायाः कश्चित् प्रत्येषको भविष्यति तत् कस्य हेतोस्? तथा ह्य् अत्र न कश्चिद् धर्मो देश्यते न सूच्यते न परिदीप्यते, यथैवात्र न कश्चिद् धर्मो देश्यते न सूच्यते न परिदीप्यते तथैवात्र न कश्चित् प्रत्येषको भविष्यति.
SK
अथ खल्व् आयुष्माञ् शारिपुत्र आयुष्मन्तं सुभूतिं स्थविरम् एतद् अवोचत्: नन्व् आयुष्मन् सुभूते इह प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिश्यन्ते यद् उत श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पाद इति बोधिसत्त्वमार्गश् चोपदिश्यते यद् उत दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियाणि बलाणि बोध्यङ्गान्य् आर्याष्टाङ्गमार्गश् चत्वार्य् अप्रमाणां चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो ऽभिज्ञाः सत्यानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिष्यते एवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नोपपादुको भविष्यति. एवम् अभिज्ञाभिर् अपरिहाणधर्मा बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तान्य् अस्य कुशलमूलानि समृद्धिं यास्यन्ति. यं च तेषां बुद्धानां भगवताम् अन्तिके धर्मं श्रोष्यन्ति सर्वो ऽस्य धर्मो न जात्व् अन्तरा विच्छेत्स्यति यावन् नानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धेति सदा समाहितश् च भविष्यति अविक्षिप्तचित्तः. समाहितयोगेन, असङ्गप्रतिभानश् च भविष्यति, अनाच्छेद्यप्रतिभानः समाहितप्रतिभानो युक्तप्रतिभानः श्लिष्टप्रतिभानो ऽर्थवत्प्रतिभानः सर्वलोकाभ्युद्गतविशिष्टप्रतिभानश् च भविष्यति. (PSP_२-३:१९)
SK
सुभूतिर् आह: एवम् एतद् आयुष्मञ् शारिपुत्र एवम् एतत्. तथैव तद्यथा वदसि विस्तरेणेह प्रज्ञापारमितायां त्रीणि यानान्य् उपदिष्टानि यद् उत श्रावकयानं प्रत्येकबुद्धयानं महायानं, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रहा उपदिष्टा यावद् बोधिसत्त्वा महासत्त्वाः सर्वलोकाभ्युद्गतविशिष्टप्रतिभाना भविष्यन्ति. तच् चानुपलम्भयोगेन कस्यानुपलम्भयोगेन? आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकस्यानुपलम्भयोगेन. रूपस्यानुपलम्भयोगेन, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानुपलम्भयोगेन. चक्षुषो ऽनुपलम्भयोगेन, एवं श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो ऽनुपलम्भयोगेन. चक्षुर्विञानस्य चक्षुःसंस्पर्शस्य चक्षुःसंस्पर्शजाया वेदनाया अनुपलम्भयोगेन, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानस्य मनःसंस्पर्शस्य मनःसंस्पर्शजाया वेदनाया अनुपलम्भयोगेन. एवं रूपशब्दगन्धरसस्पर्शधर्माणाम् अनुपलम्भयोगेन. पृथिवीधातोर् अनुपलम्भयोगेन, एवम् अब्धातोस् तेजोधातोर् वायुधातोर् आकाशधातोर् विज्ञानधातोर् अनुपलम्भयोगेन. दानपारमिताया अनुपलम्भयोगेन, एवं शीलपारमितायाः. क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया अनुपलम्भयोगेन. अध्यात्मशून्यताया अनुपलम्भयोगेन यावद् अभावस्वभावशून्यताया अनुपलम्भयोगेन. स्मृत्युपस्थानानाम् अनुपलम्भयोगेन, एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्यानुपलम्भयोगेन. अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानाम् आर्यसत्यानाम् अनुपलम्भयोगेन. दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकबुद्धधर्माणाम् अनुपलम्भयोगेन. सर्वसमाधीनां सर्वधारणीमुखानां सर्वज्ञताया अनुपलम्भयोगेन.
SK
अथ खल्व् आयुष्माञ् छारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते इह प्रज्ञापारमितायां त्रिणि यानानि विस्तरेणोपदिश्यन्ते अनुपलम्भयोगेन? केन कारणेन बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते यावत् सर्वलोकाभ्युद्गतविशिष्टप्रतिभानो बोधिसत्त्वो महासत्त्वो भविष्यति अनुपलम्भयोगेन?
SK
सुभूतिर् आह: अध्यात्मशून्यताम् उपादायायुष्मञ् शारिपुत्र त्रिणि यानानि विस्तरेणोपोदिश्यन्ते अनुपलम्भयोगेन. बहिर्धाशून्यताम् उपादायाध्यात्मबहिर्धाशून्यताम् (PSP_२-३:२०) उपादाय यावद् अभावस्वभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते अनुपलम्भयोगेन, यावद् अभावस्वभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते यावत् सर्वलोकाभ्युद्गतविशिष्टप्रतिभानो बोधिसत्त्वस्य महासत्त्वस्य भविष्यति अनुपलम्भयोगेन.
SK
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: अस्या धर्मदृष्टेः सुभूतिना स्थविरेण भाष्यमाणाया यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् तेषां चैतद् अभवत्: अस्या धर्मदृष्टेः सुभूतिना स्थविरेण भाष्यमाणाया यन् नु वयं पुष्पाण्य् अभिनिर्माय तैः पुष्पैर् बुद्धं भगवन्तं बोधिसत्त्वं भिक्षुसंघं च सुभूतिं च स्थविरम् इमां प्रज्ञापारमिताम् अभ्यवकिरेम.
SK
अथ खलु शक्रो देवानाम् इन्द्रस् ते त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिकान् देवान् उपादाय यावद् अकनिष्ठा देवा दिव्यानि मान्दारवाणि पुष्पाण्य् अभिनिर्माय, तैः पुष्पैर् बुद्धं भगवन्तं बोधिसत्त्वं भिक्षुसंघं च सुभूतिं च स्थविरम् इमां च प्रज्ञापारमिताम् अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म, समनन्तरावकीर्णानि च तानि पुष्पाणि शक्रेण देवानाम् इन्द्रेण, तैश् च यावद् अकनिष्ठैर् देवैः.
SK
अथ खलु सर्वस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ पुष्पसंस्तरः संस्तृतो ऽभूत्. उपरिष्टाच् चान्तरीक्षे पुष्पकूटागारं संस्थितम् अभूत् रमणीयं मनोरमम्.
SK
अथ खलु सुभूतेः स्थविरस्यैतद् अभवत्: न पुनर् इमानि पुष्पाणि मया सर्वदेवभवणेषु दृष्टपूर्वाणि प्रचरन्ति यानीमानि पुष्पाणि देवपुत्रैर् अभ्यवकीर्णानि निर्मितानीमानि पुष्पाणि न वृक्षगुल्मलतानिर्जातानि, यानीमानि देवपुत्रैर् अभ्यवकीर्णानि मनोमयान्य् एतानि पुष्पाणि नैतानि पुष्पाणि वृक्षगुल्मलतानिर्जातानीमानि देवपुत्रैर् अभ्यवकीर्णानि.
SK
अथ खलु शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिं एतद् अवोचत्: अनिर्जातानीमानि भदन्त सुभूते पुष्पाणि नैतानि पुष्पाणि मनोनिर्जातानि नापि (PSP_२-३:२१) वृक्षगुल्मलतानिर्जातानि.
SK
सुभूतिर् आह: यत् कौशिकैवं वदसि, अनिर्जातानीमानि पुष्पाणि नैतानि मनोनिर्जातानि नापि वृक्षगुल्मलतानिर्जातानीति. यानि कौशिकानिर्जातानि न तानि पुष्पाणि शक्रो देवानाम् इन्द्र आह: किं पुनर् भदन्त सुभूते इमान्य् एव पुष्पान्य् अनिर्जातानि, अथ रूपम् अप्य् अनिर्जातं वेदनासंज्ञासंस्काराः विज्ञानम् अप्य् अनिर्जातं?
SK
सुभूतिः स्थविर आह: न कौशिक इमान्य् एव पुष्पाण्य् अनिर्जातानि, रूपम् अपि कौशिकानिर्जातं यच् चानिर्जातं न तद् रूपम्. वेदनासंज्ञासंस्काराः विज्ञानं कौशिकानिर्जातं यच् चानिर्जातं न तद् विज्ञानं. चक्षुः कौशिकानिर्जातं यच् चानिर्जातं न तच् चक्षुः, एवं श्रोत्रं घ्राणं जिह्वा कायो मनः कौशिकानिर्जातं यच् चानिर्जातं न तन् मनः. पृथिवीधातुः कौशिकानिर्जातो यश् चानिर्जातो न स पृथिवीधातुर्, एवम् अब्धातुस् तेजोधातुर् आकाशधातुर् विज्ञानधतुः कौशिकानिर्जातो यश् चानिर्जातो न स विज्ञानधातुः. दानपारमिता कौशिक अनिर्जाता या चानिर्जाता न सा दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता कौशिक अनिर्जाता या चानिर्जाता न सा प्रज्ञापारमिता. अध्यात्मशून्यता कौशिक अनिर्जाता या चानिर्जाता न सा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता कौशिक अनिर्जाता या चानिर्जाता न सा अभावस्वभावशून्यता, स्मृत्युपस्थानानि कौशिक अनिर्जातानि यानि चानिर्जातानि न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणान्य् ऋद्धिपादाः इन्द्रियाणि बलानि बोध्यङ्गान्य् आर्याष्टङ्गो मार्गः कौशिक, अनिर्जातो यश् चानिर्जातो न स मार्गः. एवम् अभिज्ञाः सत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकाबुद्धधर्माः कौशिक अनिर्जाता ये चानिर्जाता न ते बुद्धधर्माः. स्रोतआपत्तिफलं कौशिक अनिर्जातं यच् चानिर्जातं न तत् स्रोतआपत्तिफलं, एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं सर्वज्ञत्वं कौशिकानिर्जातं यच् चानिर्जातं न तत् सर्वज्ञत्वं. स्रोतआपन्नः कौशिक अनिर्जातो यश् चानिर्जातो न स स्रोतआपन्नः, एवं सकृदागामी, अनागामी, अर्हन् प्रत्येकबुद्धस् तथागतो ऽर्हन् सम्यक्संबुद्धः कौशिकानिर्जातो यश् चानिर्जातो न स सम्यक्संबुद्धः. इत्य् अधिगमाधारगोत्रम् (PSP_२-३:२२)
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गम्भीरप्रज्ञो बतायम् आर्यसुभूतिः. स्थविरो यत्प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति.
SK
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, गम्भीरप्रज्ञो बतायम् आर्यसुभूतिः स्थविरो यत्प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति.
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति?
SK
भगवान् आह: रूपं कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशस्ति च. वेदनासंज्ञासंस्कारा विज्ञानं कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधत्य् उपदिशति च. तत् कस्य हेतोर्? या धर्मता सा न विरुध्यते या न विरुध्यते तां च सुभूतिः स्थविर उपदिशति न विरोधयति, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु, एवं दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां, एवम् अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां. एवं स्मृत्युपस्थानेषु सम्यक्प्रहाणेष्व् ऋद्धिपादेन्द्रियेषु बलेषु बोध्यङ्गेष्व् आर्याष्टाङ्गे मार्गे ऽप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सत्येषु दशतथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु, एवं स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबुद्धत्वे सर्वज्ञत्वे स्रोतआपन्न इति कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशति च. एवं सकृदागामी, अनागामी, अर्हन् प्रत्येकबुद्धस् तथागतो ऽर्हन् सम्यक्संबुद्ध इति कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशति च. तत् कस्य हेतोर्? या कौशिक धर्मता सा न विरुध्यते, या न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति, एवं हि कौशिक सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति. (PSP_२-३:२३)
SK
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्. यथा भगवता प्रज्ञप्तिमात्राः सर्वधर्मा उपदिष्टा एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञप्तिमात्रान् सर्वधर्मान् विदित्वा प्रज्ञापारमितायां शिक्षितव्यम् एवं शिक्षमाणः पुनः कौशिक बोधिसत्त्वो महासत्त्वो न रूपे शिक्षते न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने शिक्षते. तत् कस्य हेतोस्? थथा हि रूपं न समनुपश्यति यत्र शिक्षते. वेदनां संज्ञां संस्कारान् विज्ञानं न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणः कौशिक बोधिसत्त्वो महासत्त्वो न दानपारमितायां शिक्षते. तत् कस्य हेतोस्? तथा हि स दानपारमितां न समनुपश्यति यत्र शिक्षते. एवं न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां शिक्षते. तत् कस्य हेतोस्? तथा हि स प्रज्ञापारमितां न समनुपश्यति यत्र शिक्षते. अध्यात्मशून्यतायाम् अपि न शिक्षते यावद् अभावस्वभावशून्यतायाम् अपि न शिक्षते. तत् कस्य हेतोस्? तथा हि सो ऽध्यात्मशून्यतां न समनुपश्यति यावद् अभावस्वभावशून्यताम् अपि न समनुपश्यति यत्र शिक्षते. स्मृत्युपस्थानेष्व् अपि न शिक्षते. एवं सम्यक्प्रहानेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु बोध्यङ्गेष्व् आर्याष्टाङ्गेषु मार्गेष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सत्येषु बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेष्व् अपि न शिक्षते. न स्रोतआपत्तिफले न सकृदागामिफले नानागामिफले नार्हत्त्वे न प्रत्येकबुद्धत्वे शिक्षते सर्वज्ञत्वे ऽपि न शिक्षते. तत् कस्य हेतोस्? तथा हि स सर्वज्ञत्वं न समनुपश्यति यत्र शिक्षते.
SK
अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: केन कारणेन भदन्त सुभूते बोधिसत्त्वो महासत्त्वो न रूपं समनुपश्यति न वेदनां न संज्ञां न संस्कारान् न विज्ञानं समनुपश्यति. एवं व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यान् धर्मान् न समनुपश्यति. अप्रमाणध्यानारूप्यसमापत्तीर् न समनुपश्यति. सत्यान्य् अभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न समनुपश्यति यत्र शिक्षते यावत् सर्वज्ञत्वं अपि न समनुपश्यति यत्र शिक्षते?
SK
सुभूतिर् आह: तथा हि कौशिक रूपं रूपेण शून्यं, वेदनासंज्ञासंस्कारा विज्ञानं विज्ञानेन शून्यं. एवं व्यस्तसमस्तानि स्कन्धधात्वायतनानि (PSP_२-३:२४) प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः सत्यान्य् अभिज्ञा दशबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा यावत् सर्वाकारज्ञता सर्वाकारज्ञतया शून्या. तत् कस्य हेतोः? न हि कौशिक रूपशून्यता रूपशून्यतां समनुपश्यति यावन् न सर्वज्ञताशून्यता सर्वज्ञताशून्यतां समनुपश्यति. यः कौशिक इह शून्यतायां शिक्षते स रूपशून्यतायां शिक्षते अद्वैधीकारेण. वेदनासंज्ञासंस्कारेषु विज्ञानशून्यतायां शिक्षते अद्वैधीकारेण. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनेषु प्रतीत्यसमुत्पादपारमितासु सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु सत्येष्व् अभिज्ञासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु दशतथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वज्ञताशून्यतायां शिक्षते अद्वैधीकारेण. यः कौशिक रूपशून्यतायां शिक्षते अद्वैधीकारेण यावत् सर्वज्ञताशून्यतायां शिक्षते अद्वैधीकारेण स दानपारमितायाम् अपि शिक्षते अद्वैधीकारेण. एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम् अपि शिक्षते अद्वैधीकारेण. अध्यात्मशून्यतायाम् अपि शिक्षते अद्वैधीकारेण यावद् अभावस्वभावशून्यतायाम् अपि शिक्षते अद्वैधीकारेण. स्मृत्युपस्थानेषु सम्यक्प्रहाणेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु बोध्यङ्गेष्व् आर्याष्टाङ्गे मार्गे शिक्षते अद्वैधीकारेण. अप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सत्येषु दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु शिक्षते अद्वैधीकारेण. सर्वसमाधिषु सर्वधारणीमुखेषु शिक्षते अद्वैधीकारेण. असंख्येयेष्व् अपरिमाणेषु बुद्धधर्मेषु शिक्षते अद्वैधीकारेण. स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्वे प्रत्येकबुद्धत्वे शिक्षते अद्वैधीकारेण. सम्यक्संबुद्धत्वे सर्वाकारज्ञतायां शिक्षते अद्वैधीकारेण. इति प्रत्येकबुद्धमार्गे निर्वेधभागिय उष्मगतम्
SK
न रूपस्य हानये शिक्षते न वृद्धये शिक्षते. न वेदनासंज्ञासंस्कारविज्ञानस्य हानये शिक्षते न वृद्धये शिक्षते. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां न हानये न वृद्धये शिक्षते. प्रतीत्यसमुत्पादस्य न (PSP_२-३:२५) हानये न वृद्धये शिक्षते. दानपारमिताया न हानये न वृद्धये शिक्षते. एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया न हानये न वृद्धये शिक्षते. स्मृत्युपस्थानानां न हानये न वृद्धये शिक्षते. एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानां मार्गस्य न हानये न वृद्धये शिक्षते. अप्रमाणानां ध्यानारूप्यसमापत्तीनां न हानये न वृद्धये शिक्षते. अध्यात्मशूयताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया न हानये न वृद्धये शिक्षते. सत्यानाम् अभिज्ञानां दशबलवैशारद्यप्रतिसंविदावेणिकानां बुद्धधर्माणां यावत् सर्वज्ञताया न हानये न वृद्धये शिक्षते. यो रूपस्य न हानये न वृद्धये शिक्षते यावत् सर्वज्ञताया न हानये न वृद्धये शिक्षते स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादानां न परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. एवं पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणम् अप्रमाणध्यानारूप्यसमापत्तीनां सत्यानाम् अभिज्ञानां सर्वसमाधीनां सर्वधारणीमुखानां न परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वज्ञताया न परिग्रहाय नान्तर्धानाय शिक्षते. इति तत्रैव मूर्धगतम्
SK
शारिपुत्र आह: किं कारणम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय नान्तर्धानाय शिक्षते, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य न परिग्रहाय नान्तर्धानाय शिक्षते यावत् सर्वज्ञताया न परिग्रहाय नान्तर्धानाय शिक्षते?
SK
सुभूतिर् आह: तथा ह्य् आयुष्मञ् शारिपुत्र रूपस्य परिग्रहो नास्ति. तत् कस्य हेतोर्? न रूपं रूपं परिगृह्णाति. न वेदना न संज्ञा न संस्कारास् तथा ह्य् आयुष्मञ् शारिपुत्र विज्ञानस्य परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा हि न (PSP_२-३:२६) विज्ञानं विज्ञानं परिगृह्णाति. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां पारमितानां बोधिपक्ष्याणां धर्माणां सत्यानाम् अभिज्ञानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशबलवैशारद्यानां प्रतिसंविदावेणिकानां बुद्धधर्माणां परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा ह्य् आवेणिकबुद्धधर्मा नावेणिकबुद्धधर्मान् परिगृह्णन्ति. तथा ह्य् आयुष्मञ् शारिपुत्र सर्वज्ञतायाः परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा हि सर्वज्ञता न सर्वज्ञतां परिगृह्णाति. अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् उपादाय. एतं ह्य् आयुष्मञ् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मापरिग्रहाय सर्वज्ञतायां शिक्षते सर्वज्ञतायां निर्यास्यति.
SK
शारिपुत्र आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते सर्वज्ञतायां निर्यास्यति.
SK
सुभूतिर् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते सर्वज्ञतायां निर्यास्यति सर्वधर्माणाम् अपरिग्रहयोगेन. इति तत्रैव क्षान्तिगतम्
SK
शारिपुत्र आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणाम् अपरिग्रहाय नान्तर्धानाय शिक्षित्वा कथं सर्वज्ञतायां निर्यास्यति?
SK
सुभूतिर् आह: तथा ह्य् आयुष्मञ् शरिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपस्योत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं न व्यवदानं नाचयं नापचयं न हानिं न वृद्धिं. तत् कस्य हेतोस्? तथा ह्य् आयुष्मञ् शरिपुत्र रूपं रूपस्वभावेन न विद्यते, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यायुष्मञ् शारिपुत्र बोधिसत्त्वो महासत्त्वो नोत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं न व्यवदानं नाचयं नापचयं न हानिं न वृद्धिम्. तत् कस्य हेतोस्? अथा ह्य् आयुष्मञ् शरिपुत्र विज्ञानं विज्ञानस्वभावेन न विद्यते. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां सर्वसमाधीनां सर्वधारणीमुखानां बलानां वैशारद्यानां (PSP_२-३:२७) प्रतिसंविदाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वज्ञताया नोत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं न व्यवदानं नाचयं नापचयं न हानिं न वृद्धिं. तत् कस्य हेतोस्? तथा ह्य् आयुष्मञ् शारिपुत्र सर्वज्ञता सर्वज्ञतास्वभावेन न संविद्यते, एवं ह्य् आयुष्मञ् शरिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्माणाम् अनुत्पादायानिरोधायानुद्ग्रहायानुत्सर्गायासंक्लेशायाव्यवदानाय नाचयाय नापचयाय न हानये न वृद्धये शिक्षते प्रज्ञापारमितायां शिक्षते सर्वज्ञतायां निर्यास्यति अशिक्षानिर्याणयोगेन. इति तत्रैवाग्रधर्मगतम् इत्य् उक्तः प्रत्येकबुद्धमार्गः
SK
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: प्रज्ञापारमिता भदन्त शारिपुत्र कुतो गवेषितव्या?
SK
शारिपुत्र आह: प्रज्ञापारमिता कौशिक सुभूतेः परिवर्ताद् गवेषितव्या.
SK
अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: तवैव आर्यसुभूते, अनुभावस् तवैतद् अधिष्ठानं यद् आर्यशारिपुत्र, एवं वदति; प्रज्ञापारमिता कौशिकायुष्मतः सुभूतेः परिवर्ताद् गवेषितव्येति.
SK
सुभूतिर् आह: न ममैष कौशिकानुभावः न ममैतद् अधिष्ठानम्.
SK
शक्र आह: कस्यैषो ऽनुभावः कस्यैतद् अधिष्ठानम्.
SK
सुभूतिर् आह: तथागतस्यैष कौशिकानुभावस् तथागतस्यैतद् अधिष्ठानं न चान्यत्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, न चान्यत्र तथतायास् तथागत उपलभ्यते, निरधिष्ठाना देवान्द्र सर्वधर्माः.
SK
देवेन्द्र आह: कथम् आर्यसुभूते निरधिष्ठानेषु सर्वधर्मेषु एवं वदसि? तथागतस्यैषो ऽनुभावस् तथागतस्यैतद् अधिष्ठानम् इति.
SK
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, नान्यत्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, नान्यत्र तथतायास् तथागत उपलभ्यते, न च निरधिष्ठानधर्मतायां तथागत उपलभ्यते, न च तथागते निरधिष्ठानधर्मता उपलभ्यते, न च तथतयां तथागत उपलभ्यते, न च ताथागते तथतोपलभ्यते, न रूपतथतायां तहागत उपलभ्यते, न च तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न च तथागते रूपधर्मता न वेदनातथतायां न संज्ञातथतयां न संस्कारतथतायां न विज्ञानतथतायां तथागत उपलभ्यते, न च (PSP_२-३:२८) तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न च तथागते विज्ञानधर्मता, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमिताभिज्ञासत्येषु सप्तत्रिंशद्बोधिपक्षधर्माप्रमाणध्यानारूप्यसमापत्तिषु सर्वशून्यतायां सर्वसमाधिषु सर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यावन् न सर्वज्ञतातथतायां तथागत उपलभ्यते, न च तथागते सर्वज्ञतातथता उपलभ्यते, न सर्वज्ञताधर्मतायां तथागत उपलभ्यते, न च तथागते सर्वज्ञताधर्मता. तत् कस्य हेतोर्? यः कौशिक तथागतो न रूपतथतायां संयुक्तो न विसंयुक्तो वेदनासंज्ञासंस्कारविज्ञानतथतायां संयुक्तो न विसंयुक्तः. यः कौशिक तथागतो न रूपधर्मतायां संयुक्तो न विसंयुक्तो वेदनासंज्ञासंस्कारविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, न चान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः. न चान्यत्र रूपधर्मतायाः संयुक्तो न विसंयुक्तः. वेदनासंज्ञासंस्कारा न चान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तो न चान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः. विस्तरेण यावद् यस् तथागतो न स सर्वज्ञतातथतायां संयुक्तो न विसंयुक्तः, न सर्वज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, न चान्यत्र सर्वज्ञतायाः संयुक्तो न विसंयुक्तः न चान्यत्र सर्वज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः यो हि कौशिक सर्वधर्मेषु न संयुक्तो न विसंयुक्तः तस्यैषो ऽनुभावस् तस्यैतद् अधिष्ठानम् अनधिष्ठानयोगेन. यत् पुनः कौशिक एवं वदसि: कुतो बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता गवेषितव्येति? न रूपतो गवेषितव्या नान्यत्र रूपतो गवेषितव्या, न वेदनाया न संज्ञाया न संस्कारेभ्यो न विज्ञानतो गवेषितव्या नान्यत्र विज्ञानाद् गवेषितव्या. तत् कस्य हेतोस्? तथा हि कौशिक या च प्रज्ञापारमिता यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न धातुतो गेवेषितव्या नायतनेभ्यो न प्रतीत्यसमुत्पादेभ्यो न पारमिताभ्यो न बोधिपक्ष्येभ्यो धर्मेभ्यो नाप्रमाणध्यानारूप्यसमापत्तिभ्यो न (PSP_२-३:२९) सत्येभ्यो नाभिज्ञाभ्यो न समाधिभ्यो न धारणीमुखेभ्यो न बलेभ्यो न वैशारद्येभ्यो न प्रतिसंविद्भ्यो नाष्टादशभ्य आवेणिकेभ्यो बुद्धधर्मेभ्यो यावन् न सर्वाकारज्ञताया गवेषितव्या नान्यत्र सर्वाकारज्ञताया गवेषितव्या. तत् कस्य हेतोस्? तथा हि कौशिक या च प्रज्ञापारमिता या च सर्वाकारज्ञता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. तत् कस्य हेतोस्? तथा हि कौशिक न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता न वेदना न संज्ञा न संस्कारा न विज्ञानं प्रज्ञापारमिता नाप्य् अन्यत्र विज्ञानात् प्रज्ञापारमिता एवं व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमितासत्याभिज्ञासप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्मा यावन् न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता. एवं न रूपतथता प्रज्ञापारमिता नाप्य् अन्यत्र रूपतथतायाः प्रज्ञापारमिता न वेदनातथता न संज्ञातथता न संस्कारतथता न विज्ञानतथता प्रज्ञापारमिता न चान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता. न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता न वेदनाधर्मता न संज्ञाधर्मता न संस्कारधर्मता न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, यावन् न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता. तत् कस्य हेतोस्? तथा हि कौशिक सर्व एते धर्मा न संविद्यन्ते नोपलभ्यन्ते. एवम् एव सर्वधर्मेष्व् असंविद्यमानेष्व् अनुपलभ्यमानेषु न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता. न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता. न वेदना न संज्ञा न संस्कारा, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता. न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता. न विज्ञानधर्मता प्रज्ञापारमिता (PSP_२-३:३०) नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासत्याभिज्ञासप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः. सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता. न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायाः प्रज्ञापारमिता. न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापरमिता. इति सानुशंसं दर्शनमार्गम् अधिकृत्य दुःखे धर्मज्ञानक्षान्तिः
SK
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिं स्थविरम् एतद् अवोचत्: महापारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अप्रमाणपारमितेयं यद् उत प्रज्ञापारमिता, अपरिमाणपारमितेयं यद् उत प्रज्ञापारमिता, अनन्तपारमितेयं भदन्त सुभूते यद् उत प्रज्ञापारमिता, यस्यां शिक्षमाणैः स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तम्, एवं सकृदागामिभिर् अनागामिभिर् अर्हद्भिः प्रत्येकबुद्धैः प्रत्येकबोधिः प्राप्ता. बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता ऽनुप्राप्ता ऽनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा ऽभिसंबुद्ध्यते ऽभिसंभोत्स्यते च.
SK
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, महापारमितेयम् अप्रमाणपारमितेयम् अपरिमाणपारमितेयं अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, यत्र शिक्षमाणैः. स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तम्, एवं सकृदागामिभिर् अनागामिभिर् अर्हद्भिः प्रत्येकबुद्धैः प्रत्येकबोधिः प्राप्ता. बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता ऽनुप्राप्ता ऽनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा ऽभिसंबुद्ध्यते ऽभिसंभोत्स्यते च. तत् कस्य हेतोः? रूपमहत्तया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानां तत् कस्य हेतोस्? तथा हि कौशिक रूपस्य न पूर्वन्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वेदनासंज्ञासंस्कारा विज्ञानमहत्तया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानां तत् कस्य हेतोस्? तथा हि कौशिक विज्ञानस्य न (PSP_२-३:३१) पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. एवं व्यस्तसमस्तानां प्रतीत्यसमुत्पादाङ्गानां पारमितानां सत्यानाम् अभिज्ञानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वाकारज्ञतामहत्तया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक सर्वाकारज्ञताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. अनेन कौशिक पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. इति दुःखे धर्मज्ञानम्
SK
रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य प्रमाणं नोपलभ्यते. आकाशाप्रमाणतया च रूपाप्रमाणता, रूपाप्रमाणतया च प्रज्ञापारमिताप्रमाणता बोधिसत्त्वानां महासत्त्वानां वेदनासंज्ञासंस्कारा विज्ञानाप्रमाणतया कौशिक, अप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोस्? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिक, आकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते. आकाशाप्रमाणतया च व्ज्ञानाप्रमाणता, विज्ञानाप्रमाणतया च प्रज्ञापारमिताप्रमाणता बोधिसत्त्वानां महासत्त्वानाम्. एवं व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गपारमिताबोधिपक्ष्यधर्माः सत्याभिज्ञाप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वाकारज्ञातताप्रंआणतया कौशिक, अप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिक, आकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वाकरज्ञतायाः प्रमाणं नोपलभ्यते. आकाशाप्रमाणतया च सर्वाकारज्ञताप्रमाणता, सर्वाकारज्ञताप्रमाणतया च प्रज्ञापारमिताप्रमाणता. अनेन कौशिक पर्यायेणाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. (PSP_२-३:३२) इति दुःखे ऽन्वयज्ञानक्षान्तिः
SK
रूपापरिमाणतया कौशिक, अपरिमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक रूपस्य परिमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य परिमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य परिमाणं नोपलभ्यते. आकाशापरिमाणतया च रूपापरिमाणता, रूपापरिमाणतया च प्रज्ञारमितापरिमाणता बोधिसत्त्वानां महासत्त्वानाम् एवं यावत् सर्वाकारज्ञता वक्तव्या. इति दुःखे ऽन्वयज्ञानम्
SK
रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि रूपस्य नान्तो न मध्यम् उपलभ्यते. वेदनासंज्ञासंस्काराणां विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोस्? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यम् उपलभ्यते. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमिताभिज्ञासत्येषु स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तिषु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु दशबलवैशारद्येषु प्रतिसंविदावेणिकबुद्धधर्मेषु सर्वाकारज्ञतानन्ततया कौशिक, अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानं. तत् कस्य हेतोस्? तथा हि कौशिक सर्वाकारज्ञताया नान्तो न मध्यम् उपलभ्यते. अनेन कौशिक पर्यायेण अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां रूपानन्तताम् उपादाय यावत् सर्वाकारज्ञतानन्तताम् उपादाय. इति हेतुप्रतिषेधः
SK
पुनर् अपरं कौशिकारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
देवेन्द्र आह: कथं भदन्त सुभूते आरम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
SK
सुभूतिर् आह: सर्वाकारज्ञतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति समुदयप्रतिषेधः
SK
पुनर् अपरं कौशिकारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
देवेन्द्र आह: कथं भदन्त सुभूते आरम्बणानन्ततयानन्तपारमितेयं (PSP_२-३:३३) बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
SK
सुभूतिर् आह: धर्मधात्वारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति प्रभवप्रतिषेधः
SK
पुनर् अपरं कौशिक तथतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
देवेन्द्र आह: कथं भदन्त सुभूते तथतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
SK
सुभूतिर् आह: तथा हि कौशिक तथतानन्ततयारम्बणानन्तता, एवं तथतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति प्रत्ययप्रतिषेधः
SK
पुनर् अपरं कौशिक सत्त्वानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
देवेन्द्र आह: कथं भदन्त सुभूते सत्त्वानन्ततयानन्तपारमितायं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
SK
सुभूतिर् आह: तत् किं मन्यसे? कौशिक कतमस्यैतद् धर्मस्याधिवचनं यद् उत सत्त्वः सत्त्व इति.
SK
देवेन्द्र आह: नेदं भदन्त सुभूते धर्माधिवचनम् आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं, अवस्तुकम् एतन् नामधेयं प्रक्षिप्तम्, अनारम्बणम् एतन् नामधेयं प्रक्षिप्तं यद् उत सत्त्वः सत्त्व इति.
SK
सुभूतिर् आह: तत् किं मन्यसे कौशिक काचिद् इह प्रज्ञापारमितायां सत्त्वपरिदीपना कृता?
SK
देवेन्द्र आह: न भदन्त सुभूते.
SK
सुभूतिर् आह: यत्र कौशिक न सत्त्वपरिदीपना कृता न काचित् तत्र सत्त्वानन्तता. सचेत् कौशिक तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् कल्पान् तिष्ठन् सत्त्वः सत्त्व इति वाचं भाषेत. तत् किं मन्यसे कौशिक, अपि नु तत्र कश्चित् सत्त्व उत्पन्नो वा निरुद्धो वा?
SK
देवेन्द्र आह: नो भदन्त सुभूते, तत् कस्य हेतोः? आदिशुद्धत्वात् सत्त्वस्य.
SK
सुभूतिर् आह: अनेन कौशिक पर्यायेण सत्त्वानन्ततया प्रज्ञापारमितानन्तता वेदितव्या. इति तत्रैव सत्त्वधातूद्देशिकतां परिदीपयतीति समुदये धर्मज्ञानक्षान्तिः (PSP_२-३:३४)
SK
अथ खलु सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सनारीनरर्षिगणास् त्रिर् उदानम् उदानयामासुः, अहो धर्मः, अहो धर्मः, अहो धर्मस्य धर्मता येयं सुभूतिना स्थविरेण देश्यते यद् उत तथागतानुभावेन तथागताधिष्ठानेन सूच्यते प्रभाव्यते प्रकाश्यते तथागतान् एव तान् भगवन् बोधिसत्त्वान् महासत्त्वान् धारयिष्यामो ये ऽनया प्रज्ञापारमितयाविरहिता भविष्यन्ति, न च नाम कश्चिद् धर्म उपलभ्यते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावत् सर्वाकारज्ञता वा, कुतः पुनस् त्रयाणां यानानां व्यवस्थानं प्रज्ञायते श्रावकयानस्य वा प्रत्येकबुद्धयानस्य वा महायानस्य वा.
SK
अथ खलु भगवांस् तान् देवपुत्रान् आमन्त्रयामास: एवम् एतद् देवपुत्रा एवम् एतत्, यथा वाचं भाषध्वे न च नाम कश्चिद् धर्म उपलभ्यते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावत् सर्वाकारज्ञता वा त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते श्रावकयानस्य वा प्रत्येकबुद्धयानस्य वा महायानस्य वा. तथागतः स देवपुत्रा बोधिसत्त्वो महासत्त्वो धारयितव्यो यो ऽनया प्रज्ञापारमितयाविरहितो भविष्यति अनुपलम्भयोगेन. तत् कस्य हेतोस्? तथा ह्य् अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि श्रावकयानं वा प्रत्येकबुद्धयानं वा महायानं वा. न चान्यत्र दानपारमितायास् तथागत उपलभ्यते, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया न चान्यत्र प्रज्ञापारमितायास् तथागत उपलभ्यते. न चान्यत्राध्यात्मशून्यताया न चान्यत्र बहिर्धाशून्यताया न चान्यत्राध्यात्मबहिर्धाशून्यतायाः, यावन् न चान्यत्राभावस्वाभावशून्यतायास् तथागत उपलभ्यते. न चान्यत्र स्मृत्युपस्थानेभ्यस् तथागत उपलभ्यते. एवं न चान्यत्र सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञासत्याप्रमाणध्यानारूप्यसमापत्तिसमाधिधारणीमुखेभ्यस् तथागत उपलभ्यते. न चान्यत्र दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेभ्यस् तथागत उपलभ्यते. न चान्यत्र सर्वाकारज्ञतायास् तथागत उपलभ्यते. बोधिसत्त्वा महासत्त्वाश् च देवपुत्राः सर्वेष्व् एव धर्मेषु शिक्षन्ते दानपारमितायाम् आदिं कृत्वा यावत् सर्वाकारज्ञतायां शिक्षन्ते. तस्मात् तर्हि (PSP_२-३:३५) देवपुत्राः स बोधिसत्त्वो महासत्त्वस् तथागत एवेति वक्तव्यो यो ऽनया प्रज्ञापारमितयाविरहितश् चरति. यदाहं देवपुत्रा दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके दीपवत्यां राजधान्याम् अन्तरायणमध्यगतो दानपारमितयाविरहितो भवेयम्. एवं शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितयाविरहितो भवेयम्. एवम् अध्यात्मशून्यतयाविरहितो भवेयम्. एवं बहिर्धाशान्यतयाध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतयाविरहितो भवेयम्. एवं स्मृत्युपस्थानैर् अविरहितो भवेयम्. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् अविरहितो भवेयं. एवं चतुर्भिर् ध्यानैश् चतुर्बिर् अप्रमाणैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिश् चावेणिकैर् बुद्धधर्मैः. महामैत्र्या महाकरुणया चान्यैश् चाप्रमाणैर् बुद्धधर्मैर् अविरहितो भवेयं तच् चानुपलम्भयोगेन. तदाहं देवपुत्रास् तेन तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतो; भविष्यसि त्वम् अनागते ऽध्वन्य् अस्मिन्न् एव सहालोकधातव् असंख्यैः कल्पैः शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्यानां च बुद्धो भगवान्. इति समुदये धर्मज्ञानम्
SK
अथ खलु ते देवपुत्रा भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वाकारज्ञताया अनुपरिग्राहिका रूपस्यापरिग्रहानुत्सर्गयोगेन. वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यापरिग्रहानुत्सर्गयोगेन. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादाङ्गानां पारमितानां स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाणां ध्यानारूप्यसमापत्तिनां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्माणां यावत् सर्वाकारज्ञतया अपरिग्रहानुत्सर्गयोगेनेति आर्यपञ्चविंशतिसाहस्रिकायां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण परिशोधितायां शक्रपरिवर्तो नाम द्यितीयः.
SK
अथ खलु भगवांश् चतस्रः परिषदो भिक्षुभिभ्षुण्युपासकोपासिका बोधिसत्त्वान् महासत्त्वांश् चतुरो महाराजांश् चातुर्महाराजकायिकांश् च देवपुत्रान् यावद् अकनिष्ठांश् च देवपुत्रान् संनिपतितान् संनिषण्णांश् (PSP_२-३:३६) च सर्वान् साक्षिणः स्थापयित्वा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: ये केचित् कौशिक बोधिसत्त्वा महासत्त्वा भिक्षुभिक्षुण्युपासकोपासिका वा कुलपुत्रा वा कुलदुहितरो वा देवपुत्रा देवकन्या वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति भावयिष्यन्ति परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति योनिशो मनसिकरिष्यन्ति, ये च सर्वाकारज्ञताचित्तेनाविरहिता भविष्यन्ति तेषां मारा वा मारकायिका वा अवतारं न लप्स्यन्ते. तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च रूपशून्यतैव स्वधिष्ठिता भविष्यति. एवं वेदना संज्ञासंस्काराविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोर्? न हि शून्यता शून्यतायाम् अवतारं लभते, नानिमित्तम् आनिमित्ते ऽवतारं लभते, नाप्रणिहितम् अप्रणिहिते ऽवतारं लभते. एवं व्यस्तसमस्ता स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतैव स्वधिष्ठिता भविष्यति. एवं पारमितासत्याभिज्ञाप्रमाणध्यानारूप्यसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति. एवं सर्वशून्यता सर्वसमाधिसर्वधारणीमुखस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यतैव स्वधिष्ठिता भविष्यति. एवं दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतैव स्वधिष्ठिता भविष्यति. यावत् सर्वाकारज्ञताशून्यतैव तैः कुलपुत्रैः कुलदुहितृभिश् च स्वधिष्ठिता भविष्यति. तत् कस्य हेतोस्? तथा हि न शून्यता शून्यतायाम् अवतारं लभते, नानिमित्तम् आनिमित्ते ऽवतारं लभते, नाप्रणिहितम् अप्रणिहिते ऽवतारं लभते. तत् कस्य हेतोस्? तथा हि तेषां स्वभावो न संविद्यते, येनावतारं लभेरन्, यत्र वावतारं लभेरन्, यस्य वावतारं लभेरन्. इति समुदये ऽन्वयज्ञानक्षान्तिः
SK
न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा मनुष्यो वामनुष्यो वावतारं लप्स्यते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च सर्वसत्त्वानाम् अन्तिके मैत्रीकरुणामुदितोपेक्षा भाविता सा चानुपलम्भयोगेन. (PSP_२-३:३७) न च ते कौशिक कुलपुत्रा वा कुलदुहितरो वा विषमापरिहारेण कालं करिष्यन्ति तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च दानपारमितायां चरद्भिः सर्वसत्त्वाः सम्यक्परिचर्यया उपस्थिताः. यैर् वा कौशिक चातुर्महाराजकायिकैर् देवपुत्रैर् इह त्रिसाहस्रमहासाहस्रे लोकधातौ त्रयस्त्रिंशैर् वा यामैर् वा तुषितैर् वा निर्माणरतिभिर् वा परनिर्मितवशवर्तिभिर् वा ब्रह्मकायिकैर् वा ब्रह्मपुरोहितैर् वा ब्रह्मपार्षद्यैर् वा यावद् अकनिष्ठैर् वा देवपुत्रैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं न चायं प्रज्ञापारमिता श्रुता नोद्ग्रहीता न धारिता न वाचिता न पर्यवाप्ता, तैर् देवपुत्रैर् इयं प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या सर्वज्ञताचित्तेनाविरहितैः. इति समुदये ऽन्वयस्ज्ञानम्
SK
पुनर् अपरं कौशिक ये कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति अविरहिताः सर्वाकारज्ञताचित्तेन भविष्यन्ति, न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा शून्यागारगतानां वा अभ्यवकाशगतानां वा उत्पथगतानां वा भयं वा स्तम्भितत्वं वा भविष्यति. तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् चाध्यात्मशून्यता सुभाविता अनुपलम्भयोगेन, बहिर्धाशून्यता सुभाविता अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता सुभाविता अनुपलम्भयोगेन यावद् अभावस्वभावसुन्यता सुभाविता अनूपलम्भयोगेन.
SK
अथ खलु तावद् एव त्रिसाहस्रमहासाहस्रे लोकधातौ ये चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परम्र्मितवशवर्तिनो यावच् छुद्धावासकायिका देवपुत्रास् ते भगवन्तम् एतद् अवोचत्: वयं भगवंस् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यामः य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति लिखिष्यन्ति योनिशश् च मनसिकरिष्यन्ति अविरहिताश् च भविष्यन्ति सर्वज्ञताचित्तेन. (PSP_२-३:३८) तत् कस्य हेतोस्? तथा हि भगवन् बोधिसत्त्वं महासत्त्वम् आगम्य निरया उच्छिद्यन्ते, तिर्यग्योनियमलोका असुराः काया मनुष्यदारिद्र्या उपद्रवा उपसर्गाः. सर्वे ऽप्य् उच्छिद्यन्ते. बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथनां लोके प्रादुर्भावो भवति. चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया लोके प्रादुर्भावो भविष्यति अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया लोके प्रादुर्भावो भविष्यति. चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य चतुर्णाम् आर्यसत्यानां चतुर्णाम् अप्रमाणानां षण्णाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृनां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भविष्यति. अनेकेषां समाधीनाम् अनेकेषां धारणीमुखानां सर्वज्ञताया बोधिसत्त्वमार्गस्य लोके प्रादुर्भावो भविष्यति.
SK
पुनर् अपरं बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहाशालकुलानि लोके प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि लोके प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चक्रवर्तिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवपुत्राः प्रज्ञायन्ते. एवं त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माणो यावद् अकनिष्ठाश् च देवपुत्रा लोके प्रज्ञायन्ते.
SK
पुनर् अपरं बोधिसत्त्वं महासत्त्वम् आगम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नः. प्रज्ञायते. एवं सकृदागामिफलं सकृदागामी अनागामिफलम् अनागामी अर्हत्त्वम् अर्हल् लोके प्रज्ञायते, प्रत्येकबोधिः प्रत्येकबुद्धा लोके प्रज्ञायन्ते.
SK
पुनर् अपरं बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वपरिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञायते, तथागतो ऽर्हन् (PSP_२-३:३९) सम्यक्संबुद्धो लोके प्रज्ञायते, धर्मचक्रप्रवर्तनं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते. अनेन भगवन् पर्यायेण बोओधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरगन्धर्वयक्षगरुडकिंनरमहोरगमनुष्यामनुष्येण लोकेन रक्षावरणगुप्तिः संविधातव्या.
SK
एवम् उक्ते भगवाञ् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, बोधिसत्त्वं महासत्त्वम् आगम्य निरयतिर्यग्योनियमलोके गतय उच्छिद्यन्ते, देवदारिद्र्यं मनुष्यदारिद्र्यम् उपद्रवा उपसर्गाः सर्वे ऽप्य् उच्छिद्यन्ते. बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति. दशानां पारमितानां दशानां बोधिसत्त्वभूमीनाम् अप्रमाणध्यानारूप्यसमापत्तीनां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां सत्यानाम् अभिज्ञानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां लोके प्रादुर्भावो भवति. दशबलवैशारद्यप्रतिसंविदावेणिकानां बुद्धधर्माणां सर्वाकारज्ञताया बोधिसत्त्वं महासत्त्वम् आगम्य लोके प्रादुर्भावो भवति. क्षत्रियमहाशालकुलानि ब्राह्मणमहाशालकुलानि गृहपतिमहाशालकुलानि बोधिसत्त्वं महासात्त्वम् आगम्य लोके प्रज्ञायन्ते, चक्रवर्तिराज्यकुलानि लोके प्रज्ञायन्ते, चातुर्महाराजकायिका देवपुत्रा यावद् अकनिष्ठा देवपुत्राः प्रज्ञायन्ते, स्रोतआपत्तिफलं स्रोतआपन्नः, एवं सकृदागामिफलं सकृदागामी अनागामिफलम् अनागामी अर्हत्त्वम् अर्हश् च लोके प्रज्ञायते, प्रत्येकबोधिः प्रत्येकबुद्धा लोके प्रज्ञायन्ते, बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वपरिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञायते, तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रज्ञायते, धर्मचक्रप्रवर्तनं लोके प्रज्ञायते, बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य बोधिसत्त्वं महासत्त्वम् आगम्य लोके प्रादुर्भावो भवति तस्मात् तर्हि कौशिक बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरेण लोकेन सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः सततसमितं चात्र नु रक्षावरणगुप्तिः संविधातव्या, इमां प्रज्ञापारमितां स कौशिक सत्कर्तव्यां गुरुकर्तव्यां मानयितव्यां पूजयितव्यां मन्येत यो बोधिसत्त्वं महासत्त्वं सत्कर्तव्यं गुरुकर्तव्यं मन्येत, तस्माद् बोधिसत्त्वो महासत्त्वः सदेवकेन (PSP_२-३:४०) लोकेन सत्कर्तव्यः सततसमितं चात्र नु रक्षावरणगुप्तिः संविधातव्या. यश् च कौशिक इमं त्रिसाहस्रमहासाहस्रं लोकधातुं श्रावकप्रत्येकबुद्धप्रतिपूर्णं, तद्यथापि नाम इक्षुवनं वा नडवनं वा वेणुवनं वा शरवनं वा सालिवनं वा तिलवनं वा कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद्, यश् च प्रथमचित्तोत्पादिकं बोधिसत्त्वं महासत्त्वम् अविरहितं षड्भिः पारमिताभिः सत्कुर्याद् गुरुकुर्याद् मानयेत् पुजयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति तत् कस्य हेतोर् बहुतरं पुण्यं प्रसवति? तथा हि न कौशिक श्रावकप्रत्येकबुद्धान् आगम्य बोधिसत्त्वास् तथागताश् चार्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायन्ते, बोधिसत्त्वं महासत्त्वं पुनर् आगम्य श्रावकप्रत्येकबुद्धास् तथागताश् चार्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायन्ते, तस्मात् तर्हि कौशिक सदेवमानुषासुरेण लोकेन बोधिसत्त्वो महासत्त्वः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः सततसमितं चात्र नु रक्षावरणगुप्तिः संविधातव्या. इति निरोधे धर्मज्ञानक्षान्तिः
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अमी बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमिताम् उद्गृह्णन्तः पर्यवाप्नुवन्तो धारयन्तो वाचयन्तो योनिशश् च मनसिकुर्वन्तः, इमान् दृष्टधार्मिकान् गुणान् परिगृह्णन्ति, सत्त्वांश् च परिपाचयन्ति बुद्धक्षेत्रं च परिशोधयन्ति, बुद्धक्षेत्राच् च बुद्धक्षेत्रं संक्रामन्ति बुद्धान् भगवतः पर्युपासनाय, यैश् च कुशलमूलैर् आकाङ्क्षेयुस् तान् बुद्धान् भगवतः पूजयितुं तैः पूजयेयुस्. तच् चैषां तथैव ऋध्यते. यं च तेषां बुद्धानां भगवताम् अन्तिके स्थित्वा धर्मं शृण्वन्ति स चैषां धर्मस् तावद् एव न प्रमुष्यते यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. इति कुलसंपदं च परिगृह्णन्ति जननीसंपदं च परिवारसंपदं च लक्षणसंपदं च प्रभासंपदं च चक्षुःसंपदं च स्वरसंपदं च समाधिसंपदं च धारणीसंपदं च परिगृह्णन्ति. उपायकौशल्येन (PSP_२-३:४१) आत्मानं बुद्धविग्रहं निर्माय लोकधातोर् लोकधातुं संक्रामन्ति, यत्र बुद्धानां भगवताम् उत्पादो नास्ति ते तत्र गत्वा दानपारमिताया वर्णं भाषन्ते. एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया वर्णं भाषन्ते. अध्यात्मशून्यताया वर्णं भाषन्ते. एवं बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया वर्णं भाषन्ते. ध्यानानां वर्णं भाषन्ते. अप्रमाणानाम् आरूप्यसमापत्तीनां वर्णं भाषन्ते. स्मृत्युपस्थानानां वर्णं भाषन्ते. एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य वर्णं भाषन्ते. चतुर्णाम् आर्यसत्यानाम् अभिज्ञानां दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदां यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां वर्णं भाषन्ते. उपायकुशलेन च धर्मं देशयन्ति यानत्रयेण च सत्त्वान् विनयन्ति, श्रावकयानेन प्रत्येकबुद्धयानेन बुद्धयानेन. इति निरोधे धर्मज्ञानम्
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अनया गम्भीरया प्रज्ञापारमिताया परिगृहीतया सर्वाः पारमिताः परिगृहीत भवन्ति. यद् उत दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता सर्वे बोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखानि सर्वशून्यता अप्रमाणध्यानारूप्यसमापत्तयः सत्याभिज्ञा दशबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः यावद् व्यस्तसमस्ताः स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादाङ्गानि च परिगृहीतानि भवन्ति. स्रोतआपत्तिफलं परिगृहीतं भवति. एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिः सर्वाकारज्ञता परिगृहिता भवति.
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: प्रज्ञापारमितया परिगृहीतया सर्वाः पारमिताः परिगृहिता भवन्ति. एवं सर्वे बोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखानि सर्वशून्यता अप्रमाणध्यानारूप्यसमापत्तयः सत्याभिज्ञाः सर्वे कुशलाः कर्मपथा दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा यावद् व्यस्तसमस्तानि स्कन्धधात्वायतननि प्रतित्यसमुत्पादाङ्गानि यावत् सर्वाकारज्ञता परिगृहीता भवति. (PSP_२-३:४२)
SK
पुनर् अपरं कौशिक प्रज्ञापारमितया उद्गृहीतया धारितया वाचितया पर्यवाप्तया लिखितया योनिशो मनसिकृतया यान् गुणान् स कुलपुत्रो वा कुलदुहिता वा प्रतिलभते दृष्ट एव धर्मे तान् शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं ते. एवं भगवन्न् इति शक्रो देवानाम् इन्द्रो भगवतःत् प्रत्यश्रोषीत् भगवान् एतद् अवोचत्: यः कश्चित् कौशिकान्यतीर्थिकः कुलपुत्रो वा कुलदुहिता वा मारो वा मारकायिका वा देवता अभिमानिको वा पुद्गलो बोधिसत्त्वं महासत्त्वम् इतः प्रज्ञापारमितातो विवेचयितुकामो भविष्यति, विवदितुकामो भविष्यति, विग्रहीतुकामो भविष्यति, विरोधयितुकामो भविष्यति, तेषां विवेचयितुकामानां विवदितुकामानां विग्रहीतुकामानां विरोधयितुकामानाम् उत्पन्नोत्पन्ना विग्रहा विवादा विरोधाः क्षिप्रं पुनर् एवान्तर्धास्यन्ति, तेषां विवेचयितुकामानां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानां न ते ऽभिप्रायाः परिपूरिं गमिष्यन्ति. तत् कस्य हेतोस्? तथा हि कौशिक बोधिसत्त्वेन महासत्त्वेन दीर्घरात्रं दानपारमितायां चरता, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरता. येषां कृतशः सत्त्वा दीर्घरात्रं विग्रहान् विवादान् विरोधान् आपद्यन्ते ते ऽध्यात्मिकबाह्या धर्माः सर्वे सर्वदा परित्यक्ता. येषां कृतशः सत्त्वा दीर्घरात्रं सत्त्वदौःशील्यम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् शीले प्रतिष्ठापयति. येषां कृतशः सत्त्वा दीर्घरात्रं क्रोधव्यापादविहिंसाम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् क्षान्तौ प्रतिष्ठापयति. येषां कृतशः सत्त्वा दीर्घरात्रं कौसीद्यम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् वीर्यपारमितायां प्रतिष्ठापयति. येषां कृतशः सत्त्वा दीर्घरात्रं विक्षिप्तचित्तम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् ध्याने प्रतिष्ठापयति. येषां कृतशः सत्त्वा दीर्घरात्रं दौष्प्रज्ञाम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् महाप्रज्ञापारमितायां प्रतिष्ठापयति. येषां कृतशः कौशिक सत्त्वा दीर्घरात्रं संसारे संसरन्ति यद् उतानुनयप्रतिघपर्यवस्थाने तद्बोधिसत्त्वो महासत्त्व (PSP_२-३:४३) उपायकौशल्येन तेषां सत्त्वानां विनीय तान् सत्त्वांश् चतुर्षु ध्यानेषु प्रतिष्ठापयति. चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयति, चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापयति. एवं सम्यक्प्रहानेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु वैशारद्येष्व् आर्याष्टाङ्गेषु मार्गेषु शून्यतायां वानिमित्ते ऽप्रणिहिते समाधिधारणीमुखेषु च प्रतिष्ठापयति. चतुर्ष्व् आर्यसत्येष्व् अभिज्ञासु दशबलवैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयति. स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रतिष्ठापयति. प्रत्येकबोधौ प्रतिष्ठापयति. अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति. इमे ते कौशिक बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरतो दृष्टा धार्मिका गुणानुशंसा भविष्यन्ति. संपराये चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. धर्मचक्रं प्रवर्त्य सत्त्वान् यथाप्रणिधाने प्रतिष्ठाप्य निरुपधिशेषे निर्वाणधातौ परिनिर्वापयिष्यन्ति. इमे कौशिक बोधिसत्त्वस्य महासत्त्वस्य साम्परायिका गुणानुशंसा भविष्यन्ति. इति निरोधे ऽन्वयज्ञानक्षान्तिः
SK
पुनर् अपरं कौशिक यस्मिन् पृथिवीप्रदेशे कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, न तत्र पृथिवीप्रदेशे मारा वा मारकायिका वा देवता अन्यतीर्थिका वा परिव्राजका वा आभिमानिका वा पुद्गलाः शक्ष्यन्ति चित्तविक्षेपं कर्तुं अस्यां प्रज्ञापारमितायां विग्रहाय विवादाय विरोधाय. उत्तरे च तेषां गुणानुशंसा भविष्यन्ति यद् उतास्याः प्रज्ञापारमितायाः श्रवणेनानुपूर्वेण त्रिभिर् यानैर् निर्याय दुःखस्यान्तं करिष्यन्ति. तद्यथापि नाम कौशिक मघि नाम्ऽ औषधी तत्र आशीविषेण जन्तुना बुभुक्षितेनाहारार्थिना आहारगवेषिणा कश्चिद् एव प्राणकजातो दृष्टो भवेत्, स तं प्राणकजातं पुनः खादितुकामः प्राणकजातम् अनुधावेत्.
SK
अथ खलु स प्राणजातः येन सा मघि नाम्ऽ औषधि तेनोपसंक्रामेद् अथ स आशीविषस् तस्या औषध्या गन्धेन प्रत्युदावर्तते. तत् (PSP_२-३:४४) कस्य हेतोः? तथा हि तस्या औषध्या भैषज्यगुणः यत् तस्याशीविषस्य तद् विषम् अभिभवति. एवं बलवती हि सा कौशिक औषधी एवम् एव कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. तत्र कौशिक ये उत्पन्नोत्पन्ना विग्रहा विवादा विरोधा भविष्यन्ति ते प्रज्ञापारमितायास् तेजसा प्रज्ञापारमिताया बलेन क्षिप्रम् एवान्तर्धास्यन्त्य् उपशमिष्यन्ति यतो यत एवोत्पत्स्यन्ते तत्र तत्रैवान्तर्धास्यन्ति न विवर्धिष्यन्त्य् उपशमिष्यन्ति. इति निरोधे ऽन्वयज्ञानम्
SK
तत् कस्य हेतोस्? तथा हि कौशिक प्रज्ञापारमिता सर्वधर्माणम् उपशमयित्री न विवर्धिका, कतमेषां धर्माणाम्? यद् उत रागस्य दोषस्य मोहस्याविद्यायाः संस्काराणां विज्ञानस्य नामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायानाम् उपशमयित्री न विवर्धिका सर्वदुःखस्कन्धस्य निवरणावरणानुशयपर्यवस्थानानाम् आत्मदृष्टेः सत्त्वदृष्टेर् जीवदृष्टेः पोषदृष्टेः पुरुषदृष्टेः पुद्गलदृष्टेर् मनुजदृष्टेर् मानवदृष्टेः कारकदृष्टेर् वेदकदृष्टेर् जानकदृष्टेः पश्यकदृष्टेर् उच्छेददृष्टेः शाश्वतदृष्टेर् अस्तिदृष्टेर् नास्तिदृष्टेर् यावत् सर्वदृष्टिकृतानां मात्सर्यदौःशील्यव्यापादस्य कौशीद्यस्य विक्षेपस्य दौष्प्रज्ञस्य नित्यसंज्ञासुखसंज्ञात्मसंज्ञाशुचिसंज्ञाशुभसंज्ञातृष्णाविचरितानां रूपग्राहस्य वेदनासंज्ञासंस्कारविज्ञानग्राहस्य दानपारमिताग्राहस्य शीलपारमिताग्राहस्य क्षान्तिपारमिताग्राहस्य वीर्यपारमिताग्राहस्य ध्यानपारमिताग्राहस्य प्रज्ञापारमिताग्राहस्याध्यात्मशून्यताग्राहस्य बहिर्धाशून्यताग्राहस्याध्यात्मबहिर्धशून्यताग्राहस्य यावद् अभावस्वभावशून्यताग्राहस्य स्मृत्युपस्तानग्राहस्य सम्यक्प्रहाणर्द्धिपादान्द्रियबलबोध्यङ्गग्राहस्याप्रमाणध्यानरूप्यसमापत्तिग्राहस्य सत्याभिज्ञाग्राहस्य सर्वसमाधिधारणीमुखग्राहस्य दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मग्राहस्य सर्वाकारज्ञताग्राहस्य निर्वाणग्राहस्योपशमयित्री न विवर्धिका. इति मार्गे धर्मज्ञानक्षान्तिः
SK
अथ खलु य इह त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानो (PSP_२-३:४५) लोकपालाः शक्रा देवेन्द्रा ये च ब्रह्माणो ब्रह्मा च सहापतिर् यावद् अकनिष्ठा देवपुत्रास् ते सततसमितं तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षावरणगुप्तिं संविधास्यन्ति यत्र कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति लिखिष्यति लिखापयिष्यति योनिशश् च मनसिकरिष्यति. ये ऽपि ते दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तिं संविधास्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति लिखिष्यति लिखापयिष्यति योनिशश् च मनसिकरिष्यति यथा कुशलैर् धर्मैर् न परिहास्यते, कुशलैर् धर्मैर् विवर्धिष्यते. यद् उत दानपारमिताशीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमिताभिर् विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. अध्यात्मशून्यतया विवर्धिष्यते न परिहास्यति. एवं बहिर्धाशून्यतयाध्यात्मबहिर्धाशूम्यतया यावद् अभावस्वभावशून्यतया विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् विवर्धिष्यते न परिहास्यति. अप्रमाणध्यानारूप्यसमापत्तिभिर् विवर्धिष्यते न परिहास्यति. सत्याभिज्ञाभिर् दशबलैर् वैशारद्यैः प्रतिसंविद्भिर् आवेणिकैर् बुद्धधर्मैर् विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. सर्वसमाधिभिः सर्वधारणीमुखैर् विवर्धिष्यते न परिहास्यति, यावत् सर्वाकारज्ञतया विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. इति मार्गे धर्मज्ञानम्
SK
स आदेयवचनश् च मितवचनश् च भविष्यति, न क्रोधाधिभूतो भविष्यति, न मानाभिभूतश् भविष्यति, न मत्सरी भविष्यति, नेर्ष्यालुर् भविष्यति. आत्मना च प्राणातिपातात् प्रतिविरतो भविष्यति, परांश् च प्राणातिपतवैरमणे प्रतिष्ठापयिष्यति, प्राणातिपातविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये प्राणातिपातात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना चादत्तादानात् प्रतिविरतो भविष्यति, परांश् चादत्तादानवैरमणे प्रतिष्ठापयिष्यति, अदत्तादानविरतेश् च वर्णं भाषिष्यते, ये ऽपि (PSP_२-३:४६) चान्ये ऽदत्तादानात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च काममिथ्याचारात् प्रतिविरतो भविष्यति, परांश् च काम मिथ्याचारवैरमणे प्रतिष्ठापयिष्यति, काममिथ्याचारविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये काममिथ्याचारात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च मृषावादात् प्रतिविरतो भविष्यति, परांश् च मृषावादवैरमणे प्रतिष्ठापयिष्यति, मृषावादविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मृषावादात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च पिशुनवचनात् प्रतिविरतो भविष्यति, परांश् च पिशुनवचनवैरमणे प्रतिष्ठापयिष्यति, पिशुनवचनविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये पिशुनवचनात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च परुषवचनात् प्रतिविरतो भविष्यति, परांश् च परुषवचनवैरमणे प्रतिष्ठापयिष्यति, परुषवचनविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये परुषवचनात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च संभिन्नप्रलापात् प्रतिविरतो भविष्यति, परांश् च संभिन्नप्रलापवैरमणे प्रतिष्ठापयिष्यति, संभिन्नप्रलापविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये संभिन्नप्रलापात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना चाभिध्यायाः प्रतिविरतो भविष्यति, परांश् चाभिध्यावैरमणे प्रतिष्ठापयिष्यति, अभिध्याविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽभिध्यायाः प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च व्यापादात् प्रतिविरतो भविष्यति, परांश् च व्यापादवैरमणे प्रतिष्ठापयिष्यति, व्यापादविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये व्यापादात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च मिथ्यादृष्टेः प्रतिविरतो भविष्यति, परांश् च मिथ्यादृष्टिवैरमणे प्रतिष्ठापयिष्यति, मिथ्यादृष्टिविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मिथ्यादृष्टेः प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी (PSP_२-३:४७) भविष्यति समनुज्ञः.
SK
आत्मना च दानपारमितायां प्रतिष्ठितो भविष्यति, पारांश् च दानपारमितायां प्रतिष्ठापयिष्यति, दानपारमितायाश् च वर्णं भाषिष्यते. ये ऽपि चान्ये दानपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च शीलपरमितायां प्रतिष्ठितो भविष्यति, परांश् च शीलपारमितायां प्रतिष्ठापयिष्यति, शीलपारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये शीलपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च क्षान्तिपारमितायां प्रतिष्ठितो भविष्यति, परांश् च क्षान्तिपारमितायां प्रतिष्ठापयिष्यति, क्षान्तिपारमितायाश् च वर्णं भाषीष्यते, ये ऽपि चान्ये क्षान्तिपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च वीर्यपारमितायां प्रतिष्ठितो भविष्यति, परांश् च वीर्यपारमितायां प्रतिष्ठापयिष्यति, वीर्यपारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये वीर्यपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च ध्यानपारमितायां प्रतिष्ठितो भविष्यति, परांश् च ध्यानपारमितायां प्रतिष्ठापयिष्यति, ध्यानपारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ध्यानपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च प्रज्ञापारमितायां प्रतिष्ठितो भविष्यति, परांश् च प्रज्ञापारमितायां प्रतिष्ठापयिष्यति, प्रज्ञापारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये प्रज्ञापार्मितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना चाध्यात्मशून्यतायां प्रतिष्ठितो भविष्यति, परांश् चाध्यात्मशून्यतायां प्रतिष्ठापयिष्यति, अध्यात्मशून्यातायाश् च वर्णं भाषिष्यते. ये ऽपि चान्ये ऽध्यात्मशून्यतां भावयन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः.
SK
आत्मना च बहिर्धाशून्यतायां प्रतिष्ठितो भविष्यति, परांश् च (PSP_२-३:४८) बहिर्धाशून्यतायां प्रतिष्ठापयिष्यति, बहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये बहिर्धाशून्यतां भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना चाध्यात्मबहिर्धाशून्यतायां प्रतिष्ठितो भविष्यति, परांश् चाध्यात्मबहिर्धाशून्यतायां प्रतिष्ठापयिष्यति, अध्यात्मबहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽध्यात्मबहिर्धाशून्यतां भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च यावद् अभावस्वभावशून्यतायां प्रतिष्ठितो भविष्यति, परांश् चाभावस्वभावशून्यतायां प्रतिष्ठापयिष्यति, अभावस्वभावशून्यतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽभावस्वभावशून्यतां भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च सर्वसमाधीन् समापत्स्यते, परांश् च सर्वसमाधिसमापत्तौ प्रतिष्ठापयिष्यति, सर्वसमाधिसमापत्तीनां वर्णं भाषिष्यते, ये ऽपि चान्ये सर्वसमाधिसमापत्तीः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च धारणीप्रतिलब्धो भविष्यति, परांश् च धारणीप्रतिलम्भाय समादापयिष्यति, धारणीप्रतिलम्भस्य वर्णं भाषिष्यते, ये ऽपि चान्ये धारणीप्रतिलब्धा भवन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च प्रथमं ध्यानं समापत्स्यते, परांश् च प्रथमध्यानसमापत्तौ प्रतिष्ठापयिष्यति, प्रथमध्यानप्रतिष्ठानस्य च वर्णं भाषिष्यते, ये ऽपि चान्ये प्रथमं ध्यानं समापद्य विहरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च द्वितीयं ध्यानं समापत्स्यते यावत् तृतीयं ध्यानं समापत्स्यते. आत्मना च चतुर्थं ध्यानं समापत्स्यते, परांश् च चतुर्थध्याने प्रतिष्ठापयिष्यति, चतुर्थध्यानप्रतिष्ठानस्य वर्णं भाषिष्यते, ये ऽपि चान्ये चतुर्थं ध्यानं समापद्य विहरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च मैत्रीं समापत्स्यते, परांश् च मैत्र्यां समादापयिष्यति, मैत्रीसमाधेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मैत्रीं (PSP_२-३:४९) समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च करुणामुदितोपेक्षाः समापत्स्यते, परांश् च करुणामुदितोपेक्षासु समादापयिष्यति, करुणामुदितोपेक्षाणां च वर्णं भाषिष्यते, ये ऽपि चान्ये करुणामुदितोपेक्षाः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना चाकाशानन्त्यायतनं समापत्स्यते, परांश् चाकाशानन्त्यायतनसमापत्तौ समादापयिष्यति, आकाशानन्त्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये आकाशानन्त्यायतनसमापत्तिं समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च विज्ञानानन्त्यायतनं समापत्स्यते. आत्मना चाकिंचन्यायतनं समापत्स्यते. आत्मना च नैवसंज्ञानासंज्ञायतनं उपसंपद्य विहरिष्यति, परांश् च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयिष्यति, नैवसंज्ञानासंज्ञायतनसमापत्तेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च चत्वारि स्मृत्युपस्थानानि भावयिष्यति, परांश् च स्मृत्युपस्थानभावनायां समादापयिष्यति, स्मृत्युपस्थानभावनायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये स्मृत्युपस्थानानि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
एवम् आत्मना च चत्वारि सम्यक्प्रहाणानि भावयिष्यति, चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि, आत्त्नना चार्याष्टाङ्गं मार्गं भावयिष्यति, परांश् च मार्गभावनायां समादापयिष्यति, मार्गभावनायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मार्गं भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च चत्वार्य् आर्यसत्यानि भावयिष्यति, परांश् च चतुर्ष्व् आर्यसत्येषु प्रतिष्ठापयिष्यति, चतुर्णां आर्यसत्यानां च वर्णं भाषिष्यते, ये ऽपि चान्ये चत्वार्य् आर्यसत्यानि भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयिष्यति, परांश् च शून्यतानिमित्ताप्रणिहितसमाधिभावनायां प्रतिष्ठापयिष्यति, शून्यतानिमित्ताप्रणिहितसमाधिभावनायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः. (PSP_२-३:५०)
SK
आत्मना चाष्टविमोक्षान् समापत्स्यते, परांश् चाष्टविमोक्षसमापत्तौ समादापयिष्यति, अष्टानां च विमोक्षाणां वर्णं भासिष्यते, ये ऽपि चान्ये ऽष्टविमोक्षान् समापद्यन्ते तेषां अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च नवानुपूर्वविहारसमापत्तीः समापत्स्यते, परांश् च नवानुपूर्वविहारसमापत्तौ समादापयिष्यति, नवानुपूर्वविहारसमापत्तीनां च वर्णं भाषिष्यते, ये ऽपि चान्ये नवानुपूर्वविहारसमापत्तीः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः समापत्स्यते, परांश् च दशतथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु समादापयिष्यति दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां च वर्णं भाषिष्यते, ये ऽपि चान्ये दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना चाष्टादशावेणिकान् बुद्धधर्मान् समापत्स्यते, परांश् चाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु समादापयिष्यति, अष्टादशानाम् आवेणिकानां बुद्धधर्माणां च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽष्टादशावेणिकान् बुद्धधर्मान् समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना चासंमोषधर्मा भविष्यति, परांश् चासंमोषधर्मतायां समादापयिष्यति, असंमोषधर्मतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽसंमोषधर्मतायां प्रतिष्टापिता भवन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च सर्वाकारज्ञतायां प्रतिष्ठितो भविष्यति, परांश् च सर्वाकारज्ञतायां समादापयिष्यति सर्वाकारज्ञतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये सर्वाकारज्ञतायां प्रतिष्ठिता भवन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः. इति मार्गे ऽन्वयज्ञानक्षान्तिः
SK
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् यद् दानं ददाति तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यच् छीलं रक्षति तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् (PSP_२-३:५१) अनुपलम्भयोगेन. यां क्षान्तिं भावयति तां सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यद् वीर्यम् आरभते तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यद् ध्यानं समापद्यते तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यां प्रज्ञां भावयति तां सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. एवं चरतः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा षट्सु पारमितासु स्मृतिर् एवम् उत्पद्यते: यद्य् अहं दानं न दास्यामि, दुर्गतेषु मे कुलेषूपपत्तिर् भविष्यति, न च मे सत्त्वपरिपाको भविष्यति, न च मे बुद्धक्षेत्रं परिशोधनं भविष्यति, न च सर्वज्ञतां प्रतिलप्स्ये. तस्यैवं भवति: यद्य् अहं शीलं न रक्षिष्यामि, तिसृणं दुर्गतीनां मे ऽपावृतानि द्वाराणि भविष्यन्ति, न देवमनुष्योपपत्तिर् मे भविष्यति, न सत्त्वपरिपाको न बुद्धक्षेत्रपरिशोधनं, कुत एव सर्वज्ञताप्रतिलाभस्. तस्यैवं भवति: यद्य् अहं क्षान्तिं न भावयिष्यामि, इन्द्रियाणि मे परिभेत्स्यन्ते, मुखमण्डलं मे ध्यामीभविष्यति, न च रूपसंपदं प्रतिलप्स्ये, यया रूपसंपदा बोधिसत्त्वचारिकां मे चरतः. सत्त्वाः सह दर्शनेन नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ, न च रूपसंपदा सत्त्वान् परिपाचयिष्यामि, न बुद्धक्षेत्रं परिशोधयिष्यामि, कुतः पुनः सर्वज्ञतां प्रतिलप्स्ये. तस्यैवं भवति: सचेद् अहं कुसीदो भविष्यामि, नैव बोधिसत्त्वमार्गं भावयिष्यामि, न वीर्यम् आरप्स्ये कथं बुद्धधर्मान् परिपूरयिष्यामि, कुत एव सर्वज्ञतां प्रतिलप्स्ये, तस्यैवं भवति: सचेद् अहं विक्षिप्तचित्तो भविष्यामि, न शिक्षिष्यामि सर्वसमाधिपरिनिष्पादनाय, न सत्त्वान् परिपाचयिष्यामि, न बुद्धक्षेत्रं परिशोधयिष्यामि, कुतः पुनः सर्वज्ञतां प्रतिलप्स्ये. तस्यैवं भवति: सचेद् अहं दुष्प्रज्ञो भविष्यामि, प्रज्ञोपायकौशल्येन श्रावकभूमिं प्रत्येकबुद्धभूमिं चातिक्रम्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य सर्वज्ञताम् अभिसंबोद्धुं नाहं शिक्षिष्यामि स एवं प्रतिसंशिक्षते, अयुक्तम् (PSP_२-३:५२) एतत् मम भवेद्, यो ऽहं मात्सर्यवशेन दानपारमितां न परिपूरयेयम्, एवं दौःशील्यवशेन शीलपारमितां व्यापादवशेन क्षान्तिपारमितां कौशीद्यवशेन वीर्यपारमितां विक्षेपवशेन ध्यानपारमितां दौष्प्रज्ञावशेन प्रज्ञापारमितां न परिपूरयेयं. अपरिपूरयन् दानपारमिताम् एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञापारमितां चापरिपूरयन् न निर्यास्यामि सर्वाकारज्ञतायाम्. एवं हि कौशिक स कुलपुत्रो वा कुलदुहिता वा दृष्टधर्मिकान् सांपरायिकांश् च गुणानुशंसान् प्रतिलभते य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति लिखिष्यति लिखापयिष्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च भविष्यति सर्वज्ञताचित्तेन. इति मार्गे ऽन्वयज्ञानम् इत्य् उक्तो बोधिसत्त्वदर्शनमार्गः
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां परिदमनाय परिणमनाय च प्रत्युपस्थिता.
SK
भगवान् आह: कथं पुनः कौशिक प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां परिदमनाय परिणमनाय च प्रत्युपस्थिता?
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: इह भगवन् बोधिसत्त्वो महासत्त्वो लौकिक्यां दानपारमितायां चरन् बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यः श्रावकेभ्यो दानां ददाति. तस्यैवं भवति: अहं दानं ददामि बुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धेभ्यः कृपणवनीकार्थिकयाचनकेभ्यः. स एतेन दानेनानुपायकौशल्येनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकं शीलं रक्षत एवं भवत्य्: अहं शीलपारमितायां चरामि, अहं शीलपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकीं क्षान्तिं भावयत एवं भवत्य्: अहं क्षान्तिपारमितायां चरामि, अहं क्षान्तिपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकं वीर्यम् आरम्भमाणस्यैवं भवति: अहं वीर्यपारमितायां चरामि, अहं वीर्यपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकं ध्यानं समापद्यमानस्यैवं भवत्य्: अहं ध्यानपारमितायां चरामि, अहं ध्यानपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य (PSP_२-३:५३) लौकिक्यां प्रज्ञापारमितायां चरतो ऽनुपायकौशल्येनैवं भवत्य्: अहं प्रज्ञापारमितायां चरामि, प्रज्ञापारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिक्यां स्मृत्युपस्थानभावनायां स्थितस्यैवं भवत्य्: अहं स्मृत्युपस्थानानि, भावयामि, अहं सम्यक्प्रहाणानि, अहम् ऋद्धिपादान्, अहम् इन्द्रियाणि, अहं बलानि, अहं बोध्यङ्गानि, अहम् आर्याष्टाङ्गं मार्गं भावयामि, अहं शून्यतानिमित्ताप्रणिहितसमाधिं भावयामि, अहं सर्वसमाधीन्, अहं सर्वधारणीमुखानि, अहम् अप्रमाणध्यानारूप्यसमापत्तीर् भावयामि, अहं चत्वार्य् आर्यसत्यानि भावयामि, अहम् अभिज्ञा, अहं दशबलानि, अहं वैशारद्यानि, अहं प्रतिसंविदः, अहम् अष्टादशावेणिकान् बुद्धधर्मान् भावयामि, अहं सत्त्वान् परिपाचयिष्यामि, अहं बुद्धक्षेत्रं परिशोधयिष्यामि, अहं सर्वाकारज्ञतां परिप्राप्स्यामि, स तेनाहंकारममकाराभिनिवेशेनोन्नतिं गच्छति. एवं हि भगवन् बोधिसत्त्वो महासत्त्वो लौकिकेषु धर्मेषु चरन्न् उन्नतिं गच्छति. अहंकारममकाराभिनिवेशेन. तस्य खलु पुनः प्रज्ञापारमिता परिदमनाय परिणामनाय च प्रत्युपस्थिता भवति.
SK
इह पुनर् भगवन् बोधिसत्त्वो महासत्त्वो लोकोत्तरेषु धर्मेषु चरन् दानं ददद् दायकं नोपलभते, प्रतिग्राहकं नोपलभते, देयं च नोपलभते. एवं हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परिदमनाय प्रत्युपस्थितो भवति परिणामनाय. एवं शीलं रक्षन् क्षान्तिं संपादयमानो वीर्यम् आरम्भमाणो ध्यानं ध्यायन् प्रज्ञापारमितां भावयन् प्रज्ञां नोपलभते. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन् नोपलभते. अप्रमाणध्यानारूप्यसमापत्तीः, आर्यसत्यान्य् अभिज्ञां भावयन् नोपलभते. बलानि वैशारद्यां प्रतिसंविदः, अष्टादशावेणिकान् बुद्धधर्मान् भावयन् नोपलभते. सर्वशून्यताः सर्वसमाधिन् सर्वधारणीमुखानि भावयन् नोपलभते. एवं महामैत्रीं महाकरुणां च भावयन् नोपलभते यावत् सर्वाकारज्ञतां भावयन् नोपलभते. एवं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परिदमनाय परिणामनाय च प्रत्युपस्थितो भवति. इति सर्वतो दमननमनकारित्रम् (PSP_२-३:५४)
SK
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्णन् वा धारयन् वा वाचयन् वा पर्यवाप्नुवन् वा प्रवर्तयन् वा स्वाध्यायन् वा योनिशो मनसिकुर्वन् वा संग्रामशीर्षम् आरूढः संग्रामे वर्तमाने संग्रामे ऽवतीर्णो वा शयितो वातिक्रान्तो वा निषण्णो वा स्थितो वा स्यात्, अस्थानं कौशिकानवकाशो यत् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतः प्रवर्तयतः स्वाध्यायतो योनिशो मनसिकुर्वतो वा कश्चिद् एव काण्डं वा शस्त्रं वा लोष्टं वा क्षिपेत् क्षिप्तानि वा तस्य तानि शरीरे प्रहरणानि पतेयुः, परोपक्रमेन वास्य जीवितान्तरायो भवेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि तेन कुलपुत्रेण वा कुलदुहित्रा वा दीर्घरात्रम् इह प्रज्ञापारमितायां चरता आत्मनो रागकाण्डानि रागशस्त्राणि निर्जितानि भवन्ति. परेषाम् अपि रागकाण्डानि रागशस्त्राणि निर्जितानि. आत्मनो दोषकाण्डानि दोषशस्त्रानि मोहकाण्डानि मोहशस्त्राणि निर्जितानि. परेषाम् अपि दोषकाण्डानि दोषशस्त्राणि मोहकाण्डानि मोहशस्त्राणि निर्जिताम्. आत्मनो दृष्टिकृतकाण्डानि दृष्टिकृतशस्त्राणि निर्जितानि परेषाम् अपि दृष्टिकृतकाण्डानि दृष्टिकृतशस्त्राणि निर्जितानि. आत्मनः पर्युत्थानकाण्डानि पर्युत्थानशस्त्राणि निर्जितानि. परेषाम् अपि पर्युत्थानकाण्डानि पर्युत्थानशस्त्राणि निर्जितानि. आत्मनो ऽनुशयकाण्डान्य् अनुशयशस्त्राणि निर्जितानि. परेषाम् अप्य् अनुशयकाण्डान्य् अनुशयशस्त्राणि निर्जितानि. अनेन कौशिक पर्यायेण तस्य कुलपुत्रस्य वा कुलदुहितुर् वा काण्डं वा शस्त्रं वा शरीरे क्षिप्तं न पतति. इति क्लेशनिर्जयकारित्रम्
SK
पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च सर्वज्ञताचित्तेन भविष्यति तस्य कश्चिद् एवाभैषज्यम् अवकिरेत्, काखोर्दं वा कुर्याद् अग्निखदां वोपनामयेच् छस्त्रेण वा हन्याद् विषं वा दद्याद् उदके वैनच् छोरयेत् सर्वाण्य् एतानि तस्य न क्रामन्ति. तत् कस्य हेतोर्? महाविद्यैषा कौशिक यद् उत प्रज्ञापारमिता, अनुत्तरैषा (PSP_२-३:५५) कौशिक विद्या यद् उत प्रज्ञापारमिता. अत्र हि कौशिक शिक्षमाणः कुलपुत्रो वा कुलदुहिता वा नात्मव्याबाधाय चेतयते, न परव्याबाधाय चेतयते, नोभयव्याबाधाय चेतयते. इत्य् उपक्रमाधिसह्यताकारित्रम्
SK
तत् कस्य हेतोस्? तथा हि नैवात्मानम् उपलभते. न परान् नोभयम् उपलभते. न रूपम् उपलभते. न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् उपलभते. न यावद् व्यस्तसमस्तान् स्कन्धधात्व् आयतन प्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्माप्रमाणध्यानारूप्यसमापत्तिसर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् यावत् सर्वाकारज्ञताम् अपि नोपलभते. अनुपलभमानो नात्मव्याबाधाय चेतयते, न परव्याबाधाय चेतयते, नोभयव्याबाधाय चेतयते. अनुत्तरां सम्यक्संबोधिं प्रतिलभते सर्वसत्त्वांश् चावलोकयति. तत् कस्य हेतोर्? अत्र हि विद्यायां शिक्षमाणैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. ये ऽपि ते भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्र प्रज्ञापारमितायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. ये ऽपि ते दशदिग्लोकधातुष्व् एतर्हि प्रत्युत्पन्नास् तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्र प्रज्ञापारमितायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति सम्यक्संबोधिकारित्रम्
SK
पुनर् अपरं कौशिक यत्रेमां प्रज्ञापारमितां लिखित्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति योनिशश् च मनसिकरिष्यन्ति, न तत्र मणुष्यो वा अमनुष्यो वा अवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते. तत् कस्य हेतोस्? तथा ह्य् अत्र प्रज्ञापारमितायां पूजार्थाय त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या यावद् अकनिष्ठा देवपुत्रा, ये ऽप्य् अन्येष्व् अप्रमेयेष्व् असंख्येयेषु लोकधातुषु चातुर्महाराजकायिका देवपुत्रा यावद् अकनिष्ठा देवापुत्रास् ते ऽपि तेषां कुलपुत्राणां कुलदुहितृणां वा रक्षावरणगुप्तिं संविधास्यन्ति. (PSP_२-३:५६) य इमां प्रज्ञापारमितां लिखित्वा धारयिष्यन्ति वाचयिष्यन्ति ते च देवपुत्रा अगत्येमां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पूजयित्वा प्रतिगमिष्यन्ति. य इमां प्रज्ञापारमितां लिखित्वा धारयिष्यति वाचयिष्यति तस्येमे दृष्टधार्मिका गुणानुशंसा भविष्यन्ति. तद्यथापि नाम कौशिक ये केचिद् बोधिमण्डगता वा बोधिमण्डपरिसामन्तगता वा बोधिमण्डाभ्यन्तरगता वा तिर्यग्योनिगतान् अप्य् उपादाय न ते शक्यन्ते मनुष्येण वा अमनुष्येण वा विहेठयितुं वा विहिंसयितुं वा. तत् कस्य हेतोर्? अत्र हि निषद्य तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. अनागतैर् अपि प्रत्युत्पन्नैर् अपि तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंभोत्स्यते अभिसंबुध्यते च. अभिसंबुध्य च सर्वसत्त्वान् सुखे ऽभये ऽनुद्वेगे ऽवैरे ऽनुत्त्रासे ऽव्याबाधे ऽसपत्ने प्रतिष्ठापयन्ति. सुखे ऽभये ऽनुद्वेगे ऽनुत्त्रासे ऽवैरे ऽव्याबाधे ऽसपत्ने प्रतिष्ठाप्याप्रमेयान् असंख्येयान् सत्त्वान् दिव्यमानुष्यकायं संपत्तौ प्रतिष्ठापयन्ति. स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबुद्धत्वे ऽनुत्तरायां सम्यक्संबोधौ परिणामयन्ति. तत् कस्य हेतोर्? अनयैव कौशिक प्रज्ञापारमितया सपृथिवीप्रदेशश् चैत्यभूतः कृतः सर्वसत्त्वानां वन्दनीयः सत्करणीयो गुरुकरणीयो माननीयः पूजनीयो ऽर्चनीयो ऽपचायनीयः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इत्य् आधारदेशपूज्यताकारित्रम् इत्य् उक्तं कारित्रम्
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगताम् अपि कृत्वा धारयेत् ताञ् च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः समन्ताच् च दीपमालाभिर् बहुविधाभिश् च पूजाभिः सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, यश् च तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य शरीराणि स्तूपेषु प्रतिष्ठापयिष्यति प्रतिष्ठाप्य प्रतिगृह्णीयाद् धारयेद् वाचयेत् तानि च सत्कुर्याद् गुरुकुर्याद् (PSP_२-३:५७) मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, कतरस् ततो बहुपुण्यं प्रसवति?
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक त्वाम् एवात्र प्रतिप्रक्ष्यामि, यथा ते क्षमते तथा व्याकुर्याः. तत् किं मन्यसे? कौशिक येयं तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वज्ञता यो चायं तथागतस्यात्मभावो ऽभिनिर्वृत्तः, स कतरस्यां प्रतिपदि शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अयं चात्मभावो ऽभिनिर्वृत्तः?
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: इहैव भगवन् शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाम् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अयं चात्मभावो ऽभिनिर्वृत्तः.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, प्रज्ञापारमितायां शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अयं चात्मभावो ऽभिनिर्वृत्तः.
SK
तस्मात् तर्हि कौशिक नानेनात्मभावशरीरप्रतिलम्भेन तथागतस् तथागत इति संख्यां गच्छति. सर्वज्ञतायां तु प्रतिलब्धायां तथागतस् तथागत इति संख्यां गच्छति. येयं कौशिक सर्वज्ञता सा प्रज्ञापारमिता निर्जाता. एवम् अयम् आत्मभावशरीरप्रतिलाभस् तथागतस्य प्रज्ञापारमितानिर्जातत्वात्, सर्वज्ञज्ञानस्याश्रयभूतो भवति. एवं चाश्रयं निश्रित्य सर्वज्ञज्ञानप्रतिलाभप्रभावनाबुद्धप्रभावनाधर्मप्रभावनासंघप्रभावना भवति. एवम् अस्य सर्वज्ञज्ञानहेतुको ऽयम् आत्मभावप्रतिलाभः. आश्रयभूतत्वात् सर्वसत्त्वानां चैत्यभूतो वन्दनीयः सत्करणीयो गुरुकरणीयो माननीयः पूजनीयो ऽर्चनीयो ऽपचायनीयः संवृत्तः. एवं च मम परिनिर्वृतस्यापि सत एषां शरीराणां पूजा भविष्यति.
SK
तस्मात् तर्हि कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा सत्कारेण वाचयिष्यति धारयिष्यति, पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः समन्ताच् च दीपमालाभिर् बहुविधाभिश् च पूजाभिः सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत्, अयम् एव ततो बहुतरं पुण्यं प्रसवति.
SK
तत् कस्य हेतोः? सर्वज्ञज्ञानस्य हि कौशिक तेन कुलपुत्रेण वा (PSP_२-३:५८) कुलदुहित्रा वा पूजा कृता भवेत्. यः कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य सप्तरत्नमये स्तूपे शरीरं प्रतिष्ठापयेत् सप्तरत्नमये वा समुद्गे वा कृत्वा परिवहेत्, तच् च सत्कुर्याद् यावद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्, यश् च इह प्रज्ञापारमितायां लिख्यामानायां वा पुस्तकगतायां वा सत्कारं कुर्याद् गुरुकारं कुर्याद् माननां पूजनाम् अर्चनाम् अपचायनां कुर्यात्, अयं ततो बहुतरं पुण्यं प्रसवेत्.
SK
तत् कस्य हेतोः? सर्वज्ञज्ञानस्य तेन पूजा कृता भविष्यति अतो निर्जाता हि पञ्चपारमिता, अतो निर्जाता अध्यात्मशून्यता यावद् अभावस्वभावशून्यता, अतो निर्जातानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञार्यसत्यानि, अतो निर्जाता अप्रमाणध्यानारूप्यसमापत्तयः अतो निर्जातानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा, अतो निर्जाताः सर्वसमाधयः सर्वधारणीमुखानि, अतो निर्जातः सर्वसत्त्वपरिपाकः, अतो निर्जाता बुद्धक्षेत्रपरिशुद्धिः, अतो निर्जाता बोधिसत्त्वानां महासत्त्वानां कुलसंपद् भोगसंपद् परिवारसंपद्, अतो निर्जाता महामैत्री महाकरुणा, अतो निर्जाता क्षत्रियमहाशालकुलता ब्राह्मणमहाशालकुलता गृहपतिमहाशालकुलता, अतो निर्जाता चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्त्मो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणो यावद् अकनिष्ठा देवपुत्रा, अतो निर्जाताः स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा, अतो निर्जाता बोधिसत्त्वा महासत्त्वा, अतो निर्जातास् तथागता अर्हन्तः सम्यक्संबुद्धा, अतो निर्जाताचिन्त्या अतुल्या अनुत्तरा निरुत्तरा असमा असमसमा सर्वाकारज्ञता. इति स्वार्थाधिमुक्तिमृदुमृद्धी
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: य इमे भगवन् जाम्बूद्वीपका मनुष्या इमां प्रज्ञापारमितां न सत्कुर्वन्ति न गुरुकुर्वन्ति न मानयन्ति न पूजयन्ति नार्चयन्ति नापचायन्ते पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः किं नु भगवञ् ज्ञास्यन्ति एवं महर्द्धिका प्रज्ञापारमितायाः पूजा कृता भविष्यतीति, एवं महानुशंसा प्रज्ञापारमितायाः पूजा कृता भविष्यतीति, उत न ज्ञास्यन्ति? (PSP_२-३:५९)
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तत् किं मन्यसे कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये बुद्धे ऽवेत्यप्रसादेन समन्वागता, ये धर्मे ऽवेत्यप्रसादेन समन्वागता, ये संघे ऽवेत्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा ये धर्मे निष्काङ्क्षा ये संघे निष्काङ्क्षा, ये बुद्धे निष्ठांगता ये धर्मे निष्ठांगता ये संघे निष्ठांगताः?
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: अल्पकास् ते भगवन् जाम्बूद्वीपका मनुष्या ये बुद्धे ऽवेत्यप्रसादेन समन्वागता ये धर्मे ऽवेत्यप्रसादेन समन्वागता ये संघे ऽवेत्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा ये धर्मे निष्काङ्क्षा ये संघे निष्काङ्क्षा, ये बुद्धे निष्ठांगता ये धर्मे निष्ठांगता ये संघे निष्ठांगताः.
SK
भगवान् आह: तत् किं मन्यसे कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां विमोक्षमुखानां लाभिनः, कियन्तस् ते जाम्बाद्वीपका मनुष्या ये ऽष्टानां विमोक्षाणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये नवानुपूर्वविहारसमापत्तीनां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये चतसृणां प्रतिसंविदां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये षण्णाम् अभिज्ञानां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्ना, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये रागदोषमोहतनुत्वात् सकृदागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, कियन्तस् ते जाम्बुद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः?
SK
शक्र आह: अल्पतरकास् ते भगवन् जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतां बोधिपक्ष्यां धर्माणां लाभिनः, ततो ऽल्पतरका ये त्रयाणां विमोक्षमुखानां लाभिनस्, ततो ऽल्पतरका ये ऽष्टानां विमोक्षाणां लाभिनस्, ततो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तीनां लाभिनस्, ततो ऽल्पतरका ये चतसृणां प्रतिसंविदां लाभिनस्, ततो ऽल्पतरका ये षण्णाम् अभिज्ञानां लाभिनः. ततो ऽल्पतरकास् जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ततो ऽल्पतरकास् ते ये रागदोषमोहतनुत्वात् (PSP_२-३:६०) सकृदागामिनः, ततो ऽल्पतरकास् ते ये पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामिनः, ततो ऽल्पतरकास् ते ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, अल्पकास् ते जाम्बूद्वीपका मनुष्या ये बुद्धे धर्मे संघे ऽवेत्यप्रसादेन समन्वागताः, ये बुद्धे धर्मे संघे निष्काङ्क्षाः, ये बुद्धे धर्मे संघे निष्ठांगताः. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरकास् ते ये दशकुशलकर्मपथसेविनस्, तेभ्यो ऽल्पेभ्यो ऽल्पतरकास् ते ये दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभावना युक्ताः. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरकास् ते ये सप्तत्रिंशद्बोधिपक्षान् धर्मान् भावयन्ति. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरका ये त्रीणि विमोक्षमुखानि भावयन्ति. तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये ऽष्ट विमोक्षां भावयन्ति, तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तीर् भावयन्ति, तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरका ये चतस्रः प्रतिसंविदो भावयन्ति, तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये षड् अभिज्ञा भावयन्ति. ततो ऽल्पतरका ये स्रोतआपन्नाः, ततो ऽल्पतरका ये सकृदागामिनः, ततो ऽल्पतरका ये ऽर्हन्तः, ततो ऽल्पतरका ये प्रत्येकबुद्धाः, ततो ऽल्पतरका ये ऽनुत्तरायै सम्यक्संबोधये संप्रस्थिताः. ततो ऽल्पेभ्यो ऽल्पतरका ये बोधाय चरन्ति.
SK
तत् कस्य हेतोस्? तथा हि तैः संसारे संसरद्भिर् न बुद्धो दृष्टः न धर्मः श्रुतः न संघः पर्युपासितः. न दानं दत्तं न शीलं रक्षितं न क्षान्तिर् भाविता न वीर्यम् आरब्धं न ध्यानं सेवितं न प्रज्ञा भाविता, न दानपारमिता श्रुता एवं न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता श्रुता नोपायकौशलं श्रुतं नाध्यात्मशून्यता न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न यावद् अभावस्वभावशून्यता श्रुता न सप्तत्रिंशद्बोधिपक्षा धर्माः श्रुता न समाधयो न सर्वधारणीमुखानि नाप्रमाणध्यानारूप्यसमापत्तयाः श्रुता नार्यसत्यानि नाभिज्ञा न बलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिका बुद्धधर्माः श्रुता न सर्वज्ञता श्रुता न भाविता न बहुली कृताः.
SK
अनेन कौशिक हेतुनाल्पकास् ते सत्त्वा ये बुद्धे ऽवेत्यप्रसादेन समन्वागता ये धर्मे ऽवेत्यप्रसादेन समन्वागता ये संघे ऽवेत्यप्रसादेन (PSP_२-३:६१) समन्वागताः, अल्पकास् ते सत्त्वा ये बुद्धे धर्मे संघे निष्काङ्क्षा, अल्पकास् ते सत्त्वा ये बुद्धे धर्मे संघे निष्ठांगता, अल्पकास् ते जाम्बूद्वीपका मनुष्या ये दशकुशलकर्मपथसेविनः, अल्पकास् ते ये दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभावना युक्ताः, अल्पकास् ते ये सप्तत्रिंशद्बोधिपक्ष्यां धर्मां भावयन्ति. अल्पकास् ते ये त्रीणि विमोक्षमुखानि भावयन्ति. अल्पकास् ते ये ऽष्ट विमोक्षां भावयन्ति अल्पकास् ते ये नवानुपूर्वविहारसमापत्तीर् भावयन्ति. अल्पकास् ते ये चतस्रः प्रतिसंविदो भावयन्ति. अल्पकास् ते षड् अभिज्ञा भावयन्ति. अल्पकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, रागदोषमोहतनुत्वात् सकृदागामिनः, पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् आनागामिनः, पञ्चानम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः. अल्पकास् ते जाम्बुद्वीपका मनुष्या ये प्रत्येकबुद्धयानं संप्रस्थिताः. तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये बोधाय चरन्ति. ततो ऽल्पतरका ये बोधिचित्तम् उपबृंहयन्ति. ततो ऽल्पतरका ये प्रज्ञापारमितायां योगम् आपद्यन्ते. ततो ऽल्पतरका ये प्रज्ञापारमितायां चरन्ति. ततो ऽल्पतरका ये ऽविनिवर्तनीयायां भूमौ स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
इहाहं कौशिक पश्यामि अनावरणेन बुद्धचक्षुषा पूर्वस्यां दिशि अप्रमेयाम् असंख्येयां सत्त्वाम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य प्रज्ञापारमितायां चरत उपायकौशलविरहितांस् तत एको वा द्वौ वा बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयत्वे ऽवतिष्ठेयातां, भूयस्त्वेन ते श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते.
SK
तत् कस्य हेतोर्? दुरभिसंभवा हि कौशिक अनुत्तरा सम्यक्संबोधिः कुशीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् हीनसत्त्वैर् दुष्प्रज्ञैः. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु पश्याम्य् अहं कौशिक अनावरणेन बुद्धचक्षुषा अप्रमेयान् असंख्येयान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य बोधाय चरत उपायकौशलविरहितास् तत एको वा द्वौ वा बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयत्वे ऽवतिष्ठेयातां, भूयस्त्वेन ते श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते.
SK
तत् कस्य हेतोर्? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः (PSP_२-३:६२) कुशीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् हीनसत्त्वैर् दुष्प्रज्ञैः. इति स्वार्थाधिमुक्तिमृदुमध्या
SK
तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा क्षिप्रं च सुखं चानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन इयम् एव प्रज्ञापारमिता अभीक्ष्णं श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या परिप्रश्नीकर्तव्या योनिशो मनसिकर्तव्या सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च ये ऽपि चान्ये कुशला धर्मा इह प्रज्ञापरमितायाम् अन्तर्गतास् ते ऽप्य् उद्ग्रहीतव्या धारयितव्या वाचयितव्याः पर्यवाप्तव्याः प्रवर्तयितव्या योनिशो मनसिकर्तव्याः तद्यथापि नाम दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः षड् अभिज्ञा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महामैत्री महाकरुणा, अन्ये चापरिमाणा बुद्धधर्मा ये प्रज्ञापारमितायाम् अन्तर्गतास् ते ऽप्य् उद्ग्रहीतव्या यावद् योनिशो मनसिकर्तव्याः.
SK
तत् कस्य हेतोस्? तथा हि कौशिक ते कुलपुत्रा वा कुलदुहितरो वा एवं प्रज्ञास्यन्ति अत्र हि तथागतः पूर्वबोधिसत्त्वचारिकां चरन् शिक्षितो यदुत प्रज्ञापारमितायां ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायाम् अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सर्वसमाधिषु सर्वधारणीमुखेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु षट्सु अभिज्ञासु दशतथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महामैत्र्यां महाकरुणायाम् अन्येषु चापरिमाणेषु बुद्धधर्मेष्व् अस्माभिर् अप्य् अस्यां प्रज्ञापारमितायाम् अनुशिक्षमाणैः शिक्षितव्यम् एषास्माकं शास्ता, तिष्ठतो वा तथागतस्य परिनिर्वृतस्य वा इयम् एव प्रज्ञापारमिता प्रतिसर्तव्या बोधिसत्त्वैर् महासत्त्वैः. (PSP_२-३:६३) इति स्वार्थाधिमुक्तिर् मृद्वधिमात्रा
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कियत् स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति?
SK
भगवान् आह: यः कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य पूजायै सप्तरत्नमयं स्तूपं योजनोच्छ्रितं कारयेत् कारयित्वा यावज्जीवं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, समन्ताच् च सत्कुर्याद् गुरुकुर्याद् मानायेत् पूजयेत्.
SK
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति?
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति देशयिष्यति योनिशो मनसिकरिष्यति अविरहितः सर्वज्ञताचित्तेन लिखितां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इति स्वार्थाधिमुक्तिर् मध्यमृद्धी
SK
तिष्ठतु कौशिक स्तूपो रत्नमयः सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य पूजाकर्मणे इमं जम्बूद्वीपं सप्तरत्नमयैः स्तूपैः परिपूर्णं कुर्याद् योजनोच्छ्रितैः, तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेद् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति?
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशो मनसिकरिष्यति, अविरहितश् सर्वज्ञताचित्तेन लिखितां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर् (PSP_२-३:६४) बहुविधाभिश् च पूजाभिः पूजयिष्यति. इति स्वार्थाधिमुक्तिमध्यमध्या
SK
तिष्ठतु कौशिक जम्बूद्वीपस् तथागतस्तूपपरिपूर्णः सचेत् कौशिक य इमां चातुर्महाद्वीपकं लोकधातुं तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयैः स्तूपैर् योजनोच्छ्रितैः परिपूर्णं कुर्यात् तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेद् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
तत् किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् अन्तशः पुस्तकगताम् अपि कृत्वा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च पूजयेत् अर्चयेद् अपचायेत् अयम् एव ततोनिदानं बहुतरं पुण्यं प्रसवेत्. इति स्वार्थाधिमुक्तिर् मध्याधिमात्रा
SK
तिष्ठतु कौशिक चातुर्महाद्वीपको लोकधातुस् तथागतस्तूपपरिपूर्णः सचेत् कौशिक यः साहस्रं लोकधातुं तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयैः स्तूपैर् योजनोच्छ्रितैः पूरयेत् पूरयित्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत्, दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
तत् किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् अन्तशः पुस्तकगताम् अपि कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च पूजयेद् अर्चयेद् अपचायेत्, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. इति स्वार्थाधिमुक्तिर् अधिमात्रमृद्धी
SK
तिष्ठतु कौशिक साहस्रो लोकधातुर् नानारत्नमयस्तूपपरिपूर्णः सचेत् कौशिक द्विसाहस्रं लोकधातुं कश्चिद् एव पुरुषस् तथागतस्य परिनिर्वृतस्य (PSP_२-३:६५) पूजार्थं नानारत्नमयैः स्तूपैः परिपूर्णं कारयेत् कारयित्वा च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः पूजयेद् अर्चयेद् अपचायेत्.
SK
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् अन्तशः पुस्तकगताम् अपि कृत्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. इति स्वार्थाधिमुक्तिर् अधिमात्रमध्या
SK
तिष्ठतु कौशिक द्विसाहस्रो लोकधातुर् नानारत्नमयस्तूपपरिपूर्णो यः. कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य पूजार्थम् इमां त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नमयैस् तथागतस्तूपैर् योजनोच्छ्रितैः पूरयेत् पूरयित्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् अन्तशः पुस्तकगताम् अपि कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयात् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इति स्वार्थाधिमुक्तिर् अधिमात्राधिमात्रा
SK
तिष्ठतु कौशिक त्रिसाहस्रमहासाहस्रो लोकधातुर् नानारत्नमयस्तुपपरिपूर्णः पूजितो ये केचित् कौशिक त्रिसाहस्रे लोकधातौ सत्त्वाः सत्त्वसंग्रहेण संगृहीताः तेषाम् एकैकः सत्त्वस् तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयान् स्तूपान् कारयेद् योजनोच्छ्रितांस् तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः. (PSP_२-३:६६)
SK
तत् किं मन्यसे कौशिकापि नु ते सत्त्वास् ततोनिदानं बहुतरं पुण्यं प्रसवेयुः?
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां पुस्तकगताम् अपि कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्याद् अविरहितः सर्वज्ञताचित्तेन पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च पूजयेद् अर्चयेद् अपचायेत्, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्.
SK
एवम् उक्ते सक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: एवम् एतद् भगवन्न् एवम् एतत् सुगत, प्रज्ञापारमितया भगवन् सत्कृतया गुरुकृतया मानितया पूजितया अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः सत्कृता गुरुकृता मानिता पूजिताश् च, ये ऽपि ते भगवन् पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वास् तेभ्य एकैकः सत्त्वस् तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयान् स्तूपान् प्रतिष्ठापयेद् योजनोच्छ्रितांस् तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः, अपि नु ते भगवन् कुलपुत्रा वा कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसवेयुः.
SK
एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तेभ्य एकैकः सत्त्वस् तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयान् स्तूपान् प्रतिष्ठापयेद् योजनोच्छ्रितांस् तांश् च कल्पं वा कल्पावशेसं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः, अपि नु ते भगवन् कुलपुत्रा वा कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसवेयुः.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्.
SK
शक्र आह: अतः स भगवन् कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् तांश् च (PSP_२-३:६७) सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिश् च पूजयेद् अर्चयेद् अपचायेत्, अयम् एव भगवन् कुलपुत्रो वा कुलदुहिता वा तस्मात् पूर्वकात् कुलपुत्राद् वा कुलदुहितृतो वा बहुतरं पुण्यं प्रसवेत्, तथा हि भगवन्न् अस्यां प्रज्ञापारमितायां सर्वे कुशला धर्मा अन्तर्गताः. तद्यथा दशकुशलाः कर्मपथाश् चत्वारि ध्यानां चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः सप्तत्रिंशद्बोधिपक्ष्या धर्मास् त्रीणि विमोक्षमुखानि चत्वार्य् आर्यसत्यानि षड् अभिज्ञा अष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयः दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः. प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महामैत्री महाकरुणा मार्गाकारज्ञता सर्वज्ञता सर्वाकारज्ञता, इदं तद् बुद्धानां भगवता शासनं यत्र शिक्षित्वा अतीतानागतप्रत्युत्पन्ना बोधिसत्त्वाः प्रत्येकबुद्धाः श्रावकाश् च निर्जाता निर्यान्ति निर्यास्यन्ति च.
SK
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, बहु ते कुलपुत्राः कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसविष्यन्ति. अप्रमेयम् असंख्येयम् अचिन्त्यम् अतुल्यम् अपरिमाणं य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति उत्तरे च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति अर्चयिष्यन्ति अपचायिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
तत् कस्य हेतोः? प्रज्ञापारमिता निर्जाता हि कौशिक तथागतानाम् अर्हतां सम्यक्संबुद्धानां पञ्च पारमिता सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद् बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्माः पञ्च चक्षूंषि षड् अभिज्ञा अष्ट विमोक्षा नवानुपूर्वविहार समापत्तयः सत्त्वपरिपाको बुद्धक्षेत्रसंपत्, प्रज्ञापारमितानिर्जाता हि कौशिक मार्गाकारज्ञता सर्वज्ञता सर्वाकारज्ञता, प्रज्ञापारमितानिर्जातं हि (PSP_२-३:६८) कौशिक श्रावकयानं प्रत्येकबुद्धयानं, प्रज्ञापारमितानिर्जाता हि कौशिक अनुत्तरा सम्यक्संबोधिः.
SK
तस्मात् तर्हि कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति तां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति अर्चयिष्यति अपचायिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः, अस्य पुण्याभिसंस्कारस्यासौ पौर्वकः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि यावत् कोटिनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि न क्षमते.
SK
तत् कस्य हेतोर्? यावद् इयं हि कौशिक प्रज्ञापारमिता जाम्बूद्वीपे स्थास्यति तावद् न बुद्धरत्नस्यान्तर्धानं भविष्यति न धर्मरत्नस्य न संघरत्नस्यान्तर्धानं भविष्यति, तावद् दश कुशलाः कर्मपथा लोके भविष्यन्ति चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानाम् आर्यसत्यानां षण्णाम् अभिज्ञानाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां चतसृणां प्रतिसंविदां दशानां तथागतबलानां चतुर्णां वैशारद्यानाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां मार्गाकारज्ञतायाः सर्वज्ञतायाः सर्वाकारज्ञतायाः क्षत्र्यमहाशालकुलानां ब्राह्मणमहाशालकुलानां गृहपतिमहाशालकुलानां चातुर्महाराजकायिकानां देवानां त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां लोके प्रादुर्भावो भवति यावद् अकनिष्ठानां देवानां लोके प्रादुर्भावो भवति, स्रोतआपत्तिफलस्य सकृदागामिफलस्यानागामिफलस्यार्हत्त्वस्य प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां समुदागमो भवति. अनुत्तरस्य बुद्धज्ञानस्य धर्मचक्रप्रवर्तनस्य सत्त्वपरिपाकस्य बुद्धक्षेत्रपरिशुद्धिश् च प्रज्ञायते. इति स्वपरार्थाधिमुक्तिमृदुमृद्धी
SK
अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका (PSP_२-३:६९) देवा यावद् अकनिष्ठा देवपुत्रास् तान् शक्रो देवानाम् इन्द्र आमन्त्रयामास: उद्ग्रहीतव्या मार्षाः प्रज्ञापारमिता धारयितव्या वाचयितव्या पर्यवाप्तव्या मार्षाः प्रज्ञापारमिता योनिशो मनसिकर्तव्या प्रज्ञापारमिता.
SK
तत् कस्य हेतोः? प्रज्ञापारमिताया मार्षा उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया सर्वे ऽकुशला धर्माः परिहीयन्ते कुशला धर्मा विवर्धन्ते दिव्याः काया विवर्धन्ते असुराः कायाः परिहीयन्ते, प्रज्ञापारमिताया मार्षा उद्गृहीतया धार्तितया वाचितया पर्यवाप्तया न बुद्धनेत्री समुच्छिद्यते न धर्मनेत्री न संघनेत्री समुच्छिद्यते, त्रिरत्नवंशानुपच्छेदाय मार्षाः सर्वासां पारमितानां लोके प्रादुर्भावो भवति, सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षमुखानां नवानुपूर्वविहारसमापत्तीनां षण्णाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां मार्गाकारज्ञतायाः सर्वज्ञतायाः सर्वाकारज्ञताया लोके प्रादुर्भावो भवति, बोधिसत्त्वचर्याया लोके प्रादुर्भावो भवति, स्रोतआपन्नसकृदागाम्यनागाम्यर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां लोके प्रादुर्भावाः प्रज्ञायन्ते.
SK
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: उद्ग्रहाण त्वं कौशिक प्रज्ञापारमितां धारय वाचय पर्यवाप्नुहि त्वं कौशिक प्रज्ञापारमिताम्.
SK
तत् कस्य हेतोर्? यदा कौशिक असुराणाम् एवं समुदाचारा भविष्यन्ति देवैस् त्रायस्त्रिंशैः सार्धं संग्रामयिष्याम इति तदा त्वं कौशिक इमां प्रज्ञापारमितां समन्वाहरेः स्वाध्यायेः एवं तेषाम् असुराणां ते समुदाचारा अन्तर्धास्यन्ति, न च पुनस् तान् विग्रहचित्तोत्पादान् उत्पादयिष्यन्ति, येषां च देवपुत्राणां देवकन्यानां वा च्युतिकालो भवेत् तेषाम् अपि पुरतः स्वाध्यायं कुर्यास्, ते यद्य् आत्मनो ऽपायोपपत्तिं द्रक्ष्यन्ति तेषाम् एनां प्रज्ञापारामितां शृण्वतां ते ऽपायोपपत्तिचित्तोत्पादा अन्तर्धास्यन्ति, तत्रैव देवभवने ते उत्पत्स्यन्ते एवं महर्द्धिका ह्य् अस्याः प्रज्ञापारमितायाः श्रवा यस्य कस्यचित् कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा देवपुत्रस्य वा देवकन्याया (PSP_२-३:७०) वा इयं प्रज्ञापारमिता श्रोत्रावभासम् आगमिष्यति. सर्वे ते तेन कुशलमूलेनानुपूर्वेणानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: एवम् एतद् भगवन्न् एवम् एतत् सुगत तथा हि भगवन् ये ऽतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अभूवन्, येषां श्रावका निरुपधिशेषे निर्वाणधातौ प्रतिष्ठितास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. ये ऽपि ते भगवन् भविष्यन्ति अनागते ऽध्वनि बुद्धा भगवन्तः सश्रावकसंघास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. ये ऽपि चैतर्हि दशदिशि लोके प्रत्युत्पन्ने ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा भगवन्तः स श्रावकसंघास् तिष्ठन्ति ध्रियन्ते यापयन्ति सर्वे ते इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
तत् कस्य हेतोस्? तथा हि प्रज्ञापारमितायां सर्वे बुद्धधर्मा अन्तर्गताः सर्वे बोधिसत्त्वधर्माः सर्वे प्रत्येकबुद्धधर्माः सर्वे श्रावकधर्मा अन्तर्गताः
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, महाविद्येयं कौशिक यद् उत प्रज्ञापारमिता, अनुत्तरेयं कौशिक विद्या यद् उत प्रज्ञापारमिता, असमसमेयं कौशिक विद्या यद् उत प्रज्ञापारमिता.
SK
तत् कस्य हेतोस्? तथा हि कौशिक ये ऽतीतानागतप्रत्युत्पन्ना दशदिशि लोके तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वे ते इमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. इमाम् एव प्रज्ञापारमिताम् आगम्य दशकुशलाः कर्मपथाः प्रज्ञायन्ते, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः सर्वपारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधमाः प्रज्ञायन्ते. त्रीणि विमोक्षमुखानि अष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयः षड् अभिज्ञा धर्मधातुर् भूतकोटितथता अवितथता अनन्यतथता धर्मता धर्मस्थितिता धर्मनियामता लोके प्रज्ञायते. पञ्च चक्षूंषि स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् (PSP_२-३:७१) अर्हत्त्वं प्रत्येकबुद्धत्वं सर्वज्ञता लोके प्रज्ञायते. बोधिसत्त्वं पुनः कौशिकागम्य दश कुशलाः कर्मपथा लोके प्रभाव्यन्ते. सप्तत्रिंशद् बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो ऽष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयस् त्रीणि विमोक्षमुखानि षड् अभिज्ञाः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा मार्गाकारज्ञता सर्वज्ञता सर्वाकारज्ञता लोके प्रज्ञायते. धर्मधातुर् भूतकोटितथता अवितथता अनन्यतथता धर्मता धर्मस्थितिता धर्मनियामता लोके प्रज्ञायते. पञ्च चक्षूंषि स्रोतआपत्तिफलं स्रोतआपन्नः सकृदागामिफलं सकृदागामी अनागामिफलम् अनागामी अर्हत्त्वम् अर्हन् प्रत्येकबोधिः प्रत्येकबुद्धः, अनुत्तरा सम्यक्संबोधिः. तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रभाव्यते. तद्यथापि नाम कौशिक चन्द्रमण्डलम् आगम्य सर्वौषधीतारागणाः प्रभाव्यन्ते. एवम् एव कौशिक बोधिसत्त्वचन्द्रमण्डलम् आगम्य दशकुशलाः कर्मपथाः. सर्वकुशलचर्या सम्यक्चर्या सर्वपारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः षडभिज्ञाः सर्वसमाधयः सर्वशून्यताः सर्वधारणीमुखानि शून्यतानिमित्ताप्रणिहितसमाध्योषधयः प्रभाव्यन्ते. दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मौषधयः प्रभाव्यन्ते. सर्वशैक्षाशैक्षसर्वश्रावकप्रत्येकबुद्धतारानक्षत्राणि प्रज्ञायन्ते. सर्वज्ञता प्रभाव्यते. तथागता अर्हन्तः सम्यक्संबुद्धाः प्रभाव्यन्ते. यदापि बुद्धा भगवन्तो लोके नाभिसंबुध्यन्ते नोत्पादस् तथागतानां भवति, तदापि ते बोधिसत्त्वा महासत्त्वाः. सत्त्वानां लौकिकांश् च लोकोत्तरांश् च धर्मान् देशयन्ति.
SK
तत् कस्य हेतोः? बोधिसत्त्वनिर्जातानि हि देवयानमनुष्ययानश्रावकयानप्रत्येकबुद्धयानानि, तच् च बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं प्रज्ञापारमितानिर्जातं, येनोपायकौशल्येन षड् पारमिताः परिपूरयति सर्वशून्यतां भावयति सर्वसमाधींश् च समापद्यते सर्वधारणीमुखानि च प्रतिलभते अप्रमाणध्यानारूप्यसमापत्तीश् च समापद्यते सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयति आर्यसत्यानि भावयति अष्ट विमोक्षान् भावयति नवानुपूर्वविहारसमापत्तीश् च समापद्यते अभिज्ञा भावयति त्रिणि विमोक्षमुखानि (PSP_२-३:७२) भावयति दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् प्रतिलभते द्वात्रिंशन्महापुरुषलक्षणानि अशीत्यनुव्यञ्जनानि प्रतिलभते. न च श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात् करोति. सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति बोधिसत्त्वसंपदं च परिगृह्णाति सर्वज्ञतां चानुप्राप्नोति.
SK
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति स एभिः दृष्टधार्मिकैर् गुणैः समन्वागतो भविष्यति.
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कतमैर् भगवन् दृष्टधार्मिकैर् गुणैः कुलपुत्रा वा कुलदुहितरो वा समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति.
SK
भगवान् आह: तेन हि कौशिक कुलपुत्रा वा कुलदुहितरो वा न विषेण कालं करिष्यन्ति नाग्निना न शस्त्रेण नोदकेन कालं करिष्यन्ति यावन् न केनचिद् व्याधिना कालं करिष्यन्ति स्थापयित्वा पूर्वकर्मविपाकं न च राजकुलाद् उपद्रवा भविष्यन्ति. सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलं प्रविशत्य् अस्यावतारप्रेक्षिणो ऽवतारगवेषिणो ऽवतारं न लप्स्यन्ते.
SK
तत् कस्य हेतोस्? तथा ह्य् अस्या एव प्रज्ञापारमितायास् तेजसा. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायंस् तत्र राजकुलम् उपसंक्रमिष्यति, ते चास्य तत्र राजानो वा राजपुत्रा वा राजमहामात्रा वा पूर्वम् आलपितव्यं मंस्यन्ते अभिभाषितव्यं मंस्यन्ते.
SK
तत् कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां च सर्वसत्त्वानाम् अन्तिके मैत्रचित्तं प्रत्युपस्थितं करुणाचित्तं मुदिताचित्तम् उपेक्षाचित्तं प्रत्युपस्थितं भवति. एभिः स कौशिक दृष्टधार्मिकैर् गुणैः कुलपुत्रो वा कुलदुहिता वा समन्वागतो भविष्यति. य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
SK
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा एभिः सांपरायिकैर् (PSP_२-३:७३) गुणैः समन्वागतो भविष्यति. य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. यद् उत न जातु दशभिः कुशलैः कर्मपथे ऽविरहितो भविष्यति, न चतुर्भिर् ध्यानैर् न चतुर्भिर् अप्रमाणैर् न चतसृभिर् आरूप्यसमापत्तिभिर् न पारमिताभिर् न सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् न सत्यैर् नाष्टविमोक्षैर् न नवानुपूर्वविहारसमापत्तिभिर् न त्रिभिर् विमोक्षमुखैर् नाभिज्ञाभिर् न सर्वशून्यताभिर् न सर्वसमाधिभिर् न सर्वधारणीमुखैर् न दशभिर् बलैर् न वैशारद्यैर् न प्रतिसंविद्भिर् नाष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् विरहितो भविष्यति. न लक्षणानुव्यञ्जनैर् विरहितो भविष्यति. स न जातु निरयतिर्यग्योनियमलोकेषूपपत्स्यते. न जात्व् इन्द्रियविकलो भविष्यति न जात्व् अङ्गहीनो भविष्यति न जातु दरिद्रकुलेषूपपत्स्यते न वेणुकारकुलेषूपपत्स्यते न पुष्कसकुलेषूपपत्स्यते न मौष्टिककुलेषूपपत्स्यते न चण्डालौरभ्रिकशाकुनिककुलेषूपपत्स्यते न शूद्रकुलेषूपपत्स्यते क्षत्रियमहाशालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा उदारोदारेषूपपत्स्यते. स ततः प्रभृति सततसमितं द्वात्रिंशन्महापुरुषलक्षणानुव्यञ्जनसमलंकृतकायो भविष्यति यत्र वा लोकधातौ बुद्धा भगवन्तो भविष्यन्ति तत्र बुद्धानां भगवतां पुरतः पद्म औपपादुक उपपत्स्यते. न जात्व् अभिज्ञा विरहितो भविष्यति. स आकाङ्क्षं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, तान् बुद्धान् भगवतः पर्युपासितुं धर्मं च श्रोतुं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयिष्यति.
SK
तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिता उद्गृहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या सर्वज्ञताचित्तेन चाविरहितेन भवितव्यं. स एतैर् दृष्टधार्मिकैर् गुणैः सांपरायिकैर् गुणैर् अविरहितो भविष्यति यावन् नानुत्तरा सम्यक्संबोधिर् अभिसंबुध्यते इति.
SK
अथ खल्व् अन्यतीर्थिकानां परिव्राजकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामति स्म.
SK
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: इदम् अन्यतीर्थिकानां परिव्राजकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामति, यन् नूनम् अहं यावन्मात्रं मया भगवतो ऽन्तिकात् प्रज्ञापारमिताया उद्ग्रहीतं तावन्मात्रं स्वाध्यायेयं यद् एतद् अन्यतीर्थिकानां (PSP_२-३:७४) परिव्राजकानां शतं न भगवन्तम् उपसंक्रामेयुर् नान्तरायं प्रज्ञापारमितायां कुर्युः.
SK
अथ खलु शक्रो देवानाम् इन्द्रो यावद् अनेन भगवतो ऽन्तिकात् प्रज्ञापारमिताया उद्ग्रहीतं तावत् स्वाध्यायति स्म.
SK
अथ खलु ते ऽन्यतीर्थिकाः परिव्राजका दूरत एव भगवन्तं प्रदक्षिणीकृत्य येनैव मार्गेणागतास् तेनैव प्रतिगताः.
SK
अथ खल्व् आयुष्मतः शारिपुत्रस्यैतद् अभवत्: किम् अत्र कारणं येनैते ऽन्यतीर्थिकाः परिव्राजका उपारम्भाभिप्राया भगवन्तं दूरत एव प्रदक्षिणीकृत्य येनैव मार्गेणागतास् तेनैव प्रतिगताः?
SK
अथ खलु भगवान् आयुष्मतः शारिपुत्रस्य चेतसैव चेतःपरिवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: शक्रेण शारिपुत्र देवानाम् इन्द्रेण इयं प्रज्ञापारमिता समन्वाहृता येनैते ऽन्यतीर्थिकाः परिव्राजका दूरत एव भगवन्तं प्रदक्षिणीकृत्य येनैव मार्गेणागतास् तेनैव प्रतिगताः न हि शारिपुत्र तेषाम् अन्यतीर्थिकानां परिव्राजकानाम् एकस्यापि शुक्लं धर्मं समनुपश्यामि, सर्व एते ऽन्यतीर्थिकाः परिव्राजकाः प्रतिहतचित्ता उपारम्भाभिप्राया उपसंक्रमितव्यं मंस्यन्ते, नाहं तं शारिपुत्र समनुपश्यामि सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायाम् इमां प्रज्ञापारमिताम् उपारम्भाभिप्रायः प्रतिहतचित्त उपसंक्रामेन्, नैतत् स्थानं विद्यते.
SK
तत् कस्य हेतोस्? तथा हि शारिपुत्र य इह त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजिकास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या यावद् अकनिष्ठा देवपुत्रा ये ऽपि श्रावका ये ऽपि प्रत्येकबुद्धा ये ऽपि बोधिसत्त्वा महासत्त्वास् तैर् अपीयं प्रज्ञापारमिता परिगृहीता. तत् कस्य हेतोः? तथा हि ते प्रज्ञापारमितानिर्जाताः.
SK
पुनर् अपरं शारिपुत्र ये ऽपि ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावद् दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुष्व् एकैकस्यां दिशि बुद्धा भगवन्तः सश्रावकसंघाः सबोधिसत्त्वदेवानागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैर् अपि सर्वैर् इयं प्रज्ञापारमिता परिगृहीता. तत् कस्य हेतोस्? तथा हि ते प्रज्ञापारमितानिर्जाताः सर्वे.
SK
अथ खलु मारस्य पापीयस एतद् अभवद्: इमास् तथागतस्यार्हतः सम्यक्संबुद्धस्य चतस्रः परिषदः संमुखं स्थिताः. अमी च कामावचरा रूपावचराश् च देवपुत्राः संमुखं स्थिता निःसंशयम् अत्र बोधिसत्त्वा (PSP_२-३:७५) महासत्त्वा व्याकरिष्यन्ते ऽनुत्तरायां सम्यक्संबोधौ, यन् नूनम् अहं येन भगवांस् तेनोपसंक्रामेयं विचक्षुःकरणायेति.
SK
अथ खलु मारः पापीयांश् चतुरङ्गबलकायं निर्माय येन भगवांस् तेनोपसंक्रमितुकामो भवेत्.
SK
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: मारो बतायं पापीयांश् चतुरङ्गबलकायं निर्माय येन भगवांस् तेनोपसंक्रमितुकामः. यो ऽयं मारस्य पापीयसश् चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः. न राज्ञो बिम्बिसारस्य चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न प्रसेनजितश् चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न शाक्यानां चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न लिच्छवीनां चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न मल्लानां चतुरङ्गस्य बलकायस्यैवंरूपो व्युहः, यो ऽयं चतुरङ्गस्य बलकायस्यैवंरूपो मारेण पापीयसा निर्मितः, दीर्घरात्रं खलु पुनर् मारः पापीयान् भगवतो ऽवतारप्रेक्षी अवतारगवेषी सत्त्वानां च विहेठनाभिप्रायः, यन् नूनम् अहम् इमां प्रज्ञापारमितां समन्वाहरेयं स्मृत्या स्वाध्यायं कुर्याम्.
SK
अथ खलु शक्रो देवानाम् इन्द्रः प्रज्ञापरमितां समन्वाजहार स्मृत्या स्वाध्यायम् अकरोत्, यथा यथा शक्रो देवानाम् इन्द्रः स्मृत्या इमां प्रज्ञापारमितां स्वाध्यायति स्म तथा तथा मारः पापीयांस् तेनैव मार्गेण तेनैव द्वारेण पुनर् एव प्रत्युदावृत्तो ऽभूत्.
SK
अथ खलु ये ऽस्यां परिषदि चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते दिव्यानि पुष्पाण्य् अभिनिर्मायान्तरीक्षगता एव येन भगवांस् तेनाक्षिपन्ति स्म तेनाभ्यवकिरन्ति स्म.
SK
एवं च वाचम् अभाषन्त: चिरं बतेयं प्रज्ञापारमिता जाम्बूद्वीपकानां मनुष्याणां प्रचरतु यावद् इयं प्रज्ञापारमिता जाम्बूद्वीपकानां मनुष्यानां प्रचरिष्यति तावन् न तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति, सद्धर्मश् चिरस्थितिको भविष्यति, संघस्य लोके प्रादुर्भावो भविष्यति. एवं त्रिसाहस्रमहासाहस्रे लोकधातौ, एवं दशसु दिक्षु सर्वबुद्धक्षेत्रेषु बोधिसत्त्वानां चर्याविशेषः प्रज्ञास्यते, यत्र च दिग्भागे इमां प्रज्ञापारमितां ते कुलपुत्रा वा कुलदुहितरो वा लिखितां धारयिष्यन्ति वाचयिष्यन्ति पुस्तकलिखिताम् अपि कृत्वा स्थापयिष्यन्ति, आलोकजाता च एषा दिग् (PSP_२-३:७६) भविष्यति, सनाथा विगततमोन्धकारा च एषा दिग् भविष्यति, यत्रेयं प्रज्ञापारमिता प्रचरिष्यति.
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, यत्र यत्र दिशि लोकधातुप्रसरे इयं प्रज्ञापारमिता प्रचरिष्यति, पुस्तकलिखिता आलोकजाता च एषा दिग् भविष्यति, सनाथा विगततमोन्धकारा च एषा दिग् भविष्यति.
SK
अथ खलु ते देवपुत्रा दिव्यानि कुसुमान्य् अभिनिर्माय येन भगवांस् तेनाभ्यवकिरन्ति स्म.
SK
एवं च वाचम् अभाषन्त: यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति न तस्य मारा वा मारकायिका वा देवपुत्रा अवतारं लप्स्यन्ते. वयम् अपि भगवं तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामः, शास्तारम् इति भगवंस् तं वयं कुलपुत्रं वा कुलदुहितरं वा मंस्यामहे य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न ते भगवन् कुलपुत्रा वा कुलदुहितरो वावरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. पूर्वजिनकृताधिकारास् ते भगवन् कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. बहुबुद्धपर्युपासिताः कल्याणमित्रपरिगृहीतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति.
SK
तत् कस्य हेतोः? अतो निर्जाता हि सर्वज्ञता यद् उत प्रज्ञापारमिता निर्जाता सर्वज्ञता निर्जाता च प्रज्ञापारमिता.
SK
तत् कस्य हेतोस्? तथा हि नान्या प्रज्ञापारमिता नान्या सर्वज्ञता इति हि सर्वज्ञता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
एवम् उक्ते भगवान् सक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् (PSP_२-३:७७) कौशिकैवम् एतत्, यथा वदसि सर्वज्ञता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्. इति स्वपरार्थाधिमुक्तिर् मृदुमध्या
SK
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: तथा हि भगवान् न दानपारमिताया नामधेयं परिकीर्तयति न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति, न सप्तत्रिंशद्बोधिपक्षाणां धर्माणां नामधेयं परिकीर्तयति, नार्यसत्यानां नाप्रमाणध्यानारूप्यसमापत्तीनां नामधेयं परिकीर्तयति, नाष्टानां विमोक्षमुखानां न नवानुपूर्वविहारसमापत्तीनां नामधेयं परिकीर्तयति, न षण्णाम् अभिज्ञानां न सर्वाणां शून्यतानां न समाधीनां न सर्वधारणीमुखानां नामधेयं परिकीर्तयति, न दशानां तथागतबलानां न वैशारद्यानां न प्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां नामधेयं परिकीर्तयति यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
SK
एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: प्रज्ञापारमिता आनन्द पूर्वंगमा नायिका यद् उत षण्णां पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां पूर्वंगमा नायिका, अष्टानां विमोक्षाणां नवानाम् अनुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां विमोक्षमुखानां षण्णाम् अभिज्ञानां पूर्वंगमा नायिका, सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां पूर्वंगमा नायिका, दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां पूर्वंगमा नायिका, सर्वबुद्धधर्माणां पूर्वंगमा नायिका प्रज्ञापारमिता.
SK
तत् किं मन्यसे? आनन्द अपरिणामितं दानं सर्वज्ञतायां पारमितानामधेयं लभते.
SK
तत् किं मन्यसे? अपरिणामितं शीलं अपरिणामिता क्षान्तिर् अपरिणामितं वीर्यम् अपरिणामितं ध्यानम् अपरिणामिता प्रज्ञा सर्वज्ञतायां पारमितानामधेयं लभते.
SK
आनन्द आह: नो हीदं भगवन् नो हीदं सुगत,
SK
कथं पुनर् भगवन् दानं सर्वज्ञतापरिणामितं पारमितानामधेयं लभते? (PSP_२-३:७८)
SK
कथं पुनर् भगवन् शीलं क्षान्तिर् वीर्यं ध्यानं प्रज्ञा सर्वज्ञतायां परिणामिता पारमितानामधेयं लभते?
SK
भगवान् आह: अद्वययोगेनानन्द दानं परिणामितं शीलं क्षान्तिर् वीर्यं ध्यानं प्रज्ञा सर्वज्ञतायां परिणामिता पारमितानामधेयं लभते. अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं दानं यावत् प्रज्ञा सर्वज्ञतायां पारमितानामधेयं लभते.
SK
आनन्द आह: कथं भगवन्न् अद्वययोगेन दानं परिणामितं सर्वज्ञतायां पारमितानामधेयं लभते? एवं शीलं क्षान्तिर् वीर्यं ध्यानं कथं भगवन् प्रज्ञाद्वययोगेन परिणामिता सर्वज्ञतायां पारमितानामधेयं लभते? भगवान् आह: रूपस्यानन्द अद्वययोगेन वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याद्वययोगेन यावद् बोधेः.
SK
आनन्द आह: कथं भगवन् रूपस्याद्वययोगेन, कथं वेदनायाः संज्ञायाः संस्काराणां अद्वययोगेन, कथं विज्ञानस्याद्वययोगेन, कथं यावद् बोधेर् अद्वययोगेन?
SK
भगवान् आह: तथा हि आनन्द रूपं रूपेण शून्यं वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या विज्ञानं विज्ञानेन शून्यम्.
SK
तत् कस्य हेतोः? तथा हि रूपं च वेदना च संज्ञा च संस्कारा च विज्ञानं च पारमिताश् चाद्वयम् एतद् अद्वैधीकारं यावद् बोधिश् च पारमिताश् चाद्वयम् एतद् अद्वैधीकारं, तस्मात् तर्ह्य् आनन्द प्रज्ञापारमिता नु पूर्वंगमा नायिका सर्वपारमितानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् आर्यसत्यानाम् अष्टानां विमोक्षाणां नवानाम् अनुपूर्वविहारसमापत्तीनां त्रयाणां विमोक्षमुखानां षण्णाम् अभिज्ञानां दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावद् बोधेः सर्वज्ञतायाः प्रज्ञापारमिता पूर्वंगमा नायिका. तद्यथापि नामानन्द महापृथिवीं निश्राय सामग्रीवशेन बीजानि विरोहन्ति. एवम् एवानन्द प्रज्ञापारमितां निश्राय प्रज्ञापारमिताम् आगम्य सर्वाः. पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माः, अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि षडभिज्ञाः सर्वधारणीमुखानि विरोहन्ति. दशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा विरोहन्ति यावत् सर्वज्ञता (PSP_२-३:७९) विरोहति. सर्वज्ञतां परिनिश्राय सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयो दशबलवैशारद्यप्रतिसंविदो यावद् आवेणिका बुद्धधर्मा विरोहन्ति. तस्माद् आनन्द प्रज्ञापारमितैवासां पारमितानां परिणायिका यावाद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वाकारज्ञतायाः. इति स्वपरार्थाधिमुक्तिर् मृद्वधिमात्रा
SK
शक्र आह: न खलु पुनर् भगवंस् तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाः सर्वगूणाः परिकीर्तिताः यान् गुणान् स कुलपुत्रो वा कुलदुहिता वा परिगृह्णाति इमां प्रज्ञापारमिताम् उद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् योनिशश् च मनसिकुर्वन् प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति. चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां षण्णाम् अभिज्ञानां त्रयानं विमोक्षमुखानां सर्वपारमितानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति. प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया गृहपतिमहाशालकुलानि प्रज्ञायन्ते, क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवाः प्रज्ञायन्ते, प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया यावद् योनिशो मनसिकृतया स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रज्ञायन्ते प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वाः प्रज्ञायन्ते, प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया तथागता अर्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायन्ते. (PSP_२-३:८०)
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: न पुनः कौशिक यैः कुलपुत्रैः कुलदुहितृभिर् वा इयं प्रज्ञापारमिता धारिता वाचिता पर्यवाप्ता योनिशश् च मनसिकृता तेषाम् एतावत एवं गुणान् वदामि.
SK
तत् कस्य हेतोर्? अप्रमाणेन हि कौशिक ते कुलपुत्रा वा कुलदुहितरो वा शीलस्कन्धेन समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. अप्रमाणेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. तथागतप्रतिमास् ते कौशिक कुलपुत्राः कुलदुहितरो वा वेदितव्या य इमां प्रज्ञापारमिताम् उद्ग्रहीयन्ति धारयियन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. यश् च कौशिक सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, यश् च प्रज्ञापारमिताविहारिणां कुलपुत्राणां कुलदुहितृणां च शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः अस्य कौशिक शीलस्कन्धस्य समाधिस्कन्धस्य प्रज्ञास्कन्धस्य विमुक्तिस्कन्धस्य विमुक्तिज्ञानदर्शनस्कन्धस्य सर्वश्रावकप्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अप्य् उपनिषदम् अपि नोपैति.
SK
तत् कस्य हेतोस्? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां च श्रावकप्रत्येकबुद्धभूमेश् चित्तं विमुक्तं, न च कश्चिद् धर्मो नाविगतो न ज्ञातः. ये कौशिक कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस् तेषाम् अपि कुलपुत्राणां (PSP_२-३:८१) कुलदुहितृणां च इमे दृष्टधार्मिकाः सांपरायिकाश् च गुणानुशंसाः प्रतिकाङ्क्षितव्याः. इति स्वपरार्थाधिमुक्तिमध्यमृद्धी
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: अहं भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामि य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च भविष्यति सर्वज्ञताचित्तेन इमां च प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेषां पुनः कौशिक कुलपुत्राणां कुलदुहितृणां वा इमां प्रज्ञापारमितां स्वाध्यायतां बहूनि देवपुत्रशतसहस्राणि धर्मश्रवणायोपसंक्रमिष्यन्ति. तेषां खलु पुनः कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमिताप्रतिसंयुक्तं प्रतिभानं ते देवपुत्रा उपसंहर्तव्यं मंस्यन्ते. यदापि ते धर्म भाणका न मन्त्रयितुकामा भविष्यन्ति तदापि तेनैव देवपुत्रा धर्मगौरवेण प्रतिभानम् उपसंहर्तव्यं मंस्यन्ते. इमम् अपि कौशिक कुलपुत्रा वा कुलदुहितरो वा दृष्टधार्मिकगुणं प्रतिलप्स्यन्ते य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तां च लिखित्वा सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
पुनर् अपरं कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा इमां प्रज्ञापारमितां भाष्यमाणानां चतसृणां पर्षदां पुरतो नावलीनचित्तता भविष्यति को वा ममानुयोक्ष्यते उपालप्स्यते चेति.
SK
तत् कस्य हेतोस्? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां वा इयम् एव प्रज्ञापारमिता रक्षावरणगुप्तिं करिष्यति, तथा ह्य् अत्र प्रज्ञापारमितायां सर्वधर्मा अभिन्ना लौकिकाश् च लोकोत्तराश् च साधारणाश् च कुशलाश् च संस्कृताश् चासंस्कृताश् च श्रावकधर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च.
SK
तत् कस्य हेतोस्? तथा हि ते कुलपुत्रा वा कुलदुहितरो वा अध्यात्मशून्यतायां (PSP_२-३:८२) स्थित्वा यावद् अभावस्वभावशून्यतायां स्थितास् ते उपालम्भं प्रज्ञापारमितायां न समनुपश्यन्ति, यो ऽप्य् उपालभ्येत तम् अपि न समनुपश्यन्ति.
SK
एवं हि तेषां कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमितापरिगृहीतानाम् उपालम्भो न भविष्यति.
SK
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतो योनिशश् च मनसिकुर्वतश् चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
SK
तत् कस्य हेतोस्? तथा हि स कुलपुत्रो वा कुलदुहिता वा वस्तु न समनुपश्यति य आलीयेत वा संलीयेत वा उत्त्रस्येद् वा संत्रस्येद् वा संत्रासम् आपद्यते वा. इमान् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् प्रतिग्रहीष्यति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः इति स्वपरार्थाधिमुक्तिमध्यमध्या
SK
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः स प्रियो भविष्यति मातापितृणां मित्रामात्यज्ञातिसालोहितानां श्रमणब्राह्मणानां, ये ऽपि ते दशदिशि लोके सर्वलोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वाश् च प्रत्येकबुद्धाश् चार्हन्तश् च सर्वे शैक्षाः सर्वे चाशैक्षास् तेषाम् अपि स बोधिसत्त्वः प्रियो भविष्यति स देवकस्यापि लोकस्य स मारकस्य स श्रमणब्राह्मणिकायाः प्रजायाः स देवमानुषासुरायाः प्रजायाः प्रियो भविष्यति मनआपः. इति स्वपरार्थार्धिमुक्तिमध्याधिमात्रा
SK
अनाच्छेदेन च प्रतिभानेन समन्वागतो भविष्यति. अनाच्छेद्यया दानपारमितया समन्वागतो भविष्यति. एवम् अनाच्छेद्यया शीलपारमितया (PSP_२-३:८३) अनाच्छेद्यया क्षान्तिपारमितया अनाच्छेद्यया वीर्यपारमितया अनाच्छेद्यया ध्यानपारमितया अनाच्छेद्यया प्रज्ञापारमितया समन्वागतो भविष्यति. अनाच्छेद्यया अध्यात्मशून्यतया अनाच्छेद्यया यावद् अभावस्वभावशून्यतया समन्वागतो भविष्यति. अनाच्छेद्यैः स्मृत्युपस्थानैः समन्वागतो भविष्यति. अनाच्छेद्यैः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैः समन्वागतो भविष्यति. अनाच्छेद्यैर् आर्यसत्यैर् अनाच्छेद्याभिर् अप्रमाणध्यानारूप्यसमापत्तिभिः, अनाच्छेद्यैर् अष्टविमोक्षमुखैर् अनाच्छेद्यैर् नवानुपूर्वविहारसमापत्त्यभिज्ञार्यसत्यसर्वसमाधिसर्वधारणीमुखैर् अनाच्छेद्यैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिश् चावेणिकैर् बुद्धधर्मैर् अनाच्छेद्येन सत्त्वपरिपाकेन अनाच्छेद्यया बुद्धक्षेत्रपरिशुद्ध्या अनाच्छेद्यया सर्वाकारज्ञतया समन्वागतो भविष्यति. प्रतिबलश् च भविष्यति, उत्पन्नोत्पन्नानां तीर्थ्यवादानां सहधर्मेणैव निग्रहं करिष्यति. इमम् अपि कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं सांपरायिकं च गुणं परिगृह्णीयाद् य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. अविरहितश् च भविष्यति स सर्वाकारज्ञाताचित्तेन तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इति स्वपरार्थाधिमुक्तिर् अधिमात्रामृद्धी
SK
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा धारायिष्यति वाचयिष्यति पर्यवाप्स्यति तत्र कौशिक ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितास् ते तत्रागत्यैनां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति मनसिकरिष्यन्ति वन्दिष्यन्ति नमस्कृत्वा वन्दित्वा च पुनर् एव प्रक्रमिष्यन्ति. एवं त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपारिषद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा ब्र्हत्फलाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः तत्र ये कौशिक महाब्रह्माणो ऽनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा नमस्कृत्य पुनर् एव (PSP_२-३:८४) प्रक्रमिष्यन्ति. ये ऽपि शुद्धावासकायिका अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवपुत्रास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा नमस्कृत्य पुनर् एव प्रक्रमिष्यन्ति. तेन हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं चित्तम् उत्पादयितव्यं: ये ते दशदिग्लोकधातुषु देवपुत्राश् चातुर्महाराजकायिका यावद् बृहत्फला ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्हिता ये ऽपि शुद्धावासकायिका देवपुत्रा ये ऽपि चान्ये देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽपीहागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा पूजयित्वा पुनर् गच्छन्तु, तेषाम् एतद् धर्मदानं दत्तं भवन्तु. ये ऽपि दशदिग्लोकधातुषु चातुर्महाराजकायिका देवपुत्रा यावद् बृहत्फला देवपुत्रा ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता ये ऽपि शुद्धावासकायिका देवपुत्रास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति वन्दित्वा नमस्कृत्य पूजयित्वा पुनर् एव प्रक्रमितव्यं मंस्यन्ते. तस्य खलु पुनः कुलपुत्रस्य वा कुलदुहितुर् वा य इह त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवा ये ऽपि ते दशदिग्लोकधातुषु चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तिं संविधास्यन्ति. नाप्य् अस्य कश्चिद् अवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते स्थापयित्वा पूर्वकर्मविपाकं, इमान् अपि कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति.
SK
तत् कस्य हेतोस्? तथा हि ये देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितास् ते ऽपि तत्रागन्तव्यं मंस्यन्ते. तथा हि कौशिक देवपुत्रा अनुत्तरायां सम्यक्संबोधौ सर्वसत्त्वानां त्रणाय हितसुखाय संप्रस्थिताः. इति स्वपरार्थाधिमुक्तिर् अधिमात्रमध्या
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् कुलपुत्रो वा कुलदुहिता वा ज्ञास्यति, इह चातुर्महाराजकायिका देवपुत्रा आगच्छन्ति यावद् अकनिष्ठा देवपुत्रा आगच्छन्तीति? एवं समन्ताद् दशभ्यो दिग्भ्य इमां प्रज्ञापारमिताम् उद्ग्रहीतुं वा धारयितुं वा वाचयितुं वा पर्यवाप्तुं वा सत्कर्तुं वा गुरुकर्तुं वा मानयितुं वा पूजयितुं वा.
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: सचेत् कौशिक (PSP_२-३:८५) कुलपुत्रो वा कुलदुहिता वा उदारम् अवभासं ज्ञास्यति निष्ठा तेन गन्तव्या महौजस्का महौजस्का देवा आगाता इमां प्रज्ञापारमितां वाचयितुम् उद्ग्रहीतुं पर्यवाप्तुं धारयितुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं वन्दितुं नमस्कर्तुम्.
SK
पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा अमानुषं दिव्यं गन्धम् अनाघ्रातपूर्वम् आघ्रास्यति निष्ठा तेन गन्तव्या महौजस्का महौजस्का इह देवपुत्रा आगता इति प्रज्ञापारमितां वाचयितुं श्रोतुम् उद्ग्रहीतुं पर्यवाप्तुं धारयितुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्.
SK
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा चौक्षसमुदाचारो भविष्यति, तस्य तया चौक्षसमुदाचारतया देवता आगत्येमां प्रज्ञापारमिताम् उद्गृह्य धारयित्वा वाचयित्वा सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा आत्तमनस्का भविष्यन्ति. याश् च तत्र पृथिवीप्रदेशे ऽल्पौजस्का अल्पौजस्का देवता भविष्यन्ति तास् ततो ऽपक्रमितव्यं मंस्यन्ते. तेषां महौजस्कानां महौजस्कानां देवानां तेजश् च श्रियश् चासहमानाः. यथायथा महौजस्का महौजस्का देवता उपसंक्रमिष्यन्ति तथातथा ते कुलपुत्राः कुलदुहितरो वा उदाराधिमुक्तिका भविष्यन्ति. तस्मिंश् च पृथिवीप्रदेशे ऽचौक्षसमुदाचारता न प्रचारयितव्या, पुष्पधूपगन्धमाल्यविलेपनचूर्णचिवरच्छत्रध्वजपताकाभिश् च स पृथिवीप्रदेशो ऽलंकर्तव्यः गन्धलिप्तो मुक्तपुष्पावकीर्णः कारयितव्यः. अवसक्तपटदामकलापश् चैलवितानविततः. अनेकप्रकारं च स पृथिवीप्रदेशो ऽलंकर्तव्यः.
SK
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा कायो न क्लान्तो भविष्यति. कायसुखं भविष्यति. कायलघुतां च बहुजनहिताय बहुजनसुखाय प्रतिपन्नो भविष्यति. स च कौशिक कुलपुत्रो वा कुलदुहिता वा कायलघुतां कायकर्मण्यतां कायसुखतां चित्तलघुतां चित्तकर्मण्यतां चित्तसुखतां च ज्ञास्यति. सुखेन स रात्रौ शय्यां कल्पयिष्यति. इमां एव प्रज्ञापारमिताम् आशयेन कल्पयन् न पापकान् स्वप्नान् द्रक्ष्यति, द्रक्ष्यंश् च पुनः स्वप्नेन तथागतान् एवार्हतः सम्यक्संबुद्धान् द्रक्ष्यति द्वात्रिंशन्महापुरुषलक्षणचित्रितगात्रान् सुवर्णवर्णेन समुच्छ्रयेण भिक्षुसंघपरिवृतान् बोधिसत्त्वगणपरिवृतान् धर्मं देशयमानांस् (PSP_२-३:८६) तेभ्यः षट्पारमिताप्रतिसंयुक्ताम् एव कथां श्रोष्यति. सप्तत्रिंशद्बोधिपक्ष्यधर्मप्रतिसंयुक्तां यावद् अष्टादशावेणिकबुद्धधर्मप्रतिसंयुक्ताम् एव कथां श्रोष्यति. तासां च पारमितानाम् अर्थं श्रोष्यति यावद् अष्टादशानाम् आवेणिकानाम् अर्थं श्रोष्यति. बोधिवृक्षं द्रक्ष्यति. बोधिसत्त्वं महासत्त्वं बोधिमण्डम् उपसंक्रममाणं द्रक्ष्यति. अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यमानं द्रक्ष्यति. अभिसंबुध्याद्वयं धर्मचक्रप्रवर्तयमानं द्रक्ष्यति. बहूनि बोधिसत्त्वकोटीनियुतशतसहस्राणि द्रक्ष्यति धर्मसंगीतिरतानि एवं सर्वज्ञता परिग्रहीतव्या एवं सत्त्वाः परिपाचयितव्या एवं बुद्धक्षेत्रं परिशोधयितव्यम् इति. बहुनां बुद्धकोटीनियुतशतशहस्राणां पूर्वस्यां दिशि शब्दं श्रोष्यति.
SK
एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यति. अमुष्मिन् लोकधातौ अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्धः इयद्भिर् बोधिसत्त्वकोटीशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति. पूर्वस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि द्रक्ष्यति परिनिर्वायमाणानि यावद् दशसु दिक्षु बहूनि बुद्धकोटीनियुतशतसहस्राणि द्रक्ष्यति परिनिर्वायमाणानि. तेषां च तथागतानां स्तूपान् धातुधरान् नानारत्नमयान् बहूनि स्तूपकोटीनियुतशतसहस्राणि द्रक्ष्यति. तांश् च स्तूपान् सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
स खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमान् एवंरूपान् भद्रकांश् च स्वप्नान् द्रक्ष्यति. स सुखम् एव स्वप्स्यति सुखं च प्रतिभोत्स्यते ओजःप्रक्षिप्तं च कायं संज्ञास्यति. लघुं च कायं संज्ञास्यति न गुरुं. न चास्य बलवती गृद्धिर् आहारे भविष्यति. न चीवरपिण्डपातशयनाशनग्लानप्रत्ययभैषज्यपरिष्कारगृद्धिर् भविष्यति. तद्यथापि नाम कौशिक योगाचारस्य भिक्षोः समाधेर् व्युत्थितस्य मनसिकारसंतर्पितेन चित्तेन न बलवत्य् आहारे गृद्धिर् भवति.
SK
एवम् एव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा न बलवत्य् आहारे गृद्धिर् भविष्यति.
SK
तत् कस्य हेतोस्? तथा हि तस्यामनुष्या ओजः काय उपसंहरन्ति. ये चापि (PSP_२-३:८७) दशसु दिक्षु बुद्धा भगवन्तस् ते ऽपि सदेवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगाः ओजः काये प्रक्षिपन्ति. इमं स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णीते य इमां प्रज्ञापारमिताम् उद्गृह्णीते पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति अविरहितश् च सर्वज्ञताचित्तेन. इति स्वपरार्थाधिमुक्तिर् अधिमात्राधिमात्रा
SK
किं चापि स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां नोद्गृह्णीयान् न धारयेन् न वाचयेन् न पर्यवाप्नुयान् न योनिशश् च मनसिकुर्यान् न परेभ्यश् च संप्रकाशयेद् अपि तु खलु पुनः पुस्तकलिखितां कृत्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
यश् च कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् परेभ्यश् च संप्रकाशयेत् तां च लिखितां सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः अयं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहुतरं पुण्यं प्रसवेत्.
SK
न त्व् एव यः समन्ताद् दशसु दिक्षु सर्वलोकधातुषु तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् सश्रावकसंघांश् चीवरपिण्डपातशयनाशनग्लानप्रत्ययभैषज्यपरिष्कारैः परिनिर्वृतानां च तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्तरत्नमयान् स्तूपान् कारयेत्, तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
SK
इति परार्थाधिमुक्तिर् मृदुमृद्धि स्तूपसत्कारपरिवर्तो नाम तृतीयः
SK
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: यद्य् अयं कौशिक जम्बुद्वीपः परिपूर्णश् चूडिकाबद्धस् तथागतशरीराणां भवेत्, तानि ते कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उपनामयेद्, यश् चेमां ते प्रज्ञापारमिताम् उपनामयेत्, ततस् त्वं तयोर् द्वयोर् भागयोः स्थापितयोः कं परिगृह्णीयाः?
SK
शक्र आह: सचेद् मे भगवन्न् अयं जम्बुद्वीपः परिपूर्णश् चूडिकाबद्धस् तथागतशरीराणाम् उपनाम्येत, इयं च प्रज्ञापारमिता पुस्तकलिखितां कृत्वा उपनाम्येत परिकल्पम् उपादाय इमाम् एवाहं तयोर् द्वयोर् (PSP_२-३:८८) भागयोः स्थापितयोः प्रज्ञापारमितां परिगृह्णीयां. तत् कस्य हेतोर्? न मम भगवंस् तेषु तथागतशरीरेष्व् अगौरवं, नाहं भगवंस् तथागतशरिराणि न सत्कर्तुकामो न गुरुकर्तुकामो न मानयितुकामो न पूजयितुकामो. अपि तु खलु पुनर् मे भगवन्न् एवं स्यात् प्रज्ञापारमितानिर्जातानि तथागतशरिराणि येन तानि सत्क्रियन्ते गुरुक्रियन्ते मान्यन्ते पूज्यन्ते, प्रज्ञापारमितापरिभावितानि तथागतशरीराणि येन तानि पूजां लभन्ते.
SK
अथ खल्व् आयुष्मान् शारिपुत्रः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: प्रज्ञापारमिता कौशिक अग्राह्या अनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा. तत् कथं त्वम् अग्राह्यां प्रज्ञापारमिताम् अनिदर्शनाम् अप्रतिघाम् एकलक्षणां यद् उतालक्षणाम् उद्ग्रहीतव्यां मन्यसे?
SK
तत् कस्य हेतोर्? न हि प्रज्ञापारमिता ग्रहाय अनुग्रहाय वा स्थिता, न हानाय न वृद्धये नोत्क्षेपाय न विक्षेपाय न संक्लेशाय न व्यवदानाय, न बुद्धधर्माणां दायिका, न पृथग्जनधर्माणां च्छोरिका, न बोधिसत्त्वधर्माणां न प्रत्येकबुद्धधर्माणां न श्रावकधर्माणां न शैक्षधर्माणां नाशैक्षधर्माणां दायिका, न संस्कृतधातो दायिका, नासंस्कृतधातो दायिका, नाध्यात्मशून्यताया यावन् नाभावस्वभावशून्यताया दात्री, न पारमितानां न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाणां नाप्रमाणध्यानारूप्यसमापत्तीनां न बलवैशारद्यप्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां दात्री, न सर्वज्ञताया दात्री.
SK
शक्र आह: एवम् एतद् भदन्त शारिपुत्र यथा वदसि न प्रज्ञापारमिता बुद्धधर्माणां दात्री यावन् न सर्वज्ञताया दात्री. तत् कस्य हेतोर्? न हि प्रज्ञापारमिता द्वयं प्रत्युपस्थिता, अद्वया हि प्रज्ञापारमिता, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, दानपारमिता न द्वयं प्रत्युपस्थिता, अद्वया हि दानपारमिता.
SK
अथ खलु भगवान् शक्रस्य देवानाम् इन्द्रस्य साधुकारम् अदात्: साधु साधु कौशिक एवम् एतद् यथा निर्दिशसि न प्रज्ञापारमिता द्वयं प्रत्युपस्थिता, अद्वया हि प्रज्ञापारमिता, एवं ध्यानपारमिता वीर्यपारमिता, क्षान्तिपारमिता शीलपारमिता, दानपारमिता न द्वयं प्रत्युपस्थिता, अद्वया हि दानपारमिता.
SK
धर्मधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोस्? तथा हि कौशिक धर्मधातुश् च प्रज्ञापारमिता (PSP_२-३:८९) चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, धर्मधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
तथतायाः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्, तत् कस्य हेतोस्? तथा हि कौशिक तथता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, तथता च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
भूतकोटेर् अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्, तत् कस्य हेतोस्? तथा हि कौशिक भूतकोटिश् चाचिन्त्यधातुश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, भूतकोटिश् चाचिन्त्यधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
शक्र आह: नमस्करोमि भगवन् प्रज्ञापारमितां सदेवमानुषासुरेण लोकेन नमस्कृतां यत्र शिक्षित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. यदाहं भगवन् सुधर्मायां देवसभायां तस्मिन् देवेन्द्रासने निषण्णो भवामि स्वके आसने तत्र ये देवपुत्रा ममोपस्थानायागच्छन्ति ते मां तत्र स्थं नमस्यन्ति. यदाहं तत्र न भवामि स्वके सिंहासने तदा ते देवपुत्रास् तत् ममासनं नमस्कृत्य पुनर् एव प्रक्रामन्ति, इह शक्रो देवानाम् इन्द्रो धर्मासने निषण्णस् त्रायस्त्रिंशानां देवानां धर्मं देशयामासेति.
SK
एवम् एव भगवन् यत्रेयं प्रज्ञापारमिता लिखित्वा स्थास्यते स्वाध्यास्यते वा परेभ्यो वा संप्रकाशयिष्यते, तत्र ये ते दशभ्यो दिग्भ्यो देवपुत्रा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगास् ते तां प्रज्ञापारमितां नमस्कृत्य पुनर् एव प्रक्रमिष्यन्ति, अतो निर्जातास् तथागता अर्हन्तः सम्यक्संबुद्धाः, अतो निर्जातं च सर्वसत्त्वानां सुखोपधानं, यद् अपि तथागतशरीराणि तद् अपि प्रज्ञापारमितापरिभावितत्वात् पूजां प्रतिलभन्ते. प्रज्ञापारमिता भगवन् बोधिसत्त्वचर्यां चरतः सर्वज्ञानस्याश्रयभूता, कारणभूता आहारिका प्रज्ञापारमितेति.
SK
तस्माद् अहं भगवंस् ताभ्यां द्वाभ्यां प्रत्यंशाभ्यां प्रज्ञापारमिताम् एव परिगृह्णीयाम्. इमां प्रज्ञापारमिताम् उद्गृह्य स्वाध्यायं कुर्यान् धर्मान्तर्गतेन मानसेन यस्मिन् समये प्रज्ञापारमितां मनसिकरोमि (PSP_२-३:९०) तस्मिन् समये भगवन् निमित्तम् एव न समनुपश्यामि भयस्य वा स्तम्भितत्वस्य वा. तत् कस्य हेतोर्? अनिमित्ता हि भगवन् प्रज्ञापारमिता अलिङ्गा अनभिलप्या, अप्रव्याहारा हि भगवन् प्रज्ञापारमिता, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, अनिमित्ता हि भगवन् दानपारमिता अलिङ्गा अनभिलप्या अप्रव्याहारा हि भगवन् दानपारमिता यावत् सर्वज्ञता, सचेद् भगवन् प्रज्ञापारमिता सनिमित्ता सलिङ्गा साभिलप्या सप्रव्याहाराभविष्यन् नानिमित्ता नालिङ्गा नानभिलप्या नाप्रव्याहारा नैव तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्मान् अनिमित्तान् अलिङ्गान् अनभिलप्यान् अप्रव्याहारान् इति विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलप्यम् अप्रव्याहारं धर्मम् अदेशयिष्यत्, यस्माद् भगवन्न् इयं प्रज्ञापारमिता अनिमित्ता अलिङ्गा अनभिलप्या अप्रव्याहारा तस्मात् तथागतः सर्वधर्मान् अनिमित्तान् अलिङ्गान् अनभिलप्यान् अप्रव्याहारान् विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलप्यम् अप्रव्याहारं धर्मं देशयेत्. इति परार्थाधिमुक्तिर् मृदुमध्या
SK
तस्माद् भगवन्न् इयं प्रज्ञापारमिता सदेवमानुषासुरेण लोकेन सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचिवरच्छत्रध्वजपताकाभिः. न चास्य नरकतिर्यग्योनियमलोकगतिः प्रतिकाङ्क्षितव्या, न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भविष्यति. अविरहितश् च भविष्यति तथागतदर्शनेन सत्त्वपरिपाकेन यद् उत बुद्धक्षेत्रम् उपसंक्रामति, तांश् च तथागतान् सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इति परार्थाधिमुक्तिमृद्वधिमात्रा
SK
पुनर् अपरं भगवन् यद्य् अयं त्रिसाहस्रमहासाहस्रो लोकधातुस् तथागतशरीराणां परिपूर्णश् चूडिकाबद्धो ऽपि मे उपनाम्येत, इमां च प्रज्ञापारमितां पुस्तकलिखितं कृत्वा उपनाम्येत, अहम् अनयोर् द्वयोर् भागयोः स्थापितयोर् इमाम् एव प्रज्ञापारमितां परिगृह्णीयां. तत् कस्य हेतोर्? अतो निर्जातानि हि तथागतशरीराणि. तेन सत्क्रियन्ते गुरुक्रियन्ते मानयन्ते पूज्यन्ते येन ते कुलपुत्राः कुलदुहितरश् च तानि सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा न दुर्गतिविनिपातेषूपपद्यन्ते, देवमनुष्यसंपत्तीर् अनुभूय यथाप्रणिधानेन निर्वास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन (PSP_२-३:९१) वा. अपि तु खलु पुनर् भगवन् यच् च तथागतदर्शनं यच् च प्रज्ञापारमितादर्शनं तुल्यम् एतत्, तथा हि भगवन् या प्रज्ञापारमिता यश् च तथागतो ऽद्वयम् एतद् अद्वैधीकारम्. इति परार्थाधिमुक्तिर् मध्यमृद्धी
SK
पुनर् अपरं भगवन् यश् च तथागतो ऽर्हन् सम्यक्संबुद्धस् त्रिभिः प्रातिहार्यैर् धर्मं देशयति, यद् उत द्वादशाङ्गं सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशा, यश् च स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य परेभ्यश् च विस्तरेण देशयेत तुल्यम् एतत्. तत् कस्य हेतोर्? अतो निर्जातानि हि भगवंस् त्रीणि प्रातिहार्याणि, ततो निर्जातं सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशाः.
SK
पुनर् अपरं भगवन् ये पूर्वस्यां दिशि गङ्गानदीवालुकोपमा बुद्धा भगवन्तो धर्मं देशयन्ति यद् उत सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशाः त्रिभिः प्रातिहार्यैर्, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो यावद् विदिक्षु गङ्गानदीवाल्कोपमेषु लोकधातुषु बुद्धा भगवन्तो धर्मं देशयन्ति त्रिभिः प्रातिहार्यैर् यद् उत सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशाः, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्णीयात् यावत् परेभ्यश् च विस्तरेण संप्रकाशयेत् तुल्यम् एतत्. तत् कस्य हेतोर्? अतो निर्जातानि हि भगवंस् त्रीणि प्रातिहार्याणि. ततो निर्जातं सूत्रं गेयं व्याकरणं यावद् अवदानोपादेशाः.
SK
पुनर् अपरं भगवन् यश् चैकैकस्यां दिशि यावन्तो दशसु दिक्षु सर्वलोकधातुषु गङ्गानदीवालुकोपमास् तथागता अर्हन्तः सम्यक्संबुद्धास् तान् सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्, यश् चेमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस् तुल्यम् एतत्. तत् कस्य हेतोर्? अतो निर्जाता हि तथागता अर्हन्तः सम्यक्संबुद्धाः. इति परार्थाधिमुक्ति मध्यमध्या
SK
पुनर् अपरं भगवन् यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति (PSP_२-३:९२) परेभ्यश् च विस्तरेण संप्रकाशयिष्यति, तस्य न निरयतिर्यग्योनियमलोकगतिः. प्रतिकाङ्क्षितव्या न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या, तथा हि स भगवन् बोधिसत्त्वो महासत्त्वः स्थितो ऽविनिवर्तनीयायां भूमौ. तत् कस्य हेतोस्? तथा हि स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा उद्गृह्णाति धारयति वाचयति पर्यवाप्नोति योनिशश् च मनसिकरोति तां च लिखितां सत्करोति गुरुकरोति मानयति पूजयति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्, तस्य न कुतश्चिद् भयं प्रतिकाङ्क्षितव्यं. तद्यथापि नाम भगवन् धनिकभयभीतः पुरुषो राजानम् उपतिष्ठेत्, स राजानं सेवमानो येभ्य एवास्य भयं भवति तैर् एव सेव्यते न च तेभ्यो बिभेति. तत् कस्य हेतोर्? एवम् एतत् भगवन् बलवति निश्रये भयं न भवति. एवम् एव भगवन् प्रज्ञापारमितापरिभावितानि तथागतशरीराणि पूजां लभन्ते. तत्र भगवन् यथा स राजा एवं प्रज्ञापारमिता द्रष्टव्या, यथा स राजनिःश्रितः पुरुषः पूजां लभते. एवम् एव तथागतशरीराणि प्रज्ञापारमितापरिभावितानि पूजां लभन्ते. यद् अपि भगवंस् तत् सर्वज्ञज्ञानं तद् अपि प्रज्ञापारमितापरिभावितं वेदितव्यं, तस्मात् तयोर् द्वयोर् भागयोः स्थापितयोः प्रत्यंशम् इमाम् एवाहं प्रज्ञारपामितां परिगृह्णीयां. तत् कस्य हेतोर्? अतो निर्जातानि हि तथागतशरीराणि, अतो निर्जातानि द्वात्रिंशद् महापुरुषलक्षणान्य्, अतो निर्जातानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, अतो निर्जाता महामैत्री महाकरुणा, अतो निर्जाताः पञ्च पारमिताः पारमितानामधेयं लभन्ते, अतो निर्जाता तथागतस्य सर्वज्ञता.
SK
यत्र भगवंस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तत्र तेषां सत्त्वानां मनुष्या वा अमनुष्या वा अवतारप्रेक्षिणो ऽवतारगवेषिणो ऽवतारं न लप्स्यन्ते, सर्वे च ते सत्त्वा अनुपूर्वेण परिनिर्वाणधर्माणो भविष्यन्ति. एवं महर्द्धिका भगवन्न् इयं प्रज्ञापारमिता. यत्र हि नाम भगवन्न् इयं प्रज्ञापारमिता त्रिसाहस्रमहासाहस्रे लोकधातौ ये सत्त्वास् तेषां बुद्धकृत्येन प्रत्युपस्थिता, बुद्धोत्पादो (PSP_२-३:९३) भगवंस् तत्र लोकधातौ प्रतिकाङ्क्षितव्यो यत्र लोकधातौ इयं प्रज्ञापारमिता प्रचरिष्यति. तद्यथापि नाम भगवन्न् अनर्घं यत् मणिरत्नैः भवेत् तत् खलु पुनर् महामणिरत्नम् एभिर् एव गुणैः समन्वागतं भवेत्. यत्रयत्र तन् महामणिरत्नं स्थाप्येत तत्रतत्रामनुष्या अवतारं न लभन्ते. यत्रयत्र चामनुष्यगृहीतः स्त्री वा पुरुषो वा भवेत् तत्रतत्र तन् महामणिरत्नं प्रवेष्येत प्रवेशितमात्र एव तस्मिन् महामणिरत्ने सो ऽमनुष्यः प्रक्रामेत् तस्य महामणिरत्नस्य तेजो ऽसहमानः. पित्तेन वा दह्यमाने शरीरे तन् महामणिरत्नं स्थाप्येत तद् अपि पित्तं निगृह्णीयान् न विवर्धेतोपशाम्येत. वाताभिभूते वा शरीरे तन् महामणिरत्नं स्थाप्येत तम् अपि वातं निगृह्णीयात्. श्लेष्मणा उपस्तब्धे शरीरे तन् महामणिरत्नं स्थाप्येत तं सर्वं श्लेष्माणं प्रशमयेत्. संनिपाताभिभूते वा शरीरे तन् महामणिरत्नं कुलपुत्रस्य वा कुलदुहितुर् वा पुरतः स्थाप्येत तस्यापि स व्याधिर् उपशाम्येत. तच् च महामणिरत्नं रात्रावभासं कुर्यात्. उष्णकाले च वर्तमाने यत्र पृथिवीप्रदेशे तन् महामणिरत्नं स्थाप्येत स पृथिवीप्रदेशः शिशिरः परिवर्तेत. शिशिरकाले ऽपि वर्तमाने यत्र पृथिवीप्रदेशे तन् महामणिरत्नं स्थाप्येत स पृथिवीप्रदेशो घर्मः परिवर्तेत. यत्र च तन् महामणिरत्नं स्थाप्येत स च पृथिवीप्रदेशो नात्युष्णो नातिशीतः स्यात् ऋतुसुखो.
SK
यत्र पृथिवीप्रदेशे तन् महामणिरत्णं तिष्ठति तत्र पृथिवीप्रदेशे नाशीविषा उपविचरन्ति वृश्चिकादीनि वा सरीसृपाणि वा, यः कश्चित् कुलपुत्रो वा कुलदुहिता आशीविषेण दष्टो भवेत् तस्यापि तन् महामणिरत्नम् उपदर्श्येत तस्य सह दर्शनेनैव तद् विषं विगच्छेत्. एभिर् एवम् आदिभिर् गुणैर् युक्तं तत् महामणिरत्नं भवेद्, ये ऽपि भगवन् स्त्रियो वा पुरुषा वा नानाव्याधिपरिगता भवन्ति तेषाम् अपि काये तन् महामणिरत्नं स्थाप्येत, तेषाम् अपि सर्वे ते व्याधय उपशमं गच्छेयुः. यत्रापि भगवन्न् उदके तन् महामणिरत्नं स्थाप्येत तद् अपि सर्वम् (PSP_२-३:९४) उदकं स्ववर्णसदृशं कुर्यात्. सचेद् भगवंस् तन् महामणिरत्नं नीलेन वाससा परिवेष्ट्य उदके प्रक्षिपेत् तद् उदकं नीलं कुर्यात्. सचेत् पीतकेन सचेल् लोहितकेन वस्त्रेण सचेद् माञ्जिष्ठवर्णेन सचेत् स्फटिकवर्णेन वस्त्रेण तन् महामणिरत्नं बद्ध्वा उदके प्रक्षिप्येत तद् वर्णम् उदकं भवेत्. नानारङ्गरक्तैर् अपि वस्त्रैस् तन् महामणिरत्नं बद्ध्वा उदके प्रक्षिप्येत तद् उदकं नानावर्णं कुर्यात्. यत्र च भगवन्न् उदके कलुषे तन् महामणिरत्नं स्थाप्येत तत् सर्वम् उदकं प्रसादयेद् एभिर् एवम् आदिभिर् गुणैः समुपेतं तन् महामणिरत्नं भवेत्.
SK
अथ खल्व् आयुष्मान् आनन्दः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तत् किं मन्यसे? कौशिक दिव्यं तन् महामणिरत्नम् उताहो जाम्बूद्वीपकानां मनुष्याणाम् एतद् महामणिरत्नं विद्यते.
SK
शक्र आह: दिव्यं तद् भदन्त महामणिरत्नं, यानि जाम्बूद्वीपकानां मनुष्याणां मणिरत्नानि तानि परीत्तानि गुरूणि च, यानि पुनर् दिव्यानि तानि महान्ति लघूनि च, तैर् आकारैस् तथा सुपरिपूर्णानि जाम्बूद्वीपकानां मनुष्याणां मणिरत्नानि यथा न सुपरिपूर्णानि पुनर् जाम्बूद्वीपकानि मणिरत्नानि दिव्यानां मणिरत्नानां संख्याम् अपि नोपयान्ति कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अपि नोपयान्ति. तत् खलु महामणिरत्नं यस्मिन् करण्डके तिष्ठति यदा तन् महामणिरत्नं तस्मात् करण्डकाद् उत्क्षिप्तं भवति स्पृहणीयः स करण्डको भवति, अत्र तन् महामणिरत्नं स्थितम् अभूद् इति.
SK
एवम् एतद् भदन्तानन्द यत्रेयं प्रज्ञापारमिता पृथिवीप्रदेशे प्रचरिष्यति न तत्र कुलपुत्राणां कुलदुहितृणां वा कायिका वा चैतसिका वा दुःखोपद्रवा मनुष्यकृता वा अमनुष्यकृता वा भविष्यन्ति. महामणिरत्नम् इति प्रज्ञापारमिताया एतद् अधिवचनं सर्वज्ञज्ञानस्य च. कियन्तः शक्याः प्रज्ञापारमिताया गुणाः? परिकीर्तयितुम् अप्रमेया हि प्रज्ञापारमिताया गुणाः. एवं ध्यानपारमिताया वीर्यपारमिताया क्षान्तिपारमिताया शीलपारमिताया दानपारमिताया अध्यात्मशून्यताया यावद् अभावस्वभावशून्यतायाः स्मृत्युपस्थानां सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य (PSP_२-३:९५) मार्गस्याप्रमाणध्यानारूप्यसमापत्तीनां चतुर्णाम् आर्यसत्यानाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां षण्णाम् अभिज्ञानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां सर्वज्ञज्ञानस्यापि धर्मधातोर् अपि धर्मनियामतायास् तथताया भूतकोटेर् अचिन्त्यधातोः सर्वज्ञज्ञानस्यैते गुणा येन परिनिर्वृतस्यापि तथागतस्य शरीराणि पूजां लभन्ते. सर्वज्ञज्ञानस्य सर्ववासनानुसंधिक्लेशप्रहाणस्य सदोपेक्षाविहारिताया असंप्रमुषितधर्मताया एषां तथागतशरिराणि भाजनभूतान्य् अभूवंस् तेनैतानि तथागतशरीराणि पूजां लभन्ते. इति परार्थाधिमुक्तिमध्याधिमात्रा
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: रत्नपारमिताया भगवन्न् इमानि तथागतशरीराणि भाजनम् अभूत्. असंक्लेशाव्यवदानपारमिताया अनुत्पादानिरोधपारमिताया अनागतिपारमिताया इमानि तथागतशरीराणि भाजनं, धर्मतापारमितायास् तथागतशरीराणि भाजनं, धर्मतापरिभावितानि तथागतशरीराणि पूजां लभन्ते.
SK
पुनर् अपरं भगवंस् तिष्ठतु त्रिसाहस्रमहासाहस्रो लोकधातुस् तथागतशरीराणां परिपूर्णश् चूडिकाबद्धः, सचेद् भगवन् गङ्गानदीवालुकोपमा लोकधातवस् तथागतशरीराणां परिपूर्णाश् चूडिकाबद्धा भवेयुर्, इयं च प्रज्ञापारमिता पुस्तकलिखितां कृत्वा उपनाम्येत, तयोर् अहं भगवन् द्वयोर् भागयोः स्थापितयोर् इमाम् एव प्रज्ञापारमिताम् उद्गृह्णीयां. तत् कस्य हेतोर्? अतो निर्जातानि हि तथागतशरीराणि प्रज्ञापारमितापरिभावितानि पूजां लभन्ते.
SK
यः पुनर् भगवन् कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् स तस्य कुशलमूलस्य परित्तीकृतानि दिव्यानि मानुष्यकाणि च सुखानि प्रत्यनुभूय क्षत्रियमहाशालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा चातुर्महाराजकायिकेषु वा त्रायस्त्रिंशेषु यामेषु तुषितेषु निर्माणरतिषु परनिर्मितवशवर्तिषु देवेषु सुखं प्रत्यनुभूय तेन कुशलमूलेन दुःखस्यान्तं करिष्यति.
SK
तस्य खलु पुनः कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतो योनिशश् च मनसिकुर्वतो ध्यानपारमिता (PSP_२-३:९६) परिपूर्यते ध्यानपारमिता परिपूर्णा वीर्यपारमिता परिपूर्यते वीर्यपारमिता परिपूर्णा क्षान्तिपारमिता परिपूर्यते क्षान्तिपारमिता परिपुर्णा शीलपरमिता परिपूर्यते शीलपारमिता परिपूर्णा दानपारमिता परिपूर्यते दानपारमिता परिपूर्णा. एवं सप्तत्रिंशद्बोधिपक्ष्या धर्मा यावद् अष्टादशावेणिका बुद्धधर्माः परिपूर्यन्ते, सो ऽतिक्रम्य श्रावकप्रत्येकबुद्धभूमिं बोधिसत्त्वनियामम् अवक्रम्य बोधिसत्त्वाभिज्ञाः प्रतिलभ्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, समचिन्त्यात्मभावान् प्रतिगृहीष्यति, यैर् आत्मभावैः सत्त्वान् परिपाचयिष्यति. यदि वा चक्रवर्त्यात्मभावं पैगृह्य क्षत्रिय महाशालकुलात्मभावं परिगृह्य ब्राह्मण महाशालकुलात्मभावं परिगृह्य गृहपतिमहाशालकुलात्मभावं परिगृह्य सत्त्वान् परिपाचयिष्यति. तस्माद् भगवन् न मे तथागतशरीरेष्व् अगौरवम् एव मे भगवन् नापि न ग्रहीतुकामः. अपि तु खलु पुनः प्रज्ञापारमितया सत्कृतया गुरुकृतया मानितया पूजितया तथागतशरीराण्य् अपि सत्कृतानि भवन्ति गुरुकृतानि मानितानि पूजितानि भवन्ति.
SK
पुनर् अपरं भगवन् ये दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धा असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति. तांश् च धर्मकायेन च रूपकायेन च द्रष्टुकामेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या परेभ्यश् च विस्तरेण संप्रकाशयितव्या योनिशश् च मनसिकर्तव्या. सचेत् कुलपुत्रो वा कुलदुहिता वा तान् दशसु दिक्षु तथागतान् अर्हतः सम्यक्संबुद्धान् इच्छेद् द्रष्टुं, तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरता बुद्धानुस्मृतिर् भावयितव्या.
SK
धर्मतया द्वे इमे भगवतां धर्मते. कतमे द्वे? यद् उत संस्कृतधर्मता चासंस्कृतधर्मता च.
SK
तत्र भगवन् कतमा संस्कृतधर्मता? यद् उताध्यात्मशून्यताज्ञानं बहिर्धाशून्यताज्ञानम् अध्यात्मबहिर्धाशून्यताज्ञानं यावद् अभावस्वभावशून्यताज्ञानं सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु यद् आर्यसत्येषु यद् अप्रमाणध्यानारूप्यसमापत्तिषु यद् दशसु तथागतबलेषु ज्ञानं, यच् चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु (PSP_२-३:९७) ज्ञानं, यत् कुशलमूलेषु सास्रवानास्रवेषु सावद्यानवद्येषु लौकिकलोकोत्तरेषु संक्लेशव्यवदानधर्मेषु ज्ञानम् इयम् उच्यते संस्कृतधर्मता.
SK
तत्र कतमा असंस्कृतधर्मा उच्यते? यस्य धर्मस्य नोत्पादो न निरोधो न स्थितिर् नास्थिः, नान्यथात्वं न संक्लेशो न व्यवदानं न हानिर् न वृद्धिः, यावत् सर्वधर्माणाम् अभावस्वभावता. कतमा सर्वधर्माणाम् अभावस्वभावता? या अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता परभावशून्यता. यत् सर्वधर्माणां प्रकृतिशून्यतात्वम् अनुपलम्भो यावद् या सर्वधर्माणां निरभिलप्यता अप्रव्याहारता इयम् उच्यते असंस्कृतधर्मता. इति परार्थाधिमुक्तिर् अधिमात्रमृद्धी
SK
अथ खलु भगवान् सक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्. ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. ये ऽप्य् एतर्हि दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. ये ऽपि ते ऽभूवन्न् अतीतानागताः श्रावका ये च प्रत्येकबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंभोत्स्यन्ते, ये ऽपि स्रोतआपत्तिफलं प्राप्स्यन्ते प्राप्नुवन्ति च, ये ऽपि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्स्यन्ते प्राप्नुवन्ति च. ये ऽपि ते दशदिशि लोके ऽसंख्येयेषु लोकधातुषु श्रावका, ये च प्रत्येकबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्य श्रावकबोधिप्रत्येकबोधिप्राप्तास्. तत् कस्य हेतोस्? तथा ह्य् (PSP_२-३:९८) अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि, तानि पुनर् अनिमित्तयोगेनानुत्पादानिरोधयोगेनासंक्लेशाव्यवदानयोगेनानभिसंस्कारयोगेनानायूहानिर्यूहयोगेनानुत्क्षेपाप्रक्षेपयोगेनानुद्ग्रहानुत्सर्गयोगेन. तत् पुनर् लोकव्यवहारेण न पुनः परमार्थेन. तत् कस्य हेतोर्? न हि प्रज्ञापारमितायाम् अपारं वा पारं वा स्थलं वा निम्नं वा समं वा विषमं वा निमित्तं वा अनिमित्तं वा लौकिकं वा लोकोत्तरं वा संस्कृतं वा असंस्कृतं वा कुशलं वा अकुशलं वा अतीतं वा अनागतं वा प्रत्युत्पन्नं वा प्रज्ञायते. न च कौशिक प्रज्ञापारमिता कस्यचिद् धर्मस्य प्रदायिका न प्रत्येकबुद्धधर्माणां नार्हत्वधर्माणां प्रदायिका. इति परार्थाधिमुक्तिर् अधिमात्रमध्या
SK
शक्र आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. अत्र हि भगवन् बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः सर्वसत्त्वचित्तचरितानि प्रजानन्ति न च सत्त्वम् उपलभन्ते, न जीवं न पोषं न पुरुषं न मनुजं न मानवं न कारकं न वेदकं न जानकं न पश्यकम् उपलभन्ते. न रूपम् उपलभन्ते, न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् उपलभन्ते. न पृथिवीधातुम् उपलभन्ते, नाब्धातुं न तेजोधातुं न वायुधातुं नाकाशधातुं न विज्ञानधातुम् उपलभन्ते. न चक्षुर् उपलभन्ते, न रूपम् उपलभन्ते, न चक्षुर्विज्ञानम् उपलभन्ते, न चक्षुःसंस्पर्शम् उपलभन्ते, यद् अपि तच् चक्षूरूपसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नोपलभन्ते. एवं श्रोत्रं घ्राणं जिह्वां कायं मनो नोपलभन्ते. शब्दगन्धरसस्प्रष्टव्यधर्मान् नोपलभन्ते. श्रोत्रविज्ञानं यावन् मनोविज्ञानं, श्रोत्रसंस्पर्शं यावन् मनःसंस्पर्शं नोपलभन्ते यावद् यद् अपि तन् मनोधर्मसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नोपलभन्ते. स्मृत्युपस्थानानिनोपलभन्ते. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् नोपलभन्ते. अप्रमाणध्यानारूप्यसमापत्तीर् नोपलभन्ते. नार्यसत्यानि नाष्टविमोक्षान् न नवानुपूर्वविहारसमापत्तीर् न षडभिज्ञा उपलभन्ते. (PSP_२-३:९९) न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिकान् बुद्धधर्मान् उपलभन्ते. नाध्यात्मशून्यताम् उपलभन्ते, न बहिर्धाशून्यतां नाध्यात्मबहिर्धाशून्यतां यावन् नाभावस्वभावशून्यताम् उपलभन्ते. न समाधीन् न धारणीमुखान्य् उपलभन्ते. न शून्यतानिमित्ताप्रणिहितान्य् उपलभन्ते. न बोधिं न बुद्धं न बुद्धधर्मान् उपलभन्ते. न हि प्रज्ञापारमिता उपलम्भयोगेन प्रत्युपस्थिता. तत् कस्य हेतोस्? तथा हि स्वभावो न संविद्यते नोपलभ्यते, येनोपलभ्येत यद् उपलभ्येत यत्र चोपलभ्येत.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, तथा हि कौशिक बोधिसत्त्वो महासत्त्वो ऽनुपलम्भयोगेन प्रज्ञापारमितायां चरन् बोधिम् अपि नोपलभते प्राग् एव बोधिसत्त्वधर्मान्.
SK
शक्र आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् एव चरति नान्यासु पारमितासु?
SK
भगवान् आह: सर्वासु कौशिक पारमितासु बोधिसत्त्वो महासत्त्वश् चरति न केवलं प्रज्ञापारमितायां. तच् चानुपलम्भयोगेन स दानपारमितां नोपलभते दायकम् अपि नोपलभते प्रतिग्राहकम् अपि नोपलभते, शीलपारमितां नोपलभते शीलवन्तम् अपि नोपलभते दौःशील्यम् अपि नोपलभते, क्षान्तिपारमितां नोपलभते क्षमिणम् अपि नोपलभते क्षम्यम् अपि नोपलभते वीर्यपारमितां नोपलभते कर्तव्यम् अपि नोपलभते कायचित्तम् अपि नोपलभते, ध्यानपारमितां नोपलभते चित्तम् अपि नोपलभते समाधिम् अपि नोपलभते, प्रज्ञापारमितां नोपलभते प्रज्ञावन्तम् अपि नोपलभते प्रज्ञयम् अपि नोपलभते. अपि तु खलु पुनः कौशिक प्रज्ञापारमिता पूर्वंगमा नायिका बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः. प्रज्ञापारमिता पूर्वंगमा बोधिसत्त्वस्य महासत्त्वस्य शीलं रक्षतः क्षान्तिं भावयतो वीर्यम् आरम्भमाणस्य ध्यानं समापद्यमानस्य धर्मान् विभावयतो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता पूर्वंगमा नायिका सर्वधर्माणाम् अनुपलम्भयोगेन. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानाम् अनुपलम्भयोगेन. सप्तत्रिंशतां (PSP_२-३:१००) बोधिपक्ष्याणां धर्माणाम् अनुपलनिभयोगेन. आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अनुपलम्भयोगेन. अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां षण्णाम् अभिज्ञानाम् अनुपलम्भयोगेन. दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुपलम्भयोगेन. सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानाम् अनुपलम्भयोगेन. सर्वज्ञताया अनुपलम्भयोगेन यावत् सर्वधर्माणाम् अनुपलम्भयोगेन. तद्यथापि नाम कौशिक जाम्बूद्वीपकानां वृक्षाणां नानापत्रपलाशानां नानापुष्पफलानां नानारोहसंस्थानपरिणाहानां न च तेषां वृक्षाणां च्छायाया विशेषो वा नानाकरणं चोपलभ्यते, अपि तु च्छाया च्छायेति संख्यां गच्छति. एवम् एव कौशिक पञ्चानां पारमितानां प्रज्ञापारमितापरिगृहीतानां सर्वज्ञातापरिणामितानां न विशेषो न नानाकरणम् उपलभ्यते ऽनुपलम्भयोगेन. इति परार्थाधिमुक्तिर् अधिमात्राधिमात्रेत्य् उक्तो अधिमुक्तिमनस्कारः गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः
SK
शक्र आह: महागुणसमन्वागता भगवन्न् इयं प्रज्ञापारमिता, सर्वगुणपरिपूरणी अप्रमेयगुणसमन्वागता अचिन्त्यगुणसमन्वागता अतुल्यगुणसमन्वागता अपरिमाणगुणसमन्वागता अपर्यन्तगुणसमन्वागतेयं भगवन् प्रज्ञापारमिता. यः कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, तां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर् यथोपदिष्टां च प्रज्ञापारमितां योनिशो मनसिकुर्याद्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्यात्, कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्?
SK
भगवान् आह: तेन हि कौशिक त्वाम् एवात्र प्रतिप्रक्ष्यामि यथा ते क्षमते तथा व्याकुर्याः. तत् किं मन्यसे? कौशिक, यः कश्चित् कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, यश् च कुलपुत्रो वा कुलदुहिता वा सर्षपफलमात्रकं तथागतशरीरं परस्मै दद्यात् संविभागं कुर्यात्, सो ऽपि कुलपुत्रो वा कुलदुहिता वा तत् सर्षपफलमात्रकं (PSP_२-३:१०१) तथागतशरीरं सत्कुर्याद् गुरुकुर्याद् मानयेत् पाजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्?
SK
शक्र आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानेयायं कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि स्वयं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत, सो ऽपि सर्षपफलमात्रकं तथागतशरीरं परस्मै दाद्याद् अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. एवम् अर्थवशं संपश्यमानेन तथागतेन वज्रोपमं समाधिं समापद्य आत्मभावं वज्रोपमं भित्त्वा तथागतशरीराण्य् अधिष्ठितानि महाकरुणां संजनय सत्त्वकाये तथागतधातुवैनयिकानां सत्त्वानाम्. तत् कस्य हेतोर्? ये केचिद् भगवन् तथागतस्य परिनिर्वृत्तस्यान्तशः सर्षपफलमात्रकम् अपि धातुं पूजयिष्यन्ति सर्वेषां तेषां न शक्यं तस्य कुशलमूलस्य पर्यन्तो ऽधिगन्तुं यावत् परिनिर्वाणम् इति.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्. यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यत्य् अर्चयिष्यत्य् अपचायिष्यते पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, परस्मै च लिखित्वा दद्याद् एवं कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. इति प्रथमा स्तुतिमात्र
SK
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां यथोपदिष्टां परेभ्यो गत्वा आचक्षीत देशयेत् प्रकाशयेद् विभजेद् उत्तानीकुर्याद् अयं स कुलपुत्रो वा कुलदुहिता वा ततः पूर्वकात् कुलपुत्राद् वा कुलदुहितुर् वा बहुतरं पुण्यं प्रसवति. शास्तेति वा प्रतिकांक्षितव्यः, अन्यतरान्यतरो वा गुरुस्थानीयः सब्रह्मचारी. तत् कस्य हेतोर्? एष एवात्र शास्ता द्रष्टव्यो येयं प्रज्ञापारमिता न ह्य् अन्यः शास्ता अन्या प्रज्ञापारमिता, प्रज्ञापारमितैव शास्ता, शास्तैव प्रज्ञापारमिता. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायां शिक्षित्वा कुलपुत्राः कुलदुहितरो वा अतीतानागतप्रत्युत्पन्नास् तथागता अर्हन्तः सम्यक्संबुद्धा लोके प्रादुर्भूताः, ये ऽपि ते ऽभिज्ञाः सब्रह्मचारिणो ऽन्यतरान्यतरे ऽविनिवर्तनीयत्वे स्थितास्, ते ऽपि बोधिसत्त्वा महासत्त्वा इहैव प्रज्ञापारमितायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् (PSP_२-३:१०२) अभिसंबुद्धाः. अत्रैव कौशिक प्रज्ञापारमितायां श्रावकाः शिक्षिताः, अर्हन्तो ऽर्हत्त्वं प्राप्ताः, प्रत्येकबुद्धाः प्रत्येकबोधिं प्राप्ता, बोधिसत्त्वा बोधिसत्त्वनियामम् अवक्रामन्ति अवक्रान्ताश् च अवक्रमिष्यन्ति च. तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा तथागतान् अर्हतः सम्यक्संबुद्धान् संमुखं सत्कर्तुकामेन गुरुकर्तुकामेन मानयितुकामेन पूजयितुकामेन पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इयम् एव प्रज्ञापारमिता पुस्तकलिखिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्र ध्वजपताकाभिः. इमम् अपि चार्थवशं संपश्यमानस्य ममानुत्तरां सम्यक्संबोधिम् अभिसंबुधस्यैतद् अभूत्; कन् न्व् अहं धर्मम् उपनिश्रित्य विहरेयं सत्कुर्यां गुरुकुर्यां मानयेयं पूजयेयम् इति. सो ऽहं कौशिक यदा नाद्राक्षं सदेवके लोके सब्रह्मके समारके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायां सदृशम्. तस्य मे सदृशं समनुपश्यमानस्य एतद् अभूत्; यन् नूनम् अहं य एव मया धर्माभिसंबुद्धस् तम् एव धर्मं सत्कुर्यां गुरुकुर्यां मानयेयं पूजयेयम् इति, धर्मम् एव चोपनिश्राय विहरेयम् इति. अयम् एव कौशिक सद्धर्मो येयं प्रज्ञापारमिता. अहम् एव कौशिक इमां प्रज्ञापारमितां सत्करोमि गुरुकरोमि मानयामि पूजयामि सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा उपनिश्राय च विहरामि. किं वा पुनः कौशिक कुलपुत्रेण वा कुलदुहित्रा वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन इयम् एव प्रज्ञापारमिता न सत्कर्तव्या न गुरुकर्तव्या न मानयितव्या न पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. तत् कस्य हेतोस्? तथा हि श्रावकप्रत्येकबुद्धयानिकैः कुलपुत्रैर् वा कुलदुहितृभिर् वा इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीव्रच्छत्रध्वजपताकाभिः. तत् कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि बोधिसत्त्वा, बोधिसत्त्वनिर्जाताश् च तथागता अर्हन्तः सम्यक्संबुद्धास्, तथागतनिर् जाताश् च सर्वश्रावकप्रत्येकबुद्धास्. तस्मात् तर्हि कौशिक महायानिकैः कुलपुत्रैर् वा कुलदुहितृभिर् वा श्रावकयानिकैश् च इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या (PSP_२-३:१०३) पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, यत्र शिक्षित्वा कुलपुत्राः कुलदुहितरश् च अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते. इति द्वितीया स्तुतिमात्रा
SK
एकं कौशिक सत्त्वं स्रोतआपत्तिफले प्रतिष्ठाप्य अप्रमेयं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. तत् कस्य हेतोर्? दशसु कौशिक कुशलेषु कर्मपथेषु सत्त्वाः प्रतिष्ठापिता अपरिमुक्ता एव निरयतिर्यग्योनियमलोकासुरगतिभ्यः, स्रोतआपत्तिफले प्रतिष्ठापितः पुनः सर्वदुर्गतिभ्यो मुक्तो भवति. इति तृतीया स्तुतिमात्रा
SK
सकृदागामिफले एवं सत्त्वं प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति चतुर्थी स्तुतिमात्रा
SK
एवम् अनागामिफले एकं सत्त्वं प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति पञ्चमी स्तुतिमात्रा
SK
एवम् एकं सत्त्वम् अर्हत्त्वे प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति षष्ठी स्तुतिमात्रा
SK
एवम् एकं सत्त्वं प्रत्येकबोधौ प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति सप्तमी स्तुतिमात्रा
SK
यः कश्चित् कौशिक कुलपुत्रो वास् कुलदुहिता वा जाम्बुद्वीपकान् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयेत्, यो वान्यः कुलपुत्रो वा कुलदुहिता वा एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोस्? तथा हि बुद्धनेत्र्याः सो ऽनुपच्छेदाय प्रत्युपस्थितो भवति. इति अष्टमी स्तुतिमात्रा
SK
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् सकृदागामिफले प्रतिष्ठापयेद्, यो वान्य एकं सत्त्वम् अनुत्तरायां सन्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. इति नवमी स्तुतिमात्रेत्य् उक्ता स्तुतिः
SK
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् अनागामिफले प्रतिष्ठापयेद्, यो वान्य एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. इति प्रथमा स्तोभमात्रा (PSP_२-३:१०४)
SK
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् अर्हत्त्वे प्रतिष्ठापयेद्, यो वान्य एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. इति द्वितिया स्तोभमात्रा
SK
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् प्रत्येकबोधौ प्रतिष्ठापयेद्, यो वान्यः कुलपुत्रो वा कुलदुहिता वा एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोस्? तथा हि बुद्धनेत्र्याः. सो ऽनुपच्छेदाय प्रत्युपस्थितो भवति, य एकं सत्त्वम् अप्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेत्. तत् कस्य हेतोर्? बोधिसत्त्वनिर्जाता हि कौशिक यावन्तस् तथागता अर्हन्तः सम्यक्संबुद्धाः. तद् अनेन कौशिक पर्यायेणैवं वेदितव्यं बोधिसत्त्वो ऽपि पूजयितव्यः सदेवमानुषासुरेण लोकेन. इति तृतीया स्तोभमात्रा
SK
पुनर् अपरं कौशिक यः. कश्चित् कुलपुत्रो वा कुलदुहिता वा जाम्बुद्वीपकान् सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वनियामम् अवक्रान्ताश् चावक्रमिष्यन्ति चावक्रामन्ति च. यावद् अर्हत्त्वं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. प्रत्येकां बोधिं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. बोधिसत्त्वा बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमिष्यन्ति च अवक्रामन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंभोत्स्यन्ते अभिसंबुध्यन्ते च. कतमे च ते कौशिक अनास्रवा धर्मास्? तद्यथा पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माश् चत्वार्य् आर्यसत्यानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो ऽष्ट विमोक्षा नवानुपूर्वं विहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा यावद् अपरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टास् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः प्रज्ञापारमितायां तद् अनेनापि ते कौशिक (PSP_२-३:१०५) पर्यायेणैवं वेदितव्यम्. यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परेभ्यो दद्याल् लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोस्? तथा हि अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा, यैर् धर्मैः क्षत्रियमहाशालकुलानि ब्राह्मणमहाशालकुलानि गृहपतिमहाशालकुलानि प्रज्ञयन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्तिंशा यामा तुषिता निर्माणरतयः परनिर्मितवशवर्त्मो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणो यावन् नैवसंज्ञानासंज्ञायतनोपगा देवा प्रज्ञायन्ते, सर्वपारमिताः प्रज्ञायन्ते, सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रज्ञायन्ते, आर्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमिताप्रणिहितानि षड् अभिज्ञाः प्रज्ञायन्ते, सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि प्रज्ञायन्ते, दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रज्ञायन्ते, महामैत्री महाकरुणा प्रज्ञायन्ते, सर्वज्ञताः प्रज्ञायन्ते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. तिष्ठन्तु कौशिक जाम्बुद्वीपकाः सत्त्वा यावत् प्रत्येकायां बोधौ प्रतिष्ठापिता यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु यावत् प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि. तत् कस्य हेतोस्? तथा हि कौशिक प्रज्ञापारमितानिर्जाताः सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वधर्मा बुद्धधर्माश् च. तिष्ठन्तु कौशिक चातुर्महाद्वीप्द्वीपके लोकधातौ सत्त्वा दशसु कुशलेषु कर्मपथेषु यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापिता, यः कौशिक कुलपुत्रो वा कुलदुहिता वा ये साहस्रे लोकधातौ सत्त्वास् तन् सर्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्, स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबुद्धत्वे प्रतिष्ठापयेद्, यश् च कुलपुत्रो वा (PSP_२-३:१०६) कुलदुहिता वा इमां प्रज्ञापारमिताम् अन्तशः पुस्तकलिखिताम् अपि कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: तिष्ठन्तु कौशिक साहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकायां बोधौ प्रतिष्ठापिता, यः कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा ये द्विसाहस्रे लोकधातौ सत्त्वास् तान् सर्वान् दशसु कुशलेषु कर्मपथेषु यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवेत्. तिष्ठन्तु कौशिक द्विसाहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकबोधौ प्रतिष्ठापिता, ये केचित् कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु पृतिष्ठापयेत् यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेद्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापिताः यावन्तः काउशिक दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्टापयेद् यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टास्, तत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वनियामम् अवक्रान्ता अवक्रमिष्यन्ति अवक्रामन्ति च, यावद् अर्हत्त्वं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. प्रत्येकां बोधिं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. बोधिसत्त्वाश् च महासत्त्वाश् च बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमिष्यन्ति अवक्रामन्ति च. अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतम एव कौशिक (PSP_२-३:१०७) अनास्रवा धर्मास्? तद्यथा पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माश् चत्वारि सत्यानि अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता यावद् अभावस्वभावशून्यता अप्रमाणध्यानारूप्यसमापत्तयो दश तथागतबलानि यावद् अपरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टास् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः प्रज्ञापारमितायां तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवति, तत् कस्य हेतोस्? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा, यैर् धर्मैः क्षत्रियमहाशालकुलानि ब्राह्मणमहाशालकुलानि गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते यावन् नैवसंज्ञानासंज्ञायतनोपगा देवाः प्रज्ञायन्ते, पारमिताः प्रज्ञायन्ते यावत् सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रज्ञायन्ते, सर्वज्ञताः प्रज्ञायन्ते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
पुनर् अपरं कौशिक ये जाम्बुद्वीपकाः सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत्. चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः.
SK
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, इदन् तेन कुलपुत्रेण वा कुलदुहित्रा वा बहुतरं पुण्यं प्रसूतं भविष्यति, न त्व् एव जाम्बुद्वीपकान् सत्त्वांश् चातुर्द्वीपकान् साहस्रे द्विसाहस्रे त्रिसाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु ध्यानाप्रमाणेष्व् आरूप्याभिज्ञासु प्रतिष्ठाप्य. तत्रायं योनिशो मनसिकारो न द्वयचरितो बोधौ प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितो बोधौ ध्यानपारमितां (PSP_२-३:१०८) वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां, न द्वयचरितो बोधौ दानपारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. न द्वयचरितो बोधौ अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां योनिशो मनसिकरिष्यति. न द्वयचरितो बोधौ स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् योनिशो मनसिकरिष्यति. न द्वयचरितो बोधौ अष्टादशावेणिकान् बुद्धधर्मान् सर्वाकारज्ञतां योनिशो मनसिकरिष्यति. इति चतुर्थी स्तोभमात्रा
SK
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा अनेकपर्यायेण प्रज्ञापारमितां परेभ्यो देशयिष्यति विस्तरेण संप्रकाशयिष्यति भावयिष्यति विचरिष्यति उत्तानीकरिष्यति अर्थम् उपदेक्ष्यति. तत्रायं प्रज्ञापारमितार्थो ऽद्वये न प्रज्ञापारमितां द्रक्ष्यति न द्वये, न निमित्ततो नानिमित्ततः नायूहतो न निर्यूहतः, नोत्क्षेपतो न प्रक्षेपतः, न संक्लेशतो न व्यवदानतः, नोत्पादतो न निरोधतः, न ग्राहतो नोत्सर्गतः, न स्थानतो नास्थानतः, न भूततो नाभूततः, न योगतो नायोगतः, न शेषतो नाशेषतः, न प्रत्यंशतो नाप्रत्यंशतः न धर्मतो नाधर्मतः, न तथतातो नातथतातः, न भूतकोटितो नाभूतकोटितः. अयम् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां परेभ्यो विस्तरेण संप्रकाशयिष्यति स्वाध्यास्यति देशयिष्यति भावयिष्यति उत्तानीकरिष्यति अर्थं चोपदेक्ष्यति. न त्व् एव यः केवलम् आत्मने चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. इति पञ्चमी स्तोभमात्रा
SK
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा स्वयं प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, तां च परेभ्यो विस्तरेण संप्रकाशयिष्यति प्रज्ञापयिष्यति प्रस्थापयिष्यति विभावयिष्यति उत्तानीकरिष्यति अर्थं चोपदेक्ष्यति, अयम् एव ततो बहुतरं पुण्यं प्रसविष्यति.
SK
शक्र आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत.
SK
भगवान् आह: एवं खलु कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिता उपदेष्टव्या सार्था सव्यञ्जना, एवम् उपदिशन् कौशिक कुलपुत्रो वा (PSP_२-३:१०९) कुलदुहिता वा अप्रमेयासंख्येयापरिमाणेन पुण्यस्कन्धेन समन्वागतो भविष्यति. इति षष्ठी स्तोभमात्रा
SK
सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा दशसु दीक्ष्व् एकैकस्यां दिश्य् अप्रमेयान् असंख्येयान् अपरिमाणांस् तथागतान् अर्हतः सम्यक्संबुद्धान् यावज्जीवं सुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, यड् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् अनेकपर्यायेण परेभ्यो विस्तरेण देशयेद् अर्थम् अस्या विज्ञापयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद् अयम् एव ततः कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोर्? अत्र हि प्रज्ञापापारमितायां शिक्षित्वा तैर् अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते अभिसंभोत्स्यते च. इति सप्तमी स्तोभमात्रा
SK
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा असंख्येयान् अपरिमाणान् कल्पान् दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितां परेभ्यो विस्तरेण संप्रकाशयेत् कथयेद् यावत् सूचयेत् तच् चानुपलम्भयोगेन, अयन् ततो बहुतरं पुण्यं प्रसवेत्. तत्र कौशिक कतम उपलम्भः? यद् बोधिसत्त्वस्योपलम्भयोगेन दानन् ददतः, एवं भवति; अहं दानन् ददामि, इदं दानन् ददामि, परस्मै दानन् ददतो दानम् एव स्थास्यति, न दानपारमिता. इदं शिलम्, अहं शीलवान्, अमून् सत्त्वान् रक्षामि नेयं शीलपारमिता. अहं क्षान्तिम् आरभे, इमां क्षान्तिं परस्मै क्षमामि, अस्यां क्षान्तौ स्थास्यामि, नेयं क्षान्तिपारमिता. अहं वीर्यम् आरभे, इदं वीर्यम् एषाम् अर्थाय, अस्मिन् विर्ये स्थास्यामि, नेयं वीर्यपारमिता. अहं ध्यानं समापत्स्ये, इदं ध्यानम् एषाम् अर्थाय समापत्स्ये, अत्र ध्याने स्थास्यामि, नेयं ध्यानपारमिता. अहं प्रज्ञां भावयामि, इयं प्रज्ञा एषाम् अर्थाय, अस्यां प्रज्ञायां स्थास्यामि, नायं प्रज्ञापारमिता. एवं हि कौशिक उपलम्भे चरितस्य कुलपुत्रस्य वा कुलदुहितुर् वा न दानपारमिता परिपूर्यते, न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता, न प्रज्ञापारमिता परिपूर्यते.
SK
शक्र आह: कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते? कथं शीलपारमिता परिपूर्यते? कथं क्षान्तिपारमिता (PSP_२-३:११०) परिपूर्यते? कथं वीर्यपारमिता परिपूर्यते? कथं ध्यानपारमिता परिपूर्यते? कथं प्रज्ञापारमिता परिपूर्यते?
SK
भगवान् आह: इह कौशिक बोधिसत्त्वो महासत्त्वो दानन् ददन् न दायकम् उपलभते न प्रतिग्राहकम् उपलभते न देयम् उपलभते, इयम् उच्यते दानपारमिता. न शिलम् उपलभते न शीलवन्तं न सत्त्वम् उपलभते, इयम् उच्यते शीलपारमिता. न क्षान्तिम् उपलभते न क्षम्यं न क्षमिणम् उपलभते, इयम् उच्यते क्षान्तिपारमिता. न वीर्यम् उपलभते न कायं न चित्तम् उपलभते, इयम् उच्यते वीर्यपारमिता. न ध्यानम् उपलभते न ध्यायिनं न ध्यातव्यम् उपलभते, इयम् उच्यते ध्यानपारमिता. न प्रज्ञाम् उपलभते न प्रज्ञावन्तं न प्रज्ञेयम् उपलभते येषाम् अर्थाय भावयति, इयम् उच्यते प्रज्ञापारमिता. एवं चरतः कौशिक बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते, शीलपारमिता परिपूर्यते क्षान्तिपारमिता परिपूर्यते वीर्यपारमिता परिपूर्यते ध्यानपारमिता परिपूर्यते प्रज्ञापारमिता परिपूर्यते. एवं हि कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा अनुपलम्भेनेयं प्रज्ञापारमिता सार्था सव्यञ्जनोपदेष्टव्या. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता अनुपलम्भेनेयं सार्था सव्यञ्जनोपदेष्टव्या. तत् कस्य हेतोर्? भविष्यन्ति कौशिकानागते ऽध्वनि कुलपुत्राः कुलदुहितरश् च ते प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तत्र कुलपुत्रस्य वा कुलदुहितुर् वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितस्य प्रज्ञापारमिताप्रतिवर्णिकाश्रवणेन विनाशयिष्यन्ति तेषाम् अपीयं प्रज्ञापारमिता सार्था सव्यञ्जनोपदेष्टव्या.
SK
शक्र आह: कतमा सा भगवन् प्रज्ञापारमिताप्रतिवर्णिका?
SK
भगवान् आह: इह कौशिक कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमिताम् उपदेक्ष्याम इति प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तत्रेयं प्रज्ञापारमिताप्रतिवर्णिका रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति. वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति. एवं चोपदेक्ष्यन्ति य एवं च चरति स चरति प्रज्ञापारमितायाम् इति. येषाम् उपदेक्ष्यन्ति कुलपुत्राणां वा कुलदुहितृणां वा ते रूपम् अनित्यम् इति गवेषिष्यन्ति. एवं वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यम् इति गवेषिष्यन्ति. ते प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. ते प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. ते चक्षुर् अनित्यम् इत्य् उपदेक्ष्यन्ति. एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यम् इत्य् उपदेक्ष्यन्ति. रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति. एवं शब्दा गन्धा रसाः स्प्रष्टव्या धर्मा अनित्या इत्य् उपदेक्ष्यन्ति. पृथिवीधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. अब्धातुं तेजोधातुं वायुधातुम् (PSP_२-३:१११) आकाशधातुं विज्ञानधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. चक्षुर्धातुम् अनित्य इत्य् उपदेक्ष्यन्ति. श्रोत्रधातुं घ्राणधातुं जिह्वाधातुं कायधातुं मनोधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. रूपधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. शब्दधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. गन्धधातुं रसधातुं स्प्रष्टव्यधातुं धर्मधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. चक्षुर्विज्ञानधातुम् अनीत्य इत्य् उपदेक्ष्यन्ति. श्रोत्रविज्ञानधातुं घ्राणविज्ञानधातुं जिह्वाविज्ञानधातुं कायविज्ञानधातुं मनोविज्ञानधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. चक्षुःसंस्पर्शधातुनि अनित्य इत्य् उपदेक्ष्यन्ति. श्रोत्रसंस्पर्शधातुं घ्राणसंस्पर्शधातुं जिह्वासंस्पर्शधातुं कायसंस्पर्शधातुं मनःसंस्पर्शधातुम् अनित्य इत्य् उपदेक्ष्यन्ति. चक्षुःसंस्पर्शप्रत्यया वेदना अनित्या इत्य् उपदेक्ष्यन्ति. एवं श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्यया वेदना अनित्या इत्य् उपदेक्ष्यन्ति. रूपं दुःखम् अनित्यम् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. वेदनासंज्ञासंस्कारा विज्ञानं दुःखम् अनित्यम् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. पृथिवीधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. अब्धातुं तेजोधातुं वायुधातुम् आकाशधातुं विज्ञानधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. रूपशब्दगन्धरसस्पर्शधर्मा दुःखा इति अनात्मान इत्य् अशुभा इत्य् उपदेक्ष्यन्ति. चक्षुर् दुःखम् इत्य् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. श्रोत्रं घ्राणं जिह्वा कायो मनो दुःखम् इत्य् अनात्मेत्य् अशुभम् इत्य् उपदेक्ष्यन्ति. रूपधातुं शब्दधातुं गन्धधातुं रसधातुं स्प्रष्टव्यधातुं धर्मधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. चक्षुर्धातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. श्रोत्रधातुं घ्राणधातुं जिह्वाधातुं कायधातुं मनोधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. चक्षुर्विज्ञानधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानधातुं घ्राणविज्ञानधातुं जिह्वाविज्ञानधातुं कायविज्ञानधातुं मनोविज्ञानधातुं दुःख इत्य् अनात्मेत्य् अशुभ इत्य् उपदेक्ष्यन्ति. चक्षुःसंस्पर्शधातुं चक्षुःसंस्पर्शप्रत्यया वेदना दुःखेत्य् अनात्मिकेत्य् अशुभेत्य् उपदेक्ष्यन्ति. एवं श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शधातुं श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्यया वेदना दुःखेत्य् अनात्मेत्य् (PSP_२-३:११२) अशुभेत्य् उपदेक्ष्यन्ति. एवं ते प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं ध्यानपारमिताप्रतिवर्णिकां वीर्यपारमिताप्रतिवर्णिकां क्षान्तिपारमिताप्रतिवर्णिकां शीलपारमिताप्रतिवर्णिकां दानपारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं रूपं वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यं दुःखम् अनात्माशुभम् इत्य् उपदेक्ष्यन्ति. यावच् चक्षू रूपं चक्षुर्विज्ञानधातुम् अनित्यो दुःखो ऽनात्माशुभ इत्य् उपदेक्ष्यन्ति. एवं यावच् छ्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातुम् अनित्यो दुःखो ऽनात्माशुभ इत्य् उपदेक्ष्यन्ति. एवं प्रज्ञापारमिता अनित्या दुःखानात्माशुभेत्य् उपदेक्ष्यन्ति. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता अनित्या दुःखानात्माशुभेत्य् उपदेक्ष्यन्ति. एवम् अप्रमाणध्यानारूप्यसमापत्तीर् अनित्या दुःखानात्मानोशुभा इत्य् उपदेक्ष्यन्ति, प्रज्ञापार्मितायां चरन्तः. एवम् उपदेक्ष्यन्ति स्मृत्युपस्थानान्य् अनित्यानि दुःखान्य् अनात्मान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अनित्या दुःखा अनात्मानो ऽशुभा इत्य् उपदेक्ष्यन्ति प्रज्ञापारमितायां चरन्तो यावत् सर्वाकारज्ञताम् अनित्या दुःखानात्माशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, इयं कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
SK
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताम् उपदिशन्त एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानः प्रथमायां भूमौ स्थास्यसि यावद् दशम्यां भूमौ स्थास्यसि. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयमानः प्रथमायां भूमौ स्थास्यसि यावद् दशम्यां भूमौ स्थास्यसि. तच् च निमित्तयोगेनोपलम्भयोगेन सर्वाकारसंज्ञया प्रज्ञापारमितां भावयिष्यति, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
SK
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानः श्रावकभूमिं समतिक्रमिष्यसि, प्रत्येकबुद्धभूमिं समतिक्रमिष्यसि, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका. (PSP_२-३:११३)
SK
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां महायानिकानां कुलपुत्राणां वा कुलदुहितृणां वा प्रज्ञापारमिताम् उपदिशन्त एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानो बोधिसत्त्वनियामम् अवक्रमिष्यसि, इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
SK
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताम् उपदिशमाना एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय स त्वं प्रज्ञापारमितां भावयमानो ऽनुत्पत्तिकधर्मक्षान्तिं प्रतिलप्स्यसे स त्वम् अनुत्पत्तिकधर्मक्षान्तिं प्रतिलभ्य बोधिसत्त्वाभिज्ञासु स्थास्यसि स त्वम् अभिज्ञासु स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यसि बुद्धानां भगवतां सत्करणाय गुरुकरणाय माननाय पूजनायार्चनायापचायनाय, एवम् उपदेक्ष्यन्ति. एवम् उपदिशमानाः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां वा कुलदुहितृणां वा एवम् उपदेक्ष्यन्ति, यः कुलपुत्रः प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशो मनसिकरिष्यति सो ऽसंख्येयम् अप्रमेयम् अपरिमाणं पुण्यस्कन्धं प्रसविष्यति. एवं चोपदिशमानाः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणाम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां यत् कुशलमूलं प्रथमचित्तोत्पादम् उपादाय यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां तत् सर्वम् अनुमोद्य एकतः पिण्डीकृत्यानुत्तरायै सम्यक्संबोधये परिणामय. एवम् उपदिशमानाः कौशिक ते कुलपुत्र वा कुलदुहितरो वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
शक्र आह: कथम् उपदिशन्तस् ते कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानसंप्रस्थितानां कुलपुत्राणां वा कुलदुहितृणां वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति? (PSP_२-३:११४)
SK
भगवान् आह: इह कौशिक कुलपुत्रा वा कुलदुहितरो वा तेषां बोधिसत्त्वयानसंप्रस्थितानां कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावयमानो रूपम् अनित्यतो मा द्राक्षीस्. तत् कस्य हेतोः? रूपं रूपस्वभावेन शून्यं, यश् च रूपस्वभावः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता तत्र रूपन् न नित्यम् इति वा अनित्यम् इति वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि रूपम् एव तत्र न संविद्यते. कुतो नित्यं वा अनित्यं वा भविष्यति? एवं चोपदिशन्तस् ते कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं वेदनासंज्ञासंस्कारा विज्ञानम् अनित्यतो मा द्राक्षीस्. तत् कस्य हेतोर्? विज्ञानं विज्ञानस्वभावेन शून्यं, यश् च विज्ञानस्वभावः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता तत्र विज्ञानं न नित्यम् इति वा अनित्यम् इति वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि विज्ञानम् एव तत्र न संविद्यते. कुतो नित्यं वा अनित्यं वा भविष्यति? एवम् उपदिशन्तस् ते कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु सर्वपारमितासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु सत्येष्व् अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिष्व् अप्रमाणध्यानारूप्यसमापत्तिषु शून्यतानिमित्ताप्रणिहितेषु षट्स्व् अभिज्ञासु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु कर्तव्यम्. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च त्वं कुलपुत्र सर्वज्ञताम् अनित्यतो द्राक्षीस्. तत् कस्य हेतोस्? तथा हि सर्वज्ञता सर्वज्ञतास्वभावेन शून्या, यष् च सर्वज्ञतायाः स्वभावः सो ऽभावो, यो ऽभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता न तत्र सर्वज्ञताया नित्यता वा अनित्यता वा व्यपदिश्यते. तत् कस्य हेतोस्? तथा हि सर्वज्ञतैव न संविद्यते. कुतः पुनर् नित्यता वा अनित्यता वा भविष्यति? एवं चोपदिशन्तः. कौशिक कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक कुलपुत्रा वा कुलदुहितरो वा तेषां महायानिकानां कुलपुत्राणां वा कुलदुहितृणां वा एवं न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति, (PSP_२-३:११५) एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च त्वं कंचिद् धर्मं द्राक्षीः, मा च कस्मिंचिद् धर्मे स्थाः. तत् कस्य हेतोस्? तथा हि प्रज्ञापारमितायां न स धर्मः संविद्यते यो धर्मो द्रष्टव्यो यत्र वा प्रतिष्ठातव्यः. तत् कस्य हेतोस्? तथा हि कौशिक सर्वधर्मा स्वभावेन शून्याः, यश् च धर्मः स्वभावेन शून्यः सो ऽभावो, यश् चाभावः सा प्रज्ञापारमिता, या प्रज्ञापारमिता सा न कस्यचिद् धर्मस्यायुहलं वा निर्यूहलं वा उत्पादो वा निरोधो वा उच्छेदो वा शश्वतो वा एकार्थता वा नानार्थता वा आगमो वा निर्गमो वा. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं प्रज्ञापारमिताया अर्थो व्यपदेष्टव्यः. एवम् उपदिशन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति. न त्व् एव ते पूर्वकाः कुलपुत्राः कुलदुहितरश् च. इत्य् अष्टमी स्तोभमात्रा
SK
पुनर् अपरं कौशिक ये जाम्बुद्वीपकाः सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो नैकैः पर्यायैः कथयिष्यति देशयिष्यति विभावयिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति. एवं च वक्ष्यन्ति एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृह्णीष्व पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नश् च स्रोतआपत्तिफलं च प्रभाव्यते. तिष्ठन्तु कौशिक जाम्बुद्वीपकाः सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु चातुर्द्वीपकाः सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु साहस्रे लोकधातौ सर्वसत्त्वाः स्रोतआपत्तिफले विनीतास्, तिष्ठन्तु द्विसाहस्रे लोकधातौ सर्वसत्त्वाः स्रोतआपत्तिफले विनीताः. तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्व्स्ः स्रोतआपत्तिफले विनीताः, यावन्तः कौशिक पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सर्वसत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा (PSP_२-३:११६) स्रोतआपत्तिफले प्रतिष्ठापयेत्. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधो गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. य इमां प्रज्ञापारमितां परेभ्यः. सार्थां सव्यञ्जनां विस्तरेण कथयेद् देशयेद् अर्थम् अस्याः संप्रकाशयेद् विभजेद् विभावयेद् विचरेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृह्णीष्व पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नः प्रभाव्यते. इति नवमी स्तोभमात्रेत्य् उक्तः स्तोभः
SK
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा यावन्तो जाम्बुद्वीपकाः सत्त्वास् तान् सर्वान् सकृदागामिफले प्रतिष्ठपयेत्. इति प्रथमा प्रशंसामात्रा
SK
यावद् अनागामिफले प्रतिष्ठापयेत्. इति द्वितीया प्रशंसामात्रा
SK
यावद् अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेत् कथयेत् संप्रकाशयेद् विभजेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रज्ञायते. तिष्ठन्तु कौशिक जाम्बुद्वीपकाः सत्त्वाः सकृदागाम्य् अनागाम्य् अर्हत्त्वे विनीता यः कश्चित् कुलपुत्रो वा कुलदुहिता वा चातुर्द्वीपकान् सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ठापयेत्. साहस्रे लोकधातौ सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ठापयेत्. द्विसाहस्रे लोकधातौ सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ःआपयेत्. त्रिसाहस्रे (PSP_२-३:११७) लोकधातौ सर्वसत्त्वान् अर्हत्त्वे प्रतिष्ठापयेत्, यावन्तः कौशिक पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वास् तान् सर्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावद् अर्हत्त्वे प्रतिष्ठापयेत्. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्यां दिशि विदिक्षूर्ध्वम् अधो गङ्गानदीवालुक्पमेषु लोकधातुषु सर्वसत्त्वास् तान् सर्वान् यावद् अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यः संप्रकाशयेद् देशयेत् कथयेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागाम्यनागाम्यर्हन्तः प्रज्ञायन्ते. इति तृतिया प्रशंसामात्रा
SK
पुनर् अपरं कौशिक यावन्तो दशसु दिक्षु गङ्गानदीवालुक्पमेषु लोकधातुष्व् एकैकस्यां दिशि सत्त्वास् तान् सर्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनाम् अर्थिकेभ्यः छन्दिकेभ्यो विस्तरेणोपदिशेत् कथयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं च कथयेद् एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोर्? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धः प्रभाव्यते. इति चतुर्थी प्रशंसामात्रा
SK
पुनर् अपरं कौशिक ये जाम्बुद्वीपे सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. (PSP_२-३:११८)
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत् कथयेद् देशयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद्, एवं वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण धारय वाचय देशय संप्रकाशय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. यथायथा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे तथातथा त्वं कुलपुत्र सर्वज्ञताया लाभी भविष्यसि. यथायथा च ते सर्वज्ञतापरिपूरिं गमिष्यति तथातथा च ते भूयस्या मात्रया प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति. यथायथा च ते प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति तथातथा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोर्? अतो निर्जाता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा, ये च केचन दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वास् तेषाम् अपि सर्वेषां प्रज्ञापारमितानिर्जाता प्रथमचित्तोत्पादिका भूमिः. इति पञ्चमी प्रशंसामात्रा
SK
यायन्तश् चातुर्द्वीपकाः सत्त्वाः इति षष्ठी प्रशंसामात्रा
SK
यायन्तः साहस्रे सत्त्वाः. इति सप्तमी प्रशंसामात्रा
SK
यायन्तो द्विसाहस्रे त्रिसाहस्रे सत्त्वाः.
SK
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा ये दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् यावत् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण धारय वाचय देशय संप्रकाशय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व. यथायथा (PSP_२-३:११९) त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे तथातथा त्वं कुलपुत्र सर्वज्ञताया लाभी भविष्यसि. यथायथा ते सर्वज्ञतापरिपूरिं गमिष्यति तथातथा ते भूयस्या मात्रया प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति. यथायथा ते प्रज्ञापारमिताभावनापरिपूरिं गमिष्यति तथातथा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोर्? अतो निर्जाता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा ये च केचन दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वास् तेषाम् अपि सर्वेषां प्रज्ञापारमितानिर्जाता प्रथमचित्तोत्पादिका भूमिः. इत्य् अष्टमी प्रशंसामात्रा
SK
पुनर् अपरं कौशिक यावन्तो जाम्बुद्वीपकास् सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयभूमौ प्रतिष्ठापयेद् यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां तेषां सर्वसत्त्वानां सार्थां सव्यञ्जनाम् उपदिशेद् यावत् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र इमां प्रज्ञापारमिताम् उद्गृह्णीष्व धारय वाचय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्व, यथायथा त्वं यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे तथातथा त्वं प्रज्ञापारमितायां शिक्षमाणो ऽविनिवर्तानीयत्वे स्थास्यसि, अनुपूर्वेण चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे, अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यावन्तश् चातुर्द्वीपके लोकधातौ सत्त्वा यावत् साहस्रे लोकधातौ सर्वसत्त्वा यावद् द्विसाहस्रे लोकधातौ सर्वसत्त्वा यावन्तश् च त्रिसाहस्रमहासाहस्रे लोहधातौ सर्वसत्त्वा यावद् दशसु दिक्ष्व् एकैकस्यां दिशि गन्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहित वा अविनिवर्तनीयभूमौ प्रतिष्ठापयेद्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां तेषां सत्त्वानाम् उपदिशेद् यावत् संप्रकाशयेत् सार्थां सव्यञ्जनाम्, एवं वदेद् एहि त्वं कुलपुत्र इमां प्रज्ञापारमिताम् उद्गृहाण धारय वाचय देशय संप्रकाशय पर्यवाप्नुहि योनिशो मनसिकुरु यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्यस्वात्र हि त्वं प्रतिपद्यमानो ऽविनिवर्तनीयभूमौ स्थास्यसि, अनुपूर्वेणानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्.
SK
पुनर् अपरं कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा यावन्तो (PSP_२-३:१२०) जाम्बुद्वीपकाः सत्त्वास् तान् सर्वान् अविनिवर्तनीयत्वे स्थापयेद् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च प्रज्ञापारमिताम् उपदिशेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद् विभजेत् सार्थां सव्यञ्जनां तेभ्यो ऽन्यतरेभ्यो ब्रूयाद् अहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, तस्मिन् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां विस्तरेण सार्थं सव्यञ्जनाम् उपदिशेद् देशयेत् संप्रकाशयेद् विभावयेद् विभजेद् विस्तरेणोत्तानिकुर्याद् अयम् एव ततो बहुतरं पुण्यं प्रसवेद् यावद् दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयत्वे स्थापयेत् तेभ्यः कश्चिद् एव इमां प्रज्ञापारमिताम् उपदिशेत् तेभ्यश् चैकः कश्चिद् एवं ब्रूयाद् अहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै इमां प्रज्ञापारमिताम् उपदिशेद् देशयेत् संप्रकाशयेद् विभावयेद् विचरेद् उत्तानीकुर्याद् विभजेत् सार्थां सव्यञ्जनाम् अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोर्? अवैवर्तिकेभ्यो हि बोधिसत्त्वेभ्यो ऽत्यर्थं धर्म उपदेष्टव्यो नियता हि ते संबोधिपरायणा न ते भूयो विनिवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेर् अमी भूत्कण्ठिताः संसाराद् महाकरुणासंपीडिताश् च. इति नवमी प्रशंसामात्रेत्य् उक्त्वा प्रशंसा
SK
शक्र आह: यथायथा भगवन् बोधिसत्त्वो महासत्त्व आसन्नीभवत्य् अनुत्तरायाः सम्यक्संबोधेस् तथातथा बोधिसत्त्वो महासत्त्वो ऽववदितव्यो ऽनुशासनीयः प्रज्ञापारमितायां ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायाम् अववदितव्यो ऽनुशासितव्यः, सर्वशून्यतास्व् अववदितव्यो ऽनुशासितव्यः, स्मृत्युपस्थाणेषु सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेष्व् अववदितव्यो ऽनुशासितव्यः, अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेष्व् अववदितव्यो ऽनुशासितव्यः, अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिष्व् अभिज्ञास्व् अववदितव्यो ऽनुशासितव्यः, सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशास्व् आवेणिकेषु बुद्धधर्मेष्व् अववदितव्यो ऽनुशासितव्यः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् अनुग्राह्यः, स च बोधिसत्त्वो महासत्त्वो धर्मामिषासंग्रहाभ्याम् अनुग्रहितव्यः. अयम् एव धर्मामिषानुग्राहकस् ततो बहुतरं (PSP_२-३:१२१) पुण्यं प्रसवेत्. तत् कस्य हेतोः? एवम् एतद् भवति यद् बोधिसत्त्वो महासत्त्वः पारमितास्व् अववाद्यते ऽनुशास्यते. सर्वशून्यतासु सर्वबोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेष्व् अभिज्ञासु समाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेष्व् अवबोध्यते ऽनुशास्यते.
SK
अथ खल्व् आयुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: साधु साधु कौशिक यस् त्वं बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चोत्साहं ददासि, एवम् एव त्वया करणीयं य आर्यश्रावकाः सत्त्वान् अनुग्रहीतुकामास् ते बोधिसत्त्वानां महासत्त्वानाम् अनुग्रहं कुर्वन्ति, अनुत्तरायां सम्यक्संबोधौ अनुगृह्णन्ति धर्मामिषानुग्रहाभ्यां चानुपालयन्ति. तत् कस्य हेतोर्? अतः प्रभवो हि भगवतः श्रावकसंघः, अतः प्रत्येकबुद्धयानम् अतो महायानम्. यदि हि बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादितम् अभविष्यत्, तदा बोधिसत्त्वो महासत्त्वो नाशिक्षिष्यत् षट्सु पारमितासु न सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नार्यसत्येषु नाष्टसु विमोक्षेषु न नवानुपूर्वविहारसमापत्तिषु नाप्रमाणध्यानारूप्यसमापत्तिषु न षट्सु पारमितासु न शून्यतानिमित्ताप्रणिहितेषु नाध्यात्मशून्यतायां न बहिर्धाशून्यतायां नाध्यात्मबहिर्धाशून्यतायां यावन् नाभावस्वभावशून्यतायां न सर्वसमाधिषु न सर्वधारणीमुखेषु न तथागतबलेषु न वैशारद्येषु न प्रतिसंवित्सु नाष्टादशास्व् आवेणिकेषु बुद्धधर्मेष्व् अशिक्षिष्यताशिक्षमाणे न तेषु धर्मेषु नानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत अनभिसंबुध्यमाने तस्मिन् नानुत्तरा सम्यक्संबोधिः प्रज्ञायेत न प्रत्येकबुद्धबोधिर् न श्रावकबोधिः. यस्मात् तर्हि कौशिक बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु सर्वशून्यतासु सर्वसमाध्हिषु सर्वधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येषु चाष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु षट्स्व् अभिज्ञासु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वधर्मेषु शिक्षते, तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वलोकधातोर् निरयान् उच्छीनत्ति, तिर्यग्योनिं पितृविषयम् उच्छीनत्ति. क्षत्रियमहाशालकुलप्रादुर्भावो भवति. ब्राह्मणमहाशालकुलप्रादुर्भावो भवति. गृहपतिमहाशालकुलप्रादुर्भावो भवति. चातुर्महाराजकायिकानां प्रादुर्भावो भवति. त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मपार्षद्यानां ब्रह्मपुरोहितानां (PSP_२-३:१२२) महाब्रह्माणां परीत्ताभानाम् अप्रमाणाभानाम् आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् अनभ्रकानां पुण्यप्रसवानां बृहत्फलानां सुद्धावासानाम् अवृहाणाम् अतपानां सुदृशानां सुदर्शनानाम् अकनिष्ठानाम् आकाशानत्यायतनोपगानां देवानां विज्ञानानन्त्यायतनोपगानां देवानाम् अकिञ्चन्यायतनोपगानां देवानां नैवसंज्ञानासंज्ञायतनोपगानां देवानां लोके प्रादुर्भावो भवति. दानपारमिताया लोके प्रादुर्भावो भवति. शीलपारमिताया लोके प्रादुर्भावो भवति. क्षान्तिपारमिताया लोके प्रादुर्भावो भावति. वीर्यपारमिताया लोके प्रादुर्भावो भवति. ध्यानपारमिताया लोके प्रादुर्भावो भवति. प्रज्ञापारमिताया लोके प्रादुर्भावो भवति. अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति. सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति. अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां षण्णाम् अभिज्ञानां लोके प्रादुर्भावो भवति. सर्वसमाधीनां सर्वधारणीमुखानां बोधिसत्त्वभूमीनां लोके प्रादुर्भावो भवति. दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति. सर्वज्ञताया लोके प्रादुर्भावो भवति. श्रावकयानस्य प्रत्येकबुद्धयानस्य महायानस्य च लोके प्रादुर्भावो भवति. इति स्तुत्य् आदि पदार्थोपसंहारः कृतः
SK
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वः सुभूतिं स्थविरम् एतद् अवोचत्: यद् भदन्त सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतं पुण्यक्रियावस्तु सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामितं तच् चानुपलम्भयोगेन. यच् च सर्वसत्त्वानाम् अनुमोदनासहगतं पुण्यक्रियावस्तु, यच् च श्रावकयानसंप्रस्थितानां, यच् च प्रत्येकबुद्धयानसंप्रस्थितानां दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु ततो बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतं पुण्यक्रियावस्तु सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामितम् अग्रम् आख्यायते श्रेष्ठम् आख्यायते ज्येष्ठम् आख्यायते वरम् आख्यायते प्रवरम् आख्यायते प्रणीतम् आख्यायते (PSP_२-३:१२३) उत्तमम् आख्यायते ऽनुत्तमम् आख्यायते. असमम् आख्यायते असमसमम् आख्यायते. इति विशेषपरिणामः
SK
तत् कस्य हेतोस्? तथा हि यत् सर्वश्रावकप्रत्येकबुद्धयानिकानां दानमयं शीलमयं भावनामयं पुण्यक्रियावस्तु सर्वं तद् आत्मदमनाय आत्मशमनाय आत्मपरिनिर्वाणाय यावत् सप्तत्रिंशद्बोधिपक्ष्या धर्माः शून्यतानिमित्ताप्रणिहितं चत्वार्य् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयश् चतस्रः प्रतिसंविदः षड् अभिज्ञा आत्मदमनाय आत्मशमनाय आत्मपरिनिर्वाणाय भवन्ति. बोधिसत्त्वस्य महासत्त्वस्य पुनर् अनुमोदनासहगतं पुण्यक्रियावस्तु सर्वसत्त्वानां दमनाय शमनाय परिनिर्वाणाय अनुत्तरायै सम्यक्संबोधये परिणामितं भवति. इति परिणामनाकारित्रम्
SK
अथ खल्व् आयुष्मान् सुभूतिर् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: यत् पुनर् अयं मैत्रेय बोधिसत्त्व ये ते बुद्धा भगवन्तः पूर्वस्यां दिश्य् असंख्येयाप्रमेयापरिमाणेषु लोकधातुषु, एवं दक्षिणपश्चिमोत्तरासु दिग्विदिक्षूर्ध्वम् अधः, एकैकस्यां दिशि यावद् असंख्येयाप्रमेयापरिमाणा बुद्धा भगवन्तः परिनिर्वृतास् तेषां यावत् प्रथमचित्तोत्पादम् उपादाय यावच् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मो नान्तर्हितः, एतस्मिन्न् अन्तरे यत् कुशलमूलम् षट्पारमितिआप्रतिसंयुक्तं, यच् च तेषां श्रावकयानिकानां, यच् च प्रत्येकबुद्धयानिकानां दानमयं शीलमयं भावनाम्यं पुण्यक्रियावस्तु, यानि च शैक्षान्य् अनास्रवाणि कुशलमूलानि, यानि चाशैक्षाण्य् अनास्रवाणि कुशलमूलानि, यश् च तेषां तथागतानां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, या च हितैषिता, या च महामैत्री, या च महाकरुणा, अप्रमेयासंख्येयाश् च बुद्धधर्मा, यश् च तैर् बुद्धैर् भगवद्भिर् धर्मो देशितो, ये च तत्र धर्मदेशनायाः स्रोतआपत्तिफलं प्राप्ताः सकृदागामिफलं प्राप्ता अनागामिफलं प्राप्ता अर्हत्त्वं प्राप्ताः प्रत्येकबोधिं प्राप्ता बोधिसत्त्वनियामम् अवक्रान्तास् तेषां यानि कुशलमूलानि, यैश् च तत्र तथागतेष्व् अर्हत्सु वा परिनिर्वृतेषु वा कुशलमूलान्य् अवरोपितानि तत् सर्वम् अभिसंक्षिप्याग्रया अनुमोदनया ज्येष्ठया श्रेष्ठया वरया प्रवरया उत्तमया अनुत्तमया असमया असमसमया (PSP_२-३:१२४) अनुमोदनया अनुमोदते, अनुमोद्यानुमोदनासहगतं कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयत्य् अनुत्तरायाः सम्यक्संबोधेर् आहारकं भवत्व् इति.
SK
यत् पुनर् अयं माहायानिक एवं तथा चित्तं परिणामयति यैर् आरम्बणैर् यैर् वस्तुभिस् तच् चित्तम् उत्पादितम्, अपि नु तानि वस्तूनि तान्य् आरम्बणानि तथा संविद्यन्ते तथोपलभ्यन्ते यथा तैर् महायानिकैः कुलपुत्रैर् निमित्तीकृतानि?
SK
मैत्रेय आह: न तानि भदन्त सुभूते वस्तूनि, न तान्य् आरम्बणानि तथोपलभ्यन्ते यथा तैर् महायानिकैः कुलपुत्रैर् निमित्तीकृत्यानुत्तरायां सम्यक्संबोधौ परिणामिताम्.
SK
सुभूतिर् आह: यदि तावद् असंविद्यमानैर् वस्तुभिर् असंविद्यमानैर् आरम्बणैस् ते बुद्धा भगवन्तो निमित्तीकृतास् तदा ये ते दशसु दिक्षु सर्वदिग्लोकधातुप्रसरेषु तिष्ठन्ति ध्रियन्ते यापयन्ति तेषां यानि कुशलमूलानि प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिः, यानि च तेषां श्रावकयानिकानां पुद्गलानां, यानि च प्रत्येकबुद्धयानिकानां पुद्गलानां कुशलमूलानि, यानि च शैक्षाण्य् अनास्रवाणि कुशलमूलानि, यानि चाशैक्षाण्य् अनास्रवाणि कुशलमूलानि तानि सर्वाण्य् अभिसंक्षिप्यानुत्तरायै सम्यक्संबोधये परिणामितानि आनिमित्तयोगेन मा चास्य संज्ञाविपर्यासो ऽभूत्. अनित्ये नित्यम् इति संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासो ऽभूत्. दुःखे सुखम् इति, अनात्मीये आत्मीयम् इति, अशान्ते शान्तम् इति संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासः.
SK
अथ पुनः किं यथैव वस्तु यथैवारम्बणं तथा बोधिस् तथा चित्तं तथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता तथा सप्तत्रिंशद्बोधिपक्ष्या धर्मास् तथा अप्रमाणध्यानारूप्यसमापत्तयः, तथा आर्यसत्यानि तथा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता तथा शून्यतानिमित्ताप्रणिहितानि तथा अष्टविमोक्षास् तथा नवानुपूर्वविहारसमापत्तयस् तथा षडभिज्ञास् तथा सर्वसमाधयस् तथा सर्वधारणीमुखानि तथा दशतथागतबलानि तथा वैशारद्यानि तथा प्रतिसंविदस् तथा अष्टादशावेणिका बुद्धधर्मास् तथा सर्वज्ञता. (PSP_२-३:१२५)
SK
यदि तावद् यथैव वस्तु यथारम्बणं तथा बोधिस् तथा चित्तं तथा रूपं वेदनासंज्ञासंस्कारा विज्ञानं तथा चक्षुः श्रोत्रघ्राणजिह्वाकायमनः तथा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता तथा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः तथा अप्रमाणध्यानारूप्यसमापत्तयस् तथा आर्यसत्यानि तथा अष्टविमोक्षास् तथा नवानुपूर्वविहारसमापत्तयहि तथा त्रीणि विमोक्षमुखानि तथा षडभिज्ञास् तथा सर्वसमाधयस् तथा सर्वधारणीमुखानि तथा दश तथागतबलानि तथा वैशारद्यानि तथा प्रतिसंविदः तथा अष्टादशावेणिका बुद्धधर्माः.
SK
तत्र कतमद् वस्तु? कतमद् आरम्बणं? कतमा बोधिः? कतमच् चित्तं? कतमानि कुशलमूलानि? कतमत् तद् अनुमोदनासहगतं पुण्यक्रियावस्तु यद् अनुत्तरायां सम्यक्संबोधौ परिणामयति?
SK
मैत्रेय आह: सचेद् भदन्त सुभूते बोधिसत्त्वाः षट्सु पारमितासु चरिता अभविष्यन्, बहुबुद्धपर्युपासिता अभविष्यन्न्, अवरोपितकुशलमूला अभविष्यन्, कल्याणमित्रपरिगृहीता अभविष्यन्, स्वलक्षणशून्येषु धर्मेषु शिक्षिता अभविष्यन्, न ते तानि वस्तूनि न तान्य् आरम्बणानि न तान् बुद्धान् भगवतो न तानि कुशलमूलानि न तान्य् अनुमोदनासहगतानि पुण्यक्रियावस्तूनि निमित्तिकृत्यानुत्तरायां सम्यक्संबोधौ परिणामयिष्यन्ति.
SK
अपि तु खलु पुनस् तथा परिणामयिष्यन्ति यथा न द्वययोगेन नाद्वययोगेन न निमित्तयोगेन नानिमित्तयोगेन नोपलम्भयोगेन नानुपलम्भयोगेन न संक्लेशयोगेन न व्यवदानयोगेन नोत्पादयोगेन न निरोधयोगेन.
SK
सचेत् पुनर् एते बोधिसत्त्वाः न षट्सु पारमितासु शिक्षिता अभविष्यन्, न बुद्धपर्युपासिता नावरोपितकुशलमूला न कल्याणमित्रपरिगृहीता न स्वलक्षणशून्येषु धर्मेषु शिक्षिता अभविष्यन्, तानि वस्तूनि तान्य् आरम्बणानि तानि कुशलमूलानि तान् अनुमोदनासहगतांश् चित्तोत्पादान् निमित्तीकृत्यानुत्तरायै सम्यक्संबोधये परिणामयिष्यन्ति.
SK
न खलु पुनर् इयं भदन्त सुभूते प्रज्ञापारमिता एवम् उपदिष्टा नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता अध्यात्मशून्यता यावद् अभावस्वभावशून्यतैवम् उपदिष्टा नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या. तत् कस्य हेतोर्? यद् (PSP_२-३:१२६) अपि तस्य स्याच् छ्रद्धामात्रकं प्रसादमात्रकं प्रेममात्रकं गौरवमात्रकं तद् अप्य् अन्तर्धीयेताविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्योपदेष्टव्या यावद् अभावस्वभावशून्यता भाषितव्योपदेष्टव्या. स एवं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. सचेत् कल्याणमित्रपरिगृहीतो भविष्यति पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलो बहुबुद्धपर्युपासित, एवं च पुनर् भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेनानुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयितव्यम्. येन चित्तेनानुमोद्य परिणामयति तच् चित्तं क्षीणं निरुद्धं विगतं विपरिनतं, तानि च वस्तूनि तान्य् आरम्बणानि तानि च कुशलमूलानि क्षीणानि निरुद्धानि विगतानि विपरिणतानि, कतमद् अनुमोदनासहगतं चित्तं? कतमानि वस्तूनि? कतमान्य् आरम्बणानि? कतमानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति? किं चित्तेन चित्तं परिणामयति? यदा द्वयोश् चित्तयोः समवधानं नास्ति, न च यश् चित्तस्वभावः. स शक्यः परिणामयितुम्.
SK
सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं जानीते अभावः प्रज्ञापारमितेति, एवं ध्यानपारमितावीर्यपारमिताक्षान्तिपारमिताशीलपारमिता दानपारमितेत्य् अभावो, रूपं वेदनासंज्ञासंस्कारा विज्ञानम् इत्य् अभावः. सप्तत्रिंशद्बोधिपक्ष्या धर्मा अभावो, ऽप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽभावः, शून्यतानिमित्ताप्रणिहितान्य् अभावः, षडभिज्ञा अभावः, सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखान्य् अभावो, दशतथागतबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा इत्य् अभावो, बोधिसत्त्वेन महासत्त्वेनानुमोदनासहगतं पुण्यक्रियावस्त्व् अनुत्तरायां सम्यक्संबोधौ परिणामयितव्यं, यद्य् एवं परिणामयति परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ.
SK
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वः सुभूतिं स्थविरम् एतद् अवोचत्: कथं भदन्त सुभूते नवयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा तानि कुशलमूलान्य्. अनुत्तरायै सम्यक्संबोधये परिणामितानि भवन्ति. कथं चानुमोदनासहगतं पुण्यक्रियावस्तु परिगृह्य परिणामितं भवति?
SK
सुभूतिर् आह: सचेत् मैत्रेय नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरिष्यति, तां च प्रज्ञापारमिताम् अनुपलम्भयोगेन ग्रहीष्यति न निमित्तयोगेन. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां (PSP_२-३:१२७) शीलपारमितां दानपारमिताम् अनुपलम्भयोगेन ग्रहीष्यति न निमित्तयोगेन. अध्यात्मशून्यतायाम् अधिमुक्तिबहुलो भवीष्यति. बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायाम् अधिमुक्तिबहुलो भविष्यति. अप्रमाणध्यानारूप्यसमापत्तिष्व् आर्यसत्येष्व् अधिमुक्तिबहुलो भविष्यति. अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिष्व् अधिमुक्तिबहुलो भविष्यति. शून्यतानिमित्ताप्रणिहितेष्व् अधिमुक्तिबहुलो भविष्यति. अभिज्ञासु सर्वसमाधिषु सर्वधारणीमुखेष्व् अधिमुक्तिबहुलो भविष्यति. दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेष्व् अधिमुक्तिबहुलो भविष्यति. कल्याणमित्रपरिगृहितश् च भविष्यति. तानि चास्य कल्याणमित्राणिमाम् एव प्रज्ञापारमितां ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां सार्थां सव्यञ्जनाम् उपदेक्ष्यन्ति. तथा चोपदेक्ष्यन्ति यथा प्रज्ञापारमितया अविरहीतो भविष्यत्य् एवं सर्वाभिः पारमिताभिर् अविरहितो भविष्यति. यावत् सर्वशून्यताभिः सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् आर्यसत्यैर् अप्रमाणध्यानारूप्यसमापत्तिभिः शून्यतानिमित्ताप्रणिहितैर् अष्टाभिर् विमोक्षैर् नवभिर् अनुपूर्ववीहारसमापत्तिभिः सर्वसमाधिः सर्वधारणीमुखैर् दशभिः तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टाबशभिर् आवेणिकैर् बुद्धधर्मैर् अविरहितो भविष्यति. यावद् बोधिसत्त्वन्यामम् अवक्रान्तो भविष्यति. मारकर्माणि चोपदेक्ष्यन्ति. तस्य तानि मारकर्माणि श्रुत्वा न हानिर् न वृद्धिर् भविष्यति. तत् कस्य हेतोस्? तथा हि तेषां मारकर्मणां स्वभावो नोपदृश्यते. बुद्धैर् भगवद्भिर् अविरहितः स्याद् यावन् बोधिसत्त्वन्यामम् अवक्रान्तेति. तत्र च कुशलमूलान्य् अवरोपयिष्यति. तैश् च कुशलमूलैर् बोधिसत्त्वकुलं ग्रहीष्यति. तेन च बोधिसत्त्वकुलेन न जातु विरहितो भविष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भविष्यति.
SK
पुनर् अपरं नवयानसंप्रस्थितेन बोधिसत्त्वेन महासत्त्वेन तेषां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रिकाणां पर्यात्तबाष्पाणां मर्दितकण्टकानाम् अपहृतभाराणाम् अनुप्राप्तस्वकार्थानां परिक्षीणभवसंयोजनानां सम्यगाज्ञासुविमुक्तिचित्तानां सर्वचेतवशिपरमपारमिताप्राप्तानां, ये ते दशसु दिक्ष्व् अप्रमेयेष्व् असंख्येयेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति तेषां बुद्धानां भगवतां सश्रावकसंघानां ये पुण्याभिसंस्कारा यैर् वा तत्र कुशलमुलान्य् अवरोपितानि क्षत्रियमहाशालकुलेषु (PSP_२-३:१२८) वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा चातुर्महाराजकायिकेषु वा देवेषु, त्रायस्त्रिंशेषु वा यामेषु वा तुषितेषु वा निर्माणरतिषु वा परनिर्मितवशवर्तिषु वा देवेषु, ब्रह्मपार्षद्येषु वा ब्रह्मपुरोहितेषु वा महाब्रह्मसु वा परीत्ताभेषु वा अप्रमाणाभेषु वा आभास्वरेषु वा परीत्तशुभेषु वा अप्रमाणशुभेषु वा शुभकृत्स्नेषु वा अनभ्रकेषु वा पुण्यप्रसवेषु वा बृहत्फलेषु वा सुद्धावासेषु वा अवृहेषु वा अतपेषु वा सुदृशेषु वा सुदर्शनेषु वा अकनिष्ठेषु वा देवेषु कुशलमूलान्य् अवरोपितानि सर्वान्य् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अग्रयानुमोदनया श्रेष्ठया ज्येष्ठया वरया प्रवरया उत्तमया अनुत्तमया अनुमोदनया अनुमोदेतानुमोद्य चानुमोदनासहगतं कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयितव्यम्. इत्य् अनुपलम्भपरिणामः
SK
मैत्रेय आह: सचेद् भदन्त सुभूते नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वस् तेषां बुद्धानां भगवतां सश्रावकसंघानां सर्वकुशलमूलानि समन्वाहृत्याग्रया अनुमोदनया अनुमोदते अनुमोद्य च यावद् अनुत्तमया अनुमोदनया अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयति. कथं न बोधिसत्त्वस्य महासत्त्वस्य संज्ञाविपर्यासो भवति, न चित्त विपर्यासो भवति, न दृष्टिविपर्यासो भवति?
SK
सुभूतिर् आह: सचेत् मैत्रेय बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतः सश्रावकसंघान् समन्वाहरति, तत्र न बुद्धसंज्ञी न श्रावकसंज्ञी भवति, न कुशलमूलसंज्ञी भवति. येनापि चित्तेन परिणामयति तत्रापि चित्तेन चित्तसंज्ञी भवत्य्, एवं परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो भवति, न चित्तविपर्यासो भवति, न दृष्टिविपर्यासो भवति.
SK
सचेद् बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतस् तानि च कुशलमूलान् समन्वाहृत्य निमित्तीकरोति निमित्तीकृत्यानुत्तरायै सम्यक्संबोधये परिणामयत्य् एवं परिणामयतः संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासो भवति.
SK
सचेत् पुनर् बोधिसत्त्वो महासत्त्वस् तान् बुद्धान् भगवतस् तानि च कुशलमूलानि येन च चित्तेन समन्वाहरति तानि तथैव क्षीणानि क्षीणानीत्य् एवं प्रजानाति. यच् च क्षीणन् न तच् छक्यं परिणमयितुम्. येनापि चित्तेन परिणामयति (PSP_२-३:१२९) तस्यापि चित्तस्य सैव धर्मता. यत्रापि परिणामयति तस्यापि सैव धर्मता.
SK
सचेद् एवं परिणामयति समेन परिणामयति न विषमेन, न च मिथ्या परिणामयति, एवं परिणामयितव्यं बोधिसत्त्वेन महासत्त्वेन.
SK
सचेद् बोधिसत्त्वो महासत्त्वो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां यावत् प्रथमचित्तोत्पादम् उपादाय परिनिर्वाणं यावद् च सद्धर्मान्तर्धानं तच् छ्रावकाणां प्रत्येकबुद्धानां च यावद् यैश् च तत्र पृथग्जनैः कुशलमूलान्य् अवरोपितानि, या च धर्मदेशना श्रुता श्रुत्वा च यैश् च तत्र देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः कुशलमूलान्य् अवरोपितानि, कुशत्रियमहाशालकुलैर् वा ब्राह्मणमहाशालकुलैर् वा गृहपतिमहाशलकुलैर् वा चातुर्महाराजकायिकैर् वा देवैर् यावच् छुद्धावासकायिकैर् वा देवैः सद्धर्मः श्रुतः कुशलमूलान्य् अवरोपितानि, चित्तं चोत्पादितम् अनुत्तरायां सम्यक्संबोधौ तत् सर्वम् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वाग्रयानुमोदनयानुमोदते ज्येष्ठया श्रेष्ठया वरया प्रवरया प्रणितया उत्तमया अनुत्तमया असमया असमसमया अनुमोदनया अनुमोदते अनुमोद्य तत् सर्वम् अनुत्तरायां सम्यक्संबोधौ परिणामयति.
SK
सचेत् पुनर् एवं संजानीते क्षीणास् ते धर्मा निरुद्धा विगता विपरिणता सो ऽपि धर्मस्वभावेन शून्यो यत्रापि परिणामयति. सचेद् एवं परिणामयति परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ.
SK
सचेत् पुनर् एवं संजानीते न च धर्माधर्मान् परिणामयन्ति. तत् कस्य हेतोस्? तथा हि स्वभावशून्याः सर्वधर्माः.
SK
सचेद् एवं परिणामयति परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ. एवं हि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां चरतो न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति. तत् कस्य हेतोस्? तथा हि बोधिसत्त्वो महासत्त्वस् तां परिणामनां नाभिनिविशते, तानि कुशलमूलानि तद्बोधिचित्तं च न समनुपश्यति यत्राभिनिवेशेत, इदं बोधिसत्त्वस्य महासत्त्वस्यानुत्तरं परिणामनम्. इत्य् अविपर्यस्तलक्षणपरिणामः
SK
सचेत् पुनर् बोधिसत्त्वो महासत्त्वस् तं पुण्यक्रियावस्त्व् अभिसंस्कारं विविक्तं संजानीते स्कन्धधात्वायतनैः, प्रज्ञापारमितया विविक्तं संजानीते. एवं ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया (PSP_२-३:१३०) दानपारमितया विविक्तं संजानीते. अध्यात्मशून्यतया विविक्तं संजानीते यावद् अभावस्वभावशून्यतया विविक्तं संजानीते. सप्तत्रिंशद्बोधिपक्षैर् धर्मैर् विविक्तं संजानीते. दशभिर् बलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् विविक्तं संजानीते. एवं बोधिसत्त्वेन महासत्त्वेन पुण्यक्रियावस्त्व् अभिसंस्कारः परिणामितो भवत्य् अनुत्तरायां सम्यक्संबोधौ.
SK
सचेत् पुनर् बोधिसत्त्वो महासत्त्वो ऽनुमोदनासहगतं पुण्यक्रियावस्तु स्वभावेन विविक्तं संजानीते, विविक्तास् ते बुद्धा भगवन्तो बुद्धस्वभावेन, कुशलमूलान्य् अपि कुशलमूलस्वभावेन विविक्तानि, अभिसंस्कारा अभिसंस्कारस्वभावेन विविक्ताः, बोधिचित्तं बोधिचित्तस्वभावेन विविक्तं, परिणामनाचित्तं परिणामनाचित्तस्वभावेन विविक्तं, बोधिर् अपि बोधिस्वभावेन विविक्ता, प्रज्ञापारमिता प्रज्ञापारमितास्वभावेन विविक्ता, ध्यानपारमिता ध्यानपारमितास्वभावेन विविक्ता, वीर्यपारमिता वीर्यपारमितास्वभावेन विविक्ता, क्षान्तिपारमिता क्षान्तिपारमितास्वभावेन विविक्ता, शीलपारमिता शीलपारमितास्वभावेन विविक्ता, दानपारमिता दानपारमितास्वभावेन विविक्ता, अध्यात्मशून्यता अध्यात्मशून्यतास्वभावेन विविक्ता, बहिर्धाशून्यता भिर्धाशून्यतास्वभावेन विविक्ता, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतास्वभावेन विविक्ता यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतास्वभावेन विविक्ता, एवं सप्तत्रिंशद्बोधिपक्ष्या धर्माः चत्वार्य् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तवो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि षडभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो, ऽष्टादशावेणिका बुद्धधर्मा बुद्धधर्मस्वभावेन विविक्ताः. एवं हि बोधिसत्त्वेन महासत्त्वेन विविक्तायां प्रज्ञापारमितायां चरितव्यम् इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. इति विविक्तपरिणामः.
SK
पुनर् अपरं बोधिसत्त्वेन महासत्त्वेन तेषां बुद्धानां भगवतां यत् कुशलमूलं तत् सर्वम् अनुस्मरता एवं परिणामयितव्यं यादृश एव स परिणामस् तादृशम् एव तच् चित्तं येन परिणामयति तज्जातिकं तत्स्वभावम्.
SK
सचेद् एवं संजानीते परिणामितं भवत्य् अनुत्तरायां सम्यक्संबोधौ, एवं परिणामयतो न संज्ञाविपर्यासो भवति न चित्तविपर्यासो भवति न दृष्टिविपर्यासो भवति.
SK
सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रञापारमितायां चरन् निमित्तयोगेन (PSP_२-३:१३१) तेषां बुद्धानां भगवतां तानि कुशलमूलानि संजानीते, न परिणामयत्य् अनुत्तरायां सम्यक्संबोधौ, ये चातीता बुद्धा भगवन्तः परिनिर्वृता अनिमित्ता अविषयाः.
SK
सचेद् एवम् अपि समन्वाहरति निमित्तीकरोति, न परिणामयति तानि कुशलमूलान्य् अनुत्तरायां सम्यक्संबोधौ, एवं चास्य संज्ञाविपर्यासो भवति चित्तविपर्यासो भवति दृष्टिविपर्यासो भवति.
SK
सचेत् तान् बुद्धान् भगवतस् तानि कुशलमुलानि तांश् चाभिसंस्कारांस् तांश् चित्तोत्पादान् संजानीते न निमित्तीकरोति, परिणामितानि तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये भवति. एवं च बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो भवति न चित्तविपर्यासो भवति न दृष्टिविपर्यासो भवति. इति बुद्धकुशलमुलजातीयस्वभावानुस्मृतिपरिणामः
SK
मैत्रेय आह: कथं भदन्त सुभूते बोधिसत्त्वो महासत्त्वो न निमित्तीकरोति परिणामयति च?
SK
सुभूतिर् आह: अत्र हि तानि बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपायकौशलानि शिक्षितव्याम्. अत एव च बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाम् उपायकौशलं वेदितव्यं, न च प्रज्ञापारमिताम् अनागम्य शक्यं पुण्यक्रियावस्तु परिणामयितुम्.
SK
मैत्रेय आह: मा हैवास्य स्याद् भदन्त सुभूते वचनीयम्. न ते बुद्धा भगवन्तः प्रज्ञापारमितायां संविद्यन्ते. नापि तानि कुशलमूलानि, नापि ते ऽभिसंस्कारा, नापि ते चित्तोत्पादा यावन् नानुत्तरायै सम्यक्संबोधये परिणामयति.
SK
सुभूतिर् आह: तत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवं व्युपपरीक्षितव्यं, निरुद्धास् ते आत्मभावा तानि च कुशलमूलानि ते चाभिसंस्कारास् ते च चित्तोत्पादाः. अथ च पुनर् निमित्तीकृत्य विकल्प्यन्ते ते बुद्धा भगवन्तस् तानि च कुशलमूलानि ते चाभिसंस्कारास् ते च चित्तोत्पादा निमित्तीकृत्य विकल्प्यन्ते. न च तथागता अर्हन्तः सम्यक्संबुद्धा एवं निमित्तयोगेन परिणामयतो ऽनुमोदनाम् अभ्यनुजानन्ति. तत् कस्य हेतोः? एष एवास्य महान् उपलम्भो यत् परिनिर्वृतान् बुद्धान् भगवतो निमित्तीकरोति विकल्पयति चोपलभते तस्माद् बोधिसत्त्वेन महासत्त्वेन कुशलमूलानि परिणामयितुकामेन न चोपलभ्य निमित्तीकृत्य परिणामयितव्यानि. न चोपलम्भसंज्ञिनो न निमित्तसंज्ञिनस्, तथागता अर्हन्तः सम्यक्संबुद्धाः परिणामतां महर्द्धिकाम् इति वदन्ति. तत् हस्य हेतोः? सविषः सशल्य एष परिणामः. इत्य् उपायकौशलपरिणामः (PSP_२-३:१३२)
SK
तद्यथापि नाम प्रणीतभोजनं विषसंसृष्टं वर्णेन गन्धेन चोपेतं तद् एव बालजातीयः पुरुषः परिभोक्तव्यं मन्येत, तस्य तत् परिभुञ्जानस्य वर्णतो ऽपि गन्धतो ऽपि रोचेत, परिणामे च दुष्खविपाकं स्यात्. एवम् एव इहैकत्या दुर्गृहीतेन दुरुपलक्षितेन दुःस्वाध्यातेन चार्थम् अजानन्तो ऽबुध्यमाना एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावच् च निरुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच् च सद्धर्माणां अन्तर्हितः, यान्य् एतस्मिन् अन्तरे प्रज्ञापारमितायां चरद्भिः कुशलमूलान्य् अभिसंस्कृतानि, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां चरद्भिः कुशालमूलान्य् अभिसंस्कृतानि. यानि च चतुर्ध्यानप्रतिसंयुक्तानि चतुरप्रमाणप्रतिसंयुक्तानि चतुरारूप्यसमापत्तिप्रतिसंयुक्तानि सप्तत्रिंशद् बोधिपक्ष्यधर्म प्रतिसंयुक्तानि चतुर् आर्यसत्य प्रतिसंयुक्तानि शून्यतानिमित्ताप्रणिहितप्रतिसंयुक्तान्य् अष्टविमोक्ष नवानुपूर्वविहारसमापत्तिप्रतिसंयुक्तान्य् अभिज्ञाप्रतिसंयुक्तानि सर्वशून्यताधारणीमुखप्रतिसंयुक्तानि दशतथागतबलप्रतिसंयुक्तानि चतुर्वैशारद्यप्रतिसंयुक्तानि, चतुःप्रतिसंवित्प्रतिसंयुक्तानि कुशलमूलान्य् अभिसंस्कृतानि, अष्टादशावेणिकबुद्धधर्मप्रतिसंयुक्तानि कुशलमूलान्य् अभिसंस्कृतानि, यैश् च कुशलमूलाभिसंस्कारैर् बुद्धक्षेत्रानि परिशोधितानि सत्त्वाश् च परिपाचिताः, यश् च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः सर्वाकारज्ञताज्ञानम् असंप्रमुषितधर्मताज्ञानं सदोपेक्षाविहारिता तेषां च श्रावकाणां, यैश् च तत्र कुशलमूलान्य् अभिसंस्कृतानि, ये च प्रत्येकबुद्धत्वे व्याकृता, यैश् च तत्र देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः कुशलमूलान्य् अभिसंस्कृतानि तानि सर्वान्य् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अनुत्तरायै सम्यक्संबोधये परिणामयति. एवं हि परिणामो निमित्तयोगेनोपलम्भयोगेन च परिणामितो विषत्वाय कल्पयते. तद्यथापि नाम तत् सविषं भोजनं नास्त्य् उपलम्भसंज्ञिनः परिणामः. तत् कस्य हेतोः? सविषो ह्य् उपलम्भः सनिमित्तः सहेतुकः सप्रत्ययो य एवं परिणामयति तेन तथागतो ऽभ्याख्यातो भवति. न च स तथागतस्योक्तवादी भवति न च धर्मवादी. तत्र बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहित्र्भिश् च नैवं शिक्षितव्यम्. इत्य् अनिमित्तपरिणामः (PSP_२-३:१३३)
SK
मैत्रेय आह: कथं पुनर् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां कुशलमूलान्य् अनुमोद्य परिणामयितव्यानि? प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच् च सद्धर्मस्थितिः सश्रावकसंघानाम् एतस्मिन्न् अन्तरे यानि प्रज्ञापारमितायां चरता कुशलमूलान्य् अभिसंस्कृतानि यावत् सर्वज्ञता प्राप्ता यावद् यैश् च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगमनुष्यामनुष्यैः कुशलमूलान्य् अवरोपितानि? कथं चानुमोद्य परिणामयितव्यानि? कथं च परिणामयतस् तानि कुशलमूलानि परिणामितानि भवन्त्य् अनुत्तरायै सम्यक्संबोधये?
SK
सुभूतिर् अह: इह महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरता तथागतम् अनभ्याख्यातुकामेन, एवं परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरायै सम्यक्संबोधये.
SK
सुभूतिर् आह: इह महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरता तथागतम् अनभ्याख्यातुकामेन, एवं परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरेण बुद्धज्ञानेन, तानि च कुशलमूलानि यज्जातिकानि यत्स्वभावानि यल्लक्षणानि यया धर्मतया संविद्यन्ते. तथाहम् अप्य् अनुमोदे यथा ते बुद्धा भगवन्तो जानन्ति तथाहम् अपि परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये. एवं महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा तानि कुशलमूलानि परिणामयितव्यान्य् अनुत्तरायै सम्यक्संबोधये.
SK
एवं च परिणामयितुकामेन परिणामयितव्यं यथा ते तथागता अर्हन्तः सम्यक्संबुद्धा जानन्ति निरुत्तरेण बुद्धज्ञानेन, तानि च कुशलमूलानि यज्जातिकानि यत्स्वभावानि यल्लक्षणानि यया धर्मतया संविद्यन्ते. तथाहम् अप्य् अनुमोदे यथा ते बुद्धा भगवन्तो जानन्ति तथाहम् अपि परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये. एवं महायानिकेन कुलपुत्रेण वा कुलदुहित्रा वा तानि कुशलमूलानि परिणामयितव्यान्य् अनुत्तरायै सम्यक्संबोधये. एवं च परिणामयंस् तथागतान् नाभ्याचष्टे उक्तवादी च भवति. तथागतस्य धर्मवादी, चैवं बोधिसत्त्वस्य महासत्त्वस्य परिणामो निर्विषो भवति. इति बुद्धानुज्ञातपरिणामः
SK
पुनर् अपरं महायानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां (PSP_२-३:१३४) चरतैवं तानि कुशलमूलानि परिणामयितव्यानि, यथा रूपम् अपर्यापन्नं कामधातुं रूपधातुम् आरूप्यधातुम्, एवं वेदनासंज्ञासंस्कारा विज्ञानम् अपर्यापन्नं कामधातुं रूपधातुम् आरूप्यधातुम्, एवं धातव आयतनानि प्रतीत्यसमुत्पादः प्रज्ञापारमिताप्य् अपर्यापन्ना कामधातुं रूपधातुम् आरूप्यधातुम्, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिताप्य् अपर्यापन्ना कामधातुं रूपधातुम् आरूप्यधातुं, या चापर्यापन्ना न सातीता नानागता न प्रत्युत्पन्ना, एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता अपर्यापन्ना कामरूपारूप्यधातुम्, अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अपर्यापन्नानि कामरूपारूप्यधातुम्, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽपर्यापन्नाः कामरूपारूप्यधातुं, शून्यतानिमित्ताप्रणिहितानि षडभिजाआ अपर्यापन्नाः कामरूपारूप्यधातुं, सर्वसमाधयः सर्वधारणीमुखान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अपर्यापन्नाः कामरूपारूप्यधातुम्, एवं तथता अवितथता अनयतथता धर्मता धर्मधातुर् धर्मनियामता धर्मस्थितिता भूतकोटिर् अचिन्त्यधातुर् अपर्यापन्नः कामरूपारूप्यधातुं, शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानि सर्वाकारज्ञता असंप्रमुषितधर्मता सदा चोपेक्षाविहारिता अपर्यापन्ना कामरूपारूप्यधातुं, यच् चापर्यापन्नं तन् नातीतं नानागतं न प्रत्युत्पन्नं. तत् कस्य हेतोः? यथैव तद् अपर्यापन्नम् एवं परिणामो ऽप्य् अपर्यापन्नो, यत्रापि धर्मे परिणामयति ते ऽपि धर्मा अपर्यापन्ना, यो ऽपि परिणामयति सो ऽप्य् अपर्यापन्नस्, ते ऽपि बुद्धा भगवन्तो ऽपर्यापन्नाः कामरूपारूप्यधातुं, तान्य् अपि कुशलमूलान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, ते ऽपि श्रावकप्रत्येकबुद्धा अपर्यापन्नाः कामरूपारूप्य धातुं, तेषाम् अपि तानि कुशलमूलान्य् अपर्यापन्नानि कामरूपारूप्यधातुं, यच् चापर्यापन्नं तन् नातीतन् नानागतन् न प्रत्युत्पन्नम्.
SK
सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संजानीते, यद् रूपं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापमम्, एवं वेदनासंज्ञासंस्कारा यद् विज्ञानं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापन्नम्, एवं धातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानीति कामधातुरूपधात्वारूप्यधात्वपर्यापन्नानि.
SK
सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संजानीते, यद् (PSP_२-३:१३५) रूपं तत् कामधातुरूपधात्वारूप्यधातुम् अपर्यापन्नं, तन् नातीतन् तन् नानागतन् न प्रत्युत्पन्नन् तन् न शक्यं निमित्तयोगेन चोपलम्भयोगेन वा परिणामयितुम्. तत् कस्य हेतोर्? न हि तस्य स्वभावः संविद्यते. यस्य च स्वभावो न संविद्यते सो ऽभावो. न चाभावो ऽभावेन शक्यः परिणामयितुम्. एवं वेदनासंज्ञासंस्कारा विज्ञानं धातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गान्य्, एवं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, एवं अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, एवं यावत् सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि षडभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वज्ञता असंप्रमुषितधर्मता सदोपेक्षाविहारिता न कामधातुपर्यापन्ना न रूपधातुपर्यापन्ना नारूप्यधातुपर्यापन्ना, या चापर्यापन्ना न सातीता नानागता न प्रत्युत्पन्ना न सा शक्या निमित्तयोगेन न चोपलम्भयोगेन वा परिणामयितुम्. तत् कस्य हेतोर्? न हि तस्याः स्वभावः संविद्यते. यो न संविद्यते सो ऽभावो. न चाभावो ऽभावेन शक्यः परिणामयितुम्. एवं हि बोधिसत्त्वस्य महासत्त्वस्य परिणामो निर्विषो भवति.
SK
यः पुनर् महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा निमित्तयोगेन चोपलम्भयोगेन च तानि कुशलमूलानि परिणामयति तानि मिथ्या परिणामयति न च मिथ्या परिणामं सम्यक्परिणामं बुद्धा भगवन्तो वर्णयन्ति. यं बुद्धा भगवन्तः परिणामं न वर्णयन्ति स तेन परिणामयति. न दानपारमितायां परिणामयति न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां परिणामयति. न षड्पारमिताः परिपूरयिष्यति. न सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् परिपूरयिष्यति. नाध्यात्मशून्यतां न बहिर्धाशून्यतां नाध्यात्मबहिर्धाशून्यतां न यावद् अभावस्वभावशून्यतां नाप्रमाणध्यानारूप्यसमापत्तिर् नार्यसत्यानि नाष्टविमोक्षान् न नवानुपूर्वविहारसमापत्तिर् न शून्यतानिमित्ताप्रणिहितानि नाभिज्ञा न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिकान् बुद्धधर्मान् परिपूरयिष्यति. न समाधीन् न धारणीमुखानि परिपूरयिष्यति. न बुद्धक्षेत्रं परिशोधयिष्यति. न सत्त्वान् परिपाचयिष्यति. (PSP_२-३:१३६) यो न बुद्धक्षेत्रां परिशोधयिष्यति न सत्त्वान् परिपाचयिष्यति स नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तत् कस्य हेतोस्? तथा ह्य् अस्य परिणामः सविषः.
SK
पुनर् अपरं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवम् उपपरीक्षितव्यं, यथा बुद्धा भगवन्तो जानन्ति, अनया च धर्मतया तत् कुशलमूलं परिणामयितव्यम् इत्य्, एवं परिणामितं भवतीति, तथाहम् अपि तया धर्मतया परिणामयाम्य् अनुत्तरायै सम्यक्संबोधये. इति त्रैधातुकापर्यापन्नपरिणामः
SK
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: साधु साधु सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वम् एव बोधिसत्त्वानां महासत्त्वानां परिणामनास्कन्धम् उपदिशसि, अनिमित्तयोगेनानुपलम्भयोगेनानुत्पादयोगेनाप्रादुर्भावयोगेनासंक्लेशयोगेनाव्यवदानयोगेनाभावस्वभावयोगेन स्वलक्षणशून्यतायोगेन धर्मधातुयोगेन तथतायोगेनावितथतायोगेनान्यतथतायोगेन.
SK
सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे दशानां कुशलानां कर्मपथानां लाभिनो भवेयुश्, चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां लाभिनो भवेयुः. तत् किं मन्यसे? सुभूते अपि नु ते सत्त्वास् ततोनिदानं बहुपुण्यं प्रसवेयुः.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुततं पुण्यं प्रसवेत्, यः कुशलमूलानि निरुपलेपपरिणामनया परिणामयेद्, एवं हि सुभूते तस्य कुलपुत्रस्य वा कुलदुहितुर् वा कुशलमुलपरिणामो ऽग्र आख्यायते ज्येष्ठ आख्यायते श्रेष्ठ आख्यायते वर आख्यायते प्रवर आख्यायते प्रणीत आख्यायते उत्तम आख्यायते अनुत्तम आख्यायते निरुत्तम आख्यायते इति मृदुमहापुण्योदयपरिणामः
SK
पुनर् अपरं सुह्बुते यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे स्रोतआपन्ना भवेयुः, सकृदागामिनो वानागामिनो वार्हन्तो वा भवेयुस्, तान् सर्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्. तत् किं मन्यसे? सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत. (PSP_२-३:१३७)
SK
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य एवं कुशलमूलं निरुपलेपपरिणामनया परिणामयेत्.
SK
पुनर् अपरं सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे प्रत्येकबुद्धा भवेयुस्, तान् सर्वान् प्रत्येकबुद्धान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्. तत् किं मन्यसे? सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य एवं कुशलमूलं निरुपलेपपरिणामनया परिणामयेत्. इति मध्यमहापुण्योदयपरिणामः
SK
पुनर् अपरं सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रतिष्ठेरन्, तत्र ये पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व एकैकं बोधिसत्त्वं गङ्गानदीवालुकोपमान् कल्पांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुः सर्वसुखोपधानैर् उपतिष्ठेयुर्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधो दिशि गङ्गानदीवाल्कोपमेषु लोकधातुषु ये सत्त्वास् ते सर्व एकैकं बोधिसत्त्वं गङ्गानदीवालुकोपमान् कल्पांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुः सर्वसुखोपधानैर् उपतिष्ठेयुः. तत् किं मन्यसे? सुभूते अपि नु ते कुलपुत्रा वा कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसवेयुः.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत. अप्रमेयम् असंख्येयम् अपरिमाणं भगवन्न् उपमापि न सुकरा कर्तुं तस्य पुण्यक्रियावस्तुनः. सचेद् भगवंस् तत् पुण्यक्रियावस्तु रूपि भवेत्, सर्वं तद् गङ्गानदिवालुकोपमेषु न मायेत्.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वम् एवं ब्रवीषि. अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य एवं कुशलमूलं निरुपलेपपरिणामनयानुत्तरायै सम्यक्संबोधये परिणामयेद्. एवं सुभूते तस्य कुलपुत्रस्य वा कुलदुहितुर् वा अयं कुशलमुलपरिणामो ऽग्र आख्यायते श्रेष्ठ आख्यायते ज्येष्ठ आख्यायते वर आख्यायते प्रवर आख्यायते (PSP_२-३:१३८) प्रणीत आख्यायते उत्तम आख्यायते अनुत्तम आख्याते निरुत्तम आख्यायते. तस्य सुभूते निरुपलेपपरिणामनापुण्यस्कन्धस्यासौ पूर्वकः पुण्यस्कन्धः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटिनियुतशतसहस्रतमीम् अपि संख्यम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् औपम्यम् अप्य् उपनिशाम् अप्य् उपनिषदम् अपि न क्षमते. तत् कस्य हेतोस्? तथा हि ते कुलपुत्राः कुलदुहितरश् चोपलम्भसंज्ञिनो ये दशकुशलकर्मपथसमन्वागताश् चतुर्ध्यानचतुरप्रमाणचतुरारूप्यसमापत्तिपञ्चाभिज्ञासमन्वागतास्. तत् कस्य हेतोः? तथा हि ते कुलपुत्राः कुलदुहितरश् चोपलम्भसंज्ञिनस् तान् सर्वसत्त्वान् स्रोतआपन्नभूतान् यावद् अर्हत्त्वभूतान् सर्वसत्त्वान् प्रत्येकबुद्धभूतान् सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैर् उपतिष्ठेयुस्, तथा हि स तान् औपलम्भिकान् बोधिसत्त्वान् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत्. इत्य् अधिमात्रपुण्योदयपरिणामः
SK
अथ खलु चत्वारो महाराजानश् चातुर्महाराजकायिकानां च देवानां विंशतिदेवपुत्रसहस्राणि प्राञ्जलीभूतानि भगवन्तं नमस्यन्ति स्म. एवं चाहुर्: महापरिणामो बतायं भगवन् बोधिसत्त्वस्य महासत्त्वस्य यो ऽयम् उपायकौशलेनानुपलम्भयोगेन निरुपलेपयोगेनानिमित्तयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. तथा परिणामयति यथा न द्वयम् उपैति नाद्वयम्.
SK
अथ खलु शक्रो देवानाम् इन्द्रस् त्रायस्त्रिंशैर् देवपुत्रैः सार्धं दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर् दिव्यतूर्यताडावचरवाद्यैश् च भगवन्तं पूजयामास. एवं च वाचम् अभाषत: महापरिणामो बतायं भगवन् बोधिसत्त्वस्य महासत्त्वस्य यो ऽयम् उपायकौशलेनानुपलम्भयोगेन निरुपलेपयोगेनानिमित्तयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. तथा च परिणामयति यथा न द्वयम् उपैति नाद्वयम्.
SK
अथ खलु सुयामो देवपुत्रः संतुषितो निर्माणरतिः परनिर्मितवशवर्ती च देवपुत्रो ऽनेकैर् देवपुत्रशतसहस्रैः सार्धं भगवन्तम् एतद् अवोचत्: महापरिणामो बतायं भगवन् बोधिसत्त्वस्य महासत्त्वस्य यो ऽयम् उपायकौशलेनानुपलम्भयोगेन निरुपलेपयोगेनानिमित्तयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. तथा च परिणामयति यथा न (PSP_२-३:१३९) द्वयम् उपैति नाद्वयम्.
SK
अथ खलु ब्रह्मपार्षद्यानां देवानाम् अनेकानि देवपुत्रकोटीनियुतशतसहस्राणि येन भगवांस् तेनोपसंक्रान्तान्य् उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य शब्दम् अकार्षुः, घोषम् उदीरयामासुः: आश्चर्यं भगवन् यथापि नाम बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितया परिगृहीता उपायकौशल्येन च तेषां पौर्वकाणां बोधिसत्त्वानां महासत्त्वानां कुलपुत्राणां कुलदुहितृणां च औपलम्भिकानां तानि कुशलमूलान्य् अभिभवन्ति. एवं ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा वृहत्फलाः शुद्धावासाः सुदृशाः सुदर्शना अवृहा अतपा अकनिष्ठाः, अनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सर्धां येन भगवांस् तेनोपसंक्रामन्न् उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य शब्दम् अकार्षुः, घोषम् उदीरयामासुह्: आश्चर्यं भगवन् यथापि नाम बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितया परिगृहीता, उपायकौशलेन च तेषां पौर्वकानां बोधिसत्त्वानां महासत्त्वानां कुलपुत्राणां कुलदुहितृणां च औपलम्भिकानां तानि कुशलमूलान्य् अभिभवन्ति.
SK
अथ खलु भगवांश् चातुर्महाराजकायिकान् देवपुत्रान् यावद् अकनिष्ठान् देवपुत्रान् आमन्त्रयामास: यदि देवपुत्रा ये त्रिसाहरमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता भवेयुस्, ते सर्वे ऽतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानां यानि कुशलमूलानि प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावच् च निरुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे तेषां बुद्धानां भगवतां तेषां च श्रावकाणां तेषां च प्रत्येकबुद्धानां ततो ऽन्येषां च सर्वसत्त्वानां यत् कुशलमूलं दानपारमिता निर्जातम् एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितानिर्जातं शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो ऽन्ये चापरिमाणा बुद्धधर्मास् तत् सर्वम् अभिसंक्षिप्यानुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयेयुर् उपलम्भयोगेन. यश् च कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितो भवेत् सो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानां सप्रत्येकबुद्धानां प्रथमचित्तोत्पादम् उपादाय (PSP_२-३:१४०) यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे तेषां सर्वेषाम् अन्येषां च सर्वसत्त्वानां यत् कुशलमूलं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमित ध्यानपारमिता प्रज्ञापारमिता यावद् अपरिमाणा बुद्धधर्मास् तत् सर्वम् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अनुपलम्भयोगेनाद्वययोगेनानिमित्तयोगेन निरुपलेपयोगेन निरीहधर्मयोगेन, अग्रयानुमोदनयानुमोदित अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयेद्, एवं स कुलपुत्रो वा कुलदुहिता वा तेषां पूर्वकानां कुलपुत्राणां कुलदुहितृणाम् अन्तिकाद् बहुतरं पुण्यं प्रसवेत्. इदं च कुशलमूलं तस्य पूर्वकस्य कुशलमूलस्य शततमीम् अपि कलां नोपैति यावद् उपनिषदम् अपि न क्षमते. इदं बोधिसत्त्वेन महासत्त्वेनानुपलम्भयोगेन परिणामितम् अग्रम् आख्यायते यावद् निरुत्तरम् आख्यायते. इति परिणामकारित्रम् इत्य् उक्तः परिणाममनस्कारः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा स च कुशलमूलानुमोदनापरिणामनापुण्यस्कन्ध एकतः पिण्डीकृतो ऽग्रयानुमोदनया नुमोदितः. कथं भगवन्न् अग्रानुमोदना भवति यावन् निरुत्तरानुमोदना भवति?
SK
भगवान् आह: यदा स कुलपुत्रो वा कुलदुहिता वा अतीतानागतप्रत्युत्पन्नानां तथागतानां अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानाम् अन्येषां च सर्वसत्त्वानां कुशलान् धर्मान् न गृह्णाति न मुञ्चति न मन्यते नावमन्यते नोपलभते. एवं चास्य भवति नैवात्र कश्चिद् धर्म उत्पद्यते न निरुध्यते न संक्लिश्यते न व्यवदायते, न च तेषां धर्माणां हानिर् न वृद्धिर् नागमो न निर्गमो न राशिर् नाभावः, एतेन पर्यायेण यच् चैषाम् अतीतानागतप्रत्युत्पन्नां धर्माणां तथतावितथतानन्यतथता धर्मता धर्मस्थितिता धर्मनियामता तथाहम् अनुमोदे अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयामीति परिणामयेत्. एवम् अनुमोदमानस्य बोधिसत्त्वस्य महासत्त्वस्यग्रानुमोदना भवति यावन् निरुत्तरानुमोदना भवति. अस्याः खलु पुनः सुभूते अनुमोदनाया अन्या या अनुमोदनास् ताः. सर्वा शततमीम् अपि कलां नोपयान्ति यावद् उपनिषदम् अपि न क्षमन्ते. इयं चानुमोदना अन्याभ्यो ऽनुमोदनाभ्यो ऽग्र आख्यायते.
SK
पुनर् अपरं सुभूते नवयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा (PSP_२-३:१४१) वा तेषां अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानां प्रथमचित्तोत्पादम् उपादाय यावच् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् कुशलमूलं दानपारमिताप्रतिसंयुक्तम् एवं शिलं क्षान्तिं वीर्यं ध्यानं प्रज्ञापारमिताप्रतिसंयुक्तं यावद् अपरिमाणबुद्धधर्मप्रतिसंयुक्तं, ततो ऽन्येषाम् अपि सर्वसत्त्वानां यानि कुशलमूलानि दानमयानि शिलमयानि भावनामयानि तानि सर्वाण्य् अनुमोदितुकामेन एवम् अनुमोदितव्यम्. यथाधिमुक्तिस् तथा दानम्, एवं शीलं क्षान्तिं वीर्यं ध्यानं यथाधिमुक्तिस् तथा प्रज्ञा, यथाधिमुक्तिस् तथा रूपं वेदनासंज्ञासंस्काराः यथाधिमुक्तिस् तथा विज्ञानं, यथाधिमुक्तिस् तथा धातव आयतनानि यथाधिमुक्तिस् तथा प्रतीत्यसमुत्पादः, यथाधिमुक्तिस् तथाध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावाशून्यता, यथाधिमुक्तिस् तथा सप्तत्रिंशद्बोधिपक्ष्या धर्माः, यथाधिमुक्तिस् तथाप्रमाणध्यानारूप्यसमापत्तयः, यथाधिमुक्तिस् तथार्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः, यथाधिमुक्तिस् तथा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षडभिज्ञाः, यथाधिमुक्तिस् तथा सर्वसमाधयः सर्वधारणीमुखानि, यथाधिमुक्तिस् तथा दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, यथाधिमुक्तिस् तथा विमुक्तिज्ञानदर्शनं, यथाधिमुक्तिस् तथानुमोदना, यथाधिमुक्तिस् तथा ते ऽतीतानागतप्रत्युत्पन्ना बुद्धधर्माः, यथाधिमुक्तिस् तथा बुद्धा भगवन्तः, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवताम् अभिसंबोधिः, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां परिनिर्वाणं, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां श्रावकाः प्रत्येकबुद्धाः, यथाधिमुक्तिस् तथा श्रावकप्रत्येकबुद्धपरिर्वाणं, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां धर्मता, यथाधिमुक्तिस् तथा तेषां श्रावकप्रत्येकबुद्धानां धर्मता, यथाधिमुक्तिस् तथा सर्वधर्माणां सर्वसत्त्वानां मुक्तानाम् अशान्तानाम् अक्लिष्टानाम् अविशुद्धानां धर्माणां धर्मता, अजातानाम् असंजातानाम् अनुत्पन्नानाम् अनिरुद्धानां धर्माणां धर्मता, ऽतथानुत्तरायै सम्यक्संबोधये परिणामयत्य् असंक्रान्त्यविनाशिताम् उपादाय. इयं सा सुभूते बोधिसत्त्वानां महासत्त्वानाम् अग्रा अनुमोदना यावन् निरुत्तरा अनुमोदना. अनया च सुभूते अनुमोदनया समन्वागतो बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां (PSP_२-३:१४२) सम्यक्संबोधिम् अभिसंबुध्यते.
SK
पुनर् अपरं सुभूते दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये ते बुद्धा भगवन्तः. सश्रावकसंघास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् कश्चिद् एव महायानसंप्रस्थितः. कुलपुत्रो वा कुलदुहिता वा तथागतन् अर्हतः सम्यक्संबुद्धान् सश्रावकसंघान् यावज्जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः परिनिर्वृतानां च तेषां बुद्धां भगवतां रात्रिंदिवम् औत्सुक्यम् आपद्येत सत्करणगुरुकरणमाननपूजनैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, शीले च तिष्ठेद् उपलम्भयोगेन क्षान्तिं भावयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां च भावयेद् उपलम्भयोगेन, यश् च कुलपुत्रो वा कुलदुहित वा अनुत्तरायां सम्यक्संबोद्ःऔ संप्रस्थितो दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्न् अनुपलम्भयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. अस्य पुण्याभिसंस्कारस्य कुशलमूलाभिसंस्कारस्य चासौ पौर्वकः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति यावद् उपनिषदम् अपि न क्षमते. अयं स परिणामः, अग्र आख्यायते यावद् निरुत्तर आख्यायते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता उपायकौशलेनानुपलम्भयोगेन तानि कुशलमूलान्य् अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयितव्यानि. इत्य् अनुमोदनामनस्कार इत्य् उक्तो ऽनुमोदनामनस्कारः
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: अवभासकरी भगवन् प्रज्ञापारमिता, नमस्करणीया भगवन् प्रज्ञापारमिता, नमस्करोमि भगवन् प्रज्ञापारमितायै, अनुपलिप्ता भगवन् प्रज्ञापारमिता, सर्वत्रैधातुकेन वितिमिरकरी भगवन् प्रज्ञापारमिता, सर्वक्लेशदृष्ट्यन्धकारप्रहाणाय, अग्रकरी भगवन् प्रज्ञापारमिता, सर्वेषां बोधिपक्ष्याणां धर्माणां क्षेमकरी भगवन् प्रज्ञापारमिता, सर्वभयभैरवोपद्रवप्रहाणाय, आलोककरि भगवन् प्रज्ञापारमिता पञ्चचक्षुःपरिग्रहाय, सत्त्वानां मार्गदर्शयित्री भगवन् प्रज्ञापारमिता, कुमार्गप्रयातानाइः सत्त्वानाम् अन्तद्वयविवर्जनतया, सर्वाकारज्ञताकरणी भगवन् प्रज्ञापारमिता सर्ववासनानुसंधिक्लेशप्रहाणताम् उपादाय, माता भगवन् प्रज्ञापारमिता (PSP_२-३:१४३) बोधिसत्त्वानां महासत्त्वानां बुद्धधर्मजननताम् उपादाय, अनुत्पन्ना निरुद्धा भगवन् प्रज्ञापारमिता स्वलक्षणशून्यताम् उपादाय, संसारविमोक्षा भगवन् प्रज्ञापारमिताकूटस्थाविनाशिताम् उपादाय, अनाथानां सत्त्वानां नाथकरी भगवन् प्रज्ञापारमिता सर्वधर्मरत्नदात्रीताम् उपादाय, दशबलकरी भगवन् प्रज्ञापारमिता अनवमर्दनीयताम् उपादाय, त्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तयित्री भगवन् प्रज्ञापारमिता अप्रवर्तनानिवर्तनताम् उपादाय, सर्वधर्माणां स्वभावसंदर्शयित्री भगवन् प्रज्ञापारमिता अभावस्वभावशून्यताम् उपादाय. इति स्वभयः.
SK
कथं भगवन् प्रज्ञापारमितायां स्थातव्यम्?
SK
भगवान् आह: यथा शारिपुत्र शास्तरि तथा प्रज्ञापारमितायां स्थातव्यं, यथा शास्ता नमस्कर्तव्यस् तथा प्रज्ञापारमिता नमस्कतव्या. तत् कस्य हेतोर्? एषैव प्रज्ञापारमिता शास्ता, न चान्यः शास्ता अन्या प्रज्ञापारमिता, शास्तैव प्रज्ञापारमिता प्रज्ञापारमितैव शास्ता. अतो हि शरिपुत्र प्रज्ञापारमितायाः सर्वे तथागता अर्हन्तः सम्यक्संबुद्धाः प्रभाव्यन्ते बोधिसत्त्वाश् च महासत्त्वाः प्रत्येकबुद्धाश् चार्हन्तश् चानागामिनश् च सकृदागामिनश् च स्रोतआपन्नाश् च प्रभाव्यन्ते. अतश् च दशकुशलाः कर्मपथाः प्रभाव्यन्ते. चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः प्रभाव्यन्ते. पञ्चाभिज्ञाः, अध्यात्मशून्यता बहिर्धाशूयता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्यानि शून्यतानिमित्ताप्रणिहितान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वपारमिताः सर्वसमाधयः सर्वधारणीमुखानि दशबोधिसत्त्वभूमयः प्रभाव्यन्ते. दशतथागतबलानि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रभाव्यन्ते यावत् सर्वाकारज्ञता प्रभाव्यते
SK
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्: कुत इयम् आयुष्मतः शारिपुत्रस्य पृच्छा जाता किंनिदाना वा?
SK
अथ खल्व् आयुष्मान् शरिपुत्रः सक्रस्य देवानाम् इन्द्रस्य चेतसैव चेतःपरिवितर्कम् आज्ञाय शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: यत् कौशिकैवं वितर्कयसि, कुत इयम् आयुष्मतः शारिपुत्रस्य पृच्छा जाता किंनिदाना वेति. प्रज्ञापारमितापरिगृहीताः कौशिक बोधिसत्त्वा महासत्त्वा उपायकौशलेन च तेषाम् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् किंचित् कुशलं तत् सर्वाकारज्ञतायै परिणामयन्तीत्य् एतन्निदाना मे पृच्छा जाता. इयं प्रज्ञापारमिता कौशिक बोधिसत्त्वानां (PSP_२-३:१४४) महासत्त्वानां दानपारमिताम् अभिभवति. एवं शीलं क्षान्तिं वीर्यं ध्यानपारमिताम् अभिभवति. तद्यथापि नाम कौशिक जात्यन्धानां शतं वा सहस्रं वा शतसहस्रं वा परिणायकम् अभव्यं मार्गावताराय कुत एव नगरप्रवेशाय? एवम् एव कौशिक इमा पञ्चपारमिता जात्यन्धभूता भवन्ति प्रज्ञापारमितां विना परिणायका अभव्या मार्गावताराय कुत एव सर्वाकारज्ञतामहानगरम् अनुप्राप्तये? यदा पुनः कौशिक पञ्चपारमिताः प्रज्ञापारमितापरिगृहीता भवन्ति तदा पञ्चपारमिताः सचक्षुस्का भवन्ति पारमितानामधेयं च प्रतिलभन्ते.
SK
शक्र आह: यद् भदन्त शारिपुत्र एवम् आह, प्रज्ञापारमितापरिगृहीताः पञ्चपारमिता पारमितानामधेयं लभन्ते. न च भदन्त शरिपुत्र दानपारमितापरिगृहीताः पञ्चपारमिताः पारमितानामधेयं लभन्ते. एवं न शीलक्षान्तिवीर्यध्यानपारमितापरिगृहीताः पञ्चपारमिताः पारमितानामधेयं लभन्ते.
SK
शारिपुत्र आह: एवम् एतत् कौशिकैवम् एतत्. न दानपारमितापरिगृहीताः कौशिक पञ्चपारमिताः पारमितानामधेयं लभन्ते. एवं न शीलक्षान्तिवीर्यध्यानपारमितापरिगृहीताः कौशिक पञ्चपारमिताः पारमितानामधेयं लभन्ते. तस्मात् तर्हि कौशिक प्रज्ञापारमितैव पञ्चानां पारमितानाम् अग्रा आख्यायते श्रेष्ठा आख्यायते ज्येष्ठा आख्यायते वरा आख्यायते प्रवरा आख्यायते उत्तमा आख्यायते अनुत्तमा आख्यायते असमा आख्यायते असमसमा आख्यायते. इति श्रेष्ठता
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् प्रज्ञापारमिताभिनिर्हर्तव्या?
SK
भगवान् आह: रूपस्य शारिपुत्रानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानभिनिर्हाराया प्रज्ञापारमिटाभिनिर्हर्त्व्या. एवं धातूनाम् आयतनानां प्रतीत्यसमुत्पादाङ्गानां दानपारमितानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. एवं शीलक्षान्तिवीर्यध्यानपारमितानभिनिर्हाराय प्रज्ञाप्रमिताभिनिर्हर्तव्या. अध्यात्मशूयतानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या यावद् अभावस्वभावशून्यतानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. सप्तत्रिंशद्बोधिपक्ष्या धर्मानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. दशबलवैशारद्यावेणिकबुद्धधर्मानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. सर्वधर्मानभिनिर्हाराय प्रज्ञाप्रमिताभिनिर्हर्तव्या. एवं यावात् सर्वाकारज्ञतानभिनिर्हाराय (PSP_२-३:१४५) प्रज्ञापारमिताभिनिर्हर्तव्या.
SK
शरिपुत्र आह: कथं भगवन् रूपस्यानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या? कथं भगवन् यावत् सर्वाकारज्ञतानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या?
SK
भग्वान् आह: रूपस्यानभिसंस्कारतो ऽनुत्पादतो ऽभावतो ऽजातितो ऽविनाशतो ऽनुपलब्धितः, यावत् सर्वाकारज्ञतानभिसंस्कारतो ऽनुत्पादतो ऽभावतो ऽजातितो ऽविनाशतो ऽनुपलब्धितः प्रज्ञापारमिताभिनिर्हर्तव्या. इति सर्वधर्मानभिसंस्कारः
SK
शारिपुत्र आह: एवम् अभिनिर्हृता भगवन् प्रज्ञापारमिता कतमं धर्मम् अर्पयति?
SK
भगवान् आह: एवम् अभिनिर्हृता शारिपुत्र प्रज्ञापारमिता न कंचिद् धर्मम् अर्पयति, यतो न कंचिद् धर्मम् अर्पयति तस्मात् प्रज्ञापारमितेति संख्यां गच्छति.
SK
शारिपुत्र आह: कतमं धर्मं नार्पयति?
SK
भगवान् आह: न कुशलं धर्मम् अर्पयति नाकुशलं धर्मम् अर्पयति. एवं न सावद्यं नानवद्यं न सास्रवं नानास्रवं न संस्कृतं नासंस्कृतं न संक्लेशं न निःक्लेशं न लौकिकं न लोकोत्तरं न संक्लिष्टं न व्यवदानं न संसारं न निर्वाणम् अर्पयति. तत् कस्य हेतोर्? न हि प्रज्ञापारमिता कस्यचिद् धर्मस्योपलम्भयोगेन प्रत्युपस्थिता तेन कारणेन न कंचिद् धर्मम् अर्पयति.
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: किम् इयं भगवन् प्रज्ञापारमिता सर्वाकारज्ञताम् अपि नार्पयति?
SK
भगवान् आह: यत् कौशिक एवं वदसि, किम् इयं प्रज्ञापारमिता सर्वाकारज्ञताम् अपि नार्पयतीति. एवम् एतत् कौशिकैवम् एतत्, प्रज्ञापारमिता कौशिक न कंचिद् धर्मम् अर्पयति नोपलभते सर्वाकारज्ञताम् अपि नार्पयति नोपलभते.
SK
देवेन्द्र आह: कथं भगवन् प्रज्ञापारमिता सर्वाकारज्ञताम् अपि नार्पयति नोपलभते?
SK
भगवान् आह: न हि कौशिक प्रज्ञाप्रमिता यथा नाम यथा निमित्तं यथाभिसंस्कारस् तथार्पयति.
SK
देवेन्द्र आह: कथैः पुनर् भगवन्न् अर्पयति?
SK
भगवान् आह: यथा नोपैति नोपाददाति नधितिष्ठति न प्रजहाति नाभिनिविशते (PSP_२-३:१४६) तथार्पयति यथा न कंचिद् धर्मम् अर्पयति मुञ्चति न प्रतिगृह्णाति. एवं हि कौशिक प्रज्ञापारमिता सर्वधर्मान् नार्पयति न मुञ्चति न प्रतिगृह्णाति.
SK
शक्र आह: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता सर्वधर्माणाम् अनुत्पादाय अनिरोधाय अनभिसंस्काराय अनुपलब्धये अविनाशाय प्रत्युपस्थिता.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संज्ञास्यति, प्रज्ञापारमिता सर्वधर्मान् नार्पयतीति, रिञ्चिष्यति भगवन् प्रज्ञापारमितां दूरीकरिष्यति भगवन् प्रज्ञापारमिताम्.
SK
भगवान् आह: अस्ति सुभूते पर्यायो येन पर्यायेण बोधिसत्त्वो महासत्त्वो रिञ्चन् प्रज्ञापारमितां दूरीकुर्यान् प्रज्ञापारमिताम्. सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संज्ञास्यति, रिक्तेयं प्रज्ञापारमितेयं तुच्छा असारा वशिकेयं प्रज्ञापारमितेति, रिञ्चिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां दूरीकरिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम्. अयं सुभूते पर्यायो येन पर्यायेण रिञ्चिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां दूरीकरिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम्.
SK
सुभूतिर् आह: प्रज्ञापारमितया भगवन् प्रत्यर्पितया कतमे धर्माः प्रत्यर्पिता भवन्ति?
SK
भगवान् आह: प्रज्ञापारमितया सुभूते प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति, न वेदना न संज्ञा न संस्काराः न विज्ञानं प्रत्यर्पितं भवति. न चक्षुः प्रत्यर्पितं भवति, न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनः प्रत्यर्पितं भवति. न रूपं प्रत्यर्पितं भवति, न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्माः प्रत्यर्पिता भवन्ति. न दानपारमिता प्रत्यर्पिता भवति, न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता प्रत्यर्पिता भवति. नाध्यात्मशून्यता प्रत्यर्पिता भवति. न बहिर्धाशून्यता प्रत्यर्पिता भवति. नाध्यात्मबहिर्धाशून्यता प्रत्यर्पिता भवति यावन् नाभावस्वभावशून्यता प्रत्यर्पिता भवति. न सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रत्यर्पिता भवन्ति. न दशबलवैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिका बुद्धधर्माः प्रत्यर्पिता भवन्ति. न स्रोतआपत्तिफल्ं प्रत्यर्पितं भवति. न सकृदागामिफलं प्रत्यर्पितं भवति. नानागामिफलं प्रत्यर्पितं भवति. नार्हत्त्वं प्रत्यर्पितं भवति. न प्रत्येकबुद्धत्वं प्रत्यर्पितं भवति. नानुत्तरा सम्यक्संबोधिः प्रत्यर्पिता भवति. (PSP_२-३:१४७)
SK
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमितया प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति यावद् न सर्वाकारज्ञता प्रत्यर्पिता भवति?
SK
भगवान् आह: रूपस्य सुभूते ऽनुपलब्ध्या प्रज्ञापारमिता प्रत्यर्पिता भवति यावत् सर्वाकारज्ञतानुपलब्ध्या प्रज्ञापारमिता प्रत्यर्पिता भवति. एवं खलु सुभूते प्रज्ञापारमितया प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति यावद् न सर्वाकारज्ञता प्रत्यर्पित भवति. इति सर्वधर्मानुपलम्भाभिसमयार्प्यणा
SK
सुभूतिर् आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते कतमेन पर्यायेण महापारमितेयं यद् उत प्रज्ञापारमिता.
SK
सुभूतिर् आह: न भगवन् रूपं महत्करोति नाल्पीकरोति, वेदनां संज्ञां संस्कारान् न विज्ञानं महत्करोति नाल्पीकरोति. एवं धातून् आयतनानि प्रतीत्यसमुत्पादाङ्गानि न महत्करोति नाल्पीकरोति. न दानपारमितां महत्करोति नाल्पीकरोति. एवं शीलं क्षान्तिं वीर्यं ध्यानं न प्रज्ञापारमितां महत्करोति नाल्पीकरोति. नाध्यात्मशून्यतां महत्करोति नाल्पीकतोति यावन् नाभावस्वभावशून्यतां महत्करोति नाल्पीकरोति. न सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् महत्करोति नाल्पीकरोति. नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तीः न शून्यतानिमित्ताप्रणिहितानि नाभिज्ञा महत्करोति नाल्पीकरोति. न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिकान् बुद्धधर्मान् महत्करोति नाल्पीकरोति. न बोधिं महत्करोति नाल्पीकरोति. न बुद्धधर्मं महत्करोति नाल्पीकरोति. यावन् न बुद्धं महत्करोति नाल्पीकरोति. न रूपं विपुलीकरोति न परित्तीकरोति. न रूपं बलवत्करोति न दुर्बलीकरोति. अनेन भगवन् पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. सचेत् पुनर् नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् आगम्य ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमिताम् आगम्य एवं ज्ञास्यति न प्रज्ञापारमिता रूपं महत्करोति नाल्पीकरोति यावन् न बुद्धधर्मं महत्करोति नाल्पीकरोति. न रूपं बलवत्करोति न दुर्बलीकरोति. एवं संजानन् बोधिसत्त्वो महासत्त्वो न चरति प्रज्ञापारमितायां. तत् कस्य हेतोः? नैष भगवन् निष्यन्दः प्रज्ञापारमितायाः. यद् रूपं महद् अल्पं वा कुर्याद् यावद् बुद्धधर्मं महद् अल्पं वा कुर्यान् नैष प्रज्ञापारमिताया निष्यन्दः. तत् कस्य हेतोः? न ह्य् उपलम्भसंज्ञिनो बोधिसत्त्वास् तथा सत्त्वाजातितया प्रज्ञापारमिता द्रष्टव्या. रूपाजातितः प्रज्ञापारमिताजातिता (PSP_२-३:१४८) द्रष्टव्या. वेदनासंज्ञासंस्कारा विज्ञानाजातितः प्रज्ञापारमिताजातिता द्रष्टव्या यावद् बुद्धाजातितः प्रज्ञापारमिताजातिता द्रष्टव्या. सत्त्वास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टव्या. रूपास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टव्या. वेदनासंज्ञासंस्कारा विज्ञानास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टय्या यावद् बुद्धास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टव्या. रूपाभावतया प्रज्ञापारमिताभावता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानाभावतया प्रज्ञापारमिताभावता वेदितव्या यावद् बुद्धाभावतया प्रज्ञापारमिताभावता वेदितव्या. सत्त्वशून्यतया प्रज्ञापारमिता शून्यता वेदितव्या. रूपशून्यतया प्रज्ञापारमिता शून्यता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानशून्यतया प्रज्ञापारमिता शून्यता वेदितव्या यावद् बुद्धशून्यतया प्रज्ञापारमिता शून्यत वेदितव्या. एवं सत्त्वानिमित्ततया सत्त्वाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता. रूपानिमित्ततयाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता. वेदनासंज्ञासंस्कारा विज्ञानानिमित्ततयाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता यावद् बुद्धानिमित्ततयाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता. एवं सत्त्वासत्तया प्रज्ञापारमितासत्ता वेदितव्या. सत्त्वाचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्या. सत्त्वाविनाशितया प्रज्ञापारमिताविनाशिता वेदितव्या. सत्त्वानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदितव्या. रूपानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदित्वया यावद् बुद्धानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदितव्या. सत्त्वबलासमन्वागततया प्रज्ञापारमिता बलासमन्वागतता वेदितव्या. रूपबलासमन्वागततया प्रज्ञापारमिता बलासमन्वागतता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानबलासमन्वागतया प्रज्ञापारमिता बलासमन्वागतता वेदितव्या यावद् बुद्धबलासमन्वागततया प्रज्ञापारमिता बलासमन्वागतता वेद्ज्तव्या. अनेनापि भगवन् पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति महार्थतेत्य् उक्तो ऽभिनिर्हारः
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: यो ऽयं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् अधिमोक्ष्यते, कुतश् च्युत्वा स इहागतो भविष्यति? कियच्चिरसंप्रस्थितः स कुलपुत्रो वा कुलदुहिता वा अभूद् अनुत्तरायां सम्यक्संबोधौ? कियन्तो वानेन तथागताः पर्युपासिताः? कियच्चिरं (PSP_२-३:१४९) स दानपारमितायां चरितः? कियच्चिरं शीलपारमितां चरितः? कियच्चिरं क्षान्तिपारमितायां चरितः? कियच्चिरं वीर्यपारमितायां चरितः? कियच्चिरं ध्यानपारमितायां चरितः? कियच्चिरं प्रज्ञापारमितायां चरितो य इमां प्रज्ञापारमिताम् अर्थतश् च नयतश् चाधिमोक्ष्यते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वो दशसु दिक्षु तथागतान् अर्हतः सम्यक्संबुद्धान् पर्युपास्येहागत इहोपपन्नो भविष्यति. इति बुद्धसेवा
SK
यः खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽसंख्येयान्य् अप्रमेयाणि कल्पकोटीनियुतशतसहस्राणि समुदागतो ऽभूद् अनुत्तरायां सम्यक्संबोधौ, स प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरितः शीलपारमितायां चरितः क्षान्तिपारमितायां चरितो वीर्यपारमितायां चरितो ध्यानपारमितायां चरितः प्रज्ञापारमितायां चरितः सन्न् इहागतो भविष्यति. स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया दृष्टया श्रुतया वा शास्ता मया दृष्ट इति चित्तम् उत्पादयिष्यति, शास्ता मया श्रुत इति चित्तम् उत्पादयिष्यति. स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्व इमां प्रज्ञापारमिताम् अर्थतश् च नयतश् चाधिगमिष्यत्य् अनिमित्ताद्वयानुपलम्भयोगेन.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: शक्या पुनर् भगवन् प्रज्ञापारमिता द्रष्टुं वा श्रोतुं वा?
SK
भगवान् आह: नो हीदं सुभूते न हि सुभूते प्रज्ञापारमितायाः श्रोतारो द्रष्टारो न प्रज्ञापारमितां ते पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादय. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां ते न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. स्मृत्युपस्थानानि न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. एवम् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न पश्यन्ति न शृण्वन्ति. बुद्धबोधिं न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. इति दानादिपारमितासमुदागमः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कियच्चिरं चरितः स भगवन् बोधिसत्त्वो महासत्त्वो भविष्यति य इह गम्भीरायां प्रज्ञापारमितायां योगम् आपत्स्यते? (PSP_२-३:१५०)
SK
भगवान् आह: विभज्यैतत् सुभूते व्याकर्तव्यं, स्यात् सुभूते पर्यायो यो बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय गम्भीरायां प्रज्ञापारमितायां योगम् आपद्यते. एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां योगम् आपद्यते. तच् चोपायकौशलेन न च कंचिद् धर्मं प्रतिक्षिपति यथा नोपचयं पश्यति नापचयं, न जातु षड्भिः पारमिताभिर् विरहितो भवति न बुद्धैर् भगवद्भिर्, यैश् च पूजाविशेषैर् आकाङ्क्षेत् तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तस्य ते पूजाविशेषाः सहचित्तोत्पादेनैव संऋध्यन्ते. बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति. न जातु मातुः कुक्षाव् उपपद्यते. न च जातु विरहितो भवति अभिज्ञाभिर्. न च केनचित् क्लेशेन सार्धं संवसति. न श्रावकचित्तेन न प्रत्येकबुद्धचित्तेन सार्धं संवसति. बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति सत्त्वांश् च परिपाचयन् बुद्धक्षेत्रं च परिशोधयन्. अयं सुभूते बोभिसत्त्वो महासत्त्वो यो ऽस्यां गम्भीरायां प्रज्ञापारमितायां प्रथमचित्तोत्पादम् उपादाय योगम् आपत्स्यते. इत्य् उपायकौशलम्
SK
सन्ति पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरश् च यैर् बहूनि बुद्धशतानि बहूनि बुद्धसहस्राणि बहूनि बुद्धशतसहस्राणि बहूनि बुद्धकोटिनियुतशतसहस्राणि दृष्टानि भवन्ति. तेभ्यश् चान्तिके शिक्षमाणैर् दानानि दत्तानि भवन्ति, शीलं रक्षितं क्षान्तिर् भाविता वीर्यम् आरब्धं ध्यानम् आसेवितं प्रज्ञा भाविता भवति सा चोपलम्भयोगेन. ते ऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां पर्षड्भ्यो ऽपक्रमिष्यन्ति. ते पुनः कुलपुत्राः कुलदुहितरश् चागौरवतयास्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां बुद्धानां भगवताम् अन्तिकाद् अपक्रमिष्यन्ति. इहैव ते कुलपुत्राः कुलदुहितरश् च महायानिकाः संनिपतिता ये गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायाम् अपक्रमिष्यन्ति. तत् कस्य हेतोस्? तथा हि ते कुलपुत्राः कुलदुहितरश् च पूर्वान्ते ऽपि गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायाम् अपक्रान्ता, एतर्ह्य् अपि गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायाम् अपक्रामान्ति. न कायेन न चित्तेन समग्रीन् दास्यन्ति दुष्प्रज्ञसंवर्तनीयं कर्मोपचेष्यन्ति. ते तेन दौष्प्रज्ञसंवर्तनीयेन कर्मणा कृतेनोपचितेन इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां प्रत्याख्यास्यन्ति, तैः प्रत्याख्याय अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञताप्रत्याख्याता भवति. ते तेन सर्वज्ञताप्रत्याख्यानेन धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षसहस्राणि (PSP_२-३:१५१) बहूनि वर्षकोटीनियुतशतसहस्राणि महानिरये प्रक्षेप्स्यन्ते. तेषां महानिरयान् महानिरयं संक्रामतां तेजःसंवर्तनी वा अप्संवर्तनी वा वायुसंवर्तनी वा प्रादुर्भावो भविष्यति. ते तासु संवर्तनीषु प्रादुर्भातास्व् अन्येषु लोकधातुषु ये महानिरयास् तेषु प्रक्षेप्स्यन्ते. ते तत्रोपपन्नाः समानाः, महानिरयान् महानिरयं संक्रमिष्यन्ति. तेषां महानिरयान् महानिरयं संक्रामतां पुनर् एव संवर्तनीयः प्रादुर्भविष्यन्ति. तासु संवर्तनीषु प्रादुर्भूतासु पूर्वस्यां दिशि प्रक्षेप्स्यन्ते, दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधो दिशि यो महानिरयास् तेषु प्रक्षेप्स्यन्ते. तेभ्यो ऽपि पुनः संवर्तनीषु प्रादुर्भूतास्व् अन्येषु लोकधातुषु ये महानिरयास् तेषु प्रक्षेप्स्यन्ते. तेषु पुनर् अपि तेभ्यो लोकधातुभ्यः संवर्तनीषु प्रादुर्भूतासु तेभ्यो महानिरयेभश् च्युतास् तेन धर्मव्यसनसंवर्तनीयेन कर्मणाक्षीणेन पुनर् एव इहोपपत्स्यन्ते. ते पुनर् एव महानिरयान् महानिरयं संक्रमिष्यन्ति. ते तेषु महानिरयेषूपपन्ना बहूनि तीव्राणि महाकटुकानि महानिरयदुःखानि प्रत्यनुभविष्यन्ति. तावद् एव ते तानि निरयदुःखां प्रत्यनुभविष्यन्ति यावत् पुनर् एव संवर्तनीयः प्रादुर्भविष्यन्ति. संवर्तनीषु प्रादुर्भूतास्व् इतश् च्युता अन्येषु लोकधातुषु पुनर् एव महानिरयेषूपपत्स्यन्ते. एवं समन्तात् पुनर् अपि दशसु दिक्षु तिर्यग्योनिषूपपत्स्यन्ते. पुनर् एव दशसु दिक्षु यमलोकेषूपपन्ना महातीव्रां महाकटुकां महादुष्खां वेदनां वेदयन्तस् तत् कर्म क्षेपयिष्यन्ति. ते बहुदुःखवेदनीयं कर्म क्षेपयित्वा कदाचित् कर्हिचित् मानुष्यकम् आत्मभावं प्रतिलप्स्यन्ते. ते यत्र यत्रोपपत्स्यन्ते तत्र तत्र जात्यन्धा भविष्यन्ति. जात्यन्धकुलेषूपपत्स्यन्ते. चण्डालकुलेषु वा पुष्कसकुलेषु वा शाकुनिकुलेषु वा सुकरिकुलेषु वा औरभिककुलेषु वा नीचेषु वा कुत्सितेषु वा कुलेषु वा नीचवृत्तिसु वा उपपत्स्यन्ते. ते तेषूपपन्ना अन्धा वा भविष्यन्ति काणा वा अजिह्वा वा अहस्ता वा अपादा वा अकर्णका वा अनासिका वा यत्र बुद्धशब्दं न श्रोष्यन्ति न धर्मशब्दं न संघशब्दं न बोधिसत्त्वशब्दं न प्रत्येकबुद्धशब्दं श्रोष्यन्ति नार्हच्छब्दं श्रोष्यन्ति ते तेनैव धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन.
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: पञ्च भगवन्न् आनन्तर्याण्य् अस्य धर्मव्यसनसंवर्तनीयस्य कर्मणः कृतस्योपचितस्य प्रतिवर्णिका अपि न भवन्ति?
SK
भगवान् आह: प्रतिवर्णिकेति शारिपुत्र न वक्तव्यास्य धर्मव्यसनसंवर्तनीयकर्मणः कृतस्योपचितस्य. ये प्रज्ञापारमितायां भाष्यमाणायां प्रतिबाधितव्यां मंस्यन्ते, नात्र शिक्षितव्यं नैष धर्मो नैष विनयो नैतच् (PSP_२-३:१५२) छास्तुः शासनं नैतत् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् भाषितम् इति भाष्यन्ते, त आत्मना च प्रतिवहितव्यां मंस्यन्ते, अन्यांश् च सत्त्वान् विवेचयिष्यन्ति. ते स्वसंतानान्य् उपहत्य परसंतानान्य् उपहन्तव्यानि मंस्यन्ते. ते स्वसंतानं सविषं कृत्वा परसंतानान्य् अपि सविषाणि करिष्यन्ति. ते स्वयं नष्टाः. परान् अपि नाशयिष्यन्ति. स्वयं च गम्भीरां प्रज्ञारमिताम् अजानन्तो ऽबुद्ध्यमानाः प्रतिवहितव्यां मंस्यन्ते, परांश् च तथैव ग्राहयिष्यन्ति. नाहं शारिपुत्र तेषां पुद्गलानां श्रवणम् अप्य् अभ्यनुजानामि कः पुनर् वादो दर्शनं कुत एव स्थानं, तत् कस्य हेतोर्? धर्मदूषका हि ते शारिपुत्र तथारूपाः पुद्गला वेदितव्याः कशंबकजातीयाः कृष्णा हि जातयः शारिपुत्र तथारूपाः पुद्गला वेदितव्याः. तेषां खलु पुनः शारिपुत्र तथारूपाणां पुद्गलानां ये श्रोतव्यं श्रद्धातव्यं मंस्यन्ते ते ऽनयेन व्यसनम् आपत्स्यन्ते. यश् चेमां शारिपुत्र प्रज्ञापारमितां दूषयिष्यति धर्मदूषकः स पुद्गलो वेदितव्यः.
SK
शारिपुत्र आह: न खलु पुनर् भगवंस् तस्य धर्मदूषकस्य पुद्गलस्य भगवता तत्रोपपन्नस्यात्मभावस्य प्रमाणम् आख्यातम्.
SK
भगवान् आह: तिष्ठतु शारिपुत्र तस्य धर्मदूषकस्य पुद्गलस्य तत्रोपपन्नस्यात्मभावस्य प्रमाणम्. तत् कस्य हेतोः? मा तस्य धर्मदूषकस्य पुद्गलस्यात्मभावस्य प्रमाणं श्रुत्वा उष्णं रुधिरं मुखाद् आगच्छेत्, मरणं वा निगच्छेत् मरणमात्रकं वा, दुःखं श्रुत्वा शोकशल्पसमर्पितो वा भवेत्. उच्छोष्येद् वा म्लायेद् वा नीलो वा हरितो वा लूनो वा यावद् इदं तस्य धर्मदूषकस्य पुद्गलस्य दृशस्यात्मभावप्रतिलाभस्य प्रमाणम् इति, यस्यायम् ईदृशो दोषः संविद्यत इति. न भगवान् आयुष्मतः शारिपुत्रस्यावकाशं करोतीदं तस्यात्मभावस्य प्रमाणं भविष्यतीति.
SK
शारिपुत्र आह: आख्यातु भगवान् पश्चिमाया जनताया आलोकाः कृतो भविष्यत्य् अनेन धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन धर्मदूषकाः पुद्गला ईदृशम् आत्मभावं परिग्रहीष्यन्तीति.
SK
भगवान् आह: एवम् एव शारिपुत्र पश्चिमाया जनताया आलोकः कृतो भविष्यत्य् अनेनासौ धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन महानिरयेषु दुःखम् अनुभविष्यति. या एतस्यैव दुःखस्याप्रमाणता बहुतरं चेयच्चिरं दुःखानि प्रत्यनुभविष्यन्तीति, एष एव शुक्लांशिकस्य कुलपुत्रस्य वा कुलदुहितुर् वा तेभ्यो धर्मव्यसनसंवर्तनीयेभ्यः. कर्मभ्यो निर्वृत्तिर् भविष्यति. ते जिवितहेतोर् अपि धर्मं न प्रतिक्षेप्स्यन्ति. मा भूद् अस्माकम् ईदृशैर् दुःखैः समवधानम् इति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: सुसंवृतकायवाग्मनस्कर्मणा (PSP_२-३:१५३) भगवन् कुलपुत्रेण वा कुलदुहिता वा भवितव्यं मा भूद् ईदृशानां दुःखानाम् अनुभवनम् इति तथागतं वा न द्रक्ष्याम इति धर्मं वा न श्रोष्याम इति संघं वा न द्रक्ष्याम इत्य् अपगतबुद्धोत्पादेषु वा बुद्धक्षेत्रेषूपपत्स्यामह इति मनुष्यदरिद्रेषु वा अग्राह्यवचना वा भविष्याम इत्य्. अनेन भगवन् धर्मप्रतिक्षेपवाक्कर्मणा कृतेनोपचितेन व्यसनसंवर्तनीयं कर्मकृतम् उपचितं भवति.
SK
भगवान् आह: अनेन सुभूते सर्वधर्मप्रतिक्षेपवाक्कर्मणा कृतेनोपचितेन धर्मव्यसनसंवर्तनीयं कर्म कृतं भवत्य् उपचितम् इहैव ते सुभूते मोहपुरुषाः स्वाख्याते धर्मविनये प्रव्रजिता भविष्यन्ति. य इमां प्रज्ञापारमितां दूषयितव्यां मंस्यन्ते प्रतिबाधितव्यां मंस्यन्ते. प्रज्ञापारमितया सुभूते दूषितया प्रतिबाधितया बुद्धानां भगवतां बोधिर् दूषिता प्रतिबाधिता भवति, बुद्धानां भगवतां बोध्या दूषितया प्रतिबाधितयातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञता दूषिता भवति प्रतिबाधिता. सर्वज्ञतया दूषितया प्रतिबाधितया धर्मः. प्रतिबाधितो भवति. धर्मेण प्रतिबाधितेन संघः. प्रतिबाधितो भवति. संघेन प्रतिबाधितेन लौकिकी सम्यग्दृष्टिर् लोकोत्तरा च सम्यक्दृष्टिः प्रतिबाधिता भवति. एवं षट्पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः. प्रतिबाधिता भवन्ति. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः षडभिज्ञाः प्रतिबाधिता भवन्ति. अध्यात्मशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि दशबोधिसत्त्वभूमयः प्रतिबाधिता भवन्ति. दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रतिबाधिता भवन्ति. यावत् सर्वज्ञता प्रतिबाधिता भवति. सर्वज्ञतया प्रतिबाधितयाप्रमेयासंख्येयापरिमाणो ऽपुण्यस्कन्धः परिगृहीतो भवति. तेन वापुण्यस्कन्धेन परिगृहितेनाप्रमेयम् असंख्येयम् अपरिमाणं दुःखदौर्मनस्यं परिगृहीतं भवति. इति धर्मव्यसनसंवर्तनकर्म
SK
सुभूतिर् आह: य इमे भगवन् मोहपुरुषा गम्भिरां प्रज्ञापारमितां प्रतिबाधिष्यन्ति, कतमैर् आकारैर् इमां प्रज्ञापारमितां प्रतिबाधिष्यन्ति?
SK
भगवान् आह: चतुर्भिः सुभूते आकारैस् ते मोहपुरुषा इमां गम्भीरां प्रज्ञापारमितां प्रतिबाधिष्यन्ति. कतमैश् चतुर्भिर्? यद् उत माराधिष्ठिताश् च ते मोहपुरुषा भविष्यन्ति. अनभियुक्ताश् च गम्भीरेषु धर्मेषु भविष्यन्ति (PSP_२-३:१५४) न च प्रसादं प्रतिलप्स्यन्ते. अभिनिविष्टाश् च ते पञ्चस्कन्धेषु भविष्यन्ति पापमित्रहस्तगता. दोषचरिताश् च ते मोहपुरुषा भविष्यन्त्य् आत्मोत्कर्षकाः परपंसकाः. एभिः सुभूते चतुर्भिर् आकारैः समन्वागतास् ते मोहपुरुषा गम्भीरां प्रज्ञापारमितां प्रतिक्षेप्स्यन्ति.
SK
सुभूतिर् आह: दुरधिमोच्या भगवन् गम्भीरा प्रज्ञापारमितानभियुक्तेन कुशलमूलविरहितेन पापमित्रहस्तगतेन.
SK
भगवान् आह: एवम् एतत् सुभूते दुरधिमोच्या गम्भीरा प्रज्ञापारमितानभियुक्तैः कुशलमूलविरहितैः पापमित्रहस्तगतैः.
SK
सुभूतिर् आह: कियद् भगवन् गम्भीरा प्रज्ञापारमिता येयं दुरधिमोच्या?
SK
भगवान् आह: रूपं सुभूते ऽबद्धम् अमुक्तं. तत् कस्य हेतो? रूपास्वभावो हि सुभूते रूपं, वेदनास्वभावो हि वेदना, संज्ञास्वभावो हि संज्ञा, संस्कारास्वभावो हि संस्कारा, विज्ञानं सुभूते ऽबद्धम् अमुक्तम्. तत् कस्य हेतोर्? विज्ञानास्वभावो हि विज्ञानम्. दानपारमिता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोर्? दानपारमितास्वभावा हि दानपारमिता. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोः? प्रज्ञापारमितास्वभावा हि प्रज्ञापारमिता. अध्यात्मशून्यता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोर्? अध्यात्मशून्यतास्वभावा ह्य् अध्यात्मशून्यता, यावद् अभावस्वभावशून्यता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोर्? अभावस्वभावशून्यतास्वभावा ह्य् अभावस्वभावशून्यता. स्मृत्युपस्थानानि सुभूते ऽबद्धान्य् अमुक्तानि. तत् कस्य हेतोः? स्मृत्युपस्थानास्वभावा हि स्मृत्युपस्थानाम्. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबोध्यङ्गानि मार्गाः सुभूते ऽबद्धा अमुक्तास्. तत् कस्य हेतोर्? मार्गास्वभावा हि मार्गाः. एवं दशबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वाकारज्ञता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोः? सर्वाकारज्ञतास्वभावो हि सुभूते सर्वाकारज्ञता. रूपस्य सुभूते पूर्वान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोः? पूर्वान्ताभावस्वभावो हि सुभूते रूपं वेदनासंज्ञासंस्काराः विज्ञानस्य सुभूते पूर्वान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोः? पूर्वान्ताभावस्वभावो हि सुभूते विज्ञानम्, एवं यावत् सर्वाकारज्ञतायाः सुभूते पूर्वान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोः? पूर्वान्तो ऽभावस्वभावो हि सुभूते सर्वाकारज्ञता. रूपस्य सुभूते ऽपरान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोर्? अपरान्तो ऽभावस्वभावो हि सुभूते रूपं वेदनासंज्ञासंस्कारा विज्ञानस्य सुभूते ऽपरान्तो ऽबद्धो ऽमुक्तः. तत् कस्य हेतोर्? अपरान्ताभावस्वभावो (PSP_२-३:१५५) हि सुभूते विज्ञानम्. एवं यावत् सर्वाकारज्ञतायाः सुभूते ऽपरान्तो ऽबद्धो ऽमुक्तः. तत् कस्य हेतोर्? अपरान्ताभावस्वभावो हि सुभूते सर्वाकारज्ञता. रूपं सुभूते प्रत्युत्पन्नम् अबद्धम् अमुक्तं. तत् कस्य हेतोः? प्रत्युत्पन्नाभावस्वभावो हि सुभूते रूपं वेदनासंज्ञासंस्कारा, विज्ञानं सुभूते प्रत्युत्पन्नम् अबद्धम् अमुक्तं. तत् कस्य हेतोः? प्रत्युत्पन्नाभावस्वभावो हि सुभूते विज्ञानं. यावत् सर्वाकारज्ञता प्रत्युत्पन्नाबद्धामुक्ता. तत् कस्य हेतोः? प्रत्युत्पन्नाभावस्वभावो हि सुभूते सर्वाकारज्ञता.
SK
सुभूतिर् आह: दुरधिमोच्या भगवन् प्रज्ञापारमितानभियुक्तैर् अनवरोपितकुशलमूलैः पापमित्रहस्तगतैर् मारवशगतैः कुशीदैर् हीनवीर्यैर् मुषितस्मृतिभिर् असंप्रजानैः.
SK
भगवान् आह: एवम् एतत् सुभूते दुरधिमोच्या सुभूते प्रज्ञापारमितानभियुक्तैर् अनवरोपितकुशलमूलैः पापमित्रहस्तगतैर् मारवशगतैः कुशीदैर् हीनवीर्यैर् मुषितस्मृतिभिर् असंप्रजानैः. इति कर्मावरणस्य चत्वारो हेतवः
SK
या सुभूते रूपस्य विशुद्धिः फलविशुद्धिर् एव सा, वेदनायाः संज्ञायाः संस्काराणां, या विज्ञानस्य विशुद्धिः फलविशुद्धिर् एव सा. या दानपारमिताया विशुद्धिः फलविशुद्धिर् एव सा. एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, या प्रज्ञापारमिताया विशुद्धिः फलविशुद्धिर् एव सा. याध्यात्मशून्यताया विशुद्धिः फलविशुद्धिर् एव सा. यावद् याभावस्वभावशून्यताया विशुद्धिः फलविशुद्धिर् एव सा. एवं या सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां विशुद्धिः फलविशुद्धिर् एव सा. एवम् आर्यसत्यानाम् अप्रमाणानां ध्यानारूप्यसमापत्तीनां या विशुद्धिः फलविशुद्धिर् एव सा. या शून्यतानिमित्ताप्रणिहितानां विशुद्धिः फलविशुद्धिर् एव सा. याष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां विशुद्धिः फलविशुद्धिर् एव सा. या षण्णाम् अभिज्ञानां विशुद्धिः फलविशुद्धिर् एव सा. एवं या सर्वसमाधीनां सर्वधारणीमुखानां विशुद्धिः फलविशुद्धिर् एव सा. या दशानां बोधिसत्त्वभूमीनां विशुद्धिः फलविशुद्धिर् एव सा. या दशानां तथागतबलानां विशुद्धिश् चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां विशुद्धिः फलविशुद्धिर् एव सा. या बोधेर् विशुद्धिः फलविशुद्धिर् एव सा.
SK
पुनर् अपरं सुभूते या रूपविशुद्धिः फलविशुद्धिर् एव सा, या फलविशुद्धिः प्रज्ञापारमिताविशुद्धिः सा, या प्रज्ञापारमिताविशुद्धिः रापविशुद्धिः. (PSP_२-३:१५६) सा इति हि रूपविशुद्धिश् च फलविशुद्धिश् च प्रज्ञापारमिताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावद् या सर्वाकारज्ञताविशुद्धिः प्रज्ञापारमिताविशुद्धिः सा, या प्रज्ञापारमिताविशुद्धिः. सर्वाकारज्ञताविशुद्धिः. सा इति हि सर्वाकारज्ञताविशुद्धिश् च प्रज्ञापारमिताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति विशुद्धिसामान्यम्
SK
पुनर् अपरं सुभूते या आत्मविशुद्धिः रूपविशुद्धिः सा, या रूपविशुद्धिर् आत्मविशुद्धिः सा इति ह्य् आत्मविशुद्धिश् च रूपविशुद्धिश् चाद्वयम् एतद् अद्वैधिकारम् अभिन्नम् अच्छिन्नम्. एवं या सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकविशुद्धिः रूपविशुद्धिः सा, या रूपविशुद्धिर् यावत् पश्यकविशुद्धिः सा इति हि यावत् पश्यकविशुद्धिश् च रूपविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावद् या पश्यकविशुद्धिः सर्वज्ञताविशुद्धिः सा, या सर्वज्ञताविशुद्धिः पश्यकविशुद्धिः सा इति हि पश्यकविशुद्धिश् च सर्वज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
SK
पुनर् अपरं सुभूते आत्मपरिशुद्ध्या रूपविशुद्धी रूपविशुद्ध्या आत्मपरिशुद्धिर् इति ह्य् आत्मपरिशुद्धिश् च रूपपरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकपरिशुद्ध्या रूपविशुद्धिः रूपपरिशुद्ध्या यावत् पश्यकपरिशुद्धिर् इति हि पश्यकपरिशुद्धिश् च रूपपरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावत् पश्यकपरिशुद्ध्या सर्वज्ञतापरिशुद्धिः सर्वज्ञताविशुद्ध्या पश्यकपरिशुद्धिर् इति हि पश्यकविशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
SK
पुनर् अपरं सुभूते रागपरिशुद्ध्या रूपपरिशुद्धिर् यावत् सर्वज्ञतापरिशुद्धिर् इति हि रागपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं दोषमोहपरिशुद्ध्या रूपपरिशुद्धिर् यावत् सर्वज्ञतापरिशुद्धिर् इति हि दोषमोहपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
SK
पुनर् अपरं सुभूते रागदोषमोहपरिशुद्ध्या रूपपरिशुद्धिर् एवं यावत् सर्वज्ञतापरिशुद्धिर् इति हि रागदोषमोहपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. (PSP_२-३:१५७) इति श्रावकस्य क्लेशावरणविशुद्धिः
SK
पुनर् अपरं सुभूते या रूपविशुद्धिः फलविशुद्धिर् एव सा, एवं वेदनासंज्ञासंस्कारा या विज्ञानविशुद्धिः फलविशुद्धिर् एव सा. एवं यावद् अविद्याविशुद्ध्या संस्कारविशुद्धिः संस्कारविशुद्ध्या विज्ञानविशुद्धिर् विज्ञानविशुद्ध्या नामरूपविशुद्धिर् नामरूपविशुद्ध्या षडायतनविशुद्धिः षडायतनविशुद्ध्या स्पर्शविशुद्धिः स्पर्शविशुद्ध्या वेदनाविशुद्धिः वेदनाविशुद्ध्या तृष्णाविशुद्धिः तृष्णाविशुद्ध्या उपादानविशुद्धिर् उपादानविशुद्ध्या भवविशुद्धिर् भवविशुद्ध्या जातिविशुद्धिर् जातिविशुद्ध्या जरामरनशोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्धिर् जरामरनडोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्ध्या सर्वज्ञताविशुद्धिर् इति हि जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्धिश् च सर्वज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति प्रत्येकबुद्धस्य ज्ञेयावरणैकदेशविशुद्धिः
SK
पुनर् अपरं सुभूते दानपारमिताविशुद्धिः दानपारमिताविशुद्ध्या शीलपारमिताविशुद्धिः शीलपारमिताविशुद्ध्या क्षान्तिपारमिताविशुद्धिः क्षान्तिपारमिताविशुद्ध्या वीर्यपारमिताविशुद्धिर् वीर्यपारमिताविशुद्ध्या ध्यानपारमिताविशुद्धिर् ध्यानपारमिताविशुद्ध्या प्रज्ञापारमिताविशुद्धिः प्रज्ञापारमिताविशुद्ध्या अध्यात्मशून्यताविशुद्धिर् अध्यात्मशून्यताविशुद्ध्या बहिर्धाशून्यताविशुद्धिर् बहिर्धाशून्यताविशुद्ध्या अध्यात्मबहिर्धाशून्यताविशुद्धिर् अध्यात्मबहिर्धाशून्यताविशुद्ध्या, एवं यावद् अभावस्वभावशून्यताविशुद्धिर् अभावस्वभावशून्यताविशुद्ध्या स्मृत्युपस्थानविशुद्धिः स्मृत्युपस्थानविशुद्ध्या सम्यक्प्रहाणविशुद्धिः सम्यक्प्रहाणविशुद्ध्या ऋद्धिपाद विशुद्धिर् ऋद्धिपाद विशुद्ध्या इन्द्रिय विशुद्धिर् इन्द्रियविशुद्ध्या बलविशुद्धिर् बलविशुद्ध्या बोध्यङ्गविशुद्धिर् बोध्यङ्गविशुद्ध्या मार्गविशुद्धिर् मार्गविशुद्ध्या आर्यसत्यविशुद्धिर् आर्यसत्यविशुद्ध्या अप्रमाणविशुद्धिर् अप्रमाणविशुद्ध्या ध्यानविशुद्धिर् ध्यानविशुद्ध्या आरूप्यविशुद्धिर् आरूप्यविशुद्ध्या अभिज्ञाविशुद्धिर् अभिज्ञाविशुद्ध्या शून्यतानिमित्ताप्रणिहितविशुद्धिः शून्यतानिमित्ताप्रणिहितविशुद्ध्या अष्टविमोक्षविशुद्धिर् अष्टविमोक्षविशुद्ध्या नवानुपूर्वविहारसमापत्तिविशुद्धिर् नवानुपूर्वविहारसमापत्तिविशुद्ध्या सर्वसमाधिविशुद्धिः सर्वसमाधिविशुद्ध्या सर्वधारणीमुखविशुद्धिः सर्वधारणीमुखविशुद्ध्या दशबलवैशारद्यविशुद्धिर् दशबलवैशारद्यविशुद्ध्या प्रतिसंविद्विशुद्धिः प्रतिसंविद्विशुद्ध्या आवेणिकबुद्धधर्मविशुद्धिर् आवेणिकबुद्धधर्मविशुद्ध्या सर्वज्ञताविशुद्धिर् (PSP_२-३:१५८) इति हि सर्वज्ञताविशुद्धिश् चावेणिकबुद्धधर्मविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति बोधिसत्त्वस्य यानत्रयमार्गविशुद्धिः
SK
पुनर् अपरं सुभूते या प्रज्ञापारमिताविशुद्धिः सा रूपविशुद्धिर् या रूपविशुद्धिः सा यावत् सर्वाकारज्ञताविशुद्धिर् इति हि प्रज्ञापारमिताविशुद्धिश् च रूपविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नं, वेदनासंज्ञासंस्कारा या प्रज्ञापारमिताविशुद्धिः सा विज्ञानविशुद्धिर् या विज्ञानविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि प्रज्ञापारमिताविशुद्धिश् च विज्ञानविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं ध्यानपारमिताविशुद्धिर् वीर्यपारमिताविशुद्धिः क्षान्तिपारमिताविशुद्धिः शीलपारमिताविशुद्धिर् या दानपारमिताविशुद्धिः सा रूपविशुद्धिर् या रूपविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि दानपारमिताविशुद्धिश् च रूपविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नं, वेदनासंज्ञासंस्कारा या दानपारमिताविशुद्धिः सा विज्ञानविशुद्धिर् या विज्ञानविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि दानपारमिताविशुद्धिश् च विज्ञानविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति मृदुमृदुमार्गः
SK
पुनर् अपरम् अध्यात्मशून्यताविशुद्ध्या यावद् अभावस्वभावशून्यताविशुद्ध्या सर्वाकारज्ञताविशुद्धिर् इति ह्य् अध्यात्मशून्यताविशुद्धिश् च यावद् अभावस्वभावशून्यताविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. स्कन्धधात्वायतनप्रतीत्यसमुत्पादविशुद्ध्या यावद् दशबलवैशारद्यावेणिकबुद्धधर्मविशुद्ध्या सर्वाकारज्ञताविशुद्धिर् इति हि स्कन्धधात्वायतनप्रतीत्यसमुत्पादविशुद्धिश् च पारमिता बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखविशुद्धिर् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
SK
पुनर् अपरं सुभूते सर्वाकापज्ञताविशुद्धिश् च प्रज्ञारारमिताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति मृदुमध्यमार्गः
SK
पुनर् अपरं सुभूते संस्कृतविशुद्ध्या असंस्कृतविशुद्धिर् असंस्कृतविशुद्ध्या संस्कृतविशुद्धिर् इति हि संस्कृतविशुद्धिश् चासंस्कृतविशुद्धिश् (PSP_२-३:१५९) चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.
SK
पुनर् अपरं सुभूते ऽतीतविशुद्ध्यानागतविशुद्धिर् अनागतविशुद्ध्यातीतविशुद्धिर् अतीतानागतविशुद्ध्या प्रत्युत्पन्नविशुद्धिः प्रत्युत्पन्नविशुद्ध्यातीतानागतविशुद्धिर् इति ह्य् अतीतानागतविशुद्धिश् च प्रत्युत्पन्नविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति मृद्वधिमात्रामार्गः
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: गम्भिरैषा भगवन् विशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
SK
शरिपुत्र आह: कस्य विशुद्धत्वात्?
SK
भगवान् आह: रूपस्य विशुद्धत्वाच् छान्पुत्र गम्भीरा विशुद्धिः. वेदना संज्ञासंस्कारा विज्ञानस्य विशुद्धत्वाद् गम्भीरा. एवं पृथिवीधात्वब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधातुविशुद्धत्वाद् गम्भिरा. एवं चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविशुद्धत्वाद् गम्भीरा. रूपशब्दगन्धरसस्पर्शधर्मविशुद्धत्वाद् गम्भीरा. दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताविशुद्धत्वाद् गम्भीरा. अध्यात्मशून्यताविशुद्ध्या गम्भीरा, यावद् अभावस्वभावशून्यताविशुद्ध्या गम्भिरा. स्मृत्युपस्थानविशुद्ध्या गम्भीरा. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गविशुद्ध्या गम्भीरा. शून्यतानिमित्ताप्रणिहितविशुद्ध्या गम्भीरा. अष्टविमोक्षनवानुपूर्वविहारसमापत्तिविशुद्ध्या गम्भीरा. अभिज्ञाविशुद्ध्या गम्भीरा. सर्वसमाधिसर्वधारणीमुखविशुद्ध्या गम्भीरा. दशतथागतबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्म विशुद्ध्या गम्भीरा. बोधिसत्त्वसर्वाकारज्ञताविशुद्ध्या गम्भीरा. इति मध्यामृदुमार्गः
SK
शारिपुत्र आह: आलोकभूता भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्रात्यन्तालोकविशुद्धिः.
SK
शारिपुत्र आह: कस्य विशुद्धत्वात्?
SK
भगवान् आह: प्रज्ञापारमिताविशुद्धत्वाच् छारिपुत्रात्यन्तालोकविशुद्धिः. एवं ध्यानपारमिताविशुद्धत्वाद् वीर्यपारमिताविशुद्धत्वात् क्षान्तिपारमिताविशुद्धत्वाच् छीलपारमिताविशुद्धत्वाद् दानपारमिताविशुद्धत्वाद् अत्यन्तालोकविशुद्धिः. अध्यात्मशून्यताविशुद्ध्या अत्यन्तालोकविशुद्धिः, यावद् अभावस्वभावशून्यता विशुद्ध्या अत्यन्तालोकविशुद्धिः. स्मृत्युपस्थानविशुद्ध्या अत्यन्तालोकविशुद्धिः. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यण्गमार्गविशुद्ध्या अत्यन्तालोकविशुद्धिः. आर्यसत्याप्रमाणध्यानआरूप्यसमापत्तिविशुद्ध्या अत्यन्तालोकविशुद्धिः. अष्टविमोक्षनवानुपूर्वविहारसमापत्तिविशुद्ध्या अत्यन्तालोकविशुद्धिः. शून्यतानिमित्ताप्रणिहिताभिज्ञाविशुद्ध्या अत्यन्तालोकविशुद्धिः. सर्वसमाधिसर्वधारणीमुखविशुद्ध्या अत्यन्तालोकविशुद्धिः. (PSP_२-३:१६०) दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मविशुद्ध्या अत्यन्तालोकविशुद्धिः, यावत् सर्वाकारज्ञताविशुद्ध्या अत्यन्तालोकविशुद्धिः. इति मध्यमध्यामार्गः
SK
शारिपुत्र आह: अप्रतिसंधिर् भगवन् विशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
SK
शारिपुत्र आह: कस्यासंक्रान्त्या विशुद्धिः?
SK
भगवान् आह: रूपस्यासंक्रान्तिर् अप्रतिसंधिर् विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यासंक्रान्तिर् अप्रतिसंधिर् विशुद्धिः. एवं यावत् सर्वाकारज्ञताया असंक्रान्तिर् अप्रतिसंधिर् विशुद्धिः. इति मध्याधिमात्रामार्गः
SK
शारिपुत्र आह: असंक्लिष्टा भगवन् विशुद्धिः.
SK
भगवान् आह: अत्यन्तासंक्लिष्टत्वाच् छारिपुत्र.
SK
शरिपुत्र आह: कस्य भगवन्न् असंक्लेशतया विशुद्धिः?
SK
भगवान् आह: रूपस्य प्रकृत्यसंक्लिष्टत्वाद् विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य प्रकृत्यसंक्लिष्टतया विशुद्धिः. एवं यावत् सर्वाकारज्ञतायाः प्रकृत्यसंक्लिष्टतया विशुद्धिः. इत्य् अधिमात्रमृदुमार्गः
SK
शारिपुत्र आह: अप्राप्तिर् अनभिसमया भगवन् विशुद्धिः.
SK
भगवान् आह: अत्यन्ताप्राप्त्यनभिसमयत्वाच् छारिपुत्र.
SK
शारिपुत्र आह: कस्य भगवन्न् अप्राप्त्यानभिसमयेन विशुद्धिः?
SK
भगवान् आह: रूपस्याप्राप्त्यानभिसमयेन विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याप्राप्त्यानभिसमयेन विशुद्धिः. एवं यावत् सर्वाकारज्ञताया अप्राप्त्यानभिसमयेन विशुद्धिः. इत्य् अधिमात्रमध्यमार्गः
SK
शारिपुत्र आह: अनभिनिवृत्तिर् भगवन् विशुद्धिः.
SK
भगवान् आह: अत्यन्तानभिनिवृत्तत्वाच् छारिपुत्र.
SK
शारिपुत्र आह: कस्य भगवन्न् अनभिनिवृत्त्या विशुद्धिः?
SK
भगवान् आह: रूपस्य शारिपुत्रानभिनिवृत्त्या विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानभिनिवृत्त्या विशुद्धिः. एवं यावत् सर्वाकारज्ञताया अनभिनिवृत्त्या विशुद्धिः. इत्य् अधिमात्राधिमात्रामार्गः
SK
शारिपुत्र आह: अनुपपत्तिर् भगवन् कामधातोर् विशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
SK
शारिपुत्र आह: कथं भगवन् कामधातोर् अनुपपत्तिर् विशुद्धिः?
SK
भगवान् आह: कामधातुस्वभावानुपपत्त्या शारिपुत्रानुपपत्तिर् विशुद्धिः.
SK
शारिपुत्र आह: अनुपपत्तिर् भगवन् रूपधातोर् विशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र. (PSP_२-३:१६१)
SK
शारिपुत्र आह: कथं भगवन् रूपधातोर् अनुपपत्तिर् विशुद्धिः?
SK
भगवान् आह: रूपधातुस्वभावानुपपत्त्या शारिपुत्रानुपपत्तिर् विशुद्धिः.
SK
शारिपुत्र आह: अनुपपत्तिर् भगवन्न् आरूप्यधातोर् विशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
SK
शारिपुत्र आह: कथं भगवन्न् आरूप्यधातोर् अनुपपत्तिर् विशुद्धिः?
SK
भगवान् आह: आरूप्यधातुस्वभावानुपपत्त्या शारिपुत्रानुपपत्तिर् विशुद्धिः. इति त्रैधातुकप्रतिपक्षत्वं भावनामार्गस्य
SK
शारिपुत्र आह: न जानीते भगवन् विशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
SK
शारिपुत्र आह: कथं भगवन् न जानीते विशुद्धिः?
SK
भगवान् आह: धर्मजडताम् उपादाय शरिपुत्र न संजानिते विशुद्धिः.
SK
शारिपुत्र आह: रूपं न जानाति भगवन् विशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
SK
शारिपुत्र आह: कथं भगवन् रूपं न जानाति विशुद्धिः?
SK
भगवान् आह: स्वलक्षणशून्यताम् उपादाय शरिपुत्र रूपं न जानाति विशुद्धिः.
SK
शारिपुत्र आह: वेदनां संज्ञां संस्कारान् विज्ञानं भगवन् न जानाति विशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत.
SK
शारिपुत्र आह: कथं भगवन् वेदनां संज्ञां संस्कारान् विज्ञानं न जानाति विशुद्धिः?
SK
भगवान् आह: स्वलक्षणशून्यताम् उपादाय शारिपुत्र वेदनां संज्ञां संस्कारान् विज्ञानं न जानाति विशुद्धिः.
SK
शारिपुत्र आह: सर्वधर्मान् भगवन् न जानाति विशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
SK
शारिपुत्र आह: कथं भगवान् सर्वधर्मान् न जानाति विशुद्धिः?
SK
भगवान् आह: सर्वधर्मानुपलब्ध्या शारिपुत्र सर्वधर्मान् न जानाति. इति ज्ञेयज्ञानाद्वयसमतामार्गस्य
SK
शारिपुत्र आह: सर्वज्ञताया भगवन् प्रज्ञापारमिता नापकारं करोति नोपकारं करोति.
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
SK
शारिपुत्र आह: कथं भगवन् सर्वज्ञतायाः प्रज्ञापारमिता नापकारं करोति नोपकारं करोति? (PSP_२-३:१६२)
SK
भगवान् आह: धर्मस्थितिताम् उपादाय शारिपुत्र प्रज्ञापारमिता सर्वज्ञताया नापकारं करोति नोपकारं करोति.
SK
शारिपुत्र आह: प्रज्ञापारमिताविशुद्धिर् भगवन् न कंचिद् धर्मं परिगृह्णाति?
SK
भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.
SK
शारिपुत्र आह: कथं भगवन् प्रज्ञापारमिताविशुद्धिर् न कंचिद् धर्मं परिगृह्णाति?
SK
भगवान् आह: धर्मधातुपरिगृहीताम् उपादाय.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आत्मविशुद्धितो भगवन् रूपविशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धिताम् उपादाय.
SK
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या रूपविशुद्धिः?
SK
भगवान् आह: आत्मासद्भूतत्वात् सुभूते रूपासद्भूतत्वाद् अत्यन्तविशुद्धिः.
SK
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् वेदनासंज्ञासंस्कारा विज्ञानविशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धिताम् उपादाय.
SK
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या वेदनासंज्ञासंस्कारा विज्ञानविशुद्धिः.
SK
भगवान् आह: आत्मासद्भूतत्वात् सुभूते वेदनासंज्ञासंस्कारा विज्ञानासद्भूतत्वाद् अत्यन्तविशुद्धिः.
SK
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् दानपारमिताविशुद्धिः. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता आत्मविशुद्ध्या भगवन् प्रज्ञापारमिताविशुद्धिः. आत्मविशुद्ध्या भगवन् स्मृत्युपस्थानविशुद्धिः. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम्, आत्मविशुद्ध्या भगवङ् मार्गविशुद्धिः. आत्मविशुद्ध्या आर्यसत्याप्रमाणध्यानारूप्यसमाःअत्तिविशुद्धिः. आत्मविशुद्ध्या शून्यतानिमित्ताप्रणिहितविशुद्धिः. आत्मविशुद्ध्या अष्टविमोक्षनवानुपूर्वविहारसमापत्तिविशुद्धिः. आत्मविशुद्ध्या अध्यात्मशून्यताविशुद्धिः, यावद् अभावस्वभावशून्यताविशुद्धिः. आत्मविशुद्ध्या समाधिधारणीमुखविशुद्धिः. आत्मविशुद्ध्या दशबलवैशारद्यप्रतिसंविद्विशुद्धिः. आत्मविशुद्ध्या भगवन्न् अष्टादशावेणिकबुद्धधर्मविशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
SK
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् सर्वधर्मविशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते. (PSP_२-३:१६३)
SK
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या सर्वधर्मविशुद्धिः?
SK
भगवान् आह: आत्मासद्भूतत्वात् सुभूते सर्वधर्मासद्भूतत्वाद् विशुद्धिः.
SK
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् स्रोतआपत्तिफलविशुद्धिः, एवं सकृदागामिफलानागामिफलार्हत्त्वप्रत्येकबोधिविशुद्धिः.
SK
भगवान् आह: स्वलक्षणशून्यताम् उपादाय.
SK
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् बोधिविशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
SK
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या बोधिविशुद्धीः?
SK
भगवान् आह: स्वलक्षणशून्यताम् उपादाय.
SK
सुभूतिर् आह: आत्मविशुद्ध्या भगवन् सर्वज्ञताविशुद्धिः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
SK
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या सर्वज्ञताविशुद्धिः?
SK
भगवान् आह: स्वलक्षणशून्यताम् उपादाय.
SK
सुभूतिर् आह: द्वयविशुद्धिर् भगवन् न प्राप्तिर् नाभिसमयः.
SK
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
SK
सुभूतिर् आह: केन कारणेन भगवन् द्वयविशुद्धिर् न प्राप्तिर् नाभिसमयः.
SK
भगवान् आह: असंक्लेशाव्यवदानधर्मसमताम् उपादाय.
SK
सुभूतिर् आह: आत्मापर्यन्ततया भगवन् रूपापर्यन्तता.
SK
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
SK
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मापर्यन्ततया रूपापर्यन्तता विशुद्धिः?
SK
भगवान् आह: अत्यन्तशून्यता-अनवराग्रशून्यताम् उपादाय.
SK
सुभूतिर् आह: आत्मापर्यन्ततया भगवन् वेदनासंज्ञासंस्कारा विज्ञानापर्यन्तता.
SK
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
SK
सुभूतिर् आह: केन कारणेन भगवन्न् आत्मापर्यन्ततया वेदनासंज्ञासंस्कारा विज्ञानापर्यन्तताविशुद्धिः?
SK
भगवान् आह: अत्यन्तशून्यता-अनवराग्रशून्यताम् उपादाय.
SK
सुभूतिर् आह: एवं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. (PSP_२-३:१६४)
SK
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
SK
सुभूतिर् आह: केन कारणेन भगवन्न् इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता?
SK
भगवान् आह: मार्गाकारज्ञताम् उपादायेयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. इति मार्गस्य चोद्यपरिहाराचित्तान्तद्वयविशुद्धिभावनामार्ग इत्य् उक्ता मार्गज्ञता आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायाम् अन्तद्वयविशुद्धिपरिवर्तो द्वितीयः (PSP_२-३:१६५)
SK
Pअञ्ञ्चविंशतिसाहस्रिका Pरज्ञापारमिता III
SK
सुभूतिर् आह: प्रज्ञापारमिता भगवन् बोधिसत्त्वानां महासत्त्वानां नापरे तीरे न परे तीरे नोभयम् अन्तेरेणोपलभ्यते.
SK
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.
SK
सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता नापरे तीरे न परे तीरे नोभयम् अन्तरेणोपलभ्यते?
SK
भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते त्र्यध्वसमतां सर्वधर्माणम् उपादाय. इत्य् उक्ता संसारनिर्वाणाप्रतिष्ठा
SK
सुभूतिर् आह: सचेत् पुनर् भगवन् महायानिकः कुलपुत्रो वा कुलदुहिता वा अनुपायकुशल इमां प्रज्ञापारमिताम् एवं ज्ञास्यत्य् उपलम्भयोगेन रिञ्चिष्यति दूरीकरिष्यतीमां प्रज्ञापारमिताम्.
SK
भगवान् आह: साधु साधु सुभूते. एवम् एतत् सुभूते. नामतो ऽपि सुभूते सङ्गो निमित्ततो ऽपि सुभूते सङ्गः. तत् कस्य हेतोर्? अनिमित्ता हि सुभूते सर्वधर्मा अनामकाः.
SK
सुभूतिर् आह: कथं भगवन् नामतो ऽपि सङ्गो निमित्ततो ऽपि सङ्गः?
SK
भगवान् आह: इह सुभूते महायानिकाः कुलपुत्राः कुलदुहितरो वा प्रज्ञापारमितां नामतो ऽपि ग्रहीष्यन्ति निमित्ततो ऽपि ग्रहीष्यन्ति निमित्ततश् च नामतश् च ग्रहीत्वा प्रज्ञापारमितां रिञ्चिष्यन्ति दूरीकरिष्यन्ति. ते प्रज्ञापारमितां मन्यमाना रिञ्चिष्यन्ति दूरीकरिष्यन्ति प्रज्ञापारमिताम्. इत्य् उक्तम् अनुपायेन दूरत्वम्
SK
सुभूतिर् आह: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां स्वाख्याता च सुपरिनिष्ठिता चामी सङ्गा अमी चासङ्गाः. (PSP_२-३:१६६)
SK
इत्य् उक्तोपायेनापि दुरता
SK
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्; कतम आयुष्मन् सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां सङ्गः कतमो ऽसङ्गः?
SK
सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः कुलपुत्रो वा कुलदुहिता वा अनुपायकुशलो रूपं शून्यम् इति संज्ञास्यते सङ्गः, वेदना संज्ञासंस्कारा विज्ञानं शून्यम् इति संज्ञास्यते सङ्गः. एवं व्यस्तसमस्तानि स्कन्धधात्वायतनानि प्रतीत्यसमुत्पादाङ्गानि शून्यानीति संज्ञास्यते सङ्गः. दानपारमिता शून्येति संज्ञास्यते सङ्गः, शीलपारमिता शून्येति संज्ञास्यते सङ्गः, क्षान्तिपारमिता शून्येति संज्ञास्यते सङ्गः, वीर्यपारमिता शून्येति संज्ञास्यते सङ्गः, ध्यानपारमिता शून्येति संज्ञास्यते सङ्गः, प्रज्ञापारमिता शून्येति संज्ञास्यते सङ्गः. एवं स्मृत्युपस्थानानि शून्यानीति संज्ञास्यते सङ्गः. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः शून्या इति संज्ञास्यते सङ्गः. आर्यसत्यानि शून्यानीति संज्ञास्यते सङ्गः. अप्रमाणध्यानारूप्यसमापत्तयः शून्या इति संज्ञास्यते सङ्गः. अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि शून्यानीति संज्ञास्यते सङ्गः. एवम् अभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि शून्यानीति संज्ञास्यते सङ्गः. दशतथागतबलानि चत्वारि वैशारद्यां शून्यानीति संज्ञास्यते सङ्गः. चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा शून्या इति संज्ञास्यते सङ्गः. सर्वज्ञता शून्येति संज्ञास्यते सङ्गः.
SK
पुनर् अपरम् आयुष्मन् शरिपुत्र बोधिसत्त्वो महासत्त्वो ऽनुपायकुशलो ऽतीतान् धर्मान् अतीता धर्मा इति संज्ञास्यते सङ्गः. अनागतान् धर्मान् अनागता धर्मा इति संज्ञास्यते सङ्गः. प्रत्युत्पन्नान् धर्मान् प्रत्युत्पन्ना धर्मा इति संज्ञास्यते सङ्गः.
SK
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्व उपलम्भयोगेन प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरतीति सङ्गः. शीलपारमितायां चरतीति सङ्गः, क्षान्तिपारमितायां चरतीति सङ्गः, वीर्यपारमितायां चरतीति सङ्गः, ध्यानपारमितायां चरतीति सङ्गः, प्रज्ञापारमितायां चरतीति सङ्गः. स्मृत्युपस्थानेषु चरतीति सङ्गः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरतीति सङ्गः. एवम् अप्रमाणध्यानारूप्यसमापत्तिसु चरतीति सङ्गः. आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेष्व् अष्टविमोक्षेषु (PSP_२-३:१६७) नवानुपूर्वविहारसमापत्तिष्व् अभिज्ञासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु चरतीति सङ्गः. दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरतीति सङग्ः, यावत् सर्वज्ञतायां चरतीति सङ्गः. इति विपक्षः
SK
यत् पुनर् आयुष्मन् शारिपुत्रैवं वदसि, कतमो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरताम् असङ्ग इति. न खलु पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकुशलस्यैवं भवति, न रूपं रूपं संजानीते, एवं वेदनासंज्ञासंस्कारा न विज्ञानं विज्ञानं संजानीते. नातीता धर्मा अतीतान् धर्मान् संजानीते. नानागता धर्मा अनागतान् धर्मान् संजानीते. न प्रत्युत्पन्ना धर्माः प्रत्युत्पन्नान् धर्मान् संजानिते. न खलु पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकुशलस्यैवं भवति, अहं दानं ददामि, अस्मै दानं ददामि, इदं दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, एभ्यः शीलं रक्षामि, अहं क्षान्तिं भावयामि, इमां क्षान्तिं भावयामि, एषु क्षान्तिं भावयामि, अहं वीर्यं आरभे, इदं वीर्यम् आरभे, एषाम् अर्थाय वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, एवं ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, अस्मै प्रज्ञां भावयामि, अहं पुण्यं प्रसवामि, एवं पुण्यं प्रसवामि, अहं बोधिसत्त्वनियामम् अवक्रमामि, अहं बुद्धक्षेत्रं परिशोधयिष्यामि, अहं सत्त्वान् परिपाचयिष्यामि, अहं सर्वज्ञताम् अनुप्राप्स्ये, सर्वे त आयुष्मन् शारिपुत्र बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरताम् उपायकुशलानां विकल्पा न सन्ति. तत् कस्य हेतोः? अध्यात्मशून्यताम् उपादाय बहिर्धाशून्यताम् उपादायाध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, इमे त आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकुशलस्यासङ्गः. इति प्रतिपक्षः
SK
अथ खलु शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिम् एतद् अवोचत्: कतमेन भदन्त सुभूते पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य सङ्गो भवति?
SK
सुभूतिर् आह: इह कौशिक बोधिसत्त्वश् चित्तं संजानीते. दानं संजानीते. एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां संजानीते. अध्यात्मशून्यतां संजानीते, बहिर्धाशून्यतां संजानीते, अध्यात्मबहिर्धाशून्यतां संजानिते, यावद् अभावस्वभावशून्यतां संजानीते. एवं सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञाः समाधीन् धारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः. (PSP_२-३:१६८) प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् संजानीते. बुद्धान् भगवतः संजानीते. बुद्धावरोपितकुशलमूलानि संजानीते तानि सर्वाण्य् अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अनुत्तरायै सम्यक्संबोधये परिणामयति. अयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य सङ्गः, येन न शक्नोत्य् असङ्गायां प्रज्ञापारमितायां चरितुम्. तत् कस्य हेतोः.? न हि कौशिक रूपस्य प्रकृतिः शक्या परिणामयितुं, न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य कौशिक प्रकृतिः शक्या परिणामयितुम्. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य न च शक्या प्रकृतिः परिणामयितुम्. एवं पारमितानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां शून्यतानिमित्ताप्रणिहितानाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनाइन् अभिज्ञानां समाधीनां धारणीमुखानां सर्वशून्यतानां दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकानां बुद्धधर्माणां न शक्या प्रकृतिः परिणामयितुम्. न हि कौशिक सर्वाकारज्ञतायाः प्रकृतिः. शक्या परिणामयितुम्. इति पुनर्विपक्षः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन परान् संदर्शयितुकामेन समादापयितुकामेन समुत्तेजयितुकामेन संप्रहर्षयितुकामेनानुत्तरायै सम्यक्संबोधये यथा भूतानुगमेन मानसेन परे संदर्शयितव्याः समादापयितव्याः समुत्तेजयितव्याः संप्रहर्षयितव्याः. तथा च पुनः संप्रहर्षयितव्या यथा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न विकल्पम् आपद्यते, अहं दानं ददामि, अहं शीलं रक्षाम्य्, अहं क्षान्तिं भावयाम्य्, अहं वीर्यम् आरभे, ऽहं ध्यानं समापद्ये, ऽहं प्रज्ञां भावयाम्य्, अहम् अध्यात्मशून्यतायां चराम्य्, अहं बहिर्धाशून्यतायां चराम्य्, अहम् अध्यात्मबहिर्धाशून्यतां चराम्य्, अहं यावद् अभावस्वभावशून्यतायां चराम्य्, अहं सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयाम्य्, अहम् आर्यसत्यानि भावयाम्य्, अहम् अप्रमाणध्यानारूप्यसमापत्तीः समापद्ये, ऽहं शून्यतानिमित्ताप्रणिहितं भावयाम्य्, अहम् अष्टविमोक्षान् भावयाम्य्, अहं नवानुपूर्वविहारसमापत्तीः समापद्ये, ऽहं समाधिं समापद्ये, ऽहं धारणीमुखानि समापद्ये, ऽहं दशबलवैशारद्यानि प्रतिसंविदावेणिकान् बुद्धधर्मान् भावयाम्य्, अहं बोधये चरामीत्य्. एवं बोधिसत्त्वो महासत्त्वः परं संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति, आत्मानं च न क्षिणोति, परांश् च बुद्धानुज्ञातायां समादापरिआयां संप्रहर्षयत्य्, एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेनानुत्तरायै सम्यक्संबोधये (PSP_२-३:१६९) संदर्शयितव्यः समादापयितव्यः समुत्तेजयितव्यः संप्रहर्षयितव्यः. एवं हि कुलपुत्रेण वा कुलदुहित्रा वा सर्वाः सङ्गकोट्यः परिवर्जिता भविष्यन्ति. इति पुनर्प्रतिपक्षः
SK
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: साधु साधु सुभूते यस् त्वं बोधिसत्त्वानां महासत्त्वानाम् इमाः सङ्गकोटिर् उद्दिशसि. अपरास् ते सुभूते सङ्गकोटीः सूक्ष्मतरा निर्देक्ष्यामि ताः शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं ते. एवं भगवन्न् इत्य् आयुष्मान् सुभूतिर् भगवतः प्रत्यश्रौषीत्.
SK
भगवान् एतद् अवोचत्: इह सुभूते कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितस् तथागतान् निमित्ततो मनसिकरोति यावत् सुभूते निमित्तं तावत् सङ्गः. यद् अपि तेषां तथागतानां प्रथमचित्तोत्पादम् उपादाय यावच् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् किंचित् कुशलमूलं तत् सर्वं निमित्ततो मनसिकरोति मनसिकृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, यावत् सुभूते निमित्ततो मनसिकरोति तावत् सङ्गः. यान्य् अपि तेषां तथागतानां सर्वसङ्गापगतानां सर्वसङ्गापगतानि कुशलमूलानि, ततो ऽन्येषाम् अपि सत्त्वानां यानि कुशलमुलानि तान्य् अपि निमित्ततो मनसिकरोति मनसिकृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, यावत् सुभूते निमित्ततो मनसिकरोति तावत् सङ्गः. तत् कस्य हेतोर्? न हि ते तथागता निमित्ततो मनसिकर्तव्या, न च तेषाम् अन्येषां वा कुशलमूलानि निमित्ततो मनसिकर्तव्यानि. इति सूक्ष्मसङ्गः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गम्भिरा भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: प्रकृतिविविक्तत्वात् सुभूते सर्वधर्माणाम्.
SK
सुभूतिर् आह: नमसिकरोमि भगवन् प्रज्ञापारमितायै.
SK
भगवान् आह: तथा हि सुभूते अकृता प्रज्ञापारमितानभिसंस्कृता न सा केनचिच् छक्याभिसंबोद्धुम्. इति धर्मगम्भीर्यम्
SK
सुभूतिर् आह: सर्वधर्मा भगवन् दुरभिसंबोधाः.
SK
भगवान् आह: तथा हि सुभूते न द्वे धर्मप्रकृती एकैव सुभूते (PSP_२-३:१७०) धर्मप्रकृतिर्, या च बुद्धधर्मप्रकृतिः. साप्रकृतिः, याप्रकृतिः सा प्रकृतिर्, या प्रकृतिः सानभिसंस्कृतः. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन एकां प्रकृतिम् अप्रकृतिम् अनभिसंस्कृतिं जानता पश्यता सर्वाः सङ्गकोट्यो विवर्जिता भवन्ति. इति सर्वसङ्गवर्जनम्
SK
सुभूतिर् आह: दुरभिसंबोधा भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: तथा हि सुभूते प्रज्ञापारमिता न केनचिद् दृष्टा न श्रुता न मता न विज्ञाता नाभिसंबुद्धा. इति दुर्बोधता
SK
सुभूतिर् आह: अचिन्त्या भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: तथा हि सुभूते प्रज्ञापारमिता न केनचिद् विज्ञाता, न रूपेण न वेदनया न संज्ञया न संस्कारैर् न विज्ञानेन ज्ञाता यावन् न व्यस्तसमस्तैः स्कन्धधात्वायतनैः प्रतीत्यसमुत्पादाङ्गैर् न पारमिताभिर् न बोधिपक्ष्यैर् धर्मैर् नाप्रमाणध्यानारूप्यसमापत्तिभिर् नाष्टविमोक्षैर् न नवभिर् अनुपूर्वविहारसमापत्तिभिर् न शून्यतानिमित्ताप्रणिहितैर् नाभिज्ञाभिर् न सर्वशून्यताभिर् न सर्वसमाधिभिर् न सर्वधारणीमुखैर् न तथागतबलैर् न वैशारद्यैर् न प्रतिसंविद्भिर् नावेणिकैर् बुद्धधर्मैर् ज्ञाता.
SK
सुभूतिर् आह: कारिका भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: सर्वधर्मानुपलब्धितः कारिका सुभूते प्रज्ञापारमिता. इत्य् अचिन्त्यत्वम् इत्य् उक्तौ विपक्षप्रतिपक्षौ
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्, सचेद् रूपे न चरति चरति प्रज्ञापारमितायां, सचेद् न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने न चरति चरति प्रज्ञापारमितायाम्. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु न चरति चरति प्रज्ञापारमितायाम्. एवं सर्वपारमितासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु स्मृत्युपस्थानेषु सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेष्व् आर्याष्टाङ्गे मार्गे न चरति चरति प्रज्ञापारमितायाम्. आर्यसत्येषु न चरति चरति प्रज्ञापारमितायाम्. अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिसु शून्यतानिमित्ताप्रणिहितेषु न चरति चरति प्रज्ञापारमितायाम्. दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु न चरति चरति प्रज्ञापारमितायाम्. सर्वज्ञतायाम् अपि न चरति चरति प्रज्ञापारमितायाम्. इति रूपादिप्रयोगः (PSP_२-३:१७१)
SK
सचेद् रूपं न नित्यं नानित्यम् इति चरति चरति प्रज्ञापारमितायां, रूपं न सुखं न दुःखम् इति चरति चरति प्रज्ञापारमितायां, रूपं नात्मा नानात्मेति चरति चरति प्रज्ञापारमितायां, रूपं न शुभं नाशुभम् इति चरति चरति प्रज्ञापारमितायां, वेदनासंज्ञासंस्कारा विज्ञानं न नित्यं नानित्यम् इति चरति चरति प्रज्ञापारमितायां, विज्ञानं न सुखं न दुःखं इति चरति चरति प्रज्ञापारमितायां विज्ञानं नात्मा नानात्मेति चरति चरति प्रज्ञापारमितायां विज्ञानं न शुभं नाशुभम् इति चरति चरति प्रज्ञापारमितायाम्. एवं व्यस्तसमस्तस्कन्धधात्वायतनानि प्रतीत्यसमुत्पादाङ्गानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वज्ञता न नित्या नानित्येति चरति चरति प्रज्ञापारमितायां, सर्वज्ञता न सुखा न दुःखेति चरति चरति प्रज्ञापारमितायां, सर्वज्ञता नात्मा नानात्मेति चरति चरति प्रज्ञापारमितायां, सर्वज्ञता न शुभा नाशुभेति चरति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? न तद् रूपं तथा संविद्यते यस्य नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शुभं वा अशुभं वा, वेदनासंज्ञासंस्कारा न तद् विज्ञानं तथा संविद्यते यस्य नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शुभं वा अशुभं वा. एवं व्यस्तसमस्तस्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावन् न सा सर्वज्ञता तथा संविद्यते यस्या नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शुभं वा अशुभं वा. इति रूपाद्यनित्यादिप्रयोगः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सचेद् रूपम् अपरिपूर्णं परिपूर्णम् इति न चरति चरति प्रज्ञापारमितायां, वेदनासंज्ञासंस्कारा विज्ञानम् अपरिपूर्णं परिपूर्णम् इति न चरति चरति प्रज्ञापारमितायाम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गान्य् अपरिपूर्णानि परिपूर्णानीति न चरति चरति प्रज्ञापारमितायाम्. एवं सर्वपारमिताः (PSP_२-३:१७२) सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखान्य् अपरिपूर्णानि परिपूर्णानीति न चरति चरति प्रज्ञापारमितायाम्. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारमितायाम्. एवम् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञा अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारमितायाम्. एवं दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारमितायां यावत् सर्वज्ञता अपरिपूर्णाः परिपूर्णा इति न चरति चरति प्रज्ञापारैनितायां. तत् कस्य हेतोः? रूपस्यापरिपूर्णता परिपूर्णता वा या न तद् रूपम् एवम् अपि न चरति चरति प्रज्ञापारमितायां, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यापरिपूर्णता परिपूर्णता वा या न तद् विज्ञानम् एवम् अपि न चरति चरति प्रज्ञापारमितायाम्. एवं यावत् सर्वज्ञताया अपरिपूर्णता परिपूर्णता वा या न सा सर्वज्ञता एवम् अपि न चरति चरति प्रज्ञापारमितायाम्. इति रूपाद्यपरिपूरिप्रयोग.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अयं बोधिसत्त्वानां महासत्त्वानां सङ्गश् चासङ्गश् चाख्यातः.
SK
भगवान् आह: एवम् एतत् सुभूते स्वाख्यातः. सुभूते तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वानां महासत्त्वानां सङ्गश् चासङ्गश् च.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायां, वेदनासंज्ञासंस्कारा विज्ञानं सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायाम्. चक्षुः सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायाम्, एवं श्रोत्रं घ्राणं जिह्वा कायो मनः सङ्गम् असङ्गम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं सर्वायतनेषु धातुषु च दानपारमिता ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम्, एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञापारमिता ससङ्गासङ्गेति न चरति चरति प्रज्ञापारमितायाम्. एवं सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः ससङ्गा असङ्गा इति न चरति चरति प्रज्ञापारमितायां, शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वशून्यताः ससङ्गा असङ्गा इति न चरति चऋअति प्रज्ञापारमितायाम्. एवं दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वसमाधयः सर्वधारणीमुखानि सऋवज्ञता ससङ्गासङ्गेति (PSP_२-३:१७३) न चरति चरति प्रज्ञापारमितायाम्.
SK
एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपं ससङ्गम् असङ्गम् इति, न वेदना न संज्ञा न संस्कारा न विज्ञानं ससङ्गम् असङ्गम् इति संजानीते. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताशून्यताबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञाशून्यतानिमित्ताप्रणिहितसमाधिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न ससङ्गा असण्गा इति संजानीते. प्रज्ञापारमितायां चरन् सर्वज्ञता न ससङ्गासङ्गेति संजानीते. न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबोधिर् नानुत्तरा सम्यक्संबोधिः. ससङ्गासङ्गेति संजानीते. इति रूपादिष्व् असङ्गप्रयोगः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यम् एतद् भगवन् यावद् इयं गम्भीरा प्रज्ञापारमिता देश्यमानापि न हीयते, अदेश्यमानापि न हीयते, देश्यमानापि न वर्धते, अदेश्यमानापि न वर्धते.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते प्रज्ञापारमिता देश्यमानापि न हीयते, अदेश्यमानापि न हीयते, देश्यमानापि न वर्धते, अदेश्यमानापि न वर्धते. तद्यथापि नाम सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो यावज्जीवं तिष्ठन्न् आकाशस्य वर्णं भाषेत अवर्णं वा, न खलु पुनर् आकाशस्य वर्णे भाष्यमाणे वृद्धिर् अवर्णे भाष्यमाणे हानिः, न चाकाशं वर्णेन वर्धते अवर्णेन हीयते. इत्य् अधिकारप्रयोगः
SK
तद्यथापि नाम सुभूते मायापुरुषो वर्णे भाष्यमाणे न वर्धते, अवर्णे भाष्यमाणे न परिहीयते, वर्णे भाष्यमाणे नानुनीयते, अवर्णे भाष्यमाणेन प्रतिहन्यते. एवम् एव सुभूते या धर्माणां धर्मता सा देशितापि तावत्य् एव, अदेशितापि तावत्य् एव. इत्य् अकर्तृप्रयोगः
SK
सुभूतिर् आह: दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां भाष्यमाणायां न संसीदति, न विपृष्ठीभवति मानसम्, अत्र च प्रज्ञापारमितायां योगम् आपद्यते, न च प्रत्युदावर्तते ऽनुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? आकाशभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, न चाकाशे प्रज्ञापारमिता प्रज्ञायते, न ध्यानपारमिता न वीर्यपारमिता न क्षान्तिपारमिता न शीलपारमिता न दानपारमिता प्रज्ञायते. नाकाशे रूपं प्रज्ञायते, न वेदना न संज्ञा न (PSP_२-३:१७४) संस्कारा नाकाशे विज्ञायते. नाकाशे ऽध्यात्मशून्यता प्रज्ञायते, न बहिर्धाशून्यता प्रज्ञायते, नाध्यात्मबहिर्धाशून्यता प्रज्ञायते, यावन् नाभावस्वभावशून्यता प्रज्ञायते. नाकाशे स्मृत्युपस्थानानि प्रज्ञायन्ते. नाकाशे सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः प्रज्ञायन्ते. नाकाश आर्यसत्यानि प्रज्ञायन्ते. नाकाशे ऽप्रमाणध्यानारूप्यसमापत्तयः प्रज्ञायन्ते. नाकाशे ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते. नाकाशे शून्यतानिमित्ताप्रणिहिताभिज्ञाः प्रज्ञायन्ते. नाकाशे समाधिधारणीमुखानि प्रज्ञायन्ते. नाकाशे समाधिधारणीमुखानि प्रज्ञायन्ते. नाकाशे शमथविपश्यना प्रज्ञायते. नाकाशे दशतथागतबलानि प्रज्ञायन्ते. नाकाशे चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः प्रज्ञायन्ते. नाकाशे ऽष्टादशावेणिका बुद्धधर्माः प्रज्ञायन्ते. नाकाशे स्रोतआपत्तिफलं प्रज्ञायते. नाकाशे सकृदागामिफलं प्रज्ञायते. नाकाशे ऽनागामिफलं प्रज्ञायते. नाकाशे ऽर्हत्त्वं प्रज्ञायते. नाकाशे प्रत्येकबोधिः प्रज्ञायते. नाकाशे ऽनुत्तरा सम्यक्संबोधिः प्रज्ञायते.
SK
सुभूतिर् आह: नमस्करोमि भगवन् बोधिसत्त्वेभ्यो महासत्त्वेभ्यो यैर् अयं संनाहः संनद्धः. आकाशस्य ते भगवन् कृतशः प्रयोक्तुकामा यतितुकामा ध्यायतुकामा ये सत्त्वानां कृतशः संनाहं संनह्यन्ते. आकाशं ते भगवन् परिमोचयितुकामा ये सत्त्वानां कृतशः संनाहं संनह्यन्ते. महासंनाहसंनद्धास् ते भगवन् बोधिसत्त्वा महासत्त्वा ये आकाशसमानां धर्माणां कृतशः संनाहं संनह्यन्ते. इत्य् उद्देशदुष्करताप्रयोगः
SK
आकाशं ते भगवन्न् अन्तरीक्षम् उत्क्षेप्तुकामा ये सत्त्वानां कृतशः संनाहं संनह्यन्ते. इति प्रयोगदुष्करताप्रयोगः
SK
महावीर्यपारमिताप्राप्तास् ते भगवन् बोधिसत्त्वा महासत्त्वा ये सत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामाः. तत् कस्य हेतोः? सचेद् भगवन्न् अयं त्रिसाहस्रमहासाहस्रो लोकधातुस् तथागतैः परिपूर्णः स्यात्, तद्यथापि नाम नडस्वनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा, ते तथागताः कल्पं वा कल्पावशेषं वा धर्मं देशयेयुः, एकैकश् च तथागतो ऽप्रमेयान् असंख्येयान् अपरिमानान् सत्त्वान् परिनिर्वापयेत्, न च भगवन् सत्त्वधातोर् ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते. तत् कस्य हेतोः? सत्त्वासद्भूतताम् उपादाय, सत्त्वविविक्तताम् उपादाय. एवम् एकैकस्यां दिशि यावद् दशसु दिक्षु सर्वलोकधातवस् तथागतैः परिपूर्णा (PSP_२-३:१७५) भवेयुः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा, ते च तथागतास् तिष्ठन्तः कल्पं वा कल्पावशेषं वा धर्मं देशयेयुः, एकैकश् च तथागतो ऽप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयेत्, न च भगवन् सत्त्वधातोर् ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते. तत् कस्य हेतोः? सत्त्वासद्भूतताम् उपादाय, सत्त्वविविक्तताम् उपादाय. अनेन भगवन् पर्यायेणैवं वदामि; आकाशं ते भगवन् परिमोचयितुकामा ये सत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामाः. इति कारित्रदुष्करताप्रयोगः.
SK
अथ खल्व् अन्यतरस्य भिक्षोर् एतद् अभवत्: नमस्करोमि भगवन् भगवत्यै प्रज्ञापारमितायै यत्र न कश्चिद् धर्म उपलभ्यते न निरुध्यते, शीलस्कन्धश् च प्रज्ञायते, समाधिस्कन्धश् च प्रज्ञायते, प्रज्ञास्कन्धश् च प्रज्ञायते, विमुक्तिस्कन्धश् च प्रज्ञायते, विमुक्तिज्ञानदर्शनस्कन्धश् च प्रज्ञायते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबुद्धत्वं प्रज्ञायते, तथागतो ऽर्हन् सम्यक्संबुद्धः प्रज्ञायते, त्रीणि रत्नानि प्रज्ञायन्ते, बुद्धधर्मसंघरत्नानि प्रज्ञयन्ते, धर्मचक्रप्रवर्तनं प्रज्ञायते. इत्य् अवन्ध्यप्रयोगः
SK
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यो भदन्त सुभूते गम्भीरायां प्रज्ञापारमितायां बोधिसत्त्वो महासत्त्वो योगम् आपत्स्यते क्व योगम् आपत्स्यते?
SK
सुभूतिर् आह: आकाशे स कौशिक योगम् आपत्स्यते यो ऽत्र गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यं मंस्यते.
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: यो भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति कामम् अहं भगवंस् तस्य रक्षावरणगुप्तिं संविधास्यामि.
SK
सुभूतिर् आह: समनुपश्यसि त्वं कौशिक तं धर्मं यस्य रक्षावरणगुप्तिं संविधातुम् इच्छसि?
SK
शक्र आह: नाहं भदन्त सुभूते तं धर्मं समनुपश्यामि यस्य रक्षावरणगुप्तिं संविधास्यामि.
SK
सुभूतिर् आह: सचेत् कौशिक कुलपुत्रा वा कुलदुहितरो वा यथोपदिष्टायां प्रज्ञापारमितायां स्थास्यन्ति सैवैषां रक्षावरणगुप्तिर् भविष्यति. अथ (PSP_२-३:१७६) विरहिता भविष्यन्ति यथोपदिष्टया प्रज्ञापारमितया लप्स्यन्ते तेषां मनुष्याश् चामनुष्याश् चावतारम्. आकाशस्य स कौशिक रक्षावरणगुप्तिं संविधातव्यां मन्येत, यो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां रक्षावरणगुप्तिं संविधातव्यां मन्येत. तत् किं मन्यसे? कौशिक प्रतिबलस् त्वं मायामरीचिस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिविंबगन्धर्वनगराणां रक्षावरणगुप्तिं संविधातुम्.
SK
शक्र आह: नो भदन्त सुभूते.
SK
सुभूतिर् आह: एवम् एव कौशिक यो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां रक्षावरणगुप्तिं संविधातव्यां मन्येत, स यावद् एव विघातस्य क्लमथस्य च भागी स्यात् तत् किं मन्यसे? कौशिक प्रतिबलस् त्वं तथागतस्य वा तथागतनिर्मितस्य वा रक्षावरणगुप्तिं संविधातुम्.
SK
शक्र आह: नो भदन्त सुभूते.
SK
सुभूतिर् आह: एवम् एतत् कौशिक यो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां रक्षावरणगुप्तिं संविधातव्यां मन्येत स यावद् एव विघतस्य क्लमथस्य च भागी स्यात्. तत् किं मन्यसे? कौशिक प्रतिबलस्त्वं धर्मधातोर् भूतकोटेस् तथताया अचिन्त्यधातो रक्षावरणगुप्तिं संविधातुम्.
SK
शक्र आह: नो भदन्त सुभूते.
SK
सुभूतिर् आह: एवम् एव कौशिक यो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां रक्षावरणगुप्तिं संविधातव्यां मन्येत स यावद् एव विघतस्य क्लमथस्य च भागी स्यात्. इत्य् अपरप्रत्ययप्रयोगः
SK
शक्र आह: कियता भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता स्वप्नोपमाः सर्वधर्मा मायोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा गन्धर्वनगरोपमा निर्मितोपमाः सर्वधर्माश् चपरिज्ञाता भवन्ति.
SK
सुभूतिर् आह: यदा बोधिसत्त्वा महासत्त्वाः स्वप्नम् अपि न मन्यन्ते, स्वप्नेन न मन्यन्ते, स्वप्नं ममेति न मन्यन्ते, स्वप्ने ऽपि न मन्यन्ते. एवं यावद् निर्मितम् अपि न मन्यन्ते, निर्मितेन न मन्यन्ते, निर्मितं ममेति न मन्यन्ते, निर्मिते ऽपि न मन्यन्ते, तदा बोधिसत्त्वैर् महासत्त्वैः स्वप्नोपमाः सर्वधर्मा यावन् निर्मितोपमाश् च सर्वधर्माः परिज्ञाता भवन्ति. इति सप्तविधाभिज्ञानप्रयोग इत्य् उक्तः प्रयोगः
SK
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् (PSP_२-३:१७७) रूपं न मन्यते, रूपेण न मन्यते, रूपं ममेति न मन्यते, रूपे ऽपि मन्यते. स्वप्नं न मन्यते, स्वप्नेन न मन्यते, स्वप्नं ममेति न मन्यते, स्वप्ने ऽपि न मन्यते, यावन् निर्मितं न मन्यते, निर्मितेन न मन्यते, निर्मितं ममेति न मन्यते, निर्मिते ऽपि न मन्यते, वेदनासंज्ञासंस्कारा विज्ञानं न मन्यते, विज्ञानेन न मन्यते, विज्ञानं ममेति न मन्यते, विज्ञाने ऽपि न मन्यते. एवं व्यस्तसमस्ताः स्कन्धधात्वायतनानि प्रतित्यसमुत्पादः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वज्ञतां न मन्यते, सर्वज्ञतया न मन्यते, सर्वज्ञतां ममेति न मन्यते, सर्वज्ञतायाम् अपि न मन्यते, स्वप्नं न मन्यते, स्वप्नेन न मन्यते, स्वप्नं ममेति न मन्यते, स्वप्ने ऽपि न मन्यते, यावन् निर्मितं न मन्यते, निर्मितेन न मन्यते, निर्मितं ममेति न मन्यते, निर्मिते ऽपि न मन्यते. इत्य् उक्ता प्रयोगसमता
SK
अथ खलु बुद्धानुभावेन ये ऽस्मिंस् त्रिसाहस्रे महासाहस्रे लोकधातौ चातुर्महाराजकायिका देवास् त्रायस्त्रिंषा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः, यावच् छुद्धावसकायिका देवपुत्रास् ते सर्वे दिव्यानि चन्दनचूर्णान्य् अभ्यवकीर्य येन भगवांस् तेनोपसंक्रामन्ति स्म, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते ऽतिष्ठन्.
SK
अथ खलु चत्वारो महाराजानः शक्रश् च ब्रह्माणश् च यावच् छुद्धावासकायिकाश् च देवपुत्रा बुद्धानुभावेन बुद्धसहस्रं समन्वाहरन्ति स्म, धर्मं देशयमानम् एभिर् एवाक्षरैर् एभिर् एव नामधेयैः सुभूतिनामधेयैर् भिक्षुभिर् इमाम् एव प्रज्ञापारमितां परिप्रश्नीकृतां, देशयमानं शक्राश् च देवानाम् इन्द्राः परिप्रश्नयन्तीमाम् एव प्रज्ञापारमिताम्. एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो दिक्षु सर्वत्र बुद्धसहस्रं समन्वाहरन्ति स्म, धर्मं देशयमानम् एभिर् एवाक्षरैर् एभिर् एव नामधेयैः सुभूतिनामधेयैर् एव भिक्षुभिर् इमाम् एव प्रज्ञापारमितां परिप्रश्नीकृतां, देशयमानं सर्वत्र च शक्राश् च देवानाम् इन्द्राः परिप्रश्नयन्तिमाम् एव प्रज्ञापारमिताम्.
SK
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अस्मिन्न् एव सुभूते पृथिवीप्रदेशे मैत्रेयो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य इमाम् एव प्रज्ञापारमितां भाषिष्यते. अस्मिन्न् एव पृथिवीप्रदेशे ये ऽपि ते भविष्यन्तिह भद्रकल्पे तथागता अर्हन्तः सम्यक्संबुद्धास् (PSP_२-३:१७८) ते ऽप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य इमाम् एव प्रज्ञापारमितां भाषिष्यन्ते. इति षोडशक्षणदर्शनमार्गसाक्षिभावज्ञापनम्
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमैर् भगवन्न् आकारैः कतमैर् लिङ्गैः कतमैर् निमित्तैर् मैत्रेयो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य इमां प्रज्ञापारमितां भाषिष्यते?
SK
भगवान् आह: इह सुभूते मैत्रेयो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य न रूपं नित्यम् अनित्यं वेति धर्मं देशयिष्यति. एवं न सुखं न दुःखं नात्मा नानात्मा, न रूपं शुभम् अशुभं वेति धर्मं देशयिष्यति. न रूपं बद्धं मुक्तं वेति धर्मं देशयिष्यति. एवं वेदनासंज्ञासंस्कारा न विज्ञानं नित्यम् अनित्यं वेति धर्मं देशयिष्यति. एवं न सुखं न दुःखं नात्मा नानात्मा न विज्ञानं शुभम् अशुभं वेति धर्मं देशयिष्यति. न विज्ञानं बद्धं मुक्तं वेति धर्मं देशयिष्यति. न रूपम् अतीतं नानागतं न प्रत्युत्पन्नम् इति धर्मं देशयिष्यति. एवं न वेदना न संज्ञा न संस्कारा न विज्ञानम् अतीतं नानागतं न प्रत्युत्पन्नम् इति धर्मं देशयिष्यति. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सर्वपारमितासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेष्व् अभिज्ञासु दशबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वज्ञता नातीता नानागता न प्रत्युत्पन्नेति एवं धर्मं देशयिष्यति. इति दुष्खे धर्मज्ञानक्षान्तिः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् मैत्रेयो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यतीति?
SK
भगवान् आह: रूपम् अत्यन्तविशुद्धम् अत्यन्तविशुद्धम् इति धर्मं देशयिष्यति, वेदनासंज्ञासंस्कारा विज्ञानम् अत्यन्तविशुद्धम् अत्यन्तविशुद्धम् इति धर्मं देशयिष्यति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिता शून्यता बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिताभिज्ञा दशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्माः समाधिधारणीमुखानि यावत् सर्वज्ञतात्यन्तविशुद्धात्यन्तविशुद्द्ःश्ति धर्मं देशयिष्यति. (PSP_२-३:१७९) इति दुष्खे धर्मज्ञानम्
SK
सुभूतिर् आह: परिशुद्धा भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: रूपपरिशुद्धत्वात् सुभूते परिशुद्धा प्रज्ञापारमिता, वेदनासंज्ञासंस्कारा विज्ञानपरिशुद्धत्वात् सुभूते परिशुद्धा प्रज्ञापारमिता. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षनवानुपूर्ववीहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्दधर्मा यावत् सर्वज्ञतापरिशुद्धत्वात् सुभूते परिशुद्धा प्रज्ञापारमिता. इति दुष्खे ऽन्वयज्ञानक्षान्तिः.
SK
सुभूतिर् आह: तत् कस्य हेतेर्? भगवन् रूपस्य परिशुद्धत्वात् परिशुद्धा प्रज्ञापारमिता, कथं वेदनायाः संज्ञायाः संस्काराणां कथं विज्ञानस्य परिशुद्धत्वात् परिशुद्धा प्रज्ञापारमिता? एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद पारमिता बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षनवानुपूर्वविहारसमापत्तय्ः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्माः, यावत् सर्वज्ञतायाः परिशुद्धत्वात् परिशुद्धा प्रज्ञापारमिता? भगवान् आह: रूपस्य सुभूते नोत्पादो न निरोधो न संक्लेशो न व्यवदानं रूपपरिशुद्धिर्, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य सुभूते नोत्पादो न निरोधो न संक्लेशो न व्यवदानं विज्ञानपरिशुद्धिः. एवं स्कन्धधात्वायतनप्रतीत्यस्मुत्पादाङ्गानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिनां शून्यतानिमित्ताप्रणिहितितानाम् अभिज्ञानां दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां नोत्पादो न निरोधो न संक्लेशो न व्यवदानं बुद्धधर्मपरिशुद्धिः, सर्वज्ञताया नोत्पादो न निरोधो न संक्लेशो न व्यवदानं सर्वज्ञतापरिशुद्धिः. इति दुष्खे ऽन्वयज्ञानम्
SK
पुनर् अपरं सुभूते आकाशपरिशुद्ध्या परिशुद्धा प्रज्ञापारमिता.
SK
सुभूतिर् आह: कथं पुनर् भगवन्न् आकाशपरिशुद्ध्या परिशुद्धा प्रज्ञापारमिता?
SK
भगवान् आह: आकाशवद् रूपस्य यावत् सर्वज्ञताया अनुत्पादानिरोधासंक्लेशाव्यवदानपरिशुद्ध्या परिशुद्धा प्रज्ञापारमिता. इति समुदये धर्मज्ञानक्षान्तिः
SK
आकाशनिरुपलेपत्वात् सुभूते परिशुद्धा प्रज्ञापारमिता. (PSP_२-३:१८०)
SK
सुभूतिर् आह: कथं भगवन्न् आकाशनिरुपलेत्वात् परिशुद्धा प्रज्ञापारमिता?
SK
भगवान् आह: आकाशवद् रूपस्य यावत् सर्वज्ञताया निरुपलेपत्वात् परिशुद्धा प्रज्ञापारमिता. इति समुदये धर्मज्ञानम्
SK
पुनर् अपरं सुभूते आकाशाग्राह्यत्वात् परिशुद्धा प्रज्ञापारमिता.
SK
सुभूतिर् आह: कथं भगवन्न् आकाशाग्राह्यत्वात् परिशुद्धा प्रज्ञापारमिता?
SK
भगवान् आह: आकाशवद् रूपस्य यावत् सर्वज्ञताया अग्राह्यत्वात् परिशुद्धा प्रज्ञापारमिता. इति समुदये ऽन्वयज्ञानक्षान्तिः
SK
आकाशाव्याहारतया सुभूते परिशुद्धा प्रज्ञापारमिता.
SK
सुभूतिर् आह: कथं भगवन्न् आकाशाव्याहारतया परिशुद्धा प्रज्ञापारमिता?
SK
भगवान् आह: तद्यथापि सुभूते आकाशे प्रतिश्रुत्का द्वयस्य शब्दः एवम् एव सुभूते आकाशवद् रूपस्य यावत् सर्वज्ञताया अप्रव्याहारतया परिशुद्धा प्रज्ञापारमिता. इति समुदये ऽन्वयज्ञानम्
SK
आकाशाप्रव्याहारतया सुभूते परिशुद्धा प्रज्ञापारमिता.
SK
सुभूतिर् आह: कथं भगवन्न् आकाशाप्रव्याहारतया परिशुद्धा प्रज्ञापारमिता?
SK
भगवान् आह: न हि सुभूते आकाशस्य कश्चित् प्रव्याहारः. एवम् एव सुभूते रूपस्य यावत् सर्वज्ञताया अप्रव्याहारतया परिशुद्धा प्रज्ञापारमिता. इति निरोधे धर्मज्ञानक्षान्तिः
SK
आकाशानुपलम्भतया परिशुद्धा प्रज्ञापारमिता.
SK
सुभूतिर् आह: कथं भगवन्न् आकाशानुपलम्भतया परिशुद्धा प्रज्ञापारमिता?
SK
भगवान् आह: न हि सुभूते आकाशस्य कश्चिद् उपलम्भः. एवम् एव सुभूते रूपस्य यायत् सर्यज्ञताया अनुपलम्भतया परिशुद्धा प्रज्ञापारमिता. इति निरोधे धर्मज्ञानम्
SK
सर्वधर्माणाम् अनुत्पादानिरोधत्वाद् असंक्लेशाव्यवदानत्वात् सुभूते परिशुद्धा प्रज्ञापारमिता.
SK
सुभूतिर् आह: कथं भगवन् सर्वधर्माणाम् अनुत्पादानिरोधत्वाद् असंक्लेशाव्यवदानत्वात् परिशुद्धा प्रज्ञापारमिता?
SK
भगवान् आह: रूपस्य यावत् सर्वज्ञतया अत्यन्तविशुद्धत्वात् परिशुधा प्रज्ञापारमिता. इति निरोधे ऽन्वयज्ञानक्षान्तिः (PSP_२-३:१८१)
SK
सुभूतिर् आह: यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशो मनसिकरिष्यति, तस्य न चक्षूरोगो भविष्यति, न श्रोत्ररोगो न घ्राणरोगो न जिह्वारोगो न कायरोगो भविष्यति, न मनोरोगो भविष्यति, न हीनाङ्गो भविष्यति, न जीर्णकायो भविष्यति. नापि स कुलपुत्रो वा कुलदुहिता वा विषमापरिहारेण कालं करिष्यति. बहूनि चास्य देवतासहस्राणि पृष्ठतः समनुबद्धानि भविष्यन्ति. धर्मश्रवणिकाः चातुर्महाराजकाय्का देवा यावच् छुद्धावासकायिका देवाः पृष्ठतः समनुबद्धा भविष्यन्ति. अष्टम्यां चतुर्दस्यां पञ्चदस्यां च महान् देवतासंघः संनिपतिष्यति. यत्र सद्धर्मभाणकः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां भाषिष्याते. स खलु पुनः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां भाषमाणो बहुतरपुण्यं प्रसवति. अप्रमेयम् असंखेयम् अपरिमाणम् अचिन्त्यम् अतुल्यं पुण्यं प्रसविष्यति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अप्रमेयम् असंख्येअं अपरिमाणम् अचिन्त्यम् अतुल्यं स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति. य इमां प्रज्ञापारमिताम् अष्टम्यां चतुर्दस्यां पञ्चदस्यां च भाषिष्यते तस्य देवपर्षदः पुरतो ऽनुबद्धा भविष्यन्ति. तत् कस्य हेतोर्? महारत्नम् इदं सुभूते यद् उत प्रज्ञापारमिता. इति निरोधे ऽन्वयज्ञानम्
SK
तत्रेदं सुभूते प्रज्ञापारमितारत्नं सेव्यमानं निरयाद् मोचयिष्यति, तिर्यग्योनेर् मोचयिष्यति, यमलोकाद् मोचयिष्यति, मनुष्यदरिद्राद् मोचयिष्यति. क्षत्रियमहाशालकुलेषूपपादयिष्यति, ब्राह्मणमहाशालकुलेषूपपादयिष्यति, गृहपतिमहाशालकुलेषूपपादयिष्यति, चातुर्महाराजकायिकेषूपपादयिष्यति, यावान् नैवसंज्ञानासंज्ञायतनेषूपपदयिष्यति. इयं प्रज्ञापारमिता स्रोतआपत्तिफलस्य दात्री सकृदागामिफलस्यानागामिफलस्यार्हत्त्वस्य प्रत्येकबोधेर्, अनुत्तरायाः सम्यक्संबोधेर् दात्री. तत् कस्य हेतोः? तथा हि सुभूते इह प्रज्ञापारमितायां दशकुशलाः कर्मपथा विस्तरेणोपदिष्टा यत्र प्रतिष्ठा यत्र क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्माणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतः परनिर्मितवसवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, महाब्रह्माणो देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा (PSP_२-३:१८२) देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, अनभ्रका देवाः प्रज्ञायन्ते, पुण्यप्रसवा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, शुद्धावासा देवाः प्रज्ञायन्ते, अस्पृहा देवाः प्रज्ञयन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते, अकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानानन्तायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञासंज्ञायतना देवाः प्रज्ञायन्ते. स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, अनुत्तरा सम्यक्संबोधिः प्रज्ञायते. अत्र हि प्रज्ञापारमितायां चत्वारि ध्यानानि प्रज्ञायन्ते, चत्वार्य् अप्रमाणां प्रज्ञायन्ते, चतस्र आरूप्यसमापत्तयः प्रज्ञायन्ते, दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते, उपायकौशलपारमिता प्रज्ञायते, प्रणिधानपारमिता प्रज्ञायते, बलपारमिता प्रज्ञायते, ज्ञानपारमिता प्रज्ञाय्ते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणर्द्धिपादेन्द्रियबोध्यङ्गमार्गाः प्रज्ञायन्ते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते यावद् अभावस्वभावशून्यता प्रज्ञायते. चत्वार्य् आर्यसत्यानि प्रज्ञायन्ते, अष्टविमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितानि प्रज्ञायन्ते, षडभिज्ञाः प्रज्ञायन्ते, समाधयः प्रजायन्ते, सर्वधारणीमुखानि प्रज्ञायन्ते, दशबोधिसत्त्वभूमयः प्रज्ञायन्ते, दशतथागतबलानि प्रज्ञायन्ते, चत्वारि वैशारद्यानि प्रज्ञायन्ते, चतस्रः प्रतिसंविदः प्रज्ञायन्ते, अष्टादशावेणिका बुद्धधर्माः प्रज्ञायन्ते, यावत् सर्वज्ञता प्रज्ञायते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, त्रीणि रत्नानि प्रज्ञायन्ते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते. इह प्रज्ञापारमितायां एवमादयो धर्मा विस्तरेणोपदिष्टास् तेनोच्यते रत्नपारमितेयं यद् उत प्रज्ञापारमिता. इति मार्गे धर्मज्ञानक्षान्तिः
SK
न च सुभूते रत्नपारमितायां कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा संक्लिश्यते वा व्यवदायते वा परिगृह्यते वा च्छोर्यते वा. तत् कस्य हेतोस्? तथा हि ते धर्मा न संविद्यन्ते ये उत्पद्येरन् वा निरुध्येरन् वा संक्लिश्येयुर् वा व्यवदायेयुर् वा परिगृह्येयुर् वा च्छोर्येयुर् वा. नाप्य् अस्मिन् प्रज्ञापारमितारत्ने कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा कुशलो वा अकुशलो वा सास्रवो वा अनास्रवो वा सावद्यो वा अनवद्यो वा संक्लेशो वा (PSP_२-३:१८३) निःक्लेशो वा लोकिको वा लोकोत्तरो वा संस्कृतो वा असंस्कृतो वा. अनेनापि सुभूते पर्यायेण रत्नपारमितेयं यद् उत प्रज्ञापारमिता. इति मार्गे धर्मज्ञानम्
SK
नापीयं सुभूते रत्नपारमिता केनचिद् धर्मेणोपलिप्येत. तत् कस्य हेतोस्? तथा हि ते धर्मा नोपलभ्यन्ते यैर् उपलिप्येत, तेनेयं सुभूते निरुपलिप्ता रत्नपारमिता. इति मार्गे ऽन्वयज्ञानक्षान्तिः
SK
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् अपि न जानाति, एवम् अपि न विकल्पयति, एवम् अपि नोपलभते, एवम् अपि न प्रपञ्चयिष्यति, चरिष्यति प्रज्ञापारमितायां, भावयिष्यति प्रज्ञापारमितां, बुद्धांश् च भगवतो द्रक्ष्यति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम् अर्चयितुम् अपचायितुं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन् सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, अनुप्राप्स्यति सर्वज्ञताम्. इति मार्गे ऽन्वयज्ञानम् इत्य् उक्तो दर्शनमार्गः
SK
सेयं पुनः सुभूते प्रज्ञापारमिता न कस्यचिद् धर्मस्यावाहिका न निर्वाहिका न दर्शिका न निदर्शिका न दायिका न च्छोरिका नोत्पादिका न निरोधिका नोच्छेदिका न शाश्वतिका नैकार्थिका न नानार्थिका नागमिका न निर्गमिका न संक्लेशिका न विशोधिका न हानिकारिका न वृद्धिकारिका नातीता नानागता न प्रत्युत्पन्ना. इति प्रथमसर्वज्ञताधिकारसमाप्तिदीपनम्
SK
सेयं पुनः सुभूते प्रज्ञापारमिता न कामधातुसमतिक्रमिका वा स्थापिका वा, न रूपधातुसमतिक्रमिका वा स्थापिका वा, नारूप्यधातुसमतिक्रमिका वा स्थापिका वा. न दानपारमिताया दायिका वा न मार्गस्य च्छोरिका वा, न शीलक्षान्तिवीर्यध्यानप्रज्ञोपायप्रणिधिबलज्ञानपारमिताया दायिका वा च्छोरिका वा. नाध्यात्मशून्यताया दायिका वा च्छोरिका वा, न बहिर्धाशून्यताया नाध्यात्मबहिर्धाशून्यताया दायिका वा च्छोरिका वा, यावन् नाभावस्वभावशून्यताया दायिका वा च्छोरिका वा. नाप्रमाणध्यानारूप्यसमापत्तीनां दायिका वा च्छोरिका वा. न चतुर्णाम् आर्यसत्यानां नाष्टानां विमोक्षाणां न नवनुपूर्वविहारसमापत्तीनां न शून्यतानिमित्ताप्रणिहितानां दायिका वा च्छोरिका वा, न षण्णाम् अभिज्ञानां दायिका वा च्छोरिका वा, न दशानां बोधिसत्त्वभूमीनां दायिका वा च्छोरिका वा, न दशानां तथागतबलानां दायिका वा च्छोरिका वा, न स्मृत्युपस्थानानां दायिका वा च्छोरिका वा. एवं न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानां दायिका वा च्छोरिका वा, न बलानां (PSP_२-३:१८४) न वैशारद्यानां न प्रतिसंविदां दायिका वा च्छोरिका वा, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां दायिका वा च्छोरिका वा, न समाधीनां न धारणीमुखानां दायिका वा च्छोरिका वा, न स्रोतआपत्तिफलस्य दायिका वा च्छोरिका वा, न सकृदागामिफलस्य नानागामिफलस्य नार्हत्त्वस्य न प्रत्येकबुद्धत्वस्य न सर्वज्ञताया दायिका वा च्छोरिका वा. इति द्वितियं मार्गज्ञताधिकारसमाप्तिदीपनम्
SK
सा खलु पुनर् इयं सुभूते प्रज्ञापारमिता न बुद्धधर्माणां दायिका वा च्छोरिका वा, न पृथग्जनधर्माणां दायिका वा च्छोरिका वा, न श्रावकप्रत्येकबुद्धधर्माणां दायिका वा च्छोरिका वा, नापि बुद्धधर्माणां दायिका वा च्छोरिका वा, न संस्कृतधातोर् दायिका वा च्छोरिका वा. तत् कस्य हेतोर्? उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता. तां तथागतो ऽभिसंबुध्यते ऽप्य् अभिसमेत्य् अप्य् अभिसंबुध्याभिसमेत्य् आचष्टे देशयति विवृणोति विभजत्य् उत्तानीकरोति संप्रकाशयति.
SK
अथ खलु संबहुलानि देवपुत्रशतसहस्राण्य् उपर्य् अन्तरीक्षे स्थित्वा किलिकिलाप्रक्ष्वेडितान्य् अकार्षुर् दिव्यानि चोत्पलकुमुदपुण्डरीकपद्ममान्दारवाणि पुष्पाणि क्षिपन्ति स्म. एवं च वाचम् अभाषन्त, द्वितीयं बतेदं धर्मचक्रप्रवर्तनं जाम्बूद्वीपे पश्यामः. प्रज्ञापारमितायां निर्दिश्य मानायां तत्रानेकानि देवपुत्रसहस्राण्य् अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभन्ते स्म.
SK
अथ खलु भगवान् स्थविरं सुभूतिम् आमन्त्रयामास: नेदं सुभूते द्वितियं धर्मचक्रप्रवर्तनं नाप्य् एकं नापीयं प्रज्ञापारमिता कस्यचिद् धर्मस्य प्रवर्तनाय वा निवर्तनाय वा प्रत्युपस्थिता. तत् कस्य हेतोर्? अभावस्वभावशून्यताम् उपादाय.
SK
सुभूतिर् आह: कतमा भगवन्न् अभावस्वभावशून्यता यद् इयं प्रज्ञापारमिता न कस्यचिद् धर्मस्य प्रवर्तनाय वा निवर्तनाय वा प्रत्युपस्थिता?
SK
भगवान् आह: प्रज्ञापारमिता सुभूते प्रज्ञापारमितया शून्या. एवं ध्यानं वीर्यं क्षान्तिं शीलं दानपारमिता दानपारमितया शून्या, अध्यात्मशून्यता अध्यात्मशून्यतया शून्या यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या, स्मृत्युपस्थानानि स्मृत्युपस्थानशून्यतया शून्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मार्गा मार्गशून्यतया (PSP_२-३:१८५) शून्याः, अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिशून्यतया शून्याः, आर्यसत्यान्य् आर्यसत्यशून्यतया शून्यान्य्, अष्टविमोक्षा अष्टविमोक्षशून्यतया शून्याः, नवानुपूर्वविहारसमापत्तयो नवानुपूर्वविहारसमापत्तिशून्यतया शून्याः, शून्यतानिमित्ताप्रणिहितानि शून्यतानिमित्तप्रणिहितशून्यतया शून्यानि, षडभिज्ञाः षडभिज्ञाशून्यतया शून्याः, सर्वसमाधयः सर्वसमाधिशून्यतया शून्याः, धारणीमुखानि धारणीमुखशून्यतया शून्यां, दशबलानि दशबलशून्यतया शून्यानि, वैशारद्यानि वैशारद्यशून्यतया शून्यानि, प्रतिसंविदः प्रतिसंविच्छून्यतया शून्याः, अष्टादशावेणिकबुद्धधर्मा अष्टादशावेणिकबुद्धधर्मशून्यतया शून्याः, स्रोतआपत्तिफलं स्रोतआपत्तिफलशून्यतया शून्यं, एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं सर्वज्ञता सर्वज्ञताशून्यतया शून्या.
SK
सुभूतिर् आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. सर्वधर्मस्वभावाश् च सर्वधर्मस्वभावैः शून्याः. बोधिसत्त्वाश् च महासत्त्वाः प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. न कंचिद् धर्मम् अभिसंबुध्यन्ते धर्मचक्रं प्रवर्तन्ति, न कंचिद् धर्मं प्रवर्तयन्ति निवर्तयन्ति वा. न च तैः कश्चिद् धर्मः संदृश्यते, न कश्चिद् धर्मो दृश्यते. तत् कस्य हेतोस्? तथा हि सर्वधर्मा नोपलभ्यन्ते ये धर्माः प्रवर्तन्ते वा निवर्तन्ते वा. तत् कस्य हेतोस्? तथा ह्य् अत्यन्तानभिनिविष्टाः सर्वधर्माः. न हि शून्यता प्रवर्तिका वा निवर्तिका वा, नानिमित्तं प्रवर्तकं वा निवर्तकं वा, नाप्रणिहितं प्रवर्तकं वा निवर्तकं वा. या एवंदेशना सा प्रज्ञापारमितायाः प्रकाशना कथना प्रज्ञापना प्रस्थापना विवरणा विभजना सूचना उत्तानीकरणं संप्रकाशना, इयं सा परिशुद्धा प्रज्ञापारमिताया देशना. या च प्रज्ञापारमिताया देशना न केनचिद् देशिता न केनचित् प्रतीच्छिता, सा न केनचित् साक्षात्कृता. या न केनचित् साक्षात्कृता न तत्र कश्चित् परिनिर्वृतो नापि तया धर्मदेशनया कश्चिद् दक्षिणीयः कृतः. इति तृतियं सर्वाकारज्ञताधिकारसमाप्तिदीपनम् इत्य् उक्ता सर्वज्ञता
SK
आर्यपञ्चविंशतिशाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां सर्वज्ञताधिकारचर्याविशेषपरिवर्तः तृतीयः
SK
(PSP_४:१) Pअञ्चविंशतिसाहस्रिका Pरज्ञापारमिता IV
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: असत्पारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: आकाशासत्तां सुभूते उपादाय. सुभूतिर् आह: समतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानुपलब्धिसमताम् उपादाय. सुभूतिर् आह: विवेकपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अत्यन्तशून्यताम् उपादाय. सुभूतिर् आह: अनवमर्दनीयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: अपदपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अनामाशरीरताम् उपादाय. सुभूतिर् आह: आकाशपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: आश्वासप्रश्वासानुपलब्धिताम् उपादाय. सुभूतिर् आह: अप्रव्याहारपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: वितर्कविचारानुपलब्धाम् उपादाय. सुभूतिर् आह: अनामपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: वेदनासंज्ञासंस्कारविज्ञानानुपलब्धिताम् उपादाय. सुभूतिर् आह: अगमनपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् अगमनताम् उपादाय. सुभूतिर् आह: असंहार्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माग्राह्यताम् उपादाय. सुभूतिर् आह: अक्षयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् अत्यन्तक्षयक्षीणताम् उपादाय. (PSP_४:२) सुभूतिर् आह: अनुत्पत्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् अनुत्पादानिरोधताम् उपादाय. सुभूतिर् आह: अकारकपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: कारकानुपलब्धिताम् उपादाय. सुभूतिर् आह: अजानकपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: जानकानुपलब्धिताम् उपादाय. सुभूतिर् आह: असंक्रान्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: च्युत्युपपत्त्यनुपलब्धिताम् उपादाय. सुभूतिर् आह: अविनयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणां प्रकृत्यविनयताम् उपादाय. सुभूतिर् आह: स्वप्नपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: स्वप्नदर्शिनानुपलब्धिताम् उपादाय. सुभूतिर् आह: प्रतिश्रुत्कापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: घोषोदारानुपलब्धिताम् उपादाय. सुभूतिर् आह: प्रतिभासपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: बिम्भप्रतिबिम्भानुपलब्धिताम् उपादाय. सुभूतिर् आह: मरीचिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: उदकस्कन्धानुपलब्धिताम् उपादाय. सुभूतिर् आह: मायापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: तन्निमित्तानुपलब्धिताम् उपादाय. सुभूतिर् आह: असंक्लेशपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: क्लेशस्वभावानुपलब्धिताम् उपादाय. सुभूतिर् आह: अव्यवदानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: क्लिष्टसत्त्वानुपलब्धिताम् उपादाय. सुभूतिर् आह: अनुपलेपपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: आकाशानुपलब्धिताम् उपादाय. सुभूतिर् आह: अप्रपञ्चपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वप्रपञ्चसमुद्घातताम् उपादाय. सुभूतिर् आह: अमननापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वमननासमुद्घातताम् उपादाय. (PSP_४:३) सुभूतिर् आह: अचलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: धर्मधातुस्थितिं सुभूते उपादाय. इति सर्वज्ञताकाराः सुभूतिर् आह: विरागपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: विरागानुपलब्धिताम् उपादाय. सुभूतिर् आह: अस्थानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माविकल्पनताम् उपादाय. सुभूतिर् आह: शान्तपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् अवितथताभिसंबोधनताम् उपादाय. सुभूतिर् आह: अरागपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: रागानुपलब्धिताम् उपादाय. सुभूतिर् आह: अदोषपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: दोषासद्भूतताम् उपादाय. सुभूतिर् आह: अमोहपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: मोहान्धकारविधमनताम् उपादाय. सुभूतिर् आह: निःक्लेशपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: परिकल्पासत्ताम् उपादाय. सुभूतिर् आह: निःसत्त्वपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सत्त्वानुपलब्धिताम् उपादाय. सुभूतिर् आह: अप्रमाणपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मासमुत्थानताम् उपादाय. सुभूतिर् आह: अन्तद्वयानुपगमपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अत्यन्तानुपलब्धिताम् उपादाय. सुभूतिर् आह: असंभिन्नपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मासंभेदताम् उपादाय. सुभूतिर् आह: अपरामृष्टपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: श्रावकभूमिप्रत्येकबुद्धभूमिसमतिक्रमताम् उपादाय. (PSP_४:४) सुभूतिर् आह: अविकल्पपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अविकल्पानुपलब्धिताम् उपादाय. सुभूतिर् आह: अप्रमेयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माप्रमाणानुपलब्धिताम् उपादाय. सुभूतिर् आह: असङ्गपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् आकाशस्वभावसमताम् उपादाय. सुभूतिर् आह: अनित्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् अविनाशिताम् उपादाय. सुभूतिर् आह: दुष्खपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानध्यवसायधर्मयोगताम् उपादाय. सुभूतिर् आह: शून्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वनिःफलार्थताम् उपादाय. सुभूतिर् आह: अनात्मपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानभिवेशताम् उपादाय. सुभूतिर् आह: अलक्षणपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानिमित्तताम् उपादाय. सुभूतिर् आह: अध्यात्मशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अध्यात्मिकधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: बहिर्धाशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: बहिर्धाधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: अध्यात्मबहिर्धाशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अध्यात्मबहिर्धाधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: शून्यताशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: शून्यताशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: महाशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: महाशून्यतानुपलब्धिताम् उपादाय. (PSP_४:५) सुभूतिर् आह: परमार्थशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: परमार्थशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: संस्कृतशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: संस्कृतशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: असंस्कृतशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: असंस्कृतशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: अत्यन्तशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अत्यन्तशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: अनवराग्रशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अनवराग्रशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: अनवकारशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अनवकारशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: प्रकृतिशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: प्रकृतिशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: सर्वधर्मशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: स्वलक्षणशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: स्वलक्षणविविक्तताम् उपादाय. सुभूतिर् आह: अनुपलम्भशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: त्रिष्व् अध्वसु त्रयाणाम् अध्वनाम् अनुपलब्धिताम् उपादाय. सुभूतिर् आह: अभावस्वभावशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. (PSP_४:६) भगवान् आह: अभावस्वभावशून्यतानुपलब्धिताम् उपादाय. इति मार्गज्ञताकाराः सुभूतिर् आह: स्मृत्युपस्थानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: कायवेदनाचित्तधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: सम्यक्प्रहाणपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अकुशलकुशलधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: ऋद्धिपादपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: छन्दवीर्यचित्तमीमांसानुपलब्धिताम् उपादाय. सुभूतिर् आह: इन्द्रियपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: श्रद्धाद्यनुपलब्धिताम् उपादाय. सुभूतिर् आह: बलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: पञ्चबलानुपलब्धिताम् उपादाय. सुभूतिर् आह: बोध्यङ्गपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सप्तबोध्यङ्गानुपलब्धिताम् उपादाय. सुभूतिर् आह: मार्गपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: आर्याष्टाङ्गमार्गानुपलब्धिताम् उपादाय. इत्य् आकाराः सर्वज्ञतामार्गाधिष्ठानाः सुभूतिर् आह: शून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: दृष्टिकृतानुपलब्धिताम् उपादाय. सुभूतिर् आह: आनिमित्तपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: वितर्कानुपलब्धिताम् उपादाय. सुभूतिर् आह: अप्रणिहितपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: प्रणिधाणानुपलब्धिताम् उपादाय. सुभूतिर् आह: अष्टविमोक्षपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अष्टविमोक्षानुपलब्धिताम् उपादाय. सुभूतिर् आह: नवानुपूर्वविहारसमापत्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: नवानुपूर्वविहारसमापत्त्यनुपलब्धिताम् उपादाय. (PSP_४:७) सुभूतिर् आह: चतुःसत्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: समुदयनिरोधानुपलब्धिताम् उपादाय. सुभूतिर् आह: दानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: मात्सर्यानुपलब्धिताम् उपादाय. सुभूतिर् आह: शीलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: दौःशील्यानुपलब्धिताम् उपादाय. सुभूतिर् आह: क्षान्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: व्यापादानुपलब्धिताम् उपादाय. सुभूतिर् आह: वीर्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: कौशीद्यानुपलब्धिताम् उपादाय. सुभूतिर् आह: ध्यानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: विक्षेपानुपलब्धिताम् उपादाय. सुभूतिर् आह: प्रज्ञापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: दौष्प्रज्ञानुपलब्धिताम् उपादाय. सुभूतिर् आह: उपायपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अनुपायानुपलब्धिताम् उपादाय. सुभूतिर् आह: प्रणिधानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अप्रणिधानानुपलब्धिताम् उपादाय. सुभूतिर् आह: बलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: दौर्बल्यानुपलब्धिताम् उपादाय. सुभूतिर् आह: ज्ञानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अज्ञानानुपलब्धिताम् उपादाय. इत्य् आकारा मार्गज्ञताधिष्ठानाः सुभूतिर् आह: दशबलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: वैशारद्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: मार्गज्ञतानवलीनताम् उपादाय. सुभूतिर् आह: प्रतिसंवित्पारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वत्रज्ञानासङ्गाप्रतिघातिताम् उपादाय. (PSP_४:८) सुभूतिर् आह: आवेणिकबुद्धधर्मपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मसमतिक्रमताम् उपादाय. सुभूतिर् आह: तथतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वबुद्धभाषिततथताम् उपादाय. सुभूतिर् आह: स्वयंभूपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मवशवर्तिताम् उपादाय. सुभूतिर् आह: बुद्धधर्मपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मसर्वाकाराभिसंबोधनताम् उपादाय.
SK
इत्य् आकाराः सर्वाकारज्ञताधिष्ठानाः इत्य् उक्ता आकाराः
SK
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्, पूर्वजिनकृताधिकारास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. तथागतावरोपितकुशलमूलास् ते सत्त्वा भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. कल्याणमित्रपरिगृहीतास् ते सत्त्वा भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. कः पुनर् वादो य उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य तथत्वाय प्रतिपत्स्यन्ते, बहुबुद्धपर्युपासितास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. य इमां प्रज्ञापारमितां श्रुत्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य तथत्वाय प्रतिपत्स्यन्ते परिपृष्ठाश् च पूर्वका अपि तैः कुलपुत्रैः कुलदुहितृभिश् च तथागता अर्हन्तः सम्यक्संबुद्धाः परिप्रश्नीकृताः सेविता भजिताः पर्युपासिताः, य इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. बहुबुद्धकोटीषु ते दानपारमितायां चरिताः, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां बहुबुद्धकोटीषु ते प्रज्ञापारमितायां (PSP_४:९) चरिता, य इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते.
SK
अथ खलु आयुष्माञ् च्छारिपुत्रो भगवन्तम् एतद् अवोचत्: ये भगवन् कुलपुत्रा वा कुलदुहितरो वा इमाम् एवं गम्भीरां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते, श्रुत्वा च उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, यथा अविनिवर्तनीया बोधिसत्त्वा महासत्त्वास् तथा ते कुलपुत्राः कुलदुहितरो वा धारयितव्याः. तत् कस्य हेतोः? गम्भीरा भगवन् प्रज्ञापारमिता. न खलु पूर्वम् अचरितेन षट्सु पारमितासु शक्येयं गम्भीरा प्रज्ञापारमिता अधिमोक्तुम्. ये पुनर् भगवन् कुलपुत्राः कुलदुहितरो वा इमां गम्भीरां प्रज्ञापारमितां प्रतिक्षेप्तव्यां मंस्यन्ते पूर्वान्ततो ऽपि तैः कुलपुत्रैः कुलदुहितृभिश् च इयं गम्भीरा प्रज्ञापारमिता प्रतिक्सिप्ता. तत् कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां चास्यां गम्भीरायां प्रज्ञापारमितायां नास्ति श्रद्धा नास्ति प्रसादो नास्ति प्रेम नास्त्य् अधिमुक्तिस् तैः कुलपुत्रैः कुलदुहितृभिश् च न बुद्धा वा बोधिसत्त्वा वा प्रत्येकबुद्धा वा श्रावका वा परिप्रश्नीकृताः, कथं दानपारमितायां चरितव्यं? कथं शीलपारमितायां चरितव्यं? कथञ् च क्षान्तिपारमितायां चरितव्यं? कथं वीर्यपारमितायां चरितव्यं? कथं ध्यानपारमितायां चरितव्यं? कथं प्रज्ञापारमितायां चरितव्यं? कथम् अध्यात्मशून्यतायां चरितव्यं? कथं बहिर्धाशून्यतायां चरितव्यं? कथर अध्यात्मबहिर्धाशून्यतायां चरितव्यं? यावत् कथं अभावस्वभावशून्यतायाञ् चरितव्यं? कथं स्मृत्युपस्थानानि भावयितव्यानि? कथं सम्यक्प्रहाणानि? कथम् ऋद्धिपादाः? कथम् इन्द्रियाणि? कथं बलानि? कथं बोध्यङ्गानि? कथम् आर्याष्टाङ्गो मार्गो भावयितव्यः? कथम् अप्रमाणध्यानारूप्यसमापत्तयो भावयितव्याः? कथम् आर्यसत्यानि भावयितव्यानि? कथम् अष्ट विमोक्षा भावयितव्याः? कथं नवानुपूर्वविहारसमपत्तयो भावयितव्याः? कथं शून्यतानिमित्ताप्रणिहितानि भावयितव्यानि? कथं षड् अभिज्ञा भावयितव्याः? कथं समाधयः समापत्तव्याः? कथं धारणीमुखानि प्रवेष्टव्यानि? कथं दशतथागतबलानि भावयितव्यानि? कथं वैशारद्यानि (PSP_४:१०) भावयितव्यानि? कथं प्रतिसंविदो भावयितव्याः? कथम् अष्टादशावेणिका बुद्धधर्मा भावयितव्या? इति.
SK
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: गम्भीरा भदन्त शारिपुत्र प्रज्ञापारमिता. किम् अत्राश्चर्यं स्यात्? य इमां गम्भीरां प्रज्ञापारमितां पूर्वान्ते ऽपि नाधिमुक्ता बोधिसत्त्वा महासत्त्वाः दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां नाधिमुक्ताः, अध्यात्मशून्यतायां नाधिमुक्ताः, यावद् अभावस्वभावशून्यतायां नाधिमुक्ताः, सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् अनधिमुक्ताः, अप्रमाणध्यानारूप्यसमापत्तिष्व् अनधिमुक्ताः, शून्यतानिमित्ताप्रणिहितेष्व् अनधिमुक्ताः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तिष्व् अनधिमुक्ताः, दशतथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु पञ्चस्व् अभिज्ञासु नाधिमुक्ताः, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु नाधिमुक्ताः. ये प्रतिक्षिपेयुर् इति नात्राश्चर्यम्. नमस्करोमि भगवत्यै प्रज्ञापारमितायै सर्वज्ञज्ञानस्य स नमस्कारं करोति यः प्रज्ञापारमिताया नमस्कारं करोति.
SK
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्. सर्वज्ञज्ञानस्य स नमस्कारं करोति, यः प्रज्ञापारमिताया नमस्कारं करोति. तत् कस्य हेतोः? अतो निर्जाता हि कौशिक बुद्धानां भगवतां सर्वाकारज्ञता, सर्वाकारज्ञतानिर्जाता च प्रज्ञापारमिता प्रभाव्यन्ते. सर्वज्ञतां कौशिकातिक्रमितुकामेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां स्थातव्यम्, एवं मार्गज्ञतायां स्थातुकामेन सर्वाकारज्ञताज्ञानम् उत्पादयितुकामेन सर्ववासनानुसंधिक्लेशान् समुद्घातयितुकामेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन धर्मचक्रं प्रवर्तयितुकामेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां स्थातव्यम्, एवं स्रोतआपत्तिफले सत्त्वान् स्थापयितुकामेन सकृदागामिफले अनागामिफले अर्हत्त्वे सत्त्वान् स्थापयितुकामेन प्रत्येकायां बोधौ सत्त्वान् प्रतिष्ठापयितुकामेन, अनुत्तरायां सम्यक्संबोधौ सत्त्वान् प्रतिष्ठापयितुकामेन, भिक्षुसंघं परिकर्षयितुकामेन इह बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगम् आपत्तव्यम्. (PSP_४:११)
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां प्रतिष्ठितो भवति? कथं वा युज्यते? एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां, कथं दानपारमितायां प्रतिष्ठितो भवति? कथं वा योगम् आपद्यते? कथं वा प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां योगम् आपद्यते यावद् अभावस्वभावशून्यतायां योगम् आपद्यते? कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् सप्तत्रिंसद्बोधिपक्षेषु धर्मेषु योगम् आपद्यते? एवम् अप्रमाणध्यानारूप्यसमापत्तिषु. कथं शून्यतानिमित्ताप्रणिहितेषु योगम् आपद्यते? एवम् अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिषु योगम् आपद्यते. कथम् अभिज्ञासु योगम् आपद्यते? एवं दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु. कथम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रज्ञापारमितायाञ् चरन् योगम् आपद्यन्ते बोधिसत्त्वो महासत्त्वः?
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: साधु साधु कौशिक साधु खलु पुनस् त्वं कौशिक यस् त्वं तथागतम् एतम् अर्थं परिप्रश्नीकर्तव्यं मन्यसे. इदम् अपि ते कौशिक बुद्धानुभावेन प्रतिभानम् उत्पन्नम्. तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं ते. इति चत्वारः प्रयोक्ताकारः
SK
इह कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपे न तिष्ठति, यदा रूपे न तिष्ठति तदा रूपे न योगम् आपद्यते, वेदनासंज्ञासंस्कारेषु, विज्ञाने न तिष्ठति यदा विज्ञाने न तिष्ठति तदा विज्ञाने न योगम् आपद्यते. चक्षुषि न तिष्ठति, एवं श्रोत्रे घ्राणे जिह्वायां काये मनसि न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. रूपे न तिष्ठति, एवं शब्दे गन्धे रसे स्प्रष्टव्ये धर्मेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. चक्षुर्विज्ञाने न तिष्ठति, चक्षुःसंस्पर्शे न तिष्ठति, चक्षुःसंस्पर्शप्रत्ययवेदयिते न तिष्ठति, एवं श्रोत्रघ्राणजिह्वाकाये मनोविज्ञाने न तिष्ठति, मनःसंस्पर्शे न तिष्ठति, मनःसंस्पर्शप्रत्ययवेदयिते न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. पृथिवीधातौ न तिष्ठति, एवम् अब्धातौ तेजोधातौ वायुधातौ आकाशधातौ (PSP_४:१२) विज्ञानधातौ न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. अविद्यायां न तिष्ठति, एवं संस्कारेषु विज्ञाने नामरूपे षडायतने स्पर्शे वेदनायां तृष्णायाम् उपादाने भवे जातौ जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. दानपारमितायां न तिष्ठति, एवं शीले क्षान्तौ वीर्ये ध्याने प्रज्ञापारमितायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. अध्यात्मशून्यतायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते यावद् अभावस्वभावशून्यतायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. स्मृत्युपस्थानेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं चतुर्ष्व् अप्रमाणेषु चतुर्षु ध्यानेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेष्व् अष्टासु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु धारणीमुखेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. तत् कस्य हेतोः? तथा हि स रूपं नोपलभते यत्रावतिष्ठेत यत्र वा योगम् आपद्यते, वेदनासंज्ञासंस्कारा, विज्ञानं नोपलभते यत्रावतिष्ठेत यत्र वा योगम् आपद्यते, एवं धातून् आयतनानि प्रतीत्यसमुत्पादाङ्गानि पारमिताः सप्तत्रिंशद्बोधिपक्षान् धर्मान् सर्वशून्यताः सर्वसमाधीन् सर्वधारणीमुखानि अप्रमाणध्यानारूप्यसमापत्तीः अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् नोपलभते यत्रावतिष्ठेत यत्र वा योगम् आपद्यते. इति रूपाद्य् अनवस्थानप्रयोगः
SK
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वो रूपे न युज्यते, यद् रूपे न युज्यते एवं रूपे योगम् आपद्यते, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने न युज्यते, यद् विज्ञाने न युज्यते, एवं विज्ञाने योगम् आपद्यते. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मशून्यतार्यसत्याप्रमाणध्यानारूप्यसमापत्तिषु शून्यतानिमित्ताप्रणिहिताष्टविमोक्षनवानुपूर्वविहारसमापत्त्य् अभिज्ञासर्वसमाधिधारणीमुखदशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशावेणिकेषु (PSP_४:१३) बुद्धधर्मेषु न युज्यते यद् बुद्धधर्मेषु न युज्यते, एवं बुद्धधर्मेषु योगम् आपद्यते. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वः पूर्वान्ततो रूपं नोपलभते, अपरान्ततो रूपं नोपलभते, मध्यतो रूपं नोपलभते, वेदनासंज्ञासंस्कारान्, पूर्वान्ततो विज्ञानं नोपलभते, अपरान्ततो विज्ञानं नोपलभते, मध्यतो विज्ञानं नोपलभते. एवं धातून् आयतनानि प्रतीत्यसमुत्पादाङ्गानि पारमिताः सप्तत्रिंशद्बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहितानि अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्त्यभिज्ञाः सर्वशून्यताः सर्वसमाधीन् सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् पूर्वान्ततो नोपलभते, अपरान्ततो नोपलभते, मध्यतो नोपलभते. इत्य् अयोगप्रयोगः
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: गम्भीरा भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: रूपतथतागम्भीरतया शारिपुत्र गम्भीरा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानतथतागम्भीरतया शारिपुत्र गम्भीरा प्रज्ञापारमिता, एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मतथतागम्भीरतया शारिपुत्र गम्भीरा प्रज्ञापारमिता. इति गम्भीरप्रयोगः
SK
शारिपुत्र आह: दुरवगाहा भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: रूपदुरवगाहतया शारिपुत्र दुरवगाहा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानदुरवगाहतया शारिपुत्र दुरवगाहा प्रज्ञापारमिता. एवं धात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि पारमिताः सर्वशून्यताः सर्वसमाधिः सर्वधारणीमुखानि बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मदुरवगाहतया शारिपुत्र दुरवगाहा प्रज्ञापारमिता. इति दुरवगाहप्रयोगः (PSP_४:१४)
SK
शारिपुत्र आह: अप्रमाणा भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: रूपाप्रमाणतया शारिपुत्राप्रमाणा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानाप्रमाणतया शारिपुत्राप्रमाणा प्रज्ञापारमिता. एवं धात्वायतनप्रतीत्यसमुत्पादाङ्गपारमितासर्वशून्यतासर्वसमाधिधारणीमुखबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माप्रमाणतया शारिपुत्राप्रमाणा प्रज्ञापारमिता. इत्य् अप्रमाणप्रयोगः
SK
शारिपुत्र आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति?
SK
भगवान् आह: सचेच् छारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं गम्भीरम् इति न चरति चरति प्रज्ञापारमितायां, वेदना संज्ञा संस्कारा, विज्ञानं गम्भीरम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा गम्भीरा इति न चरति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि या शारिपुत्र यावद् बुद्धधर्माणां गम्भीरता न ते बुद्धधर्माः. इति गम्भीरप्रयोगापरपर्यायो मृदुः पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं दुरवगाहम् इति न चरति चरति प्रज्ञापारमितायां, वेदना संज्ञा संस्कारा, विज्ञानं दुरवगाहम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमितासर्वशून्यतासर्वसमाधिसर्वधारणीमुखबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा दुरवगाहा इति न चरति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि या शारिपुत्र यावद् बुद्धधर्माणां दुरवगाहता न ते बुद्धधर्माः. इति दुरवगाहप्रयोगापरपर्यायो मध्यः
SK
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (PSP_४:१५) चरन् रूपम् अप्रमाणम् इति न चरति चरति प्रज्ञापारमितायां, वेदना संज्ञा संस्कारा, विज्ञानम् अप्रमाणम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अप्रमाणा इति न चरति चरति प्रज्ञापारमितायां. तत् कस्य हेतोः? तथा हि या शारिपुत्र यावद् बुद्धधर्माप्रमाणता न ते बुद्धधर्माः. इत्य् अप्रमाणप्रयोगापरपर्यायो ऽधिमात्रः
SK
शारिपुत्र आह: यथा गम्भीरेयं भगवन् प्रज्ञापारमिता दुरवगाहा अप्रमाणा इयं भगवन् प्रज्ञापारमिता तथा नवयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां पुरतो न वक्तव्या मा ते इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा उत्त्रसिषुः संत्रसिषुः संत्रासम् आपत्स्यन्ते. अविनिवर्तनीयस्य यं बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्यो स इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यति न संत्रसिष्यति न संत्रासम् आपत्स्यते न काङ्क्षयिष्यति न निर्विचिकित्सिष्यति, उत्तरे च श्रुत्वा विमोक्षते.
SK
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: सचेद् भदन्त शारिपुत्र नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरत इयं गम्भीरा प्रज्ञापारमिता भाष्येत को दोषः स्यात्?
SK
शारिपुत्र आह: सचेत् कौशिक नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरत इयं प्रज्ञापारमिता भाष्येत उत्त्रस्येत संत्रस्येत संत्रासम् आपद्येत प्रतिबाध्येत प्रतिक्षिपेत्. नाधिमुच्येत स्थानम् एतत् कौशिक विद्यते यस् स नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा प्रतिक्षिप्य विनिपातगामिकर्मोपचिनुयात्, स कृच्छ्रेण चिरेणानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत. इति कृच्छ्रे चिराभिसंबोधप्रयोगः
SK
शक्र आह: सन्ति पुनर् भदन्त शारिपुत्र अव्याकृता बोधिसत्त्वा महासत्त्वा य इमां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते.
SK
शारिपुत्र आह: न ते कौशिक बोधिसत्त्वा महासत्त्वाश् चिरेण व्याकरणं प्रतिलप्स्यन्ते अनुत्तरायाः सम्यक्संबोधेः. य इमां (PSP_४:१६) प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. ते एकं वा द्वौ वा त्रीन् वा तथागतान् अतिक्रमिष्यन्ति. ततो व्याकरणं प्रतिलप्स्यन्ते अनुत्तरायाः सम्यक्संबोधेः.
SK
अथ खलु भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: एवम् एतच् छारिपुत्रैवम् एतत्, चिरयानसंप्रस्थितास् ते शारिपुत्र बोधिसत्त्वा महासत्त्वा भविष्यन्ति. चिरचरिताः षट्सु पारमितासु बहुबुद्धपर्युपासितास् ते शारिपुत्र बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. उत्तरे च श्रुत्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति यथोपदिष्टायां प्रज्ञापारमितायां स्थास्यन्ति.
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: प्रतिभाति मे भगवन् प्रतिभाति मे सुगत.
SK
भगवान् आह: प्रतिभातु ते.
SK
शारिपुत्र आह: तद्यथापि नाम भगवन् स्वप्नान्तरगतो महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां भावयेत्, ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयेत्, यावद् बोधिमण्डे निषीदेद्, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नी भवत्य् अयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरायाः सम्यक्संबोधेः. कः पुनर् वादो? भगवन् यः प्रतिविबुद्धः प्रज्ञापारमितां भावयेत्, ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयेत्, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नी भवत्य् अयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरायाः सम्यक्संबोधेः. इति व्याकरणलाभप्रयोगः
SK
परिपक्वकुशलमूलास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां लप्स्यन्ते श्रवणाय श्रुत्वा च प्रतिपत्स्यन्ते. चिरयानसंप्रस्थितास् ते भगवन् कुलपुत्रा कुलदुहितरश् च भविष्यन्ति, अवरोपितकुशलमूला बहुबुद्धपर्युपासिताः कल्याणमित्रपरिगृहीतास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. अभ्यासन्नास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेर्व्याकरणस्य व्याकरिष्यन्ति वा, (PSP_४:१७) अविनिवर्तनीया वा ते कुलपुत्राः कुलदुहितरश् चानुत्तरायाः सम्यक्संबोधेर्, येषां स्वयम् इयं प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. इत्य् अविनिवर्तनीयप्रयोगः
SK
तद्यथापि नाम भगवन् पुरुषो योजनशतिकाद् अटवीकान्तारान् निष्क्रामेत्, द्वियोजनशतिकात् त्रियोजनशतिकाच् चतुर्योजनशतिकात् पञ्चयोजनशतिकाद् अटवीकान्तारान् निष्क्रामेन् निष्क्रम्य पश्येद् ग्रामस्य नगरस्य निगमस्य वा पूर्वानि निमित्तानि गोपालकान् वा पशुपालकान् वा सीमा वा आरामान् वा वनानि वा उद्यानानि वा उद्याननिमित्तानि वा ग्रामान् वा नगराणि वा निगमान् वा राजधानीन् वा राष्ट्राणि वा पूर्वनिमित्तानि ग्रामस्य नगरस्य निगमस्य वा दृष्ट्वैवं भवति यादृशानीमानि पूर्वनिमित्तानि दृश्यन्ते अभ्यासन्न इतो ग्रामो वा नगरं वा निगमं वा राजधान्यो वा राष्ट्राणि वा भविष्यन्ति. स आश्वासप्राप्तो भवेत्, न चास्य भूयो भवति चौरभयं वा चण्डालभयं वा चण्डमृगभयं वा बुभुक्षाभयं वा पिपासाभयं वा. एवम् एव भगवन् यस्य बोधिसत्त्वस्य महासत्त्वस्य स्वयम् इयं गम्भीरा प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नो ऽयं बोधिसत्त्वो महासत्त्वो भविष्यति व्याकरणस्यानुत्तरायाः सम्यक्संबोधेर् न चिरेणाभिसंभोत्स्यते. तेन च बोधिसत्त्वेन महासत्त्वेन न भेतव्यं श्रावकभूमेर् वा प्रत्येकबुद्धभूमेर् वा. तत् कस्य हेतोर्? इमानि तानि पूर्वनिमित्तानि यद् उतेमां गम्भीरां प्रज्ञापारमितां बोधिसत्त्वो महासत्त्वो लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय.
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवम् एतच् छारिपुत्रैवम् एतत्. इति निर्याणप्रयोगः
SK
प्रतिभातु ते शारिपुत्र भूयस्या मात्रया बुद्धानुभावेन.
SK
शारिपुत्र आह: तद्यथा पि नाम भगवन् पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स गच्छेत् महासमुद्रं दर्शनाय यथा यथा गच्छेत् महासमुद्रं तथा तथा पश्येत् स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तेनैवं वेदितव्यं दूरे इतो महासमुद्रो नासन्न (PSP_४:१८) इतो महासमुद्रः. तत् कस्य हेतोः? न हि महासमुद्रस्याभ्यासे कश्चित् स्तम्बो वा स्तम्बनिमित्तं वा पर्वतो वा पर्वतनिमित्तं वा दृश्यन्ते. तद्यथापि नाम भगवन् पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स यथा यथा गच्छेत् महासमुद्रं दर्शनाय तथा तथा न पश्येत् स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तस्यैवं भवति न दूरे इतो महासमुद्र आसन्न इतो महासमुद्रः. तत् कस्य हेतोः? न हि महासमुद्रस्यासन्ने कश्चित् स्तम्बो वा स्तम्बनिमित्तं वा पर्वतो वा पर्वतनिमित्तं वा दृश्यते, किं चापि स पुरुषश् चक्षुषा महासमुद्रन् न पश्यति. अथ च पुनः स निष्ठां गच्छति, आसन्नो ऽस्मि महासमुद्रस्याभ्यासन्न इतो महासमुद्र इति, नेतो भूयो दूरे महासमुद्र इति. एवम् एव भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन एवं वेदितव्यम्, इमां प्रज्ञापारमितां शृणुता उद्गृह्णता धारयता वाचयता पर्यवाप्नुवता योनिशो मनसिकुर्वता, एवं चिन्तयितव्यं किं चाप्य् अहं तेन भगवता न संमुखं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ इयद्भिः कल्पैर् इयद्भिः कल्पशतैर् इयद्भिः कल्पसहस्रैर् इयद्भिः कल्पशतसहस्रैर् इयद्भिः कल्पकोटीनियुतशतसहस्रैस् त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यस इति.
SK
अथ च पुनर् बोधिसत्त्वेन महासत्त्वेन एवं वेदितव्यम्, आसन्नीभूतो ऽस्म्य् अनुत्तरायाः सम्यक्संबोधेर् व्याकरणस्येति. तत् कस्य हेतोः? तथा ह्य् अहम् इमां गम्भीरां प्रज्ञापारमितां लभे दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय श्रुत्वा चोद्गृह्णामि धारयामि वाचयामि पर्यवाप्नोमि योनिशश् च मनसिकरोमि. इति निरुत्तरप्रयोगः
SK
तद्यथापि नाम भगवन् वसन्ते प्रत्युपस्थिते शीर्णपर्णपलाशेषु स्तम्भेषु आकरजातेषु वेदितव्यं जाम्बूद्वीपकैर् मनुष्यैर् नेतश् चिरेण पत्राणि च पुष्पाणि च फलानि च प्रादुर्भविष्यन्ति. तत् कस्य हेतोः? इमानि तानि पूर्वनिमित्तानि स्तम्बेषु दृश्यन्ते नेतश् चिरेण पत्राणि च पुष्पाणि च फलानि च प्रादुर्भविष्यन्ति, आत्तमनस्का जाम्बूद्वीपका मनुष्या भविष्यन्ति तानि च पूर्वनिमित्तानि दृष्ट्वा स्तम्बेषु, एवम् एव भगवन् यो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवनाय श्रुत्वा (PSP_४:१९) चोद्गृह्णाति धारयति वाचयति पर्यवाप्स्यति योनिशश् च मनसिकरोति परिपक्वकुशलमूलः स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यः, बहुबुद्धपर्युपासितः स भगवन् कुलपुत्रो वा कुलदुहिता वा वेदितव्यः. वेदितव्यम् एतद् भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन पूर्वकैर् एव कुशलमूलैर् उपनीतो ऽस्म्य् अनुत्तरायाः सम्यक्संबोधेः, यो ऽहम् इमां गम्भीरां प्रज्ञापारमितां लभे दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्येयं तत्र देवपुत्राः पूर्वबुद्धदर्शिनो भवन्ति. ते प्रमुदिताः प्रीतिसौमनस्यजाताः पूर्वकाणाम् अपि बोधिसत्त्वानां महासत्त्वानाम् इमान्य् एव पूर्वनिमित्तानि अभूवन् व्याकरणाय न चिरेणायं बोधिसत्त्वो महासत्त्वो व्याकरणं प्रतिलप्स्यते अनुत्तरायां सम्यक्संबोधौ. इत्य् आसन्नाभिसंबोधप्रयोगः तद्यथापि नाम भगवन् स्त्रीगुर्विणी सा यथा यथा आसन्नप्रसवा भवति तथा तथास्याः कायो वेष्टते ऽधिमात्रं च काये वेदनाक्लमथश् च जायते, न च चङ्क्रमणशीला भवति, अल्पस्मृतिश् च भवति, अल्पाहारा च भवति, अल्पस्त्यानमिद्धा च भवति, ताभिर् वेदनाभिर् वर्तमानाभिर् अल्पभाष्या च भवति, न च संवासशीला भवति, तेन पूर्वकेणायोनिशोमनसिकारेणासेवितेन भावितेन निषेवितेन इमाम् एवंरूपां वेदनां प्रत्यनुभवामीति. वेदितव्यम् एवं ततो ऽन्याभिः स्त्रीभिर् यादृशान्य् अस्याः स्त्रियो निमित्तानि दृश्यन्ते न चिरेणैवेयं स्त्री प्रसविष्यति. एवम् एव भगवन् बोधिसत्त्वानां महासत्त्वानाम् अवरोपितकुशलमूलानां बहुबुद्धपर्युपासितानां सुचरितचीर्णचरितानां कल्याणमित्रपरिगृहीतानां परिपक्वकुशलमूलानाम् इयं गम्भीरा प्रज्ञापारमिता उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, वेदितव्यम् एतन् न चिरेणैषां बोधिसत्त्वानां महासत्त्वानां व्याकरणं भविष्यति अनुत्तरायाः सम्यक्संबोधेः.
SK
भगवान् आह: साधु साधु शारिपुत्र इदम् अपि ते शारिपुत्र बुद्धानुभावेन प्रतिभानम् उत्पन्नम्. इति क्षिप्राभिसंबोधप्रयोगः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अनुगृहीताः सुपरीत्ताश् चेमे बोधिसत्त्वा महासत्त्वास् (PSP_४:२०) तथागतेनार्हता सम्यक्संबुद्धेन.
SK
भगवान् आह: तथा हि सुभूते बोधिसत्त्वा महासत्त्वा बहुजनहिताय बहुजनसुखाय प्रतिपन्ना लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानाञ् च मनुष्यानाञ् चानुत्तरायै सम्यक्संबोधये प्रतिष्ठन्ते बोधिसत्त्वचर्याञ् चरन्तो ऽनेकानि सत्त्वशतानि अनेकानि सत्त्वसहस्राणि अनेकानि सत्त्वशतसहस्राणि अनेकानि सत्त्वकोटिनियुतशतसहस्राणि अनुग्रहीष्यन्ति, चतुर्भिः संग्रहवस्तुभिर् दानेन प्रियवद्येन अर्थचर्यया समानार्थतया दशकुशलेषु कर्मपथेषु समादापयन्ति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु समादापयन्ति. आत्मना चैतेषु धर्मेषु प्रतिष्ठिता भवन्ति. आत्मना च दानपारमितायां चरन्ति परांश् च दानपारमितायां प्रतिष्ठापयन्ति. आत्मना च शीलपारमितायां चरन्ति परांश् च शीलपारमितायां प्रतिष्ठापयन्ति. आत्मना च क्षान्तिपारमितायां चरन्ति परांश् च क्षान्तिपारमितायां प्रतिष्ठापयन्ति. आत्मना च वीर्यपारमितायां चरन्ति परांश् च वीर्यपारमितायां प्रतिष्ठापयन्ति. आत्मना च ध्यानपारमितायां चरन्ति परांश् च ध्यानपारमितायां प्रतिष्ठापयन्ति. आत्मना च प्रज्ञापारमितायां चरन्ति परांश् च प्रज्ञापारमितायां प्रतिष्ठापयन्ति. ते च प्रज्ञापारमिताम् आगम्य उपायकौशल्येन सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयन्ति न चात्मना साक्षात् कुर्वन्ति. एवं सकृदागामिफले अनागामिफले अर्हत्त्वे, प्रत्येकायां बोधौ प्रतिष्ठापयन्ति न चात्मना प्रत्येकां बोधिं साक्षात् कुर्वन्ति. आत्मना चाविनिवर्तनीयां भूमिम् आक्रामन्ति परांश् चाविनिवर्तनीयभूमौ प्रतिष्ठापयन्ति. आत्मना च बुद्धक्षेत्रं परिशोधयन्ति, अन्यांश् च बोधिसत्त्वान् बुद्धक्षेत्रपरिशुद्धौ समादापयन्ति. आत्मना च सत्त्वान् परिपाचयन्ति परांश् च सत्त्वपरिपाके समादापयन्ति. आत्मना चाभिज्ञा उत्पादयन्ति परांश् चाभिज्ञाप्राप्तये समादापयन्ति. आत्मना च धारणीमुखं परिशोधयन्ति परान् अपि धारणीमुखपरिशुद्धये समादापयन्ति. आत्मना च प्रतिभानसंपदं प्रतिलभन्ते परान् अपि प्रतिभानसंपदि समादापयन्ति. आत्मना च रूपसंपदं परिगृह्णन्ति परान् अपि रूपसंपत्प्रतिलाभाय समादापयन्ति. आत्मना च लक्षणसंपदं परिगृह्णन्ति परान् अपि (PSP_४:२१) लक्षणसंपत्प्रतिलाभाय समादापयन्ति. आत्मना च कुमारभूतसंपदं परिगृह्णन्ति परान् अपि कुमारभूतसंपत्प्रतिग्रहाय समादापयन्ति. आत्मना च बोधिपक्ष्यान् धर्मान् निष्पादयन्ति परान् अपि बोधिपक्ष्यधर्मपरिनिष्पत्तये समादापयन्ति. आत्मना च सत्यविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहितधारणीमुखान् उत्पादयन्ति परान् अप्य् एषु समादापयन्ति. आत्मना च चत्वारि वैशारद्यानि उत्पादयन्ति परान् अपि चतुर्षु वैशारद्येषु समादापयन्ति. आत्मना च चतस्रः प्रतिसंविद उत्पादयन्ति परान् अपि चतुरः प्रतिसंविदः प्राप्तये समादापयन्ति. आत्मना च महामैत्रीं महाकरुणां महामुदितां महोपेक्षां विभावयन्ति परान् अपि चतुरप्रमाणा विभावनायै समादापयन्ति. आत्मना चाष्टादशावेणिकान् बुद्धधर्मान् निष्पादयन्ति परान् अपि अष्टादशावेणिकेषु बुद्धधर्मेषु समादापयन्ति. आत्मना च सर्वाकारज्ञताम् अनुप्राप्नुवन्ति परांश् च सर्वाकारज्ञतायां समादापयन्ति. आत्मना च सर्ववासनानुसंधिक्लेशान् विजहन्ति परान् अपि सर्ववासनानुसंधिक्लेशोत्सर्गाय समादापयन्ति. आत्मना चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते परांश् च सम्यक्संबोधिम् अभिसंबोधये समादापयन्ति. आत्मना च धर्मचक्रं प्रवर्तयन्ति परांश् च धर्मचक्रं प्रवर्तनाय समादापयन्ति. इति परार्थप्रयोगः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन्न् आश्चर्यं सुगत यावद् बहुगुणसमन्वागतास् ते बोधिसत्त्वा महासत्त्वा ये सर्वसत्त्वानां कृतशः प्रज्ञापारमितायां चरन्ति अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. कथं भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताभावनापरिपूरिं गच्छति?
SK
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपस्य वृद्धिं न समनुपश्यति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य वृद्धिं समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति.
SK
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न धात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानां पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां सण्णाम् अभिज्ञानां (PSP_४:२२) सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां बलानां चतुर्णां वैशारद्यानाञ् चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां वृद्धिं न समनुपश्यति सर्वज्ञताया वृद्धिं न समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति.
SK
भगवान् आह: यदा च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपस्य परिहाणिं न समनुपश्यति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य परिहाणिं समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाण ध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां यदा सर्वज्ञतायाः परिहाणिं न समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. इत्य् अवृद्ध्यपरिहाणिप्रयोगः
SK
पुनर् अपरं सुभूते यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्म इति न समनुपश्यति, अधर्म इति न समनुपश्यति, अतीतम् इति न समनुपश्यति, अनागतम् इति न समनुपश्यति, प्रत्युत्पन्नम् इति न समनुपश्यति, कुशलम् अकुशलं व्याकृतम् अव्याकृतम् इति न समनुपश्यति, संस्कृतम् इति न समनुपश्यति, असंस्कृतम् इति न समनुपश्यति, कामधातुन् न समनुपश्यति, रूपधातुन् न समनुपश्यति, आरूप्यधातुन् न समनुपश्यति, दानपारमितान् न समनुपश्यति, शीलपारमितान् न समनुपश्यति, क्षान्तिपारमितान् न समनुपश्यति, वीर्यपारमितान् न समनुपश्यति, ध्यानपारमितान् न समनुपश्यति, प्रज्ञापारमितान् न समनुपश्यति यावत् सर्वज्ञतान् न समनुपश्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. तत् कस्य हेतोः? तथा हि सुभूते धर्माणां धर्मलक्षणताम् उपादाय अविनिवर्तनीयताम् उपादाय रिक्तताम् उपादाय तुच्छताम् उपादाय असारताम् उपादाय वशिकताम् उपादाय. इति धर्माद्यनुपलम्भप्रयोगः
SK
सुभूतिर् आह: अचिन्त्यं भगवन् देश्यते.
SK
भगवान् आह: रूपाचिन्त्यतया सुभूते अचिन्त्यं देश्यते, वेदना संज्ञा (PSP_४:२३) संस्कारा, विज्ञानाचिन्त्यतया सुभूते ऽचिन्त्यं देश्यते. दानपारमिताचिन्त्यतया अचिन्त्यं देश्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताचिन्त्यतयाचिन्त्यं देश्यते. एवं सप्तत्रिंशद्बोधिपक्षधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सर्वज्ञताचिन्त्यतया सुभूते ऽचिन्त्यं देश्यते. सचेत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अचिन्त्यम् इति न संजानीते, वेदना संज्ञा संस्कारा, विज्ञानम् अचिन्त्यम् इति न संजानीते परिपूरयिष्यति प्रज्ञापारमिताम्. एवं धात्वायतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि पारमिताः शून्यता सर्वसमाधयः सर्वधारणीमुखानि बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा सर्वज्ञताचिन्त्येति न संजानीते परिपूरयिष्यति प्रज्ञापारमिताम्. इत्य् अचिन्त्याकारसंज्ञानिरोधप्रयोगः
SK
सुभूतिर् आह: को ऽत्र भगवन् गम्भीरायां प्रज्ञापारमितायाम् अधिमोक्षते?
SK
भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति, षट्सु पारमितासु तथागतावरोपितकुशलरऊलो भवति, बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति, स इमां प्रज्ञापारमिताम् अधिमोक्षते.
SK
सुभूतिर् आह: कियता भगवन् बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति, षट्सु पारमितासु तथागतावरोपितकुशलमूलो भवति, बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति.
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न कल्पयति न विकल्पयति, रूपनिमित्तं न कल्पयति न विकल्पयति, रूपस्वभावन् न कल्पयति न विकल्पयति, वेदना संज्ञा संस्कारा, विज्ञानन् न कल्पयति न विकल्पयति, विज्ञाननिमित्तं न कल्पयति न विकल्पयति, विज्ञानस्वभावन् न कल्पयति न विकल्पयति. एवं धातून् आयतनानि प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि कामरूपारूप्यधातुं दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां (PSP_४:२४) ध्यानपारमितां प्रज्ञापारमिताम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्यप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् सर्वज्ञतान् न कल्पयति न विकल्पयति, सर्वज्ञतानिमित्तन् न कल्पयति न विकल्पयति, सर्वज्ञतास्वभावन् न कल्पयति न विकल्पयति. तत् कस्य हेतोः? तथा हि सुभूते रूपम् अचिन्त्यं, वेदना संज्ञा संस्कारा, विज्ञानम् अचिन्त्यम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्यप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सर्वज्ञता अचिन्त्या. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति षट्सु पारमितासु तथागतावरोपितकुशलमूलो भवति बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति.
SK
सुभूतिर् आह: गम्भीरा भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: रूपगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता, वेदना संज्ञा संस्कारा, विज्ञानगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिताः, सर्वज्ञतागम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता. इत्य् अविकल्पप्रयोगः
SK
सुभूतिर् आह: रत्नराशिर् भगवन् प्रज्ञापारमिता रत्नदात्री, स्रोतापत्तिफलस्य सकृदागामिफलस्यनागामिफलस्यार्हत्त्वस्य प्रत्येकबुद्धत्वस्यानुत्तरायाः सम्यक्संबोधेर् दात्री धर्मचक्रप्रवर्तिकेयं भगवन् प्रज्ञापारमिता. इति फलरत्नदानप्रयोगः सुभूतिर् आह: सर्वधर्माणां शुद्धराशिर् भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: रूपविशुद्धिताम् उपादाय, वेदना संज्ञा संस्कारा, (PSP_४:२५) विज्ञानविशुद्धिताम् उपादाय. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माः, सर्वज्ञताविशुद्धिताम् उपादाय. इति विशुद्धिप्रयोगः
SK
सुभूतिर् आह: आश्चर्यं भगवन् यावद् अस्यां गम्भिरायां प्रज्ञापारमितायां भाष्यमाणायां बहवो ऽन्तराया उत्पद्येरन्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बह्वन्तरायायं सुभूते गम्भीरा प्रज्ञापारमिता, तेन कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां लिखिता क्षिप्रम् एव लिखितव्या, उद्दिशता धारयता वाचयता स्वाध्यायता योनिशश् च मनसिकुर्वता, भावयता क्षिप्रम् एव भावयितव्या. मा खल्व् अस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां धार्यमाणायां वाच्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायां वान्तरायः स्याद् इति. तत् कस्य हेतोः? सचेत् सुभूते यः कुलपुत्रो वा कुलदुहिता वा मासेन इमां प्रज्ञापारमितां लिखेत् तेन लिखितव्यैव भवेत्. सचेद् द्वाभ्यां त्रिभिश् च चतुर्भिः पञ्चभिः षड्भिः सप्तभिर् अष्टाभिर् यावत् संवत्सरेण लिखेत् तेन लिखितव्यैव भवेद् एवम् उपदेष्टव्या धारयितव्या वाचयितव्या स्वाध्यातव्या योनिशो मनसिकर्तव्या. सचेत् मासेन वा भावयेत् तेन भावयितव्या भवेत् यावत् संवत्सरेण भावयेत् तेन भावयितव्या भवेत्. तत् कस्य हेतोर्? बहवः सुभूते महारत्नस्यान्तराया उत्पद्यन्ते.
SK
सुभूतिर् आह: आश्चर्यं भगवन् यद् अस्यां गम्भीरायां प्रज्ञापारमितायां मारः पापीयान् अन्तरायाय योगम् आपद्यते, यद् उतालिखनायानुद्दिशमानायाधारणायावाचनायायोनिशो मनसिकारणायाभावनायै.
SK
भगवान् आह: किं चापि सुभूते मारः पापीयान् गम्भीरायां प्रज्ञापारमितायाम् उद्योगम् आपद्येत अन्तराय करणाय यद् उतालिखनाय यावद् अभावनायै बोधिसत्त्वस्य महासत्त्वस्य इमां गम्भीरां प्रज्ञापारमितां लिखत उद्दिशतो धारयतो वाचयतः स्वाध्यायतो योनिशो मनसिकुर्वतो भावयतो न शक्नोत्य् अन्तरायं कर्तुम्. इत्य् अधिमुक्तिप्रयोगः इत्य् उक्तः प्रयोगः (PSP_४:२६)
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कस्य भगवन्न् अनुभावेन मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुं बोधिसत्त्वानां महासत्त्वानाम् इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां धारयतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्?
SK
भगवान् आह: बुद्धानुभावेन शारिपुत्र मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुं बोधिसत्त्वानां महासत्त्वानाम् इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां धारयतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्. ये ऽपि ते शारिपुत्र समन्ता दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाम् अपि बुद्धानां भगवताम् अनुभावात्. ते ऽपि बुद्धा भगवन्तस् तान् बोधिसत्त्वान् महासत्त्वान् समन्वाहरिष्यन्ति अनुपरिग्रहीष्यन्ति, तैश् च बुद्धैर् भगवद्भिर् अनुपरिगृहीतानां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुम्, इमां प्रज्ञापारमितां लिखतां धारयतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्. तत् कस्य हेतोर्? न हि शारिपुत्र बुद्धैर् भगवद्भिर् अनुपरिगृहीतानां बोधिसत्त्वानां महासत्त्वानां मारेण पापीयसा शक्नोत्य् अन्तरायः कर्तुम्. तत् कस्य हेतोर्? धर्मं तेषां शारिपुत्र ये ऽपि ते समन्ताद् दशसु दिक्ष्व् अप्रमेयेष्व् असंख्येयेषु लोकधातुष्व् अप्रमेया असंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि बुद्धा भगवन्त इमां प्रज्ञापारमितां लिखतो धारयतो वाचयत उद्दिशतः स्वाध्यायतो योनिशो मनसिकुर्वतो भावयतो बोधिसत्त्वान् महासत्त्वान् समन्वाहरन्ति. इति मारशक्तिव्याघातगुणः
SK
वेदितव्यं तेन शारिपुत्र कुलपुत्रेण वा कुलदुहित्रा वा इमां गम्भीरां प्रज्ञापारमितां लिखता वा धारयता वा वाचयता वा उद्दिशता वा स्वाध्यायता वा योनिशो मनसिकुर्वता वा भावयता वा बुद्धानुभावेनाहम् इमां गम्भीरां प्रज्ञापारमितां लिखामि धारयामि वाचयामि उद्दिशामि स्वाध्यायामि भावयामि योनिशो मनसिकरोमि.
SK
शारिपुत्र आह: यः कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति धारयिष्यति वाचयिष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशो मनसिकरिष्यति भावयिष्यति वेदितव्यं भगवन् (PSP_४:२७) सर्वन् तद्बुद्धानुभावेन, सर्वे च ते बुद्धपरिगृहीता भविष्यन्ति.
SK
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, यथा वदसि यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति धारयिष्यति वाचयिष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशो मनसिकरिष्यति भावयिष्यति वेदितव्यं शारिपुत्र सर्वन् तद्बुद्धानुभावेन सर्वे ते बुद्धपरिगृहीता भविष्यन्ति. इति बुद्धसमन्वाहारज्ञापनगुणः
SK
शारिपुत्र आह: ज्ञातास् ते भगवन् ज्ञानेन कुलपुत्राः कुलदुहितरश् च दृष्टास् ते भगवन् मांसचक्षुषा कुलपुत्राः कुलदुहितरश् च तैर् बुद्धैर् भगवद्भिर् ये ते पूर्वदिग्भागे यावद् दशसु दिक्ष्व् अप्रमेयासंख्येयेषु लोकधातुषु अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाञ् च बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति भावयिष्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय प्रतिपत्स्यन्ते.
SK
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, ज्ञातास् ते शारिपुत्र ज्ञानेन कुलपुत्राः कुलदुहितरश् च दृष्टास् ते शारिपुत्र मांसचक्षुषा कुलपुत्राः कुलदुहितरश् च तैर् बुद्धैर् भगवद्भिर् ये ते पूर्वस्यां दिशि यावद् दशसु दिक्ष्व् अप्रमेयासंख्येयेषु लोकधातुषु अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाञ् च ये बोधिसत्त्वा महासत्त्वा य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति भावयिष्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय प्रतिपत्स्यन्ते. इति बुद्धप्रत्यक्षीकरणगुणः
SK
ते खलु पुनर् महायानिकाः कुलपुत्राः कुलदुहितरश् च वेदितव्या अभ्यासन्नी भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेः. इति संबोधाभ्यासीकरणगुणः
SK
ये ऽपि ते शारिपुत्र कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारयिष्यन्ति. ते खलु पुनः शारिपुत्र बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च इह गम्भीरायां प्रज्ञापारमितायाम् अधिमुक्तिबहुला भविष्यन्ति, ये ऽपीमां गम्भीरां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. (PSP_४:२८) ते ऽपि शारिपुत्र बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च ज्ञाता दृष्टाश् च बुद्धैर् भगवद्भिस् तथागताश् च बुद्धचक्षुषा पश्यन्ति, तेषाम् अपि कुलपुत्राणां कुलदुहितृणां च महार्थं महानुशंसं महाफलं महाविपाकं य इमां गम्भीरां प्रज्ञापारमितां लिखित्वा धारयिष्यन्ति. ते तेन कुशलमूलेन न जातु बुद्धैर् भगवद्भिर् विरहिता भविष्यन्ति. ते न जात्व् अपायेषूपपत्स्यन्ते देवमनुष्येषूपपत्स्यमाना बुद्धबोधिसत्त्वैर् अविरहिता भविष्यन्ति. अविनिवर्तनीयां भूमिं चातिक्रमिष्यन्ति, ते च बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरो वा तेनैव कुशलमूलेन न जातु विरहिता भविष्यन्ति षड्भिः पारमिताभिः, अध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया न जातु विरहिता भविष्यन्ति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्यध्यानाप्रमाणारूप्यसमापत्तिभिर् न जातु विरहिता भविष्यन्ति, शून्यतानिमित्ताप्रणिहितैर् विमोक्षमुखैर् न जातु विरहिता भविष्यन्ति, अष्टाभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् न जातु विरहिता भविष्यन्ति, अभिज्ञाभिः समाधिधारणीमुखैर् न जातु विरहिता भविष्यन्ति, दशभिस् तथागतबलैः चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् यावद् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् न जातु विरहिता भविष्यन्ति सर्वज्ञतया च. इति महार्थतादिगुणः
SK
इयं च शारिपुत्र प्रज्ञापारमिता तथागतस्यात्ययेन दक्षिणापथे प्रचरिष्यति, तत्र भिक्षुर् भिक्षुण्य् उपासकोपासिका इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति ते देवमानुषिकीसंपत्तिं प्रत्यनुभवमानाः षड्भिः पारमिताभिर् अभ्युद्गमिष्यन्ति बुद्धांश् च भगवतः सत्कुर्वाणा गुरुकुर्वाणा मानयमानाः पूजयमाना अनुपूर्वेण त्रिभिर् यानैः परिनिर्वास्यन्ति यद् उत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
SK
सेयं शारिपुत्र गम्भीरा प्रज्ञापारमिता दक्षिणापथाद् वर्तन्यां प्रचरिष्यति. तत्रापि भिक्षवो भिक्षुण्य् उपासकोपासिकाश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति (PSP_४:२९) वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति, देवमनुष्यसंपत्तिं प्रत्यनुभवमानाः षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति, बुद्धान् भगवतः सत्कुर्वाणा गुरुकुर्वाणा मानयमानाः पूजयमाना अनुपूर्वेण त्रिभिर् यानैः निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
SK
सा खलु पुनर् इयं शारिपुत्र गम्भीरा प्रज्ञापारमिता वर्तन्या उत्तरापथे प्रचरिष्यति, तत्रापि शारिपुत्र भिक्षवो भिक्षुण्य् उपासकोपासिकाश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति, ते देवमनुष्यसंपत्तिं प्रत्यनुभूय षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति, बुद्धांश् च भगवतः सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति, अनुपूर्वेण त्रिभिर् यानैर् निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा.
SK
तत्र शारिपुत्र इयं गम्भीरा प्रज्ञापारमिता बुद्धकृत्यं करिष्यति तत् कस्य हेतोर्? न हि शारिपुत्र मण्डप्राप्ते धर्मविनये सद्धर्मान्तर्द्धानं भविष्यति, समन्वाहृतास् ते शारिपुत्र मया कुलपुत्राः कुलदुहितरश् च, य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते, ये ऽपि ते कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति लिखित्वा च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्, ते च खलु पुनः शारिपुत्र कुलपुत्रा वा कुलदुहितरश् च तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति देवमानुषिकीसंपत्तिं प्रत्यनुभूय षड्भिः पारमिताभिर् अभ्युद्गता भविष्यन्ति अभ्युद्गम्य बुद्धान् भगवतः सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तो पूजयन्तो ऽनुपूर्वेण त्रिभिर् यानैर् निर्यास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. तत् कस्य हेतोर्? दृष्टा हि ते शारिपुत्र कुलपुत्राः (PSP_४:३०) कुलदुहितरश् च तथागतेन बुद्धचक्षुषा वर्णितास् तथागतेन प्रशस्तास् ते तथागतेन, ये ऽपि ते समन्ताद् दशसु दिक्षु सर्वलोकधातुप्रसरेषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तैर् अपि तथागतैर् अपि अर्हद्भिः सम्यक्संबुद्धैर् दृष्टास् ते कुलपुत्राः कुलदुहितरश् च बुद्धचक्षुषा वर्णितास् ते प्रशस्तास् ते कुलपुत्राः कुलदुहितरश् च.
SK
शारिपुत्र आह: वैस्तारिकी पुनर् इयं भगवन् गम्भीरा प्रज्ञापारमिता पश्चिमे काले पश्चिमे समये उत्तरस्यां दिशि भविष्यति.
SK
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, इयं शारिपुत्र गम्भीरा प्रज्ञापारमिता पश्चिमे काले पश्चिमे समये उत्तरस्यां दिशि वैस्तारिकी भविष्यति. तत्र शारिपुत्र पश्चिमे काले पश्चिमे समये ते कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति श्रुत्वा च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. चिरयानसंप्रस्थितास् ते कुलपुत्राः कुलदुहितरश् च बहुबुद्धपर्युपासितास् ते तथागतावरोपितकुशलमूला य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति श्रुत्वा च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते.
SK
शारिपुत्र आह: कियन्तस् ते भगवन् कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति?, य इमां गम्भीरां प्रज्ञापारमितां पश्चिमे काले पश्चिमे समये उत्तरे दिग्भागे श्रुत्वा लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते.
SK
भगवान् आह: किं चापि शारिपुत्र पश्चिमे काले पश्चिमे समये उत्तरे दिग्भागे बहवो बोधिसत्त्वा महासत्त्वा भविष्यन्ति, अल्पकाः पुनः शारिपुत्र बोधिसत्त्वा महासत्त्वाः कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. इति देशनिरूपणागुणः (PSP_४:३१)
SK
तेन खलु पुनः शारिपुत्र बोधिसत्त्वा महासत्त्वाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. तत् कस्य हेतोः? अनुबद्धा हि तैः कुलपुत्रैः कुलदुहितृभिश् च तथागता अर्हन्तः सम्यक्संबुद्धाः परिपृच्छिताश् च परिप्रश्नीकृताश् च. तत् कस्य हेतोः? प्रज्ञापारमिता परिपूर्णा हि ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, दानपारमितापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अध्यात्मशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, बहिर्धाशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अध्यात्मबहिर्धाशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, यावद् अभावस्वभावशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. एवं स्मृत्युपस्थानसम्यक्प्रहानार्द्धिपादेन्द्रियबलबोध्यङ्गाष्टाङ्गमार्गपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अप्रमाणध्यानारूप्यसमापत्तिपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, आर्यसत्यपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अष्टविमोक्षनवानुपूर्वविहारसमापत्तिपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, शून्यतानिमित्ताप्रणिहिताभिज्ञापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति समाधिधारणीमुखपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. ते खलु पुनः शारिपुत्र कुलपुत्राः कुलदुहितरश् च कुशलमूलोपस्तब्धाश् च बहुजनस्य च ते ऽथ करिष्यन्ति, इमाम् अनुत्तरां सम्यक्संबोधिम् आरभ्य. इति सर्वानास्रवधर्मपरिपूरणगुणः
SK
तत् कस्य हेतोः? तथा ह्य् अमुत्र मया तेषां कुलपुत्राणां कुलदुहितृणां च सर्वज्ञताप्रतिसंयुक्तैव कथा कथिता, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्, तैर् अपि बुद्धैर् भगवद्भिस् तेषां कुलपुत्राणां कुलदुहितृणां च सर्वज्ञताप्रतिसंयुक्तैव कथा कथिता तेषाञ् जातिव्यतिवृत्तानाम् अपि त एव समुदाचारा भविष्यन्ति, यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य, ते परेभ्यः तथैव कथां करिष्यन्ति, यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य. (PSP_४:३२) इति कथापुरुषतागुणः
SK
ते खलु पुनः शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च संहता भविष्यन्ति, ते न शक्यन्ते भेत्तुं मारेण वा मारकायिकाभिर् वा देवताभिर् अनुत्तरायाः सम्यक्संबोधेः प्राग् एवान्यैः पापेच्छैः पापसमाचारैर्, य इमां गम्भीरां प्रज्ञापारमितां प्रतिलप्स्यन्ते. इत्य् अभेद्यतागुणः
SK
ते खलु पुनः शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च इमां प्रज्ञापारमितां श्रुत्वा उदारां प्रीतिं प्रसादं प्रमोद्यं प्रतिलप्स्यन्ते. ते च बहुजनं कुशलमूलेषु प्रतिष्ठापयिष्यन्ति यद् उतानुत्तराम् एव सम्यक्संबोधिम् आरभ्य. इत्य् असाधारणकुशलमूलोत्पत्तिगुणः
SK
एवं च तैः कुलपुत्रैः कुलदुहितृभिश् च मम संमुखं वाग् भाषिता, वयं भगवन् बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि कुशलमूलेषु प्रतिष्ठापयिष्यामो यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य. बोधये प्रतिष्ठापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामो ऽविनिवर्तनीयत्वे च व्याकरिष्यामः. तत् कस्य हेतोर्? अनुमोदिता मया तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां च वाग् भाषिता चित्तेन चित्तं व्यवलोक्य, अतीतानाम् अपि तथागतानाम् अर्हतां सम्यक्संबुद्धानां पुरतस् तैः कुलपुत्रैः कुलदुहितृभिश् चैवं भाषिता, वयं बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि बोधिसत्त्वचर्यां चरन्तो बोधाय प्रतिष्ठापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामो ऽविनिवर्तनीयत्वे न च व्याकरिष्यामः. तत् कस्य हेतोः? तथा हि तैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुमोदिता तेषां बोधिसत्त्वानां कुलपुत्राणां कुलदुहितृणां च वाग् भाषिता चित्तेन चित्तं व्यवलोक्य, तेषां च खलु शारिपुत्र कुलपुत्राणां कुलदुहितृणां च मया अनुमोदितम् एते बोधिसत्त्वा महासत्त्वा बोधाय चरन्तो बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायै सम्यक्संबोधये (PSP_४:३३) प्रतिष्ठापयिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति अविनिवर्तनीयत्वे व्याकरिष्यन्ति. इति प्रतिज्ञायाथार्थ्यसंपादनगुणः
SK
ते खलु पुनः शारिपुत्र कुलपुत्राः कुलदुहितरश् च उदाराधिमुक्तिका भविष्यन्ति, रूपे शब्दे गन्धे रसे स्प्रष्टव्ये धर्मेषु ते उदाराणि दानानि दास्यन्ति, उदाराणि दानानि दत्त्वा उदाराणि कुशलमूलान्य् अभिसंस्करिष्यन्ति. ते उदाराणि कुशलमूलानि अभिसंस्कृत्योदारं विपाकं परिग्रहीष्यन्ति, ते उदारं विपाकं परिगृह्य तेषाम् एव सत्त्वानाम् अर्थाय विपाकाद् विपाकं परिगृहीष्यन्ति. इत्य् उदारफलपरिग्रहगुणः
SK
तेषाम् एव सर्वसत्त्वानां सर्ववस्तूनि परित्यजन्ति, यदि वा अध्यात्मिकानि यदि वा बाह्यानि स तेन कुशलमूलेन अन्यानि बुद्धक्षेत्राणि अध्यालम्बिष्यति यत्र संमुखी भूतास् तथागता अर्हन्तः सम्यक्संबुद्धा धर्मं देशयन्ति. तेषु च इमाम् एव प्रज्ञापारमितां श्रुत्वा तत्रापि बुद्धक्षेत्रे बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायै सम्यक्संबोधये संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति.
SK
शारिपुत्र आह: आश्चर्यं भगवन् यावद् इदं तथागतेनार्हता सम्यक्संबुद्धेन न स कश्चिद् धर्मो यो नाज्ञातो, न सा काचिद् धर्मतथता या नाज्ञाता, न सा काचित् सत्त्वानां चर्या या नाज्ञाता, यत्र हि नामातीतानाम् अपि तथागतानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः, अनागतानाम् अपि तथागतानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः, प्रत्युत्पन्नानाम् अपि तथागतानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाता, ये च ते दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अपि तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिसत्त्वा बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः. इति सत्त्वार्थप्रतिपत्तिगुणः
SK
ये ऽपि ते भगवन् बोधिसत्त्वा महासत्त्वा आसां षण्णां पारमितानां (PSP_४:३४) कृतश उद्योगम् आपत्स्यन्ते, ते ऽपि एताः षट् पारमिता गवेषिष्यन्ते पर्येषिष्यन्ते. तेषां खलु पुनः कुलपुत्राणां कुलदुहितृणाञ् च इमाः षट् पारमिता गवेषमाणानां पर्येषमाणानाम् एताः षट् पारमिताः केचिल् लप्स्यन्ते? केचिन् न लप्स्यन्ते?
SK
भगवान् आह: प्रायेण शारिपुत्र तेषां कुलपुत्राणां कुलदुहितृणां च सर्वा इमाः षट् पारमिता उपपत्स्यन्ते. तत् कस्य हेतोः? तथा हि शारिपुत्र ते कुलपुत्राः कुलदुहितरश् चासां षण्णां पारमितानाम् उद्योगम् आपन्नाः.
SK
शारिपुत्र आह: किं पुनर् भगवन्न् इमे गम्भीरा गम्भीराः सूत्रान्ताः षट् पारमिता प्रतिसंयुक्तास् तेषां कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते?
SK
भगवान् आह: गम्भीरा गम्भीराः शारिपुत्र सूत्रान्ताः षट् पारमिता प्रतिसंयुक्तास् तेषां कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते.
SK
शारिपुत्र आह: केषां भगवन् कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते?
SK
भगवान् आह: ये शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् चासां षण्णां पारमितानां कृतशः तीव्रेण प्रसादेन निरपेक्षाः काये जीविते चोद्योगम् आपत्स्यन्ते. तत् कस्य हेतोः? एवं ह्य् एतच् छारिपुत्र भवति, ये ऽनुत्तरायां सम्यक्संबोधौ सत्त्वान् प्रतिष्ठापयन्ति संदर्शयन्ति समादापयन्ति समुत्तेजयन्ति संप्रहर्षयन्ति निवेशयन्ति. तेषां खलु पुनः शारिपुत्र कुलपुत्राणां कुलदुहितृणां च जातिव्यतिवृत्तानाम् अप्य् एताः षट् पारमिता उपपत्स्यन्ते, ते षट्पारमितासु यथोपदिष्टासु प्रवर्तमानास् तावद् वीर्यं न संश्रयिष्यन्ति यावन् न बुद्धक्षेत्रं परिशोधयिष्यन्ति. सत्त्वांश् च न परिपाचयिष्यन्ति, अनुत्तरां सम्यक्संबोधिन् नाभिसंभोत्स्यन्ते. इति प्रज्ञापारमिताया अलोभविकलालोभविपर्ययेण नियतिलाभगुण इत्य् उक्ता गुणाः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गुणा इमे भगवन् परिकीर्तितास् तेषां कुलपुत्राणां कुलदुहितृणाञ् च ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः षट्पारमितासु चरिष्यन्ति, सत्त्वांश् च परिपाचयिष्यन्ति, बुद्धक्षेत्राणि परिशोधयिष्यन्ति. कीदृशाः खलु पुनर् भगवंस् तेषां कुलपुत्राणां कुलदुहितृणां चान्तराया उत्पत्स्यन्ते? (PSP_४:३५)
SK
भगवान् आह: चिरेण प्रतिभानम् उत्पत्स्यते, इदं सुभूते मारकर्म वेदितव्यं बोधिसत्त्वानां महासत्त्वानाम्.
SK
सुभूतिर् आह: केन कारणेन भगवंश् चिरेण प्रतिभानम् उत्पत्स्यते, यद् बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् कृच्छ्रेण प्रज्ञापारमितां परिपूरयिष्यति. कृच्छ्रेण ध्यानपारमितां परिपूरयिष्यति, कृच्छ्रेण वीर्यपारमितां परिपूरयिष्यति, कृच्छ्रेण क्षान्तिपारमितां परिपूरयिष्यति, कृच्छ्रेण शीलपारमितां परिपूरयिष्यति, कृच्छ्रेण दानपारमितां परिपूरयिष्यति, अनेन सुभूते पर्यायेन चिरेण प्रतिभानम् उत्पत्स्यते, इदं सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कृच्छ्रप्राप्तिः
SK
पुनर् अपरं सुभूते अतिक्षिप्रं प्रतिभानम् उत्पत्स्यते तेन च मंस्यते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
सुभूतिर् आह: केन पर्यायेण भगवन् बोधिसत्त्वानां महासत्त्वानाम् अतिक्षिप्रं प्रतिभानोत्पत्त्या मारकर्म उत्पत्स्यते?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां चरतः शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितायां चरतो ऽनुपायकुशलमूलस्यातिक्षिप्रं प्रतिभानम् उत्पत्स्यते, अनेन सुभूते पर्यायेण बोधिसत्त्वानां महासत्त्वानाम् अतिक्षिप्रं प्रतिभानोत्पत्त्या मारकर्म वेदितव्यम्. इत्य् आशुप्रतिभानता
SK
पुनर् अपरं सुभूते विजृम्भमाणा इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते हसन्त इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते परस्परम् उच्चग्घयमाना इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कायविकारदौष्ठुल्यं त्रिविधम्
SK
पुनर् अपरं सुभूते विक्षिप्तचित्ता लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते ऽन्योन्यविज्ञानसमङ्गिनो लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. (PSP_४:३६)
SK
पुनर् अपरं सुभूते बोधिसत्त्वानां महासत्त्वानाम् एवं भविष्यति, न वयं अत्रास्वादं लभामह इत्य् उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति चित्तदौष्ठुल्यं त्रिविधम् पुनर् अपरं सुभूते विजृम्भमाणा उत्थायासानात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते विजृम्भमाणा स्वाध्यास्यन्ति धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति, विजृम्भमाणा मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते परस्परं हसमाना उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परस्परं हसमाना योनिशो मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते परस्परम् उच्चग्घयमाना लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते विक्षिप्तचित्ता उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते अन्योन्यव्यञ्जनसमङ्गिन उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् अयोगविहितस्वाध्यायादिता
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवन् एवम् आह, न वयम् अत्र आस्वादं लभामह इत्य् उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम् इति. केन कारणेन भगवन् नात्रास्वादं लभन्ते?
SK
भगवान् आह: तथा हि सुभूते पूर्वम् अपि न चरिताः प्रज्ञापारमितायां, ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां, तथा हि सुभूते पूर्वम् अपि न चरिता दानपारमितायां, तेन कारणेन सुभूते आस्वादं न लभन्ते, इह प्रज्ञापारमितायां (PSP_४:३७) भाष्यमाणायाम् उत्थायासनात् प्रक्रमिष्यन्ति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वानां महासत्त्वानाम् एवं भवति, न वयम् अत्र व्याकृताः प्रज्ञापारमितायाम् इत्य् अप्रसन्नचित्ता उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
सुभूतिर् आह: केन कारणेन भगवन् न व्याकृताः प्रज्ञापारमितायाम् उत्थायासनात् प्रक्रमिष्यन्ति?
SK
भगवान् आह: न खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वा अनवक्रान्तनियामा व्याक्रियन्ते अनुत्तरायां सम्यक्संबोधौ, न ममात्र प्रज्ञापारमितायान् नाम गृहीतम् इति प्रसादन् न प्रतिलप्स्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
सुभूतिर् आह: केन कारणेन भगवन् नामधेयानि न परिकीर्तितानि बोधिसत्त्वानां महासत्त्वानाम् इह गम्भीरायां प्रज्ञापारमितायाम्?
SK
भगवान् आह: न खलु पुनः सुभूते अव्याकृतानां बोधिसत्त्वानां महासत्त्वानां नामधेयानि परिकीर्तन्ते, नापि मम नामधेयं परिकीर्तितं ग्रामस्य वा नगरस्य वा निगमस्य वा राजधान्या वा राष्ट्रस्य वा यत्राहं जात इति, स प्रज्ञापारमितान् न श्रोतव्यां मंस्यते, स ततः परिषदो ऽपक्रमितव्यं मंस्यते, स यथा यथापक्रमितव्यं मंस्यन्ते तथा तथा दूरीभविष्यन्ति बुद्धधर्मेभ्यो, यावत उपक्रमेण चित्तोत्पादम् उत्पादयिष्यन्ति, तावतः कल्पान् संपरिग्रहीष्यति, यत्र तेन पुनर् एव योगम् आपत्तव्यम् इति, वैमुख्यनिमित्तग्राहितां तान् सूत्रान्तान् गवेषितव्यान् मंस्यन्ते, येन सर्वज्ञज्ञानस्याहारिकाः प्रज्ञापारमितां सर्वज्ञज्ञानस्याहारिकां च्छोरयित्वा तान् पर्येषितव्यान् मंस्यन्ते. एवं बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च सर्वज्ञताज्ञानाधिगमस्य मूलं च्छोरयित्वा शाखापत्रपलाशम् अध्यालम्बितव्यं मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
सुभूतिर् आह: कतमे ते भगवन् सूत्रान्ता ये सर्वज्ञज्ञानस्याहारका न भवन्ति, यान् पर्यवाप्तव्यान् मंस्यन्ते?
SK
भगवान् आह: ये सूत्रान्ताः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्ताः, तद्यथा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः शून्यतानिमित्ताप्रणिहितविमोक्षमुखं यत्र स्थित्वा (PSP_४:३८) कुलपुत्राः कुलदुहितरश् च स्रोतआपत्तिफलं प्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिं प्राप्नुवन्ति, इमे ते सुभूते श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्ताः सूत्रान्ता, ये सर्वज्ञताया नाहरणाय संवर्तन्ते, ते प्रज्ञापारमितां रिञ्चित्वा तां पर्यवाप्तव्यां मंस्यन्ते. तत् कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि सुभूते बोधिसत्त्वा महासत्त्वा लौकिकलोकोत्तरैर् धर्मैर् निर्यास्यन्ति, प्रज्ञापारमितायां शिक्ष्यमाणाः सुभूते बोधिसत्त्वा महासत्त्वा लौकिकलोकोत्तरेषु धर्मेषु शिक्षिष्यन्ते. इति हेतुभ्रंशः
SK
तद्यथापि नाम सुभूते कुक्कुरः स्वामिनो ऽन्तिकात् पिण्डञ् छोरयित्वा कर्मकरस्यान्तिकाद् आलोपं मार्गितव्यं मन्येत. एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि महायानिकाः कुलपुत्राः कुलदुहितरश् चेमां गम्भीरां प्रज्ञापारमितां सर्वबुद्धधर्माणां मूलं च्छोरयित्वा शाखापत्रपलाशसदृशान् श्रावकयानप्रतिसंयुक्तान् प्रत्येकबुद्धयानप्रतिसंयुक्तांश् च सूत्रान्तान् पर्यवाप्तव्यान् मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते भविष्यन्त्य् अनागते ऽध्वनि बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चेमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा लाभसत्कारहेतोः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्तान् पर्यवाप्तव्यान् मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति प्रणीतास्वादभ्रंशः
SK
तद्यथापि नाम सुभूते कश्चिद् एव पुरुषो हस्तिनो ऽर्थिको भवेत्, स हस्तिनं लब्ध्वा हस्तिपदं पर्येषितव्यं मन्येत. तत् किं मन्यसे? सुभूते ऽपि नु स पुरुषः पण्डितजातीयो भवेत्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वयानिकाः पुद्गला वेदितव्या य इमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा ये ते सूत्रान्ताः श्रावकयानप्रतिसंयुक्ताः प्रत्येकबुद्धयानप्रतिसंयुक्तास् तान् पर्यवाप्तव्यान् मंस्यन्ते. तत् किं मन्यसे? सुभूते ऽपि नु पण्डितजातीयास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च भवेयुः.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म (PSP_४:३९) वेदितव्यम्. इत्य् उत्तमयानभ्रंशः
SK
तद्यथापि नाम सुभूते पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स महासमुद्रं दृष्ट्वा गोष्पदं पर्येषितव्यं मन्येत, तस्य तं गोष्पदं दृष्ट्वा एवं भवेत्, एवंप्रमाणो महासमुद्र इति. तत् किं मन्यसे? सुभूते ऽपि नु स पुरुषः पण्डितजातिको भवेत्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एव सुभूते तथारूपास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च वेदितव्या, य इमां प्रज्ञापारमितां श्रुत्वा लब्ध्वा वा ताम् उत्सृज्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तान् सूत्रान्तान् उद्ग्रहीतव्यान् मंस्यन्ते. तत् किं मन्यसे? सुभूते अपि नु पण्डितजातीयास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च भवेयुः.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् उद्देशभ्रंशः
SK
तद्यथापि नाम सुभूते पलगण्डो वा पलगण्डान्तेवासी वा वैजयन्तस्य प्रासादस्य प्रमाणेन प्रासादं कर्तुकामो भवेत्, स सूर्याचन्द्रमसोर् मण्डलविमानात् प्रमाणम् उद्ग्रहीतव्यं मन्येत्. तत् किं मन्यसे? सुभूते वैजयन्तं पर्येष्य वैजयन्तसमं प्रासादं कर्तुकामः सूर्याचन्द्रमसोर् वा मण्डलविमानात् प्रमाणम् उद्गृह्णीयाद्, अपि नु स पण्डितजातीयः पुरुषो भवेत्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि एकत्या बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा वा लब्ध्वा वा रिञ्चित्वा च्छोरयित्वा वा श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सूत्रान्तैः सर्वाकारज्ञतां पर्येषितव्यां मंस्यन्ते. तत् किं मन्यसे? सुभूते अपि नु पण्डितजातीयास् ते बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च भवेयुः.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति हेतुफलसंबन्धभ्रंशः
SK
पुनर् अपरं सुभूते तद्यथापि नाम कस्यचिद् एव पुरुषस्य कोट्टराजानं दृष्ट्वा एवं भवेद्, ईदृशो राजा चक्रवर्ती वर्णेन संस्थानेन (PSP_४:४०) च यादृशो ऽयं कोट्टराज इति. स कोट्टराजस्य वर्णसंस्थानेनाकृत्यानिमित्तं लिङ्गानि उद्गृह्यैवं वदेद्, राज्ञश् चक्रवर्तिनः ईदृशो वर्णसंस्थानाकृतिविशेष इति. तत् किं मन्यसे? सुभूते अपि नु स पुरुषः पण्डितजातीयो भवेत्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि एकत्या महायानिकाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा लब्ध्वा वा तां रिञ्चित्वा च्छोरयित्वा वा श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सूत्रान्तैः सर्वाकारज्ञतां पर्येषितव्यां मंस्यन्ते. तत् किं मन्यसे? सुभूते ऽपि नु ते महायानिकाः कुलपुत्राः कुलदुहितरश् च पण्डितजातिकाः स्युः.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति निरुत्तरपदभ्रंशः
SK
पुनर् अपरं सुभूते तेषां कुलपुत्राणां कुलदुहितृणां चेमां प्रज्ञापारमितां लिखतां बहूनि प्रतिभानान्य् उत्पत्स्यन्ते, यानीमां गम्भीरां प्रज्ञापारमितां लिख्यमानां विक्षेप्स्यन्ति. तद्यथापि नाम रूपप्रतिभानं शब्दगन्धरसस्प्रष्टव्यधर्मप्रतिभानं दानपारमिताप्रतिभानं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताप्रतिभानं कामधातुप्रतिभानं रूपधातुप्रतिभानम् आरूप्यधातुप्रतिभानम् उद्देशस्वाध्यायप्रतिभानं वैयावृत्यप्रतिभानं स्मृत्युपस्थानप्रतिभानं सम्यक्प्रहाणप्रतिभानम् ऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गप्रतिभानं सर्वध्यानविमोक्षसमाधिसमापत्तिधारणीमुखप्रतिभानम् अध्यात्मशून्यताप्रतिभानं बहिर्धाशून्यताप्रतिभानम् अध्यात्मबहिर्धाशून्यताप्रतिभानं शून्यताशून्यताप्रतिभानं महाशून्यताप्रतिभानं परमार्थशून्यताप्रतिभानं संस्कृतशून्यताप्रतिभानम् असंस्कृतशून्यताप्रतिभानम् अत्यन्तशून्यताप्रतिभानं, यावद् अभावस्वभावशून्यताप्रतिभानं बलप्रतिभानं वैशारद्यप्रतिभानं प्रतिसंविदावेणिकबुद्धधर्मप्रतिभानं, यावद् अनुत्तरं सम्यक्संबोधिप्रतिभानम्. तत् कस्य हेतोर्? अप्रतिभाना हि सुभूते प्रज्ञापारमिता, अचिन्त्या हि सुभूते प्रज्ञापारमिता, निश्चिन्त्याचिन्त्यापगता हि सुभूते प्रज्ञापारमिता, अनुत्पादानिरोधा हि सुभूते प्रज्ञापारमिता, असंक्लेशा अव्यवदाना हि सुभूते प्रज्ञापारमिता, (PSP_४:४१) अविक्षेपा हि सुभूते प्रज्ञापारमिता, अनभिलाप्या हि सुभूते प्रज्ञापारमिता, अव्यापादा हि सुभूते प्रज्ञापारमिता, अनुपलम्भा हि सुभूते प्रज्ञापारमिता. तत् कस्य हेतोर्? न हि सुभूते इह गम्भीरायां प्रज्ञापारमितायाम् इमे धर्माः संविद्यन्ते. सचेत् सुभूते बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा लिखनेभिर् धर्मो विक्षिप्यते. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति बहुविधविषयविकल्पप्रतिभानोत्पादः सुभूतिर् आह: शक्या पुनर् भगवन् प्रज्ञापारमिता लिखितुम्.
SK
भगवान् आह: नो सुभूते, तत् कस्य हेतोर्? न हि सुभूते प्रज्ञापारमितायाः स्वभावः संविद्यते, न ध्यानपारमिताया न वीर्यपारमिताया न क्षान्तिपारमिताया न शीलपारमिताया न दानपारमितायाः स्वभावः संविद्यते, न सर्वशून्यतानां न सप्तत्रिंशद्बोधिपक्षाणां धर्माणां नार्यसत्यानां स्वभावः संविद्यते, नाप्रमाणध्यानारूप्यसमापत्तीनां न शून्यतानिमित्ताप्रणिहितानां नाष्टानां विमोक्षाणां न नवानुपूर्वविहारसमापत्तीनां नाभिज्ञानां स्वभावः संविद्यते, न सर्वसमाधीनां न सर्वधारणीमुखानां स्वभावः संविद्यन्ते, न दशानां बलानां न वैशारद्यानां न प्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां स्वभावः संविद्यते, न सर्वज्ञतायाः स्वभावः संविद्यते. यस्याश् च स्वभावो न संविद्यते, सो ऽभावो यो ऽभावः. सेयं प्रज्ञापारमिता न चाभावेनाभावः शक्यो लिखितुम्. इति लिखनाभिनिवेशान्तरायः
SK
सचेत् पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरश् च इमां प्रज्ञापारमिताम् अभाव इति संज्ञास्यन्ति इदम् अपि तेषां मारकर्म वेदितव्यम्. इत्य् अभावाभिनिवेशान्तरायः
SK
सुभूतिर् आह: ये केचिद् भगवन् महायानिकाः कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिप्यक्षरैर् लिखित्वा गम्भीरा प्रज्ञापारमिता मया लिखितेति मंस्यन्ते, ते ऽपि लिपिष्व् अक्षरेष्व् इमां गम्भीरां प्रज्ञापारमिताम् अभिनिवेक्ष्यन्ते, इदम् अपि भगवंस् तेषां मारकर्म वेदितव्यम्. इति लिप्यक्षरेषु प्रज्ञापारमिताभिनिवेशान्तरायः
SK
सुभूतिर् आह: तत् कस्य हेतोर्? अनक्षरा हि भगवन्न् इयं प्रज्ञापारमिता, अनक्षरा हि ध्यानपारमिता, अनक्षरा हि वीर्यपारमिता, (PSP_४:४२) अनक्षरा हि क्षान्तिपारमिता, अनक्षरा हि शीलपारमिता, अनक्षरा हि दानपारमिता, अनक्षरं भगवन् रूपं, वेदना संज्ञा संस्काराः, अनक्षरं भगवन् विज्ञानम्, अनक्षरा भगवन् धातवः, अनक्षराणि भगवन्न् आयतनानि, अनक्षरो भगवन् प्रतीत्यसमुत्पादः, अनक्षराणि प्रतीत्यसमुत्पादाङ्गानि, अनक्षराः सप्तत्रिंशद्बोधिपक्ष्या धर्माः, अनक्षराः सर्वशून्यताः, अनक्षराः सर्वसमाधयः, अनक्षराणि सर्वधारणीमुखानि, अनक्षराणि सर्वशून्यतानिमित्ताप्रणिहितानि, अनक्षराणि आर्यसत्यानि, अनक्षराः सर्वाप्रमाणध्यानारूप्यसमापत्तयः, अनक्षरा अष्टविमोक्षा, अनक्षरा नवानुपूर्वविहारसमापत्तयः, अनक्षरा अभिज्ञाः, अनक्षराणि तथागतबलानि, अनक्षराणि वैशारद्यानि, अनक्षराः प्रतिसंविदः, अनक्षरा अष्टादशावेणिका बुद्धधर्माः, अनक्षरा हि भगवन् सर्वज्ञता.
SK
सचेत् पुनर् भगवन् महायानिकाः कुलपुत्राः कुलदुहितरो वा अनक्षरां प्रज्ञापारमिताम् अभिनिवेक्ष्यन्ते, एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमिताम्, अनक्षरां दानपारमिताम् अभिनिवेक्ष्यन्ते. अनक्षरं रूपम् अभिनिवेक्ष्यन्ते, वेदनासंज्ञासंस्कारान्, अनक्षरं विज्ञानम् अभिनिवेक्ष्यन्ते. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् विमोक्षमुखानि सत्यानि अप्रमाणध्यानारूप्यसमापत्तीर् बलानि वैशारद्यानि प्रतिसंविद आवेणिकान् बुद्धधर्मान् अनक्षरान् अभिनिवेक्ष्यन्ते, यावत् सर्वज्ञताम् अनक्षराम् अभिनिवेक्ष्यन्ते. इदम् अपि भगवंस् तेषां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति प्रज्ञापारमितायाम् अनक्षराभिनिवेशान्तरायः
SK
पुनर् अपरं सुभूते तेषां कुलपुत्राणां कुलदुहितृणाञ् चेमां प्रज्ञापारमितां लिखताम् उत्पत्स्यन्ते जनपदवितर्का, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते तेषां महायानिकानां कुलपुत्राणां कुलदुहितृणाञ् चेमां गम्भीरां प्रज्ञापारमितां लिखताम् उत्पत्स्यन्ते ग्राममनसिकाराः नगरमनसिकाराः निगममनसिकाराः राजधानीमनसिकाराः राष्ट्रमनसिकाराः देवमनसिकाराः गुरूपाध्यायमनसिकाराः, मातापितृभ्रातृभगिनीपुत्रदुहितृज्ञातिप्रतिसंयुक्ता मनसिकाराः, चौरमनसिकाराः, चण्डालप्रतिसंयुक्ता मनसिकाराः, कामवितर्कप्रतिसंयुक्ता मनसिकाराः संगणिका प्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते. अमी च सुभूते (PSP_४:४३) ऽन्ये च बहुविधा बोधिसत्त्वानां महासत्त्वानां मनसिकारा मारकर्म वेदितव्यम्. इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां मारः पापीयान् अन्तरायान् विक्षेपान् उपसंहरिष्यति. इति जनपदादिमनसिकारान्तरायः
SK
पुनर् अपरं सुभूते बोधिसत्त्वानां कुलपुत्राणां कुलदुहितृणाञ् चेमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वताम् उत्पत्स्यन्ते, लाभसत्कारश्लोकाश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारास् तांस् ते बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् चास्वादयन्तः, इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति योनिशो मनसिकरिष्यन्ति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति लाभसत्कारश्लोकास्वादान्तरायः
SK
पुनर् अपरं सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् ये ते भविष्यन्ति गम्भीरा गम्भीराः सूत्रान्तास् तान् उपसंहरिष्यति, य इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वताम्. न पुनर् अत्र सुभूते बोधिसत्त्वैर् उपायकुशलैर् गम्भीरगम्भीरेषु सूत्रान्तेषु मारेणोपसंहृतेषु स्पृहोत्पादयितव्या. तत् कस्य हेतोः? न हि सुभूते ते सूत्रान्ताः सर्वज्ञताया आहारकाः. तत्र सुभूते ये ऽनुपायकुशला बोधिसत्त्वा भविष्यन्ति त इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा रिञ्चिष्यन्ति यत्र मया बोधिसत्त्वानां महासत्त्वानाम् उपायकौशलं विस्तरेणाख्यातम् इहैव गम्भीरायां प्रज्ञापारमितायां विस्तरेणोपायकौशलं मार्गितव्यम्. ते खलु पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरो वा इमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा तेभ्यः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्तेभ्यः सूत्रान्तेभ्य उपायकौशल्यं गवेषितव्यं मंस्यन्ते. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इ त्य् अमार्गेणोपायकौशलमार्गणान्तरायः
SK
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च्छन्दका भविष्यन्ति प्रज्ञापारमितां लिखितुम् उद्देष्टुं स्वाध्यातुं पठितुं, धर्मभाणकश् च किलासी भविष्यति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति च्छन्दकिलासवैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकः अकिलासी भविष्यति इमां (PSP_४:४४) गम्भीरां प्रज्ञापारमितां लेखयितुम् उद्ग्रहयितुं देशयितुं स्वाध्यायितुं, धर्मश्रवणिकाश् च देशान्तरसंप्रस्थिता भविष्यन्ति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च प्रज्ञापारमितां लिखितुकामा भविष्यन्ति उद्ग्रहीतुकामा उद्देष्टुकामाः स्वाध्यातुकामा, धर्मभाणकश् च देशान्तरसंप्रस्थितो भविष्यति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति च्छन्दभेदविषयवैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणको लाभसत्कारश्लोकगुरुको भविष्यति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काररक्तः, धर्मश्रवणिकाश् चाल्पेच्छाः संतुष्टा आरब्धवीर्या उपस्थितस्मृतयः समाहिता एकाग्रचित्ताः प्रज्ञावन्तः. इदम् अपि सुभूते विसामग्र्या प्रज्ञापारमितायां लिख्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मभाणकश् चाल्पेच्छो भविष्यति संतुष्टः प्रविविक्त आरब्धवीर्य उपस्थितस्मृतिः समाहित एकाग्रचित्तः प्रज्ञावान्, धर्मश्रवणिकाः च महेच्छाः पापेच्छाः लाभसत्कारश्लोकगुरुकाश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैसज्यपरिष्कारगुरुका भविष्यन्ति. इदम् अपि सुभूते विसामग्र्या प्रज्ञापारमितायां लिख्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति लाभगौरवाल्पेच्छतावैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणक आरण्यको भविष्यति, पैण्डपातिकः पांशुकूलिकः खलुपश्चाद्भक्तिकः एकासनिकः प्रस्थपिण्डिकः श्माशानिक आभ्यवकाशिको वृक्षमूलिको नैषद्यिको यथासंस्तरिकस् त्रैचीवरिकः, धर्मश्रवणिकाश् च नारण्यका भविष्यन्ति न पैण्डपातिका न पांशुकूलिका न खलुपश्चाद्भक्तिका न एकासनिका न प्रस्थपिण्डिका न श्माशानिका नाभ्यवकाशिका न वृक्षमूलिका न नैषद्यिका न यथासंस्तरिका न त्रैचीवरिकाः. इदम् अपि सुभूते विसामग्र्या इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां (PSP_४:४५) स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिक आरण्यको भविष्यति यावत् त्रैचीवरिको, धर्मभाणकश् च नारण्यको भविष्यति यावन् न त्रैचीवरिकः. इदम् अपि सुभूते विसामग्र्या इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशश् च मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति धूतगुणयोगायोगवैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च श्राद्धा भविष्यन्ति कल्याणधर्माण इमां गम्भीरां प्रज्ञापारमितां लिखितुकामा उद्देष्टुकामाः स्वाध्यातुकामाः, धर्मभाणकश् चाश्राद्धो भविष्यति न कल्याणधर्मा इमां गम्भीरां प्रज्ञापारमितान् न लिखितुकामो नोद्देष्टुकामो न स्वाध्यातुकामः. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मभाणकश् च श्राद्धो भविष्यति कल्याणधर्मा इमां गम्भीरां प्रज्ञापारमितां लिखनाय दातुकामो ऽर्थिकाय उद्ग्रहीतुकामो, धर्मश्रवणिकश् चाश्राद्धो भविष्यति न कल्याणधर्मा इमां गम्भीरां प्रज्ञापारमितां न लिखनाय दातुकामो नोद्देष्टुकामो ऽर्थिकाय नोद्ग्रहीतुकामः. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कल्याणाकल्याणकामत्ववैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकश् च सर्वास्तिपरित्यागी भविष्यति अनागृहीतचित्तः, धर्मश्रवणिकश् च मत्सरी भविष्यति महेच्छः पापेच्छो लाभसत्कारश्लोकचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारगुरुको भविष्यति. इदम् अपि सुभूते विसामग्र्या इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिकश् च सर्वास्तिपरित्यागी भविष्यति अनागृहीतचित्तः, धर्मभाणकश् च मत्सरी भविष्यति कुटुकुञ्चकः. इदम् अपि सुभूते विसामग्र्या इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति त्यागमात्सर्यवैधुर्यम् (PSP_४:४६)
SK
पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मभाणकस्यान्तिके परित्यक्तुकामो भविष्यति चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, धर्मभाणकश् च न ग्रहीतुकामो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मभाणको धर्मश्रवणिकस्यान्तिकाद् ग्रहीतुकामो भविष्यति, धर्मश्रवणिकश् च न दातुकामो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति दानग्रहणवैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकश् चोद्घटितज्ञो भविष्यति, धर्मश्रवणिकश् च नेयो भविष्यति विपञ्चितज्ञो वा पदपरमो वा. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिकश् चोद्घटितज्ञो भविष्यति, धर्मभाणकश् च नेयो भविष्यति विपञ्चितज्ञो वा पदपरमो वा. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् उद्घटितज्ञविपञ्चितज्ञतावैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकश् च धर्मान्तरं ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भूतधर्मोपदेशानां, धर्मश्रवणिकाश् च धर्मान्तरन् न ज्ञास्यन्ति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भूतधर्मोपदेशानां, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां (PSP_४:४७) मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मान्तरं ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भुतधर्मोपदेशानां, धर्मभाणकश् च धर्मान्तरन् न ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भुतधर्मोपदेशानाम्, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति सूत्रादिधर्माभिज्ञानभिज्ञतावैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकश् च षड्भिः पारमिताभिः समन्वागतो भविष्यति, धर्मश्रवणिकश् च न षड्भिः पारमिताभिः समन्वागतो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिकाः षड्भिः पारमिताभिः समन्वागता भविष्यन्ति, धर्मभाणकश् च न षड्भिः पारमिताभिः समन्वागतो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति षट्पारमितासमन्वागमासमन्वागमवैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकश् चोपायकुशलो भविष्यति षट्सु पारमितासु, धर्मश्रवणिकाश् चानुपायकुशला भविष्यन्ति षट्सु पारमितासु. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिकाश् चोपायकुशला भविष्यन्ति षट्सु पारमितासु, धर्मभाणकश् चानुपायकुशलो भविष्यति षट्सु पारमितासु, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. (PSP_४:४८) इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् उपायानुपायकौशलवैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकश् च धारणीप्रतिलब्धो भविष्यति, धर्मश्रवणिकाश् च न धारणीप्रतिलब्धा भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति धारणीप्रतिलम्भाप्रतिलम्भवैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकश् च लिखितुकामो भविष्यति धारयितुकामो भविष्यति वाचयितुकामः स्वाध्यातुकामो यावत् मनसिकर्तुकामो, धर्मश्रवणिकाश् च न लिखितुकामा भविष्यन्ति यावन् न मनसिकर्तुकामा भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भिरां प्रज्ञापारमितां लिखतां वाचयतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च लिखितुकामा भविष्यन्ति यावत् मनसिकर्तुकामाः, धर्मभाणकश् च न लिखितुकामो भविष्यति यावन् न मनसिकर्तुकामः, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति लिखितुकामतावैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकश् च विगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यति, धर्मश्रवणिकाश् च विगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखितुकामानां यावद् भावयितुकामानाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिकाश् च विगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यन्ति, धर्मभाणकश् चाविगतकामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सा भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखितुकामानां यावद् भावयितुकामानाम्. (PSP_४:४९) इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति विगताविगतकामच्छन्दादिवैधुर्यम्
SK
पुनर् अपरं सुभूते इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् भावयतां कश्चिद् एव तत्रागत्य निरयानाम् अवर्णं भाषिष्यते तिर्यग्योनेः, प्रेतानाम् अवर्णं भाषिष्यते, एवंदुःखा निरया एवंदुःखा तिर्यग्योनिर्, एवंदुःखः प्रेतविषय इति, इहैव त्वं दुःखस्यान्तं कुरुष्वेति किन् ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्. इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् अपायगतिवैमुख्यम्
SK
पुनर् अपरं सुभूते इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् योनिशो मनसिकुर्वतां कश्चिद् एवागत्य चातुर्महाराजिकानां देवानां वर्णं भाषिष्यते यावन् नैवसंज्ञानासंज्ञायतनोपगानां देवानां वर्णं भाषिष्यते. एवं सुखः कामधातुः कामपरिभोगैर्, एवं सुखो रूपधातुर् ध्यानसमापत्तिभिः, एवं सुख आरूप्यधातुः शान्ताभिः, तद् अपि सर्वम् अनित्यं दुःखं शून्यम् अनात्मीयं विपरिणामधर्मि व्ययधर्मि विरागधर्मि निरोधधर्मि, इहैव त्वं स्रोतआपत्तिफलं प्राप्नुहि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुहि प्रत्येकबोधिं प्राप्नुहि, मा संसारे चिरकालं संसर, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति सुगतिगमनसौमनस्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकश् च एको भविष्यत्य् अद्वितीयः स्वयंकारी, धर्मश्रवणिकश् च पर्षदवचरो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायतां. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिकश् च एको भविष्यत्य् अद्वितीयः स्वयंकारी, धर्मभाणकश् च पर्षदवचरो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् एकाकिपर्षदवचरत्ववैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणक एवं वक्ष्यति, यो माम् अनुबन्धिष्यति, तस्याहम् इमां प्रज्ञापारमितां दास्यामि लिखनाय वाचनाय (PSP_४:५०) उद्दिशनाय स्वाध्यायनाय मनसिकरणाय भावनायै, धर्मश्रवणिकश् च नानुबन्धिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां वाच्यमानायां स्वाध्यायमानायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मभाणकम् अनुबन्धितुकामो भविष्यति, धर्मभाणकश् चावकाशन् न करिष्यत्य् अनुबन्धनाय, इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां वाच्यमानायां स्वाध्यायमानायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् अनुबन्धिकामो ऽनवकाशदानत्ववैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणक आमिषकिञ्चित्कस्य हेतोर् इमां प्रज्ञापारमितां दातुकामो भविष्यति लिखनाय उद्दिशनाय यावद् भावनायै, धर्मश्रवणिकश् च आमिषकिञ्चित्कस्य हेतोर् नोपसंक्रमितुकामो भविष्यति, इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् आमिषकिञ्चित्कतददातुकामत्ववैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकश् च तान् दिशं गन्तुकामो भविष्यति, यत्र दिशि जीवितान्तरायो भविष्यति, धर्मश्रवणिकश् च न तं देशं गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मश्रवणिकश् च तान् दिशं गन्तुकामो भविष्यति, यत्र दिशि जीवितान्तरायो भविष्यति, धर्मभाणकश् च न तं देशं गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति जीवितान्तरायानन्तरायदिग्गमनागमनवैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणकश् च तेन गन्तुकामो भविष्यति, येन दुर्भिक्षं च निरुदकञ् च, धर्मश्रवणिकश् च न तत्र गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां (PSP_४:५१) प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते धर्मभाणकश् च तेन गमिष्यति, येन सुभिक्षं सोदकं, धर्मश्रवणिकाश् चानुबद्धा भविष्यन्ति, स तान् एवं वक्ष्यति, किं युष्माकं कुलपुत्रा आमिषहेतोस् तत्र गन्तुं सुचिन्तितं तावत् कुरुत मा पश्चाद् विप्रतिसारिणो भविष्यथ पिण्डपातेन लब्धालब्धेन, एवं तेन धर्मभाणकेन सूक्ष्मेणोपायेन धर्मप्रत्याख्यानं कृतं भविष्यति, ते निर्विण्णरूपा एवं ज्ञास्यन्ति प्रत्याख्याननिमित्तान्य् एतानि नैतानि दातुकामतानिमित्तानि, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां वाच्यमानायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति दुर्भिक्षसुभिक्षदिग्गमनागमनवैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणको भिक्षुस् तेन प्रक्रमिष्यति, येन चौरभयं चण्डालभयं लुब्धकभयं चन्दमृगभयम् आशीविषभयं कान्ताराटवीभयं दुर्गभयं तेन प्रक्रमिष्यति धर्मश्रवणिकाश् चेमां गम्भीरां प्रज्ञापारमितां श्रोतुकामा धर्मभाणकम् अनुबद्धा भविष्यन्ति, तान् धर्मभाणको भिक्षुर् एवं वक्ष्यति, किं युष्माकं कुलपुत्रास् तत्र गन्तुं यत्र चौरभयं चण्डालभयं लुब्धकभयं चण्डमृगभयं आशीविषभयं कान्ताराटवीभयं दुर्गभयं भविष्यति, धर्मश्रवणिकाश् चेमां गम्भीरां प्रज्ञापारमितां श्रोतुकामा धर्मभाणकम् अनुबद्धा भविष्यन्ति, तान् धर्मभाणको भिक्षुर् न भाषितुकामः, इमां गम्भीरां प्रज्ञापारमितां न लेखयितुकामो नोद्देष्टुकामो न श्रावयितुकामस् ते तस्य धर्मभाणकस्यान्तिकाच् छ्रुत्वा निर्विण्णरूपा न तेन गमिष्यन्ति येन स धर्मभाणको भिक्षुर् गमिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, अस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति चौरादिनिमित्तवैधुर्यम्
SK
पुनर् अपरं सुभूते धर्मभाणको भिक्षुर् भिक्षादकुलगुरुको भविष्यति स तया भिक्षादकुलगुरुकतया तानि च कुलान्य् अभीक्ष्णं व्यवलोकयितव्यानि मंस्यते स तयाभीक्ष्णकुलव्यवलोकनतया (PSP_४:५२) धर्मश्रवणिकान् प्रत्याख्यास्यति, अस्ति मया युष्मन्तो भिक्षादकुलान्य् अव्यवलोकयितव्यान्य् उपसंक्रमितव्यानि, स तान् धर्मश्रवणिकान् प्रत्याख्यास्यति प्रत्याख्यातास् ते प्रत्युदावर्तिष्यन्ते, इयम् अपि सुभूते विसामग्री भविष्यति प्रज्ञापारमितां लिखतां भावयताम् उद्दिशतां स्वाध्यायताम् इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कुलव्यवलोकनवैधुर्यम्
SK
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेण तथातथोपायेन चेष्टिष्यते यथायथोपायेन, इमां प्रज्ञापारमितां न कश्चिल् लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: केन कारणेन भगवन् मारः पापीयान् भिक्षुवेषेण तथातथा चेष्टिष्यते यथायथा न कश्चिद् इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति?
SK
भगवान् आह: प्रज्ञापारमितानिर्जातानि हि सर्वसत्त्वानां क्लेशप्रहाणान्य् एवं तथातथोपायेन चेष्टिष्यते यथायथा न कश्चिद् इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति.
SK
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेणागत्य भेदं प्रक्षेप्स्यति विवेचयिष्यति, नैषा प्रज्ञापारमिता यथास्माकं सूत्रान्तम् आगतम् इत्य् अस्य प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेण बोधिसत्त्वान् उपसंक्रम्यैवं वक्ष्यति, य इह गम्भीरायां प्रज्ञापारमितायां चरति स बोधिसत्त्वो भूतकोटीं साक्षात्करोति, स्रोतआपत्तिफलं वा प्राप्नोति सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्राप्नोति प्रत्येकबोधिं वा प्राप्नोति, तद्वचनं श्रुत्वा न प्रज्ञापारमितायां चरिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायां वाच्यमानायां यावद् (PSP_४:५३) भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति मारस्य पापीयसो भेदप्रयोगः
SK
पुनर् अपरं सुभूते इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायां बहूनि मारकर्माण्य् उत्पत्स्यन्ते, यान्य् अन्तरायकराणि भविष्यन्ति तानि मारकर्माणि बोधिसत्त्वेन महासत्त्वेन विवर्जयितव्यानि.
SK
सुभूतिर् आह: कतमानि तानि भगवन् मारकर्माणि यानि बोधिसत्त्वेन महासत्त्वेन बोधव्यानि बुद्ध्वा च विवर्जितव्यानि?
SK
भगवान् आह: प्रज्ञापारमिताप्रतिरूपकानि सुभूते मारकर्माण्य् उत्पत्स्यन्ते. एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, दानपारमिताप्रतिरूपकाणि मारकर्माण्य् उत्पत्स्यन्ते, यानि बोधिसत्त्वेन महासत्त्वेन बोधव्यानि बुद्ध्वा च विवर्जयितव्यानि.
SK
पुनर् अपरं सुभूते अध्यात्मशून्यताप्रतिरूपकाणि यावद् अभावस्वभावशून्यताप्रतिरूपकाणि मारकर्माण्य् उत्पत्स्यन्ते, श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानि मारकर्माण्य् उत्पत्स्यन्ते, तानि बुद्ध्वा बोधिसत्त्वेन महासत्त्वेन मारकर्माणि विवर्जयितव्यानि. एवञ् च वक्ष्यति, एतान् पर्यवाप्नुहि एतान् पर्यवाप्य इहैव स्रोतआपत्तिफलं प्राप्नुहि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुहि, इमान्य् एव त्वं चत्वारि स्मृत्युपस्थानानि भावय सम्यक्प्रहाणानि भावय ऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावय शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखं भावय किं ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्गृह्यमाणायां यावन् मनसिक्रियमाणायां भाव्यमानायां मारः पापीयान् एवंरूपाणि मारकर्माणि उपसंहरिष्यति. इति प्रतिवर्णिकोपसंहारः
SK
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेणोपसंक्रमिष्यति, सुवर्णवर्णकायेन व्यामप्रभां कृत्वा तत्र बोधिसत्त्वस् तं दृष्ट्वा स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां भाष्यमाणायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. (PSP_४:५४)
SK
पुनर् अपरं सुभूते मारः पापीयांस् तेषां कुलपुत्राणां कुलदुहितृणां च पुरतो बुद्धप्रमुखं भिक्षुसंघम् उपदर्शयिष्यति, स तत्र बोधिसत्त्वः स्पृहाम् उत्पादयिष्यति, अहम् अप्य् अनागते ऽध्वन्य् एवंरूपस् तथागतो ऽर्हन् सम्यक्संबुद्धः स्याम्, एवं च भिक्षुगणं परिकर्षेयं यथा यं तथागतो धर्मं देशयति तथैवाहम् अपि धर्मं देशयेयं, स तत्र स्पृहाम् उत्पादयिष्यति स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां भाष्यमाणायां मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते मारः पापीयान् अनेकानि बोधिसत्त्वशतानि अनेकानि बोधिसत्त्वसहस्राणि उपदर्शयति, ये दानपारमितायां चरिष्यन्ति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिष्यन्ति, ते बोधिसत्त्वास् तेषां मारनिर्मितानाम् अन्तिके स्पृहाम् उत्पादयिष्यन्ति स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. तत् कस्य हेतोर्? न हीह सुभूते गम्भीरायां प्रज्ञापारमितायां रूपं संविद्यते, न वेदना न संज्ञा न संस्काराः, न विज्ञानं संविद्यते, न स्कन्धा न धातवो नायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि संविद्यन्ते, न पारमिता न बोधिपक्ष्या धर्मा नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तयः नाष्टविमोक्षा न नवानुपूर्वविहारसमापत्तयः न शून्यतानिमित्ताप्रणिहिताभिज्ञाः संविद्यन्ते, न सर्वशून्यता न सर्वसमाधयः न सर्वधारणीमुखानि संविद्यन्ते, न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्मा न विमोक्षमुखानि न बोधिः संविद्यते, यत्र च सुभूते न रूपं संविद्यते, न वेदना न संज्ञा न संस्कारा न विज्ञानं संविद्यते, न स्कन्धा न धातवो नायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि न पारमिता न बोधिपक्ष्या धर्मा नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तयो नाष्टविमोक्षा न नवानुपूर्वविहारसमापत्तयो न शून्यतानिमित्ताप्रणिहिताभिज्ञा न सर्वशून्यता न सर्वसमाधयो न (PSP_४:५५) सर्वधारणीमुखानि न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्मा न विमोक्षमुखानि न बोधिः संविद्यते, यत्र न बोधिर् न तत्र बुद्धो न बोधिसत्त्वा न श्रावकाः संविद्यन्ते. तत् कस्य हेतोः? स्वभावशून्या हि सुभूते सर्वधर्माः. इत्य् अयथाविषयादिस्पृहोत्पादः
SK
पुनर् अपरं सुभूते बह्वन्तरायेयं प्रज्ञापारमिता भविष्यति, तेषां कुलपुत्राणां कुलदुहितृणां च इमां प्रज्ञापारमितां धारयतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां. तद्यथापि नाम सुभूते यानि जाम्बूद्वीपकानि रत्नानि, यद् उत सुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतादीनि बह्वन्तरायाणि बहुप्रत्यर्थिकानि भविष्यन्ति. एवम् एतत् सुभूते तेषां कुलपुत्राणां कुलदुहितृणां चास्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां स्वाध्यायमानायां भाष्यमाणायां योनिशो मनसिक्रियमाणायां भाव्यमानायां बहवो ऽन्तराया भविष्यन्ति बहवः प्रत्यर्थिकाः.
SK
सुभूतिर् आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत, बहुप्रत्यर्थिकानि भविष्यन्ति प्रज्ञापारमिताप्रतिसंयुक्तानि सूत्राणि, माराधिष्ठितास् ते मोहपुरुषा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां भावयताम् अन्तरायं करिष्यन्ति. अल्पबुद्धयस् ते भगवन् मोहपुरुषा भविष्यन्ति, मन्दबुद्धयो ये ऽस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम् अन्तरायं करिष्यन्ति. न तेषाम् उदारोदारेषु धर्मेषु बुद्धिः प्रक्रमिष्यति, य इमां गम्भीरां प्रज्ञापारमितान् न लिखिष्यन्ति लिख्यमानायाम् अन्तरायं करिष्यन्ति यावन् न भावयिष्यन्ति भाव्यमानायाञ् चान्तरायं करिष्यन्ति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् माराधिष्ठितास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति नवयानसंप्रस्थिता अनवरोपितकुशलमूलाः परीत्तकुशलमूलाः न पूर्वजिनकृताधिकारा अपरिगृहीतकल्याणमित्रा, य इमां गम्भीरां प्रज्ञापारमितां न लिखिष्यन्ति न वाचयिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति, ये ऽन्तरायं करिष्यन्ति, अल्पबुद्धिकास् ते कुलपुत्राः कुलदुहितरश् च मन्दबुद्धिकाः परीत्तबुद्धिका, न च तेषाम् उदारोदारेषु धर्मेषु चित्तं क्रमिष्यति, य इमां गम्भीरां प्रज्ञापारमितां न (PSP_४:५६) लिखिष्यन्ति न धारयिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति यावन् न भावयिष्यन्ति, अन्येषाञ् च लिखतां यावद् भावयताम् अन्तरायं करिष्यन्ति, किञ् चापि सुभूते इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम् इमानि मारकर्माण्य् उत्पत्स्यन्ते, सचेत् पुनः सुभूते यद् इमां गम्भीरां प्रज्ञापारमितां कुलपुत्राणां कुलदुहितृणां च लिखतां स्वाध्यायताम् उद्दिशतां योनिशो मनसिकुर्वतां भावयतां मारकर्माणि नोत्पत्स्यन्ते, उत्तरे च ध्यानपारमितां परिपूरयिष्यन्ति, वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां परिपूरयिष्यन्ति, सर्वशून्यताः सप्तत्रिंशद्बोधिपक्षान् धर्मान् परिपूरयिष्यन्ति, सर्वसमाधिधारणीविमोक्षमुखानि अप्रमाणध्यानारूप्यसमापत्तीः पञ्चाभिज्ञा दशबोधिसत्त्वभूमीर् बलानि वैशारद्यानि प्रतिसंविद आवेणिकबुद्धधर्मान् यावत् सर्वज्ञतां परिपूरयिष्यन्ति. वेदितव्यम् इदं सुभूते बुद्धानुभाव एष येनैषां कुलपुत्राणां कुलदुहितृणां च इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां नान्तराया उत्पत्स्यन्ते, उत्तरे च सर्वाः पारमिताः परिपूरयिष्यन्ति, सर्वशून्यताः सर्वबोधिपक्ष्यान् धर्मान् सर्वसमाधीन् सर्वधारणीमुखानि सर्वविमोक्षमुखानि परिपूरयिष्यन्ति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः पञ्चाभिज्ञाः परिपूरयिष्यन्ति, दश बोधिसत्त्वभूमीः परिपूरयिष्यन्ति, दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयिष्यन्ति, सर्वाकारज्ञतां परिपूरयिष्यन्ति. ये ऽपि ते दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, ते ऽपि तेषां कुलपुत्राणां कुलदुहितृणां च कृतश उद्योगम् आपत्स्यन्ते, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां, ये ऽपि ते दशसु दिक्षु अविनिवर्तनीया बोधिसत्त्वास् ते ऽपि तेषां कुलपुत्राणां कुलदुहितृणां च इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम् उद्योगम् आपत्स्यन्ते अनुपरिग्रहीष्यन्ति, तद्यथापि नाम सुभूते स्त्रियाः कस्याश्चिद् एव बहवः पुत्रा भवेयुः, पञ्च वा दश वा (PSP_४:५७) विंशतिर् वा त्रिंशद् वा चत्वारिंशद् वा पञ्चाशद् वा शतं वा सहस्रं वा शतसहस्रं वा, ते ऽस्या मातुर् ग्लानायाः सर्वे ऽप्य् उद्योगम् आपद्येरन्, किम् इत्य् अस्माकं मातुर् अन्तरायो न भवेत्, किम् इत्य् अस्माकं माता चिरं जीवेत्, किम् इत्य् अस्माकं मातुः शरीरे अमनआपः स्पर्शो न निपतेद्, एषास्माकं जननी शरीरस्य दात्री जीवितस्य धात्री, ते तां मातरम् उपस्थिताम् उपतिष्ठेरन् सुगोपितां गोपायेयुर्, मा भूद् अस्या जीवितान्तरायो वा शरीरदौर्बल्यं वा दंशमशकसरीसृपोपनिपातो वा शीतोष्णक्षुत्पिपासादि दुष्खं वा, एवन् ते पुत्रास् तस्या मातुः सर्वसुखोपधानान्य् उपसंहरेयुः, एवन् ते तां मातरं सुकेलायितां केलायेयुर् मिमीयुर् एषास्माकम् अस्य लोकस्य दर्शयित्री. एवम् एव सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः, इमां गम्भीरां प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोर्? एषा हि गम्भीरा प्रज्ञापारमितास्माकं सर्वबुद्धधर्माणां जननी ज्ञानालोकस्य कारिका, ये ऽपि ते दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपीमाम् एव प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोर्? एषा हि गम्भीरा प्रज्ञापारमिता जननी तथागतानाम्, अस्य च सर्वज्ञज्ञानस्य संदर्शयित्री, तेन तथागताः कृतज्ञताम् उपादाय ये इमां गम्भीरां प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोः? अतो निर्जाता हि तथागतानां ध्यानवीर्यक्षान्तिशीलदानपारमिता, अतो निर्जाता हि तथागतानाम् अध्यात्मशून्यता यावद् अभावस्वभावशून्यता, अतो निर्जातानि चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गो मार्गः, अतो निर्जातानि त्रीणि विमोक्षमुखानि, अतो निर्जातानि चत्वार्य् आर्यसत्यानि, अतो निर्जातानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो, अतो निर्जाता अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः, अतो निर्जाताः सर्वसमाधयः सर्वधारणीमुखानि, अतो निर्जातानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, अतो निर्जाताः षडभिज्ञाः, अतो निर्जाता सर्वबुद्धानां सर्वाकारज्ञता, अतो निर्जाता अप्रमेयासंख्येया बुद्धधर्माः, अतो निर्जाताः स्रोतापन्नाः सकृदागामिनो ऽनागामिनो, ऽतो निर्जाता अर्हन्तः प्रत्येकबुद्धा, अतो निर्जातास् तथागता अर्हन्तः सम्यक्संबुद्धाः. ये ऽपि केचित् सुभूते (PSP_४:५८) तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च, सर्वे ते इमां गम्भीरां प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च, ये ऽपि ते सुभूते महायानसंप्रस्थिताः कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति योनिशो मनसिकरिष्यन्ति सर्वे ते तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् बुद्धचक्षुषा सततसमितं समन्वाह्रियन्ते तेषां सुभूते बोधिसत्त्वानां कुलपुत्राणां कुलदुहितृणाञ् च तथागता अर्हन्तः सम्यक्संबुद्धाः सततसमितं रक्षावरणं गुप्तिं संविधास्यन्ति यथानुत्तरायाः सम्यक्संबोधेर् न परिहास्यन्ति. इति जाम्बूद्वीपकमहारत्नोदाहरणादिदृष्टान्तेन महानुभावत्वम् इत्य् उक्ता दोषाः
SK
सुभूतिर् आह: यद् भगवान् आह, प्रज्ञापारमिता तथागतानाम् अर्हतां सम्यक्संबुद्धानां जनयित्री अस्य च लोकस्य दर्शयित्री ति. कथं च भगवन् बुद्धानां भगवतां प्रज्ञापारमिता जनयित्री? कथञ् च भगवन् प्रज्ञापारमितास्य लोकस्य दर्शयित्री? कथञ् च भगवन् प्रज्ञापारमितया तथागतो जनितः? कतमश् च लोकस् तथागतेनाख्यातः?
SK
भगवान् आह: अनया सुभूते गम्भीरया प्रज्ञापारमितया दशतथागतबलानि जनितानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणा महामैत्री महामुदिता महोपेक्षा अष्टादशावेणिका बुद्धधर्मा यावत् सर्वाकारज्ञता जनिता, एभिश् च सुभूते धर्मैस् तथागत इति प्रभाव्यते, तस्मात् तर्हि सुभूते अनया गम्भीरया प्रज्ञापारमितया तथागतो जनितः. इति तथागतनिर्वृत्तिज्ञानम्
SK
सुभूतिर् आह: कतमः पुनर् भगवंस् तथागतेन लोक इत्य् आख्यातः?
SK
भगवान् आह: पञ्च सुभूते स्कन्धास् तथागतेन लोक आख्यातः.
SK
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमिताया पञ्च स्कन्धा दर्शिताः?
SK
भगवान् आह: न सुभूते प्रज्ञापारमिता इमान् पञ्च स्कन्धान् लुज्यमानान् दर्शयति, न प्रलुज्यमानान् दर्शयति, नोत्पद्यमानान् (PSP_४:५९) दर्शयति, न निरूध्यमानान् दर्शयति, न संक्लिश्यमानान् न व्यवदायमानान् दर्शयति, न वृद्धिं न हानिं दर्शयति, नायूहं न निर्यूहं नातीतान् नानागतान् न प्रत्युत्पन्नान् धर्मान् दर्शयति. तत् कस्य हेतोर्? न हि शून्यता लुज्यते वा प्रलुज्यते वा, नानिमित्तं लुज्यते वा प्रलुज्यते वा, नाप्रणिहितं लुज्यते वा प्रलुज्यते वा, नानभिसंस्करो नानुत्पादो न निरोधो नाभावो नास्वभावो लुज्यते वा प्रलुज्यते वा. एवं हि सुभूते तथागतेन गम्भीरा प्रज्ञापारमिता लोकस्य दर्शयित्री आख्याता. इति लोकस्य ज्ञानम्
SK
ये ऽपि ते सुभूते अप्रमेयाणां सत्त्वानाम् असंख्येयानां सत्त्वानाम् अपरिमाणानां सत्त्वानां चित्तचरितानि प्रजानन्ति, अप्रमेयाः सत्त्वाः परचित्तविदस् ते ऽपि प्रज्ञापारमिताम् आगम्य प्रजानन्ति. न पुनः सुभूते इह गम्भीरायां प्रज्ञापारमितायां सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते, न रूपं न रूपप्रज्ञप्तिर् उपलभ्यते, न वेदना न संज्ञा न संस्कारा, न विज्ञानं न विज्ञानप्रज्ञप्तिर् उपलभ्यते, न चक्षूरूपं न चक्षुर्विज्ञानं न चक्षुःसंस्पर्शो न चक्षुःसंस्पर्शप्रत्ययवेदना उपलभ्यते, न चक्षूरूपप्रज्ञप्तिर् उपलभ्यते, न चक्षुर्विज्ञानप्रज्ञप्तिर् उपलभ्यते, न चक्षुःसंस्पर्शप्रज्ञप्तिर् उपलभ्यते, न चक्षुःसंस्पर्शप्रत्ययवेदनाप्रज्ञप्तिर् उपलभ्यते, एवं न श्रोत्रं न शब्दो न घ्राणं न गन्धो न जिह्वा न रसो न कायो न स्प्रष्टव्यं न मनो न धर्मो न मनोविज्ञानं न मनःसंस्पर्शो न मनःसंस्पर्शप्रत्ययवेदनाप्रज्ञप्तिर् उपलभ्यते. एवं न पारमिता न बोधिपक्ष्या धर्मा न विमोक्षमुखं न बलवैशारद्यप्रतिसंविदो नावेणिकबुद्धधर्मा यावन् न सर्वाकारज्ञताप्रज्ञप्तिर् उपलभ्यते. एवं हि सुभूते इयं गम्भीरा प्रज्ञापारमिता तथागतानां लोकस्य संदर्शयित्री, सा पुनर् इयं गम्भीरा प्रज्ञापारमिता न रूपस्य दर्शयित्री यावन् न सर्वज्ञताया दर्शयित्री. तत् कस्य हेतोः? प्रज्ञापारमिता एव तावत् सुभूते प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, कुतः पुना रूपम् उपलप्स्यते, वेदनासंज्ञासंस्काराः, कुतः पुनर् विज्ञानम् उपलप्स्यते यावत् कुतः पुनः सर्वाकारज्ञता (PSP_४:६०) उपलप्स्यते. इति सर्वचित्तचरितज्ञानम्
SK
पुनर् अपरं सुभूते यावन्तः सत्त्वाः सत्त्वप्रज्ञप्त्या प्रज्ञप्यन्ते रूपिणो वा अरूपिणो वा संज्ञिनो ऽसंज्ञिनो नैवसंज्ञिनो नासंज्ञिन इह वा लोकधातौ ऽन्येषु वा दशदिशि लोकधातुषु यावन्तः सत्त्वास् तेषां यानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि तानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति. कथञ् च सुभूते तथागतस् तेषां सत्त्वानां तानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति? धर्मतया सुभूते तथागतस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति.
SK
सुभूतिर् आह: कतमया भगवन् धर्मतया तथागतस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति?
SK
भगवान् आह: यत्र सुभूते धर्मतायां धर्मतैव नोपलभ्यते प्राग् एव संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि, अनया सुभूते धर्मतया तथागतः संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि तेषां सत्त्वानां यथाभूतं प्रजानाति. इति चित्तसंक्षेपज्ञानम्
SK
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो ऽक्षयतः तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति. कथं च सुभूते तथागतस् तेषां सत्त्वानाम् अक्षयतः संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति? इह सुभूते तथागतो निरोधतः प्रहाणतस् तेषां सत्त्वानां तानि चित्तानि यथाभूतं प्रजानाति, शान्ततस् तुच्छतो विविक्ततः तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति. इति चित्ताक्षयाकारज्ञानम्
SK
पुनर् अपरं सुभूते तथागतस् तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति, वीतरागं चित्तं वीतरागं चित्तम् इति यथाभूतं प्रजानाति, सदोषं चित्तं सदोषं चित्तम् इति यथाभूतं प्रजानाति, विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति, समोहं चित्तं समोहं चित्तम् इति यथाभूतं (PSP_४:६१) प्रजानाति, विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति.
SK
सुभूतिर् आह: कथं भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति? सदोषं चित्तं सदोषं चित्तम् इति यथाभूतं प्रजानाति? समोहं चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति?
SK
भगवान् आह: या सुभूते चित्तस्य सरागदोषमोहता न सा चित्तस्य यथाभूतता. तत् कस्य हेतोर्? न हि सुभूते यथाभूतं चित्तम् उपलभ्यते न चैतसिका धर्माः प्राग् एव सरागं वा सदोषं वा समोहं वा चित्तम् उपलप्स्यते. एवं हि सुभूते तथागतः प्रज्ञापारमिताम् आगम्य तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति, सदोषं चित्तं सदोषं चित्तम् इति यथाभुतं प्रजानाति, समोहञ् चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागतस् तेषां सत्त्वानां विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति? विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति? विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति? या सुभूते चित्तस्य विगतरागता न सा चित्तस्य सरागता. तत् कस्य हेतोर्? न हि सुभूते द्वयोश् चित्तयोः समवधानम् अस्ति. एवं या सुभूते चित्तस्य विगतदोषता न सा चित्तस्य सदोषता, या सुभूते चित्तस्य विगतमोहता न सा चित्तस्य समोहता. तत् कस्य हेतोर्? न हि सुभूते द्वयोश् चित्तयोः समवधानम् अस्ति. एवं सुभूते तथागतस् तेषां सत्त्वानां विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति, विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति, विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति. इति सरागादिचित्तज्ञानम्
SK
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलचित्तं विपुलचित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलं चित्तं विपुलं चित्तम् इति यथाभुतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां न विस्तीर्णं चित्तं न संकुञ्चितञ् चित्तं न हि विवर्द्धते चित्तं न परिहीयते चित्तं नागच्छति न गच्छति (PSP_४:६२) चित्तम् इति यथाभूतं प्रजानाति. तत् कस्य हेतोः? तथा हि सुभूते चित्तस्य स्वभावो नोपलभ्यते येन विस्तीर्णं क्रियते यावद् आगच्छेद् वा. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलं चित्तं विपुलं चित्तम् इति यथाभूतं प्रजानाति. इति विपुलचित्तज्ञानम्
SK
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागतस् तेषां परसत्त्वानां परपुद्गलानां तेषां चित्तानां नागमनं न गमनं नोत्पादं न निरोधं न स्थितिं नान्यथात्वं समनुपश्यति. तत् कस्य हेतोः? न हि सुभूते तेषां चित्तानां स्वभावः संविद्यते, य आगच्छेद् वा गच्छेद् वा उत्पद्येत वा निरुध्येत वा स्थीयेत वान्यथा वा भवेत्. एवं खलु सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति. इति महद्गतचित्तज्ञानम्
SK
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणं चित्तम् अप्रमाणं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणं चित्तम् अप्रमाणं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां तच् चित्तं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं समनुपश्यति. तत् कस्य हेतोः? अनाश्रया हि सुभूते चित्तधारा अप्रमाणा, न हि तेषाम् आश्रयः संविद्यते यत्र प्रतिष्ठेरन्. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणानि चित्तान्य् अप्रमाणानि चित्तानीति यथाभूतं प्रजानाति. इत्य् अप्रमाणचित्तज्ञानम् (PSP_४:६३)
SK
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनं चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनं चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां अलक्षणानि चित्तानि स्वभावरहितानि चित्तानि यथाभूतं प्रजानाति स्वलक्षणशून्यताम् उपादाय. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनञ् चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति. इत्य् अनिदर्शनचित्तज्ञानम्
SK
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति? इति हि सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य पञ्चानां चक्षुषां तानि परचित्तानि नावभासम् आगच्छन्ति. एवं हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्ध इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति. इत्य् अदृश्यचित्तज्ञानम् पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां च चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां तानि चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितान्य् एवं प्रजानाति, यानि कानिचित् सत्त्वानां चित्तोन्मिञ्जितानि वा निमिञ्जितानि वा संमिञ्जितानि वा प्रसारितानि वा उत्पद्यमानान्य् उत्पद्यन्ते, सर्वाणि तानि रूपसंनिश्रितानि, वेदना संज्ञा संस्काराः, विज्ञानसंनिश्रितानि वा उत्पद्यमानान्य् उत्पद्यन्ते. (PSP_४:६४)
SK
एवं हि सुभूते तथागतस् तेषाम् इमां प्रज्ञापारमिताम् आगम्य चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति, भवति तथागतः परंमरणाद् इति रूपगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति तथागतः परंमरणाद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, भवति तथागतः परंमरणाद् इति विज्ञानगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति तथागतः परंमरणाद् इति विज्ञानगतम् एतत्.
SK
शाश्वतश् च आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, अशाश्वतः, शाश्वतश् चाशाश्वतश् च, नैव शाश्वतो नाशाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, एवं वेदना संज्ञा संस्काराः, शाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, अशाश्वतः, शाश्वतश् चाशाश्वतश् च, नैव शाश्वतो नाशाश्वत आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
SK
एवम् अन्तवान् आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, एवं वेदना संज्ञा संस्कारा, अन्तवान् आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. एवम् अनन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, अनन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, अन्तवांश् चानन्तश् चात्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, अन्तवांश् चानन्तश् चात्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, नैवान्तवान् नानन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, नैवान्तवान् नानन्त आत्मा च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
SK
भवत्य् आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् (PSP_४:६५) इति रूपगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्कारा, भवत्य् आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति आत्मा च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्.
SK
स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, वेदना संज्ञा संस्काराः, स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. एवं हि सुभूते तथागतः परसत्त्वानां परपुद्गलानां चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति. इति चित्तोन्मिञ्जितादिज्ञानम्
SK
पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य रूपं संजानीते. किम् इति रूपं संजानीते? तथा सञ्जानीते यथा तथता अवितथता अविकारा अविकल्पा अनिमित्ता अनाभोगा अप्रपञ्चा निरुपलम्भा, वेदना संज्ञा संस्कारा, विज्ञानं संजानीते. किम् इति विज्ञानं संजानीते? तथा संजानीते यथा तथता अवितथता अविकारा अविकल्पा अनिमित्ता अनाभोगा अप्रपञ्चा निरुपलम्भा. एवं हि सुभूते तथागतः परसत्त्वानां परपुद्गलानां प्रज्ञापारमिताम् आगम्य उन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि तथा जानाति यथा तथता अवितथता अविकारा अविकल्पा अनिमित्ता अनाभोगा अप्रपञ्चा निरुपलम्भा. इति तथताकारज्ञानम्
SK
इति सुभूते या उन्मिञ्जितनिमिञ्जितसंनिमिञ्जितप्रसारिततथता सा स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता, या स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता सा सर्वधर्मतथता, या सर्वधर्मतथता सा षण्णां पारमितानां तथता, या षण्नां पारमितानां तथता सा सप्तत्रिंशद् बोधिपक्ष्याणां धर्माणां तथता, या सप्तत्रिंशद् बोधिपक्ष्याणां धर्माणां तथता सा सर्वशून्यतानां तथता, (PSP_४:६६) या सर्वशून्यतानां तथता साष्टानां विमोक्षाणां नवानाञ् चानुपूर्वविहारसमापत्तीनां तथता, या अष्टानां विमोक्ष्याणां नवानाञ् चानुपूर्वविहारसमापत्तीनां तथता साप्रमाणध्यानारूप्यसमापत्तीनां तथता, याप्रमाणध्यानारूप्यसमापत्तीनां तथता सा चतुर्णाम् आर्यसत्यानां तथता, या चतुर्णाम् आर्यसत्यानां तथता सा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तथता, या शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तथता सा षण्णाम् अभिज्ञानां तथता, या षण्णाम् अभिज्ञानां तथता सा सर्वसमाधीनां तथता, या सर्वसमाधीनां तथता सा सर्वधारणीमुखानां तथता, या सर्वधारणीमुखानां तथता सा दशानां तथागतबलानां तथता, या दशानां तथागतबलानां तथता सा चतुर्णां वैशारद्यानां तथता, या चतुर्णां वैशारद्यानां तथता सा चतसृणां प्रतिसंविदां तथता, या चतसृणां प्रतिसंविदां तथता सा महामैत्र्या महाकरुणायास् तथता, या महामैत्र्या महाकरुणायास् तथता साष्टादशानाम् आवेणिकानां बुद्धधर्माणां तथता, याष्टादशानाम् आवेणिकानां बुद्धधर्माणां तथता सा सर्वज्ञतायास् तथता, या सर्वज्ञतायास् तथता सा कुशलाकुशलानां धर्माणां तथता, या कुशलाकुशलानां धर्माणां तथता सा लौकिकलोकोत्तराणां सास्रवानास्रवाणां सावद्यानवद्यानां सक्लेशनिःक्लेशाणां संक्लेशव्यवदानानां संस्कृतासंस्कृतानां धर्माणां तथता, या संस्कृतासंस्कृतानां धर्माणां तथता सातीतानागतप्रत्युत्पन्नानां धर्माणां तथता, यातीतानागतप्रत्युत्पन्नानां धर्माणां तथता सा स्रोतआपन्नधर्मतथता, या स्रोतआपन्नधर्मतथता सा स्रोतआपत्तिफलतथता, या स्रोतआपत्तिफलतथता सा सकृदागामिधर्मतथता, या सकृदागामिधर्मतथता सा सकृदागामिफलतथता, या सकृदागामिफलतथता सा अनागामिधर्मतथता, या अनागामिधर्मतथता सा अनागामिफलतथता, या अनागामिफलतथता सा अर्हत्त्वतथता, या अर्हत्त्वतथता सा अर्हत्त्वफलतथता, या अर्हत्त्वफलतथता सा प्रत्येकबुद्धतथता या प्रत्येकबुद्धतथता सा प्रत्येकबोधितथता, या प्रत्येकबोधितथता सानुत्तरायाः सम्यक्संबोधेस् तथता, यानुत्तरायाः सम्यक्संबोधेस् (PSP_४:६७) तथता सा तथागततथता, या तथागततथता सा सर्वसत्त्वतथता. इति हि या च तथागततथता या च सर्वसत्त्वतथता, एकैवैषा तथता अविनिर्भागतथता, या अविनिर्भागतथता सा अक्षया, या चाक्षया साक्षयत्वेनाद्वैधीकारा. इयं सुभूते सर्वधर्मतथता, या प्रज्ञापारमिताम् आगम्य तथागतेनाभिसंबुद्धा, एवम् इयं सुभूते प्रज्ञापारमिता तथता तथागतानां जनयित्री, एवं हि सुभूते इयं प्रज्ञापारमिता लोकस्य दर्शयित्री, एवं हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्मतथतां जानाति, अवितथताम् अनन्यतथतां जानाति, यया तथतया तथागतो ऽर्हन् सम्यक्संबुद्ध इत्य् उच्यते.
SK
सुभूतिर् आह: गम्भीरा भगवन् यद् उत सर्वधर्माणां तथता अवितथता अनन्यतथता. अनया भगवंस् तथतया बुद्धानां भगवतां बोधिः प्रकाशिका. को ऽत्र भगवन्न् अधिमोक्ष्यते? अन्यत्राविनिवर्तनीयैर् बोधिसत्त्वैर् महासत्त्वैर् दृष्टिसंपन्नैर् वा पुद्गलैर् अर्हद्भिः क्षीणास्रवैर् वा यावद् गम्भीरा भगवन्न् इमे धर्मास् तथागतेनाभिसंबुध्याख्याताः.
SK
भगवान् आह: तथा हि सुभूते अक्षया तथता. कस्माद् अक्षया? सर्वधर्माणाम् अक्षयत्वाद् अक्षया तथता, एषा सा सुभूते तथता तथागतेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्याख्याता यद् उत सर्वधर्मतथता. इति सम्यक्संबुद्धस्य तथतावबोधतत्परसमाख्यानप्रज्ञपनज्ञानानि
SK
अथ खलु यावन्तस् त्रिसाहस्रमहासाहस्रलोकधातौ कामावचरा रूपावचराश् च देवपुत्रास् ते सर्वे दिव्यानि चन्दनचूर्णानि परिगृह्य येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते तिष्ठन्न्, एकान्ते स्थिताश् च ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: गम्भीरेयं भगवन् प्रज्ञापारमिता प्रकाश्यते. किंलक्षणा भगवन् प्रज्ञापारमिता?
SK
भगवान् आह: शून्यतालक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, आनिमित्तलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, अप्रणिहितलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता. (PSP_४:६८)
SK
इति शून्यतानिमित्ताप्रणिहितलक्षणानि
SK
अनुत्पादलक्षणा अनिरोधलक्षणा असंक्लेशलक्षणा अव्यवदानलक्षणा अभावलक्षणा अस्वभावलक्षणा अनिश्रितलक्षणा आकाशलक्षणा अशाश्वतलक्षणा अनुच्छेदलक्षणा अनभिसंस्कारलक्षणा अनेकार्थलक्षणा अनानार्थलक्षणा अनागमनलक्षणा आगमनलक्षणा अलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता. एवंलक्षणा हि देवपुत्रा इयं गम्भीरा प्रज्ञापारमिता, तथागतेन लोकसंकेतेन व्यवह्रियते न पुनः परमार्थेन. इत्य् अनुत्पादानिरोधादिज्ञानम्
SK
न हि देवपुत्रा एतानि लक्षणानि सदेवमानुषासुरेण लोकेन शक्यन्ते विकोपयितुम्. तत् कस्य हेतोः? सदेवमानुषासुरो ऽपि हि लोकस् तल्लक्षण, एवं न हि देवपुत्रा लक्षणं लक्षणं विकोपयति, न लक्षणं लक्षणं प्रजानाति, नालक्षणं लक्षणं प्रजानाति, इति हि लक्षणानि च अलक्षणानि च लक्षणालक्षणानि च, तयोर् द्वयोर् अपि नास्ति संभवः, येन प्रजानीयाद् यो वा प्रजानीयात्. इति धर्मताविकोपनज्ञानम्
SK
न हि देवपुत्रा एतानि लक्षणानि रूपसंस्कृतानि, एवं वेदनासंज्ञासंस्कारा, न विज्ञानसंस्कृतानि न धातुसंस्कृतानि नायतनसंस्कृतानि न प्रतीत्यसमुत्पादसंस्कृतानि न दानपारमितासंस्कृतानि न शीलपारमितासंस्कृतानि न क्षान्तिपारमितासंस्कृतानि न वीर्यपारमितासंस्कृतानि ध्यानपारमितासंस्कृतानि प्रज्ञापारमितासंस्कृतानि न सर्वशून्यतासंस्कृतानि न बोधिपक्ष्यधर्मसंस्कृतानि नार्यसत्यसंस्कृतानि नाप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिसंस्कृतानि न शून्यतानिमित्ताप्रणिहितसंस्कृतानि, नाभिज्ञासंस्कृतानि न सर्वसमाधिसंस्कृतानि न सर्वधारणीमुखसंस्कृतानि न तथागतबलसंस्कृतानि न वैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसंस्कृतानि न सर्वज्ञतासंस्कृतानि. इत्य् अनभिसंस्कारज्ञानम्
SK
न हि देवपुत्रा एतानि लक्षणानि मनुष्याणां वा अमनुष्याणां वा सास्रवाणि वा अनास्रवाणि वा लौकिकानि वा लोकोत्तराणि वा संस्कृतानि वा असंस्कृतानि वा.
SK
अथ खलु भगवांस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् एतद् (PSP_४:६९) अवोचत्: यदि कश्चिद् देवपुत्रा आकाशं किं लक्षणम्? इति वदेद्, अपि नु स सम्यग् वदमानो वदेत्.
SK
देवपुत्रा आहुर्: न भगवन् सम्यग् वदमानो वदेत्. तत् कस्य हेतोः? न हि भगवन्न् आकाशं केनचिल् लक्षणेन संविद्यते असंस्कृतत्वाद् आकाशधातोः. इत्य् अविकल्पज्ञानम्
SK
भगवान् आह: उत्पादाद् वा देवपुत्रास् तथागतानाम् अनुत्पादाद् वा स्थितैवैषा धर्मधातुस्थितिर् एवंलक्षणा, यथा स्थितो लक्षणहेतुः सा भूता तथागतेनाभिसंबुद्धा, तस्मात् तथागतस् तथागत इत्य् उच्यते.
SK
देवपुत्रा आहुः: गम्भीराणि भगवन्न् इमानि लक्षणानि तथागतेनाभिसंबुद्धानि येषां लक्षणानाम् अभिसंबुद्धत्वात्, तथागतस्यासङ्गज्ञानं येषु लक्षणेषु स्थित्वा तथागतेन सर्वलक्षणानि संप्रकाशितानि, प्रज्ञापारमितासंप्रकाशनतया भगवंस् तानि लक्षणानि संप्रकाशितानि. आश्चर्यं भगवन् यावद् गम्भीरेयं प्रज्ञापारमिता तथागतानाम् अर्हतां सम्यक्संबुद्धानां गोचरो, यत्र चरतो तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, अनुत्तरां च सम्यक्संबोधिम् अभिसंबुध्य सर्वलक्षणानां प्रभेदः कृतो, रूपलक्षणस्य वेदनालक्षणस्य संज्ञालक्षणस्य संस्कारलक्षणस्य विज्ञानलक्षणस्य, एवं स्कन्धलक्षणस्य धातुलक्षणस्य आयतनलक्षणस्य प्रतीत्यसमुत्पादलक्षणस्य प्रभेदः कृतो यावत् सर्वज्ञतालक्षणस्य प्रभेदः कृतः. इति प्रभेदज्ञानम्
SK
अथ खलु भगवांस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् एतद् अवोचत्: रूपाणां लक्षणं देवपुत्रा रूपम्, एवं तत् तथागतेनालक्षणम् इत्य् अभिसंबुद्धम्, अनुभवलक्षणा वेदना, निमित्तोद्ग्रहणलक्षणा संज्ञा, अभिसंस्कारलक्षणाः संस्काराः, प्रतिविज्ञप्तिलक्षणं विज्ञानं तथागतेनालक्षणम् इत्य् अभिसंबुद्धं, राशीलक्षणा स्कन्धाः, गोत्रलक्षणा धातवः, आयद्वारलक्षणान्य् आयतनानि, सामग्रीलक्षणः प्रतीत्यसमुत्पादस् तथागतेनैते ऽलक्षणा इत्य् अभिसंबुद्धाः, परित्यागलक्षणा दानपारमिता, सा तथागतेनालक्षणेत्य् अभिसंबुद्धा. अनुद्दाहलक्षणा शीलपारमिता, अकोपलक्षणा क्षान्तिपारमिता, अनवमर्दनीयलक्षणा वीर्यपारमिता, संग्रहलक्षणा ध्यानपारमिता, असङ्गलक्षणा प्रज्ञापारमिता, सा तथागतेनालक्षणेत्य् अभिसंबुद्धा. अविकोपनलक्षणानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयस् (PSP_४:७०) तास् तथागतेनालक्षणा इत्य् अभिसंबुद्धाः. नैर्याणिकलक्षणाः सप्तत्रिंशद् बोधिपक्ष्या धर्मास् ते तथागतेनालक्षणा इत्य् अभिसंबुद्धाः. विविक्तलक्षणा शून्यता, शान्तलक्षणम् आनिमित्तम्, अनाभोगलक्षणम् अप्रणिहितं तत् तथागतेनालक्षणम् इत्य् अभिसंबुद्धं विमोचलक्षणा विमोक्ष्यास् ते तथागतेनालक्षणा इत्य् अभिसंबुद्धाः. सुनिश्चितलक्षणानि बलानि, सुप्रतिष्ठितलक्षणानि वैशारद्यान्य्, अनाच्छेद्यलक्षणाः प्रतिसंविदः, हितोपसंहारलक्षणा महामैत्री, परित्राणलक्षणा महाकरुणा, बुद्धधर्मप्रसादप्रामोद्यलक्षणा मुदिता, सर्वदोषसुखदुष्खलाभालाभयशोयशोनिन्दाप्रशंसोपेक्षाणां लक्षणा उपेक्षा, असंहार्यलक्षणा अष्टादशावेणिका बुद्धधर्मास् ते तथागतेनालक्षणा इत्य् अभिसंबुद्धा यावत् प्रत्यक्षलक्षणं सर्वज्ञज्ञानं तथागतेनालक्षणम् इत्य् अभिसंबुद्धम्. एवं हि देवपुत्रास् तथागतेन सर्वधर्मा अलक्षणा इत्य् अभिसंबुद्धास् तेन तथागतो सङ्गज्ञानीत्य् उच्यते. इत्य् अलक्षणज्ञानम्
SK
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: प्रज्ञापारमिता सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य येनैव जनयित्री अस्य च लोकस्य दर्शयित्री तेन कारणेन तथागत इमं प्रज्ञापारमिताधर्मम् उपनिश्रित्य विहरति. इति स्वधर्मोपनिश्रयविहारज्ञानम्
SK
एवं धर्मं सत्करोति गुरुकरोति मानयति पूजयति अर्चयत्य् अपचायते. इयं सा सुभूते प्रज्ञापारमिताधर्मता तस्माद् इमां तथागतः प्रज्ञापारमितां सत्करोति गुरुकरोति मानयति पूजयत्य् अर्चयत्य् अपचायते. तत् कस्य हेतोः? अतो हि सुभूते प्रज्ञापारमितायाः बुद्धानां भगवतां प्रादुर्भावो भवति, कृतज्ञश् च सुभूते तथागतः कृतवेदी, ये खलु पुनः सुभूते सम्यग्वदमाना वदेयुः कृतज्ञः कृतवेदीति तथागतं, ते सम्यग्वदमानाः सम्यग् वदेयुः कृतज्ञः कृतवेदीति. कथं च सुभूते तथागतः कृतज्ञो भवति कृतवेदीति? येन सुभूते यानेन तथागत आगतः, यया प्रतिपदा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस् ततस् तथागतस् तद् एव यानं ताम् एव प्रतिपदं सत्करोति गुरुकरोति मानयति पूजयति अर्चयत्य् अपचायते ऽनुगृह्णाति अनुपरिपालयते, इयं सा सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या. इति सत्कारादिज्ञानम् (PSP_४:७१)
SK
पुनर् अपरं सुभूते तथागतेन सर्वधर्मा अकृता इत्य् अभिसंबुद्धाः कारकासत्ताम् उपादाय, अविकृता इत्य् अभिसंबुद्धा निग्रहासत्ताम् उपादाय इयम् अपि सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या. एवं तथागतेन प्रज्ञापारमिताम् आगम्य सर्वधर्मा अकृता इत्य् अभिसंबुद्धाः. इत्य् अकृतकज्ञानम्
SK
पुनर् अपरं सुभूते तथागतस्य प्रज्ञापारमिताम् आगम्य सर्वधर्मेष्व् अकृतकज्ञानं प्रवृत्तम् अप्रवृत्तिसंकेतेनानेन सुभूते पर्यायेण प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इति सर्वत्रगज्ञानम्
SK
सुभूतिर् आह: यदा भगवन् सर्वधर्मा अजानका अपश्यकाः, कथं तदा प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् सर्वधर्मा अजानका अपश्यकाः, कथञ् च सुभूते सर्वधर्मा अजानका अपश्यकाः? सर्वधर्मा हि सुभूते शून्याः ऋक्तकाः तुच्छका असारकाः, अनेन सुभूते पर्यायेण सर्वधर्मा अजानका अपश्यकाः.
SK
पुनर् अपरं सुभूते सर्वधर्मा अजानका अपश्यकाः, कथञ् च सुभूते सर्वधर्मा अजानका अपश्यकाः? सर्वधर्माः सुभूते अनिश्रिता अपर्यापन्नाः, अनेन सुभूते पर्यायेण सर्वधर्मा अजानका अपश्यकाः. एवं खलु सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. सा च पुना रूपस्यादृष्टत्वाद् दर्शयित्री, एवं वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यादृष्टत्वाद् दर्शयित्री, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्यादृष्टत्वाद् दर्शयित्री. एवं यावत् सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री, एवं खलु सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री.
SK
सुभूतिर् आह: कथं भगवन् रूपस्यादृष्टत्वात्? कथं वेदनायाः संज्ञायाः संस्काराणां? कथं विज्ञानस्यादृष्टत्वाद् दर्शयित्री भवति? कथं स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्यादृष्टत्वाद् दर्शयित्री? कथं यावत् सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री?
SK
भगवान् आह: यदा सुभूते न रूपारम्बणं विज्ञनम् उत्पद्यते, एवं हि सुभूते रूपस्यादृष्टत्वाद् दर्शयित्री. एवं यदा सुभूते न वेदनासंज्ञासंस्कारारम्बणं, (PSP_४:७२) यदा न विज्ञानारम्बणं विज्ञानम् उत्पद्यते, एवं विज्ञानस्यादृष्टत्वाद् दर्शयित्री. यदा न स्कन्धधात्वायतनप्रतीत्यसमुत्पादारम्बणं विज्ञानम् उत्पद्यते, एवम् एषाम् अदृष्टत्वाद् दर्शयित्री. यदा न पारमितारम्बणं विज्ञानम् उत्पद्यते, एवं पारमितानाम् अदृष्टत्वाद् दर्शयित्री. एवं सर्वशून्यतानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां पञ्चानाम् अभिज्ञानां सर्वधारणीमुखानां दशतथागतबलानां वैशारद्यानां प्रतिसंविदां, यदा न आवेणिकबुद्धधर्मारम्बणं विज्ञानम् उत्पद्यते, एवम् आवेणिकबुद्धधर्माणाम् अदृष्टत्वाद् दर्शयित्री. यदा सुभूते न सर्वज्ञतारम्बणं विज्ञानम् उत्पद्यते, एवं सर्वज्ञताया अदृष्टत्वाद् दर्शयित्री. एवं हि सुभूते इयं गम्भीरा प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इत्य् अदृष्टार्थदर्शकज्ञानम्
SK
पुनर् अपरं सुभूते कथं प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री? इह सुभूते प्रज्ञापारमिता लोकः शून्य इति सूचयति. किम् इति लोकः शून्य इति सूचयति? पञ्चस्कन्धा लोकः शून्य इति सूचयति, द्वादशायतनानि लोकः शून्य इति सूचयति, अष्टादशधातवो लोकः शून्य इति सूचयति, दशकुशलाः कर्मपथा लोकः शून्य इति सूचयति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो लोकः शून्य इति सूचयति, अविद्या प्रत्ययो द्वादशाङ्गप्रतीत्यसमुत्पादो लोकः शून्य इति सूचयति, सत्कायदृष्टिपूर्वकानि द्वाषष्टिदृष्टिकृतानि लोकः शून्य इति सूचयति, सप्तत्रिंशद्बोधिपक्ष्या धर्मा लोकः शून्य इति सूचयति, षट्पारमिता लोकः शून्य इति सूचयति. एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता यावद् अभावस्वभावशून्यता लोकः शून्य इति सूचयति. एवं दशबलानि वैशारद्यानि प्रतिसंविद आवेणिकबुद्धधर्मा लोकः शून्य इति सूचयति, सर्वज्ञता लोकः शून्य इति सूचयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री.
SK
पुनर् अपरं सुभूते प्रज्ञापारमिता लोकः शून्य इति ज्ञापयति. (PSP_४:७३) किम् इति लोकः शून्य इति ज्ञापयति? स्कन्धधात्वायतनानि लोकः शून्य इति ज्ञापयति, प्रतीत्यसमुत्पादो दशकुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो लोकः शून्य इति ज्ञापयति, सप्तत्रिंशद्बोधिपक्ष्या धर्मा यावत् सर्वज्ञता लोकः शून्य इति ज्ञपयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्रि अस्य च लोकस्य दर्शयित्री.
SK
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोकः शून्य इति दर्शयति. किम् इति लोकः शून्य इति दर्शयति? स्कन्धधात्वायतनप्रतीत्यसमुत्पादं दशकुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः सत्कायदृष्टिपूर्वकाणि द्वाषष्टिदृष्टिकृतानि षट्पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माः सर्वशून्यता दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वाकारज्ञता लोकः शून्य इति दर्शयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इति शून्यताकारसूचकज्ञानोपदर्शकज्ञानानि
SK
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोको ऽचिन्त्य इति दर्शयति. किम् इति लोको ऽचिन्त्य इति दर्शयति? पञ्चस्कन्धा धातव आयतनानि प्रतीत्यसमुत्पादो यावत् सर्वाकारज्ञता लोको ऽचिन्त्य इति दर्शयति. एवं विविक्त इति अत्यन्तशून्य इति स्वभावशून्य इति दर्शयति.
SK
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोकः शान्त इति दर्शयति. किम् इति लोकः शान्त इति दर्शयति? स्कन्धधात्वायतनप्रतीत्यसमुत्पादा यावत् सर्वाकारज्ञता लोकः शान्त इति दर्शयति. एवं हि सुभूते प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इत्य् अचिन्त्यताशान्तज्ञानम्
SK
पुनर् अपरं सुभूते प्रज्ञापारमिता तथागतस्य लोकः शून्यतैवेति दर्शयति. किम् इति लोकः शून्यतैवेति दर्शयति? पञ्चस्कन्धा लोकः शून्यतैवेति दर्शयति, तथा धात्वायतनानि लोकः शून्यतैवेति दर्शयति, प्रतीत्यसमुत्पादाङ्गानि लोकः शून्यतैवेति दर्शयति. एवं यावत् सर्वाकारज्ञता लोकः शून्यतैवेति दर्शयति. एवं हि सुभूते (PSP_४:७४) प्रज्ञापारमिता तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. सा पुनर् इयं सुभूते गम्भीरा प्रज्ञापारमिता तथागतस्यैवं लोकं दर्शयति, यथा नेहलोकसंज्ञा नापि परलोकसंज्ञा भवति. तत् कस्य हेतोः? तथा हि ते धर्मा न संविद्यन्ते ये नेहलोकसंज्ञां परलोकसंज्ञां वा कुर्याद्. इति लोकसंज्ञानिरोधज्ञानम् इति ज्ञानलक्षणम्
SK
सुभूतिर् आह: महाकृत्येन बतेयं भगवन् प्रज्ञापारमिता भगवतः प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता भगवतः.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येन सुभूते प्रज्ञापारमिता प्रत्युपस्थिता तथागतानां. कथं च सुभूते महाकृत्येन प्रज्ञापारमिता प्रत्युपस्थिता? महाकृत्यम् इदं सुभूते तथागतानां यद् उत सर्वसत्त्वानां त्राणलयनापरित्यागार्थेन. कथं च सुभूते अचिन्त्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अचिन्त्यं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्. एवम् अचिन्त्यकृत्येन सुभूते प्रज्ञापारमिता प्रत्युपस्थिता तथागतानाम् अर्हतां सम्यक्संबुद्धानाम्. कथं च सुभूते अतुल्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? न हि सुभूते कश्चित् सत्त्वः सत्त्वनिकाये संविद्यते, यः शक्नुयात् तथागतम् अर्हन्तं सम्यक्संबुद्धं तुलयितुम्. अनेन सुभूते पर्यायेणातुल्यकृत्येन तथागतानाम् अर्हतां सम्यक्संबुद्धानां प्रज्ञापारमिता प्रत्युपस्थिता. कथं च सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अप्रमेयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अप्रमेयं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वं तन् न शक्यं केनचित् प्रमातुम्. अनेन सुभूते पर्यायेणाप्रमेयकृत्येनेयं तथागतानां प्रज्ञापारमिता प्रत्युपस्थिता. कथञ् च सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् असंख्येयकृत्येन प्रज्ञापारमिता प्रत्युपस्थिता? असंख्येयं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वं तन् न शक्यं केनचित् संख्यातुम्. अनेन सुभूते पर्यायेणासंख्येयकृत्येन (PSP_४:७५) तथागतानां प्रज्ञापारमिता प्रत्युपस्थिता. कथञ् च सुभूते असमसमकृत्येन प्रज्ञापारमिता प्रत्युपस्थिता? नास्ति सुभूते तथागतानां समः कुतः पुनर् उत्तरः. अनेन सुभूते पर्यायेण असमसमकृत्येन तथागतानां प्रज्ञापारमिता प्रत्युपस्थिता.
SK
सुभूतिर् आह: किं पुनर् भगवन् बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम्?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अचिन्त्यं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्, एवम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्. रूपम् अपि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमं, वेदना संज्ञा संस्कारा, विज्ञानं सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम्, एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमः. एवं यावत् सर्वज्ञता ऽप्य् अचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा, सर्वधर्मा अपि सुभूते ऽचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा, या सुभूते सर्वधर्माणां धर्मता न तत्र चित्तन् न चैतसिका वा धर्मा उपलप्स्यन्ते. तत् कस्य हेतोः? रूपं हि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते, वेदना संज्ञा संस्कारा, विज्ञानं हि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते. एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो न प्रज्ञायते, यावत् सर्वज्ञता ऽप्य् अचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा न प्रज्ञायते.
SK
सुभूतिर् आह: केन कारणेन भगवन् रूपम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते, वेदना संज्ञा संस्कारा विज्ञानम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते. एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो न प्रज्ञायते. एवं यावत् सर्वज्ञतापि भगवन् केन कारणेन ऽचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा न प्रज्ञायते?
SK
भगवान् आह: रूपस्यापि चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञयते. एवं यावत् सर्वाकारज्ञतायाश् चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञायते.
SK
सुभूतिर् आह: केन कारणेन भगवन् रूपस्य यावत् सर्वाकारज्ञतायाश् (PSP_४:७६) चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञायते?
SK
भगवान् आह: रूपस्य सुभूते स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य सुभूते स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. एवं धात्वायतनप्रतीत्यसमुत्पादस्य स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. एवं यावत् सर्वज्ञतायाः स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. तत् किं मन्यसे? सुभूते यद् रूपम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम् अपि नु तत्र रूपम् उपलभ्यते, वेदना संज्ञा संस्काराः, यत् सुभूते विज्ञानम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम् अपि नु तत्र विज्ञानम् उपलभ्यते. ये धात्वायतनप्रतीत्यसमुत्पादा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः, अपि नु तत्र धात्वायतनप्रतीत्यसमुत्पादा उपलभ्यन्ते. या सुभूते सर्वज्ञता ऽचिन्त्या ऽतुल्या ऽप्रमेया ऽसंख्येया ऽसमसमा ऽपि नु तत्र सर्वज्ञतोपलभ्यते.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: अनेन सुभूते पर्यायेण सर्वधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः, इमे ते सुभूते तथागतस्य तथागतधर्मा अचिन्त्याश् चिन्तनोपरतत्वाद्, अतुल्यास् तुलनोपरतत्वाद्, अप्रमेयाः प्रमाणोपरतत्वाद्, असंख्येया गणनोपरतत्वाद्, असमसमाः समविषमोपरतत्वात्. अनेन सुभूते पर्यायेण सर्वधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः, इमे ते सुभूते तथागतस्य तथागतधर्मा अचिन्त्याश् चिन्तासमतिक्रान्ताः, अतुल्यास् तुलनासमतिक्रान्ताः, अप्रमेयाः प्रमाणसमतिक्रान्ताः, असंख्येया गणनासमतिक्रान्ताः, असमसमाः समविषमसमतिक्रान्ताः. अचिन्त्या इति सुभूते अचिन्तनाधिवचनम् एतत्, अतुल्या इति सुभूते अतुलनाधिवचनम् एतत्, अप्रमेया इति सुभूते अप्रमाणाधिवचनम् एतत्, असंख्येया इति सुभूते अगणनाधिवचनम् एतत्, असमसमा इति सुभूते असमविषमाधिवचनम् एतत्, इमे ते सुभूते तथागतस्य तथागतधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः. अचिन्त्या इति सुभूते आकाशाचिन्त्यत्वाद्, एवम् अतुल्या अप्रमेया असंख्येया असमसमा आकाशासमसमत्वाद्. एवं हि सुभूते तथागतस्य तथागतधर्मा अचिन्त्या अतुल्या अप्रमेया असंख्येया (PSP_४:७७) असमसमाः, ते न शक्यन्ते सर्वश्रावकप्रत्येकबुद्धैः सर्वदेवकेनापि लोकेन चिन्तयितुं वा तुलयितुं वा प्रमातुं वा संख्यातुं वा समविषमं वा कर्तुम्. एवम् अप्रमेया बुद्धा अप्रमेया बुद्धधर्माः, अस्मिन् खलु पुनर् अचिन्त्यातुल्याप्रमेयासंख्येयासमसमपरिवर्तधर्मपर्याये भगवता भाष्यमाणे पञ्चानां भिक्षुशतानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, विंशतीनां च भिक्षुणी शतानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, षष्टेश् चोपासकसहस्राणां विंशतीनाम् उपासिकासहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं, विंशतेश् च बोधिसत्त्वसहस्राणाम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्. ते च भगवता इहैव भद्रकल्पे व्याकृता बुद्धा भविष्यन्ति. इत्य् अचिन्त्यतादिविशेषेण दुःखे चत्वारः क्षणाः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवन् प्रज्ञापारमिता, महाकृत्येनेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनासंख्येयकृत्येनाप्रमेयकृत्येनासमसमकृत्येनेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता. तत् कस्य हेतोः? अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां पञ्चपारमिताः समायुक्ताः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायाम् अध्यात्मशून्यता समायुक्ता यावद् अभावस्वभावशून्यता समायुक्ता, चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गमार्गः समायुक्तः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वार्य् आर्यसत्यानि अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि षडभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि समायुक्तानि. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां दशतथागतबलानि समायुक्तानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः समायुक्ताः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां बुद्धभूमिः समायुक्ता यावत् सर्वाकारज्ञता समायुक्ता, तद्यथापि नाम सुभूते राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य जनपदस्थामवीर्यप्राप्तस्य (PSP_४:७८) यानि तानि राजकृत्यानि भवन्ति सर्वाणि तान्य् अमात्यसमायुक्तान्य् अल्पोत्सुकस् ततो राजा भवत्य् अपहृतभारः राजकृत्ये वा जनपदकृत्ये वा. एवम् एव सुभूते ये केचिच् छ्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितासमायुक्ताः प्रज्ञापारमिता तेषां कृत्यं करोति. तस्मात् तर्हि सुभूते महाकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता. तत् कस्य हेतोः? तथा हि सुभूते गम्भीरा प्रज्ञापारमिता रूपस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, यावत् सर्वाकारज्ञताया अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, स्रोतआपत्तिफलस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता. एवं सकृदागामिफलस्यानागामिफलस्यार्हत्त्वस्य प्रत्येकबोधेर् अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता.
SK
सुभूतिर् आह: कथं भगवन् रूपस्यापरिग्रहायानभिनिवेशायेयं प्रज्ञापारमिता प्रत्युपस्थिता? कथं भगवन् वेदनायाः संज्ञायाः संस्काराणां? कथं भगवन् विज्ञानस्यापरिग्रहायानभिनिवेशायेयं प्रज्ञापारमिता प्रत्युपस्थिता? यावत् कथं भगवन्न् अनुत्तरायाः सम्यक्संबोधेर् अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता?
SK
भगवान् आह: समनुपश्यसि त्वं सुभूते तद् रूपं यद् रूपं येन वा परिगृह्णीयाद् अभिनिवेशेत वा?
SK
सुभूतिर् आह: नो हीदं भगवन्, वेदना संज्ञा संस्काराः.
SK
भगवान् आह: समनुपश्यसि त्वं सुभूते तद् विज्ञानं येन वा परिगृह्णीयाद् अभिनिवेशेत? एवं यावत् समनुपश्यसि त्वं सुभूते ताम् अनुत्तरां सम्यक्संबोधिं या परिगृह्णीयाद् अभिनिवेशेत?
SK
सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: साधु साधु सुभूते, अहम् अपि सुभूते तद् रूपन् न समनुपश्यामि यत् परिगृह्णीयां वा अभिनिविशेयं वा, यो वा परिगृह्णीयाद् अभिनिविशेत वा, वेदनासंज्ञासंस्कारान्, अहम् अपि सुभूते तद् विज्ञानन् न समनुपश्यामि यत् परिगृह्णीयां वा अभिनिविशेयं वा, यो वा परिगृह्णीयाद् अभिनिविशेत वा, एवं यावद् अहम् अपि सुभूते ताम् (PSP_४:७९) अनुत्तरां सम्यक्संबोधिन् न समनुपश्यामि, असमनुपश्यन् न परिगृह्णामि अपरिगृह्णन् नाभिनिविशे, अहम् अपि सुभूते बुद्धभूमिं सर्वज्ञतां सर्वाकारज्ञतां तथागतत्वं बुद्धत्वं न समनुपश्यामि, असमनुपश्यन् न परिगृह्णामि, अपरिगृह्णन् नाभिनिविशे, तस्मात् तर्हि सुभूते बोधिसत्त्वैर् महासत्त्वैर् रूपन् न परिग्रहीतव्यं नाभिनिवेष्टव्यम्. एवं वेदना संज्ञा संस्काराः, विज्ञानं सुभूते बोधिसत्त्वैर् महासत्त्वैर् न परिग्रहीतव्यन् नाभिनिवेष्टव्यम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादानि न परिग्रहीतव्यानि नाभिनिवेष्टव्यानि, एवं सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न परिग्रहीतव्या नाभिनिवेष्टव्या यावद् अनुत्तरा सम्यक्संबोधिर् न परिग्रहीतव्या नाभिनिवेष्टव्या. एवं बुद्धत्वं सर्वज्ञत्वं सर्वाकारज्ञत्वं तथागतत्वन् न परिग्रहीतव्यं नाभिनिवेष्टव्यम्. इति सर्वार्यपुद्गलसंग्रहविशेषेन समुदये प्रथमः क्षणः
SK
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: गम्भीरा भगवन् प्रज्ञापारमिता दुर्दृशा दुरनुबोधा अतर्का अतर्कावचरा शान्ता सूक्ष्मा निपुनपण्डितविज्ञवेदनिया भगवन् प्रज्ञापारमिता. ते खलु भगवन् बोधिसत्त्वाः पूर्वजिनकृताधिकारा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते, कल्याणमित्रपरिगृहीता अवरोपितकुशलमूलाः. ते खलु भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते. इति पुरुषविशेषवेदनीयताविशेषेण समुदये द्वितीयः क्षणः
SK
सचेद् भगवन् ये त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वाः सर्वे ते श्रद्धानुसारिणो भवेयुः, धर्मानुसारिनो ऽष्टमकाः स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तो भवेयुः, प्रत्येकबुद्धा भवेयुः, (PSP_४:८०) तेषां सर्वेषां यच् च ज्ञानं यच् च प्रहाणं, या चेह गम्भीरायां प्रज्ञापारमितायाम् एकदेवसिकी क्षान्तिरुचिश् चिन्तना तुलना उपपरीक्षणा गणना इयम् एव ततः परं श्रेयः, यस्येह एवंरूपायां प्रज्ञापारमितायां रुचिः क्षान्तिः. तत् कस्य हेतोः? तथा हि यच् च श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकस्य स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां ज्ञानञ् च प्रहाणञ् च, सानुत्पत्तिकधर्मक्षान्तिप्रतिलब्धस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः.
SK
अथ खलु भगवांस् तान् देवपुत्रान् आमन्त्रयते स्म: एवम् एतद् देवपुत्रा एवम् एतद्, यच् च यावत् प्रत्येकबुद्धानां ज्ञानं यच् च प्रहाणं, सानुत्पत्तिकधर्मक्षान्तिप्रतिलब्धस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. इत्य् असाधारणताविशेषेन समुदये तृतीयक्षणः
SK
यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां शृणुयात्, श्रुत्वा च लिखेत लिखित्वा च उद्दिश्येद् योनिशश् च मनसिकुर्यात्. एषां खलु पुनः कुलपुत्राणां कुलदुहितृणाञ् च क्षिप्रतरं परिनिर्वाणं प्रतिकाङ्क्षितव्यं, न त्व् एव तेषां श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा प्रज्ञापारमिताविरहितानाम् अन्येषु सूत्रान्तेषु चरताम्. तत् कस्य हेतोः? तथा हि इह गम्भीरायां प्रज्ञापारमितायां सामुत्कर्षिका धर्मा विस्तरेणोपदिष्टा यत्र श्रद्धानुसारिभिर् धर्मानुसारिभिर् अष्टमकैश् च शिक्षितव्यं, यत्र च स्रोतआपन्नैः सकृदागामिभिर् अनागामिभिर् अर्हद्भिः प्रत्येकबुद्धैर् महायानसंप्रस्थितैर् बोधिसत्त्वैर् महासत्त्वैश् च शिक्षितव्यं, यथा तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः शिक्षमाणैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. इति क्षिप्राभिज्ञताविशेषेन समुदये चतुर्थः क्षणः
SK
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा उदानम् उदानयामासुह्: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता, अचिन्त्यपारमितातुल्यपारमिताप्रमेयपारमितासंख्येयपारमितासमसमपारमितेयं भगवन् यद् उत प्रज्ञापारमिता, यत्र हि नाम भगवन्न् इह गम्भीरायां प्रज्ञापारमितायां शिक्षित्वा श्रद्धानुसारिणो निर्यास्यन्ति धर्मानुसारिणो निर्यास्यन्ति अष्टमकाः, स्रोतआपन्नाः सकृदागामिनो (PSP_४:८१) ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः, यत्र शिक्षित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते. न चास्याः प्रज्ञापारमिताया ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते. इत्य् अनूनापूर्णताविशेषेन निरोधे प्रथमक्षणः
SK
अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो ऽन्तिकात् प्रक्रान्ता अभूवन्. ते नातिदूरङ् गत्वा अन्तर्हिता अभूवन्, ये कामावचरा देवपुत्रास् ते कामधातौ प्रातिष्ठन्ते, ये रूपावचरा देवपुत्रास् ते रूपधातौ प्रातिष्ठन्ते.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते स कुतश् च्युत इहोपपन्नो भविष्यति?
SK
भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा सह श्रवणेनाधिमोक्ष्यते नावलेष्यति न संलेष्यति न धन्वायिष्यति न काङ्क्षिष्यति न विचिकित्सिष्यति अभिनन्दिष्यति चेमां गम्भीरां प्रज्ञापारमितां श्रोतुं श्रुत्वा चेमां गम्भीरां प्रज्ञापारमितां तेनैव मनसिकारेणाविरहितो भविष्यति, न तान् मनसिकारान् गच्छन्न् आगच्छन् स्थितो निषण्नः शायितो वा सततसमितम् उच्छ्रक्ष्यति, तं च धर्मभाणकं पुद्गलं सततसमितम् अनुबन्धिष्यति, तद्यथापि नाम सुभूते तरुणवत्सा गौर् नोत्सृजति वत्सम्. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽस्या गम्भीरायाः प्रज्ञापारमितायाः कृतशस् तावन् न जहाति तं धर्मभाणकं यावद् इयं प्रज्ञापारमिता न कायगता कृता भविष्यति धृतावाचिता परिचिता मनसा च प्रेक्षिता दृष्ट्वा सुप्रतिविद्धा, अयं सुभूते बोधिसत्त्वो महासत्त्वो नवयानिकपुद्गलो मनुष्येष्व् एव च्युतो मनुष्येष्व् एवोपपन्नः. तत् कस्य हेतोः? तथा हि तेन नवयानिकेन बोधिसत्त्वेन महासत्त्वेन पूर्वम् अपीयं गम्भीरा प्रज्ञापारमिता लिखित्वा पुस्तकगता सत्कृता गुरुकृता मानिता पूजिता अर्चिता अपचायिता पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः समन्ताच् च दीपमालाभिः स तेन कुशलमूलेन मनुष्येष्व् एव च्युतो मनुष्येष्व् एवोपपन्नः, इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमुक्तः. इति तीव्रसंप्रतिपत्तिविशेषेण निरोधे द्वितीयक्षणः (PSP_४:८२)
SK
सुभूतिर् आह: स्याद् भगवन् पर्यायो यद् एतैर् एव गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यो ऽन्यान् बुद्धान् भगवतः पर्युपास्य ततश् च्युतः सन्न् इहोपपन्नो य इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते ऽधिमुच्य लिखिष्यति लिखित्वोद्गृहीष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशश् च मनसिकरिष्यति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, स्यात् सुभूते पर्यायो यद् एतैर् एव गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यो ऽन्यान् बुद्धान् भगवतः पर्युपास्य ततश् च्युतः सन्न् इहोपपन्नो य इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते अधिमुच्य लिखिष्यति लिखित्वोद्ग्रहीष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशश् च मनसिकरिष्यति. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता तेषां बुद्धानां भगवताम् अन्तिकाच् छ्रुता श्रुत्वा चोद्गृहीता धारिता वाचिता स्वाध्यायिता मनसिकृता, स तेनैव कुशलमूलेन तैर् एव मनसिकारैर् इहोपपन्नः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वस् तुषितेभ्यो देवेभ्यश् च्युतः, इह मनुष्याणां सभागतायाम् उपपन्नः स एतैर् एव गुणैः समन्वागतो वेदितव्यः. तत् कस्य हेतोः? तथा हि सुभूते तेन बोधिसत्त्वेन महासत्त्वेन मैत्रेयो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां परिप्रश्नीकृतः स तेन कुशलमूलेन इहोपपन्नः. येन खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता न श्रुता, श्रुत्वा च न परिप्रश्नीकृता, तस्य मनुष्यलोके उपपन्नस्य भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता, तेन सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपीयङ् गम्भीरा प्रज्ञापारमिता न श्रुता, श्रुत्वा च न परिप्रश्नीकृता, तस्यास्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता.
SK
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो (PSP_४:८३) ऽपीयं दानपारमिता न श्रुता न परिप्रश्नीकृता, तस्यास्यां दानपारमितायां भाष्यमाणायां भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
SK
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि, अध्यात्मशून्यता यावद् अभावस्वभावशून्यता न श्रुता न परिप्रश्नीकृता भवति, तस्येमाङ् गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
SK
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि स्मृत्युपस्थानानि न परिप्रश्नीकृतानि भवन्ति न श्रुतानि वा, तस्येमां गम्भीरां प्रज्ञापारमितां भास्यमाणां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
SK
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि शम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गो न श्रुतः, श्रुत्वा च न परिप्रश्नीकृतस्, तस्यास्यां गम्भीरायां प्रज्ञापारमितायां भास्यमाणायां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता. पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वार्य् आर्यसत्यानि पञ्चाभिज्ञाः शून्यतानिमित्ताप्रणिहितानि, अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वसमाधिधारणीमुखानि दश बोधिसत्त्वभूमयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न श्रुता भवन्ति, श्रुत्वा च न परिप्रश्नीकृता भवन्ति, तस्येमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
SK
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि अनुत्तरा सम्यक्संबोधिर् न श्रुता भवति, श्रुत्वा च न परिप्रश्नीकृता भवति, तस्येमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता.
SK
पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपीयं गम्भीरा प्रज्ञापारमिता न श्रुता भवति न परिप्रश्नीकृता (PSP_४:८४) न भाविता न बहुलीकृता न योनिशश् च मनसिकृता, एकं वा दिवसं दिवसद्वयं वा दिवसत्रयं वा चत्वारि वा पञ्च वा षड् वा दश वा दिवसानि, इयं गम्भीरा प्रज्ञापारमिता स संहार्या भवति विरहितश् च भवति प्रज्ञापारमितया. तत् कस्य हेतोः? एवम् एतद् भवति सुभूते येन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता पूर्वान्ततो ऽपि न श्रुता न परिप्रश्नीकृता न भाविता न बहुलीकृता न योनिशश् च मनसिकृता, तस्य कञ्चित् कालं च्छन्दो भवति गम्भीरायां प्रज्ञापारमितायां कञ्चित् कालं च्छन्दो न भवति, स पुनर् एवं संह्रियते चलाचलया बुद्ध्या तूलपिचूपमश् च भवति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो न चिरयानसंप्रस्थितो वेदितव्यो न कल्याणमित्रपरिगृहीतो न सम्यक्संबुद्धपर्युपासितः. न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता उद्दिष्टा न स्वाध्यायिता न योनिशो मनसिकृता न प्रज्ञापारमितायां शिक्षितः, न ध्यानपारमितायां न वीर्यपारमितायां न क्षान्तिपारमितायां न शीलपारमितायां न दानपारमितायां शिक्षितः. नाध्यात्मशून्यतायां शिक्षितः यावन् नाभावस्वभावशून्यतायां शिक्षितः, न स्मृत्युपस्थानेषु शिक्षितः, न सम्यक्प्रहाणेषु नर्द्धिपादेषु नेन्द्रियेषु न बलेषु न बोध्यङ्गेषु नार्याष्टाङ्गमार्गे शिक्षितः, न पञ्चस्व् अभिज्ञासु नाप्रमाणध्यानारूप्यसमापत्तिषु नार्यसत्येषु नाष्टविमोक्षेषु शिक्षितः, न नवानुपूर्वविहारसमापत्तिषु न शून्यतानिमित्ताप्रणिहितेषु शिक्षितः, न समाधिषु न धारणीमुखेषु शिक्षितः, न षट्सु अभिज्ञासु शिक्षितः, न तथागतबलेषु शिक्षितः, न वैशारद्येषु न प्रतिसंवित्सु नाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षितः, न सर्वाकारज्ञतायां शिक्षितः. ते न खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वा नवयानसंप्रस्थिता वेदितव्याः, ते धर्ममात्रकेण च श्रद्धामात्रकेण च प्रेममात्रकेण च समन्वागता, न पुनः सत्कुर्वन्तीमां प्रज्ञापारमितां लिखितुं वा वाचयितुं वा उद्देष्टुं वा स्वाध्यायतुं वा योनिशो मनसिकरणाय यावन् न पुनः सुभूते बोधिसत्त्वयानिकाः कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमितां लिखिष्यन्ति (PSP_४:८५) नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशश् च मनसिकरिष्यन्ति नाप्य् अनया गम्भीरया प्रज्ञापारमितया परम् अनुग्रहीष्यन्ति. एवं ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितया, एवं यावत् सर्वाकारज्ञतया नानुग्रहीष्यन्ति. नापीमां गम्भीरां प्रज्ञापारमिताम् अनुभविष्यन्ति. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां, एवं यावत् सर्वाकारज्ञतां नानुभविष्यन्ति. तेषां द्वाभ्यां भूमिभ्याम् अन्यतरा भूमिः प्रतिकाङ्क्षितव्या, यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च इयं गम्भीरा प्रज्ञापारमिता पूर्वान्ततो ऽपि न लिखिता नोद्दिष्टा न स्वाध्याता न योनिशो मनसिकृता नाप्य् अनया प्रज्ञापारमितया कश्चिद् अनुपरिगृहीतो नापि तैर् बोधिसत्त्वैर् महासत्त्वैर् इयं गम्भीरा प्रज्ञापारमितानुभूता, ते न तेषां कुलपुत्राणां कुलदुहितृणाञ् च भूमिद्वयं प्रतिकाङ्क्षितव्यम्. इति समुदागमविशेषेण निरोधे तृतीयः क्षणः
SK
तद्यथापि नाम सुभूते सामुद्रिका नौर् यदा भिन्ना भवति तदा ये तत्र पुरुषाः काष्ठं वा दृतिं वा मृतकुणपं वा नाध्यालम्बन्ते न परिगृह्णन्ति, वेदितव्यम् एतत् सुभूते अप्राप्ता एव ते पुरुषाः कुलं समुद्रे कालं करिष्यन्ति. ये खलु पुनः सामुद्रिकायां नाविभिन्नायां काष्ठं वा दृतिं वा मृतकुणपं वा पुरुषा गृहीतव्यं वा मन्येयुर् गृह्णीयुर् वा, वेदितव्यम् एतत् सुभूते न ते पुरुषा महासमुद्रे कालं करिष्यन्ति, स्वस्तिना ते महासमुद्राद् उत्तरिष्यन्ति, ते अक्षता अनुपहताः स्वस्तिना स्थले स्थास्यन्ति. एवम् एव सुभूते ये ते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च श्रद्धामात्रकेण प्रसादमात्रकेण प्रेममात्रकेण च समन्वागता, इमां प्रज्ञापारमितां न लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति नाध्यालम्बिष्यन्ते, वेदितव्यम् एतत् सुभूते ते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चान्तरा एवाध्वनि व्यवसादम् आपत्स्यन्ते, अप्राप्ता एव सर्वाकारज्ञतां ते श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात्करिष्यन्ति, यावन् न ध्यानपारमितां न वीर्यपारमितां न क्षान्तिपारमितां न शीलपारमितां न दानपारमितां लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति, (PSP_४:८६) नाध्यालम्बिष्यन्ति. एवं न सप्तत्रिंशद् बोधिपक्ष्यान् धर्मान् न चत्वार्य् आर्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तीः, नाध्यात्मशून्यतां यावन् नाभावस्वभावशून्यतां नाष्ट विमोक्षान् न नवानुपूर्वविहारसमापत्तीर् न शून्यतानिमित्ताप्रणिहिताभिज्ञा न सर्वसमाधिसमापत्तीर् न सर्वधारणीमुखानि न दश बलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकान् बुद्धधर्मान् यावन् न सर्वाकारज्ञताप्रतिसंयुक्तान् सूत्रान्तान् लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति नाध्यालम्बिष्यन्ति, वेदितव्यम् एतत् सुभूते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चान्तराप्य् अध्वनि व्यवसादम् आपत्स्यन्ते, अप्राप्ता एव सर्वाकारज्ञतां ते श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात्करिष्यन्ति. येषां खलु सुभूते बोधिसत्त्वयानिकानां पुद्गलानाम् अस्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, ते च इमां प्रज्ञापारमितां लिखिष्यन्त्य् उद्देक्ष्यन्ति स्वाध्यास्यन्ति अध्यालम्बिष्यन्ते योनिशो मनसिकरिष्यन्ति, पश्य सुभूते कुलपुत्राणां कुलदुहितृणां च श्रद्धां क्षान्तिं प्रेम प्रसादम् अध्याशयं रुचिम् अधिमुक्तिं च्छन्दं त्यागम् अनिक्षिप्तधुरताम् अनुत्तरायां सम्यक्संबोधौ, यैः प्रज्ञापारमिता परिगृहीता ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता परिगृहीता, यैर् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सप्तत्रिंशद् बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणानि ध्यानारूप्यसमापत्तयः परिगृहीताः, यैर् अष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि परिगृहीतानि, यैर् दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद आवेणिका बुद्धधर्माः परिगृहीताः, यैः समाधिधारणीमुखानि पञ्चाभिज्ञाः परिगृहीताः, यैर् यावत् सर्वाकारज्ञता परिगृहीता ते नान्तराप्य् अध्वनि व्यवसादम् आपत्स्यन्ते, ते ऽतिक्रम्य श्रावकभूमिञ् च प्रत्येकबुद्धभूमिञ् च सत्त्वांश् च परिपाच्य बुद्धक्षेत्रं परिशोध्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. इत्य् आलम्बनविशेषेण निरोधे चतुर्थः क्षणः
SK
तद्यथापि नाम सुभूते स्त्री वा पुरुषो वा अपरिपक्वेन घटेन (PSP_४:८७) आमेनोदकं परिगृहीतव्यं मन्यते, वेदितव्यम् एतत् सुभूते नायं घटश् चिरम् अनुवर्त्स्यते क्षिप्रम् एव विनक्ष्यति विलयम् आपत्स्यते. तत् कस्य हेतोः? यथापि नामापरिपक्वत्वात् घटस्य, स भूमिपर्यवसान एव भविष्यति. एवम् एव सुभूते किञ् चापि बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, ते च प्रज्ञापारमितयापरिगृहीता, उपायकौशलेन चापरिगृहीता, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितयापरिगृहीता, ऽध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतयापरिगृहीताः, स्मृत्युपस्थानैर् अपरिगृहीताः, सम्यक्प्रहाणैर् अपरिगृहीता, ऋद्धिपादैर् अपरिगृहीताः, इन्द्रियैर् अपरिगृहीता, बलैर् अपरिगृहीता, बोध्यङ्गैर् अपरिगृहीता, आर्याष्टाङ्गेन मार्गेणापरिगृहीताः, पञ्चभिर् अभिज्ञाभिर् अपरिगृहीताश्, चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैर् अपरिगृहीताः, चतसृभिर् आरूप्यसमापत्तिभिर् अपरिगृहीताश्, चतुर्भिर् आर्यसत्यैर् अपरिगृहीता, अष्टाभिर् विमोक्षैर् अपरिगृहीता, नवभिर् अनुपूर्वविहारसमापत्तिभिर् अपरिगृहीताः, शून्यतानिमिताप्रणिहितविमोक्षमुखैर् अपरिगृहीता, दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् अपरिगृहीताः, यावत् सर्वाकारज्ञतयापरिगृहीता, वेदितव्यम् एतत् सुभूते बोधिसत्त्वयानिकाः कुलपुत्रा वा कुलदुहितरो वा अन्तरा व्यसनम् आपत्स्यन्ते. किम् इति सुभूते बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चान्तरा व्यसनं भविष्यति, यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा? तद्यथापि नाम सुभूते स्त्री वा पुरुषो वा सुपरिपक्वेन घटेनोदकं परिवहेन् नद्याः कूपाद् वा सरस्तो वा तडागाद् वा उदपानाद् वा तस्योदकं परिहरतो, वेदितव्यम् एतत् सुभूते स्वस्तिनायं घटो गृहं गमिष्यति, एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, सचेत् प्रज्ञापारमितया परिगृहीत, उपायकौशल्येन च परिगृहीतो, ध्यानपारमितया परिगृहीतो वीर्यपारमितया परिगृहीतः क्षान्तिपारमितया परिगृहीतः शीलपारमितया (PSP_४:८८) परिगृहीतो दानपारमितया परिगृहीतः, एवं यावत् सर्वाकारज्ञतया परिगृहीतो, वेदितव्यम् एतद् सुभूते अयं बोधिसत्त्वो महासत्त्वो नान्तरा व्यध्वनि व्यवसादम् आपत्स्यते, यद् उत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा अक्षतो ऽनुपहतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इत्य् आधारविशेषेण मार्गे प्रथमः क्षणः
SK
तद्यथापि नाम सुभूते सामुद्रिका नौर् अनवबद्धानाकोटिता अकोटीकृता उदके ऽवतारिता भवति, वेदितव्यम् एतत् सुभूते इयं नौर् अन्तरा संसत्स्यते व्यसनम् आपत्स्यते, अन्येन भाण्डं भविष्यति अन्येन नौर् भविष्यति. एवं स वणिग् अनुपायकुशलो वेदितव्यो महतानयेन संयोक्ष्यते महता रत्नेन बहिष्कृतो भविष्यति. एवम् एव किं चापि सुभूते बोधिसत्त्वानाम् अस्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायै सम्यक्संबोधये, ते च प्रज्ञापारमितयापरिगृहीता उपायकौशलेन चापरिगृहीता ध्यानपारमितयापरिगृहीता वीर्यपारमितयापरिगृहीताः क्षान्तिपारमितयापरिगृहीताः शीलपारमितयापरिगृहीता दानपारमितयापरिगृहीताः, सर्वशून्यताभिर् अपरिगृहीताः सप्तत्रिंशद् बोधिपक्ष्यैर् धर्मैर् अपरिगृहीताः, अप्रमाणध्यानारूप्यसमापत्तिभिर् अपरिगृहीता, आर्यसत्यैर् अपरिगृहीता, अष्टाभिर् विमोक्षैर् अपरिगृहीता, नवभिर् अनुपूर्वविहारसमापत्तिभिर् अपरिगृहीताः, शून्यतानिमित्ताप्रणिहितैर् अपरिगृहीताः, सर्वसमाधिधारणीमुखाभिज्ञाभिर् अपरिगृहीता, दशभिस् तथागतबलैर् अपरिगृहीताः, वैशारद्यैर् अपरिगृहीताः, प्रतिसंविद्भिर् आवेणिकैर् बुद्धधर्मैर् अपरिगृहीता, यावत् सर्वाकारज्ञतयापरिगृहीता, वेदितव्यम् एतत् सुभूते अमी बोधिसत्त्वा अन्तरा व्यध्वनि व्यसनम् आपत्स्यन्ते, महतो ऽर्थात् परिहीणा भविष्यन्ति, यद् उत सर्वाकारज्ञता रत्नराशेः, किं च सुभूते बोधिसत्त्वानाम् अन्तरा व्यसनं यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. तद्यथापि नाम सुभूते पण्डितजातिकः पुरुषः सामुद्रिकायां नावि स्वाकोटितायाम् उदके ऽवतारितायां भाण्डावरोपितायां युक्तेन वायुनावष्टब्धायां, वेदितव्यम् एतत् सुभूते नेयं सामुद्रिका नौर् अन्तरा व्यसनम् आपत्स्यते, गमिष्यत्य् एषा तं प्रदेशं यत्रानया गन्तव्यं, लौकिकानाञ् च रत्नानां स वणिग् लाभी भविष्यति. एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् (PSP_४:८९) अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च प्रज्ञापारमितया परिगृहीत उपायकौशल्येन च परिगृहीतः, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितया च परिगृहीतः, सर्वशून्यताभिः सर्वबोधिपक्ष्यैर् धर्मैः सर्वसमाधिभिः सर्वधारणीमुखैर् अप्रमाणध्यानारूप्यसमापत्तिभिः परिगृहीतः, आर्यसत्यैः परिगृहीतः, अष्टाभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिः परिगृहीतः, शून्यतानिमित्ताप्रणिहितैः परिगृहीतः, अभिज्ञाभिः परिगृहीतः, दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः परिगृहीतः, यावत् सर्वाकारज्ञतया परीगृहीतो, वेदितव्यम् एतत् सुभूते नायं बोधिसत्त्वो महासत्त्वो ऽन्तरा व्यसनम् आपत्स्यते ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? एवम् एव सुभूते भवति यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च प्रज्ञापारमितया परिगृहीतो भवत्य् उपायकौशल्येन च परिगृहीतो भवति, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितया परिगृहीतो भवति. एवं यावत् सर्वाकारज्ञतया परिगृहीतो भवति, स च बोधिसत्त्वो महासत्त्वो न च श्रावकभूमिं न प्रत्येकबुद्धभूमिं पतति. इति साकल्यविशेषेण मार्गे द्वितीयः क्षणः
SK
तद्यथापि नाम सुभूते पुरुषो विंशतिवर्षशतिको जात्या जीर्णो वृद्धो महल्लकस् तस्य कश्चिद् एव शरीरे व्याधिर् उत्पद्येत वातिको वा पैत्तिको वा श्लेष्मिको वा सांनिपातिको वा, तत् किं मन्यसे? सुभूते अपि नु स पुरुषो मुक्तकः शक्तः स्वयम् उत्क्रान्तुम्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: कश्चित् पुनः सुभूते स पुरुष उत्तिष्ठेत्?
SK
सुभूतिर् आह: किं चापि भगवन् स पुरुषो मञ्चाद् उत्तिष्ठेद्, अथ च पुनर् अप्रतिबलः क्रोशान्तं वा प्रक्रमितुं स तया जरया तैश् च व्याधिभिः क्षपितः, किं चापि ततो मञ्चाद् उत्तिष्ठेद्, अथ च पुनः सो ऽप्रतिबलः प्रक्रमितुम्. (PSP_४:९०)
SK
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च प्रज्ञापारमितयापरिगृहीत उपायकौशल्येन चापरिगृहीतो, ध्यानपारमितया वीर्यपारमितया क्षान्तिपारमितया शीलपारमितया दानपारमितयापरिगृहीतो, अध्यात्मशून्यतया यावद् अभावस्वभावशून्यतयापरिगृहीतः, स्मृत्युपस्थानैर् अपरिगृहीतः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् अपरिगृहीतो, ऽप्रमाणध्यानारूप्यसमापत्तिभिर् आर्यसत्यैश् चापरिगृहीतः, शून्यतानिमित्ताप्रणिहितैर् अपरिगृहीतो, दशबलवैशारद्यावेणिकबुद्धधर्मैर् अपरिगृहीतो, वेदितव्यम् एतत् सुभूते ऽयं बोधिसत्त्वो ऽन्तरा व्यध्वनि श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति. तत् कस्य हेतोः? तथा हि स प्रज्ञापारमितया अपरीगृहीत उपायकौशल्येन चापरिगृहीतो यावत् सर्वाकारज्ञतयापरिगृहीतः. तद्यथापि नाम सुभूते स एव पुरुषो विंशतिवर्षशतिको जात्या जीर्णो वृद्धो महल्लकः, स वातेन वा पित्तेन वा श्लेष्मना वा सांनिपातेन वा परिक्षपितस्, तं मञ्चाद् उत्स्थाप्य द्वौ बलवन्तौ पुरुषौ वामदक्षिणयोः पार्श्वयोर् अबलं व्यानुपरिगृह्य एवं वदेताम्: आगच्छ त्वं भोः पुरुष येनेच्छसि येन कामो ऽनुपरिगृहीतस् त्वम् आवाभ्यां नान्तरा पतिष्यसि यावन् न तत् स्थानम् अनुप्राप्तो भविष्यसि. एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च बोधिसत्त्वः प्रज्ञापारमितया परिगृहीत उपायकौशल्येन च परिगृहीतो, ध्यानपारमितया परिगृहीतो, वीर्यपारमितया परिगृहीतः, क्षान्तिपारमितया परिगृहीतः, शीलपारमितया परिगृहीतो, दानपारमितया परिगृहीतो, ऽध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया परिगृहीतः, वेदितव्यम् एतत् सुभूते नायं बोधिसत्त्वो महासत्त्वो ऽन्तरा संसत्स्यते, प्रतिबलो ऽयं बोधिसत्त्वो महासत्त्वस् तत् स्थानम् अनुप्राप्तुं यद् उतानुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि प्रज्ञापारमितोपायकौशल्येनाविरहितः. (PSP_४:९१)
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वयानसंप्रस्थिताः कुलपुत्राः कुलदुहितरश् चापरिगृहीताः प्रज्ञापारमितोपायकौशलेन चापरिगृहीताः श्रावकभूमिं प्रत्येकबुद्धभूमिञ् च पतन्ति?
SK
भगवान् आह: साधु साधु सुभूते यस् त्वं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतम् अर्थं परिप्रश्नीकर्तव्यं मन्यसे, इह सुभूते बोधिसत्त्वो महासत्त्व आदित एव यद् दानन् ददाति तद् अहंकारममकारपतितया संतत्या ददाति, यच् छीलं रक्षति, यां क्षान्तिं भावयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तद् अहंकारममकारपतितेन चित्तेन भावयति, तस्य तद् दानन् ददत एवं भवति, अहं दानं ददामीदन् दानं ददामि, अस्मै दानन् ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, अहं शीलवान्, अहं क्षमामि, अहं क्षान्तिं संपादयामि, अहं क्षमावान्, अहं वीर्यम् आरभे, ऽहम् आरब्धवीर्यो, ऽहं वीर्यवान्, अहं ध्यानं समापद्ये, अहं ध्यायामि, अहं ध्यानवान्, अहं प्रज्ञां भावयामीमां प्रज्ञां भावयामि, अहं प्रज्ञावान्, स तेन दानेन मन्यते तद् दानं मन्यते दानं ममेति मन्यते, एवं शीलं क्षान्तिं वीर्यं ध्यानं, तया प्रज्ञया मन्यते तां प्रज्ञां मन्यते प्रज्ञां ममेति मन्यते. तत् कस्य हेतोः? न हि दानपारमिताया एते विकल्पाः संविद्यन्ते. तत् कस्य हेतोः? आरमिता हि दानपारमिता, एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न हि प्रज्ञापारमिताया एते विकल्पाः संविद्यन्ते. तत् कस्य हेतोः? आरमिता हि प्रज्ञापारमिता, स च बोधिसत्त्वयानिकः पुद्गलो नारं जानाति न पारं जानाति, सो ऽपरिगृहीतो दानपारमितया शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितयापरिगृहीतो यावत् सर्वाकारज्ञतयापरिगृहीतः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, न निर्यास्यति सर्वाकारज्ञतायाम्. कथञ् च बोधिसत्त्वो ऽनुपायकुशलो भवति? इह सुभूते यो बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा आदाव् एवम् अनुपायेन दानं ददाति, अनुपायेन शीलं रक्षति, अनुपायेन क्षान्तिं संपादयति, अनुपायेन वीर्यम् आरभते, अनुपायेन ध्यानं समापद्यते, अनुपायेन प्रज्ञां भावयति, तस्यैवं भवति, अहं दानं ददामि, इदं दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, अहं क्षान्तिं संपादयामि, इमां क्षान्तिं संपादयामि, अहं (PSP_४:९२) वीर्यम् आरभे, इदं वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, स दानं मन्यते दानेन मन्यते दानं ममेति मन्यते, शीलं मन्यते शीलेन मन्यते शीलवान् अहम् इति मन्यते, क्षान्तिं मन्यते क्षान्त्या मन्यते क्षमावान् अहम् इति मन्यते, वीर्यं मन्यते वीर्येण मन्यते वीर्यं ममेति मन्यते, ध्यानं मन्यते ध्यानेन मन्यते ध्यानवान् अहम् इति मन्यते, प्रज्ञां मन्यते प्रज्ञया मन्यते प्रज्ञा ममेति मन्यते. तत् कस्य हेतोः? न हि दानपारमितायां विकल्पः संविद्यते यथासौ विकल्पयति. तत् कस्य हेतोः? तथा ह्य् आरमितैषा यद् उत दानपारमिता, आरमितैषा यद् उत शीलपारमिता, आरमितैषा यद् उत क्षान्तिपारमिता, आरमितैषा यद् उत वीर्यपारमिता, आरमितैषा यद् उत ध्यानपारमिता. न हि प्रज्ञापारमितायां विकल्पः संविद्यते यथासौ विकल्पयति. तत् कस्य हेतोः? तथा ह्य् आरमितैषा यद् उत प्रज्ञापारमिता, स च बोधिसत्त्वयानिकः कुलपुत्रो नारं जानाति न पारं जानाति, सो ऽपरिगृहीतो दानपारमितया परिगृहीतः शीलपारमितयापरिगृहीतः क्षान्तिपारमितयापरिगृहीतो वीर्यपारमितयापरिगृहीतो ध्यानपारमितयापरिगृहीतः प्रज्ञापारमितयापरिगृहीत, एवं यावत् सर्वाकारज्ञतया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, न निर्यास्यति सर्वाकारज्ञतायाम्. एवं हि सुभूते बोधिसत्त्वः प्रज्ञापारमितया चोपायकौशलेन चापरिगृहीतः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया चोपायकौशलेन च परिगृहीतो न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतति, अनुत्तरां च सम्यक्संबोधिम् आरागयति? इह सुभूते बोधिसत्त्वो महासत्त्व आदाव् एव दानं ददन्, नाहंकारममकारपतितेन चेतसा दानन् ददाति, नाहंकारममकारपतितेन चेतसा शीलं रक्षति, नाहंकारममकारपतितेन चेतसा क्षान्तिं संपादयति, नाहंकारममकारपतितेन चेतसा वीर्यम् आरभते, नाहंकारममकारपतितेन चेतसा ध्यानं समापद्यते, नाहंकारममकारपतितेन चेतसा प्रज्ञां भावयति, तस्य नैवं भवति, अहं दानन् ददामीदन् दानन् ददाम्य् अस्यै दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, एषु शीलं रक्षामि, अहं क्षान्तिं संपादयामि, इमां क्षान्तिं संपादयामि, अस्मै क्षान्तिम् (PSP_४:९३) संपादयामि, अहं वीर्यम् आरभे, इदं वीर्यम् आरभे, अस्यार्थे वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, एषु ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, अस्यार्थे प्रज्ञां भावयामि, स दानं न मन्यते दानेन न मन्यते दानं ममेति न मन्यते, शीलं न मन्यते शीलेन न मन्यते शीलं ममेति न मन्यते, क्षान्तिं न मन्यते क्षान्त्या न मन्यते क्षान्तिं ममेति न मन्यते, वीर्यं न मन्यते वीर्येण न मन्यते वीर्यं ममेति न मन्यते, ध्यानं न मन्यते ध्यानेन न मन्यते ध्यानं ममेति न मन्यते, प्रज्ञां न मन्यते प्रज्ञया न मन्यते प्रज्ञा ममेति न मन्यते. तत् कस्य हेतोः? तथा हि दानपारमितायां विकल्पो न संविद्यते येन मन्यते, एवं शीलक्षान्तिवीर्यध्यानपारमितायां विकल्पो न संविद्यते येन मन्यते, तथा हि प्रज्ञापारमितायां विकल्पो न संविद्यते येन मन्यते, आरमितैषा यद् उत दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता आरमितैषा यद् उत प्रज्ञापारमिता, स च बोधिसत्त्वो महासत्त्व आरमिताञ् च पारमिताञ् च न मन्यते, स दानपारमितया परिगृहीतः, शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया, प्रज्ञापारमितया च परिगृहीतो, यावत् सर्वाकारज्ञतया परिगृहीतो न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतति, सर्वाकारज्ञतां चारागयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया परिगृहीत उपायकौशलेन च परिगृहीतो न श्रावकभूमिं न प्रत्येकबुद्धभूमिं पतति. एवम् उपायकौशलपरिगृहीतो ऽनुत्तरां सम्यक्संबोधिम् आरागयति. इति संपरिग्रहविशेषेण मार्गे तृतीयः क्षणः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन्न् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं? कथं ध्यानपारमितायां शिक्षितव्यं? कथं वीर्यपारमितायां शिक्षितव्यं? कथं क्षान्तिपारमितायां शिक्षितव्यं? कथं शीलपारमितायां शिक्षितव्यम्? कथं दानपारमितायां शिक्षितव्यं? कथं यावद् आवेणिकबुद्धधर्मेषु शिक्षितव्यं?
SK
भगवान् आह: इह सुभूते आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितुकामेन ध्यानपारमितायां वीर्यपारमितायां (PSP_४:९४) क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षितुकामेन यावत् सर्वाकारज्ञतायां शिक्षितुकामेन कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि, ये ऽस्याः प्रज्ञापारमिताया उद्देष्टारः, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया उद्देष्टारः, तस्येमाङ् गम्भीरां प्रज्ञापारमिताम् एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र यद्यद् एव दानन् ददासि तत्तत् सर्वम् अनुत्तरायै सम्यक्संबोधये परिणामय, एहि त्वं कुलपुत्र यद्यद् एव शीलं रक्षसि, क्षान्तिं संपादयसि, वीर्यं आरभसे, ध्यानं समापद्यसे, प्रज्ञां भावयसि, तत्तत् सर्वम् अनुत्तरायै सम्यक्संबोधये परिणामय, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिं रूपतः पराम्राक्षीः, मा वेदनातो मा संज्ञातो मा संस्कारतो मा विज्ञानतः पराम्राक्षीः, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिन् दानपारमितया पराम्राक्षीः, मा शीलपारमितया मा क्षान्तिपारमितया मा वीर्यपारमितया मा ध्यानपारमितया, मा प्रज्ञापारमितया पराम्राक्षीः, मा अध्यात्मशून्यतया मा बहिर्धाशून्यतया मा अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया पराम्राक्षीः, मा स्मृत्युपस्थानैः पराम्राक्षीः, मा सम्यक्प्रहाणैः पराम्राक्षीः, मा ऋद्धिपादैर् इन्द्रियबलबोध्यङ्गमार्गैः पराम्राक्षीः, मा पञ्चभिर् अभिज्ञाभिः पराम्राक्षीः, मा अप्रमाणध्यानारूप्यसमापत्तिभिः मा आर्यसत्यैर् मा अष्टाभिर् विमोक्षैर् मा नवानुपूर्वविहारसमापत्तिभिः, मा शून्यतानिमित्ताप्रणिहितैः पराम्राक्षीः, मा समाधिभिर् मा धारणीमुखैर् मा दशभिस् तथागतबलैर् मा चतुर्भिर् वैषारद्यैर् मा चतसृभिः प्रतिसंविद्भिर् मा अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः पराम्राक्षीः, मा च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिं यावत् सर्वाकारज्ञतां पराम्राक्षीः. तत् कस्य हेतोः? अपरामृष्टं हि रूपम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति, अपरामृष्टा वेदना संज्ञा संस्काराः, अपरामृष्टं विज्ञानम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति, अपरामृष्टा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, अपरामृष्टा प्रज्ञापारमिता, अपरामृष्टा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता, अपरामृष्टानि स्मृत्युपस्थानानि, अपरामृष्टाः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गा, अपरामृष्टा अभिज्ञा, (PSP_४:९५) अपरामृष्टा अप्रमाणध्यानारूप्यसमापत्तयः, अपरामृष्टान्य् आर्यसत्यानि, अपरामृष्टा अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः, अपरामृष्टानि शून्यतानिमित्ताप्रणिहितानि, अपरामृष्टानि समाधिधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि, अपरामृष्टाश् चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, अपरामृष्टा यावत् सर्वाकारज्ञता अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति. मा च त्वं कुलपुत्र प्रज्ञापारमितायां चरन् रूपे स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहं हि कुलपुत्र रूपं, वेदनायां संज्ञायां संस्कारेषु, मा च त्वं कुलपुत्र विज्ञाने स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहं हि कुलपुत्र विज्ञानं, मा च त्वं कुलपुत्र दानपारमितायां स्पृहां कार्षीः, मा शीलक्षान्तिवीर्यध्यानपारमितायां स्पृहां कार्षीः, मा प्रज्ञापारमितायां स्पृहां कार्षीः, मा अध्यात्मशून्यतायां स्पृहां कार्षीः, मा यावद् अभावस्वभावशून्यतायां स्पृहां कार्षीः, मा स्मृत्युपस्थानेषु स्पृहां कार्षीः, मा सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु स्पृहां कार्षीः, मा अप्रमाणध्यानारूप्यसमापत्तिषु, मा आर्यसत्येषु स्पृहां कार्षीः, मा अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु स्पृहां कार्षीः, मा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्पृहां कार्षीः, मा सर्वसमाधिसमापत्तिधारणीमुखेषु स्पृहां कार्षीः, मा च त्वं कुलपुत्र सर्वाकारज्ञतायां स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहा हि कुलपुत्र सर्वाकारज्ञता, मा च त्वं कुलपुत्र स्रोतआपत्तिफले स्पृहां कार्षीः, मा सकृदागामिफले मा अनागामिफले मा अर्हत्त्वे मा प्रत्येकबोधौ स्पृहां कार्षीः, मा बोधिसत्त्वनियामे स्पृहां कार्षीः, मानुत्तरायां सम्यक्संबोधौ स्पृहां कार्षीः. तत् कस्य हेतोः? स्वभावशून्या हि कुलपुत्र सर्वधर्माः. इत्य् अनास्वादनाविशेषेण मार्गे चतुर्थः क्षणः इति विशेषलक्षणम्
SK
सुभूतिर् आह: दुष्करकारका हि भगवन् बोधिसत्त्वा महासत्त्वा भवन्ति, ये स्वलक्षणशून्येषु धर्मेषु अनुत्तरां सम्यक्संबोधिं प्रार्थयन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामाः.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारका हि सुभूते बोधिसत्त्वा महासत्त्वा, ये स्वलक्षणशून्येषु धर्मेष्व् अनुत्तरां सम्यक्संबोधिं प्रार्थयन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा (PSP_४:९६) लोकस्य हिताय, सुभूते बोधिसत्त्वा महासत्त्वाः संप्रस्थिता लोकस्य सुखाय, सुभूते बोधिसत्त्वा महासत्त्वाः संप्रस्थिता लोकस्य त्राणं भविष्याम इत्य् अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. लोकस्य शरणं भविष्यामो, लोकस्य लयनं लोकस्य परायणं लोकस्य द्वीपा लोकस्य परिणायका अनुकम्पका नाथा लोकस्य गतिर् भविष्याम इति अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. कथञ् च सुभूते बोधिसत्त्वा महासत्त्वाः लोकस्य हिताय संप्रस्थिता भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वाः सत्त्वान् पञ्चभ्यो गतिभ्यः परिमोच्याभयस्थले क्षमे निर्वाणे प्रतिष्ठापयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य हिताय संप्रस्थिता भवन्ति. इति हितकारित्रम्
SK
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा लोकस्य सुखाय संप्रस्थिता भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वान् दुष्खदौर्मनस्योपायासेभ्यः परिमोचयित्वाभयस्थले क्षेमे निर्वाणे प्रतिष्ठापयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा लोकानां सुखाय संप्रस्थिता भवन्ति. इति सुखकारित्रम्
SK
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य त्राणं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य यानि तानि संसारावचराणि दुःखानि ततः सत्त्वांस् त्रायन्ति, तेषाञ् च दुष्खानां प्रहाणाय धर्मं देशयन्ति, ते तं धर्मं श्रुत्वानुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य त्राणं भवन्ति. इति त्राणकारित्रम्
SK
कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य शरनं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मणः सत्त्वा जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोचयन्ति परिमोच्यानुपधिशेषे निर्वाणधातौ प्रतिष्ठापयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा लोकस्य शरणं भवन्ति. इति शरणकारित्रम् (PSP_४:९७)
SK
कथं च सुभूते बोधिसत्त्वा महासत्त्वाः सत्त्वानां लयनं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सर्वधर्माणाम् अश्लेषाय धर्मन् देशयन्ति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां लयनं भवन्ति.
SK
सुभूतिर् आह: कथं पुनर् भगवन् सर्वधर्माणाम् अश्लेषो भवति?
SK
भगवान् आह: यः सुभूते रूपस्याश्लेषः स रूपस्यासंबन्धो, यो रूपस्यासंबन्धः स रूपस्यानुत्पादो, यो रूपस्यानुत्पादः स रूपस्यानिरोधो, यो रूपस्यानिरोधः स रूपस्याश्लेषः, वेदनायाः संज्ञायाः संस्काराणां, यः सुभूते विज्ञानस्याश्लेषः स विज्ञानस्यासंबन्धो, यो विज्ञानस्यासंबन्धः स विज्ञानस्यानुत्पादो, यो विज्ञानस्यानुत्पादः स विज्ञानस्यानिरोधो, यो विज्ञानस्यानिरोधः स विज्ञानस्याश्लेषः. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु च सर्वपारमितासु सप्तत्रिंसत्सु बोधिपक्षेषु धर्मेषु आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेष्व् अभिज्ञासु सर्वसमाधिसर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु, यः सुभूते सर्वाकारज्ञताया अश्लेषः स सर्वाकारज्ञताया असंबन्धो, यः सर्वाकारज्ञताया असंबन्धः स सर्वाकारज्ञताया अनुत्पादो, यः सर्वाकारज्ञताया अनुत्पादः स सर्वाकारज्ञताया अनिरोधो, यः सर्वाकारज्ञताया अनिरोधः स सर्वाकारज्ञताया अश्लेषः. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वानां सर्वधर्माश्लेषाय धर्मन् देशयन्ति. इति लयनकारित्रम्
SK
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा लोकस्य परायणं भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् एवंधर्मन् देशयन्ति, यद् रूपस्य पारन् न तद् रूपं, वेदनायाः संज्ञायाः संस्काराणां, यद् विज्ञानस्य पारन् न तद् विज्ञानं, यत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य पारन् न ते स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, यत् सर्वपारमितानां पारन् न ताः सर्वपारमिताः, यत् सर्वशून्यतानां पारन् न ताः सर्वशून्यताः, यद् बोधिपक्ष्याणां धर्माणां पारन् न ते बोधिपक्ष्या धर्माः, एवम् आर्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो, (PSP_४:९८) यद् आवेणिकबुद्धधर्माणां पारन् न ते आवेणिकबुद्धधर्माः, यावद् यत् सर्वाकारज्ञतायाः पारन् न सा सर्वाकारज्ञता, यथा च सुभूते रूपन् तथा सर्वधर्मास् तथा सर्वाकारज्ञता.
SK
सुभूतिर् आह: यदि भगवन् यथा सर्वधर्मास् तथा रूपं नन्व् अभिसंबुद्धैर् च भवति बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता. तत् कस्य हेतोः? न हि भगवन् रूपस्य पारे विकल्पः कश्चिद् अस्ति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य पारे विकल्पः कश्चिद् अस्ति. न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां पारे विकल्पः कश्चिद् अस्ति. नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां पारे विकल्पः कश्चिद् अस्ति यावत् सर्वाकारज्ञतायाः पारे विकल्पः कश्चिद् अस्ति. इदं रूपम् इति, वेदना संज्ञा संस्काराः, इदं विज्ञानम् इति यावद् इमे स्कन्धा इमे धातव इमान्य् आयतनानि अयं प्रतीत्यसमुत्पादः, इमानि प्रतीत्यसमुत्पादाङ्गानि इमाः पारमिता इमाः शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्यानि इमा अभिज्ञा इमा अप्रमाणध्यानारूप्यसमापत्तयः, इमानि विमोक्षसमापत्तिधारणीमुखानि इमानि शून्यतानिमित्ताप्रणिहितानि, इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, इयं सर्वाकारज्ञतेति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न हि सुभूते रूपस्य पारे विकल्पः कश्चिद् अस्ति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य पारे विकल्पः कश्चित्. एवं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानाञ् च पारे विकल्पः कश्चिन्, न पारमितानां सर्वशून्यतानां बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनां पारे विकल्पः कश्चिन्, न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां पारे विकल्पः कश्चित्, एवन् न यावत् सर्वाकारज्ञतायाः पारे विकल्पः कश्चिद् अस्ति. अपि नु सुभूते दुष्करं बोधिसत्त्वानां महासत्त्वानां य इमान् एवंरूपान् धर्मान् उपनिध्यायन्ति न चावलीयन्ते. एवं च मयैते धर्मा अभिसंबोधव्या. एवञ् चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यैतान् धर्मान् एवंशान्तान् एवंप्रणीतान् प्रकाशयिष्याम इति. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य परायणं भवन्ति. इति सुपरायणकारित्रम् (PSP_४:९९)
SK
कथञ् च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य द्वीपा भवन्ति? तद्यथापि नाम सुभूते ये प्रदेशा उदकपरिच्छिन्ना भवन्ति महानदीषु च महासमुद्रेषु वा ते सुभूते द्वीपा इत्य् उच्यन्ते. एवम् एव सुभूते रूपं पूर्वान्तापरान्तपरिच्छिन्नम्, एवं वेदना संज्ञा संस्कारा, विज्ञानं सुभूते पूर्वान्तापरान्तपरिच्छिन्नम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च पूर्वान्तापरान्तपरिच्छिन्नानि, एवं दानपारमिता पूर्वान्तापरान्तपरिच्छिन्ना, एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिता पूर्वान्तापरान्तपरिच्छिन्ना, अध्यात्मशून्यता पूर्वान्तापरान्तपरिच्छिन्ना बहिर्धाशून्यता पूर्वान्तापरान्तपरिच्छिन्ना, अध्यात्मबहिर्धाशून्यता पूर्वान्तापरान्तपरिच्छिन्ना यावद् अभावस्वभावशून्यता पूर्वान्तापरान्तपरिच्छिन्ना, सप्तत्रिंशद्बोधिपक्ष्या धर्माः पूर्वान्तापरान्तपरिच्छिन्नाः, अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तपरिच्छिन्नाः, आर्यसत्यानि पूर्वान्तापरान्तपरिच्छिन्नानि, विमोक्षसमापत्तिधारणीमुखानि पूर्वान्तापरान्तपरिच्छिन्नानि, शून्यतानिमित्ताप्रणिहिताभिज्ञः पूर्वान्तापरान्तपरिच्छिन्नाः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः पूर्वान्तापरान्तपरिच्छिन्नाः, यावत् सर्वाकारज्ञता पूर्वान्तापरान्तपरिच्छिन्ना. एतेन सुभूते पूर्वान्तापरान्तपरिच्छेदेन सर्वधर्माः परिच्छिन्नाः, यश् च सुभूते सर्वधर्माणां पूर्वान्तापरान्तपरिच्छेदः, एतच् छान्तम् एतत् प्रणीतम् एतद् यथात्म्यं, यद् उत शून्यतानुपलम्भो धर्मो परिच्छेदस् तृष्णाक्षयो विरागो विरोधो निर्वाणम्. एवं हि सुभूते बोधिसत्त्वा महासत्त्वा ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य पूर्वान्तापरान्तपरिच्छिन्नान् सर्वधर्मान् देशयन्तो लोकस्य द्वीपा भवन्ति.
SK
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्यालोको भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो दीर्घरात्रम् अविद्याण्डकोशपर्यवनद्धानां सत्त्वानां तमोभिभूतानां प्रज्ञयावभासयन् मोहान्धकारम् अविद्यातमोभिनत्तितिमिरं विधूनोत्य्, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्यालोको भवति.
SK
कथं च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् उल्काधारो भवति प्रभाकरः? इह सुभूते (PSP_४:१००) बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य य इमे षट्पारमिताप्रतिसंयुक्ताश् चतुःसंग्रहवस्तुप्रतिसंयुक्ताश् च सूत्रान्तास् तेषाम् अर्थन् तत्त्वतः सत्त्वेभ्यः प्रकाशयति, सत्त्वांश् च तत्र नियोजयति निवेशयति प्रतिष्ठापयति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् उल्काधारः प्रभाकरो भवति.
SK
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सार्थवाहो भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य कुमार्गसंप्रस्थितानां सत्त्वानां चतुर्गमनगामिनाम् एकायनं मार्गम् उपदिशति सत्त्वानां विशुद्धये शोकोपद्रवाणां समतिक्रमाय दुःखदौर्मनस्यानाम् अस्तंगमायार्यस्य धर्मस्याधिगमाय निर्वाणस्य साक्षात्क्रियायै, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सार्थवाहो भवति. इति द्वीपकारित्रम्
SK
कथं च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य परिणायको भवति? इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वनिकाये महाकरुणाम् उत्पाद्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य रूपस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय सत्त्वानां धर्मन् देशयति संप्रकाशयति, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताया अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. उपायपारमितायाः प्रणिधानपारमिताया बलपारमिताया ज्ञानपारमितायाश् चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभाव शून्यतायाश् चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां चानुत्पादायानिरोधायासंक्लेशाया व्यवदानाय धर्मन् देशयति संप्रकाशयति. अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं सर्वसमाधीनाम् (PSP_४:१०१) सर्वधारणीमुखानां दशानां बलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. सर्वाकारज्ञताया अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. प्रत्येकबोधेर् अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. स्रोतआपत्तिफलस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं सकृदागामिफलस्यानागामिफलस्यार्हत्त्वफलस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां परिणायको भवति. इति परिणायककारित्रम्
SK
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः सत्त्वानां गतिर् भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो मूढानां गतिकानां सत्त्वानाम् अन्तशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य गतिर् भवति. आकाशगतिकं रूपम् इति सत्त्वानां धर्मन् देशयति, वेदना संज्ञा संस्कारा, आकाशगतिकं विज्ञानम् इति सत्त्वानां धर्मन् देशयति. आकाशगतिका स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि चेति सत्त्वानां धर्मन् देशयति. एवं सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा आकाशगतिका इति सत्त्वानां धर्मन् देशयति. आकाशगतिका सर्वज्ञतेति सत्त्वानां धर्मन् देशयति. अनागतिगतिका रूपशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति, वेदना संज्ञा संस्कारा, अनागतिगतिका विज्ञानशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानाञ् च शून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. एवम् अनागतिगतिका सर्वपारमितासर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. (PSP_४:१०२) अनागतिगतिका स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका अप्रमाणध्यानारूप्यसमापत्तिशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका शून्यतानिमित्ताप्रणिहिताभिज्ञाशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका दशतथागतबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. अनागतिगतिका सर्वाकारज्ञताशून्यता सा नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां गतिर् भवति. तत् कस्य हेतोः? शून्यतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते शून्यताया आगतिर् वा गतिर् वोपलभ्यते. आनिमित्तगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते आनिमित्तस्यागतिर् वा गतिर् वोपलभ्यते. अप्रणिहितगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽप्रणिहितस्यागतिर् वा गतिर् वोपलभ्यते. अनभिसंस्कारगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनभिसंस्कारस्यागतिर् वा गतिर् वोपलभ्यते. इत्य् अनाभोगकारित्रम्
SK
अनुत्पादगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनुत्पादस्यागतिर् वा गतिर् वोपलभ्यते. अनिरोधगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनिरोधस्यागतिर् वा गतिर् वोपलभ्यते. असंक्लेशाव्यवदानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽसंक्लेशाव्यवदानस्यागतिर् वा गतिर् वोपलभ्यते. अजाताभावगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽजाताभावस्यागतिर् वा गतिर् वोपलभ्यते. स्वप्नगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते स्वप्नस्यागतिर् वा गतिर् वोपलभ्यते. मायागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते मायाया आगतिर् वा गतिर् (PSP_४:१०३) वोपलभ्यते. प्रतिश्रुत्कागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते प्रतिश्रुत्काया आगतिर् वा गतिर् वोपलभ्यते. प्रतिभासगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते प्रतिभासस्यागतिर् वा गतिर् वोपलभ्यते. निर्मितगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते निर्मितस्यागतिर् वा गतिर् वोपलभ्यते. मरीचीगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते मरीच्या आगतिर् वा गतिर् वोपलभ्यते. गन्धर्वनगरगतिका हि सुभूते सर्व धर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते गन्धर्वनगरस्यागतिर् वा गतिर् वोपलभ्यते. अनन्तापर्यन्तगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते अनन्तापर्यन्तस्यागतिर् वा गतिर् वोपलभ्यते. अनुद्धाराप्रत्युद्धारगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनुद्धाराप्रत्युद्धारस्यागतिर् वा गतिर् वोपलभ्यते. अनागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभोते ऽनागतेर् आगतिर् वा गतिर् वोपलभ्यते. अनायूहानिर्यूहगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनायूहानिर्यूहस्यागतिर् वा गतिर् वोपलभ्यते. अयोगावियोगाश्लेषाविश्लेषगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽयोगावियोगाश्लेषाविश्लेषस्यागतिर् वा गतिर् वोपलभ्यते. आत्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते आत्मन आगतिर् वा गतिर् वोपलभ्यते. सत्त्वगतिका हि सुभूते सर्वधर्मा, जीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकोत्थापकसमुत्थापकगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सत्त्वो न संविद्यते जीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकोत्थापकसमुत्थापका न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. नित्यगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, सुखगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, आत्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, शुभगतिका (PSP_४:१०४) हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते नित्यं सुखम् आत्मा शुभन् न संविद्यते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अनित्यगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दुःखगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अनात्मगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अशुभगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते अनित्यं दुःखम् अनात्मा अशुभन् न संविद्यते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. रागगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दोषगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, मोहगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, दृष्टिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते दृष्टिकृतं वस्तु न संविद्यते, कुतो दृष्टिकृतानि भविष्यन्ति?, कुत एवागतिर् वा गतिर् वा भविष्यति. तथतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते तथताया आगतिर् वा गतिर् वोपलभ्यते, धर्मधातुगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, भूतकोटिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, समतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अचिन्त्यधातुगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते धर्मधातोर् भूतकोटेः समताया अचिन्त्यधातोर् आगतिर् वा गतिर् वोपलभ्यते. अचलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽचलस्य धर्मस्यागतिर् वा गतिर् वोपलभ्यते. इति यानत्रयनिर्याणतत्फलसाक्षात्करणकारित्रम्
SK
रूपगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते रूपन् न संविद्यते, कुतः पुनर् अस्यागतिर् वा गतिर् वा भविष्यति. वेदना संज्ञा संस्काराः, विज्ञानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते विज्ञानन् न संविद्यते, कुतः पुनर् अस्यागतिर् वा गतिर् वा भविष्यति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानि न संविद्यन्ते, (PSP_४:१०५) कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. दानपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते दानपारमिता न संविद्यते, कुतः पुनर् अस्या आगतिर् वा गतिर् वा भविष्यति. एवं शीलपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, क्षान्तिपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, वीर्यपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, ध्यानपारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, प्रज्ञापारमितागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिता न संविद्यते, कुतः पुनर् आसाम् आगतिर् वा गतिर् वा भविष्यति. अध्यात्मशून्यतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, यावद् अभावस्वभावशून्यतागतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते अध्यात्मशून्यता, यावद् अभावस्वभावशून्यता न संविद्यते, कुतः पुनर् आसाम् आगतिर् वा गतिर् वा भविष्यति. स्मृत्युपस्थानगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्मृत्युपस्थानानि न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अप्रमाणध्यानारूप्यसमापत्तिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. आर्यसत्यविमोक्षसमाधिसमापत्तिधारणीमुखगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. अभिज्ञादशबलवैशारद्यप्रतिसंविच्छून्यतानिमित्तप्रणिहिताष्टादशावेणिकबुद्धधर्मा गतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते सर्वधर्मा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. स्रोतआपत्तिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, सकृदागामिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अनागामिफलगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, अर्हत्त्वप्रत्येकबुद्धगतिका (PSP_४:१०६) हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्त्वप्रत्येकबुद्धा न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् वा गतिर् वा भविष्यति. अनुत्तरा सम्यक्संबोधिगतिका हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते ऽनुत्तरा सम्यक्संबोधिर् न संविद्यते, कुतः पुनर् अस्या आगतिर् वा गतिर् वा भविष्यति.
SK
सुभूतिर् आह: को ऽत्र भगवन् गम्भीरायां प्रज्ञापारमितायाम् अधिमोक्ष्यते?
SK
भगवान् आह: ये सुभूते बोधिसत्त्वा महासत्त्वाः पूर्वचरिता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ, पूर्वजिनकृताधिकाराः पूर्वजिनपरिपाचितकुशलमूला भविष्यन्ति, बहुबुद्धकोटीनियुतशतसहस्रपर्युपासिता भविष्यन्ति, कल्याणमित्रपरिगृहीताश् च त इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते. इति गतिकारित्रम् इति कारित्रलक्षणम्
SK
सुभूतिर् आह: कानि पुनर् भगवंस् तेषां बोधिसत्त्वानां महासत्त्वानां लिङ्गान्य् आकाराणि निमित्तानि स्वभावा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां ज्ञास्यन्ति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: रागविनयविविक्तस्वभावास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहविनयविविक्तस्वभावास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति क्लेशविविक्तस्वभावः
SK
रागलिङ्गविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहलिङ्गविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति तल्लिङ्गविवेकस्वभावः
SK
रागनिमित्तविवेकस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषमोहनिमित्तविवेकस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति. इति तन्निमित्तविवेकस्वभावः
SK
रागारागविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, दोषादोषमोहामोहविविक्तस्वभावाश् च ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्ष्यन्ते. (PSP_४:१०७)
SK
सुभूतिर् आह: किंगतिकास् ते भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् आज्ञास्यन्ति?
SK
भगवान् आह: सर्वाकारज्ञतागतिका हि सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् आज्ञास्यन्ति.
SK
सुभूतिर् आह: सर्वाकारज्ञतागतिकास् ते भगवन् बोधिसत्त्वा महासत्त्वाः सर्वसत्त्वानां गतिर् भवन्ति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वाकारज्ञतागतिकास् ते सुभूते बोधिसत्त्वा महासत्त्वाः सर्वसत्त्वानां गतिर् भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्ष्यन्ते. इति विपक्षप्रतिपक्षविवेकस्वभावः
SK
सुभूतिर् आह: दुष्करकारका भगवंस् ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, यैर् अयं संनाहः संनद्धः सर्वसत्त्वान् परिनिर्वापयिष्याम इति. न चात्र सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारकास् ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, यैर् अयं संनाहः संनद्धः सर्वसत्त्वान् परिनिर्वापयिष्याम इति. स खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य संनाहो न रूपसंबद्धः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते रूपं न संविद्यन्ते, न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न रूपसंबद्धो ऽयं संनाह इति, वेदना संज्ञा संस्काराः, स खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य संनाहो न विज्ञानसंबद्धः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते विज्ञानन् न संविद्यते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न विज्ञानसंबद्धो ऽयं संनाह इति. न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा संबद्धो ऽयं संनाहः. तत् कस्य हेतोः? अत्यन्ततया हि सुभूते स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि वा न संविद्यन्ते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न प्रतीत्यसमुत्पादसंबन्धो न प्रतीत्यसमुत्पादाङ्गसंबद्धो ऽयं संनाह इति. एवं विस्तरेण सुभूते नायं संनाह आत्मसत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकसंबन्धो यावत् सुभूते नायं संनाहः सर्वाकारज्ञतासंबद्धः. तत् (PSP_४:१०८) कस्य हेतोः? अत्यन्ततया हि सुभूते सर्वाकारज्ञता न संविद्यते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते, यावन् न सर्वाकारज्ञतासंबद्धो ऽयं बोधिसत्त्वस्य महासत्त्वस्य संनाह इति. सर्वधर्मसंबद्धो बतायं बोधिसत्त्वस्य महासत्त्वस्य संनाहो यैर् अयं गम्भीरायां प्रज्ञापारमितायां चरद्भिर् एवं संनाहः संनद्धः, एवं सर्वसत्त्वान् परिनिर्वापयिष्यामः. इति दुष्करतास्वभावः
SK
सुभूतिर् आह: अस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वान् परिनिर्वापयिष्यामीति, एवं संनाहसंनद्धस्य स्थानद्वयन् न प्रतिकाङ्क्षितव्यं श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा, अस्थानम् एतत् भगवन्न् अनवकाशो ऽयं स बोधिसत्त्वो महासत्त्व एवं संनाहसंनद्धः सर्वसत्त्वान् परिनिर्वापयिष्यामीति श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? न हि बोधिसत्त्वस्य महासत्त्वस्य सीमाबद्धः सत्त्वानां कृतशः संनाहसंनद्धः. इत्य् ऐकान्तिकस्वभावः
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कं पुनस् त्वं सुभूते ऽर्थवशं संपश्यन्न् एवं वदसि? अस्य बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य इह गम्भीरायां प्रज्ञापारमितायान् न द्वयोः स्थानयोर् अन्यतरान्यतरं स्थानं प्रतिकाङ्क्षितव्यं श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा.
SK
सुभूतिर् आह: तथा हि भगवन् न बोधिसत्त्वेन महासत्त्वेन प्रादेशिकानां सत्त्वानां कृतशः संनाहः संनद्धः, सर्वसत्त्वपरिनिर्वाणाय सर्वाकारज्ञताज्ञानस्य कृतशो भगवन् बोधिसत्त्वेन महासत्त्वेन संनाहः संनद्धः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न प्रादेशिकानां सत्त्वानां कृतशो बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धः, अपि तु खलु पुनः सुभूते सर्वसत्त्वानां परिनिर्वाणाय सर्वाकारज्ञताज्ञानस्य कृतशो बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धः. इत्य् उद्देशस्वभावः
SK
सुभूतिर् आह: गम्भीरा भगवन् प्रज्ञापारमिता सा न केनचिद् भावयितव्या न क्वचिन् न कथंचिद् भावयितव्या. तत् कस्य हेतोः? न (PSP_४:१०९) हि भगवन्न् इह गम्भीरायां प्रज्ञापारमितायां कस्यचिद् धर्मस्य परिनिष्पत्तिर् उपलभ्यते, यो वा भावयेद् यं वा भावयेद् येन वा भावयेत्, आकाशभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, सर्वधर्मा भावनैषा यद् उत प्रज्ञापारमिताभावना, असद्भावनैषा यद् उत प्रज्ञापारमिताभावना, अपरिग्रहभावनैषा यद् उत प्रज्ञापारमिताभावना भावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना.
SK
भगवान् आह: कस्य सुभूते भावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना?
SK
सुभूतिर् आह: रूपभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना वेदनासंज्ञासंस्कारब्भावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, आत्मभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, दानपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना शीलपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, क्षान्तिपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, वीर्यपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, ध्यानपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रज्ञापारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अध्यात्मशून्यताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना यावद् अभावस्वभावशून्यताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्मृत्युपस्थानभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अप्रमाणध्यानारूप्यसमापत्तिभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, शून्यतानिमित्ताप्रणिहिताभिज्ञाभावनाविभावनैसा यद् उत प्रज्ञापारमिताभावना, विमोक्षमुखसमाधिसमापत्तिधारणीमुखभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आर्यसत्यभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, (PSP_४:११०) दशबलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, वैशारद्यप्रतिसंविदावेणिकबुद्धधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्रोतआपत्तिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सकृदागामिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अनागामिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अर्हत्त्वभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रत्येकबुद्धभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, बोधिसत्त्वभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, यावत् सर्वाकारज्ञताभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, रूपभावनाविभावनैषा सुभूते यद् उत प्रज्ञापारमिताभावना, वेदनासंज्ञासंस्कारभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्कन्धभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, धातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आयतनभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रतीत्यसमुत्पादभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रतीत्यसमुत्पादाङ्गभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, चक्षुरूपचक्षुर्विज्ञानचक्षुःसंस्पर्शचक्षुःसंस्पर्शप्रत्ययवेदनाभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, एवं श्रोत्रघ्राणजिह्वाकायमनोधर्मः मनोविज्ञान मनःसंस्पर्शमनःसंस्पर्शप्रत्ययवेदनाभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, पृथिवीधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अब्धातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, तेजोधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, वायुधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आकाशधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना विज्ञानधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना अविद्याभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना संस्कारभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा, नामरूपभावनाविभावनैषा, षडायतनभावनाविभावनैषा, (PSP_४:१११) स्पर्शभावनाविभावनैषा, वेदनाभावनाविभावनैषा, तृष्णाभावनाविभावनैषा, उपादानभावनाविभावनैषा, भवभावनाविभावनैषा, जातिभावनाविभावनैषा, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासभावनाविभावनै षा यद् उत प्रज्ञापारमिताभावना. एवं सर्वपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सर्वशून्यताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, बोधिपक्ष्यधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अप्रमाणध्यानारूप्यसमापत्तिभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आर्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, यावत् सर्वाकारज्ञताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना. इत्य् अनुपलम्भस्वभावः
SK
इह सुभूते गम्भीरायां प्रज्ञापारमितायाम् उपपरीक्षितव्यो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इति, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यो, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां यो बोधिसत्त्वो महासत्त्वो नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यः. एवम् अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां नाभिनिविशेत, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नाभिनिविशेत, आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु नाभिनिविशेत, अष्टविमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेषु नाभिनिविशेत, समाधिधारणीमुखेष्व् अभिज्ञासु नाभिनिविशेत, दशबलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु नाभिनिविशेत, यः कश्चिद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः. यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां चरन् न परभाषितानि न परमन्त्रितानि सारतः परतः पश्यति सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां चरन् न परस्य श्रद्धया गच्छति सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह (PSP_४:११२) गम्भीरायां प्रज्ञापारमितायां चरन् न रागसहितैश् चित्तोत्पादैः संह्रियते न दोषमोहसहगतैश् चित्तोत्पादैः संह्रियते सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यः. यः कश्चिद् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं प्रज्ञापारमितया चाविरहितो भवति, अभिनन्दति प्रज्ञापारमिताश्रवणं श्रुत्वा चोद्गृह्णाति पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति तथत्वाय प्रतिपद्यते, वेदितव्यम् एतत् सुभूते पूर्वान्ततो ऽप्य् अनेनाविनिवर्तनीयेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता श्रुता उद्गृहीता पर्यवाप्ता धारिता वाचिता योनिशश् च मनसिकृता तथत्वाय प्रतिपन्ना. तत् कस्य हेतोः? तथा हि अविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं न प्रत्युदावर्तते उत्तरे च श्रुत्वा उद्गृह्णाति पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति तथत्वाय प्रतिपद्यते. इत्य् अनभिनिवेशस्वभावः
SK
सुभूतिर् आह: यो भगवन् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं, कथं भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता व्यवचारयितव्या?
SK
भगवान् आह: सर्वाकारज्ञता निम्नया सुभूते संतत्या तेन बोधिसत्त्वेन महासत्त्वेन इयं गम्भीरा प्रज्ञापारमिता व्यवचारयितव्या.
SK
सुभूतिर् आह: कथं भगवन् सर्वाकारज्ञता निम्नया संतत्या बोधिसत्त्वस्य महासत्त्वस्य गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति?
SK
भगवान् आह: शून्यतानिम्नया शून्यताप्रवणया शून्यताप्राग्भारया सुभूते संतत्या बोधिसत्त्वस्य महासत्त्वस्य इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति, आनिमित्तनिम्नया आनिमित्तप्रवणया आनिमित्तप्राग्भारया सुभूते संतत्या, अप्रणिहितनिम्नया अप्रणिहितप्रवणया (PSP_४:११३) अप्रणिहितप्राग्भारया सुभूते संतत्या, आकाशनिम्नया आकाशप्रवणया आकाशप्राग्भारया सुभूते संतत्या, यावद् भूतकोटिनिम्नया भूतकोटिप्रवणया भूतकोटिप्राग्भारया सुभूते संतत्या, अनभिसंस्कारनिम्नयानभिसंस्कारप्रवणयानभिसंस्कारप्राग्भारया सुभूते संतत्या इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति. स्वप्ननिम्नया निर्माणनिम्नया सुभूते संतत्या, मायानिम्नया मरीचिनिम्नया सुभूते संतत्या, प्रतिश्रुत्कानिम्नया प्रतिभासनिम्नया सुभूते संतत्या, प्रतिबिम्बनिम्नया गन्धर्वनगरनिम्नया सुभूते संतत्या इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति.
SK
सुभूतिर् आह: यद् भगवान् एवम् आह, शून्यतानिम्नया शून्यताप्रवणया शून्यताप्राग्भारया संतत्या इह गम्भीरायां प्रज्ञापारमितायां बोधिसत्त्वानां महासत्त्वानां व्यवचारणा भवति. एवम् आनिमित्ताप्रणिहिताकाशानुत्पादानिरोधाजाताभावासंक्लेशाव्यवदानतथतावितथतानन्यतथताधर्मताधर्मस्थितिताधर्मनियामताचिन्त्यताभूतकोट्यनभिसंस्कारस्वप्ननिर्माणमायामरीचिप्रतिश्रुत्काप्रतिभासप्रतिबिम्बगन्धर्वनगरनिम्नया प्रवणया प्राग्भारया सुभूते संतत्या बोधिसत्त्वानां महासत्त्वानाम् इह गम्भीरायां प्रज्ञापारमितायां व्यवचारणा भवति. किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो रूपम् अपि व्यवचारयति? वेदनां संज्ञां संस्कारान्, विज्ञानम् अपि व्यवचारयति? एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि व्यवचारयति? सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिधारणीमुखानि व्यवचारयति? सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् व्यवचारयति, अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञा व्यवचारयति? दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् व्यवचारयति? किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो यावत् सर्वाकारज्ञताम् अपि व्यवचारयति?
SK
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो रूपं व्यवचारयति, न वेदना संज्ञा संस्कारान् न विज्ञानं व्यवचारयति, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न प्रतीत्यसमुत्पादाङ्गानि व्यवचारयति, न सर्वपारमिता न सर्वशून्यता व्यवचारयति, न बोधिपक्ष्यान् धर्मान् व्यवचारयति, नाप्रमाणध्यानारूप्यसमापत्तीर् नार्यसत्यानि व्यवचारयति, न विमोक्षसमाधिसमापत्तिधारणीमुखानि व्यवचारयति, (PSP_४:११४) न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् व्यवचारयति, न सुभूते बोधिसत्त्वो महासत्त्वो यावत् सर्वाकारज्ञतां व्यवचारयति. तत् कस्य हेतोः? तथा हि सुभूते सर्वाकारज्ञता न केनचित् कृता न कुतश्चिद् आगता न क्वचिद् गता नापि क्वचित् स्थिता न देशस्था न प्रदेशस्था न तस्याः संख्या उपलभ्यते, न गमनं नागमनम् उपलभ्यते, यस्याश् च न संख्या न गमनं नागमनम् उपलभ्यते, सा न शक्या केनचिद् अभिसंबोद्धुं, न रूपेण न वेदनया न संज्ञया न संस्कारैर् न विज्ञानेन न स्कन्धैर् न धातुभिर् नायतनैर् न प्रतीत्यसमुत्पादेन न प्रतीत्यसमुत्पादाङ्गैर्, न दानेन न शीलेन न क्षान्त्या न वीर्येण न ध्यानेन न प्रज्ञया यावन् न सर्वाकारज्ञता ज्ञानेनाभिसंबोद्धुम्. तत् कस्य हेतोः? रूपम् एव सर्वाकारज्ञता, वेदनैव संज्ञैव संस्कारा एव, विज्ञानम् एव सर्वाकारज्ञता. तत् कस्य हेतोः? तथा हि सुभूते या च रूपस्य तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा वेदनायाः संज्ञायाः संस्काराणां, या च विज्ञानस्य तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां तथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च पारमितातथता, या च शून्यतातथता, या च बोधिपक्ष्यधर्मतथता, या चाप्रमाणध्यानारूप्यसमापत्तितथता या चार्यसत्यतथता, या च समाधिसमापत्तिधारणीमुखतथता, या च विमोक्षमुखतथता, या चाभिज्ञातथता, या च दशबलवैशारद्यप्रतिसंवित्तथता, या चावेणिकबुद्धधर्मतथता, या च सर्वाकारज्ञतायास् तथता, या च बुद्धधर्माणां तथता एकैवैषा तथताद्वयाद्वैधीकारा.
SK
अथ खलु कामावचरा रूपावचराश् च देवपुत्रा दिव्यानि चन्दनचूर्णानि गृहीत्वा दिव्यान्य् उत्पलकुमुदपुण्डरीकसौगन्धिकमान्दरवमहामान्दरवाणि गृहीत्वा येन भगवांस् तेनाक्षिपन्ति स्म, क्षिप्त्वा च (PSP_४:११५) येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तिष्ठन्, एकान्ते स्थिताश् च कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: गम्भीरा भगवन् प्रज्ञापारमिता दुर्दृशा दुरनुबोधातर्कातर्कावचरा शान्ता शूक्ष्मा निपुणपण्डितविज्ञवेदनीया सर्वलोकविप्रत्यनीका यद् उत तथागतानां बोधिर् यत्र नाम तथागता अर्हन्तः सम्यक्संबुद्धाः, एवं गम्भीरां प्रज्ञापारमिताम् एवं निपुणां निर्दिशन्ति, रूपम् एव सर्वाकारज्ञता सर्वाकारज्ञतैव रूपं, वेदना संज्ञा संस्कारा, विज्ञानम् एव सर्वाकारज्ञता सर्वाकारज्ञतैव विज्ञानम्. तत् कस्य हेतोः? या च रूपस्य तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च वेदनायास् तथता, या च संज्ञायास् तथता, या च संस्काराणां तथता, या च विज्ञानस्य तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादः. तत् कस्य हेतोः? या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च यावद् बुद्धानां भगवतां तथता, या च यावत् सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा.
SK
एवम् उक्ते भगवांस् तान् कामावचारान् रूपावचारांश् च देवपुत्रान् एतद् अवोचत्: एवम् एतद् देवपुत्रा एवम् एतत्, रूपम् एव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्रा रूपं, वेदना संज्ञा संस्काराः, विज्ञानम् एव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्रा विज्ञानम्. तत् कस्य हेतोः? या च रूपस्य तथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा, या च वेदनायास् तथता या च संज्ञायास् तथता या च संस्काराणां तथता, या च विज्ञानस्य तथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादः. तत् कस्य हेतोः? या च स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. दानपारमितैव सर्वाकारज्ञता सर्वाकारज्ञतैव (PSP_४:११६) दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमितैव देवपुत्राः सर्वाकारज्ञता सर्वाकारज्ञतैव देवपुत्राः प्रज्ञापारमिता. तत् कस्य हेतोः? या च दानपारमितातथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, या च प्रज्ञापारमितातथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. अध्यात्मशून्यतैव सर्वाकारज्ञता सर्वाकारज्ञतैवाध्यात्मशून्यता, एवं यावद् अभावस्वभावशून्यतैव सर्वाकारज्ञता सर्वाकारज्ञतैवाभावस्वभावशून्यता. तत् कस्य हेतोः? या चाभावस्वभावशून्यतायास् तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. स्मृत्युपस्थानान्य् एव सर्वाकारज्ञता सर्वाकारज्ञतैव स्मृत्युपस्थानाइ, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा एव सर्वाकारज्ञता सर्वाकारज्ञतैव सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः. तत् कस्य हेतोः? या च स्मृत्युपस्थानतथता या च सर्वाकारज्ञतातथथा एकैवैषा तथताद्वयाद्वैधीकारा. एवं या च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथता, या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाद्वैधीकारा. अप्रमाणध्यानारूप्यसमापत्तय एव सर्वाकारज्ञता सर्वाकारज्ञतैवाप्रमाणध्यानारूप्यसमापत्तयः. तत् कस्य हेतोः? या चाप्रमाणध्यानारूप्यसमापत्तितथता या च सर्वाकारज्ञतातथता एकैवैषा तथताद्वयाअद्वैधीकारा. एवम् आर्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञाविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविद्, आवेणिकबुद्धधर्मा एव सर्वाकारज्ञता सर्वाकारज्ञतैवावेणिकबुद्धधर्माः. तत् कस्य हेतोः? या चावेणिकबुद्धधर्माणां तथता, या च सर्वाकारज्ञतायास् तथथा एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धा, बुद्धा एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धाः. तत् कस्य हेतोः? या च बुद्धानां भगवतां तथता, या च सर्वाकारज्ञतायास् तथता एकैवैषा तथताद्वयाद्वैधीकारा. इदम् अपि देवपुत्रा अर्थवशं संपश्यंस् तथागतो ऽल्पोत्सुकतायां चित्तं नामयामास न धर्मदेशनायाम्. तत् कस्य हेतोः? गम्भीरो बतायं (PSP_४:११७) धर्मो दुर्दृशो दुरनुबोधो ऽतर्को ऽतर्कावचरः शान्तः शूक्ष्मः पण्डितविज्ञवेदनीयः सर्वलोकविप्रत्यनीको यद् उतेयं तथागतानां बोधिः, सा न केनचिद् अभिसंबुद्धा न कदाचिद् अभिसंबुद्धा न क्वचिद् अभिसंबुद्धा इयं सा धर्माणां गम्भीरता धर्मता यत्र न द्वयसमुदाचारो नाद्वयसमुदाचारः संविद्यते. इत्य् आलम्बनस्वभावः
SK
आकाशगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, तथतागम्भीरतया धर्मधातुगम्भीरतया भूतकोटीगम्भीरतया अचिन्त्यधर्मधातुगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, अनन्तापर्यन्तया अनागमनागमनतया अनुत्पादानिरोधसमतया असंक्लेशाव्यवदानसमतया, अनभिसंस्कारसमतया आत्मगम्भीरतया सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः. रूपगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, वेदनासंज्ञासंस्कारविज्ञानगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, स्कन्धगम्भीरतया धातुगम्भीरतयायतनगम्भीरतया प्रतीत्यसमुत्पादगम्भीरतया प्रतीत्यसमुत्पादाङ्गगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, दानपारमितागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, शीलपारमितागम्भीरतया क्षान्तिपारमितागम्भीरतया वीर्यपारमितागम्भीरतया ध्यानपारमितागम्भीरतया प्रज्ञापारमितागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, अध्यात्मशून्यतागम्भीरतया यावद् अभावस्वभावशून्यतागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, स्मृत्युपस्थानगम्भीरतया सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, अप्रमाणध्यानारूप्यसमापत्तिगम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः, आर्यसत्यगम्भीरतया शून्यतानिमित्ताप्रणिहितगम्भीरतया अभिज्ञागम्भीरतया सर्वविमोक्षसमाधिसमापत्तिधारणीमुखगम्भीरतया दशबलवैशारद्यप्रतिसंविद्गम्भीरतया अष्टादशावेणिकबुद्धधर्मगम्भीरतया, यावत् सर्वाकारज्ञतागम्भीरतया देवपुत्रा गम्भीरो ऽयं धर्मः.
SK
एवम् उक्ते देवपुत्रा भगवन्तम् एतद् अवोचन्: सर्वलोकविप्रत्यनीको ऽयं भगवन् धर्मो देश्यते. तत् कस्य हेतोः? नायं भगवन् धर्मो रूपस्योद्ग्रहाय नानुद्ग्रहाय वा देश्यते, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्योद्ग्रहाय नानुद्ग्रहाय वा देश्यते, न (PSP_४:११८) स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानाम् उद्ग्रहाय नानुद्ग्रहाय वा देश्यते. एवं न सर्वशून्यतानां सप्तत्रिंशद्बोधिप्क्ष्याणां धर्माणां दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणाम् उद्ग्रहाय वा नानुद्ग्रहाय वा धर्म उपदेश्यते, न सर्वधर्माणाम् उद्ग्रहाय नानुद्ग्रहाय वा धर्मो देश्यते, नायं भगवन् धर्मः स्रोतआपत्तिफलस्य उद्ग्रहाय नानुद्ग्रहाय वा देश्यते. एवं न सकृदागामिफलस्य नानागामिफलस्य नार्हत्त्वस्य न प्रत्येकबोधेर् यावत् सर्वाकारज्ञताया नोद्ग्रहाय नानुद्ग्रहाय वा धर्मो देश्यते, उद्ग्रहे च लोकश् चरति मम रूपं, मम वेदना मम संज्ञा मम संस्कारा मम विज्ञानं, मम स्कन्धा मम धातवो ममायतनानि मम प्रतीत्यसमुत्पादो ऽहं प्रतीत्यसमुत्पन्नः, मम दानम् अहं दानपतिर् मम शीलम् अहं शीलवान् मम क्षान्तिर् अहं क्षान्तिमान् मम वीर्यम् अहं वीर्यवान् मम ध्यानम् अहं ध्यानवान् मम प्रज्ञा अहं प्रज्ञावान्, ममाध्यात्मशून्यता अहम् अध्यात्मशून्यतां भावयामि यावन् ममाभावस्वभावशून्यताहम् अभावस्वभावशून्यतां भावयामि, मम स्मृत्युपस्थानानि मम सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा ममाप्रमाणध्यानारूप्यसमापत्तयो ममार्यसत्यानि ममाभिज्ञा मम विमोक्षसमाधिसमापत्तिधारणीमुखानि मम शून्यतानिमित्ताप्रणिहितानि अहं शून्यतानिमित्ताप्रणिहितवान् मम दशबलवैशारद्यप्रतिसंविदो ममाष्टादशावेणिकबुद्धधर्मा मम स्रोतआपत्तिफलम् अहं स्रोतआपन्नो मम सकृदागामिफलम् अहं सकृदागामी ममानागामिफलम् अहम् अनागामी ममार्हत्त्वम् अहम् अर्हन् मम प्रत्येकबोधिर् अहं प्रत्येकबुद्धो मम सर्वाकारज्ञता अहं सर्वाकारज्ञताः.
SK
भगवान् आह: एवम् एतद् देवपुत्रा एवम् एतन्, नायं देवपुत्रा धर्मो रूपस्योद्ग्रहाय देश्यते नानुद्ग्रहाय, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्योद्ग्रहाय देश्यते नानुद्ग्रहाय. ये तु देवपुत्रा रूपस्योद्ग्रहाय चरन्ति, वेदनायाः संज्ञायाः संस्काराणां, ये विज्ञानस्योद्ग्रहाय चरन्ति, न ते भव्याः प्रज्ञापारमितां भावयितुम्. ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादानाम् उद्ग्रहाय चरन्ति, ये सर्वपारमितासर्वशून्यतासमाधिसमापत्तिधारणीमुखानाम् उद्ग्रहाय चरन्ति, ये प्रमाणध्यानारूप्यसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणाम् (PSP_४:११९) उद्ग्रहाय चरन्ति, ये देवपुत्राः सर्वाकारज्ञताया उद्ग्रहाय चरन्ति, न ते भव्याः प्रज्ञापारमितां भावयितुं यावन् न प्रतिबला ध्यानवीर्यक्षान्तिशीलदानपारमितां भावयितुं, यावन् न प्रतिबलाः सर्वाकारज्ञतां भावयितुम्. इति सर्वलोकविप्रत्यनीकस्वभावः
SK
सुभूतिर् आह: सर्वधर्मानुलोमिको ऽयं भगवन् धर्मः, कस्यानुलोमिको ऽयं भगवन् धर्मः? प्रज्ञापारमितानुलोमिको ऽयं भगवन् धर्मः, यावद् ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमितानुलोमिको ऽयं भगवन् धर्मः, अध्यात्मशून्यतानुलोमिको ऽयं भगवन् धर्मः, यावद् अभावस्वभावशून्यतानुलोमिको ऽयं भगवन् धर्मः, स्मृत्युपस्थानानुलोमिको ऽयं भगवन् धर्मः, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानुलोमिको ऽयं भगवन् धर्मः, आर्यसत्यानुलोमिको ऽयं भगवन् धर्मः, अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखानुलोमिको ऽयं भगवन् धर्मः, शून्यतानिमित्ताप्रणिहिताभिज्ञानुलोमिको ऽयं भगवन् धर्मः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मानुलोमिको ऽयं भगवन् धर्मः, सर्वाकारज्ञतानुलोमिको ऽयं भगवन् धर्मः. नायं धर्मः क्वचित् प्रतिहन्यते रूपे न प्रतिहन्यते, एवं वेदनायां संज्ञायां संस्कारेषु विज्ञाने न प्रतिहन्यते, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गेषु न प्रतिहन्यते, सर्वपारमितासु सर्वशून्यतासु न प्रतिहन्यते, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु न प्रतिहन्यते, आर्यसत्येषु अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु न प्रतिहन्यते, शून्यतानिमित्ताप्रणिहितेस्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न प्रतिहन्यते, सर्वाकारज्ञतायां न प्रतिहन्यते. अप्रतिहतलक्षणो बतायं धर्मः, आकाशसमताम् उपादाय, तथतासमताम् उपादाय, धर्मधातुस्थितिताम् उपादाय, भूतकोटिसमताम् उपादाय, अचिन्त्यधातुसमताम् उपादाय, शून्यतानिमित्ताप्रणिहितसमताम् उपादाय, अनुत्पादानिरोधसमताम् उपादाय, असंक्लेशाव्यवदानसमताम् उपादाय, अनुत्पादो ऽयं धर्मो रूपानुत्पादानिरोधताम् उपादाय, वेदना संज्ञा संस्कारा, विज्ञानानुत्पादानिरोधताम् उपादाय, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानाम् (PSP_४:१२०) अनुत्पादानिरोधताम् उपादाय, सर्वपारमिता सर्वशून्यतानुत्पादानिरोधताम् उपादाय सप्तत्रिंशद्बोधिपक्ष्यधर्माप्रमाणध्यानारूप्यसमापत्त्यार्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितसर्वविमोक्षसमाधिसमापत्तिधारणीमुखानुत्पादानिरोधताम् उपादाय, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मानुत्पादानिरोधताम् उपादाय. इत्य् अप्रतिघातस्वभावः
SK
अपदो ऽयं धर्मो रूपपदानुपलब्धिताम् उपादाय, वेदनासंज्ञासंस्कारविज्ञानपदानुपलब्धिताम् उपादाय, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गपदानुपलब्धिताम् उपादाय, सर्वपारमितासर्वविमोक्षसमाधिसमापत्तिधारणीमुखपदानुपलब्धिताम् उपादाय, बोधिपक्ष्यधर्मपदानुपलब्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहितपदानुपलब्धिताम् उपादाय, आर्यसत्याभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मपदानुपलब्धिताम् उपादाय, सर्वाकारज्ञतापदानुपलब्धिताम् उपादाय, अपदो ऽयं धर्मः. इत्य् अपदस्वभावः अथ खलु ते कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: अनुजातो ऽयं भगवन् भगवतः सुभूतिः स्थविरः. तत् कस्य हेतोः? तथा हि यद्यद् एव देशयति सर्वतच् छून्यतानिमित्ताप्रणिहितम् आरभ्य धर्मं देशयति.
SK
अथ खल्व् आयुष्मान् सुभूतिस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् आमन्त्रयामास: यद् एवं देवपुत्रा वदथ, अनुजातो ऽयं भगवन् भगवतः सुभूतिः स्थविरः, किम् इत्य् अनुजातत्वात् सुभूतिः स्थविरो ऽनुजातस् तथागतस्य? यथा तथागतस्य तथानागतागता, एवम् एव सुभूतेर् अपि तथतानागतागता, एवं हि सुभूतिः स्थविरस् तथागतस्यानुजातः. या तथागतस्य तथता सा सर्वधर्मतथता, या सर्वधर्मतथता सा तथागततथता अवितथता अनन्यतथता, एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. या तथागततथता सा स्थितितथता या स्थितितथता सा तथागततथता, एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. यथा तथागततथताविकारा निर्विकारा, एवं हि सुभूतेः स्थविरस्य तथताविकारा निर्विकारा यथा तथागतस्य तथता न क्वचित् प्रतिहन्यते. एवं सर्वधर्मतथता न क्वचित् प्रतिहन्यते. या च तथागततथता या च सर्वधर्मतथता (PSP_४:१२१) एकैवैषा तथताद्वयाद्वैधीकारा न सा कदाचिन् न तथता, यतः सा न कदाचिन् न तथता ततः सा तथताद्वयाद्वैधीकारा. एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. यथा तथागततथता सर्वत्रगाविकल्पा निर्विकल्पा, एवं हि सुभूतितथता सर्वत्रगाविकल्पा निर्विकल्पा. यथा तथागततथता अभिन्ना अभेदतथतानुपलभ्या, एवं सुभूतितथता अभिन्ना अभेदतथतानुपलभ्या. एवं हि सुभूतिस्थविरस् तथागतम् अनुजातः. यथा तथागततथतानन्यतथता सर्वधर्मतथता, या न सा कदाचिन् न तथता, सदा सा तथता तथैव सुभूतिस्थविरो ऽनन्यतथता या तथागतम् अनुजातो न क्वचिद् अनुजातः, एवं हि सुभूतिस्थविरस् तथागतम् अनुजातः. यथा तथागततथता नातीता नानागता न प्रत्युत्पन्ना, एवं सर्वधर्मतथता नातीता नानागता न प्रत्युत्पन्ना. एवं हि सुभूतिस्थविरतथता नातीता नानागता न प्रत्युत्पन्ना, एवं हि सुभूतिस्थविरस् तथागतम् अनुजात इति उच्यते. अतीततथतासमतया तथागततथतासमतातथागततथतासमतयातीततथतासमता, अनागततथतासमतया तथागततथतासमता तथागततथतासमतया अनागततथतासमता, प्रत्युत्पन्नतथतासमतया तथागततथतासमता तथागततथतासमतया प्रत्युत्पन्नतथतासमता. इति ह्य् अतीतानागतप्रत्युत्पन्नतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. रूपतथतया तथागततथता तथागततथतया रूपतथता, वेदना संज्ञा संस्काराः, विज्ञानतथतया तथागततथता तथागततथतया विज्ञानतथता, इति हि तथागततथता च रूपवेदनासंज्ञासंस्कारविज्ञानतथता चाद्वयम् एतद् अद्वैधीकारम्. स्कन्धतथतया तथागततथता तथागततथतया स्कन्धतथता, धातुतथतया तथागततथता तथागततथतया धातुतथता, आयतनतथतया तथागततथता तथागततथतया आयतनतथता, प्रतीत्यसमुत्पादतथतया तथागततथता तथागततथतया प्रतीत्यसमुत्पादतथता, प्रतीत्यसमुत्पादाङ्गतथतया तथागततथता तथागततथतया प्रतीत्यसमुत्पादाङ्गतथता, इति हि स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गतथता च तथागततथता चाद्वयम् एतद् (PSP_४:१२२) अद्वैधीकारम्. अनन्यतथतया तथागततथता तथागततथतयानन्यतथता, एवं सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. दानपारमितातथतया तथागततथता तथागततथतया दानपारमितातथता, एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितातथतया तथागततथता तथागततथतया प्रज्ञापारमितातथता, इति हि दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. अध्यात्मशून्यतातथतया तथागततथता तथागततथतयाध्यात्मशून्यतातथता, एवं यावद् अभावस्वभावशून्यतातथतया तथागततथता तथागततथतया यावद् अभावस्वभावशून्यतातथता, इति ह्य् अध्यात्मशून्यतातथता च तथागततथता च, यावद् अभावस्वभावशून्यतातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. स्मृत्युपस्थानतथतया तथागततथता तथागततथतया स्मृत्युपस्थानतथता, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथतया तथागततथता तथागततथतया मार्गतथता. इति हि स्मृत्युपस्थानतथता च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. अप्रमाणध्यानारूप्यसमापत्तितथतया तथागततथता तथागततथतया प्रमाणध्यानारूप्यसमापत्तितथता, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथतया तथागततथता तथागततथतया सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता, इति ह्य् अप्रमाणध्यानारूप्यसमापत्तितथता च सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. शून्यतानिमित्ताप्रणिहिततथतया तथागततथता तथागततथतया शून्यतानिमित्ताप्रणिहिततथता, आर्यसत्यतथतया तथागततथता तथागततथतया आर्यसत्यतथता, अभिज्ञातथतया तथागततथता तथागततथतयाभिज्ञातथता, इति हि शून्यतानिमित्ताप्रणिहिततथता चार्यसत्यतथता चाभिज्ञातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. दशबलवैशारद्यप्रतिसंवित्तथतया तथागततथता तथागततथतया दशबलवैशारद्यप्रतिसंवित्तथता, आवेणिकबुद्धधर्मतथतया तथागततथता तथागततथतयावेणिकबुद्धधर्मतथता, इति हि दशबलवैशारद्यप्रतिसंवित्तथता (PSP_४:१२३) चावेणिकबुद्धधर्मतथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. सर्वाकारज्ञतातथतया तथागततथता तथागततथतया सर्वाकारज्ञतातथता, इति हि सर्वाकारज्ञतातथता च तथागततथता चाद्वयम् एतद् अद्वैधीकारम्. इयं सा सुभूते तथागततथतायां तथताम् आगम्य तथागतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस् तथागत इति नामधेयं लभते. अस्मिन् खलु पुनस् तथतापरिवर्ते भाष्यमाणे, यं त्रिसाहस्रमहासाहस्रलोकधातुः षड्विकारम् अष्टादशमहानिमित्तं कम्पते प्रकम्पते संप्रकम्पते, चलति प्रचलति संप्रचलति, वेधते प्रवेधते संप्रवेधते, रणति प्ररणति संप्ररणति, क्षुभ्यति प्रक्षुभ्यति संप्रक्षुभ्यति, गर्जति प्रगर्जति संप्रगर्जति, पूर्वा दिग् उन्नमति पश्चिमा दिग् अवनमति, पश्चिमा दिग् उन्नमति पूर्वा दिग् अवनमति, उत्तरा दिग् उन्नमति दक्षिणा दिग् अवनमति, दक्षिणा दिग् उन्नमति उत्तरा दिग् अवनमति, अन्ताद् उन्नमति मध्याद् अवनमति, मध्याद् उन्नमति अन्ताद् अवनमति.
SK
अथ खलु कामावचरा रूपावचराश् च देवपुत्रा दिव्यैश् चन्दनचूर्णैर् भगवन्तं सुभूतिस्थविरं चाभ्यवकिरन्न् एवं च वाचम् अभाषन्त, आश्चर्यं भगवन् यावद् अयं सुभूतिस्थविरस् तथागततथतया तथागतम् अनुजातः. इत्य् अगतिस्वभावः
SK
अथ खलु सुभूतिस्थविरस् तेषां देवपुत्राणां ताम् एव कथाम् अनुबध्नाति स्म, इति हि देवपुत्राः सुभूतिस्थविरो न रूपम् अनुजातो न रूपस्य तथताम् अनुजातो, नान्यत्र रूपतथताया अनुजातः, वेदना संज्ञा संस्कारा, न विज्ञानम् अनुजातो, न विज्ञानतथताम् अनुजातो, नान्यत्र विज्ञानतथताया अनुजातः न स्कन्धधात्वायतनम् अनुजातो न स्कन्धधात्वायतनतथताम् अनुजातो नान्यत्र स्कन्धधात्वायतनतथताया अनुजातः न प्रतीत्यसमुत्पादम् अनुजातो न प्रतीत्यसमुत्पादतथताम् अनुजातो, नान्यत्र प्रतीत्यसमुत्पादतथताया अनुजातः. एवं सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, (PSP_४:१२४) न सर्वाकारज्ञताम् अनुजातो, न सर्वाकारज्ञतातथताम् अनुजातो, नान्यत्र सर्वाकारज्ञतातथताया अनुजातः. नासंस्कृतम् अनुजातो, नासंस्कृततथताम् अनुजातो, नान्यत्र संस्कृततथताया अनुजातः. तत् कस्य हेतोः? तथा हि ते धर्मा न संविद्यन्ते नोपलभ्यन्ते यो वानुजायेत येन वानुजायेत, यो वानुजन्येत येन वानुजन्येत. इत्य् अजातिस्वभावः
SK
अथ खल्व् आयुष्माच् छारिपुत्रो भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवंस् तथता अवितथता अनन्यतथता धर्मता धर्मधातुस्थितिता धर्मनियामता भूतकोटिर्, यत्र न रूपम् उपलभ्यते न रूपतथता, यदा रूपम् एव नोपलभ्यते कुतः पुना रूपतथतोपलप्स्यते, यत्र न वेदना न संज्ञा न संस्कारा, यत्र न विज्ञानम् उपलभ्यते न विज्ञानतथता, यदा विज्ञानम् एव नोपलभ्यते कुतः पुनर् विज्ञानतथतोपलप्स्यते. यत्र न स्कन्धधात्वायतनान्य् उपलभ्यन्ते न स्कन्धधात्वायतनतथता, यदा स्कन्धधात्वायतनान्य् एव नोपलभ्यते, कुतः पुनः स्कन्धधात्वायतनतथतोपलप्स्यते. यत्र न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि चोपलभ्यन्ते न प्रतीत्यसमुत्पादतथता न प्रतीत्यसमुत्पादाङ्गतथता वा, यदा प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गान्य् एव वा नोपलभ्यते, कुतः पुनः प्रतीत्यसमुत्पादतथता प्रतीत्यसमुत्पादाङ्गतथता वोपलप्स्यते. एवं सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा, यत्र न सर्वाकारज्ञतोपलभ्यते, न सर्वाकारज्ञतातथता, यदा सर्वाकारज्ञतैव नोपलभ्यते, कुतः पुनः सर्वाकारज्ञतातथतोपलप्स्यते.
SK
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतद्, गम्भीरेयं शारिपुत्र तथता, यत्र न रूपम् उपलभ्यते, न रूपस्य तथतोपलभ्यते, रूपम् एव नोपलभ्यते कुतः पुना रूपस्य तथतोपलप्स्यते, यत्र न वेदना न संज्ञा न संस्कारा, न विज्ञानम् उपलभ्यते न विज्ञानस्य तथतोपलभ्यते विज्ञानम् एव नोपलभ्यते कुतो विज्ञानस्य तथतोपलप्स्यते. (PSP_४:१२५) यत्र न स्कन्धधात्वायतनप्रतीत्यसमुत्पादा उपलभ्यन्ते न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य तथतोपलभ्यते, स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव नोपलप्स्यते, कुतः पुनः स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य तथतोपलप्स्यते. एवं यावन् न सर्वाकारज्ञतोपलभ्यते न सर्वाकारज्ञतायास् तथतोपलभ्यते सर्वाकारज्ञतैव नोपलभ्यते, कुतः पुनः सर्वाकारज्ञतायास् तथतोपलप्स्यते. अस्यां खलु पुनः शारिपुत्र तथतायाम् अवितथतायाम् अनन्यतथतायां भाष्यमाणायां भिक्षुशतद्वयस्यानुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, पञ्चानां भिक्षुणीशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धं, पञ्चानां बोधिसत्त्वसहस्राणाम् अनुत्पत्तिकधर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्, षष्टेश् च बोधिसत्त्वानां महासत्त्वानां परिहाणधर्मकाणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि.
SK
अथ खल्व् आयुष्मान् शारिपुत्रस् तेषां बोधिसत्त्वानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि विदित्वा भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययो यद् एतेषां बोधिसत्त्वानां महासत्त्वानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि?
SK
भगवान् आह: एतैश् च शारिपुत्र बोधिसत्त्वैः पञ्चबुद्धशतानि पर्युपासितानि सर्वत्र च दानं दत्तं शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानान्य् उत्पादितानि प्रज्ञा भाविता, ते प्रज्ञापारमितया विरहितत्वाद् उपायकौशल्येन चापरिगृहीतत्वाद् एवं चरिताः, वयं दानं ददामो वयं शीलं रक्षामो वयं क्षान्त्या संपादयामो वयं वीर्यम् आरभामहे वयं ध्यानं समापद्यामहे वयं प्रज्ञां भावयामः, ते प्रज्ञापारमिताविरहितत्वाद् अनुपायकौशलेन दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां भावयामासुः, ते नानात्वसंज्ञायां चरन्तो नानात्वोपलब्ध्या बोधिसत्त्वनियामं नावक्रामन्ति, ते बोधिसत्त्वनियामम् अनवक्रामन्तः स्रोतआपत्तिफलं प्राप्ता यावद् अर्हत्त्वं प्राप्ताः, किं चापि शारिपुत्र बोधिसत्त्वानां महासत्त्वानाम् अस्ति मार्गः शून्यता वा निमित्तं वा प्रणिहितं वा ते प्रज्ञापारमितया विरहिता उपायकौशल्येन चापरिगृहीता भूतकोटिं साक्षात्कृत्वा श्रावक भवन्ति. (PSP_४:१२६)
SK
शारिपुत्र आह: केन कारणेन भगवंस् तैर् एवं शून्यतानिमित्ताप्रणिहितैर् धर्मैः सुभावितैः प्रज्ञापारमितया विरहिता उपायकौशल्येन चापरिगृहीता भूतकोटिं साक्षात्कृत्वा श्रावका भवन्ति. बोधिसत्त्वाः पुनर् भगवंस् तैर् एवं शून्यतानिमित्ताप्रणिहितैर् धर्मैः सुभावितैः प्रज्ञापारमिताम् उपायकौशल्यं चागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते?
SK
भगवान् आह: इह शारिपुत्र एकः सर्वाकारज्ञताचित्तेन विरहितः, शून्यतानिमित्ताप्रणिहितान् धर्मान् भावयन्न् उपायकौशल्यम् अनागम्य श्रावको भवति. अपरः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताचित्तेनाविरहितः शून्यतानिमित्ताप्रणिहितान् धर्मान् भावयन्न् उपायकौशलेन बोधिसत्त्वनियामम् अवक्रामत्य् अनुत्तरां च सम्यक्संबोधिम् अभिसंबुद्ध्यते. तद्यथापि नाम शारिपुत्र पक्षिणः शकुनेर् योजनशतिको वा आत्मभावो भवेद्, द्वियोजनशतिको वा त्रियोजनशतिको वा चतुर्योजनशतिको वा आत्मभावो भवेत्, स देवेभ्यस् त्रयस्त्रिंशेभ्यो जम्बूद्वीपम् आगन्तव्यं मन्येत, स च पक्षी शकुनिर् अपक्षो भवेत्, स देवेभ्यस् त्रयस्त्रिंशेभ्य आत्मानं परिमोक्तव्यं मन्येत जम्बूद्वीपं गमिष्यामीति. अथ तस्य पक्षिणः शकुनेर् अर्धपतितस्यल्तद् अभवत्, अहो बताहं देवेषु त्रयस्त्रिंशेषु प्रतितिष्ठेयम् इति. तत् किं मन्यसे शारिपुत्रापि नु स पक्षी शकुनिः प्रतिबलः, पुनर् एव देवेषु त्रयस्त्रिंशेषु प्रतिष्ठातुम्?
SK
शारिपुत्र आह: नो भगवन्.
SK
भगवान् आह: सचेत् पुनर् अस्यान्तरे, एवं भवेद्, अहो बताहम् अक्षतो ऽनुपहतो जम्बूद्वीपे प्रतितिष्ठेयम् इति. तत् किं मन्यसे शारिपुत्रापि नु स पक्षी शकुनिर् अक्षतो ऽनुपहतो जम्बूद्वीपे प्रतितिष्ठेत्?
SK
शारिपुत्र आह: नो भगवन्, क्षतश् चासौ भगवन्न् उपहतश् चाप्राप्त एव जम्बूद्वीपं मरणं निगच्छेत्. तत् कस्य हेतोः? एवम् एतद् भवति भगवन् यस्य महांश् चात्मभावो भवति, अजातपक्षश् च दूराच् च विप्रकृष्टात् प्रपतति.
SK
भगवान् आह: एवम् एव शारिपुत्र किञ् चापि बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पान् अवगम्य दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानं समापद्यते, तस्य च महत् प्रस्थानं महांश् चित्तोत्पादो ऽप्रमाणपरिग्रहो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स च प्रज्ञापारमितयोपायकौशलेनैव (PSP_४:१२७) विरहितः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञताविरहितेन चित्तेन दानं दत्तं भवति शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानान्य् उत्पादितानि स च बोधिसत्त्वः प्रज्ञापारमितयोपायकौशलेन च विरहितो ऽभूत्, तेन स श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. किञ् चापि स शारिपुत्र बोधिसत्त्वो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनं समन्वाहरति आराधयति निमित्तीकरोति, न च स तथागतानां शीलं जानाति समाधिं जानाति प्रज्ञां जानाति विमुक्तिं जानाति विमुक्तिज्ञानदर्शनं जानाति, सो ऽजानन् न बुध्यमानः शून्यतायाम् आनिमित्ते प्रणिहिते वा शान्तिं शृणोति स तां शान्तिं निमित्तीकरोति निमित्ततश् चानुत्तरायै सम्यक्संबोधये परिणामयति. एवं हि परिणामयन् बोधिसत्त्वः स्थास्यति श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा. तत् कस्य हेतोः? एवम् एतच् छारिपुत्र यः प्रज्ञापारमितयोपायकौशलेन च विरहितो भवति, न च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति, स श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति. इति तथतानुपलम्भस्वभावः इत्य् उक्तं स्वभावलक्षणम्
SK
यः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताचित्तेनाविरहितो दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानानि च समापद्यते न च निमित्तीकरोति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति न च निमित्तीकरोति यावत् सर्वाकारज्ञतां भावयति न च निमित्तीकरोति. इति सामान्येन मोक्षभागीयम्
SK
स च प्रज्ञापारमितयोपायकौशल्येन चाविरहितस् त्रैयध्विकान् बुद्धान् समन्वाहरति, तेषां चातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतयश् च शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, तत्सर्वं न निमित्तीकरोति न शून्यतासमाधिं निमित्तीकरोति आनिमित्तसमाधिम् अप्रणिहितसमाधिं न निमित्तीकरोति वेदितव्यम् एतच् छारिपुत्र नायं बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ (PSP_४:१२८) वा स्थास्यतीति, अक्षतो ऽनुपहतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इति श्रद्धात्मकं मोक्षभागीयम्
SK
तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय दानं दत्तं न च निमित्तीकृतं, शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानं समापन्नं प्रज्ञा भाविता न च निमित्तीकृता, अतितानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानि न निमित्तीकृतानि, इदं शारिपुत्र बोधिसत्त्वानां महासत्त्वानां तद् उपायकौशल्यं यन् निमित्तविरहितेन चित्तेन दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानं समापद्यते प्रज्ञां भावयति. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीर् भावयति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि समापद्यते, शून्यतानिमित्ताप्रणिहितानि भावयति न च निमित्तीकरोति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयति यावत् सर्वाकारज्ञतायां चरति न च निमित्तीकरोति. इति वीर्यात्मकं मोक्षभागीयम्
SK
शारिपुत्र आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि, यो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया चोपायकौशल्येन चाविरहिताशयस् तस्यानुत्तरा सम्यक्संबोधिः. इति स्मृत्यात्मकं मोक्षभागीयम् तत् कस्य हेतोः? तथा हि भगवन् तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय न कश्चिद् धर्म उपलब्धो यो ऽभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादो वा प्रतीत्यसमुत्पादाङ्गानि वा सर्वपारमिता वा सर्वशून्यता वा सप्तत्रिंशद्बोधिपक्ष्या वा धर्मा आर्यसत्यानि वा अप्रमाणध्यानारूप्यसमापत्तयो वा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि वा शून्यतानिमित्ताप्रणिहितानि वा अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका वा बुद्धधर्माः सर्वाकारज्ञता वा. ये पुनर् इमे भगवन् बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताविरहिता उपायकौशल्यविरहिताश् च संशयस् तेषां प्रतिकाङ्क्षितव्यो (PSP_४:१२९) ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि भगवंस् तैर् बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा प्रज्ञापारमितोपायकौशल्यविरहितैर् यद्यद् एव दानं दत्तं तत्सर्वं निमित्तीकृत्य दत्तम्, एवं यद्यद् एव शीलं रक्षितं क्षान्त्या संपादितं वीर्यम् आरब्धं ध्यानं समापन्नं, या चैव प्रज्ञा व्यवचारिता सा सर्वा निमित्तीकृत्य व्यवचारिता. तस्मात् संशयस् तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चानुत्तरायाः सम्यक्संबोधेः प्रतिकाङ्क्षितव्यः. तस्मात् तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितोपायकौशल्याविरहितेन भवितव्यं, प्रज्ञापारमितायाम् उपायकौशल्येन स्थित्वानुपलम्भयोगेन आनिमित्तसहगतेन चित्तेन दानं दातव्यं शीलं रक्षितव्यं क्षान्त्या संपादयितव्यं वीर्यम् आरब्धव्यं ध्यानं समापत्तव्यं प्रज्ञा भावयितव्या. आनिमित्तसहगतेन चित्तेन अध्यात्मशून्यता भावयितव्या, यावद् अभावस्वभावशून्यता भावयितव्या. आनिमित्तसहगतेन चित्तेन स्मृत्युपस्थानानि भावयितव्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आनिमित्तसहगतेन चित्तेनार्याष्टाङ्गो मार्गो भावयितव्यः. आनिमित्तसहगतेन चित्तेनाप्रमाणध्यानारूप्यसमापत्तयः समापत्तव्याः. आनिमित्तसहगतेन चित्तेनार्यसत्यानि भावयितव्यानि. आनिमित्तसहगतेन चित्तेन सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयितव्यानि. आनिमित्तसहगतेन चित्तेन अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा भावयितव्याः, आनिमित्तसहगतेन चित्तेन सर्वाकारज्ञतायां चरितव्यम्. इति समाध्यात्मकं मोक्षभागीयम्
SK
अथ खलु कामावचरा रूपावचराश् च देवपुत्रा भगवन्तम् एतद् अवोचन्: दुरभिसंभवा भगवन् दुरधिमुच्यानुत्तरा सम्यक्संबोधिः, यत्र हि सर्वाकारैश् च नाम बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा ऽभिसंबोद्धव्यास् ते च धर्मा न संविद्यन्ति नोपलभ्यन्ते.
SK
भगवान् आह: एवम् एतद् देवपुत्रा एवम् एतत्, दुरभिसंभवा देवपुत्रा दुरधिमुच्यानुत्तरा सम्यक्संबोधिः, मयापि देवपुत्राः सर्वधर्माः सर्वाकारैर् अभिसंबुद्धाः, न च मे कश्चिद् धर्म उपलब्धो यो ऽभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत. (PSP_४:१३०) तत् कस्य हेतोः? अत्यन्तविशुद्धत्वाद् देवपुत्राः सर्वधर्माणाम्. इति प्रज्ञात्मकं मोक्षभागियम्
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, दुरभिसंभवानुत्तरा सम्यक्संबोधिर् इति, यथा पुनर् अहं भगवतो भाषितस्यार्थम् आजानामि. यथा च मम भवति, तथा स्वभिसंबोधा भगवन्न् अनुत्तरा सम्यक्संबोधिः. तत् कस्य हेतोः? तथा हि भगवन् न कश्चिद् अभिसंबुध्यते न केनचिद् अभिसंबुध्यते न किञ्चिद् अभिसंबोद्धव्यं, शून्या हि भगवन् सर्वधर्माः, शून्येषु भगवन् सर्वधर्मेषु स धर्मो न संविद्यते, यो ऽभिसंबुध्येत येन वाभिसंबुध्येत यं वाभिसंबुध्येत. तत् कस्य हेतोः? तथा हि भगवन् सर्वधर्माः शून्याः, यस्यापि धर्मस्य वृद्धये वा प्रहाणाय वा दानं वा दद्यात्, शीलं वा रक्षेत् क्षान्तिं वा संपादयेत् वीर्यं वा आरभेत ध्यानं वा समापद्येत, एवं यावत् सर्वाकारज्ञतायां वा शिक्षेत, ते च धर्मा न संविद्यन्ते, यश् चाभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत सर्वे ते धर्माः शून्याः. अनेन भगवन् पर्यायेण स्वभिसंबोधा बोधिसत्त्वानां महासत्त्वानाम् अनुत्तरा सम्यक्संबोधिः. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपस्वभावेन शून्यं, वेदना संज्ञा संस्कारा, विज्ञानं विज्ञानस्वभावेन शून्यम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, प्रतीत्यसमुत्पादाङ्गानि प्रतीत्यसमुत्पादाङ्गस्वभावेन शून्यानि, एवं सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः, अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा आवेणिकबुद्धधर्मस्वभावेन शून्याः, सर्वाकारज्ञता सर्वाकारज्ञतास्वभावेन शून्या. इत्य् अधिमात्राणि मोक्षभागीयानि
SK
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अनेनायुष्मन् सुभूते पर्यायेण दुरभिसंभवानुत्तरा सम्यक्संबोधिः. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् सुभूते नाकाशस्यैवं भवति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति. एवम् एवायुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति. तत् कस्य हेतोः? आकाशसमा हि सुभूते (PSP_४:१३१) सर्वधर्माः, अथ च पुनर् बोधिसत्त्वो महासत्त्व आकाशसमान् सर्वधर्मान् अधिमुच्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्याकाशसमान् सर्वधर्मान् अधिमुच्य स्वभिसंबोधा स्याद् अनुत्तरा सम्यक्संबोधिर् न दुरभिसंभवा न त्व् एवं गङ्गानदीवालुकोपमा बोधिसत्त्वा विवर्तेरन्न् अनुत्तरायाः सम्यक्संबोधेर्. अनेनायुष्मन् सुभूते पर्यायेण विज्ञायते दुरभिसंभवानुत्तरा सम्यक्संबोधिर् न स्वभिसंबोधा. इति मृदूनि मोक्षभागीयानि
SK
अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? शारिपुत्र रूपं विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
SK
शारिपुत आह: नायुष्मन् सुभूते.
SK
वेदना संज्ञा संस्काराः,
SK
सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्र विज्ञानं विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
एवं विस्तरेण स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि बोधिपक्ष्यधर्मा अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि विमोक्षमुखानि अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, यावत् सर्वाकारज्ञता विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्रान्यत्र रूपात् स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
वेदनायाः संज्ञायाः संस्काराणां,
SK
सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्रान्यत्र विज्ञानात् स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः, (PSP_४:१३२) दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः यावद् अन्यत्र सर्वाकारज्ञतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते.
SK
सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्र या रूपस्य तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, वेदनायाः संज्ञायाः संस्काराणां, या विज्ञानस्य तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं विस्तरेण स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहितार्यसत्याभिज्ञादशबलवैशारद्यप्रतिसंविदो, या आवेणिकबुद्धधर्माणां तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, यावत् या सर्वाकारज्ञतायास् तथता सा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्रान्यत्र रूपतथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, तत् किं मन्यसे? शारिपुत्रान्यत्र विज्ञानतथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं विस्तरेणान्यत्र स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथताया, अन्यत्र प्रतीत्यसमुत्पादाङ्गतथताया, अन्यत्र सर्वपारमिता सर्वशून्यता सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथताया, अन्यत्र सप्तत्रिंशद्बोधिपक्ष्यधर्माप्रमाणध्यानारूप्यसमापत्तितथताया, अन्यत्र शून्यतानिमित्ताप्रणिहिताभिज्ञार्यसत्यदशबलवैशारद्यप्रतिसंवित्तथताया, अन्यत्रावेणिकबुद्धधर्मतथताया, अन्यत्र सर्वाकारज्ञतातथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्र तथता विवर्तते (PSP_४:१३३) ऽनुत्तरायाः सम्यक्संबोधेः.
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
एवं धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटीः.
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्राचिन्त्यधातुर् विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्रान्यत्र तथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं धर्मताया धर्मधातोर् धर्मस्थितिताया धर्मनियामताया भूतकोटेः, अन्यत्राचिन्त्यधातोः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः.
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
सुभूतिर् आह: एवं सत्यतः स्थितितस् तेषु धर्मेष्व् अनुपलम्भमानेषु, कतमः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः?
SK
एवम् उक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यया धर्मनयजात्या सुभूतिः स्थविरो निर्दिशति, तया न कश्चिद् बोधिसत्त्वो महासत्त्वो विवर्तिष्यते अनुत्तरायाः सम्यक्संबोधेः. य इमे त्रयो बोधिसत्त्वयानिकाः पुद्गलाः तथागतेनाख्याताः, एषां च त्रयाणां बोधिसत्त्वयानिकानां पुद्गलानां व्यवस्थानं न भविष्यति. एक एव बोधिसत्त्वो महासत्त्वो भविष्यति यद् उत बोधिसत्त्वयानिको यथायुष्मतः सुभूतेर् निर्देशः.
SK
अथ खल्व् आयुष्मान् Pऊर्णो मैत्रायणीपुत्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: किं पुनर् आयुष्मन् शारिपुत्र सुभूतिः स्थविर एकम् अपि बोधिसत्त्वं महासत्त्वम् इच्छति, परिप्रष्टव्यस् तावत् सुभूतिः स्थविरः.
SK
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनर् आयुष्मन् सुभूते एकम् अपि बोधिसत्त्वयानिकं बोधिसत्त्वम् इच्छसि?
SK
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: (PSP_४:१३४) किं पुनर् आयुष्मञ् छारिपुत्र तथतायां त्रीन् बोधिसत्त्वान् इच्छसि, श्रावकयानिकं वा बोधिसत्त्वं प्रत्येकबुद्धयानिकं वा बोधिसत्त्वं बोधिसत्त्वयानिकं वा बोधिसत्त्वम् इच्छसि?
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
सुभूतिर् आह: तत् किं पुनर् आयुष्मञ् शारिपुत्र तथतायां त्रयो बोधिसत्त्वा उपलभ्यन्ते?
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
सुभूतिर् आह: किं पुनर् आयुष्मञ् छारिपुत्र तथता एकतो वा द्वाभ्यां वा त्रिभिर् वाकारैर् उपलभ्यते?
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
सुभूतिर् आह: किं पुनर् आयुष्मञ् शारिपुत्र तथतायाम् एकं बोधिसत्त्वम् उपलभते?
SK
शारिपुत्र आह: नायुष्मन् सुभूते.
SK
सुभूतिर् आह: एवं सत्यतः स्थितितस् ते धर्मा अनुपलभ्यमानाः कुतः पुनर् आयुष्मतः शारिपुत्रस्यैवं भवति, अयं श्रावकयानिको बोधिसत्त्वो ऽयं प्रत्येकबुद्धयानिको बोधिसत्त्वो ऽयं बुद्धयानिको बोधिसत्त्व इत्य्, अयं सर्वधर्मतथतायां प्रभाव्यमानायां यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तन् नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. अयं बोधिसत्त्वो महासत्त्वो निर्यास्यत्य् अनुत्तरायां सम्यक्संबोधौ.
SK
तत्र खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: साधु साधु सुभूते प्रतिभान्तु ते सुभूते यथापीदं बुद्धानुभावेन, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मतथतायां प्रभाव्यमानायां यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तन् नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, निर्यास्यत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ.
SK
अथ खल्व् आयुष्माञ् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमया भगवन् बोध्या निर्यास्यति बोधिसत्त्वो महासत्त्वः?
SK
भगवान् आह: अनुत्तरया सम्यक्संबोध्या निर्यास्यत्य् अयं बोधिसत्त्वो महासत्त्वः. इति मध्यानि मोक्षभागीयानीत्य् उक्तं मोक्षभागीयम् (PSP_४:१३५)
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: निर्यातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ कथं स्थातव्यम्?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन सत्त्वानाम् अन्तिके समचित्ततायां स्थातव्यं, सर्वसत्त्वानाम् अन्तिके समचित्तम् उत्पादयितव्यं, न विषमं चित्तम् उत्पादयितव्यं, सर्वसत्त्वाः समचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके महामैत्र्य् उत्पादयितव्या, सर्वसत्त्वेषु महाकरुणोत्पादयितव्या, सर्वसत्त्वा मैत्रेण चित्तेनालम्बितव्याः, सर्वसत्त्वा महाकरुणाचित्तेनालम्बितव्या, न पुरुषचित्तेनालम्बितव्याः सर्वसत्त्वानाम् अन्तिके निहतमानतोत्पादयितव्या, सर्वसत्त्वाश् च निःशाठ्येनालम्बितव्याः. इति मृदूष्मगतम्
SK
सर्वसत्त्वानाम् अन्तिके हितचित्ततोत्पादयितव्या, अहितं चित्तं नोत्पादयितव्यं, सर्वसत्त्वाश् च हितचित्तेनालम्बितव्या, नाहितचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके अप्रतिहतं चित्तम् उत्पादयितव्यं, सर्वसत्त्वा न प्रतिहतचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके अविहेठनाचित्तम् उत्पादयितव्यं, सर्वसत्त्वा न विहेठनाचित्तेनालम्बितव्याः. इति मध्यम् उष्मगतम्
SK
सर्वसत्त्वानाम् अन्तिके मातृचित्तम् उत्पादयितव्यं पितृचित्तम् उत्पादयितव्यं भ्रातृचित्तम् उत्पादयितव्यं भगिनीचित्तम् उत्पादयितव्यं पुत्रचित्तम् उत्पादयितव्यं दुहितृचित्तम् उत्पादयितव्यं मित्रामात्यज्ञातिसालोहितचित्तम् उत्पादयितव्यं सर्वसत्त्वाश् च मातृचित्तेन पितृचित्तेनालम्बितव्या, भ्रातृचित्तेन भगिनीचित्तेनालम्बितव्याः, पुत्रचित्तेन दुहितृचित्तेनालम्बितव्या, मित्रामात्यज्ञातिसालोहितचित्तेनालम्बितव्याः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यान्तुकामेन स्थातव्यम्. इत्य् अधिमात्रम् उष्मगतम्
SK
आत्मना च प्राणातिपातात् प्रतिविरतेन भवितव्यं परे च प्राणातिपातवैरमणो समादापयितव्याः, प्राणातिपातविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन. एवं बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यास्तुकामेन स्थातव्यम्. (PSP_४:१३६)
SK
आत्मना चादत्तादानात् प्रतिविरतेन भवितव्यं, परे चादत्तादानवैरमण्ये समादापयितव्याः, अदत्तादानविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये अदत्तादानात् प्रतिविरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च काममिथ्याचारात् प्रतिविरतेन भवितव्यं, परे च काममिथ्याचारप्रतिविरतौ समादापयितव्याः, काममिथ्याचारविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये काममिथ्याचारात् प्रतिविरता भवन्ति तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवम् अनृतवचनात् परुषवचनात् पिशुनवचनाद् अवद्यप्रलापाद् अभिध्याया व्यापादात्, आत्मना च मिथ्यादृष्टेः प्रतिविरतेन भवितव्यं, परे च मिथ्यादृष्टिविरतौ समादापयितव्या, मिथ्यादृष्टिविरतेश् च वर्णवादिना भवितव्यं, ये चान्ये मिथ्यादृष्टेर् विरता भवन्ति, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन. आत्मना च प्रथमं ध्यानं समापत्तव्यं, परे च प्रथमे ध्याने समादापयितव्याः, प्रथमध्यानसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये प्रथमं ध्यानं समापद्यन्ते, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवम् आत्मना च द्वितीयं ध्यानं समापत्तव्यं, एवं तृतीयं ध्यानं समापत्तव्यं, आत्मना च चतुर्थं ध्यानं समापत्तव्यं, परे च चतुर्थे ध्याने समादापयितव्याश् चतुर्थध्यानसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये चतुर्थध्यानं समापद्यन्ते, तेषाञ् च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च मैत्री भावयितव्या, परे च मैत्रीभावनायां समादापयितव्या, मैत्रीभावनायाश् च वर्णवादिना भवितव्यं, ये चान्ये मैत्रीविहारिणस् तेषाम् अपि वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं करुणायां मुदितायां च कर्तव्यम्, आत्मना चोपेक्षाविहारिणा भवितव्यं, परे चोपेक्षाविहारे समादापयितव्या, उपेक्षाविहारस्य च वर्णवादिना भवितव्यं, ये चान्ये उपेक्षाविहारिणस्, तेषाम् अपि वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना चाकाशानन्त्यायतनासमापत्तिः समापत्तव्या, परे चाकाशानन्त्यायतनसमापत्तौ समादापयितव्याः, आकाशानन्त्यायतनसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये आकाशानन्त्यायतनसमापत्तिं (PSP_४:१३७) समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं विज्ञानानन्त्यायतनसमापत्तिर् आकिंचान्यायतनसमापत्तिः, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिः समापत्तव्या, परे च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयितव्याः नैवसंज्ञानासंज्ञायतनसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन. इति मृदुमूर्धगतम्
SK
आत्मना च दानपारमिता परिपूरयितव्या, परे च दानपारमितायां समादापयितव्याः, दानपारमितायाश् च वर्णवादिना भवितव्यः, ये चान्ये दानपारमितां परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, आत्मना च प्रज्ञापारमिता परिपूरयितव्या, परे च प्रज्ञापारमितायां समादापयितव्याः, प्रज्ञापारमितायाश् च वर्णवादिना भवितव्यं, ये चान्ये प्रज्ञापारमितां परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन. इति मध्यमूर्धगतम्
SK
आत्मना चाध्यात्मशून्यता भावयितव्या, परे चाध्यात्मशून्यतायां समादापयितव्या, अध्यात्मशून्यतायाश् च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अध्यात्मशून्यतां भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् आत्मना चाभावस्वभावशून्यता भावयितव्या, परे चाभावस्वभावशून्यतायां समादापयितव्या, अभावस्वभावशून्यतायाश् च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अभावस्वभावशून्यतां भावयन्ति, तेषां च वर्णवादिना न् भवितव्यं समनुज्ञेन.
SK
आत्मना च चत्वारि स्मृत्युपस्थानानि भावयितव्यानि, परे च चतुर्षु स्मृत्युपस्थानेषु समादापयितव्याः, चतुर्णां च स्मृत्युपस्थानानां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाश् चत्वारि स्मृत्युपस्थानानि भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आत्मना चार्यष्टाङ्गो मार्गो भावयितव्यः, परे चार्याष्टाङ्गे मार्गे स्थापयितव्याः, आर्याष्टङ्गमार्गस्य च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा आर्याष्टाङ्गं मार्गं भावयन्ति, तेषां च वर्णवादिना भवितव्यं (PSP_४:१३८) समनुज्ञेन.
SK
आत्मना च शून्यतानिमित्ताप्रणिहितसमाधयो भावयितव्याः, परे च शून्यतानिमित्ताप्रणिहितसमाधौ समादापयितव्याः, शून्यतानिमित्ताप्रणिहितसमाधीनां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाः शून्यतानिमित्ताप्रणिहितसमाधीन् भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च चत्वार्य् आर्यसत्यानि भावयितव्यानि, परे चार्यसत्यभावनायां समादापयितव्या, आर्यसत्यानां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वाश् चत्वार्य् आर्यसत्यानि भावयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना चाष्टविमोक्षा भावयितव्याः, परे चाष्टविमोक्षभावनायां समादापयितव्या, अष्टानां च विमोक्षाणां वर्णवादिना भवितव्यं, ये चान्ये ऽष्टविमोक्षां समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च नवानुपूर्वविहारसमापत्तयः समादापयितव्याः, परे च नवानुपूर्वविहारसमापत्तिषु समादापयितव्या, नवानुपूर्वविहारसमापत्तीनां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा नवानुपूर्वविहारसमापत्तीः समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना चाभिज्ञा निष्पादयितव्याः, परे चाभिज्ञाप्राप्तये समादापयितव्याः, अभिज्ञानां च वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा अभिज्ञा प्रतिलब्धास्, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च दशतथागतबलानि परिपूरयितव्यानि, परे च दशतथागतबलेषु समादापयितव्या, दशानां च तथागतबलानां वर्णवादिना भवितव्यं, ये चान्ये सत्त्वा दशतथागतबलानि परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद्, आत्मना चाष्टादशावेणिका बुद्धधर्माः परिपूरयितव्याः, परे चाष्टादशावेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्या, अष्टादशावेणिकानां च बुद्धधर्माणां वर्णवादिना भवितव्यं, ये चान्ये आवेणिकान् बुद्धधर्मान् परिपूरयन्ति, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना च महामैत्री महाकरुणा च परिपूरयितव्या, परे च महामैत्र्यां महाकरुणायां च समादापयितव्या, महामैत्र्या महाकरुणायाश् च वर्णवादिना भवितव्यं, ये चान्ये महामैत्रीं महाकरुणां च परिपूरयन्ति, (PSP_४:१३९) तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
आत्मना चनुलोमप्रतिलोमप्रतीत्यसमुत्पादः समापत्तव्यः, परे चानुलोमप्रतिलोमप्रतीत्यसमुत्पादे समादापयितव्याः, अनुलोमप्रतिलोमप्रतीत्यसमुत्पादसमापत्तेश् च वर्णवादिना भवितव्यं, ये चान्ये अनुलोमप्रतिलोमप्रतीत्यसमुत्पादं समापद्यन्ते, तेषां च वर्णवादिना भवितव्यं समनुज्ञेन.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन स्थातव्यम्. इत्य् अधिमात्रमूर्धगतम्
SK
आत्मना च दुष्खं परिजानाति समुदयं च प्रजहाति निरोधं च साक्षात्करोति मार्गञ् च भावयति, परांश् च दुष्खपरिज्ञायै समुदयप्रहाणाय निरोधसाक्षात्क्रियायै मार्गभावनायै समादापयति, दुःखपरिज्ञानस्य समुदयप्रहाणस्य निरोधसाक्षात्क्रियाया मार्गभावनायाश् च वर्णं भाषते, ये चान्ये दुःखं प्रजानन्ति समुदयं प्रजहति निरोधं साक्षात्कुर्वन्ति मार्गं च भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मृद्वी क्षान्तिः
SK
आत्मना च स्रोतआपत्तिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, परांश् च स्रोतआपत्तिफलज्ञानसाक्षात्क्रियायै समादापयति, स्रोतआपत्तिफलज्ञानसाक्षात्क्रियायाश् च वर्णं भाषते, ये चान्ये स्रोतआपत्तिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
एवम् आत्मना च सकृदागामिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, आत्मना चानागामिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति.
SK
आत्मना चार्हत्त्वफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, परांश् चार्हत्त्वफलज्ञानसाक्षात्क्रियायां प्रतिष्ठापयति, अर्हत्त्वफलज्ञानसाक्षात्क्रियायाश् च वर्णं भाषते, ये चान्ये ऽर्हत्त्वफलसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च प्रत्येकबुद्धफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियां साक्षात्करोति, परांश् च प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायां प्रतिष्ठापयति, प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायाश् (PSP_४:१४०) च वर्णं भाषते, ये चान्ये प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मध्या क्षान्तिः
SK
आत्मना च बोधिसत्त्वन्यामम् अवक्रामति, परांश् च बोधिसत्त्वन्यामावक्रान्त्यां समादापयति, बोधिसत्त्वन्यामावक्रान्तेश् च वर्णं भाषते, ये चान्ये बोधिसत्त्वन्यामम् अवक्रामन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन स्थातव्यम्. इत्य् अधिमात्रा क्षान्तिः
SK
आत्मना च सत्त्वान् परिपाचयति, परांश् च सत्त्वपरिपाकाय समादापयति, सत्त्वपरिपाकस्य च वर्णं भाषते, ये चान्ये सत्त्वपरिपाकायाभ्युद्गतास्, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च बुद्धक्षेत्रं परिशोधयति, परांश् च बुद्धक्षेत्रपरिशोधनाय समादापयति, बुद्धक्षेत्रपरिशुद्धेश् च वर्णं भाषते, ये चान्ये बुद्धक्षेत्रपरिशोधनाय प्रतिष्ठितास्, तेषां च वर्णवादी भवति समनुज्ञः. इति मृदवो ऽग्रधर्माः
SK
आत्मना च बोधिसत्त्वाभिज्ञा उत्पादयति, परांश् च बोधिसत्त्वाभिज्ञासु समादापयति बोधिसत्त्वाभिज्ञानां च वर्णं भाषते, ये चान्ये बोधिसत्त्वाभिज्ञा भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मध्याग्रधर्माः
SK
आत्मना च सर्वाकारज्ञताज्ञानम् उत्पादयति, परांश् च सर्वाकारज्ञताज्ञाने समादापयति, सर्वाकारज्ञताज्ञानस्य च वर्णं भाषते, ये चान्ये सर्वाकारज्ञताज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च सर्ववासनानुसंधिक्लेशान् प्रजहाति, परांश् च सर्ववासनानुसंधिक्लेशप्रहाणतायै समादापयति, सर्ववासनानुसंधिक्लेशप्रहाणस्य च वर्णं भाषते, ये चान्ये सर्ववासनानुसंधिक्लेशान् प्रजहति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च आयुःसंपदं परिगृह्णाति, परांश् च आयुःसंपदि समादापयति, आयुःसंपदश् च वर्णं भाषते, ये चान्ये महापुरुषा आयुःसंपदि स्थितास्, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च सद्धर्मस्थितिं परिगृह्णाति, परांश् च सद्धर्मस्थितौ (PSP_४:१४१) समादापयति, सद्धर्मस्थितेश् च वर्णं भाषते ये चान्ये सद्धर्मस्थितिं परिगृह्णन्ति, तेषाञ् च महापुरुषर्षभाणां वर्णवादी भवति समनुज्ञः.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन भवितव्यम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपायकौशल्ये च स्थातव्यम्. तस्यैवं शिक्षमाणस्यैवं तिष्ठतः, अनावरणं रूपं भविष्यति अनावरणा वेदना अनावरणा संज्ञा अनावरणाः संस्कारा, अनावरणं विज्ञानं भविष्यति, एवं विस्तरेण यावद् अनावरणा सद्धर्मस्थितिर् भविष्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततश् चैवं रूपन् न परिगृहीतं, न वेदना न संज्ञा न संस्कारा, न विज्ञानं परिगृहीतम्, एवं यावत् सर्वाकारज्ञता न परिगृहीता. तत् कस्य हेतोः? तथा हि सुभूते यो रूपस्यापरिग्रहो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, तथा हि यो विज्ञानस्यापरिग्रहो न तद् विज्ञानम्. एवं यावद् यः सर्वाकारज्ञताया अपरिग्रहो न सा सर्वाकारज्ञता. अस्मिन् खलु पुनर् बोधिसत्त्वस्थाने भाष्यमाणे द्वयोर् बोधिसत्त्वसहस्रयोर् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्. इत्य् अधिमात्राग्रधर्माः इत्य् उक्तं निर्वेधभागीयम्
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अविनिवर्तनीयस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य क आकाराः? कानि लिङ्गानि? कानि निमित्तानि? कथं वा वयं भगवन् जानीमहे? अयम् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: या च सुभूते पृथग्जनभूमिर् या च श्रावकभूमिर् या च प्रत्येकबुद्धभूमिर् या च बोधिसत्त्वभूमिर् या च तथागतभूमिर् उक्ता सर्वा सा तथतयाविकल्पा निर्विकल्पाद्वयाद्वैधीकारा, यथा च सा तथताविकल्पा तथैव न विकल्पयत्य्, एवम् अवतरत्य् अविकल्पेन, एवम् अवतीर्णो यथा तथता तथा श्रुत्वा ततो ऽतिक्रम्य न किञ्चिद् विकल्पयति, न हि तास् तथताया एकैकतो नोभयतो नानुभयतो, न च यत्किञ्चित्प्रलापी भवति. अर्थोपसंहितां च वाचं भाषते नानर्थोपसंहितां, न च परस्य च कृताकृतं व्यवलोकयति, सुभाषितगवेषी च भवति, एभिः (PSP_४:१४२) सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति सामान्येनावैवर्तिकलक्षणम्
SK
सुभूतिर् आह: कतमैर् भगवन्न् आकारैः? कतमैर् लिङ्गैः? कतमैर् निमित्तैर्? अयम् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
SK
भगवान् आह: अनाकारा हि सुभूते सर्वधर्मा अलिङ्गा आनिमित्ताः.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अनाकाराः सर्वधर्मा अलिङ्गा आनिमित्ताः, कतमैर् भगवन् धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽविनिवर्तनीय इति निर्दृश्यते?
SK
भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वो रूपाद् विनिवृत्तो, वेदनाया विनिवृत्तः संज्ञाया विनिवृत्तः संस्कारेभ्यो विनिवृत्तो, विज्ञानाद् विनिवृत्तो ऽयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. यः सुभूते बोधिसत्त्वो महासत्त्वः स्कन्धेभ्यो विनिवृत्तो धातुभ्यो विनिवृत्त आयतनेभ्यो विनिवृत्तः प्रतीत्यसमुत्पादाद् विनिवृत्तः प्रतीत्यसमुत्पादाङ्गेभ्यो विनिवृत्तो ऽयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. यः सुभूते बोधिसत्त्वो महासत्त्वो दानपारमिताया विनिवृत्तः, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया विनिवृत्तः, अध्यात्मशून्यताया यावद् अभावस्वभावशून्यताया विनिवृत्तः, स्मृत्युपस्थानेभ्यो विनिवृत्तः, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाद् विनिवृत्तः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिभ्यो विनिवृत्तः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेभ्यो विनिवृत्तः, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेभ्यो विनिवृत्तः, श्रावकप्रत्येकबुद्धभूमेर् विनिवृत्तः, अनुत्तरायाः सम्यक्संबोधेर् विनिवृत्तः, अयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. तत् कस्य हेतोः? तथा हि सुभूते रूपस्य स्वभावो न संविद्यते. एवं वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य स्वभावो न संविद्यते यत्र बोधिसत्त्वो महासत्त्वः प्रतिष्ठेत्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानां स्वभावो न संविद्यते, एवं यावद् अनुत्तरायाः सम्यक्संबोधेः स्वभावो न संविद्यते यत्र बोधिसत्त्वो महासत्त्वः प्रतिष्ठेत्. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् एकम् (PSP_४:१४३)
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व इतो बहिर्धानां येषां श्रमणब्राह्मणानां मुखम् उल्लोकयति, इमे भगवन्तः श्रमणब्राह्मणाज्ञेयं जानन्ति दृश्यं पश्यन्ति सम्यग्दृष्टिं प्रज्ञां च प्रज्ञापयन्तीति नेदं स्थानं विद्यते. न विचिकित्साम् आपद्यते न शीलव्रतं परामृषति न कुदृष्टिं पतति, न कौतुकमङ्गलेन शुद्धिं प्रत्येति, नान्येषां देवानां नमस्कारं करोति. पुष्पैर् वा गन्धैर् वा धूपैर् वा विलेपनैर् वा चूर्णैर् वा चीवरैर् वा च्छत्रैर् वा ध्वजैर् वा पताकाभिर् वा नान्येषां दातव्यं वा कर्तव्यं वा मन्यते, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं द्वितीयम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न मिथ्यादृष्टिको भवति, न नरकेषूपपद्यते न यमलोके न तिर्यग्योन्यां नासुरेषूपपद्यते न प्रत्यन्तेषु जनपदेषूपपद्यते न जडमूको भवति न दीर्घायुष्केषु देवेषूपपद्यते न च स्त्रीभावं परिगृह्णाति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं तृतीयम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो दशकुशलान् कर्मपथान् समादाय वर्तते स आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् पिशुनवचनात् परुषवचनाद् अवद्यप्रलापाद् अभिध्याया व्यापादाद्, आत्मना च मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भाषते, ये चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति, तेषाञ् च वर्णवादी भवति समनुज्ञः, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि दशाकुशलान् कर्मपथान्नाध्यापद्यते, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो (PSP_४:१४४) बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं चतुर्थम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो यदा दानपारमितायां वर्तते, शीलपारमितायां वर्तते क्षान्तिपारमितायां वर्तते वीर्यपारमितायां वर्तते ध्यानपारमितायां वर्तते, यदा प्रज्ञापारमितायां वर्तते, तदा सर्वसत्त्वानां कृतेन दानं ददाति, एवं शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानं समापद्यते सर्वसत्त्वानां कृतेन प्रज्ञां भावयति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो यान्यान् धर्मान् पर्यवाप्नोति सूत्रं गेयं व्याकरणम् इतिवृत्तकं यावद् अवदानोपदेशं तत्तद् धर्मदानं ददत एवं भवति, सर्वसत्त्वानाम् अनेन दानेन धार्मिका अभिप्रायाः परिपूरिङ् गच्छन्तु, स तद् धर्मदानं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं पञ्चमम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गम्भीरेषु धर्मेषु नास्ति काङ्क्षा नास्ति विमतिर् नास्ति विचिकित्सा. सुभूतिर् आह: केन कारणेन भगवन्न् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गम्भीरेषु धर्मेषु नास्ति काङ्क्षा नास्ति विमतिर् नास्ति विचिकित्सा?
SK
भगवान् आह: तथा हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न कंचिद् धर्मं समनुपश्यति रूपं वा वेदनां वा संज्ञां वा संस्कारां वा विज्ञानं वा स्कन्धान् वा धातून् वा आयतनानि वा प्रतीत्यसमुत्पादं वा प्रतीत्यसमुत्पादाङ्गानि वा समनुपश्यति, सर्वपारमिता वा सर्वशून्यता वा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि वा सप्तत्रिंशद्बोधिपक्ष्यान् वा धर्मान् अप्रमाणध्यानारूप्यसमापत्तीर् वा आर्यसत्यानि वा शून्यतानिमित्ताप्रणिहिता वा दशतथागतबलानि वा वैशारद्यानि प्रतिसंविदो वा आवेणिकान् बुद्धधर्मान् न समनुपश्यति, अनुत्तरां वा सम्यक्संबोधिं न समनुपश्यति, यत्र काङ्क्षा वा विमतिर् वा विचिकित्सा वा स्यात्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो (PSP_४:१४५) ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् षष्ठम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्निग्धेन कायकर्मणा मनआपेन स्निग्धेन वाक्कर्मणा मनआपेन स्निग्धेन मनस्कर्मणा मनआपेन कान्तेन समन्वागतो भवति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः सततसमितं मैत्रेण कायकर्मणा मनआपेन मैत्रेण वाक्कर्मणा मनआपेन मैत्रेण मनस्कर्मणा मनआपेन कान्तेन समन्वागतो भवति, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं सप्तमम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः पञ्चभिर् निवरणैः सार्धं न संवसति, कामच्छन्देन व्यापादेन स्त्यानमिद्धेन उद्धतकौकृत्येन विचिकित्सया, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् अष्टमम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सर्वेण सर्वम् अनुशयो नास्ति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं नवमम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽतिक्रामन् वा प्रतिक्रामन् वा न भ्रान्तचित्तो ऽतिक्रामति वा प्रतिक्रामति वा, सो ऽतिक्रामन् वा प्रतिक्रामन् वा उपस्थितस्मृतिर् अतिक्रामति, उपस्थितस्मृतिर् एव प्रतिक्रामति. स्मृतिमांश् चैव गच्छति च क्रमति तिष्ठति निषीदति शय्यां च कल्पयति न सहसा भूमौ पादाव् उत्क्षिपति, न सहसा भूमौ पादौ प्रतिक्षिपति न सहसा भूमौ पादौ निक्षिपति, स्मृतिमान् एव स पादौ उत्क्षिपति प्रतिक्षिपति निक्षिपति, स पश्यन्न् एव भूप्रदेशम् आक्रामति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो (PSP_४:१४६) महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं दशमम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य चीवरपरिभोगे न कायजुगुप्सितो भवति, न यूकिलश् चौक्षसमुदाचारः शुचिसमुदाचारः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽल्पाबाधश् च भवति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इत्य् उष्मगतावस्थस्यावैवर्तिकलक्षणम् एकादशम्
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य यानि तानि अशीतिक्रिमिकुलसहस्राणि काये प्रतिवसन्ति कायं भक्षयन्ति, तान्य् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सर्वेण सर्वं काये न संविद्यते. तत् कस्य हेतोः? तथा हि सुभूते तानि कुशलमूलानि बोधिसत्त्वस्य महासत्त्वस्य सर्वलोकाभ्युद्गतानि, तेन बोधिसत्त्वस्य महासत्त्वस्य तान्य् अशीतिक्रिमिकुलसहस्राणि काये न संविद्यन्ते. यथायथा सुभूते बोधिसत्त्वस्य महासत्त्वस्यैतानि कुशलमूलानि प्रवर्धन्ते, तथातथा बोधिसत्त्वो महासत्त्वः कायपरिशुद्धिञ् च वाक्परिशुद्धिञ् च चित्तपरिशुद्धिं च प्रतिगृह्णाति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं द्वादशम्
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च भवति?
SK
भगवान् आह: यथायथा सुभूते बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलानि प्रवर्धन्ते, तथातथा कायचक्रत्वं वाक्चक्रत्वं चित्तचक्रत्वं च कायवाक्चित्तकौटिल्यताञ् च तैः कुशलमूलैः परिशोधयति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च, स तया कायपरिशुद्ध्या वाक्परिशुद्ध्या चित्तपरिशुद्ध्या च श्रावकभूमिं च प्रत्येकबुद्धभूमिञ् चातिक्रामति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य (PSP_४:१४७) कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं त्रयोदशम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न लाभसत्कारगुरुको भवति न पिण्डपातगुरुको भवति यावन् न चीवरगुरुको भवति, स द्वादशधूतगुणसमादाने वर्तते, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं चतुर्दशम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य न मात्सर्यचित्तम् उत्पद्यते न दौःशील्यचित्तम् उत्पद्यते न क्षुब्धचित्तम् उत्पद्यते न कौसीद्यचित्तम् उत्पद्यते नासमाहितचित्तम् उत्पद्यते न दौष्प्रज्ञाचित्तम् उत्पद्यते नेर्ष्याचित्तम् उत्पद्यते एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं पञ्चदशम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्थिरबुद्धिश् च भवति सत्कृत्य च परतो धर्मं शृणोति, यत् किंचित् परतो धर्मं शृणोति तत् सर्वं प्रज्ञापारमितायां संस्यन्दयति यानि तानि लौकिकानि कृत्यानि तानि सर्वाणि प्रज्ञापारमिताम् आगम्य धर्मतया संस्यन्दयति, न तं धर्मं समनुपश्यति, यो धर्मधातौ न युज्यते सर्वं तं प्रज्ञापारमितायां युज्यमानं समनुपश्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं षोडशम्
SK
पुनर् अपरं सुभूते मारः पापीयान् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अष्टौ महानिरयान् पुरतो ऽभिनिर्माय तत्रैकैकस्मिन् महानिरये बहूनि बोधिसत्त्वशतानि बहूनि बोधिसत्त्वसहस्राणि बहूनि बोधिसत्त्वशतसहस्राणि बहूनि बोधिसत्त्वकोटीनियुतशतसहस्राणि दह्यमानानि पच्यमानानि दुःखी तीव्री खरां कटुकां वेदनां प्रत्यनुभवमानान्य् (PSP_४:१४८) अभिनिर्मिणोति, एवं च वक्ष्यति: इमे ते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीयास् तथागतैर् व्याकृतास् तेषु महानरकेषूपपन्नास्, त्वम् अपि नैरयिकस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, यस् त्वम् अविनिवर्तनीयतायै व्याकृतः, पुनर् एव त्वम् एतद् बोधिचित्तं प्रतिनिःसृज्य, एवं त्वं महानिरयेषु नोपपत्स्यसे, ततः त्वं स्वर्गोपगो भविष्यसि.
SK
सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न काङ्क्षति न विचिकित्सति, वेदितव्यं व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वस् तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, नियतो ऽयं बोधिसत्त्वो महासत्त्वो ऽवैवर्त्यधातौ स्थानं सुभूते ऽनवकाशो यद् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नरके वा तिर्यग्योनौ वा यमलोके वा असुरेषु वा कायेषूपपद्यते, नैतत् स्थानं विद्यते, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मूर्धगतावस्थस्यावैवर्तिकलक्षणं सप्तदशम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् श्रमणवेषेणोपसंक्रम्यैवं वक्ष्यति: यत् त्वया पूर्वश्रुतं, एवं मया दानपारमिता परिशोधयितव्या, एवं मया शीलपारमिता परिशोधयितव्या, एवं मया क्षान्तिपारमिता परिशोधयितव्या, एवं मया वीर्यपारमिता परिशोधयितव्या एवं मया ध्यानपारमिता परिशोधयितव्या, एवं मया प्रज्ञापारमिता परिशोधयितव्या, एवं मया यावद् अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या, तत् सर्वं प्रतिदेशय यत् त्वया पूर्वम् अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां प्रथमचित्तोत्पादम् उपादाय यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् कुशलमूलं तत् सर्वम् अनुमोदितन् तत् प्रतिदेशय तन् निसृज, यद् एतत् त्वया श्रुतं नैतद् बुद्धवचनं नैतत् सम्यक्संबुद्धेन भाषितं कविकृतकं काव्यम् एतत्, यद् अहं भाषे एतद् बुद्धवचनम् एतत् तथागतेन भाषितम्. सचेद् बोधिसत्त्वो महासत्त्वः क्षुभ्यति काङ्क्षति विचिकित्सति, वेदितव्यम् एवम् एष बोधिसत्त्वो महासत्त्वो ऽव्याकृतस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, अनियतो ऽयं बोधिसत्त्वो महासत्त्वो, नायं बोधिसत्त्वो (PSP_४:१४९) महासत्त्वो ऽविनिवर्तनीयधातौ स्थितः.
SK
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो न क्षुभ्यति न काङ्क्षति न विचिकित्सति, धर्मतां प्रतिसरति, अनभिसंस्कारम् अनुत्पादं प्रतिसरति, न परस्य श्रद्धया गच्छति, अपरप्रणेयश् च भवति, दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम् अपरप्रणेयश् च भवति यावद् अनुत्तरायां सम्यक्संबोधौ, तद्यथापि नाम अर्हन् क्षीणास्रवो भिक्षुर् न परस्य श्रद्धया गच्छति प्रत्यक्षकारी धर्मतायाम् असंहार्यो भवति मारेण पापीयसा. एवम् एव सुभूते ऽनवमर्दनीयो बोधिसत्त्वो महासत्त्वः श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा, अप्रत्युदावर्तनीयधर्मा च भवति श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा बुद्धयानिकैर् वा अनुत्तरायां सम्यक्संबोधौ, नियतो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयधातौ स्थितो ऽपरप्रणेयश् च भवति, स तथागतस्यार्हतः सम्यक्संबुद्धस्यापि श्रद्धया न गच्छति, प्राग् एव श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा बुद्धयानिकानां वा प्राग् एव मारस्य पापीयसः, प्राग् एवान्यतीर्थिकानां परिव्राजकानां वा श्रद्धया गच्छेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वो न कंचिद् धर्मं समनुपश्यति, यस्य श्रद्धया गच्छेद् रूपस्य वा वेदनाया वा संज्ञाया वा संस्काराणां वा विज्ञानस्य वा, रूपतथताया वा वेदनातथताया वा संज्ञातथताया वा संस्कारतथताया वा विज्ञानतथताया वा, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि बोधिपक्ष्यधर्मान् अप्रमाणध्यानारूप्यसमापत्तीर् आर्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् अनुत्तरां च सम्यक्संबोधिं न समनुपश्यति यावद् अनुत्तरायाः सम्यक्संबोधेस् तथतान् न समनुपश्यति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मूर्धगतावस्थस्यावैवर्तिकलक्षणम् अष्टादशम्
SK
पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेनाविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्योपसंक्रम्यैवं वक्ष्यति: संसारचारिकैषा नैषा सर्वाकारज्ञताचारिका, इहैव त्वं दुःखस्यान्तं कुरु. (PSP_४:१५०)
SK
स खलु पुनर् मारः पापीयान् बोधिसत्त्वस्य महासत्त्वस्य मार्गप्रतिरूपकम् उपदेक्ष्यति, यो ऽसौ मार्गप्रतिरूपकः संसारावचरैर् लौकिकैर् आकारैर् यदि वास्ति संज्ञा यदि वा प्रथमं ध्यानं यावन् नैवसंज्ञानासंज्ञायतनम् उपदेक्ष्यति: अयम् आयुष्मन् मार्गः, इयं प्रतिपद् येन मार्गेण यया प्रतिपदा स्रोतआपत्तिफलम् अनुप्राप्स्यसि, सकृदागामिफलम् अनागामिफलं येन मार्गेणार्हत्त्वम् अनुप्राप्स्यसि, अनेनायुष्मन् मार्गेणानया प्रतिपदा इहैव त्वं दुःखस्यान्तं कुरु, न तु तानि संसारावचराणि दुःखानि प्रत्यनुभविष्यसि, अहो बतायम् इहैव तवात्मभावो न निर्वृत्तो भवेत्, कुतस् त्वम् अन्यम् आत्मभावं प्रतिगृहीतव्यं मन्यसे?
SK
सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न चलति, उत्तरे चास्यैवं भवति, बहुकरो मे ऽयं भिक्षुर् यो ऽयं मार्गप्रतिरूपकम् उपदिशति, यो मार्गप्रतिरूपको नैवं स्रोतआपत्तिफलसाक्षात्क्रियायै संवर्तते, न सकृदागामिफलसाक्षात्क्रियायै संवर्तते, नानागामिफलसाक्षात्क्रियायै संवर्तते नार्हत्त्वफलसाक्षात्क्रियायै संवर्तते, न प्रत्येकबुद्धफलसाक्षात्क्रियायै संवर्तते, नानुत्तरायाः सम्यक्संबोधेः साक्षात्क्रियायै संवर्तते. उत्तरे चास्य हर्ष उत्पद्यते, बहुकरो मे ऽयं भिक्षुर् यो ममैतान्य् अङ्गान्य् उपदिशति, यानि मयैवं बुद्ध्वा सर्वेष्व् अपि त्रिषु यानेषु शिक्षितव्यम्.
SK
तम् एनं मारः पापीयान् बोधिसत्त्वं महासत्त्वं हर्षितं विदित्वा एवं वक्ष्यति: इच्छसि त्वं कुलपुत्र तान् बोधिसत्त्वान् महासत्त्वान् द्रष्टुं यैर् बोधिसत्त्वैर् महासत्त्वैर् गङ्गानदीवालुकोपमा बुद्धा भगवन्तः प्रत्युपस्थिताः पूजिताश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर्, गङ्गानदीवालुकोपमानां च तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके दानपारमिता परिपूरिता शीलपारमिता परिपूरिता क्षान्तिपारमिता परिपूरिता वीर्यपारमिता परिपूरिता ध्यानपारमिता परिपूरिता प्रज्ञापारमिता परिपूरिता, गङ्गानदीवालुकोपमाश् चैव बुद्धा भगवन्तः पर्युपासिताः परिपृच्छिताः परिप्रश्नीकृता, अस्यैव बोधिसत्त्वयानस्यार्थाय कथं बोधिसत्त्वैर् महासत्त्वैर् बोधिसत्त्वयाने स्थातव्यं? कथं दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता स्थातव्यम्? एवं (PSP_४:१५१) स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखेष्व् अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यावत् महामैत्र्यां महाकरुणायां चरता स्थातव्यम्? यथा तैर् बुद्धैर् भगवद्भिर् आख्यातं तथा स्थित्वा तथा चरित्वा तथा योगम् आपद्यापि तैर् एव तावद् बोधिसत्त्वैर् महासत्त्वैर् अनुत्तरा सम्यक्संबोधिर् नाभिसंबुद्धा, तथा चरितैस् तथानुशासितैस् तथा स्थितैस् तथा शिक्षमाणैः सर्वाकारज्ञता नानुप्राप्ता, कुतः पुनस् त्वम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यसि?
SK
सचेद् बोधिसत्त्वस्य महासत्त्वस्य एवं विवेच्यमानस्य चित्तस्यान्यथात्वं न भवति नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, उत्तरे चास्य हर्ष उत्पद्यते, बहुकरो मे ऽयं भिक्षुर् यो ममैतान्य् अङ्गान्य् उपदिशति, यैर् अङ्गैः स्रोतआपत्तिफलं प्राप्यते सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिर् यावत् सर्वाकारज्ञतानुप्राप्यते.
SK
ततः स पुनर् मारः पापीयान् बोधिसत्त्वस्य महासत्त्वस्य चित्तस्यानवलीनतां विदित्वा तत्रैव पृथिवीप्रदेशे संबहुलान् भिक्षून् अभिनिर्मिणोति, एवं च वाचं भाषते: इमे ते ऽर्हन्तः क्षीणास्रवा ये ते ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता अभूवंस् ते ऽर्हत्त्वे स्थिताः, कुतः पुनस् त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे?
SK
सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, मारो बतायं पापीयान् मार्गप्रतिरूपकम् उपदिशति, न च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रत्युदावर्त्यानुत्तरायाः सम्यक्संबोधेः श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति, उत्तरे चास्यैवं भवति, अस्थानम् अनवकाशो यद् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन् सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन्न् अप्रमाणध्यानारूप्यसमापत्तिषु चरन्, आर्यसत्याभिज्ञासु चरन्, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा भावयन् सर्वाकारज्ञतां भावयन्न्, अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यतेति (PSP_४:१५२) नैतत् स्थानं विद्यते. इति क्षान्तिगतावस्थस्यावैवर्तिकलक्षणम् एकोनविंशतितमम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, सचेद् एवं शिक्षित्वा यथा तथागतेनाख्यातं तया चर्ययाविरहितस्यैभिः पारमिताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो बोधिसत्त्वो महासत्त्वो न परिहीयते दानपारमितया न परिहीयते शीलपारमितया न परिहीयते क्षान्तिपारमितया न परिहीयते वीर्यपारमितया न परिहीयते ध्यानपारमितया न परिहीयते प्रज्ञापारमितया न परिहीयते अध्यात्मशून्यतया न परिहीयते यावद् अभावस्वभावशून्यतया न परिहीयते स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् न परिहीयते अप्रमाणध्यानारूप्यसमापत्तिभिर् न परिहीयते शून्यतानिमित्ताप्रणिहिताभिज्ञाभिर् न परिहीयते सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैर् न परिहीयते दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मैर् न परिहीयते सर्वाकारज्ञतया.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, यो मारकर्माणि बुध्यते स न परिहीयते ऽनुत्तरायाः सम्यक्संबोधेः एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इत्य् अग्रधर्मगतावस्थस्यावैवर्तिकलक्षणं विंशतितमम्
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कुतो भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इति प्रज्ञायते.
SK
भगवान् आह: रूपसंज्ञायाः सुभूते विवर्तितो, वेदनासंज्ञायाः संज्ञासंज्ञायाः संस्कारसंज्ञाया विज्ञानसंज्ञाया विवर्तितो, धातुसंज्ञाया आयतनसंज्ञायाः प्रतीत्यसमुत्पादसंज्ञायाः प्रतीत्यसमुत्पादाङ्गसंज्ञाया रागसंज्ञाया दोषसंज्ञाया मोहसंज्ञाया दृष्टिसंज्ञायाः, दानपारमितासंज्ञायाः शीलपारमितासंज्ञायाः क्षान्तिपारमितासंज्ञायाः वीर्यपारमितासंज्ञाया ध्यानपारमितासंज्ञायाः प्रज्ञापारमितासंज्ञाया विवर्तितो, ऽध्यात्मशून्यतासंज्ञाया यावद् अभावस्वभावशून्यतासंज्ञायाः स्मृत्युपस्थानसंज्ञायाः सम्यक्प्रहाणार्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसंज्ञाया (PSP_४:१५३) अप्रमाणध्यानारूप्यसमापत्तिसंज्ञाया विवर्तितः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखसंज्ञायाः शून्यतानिमित्ताप्रणिहितसंज्ञाया अभिज्ञासंज्ञाया विवर्तितो, दशबलवैशारद्यसंज्ञायाः प्रतिसंवित्संज्ञाया आवेणिकबुद्धधर्मसंज्ञाया विवर्तितः, सर्वाकारज्ञतासंज्ञाया विवर्तितः, श्रावकप्रत्येकबुद्धसंज्ञाया विवर्तितः, बोधिसत्त्वसंज्ञाया विवर्तितो यावद् बुद्धसंज्ञाया विवर्तितः. तत् कस्य हेतोः? तथा हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्यैर् धर्मैर् बोधिसत्त्वन्यामम् अवक्रान्तः. स तम् अपि धर्मं नोपलभते अनुपलभमानो नाभिसंस्करोत्य् अनभिसंस्कुर्वन् नोत्पादयति तेनोच्यते ऽनुत्पादक्षान्तिको बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इत्य्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति दर्शनमार्गे दुष्खे धर्मज्ञानक्षान्तिः
SK
पुनर् अपरं सुभूते मारः पापीयान् बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं विच्छन्दयिष्यति: आकाशसमैषा यद् उत सर्वाकारज्ञता आकाशभावनैषा अभावस्वभावलक्षणशून्यता, एते ऽपि धर्मा आकाशसमा अभावस्वभावाः स्वलक्षणशून्या न चाकाशसमैर् धर्मैर् अभावस्वभावैः स्वलक्षणशून्यैः कश्चिद् धर्म उपलभ्यते, यो वाभिसंबुध्यते येन वाभिसंबुध्यते यं वाभिसंबुध्यते, सर्व एते आकाशसमा धर्मा अभावस्वभावाः स्वलक्षणशून्या निरर्थकं त्वं विहन्यसे मारकर्म एतत् परिदीपितं यद् इयम् अनुत्तरा सम्यक्संबोधिर् अभिसंबोधव्या, नैतत् सम्यक्संबुद्धभाषितम् इति. तस्मात् त्वं कुलपुत्र प्रतिप्रस्रम्भय एतान् मनसिकारान् मा ते दीर्घरात्रम् अनर्थाय दुष्खाय विनिपाताय संवर्तेरन्न् इति. तत्र तैर् बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा ताः परिभाषाः श्रुत्वैवम् उपपरीक्षितव्यं, मारकर्माणो तानि यो मे ऽनुत्तरायाः सम्यक्संबोधेर् विवेचयति किं चाप्य् आकाशसमाः सर्वधर्मा अभावस्वभावाः स्वलक्षणशून्यास्, तान् सत्त्वा न जानन्ति न पश्यन्ति न बुध्यन्ते तान् वयम् आकाशसमान् अभावस्वभावान् सर्वधर्मान् स्वलक्षणशून्यतासंनाहं संनह्य सर्वाकारज्ञताम् अभिसंबुद्ध्य सत्त्वानां धर्मं देशयिष्यामो, ऽप्रमेयान् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामः, सकृदागामिफले (PSP_४:१५४) ऽनागामिफले ऽर्हत्त्वे प्रतिष्ठापयिष्यामः, प्रत्येकायां बोधौ प्रतिष्ठापयिष्यामो, ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामः. तत्र बोधिसत्त्वैर् महासत्त्वैः प्रथमचित्तोत्पादम् उपादाय इमान् धर्मान् श्रुत्वा दृढचित्तैर् भवितव्यम् अप्रकम्पचित्तैर् भवितव्यम् असंहार्यचित्तैर् भवितव्यं, त इमे यैर् दृढचित्ततायै अप्रकम्पचित्ततायै असंहार्यचित्ततायै समन्वागताः षट्सु पारमितासु चरन्तो बोधिसत्त्वनियामम् अवक्रामयिष्यन्ति. इति दुःखे धर्मज्ञानम्
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः उताहो विनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अविनिवर्तनीयः सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः, विनिवर्तनीयो ऽपि सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः.
SK
सुभूतिर् आह: कथं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः? कथं च विनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः? भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा विनिवर्तितो ऽयं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः, यः पुनः सुभूते बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा न विनिवर्तितो ऽयं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः. एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतस्याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यं, यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो मारेण पापीयसा न शक्यते विवेचयितुम् अनुत्तरायाः सम्यक्संबोधेः. इति दुःखे ऽन्वयज्ञानक्षान्तिः
SK
पुनर् अपरं सुभूते आकाङ्क्षन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते, यावच् चतुर्थध्यानं समापद्यते (PSP_४:१५५) यावन् निरोधसमापत्तिं समापद्यते, आकाङ्क्षन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वश् चत्वारि स्मृत्युपस्थानानि समापद्यते सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् समापद्यते, यावच् छून्यतानिमित्ताप्रणिहितान् समाधीन् समापद्यते, यावत् पञ्चाभिज्ञा अभिनिर्हरति, इमैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिर् निरोधसमापत्तिभिश् च परिजयं करोति, चत्वारि स्मृत्युपस्थानानि भावयति सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गम् आर्याष्टाङ्गिकं मार्गं शून्यतानिमित्ताप्रणिहितं समाधिं समापद्यते, न च ध्यानफलं परिगृह्णाति, यावन् न निरोधसमापत्तिफलं परिगृह्णाति, न स्रोतआपत्तिफलं परिगृह्णाति न सकृदागामिफलं नानागामिफलं नार्हत्त्वं परिगृह्णाति न प्रत्येकबोधिं परिगृह्णाति आकाङ्क्षमाण एवं संचिन्त्यात्मभावं परिगृह्णाति येनात्मभावेन सर्वसत्त्वानाम् अर्थं करोति तम् आत्मभावं परिगृह्णाति एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति दुःखे ऽन्वयज्ञानम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो मनसिकारेण समन्वागतो बोधिचित्तेनाविरहितो न रूपगुरुको भवति न क्षणगुरुको भवति नास्रवगुरुको भवति, न दानगुरुको भवति न शीलगुरुको भवति न क्षान्तिगुरुको भवति न वीर्यगुरुको भवति न ध्यानगुरुको भवति न प्रज्ञागुरुको भवति, नाप्रमाणगुरुको भवति नारूप्यगुरुको भवति न समापत्तिगुरुको भवति नाभिज्ञागुरुको भवति न सप्तत्रिंशद्बोधिपक्ष्यधर्मगुरुको भवति न सर्वविमोक्षसमाधिसमापत्तिगुरुको भवति न शून्यतानिमित्ताप्रणिहितगुरुको भवति नार्यसत्यगुरुको भवति न वैशारद्यगुरुको भवति न प्रतिसंविद्गुरुको भवति न सम्यक्संबोधिगुरुको भवति न सत्त्वपरिपाचनगुरुको भवति न बुद्धदर्शनगुरुको भवति न कुशलमूलावरोपनगुरुको भवति. तत् कस्य हेतोः? तथा हि ते सर्वधर्मा आकाशसमा अभावस्वभावाः स्वलक्षणशून्याः. स खलु पुनः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व अने इमेन च मनसिकारेण समन्वागतश् चतुर्भिश् चेर्यापथैर् अभिक्रामति न प्रतिक्रामति न भ्रान्तचित्त आगच्छति न भ्रान्तचित्तो गच्छति न चङ्क्ररैष्यति (PSP_४:१५६) न च स्थास्यति न निषीदिष्यति न शय्यां कल्पयिष्यति स स्मृत एवागमिष्यति गमिष्यति चङ्क्रमिष्यति स्थास्यति निषीदिष्यति शय्यां कल्पयिष्यति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति समुदये धर्मज्ञानक्षान्तिः
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽगारम् अध्यावसन्न् उपायकौशल्येन सत्त्वानां परिपाचनाय पञ्चकामगुणान् उपदिशति सर्वसत्त्वानां दानं ददाति, अन्नम् अन्नार्थिकानां, पानं पानार्थिकानां यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददाति, स आत्मना च दानपारमितायां चरति, परांश् च दानपारमितायां समादापयति दानपारमितायाश् च वर्णं भाषते, ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, स आत्मना च प्रज्ञापारमितायां चरति, परांश् च प्रज्ञापारमितायां समादापयति, प्रज्ञापारमितायाश् च वर्णं भाषते, ये चान्ये प्रज्ञापारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. इति समुदये धर्मज्ञानम्
SK
स खलु पुनः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽगारम् अध्यावसन् जम्बूद्वीपं सप्तरत्नपरिपूर्णं कृत्वा दानं ददाति, एवं चातुर्द्वीपकं लोकधातुं साहस्रं लोकधातुं द्विसाहस्रं लोकधातुं यावत् त्रिसाहस्रं महासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा दानं ददाति, न च कामगुणान् परिभुङ्क्ते सततसमितं ब्रह्मचारी भवति, न च कस्यचिद् अवमर्दनाकारं जनयति येनावमर्दनाकारेण परो ऽनात्तमनाः स्यात्, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सततसमितं वज्रपानिर् यक्षः सदानुबद्धो भविष्यत्य्, अयं बोधिसत्त्वो महासत्त्वो यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यथा ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सततसमितं समनुबद्धो यावत् पञ्चवज्रपाणि कुलानि सततसमितं समनुबद्धानि भविष्यन्ति, स न शक्यते मनुष्यैर् अमनुष्यैर् वावक्रमनायानवमर्दनीयो (PSP_४:१५७) भवति स देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर्लोके सहधर्मेण. इति समुदये ऽन्वयज्ञानक्षान्तिः
SK
तस्य चित्तं न विक्षिप्यते बोधिमनसिकाराद् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तस्य बोधिसत्त्वस्य महासत्त्वस्य नेन्द्रियाणि विकलानि भवन्ति श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतिन्द्रियं समाधिन्द्रियं प्रज्ञेन्द्रियं स सत्पुरुषो भविष्यति नासत्पुरुषः.
SK
सुभूतिर् आह: कियता भगवन् बोधिसत्त्वो महासत्त्वः सत्पुरुषो भवति नासत्पुरुषः?
SK
भगवान् आह: यदा सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिचित्तं न विनङ्क्ष्यते, एतावता सुभूते बोधिसत्त्वो महासत्त्वः सत्पुरुषो भवति नासत्पुरुषः, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो बोधिमनसिकारैः समन्वागतो यानि तानि स्त्रीणाम् आवेशनानि वशीकरणानि मन्त्रविद्यौषधिभैषज्यानि तानि सर्वाणि सर्वेण सर्वं सर्वथा सर्वन् न प्रयुक्ते न च प्रयोजयति न च स्त्रीणाम् आवेशनम् अन्यतरान्यतरं करोति, न स्त्रियाः पुरुषस्य वा आदेशनाप्रातिहार्यं करोति, पुत्रो वा ते भविष्यति धीता वा ते भविष्यति, कुलोद्गतो वा भविष्यति, दीर्घायुष्को वा भविष्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्येषु धर्मेषु निमित्तं न समनुपश्यति, स निमित्तम् असमनुपश्यन्, परिशुद्धाजीवो विहरति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति समुदये ऽन्वयज्ञानम्
SK
पुनर् अपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य ये आकारा यानि लिङ्गानि यानि निमित्तानि यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यस्, तान् आकारांस् तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि, तानि शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहम्, एवं भगवन्न् इत्य् आयुष्मां सुभूतिर् भगवतः प्रत्यश्रोषीत्.
SK
भगवान् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिमनसिकारैर् अविरहितो न स्कन्धयोगम् अनुयुक्तो (PSP_४:१५८) विहरति, न धात्वायतनयोगम् अनुयुक्तो विहरति. न प्रतीत्यसमुत्पादाङ्गयोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स शून्यतायां स्थितो न कस्यचिद् धर्मस्य हीनत्वं वा उत्कृष्टत्वं वा समनुपश्यति. इति निरोधे धर्मज्ञानक्षान्तिः
SK
न चौरकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्येषु धर्मेषु न कस्यचिद् धर्मस्याहरणं वा हरनं वा समनुपश्यति. इति निरोधे धर्मज्ञानम्
SK
न सेनाकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स प्रकृतिशून्यतायां स्थितो न कस्यचिद् धर्मस्याल्पत्वं वा बहुत्वं वा समनुपश्यति. इति निरोधे ऽन्वयज्ञानक्षान्तिः
SK
न युद्धकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सर्वधर्मतायां स्थितो न कस्यचिद् धर्मस्यानुनयं वा प्रतिघं वा समनुपश्यति. न ग्रामकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सर्वशून्यतायां स्थितो न कस्यचिद् धर्मस्य निचयं वासंनिचयं वा समनुपश्यति. न नगरकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि स आकाशशून्यतायां स्थितो न कस्यचिद् धर्मस्य संग्रहं वासंग्रहं वा समनुपश्यति. न निगमकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? तथा हि सुभूते कोट्यां स्थितो न कस्यचिद् धर्मस्यात्ययं वानत्ययं वा समनुपश्यति. नात्मकथायोगम् अनुयुक्तो विहरति, एवं न सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यककथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? अत्यन्तविशुद्धत्वात् सर्वधर्माणाम् अन्यत्र प्रज्ञापारमिताकथायोगम् अनुयुक्तो विहरति, अविरहितश् च सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः. इति निरोधे ऽन्वयज्ञानम्
SK
स दानपारमितायां चरन् न मात्सर्यकथायोगम् अनुयुक्तो विहरति, शीलपारमितायां चरन् न दौःशील्यकथायोगम् अनुयुक्तो विहरति, क्षान्तिपारमितायां चरन् न प्रतिघकथायोगम् अनुयुक्तो विहरति, वीर्यपारमितायां चरन् न कौशीद्यकथायोगम् अनुयुक्तो विहरति, ध्यानपारमितायां चरन् न विक्षेपकथायोगम् अनुयुक्तो विहरति, प्रज्ञापारमितायां चरन् न दौष्प्रज्ञाकथायोगम् अनुयुक्तो विहरति, सर्वधर्मशून्यतायां विहरन् धर्मकामश् चैव भवति नाधर्मकामः, स धर्मधातौ चरन् न भेद्यस्य धर्मस्य वर्णवादी (PSP_४:१५९) भवति, समित्रकामो भवति नामित्रकामो बुद्धानां भगवताम् अन्तिके बोधिसत्त्वानां च महासत्त्वानां ये च श्रावकप्रत्येकबुद्धयानिकाः कुलपुत्रास् तान् अप्य् अनुत्तरायां सम्यक्संबोधौ समादापयति निवेशयति प्रतिष्ठापयति, स तथागतान् अर्हतः सम्यक्संबुद्धान् आकाङ्क्षति, दर्शनाय यत्र लोकधातौ तिष्ठन्ति ध्रियन्ते यापयन्ति, आकाङ्क्षंस् तत्रोपपद्यते, स इमैर् मनसिकारैर् रात्रिंदिवं विहरति यद् उत बुद्धमनसिकारैः. तत् कस्य हेतोः? तथा हि प्रायेण सुभूते ऽविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः कामधातुप्रतिसंयुक्तान् मनसिकारान् उत्पादयित्वा दशभिः कुशलैः कर्मपथैर् वर्तमानाः तेषु बुद्धक्षेत्रेषूपपद्यन्ते, यत्र संमुखीभूतास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति. तत्र प्रथमं ध्यानम् उत्पादयित्वा यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उत्पादयित्वा तत्रोपपद्यन्ते, यत्र संमुखीभूतास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मार्गे धर्मज्ञानक्षान्तिः
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ऽध्यात्मशून्यतायां स्थितस्य यावद् अभावस्वभावशून्यतायां स्थितस्य स्मृत्युपस्थाने स्थितस्य सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु स्थितस्याप्रमाणध्यानारूप्यसमापत्तिषु स्थितस्यार्यसत्येषु स्थितस्य शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थितस्य सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु स्थितस्याभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्थितस्य नैवं भवत्य्, अविनिवर्तनीयो वाहं न वाहम् अविनिवर्तनीय इति विचिकित्सा चास्य नोत्पद्यते. निःसंशयश् च भवति स्वकायां भूमौ. तत् कस्य हेतोः? तथा हि सो ऽणुम् अपि धर्मं न समनुपश्यति, यो विवर्तते वा न वा विवर्तते. तद्यथापि नाम सुभूते स्रोतआपन्नः स्रोतआपत्तिफलभूमौ स्थितो न काङ्क्षति न विचिकित्सति स्वकायां भूमाव् एवं सकृदागाम्यनागाम्यर्हत्त्वभूमौ स्थितो बुद्धभूमौ स्थितो न काङ्क्षति न विचिकित्सत्य्, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः स्वकायां भूमौ न काङ्क्षति न विचिकित्सति. (PSP_४:१६०) स तत्राविनिवर्तनीयभूमौ स्थितो बुद्धक्षेत्रञ् च परिशोधयति, सत्त्वांश् च परिपाचयत्य्, उत्पन्नोत्पन्नानि च मारकर्माणि बुध्यते, न च मारकर्माणां वशेन गच्छति, सर्वाणि च तानि मारकर्माणि बुध्यते बुद्ध्वा च विध्वस्तानि विरलीकरोति. तद्यथापि नाम सुभूते पुरुष आनन्तर्यकर्मकारी आनन्तर्यचित्तेनाविरहितो यावन् मरणकालम् इत्य् अनुवर्तत एव तद् आनन्तर्यचित्तं, न च तत्रानन्तर्यचित्तं शक्नोति विष्कम्भयितुम्, अनुवर्तते चास्य तत् पर्युत्थानं यावन् मरणकालम्. एवम् एव सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य तद् अविनिवर्तनीयचित्तं भूतं स्थितम् अविनिवर्तनीयभूमाव् अविकम्पन् तच् चित्तं, न शक्यते सदेवमानुषासुरेण लोकेन विवर्तयितुम्. तत् कस्य हेतोः? तथा हि तद् अविनिवर्तनीयचित्तं सदेवमानुषासुरम् अतिक्रम्य सम्यक्त्वनियामम् अवक्रान्तं स स्वकायां भूमौ स्थित्वाभिज्ञापरमपारमिताः प्राप्य बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, तेषु च बुद्धक्षेत्रेषु कुशलमूलान्य् अवरोपयित्वा तांश् च बुद्धान् भगवतः परिपृच्छति परिप्रश्नयति पर्युपास्ते.
SK
स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः तथा स्थितः, स मान उत्पन्नोत्पन्नानि च मारकर्माण्य् अवबुध्यते, उत्पन्नोत्पन्नानाञ् च मारकर्माणां वशेन न गच्छति, तानि च मारकर्माण्य् उपायकौशल्येन भूतकोटीः शोधयति, स्वकायाञ् च भूमौ न काङ्क्षति न विचिकित्सति. तत् कस्य हेतोः? तथा हि स निःकाङ्क्षो भूतकोट्याः, न भूतकोटिम् एकां वा द्वे वा विकल्पयति, तस्य जातिविनिवृत्तस्यापि न श्रावकप्रत्येकबुद्धभूमौ चित्तम् उत्पद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्येषु धर्मेषु न कस्यचिद् धर्मस्योत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यति. इति मार्गे धर्मज्ञानम्
SK
तस्य खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य स्वलक्षणशून्येषु सर्वधर्मेषु न कस्यचिद् धर्मस्योत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यते. जातिविनिवृत्तस्यापि नैवं भवति, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम्, अभिसंभोत्स्य एवाहम् अनुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि सुभूते स्वलक्षणशून्या अनुत्तरा सम्यक्संबोधिः. (PSP_४:१६१)
SK
स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं स्थितः स्वकायां भूमाव्, अपरप्रत्ययः स्वकायां भूमाव्, अनवमर्दनीयः स्वकायां भूमौ. तत् कस्य हेतोः? तथा हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व एवं स्थितो ऽसंहार्येण ज्ञानेन समन्वागतो भवति.
SK
सचेत् खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: ऽहैव त्वम् अर्हत्त्वं प्राप्नु हि, न त्वं व्याकृतो ऽनुत्तरायां सरोयक्संबोधौ, न च त्वयानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धो, येन त्वं व्याक्रियथास् तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ, न च त्वयि ते आकारास् तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते, यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो व्याक्रियते ऽनुत्तरायां सम्यक्संबोधौ.
SK
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वस् तद् वचनं श्रुत्वा नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, न च चित्तस्यान्यथा त्वं भवति वेदितव्यं, सुभूते बोधिसत्त्वेन महासत्त्वेन व्याकृतो ऽहं तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि मम ते धर्माः संविद्यन्ते यैर् धर्मैर् बोधिसत्त्वा महासत्त्वा व्याक्रियन्ते ऽनुत्तरायां सम्यक्संबोधौ. इति मार्गे ऽन्वयज्ञानक्षान्तिः
SK
सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: माराधिष्ठितो वा पुरुषः श्रावकत्वे त्वं कुलपुत्र व्याकृतो न त्वम् अनुत्तरायां सम्यक्संबोधौ, किं ते ऽनुत्तरया सम्यक्संबोध्या.
SK
सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भविष्यति, मारो बतायं पापीयान् बुद्धवेषेणोपसंक्रान्तो माराधिष्ठितो वा पुरुषो, न च तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वं महासत्त्वं श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा समादापयति.
SK
सचेद् अयम् अस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: नैतद् बुद्धभाषितं न श्रावकैर् मारभाषितान्य् एतानि सूत्राणि यत्र त्वं चरसि. वेदितव्यम् एतद् बोधिसत्त्वेन महासत्त्वेन मारो बतायं पापीयान् माराधिष्ठितो वा पुरुषो, यो माम् अमुत्तरायाः सम्यक्संबोधेर् विवेचयति. वेदितव्यम् एतत् सुभूते व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वः तैः पूर्वकैस् तथागतैर् (PSP_४:१६२) अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ स्थितो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयायां भूमौ. तत् कस्य हेतोः? तथा ह्य् अस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य त आकारास् तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते ये ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः.
SK
पुनर् अपरं सुभूते ऽविनिवर्तनियो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सद्धर्मपरिग्रहस्य कृतेनात्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सद्धर्मपरिग्रहस्य कृतेनैव योगम् आपद्यते ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सद्धर्मपरिग्रहं करोति. तत्र कतरो धर्मो यस्य कृतेन बोधिसत्त्वो महासत्त्व आत्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति? इह सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्माः शून्या इति धर्मं देशयति, तत्रैके मोहपुरुषाः प्रतिक्रोशन्ति प्रतिवहन्ति नैष धर्मो न विनयो नैतच् छास्तुः शासनम्, अस्य सुभूते कृतशो बोधिसत्त्वो महासत्त्व आत्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति. तत्र सुभूते बोधिसत्त्वेन महासत्त्वेनैवम् उपपरीक्षितव्यं, ये ऽपि ते तथागता अर्हन्तः सम्यक्संबुद्धा धर्मं भाषिष्यन्ते, अहम् अपि तत्र गणनां यास्याम्य् अहम् अपि तत्र व्याकृतो ममाप्य् एष धर्मो यस्य धर्मस्य कृतेनाहम् आत्मपरित्यागं करोमि जीवितपरित्यागं करोमीमं सुभूते ऽर्थवशं संपश्य बोधिसत्त्वो महासत्त्वः सद्धर्मपरिग्रहस्य कृतेनात्मपरित्यागं करोति जीवितपरित्यागं करोत्य्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वस् तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मं देशयतो न काङ्क्षति न विचिकित्सति, यं च ते बुद्धा भगवन्तो धर्मं भाषन्ते तं सर्वम् उद्गृह्णाति तथोद्गृहीतञ् च समानं न विप्रणाशयति. तत् कस्य हेतोः? यथापि तद् धारणीप्रतिलब्धत्वात्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमस्या भगवन् धारण्याः प्रतिलब्धत्वाद् बोधिसत्त्वस्य महासत्त्वस्य तथागतभाषिताः सूत्रान्ता न विप्रणश्यन्ति? (PSP_४:१६३)
SK
भगवान् आह: धारणधारणीप्रतिलब्धस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य तथागतभाषिताः सूत्रान्ता न विप्रणश्यन्ति.
SK
सुभूतिर् आह: तथागतस्यैव भगवन्न् अर्हतः सम्यक्संबुद्धस्य न श्रावकभाषितानि न देवभाषितानि न नागभाषितानि न यक्षभाषितानि न गन्धर्वभाषितानि नासुरभाषितानि न गरुडभाषितानि न किंनरभाषितानि न महोरगभाषितानि.
SK
भगवान् आह: ये केचित् सुभूते रुतसंकेतघोषाः सर्वत्र बोधिसत्त्वो महासत्त्वो न काङ्क्षति न विचिकित्सति. तत् कस्य हेतोः? यथापि नाम तद् धारणधारणीप्रतिलब्धत्वाद्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महागुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, प्रमाणगुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, ऽपरिमितगुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् महागुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, ऽप्रमाणगुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, परिमितगुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः. तत् कस्य हेतोः? तथा ह्य् अनेनानन्तम् अपर्यन्तं ज्ञानं प्रतिलब्धम् असंहार्यं श्रावकप्रत्येकबुद्धैस्, तत्र च ज्ञाने स्थित्वाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रतिसंविदो ऽभिनिर्हरति याभिः प्रतिसंविद्भिर् अभिनिर्हृताभिः सदेवमानुषासुरेण लोकेन न शक्यः पर्यादातुम्. इति मार्गे ऽन्वयज्ञानम् इति दर्शनमार्गस्थावैवर्तिकलक्षणम्
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रतिबलो भगवांस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गङ्गानदीवालुकोपमान् कल्पान् आकारलिङ्गनिमित्तानि निर्देष्टुं यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रभाव्यते साधु भगवन् गम्भीराणि गम्भिराणि स्थानानि निर्दिशतु यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरंश् चत्वारि स्मृत्युपस्थानानि परिपूरयति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् (PSP_४:१६४) परिपूरयति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां परिपूरयति, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तिः परिपूरयति, शून्यतानिमित्ताप्रणिहिताभिज्ञाः परिपूरयति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, सर्वाकारज्ञतां परिपूरयति. इति गम्भीरो भावनामार्गः
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु सुभूते, साधु खलु पुनस् त्वं सुभूते यस् त्वम् अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम् अर्थाय गम्भीराणि गम्भीराणि स्थानानि परिपृच्छितव्यानि मन्यसे, गम्भीरम् इति सुभूते शून्यताया एतद् अधिवचनम् आनिमित्तस्याप्रणिहितस्यानभिसंस्कारस्यानुत्पादस्यानिरोधस्यानिर्वाणस्याशान्तस्य तथताया भूतकोटेर् धर्मधातोर् इमानि तानि सुभूते गम्भीरगम्भीराणि स्थानानि येषाम् एतद् अधिवचनं यद् इदं निर्वाणम् इति.
SK
सुभूतिर् आह: निर्वाणस्यैवैतद् भगवन्न् अधिवचनं न पुनर् भगवन् सर्वधर्माणाम्? भगवान् आह: सर्वधर्माणाम् एवैतत् सुभूते ऽधिवचनं गम्भीरम् इति. तत् कस्य हेतोः? रूपं सुभूते गम्भीरम्, एवं वेदना संज्ञा संस्कारा, विज्ञानम् अपि सुभूते गम्भीरं, चक्षुर् अपि सुभूते गम्भीरम्, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽपि सुभूते गम्भीरं, रूपशब्दगन्धरसस्प्रष्टव्यधर्मा अपि सुभूते गम्भीराश्, चक्षुर्विज्ञानं सुभूते गम्भीरं, चक्षुःसंस्पर्शः सुभूते गम्भीरः, चक्षुःसंस्पर्शप्रत्यया वेदना सुभूते गम्भीरा. एवं श्रोत्रं घ्राणं जिह्वा कायो, मनोविज्ञानं सुभूते गम्भीरं, मनःसंस्पर्शः सुभूते गम्भीरः, मनःसंस्पर्शप्रत्यया वेदना सुभूते गम्भीरा, पृथिवीधातुर् अपि सुभूते गम्भीरः, एवम् अब्धातुः तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुः सुभूते गम्भीरः. प्रतीत्यसमुत्पादः सुभूते गम्भीरो, ऽविद्या सुभूते गम्भीरा, एवं संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर् जरामरणं शोकपरिदेवदुष्खदौर्मनस्योपायासाः सुभूते गम्भीराः, सर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखं सुभूते गम्भीरं, सप्तत्रिंशद्बोधिपक्ष्या धर्माः सुभूते गम्भीरा, अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि सुभूते गम्भीराणि, त्रीणि विमोक्षमुखानि सुभूते गम्भीराणि, (PSP_४:१६५) अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सुभूते गम्भीराः, बोधिर् अपि सुभूते गम्भीरा. कथञ् च पुनः सुभूते रूपं गम्भीरं? यथा रूपतथता तथा गम्भीरं, यथा वेदनातथता तथा गम्भीरं, यथा संज्ञातथता तथा गम्भीरं, यथा संस्कारतथता तथा गम्भीरं, यथा विज्ञानतथता तथा गम्भीरं, यथा स्कन्धधात्वायतनतथता तथा गम्भीरं, यथा प्रतीत्यसमुत्पादतथता तथा गम्भीरं, यथा प्रतीत्यसमुत्पादाङ्गतथता तथा गम्भीरम्, एवं यथा सर्वपारमितातथता तथा गम्भीरं, यथा सर्वशून्यतातथता तथा गम्भीरं, यथा बोधिपक्ष्याणां धर्माणां तथता तथा गम्भीरं, यथार्यसत्याप्रमाणध्यानारूप्यसमापत्तितथता तथा गम्भीरं, यथा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता तथा गम्भीरं, यथा शून्यतानिमित्ताप्रणिहिताभिज्ञातथता तथा गम्भीरं, यथा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मतथता तथा गम्भीरं, यथा बोधितथता तथा गम्भीरम्. इति भावनामार्गगाम्भीर्यम्
SK
सुभूतिर् आह: कथं भगवन् रूपस्य तथता?
SK
भगवान् आह: यत्र सुभूते तथतायां न रूपं नान्यत्र रूपाद्, यत्र सुभूते तथतायां न वेदना नान्यत्र वेदनायाः, यत्र सुभूते तथतायां न संज्ञा नान्यत्र संज्ञयाः, यत्र सुभूते तथतायां न संस्कारा नान्यत्र संस्कारेभ्यो, यत्र सुभूते तथतायां न विज्ञानं नान्यत्र विज्ञानाद्. एवं यत्र सुभूते तथतायां न स्कन्धधात्वायतनानि नान्यत्र स्कन्धधात्वायतनेभ्यो, यत्र सुभूते तथतायां न प्रतीत्यसमुत्पादो नान्यत्र प्रतीत्यसमुत्पादाद्, यत्र सुभूते तथतायां न प्रतीत्यसमुत्पादङ्गानि नान्यत्र प्रतीत्यसमुत्पादाङ्गेभ्यो, यत्र सुभूते तथतायां न सर्वपारमिता नान्यत्र सर्वपारमिताभ्यो, यत्र सुभूते तथतायां न सर्वशून्यता नान्यत्र सर्वशून्यताभ्यो, यत्र सुभूते तथतायां न बोधिपक्ष्या धर्मा नान्यत्र बोधिपक्षेभ्यो धर्मेभ्यो, यत्र सुभूते तथतायां न सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि नान्यत्र सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेभ्यो यत्र सुभूते तथतायां नार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो नान्यत्रार्यसत्याप्रमाणध्यानारूप्यसमापत्तिभ्यो, यत्र सुभूते तथतायां नाभिज्ञादशबलवैशारद्यप्रतिसंविदो नान्यत्राभिज्ञादशबलवैशारद्यप्रतिसंविद्भ्यो, यत्र सुभूते तथतायां नावेणिकाबुद्धधर्मा नान्यत्रावेणिकेभ्यो बुद्धधर्मेभ्यो, यत्र सुभूते तथतायां न बोधिर् नान्यत्र बोधेः तथता. (PSP_४:१६६)
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावत् सूक्ष्मेणोपायेनाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो रूपतश् च वारितो निर्वाणं च सूचितम्. एवं वेदनायाः संज्ञायाः संस्कारेभ्यो, विज्ञानतश् च वारितो निर्वाणं च सूचितं, सर्वधर्मसंग्रहे ऽप्य् अस्य लौकिकलोकोत्तरेण सास्रवेणानास्रवेण सास्रवाणास्रवेभ्यो वारितो निर्वाणं च सूचितम्. इति भावनामार्गस्य समारोपापवादान्तमुक्ता
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदा पुनः सुभूते बोधिसत्त्वो महासत्त्व इमानि गम्भीरगम्भीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि चिन्तयिष्यति तुलयिष्यत्य् उपनिध्यास्यति. इति भावनापथः
SK
एवं मया स्थातव्यं यथा प्रज्ञापारमितायाम् आज्ञप्तम्, एवं मया शिक्षितव्यं यथा प्रज्ञापारमितायाम् आख्यातम्, एवं मया प्रतिपत्तव्यं यथा प्रज्ञापारमितायाम् उद्दिष्टम् इत्य्. अयं सुभूते बोधिसत्त्वो महासत्त्वः तथा संपादयंस् तथोपनिध्यायंस् तथोपपरीक्षमाणस् तथा प्रयुज्यमानस् तथा घटमानस् तथा व्यायच्छमानः. इति निर्वेधाङ्गदो भावनापथः
SK
स तेन चित्तोत्पादेनासंख्येयम् अप्रमेयम् अपरिमाणकुशलमूलं परिग्रहीष्यत्य् अपरिमाणात् कल्पात् संसाराच् छोरयिष्यति विपृष्ठीकरिष्यति व्यन्तीकरिष्यति, कः पुनर् वादो यदाव्यवकीर्णः प्रज्ञापारमितायांश् चरन् बोधिप्रतिसंयुक्तैर् मनसिकारैर् विहरिष्यति. तद्यथापि नाम सुभूते स पुरुषो रागचरितो वितर्कचरितस् तस्यान्यतरया स्त्रिया सार्धम् अभिरूपया प्रासादिकया दर्शनीयया सह संकेतः कृतः स्यात् सा च स्त्री परपरिगृहीता न लभते गृहतो निष्क्रमणाय. तत् किं मन्यसे? सुभूते किं प्रतिसंयुक्तास् तस्य पुरुषस्य वितर्का वर्तेरन्न् इति.
SK
सुभूतिर् आह: स्त्रीप्रतिसंयुक्ता एवं भगवंस् तस्य पुरुषस्य वितर्का वर्तेरन्न्, इयं मे स्त्री आगता एतया सार्धं निषीदिष्यामि प्रतिक्रमिष्यामि परिचारयिष्यामीति.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते रात्र्या वा दिवसस्य वात्ययेन कियन्तस् तस्य पुरुषस्य वितर्का वर्तेरन्.
SK
सुभूतिर् आह: बहवो भगवन् बहवः सुगत तस्य पुरुषस्य दिवसस्य वात्ययेन रात्र्या वात्ययेन वितर्का वर्तेरन्. (PSP_४:१६७)
SK
भगवान् आह: यावन्तः सुभूते तस्य पुरुषस्य दिवसस्य वात्ययेन रात्र्या वात्ययेन वितर्का वर्तन्ते, इयतः कल्पान् स बोधि सत्त्वो महासत्त्वः संसाराच् छोरयति विपृष्ठीकरोति व्यन्तीकरोति य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां शिक्षते उपपरीक्षते उपनिध्यायति तथा तथा च योगम् आपद्यते, यथा यथा तान् दोषान् विवर्जयति यैर् दोषैर् बोधिसत्त्वा महासत्त्वा विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः. एवं योगन् अनुयुक्तस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्यानेन विहारेण विहरतो यथा प्रज्ञापारमितायाम् उपदिष्टायाम् एकदिवसेन यत् कुशलमूलं येन कुशलमूलेन गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णाः स्युर्, नेदं तस्य कुशलस्य शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि यावत् कोटीनियुतशतसहस्रतमीम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिशाम् अपि उपनिषदम् अपि नोपैति. इति त्रिविधो ऽनुशंसः
SK
पुनर् अपरं सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पान् दानं दद्यात् त्रिषु रत्नेषु बुद्धरत्ने धर्मरत्ने संघरत्ने. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो ऽधिमात्राधिमात्रः
SK
भगवान् आह: अयम् एव ततः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्यते. तत् कस्य हेतोः? एष हि बोधिसत्त्वानां महासत्त्वानां मार्गो येनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति प्रतिपक्षो मृदुमृदुः
SK
तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् स्रोतआपन्नेषु दक्षिणां प्रतिष्ठापयेद्, एवं सकृदागामिष्व् अनागामिष्व् अर्हत्सु दक्षिणां प्रतिष्ठापयेत्, प्रत्येकबुद्धेषु तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु दक्षिणां प्रतिष्ठापयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्. (PSP_४:१६८)
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो ऽधिमात्रमध्यः
SK
भगवान् आह: अयम् एव ततः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्यते. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. इति प्रतिपक्षो मृदुमध्यः
SK
तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् दानं दद्याच् छीलं रक्षेत् क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां भावयेत् ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो ऽधिमात्रमृदुः
SK
भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि दानं दद्याच् छीलं रक्षेत् क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां भावयेत्. तत् कस्य हेतोः? मातैषा बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता जनयित्री चैषा बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. अत्र हि सुभूते प्रज्ञापारमितायां स्थित्वा बोधिसत्त्वा महासत्त्वाः सर्वधर्मान् परिपूरयन्ति. इति प्रतिपक्षो मृद्वधिमात्रः
SK
तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् सत्त्वेभ्यो धर्मदानं दद्यात्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मध्याधिमात्रः
SK
भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि सत्त्वेभ्यो धर्मदानं दद्यात्. तत् कस्य हेतोः? तथा हि सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितः (PSP_४:१६९) स सर्वाकारज्ञतयाविरहितो यः पुनः सुभूते बोधिसत्त्वो महिसत्त्वः प्रज्ञापारमितयाविरहितः सर्वाकारज्ञतयाविरहितः, तस्मत् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितयाविरहितेन भवितव्यम्. इति प्रतिपक्षो मध्यमृदुः
SK
तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितो गङ्गानदीवालुकोपमान् कल्पान् योगम् आपद्येत चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिर् योगम् आपद्येत चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टङ्गेन मार्गेण योगम् आपद्येत चतुर्भिर् आर्यसत्यैर् अष्टभिर् विमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः शून्यतानिमित्ता प्रणिहितसमाधिभिर् यावद् अष्टादशभिर् आवेणिकबुद्धधर्मैर् योगम् आपद्येत. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मध्यमध्यः
SK
भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायाम् एकम् अपि दिवसं योगम् आपद्येत चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गेन मार्गेण शून्यतानिमित्ताप्रणिहितसमाधिभिर् यावद् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् योगम् आपद्येत. तत् कस्य हेतोः? अस्थानं सुभूते ऽनवकाशो यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितः सर्वाकारज्ञताया विवर्तते नेदं स्थानं विद्यते. स्थानञ् च खलु पुनः सुभूते ऽवकाशश् च यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया विरहितः सर्वाकारज्ञताया विवर्तते, स्थानम् एतद् विद्यते. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितयाविरहितेन भवितव्यम्. इति प्रतिपक्षो मध्यमध्यः
SK
तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया (PSP_४:१७०) विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठंस् तद् आमिषदानं धर्मदानं ताभ्यां प्रतिसंलयनप्रतिसंयुक्तान् मनसिकारान् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मध्यमृदुः
SK
भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि तद् आमिषदानं धर्मदानं ताभ्यां च प्रज्ञापारमिताप्रतिसंलयनप्रतिसंयुक्तान् मनसिकारान् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् कस्य हेतोः? एष हि परमः परिणामो यद् उत प्रज्ञापारमितापरिणामः. यः पुनः प्रज्ञापारमितया विरहितः परिणामो न स परिणामः. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितापरिणामना कुशलमूलेन भवितव्यम्. इति प्रतिपक्षो मध्याधिमात्रः
SK
तत् किं मन्यसे? सुभूते यः कश्चित् कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमिताविरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन्न् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानां यं कुशलमूलं तत् सर्वम् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मृद्वधिमात्रः
SK
भगवान् आह: अतः सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदिवसम् अपि यं कुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् कस्य हेतोः? एष हि परमो ऽनुमोदनापरिणामो यद् उत प्रज्ञापारमितानुमोदना परिणामस्, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितानुमोदनापरिणामना कुशलमूलेन भवितव्यम्. इति प्रतिपक्षो ऽधिमात्रमृदुः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा पुनर् भगवन्न् अभिसंस्कारः कल्पित इत्य् उक्तो भगवता तदा कथं स (PSP_४:१७१) कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्? न च भगवन्न् अभिसंस्कारेण शक्या सम्यग्दृष्टिर् वा नियामो वावक्रमितुं स्रोतआपत्तिफलं वानुप्राप्तुं सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वानुप्राप्तुं प्रत्येकां वा बोधिम् अनुप्राप्तुम् अनुत्तरां सम्यक् संबोधिम् अभिसंबोद्धुम्. इति विपक्षो मृदुमध्यः
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न ह्य् अभिसंस्कारेण शक्या सम्यग्दृष्टिर् वा नियामो वावक्रमितुं स्रोतआपत्तिफलं वा अनुप्राप्तुं सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वानुप्राप्तुं प्रत्येकां वा बोधिम् अनुप्राप्तुम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स चापि सुभूते अभिसंस्कारो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः शून्यक एवाख्यायते, रिक्तक एवाख्यायते, तुच्छक एवाख्यायते, असारक एवाख्यायते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां सुशिक्षितो बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सुशिक्षितः. इति प्रतिपक्षो ऽधिमात्रमध्यः
SK
स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो इह शून्यतायां स्थित्वा यथा यथाभिसंस्कारान् प्रत्यवेक्षते तथा तथा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो भवति, यथा यथा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो भवति तथा तथासंख्येयम् अप्रमेयम् अपरिमाणं पुण्यं प्रसवेत्. इत्य् अर्थक्षिप्तविपक्षस्य मृदुमृदुः प्रतिपक्षो ऽधिमात्राधिमात्रः इति भावनामार्गस्थावैवर्तिकलक्षणम्
SK
सुभूतिर् आह: असंख्येयस्य च भगवन्न् अप्रमेयस्य चापरिमाणस्य च कः प्रतिविशेषः? किं नानाकरणम्?
SK
भगवान् आह: असंख्येयम् इति सुभूते यस्य संख्या न विद्यते यः संख्यान् नोपैति, असंख्येयम् इति वा अप्रमाणम् इति वा सुभूते यस्य प्रमाणन् नोपलभ्यते ऽतीतानागतप्रत्युत्पन्नेषु धर्मेषु, अपरिमाणम् इति सुभूते यन् न शक्यं प्रमातुम्.
SK
सुभूतिर् आह: स्याद् भगवन् पर्यायो यद् रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, वेदना संज्ञा संस्कारा विज्ञानम् अपि भगवन्न् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्. (PSP_४:१७२)
SK
भगवान् आह: स्यात् सुभूते पर्यायो येन पर्यायेण रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, वेदनापि संज्ञापि संस्कारा अपि, विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्याद् इत्य् असंख्येयादीनाम् उपलक्षणाम्.
SK
कतमेन भगवन् पर्यायेण रूपम् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, वेदना संज्ञा संस्कारा, विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्?
SK
भगवान् आह: रूपं सुभूते शून्यम् असं ख्येयम् अप्रमेयम् अपरिमाणं, वेदना संज्ञा संस्कारा, विज्ञानं सुभूते शून्यम् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्.
SK
सुभूतिर् आह: किं पुनर् भगवन् रूपम् एव शून्यं, वेदना संज्ञा संस्कारा, विज्ञानम् एव शून्यं, न पुनः सर्वधर्मा अपि शून्याः?
SK
भगवान् आह: तत् किं मन्यसे? सुभूते न मया सर्वधर्माः शून्या इत्य् आख्याताः.
SK
सुभूतिर् आह: शून्या इति भगवन् सर्वधर्मास् तथागतेनाख्याता, ये च भगवन् शून्या अक्षया अपि ते, असंख्येया अपि ते अप्रमेया अपि ते, अपरिमाणा अपि ते, न भगवन् शून्यतायाः संख्योपलभ्यते, न प्रमाणम् उपलभ्यते, न परिमाणम् उपलभ्यते, इत्य् असंख्येयादीनां स्वभावलक्षणं, तस्मात् तर्हि भगवन् नैषां धर्माणाम् अर्थतो वा व्यञ्जनतो वा नानाकरणम् उपलभ्यते.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नैषां धर्माणाम् अर्थतो वा व्यञ्जनतो वा नानाकरणम् उपलभ्यते. अनभिलप्यम् एतत् सुभूते तथागतेनाभिलपितम्, अक्षयम् इति वा असंख्येयम् इति वा अप्रमेयम् इति वा अपरिमाणम् इति वा शून्यम् इति वा आनिमित्तम् इति वा अप्रणिहितम् इति वा अनभिसंस्कारम् इति वा अनुत्पाद इति वा विराग इति वा निरोध इति वा निर्वाणम् इति वा देशनानिष्पन्दनिर्देश एष सुभूते तथागतस्याक्षयम् इति यावन् निर्वाणम् इति चेति चोद्यपूर्वकस् तथागतकरुणानिष्पन्दनिर्देशः.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् इयं धर्माणां धर्मता तथागतेन देश्यते, सा च धर्मता अनभिलप्या यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि, तथा सर्वधर्मा भगवन्न् अनभिलप्याः. (PSP_४:१७३)
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते अनभिलप्या, या सुभूते धर्माणाम् अनभिलप्यता सा शून्यता, न च शून्यता शक्याभिलपितुम्.
SK
सुभूतिर् आह: किं पुनर् भगवन्न् अनभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा?
SK
भगवान् आह: न सुभूते अनभिलप्यस्यार्थस्य नापि वृद्धिर् नापि परिहाणिर्.
SK
सुभूतिर् आह: सचेद् भगवन्न् अनभिलप्यस्यार्थस्य नापि वृद्धिर् नापि परिहाणिः, दानपारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, एवं शीलक्षान्तिवीर्यध्यानपारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, प्रज्ञापारमिताया अपि न वृद्धिर् न परिहाणिर् भविष्यति, चतुर्णां स्मृत्युपस्थानानां न वृद्धिर् न परिहाणिर् भविष्यति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य न वृद्धिर् न परिहाणिर् भविष्यति, अष्टानां विमोक्षाणां न वृद्धिर् न परिहाणिर् भविष्यति, नवानुपूर्वविहारसमापत्तीनाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् आर्यसत्यानां शून्यतानिमित्ताप्रणिहिताभिज्ञानं न वृद्धिर् न परिहाणिर् भविष्यति, दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां न वृद्धिर् न परिहाणिर् भविष्यति अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया न वृद्धिर् न परिहाणिर् भविष्यति, अष्टादशानाम् आवेणिकबुद्धधर्माणां न वृद्धिर् न परिहाणिर् भविष्यति. सचेद् भगवन्न् आसां षण्णां पारमितानां न वृद्धिर् न परिहाणिर् भविष्यति, यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां न वृद्धिर् न परिहाणिर् भविष्यति, तदा अभव्या हि भगवन् सर्वाकारज्ञतानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् इत्य् अनभिलप्यस्य हानिवृद्ध्या भावेन चोद्यम्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नानभिलप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा. सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः प्रज्ञापारमितायां योगम् आपद्यमानस्योपायकुशलस्य नैवं भवति, अहं प्रज्ञापारमितया विवर्द्धे, ऽहं ध्यानपारमितया विवर्द्धे, ऽहं वीर्यपारमितया विवर्द्धे, ऽहं क्षान्तिपारमितया विवर्द्धे, ऽहं शीलपारमितया विवर्द्धे, ऽहं दानपारमितया विवर्द्धे. एष च पुनर् अस्यैवं भवति, नामधेयमात्रम् एतद् यद् इदं दानपारमिता, स दानपारमितायां (PSP_४:१७४) चरंस् तान् मनसिकारांस् तांश् चित्तोत्पादांस् तानि च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथानुत्तरा सम्यक्संबोधिर्, एवं शीलक्षान्तिवीर्यध्यानपारमिता प्रज्ञापारमितायां चरंस् तान् मनसिकारांस् तांश् चित्तोत्पादांस् तानि च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति यथानुत्तरा सम्यक्संबोधिर् इति परिहारः.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमा च पुनर् भगवन्न् अनुत्तरा सम्यक्संबोधिः?
SK
भगवान् आह: सर्वधर्माणां तथतानुत्तरा सम्यक्संबोधिः.
SK
सुभूतिर् आह: कतमैषा भगवन् सर्वधर्माणां तथता यानुत्तरा सम्यक्संबोधिः?
SK
भगवान् आह: या सुभूते रूपस्य तथता या वेदनायास् तथता या संज्ञयाः तथता या संस्काराणां तथता या विज्ञानस्य तथता, एवं या स्कन्धतथता या धातुतथता या आयतनतथता या प्रतीत्यसमुत्पादतथता या प्रतीत्यसमुत्पादाङ्गतथता, एवं यावद् या निर्वाणस्य तथता सानुत्तरा सम्यक्संबोधिः, सा नैव विवर्द्धते न परिहीयते. तत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो ऽभीक्स्णं बहुलं विहरति, न कस्यचिद् धर्मस्य वृद्धिं वा परिहाणिं वा समनुपश्यति. एवं खलु सुभूते अनभिलप्यस्यार्थस्य नैव वृद्धिर् न परिहाणिर्, एवं च सुभूते दानपारमिताया न वृद्धिर् न परिहाणिर्, एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताया न वृद्धिर् न परिहाणिर्, एवं शून्यतानां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानाम् अभिज्ञानां शून्यतानिमित्ताप्रणिहितानां दशानां बलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां न वृद्धिर् न परिहाणिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अवृद्ध्यपरिहाणियोगेन. इति बोधिलक्षणम्
SK
सुभूतिर् आह: तत् किं प्रथमचित्तोत्पादेन भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, उताहो पश्चिमेन चित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? यदि तावद् भगवन् बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादेनानुत्तरां (PSP_४:१७५) सम्यक्संबोधिम् अभिसंबुध्यते, तत् पूर्वकश् चित्तोत्पादः पश्चिमेन चित्तोत्पादेनासमवसृतः, पश्चिमश् चित्तोत्पादः पूर्वकेन चित्तोत्पादेनासमवसृतः, एवम् असमवसृतानां भगवंश् चित्तचैतसिकानां धर्माणां कथं कुशलमूलान्य् उपचयं गच्छन्ति, न चानुपचितैः कुशलमूलैः शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्? इति मनसोर् असमवधानेन चोद्यम्
SK
भगवान् आह: तेन हि सुभूते उपमां ते करिष्याम्य् अस्यैवार्थस्य विज्ञापनाय, उपमया इहैकत्या विद्वांसः पुरुषा भाषितस्यार्थम् आज्ञास्यन्ति. तत् किं मन्यसे? सुभूते तैलप्रद्योतस्य ज्वलितस्य दीप्यमानायां वर्तौ प्रथमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा, उताहो पश्चिमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा.
SK
सुभूतिर् आह: न भगवन् प्रथमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा न च प्रथमाभिनिपातम् अनागम्यार्चिषः सा वर्तिर् दग्धा, न भगवन् पश्चिमाभिनिपातेनार्चिषः सा वर्तिर् दग्धा, न च पश्चिमाभिनिपातम् अनागम्यार्चिषः सा वर्तिर् दग्धा.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु सा वर्तिर् दग्धा.
SK
सुभूतिर् आह: दग्धा भगवन् दग्धा सुगत.
SK
भगवान् आह: एवम् एव सुभूते न प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च प्रथमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादेन सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अत्र हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय दश भूमीः परिपूरयित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
SK
सुभूतिर् आह: कतमा भगवन् दश भूमीः परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
SK
भगवान् आह: शुक्लविपश्यनाभूमिं सुभूते परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, एवं गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनुभूमिं वीतरागभूमिं कृतावीभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् (PSP_४:१७६) अभिसंबुध्यते, श्रावकप्रत्येकबुद्धभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, बोधिसत्त्वभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, बुद्धभूमिं परिपूरयित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तत्र बोधिसत्त्वो महासत्त्वो दशसु भूमिषु शिक्षमाणो न च प्रथमचित्तोत्पादेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च प्रथमचित्तोत्पादम् अनागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादम् अनागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधिम्. इति दीपदृष्टान्तेन परिहारः
SK
सुभूतिर् आह: गम्भीरो भगवन् प्रतीत्यसमुत्पादो, न च नाम भगवन् प्रथमचित्तोत्पादेन, न च प्रथमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च नाम भगवन् पश्चिमेन चित्तोत्पादेन, न च पश्चिमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्यते च भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यच् चित्तं निरुद्धम् अपि नु तत् पुनर् एवोत्पत्स्यते.
SK
सुभूतिर् आह: नो हीदं भगवन्. इत्य् उत्पादगाम्भीर्यम्
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यच् चित्तम् उत्पन्नम् अपि नु तन् निरोधधर्मि.
SK
सुभूतिर् आह: निरोधधर्मि भगवन् निरोधधर्मि सुगत.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यन् निरोधधर्मि तन् निरोत्स्यते.
SK
सुभूतिर् आह: नो हीदं भगवन्. इति निरोधगाम्भीर्यम्
SK
भगवान् आह: तत् किं मन्यसे? सुभूते तथैव स्थास्यति यथा तथता. सुभूतिर् आह: तथैव भगवं स्थास्यति यथा तथता. (PSP_४:१७७)
SK
भगवान् आह: तत् किं मन्यसे? सुभूते तथैव स्थास्यति यथा तथता भूतकोटिर् भविष्यति.
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते गम्भीरा तथता.
SK
सुभूतिर् आह: गम्भीरा भगवन्. इति तथतागाम्भीर्यम्
SK
भगवान् आह: तत् किं मन्यसे? सुभूते तथैव चित्तं यथा तथता.
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते अन्यत्र तथतायाश् चित्तम्.
SK
सुभूतिर् आह: नो हीदं भगवन्. इति ज्ञेयगाम्भीर्यम्
SK
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु तथता तथतां समनुपश्यति.
SK
सुभूतिर् आह: नो हीदं भगवन्. इति ज्ञानगाम्भीर्यम्
SK
भगवान् आह: तत् किं मन्यसे? सुभूते य एवं चरति, स गम्भीरायां प्रज्ञापारमितायां चरति. सुभूतिर् आह: यो भगवैम् एवं चरति, स गम्भीरायां प्रज्ञा पारमितायां चरति.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते य एवं चरति, स कुत्र चरति.
SK
सुभूतिर् आह: यो भगव्न्न् एवं चरति, स न कुत्रचिच् चरति. तत् कस्य हेतोस्? तथा हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एते समुदाचारा न भवन्ति, न समुदाचरन्ति तथतायां स्थितस्य न भगवन् किञ्चित् समुदाचारति, नापि तत्र कश्चित् समुदाचरति. इति चर्यागाम्भीर्यम्
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां चरति स कुत्र चरति?
SK
सुभूतिर् आह: चरति भगवन् परमार्थे यत्र द्वयसमुदाचारो न संविद्यते.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यः परमार्थे चरति समुदाचारे चरति, स निमित्ते चरति.
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु तेन निमित्तसंज्ञा वानिमित्तसंज्ञा वा विभाविता भवति. (PSP_४:१७८)
SK
सुभूतिर् आह: नो हीदं भगवन्. इत्य् अद्वयगाम्भीर्यम्
SK
भगवान् आह: तत् कथं सुभूते बोधिसत्त्वेन महासत्त्वेन निमित्तसंज्ञा वा आनिमित्तसंज्ञा वा न विभाविता भवति?
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रयुज्यते, निमित्तं वा भावयिष्याम्य् अनिमित्तं वा भावयिष्यामीति, इह पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नापरिपूर्णैर् दशभिस् तथागतबलैर् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् महामैत्र्या महाकरुणया अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. इदं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं येनोपायकौशल्येन न कंचिद् धर्मं भावी वा करोत्य् अभावी वा करोति. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वलक्षणशून्यतायां स्थितस्, तत्र च स्वलक्षणशून्यतायां स्थित्वा त्रीन् समाधीन् समापद्यते, सत्त्वानां कृतशस् तैश् च समाधिभिः सत्त्वान् परिपाचयति.
SK
एवं भगवन् बोधिसत्त्वो महासत्त्वस् त्रीन् समाधीन् समापद्यते, तत्र च भगवन् बोधिसत्त्वो महासत्त्वस् त्रीषु समाधिषु स्थित्वा सत्त्वांश् च प्रणिधानेन चरतस् तान् अप्रणिहितेन नियोजयति, सत्त्वांश् च विकल्पे चरतस् तान् बोधिसत्त्वो महासत्त्वः शून्यतायां प्रतिष्ठापयति, सत्त्वांश् च निमित्ते चरतस् तान् बोधिसत्त्वो महासत्त्व आनिमित्ते प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् त्रिभिः समाधिभिः सत्त्वान् परिपाचयति. इत्य् उपायकौशलं गाम्भीर्यम् इत्य् उक्तः शैक्षो ऽवैवर्तिको गणः
SK
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतस् त्रीन् समाधीन् समापद्यते शून्यताम् आनिमित्तम् अप्रणिहितम्, अपि नु स प्रज्ञापारमितायां विवर्धते.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यद्य् आयुष्मन् शारिपुत्र दिवसे भावनया विवर्धते, एवं स्वप्नान्तरगतो ऽपि विवर्धते. तत् कस्य हेतोः? अविकल्पः, अथ खल्व् आयुष्मन् शारिपुत्र स्वप्नश् च दिवसश् च, सचेद् आयुष्मन् शारिपुत्र यदि दिवसे बोधिसत्त्वस्य (PSP_४:१७९) महासत्त्वस्य प्रज्ञापारमिताभावनास्ति, तदा स्वप्नान्तरगतस्यापि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना भविष्यति. इति भवशान्त्योर् अकल्पना
SK
एवम् उक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् पुनर् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतः कर्म करोति, भवति तस्य कर्मण आचयो वा उपचयो वा, यथा स्वप्नोपमाः सर्वधर्मा उक्ता भगवता, तथा नास्य भवत्य् आचयो वा उपचयो वा. तत् कस्य हेतोः? न हि स्वप्ने कस्यचिद् धर्मस्याचवो वा उपचयो वा उपलभ्यते. अथ विबुद्धो विकल्पयिष्यति, भवति तस्याचयो वा उपचयो वा.
SK
अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यश् च दिवसं प्राणातिपातं कृतो, यश् च स्वप्नान्तरे हतस् तं प्रतिविबुधो विकल्पयति, अहो हतो मया हतः साधु हत इति, तत् कर्मायुष्मन् शारिपुत्र किम् आह?
SK
शारिपुत्र आह: नायुष्मन् सुभूते अनारम्बणकर्मोत्पद्यते सारम्बणम् एव कर्मोत्पद्यते.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र नानारम्बणं कर्मोत्पद्यते नानारम्बणं चेतनोत्पद्यते सारम्बणम् एवायुष्मन् शारिपुत्र कर्मोत्पद्यते नानारम्बणं सारम्बणा चेतनोत्पद्यते नानारम्बणम्. दृष्टश्रुतमतविज्ञातैर् धर्मैर् बुद्धिः प्रवर्तते, नादृष्टैर् नाश्रुतैर् नामतैर् नाविज्ञातैर् धर्मैर् बुद्धिः प्रवर्तते. तत्र काचिद् बुद्धिः संक्लेशं परिगृह्णाति, काचिद् बुद्धिर् व्यवदानं परिगृह्णाति, तस्मात् तर्ह्य् आयुष्मन् शारिपुत्र सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं सारम्बणैव चेतनोत्पद्यते नानारम्बणा.
SK
शारिपुत्र आह: यद्य् आयुष्मन् सुभूते सर्वाणि कर्माणि सर्वाश् चेतना विविक्ता उक्ता भगवता, तत् कथं सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं, सारम्बणैव चेतनोत्पद्यते नानारम्बणा?
SK
सुभूतिर् आह: निमित्तीकृत्यायुष्मन् शारिपुत्र सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं, सारम्बणैव चेतनोत्पद्यते नानारम्बणा.
SK
अथ खल्व् आयुष्मान् शारिपुत्रः सुभूतिं स्थविरम् एतद् अवोचत्: यद्य् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो दानं दद्याच् छीलं रक्षेत् क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानं (PSP_४:१८०) समापद्येत प्रज्ञां भावयेत्, तच् च कुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयेत् परिणामितं भवत्य् अनुत्तरायै सम्यक्संबोधये.
SK
अथ खल्व् आयुष्मान् सुभूतिः स्थविर आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: अयम् आयुष्मन् शारिपुत्र मैत्रेयो बोधिसत्त्वो महासत्त्वः संमुखीभूत एकजातिप्रतिबद्धो भगवताविनिवर्तनीयतायै व्याकृत एष परिप्रष्टव्य एष विसर्जयिष्यति.
SK
अथ खल्व् आयुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: अयं सुभूति स्थविर एवम् आह, अयं मैत्रेयो बोधिसत्त्वो महासत्त्वः संमुखीभूत एकजातिप्रतिबद्धो भगवतो ऽविनिवर्तनीयतायै व्याकृत एष परिप्रष्टव्य एष विसर्जयिष्यतीति.
SK
एवम् उक्ते मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं नामधेयं मैत्रेयो बोधिसत्त्वो महासत्त्वो विसर्जयिष्यत्य्, उताहो रूपं विसर्जयिष्यति, वेदना संज्ञा संस्कारा, विज्ञानं विसर्जयिष्यति? या रूपस्य शून्यता सा विसर्जयिष्यति, या वेदनाशून्यता या संज्ञाशून्यता या संस्कारशून्यता, या विज्ञानशून्यता सा विसर्जयिष्यति? या च रूपस्य शून्यता न सा प्रतिबला विसर्जयितुं, या वेदनायाः शून्यता या संज्ञायाः शून्यता या संस्काराणां शून्यता या विज्ञानस्य शून्यता न सा प्रतिबला विसर्जयितुम्? तत् किं विसर्जयिष्यति नाहं तं धर्मं समनुपश्यामि, यो धर्मो विसर्जयिष्यति, यं विसर्जयिष्यति, यत्र वा विसर्जयिष्यति? तम् अप्य् अहं धर्मं न समनुपश्यामि, यो धर्मो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, येन व्याकृतो, यत्र वा व्याकृतस्, तम् अप्य् अहं धर्मं न समनुपश्यामि सर्व एते धर्मा अद्वया अद्वैधीकाराः.
SK
अथ खल्व् आयुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: कश्चित् त्वया मैत्रेय एते धर्मा एवं साक्षात्कृता यथैतान् धर्मान् भाषसे?
SK
मैत्रेय आह: न मयैते धर्मा एवं साक्षात्कृता यथाहम् एतान् धर्मान् भाषे.
SK
अथ खल्व् आयुष्मतः शारिपुत्रस्यैतद् अभवत्: गम्भीरप्रज्ञो बतायं मैत्रेयो बोधिसत्त्वो महासत्त्वो यथापि नाम दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिताविन एष निर्देशो ऽनुपलम्भो ऽनुपलम्भचरितस्य. (PSP_४:१८१)
SK
अथ खलु भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? शारिपुत्र समनुपश्यसि त्वं तं धर्मं येन त्वं धर्मेणार्हन्न् इति प्रभाव्यसे.
SK
शारिपुत्र आह: नो हीदं भगवन्.
SK
भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्य्, अयं धर्मो व्याकरिष्यत्य् अयं धर्मो व्याक्रियते अयं धर्मो व्याकृतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. एवञ् चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरति, न चास्य विचिकित्सोत्पद्यते, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये ऽहम् अनुत्तरां सम्यक्संबोधिं, यः शारिपुत्र बोधिसत्त्वो महासत्त्व एवं चरति स चरति प्रज्ञापारमितायाम्. एवञ् चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये ऽहम् अनुत्तरां सम्यक्संबोधिम्. इति चोद्यपरंपरेत्य् उक्ता भवशान्तिसमता
SK
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायाञ् चरता जिघत्सितान् सत्त्वान् दृष्ट्वा पिपासितान् दुर्निवसितान् दुःप्रावृतान् शयनासनविहीनांश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा दानपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैषां सत्त्वानाम् अमी दोषाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञाप्स्यन्ते. यथापि तच् चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मपार्षद्यानां ब्रह्मपुरोहितानां महाब्रह्मणां परीत्ताभानाम् अप्रमाणाभानां आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् अनभ्रकानां पुण्यप्रसवानां वृहत्फलानां शुद्धावासानां सुदृशानां सुदर्शनानाम् अस्पृहानाम् अतपानाम् अकनिष्ठानां देवानाम् उपभोगपरिभोगाय, एवंविधास् तस्मिन् बुद्धक्षेत्रे सत्त्वानाम् उपभोगपरिभोगा भविष्यन्ति. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन शीलपारमितायां चरता प्राणातिपातिकान् सत्त्वान् दृष्ट्वा अदत्तादायिकान् काममिथ्याचारिकान् मृषावादिकान् पारुषिकान् पिशुनवचनान् प्रलापान् अभिध्यालुकान् व्यापन्नचित्तानि (PSP_४:१८२) मिथ्यादृष्टिकान् अल्पायुष्कान् बह्वाबाधान् बह्वायासान् दुर्वर्णान् अल्पेशाख्यान् अल्पभोगान् नीचकुलान् निहीनवृत्तीन् अङ्गविहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा शीलपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितां परिपूरयत्य् अनुत्तरायाः सम्यक्संबोधेर् अभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितायां चरतान्योन्यव्यापादबहुलचित्तान् सत्त्वान् दृष्ट्वा लोष्टताडनशस्त्रप्रहारांश् च ददतो जीवितांश् च व्यवरोपयतो दण्डादण्डि मुषलामुषलि केशाकेशि कचाकचि कुर्वतश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा क्षान्तिपारमितायाञ् चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. सर्वसत्त्वाश् च मातृसमचित्ता भविष्यन्ति, पितृसमचित्ताश् च भविष्यन्ति, भ्रातृसमचित्ताश् च भविष्यन्ति, भगिनीसमचित्ताश् च भविष्यन्ति, पुत्रदुहितृसमचित्ताश् च भविष्यन्ति, मैत्रचित्ता भविष्यन्ति. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भविष्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन वीर्यपारमितायाञ् चरता हीनवीर्यान् सत्त्वान् दृष्ट्वा कुशीदान् अलसान् निरुद्योगान् अल्पसत्त्वांस् त्रिभिर् यानैः प्रस्थितान् श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बोधिसत्त्वयानेन वा सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा वीर्यपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितां, परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन ध्यानपारमितायां चरता सत्त्वान् पञ्चसु निवरणेषु प्रवर्तमानान् दृष्ट्वा कामच्छन्दे व्यापादे स्त्यानमिद्धे उद्धतकौकृत्ये विचिकित्सायां निवरणेषु (PSP_४:१८३) प्रवर्तमानान् सत्त्वान् मूढान् मूढस्मृतीन् प्रथमध्यानविरहितान् द्वितीयध्यानविरहितांस् तृतीयध्यानविरहितांश् चतुर्थध्यानविरहितान् मैत्रीकरुणामुदितोपेक्षाविरहितान् आकाशानन्त्यायतनसमापत्त्या विज्ञानानन्त्यायतनसमापत्त्या आकिञ्चन्यियतनसमापत्त्या नैवसंज्ञानासंज्ञायतनसमापत्त्या विहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा ध्यानपारमितायां चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता दुःप्रज्ञान् प्रज्ञापरिहीणान् सत्त्वान् दृष्ट्वा लौकिकलोकोत्तरया सम्यग्दृष्ट्या विहीनान् अक्रियावादिनो नास्तिकवादान् उच्छेदवादान् शाश्वतवादान् एकत्वान्यत्वोभयत्ववादांश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं तथा तथा प्रज्ञापारमितायाञ् चरिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे तेषां सत्त्वानाम् अमी दोषाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता त्रिषु राशिषु वर्तमानान् सत्त्वान् दृष्ट्वा नियतानियतमिथ्यात्वनियतान् एवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्सेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे नियतानियतमिथ्यात्वनियतानां सत्त्वानाम् अन्तशः शब्दो ऽपि न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता नैरयिकान् सत्त्वान् तैर्यग्योनिकान् सत्त्वान् यामलौकिकान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे त्रयाणाम् अपायानाम् अन्तशः शब्दो ऽपि न भविष्यति न प्रज्ञास्यते. (PSP_४:१८४)
SK
एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता इमान् महापृथिवीस्थाणुकण्टकगहनप्राग्भारप्रपातस्यन्दनिकागूथोडिगल्लान् परिपूर्णान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् एते दोषा न भविष्यन्ति न प्रज्ञास्यन्ते, तच् च मे बुद्धक्षेत्रं समपाणितलजातं भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता इमां महापृथिवीं मृत्तिकामयीं दृष्ट्वा अपगतजातरूपरजताम् एवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे इयं महापृथिवी सुवर्णवालुकाच्छन्ना भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सत्त्वान् ममकारपरिग्रहवर्तमानान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानां ममकारपरिग्रहो न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता चतुरो वर्णान् दृष्ट्वा क्षत्रियान् ब्रह्मणान् वैश्याञ् शूद्रान् एवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे चतुर्णां वर्णानाम् अन्तशः शब्दो न भविष्यति न प्रज्ञास्यते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् (PSP_४:१८५) चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां हीनोत्कृष्टमध्यमतान् दृष्ट्वा हीनकुलीनतां मध्यकुलीनतां चोत्कृष्टकुलीनतां च सत्त्वानां दृष्ट्वैवम् उपपरीक्षितव्यं तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां वर्णनानात्वं दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानां वर्णनानात्वं न भविष्यति न प्रज्ञास्यते, अन्यत्र सर्वसत्त्वा अभिरूपा भविष्यन्ति प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागताः. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता अधिपतिं दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽधिपतिप्रज्ञप्तिर् अपि न भविष्यति न प्रज्ञास्यते. अन्यत्र धर्मराजेन तथागतेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेन. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां गतिसंभेदं दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि सत्त्वंश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे सत्त्वानां गतिसंभेदो न भविष्यति न प्रज्ञास्यते, नरकतिर्यग्योनियमलोकदेवमनुष्या अन्यत्र सर्वसत्त्वा एककर्माणो (PSP_४:१८६) भविष्यन्ति, चतुर्भिः स्मृत्युपस्थानैर् अविरहिताः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गैर् आर्याष्टाङ्गिकेन मार्गेणाप्रमाणध्यानारूप्यसमापत्तिभिर् आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैर् अष्टभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् अभिज्ञाभिर् यावच् चतसृभिः प्रतिसंविद्भिर्. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता चतस्रो योनीः सत्त्वानां दृष्ट्वाण्डजां जरायुजां संस्वेदजाम् औपपादुकां दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तिस्रो योनयः सत्त्वानां न भविष्यन्ति न प्रज्ञास्यन्ते, अण्डजा जरायुजा संस्वेदजा अन्यत्र सर्वसत्त्वा औपपादुका भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् पञ्चाभिज्ञाभिर् विरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वाः पञ्चाभिज्ञा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सर्वसत्त्वानाम् उच्चारप्रस्रावादीन् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वा धर्मप्रीतिध्यानाहारा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् प्रभाविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य (PSP_४:१८७) तत्र बुद्धक्षेत्रे सर्वसत्त्वाः स्वयंप्रभा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकिरज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वानां रात्रिदिवसमासार्धमाससंवत्सरान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे सत्त्वानां रात्रिदिवसमासार्धमाससंवत्सराणां शब्दो न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतायूर्विहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वा अपरिमितायुषो भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् लक्षणविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वा द्वात्रिंशद्भिर् महापुरुषलक्षणैः समन्वागता भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता सत्त्वान् कुशलमूलविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वाः कुशलमूलसमन्वागता भविष्यन्ति, यैः कुशलमूलैः समन्वागता बुद्धान् भगवत उपस्थास्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति, सर्वाकारज्ञतायाश् चाभ्यासी भवति. (PSP_४:१८८)
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता रोगस्पृष्टान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानां चत्वारो व्याधयो न भविष्यन्ति न प्रज्ञास्यन्ते. कतमे चत्वारो? वातिका वा पैत्तिका वा श्लेष्मिका वा सांनिपातिका वा. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता त्रिभिः क्लेशैः क्लिष्टान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे त्रयः क्लेशा न भविष्यन्ति न प्रज्ञास्यन्ते. कतमाः त्रयो? रागो द्वेषो मोहः. सर्वसत्त्वाश् च विगतरागा भविष्यन्ति विगतद्वेषा विगतमोहा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता हीनाधिमुक्तिकान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे द्वयोर् यानयोः शब्दो न भविष्यति न प्रज्ञास्यते, श्रावकयानस्य वा प्रत्येकबुद्धयानस्य वा, अन्यत्र सर्वसत्त्वाः सर्वाकारज्ञतायाम् अभिसंप्रस्थिता भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरताभिमानिकान् सत्त्वान् दृष्ट्वैवम् उपपरिक्षितव्यं, तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽभिमानिकानां सत्त्वानां शब्दो ऽपि न भविष्यति न प्रज्ञास्यते, अन्यत्र सर्वसत्त्वा निरभिमाना भविष्यन्ति. एवं चरन् (PSP_४:१८९) सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः पिरिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवं चित्तम् उत्पादयितव्यं, नाहं तावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, सचेत् मे तत्र बुद्धक्षेत्रे मितम् आयुःप्रमाणं स्याद् मिता च प्रभा, मितश् च भिक्षुसंघः, अपि तु खलु तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे अमितम् आयुःप्रमाणं भविष्यति, अमिता च प्रभा, अमितश् च भिक्षुसंघो भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवम् उपपरीक्षितव्यं, यावन्ति गङ्गानदीवालुकासमानि बुद्धक्षेत्राणि तावन्ति ममैकं बुद्धक्षेत्रं यावन् न भवेन् न तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, ऽपि तु खलु तथा तथा षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य यावन्ति गङ्गानदीवालुकासमानि बुद्धक्षेत्राणि भवन्ति ममैकं बुद्धक्षेत्रं भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवम् उपपरीक्षितव्यं, दीर्घो बतायं संसारो, बहुर् अयं सत्त्वधातुस् तेनैवं योनिशो मनसिकर्तव्यम्, आकाशपर्यन्तो बतायं संसार, आकाशपर्यन्तो बतायं सत्त्वधातुर्, न चेह कश्चित् संसरिष्यति, न च कश्चित् परिनिर्वास्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः षट् पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति.
SK
अथ खलु तस्यां पर्षदि गङ्गदेवा नाम भगिनी संनिपतिताभुत् संनिषण्णा, सोत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा दक्षिणं जामुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य (PSP_४:१९०) भगवन्तम् एतद् अवोचत्: अहं भगवन्न् अहं सुगत षट्सु पारमितासु चरित्वैवंरूपं बुद्धक्षेत्रं परिगृहीष्ये यथा तथागतेनार्हता सम्यक्संबुद्धेनेह प्रज्ञापारमितायाम् उपदिष्टम्.
SK
अथ खलु सा स्त्री सुवर्णपुष्पं गृहीत्वा, रूप्यपुष्पं च गृहीत्वा, जलजानि स्थलजानि च पुष्पाणि गृहीत्वा, सर्वाणि चाभरणानि गृहीत्वा, सुवर्णवर्णपीतवर्णं च पुष्पयुगं गृहीत्वा येन भगवांस् तेन क्षिपति स्म. समनन्तरक्षिप्तं च तद् दूष्ययुगम् अथ तावद् एव बुद्धानुभावेनोपरि वैहायसम् अन्तरीक्षे भगवतो मूर्ध्नि संधौ कूटागारम् अस्थात्, चतुरस्रं चतुःस्थूणं समं भागशो घटितं सुविभक्तं रमणीयं.
SK
अथ खलु सा स्त्रीस् तत्कूटागारं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति.
SK
अथ खलु भगवांस् तस्याः स्त्रिया अध्याशयं विदित्वा तस्यां वेलायां स्मितं प्रादुरकरोत्, धर्मता खलु पुनर् एषा बुद्धानां भगवतां यदा स्मितं प्रादुः कुर्वन्ति.
SK
अथ खलु तावद् एवानेकवर्णा नानावर्णा अर्चिषो भगवतो मुखद्वाराद् निश्चरन्ति स्म. तद्यथापि नाम नीलाः पीता लोहिता अवदाता माञ्जिष्ठाः स्फटिकरजतवर्णास् तान् अनन्तापर्यन्तान् लोकधातून् गत्वा पुनर् एवागत्य भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतो मूर्ध्न्य् अन्तर्हिताः.
SK
अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं चीवरं प्रवरित्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययः? स्मितस्य प्रादुष्करणाय नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं आनन्दम् एतद् अवोचत्: इयम् आनन्द गङ्गदेवा भगिनी अनागते ऽध्वनि सुवर्णपुष्पो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति तारकोपमे कल्पे ऽयम् आनन्द एतस्या गङ्गदेवाया भगिन्याश् चरमः स्त्रीभावो भविष्यति. इयम् आनन्द गङ्गदेवा भगिनी स्त्रीभावं विवर्ज्य पुरुषभावं प्रतिलभ्याक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे उपपत्स्यते अभिरत्यां लोकधातौ, स तत्र ब्रह्मचर्यं चरिष्यति. अस्य खलु पुनर् आनन्द बोधिसत्त्वस्य महासत्त्वस्य सुवर्णपुष्प इति नामधेयं (PSP_४:१९१) भविष्यति. स खलु पुनर् आनन्द सुवर्णपुष्पो बोधिसत्त्वो महासत्त्वस् ततश् च्युतः समानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, अविरहितश् च बुद्धैर् भगवद्भिर् भविष्यति, तद्यथापि नां आनन्द राजा चक्रवर्ती प्रासादेन प्रासादं चङ्क्रामति, स यावज्जीवं पादतलाभ्यां धरणीं नाक्रामति यावन् मरणकालम् इति. एवम् एवानन्द सुवर्णपुष्पो बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति.
SK
अथ खल्व् आयुष्मत आनन्दस्यैतद् अभवत्: यावन्तो बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्सेत्रे संनिपतिता भविष्यन्ति, तथागतसंनिपातः स वेदितव्यः.
SK
अथ खलु भगवान् आयुष्मत आनन्दस्य चेतसा चेतःपरिवितर्कम् आज्ञायायुष्मन्तम् आनन्दम् एतद् अवोचत्: एवम् एतद् आनन्द यथा वदसि, तथागतसंनिपातः स वेदितव्यो बोधिसत्त्वानां महासत्त्वानां यः संनिपातः सुवर्णपुष्पस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्सेत्रे न प्रमाणबद्धो भिक्षुसंघो भविष्यति, न शक्यं तस्य भिक्षुसंघस्य प्रमाणं कर्तुम्, इयन्तो वा श्रावका, इयन्ति वा श्रावकशतानि, इयन्ति वा श्रावकसहस्राणि, इयन्ति वा श्रावकशतसहस्राणि, इयत्यो वा श्रावककोट्य, इयन्ति वा श्रावककोटीशतानि, इयन्ति वा श्रावककोटीशतसहस्राणि, इयन्ति वा श्रावककोटिनियुतशतसहस्राणि, अन्यत्रासंख्येयाप्रमेयापरिमाणानि श्रावककोटीनियुतशतसहस्राणि भविष्यन्ति. सुवर्णपुष्पस्य खलु पुनर् आनन्द तथागतस्यार्हतः सम्यक्संबुद्धस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्र इमे दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते, य इह प्रज्ञापारमितायां परिकीर्तिताः.
SK
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: क्व भगवन्न् एतया गङ्गदेवया कुशलमूलम् अवरोपितम्?
SK
भगवान् आह: दीपङ्करस्यानन्द तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके एतया भगिन्या कुशलमूलम् अवरोपितम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं, तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामितं, स च दीपङ्करस् तथागतो ऽर्हन् सम्यक्संबुद्धः सुवर्णपुष्पैर् अभ्यवकीर्णो ऽनुत्तरां सम्यक्संबोधिं प्रार्थयमानया, यदा मया आनन्द दीपंकरस् तथागतो ऽर्हन् सम्यक्संबुद्धः पञ्चभिर् (PSP_४:१९२) उत्पलैर् अवकीर्णो ऽनुत्तरां सम्यक्संबोधिं प्रार्थयमानेन, तदाहं तेन दीपंकरेण भगवता तथागतेनार्हता सम्यक्संबुद्धेन कुशलमूलसमन्वागतो ऽयम् इति विदित्वा व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ भविष्यसि त्वम् अनागते ऽध्वनि साक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्यानाञ् च बुद्धो भगवांस् तदा ममैतया भगिन्या व्याकरणं श्रुत्वा एवं चित्तम् उत्पादितम्, अहो बताहम् अप्य् अनागते ऽध्वनि एवं व्याक्रियेयम् अनुत्तरायां सम्यक्संबोधौ, यथायं माणवको व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ. एवम् आनन्दैतया भगिन्या तस्य दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके प्रथमं चित्तम् अनुत्तरायै सम्यक्संबोधये समुत्पादितम्.
SK
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: कृतपरिकर्मा भगवन्न् इयं गङ्गदेवा भगिन्य् अनुत्तरायै सम्यक्संबोधये.
SK
भगवान् आह: एवम् एतद् आनन्द एवम् एतत्, यथा वदसि, कृतपरिकर्मा आनन्दैषा गङ्गदेवा भगिन्य् अनुत्तरायै सम्यक्संबोधये. इत्य् उक्ता क्षेत्रशुद्धिर् अनुत्तरा
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रज्ञापारमितायां भगवंश् चरता बोधिसत्त्वेन महासत्त्वेन कथं शून्यतायां परिजयः कर्तव्यः? कथं शून्यता भावयितव्या? कथम् आनिमित्ते परिजयः? कथम् आनिमित्तं भावयितव्यम्? कथम् अप्रणिहिते परिजयः कर्तव्यः? कथम् अप्रणिहितं भावयितव्यं? यावत् कथं बोधिपक्षेषु धर्मेषु परिजयः कर्तव्यः? कथं बोधिपक्ष्या धर्मा भावयितव्याः? इत्य् उपायकौशलविषयः
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यम् इति प्रत्यवेक्षितव्यम्, एवं वेदना संज्ञा संस्कारा, विज्ञानं शून्यम् इति प्रत्यवेक्षितव्यम्, एवं स्कन्धधात्वायतनानि शून्यानीति प्रत्यवेक्षितव्यानि, प्रतीत्यसमुत्पादः शून्य इति प्रत्यवेक्षितव्यः, प्रतीत्यसमुत्पादाङ्गानि शून्यानीति प्रत्यवेक्षितव्यानि, एवं यावत् कामधातुः शून्य इति प्रत्यवेक्षितव्यः, रूपधातुः शून्य इति प्रत्यवेक्षितव्यः, आरूप्यधातुः शून्य इति प्रत्यवेक्षितव्यः. तथा च प्रत्यवेक्षितव्यं, यथा प्रत्यवेक्षमाणस् तच् चित्तं न विक्षिपति, सो ऽविक्षिप्तचित्तस् तं धर्मं न समनुपश्यति, यो धर्मः साक्षात्क्रियेत, स तं धर्मम् (PSP_४:१९३) असमनुपश्यन् न साक्षात्करोति. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यैर् धर्मैः सुशिक्षितो न कस्यचिद् धर्मस्य व्यवच्छेदं करोति, यो वा साक्षात्कुर्याद्, यं वा साक्षात्कुर्याद्, येन वा साक्षात्कुर्यात्, सर्वांस् तान् धर्मान् न संयुक्तान् न विसंयुक्तान् समनुपश्यति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, न बोधिसत्त्वेन महासत्त्वेन शून्या धर्माः साक्षात्कर्तव्या इति. कथं भगवन् बोधिसत्त्वो महासत्त्वः शून्यतायां स्थितः शून्यतां न साक्षात्करोति?
SK
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारवरोपेतां शून्यतां प्रत्यवेक्षते, न च साक्षात्करिष्यामीति प्रत्यवेक्षते, न च साक्षात्कर्तव्येति प्रत्यवेक्षते, परिजयं करिष्यामीति प्रत्यवेक्षते, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते परिजयस्यायं कालो नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते. असमाहित एव बोधिसत्त्वो महासत्त्व आरंबणे चित्तम् उपनिबध्नाति, अत्रान्तरे बोधिसत्त्वो महासत्त्वो न परिहीयते बोधिपक्षैर् धर्मैर्, न चास्रवक्षयं साक्षात्करोति. तत् कस्य हेतोः? एवम् उदारज्ञानसमन्वागतो बोधिसत्त्वो महासत्त्वो भविष्यति. तत् कस्य हेतोः? यो बोधिपक्ष्येषु धर्मेषु स्थित एवं जानाति परिजयस्यायं कालो नायं कालः साक्षात्क्रियाया इति.
SK
तेन खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं प्रत्यवेक्षितव्यं, दानपारमिताया अयं कालः, शीलपारमिताया अयं कालः, क्षान्तिपारमिताया अयं कालः, वीर्यपारमिताया अयं कालः, ध्यानपारमिताया अयं कालः, प्रज्ञापारमिताया अयं कालः, स्मृत्युपस्थानस्य भावनाया अयं कालः, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य भावनाया अयं कालः, शून्यतानिमित्ताप्रणिहितभावनाया अयं कालः, अध्यात्मशून्यताया अयं कालो बहिर्धाशून्यताया अयं कालो ऽध्यात्मबहिर्धाशून्यताया अयं कालो यावद् अभावस्वभावशून्यताया अयं कालः, अप्रमाणध्यानारूप्यसमापत्तिभावनाया अयं काल, आर्यसत्यभावनाया अयं कालः, पञ्चानाम् अभिज्ञानां भावनाया अयं कालो, विमोक्षसमाधिसमापत्तिधारणीमुखभावनाया अयं कालः, दशानां तथागतबलानां प्रतिलाभायायं कालश्, चतुर्णां वैशारद्यानां प्रतिलाभायायं कालः प्रतिसंवित्प्रतिलाभायायं कालो, (PSP_४:१९४) अष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिपूरणायायं कालो, महामैत्र्या महाकरुणायाः प्रतिलाभायायं कालो, नायं कालः स्रोतःआपत्तिफलसाक्षात्क्रियायै, नायं कालः सकृदागामिफलसाक्षात्क्रियायै, नायं कालो नागामिफलसाक्षात्क्रियायै, नायं कालो ऽर्हत्त्वफलसाक्षात्क्रियायै नायं कालः प्रत्येकबुद्धज्ञानसाक्षात्क्रियायै, सर्वाकारज्ञतायाः प्रतिलाभायायं कालः.
SK
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शून्यतायां च परिजयं करोति, शून्यतया च विहरत्य्, आनिमित्ते च परिजयं करोति, आनिमित्तेन च विहरत्य्, अप्रणिहिते च परिजयं करोति, अप्रणिहितेन च विहरति. स्मृत्युपस्थानानि च भावयति स्मृत्युपस्थानैश् च विहरति न च साक्षात्करोति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आर्याष्टाङ्गिकं च मार्गञ् च भावयत्य् आर्याष्टाङ्गिकेन च मार्गेण विहरति न च साक्षात्करोति.
SK
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बोधिपक्ष्येषु धर्मेषु परिजयं करोति, बोधिपक्ष्यांश् च धर्मान् भावयति बोधिपक्ष्यैश् च धर्मैर् विहरति, न च स्रोतआपत्तिफलं साक्षात्करोति न च सकृदागामिफलन् न चानागामिफलन् नार्हत्त्वफलं साक्षात्करोति. इत्य् उपायकौशलप्रयोगः
SK
तद्यथापि नाम सुभूते कश्चिद् एव पुरुषः शूरश् च भवेद्, वीरश् च भवेद्, दृढप्रतिष्ठानश् च भवेद्, अभिरूपश् च भवेत्, प्रासादिकश् च भवेद्, दर्शनीयश् च भवेत्, परमशुभवर्णपुष्करतया समन्वागतश् च भवेद्, इष्वस्त्रे च परमां गतिंगतो भवेद्, दृढानि चानेन प्रहरणानि गृहीतानि भवेयुः, सर्वासु च चतुःषष्ठिषु कलासु परिनिष्पन्नो भवेत्, सर्वत्र च शिल्पस्थानेषु च कर्मस्थानेषु च गतिंगतो भवेत्, बहुजनस्य च प्रियो मनआपो भवेत्, स यां याम् एव च कांश्चित् क्रियाम् आरभेत सर्वत्र तत्र तत्र च लाभसत्कारसमन्वागतो भवेत्, तेन च बहुजनं सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत्, स भूयस्या मात्रया आत्तमनस्को भवेत् प्रमुदितः प्रीतिसौमनस्यजातः स मातापितृपुत्रदारान् गृहीत्वा केनचिद् एव करणीयेन महाभयभैरवम् अटवीकान्तारं प्रविष्टस् स्याद् बालानां भीषणकं स रोमहर्षणं, तत्र च स पुरुषः प्रविश्य तान् मातापितृपुत्रदारान् (PSP_४:१९५) अभयेनाभिनिमन्त्रयेन्, मा भैष्ट मा भैष्टाहं युष्मान् इतो महाभयभैरवाद् अटवीकान्ताराद् बालानां भीषणात् स रोमहर्षणाच् छीघ्रम् एवापक्रामयिष्यामि शीघ्रम् एव परिमोचयिष्यामि. तस्य च पुरुषस्य तत्राटवीकान्तारे बहवो ऽमित्रा वधकाः प्रत्यर्थिकाः प्रत्यमित्राः प्रत्युपस्थिता भवेयुः, स च पुरुषः परमेण प्रज्ञाबलेन समन्वागतो भवेत्, स तान् परिमोचयित्वा मातापितृपुत्रदारांस् तस्माद् अटवीकान्तारान् निष्काशयित्वा पुनर् एव ग्रामं वा नगरं वा निगमं वा जनपदं वा जनप्रदेशं वा गत्वा प्रीतिसौमनस्य जातो विहरेद् अक्षतो ऽनुपहतो, न च तेषां सत्त्वानाम् अन्तिके प्रत्यर्थिकानां प्रत्यमित्राणां वा मनः प्रदुषयेत्. तत् कस्य हेतोः? तथा हि स कृतयोग्यः सर्वासु च कलासु भवेत्, तेन तत्राटवीकान्तारे बहुतराश् च शूरतराश् च दृढप्रहरणतराश् च तेषां प्रत्यर्थिकानां प्रत्यमित्राणाम् अन्ये उदारतराः प्रत्यर्थिकाः प्रत्यमित्रा अभिनिर्मिता भवेयुः, ते तेन भयेन सर्वे ऽपगता भवेयुः. अथ स पुरुषस् तान् मातापितृपुत्रदारान् स्वस्तिना परिमोचयित्वा सुखं विहरेत्.
SK
एवम् एव सुभूते यस्मिन् समये बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अन्तिके मैत्र्यारम्बणेन चित्तेन करुणामुदितोपेक्षारम्बणेन चित्तेन स्फारित्वा विहरत्य् अत्रान्तरे सुभूते बोधिसत्त्वो महासत्त्वो न चानिमित्तेन व्याह्रियते न चानिमित्तसमाधिं साक्षात्क्रियया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा प्रतिष्ठेत्. इत्य् अन्तरायिकधर्मसमतिक्रमणोपायः
SK
तद्यथापि नाम सुभूते पक्षी शकुनिर् अन्तरीक्षे चरति न च भूमौ पतति, आकाशे वान्तरीक्षे विहरति न च तत्र तिष्ठति न प्रतिष्ठते. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः शून्यतायां च परिजयं करोति शून्यतया च विहरति, आनिमित्ते च परिजयं करोत्य् आनिमित्तेन च विहरत्य्, अप्रणिहिते च परिजयं करोत्य् अप्रणिहितेन च विहरति, न च शून्यतां वानिमित्तं वाप्रणिहितं वा साक्षात्करोति, यया साक्षात्क्रियया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतेद्, अपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया चापरिमाणेषु च बुद्धधर्मेषु चरित्वा सर्वाकारज्ञताम् अनुप्राप्नोति. इत्य् अप्रतिष्ठितविहारोपायः (PSP_४:१९६)
SK
तद्यथापि नाम सुभूते बलवान् इष्वस्त्राचार्यो भवेद् इष्वस्त्रशिक्षायां सुशिक्षितः स काण्डम् ऊर्ध्वमुखं क्षिप्त्वा तदन्यैः काण्डैस् तस्य पूर्वकस्य काण्डस्य परंपरया पृथिव्यां पतनं न दद्यात् तावत् काण्डं पृथिव्यां न पतति यावत् स पुरुष आकाङ्क्षेत्. अथ खल्व् एतत् काण्डं पृथिव्यां निपतेत्, स पश्चिमं काण्डम् ऊर्ध्वमुखं नाक्षिपेद्, एवं सा काण्डपरंपरा पृथिव्यां निपतेत्.
SK
एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन परिगृहीतस् तावत् तां परमां भूतकोटिं न साक्षात्करोति यावन् न तानि कुशलमूलानि परिपक्वानि भवन्त्य् अनुत्तरायां सम्यक्संबोधौ, यदा तानि कुशलमूलानि परिपक्वानि भवन्त्य् अनुत्तरायां सम्यक्संबोधौ तदा तां परमां भूतकोटिं साक्षात्करोति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवम् एतेषां धर्माणां धर्मतोपनिध्यातव्या उपपरीक्षितव्याः. इति प्रणिधानावेधानुवृत्त्युपायः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो य इह धर्मतायां शिक्षते भूतकोट्यां शिक्षते धर्मधातौ शिक्षते अत्यन्तशून्यतायां शिक्षते यावत् स्वलक्षणशून्यतायां शिक्षते यावत् त्रिषु विमोक्षमुखेषु शिक्षते, न चान्तरेण व्यवसादम् आपद्यते ऽनुत्तरायां सम्यक्संबोधौ, आश्चर्यं भगवन्न् आश्चर्यं सुगत.
SK
भगवान् आह: तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वा अपरित्यक्ताः. यस्य सुभूते सर्वसत्त्वा अपरित्यक्तास् तस्यैवंरूपः प्रणिधानविशेषो भवति, यः सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् अभिनिर्हरति, सर्वसत्त्वा मयापरित्यक्ता मयैते परिमोचयितव्याः, असंविद्यमानैर् धर्मैर् वर्तमानाः शान्तं शून्यतासमाधिविमोक्षमुखम् अभिनिर्हरत्य्, आनिमित्तं समाधिविमोक्षमुखम् अभिनिर्हरत्य्, अप्रणिहितं समाधिविमोक्षमुखम् अभिनिर्हरत्य्, उपायकौशल्यसमन्वागतः स बोधिसत्त्वो महासत्त्वस् तस्मिन् समये वेदितव्यो, न चान्तरा भूतकोटिं साक्षात्करोति यावन् न सर्वाकारज्ञताम् अनुप्राप्नोति. इत्य् असाधारणोपायः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यानीमानि गम्भीराणि स्थानानि प्रत्यवेक्षितुकामो भवति, तद्यथेदम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां (PSP_४:१९७) चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि आर्याष्टाङ्गिकमार्गं त्रीणि विमोक्षमुखानि, तेनैवं चित्तोत्पादो ऽभिनिर्हर्तव्यो, दीर्घरात्रम् इमे सत्त्वा आत्मसंज्ञायां सत्त्वसंज्ञायां जीवसंज्ञायां जन्तुसंज्ञायां पोषसंज्ञायां पुरुषसंज्ञायां पुद्गलसंज्ञायां मनुजसंज्ञायां मानवसंज्ञायां कारकसंज्ञायां वेदकसंज्ञायां जानकसंज्ञायां पश्यकसंज्ञयाम् उपलम्भे चरन्ति, तेषाम् उपलम्भदृष्टिप्रहाणायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यामि. यस्मिन् समये बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखं भावयत्य्, आनिमित्तं समाधिविमोक्षमुखं भावयत्य् अप्रणिहितं समाधिविमोक्षमुखं भावयति समापद्यते च न च भूतकोटीं साक्षात्करोति, यया साक्षात्क्रियया स्रोतआपत्तिफलं प्राप्नुयात्, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुयात्, प्रत्येकां बोधिं प्राप्नुयात्, तस्मिन् समये बोधिसत्त्वो महासत्त्वो न स्रोतआपत्तिफलम् अनुप्राप्नुयाद् न सकृदागामिफलन् नानागामिफलं नार्हत्त्वम् अनुप्राप्नुयात्, न प्रत्येकां बोधिम् अनुप्राप्नुयाद्, एवं चरन् बोधिसत्त्वो महासत्त्वो ऽनेन चित्तोत्पादेन एतैश् च कुशलमूलैः समन्वागतो नान्तरा भूतकोटिं साक्षात्करोति न च परिहीयते चतुर्भिर् अप्रमाणैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गिकेन मार्गेण शून्यतानिमित्ताप्रणिहितसमाधिभिर् अध्यात्मशून्यतया यावद् अभावस्वभावशून्यतया न परिहीयते, दानपारमितया न परिहीयते, शीलपारमितया न परिहीयते, क्षान्तिपारमितया न परिहीयते, वीर्यपारमितया न परिहीयते, ध्यानपारमितया न परिहीयते, प्रज्ञापारमितया न परिहीयते, आर्यसत्यैर् न परिहीयते, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैर् न परिहीयते पञ्चभिर् अभिज्ञाभिर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् न परिहीयते, अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् न परिहीयते, महामैत्र्या महाकरुणया न परिहीयते. एवं बोधिसत्त्वो महासत्त्वस् तस्मिन् समये सर्वबोधिपक्ष्यैर् धर्मैः समन्वागतो न च परिहीयते ततो यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो (PSP_४:१९८) विवर्धते शुक्लैर् धर्मैः, तीक्ष्णतमानि चास्येन्द्रियाणि भवन्ति यथा न श्रावकप्रत्येकबुद्धानाम्. इत्य् अशक्त्युपायः
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, दीर्घरात्रम् इमे सत्त्वाश् चतुर्भिर् विपर्यासैर् विपर्यस्तचित्ता नित्यसंज्ञायां सुखसंज्ञायां शुभसंज्ञायाम् आत्मसंज्ञायाञ् च तेषाम् अर्थाय बोधये चरिष्यामि, तथा चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यामि, यथानित्यम् इति दुःखम् इत्य् अशुभम् इति अनात्मीयम् इति वा समुदाचारो ऽपि न भविष्यति. सो ऽनेन चित्तोत्पादेन समन्वागत उपायकौशल्येन च प्रज्ञापारमितायां चरति, बुद्धधर्मसमाधिं समापद्यते ऽपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च शून्यतानिमित्ताप्रणिहितसमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वो महासत्त्वो भावयति समापद्यते च, न च भूतकोटिं साक्षात्करोति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, दीर्घरात्रम् इमे सत्त्वा उपलम्भचरता आत्मेति, सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यका इति, रूपम् इति वा वेदनेति वा संज्ञेति वा संस्कारा इति वा विज्ञानम् इति वा स्कन्धा इति वा धातव इति वा आयतनानीति वा प्रतीत्यसमुत्पादा इति वा प्रतीत्यसमुत्पादाङ्गानीति वा चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिस् तेषां तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सत्त्वानाम् एते उपलम्भदोषा न भविष्यन्ति, स इमैश् चित्तोत्पादैः समन्वागतो ऽनेन चोपायकौशल्येन प्रज्ञापारमितायां चरन् न भूतकोटीं साक्षात्करोत्य् अपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च शून्यतासमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य भावना परिपूरिं गच्छति. इत्य् अनुपलम्भोपायः
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, दीर्घरात्रम् इमे सत्त्वा निमित्तेन चरिताः स्त्रीनिमित्तेषु वा पुरुषनिमित्तेषु वा रूपनिमित्तेषु वा आरूप्यनिमित्तेषु (PSP_४:१९९) वा, तेषां सत्त्वानां तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, एषां सत्त्वानाम् इमे दोषा न भविष्यन्ति. स तेन चित्तोत्पादेन समन्वागतो ऽनेन चोपायकौशल्येन समन्वागतः प्रज्ञापारमितायां चरन् न चान्तरा भूतकोटीं साक्षात्करोत्य् अपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च तस्य तेन चित्तोत्पादेन समन्वागतस्यानिमित्तसमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य भावना परिपूरिं गच्छति. इत्य् आनिमित्तोपायः
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, दीर्घरात्रम् इमे सत्त्वाः प्रणिधानेन चरिता यद् उत शक्रत्वं ब्रह्मत्वं लोकपालत्वं चक्रवर्तित्वम् अभिलषन्ति रूपम् अभिलषन्ति एवं वेदनां संज्ञां संस्कारान्, विज्ञानम् अभिलषन्ति, तेषाम् अहम् अर्थायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य तथा धर्मं देशयिष्यामि यथैव ते सत्त्वानां प्रणिधानदोषा न भविष्यन्तीति. एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य एभिश् चित्तोत्पादैर् एभिश् च कुशलमूलैर् अनेन चोपायकौशल्येन प्रज्ञापारमितायां चरतः, अप्रणिहितसमाधिविमोक्षमुखं भावना परिपूरिं गच्छति, न च भूतकोटिं साक्षात्करोति, अपरिपूर्णैर् दशभिर् बलैर् वैशारद्यैः प्रतिसंविदावेणिकबुद्धधर्मैर् महामैत्र्या महाकरुणया च यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति, अस्थानैः सुभूते ऽनवकाशो यद् बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन्न् अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां चरंश् चतुर्षु स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु मार्गेषु चरन् शून्यतानिमित्ताप्रणिहितेषु चरन् दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां चरन् यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् परिजयं कुर्वाण, एवं ज्ञानधर्मसमन्वागतो ऽनभिसंस्कारे वा पतेत त्रैधातुकेन वा सार्धं संवसेन् नैतत् स्थानं विद्यते. इत्य् अप्रणिहितोपायः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एषु बोधिपाक्षिकेषु (PSP_४:२००) धर्मेषु चरन् परिजयं कुर्वाणः परिप्रष्टव्यः. कथं बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामो बोधिपक्ष्येषु धर्मेषु चरित्वा परिजयं कृत्वा न शून्यतां साक्षात्कुर्यात्, न च भूतकोटिं प्रतिसंविध्येन्, न स्रोतआपत्तिफलं वा सकृदागामिफलं वा नागामिफलं वार्हत्त्वं वा प्रत्येकां वा बोधिम् अनुप्राप्नुयात्? कथं शून्यताम् आनिमित्तम् अप्रणिहितम् अनभिसंस्कारम् अनुत्पादम् अभावं वा साक्षात्कुर्यात् प्रज्ञापारमितां च भावयेद्? इति.
SK
सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वैर् महासत्त्वैर् एवं परिपृच्छमान एवं व्याकुर्याच्, छूनय्ता चैव तेन मनसिकर्तव्या, आनिमित्तं चैव तेन मनसिकर्तव्यम्, अप्रणिहितं चैव तेन मनसिकर्तव्यम्, अनभिसंस्कारो ऽनुत्पादो भावश् चैव मनसिकर्तव्यो, न च सर्वसत्त्वाः परित्यक्तव्या इति. वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य परिजयं सूचयति तं व्याकरोति तं प्रभावयति.
SK
सचेत् पुनः सुभूते पृष्ट एवं व्याकुर्यान्, न तेन शून्यतायां परिजयं कर्तव्यं, नानिमित्ते नाप्रणिहिते नानभिसंस्कारे नानुत्पादे नाभावे न तेन बोधिपक्ष्यैर् धर्मैः परिजयः कर्तव्यो, न च सर्वसत्त्वाः समालम्बितव्या इति. वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् नायं बोधिसत्त्वो महासत्त्वो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य परिजयं तं न सूचयति तं न व्याकरोति तं न प्रभावयति, यः पुनर् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मं तं न सूचयति न व्याकरोति न भावयति, वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् अयं बोधिसत्त्वो महासत्त्वः परिजयं कृत्वा ततो भूमेर् अतिक्रान्तो याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयभूमिः. इत्य् अवैवर्तिकलिङ्गोपायः
SK
सुभूतिर् आह: स्यात् पुनर् भगवन् पर्यायो यद् अविनिवर्तनीयो बोधिसत्त्वो (PSP_४:२०१) महासत्त्वो भवेत्?
SK
भगवान् आह: स्यात् सुभूते यो बोधिसत्त्वो महासत्त्वः षट् पारमिताः श्रुत्वा वाश्रुत्वा वा एवं विसर्जयेद् यथाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, वेदितव्यस् तैर् बोधिसत्त्वैर् महासत्त्वैर् अविनिवर्तनीयो ऽयं बोधिसत्त्वो महासत्त्वः.
SK
सुभूतिर् आह: तेन हि भगवन् बहवो बोधिसत्त्वा महासत्त्वा बोधाय चरन्ति, अल्पकास् ते भगवन् बोधिसत्त्वा महासत्त्वा य एवं विसर्जयिष्यन्ति, यथाविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः परिकर्मभूमौ वा, अपरिकर्मभूमौ वा.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. तत् कस्य हेतोः? तथा हि सुभूते ऽल्पकास् ते बोधिसत्त्वा महासत्त्वा य एवं व्याकृता अविनिवर्तनीयायां ज्ञानभूमौ, ये पुनस् ते व्याकृता भविष्यन्ति त एवं विसर्जयिष्यन्ति, उत्तप्तकुशलमूलास् ते वेदितव्या बोधिसत्त्वा महासत्त्वा असंहार्याः सदेवमानुषासुरेण लोकेन. इत्य् अप्रमाणविषयोपायः इत्य् उक्तम् उपायकौशलम् इत्य् उक्तः सर्वाकाराभिसंबोधः
SK
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां सर्वाकाराभिसंबोधाधिकारस् तथतापरिवर्तश् चतुर्थः
SK
(PSP_५:१) पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता V
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सचेत् स्वप्नान्तरगतो ऽपि स्वप्नोपमांश् चैव सर्वधर्मान् व्यवलोकयति, प्रतिश्रुत्कोपमान् मरीच्युपमान् प्रतिभासोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च सर्वधर्मान् व्यवलोकयति न च साक्षात्करोति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति प्रथमं लिङ्गम्
SK
पुनर् अपरं सुभूते स्वप्नान्तरगतो ऽपि बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा त्रैधातुके वा न स्पृहयति न चित्तम् उत्पादयति नानुशंसयति, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति द्वितीयम्
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सचेत् स्वप्नान्तरगतस् तथागतम् अनेकशतपरिवारम् अनेकसहस्रपरिवारम् अनेकशतसहस्रपरिवारम् अनेककोटीनियुतशतसहस्रपरिवारं भिक्षुभिक्षुणीभिर् उपासकोपासिकाभिर् देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः परिवृतं पुरस्कृतं तथागतम् अर्हन्तं सम्यक्संबुद्धं धर्मं देशयन्तं पश्यति, स तं धर्मं श्रुत्वा तस्य धर्मस्यार्थम् आजनाति धर्मानुधर्मप्रतिपन्नो विहरति समयप्रतिपन्नो ऽनुधर्मचारी, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति तृतीयम्
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतः सचेत् तथागतं पश्येद् वैहायसम् अत्युद्गम्य भिक्षुसंघस्य धर्मं देशयन्तं द्वात्रिंशद्भिर् महापुरुषलक्षणैः समलंकृतं व्यामप्रभम् ऋद्धिप्रातिहार्यञ् च निदर्शयन्तन् निर्मितांश् च निर्मिण्वन्तन् तांश् चैव निर्मितान् अन्येषु लोकधातुषु बुद्धकृत्यं कुर्वतः, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयस्य लक्षणं वेदितव्यम्. इति चतुर्थम् (PSP_५:२)
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते ग्रामघाते वर्तमाने नगरघाते वर्तमाने ऽग्निदाहे वर्तमाने, व्याडमृगान् वा दृष्ट्वा तदन्यान् वा चण्डमृगजातीर् दृष्ट्वा पिपासितान् दृष्ट्वा बुभुक्सितान् दृष्ट्वा मातापितृमरणं वा दृष्ट्वा भ्रातृभगिनीमरणं वा दृष्ट्वा पुत्रदुहितृमरणं वा दृष्ट्वा मित्रामात्यज्ञातिसालोहितमरणं वा दृष्ट्वा न शोकभयभैरवसंत्रासम् उत्पादयति, ततश् च स्वप्नात् समनन्तरविबुद्धस्य समानस्यैवं भवति, स्वप्नोपमं सर्वम् इदं त्रैधातुकं, मयाप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य स्वप्नोपमं सर्वत्रैधातुकम् इति धर्मो देशयितव्यः, इदम् अपि सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति पञ्चमम्
SK
पुनर् अपरं सुभूते कथं विज्ञायते यथाविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं त्रयो ऽपाया न भविष्यन्तिति? सचेत् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो नारकं वा सत्त्वं दृष्ट्वा तिर्यग्योनिगतं वा सत्त्वं दृष्ट्वा यामलोकिकं वा सत्त्वं दृष्ट्वा, एवं स्मृतिं प्रतिलभते येन स्मृतिलब्धस्य चैवं भवति, तथा करिष्यामि तथा प्रतिपत्स्ये यथा मे तत्र बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सर्वेण सर्वं सर्वथा सर्वं त्रयो ऽपाया न भविष्यन्ति. तत् कस्य हेतोः? तथा हि यश् च स्वप्नो यश् चाहं सर्व इमे धर्मा अद्वया अद्वैधीकाराः, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति सष्ठम्
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्त्वः स्वप्नान्तरगतो वा प्रतिविबुद्धो वा नगरदाहे वर्तमाने, एवं समन्वाहरति, येन मया स्वप्नान्तरगतेन वा प्रतिविबुद्धेन वा य आकारा यानि लिङ्गानि यानि निमित्तानि दृष्टानि यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो भवति, यदि त आकारास् तानि लिङ्गानि तानि निमित्तानि मम संविद्यन्ते तैर् अवैवर्तिको बोधिसत्त्वो महासत्त्व एवं सत्याधिष्ठानं करोति, (PSP_५:३) येन सत्येन सत्यवचनेनाहं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ तेन सत्येन सत्यवचनेनायं नगरदाह उपशाम्यतु शीतीभवत्व् अस्तं गच्छतु. सचेद् उपशाम्यति शीतीभवत्य् अस्तं गच्छति वेदितव्यं सुभूते व्याकृतो बतायं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधाव् अविनिवर्तनीयतायै. सचेत् पुनः सुभूते अग्निस्कन्धो ऽतिक्रमित्वा गृहाद् गृहं दहति रथ्याया रथ्या दहत्य् अन्यद् गृहं दहत्य् अन्यद् गृहं न दहत्य् अन्यां रथ्यां दहत्य् अन्यां रथ्यां न दहति वेदितव्यं सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मं प्रत्याख्यानसंवर्तनीयम् एतैः सत्त्वैः कर्मोपचितं येनैतेषां सत्त्वानाम् एकं गृहं दह्यते, एकं गृहं न दह्यते, तेषाम् एतद् दृष्टधार्मिकम् एव कर्म विपच्यते, अयं सुभूते हेतुर् अयं प्रत्ययो ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां यैर् हेतुभिर् यैः प्रत्ययैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति सप्तमम्
SK
पुनर् अपरं सुभूते यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यस् तान् आकारांस् तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि. सचेत् सुभूते कश्चिद् एव स्त्री वा पुरुषो वामनुष्येणाधिष्ठितो भवेत्, तत्र बोधिसत्त्वेन महासत्त्वेन एवं समन्वाहर्तव्यं, सचेद् अहं व्याकृतस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये, परिशुद्धश् च मे ऽध्याशयो यथाहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामो यथाहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, परिशुद्धश् च मे मनसिकारो ऽनुत्तरायै सम्यक्संबोधये, अपगतं मे श्रावकचित्तम् अपगतं मे प्रत्येकबुद्धचित्तम्, अपगतेन श्रावकप्रत्येकबुद्धचित्तेन मयानुत्तरा सम्यक्संबोधिर् अभिसंबोधव्या, नाहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, अभिसंभोत्स्य एवाहम् अनुत्तरां सम्यक्संबोदिं ये ऽपि ते ऽसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानां नास्ति किंचिद् अदृष्टं वाश्रुतं वाविदितं वासाक्षात्कृतं वानभिसंबुद्धं वा यथा ते बुद्धा भगवन्तः प्रजानन्ति पश्यन्ति ममाध्याशयर इति ह्य् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य एतेन सत्येन सत्यवचनेनायं स्त्री वा पुरुषो वा येनामनुष्येण गृहीतो विहेठितो वा सो (PSP_५:४) मनुष्यो ऽपक्रामतु.
SK
सचेत् पुनः सुभूते सो ऽमनुष्यस् ततो नापक्रामति तस्य बोधिसत्त्वस्य महासत्त्वस्यैवं भाषमाणस्य वेदितव्यम् एतत् सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वस् तैर् पूर्वकैस् तथगतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये.
SK
सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भाषमाणस्य सो ऽमनुष्यस् ततो ऽपक्रामति वेदितव्यं सुभूते बोधिसत्त्वेन महासत्त्वेन व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वस् तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये. एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः.
SK
पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य षट्सु पारमितासु चरत उपायकौशल्यविरहितस्याचरिताविनश् चतुर्षु स्मृत्युपस्थानेषु सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेष्व् आर्याष्टाङ्गे च मार्गे चतुर्ष्व् आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेषु बोधिसत्त्वनियामम् अनवक्रान्तस्य सत्याधिष्ठानेन मारः पापीयान् उपसंक्रमिष्यति सचेद् बोधिसत्त्वस्यैवं भवति, येन सत्येन सत्यवचनेनाहं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, तेन सत्येन सत्यवचनेनायम् अमनुष्यभूत इतो ऽपक्रामत्व् इत्य् एवं सत्याधिष्ठानं करिष्यति. तत्र मारः पापीयान् औत्सुक्यम् आपत्स्यते कथम् अमनुष्य इतो ऽपक्रामेद्? इति. तत् कस्य हेतोः? तथा हि मारः पापीयान् बलवत्तरं च तेजोवत्तरं च तत्रौत्सुक्यम् आपत्स्यते कथम् अयम् अमनुष्य इतो ऽपक्रामेद् इति, एवं माराधिष्ठानेन स ततो ऽपक्रामिष्यति, एवं च तस्य बोधिसत्त्वस्य महासत्त्वस्य भविष्यति, ममैषो ऽनुभावेनामनुष्य इतो ऽपक्रान्तो, न पुनर् एवं ज्ञास्यति मारानुभावेनैषो ऽमनुष्य इतो ऽपक्रान्त इति. स तेनान्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते उल्लापयिष्यत्य् उच्चग्घयिष्यति पंसयिष्यत्य्, अहं व्याकृतो ऽनुत्तरायै सम्यक्संबोधये तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् एते पुनर् अन्ये न व्याकृता अनुत्तरायै सम्यक्संबोधये. स तेन तावन्मात्रकेण मारं विवर्धयिष्यति, दूरीकरिष्यति सर्वाकारज्ञतां दूरीकरिष्यत्य् अनुत्तरं बुद्धज्ञानम्. स तथारूपो बोधिसत्त्वो महासत्त्वस् तावन्मात्रकेणानुपायकुशलो (PSP_५:५) ऽभिमानम् उत्पादयिष्यति, तस्य द्वे भूमि प्रतिकाङ्क्षितव्ये. कतमे द्वे? यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. एवं सत्याधिष्ठानेन बोधिसत्त्वस्य महासत्त्वस्य मारकर्मोत्पत्स्यते, तत्र स कल्याणमित्राणि न सेविष्यते न भजिष्यते न पर्युपासिष्यते तद् एव मारबन्धनम् आगाढीकरिष्यति. तत् कस्य हेतोः? यथापि नाम षट्सु पारमितास्व् अचरितत्वाद् उपायकौशलेन वापरिगृहीतत्वाद्, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन सत्याधिष्ठानेन मारकर्म वेदितव्यम्.
SK
कथं च पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य षट्सु पारमितास्व् अचरिताविनो यावद् बोधिसत्त्वनियामम् अनवक्रान्तस्य सत्याधिष्ठानेन मारः पापीयान् उपसंक्रमिष्यति? इह सुभूते मारः पापीयान् अन्यतरेण वेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वम् एवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरायै सम्यक्संबोधये, अमुको ऽन्वयस् ते, इदन् ते नामधेयम्, इदन् ते पितुर् नामधेयम्, इदन् ते मातुर् नामधेयम् इदन् ते पुत्रदुहितृभगिनीनामधेयम्, इदन् ते मित्रामात्यज्ञातिसालोहितानां यावद् आसप्तममातामहपितामहयुगस्य नामधेयम् उपदेक्ष्यति, आमुष्मात् त्वं जनपदाद् आमुष्मात् त्वं नगराद् अमुष्माद् दिशस् त्वम् आगतो, ऽमुष्मिन् जनपदे त्वं जातो ऽमुस्मिं ग्रामे वा नगरे वा. सचेत् प्रकृत्या मृदुको भविष्यति स तम् एवं वक्ष्यति: पूर्वम् अपि त्वम् एवं मृदुक एवाभूः, सचेत् स तीक्ष्णो भविष्यति स तम् एवं वक्ष्यति: पूर्वम् अपि त्वम् एवं तीक्ष्ण एवाभूः, सचेद् आरण्यको भविष्यति, सचेत् पिण्डपातिको भविष्यति, सचेत् पांशुकूलिको भविष्यति, सचेत् खलुपुनःपश्चाद्भक्तिको भविष्यति सचेद् एकाशनिको भविष्यति सचेत् प्रस्थव्पिण्डिको भविष्यति, सचेच् छ्माशानिको भविष्यति, सचेद् अभ्यवकाशिको भविष्यति, सचेद् वृक्षमूलिको भविष्यति, सचेन् नैषद्यिको भविष्यति, सचेद् यथासंस्तरिको भविष्यति, सचेत् त्रैचीवरिको भविष्यति, सचेद् अल्पेच्छो भविष्यति, सचेत् संतुष्टो भविष्यति, सचेत् प्रविविक्तो भविष्यति, सचेद् अपगतपादम्रक्षणो भविष्यति, सचेन् मन्दभाष्यो भविष्यति, स तम् एवं वक्ष्यति: पूर्वम् अपि त्वं मन्दभाष्य एवाभूः, सचेन् मन्दमन्त्रो भविष्यति, पूर्वम् अपि त्वं मन्दमन्त्र एवाभूः. तत् कस्य (PSP_५:६) हेतोः? तथा हि तवैवंरूपा धूतगुणाः संविद्यन्ते निश्चयेन ते पूर्वम् अप्य् एत एव धूतगुनाः संलेखा अभूवन्.
SK
सो ऽनेन च पूर्वकेण नामापदेशेन गोत्रापदेशेन च प्रत्युत्पन्नधूतगुणापदेशेन च मन्यनाम् उत्पादयिष्यति. तम् एनं मारः पापीयान् उपसंक्रम्यैवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये ऽविनिवर्तनीयतायां यथा ते धूतगुणाः संविद्यन्ते.
SK
कदाचिद् भिक्षुवेषेणोपसंक्रमिष्यति, कदाचिद् गृहपतिवेषेणोपसंक्रमिष्यति, कदाचिद् मातृवेषेणोपसंक्रमिष्यति, कदाचित् पितृवेषेणोपसंक्रमिष्यति, कदाचिद् भ्रातृवेषेणोपसंक्रमिष्यति, कदाचिद् भगिनीवेषेणोपसंक्रमिष्यति, कदाचिद् ब्राह्मणवेषेणोपसंक्रमिष्यति, कदाचिद् मित्रामात्यज्ञातिसालोहितवेषेणोपसंक्रमिष्यत्य् उपसंक्रम्यैवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरायै सम्यक्संबोधये. तत् कस्य हेतोः? तथा हि तवामी गुणाः संविद्यन्ते ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम्.
SK
ये च ते मया सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य आकारा लिङ्गानि निमित्तान्य् आख्यातास् ते तस्य बोधिसत्त्वस्य महासत्त्वस्य न संविद्यन्ते. वेदितव्यं सुभूते तदन्यैर् बोधिसत्त्वैर् महासत्त्वैर् माराधिष्ठितो बतायं बोधिसत्त्वो महासत्त्वः. तत् कस्य हेतोः? तथा हि य आकारा यानि लिङ्गानि यानि निमित्तान्य् ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य ते चास्य न संविद्यन्ते. अनेन च नामापदेशेन तद् अन्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते उच्चग्घ्ययिष्यत्य् उल्लापयिष्यति कुत्सयिष्यति पंसयिष्यति, इदम् अपि सुभूते नामापदेशेन नामाधिष्ठानेन बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नामाधिष्ठानेन मारकर्म वेदितव्यम्. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरितः सत्त्वानां नाम न जानाति, रूपं न जानाति, वेदनां संज्ञां संस्कारान्, विज्ञानं न जानाति. तस्य मारः पापीयान् नामाधिष्ठानेन व्याकरिष्यति, यावत् ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्येदं नाम भविष्यति, यत् तेन नामधेयम् अनुवितर्कितं भविष्यत्य् अनुविचारितम्. तत्र दुष्प्रज्ञाजातीयस्य बोधिसत्त्वस्य महासत्त्वस्यानुपायकुशलस्यैवं भविष्यति: यथा च मम चित्तोत्पाद उत्पन्नः, यच् च मया नामधेयं मनसानुवितर्कितम् अनुविचारितम्, (PSP_५:७) इदं ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य नामधेयं भविष्यति. तथा तथा मारः पापीयान् निर्देक्ष्यति मारकायिका वा देवता माराधिष्ठितो वा भिक्षुस् तस्यैवं भविष्यति: यथा च मम चित्तोत्पाद उत्पन्नो, यथा च मम नामधेयं, यथा चानेन भिक्षुना निर्दिष्टं समेति नाम समेति मे नाम्ना व्याकृतो ऽहं तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायै सम्यक्संबोधये.
SK
ये च मया सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याकारा लिङ्गानि निमित्तान्य् आख्यातानि तस्य बोधिसत्त्वस्य महासत्त्वस्य न संविद्यन्ते, तैश् चाकारैर् लिङ्गैर् निमित्तैर् विरहितः, सो ऽनेन च नामापदेशेन मन्यनाम् उत्पादयिष्यति, स तदन्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते, स तया मन्यनया अभिमन्यतया दूरीभविष्यत्य् अनुत्तरायाः सम्यक्संबोधेस् तस्योपायकौशल्यविरहितस्य प्रज्ञा पारमिताविरहितस्य कल्याणमित्रविरहितस्य पापमित्रपरिगृहीतस्य द्वे भूमी प्रतिकाङ्क्सितव्ये यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. अथ वा चिरं सुचिरं संधाव्य संसृत्येमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सचेत् स प्रियान् बोधिसत्त्वान् महासत्त्वान् न कल्याणमित्राण्य् अभीक्ष्णं लप्स्यते दर्शनाय न चैनान् पर्युपासिष्यते, सचेत् तेनैवात्मभावप्रतिलाभेन तान् पूर्वकांश् चित्तोत्पादान् न विगर्हिष्यति न प्रतिदेशयिष्यति तस्य द्वे भूमी प्रतिकाङ्क्षितव्ये यद् उत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा.
SK
तद्यथापि नाम सुभूते भिक्षुश् चतसृणां मूलापत्तीनाम् अन्यतरान्यतराम् आपत्तिम् आपद्याभिक्षुर् भवत्य् अश्रमणो ऽशाक्यपुत्रीयः. सो ऽभव्यस् तेनैव चात्मभावेन चतुर्णां श्रामण्यफलानाम् अन्यतरान्यतरं श्रामण्यफलम् अनुप्राप्तुम्.
SK
एवम् एव सुभूते अयं ततो गुरुतरश् चित्तोत्पादो यो ऽयं नामापदेशेन बोधिसत्त्वस्य महासत्त्वस्य मन्यनासहगतश् चित्तोत्पाद उत्पन्नस्, तेन च नामापदेशमात्रेणान्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते, अयं ततो गुरुतरश् चित्तोत्पादो वेदितव्यः.
SK
तिष्ठन्तु सुभूते चतस्रो गुरुका मूलापत्तयः, पञ्चभ्यो ऽपि सुभूते आनन्तर्येभ्यः कर्मभ्यो गुरुतरो ऽयं चित्तोत्पादो यो ऽयं (PSP_५:८) बोधिसत्त्वस्य महासत्त्वस्य नामापदेशेन मन्यनासहगतश् चित्तोत्पाद उत्पन्नस्, तेन च नामापदेशमात्रेणान्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते, अयं ततो गुरुतरश् चित्तोत्पादो वेदितव्यः. इति हि सुभूते इमानि तानि नामानि नामापदेशेनोत्पद्यमानानि मारकर्माणि सूक्ष्माणि भवन्ति.
SK
पुनर् अपरं सुभूते विवेकगुणेन बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् ह्य् उपसंक्रमिष्यत्य् उपसंक्रम्यैवं वक्ष्यति: विवेकस्य तथागतो वर्णवादी. नाहं सुभूते एवं विवेकं वदामि बोधिसत्त्वस्य महासत्त्वस्य यद् उतारण्यानि वनप्रस्थानि प्रान्तानि शयनासनानि.
SK
सुभूतिर् आह: कतरः पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्यान्यो विवेको यदि नारण्यानि वनप्रस्थानि प्रान्तानि शयनासनानि? कथंरूपो भगवन्न् अन्यो विवेको बोधिसत्त्वस्य महासत्त्वस्य? भगवान् आह: सचेत् सुभूते बोधिसत्त्वो महासत्त्वः श्रावकप्रतिसंयुक्तैर् मनसिकारैर् विविक्तो भवति, प्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विविक्तो भवति, बोधिसत्त्वो महासत्त्वो नारण्यवनप्रस्थप्रान्तशयनासनैर् विहरति, विविक्तश् चैव विहरति बोधिसत्त्वो महासत्त्वः, यो ऽयं मया सुभूते विवेको ऽनुज्ञातो बोधिसत्त्वस्य महासत्त्वस्य. अनेन च विवेकेन रात्रिंदिवं विहरति विविक्तश् चैव विहरति बोधिसत्त्वो महासत्वो यद् उत बोधिसत्त्वविवेकेन नारण्यवनप्रस्थप्रान्तशयनासनैर् विहरति विविक्त एव विहरति बोधिसत्त्वो महासत्त्वो, ग्रामान्ते ऽपि वा विहरन्न् अनेन विवेकेन विविक्तश् चैव विहरति बोधिसत्त्वो महासत्त्वः, यश् च मया सुभूते विवेको ऽनुज्ञातो बोधिसत्त्वस्य महासत्त्वस्य.
SK
यञ् च पुनः स मारः पापीयान् विवेकम् उपदेक्ष्यत्य् अरण्यवनप्रस्थप्रान्तशयनासनैर् विहरति, स तेन विवेकेन संकीर्णश् चैव समानः श्रावकप्रतिसंयुक्तैर् मनसिकारैः विहरति प्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विहरति प्रज्ञापारमितायाम् अनभियुक्तः सर्वाकारज्ञतां न परिपूरयति. एवं सो ऽनेन विहारेण विहरन्न् अपरिशुद्धधर्ममनसिकारश् चैव समानस् तदन्यान् अपि बोधिसत्त्वान् महासत्त्वान् अवमंस्यते ये ते ग्रामान्ते विहरन्ति परिशुद्धधर्ममनसिकाराः श्रावकचित्तैर् असंकीर्णाः प्रत्येकबुद्धचित्तैर् असंकीर्णा (PSP_५:९) इहान्यैः पापकैश् चित्तोत्पादैर् असंकिर्णा ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखसत्याभिज्ञापरिपूरिं गताः.
SK
अथ च पुनः सो ऽनुपायकुशलो बोधिसत्त्वो महासत्त्वः, किं चापि योजनशतिकेष्व् अटवीकान्तारेष्व् अपगतव्यादमृगपक्षिष्व् अपगतचौरकान्तारेष्व् अपगतभृशपर्णराक्षसानुविचरितेषु तत्र मध्ये वा संकल्पयेद् वर्षं वा वर्षशतं वा वर्षसहस्रं वा वर्षशतसहस्रं वा वर्षकोटीशतं वा वर्षकोटीसहस्रं वा वर्षकोटीशतसहस्रं वा ततो वा उत्तरि, इमं च विवेकन् न जानाति येन विवेकेन बोधिसत्त्वो महासत्त्वो ऽध्याशयसंप्रस्थितो विहरति, संकीर्णश् चैव विहरति बोधिसत्त्वो महासत्त्वः संक्लिष्टश् चैव तत्र विवेके निश्रित आलीनो ऽध्यवसितो न मे स तावन्मात्रकेण चित्तम् अभिराधयति, यश् च मया विवेक आख्यातस् तस्मिन् विवेके न संदृश्यते.
SK
तम् एनं मारः पापीयान् उपसंक्रम्योपर्य् अन्तरीक्षे स्थित्वैवं वदति: साधु साधु कुलपुत्र एष विवेकस् तथागतेनाख्यातो येन विहरस्य् एवं त्वं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. स ततो विवेकात् पुनर् अन्यान् विवेकान् अवमन्यमानस् तदन्यान् बोधिसत्त्वयानिकान् भिक्षून् पेशलान् कल्याणधर्मनो ऽवमंस्यते संकीर्णविहारेण बतेमे विहरन्त्य् आयुष्मन्त इति. ये च विविक्तविहारेण विहरन्ति बोधिसत्त्वा महासत्त्वास् तान् संकीर्णविहारेण चोदयिष्यति स्मारयिष्यति अवमंस्यते, ये च संकीर्णविहारेण विहरन्ति तान् विविक्तविहारेण समुदाचरिष्यति तत्र च गौरवम् उत्पादयिष्यति, यत्र च गौरवम् उत्पादयितव्यं तत्र मानम् उत्पादयिष्यति. तत् कस्य हेतोः? अहम् अमनुष्यैश् चोद्ये, अहम् अमनुष्यैः स्मार्ये, एष विहारो येन विहारेणाहं विहरामि, कं ग्रामान्तविहारिणम् अमनुष्याः स्मारयिष्यन्ति? अयं बोधिसत्त्वस् तदन्यान् बोधिसत्त्वयानिकान् कुलपुत्रान् पंसयिष्यत्य् अवमंस्यते उल्लापयिष्यति कुत्सयिष्यति.
SK
अयं सुभूते बोधिसत्त्वचण्डालो वेदितव्यः, बोधिसत्त्वदूषी वेदितव्यः, बोधिसत्त्वप्रतिवर्णिको वेदितव्यः, चौरः सदेवमानुषासुरस्य लोकस्य, चौरः श्रमणवेषेण, चौरो बोधिसत्त्वयानिकारां कुलपुत्राणां, तज्जातिकः पुद्गलो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यः. तत् कस्य हेतोः? आधिमानिका हि सुभूते तथारूपाः पुद्गला वेदितव्याः. इत्य् अष्टमम् (PSP_५:१०)
SK
यस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्यापरित्यक्ता सर्वाकारज्ञता, अपरित्यक्ता अनुत्तरा सम्यक्संबोधिस् तेन बोधिसत्त्वेन महासत्त्वेनाध्याशयेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन, सर्वसत्त्वानाम् अर्थं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन तज्जातीयः पुद्गलो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यः. अपि तु खलु स्वकार्ययोगम् अनुयुक्तेन विहर्तव्यं नित्योद्विग्नमानसेन संसार उत्त्रस्तमानसेनासंसृष्टेन त्रैधातुकेन. तत्र चैव मैत्र्य् उत्पादयितव्या तत्र चैवानुकम्पाकरुणोत्पादयितव्या मुदितोत्पादयितव्या उपेक्षोत्पादयितव्या, तथा च करिष्यामि यथैते मम दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति नोत्पत्स्यन्ते, सचेद् उत्पत्स्यन्ते क्षिप्रम् एव प्रहास्यामीति शिक्षा करणीया. अयं सुभूते बोधिसत्त्वानां महासत्त्वानां स्वयमभिज्ञाय पराक्रमो वेदितव्यः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाध्याशयेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कानि पुनर् भगवन् बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: बुद्धा भगवन्तः सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, बोधिसत्त्वा महासत्त्वाश् च सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, श्रावका अपि सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि.
SK
ये च षट् पारमिता आख्यास्यन्ति देशयिष्यन्ति प्रज्ञपयिष्यन्ति प्रस्थापयिष्यन्ति विवरिष्यन्ति विभजिष्यन्ति उत्तानीकरिष्यन्ति संप्रकाशयिष्यन्ति, इमे ऽपि सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि. षट् पारमिताः सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः सर्वशून्यता आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि. तथताभूतकोटिधर्मधातु बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि. षट् पारमिताः शास्तारो वेदितव्याः षट् पारमिता मार्गः षट् पारमिता आलोकः षट् पारमिता (PSP_५:११) उल्का षट् पारमिता अवभासः षट् पारमिता भूमिः षट् पारमिताः शरणं षट् पारमिता लयनं षट् पारमिताः परायणं षट् पारमिता माता षट् पारमिताः पिता. चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वाकारज्ञतायै यावत् सर्ववासनानुसंधिक्लेशप्रहाणाय संवर्तन्ते. तत् कस्य हेतोः? तथा हि सुभूते ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अपि बुद्धानां भगवताम् इमे चैव सप्तत्रिंशद् बोधिपक्ष्या धर्मा मातापितराव् अभूताम्. ये ऽपि ते सुभूते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अपि बुद्धानां भगवताम् इमे चैव सप्तत्रिंशद् बोधिपक्ष्या धर्मा मातापितरौ भविष्यतः. ये ऽपि ते सुभूते एतर्हि दश दिशि लोके बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति तेषाम् अपि सुभूते बुद्धानां भगवताम् इमे चैव सप्तत्रिंशद् बोधिपक्ष्या धर्मा मातापितरौ भवतः. तत् कस्य हेतोः? तथा हि सुभूते ऽतो निर्जाता ह्य् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेनापरप्रणेयतां गन्तुकामेनापरप्रणेयतायां स्थातुकामेन सर्वसत्त्वानां संशयांश् छ्रोतुकामेन बुद्धक्षेत्रं परिशोधयितुकामेन सर्वसत्त्वान् परिपाचयितुकामेन चतुर्भिः संग्रहवस्तुभिः सत्त्वाः संग्रहीतव्याः. कतमैश् चतुर्भिर्? दानेन प्रियवद्यतयार्थक्रियया समानार्थतया. इदम् अप्य् अहं सुभूते ऽर्थवशं पश्यन्न् एवं वदामि: एते बोधिसत्त्वानां महासत्त्वानां शास्तारो मातापितरौ लयनं त्राणं द्वीपः शरणं यद् उतेम एव सप्तत्रिंशद् बोधिपक्ष्या धर्माः. इति नवमम्
SK
तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनापरप्रणेयतां गन्तुकामेनापरप्रणेयतायां स्थातुकामेन सर्वसत्त्वानां संशयांश् छ्रोतुकामेन बुद्धक्षेत्रं परिशोधयितुकामेन सर्वसत्त्वान् परिपाचयितुकामेन इहैव प्रज्ञापारमितायां शिक्षितव्यम्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां सर्वधर्मा विस्तरेणोपदिष्टा यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्. इति दशमम्
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किंलक्षणा (PSP_५:१२) भगवन् प्रज्ञापारमिता?
SK
भगवान् आह: असङ्गलक्षणा सुभूते प्रज्ञापारमिता न सुभूते प्रज्ञापारमिता लक्षणन् न प्रज्ञापारमितायाः किञ्चिल् लक्षणम्.
SK
सुभूतिर् आह: स्याद् भगवन् पर्यायो येन लक्षणेन प्रज्ञापारमिता संविद्यते तेनैव लक्षणेन सर्वधर्माः संविद्येरन्.
SK
भगवान् आह: एवम् एतद् येन लक्षणेन सुभूते प्रज्ञापारमिता संविद्यते तेनैव लक्षणेन सर्वधर्माः संविद्यन्ते. तत् कस्य हेतोः? सर्वधर्मा हि सुभूते विविक्ता अस्वभावाः स्वभावशून्याः, अनेन सुभूते पर्यायेण येन लक्षणेन प्रज्ञापारमिता संविद्यते तेनैव लक्षणेन सर्वधर्माः संविद्यन्ते यद् उत विविक्तलक्षणेन शून्यतालक्षणेन.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः सर्वधर्मविविक्ताः सर्वधर्माः सर्वधर्मैः शून्यास्, तत् कथं भगवन् सत्त्वानां संक्लेशं व्यवदानं प्रज्ञायते? न भगवन् विविक्तं वा शून्यता वा संक्लिश्यते वा व्यवदायते वा, न विविक्तं वा शून्यता वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न विविक्ते वा शून्यतायां वा कश्चिद् धर्म उपलभ्यते, यो बोधिम् अभिसंबुध्येतास्य चैवं भगवन् भगवतो भाषितस्य कथम् अर्थं जानीयाम्? इति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते, अपि नु दीर्घरात्रम् इमे सत्त्वा अहंकारममकारे चरन्ति.
SK
सुभूतिर् आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत, दीर्घरात्रम् इमे सत्त्वा अहंकारममकारे चरन्ति.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते, अपि त्व् अहंकारममकारौ विविक्ताव् अपि त्व् अहंकारममकारौ शून्यौ. सुभूतिर् आह: विविक्तो भगवन् शून्यः सुगत.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते, अहंकारममकारेण सत्त्वाः संसारे संधावन्ति संसरन्ति.
SK
सुभूतिर् आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत, अहंकारममकारेण भगवन् सत्त्वाः संसारे संधावन्ति संसरन्ति.
SK
भगवान् आह: एवं खलु सुभूते सत्त्वानां संक्लेशः प्रज्ञायते संसारे संधावतां संसरतां, यत्र सुभूते नाहंकारो न ममकारस् तत्र नोद्ग्रहो ऽनेन ते सत्त्वाः संसारे न संधावन्ति न संसरन्ति. (PSP_५:१३)
SK
एवं खलु सुभूते सत्त्वानां व्यवदानं प्रज्ञायते संसारे न संधावतां न संसरताम्, अपि तु खलु पुनर् न कश्चित् तत्र संक्लिश्यते वा व्यवदायते वा, एवं खलु सुभूते संक्लेशो व्यवदानञ् च प्रज्ञायते. इत्य् एकादशम्
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वो न रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति, न स्कन्धेषु चरति न धातुषु चरति नायतनेषु चरति न प्रतीत्यसमुत्पादे चरति न प्रतीत्यसमुत्पादाङ्गेसु चरति न स्मृत्युपस्थानेषु चरति न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु न मार्गेषु चरति नार्यसत्येषु नाप्रमाणध्यानारूप्यसमापत्तिषु चरति न सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति न शून्यतानिमित्ताप्रणिहितेषु चरति न पञ्चस्व् अभिज्ञासु चरति न बलवैशारद्येषु चरति न प्रतिसंवित्सु चरति नावेणिकेषु बुद्धधर्मेषु चरति न सर्वाकारज्ञतायां चरति. तत् कस्य हेतोः? तथा हि ते धर्मा नोपलभ्यन्ते यो वा चरेत येन वा चरेत यत्र वा चरेत, एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वो ऽनभिभवनीयो भवति सदेवमानुषासुरेण लोकेन. एवञ् चरन् पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धैर् न शक्यो ऽभिभवितुम्. तत् कस्य हेतोः? तथा हि सो ऽनभिभूते स्थाने स्थितो यद् उत बोधिसत्त्वनियामे ऽनभिभूतो हि भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतामनसिकारैर् विहरन्न्, एवञ् चरन् पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताया अभ्याशीभवति. इति द्वादशम् इत्य् उक्तं लिङ्गम्
SK
भगवान् आह: कत् किं मन्यसे? सुभूते ये जाम्बूद्वीपकाः सत्त्वास् ते सर्वमानुष्यकम् आत्मभावं प्रतिलभेरन् प्रतिलभ्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येरंस् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यावज्जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत्, तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिनामयेत्. तत् किं मन्यसे? सुभूते, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं (PSP_५:१४) पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां परेषाम् आख्यायेद् देशयेत् प्रज्ञपयेत् प्रस्थापयेद् विवृणुयाद् विभजेद् विभावयेत उत्तानीकुर्यात् संप्रकाशयेत् प्रज्ञापारमिताप्रतिसंयुक्तैर् मनसिकारैर् विहरेद्, एवं यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽपूर्वाचरमं मानुष्यकम् आत्मभावं प्रतिलभेरंस्, तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेच्, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु स्रोतआपत्तिफले प्रतिष्ठापयेत् सकृदागामिफले अनागामिफले ऽर्हत्त्वे प्रतिष्ठापयेत् प्रत्येकबोधौ प्रतिष्ठापयेद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेत् तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयेत्. तत् किं मन्यसे? सुभूते, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां परेषाम् आख्यायेद् देशयेत् प्रज्ञपयेत् प्रस्थापयेद् विवृणुयाद् विभजेद् विभावयेत उत्तानीकुर्यात् संप्रकाशयेत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरेद्, एवं बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां दक्षिणीयतां गच्छति. तत् कस्य हेतोः? तथा हि न कस्यचित् सत्त्वस्य तादृशो विहारो यथा बोधिसत्त्वस्य महासत्त्वस्य स्थापयित्वा तथागतम् अर्हन्तं सम्यक्संबुद्धम्. तत् कस्य हेतोः? तथा हि ते कुलपुत्रा वा कुलदुहितरो वा प्रज्ञापारमितायां चरन्तो महामैत्रीम् अभिनिर्हरन्ति, ते प्रज्ञापारमितायाञ् चरन्तः सर्वसत्त्वान् वध्यगतान् समनुपश्यन्ति ते महाकरुणां प्रतिलभन्ते, ते तेन विहारेण विहरन्तो मुदितया प्रमोदन्ते ते महामुदिताम् अभिनिर्हरन्ति, ते तेन निमित्तेन सार्धं न संवसन्ति ते महोपेक्षां प्रतिलभन्ते, अयं सुभूते बोधिसत्त्वानां महासत्त्वानां महान् प्रज्ञालोको यद् उत प्रज्ञापारमिता ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमितालोकः. अनभिसंबुद्धा अपि ते कुलपुत्रा बोधिसत्त्वानां महासत्त्वानां दक्षिणीयतां गच्छन्ति, न च विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेर् येषाञ् च परिभुञ्जते (PSP_५:१५) चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् प्रज्ञापारमिता प्रतिसंयुक्तैर् मनसिकारैर् विहरन्तो दायकदानपतीनां दक्षिणां शोधयन्ति सर्वाकारज्ञतायाश् चाभ्याशीभवन्ति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनामोघराष्ट्रपिण्डं परिभोक्तुकामेन, सर्वसत्त्वानां पन्थानम् उपदेष्टुकामेन, विपुलम् एव भासं कर्तुकामेन, बन्धनगतान् सत्त्वान् परिमोचयितुकामेन, सर्वसत्त्वानाम् अनुत्तरं प्रज्ञाचक्षुर् विशोधयितुकामेन प्रज्ञापारमिता प्रतिसंयुक्तैर् मनसिकारैर् विहर्तव्यम्. सचेद् बोधिसत्त्वो महासत्त्व एतान् प्रज्ञापारमिताप्रतिसंयुक्तान् मनसिकारान् मनसिकुर्याद् इति, तेन प्रज्ञापारमिताप्रतिसंयुक्ता चैव कथा कथयितव्या. इति प्रथमा विवृद्धिः
SK
तेन प्रज्ञापारमिताप्रतिसंयुक्तां कथां कथयित्वा प्रज्ञापारमिताप्रतिसंयुक्ताश् चैव मनसिकारा मनसिकर्तव्यास्, तेन प्रज्ञापारमिताप्रतिसंयुक्तैर् मानसिकारैर् विहरतान्येषां मनसिकाराणाम् अवकाशो न दातव्यस्, तथा च कर्तव्यं यथा तैः प्रज्ञापारमिताप्रतिसंयुक्तैर् मनसिकारैर् अनिक्षिप्तधुरो रात्रिंदिवं विहरेत्, तद्यथापि नाम सुभूते पुरुषेण मणिरत्नम् अप्रतिलब्धपूर्वं स्यात् सो ऽपरेण समयेन प्रतिलभेत्, स तत् मणिरत्नं प्रतिलभ्योदारेण प्रीतिप्रामोद्येन समन्वागतो भवेत्, तस्य सह प्रतिलब्धन्तं मणिरत्नं पुनर् एव नश्येत् स ततोनिदानं महता दुःखदौर्मनस्येन संयुक्तो भवेत्, तस्य सततसमितं मणिरत्नं प्रतिसंयुक्ता एव मनसिकाराः प्रवर्तेरन्, अहो बताहं तेन मणिरत्नेन वियुक्त इति. एवं सुभूते बोधिसत्त्वेन महासत्त्वेन रत्नम् इदम् इति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितेन भवितव्यम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा पुनर् भगवन् सर्वमनसिकाराः स्वभावेन विरहिताः, सर्वमनसिकाराः स्वभावेन शून्यास्, तदा कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो भवति? न ह्य् अविरहितो ऽपि बोधिसत्त्वो महासत्त्व उपलभ्यते मनसिकारा वा सर्वाकारज्ञता वा.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सचेत् सुभूते बोधिसत्त्वो महासत्त्व एवं जानाति, विरहिताः सर्वधर्माः स्वभावेन ते न श्रावकैर् न प्रत्येकबुद्धैर् न बुद्धैर् भगवद्भिः कृताः, स्थिताश् चैवैतेषां धर्माणां धर्मस्थितिता धर्मनियामता धर्मता धर्मधातुस् (PSP_५:१६) तथता अवितथता अनन्यतथता भूतकोटिर्, अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया भवति. तत् कस्य हेतोः? तथा हि सुभूते प्रज्ञापारमिता स्वभावेन विविक्ता स्वभावेन शून्या, सा नापि विवर्धते नापि परिहीयते. इति द्वितीया
SK
सुभूतिर् आह: सचेद् भगवन् प्रज्ञापारमिता स्वभावेन विविक्ता स्वभावेन सून्या, तत् कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
SK
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विवर्धते वा परिहीयते वा, न भूतकोटी विवर्धते वा परिहीयते वा, न धर्मधातुर् विवर्धते वा परिहीयते वा. तत् कस्य हेतोः? न हि प्रज्ञापारमिता एका वा द्वे वा. सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भाष्यमाणे चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, निष्ठा तत्र गन्तव्या, स्थितो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयधातौ, चरत्य् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् या प्रज्ञापारमितायाः शून्यता रिक्तता तुच्छता वशिकता असारकता सा प्रज्ञापारमितायां चरति?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन्न् अन्यत्र प्रज्ञापारमितायाः कश्चिद् धर्म उपलभ्यते यः प्रज्ञापारमितायां चरति?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमिता प्रज्ञापारमितायां चरति?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन् शून्यता प्रज्ञपारमितायां चरति?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन्न् अन्यत्र शून्यतायाः कश्चिद् धर्म उपलभ्यते यः प्रज्ञापारमितायां चरति?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन् रूपं प्रज्ञापारमितायां चरति, वेदना संज्ञा संस्कारा, विज्ञानं प्रज्ञापारमितायां चरति?
SK
भगवान् आह: न सुभूते. (PSP_५:१७)
SK
सुभूतिर् आह: किं पुनर् भगवन् स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च प्रज्ञापारमितायां चरन्ति?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन् षट् पारमिताः प्रज्ञापारमितायां चरन्ति? एवं सर्वशून्यताः सप्तत्रिंशद् बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टदशावेणिका बुद्धधर्माः प्रज्ञापारमितायां चरन्ति?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन् या रूपस्य शून्यता रिक्तता तुच्छता वशिकता असारकता, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटी सा प्रज्ञापारमितायां चरन्ति?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: वेदनायाः संज्ञायाः संस्काराणां, किं पुनर् भगवन् या विज्ञानस्य शून्यता रिक्तता तुच्छता वशिकता असारकता, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिः सा प्रज्ञापारमितायां चरति?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन् या स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानाञ् च शून्यता रिक्तता तुच्छता वशिकता असारकता तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटी सा प्रज्ञापारमितायां चरति? भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन्न् अन्या षण्णां पारमितानां शून्यता सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां शून्यतानिमित्ताप्रणिहितानां पञ्चानाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां (PSP_५:१८) बुद्धधर्माणां च शून्यता रिक्तता तुच्छता वशिकता असारकता, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिः सा प्रज्ञापारमितायां चरति?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: सचेत् पुनर् भगवन्न् एते धर्मा न चरन्ति प्रज्ञापारमितायां, कथं चरन्तः पुनर् भगवन् बोधिसत्त्वा महासत्त्वाश् चरन्ति प्रज्ञापारमितायाम्?
SK
भगवान् आह: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तं धर्मं यो धर्मः प्रज्ञापारमितायाञ् चरति.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तां प्रज्ञापारमितां यत्र बोधिसत्त्वा महासत्त्वाश् चरन्ति.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यत् त्वं धर्मं न समनुपश्यसि कश्चित् स धर्म उपलभ्यते.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यो धर्मो नोपलभ्यते, अपि नु स उत्पद्यते वा निरुध्यते वा.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: इयं सुभूते बोधिसत्त्वानां महासत्त्वानाम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिर्, एवंरूपया सुभूते क्षान्त्या समन्वागतो बोधिसत्त्वो महासत्त्वो व्याक्रियते ऽनुत्तरायां सम्यक्संबोधौ, इयं सुभूते तथागतस्य वैशारद्यप्रतिसंवित् यां प्रतिसंविद्यमानो बोधिसत्त्वो महासत्त्व एवं चरन् घटमानो व्यायच्छमानो ऽनुत्तरं सम्यक्संबोधिज्ञानं महाज्ञानं सर्वाकारज्ञताज्ञानं नानुप्राप्नुयाद् इति नेदं स्थानं विद्यते. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेनानुत्पत्तिकैर् धर्मैः क्षान्तिः प्रतिलब्धा तथा हि तन् निम्नो भविष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इति तृतीया
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् सर्वधर्माणाम् अनुत्पत्तये व्याकरिष्यते बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ?
SK
भगवान् आह: नो हिदं सुभूते. (PSP_५:१९)
SK
सुभूतिर् आह: किं पुनर् भगवन्न् उत्पत्तये बोधिसत्त्वो महासत्त्वो व्याकरिष्यते अनुत्तरायां सम्यक्संबोधौ?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: सचेद् भगवन् नानुत्पत्तये नैवोत्पत्तये बोधिसत्त्वो महासत्त्वो व्याकरिष्यते ऽनुत्तरायां सम्यक्संबोधौ, तत् कथं भगवन् व्याकरणं भवति बोधिसत्त्वानां महासत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तं धर्मं यो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ. सुभूतिर् आह: न भगवन्. नाहं भगवंस् तं धर्मं समनुपश्यामि यो धर्मो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, तम् अप्य् अहं धर्मन् न समनुपश्यामि यो धर्मो ऽभिसंबुध्येत येन वाभिसंबुध्यते.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्मान् अनुपलभमानस्य बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहम् अभिसंभोत्स्य इदम् अभिसंभोत्स्ये. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वा एते विकल्पा न भवन्ति. तत् कस्य हेतोः? अविकल्पा हि सुभूते प्रज्ञापारमिता. इति चतुर्थी
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवन् प्रज्ञापारमिता दुर्दृशा दुरनुबोधातर्कावचना यावत् सूक्ष्ंआ निपुणा भगवन् प्रज्ञापारमितात्यन्तविविक्तत्वाद्, न ते भगवन् सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति तथत्वाय च प्रतिपत्स्यन्ते, न चान्येषां चित्तचैतसिकानां धर्माणाम् अवकाशं दास्यन्ति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, न ते कौशिक सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति तहत्वाय च प्रतिपत्स्यन्ते, न चान्येषां चित्तचैतसिकानां धर्माणाम् अवकाशं दास्यन्ति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. तत् किं मन्यसे? कौशिक यावन्तो जांबुद्वीपकाः सत्त्वास् ते सर्वे दशभिः (PSP_५:२०) कुशलैः कर्मपथैः समन्वागता भवेयुश् चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः पञ्चभिर् अभिज्ञाभिर्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयात् तथत्वाय प्रतिपद्येत, अस्य कौशिक कुशलमूलस्य एष पूर्वकः कुशलमूलाभिसंस्कारः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटीनियतशतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् औपम्यम् अप्य् उपनिषाम् अप्य् उपनिषदम् अपि नोपैति.
SK
अथ खल्व् अन्यतरो भिक्षुः शक्रं देवानाम् इन्द्रं एतद् अवोचत्: अभिभूतस् त्वं कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा ते च जांबूद्वीपकाः सत्त्वाः दशकुशलकर्मपथसमन्वागताश् चतुर्ध्यानसमन्वागताश् चतुरप्रमाणसमन्वागताश् चतुरारूप्यसमापत्तिसमन्वागताः पञ्चाभिज्ञासमन्वागताः, य इमां प्रज्ञापारमिताम् अनिक्षिप्तचित्तेनोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति तथत्वाय च प्रतिपत्स्यते अन्येषाञ् च चित्तचैतसिकानां धर्माणाम् अवकाशं न दास्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रस् तं भिक्षुम् एतद् अवोचत्: एकचित्तोत्पादेनैवाहं भिक्षो तेन बोधिसत्त्वेन महासत्त्वेन ते च जाम्बूद्वीपकाः सत्त्वा दशकुशलकर्मपथसमन्वागताश् चतुर्ध्यानसमन्वागताश् चतुरप्रमाणसमन्वागताश् चतुरारूप्यसमापत्तिसमन्वागताः पञ्चाभिज्ञासमन्वागता अभिभूताः, कः पुनर् वादो य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति तथत्वाय प्रतिपत्स्यन्ते, ते सदेवमानुषासुरलोकम् अभिभूय निर्यास्यन्ति सदेवमानुषासुरलोकम् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. न केवलं सदेवमानुषासुरलोकम् अभिभवन्तो गच्छन्ति बोधिसत्त्वा माहासत्त्वाः, ये ऽपि ते स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धास् तान् अपि सर्वान् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. न केवलं स्रोतआपन्नान् सकृदागामिनो ऽनागामिनो ऽर्हतः प्रत्येकबुद्धान्, ये ऽपि ते बोधिसत्त्वा महासत्त्वा दानपारमितायाञ् चरन्ति उपायकौशल्यविरहिताः प्रज्ञापारमिताविरहितास् तान् अप्य् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. (PSP_५:२१) न केवलं ये दानपारमितायां चरन्ति, ये ऽपि ते शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायाञ् चरन्ति उपायकौशल्यविरहिताः प्रज्ञापारमिताविरहितास् तान् अप्य् अभिभवन्तो गच्छन्ति बोधिसत्त्वा महासत्त्वाः. न केवलं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां चरन्ति, ये ऽपि ते प्रज्ञापारमितायां चरन्त्य् उपायकौशल्यविरहिताः प्रज्ञापारमिताविरहितास् तान् अप्य् अभिभवन्तो गच्छन्ति बोधिअसत्त्वा महासत्त्वाः. ये बोधिसत्त्वा महासत्त्वा यथोपदिष्टायां प्रज्ञापारमितायां चरन्ति ते सदेवमानुषासुरेण लोकेन न शक्या अभिभवितुं प्रज्ञापारमितायां, यश् चरति बोधिसत्त्वो महासत्त्वो यथानुशिष्टं प्रज्ञापारमिताम् अनुवर्तते, ऽयं बोधिसत्त्वो महासत्त्वस् तथागतवंशस्यानुपच्छेदाय स्थितो, ऽयं बोधिसत्त्वो महासत्त्वस् तथागतानां न दूरीकरोत्य्, अयं बोधिसत्त्वो महासत्त्व एवं प्रतिपद्यमानो न विरागयति बोधिमण्डम्, अयं बोधिसत्त्वो महासत्त्वः सत्त्वान् संसीदयमानान् उद्धर्तुकामो, ऽयं बोधिसत्त्वो महासत्त्व एवं शिक्षमाणो बोधिसत्त्वशिक्षायां शिक्षते न श्रावकशिक्षायां शिक्षते न प्रत्येकबुद्धशिक्षायां शिक्षते. इति पङ्चमी
SK
एवं शिक्षमाणं बोधिसत्त्वं महासत्त्वं चत्वारो महाराजास् तम् उपसंक्रमितव्यं मंस्यन्ते, उपसंक्रम्यैवं वक्ष्यन्ति: शीघ्रं शिक्षस्व इमानि तानि चत्वारि पात्राणि यानि त्वया प्रतिग्रहीतव्यानि बोधिमण्डनिषण्णेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेन यानि परिगृहीतानि पूर्वकैस् तथागतेऐर् अर्हद्भिः सम्यक्संबुद्धैः.
SK
एवं शिक्षमाणं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां तम् उपसंक्रमितव्यं मंस्यन्ते, सार्धं देवैस् त्रयस्त्रिंशैः सुयामश् च देवपुत्र उपसंक्रम्यमितव्यं मंस्यते, सार्धं सुयामैर् देवपुत्रैः संतुषितो ऽपि देवपुत्र उपसंक्रमितव्यं मंस्यते, सार्धं संतुषितैर् देवपुत्रैर् निर्माणरतिश् च देवपुत्र उपसंक्रमितव्यं मंस्यते, सार्धं निर्माणरतिभिर् देवपुत्रैः परनिर्मितवशवर्त्य् अपि देवपुत्र उपसंक्रमितव्यं मंस्यते सार्धं परनिर्मितवशवर्तिभिर् देवपुत्रैर् उपसंक्रमितव्यं मंस्यते, एवं ब्रह्मापि सहांपतिर् उपसंक्रमितव्यं मंस्यते, सार्धं ब्रह्मपार्षद्यैर् देवपुत्रैर् ब्रह्मपुरोहितैर् (PSP_५:२२) महाब्रह्मैः आभास्वरो ऽपि देवपुत्र उपसंक्रमितव्यं मंस्यते सार्धं आभास्वरैर् देवपुत्रैर् उपसंक्रमितव्यं मंस्यते, एवं परीत्ताभा अप्रमाणाभा आभास्वराः, परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना, अनभ्रकाः पुण्यप्रसवा बृहत्फला, असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः सुदृशाः सुदर्शना यावद् अकनिष्ठा देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते.
SK
यो बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां चरिष्यति, तथागतैर् अपि सो ऽर्हद्भिः सम्यक्संबुद्धैर् बोधिसत्त्वो महासत्त्वो नित्यं समन्वाहृतो भविष्यति, य इह गम्भीरायां प्रज्ञापारमितायां चरत्य्, एवं यश् चरति बोधिसत्त्वो महासत्त्वो इह गम्भीरायां प्रज्ञापारमितायां यानि तानि लौकिकानि दुःखानि परोपक्रमिकानि काये उत्पत्स्यन्ते तानि तस्य सर्वेण सर्वं सर्वथा सर्वं काये नोत्पत्स्यन्ते न निपतिष्यन्ति. अयं सुभूते दृष्टधार्मिको गुणो भविष्यति बोधिसत्त्वस्य महासत्त्वस्य इह गम्भीरायां प्रज्ञापारमितायां चरतो यानि वा तानि सांनिपातिकानि ग्लान्यानि, तद्यथापि नाम चक्षुरोगः श्रोत्ररोगो घ्राणरोगो जिह्वारोगो दन्तरोगः कायशूलं चित्तसूलम्, एवम् अशीतिरोगशतानि चतुरधिकानि सर्वेण सर्वं सर्वथा सर्वं काये नोत्पत्स्यन्ते न निपतिष्यन्ति. अयं तस्य बोधिसत्त्वस्य महासत्त्वस्य दृष्टधार्मिको गुणः प्रतिकाङ्क्षितव्य इह गम्भीरायां प्रज्ञापारमितायां चरतः. इति षष्ठी
SK
अथ खल्व् आयुष्मत आनन्दस्यैतद् अभवत्: किम् अयं शक्रो देवानाम् इन्द्रः स्वकेन प्रतिभानेन प्रज्ञापारमिताम् उपदिशति उताहो बुद्धानुभावेनेति?
SK
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मत आनन्दस्य चेतसैव चेतःपरिवितर्कम् आज्ञायायुष्मन्तम् आनन्दम् एतद् अवोचत्: बुद्धानुभाव एष भदन्तानन्द वेदितव्यो यद् अहं प्रज्ञापारमिताम् उपदिशामि.
SK
अथ खलु भगवान् आयुष्मन्तं आनन्दम् आमन्त्रयते स्म: एवम् एतद् आनन्दैवम् एतत्, तथागतस्यैषो ऽनुभावस् तथागतस्यैतद् अधिष्ठानं यच् छक्रो देवानाम् इन्द्रः प्रज्ञापारमिताम् उपदिशति. यस्मिन्न् आनन्द समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते प्रज्ञापारमितायां योगम् आपद्यते प्रज्ञापारमितां भावयति, तस्मिन् समये ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसस् ते सर्वे संशयप्राप्ता भवन्ति: किम् अयं बोधिसत्त्वो भूतकोटिं साक्षात्करिष्यति (PSP_५:२३) भूतकोटिं साक्षात्कृत्वा स्रोतआपत्तिफलं वा साक्षात्करिष्यति सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा साक्षात्करिष्यति प्रत्येकां बोधिं प्राप्स्यति, उताहो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते?
SK
पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो भवति तस्मिन् समये मारः पापीयाञ् छोकशल्यविद्धो भवति.
SK
पुनर् अपरम् आनन्द बोधिसत्त्वस्य मारः पापीयान् उल्कापातान् उत्प्रेक्ष्यति भयं जनयिष्यत्य्, अप्य् एव नामास्य बोधिसत्त्वस्य महासत्त्वस्यावलीनता वा भवेद् रोमहर्षो वा भवेद् अवलीनचित्तता वा भवेद् एकचित्तोत्पादस्यापि विक्षोभनं भविष्यति सर्वाकारज्ञतां मनसिकुर्वतः.
SK
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् सर्वेषां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः?
SK
भगवान् आह: न खल्व् आनन्द सर्वेषां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः, केषांचिद् आनन्द बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः केषांचिन् नोपसंक्रमिष्यति.
SK
आनन्द आह: कियद्रूपाणां भगवन् बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः कियद्रूपाणां नोपसंक्रमिष्यति?
SK
भगवान् आह: यैर् आनन्द बोधिसत्त्वैः पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता भाष्यमाणा प्रतिक्षिप्ता चित्तेन नाधिमुक्ता तेषां मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः.
SK
पुनर् अपरम् आनन्द य इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा बोधिसत्त्वः संशयप्राप्तो ऽभूत्, स्याद् वेयं प्रज्ञापारमिता न वा स्याद् इत्य् अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः.
SK
पुनर् अपरम् आनन्द यो बोधिसत्त्वः कल्याणमित्रविरहितो भवति सो ऽसंपश्यमानः कल्याणमित्रानीमां गम्भीरां प्रज्ञापाररैतां न शृणोत्य् अशृण्वन् न जानात्य् अजानानस् तथतायै न प्रतिपत्स्यते, कथं प्रज्ञापारमिता भावयितव्येत्य् अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् उपसंक्रमिष्यति विहेठनाभिप्रायः. (PSP_५:२४)
SK
पुनर् अपरम् आनन्द प्रज्ञापारमिताविरहितो यो बोधिसत्त्वो ऽसद्धर्मपरिग्रहं करोत्य् अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् उपसंक्रमिष्यति अवतारं च लप्स्यते. पुनर् अपरं आनन्द प्रज्ञापारमिताविरहितो यो बोधिसत्त्वो ऽसद्धर्मस्य वर्णं भाषिष्यते तत्र मारस्य पापीयस एवं भविष्यति, सहाय एषो मम यो ऽसद्धर्मस्य वर्णं भाषिष्यते, बहूनाम् अप्य् एष बोधिसत्त्वयानिकानां पुद्गलानां सहायो लब्धो यो ऽसद्धर्मस्य वर्णं भाषिष्यते, अयं ममाभिप्रायं परिपूरयिष्यत्य्, अयं बोधिसत्त्वयानिकः पुद्गलो ऽप्य् आभ्यां द्वाभ्यां भूमिभ्याम् अन्यतरस्यां भूमौ स्थास्यति यद् उत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा.
SK
पुनर् अपरम् आनन्द एवंरूपस्य बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते यो बोधिसत्त्व इह गम्भीरायां प्रज्ञपारमितायां भाष्यमाणायाम् एवं वक्ष्यति: गम्भीरेयं प्रज्ञापारमिता, किं ते एतया गम्भीरया प्रज्ञापारमितया श्रुतया भाषितया वाचितया पर्यवाप्तया धारितया? अहम् अपि तावद् अस्याम् आगाधं न लभे कुतः पुनस् त्वं लप्स्यसे, अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते.
SK
पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो ऽन्यतरं बोधिसत्त्वम् अवमंस्यते: अहं दानपारमितायां चरामि न त्वं दानपारमितायाञ् चरसि, अहं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां चरामि न त्वं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां चरसि, अहं प्रज्ञापारमितायां चरामि न त्वं प्रज्ञापारमितायां चरसि, अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते.
SK
पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो आत्मानम् उत्कृष्टं मन्यते तस्मिन्न् आनन्द समये मारः पापीयांस् तुष्टो भवत्य् उदग्रो भवत्य् आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति, अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते.
SK
पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो नामग्रहणतो वा गोत्रग्रहणतो वा परिकीर्तितो भवति स तेन नामग्रहणेन वा गोत्रग्रहणेन वा तदन्यान् बोधिसत्त्वान् पेशलान् कल्याणधर्मणो ऽवमंस्यते, आत्मानम् उत्कर्षयति परान् पंशयति, ते चास्य गुणा न संविद्यन्ते ये ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम् आकारा लिङ्गानि निमित्तानि. (PSP_५:२५) स तैर् अकारैर् लिङ्गैर् निमित्तैर् असंविद्यमानैः क्लेशम् उत्पादयति, आत्मानम् उत्कर्षयति परान् पंशयति: न त्वम् अत्र बोधिसत्त्वयाने संदृश्यसे यथाहम् अत्र बोधिसत्त्वयाने बोधिसत्त्वगोत्रे संदृश्ये. स तेनाधिमानेन बोधिसत्त्वयानिकान् पुद्गलान् कुत्सयिष्यति पंशयिष्यति. तत्र मारस्य पापीयस एवं भविष्यति, अशून्यं मे भवनं भविष्यत्य् उत्सदा भविष्यन्ति महानरकास्, तिर्यग्योनिर् यमलोकः प्रेतविषयः. तथातथा च मारः पापीयांस् तान् बोधिसत्त्वान् अधिष्ठास्यति यथादेयवचना भविष्यन्ति तेषां तयादेयवचनतया बहुजनः श्रोतव्यं मंस्यन्ते, तेषां श्रुत्वा दृष्ट्वानुकृतिम् आपत्स्यन्ते, ते श्रुत्वा दृष्ट्वानुकृतिम् आपद्यमानास् तथतायै न शिक्षिष्यन्ते, ते तथतायै न शिक्षमाणास् ते तथतायै न प्रतिपद्यमानाः क्लेशं विवर्धयिष्यन्ति, ते विपर्यस्तया चित्तसंतत्या यद्यद् एव कर्मारप्स्यन्ते कायेन वा वाचा वा मनसा वा, सर्वं तद् अनिष्टत्वायाकान्तत्वायामनआपत्वाय संवर्तिष्यति. एवं ते महानरका उत्सदा भविष्यन्ति, तिर्यग्योनिर् यमलोकः प्रेतविषय उत्सदो भविष्यति, मारभवनान्य् उत्सदानि भविष्यन्ति. इमं आनन्दार्थवशं संपश्यमानो मारः पापीयान् आत्तमना भवति प्रमुदितः प्रीतिसौमनस्यजातः.
SK
पुनर् अपरं आनन्द सचेद् बोधिसत्त्वयानिकः पुद्गलः श्रावकयानिकेन पुद्गलेन सार्धं विवदति, तत्र मारस्य पापीयस एवं भवति, दूरीकरिष्यति बतायं कुलपुत्रः सर्वाकारज्ञतां नायम् अभ्यासी भविष्यति सर्वाकारज्ञतायाः. तत् कस्य हेतोः? नैते कलहभण्डनविग्रहविवादा मार्गः सर्वाकारज्ञ्ताया नरकमार्ग एष तिर्यग्योनिमार्ग एष यमलोकमार्ग एष नैष मार्गः सर्वाकारज्ञतायाः.
SK
पुनर् अपरं आनन्द सचेद् बोधिसत्त्वयानिकः पुद्गलो ऽपरेण बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहभण्डनविग्रहविवादान् करोति, तत्र मारस्य पापीयस एवं भवति, उभाव् अप्य् एतौ दूरीभविष्यतः, सर्वाकारज्ञताया उभाव् अप्य् एतौ नाभिसंभोत्स्येते ऽनुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि नैष मार्गः सर्वाकारज्ञताया य एतैः कुलपुत्रैर् आरब्धो, नरकमार्ग एष तिर्यग्योनिमार्ग एष यमलोकमार्ग एष य एतैः कुलपुत्रैर् आरब्धः.
SK
पुनर् अपरं आनन्दाव्याकृतो बोधिसत्त्वो व्याकृतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिके चित्तम् आघातयिष्यति, कलहं वा भण्डनम् (PSP_५:२६) वा विग्रहं वा विवादं वा करिष्यति, तेन पुनस् तावत एव कल्पान् संनाहः संनद्धव्यः यावन्ति तस्य तानि चित्तान्य् उत्पन्नानि कलहं वा भण्डनं वा विग्रहं वा विवादं वा कुर्वतः, सचेद् अस्य सर्वाकारज्ञतापरिभ्यक्ता भवति.
SK
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: अस्ति भगवन्न् एतेषां चित्तोत्पादानां निःसरणम् उताहो तावत एव कल्पान् संनाहः संनद्धव्यः.
SK
एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: अनिःसरणो मयानन्द धर्मो देशितः श्रावकयानिकानाञ् च पुद्गलानां प्रत्येकबुद्धयानिकानाञ् च पुद्गलानां, तत्रानन्द यो ऽयं बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहं वा भण्डनं वा विग्रहं वा कुर्याद् यावद् विवदेद् वा आक्रोशेद् वा परिभाषेद् वा कलहयित्वा वा भण्डयित्वा वा विग्रहयित्वा वा विवादयित्वा वा आक्रोशयित्वा वा परिभाषयित्वा वा न प्रतिदेशयत्य् अनुशयं वहति अनुशयबद्धो विहरति, नाहम् आनन्द तस्य पुद्गलस्य निःसरणं वदामि, अवश्यं तेन तावत एव कल्पान् संनाहः संनद्धव्यः, सचेद् अस्यापरित्यक्ता सर्वाकारज्ञता.
SK
पुनर् अपरम् आनन्द बोधिसत्त्वो महासत्त्वः कलहयित्वा भण्डित्वा विग्रहयित्वा विवदित्वा आक्रोषित्वा परिभाषित्वा प्रतिदेशयति: मानुशयं वहत्य् आयत्यां संवरम् आपद्यते दुर्लब्धा मे लाभा, यन् मया सर्वसत्त्वानां भार आहर्तव्यस् तद् अहं मन्त्रिते प्रतिमन्त्रयामि, यन् मया सर्वसत्त्वानां संक्रमभूतेन भवितव्यं सो ऽहं परस्याप्रियं मन्त्रयामि प्रतिवचनं च ददामि. एवम् अपि मया न वक्तव्यं जडैडकमूकसदृशेन मया भवितव्यं, अध्याशयश् च मे न विकोपयितव्यो यन् मयैते सत्त्वाः परिनिर्वापयितव्या अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य तद् अहम् अत्र व्यापद्ये तद् अहम् अत्र क्षुभ्यामि न मयात्र व्यापत्तव्यं न मया क्षोभचित्तम् उत्पादयितव्यम्. अस्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् अवतारं न लभते.
SK
पुनर् अपरम् आनन्द बोधिसत्त्वेन महासत्त्वेन श्रावकयानिकैः पुद्गलैः सार्धं न स्थातव्यं सचेत् तिष्ठति तेन न कस्यचिद् अन्तिके व्यापत्तव्यं. तत् कस्य हेतोः? तथा हि नैतन् मम प्रतिरूपं स्यात्, (PSP_५:२७) यद् अहम् एतेषाम् अन्तिके व्यापद्ये वा क्षुभ्येयं वा. तत् कस्य हेतोः? तथा हि ते मयानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वदुःखेभ्यः परिमोचयितव्याः. इति सप्तमी
SK
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वयानिकानां पुद्गलानाम् अन्तिके स्थातव्यम्?
SK
भगवान् आह: तद्यथापि नामानन्द शास्तरि, एवं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वयानिकानां पुद्गलानाम् अन्तिके स्थातव्यम्. तत् कस्य हेतोः? एष हि मम सहायक एकयानसमारूढो, यथा चैवैतेन शिक्षितव्यं तथा चैव मया शिक्षितव्यं यत्र चैतेन शिक्षितव्यं तत्र चैव मया शिक्षितव्यं यद् उत दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां सर्वशून्यतासु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिस्व् आर्यसत्येषु सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु पञ्चस्व् अभिज्ञासु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वाकारज्ञतायाम् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न मयात्र शिक्षितव्यम्. सचेत् पुनर् एष बोधिसत्त्वो महासत्त्वो ऽविरहितो भवति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् मयाप्य् एवम् एव शिक्षितव्यम्. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः समशिक्षो भवति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमा भगवन् बोधिसत्त्वानां महासत्त्वानां समता यत्र समतायां बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्?
SK
भगवान् आह: अध्यात्मशून्यता सुभूते बोधिसत्त्वानां महासत्त्वानां समता, बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, रूपं रूपेण शून्यं, वेदना वेदनया शून्या, संज्ञा संज्ञया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यम्. एवं स्कन्धधात्वायतनानि स्कन्धधात्वायतनैः शून्यानि, प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादैः शून्यः, प्रतीत्यसमुत्पादाङ्गानि प्रतीत्यसमुत्पादाङ्गैः शून्यानि, पारमिताः पारमिताभिः शून्याः, सप्तत्रिंशद्बोधिपक्ष्या धर्माः सप्तत्रिशद्ब्बोधिपक्ष्यैर् धर्मैः शून्याः, आर्यसत्यान्य् (PSP_५:२८) आर्यसत्यैः शून्यानि, अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिभिः शून्याः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैः सून्यानि, त्रीणि विमोक्षमुखानि त्रिभिर् विमोक्षमुखैः शून्यानि, अभिज्ञा अभिज्ञाभिः शून्या, दशबलानि दशबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्याः, आवेणिकबुद्धधर्मा आवेणिकाबुद्धधर्मैः शून्याः, बोधिर् यावद् बोध्या शून्या. इयं सुभूते बोधिसत्त्वानां महासत्त्वानां समता, यत्र समतायां स्थित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इत्य् अष्टमी
SK
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो रूपस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, रूपस्य विरागाय निरोधाय शिक्षते शिक्षते सर्वाकारज्ञतायै, रूपस्यानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, विज्ञानस्य विरागाय निरोधाय शिक्षते शिक्षते सर्वाकारज्ञतायै, विज्ञानस्यानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां च क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. सर्वपारमितानां सर्वशून्यतानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां चतुर्णाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां त्रयाणां विमोक्षमुखानां पञ्चानाम् अभिज्ञनां दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरायाः सम्यक्संबोधेः क्षयाय शिक्षते विरागाय शिक्षते निरोधाय शिक्षते ऽनुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् सुभूतिः स्थविर एवम् आह, यद् रूपस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, यद् रूपस्य विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै, एवं वेदनासंज्ञासंस्काराणां, विज्ञानस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायै, विज्ञानस्य विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां च क्षयाय विरागाय (PSP_५:२९) निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. सर्वपारमितानां सर्वशून्यतानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाञ् चतुर्णाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां त्रयाणां विमोक्षमुखानां पञ्चानाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै. अनुत्तरायाः सम्यक्संबोधेः क्षयाय विरागाय निरोधायानुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायै इति. तत् किं मन्यसे? सुभूते या रूपस्य तथता या वेदनायास् तथता या संज्ञायास् तथता या संस्काराणां तथता या विज्ञानस्य तथता, एवं या स्कन्धधात्वायतनानां तथता या प्रतीत्यसमुत्पादस्य तथता या प्रतीत्यसमुत्पादाङ्गानां तथता या पारमितानां तथता या सर्वशून्यतानां तथता या सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानां तथता या सप्तत्रिंशद् बोधिपक्ष्याणां धर्माणां तथता याप्रमाणध्यानारूप्यसमापत्तीनां तथता यार्यसत्यानां तथता या त्रयाणां विमोक्षमुखानां तथता या पञ्चानाम् अभिज्ञानां तथता या दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माणां तथता या सम्यक्संबोधेस् तथता या स्रोतआपन्नस्य तथता या सकृदागामिनस् तथता यानागामिनस् तथता यार्हतस् तथता या प्रत्येकबुद्धस्य तथता या बोधिसत्त्वस्य महासत्त्वस्य तथता, या तथागतस्य तथता, यया तथतया तथागतः प्रज्ञप्यते, अपि नु सा तथता क्षीयते वा विरह्यते वा निरुध्यते वा प्रहीयते वा.
SK
सुभूतिर् आह: न भगवन् न सुगत.
SK
भगवान् आह: एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथतायां शिक्षते शिक्षते सर्वाकारज्ञतायां न च तथता क्षीयते वा विरह्यते वा निरुध्यते वा प्रहीयते वा. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथतायां शिक्षते शिक्षते सर्वाकारज्ञतायाम्. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथतायां शिक्षते शिक्षते षट्सु पारमितासु, शिक्षते सर्वासु शून्यतासु, शिक्षते स्मृत्युपस्थानेषु, शिक्षते सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु, शिक्षते आर्यसत्येषु, शिक्षते ऽप्रमाणध्यानारूप्यसमापत्तिषु, शिक्षते सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु, शिक्षते शून्यतानिमित्ताप्रणिहितेषु, शिक्षते पञ्चस्व् अभिज्ञासु, शिक्षते दशबलवैशारद्यप्रतिसंवित्सु, (PSP_५:३०) शिक्षते ऽष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, शिक्षते सर्वाकारज्ञतायाम्. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वशिक्षापरमपारमिताम् अनुप्राप्स्यति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न शक्यते मारेण वा मारकायिकाभिर् वा देवताभिर् अभिमर्दितुम्. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः क्षिप्रम् अविनिवर्तनीयताम् अनुप्राप्स्यति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः स्वके पैतृके तथागतगोचरे चरति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो नाथकरणीयैर् धर्मैश् चरति बुद्धक्षेत्रपरिशोधनैः. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो महामैत्र्यां शिक्षते महाकरुणायां शिक्षते बुद्धक्षेत्रपरिशोधनाय शिक्षते सत्त्वपरिपाकाय शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् त्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तनतायै शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् परिनिर्वापयिष्यामीति शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथागतवंशस्यानुपच्छेदाय शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो ऽमृतधातुद्वारं विवरिष्यामीति शिक्षते, संस्कृतधातुं संदर्शयिष्यामीति शिक्षते, न हि सुभूते शक्यं हीनसत्त्वैर् इह शिक्षायां शिक्षितुं सर्वसत्त्वान् संसाराद् उद्धर्तुकामः स सत्त्वो यो ऽस्यां शिक्षायां शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न नरकेषूपपद्यते, न तिर्यग्योनौ न यमलोके उपपद्यते, न प्रत्यन्तेषु जनपदेषूपपद्यते न चण्डालकुलेषूपपद्यते, नान्येषु नीचेषु नीचवृत्तिषु कुत्सितेषु कुलेषूपपद्यते, न काणो भवति, न कुण्डो भवति, न लङ्गो भवति, न लल्लो भवति, न वधिरो भवति, न पक्षहतो भवति, न विकलेन्द्रियो भवति, सुपरिपूर्णेन्द्रियो भवति, नापरिपूर्णेन्द्रियो भवति, न प्राणातिपातिको भवति, नादत्तादायी भवति, न काममिथ्याचारी भवति, न मृषावादी भवति, न परुषवाग् भवति, न पिशुनवाग् भवति, नाबद्धप्रलापी भवति, नाभिध्यालुर् भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिर् भवति, न मिथ्याजीवेन जीविकां कल्पयति, नाभूतपरिग्रहं करोति, न दुःशीलपरिग्राहको भवति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेसूवेषूपपद्यते. तत् कस्य हेतोः? तथा (PSP_५:३१ ) ह्य् अस्ति तस्योपायकौशल्यं येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वो ध्यानानि च समापद्यते, अप्रमाणानि च समापद्यते, आरूप्यसमापत्तीश् च समापद्यते, न च ध्यानानां न चाप्रमाणानां न चारूप्यसमापत्तीनां वशेनोपपद्यते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणां परिशुद्धिम् अधिगच्छति, श्रावकभूमेः प्रत्येकबुद्धभूमेर् अपि परिशुद्धिम् अधिगच्छति.
SK
एवम् उक्ते आयुष्मान् सुभूतिः स्थविरो भगवन्तम् एतद् अवोचत्: यद् भगवन् सर्वधर्माः प्रकृतिपरिशुद्धास्, तत् कतमस्य धर्मस्य बोधिसत्त्वो महासत्त्वः परिशुद्धिम् अधिगच्छति?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि सर्वधर्माः सुभूते परकृतिपरिशुद्धाः, एवं परिशुद्धेषु सुभूते सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य या तत्रासंसीदनता अनवलीनता, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. तत्सर्वबालपृथग्जना एतान् धर्मान् न जानन्ति न पश्यन्ति, तेषां सत्त्वानां कृतेन बोधिसत्त्वो महासत्त्वो दानपारमितायां चरति शीलपारमितायां चरति क्षान्तिपारमितायां चरति वीर्यपारमितायां चरति ध्यानपारमितायां चरति प्रज्ञापारमितायां चरति, अध्यात्मशून्यतायां चरति यावद् अभावस्वभावशून्यतायां चरति, स्मृत्युपस्थानेषु चरति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरत्य्, आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु चरति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, शून्यतानिमित्ताप्रणिहितेषु चरति, पञ्चस्व् अभिज्ञासु चरति दशबलवैशारद्यप्रतिसंवित्सु चरति, अष्टादशावेणिकेषु बुद्धधर्मेषु चरति सर्वाकारज्ञतायां चरति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु बलवैशारद्यम् अनुप्राप्नोति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वचित्तचरितानां पारं गच्छति. इति नवमी
SK
तद्यथापि नाम सुभूते ऽल्पकास् ते महापृथिवीप्रदेशा यत्र जांबूनदं सुवर्णं जातरूपम् उत्पद्यते, एवम् एव सुभूते ऽल्पकास् ते सत्त्वा य इह शिक्षायां शिक्षण्ते, यद् उत प्रज्ञापारमिताशिक्षायाम् इतो बहुतरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धभूमौ संप्रस्थिताः. इति दशमी
SK
तद्यथापि नाम सुभूते ऽल्पकास् ते सत्त्वा ये चक्रवर्तिराज्यसंवर्तनीयं कर्म समादाय वर्तन्ते, अतः प्रभूततरकास् ते सत्त्वा (PSP_५:३२) ये कोट्टराज्यं संवर्तनीयं कर्म समदाय वर्तन्ते. एवम् एव सुभूते ऽल्पतरकास् ते सत्त्वा य इमं सर्वाकारज्ञतामार्गं समारुहन्ति, अतः प्रभूततरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धमार्गं समारुहन्ति. ये ऽपि ते सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् ततो ऽल्पकास् ते बोधिसत्त्वा महासत्त्वा ये तथतायै प्रतिपद्यन्ते, अतः प्रभूततरकास् ते सत्त्वा ये श्रावकप्रत्येकबुद्धत्वाय स्थास्यन्ति. ये ऽपि ते सुभूते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरः प्रज्ञापारमितयाविरहिता ये ऽविनिवर्तनीयभूमिम् अवक्रमिष्यन्ति, अतः प्रभूततरकास् ते ये सत्त्वाविनिवर्तनीयभूमिन् नावक्रमिष्यन्ति, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनाविनिवर्तनीयभूमिम् अनुप्राप्तुकामेनाविनिवर्तनीयभूमौ गणनां गन्तुकामेनेहैव गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यम्. इत्य् एकादशी
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न मात्सर्यसहगतं चित्तम् उत्पद्यते, न दौःशील्यसहगतं चित्तम् उत्पद्यते, न क्षोभसहगतं चित्तम् उत्पद्यते, न कौशीद्यसहगतं चित्तम् उत्पद्यते, न विक्षिप्तसहगतं चित्तम् उत्पद्यते, न दौःप्रज्ञासहगतं चित्तम् उत्पद्यते, न रागसहगतं चित्तम् उत्पद्यते, न द्वेषसहगतं चित्तम् उत्पद्यते, न मोहसहगतं चित्तम् उत्पद्यते, न खिलसहगतं चित्तम् उत्पद्यते. इति द्वादशी
SK
न रूपसहगतं चित्तम् उत्पद्यते, न वेदनासंज्ञासंस्कारसहगतं चित्तम् उत्पद्यते, न विज्ञानसहगतं चित्तम् उत्पद्यते न स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गसहगतं चित्तम् उत्पद्यते, एवं न सर्वशून्यताः सर्वपारमिताः सप्तत्रिंशद्बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसहगतं चित्तम् उत्पद्यते, न सम्यक्संबोधिसघगतं चित्तम् उत्पद्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायाञ् चरन् न कञ्चिद् धर्मम् उपलभते, अनुपलम्भमानो न कञ्चिद् धर्मचित्तम् उत्पादयति. एवं खलु सुभूते इह गम्भीरायां प्रज्ञापारमितायां शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वाः पारमिताः संगृहीता भवन्ति, सर्वाः पारमिताः समुदानीता भवन्ति, सर्वाः पारमिता (PSP_५:३३) अनुगता भवन्ति. तत् कस्य हेतोः? तथा हि सुभूते इह गम्भीरायां प्रज्ञापारमितायां सर्वाः पारमिता अन्तर्गता भवन्ति. इति त्रयोदशी
SK
तद्यथापि नाम सुभूते सत्कायदृष्ट्यां द्वाषष्टिदृष्टिगतान्य् अन्तर्गतानि भवन्ति, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्येह गम्भीरायां प्रज्ञापारमितायां चरतः सर्वाः पारमिता अन्तर्गता भवन्ति. तद्यथापि नाम सुभूते पुरुषस्य कालगतस्य जीवितेन्द्रिये निरुद्धे सर्वाणीन्द्रियाणि निरुद्धानि भवन्ति. एवम् एव सुभूते बोधिसत्त्वस्य महासत्वस्येह गम्भीरायां प्रज्ञापारमितायां चरतः सर्वाः पारमिता अन्तर्गता भवन्ति, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वपारमितानां पारं गन्तुकामेन इह गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यम्. इति चतुर्दशी
SK
इह पुनः सुभूते गम्भीरायां प्रज्ञापारमितायां शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अग्रतायै शिक्षते. तत् किं मन्यसे? सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वा अपि नु ते बहवः.
SK
सुभूतिर् आह: बहवो भगवन् जांबूद्वीपका एव तावत् सत्त्वाः कः पुनर् वादो ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः.
SK
भगवान् आह: यावन्तः सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽपूर्वाचरममानुष्यकम् आत्मभावं प्रतिलभ्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येरंस् तां सर्वान् एकैको बोधिसत्त्वो यावज्जीवं तिष्ठंस् तथागतान् अर्हतः सम्यक्संबुद्धांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपतिष्ठेत्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां गम्भीरां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. तत् कस्य हेतोः? एवं महर्द्धिका हि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता अनुत्तरायाः सम्यक्संबोधेर् आहारिका. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अनुत्तरेन भवितुकामेन सर्वसत्त्वानाम् अनाथानां नाथेन भवितुकामेनाशरणानां शरणेन भवितुकामेनापरायणानां परायणेन भवितुकामेनात्राणानां त्राणेन (PSP_५:३४) भवितुकामेनालयनानां लयनेन भवितुकमेनाद्वीपनां द्विपेन भवितुकामेन बुद्धत्वम् अनुप्रापुतुकामेन बुद्धविषयम् अनुप्राप्तुकामेन बुद्द्धविक्रीडितं विक्रीडितुकामेन, बुद्धसिंहनादं नदितुकामेन बुद्धशंखं प्रपूरयितुकामेन बुद्धसांकथ्यं कर्तुकामेन इहैव गम्भीरायां प्रज्ञापारमितायां शिक्षितव्यं, प्रज्ञापारमितायां शिक्षमाणो बोधिसत्त्वो महासत्त्वो न सा काचित् संपत्तिर् यां न प्रतिलभते या तेन न प्रतिलब्धा स्यात्.
SK
सुभूतिर् आह: श्रावकसंपद् अपि तेन प्रतिलब्धव्या प्रत्येकबुद्धसंपद् अपि तेन प्रतिलब्धव्या.
SK
भगवान् आह: श्रावकसंपद् अपि तेन सुभूते प्रतिलब्धव्या, प्रत्येकबुद्धसंपद् अपि तेन सुभूते प्रतिलब्ध्या, तत्र च न स्थातव्यं न प्रतिष्ठातव्यं, ज्ञानेन च दर्शनेन च दृष्ट्वातिक्रमिष्यति बोधिसत्त्वनियामम् अवक्रमिष्यति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताया अभ्यासी भवत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरस्य लोकस्य दक्षिणीयतां गच्छति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः ये तदन्ये दक्षिणीयाः श्रावकप्रत्येकबुद्धास् तान् सर्वान् अभिभवित्वा गच्छति, सर्वाकारज्ञतायाश् चाभ्यासी भवति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न रिञ्चति प्रज्ञापारमितां चरति प्रज्ञापारमितायाम् अविरहितः प्रज्ञापारमितया, एवं चरन् सुभूते बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायाम् अपरिहाणधर्मा वेदितव्याः, सर्वाकारज्ञताया दूरीकरोति श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वाभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेः. इति पञ्चदशी
SK
सचेत् पुनस् तस्यैवं भवति, इयं प्रज्ञापारमिता, अमुष्मिन् प्रज्ञापारमिता, इमायै प्रज्ञापारमितायै सर्वाकारज्ञताम् आवहिष्यामीति, सचेद् एवं जानाति न चरति प्रज्ञापारमितायां सचेद् एवं प्रज्ञापारमितां न जानाति, इयं प्रज्ञापारमिता, अमुष्मिन् प्रज्ञापारमिता, इमायै प्रज्ञापारमितायै सर्वाकारज्ञताम् आवहिष्यामीति, तद् अपि न जानाति न पश्यति यस्य वा प्रज्ञापारमिता येन वा प्रज्ञापारमिता यो वा प्रज्ञापारमितया निर्यात्य् एवम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सचेत् पुनर् अस्यैवं भवति, नेयं प्रज्ञापारमिता नामुष्मिन् प्रज्ञापारमिता (PSP_५:३५) नानया प्रज्ञापारमितया कश्चिद् धर्मो निर्यास्यति स्थितत्वाद् धर्मधातोस् तथताया भूतकोटेर्, एवं चरन् बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायाम् अभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेः. इति षोडशी विवृद्धिर् इत्य् उक्ता विवृद्धिः
SK
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: चरन्न् अपीह बोधिसत्त्वो महासत्त्वो दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायार, अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेस्व् आर्यसत्येस्व् अप्रमाणध्यानारूप्यसमापत्तिधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु पञ्चस्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् सर्वसत्त्वान् अभिभवति, कः पुनर् वादो यदानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भविष्यति. सुलब्धास् तैर् लाभाः सुजीवितं तेषां सत्त्वानां येषां सर्वाकारज्ञतायां चित्तं क्रमति, कः पुनर् वादो यैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं, स्पृहणीयास् ते सत्त्वा ये ऽनुत्तरायाः सम्यक्संबोधेश् चित्तम् उत्पादयिष्यन्ति, स्पृहणीयास् ते सत्त्वा ये ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयन्ति.
SK
अथ खलु शक्रो देवानाम् इन्द्रो मान्दारवाणि पुष्पाणि गृहीत्वा येन भगवांस् तेनोपसंक्रामद् उपसंक्रम्य तैर् मान्दारवैः पुष्पैस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् अवकिरति स्म अभ्यवकिरति स्म प्रकिरति स्म, अवकीर्याभ्यवकीर्य प्रविकीर्यैवं वाचम् अभाषत: ये बोधिसत्त्वयानिकाः पुद्गला अनुत्तरां सम्यक्संबोधिम् अध्यालम्बन्ते तेषाम् अनेन कुशलमूलेनानुत्तराणां बुद्धधर्माणां परिपूरिर् भवतु, त्रिसर्वज्ञतासर्वधर्माणां प्रिपूरिर् भवतु, एषां स्वयंभूधर्माणां परिपूरिर् भवतु, एषाम् अनास्रवधर्माणां परिपूरिर् भवतु. इति त्रिसर्वज्ञत्वधर्मानुत्तरा परिपूरिनिरूढिः
SK
न मे भगवन्न् एकश् चित्तोत्पादो ऽप्य् उत्पद्यते यद् बोधिसत्त्वयानिकः पुद्गलो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो विवर्तेतानुत्तरायाः सम्यक्संबोधेर्, न हि मे भगवन्न् एकश् चित्तोत्पादो ऽप्य् उत्पद्यते यद् बोधिसत्त्वो महासत्त्वो विवर्त्य श्रावको वा प्रत्येकबुद्धो वा भवेद्, अथ तर्हि छन्दं जनयेद् अनुत्तरायां सम्यक्संबोधौ भूयस्या मात्रया (PSP_५:३६) प्रणिधिं कुर्वीतानुत्तरायां सम्यक्संबोधौ, इमानि संसरावचराणि दुःखानि दृष्ट्वार्थकामः सुखकामः हितकामः स सदेवमानुषासुरस्य लोकस्य य एतैश् चित्तोत्पादैः समन्वागतो बोधिसत्त्वो महासत्त्व एवं चिन्तयति, किम् इति वयं तीर्णा अतीर्णान् सत्त्वांस् तारयेम, किम् इति वयं मुक्ता अमुक्तान् सत्त्वान् मोचयेम, किम् इति वयम् आश्वस्ता अनाश्वस्तान् सत्त्वान् आश्वासयेम, किम् इति वयं परिनिर्वृता अपरिनिर्वृतान् सत्त्वान् परिनिर्वापयेमेति. कियत् स भगवन् कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसवति यः प्रथमयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? चर्याप्रतिपन्नानाञ् च बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? अविनिवर्तनीयानां च बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? एकजातिप्रतिबद्धानां बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? इत्य् अपरित्यक्तसत्त्वार्था निरूढिर् इत्य् उक्ता निरूढिः
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: स्यात् कौशिक चातुर्महाद्वीपके लोकधातौ पलाग्रेण प्रमाणं न त्व् एव तेषाम् अनुमोदनासहगतानांश् चित्तोत्पादानां पुण्यस्य प्रमाणं, तिष्ठतु कौशिक चातुर्द्वीपको लोकधातुर् एवं साहस्रो लोकधातुर् एवं द्विसाहस्रो मध्यमो लोकधातुः, स्यात् खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ पलाग्रेण प्रमाणं न त्व् एव तेषाम् अनुमोदनासहगतानां चित्तोत्पादानां पुण्यस्य प्रमाणं, स्यात् खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ महासमुद्रेषु शतधा भिन्नया वालाग्रकोट्या उदकबिन्दूनाम् उत्क्षिप्यमानानां प्रमाणं न त्व् एव तेषाम् अनुमोदनासहगतानां चित्तोत्पादानां पुण्यस्य प्रमाणम्.
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: माराधिष्ठितास् ते भगवन् सत्त्वा भविष्यन्ति, य इमांश् चित्तोत्पादान् नानुमोदिष्यन्ते. मारपक्षिकास् ते भगवन् सत्त्वा भविष्यन्ति, मारभवनात् ते भगवन् सत्त्वाश् च्युता भविष्यन्ति, य इमांश् चित्तोत्पादान् नानुमोदिष्यन्ते. मारभवनात् ते भगवन् सत्त्वा इहागता भविष्यन्ति, य इमांश् चित्तोत्पादान् नानुमोदिष्यन्ते. तत् कस्य हेतोः? मारभवनविध्वंसनकरास् ते भगवन् सत्त्वा, यैर् इमे चित्तोत्पादा अभिनिर्हृता, ये ऽनुत्तरायां सम्यक्संबोधौ परिणामयन्ति. अनुमोदितव्यास् ते भगवंश् चित्तोत्पादा, ये ऽनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयन्ति. यैर् अपरित्यक्तो बुद्धो ऽपरित्यक्तो धर्मो ऽपरित्यक्तः संघस्, तैर् इमे चित्तोत्पादा (PSP_५:३७) अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयितव्या यथा न द्वयः संज्ञी नाद्वयः संज्ञी.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, यथा त्वं वदसि, य इमान् कौशिक चित्तोत्पादान् अनुमोदिष्यन्ते ते क्षिप्रं तथागतम् अर्हन्तं सम्यक्संबुद्धम् आरागयिष्यन्ति आरागयित्वा न विरागयिष्यन्ति. एवं ते एभिर् अनुमोदनासहगतैश् चित्तोत्पादकुशलमूलैः समन्वागता यत्र यत्रोपपत्स्यन्ते तत्र तत्र सत्कृता भविष्यन्ति, गुरुकृता मानिताः पूजिता अर्चिता अपचायिता भविष्यन्ति. तत्र ते न जात्व् अमनआपानि रूपाणि द्रक्ष्यन्ति, नामनआपान् शब्दान् श्रोष्यन्ति, नामनआपान् गन्धान् घ्रास्यन्ति, नामनआपान् रसान् आस्वादयिष्यन्ति, नामनआपान् स्प्रष्टव्यान् स्प्रक्ष्यन्ति, नामनआपान् धर्मान् विज्ञास्यन्ति. न च ते जातु बुद्धैर् भगवद्भिर् विरहिता भविष्यन्ति, बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रमिष्यन्ति, तांश् च बुद्धान् भगवतः पर्युपासिष्यन्ते, कुशलमूलञ् चावरोपयिष्यन्ति. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् चासंख्येयानाम् अप्रमेयाणाम् अपरिमाणानां बोधिसत्त्वानां महासत्त्वानां नवयानसंप्रस्थितानां कुशलमूलान्य् अनुमोदितान्य् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामितानि, प्रथमभूमिस्थितानां कुशलमूलान्य् अनुमोदितानि, द्वितीयभूमिस्थितानां यावद् दशभूमिस्थितानां यावद् एकजातिप्रतिबद्धानां बोधिसत्त्वानां महासत्त्वानां तानि कुशलमूलान्य् अनुमोदितानि, तैश् च कुशलमूलैर् विबद्धमानैर् अनुत्तरायाः सम्यक्संबोधेर् अभ्यासी भवन्ति. ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्याप्रमेयान् असंख्येयान् अपरिमाणसत्त्वान् परिनिर्वापयिष्यन्ति. तद् अनेन कौशिक पर्यायेण तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रथमचित्तोत्पादिकानां बोधिसत्त्वानां महासत्त्वानां तानि कुशलमूलान्य् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामयितव्यानि, तथा च परिणामयितव्यानि यथा तच् चित्तम् अन्यत्र चित्तेन चरेन् नान्यत्र चित्तेन. इत्य् उक्ता चित्तसंस्थितिः
SK
अविनिवर्तनीयानाम् एकजातिप्रतिबद्धानां तानि कुशलमूलान्य् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामयितव्यानि, तथा च परिणामयितव्यानि यथा न द्वयसंज्ञा नाद्वयसंज्ञा. इति सकलप्रवृत्तिपक्षाधिष्ठानः प्रथमो ग्राह्यविकल्पः (PSP_५:३८)
SK
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिं स्थविरम् एतद् अवोचत्: किं पुनर् आयुष्मन् सुभूते प्रज्ञापारमितैवाविकल्पा, उताहो ध्यानपारमिताप्य् अविकल्पा, वीर्यपारमिताप्य् अविकल्पा, क्षान्तिपारमिताप्य् अविकल्पा, शीलपारमिताप्य् अविकल्पा, दानपारमिताप्य् अविकल्पा.
SK
सुभूतिर् आह: अविकल्पा आयुष्मन् शारिपुत्र प्रज्ञापारमिता, अविकल्पा ध्यानपारमिता, अविकल्पा वीर्यपारमिता, अविकल्पा क्षान्तिपारमिता, अविकल्पा शीलपारमिता, अविकल्पा आयुष्मन् शारिपुत्र दानपारमिता.
SK
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते रूपम् अविकल्पं, वेदना संज्ञा संस्कारा, विज्ञानम् अप्य् अविकल्पं, चक्षुश् चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्यया वेदना अविकल्पा. एवं श्रोत्रं घ्राणं जिह्वा काया, मनो मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शप्रत्यया वेदना अविकल्पा. किं पुनर् आयुष्मन् सुभूते रूपम् अविकल्पं, शब्दो गन्धो रसः स्प्रस्तव्यं, धर्मा अप्य् अविकल्पाः. किं पुनर् आयुष्मन् सुभूते ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वाविकल्पाः स्मृत्युपस्थानानि वा सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा वा अविकल्पाः, शून्यतानिमित्ताप्रणिहितार्यसत्याभिज्ञा सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि वा सर्वशून्यता वा सर्वसमाधयो वा दशतथागतबलानि वा चत्वारि वैशारद्यानि वा चतस्रः प्रतिसंविदो वा महामैत्री वा महाकरुणा वाविकल्पा यावद् अष्टादशावेणिका बुद्धधर्मा अविकल्पाः, बुद्धो ऽप्य् अविकल्पः बोधिर् अप्य् अविकल्पा संस्कृतो धातुर् अप्य् अविकल्पो ऽसंस्कृतो धातुर् अप्य् अविकल्पः.
SK
सुभूतिर् आह: सर्वधर्मा अप्य् आयुष्मञ् छारिपुत्राविकल्पाः.
SK
शारिपुत्र आह: यद्य् आयुष्मन् सुभूते सर्वधर्मा अविकल्पाः, तत् कुतो ऽयं पञ्चगतिकस्य संसारस्य संभेदः? कुतो वा नरकतिर्यग्योनियमलोकदेवमनुष्याणां व्यवस्था? कुतो वा प्रभावना स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां बुद्धानां भगवताम्?
SK
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यद् एते आयुष्मन् शारिपुत्र सत्त्वा विपर्यास समुत्थिताः कर्माभिसंस्कुर्वन्ति कायेन वाचा मनसा वा, अतो निदानं विवर्तन्ते, छन्दमूलकर्मपरिगृहीता नरकतिर्यग्योनियमलोकदेवमनुष्याः, यत् पुनर् आयुष्मान् शारिपुत्र एवम् आह, कुतः स्रोतआपन्नाः प्रभाव्यन्ते, सकृदागामिनः प्रभाव्यन्ते, अनागामिनः प्रभाव्यन्ते, अर्हन्तः प्रभाव्यन्ते प्रत्येकबुद्धाः (PSP_५:३९) प्रभाव्यन्ते, कतो यावद् बुद्धा भगवन्तः प्रभाव्यन्ते?
SK
सुभूतिर् आह: अविकल्पतया आयुष्मन् शारिपुत्र स्रोतआपन्नो ऽविकल्पः, स्रोतआपत्तिफलम् अविकल्पम्, एवं सकृदागाम्य् अनागाम्य् अर्हत्त्वम्, अविकल्पं प्रत्येकबुद्धत्वं, प्रत्येकबोधिर् अविकल्पा, अतो ऽविकल्पः प्रत्येकबुद्धः. ये ऽपि ते आयुष्मन् शारिपुत्राभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् आयुष्मन् शारिपुत्र बुद्धा भगवन्तो ऽविकल्पो विकल्पप्रहीणास्, तद् अनेनापि ते आयुष्मन् शारिपुत्र पर्यायेणैवं वेदितव्यं, सर्वधर्मा अविकल्पा अविकल्पतथतां प्रमाणीकृत्य भूतकोटिं धर्मधातुम्. एवं खल्व् आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेनाविकल्पायां प्रज्ञापारमितायां चरितव्यम्, अविकल्पायां प्रज्ञापारमितायां चरन्न् अविकल्पं धर्मम् अभिसंबुध्यते. इति समस्तनिवृत्तिपक्षाधिष्ठानो द्वितीयो ग्राह्यविकल्पः
SK
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सारे बतायम् आयुष्मन् सुभूते चरति बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: असारे बतायं चरत्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरति. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्रासारा प्रज्ञापारमिता, असारा ध्यानपारमिता, असारा वीर्यपारमिता, असारा क्षान्तिपारमिता, असारा शीलपारमिता, असारा दानपारमिता, एवं यावद् असारा सर्वाकारज्ञता. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् असारम् एव नोपलभते न समनुपश्यति, कुतः पुनः सारम् उपलप्स्यते, एवं यावद् असारां सर्वाकारज्ञतां, कुतः पुनः सारम् उपलप्स्यते.
SK
अथ खलु संबहुलानां कामावचराणां रूपावचराणाञ् च देवपुत्राणाम् एतद् अभवत्: नमस्कर्तव्यास् ते कुलपुत्राः कुलदुहितरश् च यैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं, ये चेह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां चरन्ति, अत्र चार्थे चरन्तो न च भूतकोटिं साक्षात्कुर्वन्ति, असाक्षात्कुर्वतः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा न तिष्ठेयुर्, अनेन भगवन् पर्यायेण नमस्कर्तव्यास् ते भगवन् बोधिसत्त्वा महासत्त्वा य इमां धर्मसमतां न साक्षात्कुर्वन्ति.
SK
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: नेदं (PSP_५:४०) देवपुत्रा दुष्करं बोधिसत्त्वानां महासत्त्वानां य इमं धर्मसमतां न साक्षात्कुर्वन्ति, यस्याः साक्षात्कृतायाः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा तिष्ठेयुः. इदं तेषां देवपुत्रा दुष्करं यद् असंख्येयान् अप्रमेयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति संनाहं संनह्यन्ते, ते च सत्त्वा अत्यन्ततया नोपलभ्यन्ते ये विनयितव्या इति. एवञ् चरन्तो बोधिसत्त्वा महासत्त्वाः संप्रस्थिता अनुत्तरायां सम्यक्संबोधौ सर्वसत्त्वान् विनयिष्याम इति, आकाशं स विनयितव्यं मन्येत यः सत्त्वान् विनयितव्यान् मन्येत. तत् कस्य हेतोः? आकाशविविक्ततया सत्त्वविविक्तता द्रष्टव्या, आकाशशून्यतया सत्त्वशून्यता द्रष्टव्या, आकाशासारतया सत्त्वासारता द्रष्टव्या, आकाशतुच्छतया सत्त्वतुच्छता द्रष्टव्या इति. अनेनापि देवपुत्राः पर्यायेण दुष्करकारको बोधिसत्त्वो महासत्त्वो यो ऽसंविद्यमानानां सत्त्वानां कृतशः संनाहं संनह्यते आकाशेन सार्धं स विवदितव्यं मन्येत यः सत्त्वानां कृतशः संनाहं संनद्धव्यं मन्येत, स च संनाहः संनद्धो बोधिसत्त्वेन महासत्त्वेन सत्त्वाश् च नोपलभ्यन्ते येषाम् अर्थाय संनाहः संनद्धः. तत् कस्य हेतोः? सत्त्वविविक्ततया संनाहविविक्तता द्रष्टव्या. सचेद् एवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? रूपविविक्ततया सत्त्वविविक्तता, वेदनासंज्ञासंस्कारविज्ञानविविक्ततया सत्त्वविविक्तता, प्रज्ञापारमिताविविक्ततया रूपविविक्तता यावद् विस्तरेण सर्वाकारज्ञताविविक्तता. सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मविविक्ततायां भाष्यमाणायां चित्तं नावलीयते न संलीयते न संत्रासम् आपद्यते, चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्. इति द्रव्यसत्पृथग्जनपुरुषाधिष्ठानः प्रथमो ग्राहकविकल्पः
SK
भगवान् आह: केन कारणेन सुभूते बोधिसत्त्वो महासत्त्वो न संसीदति प्रज्ञापारमिताया?
SK
सुभूतिर् आह: असत्त्वाद् भगवन् न संसीदति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां, विविक्तत्वाच् छान्तत्वाद् अनुत्पादत्वाद् भगवन् न संसीदति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्, अनेन भगवन् कारणेन बोधिसत्त्वो महासत्त्वो न संसीदति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि भगवन् स नोपलभ्यते यः संसीदते, येन (PSP_५:४१) वा संसीदते यत्र वा संसीदते सर्व एते धर्मा नोपलभ्यन्ते. सचेद् भगवन्न् एवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति न विषीदति नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? तथा हि भगवन् सर्व एते धर्मा नोपलभ्यन्ते यो वा संसीदेत् येन वा संसीदेत् यत्र वा संसीदेत्, एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतयो देवा नमस्यन्ति यः प्रज्ञापारमितायां चरति. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न केवलं सुभूते सेन्द्रकैर् देवैः सब्रह्मकैः सप्रजापतिकैर् देवैर् नमस्यनीयो बोधिसत्त्वो महासत्त्वो य एवं प्रज्ञापारमितायां चरति, ये ऽपि ते ऽतिक्रान्तवर्णा देवपुत्राः शुभकृत्स्ना वृहत्फला यावच् छुद्धावासका देवपुत्रास् ते ऽपि सुभूते नमस्यन्ति बोधिसत्त्वं महासत्त्वं य एवं प्रज्ञापारमितायां चरति.
SK
ये ऽपि ते सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धास् तं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां चरन् तं समन्वाहरन्ति. अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितां परिपूरयिष्यति, वीर्यपारमितां परिपूरयिष्यति, क्षान्तिपारमितां परिपूरयिष्यति, शीलपारमितां परिपूरयिष्यति, दानपारमितां परिपूरयिष्यति, अध्यात्मशून्यतां परिपूरयिष्यति यावद् अभावस्वभावशून्यतां परिपूरयिष्यति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् परिपूरयिष्यति, दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् परिपूरयिष्यति यावत् सर्वाकारज्ञतां परिपूरयिष्यति, यावत् पुनः सुभूते बोधिसत्त्वान् महासत्त्वान् बुद्धा भगवन्तः प्रज्ञापारमितायां चरतः समन्वाहरन्ति, ते बोधिसत्त्वा महासत्त्वा बुद्धप्रतिपन्ना धारयितव्याः, यावन्तः सुभूते गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्वे माराः पापीयांसो भवेयुर् एकैकश् च मारः पापीयांस् तावत एव मारान् पापीयासो ऽभिनिर्मिमीते, ते सर्वे ऽप्रतिबलास् तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ऽन्तरायं कर्तुम्.
SK
द्वाभ्यां सुभूते धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो (PSP_५:४२) दुर्धर्षो भवति मारैः पापीयोभिः. कतमाभ्यां द्वाभ्यां? सर्वधर्माश् च शून्यतातो व्यवलोकिता भवन्ति, सर्वसत्त्वाश् चापरित्यक्ता भवन्ति. आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्धर्षो भवति मारैः पापीयाभिः. अपराभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुर्धर्षो भवति मारैः पापीयोभिः. कतमाभ्यां द्वाभ्याम्? यथावादी तथाकारी च भवति बुद्धांश् च भगवतः समन्वाहरति. आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुर्धर्षो भवति मारैः पापीयोभिः. एवञ् चरतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य ते देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते पर्युपास्यन्ते परिप्रश्नयन्ति, उत्साहञ् च ददाति: क्षिप्रं त्वं कुलपुत्र बुद्धबोधिं समनुप्राप्स्यसि तस्मात् तर्हि त्वं कुलपुत्र एतेनैव विहारेण विहर यद् उत शून्यताविहारेणानिमित्तविहारेणाप्रणिहितविहारेण. तत् कस्य हेतोः? एतेन त्वं कुलपुत्र विहारेण विहरन्न् अनाथानां सत्त्वानां नाथो भविष्यसि, असरणानां शरणं भविष्यसि, अत्राणानां सत्त्वानां त्राणं भविष्यसि, अपरायणानां सत्त्वानां परायणं भविष्यसि, अलयनानां सत्त्वानां लयनं भविष्यसि, अद्वीपानां सत्त्वानां द्वीपो भविष्यसि, अन्धभूतानां सत्त्वानाम् आलोको भविष्यसि. तत् कस्य हेतोः? एतेन हि प्रज्ञापारमिताविहारेणाविरहितस्य बोधिसत्त्वस्य महासत्त्वस्यामी गुणा भवन्ति.
SK
ये ऽपि ते ऽसंख्येयेष्व् अप्रमेयेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि भिक्षुसंघपरिवृता बुद्धा भगवन्तो बोधिसत्त्वगणपुरस्कृता, यो ऽसौ प्रज्ञापारमितायां चरत्य् एतैर् एव गुणैः समन्वागतो यद् उत प्रज्ञापारमितागुणैस् तस्य ते बुद्धा भगवन्तो नामं च गोत्रं च परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.
SK
तस्य बोधिसत्त्वस्य महासत्त्वस्य तद्यथापि नामाहम् एतर्हि रत्नकेतोर् बोधिसत्त्वस्य महासत्त्वस्य नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि, शिखिनश् च बोधिसत्त्वस्य महासत्त्वस्य नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि. (PSP_५:४३)
SK
ये ऽपि ते बोधिसत्त्वा महासत्त्त्वा अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरन्ति, अनया च प्रज्ञापारमितयाविरहितास् तेषाम् अहं बोधिसत्त्वानां महासत्त्वानां नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि.
SK
ये ऽपि ते पूर्वस्यां दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, तत्र ये बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्ति, अनया प्रज्ञापारमितयाविरहितास् तेषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयत्य् उदानं चोदानयन्ति. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्ध्वम् अत्र विदिक्षु लोकधातुषु, ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, तत्र ये बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्ति, अनया प्रज्ञापारमितयाविरहितास् तेषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.
SK
ये ऽपि ते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वमार्गं परिपूरयमाणा यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, तेषाम् अपि ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति. तत् कस्य हेतोः? एवं दुष्करकारका हि सुभूते बोधिसत्त्वा महासत्त्वा भवन्ति, ये बुद्धनेत्र्यव्यवच्छेदाय प्रतिपन्नाः.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमेषां भगवन् बोधिसत्त्वानां महासत्त्वानां नामधेयं परिकीर्तयमानरूपास् ते बुद्धा भगवन्तो धर्मं देशयन्त्य् उदानं चोदानयन्ति विनिवर्तनीयानां वा अविनिवर्तनीयानां वा?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सन्ति सुभूते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया ये प्रज्ञापारमितायां चरन्ति, सन्ति विनिवर्तनीया बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां चरन्ति, येषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति. ये ऽपि ते रत्नकेतोर् बोधिसत्त्वस्य महासत्त्वस्यानुशिक्षमाणरूपा बोधिसत्त्वचारिकां चरन्ति तेषां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.
SK
पुनर् अपरं सुभूते ये ऽपि ते बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्ति, सर्वधर्मा अनुत्पत्तिका इत्य् अधिमुक्ता न चानुत्पत्तिकैर् (PSP_५:४४) धर्मैः क्षान्तिः प्रतिलब्धा, सर्वधर्माः शून्या इत्य् अधिमुक्ता न चानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, सर्वधर्माः शान्ता इत्य् अधिमुक्ताः सर्वधर्मा विगता इति तुच्छका इति वशिका इत्य् असारका इत्य् अधिमुक्ता न चानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, एषां सुभूते बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.
SK
येषां ते सुभूते बोधिसत्त्वानां महासत्त्वानां बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूउपा धर्मं देशयन्त्य् उदानं चोदानयन्ति, तेषाम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रहीणा श्रावकभूमिश् च प्रत्येकबुद्धभूमिश् च प्रतिकाङ्क्षितव्या, व्याक्रियन्ते च ते ऽनुत्तरायां सम्यक्संबोधौ.
SK
यस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बुद्धा भगवन्तो नामधेयं परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति, स बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयतायां स्थास्यति यत्र स्थित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति. पुनर् अपरं सुभूते बोधिसत्त्वा महासत्त्वा गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां श्रुत्वा न काङ्क्षिष्यन्ति न विचिकित्सिष्यन्ति न धन्धायिष्यन्ति. एवम् एतद् यथा तथागतेनार्हता सम्यक्संबुद्धेन भाषितेत्य् अधिमोक्ष्यन्ते बोधिम् अभिसंभोत्स्यते, कस् तत्र स्थित्वा धर्मं देशयिष्यति? नेदं स्थानं विद्यते.
SK
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवन् प्रज्ञापारमिता दुष्करकारका भगवन् बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामाः. तत् कस्य हेतोः? न च नाम भगवन् कश्चित् तथतायां तिष्ठति नापि कश्चिद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते नापि कश्चिद् धर्मं देशयति. अथ च नावलीयते न चास्य काङ्क्षायितत्वं वा धन्धायितत्वं वा भवति. इति प्रज्ञप्तिसहार्यपुद्गलाधिष्ठानो द्वितियो ग्राहकविकल्पः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् मायोपमं चित्तम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते समनुपश्यसि त्वं तं मायोपमं चित्तम्.
SK
सुभूतिर् आह: न भगवन्, नाहं भगवन् मायोपमं चित्तं समनुपश्यामि. (PSP_५:४५)
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यत्र न माया, न मायोपमं चित्तं तत्र समनुपश्यसि त्वं चित्तम्. सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यत्र मायाया मायोपमाद् वा चित्तात् तं धर्मं समनुपश्यसि यो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
SK
सुभूतिर् आह: न भगवन्, नाहं भगवन् अन्यत्र मायाया मायोपमाद् वा चित्तात् तं धर्मं समनुपश्यामि यो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सो ऽहं भगवन्न् अन्यं धर्मं न समनुपश्यन् तत्कतमं धर्मम् उपदेक्ष्याम्य् अस्ति वा नास्ति वेति? यो धर्मो ऽत्यन्ततया विविक्तो न सो ऽस्तितां वा नास्तितां वोपैति, यो धर्मो ऽत्यन्ततया विविक्तो न सो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, न चासंविद्यमानो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोहोत्स्यते. तत् कस्य हेतोः? तथा हि भगवंस् ते धर्मा न संविद्यन्ते ये संक्लिश्येयुर् व्यवदायेयुर् वा. तत् कस्य हेतोः? तथा हि भगवन् प्रज्ञापारमितात्यन्तविविक्ता, ध्यानपारमितात्यन्तविविक्ता वीर्यपारमितात्यन्तविविक्ता, क्षान्तिपारमितात्यन्तविविक्ता, शीलपारमितात्यन्तविविक्ता, दानपारमितात्यन्तविविक्ता, एवम् अध्यात्मशून्यतात्र्यन्तविविक्ता यावद् अभावस्वभावशून्यतात्यन्तविविक्ता, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा अत्यन्तविविक्ताः, अप्रमाणध्यानारूप्यसमापत्त्यार्यसत्यान्य् अत्यन्तविविक्तानि, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अत्यन्तविविक्तानि, पञ्चाभिज्ञा अत्यन्तविविक्ता, दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा अत्यन्तविविक्ताः, अनुत्तरां सम्यक्संबोधिर् अप्य् अत्यन्तविविक्ता.
SK
यश् चात्यन्तविविक्तो धर्मो न स भावयितव्यो वा विभावयितव्यो वा, नापि कस्यचिद् धर्मस्याहारिका प्रज्ञापारमितात्यन्तविविक्तत्वाद्, यद्य् अत्यन्तविविक्ता प्रज्ञापारमिता तत् कथं भगवन् प्रज्ञापारमितम् आगम्य बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? अनुत्तरापि सम्यक्संबोधिर् अत्यन्तविविक्ता, कथं विविक्तेन विविक्तस्यानुबोधौ भवति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु (PSP_५:४६) सुभूते एवम् एतत्, अत्यन्तविविक्ता हि सुभूते प्रज्ञपारमिता, ऽत्यन्तविविक्ता ध्यानपारमिता, ऽत्यन्तविविक्ता वीर्यपारमिता, ऽत्यन्तविविक्ता क्षान्तिपारमिता, ऽत्यन्तविविक्ता शीलपारमिता, ऽत्यन्तविविक्ता दानपारमिता, अत्यन्तविविक्ताः सर्वशून्यताः, सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अत्यन्तविविक्ता, अनुत्तरा समयक्संबोधिर् अत्यन्तविविक्ता यावत् सर्वाकारज्ञता अत्यन्तविविक्ता. यथा सुभूते ऽत्यन्तविविक्ता प्रज्ञापारमिता यावत् सर्वाकारज्ञता तथात्यन्तविविक्ताम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
SK
सचेत् सुभूते न प्रज्ञापारमितात्यन्तविविक्ताभविष्यद् यावत् सर्वाकारज्ञतात्यन्तविविक्ता भविष्यन् न प्रज्ञापारमिताभविष्यद् यावन् न सर्वाकारज्ञताभविष्यद् एवं न प्रज्ञपारमिता. ये च पुनर् एवं श्रोष्यन्ति अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके गम्भीरां प्रज्ञापारमितां तेषां च बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चान्तिकाद्, अयम् अपि बोधिसत्त्वयानिकः पुद्गल इमां प्रज्ञापारमिताम् अधिमोक्ष्यते, इमां प्रज्ञापारमितां यथा तथागतेनार्हता सम्यक्संबुद्धेन भाषिता तथाधिमुच्यमानो ऽविनिवर्तनीयतायां स्थास्यति, एवं बहुकरं सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायाः श्रवणं वदामि, कः पुनर् वादो ये ऽधिमोक्ष्यन्ते ऽधिमुच्य तथत्वाय स्थास्यन्ति तथत्वाय प्रतिपत्स्यन्ते तथत्वाय स्थित्वा तथत्वाय प्रतिपद्यमानास् तिष्ठन्ति सर्वाकारज्ञतायाम्.
SK
सुभूतिर् आह: यत् पुनर् भगवंस् तथतायां स्थित्वा तथतायां प्रतिपद्यमानो न कश्चिद् धर्मम् उपलभते तदा कथं तिष्ठति सर्वाकारज्ञतायाम्?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यथा सुभूते तथागतनिर्मितस् तिष्ठति तथा तिष्ठति सर्वाकारज्ञतायाम्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यत् पुनर् भगवंस् तथागतनिर्मितो न कश्चिद् धर्मम् उपलभते, को ऽयं तथतायां तिष्ठति? को वा तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? को वा तथतायां स्थित्वा धर्मं देशयिष्यति? तथतैव तावन् नोपलभ्यते, कः पुनर् वादो यस् तथतायां स्थास्यति (PSP_५:४७) तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते तथतायां स्थित्वा धर्मं देशयिष्यति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदायुष्मान् सुभूतिर् एवम् आह, तथागतनिर्मितो न कश्चिद् धर्मम् उपलभते को ऽयं तथतायां तिष्ठति, को वा तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, को या तथतायां स्थित्वा धर्मन् देशयिष्यति, तथतैव तावन् नोपलभ्यते, कः पुनर् वादो यस् तथतायां स्थास्यति तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते तथतायां स्थित्वा धर्मं देशयिष्यति. एवम् एतत् सुभूते एवम् एतत्, तथा यथा वदसि, न सुभूते तथागतनिर्मितः कश्चिद् धर्मम् उपलभते यस् तथतायां स्थास्यति यस् तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यस् तथतायां स्थित्वा धर्मं देशयिष्यति तथतैव तावन् नोपलभ्यते, कः पुनर् वादो यस् तथतायां स्थास्यति तथतायां स्थित्वानुत्तरां सम्य्सक्संबोधिम् अभिसंभोत्स्यते तथतायां स्थित्वा धर्मं देशयिष्यन्तिति, नेदं स्थानं विद्यते. तत् कस्य हेतोः? उत्पादाद् वा सुभूते तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिर्, नेह सुभूते तथतायां कश्चित् तिष्ठति न तथतायां कश्चिद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते न तथतायां कश्चिद् धर्मं देशयति. तत् कस्य हेतोः? न ह्य् अत्र तथतायां धर्म उपलभ्यते, यो वा तथतायां तिष्ठेत्, यो वा तथतायां स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यो वा तथताया स्थित्वा धर्मं देशयिष्यति. तत् कस्य हेतोः? तथतैव तावन् नोपलभ्यते, नैवास्योत्पाद उपलभ्यते न व्ययो न स्थितिर् नान्यथात्वम्. यत्रास्य धर्मस्य नोत्पाद उपलभ्यते न व्ययो न स्थितिर् नान्यथात्वं, कस् तत्र स्थास्यति? को वा तत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? तस्मात् तर्हि सुभूते प्रज्ञापारमितात्यन्तविविक्ता यावत् सर्वाकारज्ञतात्यन्तविविक्ता, तस्मात् सुभूते प्रज्ञपारमिताम् आगम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, न च विवेकेन विवेको ऽभिसंभोत्स्यते, अभिसंभोत्स्यते च, न च ताम् अनागम्य प्रज्ञापारमिताम् अभिसंभोत्स्यते. (PSP_५:४८)
SK
सुभूतिर् आह: गम्भीरे भगवन्न् अर्थे चरति बोधिसत्त्वो महासत्त्वः.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, गम्भीरे ऽर्थे चरति बोधिसत्त्वो महासत्त्वो, दुष्करकारकः सुभूते बोधिसत्त्वो महासत्त्वो, यो गम्भीरे ऽर्थे चरति, तञ् चार्थं न साक्षात्करोति यद् उत श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा.
SK
सुभूतिर् आह: यथाहं भगवतो भाषितस्यार्थम् आजानामि तथा न कश्चिद् दुष्करकारको बोधिसत्त्वो महासत्त्वः. तत् कस्य हेतोः? तथा हि भगवन् सो ऽर्थो नोपलभ्यते यं साक्षात्कुर्यात्. सापि प्रज्ञापारमिता नोपलभ्यते यया साक्षात्कुर्यात्, सो ऽपि धर्मो नोपलभ्यते यः साक्षात्कुर्याद्, अनुपलभमानो भगवन् सर्वधर्मांस् तत् कतमम् अर्थं साक्षात्करिष्यति? कतमां प्रज्ञापारमितां साक्षात्करिष्यति? कतमं धर्मं साक्षात्करिष्यति यं साक्षात्कृत्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? इयं भगवन्न् अनुपलम्भचरिर् बोधिसत्त्वचरिर् यत्र चरन् बोधिसत्त्वो महासत्त्वः सर्वधर्मैर् अनन्धकारताम् अनुप्राप्नोति.
SK
सचेद् भगवन्न् एवं भाष्यमाणे बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, एवञ् चरं भगवन् बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायां, स चरन् निमित्तम् अपि न समनुपश्यति, प्रज्ञापारमिताम् अपि न समनुपश्यति, अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति न समनुपश्यति.
SK
तस्य खलु पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, दूरीकरिष्यामि श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वासन्नो ऽस्मि सर्वाकारज्ञतायाः. इति स्वभावविकल्पः
SK
तद्यथापि नाम भगवन् नाकाशस्यैवं भवति कस्यचिद्, अहं दूरे वाभ्यासे वा. तत् कस्य हेतोः? अभेदत्वाद् भगवन्न् आकाशस्य. एवम् एव भगवन् न प्रज्ञापारमिताया एवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे, अनुत्तरा सम्यक्संबोधिर् अभ्यासे वा. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् प्रज्ञापारमितायाः. इति गोत्रविकल्पः (PSP_५:४९)
SK
तद्यथापि नाम भगवन् मायापुरुषस्य नैवं भवति, मायाकारो वा न मम दूरे मायाकारो ममाभ्यासे, यः पुनर् एवं जनकायः संनिपतितः स मम दूरे नाभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् मायापुरुषस्य. एवम् एव भगवन् न प्रज्ञापारमिताया एवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् ममाभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् प्रज्ञापारमितायाः इति समुदागमविकल्पः
SK
तद्यथापि नाम भगवन् प्रतिभासस्य नैवं भवति, येनारम्बणेन प्रतिभास उत्पन्नस् तन् ममाभ्यासे, ये पुनर् अत्र नोपसंक्रान्ता आदर्शे वा उदकपात्रे वा ते मम दूरे. तत् कस्य हेतोः? अविद्यमानत्वाद् भगवन् प्रतिभासस्य, एवम् एव भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् अभ्यासे. तत् कस्य हेतोः? अविद्यमानत्वाद् भगवन् प्रज्ञापारमितायाः. इत्य् आलम्बनविकल्पः
SK
तद्यथापि नाम भगवंस् तथागतस्यार्हतः सम्यक्संबुद्धस्य न कश्चित् प्रियो वाप्रियो वा संविद्यते. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नोपलभ्यते, एवम् एव भगवन् प्रज्ञापारमिताया न कश्चित् प्रियो वाप्रियो वा संविद्यते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नोपलभ्यते. इति प्रतिपक्षविकल्पः
SK
तद्यथापि नाम भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वविकल्पप्रहीण एवम् एव भगवन् प्रज्ञापारमिता सर्वविकल्पप्रहीणा अविकल्पताम् उपादाय. इति स्वाधिगमविकल्पः
SK
तद्यथापि नाम भगवंस् तथागतनिर्मितस्य नैवं भवति, श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् ममाभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवंस् तथागतनिर्मितस्य, एवम् एव भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, स्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे ऽनुत्तरा सम्यक्संबोधिर् अभ्यासे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवन् प्रज्ञापारमितायाः. इति कर्तृविकल्पः
SK
तद्यथापि नाम भगवंस् तथागतेन यो निर्मितः स यस्य कृत्यस्य कृतेन कृतस् तच् च कृत्यं करोति स च निर्मिनो ऽविकल्पो (PSP_५:५०) निर्विकल्पः. एवम् एव भगवन् यस्य कृत्यस्य कृतेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां भावयति तच् च कृत्यं करोति सा च प्रज्ञापारमिताविकल्पा निर्विकल्पा. इति कारित्रविकल्पः
SK
तद्यथापि नाम भगवन् दक्षेण पलगण्डेन पलगण्डान्तेवासिना वा यन्त्रयुक्तः कृतः स्यात् स्त्रीविग्रहो वा पुरुषविग्रहो वा हस्तिविग्रहो वा बलीवर्दविग्रहो वा, स च यन्त्रयुक्तो यस्य कृत्यस्य कृतेन कृतस् तच् च कृत्यं करोति स च यन्त्रयुक्तो ऽविकल्पो निर्विकल्पः. एवम् एव भगवन् यस्य कृत्यस्य कृतेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता भाव्यते तच् च कृत्यं करोति सा प्रज्ञापारमिता अविकल्पा निर्विकल्पा. इति क्रियासाफल्यविकल्पः इत्य् उक्तो नवविधः प्रथमो ग्राह्यविकल्पः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कियच्चिरं संप्रस्थिता बोधिसत्त्वा महासत्त्वा ये ऽनेनोपायकौशल्येन समन्वागताः?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एत्द् अवोचत्: असंख्येयकल्पकोटीनियुतशतसहस्रसंप्रस्थिताः सुभूते ऽमी बोधिसत्त्वा महासत्त्वा ये ऽनेनोपायकौशल्येन समन्वागताः.
SK
सुभूतिर् आह: कियन्तो बुद्धा भगवतः पर्युपासिता भगवंस् तैर् बोधिसत्त्वैर् महासत्त्वैर् ये ऽनेनोपायकौशल्येन समन्वागताः?
SK
भगवान् आह: गङ्गानदीवालुकोपमा बुद्धा भगवन्तः पर्युपासितास् तैः कुलपुत्रैर् वा कुलदुहितृभिर् वा भवितव्या ये ऽनेनोपायकौशल्येन समन्वागताः.
SK
सुभूतिर् आह: कियत् तैर् भगवन् कुशलमूलं कृतं बोधिसत्त्वैर् महासत्त्वैर् ये ऽनेनोपायकौशल्येन समन्वागताः?
SK
भगवान् आह: प्रथमचित्तोत्पादम् उपादाय सुभूते न सा काचिद् दानपारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता, न सा काचिच् छीलपारमिता, न सा काचित् क्षान्तिपारमिता, न सा काचिद् वीर्यपारमिता, न सा काचिद् ध्यानपारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता, न सा काचित् प्रज्ञापारमिता या तैर् बोधिसत्त्वैर् महासत्त्वैर् न परिपूरिता ये ऽनेनोपायकौशल्येन समन्वागताः.
SK
सुभूतिर् आह: आश्चर्यम् एतद् भगवन् बोधिसत्त्वानां महासत्त्वानां ये ऽनेनोपायकौशल्येन समन्वागताः. (PSP_५:५१)
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, आश्चर्यम् एतत् सुभूते बोधिसत्त्वानां महासत्त्वानां ये ऽनेनोपायकौशल्येन समन्वागताः. तद्यथापि नाम सूर्याचन्द्रमसौ मण्डले चतुर्षु द्वीपेषु कार्यं कुर्वाते चतुरो द्वीपान् अनुगच्छतः, एवम् एव सुभूते प्रज्ञापारमिता पञ्चसु पारमितासु कर्म करोति पञ्च पारमिता अनुगच्छन्ति, प्रज्ञापारमिताविरहितत्वात् पञ्च पारमिताः पारमितानामधेयं लभन्ते, प्रज्ञापारमिताविरहितत्वाद् न पारमितानामधेयं लभन्ते. तद्यथापि नाम सुभूते यथा राजा चक्रवर्ती विरहितः सप्तभी रत्नैर् न राजा चक्रवर्तीति नामधेयं लभते, एवम् एव सुभूते पञ्च पारमिता विरहितत्वात् प्रज्ञापारमितया न पारमितानामधेयं लभन्ते. इति न्यूनाधिगमविकल्पः
SK
तद्यथापि नाम सुभूते अपुरुषा स्त्री सुधर्षणा भवति धूर्तकानाम्, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमिताविरहितत्वात् सुधर्षणा भवन्ति मारेण पापीयसा मारकायिकाभिर् वा देवताभिः. इति संपरिग्रहो ऽभावविकल्पः
SK
तद्यथापि नाम सुभूते संग्रामावचरः पुरुषः संनाहसंनद्धः संग्रामे वर्तमाने दुर्धर्षो भवति राजन्यैर् वा प्रत्यर्थिकैर् वा प्रत्यमित्रैर् वा, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमिताविरहितत्वाद् दुर्धर्षा भवन्ति मारेण वा मारकायिकाभिर् वा देवताभिर् आधिमानिकैर् वा पुद्गलैर् यावद् एवं बोधिसत्त्वचण्डालैर् वा पञ्च पारमिता दुर्धर्षा भवन्ति. इति प्रतिपत्तिवैकल्यविकल्पः
SK
तद्यथापि नाम सुभूते कोट्टराजानो राज्ञश् चक्रवर्तिनो ऽनुविधेया भवन्ति सो ऽयं प्रातरुपस्थानो यो गच्छन्ति, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता येन सर्वाकारज्ञता तेनानुगच्छन्ति. इति परप्रत्ययमायित्वविकल्पः
SK
तद्यथापि नाम सुभूते याः काचित् कुनद्यः सर्वास् ता येन गङ्गानदी तेनानुगच्छन्ति ता गङ्गानद्या सार्धं महासमुद्रम् उपयान्ति, एवम् एव पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता येन सर्वाकारज्ञता तेनानुगच्छन्ति. इत्य् उद्देशनिवृत्तिविकल्पः
SK
तद्यथापि नाम सुभूते पुरुषस्य दक्षिणो हस्तः सर्वकृत्यानि करोत्य्, एवम् एव सुभूते प्रज्ञापारमिता द्रष्टव्या, यथा च वामहस्त (PSP_५:५२) एवं पञ्च पारमिता द्रष्टव्याः. इति प्रादेशिककारित्रविकल्पः तद्यथापि नाम सुभूते यच् च कुनदीनां यच् च महानदीनाम् उदकं सर्वं तं महासमुद्रप्रविष्टम् एकरसं भवत्य्, एवम् एव सुभूते पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता अनुप्रविष्टाः पारमिता नामधेयं लभन्ते. इत्य् अधिगमनानात्वविकल्पः
SK
तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् चतुरङ्गस्य बलकायस्य चक्ररत्नम् अग्रतो गच्छति, तिष्ठति च यत्र राज्ञश् चक्रवर्तिनश् चक्ररत्नं तिष्ठति तत्र राजा चक्रवर्ती बलकायम् अर्पयति न च चक्ररत्नं स्थानतश् चलति, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता परिणायिका येन सर्वाकारज्ञता तेनानुगच्छन्ति, तत्र स्थास्यन्ति तत्र स्थित्वा स्थानतो नातिक्रामन्ति. इति स्थानप्रस्थानास्थानविकल्पः.
SK
तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् चक्ररत्नं सपरिणायकरत्नं सगृहपतिरत्नं चतुरङ्गस्य बलकायस्याग्रतो गच्छत्य्, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिताग्रतो गच्छत्य् अग्रतो गत्वा येन सर्वाकारज्ञता तेन तिष्ठति. न च प्रज्ञापारमिताया एवं भवति, दानपारमिता ममानुगच्छेच्, छीलपारमिता ममानुगच्छेत्, क्षान्तिपारमिता ममानुगच्छेद्, वीर्यपारमिता ममानुगच्छेद् ध्यानपारमिता ममानुगच्छेत्, नैवं दानपारमिताया एवं भवत्य्, अहं प्रज्ञापारमिताम् अनुगच्छेयम् इति, न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया एवं भवत्य्, अहं प्रज्ञापारमिताम् अनुगच्छेयम् इति. तत् कस्य हेतोः? स्वभाव आसाम् अकिंचित्समर्थः स्वभावः शून्यस् तुच्छो मरीचिसमः.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा भगवन् सर्वधर्माः स्वभावशून्यास् तत् कथं बोधिसत्त्वो महासत्त्वः दानपारमितायां चरन् शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञपारमितायां चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य षट्सु पारमितासु चरत एवं भवति, विपर्यस्तचित्तो ऽयं लोकसंनिवेशः, स न शक्यो ऽनुपायकौशल्येन संसारतः परिमोक्तुं, तेषां सत्त्वानाम् अर्थाय दानपारमितायां चरिष्यामि, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिष्यामीति, स तेषां सत्त्वानाम् (PSP_५:५३) अर्थायाध्यात्मबहिर्धावस्तु परित्यजति तस्य च परित्यजत एवं भवति, न किंचित् परित्यक्तम्. तत् कस्य हेतोः? तथा ह्य् एतद् वस्तु स्वभावशून्यं, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणो दानपारमितां परिपूरयति. तेषाञ् च सत्त्वानाम् अर्थाय दौःशील्यस्यावकाशं न ददाति. तत् कस्य हेतोः? न ह्य् एतन् मम प्रतिरूपं स्याद् यो ऽहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं संप्रस्थितः प्राणातिपातं कुर्याम्, एवम् अदत्तादानं काममिथ्याचारं मृषावादं पिशुनवचनं परुषवचनम् अबद्धप्रलापम् अभिध्यां व्यापादं मिथ्यादृष्टिं कुर्यां, श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा प्रार्थयेयं, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणः शीलपारमितायां चरति. तेषाम् एव सत्त्वानाम् अर्थायैकचित्तोत्पादम् अपि न क्षोभयति, एवं खलु सुभूते बोधिसत्त्त्वो महासत्त्वो व्युपपरीक्षमाणः क्षान्तिपारमितायाञ् चरति. तेषाम् एव सत्त्वानाम् अर्थाय कौशीद्यचित्तं नोत्पादयति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणो वीर्यपारमितायां चरति. स तेषाम् एव सत्त्वानाम् अर्थाय विक्षिप्तचित्तो न भवति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो व्युपपरीक्षमाणो ध्यानपारमितायां चरति. स तेषाम् एव सत्त्वानाम् अर्थाय न जातु प्रज्ञापारमिताविरहितो भवति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवति. तत् कस्य हेतोः? न ह्य् अन्यथा शक्याः सत्त्वाः परिपाचयितुम् अन्यत्र प्रज्ञयेत्य् अर्थवशेनैवम् अर्थं प्रज्ञापारमितायां चरति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदा भगवन् पारमितानां नास्ति नानात्वं, कथम् इयं प्रज्ञापारमिता पञ्चानां पारमितानाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते ऽनुत्तराख्यायते?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न सुभूते पारमितानां किञ्चित् नानात्वं, यदि पुनः प्रज्ञापारमिता न भाव्येत, नेमाः पञ्च पारमितानामधेयं लभेरन् प्रज्ञापारमितां पुनः सुभूते आगम्य इमाः पञ्च पारमिताः पारमितानामधेयं लभन्ते तद्यथापि नाम सुभूते नानाप्रकारा आत्मभावाः सुमेरुं पर्वतराजम् उपसंक्रान्ता एकवर्णा (PSP_५:५४) भवन्ति यद् उत तद्वर्णाः, एवम् एव सुभूते प्रज्ञापारमिताम् आगम्य पञ्च पारमिताः पारमितानामधेयं लभन्ते, ताः सर्वाकारज्ञताम् अनुप्रविष्टा एकवर्णा भवन्ति, न विशेषः कश्चित् प्रज्ञायते, इयं दानपारमिता, इयं शीलपारमिता, इयं क्षान्तिपारमिता, इयं वीर्यपारमिता, इयं ध्यानपारमिता, इयं प्रज्ञापारमिता. तत् कस्य हेतोः? तथा ह्य् आसां स्वभावो नास्त्य् अनेन कारणेन स्वभावो न प्रज्ञायते.
SK
सुभूतिर् आह: यदि भगवन्न् अर्थानुप्रतिपन्नस्य कस्यचिद् धर्मस्य विशेषो वा नानाकरणं वा न प्रज्ञायते, कथम् इयं प्रज्ञापारमिता आसां पञ्चानां पारमितानाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तामाख्यायते अनुत्तराख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अर्थानुप्रतिपन्नस्य कस्यचिद् धर्मस्य विशेषो वा नानाकरणं वा न प्रज्ञायते. अपि तु खलु पुनर् लोकव्यवहारसंकेतम् उपादाय दानपारमिता प्रज्ञप्ता, शीलपारमिता प्रज्ञप्ता, क्षान्तिपारमिता प्रज्ञप्ता, वीर्यपारमिता प्रज्ञप्ता, ध्यानपारमिता प्रज्ञप्ता सत्त्वानां संसारतः परिमोचनाय. ते च सत्त्वा न जायन्ते न म्रियन्ते न च्यवन्ते नोपपद्यन्ते, सत्त्वासत्तया सर्वधर्मासत्ता वेदितव्या. अनेन सुभूते कारणेनासां पञ्चानां पारमितानां प्रज्ञापारमिताग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते अनुत्तमाख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते, तद्यथापि नाम सुभूते याः काश्चन स्त्रियस् तासां स्त्रीरत्नम् अग्रम् आख्यायते ज्येष्ठम् आख्यायते श्रेष्ठम् आख्यायते वरम् आख्यायते प्रवरम् आख्यायते प्रणीतम् आख्यायते उत्तमम् आख्यायते अनुत्तमम् आख्यायते निरुत्तमम् आख्यायते असमम् आख्यायते असमसमम् आख्यायते. एवम् एव सुभूते प्रज्ञापारमिता आसां पञ्चानां पारमितानाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते अनुत्तमाख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते.
SK
सुभूतिर् आह: क एष भगवन्न् अभिप्रायो यत् प्रज्ञापारमिता अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते (PSP_५:५५) प्रणीताख्यायतेऽ उत्तमाख्यायते अनुत्तमाख्यायते निरुत्तमाख्यायते असमाख्यायते असमसमाख्यायते?
SK
भगवान् आह: तथा हि सुभूते प्रज्ञापारमिता सर्वान् कुशलान् धर्मान् गृहीत्वा येन सर्वाकारज्ञता तेन स्थास्यत्य् अस्थानयोगेन. इति पृष्टतो निर्याणविकल्पः इत्य् उक्तो नवविधो द्वितीयो ग्राह्यविकल्पः
SK
सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमिता कञ्चिद् धर्मं गृह्णाति वा मुञ्चति वा?
SK
भगवान् आह: न सुभूते प्रज्ञापारमिता कञ्चिद् धर्मं गृह्णाति वा मुञ्चति वा. तत् कस्य हेतोः? तथा हि सुभूते सर्वधर्मा अगृहीता अमुक्ताः.
SK
सुभूतिर् आह: तत् कतमान् भगवन् सर्वधर्मान् प्रज्ञापारमिता न गृह्णाति न मुञ्चति?
SK
भगवान् आह: रूपं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति, न वेदनां न संज्ञां न संस्कारान्, विज्ञानं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. एवं सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् अनुत्तरां सम्यक्संबोधिं सुभूते प्रज्ञपारमिता न गृह्णाति न मुञ्चति. इति ग्रहणमोक्षणविकल्पः
SK
सुभूतिर् आह: कथं भगवन् रूपम् अपरिगृहीतं भवति, कथं वेदना संज्ञा संस्काराः, कथं विज्ञानम् अपरिगृहीतं भवति?
SK
भगवान् आह: यः सुभूते रूपस्यामनसिकारो वेदनाया अमनसिकारः संज्ञाया अमनसिकारः संस्काराणाम् अमनसिकारो विज्ञानस्यामनसिकारः, यः स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानार अमनसिकारो, यः सर्वपारमितानां सर्वशून्यतानां, यः सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् अमनसिकारो, य आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीनाम् अमनसिकारो, यः शून्यतानिमित्ताप्रणिहितानां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानाम् (PSP_५:५६) अमनसिकारो, यो ऽभिज्ञादशबलवैशारद्यप्रतिसंविदाम् अमनसिकारो, य आवेणिकानां बुद्धधर्माणाम् अमनसिकारः, यावद् यो ऽनुत्तरायाः सम्यक्संबोधेर् अमनसिकारः. एवं ह्य् एतत् सुभूते रूपम् अपरिगृहीतं भवति यावत् सर्वाकारज्ञता परिगृहीता भवति.
SK
सुभूतिर् आह: यदि भगवन् रूपं न मनसिकर्तव्यं, वेदना संज्ञा संस्कारा, विज्ञानं न मनसिकर्तव्यं, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा न मनसिकर्तव्यानि, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा न मनसिकर्तव्याः सर्वाकारज्ञता न मनसिकर्तव्या तत् कथं भगवन् रूपम् अमनसिकृत्वा, वेदनां संज्ञां संस्कारान्, विज्ञानम् अमनसिकृत्वा, स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वामनसिकृत्वा, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् अमनसिकृत्वा सर्वाकारज्ञताम् अमनसिकृत्वा कुशलमूलानि विवर्धन्ते? कुशलमूलैश् चाविवर्धमानैः कथं पारमिताः परिपूर्यन्ते? पारमिता अपरिपूर्य कथं सर्वाकारज्ञताम् अनुप्राप्स्यति?
SK
भगवान् आह: यदा सुभूते रूपं न मनसिकरिष्यति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं न मनसिकरिष्यति, स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वा न मनसिकरिष्यति, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्यापरमाणध्यानारूप्यसमापत्तीर् न मनसिकरिष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञा न मनसिकरिष्यति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् न मनसिकरिष्यति, यावद् अनुत्तरां सम्यक्संबोधिं न मनसिकरिष्यति, तदा बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलानि विवर्धिष्यन्ते यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अमनसिकृत्वा हि रूपं (PSP_५:५७) वेदनां संज्ञां संस्कारां विज्ञनम् अमनसिकृत्वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गान्य् अमनसिकृत्वा सर्वपारमिताः सर्वशून्यताः सप्तत्रिंसद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् अमनसिकृत्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इति मनसिकारविकल्पः सुभूतिर् आह: किम् अत्र भगवन् कारणं येन रूपम् अमनसिकारं, वेदना संज्ञा संस्कारा, विज्ञानम् अमनसिकारम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा मनसिकाराणि, सर्वपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अमनसिकारा, अनुत्तरा सम्यक्संबोधिर् अमनसिकारा?
SK
भगवान् आह: अमनसिकारेण हि न श्लिष्यते कामधातौ न श्लिष्यते रूपधातौ न श्लिष्यते आरूप्यधाताव् अमनसिकारेण न क्वचिच् छ्लिष्यते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न क्वचिद् धर्मे श्लिष्यते. इति त्रैधातुकाश्लेषविकल्पः
SK
सुभूतिर् आह: एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न क्वचित् स्थास्यति.
SK
भगवान् आह: एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो रूपे न तिष्ठति, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने न तिष्ठति, एवं चरन् स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु न तिष्ठति, सर्वपारमितासु सर्वशून्यतासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिषु शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु न तिष्ठत्य्, एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अपि न तिष्ठति. इति स्थानविकल्पः
SK
सुभूतिर् आह: किम् अत्र भगवन् कारणं येन बोधिसत्त्वो महासत्त्वः तत्रापि न तिष्ठति?
SK
भगवान् आह: अनभिनिवेशेन बोधिसत्त्वो महासत्त्वो न क्वचित् (PSP_५:५८) तिष्ठति. तत् कस्य हेतोः? तथा हि सर्वधर्मान् न समनुपश्यति यत्राभिनिविशेत वा तिष्ठेद् वा, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरत्य् अनभिनिवेश्यास्थानयोगेन. इति भावाभावविकल्पाभिनिवेशविकल्पः
SK
सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं भावयत्य् एवं चरति स प्रज्ञापारमितायां चरति स प्रज्ञापारमितां भावयति, अहं प्रज्ञापारमितायां चराम्य् अहं प्रज्ञापारमितां भावयामि. सचेद् एवं संजानीते दूरीकरोति प्रज्ञापारमितां, स प्रज्ञापारमिताया दूरीभवति, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया दूरीभवति, अध्यात्मशून्यताया यावद् अभावस्वभावशून्यताया दूरीभवति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेभ्यो दूरीभवत्य्, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञाशून्यतानिमित्ताप्रणिहितदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेभ्यो दूरीभवति. तत् कस्य हेतोः? न हि प्रज्ञापारमिता क्वचिद् धर्मे ऽभिनिविशते, न च प्रज्ञापारमितायाः कश्चिद् अभिनिवेशो ऽस्ति. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति यत्राभिनिविशतेः.
SK
सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् अपि संजानीते च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञपारमिताया यः प्रज्ञापारमितायाञ् चरति सर्वधर्मेषु चरति. सचेद् अस्यैवं भवति, प्रज्ञापारमिता पञ्च पारमिताः परिगृह्णाति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः परिगृह्णाति, शून्यतानिमित्ताप्रणिहितान्य् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां परिगृह्णाति, विमोक्षसमाधिसमापत्तिधारणीमुखानि परिगृह्णाति, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिगृह्णाति, सर्वाकारज्ञतां परिगृह्णाति, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः, न खलु पुनः प्रज्ञापारमिताविरहितेन शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.
SK
सचेत् पुनर् अस्यैवं भवतीह प्रज्ञापारमितायां व्याकरिष्यत्य् अनुत्तरायां सम्यक्संबोधौ च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. सचेत् पुनर् अस्यैवं भवति, य इह प्रज्ञापारमितायां स्थित्वा दानपारमिताम् अभिनिर्हरिष्यति, शीलपारमिताम् अभिनिर्हरिष्यति, क्षान्तिपारमिताम् (PSP_५:५९) अभिनिर्हरिष्यति, वीर्यपारमिताम् अभिनिर्हरिष्यति, ध्यानपारमिताम् अभिनिर्हरिष्यति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् अभिनिर्हरिष्यति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अभिनिर्हरिष्यत्य्, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिनिर्हरिष्यति, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् अभिनिर्हरिष्यति, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. तत् कस्य हेतोः? न हि प्रज्ञापारमिताच्युतस्य, ध्यानपारमितावीर्यपारमिताक्षान्तिपारमिताशीलपारमितादानपारमिताच्युतस्य शक्यम् अभिनिर्हरणाय, न हि स्मृत्य्पस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गच्युतस्य शक्यम् अभिनिर्हरणाय, न ह्य् आध्यात्मशून्यता यावद् अभावस्वभावशून्यताच्युतस्य शक्यम् अभिनिर्हरणाय, न ह्य् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिविमोक्षसमाधिसमापत्तिधारणीमुखच्युतस्य शक्यम् अभिनिर्हरणाय, न हि शून्यतानिमित्ताप्रणिहिताभिज्ञाच्युतस्य शक्यम् अभिनिर्हरणाय, न हि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मच्युतस्य शक्यम् अभिनिर्हरणाय, न हि सर्वाकारज्ञता च्युतस्य शक्यम् अभिनिर्हरणाय, न हि महामैत्रीमहाकरुणाच्युतस्य शक्यम् अभिनिर्हरणाय.
SK
सचेत् पुनर् अस्यैवं भवति, अपरिगृहीतास् तथागतेन सर्वधर्माः स्वयम् अभिसंबुद्धा अभिसंबुध्याख्याता देशिताः प्रकाशिताश्, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. तत् कस्य हेतोः? न हि तथागतेन कश्चिद् धर्मो ऽभिसंबुद्धः. तत् कस्य हेतोः? दृष्टं धर्मं न प्रज्ञपयति, कुतः पुनः कञ्चिद् धर्मम् अभिसंभोत्स्यते, नेदं स्थानं विद्यते. इति वस्तुप्रज्ञप्तिविकल्पः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत इमे दोषा न भवन्ति?
SK
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवञ् जानाति, अनुक्ताः सर्वधर्मा अपरिगृहीता, न चाशक्तो धर्मो ऽपरिगृहीतः कश्चिद् अभिसंबुध्यते, सचेद् एवञ् चरति चरति प्रज्ञापारमितायां, सचेद् अपरिग्रहधर्मम् अभिनिवशते विरहितः प्रज्ञापारमितया. तत् कस्य हेतोः? न हि प्रज्ञापारमिताभिनिवेशेन वर्तितव्या. इति शक्तिविकल्पः (PSP_५:६०)
SK
सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमित प्रज्ञापारमितयाविरहिता? ध्यानपारमिता ध्यानपारमितयाविरहिता, वीर्यपारमिता वीर्यपारमितयाविरहिता, क्षान्तिपारमिता क्षान्तिपारमितयाविरहिता, शीलपारमिता शीलपारमितयाविरहिता, दानपारमिता दानपारमितयाविरहिता, अध्यात्मशून्यता अध्यात्मशून्यतयाविरहिता यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतयाविरहिता, स्मृत्युपस्थानानि स्मृत्युपस्थानैर् अविरहितानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, मार्गा मार्गैर् अविरहिता, आर्यसत्यान्य् आर्यसत्यैर् अविरहितान्य्, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखैर् अविरहितानि, शून्यतानिमित्ताप्रणिहितानि शून्यतानिमित्ताप्रणिहितैर् अविरहितानि, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मैर् अविरहिताः, सर्वाकारज्ञता सर्वाकारज्ञतयाविरहिता? सचेद् भगवन् प्रज्ञापारमिता प्रज्ञापारमितयाविरहिता, एवं ध्यानं वीर्यं क्षान्तिः शीलं, दानपारमिता दानपारमितयाविरहिता, यावत् सर्वाकारज्ञता सर्वाकारज्ञतयाविरहिता. इति प्रतिपक्षविकल्पः
SK
तत् कथं प्रज्ञापारमिताभिनिर्हर्तव्या? एवं ध्यानं वीर्यं क्षान्तिः शीलं, तत् कथं दानपारमिताभिनिर्हर्तव्या? यावत् तत् कथं सर्वाकारज्ञताभिनिर्हर्तव्या?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् इति नाभिनिविशते, इदं रूपम् अस्य रूपम्, एवं वेदना संज्ञा संस्कारा, विज्ञानम् इति नाभिनिविशते, इदं विज्ञानम् अस्य विज्ञानम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा नाभिनिविशते, इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि चेति, एवं यावत् सर्वधर्मान् नाभिनिविशते, इमे सर्वधर्मा अस्य सर्वधर्माः. रूपं नित्यतो वानित्यतो वा दुःखतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, वेदना संज्ञा संस्कारा, विज्ञानं नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः (PSP_५:६१) प्रतीत्यसमुत्पादाङ्गानि वा नित्यतो वानित्यतो वा दुःखतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति, यावत् सर्वाकारज्ञतां नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा न समनुपश्यति. तत् कस्य हेतोः? न हि धर्मो नित्यतो वानित्यतो वा दुष्खतो वा सुखतो वात्मतो वानात्मतो वा शून्यतो वाशून्यतो वा विविक्ततो वाविविक्ततो वा संविद्यते, न हि स्वभावः स्वभावेन शक्यो ऽभिनिर्हरणाय.
SK
स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां यावत् सर्वाकारज्ञतायां स्थास्यति. तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् चतुरङ्गबलकायो येन येन स राजा गच्छति तेन तेनानुवर्तते, एवम् एव सुभूते येन येन प्रज्ञापारमिता गच्छति तेन तेनेमाः पञ्च पारमिता अनुवर्तन्ते, येन सर्वाकारज्ञता तेन स्थास्यन्ति. इति यथेच्छगमनव्याघातविकल्पः इत्य् उक्तो नवविधः प्रथमो ग्राहकविकल्पः
SK
तद्यथापि नाम सुभूते सारथिश् चतुरङ्गम् अभिरुह्य सत्मार्गेण गच्छति, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता सारथ्यं करोति सम्यग्मार्गेण येन सर्वाकारज्ञता तेनानुगच्छति. इत्य् उक्ता उद्देशनिर्याणविकल्पाः
SK
सुभूतिर् आह: कतमो भगवन् बोधिसत्त्वानां महासत्त्वानां मार्गः? कतमो ऽमार्गः?
SK
भगवान् आह: श्रावकमार्गो बोधिसत्त्वानां महासत्त्वानाम् अमार्गः, प्रत्येकबुद्धमार्गो बोधिसत्त्वानां महासत्त्वानाम् अमार्गः, सर्वाकारज्ञतामार्गो बोधिसत्त्वानां महासत्त्वानां मार्गः. इमौ सुभूते बोधिसत्त्वानां महासत्त्वानां मार्गामार्गौ. इति मार्गामार्गज्ञानविकल्पः
SK
सुभूतिर् आह: महाकृत्येन भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता प्रत्युपस्थिता. एवं नयति प्रणयति, अयं मार्गो ऽयम् अमार्ग इति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येनेयं सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता प्रत्युपस्थिता, एवं नयति (PSP_५:६२) प्रणयति, अयं मार्गो ऽयम् अमार्ग इति. अप्रमेयाणम् असंख्येयानाम् अपरिमाणानां सत्त्वानां कृत्येन प्रत्युपस्थिता प्रज्ञापारमिता, न कश्चित् सुभूते प्रणयति न रूपं परिगृह्णाति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं परिगृह्णाति, न श्रावकभूमेर् वा न प्रत्येकबुद्द्धभूमेर् वा प्रत्युपस्थिता, सा खलु पुनर् इयं प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य परिणायिकानुत्तरायां सम्यक्संबोधौ, श्रावकभूमेश् च प्रत्येकबुद्धभूमेश् च नोपनायिका, सर्वाकारज्ञतायाश् चोपनायिका. एवम् इयं प्रज्ञापारमिता न कस्यचिद् धर्मस्योत्पादिका न निरोधिका धर्मस्थितितां प्रमाणीकृत्य.
SK
सुभूतिर् आह: यदि भगवन् प्रज्ञापारमिता न कस्यचिद् धर्मस्योत्पादिका न निरोधिका, तत् कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दानं दातव्यं? कथं शीलं रक्षितव्यं, कथं क्षान्तिर् भावयितव्या, कथं वीर्यम् आरब्धव्यं, कथं ध्यानं समापत्तव्यं, कथं प्रज्ञा भावयितव्या?
SK
भगवान् आह: सर्वाकारज्ञताम् आरम्बणीकृत्य दानं दातव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य शीलं रक्षितव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य क्षान्तिर् भावयितव्या, सर्वाकारज्ञताम् आरम्बणीकृत्य वीर्यम् आरब्धव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य ध्यानं समापत्तव्यं, सर्वाकारज्ञताम् आरम्बणीकृत्य प्रज्ञा भावयितव्या. तेन बोधिसत्त्वेन महासत्त्वेन तानि कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयितव्यानि. तथा च परिणामयितव्यानि यथास्य त्रिविधा बुद्धिर् न भवति, क एष परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं बोधिसत्त्वस्य महासत्त्वस्य इमान् कुशलान् धर्मान् अनुत्तरायै सम्यक्संबोधये परिणामयतः षट्पारमिताभावना परिपूरिङ् गच्छति यावद् बोधिसत्त्वस्य महासत्त्वस्य मैत्रीभावना परिपूरिङ् गच्छति यावत् सर्वाकारज्ञताभावना परिपूरिङ् गच्छति. यः कश्चिद् बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् अविरहितः सर्वाकारज्ञतयाविरहितो भवति, तस्माद् बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षितव्यं षट्सु पारमितासु चरितव्यम्. षट्सु पारमितासु चरन् बोधिसत्त्वो महासत्त्वः सर्वान् कुशलान् धर्मान् परिपूर्य सर्वाकारज्ञताम् अनुप्राप्स्यति, तस्माद् (PSP_५:६३) बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः. इत्य् उत्पादनिरोधविकल्पः
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेनैवं प्रत्यवेक्षितव्यं, रूपं न संयुक्तं न विसंयुक्तं, वेदना संज्ञा संस्कारा, विज्ञनं न संयुक्तं न विसंयुक्तं, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च न संयुक्तानि न विसंयुक्तानि, एवं सर्वपारमिताः सर्वसून्यताः सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा न संयुक्ता न विसंयुक्ताः, सर्वाकारज्ञता न संयुक्ता न विसंयुक्ता एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः. इति संयोगविसंयोगविकल्पः
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन न रूपे स्थास्यामीति योगः करणीयः, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने स्थास्यामीति योगः करणीयः, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु न स्थास्यामीति योगः करणीयः, न प्रतीत्यसमुत्पादाङ्गेषु न स्थास्यामीति योगः करणीयः, एवं न सर्वपारमितासु स्थास्यामीति योगः करणीयः, न सर्वशून्यतासु न सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु नार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखेषु न शून्यतानिमित्ताप्रणिहितेषु नाभिज्ञादशबलवैशारद्यप्रतिसंवित्सु नावेणिकेषु बुद्धधर्मेषु स्थास्यामीति योगः करणीयः, न सर्वाकारज्ञतायां स्थास्यामीति योगः करणीयः. तत् कस्य हेतोः? न हि रूपं वा क्वचित् स्थितं, न वेदना न संज्ञा न संस्कारा, न विज्ञानं क्वचित् स्थितं, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वा क्वचित् स्थितानि, एवं न पारमिता न शून्यता न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि न विमोक्षमुखानि नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माः क्वचित् स्थिता, न सर्वाकारज्ञता क्वचित् स्थिता. एवम् अस्थानयोगेन बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् (PSP_५:६४) अभिसंबोधव्या. इति रूपादिस्थानविकल्पः
SK
तद्यथापि नाम सुभूते पुरुष आम्रफलानि वा पनसफलं वा भक्षयितुकामः स्यात् तेनाम्रफलं पनसफलं वावरोपयितव्यम्, अवरोप्य चोदकं कालानुकालं दातव्यं केलायितव्यं, तस्यानुपूर्वेण संबद्ध्यमानस्य स्तम्बस्य सामग्री लभमानस्य् आम्रफलैर् वा पनसफलैर् वा सामग्री भविष्यति, स तान्य् आम्रफलानि वा परसफलानि वा भक्षिष्यति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामः षट्सु पारमितासु शिक्षित्वा सत्त्वान् दानेनानुग्रहीष्यति शीलेन क्षान्त्या वीर्येण ध्यानेन प्रज्ञयानुग्रहीष्यति सत्त्वान् संसारात् परिमोचयिष्यति. इति गोत्रविप्रणाशविकल्पः
SK
तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनापरप्रणेयतां गन्तुकामेन, बुद्धक्षेत्रं परिशोधयितुकामेन, बोधिमण्डे निसीदितुकामेन, धर्मचक्रं प्रवर्तयितुकामेन षट्सु पारमितासु शिक्षितव्यम्.
SK
सुभूतिर् आह: प्रज्ञापारमितया भगवन् प्रज्ञापारमितायां शिक्षितव्यम् इति वदसि.
SK
भगवान् आह: प्रज्ञापारमितया सुभूते प्रज्ञापारमितायां शिक्षितव्यम् इति वदामि, सर्वधर्मवशिताम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम् इति वदामि. इति प्रार्थनाभावविकल्पः
SK
तत् कस्य हेतोः? एषा हि प्रज्ञापारमिता सर्वधर्मवशिताम् अनुप्रापयति, एषा हि प्रज्ञापारमिता सर्वधर्माणां मुखं, तद्यथापि नाम सुभूते महासमुद्रः सर्वरत्नानां सर्वसरितां मुखं, सर्वनदीजलानि समुद्रे प्रविष्टान्य् एकरसानि भवन्त्य्, एवम् एव प्रज्ञापारमिता सर्वधर्माणां मुखं, सर्वधर्मा हि प्रज्ञापारमिता भाविताः प्रज्ञापारमिता भवन्ति, तस्मात् तर्हि श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा बोधिसत्त्वयानिकैर् वा पुद्गलैर् इहैव प्रज्ञापारमितायां शिक्षितव्यं, तस्माद् बोधिसत्त्वेन महासत्त्वेन दानपारमितायां शिक्षितव्यं शीलपारमितायां शिक्षितव्यं क्षान्तिपारमितायां शिक्षितव्यं वीर्यपारमितायां शिक्षितव्यं ध्यानपारमितायां शिक्षितव्यं प्रज्ञापारमितायां शिक्षितव्यम्, अध्यात्मशून्यतायां शिक्षितव्यं बहिर्धाशून्यतायां शिक्षितव्यम् अध्यात्मबहिर्धाशून्यतायां शिक्षितव्यं यावद् अभावस्वभावशून्यतायां शिक्षितव्यं, स्मृत्युपस्थानेषु शिक्षितव्यम्, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षितव्यम् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिधारणीमुखेषु (PSP_५:६५) शिक्षितव्यं शून्यतानिमित्ताप्रणिहितेषु शिक्षितव्यं दशबलवैशारद्यप्रतिसंवित्सु शिक्षितव्यम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षितव्यं सर्वाकारज्ञतायां शिक्षितव्यम्. इति हेत्वभावविकल्पः
SK
तद्यथापि नाम सुभूते इष्वस्त्राचार्यो यथानुरूपं धनुर् गृहीत्वा दुराधर्षो भवति प्रत्यर्थिकानां वा प्रत्यमित्राणां वा, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् दुराधर्षो भवति मारैर् वा मारकायिकाभिर् वा देवताभिस् तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामेन प्रज्ञापारमितायां शिक्षितव्यं, तं च प्रज्ञापारमितायां चरन् तम् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः समन्वाहरन्ति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बुद्धा भगवन्तो दानपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति? शीलपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, क्षान्तिपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, वीर्यपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, ध्यानपारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, प्रज्ञापारमितायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, अध्यात्मशून्यतायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, यावद् अभावस्वभावशून्यतायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन् तम् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् तम् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेषु चरन् तं दशबलवैशारद्यप्रतिसंवित्स्व् आवेणिकाबुद्धधर्मेषु चरन् तं, कथं सर्वाकारज्ञतायां चरन् तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति?
SK
एवम् उत्क्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां चरन् तं समन्वाहरन्ति, तथा च समन्वाहरन्ति यत्र नैव दानं न शीलन् न क्षान्तिर् न वीर्यन् न ध्यानं न प्रज्ञोपलभ्यते. एवम् अनुपलम्भेन बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति, यत्र नाध्यात्मशून्यता यावद् अभावस्वभावशून्यता स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते, यत्र (PSP_५:६६) नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञाशून्यतानिमित्ताप्रणिहितदशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा नोपलभ्यन्ते, यत्र सर्वाकारज्ञता नोपलभ्यते. एवम् अनुपलम्भयोगेन बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति.
SK
पुनर् अपरं सुभूते बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं न रूपतः समन्वाहरन्ति, न वेदनातो न संज्ञातो न संस्कारतो, न विज्ञानतः समन्वाहरन्ति, न स्कन्धतो न धातुतो नायतनतो न प्रतीत्यसमुत्पादतो न प्रतीत्यसमुत्पादाङ्गतः समन्वाहरन्ति, न दानपारमितातो न शीलपारमितातो न क्षान्तिपारमितातो न वीर्यपारमितातो न ध्यानपारमितातो न प्रज्ञापारमितातः समन्वाहरन्ति, नाध्यात्मशून्यतातो यावन् नाभावस्वभावशून्यतातः समन्वाहरन्ति, न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतः समन्वाहरन्ति, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखतः समन्वाहरन्ति, न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मतः समन्वाहरन्ति, न सर्वाकारज्ञतातः समन्वाहरन्ति. इति प्रत्यर्थिकधर्मोपलम्भविकल्पः इत्य् उक्तो नवविधो द्वितीयो ग्राहकविकल्पः
SK
अथ खलु सुभूतिः स्थविरः शक्रन् देवानाम् इन्द्रम् एतद् अवोचत्: यत् त्वं कौशिकैवं वदसि गम्भीरेयं भगवन् प्रज्ञापारमिता, दुष्करकारका बोधिसत्त्वा महासत्त्वा येषां गम्भीरेषु धर्मेषु न भवति काङ्क्षायितत्वं वा धन्वायितत्वं वा, शून्येषु कौशिक सर्वधर्मेषु कस्यात्र काङ्क्षायितत्वं वा धन्वायित्वं वा भविष्यति? एवम् उक्ते शक्रो देवानाम् इन्द्रः सुभूतिस्थविरम् एतद् अवोचत्: यद्यद् एव सुभूतिः स्थविरो निर्दिशति सर्वन् तच् छून्यताम् एवारभ्य निर्दिशति न क्वचित् सज्जति, तद्यथापि नामेषुर् अन्तरीक्षे क्षिप्तो न क्वचित् सज्जति, एवम् एव सुभूतेः स्थविरस्य धर्मदेशना न क्वचित् सज्जति.
SK
अथ खलु सक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कच्चिद् अहं भगवन्न् एवं भाषमाण एवम् उपदिशन्न् उक्तवादी च भगवतो धर्मवादी च धर्मस्य चानुधर्मं सम्यग् व्याकुर्वन् व्याकरोमि?
SK
भगवान् आह: सम्यक् खलु त्वं कौशिक एवं भाषमाण एवम् उपदिशंस् तथागतस्योक्तवादी च धर्मवादी च धर्मस्य चानुधर्मं (PSP_५:६७) व्याकुर्वन् व्याकरोषि.
SK
देवेन्द्र आह: आश्चर्यं भगवन् यावद् एव सुभूतेः स्थविरस्य प्रतिभाति सर्वन् तच् छून्यतां चैवारभ्य प्रतिभाति, आनिमित्तं चैवाप्रणिहितं चैवारभ्य प्रतिभाति, स्मृत्युपस्थानान्य् आरभ्य प्रतिभाति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् आरभ्य प्रतिभाति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् आरभ्य प्रतिभाति, यावद् अनुत्तरां सम्यक्संबोधिम् आरभ्य प्रतिभाति.
SK
एवम् उक्ते भगवान् शक्रन् देवानाम् इन्द्रम् एतद् अवोचत्: सुभूतिः कौशिक स्थविरः शून्यतायां विहरन् दानपारमिताञ् चैव नोपलभते, कः पुनर् वादो ये दानपारमितायां चरन्ति शीलपारमितायां चरन्ति क्षान्तिपारमितायां चरन्ति वीर्यपारमितायां चरन्ति ध्यानपारमितायां चरन्ति प्रज्ञापारमिताञ् चैव नोपलभते, कः पुनर् वादो ये प्रज्ञापारमितायां चरन्ति. स्मृत्युपस्थानान्य् एव नोपलभते, कः पुनर् वादो ये स्मृत्युपस्थानानि भावयन्ति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गांश् चैव नोपलभते, कः पुनर् वादो ये सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गां भावयन्ति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतान् नोपलभते, कः पुनर् वादो ये ऽध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां भावयन्ति, आर्यसत्यान्य् एव नोपलभते, कः पुनर् वादो य आर्यसत्यानि भावयन्ति, अप्रमाणध्यानारूप्यसमापत्तीर् नोपलभते, कः पुनर् वादो ये ऽप्रमाणध्यानारूप्यसमापत्तीर् भावयन्ति, शून्यतानिमित्ताप्रणिहितान्य् एव नोपलभते, कः पुनर् वादो ये शून्यतानिमित्ताप्रणिहितानि भावयन्ति, ध्यानविमोक्षसमाधिब्समापत्तिधारणीमुखान्य् एव नोपलभते, कः पुनर् वादो ये ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयन्ति, तथागत बलान्य् एव नोपलभते, कः पुनर् वादो ये बलानि भावयन्ति वैशारद्यान्य् एव नोपलभते, कः पुनर् वादो ये वैशारद्यान्य् अभिनिर्हरन्ति, प्रतिसंविद एव नोपलभते, कः पुनर् वादो ये प्रतिसंविदो ऽभिनिर्हरन्ति अभिज्ञा एव नोपलभते, कः पुनर् वादो ये ऽभिज्ञां भावयन्ति, महाकरुणाम् एव नोपलभते, कः पुनर् वादो ये महाकरुणाविहारं भावयन्ति, आवेणिकान् एव बुद्धधर्मान् नोपलभते, कः पुनर् वादो ये आवेणिकां बुद्धधर्मान् अभिनिर्हरन्ति, अनुत्तराम् एव सम्यक्संबोधिन् नोपलभते, कः पुनर् वादो ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, (PSP_५:६८) सर्वाकारज्ञतम् एव नोपलभते, कः पुनर् वादो ये सर्वाकारज्ञताम् अनुप्राप्नुवन्ति, तथागतत्वम् एव नोपलभते, कः पुनर् वादो यस् तथागतो भवत्य् अनुत्पादम् एव नोपलभते, कः पुनर् वादो ये ऽनुत्पादं साक्षात् कुर्वन्ति, लक्षणान्य् एव नोपलभते, कः पुनर् वादो येषां लक्षणानि काये भवन्ति, अनुव्यञ्जनान्य् एव नोपलभते, कः पुनर् वादो येषाम् अनुव्यञ्जनानि काये भवन्ति. तत् कस्य हेतोः? सर्वधर्मविविक्तविहारी कौशिक सुभूतिः, अनुपलम्भविहारी शून्यताविहार्य् आनिमित्तविहार्य् अप्रणिहितविहारी कौशिक य एष सुभूतेः स्थविरस्य विहारः स बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहारस्य शततमीम् अपि कलान् नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोतीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् औपम्यम् अप्य् उपनिशाम् अप्य् उपनिषदम् अपि नोपैति. तत् कस्य हेतोः? तथा हि तथागतविहारं स्थापयित्वा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो यो विहारः सर्वश्रावकप्रत्येकबुद्धानां च ये विहारास् तेषां विहाराणाम् अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो यो विहारः सो ऽग्र आख्यायते, श्रेष्ठ आख्यायते, ज्येष्ठ आख्यायते, वर आख्यायते, प्रवर आख्यायते, प्रणीत आख्यायते, उत्तम आख्यायते, अनुत्तम आख्यायते, निरुत्तम आख्यायते. तस्मात् तर्हि कौशिक बोधिसत्त्वेन महासत्त्वेनाग्रतां गन्तुकामेनानेन विहारेण विहर्तव्यं यद् उत प्रज्ञापारमिताविहारेण. तत् कस्य हेतोः? अत्र हि कौशिक प्रज्ञापारमितायाञ् चरन् बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, बोधिसत्त्वनियामम् अवक्रामति, बुद्धधर्मान् परिपूरयति, सर्वाकारज्ञताम् अनुप्राप्स्यति, सर्वाकारज्ञताम् अनुप्राप्य तथागतो ऽर्हन् सम्यक्संबुद्धः सर्ववासनानुसंधिक्लेशप्रहानो भविष्यति.
SK
अथ खलु तस्यां पर्षदि देवास् त्रयस्त्रिंशा मान्दारवाणि पुष्पाणि गृहीत्वा भगवन्तम् अवकिरन्ति स्माभ्यवकिरन्ति स्माभिप्रकिरन्ति स्म. षष्टिञ् च भिक्षूणां शतम् उत्स्थायासनेभ्य एकांशञ् चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणमयाम् आसुः, तेषां च भिक्षूणाम् अञ्जलयः प्रणामिता बुद्धानुभावेन मान्दारवैः पुष्पैः परिपूर्णा अभूवंस् ते च मान्दारवैः पुष्पैस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् अवकिरन्ति स्माभ्यवकिरन्ति स्माभिप्रकिरन्ति (PSP_५:६९) स्मावकिरन्तो ऽभ्यवकिरन्तो ऽभिप्रकिरन्त एवं च वाचम् उदीरयन्ति स्म: वयं भगवन्न् एतेन कुशलमूलेनैतेनोत्तमेन विहारेण विहरिष्यामो यत्र नागतिः सर्वश्रावकप्रत्येकबुद्धानाम् इति.
SK
अथ खलु भगवांस् तस्या वेलायां तेषां भिक्षूणाम् अध्याशयं विदित्वा स्मितं प्रदुष्करोति स्म. धर्मता खलु पुनर् एषां बुद्धानां भगवतां यदा स्मितं प्रादुष्कुर्वन्ति तदा खल्व् अनेकवर्णा नानावर्णा अर्चिषो भगवतो मुखद्वारान् निश्चरन्ति स्म, तद्यथा नीलाः पीता लोहिता अवदाता माञ्जिष्ठा रजतवर्णास् त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभास्य पुनर् एवागत्य बुद्धान् भगवतस् त्रिः प्रदक्षिणीकृत्य भगवतो मूर्धन्य् अन्तर्हिताः.
SK
अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांशं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययः? स्मितस्य प्रादुष्करणाय नाहेतुकन् नाप्रत्ययन् तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं आननदम् एतद् अवोचत्: इमान्य् आनन्द षष्टिर् भिक्षुशतान्य् अनागते ऽध्वनि तारकोपमे कल्पे ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, अवकीर्णकुसुमनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति, तेषां खलु पुनर् आनन्दावकीर्णकुसुमनाम्नां तथागतानाम् अर्हतां सम्यक्संबुद्धानां समसमो भिक्षुसंघो भविष्यति, समसमं बुद्धक्षेत्रं भविष्यति, समसमम् आयुःप्रमाणं भविष्यति, विंशतिवर्षसहस्रं यतो यतो ऽभिनिष्क्रमिष्यन्ति अभिनिष्क्रम्य प्रव्रजिष्यन्ति प्रव्रजित्वा यत्र यत्र विहरिष्यन्ति तत्र तत्र पञ्चवर्णिकानां कुसुमानां कुसुमवर्षाणि प्रवर्षिष्यन्ति. तस्मात् तर्ह्य् आनन्द उत्तमेन विहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं तथागतविहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्. इत्य् अन्येषां महाबोधौ संदर्शनाप्रथमं कारणरो
SK
यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इह गम्भीरायां प्रज्ञापारमितायां चरिष्यति निष्ठा तेनानन्द कुलपुत्रेण वा कुलदुहित्रा वा एवं गन्तव्या मनुष्येभ्यो वाहं च्युत्वेहोपपन्नस् तुषिताद् वा देवनिकाया च्युत्वेहोपपन्न इति, मनुष्येष्व् इयं गम्भीरा प्रज्ञापारमिता विस्तरेण (PSP_५:७०) श्रुता भविष्यति, तुषितेषु देवेष्व् इयं गम्भीरा प्रज्ञापारमिता विस्तरेण श्रुता भविष्यति, तथागतव्यवलोकयितास् ते आनन्द बोधिसत्त्वा महासत्त्वा भविष्यन्ति य इह गम्भीरायां प्रज्ञापारमितायां चरिष्यन्ति.
SK
यः कश्चिद् आनन्दन् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां श्रोष्यत्य् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, बोधिसत्त्वयानिकानां वा पुद्गलानाम् इमां गम्भीरां प्रज्ञापारमिताम् उपदेक्ष्यत्य् अनुशासिष्यति निष्ठा तेनानन्द कुलपुत्रेण वा कुलदुहित्रा वानुगन्तव्या संमुखं मया तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिकाद् इयं गम्भीरा प्रज्ञापारमिता श्रुताभूत्, उद्ग्रहीता च धारिता च वाचिता च पर्यवाप्ता चाभूत्, तेषु च तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु कुशलमूलम् अवरोपितम् अभूत्, न श्रावकाणाम् अन्तिके कुशलमूलम् अवरोपितं नापि श्रावकाणाम् अन्तिकाद् इयं गम्भीरा प्रज्ञापारमिता श्रुत्वेति.
SK
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, अर्थतश् च धर्मतश् च विनयतश् चानुगमिष्यति निष्ठानन्द तेन कुलपुत्रेण वा कुलदुहित्रा वानुगन्तव्या संमुखीभूतो ऽहं तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् इति,
SK
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा न प्रतिक्रोक्ष्यति न प्रतिवहिष्यति प्रसादं प्रतिलप्स्यते, पूर्वजिनकृताधिकारः स आनन्द कुलपुत्रो वा कुलदुहिता वा वेदितव्यः, अवरोपितकुशलमूलः, कल्याणमित्रपरिगृहीतः, किं चाप्य् आनन्द येन कुलपुत्रेण वा कुलदुहित्रा वा तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके कुशलमूलम् अवरोपितं स न तद् विसंवादयिष्यति श्रावकत्वाय वा प्रत्येकबुद्धत्वाय वा. अपि तु खलु पुनर् आनन्द सुप्रतिसंविदितेन बोधिसत्त्वेन महासत्त्वेन भवितव्यं, दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता, सर्वशून्यतासु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेष्व् आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेष्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंवित्स्व् आवेणिकबुद्धधर्मेषु चरता, सर्वाकारज्ञतायां चरता. सुप्रतिसंविदितो ह्य् (PSP_५:७१) आनन्द बोधिसत्त्वो महासत्त्वो दानपारमितायाञ् चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन् न श्रावकत्वाय वा न प्रत्येकबुद्धत्वाय वा स्थास्यति. तस्मात् तर्ह्य् आनन्दानुपरीन्दामि त इमां गम्भीरां प्रज्ञापारमितां, सचेत् पुनस् त्वं आनन्द यो मया धर्मो देशितः स्थापित्वा प्रज्ञापारमितां सर्वान्तां धर्मदेशनाम् उद्गृह्य पर्यवाप्य पुनर् एव नाशयेः पुनर् एवोत्सृजेर् न मे त्वम् आनन्द तावता अपराद्धः स्याः, सचेत् त्वम् आनन्देमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य एकपदम् अपि नाशयेर् उत्सृजेस् तावता मे त्वं आनन्दापराद्धः स्याः, सचेत् त्वं आनन्देमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य द्वे पदम् अपि पुनर् एव नाशयेः पुनर् एवोत्सृजेस् तावता मे त्वं आनन्दापराद्धः स्याः. तस्मात् तर्ह्य् आनन्दानुपरीन्दामि ते तथेमां गम्भीरां प्रज्ञापारमितां पठेयम् उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या योनिशश् च मनसिकर्तव्या भवेत्, त्वया च सुव्यक्तेन सुपरिगृहीतेनाक्षरपदव्यञ्जनेन सुनिरुक्ता च सुपरिगृहीता च कर्तव्या.
SK
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशश् च मनसिकरिष्यति तेन कुलपुत्रेण वा कुलदुहित्रा वातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिर् अनुपरिगृहीता भविष्यति, यो ह्य् आनन्द तर्हि मां संमुखीभूतः कुलपुत्रो वा कुलदुहिता वा सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस् तेनेयं गम्भीरा प्रज्ञापारमिता उद्गृहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या योनिशश् च मनसिकर्तव्या सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः प्रज्ञापारमितां सत्कुर्वन् तु गुरुकुर्वन् मानयन् पूजयन् तेन पूजितो भवामि, अतीतानागतप्रत्युत्पन्नाश् च बुद्धा भगवन्तः पूजिता भवन्ति.
SK
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा, इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा गौरवं च प्रेम च प्रसादं (PSP_५:७२) चोत्पादयिष्यति अतीतानागतप्रत्युत्पन्ननां बुद्धानां भगवताम् अन्तिके तेन गौरवञ् च प्रेम च प्रसादश् चोत्पादितो भविष्यति यथा ते ऽहम् आनन्द प्रियश् च मनआपश् चापरित्यक्तश् च तथेयं गम्भीरा प्रज्ञापारमिता प्रिया मनआपापरित्यक्ता भवतु यथा एकपदम् अपि त इतो गम्भीराया प्रज्ञापारमिताया न नाशयितव्यं, बह्व् अपि ते ऽहम् आनन्द भाषे प्रज्ञापारमिताया परीन्दनाम् आरभ्य संक्षिप्तेनानन्द यादृशस् ते ऽहं शास्ता तादृशी ते प्रज्ञापारमिता शास्ता, तस्मात् तर्ह्य् आनन्द प्रज्ञापारमिता या अप्रमाणानि परीन्दनानि, अहं च ते आनन्देमां गम्भीरां प्रज्ञापारमिताम् अनुपरीन्दामि, तस्मात् तर्ह्य् आनन्द सदेवमानुषासुरस्य लोकस्यारोचयामि यस्यापरित्यक्तो बुद्धो ऽपरित्यक्तो धर्मो ऽपरित्यक्तः संघो ऽपरित्यक्ता अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽपरित्यक्तानुत्तरा सम्यक्संबोधिस् तस्येयं गम्भीरा प्रज्ञापारमितापरित्यक्ता भवतु, इयम् अस्माकम् अनुशासनी.
SK
यः कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशश् च मनसिकरिष्यति, परेषाञ् चेमां गम्भीरां प्रज्ञापारमिताम् अनेकपर्यायेण विस्तरेणाख्यास्यति देशयिष्यति प्रज्ञापयिष्यति प्रस्थापयिष्यति विवरिष्यति विभजिष्यत्य् उत्तानीकरिष्यति संप्रकाशयिष्यति, स खलु पुनर् आनन्द कुलपुत्रो वा कुलदुहिता वा क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, अभ्यासन्नश् च भविष्यति सर्वाकारज्ञतायाः. तत् कस्य हेतोः? प्रज्ञापारमिता निर्जाता ह्य् आनन्द बुद्धानां भगवताम् अनुत्तरा सम्यक्संबोधिः. ये ऽपि ते आनन्दाभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अप्य् आनन्द बुद्धानां भगवतां प्रज्ञापारमिता निर्जातैवानुत्तरा सम्यक्संबोधिः. ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अप्य् आनन्द बुद्धानां भगवतां प्रज्ञापारमिता निर्जातैवानुत्तरा सम्यक्संबोधिः. ये ऽपि ते आनन्दैतर्हि पूर्वस्यान् दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्ध्वं विदिक्षु दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अप्य् आनन्द बुद्धानां भगवतां प्रज्ञापारमिता निर्जातैवानुत्तरा सम्यक्संबोधिः. तस्मात् तर्ह्य् आनन्द (PSP_५:७३) बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामेन इह प्रज्ञापारमितायां शिक्षितव्यम्. तत् कस्य हेतोः? एषा ह्य् आनन्द बोधिसत्त्वानां महासत्त्वानां माताजनयित्री यद् उत प्रज्ञापारमिता, ये केचिद् आनन्द बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां शिक्षिष्यन्ते सर्वे ते निर्यास्यन्त्य् अनुत्तरायां सम्यक्संबोधौ. तस्मात् तर्ह्य् आनन्देमां प्रज्ञापारमितां भूयस्या मात्रयानुपरीन्दामि. तत् कस्य हेतोः? एषा ह्य् आनन्द तथागतानाम् अर्हतां सम्यक्संबुद्धानां धर्मकोशः, अक्षयो ह्य् एष कोशो यद् उत प्रज्ञापारमिताकोशः. ये ऽपि ते आनन्द पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्ध्वं विदिक्षु दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति ते ऽप्य् आनन्द बुद्धा भगवन्त इत एव प्रज्ञापारमिताकोशाद् देशयन्ति. ये ऽपि ते आनन्दातीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अभूवंस् ते ऽप्य् अस्याम् एव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा धर्मन् देशितवन्तः. ये ऽपि ते आनन्द भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अस्याम् एव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते धर्मञ् च देशयिष्यन्ति. ये ऽपि ते आनन्दातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां श्रावकाः सर्वे ते इहैव प्रज्ञापारमितायां शिक्षित्वा परिनिर्वृताश् च परिनिर्वान्ति च परिनिर्वास्यन्ति च. इति महाबोधिहेतोः प्रज्ञापारमितापरीन्दनाद्वितीयं कारणम्
SK
सचेत् त्वम् आनन्द श्रावकयानिकानां पुद्गलानां श्रावकभूमिम् आरभ्य धर्मन् देशयेस् तया च धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽर्हत्त्वं साक्षात्कुर्युर् अद्यापि त्वया मम श्रावकेण श्रावककृत्यन् न कृतं स्यात्. सचेत् मे त्वम् आनन्द बोधिसत्त्वस्य महासत्त्वस्य एकम् अपि प्रज्ञापारमिता प्रतिसंयुक्तं पदं देशयेः प्रकाशयेर्, एवम् अहं त्वया श्रावकेनाभिराधितो भवेयं, श्रावकेण श्रावककृत्यं कृतं स्यात्, तया च पूर्विकया धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽपूर्वाचरमं मानुष्यकम् आत्मभावं प्रतिलभेरन् मानुष्यकम् आत्मभावं प्रतिलभ्यार्हत्त्वं साक्षात्कुर्युस् तेषाञ् चार्हतां यद् दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु. (PSP_५:७४) तत् किं मन्यसे? त्वम् आनन्दापि नु तत् पुण्यक्रियावस्तु बहु.
SK
आनन्द आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स आनन्द बहुतरं पुण्यं प्रसवेत्, यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तन् धर्मन् देशयेद् अन्तश एकदिवसम् अपि, तिष्ठत्व् आनन्द एकदिवसं सचेद् यावद् अर्धदिवसम् अपि, तिष्ठत्व् अर्धदिवसं यावत् पुरोभक्तम् अपि, तिष्ठत्व् आनन्द पुरोभक्तं सचेद् यावन् नालिकान्तरं, सचेद् यावत् क्षणं वा यावल् लवं वा, तिष्ठत्व् आनन्द लवम् अन्तशो निमेषमात्रम् अपि, अयं आनन्द ततो बहुतरं पुण्यं प्रसवेत्. यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तन् धर्मन् देशयेत्, स सर्वश्रावकयानिकानां सर्वप्रत्येकबुद्धयानिकानां पुद्गलानां कुशलमूलम् अभिभवति. सचेद् आनन्द बोधिसत्त्वो महासत्त्वो बोधिसत्त्वयानिकानां पुद्गलानां प्रज्ञापारमिताप्रतिसंयुक्तं धर्मन् देशयेद् अन्तश एकदिवसम् अप्य् अर्धदिवसम् अपि पुरोभक्तम् अपि नालिकान्तरं वा क्षणं वा लवं वा निमेषमात्रम् अपि, अयम् आनन्द बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितृणां कुशलमूलम् अभिभवति. तत् कस्य हेतोः? तथा हि स आत्मना चानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः परांश् चानुत्तरायै सम्यक्संबोधये संप्रहर्षयति समुत्तेजयति समादापयति निवेशयति प्रतिष्ठापयति. एवं आनन्द बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरञ् चतुर्षु स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु चरन्न् अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन्न् अप्रमाणध्यानारूप्यसमापत्तिषु चरन्न् आर्यसत्येषु चरन् सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् शून्यतानिमित्ताप्रणिहितेषु चरन्न् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन् सर्वाकारज्ञतायां चरन् कुशलमूलैर् विवर्धमानो ऽस्थानम् अनवकाशो यद् अनुत्तरायाः सम्यक्संबोधेः परिहास्यते नेदं स्थानं विद्यते. अस्यां खलु पुनः प्रज्ञापारमितायां भाष्यमाणायां चतस्रः परिषदो देवमनुष्ययक्सगन्धर्वासुरगरुडकिंनरमहोरगाश् च संनिपतिताः संनिषन्णा अभूवन्. (PSP_५:७५)
SK
अथ खलु भगवांश् चतसृणां पर्षदां पुरतस् तथारूपम् ऋद्ध्यभिसंस्कारम् अभिसंस्कृतवान् यथारूपेणर्द्ध्यभिसंस्कारेणाभि संस्कृतेनाक्षोभ्यं तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्यन्ति स्म, भिक्षुसंघपरिवृतं बोधिसत्त्वगणपुरस्कृतं धर्मं देशयन्तं सागरोपमायां पर्षद्य् अक्षोभ्यायां सर्वैर् अर्हद्भिः क्षीणास्रवैर् निःक्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिप्राप्तैर् बोधिसत्त्वयानिकैश् च पुद्गलैः.
SK
अथ खलु भगवान् पुनर् एव तम् ऋद्ध्यभिसंस्कारं प्रतिसंहरति स्म, येनर्द्ध्यभिसंस्कारेण प्रतिसंहृतेन ताश् चतस्रः परिषदो न भूयः पश्यन्ति स्म. तम् अक्सोभ्यं तथागतम् अर्हन्तां सम्यक्संबुद्धं श्रावकयानिका वा प्रत्येकबुद्धयानिका वा बोधिसत्त्वयानिका वा पुद्गलास् तञ् च बुद्धक्षेत्रम् अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य न भूयः पश्यन्ति स्म. स बुद्धप्रमुखो भिक्षुसंघो न भूयश् चक्षुरिन्द्रियस्यावभासम् आगच्छति. तत् कस्य हेतोः? प्रतिसंहृतो हि भगवता तथागतेन स ऋद्ध्यभिसंस्कारस् तेन भूयो न पश्यति स्म.
SK
अथ खलु भगवान् आयुष्मन्तं आनन्दम् आमन्त्रयते स्म: एवं ह्य् आनन्द सर्वधर्माश् चक्षुषो नाभासम् आगच्छन्ति, न धर्मो धर्मस्याभासम् आगच्छति, न धर्मो धर्मं पश्यति, न धर्मो धर्मं जानाति. यथा पुनर् एव सो ऽक्सोभ्यस् तथागतो ऽर्हन् सम्यक्संबुद्धस् ते च श्रावकास् ते च बोधिसत्त्वयानिकाः कुलपुत्रास् तच् च बुद्धक्षेत्रं चक्षुषो नाभासम् आगच्छन्ति, एवं ह्य् आनन्द सर्वधर्माश् चक्षुषो नाभासम् आगच्छन्ति, न धर्मो धर्मस्याभासम् आगच्छति, न धर्मो धर्मं पश्यति, न धर्मो धर्मं जानाति. सर्वधर्मा ह्य् आनन्दाजानका अपश्यका अक्रियासमर्थाः. तत् कस्य हेतोः? निरीहका अग्राह्या आनन्द सर्वधर्मा अग्राह्या निरीहकतया, अचिन्त्याः सर्वधर्मा मायापुरुषोपमा, अवेदका ह्य् आनन्द सर्वधर्मा असारताम् उपादाय. एवञ् चरन्न् आनन्द बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायान् न कंचिद् धर्मम् अभिनिविशते, एवं शिक्षमाण आनन्द बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायान् न कंचिद् धर्मम् अभिनिविशते, एवं (PSP_५:७६) शिक्षमाण आनन्द बोधिसत्त्वो महासत्त्वः शिक्षते प्रज्ञापारमितयां सर्वपारमितानुप्राप्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. एषा हि शिक्षा याग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते ऽनुत्तमाख्यायते निरुत्तमाख्यायते, सर्वलोकहिता सर्वलोकसुखा अनाथानां नाथकरी बुद्धानुज्ञाता बुद्धप्रशस्ता, यत्र स्थित्वा तथागता अर्हन्तः सम्यक्संबुद्धा इमं त्रिसाहस्रमहासाहस्रलोकधातुं दक्षिणेन पाणिनोत्क्षिप्य पुनर् एव निक्षिपेयुर् न च तेषाम् एवं भवति उत्क्षिप्तो वायं त्रिसाहस्रमहासाहस्रलोकधातुः निक्षिप्तो वेति. तत् कस्य हेतोः? इयं सानन्द प्रज्ञापारमिताशिक्षा यत्र शिक्षित्वा बुद्धानां भगवताम् अतीतानागतप्रत्युत्पन्नेषु धर्मेषु असङ्गज्ञानदर्शनम् उत्पन्नं यावत्य आनन्द शिक्षाः सर्वासाम् आनन्द शिक्षानाम् इयं प्रज्ञापारमिताशिक्षाग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठाख्यायते वराख्यायते प्रवराख्यायते प्रणीताख्यायते उत्तमाख्यायते ऽनुत्तमाख्यायते निरुत्तमाख्यायते, आकाशस्य आनन्द प्रमाणं वा पर्यन्तं वा उद्गृहीतव्यं मन्येत यः प्रज्ञापारमितायाः प्रमाणं वा पर्यन्तं वा ग्रहीतव्यं मन्येत. तत् कस्य हेतोः? अप्रमाणा ह्य् आनन्द प्रज्ञापारमिता, न मयानन्द प्रज्ञापारमितायाः प्रमाणम् आख्यातं, नामकायपदकायव्यञ्जनकाया ह्य् आनन्द प्रमाणबद्धा, न प्रज्ञापारमिता प्रमाणबद्धा. इति महाबोधिप्राप्तये पुण्यबाहुल्यलक्षणं तृतीयं कारणम् इत्य् उक्तानि कारणानि
SK
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: केन कारणेन भगवन् प्रज्ञापारमिताप्रमाणबद्धा?
SK
भगवान् आह: अक्षयत्वाद् आनन्द प्रज्ञापारमिताप्रमाणबद्धा विविक्ताद् आनन्द प्रज्ञापारमिता प्रमाणबद्धा, ये ऽपि ते आनन्दाभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाविता न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, ये ऽपि ते आनन्द भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाविष्यन्ते न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, ये ऽपि ते आनन्द एतर्हि दशदिशि लोके तथागता अर्हन्तः (PSP_५:७७) सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मन् देशयन्ति ते ऽपि बुद्धा भगवन्त इत एव प्रज्ञापारमितातः प्रभाव्यन्ते न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते. तत् कस्य हेतोः? आकाशं स आनन्द क्षयितुं मन्येत यः प्रज्ञापारमितायाः क्षयं मन्येत न च प्रज्ञापारमिता क्षीणा क्षीयते क्षेष्यते, न ध्यानपारमिता क्षीयते न वीर्यपारमिता क्षीयते न क्षान्तिपारमिता क्षीयते न शीलपारमिता क्षीयते न दानपारमिता क्षीणा क्षीयते क्षष्यते, अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न क्षीणा न क्षीयते न क्षेष्यते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, शून्यतानिमित्ताप्रणिहिताभिज्ञा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न क्षीणा न क्षीयन्ते न क्षेष्यन्ते दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकाबुद्धधर्मा न क्षीणा न क्षीयन्ते न क्षेष्यन्ते, सर्वाकारज्ञता न क्षीणा न क्षीयते न क्षेष्यते. न हि तेषां धर्माणाम् उत्पादो ऽस्ति येषाम् उत्पादो नास्ति, कुतस् तेषां क्षयः प्रज्ञास्यते? इत्य् उक्ता क्षयानुत्पादज्ञानात्मिका महाबोधिः
SK
अथ खलु भगवाञ् जिह्वेन्द्रियं निर्णाम्य सर्वावन्तं मुखमण्डलं जिह्वेन्द्रियेणाच्छादयित्वायुष्मन्तं आनन्दम् एतद् अवोचत्: तत् किं मन्यसे? आनन्दापि नु ईदृशं जिह्वेन्द्रियं वितथवादि अन्यथावादि स्यात्.
SK
आनन्द आह: न भगवन् न सुगत.
SK
भगवान् आह: तस्मात् तर्ह्य् आनन्द इमां प्रज्ञापारमितां चतसृणां पर्षदां विस्तरेणाख्याहि देशय प्रज्ञापय प्रस्थापय विभज विभावयोत्तानीकुरु संप्रकाशय, इहैवानन्द गम्भीरायां प्रज्ञापारमितायां सर्वधर्मा विस्तरेणोपदिष्टा यत्र श्रावकयानिकैश् च प्रत्येकबुद्धयानिकैश् च बोधिसत्त्वयानिकैश् च पुद्गलैः शिक्षितव्यं, यत्र यथानुशिक्षमाणाः स्वकस्वकासु भूमिषु स्थास्यन्ते, (PSP_५:७८) इयं पुनर् आनन्द गम्भीरा प्रज्ञापारमिता सर्वाक्षरप्रवेश सर्वानक्षरप्रवेशा, इयम् आनन्द गम्भीरा प्रज्ञापारमिता सर्वधारणीनां मुखं, यैर् धारणीमुखैर् बोधिसत्त्वैर् महासत्त्वैः शिक्षितव्यं, धारणीं धारयतां बोधिसत्त्वानां महासत्त्वानां सर्वाः प्रतिभानप्रतिसंविदो भविष्यन्तियम् आनन्द गम्भीरा प्रज्ञापारमिता, ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वधर्म उक्तो मया, तस्मात् तर्ह्य् आनन्दारोचयामि ते प्रतिवेदयामि ते, य इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिं धारयिष्यति, इयं सानन्द प्रज्ञापारमिता धारण्य् उक्ता मया, तां त्वं प्रज्ञापारमिताधारणीं धारयन् सर्वधर्मान् धारयसि. इत्य् उक्तं महाबोधौ संप्रत्ययकारणम्
SK
अथ खल्व् आयुष्मतः सुभूतेर् एतद् अभवत्: गम्भीरा बतेयं तथागतानां बोधिः, यन् नूनम् अहं तथागतं परिपृच्छेयम्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अक्षया हि भगवन् प्रज्ञापारमिता.
SK
भगवान् आह: आकाशाक्षयत्वात् सुभूते अक्षया प्रज्ञापारमिता.
SK
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमिताभिनिर्हर्तव्या?
SK
भगवान् आह: रूपाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, वेदनासंज्ञासंस्कारविज्ञानाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर् हर्तव्या. एवं स्कन्धधात्वायतनाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, प्रतीत्यसमुत्पादाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, प्रतीत्यसमुत्पादाङ्गाक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, दानपारमिताक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, एवं शीलपारमिताक्षयत्वात् क्षान्तिपारमिताक्षयत्वाद् वीर्यपारमिताक्षयत्वाद् ध्यानपारमिताक्षयत्वात् प्रज्ञापारमिताक्षयत्वात् सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, स्मृत्युपस्थानाक्षयत्वेन सम्यक्प्रहाणाक्षयत्वेन ऋद्धिपादाक्षयत्वेन इन्द्रियाक्षयत्वेन बलाक्षयत्वेन बोध्यङ्गाक्षयत्वेनार्याष्टाङ्गमार्गाक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, अध्यात्मशून्यताक्षयत्वेन बहिर्धाशून्यताक्स्यत्वेनाध्यात्मबहिर्धाशून्यताक्षयत्वेन यावद् अभावस्वभावशून्यताक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, आर्यसत्याक्षयत्वेनाप्रमाणध्यानारूप्यसमापत्त्यक्षयत्वेन (PSP_५:७९) सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या शून्यतानिमित्ताप्रणिहिताक्षयत्वेन पञ्चाभिज्ञाक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखाक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, दशबलाक्षयत्वेन चतुर्वैशारद्याक्षयत्वेन प्रतिसंविदक्षयत्वेनाष्टादशावेणिकाबुद्ध धर्माक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या, सर्वाकारज्ञताक्षयत्वेन सुभूते प्रज्ञापारमिताभिनिर्हर्तव्या.
SK
पुनर् अपरं सुभूते रूपाकाशाक्षयत्वेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, वेदनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, संज्ञाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, संस्काराकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, विज्ञानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, स्कन्धाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, धात्वाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, आयतनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, प्रतीत्यसमुत्पादाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, अविद्याकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, संस्काराकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, विज्ञानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, नामरूपाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासवेन प्रज्ञापारमिताभिनिर्हर्तव्या, षडायतनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, स्पर्शाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, वेदनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, तृष्णाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, उपादानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, भवाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, जात्याकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन (PSP_५:८०) महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्य, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताभिनिर्हर्तव्या, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रतीत्यसमुत्पादव्यवलोकना आद्यन्तविवर्जिता, आवेणिको ऽयं बोधिसत्त्वस्य महासत्त्वस्य धर्मो बोधिमण्डनिषण्णस्य यद् एवं प्रतीत्यसमुत्पादं व्यवलोकयत्य्, एवं व्यवलोकयन् प्रतीत्यसमुत्पादं सर्वज्ञज्ञानं प्रतिलप्स्यते. यः कश्चित् सुभूते बोधिसत्त्वो महासत्त्वो ऽनेनाकाशाक्षयाभिनिर्हारेण प्रज्ञापारमितायां चरन् प्रतीत्यसमुत्पादं व्यवलोकयिष्यति, न स श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति, सो ऽनुत्तरायां सम्यक्संबोधौ स्थास्यति. यः कश्चित् सुभूते बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा विवर्तिष्यत्य् अनुत्तरायाः सम्यक्संबोधेः, स सर्व इमं प्रज्ञापारमितामनसिकारम् अनागम्य विवर्तिष्यति, न संज्ञास्यते कथं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाकाशाक्षयाभिनिर्हारेण प्रतीत्यसमुत्पादो व्यवलोकयितव्यः? कथम् अभिनिर्हर्तव्य? इति. ये केचित् सुभूते बोधिसत्त्वयानिकाः पुद्गला विवर्तन्ते सर्वे त इदम् उपायकौशल्यम् अनागम्य विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः. ये केचित् सुभूते बोधिसत्त्वा महासत्त्वा न विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः सर्वे त इमां प्रज्ञापारमिताम् आगम्य न विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेर् उपायकौशल्येन. एवं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन् आकाशाक्षयाभिनिर्हारेण प्रज्ञापारमिता व्यवलोकयितव्या अभिनिर्हर्तव्या.
SK
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यसमुत्पादं व्यवलोकयन् न कंचिद् धर्मं समनुपश्यति, अहेतुकम् उत्पद्यमानन् न कंचिद् धर्मं समनुपश्यति, निरुध्यमानन् न कंचिद् धर्मम् आत्मतः समनुपश्यति न सत्त्वतो न जीवतो न जन्तुतो न पोषतो न पुरुषतो न पुद्गलतो न मनुजतो न मानवतो न कारकतो नोत्थापकतो न समुत्थापकतो न वेदकतो न वेदापकतो न जानकतो न जानापकतो न पश्यकतो न पश्यापकतो, न नित्यतो नानित्यतः समनुपश्यति न सुखतो न दुष्खतो नात्मकतो नानात्मकतो न शान्ततो नाशान्ततः.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रतीत्यसमुत्पादो (PSP_५:८१) व्यवलोकयितव्यः प्रज्ञापारमितायाञ् चरता, यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरति तस्मिन् समये रूपं न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा, वेदना संज्ञा संस्कारा, विज्ञानं न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. एवं व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि वा न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. एवं सर्वपारमितान् न समनुपश्यति, सर्वशून्यतान् न समनुपश्यति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् न समनुपश्यति, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहितान् सर्वविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुष्खं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. सर्वाकारज्ञतान् न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मा वा अनात्मा वा शान्तं वा अशान्तं वा शुभं वा अशुभं वा. यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति तस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितान् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण प्रज्ञापारमितां न समनुपश्यति, ध्यानपारमितान् न समनुपश्यति, वीर्यपारमितान् न समनुपश्यति, क्षान्तिपारमितान् न समनुपश्यति, शीलपारमितान् न समनुपश्यति, दानपारमितान् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण यावद् दानपारमितां समनुपश्येत्. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य् आर्यास्ताङ्गमार्गन् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणार्याष्टाङ्गमार्गं समनुपश्येत्. अध्यात्मशून्यतां बहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेण यावद् अभावस्वभावशून्यतां समनुपश्येद् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तीर् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तीः (PSP_५:८२) समनुपश्येत्. शून्यतानिमित्ताप्रणिहितां न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति, येन धर्मेण शून्यतानिमित्ताप्रणिहितान् समनुपश्येत्. सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न समनुपश्यति, तम् अपि धर्मन्१ न समनुपश्यति येन धर्मेण सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि समनुपश्येत्. अभिज्ञादशबलवैशारद्यप्रतिसंविदो न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणाभिज्ञदशबलवैशारद्यप्रतिसंविदः समनुपश्येत्. अष्टादशावेणिकान् बुद्धधर्मान् न समनुपश्यति, तम् अपि धर्मान् न समनुपश्यति येन धर्मेणाष्टादशावेणिकान् बुद्धधर्मान् समनुपश्येत्. अनुत्तरां सम्यक्संबोधिन् न समनुपश्यति, तम् अपि धर्मन् न समनुपश्यति येन धर्मेणानुत्तरां सम्यक्संबोधिं समनुपश्येत्.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं सर्वधर्मान् अनुपलभमानेन. यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मान् अनुपलभमानः प्रज्ञापारमितायां चरति तस्मिन् समये मारः पापीयां शोकशल्यसमर्पितो भवति, तद्यथापि नाम सुभूते पुरुषस्य मातापितरौ कालगतौ भवतः स तेन दुष्खेन शोकशल्यसमर्पितो भवति परमेण शोकशल्येन समन्वागतः, एवम् एव सुभूते मारः पापीयां बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वधर्मान् अनुपलभमानस्य शोकसल्यसमर्पितो भवति परमेण शोकशल्येन समन्वागतः.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: एक एव भगवन् मारः पापीयान् परमशोकशल्येन समन्वागतो भवति, उताहो ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसस् ते सर्वे परमेण शोकशल्येन समन्वागता भवन्ति, स्वकस्वकेष्व् आसनेषु न रमन्ते? भगवान् आह: सर्व एव सुभूते माराः पापीयांसः परमेण शोकशल्येन समन्वागता भवन्ति, स्वकस्वकेष्व् आसनेषु न रमन्ते, यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेणाविरहितो भवति, एवं विहरतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरलोको ऽवतारन् न लभते यत्र गृहीत्वा विहेठयेत्, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमिताविहारेण विहर्तव्यम्. इत्य् उक्तम् अक्षयाकारं क्षयज्ञानम् अनुत्पादाकारम् अनुत्पादज्ञानम् (PSP_५:८३)
SK
प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति, शीलपारमिता भावनापरिपूरिं गच्छति, क्षान्तिपारमिता भावनापरिपूरिं गच्छति, वीर्यपारमिता भावनापरिपूरिं गच्छति, ध्यानपारमिता भावनापरिपूरिं गच्छति, प्रज्ञापारमिता भावनापरिपूरिं गच्छति. प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य सर्वाः पारमिता भावनापरिपूरिं गच्छन्ति
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता भावनापरिपूरिं गच्छति, शीलपारमिता भावनापरिपूरिं गच्छति, क्षान्तिपारमिता भावनापरिपूरिं गच्छति, वीर्यपारमिता भावनापरिपूरिं गच्छति, ध्यानपारमिता भावनापरिपूरिं गच्छति, प्रज्ञापारमिता भावनापरिपूरिं गच्छति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् दानन् ददाति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् शीलं रक्षति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् क्षान्त्या संपादयति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् वीर्यम् आरभते, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् ध्यानं समापद्यते, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता भावनापरिपूरिं गच्छति. इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां परिणामयन् प्रज्ञां भावयति, एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता भावनापरिपूरिं गच्छति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति? (PSP_५:८४)
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतः सर्वाकारज्ञतायां परिणामयतः सत्त्वेषु मैत्रं कायकर्म मैत्रं वाक्कर्म मैत्रं मनःकर्म प्रत्युपस्थितं भवति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो यद् इदं प्रतिग्राहका आक्रोशन्ति वा परिभाषन्ते वा, असत्याभिश् च परुषाभिर् वाग्भिः समुदाचरन्ति, न च तेषाम् अन्तिके चित्तम् आघातयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोद्धिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दनन् ददतस् ते प्रतिग्राहका यद्य् आक्रोशन्ति वा परिभाषन्ते वा असत्यां वा परुषां वा वाचं समुदाचरन्ति तस्याक्रुष्यमाणस्य वा परिभाष्यमाणस्य वा, असत्यया वा परुषया वा वाचा समुदाचर्यमाणस्य दानबुद्धिर् एव भवति, परित्यागबुद्धिर् एव भवति, दातव्यञ् चैव मया दानन्, न मया न दातव्यं स कायिकञ् च चैतसिकञ् च वीर्यं स व्यञ्जनयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो दानं परित्यजतः सर्वाकारज्ञतायां परिणामयते, न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा चित्तं परिणामयत्य्, अन्यत्र सर्वाकारज्ञतारम्बणम् एव चित्तं प्रवर्तते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति. (PSP_५:८५)
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां स्थित्वा दानन् ददतो दानं परित्यजतः, तस्य मायाबुद्धिर् एव दाने प्रत्युपस्थिता भवति, तेन च दानेन न कस्यचित् सत्त्वस्योपकारं वापकारं वा पश्यत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा प्प्रज्ञापारमितां परिगृह्णाति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो दानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो यः कायिकश् च वाचिकश् च चैतसिकश् च संवरस् तेन संवरेन न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा परामृषति, तत्र च शीलपारमितायां स्थितो न सत्त्वान् जीविताद् व्यपरोपयति, नादत्तम् आददाति, न कामेषु मिथ्या चरति, न मृषावाग् भवति, न परुषवाग् भवति न पिशुनां वाचं भाषते, न संभिन्नप्रलापी भवति, नाभिध्यालुर् भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिर् भवति, स तत्र शीलपारमितायां स्थितो यद् दानन् ददात्य् अन्नम् अन्नार्थिकानां पानं पानार्थिकानां यानं यानार्थिकानां वस्त्रं वस्त्रार्थिकानां माल्यं माल्यार्थिकानां विलेपनं विलेपनार्थिकानां शयनं शयनार्थिकानाम् उपाश्रयम् उपाश्रयार्थिकानां प्रदीपं प्रदीपार्थिकानां उपकरणम् उपकरणार्थिकानाम् अन्यतरान्यतराणि मानुष्यकाणि सर्वपरिष्कारोपकरणानि ददाति, तच् च दानं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथा न श्रावकप्रत्येकबुद्धभूमौ वा परिणामयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो दानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्त्वस्य शीलपारमितायां स्थितस्य सर्वसत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा च्छित्वा गच्छेयुस् तत्र बोधिसत्त्वस्य महासत्त्वस्य एकचित्तोत्पादो ऽपि न क्षुभ्यते न व्यापद्यते ऽन्यत्र चास्यैवं भवति, सुलब्धा मे लाभा (PSP_५:८६) यत्र हि नाम मम सत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा च्छित्वा गच्छेयुर्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो न कायेन न चित्तेन वीर्यं स्रसयति, सर्वसत्त्वा मयोत्तारयितव्याः संसारतः अमृते धातौ प्रतिष्ठापयितव्याः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते द्वितीयं ध्यानं समापद्यते तृतीयं ध्यानं समापद्यते चतुर्थं ध्यानं समापद्यते, न च श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वाध्यालम्बते ऽन्यत्र चास्यैवं भवति, इह मया ध्यानपारमितायां स्थित्वा सर्वसत्त्वाः संसाराद् उत्तारयितव्याः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो न कञ्चिद् धर्मं संस्कृतं वासंस्कृतं वा पश्यति, न निमित्तन् नानिमित्तं पश्यति, न कस्यचिद् धर्मस्यास्ति त्वं वा नास्ति त्वं वा पश्यत्य् अन्यत्र सर्वधर्मतथतान् न व्यतिवर्तन्ते, तया च प्रज्ञापारमितयोपायकौशल्येन न श्रावकभूमिं वा न प्रत्येकबुद्धभूमिं वा पतत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा दानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य (PSP_५:८७) प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य सर्वसत्त्वा यद्य् आक्रोशयेयुः परिभाषेरन्न् अङ्गप्रत्यङ्गानि चाच्छिद्युस् तत्र बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां स्थितस्यैवं भवति, दातव्यं मयैतेषां सत्त्वानां दानं, न मयैतेषां सत्त्वानां दानं न दातव्यं, स तेषां सत्त्वानाम् अन्नम् अन्नार्थिकानां ददाति, पानं पानार्थिकानां ददाति, यानं यानार्थिकानां ददाति, शयनासनवस्त्रहिरण्यसुवर्णमणिमुक्तावैडूर्यमरकतशंखशिलाप्रवालवज्रेन्द्रनीलसर्वरत्नग्लानप्रत्ययभैषज्यपरिष्कारादीनि ददाति यावद् अन्यतरान्यतराणि मानुष्यकाणि परिष्कारोपकरणानि ददाति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा सर्वाकारज्ञतायां परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा दानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो न्महासत्त्वः क्षान्तिपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषन्णो ऽत्रान्तरे न कश्चित् सत्त्वो जीविताद् व्यपरोपितो न दैहिकी बोध्यङ्गताघातदोषक्रिया वा उत्पादिता, नादत्तम् आददाति, न काममिथ्याचारी भवति, न मृषावाग् भवति, न परुषवाग् भवति, न पिशुनवाग् भवति, नाबद्धप्रलापी भवति, नाभिध्यालुर् भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिर् भवति, न चास्य स्रावकप्रत्येकबुद्धभूमौ चित्तं क्रामति, तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, क एष परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां (PSP_५:८८) स्थित्वा वीर्यं स व्यञ्जनयति, नाहं योजनं वा गत्वा योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं वा योजनकोटी नियुतशतसहस्रं वा, लोकधातुं वा लोकधातुशतं वा लोकधातुसहस्रं वा लोकधातुशतसहस्रं वा लोकधातुनियुतशतसहस्रं वा लोकधातुकोटीं वा लोकधातुकोटीशतं वा लोकधातुकोटीसहस्रं वा लोकधातुकोटीशतसहस्रं वा लोकधातुकोटीनियुतशतसहस्रं वा गत्वा तत्रान्तश एकसत्त्वम् अपि शरणगमनशिक्षापदेषु न प्रतिष्ठापयेयं स्रोतआपत्तिफले वा सकृदागामिफले वा अनागामिफले वा अर्हत्त्वफले वा न प्रतिष्ठापयेयं प्रत्येकबोधौ वा न प्रतिष्ठापयेयम् अनुत्तरायां वा सम्यक्संबोधौ न प्रतिष्ठापयेयं, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षानतिपारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रथमं ध्यानम् उपसंपद्य विहरति, द्वितीयं ध्यानम् उपसंपद्य विहरति, तृतीयं ध्यानम् उपसंपद्य विहरति, चतुर्थं ध्यानम् उपसंपद्य विहरति, उत्पन्नोत्पन्नांश् चित्तचेतसिकान् धर्मान् कुशलमूलोपसंहितान् सर्वसत्त्वेषु साधारणान् कृत्वा सर्वाकारज्ञतायां परिणामयति, तथा च परिणामयति, यथा ध्यानानि च ध्यानाङ्गानि च तस्मिन् समये नोपलभते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा तस्मिन् समये धर्मे धर्मानुपश्यी विहरति, विविक्तविहारेण वा शान्ताकारेण वाक्षयाकारेण वा न च तां धर्मतां साक्षात्करोति, यावच् च न बोधिमण्डे निषण्णो भवति, तत्र च निषद्य (PSP_५:८९) सर्वाकारज्ञताम् अनुप्राप्स्यति, उत्थाय धर्मचक्रं प्रवर्तयिष्यति, तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति, तथा च परिगृह्णाति यथा नोद्गृह्णाति तावन् नोत्सृजति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा दानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा कायेन चित्तेन चरन् न निक्षिपति, अवश्यञ् चैव मयानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या, न मया नाभिसंबोद्धव्यानुत्तरा सम्यक्संबोधिः, सत्त्वानां च कृतेन योजनं वा योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं वा योजनकोटीनियुतशतसहस्रं वा लोकधातुं वा लोकधातुशतं वा लोकधातुसहस्रं वा लोकधातुशतसहस्रं वा लोकधातुकोटीनियुतशतसहस्रं वा गत्वा वीर्यपारमितायां स्थित्वान्तश एकसत्त्वम् अप्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, सचेद् बोधिसत्त्वयानिकं पुद्गलं लभेत तं बोधिचर्यासु प्रतिष्ठापयति. श्रावकयानिकं पुद्गलं श्रावकत्वाय प्रतिष्ठापयति, प्रत्येकबुद्धयानिकं पुद्गलं प्रत्येकबोधौ प्रतिष्ठापयत्य्, अन्तश एकसत्त्वम् अपि दशकुशलेषु कर्मपथेषु समादापयति, स तद् धर्मदानं दत्त्वा आमिषदानेन सत्त्वान् संतर्पयति. स तत् कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा दानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति? (PSP_५:९०) भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय, यावद् बोधिमण्ड एतस्मिन्न् अन्तरे, आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातप्रतिविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये चान्ये प्राणातिपातात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः. आत्मना चादत्तादानात् प्रतिविरतो भवति, परांश् चादत्तादानप्रतिविरतौ समादापयति, अदत्तादानविरतेश् च वर्णं भाषते, ये चान्ये ऽदत्तादानात् प्रतिविरता भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च काममिथ्याचारात् प्रतिविरतो भवति, परांश् च काममिथ्याचारप्रतिविरतौ समादापयति, काममिथ्याचारविरतेश् च वर्णं भाषते, ये चान्ये काममिथ्याचारात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च मृषावादात् प्रतिविरतो भवति, परांश् च मृषावादविरतौ समादापयति, मृषावादविरतेश् च वर्णं भाषते, ये चान्ये मृषावादात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च परुषवचनात् प्रतिविरतो भवति, परांश् च परुषवचनविरतौ समादापयति, परुषवचनविरतेश् च वर्णं भाषते, ये चान्ये परुषवचनात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च पिशुनवचनात् प्रतिविरतो भवति, परांश् च पिशुनवचनविरतौ समादापयति, पिशुनवचनविरतेश् च वर्णं भासते, ये चान्ये पिशुनवचनात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना चाबद्धप्रलापात् प्रतिविरतो भवति, परांश् चाबद्धप्रलापविरतौ समादापयति, अबद्धप्रलापविरतेश् च वर्णं भाषते, ये ऽपि चान्ये ऽबद्धप्रलापात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना चाभिध्यायाः प्रतिविरतो भवति, परांश् चाभिध्याविरतौ समादापयति, अभिध्याविरतेश् च वर्णं भाषते, ये ऽपि चान्ये ऽभिध्यायाः प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च व्यापादात् प्रतिविरतो भवति, परांश् च व्यापादविरतौ समादापयति, व्यापादविरतेश् च वर्णं भाषते, ये ऽपि चान्ये व्यापादात् प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. आत्मना च मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भाषते, (PSP_५:९१) ये ऽपि चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति, तेषाम् अपि वर्णवादी भवति समनुज्ञः. स तया शीलपारमितया न कामधातुं प्रार्थयति, न रूपधातुं प्रार्थयति, नारूप्यधातुं प्रार्थयति, न श्रावकभूमिं प्रार्थयति, न प्रत्येकबुद्धभूमिं प्रार्थयति, अन्यत्र तत् कुशलमूलं सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न प्रवर्तते, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य मनुष्यभूतो वामनुष्यभूतो वा चित्तविक्षेपं वा कुर्याद् अङ्गप्रत्यङ्गानि च्छित्वा आदाय गच्छेत्, तत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां स्थितस्य नैवं भवति, को मे च्छिनत्ति वा भिनत्ति वा हरति वा, ऽन्यत्र चास्यैवं भवति, सुलब्धा मे लाभा येषाम् एवाहम् अर्थाय कायं परिहरामि, ते चैवागम्याङ्गप्रत्यङ्गानि च्छित्वा गच्छन्ति, धर्मता चास्य प्रकृत्या सुमनसिकृता भवति, तानि च कुशलमूलानि न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्व सत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखं च काये न (PSP_५:९२) प्रतिसंवेदयति यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धञ् चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वसत्त्वेषु सुखसंज्ञामनसिकाराद् मैत्रीम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु दुष्खसंज्ञामनसिकारात् करुणाम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु प्रमुदितासंज्ञामनसिकाराद् मुदिताम् अप्रमाणाम् उपसंपद्य विहरति, स सर्वसत्त्वेषु सुखदुःखसंज्ञामनसिकाराद् उपेक्षाम् अप्रमाणाम् उपसंपद्य विहरति. स रूपे औदारिकसंज्ञायाः प्रहाणाद् आकाशसंज्ञायाश् च मनसिकाराद् आकाशानन्त्यायतनम् उपसंपद्य विहरति, स विज्ञाने शान्तसंज्ञाया मनसिकाराद् विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, स आकिंचन्यायतनेषु शान्तसंज्ञामनसिकाराद् आकिंचन्यायतनम् उपसंपद्य विहरति, स नैवसंज्ञानासंज्ञायाः शान्तसंज्ञाया मनसिकाराद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. स तेषाम् अप्रमाणानाञ् चारूप्यसमापत्तीनां च विपाकन् न प्रतिगृह्णात्य्, अन्यत्र यत्र सर्वसत्त्वानाम् अर्थे कर्तव्यः, तत्रोपपद्यते स तान् सत्त्वान् षट्सु पारमितासु परिपाचयति दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धांश् च भगवतः पर्युपास्ते परिपृच्छति परिप्रश्नीकुरुते कुशलमूलावरोपनतया, तानि च कुशलमूलानि सर्वसत्त्वेषु साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा न दानपारमितान् द्रव्यतः समनुपश्यति न भावतो न निमित्ततो न शीलपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न क्षान्तिपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न वीर्यपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न (PSP_५:९३) ध्यानपारमितां द्रव्यतः समनुपश्यति न भावतो न निमित्ततो, न प्रज्ञापारमितां द्रव्यतः समनुप्सश्यति न भावतो न निमित्ततः. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मार्गं न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, आर्यसत्याप्र्माणध्यानारूप्यसमापत्तीर् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, शून्यतानिमित्ताप्रणिहितानि पञ्चाभिज्ञा न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, दशबलविशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वाकारज्ञतान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, सर्वधर्मान् न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः. स एवं पश्यन् न क्वचिद् धर्मनिकेतं करोति, स यथा वादी तथा कारी च भवति, स तानि कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा प्रज्ञापारमितां परिगृह्णाति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो दानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चैतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखं च काये न प्रतिसंवेदयति यत् तद् आर्या आचक्षते उपेक्सकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धञ् (PSP_५:९४) चतुर्थं ध्यानम् उपसंपद्य विहरति. एवम् आकाशानन्त्यायतनसमापत्तिं विज्ञानानन्त्यायतनसमापत्तिम् आकिंचन्यायतनसमापत्तिं नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, तत्र ध्यानपारमितायां स्थितो ऽविक्षिप्तमानसस् तेषां सत्त्वानाम् आमिषदानं धर्मदानं च ददाति, परांश् चामिषदाने धर्मदाने च समादापयति, आमिषदानस्य धर्मदानस्य च वर्णं भाषते, ये ऽपि चान्ये आमिषदानं धर्मदानञ् च ददाति, तेषां च वर्णवादी भवति समनुज्ञः. तच् च कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो दानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः शीलपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां स्थितस्य न रागसहगतं चित्तम् उत्पद्यते, न दोषसहगतं चित्तम् उत्पद्यते, न मोहसहगतं चित्तम् उत्पद्यते, न विचिकित्सासहगतं चित्तम् उत्पद्यते, अन्यत्र सर्वाकारज्ञता प्रतिसंयुक्तैर् मनसिकारैर् विअहरति तच् च कुशलमूलं न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति, यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः शीलपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः फेनपिण्डोपमं रूपं प्रत्यवेक्षते, बुद्ब्दोपमां वेदनां प्रत्यवेक्षते, मरीच्युपमां संज्ञां प्रत्यवेक्षते, कदल्युपमान् संस्कारान् प्रत्यवेक्षते, मायोपमं विज्ञानं प्रत्यवेक्षते. तस्यैवं प्रत्यवेक्षमाणस्य पञ्चस्कन्धेष्व् असारकसंज्ञा प्रत्युपस्थिता भवति, तस्यैवं (PSP_५:९५) प्रत्यवेक्षमाणस्यैवं भवति, कस्य वा रूपं, कस्य वा वेदना, कस्य वा संज्ञा, कस्य वा संस्काराः, कस्य वा विज्ञानं, तस्यैवं प्रत्यवेक्षमाणस्यैवं भवति, को वात्राक्रुष्यते वा परिभाष्यते वा, आक्रुष्यमाणस्य वा परिभाष्यमाणस्य वा न व्यापाद उत्पद्यते. स तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलमूलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्षको विहरति, स्मृतिमान् संप्रजानं सुखञ् च काये न प्रतिसंवेदयति, यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति, स ध्यानानां ध्यानाङ्गानां निमित्तं न गृह्णाति, स एवं समाहितचित्तो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति, विस्तरेण कर्तव्यं, यावद् दिव्येन श्रोत्रधातुना उभौ शब्दौ शृणोति दिव्यञ् च मानुष्यकञ् च, स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं प्रजानाति, विस्तरेण यावद् अनुत्तरं चित्तम् इति यथाभूतं प्रजानात्य्, अनेकविधं पूर्वनिवासम् अनुस्मरति, विस्तरेण यावद् दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन यावद् यथाकर्मोपगान् सत्त्वान् पश्यति, स इह पञ्चस्व् अभिज्ञासु प्रतिष्ठाय बुद्धक्षेत्रेण बुद्धक्षेत्रं गच्छति, बुद्धान् भगवतः पर्युपास्ते परिपृच्छति परिप्रश्नीकरोति कुशलमूलान्य् अवरोपयति, बुद्धक्षेत्रञ् च परिशोधयति, तानि (PSP_५:९६) च कुशलमुलानि न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो रूपं नोपलभते, वेदनां संज्ञां संस्कारान्, विज्ञानं नोपलभते, स्कन्धधात्वायतनानि नोपलभते, प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि नोपलभते, दानपारमितां नोपलभते, शीलपारमितां नोपलभते, क्षान्तिपारमितां नोपलभते, वीर्यपारमितां नोपलभते, ध्यानपारमितां नोपलभते, प्रज्ञापारमितां नोपलभते, स्मृत्युपस्थानानि नोपलभते, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य् आर्याष्टाङ्गमार्गान् नोपलभते, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां नोपलभते, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् नोपलभते, संस्कृतधातुन् नोपलभते, असंस्कृतधातुन् नोपलभते, अनुपलभमानो नाभिसंस्करोत्य्, अनभिसंस्कुर्वाणो नोत्पादयत्य्, अनुत्पादयमानो न निरोधयति. तत् कस्य हेतोः? तथा हि सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मस्थितिता धर्मनियामता सा नैवोत्पद्यते न निरुध्यते, सो ऽविक्षिप्तचित्तसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो भवति. तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा दानपारमितां परिपूरयति? (PSP_५:९७)
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्माः शून्या इति समनुपश्यति. कथं च सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माः शून्या इति समनुपश्यति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यताध्यात्मशून्यतेति नोपलभते, बहिर्धाशून्यता बहिर्धाशून्यतेति नोपलभते अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतेति नोपलभते, यावद् अभावशून्यता यावद् अभावस्वभावशून्यतेति नोपलभते. स आसु शून्यतासु स्थित्वा बोधिसत्त्वो महासत्त्वो रूपन् नोपलभते शून्यम् इति वा अशून्यम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं नोपलभते शून्यम् इति वा अशून्यम् इति वा, स्कन्धधात्वायतनानि नोपलभते शून्यानीति वा अशून्यानीति वा, प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि वा नोपलभते शून्यानीति वा अशून्यानीति वा, सर्वपारमिता नोपलभते शून्या इति वा अशून्या इति वा, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभते शून्या इति वा अशून्या इति वा, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो नोपलभते सून्या इति वा अशून्या इति वा, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि नोपलभते शून्यानीति वा अशून्यानीति वा, शून्यतानिमित्ताप्रणिहितानि नोपलभते शून्यानीति वा अशून्यानीति वा, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा नोपलभते शून्या इति वा अशून्या इति वा, अनुत्तरा सम्यक्संबोधिर् नोपलभते शून्येति वा अशून्येति वा, संस्कृतो वा धातुर् असंस्कृतो वा धातुर् नोपलभते शून्य इति वा अशून्य इति वा. स इह प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो यद्यद् एव दानन् ददात्य् अन्नं वा पानं वा शयनं वा आवसथं वा ग्लानप्रत्ययभैषज्यपरिष्कारं वा वस्त्रं वा सुवर्णं वा रूप्यं वा मणिमुक्ताशङ्खशिलाप्रवालादीनि वा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपटाका वा यावद् अन्यतरान्यतराणि मानुष्यकाणि परिष्कारोपकरणानि ददाति. स तद् दानं शून्यम् इत्य् अशून्यम् इति नोपलभते, यो वा ददाति यस्यैवा ददाति तद् अपि शून्यम् इति अशून्यम् इति नोपलभते, तस्य मात्सर्यचित्तस्य चोद्ग्रहचित्तस्य वावकाशो न भवति. तत् कस्य हेतोः? सर्व एते धर्माः प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य (PSP_५:९८) विकल्पा एव भवन्ति, प्रथमचित्तोत्पदम् उपादाय यावद् बोधिमण्डनिषण्णस्य यथा चैव तथागतस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य न मात्सर्यचित्तं वोद्ग्रहचित्तं वोत्पद्यते, तथैव बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो मात्सर्यचित्तं वा उद्ग्रहचित्तं वा नोपपद्यते, एवम् एव सुभूते बोधिसत्त्वानां महासत्त्वानां शास्ता यद् उत प्रज्ञापारमिता, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा दानपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा शीलपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्त्वः प्रज्ञापारमितायां स्थित्वा न श्रावकप्रत्येकबुद्धभूमिचित्तानाम् अवकाशं ददाति. तत् कस्य हेतोः? तथा हि स श्रावकप्रत्येकबुद्धभूमिन् नोपलभते, तद् अपि चित्तन् नोपलभते, यच् छ्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयति, स प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषदनात्, प्राणातिपातप्रहाणाय चित्तम् उत्पादयति, आत्मना च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं भाषते, ये ऽपि चान्ये प्राणातिपातात् प्रतिविरता भवन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् परुषवचनात् पिशुनवचनाद् अबद्धप्रलापाद् अभिध्याया व्यापादात्, मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं भासते, ये ऽपि चान्ये मिथ्यादृष्टेः प्रतिविरता भवन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. तेन च शीलेन न कश्चिद् धर्मं परामृशति श्रावकत्वं वा प्रत्येकबुद्धत्वं वा, प्राग् एवान्यद् वा तानि च कुशलमूलानि सर्वसत्त्वेषु साधारणानि कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा (PSP_५:९९) परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा शीलपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां स्थितस्यानुलोमिकी क्षान्तिर् उत्पद्यते, तस्यैवं भवति, इह न कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा म्रियते वा आक्रुष्यते वा परिभाष्यते वा च्छिद्यते वा भिद्यते वा हन्यते वा तस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य यदि सर्वसत्त्वा आगम्याक्रोषयुर् वा परिभाषेरन् वा लोष्टदण्डशस्त्रप्रहारान् दद्युश् च्छिद्युर् भिद्युर् वा, तत्र चास्यैवं भवति, अहो धर्माणां धर्मता, न इह कश्चिद् धर्म आक्रुष्यते वा परिभाष्यते वा च्छिद्यते वा भिद्यते वा हन्यते वा, स तानि कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिनमयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा क्षान्तिपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा वीर्यपारमितां परिगर्ह्नाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा चतुर्भिर् ऋद्धिपादैर् उपायकौशल्येन समन्वागतः कायिकञ् च चैतसिकञ् च वीर्यं संजनय्यान्यं लोकधातुम् अपि गत्वा, लोकधातुशतम् अपि गत्वा, लोकधातुसहस्रम् अपि गत्वा लोकधातुशतसहस्रम् अपि गत्वा लोकधातुकोटीनियुतशतसहस्रम् अपि गत्वा सत्त्वानां धर्मं देशयति. दानपारमितायां प्रतिष्ठापयति, शीलपारमितायां प्रतिष्ठापयति, क्षान्तिपारमितायां प्रतिष्ठापयति, वीर्यपारमितायां प्रतिष्ठापयति, ध्यानपारमितायां प्रतिष्ठापयति, प्रज्ञापारमितायां प्रतिष्ठापयति. सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु प्रतिष्ठापयति, स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयति, अर्हत्त्वे प्रतिष्ठापयति प्रत्येकबोधौ प्रतिष्ठापयति, यावद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, तथा च प्रतिष्ठापयति, यथा न संस्कृते धातौ प्रतिष्ठापयति, नासंस्कृते धातौ प्रतिष्ठापयति तच् च कुशलमूलं सर्वसत्त्वेषु (PSP_५:१००) सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तथा च परिणामयति, यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा वीर्यपारमितां परिगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा, तथागतसमाधिं स्थापयित्वा, यावन्तः केचित् समाधयः श्रावकसमाधिर् वा प्रत्येकबुद्धसमाधिर् वा तान् सर्वान् समापद्यते च व्युत्तिष्ठते च, समाधौ स्थित्वा अष्टौ विमोक्षान् अनुलोमं प्रतिलोमं समापद्यते च व्युत्तिष्ठते च. कतमान् अष्टौ विमोक्षान्? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मं रूपसंज्ञी बहिर्धारूपाणि पश्यत्य्, अयं प्रथमो विमोक्षः. अध्यात्मम् अरूपसंज्ञी बहिर्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षः. शून्यत्वेनाधिमुक्तः शून्यत्वे चाधिमुक्तो भवत्य् अयं तृतीयो विमोक्षः. सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमाद् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरत्य्, अयं चतुर्थो विमोक्षः. स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरत्य्, अयं पञ्चमो विमोक्षः. स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमाद् आकिंचन्यायतनम् उपसंपद्य विहरत्य्, अयं षष्ठो विमोक्षः. स सर्वश आकिंचन्यायतनसमतिक्रमाद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरत्य्, अयं सप्तमो विमोक्षः. स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरत्य्, अयम् अष्टमो विमोक्षः. इतीमान् अष्टौ विमोक्षान् अनुलोमं प्रतिलोमं समापद्यते च व्युत्तिष्ठते च, तत्र समाधौ स्थित्वा नवानुपूर्वविहारसमापत्तिईर् अनुलोमप्रतिलोमं समापद्यते च व्युत्तिष्ठते च. कतमा नवानुपूर्वविहारसमापत्तीर्? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं (PSP_५:१०१) सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति, प्रीतेश् च विरागाद् उपेक्षको विहरति स्मृतिमान् संप्रजानन् सुखं काये न प्रतिसंवेदयते, यत् तद् आर्या आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स सुखस्य च प्रहाणाद् दुष्खस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुष्खासुखम् उपेक्षास्मृतिपरिशुद्धिं चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमाद् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमाद् नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति. स सर्वश आकिंचन्यायतनसमतिक्रमाद् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रयात् संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति. एवम् इमा नवानुपूर्वविहारसमापत्तीर् अनुलोमप्रतिलोमं समापद्यते च व्युत्तिष्ठते च, इमान् अष्ट विमोक्षान् इमाश् च नवानुपूर्वविहारसमापत्तीर् विभङ्गं कृत्वा इमं सिंहविजृम्भितं नाम समाधिं समापद्यते, तत्र च समाधौ स्थित्वा द्वादशाङ्गप्रतीत्यसमुत्पादम् अनुलोमप्रतिलोमं प्रत्यवेक्षते. कतमानि द्वादशाङ्गानि? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽविद्याप्रत्ययाः संस्कारा इति प्रत्यवेक्षते, एवं संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपम्ब् नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययम् उपादानम्, उपादानप्रत्ययो भवो, भवप्रत्यया जातिः, जातिप्रत्ययं जरामरणं, जरामरणप्रत्ययाः शोकपरिदेवदुःखदौर्मनस्योपायासा इति प्रत्यवेक्षते. एवम् अस्य केवलस्य महतो दुष्खस्कन्धस्य लोके समुदयो भवतीति प्रत्यवेक्षते. जरामरणे तस्मिन्न् असति शोकपरिदेवदुष्खदौर्मनस्योपायासा न भवन्तीति प्रत्यवेक्षते, एवं जाताव् असत्यां जरामरणन् न भवति, भवे ऽसति जातिर् न भवति, उपादाने ऽसति भवो न भवति, तृष्णायाम् असत्याम् उपादानन् (PSP_५:१०२) न भवति, वेदनायम् असत्यां तृष्णा न भवति, स्पर्शे ऽसति वेदना न भवति, षडायतने ऽसति स्पर्शो न भवति, नामरूपे ऽसति षडायतनन् न भवति, विज्ञाने ऽसति नामरूपन् न भवति, संस्कारेष्व् असत्सु विज्ञानन् न भवति, अविद्यायाम् असत्यां संस्कारा न भवन्तीति प्रत्यवेक्षते. एवम् अस्य केवलस्य महता दुष्खस्कन्धस्य लोके निरोधो भवतीति प्रत्यवेक्षते. एवम् इमं द्वादशाङ्गं प्रतीत्यसमुत्पादम् अनुलोमप्रतिलोमं प्रत्यवेक्षते, तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा ध्यानपारमितां परिगृह्णाति. इत्य् उक्तो दर्शनमार्गः
SK
कतमश् च सुभूते बोधिसत्त्वस्य महासत्त्वस्य सिंहविजृम्भितः समाधिर्? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. एवं द्वितीयं ध्यानम् उपसंपद्य विहरति, तृतीयं ध्यानम् उपसंपद्य विहरति चतुर्थं ध्यानम् उपसंपद्य विहरति, आकाशानन्त्यायतनसमापत्तिं विज्ञानानन्त्यायतनसमापत्तिं आकिंचन्यायतनसमापत्तिन् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति, निरोधसमापत्तेर् व्युत्थाय नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते, नैवसंज्ञानासंज्ञायतनसमापत्तेर् व्युत्थायाकिंचन्यायतनसमापत्तिं समापद्यते, आकिंचन्यायतनसमापत्तेर् व्युत्थाय विज्ञानानन्त्यायतनसमापत्तिं समापद्यते, विज्ञानानन्त्यायतनसमापत्तेर् व्युत्थायाकाशानन्त्यायतनसमापत्तिं समापद्यते, आकाशानन्त्यायतनसमापत्तेर् व्युत्थाय चतुर्थं ध्यानम् उपसंपद्यते, चतुर्थाद् ध्यानाद् व्युत्थाय तृतीयं ध्यानं समापद्यते, तृतीयाद् ध्यानाद् व्युत्थाय द्वितीयं ध्यानं समापद्यते, द्वितीयाद् ध्यानाद् व्युत्थाय प्रथमं ध्यानं समापद्यते. स इमं सिंहविजृम्भितं समाधिं विभङ्गं कृत्वावस्कन्दकं समाधिं समापद्यते. कतमश् च सुभूते बोधिसत्त्वस्य महासत्त्वस्यावस्कन्दकः समाधिर्? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं (PSP_५:१०३) पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, प्रथमाद् ध्यानाद् व्युत्थितो द्वितीयं ध्यानं उपसंपद्य विहरति, द्वितीयाद् ध्यानाद् व्युत्थितस् तृतीयं ध्यानम् उपसंपद्य विहरति, तृतीयाद् ध्यानाद् व्युत्थितश् चतुर्थं ध्यानम् उपसंपद्य विहरति, चतुर्थ्याद् ध्यानाद् व्युत्थित आकाशानन्त्यायतनसमापत्तिम् उपसंपद्य विहरति, आकाशानन्त्यायतनसमापत्तेर् व्युत्थितो विज्ञानानन्त्यायतनसमापत्तिम् उपसंपद्य विहरति, विज्ञानानन्त्यायतनसमापत्तेर् व्युत्थित आकिंचन्यायतनसमापत्तिम् उपसंपद्य विहरति, आकिंचन्यायतनसमापत्तेर् व्युत्थितो नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, नैवसंज्ञानासंज्ञायतनसमापत्तेर् व्युत्थितः संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति. निरोधसमापत्तेर् व्युत्थितः प्रथमं ध्यानं समापद्यते, प्रथमाद् ध्यानाद् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितो द्वितीयं ध्यानं समापद्यते द्वितीयाद् ध्यानाद् व्युत्थितो निरोधसमापित्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितस् तृतीयं ध्यानं समापद्यते, तृतीयाद् ध्यानाद् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितश् चतुर्थं ध्यानं समापद्यते, चतुर्थाद् ध्यानाद् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थित आकाशानन्त्यायतनसमापत्तिं समापद्यते, आकाशानन्त्यायतनसमापत्तेर् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितो विज्ञानानन्त्यायतनसमापत्तिं समापद्यते, विज्ञानानन्त्यायतनसमापत्तेर् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थित आकिंचन्यायतनसमापत्तिं समापद्यते, आकिंचन्यायतनसमापत्तेर् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितो नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते, नैवसंज्ञासंज्ञायतनसमापत्तेर् व्युत्थितो निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितो नैवसंज्ञानासंज्ञायतानसमापत्तिं समापद्यते नैवसंज्ञानासंज्ञायतनसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् निरोधसमापत्तिं समापद्यते, निरोधसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते, नैवसंज्ञानासंज्ञायतनसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् (PSP_५:१०४) विज्ञनानन्त्यायतनसमापत्तिं समापद्यते, विज्ञनानन्त्यायतनसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् आकाशानन्त्यायतनसमापत्तिं समापद्यते, आकाशानन्त्यायतनसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् आकाशानन्त्यायतनसमापत्तिं समापद्यते, आकाशानन्त्यायतनसमापत्तेर् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताच् चतुर्थं ध्यानं समापद्यते, चतुर्थाद् ध्यानाद् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्तात् तृतीयं ध्यानं समापद्यते, तृतीयाद् ध्यानाद् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्ताद् द्वितीयं ध्यानं समापद्यते, द्वितीयाद् ध्यानाद् व्युत्थितो ऽसमाहिते चित्ते तिष्ठत्य्, असमाहिताच् चित्तात् प्रथमं ध्यानं समापद्यते, प्रथमाद् ध्यानाद् व्युत्थितो ऽसमाहिते चित्ते तिष्ठति. स इहावस्कन्दके समाधौ स्थित्वा सर्वधर्मसमताम् अनुप्राप्नोति, तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, तथा च परिणामयति यथास्य त्रिविधा बुद्धिर् न भवति, को वा परिणामयति, किं वा परिणामयति, कुत्र वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽवस्कन्दकसमापत्तिं समापद्यते च व्युत्तिष्ठते च. इत्य् उक्तो भावनामार्गः
SK
सुभूतिर् आह: बहुषु स्थानेषु शिक्षितव्यं बोधिसत्त्वेन महासत्त्वेन न क्वचिच् छिक्षितव्यम्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बहुषु स्थानेषु शिक्षितव्यं बोधिसत्त्वेन महासत्त्वेन न क्वचिच् छिक्षितव्यम्. तत् कस्य हेतोः? तथा हि ते धर्मा नोपलभ्यन्ते यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यत् पुनर् भगवंस् तथागतेन मे संक्षिप्तेन च विस्तरेण च धर्मा भाषिताः, तत्र बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेनेमाः षट् पारमिताः संक्षिप्तेन च विस्तरेण च पर्यवाप्तव्याः पर्यवाप्य यावद् वाचा परिजिताः कर्तव्या यावद् वाचा परिजिताः कृत्वा मनसा प्रत्यवेक्षितव्या, तथा च चित्तचेतसिका धर्मा न प्रवर्तन्ते, अस्मिन् पुनः संक्षेपविस्तरे शिक्षमाणो बोधिसत्त्वो महासत्त्वः षण्नां पारमितानां सर्वधर्माणाञ् च संक्षेपविस्तरं ज्ञास्यति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वधर्माणां (PSP_५:१०५) संक्षेपविस्तरं ज्ञास्यति?
SK
भगवान् आह: रूपस्य वा वेदनाया वा संज्ञाया वा संस्काराणां वा विज्ञानस्य वा संक्षिप्तविस्तरञ् च तथतां जानानः. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य वा प्रतीत्यसमुत्पादाङ्गानां वा संक्षिप्तविस्तरं तथतां जानानः, एवं सर्वपारमितानां वा सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणां वा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकानां बुद्धधर्माणां वा सर्वाकारज्ञताया वा संक्षिप्तविस्तरं तथतां जानानः, सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति.
SK
सुभूतिर् आह: कतमा सा भगवंस् तथता?
SK
भगवान् आह: यस्यास् तथताया नोत्पादः प्रज्ञायते, न स्थितिर् नान्यथात्वं प्रज्ञायते इयं सा तथता यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्. एवं भूतकोटिं जानानो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति.
SK
सुभूतिर् आह: कतमा सा भगवन् भूतकोटिः? भगवान् आह: अकोटिर् भूतकोटिर् अत्र कोट्यां शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति, एवं धर्मधातुं जानानो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति.
SK
सुभूतिर् आह: कतमो ऽसौ भगवन् धर्मधातुः?
SK
भगवान् आह: आकाशधातुर् धर्मधातुर् यस्य धातोर् न च्छेदः प्रज्ञायते न परिच्छेदः. एवं च धर्मधातुं जानानो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति.
SK
सुभूतिर् आह: कथं भगवन् सर्वधर्माणां संक्षिप्तविस्तरं ज्ञातव्यम्?
SK
भगवान् आह: यथा सर्वधर्मा न संयुक्ता न विसंयुक्ताः.
SK
सुभूतिर् आह: कतमे भगवन् सर्वधर्मा ये न संयुक्ता न विसंयुक्ताः?
SK
भगवान् आह: रूपन् न संयुक्तं न विसंयुक्तं, वेदना संज्ञा संस्काराः, विज्ञानन् न संयुक्तन् न विसंयुक्तम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च न संयुक्तानि न (PSP_५:१०६) विसंयुक्तानि, एवं यावत् संस्कृतो धातुर् असंस्कृतो धतुर् न संयुक्तो न विसंयुक्तः. तत् कस्य हेतोः? न ह्य् अस्यास्ति स्वभावो यः संयुज्यते वा विसंयुज्यते वा यश् चास्वभावः सो ऽभावो, यश् चाभावः सो ऽभावेन सार्धं न संयुक्तो न विसंयुक्त, एवं बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा ज्ञातव्याः.
SK
सुभूतिर् आह: अयं पुनर् भगवन्न् अभिसंक्षेपो बोधिसत्त्वस्य महासत्त्वस्यात्र हि भगवन्न् अभिसंक्षेपपारमितायाम् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, यावद् दशसु भूमिषु स्थितेनेहैवाभिसंक्षेपे शिक्षितव्यम्, इहैव पुनर् अभिसंक्षेपे शिक्षिमाणो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षेपविस्तरं ज्ञास्यति.
SK
भगवान् आह: तीक्ष्णेन्द्रियस्यापि बोधिसत्त्वस्य महासत्त्वस्यायं प्रवेशो, ऋद्धीन्द्रियस्यापि बोधिसत्त्वस्य महासत्त्वस्यायं प्रवेशो, मध्येन्द्रियस्यापि बोधिसत्त्वस्य महासत्त्वस्याप्य् अयं प्रवेशः, कस्यचिन् न प्रवेशः शिक्षितुकामस्य बोधिसत्त्वस्य महासत्त्वस्यायं प्रवेशो, न खलु कुशीदस्यायं प्रवेशो न हीनवीर्यस्य मुषितस्मृतेर् न विक्षिप्तचित्तस्यायं प्रवेशः आरब्धवीर्यस्याकुशीदस्योपस्थितस्मृतेर् अयं प्रवेशः शिक्षितुकामस्य चाविनिवर्तनीयभूमौ सर्वाकारज्ञताम् अनुप्राप्तुकामस्य चायं प्रवेशः. इति संक्षेपविस्तराज्ञानविकल्पौ
SK
सचेद् यथोपदिष्टायां प्रज्ञापारमितायां शिक्षिष्यते शिक्षित्वा दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमिताम् अनुप्राप्स्यति, अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अनुप्राप्स्यत्य्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अनुप्राप्स्यति, शून्यतानिमित्ताप्रणिहिताभिज्ञा अनुप्राप्स्यति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् अनुप्राप्स्यति, सर्वाकारज्ञताम् अनुप्राप्स्यति. तस्य खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो यानि कानिचित् मारकर्माण्य् उत्पत्स्यन्ते, उत्पद्यमानान्य् एव तानि प्रहास्यन्ति, तस्माद् उपायकौशल्यं परिगृहीतुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्. यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति प्रज्ञापारमितां भावयति, प्रज्ञापारमितायां योगम् आपद्यते, तस्मिन् समये ऽसंख्येयेषु लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् (PSP_५:१०७) च देशयन्ति ते तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति प्रज्ञापारमितायां चरन्तम्. तत् कस्य हेतोः? अतो निर्जाता हि सुभूते ऽतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो यद् उत षड्भ्यः पारमिताभ्यः, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं प्रतिकाङ्क्षितव्यम्, अहम् अप्य् एनान् धर्मान् अनुप्राप्स्यामि ये तैर् अतीतानागतप्रत्युत्पन्नैर् बुद्धैर् भगवद्भिर् अनुप्राप्ताः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं योगम् आपत्तव्यम्, एवं प्रयुज्यमानो बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञतामनसिकाराविरहितेन भवितव्यम्. सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं चरन् प्रज्ञापारमितायाम् अन्तशो ऽच्छटासंघातमात्रकम् अपि प्रज्ञापारमितां भावयिष्यति, स ख्हलु पुनर् बोधिसत्त्वो महासत्त्वो बहुतरपुण्यं प्रसविष्यति, न त्व् एव ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव दानेन संतर्पयेच् छीले प्रतिष्ठापयेत् क्षान्तौ प्रतिष्ठापयेद् वीर्ये प्रतिष्ठापयेत् समाधौ प्रतिष्ठापयेत् प्रज्ञायां प्रतिष्ठापयेद् विमुक्तौ प्रतिष्ठापयेद् विमुक्तिज्ञानदर्शने प्रतिष्ठापयेत्, स्रोतआपत्तिफले प्रतिष्ठापयेत् सकृदागामिफले प्रतिष्ठापयेद् अनागामिफले प्रतिष्ठापयेद् अर्हत्त्वे प्रतिष्ठापयेत् प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् कस्य हेतोः? अतो निर्जाता हि सुभूते दानशीलक्षान्तिवीर्यसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानि स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिः. ये ऽपि ते बुद्धा भगवन्तो दशदिग्लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपितो निर्जाता यद् उत प्रज्ञापारमितातः. ये ऽपि ते सुभूते ऽ तीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तस् ते ऽपीत एव प्रभाविता यद् उत प्रज्ञापारमितातः.
SK
पुनर् अपरं सुभूते यो बोधिसत्त्वो महासत्त्वो मुहूर्तं वा दिवसं वा दिवसशतं वा संवत्सरं वा संवत्सरशतं वा कल्पं वा कल्पशतं वा यावद् असंख्येयान् अपि कल्पानि मां प्रज्ञापारमितां सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् भावयिष्यति, स बहुतरं पुण्यं प्रसविष्यति. न त्व् एव ये गङ्गानदीवालुकासमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव दानेन संतर्पयेच् छीले क्षान्तौ वीर्ये समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयेत्, (PSP_५:१०८) स्रोतआपत्तिफले प्रतिष्ठापयेत्, सकृदागामिफले प्रतिष्ठापयेत्, अनागामिफले प्रतिष्ठापयेत्, अर्हत्त्वे प्रतिष्ठापयेत्, प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् कस्य हेतोः? अतो निर्जाता हि ते बुद्धा भगवन्तो यैर् इदं दानमयं पुण्यक्रियावस्तुप्रज्ञाप्तं, शीलमयं भावनामयं पुण्यक्रियावस्तुप्रज्ञाप्तं, क्षान्तिवीर्यसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनं प्रज्ञाप्तं, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं प्रज्ञाप्तम्. इति बुद्धैः सानाथ्याभावविकल्पः
SK
यः पुनर् अपरं बोधिसत्त्वो महासत्त्व एवं यथोपदिष्टायां प्रज्ञापारमितायां स्थितः, स खलु पुनर् बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयः प्रतिकाङ्क्षितव्यः. तथागतसमन्वागतः स बोधिसत्त्वो महासत्त्वः, उपायकौशल्येन समन्वागतो बहुबुद्धकोटीनियुतशतसहस्रपर्युपासितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. अवरोपितकुशलमूलः स बोधिसत्त्वो महासत्त्वः, कल्याणमित्रपरिगृहीतः स बोधिसत्त्वो महासत्त्वः, षट्पारमितावतीर्णः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. विंशतिशून्यताभावितः स बोधिसत्त्वो महासत्त्वः, सप्तत्रिंशद् बोधिपक्ष्यधर्मभावितः स बोधिसत्त्वो महासत्त्वः, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखभावितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मभावितः स बोधिसत्त्वो महासत्त्वः, षड् अभिज्ञाप्रतिलब्धः स बोधिसत्त्वो महासत्त्वः, कुमारभूतः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. अभिप्रायपरिपूर्णः स बोधिसत्त्वो महासत्त्वः, बुद्धैर् अविरहितः स बोधिसत्त्वो महासत्त्वः, कुशलमूलैर् अविरहितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. अनाक्षिप्तप्रतिभानः स बोधिसत्त्वो महासत्त्वः, धारणीप्रतिलब्धः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. रूपपरिनिष्पत्तिस् तस्य प्रतिकाङ्क्षितव्या, व्याकरणसंपन्नो गोत्रसंपन्नः संचिन्त्यभवः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. आकारप्रवेशकुशलो ऽनक्षरप्रवेशकुशलो व्यवहारकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. अव्यवहारकुशल एकाधिवचनकुशलो द्व्यधिवचनकुशलस् त्र्यधिवचनकुशलः पुरुषाधिवचनकुशलो रूपकुशलो, वेदनाकुशलः संज्ञाकुशलः संस्कारकुशलो विज्ञानकुशलः स्कन्धधात्वायतनकुशलः प्रतीत्यसमुत्पादकुशलः प्रतीत्यसमुत्पादाङ्गकुशलो (PSP_५:१०९) यावन् निर्वाणकुशलो धर्मधातुलक्षणकुशलः संस्कारलक्षणकुशलः संस्कृतलक्षणकुशलो ऽसंस्कृतलक्षणकुशलो लक्षणालक्षणकुशलो भावकुशलो ऽभावकुशलः स्वभावकुशलः परभावकुशलः सयोगकुशलो वियोगकुशलः संप्रयुक्तकुशलो विप्रयुक्तकुशलः, तथताकुशलो ऽवितथताकुशलो ऽनन्यतथताकुशलो धर्मताकुशलो धर्मधातुकुशलो धर्मनियामताकुशलो धर्मस्थितिताकुशलो भूतकोटिकुशलः प्रत्ययकुशलः संप्रत्ययकुशलो ध्यानकुशलो ऽप्रमाणकुशल आरूप्यसमापत्तिकुशलः षट्पारमिताकुशलश् चतुःस्मृत्युपस्थानकुशलः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गकुशलो विमोक्षसमाधिसमापत्तिधारणीमुखकुशलः शून्यतानिमित्ताप्रणिहितकुशलो ऽभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मकुशलः सर्वाकारज्ञताकुशलः संस्कृतधातुकुशलो ऽसंस्कृतधातुकुशलो ऽधातुकुशलो रूपमनसिकारकुशलो वेदनासंज्ञासंस्कारविज्ञानमनसिकारकुशलः स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गमनसिकारकुशलः सप्तत्रिंशद्बोधिपक्ष्य धर्मार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखमनसिकारकुशलः शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्ममनसिकारकुशलः, सर्वाकारज्ञता मनसिकारकुशलः. रूपं रूपेण शून्यम् इति कुशलः, वेदना संज्ञा संस्कारा, विज्ञानं विज्ञानेन शून्यम् इति कुशलः, स्कन्धधात्वायतनानि स्कन्धधात्वायतनैः शून्यानीति कुशलः, प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादेन शून्य इति कुशलः, प्रतीत्यसमुत्पादाङ्गानि प्रतीत्यसमुत्पादाङ्गैः शून्यानीति कुशलः, सर्वपारमिताः सर्वपारमिताभिः शून्या इति कुशलः, सर्वशून्यताः सर्वशून्यताभिः शून्या इति कुशलः, बोधिपक्ष्या धर्मा बोधिपक्ष्यैर् धर्मैः शून्याः इति कुशलः, आर्यसत्यान्य् आर्यसत्यैः शून्यानीति कुशलः, अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिभिः शून्या इति कुशलः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैः सून्यानीति कुशलः, अभिज्ञा अभिज्ञाभिः शून्या इति कुशलो, दशबलवैशारद्यप्रतिसंविदो दशबलवैशारद्यप्रतिसंविद्भिः शून्या इति कुशलः, शून्यतानिमित्ताप्रणिहितानि शून्यतानिमित्ताप्रणिहितैः शून्यानीति कुसलः, अष्टादशावेणिकबुद्धधर्मा अष्टादशावेणिकैर् बुद्धधर्मैः शून्या इति कुशलः, अनुत्तरा सम्यक्संबोधिर् अनुत्तरया सम्यक्संबोध्या (PSP_५:११०) शून्येति कुशलः, प्रतिप्रस्रब्धमार्गकुशलो ऽप्रतिप्रस्रब्धमार्गकुशलः उत्पादनिरोधकुशलः स्थित्यन्यथात्वकुशलो रागकुशलो द्वेषकुशलो मोहकुशलो दृष्टिकुशलो ऽदृष्टिकुशलो मिथ्यादृष्टिकुशलो ऽमिथ्यादृष्टिकुशलो यावत् सर्वदृष्टिकुशलो नामरूपकुशलो ऽनामरूपकुशल आरम्बणकुशल आधिपत्यकुशलो हेतुकुशलः प्रत्ययकुशलो लक्षणकुशलो ऽलक्षणकुशलो दुःखकुशलो ऽदुःखकुशलः समुदयकुशलो ऽसमुदयकुशलो निरोधकुशलो मार्गकुशलो नरककुशलो नरकमार्गकुशलः तिर्यग्योनिकुशलस् तिर्यग्योनिमार्गकुशलो यमलोककुशलो यमलोकमार्गकुशलो मनुष्यकुशलो मनुष्यमार्गकुशलो देवकुशलो देवमार्गकुशलः स्रोतआपत्तिफलकुशलः स्रोतआपत्तिफलमार्गकुशलः, सकृदागामिफलकुशलः सकृदागामिफलमार्गकुशलः, अनागामिफलकुशलो ऽनागामिफलमार्गकुशलः, अर्हत्त्वफलकुशलो ऽर्हत्त्वफलमार्गकुशलः, प्रत्येकबोधिकुशलः प्रत्येकबोधिमार्गकुशलः, मार्गाकारज्ञताकुशलो मार्गाकारज्ञतामार्गकुशलः, सर्वाकारज्ञताकुशलः सर्वाकारज्ञतामार्गकुशलः, इन्द्रियकुशल इन्द्रियमार्गकुशलः, तीक्ष्णमार्गकुशलो जवनप्रज्ञाकुशलो नैर्वेधिकप्रज्ञाकुशलः पृथक्पृथक्प्रज्ञाकुशलो समन्तप्रज्ञाकुशलो ऽतीतार्थकुशलो ऽनागतार्थकुशलः प्रत्युत्पन्नार्थकुशल उपायकुशलः सत्त्वाशयकुशलो ऽध्याशयकुशलो ऽर्थकुशलो व्यञ्जनकुशलस् त्रिस्थानव्यवस्थानकुशलः, इतीमे ऽनुशंसाः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः. इति प्रयोगमार्गाभावविकल्पः
SK
प्रज्ञापारमिताम् अभिनिर्हरतः. इति दर्शनमार्गाभावविकल्पः
SK
प्रज्ञापारमितां भावयन्तः. इति भावनामार्गाभावविकल्पः
SK
सुभूतिर् आह: कथं भगवन् प्रज्ञापारमितायाञ् चरितव्यं? कथं प्रज्ञापारमिताभिनिर्हर्तव्या? कथं प्रज्ञापारमिता भावयितव्या?
SK
भगवान् आह: रूपशान्ततया सुभूते रूपवशिकतया रूपतुच्छतया रूपासारतया प्रज्ञापारमितायां चरितव्यं, वेदनासंज्ञासंस्कारविज्ञानशान्ततया विज्ञानवशिकतया विज्ञानतुच्छतया विज्ञानासारतया प्रज्ञापारमितायां चरितव्यम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां शान्ततया वशिकतया तुच्छतया (PSP_५:१११) असारतया प्रज्ञापारमितायां चरितव्यम्. इति प्रयोगमार्गाज्ञानविकल्पः
SK
यत् पुनः सुभूते एवं वदसि, कथं प्रज्ञापारमिताभिनिर्हर्तव्येति, आकाशशून्यताभिनिर्हारतया प्रज्ञापारमिताभिनिर्हर्तव्या. इति दर्शनमार्गाज्ञानविकल्पः
SK
यत् पुनः सुभूते एवं वदसि, कथं प्रज्ञापारमिता भावयितव्येति, आकाशशून्यताभावनया प्रज्ञापारमिता भावयितव्या. इति भावनामार्गज्ञानविकल्पः इत्य् उक्तो नवविधः प्रथमो ग्राह्यविकल्पः
SK
सुभूतिर् आह: कियच् चिरं स भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां चीर्णो भवति?
SK
भगवान् आह: प्रथमचित्तोत्पादम् उपादाय, इति बोधिचित्तानुत्पादविकल्पः
SK
यावद् बोधिमण्डम् एव मनसिकरोत्य्, एवं प्रज्ञापारमितायां चरितव्यम्, एवं प्रज्ञापारमिताभिनिर्हर्त्तव्या भावयितव्या. इति बोधिमण्डामनसिकारविकल्पः
SK
सुभूतिर् आह: किं पुनर् भगवंश् चित्तान्तरानाम् अवकाशन् ददता प्रज्ञापारमितायां चरितव्यम्?
SK
भगवान् आह: अन्येषां सुभूते मनसिकाराणाम् अवकाशम् अददता प्रज्ञापारमितायां चरितव्यं, प्रज्ञापारमिताभिनिर्हर्तव्या, प्रज्ञापारमिता भावयितव्या. इति श्रावकप्रत्येकबुद्धयानामनसिकारविकल्पः
SK
सर्वाकारज्ञतामनसिकाराविप्रणाश एव सुभूते प्रज्ञापारमिताचर्या, तथा च चरितव्या तथा चाभिनिर्हर्तव्या तथा च भावयितव्या, यथा चित्तचैतसिका धर्मा न प्रवर्तते.
SK
सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् अभिनिर्हरन् प्रज्ञापारमितां भावयन् सर्वाकारज्ञताम् अनुप्राप्स्यति?
SK
भगवान् आह: न सुभूते. इति सम्यक्संबोधेर् अमनसिकारविकल्पः
SK
सुभूतिर् आह: भावयन् पुनः सर्वाकारज्ञताम् अनुप्राप्स्यति?
SK
भगवान् आह: न सुभूते. इति भावनाविकल्पः
SK
सुभूतिर् आह: अभावयन् पुनः सर्वाकारज्ञताम् अनुप्राप्स्यति?
SK
भगवान् आह: न सुभूते. इत्य् अभावनाविकल्पः (PSP_५:११२)
SK
सुभूतिर् आह: नैव भावयन् नाभावयन् सर्वाकारज्ञताम् अनुप्राप्स्यति?
SK
भगवान् आह: न सुभूते. इति नैवभावनानाभावनाविकल्पः
SK
सुभूतिर् आह: तत् कथं भगवन् सर्वाकारज्ञताम् अनुप्राप्स्यति?
SK
भगवान् आह: यथा तथता. सुभूतिर् आह: कथं तथता?
SK
भगवान् आह: यथा हि भूतकोटिः.
SK
सुभूतिर् आह: कथं भूतकोटिः?
SK
भगवान् आह: यथा धर्मधातुः. इति यथाविकल्पः इत्य् उक्तो नवविधो द्वितीयो ग्राह्यविकल्पः
SK
सुभूतिर् आह: कथं धर्मधातुः?
SK
भगवान् आह: यथात्मधातुः सत्त्वधातुर् जीवधातुर् जन्तुधातुः पोषधातुः पुरुषधातुः पुद्गलधातुः.
SK
सुभूतिर् आह: कथं भगवन् तथता भूतकोटिधर्मधातुर् आत्मधातुः सत्त्वधातुर् जीवधातुर् जन्तुधातुः पोषधातुः पुरुषधातुः पुद्गलधातुः?
SK
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु स आत्मा वा सत्त्वो वा जीवो वा जन्तुर् वा पोसो वा पुरुषो वा पुद्गलो वा उपलभ्यते.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: अनुपलभमानः सुभूते आत्मानं वा सत्त्वं वा जीवं वा जन्तुं वा पोषं वा पुरुषं वा पुद्गलं वा, कथं सत्त्वधातुं वा यावत् पुद्गलधातुं वा प्रज्ञापयिष्यति. एवं प्रज्ञापारमिताम् अप्य् अप्रज्ञपयमानः सर्वधर्मान् अप्य् अप्रज्ञपयमानः सर्वाकारज्ञताम् अनुप्राप्स्यति.
SK
सुभूतिर् आह: किं पुनर् भगवन्न् अप्रज्ञपनीया प्रज्ञापारमिता? अप्रज्ञपनीया ध्यानपारमिता, अप्रज्ञपनीया वीर्यपारमिता, अप्रज्ञपनीया क्षान्तिपारमिता, अप्रज्ञपनीया शीलपारमिता, अप्रज्ञपनीया दानपारमिता?
SK
भगवान् आह: अप्रज्ञपनीया सुभूते प्रज्ञापारमिता, यावत् सर्वधर्माः संस्कृता वासंस्कृता वा श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा यावद् बुद्धधर्मा वा.
SK
सुभूतिर् आह: यदि भगवन्न् अप्रज्ञपनीयाः सर्वधर्माः, कुतः (PSP_५:११३) पुनर् भगवन् नारकाः प्रज्ञायन्ते, तिर्यग्योनिगताः प्रज्ञायन्ते, यमलोका वा प्रज्ञायन्ते, मनुष्या वा प्रज्ञायन्ते, देवा वा प्रज्ञायन्ते, स्रोतआपन्ना वा सकृदागामिनो वानागामिनो वार्हन्तो वा प्रत्येकबुद्धा वा सम्यक्संबुद्धा वा प्रज्ञायन्ते.
SK
भगवान् आह: कत् किं मन्यसे? सुभूते ऽपि नु सत्त्वप्रज्ञाप्तिर् उपलभ्यते.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: अनुपलभमानः सुभूते सत्त्वं कुतो नारकं प्रज्ञापयिष्यति तिर्यग्योनिगतान्, यमलोकं वा मनुष्यं वा देवं वा स्रोतआपन्नान् वा सकृदागामिनो वा अनागामिनो वा अर्हतो वा प्रत्येकबुद्धान् वा सम्यक्संबुद्धान् वा कुतः प्रज्ञापयिष्यति? एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताप्रज्ञपनीयेषु धर्मेषु शिक्षितव्यम्. इति सत्त्वप्रज्ञाप्तिविकल्पः
SK
सुभूतिर् आह: न नु भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे शिक्षितव्यं, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने शिक्षितव्यं, स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु च शिक्षितव्यं, सर्वाकारज्ञतायां शिक्षितव्यं, सर्वपारमितासु सर्वशून्यतासु शिक्षितव्यं, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु शिक्षितव्यम्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षितव्यं, शून्यतानिमित्ताप्रणिहितेषु शिक्षितव्यम्, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु शिक्षितव्यं, सर्वाकारज्ञतायां शिक्षितव्यम्. इति धर्मप्रज्ञाप्तिविकल्पः
SK
भगवान् आह: रूपेषु सुभूते शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, वेदनायां संज्ञायां संस्कारेषु, विज्ञानेषु शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु च शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, सर्वपारमितासु सर्वशून्यतासु शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, शून्यतानिमित्ताप्रणिहितेषु शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु (PSP_५:११४) शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया सर्वाकारज्ञतायां शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया.
SK
सुभूतिर् आह: कथं भगवन् रूपे अनुत्क्षेपाप्रक्षेपतया शिक्षितव्यं? वेदनायां संज्ञायां संस्कारेषु, कथं भगवन् विज्ञाने ऽनुत्क्षेपाप्रक्षेपतया शिक्षितव्यं? यावत् सर्वाकारज्ञतायाम् अनुत्क्षेपाप्रक्षेपतया शिक्षितव्यम्?
SK
भगवान् आह: अनुत्पादतो ऽनिरोधतः शिक्षितव्यम्.
SK
सुभूतिर् आह: कथं भगवन् अनुत्पादतो ऽनिरोधतः शिक्षितव्यम्?
SK
भगवान् आह: अनभिसंस्कारतया शिक्षितव्यम्.
SK
सुभूतिर् आह: कथं भगवन्न् अनभिसंस्कारतया शिक्षितव्यम्?
SK
भगवान् आह: स्वलक्षणशून्यान् धर्मान् समनुपश्यन्न् अनभिसंस्कारतया शिक्षितव्यम्.
SK
सुभूतिर् आह: कथं भगवन् स्वलक्षणशून्याः सर्वधर्मा इति शिक्षितव्यम्?
SK
भगवान् आह: रूपं रूपेण शून्यं द्रष्टव्यं, वेदना संज्ञा संस्कारा, विज्ञानं विज्ञानेन शून्यं द्रष्टव्यम्, एवं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो, मनो मनसा शून्यं द्रष्टव्यम्, एवं रूपं शब्दगन्धरसस्पर्ष्टव्यधर्माः शब्दगन्धरसस्पर्ष्टव्यधर्मैः शून्या द्रष्टव्याः, चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं द्रष्टव्यम्, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानं मनोविज्ञानेन शून्यं द्रष्टव्यं, चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यो द्रष्टव्यः, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यो द्रष्टव्यः, चक्षुःसंस्पर्शप्रत्यया वेदना चक्षुःसंस्पर्शप्रत्ययया वेदनया शून्या द्रष्टव्या, एवं श्रोत्रसंस्पर्शप्रत्यया वेदना, घ्राणसंस्पर्शप्रत्यया वेदना, जिह्वासंस्पर्शप्रत्यया वेदना, कायसंस्पर्शप्रत्यया वेदना, मनःसंस्पर्शप्रत्यया वेदना मनःसंस्पर्शप्रत्ययया वेदनया शून्या द्रष्टव्या, दानपारमिता दानपारमितया शून्या द्रष्टव्या, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमिता प्रज्ञापारमितया शून्या द्रष्टव्या, अध्यात्मशून्यताध्यात्मशून्यतया शून्या द्रष्टव्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या द्रष्टव्या अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या द्रष्टव्या, यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या द्रष्टव्या, आर्यसत्यान्य् (PSP_५:११५) आर्यसत्यैः शून्यानि द्रष्टव्यानि, ध्यानानि ध्यानैः शून्यानि द्रष्टव्यानि, अप्रमाणान्य् अप्रमाणैः शून्यानि द्रष्ट्व्यानि, आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्या द्रष्टव्याः, विमोक्षमुखानि विमोक्षमुखैः शून्यानि द्रष्टव्यानि, नवानुपूर्वविहारसमापत्तयो नवानुपूर्वविहारसमापत्तिभिः शून्या द्रष्टव्याः, समाधयः समाधिभिः शून्या द्रष्टव्याः, धारणीमुखानि धारणीमुखैः शून्यानि द्रष्टव्यानि, शून्यतानिमित्ताप्रणिहितानि शून्यतानिमित्ताप्रणिहितैः शून्यानि द्रष्टव्यानि, स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि द्रष्टव्यानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गैः शून्यानि द्रष्टव्यानि, मार्गा मार्गैः शून्या द्रष्टव्याः, अभिज्ञा अभिज्ञाभिः शून्या द्रष्टव्या, दशबलानि दशबलैः शून्यानि द्रष्टव्यानि, वैशारद्यानि वैशारद्यैः शून्यानि द्रष्टव्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्या द्रष्टव्याः, आवेणिका बुद्धधर्मा आवेणिकैः बुद्धधर्मैः शून्या द्रष्टव्याः, अनुत्तरा सम्यक्संबोधिर् अनुत्तरया सम्यक्संबोध्या शून्या द्रष्टव्या. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु चरितव्यम्.
SK
सुभूतिर् आह: यदि भगवन् रूपं रूपेण शून्यं, वेदना संज्ञा संस्कारा, विज्ञानं विज्ञानेन शून्यम्. एवं यावद् अनुत्तरा सम्यक्संबोधिर् अनुत्तरया सम्यक्संबोध्या शून्या. तत् कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरिर् भवति?
SK
भगवान् आह: अचरिः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताचरिः.
SK
सुभूतिर् आह: केन कारणेन भगवन्न् अचरिः?
SK
भगवान् आह: तथा हि सुभूते सा प्रज्ञापारमिता नोपलभ्यते, बोधिसत्त्वो ऽपि नोपलभ्यते, चरिर् अपि नोपलभ्यते, यो वा चरितो, येन वा चरितो, यत्र वा चरितस्, तद् अपि नोपलभ्यते. एवं हि सुभूते अचरिर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताचरिर् यत्रैते सर्वप्रपञ्चा नोपलभ्यन्ते.
SK
सुभूतिर् आह: यदि भगवन् न चरिः प्रज्ञापारमिताचरिर् भवति, तत् कथं भगवन्न् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादायानुपलम्भेषु सर्वधर्मेषु शिक्षितव्यं, तेन दानन् ददता (PSP_५:११६) अनुपलम्भयोगेन दानन् दातव्यं, शीलं रक्षता अनुपलम्भयोगेन शीलं रक्षितव्यं, क्षान्त्या संपादयतानुपलम्भयोगेन क्षान्तिः संपादयितव्या, वीर्यम् आरभमाणेनानुपलम्भयोगेन वीर्यम् आरब्धव्यं, समाधिं समापद्यमानेनानुपलम्भयोगेन समाधिः समापत्तव्यः, प्रज्ञां भावयतानुपलम्भयोगेन प्रज्ञा भावयितव्या, अध्यात्मशून्यतां भावयतानुपलम्भयोगेन बहिर्धाशून्यतां भावयतानुपलम्भयोगेनाध्यात्मबहिर्धाशून्यतां भावयतानुपलम्भयोगेन, यावद् अभावस्वभावशून्यतां भावयतानुपलम्भयोगेनाभावस्वभावशून्यता भावयितव्या. स्मृत्युपस्थानानि भावयतानुपलम्भयोगेन स्मृत्युपस्थानानि भावयि तव्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य् आर्याष्टाङ्गमार्गं भावयतानुपलम्भयोगेनार्याष्टाङ्गमार्गो भावयितव्यः, आर्यसत्यानि भावयतानुपलम्भयोगेनार्यसत्यानि भावयितव्यानि, अप्रमाणध्यानारूप्यसमापत्तीर् भावयतानुपलम्भयोगेनाप्रमाणध्यानारूप्य समापत्तयो भावयितव्याः, शून्यतानिमित्ताप्रणिहितानि भावयतानुपलम्भयोगेन शून्यतानिमित्ताप्रणिहितानि भावयितव्यानि, विमोक्षसमाधिसमापत्तिधारणीमुखानि भावयतानुपलम्भयोगेन विमोक्षसमाधिसमापत्तिधारणीमुखानि भावयितव्यानि, अभिज्ञा भावयतानुपलम्भयोगेनाभिज्ञा भावयितव्याः, दशबलवैशारद्यप्रतिसंविदो भावयतानुपलम्भयोगेन दशबलवैशारद्यप्रतिसंविदो भावयितव्याः, आवेणिकान् बुद्धधर्मान् भावयतानुपलम्भयोगेन आवेणिका बुद्धधर्मा भावयितव्याः, सर्वाकारज्ञतां भावयतानुपलम्भयोगेन सर्वाकारज्ञता भावयितव्या.
SK
सुभूतिर् आह: कियता भगवन्न् उपलम्भो भवति? कियता भगवन्न् अनुपलम्भो भवति?
SK
भगवान् आह: यावद् द्वयन् तावद् उपलम्भो, यावद् अद्वयन् तावद् अनुपलम्भः.
SK
सुभूतिर् आह: कियता भगवन् द्वयं वा अद्वयं वा भवति?
SK
भगवान् आह: यावच् चक्षुरूपं यावत् मनोधर्माश् च, यावद् बोधिश् च बुद्द्धश् च, इदं सुभूते द्वयं, यावन् न चक्षुरूपं, यावन् न मनोधर्माश् च, न बोधिश् च न बुद्धश् च, इदं सुभूते ऽद्वयम्. इति शून्यत्वविकल्पः
SK
सुभूतिर् आह: किं पुनर् भगवन्न् उपलम्भो ऽनुपलम्भः, अथानुपलम्भ उपलम्भः? (PSP_५:११७)
SK
भगवन् आह: न सुभूते उपलम्भो ऽनुपलम्भः, नाप्य् अनुपलम्भ उपलम्भः, अपि तु खलु पुनः सुभूते उपलम्भानुपलब्धिसमतानुपलम्भः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुपलम्भसमतायां शिक्षितव्यम्. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अनुपलम्भिको भवति.
SK
सुभूतिर् आह: यदि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नैवोपलम्भे सज्जति नानुपलम्भे, कथं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूमेर् भूमिः परिपूरयितव्या, भूमेर् भूमिं परिपूर्य सर्वाकारज्ञतानुप्राप्तव्या?
SK
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपलम्भे स्थित्वा भूमेर् भूमिं परिपूरयति, न चोपलरभे स्थित्वा शक्त्या बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूमेर् भूमिं परिपूरयितुम्. तत् कस्य हेतोः? अनुपलम्भा हि प्रज्ञापारमिता, अनुपलम्भा हि बोधिः, सो ऽपि नोपलभ्यते यः प्रज्ञापारमितायां चरति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरितव्यम्. इति शक्तिविकल्पः
SK
सुभूतिर् आह: यदि भगवन् प्रज्ञापारमिता नोपलभ्यते. तत् कथं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाञ् चरता धर्मेषु प्रविचयः कर्तव्यः? इदं रूपं, इयं वेदना, इयं संज्ञा, इमे संस्कारा, इदं विज्ञानम्, इमानि स्कन्धधात्वायतनानि, अयं प्रतीत्यसमुत्पाद, इमानि प्रतीत्यसमुत्पादाङ्गानि, इमा पारमिताः, इमानि शून्यतामुखानि, इमे बोधिपक्ष्या धर्माः, इमा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः, इमानि शून्यतानिमित्ताप्रणिहितानि, इमानि विमोक्षसमाधिसमापत्तिधारणीमुखानि, इमा अभिज्ञा दशबलवैशारद्यप्रतिसंविदः, इमे आवेणिका बुद्धधर्माः, इयम् अनुत्तरा सम्यक्संबोधिः.
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तथा धर्मेषु प्रविचयं करोति, यथा कुर्वन् रूपं नोपलभते, वेदना संज्ञा संस्कारान्, विज्ञानं नोपलभते, स्कन्धधात्वायतनानि नोपलभते, प्रतीत्यसमुत्पादं नोपलभते, प्रतीत्यसमुत्पादाङ्गानि नोपलभते, पारमिता नोपलभते, शून्यतामुखानि नोपलभते, बोधिपक्ष्यान् धर्मान् नोपलभते, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि नोपलभते, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् नोपलभते, (PSP_५:११८) ऽनुत्तरां सम्यक्स्ंअबोधिन् नोपलभते. इति धर्मप्रविचयविकल्पः
SK
सुभूतिर् आह: यदि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् रूपं नोपलभते, वेदनां संज्ञां संस्कारान्, विज्ञानन् नोपलभते, यावद् अनुत्तरां सम्यक्संबोधिन् नोपलभते. तत् कथं दानपारमितां परिपूर्य शीलपारमितां परिपूर्य क्षान्तिपारमितां परिपूर्य वीर्यपारमितां परिपूर्य ध्यानपारमितां परिपूर्य प्रज्ञापारमितां परिपूर्य बोधिसत्त्वनियामम् अवक्रमिष्यति, बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयिष्यति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयिष्यति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्स्यति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयिष्यति, धर्मचक्रं प्रवर्त्य बुद्धकृत्यं करिष्यति, बुद्धकृत्यं कृत्वा सत्त्वान् संसारात् परिमोचयिष्यति?
SK
भगवान् आह: न सुभूते बोधिसत्त्वो रूपस्य कृतेन प्रज्ञापारमितायां चरति, न वेदनाया न संज्ञाया न संस्काराणां, न विज्ञानस्य कृतेन प्रज्ञापारमितायां चरति, न स्कन्धधात्वायतनानां न प्रतीत्यसमुत्पादस्य न प्रतीत्यसमुत्पादाङ्गानां कृतेन प्रज्ञापारमितायां चरति, न पारमितानां कृतेन, न शून्यतामुखानां न बोधिपक्ष्यानां धर्माणां कृतेन, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां कृतेन, न शून्यतानिमित्तापरनिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां कृतेन, नानुत्तरायाः सम्यक्संबोधेः कृतेन प्रज्ञापारमितायां चरति.
SK
सुभूतिर् आह: कस्येदानीं कृतेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति?
SK
भगवान् आह: न कस्यचित् कृतेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति. तत् कस्य हेतोः? तथा हि सुभूते ऽकृता अविकृता अनभिसंस्कृताः सर्वधर्माः, सापि प्रज्ञापारमिताकृता अविकृतानभिसंस्कृता, बोधिसत्त्वो ऽप्य् अकृतो ऽविकृतो ऽनभिसंस्कृतः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अकृताविकृतानभिसंस्कृतानभिसंस्कारयोगेन. इति वस्तूद्देशविकल्पः
SK
सुभूतिर् आह: यदि भगवन्न् अकृता अविकृता अनभिसंस्कृताः सर्वधर्माः, कथं येषां भगवंस् त्रयाणां यानानां व्यवस्थानं भवति? श्रावकयानस्य प्रत्येकबुद्धयानस्य महायानस्य च. (PSP_५:११९)
SK
भगवान् आह: न सुभूते ऽकृतानाम् अविकृतानाम् अनभिसंस्कृतानां धर्माणां किंचिद् व्यवस्थानम् उपलभ्यते, अनभिसंस्कृतानाम् अनभिसंचेतयितानां धर्माणां व्यवस्थानं च नोपलभ्यते. तत् कस्य हेतोः? तथा हि बालो ऽश्रुतवान् पृथग्जनो रूपे ऽभिनिविष्टो, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने ऽभिनिविष्टः, स्कन्धधात्वायतनेष्व् अभिनिविष्टः, प्रतीत्यसमुत्पादे ऽभिनिविष्टः, प्रतीत्यसमुत्पादाङ्गेष्व् अभिनिविष्टः, पारमितास्व् अभिनिविष्टः, शून्यतामुखेस्व् अभिनिविष्टो, बोधिपक्ष्येषु धर्मेष्व् अभिनिविष्टः, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेष्व् अभिनिविष्टः, शून्यतानिमित्ताप्रणिहितेस्व् अभिनिविष्टो, ऽभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेष्व् अभिनिविष्टः, सर्वाकारज्ञतायाम् अभिनिविष्टो, रूपं मन्यते रूपम् उपलभते, वेदनां संज्ञां संस्कारान्, विज्ञानं मन्यते विज्ञानम् उपलभते, स्कन्धधात्वायतनानि मन्यते स्कन्धधात्वायतनान्य् उपलभते, प्रतीत्यसमुत्पादं मन्यते प्रतीत्यसमुत्पादम् उपलभते, प्रतीत्यसमुत्पादाङ्गानि मन्यते प्रतीत्यसमुत्पादाङ्गान्य् उपलभते, पारमिता मन्यते पारमिता उपलभते, शून्यतामुखानि मन्यते शून्यतामुखान्य् उपलभते, बोधिपक्ष्यान् धर्मान् मन्यते बोधिपक्ष्यान् धर्मान् उपलभते, आर्यसत्यानि मन्यते आर्यसत्यान्य् उपलभते, अप्रमाणध्यानारूप्यसमापत्तीर् मन्यते ऽप्रमाणध्यानारूप्यसमापत्तीर् उपलभते, शून्यतानिमित्ताप्रणिहितानि मन्यते शून्यतानिमित्ताप्रणिहितान्य् उपलभते, अष्टविमोक्षनवानुपूर्वविहारसमापत्तीर् मन्यते ऽष्टविमोक्षनवानुपूर्वविहारसमापत्तीर् उपलभते, समाधिधारणीमुखानि मन्यते समाधिधारणीमुखान्य् उपलभते, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् मन्यते ऽभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् उपलभते, बोधिं मन्यते बोधिम् उपलभते. तस्यैवं भवत्य्, अहं बोधिम् अभिसंभोत्स्ये, अहं सत्त्वान् परिमोचयिष्यामि संसारतः. तत् कस्य हेतोः? तथा हि सुभूते यद् बुद्धेन पञ्चभिश् चक्षुर्भिर् नोपलब्धं रूपं, वेदना संज्ञा संस्कारा, विज्ञानं नोपलब्धं, स्कन्धधात्वायतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च नोपलब्धानि, पारमिताः शून्यतामुखानि बोधिपक्ष्या धर्मा नोपलब्धाः, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि नोपलब्धानि, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा (PSP_५:१२०) नोपलब्धाः, अनुत्तरा सम्यक्संबोधिर् अपि नोपलब्धा, तत्समोहपुरुषो बुद्ध्वा वाख्याय सत्त्वान् इच्छति संसारात् परिमोचयितुम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, तथागतेनार्हता सम्यक्संबुद्धेन पञ्चभिश् चक्षुर्भिर् नोपलब्धास् ते सत्त्वा यान् आसंसारात् परिमोचयेद् इति. तत् कथम् इदानीं भगवतानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वास् त्रिषु राशिषु व्याकृताः सम्यक्त्वनियता वा मिथ्यात्वनियता वानियता वा?
SK
भगवान् आह: न मया सुभूते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य कथंचिद् अपि सत्त्व उपलब्धः, सम्यक्त्वनियतो वा मिथ्यात्वनियतो वानियतो वा, अपि तु खलु पुनः सुभूते य इमे सत्त्वा अद्रव्ये द्रव्यसंज्ञिनस् तांस् ततो अभूतग्रहाद् धारयामि लोकव्यवहारेण नः पुनः परमार्थेन.
SK
सुभूतिर् आह: न पुनर् भगवता परमार्थे स्थित्वा बोधिर् अभिसंबुद्धा?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: यदि भगवता नैव परमार्थे स्थित्वानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, नाप्य् ऋद्धिपर्याये स्थित्वानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, कथम् इदानीं भगवता तथागतेनार्हता सम्यक्संबुद्धेन बोधिर् अभिसंबुद्धा भवति?
SK
भगवान् आह: अनभिसंबुद्धा सुभूते तथागतेनानुत्तरा सम्यक्संबोधिः, सा च न क्वचित् स्थिता संस्कृते वा धाताव् असंस्कृते वा धातौ. तद्यथापि नाम सुभूते तथागतनिर्मितो न क्वचित् स्थितः संस्कृते वा धाताव् असंस्कृते वा धातौ, स च तथागतनिर्मितो गच्छति चागच्छति च तिष्ठति च निषीदति च, स दानपारमितायां चरेच्, छीलपारमितायां चरेत्, क्षान्तिपारमितायां चरेद्, वीर्यपारमितायां चरेद्, ध्यानपारमितायां चरेत्, प्रज्ञापारमितायां चरेच्, चत्वारि ध्यानान्य् उपसंपद्य विहरेच्, चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः पञ्चभिर् अभिज्ञाभिश् चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गेन मार्गेण शून्यतासमाधिना अनिमित्तसमाधिनाप्रणिहितसमाधिना (PSP_५:१२१) अध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया, अष्टविमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिः महामैत्र्या महाकरुणया समाधिधारणीमुखैर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् धर्मचक्रप्रवर्तनतया च विहरेत्, स च निर्मितो ऽपरिमाणान् सत्त्वान् अभिनिर्माय त्रिषु राशिषु व्याकुर्यात्. तत् किं मन्यसे? सुभूते ऽपि नु तेन कश्चित् सत्त्वस् त्रिषु राशिषु व्याकृतः.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: एवम् एव सुभूते तथागतेन सर्वधर्मा निर्मितोपमा ज्ञाता, न च कश्चित् सत्त्वो विनीतः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता भावयितव्या, तद्यथापि नाम तथागतनिर्मितेन.
SK
सुभूतिर् आह: अपि नु भगवन् सर्वधर्मा निर्मितोपमाः.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्.
SK
सुभूतिर् आह: यदि भगवन् सर्वधर्मा निर्मितोपमास् तथागतस्य निर्मितस्य च कः प्रतिविशेषः? किं वा नानाकरणं? को वाभिप्रायः?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तथागतस्य च सुभूते निर्मितस्य च न कश्चिद् विशेषो, न किंचित् नानाकरणम् उपलभ्यते, निर्विशेषः सुभूते तथागतश् च निर्मितश् च. तत् कस्य हेतोः? तथा हि यत् तथागतः कर्म करोति, तन् निर्मितः कर्म करोति.
SK
सुभूतिर् आह: कच्चित् पुनर् भगवन् न सति तथागते निर्मितः कर्म करोति?
SK
भगवान् आह: करोति सुभूते.
SK
सुभूतिर् आह: कथं यथा पुनर् भगवन् न सति तथागते तथागतनिर्मितः कर्म करोति?
SK
भगवान् आह: तद्यथापि नाम सुभूते सचेत् तथागतो भव्यसत्त्वम् अनुपलभमानो निर्मितन् निर्माय परिनिर्वृतः, तेन च निर्मितेनार्धकल्पं बुद्धकृत्यं स पश्चाद् बुद्धकृत्यं कृत्वा परिनिर्वृत इति जनः संजानीते, न च निर्मितानां कश्चिद् उत्पादो न निर्वाणम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं, (PSP_५:१२२) यद् उत निर्मितोपमान् सर्वधर्मान् अधिमुच्यते. इति यानत्रयविकल्पः
SK
सुभूतिर् आह: यदि भगवन् निर्मितस्य तथागतस्य च विशेषो नास्ति दक्षिणा परिशुद्धिः कथं भविष्यति? य इमे भगवंस् तथागते दक्षिणां प्रतिष्ठापयन्ति, सा न जातु क्षीयते यावत् ते सत्त्वा अनुपधिशेषनिर्वाणधातौ परिनिर्वास्यन्ते, एवम् एव ये निर्मिते दक्षिणां प्रतिष्ठापयन्ति, सा न जातु क्षीयते यावत् ते सत्त्वा अनुपधिशेषनिर्वाणधातौ परिनिर्वास्यन्ति.
SK
भगवान् आह: यया सुभूते धर्मतया तथागतः सदेवकस्य लोकस्य दक्षिणीयो भवति, तयैव धर्मतया निर्मितो ऽपि सदेवस्य लोकस्य दक्षिणीयः. तिष्ठतु तावत् सुभूते तथागतप्रतिष्ठापिता दक्षिणा, तिष्ठतु निर्मितप्रतिष्ठापिता दक्षिणा यः कश्चित् सुभूते कुलपुत्रो वा कुलदुहिता वा तथागतं मैत्रतया मनसिकरिष्यति, सर्वो ऽसौ तस्य कुशलमूलस्य पर्यन्तम् अधिगम्य दुष्खस्यान्तं करिष्यति. तिष्ठतु मैत्रं वा मनसिकारो यः कश्चित् सुभूते कुलपुत्रो वा कुलदुहिता वा आकाशे पुष्पाणि क्षेप्स्यति तथागतं मनसिकृत्वा सर्वो ऽसौ तस्य कुशलमूलस्य पर्यन्तम् अधिगम्य दुष्खस्यान्तं करिष्यति: तिष्ठतु सुभूते मैत्रं वा मनसिकारस्, तिष्ठत्व् आकाशे पुष्पाणि यः कश्चित् सुभूते कुलपुत्रो वा कुलदुहिता वा नमो बुद्धानाम् इति मनसिकरिष्यति, सर्वो ऽसाव् अनुपूर्वेण दुःखस्यान्तं करिष्यति. एवं महर्द्धिका सुभूते तथागतप्रतिष्ठापिता दक्षिणा, एवं महानुशंसा, तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यं, तथागतस्य च तथागतनिर्मितस्य च न किंचित् नानाकरणम् उपलभ्यते धर्माणां धर्मतां प्रमाणीकृत्यम्. इति दक्षिणाविशुद्धिविकल्पः
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं, धर्माणां धर्मतायाम् अवतरितव्यं, सा च धर्मता न विकोपयितव्या, इयं प्रज्ञापारमिताया धर्मतेति न विकोपयितव्या, एवं ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया इयं दानपारमिताया धर्मतेति न विकोपयितव्या, एवं यावत् सर्वधर्मेष्व् इमे सर्वधर्मा इयं सर्वधर्माणां धर्मतेति न विकोपयितव्या.
SK
सुभूतिर् आह: यदि भगवन् सर्वधर्माणान् धर्मता न विकोपयितव्या, यत् पुनर् भगवंस् तथागतेन विकोपितं रूपम् इदम्, इयं वेदना (PSP_५:१२३) इयं संज्ञा, इमे संस्कारा, इदं विज्ञानं, इमे स्कन्धा, इमे धातवः, इमान्य् आयतनानि, अयं प्रतीत्यसमुत्पादः, इमानि प्रतीत्यसमुत्पादाङ्गानि, इमे बाह्याध्यात्मिका धर्मा निर्दिष्टाः, एवं कुशला धर्मा एवम् अकुशला धर्माः सास्रवा अनास्रवा लौकिका लोकोत्तरास् साधारणा असाधारणाः संस्कृता असंस्कृता धर्मा निर्दिष्टाः, तन् मा हैव भगवता धर्माणां धर्मता विकोपिता भवेत्?
SK
भगवान् आह: न सुभूते, नामनिमित्ता हि ते धर्मा निर्दिष्टा धर्माणां सूचनकृता, कथं परो ऽवतरिष्यतिति न धर्माणान् धर्मता विकोपिता भवेत्.
SK
सुभूतिर् आह: यदि भगवन् नामनिमित्ता हि ते धर्मा निर्दिष्टाः परेषाम् अवतारणाय, कथं भगवर्म् अनामका अनिमित्ताः सर्वधर्मा नाम निमित्तेन व्याहृताः? इति चर्याविकोपनविकल्पः इत्य् उक्तो नवविधः प्रथमग्राहकविकल्पः
SK
भगवान् आह: न सुभूते व्यवहारो नामनिमित्तम् अभिनिवेशो वा नात्र सुभूते नाम्नि व्यवहरामि, न निमित्ते ऽनिमित्ते ऽभिनिवेशो वा. न हि सुभूते तथागतश्रावको वा नाम्नि निमित्ते वाभिनिविशते. न हि सुभूते नाम नाम्न्य् अभिनिविशते, न निमित्तन् निमित्ते ऽभिनिविशते, न शून्यता शून्यतायाम् अभिनिविशते, नानिमित्तम् आनिमित्ते ऽभिनिविशते, नाप्रणिहितम् अप्रणिहिते ऽभिनिविशते, न तथता तथतायाम् अभिनिविशते, न भूतकोटिर् भूतकोट्याम् अभिनिविशते, न धर्मधातुर् धर्मधाताव् अभिनिविशते, नासंस्कृतम् असंस्कृते ऽभिनिविशते, एवम् एते सर्वधर्मा नाममात्रं, न ह्य् एते नाममात्रे ऽवतिष्ठन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन नाममात्रे स्थित्वा प्रज्ञापारमितायां चरितव्यं, तत्र च नाभिनिवेष्टव्यम्.
SK
सुभूतिर् आह: यदि भगवन् नाममात्रम् इदं सर्वसंस्कृतं, कस्येदानीं कृतेन बोधिसत्त्वो महासत्त्वो बोधये चित्तम् उत्पाद्यानेकविधां संसारचारिकां प्रत्यनुभवति, बोधिसत्त्वचर्याञ् चरन् दानं ददाति, शीलं रक्षति, क्षान्त्या संपादयति, वीर्यम् आरभते, ध्यानं समापद्यते, प्रज्ञां भावयति, शून्यतायां चरति, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिषु विहरति, स्मृत्युपस्थानेषु विहरति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु विहरति, शून्यतानिमित्ताप्रणिहितसमाधिं (PSP_५:१२४) समापद्यते, आर्यसत्यानि भावयति, विमोक्षसमाधिसमापत्तिं धारणीमुखानि समापद्यते, अभिज्ञा भावयति, दशभिस् तथागतबलैर् विहरति, चतुर्वैशारद्यैश् चतसृभिः प्रतिसंविद्भिः, अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् विहरति, महामैत्रीं महाकरुणां परिपूरयति?
SK
भगवान् आह: यं सुभूतिर् एवम् आह, यदि नाममात्रम् इदं सर्वसंस्कृतं, तत् कस्येदानीं कृतेन बोधिसत्त्वो महासत्त्वो बोधये चित्तम् उत्पाद्यानेकविधां संसारचारिकां प्रत्यनुभवतीति, यस्मात् सुभूते नाममात्रम् इदं सर्वसंस्कृतं, तच् च नाम नाम्ना शून्यं निमित्तं निमित्तेन शून्यं, तस्माद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरन् सर्वाकारज्ञताम् अनुप्राप्स्यति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिभिर् यानैः परिनिर्वापयति, तस्य च नामनिमित्तस्य नोत्पादो न निरोधो न स्थितिर् न स्थितेर् अन्यथात्वं प्रज्ञायते. इति सामान्येन द्वितीयो ग्राहकविकल्पोपक्षेपः
SK
सुभूतिर् आह: सर्वाकारज्ञता सर्वाकारज्ञतेति भगवन् वदसि.
SK
भगवान् आह: सर्वाकारज्ञता सर्वाकारज्ञतेति वदामि.
SK
सुभूतिर् आह: कथं पुनर् भगवन् सर्वाकारज्ञता तथागतेन निर्दिष्टा, मार्गाकारज्ञतापि तथागतेन निर्दिष्टा, सर्वज्ञतापि तथागतेन निर्दिष्टा? आसां भगवंस् तिसृणां सर्वज्ञतानां किं नानाकरणम्?
SK
भगवान् आह: सर्वाकारज्ञता सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य, मार्गज्ञता सुभूते बोधिसत्त्वानां महासत्त्वानां, सर्वज्ञता सुभूते सर्वश्रावकप्रत्येकबुद्धानाम्.
SK
सुभूतिर् आह: केन कारणेन भगवन् सर्वाकारज्ञता तथागतस्यार्हतः सम्यक्संबुद्धस्य?
SK
भगवान् आह: यावन्तः सुभूते आकारा लिङ्गानि निमित्तानि यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैस् ते धर्माः सूच्यन्ते, ते आकारास् तानि लिङ्गानि तानि निमित्तानि तथागतेनानुबद्धानि तेनोच्यते तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वाकारज्ञता. इति सर्वाकारज्ञतासंमोहविकल्पः
SK
सुभूतिर् आह: केन कारणेन भगवन् मार्गज्ञता बोधिसत्त्वानां महासत्त्वानाम्? (PSP_५:१२५)
SK
भगवान् आह: सर्वमार्गाः सुभूते बोधिसत्त्वेन महासत्त्वेन नोत्पादयितव्याः, सर्वमार्गा ज्ञातव्याः, यश् च श्रावकाणां मार्गो, यश् च प्रत्येकबुद्धानां मार्गो, ये च बोधिमार्गास् ते च मार्गाः परिपूरयितव्याः तैश् च मार्गे मार्गकरणीयं कर्तव्यन् न चानेन भूतकोटिः साक्षात्कर्तव्या.
SK
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वेन महासत्त्वेन भूतकोटिर् न साक्षात्कर्तव्या?
SK
भगवान् आह: नापरिपूर्य प्रणिधानं नापरिपाच्य सत्त्वान् नापरिशोध्य बुद्धक्षेत्रन् तेन बोधिसत्त्वेन महासत्त्वेन भूतकोटिः साक्षात्कर्तव्या, तेन कारणेनोच्यते बोधिसत्त्वानां महासत्त्वानां मार्गज्ञता. इति मार्गाकारज्ञतासंमोहविकल्पः
SK
सुभूतिर् आह: केन कारणेन भगवन् सर्वज्ञता सर्वश्रावकप्रत्येकबुद्धानाम्?
SK
भगवान् आह: एतावद् एव सुभूते सर्वं यावद् एवाध्यात्मिकाश् च बाह्याश् च धर्मास् ते च सर्वश्रावकप्रत्येकबुद्धैर् ज्ञाता, न पुनः सर्वमार्गेण सर्वाकारेण. इति सर्वज्ञतासंमोहविकल्पः
SK
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वेन महासत्त्वेन मार्गे स्थित्वा भूतकोटिः साक्षात्कर्तव्या?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: अमार्गे स्थित्वा?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: मार्गे अमार्गे स्थित्वा?
SK
भगवान् आह: न सुभूते. सुभूतिर् आह: नैवमार्गे नामार्गे स्थित्वा?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: तत् कथम् इदानीं भगवन् बोधिसत्त्वेन महासत्त्वेन भूतकोटिः साक्षात्कर्तव्या?
SK
भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु तव मार्गे स्थितस्यानुपादायास्रवेभ्यश् चित्तं विमुक्तम्.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: तवामार्गे स्थितस्य?
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: तव मार्गे ऽमार्गे स्थितस्य? (PSP_५:१२६)
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: तव नैव मार्गे नामार्गे स्थितस्य?
SK
सुभूतिर् आह: न भगवन्, अपि तु खलु पुनर् मे भगवंश् चित्तं विमुक्तं यथा न क्वचित् स्थित्वा स्याम्.
SK
भगवान् आह: एवम् एतत् सुभूते बोधिसत्त्वेन महासत्त्वेन न क्वचित् स्थित्वा भूतकोटिः साक्षात्कर्तव्या.
SK
सुभूतिर् आह: याः पुनर् इमा भगवन् सर्वाकारज्ञता च मार्गज्ञता च सर्वज्ञता च कच्चिद् भगवन्न् आसां तिसृणां सर्वज्ञतानां क्लेशप्रहाणस्य नानात्वम् अस्ति, अस्य सावशेषप्रहाणम्, अस्यानवशेषप्रहाणम्?
SK
भगवान् आह: न सुभूते क्लेशप्रहाणस्य नानात्वम् अस्ति, अस्ति पुनस् तथागतस्य सर्ववासनानुसंधिक्लेशप्रहाणं, न पुनः श्रावकस्य सर्ववासनानुसंधिक्लेशप्रहाणम्.
SK
सुभूतिर् आह: किं पुनर् भगवन् सर्वज्ञतायाम् अनुप्राप्तायाम् अशेषप्रहाणम् असंस्कृतं भवति?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्.
SK
सुभूतिर् आह: किं पुनर् भगवन्न् असंस्कृतस्य नानात्वम् उपलभ्यते?
SK
भगवान् आह: न सुभूते ऽसंस्कृतस्य नानात्वम् उपलभ्यते.
SK
सुभूतिर् आह: यदि नोपलभ्यते कुत एतन् निर्दिश्यते? अस्य वासनानुसंधिक्लेशप्रहाणम्, अस्य न वासनानुसंधिक्लेशप्रहाणम् इति. भगवान् आह: न सुभूते वासनानुसंधिक्लेशप्रहाणं, अपि नु तेषां रागदोषमोहप्रहाणम् अस्ति, कायवाग्विकारास् तु प्रवर्तन्ते, ते तु बालपृथग्जनानाम् अनर्थाय प्रवर्तन्ते, न तु श्रावकाणां, ते तथागतस्य न सन्ति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावो मार्गः, अभावो निर्वाणं, तत् कुतः पुनर् भगवन् निर्दिश्यते? अयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयन् तथागतो ऽर्हन् सम्यक्संबुद्धः.
SK
भगवान् आह: न खलु सुभूते असंस्कृतं भावयति अपि तु लोकव्यवहारं प्रमाणीकृत्योच्यते न पुनः परमार्थेन शक्या प्रभावना. तत् कस्य हेतोः? न हि तत्रास्ति वाक्पथप्रज्ञाप्तिर्, अपि तु खलु पुनर् यैः पूर्वान्तो व्यवच्छिन्नस् तेषां पश्चिमा कोटिप्रज्ञाप्ता.
SK
सुभूतिर् आह: स्वलक्षणशून्यानां भगवन् सर्वधर्माणां (PSP_५:१२७) कुतः पुनः पुर्वा कोटिः प्रज्ञायते.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, स्वलक्षणशून्यानां सुभूते सर्वधर्माणां पूर्वा कोटिर् न प्रज्ञायते, कुतः पुनः पश्चिमा कोटिः प्रज्ञायते, नेदं स्थानं विद्यते, अपि तु खलु पुनः सुभूते ये ते सत्त्वाः स्वलक्षणशून्यान् धर्मान् न जानन्ति, तेषाम् एवं निर्दिष्टम् इयं पूर्वा कोटिर् इयं पश्चिमा कोटिर्, न पुनः स्वलक्षणशून्येषु धर्मेषु पूर्वा कोटिर् न पश्चिमा कोटिर् उपलभ्यते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु प्रज्ञापारमितायां चरितव्यं, स्वलक्षणशून्येषु धर्मेषु चरन् न क्वचिद् अभिनिविशते ऽध्यात्मिकेषु वा बाह्येषु वा संस्कृतेषु वासंस्कृतेषु वा श्रावकधर्मेषु वा प्रत्येकबुद्धधर्मेषु वा.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रज्ञापारमिता प्रज्ञापारमितेति भगवन्न् उच्यते, केनार्थेन प्रज्ञापारमितेत्य् उच्यते?
SK
भगवान् आह: परमपारमितैषा सुभूते सर्वधर्माणाम् अगमनार्थेन प्रज्ञापारमितेत्य् उच्यते. अपि तु खलु पुनः सुभूते एतया प्रज्ञापारमितया सर्वश्रावकप्रत्येकबुद्धा बोधिसत्त्वाश् च महासत्त्वास् तथागता अर्हन्तः सम्यक्संबुद्धाः पारङ्गतास् तेनार्थेन प्रज्ञापारमितेत्य् उच्यते. अपि तु खलु पुनः सुभूते परमार्थेन यो ऽर्थः सर्वधर्माणाम् अभिन्नः, स इह प्रज्ञापारमितायां तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः, सर्वधर्मेषु पारो नोपलब्धस् तेनार्थेनोच्यते प्रज्ञापारमिता. इति मार्गसंमोहविकल्पः
SK
अपि तु खलु पुनः सुभूते प्रज्ञापारमितायां तथतान्तर्गता, भूतकोटिर् अन्तर्गता, धर्मधातुर् अन्तर्गतः तेनोच्यते प्रज्ञापारमितेति. अपि तु खलु पुनः सुभूते नेयं प्रज्ञापारमिता केनचिद् धर्मेण संयुक्ता वा विसंयुक्ता वा सनिदर्शना वानिदर्शना वा सप्रतिघा वाप्रतिघा वा. तत् कस्य हेतोः? तथा हीयं प्रज्ञापारमितारूपानिदर्शनाप्रतिघैकलक्षणा यद् उतालक्षणत्वात्. इति तथतादिषु संयोगवियोगसंमोहविकल्पः
SK
अपि तु खलु पुनः सुभूते इयं प्रज्ञापारमिता सर्वधर्माणां चारिका सर्वप्रतिभानानां सर्वालोकानाम् अनाच्छेद्येयं सुभूते प्रज्ञापारमिता मारेण वा मारकायिकाभिर् देवताभिः श्रावकप्रत्येकबुद्ध (PSP_५:१२८) यानिकैर् वा पुद्गलैर्, यावन् न केनचिद् अन्यतीर्थिकैः प्रत्यमित्रैर् वा इयं प्रज्ञापारमिता शक्या च्छेत्तुं बोधिसत्त्वस्य महासत्त्वस्य. तत् कस्य हेतोः? तथा हि ते ऽत्र प्रज्ञापारमितायां नोपलभ्यन्ते सर्व एवैवं खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् अर्थे चरितव्यम्. इत्य् असमत्वसंमोहविकल्पः
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनेह गम्भीरायां प्रज्ञापारमितायाम् अर्थे चरितव्यम् अनित्यार्थे चरितव्यं, दुःखार्थे चरितव्यम्, अनात्मार्थे चरितव्यं, शान्तार्थे चरितव्यं, दुःखज्ञानार्थे चरितव्यं, समुदयज्ञानार्थे चरितव्यं, निरोधज्ञानार्थे चरितव्यं, मार्गज्ञतार्थे चरितव्यं, दुःखपरिज्ञतार्थे समुदयप्रहाणार्थे निरोधसाक्षात्क्रियार्थे मार्गज्ञतार्थे अन्वयज्ञानार्थे चरितव्यं, धर्मज्ञतार्थे ऽसंवृत्तिज्ञानार्थे परिजयज्ञानार्थे यथारुतज्ञानार्थे चरितव्यम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् अर्थे चरितव्यम्. इति दुःखादिषु संमोहविकल्पः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इह गम्भीरायां प्रज्ञापारमितायाम् अर्थश् चानर्थश् च नोपलभ्यते, तत् कथं बोधिसत्त्वेन महासत्त्वेनेह गम्भीरायां प्रज्ञापारमितायाम् अर्थे चरितव्यम्?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन गम्भीरे ऽर्थे प्रज्ञापारमितार्थे चरतैवं चरितव्यं, रागो मे ऽर्थो ऽनर्थ इति न चरितव्यं, द्वेषो मे ऽर्थो ऽनर्थ इति न चरितव्यं, मोहो मे ऽर्थो ऽनर्थ इति न चरितव्यं, मिथ्यादृष्टिर् मे ऽर्थो ऽनर्थ इति न चरितव्यं, दृष्टिगतो मे ऽर्थो ऽनर्थ इति न चरितव्यम्, इदं दृष्टिगतो मे ऽर्थो ऽनर्थ इति न चरितव्यम्. तत् कस्य हेतोः? न हि रागद्वेषमोहानां तथता कस्यचिद् अर्थम् अनर्थं करोति, न दृष्टिगतानां तथता कस्यचिद् अर्थम् अनर्थं करोति. रूपं मे ऽर्थो ऽनर्थ इति न चरितव्यं, वेदना संज्ञा संस्कारा, विज्ञानं मे ऽर्थो ऽनर्थ इति न चरितव्यं, एवं स्कन्धधात्वायतनानि मे ऽर्थो ऽनर्थ इति न चरितव्यं, प्रतीत्यसमुत्पादो मे ऽर्थो ऽनर्थ इति न चरितव्यं, प्रतीत्यसमुत्पादाङ्गानि मे ऽर्थो ऽनर्थ इति न चरितव्यं, पारमिता मे ऽर्थो ऽनर्थ इति न चरितव्यं, शून्यतामुखानि मे ऽर्थो ऽनर्थ इति न चरितव्यं, बोधिपक्ष्या मे धर्मा अर्थो ऽनर्थ इति न चरितव्यं, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि (PSP_५:१२९) मे ऽर्थो ऽनर्थ इति न चरितव्यं, शून्यतानिमित्ताप्रणिहितानि मे ऽर्थो ऽनर्थ इति न चरितव्यम्, अभिज्ञादशबलवैशारद्यप्रतिसंविदो मे ऽर्थो ऽनर्थ इति न चरितव्यम्, आवेणिकाबुद्धधर्मा मे ऽर्थो ऽनर्थ इति न चरितव्यम्, अनुत्तरा मे सम्यक्संबोधिर् अर्थो ऽनर्थ इति न चरितव्यम्. तत् कस्य हेतोः? तथा हि सुभूते तथागतेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य न कश्चिद् धर्म उपलब्धो यो ऽर्थं वा कुर्याद् अनर्थं वा कुर्याद्, अपि नु खलु पुनः सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता सा नैव कस्यचिद् अर्थं वा करोत्य् अनर्थं वा, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनार्थानर्थो वर्जयित्वा प्रज्ञापारमितायां चरितव्यम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: केन कारणेन भगवन् प्रज्ञापारमिता नानर्थकरी नार्थकरी?
SK
भगवान् आह: तथा हि सुभूते संस्कृतधर्माणाम् असंस्कृतधर्माणाम् अकारणं प्रज्ञापारमिता, तेन कारणेन प्रज्ञापारमिता न कस्यचिद् अर्थं वा करोत्य् अनर्थं वा.
SK
सुभूतिर् आह: पुनर् भगवन्न् असंस्कृतो ऽर्थः सर्वार्याणां बुद्धानां बुद्धश्रावकाणां वा.
SK
भगवान् आह: असंस्कृतो ऽर्थः सर्वार्याणां बुद्धानां बुद्धश्रावकाणां च, प्रत्युपस्थितो न पुनर् अपकारेण वोपकारेण वा, तद्यथापि नाम सुभूते आकाशस्य तथता न कस्यचिद् अपकारेण वोपकारेण वा प्रत्युपस्थिता, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता न कस्यचिद् धर्मस्यापकारेण वोपकारेण वा प्रत्युपस्थिता.
SK
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो ऽसंस्कृतायां प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति?
SK
भगवान् आह: इह पुनः सुभूते बोधिसत्त्वो महासत्त्वो ऽसंस्कृतायां प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति, न पुनर् द्वययोगेन. इति क्लेशप्रकृतिसंमोहविकल्पः
SK
सुभूतिर् आह: किं पुनर् भगवन्न् अद्वयधर्मो ऽद्वयधर्मम् अनुप्राप्नोति? भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन् द्वयधर्मो ऽद्वयधर्मम् अनुप्राप्नोति? (PSP_५:१३०)
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: कथम् इदानीं भगवन्न् अनुप्राप्यते?
SK
भगवान् आह: यथा नाद्वयो न द्वयो धर्म उपलभ्यते.
SK
सुभूतिर् आह: कथं भगवन् नाद्वयो न द्वयो धर्म उपलभ्यते?
SK
भगवान् आह: अनुपलम्भं प्रति न रूपम् अनुपलम्भेन प्राप्नोति, न वेदनान् न संज्ञान् न संस्कारान्, न विज्ञानम् अनुपलम्भेन प्राप्नोति. इति द्वयाभावसंमोहविकल्पः इत्य् उक्तो नवविधो द्वितीयो ग्राहकविकल्पः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गम्भीरा भगवन् प्रज्ञापारमिता दुष्करकारका भगवन् बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरायां सम्यक्संबोधौ प्रस्थिता न च नामसत्त्व उपलभ्यते न सत्त्वप्रज्ञाप्तिस्, तेषां च सत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् अभिसंप्रस्थिताः. तद्यथापि नाम भगवन् कश्चिद् एव पुरुष आकाशे अप्रतिष्ठाने स्तम्बम् इच्छेद् धापयितुम्, एवम् एव भगवन् बोधिसत्त्वो महासत्त्वः सत्त्वानां कृतेनेच्छेत् सर्वाकारज्ञताम् अनुप्राप्तुम्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारका बोधिसत्त्वा महासत्त्वा ये सत्त्वानां कृतशः सर्वाकारज्ञतार्थम् अभिप्रतिष्ठन्ते, ताञ् च सर्वाकारज्ञताम् अनुबुध्य सर्वसत्त्वान् संसारात् परिमोचयिष्यन्ति. इति सर्वाकारज्ञताया अभावालम्बनज्ञानम्
SK
तद्यथापि नाम सुभूते पुरुषः स्तम्बम् इच्छेद् वापनाय स च पुरुषस् तस्य स्तम्बस्य न मूलं जानीयाद् न शाखां न त्वच्छेदं न पत्त्रं न पलाशं न पुष्पं जानीयात्, स तस्य स्तम्बस्य काण्डं वापयेत वापयित्वा कालेन कालं गोपायतोदकं दद्याद् अर्थं तस्य तत् काण्डम् अनुपूर्वेण शाखासंपन्नञ् च भवेत्, पत्त्रसंपन्नञ् च भवेत्, पुष्पसंपन्नञ् च भवेत्, फलसंपन्नञ् च भवेत्, स तस्य स्तम्बस्य पत्त्राण्य् अनुभुञ्जीत्, पुष्पाणि च फलानि चानुभुञ्जीत. एवम् एव सुभूते बोधिसत्त्वा महासत्त्वाः सर्वसत्त्वानां कृतशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् अभिसंप्रस्थिता अनुपूर्वेण षट्सु पारमितासु चरन्तः सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, ततः सर्वसत्त्वानां पत्त्रपुष्पफलोपजीव्या भवन्ति. तत्रेदं सुभूते पत्त्रं बोधिसत्त्वानां महासत्त्वानां यद् आगम्य सत्त्वास् त्रिभ्यो ऽपायेभ्यः परिमुच्यन्ते. तत्रेदं पुष्पं यद् आगम्य क्षत्रियमहाशालकुलेषु ब्राह्मणमहाशालकुलेषु गृहपतिमहाशालकुलेषु (PSP_५:१३१) वा चातुर्महाराजकायिकेषु देवेषूपपद्यन्ते त्रयस्त्रिंशेषु यामेषु तुषितेषु निर्माणरतिसु परनिर्मितवशवर्तिषु ब्रह्मपार्षद्येषु यावन् नैवसंज्ञानासंज्ञायतनेषु उपपद्यन्ते. तत्रेदं फलं यद् आगम्य सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठन्ते, सकृदागामिफले प्रतिष्ठन्ते, ऽनागामिफले प्रतिष्ठन्ते, अर्हत्त्वे प्रतिष्ठन्ते, प्रत्येकबोधौ प्रतिष्ठन्ते, तद् एव च फलम् आगम्य सत्त्वाः सर्वाकारज्ञतम् अनुप्राप्नुवन्ति, सर्वसत्त्वानां फलशालिनो भवन्ति, तत्र ये दक्षिणां प्रतिष्ठापयन्ति ते सर्वे ऽनुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति, यद् उत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा, अनुत्तराम् अपि सम्यक्संबोधिम् अभिसंबुध्यन्ते, न च तत्र सत्त्वः प्रज्ञायते, न च सत्त्वप्रज्ञाप्तिस् ते च सत्त्वा आत्मग्राहतः परिमोच्यन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं, न चेह कश्चित् सत्त्वो वा सत्त्वप्रज्ञाप्तिर् वोपलभ्यते, येषां सत्त्वानाम् अहंकृते न सर्वाकारज्ञताम् अनुप्राप्स्यामीति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: तथागत एव बोधिसत्त्वो महासत्त्वो वेदितव्यः. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वं महासत्त्वम् आगम्य सर्वनरका उच्छिद्यन्ते, सर्वतिर्यग्योनयः सर्वयमलोका उच्छिद्यन्ते, सर्वाक्षणाः सर्वदारिद्राण्य् उच्छिद्यन्ते, सर्वहीनगतय उच्छिद्यन्ते, सर्वकामधातुर् उच्छिद्यन्ते, सर्वो रूपधातुर् उच्छिद्यन्ते, सर्व आरूप्यधातुर् उच्छिद्यन्ते.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, तथागत एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो वेदितव्यः. सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरायै सम्यक्संबोधये नाभिप्रतिष्ठेत्, नातीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा नाभिसंभोत्स्यन्ते नाभिसंबुध्यन्ते. न प्रत्येकबुद्धानां लोके प्रादुर्भावो भविष्यति, नार्हतां लोके प्रादुर्भावो भविष्यति, नानागामिनां लोके प्रादुर्भावो भविष्यति, न सकृदागामिनां लोके प्रादुर्भावो भविष्यति, स्रोतआपन्नानां लोके प्रादुर्भावो न भविष्यति. न सर्वनरका उच्छेत्स्यन्ते, न सर्वतिर्यग्योनयो न सर्वयमलोका उच्छेत्स्यन्ति, न सर्वाक्षणा न सर्वदारिद्राण्य् उच्छेत्स्यन्ति, न सर्वहीनगतयो न कामधातुर् न रूपधातुर् नारूप्यधातुर् उच्छेत्स्यति. अपि तु खलु पुनर् भगवन् यावत् तथागत एव बोधिसत्त्वो महासत्त्वो (PSP_५:१३२) वेदितव्यः.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, तथागत एव बोधिसत्त्वो महासत्त्वो वेदितव्यः. तत् कस्य हेतोः? ययैव हि सुभूते तथतया तथागतः प्रज्ञप्यते, तयैव तथतया सर्वार्याः प्रज्ञप्यन्ते, तयैव तथतया रूपं प्रज्ञप्यते, तयैव तथतया वेदना संज्ञा संस्काराः प्रज्ञप्यन्ते, तयैव तथतया विज्ञानं प्रज्ञप्यते, तयैव तथतया स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च प्रज्ञप्यन्ते, एवं यावत् तयैव तथतया संस्कृतो धातुर् असंस्कृतश् च धातुः प्रज्ञप्यते, तयैव तथतया सर्वसत्त्वतथता तथागततथता च प्रज्ञप्यते, तथागततथतायां बोधिसत्त्वो महासत्त्वः शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति, तस्मात् तथागतस् तथागत इत्य् उच्यते, अनेन सुभूते पर्यायेण बोधिसत्त्वो महासत्त्वस् तथागत एव वेदितव्यः तथतां प्रमाणीकृत्य. एवं खलु सुभूते प्रज्ञापारमितायां शिक्षित्वा बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् इन्द्रियकुशलो भविष्यतीन्द्रियपरापरकौशल्यम् अनुप्राप्स्यति, सर्वसत्त्वानां कर्मस्वकतां ज्ञास्यति, सर्वसत्त्वानां कर्मस्वकतां ज्ञात्वा प्रणिधिज्ञानं परिपूरयिष्यति, प्रणिधिज्ञानं परिपूर्य त्रिष्व् अन्धसु ज्ञानं विशोधयिष्यति, त्रिष्व् अन्धसु ज्ञानं विशोध्य बोधिसत्त्वचर्या चरन् सत्त्वानाम् अर्थं करिष्यति, सत्त्वानाम् अर्थं कृत्वा बुद्धक्षेत्रं परिशोधयिष्यति, बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञताम् अनुप्राप्स्यति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयिष्यति, धर्मचक्रं प्रवर्त्य सत्त्वास् त्रिषु यानेषु प्रतिष्ठापयिष्यति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्यानुपधिशेसे निर्वाणधातौ परिनिर्वापयिष्यति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वगुणानुशंसा संपश्यमानेनात्मनश् च परस्य चानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितव्यम्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: नमस्करणीया भगवन् बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां चरन्ति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि, नमस्करणीयास् ते सुभूते बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां चरन्ति. इति यथोक्तभावनामार्गज्ञतालम्बनवतः सर्वगुणसंपदः
SK
सुभूतिर् आह: कियत् स भगवन् प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वः पुण्यं प्रसवति, यः सर्वसत्त्वानां कृतशो ऽनुत्तरां (PSP_५:१३३) सम्यक्संबोधिम् अभिसंबोद्धुकामः?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यावन्तः सुभूते साहस्रे लोकधातौ सत्त्वास् तान् सर्वान् क्वचिद् एव श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा प्रतिष्ठापयेद्, अपि नु स सत्त्वो बहुपुण्यं प्रसवेत्?
SK
सुभूतिर् आह: बहु भगवन् बहु सुगत, अप्रमेयं भगवन्न् अप्रमेयं सुगत. भगवान् आह: यच् च खलु सुभूते साहस्रे लोकधातौ श्रावकयानिकानां सत्त्वानां वा प्रत्येकबुद्धयानिकानां वा पुण्यक्रियावस्तु, यच् च साहस्रे लोकधातौ सत्त्वानां श्रावकप्रत्येकबुद्धभूमिप्रतिष्ठापनपुण्यक्रियावस्तु, तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यक्रियावस्तुनः शततमीम् अपि कलान् नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततरईम् अपि कोटीसहस्रतमीम् अपि कोतीशतसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तत् कस्य हेतोः? बोधिसत्त्वप्रसूता हि श्रावकप्रत्येकबुद्धयानिका, न पुनः श्रावकप्रत्येकबुद्धप्रसूतो बोधिसत्त्वो महासत्त्वः. एवं यावत् त्रिसाहस्रमहासाहस्रे लोकधातौ श्रावकयानिकानां सत्त्वानां वा प्रत्येकबुद्धयानिकानां वा पुण्यक्रियावस्तु, यच् च त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वानां श्रावकप्रत्येकबुद्धप्रतिष्ठापनपुण्यक्रियावस्तु, तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यक्रियावस्तुनः शततमीम् अपि कलान् नोपैति, यावत् कोतीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तत् कस्य हेतोः? बोधिसत्त्वप्रसूता हि श्रावकप्रत्येकबुद्धयानिका, न पुनः श्रावकप्रत्येकबुद्धप्रसूतो बोधिसत्त्वो महासत्त्वः. तिष्ठन्तु श्रावकप्रत्येकबुद्धभूमिप्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमाहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे शुक्लविदर्शनाभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति; तिष्ठन्तु शुक्लविदर्शनाभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे गोत्रभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु गोत्रभूमौ (PSP_५:१३४) प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽष्टमकभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यस्कन्धस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतसतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु ऽष्टमकभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे दर्शनभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु दर्शनभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे तनुभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति: तिष्ठन्तु तनुभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे वीतरागभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु वीतरागभूमौ प्रतिष्ठापिताः सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे कृताविभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु कृताविभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे प्रत्येकबुद्धभूमौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य शततमीम् अपि कलान् नोपैति, यावत् कोतीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ठन्तु प्रत्येकबुद्धभूमौ प्रतिष्ठापिताः, सचेत् सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे बोधिसत्त्वनियामावक्रान्तौ प्रतिष्ठापिता भवेयुस् तेषां यत् पुण्यं तद् बोधिसत्त्वप्रतिपन्नकस्य पुण्यस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. तिष्ट्ःअन्तु बोधिसत्त्वनियामावक्रान्तौ प्रतिष्ठापिताः, सचेत् सुभूते ये (PSP_५:१३५) त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे बोधिसत्त्वप्रतिपन्नका भवेयुस्, तेषां यत् पुण्यं तत् तथागतस्यार्हतः सम्यक्संबुद्धस्य शततमीम् अपि कलान् नोपैति, यावत् कोटीनियुतशतसहस्रतमीम् अपि कलान् नोपैति. इत्य् आनन्तर्यसमाधिः
SK
सुभूतिर् आह: प्रथमचित्तोत्पादिकेन भगवन् बोधिसत्त्वेन महासत्त्वेन किं मनसिकर्तव्यम्?
SK
भगवान् आह: प्रथमचित्तोत्पादिकेन सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता मनसिकर्तव्या. इति सर्वाकारज्ञतालक्षणबुद्धत्वम्
SK
सुभूतिर् आह: सर्वाकारज्ञता किं भगवन्न् अभावस्वभावा? सर्वाकारज्ञतायाश् च भगवन् किम् आरम्बणम्? किम् आधिपतेयं? किम् आकारं? किं लक्षणम्?
SK
भगवान् आह: सर्वाकारज्ञता सुभूते अभावस्वभावालक्षणानिमित्तानाभोगानाभासानुत्पादा, यत् पुनः सुभूतिर् एवम् आह, सर्वाकारज्ञतायाः किम् आरम्बणं, किम् आधिपतेयं, किम् आकारं, किं लक्षणम् इति. सर्वाकारज्ञतायाः सुभूते अभाव आरम्बणं, स्मृतिर् अधिपतिः, शान्त आकारो, ऽलक्षणं लक्षणं, सर्वाकारज्ञतायाः सुभूते इदम् आरम्बणम् अयम् अधिपतिर् अयम् आकार इदं लक्षणम्. इति सर्वाकारज्ञतायाम् आलम्बनाधिपत्याकारा इत्य् उक्त आनन्तर्यसमाधिः
SK
किं पुनर् भगवन् सर्वाकारज्ञतैवाभावः? उताहो रूपम् अप्य् अभावः, वेदना संज्ञा संस्कारा, विज्ञानम् अप्य् अभावः? स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि वाभावः? एवम् अध्यात्मिका वा बाह्या धर्मा अभावः? चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः शून्यतासमाधिः, अनिमित्तसमाधिः, अप्रणिहितसमाधिः, अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः महामैत्री महाकरुणा महामुदिता महोपेक्षा प्रथमा अभिज्ञा द्वितीया अभिज्ञा तृतीया अभिज्ञा चतुर्थ्य् अभिज्ञा पञ्चम्य् अभिज्ञा षष्ठ्य् अभिज्ञा संस्कृतो धातुर् असंस्कृतो धातुर् अभावः? (PSP_५:१३६)
SK
भगवान् आह: सर्वाकारज्ञतापि सुभूते अभावो, रूपं वेदना संज्ञा संस्कारा, विज्ञानम् अपि सुभूते अभावः, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादा प्रतीत्यसमुत्पादाङ्गानि वा अभावः, एवम् अध्यात्मिका बाह्याश् च धर्माः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गल्मार्गा अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहितार्यसत्याभिज्ञाः सर्वपारमिताः, सर्वशून्यता दशबलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्मा अपि सुभूते अभावः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अभावः, संस्कृतो धातुर् असंस्कृतो धातुर् अभावः. तत् कस्य हेतोः? तथा हि सुभूते तस्याः सर्वाकारज्ञतायाः स्वभावो नास्ति, यस्य खलु पुनः सुभूते स्वभावो नास्ति सो ऽभावः.
SK
सुभूतिर् आह: केन कारणेन भगवन् सर्वाकारज्ञतायाः स्वभावो नास्ति?
SK
भगवान् आह: नास्ति सुभूते सांयोगिकः स्वभावः, यस्य सुभूते सांयोगिकः स्वभावो नास्ति सो ऽभावः. अनेन सुभूते पर्यायेणाभावस्वभावाः सर्वधर्माः. इत्य् आलम्बनोपपत्तौ विप्रतिपत्तिः
SK
अपि तु खलु पुनः सुभूते तथतावितथतानन्यतथताभूतकोटिस्वभावाः सर्वधर्माः, धर्मताधर्मधातुधर्मस्थितिताधर्मनियामतास्वभावाः सर्वधर्माः, अनेनापि सुभूते पर्यायेण एवं वेदितव्यम् अभावस्वभावाः सर्वधर्माः.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः, कतमेनोपायकौशल्येन समन्वागतः प्रथमचित्तोत्पादिको बोधिसत्त्वो मह्हासत्त्वो दानपारमितायां चरति, बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति? शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति, प्रथमे ध्याने चरति, द्वितीये ध्याने चरति, तृतीये ध्याने चरति, चतुर्थे ध्याने चरति, मैत्र्यां करुणायां मुदितायाम् उपेक्षायाम् आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्ताव् आकिंचन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ चरत्य्, अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशूउन्यतायां यावद् अभावस्वभावशून्यतायां चरति, स्मृत्युपस्थान सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरति, आर्यसत्येषु शून्यतासमाधाव् अनिमित्तसमाधाव् अप्रणिहितसमाधाव् (PSP_५:१३७) अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु धारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकबुद्धधर्मेषु सर्वाकारज्ञतायां चरति, बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति?
SK
भगवान् आह: एतद् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं वेदितव्यं यद् अभावस्वभावेषु सर्वधर्मेषु परिजयं करोति, बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति, तच् च बुद्धक्षेत्रं तांश् च सत्त्वान् अभावस्वभावान् जानाति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् बोधिमार्गे परिजयं करोति, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन् बोधिमार्गे परिजयं करोति, अध्यात्मशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन् बोधिमार्गे परिजयं करोत्य्, आर्यसत्येषु चरन् शून्यतानिमित्ताप्रणिहितसमाधौ चरन् मैत्रीकरणामुदितोपेक्षासु चरन् बोधिमार्गे परिजयं करोति, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरन् बोधिमार्गे परिजयं करोति, तं च बोधिमार्गम् अभावस्वभावं जानाति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गे परिजयं कुर्वन्, यावद् दशभिस् तथागतबलैः समन्वागतो भवति, चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया सर्वाकारज्ञताज्ञानेन च समन्वागतो भवति, इमे सुभूते बोधये मार्गाः, स एभिर् बोधिमार्गैः पारमिताः परिपूरयति, पारमिताः परिपूर्य सर्वन् तद् एकलक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्स्यति, तस्य तत्रावस्थायां सर्ववासनानुसंधिक्लेशाः प्रहास्यन्ते, अनुत्पत्तिकप्रहाणाः. इत्य् आलम्बनस्वभावाधारणविप्रतिपत्तिः
SK
स बुद्धचक्षुषा त्रिसाहस्रमहासाहस्रं लोकधातुं व्यवलोक्य भावम् अपि नोपलभते प्राग् एवाभावम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अभावस्वभावैः सर्वधर्मैर् इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं, यद् भाव इति नोपलभ्यते प्राग् एवाभाव इति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् दानं ददाति, स तद् दानम् अभाव इति संजानीते, प्रतिग्राहकम् अप्य् अभाव इति संजानीते, तम् अपि बोधिसत्त्वम् (PSP_५:१३८) अभाव इति संजनीते. एवं शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन्, प्रज्ञापारमितायां चरंस् ताम् अपि प्रज्ञापारमिताम् अभाव इति संजानीते, येषां प्रज्ञा भाव्यते तान् अप्य् अभाव इति संजानीते, यो ऽपि भावयति तम् अप्य् अभाव इति संजानीते. एवम् अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्न् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन्, शून्यतानिमित्ताप्रणिहितेषु चरन्न् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन्, सर्वाकारज्ञतायां चरंस् ताम् अप्य् अभाव इति संजानीते, यो ऽप्य् अभिसंबुध्यते तम् अप्य् अभाव इति संजानीते, येनाप्य् अभिसंबुध्यते तम् अप्य् अभाव इति संजानीते. तत् कस्य हेतोः? यथैव हीयम् अभावस्वभावा तथैव सर्वध्र्मा अभावस्वभावास्, ते च बुद्धैर् अकृताः श्रावकैर् अकारकाः, सर्वधर्माः कारकरहिताः.
SK
सुभूतिर् आह: ननु भगवन् धर्मैर् एव धर्मा विरहिताः?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, धर्मैर् एव सुभूते धर्मा विरहिताः.
SK
सुभूतिर् आह: यदि भगवन् धर्मैर् एव धर्मा विरहिताः, कथं भगवन् विरहितो धर्मो विरहितं धर्मं संजानीते भावं वा अभावं वा? न हि भावो धर्मो भावं धर्मं संजानीते, न ह्य् अभावो धर्मो ऽभावं धर्मं संजानीते, न हि भावो धर्मो ऽभावं धर्मं संजानीते, न ह्य् अभावो धर्मो भावं धर्मं संजानीते. एवम् असंजानानेषु धर्मेषु कुत एवं भवति? बोधिसत्त्वस्य महासत्त्वस्य भाव इति वाभाव इति वा लोकसंवृतिम् उपादाय बोधिसत्त्वो महासत्त्वो भाव इति वाभाव इति वा निर्दिशति, न पुनः परमार्थेन. इति सर्वाकारज्ञताज्ञाने विप्रतिपत्तिः
SK
सुभूतिर् आह: किं पुनर् भगवन्न् अन्या लोकसंवृतिर् अन्यः परमार्थः? भगवान् आह: न सुभूते ऽन्या लोकसंवृतिर् अन्यः परमार्थः, यैव लोकसंवृतेस् तथता सैव परमार्थस्य तथता, तान् ते सत्त्वा एवंतथतान् न जानन्ति न पश्यन्ति, तेषाम् अर्थाय लोकसंवृत्या निर्दिश्यते भाव इति वाभाव इति वा. अपि तु खलु पुनः सुभूते य एते सत्त्वाः पञ्चभिः स्कन्धैर् भावसंज्ञिनो अभाव इति न जानन्ति, (PSP_५:१३९) अभावसंज्ञिनो भाव इति न जानन्ति, तेषाम् अर्थायैवं निर्दिश्यते धर्माणां प्रभेदताम् उपादाय कथम् अपि भावम् अभावं वा ज्ञास्यन्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्. इति सत्यद्वये विप्रतिपत्तिः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बोधिसत्त्वचर्या बोधिसत्त्वचर्येति भगवन्न् उच्यते कस्यैतद् अधिवचनम्?
SK
भगवान् आह: बोधिसत्त्वचर्येति सुभूते बोधये चर्यैषा बोधिचारिका तस्माद् बोधिसत्त्वचर्येत्य् उच्यते.
SK
सुभूतिर् आह: क्व सा भगवन् बोधिसत्त्वस्य महासवस्य बोधिसत्त्वचर्या?
SK
भगवान् आह: रूपं शून्यम् इति चरति, वेदना संज्ञा संस्कारा, विज्ञानं शून्यम् इति चरति, एवं स्कन्धधात्वायतनानि शून्यानीति चरति, प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च शून्यानीति चरति, एवम् आध्यात्मिकबाह्यैर् आयतनैर् दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति, अध्यात्मशून्यतायां चरति, बहिर्धासून्यतायां चरति, अध्यात्मबहिर्धाशून्यतायां चरति, यावद् अभावस्वभावशून्यतायां चरति, प्रथमे ध्याने चरति, द्वितीये ध्याने चरति, तृतीये ध्याने चरति, चतुर्थे ध्याने चरति, मैत्रीकरुणामुदितोपेक्षायां चरति, आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्ताव् आकिंचन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ चरति, चतुर्षु स्मृत्युपस्थानेषु चरति, चतुर्षु सम्यक्प्रहानेषु चरति, चतुर्ष्व् ऋद्धिपादेषु चरति, पञ्चस्व् इन्द्रियेषु चरति, पञ्चसु बलेषु चरति, सप्तसु बोध्यङ्गेषु चरति, आर्याष्टाङ्गमार्गेषु चरति, शून्यतानिमित्ताप्रणिहितसमाधौ चरत्य्, अष्टसु विमोक्षेषु चरति, नवानुपूर्वविहारसमापत्तिषु चरति, चतुर्ष्व् आर्यसत्येषु चरति, दशसु तथागतबलेषु चरति, चतुर्षु वैशारद्येषु चरति, चतसृषु प्रतिसंवित्सु चरति, अष्टादशस्व् आवेणिकाबुद्धधर्मेषु चरति, पञ्चस्व् अभिज्ञासु चरति, सर्वसमाधिषु चरति, सर्वधारणीमुखेषु चरति, बुद्धक्षेत्रं परिशोधनाय चरति, सत्त्वपरिपाचनाय चरति, प्रतिभानेषु चरति, अक्षराभिनिर्हारः शून्य इति चरति, अक्षरप्रवेशः शून्य इति चरति, अनक्षरप्रवेशः शून्य इति चरति, शूक्ष्मप्रवेशेषु चरति, धारण्यां चरति, संस्कृतधातौ चरति, असंस्कृतधातौ (PSP_५:१४०) चरति, एवम् अत्र चरति यथा बोधिम् अद्वयी करोति न द्वैधी करोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधये चरति. इति प्रयोगे विप्रतिपत्तिः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बुद्धो बुद्ध इति भगवन्न् उच्यते, कस्यैतद् अधिवचनं बुद्ध इति?
SK
भगवान् आह: भूतार्थो बुद्ध इत्य् उच्यते. अपि तु खलु पुनः सुभूते भूता अस्य धर्मा अभिसंबुद्धास् तस्माद् बुद्ध इत्य् उच्यते, भूतो ऽस्यार्थः प्रतिविद्धस् तस्माद् बुद्ध इत्य् उच्यते. अपि तु खलु पुनः सुभूते सर्वधर्मा यथावदभिसंबुद्धास् तस्माद् बुद्ध इत्य् उच्यते. इति बुद्धरत्ने विप्रतिपत्तिः
SK
सुभूतिर् आह: बोधिर् इति भगवन् कस्यैतद् अधिवचनम्?
SK
भगवान् आह: बोधिर् इति सुभूते शून्यताया एतद् अधिवचनं, तथताया एतद् अधिवचनं, धर्मताया एतद् अधिवचनं, भूतकोटेर् एतद् अधिवचनं, धर्मधातोर् एतद् अधिवचनम्. अपि तु खलु पुनः सुभूते नामधेयमात्रम् एतद् बोधिर् इति. अपि तु खलु पुनः सुभूते अभेदार्थो बोध्यर्थः. अपि तु खलु पुनः सुभूते बोधिस् तथतावितथतानन्यतथतानन्यथीभावस् तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु पुनः सुभूते नामनिमित्तमात्रम् एतद् बोधिर् इति तस्माद् बोधिर् उच्यते. अपि तु खलु पुनः सुभूते बुद्धानाम् एव भगवताम् एषा बोधिस् तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु पुनः सुभूते बुद्धैर् एषा भगवद्भिर् अभिसंबुद्धास् तस्माद् बोधिर् इत्य् उच्यते. इति धर्मरत्ने विप्रतिपत्तिः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो महासत्त्व इमा यैर् बोधये चरति, स किं षट्सु पारमितासु चरति, सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चरति, सर्वशून्यतार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, शून्यतानिमित्ताप्रणिहितेषु चरत्य्, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, सर्वाकारज्ञतायां चरति, कस्य धर्मस्यागमे वा चरत्य् अपगमे वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय व्यवदानाय वा?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यः सुभूते बोधिसत्त्वो महासत्त्व इमा यैर् बोधये चरति, स न षट्सु पारमितासु चरति, न सप्तत्रिंशत्सु बोधिपक्षेषु धर्मेषु चरति, न सर्वशून्यतार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु (PSP_५:१४१) चरति, न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, न सर्वाकारज्ञतायां चरति, न कस्यचिद् धर्मस्यागमे वा चरत्य् अपगमे वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय व्यवदानाय वा. न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिः प्रज्ञापारमितायां चरत आरम्बणयोगेन प्रत्युपस्थिता आचये वा अपचये वा हानौ वा वृद्धौ वा उत्पादाय वा निरोधाय वा संक्लेशाय वा व्यवदानाय वा प्रत्युपस्थिता.
SK
सुभूतिर् आह: यदि भगवन् बोधिसत्त्वस्य मह्यासत्त्वस्य बोधिर् न कस्यचिद् धर्मस्यारम्बणयोगेन प्रत्युपस्थिता, तत् कथम् इदानीं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां परिगृह्णाति, शीलपारमितां परिगृह्णाति, क्षान्तिपारमितां परिगृह्णाति, वीर्यपारमितां परिगृह्णाति, ध्यानपारमितां परिगृह्णाति, प्रज्ञापारमितां परिगृह्णाति, अध्यात्मशून्यतायां चरति, यावद् अभावस्वभावशून्यतायां चरति, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरत्य्, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, महाकरुणायां चरति, दशसु बोधिसत्त्वभूमिषु चरति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य द्वयेन बोधिसत्त्वचरिर्, न हि बोधिसत्त्वो महासत्त्वो द्वयेन दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, न द्वयेन प्रज्ञापारमितायां चरति, न द्वयेनाध्यात्मशून्यतायां चरति, बहिर्धाशून्यतायां चरति, अध्यात्मबहिर्धाशून्यतायां चरति, यावद् अभावस्वभावशून्यतायां चरति, न द्वयेन स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरति, न द्वयेनार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, न द्वयेन शून्यतानिमित्ताप्रणिहितेषु चरति, न द्वयेनाभ्ज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु चरति, न द्वयेन सर्वाकारज्ञतायां चरति.
SK
सुभूतिर् आह: यदि भगवन् दानपारमितायां न द्वयेन चरत्य्, एवं शीलक्षान्तिवीर्यध्यानपारमितायां प्रज्ञापारमितायां न द्वयेन चरति, सर्वशून्यता बोधिपक्ष्यधर्मार्यसत्याप्रमाण ध्यानारूप्य विमोक्षसमाधिसमापत्तिधारणिमुखेषु (PSP_५:१४२) न द्वयेन चरति, शून्यतानिमित्ताप्रणिहिताब्भिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न द्वयेन चरति, सर्वाकारज्ञतायां न द्वयेन चरति, तत् कथम् इदानीं बोधिसत्त्वो महासत्त्वः कुशलमूलैर् विवर्धते प्रथमचित्तोत्पादम् उपादाय यावत् पश्चिमकश् चित्तोत्पादः कुशलमूलैर् विवर्धते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: ये सुभूते द्वयेन चरन्ति न ते विवर्धन्ते कुशलमूलैर् धर्मैः. तत् कस्य हेतोः? द्वये निश्रित्य हि सुभूते सर्वबालपृथग्जनास् ते न विवर्धते कुशलमूलैर् धर्मैर्, बोधिसत्त्वो महासत्त्वः पुनर् अद्वयेन चरति तेन प्रथमचित्तोत्पादम् उपादाय कुशलमूलैर् धर्मैर् विवर्धते, यावत् पश्चिमकश् चित्तोत्पादः कुशलमूलैर् धर्मैर् विवर्धते. तेनानवमर्दनीयो भवति सदेवमानुषासुरेण लोकेन, यैर् अकुशलैर् धर्मैर् अवमर्दितः समानः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वापतेद् इत्य् एभिश् चान्यैश् चाकुशलैर् धर्मैः संह्रियमाणो दानपारमितायां चरन् न कुशलैर् धर्मैर् विवर्धते, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, प्रज्ञापारमितायां चरन् न कुशलैर् धर्मैर् विवर्धते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन् न कुशलैर् धर्मैर् विवर्धते, अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां चरन् न कुशलैर् धर्मैर् विवर्धते, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् न कुशलैर् धर्मैर् विवर्धते, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन् न कुशलैर् धर्मैर् विवर्धते, सर्वाकारज्ञतायां चरन् न कुशलैर् धर्मैर् विवर्धते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्. सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः कुशलमूलानां कृतशः प्रज्ञापारमितायां चरति?
SK
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः कुशलमूलानां कृतशः प्रज्ञापारमितायां चरति, नाप्य् अकुशलमूलानां कृतशः प्रज्ञापारमितायां चरति, नापर्युपास्य बुद्द्धान् भगवतः, नापरिपूर्य कुशलमूलानि, कल्याणमित्रैर् अपरिगृहीतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्तुम्.
SK
सुभूतिर् आह: कथं भगवन् पर्युपास्य बुद्धान् भगवतः कुशलमुलानि (PSP_५:१४३) परिपूर्य कल्याणमित्रपरिगृहीतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय तथागतान् अर्हतः सम्यक्संबुद्धान् पर्युपास्ते, यं च ते बुद्धा भगवन्तो धर्मं भाषन्ते सूत्रं गेयं व्याकरणम् इतिवृत्तकं जातकं संग्रहवैपुल्याद्भुतधर्मावदानोपदेशांस् तान् सर्वान् उद्गृह्णात्य् उद्गृह्य कायेन वाचा सुपरिजितान् कृत्वा मनसा तत्प्रेक्षितान् करोति, दृष्ट्या सुप्रतिविद्धान् करोति, धारणीं प्रतिलभते, धारण्यां प्रतिलब्धायां प्रतिसंविद् उत्पादयति, प्रतिसंविद्भिर् उत्पादिताभिस् तस्य जातिव्यतिवृत्तस्यापि ते धर्मा न जातु विप्रणस्यन्ति यावत् सर्वाकारज्ञताम् अनुप्राप्नोति, तत्र तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कुषलमूलान्य् अवरोपयति, तैश् च कुशलमूलैः परिगृहीतो न जात्व् अपायैर् वाक्षणैर् वोत्पद्यते, तैश् च कुशलैर् आशयपरिशुद्धिं परिगृह्णाति, यया आशयपरिशुद्ध्या बुद्धक्षेत्रं परिशोधयति, सत्त्वांश् च परिपाचयति, तैश् च कुशलमूलैः परिगृहीतः कल्याणमित्रैश् च न जातु विरहितो भवति बुद्धैर् भगवद्भिर् बोधिसत्त्वैर् महासत्त्वैः श्रावकैश् च ये बुद्धयानस्य वर्णं भाषन्ते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धा भगवन्तः पर्युपासितव्याः, कुशलमूलं च परिगृहीतव्यं, कल्याणमित्राणि च सेवितव्यानि.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यः पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नापि बुद्धान् भगवतः पर्युपास्ते, नापि कुशलमूलानि परिपूरयेत्, नापि कल्याणमित्रपरिगृहीतो भवेत्, मा हैव बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नुयात्.
SK
भगवान् आह: न खलु सुभूते बुद्धान् भगवतो ऽपर्युपास्यानवरोपितकुशलमूलः कल्याणमित्रैर् अपरिगृहीतः सर्वाकारज्ञताम् अनुप्राप्नुयात्. तत् कस्य हेतोः? बुद्धान् एव तावद् भगवतः पर्युपास्य कुशलमूलान्य् अवरोप्य कल्याणमित्राणि च सेवित्वा भजित्वा पर्युपास्यैवं कुशलमूलसमन्वागतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्तुम् असमर्थः प्राग् एव बुद्धान् भगवतो ऽपर्युपास्य कुशलमूलान्य् अनवरोप्य कल्याणमित्रैर् अपरिगृहीतः सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति नेदं स्थानं विद्यते, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन (PSP_५:१४४) बुद्धा भगवन्तः पर्युपासितव्याः, कुशलमुलानि चावरोपितव्यानि कल्याणमित्राणि च सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि.
SK
सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वो महासत्त्वो बुद्धांश् च भगवतः पर्युपास्य कुशलमूलानि चावरोप्य कल्याणमित्राणि च सेवित्वा भक्त्वा पर्युपास्य सर्वाकारज्ञताम् अनुप्राप्नुयात्?
SK
भगवान् आह: उपायकौशल्यविरहितत्वात्, ये नोपायेन श्रुतो भवति तेषां बुद्धानां भगवताम् अन्तिकात् सधर्मस् तानि च कुशलमूलानि नावरोपितानि तानि च कल्याणमित्राणि सेवितानि भक्तितानि पर्युपासितानि यान्य् अस्योपायम् उपदिशन्ति तेन विरहितत्वात्. इति संघरत्ने विप्रतिपत्तिः
SK
सुभूतिर् आह: कतमद् भगवन्न् उपायकौशल्यं, येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यो वा, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः समन्वागतो न चास्य दानसंज्ञा भवति, न प्रतिग्राहकसंज्ञा, न दानपतिसंज्ञा. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानो दानपारमितायां चरति, दानपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च दानफलम् उपजीवति यद् दानफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया दानपारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलं रक्षति, तस्य नैव रागे चित्तं पतति न दोषे न मोहे नानुशये न पर्युत्थाने पतति, नान्येष्व् अकुशलेषु धर्मेषु पतति, ये बोधये परिपन्थकास् तद्यथा मात्सर्यचित्तं वा दौःशील्यचित्तं वा क्षुब्धचित्तं वा कौशीद्यचित्तं वा हीनचित्तं वा भ्रान्तचित्तं (PSP_५:१४५) वा दौष्प्रज्ञचित्तं वा मानातिमानो ऽधिमानो ऽस्मिमानः श्रावकप्रत्येकबुद्धचित्तं वा. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणाञ् च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानः शीलपारमितायां चरति, स शीलपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च शीलफलम् उपजीवति यच् छीलफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया शीलपारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तां क्षान्तिं भावयति, स स्वकेष्व् अपि प्राणेषु व्यवरोप्यमानेषु न प्रतिदह्यते, न प्रतिक्रुष्यति न व्यापादोपनाहम् उपनह्यति, स जीविताद् व्यपरोप्यमानो ऽपि सर्वस्वे वापह्रियमाणे दारे वाकृष्यमाणे मृषावाद उच्यमानः पिशुनं परुषं संभिन्नं वोच्यमान आक्रुष्यमाणो वा ताड्यमानो वा च्छिद्यमानो वा न क्षुभ्यति सत्त्वानाम् एव हितम् उत्पादयति. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, स धर्माणां च धर्मलक्षणम् अवतरति, अकिञ्चित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते स कुशलैर् धर्मैर् विवर्धमानः क्षान्तिपारमितायां चरति, स क्षान्तिपारमितायां चरन् सर्वसत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च क्षान्तिफलम् उपजीवति यत् क्षान्तिफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया क्षान्तिपारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वीर्यम् आरभते, दृढसंनाहो दृढपराक्रमो न कौशीद्यं वा अलसचित्तं वोत्पादयति, स बोधेर् अर्थाय दुःखम् अपि न गणपतिदक्षो ऽनलसो ऽपि शक्तिभिर् वार्यमाणो मनुष्यदुष्खम् असुरदुःखं तिर्यग्योनिदुःखं नरकदुष्खम् अपि न गणपतिर् अपि शक्तिभिर् वार्यमाणः. तत् (PSP_५:१४६) कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो वीर्यपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च वीर्यफलम् उपजीवति यद् वीर्यफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया वीर्यपारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानं समापद्यते, चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यञ्जनग्राही भवति, यथाविकरणम् एवं चक्षुरिन्द्रियेणासंवरसंवृतं विहरन्तम् अभिध्या दौर्मनस्याः पापका अकुशला धर्माश् चित्तम् अनुश्रवेयुः, तेषां संवराय प्रतिपद्यते रक्षति चक्षुरिन्द्रियम् एवं श्रोत्रेण शब्दान् श्रुत्वा, घ्राणेन गन्धान् आघ्राय, जिह्वया रसान् आस्वाद्य, कायेन स्प्रष्टव्यं स्पृष्ट्वा, मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यञ्जनग्राही भवति, यथाविकरणम् एवं मनैन्द्रियेनासंवरसंवृतं विहरन्तम् अभिध्या दौर्मनस्याः पापका अकुशला धर्माश् चित्तम् अनुश्रवेयुः, तेषां संवराय प्रतिपद्यते, रक्षति मनैन्द्रियं, स गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो ऽपि शयानो ऽपि भाषमानो ऽपि तूष्णीभूतो ऽपि समाहितावस्थां न जहाति न विजहाति, स भवत्य् अहस्तलोलो ऽपादलोलो ऽमुखरो ऽप्रकीर्णवाग् अविक्षिप्तचक्षुर् अविक्षिप्तेन्द्रियो ऽनुद्धतो ऽचपलो ऽरभसो ऽभ्रान्तकायो ऽभ्रान्तचित्तः, शान्तकायः शान्तवाक् शान्तचित्तो रहस्यरहसि वाविकल्पितेर्यापथो यैः केचिद् अप्य् अन्नपानशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः संतुष्टः सुरभः सुपोष्यः कल्याणाचारगोचरः संगणिकाया अपि विवेकगोचरः लाभे ऽलाभे च स निर्विकारो ऽनुन्नतावनतः सुखे दुष्खे स्तुतौ निन्दायां यशस्ययशसि जीविते च मरणे च समो निर्विकारो ऽनुन्नतावनतः, शत्रौ च मित्रे च साधौ चासाधौ च मनआपवर्तिन्य् अमनआपवर्तिन्य् आर्येषु शब्देस्व् अनार्येषु (PSP_५:१४७) शब्देषु विविक्तेषु व्यवकीर्णेषु च समो निर्विकारो ऽनुन्नतावनतः प्रियाप्रियेषु रूपेष्व् अनुरोधविरोधापगः. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो ध्यानपारमितायां चरति, स ध्यानपारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न ध्यानफलम् उपजीवति यद् ध्यानफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया ध्यानपारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न दुष्प्रज्ञो भवति न परप्रणेयो ऽहंकारममकारविगतः, आत्मसत्त्व जीवजन्तु पोषपुरुष पुद्गलमनुजमानवकारकवेदकजानकपश्यकविगतश् च भवति सर्वदृष्टिविगतः सर्वशून्यताविगतो निर्विकल्पो निर्विकारः. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, कुशलैर् धर्मैर् विवर्धमानः प्रज्ञापारमितायां चरति, स प्रज्ञापारमितायां चरन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च प्रज्ञाफलम् उपजीवति यत् प्रज्ञाफलं संसारे परिभुञ्जीतान्यत्र सत्त्वपरित्राणतया सत्त्वपरिमोचनतया प्रज्ञापारमितायां चरति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते, द्वितीयं ध्यानं समापद्यते, तृतीयं ध्यानं समापद्यते, चतुर्थं ध्यानं समापद्यते, चतुरप्रमाणारूप्यसमापत्तीः समापद्यते, प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न च तेषां विपाकं परिगृह्णाति. तत् कस्य हेतोः? तथा हि स तेनोपायकौशल्येन समन्वागतो भवति, येनोपायकौशल्येन समन्वागतस् तानि च ध्यानान्य् अप्रमाणारूप्यसमापत्तीः समापद्यमानः स (PSP_५:१४८) स्वलक्षणशून्यान् धर्मान् जानाति, असद्भुतान् अपरिनिष्पन्नन् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणाञ् च धर्मलक्षणम् अवतरति, अकिंचित्समर्थताञ् च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो ध्यानाप्रमाणारूप्यसमापत्तीश् च समापद्यते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दर्शनभावनाप्रहातव्ये ऽस्मिन् मार्गे चरति, न स्रोतआपत्तिफलम् अनुप्राप्नोति, न सकृदागामिफलं नानागामिफलं नार्हत्त्वम् अनुप्राप्नोति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् सर्वधर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानः सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु चरति, बोधिपक्ष्येषु धर्मेषु चरन् श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमतीयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुत्पत्तिकैर् धर्मैः क्षान्तिः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अष्टविमोक्षान् समापद्यते, स नवानुपूर्वविहारसमापत्तीश् चत्वार्य् आर्यसत्यानि भावयति, शून्यतानिमित्ताप्रणिहितानि च समापद्यते, न च स्रोतआपत्तिफलम् अनुप्राप्नोति, न सकृदागामिफलं नानागामिफलं नार्हत्त्वम् अनुप्राप्नोति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, स धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समथतां सर्वधर्माणां संस्कारलक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो विमोक्षसमाधिसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहितेषु चरति, स विमोक्षसमाधिसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहितेषु चरन् श्रावकप्रत्येकबुद्धभूमिम् अवक्रामतीयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुत्पत्तिकधर्मव्याकरणक्षान्तिः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दशसु तथागतबलेषु परिजयं करोति, चतुर्षु वैशारद्येषु (PSP_५:१४९) चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महामैत्र्यां महाकरुणायां च, न च तावत् सर्वाकारज्ञताम् अनुप्राप्नोति, यावद् बुद्धक्षेत्रं न परिशोधितं भवति, सर्वसत्त्वाश् च न परिपाचिता भवन्ति. तत् कस्य हेतोः? तथा हि स स्वलक्षणं शून्यान् धर्मान् जानाति, असद्भूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति, धर्माणां च धर्मलक्षणम् अवतरति, अकिंचित्समर्थतां च सर्वधर्माणां संस्कारं लक्षणम् अवतरति, सो ऽनेनोपायकौशल्येन समन्वागतः कुशलैर् धर्मैर् विवर्धते, स कुशलैर् धर्मैर् विवर्धमानो दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मेषु महामैत्र्यां महाकरुणायां चरन् बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति. एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: परमबुद्धिमन्तो भगवन् बोधिसत्त्वा महासत्त्वा भवन्ति, य एवं गम्भीरेषु धर्मेषु चरन्ति, विपाकं च न प्रतिगृह्णन्ति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, परमबुद्धिमन्तः सुभूते बोधिसत्त्वा महासत्त्वा य एवं गम्भीरेषु धर्मेषु चरन्ति, विपाकं च न प्रतिगृह्णन्ति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वा महासत्त्वाः स्वभावतो न चलन्ति.
SK
सुभूतिर् आह: कस्मात् स्वभावान् न चलन्ति?
SK
भगवान् आह: अभावतो न चलन्ति, यत् पुनर् आयुष्मान् सुबूतिर् एवम् आह कतमस्मात् स्वभावान् न चलन्ति, रूपस्य स्वभावतो न चलन्ति, न वेदनाया न संज्ञाया न संस्काराणां, विज्ञानस्य स्वभावतो न चलन्ति, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्वभावान् न चलन्ति, प्रतीत्य समुत्पादाङ्गस्वभावान् न चलन्ति, दानपारमितायाः स्वभावान् न चलन्ति, शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स्वभावान् न चलन्ति, अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यतायाः स्वभावान् न चलन्ति, अप्रमाणस्वभावाद् ध्यानारूप्यसमापत्तिस्वभावात् स्मृत्युपस्थानस्वभावात् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गस्वभावाद् आर्याष्टाङ्गमार्गस्वभावान् न चलन्ति, शून्यतानिमित्ताप्रणिहितस्वभावान् न चलन्ति, आर्यसत्यस्वभावाद् अभिज्ञास्वभावाद् (PSP_५:१५०) विमोक्षसमाधिसमापत्तिधरणीमुखस्वभावान् न चलन्ति, दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मस्वभावान् न चलन्ति महामैत्रीमहाकरुणास्वभावान् न चलन्ति. तत् कस्य हेतोः? तथा हि सुभूते य एष धर्मो निःस्वभावः सो ऽभावः. इत्य् उपायकौशले विप्रतिपत्तिः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: तत् किं पुनर् भगवन्न् अभावेनाभावः शक्यो ऽभिसंबोद्धुम्?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: तत् किं पुनर् भगवन् भावेन भावः शक्यो ऽभिसंबोद्धुम्?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: तत् किं भगवन्न् अभावेन भावः शक्यो ऽभिसंबोद्धुम्?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: तत् किं भगवन् भावेनाभावः शक्यो ऽभिसंबोद्धुम्?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: तन् मा हैव भगवन् न प्राप्तिर् नाभिसमयो भविष्यति? यदि नाभावेनाभावस्याभिसमयो, न भावेन भावस्याभिसमयो, नाभावेन भावस्याभिसमयो, न भावेनाभावस्याभिसमयः.
SK
भगवान् आह: अस्याभिसमयो न पुनर् अनेन चतुःप्रकाराभिनिहारेण.
SK
सुभूतिर् आह: कथम् इदानीं भगवन्न् अभिसमयः?
SK
भगवान् आह: नैवाभावो न भावः, स तादृशो ऽभिसमयो यत्रैते प्रपञ्चा न संविद्यन्ते, अप्रपञ्चो निष्प्रपञ्चाभिसमयः. इत्य् अभिसमये विप्रतिपत्तिः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रपञ्चः?
SK
भगवान् आह: रूपन् नित्यम् अनित्यम् इति वा बोधिसत्त्वस्य महासत्त्वस्य प्रपञ्चः, वेदना संज्ञा संस्कारा, विज्ञानं नित्यम् अनित्यम् इति वा प्रपञ्चः, रूपं सुखं दुःखम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं सुखं दुःखम् इति वा प्रपञ्चः, रूपम् आत्मानात्मेति, वेदना संज्ञा संस्कारा, विज्ञानम् आत्मानात्मेति प्रपञ्चः, रूपं शान्तम् अशान्तम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं शान्तम् अशान्तम् इति वा प्रपञ्चः, रूपं परिज्ञेयम् अपरिज्ञेयम् इति वा प्रपञ्चः, वेदना संज्ञा (PSP_५:१५१) संस्कारा, विज्ञानं परिज्ञेयम् अपरिज्ञेयम् इति वा प्रपञ्चः, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानि च नित्यानित्यसुखदुष्खात्मानात्मशान्ताशान्तपरिज्ञेयापरिज्ञेयम् इति वा प्रपञ्चः. दुष्खम् आर्यसत्यं परिज्ञेयम् इति प्रपञ्चः, समुदयः प्रहातव्य इति प्रपञ्चः, निरोधः साक्षात्कर्तव्य इति प्रपञ्चः, मार्गे भावयितव्य इति प्रपञ्चः, चत्वारि ध्यानानि भावयितव्यानीति प्रपञ्चः, चत्वार्य् अप्रमाणानि भावयितव्यानीति प्रपञ्चः, चतस्र आरूप्यसमापत्तयो भावयितव्या इति प्रपञ्चः, चत्वारि स्मृत्युपस्थानानि भावयितव्यानीति प्रपञ्चः, चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि भावयितव्यानीति प्रपञ्चः, आर्याष्टाङ्गमार्गो भावयितव्य इति प्रपञ्चः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयितव्यानीति प्रपञ्चः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तयो भावयितव्या इति प्रपञ्चः, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वम् अतिक्रमिष्यामीति प्रपञ्चः, प्रत्येकां बोधिम् अतिक्रमिष्यामीति प्रपञ्चः, दशबोधिसत्त्वभूमिः परिपूरयिष्यामीति प्रपञ्चः, बोधिसत्त्वनियामम् अवक्रमिष्यामीति प्रपञ्चः, बुद्धक्षेत्रं परिशोधयिष्यामीति प्रपञ्चः, सत्त्वान् परिपाचयिष्यामीति प्रपञ्चः, दानपारमितायाञ् चरिष्यामीति प्रपञ्चः, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, प्रज्ञापारमितायां चरिष्यामीति प्रपञ्चः, अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां भावयिष्यामीति प्रपञ्चः, चत्वारि वैशारद्यानि दशतथागतबलानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् उत्पादयिष्यामीति प्रपञ्चः, सर्वाकारज्ञताम् अनुप्राप्स्यामीति प्रपञ्चः, सर्ववासनानुसंधिक्लेशान् प्रहास्यामीति प्रपञ्चः. तस्माद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं नित्यम् अनित्यम् इत्य् अप्रपञ्चन् न प्रपञ्चयति, सुखं दुःखम् इति, आत्मानात्मेति, शान्तम् अशान्तम् इति, परिज्ञेयम् अपरिज्ञेयम् इत्य् अप्रपञ्चन् न प्रपञ्चयति, वेदना संज्ञा संस्कारा, विज्ञानं नित्यम् अनित्यम् अप्रपञ्चन् न प्रपञ्चयति, सुखं दुःखम् इत्य्, आत्मानात्मेति, शान्तम् अशान्तम् इति, परिज्ञेयम् अपरिज्ञेयम् इत्य् अप्रपञ्चन् न प्रपञ्चयति. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् प्रतीत्यसमुत्पादाङ्गानि च नित्यम् अनित्यम् इति, सुखं दुःखम् (PSP_५:१५२) इति, आत्मानत्मेति, शान्तम् अशान्तम् इति, परिज्ञेयम् अपरिज्ञेयम् इति वाप्रपञ्चन् न प्रपञ्चयति. एवं सर्वपारमिताः सर्वशून्यता बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानित्मित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मान् सर्वान् अप्रपञ्चान् न प्रपञ्चयति, स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्त्वप्रत्येकबुद्धबोधिम् अतिक्रमिष्यामित्य् अप्रपञ्चन् न प्रपञ्चयति. सर्वाकारज्ञताम् अतिक्रमिष्यामित्य् अप्रपञ्चन् न प्रपञ्चयति. तत् कस्य हेतोः? न हि स्वभावः स्वभावं प्रपञ्चयति, अभावो वाभावं प्रपञ्चयति, न हि स्वभावो ऽभावं वा स्थापयित्वा अन्यत् किञ्चिद् उपलभते, यं वा प्रपञ्चयेत्, यत्र वा प्रपञ्चयेत्, येन वा प्रपञ्चयेत्. तस्मात् तर्हि सुभूते निष्प्रपञ्चं रूपं, वेदना संज्ञा संस्कारा, निष्प्रपञ्चं विज्ञानं, निष्प्रपञ्चाः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, प्रतीत्यसमुत्पादाङ्गानि च निष्प्रपञ्चानि, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखान्य् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षानवानुपूर्वविहारसमापत्तयो निष्प्रपञ्चाः, शून्यता निमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो निष्प्रपञ्चाः, अष्टादशावेणिका बुद्धधर्मा निष्प्रपञ्चाः, दशबोधिसत्त्वभूमयो निष्प्रपञ्चाः, अनुत्तरा सम्यक्संबोधिर् निष्प्रपञ्चा. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन निष्प्रपञ्चेन प्रज्ञापारमितायां चरितव्यम्.
SK
सुभूतिर् आह: कथं भगवन् रूपं निष्प्रपञ्चं यावद् विज्ञानं निःप्रपञ्चं पेयालं यावद् बोधिर् निष्प्रपञ्चा?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: नास्ति सुभूते रूपस्य स्वभावो, नास्ति वेदनाया नास्ति संज्ञाया नास्ति संस्काराणां नास्ति विज्ञानस्य स्वभावो, नास्ति स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां स्वभावो नास्ति पारमितानां स्वभावो नास्ति शून्यतामुखानां स्वभावः. एवं नास्ति बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां स्वभावो नास्ति सर्वाकारज्ञतायाः स्वभावो, यस्य स्वभावं नास्ति सो ऽप्रपञ्चो ऽनेन सुभूते कारणेन निष्प्रपञ्चं रूपं, वेदना संज्ञा संस्काराः, निष्प्रपञ्चं विज्ञानं, निष्प्रपञ्चाः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, (PSP_५:१५३) प्रतीत्यसमुत्पादाङ्गानि च निष्प्रपञ्चानि, सर्वाः पारमिताः सर्वशून्यता बोधिपक्ष्या धर्मा निष्प्रपञ्चाः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो विमोक्षसमाधिसमापत्तिधारणीमुखानि निष्प्रपञ्चानि, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मा निष्प्रपञ्चाः, दशबोधिसत्त्वभूमयो निष्प्रपञ्चाः, सर्वाकारज्ञता निष्प्रपञ्चा. एवं खलु सुभूते बोधि सत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वनियामम् अवक्रामति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न कस्यचिद् धर्मस्य स्वभाव उपलभते, तत् कतमेन मार्गेण बोधिसत्त्वो महासत्त्वो बोधिसत्त्वनियामम् अवक्रामति? किं श्रावकमार्गेण वा प्रत्येकबुद्धमार्गेण वा बुद्धमार्गेण वा?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते श्रावकमार्गेण वा बोधिसत्त्वो महासत्त्वो बोधिसत्त्वनियामम् अवक्रामति न प्रत्येकबुद्धमार्गेण वा न बुद्धमार्गेण वा. अपि तु खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गेषु शिक्षित्वा बोधिसत्त्वनियामम् अवक्रामति, तद्यथापि नाम सुभूते अर्हन् सर्वमार्गेषु शिक्षित्वा सम्यक्त्वनियामम् अवक्रामति, न च तावत् फलं प्राप्नोति, यावन् न फलमार्गम् उत्पादयति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् उत्पाद्य बोधिसत्त्वनियामम् अवक्रामति, न च तावत् सर्वाकारज्ञताम् अनुप्राप्नोति, यावन् न वज्रोपमः समाधिः प्रतिलब्धो भवति, ततः स एकलक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्नोति. इति विपर्यासे विप्रतिपत्तिः एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य बोधिसत्त्वनियामम् अवक्रामति, ननु भगवन्न् अन्यो ऽष्टमकस्य मार्गः, अन्यः स्रोतआपन्नस्यान्यः सकृदागामितायाः प्रतिपन्नकस्यान्यः सकृदागामिनो ऽन्यो ऽनागामितायाः प्रतिपन्नकस्यान्यो ऽनागामिनो ऽन्यो ऽर्हत्त्वप्रतिपन्नकस्यान्यो ऽर्हतो मार्गः, अन्यः प्रत्येकबुद्धस्यान्यस् तथागतस्यार्हतः सम्यक्संबुद्धस्य मार्गः? यदि भगवन्न् अन्य एव मार्गः, तत् कथं बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य बोधिसत्त्वनियामम् अवक्रामति? (PSP_५:१५४) यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाः परिपुरयितव्याः, मा खलु भगवन् बोधिसत्त्वो महासत्त्वो ऽष्टमकमार्गम् उत्पाद्याष्टमको भविष्यति, दर्शनमार्गम् उत्पाद्य स्रोतआपन्नो भविष्यति, भावनामार्गम् उत्पाद्य सकृदागामितायै प्रतिपन्नकः सकृदागामी भविष्यत्य्, अनागामितायै प्रतिपन्नको अनागामी भविष्यति, अर्हत्त्वप्रतिपन्नको ऽर्हन् भविष्यति, प्रत्येकबुद्धमार्गम् उत्पाद्य प्रत्येकबुद्धो भविष्यत्य्, अस्थानं भगवन्न् अनवकाशो यद् बोधिसत्त्वो महासत्त्वो ऽष्टमकमार्गम् उत्पाद्याष्टमकः, स्याद् अष्टमको भूत्वा बोधिसत्त्वनियामम् अवक्रामेद् इति, नेदं स्थानं विद्यते, बोधिसत्त्वनियामम् अवक्राम्य सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति, नेदं स्थानं विद्यते, एवं स्रोतआपत्तिफलं प्राप्य सकृदागामिफलं प्राप्यानागामिफलं प्राप्यार्हत्त्वं प्राप्य प्रत्येकां बोधिं प्राप्य बोधिसत्त्वनियामम् अवक्रामेद् इति, नेदं स्थानं विद्यते, बोधिसत्त्वनियामम् अवक्रम्य सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति, नेदं स्थानं विद्यते. तत् कथं भगवन् जानीयाम वयं बोधिसत्त्वो महासत्त्वः सर्वमार्गान् उत्पाद्य बोधिसत्त्वनियामम् अवक्रामतिति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, अस्थानं सुभूते अनवकाशो यद् बोधिसत्त्वो महासत्त्वो ऽष्टमको भूत्वा स्रोतआपत्तिफलं प्राप्य सकृदागामिफलं प्राप्यानागामिफलं प्राप्यार्हत्त्वं प्राप्य प्रत्येकां बोधिं प्राप्य बोधिसत्त्वनियामम् अवक्रामेद् इति, नेदं स्थानं विद्यते, बोधिसत्त्वनियामम् अवक्रम्य सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति, नेदं स्थानं विद्यते.
SK
सुभूतिर् आह: कथं भगवन्न् एतान् मार्गान् प्राप्य बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन्न् अष्टौ भूमीर् ज्ञानेन च दर्शनेन चातिक्रामति. कतमा अष्ट? यद् उत शुक्लविदर्शनाभूमिर् गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिर् वीतरागभूमिः कृतावीभूमिः प्रत्येकबुद्धभूमिर्, अयं भूमिनिर्देशः. स इमा अष्टौ भूमीर् ज्ञानेन दर्शनेन चातिक्रम्य मार्गज्ञतया बोधिसत्त्वनियामम् अवक्रामति, बोधिसत्त्वनियामम् अवक्रम्य (PSP_५:१५५) सर्वाकारज्ञताज्ञानेन सर्ववासनानुसंधिक्लेशान् प्रजहाति. तत् कस्य हेतोः? तथा हि सुभूते यद् अष्टमकस्य ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यं स्रोतआपन्नस्य ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यत् सकृदागामिनो ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यद् अनागामिनो ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यद् अर्हतो ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर्, यत् प्रत्येकबुद्धस्य ज्ञानञ् च प्रहाणञ् च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् सर्वश्रावकप्रत्येकबुद्धानां परिपूर्य मार्गज्ञतया बोधिसत्त्वनियामम् अवक्रामति, बोधिसत्त्वनियामम् अवक्रम्य सर्वाकारज्ञताज्ञानेन च सर्ववासनानुसंधिक्लेशान् प्रजहाति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वमार्गान् परिपूर्यानुत्तरा सम्यक्संबोधिर् अभिसंबोधव्या अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वानां फलोपभोगेन भवितव्यम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: य इमे भगवन् मार्गा आख्याताः श्रावकमार्गः प्रत्येकबुद्धमार्गो बुद्धमार्गः, एषां कतमो ऽयं भगवन् मार्गज्ञतामार्गः?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाकारज्ञताविशुद्धिर् उत्पादयितव्या, तत्रेयं सुभूते सर्वधर्मा मार्गाकारज्ञताविशुद्धिः. यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः सर्वमार्गाकारज्ञता विसुद्धिर् भवति, ते आकारास् तानि लिङ्गानि तानि निमित्तानि बोधिसत्त्वेन महासत्त्वेनाभिसंबोद्धव्यानि, अभिसंबुध्य परेषाम् आख्यातव्यानि निर्देशयितव्यानि प्रकाशयितव्यानि प्रज्ञेपयितव्यानि प्रस्थापयितव्यानि, विवरितव्यानि परेभ्यो विनयार्थाय यथा परे जानीयुर् इति. तत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वरुतसंकेतघोषाः समुदानयितव्या उच्चारयितव्याश् च, यै रुतसंकेतघोषैः त्रिसाहस्रे महासाहस्रे लोकधातौ विज्ञापयति यदिदं प्रतिश्रुत्कोपमा ज्ञानेन. तद् अनेन सुभूते पर्यायेण बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाकारज्ञता परिपूरयितव्या, सर्वमार्गाकारज्ञतां परिपूर्य सत्त्वानाम् आशयो ज्ञातव्यः, नैरयिकानां सत्त्वानां नैरयिको मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं ततश् च नैरयिकमार्गान् निवारयितव्याः, हेतुतो निवारयितव्याः, फलतो निवारयितव्याः, तिर्यग्योनिगतानां (PSP_५:१५६) सत्त्वानां तिर्यग्मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यो फलं ज्ञातव्यं ततश् च तिर्यग्मार्गान् निवारयितव्याः, हेतुतो निवारयितव्याः, फलतो निवारयितव्याः. एवं किंनराणां महोरगानां नागानां यक्षाणां राक्षसानां गन्धर्वाणाम् असुराणां गरुडानां गुह्यकानां चारणानां विद्याधराणां सिद्धानां साध्यानां मनुष्याणां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं, चातुर्महाराजकानां देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं, ब्रह्मपारिषद्यानां देवानां ब्रह्मपुरोहितानां महाब्रह्माणो मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यम्, आभास्वराणां परीत्ताभानाम् अप्रमाणाभानां परीत्तशुभानां अप्रमाणशुभानां शुभकृत्स्नानाम् अनुभ्रकानां पुण्यप्रसवानां बृहत्फलानाम् असंज्ञिसत्त्वानां शुद्धावासानाम् अस्पृहाणाम् अतपानां सुदृशानां सुदर्शनानां अकनिष्ठानां देवानां, आकाशानन्त्यायतनानां देवानां विज्ञानानन्त्यायतनानाम् आकिंचन्यायतनानां नैवसंज्ञानासंज्ञायतनानां देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यम्. चत्वारि स्मृत्युपस्थानानि भावयितव्यानि, चत्वारि सम्यक्प्रहाणानि ज्ञातव्यानि, चत्वार ऋद्धिपादाः ज्ञातव्याः, पञ्चेन्द्रियाणि ज्ञातव्यानि, पञ्चबलानि ज्ञातव्यानि, सप्तबोध्यङ्गानि ज्ञातव्यानि, आर्याष्टाङ्गमार्गो ज्ञातव्यः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि ज्ञातव्यानि, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ज्ञातव्याः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तयो ज्ञातव्याः, सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि ज्ञातव्यानि, पञ्चाभिज्ञा ज्ञातव्याः, दशबोधिसत्त्वभूमयो ज्ञातव्याः, दशतथागतबलानि ज्ञातव्यानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा ज्ञातव्याः, महामैत्री महाकरुणा ज्ञातव्या. यैश् च मार्गैर् ये सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापयितव्याः तान् स्रोतआपत्तिफले प्रतिष्ठापयति, ये सकृदागामिफले प्रतिष्ठापयितव्याः तान् सकृदागामिफले प्रतिष्ठापयति, ये अनागामिफले प्रतिष्ठापयितव्याः तान् अनागामिफले प्रतिष्ठापयति, ये ऽर्हत्त्वे प्रतिष्ठापयितव्यास् तान् अर्हत्त्वे प्रतिष्ठापयति, ये प्रत्येकायां बोधौ प्रतिष्ठापयितव्या तान् प्रत्येकायां बोधौ प्रतिष्ठापयति, ये ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्यास् तान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, इयं सुभूते सर्वमार्गाकारज्ञता (PSP_५:१५७) बोधिसत्त्वस्य महासत्त्वस्य यत्र बोधिसत्त्वो महासत्त्वः शिक्षित्वा सत्त्वानाम् आशयम् अवतरति, सत्त्वानाम् आशयम् अवतीर्य तथा धर्मं देशयति यथास्य सा धर्मदेशनामोघाक्षणा भवति. तत् कस्य हेतोः? तथा ह्य् अस्य पुरुषेन्द्रिये परापरज्ञानं सुविभक्तं सुविज्ञातं च भवति, सत्त्वानां गतिं च्युतिम् उपपत्तिं च प्रजानाति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्, अत्र हि प्रज्ञापारमितायां चरितव्यं सर्वधर्मा अन्तर्गता, ये केचिद् बोधिपक्ष्या धर्मा, यत्र बोधिसत्त्वैर् महासत्त्वैश् चरितव्यं श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा चरितव्यम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् ये बोधिपक्ष्या धर्मा यावद् या बोधिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ताः, अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः, तत् कथं भगवन् बोधिपक्ष्या धर्मा बोधेर् आहारिका भवन्ति? एवं भगवन् न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा धर्मा न कस्यचिद् धर्मस्याहारिका वापहारिका वा, तद्यथापि नाम भगवन्न् आकाशन् न कस्यचिद् धर्मस्याहारकं वापहारकं वा. एवम् एव भगवन् स्वलक्षणशून्या धर्मा न कस्यचिद् धर्मस्याहारका वापहारका वा.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न सुभूते स्वलक्षणशून्या धर्माः कस्यचिद् धर्मस्याहारका वापहारका वा, ये वा सुभूते सत्त्वाः स्वलक्षणशून्यान् धर्मान् न जानन्ति, तेषाम् अर्थायैवं निर्दिश्यते, इमे बोधिपक्ष्या धर्मा बोधेर् आहारका भवन्ति. इति मार्गे विप्रतिपत्तिः
SK
अपि तु खलु सुभूते यञ् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं ये च स्कन्धा ये च धातवो यानि चायतनानि यश् च प्रतीत्यसमुत्पादो यानि च प्रतीत्यसमुत्पादाङ्गानि या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभाव शून्यता यच् च प्रथमं ध्यानं यच् च द्वितीयं ध्यानं यच् च तृतीयं ध्यानं यच् च चतुर्थं ध्यानं, यच् चाकाशानन्त्यायतनं यच् च विज्ञानानन्त्यायतनं यच् चाकिंचन्यायतनं यच् च नैवसंज्ञाना संज्ञायतनं या च महामैत्री या च महाकरुणा या च महामुदिता या च (PSP_५:१५८) महोपेक्षा ये च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा या च शून्यता यच् चानिमित्तं यच् चाप्रणिहितं ये चाष्टविमोक्षा याश् च नवानुपूर्वविहारसमापत्तयो यानि चार्यसात्यानि याश् चाभिज्ञा ये च समाधयो यानि च धारणीमुखानि याश् च दशबोधिसत्त्वभूमयो यानि च दशतथागतबलानि यानि च चत्वारि वैशारद्यानि याश् च चतस्रः प्रतिसंविदो ये चाष्टादशावेणिका बुद्धधर्मा या च महाकरुणा या च यावत् सर्वाकारज्ञता, आर्ये ऽस्मिन् धर्मविनये सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. ते च खलु पुनः सुभूते तथागतेन सत्त्वानाम् अवतारणार्थाय लोकव्यवहारेण व्यवकृतास् ते धर्मा प्रज्ञापयितव्याः, न पुनः परमार्थेन. तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वत्र शिक्षितव्यं ज्ञानेन च दर्शनेन च शिक्षित्वा केचिद् धर्माः प्रतिबोधव्याः केचिन् न प्रतिबोधव्याः
SK
सुभूतिर् आह: कतमे धर्मा बोधिसत्त्वेन महासत्त्वेन ज्ञानेन च दर्शनेन च शिक्षित्वा न प्रतिबोधव्याः? कतमे धर्माः प्रतिबोधव्याः?
SK
भगवान् आह: श्रावकभूमिः प्रत्येकबुद्धभूमिश् च शिक्षित्वा ज्ञानेन च दर्शनेन च न प्रतिबोधव्या, सर्वाकारज्ञता ज्ञानेन च दर्शनेन च प्रतिबोधव्या, सर्वाकारज्ञताज्ञानेन सर्वाकारैः सर्वधर्माश् च प्रतिबोधव्याः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन आर्ये ऽस्मिन् धर्मविनये प्रज्ञापारमितायां शिक्षितव्यम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आर्यो धर्मविनयो ऽनार्यो धर्मविनय इति भगवन्न् उच्यते, कतमो भगवन्न् आर्यो धर्मविनयः? कतमो भगवन्न् अनार्यो धर्मविनयः? कियता भगवन्न् आर्यो धर्मविनयः? कियता भगवन्न् अनार्यो धर्मविनय इत्य् उच्यते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते श्रावकाः प्रत्येकबुद्धा बोधिसत्त्वाश् च महासत्त्वाश् च तथागता अर्हन्तः सम्यक्संबुद्धा रागेन न संयुक्ता न विसंयुक्ता, दोषेण न संयुक्ता न विसंयुक्ता, मोहेन न संयुक्ता न विसंयुक्ता, सत्कायदृष्ट्या न संयुक्ता न विसंयुक्ता, विचिकित्सया न संयुक्ता न विसंयुक्ताः, शीलव्रतपरामर्शेन न संयुक्ता न विसंयुक्ताः, कामरागव्यापादैर् न संयुक्ता न विसंयुक्ता, रूपरागारूप्यरागैर् न संयुक्ता न विसंयुक्ता, अविद्यया न संयुक्ता न विसंयुक्ता, मानेन न संयुक्ता न विसंयुक्ता, (PSP_५:१५९) औद्धत्येन न संयुक्ता न विसंयुक्ताः, प्रथमेन ध्यानेन न संयुक्ता न विसंयुक्ता, द्वितीयेन ध्यानेन तृतीयेन ध्यानेन, चतुर्थेन ध्यानेन न संयुक्ता न विसंयुक्ता, मैत्र्या करुणया मुदितयोपेक्षया न संयुक्ता न विसंयुक्ताः, आकाशानन्त्यायतनेन विज्ञानानन्त्यायतनेनाकिंचन्यायतनेन नैवसंज्ञानासंज्ञायतनेन न संयुक्ता न विसंयुक्ताः, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेण न संयुक्ता न विसंयुक्ता, आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैर् न संयुक्ता न विसंयुक्ताः, अष्टविमोक्षैर् नवानुपूर्वविहारसमापत्तिभिः पञ्चभिर् अभिज्ञाभिर् न संयुक्ता न विसंयुक्ताः, समाधिभिधारणीमुखैर् न संयुक्ता न विसंयुक्ताः, दानपारमितया न संयुक्ता न विसंयुक्ताः, शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया, प्रज्ञापारमितया न संयुक्ता न विसंयुक्ताः, अध्यात्मशून्यतया न संयुक्ता न विसंयुक्ता, बहिर्धाशून्यतया न संयुक्ता न विसंयुक्ता, अध्यात्मबहिर्धाशून्यतया न संयुक्ता न विसंयुक्ता, यावद् अभावस्वभावशून्यतया न संयुक्ता न विसंयुक्ताः, दशभिस् तथागतबलैर् न संयुक्ता न विसंयुक्ताः, चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशाभिर् आवेणिकैर् बुद्धधर्मैर् न संयुक्ता न विसंयुक्ताः, संस्कृतधाताव् असंस्कृतधातौ न संयुक्ता न विसंयुक्ताः. तत् कस्य हेतोः? तथा हि सर्वधर्मा अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः, ते अरूपिणो ऽरूपिभिः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अनिदर्शना निदर्शनैः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अप्रतिघा अप्रतिघैः सार्धं न संयुक्ता वा न विसंयुक्ता वा, अलक्षणा अलक्षणैः सार्धं न संयुक्ता वा न विसंयुक्ता वा. इति विपक्षप्रतिपक्षयोर् विप्रतिपत्तिः
SK
इमा सुभूते ऽरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा पारमिता बोधिसत्त्वानां महासत्त्वानां यत्र बोधिसत्त्वैर् महासत्त्वैः शिक्षितव्यं, यत्र शिक्षित्वा न कस्यचिद् धर्मस्य लक्षणम् उपलभ्यते.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न पुनर् भगवन् रूपलक्षणे शिक्षितव्यं न वेदनालक्षणे न संज्ञालक्षणे न संस्कारलक्षणे न विज्ञानलक्षणे शिक्षितव्यं, न चक्षुःश्रोत्रघ्राणजिह्वाकायमनोलक्षणे शिक्षितव्यं, न रूपशब्दगन्धरसस्प्रष्टव्यधर्मलक्षणे शिक्षितव्यं, न पृथिवीधातुलक्षणे शिक्षितव्यं, नाब्धातुलक्षणे न तेजोधातुलक्षणे न वायुधातुलक्षणे नाकाशधातुलक्षणे (PSP_५:१६०) न विज्ञानधातुलक्षणे शिक्षितव्यं, न दानपरमितालक्षणे शिक्षितव्यं, न शीलपारमितालक्षणे न क्षान्तिपारमितालक्षणे न वीर्यपारमितालक्षणे न ध्यानपारमितालक्षणे न प्रज्ञापारमितालक्षणे शिक्षितव्यं, नाध्यात्मशून्यतालक्षणे न बहिर्धाशून्यतालक्षणे नाध्यात्मबहिर्धाशून्यतालक्षणे न यावद् अभावस्वभावशून्यतालक्षणे शिक्षितव्यं, न प्रथमध्यानलक्षणे शिक्षितव्यं, न द्वितीयध्यानलक्षणे न तृतीयध्यानलक्षणे न चतुर्थध्यानलक्षणे शिक्षितव्यं, न महामैत्रीलक्षणे न महाकरुणालक्षणे न मुदितालक्षणे नोपेक्षालक्षणे शिक्षितव्यं, नाकाशानन्त्यायतनलक्षणे न विज्ञानानन्त्यायतनलक्षणे नाकिंचन्यायतनलक्षणे नैवसंज्ञानासंज्ञायतनलक्षणे शिक्षितव्यं, न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गलक्षणे शिक्षितयं, न शून्यतानिमित्ताप्रणिहितलक्षणे शिक्षितव्यं, नार्यसत्यलक्षणे शिक्षितव्यं, नाष्टविमोक्षलक्षणे शिक्षितव्यं, न नवानुपूर्वविहारसमापत्तिलक्षणे शिक्षितव्यं, नाभिज्ञालक्षणे शिक्षितव्यं, न समाधिलक्षणे शिक्षितव्यं, न धारणीमुखलक्षणे शिक्षितव्यं, न दशतथागतबललक्षणे शिक्षितव्यं, न चतुर्वैशारद्यलक्षणे शिक्षितव्यं, न चतुःप्रतिसंविल्लक्षणे शिक्षितव्यं, न यावद् अष्टादशावेणिकबुद्धधर्मलक्षणे शिक्षितव्यं, न दुःखार्यसत्यलक्षणे शिक्षितव्यं, न समुदयार्यसत्यलक्षणे शिक्षितव्यं, न निरोधार्यसत्यलक्षणे शिक्षितव्यं, न मार्गार्यसत्यलक्षणे शिक्षितव्यं, नार्ये ऽस्मिन् धर्मविनये लक्षणे शिक्षितव्यं, नानुलोमप्रतिलोमप्रतीत्यसमुत्पादलक्षणे शिक्षितव्यं, न संस्कृतधातुलक्षणे शिक्षितव्यं, नासंस्कृतधातुलक्षणे शिक्षितव्यम्.
SK
सुभूतिर् आह: यदि भगवन्न् एतेषां धर्माणां लक्षणे न शिक्षितव्यं, कथं भगवन् न शिक्षित्वा बोधिसत्त्वो महासत्त्वो धर्माणां धर्मलक्षणे श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमिष्यति? श्रावकप्रत्येकबुद्द्धभूमिम् अनतिक्रम्य कथं बोधिसत्त्वनियामम् अवक्रमिष्यति? बोधिसत्त्वनियामम् अनवक्रम्य कथं सर्वाकारज्ञताम् अनुप्राप्स्यति? सर्वाकारज्ञताम् अननुप्राप्य कथं धर्मचक्रं प्रवर्तयिष्यति? धर्मचक्रम् अप्रवर्त्य कथं सत्त्वान् संसारात् परिमोचयिष्यति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा? (PSP_५:१६१)
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते कस्यचिद् धर्मस्य लक्षणं स्यात्, तदा बोधिसत्त्वेन महासत्त्वेन लक्षणे शिक्षितव्यं स्याद्, यस्मात् तर्हि सर्वधर्मा अलक्षणा अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणास् तस्मात् तद् बोधिसत्त्वेन महासत्त्वेन नापि लक्षणे शिक्षितव्यम्. तत् कस्य हेतोः? यदि पूर्वं लक्षणम् अभविष्यत् पश्चाद् अलक्षणं न भवेद्, यस्मात् तर्हि सुभूते पूर्वम् एव ते सर्वधर्मा अलक्षणास् तस्मात् तर्ह्य् अप्य् अलक्षणास्, तस्माद् बोधिसत्त्वेन महासत्त्वेन नापि लक्षणे शिक्षितव्यं, नाप्य् अलक्षणे शिक्षितव्यम्. तत् कस्य हेतोः? उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थित एवैष लक्षणधातुः. इति लक्षणे विप्रतिपत्तिः
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अलक्षणाः सर्वधर्मा न विलक्षणाः, एकलक्षणा यद् उतालक्षणास्, तत् कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना भवति? न हि भगवन्न् अविभाव्य प्रज्ञापारमितां बोधिसत्त्वेन महासत्त्वेन शक्या श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा अतिक्रमितुम्, अनतिक्रम्य श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा न शक्यो बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वनियामम् अवक्रमितुं, बोधिसत्त्वनियामम् अनवक्रम्य न शक्यानुत्पत्तिकैर् धर्मैः क्षान्तिर् उत्पादयितुम्, अनुत्पत्तिकैर् धर्मैः क्षान्तिम् अनुत्पाद्य न शक्या बोधिसत्त्वाभिज्ञा उत्पादयितुं, बोधिसत्त्वाभिज्ञानुत्पाद्य न शक्यं बुद्धक्षेत्रं परिशोधयितुं, बुद्धक्षेत्रम् अपरिशोध्य न शक्याः सत्त्वान् परिपाचायितुं, सत्त्वान् अपरिपाच्य न शक्या सर्वाकारज्ञताम् अनुप्राप्तुं, सर्वाकारज्ञताम् अननुप्राप्य न शक्यं धर्मचक्रं प्रवर्तयितुं, धर्मचक्रम् अप्रवर्त्य न शक्याः सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापयितुं, न सकृदागामिफले नानागामिफले नार्हत्त्वे प्रतिष्ठापयितुं, न प्रत्येकबोधौ प्रतिष्ठापयितुं, नानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितुं, नापि शक्याः सत्त्वा दानमये पुण्यक्रियावस्तूनि प्रतिष्ठापयितुं, न शीलमये पुण्यक्रियावस्तूनि प्रतिष्ठापयितुं, न भावनामये पुण्यक्रियावस्तूनि प्रतिष्ठापयितुम्. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, अलक्षणाः सुभूते सर्वधर्मा न विलक्षणाः. (PSP_५:१६२)
SK
सुभूतिर् आह: कथम् अलक्षणस्य धर्मस्य प्रज्ञापारमिताभवना भवति?
SK
भगवान् आह: न सुभूते प्रज्ञापारमिताभावना बोधिसत्त्वस्य महासात्त्वस्यैकलक्षणा अनेकलक्षणा, अलक्षणा भावना बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना भवति.
SK
सुभूतिर् आह: कथं भगवन्न् अलक्षणा भावना प्रज्ञापारमिताभावना भवति?
SK
भगवान् आह: सर्वधर्मभावनाविभावना प्रज्ञापारमिताभावना भवति.
SK
सुभूतिर् आह: कथं भगवन् सर्वधर्मभावनाविभावना प्रज्ञापारमिताभावना भवति?
SK
भगवान् आह: रूपभावनाविभावना प्रज्ञापारमिताभावना, वेदना संज्ञा संस्कारा, विज्ञानभावनाविभावना प्रज्ञापारमिताभावना, चक्षुर्भावनाविभावना प्रज्ञापारमिताभावना, एवं श्रोत्रघ्राणजिह्वाकायमनोभावनाविभावना प्रज्ञापारमिताभावना, रूपभावनाविभावना प्रज्ञापारमिताभावना, एवं शब्दगन्धरसस्प्रष्टव्यधर्मभावनाविभावना प्रज्ञापारमिताभावना, चक्षुर्विज्ञानभावनाविभावना प्रज्ञापारमिताभावना, चक्षुःसंस्पर्शभावनाविभावना प्रज्ञापारमिताभावना, चक्षुःसंस्पर्शप्रत्ययवेदनाभावनाविभावना प्रज्ञापारमिताभावना, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानभावनाविभावना प्रज्ञापारमिताभावना, मनःसंस्पर्शभावनाविभावना प्रज्ञापारमिताभावना, मनःसंस्पर्शप्रत्ययवेदनाभावनाविभावना प्रज्ञापारमिताभावना, पृथिवीधातुभावनाविभावना प्रज्ञापारमिताभावना, अब्धातुभावनाविभावना प्रज्ञापारमिताभावना तेजोधातुभावनाविभावना प्रज्ञापारमिताभावना, वायुधातुभावनाविभावना प्रज्ञापारमिताभावना, आकाशधातुभावनाविभावना प्रज्ञापारमिताभावना, विज्ञानधातुभावनाविभावना प्रज्ञापारमिताभावना, प्रतीत्यसमुत्पादभावनाविभावना प्रज्ञापारमिताभावना, अविद्याभावनाविभावना प्रज्ञापारमिताभावना, संस्कारभावनाविभावना, विज्ञानभावनाविभावना, नामरूपभावनाविभावना, षडायतनभावना विभावना, स्पर्शभावना विभावना, वेदनाभावना विभावना, तृष्णाभावनाविभावना, उपादानभावनाविभावना, भवभावनाविभावना, जातिभावनाविभावना, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासभावनाविभावना प्रज्ञापारमिताभावना, आयूहनिर्यूहभावनाविभावना प्रज्ञापारमिताभावना, प्रथमध्यानभवनाविभावना (PSP_५:१६३) प्रज्ञापारमिताभावना, द्वितीयध्यानभावनाविभावना तृतीयध्यानभावनाविभावना चतुर्थध्यानभावनाविभावना प्रज्ञापारमिताभावना, मैत्रीभावनाविभावना प्रज्ञापारमिताभावना, करुणाभावनाविभावना प्रज्ञापारमिताभावना, मुदिताभावनाविभावना प्रज्ञापारमिताभावना, उपेक्षाभावनाविभावना प्रज्ञापारमिताभावना, आकाशानन्त्यायतनभावनाविभावना प्रज्ञापारमिताभावना, विज्ञानानन्त्यायतनभावनाविभावना प्रज्ञापारमिताभावना, आकिंचन्यायतनभावनाविभावना प्रज्ञापारमिताभावना, नैवसंज्ञानासंज्ञायतनभावनाविभावना प्रज्ञापारमिताभावना, बुद्धानुस्मृतिभावनाविभावना प्रज्ञापारमिताभावना, धर्मानुस्मृतिभावनाविभावना, संघानुस्मृतिभावनाविभावना, शीलानुस्मृतिभावनाविभावना, त्यागानुस्मृतिभावनाविभावना, देवानुस्मृतिभावनाविभावना प्रज्ञापारमिताभावना, उपायानुस्मृतिभावनाविभावना, अनुपायानुस्मृतिभावनाविभावना प्रज्ञापारमिताभावना, अनित्यसंज्ञाभावनाविभावना दुष्खसंज्ञाभावनाविभावना, अनात्मसंज्ञाभावनाविभावना, आत्मसंज्ञाभावनाविभावना, सत्त्वसंज्ञाभावनाविभावना, जीवसंज्ञाभावनाविभावना, जन्तुसंज्ञाभावनाविभावना, पोषसंज्ञाभावनाविभावना, पुरुषसंज्ञाभावनाविभावना, पुद्गलसंज्ञाभावनाविभावना, मनुजसंज्ञाभावनाविभावना, मानवसंज्ञाभावनाविभावना, कारकसंज्ञाभावनाविभावना, वेदकसंज्ञाभावनाविभावना, जानकसंज्ञाभावनाविभावना, पश्यकसंज्ञाभावनाविभावना प्रज्ञापारमिताभावना, नित्यानित्यसंज्ञाभावनाविभावना प्रज्ञापारमिताभावना, शुभाशुभसंज्ञाभावनाविभावना, दुःखादुःखसंज्ञाभावनाविभावना शान्ताशान्तसंज्ञाभावनाविभावना प्रज्ञापारमिताभावना, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गभावनाविभावना प्रज्ञापारमिताभावना, शून्यतानिमित्ताप्रणिहितभावनाविभावना प्रज्ञापारमिताभावना, अष्टविमोक्षनवानुपूर्वविहारसमापत्तिभावनाविभावना प्रज्ञापारमिताभावना, सवितर्कसविचारसमाध्यवितर्काविचारसमाधिभावनाविभावना प्रज्ञापारमिताभावना, दुष्खार्यसत्यभावनाविभावना प्रज्ञापारमिताभावना, समुदयार्यसत्यभावनाविभावना, निरोधार्यसत्यभावनाविभावना, मार्गार्यसत्यभावनाविभावना प्रज्ञापारमिताभावना, दुष्खार्यसत्यज्ञानभावनाविभावना प्रज्ञापारमिताभावना, समुदयार्यसत्यज्ञानभावनाविभावना, निरोधार्यसत्यज्ञानभावनाविभावना, मार्गार्यसत्यज्ञानभावनाविभावना, क्षयज्ञानभावनाविभावना, अनुत्पादज्ञानभावनाविभावना, (PSP_५:१६४) धर्मज्ञानभावनाविभावना, अन्वयज्ञानभावनाविभवना, आत्मज्ञानभावनाविभावना, संवृतिज्ञानभावनाविभावना, परिजयज्ञानभावनाविभावना, यथारुतज्ञानभावनाविभावना प्रज्ञापारमिताभावना, दानपारमिताभावनाविभावना प्रज्ञापारमिताभावना, शीलपारमिताभावनाविभावना प्रज्ञापारमिताभावना, क्षान्तिपारमिताभावनाविभावना प्रज्ञापारमिताभावना, वीर्यपारमिताभावनाविभावना प्रज्ञापारमिताभावना, ध्यानपारमिताभावनाविभावना प्रज्ञापारमिताभावना, प्रज्ञापारमिताभावनाविभावना प्रज्ञापारमिताभावना, अध्यात्मशून्यताभावनाविभावना प्रज्ञापारमिताभावना, बहिर्धाशून्यताभावनाविभावना प्रज्ञापारमिताभावना, अध्यात्मबहिर्धाशून्यताभावनाविभावना प्रज्ञापारमिताभावना, यावद् अभावस्वभावशून्यताभावनाविभावना प्रज्ञापारमिताभावना, अभिज्ञाभावनाविभावना प्रज्ञापारमिताभावना, दशतथागतबलभावनाविभावना प्रज्ञापारमिताभावना, चतुर्णां वैशारद्यानां भावनाविभावना, चतसृणां प्रतिसंविदां भावनाविभावना, अष्टादशावेणिकबुद्धधर्माणां भावनाविभावना प्रज्ञापारमिताभावना, समाधिधारणीमुखानां भावनाविभावना प्रज्ञापारमिताभावना, महाकरुणाभावनाविभावना प्रज्ञापारमिताभावना, स्रोतआपत्तिफलभावनाविभावना प्रज्ञापारमिताभावना, सकृदागामिफलभावनाविभावना प्रज्ञापारमिताभावना, अनागामिफलभावनाविभावना प्रज्ञापारमिताभावना, अर्हत्त्वफलभावनाविभावना प्रज्ञापारमिताभावना, प्रत्येकबोधिभावनाविभावना प्रज्ञापारमिताभावना, सर्वाकारज्ञताभावनाविभावना प्रज्ञापारमिताभावना, सर्ववासनानुसंधिक्लेशप्रहाणभावनाविभावना प्रज्ञापारमिताभावना.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् रूपभावनाविभावना प्रज्ञापारमिताभावना? वेदना संज्ञा संस्काराः, कथं विज्ञानभावनाविभावना प्रज्ञापारमिताभावना? एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा महाकरुणा सर्वाकारज्ञता, आत्मसत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकः नित्यानित्यसुखदुष्खशान्ताशान्तशुभाशुभः, स्रोतआपत्तिफलं (PSP_५:१६५) सकृदागामिफलम् अनागामिफलम् अर्हत्त्वफलं प्रत्येकबोधिर् यावत् कथं भगवन् सर्ववासनानुसंधिक्लेशप्रहाणभावनाविभावना प्रज्ञापारमिताभावना?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं भाव इति न भावयति, वेदना संज्ञा संस्कारा, विज्ञानं भाव इति न भावयति. तत् कस्य हेतोः? नास्ति सुभूते भावसंज्ञिनः प्रज्ञापारमिताभावना, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यता बोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माः सर्वाकारज्ञता भाव इति न भावयति, रागदोषमोहा भाव इति न भावयति, अनुशयपर्युत्थानानि भाव इति न भावयति. तत् कस्य हेतोः? नास्ति सुभूते भावसंज्ञिनः प्रज्ञापारमिताभावना, नास्ति सुभूते भावसंज्ञिनो दानपारमिताभावना, शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमिताभावना. तत् कस्य हेतोः? तथा हि सुभूते भावे एषो ऽहम् इति संज्ञा, दाने शीले क्षान्तौ वीर्ये ध्याने, प्रज्ञायाम् एषो ऽहम् इति संज्ञा, यो द्वाभ्याम् अन्ताभ्यां सक्तस् तस्य नास्ति विमोक्षो, नास्ति सुभूते भावसंज्ञिनः स्मृत्युपस्थानभावना न सम्यक्प्रहाणभावना नर्द्धिपादभावना नेन्द्रियभावना न बलभावना न बोध्यङ्गभावना नार्याष्टाङ्गमार्गभावना न दुःखार्यसत्यभावना न समुदयार्यसत्यभावना न निरोधार्यसत्यभावना न मार्गार्यसत्यभावना न शून्यताभावना नानिमित्तभावना नाप्रणिहितभावना नाप्रमाणध्यानारूप्यसमापत्तिभावना नाष्टविमोक्षभावना न नवानुपूर्वविहारसमापत्तिभावना न सर्वशून्यताभावना न समाधिधारणीमुखभावना नाभिज्ञाभावना न दशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मभावना न महाकरुणाभावना न सर्वाकारज्ञताभावना. तत् कस्य हेतोः? तथा हि स भावे सक्तः.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: तत् किम् इति भगवन् भावः? किम् इत्य् अभावः?
SK
भगवान् आह: द्वयं सुभूते भावः, अद्वयम् अभावः.
SK
सुभूतिर् आह: किम् इति भगवन् द्वयं? किम् इत्य् अद्वयम्?
SK
भगवान् आह: रूपसंज्ञिनः सुभूते द्वयं, वेदनासंज्ञासंस्कारविज्ञानसंज्ञिनो द्वयं, चक्षुःसंज्ञिनः, एवं श्रोत्रघ्राणजिह्वाकायमनःसंज्ञिनः, रूपसंज्ञिनः, एवं शब्दगन्धरसस्प्रष्टव्यधर्मसंज्ञिनः, (PSP_५:१६६) चक्षुर्विज्ञानसंज्ञिनश् चक्षुःसंस्पर्शसंज्ञिनश् चक्षुःसंस्पर्शप्रत्ययवेदनासंज्ञिनः, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानसंज्ञिनो मनःसंस्पर्शसंज्ञिनो मनःसंस्पर्शप्रत्ययवेदनासंज्ञिनः, पृथिवीधातुसंज्ञिनः, एवम् अब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधातुसंज्ञिनः प्रतीत्यसमुत्पादसंज्ञिनः अविद्यासंज्ञिनः, एवं संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायाससंज्ञिनः, पारमितासंज्ञिनः, सर्वशून्यतासंज्ञिनः, बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखसंज्ञिनः, शून्यतानिमित्ताप्रणिहितसंज्ञिनः, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसंज्ञिनः, स्रोतआपन्नसंज्ञिनः, सकृदागाम्यनागाम्यर्हत्संज्ञिनः, प्रत्येकबुद्धसंज्ञिनो बोधिसत्त्वसंज्ञिनो ऽनुत्तरसम्यक्संबुद्धसंज्ञिनः, संस्कृतधातुसंज्ञिनो ऽसंस्कृतधातुसंज्ञिनो, यावत् सुभूते सर्वसंज्ञिनो द्वयं, यावद् असर्वसंज्ञिनो ऽद्वयं, यावद् द्वयं तावद् भावो, यावद् भावं तावत् संस्कारा, यावत् संस्कारास् तावत् सत्त्वा न परिमुच्यन्ते जात्या जरया व्याधिना मरणेन शोकपरिदेवदुःखदौर्मनस्योपायासैः. तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, नास्ति द्वयसंज्ञिनो दानं, नास्ति शीलं नास्ति क्षान्तिर् नास्ति वीर्यं नास्ति ध्यानं नास्ति प्रज्ञा नास्ति मार्गो नास्ति ज्ञानं नास्त्य् अभिसमयो नास्त्य् अन्तशो ऽनुलोमिकी क्षान्तिः. कुतः पुना रूपस्य परिज्ञा, वेदनायाः संज्ञायाः संस्काराणां, कुतो विज्ञानस्य परिज्ञा, कुतः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां परिज्ञा, कुतः पारमितानां परिज्ञा, कुतः शून्यतामुखानां परिज्ञा, कुतः सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां परिज्ञा, कुतः आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां परिज्ञा, कुतः शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां परिज्ञा, कुतः सर्वाकारज्ञतायाः परिज्ञा यस्य नास्ति मार्गभावना, कुतस् तस्य स्रोतआपत्तिफलं, कुतस् तस्य सकृदागामिफलं, कुतस् तस्यानागामिफलं, कुतस् तस्यार्हत्वफलं, कुतस् तस्य प्रत्येकबुद्धत्वं, कुतस् तस्य सर्ववासनानुसंधिक्लेशप्रहाणम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् भावसंज्ञिन आनुलोमिकी क्षान्तिर् नास्ति कुतः पुनः प्राप्तिः कुतो ऽभिसमयः? किं पुनर् भगवन्न् अभावसंज्ञिन आनुलोमिकी क्षान्तिः? (PSP_५:१६७) शुक्लविदर्शनाभूमिर् वा गोत्रभूमिर् वा अष्टमकभूमिर् वा दर्शनभूमिर् वा तनूभूमिर् वा वीतरागभूमिर् वा कृतावीभूमिर् वा प्रत्येकबुद्धभूमिर् वा बोधिसत्त्वभूमिर् वा, या च मार्गभावनाम् आगम्य क्लेशान् प्रजहीत श्रावकभूमिप्रतिसंयुक्तान् वा प्रत्येकबुद्धभूमिप्रतिसंयुक्तान् वा, यैः क्लेशैर् आवृतो बोधिसत्त्वनियामम् अवक्रामेत्, बोधिसत्त्वनियामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयात्, सर्वाकारज्ञताम् अनुप्राप्नुवन् सर्ववासनानुसंधिक्लेशान् प्रजहीत. पुनर् भगवन् नाभावसंज्ञिनः कस्यचिद् धर्मस्य स्थानं वा निरोधो वा उत्पादो वा भवति, न चानुत्पाद्यैनान् धर्मान् सर्वाकारज्ञतानुप्राप्तुम्.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतन्, नाभावसंज्ञिन आनुलोमिकी क्षान्तिर्, न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृतावीभूमिर् न प्रत्येकबुद्धभूमिर् न बोधिसत्त्वभूमिर्, न सा मार्गभावनायां मार्गभावनाम् आगम्य क्लेशान् प्रजहीत श्रावकभूमिप्रतिसंयुक्तान् वा प्रत्येकबुद्धभूमिप्रतिसंयुक्तान् वा, यैः क्लेशैर् आवृतो बोधिसत्त्वनियामम् अवक्रामेत्, बोधिसत्त्वनियामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयात्, सर्वाकारज्ञताम् अनुप्राप्नुवन् सर्ववासनानुसंधिक्लेशान् प्रजहीत.
SK
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो भावसंज्ञा वा भावत्य् अभवसंज्ञा वा, रूपसंज्ञा वा वेदनासंज्ञा वा संज्ञासंज्ञा वा संस्कारसंज्ञा वा विज्ञानसंज्ञा वा, स्कन्धधात्वायतनप्रतीत्यसमुत्पादसंज्ञा वा प्रतीत्यसमुत्पादाङ्गसंज्ञा वा पारमितासंज्ञा वा सर्वशून्यतासंज्ञा वा बोधिपक्ष्यधर्मार्यसत्यसंज्ञा वा प्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिसंज्ञा वा धारणीमुखसंज्ञा वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्मसंज्ञा वा, रागसंज्ञा वा रागप्रहाणसंज्ञा वा दोषसंज्ञा वा दोषप्रहाणसंज्ञा वा मोहसंज्ञा वा मोहप्रहाणसंज्ञा वा, अविद्यासंज्ञा वाविद्याप्रहाणसंज्ञा वा संस्कारसंज्ञा वा संस्कारप्रहाणसंज्ञा वा विज्ञानसंज्ञा वा विज्ञानप्रहाणसंज्ञा वा नामरूपसंज्ञा वा नामरूपप्रहाणसंज्ञा वा षडायतनसंज्ञा वा षडायतनप्रहाणसंज्ञा वा स्पर्शसंज्ञा वा स्पर्शप्रहाणसंज्ञा वा वेदनासंज्ञा वा वेदनाप्रहाणसंज्ञा वा (PSP_५:१६८) तृष्णासंज्ञा वा तृष्णाप्रहाणसंज्ञा वोपादानसंज्ञा वोपादानप्रहाणसंज्ञा वा भवसंज्ञा वा भवप्रहाणसंज्ञा वा जातिसंज्ञा वा जातिप्रहाणसंज्ञा वा जरामरणसंज्ञा वा जरामरणप्रहाणसंज्ञा वा, शोकपरिदेवसंज्ञा वा शोकपरिदेवप्रहाणसंज्ञा वा दुष्खसंज्ञा वा दुष्खप्रहाणसंज्ञा वा दौर्मनस्योपायाससंज्ञा वा दौर्मनस्योपायासप्रहाणसंज्ञा वा, दुःखसंज्ञा वा दुःखप्रहाणसंज्ञा वा समुदयसंज्ञा वा समुदयप्रहाणसंज्ञा वा निरोधसंज्ञा वा निरोधप्रहाणसंज्ञा वा मार्गसंज्ञा वा मार्गप्रहाणसंज्ञा वा, सर्वाकारज्ञतासंज्ञा वा सर्वाकारज्ञताप्रहाणसंज्ञा वा सर्ववासनानुसंधिक्लेशसंज्ञा वा सर्ववासनानुसंधिक्लेशप्रहाणसंज्ञा वा.
SK
भगवान् आह: न सुभूते, नैतत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः क्वचिद् धर्मे भावसंज्ञा वाभावसंज्ञा वा, एषैव सुभूते बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी क्षान्तिर् यत्र नास्ति भावसंज्ञा वाभावसंज्ञा वा, एषैवास्य मार्गभावना यत्र नास्ति भावसंज्ञा नाभावसंज्ञा, एतद् एवास्य फलं यत्र नास्ति भावसंज्ञा नाभावसंज्ञा. अभावः खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गः, अभावश् चैवाभिसमयस्, तद् अनेनापि सुभूते पर्यायेणैवं वेदितव्यम्, अभावस्वभावाः सर्वधर्माः.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः, कथं भगवन्न् अभावस्वभावाः सर्वधर्मास् तथागतेनाभिसंबुद्धाः, येषाम् अभिसंबोधाय सर्वधर्मेषु च वशवर्तिता विसयवर्तिता चानुप्राप्ता?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इहाहं सुभूते पूर्वं बोधिसत्त्वचर्यां चरन् षट्सु पारमितासु चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य व्यहार्षं, यावच् चतुर्थं ध्यानम् उपसंपद्य व्यहार्षं, तेषाञ् च ध्यानानां ध्यानाङ्गानां च निमित्तम् अनुद्गृह्णंस् तैश् च ध्यानैर् ध्यानाङ्गैश् च न मन्ये, ध्यानानि ध्यानाङ्गानि च नास्वादयामि, ध्यानानि ध्यानाङ्गानि च नोपलभे. सो ऽहन् तानि चत्वारि ध्यानान्य् आकारविशुद्धान्य् उपसंपद्योत्साहं ध्यानं विपाकं कृत्वा वाभिज्ञाज्ञानसाक्षात्क्रियायै चित्तम् अभिनिर्णामयामि, दिव्यश्रोत्रज्ञानसाक्षात्क्रियायै, चेतःपर्यायज्ञानसाक्षात्क्रियायै, पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायै, दिव्यचक्षुर्ज्ञानसाक्षात्क्रियायै (PSP_५:१६९) चित्तम् अभिनिर्णामयामि, सो ऽहन् तासां साक्षात्क्रियानां निमित्तम् अनुद्गृह्णंस् ताभिर् अभिज्ञाभिर् न मन्ये, ताश् च पंचाभिज्ञा नास्वादयामि नोपलभे, सो ऽहन् ताः पञ्चाभिज्ञा आकाशसमाः पश्यामि समापद्ये, सो ऽहं पुनः सुभूते एकलक्षणसमायुक्तया प्रज्ञयानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य यावद् इदं दुष्खं, अयं दुःखसमुदयः, अयं दुःखनिरोधः, इयं दुःखनिरोधगामिनी प्रतिपद् इति, दशभिस् तथागतबलैः समन्वागतश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः समन्वागतः सत्त्वांस् त्रिषु राशिषु व्याकरोमि.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवंस् तथागतेनार्हता सम्यक्संबुद्धेनाभावस्वभावानि चत्वारि ध्यानान्य् उत्पादितानि षड् अभिज्ञा उत्पादिताः सत्त्वासत्तया च सत्त्वास् त्रिषु राशिषु व्याकृताः?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सचेत् सुभूते कामानां वा पापकानाम् अकुशलानां धर्माणां स्वभावो वा भावो वाभावो वा भविष्यन्, नाहं सुभूते पूर्वं बोधिसत्त्वचर्यां चरन् नाभावस्वभावान् पापकान् अकुशलान् धर्मान् विदित्वा प्रथमं ध्यानम् उपसंपद्य व्यहार्षं, यस्मात् तर्हि सुभूते कामानां स्वभावो वाभावो वा भावो वा नास्ति, पापकानाम् अकुशलानां धर्माणां स्वभावो वाभावो वा भावो वा नास्त्य् अन्यत्राभावस्वभावात्, तस्माद् अहं पूर्वं बोधिसत्त्वचर्यां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य व्यहार्षं, एवं यावच् चतुर्थं ध्यानम् उपसंपद्य व्यहार्षम्. सचेत् सुभूते अभिज्ञानां स्वभावो वाभावो वा भावो वा अभविष्यन्, नाहं सुभूते सर्वाभिज्ञा अभावस्वभावा इति विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये यावत् सत्त्वांस् त्रिभ्यो राशिभ्यो न व्युपशमयिष्ये, यस्मात् तर्हि सुभूते सर्वाभिज्ञानां स्वभावो वाभावो वा भावो वा नास्त्य् अन्यत्राभावस्वभावात्, तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वाभिज्ञा अभावस्वभावा इति विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्यां, सत्त्वाश् च त्रिषु राशिषु व्याकृताः. इति भावनायां विप्रतिपत्तिः (PSP_५:१७०) इत्य् उक्ता विप्रतिपत्तयः इत्य् उक्तो मूर्धाभिसमयः
SK
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां मूर्धाभिसमयाधिकारः शिक्षापरिशुद्धिपरिवर्तः पञ्चमः
SK
(PSP_६-८:१) पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता VI
SK
एवम् उक्ते आयुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वो ऽभावस्वभावैः सर्वधर्मैः पञ्चभिर् अभिज्ञाभिर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तत् कथं भगवन्न् अभावस्वभावेषु सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते ययानुपूर्वक्रिययानुपूर्वशिक्षयानुपूर्वप्रतिपदानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रथमम् एवैवं श्रुतं भवति. बुद्धानां भगवताम् अन्तिके बोधिसत्त्वानां महासत्त्वानां बुद्धधर्मपर्युपासितानां प्रत्येकबुद्धानाम् वार्हतां वानागामिनां वा सकृदागामिनां वा स्रोतआपन्नानां वाभावत्वाद् बुद्धानां भगवताम् अभावत्वात् प्रत्येकबुद्धानाम् अभावत्वाद् अर्हताम् अभावत्वाद् अनागामिनाम् अभावत्वात् सकृदागामिनाम् अभावत्वात् स्रोतआपन्नानाम् अभावत्वात् सर्वार्याणां नस्ति सर्वसंस्काराणां स्वभावः, अन्तशो वालाग्रकोटीस्थानमात्रकम् अपीति तस्य बोधिसत्त्वस्य महासत्त्वस्यैवं भवति: अभावा एव बुद्धा भगवन्तो बोधिसत्त्वाश् च महासत्त्वाः प्रत्येकबुद्धा अर्हन्तो ऽनागामिनः सकृदागामिनः स्रोतआपन्नाः सर्वार्या यद्य् अहं बोधिम् अभिसंभोत्स्ये यदि वा नाभिसंभोत्स्ये ऽभावा एव सर्वधर्माः यन् नूनम् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयं याम् अभिसंबुध्य सर्वसत्त्वान् भावसंज्ञायां चरतो ऽभावे ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामि. स खलु पुनर् बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ संप्रतिष्ठेत् सर्वसत्त्वानां परिनिर्वाणार्थाय सो ऽनुपूर्वक्रियाम् आरभेतानुपूर्वशिक्षाम् (PSP_६-८:२) अनुपूर्वप्रतिपदम् आरभेत. अत्र शिक्षित्वा पूर्वका बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुम्, प्रथमम् एव षट्सु पारमितासु शिक्षन्ते यद् उत दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्. इति सामान्येनानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन्न् आत्मना च दानं ददाति परांश् च दानपारमितायां प्रतिष्ठापयति, दानस्य च वर्णं भाषते, ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तेन दानेन महान्तं भोगस्कन्धं प्रतिलभ्य दानं ददाति विगतमत्सरेण चित्तेन, अन्नम् अन्नार्थिकानां पानं पानार्थिकानां वस्त्रं वस्त्रार्थिकानां विलेपनं विलेपनार्थिकानां शयनं शयनार्थिकानाम् उपाश्रयम् उपाश्रयार्थिकानां प्रदीपं प्रदीपार्थिकानाम् अन्यतरम् अपि मानुष्यकं परिष्कारोपकरणं ददाति स तेन दानेन सत्त्वान् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति. श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य (PSP_६-८:३) हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति दानपारमितयानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च शीलपारमितायां चरन् दानं ददाति, परांश् च शीलपारमितायां प्रतिष्ठापयति दाने प्रतिष्ठापयति शीलपारमितायाश् च वर्णं भाषते ये चान्ये शीलपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तेन शीलेन सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन च विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागतह्. श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति शीलपारमितयानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च क्षान्तिपारमितायां चरन् दानं ददाति, शीलं च रक्षति परांश् च क्षान्तिपारमितायां प्रतिष्ठापयति दाने शीले च प्रतिष्ठापयति क्षान्तिपारमितायाश् च वर्णं भाषते. ये चान्ये क्षान्तिपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तया क्षान्त्या सत्त्वाञ् शीले प्रतिष्ठापयति समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेन च शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन (PSP_६-८:४) च समन्वागतः, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं च परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्त्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति क्षान्तिपारमितयानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च वीर्यपारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति, परांश् च वीर्यपारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ च प्रतिष्ठापयति, वीर्यपारमितायाश् च वर्णं भाषते, ये चान्ये वीर्यपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञह्. स तेन वीर्येण सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्येणानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. (PSP_६-८:५) इति वीर्यपारमितयानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च ध्यानपारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते, परांश् च ध्यानपारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ वीर्ये च प्रतिष्ठापयति, ध्यानपारमितायाश् च वर्णं भाषते, ये चान्ये ध्यानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. स तेन ध्यानेन सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति ध्यानपारमितयानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च प्रज्ञापारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानञ् च समापद्यते, परांश् च प्रज्ञापारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ वीर्ये ध्याने च प्रतिष्ठापयति, प्रज्ञापारमितायाश् च वर्णं भाषते, ये चान्ये प्रज्ञापारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. स तया प्रज्ञया सत्त्वाञ् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन (PSP_६-८:६) प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति, बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञयानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा प्रज्ञायते ऽनुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति प्रज्ञापारमितयानुपूर्वाभिसमयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपूर्वक्रियायां शिक्षते ऽनुपूर्वशिक्षायाम् अनुपूर्वप्रतिपदि स प्रथमचित्तोत्पादम् उपादाय, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभावस्वभावान् सर्वधर्मान् अधिमुच्य बुद्धानुस्मृतिं भावयति, धर्मानुस्मृतिं भावयति संघानुस्मृतिं भावयति, शीलानुस्मृतिम् भावयति, त्यागानुस्मृतिं भावयति, देवतानुस्मृतिं भावयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो बुद्धानुस्मृतिं भावयति? इह सुभूते बोधिसत्त्वो महासत्त्वः तथागतम् अर्हन्तं सम्यक्संबुद्धं न रूपतो मनसिकरोति, न वेदनातो न संज्ञातो न संस्कारतो न विज्ञानतो मनसिकरोति. तत् कस्य हेतोः? तथा हि रूपस्वभावो नास्ति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः रूपाद्यमनसिकारेण बुद्धानुस्मृत्या. पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न द्वात्रिंशन्महापुरुषलक्षणैर् मनसिकर्तव्यो न सुवर्णकायो मनसिकर्तव्यो (PSP_६-८:७) न व्याममात्रया प्रभया मनसिकर्तव्यो नाशीत्यनुव्यञ्जनैर् मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिर् लक्षणाद्यमनसिकारेण बुद्धानुस्मृत्या.
SK
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न शीलस्कन्धतो मनसिकर्तव्यो न समाधिस्कन्धतो न प्रज्ञास्कन्धतो न विमुक्तिस्कन्धतो न विमुक्तिज्ञानदर्शनस्कन्धतो मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः शीलादिस्कन्धामनसिकारेण बुद्धानुस्मृत्या.
SK
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न दशभिस् तथागतबलैर् मनसिकर्तव्यो न चतुर्भिर् वैशारद्यैर् न चतसृभिः प्रतिसंविद्भिर् मनसिकर्तव्यो न महाकरुणया न महामैत्र्या नाष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिर् दशबलाद्यमनसिकारेण बुद्धानुस्मृत्या.
SK
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न प्रतीत्यसमुत्पादतो मनसिकर्तव्यः. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः प्रतीत्यसमुत्पादामनसिकारेण बुद्धानुस्मृत्या. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धानुस्मृतिर् मनसिकर्तव्याः. एवं खल्व् अस्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते. स इहानुपूर्वक्रियायाम् अनुपूर्वशिक्षायाम् अनुपूर्वप्रतिपदि शिक्षमाणो ऽनुपूर्वप्रस्थानैश् चत्वारि स्मृत्युपस्थानानि परिपूरयति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गं शून्यतासमाधिम् आनिमित्तसमाधिम् (PSP_६-८:८) अप्रणिहितसमाधिं परिपूरयति, अप्रमाणध्यनारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयति, सर्वपारमिताः सर्वशून्यता अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, महाकरुणां परिपूरयति, महामैत्रीं परिपूरयति, सर्वाकारज्ञतां परिपूरयति, अभावस्वभावयोगेन सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति. इति बुद्धानुस्मृतिः
SK
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न कुशला धर्मा मनसिकर्तव्या नाकुशला धर्मा मनसिकर्तव्या न व्याकृता धर्मा मनसिकर्तव्या नाव्याकृता धर्मा मनसिकर्तव्या न लौकिका न लोकोत्तरा न सामिषा न निरामिषा नार्या नानार्या न सास्रवा नानास्रवा न कामधातुपर्यापन्ना न रूपधातुपर्यापन्ना नारूप्यधातुपर्यापन्ना न संस्कृता नासंस्कृता धर्मा मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि तेषां धर्माणां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावाः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा धर्मानुस्मृतिः. स इह धर्मानुस्मृत्यां शिक्षित्वाभावस्वभावयोगेन यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मानुस्मृतिर् भावयितव्या यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः. इति धर्मानुस्मृतिः
SK
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संघो ऽभावस्वभावतो ऽनुस्मर्तव्यो यो सो भगवतः श्रावकसंघश् चत्वारः पुरुषयुगाः, अष्टौ महापुरुषपुद्गलाः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावा अभावस्वभावप्रतिभाविताश् चैवोच्यन्ते चत्वारः पुरुषयुगा अष्टौ महापुरुषपुद्गलाः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा संघानुस्मृतिः. स इह संघानुस्मृत्यां शिक्षित्वाभावस्वभावयोगेन यावत् (PSP_६-८:९) सर्वाकारज्ञताम् अनुप्राप्स्यति. सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृतिर् भावयितव्या यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः. इति संघानुस्मृतिः
SK
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन शीलानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अखण्डे ऽच्छिद्रे ऽशबले ऽकल्माषे ऽपरामृष्टे ऽभुजिष्ये विज्ञप्रशस्ते सुसमात्ते समाधिसंवर्तनीये शीले प्रतिष्ठिते नाभावस्वभावतो मनसिकर्तव्यम् तच् छीलं यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति यस्य स्वभावो नास्ति सो ऽभावः. एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा शीलानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन शीलानुस्मृतिर् मनसिकर्तव्या, यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः. इति शीलानुस्मृतिः
SK
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता त्यागानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेनाभावस्वभावयोगेन त्यागो ऽनुस्मर्तव्यो यदि वामिषत्यागो यदि वा धर्मत्यागः. तत् कस्य हेतोः? चित्तम् एवं नोत्पद्यते ददामि वा न ददामि वा परित्यजामि वा न परित्यजामि वाङ्गप्रत्यङ्गानि त्यजता नैवं चित्तम् उत्पादयितव्यं यत्राण्व् अपि स्मृतिकर्म नास्ति कः पुनर् वादः स्मृतिविगमः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावाः. एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा त्यागानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता त्यागानुस्मृतिर् मनसिकर्तव्या यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः. इति त्यागानुस्मृतिः (PSP_६-८:१०)
SK
कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता देवतानुस्मृतिर् मनसिकर्तव्याः. इह सुभूते बोधिसत्त्वेन महासत्त्वेन ये देवाः स्रोतआपन्नाश् चातुर्महाराजकायिकेषु देवेषूपपन्नास् त्रय्स्त्रिंशेषु यामेषु तुसितेषु निर्मानरतिषु परनिर्मितवशवर्तिषु देवेषूपपन्नास् ते ऽभावस्वभावतो मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावा एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा देवतानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन देवतानुस्मृतिर् मनसिकर्तव्या यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः. इति देवतानुस्मृतिः
SK
एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य षडनुस्मृतीर् मनसिकुर्वतो ऽनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते. इति षडनुस्मृतयः
SK
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतानुपूर्वक्रियां परिपूरयितुकामेनानुपूर्वशिक्षाम् अनुपूर्वप्रतिपदं परिपूरयितुकामेनाभावस्वभावयोगेनाध्यात्मशून्यतायां शिक्षितव्यम्, बहिर्धाशून्यतायां शिक्षितव्यम्, अध्यात्मबहिर्धा शून्यतायां शिक्षितव्यम्, यावद् अभावस्वभावशून्यतायां शिक्षितव्यम्. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षितव्यम्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षितव्यम्, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षितव्यम् अभावस्वभावयोगेन. दशसु पारमितासु दशसु बोधिसत्त्वभूमिषु शिक्षितव्यम्, महाकरुणायां शिक्षितव्यम्, स एवं बोधिमार्गे शिक्षमाणो ऽभावस्वभावान् सर्वधर्मान् अभिसंभोत्स्यते, यत्राण्व् अपि स्मृतिकर्म नास्ति कुतः पुना रूपं वा वेदनासंज्ञासंस्कारा विज्ञानं वा, एवं (PSP_६-८:११) स्कन्धधत्वायतनप्रतीत्यसमुत्पाद वा प्रतीत्यसमुत्पादाङ्गानि वा पारमिता वा शून्यता वा, बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो वा विमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा सर्वाकारज्ञता वा नेदं स्थानं विद्यते. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरता अनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा प्रज्ञायते ऽनुपूर्वप्रतिपत् प्रज्ञायते, यत्र क्रियायं चित्तं चर्या प्रतिपच् छिक्षा च प्रवर्तते.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् तन् नास्ति रूपं वेदनासंज्ञासंस्काराः, नास्ति विज्ञानं नास्ति स्कन्धधात्वायतनप्रतीत्यसमुत्पादा नास्ति प्रतीत्यसमुत्पादाङ्गानि नास्ति पारमिता नास्ति शून्यता नास्ति स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नास्ति आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि नास्ति शून्यतानिमित्ताप्रणिहिताभिज्ञा नास्ति दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा नास्ति सर्वाकारज्ञता नास्ति बुद्धो नास्ति धर्मो नास्ति संघो नास्ति मार्गो नास्ति फलं नास्ति संक्लेशो नास्ति व्यवदानं नास्ति प्राप्तिर् नास्त्य् अभिसमयो यावन् नास्ति सर्वधर्माः.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अपि नु सुभूते ऽभावस्वभावेषु सर्वधर्मेष्व् अस्तिता वा नास्तिता वोपलभते.
SK
सुभूतिर् आह: नो भगवन्न् अभावेषु सर्वधर्मेष्व् अस्तिता वा नास्तिता वोपलभते.
SK
भगवान् आह: तत् कथम् इदं सुभूते एवं भवति, यद्य् अभावस्वभावाः सर्वधर्मास् तन् नास्ति रूपं वेदनासंज्ञासंस्कारा, नास्ति विज्ञानम्, नास्ति स्कन्धधात्वायतनप्रतीत्यसमुत्पादा नास्ति प्रतीत्यसमुत्पादाङ्गानि नास्ति पारमिताशून्यताबोधिपक्ष्यधर्मर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा नास्ति सर्वाकारज्ञता नास्ति बुद्धधर्मसंघफलं (PSP_६-८:१२) मार्गसंक्लेशव्यवदानप्राप्ताभिसमया यवन् नास्ति सर्वधर्मा इति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: नाहं भगवन्न् अत्र धर्मेषु काङ्क्षामि न विचिकित्सामि, अपि तु खलु भगवन् भविष्यन्त्य् अनागते ऽध्वनि भिक्षवः श्रावकयानिकाश् च प्रत्येकबुद्धयानिकाश् च बोधिसत्त्वयानिकाश् च त एवं वक्ष्यन्ति, अभावस्वभावाः सर्वधर्माः को ऽत्र संक्लिश्यते वा व्यवदायते वा न संक्लेशो न व्यवदानं ते जानन्तः शीलविपन्नाश् च भविष्यन्ति दृष्टिविपन्नाश् च भविष्यन्ति, आचारविपन्नाश् च तेषां शीलविपन्नानां दृष्टिविपन्नानाम् आचारविपन्नानां त्रयाणाम् गतीनाम् अन्यतरा गतिः प्रतिकाङ्क्षितव्या, नरकगतिर् वा तिर्यग्योनिगतिर् वा यमलोकगतिर् वा, इदम् अप्य् अहं भगवन्न् अनागतं भयं संपश्यमानस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अर्थं प्र्च्छामि. अपि तु खलु पुनर् भगवन्न् अहम् एतेषु धर्मेषु न काङ्क्षामि न विचिकित्सामि.
SK
भगवान् आह: साधु साधु सुभूते एवम् एतद् यथा वदस्य् एवम् एतत्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः कम् अर्थवशं संपश्यमाना बोधिसत्त्वा महासत्त्वाः सत्त्वानाम् अर्थायानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं संप्रस्थिताः.
SK
भगवान् आह: यत एव सुभूते ऽभावस्वभावाः सर्वधर्मास् तत एव बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं संप्रस्थिताः. तत् कस्य हेतोः? तथा हि दुःखाक्षयश् च सुभूते उपलंभो नोपलंभसंज्ञिनः प्राप्तिर् नाभिसमयो नानुत्तरा च सम्यक्संबोधिः.
SK
सुभूतिर् आह: किं पुनर् भगवन्न् अनुपलंभस्य प्राप्तिर् वाभिसमयो वानुत्तरा वा सम्यक्संबोधिः.
SK
भगवान् आह: अनुपलंभ एव सुभूते प्राप्तिर् अनुपलंभ एवाभिसमयः, अनुपलंभ एवानुत्तरा सम्यक्संबोधिः, धर्मधातोर् अविकोपितताम् उपादाय धर्मधातुं स इच्छेद् विकोपयितुं यो ऽनुपलंभप्राप्तिं (PSP_६-८:१३) वा ऽभिसमयं वानुत्तरां वा सम्यक्संबोधिम् इच्छेत्.
SK
सुभूतिर् आह: यदि भगवन्न् अनुपलंभस्य न प्राप्तिर् नाभिसमयो नानुत्तरा सम्यक्संबोधिः, अनुपलंभ एव प्राप्तिर् अनुपलंभ एवाभिसमयो ऽनुपलंभ एवानुत्तरा सम्यक्संबोधिः, तत् कुतः पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रथमा भूमिः, कुतो द्वितीया कुतस् तृतीया यावत् कुतो दशमी भूमिः, कुतो ऽनुत्तरा सम्यक्संबोधिः, कुतो ऽनुत्पत्तिधर्मक्षान्तिः कुतो विपाकजा अभिज्ञा, कुतो विपाकजन् दानं, कुतो विपाकजं शीलं, कुतो विपाकजा क्षान्तिः, कुतो विपाकजं वीर्यं, कुतो विपाकजः समाधिः, कुतो विपाकजा प्रज्ञा यत्र विपाके स्थित्वा विपाकजैर् धर्मैः सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिगृह्णाति, बुद्धांश् च भगवत उपतिष्ठति, अन्नेन च पानेन च यानैश् च वस्त्रवस्तुगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिः शयनासनोपाश्रयेण प्रदीपेनान्यतरान्यतराभिर् वा मानुष्यकीभिः संपत्तिभिस् ताश् चास्य नोच्छेद्यन्ते यावत् परिनिर्वृतस्य शरीरे श्रावकेषु च विपच्यते तच् च न क्षीयते.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत एव सुभूते ऽनुपलंभस् तत एव प्रथमा भूमिर् द्वितीया भूमिस् तृतीया भूमिर् यावद् दशमी भूमिस् तस्यैव विपाकजाः पञ्चाभिज्ञास् ततश् चैवैं विपाकजं दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञा च ततश् चैव कुशलमूलानि विपाकजानि यैः कुशलमूलैः सर्वसत्त्वानाम् अर्थं करोति बुद्धक्षेत्रञ् च परिगृह्णाति, बुद्धांश् च भगवत उपतिष्ठति. अन्नपानयानशयनासनवस्त्रगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिरूपाश्रयेण प्रादीपेनान्यतरान्यतराभिर् वा मानुष्योपकरणसंपत्तिभिस् ताश् चास्य नोपच्छिद्यन्ते, यावत् परिनिर्वृतस्य चैव पूजाः प्रवर्तन्ते शरीरे श्रावकेषु च विपच्यन्ते.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अनुपलंभस्य च भगवन् दानस्य च शीलस्य च क्षान्तेश् च वीर्यस्य च ध्यानस्य च प्रज्ञायाश् चाभिज्ञानां च को विशेषः? किन् नानाकरणम्? (PSP_६-८:१४)
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अनुपलंभस्य च सुभूते दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभिज्ञानां च न किञ्चिन् नानाकरणं येषां खलु पुनः सुभूते ऽनुपलिप्तं दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञाभिज्ञा च तेषां नानाकरणं निर्दिष्टम्.
SK
सुभूतिर् आह: कथं पुनर् भगवन्न् अनुपलिप्तानां दानशीलक्षान्तिवीर्यध्यानप्रज्ञानाम् अभिज्ञानाञ् च न किञ्चिन् नानाकरणं निर्दिश्यते?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपलभ्य दानम् अनुपलभ्य प्रतिग्राहकं दानं ददाति, अनुपलभ्य शीलं रक्षति, अनुपलभ्य क्षान्त्या संपादयति, अनुपलभ्य वीर्यम् आरभते, अनुपलभ्य ध्यानं समापद्यते, अनुपलभ्य प्रज्ञां भावयति, अनुपलभ्याभिज्ञासु चरति, अनुपलभ्य स्मृत्युपस्थानां भावयति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, अनुपलभ्य मार्गं भावयति, अनुपलभ्य त्रीणि विमोक्षमुखानि भावयति, अनुपलभ्यार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखानि भावयति, अनुपलभ्य् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयति, अनुपलभ्य सत्त्वान् परिपाचयति, अनुपलभ्य बुद्धक्षेत्रं परिशोधयति, अनुपलभ्य बुद्धधर्मान् बोधिम् अभिसंबुध्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपलंभयोगेन प्रज्ञापारमितायां चरति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुराधर्षो भवति, मारैर् वा मारकायिकाभिर् वा देवताभिः. इति सर्वधर्माभावस्वभावज्ञानेनानुपूर्वाभिसमयः इत्य् उक्तो ऽनुपूर्वाभिसमयः आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायाम् अनुपूर्वाभिसमयाधिकारो ऽनुक्रमशिक्षापरिवर्तः षष्ठः
SK
(PSP_६-८:१५) पञ्चविंशतिसाहस्रिका प्रजापारमिता VII
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एकचित्तेन षट्प्रज्ञाः परिगृह्णाति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गान् त्रीणि विमोक्षमुखानि चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञा अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणाम् अष्टादशावेणिकान् बुद्धधर्मान् अशीत्यनुव्यञ्जनानि द्वात्रिंशन्महापुरुषलक्षणानि परिगृह्णाति. इत्य् एकचित्तक्षणाभिसमयः समान्येन
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यद् दानं ददाति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतं, यच् छीलं रक्षति, यया क्षान्त्या संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तन् नान्यत्र प्रज्ञापारमितया परिगृहीतं, यद् अप्रमाणं समापद्यते, या आरूप्यसमापत्तीः, यत् स्मृत्युपस्थानं यं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गं भावयति, यद् आर्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञाविमोक्षसमाधिसमापत्तिधारणीमुखं भावयति, याम् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां, यान् दशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् यां महाकरुणां भावयति, यानि द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिगृह्णाति, तन् नान्यत्र प्रज्ञापारमिरया परिगृहीतम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् प्रज्ञापारमितापरिगृहीतो बोधिसत्त्वो महासत्त्व एकचित्तेन षट्पारमिताः परिगृह्णाति? सर्वशून्यतां सर्वबोधिपक्षान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् (PSP_६-८:१६) महाकरुणां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया परिगृहीतो यद् दानं ददाति तत्र न द्वयसंज्ञी भवति, यच् छीलं रक्षति, यया क्षान्त्या संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति तत्र न द्वयसंज्ञी भवति, यावद् बोधिपक्ष्यान् धर्मान् भावयति, तत्र न द्वयसंज्ञी भवति. एवम् आर्यसत्याप्रमाणध्याणारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान्, यां महाकरुणां, यानि द्वात्रिंशन्महापुरुषलक्षणानि, अशीत्यनुव्यञ्जनानि परिगृह्णाति, तत्र न द्वयसंज्ञी भवति.
SK
सुभूतिर् आह: कथं च भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति न द्वयसंज्ञी भवति? एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां भावयति, न च द्वयसंज्ञी भवति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां भावयति, न च द्वयसंज्ञी भवति, एवं सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् महाकरुणां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनान्य् अभिनिर्हरति, न च द्वयसंज्ञी भवति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां परिपूरयति, स तत्र दानपारमितायां सर्वाः षट्पारमिता अन्तर्गताः कृत्वा दानं ददाति, यावत् सर्वबोधिपक्ष्यान् धर्मान् अन्तर्गतां कृत्वा दानं ददाति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो यस्मिन् समये प्रज्ञापारमितायां चरन् दानं ददाति स तत्रानास्रवे चित्ते स्थित्वा दानं ददाति स तत्रानास्रवे चित्ते स्थितो निमित्तं न समनुपश्यति. कस्मै वा ददामि? किं वा ददामि? केन वा ददामि? स निमित्तापगतेन चित्तेन दानं ददाति, अनास्रवेण विगततृष्णेन विगतभवेन (PSP_६-८:१७) स तद् दानं न समनुपश्यति, तच् चित्तं न समनुपश्यति, तं प्रतिग्राहकं न समनुपश्यति, यावत् सर्वधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन शीलं रक्षति, स तच् छीलं न समस्नुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन क्षान्त्या संपादयति, स तां क्षान्तिं न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन वीर्यम् आरभते, स तद् वीर्यं न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन ध्यानं समापद्यते, स तद् ध्यानं न समस्नुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन प्रज्ञां भावयति, स तां प्रज्ञां भावयन् न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयति, शून्यतानिमित्ताप्रणिहिताभिज्ञा सर्वशून्यता भावयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् महाकरुणां भावयति, द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिपूरयति, स तान् धर्मान् न समनुपश्यति, तच् (PSP_६-८:१८) चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति.
SK
सुभूतिर् आह: कथं भगवन्न् अनिमित्तान् अभिसंस्काराणां धर्माणां दानपारमितापरिपूरिता भवति? एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितापरिपूरिता भवति, चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य परिपूरिर् भवति, शून्यताया आनिमित्तस्याप्रणिहितस्य परिपूरिर् भवति, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां सर्वशून्यतानां परिपूरिर् भवति, पञ्चानाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिपूरिर् भवति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानं ददाति, अन्नपानवस्त्रयानशयनासनहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडजातरूपरजतपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकोपाश्रयान् यावद् अन्यतरान्यतरान् मानुष्योपकरणपरिष्कारान् आध्यात्मिकां बाह्यां वा भार्यापुत्रदुहितृराज्यं वालंकृत्य दानं ददाति याचनकानान् तस्य कश्चिद् एवागत्यैवं वदेत्: किन् ते ऽनेन ईदृशेन दानेन दत्तेनैवं निरूपकारेण तस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, किञ् चापीमे सत्त्वाः परिभाषन्ते, किन् ते ऽनेन वा दानेन वा दत्तेनैवम् आस्फारिकेन दत्तेनार्थस्य च दातव्यम् एवं मया दानं, न च मया न दातव्यम्. स दानं सर्वसत्त्वेषु साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, स तथा परिणामयति यथा परिणामयन् निमित्तं न समनुपश्यति, किं वा ददामि, कस्मै वा ददामि, को वात्र ददाति, किं वा परिणामयति क्व वा परिनामयति, स तद् वस्तु न समनुपश्यति (PSP_६-८:१९) यत्र दत्त्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तत् कस्य हेतोः? अध्यात्मशून्यतया शून्यं बहिर्धाशून्यतया शून्यं यावद् अभावस्वभावशून्यतया शून्यं, स एवं पश्यति को वा परिणामयिष्यति कुत्र वा परिणामयिष्यति किं वा परिणामयिष्यति, तस्यैवं परिणामयतः परिणामो भवति निर्विषः परिणामो धर्मधातुपरिणामः सर्वसत्त्वांश् च परिपाचयति, बुद्धक्षेत्रञ् च परिगृह्णाति, दानपारमितां च परिपूरयति, शीलपारमितां परिपूरयति, क्षान्तिपारमितां परिपूरयति, वीर्यपारमितां परिपूरयति, ध्यानपारमितां परिपूरयति, प्रज्ञापारमितां परिपूरयति, सप्तत्रिंशद्बोधिपक्स्यान् धर्मान् परिपूरयति, शून्यतानिमित्ताप्रणिहितसमाधीन् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयत्य् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, तथा चैव दानपारमितां परिपूरयति, यथा चैव विपाकञ् च न परिगृह्णाति, तद्यथापि नाम सुभूते परनिर्मितवशवर्तिनां देवानां मनसैव सर्वोपकरणानि भवन्ति, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य मनसैव सर्वोपकरणं परिपूरयति, स तेन दानेन बुद्धांश् च भगवत उपतिष्ठति, सदेवमानुषासुरञ् च लोकं संतर्पयति स तान् सत्त्वांस् तया दानपारमितया परिगृह्योपायकौशल्येन त्रिषु यानेषु प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानपारमितां परिपूरयति.
SK
सुभूतिर् आह: कथं च भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितां परिपूरयति.
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तच् छीलम् आर्यम् अनास्रवं मार्गपर्यापन्नं धर्मताप्रातिलंभिकं, शीलं प्रतिलभते, स चास्य शीलस्कन्धो ऽखण्डो भवत्य् अच्छिद्रो ऽशवलो ऽकल्माषो ऽपरामृष्टो ऽभुजिष्यः सुसमात्तो विज्ञप्रशस्तः, तेन च शीलेन कंचिद् धर्मं न परामृशति, रूपं वा वेदनां वा संज्ञां वा संस्कारां वा विज्ञानं वा द्वात्रिंशन्महापुरुषलक्षणानि (PSP_६-८:२०) वाशीत्यनुव्यञ्जनानि वा क्षत्रियमहाशालकुलं वा ब्राह्मणमहाशालकुलं वा गृहपतिमहाशालकुलं वा चातुर्महाराजकायिकान् वा देवांस् त्रयस्त्रिंशान् वा यामान् वा तुषितान् वा निर्माणरतीन् वा परनिर्मितवशवर्तिनो वा ब्रह्मपारिषद्यान् वा ब्रह्मपुरोहितान् वा महाब्रह्माणो वा परीत्ताभान् वा अप्रमाणाभान् वा आभास्वराभान् वा परीत्तशुभान् वा अप्रमाणशुभान् वा शुभकृत्स्णान् वा अनभ्रकान् वा पुण्यप्रसवान् वा बृहत्फलान् वा असंज्ञिसत्त्वान् वा शुद्धावासान् वा अस्पृहान् वा अतपान् वा सुदृशान् वा सुदर्शनान् वा अकनिष्ठान् वा आकाशानन्त्यायतनान् वा विज्ञानानन्त्यायतनान् वा आकिञ्चन्यायतनान् वा नैवसंज्ञानासंज्ञायतनान् वा स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबुद्धत्वं वा चक्रवर्तिराज्याधिपत्यं वा न परामृशति, अन्यत्र सर्वसत्त्वेषु साधारणं कृत्वा सर्वाकारज्ञतायां परिणामयति, अनिमित्तानुपलंभेनाद्वयेन परिणामयति, लोकव्यवहारेण न पुनः परमार्थेन, तया च शीलपारमितया परिपूर्णयोपायकौशल्येन चत्वारि ध्यानान्य् उत्पादयत्य् अनास्वादयोगेन दिव्यं चक्षुर् अभिनिर्हरति, येन दिव्यचक्षुषा विपाकजेन ये पूर्वस्यान् दिशि लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति, तान् पश्यति तच् चास्य दर्शनं च न नश्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, एवं दक्षिणस्यान् दिशि पश्चिमायान् दिश्य् उत्तरस्यान् दिश्य् ऊर्ध्वम् अधो विदिक्षु लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तान् पश्यति तस्य दर्शनं न नश्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्यकेण तेषां बुद्धानां भगवतां शब्दं शृणोति, तच् चास्य श्रुतं तावन् न नश्यति, यावन् न तेन श्रुतेनात्मनः परस्य चार्थं करोति, स चेतःपर्यायज्ञानेन तेषां बुद्धानां भगवतां चेतसैव चित्तं प्रजानाति तेन चेतःपर्यायज्ञानेन सर्वसत्त्वानाम् अर्थं करोति, स (PSP_६-८:२१) पूर्वनिवासानुस्मृतिज्ञानेनातीतं कर्म निर्दिशति येन कर्मणाकृतेन तत् कर्म न विप्रणस्यति, स आस्रवक्षयज्ञानेन च सत्त्वान्, स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयति, अर्हत्त्वे प्रतिष्ठापयति, प्रत्येकबोधौ प्रतिष्ठापयति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, एवं यत्र यत्र प्रतिबलाः सत्त्वाः कुशलेषु धर्मेषु तत्र तत्र प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन शीलपारमितां परिपूरयति.
SK
सुभूतिर् आह: कथम् अनिमित्तानाम् अनाभोगानाम् अनुपलंभमानानाम् अप्रतिभानाम् अनभिसंस्काराणां धर्माणां क्षान्तिपारमितां परिपूरयति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डे निषण्णस्य सर्वसत्त्वा आगत्य लोष्टदण्डप्रहारान् दह्युस् तत्र बोधिसत्त्वेन महासत्त्वेनैकचित्तस्यापि क्षोभसहगतस्यावकाशो न दातव्यस् तत्र च बोधिसत्त्वेन महासत्त्वेन द्वे क्षान्ती भावयितव्ये. कतमे द्वे यच् च सर्वसत्त्वानां क्षान्तव्यम् आक्रोशदण्डलोष्टप्रहारादिया चास्यानुत्पत्तिकेषु धर्मेषु क्षान्तिर् उत्पादयितव्या तत्र बोधिसत्त्वेन महासत्त्वेनाक्रुश्यमानेन परिभाष्यमाणेन लोष्टदण्डशस्त्रप्रहारान् ददताम् एवं प्रत्यवेक्षितव्यं को मे आक्रोशति वा परिभाषते वा लोष्टदण्डशस्त्रैर् वा प्रहारान् ददाति तेन धर्माणां स्वभावः प्रत्यवेक्षितव्यो धर्माणां स्वभावं प्रत्यवेक्षमाणो धर्मांश् चैव नोपलभते कुतः पुनर् धर्माणां स्वभावम्. तस्यैवं धर्मस्वभावं प्रत्यवेक्षमाणस्यैवं भवति, को मे च्छिनत्ति वा भिनत्ति वा स एवं प्रत्यवेक्षमाणो धर्माणां धर्मस्वभावम् अनुत्पत्तिकैर् धर्मैः क्षान्तिं प्रतिलभते, तत्रानुत्पत्तिकेषु धर्मेषु क्षान्तिः किम् इति क्लेशानुत्पत्तिज्ञानानाच्छेद्यता च स इह द्वाभ्यां क्षान्तिभ्यां युक्तश् चत्वारि ध्यानानि परिपूरयति, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुरर्द्धिपादानि पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि (PSP_६-८:२२) आर्याष्टाङ्गं मार्गं त्रीणि विमोक्षमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयति, स इह धर्मेषु स्थित्वार्येष्व् अनास्रवेषु लोकोत्तरेषु साधारणेषु सर्वश्रावकप्रत्येकबुद्धैर् अभिज्ञाः परिपूरयति याभिर् अभिज्ञाभिः परिपूरिताभिः षड्भिश् च पारमिताभिः समुदागच्छति, स इहाभिज्ञासु स्थित्वा दिव्येन चक्षुषा पूर्वस्यां दिशि यान् बुद्धान् भगवतः पश्यति तान् दृष्ट्वा बुद्धानुस्मृतिं प्रतिलभते, तस्य सा बुद्धानुस्मृतिर् नोच्छेत्स्यति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु यान् बुद्धान् भगवतः पश्यति तान् दृष्ट्वा बुद्धानुस्मृतिं प्रतिलभते, तस्य सा बुद्धानुस्मृतिर् नोच्छेत्स्यति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेण यत् ते बुद्धा भगवन्तो भाषिष्यन्ते तत् सर्वम् उद्ग्रहीष्यत्य् उद्गृह्णं तथत्वाय सत्त्वानां धर्मन् देशयिष्यति तेषां च बुद्धानां भगवतां चेतसैव चेतः परिवितर्कम् आज्ञास्यत्य् एवं सर्वार्याणां सर्वश्रावकप्रत्येकबुद्धानां यावत् सर्वसत्त्वानां चेतसैव चेतः परिवितर्कम् आज्ञास्यति, स तेन चेतः पर्यायज्ञानेन सत्त्वानां चेतसैव चैत्तम् आज्ञाय तथत्वाय धर्मं देशयिष्यति, स पूर्वनिवासानुस्मृतिज्ञानेन तेषां सत्त्वानां कुशलमूलम् आज्ञाय तेन पूर्वेण कुशलमूलेन सत्त्वान् संदर्शयिष्यति समुत्तेजयिष्यति समादापयिष्यति, स आस्रवक्षयज्ञानेन च तान् सत्त्वांस् त्रिषु यानेषु निवेशयिष्यति प्रतिष्ठापयिष्यति, स खलु पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं परिशोधयति सर्वाकारज्ञतायां चरन् सर्वाकारज्ञतां परिपूरयत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयिष्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् क्षान्तिपारमितां परिपूरयति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (PSP_६-८:२३) चरन्न् आनिमित्तेष्व् अनास्रवेष्व् अनाभोगेष्व् अनुपलंभेष्व् अप्रतिभासेषु वीर्यपारमितां परिपूरयति.
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायिकेन वीर्येण समन्वागतः प्रथमं ध्यानम् उपसंपद्य विहरति, द्वितीयं तृतीयं चतुर्थं ध्यानम् उपसंपद्य विहरति, चतुर्थध्यानसमापन्नो ऽनेकविधाम् ऋद्धिं प्रत्यनुभवति, यावच् चन्द्रसूर्यौ पाणिना परामृशति परिमार्ष्टि स तेन कायिकेन वीर्येण समन्वागतो येन दशसु दिक्षु बुद्धा भगवन्तो विहरन्ति सत्त्वानां धर्मं देशयन्ति, अनेकशतसहस्रेषु लोकधातुष्व् ऋद्ध्या गत्वा तान् बुद्धान् भगवत उपतिष्ठति चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस् तस्य ते चीवरपिण्डपात्रास् तावन् न क्षीयन्ते यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते ऽभिसंबुद्धबोधेश् च सदेवमानुषासुरलोकः सुखी भवति, चीवरपिण्डपात्रेण परिनिर्वृतस्य च शरीरे पूजा प्रवर्तते, तेनैव चर्द्ध्यभिसंस्कारेण गत्वा तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति, स न जातु विप्रणस्यति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, सर्वाकारज्ञतायां चरन् सर्वाकारज्ञतां परिपूरयत्य् अनुत्तरां च सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयिष्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वश् चैतसिकेन वीर्येण समन्वागत आर्येणानास्रवेण मार्गाङ्गेन मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयतीह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चैतसिकेन वीर्येण समन्वागतो ऽकुशलस्य कायिककर्मणो ऽवकाशं न ददात्य् अकुशलस्य वाक्कर्मणो ऽकुशलस्य मनस्कर्मणो ऽवकाशं न ददाति न परामृशति नित्यम् इति वा अनित्यम् इति वा सुखम् इति वा दुःखम् इति वात्मेति वानात्मेति वा संस्कृतम् इति वासंस्कृतम् इति वा कामधातुम् इति वा रूपधातुम् इति वारूप्यधातुं वा सास्रवधातुं वानास्रवधातुं वा, प्रथमं वा ध्यानं द्वितीयं वा ध्यानं तृतीयं वा ध्यानं चतुर्थं वा ध्यानं मैत्रीं वा करुणां वा मुदितां वोपेक्षां वाकाशानन्त्यायतनं (PSP_६-८:२४) व विज्ञानानन्त्यायतनं वाकिंचन्यायतनं वा नैवसंज्ञानासंज्ञायतनं वा, स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वर्द्धिपादां वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वार्याष्टाङ्गिकं वा मार्गं शून्यतां वानिमित्तं वाप्रणिहितं वार्यसत्यानि वाभिज्ञा वा विमोक्षान् वा नवानुपूर्वविहारसमापत्तीर् वा समाधीन् वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वावेणिकान् वा बुद्धधर्मान् न परामृशति नित्यानित्यसुखदुःखात्मानात्मशान्ताशान्त इति वा, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकां वा बोधिम् अनुत्तरां सम्यक्संबोधिं स्रोतआपन्नं वा सकृदागामिनं वानागामिनं वार्हत्त्वं वा प्रत्येकबुद्धं वा बोधिसत्त्वं वा बुद्धं वा भगवन्तं न परामृशतीमे सत्त्वा दर्शनभूमिप्रभाविताः, इमे सत्त्वास् तनुभूमिप्रभाविता इमे ऽवरभागिकप्रभाविताः, इमे ऊर्द्धभागिकप्रभाविता इमे सर्वज्ञताप्रभाविता इमे मार्गज्ञताप्रभाविता इमे सर्वाकारज्ञताप्रभाविता इत्य् एवम् अपि न परामृशति. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते, येन स्वभावेन प्रभाव्येरन्, स तेन चैतसिकेन वीर्येण समन्वागतो मरणसुखे ऽपि वर्तमानः सत्त्वानाम् अर्थं करोति तांश् च सत्त्वान् नोपलभते वीर्यपारमितां परिपूरयति, तां च वीर्यपारमितां नोपलभते, बुद्धधर्मांश् च परिपूरयति, तांश् च बुद्धधर्मान् नोपलभते, बुद्धक्सेत्रं च परिशोधयति, तच् च बुद्धक्षेत्रं नोपलभते, स तेन कायिकेन चैतसिकेन वीर्येण समन्वागतस् तान् कुशलान् धर्मान् परिगृह्णाति, तत्र च न सज्जते, सो ऽसज्जमानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, लोकधातोर् लोकधातुं संक्रामति सत्त्वानाम् अर्थं करोति, सत्त्वानाम् अर्थं कुर्वन् येन येनर्द्धिप्रातिहार्येणेच्छति विकुर्वितुं तेन तेनर्द्धिप्रातिहार्येण विकुर्वति, यदि वा पुष्पवर्षेण यदि वा गन्धप्रमुञ्चनेन यदि वा गीताभरणेन यदि वा भूचलनेन यदि वा सप्तरत्नमयैर् लोकधातुसंदर्शनेन यदि वा ज्योतिरत्नानां सत्त्वानां कृतश आत्मानम् अवसृजति यदि वा गन्धम् अवसृजति यदि वा महायज्ञम् अवसृजति, यत्र न प्राणातिपातो (PSP_६-८:२५) वर्तते, यदि वानन्तान् सत्त्वान् मार्गे ऽवतारयति, यावत् प्राणातिपातात् परिमोचयति, अदत्तादानात् काममिथ्याचारान् मृषावादात् पिशुनवचनात् परुषवचनाद् अवद्धप्रलापाद् अभिध्याया व्यापादात् मिथ्यादृष्टेः परिमोचयति, कांश्चिद् दानेनानुगृह्णाति, कांश्चिच् छीलेन केषांचित् कृतशो ऽङ्गप्रत्यङ्गं परित्यजति केषांचित् पुत्रदारकेणानुग्रहं करोति, केषांचिद् आर्येणात्मानम् अवसृजति, एवं येन येनोपायेन सत्त्वानाम् अर्थः कर्तव्यः, तेन तेनोपायेन सत्त्वानाम् अर्थं करोति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु चैतसिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति.
SK
सुभूतिर् आह: कथञ् च भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु स्थित्वा ध्यानपारमितां परिपूरयति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्थापयित्वा तथागतसमाधिं सर्वसमाधीन् परिपूरयति, स विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः स वितर्कं स विचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति द्वितीयं ध्यानं तृतीयं ध्यानं चतुर्थं ध्यानम् उपसंपद्य विहरति, मैत्रीसहगतेन चित्तेन करुणासहगतेन मुदितासहगतेनोपेक्षासहगतेन चित्तेन यावत् सर्वावन्तम् लोकधातुम् उपसंपद्य विहरति, आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, स तत्र ध्यानपारमितायां स्थित्वाष्टविमोक्षान् अनुलोमप्रतिलोमान् उपसंपद्य विहरति, नवानुपूर्वविहारसमापत्तीर् उपसंपद्य विहरति, शून्यतासमाधिम् उपसंपद्य विहरति, आनिमित्तसमाधिम् अप्रणिहितसमाधिम् उपसंपद्य विहरति, आनन्तर्यान् अपि समाधीन् उपसंपद्य विहरति, विद्युतोपमांश् च समाधिम् उपसंपद्य विहरति, सम्यक्संबोधिं वज्रोपमं च समाधिम् उपसंपद्य विहरति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् उपसंपद्य विहरति, समाधिपारमितायां स्थित्वा सर्वाकारज्ञताम् उपसंपद्य विहरति, यया सर्वाकारज्ञतया सर्वसमाधिगगनगतं (PSP_६-८:२६) कृत्वा शुक्लविदर्शना भूमिम् अतिक्रम्य गोत्रभूमिम् अष्टमकभूमिं तनुभूमिं दर्शनभूमिं वीतरागभूमिं कृताविभूमिं श्रावकभूमिं प्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति, बुद्धभूमिं परिपूरयति, स आसु च भूमिषु चरति, न चान्तरा समाधिफलं प्राप्नोति, यावन् न सर्वाकारज्ञताम् अनुप्राप्स्यति, सो ऽत्र ध्यानपारमितायां स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धान् भगवतः पर्युपासमानः स तान् बुद्धान् भगवतः पर्युपास्ते तेषां बुद्धानां भगवताम् अन्तिके कुशलमूलम् अवरोपयति बुद्धक्षेत्रं च परिशोधयति, लोकधातोर् लोकधातुं संक्रामति, सत्त्वानाम् अर्थं करोति, तत्र कांश्चित् सत्त्वान् दानेन संगृह्णाति कांश्चिच् छीलेन संगृह्णाति कांश्चित् क्षान्त्या संगृह्णाति कांश्चिद् वीर्येण संगृह्णाति, कांश्चिद् ध्यानेन संगृह्णाति, कांश्चित् प्रज्ञया संगृह्णाति, कांश्चिद् विमुक्त्या कांश्चिद् विमुक्तिज्ञानदर्शनेन कांश्चित् स्रोताअपत्तिफले प्रतिष्ठापयति, कांश्चित् सकृदागामिफले कांश्चिद् अनागामिफले कांश्चिद् अर्हत्त्वे प्रतिष्ठापयति, कांश्चित् प्रत्येकबोधौ कांश्चिद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, यैर् यैः कुशलैर् धर्मैः सत्त्वा उद्गच्छन्ति तत्र तान् सत्त्वान् नियोजयति स इह ध्यानपारमितायां स्थित्वा सर्वसमाधिमुखान्य् अभिनिर्हरति चतस्रश् च प्रतिसंविदः, प्रतिलभते विपाकजानाञ् चाभिज्ञानाम् लाभी भवति स न जातु मातुः कुक्षाव् उपपद्यते, न जातु कामान् प्रतिसेवते न सा काचिद् उपपत्तिर् यां न गृह्णाति न चोत्पत्तिर् दोषैर् लिप्यते. तत् कस्य हेतोः? तथा हि तेन मायोपमा सर्वधर्मा दृष्टाः सुप्रतिबुद्धा भवन्ति स मायोपमं सर्वसंस्कारगतं विदित्वा महाकरुणा प्रतिगृहीतः सर्वसत्त्वानाम् अर्थं करोति, न च तत्र सत्त्वान् सत्त्वप्रज्ञप्तिम् उपलभते, स सत्त्वान् सत्त्वप्रज्ञप्तिम् अनुपलंभमानः सर्वधर्माणाम् अनुपलंभ एव सत्त्वान् प्रतिष्ठापयति लोकव्यवहारम् उपादाय न च पुनः परमार्थेन इह ध्यानपारमितायां स्थित्वा सर्वध्यानविमोक्षसमाधिसमापत्तिषु चरति न जातु ध्यानपारमितया विरहितो भवति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, (PSP_६-८:२७) स इह सर्वाकारज्ञतायां चरन् सर्वाकारज्ञताम् अभिनिर्हरति, यत्र स्थित्वा सर्ववासनानुसंधिं प्रजहाति, सर्ववासनानुसंधिं प्रहायात्मनो ऽर्थं कृत्वा परस्यार्थं करोति, स आत्मनः परस्य चार्थं कुर्वन् सदेवमानुषासुरलोकस्य दक्षिणीयो भवाति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु ध्यानपारमितां परिपूरयति. इति दानादीनाम् अन्यतमेन सर्वानास्रवैकलक्षणसंग्रहलक्षणो ऽयम् एकचित्तक्षणाभिसमयः प्रथमः
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत आनिमित्तेषु धर्मेषु प्रज्ञापारमिता भावनाप्रिपूरिम् गच्छति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मं सद्भूतं वा परिनिष्पन्नं वा समनुपश्यति, स रूपस्यासद्भूतताम् अपरिनिष्पन्नतां समनुपश्यति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यासद्भूतताम् अपरिनिष्पन्नतां समनुपश्यति, रूपस्योत्पादं न समनुपश्यति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं न समनुपश्यति, स रूपस्योत्पादम् असमनुपश्यन् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं न समनुपश्यन् रूपस्यायद्वारं न समनुपश्यति, संनिचयम् अपि न समनुपश्यति, एवं यावत् सर्वसास्रवानां धर्माणाम् अनास्रवाणां धर्माणाम् आयद्वारं न समनुपश्यति, तुच्छकांश् चैव समनुपश्यति, एवं प्रत्यवेक्षमाणो रूपस्य स्वभावन् नोपलभते यावत् सर्वसास्रवाणाम् अनास्रवाणां धर्माणां स्वभावन् नोपलभते, स प्रज्ञापारमितायां चरन्न् अभावस्वभावान् सर्वधर्मान् अधिमुचते, स एवम् अधिमुच्याध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन् न केषु काचिद् धर्मेष्व् अभिनिविशते, रूपे वा वेदनायां वा संज्ञायां वा संस्कारेषु वा विज्ञाने वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु वा प्रतीत्यसमुत्पादाङ्गेषु वा पारमितासु वा शून्यतासु वा बोधिपक्ष्येषु वा धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु (PSP_६-८:२८) शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु वानुत्तरायां सम्यक्संबोधौ वा नाभिनिविशते, अभावस्वभावायां प्रज्ञापारमितायां चरन् बोधिमार्गं परिपूरयति, यद् उत षट्पारमिता यावत् सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिपूरयति, स विपाकजधर्मे बोधिसत्त्वमार्गे स्थित्वा षट्सु पारमितासु परिपूर्णासु यावत् सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु परिपूर्णेसु यावद् विपाकजासु पञ्चस्व् अभिज्ञासु स्थित्वा ये सत्त्वा दानेनानुग्रहीतव्यास् तान् दानेनानुगृह्णाति, ये शीलेन ये समाधिना ये प्रज्ञया ये विमुक्त्या ये विमुक्तिज्ञानदर्शनेनानुग्रहीतव्यास् तांस् तैर् अनुगृह्णाति, ये स्रोतआपत्तिफले प्रतिष्ठापयितव्या ये सकृदागामिफले ये ऽनागामिफले ये ऽर्हत्त्वे ये प्रत्येकबोधौ ये ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्यास् तान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, एवं विस्तरेण कर्तव्यं सो ऽनेकविधाम् ऋद्धिं कुर्वाणो गङ्गानदीवालुकोपमाम् लोकधातून् न गच्छति, स आकाङ्क्षंस् तां लोकधातून् यादृशै रत्नैर् आकांक्षति तादृशै रत्नैर् अभिनिर्मिणोति स सत्त्वाभिप्रायं परिपूरयं लोकधातून् संक्रामति, स तां लोकधातून् दृष्ट्वा बुद्धक्षेत्रं परिगृह्णाति, तद्यथापि नाम परनिर्मितवशवर्तिनां देवानाम् उपभोगपरिभोगाः, ये ऽप्य् अन्ये लोकधातवो ऽपगतपापिष्ठा एवं विधास् तेनोपभोगपरिभोगाः स्युर् इति, स तया विपाकजया दानपारमितया शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितया विपाकजाभिर् अभिज्ञाभिर् विपाकजेन बोधिसत्त्वमार्गेण मार्गज्ञतायां चरन् सर्वपारमिताः प्राप्तः सर्वाकारज्ञताम् अनुप्राप्स्यति, यावत् सर्वञ् चैव रूपम् अपरिगृहीतं वेदना संज्ञा संस्कारा विज्ञानम् अपगृहीतं, यावत् सर्वधर्माः कुशला वाकुशला वा लौकिका वा लोकोत्तरा वा सास्रवा वानास्रवा वा संस्कृता वासंस्कृता वा सावद्या वानवद्या वा (PSP_६-८:२९) ऽपरिगृहीतं, तस्मात् तर्हि सुभूते तस्यानुत्तरं सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽपरिगृहीतः सर्वोपभोगो भविष्यति. तत् कस्य हेतोः? तथा हि सर्वधर्मा अपरिगृह्ल्ता अनुपलंभयोगेन. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तयोगेन प्रज्ञापारमितां परिपूरयति. इति विपाकधर्मतावस्थानास्रवसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयो द्वितीयः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन्न् एवम् असंभिन्नेषु धर्मेष्व् आनिमित्तेषु लक्षणशून्येषु षट्पारमिताभावनापरिपूरिर् भवति, दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः कथम् एषां सास्रवाणाम् अनास्रवाणां धर्माणां नानाकरणं प्रज्ञप्तं, कथम् एषान् नानाकरणं प्रज्ञायते, कथं दानपारमिता प्रज्ञापारमितायाम् अन्तर्गता भवति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितायाम् अन्तर्गता भवति, कथं भगवन्न् एवम् अलक्षणेषु धर्मेष्व् एकलक्षणेषु यद् उतालक्षणेषु नानाकरणं प्रभाव्यते.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु च पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंभोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानानि समापद्यते प्रज्ञां भावयति स्वप्नोपमांश् च पञ्चस्कन्धान् अलक्षणान् जानाति प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च पञ्चस्कन्धान् अलक्षणान् जानाति. तत् कस्य हेतोः? न हि स्वप्नं तस्य कश्चित् स्वभावो न हि प्रतिश्रुत्काया न हि प्रतिभासस्य न हि प्रतिबिंबस्य न हि मरीच्या न हि मायायाः, न हि निर्मितकस्य न हि गन्धर्वनगरस्य कश्चित् स्वभावो (PSP_६-८:३०) यस्य स्वभावो नास्ति तस्य नास्ति लक्षणं, यस्य च नास्ति लक्षणं स एकलक्षणो यद् उतालक्षणः, तद् अनेन सुभूते पर्यायेणैवं वेदितव्यम् अलक्षणं दानम् अलक्षणो दायको ऽलक्षणः प्रतिग्राहको ऽलक्षणाः सर्वधर्माः. एवं ज्ञात्वा दानं ददाति स दानपारमितां परिपूरयति, स दानपारमितां परिपूरयन् शीलपारमितायां न विवर्तते, क्षान्तिपारमितायां न विवर्तते, वीर्यपारमितायां न विवर्तते, ध्यानपारमितायां न विवर्तते, प्रज्ञापारमितायां न विवर्तते, स आसु षट्सु पारमितासु स्थित्वा चत्वारि ध्यानानि परिपूरयति चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः परिपूरयति, चत्वारि स्मृत्युपस्थानानि परिपूरयति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मार्गान् परिपूरयति, अध्यात्मशून्यतां बहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां परिपूरयति, शून्यतासमाधिम् आनिमित्तसमाधिम् अप्रणिहितसमाधिं परिपूरयति, अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञाः परिपूरयति, पञ्चधारणीमुखशतानि परिपूरयति, चतस्रः प्रतिसंविदश् चत्वार्य् आर्यसत्यानि परिपूरयति, दशतथागतबलानि चत्वारि वैशारद्यान्य् अष्टादशावेणिकबुद्धधर्मान् परिपूरयति, इह विपाकजेष्व् आर्येष्व् अनास्रवेषु स्थित्वा दशसु दिक्षु ये लोकधातवस् तान् ऋद्ध्या गत्वा बुद्धांश् च भगवतः पर्युपास्ते तांश् चोपतिष्ठति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यसर्वोपकरणपरिष्कारैर् यावद् उपभोगपरिभोगैः सत्त्वानाम् अर्थं करोति, ये दानेन संग्रहीतव्यास् तान् दानेन संगृह्णाति ये शीलेण संग्रहीतव्या ये क्षान्त्या संग्रहीतव्या ये वीर्येण संग्रहीतव्या ये ध्यानेन संग्रहीतव्या ये प्रज्ञया संग्रहीतव्यास् तान् प्रज्ञया संगृह्णाति, यावद् ये सर्वैः कुशलैर् धर्मैः संग्रहीतव्यास् तान् सर्वान् कुशलैर् धर्मैः संगृह्णाति कुशलैर् धर्मैः समन्वागतः संसारं चोपाददाति न च संसारावचरैर् दुष्खैर् लिप्यते सत्त्वानां कृतशो देवमानुषिकीञ् च संपत्तिम् उत्पादयति, यया संपत्त्या सत्त्वान् संगृह्णाति, सो ऽलक्षणान् सर्वसत्त्वां ज्ञात्वा स्रोतआपत्तिफलं च जानाति न च तत्र तिष्ठति, सकृदागामिफलं च जानाति न च तत्र (PSP_६-८:३१) तिष्ठति, अनागामिफलं च जानाति न च तत्र तिष्ठति, अर्हत्त्वञ् च जानाति न च तत्र तिष्ठति, प्रत्येकबोधिं च जानाति न च तत्र तिष्ठति. तत् कस्य हेतोः? तथा हि तेन सर्वाकारज्ञतानुप्राप्तव्या यो ऽसाधारणा सर्वश्रावकप्रत्येकबुद्धैः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणान् सर्वधर्मान् ज्ञात्वा षट्पारमिता अलक्षणा जानाति, यावत् सर्वधर्मान् अलक्षणानि जानाति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरं स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा शीलपारमितां परिपूरयति, स खलु पुनः स्वप्नोपमान् पञ्चोपादानस्कन्धान् ज्ञात्वा प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च पञ्चोपादानस्कन्धान् ज्ञात्वालक्षणां शीलपारमितां परिपूरयति, अखण्डाम् अच्छिद्राम् अशबलाम् अकल्माषाम् अपरामृष्टाम् अभुजिष्यां विज्ञप्रशस्तां सुसमात्ताम् आर्याम् अनास्रवां मार्गाङ्गपर्यापन्नां यत्र स्थित्वा समताभिसंस्कारिकं शीलं रक्षति धर्मताप्रतिलंभिकं च विज्ञप्तिशीलं च समुदाचारशीलं च सो ऽनेनैवंरूपेण शीलेन समन्वागतो न परामृशति, अनेनाहं शीलेन क्षत्रियमहाशालकुलानां सहव्रतायोपपद्येयाहं ब्राह्मणमहाशालकुलानां वा सहव्रतायोपपद्येयाहं राजा वा भवेयं चक्रवर्ती कोट्टराजा वा चातुर्महाराजकायिकानां वा देवानां सहव्रतायोपपद्येयाहं त्रयस्त्रिंशानां वा यामानां वा तुषितानां वा निर्मानरतीनां वा परनिर्मितवशवर्तिनां वा देवानां सहव्रतायोपपद्येयाहं ब्रह्मपार्षद्यानां वा ब्रह्मप्रोहितानां वा महाब्रह्माणां वा परीत्ताभानां वाप्रमाणाभानां वाभास्वराणां वा परीत्तशुभानां वाप्रमाणशुभानां वा शुभकृत्स्नानां वानभ्रकानां वा पुण्यप्रसवानां वा बृहत्फलानां वासंज्ञिसत्त्वानां वा शुद्धावासानां वा (PSP_६-८:३२) अस्पृहाणां वा अप्तपानां वा सुदृशानां वा सुदर्शनानां वा अकनिष्ठानां वा देवानां सहव्रतायोपपद्येयाहम् आकाशानन्त्यायतनानां वा विज्ञानानन्त्यायतनानां वाकिञ्चन्यायतनानां वा नैवसंज्ञानासंज्ञायतनानां वा सहव्रत्यायोपपद्येयाहं स्रोतआपत्तिफलं वानुप्राप्नुयां सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिं वानुप्राप्नुयाम्. तत् कस्य हेतोः? तथा हि सुभूते ऽलक्षणाः सर्वधर्मा एकलक्षणां यद् उताभावस्वभावलक्षणाः, न ह्य् अलक्षणो धर्मो ऽलक्षणं धर्मं परिपूरयति, नापि विलक्षणो धर्मो विलक्षणं धर्मं परिपूरयति, नाप्य् अविलक्षणो धर्मो ऽविलक्षणं धर्मं प्रापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अलक्षणां शीलपारमितां परिपूरयति, शीलपारमितां परिपूर्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रान्तो ऽनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते ऽनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभ्य मार्गाकारज्ञतायां चरन् पञ्चाभिज्ञा विपाकजाः प्रतिलभते, पञ्चसु धारणीमुखशतेषु स्थित्वा चतस्रः प्रतिसंविदः प्रतिलभते, चतस्रः प्रतिसंविदः प्रतिलभ्य बुद्धक्षेत्रेण बुध्हक्षेत्रं संक्रामति बुद्धांश् च भगवतः पर्युपास्ते सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, स पञ्चगतिके संसारे संसरति न च संसारावचरेण कर्मणा विपाकजेन लिप्यते, तद्यथापि नाम निर्मितश् चंक्रमति च तिष्ठति च निषीदति च शय्यां च परिकल्पयति, न चास्यागमनं दृश्यते, न गमनं न स्थानं न निषद्यां न शय्यां नासनं न चंक्रमः स सत्त्वानां चार्थं करोति, न च सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं, तद्यथापि नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयति, अपरिमाणान् सत्त्वान् विनीय त्रिभिर् यानैर् न कश्चित् सत्त्वम् उपलभते, यम् अनुत्तरायां सम्यक्संबोधौ व्याकुर्यात् स आयुः संस्कारान् अवसृज्य निर्मितम् अभिनिर्मायानुपधिशेषे निर्वाणधातौ परिनिर्यायात्. स खलु पुनः सुभूते निर्मितः कल्पस्यात्ययेन बोधिसत्त्वं महासत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठाप्य परिनिर्वृतस् तस्य च परिनिर्वृतस्य न कंचिद् (PSP_६-८:३३) वस्तूपलभ्यते, रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शीलपारमितां परिपूरयति, यत् परिपूराव् अन्तर्गताः सर्वधर्मा भवन्ति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु क्षान्तिपारमितां परिपूरयति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा क्षान्तिपारमितां परिपूरयति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वश् चतसृभिः क्षान्तिभिः क्षान्तिपारमितां परिपूरयति, कतमाभिश् चतसृभिः प्रथमचित्तोत्पादम् उपादाय, यावद् बोधिमण्डनिषण्णस्यात्रान्तरे सर्वसत्त्वा आक्रोशेयुर् वा परिभाषेरन् वासत्यया वाचा परुषया वा समुदाचरेयुर् लोष्टदण्डशस्त्रप्रहारान् वा दद्युस् तत्र बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितां परिपूरयितुकामेनैकचित्तोत्पादो ऽपि क्षोभसहगतो नोत्पादयितव्यः, को मे आक्रोशति वा परिभाषते वासत्यया वाचा परुषया वा समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति, तत् कस्य हेतोः? तथा हि सुभूते ऽस्यालक्षणाः, सर्वधर्माः क्षमन्ति तत् किं अस्यैवं भवति, को मे आक्रोशति वा परिभाषते वासत्यया वाचा परुषया वा समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति स एवम् उपपरीक्षमाणः क्षान्तिपारमितां परिपूरयति, सो ऽनया क्षान्तिपारमितया परिपूर्णयानुत्पत्तिकैर् धर्मैः क्षान्तिं प्रतिलभते.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कैषा भगवन्न् अनुत्पत्तिकेषु धर्मेषु क्षान्तिः किं वा एतस्याः प्रमाणं किं वा ज्ञानम्?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अणवो ऽपि सुभूते ऽकुशला धर्मा नोत्पद्यन्ते तेनोच्यन्ते ऽनुत्पत्तिका इति, तत्र या क्षान्तिस् तद् उच्यते ज्ञानं येन ज्ञानेनानुत्पत्तिकेषु धर्मेषु क्षान्तिं (PSP_६-८:३४) प्रतिलब्धते.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: या च भगवन् श्रावकानां वा प्रत्येकबुद्धानां वानुत्पत्तिकेषु धर्मेषु क्षान्तिर् या च बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर् आसां क्षान्तीनां किं नानाकरणं कः प्रतिविशेषः.
SK
भगवान् आह: यच् च सुभूते स्रोतआपन्नस्य ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् च सकृदागामिनो ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् चानागामिनां ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् चार्हतो ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् च प्रत्येकबुद्धस्य ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. इदं सुभूते नानाकरणं श्रावकप्रत्येकबुद्धानां क्षान्तेर् बोधिसत्त्वक्षान्तेश् च, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः इहैवं रूपया क्षान्त्या समन्वागतः सर्वश्रावकप्रत्येकबुद्धान् अभिभवति विपाकजायाम् अनुत्पत्तिकायां क्षान्त्यां स्थित्वा बोधिमार्गे चरन् मार्गज्ञतां परिपूरयति, यया परिपूर्णयाविरहितो भवति सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैः शून्यतानिमित्ताप्रणिहितैश् च समाधिभिः, स इह पञ्चभिर् अभिज्ञाभिर् अविरहितो भवति सो ऽविरहितत्वाद् आभिः पञ्चभिर् अभिज्ञाभिः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाच्य बुद्धक्षेत्रं च परिशोध्य सर्वाकारज्ञताम् अनुप्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणां क्षान्तिपारमितां परिपूरयति.
SK
पुनर् अपरं सुभूत्र् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु वीर्यपारमितां परिपूरयति.
SK
सुभूतिर् आह: कथञ् च भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा वीर्यपारमितां परिपूरयति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः कायिकं च चैतसिकं च वीर्यम् आरभते स कायिकेन वीर्येण ऋद्धिम् अभिनिर्हरति, (PSP_६-८:३५) दशदिग्लोकधातुं गत्वा बुद्धान् भगवतः पर्युपास्ते सत्त्वानां चार्थं करोति, स तेन कायिकेन वीर्येण सत्त्वान् पारिपाचयति त्रिषु यानेषु निवेशयति विनयति प्रतिष्ठापयति श्रावकयाने प्रत्येकबुद्धयाने ऽनुत्तरे बुद्धयाने. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अलक्षणां वीर्यपारमितां परिपूरयति, स चैतसिकेन वीर्येणानास्रवेण मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयति, यत्र पर्यापन्नाः सर्वकुशला धर्मास् तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियानि पञ्चबलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गमार्गं त्रीणि विमोक्षमुखानि चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयश् चत्वारि सत्यानि पञ्चाभिज्ञाः समाधिः धारणीमुखानि दश बोधिसत्त्वभूमयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, यत्र बोधिसत्त्वेन महासत्त्वेन चरता सर्वाकारज्ञता परिपूरयितव्या यस्यां परिपूर्णायां सर्ववासनानुसंधिं प्रहास्यति सर्ववासनानुसंधिं प्रहाय लक्षणपरिनिष्पत्तिं परिपूरयिष्यति, लक्षणपरिनिष्पत्तिं परिपूर्य प्रज्ञापारमितायां चरन् समन्तप्रभताम् आरागयिष्यति समन्तप्रभताम् आराग्य धर्मचक्रं च प्रवर्तयिष्यति द्वादशाकारन् त्रिपरिवर्तस्य प्रवर्ततेन त्रिसाहस्रो लोकधातुः षड्विकारं प्रकम्पिष्यते संप्रकम्पिष्यते प्रवेधिष्यते संप्रवेधिष्यते, प्रचलिष्यति संप्रचलिष्यति, सर्वे च त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फारिष्यति, तस्य पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य शब्दो निश्चरिष्यति तत्र ये त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तं शब्दं श्रोष्यन्ति ते सर्वे नियता भविष्यन्त्य् अनुत्तरेषु त्रिषु यानेषु, एवं बहुप्रकारा सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता यस्यां वीर्यपारमितां स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धधर्मान् परिपूर्य सर्वाकारज्ञताम् अनुप्राप्तव्याः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणां वीर्यपारमितां परिपूरयति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेसु मायोपमेषु (PSP_६-८:३६) निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपदानस्कन्धेषु स्थित्वालक्षणेषु ध्यानपारमितां परिपूरयति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा ध्यानपारमितां परिपूरयति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमं ध्यानम् उपसंपद्य विहरति द्वितीयं तृतीयं चतुर्थं ध्यानम् उपसंपद्य विहरति मैत्रीकरुणां मुदिताम् उपेक्षाम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनन् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति शून्यतानिमित्ताप्रणिहितसमाधीं भावयति विद्युतोपमञ् च समाधिं भावयति वज्रोपमञ् च समाधिं भावयति यत्र समाधौ स्थित्वा ये केचित् समाधयः, श्रावकसमाधिर् वा प्रत्येकबुद्धसमाधिर् वा ये ऽप्य् अन्ये समाधिगणास् तान् सर्वान् कायेन संस्पृश्योपसंपद्य विहरति, न च तान् समाधीन् आस्वादयति, न च समापत्तिफलम्. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वस् तान् समाधीन् अलक्षणान् जानात्य् अभावस्वभावत्वात् तत् किम् अलक्षणो धर्मो ऽलक्षणं धर्मम् आस्वादयिष्यति, अभावस्वभावो धर्मो ऽभावस्वभावं धर्मम् आस्वादयिष्यति, सो ऽनास्वादयन् न कस्यचित् समापत्तेर् वशेनोपपत्स्यते कामधातौ वा रूपधातौ वारूप्यधातौ वा. तत् कस्य हेतोः? तथा हि स तान् धातून् नोपलभते यो ऽपि समापद्येत येन वा समापद्यते, तम् अपि नोपलभते ऽनुपलंभमानो ऽलक्षणां ध्यानपारमितां परिपूरयति स तया ध्यानपारमितया श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितया श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति.
SK
भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां सुशिक्षितो बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सुशिक्षितो न चेह शून्यतासु कश्चिद् धर्म उपलभ्यते यत्रावतिष्ठेत्, स्रोतआपत्तिफले वा सकृदागामिफले वानागामिफले वार्हत्त्वे वा प्रत्येकबुद्धत्वे वा यावत् सर्वाकारज्ञतायां वा सापि शून्या शून्यतया, स आभिः शून्यताभिर् बोधिसत्त्वो (PSP_६-८:३७) महासत्त्वो बोधिसत्त्वनियामम् अवक्रामति.
SK
सुभूतिर् आह: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्यामः? कतमो नियामः?
SK
भगवान् आह: सर्वः सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभ आत्मः सर्वानुपलंभो नियामः.
SK
सुभूतिर् आह: कतमो भगवन्न् उपलंभः? कतमो ऽनुपलंभः?
SK
भगवान् आह: रूपं सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभः, वेदना संज्ञा संस्कारा विज्ञानम् उपलंभः, चक्षुर् उपलंभः श्रोत्रं घ्राणं जिह्वा कायो मन उपलंभो, रूपशब्दगन्धरसस्प्रष्टव्यधर्मा उपलंभः, चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्ययवेदनोपलंभः, एवं श्रोत्रघ्राणजिह्वाकायो मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शप्रत्ययवेदनोपलंभः, पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् उपलंभः, प्रतीत्यसमुत्पाद उपलंभः, अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भावो जातिर् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा उपलंभः, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखान्य् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा उपलंभः, सर्वाकारज्ञताः सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभः, अयम् उच्यते आमः, नियामः पुनः सुभूते यत्रैषां धर्माणां प्रव्याहारो नोपलभते, रूपस्य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा सर्वपारमितानां सर्वशून्यतानां सर्वबोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखानां शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां सर्वाकारज्ञतायाः. तत् कस्य हेतोः? तथा हि सुभूते रूपस्य यः स्वभावः सो ऽप्रव्याहारो वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यः स्वभावः सो ऽप्रव्याहारः, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा यः स्वभावः सो ऽप्रव्याहारः (PSP_६-८:३८) सर्वपारमितानां सर्वशून्यतानां सर्वबोधिपक्ष्याणां धर्माणां यः स्वभावः सो ऽप्रव्याहारः, आर्यसत्यानाम् अप्रमाणानां ध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां यः स्वभावः सो ऽप्रव्याहारः शून्यतानिमित्ताप्रणिहिताभिज्ञानां यः स्वभावः सो ऽप्रव्याहारो दशानां बोधिसत्त्वभूमीनां यः स्वभावः सो ऽप्रव्याहारः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां यः स्वभावः सो ऽप्रव्याहारः, सर्वाकारज्ञताया यः स्वभावः सो ऽप्रव्याहारः, अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य नियामः, नियामम् अक्रान्तो बोधिसत्त्वो महासत्त्वः समाधिपरिपूर्णो न समापत्तिवशेनोपपद्यते, प्राग् एव रागं वा दोषं वा मोहं वोत्पादयेद् यत्र स्थित्वा तत् कर्माभिसंस्कुर्याद् येन कर्माभिसंस्कारेण चतुर्णां ध्यानानाम् अन्यतमेनोपपद्येत नेदं स्थानं विद्यते ऽन्यत्र मायोपमेषु स्थित्वा सर्वसत्त्वानाम् अर्थं करोति न च सत्त्वानुपलभमानः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितां परिपूर्य यावद् धर्मचक्रं प्रवर्तयति, यद् उतानुपलंभशून्यतानिमित्ताप्रणिहितचक्रम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमान् धर्मान् परिजानाति प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमान् सर्वधर्मान् परिजानाति. इत्य् अलक्षणसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयस् तृतीयः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः स्वप्नोपमान् सर्वधर्मान् परिजानाति? प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च सर्वधर्मान् परिजानाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न स्वप्नं न स्वप्नदर्शिनं पश्यति, न प्रतिश्रुत्कान् न प्रतिश्रुत्कादर्शिनं, न प्रतिभासं न प्रतिभासदर्शिनं, न प्रतिबिंबं न प्रतिबिंबदर्शिनं, न मरीचिं न मरीचिदर्शिनं, न मायां न (PSP_६-८:३९) मायादर्शिनं, न निर्मितकं न निर्मितकदर्शिनं, न गन्धर्वनगरं न गन्धर्वनगरदर्शिनं च पश्यति. तत् कस्य हेतोः? तथा हि विपर्यासः स्वप्नो विपर्यासः, प्रतिश्रुत्का विपर्यासः प्रतिभासो विपर्यासः प्रतिबिंबं विपर्यासो मरीचिर् विपर्यासो माया विपर्यासो निर्मितको विपर्यासो गन्धर्वनगरं विपर्यास एष बालपृथग्जनानां पुनर् नापि स्वप्नदर्शनं नापि स्वप्नदर्शी न प्रतिश्रुत्कादर्शनं नापि प्रतिश्रुत्कादर्शी न प्रतिभासदर्शनं नापि प्रतिभासअदर्शी, न प्रतिबिंबदर्शनं नापि प्रतिबिंबदर्शी, न मरीचिदर्शनं न मरीचिदर्शी, न मायादर्शनं न मायादर्शी, न निर्मितकदर्शनं न निर्मितकदर्शी, न गन्धर्वनगरदर्शनं न गन्धर्वनगरदर्शी, एवं यावन् नार्हन् न प्रत्येकबुद्धो न बोधिसत्त्वो महासत्त्वो न तथागतो ऽर्हन् सम्यक्संबुद्धः. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावाः सर्वधर्मा अनुत्पन्ना असद्भूता ये ऽभावस्वभावाः सर्वधर्मास् ते परिनिष्पन्नास् तत्र किं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् भावसंज्ञी भविष्यति परिनिष्पन्नसंज्ञी वासद्भूतसंज्ञी वा नेदं स्थानं विद्यते. तत् कस्य हेतोः? न सा प्रज्ञापारमिता स्याद् यदि कस्यचिद् धर्मस्य स्वभावो भवेत् परिनिष्पत्तिर् वा सद्भूतता वा, एवं चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न रूपे सज्जति, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने सज्जति, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सज्जति, न प्रतीत्यसमुत्पादाङ्गेषु सज्जति, न कामधातौ न रूपधातौ नारूप्यधातौ सज्जति, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु न सज्जति, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु न सज्जति, शून्यतानिमित्ताप्रणिहितसमाधौ न सज्जति, आर्यसत्येषु न सज्जति, दानपारमितायां न सज्जति, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां न सज्जति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमां भूमिं परिपूरयति, तत्र च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि तां भूमिं नोपलभते, तत् किं तत्र च्छन्दरागं करिष्यत्य् एवं द्वितीयां भूमिं तृतीयां भूमिञ् चतुर्थां भूमिं पञ्चमीं भूमिं (PSP_६-८:४०) षष्ठीं भूमिं सप्तमीं भूमिम् अष्टमीं भूमिं नवमीं भूमिं दशमीं भूमिं परिपूरयति, तत्र च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि स ता भूमीर् नोपलभते, तत् किन् तत्र छन्दरागं करिष्यति, एवं दशम्यां भूमौ चरन् सर्वधर्माश् च तत्र प्रज्ञापारमितायाम् अन्तर्गतान् पश्यति, तांश् च सर्वधर्मान् नोपलभते. तत् कस्य हेतोः? तथा हि ते सर्वधर्माः सा च प्रज्ञापारमिताद्वयाद्वैधीकाराः. तत् कस्य हेतोः? तथा हि सर्वधर्माणां न कश्चिद् भेदो ऽस्ति धर्मधातुनिर्देशेन तथतानिर्देशेन भूतकोटिनिर्देशेनासंभिन्नाः सर्वधर्माः.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवान्न् असंभिन्नता सर्वधर्माणां तत्र कथं कुशलधर्मनिर्देशो भवति सास्रवाणाम् अनास्रवाणाञ् च धर्माणां निर्देशो भवति, लौकिकलोकोत्तराणां वा संस्कृतासंस्कृतानां धर्माणां निर्देशो भवति.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते या धर्माणां धर्मता सा कस्यचिद् धर्मस्य प्रव्याहारः संस्कृतस्य वासंस्कृतस्य वा स्रोतआपत्तिफलस्य वा सकृदागामिफलस्य वानागामिफलस्य वार्हत्त्वस्य वा प्रत्येकबोधेर् वा बोधिसत्त्वताया वा सम्यक्संबोधेर् वा.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, असंभिन्नाः सर्वधर्मा अलक्षणा अनुत्पन्ना अविनिर्भोगाः सर्वधर्मा न मया सुभूते सर्वां बोधिसत्त्वचर्यां चरता, कश्चिद् धर्मोपलब्धो रूपम् इति वा वेदनेति वा संज्ञेति वा संस्कारा इति वा विज्ञानम् इति वा स्कन्धधात्वायतनानीति वा प्रतीत्यसमुत्पन्ना इति वा, प्रतीत्यसमुत्पादाङ्गानीति वा कामधातुर् वा रूपधातुर् वारूप्यधातुर् वा, कुशलाकुशला वा धर्माः सास्रवा वानास्रवा वा सावद्या वानवद्या वा संस्कृतम् इति वासंस्कृतम् इति वा यावच् छ्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा बोधिसत्त्वता वा सम्यक्संबोधिर् वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबोत्स्यते ऽनुपलंभयोगेन, एवं चरता (PSP_६-८:४१) सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणां स्वभावे कुशलेन भवितव्यं, सर्वधर्माणां स्वभावकुशलो बोधिमार्गञ् च परिशोधयिष्यति, सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, यत्र स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वान् विनयिष्यति, ये विनीतत्वास् त्रिषु भवेषु न दृश्यन्ते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् अलक्षणयोगेन. इत्य् अद्वयलक्षणसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयश् चतुर्थः इत्य् उक्त एकक्षणाभिसमयः
SK
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायाम् एकक्षणाभिसमयाधिकारः शिक्षापरिसमाप्तिपरिवर्तः सप्तमः (PSP_६-८:४२): एम्प्त्य् (PSP_६-८:४३)
SK
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता VIII
SK
पुनर् अपरं सुभूते तेषाम् एव स्वप्नोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां सर्वाकारपरिशुद्धानाम् अनाश्रवाणां या प्रकृतिर् एकलक्षणा यद् उतालक्षणा स तथागतो ऽर्हन् सम्यक्संबुद्धो वेदितव्यः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्.
SK
सुभूतिर् आह: कतमे पुनस् ते भगवन्न् अनास्रवाः सर्वधर्माः.
SK
भगवान् आह: सप्तत्रिंशद् बोधिपक्ष्या धर्माश् चत्वार्य् अप्रमाणान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दश कृत्स्नायतनानि अष्टाव् अभिन्नायतनानि अरणसमाधिः प्रणिधिज्ञानम् षड् अभिज्ञाश् चतस्रः प्रतिसंविदः सर्वाकाराश् चतस्रः परिशुद्धयो दश पारमिआ दशबलानि चत्वारि वैशारद्यानि त्रीण्य् अक्षराणि त्रीणि स्मृत्युपस्थानानि असंप्रमोषधर्मता वासनासमुद्घातो महाकरुणा सर्वाकारज्ञता मार्गाकारज्ञता सर्वज्ञता च इमे उच्यन्ते सुभूते अनास्रवाः सर्वधर्मा इति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाइप् शिक्षितव्यम्. इति स्वभाविकः कायः
SK
पुनर् अपरं सुभूते प्रज्ञापारमितायां शिक्षित्वा तेषाम् एव धर्माणाम् अधिगमाद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वेण सर्वं सर्वथा सर्वं द्वात्रिंशन्महापुरुषलक्षणैर् अशीत्या चानुव्यञ्जनैर् अलंकृतकायस् तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वानां महासत्त्वानां परमं महायानधर्मम् अनुत्तररतिप्रीतिप्रामोद्यसुखोपभोगाय देशयति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति सांभोगिकः कायः
SK
पुनर् अपरं सुभूते प्रज्ञापारमितायां शिक्षित्वा तेषाम् एव सर्वधर्माणाम् अविगमेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्ष्व् अनन्तापर्यन्तेषु सर्वलोकधतुषु (PSP_६-८:४४) सर्वकालन् नानानिर्माणमेघेन सर्वसत्त्वानाम् अर्थं करोति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति नैर्माणिकः कायः
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् स्वप्नोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानं भवति, इमे कुशला इमे ऽकुशला इमे लौकिका इमे लोकोत्तरा इमे सास्रवा इमे ऽनास्रवा इमे संस्कृता इमे ऽसंस्कृता इमे स्रोत्रआपत्तिफलसाक्षात्क्रियायै संवर्तन्ते, इमे सकृदागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽनागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽर्हत्त्वफलसाक्षात्क्रियायै संवर्तन्ते, इमे प्रत्येकबोधये संवर्तन्ते, इमे ऽनुत्तरायै सम्यक्संबोधये संवर्तन्ते, प्रतिश्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिंबोपमानां मरीच्युपमानां मायोपमानां निर्मितकोपमानां गन्धर्वनगरोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानम् इमे कुशला इमे ऽकुशला इमे लौकिका इमे लोकोत्तरा इमे सास्रवा इमे ऽनास्रवा इमे संस्कृता इमे ऽसंस्कृता इमे स्रोतआपत्तिफलसाक्षात्क्रियायै संवर्तन्ते, इमे सकृदागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽनागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽर्हत्त्वफलसाक्षात्क्रियायै संवर्तन्ते, इमे प्रत्येकबोधये संवर्तन्ते, इमे ऽनुत्तरायै सम्यक्संबोधये संवर्तन्ते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बालो ऽश्रुतवान् पृथग्जनः स्वप्नम् उपलभते स्वप्नदर्शिनम् उपलभते, प्रतिश्रुत्काम् उपलभते प्रतिश्रुत्कादर्शिनम् उपलभते, प्रतिभासम् उपलभते प्रतिभासदर्शिनम् उपलभते, प्रतिबिंबम् उपलभते प्रतिबिंबदर्शिनम् उपलभते, मरीचिम् उपलभते मरीचिदर्शिनम् उपलभते, मायाम् उपलभते मायादर्शिनम् उपलभते, निर्मितकम् उपलभते निर्मितकदर्शिनम् उपलभते, गन्धर्वनगरम् उपलभते गन्धर्वनगरदर्शिनम् उपलभते, स्वप्नम् उपलभ्य स्वप्नदर्शिनम् उपलभ्य, यावद् गन्धर्वनगरम् उपलभ्य गन्धर्वनगरदर्शिनम् (PSP_६-८:४५) उपलभ्य, कुशलान् अभिसंस्कारान् अभिसंस्करोति, कायेन वाचा मनसाकुशलान् वाभिसंस्कारान् अभिसंस्करोति, कायेन वाचा मनसा पुण्यापुण्यानेञ्ज्यान् अभिसंस्कारान् अभिसंस्करोति. कायेन वाचा मनसा तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् द्वयोः शून्यतयोः स्थित्वात्यन्तशुन्यतायाम् अनवराग्रशून्यतायाञ् च सत्त्वानां धर्मन् देशयति, शून्यम् इदं त्रैधातुकं नास्त्य् अत्र रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्कन्धा वा धातवो वायतनानि वा प्रतिश्रुत्कैषा प्रतिभास एष मरीचिर् एषा निर्मितक एष गन्धर्वनगरम् एतन् नास्त्य् अत्र रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्कन्धधातवो वायतनानि वा नास्त्य् अत्र स्वप्नो न स्वप्नस्य द्रष्टा, न प्रतिश्रुत्का न प्रतिश्रुत्काया द्रष्टा, न प्रतिभासो न प्रतिभासस्य द्रष्टा, न प्रतिबिंबं न प्रतिबिंबस्य द्रष्टा, न मरीचिर् न मरीच्या द्रष्टा, न मायां न मायाया द्रष्टा, न निर्मितको न निर्मितकस्य द्रष्टा, न गन्धर्वनगरं न गन्धर्वनगरस्य द्रष्टा, ऽपि तु सर्व एते धर्मा अवस्तुका अभावस्वभावास् तत्र भवन्तो ऽस्कन्धे स्कन्धसंज्ञिनः, अधातुषु धातुसंज्ञिनो ऽनायतनेष्व् आयतनसंज्ञिनः, अपि तु खलु पुनः प्रतीत्यसमुत्पन्ना एते सर्वधर्मा विपर्याससमुत्थिताः कर्मविपाकपरिगृहीताः, किं पुनर् यूयम् अवस्तुकेषु धर्मेषु वस्तुसंज्ञाम् उत्पादयथैवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ये मत्सरिणः सत्त्वास् तान् मात्सर्यान् निवर्तयति, दानपारमितायां च नियोजयति, तेषाञ् च स दानपरित्यागो महाभोगतायै संवर्तते, स तांस् तत उच्चाल्य शीले नियोजयति, तेषां स शीलसमादानजः पुण्यस्कन्धः स्वर्गोपपत्तये भवति, स तांस् तत उच्चाल्य समाधौ नियोजयति स तेषां समापत्तिजः पुण्यस्कन्धो ब्रह्मलोकोपपात्तये भवति, एवं प्रथमाद् ध्यानाद् द्वितीये ध्याने द्वितीयाद् ध्यानात् तृतीये ध्याने तृतीयाद् ध्यानाच् चतुर्थे ध्याने चतुर्थाद् ध्यानाद् ऊर्ध्वम् आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्ताव् आकिञ्चन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ च नियोजयति, स तस्माद् अपि दानाद् दानफलाच् चानेकपर्यायं (PSP_६-८:४६) विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, स तस्माच् छीलाच् छीलफलाच् चानेकपर्यायं विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, स तेभ्यो ध्यानेभ्यो ध्यानफलेभ्यश् च समापत्तिभ्यः समापत्तिफलेभ्यश् चानेकपर्यायं विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, एवं चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गिकमार्गे त्रिषु विमोक्षमुखेष्व् अष्टसु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु निवेशयति विनयति प्रतिष्ठापयति, स एभिर् अनास्रवैर् धर्मैर् अरूपिभिर् अनिदर्शनैर् अप्रतिघैर् ये स्रोत्रआपत्तिफले स्थास्यन्ति तान् स्रोतआपत्तिफले प्रतिष्ठापयति, ये सकृदागामिफले स्थास्यन्ति तान् सकृदागामिफले प्रतिष्ठापयति, ये ऽनागामिफले स्थास्यन्ति तान् अनागामिफले प्रतिष्ठापयति, ये ऽर्हत्त्वे स्थास्यन्ति तान् अर्हत्त्वे प्रतिष्ठापयति, ये प्रत्येकबोधौ स्थास्यन्ति तान् प्रत्येकबोधौ प्रतिष्ठापयति, ये ऽनुत्तरायां सम्यक्संबोधौ स्थास्यन्ति, तेषां सत्पुरुषाणां बोधिमार्गम् आख्याति उपदिशति समुत्तेजयति, संप्रकाशयति संप्रहर्षयति, प्रतिष्ठापयति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवनतम् एतद् अवोचत्: आश्चर्यम् एतत् भगवन्न् अद्भुतो धर्मो यत्र हि नाम बोधिसत्त्वो महासत्त्वः, इह गम्भीरायां प्रज्ञापारमितायां चरन्न् अभावस्वभावानां धर्माणाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायां स्थित्वा धर्माणां व्यवस्थानं करोति, इमे कुशला धर्मा इमे ऽकुशला धर्मा इमे लौकिका धर्मा इमे लोकोत्तरा धर्मा इमे सास्रवा धर्मा इमे ऽनास्रवा धर्मा इमे सावद्या धर्मा इमे ऽनवद्या धर्मा इमे संस्कृता धर्मा इमे ऽसंस्कृता धर्माः
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत् आश्चर्यम् इदं सुभूते परमाश्चर्यम् इदं बोधिसत्त्वस्य महासत्त्वस्याद्भुतो धर्मो यद् इह गम्भीरायां प्रज्ञापारमितायां चरन् धर्माणां व्यवस्थानं करोति, सचेत् त्वं सुभूते जानीया यो बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भुतो धर्मस् (PSP_६-८:४७) तं सर्वश्रावकप्रत्येकबुद्धा अपि च एवम् अपि बोधिसत्त्वस्य महासत्त्वस्य न सुकरः प्रतिकारः कर्तुं तद् युष्माभिः सर्वैर् बोधिसत्त्वस्य महासत्त्वस्य न शक्यः सर्वधर्मा भावयितुं स्यात्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भूतो धर्मो यो न श्रावकप्रत्येकबुद्धानां संविद्यते?
SK
भगवान् आह: तेन हि सुभूते शृणु साधु च सुष्ठुश् च मनसिकुरु भाषिष्ये ऽहं ते, एवं भगवन्न् इत्य् आयुष्मान् सुभूतिर् भगवतः प्रत्यश्रौषीद्, भगवान् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विपाकजासु षट्सु पारमितासु स्थित्वा पञ्चस्व् अभिज्ञासु सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु धारणीमुखेषु चतसृषु प्रतिसंवित्सु स्थित्वा दशदिग्लोकधातुषु ये सत्त्वा दानेनानुग्रहीतव्यास् तान् दानेनानुगृह्णाति, ये शीलेन ये क्षान्त्या ये वीर्येण ये ध्यानेन ये प्रज्ञया ये प्रथमेन ध्यानेन ये द्वितीयेन ध्यानेन ये तृतीयेन ध्यानेन ये चतुर्थेन ध्यानेन, ये आकाशानन्त्यायतनसमापत्त्या ये विज्ञानानन्त्यायतनसमापत्त्या ये आकिञ्चन्यायतनसमापत्त्या ये नैवसंज्ञानासंज्ञायतनसमापत्त्यानुग्रहीतव्यास् तान् अनुगृह्णाति, ये मैत्र्यानुग्रहीतव्या ये करुणया ये मुदितया ये उपेक्षया ये चतुर्भिः स्मृत्युपस्थानैः, ये चतुर्भिः सम्यक्प्रहाणैः, ये चतुर्भिः ऋद्धिपादैः, ये पञ्चभिर् इन्द्रियैः, ये पञ्चभिर् बलैः, ये सप्तभिर् बोध्यङ्गैर् ये आर्याष्टाङ्गिकेन मार्गेण, ये शून्यतया ये आनिमित्तेन ये ऽप्रणिहितेन समाधिनानुग्रहीतव्यास् तान् शून्यतानिमित्ताप्रणिहितसमाधिभिर् अनुगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानेन सत्त्वान् अनुगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददात्य् अन्नम् अन्नार्थिकेभ्यो ददाति, पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्यः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाशयनासनं यावद् अन्यतरान्यतरं मानुष्योपकरणपरिष्कारं ददाति, यथैव (PSP_६-८:४८) तथागतयार्हते सम्यक्संबुद्धाय ददाति तथाइव प्रत्येकबुद्धेभ्यो ऽर्हद्भ्यो ऽनागामिभ्यः सकृदागामिभ्यः स्रोतआपन्नेभ्यः सम्यग्गतेभ्यः सम्यक्प्रतिपन्नेभ्यस् तथाइव तिर्यग्योनिगतेभ्यः सर्वेभ्यो ऽनानात्वेन दानन् ददाति. तत् कस्य हेतोः? तथा ह्य् अनानात्वं सर्वधर्मं ज्ञात्वा अनानात्वं दानं ददाति, अनानात्वं दानं दत्वा अनानात्वस्य धर्मस्य लाभी भवति यद् उत सर्वाकारज्ञतायाः, सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य याचनकं दृष्ट्वा एवं चित्तम् उत्पद्यते, सम्यक्संबुद्धा मे दक्षिणीया न तिर्यग्योनिगता इति, न बोधिसत्त्वधर्मो भवेत्. तत् कस्य हेतोः? न हि सुभूते बोधिसत्त्वो महासत्त्वो बोधाय चित्तम् उत्पाद्यैवम् अनुत्तरायां सम्यक्संबोधौ संप्रस्थित इमे मया सत्त्वा दानेनानुग्रहीतव्या इमे मया सत्त्वा दानेनानुग्रहीतव्या इति चिन्तयति, ते दानेनानुगृहीताः क्षत्रियमहाशालकुलेषूपपत्स्यन्ते, ब्राह्मणमहाशालकुलेषूपपत्स्यन्ते, गृहपतिमहासालकुलेषूपपत्स्यन्ते, तेनैव च दानानुग्रहेण त्रिभिर् यानैर् अनुपरिशेषे निर्वाणधातौ परिनिर्वास्यन्ति, सचेद् एते बोधिसत्त्वं महासत्त्वं जनपदबलकाया अवध्यायेरन् तेन नान्यथाचित्तम् उत्पादयितव्यं दास्यामि वा न वा, अपि तु अकोपितमानसेन जनपदबलकायेभ्यो दानं दातव्यः. तत् कस्य हेतोः? तथा हि तस्य जनपदबलकायस्यार्थायानुत्तरायां सम्यक्संबोधौ संप्रस्थितः. एवं च पुनर् विकल्पयेद् गर्ह्यो भवेयं तेषां बुद्धानां भगवतां तेषां बोधिसत्त्वानां महासत्त्वानां प्रत्येकबुद्धानाम् अर्हतां शैक्षाणां सदेवमानुषासुरस्य च लोकस्य केनायम् अधीष्टः सर्वसत्त्वानाम् अहं त्राणं भविष्यामि परायणं लयनं शरणम् इति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरता मनुष्यभूता वामनुष्यभूता वागत्याङ्गप्रत्यङ्गानि याचेरन्, तेन न द्विधा चित्तम् उत्पादयितव्यं, दास्यामि वा न दास्यामि वा. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सत्त्वानाम् अर्थाय सञ्चिन्त्य आश्रयः परिगृहीतो ऽनेन मयात्मभावेन सत्त्वानाम् अर्थः करणीयः, तेनैवं चित्तम् उत्पादयितव्यं येषाम् अर्थे मयात्मभाव उपात्तस् ते ऽयाचितकम् एव गृहीत्वा गच्छन्तु. एवं खलु (PSP_६-८:४९) सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शिक्षितव्यम्. तत् कस्य हेतोः? तथा ह्य् एते धर्मा अत्यन्तशून्यतया शून्या न हि शून्यता कस्मैचिद् ददाति वा च्छिनत्ति वा, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शिक्षितव्यं, यद् उताध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां स्थित्वा दानं दातव्यं सततसमितम्. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन याचनकं दृष्ट्वा, एवं चित्तम् उत्पादयितव्यं, को वेह दानन् ददाति, कस्मै वादीयते, किं वादीयते, तस्यैवं ददतो दानपारमितायां परिपूरिर् भविष्यति, सो ऽनया दानपारमितया परिपूर्या वा ह्य् अध्यात्मिकेषु धर्मेषु च्छिद्यमानेषु एवं चित्तम् उत्पादयिष्यति को मे च्छिनत्ति वा भिनत्ति वा. इति सामान्येन निर्माणकायद्वारेण धर्मकायस्य कर्म
SK
इहाहं सुभूते पश्यामि बुद्धचक्षुषा लोकं व्यवलोकयन् पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् संचिन्त्य महानिरयं पतित्वा तानि महानिरयदुःखान्य् उपशाम्य त्रिभिः प्रातिहार्यैस् तेषां नैरयिकानां सत्त्वानां धर्मं देशयतो यद् उत ऋद्धिप्रातिहार्येण वादेशनाप्रातिहार्येण वानुशासनीप्रातिहार्येण वा, ऋद्धिप्रातिहार्येण च तानि महानिरयदुःखान्य् उपशाम्य, आदेशनाप्रातिहार्येण धर्मं देशयन्ति, अनुशासनीप्रातिहार्येण च ते बोधिसत्त्वा महासत्त्वा महामैत्र्या महाकरुणया महामुदितया महोपेक्षया च धर्मं देशयन्ति. ततस् ते नैरयिकाः सत्त्वास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके चित्तम् अतिप्रसाद्य तेभ्यो निरयेभ्यो व्युत्तिष्ठन्ति, तेभ्यो निरयेभ्यो व्युत्थायानुपूर्वेण त्रिभिर् यानैर् दुःखस्यान्तं करिष्यन्ति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् अनुविदिक्षु लोकधतुषु बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् सञ्चिन्त्य महानिरये पतित्वा तानि महानिरयदुःखान्य् उपशाम्य त्रिभिः प्रातिहार्यैस् तेषां नैरयिकानां सत्त्वानां धर्मं देशयतो यद् उत ऋद्धिप्रातिहार्येण वादेशनाप्रातिहार्येण वानुशासनीप्रातिहार्येण (PSP_६-८:५०) वा ऋद्धिप्रातिहार्येण च तानि महानिरयदुःखान्य् उपशाम्य आदेशनाप्रातिहार्येण धर्मं देशयन्ति, अनुशासनीप्रातिहार्येण च ते बोधिसत्त्वा महासत्त्वा महामैत्र्या महाकरुणया महामुदितया महोपेक्षया च धर्मं देशयन्ति, ततस् ते नैरयिकाः सत्त्वास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके चित्तम् अभिप्रसाद्य तेभ्यो निरयेभ्यो व्युत्तिष्ठन्ति तेभ्यो निरयेभ्यो व्युत्थायानुपूर्वेण त्रिभिर् यानैर् दुःखस्यान्तं करिष्यन्ति. इति नरकगतिप्रशमनकर्म
SK
इहाहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् बुद्धानां भगवताम् उपस्थायकांस् तत् ते बोधिसत्त्वा महासत्त्वास् तान् बुद्धान् भगवत उपतिष्ठन्ति मनआपनप्रियेण नाप्रियेण गौरवेण नागौरवेण यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते, तत् ते बोधिसत्त्वा महासत्त्वा उद्गृह्णन्त्य् उद्गृह्य धारयन्ति, न च जातु विप्रणाशयति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् अनुविदिक्षु पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसात्त्वान् महासत्त्वान् बुद्धानां भगवताम् उपस्थायकांस्, तत् ते बोधिसत्त्वा महासत्त्वास् तान् बुद्धान् भगवत उपतिष्ठन्ति मनआपेनप्रियेण नाप्रियेण गौरवेण नागौरवेण, यं च ते बुध्हा भगवन्तो धर्मं भाषन्ते, तत् ते बोधिसत्त्वा महासत्त्वा उद्गृह्णन्त्य् उद्गृह्य धारयन्ति, न च जातु विप्रणाशयन्ति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
SK
पुनर् अपरं सुभूते लोकं व्यवलोकयन् बुद्धचक्षुषा दशसु दिक्षु बोधिसत्त्वान् महासत्त्वान् पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनिगतानां सत्त्वानाम् अर्थायात्मपरित्यागं कुर्वतस्, तत् ते बोधिसत्त्वा महासत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा दशसु दिक्षु क्षिपन्ति, ये तिर्यग्योनिगताः सत्त्वास् तेसां बोधिसत्त्वानां महासत्त्वानां मांसानि भक्षयन्ति ते तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके मैत्रीं प्रतिलभन्ते, ते तेन मैत्रीप्रतिलाभेन ततस् तिर्यग्योनेर् व्युत्तिष्ठन्ति तिर्यग्योनेर् व्युत्थाय बुद्धां भगवत (PSP_६-८:५१) आरागयन्ति, ते तान् बुद्धान् भगवत उपतिष्ठन्ति, ते तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोन्ति, तन् धर्मं श्रुत्वा तथत्वाय प्रतिपद्यन्ते, ते ऽनुपूर्वेणानुपधिशेषे निर्वाणधातौ परिनिर्वान्ति त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. एवं बहुकराः सुभूते बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयन्ति चित्तम् उत्पाद्य तथत्वाय प्रतिपद्यन्ते, ते ऽनुपूर्वेण त्रिभिर् यानैर् अनुपधिशेषे निर्वाणधातौ परिनिर्वान्ति, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा. इति तिर्यग्योनिप्रशमनकर्म
SK
इहाहं सुभूते लोकं व्यवलोकयन् बुद्धचक्षुषा पश्यामि, दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये प्रेतविषयिकानां सत्त्वानां प्रेतविषयं दुःखं तत् सर्वं प्रतिप्रस्रं भयन्ति, ये प्रेतविषयेषु सत्त्वास् ते दुःखवेदना प्रस्रब्धकायास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके मैत्रीचित्तम् उत्पाद्यते न कुशलमूलेन ततः प्रेतयानेर् व्युत्तिष्ठन्ति व्युत्थिताश् च तेन कुशलमूलेन ततः प्रेतयाने बुद्धैर् भगवद्भिर् न जातु विरहिता भवन्ति, बुद्धां भगवत आरागयन्ति, ते तान् बुद्धान् भगवत उपतिष्ठन्ति तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रुत्वा तथत्वाय प्रतिपद्यन्ते ऽनुपूर्वेणानुपधिशेषे निर्वाणधातौ परिनिर्वान्ति त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा. एवं करुणा विहारिणः सुभूते बोधिसत्त्वा महासत्त्वाः सत्त्वानाम् अर्थाय प्रत्युपस्थिता यद् उत परिनिर्वाणाय. इति यमलोकप्रशमनकर्म
SK
इहाहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन् बोधिसत्त्वान् महासत्त्वान् पश्यामि दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु ये चातुर्महाराजकायिकानां देवानां धर्मं देशयन्ति, त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां धर्मं देशयन्ति ते च देवपुत्रास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिकाद् धर्मं श्रुत्वानुपूर्वेण त्रिषु यानेषु परिनिवृताश् च परिनिर्वान्ति च (PSP_६-८:५२) परिनिर्वास्यन्ति च, तत्र सुभूते ये देवपुत्रा औदारिकैः पञ्चभिः कामगुणैर् मूर्छितास् तेषां तानि विमानान्य् आदीप्य धर्मं देशयन्त्य् अनित्याः खलु मार्षाः सर्वसंस्काराः कः संस्कारेषु विश्वस्तमानसो विहरेत्?
SK
इहाहं सुभूते ऽनावरणेन बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये ब्रह्मदृष्टिम् अभिनिविष्टास् तान् दृष्टिभ्यो विवेचयन्ति, कथं भो मार्षाः शून्येषु सर्वधर्मेषु दृष्टिम् उत्पादयथ, एवं रिक्तेषु तुच्छेषु सर्वधर्मेषु दृष्टिम् उत्पादयथ. एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा करुणायां स्थित्वा सत्त्वानां धर्मं देशयन्ति. आश्चर्यम् इदं सुभूते बोधिसत्त्वानां महासत्त्वानाम् अद्भुतो धर्मः. इति देवगतिप्रशमनकर्म
SK
इहाहं सुभूते पश्यामि बुद्धचक्षुषा लोकं व्यवलोकयन् पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये मनुष्यांश् चतुर्भिः संग्रहवस्तुभिः संगृह्णन्ति, दानेन प्रियवद्यतया, अर्थक्रियया समानार्थतया, कथं सुभूते बोधिसत्त्वो महासत्त्वो दानेन सत्त्वान् अनुगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वो द्वाभ्यां दानाभ्यां सत्त्वान् अनुगृह्णाति, कतमाभ्यां द्वाभ्याम्? यद् उतामिषप्रदानेन च धर्मदानेन च. कथं सुभूते बोधिसत्त्वो महासत्त्व आमिषप्रदानेन सत्त्वान् अनुगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्वः सुवर्णं वा रूप्यं वा मणिं वा मुक्तां वा वैडूर्यं वा शङ्खशिलां वा प्रवाडं वा रजतं वा जातरूपं वान्नं वा पानं वा यानं वा वस्तुं वा गन्धं वा माल्यं वा विलेपनं वा शयनं वा आसनं वा प्रतिश्रयं वा प्रदीपं वा स्त्रियं वा पुरुषं वा दारकं वा दारिकां वाश्वं वा गां वा अनड्वाहं वा हस्तिनं वा अजाविकं वा धान्यादीनि वा आत्ममांसं वा दातुशब्दम् अनुश्रावयति, आगच्छध्वं भोः पुरुषाः, येन येन युष्माकं कार्यं तत् तत् ममान्तिकान् निर्विशङ्का गृहीत्वा गच्छत. येन येन कृत्यं (PSP_६-८:५३) युष्मदीयम् एवेदं तद् दानं दत्वा बुद्धशरणं गमयति, धर्मशरणं गमयति, संघशरणं गमयति, कांश्चित् पञ्च शिक्षापदानि ग्राहयति, कांश्चिद् अष्टाङ्गिकं पोषधम् उपोषधयति, कांश्चिद् दश कुशलां कर्मपथां ग्राहयति, कांश्चित् प्रथमे ध्याने, कांश्चिद् द्वितीये, कांश्चित् तृतीये, कांश्चिच् चतुर्थे ध्याने, कांश्चिद् आकाशानन्त्यायतने, कांश्चिद् विज्ञानानन्त्यायतने, कांश्चिद् आकिञ्चन्यायतने, कांश्चिन् नैवसंज्ञानासंज्ञायतने, कांश्चिद् मैत्र्यां, कांश्चित् करुणायां, कांश्चिद् मुदितायां, कांश्चिद् उपेक्षायां समादापयति, कांश्चिद् बुद्धानुस्मृत्यां, कांश्चिद् धर्मानुस्मृत्यां, कांश्चित् संघानुस्मृत्यां, कांश्चिच् छीलानुस्मृत्यां, कांश्चित् त्यागानुस्मृत्यां, कांश्चिद् देवानुस्मृत्यां, कांश्चिद् अशुभपरिवर्तेषु समुच्छ्रयेषु, कांश्चिद् आकारेषु, कांश्चिच् चतुर्षु संग्रहवस्तुषु, कांश्चिच् चतुर्षु स्मृत्युपस्थानेषु, कांश्चिच् चतुर्षु सम्यक्प्रहाणेषु, कांश्चिच् चतुर्ष्व् ऋद्धिपादेषु, कांश्चित् पञ्चस्व् इन्द्रियेषु, कांश्चित् पञ्चसु बलेषु, कांश्चित् सप्तसु बोध्यङ्गेषु, कांश्चिद् आर्याष्टाङ्गिकमार्गे समादापयति, कांश्चिच् छून्यतानिमित्ताप्रणिहितेषु, कांश्चित् समाधिसमापत्तिविमोक्षधारणीमुखेषु, कांश्चिद् अष्टषु विमोक्षेषु, कांचिन् नवसु अनुपूर्वविहारसमापत्तिषु, कांश्चिच् चतुर्ष्व् आर्यसत्येषु, कांश्चिद् दशेषु बोधिसत्त्वभूमिषु समादापयति, कांश्चिद् दशसु तथागतबलेषु, कांश्चिच् चतुर्षु वैशारद्येषु, कांश्चिच् चतसृषु प्रतिसंवित्सु, कांश्चिद् अष्टादशावेणिकेषु बुद्धधर्मेषु समादापयति, कांश्चिद् महाकरुणायां कांश्चिद् अशीत्य् अनुव्यञ्जनेषु, कांश्चिद् द्वात्रिंशद् महापुरुषलक्षणेषु, कांश्चिच् छ्रोतआपत्तिफले, कांश्चित् सकृदागामिफले, कांश्चिद् अनागामिफले, कांश्चिद् अर्हत्त्वे, कांश्चित् प्रत्येकबोद्धौ प्रतिष्ठापयति, कांश्चिद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, कांश्चिद् दानपारमितायां, कांश्चिच् छीलपारमितायां, कांश्चित् क्षान्तिपारमितायां, कांश्चिद् वीर्यपारमितायां, कांश्चिद् ध्यानपारमितायां, कांश्चित् प्रज्ञापारमितायां प्रतिष्ठापयति, कांश्चिद् उपायपारमितायां प्रतिष्ठापयति, कांश्चित् प्रणिधानपारमितायां, कांश्चिद् बलपारमितायां, कांश्चिद् ज्ञानपारमितायां प्रतिष्ठापयति, कांश्चिद् अध्यात्मशून्यतायां, कांश्चिद् बहिर्धाशून्यतायां, कांश्चिद् अध्यात्मबहिर्धाशून्यतायाम्, एवं यावत् (PSP_६-८:५४) कांश्चिद् अभावस्वभावशून्यतायां प्रतिष्टाअपयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येण सत्त्वानाम् आमिषदानं दत्वा दाने योगक्षेमे मार्गे प्रतिष्ठापयति. अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भुतो धर्मः.
SK
कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् धर्मदानेनानुगृह्णाति? इमे सुभूते धर्मदाने कतमे द्वे लौकिकं च लोकोत्तरं च? कतमच् च सुभूते लौकिकं धर्मदानं या लौकिकानां धर्माणां सर्वे क्षणा देशना प्रकाशना विवरणोत्तानीकरणता, तद् यथाशुभपरिवर्तकस्य चतुर्णां ध्यानानां चतुर्णां ब्रह्मविहाराणां चतसृणाम् आरूप्यसमापत्तीनां, ये ऽप्य् अन्ये केचिद् लौकिकाधर्माः सा धारणा बालपृथग्जनैर् इदम् उच्यते लौकिकां धर्मदानम्. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः, इदं लौकिकं धर्मदानं दत्वा अनेकपर्यायेणानेकविधेनोपायेन ततः समादानाद् विवेचयति स विवेच्योपायकौशल्येनार्येषु धर्मेषु प्रतिष्ठापयति, आर्यधर्माणाञ् च फले, कतमे च ते आर्यधर्माः? कतमद् आर्यधर्माणां फलं? आर्यधर्मा उच्यन्ते सुभूते सप्तत्रिंशद् बोधिपक्ष्या धर्माः, त्रीणि विमोक्षमुखानि, चत्वार्य् आर्यसत्यान्य्, आर्यधर्माणां फलं स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वम् इति.
SK
अपि तु खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्मा यत् स्रोतआपत्तिफले ज्ञानं, यत् सकृदागामिफले ज्ञानं, यद् अनागामिफले ज्ञानं, यद् अर्हत्त्वे ज्ञानं, यत् प्रत्येकबोधौ ज्ञानं, यत् सप्तत्रिंशद् बोधिपक्ष्येषु धर्मेषु ज्ञानं, यद् आर्यसत्येषु ज्ञानं, यद् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु ज्ञानं, याच् छून्यतानिमित्ताप्रणिहितेषु ज्ञानं, यद् अभिज्ञासु ज्ञानं, यद् दशबलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु ज्ञानं, यद् महामैत्र्यां महाकरुणायां महामुदितायां महोपेक्षायां ज्ञानं, यत् सर्वपारमितासु ज्ञानं, यत् सर्वशून्यतासु ज्ञानम्, इमे उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्माः, ये ऽपि चान्ये लौकिका वा लोकोत्तरा वा धर्माः, सास्रवा वा अनास्रवा वा संस्कृता वासंस्कृता वा, अन्यत्र (PSP_६-८:५५) सर्वाकारज्ञताज्ञानादय उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्माः.
SK
अपि तु खलु पुनः सुभूते बोधिसत्त्वस्य महासत्वस्यार्यधर्माणां फलं, यच् छ्रोतआपत्तिफलं सत्त्वान् प्रापयति, यावत् सर्वाकारज्ञतां सत्त्वान् प्रापयति, इदम् उच्यते आर्यधर्माणां फलम्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति.
SK
सुभूतिर् आह: नास्ति तर्हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य तथागतस्य च नानाकरणम्?
SK
भगवान् आह: नास्ति नानाकरणम्.
SK
सुभूतिर् आह: कथं नास्ति नानाकरणम्?
SK
भगवान् आह: बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति, तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वाकारज्ञताम् अनुप्रापयति. तत् कस्य हेतोः? न ह्य् अन्यद् बोधिसत्त्वानां महासत्त्वानां चित्तम् उपलभते, नान्यत् तथागतस्यार्हतः सम्यक्संबुद्धस्य यत्र स्थित्वा सर्वधर्माणाम् अनानाकरणताम् अनुप्राप्ताः, इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य लौकिकं धर्मदानं यद् उपनिश्रयो भवति लोकोत्तरस्य धर्मदानस्य. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वाल् लोकोत्तरधर्मदाने नियोज्योपायकौशल्येन यावत् सर्वाकारज्ञतायां प्रतिष्ठापयति. इति मनुष्यगतिप्रशमनकर्म
SK
कतमच् च सुभूते बोधिसत्त्वानां महासत्त्वानां लोकोत्तरधर्मदानम्? यद् असाधारणं सर्वबालपृथग्जनैस् तद्यथा चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियानि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गश्, चत्वार्य् अप्रमाणानि, त्रयः समाधयश्, चत्वार्य् आर्यसत्यान्य्, अष्टौ विमोक्षा, नवानुपूर्वविहारसमापत्तयो, दश कृत्स्नान्य्, अष्टाव् अभिभ्वायतनान्य्, अरणा, प्रणिधिज्ञानं, षड् अभिज्ञाश्, चतस्रः प्रतिसंविदः, सर्वाकाराश्, (PSP_६-८:५६) चतस्रः परिशुद्धयः, दश वशिता, दश बलानि, चत्वरि वैशारद्यानि, त्रीणि रक्षाणि, त्रीणि स्मृत्युपस्थानानि, असंमोषधर्मता, वासनासमुद्घातो, महाकरुणा, ऽष्टादशावेणिका बुद्धधर्मा, द्वात्रिंशन् महापुरुषलक्षणान्य्, अशीत्य् अनुव्यञ्जनानि, इदम् उच्यते लोकोत्तरधर्मदानं न लौकिकम्.
SK
कतमानि च सुभूते चत्वारि स्मृत्युपस्थानानि? अध्यात्मकाये कायानुपश्यी विहरति, आतापी संप्रजानन् बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन्न् अध्यात्मबहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये समुदयानुपश्यी च कायस्य विहरति, व्ययानुपश्यी च कायस्य विहरति, कायानुपश्यी च विहरति, अनिश्चितश् च विहरति, न च कञ्चिल् लोके उपादत्ते, एवं वेदनायां चित्ते ऽध्यात्मधर्मे धर्मानुपश्यी विहरति बहिर्धाधर्मे धर्मानुपश्यी विहरति, अध्यात्मबहिर्धाधर्मे धर्मानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये समुदयानुपश्यी च धर्माणां विहरति, व्ययानुपश्यी च धर्माणां विहरति, धर्मे धर्मानुपश्यी विहरति, अनिश्चितश् च विहरति, न च कञ्चिल् लोके उपादत्ते, इमान्य् उच्यन्ते चत्वारि स्मृत्युपस्थानानि.
SK
कतमानि च सुभूते चत्वारि सम्यक्प्रहाणानि? अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय छन्दञ् जनयति, उत्पन्नानां प्रहाणाय छन्दञ् जनयति, अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दञ् जनयति, उत्पन्नानां कुशलानां धर्माणां भूयोभावाय छन्दञ् जनयति, इमान्य् उच्यन्ते चत्वारि सम्यक्प्रहाणानि.
SK
कतमे च सुभूते चत्वार ऋद्धिपादाः? छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादश् चित्तवीर्यमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः, इम उच्यते चत्वार ऋद्धिपादाः.
SK
कमानि च सुभूते पञ्चेन्द्रियानि? श्रद्धेन्द्रियं वीर्येन्द्रियं, स्मृतीन्द्रियं समाधीन्द्रिय्ं प्रज्ञेन्द्रियं, इमान्य् उच्यन्ते पञ्चेन्द्रियानि.
SK
कतमानि च सुभूते पञ्च बलानि? श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम्, इमान्य् उच्यन्ते पञ्च बलानि. (PSP_६-८:५७)
SK
कतमानि च सुभूते सप्त बोध्यङ्गानि? स्मृतिसंबोध्यङ्गं धर्मप्रविचयसंबोध्यङ्गं वीर्यसंबोध्यङ्गं प्रीतिसंबोध्यङ्गं प्रस्रब्धिसंबोध्यङ्गं समाधिसंबोध्यङ्गम् उपेक्षासंबोध्यङ्गम्, इमान्य् उच्यन्ते सप्त संबोध्यङ्गानि.
SK
कतमश् च सुभूते आर्याष्टाङ्गमार्गः? सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः, अयम् उच्यते आर्याष्टाङ्गो मार्गः.
SK
कतमानि च सुभूते चत्वार्य् अप्रमाणानि? मैत्रीकरुणामुदितोपेक्षाः, इमान्य् उच्यन्ते चत्वार्य् अप्रमाणानि.
SK
कतमे च सुभूते त्रयस् समाधयः? शून्यतानिमित्ताप्रणिहितास् समाधयः, कतमश् च शून्यतासमाधिर् या शून्यताकारेण विविक्ताकारेण तुच्छाकारेण रिक्ताकारेण निःस्वभावसंस्कारेण च चित्तस्यैकाग्रतायम् उच्यते शून्यतासमाधिः, कतमश् चानिमित्तः समाधिर् या शान्ताकारेण विविक्ताकारेण च चित्तस्यैकाग्रता, अयम् उच्यते आनिमित्तसमाधिः, कतमश् चाप्रणिहितः समाधिर् यानित्याकारेण दुःखाकारेण विपर्यासाकारेण च चित्तस्यैकाग्रता, अयम् उच्यते ऽप्रणिहितः समाधिर्, इम उच्यन्ते त्रयः शून्यतानिमित्ताप्रणिहितसमाधयः.
SK
कतमानि च सुभूते चत्वार्य् आर्यसत्यानि? दुष्खं समुदयो निरोधो मार्ग इमान्य् उच्यन्ते चत्वार्य् आर्यसत्यानि.
SK
कतमे च सुभूते अष्टौ विमोक्षा? रूपी रूपाणि पश्यत्य् अयं प्रथमो विमोक्षः. अध्यात्मम् अरूपसंज्ञां बहिर्द्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षः. शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरत्य् अयं तृतीयो विमोक्षः. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमां नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किं चनेत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति. आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, नैवसंज्ञानासंज्ञायतनसमापत्तिसमतिक्रमात् संज्ञावेदयितनिरोधम् (PSP_६-८:५८) उपसंपद्य विहरति, इमे उच्यन्ते अष्टौ विमोक्षाः.
SK
कतमाश् च सुभूते नवानुपूर्वविहारसमापत्तयः? इहैकेभ्यो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चैतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्ष्यको विहरति, स्मृतिमान् संप्रजानं सुखञ् च कायेन प्रतिवेदयते, यत् तदार्य आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वाम् एव च सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धञ् चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इति, आकाशानन्त्यायतनम् उपसंपद्य विहरति. आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति, विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किं चनेत्य्, आकिञ्चन्यायतनम् उपसंपद्य विहरति. आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति. नैवसंज्ञानासंज्ञायतनसमापत्तिसमतिक्रमात् संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति, इमा उच्यन्ते नवानुपूर्वविहारसमापत्तयः.
SK
कतमानि च सुभूते दश कृत्स्नानि? पृथिवीकृत्स्नम् अप्कृत्स्नन् तेजःकृत्स्नं वायुकृत्स्नं नीलकृत्स्नं पीतकृत्स्नं लोहितकृत्स्नम् अवदातकृत्स्नं विज्ञानकृत्स्नम् आकाशकृत्स्नम्, इमान्य् उच्यन्ते दश कृत्स्नानि.
SK
कतमानि च सुभूते अष्टाव् अभिभ्वायतनानि? अध्यात्मरूपसंज्ञी बहिर्धारूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि, तानि खलु रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यति तथा संज्ञी भवति. अध्यात्मम् अरूपसंज्ञी बहिर्धारूपाणि पश्यति महद्गतानि सुवर्णदुर्वर्णानि, तानि खलु रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यति. अध्यात्मम् अरूपसंज्ञी च बहिर्धारूपाणि पश्यति, नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि, पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि, लोहितानि (PSP_६-८:५९) लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि, अवदातान्य् अवदातवर्णान्य् अवदातनिदर्शनान्य् अवदातनिर्भासानि, तद्यथा उमकपुस्पं संपन्नं वाराणसेयकं वस्त्रं, कर्णिकारपुष्पं संपन्नं वाराणसेयकं वस्त्रं, बन्धूकपुष्यं संपन्नं वराणसेयकं वस्त्रम्, उषसि तारकाया वर्णैः संपन्नं वाराणसेयकं वस्त्रम्. इमान्य् उच्यन्ते अष्टाव् अभिभ्वायतनानि.
SK
कतमा च सुभूते अरणा? ध्यानं निश्रित्य परक्लेशानुत्पत्तेर् अनुरक्षाविहारसुसमृद्धो यः समाधिः प्रज्ञा तत् संप्रमुक्ताश् च चित्तचैतसिका धर्माः, इयम् उच्यन्ते अरणा.
SK
कतमच् च सुभूते प्रणिधिज्ञानम्? ध्यानं निश्रित्य इदं जानीयाम् इति प्रणिधानसमृद्धो यः समाधिः प्रज्ञा तत् संप्रयुक्ताश् च चित्तचैतसिका धर्माः, इदम् उच्यते प्रणिधिज्ञानम्.
SK
कतमाश् च सुभूते षड् अभिज्ञा? ऋद्ध्यभिज्ञा, दिव्यं चक्सुर्, दिव्यं श्रोत्रं, परचित्तज्ञानं, पूर्वनिवासानुस्मृतिः, आस्रवक्षयज्ञानं, साक्षात्क्रियाभिज्ञा च, इमा उच्यन्ते षड् अभिज्ञाः.
SK
कतमाश् च सुभूते चतस्रः प्रतिसंविदः? ध्यानं निश्रित्य पर्याये धर्मलक्षणे जनपदभाषायां धर्मप्रभेदेष्व् अव्याघातसमृद्धो यः समाधिः प्रज्ञा तत् संप्रयुक्ताश् च चित्तचैतसिका धर्मा, इमा उच्यन्ते चतस्रः प्रतिसंविदः.
SK
कतमाश् च सुभूते सर्वाकाराश् चतस्रः परिशुद्धयः? आशयपरिशुद्धिर् आलम्बनपरिशुद्धिश् चित्तपरिशुद्धिर् ज्ञानपरिशुद्धिश् चेमा उच्यन्ते सर्वाकाराश् चतस्रः परिशुद्धयः.
SK
कतमाश् च सुभूते दश वशिताः? आयुर्वशिता, चित्तवशिता, परिष्कारवशिता, कर्मवशिता, उपपत्तिवशिता, अधिमुक्तिवशिता, प्रणिधानवशिता, ऋद्धिवशिता, ज्ञानवशिता, धर्मवशिता, इमा उच्यन्ते दश वशिताः.
SK
कतमानि च सुभूते दश तथागतबलानि? स्थानञ् च स्थानतो ऽस्थानञ् चास्थानतो यथाभूतं प्रजानाति, अतीतानागतप्रत्युत्पन्नानां कर्मणां कर्मस्वकतां यथाभूतं प्रजानाति, ध्यानविमोक्षसमाधिसमापत्तीन्द्रियबलबोध्यङ्गमार्गान् यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानाम् इन्द्रियवरावरज्ञानतां यथाभूतम् (PSP_६-८:६०) प्रजानाति, परसत्त्वानां परपुद्गलानां नानाधिमुक्तिकतां यथाभूतां प्रजानाति, अनेकधातुं नानाधातुकं लोकसंनिवेशं यथाभूतं प्रजानाति, सर्वत्रगामिनीं च प्रतिपदं यथाभूतं प्रजानाति, दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन यावत् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते ये सत्त्वास् तान् यथाभूतं प्रजानाति, अनेकविधं पूर्वनिवासम् अनुस्मरति, एकां वा जातिं जातिशतं वा जातिसहस्रं वा जातिशतसहस्रं वा जातिकोटीनियुतशतसहस्रं वा यावत् पूर्वान्तकोटिशो यावत् साकारं सोद्देशं सनिदानं यथाभूतं प्रजानाति, आस्रवक्षयेणानास्रवां चेतोविमुक्तिं यथाभूतं प्रजानाति, इमान्य् उच्यन्ते दश तथागतबलानि.
SK
कतमानि च सुभूते चत्वारि वैशारद्यानि? सम्यक्संबुद्धस्य च मे प्रतिजानत इमे धर्मा नाभिसंबुद्धा इत्य् अत्र मे कश्चित् सदेवके लोके समारके, सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां वा धर्मा कोपयेद् इति निमित्तम् एवं न समनुपश्यामि, एवं वाहन् निमित्तम् असमनुपश्यं क्षमप्राप्तो ऽभयप्राप्तो विहरामि, यावद् अप्रवर्तिकं धर्मचक्रं प्रवर्तयामि, श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वान्येन केनचिद् वा पुनर् लोके ऽस्मिन् सहधर्मेण, क्षीणास्रवस्य च मे प्रतिजानत इमे ऽनास्रवा धर्मा अपरिक्षीणा इत्य् अत्र मे कश्चिद् यावद् धर्मचक्रं प्रवर्तयामि या मया श्रावकानां प्रतिपद् आख्याता आर्या नैर्याणिकी सम्यग् दुःखक्षयाय तां प्रतिषेधमानो न निर्यायात्, सम्यग् दुःखक्षयायेति, स्थानम् एतन् न समनुपश्यामि यावद् धर्मचक्रं प्रवर्तयामि, ये वा मया श्रावकेभ्य आन्तरायिका धर्मा आख्यातास् ते प्रतिषेधमाणा नालम् अन्तेरायायेति मे कश्चिद् यावद् धर्मचक्रं प्रवर्तयामीमान्य् उच्यन्ते चत्वारि वैशारद्यानि.
SK
कतमानि च सुभूते त्रीण्य् आरक्षाणि? परिशुद्धं कायकर्म परिशुद्धं वाक्कर्म परिशुद्धं मनस्कर्मेतीमान्य् उच्यन्ते त्रीण्य् आरक्षाणि.
SK
कतमानि च सुभूते त्रीणि स्मृत्युपस्थानानि? श्रोतुकामेष्व् अश्रोतुकामेष्व् उभयकामेषु तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुनयप्रतिघविविक्त एवोपेक्षको विहरति स्मृतिमान् संप्रजानन्न् इमान्य् उच्यन्ते त्रीणि (PSP_६-८:६१) स्मृत्युपस्थानानि.
SK
कतमा च सुभूते ऽसंमोषधर्मता? सर्वकृत्येषु सर्वदेशेषु सर्वोपायेषु सर्वकालेषु सदोपस्थितस्मृतिता, इयम् उच्यते असंमोषधर्मता.
SK
कतमश् च सुभूते वासनासमुद्घातः? सर्वेण सर्वं सर्वथा सर्वं क्लेशसंगाव् असदृशचेष्टो ऽसमुदाचारो ऽयम् उच्यते वासनासमुद्घातः.
SK
कतमा च सुभूते महाकरुणा? या सर्वकालं सर्वसत्त्वेषु निरुत्तरा हितसुखाध्याशयतेयम् उच्यते महाकरुणा.
SK
कतमे सुभूते अष्टादशावेणिकबुद्धधर्माः? यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽत्रान्तरे तथागतस्य नास्ति स्खलितं, नास्ति रवितं, नास्ति मुषिता स्मृतिर्, नास्ति असमाहितं चित्तं, नास्ति नानात्वसंज्ञा, नास्त्य् अप्रतिसंख्यायोपेक्षा, नास्ति च्छन्दस्य हानिर्, नास्ति वीर्यस्य हानिर्, नास्ति स्मृतेर् हानिर्, नास्ति समाधेर् हानिर्, नास्ति प्रज्ञाया हानिर्, नास्ति विमुक्तेर् हानिर्, अतीते ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, अनागते ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, प्रत्युत्पन्ने ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, सर्वकायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति, सर्ववाक्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति, सर्वमनस्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्तीमे उच्यन्ते ऽष्टादशावेणिका बुद्धधर्माः.
SK
कतमानि च सुभूते तथागतस्य द्वात्रिंशद् महापुरुषलक्षणानि? चक्राङ्कितहस्तपादता, सुप्रतिष्ठितपादता, जालहस्तपादता, मृदुतरुणहस्तपादता, सप्तोच्छ्रयता, दीर्घाङ्गुलिता, आयतपार्ष्णिता, बृहदृजुगात्रता, उच्छङ्खपादता, ऊर्ध्वंगरोमता, एणेयजङ्घता, पटूरुबाहुता, कोशावहितवस्तिगुह्यता, सुवर्णवर्णता, श्लक्स्णच्छविता, एकैकप्रदक्षिणावर्तरोमता, ऊर्णाङ्कितमुखता, सिंहपूर्वार्धकायता, सुसंवृतस्कन्धता, चितान्तरांसता, रसरसज्ञता, न्यग्रोधपरिमण्डलता, उष्णीषशिरस्कता, पृथुतनुजिह्वता, ब्रह्मस्वरता, सिंहहनुता, सशुक्लदन्तता, समदन्तता, अविरलदन्तता, समचत्वारिशद्दन्तता, अभिनीलनेत्रता, गोपक्ष्मनेत्रता चेति, तत्र चक्राङ्कितहस्तपाद इति चक्राणि तथागतस्य हस्तपादतले जातानि भवन्ति, सहस्राराणि (PSP_६-८:६२) सनेमिकानि सनाभिकानि, सर्वाकारपरिपूर्णानि, तद्यथा अस्थिमयं वा दन्तमयं वा बिंबम् उत्कीर्णं स्यात्, समं पाणितलाभ्यां पृथिवीसंस्पर्शनाद् असंकुचितत्वात् पादयोः सुप्रतिस्थितपाणिपादता, हंसराजस्येव जालपिनद्धाङ्गुलिपाणिपादत्वाज् जालहस्तपादः, तूलपिचूपमतरुणसुकुमारतालकोमलपाणिपादत्वाद् मृदुतरुणहस्तपादः समुच्छ्रितहस्तपादः, शिरोग्रीवाप्रदेशत्वात् सप्तोच्छ्रयः, आयतहस्तपादाङ्गुलित्वाद् दीर्घाङ्गुलिः, दीर्घपार्ष्णित्वाद् आयतपार्ष्णिः, सप्तार् अभ्युच्छ्रितत्वाद् अवक्रगात्रत्वाद् बृहदृजुगात्रः, उच्चैः सुनिगूढजानुगुल्फत्वाद् उच्छङ्खपादः, ऊर्ध्वप्रदक्षिणावर्तकुण्डलरोमत्वाद् ऊर्ध्वाङ्गरोमा, शरभैणेयेयजङ्घत्वाद् अनुपहतत्वाद् अनुपूर्वोपचितवृत्तजङ्घत्वाच् चैणेयजङ्घः, समोरुबाहुत्वाद् अवनतस्य पाणितलाभ्यां जानुमण्डलस्पर्शनात् पटूरुबाहुः, परमाभिरूपकोशनिगूढमेहनत्वाद् वस्त्यश्वाजानेयवत्कोशावहितवस्तिगुह्यः, उत्तप्तहाटकसुवर्णवर्णत्वात् सुवर्णवर्णः, रजतजातरूपसुपरिकर्मकृतश्लक्ष्णसमानच्छवित्वाद् रजसानुपलिप्तगात्रत्वाच् छ्लक्ष्णच्छविः, सुविभक्तैकैका द्वितीयजातरोमत्वाद् एकैकरोमा, अवदातकुन्देन्दुगोक्षीरतुषारवर्णचन्द्रसूर्यशतातिरेकप्रभया ऊर्णया भ्रुवोर् अन्तरे कृतालंकारत्वाद् आस्यस्योर्णाङ्कितमुखः, उपरिविपुलकायत्वात् सिंहपूर्वार्धकायः, सुश्लिष्टपरिमण्डलग्रीवत्वात् सुसंवृतस्कन्धः, काञ्चनपट्टसुविमृष्टो परितोषस्कन्धत्वाच् चितान्तरांसः, वातपित्तश्लेष्माभिर् अनुपहतसमनत्वाद् रसरसप्रतिभावनत्वात् सदृशविज्ञानत्वाच् च रसरसज्ञः, कायस्य व्यामसमारोहपरिणाहप्रमाणत्वान् न्यग्रोधपरिमण्डलः, वृत्तपरिमण्डलदक्षिणा वर्तोष्णीषसमानसू पहितदर्शनीयशिरस्कत्वाद् उष्णीषशिराः, रक्तोत्पलपत्त्रसमवर्णापतत्वात् पृथुतनुजिह्वः, हिरण्यगर्भकलविङ्कशकुनिसदृशस्वरत्वाद् ब्रह्मस्वरः, आदर्शमण्डलवत्सुपरिवृत्तोपचितदर्शनीयहनुत्वात् सिंहहनुः, कुन्देन्दुशंखाव् अभेदकवत्सितदन्तत्वाच् छुक्लदन्तः, अनुन्नतदन्तत्वात् समदन्तः, निरन्तरत्वाद् अविरलदन्तः, अध ऊर्ध्वं चानतिरिक्तत्वात् समचत्वारिंशद्दन्तः, कृष्णशुभ्रदेशानुपक्लिष्टसुविशुद्धत्वाल् लोहितराजिभिर् अपिनद्धत्वाच् चाभिनीलनेत्रः, अधःस्थितानाम् ऊर्ध्वस्थितानां च सम्य्गवनतत्वाद् (PSP_६-८:६३) असंलुडितत्वाच् च पक्ष्मणो गोपक्ष्मनेत्रस् तथागतो भवति.
SK
ततः चक्राङ्कहस्तपादो भवति गुरूणाम् अनुगमनप्रत्युद्गमनाभ्यां धर्मश्रवणमाल्योपहारचैत्यानुयानप्रभृतिषु परिवारदानाच् चक्राङ्कहस्तपादो भवति, तत् पुनर् महापरिवारतायाः, पूर्वनिमित्तं, दृढसमादानत्वात् सुप्रतिष्ठितपाणिपादस् तद् अकम्पनीयतायाः पूर्वनिमित्तं, चतुर्णां संग्रहवस्तूनां दानप्रियवद्यार्थचर्यासमानार्थतानाम् आसेवनाज् जालहस्तपादस् तत् क्षिप्रसंग्रहतायाः पूर्वनिमित्तं, प्रणीतानाम् अशितपीतलीढखादितास्वादितान् आदानात् मृदुतरुणहस्तपादः, सप्तोच्छ्रयश् वा तद् उभयं प्रणीतानाम् एवाशितपीतलीढखादितास्वादितानां प्रतिलब्धये पूर्वनिमित्तं, वध्यपरिमोक्षणाज् जीवितानुग्रहकरणात् प्राणातिपाताच् च प्रतिविरतेर् आसेवनाद् दीर्घाङ्गुलिर् आयतपादपार्ष्णिर् बृहदृजुगात्रश् च तद् दीर्घायुष्कतायाः पूर्वनिमित्तं, कुशलस्य धर्मसमादानस्योपात्तस्याभिवर्धनाद् अपरिहाणाच् चोच्छङ्खपादश् चोर्ध्वाङ्गरोमा च तद् अपरिहाणिधर्मताया विनये वा पूर्वमिमित्तं, सत्कृत्यशिल्पविद्याकर्मणाम् उपप्रदानाद् उपादानप्रदानाच् चैणेयजङ्घस् तत् क्षिप्रग्रहणतायाः पूर्वनिमित्तं, स्वतः संविद्यमानस्यार्थस्य याचितेन दानाद् अप्रत्याख्यानाच् च पटूरुबाहुस् तद् वशितायाः प्रदाने विनये वा पूर्वनिमित्तं, मित्रस्वजनसंबन्धिसङ्गतानाम् अन्योन्याविप्रयोजनाद् विप्रयुक्तानां च सत्त्वानां ब्रह्मचर्यसमादानाद् गुह्यमन्त्ररक्षणाच् च कोशावहितमस्तिगुह्यस् तद् बहुपुत्रतायाः पूर्वनिमित्तं, प्रणीतानाम् उपस्तरणप्रावरणनिवासनानां प्रासादविमानभवनानाञ् च दानात् सुवर्णवर्णः श्लक्ष्णच्छविश् च तद् उभयं प्रणीतानाम् एवोपस्तरणप्रावरणनिवासनानां प्रासादविमानभवनानां च प्रतिलब्धये पूर्वनिमित्तं, संगणिकापरिवर्जनाद् उपाध्यायाचार्यमातापितृभ्रातृप्रभृतीनां च गुरूणां यथानुरूपोपस्थाननिवेशनात् तद् अध्यक्षाप्रदानाच् च विकृतानाम् एकैकप्रदक्षिणावर्तरोमा ऊर्णाङ्कितमुखश् च तद् अप्रतिसमतायाः पूर्वनिमित्तं, अमुखरवचनाद् अनवसादनात् प्रियवादित्वात् सुभाषितानुरोमत्वाच् च सिंहपूर्वार्धकायः, सुसंवृतस्कन्धश् च तद् अप्रतिहततायाः पूर्वनिमित्तं, व्याधितेभ्यो भैषज्यपरिचारकचिकित्सकपथ्यभोजनानां (PSP_६-८:६४) प्रदानाद् उपस्थानाच् च चितान्तरांसः, रसरसज्ञश् च तद् अल्पाबाधतायाः पूर्वनिमित्तम्, आरामसभाश्रयोदपानदुर्गसंक्रमभक्तमाल्यविहारावसथविहारकरणप्रभृतिषु परेषाम् उत्साहनपूर्वङ्गमत्वात् परेभ्यो ऽभ्यधिकप्रदानाच् च न्यग्रोधपरिमण्डल उष्णीषशिराश् च तद् आधिपत्यप्रतिलंभाय पूर्वनिमित्तं, दीर्घरात्रश्लक्ष्णप्रियमधुरवचनाभिधानात् प्रभूतजिह्वो ब्रह्मस्वरश् च तत् पञ्चाङ्गवाक्यथोपेतस्य स्वरस्य प्रतिलब्धये पूर्वनिमित्तं, पञ्चाङ्गवाक्यथोपेतः पुनः स्वरः, आज्ञेयो विज्ञेयः श्रवनीयो न प्रतिकूलः, गम्भीरो ऽनुनादी, अनेलः कर्णसुखो विदुरवकीर्ण इति, दीर्घरात्रं संभिन्नप्रलापविरतेः कालवादित्वाच् च सिंहहनुस् तद् आदेयवाक्यतायाः पूर्वनिमित्तं, संमाननाधिमाननाभ्यां परिशुद्धाजीवत्वाच् च सुशुक्लदन्तः समदन्तश् च तत् पूर्वोपचितपरिवारतायाः पूर्वनिमित्तं, दीर्घरात्रं सत्यस्यापिशुनस्य समुदाचाराद् अविरलदन्तः समचत्वारिंशद्दन्तश् च तद् अभेद्यपरिवारतायाः पूर्वनिमित्तं, परिपक्वमानस्येवानवसादयमानस्यारक्तेनाद्विष्टेनामूदेन चक्षुषा दर्शनाद् अतिनीलनेत्रो गोपक्ष्मनेत्रश् च तत् समन्तप्रासादिकतायाः पूर्वनिमित्तम्. इमान्य् उच्यन्ते द्वात्रिंशद् महापुरुषलक्षणान्य् एभिः सुभूते द्वात्रिंशद् महापुरुषलक्षणैस् तथागतस्य कायः समन्वागतो भवति.
SK
कतमानि च सुभूते तथागतस्याशीत्य् अनुव्यञ्जनानि? ताम्रनखाश् च बुद्धा भगवन्तो भवन्ति सर्वसंस्कारविरक्तचित्ताः, स्निग्धनखाश् च बुद्धा भगवन्तो भवन्ति स्निग्धस्वजनवत् सर्वसत्त्वहितसुखाध्याशयचित्ताः, तुङ्गनखाश् च बुद्धा भगवन्तो भवन्ति तुङ्गकुशलवंशप्रसूताः, वृत्ताङ्गुलयश् च बुद्धा भगवन्तो भवन्ति वृत्ततो ऽनवद्याः, चिताङ्गुलयश् च बुद्धा भगवन्तो भवन्त्य् उपचितविपुलकुशलमूलाः, अनुपूर्वाङ्गुलयश् च बुद्धा भगवन्तो भवन्ति अनुपूर्वसमुपार्जितकुशलमूलाः, गूढशिराश् च बुद्धा भगवन्तो भवन्ति सुनिगूढकायवाग्मनस्कर्मान्ताजीवाः, निर्ग्रन्थिशिराश् च बुद्धा भगवन्तो भवन्ति क्लेशग्रन्थिभेदकराः, गूढगुल्फाश् च बुद्धा भगवन्तो भवन्ति सुनिगूढधर्ममतयः, अविषमपादाश् (PSP_६-८:६५) च बुद्धा भगवन्तो भवन्ति सर्वविषमनिस्तारयितारः, १० सिंहविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति नरसिंहाः, नागविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति नरनागाः, हंसविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति राजहंससदृशवैहायसगामिनः, वृषभविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति पुरुषर्षभाः, प्रदक्षिणावर्तगामिनश् च बुद्धा भगवन्तो भवन्ति प्रदक्षिणमार्गाः, चारुगामिनश् च बुद्धा भगवन्तो भवन्ति चारुदर्शनाः, अवक्रगात्राश् च बुद्धा भगवन्तो भवन्ति नित्यम् अवक्रचित्ताः, वृत्तगात्राश् च बुद्धा भगवन्तो भवन्ति विशुद्धगुणख्यापयितारः, मृष्टगात्राश् च बुद्धा भगवन्तो भवन्ति प्रमृष्टपापधर्माणाः, अनुपूर्वगात्राश् च बुद्धा भगवन्तो भवन्त्य् अनुपूर्वधर्मदेशिकाः. २० शुचिगात्राश् च बुद्धा भगवन्तो भवन्ति कायवाग्मनःशौचसमन्वागताः, मृदुगात्राश् च बुद्धा भगवन्तो भवन्ति स्वभावमृदुचित्ताः, विशुद्धगात्राश् च बुद्धा भगवन्तो भवन्ति स्वभावविशुद्धचित्ताः, परिपूर्णव्यञ्जनाश् च बुद्धा भगवन्तो भवन्ति सुपरिपूर्णधर्मविनयाः, पृथुचारुमण्डलगात्राश् च बुद्धा भगवन्तो भवन्ति पृथुचारुगुणाख्यातारः, समक्रमाश् च बुद्धा भगवन्तो भवन्ति सर्वसत्त्वसमचित्ताः, विशुद्धनेत्राश् च बुद्धा भगवन्तो भवन्ति सुविशुद्धदर्शनाः, सुकुमारगात्राश् च बुद्धा भगवन्तो भवन्ति सुकुमारधर्मदेशिकाः, अदीनगात्राश् च बुद्धा भगवन्तो भवन्ति नित्यम् अदीनचित्ताः, उत्सदगात्राश् च बुद्धा भगवन्तो भवन्त्य् उत्सन्नाकुशलमूलाः. ३० सुसंहतनाश् च बुद्धा भगवन्तो भवन्ति क्षीणपुनर्भवसहगताः, सुविभक्ताङ्गप्रत्यङ्गाश् च बुद्धा भगवन्तो भवन्ति सुदेशितप्रतीत्यसमुत्पादाङ्गप्रत्यङ्गाः, वितिमिरशुद्धालोकाश् च बुद्धा भगवन्तो भवन्ति सुविशुद्धदर्शनाः, वृत्तकुक्षयश् च बुद्धा भगवन्तो भवन्ति वृत्तसंपन्नशिष्याः, मृष्टकुक्षयश् च बुद्धा भगवन्तो भवन्ति प्रमृष्टसंसारदोषाः, अभुग्नकुक्षयश् च बुद्धा भगवन्तो भवन्ति भग्नमानशृङ्गाः, क्षामोदराश् च बुद्धा भगवन्तो भवन्ति धर्मक्षयविनिवर्तयितारः, गम्भीरनाभयश् (PSP_६-८:६६) च बुद्धा भगवन्तो भवन्ति प्रतिविद्धपरमगम्भीरधर्माणः, प्रदक्षिणावर्तनाभयश् च बुद्धा भगवन्तो भवन्ति प्रदक्षिणग्राह्युपपन्नशिष्याः, समन्तप्रासादिकाश् च बुद्धा भगवन्तो भवन्ति समन्तप्रासादिकशिष्यसंघाः. ४० शुचिसमाचाराश् च बुद्धा भगवन्तो भवन्ति परमशुचिचित्ताः, व्यपगततिलकगात्राश् च बुद्धा भगवन्तो भवन्ति व्यपगताकालोपदेशधर्मविनयाः, तूलसदृशसुकुमारपाणयश् च बुद्धा भगवन्तो भवन्ति तूलसदृशकायलाघवप्रतिलाभधर्मदेशिकाः, स्निग्धपाणिलेखाश् च बुद्धा भगवन्तो भवन्ति स्निग्धस्वजनभावप्रतिलब्धमहाश्रमणभावाः, गम्भीरपाणिलेखाश् च बुद्धा भगवन्तो भवन्ति परमगम्भीरधीरावस्थानाः, आयतपाणिलेखाश् च बुद्धा भगवन्तो भवन्त्य् आयतिक्षमधर्माख्यातारः, नात्यायतवचनाश् च बुद्धा भगवन्तो भवन्ति नात्यायतशिक्षापदप्रज्ञापयितारः, बिंबप्रतिबिंबदर्शनवदनाश् च बुद्धा भगवन्तो भवन्ति प्रतिबिंबवद्विसर्जितसर्वलोकाः, मृदुजिह्वाश् च बुद्धा भगवन्तो भवन्ति मृदुपूर्वविनेतारः, तनुजिह्वाश् च बुद्धा भगवन्तो भवन्त्य् अतनुगुणोपपन्नाः. ५० रक्तजिह्वाश् च बुद्धा भगवन्तो भवन्ति रक्तबालजनदुरवगाहधर्मविनयाः, गजगर्जितजीमूतघोषा बुद्धा भगवन्तो भवन्ति गजगर्जितजीमूतघोषेस्व् अपरित्रासाः, मधुरचारुमञ्जुस्वराश् च बुद्धा भगवन्तो भवन्ति मधुरचारुमञ्जुस्वरप्रलापशिष्याः, वृत्तदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति वृत्तभवसंयोजनाः, तीक्ष्णदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति तीक्ष्णजनविनयनकुशलाः, शुक्लदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति परमशुक्लधर्मविनयाः, समदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति समभूमिभागप्रतिष्ठिताः, अनुपूर्वदंष्ट्राश् च बुद्धा भगवन्तो भवन्त्य् अनुपूर्वाभिसमयदेशयितारः, उत्तुङ्गनासाश् च बुद्धा भगवन्तो भवन्ति प्रज्ञातुङ्गपर्वतस्थाः, शुचिनासाश् च बुद्धा भगवन्तो भवन्ति शुचिविनयजनसंप्रतिपन्नाः. ६० विशालनयनाश् च बुद्धा भगवन्तो भवन्ति परविशालक्षणबुद्धधर्माणः, चितपक्ष्माणश् च बुद्धा भगवन्तो भवन्ति चितसत्त्वकायाः, सितासितकमलनयनाश् च बुद्धा भगवन्तो भवन्ति (PSP_६-८:६७) सितासितकमलदलनयनाभिः प्रबलसुरासुरवरयुवतिभिर् अभिनन्दिताः, आयतभ्रुवश् च बुद्धा भगवन्तो भवन्ति नित्यम् आयतिदर्शिनः, श्लक्ष्णभ्रुवश् च बुद्धा भगवन्तो भवन्ति शुक्लविनयकुशलाः, समरोमभ्रुवश् च बुद्धा भगवन्तो भवन्ति समन्तदाषज्ञाः, स्निग्धभ्रुवश् च बुद्धा भगवन्तो भवन्ति कुशलमूलोपस्नेहस्निग्धसंतानजनविनयाः, पीनायतभुजाश् च बुद्धा भगवन्तो भवन्ति परपीनायतवाहवः, समकर्णाश् च बुद्धा भगवन्तो भवन्ति जितसमराः, अनुपहतकर्णेन्द्रियाश् च बुद्धा भगवन्तो भवन्त्य् अनुपहतसत्त्वविनायकाः. सुपरिणामितललाटाश् च बुद्धा भगवन्तो भवन्ति सर्वदृष्टिकृतविपरिणताः, पृथुललाटाश् च बुद्धा भगवन्तो भवन्ति श्रमणब्राह्मणपरवादिप्रमथनाः, सुपरिपूर्णोत्तमाङ्गाश् च बुद्धा भगवन्तो भवन्ति सुपरिपूर्णोत्तमप्रणिधानाः, भ्रमरसदृशकेशाश् च बुद्धा भगवन्तो भवन्ति विषयभ्रमररतिव्यावर्तिकाः, चितकेशाश् च बुद्धा भगवन्तो भवन्त्य् अपचितदर्शनाभावनाप्रहातव्यानुशयः, श्लक्ष्णकेशाश् च बुद्धा भगवन्तो भवन्ति श्लक्ष्णबुद्धिभिर् ज्ञातशासनसाराः, असंलुडितकेशाश् च बुद्धा भगवन्तो भवन्ति नित्यासंलुडितचेतनाः, अपरुषकेशाश् च बुद्धा भगवन्तो भवन्ति नित्यम् अपरुषवचनाः, सुरभिकेशाश् च बुद्धा भगवन्तो भवन्ति सुरभिबोध्यङ्गकुसुमप्रदक्षिणावर्तितजनाः, श्रीवत्सस्वस्तिकनन्द्यावर्तसुललितपाणिपादतलाश् च बुद्धा भगवन्तो भवन्ति श्रीवत्सस्वस्तिकनन्द्यावर्तसुललितपाणिपादशोभाः.
SK
इमान्य् उच्यन्ते ऽशीत्यनुव्यञ्जनान्य् एभिः सुभूते ऽशीत्यनुव्यञ्जनैस् तथागतस्ये कायः समन्वागतो भवति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य धर्मदानं वेदितव्यम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् एवम् अववदत्य् अनुशास्त्य् एते यूयं कुलपुत्रा अक्षरनिर्हारकुशला भवत, एकाक्षरकुशला भवथ, द्व्यक्षरं यावद् द्वाचत्वारिंशद् अक्षरैः कुशला भवत, एकेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, द्वितीयेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, (PSP_६-८:६८) तृतीयेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, यवद् द्वाचत्वारिंशदक्षरैः सर्वव्ययोपगतानुपगच्छत. एकस्मिन्न् अक्षरे द्वाचत्वारिंशद् अक्षराण्य् अन्तर्गतानि भावयत. द्वाचत्वारिंशदक्षरेष्व् एकाक्षरम् अन्तर्गतं भावयत. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो द्वाचत्वारिंशदक्षराण्य् एकस्मिन्न् अक्षरे कुशलो भावयति, एकाक्षरं द्वाचत्वारिंशदक्षरेषु कुशलो भावयति, अक्षराभिनिर्हारकौशलं भावयित्वाक्षराभिनिर्हारकुशलो भवति. तद्यथापि नाम सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो धर्मकुशलो ऽक्षरकुशलश् च सत्त्वानां धर्मं देशयति, साक्षरन् धर्मं देशयति नानक्षरं, ते च सत्त्वा नोपलभ्यन्ते, तत् कस्य हेतोः? आकाशनिर्मिता हि सुभूते सत्त्वा धर्माश् च वेदितव्याः.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अत्यन्ततया सत्त्वा नोपलभ्यन्ते, धर्मा नोपलभ्यन्ते, स्वभावश् च नोपलभ्यते, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितायां चरन् वीर्यपारमितायां चरन् क्षान्तिपारमितायां चरन् शीलपारमितायां चरन् दानपारमितायां चरन् सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चतुर्ष्व् आर्यसत्येषु सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेष्व् अष्टसु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु, चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु द्वात्रिंशन्महापुरुषलक्षणेष्व् अशीत्यनुव्यञ्जनेषु षट्स्व् अभिज्ञासु विपाकजासु चरन् सत्त्वानां धर्मं देशयति, न चात्र सत्त्व उपलभ्यते, न सत्त्वप्रज्ञप्तिः सत्त्वानुपलब्ध्या रूपानुपलब्धिः, वेदनासंज्ञासंस्कारविज्ञानानुपलब्धिः, षट्पारमितानुपलब्धिः, यावद् अशीत्यनुव्यञ्जनानुपलब्धिः, न चानुपलब्ध्या सत्त्वप्रज्ञप्तिर् न च सत्त्वाप्रज्ञप्त्या रूपं प्रज्ञायते, वेदनासंज्ञासंस्कारविज्ञानं प्रज्ञायते, यावद् अशीत्यनुव्यञ्जनानि प्रज्ञायन्ते, अशीत्यनुव्यञ्जनैर् अप्रज्ञायमानैः.
SK
कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति? मा खलु भगवन् बोधिसत्त्वो महासत्त्वो (PSP_६-८:६९) ऽसंविद्यमानेषु सर्वधर्मेषु सत्त्वान् समादापयेद् विपर्यासे विनियोजयेत्. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वम् एव तावन् नोपलभते प्राग् एव बोधिपाक्षिकान् धर्मान्.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि सत्त्वानुपलब्धेनाध्यात्मशून्यता वेदितव्या, बहिर्धाशून्यता वेदितव्या, अध्यात्मबहिर्धाशून्यता वेदितव्या यावद् अभावस्वभावशून्यता वेदितव्या, स्कन्धशून्यता वेदितव्या, धातुशून्यता वेदितव्या, आयतनशून्यता वेदितव्या, प्रतीत्यसमुत्पादशून्यता वेदितव्या, प्रतीत्यसमुत्पादाङ्गशून्यता वेदितव्या, आत्मशून्यता सत्त्वशून्यता जीवशून्यता जन्तुशून्यता पोषशून्यता पुरुषशून्यता पुद्गलशून्यता मनुजशून्यता मानवशून्यता कारकशून्यता वेदकशून्यता जानकशून्यता पश्यकशून्यता वेदित्व्या. अप्रमाणध्यानारूप्यसमाधिसमापत्तिशून्यता वेदितव्या, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यता वेदितव्या. शून्यतानिमित्ताप्रणिहितशून्यता वेदितव्या, अष्टविमोक्षमुखशून्यता वेदितव्या, नवानुपूर्वविहारसमापत्तिशून्यता वेदितव्या, दशतथागतबलशून्यता वेदितव्या, वैशारद्यप्रतिसंविदावेणिका बुद्धधर्मशून्यता वेदितव्या, स्रोतआपत्तिफलसकृदागामिफलानागामिफलार्हत्त्वप्रत्येकबोधिशून्यता वेदितव्या, दशबोधिसत्त्वभूमिशून्यता वेदितव्या, बुद्धक्षेत्रशून्यता वेदितव्या, सम्यक्संबोधिशून्यता वेदितव्या, तद् बोधिसत्त्वो महासत्त्व इमान् सर्वधर्मान् शून्या इति दृष्ट्वा सत्त्वानां धर्मं देशयति यथा चैतेषु शून्येषु सर्वधर्मेषु समादापयेद् विपर्यासे न नियोजयेत्. स एवं सर्वधर्मान् अनावरणतो ज्ञात्वा न कंचिद् धर्मं विकोपयति न ऽद्वैधीकरोति, यथाभूतं च धर्मं देशयति. तद्यथापि नाम सुभूते तथागतनिर्मितो ऽनेकानि निर्मितकोटीनियुतशतसहस्राण्य् अभिनिर्माय कांश्चिद् दाने नियोजयति, कांश्चिच् छीले कांश्चित् क्षान्तौ कांश्चिद् वीर्ये कांश्चिद् ध्याने कांश्चित् प्रज्ञायां कांश्चिद् ध्यानेषु कांश्चिद् अप्रमाणेषु कांश्चिद् आरूप्यसमापत्तिषु कांश्चित् सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयति, कांश्चिद् आर्यसत्येषु कांश्चिच् छून्यतानिमित्ताप्रणिहितेषु (PSP_६-८:७०) कांश्चिद् अध्यात्मशून्यतायां कांश्चिद् यावद् अभावस्वभावशून्यतायां कांश्चिद् अभिज्ञासु कांश्चिद् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु नियोजयति, सर्वाकारज्ञतायां नियोजयति, कांश्चिच् छ्रोतआपत्तिफले कांश्चित् सकृदागामिफले कांश्चिद् अनागामिफले, कांश्चिद् अर्हत्त्वे, कांश्चित् प्रत्येकबोधौ कांश्चिद् अनुत्तरायां सम्यक्संबोधौ नियोजयति. तत् किं मन्यसे? अपि नु तेन निर्मितकेन कस्यचिद् धर्मस्य प्रभेदः कृतः.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यम्, एवम् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, तांश् च भूमौ प्रतिष्ठापयति तांश् च सत्त्वान् विपर्यासात् परिमोचयति, अबद्धामुक्तयोगेन, तत् कस्य हेतोः? तथा हि सुभूते रूपम् अबद्धम् अमुक्तं, वेदना संज्ञा संस्कारा विज्ञानम् अबद्धम् अमुक्तं, या रूपस्याबद्धतामुक्तता न तद् रूपं या वेदनायाः संज्ञायाः संस्काराणां या विज्ञानस्याबद्धतामुक्तता न तद् विज्ञानम्. तत् कस्य हेतोः? तथा ह्य् अत्यन्तविशुद्धं रूपं, वेदना संज्ञा संस्कारा विज्ञानम् अत्यन्तविशुद्धम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च यावत् सर्वधर्मा लौकिका लोकोत्तराः, सास्रावा अनास्रवाः संस्कृता असंस्कृता धर्माः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति, न च सत्त्वान् उपलभते, अनुपलंभे सर्वधर्माणां स्थितो बोधिसत्त्वो महासत्त्वो ऽस्थानयोगेन रूपं शून्यम् इत्य् अस्थानयोगेन, वेदना संज्ञा संस्कारा विज्ञानं शून्यम् इत्य् अस्थानयोगेन, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च शून्यानीत्य् अस्थानयोगेन यावत् सर्वधर्मा लौकिका वा लोकोत्तरा वा सास्रवा वा अनास्रवा वा संस्कृता वा असंस्कृता वा धर्मा शून्या इति अस्थानयोगेन, न हि संस्कृता वा असंस्कृता वा धर्माः क्वचित् स्थिताः? तस्मात् तेषां स्वभावो नोपलभ्यते, यत्र तिष्ठेरन् न ह्य् अभावो ऽभावे तिष्ठति, न हि स्वभावः स्वभावे तिष्ठति, न हि परभावः परभावे तिष्ठति, तत् कस्य हेतोः? तथा हि ते सर्वेण सर्वं सर्वथा सर्वन् नोपलभ्यन्ते, यस्य चानुपलब्धिः स कुत्र तिष्ठेद्? एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः (PSP_६-८:७१) प्रज्ञापारमितायां चरन्न् अनपराधी भवति, बुद्धानां भगवतां बोधिसत्त्वानां च प्रत्येकबुद्धानाञ् च श्रावकानां च सर्वार्याणां च. तत् कस्य हेतोः? तथा हि बुद्धैर् भगवद्भिर् बोधिसत्त्वैश् च प्रत्येकबुद्धैश् च श्रावकैश् च सर्वार्यैश् च एषैव धर्मतानुबद्धानुबध्य च सत्त्वानां धर्मं देशयन्ति, तान् ते धर्माणां धर्मतान् न व्यतिवर्तन्ते. तत् कस्य हेतोः? तथा हि धर्मधातुर् न विनिवर्तते न भूतकोटिर् विनिवर्तते. तत् कस्य हेतोः? तथा हि तेषां स स्वभावो न संविद्यते यो विनिवर्तते.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् धर्मधातुर् न विनिवर्तते न तथता न भूतकोटिर् विनिवर्तते, किं पुनर् भगवन्न् अन्यद् रूपम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये वेदनासंज्ञासंस्कारा अन्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर्, एवं यावद् अन्ये सर्वधर्मा लौकिका वा लोकोत्तरा वा सास्रवा वा अनास्रवा वा, संस्कृता वा असंस्कृता वा धर्माः, अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः?
SK
भगवान् आह: न सुभूते ऽन्यद् रूपं अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये वेदनासंज्ञासंस्कारा अन्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर्, नान्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, च नान्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिर्, एवं यावन् नान्ये लौकिका लोकोत्तराः सास्रवा अनास्रवाः संस्कृता असंस्कृता धर्मा अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् नान्यद् रूपं नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् नान्ये वेदनासंज्ञासंस्कारा नान्यद् विज्ञानं नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् नान्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् यावन् नान्ये सर्वधर्मा लौकिका लोकोत्तराः सास्रवा अनास्रवाः (PSP_६-८:७२) संस्कृता असंस्कृता धर्माः नन्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिस् तत् कथं भगवन् फलव्यवस्थानं भवति? कृष्णानां धर्माणां कृष्णो विपाको नरका वा तिर्यग्योनिर् वा यमलोको वा, शुक्लानां धर्माणां शुक्लो विपाको देवा मनुष्याश् च, कृष्णशुक्लानां धर्माणां कृष्णशुक्लो विपाकः सुखदुःखव्यतिकरः, अकृष्णशुक्लानां धर्माणाम् अकृष्णशुक्लो विपाकः, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा यावत् सम्यक्संबोधिर् वा.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: संवृत्तिसत्यं सुभूते प्रमाणीकृत्य फलव्यवस्थानं निर्दिश्यते न पुनः परमार्थसत्येन फलव्यवस्थानं शक्यन् निर्दृष्टुम्. तत् कस्य हेतोः? अविकल्पा हि सुभूते सर्वधर्मा अप्रव्याहारा यद् उत अनात्मस्वरूपाः, येषाम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानं यद् उत स्वभावशून्यताम् उपादाय.
SK
एवम् उक्ते आयुष्मान् सुभूइर् भगवन्तम् एतद् अवोचत्: यदि भगवन् संवृत्तिसत्यम् उपादाय फलव्यवस्थानं भवति, न भगवन् परमार्थेन तदा सर्वबालपृथग्जनानां स्रोतआपत्तिफलं भविष्यति, सकृदागामिफलं भविष्यति, अनागामिफलं भविष्यति, अर्हत्त्वं भविष्यति, प्रत्येकबोधिर् भविष्यति, अनुत्तरा सम्यक्संबोधिर् भविष्यति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनः सुभूते सर्वबालपृथग्जनाः संवृत्तिसत्यं वा परमार्थसत्यं वा प्रजानन्ति यत् तेषाम् अपि फलव्यवस्थानं भविष्यति यदि प्रजानीयुः संवृत्तिसत्यं परमार्थसत्यम् इति नैव बालपृथग्जना इति संख्याताः स्युर् यस्मात् तु तेषां नास्ति परिज्ञानं तस्मान् नास्ति तेषां फलव्यवस्थानम्. स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा सम्यक्संबोधिर् वा यत् सुभूते बालपृथग्जनानां न मार्गो न मार्गव्यवस्थानं न मार्गफलं तत् कुतो बालपृथग्जनानां फलव्यवस्थानं भविष्यति? यद् आर्यपुद्गलानां पुनः सुभूते मार्गो मार्गभावना च तस्माद् आर्यपुद्गलानां फलव्यवस्थानं भवति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् (PSP_६-८:७३) भगवन् मार्गभावनायं फलप्रादुर्भावो भवति, फलं वा प्रापयति?
SK
भगवान् आह: न सुभूते, न हि मार्गं भावयतः सुभूते फलप्राप्तिर् भवति, न च मार्गभावनाफलं प्रापयति, न च सुभूते भावितमार्गस्य फलप्राप्तिर्, न च मार्गेण फलं प्राप्यते, न च पुनर् अमार्गे स्थित्वा फलं प्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां फलव्यवस्थानं करोति, न च भागच्छेदेन संस्कृते वा धाताव् असंस्कृते वा धातौ फलव्यवस्थानम्.
SK
सुभूतिर् आह: यदि भगवन् न भागच्छेदेन संस्कृते वा धाताव् असंस्कृते वा धातौ फलव्यवस्थानं भवति, कथं निर्दिष्टं पुनर् भगवता इदं स्रोतआपत्तिफलं त्रयाणां संयोजनानां प्रहाणं, सकृदागामिफलं कामरागव्यापादतनुत्वम्, अनागामिफलं पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणम्, अर्हत्त्वं पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणं, प्रत्येकबोधिर् यत् किञ्चित् समुदयधर्मि सर्वन्तं निरोधधर्मि, अनुत्तरा सम्यक्संबोधिः सर्ववासनानुसंधिक्लेशप्रहाणम्. स्याद् यथाहं भगवतो भाषितस्यार्थम् आजाने तथा संस्कृतासंस्कृतानां धर्माणां भागच्छेदेन फलव्यवस्थानं भवति.
SK
भगवान् आह: किं पुनः सुभूते स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वानुत्तरा सम्यक्संबोधिर् वा संस्कृता एते उतासंस्कृताः.
SK
सुभूतिर् आह: असंस्कृता भगवन्न् असंस्कृताः सुगत.
SK
भगवान् आह: किं पुनः सुभूते असंस्कृतस्य धर्मस्य भागच्छेदो ऽस्ति?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: किं पुनः सुभूते यस्मिन् समये कुलपुत्रो वा कुलदुहिता वा संस्कृतासंस्कृतान् धर्मान् एकलक्षणान् प्रतिविध्यति यद् उतालक्षणास् तस्मिन् समये कस्यचिद् धर्मस्य भागच्छेदं करोति संस्कृता वासंस्कृता वा धर्मा इति? (PSP_६-८:७४)
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, अभागच्छेदताम् उपादाय. यद् उताध्यात्मशून्यताम् उपादाय बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, आत्मना च न क्वचिद् अभिनिविशते, परञ् च न क्वचिद् अभिनिवेशयति, दानपारमितायां वा शीलपारमितायां वा क्षान्तिपारमितायां वा वीर्यपारमितायां वा ध्यानपारमितायां वा प्रज्ञापारमितायां वा प्रथमे वा ध्याने द्वितीये वा ध्याने तृतीये वा ध्याने चतुर्थे वा ध्याने, मैत्र्यां वा करुणायां वा मुदितायां वा उपेक्षायां वा, आकाशानन्त्यायतनसमापत्तौ वा विज्ञानानन्त्यायतनसमापत्तौ वा आकिञ्चन्यायतनसमापत्तौ वा नैवसंज्ञानासंज्ञायतनसमापत्तौ वा, स्मृत्युपस्थानेषु वा सम्यक्प्रहाणेषु वा ऋद्धिपादेषु वा इन्द्रियेषु वा बलेषु वा बोध्यङ्गेषु वा आर्याष्टाङ्गेषु मार्गेषु वा आर्यसत्येषु वा अष्टविमोक्षमुखेषु वा नवानुपूर्वविहारसमापत्तिषु वा शून्यतानिमित्ताप्रणिहितेषु वाभिज्ञासु वाध्यात्मशून्यतायां वा बहिर्धाशून्यतायां वाध्यात्मबहिर्धाशून्यतायां वा यावद् अभावस्वभावशून्यतायां वा समाधिषु वा धारणीमुखेषु वा दशबलवैशारद्येषु प्रतिसंविदावेणिकबुद्धधर्मेषु वा, महाकरुणायां वा सर्वाकारज्ञतायां वा, सो नाभिनिविष्टो न क्वचित् सज्जति. तद्यथापि नाम सुभूते तथागतनिर्मितो दानं ददाति न च दानफलेषु सज्जति न च दानफलं प्रत्यनुभवत्य् अन्यत्र सत्त्वानां परित्राणाय यावत् सास्रवानास्रवेषु धर्मेषु लौकिकलोकोत्तरेषु संस्कृतासंस्कृतेषु धर्मेषु न क्वचित् तिष्ठति. तत् कस्य हेतोः? तथा ह्य् अस्य सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति?
SK
भगवान् आह: यथा सुभूते निर्मितस्यासमुदाचारो रागदोषमोहेष्व् असमुदाचारो रूपे वेदनायां संज्ञायां संस्कारेषु विज्ञाने ऽसमुदाचारः स्कन्धधात्वायतनेष्व् असमुदाचारः प्रतीत्यसमुत्पादेष्व् (PSP_६-८:७५) असमुदाचारः प्रतीत्यसमुत्पादाङ्गेष्व् असमुदाचारो बाह्याध्यात्मिकेषु धर्मेष्व् असमुदाचारो ऽनुनयपर्युत्थानेष्व् असमुदाचारः सास्रवानास्रवेषु धर्मेष्व् असमुदाचारो लौकिकलोकोत्तरेषु धर्मेषु असमुदाचारो मार्गेष्व् असमुदाचारो मार्गफलेष्व् असमुदाचारः. एवं खलु सुभूते सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति.
SK
सुभूतिर् आह: कथं पुनर् भगवन् निर्मितस्य मार्गभावना?
SK
भगवान् आह: यां मार्गभावनाम् आगम्य सुभूते नैव संक्लिश्येत नैव व्यवदायेत नैव पञ्चगतिके संसारे दृश्येत.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽवस्तुकान् धर्मान् प्रतिविध्यति?
SK
भगवान् आह: तत् किं मन्यसे? सुभूते ऽपि नु तथागतनिर्मितस्य किंचिद् वस्तु संविद्यते, यद् वस्त्व् आगम्य नैव संक्लिश्येत, नैव व्यवदायेत, नैव पञ्चगतिके संसारे दृश्येत.
SK
सुभूतिर् आह: नो भगवन् न हि भगवन् तथागतनिर्मितस्य किंचिद् वस्तु संविद्यते यद् वस्त्व् आगम्य नैव संक्लिश्येत नैव व्यवदायेत नैव पञ्चगतिके संसारे दृश्येत.
SK
भगवान् आह: एवं खलु सुभूते सर्वधर्माणां धर्मIअक्षणं सुप्रतिविद्धं भवति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् सर्वरूपं निर्मितोपमं भवति, सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं भवति?
SK
भगवान् आह: सर्वं सुभूते रूपं निर्मितोपमं सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं भवति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो भवति, यदि सर्वं रूपं निर्मितोपमं सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं निर्मितस्य च न भवति, रूपं वेदना संज्ञा संस्कारा विज्ञानं न संक्लेशो न व्यवदानं न पञ्चगतिकः संसारो यतः संसारात् सत्त्वान् परिमोचयेत्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते ऽपि नु बोधिसत्त्वेन (PSP_६-८:७६) महासत्त्वेन पूर्वं बोओधिस्त्त्वचर्यां चरता कश्चित् सत्त्व उपलब्धो यं नरकाद् वा मोचयेत् तिर्यग्योनेर् वा यमलोकाद् वा मनुष्येभ्यो वा देवेभ्यो वा.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एतत् सुभूते बोधिसत्त्वेन महासत्त्वेन न कश्चित् सत्त्व उपलब्धो यं त्रैधातुकात् परिमोचयेत्. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा निर्मितोपमा ज्ञाता दृष्टा विदिता भवन्तीत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो वेदितव्यः.
SK
सुभूतिर् आह: यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा निर्मितोपमा ज्ञाता दृष्टा विदिताः कस्यार्थाय बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरति चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु बोधिमार्गे च बुद्धक्षेत्रञ् च परिशोधयति सत्त्वांश् च परिपाचयति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते सत्त्वाः स्वयम् एव निर्मितोपमान् सर्वधर्मान् जानीयुर् न बोधिसत्त्वो महासत्त्वो ऽसंख्येयान् कल्पान् सत्त्वानाम् अर्थाय बोधिसत्त्वचर्यां चरेद् यस्मात् तर्हि सुभूते सत्त्वाः स्वयम् एव निर्मितोपमान् सर्वधर्मान् न जानन्ति. तस्माद् बोधिसत्त्वो महासत्त्वो ऽसंख्येयान् कल्पान् षट्सु पारमितासु चरति सत्त्वांश् च परिपाचयति बुद्धक्षेत्रञ् च परिशोधयति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा निर्मितोपमाः कुत्र भगवन् प्रतिष्ठिताः सत्त्वाः यतो बोधिसत्त्वो महासत्त्वः षट्पारमितायां चरन्न् उच्चालयति?
SK
भगवान् आह: नामनिमित्ते सुभूते सत्त्वाः प्रतिष्ठिता असत्परिकल्पितताम् उपादाय, ततो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नामनिमित्ताद् उच्चालयति.
SK
अथ खल्व् आयुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् नाम कतमन् निमित्तम्?
SK
भगवान् आह: आगन्तुकम् एतन् नामधेयं यद् उत नामनिमित्तम् इति कृत्रिमम् एतन् नामधेयं यद् उत नामनिमित्तम् इति, यद् उत रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्त्री वा पुरुषो (PSP_६-८:७७) वा दारको वा दारिका वा नैरयिको वा तैर्यग्योनिको वा यमलौकिको वा देवो वा मनुष्यो वा संस्कृतो वा धर्मो वासंस्कृतो वा धर्मः स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबुद्धो वानुत्तरसम्यक्संबुद्धो वा. अपि तु खलु पुनः सुभूते प्रकृतिधर्मः सर्वन् नामार्थेन शून्यं नाममात्रम् एतत् सर्वसंस्कृतं तत्र बालपृथग्जनाः सक्तास् तान्, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् उपायकौशल्येन सत्त्वान् विवेचयति परिकल्पयति परिकल्पसमुत्थितम् एतन् नामधेयं मा यूयम् असत्परिकल्पे सज्जते, असति वस्तूनि स्वभावशून्ये न हि शून्येषु धर्मेषु पण्डिता अभिनिविशन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति. कतमत् सुभूते निमित्तं द्व इमे सुभूते यत्र बालपृथग्जनाः सक्ताः? कतमे द्वे? रूपनिमित्तञ् चारूपनिमित्तञ् च. कतमच् च सुभूते रूपनिमित्तं? यत् किञ्चित् सुभूते रूपम् औदारिकं वा सूक्ष्मं वा प्रणीतं वा मध्यं वाधिमात्रं वा तत्र क्षणिकेषु धर्मेषु यत् परिकल्पग्रहणम् इदम् उच्यते रूपनिमित्त. कतमच् चारूपनिमित्त्तं? यानि कानिचिद् रूपाणि धर्मा वानिमित्तग्राहिणः परिकल्पाः क्लेशञ् जनयन्तीदम् उच्यते, अरूपनिमित्तं यत्र बालपृथग्जनान् सक्तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् निमित्ततो विवेच्यानिमित्ते धातौ निवेशयति प्रतिष्ठापयति तथा च निवेशयति प्रतिष्ठापयति, यथा न द्वयं पतन्तीदं निमित्तम् इदम् अनिमित्तम्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् निमित्ततो विवेच्यानिमित्ते धातौ निवेशयति प्रतिष्ठापयति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् एतत्परमा एते सर्वधर्मा यद् उत नामनिमित्तपरमाः, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आत्मना च विशेषं गच्छति, कुशलेषु धर्मेषु परांश् च विशेषाधिगमे निवेशयति कुशलेषु धर्मेषु यैः कुशलैर् धर्मैर् भूमेर् भूमिं परिपूरयति, (PSP_६-८:७८) सत्त्वांश् च तांश् चैव नियोजयति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सचेत् सुभूते वस्त्व् अभविष्यन् नावस्तुनिमित्तन् न सुभूते प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो विशेषम् अध्यगमिष्यन् न च परांश् च विशेषे न्ययोक्ष्यद् यतः खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितां परिपूरयत्य् आनिमित्तयोगेन, वीर्यपारमितां परिपूरयत्य् आनिमित्तयोगेन, क्षान्तिपारमितां परिपूरयत्य् आनिमित्तयोगेन, शीलपारमितां परिपूरयत्य् आनिमित्तयोगेन, दानपारमितां परिपूरयत्य् आनिमित्तयोगेन, ध्यानानि परिपूरयत्य् आनिमित्तयोगनाप्रमाणानि परिपूरयत्य् आनिमित्तयोगेनारूप्यसमापत्तीः परिपूरयत्य् आनिमित्तयोगेन, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् परिपूरयत्य् आनिमित्तयोगेनार्यसत्यानि परिपूरयत्य् आनिमित्तयोगेनाष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीर् अभिज्ञाः परिपूरयत्य् आनिमित्तयोगेन, समाधिधारणीमुखानि परिपूरयत्य् आनिमित्तयोगेन, दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयत्य् आनिमित्तयोगेन, स इमान् कुशलान् धर्मान् परिपूर्य परान् अपि कुशलेषु धर्मेषु नियोजयत्य् आनिमित्तयोगेन, सचेत् सुभूते धर्मनिमित्तम् अभविष्यद् अनास्रवेषु सर्वधर्मेषु नैव बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थम् अकरिष्यद् यतः सुभूते अनास्रवाः सर्वधर्माः, आनिमित्ता अस्मृतयो ऽमनसिकारास् तस्मात् खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थं करोति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा आनिमित्ता अस्मृतयो ऽमनसिकारास् तत् कुतो भगवान् गणनां करोति? इमे सास्रवा धर्मा इमे अनाश्रवा धर्मा इमे साधारणा धर्मा इमे ऽसाधारणा धर्मा इमे लौकिका धर्मा इमे लोकोत्तरा धर्मा इमे सावद्या धर्मा इमे ऽनवद्या धर्मा इमे संस्कृता धर्मा इमे ऽसंस्कृता धर्मा इमे श्रावकधर्मा इमे प्रत्येकबुद्धधर्मा इमे बोधिसत्त्वधर्मा इमे बुद्धधर्माः. (PSP_६-८:७९)
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते अन्यद् आनिमित्तम् अन्ये श्रावकधर्माः.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये प्रत्येकबुद्धधर्माः.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये बोधिसत्त्वधर्माः.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये बुद्धधर्माः.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तद् अनेनापि ते सुभूते पर्यायेणैवं वेदितव्यम् आनिमित्ता अस्मृतयो ऽमनसिकाराः सर्वधर्मा इत्य् अत्र हि सुभूते शिक्षमाणो बोधिसत्त्वो महासत्त्वः कुशलैर् धर्मैर् विवर्धते यद् उत षड्भिः पारमिताभिश् चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिश् चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भि ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गमार्गेणाध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया आर्यसत्यैर् अभिज्ञाभिर् अष्टभिर् विमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः सर्वसमाधिभिः सर्वधारणीमुखैर् दशबलवैशारद्यप्रतिसंविदावेणिकैर् बुद्धधर्मैर् महाकरुणया यावत् सर्वबुद्धधर्मैर् विवर्धते, शून्यताविमोक्षमुखं स्वलक्षणशून्यतानिमित्तविमोक्षमुखं स्वलक्षणशून्यम् अप्रणिहितविमोक्षमुखं स्वलक्षणशून्यं स एषु त्रिषु विमोक्षमुखेषु शिक्षमाणो बोधिसत्त्वो महासत्त्वः पञ्चसूपादानस्कन्धेषु शिक्षते द्वादशस्व् आयतनेषु शिक्षते, अष्टादशसु धातुषु शिक्षते, चतुर्ष्व् आर्यसत्येषु शिक्षते, द्वादशाङ्गे प्रतीत्यसमुत्पादे शिक्षते, अध्यात्मशून्यतायां शिक्षते, बहिर्धाशून्यतायां शिक्षते, अध्यात्मबहिर्धाशून्यतायां शिक्षते, यावद् अभावस्वभावशून्यतायां (PSP_६-८:८०) शिक्षते, दशसु पारमितासु शिक्षते, दशसु बोधिसत्त्वभूमिषु शिक्षते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षते, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षते, पञ्चस्व् अभिज्ञासु शिक्षते, दशसु तथागतबलेषु शिक्षते, चतुर्षु वैशारद्येषु शिक्षते, चतसृषु प्रतिसंवित्सु शिक्षते, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षते.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चसूपादानस्कन्धेषु शिक्षते?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं जानाति, यथा रूपम् उत्पद्यते, यथा रूपं निरुध्यते, या च रूपस्य तथता.
SK
कथं रूपं प्रजानाति? अत्यन्तच्छिद्रतश् चात्यन्तानृततश् च तद्यथापि नाम फेनपिण्डो ऽसारः, एवं रूपं प्रजानाति. कथं रूपस्योत्पादव्ययौ प्रजानाति? नापि रूपं कुतश्चिद् आगच्छति नापि रूपं क्वचिद् गच्छति कुतश्चिद् आगमनतो न क्वचिद् गमनतः, एवं खलु सुभूते रूपस्योत्पादव्ययौ प्रजानाति. कथं रूपस्य तथतां प्रजानाति? न तथतोत्पद्यते न निरुध्यते नागच्छति न गच्छति, न संक्लिश्यते न व्यवदायते, न हानिर् न वृद्धिर् एवं तथतां प्रजानाति, अपि तु खलु सुभूते तथतैव सा यस्मात् तथतेत्य् उच्यते, नैव सावितथता न तथतेत्य् उच्यते, एवं रूपस्य तथतां प्रजानाति.
SK
कथं वेदनां प्रजानाति? तद्यथापि नामोदकबुद्बुदा रिक्तका उत्पद्यन्ते वा निरुध्यन्ते वा, एवं वेदनां प्रजानाति. कथं वेदनाया उत्पादव्ययौ प्रजानाति? न सा कुतश्चिद् आगच्छति न क्वचिद् गच्छत्य् एवं वेदनाया उत्पादव्ययौ प्रजानाति. कथं वेदनायास् तथतां प्रजानाति? सापि तथता अवितथतानन्यतथता, एवं वेदनायास् तथतां प्रजानाति.
SK
कथं संज्ञां प्रजानाति? तद्यथापि नाम मरीच्याम् उदकम् अत्यन्ततया नोपलभ्यते, एवं संज्ञां प्रजानाति. कथं संज्ञाया उत्पादव्ययौ प्रजानाति? न सा कुतश्चिद् आगच्छति न क्वचिद् गच्छत्य् एवं संज्ञाया उत्पादव्ययौ प्रजानाति. कथं संज्ञायास् तथतां (PSP_६-८:८१) प्रजानाति? सापि तथतावितथतानन्यतथता, एवं संज्ञायास् तथतां प्रजानाति. कथं संस्कारान् प्रजानाति? तद्यथापि नाम कदल्यां सारम् अत्यन्ततया नोपलभ्यते, एवं संस्कारान् प्रजानाति. कथं संस्काराणाम् उत्पादव्ययौ प्रजानाति? न ते कुतश्चिद् आगच्छन्ति न क्वचिच् गच्छन्त्य् एवं संस्काराणाम् उत्पादव्ययौ प्रजानाति. कथं संस्काराणां तथतां प्रजानाति? सापि तथतावितथतानन्यतथता, एवं संस्काराणां तथतां प्रजानाति.
SK
कथं विज्ञानं प्रजानाति? तद्यथापि नाम मायाकारनिर्मितश् चतुरङ्गो बलकाय एवं विज्ञानं प्रजानाति.
SK
कथं विज्ञानस्योत्पादव्ययौ प्रजानाति? न तत् कुतश्चिद् आगच्छति न क्वचिद् गच्छति, एवं विज्ञानस्योत्पादव्यतौ प्रजानाति. कथं विज्ञानस्य तथतां प्रजानाति? सापि तथतावितथतानन्यतथता, एवं विज्ञानस्य तथतां प्रजानाति.
SK
कथं रूपायतनं प्रजानाति? रूपायतनं रूपायतनस्वभावेन शून्यम्, एवं शब्दगन्धरसस्प्रष्टव्यायतनानि, धर्मायतनं धर्मायतनस्वभावेन शून्यं, चक्षुरायतनं चक्षुरायतनस्वभावेन शून्यम्, एवं श्रोत्रघ्राणजिह्वाकायायतनानि, मनआयतनं मनआयतनस्वभावेन शून्यम्.
SK
कथं रूपधातुं प्रजानाति? रूपधातू रूपधातुस्वभावेन शून्यः, एवं शब्दगन्धरसस्प्रष्टव्यधातवः, धर्मधातुर् धर्मधातुस्वभावेन शून्यः, चक्षुर्धातुश् चक्षुर्धातुस्वभावेन शून्यः, एवं श्रोत्रघ्राणजिह्वाकायधातवः, मनोधातुर् मनोधातुस्वभावेन शून्यः, चक्षुर्विज्ञानधातुश् चक्षुर्विज्ञानधातुस्वभावेन शून्यः, चक्षुःसंस्पर्शधातुश् चक्षुःसंस्पर्शधातुस्वभावेन शून्यः, चक्षुःसंस्पर्शप्रत्ययवेदनाधातुश् चक्षुःसंस्पर्शप्रत्ययवेदनाधातुस्वभावेन शून्यः, एवं श्रोत्रघ्राणजिह्वाकायो, मनोधातुर् मनोधातुस्वभावेन शून्यः, मनोविज्ञानधातुर् मनोविज्ञानधातुस्वभावेन (PSP_६-८:८२) शून्यः, मनःसंस्पर्शधातुर् मनःसंस्पर्शधातुस्वभावेन शून्यः, मनःसंस्पर्शप्रत्ययवेदनाधातुर् मनःसंस्पर्शप्रत्ययवेदनाधातुस्वभावेन शून्यः, पृथिवीधातुः पृथिवीधातुस्वभावेन शून्यः, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर्, विज्ञानधातुर् विज्ञानधातुस्वभावेन शून्यः प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादस्वभावेन शून्यः, अविद्याविद्यास्वभावेन शुन्या. एवं संस्कारा विज्ञानं नामरूपम् षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर्, जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासा जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासस्वभावेन शून्याः.
SK
कथम् आयतनानि प्रजानाति? अध्यात्मिका धर्मा अध्यात्मिकैर् धर्मैः शून्याः, बाह्या धर्मा बाह्यैर् धर्मैः शून्याः. कथं सत्यानि प्रजानाति? दुष्खसत्यं प्रजानाति, आर्यसत्यं प्रजानाति, द्वयतो विनिर्मुक्तम् आर्यसत्यं प्रजानाति, अद्वयतो विनिर्मुक्तम् आर्यसत्यं प्रजानाति, एवं समुदयम् एवं निरोधम् एवं दुःखनिरोधगामिनी प्रतिपदम्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवं परस्परविभिन्नान् प्रजानाति तदा न नु भगवन् धर्मधातुर् विकोपितो भवति.
SK
भगवान् आह: विकोपितः सुभूते धर्मधातुः स्याद् यदि धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्मः स्यान्, न सुभूते धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्म उपलभ्यते, यद्य् उपलभ्येत स्याद् धर्मधातुविकोपना. तत् कस्य हेतोः? न हि सुभूते तथागतेन वा तथागतश्रावकेण वा धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्मा उपलब्धः, अनुपलभ्य न प्रज्ञापयति धातुविनिर्मुक्तो ऽन्यः कश्चिद् धर्म उप्लभ्यते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ शिक्षितव्यम्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: धर्मधातौ भगवन् शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन किं शिक्षितं भवति? (PSP_६-८:८३)
SK
भगवान् अह: धर्मधातौ शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मेषु शिक्षितं भवति. तत् कस्य हेतोः? तथा हि सुभूते सर्वधर्मा धर्मधातुः.
SK
सुभूतिर् आह: केन कारणेन भगवन् सर्वधर्मा धर्मधातुः?
SK
भगवान् आह: असंस्कृतो धातुर् एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन धर्मधातौ शिक्षितं भवति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा धर्मधातुस् तत् किं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं ध्यानपारमितायां शिक्षितव्यं वीर्यपारमितायां शिक्षितव्यं क्षान्तिपारमितायां शिक्षितव्यं शीलपारमितायां शिक्षितव्यं दानपारमितायां शिक्षितव्यम्? किं बोधिसत्त्वेन महासत्त्वेन प्रथमध्याने शिक्षितव्यं द्वितीयध्याने शिक्षितव्यं तृतीयध्याने शिक्षितव्यं चतुर्थध्याने शिक्षितव्यं मैत्र्यां शिक्षितव्यं करुणायां शिक्षितव्यं मुदितायां शिक्षितव्यम् उपेक्षायां शिक्षितव्यम् आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्तव् आकिञ्चन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ शिक्षितव्यं, शून्यतानिमित्ताप्रणिहितसमाधौ शिक्षितव्यं? किं सर्वशून्यतासु शिक्षितव्यं विमोक्षमुखसमाधिधारणीमुखेषु शिक्षितव्यं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षितव्यं दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षितव्यं महाकरुणायां शिक्षितव्यम् षट्स्व् अभिज्ञासु शिक्षितव्यं द्वात्रिंशन् महापुरुषलक्षणपरिनिष्पत्तये शिक्षितव्यम् अशीत्यनुव्य्ञ्जनपरिनिष्पत्तये शिक्षितव्यम् क्षत्रियमहाशालकुलेषूपपत्तये शिक्षितव्यं ब्राह्मणमहाशालकुलेषूपपत्तये शिक्षितव्यं गृहपतिमहाशालकुलेषूपपत्तये शिक्षितव्यं चातुर्महाराजकायिकानां देवानां सभागतायाम् उपपत्तये शिक्षितव्यं त्रयस्त्रिंशानां यामानां तुषितानान् निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मपार्षद्यानां ब्रह्मपुरोहितानां महाब्रह्माणां परीत्ताभानाम् अप्रमाणाभानाम् आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् (PSP_६-८:८४) अनभ्रकानां पुण्यप्रसवानां बृहत्फलानां शुद्धावासानाम् अस्पृहाणाम् अतपानां सुदृशानां सुदर्शनानाम् अकनिष्ठानां देवानां सभागतायाम् उपपत्तये शिक्षितव्यम्. न च तत्रोपपत्तये शिक्षितव्यम् आकाशानन्त्यायतनानां विज्ञानानन्त्यायतनानाम् आकिञ्चन्यायतनानां नैवसंज्ञानासंज्ञायतनानाम् उपपत्तये शिक्षितव्यं, किं प्रथमचित्तोत्पादे शिक्षितव्यं, द्वितीये तृतीये चतुर्थे पञ्चमे षष्टे सप्तमे ऽष्टमे नवमे किं दशमे चित्तोत्पादे शिक्षितव्यं, किं श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा बोधिसत्त्वभूमौ वा सत्त्वपरिपाके वा बुद्धक्षेत्रपरिशोधने वा धारणीमुखेषु वा शिक्षितव्यं, किं प्रतिसंवित्सु शिक्षितव्यं, किं बोधिमार्गे शिक्षितव्यम्, अत्र बोधिमार्गे शिक्षमाणेन सर्वधर्माः सर्वाकारैर् ज्ञातव्याः. न च भगवन् धर्मधाताव् इमे विकल्पास् तस्मात् मा हैव भगवन् बोधिसत्त्वो महासत्त्वो विपर्यासेषु चरन् न प्रपञ्चं प्रपञ्चयेत्. तत् कस्य हेतोः? न हि भगवन् धर्मधाताव् इमे विकल्पा न च धर्मधातौ रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न चान्यत्र रूपाद् धर्मधातुर् नान्यत्र वेदनाया नान्यत्र संज्ञाया नान्यत्र संस्कारेभ्यो नान्यत्र विज्ञानाद् धर्मधातुः, रूपम् एव धर्मधातुः धर्मधातुर् एव रूपं, वेदनैव धर्मधातुर् धर्मधातुर् एव वेदना, संज्ञैव धर्मधातुर् धर्मधातुर् एव संज्ञा, संस्कारा एव धर्मधातुर् धर्मधातुर् एव संस्काराः, विज्ञानम् एव धर्मधातुर् धर्मधातुर् एव विज्ञानं, यथा मध्यमे परिवर्तकृतं तथा सर्वधर्मा ज्ञातव्याः.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतद् यथा वदसि, रूपम् एव धर्मधातुर् धर्मधातुर् एव रूपम्, एवं वेदना संज्ञा संस्कारा, विज्ञानम् एव धर्मधातुर् धर्मधातुर् एव विज्ञानं, यदि पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कञ्चिद् धर्मं धर्मधातुव्मिर्मुक्तं पश्येन् नानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं प्रतिष्ठेत प्रज्ञापारमितायाम् एवं बोधिसत्त्वो महासत्त्वश् चरन् सर्वधर्माणां धर्मधातुं यथाभूतं प्रजानाति, अतस् तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् धर्मधातुम् एव ज्ञात्वानामकात् (PSP_६-८:८५) सर्वधर्मान् नामसंकेतेन देशयतीदं रूपम् इमे वेदनासंज्ञासंस्कारा, इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, इमाः पारमिताः, इमानि शून्यतामुखानि, इमे बोधिपक्ष्या धर्मा, इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखानि, इमानि शून्यतानिमित्ताप्रणिहितानि, इमा अभिज्ञा, इमे दशबलवैशारद्य् अप्रतिसंविदावेणिकबुद्धधर्मा, इयम् अनुत्तरा सम्यक्संबोधिः. इति संक्लेशव्यवदानज्ञाननिवेशनकर्म
SK
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा स किंचिद् एव द्रव्यम् अधिष्ठाय विविधानि रूपगतानि दर्शयेत्, स्त्रीविग्रहं वा पुरुषविग्रहं वा हस्तिविग्रहं वाश्वविग्रहं वा बलीवर्दविग्रहं वा, उद्यानानि वा नगराणि वा आरामरमणीयानि वा नदीरमणीयकं वा पुष्किरिणीरमणीयकं वा, तत्र विविधान्य् आस्तरणप्रत्यास्तरणानि दर्शयेत्, पुष्पधूपगन्धमाल्यगणांश् च खादनीयं वा भोजनीयं वा दर्शयेत् महता गीतवादितेन जनं रमयेत्, दानं वा ददन् शीलं वा रक्षन् क्षान्तिं वा संपादयमानो वीर्यं वारभमाणो ध्यानं वा समापद्यमानः प्रज्ञां वा भावयेत्. स तत्रैभिर् आकारैः क्षत्रियमहाशालकुलानि वा ब्राह्मणमहाशालकुलानि वा गृहपतिमहाशालकुलानि वा दर्शयेच् चातुर्महाराजाकायिकान् वा देवान् दर्शयेत्, सुमेरुं वा दर्शयेत् त्रयस्त्रिंशान् वा देवान् दर्शयेद् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मपार्षद्यान् ब्रह्मपुरोहितान् महाब्रह्माणः परीत्ताभान् अप्रमाणान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् शुद्धावासान् अस्पृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् दर्शयेद्, आकाशानन्त्यायतनानि वा विज्ञानानन्त्यायतनां वा आकिञ्चन्यायतनां वा नैवसंज्ञानासंज्ञायतनां देवान् वा दर्शयेद्, रूपिणः स्रोतआपन्नान् वा सकृदागामिनो वानागामिनो वार्हतो वा प्रत्येकबुद्धान् वा ये ते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन्ति, शीलपारमितायां चरन्ति, क्षान्तिपारमितायां चरन्ति, वीर्यपारमितायां चरन्ति, ध्यानपारमितायां (PSP_६-८:८६) चरन्ति, प्रज्ञापारमितायां चरन्ति, यावद् दशम्यां भूमौ चरन्ति, बोधिसत्त्वन्यामम् अवक्रामन्ति, ते ऽभिज्ञा अभिनिर्हरन्ति, ताभिश् च विक्रीडन्ति सत्त्वाश् च परिपाचयन्ति, बुद्धक्षेत्रं च परिशोधयन्ति, ध्यानविमोक्षसमाधिसमापत्तिभिश् च विक्रीडन्ति, तह्तागतबलानि निष्पादयन्ति, वैशारद्यानि वा प्रतिसंविदो वा महामैत्रीं वा महाकरुणां वा निष्पादयन्ति, तान् अप्य् आदर्शयेत्, सर्वाङ्गप्रत्यङ्गेसु परिपूर्णं वा बुद्धविग्रहम् आदर्शयेत्. तत्र बालपृथग्जनाः सत्त्वा एवं जानीयुर्, अहो यावत् सुशिक्षितो बतायं मनुष्य इव शोभनं करोति, यद् उतैवं जनं रमेयति विविधञ् च रूपम् आदर्शयति, यावद् बुद्धविग्रहं वा विस्तरशः. ये खलु तत्र मनुष्या भवन्ति पण्डिता मेधाविनो निपुणास् तद्रूपया मीमांसया समन्वागतास् तेषाम् एवं भवति, आश्चर्यम् इदम् अद्भुतो धर्मो, न चात्र कश्चिद् धर्म उपलभ्यते, अयं च मनुष्य इमं जनपदम् एवम् असंविद्यमानेषु धर्मेषु रमयति, तच् चास्य ज्ञानं भवत्य् अद्रव्ये ऽस्मिन्न् एव जनो द्रव्यसंज्ञी. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् न कञ्चिद् धर्मधातुविनिर्मुक्तं समनुपश्यति प्रज्ञापारमितायां चरन्न् उपायकौशल्येन, न च सत्त्वम् उपलभते न च सत्त्वप्रज्ञप्तिः. इति सत्त्वार्थयाथात्म्यनिवेशनकर्म
SK
स आत्मना च दानं ददाति परांश् च दाने नियोजयति, दानस्य च वर्णं भाषते, ये ऽपि चान्ये दानं ददाति तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च शीलं रक्षति परांश् च शीले प्रतिष्ठापयति शीलस्य च वर्णं भाषते, ये ऽपि चान्ये शीलं रक्षन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च क्षान्तिं संपादयति परांश् च क्षान्तौ नियोजयति, क्षान्तेश् च वर्णं भासते, ये ऽपि चान्ये क्षान्तिं संपादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च वीर्यम् आरभते परांश् च वीर्ये नियोजयति, वीर्यस्य च वर्णं भाषते, ये ऽपि चान्ये वीर्यम् आरभन्ते तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च ध्यानं समापद्यते, परांश् च ध्याने प्रतिष्ठापयति, ध्यानस्य च वर्णं भाषते, ये ऽपि चान्ये ध्यानं समापद्यन्ते तेषां (PSP_६-८:८७) च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च प्रज्ञां भावयति परांश् च प्रज्ञायां नियोजयति, प्रज्ञायाश् च वर्णं भाषते, ये ऽपि चान्ये प्रज्ञां भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः. इति षट्पारमितानिवेशनकर्म
SK
आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तते, परांश् च दशकुशलेषु कर्मपथेषु समादापयति, दशानां च कुशलानां कर्मपथानां वर्णं भाषते, ये ऽपि चान्ये दशकुशलान् कर्मपथान् समादाय वर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च पञ्चशिक्षापदसमादाने वर्तते, परांश् च पञ्चशिक्षापदसमादाने समादापयति, पञ्चानाञ् च शिक्षापदानां वर्णं भाषते, ये ऽपि चान्ये पञ्चशिक्षापदसमादाने वर्तन्ते तेषां वर्णवादी भावति समनुज्ञः.
SK
आत्मना चार्याष्टाङ्गसमन्वागतं पोषधम् उपवसति, परांश् चार्याष्टाङ्गसमन्वागते पोषधे समादापयत्य् आर्याष्टाङ्गसमन्वागतस्य च पोषधस्य वर्णं भाषते, ये ऽपि चान्ये आर्याष्टाङ्गसमन्वागतं पोषधम् उपवसन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः.
SK
आत्मना चाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि समापद्यते, परांश् चाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु नियोजयत्य् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाणां च वर्णं भाषते, ये ऽपि चान्ये ऽप्रमाणध्यानारूप्यविमोक्षसमाधिसमाप्त्तिधारणीमुखानि समापद्यन्ते तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयति, परांश् च सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयति, सप्तत्रिंशद्बोधिपक्ष्याणाञ् च धर्माणां वर्णं भाषते, ये ऽपि चान्ये सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु प्रवर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च शून्यतानिमित्ताप्रणिहितानि भावयति, परांश् च शून्यतानिमित्ताप्रणिहितेषु नियोजयति, शून्यतानिमित्ताप्रणिहितानां च वर्णं (PSP_६-८:८८) भाषते, ये ऽपि चान्ये शून्यतानिमित्ताप्रणिहितानि भावयन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च चत्वार्य् आर्यसत्यानि भावयति, परांश् च चतुर्ष्व् आर्यसत्येषु नियोजयति, चतुर्णाञ् चार्यसत्यानां वर्णं भाषते, ये ऽपि चान्ये चत्वार्य् आर्यासत्यानि भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च पञ्चाभिज्ञा निष्पादयति, परांश् च पञ्चस्व् अभिज्ञासु नियोजयति, पञ्चानां चाभिज्ञानां वर्णं भाषते, ये ऽपि चान्ये पञ्चाभिज्ञा निष्पादयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च दशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् भावयति, परांश् च दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु नियोजयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां वर्णं भासते, ये ऽपि चान्ये दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च महाकरुणां भावयति, परांश् च महाकरुणायां नियोजयति, महाकरुणायाश् च वर्णं भासते, ये ऽपि चान्ये महाकरुणां भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः.
SK
आत्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि निष्पादयति, परांश् च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनेषु नियोजयति, द्वात्रिंशद्महापुरुषलक्षणाशीत्यनुव्यञ्जनानां च वर्णं भाषते, ये ऽपि चान्ये द्वात्रिंशन्महापुर्षलक्षणाशीत्यनुव्यञ्जनानि निष्पादयन्ति तेषाञ् च वर्णवादी भवति समनुज्ञः. इति बुद्धमार्गनिवेशनकर्म
SK
यदि सुभूते न धर्मधातुर् यथा पूर्वं तथा पश्चात् तथा मध्ये न बोधिसत्त्वो महासत्त्व उपायकौशल्येन धर्मधातुं शोधयेत्, न सत्त्वांश् च परिपाचयेत्. यस्मात् तर्हि सुभूते धर्मधातुर् यथैव पूर्वं तथाइव पश्चात् तथाइव मध्ये तस्मात् तर्हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थाय बोधिसत्त्वचर्यां चरति.
SK
सुभूतिर् आह: यदि भगवन्न् अत्यन्ततया सत्त्वो नोपलभ्यते न च सत्त्वप्रज्ञप्तिः. कस्यार्थाय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति? (PSP_६-८:८९)
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: भूतकोतिं सुभूते ऽप्रमाणीकृत्य बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, यदि सुभूते अन्या भूतकोटिः स्याद् अन्या सत्त्वकोटिर् न बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, यस्मात् तर्हि सुभूते नान्या भूतकोटिर् नान्या सत्त्वकोटिस् तस्माद् बोधिसत्त्वो महासत्त्वः सत्त्त्वानाम् अर्थाय प्रज्ञापारमितायां चरति, प्रज्ञापारमितायां सुभूते बोधिसत्त्वो महासत्त्वश् चरन् भूतकोट्यविकोपनायै सत्त्वान् भूतकोट्यां प्रतिष्ठापयति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् भूतकोटिः सत्त्वकोटिः, किं पुनर् भगवन् भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्? यदि भगवन् भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्, ततः स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, न च भगवन् स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, तत् कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्, न च स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, अपि तु खलु सुभूते बोधिसत्त्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् भूतकोट्यां प्रतिष्ठापयति, न चान्या भूतकोटिर् अन्या सत्त्वकोटिर् इति हि सुभूते भूतकोटिश् च सत्त्वकोटिश् चाद्वयम् एतद् अद्वैधीकारम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् बोधिसत्त्वानां महासत्त्वानाम् उपायकौशल्यं येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति न च भूतकोटिं विकोपयति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सत्त्वान् दाने प्रतिष्ठापयति, दाने प्रतिष्ठाप्य तस्य दानस्य पूर्वान्तापरान्तम् आचष्टे यथैव तद् दानं पूर्वान्ततः शून्यम् अपरान्ततः शून्यं मध्यतः शून्यं तत् तथा तद् दानफलम् अपि शून्यं, देयम् अपि शून्यं, दानपतिर् अपि शून्यो, दायको ऽपि दायकस्वभावेन शून्यः, प्रतिग्राहको ऽपि प्रतिग्राहकस्वभावेन शून्यः. (PSP_६-८:९०) एवं कुलपुत्र सर्व एते धर्मा भूतकोट्यां न संविद्यन्ते, मा चान्यद् दानं मन्स्यसे, ऽन्यद् दानपतिं मंस्यसे, ऽन्यद् दानफलं मंस्यसे, ऽन्यं प्रतिग्राहकं मंस्यसे, ऽन्यां भूतकोटिं मंस्यसे, यतस् त्वं कुलपुत्र नान्यद् दानं मंस्यसे, नान्यं दानपतिं मंस्यसे, नान्यं दानफलं मंस्यसे, नान्यं प्रतिग्राहकं मंस्यसे, नान्यां भूतकोटिं मंस्यसे, ततस् त एतद् दानम् अमृतावहं भविष्यत्य् अमृतफलम् अमृतपर्यवसानम्, एतेन च त्वं दानेन मा रूपं प्रतिग्रहीष्यसि, मा वेदनां मा संज्ञां मा संस्कारां, मा विज्ञानं प्रतिग्रहीष्यसि. तत् कस्य हेतोः? तथा हि तवैतद् दानं शून्यं दानस्वभावेन, फलम् अपि फलस्वभावेन शून्यं, प्रतिग्राहको ऽपि प्रतिग्राहकस्वभावेन शून्यः, न च शून्यतायां दानम् उपलभ्यते, न दानफलम् उपलभ्यते, न प्रतिग्राहक उपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते धर्माः स्वभावेन शून्याः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् शीले प्रतिष्ठापयति, एहि त्वं कुलपुत्र प्राणातिपातं प्रहाय प्रणातिपातात् प्रतिविरतो भव, एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् पैशून्यात् परुषवचनाद् अबद्धप्रलापाद् अभिध्याया व्यापादाद् एहि त्वं कुलपुत्र मिथ्यादृष्टिं प्रहाय मिथ्यादृष्ठेः प्रतिविरतो भव, नैषां कुलपुत्र धर्माणां कश्चित् स्वभावो विद्यते यथा त्वया कल्पितो ऽहं तत् कुलपुत्रोपपरीक्षे स्वभावं, कतम एष धर्मः प्राणो नाम यो जीविताद् व्यपरोप्यते येन वा व्यपरोप्यते? एवम् अदत्तादानं काममिथ्याचारा मृषावादः पैशून्यं परुषवचनम् अबद्धप्रलापो ऽभिध्या व्यापादः, कतम एष धर्मो मिथ्यादृष्टिर् नाम यो वा मिथ्यां पश्यत्य्? अनेन सुभूते उपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् परिपाचयति, तस्य दानस्य च शीलस्य च फलम् आकाङ्क्षते, तद् अपि दानफलं च शीलफलं च स्वभावेन शून्यं, ततः स कुलपुत्रो ऽनुत्त्रस्तस्य दानफलस्य च शीलफलस्य च फलं स्वभावेन शून्यं विदित्वा (PSP_६-८:९१) तत्र नाभिनिविशते अनभिनिवेशमानो ऽविक्षेपम् उत्पाद्य प्रज्ञाम् उत्पादयति, यया प्रज्ञया सर्वानुशयपर्युत्थानानि च्छित्वानुपधिशेषे निर्वाणधातौ परिनिर्वाति लोकव्यवहारेण न पुनः परमार्थेन. तत् कस्य हेतोः? न हि शून्यतायां कश्चिद् धर्म उपलभ्यते यः परिनिर्वायाद् येन च पर्मिर्वायाद्, अपि तु खलु पुनर् एतद् एव तत् परिनिर्वाणं यद् उतात्यन्तशून्यता.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः परसत्त्वान् परपुद्गलान्, क्षुधान् व्यापन्नचित्तान् दृष्ट्वा एवम् अववदत्य् अनुशास्ति, एहि त्वं कुलपुत्र क्षान्तिं संपादय क्षमी च भवशूरतो दातचित्तो ऽधिवासनजातीयो यत्र त्वं व्यापद्यसे सर्व एते धर्माः प्रकृतिशून्या हन्तोपपरीक्षस्व भावं, कुलपुत्र कुत्राहं व्यापद्ये? को वा व्यापद्यते? कस्य वा व्यायद्यते? सर्व एते धर्माः प्रकृतिशून्या, या च प्रक्र्तिशून्यता न सा जातु न शून्यता, सा च न तथागतैः क्र्ता, न प्रत्येकबुद्धैर् न श्रावकैर् न बोधिसत्त्वैर् न देवैर् न नागैर् न यक्षैर् न गन्धर्वैर् नासुरैर् न गरुडैर् न किंनरैर् न महोरगैर् न चतुर्भिर् महाराजैर् न शक्रेण देवानाम् इन्द्रेण न यामेन देवपुत्रेण न तुषितेन देवपुत्रेण न निर्माणरतिना देवपुत्रैर् न परनिर्मितवशवर्तिना देवपुत्रैर् न ब्रह्मपार्षद्यैर् न ब्रह्मपुरोहितैर् न महाब्रह्मभिर् न परीत्ताभैर् नाप्रमाणाभैर् नाभास्वरैर् न परीत्तशुभैर् नाप्रमाणशुभैर् न शुभकृत्स्नैर् नानभ्रकैर् न पुण्यप्रसवैर् न बृहत्फलैर् न शुद्धावसैर् नातपैर् न सुदृशैर् न सुदर्शनैर् नाकनिष्ठैर् देवपुत्रैर् नाकाशानन्त्यायतनैर् न विज्ञानानन्त्यायतनैर् नाकिञ्चन्यायतनैर् न नैवसंज्ञानासंज्ञायतनैः कृता हन्त कुलपुत्रोपपरीक्षस्व कुत्राहं व्यापद्ये? को वा व्यापद्यते? कस्य वा व्यापद्यते? सर्व एते धर्माः प्रकृतिशून्या न च शून्यता कस्यचिद् अन्तिके व्यापद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् प्रकृतिशून्यतायां नियोजयत्य् अयं हेतुर् इदं फलं प्रकृतिशून्यतायां नियोजयन्न् अनुपूर्वेण यावद् अनुत्तरायां सम्यक्संबोधौ संदर्शयति समादापयति निवेशयति प्रतिष्ठापयति, तत् पुनर् लोकव्यवहारेण न (PSP_६-८:९२) पुनः परमार्थेन. तत् कस्य हेतोः? न हि प्रकृतिशून्यतायां कश्चिद् अस्ति यो वा प्राप्नुयाद् येन वा प्राप्नुयाद् यत्र वा प्राप्नुयाद् इयं सुभूते भूतकोटिर् यद् उत प्रकृतिशून्यता यत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति सत्त्वानां कृतशो नात्र सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिः. तत् कस्य हेतोह्? सत्त्वविविक्तता हि सर्वधर्माः.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन समन्वागतः सत्त्वान् हीनवीर्यान् दृष्ट्वा कायिके च चैतसिके च वीर्ये समादापयति, न कुलपुत्र प्रकृतिशून्यतायां कस्यचिद् धर्मस्य संसीदना विद्यते यत्र वा संसीदेद् येन वा संसीदेद् यो वा संसीद्येत्, सर्व एते धर्माः प्रकृतिशून्याः शून्यता नातिवर्तते हन्तेदानीं कायिकं च चैतसिकञ् च वीर्यं जनयित्वा कौशीद्यम् अवसृज्य कुशल एव कर्मण्य् उद्यच्छस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञायां यदि वा ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखेषु यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु यदि वा शून्यतानिमित्ताप्रणिहितेषु यदि वार्यसत्येषु यदि वाध्यात्मशून्यतायां यदि वा बहिर्धाशून्यतायां यदि वाध्यात्मबहिर्धाशून्यतायां यदि वा यावद् अभावस्वभावशून्यतायां यदि वाभिज्ञासु यदि वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यदि वा यावत् सर्वधर्मेषु सर्वान् एतान् कुलपुत्र धर्मान् अनावरणान् प्रेक्षस्व स्वलक्षणशून्यतया न ह्य् अनावरणेषु धर्मेषु कस्यचित् संसीदना विद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां सत्त्वान् समादापयति निवेशयति प्रतिष्ठापयति, तथा च प्रतिष्ठापयति यथा द्वयन् न संविद्यते. तत् कस्य हेतोः? अद्वया हि प्रकृतिशून्यताद्वैधीकारा, न ह्य् अद्वयो धर्मः क्वचित् कौशीद्यम् आपद्यते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतया वीर्यसत्त्वान् अवतारयत्य् अनुशास्ति, एहि त्वं कुलपुत्र वीर्यम् आरभस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञायां यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु (PSP_६-८:९३) यदि वा विमोक्षसमाधिसमापत्तिधारणीमुखेषु यदि वा दशतथागतबलेषु यदि वा चतुर्षु वैशारद्येषु यदि वा चतसृषु प्रतिसंवित्सु यदि वा महाकरुणायां यदि वाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु मा एतान् धर्मान् द्वयतो मनसिकुरु माद्वयतः. तत् कस्य हेतोः? प्रकृतिशून्या ह्य् एते धर्मा न हि प्रकृतिशून्यता द्वयतो मानसिकर्तव्या नाद्वयतः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन बोधिसत्त्वचर्यां चरन् सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्यानुपूर्वेण स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयत्य् अर्हत्त्वे प्रतिष्ठापयति, प्रत्येकबोधौ प्रतिष्ठापयत्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थं करोत्य् उपायकौशल्येन ध्यानभावनायाम् एवावतारयति, एहि त्वं कुलपुत्र ध्यानं भावय मा च विक्षेपसंज्ञी भव. तत् कस्य हेतोह्? प्रकृतिशून्या ह्य् एते धर्मा न च प्रकृतिशून्यतायां कश्चिद् धर्म उपलभ्यते यो विक्षेप्यते वा एकाग्री भवति वा, स त्वम् अत्र ध्याने स्थित्वा यद् यद् एवं कुशलं कर्म करिष्यसि कायेन वा वाचा वा मनसा वा, यदि वा दानन् दास्यसि यदि वा शीलं रक्षसि यदि वा क्षान्तिं संपादयिष्यति, यदि वा वीर्यम् आरभसे यदि वा ध्यानम् उत्पादयिष्यसि यदि वा प्रज्ञा भावयिष्यसि, यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गां भावयिष्यसि, यदि वा विमोक्षसमाधिसमापत्तिधारणीमुखानि, यदि वार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तीर् यदि वाभिज्ञा यदि वा दशबलवैशारद्यप्रतिसम्विदो यदि वा महामैत्री यदि वा महाकरुणा यदि वाष्टादशावेणिकान् बुद्धधर्मान् यदि वा द्वात्रिंशन्महापुरुषलक्षणानि यदि वाशीत्यनुव्यञ्जनानि यदि वा श्रावकमार्गं यदि वा प्रत्येकबुद्धमार्गं यदि वा बोधिसत्त्वमार्गं यदि वा बुद्धमार्गं यदि वा स्रोतआपत्तिफलं यदि वा सकृदागामिफलं यदि वानागामिफलं यदि वार्हत्त्वं यदि वा प्रत्येकबोधिं यदि वा (PSP_६-८:९४) सर्वाकारज्ञतां यदि वा सत्त्वान् परिपाचयिष्यसि यदि वा बुद्धक्षेत्रं परिशोधयिष्यसि, तस्य ते इमे कुशला धर्मा अल्पकृच्छ्रेण प्रादुर्भविष्यन्ति प्रकृतिशून्यतायां चरतः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानाम् अर्थं करोति, प्रथमचित्तोत्पादम् उपादाय न जात्व् अकर्मको ऽभूत्, किं कुशलगवेषी सत्त्वानाम् अर्थं कुर्वन् बुद्धक्षेत्रेण बुद्धक्षेत्रं सततसमितं संक्रामति, बुद्धान् भगवतः पर्युपास्ते, यं च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति, स तस्य जातिव्यतिवृत्तस्यापि न जातु विप्रणक्ष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्याद् धारणीप्रतिलब्धश् च सततसमितं भवत्य् अहीणेन्द्रियो यदि वा कायेन्द्रियेण यदि वा वागिन्द्रियेण यदि वा मनैन्द्रियेण. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञतां सततसमितं भावयत्य् अनया सर्वाकारज्ञतया सुभावितया सर्वमार्गाः सुभाविता भवन्ति, यदि वा श्रावकमार्गो यदि वा प्रत्येकबुद्धमार्गो यदि वा बोधिसत्त्वमार्गस् तस्याभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य सततसमितम् उपकारीभूता भविष्यन्त्य् अविप्रणाशयोगेण, स तासु वैपाकिकीष्व् अभिज्ञासु स्थित्वा सत्त्वानाम् अर्थं करोति न परिहीयते पञ्चगतिके संसारे संसरन्न्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थित्वोपायकौशल्येन सत्त्वानाम् अर्थं करोति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थित्वोपायकौशल्येन सत्त्वानाम् अर्थं करोति, स तया प्रज्ञापारमितया सुभावितया सत्त्वान् एवम् अववदत्य् एवम् अनुशास्ति, एहि त्वं कुलपुत्र यद् यद् एवं कर्म करोषि कायेन वा वाचा वा मनसा वा तत् सर्वम् अमृताधिगमाय परिणामय तथा ते एते धर्माः सर्व अमृताविगमाय भविष्यन्त्य् अमृतपर्यवसानाय च, न च प्रकृतिशून्यतायां कश्चिद् धर्मो ऽभिनिविशते यः परिहीयते. तत् कस्य हेतोः? न हि शून्यता परिहीयते, न च प्रकृतिशून्यतायाः कश्चित् परिहीयते. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता न भावो नाभावस् तत् किम् अभावो ऽभावे धर्मे परिहास्यत्य्, एवं खलु सुभूते बोधिसत्त्वो (PSP_६-८:९५) महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् एवम् अववदत्य् एवम् अनुशास्ति, स एवम् अववदन्न् एवम् अनुशासन् न जात्व् अकर्मको ऽभूत्, स आत्मना च सततसमितं दशकुशलेषु कर्मपथेषु वर्तते, परांश् च दशकुशलेषु कर्मपथेषु समादापयत्य् एवं पञ्चसु शिक्षापदेषु आर्याष्टाङ्गे समन्वागत उपोषधे. आत्मना च ध्यानारूप्यसमापत्तीः समापद्यते परांश् च ध्यानारूप्यसमापत्तिषु समादापयति, आत्मना च सततसमितं मैत्रीविहारी भवति परांश् च सततसमितं मैत्रीविहारे समादापयति, आत्मना च सततसमितं करुणाविहारी भवति परांश् च सततसमितं करुणाविहारे समादापयति, आत्मना च सततसमितं मुदिताविहारी भवति, परांश् च सततसमितं मुदिताविहारे समादापयति, आत्मना च सततसमितम् उपेक्षाविहारी भवति परांश् च सततसमितम् उपेक्षाविहारे समादापयति, आत्मना च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति परांश् च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु समादापयति, आत्मना च शून्यतानिमित्ताप्रणिहितानि भावयति परांश् च शून्यतानिमित्ताप्रणिहितेषु समादापयति, आत्मना च सर्वपारमितासु सर्वशून्यतासु च शिक्षते परांश् च सर्वशून्यतासु सर्वपारमितासु च समादापयति, आत्मना च दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षते परांश् च दशबलवैशारद्यप्रतिसम्विदावेनिकबुद्धधर्मेषु समादापयति, आत्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि परिपूरयति परांश् च द्वात्रिंसन्महापुरुषलक्षणाशीत्यनुव्यञ्जनपरिनिष्पत्तये समादापयति, आत्मना च स्रोतआपत्तिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च स्रोतआपत्तिफले प्रतिष्ठापयति, आत्मना च सकृदागामिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च सकृदागामिफले प्रतिष्ठापयति, आत्मना चानागामिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् चानागामिफले प्रतिष्ठापयति, आत्मना चार्हत्त्वे ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् चार्हत्त्वे प्रतिष्ठापयति, आत्मना च प्रत्येकबोधौ ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च प्रत्येकबोधौ प्रतिष्ठापयति, आत्मना चानुत्तरायां सम्यक्संबोधौ मार्गम् उत्पादयति परांश् च तत्र मार्गे ऽववदत्य् अनुशास्ति प्रतिष्ठापयति. एवं खलु (PSP_६-८:९६) सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचर्यां चरन्न् उपायकौशल्येन न जात्व् अकर्मको ऽभूत्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् प्रकृतिशून्याः सर्वधर्मा न च प्रकृतिशून्यतायां सत्त्वा उपलभ्यन्ते, न धर्मो नाधर्मः, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अभिसंप्रतिष्ठते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि प्रकृतिशून्याः सर्वधर्मा न च प्रकृतिशून्यतायां सत्त्वा उपलभ्यन्ते न धर्मो नाधर्मः, यदि पुनः सुभूते प्रकृतिशून्याः सर्वधर्मा अभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायाम् अभिसंप्रास्थास्यद्, एवं चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य प्रकृतिशून्यं धर्मं देशयेद्, रूपं सुभूते प्रकृतिशून्यं, वेदनासंज्ञासंस्कारा, विज्ञानं प्रकृतिशून्यं तदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चस्कन्धाः प्रकृतिशून्या इति धर्मं देशयति, द्वादशायतनान्य् अष्टादशधातवः प्रकृतिशून्या इति धर्मं देशयति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गमार्गः प्रकृतिशून्य इति धर्मं देशयति, त्रीणि विमोक्षमुखान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्मा द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि प्रकृतिशून्यानीति धर्मं देशयति, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिः, सर्वाकारज्ञता सर्ववासनानुसंधिक्लेशप्रहाणं प्रकृतिशून्यम् इति धर्मं देशयति, यदि पुनः सुभूते ऽध्यात्मशून्यता न प्रकृतिशून्याभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां धर्मम् उद्देक्ष्यद्, एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न प्रकृतिशून्याभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां धर्मम् उद्देक्ष्यन्, न च प्रकृतिशून्यता विनश्यति न च कूटस्था भवति न च सा पुनर् अपक्रामति. तत् कस्य हेतोः? न हि सा देशस्था न प्रदेशस्था न च सा क्वचिद् गच्छति नापि (PSP_६-८:९७) कुतश्चिद् आगच्छति, एषा सा धर्मस्थितिता, यत्र न कस्यचिद् धर्मस्याचयो वा उपचयो वोपलभ्यते, हानिर् वा वृद्धिर् वा उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा एषा सा प्रकृतिधर्माणां, यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुं संप्रस्थिता न कस्यचिद् धर्मस्य प्रस्थाने पश्यति, असंप्रस्थिताः सर्वधर्माः, एषा सा धर्माणां धर्मस्थितिता, यत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् प्रकृतिशून्यान् दृष्ट्वा न प्रत्युदावर्तते ऽनुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? तथा हि न कस्यचिद् धर्मस्यावरणं वा समनुपश्यति, अनावरणं वा समनुपश्यति, तत् किं विचिकित्सिष्यत्य् अनुत्तरायां सम्यक्संबोधौ, यत्र प्रकृतिशून्यतायां न सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिर् नात्मा न सत्त्वो न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यक उपलभ्यते, न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम् उपलभ्यते यावत् सर्वधर्मा नाध्यात्मा न बहिर्धा नाध्यात्मबहिर्धा नोपलभ्यते, यावद् अशीत्यनुव्यञ्जनानि नोपलभ्यन्ते. इति प्रकृतिशून्यतानिवेशनकर्म
SK
तद्यथापि नाम सुभूते तथागतनिर्मितस्य भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा बोधिसत्त्वो वानुप्रबन्धं कल्पं शतसहस्रं धर्मं देशयेत्, तत् किं मन्यसे? सुभूते अपि नु ते निर्मिता भव्याः स्रोतआपत्तिफलं वा प्रापयितुं, सकृदागामिफलं वा प्रापयितुं, अनागामिफलं वा प्रापयितुम् अर्हत्त्वं वा प्रापयितुम्, प्रत्येकबोधिं प्रापयितुम् अनुत्तरां सम्यक्संबोधिं प्रापयितुम्.
SK
सुभूतिर् आह: नो भगवंस् तत् कस्य हेतोः? तथा हि तेषां भगवन् वस्तु नास्ति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अवस्तुकानां सर्वधर्माणां कतमः स सत्त्वो यं बोधिसत्त्वो महासत्त्वो निवेशयति प्रतिष्ठापयति स्रोतआपत्तिफले वा सकृदागामिफले वानागामिफले वा अर्हत्त्वे वा प्रत्येकबोधौ वानुत्तरायां सम्यक्संबोधौ वा (PSP_६-८:९८) ऽन्यत्र विपच्या सापन्नायाः संज्ञाया अविपर्यासे निवेशयति प्रतिष्ठापयति, यश् चासौ विपर्यासः स एवाविपर्यासः कल्पनाभिष्यन्दम् उपादायाविकल्पश् चाविपर्यासो, यत्राविकल्पस् तत्र विपर्यासो नास्ति न तत्रात्मा न सत्त्वो न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यको न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः न प्रतीत्यसमुत्पादाङ्गानि न तत्र पारमिता न शून्यतामुखानि न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञा न शून्यतानिमित्ताप्रणिहितानि न तत्र दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न तत्रानुत्तरा सम्यक्संबोधिर्, एषा सा प्रकृतिशून्यता यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति चरंस् तांश् च विपर्यस्तान् सत्त्वान् सत्त्वसंज्ञाया मोचयत्य्, एवम् आरूप्यरूपसंज्ञाया मोचयति, एवं यावत् सर्वधर्मसंज्ञाया मोचयति, ये ऽपि ते अनास्रवा धर्मास् तद् यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः सो ऽपि न तस्य यथा न परमार्थो यद् उतासंस्कृतम् अनुत्पादो ऽप्रादुर्भावो ऽभावः, एषा सा प्रकृतिशून्यता, एषा सा सर्वबुद्धानां भगवतां बोधिर् यत्र न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यको न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादा न प्रतीत्यसमुत्पादाङ्गानि न पारमिता न शून्यतामुखानि न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न महाकरुणा न द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि न हि बोधिसत्त्वो महासत्त्वो मार्गस्य कृतशो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो ऽन्यत्र प्रकृतिशून्यता परिज्ञानार्थं सा च प्रकृतिशून्यता पूर्वं वा पश्चाद् वा मध्ये वा न जातु साप्रकृतिशून्यता तत्र प्रकृतिशून्यता पारमितायां स्थित्वा बोधिसत्त्वो महासत्त्वः (PSP_६-८:९९) सत्त्वान् सत्त्वसंज्ञिनः सत्त्वसंज्ञाया मोचनार्थं मार्गज्ञतायां चरति स मार्गज्ञतायां चरन् सर्वमार्गेषु चरन् सर्वमार्गेषु चरति, यद् उत श्रावकमार्गेषु प्रत्येकबुद्धमार्गेषु बोधिसत्त्वमार्गेषु, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं च परिशोध्यायुःसंस्कारान् अधिष्ठायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य बुद्धनेत्री नोपच्छिनत्ति यद् उत प्रकृतिशून्यता, एषा सा बुद्धानां भगवतां बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि बुद्धा भगवन्तस् तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते ऽनागते ऽध्वनि भविष्यन्ति बुद्धा भगवन्तः तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते एतर्हि दशदिग्लोकधातुषु बुद्धा भगवन्तः तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, नान्यत्र प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, बुद्धानां भगवतां तेषां चान्तिके तथा बोधिसत्त्वेन महासत्त्वेन प्रकृतिशून्यता पारमितायां चरितव्यं, यथा चरन् न परिहीयते सर्वाकारज्ञतायाः.
SK
सुभूतिर् आह: आश्चर्यम् इदं भगवन् बोधिसत्त्वानां महासत्त्वानां यत्र नाम इमे प्रकृतिशून्येषु धर्मेषु चरन्ति, तां च प्रकृतिशून्यतां न विकोपयतीत्य् अन्यद् रूपम् अन्या प्रकृतिशून्यता, अन्या वेदना अन्या संज्ञा अन्ये संस्कारा, अन्यद् विज्ञानम् अन्या प्रकृतिशून्यता, अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अन्या प्रकृतिशून्यता, अन्या पारमिता अन्यानि शून्यतामुखान्य् अन्ये बोधिपक्ष्या धर्मा अन्या प्रकृतिशून्यता, अन्यान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अन्या प्रकृतिशून्यता, अन्या शून्यतानिमित्ताप्रणिहिताभिज्ञा अन्या प्रकृतिशून्यता, अन्ये दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अन्या प्रकृतिशून्यता, अन्या अनुत्तरा सम्यक्संबोधिर् अन्या प्रकृतिशून्यता, प्रकृतिशून्यतैवानुत्तरा सम्यक्संबोधिर् अनुत्तरा सम्यक्संबोधिर् एव प्रकृतिशून्यता. (PSP_६-८:१००)
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते ऽन्यद् रूपं स्याद् अन्या प्रकृतिशून्यता, अन्या वेदना अन्या संज्ञा अन्ये संस्कारा, अन्यद् विज्ञानम् अन्या प्रकृतिशून्यता, अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अन्या प्रकृतिशून्यता, अन्याः पारमिताः, अन्यानि शून्यतामुखानि, अन्ये बोधिपक्ष्या धर्मा, अन्ये आर्यसत्याप्रमणध्यानारूप्यसमापत्तिविमोक्षसमाधिधारणीमुखा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अन्या प्रकृतिशून्यता, अन्या अनुत्तरा सम्यक्संबोधिर् अन्या प्रकृतिशून्यता, न सुभूते रूपं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अभिसंभोत्स्यते, न वेदनां न संज्ञां न संस्कारान् न विज्ञानं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अभिसंभोत्स्यते. यस्मात् तर्हि सुभूते रूपं प्रकृतिशून्यता, वेदना संज्ञा संस्कारा, विज्ञानं प्रकृतिशून्यता, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि प्रकृतिशून्यता, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखानि सर्वविमोक्षाः सर्वसमापत्तयः सर्वाभिज्ञाः सर्वाणि ध्यानानि सर्वाण्य् अप्रमाणानि सर्वा आरूप्यसमापत्तयः सर्वतथागतबलानि सर्वबोधिसत्त्वभूमयश् चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रकृतिशून्यता, अनुत्तरा सम्यक्संबोधिः प्रकृतिशून्यता, तस्मात् तर्हि सुभूते बोधिसत्त्वो महासत्त्वो रूपं सर्वाकारज्ञतायाम् अभिसंबुध्येत, वेदना संज्ञा संस्कारान्, विज्ञानं सर्वाकारज्ञतायाम् अभिसंबुध्येत, यावद् बोधिं सर्वाकारज्ञतायाम् अभिसंबुध्येत. यस्मात् सुभूते प्रकृतिशून्यतैव रूपं रूपम् एव प्रकृतिशून्यता, वेदना संज्ञा संस्काराः, प्रकृतिसून्यतैव विज्ञानं विज्ञानम् एव प्रकृतिशून्यता, प्रकृतिशून्यतैव बोधिर् बोधिर् एव प्रकृतिशून्यता, तस्मात् सुभूते बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यान् सर्वधर्मान् विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं प्रतिष्ठेत्. तत् कस्य हेतोः? न हि तत्र कश्चिद् धर्मो विनश्यति वा कूटस्थो वा भवत्य् अवक्रामति वान्यत्र सदेवको लोकः समारकः सब्रह्मकः सश्रमणब्राह्मणिका प्रजाः, सदेवमानुषासुरा न रूपं यथाभूतं प्रजानन्ति, न वेदनान् न संज्ञान् न संस्कारान्, न विज्ञानं (PSP_६-८:१०१) यथाभूतं प्रजानन्ति, अप्रजानन्तो रूपम् अभिनिविशन्ते, वेदनां संज्ञां संस्कारान्, विज्ञानम् अभिनिविशन्ते ऽभिनिविश्याहंकारममकारे चरन्ति ते ऽहंकारममकाराव् अभिनिविश्याध्यात्मिकबाह्यानि वस्तूनि अभिनिविशन्त उपलभन्ते, अभिनिविश्योपलभ्य रूपं रूपत्वेन परिगृह्णन्ति, वेदनां वेदनात्वेन संज्ञां संज्ञात्वेन संस्कारान् संस्कारत्वेन, विज्ञानं विज्ञानत्वेन परिगृह्णन्ति, ते न परिमुच्यन्ते जात्या जरया मरणेन शोकेन परिदेवेन दुःखेन दौर्मनस्येन न परिमुच्यन्ते, उपायासेन न परिमुच्यते पञ्चगतिकात् संसारात्, तत्र बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतापारमितायां स्थित्वा रूपं न विकोपयति शून्यम् इति वाशून्यम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं न विकोपयति शून्यम् इति वाशून्यम् इति वा, एवं सर्वसमाधीन् सर्वधारणीमुखानि सर्वविमोक्षान्, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबोधिसत्त्वभूमीर् दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न विकोपयति शून्या इति वाशून्या इति वा. तत् कस्य हेतोः? न हि शून्यता विकोपयतीदं रूपम् इयं वेदना इयं संज्ञा इमे संस्कारा, इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादा इमानि प्रतीत्यसमुत्पादाङ्गानि, इयं शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि, इमाः शून्यतानिमित्ताप्रणिहिताभिज्ञा इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा इयम् अनुत्तरा सम्यक्संबोधिः. तद्यथापि नाम सुभूते नाकाशम् आकाशं विकोपयति, अध्यात्मिकं वा बाह्यं वा न चाध्यात्मिकम् आकाशं बाह्यम् आकाशं विकोपयति, न च बाह्यम् आकाशम् आध्यात्मिकम् आकाशं विकोपयत्य्, एवं एव सुभूते न रूपं शून्यतां विकोपयति, न च शून्यता रूपं विकोपयति. तत् कस्य हेतोः? न हि तस्य स्वभावो ऽस्ति य एवं विकोपयत्य् अयं शून्यो ऽयं न शून्यः, एवं विस्तरेण सर्वधर्मेषु कर्तव्यम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न भेदः सर्वध्र्माणां कुतो भगवन् बोधिसत्त्वो महासत्त्वः संप्रस्थितो भवत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं? न (PSP_६-८:१०२) हि भगवन् द्वैधीकारा बोधिर्, न द्वयचरितेन शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न द्वयचरितस्य बोधिर् न द्वैधीकारा बोधिः, अद्वया हि सुभूते बोधिर् अद्वैधीकारा, न सुभूते बोधिसत्त्वो महासत्त्वो ऽद्वैधीकारेण चरति बोधौ, नैव च बोधिसत्त्वस्य महासत्त्वस्य बोधी रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति, न स्कन्धधात्वायतनेषु चरति न प्रतीत्यसमुत्पादेषु चरति, न प्रतीत्यसमुत्पादाङ्गेषु चरति, न प्रतीत्यसमुत्पन्नेषु धर्मेषु चरति, न शून्यतासु चरति, न बोधिपक्ष्येषु धर्मेषु चरति, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, न शून्यतानिमित्ताप्रणिहिताभिज्ञासु चरति, न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरति, न सम्यक्संबोधौ चरति. तत् कस्य हेतोः? न हि बोधिर् अहम् इति शब्दो रूपे चरति, वेदनायां संज्ञायां संस्कारेषु, न बोधिर् अहम् इति शब्दो विज्ञाने चरति, एवं यावन् न बोधिर् अहम् इति शब्दः सम्यक्संबोधौ चरति, न बोधिसत्त्वस्य महासत्त्वस्य सम्यक्संबोधिर् उद्ग्रहे चरति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वस्य महासत्त्वस्यानुत्तरा सम्यक्संबोधिर् नोद्ग्रहे चरति, कुत्र तर्हि बोधिसत्त्वस्य महासत्त्वस्य बोधिश् चरति?
SK
भगवान् आह: तत् किं मन्यसे? सुभूते कुत्र तथागतनिर्मितस्य बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते ऽर्हतः स्वप्नान्तरगतस्य कुत्र बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा.
SK
सुभूतिर् आह: नो भगवन्, यदा भगवन्न् अत्यन्तो ऽर्हन् न स्वपिति कुतः स्वप्ने बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा?
SK
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य न बोधिर् उद्ग्रहे वानुद्ग्रहे वा चरति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिर् नोद्ग्रहे वानुद्ग्रहे वा चरति न (PSP_६-८:१०३) रूपे न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति, न स्कन्धधात्वायतनेषु न प्रतीत्यसमुत्पादेषु न प्रतीत्यसमुत्पादाङ्गेषु न पारमितासु न शून्यतासु न बोधिपक्ष्येषु धर्मेषु नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु न शून्यतानिमित्ताप्रणिहिताभिज्ञासु न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न सर्वाकारज्ञतायां चरति. कथं पुनर् बोधिसत्त्वो महासत्त्वो दशसु बोधिसत्त्वभूमिषु चरित्वा षट्सु पारमितासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु सर्वशून्यतासु ध्यानेष्व् अप्रमाणारूप्यसमापत्तिषु विमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिष्व् आर्यसत्येष्व् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेषु दशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महाकरुणायां द्वात्रिंशन्महापुरुषलक्षणेष्व् अशीत्यनुव्यञ्जनेषु पञ्चस्व् अभिज्ञासु स्थित्वा बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रञ् च परिशोध्य सत्त्वांश् च परिपाच्य सर्वाकारज्ञताम् अभिसंभोत्स्यते. न च भगवन्न् अस्थित्वा दशसु बोधिसत्त्वभूमिषु षट्सु पारमितासु सर्वशून्यतासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु महाकरुणायां पञ्चस्व् अभिज्ञास्व् अस्थित्वा बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रञ् चापरिशोध्य सत्त्वाञ् चापरिपाच्य शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि, न शक्यापरिपूरयित्वा दशबोधिसत्त्वभूमीर् दशपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् महामैत्रीं महाकरुणां महामुदितां महोपेक्षां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनान्य् अपरिपूरयित्वानुत्तरा सम्यक्संबोधिर् अभिसंबोधुं, परिपूरयित्वा पुनः सुभूते शक्या दशभूमीर् दशपारमिताः सर्वशून्यताश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र (PSP_६-८:१०४) आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि यावद् आर्याष्टाङ्गमार्गशून्यतानिमित्ताप्रणिहितानि त्रीणि विमोक्षमुखानि यावद् अशीत्यनुव्यञ्जनानि महामैत्री महाकरुणां महामुदितां महोपेक्षां परिपूरयित्वा सर्वाकारज्ञतानुप्राप्तुं, तत् पुनः सुभूते रूपप्रकृतौ स्थित्वा वेदना संज्ञा संस्कारा, विज्ञानप्रकृतौ स्थित्वा यावद् बोधिप्रकृतौ स्थित्वा सा च प्रकृतिर् उपशान्ता न कस्यचिद् धर्मस्योपचयं वा करोत्य् अपचयं वा करोत्य् उत्पादं वा निरोधं वा उच्छेदं वा शाश्वतं वा संक्लेशं वा व्यवदानं वा प्राप्तिं वाभिसमयं वा. इत्य् अद्वयधर्मनिवेशनकर्म
SK
स खलु सुभूते लोकव्यवहारप्रज्ञप्तिधर्मम् उपादाय बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न पुनर् अत्र परमार्थं कश्चिद् अस्ति रूपं वा वेदना वा संज्ञा वा संस्कारा वा, विज्ञानं वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादा वा प्रतीत्यसमुत्पादाङ्गानि वा पारमिता वा शून्यता वा बोधिपक्ष्या वा धर्मा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि वा विमोक्षमुखानि वाभिज्ञा वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा अनुत्तरा सम्यक्संबोधिर् यो वानुत्तरायां सम्यक्संबोधौ चरेत्, सर्व एते धर्मा लोकव्यवहारम् उपादाय प्रज्ञप्ता न पुनः परमार्थेन. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय बोधये चरति, न पुनस् तच् चित्तम् उपलभते न सत्त्वं न बोधिं, तत् किं मन्यसे? सुभूते यस्मिन् समये सुभूतिना क्लेशाः प्रहीना इन्द्रियाणि प्रतिलब्धानि, आनन्तर्यश् च समाधिः प्रतिलब्धः स्रोतआपत्तिफलं वा प्राप्तं सकृदागामिफलं वा प्राप्तम् अनागामिफलं वा प्राप्तं वार्हत्त्वं वा प्राप्तम्, अपि नु तस्मिन् समये स्वप्न उपलभ्यते, चित्तस्य मार्गो वा मार्गफलं वा.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तत् कथं सुभूतिनाम्ना स्थविरेण त्वयार्हत्त्वं प्राप्तम् इति प्रज्ञप्तम्?
SK
सुभूतिर् आह: लोकव्यवहारम् उपादाय. (PSP_६-८:१०५)
SK
भगवान् आह: एवम् एतत् सुभूते लोकव्यवहारेण बोधिसत्त्वः प्रज्ञप्तो लोकव्यवहारेण रूपं प्रज्ञप्तं, वेदना संज्ञा संस्कारा लोकव्यवहारेण, विज्ञानं प्रज्ञप्तं लोकव्यवहारेण स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च प्रज्ञप्तानि लोकव्यवहारेण सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानरूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि प्रज्ञप्तानि लोकव्यवहारेण शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेनिकबुद्धधर्माः प्रज्ञप्ता लोकव्यवाहारेण सर्वाकारज्ञता प्रज्ञप्ता, न पुनर् बोधिसत्त्वेन महासत्त्वेन सम्यक्संबोधौ कश्चिद् धर्म उपलब्धो यस्य धर्मस्योपचयं वापचयं वा कुर्याद् उपकारं वापकारं वा कुर्याद् धर्माणां प्रकृतिम् उपादाय सापि धर्माणां प्रकृतिर् नोपलब्धा, कः पुनर् वादः प्रथमचित्तोत्पादम् उपलप्स्यते, दशबोधिसत्त्वभूमीर् दशपारमिताः सर्वशून्यताः, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् उपलप्स्यते, शून्यतानिमित्ताप्रणिहितान् समाधीन् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् उपलप्स्यते, यावत् सर्वधर्मान् उपलप्स्यते नेदं स्थानं विद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अर्थं करोति. इति सांकेतिकज्ञाननिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः सर्वपारमितासु सर्वशून्यतासु सप्तत्रिंसत्सु बोधिपक्ष्येषु धर्मेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरन् बोधिमार्गञ् च परिशोध्याभव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते?
SK
भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन दानपारमितायां चरति, न च दानम् उपलभते, न दानप्रतिग्राहकन् नाप्य् अन्यत्रैतेषु धर्मेषु चरति, (PSP_६-८:१०६) तदा बोधिसत्त्वो महासत्त्वो उत्सहते बोधिमार्गे चरितुम्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन् न च प्रज्ञाम् उपलभते, यो वा भावयेद् यद् वा भावयेत् तद् अपि नोपलभते नाप्य् अन्यत्रैतेषु धर्मेषु चरति, तदा बोधिसत्त्वो महासत्त्व उत्सहते बोधिमार्गे चरितुम्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् बुद्धधर्मान् न समनुपश्यति, यो वा भावयति यद् वा भावयति तद् अपि न समनुपश्यति, नाप्य् अन्यत्रैतेषु धर्मेषु चरति, तदा बोधिसत्त्वो महासत्त्व उत्सहते बोधिमार्गे चरितुम्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दाने योगम् आपद्यते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् उपायकौशल्येन रूपं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि रूपस्य स्वभावो नास्ति यो योजयति वा वियोजयति वा, वेदना संज्ञा संस्कारा, विज्ञानं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि विज्ञानस्य स्वभावो नास्ति यो योजयति वा वियोजयति वा, एवं न दानपारमिता न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता योजयति न वियोजयति. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति यो योजयति वा वियोजयति वा, एवं स्कन्धधात्वायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि न सप्तत्रिंशद्बोधिपक्ष्या धर्मा नाध्यात्मशून्यता न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न यावद् अभावस्वभावशून्यता नाप्रमाणध्यानारूप्यसमापत्तयो नार्यसत्यानि (PSP_६-८:१०७) न शून्यतानिमित्ताप्रणिहितानि न विमोक्षसमाधिसमापत्तिधारणीमुखानि नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा योजयन्ति न वियोजयन्ति. तत् कस्य हेतोः? तथा हि बुद्धधर्माणां स्वभावो नास्ति यो योजयति वा वियोजयति वा.
SK
सारिपुत्र आह: यदि भगवन् न कस्यचिद् धर्मस्य स्वभावः संविद्यते यो योजयति वा वियोजयति वा, कथं प्रज्ञापारमिताया अभिनिर्हारो भवति, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, न ह्य् अशिक्षित्वा प्रज्ञापारमितायां शक्या बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्.
SK
भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, यथा वदसि न शक्याशिक्षित्वा प्रज्ञापारमितायां बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् अभिसंबोधुं, यदि खलूपायकौशल्येन शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य स्वभावम् उपलभते गृह्णाति. अथ न लभते, तत् किं ग्रहीष्यति, इयं प्रज्ञापारमिता इयं ध्यानपारमिता इयं वीर्यपारमिता इयं क्षान्तिपारमिता इयं शीलपारमिता इयं दानपारमिता, इदं रूपम् इयं वेदना इयं संज्ञा इमे संस्कारा इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, इमानि प्रतीत्यसमुत्पादाङ्गानि इमाः पारमिता इमाः शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि, इमाः शून्यतानिमित्ताप्रणिहिताभिज्ञाः, इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा इयम् अनुत्तरा सम्यक्संबोधिर् इति, इमान् धर्मान् बोधिसत्त्वो महासत्वो नोपलभते, तत् किं ग्रहीष्यत्य् अग्राह्या शारिपुत्र प्रज्ञापारमिता, अग्राह्या ध्यानपारमिता, अग्राह्या वीर्यपारमिता, अग्राह्या क्षान्तिपारमिता, अग्राह्या शीलपारमिता, अग्राह्या दानपारमिता, अग्राह्याः सर्वशून्यता, अग्राह्या बोधिपक्ष्या धर्मा, अग्राह्याण्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अग्राह्याः शून्यतानिमित्ताप्रणिहिताभिज्ञाः, अग्राह्या दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा, इयं शारिपुत्र प्रज्ञापारमिताग्राह्यपारमिता यद् उत प्रज्ञापारमिता, अत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं यत्र शिक्षमाणो बोधिअत्त्वो महासत्त्वः शिक्षाम् अपि न लप्स्यते, (PSP_६-८:१०८) कुतः पुनर् बोधिं कुतः पुनः प्रज्ञापारमितां कुतः पुनर् बोधिसत्त्वधर्मान् कुतः पुनः प्रत्येकबुद्धधर्मान् कुतः पुनः श्रावकधर्मान् कुतः पुनः पृथग्जनधर्मान्. तत् कस्य हेतोः? तथा हि शारिपुत्र न कस्यचिद् धर्मस्य स्वभावो विद्यते, एवम् अभावस्वभावानां सर्वधर्माणां कतमः पृथग्जनधर्मः कतमः स्रोतआपन्नः कतमः सकृदागामी कतमो ऽनागामी कतमो ऽर्हन् कतमः प्रत्येकबुद्धः कतमो बोधिसत्त्वः कतमः सम्यक्संबुद्धः? यदीमे पुद्गला नोपलभ्यन्ते, तदा कुत एते धर्माः प्रादुर्भविष्यन्ति, येषु धर्मेषु निर्दिश्यते पृथग्जनो वा स्रोतआपन्नो वा सकृदागामी वानागामी वार्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा सम्यक्संबुद्धो वा.
SK
शारिपुत्र आह: अवस्तुकानां भगवन् सर्वधर्माणां कुतः आगमः प्रज्ञायते? अयं पृथग्जनो ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: किं नु शारिपुत्र रूपस्य वस्त्व् अस्ति भूतं भव्यं यथा बालपृथग्जनो ऽभिनिविष्टः.
SK
शारिपुत्र आह: नो भगवन्, नैतत् सुगतान्यत्र विपर्यस्तश् चित्तः पृथग्जनो रूपम् इत्य् अभिनिविष्टो, वेदनायाः संज्ञायाः संस्काराणाम्.
SK
भगवान् आह: किं नु शारिपुत्र विज्ञानस्य वस्त्व् अस्ति भूतं भव्यं यथा बालपृथग्जनो ऽभिनिविष्टः.
SK
सारिपुत्र आह: नो भगवन्, नैतत् सुगतान्यत्र विपर्यस्तचित्तः पृथग्जनो विज्ञानम् इत्य् अभिनिविष्टः.
SK
भगवान् आह: किं पुनः शारिपुत्र यावत् सर्वधर्माणां वस्त्व् अस्ति भूतं भव्यं यथा बालपृथक्जनो ऽभिनिविष्टः.
SK
शारिपुत्र आह: नो भगवन् नैतत् सुगतान्यत्र विपर्यस्तचित्तः पृथग्जनो यावत् सर्वधर्मा इत्य् अभिनिविष्टः.
SK
भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनावस्तुकान् धर्मान् पश्यन्न् (PSP_६-८:१०९) अनुत्तरायां सम्यक्संबोधौ प्रस्थितः. इत्य् अनुपलंभज्ञाननिवेशनकर्म
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमं भगवन् बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्येनावस्तुकान् सर्वधर्मान् पश्यन्न् अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः?
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कस्यचिद् धर्मस्य वस्तु समनुपश्यति यत्र वस्तूनि प्रतिहन्येत, यत्र प्रतिहन्यमान आलीयेत आलीयमानः संसीदेत् कौशीद्यम् आपद्येत, तस्मात् तर्हि शारिपुत्र अवस्तुका अजीवा निर्जीवा अभावस्वभावाः प्रकृतिशून्याः सर्वधर्माः, अन्यत्र समोहेन सत्त्वा अभिनिविष्टाः स्कन्धेषु वा धातुषु वा आयतनेषु वा प्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु वा तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभावस्वभावान् सर्वधर्मान् संपश्यमानः प्रकृतिशून्यान् स्वलक्षणशून्यान् प्रज्ञापारमितायां चरन् मायाकारसदृशम् आत्मानम् अधिष्ठाय सत्त्वानां धर्मं देशयति, ये सत्त्वा मत्सरिणस् तेषां दानकथां करोति, दुःशीलानां शीलकथां करोति, व्यापन्नचित्तानां क्षान्तिकथां करोति, कुशीदानां वीर्यकथां करोति, विक्षिप्तचित्तानां ध्यानकथां करोति, दुष्प्रज्ञानां प्रज्ञाकथां करोति, यदा ते सत्त्वा दाने प्रतिष्ठिता भवन्ति, शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायां प्रतिष्ठिता भवन्ति, तदा तेषां सत्त्वानाम् अनुशासनीं कथां करोत्य् आर्यां नैर्याणिकीं, यया कथया स्रोतआपत्तिफलम् अनुप्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुवन्ति, प्रत्येकां बोधिं प्राप्नुवन्ति, सर्वाकारज्ञताम् अनुप्राप्नुवन्ति.
SK
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: किं भगवन् बोधिसत्त्वो महासत्त्व औपलंभिको ऽसंविद्यमानां सत्त्वान् दाने नियोजयति, शीले नियोजयति, क्षान्तौ नियोजयति, वीर्ये नियोजयति, ध्याने नियोजयति, प्रज्ञायां नियोजयति. उत्तरे चाचार्या नैर्याणिकीं कथां करोति, यया कथया स्रोतआपत्तिफलं प्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुवन्ति, प्रत्येकबोधिं प्राप्नुवन्ति सर्वाकारज्ञताम् अनुप्राप्नुवन्ति. (PSP_६-८:११०)
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: न खलु पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कश्चिद् उपलंभः. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चित् सत्त्वम् उपलभते ऽन्यत्र संवृत्तिसंकेतेन व्यवहरति, तच् छारिपुत्र बोधिसत्त्वो महासत्त्वो द्वाभ्यां सत्याभ्यां स्थित्वा सत्त्वानां धर्मं देशयति, न हि शारिपुत्र द्वाभ्यां सत्याभ्यां सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिः, अपि तु खलूपायकौशल्येन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, तत् ते सत्त्वा दृष्ट एव धर्म आत्मानं नोपलभन्ते, प्राग् एव यः प्रापयिष्यति, येन वा प्रापयिष्यति, एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति.
SK
एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: महोत्पादो बतायं भगवन् बोधिसत्त्वो महासत्त्वो न च नाम भगवन् कस्यचिद् धर्मस्यैकत्वं वा नानात्वं वा पृथक्त्वं वा उपलभते, एवंरूपं च संनाहं संनह्यते येन संनाहेन संनह्य न कामधातौ दृश्यते, न रूपधातौ दृश्यते, नारूप्यधातौ दृश्यते, न संस्कारधातौ दृश्यते, नासंस्कृतधातौ दृश्यते, सत्त्वांश् च त्रैधातुकान् मोचयति, न च सत्त्वं सत्त्वप्रज्ञप्तिम् उपलभते, सत्त्वाप्रज्ञप्त्या सत्त्वाबन्धः सत्त्वामोक्षः सत्त्वाबन्धामोक्षाद् असंक्लेशाव्यवदानम् असंक्लेशाव्यवदानान् न गतिसंभेदः प्रज्ञायते, गत्यसंभेदतया न कर्म न संक्लेशः, अकर्मासंक्लेशस्य कुतो विपाको भविष्यति, येन विपाकेनात्मना सत्त्वाः पञ्चगतिके संसारे संदृश्येरन्.
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवम् एतच् छारिपुत्रैवम् एतद् यथा वाचं भाषसे, सचेत् पूर्वं सत्त्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, बोधिसत्त्वो ऽपि तथागतो ऽपि पूर्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, पञ्चगतिको वा संसारः पूर्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, यस्मात् तर्हि शारिपुत्रोत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैव एषा धर्माणां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतानन्यतथता, तत्र नात्मा न सत्त्वो न जीवो न जन्तुर् (PSP_६-८:१११) न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यकः, तत् कुतो रूपं भविष्यति, कुतो वेदना कुतः संज्ञा कुतः संस्काराः, कुतो विज्ञानम् इति भविष्यति, कुतः स्कन्धधात्वायतनानि कुतः प्रतीत्यसमुत्पादः कुतः प्रतीत्यसमुत्पन्नधर्माः कुतः प्रतीत्यसमुत्पादाङ्गानि भविष्यन्त्य्, असताम् एषां धर्माणां कुतः पञ्चगतिकः संसारो भविष्यति, यतः सत्त्वाः परिमोचयितव्याः स्युर् यस्मात् तर्हि शारिपुत्र इमे धर्मा ईदृशाः स्वभावशून्यास् तद् बोधिसत्त्वो महासत्त्वः पूर्वकाणां बुद्धानां भगवताम् अन्तिकाच् छ्रुत्वानुत्तरायां सम्यक्संबोधौ संप्रस्थितो, न चात्र कश्चिद् धर्मस्वभावो यम् उपलभते यो वा शक्यो ऽधिमोक्तुं, यत्र बालपृथग्जना अभिनिविष्टा अन्यत्र विपर्यासे, तद् बोधिसत्त्वो महासत्त्वः संनाहं संनह्यते येन संनाहेन संनह्य न प्रत्युदावर्तते ऽनुत्तरायां सम्यक्संबोधौ, मया नाभिसंबोद्धव्यानुत्तरा सम्यक्संबोधिर्, अभिसंबोधव्यैवानुत्तरा सम्यक्संबोधिर्, अभिसंबुध्य च धर्मेणार्थं करिष्यामि, येनार्थेन सत्त्वान् विपर्यासात् परिमोचयिष्यामि, तद्यथापि नाम शारिपुत्र मायाकारनिर्मितः पुरुषो बहूनि प्राणिकोटिनियुतशतसहस्राण्य् अभिनिर्मिमीते, अभिनिर्माय प्रभूतेन खादनीयभोजनीयस्वादनीयेन संतर्प्ययेत्, संतर्प्यैवम् उदानम् उदानयेद् बहु मे पुण्यं प्रसूतम् इति. तत् किं मन्यसे? शारिपुत्रापि नु तत्र कश्चिद् भोजितो वा संतर्पितो वा भवेत्.
SK
शारिपुत्र आह: नो भगवन्.
SK
भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन् चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेष्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेष्व् ऋद्धिपादेषु पञ्चेन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गे मार्गे सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेष्व् अष्टसु विमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिषु पञ्चस्व् अभिज्ञासु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु दशसु बोधिसत्त्वभूमिषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु (PSP_६-८:११२) अष्टादशस्व् आवेणिकबुद्धधर्मेषु महामैत्र्यां महाकरुणायाञ् चरन् बोधिमार्गां च परिपूरयति बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति न च कञ्चित् सत्त्वम् उपलभते यम् उपलभ्य विनयेत्. इति सत्त्वपरिपाकनिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यत्र बोधिसत्त्वेन महासत्त्वेन चरता सत्त्वाः परिपाचयितव्याः, बुद्धक्षेत्रं च परिशोधयितव्यम्?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्, अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् अध्यात्मबहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपथानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्न् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् शून्यतानिमित्ताप्रणिहिताभिज्ञासु चरन् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन् सत्त्वान् परिपाचयति बुद्धक्षेत्रं च परिशोधयति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् परिपाचयति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति सत्त्वेभ्यो दानं दत्वा एवम् अववदति, इह कुलपुत्रा मा दानम् आग्रहणतो ग्रहीष्यथ, मा दानाग्रहणगृहीतेनात्मभावम् अभिनिवर्तयिष्यथ, येनात्मभावेनाभिनिवर्तितेन बहूनि दुष्खानि प्रत्यनुभविष्यथ, नेह कुलपुत्रा परमार्थेन दानं न दानपतिर् न प्रतिग्राहकः, सर्व एते त्रयो धर्माः शून्या, न च प्रकृतिशून्या धर्मान् गृह्णन्त्य् अग्राह्या शून्यता. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वेभ्यो दानं ददाति, न चात्र दानम् उपलभते न दानपतिं न प्रतिग्राहकम् अनुपलंभपारमितैषा (PSP_६-८:११३) यद् उत दानपारमिता, स दानदातृप्रतिग्राहकान् अनुपलंभमानः सत्त्वान् स्रोतआपत्तिफले नियोजयति, सकृदागामिफले नियोजयत्य् अनागामिफले नियोयति, अर्हत्त्वे नियोजयति, प्रत्येकायां बोधौ नियोजयति, अनुत्तरायां सम्यक्संबोधौ नियोजयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् परिपाचयति, स आत्मना च दानं ददाति, परांश् च दाने समादापयति, दानस्य च वर्णं भाषते ये ऽपि चान्ये दानं ददाति, तेषां च वर्णवादी भवति समनुज्ञः, तद् बोधिसत्त्वो महासत्त्व एवंरूपं दानं दत्वा क्षत्रियमहाशालकुलानां वा सहव्रतायोपपद्यते, ब्राह्मणमहाशालकुलानां वा सहव्रतायोपपद्यते, गृहपतिमहाशालकुलानां वा सहव्रतायोपपद्यते, कोट्टराजो वा भवति, चक्रवर्तिराज्यं वा प्रतिलभते, स तत्र सत्त्वांश् चतुर्भिः संग्रहवस्तुभिः संगृह्णाति, कतमैश् चतुर्भिर्? दानेन प्रियवद्यतया, अर्थचर्यया समानार्थतया च. एवं तान् सत्त्वान् दानेन संगृह्यानुपूर्वेण शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायां प्रतिष्ठापयति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तबोध्यङ्गेष्व् आर्याष्टाङ्गेषु मार्गेषु प्रतिष्ठापयति, शून्यतानिमित्ताप्रणिहितेषु सम्यक्नियामम् अवक्रामयति, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वम् अनुप्रापयति, प्रत्येकां बोधिम् अनुप्रापयत्य् अनुत्तरायां सम्यक्संबोधौ समादापयति, हंहो पुरुषा अभिसंबुद्ध्यध्वम् अनुत्तरां सम्यक्संबोधिं, तत्र न कश्चिद् धर्मः स्वभावेन संविद्यते, यत्र सत्त्वा अन्यत्र विपर्यासेन नावबुध्यन्ते, तस्मात् सर्वविपर्यासान् मा ग्रहीष्यथ, आत्मानं मोचयथ संसारात्, परांश् च मोचयिष्यथ, एवं यूयम् आत्मनश् च महान्तम् अर्थं करिष्यथ, परांश् च महत्य् अर्थे नियोजयिष्यथ. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं, यथा चरन् प्रथमचित्तोत्पादम् उपादाय न जातु दुर्गतिं पतति, न जातु चक्रवर्तिराज्यन् न कारयति. तत् कस्य हेतोः? यादृशं हि वीजं तादृशं फलं भवति, तस्य चक्रवर्तिनो यदा याचनका आगच्छन्ति तदा तस्य चक्रवर्तिनो राज्ञ एवं भवति, येषां मया कृतशश् चक्रवर्तिफलं परिगृहीतं नान्यत्र सत्त्वानाम् (PSP_६-८:११४) अर्थाय, तद् एतद् युष्माकम् एव दत्तं भवतु, तस्म्द् अत्र न मयानेन चक्रवर्तिराज्येनार्थः प्राग् एवान्ये नान्यत्र सत्त्वानाम् अर्थाय संसार उपात्तः स करुणायमानो महाकरुणां परिपूरयति, यावन् महाकरुणां परिपूरयित्वा सत्त्वानाम् अर्थं करोति, ते च सत्त्वा नोपलभ्यन्ते ये परिनिष्पन्नाः स्युर् इत्य् अन्यत्र संज्ञानाम् असंकेतं व्यवहार इति, स च व्यवहारः प्रतिश्रुत्कोपमो ऽप्रव्याहारो वेदितव्यः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं, यथा चरतो न किंचित् सत्त्वानाम् अन्तिके ऽपरित्यक्षं भवति, अन्तश आत्ममांसान्य् अपि, प्राग् एव बाह्यान्य् उपकरणानि, यैर् उपकरणैः सत्त्वाः संसारात् परिमोचयितव्याः, तानि पुनः कतमान्य् उपकरणानि यद् उत दानपारमितोपकरणं, शीलपारमितोपकरणं क्षान्तिपारमितोपकरणं वीर्यपारमितोपकरणं ध्यानपारमितोपकरणं प्रज्ञापारमितोपकरणम्, अध्यात्मशून्यतोपकरणं बहिर्धाशुन्यतोपकरणम्, अध्यात्मबहिर्धाशून्यतोपकरणं यावद् अभावस्वभावशून्यतोपकरणं, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा उपकरणम् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् उपकरणं शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा उपकरणम्, इमानि तान्य् उपकरणानि यैर् उपकरणैर् उपगृहीताः सत्त्वाः संसारात् परिमोक्ष्यन्ते.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सर्वस्या दानं ददद् एवं वाचं भाषेत्, अहं भो यूयं कुलपुत्राः शीलं रक्षताहं युष्माकम् अवैकल्यं करिष्याम्य् अन्नेन वा पानेन वा वस्त्रेण वा शयनासनैर् वा यानैर् वा हिरण्यसुवर्णमनिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवाडैर् वा, पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरैर् वा, ग्लानप्रत्ययभैषज्यपरिष्कारैर् वा यावद् अन्यतरैर् वा मानुष्यकैः परिष्कारोपकरणैर्, येन यूयं वैकल्पेन दौःशील्यं कुरुथ, तद् अहं युष्माकम् अवैकल्यं करिष्याम्य् अन्नादिना वा सप्तभिर् वा रत्नैर्, यद् वाकाङ्क्षथ तत् सर्वं परिप्रापयिष्यामि, तद् यूयं संवरशीले स्थित्वानुपूर्वेण दुष्खस्यान्तं करिष्यथ त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा (PSP_६-८:११५) महायानेन वा.
SK
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वान् क्षान्तिसौरत्ये नियोजयति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वा ये कुप्यन्ति वा व्यापद्यन्ते वा तेषां सत्त्वानाम् एवं वाचं भाषेत, केन यूयं कारणेन कुलपुत्रा व्यापद्यध्वे दोषम् उत्पादयथ? तद् अहं यूष्माकं सर्वं परिप्रापयिष्यामि, यस्यार्थेन कुप्यथ व्यापद्यथ तत् ममान्तिकाद् गृह्णीथ, तेन भगवताम् अवैकल्यं करिष्याम्य् अन्नेन वा पानेन वा वस्त्रेण वा शयनासनैर् वा पुष्पधूपगन्धमाल्यविलेपनचूर्णैर् वा हिरण्यसुवर्णरजतशङ्खशिलाप्रवालैर् वा विविधैर् वा मणिरत्नैर् वा यावद् अन्यतरान्यतरैर् वा मानुष्योपकरणपरिष्कारैर् येन यूयं न कुप्यथ व्यापद्यध्वे. तद् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वान् क्षान्तिसौरत्ये नियोजयति, नैवात्र कश्चिद् भावो ऽस्ति यः भावो येन युष्माकं क्रोध उपजायत अभूतसंकल्प एष क्रोधो नैतस्य किंचिद् वस्त्व् अस्ति यस्य यूयं वस्तुनः कृतशो ऽभिसज्जथ कुप्यथ व्यापद्यध्वे ऽभिषज्य कुपित्वा व्यापद्य दण्डेन वा शस्त्रेण वा प्रहरथान्यमन्यं वा जीविताद् व्यपरोपयथ, तद् यूयम् असद्भूतसंकल्पितक्षुभिता नरकं वा प्रपतिष्यथ तिर्यग्योनिं वा यमलोकं वा प्रपतिष्यथ, या अप्य् अन्याः काश्चिद् गतयस् तासु च दुःखां वेदनां वेदयिष्यथ, हंभो पुरुषा मावस्तुकानां धर्माणां कृतशः तत् कर्म परिगृह्णीत येन परिगृहीतेन मनुष्यप्रतिलाभो न भविष्यति, प्राग् एव बुद्धोत्पादो दुर्लभः. स खलु पुनर् भो पुरुषो दुर्लभो बुद्धोत्पादो दुर्लभो मनुष्यलाभो दुर्लभः क्षणसंपद् दुर्लभः संसारां मोक्षः, मा इमं क्षणं विरागयिष्यथ मा विचिकित्सा भविष्यथ क्षणप्राप्ताः. ततो बोधिसत्त्वो महासत्त्व आत्मना च क्षान्त्या संपादयाति, परांश् च क्षान्तिसौरत्ये नियोजयति, क्षान्तेश् च वर्णं भाषते, ये ऽपि चान्ये क्षान्तिं भावयन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः, ततस् तान् सत्त्वान् क्षान्त्यां नियोजयित्वा क्षान्त्यां स्थापयित्वानुपूर्वेण त्रिभिर् यानैः (PSP_६-८:११६) परिनिर्वापयति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिसौरत्ये सत्त्वान् नियोजयति.
SK
कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन्, सत्त्वां वीर्यपारमितायां नियोजयति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वान् कुशीदान् हीनवीर्यान् अलसान् विदित्वा एवम् अववदति, कस्य यूयं कृतशः कौशीद्यम् आपद्यध्वे? त एवम् अवोचत्, प्रत्ययवैकल्येन, तद् बोधिसत्त्वो महासत्त्वो दानपारमितायाञ् चरन् तान् सत्त्वान् एतद् अवोचत्, हम्भो पुरुषा अहं भवतां सर्वप्रत्ययान् उपसंहरिष्यामि, यदि वा दानं यदि वा शीलं यदि वा क्षान्तिं यदि वा यैर् आकारैर् यैर् लिङ्गैर् वीर्यम् आरभेध्वं तान् भवताम् उपसंहरिष्यामि, ततस् ते सत्त्वा बोधिसत्त्वस्य महासत्त्वस्य उपकरणैर् वीर्यम् आरभन्ते कायिकं वा चैतसिकं वा, तेन कायिकेन वा चैतसिकेन वा वीर्येण सर्वान् कुशलान् धर्मान् परिपूरयन्ति, यैः कुशलैर् धर्मैर् आर्यान् अनास्रवान् धर्मान् भावयन्ति, यान् भावयमाना स्रोतआपत्तिफलं प्राप्स्यन्ति सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्स्यन्ति, प्रत्येकां बोधिं प्राप्स्यन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् वीर्यपारमितायां सत्त्वान् नियोजयति.
SK
कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् ध्यानपारमितायां सत्त्वान् अववदतीह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वान् एवम् अववदति, किम् इदं भोः सत्त्वा यूयं ध्यानन् न समापद्यध्वे? तम् एवम् आहुः, प्रत्ययवैकल्येनेति, तान् बोधिसत्त्वो महासत्त्व एतद् अवोचत्, हंभो पुरुसा अहं तान् प्रत्ययान् उपसंहरिष्यामि, यैः प्रत्ययैर् न वितर्कान् वितर्कयिष्यथ, इदम् इति वा बहिर्धेत्य् अध्यात्मेति वाध्यात्मबहिर्धेति, तद् बोधिसत्त्वो महासत्त्वस् तेषां सत्त्वानां तान् प्रत्ययान् उपसंहरति यैः प्रत्ययैर् उपसंहृतैर् न वितर्कयन्ति ततस् ते सत्त्वा वितर्केषु च्छिन्नेषु प्रथमं ध्यानं समापद्यन्ते, द्वितीयं ध्यानं समापद्यन्ते, तृतीयं ध्यानं समापद्यन्ते, चतुर्थं ध्यानं समापद्यन्ते, मैत्रीकरुणामुदितोपेक्षाः समापद्यन्ते, ते तैर् ध्यानैस् तैश् चाप्रमाणैर् यावद् (PSP_६-८:११७) अष्टाङ्गमार्गं भावयमाणां त्रिभिर् यानैः परिनिर्वन्ति, तत्रापरे बोधिमार्गां न परिहीयन्ते यावद् अनुत्तरायाः सम्यक्संबोधेः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् ध्यानपारमितायां सत्त्वान् एवम् अववदति.
SK
कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् प्रज्ञापारमितया परिगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् एवम् अववदति, किम् इदं भोः सत्त्वा यूयं प्रज्ञापारमितान् न भावयथ? त एवम् अवोचत्, प्रत्ययवैकल्येनेति, तान् बोधिसत्त्वो महासत्त्वः सत्त्वान् एवम् अववदति, ममोपरि पूरयम् उपकरणं गृह्णीत ममोपर्य् उपकरणं गृहीत्वा दानं ददत, शीलं रक्षत क्षान्त्या संपादयत वीर्यम् आरभध्वं ध्यानं संपादयध्वम्, इमान् आकारान् परिपूर्यैव मीमांसयत, अस्ति कश्चिद् यः प्रज्ञापरमिताभावनायाम् उपलभ्यते? आत्मा वा सत्त्वो वा जिवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनुजो वा मानवो वा कारको वा वेदको वा जानको वा पश्यको वा कामधातुर् वा रूपधातुर् वा आरूप्यधातुर् वा षट्पारामिता वा सर्वशून्यता वा सप्तत्रिंशद्बोधिपक्ष्या वा धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो वा शून्यतानिमित्ताप्रणिहितानि वाष्टविमोक्षा वा नवानुपूर्वविहारसमापत्तयो वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा यावद् अनुत्तरा वा सम्यक्संबोधिः, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मम् उपलभते यम् उपलभ्याभिनिविशेत सो ऽनभिनिवेशमानो न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यत्य् असमनुपश्यन् न कल्पयत्य् अयं नैरयिको ऽयं तिर्यग्योनिको ऽयं यामलौकिको ऽयम् असुरो ऽयं देवो ऽयं मनुष्यो ऽयम् अमनुष्यः, अयं शीलवान् अयं दुःशीलो अयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् प्रज्ञापारमितायां परिगृह्णाति. (PSP_६-८:११८)
SK
कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितायां स्थित्वा क्षान्तिपारमितायां स्थित्वा वीर्यपारमितायां स्थित्वा ध्यानपारमितायां स्थित्वा प्रज्ञापारमितायां स्थित्वा यावत् सप्तत्रिंशद् बोधिपक्ष्यैर् धर्मैः सत्त्वान् परिगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानाम् उपकरणम् उपनामयति यैर् उपकरणैर् उपगृहीताः सत्त्वाश् चत्वारि स्मृत्युपस्थानानि भावयन्ति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गं भावयन्ति, येन मार्गेण भावितेन यावत् संसारात् परिमुच्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैः सत्त्वान् परिगृह्णाति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा एवं सत्त्वान् परिपाचयति, एते यूयं भोः कुलपुत्रा ममान्तिकाद् अन्नं पानं यानं वस्त्रां माल्यं गन्धं विलेपनं पुष्पं धूपं चूर्णं यावत् सर्वान् मानुष्यकोपकरणपरिष्कारान् गृहीत्वा सप्तभिश् च रत्नैः सत्त्वान् अनुगृह्णीध्वं, तद् भवतां भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय, मा चैव चिन्तयिष्यथ, अस्यैषो ऽर्थो नास्माकम् इति, यद् भवता दीर्घरात्रम् एषो ऽर्थः सत्त्वानां कृतश उपार्जितस् तद् युष्माकम् एवैष सन्तक इत्य् एवं गृहीत्वा सत्त्वेभ्यो दानं ददध्वं, तेन च दानेन शीले नियोजयध्वं क्षान्त्या नियोजयध्वं वीर्ये नियोजयध्वं ध्याने नियोजयध्वं प्रज्ञायां नियोजयध्वं सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयध्वं आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु नियोजयध्वं, शून्यतानिमित्ताप्रणिहितेषु नियोजयध्वं, मा चैतावता तुष्टिम् आपद्यध्वं, यावद् अनुत्तरेष्व् आर्येष्व् अनास्रवेषु धर्मेषु प्रतिष्ठापयध्वं स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबोधाव् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयध्वम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सत्त्वाः परिपाचयितव्याः, यथा परिपाचितास् त्रिभ्यो पापेभ्यो मुच्यन्ते, यावत् सर्वस्माद् एव संसारात् परिमुच्यन्ते. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित्वा क्षान्तिपारमितायां स्थित्वा वीर्यपारमितायां स्थित्वा ध्यानपारमितायां स्थित्वा प्रज्ञापारमितायां स्थित्वा सत्त्वान् परिपाचयति, एते (PSP_६-८:११९) यूयं भोः सत्त्वा तेषां प्रत्ययानाम् असतां दौःशील्यम् आपद्यथ व्यापादं कौशीद्यं विक्षेपं दौष्प्रज्ञम् आपद्यध्वे तान् प्रत्ययान् युष्माकम् उपसंहरिष्यामि, अन्नं वा पानं वा वस्त्रं वा शयनासनं वा यावत् सर्वान् मानुष्यकोपकरणपरिष्कारान् स तान् सत्त्वांस् तथारूपेणानुग्रहेणानुगृह्णाति यथारूपेणानुग्रहेनानुगृहीताः समान् दशकुशलान् कर्मपथान् समादाय वर्तन्ते, अखण्डे ऽच्छिद्रे ऽशबले ऽकल्माषे ऽपरामृष्टे संवरशीले स्थित्वा षट्सु पारमितासु सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु स्थित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति.
SK
अथ खल्व् आयुष्मतः सुभूतेर् एतद् अभवत्: कतमो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन इदृशाः संनाहाः संनद्धव्याः?
SK
अथ खलु भगवान् आयुष्मतः सुभूतेश् चेतसैव चैतः परिवितर्कम् आज्ञायायुष्मन्तं सुभूतिम् एतद् अवोचत्: षट् पारमिताः सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सप्तत्रिंशद् बोधिपक्ष्या धर्मा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वशून्यता अष्टविमोक्षा नवानुपूर्वविहारसमापत्तय आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः सर्वधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबोधिसत्त्वभूमयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः. अपि तु खलु सुभूते सर्वधर्मा अपि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, तत् किं मन्यसे? सुभूते अस्ति स कश्चिद् धर्मो यत्र बोधिसत्त्वेन महासत्त्वेन न शिक्षितव्यं यत्राशिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. नास्ति सुभूते कश्चिद् धर्मो यत्र बोधिसत्त्वेन महासत्त्वेनाशिक्षितव्यम् अशिक्षित्वा यत्र बोधिसत्त्वो महासत्त्वो न शक्नोति सर्वाकारज्ञताम् अनुप्राप्तुम्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः शून्याः, कथं बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु शिक्षिष्यते? न तु भगवन्न् अप्रपञ्चन् न प्रपञ्चयति, इयन्त इति वा नेयन्त इति वा, अयं धर्मो लौकिको वा लोकोत्तरो वा सास्रावो वा अनास्रवो (PSP_६-८:१२०) वा संस्कृतो वासंस्कृतो वा पृथग्जनधर्मो वार्हद्धर्मो वा प्रत्येकबुद्धधर्मो वा बुद्धधर्मो वा.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत् सर्वधर्माः शून्या, यदि पुनः सुभूते सर्वधर्माः शून्या नाभविष्यन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यस्मात् सुभूते सर्वधर्माः शून्यास् तद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, अपि तु खलु सुभूते यद् एवं वदसि, यदि सर्वधर्माः शून्याः, कथं बोधिसत्त्वो महासत्त्वो धर्मनानात्वं करोति, इयन्त इति वा नेयन्त इति वा, अयं धर्मो लौकिको वा लोकोत्तरो वा सास्रवो वा अनास्रवो वा संस्कृतो वासंस्कृतो वा पृथग्जनधर्मो वार्हद्धर्मो वा प्रत्येकबुद्धधर्मो वा बुद्धधर्मो वेति. किं पुनः सुभूते एते सत्त्वा एवं जानन्ति सर्वधर्माः शून्या इति यदि जानीयुर् नैमां बोधिसत्त्वा महासत्त्वाः सर्वधर्मेषु शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, यस्मात् तर्हि सुभूते न जानन्ति सर्वधर्माः शून्या इति, तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वधर्माणां व्यवस्थानं कृत्वा सत्त्वानां धर्मं देशयति. इति बोधिसत्त्वमार्गनिवेशनकर्म
SK
तत्र बोधिसत्त्वेन महासत्त्वेन बोधिमार्गे चरता प्रथमम् एवम् उपपरीक्षितव्यं, नात्र कश्चिद् धर्मो यः स्वेन भावेनोपलभ्यते ऽन्यत्राभिसंस्कारेण, तत्र खलु धर्माणां स्वभावम् उपपरीक्षेयम् अहम् उपपरीक्षमाणो न क्वचिद् धर्मे ऽभिनिवेशेय यदि वा पारमितासु यदि वा शून्यतासु यदि वा सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु यदि वा स्रोताअपत्तिफले यदि वा सकृदागामिफले यदि वानागामिफले यदि वार्हत्त्वे यदि वा प्रत्येकबोधौ यदि वानुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि स्वभावेन सर्वधर्माः शून्या न हि शून्यता शून्यतायाम् अभिनिविशते, शून्यतैव तावन् नोपलभ्यते प्राग् एव (PSP_६-८:१२१) शून्यतायाम् अभिनिवेक्ष्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽनभिनिविष्टः सर्वधर्मेषु विहरति, अत्र शिक्षायां स्थित्वा सत्त्वान् अवलोकयति, कुत्रेमे सत्त्वाश् चरन्त्य् असंग्रहे तद् बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, सुमोचना बतेमे सत्त्वा असंग्रहात्, तत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन प्रज्ञापारमितायां स्थित्वा एवम् अववदति, एते यूयं भोः सत्त्वा दानं ददत ततो युष्माकम् अवैकल्यं भविष्यति भोगेषु, तेषु च भोगेषु मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं शीले ऽववदति तेन च शीलेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं क्षान्तिसौरत्ये ऽववदति तया च क्षान्त्या मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं वीर्ये ऽववदति मा च तेन वीर्येण मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं ध्याने ऽववदति तेन च ध्यानेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं प्रज्ञापारमितायाम् अववदति तया च प्रज्ञया मा मंस्याध्वं न तत्र किंचित् सारम् अस्ति. एवं स्रोतआपत्तिफले ऽववदति तेन च स्रोतआपत्तिफलेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं सकृदागामिफले ऽनागामिफले, एवम् अर्हत्त्वे ऽववदति तेन चार्हत्त्वेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं प्रत्येकबोधाव् अववदति तया च प्रत्येकबोध्या मा मंस्यध्वम्. एवं बुद्धधर्मेष्व् अववदति तैश् च बुद्धधर्मैर् मा मंस्यध्वं न तेषु किंचित् सारम् अस्ति. स एवम् अववदन् बोधिमार्गे चरति, न क्वचिद् धर्मे ऽभिनिविशते. तत् कस्य हेतोः? अनभिनिविष्टाश् च सर्वधर्मास् तथा ह्य् एषां स्वभावो नास्ति ये नाभिनिविशेत शून्यतास्वभावताम् उपादाय. तत् सुभूते बोधिसत्त्वो महासत्त्वो मार्गे चरन् न क्वचित् प्रतिष्ठते सो ऽप्रतिष्ठानयोगेन दानपारमितायां चरति तत्र च न प्रतिष्ठते, शीलपारमितायां चरति तत्र च न प्रतिष्ठते, क्षान्तिपारमितायां चरति तत्र च न प्रतिष्ठते, वीर्यपारमितायां चरति तत्र च न प्रतिष्ठते, ध्यानपारमितायां चरति तत्र च न प्रतिष्ठते, प्रज्ञापारमितायां चरति तत्र च न प्रतिष्ठते, स प्रथमं ध्यानं समापद्यते तत्र च न प्रतिष्ठते. तत् कस्य हेतोः? तथा हि ध्यानं स्वभावेन शून्यं यद् अपि समापद्यते तद् अपि शून्यं यैर् आकारैः समापद्यते ते ऽप्य् आकाराः शून्याः, एवं (PSP_६-८:१२२) द्वितीयं ध्यानं समापद्यते, एवं तृतीयं ध्यानं समपद्यते, एवं चतुर्थं ध्यानं समापद्यते, एवं मैत्रीकरुणामुदितोपेक्षा एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिंचन्यायतनं नैवसंज्ञानासंज्ञायतनं समापद्यते, एवम् अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीर्, एवं शून्यतानिमित्ताप्रणिहितानि समापद्यते, स्रोतआपत्तिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, सकृदागामिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, अनागामिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, ऽर्हत्त्वं च प्रतिलभते न च तत्र प्रतिष्ठते, प्रत्येकबुद्धभूमिञ् च प्रतिलभते न च तत्र प्रतिष्ठते.
SK
सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वो महासत्त्वो न प्रतिष्ठते?
SK
भगवान् आह: द्वाभ्यां कारणाभ्यां सुभूते न प्रतिष्ठते. कतमाभ्यां द्वाभ्याम्? स्वभावश् च तेषां फलं नास्ति यत्र प्रतिष्ठेत येन वा प्रतिष्ठेत यो वा प्रतिष्ठेत, न च तावन्मात्रकेन तुष्टिम् आपद्यते, न च मया स्रोतआपत्तिफलं न प्राप्तव्यं प्राप्तव्यं मया स्रोतआपत्तिफलं न च तत्र स्थातव्यम्, एवं सकृदागामिफलम् अनागामिफलं, न च मयार्हत्त्वं न प्राप्तव्यं प्राप्तव्यं मयार्हत्त्वं न च तत्र स्थातव्यं, न च मया प्रत्येकबुद्धभूमिं न प्राप्तव्या प्राप्तव्या मया प्रत्येकबुद्धभूमिर् न च तत्र स्थातव्यं, यद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यति, द्वाभ्यां कारणाभ्यां न प्रतिष्ठते. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय नान्यत्र चित्तं प्रतिलब्धम् अन्यत्रानुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रथमाम् अपि भूमिम् उपादाय वर्तमानो ऽन्यत्र न किंचिच् चित्तम् उत्पादयत्य् अन्यत्रानुत्तरायाः सम्यक्संबोधेः. एवं यावद् दशमीं भूमिम् उपादाय वर्तमानो नान्यत्र किंचिच् चित्तम् उत्पादयत्य् अनुत्तरायाः सम्यक्संबोधेः, यावद् बोधिसत्त्वन्यामम् अवक्रान्तेर् नान्यत्र किंचिच् चित्तम् उत्पादितम् अन्यत्रानुत्तरायाः सम्यक्संबोधेर् अतृप्तमानसः. स सुभूते बोधिसत्त्वो महासत्त्वो यावद् एव कायेन (PSP_६-८:१२३) वा पराक्रमते वाचा वा मनसा वा पराक्रमते, नान्यत्र बोधिचित्तात् तद् बोधिसत्त्वो महासत्त्वो बोधिचित्ते स्थित्वाविक्षिप्तमानसो बोधिमार्गम् उत्पादयति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा अनुत्पन्नाः कथं बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्मा अनुत्पन्नास् तत् पुनः कथं येनाभिसंस्कुर्वन्ति, तेषां सर्वधर्मा अनुत्पन्नाः?
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न पुनर् भगवन्न् अनुत्पादाद् वा तथागतानाम् उत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता, ये पुनर् इमां धर्मस्थितितान् न जानन्ति तेषाम् अर्थाय बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति येन मार्गेण सत्त्वान् मोचयति संसारात्. इति सर्वाभिनिवेशप्रहाणनिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन्न् अनुत्पन्नेन मार्गेण बोधिः प्राप्यते उताहो उत्पन्नेन?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन् नानुत्पन्नेन चोत्पन्नेन मार्गेण बोधिः प्राप्यते?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवन् नैव नानुत्पन्नेन नैव नोत्पन्नेन मार्गेण बोधिः प्राप्यते? भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: तत् कथं पुनर् भगवन् बोधिः प्राप्यते?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते मार्गेण बोधिः प्राप्यते नामार्गेण, बोधिर् एव सुभूते मार्गः, मार्ग एव बोधिः. (PSP_६-८:१२४)
SK
एवम् उक्ते आयुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिर् एव मार्गो मार्ग एव बोधिर् अनुप्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिस्, तत् कथं तथागतो ऽर्हन् सम्यक्संबुद्धो निर्दिश्यते? द्वात्रिंशन्महापुरुषलक्षणैर् अशीत्यनुव्यञ्जनैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिश् चतुर्भिर् अप्रमाणैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिः सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैश् चतुर्भिर् आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैः पञ्चभिर् अभिज्ञाभिर् अष्टविमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः सर्वधारणीमुखैर् दशभिर् बोधिसत्त्वभूमिभिर् दशभिः पारमिताभिर् विंशतिभिः शून्यताभिर् अष्टादशभिर् आवेणिकबुद्धधर्मैः.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते बुद्धो बोधिं प्राप्यति बुद्ध एव बोधिर् एव बुद्धः.
SK
सुभूतिर् आह: न भगवन्.
SK
भगवान् आह: यत् पुनः सुभूतिर् एवं वदत्य्, अनुप्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिर् इति. इह सुभूते यदा बोधिसत्त्वो महासत्त्वः षट्पारमिताः परिपूर्य सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् सर्वशून्यताश् चत्वार्य् आर्यसत्यानि शून्यतानिमित्ताप्रणिहितानि, अप्रमाणध्यानारूप्यसमाधिसमापत्तीर् अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञाः सर्वसमाधिधारणीमुखानि दशबोधिसत्त्वभूमीर् दशतथागतबलां वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य वज्रोपमे समाधौ स्थित्वैकचित्तक्सणसमायुक्तया प्रज्ञयानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते तदा तथागत इति निर्दिश्यते सर्वधर्मान् जानीत इत्य् अतः सर्वदर्शिं सर्वज्ञ इत्य् अभिधीयते. इति सम्यक्संबोधिप्राप्तिनिर्वेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय कायदौःशील्यं (PSP_६-८:१२५) वाग्दौःशील्यं मनोदौःसील्यम् आत्मनश् च परस्य च विशोधयति यैः परिशुधैः बुद्धक्षेत्रं परिशोधयति. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् कायदौःशील्यं बोधिसत्त्वस्य महासत्त्वस्य वाग्दौःशील्यं मनोदौःशील्यम्?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् कायकर्माकुशली प्राणातिपाते वर्तते, अदत्तादाने वर्तते, काममिथ्याचारे वर्तते, इदम् उच्यते कायदौःशील्यं, यद् वाक्कर्माकुशलं मृषावादे वर्तते, पिशुनवचने वर्तते, पारुष्ये वर्तते, अबद्धप्रलापे वर्तते, इदम् उच्यते वाग्दौःशील्यं, यन् मनस्कर्माकुशलम् अभिध्यायां वर्तते, व्यापादे च वर्तते, मिथ्यादृष्टौ वर्तते, इदम् उच्यते मनोदौःशील्यम्.
SK
पुनर् अपरं सुभूते यत् मात्सर्यचित्तम् इदं मनोदौःशील्यं बोधिसत्त्वस्य महासत्त्वस्य यद् दौःशील्यचित्तं क्षोभचित्तं कौशीद्यचित्तं विक्षेपचित्तम् असमाहितचित्तं दौष्प्रज्ञचित्तम् इदम् अपि दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य.
SK
पुनर् अपरं सुभूते यच् छीलम् अपरिशुद्धम् इदम् अप्य् अपरिशुद्धं दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य.
SK
पुनर् अपरं सुभूते चतुर्भिः स्मृत्युपस्थानैर् विरहितश् चतुर्भिः सम्यक्प्रहाणैः चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गेन मार्गेण शून्यतासमाधिनानिमित्तसमाधिनाप्रणिहितसमाधिना विरहित इदम् अपि दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य.
SK
पुनर् अपरं सुभूते यच् छ्रोतआपत्तिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यत् सकृदागामिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यद् अनागामिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यद् अर्हत्त्वसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. प्रत्येकबोधिसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. (PSP_६-८:१२६)
SK
पुनर् अपरं सुभूते रूपसंज्ञा दौष्ठुल्यं, वेदनासंज्ञा संज्ञासंज्ञा संस्कारसंज्ञा विज्ञानसंज्ञा दौष्ठुल्यं, चक्षुःसंज्ञा दौष्ठुल्यं, श्रोत्रसंज्ञा घ्राणसंज्ञा जिह्वासंज्ञा कायसंज्ञा मनःसंज्ञा दौष्ठुल्यं, रूपसंज्ञा दौष्ठुल्यं, शब्दसंज्ञा गन्धसंज्ञा रससंज्ञा स्प्रष्टव्यसंज्ञा धर्मसंज्ञा दौष्ठुल्यं, चक्षुर्विज्ञानसंज्ञा दौष्ठुल्यं, श्रोत्रविज्ञानसंज्ञा घ्राणविज्ञानसंज्ञा जिह्वाविज्ञानसंज्ञा कायविज्ञानसंज्ञा मनोविज्ञानसंज्ञा दौष्ठुल्यं, चक्षुःसंस्पर्शसंज्ञा दौष्ठुल्यं, श्रोत्रसंस्पर्शसंज्ञा घ्राणसंस्पर्शसंज्ञा जिह्वासंस्पर्शसंज्ञा कायसंस्पर्शसंज्ञा मनःसंस्पर्शसंज्ञा दौष्ठुल्यं, चक्षुःसंस्पर्शप्रत्ययवेदनासंज्ञा दौष्ठुल्यं, श्रोत्रसंस्पर्शप्रत्ययवेदनासंज्ञा घ्राणसंस्पर्शप्रत्ययवेदनासंज्ञा जिह्वासंस्पर्शप्रत्ययवेदनासंज्ञा कायसंस्पर्शप्रत्ययवेदनासंज्ञा, मनःसंस्पर्शप्रत्ययवेदनासंज्ञा दौष्ठुल्यं, पृथिवीधातुसंज्ञा दौष्ठुल्यम्, अब्धातुसंज्ञा तेजोधातुसंज्ञा, वायुधातुसंज्ञा, आकाशधातुसंज्ञा विज्ञानधातुसंज्ञा दौष्ठुल्यं, स्कन्धसंज्ञा दौष्ठुलयं, धातुसंज्ञा दौष्ठुल्यम्, आयतनसंज्ञा दौष्ठुल्यं प्रतीत्यसमुत्पादसंज्ञा दौष्ठुल्यं, प्रतीत्यसमुत्पन्नधर्मसंज्ञा दौष्ठुल्यं, प्रतीत्यसमुत्पादाङ्गसंज्ञा दौष्ठुल्यम्, अविद्यासंज्ञा दौष्ठुल्यं, संस्कारसंज्ञा विज्ञानसंज्ञा नामरूपसंज्ञा षडायतनसंज्ञा स्पर्शसंज्ञा वेदनासंज्ञा तृष्णासंज्ञा उपादानसंज्ञा भवसंज्ञा जातिसंज्ञा जरामरणसंज्ञा शोकपरिदेवदुष्खदौर्मनस्योपायाससंज्ञा दौष्ठुल्यं, स्त्रीसंज्ञा पुरुषसंज्ञा कामधातुसंज्ञा रूपधातुसंज्ञा आरूप्यधातुसंज्ञा दौष्ठुल्यं, कुशलसंज्ञा अकुशलसंज्ञा लौकिकसंज्ञा लोकोत्तरसंज्ञा सास्रवसंज्ञा अनास्रवसंज्ञा संस्कृतसंज्ञा असंस्कृतसंज्ञा दौष्ठुल्यम्, इदं कायदौष्ठुल्यं वाग्दौष्ठुल्यं मनोदौष्ठुल्यं, तद् विवर्ज्यात्मना च दानां ददाति, परांश् च दाने समादापयति, अन्नम् अन्नार्थिकानां पानं पानार्थिकानां वस्त्रं वस्त्रार्थिकानां यावद् अन्यतरान्यतरान् मानुष्यकान् सर्वोपकरणपरिष्कारान् ददाति, परांश् चान्यतरान्यतरेषु मानुष्यकेषु (PSP_६-८:१२७) सर्वोपकरणपरिष्कारेषु समादापयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा बुद्धक्षेत्रं परिशुद्धये परिणामयति, आत्मना च शीलं रक्षति परांश् च शीले समादापयति, आत्मना च क्षान्त्या संपादयति परांश् च क्षान्तौ समादापयति, आत्मना च वीर्यम् आरभते परांश् च वीर्ये समादापयति, आत्मना च ध्यानं समापद्यते परांश् च ध्याने समादपयति, आत्मना च प्रज्ञां भावयति, परांश् च प्रज्ञायां समादापयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा बुद्धक्षेत्रपरिशुद्धये परिणामयति, आत्मना च त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णे कृत्वा त्रिषु रत्नेषु दानं ददाति तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन मे सप्तरत्नम् अयं बुद्धक्षेत्रं भवतु.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यानि वाद्यानि वादयति बुद्धेषु वा बुद्धचैत्येषु वा, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति तस्यैवं भवत्य् अनेन कुशलमूलेन मे दिव्याः शब्दा मनोरमाः श्रोत्रसुखा सततसमितं वाद्या भवन्तु बुद्धक्षेत्रे.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यैर् गन्धैस् त्रिसाहस्रमहासाहस्रं लोकधातुं परिपूरयित्वा बुद्धेषु वा बुद्धचैत्येषु वा ददाति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन मे दिव्या गन्धा घ्राणसुखा मनोरमा भवन्तु बुद्धक्षेत्रे.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शतरसानि भोजनानि तथागतेषु वा ददाति, तथागतश्रावकेषु वा तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन बुद्धक्षेत्रे मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य श्रावकसंघस्य शतरसानि भोजनानि संपद्येरन्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यान्य् उपलेपनानि ददाति, तथागतेषु वा तथागतश्रावकेषु वा तथागतचैत्येषु वा, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन मे बुद्धक्षेत्रे दिव्यानि स्प्रष्टव्यानि कायसुखानि मनोनुकूलानि (PSP_६-८:१२८) संपद्येरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सर्वसत्त्वानाम्.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः संकल्पैर् आत्मना च सर्वसत्त्वैश् च सार्धं पञ्चकामगुणान् बुद्धेषु वा बुद्धश्रावकेषु वा सर्वसत्त्वेषु वोपनामयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य मे सर्वश्रावकसंघस्य सर्वसत्त्वानां च मनोरमाः पञ्चकामगुणाः स्युर् इति. एवं सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, यं नूनम् अहम् आत्मना च प्रथमं ध्यानं समापद्ये सर्वसत्त्वांश् च प्रथमे ध्याने निवेशयेयम्, एवं द्वितीये तृतीये ध्याने, आत्मना च चतुर्थं ध्यानं समापद्ये सर्वसत्त्वांश् च चतुर्थे ध्याने निवेशयेयम्, आत्मना च मैत्रीं भावयेयं, सर्वसत्त्वांश् च मैत्रीभावनायां निवेशयेयम्, एवं करुणामुदिताम् आत्मना चोपेक्षां भावयेयं सर्वसत्त्वां चोपेक्षाभावनायां निवेशयेयम्, आत्मना चाकाशानन्त्यायतनसमापत्तिं समापद्ये सर्वसत्त्वांश् चाकाशानन्त्यायतनसमापत्तौ प्रतिष्ठापयेयं, विज्ञानानन्त्यायतनसमापत्तिम् आकिञ्चन्यायतनसमापत्तिम्, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्ये सर्वसत्त्वांश् च नैवसंज्ञानासंज्ञायतनसमापत्तौ प्रतिष्ठापयेयम्, आत्मना च स्मृत्युपस्थानानि भावयेयं सर्वसत्त्वांश् च स्मृत्युपस्थानभावनायां प्रतिष्ठापयेयम्, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य्, आत्मना चार्याष्टाङ्गमार्गं भावयेयं सर्वसत्त्वांश् चार्याष्टाङ्गमार्गभावनायां प्रतिष्ठापयेयम्, आत्मना च शून्यतानिमित्ताप्रणिहितानि विमोक्षमुखानि भावयेयं सर्वसत्त्वांश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखभावनायां प्रतिष्ठापयेयं, तस्य ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, सर्वसत्त्वा एवं चतुर्भिर् ध्यानैर् अविरहिता भावेयुश् चतसृभिर् आरूप्यसमापत्तिभिर् अविरहिता भावेयुश् चतुर्भिर् ब्राह्मैर् विहारैर् अविरहिता भवेयुः, सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् अविरहिता (PSP_६-८:१२९) भवेयुः, शून्यतानिमित्ताप्रणिहितैर् विमोक्षमुखैर् अविरहिता भवेयुर् इत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति, स तावद् बोधौ चरति यावद् इमे सर्वाभिप्रायाः परिपूर्णा भवन्ति, स आत्मना च सर्वकुशलधर्मसमन्वागतो भवति, परांश् च सर्वकुशलधर्मसमन्वागतान् करोति, तस्य स्वभिरूपः प्रासादिको दर्शनीयो महापुरुषलक्षणविभूषित आत्मभावो भवति, ये च तेन बोओधिसत्त्वेन महासत्त्वेन सत्त्वाः परिपाचितास् तेषां च सत्त्वानां स्वभिरूपः प्रासादिको दर्शनीयो महापुरुषलक्षणविभूषित आत्मभावो भवति यद् उत पुण्यपरिग्रहाद्, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन बुद्धक्सेत्रं परिशोधयितव्यं, यथा त्रयाणाम् अपायानां प्रज्ञप्तिर् अपि न भविष्यति, सर्वदृष्टिगतानां प्रज्ञप्तिर् अपि न भविष्यति, रागदोषमोहानां प्रज्ञप्तिर् अपि न भविष्यति, यावद् द्वयस्य नामधेयम् अपि न भविष्यति, अनित्यदुष्खानात्माशुभप्रज्ञप्तिर् अपि न भविष्यति, परिग्राहकप्रज्ञप्तिर् अपि न भविष्यति, अहंकारममकारप्रज्ञप्तिर् अपि न भविष्यति, फलव्यवस्थानप्रज्ञप्तिर् अपि न भविष्यति, अन्यत्र शून्यतानिमित्ताप्रणिहितस्य समाधेर् घोषः प्रचरिष्यति, त्यागेच्छतायाः यावत् प्रज्ञेच्छतायाः सर्वेषां सत्त्वानां छन्दाद् एव वृक्षेभ्यो घोषा निश्चरिष्यन्ति वातेरितेभ्यः एवं सर्वेभ्यो ऽध्यात्मिकबाह्येभ्यो धर्मेभ्यो घोषा निश्चरिष्यन्ति, शून्यम् इति वानिमित्तम् इति वाप्रणिहितैन् इति वा शब्दो निश्चरिष्यति, अनुत्पादानिरोधानां शब्दो निश्चरिष्यति, यथैव सर्वधर्माणां नैःस्वाभाव्यं तथाइव शब्दो निश्चरिष्यति, सर्वधर्माः सर्वधर्मैः शून्या इति, यथैतेषां धर्माणां स्वभावस् तथाइव शब्दो निश्चरिष्यत्य् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां सर्वधर्माः सर्वधर्मैः शून्याः, यच् छून्यन् न तत्र निमित्तम् अस्ति तद् अप्रणिहितम् एषा सैवं रूपाधर्मदेशना निश्चरिष्यति रात्रौ दिवसे वा स्थिताणां वा निषण्णानां वा शयनानां वा चङ्क्रमतां वा इदृशाः सर्वधर्मदेशना निश्चरिष्यन्ति. तत्र बुद्धक्षेत्रे यदासौ बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्यात्, तस्य खलु पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वस्य महासत्त्वस्यैव सतो ये दशदिग्लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते (PSP_६-८:१३०) सर्वे ऽस्य वर्णं भाषिष्यन्ते, ये च तस्य वर्णं सत्त्वा श्रोष्यन्ति नामधेयं वा ते सर्वे नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोध्यौ. तस्य खलु पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मं देशयतो न कस्यचित् सत्त्वस्य संशयो भविष्यति, अयं धर्मो ऽयन् न धर्मः. तत् कस्य हेतोः? या खलु पुनः सर्वधर्माणां धर्मता न तत्र कश्चिद् अधर्मः सर्व एव स धर्मः. तत्र ये सत्त्वा अकुशलमूलग्रस्ता वानवरोपितकुशलमूला वा बुद्धेषु वा बुद्धश्रावकेषु वा कल्याणमित्रापरिगृहीता आत्मदृष्टिम् आलीयन्ते यावत् पश्यकदृष्टिम् आलीयन्ते, अन्तेषु तिष्ठन्ति, उच्छेदे वा शाश्वते वा, आत्मना मिथ्याग्रहेण गृहीता असम्यक्संबुद्धेषु सम्यक्संबुद्धसंज्ञिन्, सम्यक्संबुद्धेषु वासम्यक्संबुद्धसंज्ञिनस् ते ऽधर्मे धर्म इति वदन्ति, ते धर्मं प्रतिक्षिपन्ति ते धर्मं प्रतिक्षिप्य कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते, तांस् ते बुद्धा भगवन्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वान् संसारपर्यापन्नांस् ततः पापकदृष्टिगताद् विवेचयन्ति विवेच्य नियते राशौ प्रतिष्ठापयन्ति. ते तत्र प्रतिष्ठापिता न पुनर् अपायेषूपपद्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति, यस्य परिशुद्धस्य न किंचित् सत्त्वानां वैकल्यं भविष्यति लौकिकेषु वा धर्मेषु लोकोत्तरेषु वा धर्मेषु सास्रवेषु वा धर्मेष्व् अनास्रवेषु वा धर्मेषु संस्कृतेषु वासंस्कृतेषु वा धर्मेषु यावत् सर्वे नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ. इति बुद्धक्षेत्रविशुद्धिनिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नियतः?
SK
भगवान् आह: नियतः सुभूते बोधिसत्त्वो महासत्त्वो नियतः.
SK
सुभूतिर् आह: कतमे राशौ नियतः श्रावकराशौ वा प्रत्येकबुद्धराशौ वा?
SK
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः श्रावकराशौ वा नियतः प्रत्येकबुद्धराशौ वा नियतो ऽपि तु बुद्धराशौ सुभूते बोधिसत्त्वो महासत्त्वो नियतः.
SK
सुभूतिर् आह: किं पुनर् बोधिसत्त्वो महासत्त्वो नियतः प्रथमचित्तोत्पादिक (PSP_६-८:१३१) उताहो ऽविनिवर्तनीयो ऽथ चरमभविकः?
SK
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वा नियतः चरमभविको वा नियतो ऽपि तु प्रथमचित्तोत्पादिको नियतः.
SK
सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नियतो ऽपायेषूपपत्स्यते?
SK
भगवान् आह: न सुभूते नियतः पतितो बोधिसत्त्वो महासत्त्वो ऽपायेषूपपत्स्यते. तत् किं मन्यसे? सुभूते अपि त्व् अष्टमको वा स्रोतआपन्नो वा सकृदागामि वा अनागामि वार्हन् वा प्रत्येकबुद्धो वा नियतो ऽपायेषूपपत्स्यन्ते.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽपायेषूपपत्स्यते नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि यः पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानं ददाति शीलं रक्षति क्षान्तिं संपादयति वीर्यम् आरभते ध्यानं समापद्यते प्रज्ञां भावयति, मैत्रीं करुणां मुदिताम् उपेक्षां सत्त्वेषु भावयति, सर्वान् अकुशलान् धर्मान् प्रहाय तिष्ठति, सो ऽपायेषूपपत्स्यते नेदं स्थानं विद्यते, दीर्घायुष्केषु वा देवेषूपपत्स्यते नेदं स्थानं विद्यते, यत्रापचारः कुशलानां धर्माणां प्रत्यन्तेषु वा जनपदेषूपत्स्यते नेदं स्थानं विद्यते, मिथ्यादृष्टिकेषु वा कुलेषूपपद्यते नेदं स्थानं विद्यते, तत्र चोपपत्स्यते यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दः श्रुयते नेदं स्थानं विद्यते, अक्रियादृष्टिकेषु वा कुलेषूपपत्स्यते नेदं स्थानं विद्यते, अपि तु खलु सुभूते प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो ऽध्याशयेन दशाकुशलान् कर्मपथान् अध्यापद्येत नेदं स्थानं विद्यते.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्व एवं कुशलधर्मसमन्वागतो यद् उत नाप्रतिरूपेषु स्थानेषूपपत्स्यते, तत् किं तथागतेनात्मना जातकानि निर्दिष्टानि, इमे पुनः कुशला धर्माः क्वगताः?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न पुनः सुह्बूते बोधिसत्त्वो महासत्त्वो ऽसंचिन्त्यतम् आत्मभावं परिगृह्णाति, (PSP_६-८:१३२) येनात्मभावेन सत्त्वानाम् अर्थः कर्तव्यः तम् आत्मभावं सत्त्वानाम् अर्थाय प्रतिगृह्णाति, किं पुनः सुभूते ऽस्त्य् एतद् अर्हतः प्रत्येकबुद्धस्य वा उपायकौशल्यं येनोपायकौशल्येन समन्वागतस् तिर्यग्योनाव् उपपन्नः स्यात्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तथागतस्य तद् उपायकौशल्यम् अस्ति येन तत्रोपपन्नः स्याद्, ये च तत्र वधाय पराक्रमन्ते तान् अनुत्तरायां क्षान्तौ समादापयति विनये प्रतिष्ठापयति तेषाम् एव चार्थे आत्मानं परित्यजयति, न च तेषां सत्त्वानां विहेठना भवति, तद् अनेन ते सुह्बूते पर्यायेनैवं वेदितव्यं तथा बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थाय महाकरुणां परिपूरयमाणो ऽनुत्तरायां सम्यक्संबोधौ तिर्यग्योनौ वर्तते.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमेषु भगवन् कुशलधर्मेषु स्थित्वा बोधिसत्त्वो महासत्त्व इमम् एवंरूपम् आत्मभावं परिगृह्णाति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सर्वन् तत् सुभूते कुशलं कर्म यद् बोधिसत्त्वेन महासत्त्वेन परिपूरयितव्यं, सर्वकुशलधर्मपरिपूरिर् अनुत्तरा सम्यक्संबोधिस् तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णेन न कश्चिद् धर्मो यो न परिपूरयितव्यो येन परिपूरितेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत, तद् बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय सर्वकुशलधर्मपरिपूर्यै शिक्षितवयं यत्र शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति सर्ववासनानुसंधिं प्रहास्यति.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो यावच् छुक्लधर्मसमन्वागत आर्येणानास्रवेण धर्मेणापायेषूपपद्यते तिर्यग्योनौ वा?
SK
भगवान् आह: किं पुनः सुभूते तथागत आर्यो ऽनास्रवः?
SK
सुभूतिर् आह: आर्यो भगवन्न् अनास्रवः.
SK
भगवान् आह: किं पुनस् तथागतस् तिर्यग्योनिगतं प्राणिनम् आत्मानम् अभिनिर्मिणोति, यद् अभिनिर्माय बुद्धकृत्यं कुर्यात्?
SK
सुभूतिर् आह: कुर्याद् भगवन् कुर्यात् सुगत.
SK
भगवान् आह: किं पुनस् तथागतस् तिर्यग् भवति? (PSP_६-८:१३३)
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: किं पुनस् तिर्यग्योनेर् दुःखं प्रत्यनुभवति?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानाश्रवेण धर्मेण समन्वगतः सञ्चिन्त्य तथारूपम् आत्मभावं परिगृह्णाति, येनात्मभावेन समन्वागतम् अन्यान् परिपाचयेद् यथा तथागतः.
SK
सुभूतिर् आह: किं पुनर् भगवंस् तथागतस् तन् निर्मितम् अभिनिर्मिणोति, यद् अभिनिर्माय कर्म कारयति, येन कर्मणा परेषां प्रीतिर् जायते?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानास्रवेण धर्मेण समन्वागतस् तत् तथारूपम् आत्मभावं परिगृह्णाति, येनात्मभावेन समन्वागतः सत्त्वानां कृत्यं करोति, न च तथारूपां वेदनां प्रत्यनुभवति.
SK
सुभूतिर् आह: न हि भगवन् दुष्खा अपाया?
SK
भगवान् आह: तत् किं मन्यसे? सुभूते मायाकारा मायां दर्शयति, हस्तिविग्रहं वाश्वविग्रहं वा बलीवर्दविग्रहं वान्यान् वा विविधान् प्राणकजातान् दर्शयत्य् अपि तु स हस्ती वा भवति, अश्वो वा बलीवर्दविग्रहो वान्ये वा विविधाः प्राणकजाता भवन्ति.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानास्रवेण धर्मेण समन्वागतः सञ्चिन्त्य तथारूपम् आत्मभावं परिगृह्णाति येनात्मभावेण समन्वागतः सत्त्वानां कृत्यं करोति, न च तथारूपां वेदनां प्रत्यनुभवति.
SK
सुभूतिर् आह: महोपायकुशलो बोधिसत्त्वो महासत्त्वो यो नाम भगवन्न् आर्येणानास्रवेण धर्मेण समन्वागतो येन येन ह्य् आत्मभावेन शक्यते सत्त्वानाम् अर्थः कर्तुन् तं तम् एवात्मभावं परिगृह्णाति. इति सम्यक्संबोधिप्रतिनियमनिवेशनकर्म
SK
कतमेषु भगवन् शुक्लेषु धर्मेषु स्थित्वा इदम् एवंरूपम् उपायकौशल्यं करोति येन तैर् न लिप्यते?
SK
भगवान् आह: प्रज्ञापारमितायां सुभूते स्थित्वा बोधिसत्त्वो (PSP_६-८:१३४) महासत्त्व एवंरूपेणोपायकौशल्येन समान्वगतो भवति, येनोपायकौशल्येन समन्वागतः पूर्वदक्षिणपश्चिमोत्तरस्याम् अधमूर्धं विदिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां कृत्यं करोति, न तत्र क्वचित् स्पृश्यते. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः सर्वथैव धर्मान् नोपलभते, यद् वा स्पृश्येत येन वा स्पृश्येत यो वा स्पृश्येत्. तत् कस्य हेतोः? तथा हि सर्व एते त्रयो धर्माः स्वभावशून्याः तत्र न शून्यतया शून्यता संस्पृश्यते नैव शून्यतां कश्चित् संस्पृशति, नापि शून्यता संस्पृश्यते, तत् कस्य हेतोः? तथा हि स्वभावशून्यतया शून्यता नोपलभ्यते, इयं सानुपलंभशून्यता यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
SK
सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमितायाम् एव स्थितो नान्येषु धर्मेषु?
SK
भगवान् आह: कतमो वा सुभूते धर्मोए यः प्रज्ञापारमितायां नान्तर्गतः?
SK
सुभूतिर् आह: यद् भगवन् प्रज्ञापारमितास्वभावेन शून्या, तत् कथं प्रज्ञापारमितायां सर्वधर्मा अन्तर्गताः, न हि भगवञ् छून्यतायां कश्चिद् धर्मान्तर्गतः?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न पुनः सुभूते सर्वधर्माः सर्वधर्मैः शून्याः, न च सर्वधर्माः शून्यतायाम् अन्तर्गताः. इत्य् अप्रमेयसत्त्वार्थनिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मे शून्यतायां स्थित्वा अभिज्ञापारमिताम् अभिनिर्हरति, यास्व् अभिज्ञासु स्थित्वा पूर्वस्यान् दिशि गङ्गानदी वालुकोपमान् लोकधातून् गच्छति, तेषु च लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् पर्युपास्ते धर्मञ् च शृणोति तेषु च बुद्धेषु भगवन्सु कुशलमूलान्य् अवरोपयत्य्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्धवं विदिक्षु गङ्गानदीवालुकोपमान् लोकधातून् गच्छति, तेषु च लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् पर्युपास्ते धर्मञ् च शृणोति तेषु बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयति. (PSP_६-८:१३५)
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ये ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस् तान् सर्वान् शून्यान् पश्यति, ये ऽपि तत्र बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि बुद्धा भगवन्तः स्वभावेण शून्या, अन्यत्र नामसंकेतात् प्रज्ञाप्तिम् उपादाय निर्दिश्यन्ते, सा च सर्वा प्रज्ञप्तिः स्वभावेन शून्या. यदि ते लोकधातवो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि बुद्धा भगवन्तो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि प्रज्ञप्तिसमुदाचारा न स्वभावेन शून्या अभविष्यंस्, तत्प्रादेशिकी शून्यताभविष्यद् यस्मात् प्रादेशिकी शून्यता नोपलभ्यते तस्मात् सर्वधर्मा सर्वधर्मैः शून्याः.
SK
अत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन प्रज्ञापारमितायां चरन्न् अभिज्ञापारमिताम् अभिनिर्हरति, यास्व् अभिज्ञासु स्थित्वा दिव्यञ् चक्षुर् अभिनिर्हरति, दिव्यं श्रोत्रम् ऋद्धिविधिज्ञानं पूर्वनिवासं च्युत्युपपत्तिम् अभिनिर्हरति. आभिर् अभिज्ञाभिर् बोधिसत्त्वेन महासत्त्वेन शक्यानुत्तरां सम्यक्संबोधिर् अभिसंबोद्धुं, यद् इयं बोधिसत्त्वस्य महासत्त्वस्याभिज्ञापारमितायां बोधिर् अन्तर्गता, अभिज्ञासु बोधिर् अन्तर्गता मार्गयितव्यायां मार्गयमाणो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेणात्मनस् तान् कुशलान् धर्मान् पश्यति, परांश् च कुशलेषु धर्मेषु नियोजयति, न च कुशलेषु धर्मेष्व् अभिनिवेक्ष्यते. तत् कस्य हेतोः? तथा हि ते सर्वकुशला धर्माः स्वभावेन शून्याः, न च शून्यता क्वचिद् अभिनिवेक्ष्यते यद् अभिनिवेशम् आस्वादयिष्यति निःस्वभावशून्यता.
SK
तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यं चक्षुर् अभिनिर्हरति येन चक्षुषा सर्वधर्मा शून्यान् पश्यति, तत् पुनर् बोधिसत्त्वो महासत्त्वस् तान् धर्मान् आगम्य तत् कर्माभिनिरूपयति, यया कर्माभिनिरुक्त्या सत्त्वानान् धर्मं देशयति न पुनः सत्त्वप्रज्ञप्तिम् उप्लभ्यते, इत्य् अनुपलंभयोगेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अभिज्ञा अभिनिर्हरति, यास्व् अभिज्ञास्व् अभिज्ञा करुणाधर्माः कर्तव्यास् तान् करोति.
SK
तद् बोधिसत्त्वो महासत्त्वो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण पूर्वस्यां दिशि दक्षिणस्यां दिशि पश्चिमायां दिश्य् उत्तरस्यां दिश्य् अध ऊर्ध्वलोकधातुषु यावद् विदिक्षु लोकधातुषु सत्त्वान् पश्यति, (PSP_६-८:१३६) स तत्रर्द्ध्या गत्वा सत्त्वानाम् अर्थं करोति, यदि वा दानेन यदि वा शीलेन यदि वा क्षान्त्या यदि वा वीर्येण यदि वा ध्यानेन यदि वा प्रज्ञया यदि वा सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् यदि वाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखैर् यदि वा श्रावकप्रत्येकबुद्धधर्मैर् यदि वा बोधिसत्त्वधर्मैर् यदि वा बुद्धधर्मैस् तेषां सत्त्वानां कृत्यं करोति.
SK
तत्र ये सत्त्वा मत्सरिणस् तेषाम् एवं धर्मं देशयति, ददत दानन् दुष्खं हि भोः पुरुषा दारिद्र्यन् न च दारिद्र्येण शक्यम् आत्मनो ऽर्थः कर्तुं प्राग् एव परस्य, तस्माद् यूयम् आत्मना च सुखिनो भविष्यथ परांश् च सुखयिष्यथ मा दारिद्र्येणान्येषां मांसानि खादयन्तो न मोक्ष्यथ त्रिभिर् अपायैः.
SK
ये दुःशीला सत्त्वास् तेषाम् एवं धर्मं देशयति, दुःखं हि भोः पुरुषा दौःशील्यं न च दौःशील्येन शक्यम् आत्मनो ऽथः कर्तुं प्राग् एव परस्य, दौःशील्यस्य च यो विपाको नरको वा तिर्यग्योनिर् वा यमलोको वा तत्र यूयं त्रिष्व् अपायेषु प्रपतिता आत्मानम् एव न शक्यथोद्धर्तुं प्राग् एव परं, तद् भवद्भिर् एकदौशील्यचित्तस्याप्य् अवकाशो न दातव्यः, मा पश्चात् प्रभूतं कालं तप्यत.
SK
ये सत्त्वाः प्रतिहतचित्ताः परस्य चं क्रुध्यन्ति व्यापद्यन्ते दोषम् उत्पादयताम् एषाम् एवं धर्मं देशयति, मा भवन्तो ऽन्योन्यं क्षुभ्यथान्योन्यं व्यापद्यध्वे मा दोषम् उत्पादयत क्षुब्धचित्तस्य हि न कश्चित् कुशलो धर्म आमुखी भवति, तद् भवन्तो ऽन्योन्यम् एवं क्षुब्धचित्ता व्यापन्नचित्ताः स्थानम् एतद् विद्यते यन् नरकं वा प्रपतथा तिर्यग्योनिं वा यमलोकं वा, तद् भवद्भिर् एकचित्तेनापि न क्षोब्धव्यं प्राग् एवान्येषां चित्तानाम् अवकाशो दातव्यः.
SK
ये कुशीदाः सत्त्वास् तान् वीर्ये नियोजयति तेषाम् एवं धर्मं देश्यति, मा भवन्तः कौशीद्यम् आपद्यध्वं न कुसीदानां हीनवीर्याणां काचिच् छुभा प्रवृत्तिः स्थानम् एतद् विद्यते यत् कुशीदानान् नरको वा तिर्यग्योनिर् वा यमलोको वा तद् भवद्भिर् एकस्यापि कुशीदचित्तस्यावकाशो न दातव्यः प्राग् एवान्येषां चित्तानाम्.
SK
ये विक्षिप्तचित्ताः सत्त्वास् तान् सर्वान् ध्याने नियोजयति, तेषां एवं (PSP_६-८:१३७) धर्मं देशयति, मा भवन्तो मुषितस्मृतयो विक्षिप्तचित्ताश् च भवतन् मुषितस्मृतीनाम् विक्षिप्तचित्तानां वा कुशला धर्मा भवन्ति स्थानम् एतद् विद्यते, यं मुषितस्मृतीनां विक्षिप्तचित्तानां वा नरको वा तिर्यग्योनिर् वा यमलोको वा तद् भवद्भिर् एकस्यापि विक्षिप्तचित्तस्यावकाशो न दातव्यः, प्राग् एवान्येसाञ् चित्तानाम्.
SK
ये दुष्प्रज्ञाः सत्त्वास् तान् सर्वान् प्रज्ञायां नियोजयति, तेषाम् एवं धर्मं देशयति, मा यूयं दौष्प्रज्ञचित्तम् उत्पादयेध्वं नाप्रज्ञानां सुगतिगमनं भवति स्थानम् एतद् विद्यते यद् दुष्प्रज्ञानां नरको वा तिर्यग्योनिर् वा यमलोको वा, तद् भवद्भिर् एकचित्तोत्पादो ऽपि प्रज्ञाविरहितो नोत्पादयितव्यं प्राग् एवान्येषां चित्तोत्पादानाम् अवकाशो दातव्यः.
SK
ये रागचरिताः सत्त्वास् तान् शुभभावनायां नियोजयति, ये मार्गे ऽस्थिताः सत्त्वास् तान् मार्गे नियोजयति यदि वा श्रावकमार्गे नियोजयति, यदि वा प्रत्येकबुद्धमार्गे नियोजयति तेषाम् एवं धर्मं देशयति, यत्र भवन्तो ऽभिनिविष्टात् ते धर्माः स्वभावेन शून्याः, न स्वभावेन शून्येषु धर्मेषु शक्यम् अभिनिवेष्टुम् अनभिनिविष्टा च शून्यता.
SK
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञासु स्थित्वा सत्त्वानाम् उपकारं करोति.
SK
नास्ति स सुभूते बोधिसत्त्वो महासत्त्वो यः शक्तो ऽभिज्ञास्व् अस्थित्वा सत्त्वानां धर्मदेशनां कर्तुम्, उत्पथप्रस्थितान् वा सत्त्वान् मार्गे ऽवतारयितुं नेदं स्थानं विद्यते. तद्यथा सुभूते ऽपक्षः पक्षी न शक्नोत्य् आकाशे क्रमितुम्, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽनागम्याभिज्ञा न शक्नोति सत्त्वानां धर्मं देशयितुं, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः.
SK
स इमाभिर् अभिज्ञाभिर् अभिनिर्हृताभिर् यद् आकाङ्क्षति सत्त्वानाम् अर्थं कर्तुं तत् करिष्यति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण गङ्गानदीवालुकोपमान् लोकधातून् द्रक्ष्यति तत्र सत्त्वा उत्पन्नास् तान् द्रक्ष्यति, दृष्ट्वा च तान् सत्त्त्वान् ऋद्ध्या गत्वा चेतसैव चित्तं प्रज्ञास्यति, चित्तं ज्ञात्वा तथाइव तेषां धर्मं देशयिष्यति, यदि वा दानकथां (PSP_६-८:१३८) यदि वा शीलकथां यदि वा क्षान्तिकथां यदि वा वीर्यकथां यदि वा ध्यानकथां यदि वा प्रज्ञाकथां यावन् निर्वाणकथां वा.
SK
स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेणोभौ शब्दौ श्रोष्यति मानुष्यञ् चामानुष्यञ् च, तत्र ये गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो धर्मं देशयति, तन् दिव्येन श्रोत्रधातुना श्रुत्वा तथाइवोद्ग्रहीष्यति तथाइवोद्गृह्य सत्त्वानां धर्मं देशयति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
SK
तस्य चेतःपर्यायज्ञानं सुविशुद्धं भविष्यति स तेन चेतःपर्यायज्ञानेन सुविशुद्धेन सत्त्वानां चित्तं प्रज्ञास्यति, चित्तं ज्ञात्वा तेषां तथाइव धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
SK
सो ऽनेकविधं पूर्वनिवासम् अनुस्परिष्यति, अप्य् आत्मनः परेषाम् अपि स तेन पूर्वनिवासानुस्मृतिज्ञानेन एवं ज्ञास्यति, एवंनामानि ते ऽभूवन् पूर्वकास् तथागता अर्हन्तः सम्यक्संबुद्धाः सश्रावकसंघास् तत्र ये सत्त्वाः पूर्वनिवासानुस्मृत्यधिमुक्तिका भविष्यन्ति तेभ्यस् तथाइव धर्मं देशयिष्यति दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
SK
सो ऽनेकविविधया ऋद्ध्या समन्वागतो गङ्गानदीवालुकोपमान् लोकधातून् गत्वा बुद्धान् भगवतः पर्युपास्ते तेषु च बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयिष्यति कुशलमूलान्य् अवरोप्य तद् एव पुनर् बुद्धक्षेत्रम् आगमिष्यति, आगत्य तेषां सत्त्वानां धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा.
SK
तस्यास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञाज्ञानं सुपरिशुद्धं भविष्यति, स तेनास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञाज्ञानेन सुविशुद्धेन सत्त्वानां धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् (PSP_६-८:१३९) निर्वाणकथां वा.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः.
SK
स इमाभिर् अभिज्ञाभिर् निहृताभिर् यं यम् एवाकाङ्क्षिष्यत्य् आत्मभावं प्रतिग्रहीतुं तं तम् एवात्मभावं प्रतिग्रहीष्यति, न च तेन सुखेन वा दुःखेन वा सुमना वा दुर्मना वा भविष्यति, नैवास्यानुनय प्रतिघौ भविष्यथः. तद्यथापि नाम सुभूते बुद्धनिर्मितः पुरुषः सर्वकृत्यानि करोति, न च तेन सुखेन वा दुष्खेन वा लिप्यते.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताभिज्ञाभिर् विक्रीडितव्यम् एवं विक्रीडं बुद्धक्षेत्रं च परिशोधयिष्यति सत्त्वान् परिपाचयिष्यति.
SK
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन परिशुद्धेषु बुद्धक्षेत्रेषु परिपाचितेषु सत्त्वेषु शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्. तत् कस्य हेतोः? नास्ति हि सुभूते अङ्गहानिर् अस्य बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायां सम्यक्समोधौ. इति बुद्धोपसंक्रमणोपासनादिनिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोध्यङ्गानि यानि बोधिसत्त्वो महासत्त्वः परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
SK
एवम् उक्ते भागवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सर्वे कुशला धर्माः सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोध्यङ्गानि.
SK
सुभूतिर् आह: ते पुनर् भगवन् कतमे कुशला धर्मा यैः कुशलैः धर्मैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: प्रथमचित्तोत्पादम् उपादाय सुभूते दानपारमिता कुशलो धर्मस् तत्र च याविकल्पना यद् दानं न जानातीदं दानं यस्यार्थे दातव्यं येन दातव्यं, ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय, यया पारमितयात्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायै सम्यक्संबोधये (PSP_६-८:१४०) मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वास् तीर्णास् तरन्ति तरिष्यन्ति च. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता कुशला धर्मास् तत्र च याविकल्पना, यत् प्रज्ञां न जानातीयं प्रज्ञा यस्यार्थे भावयितव्या येन भावयितव्या, ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय यया प्रज्ञापारमितया, आत्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायै सम्यक्संबोधये मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वास् तीर्णास् तरन्ति तरिष्यन्ति च.
SK
एवं चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियानि पञ्चबलानि सप्तबोध्यङ्गानि, आर्याष्टाङ्गो मार्गः सर्वशून्यताः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तयः सर्वधारणीमुखानि सर्वसमाधयः शून्यतानिमित्ताप्रणिहितानि पञ्चाभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा बोधिसत्त्वस्य महासत्त्वस्य कुशला धर्मास् तेषु चाविकल्पना यद् बुद्धधर्मान् न जानातीमे बुद्धधर्मा यस्यार्थे भावयितव्या येन भावयितव्यास् ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय यैर् बुद्धधर्मैर् आत्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्त्वस्यानुत्तरायै सम्यक्संबोधये मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वास् तीर्णास् तरन्ति च तरिष्यन्ति च, यावन्तः सुभूते केचिद् बोधये मार्गास् तान् कुशलान् धर्मान् बोधिसत्त्वेन महासत्त्वेन परिपूर्य सर्वाकारज्ञतानुप्राप्तव्या सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयितव्यम्. इति बोध्यङ्गनिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इमे धर्मा बोधिसत्त्वधर्माः, बुद्धधर्माः पुनः कतमे?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् पुनर् आयुष्मान् सुभूतिर् एवम् आह, यदीमे धर्मा बोधिसत्त्वधर्मा बुद्धधर्माः पुनः कतमे? एत एव सुभूते बुद्धधर्मा यद् (PSP_६-८:१४१) एभिर् धर्मैः सर्वाकारज्ञताम् अभिसंबुध्यते तस्य सर्वाकारज्ञताप्राप्तस्य सर्ववासनानुसंधिः प्रहीयते, तां बोधिसत्त्वो महासत्त्वो ऽभिसंबुध्यते तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्मा एकक्षणसमायुक्तया प्रज्ञया अभिसंबुद्धा अयं विशेसो बोधिसत्त्वस्य महासत्त्वस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य. तद् यथापि नाम सुभूते अन्य एव प्रतिपन्नको ऽन्यः फलस्थः, न च ताव् उभाव् अपि नाग्रपुद्गलौ, एवम् एव सुभूते बोधिसत्त्वा महासत्त्व आनन्तर्यमार्गप्रतिपन्नकस् तथागतः पुनर् अर्हन् सम्यक्संबुद्धः सर्वधर्मेष्व् अनावरणज्ञानप्राप्तः, अयं सुभूते विशेषो बोधिसत्त्वस्य महासत्त्वस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इमे धर्माः स्वलक्षणशून्यास् तत् कथं स्वलक्षणशून्येषु धर्मेषु विशेषो वा नानाकरणं वोपलभ्यते? अयं नैरयिको ऽयं तैर्यग्योनिको ऽयं यामलौकिको ऽयं देवो ऽयं मनुष्यो ऽयं गोत्रभूमिर् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्ध इति, यथैव भगवन्न् इमे पुद्गला नोपलभ्यन्ते तथाइव भगवन् कर्म नोपलभ्यते, यथैव भगवन् कर्म नोपलभ्यते तथाइव विपाको नोपलभ्यते.
SK
एवम् उक्ते भगवान् आयुष्मण्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि स्वलक्षणशून्येषु धर्मेषु न कर्म न विपाक उपलभ्यते, ये स्वलक्षणशून्यान् धर्मान् सत्त्वा नाभिजानन्ति ते कर्माभिसंकुर्वन्ति दुश्चरितं वा सुचरितं वा सास्रवं वानास्रवं वा, ते दुश्चरितेन कर्मणा त्रिष्व् अपायेषु प्रपतन्ति, नरकेषु वा तिर्यग्योनौ वा यमलोके वा, सुचरितेन देवमनुष्येषूपपद्यन्ते, अनाच्छेद्य रूपधातौ चोपपद्यन्ते, तद् बोधिसत्त्त्वो महासत्त्वो दानपारमितायां चरन्, शीलपारमितायां चरन्, क्षान्तिपारमितायां चरन्, वीर्यपारमितायां चरन्, ध्यानपारमितायां चरन्, प्रज्ञापारमितायां चरन्, उपायपारमितायां चरन्, प्रणिधानपारमितायां चरन्, बलपारमितायां चरन्, ज्ञानपारमितायां चरन्, अध्यात्मशून्यतायां (PSP_६-८:१४२) चरन्, बहिर्धाशून्यतायां चरन्, अध्यात्मबहिर्धाशून्यतायां चरन्, यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन्, शून्यतानिमित्ताप्रणिहितेषु चरन्, पञ्चस्व् अभिज्ञासु चरन्, दशसु बोधिसत्त्वभूमिषु चरन्, दशसु तथागतबलेषु चरन्, चतुर्षु वैशारद्येषु चरन्, चतसृषु प्रतिसंवित्सु चरन्, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरन्न् अच्छिद्रचारीमान् बोधिसत्त्वधर्मान् उत्पादयति यानुत्पाद्य बोध्यङ्गपरिवारसहगतं वज्रोपमं समाधिं समापन्नो ऽनुत्त्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्य सत्त्वानाम् अर्थं करोति, येनार्थेन कृतेन न पुनर् विप्रणस्यन्ति येन विप्रणाशेण पञ्चगतिके संसारे प्रपतेयुः.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवतानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य पञ्चगतिकः संसार उपलब्धः?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: किं पुनर् भगवता कृष्णां वा शुक्लं वा कर्मोपलब्धम्?
SK
भगवान् आह: न सुभूते.
SK
सुभूतिर् आह: यदि नोपलब्धं कुतो नरकस् तिर्यग्योनिर् यमलोकः प्रज्ञप्तो देवमनुष्याः प्रज्ञप्ताः, स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः प्रज्ञप्ताः, बोधिसत्त्वो महासत्त्वस् तथागतो ऽर्हन् सम्यक्संबुद्धः प्रज्ञप्तः?
SK
भगवान् आह: किं पुनः सुभूते एते सत्त्वा जानन्ति स्वलक्षणशून्याः सर्वधर्मा इति?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: यदि सुभूते सत्त्वा एवं जानीयुः स्वलक्षणशून्याः सर्वधर्मा इति, न बोधिसत्त्वो ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठेतानुत्तरायां सम्यक्संबोधौ स्थित्वा न सत्त्वान् मोचयेत्, त्रिभ्यो ऽपायेभ्यो यावत् पञ्चगतिकात् संसाराद्, यस्मात् तर्हि सुभूते (PSP_६-८:१४३) सत्त्वा न जानन्ति स्वलक्षणशून्यान् धर्मांस् ते ऽज्ञता न परिमुच्यन्ते पञ्चगतिकात् संसारात्, तद् बोधिसत्त्वो महासत्त्वस् तेषां बुद्धानां भगवताम् अन्तिके श्रुत्वा स्वलक्षणशून्यान् सर्वधर्मान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठेत्, इमे धर्मास् तथा न संविद्यन्ते यथा बालपृथग्जना अभिनिविष्ठास् ते सत्त्वा असतो ऽसंविद्यमानां धर्मान् स्वयम् एव विकल्पयन्त्य् उपलभन्ते वासत्त्वे सत्त्वसंज्ञिनो ऽरूपे रूपसंज्ञिनो ऽवेदनायां वेदनासंज्ञिनो ऽसंज्ञायां संज्ञासंज्ञिनो ऽसंस्कारेषु संस्कारसंज्ञिनो ऽविज्ञाञे विज्ञानसंज्ञिनो ऽस्कन्धेषु स्कन्धसंज्ञ्मो ऽधातुषु धातुसंज्ञिनो ऽनायतनेष्व् आयतनसंज्ञिनो ऽप्रतीत्यसमुत्पादे प्रतीत्यसमुत्पादसंज्ञ्मो ऽप्रतीत्यसमुत्पन्नेषु धर्मेषु प्रतीत्यसमुत्पन्नधर्मसंज्ञिनो ऽप्रतीत्यसमुत्पादाङ्गे प्रतीत्यसमुत्पादाङ्गसंज्ञिनो ऽलोकोत्तरेषु लोकोत्तरसंज्ञिनो ऽसास्रवेषु सास्रवसंज्ञिनः, नानास्रवेष्व् अनास्रवसंज्ञिनो ऽसंस्कृतेषु धर्मेषु संस्कृतधर्मसंज्ञिनः, संस्कृतेषु धर्मेषु असंस्कृतधर्मसंज्ञिनः, असंविद्यमानानां विपर्यासे ऽविपर्यस्तचित्ताः कायेन वाचा मनसा च कर्माभिसंस्कुर्वन्ति, ते पञ्चगतिकात् संसाराद् न परिमुच्यन्ते, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापार्मितायां चरन् सर्वान् अन्तर्गतान् कुशलान् धर्मान् कृत्वा बोधिसत्त्वचर्यां चरति, यया चर्यया चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. इति कर्मफलसंबन्धो विप्रणासनिवेशनकर्म
SK
अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य दुष्खञ् च दुष्खसमुदयं च दुष्खनिरोधञ् च दुःखनिरोधगामिनीञ् च प्रतिपदम् आख्याति देशयति प्रकाशयति विवृणोति विभजति प्रज्ञापयति प्रतिष्ठापयति, एषु चतुर्ष्व् आर्यसत्येषु सर्वान्तर्गताः कुशला धर्मा ये केचिद् बोधिपक्ष्या धर्मा यैर् बोधिपाक्षिकैर् धर्मैस् त्रयाणां रत्नानां व्यवस्थानं भविष्यति, कतमेषां त्रयाणाम्? बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य, एतेषां त्रयाणां रत्नानां प्रादुर्भावात् सत्त्वाः परिमुच्यन्ते पञ्चगतिकात् संसारात्.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् दुःखज्ञानेन परिनिर्वान्ति, अथ दुष्खेन परिनिर्वान्ति? उताहो समुदयज्ञानेन परिनिर्वान्ति, अथ समुदयेन परिनिर्वान्ति? उताहो (PSP_६-८:१४४) निरोधज्ञानेन परिनिर्वान्ति, अथ निरोधेन परिनिर्वान्ति? उताहो मार्गज्ञानेन परिनिर्वान्ति, अथ मार्गेण परिनिर्वान्ति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते दुष्खज्ञानेन परिनिर्वान्ति न दुष्खेन, न समुदयज्ञानेन न समुदयेन, न निरोधज्ञानेन न निरोधेन, न मार्गज्ञानेन परिनिर्वान्ति न मार्गेण, या पुनः सुभूते चतुर्णाम् आर्यसत्यानां समता तत् परिनिर्वाणम् उक्तं मया, न पुनर् दुःखेन परिनिर्वान्ति न दुष्खज्ञानेन, न समुदयेन न समुदयज्ञानेन, न निरोधेन न निरोधज्ञानेन, न मार्गेण परिनिर्वान्ति न मार्गज्ञानेन.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमा भगवन् चतुर्णाम् आर्यसत्यानां समता?
SK
भगवान् आह: यत्र सुभूते न दुष्खन् न दुष्खज्ञानं, यत्र न समुदयो न समुदयज्ञानं, यत्र न निरोधो न निरोधज्ञानं, यत्र न मार्गो न मार्गज्ञानम्, अपि तु खलु सुभूते या एषां चतुर्णाम् आर्यसत्याणां तथतावितथतानन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता यस्योत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्माधातुर् यासंप्रमोषधर्मतायै अपरिहाणधर्मतायै संप्रवर्तते, तां बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधये चरति, यथा सत्यानुबोधये चरति, यथा सत्यान्य् अनुबोधव्यानि.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधये चरति, यथा चरन् सत्यान्य् अनुबुध्यते, अभिसंबुध्य तथत्वाय प्रतिपद्यते, यथा प्रतिपद्यमानो न श्रावकभूमिं पतति न प्रत्येकबुद्धभूमिं पतति बोधिसत्त्वनियामम् अवक्रामति.
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सो धर्मो यस्यान्तं पश्यति, तथा च पश्यति यथा न कञ्चिद् धर्मम् उपलभते, अनुपलंभमानः सर्वधर्मा शून्या इति पश्यति, सत्यपर्यापन्नां (PSP_६-८:१४५) वा असत्यपर्यापन्नां वा तं सर्वे शुन्या इति पश्यति, स एवं पश्यन्न् अवक्रान्तनियामो बोधिसत्त्वो महासत्त्वो गोत्रभूमौ स्थितो भवति, तस्य गोत्रभूमौ स्थितस्य न मूर्धविनिपातो भवति येन मूर्धविनिपातेन श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेत्, स इह गोत्रभूमौ स्थित्वा चत्वारि ध्यानान्य् उत्पादयति, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीर् उत्पादयति, स इह शमथभूमौ स्थित्वा सर्वधर्मान् प्रविचिनोति, चत्वार्य् आर्यसत्यान्य् अनुबुध्यते, स दुःखञ् च परिजानाति न च दुष्खारम्बणं चित्तम् उत्पादयति, समुदयञ् च प्रजहाति न च समुदयारम्बणं चित्तम् उत्पादयति, निरोधञ् च साक्षात्करोति न च निरोधारम्बणं चित्तम् उत्पादयति, मार्गञ् च भावयति न च मार्गारम्बणं चित्तम् उत्पादयति, अन्यत्र बोधिनिम्नेन चित्तेन बोधिप्रवेशेन बोधिप्राग्भारेण चित्तेन सर्वधर्मान् यथावत् पश्यति.
SK
सुभूतिर् आह: कथं भगवन् सर्वधर्मान् यथावत् पश्यति?
SK
भगवान् आह: सर्वधर्मान् शून्यान् पश्यति.
SK
सुभूतिर् आह: कथं भगवन् सर्वधर्मान् शून्यान् पश्यति?
SK
भगवान् आह: यद् उत स्वलक्षणशून्यान् सर्वधर्मान् पश्यति, यो ऽनयैवंरूपया विपश्यनया सर्वधर्माः शून्या इति पश्यति, न च कस्यचिद् धर्मस्य स्वभावं पश्यति, यत्र स्वभावे स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
SK
सुभूतिर् आह: एवं सति भगवन्न् अभावस्वभावा बोधिः.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतद्, यथा वदसि, अभावस्वभावा सुभूते बोधिः, सा न बुद्धेन कृता न प्रत्येकबुद्धेन नार्हता नापि तैर् बोधिसत्त्वैर् महासत्त्वैर् य इह समाधौ चरन्त्य् अन्यत्र सत्त्वा न जानन्ति न पश्यन्ति, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति. इति सत्यदर्शनविवेशनकर्म
SK
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् तदा भगवन् प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वशिक्षायां (PSP_६-८:१४६) शिक्षितुकामेन रूपे कथं शिक्षितव्यं? वेदनायां संज्ञायां संस्कारेषु विज्ञाने कथं शिक्षितव्यम्? चक्षुरायतने श्रोत्रायतने घ्राणायतने जिह्वायतने कायायतने मनआयतने कथं शिक्षितव्यम्? रूपायतने शब्दायतने गन्धायतने रसायतने स्प्रष्टव्यायतने धर्मायतने कथं शिक्षितव्यम्? चक्षुर्धातौ रूपधातौ चक्षुर्विज्ञानधातौ, श्रोत्रधातौ शब्दधातौ श्रोत्रविज्ञानधातौ, घ्राणधातौ गन्धधातौ घ्राणविज्ञानधातौ, जिह्वाधातौ रसधातौ जिह्वाविज्ञानधातौ, कायधातौ स्प्रष्टव्यधातौ कायविज्ञानधातौ, मनोधातौ धर्मधातौ मनोविज्ञानधातौ कथं शिक्षितव्यम्? चक्षुःसंस्पर्शायतने श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शायतने कथं शिक्षितव्यम्? अविद्यायां संस्कारेषु विज्ञाने नामरूपे षडायतने स्पर्शे वेदनायां तृष्णायाम् उपादाने भवे जातौ जरामरणे कथं शिक्षितव्यम्? दुष्खसत्ये समुदयसत्ये निरोधसत्ये मार्गसत्ये कथं शिक्षितव्यम्? रूपिषु धर्मेष्व् अरूपिषु सनिदर्शनेष्व् अनिदर्शनेषु सप्रतिघेष्व् अप्रतिघेषु संस्कृतेष्व् असंस्कृतेषु सास्रवेष्व् अनास्रवेषु सावद्येष्व् अनवद्येषु हीनेषु प्रणीतेष्व् अध्यात्मिकेषु वा बाह्येषु वा दृष्टश्रुतमतविज्ञातेष्व् अतीतानागतप्रत्युत्पन्नेषु कुशलाकुशलव्याकृताव्याकृतेषु कामप्रतिसंयुक्तेषु रूपप्रतिसंयुक्तेष्व् आरूप्यप्रतिसंयुक्तेषु शैक्षेष्व् अशैक्षेषु नैवशैक्षनाशैक्षेषु कथं शिक्षितव्यम्? रागे प्रतिघे माने ऽविद्यायां दृष्टौ विचिकित्सायां कथं शिक्षितव्यम्? मात्सर्ये दाने दौःशील्ये शीले व्यापादे क्षान्तौ कौशीद्ये वीर्ये विक्षेपे ध्याने दौष्प्रज्ञे प्रज्ञायां कथं शिक्षितव्यम्? विकल्पे शून्यतायां निमित्ते आनिमित्ते मिथ्याप्रणिहिते सम्यक्प्रणिहिते, शुभे ऽशुभे धर्मे कथं शिक्षितव्यम्? क्लेशे क्लेशप्रहाणे संक्लेशे व्यवदाने संसारे निर्वाणे धातौ कथं शिक्षितव्यम्? बुद्धधर्मेषु कथं शिक्षितव्यम्?
SK
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: प्रज्ञापारमितायां चरता मैत्रेय बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वशिक्षायां शिक्षितुकामेन, नाममात्रकं रूपम् इति शिक्षितव्यं, नाममात्रं वेदना संज्ञा संस्कारा विज्ञानं नाममात्रं यावद् (PSP_६-८:१४७) बुद्धधर्मा इति शिक्षितव्यम्.
SK
अथ मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: यदा भगवन् सवस्तुकम् इदं नामधेयम् उपलभ्यते, यद् इदं रूपम् इति, सवस्तुकम् इदं नामधेयम् उपलभ्यते यद् इदं वेदना संज्ञा संस्कारा विज्ञानं, सवस्तुकम् इदं नामधेयम् उपलभ्यते यद् इदं यावद् बुद्धधर्मा इति, यद् उत संस्कारनिमित्तम् उपादाय, तदा कथं बोधिसत्त्वेन महासत्त्वेन नाममात्रकं रूपम् इति शिक्षितव्यं, नाममात्रं वेदना संज्ञा संस्कारा विज्ञानं नाममात्रं यावद् बुद्धधर्मा इति शिक्षितव्यम्, अथावस्तुकम् एवं सति तस्य नाम्नस् तद् अपि नाममात्रं न प्रयुज्यते यद् इदं रूपम् इति नाममात्रं न प्रयुज्यते यद् इदं वेदना संज्ञा संस्कारा विज्ञानं, यावद् बुद्धधर्मा इति नाममात्रं न प्रयुज्यते.
SK
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् इदं वेदना संज्ञा संस्कारा विज्ञानम्, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् इदं यावद् बुधधर्मा इति, यतश् च मैत्रेय तेन संस्कारनिमित्तेन वस्तूनि रूपम् इत्य् एतस्मिन् नाम्नि रूपम् इति संप्रत्ययो भवति, प्रत्ययागमः प्रतिसंवेदनः, तेन च मैत्रेय पर्यायेणैवं वेदितव्यं, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति, तत् किं मन्यसे? मैत्रेय स्याद् इहैकत्यस्य तस्मिन्न् एव संस्कारनिमित्ते वस्तूनि संज्ञा वा प्रज्ञप्तिर् वा नाम वानुव्यवहारो वाभिनिवेशो वा.
SK
[मैत्रेय] आह: एवं भगवन्.
SK
[भगवान् आह:] तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, आगन्तुकम् एकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति.
SK
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: (PSP_६-८:१४८) एवं सति भगवन्न् उपलब्ध एव भवति रूपस्य स्वभावो यत् तत् संस्कारनिमित्तं वस्तु, यद् उपादाय नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो भवति, यद् इदं रूपम् इति यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति.
SK
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: संस्कारनिमित्ते वस्तूनि नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो रूपम् इति, तत् किं मन्यसे? मैत्रेय स्वभावो वा स रूपस्य प्रज्ञप्तिमात्रं वेति.
SK
[मैत्रेय] आह: प्रज्ञप्तिमात्रं भगवन् यद् इदं प्रज्ञप्तिमात्रम्.
SK
भगवान् आह: तत् कथं मैत्रेय तवैवं भवत्य् उपलब्ध एवं भवति रूपस्य स्वभाव इति, यत् तत् संस्कारनिमित्तवस्तु यद् उपादाय नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो भवति, यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति. तत् किं मन्यसे? मैत्रेय स्वभावो वा स वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां प्रज्ञप्तिमात्रं वेति. [मैत्रेय] आह: प्रज्ञप्तिमात्रं भगवन् यद् इदं प्रज्ञप्तिमात्रम्.
SK
भगवान् आह: तत् कथं मैत्रेय तवैवं भवत्य् उपलब्ध एवं भवति वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां स्वभाव इति?
SK
मैत्रेय आह: सचेद् भगवन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं रूपं, सचेद् भगवन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा इति, तद् एवं सति न तूपलब्ध एव स्वभावो भवति, रूपस्य यद् इदन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् इति, तद् एवं सति न तूपलब्ध एव स्वभावो भवति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां, यद् इदं नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् इति.
SK
भगवान् आह: तत् किं मन्यसे? मैत्रेय यद् रूपम् इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं, यद् वेदनेति संज्ञेति संस्कारा (PSP_६-८:१४९) इति विज्ञानम् इति यावद् बुद्धधर्मा इति, नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् अपि नु तस्योत्पादो वा प्रज्ञायते व्ययो वा संक्लेशो वा व्यवदानं वा.
SK
[मैत्रेय] आह: नो हीदं भगवन्.
SK
[भगवान् आह:] तत् कुतस् तवैवं भवति मैत्रेय उपलब्ध एव स्वभावो भवति रूपस्य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणाम् इति पेयालम्?
SK
मैत्रेय आह: किं पुनर् भगवन् सर्वशः स्वलक्षणेन नास्त्य् एव रूपं, किं पुनर् भगवन् सर्वशः स्वलक्षणेन नास्त्य् एव वेदना संज्ञा संस्कारा विज्ञानं, न सन्त्य् एव यावद् बुद्धधर्माः.
SK
भगवान् आह: नाहं मैत्रेय सर्वशः स्वलक्षणेन रूपन् नास्तीति वदामि, नाहं मैत्रेय सर्वशः स्वलक्षणेन वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा न सन्तीति वदामि.
SK
मैत्रेय आह: कथं भगवन् रूपम् अस्ति? कथं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्माः सन्ति?
SK
भगवान् आह: लोकसंकेतव्यवहारतो मैत्रेय रूपम् अस्ति न तु परमार्थतो लोकसंकेतव्यवहारतो मैत्रेय वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्माः सन्ति नो परमार्थतः.
SK
मैत्रेय आह: यथा खल्व् अहं भगवन् भगवतो भाषितस्यार्थम् आजानामि निरभिलप्य एव धातुः परमार्थतः, सचेद् भगवन् निरभिलप्यो धातुः परमार्थतः, तत् कथं यत् तत् संस्कारनिमित्तं वस्तु यत्र रूपम् इत्य् आगन्तुकं नामधेयं प्रक्षिप्यते, तत् कथं यत् तत् संस्कारनिमित्तं वस्तु यत्र वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा इत्य् आगन्तुकं नामधेयं प्रक्षिप्यते परमार्थतो न भवति, सचेत् तन् न परमार्थः तत् कथं निरभिलप्यो धातुर् भवति संस्कारनिमित्तं वस्तु निरभिलप्यो धातुर् इति न युज्यते.
SK
भगवान् आह: तेन हि मैत्रेय त्वाम् एवात्र प्रतिपक्षामि यथा ते क्षमते तथाइवं व्याकुरु. तत् किं मन्यसे? मैत्रेय यथा ते निरभिलप्य धातौ प्रज्ञाप्रचारो भवति, उपलभसे त्वं तस्मिन् समये संस्कारनिमित्तं वस्तु यत्रेदम् आगन्तुकनामधेयं प्रक्षिप्तं यद् (PSP_६-८:१५०) इदं रूपम् इति वेदनेति संज्ञेति संस्करा इति विज्ञानम् इति यावद् बुद्धधर्मा इति.
SK
[मैत्र्य आह:] नो हीदं भगवन्.
SK
[भगवान् आह:] तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, यत् तत् संस्कारनिमित्तं वस्तुस् तन् निरभिलप्याद् धातोर् नान्यन् नाप्य् अनन्यन्, स च तस्मात् संस्कारनिमित्ताद् वस्तुनो नान्यो निरभिलप्यो धातुर् नाप्य् अनन्यो यत्रेदम् आगन्तुकं नामधेयं प्रक्षिपतं यद् इदं रूपम् इति, वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, संस्कारनिमित्ताच् चेद् वस्तुनो मैत्रेय निरभिलप्यो धातुर् अन्यः स्याद् अपीदानीं सर्वकालं पृथग्जनाः परिनिर्वायुर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेरन्, अनन्यश् चेन् मैत्रेय संस्कारनिमित्ताद् वस्तुनो निरभिलप्यो धातुः स्याद् अपीदानीं तद् अपि निमित्तं नोपलभ्येत्, यतस् तस्य निरभिलप्यस्य धातोः प्रतिवेधो भवेत्. तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, न तस्मात् संस्कारनिमित्ताद् वस्तुनो ऽन्यो निरभिलप्यो धातुर्, नापि तस्माद् अनन्यो निरभिलप्यो धातुर् यत्रेदम् आगन्तुकं नामधेयं प्रक्षिपतं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति.
SK
मैत्रेय आह: सचेद् भगवन् बोधिसत्त्वो महासत्त्वो निरभिलप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमानस् तत् संस्कारनिमित्तं वस्तु नोपलभते, यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, तत् कथं भगवन् विद्यमानं नोपलभते?
SK
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: न हि मैत्रेय तस्य संस्कारनिमित्तस्य वस्तुनः काचिद् विद्यमानता वाविद्यमानता वा. तत् कस्य हेतोः? यस्मिन् हि वा मैत्रेय समये तत् संस्कारनिमित्तं वस्तु विकल्पयसि तस्मिन् समये तत् संस्कारनिमित्तं वस्तु विकल्पतो ग्रहणम् एति, तस्मिन् वा पुनः समये निरभिलप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमानो न विकल्पयसि तस्मिन् समये निर्विकल्पतो ग्रहणम् एति.
SK
मैत्रेय आह: एवं भगवन्. भगवान् आह: न त्व् एवं सति मैत्रेय विकल्पमात्रम् एतद् यद् उत संस्कारनिमित्तं वस्तु यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं (PSP_६-८:१५१) यद् इदं रूपम् इति वेदनेति संज्ञेति संस्करा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, विकल्पमात्रे वा पुनस् तस्य निर्विकल्पे वा धातौ वर्तमानस्य विकल्पेष्व् अपगतेषु कतमा तस्य विद्यमानता वाविद्यमानता वोपलभ्यते, यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति?
SK
मैत्रेय आह: प्रज्ञापारमितायां चरता भगवन् बोधिसत्त्वेन महासत्त्वेन धर्मप्रभेदकौशल्ये वर्तमानेन कतिभिर् आकारै रूपप्रभेदप्रज्ञप्तिर् अनुगन्तव्या? कतिभिर् आकारैर् वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मप्रभेदप्रज्ञप्तिर् अनुगन्तव्या?
SK
भगवान् आह: त्रिभिर् मैत्रेयाकारैर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मप्रभेदकौशल्ये वर्तमानेन रूपप्रभेदप्रज्ञप्तिर् अनुगन्तव्या, वेदना संज्ञा संस्कारा विज्ञानं यावद् बुध्धधर्मप्रभेदप्रज्ञप्तिर् अनुगन्तव्या, यद् उतेदं परिकल्पितं रूपम् इदं विकल्पितं रूपम् इदं धर्मता रूपम् इति, यद् उतेयं परिकल्पिता वेदना इयं विकल्पिता वेदना इयं धर्मता वेदना, यद् उत इयं परिकल्पिता संज्ञा इयं विकल्पिता संज्ञा इयं धर्मता संज्ञा, यद् उतेमे परिकल्पिताः संस्कारा इमे विकल्पिताः संस्कारा इमे धर्मता संस्काराः, इदं परिकल्पितं विज्ञानम् इदं विकल्पितं विज्ञानम् इदं धर्मता विज्ञानम्, इमे यावत् परिकल्पिता बुद्धधर्मा इमे विकल्पिता बुद्धधर्मा इमे धर्मता बुद्धधर्माः.
SK
मैत्रेय आह: कतमद् भगवन् परिकल्पितं रूपम्? कतमद् विकल्पितं रूपम्? कतमद् धर्मता रूपं? कतमा भगवन् परिकल्पिता वेदना संज्ञा संस्कारा विज्ञानं? कतमा विकल्पैता वेदना संज्ञा संस्कारा विज्ञानं? कतमा धर्मता वेदना संज्ज्ञा संस्कारा विज्ञानं? यावत् कतमे भगवन् परिकल्पिता बुधधर्माः? कतमे विकल्पिता बुद्धधर्माः? कतमे धर्मता बुद्धधर्माः?
SK
भगवान् आह: या मैत्रेय तस्मिन् संस्कारनिमित्ते वस्तूनि रूपम् इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारन् निश्रित्य रूपस्वभावतया परिकल्पतेनेदं परिकल्पितं रूपं, यत् मैत्रेय तस्मिन् संस्कारनिमित्ते (PSP_६-८:१५२) वस्तूनि वेदनेति संज्ञेति संस्कार इति विज्ञानम् इति यावद् बुद्धधर्मा इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारन् निश्रित्य वेदनास्वभावतया संज्ञास्वभावतया संस्कारस्वभावतया विज्ञानस्वभावतया यावद् बुद्धधर्मस्वभावतया परिकल्पनेयं परिकल्पिता, वेदना संज्ञा संस्कारा विज्ञानं यावद् इमे परिकल्पिता बुद्धधर्माः, या पुनस् तस्य संस्कारनिमित्तस्य वस्तुनो विकल्पमात्रधर्मतायाम् अवस्थानता विकल्पप्रतीत्याभिलपनता तत्रेदं नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारो रूपम् इति, वेदनेति संज्ञेति संस्कारा इति, विज्ञानम् इति यावद् बुद्धधर्मा इति, इदं विकल्पितं रूपम् इयं विकल्पिता वेदना इयं विकल्पिता संज्ञा इमे विकल्पिताः संस्कारा इदं विकल्पितं विज्ञानम् इमे विकल्पिता बुद्धधर्माः. या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थितैवेयं धर्माणां धर्मता धर्मस्थितिता धर्मधातुर् यत् तेन परिकल्पितरूपेण तस्य विकल्पितरूपस्य नित्यं नित्यकालं ध्रुवं ध्रुवकालं निःस्वभावता धर्मनैरात्म्यं तथता भूतकोटिर् इदं धर्मता रूपम् इयं धर्मता वेदना संज्ञा संस्कारा विज्ञानम् इमे यावद् बुद्धधर्माः.
SK
मैत्रेय आह: एषां भगवन् त्रयाणां रूपाणां कतमद् रूपम् अद्रव्यं द्रष्टव्यं? कतमत् सद्रव्यं द्रष्टव्यं? कतमन् नैवाद्रव्यं न सद्रव्यं द्रष्टव्यं परमार्थप्रभावितं? आसां भगवंस् तिषृणां वेदनानां तिषृणां संज्ञानां त्रयाणां संस्काराणां त्रयाणां विज्ञानानां त्रयाणां यावद् बुद्धधर्माणां कतमे ऽद्रव्या द्रष्टव्या? कतमे सद्रव्या द्रष्टव्या? कतमे नैवाद्रव्या द्रष्टव्या न सद्रव्यान् परमार्थप्रभाविताः?
SK
भगवान् आह: यत् मैत्रेय परिकल्पितं रूपम् इदम् अद्रव्यं द्रष्टव्यं, यद् विकल्पितं रूपम् इदं विकल्पितं रूपं सद्रव्यताम् उपादाय सद्रव्यं द्रष्टव्यं नो तु स्वतन्त्रवृत्तितः, यद् धर्मता रूपं तन् नैवाद्रव्यं सद्रव्यं परमार्थप्रभावितं द्रष्टव्यं, (PSP_६-८:१५३) या मैत्रेय परिकल्पिता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये परिकल्पिता बुद्धधर्मा इमे ऽद्रव्या द्रष्टव्याः, या विकल्पिता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये विकल्पिता बुद्धधर्मा इमे विकल्पितसद्रव्यताम् उपादाय सद्रव्या द्रष्टव्या नो तु स्वतन्त्रवृत्तितः, या मैत्रेय धर्मता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये मैत्रेय धर्मता बुद्धधर्मास् ते नैवाद्रव्या न सद्रव्याः परमार्थेन प्रभाविता द्रष्टव्याः.
SK
मैत्रेय आह: यद् उक्तं भगवन् भगवताद्वयस्यैषा गणना कृता यद् उत रूपम् इत्य्, अद्वयस्यैषा गणना कृता यद् उत वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति तद् एवं रूपप्रभेदप्रज्ञप्तौ सत्याम्, एवं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मप्रभेदप्रज्ञप्तौ सत्यां, किं संधाय निर्दिष्टं भगवता अद्वयस्यैषा गणना कृता यद् उत रूपम् इत्य् अद्वयस्यैषा गणना कृता यद् उत वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृतेति.
SK
भगवान् आह: तत् किं मन्यसे? मैत्रेय या परिकल्पिते रूपे ऽद्रव्यता रूपं वा तन् न वेति.
SK
[मैत्र्य] आह: नो हीदं भगवन्.
SK
[भगवान् आह:] या पुनस् तत्र नामसंज्ञाप्रज्ञप्तिव्यवहारमात्रता रूपम् इत्य् अपि नु तद् रूपम्?
SK
[मैत्रेय] आह: नो हीदं भगवन्.
SK
[भगवान् आह:] तद् अनेन मैत्रेय पर्यायेणैवं वेदितव्यं, यत् परिकल्पितं रूपं तन् न रूपं नारूपं यत् पुना रूपं नारूपं तद् अद्वयं, इदं च संधायोक्तं मया अद्वयस्यैषा गणना कृता यद् इदं रूपम् इति. तत् किं मन्यसे? मैत्रेय या विकल्पितस्य रूपस्य सद्रव्यता अपि नु तद् रूपं यद् उपादाय नामसंज्ञाप्रज्ञप्तिव्यवहारो भवति रूपम् इति.
SK
[मैत्रेय] आह: नो हीदं भगवन्.
SK
[भगवान् आह:] तत् किं मन्यसे? मैत्रेय या निमित्तेन परिकल्पितेन रूपेण परिकल्पितस्य रूपस्य तत् स्वभावतासल्लक्षणतापि नु तद् (PSP_६-८:१५४) रूपम्.
SK
[मैत्रेय] आह: नो हीदं भगवन्.
SK
[भगवान् आह:] तद् अनेन ते मैत्रेय पर्यायेणैवं वेदितव्यं, यद् विकल्पितं रूपम् अपि न रूपन् नारूपं यत् पुनर् न रूपं नारूपं तद् अद्वयम्, इदञ् च संधायोक्तं मया अद्वयस्यैषा गणना कृता यद् इदं रूपम् इति. तत् किं मन्यसे? मैत्रेय या धर्मता रूपस्य नैरात्म्यप्रभाविततापि नु तद् रूपम्.
SK
[मैत्रेय] आह: नो हीदं भगवन्.
SK
[भगवान् आह:] या पुनस् तथाइवं धर्मता रूपस्य रूपधर्मता अपि नु तद् रूपम्?
SK
[मैत्रेय] आह: नो हीदं भगवन्.
SK
[भगवान् आह:] तद् अनेन मैत्रेय पर्यायेणैवं वेदितव्यं, यद् धर्मता रूपम् अपि न रूपं नारूपं यन् न रूपं नारूपं तद् अद्वयम् इदं च संधायोक्तं मयाद्वयस्यैषा गणना कृता यद् इदं रूपम् इति वेदनायां संज्ञायां संस्कारेषु विज्ञाने यावद् बुद्धधर्मेषु पेयालं कर्तव्यम्.
SK
मैत्रेय आह: प्रज्ञापारमितायां चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य रूप एवम् अद्वयलक्षणकुशलस्य वेदनायां संज्ञायां संस्कारेषु विज्ञाने यावद् बुद्धधर्मेषु एवम् अद्वयलक्षणकुशलस्यान्तद्वयं वर्जयित्वा मध्यमां प्रतिपदं प्रतिपन्नस्य, कथं लक्षणपरिज्ञा? कथं लक्षणप्रहाणं? कथं लक्षणसाक्षात्क्रिया? कथं लक्षणभावना द्रष्ट्रव्या?
SK
भगवान् आह: प्रज्ञापारमितायां मैत्रेय चरतो बोधिसत्त्वस्य महासत्त्वस्यान्तद्वयं वर्जयित्वा मध्यमां प्रतिपदं प्रतिपन्नस्य, रूपस्य यन् न परिज्ञानं नापरिज्ञानम् इयम् एवास्य परिज्ञा, यद् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न परिज्ञानं नापरिज्ञानम् इयम् एवास्य परिज्ञा, यद् रूपस्य (PSP_६-८:१५५) न प्रहाणं नाप्रहाणम् इदम् एवास्य प्रहाणं, यद् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न प्रहाणं नाप्रहाणम् इदम् एवास्य प्रहाणं, या रूपस्य न साक्षात्क्रिया नासाक्षात्क्रिया इयम् एवास्य साक्षात्क्रिया, या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न साक्षात्क्रिया नासाक्षात्क्रिया इयम् एवास्य साक्षात्क्रिया रूपप्रहाणाय न मार्गस्य भावना नाभावना इयम् एवास्य भावनाया, एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां प्रहाणाय न मार्गस्य भावना नाभावना इयम् एवास्य भावना.
SK
मैत्रेय आह: प्रज्ञापारमितायां भगवंश् चरतो बोधिसत्त्वस्य महासत्त्वस्यैवं परिज्ञाप्रहाणसाक्षात्क्रियाभावनासमन्वागतस्य कतमं निर्वाणम्?
SK
भगवान् आह: गम्भीरं मैत्रेय परमगम्भीरं बोधिसत्त्वानां महासत्त्वानां निर्वाणम्.
SK
मैत्रेय आह: केन कारणेन बोधिसत्त्वानां महासत्त्वानाम् एवं गम्भीरं परमगम्भीरं निर्वाणम्?
SK
भगवान् आह: बोधिसत्त्वानां महासत्त्वानां मैत्रेय निर्वाणं यन् निर्वाणं नानिर्वाणं तेन गम्भीरं परमगम्भीरम् इत्य् उच्यते.
SK
मैत्रेय आह: कथं भगवन् बोधिसत्त्वानां महासत्त्वानां न निर्वाणं भवति? भगवान् आह: परार्थं मैत्रेयारभ्य संसारापरित्यागो न निर्वाणम्, आत्मार्थम् आरभ्य निर्वाणापरित्यागो नानिर्वाणम्.
SK
मैत्रेय आह: सचेद् भगवन् बोधिसत्त्वो महासत्त्वः परार्थम् आरभ्य संसारं न परित्यजति संसारात् परित्यागात् कथम् अनेन निर्वाणं न परित्यक्तं भवति? सचेद् भगवन् बोधिसत्त्वो महासत्त्व आत्मार्थम् आरभ्य निर्वाणं न परित्यजति निर्वाणापरित्यागात् कथम् अनेन संसारो न परित्यक्तो भवति?
SK
भगवान् आह: इह मैत्रेय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् संसारम् अपि संसारतो न विकल्पयति, निर्वाणम् अपि निर्वाणतो न विकल्पयति, तस्यैवम् अविकल्पयतः समम् एतद् भवति (PSP_६-८:१५६) यद् उत संसारश् च निर्वाणश् च. तत् कस्य हेतोः? तथा हि स यथा संसारं संसारतो ऽविकल्पयन् संसारान् नोद्विजति, तथाइव निर्वाणं निर्वाणतो ऽविकल्पयन् निर्वाणतो नोद्विजत्य् एवम् अविकल्पधातुप्रतिष्ठितस्यानया युक्त्या न संसारपरित्यागो न निर्वाणपरित्यागो वेदितव्यः.
SK
मैत्रेय आह: न नु भगवन् प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाविकल्पधातुप्रतिष्ठितेन संसारो यथैव न त्यक्तस् तथा नादत्तः कथम् अत्यक्तो भवति? निर्वाणं यथा न त्यक्तं तथा नादत्तं कथं अत्यक्तं भवति?
SK
भगवान् आह: नाहं मैत्रेय संसारस्यैवम् आदानं वानादानं वा वदामि, निर्वाणस्यैवम् आदानं वानादानं वा वदाम्य् अपि तु मैत्रेय प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्याविकल्पधात्वालम्बनेन ज्ञानेन चित्तवशिताम् अनुप्राप्तस्य दशदिशि लोके गङ्गानदीवालुकोपमेषु लोकधातुसूपायकौशल्येन संसारसांदर्शनताम् उपादायाहं परिनिर्वृताणां बोधिसत्त्वानां महासत्त्वानां संसारस्यापरित्यागं वदामि, शून्यताम् उपलंभधातुप्रतिष्ठानताम् उपादाय निर्वाणस्यापरित्यागं वदामि.
SK
मैत्रेय आह: अविकल्पनाया भगवन् कथं समस्तलक्षणं द्रष्टव्यम्?
SK
भगवान् आह: यच् च मैत्रेय रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं यावद् ये च बुद्धधर्मा या च रूपस्य शून्यता या च वेदनाया या च संज्ञाया या च संस्काराणां या च विज्ञानस्य या च यावद् बुद्धधर्माणां शून्यता, तेषां च धर्माणां तस्याश् च शून्यताया या भावाभावाद्वयता या चाप्रपञ्चना इदं मैत्रेय अविकल्पनायाः समस्तलक्षणं द्रष्टव्यम्.
SK
मैत्रेय आह: किं नु भगवन् सर्वेषां श्रावकाणाम् एकांशेनैकांशिकी निर्वाणप्रतिष्ठा भवति?
SK
भगवान् आह: नो हीदं मैत्रेय, तत् कस्य हेतोः? हि नानाधातुको ऽयं मैत्रेय लोको ऽनेकधातुकस् तस्मिंश् च नानाधातुकेषु भूताः सत्त्वगोत्रप्रभृतय उपलभ्यन्ते, अस्ति मैत्रेय सत्त्वानां सा गोत्रजातिर् (PSP_६-८:१५७) यादित एव प्रणीतं विशेसं प्रार्थयते प्रणीतम् एव विशेषम् अधिगच्छति, अस्ति सा गोत्रजातिर् यादित एवं हीणं विशेषं प्रार्थयते हीनम् एव विशेषम् अधिगच्छति तेनैव च संतुष्टो भवति, अस्ति सा गोत्रजातिर् यादित एव हीनविशेषं प्रार्थयते हीनम् एव विशेषम् अधिगच्छति न च तावता संतुष्टो भवति, तत उत्तरि प्रणीतं विशेषं प्रार्थयते प्रणीतम् एव विशेषम् अधिगच्छति.
SK
मैत्रेय आह: यो भगवंस् तृतीयः सत्त्वो गोत्रभूमिः, सो ऽर्हत्त्वं प्राप्यानुत्तरां सम्यक्संबोधिम् अभिप्रार्थयमानो ऽनुपपद्यमानश् च कथं प्राप्नोत्य् उपपत्तिश् चास्य भगवता प्रतिपत्तौ च न व्याकृता?
SK
भगवान् आह: नो ऽहं मैत्रेय कर्मक्लेशवशेन तस्योपपत्तिं प्रज्ञापयामि, अपि त्व् अचिन्त्यान् निर्वाणपारगामिनीम् अर्हतो ऽप्य् उपपत्तिं प्रज्ञापयामि.
SK
मैत्रेय आह: आश्चर्यं भगवन् यावद् उदाराशया बोधिसत्त्वा महासत्त्वा माहात्म्याध्याशयाश् च, यत्रेदानीम् आदित एव प्रणीतं विशेषं प्रार्थयन्ति, प्रणीतम् एव विशेषम् अधिगच्छन्ति, कतमा भगवन् बोधिसत्त्वानां महासत्त्वानाम् उदाराशयता? कतमा च माहात्म्याध्याशयता?
SK
भगवान् आह: यन् मैत्रेय बोधिसत्त्वो महासत्त्वः शक्रत्वलोकपालत्वचक्रवर्तित्वसर्वाकारलोकसंपत्तिभिर् अनर्थिनो ऽनुत्तरायां सम्यक्संबोधौ कुशलमूलं परिणामयति, तासु च निःसंगता निरवग्रहता चेयं बोधिसत्त्वानां महासत्त्वानाम् उदाराशयता. तत् पुनर् बोधिसत्त्वा महासत्त्वास् तद् असक्तिसुखम् अनवग्रहसुखं निर्वृत्तिसुखं च सर्वसत्त्वसाधारणम् इच्छन्तो ऽनुत्तरायां सम्यक्संबोधौ कुशलमूलं परिणामयन्ति, यद् उत संसारापरित्यागतया इयम् एषां माहात्म्याध्याशयता द्रष्टव्या.
SK
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: आश्चर्याद्भुता भगवन् बोधिसत्त्वधर्माः, आश्चर्याद्भुता भगवन् बोधिसत्त्वशिक्षा, आश्चर्यान् अद्भुतान् भगवन् कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वधर्मान् अनुप्राप्तुकामेनानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितव्यम्. (PSP_६-८:१५८)
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् ते न बुद्धैः कृता न प्रत्येकबुद्धैर् नार्हद्भिर् नानागामिभिर् न सकृदागामिभिर् न स्रोतआपन्नैर् नापि तैर् बोधिसत्त्वैर् महासत्त्वैः कृतास् तत् कुत एषां धर्माणां नानाकरणं वा व्यवस्थानं वा प्रज्ञायते? इमे नैरयिका इमे तैर्यग्योनिका इमे यामलौकिका इमे देवा इमे मानुष्याः, अनेन कर्मणा नैरयिका अनेन कर्मणा तिर्यग्योनिका अनेन कर्मणा यामलौकिका अनेन कर्मणा मनुष्याः, अनेन कर्मणा कामधातुका देवाः, अनेन कर्मणा ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः, अनेन कर्मणा परीत्ताभा अप्रमाणाभा आभास्वराभाः, अनेन कर्मणा परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः, अनेन कर्मणा अनभ्रकाः पुण्यप्रसवा वृहत्फलाः, अनेन कर्मणा अस्पृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः, अनेन कर्मणा आकाशानन्त्यायतनसमापत्तयो विज्ञानानन्त्यायतनसमापत्तय आकिञ्चन्यायतनसमापत्तयो नैवसंज्ञानासंज्ञायतनसमापत्तयः, अनेन कर्मणा स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो, ऽनेन कर्मणा बोधिसत्त्वो महासत्त्वो, ऽनेन कर्मणा तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभावस्य हि भगवन् न काचित् क्रिया यया नरकं वा गच्छच्छेत्, तिर्यग्योनिं वा यमलोकं वा देवं वा मनुष्यं वा कामधातुं वा रूपधातुं वा आरूप्यधातुं वा गच्छेत्, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिं वा प्राप्स्यति, बोधिसत्त्वो महासत्त्वो बोधिसत्त्वमार्गे वा चरिष्यति, सर्वाकारज्ञतां वा प्राप्स्यति, यान् प्राप्य सत्त्वान् संसारात् परिमोचयिष्यति.
SK
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतद् यथा वदसि, अभावस्य हि सुभूते न कर्म न क्रिया न फलं, बालपृथग्जना हि सुभूते यावद् आर्यधर्मेष्व् अकोविदास् ते अभावस्वभावान् धर्मान् न जानन्ति, ते विपर्याससमुत्थितैर् विकल्पैर् विविधानि कर्माण्य् उपस्थापयन्ति, तेषां तादृशाम् एवात्मभावा भवन्ति, यदि वा नैरयिका यदि वा तैर्यग्योनिका यदि वा यामलौकिका यदि वा मनुष्येषु यदि वा कामधातुषु देवेषु यदि वा रूपधातुकेषु (PSP_६-८:१५९) देवेषु यदि वा आरूप्यधातुकेषु देवेषु यावद् अभावस्य न कर्म न क्रिया न फलं, यः पुनर् अभावो ऽभाव एव सः. यत् पुनः सुभूतिर् एवम् आह: यः स्रोताअपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वो मार्गज्ञतायां चरति तथागतो वा सर्वाकारज्ञताम् अनुप्राप्नोति. तत् किं मन्यसे? सुभूते नाभावो मार्गो नाभावः स्रोतआपत्तिफलन् नाभावः सकृदागामिफलन् नाभावो ऽनागामिफलन् नाभावो ऽर्हत्त्वन् नाभावः प्रत्येकबोधिर् नाभावो यावत् सर्वाकारज्ञता.
SK
सुभूतिर् आह: अभावो भगवन् मार्गो ऽभावः स्रोतआपत्तिफलम् अभावः सकृदागामिफलम् अभावो नागामिफलम् अभावो ऽर्हत्त्वम् अभावः प्रत्येकबोधिर् अभावो यावत् सर्वाकारज्ञता.
SK
भगवान् आह: किं पुनः सुभूते ऽभावो धर्मो ऽभावं धर्मम् अनुप्राप्नोति?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: इति हि सुभूते यश् चाभावो यश् च मार्गः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणास् तत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन ये सत्त्वाश् चतुर्भिर् विपर्यासैर् अभिनिविष्टाः पञ्चसु स्कन्धेष्व् अनित्ये नित्यसंज्ञिनो ऽनात्मन्य् आत्मसंज्ञिनो दुःखे सुखसंज्ञिनो ऽशुभे शुभसंज्ञ्मो भावेष्व् अभिनिविष्टास् तांस् तान् भावेभ्यो विवेचयति. इति चतुर्विपर्यासनिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अस्ति भगवन् अवस्तु भूतं भव्यं तथतावितथता यत्र स्थित्वा बालपृथग्जना इदं वस्त्व् इत्य् अभिनिवेशेनाभिनिविश्य भूतं भव्यं तथतावितथता कर्माभिसंकुर्वन्ति येन कर्मणा पञ्चगतिकान् संसारान् न परिमुच्यन्ते.
SK
भगवान् आह: नास्ति सुभूते ऽन्तशो वालाग्रकोटीनिक्षेपमात्रम् अपि वस्तु यत्र स्थित्वा बालपृथग्जनाः कर्माभिसंस्कुर्वन्ति, अन्यत्र विपर्यासेन.
SK
सुभूतिर् आह: कथं भगवन् विपर्यासेन बालपृथग्जनाः कर्माभिसंस्कुर्वन्ति? (PSP_६-८:१६०)
SK
भगवान् अह: तेन हि सुभूते उपमान् ते करिष्यामि, अस्यैवार्थस्य भूयस्या मात्रया प्रसिद्धये यथा पण्डिता जानीयुस्, तत् किं मन्यसे? सुभूते किञ्चित् स्वप्ने दर्शिनस् तद् वस्त्व् अस्ति यत्र स्थित्वा स्वप्नदर्शी पञ्चभिः कामगुणैः परिचरेत्.
SK
सुभूतिर् आह: स्वप्न एव तावद् भगवन् नास्ति कुतः पुनस् तत्र स्थित्वा स्वप्नदर्शी पञ्चभिः कामगुणैः परिचरिष्यति.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते ऽस्ति स कश्चिद् धर्मो लौकिको वा लोकोत्तरो वा सास्रवो वानास्रवो वा संस्कृतो वासंस्कृतो वा यो न स्वप्नोपमः.
SK
सुभूतिर् आह: नास्ति भगवन् स कश्चिद् धर्मः संस्कृतो वासंस्कृतो वा सास्रवो वानास्रवो वा लौकिको वा लोकोत्तरो वा यो न स्वप्नोपमः.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते कश्चित् स्वप्ने पञ्चगतिकः संसारो विद्यते?
SK
सुभूतिर् आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते काश्चित् स्वप्ने मार्गभावना भवति, यां मार्गभावनाम् आगम्य न संक्लिश्येत वा न व्यवदायेत वा.
SK
सुभूतिर् आह: नो हीदं भगवन् न वस्तुकः स भगवन् स्वप्नो ऽप्रज्ञप्तिको ऽप्रज्ञपनीयः सर्वपदव्यञ्जनैः.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यदादर्शमण्डले प्रतिबिम्बो दृश्यते किञ्चित् तस्य वस्त्व् अस्ति यत् कर्माभिसंस्कुर्याद् यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्?
SK
सुभूतिर् आह: नो हीदं भगवन् न वस्तुकः स भगवन् प्रतिबिम्बो ऽन्यत्र बालपृथग्जनानाम् उल्लापनात् तत् कुतस् तस्य कर्म भविष्यति, यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
SK
सुभूतिर् आह: नो भगवन् न वस्तुकः स भगवन् प्रतिबिम्बकस् (PSP_६-८:१६१) तत् कुतस् तस्य मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते या सा प्रतिश्रुत्का नदीकुञ्जवनपर्वातकन्दराभ्यवकाशोदकप्रत्यासन्नतो निश्चरति किन् तस्याः प्रतिश्रुत्कायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्?
SK
सुभूतिर् आह: नो भगवन् न वस्तुका सा प्रतिश्रुत्का कुतस् तस्याः कर्म भविष्यति, यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते किन् तस्याः प्रतिश्रुत्का या मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदापयेत.
SK
सुभूतिर् आह: नो भगवन्न् अत्यन्ततया सा भगवन् प्रतिश्रुत्का नास्ति कुतस् तस्या मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत्, न व्यवदायेत्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते या सा मरीच्याम् अनुदके उदकसंज्ञा अनदीषु वा नदीसंज्ञा अनगरेषु नगरसंज्ञा अनुद्यानेष्व् उद्यानसंज्ञा किं तस्या मरीचिसंज्ञायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्?
SK
सुभूतिर् आह: नो भगवन्न् अत्यन्ततया भगवंस् तस्यां मरीच्याम् उदकं नास्ति नैव नदी नैव नगरन् नैवोद्यानम् अन्यत्र संज्ञाविपर्यासश् चक्षुर्मोहनतायास् तत् कुतो ऽस्याः कर्म भविष्यति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते किं तस्यां विपर्यस्तायां संज्ञायां मार्गभावना भवति यां मार्गभावनाम् आगम्य न (PSP_६-८:१६२) संक्लिश्येत न व्यवदायेत.
SK
सुभूतिर् आह: नो भगवन् न हि विपर्यस्तायां भगवन् संज्ञायाम् अस्ति मार्गभावना यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते मायाकारेण विविधा मायाभिनिर्मिता, यदि वा हस्तिकायो यदि वाश्वकायो यदि वा बलीवर्दकायो यदि वा पत्तिकायो यदि वा जनपदकायो यदि वा स्त्रीरूपं यदि वा पुरुषरूपम् अपि नु तस्या मायायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.
SK
सुभूतिर् आह: नो भगवन् न हि मायाया भगवन् वस्त्व् अस्त्य् अन्तशो वालाग्रकोटीनिक्षेपमात्रम् अपि यत्र स्थित्वा कर्माभिसंकुर्याद् यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत् मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
SK
सुभूतिर् आह: नो भगवन् न वस्तु कस्य भगवन् धर्मस्य कुतो मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते यत् पुनस् तथागतनिर्मितो ऽभिनिर्मिणोत्य् अन्यन् निर्मितं किं तस्य निर्मितस्य कर्मास्ति येन कर्मणा नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत.
SK
सुभूतिर् आह: नो भगवन् न वस्तुकः स भगवन् निर्मितः.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य निर्मितस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न वयवदायेत.
SK
सुभूतिर् आह: नो भगवन्. (PSP_६-८:१६३)
SK
भगवन् अह: तत् किं मन्यसे? सुभूते कश्चिद् अत्र संक्लिश्येत वा व्यवदायेत वा.
SK
सुभूतिर् आह: न कश्चिद् भगवन् संक्लिश्येत वा व्यवदायेत वा.
SK
भगवान् आह: यथैव सुभूते न संक्लिश्येत वा न व्यवदायेत वा तथाइव नास्ति संक्लेशो वा व्यवदानं वा. तत् कस्य हेतोः? अहंकारममकारे हि सुभूते स्थिताः सत्त्वाः संक्लिश्यन्ते वा व्यवदायन्ते वा, यथैव भूतदर्शी न संक्लिश्यते वा न व्यवदायते वा तथाइव सुभूते नास्ति संक्लेशो वा व्यवदानं वा. इति निर्वस्तुकविपर्यासज्ञाननिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: भूतं वेति भगवन् न संक्लिश्यते न वयवदायते, अभूतं वेति भगवन् न संक्लिश्यते न व्यवदायते, तथा ह्य् अभावस्वभावाः सर्वधर्माः, अभावस्वभावस्यापि भगवन् न संक्लेशो न व्यवदानं, भावस्यापि भगवन् न संक्लेशो न व्यवदानम्, अभावस्यापि भगवन् न संक्लेशो न व्यवदानं, भावाभावस्यापि भगवन् न संक्लेशो न व्यवदानं तत्र यद् एतद् भगवता व्यवदानन् निर्दिष्टन् तत् कथम् इदं भगवन् भवति?
SK
भगवान् आह: या एषा सुभूते सर्वधर्माणां समता तन् मयोक्तं व्यवदानम्.
SK
सुभूतिर् आह: सा पुनः कतमा सर्वधर्माणां समता?
SK
भगवान् आह: तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता, या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मस्थितिता धर्मनियामता धर्मधातुम् इदम् उच्यते व्यवदानं, तत् पुनर् लोकव्यवहारेण व्यवह्रियते न पुनः परमार्थेनानिरभिलप्यो हि सो ऽप्रव्याहारः सर्वाकारघोषवाक्यथातीतः. इति व्यवदाननिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमास् तत् कथं बोधिसत्त्वो महासत्त्वः स्वप्नोपमैः (PSP_६-८:१६४) सर्वधर्मैः प्रतिश्रुत्कोपमैः प्रतिभासोपमैः प्रतिबिम्बोपमैर् मरीच्युपमैर् मायोपमैर् गन्धर्वनगरोपमैर् निर्मितकोपमैर् धर्मैर् अवस्तुकेष्व् अद्रव्येष्व् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयति, दानपारमितापरिपूर्यै, शीलपारमितापरिपूर्यै, क्षान्तिपारमितापरिपूर्यै, वीर्यपारमितापरिपूर्यै, ध्यानपारमितापरिपूर्यै, प्रज्ञापारमितापरिपूर्यै, उपायपारमितापरिपूर्यै, प्रणिधानपारमितापरिपूर्यै, बलपारमितापरिपूर्यै, ज्ञानपारमितापरिपूर्यै, अभिज्ञापारमितापरिपूर्यै, चत्वारि ध्यानानि समापद्यते, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः परिपूरयति, चत्वारि स्मृत्युपस्थानां परिपूरयति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् परिपूरयति, पञ्चेन्द्रियाणि परिपूरयति, पञ्चबलानि परिपूरयति, सप्तबोध्यङ्गानि परिपूरयति, आर्याष्टाङ्गं मार्गं परिपूरयति, अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीः परिपूरयति, चत्वार्य् आर्यसत्यानि परिपूरयति, शून्यतानिमित्ताप्रणिहितानि समापद्यते, पञ्चाभिज्ञाः परिपूरयति, अध्यात्मशून्यतां भावयति, बहिर्धाशून्यतां भावयति, अध्यात्मबहिर्धाशून्यतां भावयति, यावद् अभावस्वभावशून्यतां भावयति, सर्वसमाधीन् सर्वधारणीमुखानि परिपूरयति, दशबोधिसत्त्वभूमीः परिपूरयति, दशतथागतबलानि परिपूरयति, चत्वारि वैशारद्यानि परिपूरयति, चतस्रः प्रतिसंविदः परिपूरयति, अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयति द्वात्रिंशन्महापुरुषलक्षणानि परिपूरयत्य् अशीत्यनुव्यञ्जनानि परिपूरयति, यावत् त्रिसाहस्रे महासाहस्रे लोकधाताव् आभासकरीम् आभां परिनिष्पादयति, ब्रह्मस्वरतां परिनिष्पादयति, तत्रैकेन स्वरेण दशसु दिक्षु लोकधातुषु यथाधिमुक्तानां सत्त्वानां चेतसैव चित्तम् आज्ञाय धर्मं देशयति.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते नैते धर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमाः, ये त्वया परिकीर्तिताः.
SK
सुभूतिर् आह: यदि भगवन् सर्वधर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमाः, कथं भगवन् स्वप्नोपमेषु (PSP_६-८:१६५) सर्वधर्मेषु यावन् निर्मितकोपमेषु बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरति? न च भगवन् स्वप्नो भूतो न प्रतिश्रुत्का भूता न प्रतिभासो भूतो न प्रतिबिम्बं भूतं न मरीचिर् भूता न माया भूता न गन्धर्वनगरं भूतं न निर्मितको भूतो न च भगवन् शक्यम् अभूतेन दानपारमितायां चरितुं शीलपारमितायां चरितुं क्षान्तिपारमितायां चरितुं वीर्यपारमितायां चरितुं ध्यानपारमितायां चरितुं प्रज्ञापारमितायां चरितुं सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु सर्वशून्यतास्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरितुम्.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते दानपारमितानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सप्तत्रिंशद्बोधिपक्ष्यधर्माः सर्वशून्यता आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सर्वे ते सुभूते धर्मा अनभिसंस्कृता अनभिनिर्वृत्ता न शक्या अनभिसंस्कृतैर् धर्मैः सर्वाकारज्ञताम् अनुप्राप्तुम्.
SK
अपि तु खलु पुनः सुभूते सर्व एते धर्मा मार्गस्यावाहनाय संवर्तन्ते, न पुनः फलस्याधिगमाय, य एतेषां धर्माणाम् अनुत्पादो ऽप्रादुर्भावो ऽलक्षणम् अपि तत्, अतो बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यान् कुशलान् धर्मान् नोपलभते, यदि वा दानपारमितां यदि वा शीलपारमितां यदि वा क्षान्तिपारमितां यदि वा वीर्यपारमितां यदि वा ध्यानपारमितां यदि वा प्रज्ञापारमितां यदि वा सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान्, यदि वा अध्यात्मशून्यतां यदि वा बहिर्धाशून्यतां यदि वाध्यात्मबहिर्धाशून्यतां यदि वा यावद् अभावस्वभावशून्यतां यदि वार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि यदि वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मांस् तान् सर्वान् मायोपमा इति जानाति. (PSP_६-८:१६६)
SK
न चेमान् धर्मान् अपरिपूर्य दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यत्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबोधिसत्त्वभूमीर् दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनान्य् अपरिपूर्य सर्वाकारवरोपेतं ज्ञानम् अपरिपूर्य सत्त्वान् अपरिपाच्य बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति नैतत् स्थानं विद्यते, यान् यान् एव कुशलान् धर्मान् आरभते तांस् तान् कुशलान् धर्मान् स्वप्नोपमान् प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिम्बोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् जानाति.
SK
स प्रज्ञापारमितायां चरन् ध्यानपारमितायां चरन् वीर्यपारमितायां चरन् क्षान्तिपारमितायां चरन् शीलपारमितायां चरन् दानपारमितायां चरन्न् अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन्न् अध्यात्मबहिर्धाशून्यतायां चरन्, यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्न् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिषु चरन्न् अष्टविमोक्षेषु चरन् नवानुपूर्वविहारसमापत्तिषु चरन्, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरन्, पञ्चस्व् अभिज्ञासु चरन् सर्वसमाधिषु चरन् सर्वधारणीमुखेसु चरन् दशबोधिसत्त्वभूमिषु चरन् दशसु तथागतबलेषु चरन् चतुर्षु वैशारद्येषु चरन् चतसृषु प्रतिसंवित्सु चरन्न् अष्टादशावेणिकबुद्धधर्मेषु चरन् यावत् सर्वाकारवरोपेतसर्वाकारज्ञतायां चरन् स्वप्नोप्मान् जानाति, प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् जानाति, तांश् च सर्वसत्त्वान् स्वप्ने चरतः स जानाति प्रतिश्रुत्कायां प्रतिभासे प्रतिबिम्बे मरीच्यां मायायां गन्धर्वनगरे निर्मितके चरतो जानाति.
SK
तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां न भावतो नाभावतो (PSP_६-८:१६७) गृह्णाति यं गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, स्वप्नोपमान् प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिम्बोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् सर्वधर्मान् ज्ञात्वा न भावतो गृह्णाति नाभावतो गृह्णाति यां गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, अग्राह्या प्रज्ञापारमिता, अग्राह्या ध्यानपारमिता, अग्राह्या वीर्यपारमिता, अग्राह्या क्षान्तिपारमिता, अग्राह्या शीलपारमिता, अग्राह्या दानपारमिता, अग्राह्या स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा, अग्राह्या अध्यात्मशून्यता, अग्राह्या बहिर्धाशून्यता, अग्राह्या अध्यात्मबहिर्धाशून्यता, अग्राह्या यावद् अभावस्वभावशून्यता, अग्राह्याण्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाण्य् अग्राह्याणि शून्यतानिमित्ताप्रणिहितान्य् अग्राह्या अभिज्ञा अग्राह्या दशबलवैशारद्यप्रतिसंविदो ऽग्राह्या अष्टादशावेणिका बुद्धधर्मा, अग्राह्याः सर्वधर्मास् तद् बोधिसत्त्वो महासत्त्वो ऽग्राह्यान् सर्वधर्मान् विदित्वा अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठते. तत् कस्य हेतोः? तथा ह्य् अग्राह्याः सर्वधर्मा अवस्तुकाः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निमितकोपमाः. न चाग्राह्याणां धर्माणाम् अग्राह्यता शक्ताभिलपितुं, अन्यत्र सत्त्वा इमान् धर्मान् न जानन्ति न पश्यन्ति, तद् बोधिसत्त्वो महासत्त्वो सर्वसत्त्वानाम् अर्थायानुत्तरायां सम्यक्संबोधौ प्रतिष्ठते.
SK
स च प्रथमचित्तोत्पादम् उपादाय यद् दानं ददाति तत् सर्वसत्त्वानां कृतशः, यच् छीलं रक्षति, यां क्षान्तिं संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तत् सर्वसत्त्वानां कृतशो न पुनर् आत्मार्थम्.
SK
न च बोधिसत्त्वो महासत्त्वो ऽन्यस्य कृतशो ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठते ऽन्यत्र सर्वसत्त्वानां कृतशः स प्रज्ञापारमितायां चरन् सत्त्वो न सत्त्वे सत्त्वसंज्ञायां स्थिता नात्मन्य् (PSP_६-८:१६८) आत्मसंज्ञायां स्थिता, न जीवे जीवसंज्ञायां स्थिता, न जन्तौ जन्तुसंज्ञायां स्थिता, न पोषे पोषसंज्ञायां स्थिता, न पुरुषे पुरुषसंज्ञायां स्थिता, न पुद्गले पुद्गलसंज्ञायां स्थिता, न मनुजे मनुजसंज्ञायां स्थिता, न मानवे मानवसंज्ञायां स्थिता, न कारके कारकसंज्ञायां स्थिता, न वेदके वेदकसंज्ञायां स्थिता, न जानके जानकसंज्ञायां स्थिता, न पश्यके पश्यकसंज्ञायां स्थिता, बोधिसत्त्वो महासत्त्वो विपर्यासाद् विवेचयति, विपर्यासाद् विवेच्यामृते धातौ प्रतिष्ठापयति, यत्र प्रतिष्ठितानाम् एते समुदाचारो न प्रवर्तन्ते, आत्मसंज्ञा सत्त्वसंज्ञा जीवसंज्ञा जन्तुसंज्ञा पोषसंज्ञा पुरुषसंज्ञा पुद्गलसंज्ञा मनुजसंज्ञा मानवसंज्ञा कारकसंज्ञा वेदकसंज्ञा जानकसंज्ञा पश्यकसंज्ञा, स सर्वान् इमान् निमिञ्जितसंमिञ्जितविस्पन्दितप्रपञ्चितान् विवेच्यान्यतमान्यतमेन चेतसा बहुलम् उपसंपद्य विहरति, अनेन सुभूते उपायेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् आत्मना न केषुचिद् धर्मेष्व् अभिनिविशते सर्वसत्त्वांश् चानभिनिवेशे प्रतिष्ठापयति लोकव्यवहारेण न पुनः परमार्थेन. इति व्यवदाननिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवंस् तथागतेन धर्मो ऽभिसंबुद्धः किं पुनः स धर्मो लोकव्यवहारेणाभिसंबुद्धो ऽर्थपरमार्थेन?
SK
भगवान् आह: लोकव्यवहारेण सुभूते व्यवह्रियते ऽयं तथागतेन धर्मो ऽभिसंबुद्धो ऽनेन धर्मेणायं धर्मो ऽसंबुद्धो ऽयं तथागतेन धर्मो देशित इति, न पुनस् तत्र कश्चिद् उपलभ्यते, तत् कस्य हेतोः? उपलंभो ह्य् एषो ऽनेन धर्मेणायं धर्मो ऽभिसंबुद्ध इति, न च द्वयेन काचित् प्राप्तिर् नाभिसमयः.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न द्वयेनाभिसमयः किं पुनर् अद्वयेनाभिसमयः?
SK
भगवान् आह: न द्वयेनाभिसमयो नाद्वयेनाभिसमयः, एष एवात्राभिसमयो यत्र न द्वयं नाद्वयं, तत् कस्य हेतोः? प्रपञ्च एष यो ऽयम् एषाम् अभिसमयो न च धर्मसमतायां प्रपञ्चो ऽस्ति (PSP_६-८:१६९) निष्प्रपञ्चा धर्मसमता.
SK
सुभूतिर् आह: अभावस्वभावानां भगवन् सर्वधर्माणां का समता?
SK
भगवान् आह: एषैवात्र समता यत्र न भावो ऽभावो वा कीर्तितो, न च धर्मसमता परिकीर्त्य तेन चान्यो ऽपि धर्म उपलभ्यते धर्मसमतायां, सर्वधर्मविनिर्वृत्ता हि धर्मसमता, अगतिर् अविषयो धर्मसमता यस्य कस्यचिद् बालपृथग्जनस्य वार्यस्य वा.
SK
सुभूतिर् आह: किं पुनर् भगवन् धर्मसमता तथागतस्याप्य् अविषयः?
SK
भगवान् आह: अविषयः सुभूते सर्वार्याणां श्रद्धानुसारिणां वा धर्मानुसारिणां वाष्टमकानां वा स्रोतआपन्नानां वा सकृदागामिनां वानागामिनां वार्हतां वा श्रावकाणां वा प्रत्येकबुद्धानां वा बोधिसत्त्वानां महासत्त्वानां वा तथागतस्याप्य् अविषयः सर्वधर्मसमता.
SK
सुभूतिर् आह: न पुनर् भगवन् सर्वधर्मविषयवशवर्ती तथागतो ऽर्हन् सम्यक्संबुद्धः?
SK
भगवान् आह: स्यात् सुभूते सर्वधर्मविषयवशवर्ती तथागतो ऽर्हन् सम्यक्संबुद्धः, यद्य् अन्या धर्मसमता स्याद् अन्यस् तथागतो ऽर्हन् सम्यक्संबुद्धो, या च सुभूते पृथग्जनानां धर्मसमता या च श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकाणां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां, या च तथागतस्यार्हतः सम्यक्संबुद्धस्य समता समतैव समता, या च बालपृथग्जनसमता, या चार्यसमता, एकैवैषा समता, एकसमतायां न द्वयम् अस्ति, अयं बालपृथग्जनो ऽयं श्रद्धानुसार्य् अयं धर्मानुसार्य् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः, सर्व एते सुभूते धर्माः समतायां नोपलभ्यन्ते, इमे बालपृथग्जनाः, अयं श्रद्धानुसारी, अयं धर्मानुसारी, अयम् अष्टमको ऽयं स्रोताअपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. (PSP_६-८:१७०)
SK
सुभूतिर् आह: यदि भगवन् सर्वधर्मसमतायां सर्व एते धर्मा नोपलभ्यन्ते, ऽयं बालपृथग्जनो ऽयं श्रद्धानुसारी, अयं धर्मानुसारी, अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः, अविशेषो वा भगवन् भविष्यति बालपृथग्जनानाञ् च श्रद्धानुसारिणां च धर्मानुसारिणां चाष्टमकानाञ् च स्रोतआपन्नानां च सकृदागामिनाञ् चानागामिनाञ् चार्हतां च प्रत्येकबुद्धानाञ् च बोधिसत्त्वानां महासत्त्वानाञ् च तथागतस्यार्हतः सम्यक्संबुद्धस्य च.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अविशेषो धर्मसमतायां बालपृथग्जनानां श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम्.
SK
सुभूतिर् आह: यदि भगवन्न् अविशेषो बालपृथग्जनानां श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां, कुत एषां भगवंस् त्रयाणां रत्नानां लोके प्रादुर्भावो भवति, बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य?
SK
भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् बुद्धरत्नम् अन्यद् धर्मरत्नम् अन्यत् संघरत्नम् अन्या धर्माणां धर्मसमता.
SK
सुभूतिर् आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि, नान्यद् बुद्धरत्नं नान्यद् धर्मरत्नं नान्यत् संघरत्नं नान्या धर्माणां धर्मसमता, सचेद् भगवन् बुद्धरत्नं धर्मरत्नं संघरत्नं या च धर्माणां धर्मसमता, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अग्राह्या अप्रतिघा एकलक्षणा यद् उतालक्षणास् तत् कथं भगवन्न् एषाम् अलक्षणानां धर्माणां फलव्यवस्थानं करोति, अयं बालपृथग्जनो ऽयं श्रद्धानुसार्य् अयं धर्मानुसार्य् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् (PSP_६-८:१७१) अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्ध इति?
SK
भगवान् आह: यदि तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते तदाभिसंबुध्य धर्माणां व्यवस्थानं नाकरिष्यद् अपि नरको वा न प्रज्ञायते, तिर्यग्योनिर् वा यमलोको वा देवो वा मनुष्यो वा चातुर्महाराजिका वा देवास् त्रयस्त्रिंशा वा यामा वा तुषिता वा निर्माणरतयो वा परनिर्मितवशवर्तिनो वा ब्रह्मपार्षद्यो वा ब्रह्मपुरोहिता वा महाब्रह्माणो वा परीत्ताभा वा अप्रमाणाभा वा आभास्वरा वा परीत्तशुभा वा अप्रमाणशुभा वा शुभकृत्स्ना वा अनभ्रका वा पुण्यप्रसवा वा बृहत्फला वा असंज्ञिसत्त्वा वा अस्पृहा वा अतपा वा सुदृशा वा सुदर्शना वा अकनिष्ठा वा देवाः, आकाशानन्त्यायतनसमापत्तयो वा विज्ञानानन्त्यायतनसमापत्तयो वा आकिञ्चन्यायतनसमापत्तयो वा नैवसंज्ञानासंज्ञायतनसमापत्तयो वा, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गा वा, अध्यात्मशून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा, यावद् अभावस्वभावशून्यता वा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि वा शून्यतानिमित्ताप्रणिहितानि वा, अभिज्ञा वा दशबलवैशारद्यप्रतिसंविदो वावेणिकबुद्धधर्मा वा महामैत्री महाकरुणा द्वात्रिंशन्महापुरुषलक्षणानि वाशीत्यनुव्यञ्जनानि वा, दशबोधिसत्त्वभूमयो वा, दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा, उपायपारमिता वा प्रणिधानपारमिता वा बलपारमिता वा ज्ञानपारमिता वा, एवं त्रीणि रत्नानि, बुद्धरत्नं धर्मरत्नं संघरत्नं, श्रावकयानं प्रत्येकबुद्धयानम् अनुत्तरं महायानम्, एवं श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकाः स्रोताअपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वास् तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वाकारवरोपेतञ् च ज्ञानं न प्रज्ञायन्ते?
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तस्मात् तर्हि सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् (PSP_६-८:१७२) अयं पुरुषकारो यद् धर्मसमतायाश् च न चलन्ति, धर्माणां च व्यवस्थानं कुर्वन्ति.
SK
सुभूतिर् आह: किं भगवन् यथा चैव तथागतो धर्मतायाश् च न चलति, तथाइव बालपृथग्जनापि न चलति श्रद्धानुसारी धर्मानुसारी अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वस् तथाइव सर्वधर्मा न चलन्ति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते धर्मताया न चलन्ति न विवर्तन्ते, यैव सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सैव बालपृथग्जनानां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सैव श्रद्धानुसारिणां धर्मानौसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सर्व एते धर्मा धर्मतां न व्यतिवर्तन्ते, तत् कस्य हेतोः? तथा ह्य् एषैव धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता नान्या काचिद् अनुधर्मता.
SK
सुभूतिर् आह: यदि भगवन् या धर्माणां धर्मता सैव धर्मता बालपृथग्जनानां सैव श्रद्धानुसारिणां सैव धर्मानुसारिणां सैवाष्टमकानां सैव स्रोतआपन्नानां सैव सकृदागामिनां सैवानागामिनां सैवार्हतां सैव प्रत्येकबुद्धानां सैव बोधिसत्त्वानां महासत्त्वानां सैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां, य इमे भगवन् विलक्षणा धर्मास् ते कथम् एकलक्षणास्? तद्यथा रूपं वेदना संज्ञा संस्कारा विज्ञानं, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, अन्यैव च भगवन् रूपस्य धर्मता, अन्या वेदनायाः अन्या संज्ञाया अन्या संस्काराणाम् अन्या विज्ञानस्य धर्मता, अन्या चक्षुषः श्रोत्रघ्राणजिह्वाकायानां धर्मता, अन्या मनसो धर्मता, अन्या रूपशब्दगन्धरसस्प्र्ष्टव्यानां (PSP_६-८:१७३) धर्मता अन्या धर्माणां धर्मता, अन्या चक्षुर्विज्ञानधर्मता, अन्या चक्षुःसंस्पर्शधर्मता, अन्या चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता, एवं श्रोत्रघ्राणजिह्वाकायाः, अन्या मनोविज्ञानधर्मता, अन्या मनःसंस्पर्शधर्मता, अन्या मनःसंस्पर्शप्रत्ययवेदनाधर्मता, अन्या पृथिवीधातुधर्मता, अन्याब्धातुधर्मता, अन्या तेजोधातुधर्मता, अन्या वायुधातुधर्मता, अन्या आकाशधातुधर्मता, अन्या विज्ञानधातुधर्मता, अन्या स्कन्धधर्मता, अन्या धातुधर्मता, अन्या आयतनधर्मता, अन्या प्रतीत्यसमुत्पादधर्मता, अन्या प्रतीत्यसमुत्पन्नधर्मता, अन्याविद्याधर्मता, अन्या संस्कारधर्मता, अन्या विज्ञानधर्मता, अन्या नामरूपधर्मता, अन्या षडायतनधर्मता, अन्या स्पर्शधर्मता, अन्या वेदनाधर्मता, अन्या तृष्नाधर्मता, अन्योपादानधर्मता, अन्या भवधर्मता, अन्या जातिधर्मता, अन्या जरामरणधर्मता, अन्या शोकपरिदेवदुष्खदौर्मनस्योपायासधर्मता, अन्या रागधर्मता, अन्या द्वेषधर्मता, अन्या मोहधर्मता, अन्या दृष्टिधर्मता, अन्या ध्यानानां धर्मता, अन्या अप्रमाणानां धर्मता, अन्या आरूप्यसमापत्तीनां धर्मता, अन्या स्मृत्युपस्थानानां धर्मता, अन्या सम्यक्प्रहाणानां धर्मता, अन्या ऋद्धिपादानां धर्मता, अन्या इन्द्रियाणां धर्मता, अन्या बलानां धर्मता, अन्या बोध्यङ्गानां धर्मता, अन्या आर्याष्टाङ्गस्य मार्गस्य धर्मता, अन्या शून्यताया धर्मता, अन्या आनिमित्तस्य धर्मता, अन्या अप्रणिहितस्य धर्मता, अन्या अध्यात्मशून्यताया धर्मता, अन्या बहिर्धाशून्यताया धर्मता, अन्या अध्यात्मबहिर्धाशून्यताया धर्मता, अन्या यावद् अभावस्वभावशून्यताया धर्मता, अन्या अष्टविमोक्षधर्मता, अन्या नवानुपूर्वविहारसमापत्तिधर्मता, अन्या आर्यसत्यधर्मता, अन्या अभिज्ञाधर्मता, अन्या दानपारमिताधर्मता, अन्या शीलपारमिताधर्मता, अन्या क्षान्तिपारमिताधर्मता, अन्या वीर्यपारमिताधर्मता, अन्या ध्यानपारमिताधर्मता, अन्या प्रज्ञापारमिताधर्मता, अन्या उपायपारमिताधर्मता, अन्या प्रणिधानपारमिताधर्मता, अन्या बलपारमिताधर्मता, अन्या ज्ञानपारमिताधर्मता, अन्या प्रथमाया बोधिसत्त्वभूमेर् (PSP_६-८:१७४) धर्मता, अन्या यावद् दशभूम्या बोधिसत्त्वभूमेर् धर्मता, अन्या दशानां तथागतबलानां धर्मता, अन्या चतुर्णां वैशारद्यानां धर्मता, अन्या चतसृणां प्रतिसंविदां धर्मता, अन्या अष्टादशानाम् आवेणिकानां बुद्धधर्माणां धर्मता, अन्या महामैत्र्या धर्मता, अन्या महाकरुणायां धर्मता, अन्या द्वात्रिंशन्महापुरुषलक्षणानां धर्मता अन्या अशीत्यनुव्यञ्जनानां धर्मता, अन्या संस्कृतस्य धातोर् धर्मता, अन्या असंस्कृतस्य धातोर् धर्मता. तत् कथं भगवन् नैवं विलक्षणानां सर्वधर्माणां धर्मतायां व्यवस्थानं नोपलभ्यते? यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्माणाञ् च नानात्वं करोति, न चाकृत्वा धर्मनानात्वं शक्यं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितुं, कथं च बोधिसत्त्वो महासत्त्वः भूमेर् भूमिं संक्रामति बोधिसत्त्वन्यामम् अवक्रामति, यया नियामावक्रान्त्या श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वातिक्रम्य ऽभिज्ञाः परिपूरयति, याभिर् अभिज्ञाभिर् विक्रीडमानो दानपारमितया परिपूर्णः, शीलपारमितया परिपूर्णः, क्षान्तिपारमितया परिपूर्णः, वीर्यपारमितया परिपूर्णः, ध्यानपारमितया परिपूर्णः, प्रज्ञापारमितया परिपूर्णः, उपायपारमितया परिपूर्णः, प्रणिधानपारमितया परिपूर्णः, बलपारमितया परिपूर्णः, ज्ञानपारमितया परिपूर्णः, विक्रीडमानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति बुद्धान् भगवतः पर्युपास्ते तेषु च बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयति, यैः कुशलैर् मूलैः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रञ् च परिगृह्णाति.
SK
भगवान् आह: यद् आयुष्मान् सुभूतिर् एवम् आह, यदि भगवन् या धर्माणां धर्मता, सैव पृथग्जनानां धर्मता, सैव श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां धर्मता, सैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां धर्मता, य इमे भगवन् विलक्षणा धर्मास् ते कथम् एकलक्षणा विलक्षणानाञ् च धर्माणां धर्मता कथम् एकलक्षणा युक्तेति.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते या रूपस्य धर्मता, किं (PSP_६-८:१७५) न शून्या सा, य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य धर्मता, किं न शून्या सा, या स्कन्धधात्वायतनानां धर्मता, किं न शून्या सा, या प्रतीत्यसमुत्पन्नानां धर्माणां धर्मता, किं न शून्या सा, या प्रतीत्यसमुत्पादाङ्गानां धर्मता, किं न शून्या सा, या लौकिकलोकोत्तराणां धर्माणां धर्मता, किं न शून्या सा, या सास्रवानास्रवाणां धर्माणां धर्मता, किं न शून्या सा, या संस्कृतासंस्कृतां धर्माणां धर्मता, किं न शून्या सा, या बालपृथग्जनानां धर्मता, या श्रद्धानुसारिधर्मता, या धर्मानुसारिधर्मता, या अष्टमकधर्मता या स्रोतआपन्नधर्मता, या सकृदागामिधर्मता, या अनागामिधर्मता, या अर्हद्धर्मता, या प्रत्येकबुद्धधर्मता, या बोधिसत्त्वधर्मता, या तथागतधर्मता, किं न शून्या सा.
SK
सुभूतिर् आह: शून्या सा भगवन् शून्या सा सुगत.
SK
भगवान् आह: तत् किं मन्यसे? सुभूते शून्यतायां विलक्षणा धर्मा उपलभ्यन्ते, रूपलक्षणं वा वेदना संज्ञा संस्कारा विज्ञानलक्षणं वा, स्कन्धधात्वायतनलक्षणं वा, प्रतीत्यसमुत्पादलक्षणं वा, प्रतीत्यसमुत्पन्नधर्मलक्षणं वा प्रतीत्यसमुत्पादाङ्गलक्सणं वा, लौकिकलोकोत्तराणां वा धर्माणां लक्षणं सास्रवानास्रवाणां वा धर्माणां लक्षणं, संस्कृतासंस्कृतानां वा धर्माणां लक्षणं, बालपृथग्जनानां वा लक्षणं श्रद्धानुसारिणां वा लक्षणं, धर्मानुसारिणां वा लक्षणम् अष्टमकानां वा लक्षणं, स्रोतआपन्नानां वा लक्षणं सकृदागामिनां वा लक्षणम् अनागामिनां वा लक्षणम् अर्हतां वा लक्षणं प्रत्येकबुद्धानां वा लक्षणं बोधिसत्त्वानां महासत्त्वानां वा लक्षणं तथागतानां वा लक्षणम्.
SK
सुभूतिर् आह: नो भगवन्.
SK
भगवान् आह: तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, या धर्माणां धर्मता न तत्र पृथग्जना नान्यत्र पृथग्जनेभ्यः, न तत्र श्रद्धानुसारी नान्यत्र श्रद्धानुसारिणः, न तत्र धर्मानुसारी नान्यत्र धर्मानुसारिणः, न तत्राष्टमको नान्यत्राष्टमकान्, न तत्र स्रोतआपन्नो नान्यत्र स्रोतआपन्नान्, न तत्र सकृदागामी नान्यत्र सकृदागामिनो, न तत्रानागामी नान्यत्रानागामिनः, न तत्रार्हन् नान्यत्रार्हतः, न तत्र प्रत्येकबुद्धो नान्यत्र प्रत्येकबुद्धान्, न तत्र बोधिसत्त्वो नान्यत्र बोधिसत्त्त्वान्, न तत्र तथागतो नान्यत्र (PSP_६-८:१७६) तथागतात्. इति व्यवदानसंभारनिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् धर्मता संस्कृता उताहो ऽसंस्कृता?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न संस्कृता नासंस्कृता, न च संस्कृतव्यतिरेकेणासंस्कृत उपलभ्यते, न चासंस्कृतव्यतिरेकेण संस्कृत उपलभ्यते. तत् कस्य हेतोः? तथा हि सुभूते यश् च संस्कृतो धातुर् यश् चासंस्कृतो धातुर् द्वाव् अप्य् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् अरूपिणाव् अनिदर्शनाव् अप्रतिघाव् एकलक्षणौ यद् उतालक्षणौ, तत् पुनस् तथागतो लोकव्यवहारेण व्यवहरति न पुनः परमार्थेन, न च परमार्थे कश्चित् कायसंस्कारे न वाक्संस्कारे न मनःसंस्कारे नान्यत्र कायसंस्कारान् नान्यत्र वाक्संस्कारान् नान्यत्र मनःसंस्कारात् परमार्थ उपलभ्यते, येषां धर्माणां संस्कृतासंस्कृतानां समता स परमार्थस् तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थतश् च न चलति, सत्त्वानां च कृत्यं करोति.
SK
सुभूतिर् आह: यदि भगवन् सर्वधर्माः शून्यास् तन् न कस्यचिद् धर्मस्य कश्चिद् धर्मः किंचित् करोति, अकिंचित्करेष्व् अकिंचनेषु निष्किंचनेषु चाधर्मेषु कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थतश् च न चलति सत्त्वानां च कृत्यं करोति दानेन वा प्रियवद्यतया वा अर्थक्रियया वा समानार्थतया वा?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वाचं भाषसे, यच् छून्यता अकिंचना निष्किंचना न कस्यचित् किंचित् करोति कृत्यं वा अकृत्यं वा, यदि सुभूते एते सत्त्वाः स्वयम् एव शून्यतां जानीयुर् नेयं तथागतस्य वृषभिता भवेत्, यच् छून्यतायाश् च न चलति, सत्त्वांश् चात्मसंज्ञाया विवेचयति, आत्मसंज्ञाया विवेच्य शून्यतया मोचयति संसाराद्, एवं सत्त्वसंज्ञाया विवेचयति जीवसंज्ञाया जन्तुसंज्ञायाः पोषसंज्ञायाः पुरुषसंज्ञायाः पुद्गलसंज्ञाया मनुजसंज्ञाया मानवसंज्ञायाः कारकसंज्ञाया वेदकसंज्ञाया जानकसंज्ञायाः पश्यकसंज्ञायाश् च विवेचयति, रूपसंज्ञाया विवेचयति, (PSP_६-८:१७७) वेदनासंज्ञाया विवेचयति, संज्ञासंज्ञाया विवेचयति, संस्कारसंज्ञाया विवेचयति, विज्ञानसंज्ञाया विवेचयति, चक्षुःसंज्ञाया विवेचयति, श्रोत्रसंज्ञाया विवेचयति, घ्राणसंज्ञाया विवेचयति, जिह्वासंज्ञाया विवेचयति, कायसंज्ञाया विवेचयति, मनःसंज्ञाया विवेचयति, चक्षुर्विज्ञानसंज्ञाया विवेचयति, चक्षुःसंस्पर्शसंज्ञाया विवेचयति, चक्षुःसंस्पर्शप्रत्ययवेदनासंज्ञाया विवेचयति, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानसंज्ञाया विवेचयति, मनःसंस्पर्शसंज्ञाया विवेचयति, मनःसंस्पर्शप्रत्ययवेदनासंज्ञाया विवेचयति, रूपसंज्ञाया विवेचयति, शब्दसंज्ञाया गन्धसंज्ञाया रससंज्ञायाः स्पर्शसंज्ञाया धर्मसंज्ञाया विवेचयति, पृथिवीधातुसंज्ञाया विवेचयति, अब्धातुसंज्ञाया विवेचयति, तेजोधातुसंज्ञाया विवेचयति, वायुधातुसंज्ञाया विवेचयति, आकाशधातुसंज्ञाया विवेचयति, विज्ञानधातुसंज्ञाया विवेचयति, स्कन्धसंज्ञाया विवेचयति, धातुसंज्ञाया विवेचयति, आयतनसंज्ञाया विवेचयति, प्रतीत्यसमुत्पादसंज्ञाया विवेचयति, प्रतीत्यसमुत्पन्नधर्मसंज्ञाया विवेचयति, प्रतीत्यसमुत्पादाङ्गसंज्ञाया विवेचयति, अविद्यासंज्ञाया विवेचयति, संस्कारसंज्ञाया विज्ञानसंज्ञाया नामरूपसंज्ञाया षडायतनसंज्ञायाः स्पर्शसंज्ञाया वेदनासंज्ञायास् तृष्णासंज्ञाया उपादानसंज्ञाया भवसंज्ञाया जातिसंज्ञाया जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायाससंज्ञाया विवेचयति, संस्कृतधातुसंज्ञाया विवेचयति, असंस्कृतधातुसंज्ञाया विवेचयति, असंस्कृते च धातौ प्रतिष्ठापयति, स चासंस्कृतो धातुः शून्यः. इति संस्कृतासंस्कृताव्यतिभेदपरिज्ञाननिवेशनकर्म
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: केन भगवन् न संस्कृतो धातुः शून्यः?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सत्त्वसंज्ञया सुभूते शून्यो यावद् असंस्कृतसंज्ञया, अपि तु खलु सुभूते यन् निर्मितो ऽन्यन् निर्मितं निर्मिणोति, कच्चित् तस्य तद् वस्त्व् अस्ति यन् न शून्यता?
SK
सुभूतिर् आह: नो भगवन् निर्मितस्य हि भगवन् न कच्चिद् वस्त्व् (PSP_६-८:१७८) अस्ति यन् न शून्यता, य च शून्यता यश् च निर्मितः, उभाव् एतौ धर्मौ, न संयुक्तौ न विसंयुक्तौ द्वाव् एतौ शून्यतया शून्यौ, तत् किं विनिगूहितम् इयं शून्यतायं निर्मितः. तत् कस्य हेतोः? तथा हि ताव् उभाव् अपि शून्यतायान् नोपलभ्यते, इयं शून्यतायं निर्मितः.
SK
भगवान् आह: नास्ति सुभूते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यश् च निर्मितो या च शून्यता उभयम् एतच् छून्यता.
SK
सुभूतिर् आह: यदि भगवन्न् इमे लौकिका धर्मा निर्मिता अपि नु इमे लोकोत्तरा धर्मा निर्मिताः? यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि, पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यानि, शून्यतानिमित्ताप्रणिहितानि, अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता पञ्चाभिज्ञा अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तयः सर्वसमाधयः सर्वधारणीमुखानि दशपारमिता दशबोधिसत्त्वभूमयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महाकरुणा, यच् च तेषां फलं येन ते पुद्गलाः प्रज्ञाप्यन्ते, श्रद्धानुसारी धर्मानुसार्य् अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वः तथागतो ऽर्हन् सम्यक्संबुद्धो ऽपि नु भगवन्न् इमे धर्मा निर्मिताः.
SK
भगवान् आह: यत्र पुनः सर्वधर्मा निर्मितास् तत्र कश्चिच् छ्रावकनिर्मितः, कश्चित् प्रत्येकबुद्धनिर्मितः, कश्चिद् बोधिसत्त्वनिर्मितः कश्चित् तथागतनिर्मितः, कश्चित् क्लेशनिर्मितः, कश्चित् कर्मनिर्मितो ऽनेन सुभूते पर्यायेण सर्वधर्मा निर्मितकोपमा अनानाकरणाः. सुभूतिर् आह: यत् पुनर् इदं भगवन् प्रहाणं स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबुद्धभूमिर् वा निर्मिता सर्ववासनानुसंधिप्रहाणम् अपि निर्मितम्?
SK
भगवान् आह: ये केचित् सुभूते धर्मा उत्पादिता वा निरोधिता वा सर्व एते निर्मिताः.
SK
सुभूतिर् आह: कतमो भगवन् धर्मो यो न निर्मितकः?
SK
भगवान् आह: यस्य नोत्पादो न निरोधः स धर्मो न निमितः. (PSP_६-८:१७९)
SK
सुभूतिर् आह: स पुनः कतमो भगवन्?
SK
भगवान् आह: असंमोषधर्मो न निर्मितः.
SK
सुभूतिर् आह: यत् पुनर् भगवतोक्तं शून्यतायाश् च न चलति, न च द्वये नोपलभ्यते, न च कश्चिद् धर्मो यो न शून्यस् तस्माद् भगवन् संमोषधर्मो निर्मितको भवेत्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते स्वभावेन शून्यास् ते न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न बोधिसत्त्वैर् महासत्त्वैः कृता न तथागतैः कृता, या च स्वभावशून्यता तन् निर्वाणम्.
SK
एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आदिकर्मिको भगवन् पुद्गलः कथम् अववदितव्यः? कथम् अनुशासितव्यो यत् स्वभावशून्यतां परिजानीयात्?
SK
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनः सुभूते पूर्वं भावो ऽभविष्यत् पश्चाद् अभावो भविष्यति? नात्र सुभूते भावो नाभावो न स्वभावो न परभावः, कुत एव स्वभावशून्यता भविष्यति? इति निर्वाणनिवेशनकर्म
SK
इत्य् उक्तानि कर्माणीत्य् उक्तो धर्मकायाभिसंबोधः
SK
इदम् अवोचद् भगवान् आत्तमनसो मैत्रेयप्रमुखा बोधिसत्त्वा महासत्त्वाः, आयुष्मांश् च सुभूतिर् आयुष्मांश् च शारिपुत्र आयुष्मांश् चानन्दः, शक्रश् च देवानाम् इन्द्रः सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति.
SK
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यानि प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां धर्मकायाधिकारः शिक्षापरिवर्तो नामाष्टमः समाप्त इति
SK
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत्, तेषाञ् च यो निरोध एवंवादी महाश्रमणः.
SK
ॐ गते २ पारगते पारसंगते बोधि स्वाहा.

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1-8 (sa_paJcaviMzatisAhasrikA-prajJApAramitA1-8.htm).

Source