Compendium of Abhidharma Abhidharmasamuccaya
Aभिधर्मसमुच्चय
3 SK [अथ मूलवस्तुनि त्रिधर्मपरिच्छेदः प्रथमः /]
4 SK त्रिधर्मः संग्रहः संप्रयोगो ऽन्वयश्च लक्षणे / विनिश्चये सत्यधर्मौ प्राप्तिः सांकथ्यमेव च //
5 SK कति कस्मादुपादानं व्यवस्थानं च लक्षणम् / अनुकमार्थदृष्टान्तभेदा ज्ञेयाः समुच्चये //
6 SK स्कन्धा धातव आयतनानि च कति / स्कन्धाः पञ्च / रूपस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्च // धातवो ऽष्टादश / चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर्घ्राणधातुर्गन्धधातुर्घ्राणविज्ञानधातुर्जिव्हाधातू रसधातुर्जिव्हाविज्ञानधातुः कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर्मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च // आयतनानि द्वदश / चक्षुरायतनं रूपायतनं श्रोत्रायतनं शब्दायतनं घ्राणायतनं गन्धायतनं जिव्हायतनं रसायतनं कायायतनं स्प्रष्टव्यायतनं मनआयतनं धर्मायतनं च //
7 SK किमुपादाय स्कन्धाः पञ्चैव / पंचाकारात्मवस्तूद्भावनतामुपादाय / सपरिग्रहदेहात्मवस्तु उपभोगात्मवस्तु अभिलापात्मवस्तु सर्वधर्माधर्माभिसंस्कारात्मवस्तु (Aभिध्-स् २) तदाश्रयात्मस्वस्तु चोपादाय // किमुपादाय धातोवो ऽष्टादशैव / द्वाभ्यां देहपरिग्रहाभ्यामतीतवर्त्तमानषडाकारोपभोगधारणतामुपादाय // किमुपादायायतनानि द्वादशैव / द्वाभ्यां देहपरिग्रहाभ्यामनागतषडाकारोपभोगायद्वारतामुपादाय //
8 SK कस्मात् स्कन्धा उपादानमित्युच्यन्ते / उपादानेन सहितत्वात् स्कन्धा उपादानमि त्युच्यन्ते / उपादानं कतमत् / स्कन्धेषु च्छन्दो रागश्च / कस्मात् / ःच्छन्दो रागश्चोपादानमित्युच्यते / अनागतवर्त्तमानस्कन्धानामभिनिर्वर्त्तनतो ऽपरिहारतश्च / अनागते ऽभिलाषाद् वर्त्तमाने ऽधावसानाच्च च्छन्दो रागश्चोपादानमित्युच्यते / कस्माद् धातव आयतनानि च सोपादानधर्मा इत्युच्यन्ते / तत्र स्कन्धवन्निर्द्देशः //
9 SK किंलक्षणं रूपम् / रूपण लक्षणं रूपम् / तद् द्विविधम् / स्पर्शेन रूपणं प्रदेशेन रूपणं च / स्पर्शेन रूपणं कतमत् / करचरणपाषाणशस्रदण्डशीतोष्णक्षुत्पिपासामशकदंशसर्पवृश्चिकादीनां स्पर्शेन व्याबाधनम् / प्रदेशेन रूपणं कतमत् / देशेन रूपण मिदं चेदं च रूपमेवं चैवं च रूपमिति प्रणिहिताप्रणिहितचेतोवितर्केण प्रतिबिम्बचित्रीकारता // किंलक्षणा वेदना / अनुभवलक्षणा वेदना / नानाविधानां शुभशुभानां कर्मणां फलविपाकं प्रत्यनुभवन्त्यनेनेत्यनुभवः // किंलक्षणा संज्ञा / संजाननालक्षणा संज्ञा / संज्ञा नानाधर्मप्रतिबिम्बोद्ग्रहण (स्वभावा) यया द्रष्टश्रुतमतविज्ञातानर्थान् व्यवहरति // किंलक्षणः संस्कारः / अभिसंस्कारलक्षणः संस्कारः / संस्कारभिसंस्कार (स्वभावो) येन कुशलाकुशलाव्यकृतेषु पक्षेषु चित्तं प्रेरयति / किंलक्षणं (Aभिध्-स् ३) विज्ञानम् / विजाननालक्षणं विज्ञानम् / विज्ञानं येन रूपशब्दगन्धरसस्पर्शधर्मान् नाना विषयान् विजानाति //
10 SK चक्षुर्धातुः किंलक्षणः / येन चक्षुषा रूपाणि दृष्टवान् पश्यति यच्च तस्य बीजमुपचितमालयविज्ञानं तच्चक्षुः // यथा चक्षुर्धातुलक्षणं तथा श्रोत्रघ्राणजिह्यकायमनोधातूनामपि लक्षणानि / रूपधातुः किंलक्षणः / रूपं यच्चक्षुषा दृष्टं दृश्यते च यच्च तत्र चक्षुर्धातोराधिपत्यं तद्रूपधातु लक्षणम् / यथा रूपधातु लक्षणं तथा शब्दगन्धरसस्पर्शधर्मधातूनामपि लक्षणानि / चक्षूर्विज्ञानधातुः किंलक्षणः / चक्षुराश्रया रूपालम्बना रूपप्रतिविज्ञप्तिः यच्च तस्य बीजमुपचितं / विपाकालयविज्ञानं तच्चक्षुर्विज्ञानधातुलक्षणम् // यथा चक्षुर्विज्ञानधातुलक्षणं तथा श्रोत्रघ्राणजिव्हाकायमनोविज्ञानधातूनामपि लक्षणानि //
11 SK आयतनं किंलक्षणम् / धातुवद् यथायोगं वेदितव्यम् //
12 SK रूपस्कन्धव्यवस्थानं कतमत् / यत्किंचिद्रूपं सर्वं तच्चत्वारि महाभूतानि चत्वारि च महाभूतान्युपादाय // कतमानि चत्वारि महाभूतानि / पृथिवीधातुः अब्धातुः तेजोधातुः वायुधातुश्च // पृथिवीधातुः कतमः / कठिनता // अब्धातुः कतमः निष्यन्दता // तेजोधातुः कतमः / उष्णता // वायुधातुः कतमः / कम्पनता // उपादाय रूपं कतमत् / चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिव्हेन्द्रियं कायेन्द्रियं रूपशब्दगन्धरसस्प्रष्टव्यानामेकदेशो धर्मायतनसंगृहीतं च रूपम् // चक्षुरिन्द्रियं कतमत् / चत्वारि महाभूतान्युपादाय चक्षुविज्ञाना श्रयो रूपप्रसादः // श्रोत्रेन्द्रियं कतमत् / चत्वारि महाभूतान्युपादाय श्रोत्रविज्ञानाश्रयो रूपप्रसादः / घ्राणेन्द्रियं कतमत् / चत्वारि महाभूतान्युपादाय घ्राणविज्ञानाश्रयो रूपप्रसादः // जिव्हेन्द्रियं कतमत् / चत्वारि महभूतान्युपादाय जिव्हाविज्ञानश्रयो रूपप्रसादः // कायेन्द्रियं कतमत् / चत्वारि महाभूतान्युपादाय कायविज्ञानाश्रयो रूपप्रसादः // रूपं कतमत् / चत्वारि महाभूतान्युपादाय चक्षुरिन्द्रियगोचरो ऽर्थः / यथा नीलं पीतं लोहितमवदातं दीर्घं ह्रस्वं वृत्तं परिमण्डलं स्थूलं सूक्ष्ममुन्नतमवनतं सातं विसातमातपः छाया आलोको ऽधकारमभ्रं धूमो रजो महिका च / अभ्यवकाशरूपं विज्ञप्तिरूपं नभ एकवर्णं रूपम् // तत् (Aभिध्-स् ४) पुनस्त्रिधा / शोभनमशोभनमुभयविपरीतं च // शब्दः कतमः / चत्वारि महाभूतान्युपादाय श्रोत्रेन्द्रियब्राह्यो ऽर्थः / मनोज्ञो वा अमनोज्ञो वा उभयविपरीतो वा / उपात्तमहाभूतहेतुको वा अनुपात्तमहाभूतहेतुको वा तदुभयो बालोकप्रसिद्धो वा सिद्धोपनीतो वा परिकल्पितो वा आर्यैर्देशितो वा तीर्थैदशितो वा / गन्धः कतमः / चत्वारि महाभूतान्युपादाय घ्राणेन्द्रियग्राह्यो ऽर्थः / यथा सुरभिरसुरभिः समगन्धः सहजगन्धः सांयोगिकगन्धः पारिणामिकगन्धश्च // रसः कतम / चत्वारि महाभूताम्युपादाय जिव्हेन्द्रियब्राह्यो ऽर्थः / तिक्तो ऽम्लो मधुरः कटुको लवणः कषायश्च / मनोज्ञो वा अमनोज्ञो वा उभयविपरीतो वा सहजो वा सांयोगिको वा पारिणामिको वा // स्प्रष्टव्यैकदेशः कतमः / चत्वारि महाभूतान्युपादाय कायेन्द्रिय ग्राह्यो ऽर्थः / श्लक्ष्णत्वं कर्कशत्वं लघुत्वं गुरूत्वं पिच्छिलत्वं मन्दत्वममन्दत्वं शीतत्वमुष्णत्वं जिघत्सा पिपासा तृप्तिर्बलं दौर्बलयं मूर्च्छा कण्डूतिः पूतिर्व्याधिर्जरामरणं क्लान्तिर्विश्राम ऊर्जा च // धर्मायतनसंगृहीतं रूपं कतमत् / पञ्चविधम् / आभिसंक्षेपिकमाभ्यवकाशिंकं सामादानिकं परिकल्पितं वैभुत्विकं च /
13 SK वेदनास्कन्धव्यवस्थानं कतमत् / षड्वेदनाकायाः / चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिव्हाकायमनः संस्पर्शजा वेदना // एवं षड्वेदना कायाः सुखा वा दुःखा अदुःखासुखा वा // पुनः सुखा कायिकी वेदना दुःखा कायिकी वेदना अदुःखासुखा कायिकीवेदना सुखा चैतसिकी वेदना दुःखा चैतसिकी वेदना अदुःखासुखा चैतसिकी वेदना सुखा सामिषवेदना दुःखा सामिषवेदना अदुःखासुखा सामिषवेदना सुखा निरामिषवेदना दुःखा निरामिषवेदना अदुःखासुखा निरामिषवेदना पुनः सुखा ग्रेधाश्रितवेदना दुःखा ग्रेधाश्रितवेदना अदुःखासुखा ग्रेधाश्रितवेदना सुखा नैष्क्रम्याश्रितवेदना दुःखा नैष्क्रम्याश्रितवेदना अदुःखासुखा नैष्क्रम्यान्नितवेदना च // कायिकी वेदना कतमा / पंचविज्ञानसंप्रयुक्ता वेदना // चैतसिकी वेदना कतमा / मनोविज्ञानसंप्रयुक्ता वेदना / सामिषवेदना कतमा / (Aभिध्-स् ५) आत्मभावतृष्णासंप्रयुक्ता वेदना / निरामिषवेदना कतमा / तत्तृष्णाविप्रयुक्ता वेदना // ग्रेधाश्रितवेदना कतमा / पंचकामगुणतृष्णासंप्रयुक्ता वेदना // नैष्क्रम्याश्रितवेदना कतमा / तत्तृष्णाविप्रयुक्ता वेदना /
14 SK संज्ञास्कन्धव्यवस्थानं कतमत् / षट् संज्ञाकायाः / चक्षुःसंस्पर्शजा संज्ञा / श्रोत्रघ्राण / जिव्हाकायमनःसंस्पर्शजा संज्ञा यथा सनिमित्तम पि संजानाति अनिमित्तमपि परीत्तमपि महद्गत मप्यप्रमाणमपि नास्ति किंचिदित्याकिंचन्यायतनमपि संजानाति // सनिमित्तसंज्ञा कतमा / अव्यवहारकुशलस्यानिमित्तधातुसमा पन्नस्य भवाग्रसमापन्नस्य च संज्ञां स्थापयित्वा यावदन्या संज्ञा // अनिमित्तसंज्ञा कतमा / या स्थापिता संज्ञा // परीत्ता संज्ञा कतमा / यया कामधातुं संजानाति // महग्दता संज्ञा कतमा / यया रूपधातुं संजानाति // अप्रमाणसंज्ञा कतमा / यया आकाशान न्त्यायतनं विज्ञानानन्त्यायतनं संजानाति // अकिञ्चन संज्ञा कतमा / यया आकिञ्चन्यायतनं संजानाति //
15 SK संस्कारस्कन्धव्यवस्थानं कतमत् / षट् चेतनाकायाः / चक्षुःसंस्पर्शजा चेतना श्रोत्रघ्राणज्विहाकायमनःसंस्पर्शजा चेतना यया कुशलत्वाय चेतयते संक्लेशाय चेतयते अवस्थाभेदाय चेतयते इतीयं चेतना वेदनां संज्ञाच्च स्थापयित्वा तदन्ये चैतसिका धर्माश्चित्तविप्रयुक्ताश्च संस्काराः संस्कारस्कन्ध इत्युच्यते // ते पुनः कतमे / मनस्कारः स्पर्शः च्छन्दो ऽधिमोक्षः स्मृतिः समाधिः प्रज्ञाश्रद्धा हीरपत्राप्यमालोभो ऽद्वेषो ऽमोहोः वीर्यं प्रश्रब्धिरप्रमाद उपेक्षा अप्रिस्थिता रागः प्रतिघो मानो ऽविद्या विचिकित्सा सत्कायदृष्टिरन्तरग्राहदृष्टिर्दृष्टिपरामर्शः शीलवृतपरामर्शः मिथ्यादृष्टि क्रोध उपनाहः म्रक्षः प्रदाशः ईर्ष्याः मात्सर्यं शाठ्यं मदो विहिन्सा आह्रिक्यमनपत्राप्यं स्त्यानमौद्धत्यं आश्रद्ध्यं कौसीद्यं प्रमादो मुषितस्मृतितासंप्रजन्यं विक्षेपो मिद्धं कौकृत्यं वितर्को विचारश्च // चेतना (Aभिध्-स् ६) कतमा / चित्ताभिसंस्कारो मनस्कर्म / कुशलाकुशलाव्याकृतेषु चित्तप्रेरणकर्मिका // मनस्कारः कतमः / चेतस आभोगः / आलम्बनचित्त धारणकर्मकः // स्पर्शः कतमः / त्रिकसक्षिपाते इन्द्रियविपारपरिच्छेदः / वेदनासन्निश्रयदान कर्मकः // च्छन्दः कतमः / ईप्सिते वस्तुनि तत्तदुपसंहता कर्त्तृकामता / वीर्यादान सन्निश्रयदानकर्मकः // अधिमोक्षः कतमः / निश्चिते वस्तुनि यथानिश्चयं धारणा / असंहार्यताकर्मकः // स्मृति कतमा / संसृते वस्तुनि चेतसः असंप्रमोषो ऽविक्षेपकर्मिका // समाधिः कतमः / उपपरीक्ष्ये वस्तुनि वित्तस्यैकाग्रता / ज्ञानसन्निश्रयदानकर्मकः // प्रज्ञा कतमा / उपपरीक्ष्य एव वस्तुनि धर्माणां प्रविचयः / संशयव्यावर्त्तनकर्मिका // श्रद्धा कतमा / अस्तित्वगुणवत्त्वशक्तत्वेष्वभिसंप्रत्ययः प्रसादो ऽभिलापः / च्छन्दसक्षिश्रयदानकर्मिका / ह्रीः कतमा / स्वयमवद्येन लज्जना / दुश्चरितसंयमसन्निश्रयदानकर्मिका // अपत्राप्यं कतमत् / परतो ऽवद्येन लज्जना / तत्कर्मकमेव // अलोभः कतमः / भवे भवोपकरणेषु वा अनासक्तिः दुश्चरिताप्रवृत्तिसन्निश्रयदानकर्मकः / अद्वेषः कतमः / सत्त्वेषु दुःखे दुःख स्थानीयेषु च धर्मे ष्वनाघातः / दुश्चरिताप्रवृत्तिसन्निश्रयदानकर्मकः / अमोहः कतमः / विपाकतो वा आगमतो वाधिगमतो वा ज्ञानं प्रतिसंख्या / दुश्चरिताप्रवृत्तिसन्निश्रयदानकर्मकः / वीर्यं कतमत् / कुशले चेतसो ऽभ्युत्साहः सन्नाहे वा प्रयोगे वा अलीनत्वे वा अव्यावृत्तौ वा असन्तुष्टौ वा / कुशलपक्षपरिपूरणपरिनिष्पादनकर्मकम् // अश्रब्धिः कतमा / कायचित्तदौष्ठुल्यानां प्रतिप्रश्रब्धेः काय चित्तकर्मण्यता / सर्वावरणनिष्कर्षणकर्मिका // अम्रमादः कतमः / सवीर्यकानलोभाद्वेषामोहन्निश्रित्य या कुशलानां धर्माणाम्भावना सास्रवेभ्यश्च धर्मेभ्यश्चित्तारक्षा / स च लौकिकलोकोत्तरसम्पत्ति परिपूरणपरिनिष्पादनकर्मकः // उपेक्षा कतमा / सवीर्यकानलोभाद्वेषामोहान्निश्रित्य या संक्लिष्टविहारवैरोधिकी चित्तसमता चित्तप्रशठता चित्तस्यानाभोगावस्थितता / संक्लेशानवकाशसन्निश्रयदानकर्मिका // अविहिन्सा कतमा / (Aभिध्-स् ७) अद्वेषां शिका करूणता / अविहेठनकर्मिका // रागः कतमः त्रैधातुको ऽनुनयः / दुःखसंजननकर्मकः // प्रतिघः कतमः / सत्त्वेषु दुःखे दुःखस्थानीयेषु च धर्मेष्वाघातः / अस्पर्शविहारदुश्चरितसन्निश्रयदानकर्मकः // मानः कतमः / सत्कायदृष्टिसन्निश्रयेण चित्तस्योन्नतिः / अगौरवदुःखोत्पत्ति सन्निश्रयदानकर्मकः // अविद्या कतमा / त्रैधातुकमज्ञानम् / धर्मेषु मिथ्यानिश्चयविचिकित्सात्संक्लेशोत्पत्तिसन्निश्रयदानकर्मिका // बिचिकित्सा कतमा / सत्येषु विमतिः / कुशलपक्षाप्रवृत्ति सन्निश्रयदानकर्मिका // सत्कायदृष्टिः कतमा / पञ्चोपादानस्कन्धानात्मतः आत्मीयतो वा समनुपश्यतो या क्षान्ती रूचिर्मतिः प्रेक्षा दृष्टिः / सर्वदृष्टिगतसन्निश्रयदानकर्मिका // अन्तग्राहदृष्टिः कतमा / पञ्चोपादानस्कन्धान् शाश्व(त)तो वा उच्छेदतो वा समनुपश्यतः या क्षान्ती रुचिर्मतिः प्रेक्षा दृष्टिः / मध्यमा प्रतिपन्निर्याणपरिपन्थकर्मिका // दृष्टिपरामर्शः कतमः / दृष्टिं दृष्टयाश्रयांश्च पञ्चोपादानस्कन्धानग्रतः श्रेष्ठतो विशिष्टतः परमतश्च समनुपश्यतो या क्षान्ति रुचिर्मतिः प्रेक्षा दृष्टि / असदृष्ट्यमिनिवेशसन्निश्रयदानकर्मकः // शीलवतपरामर्थः कतमः / शीलं व्रतं शीलव्रता(श्रयां)श्च पञ्चोपादानस्कन्धान् शुद्धितो मुक्तितो नैर्याणिकतश्च समनुपश्यतो या क्षान्ती रूचिर्मतिः प्रेक्षा दृष्टिः / श्रमवैफल्यसन्निश्रयदानकर्मकः // मिथ्यादृष्टिः कतमा / हेतुं वापवदतः फलं वा क्रियां वा सद्वा वस्तु नाशयतः मिथ्या च विकल्पयतो या क्षान्ति रुचिर्मतिः प्रेक्षा दृष्टिः / कुशलमूलसमुच्छेदकर्मिका / अकुशलमूलदृढतासन्निश्रयदानकर्मिका / अकुशले प्रवृत्तिकर्मिका कुशलेचाप्रवृत्तिकर्मिका वा //
16 SK या एताः पञ्च दृष्टयः आसां कति समारोपदृष्टयः कत्यपवाद्दृष्टयः / चतस्रः समारोपदृष्टयः ज्ञेये स्वभावविशेषसमारोपतामुपादाय दृष्टौ चाग्रशुद्धिसमारोपतामुपादाय / एका यद्भूयसा अपवाददृष्टिः / याश्च पुर्वान्तकल्पिका दृष्टयः याश्चपरान्तकल्पिका (Aभिध्-स् ८) दृष्टयः ताः कतिभ्यो दृष्टिभ्यो वेदितव्याः / द्वाभ्यां सर्वाभ्यो वा / या अव्याकृतचस्तुषु दृष्टयस्ताः कतिभ्यो दृष्टिभ्यो वेदितव्याः / द्वाभ्यां सर्वाभ्यो वा / कं दोषं पश्यता भगवता स्कन्धधात्वायतनेगु पञ्चमिः कारणैरात्मा प्रतिक्षिप्तः सत्कायदृष्टिपरिगृहीतान् पञ्च दोषान् पश्यता विलक्षणतादोषं अनित्यतादोषं अस्वास्थ्य दोषं निर्देहतादोषं अयत्नतो मोक्षदोषं च // या पञ्चसूपादानस्कधेषु विंशतिकोटिका सत्कायदृष्टिः रूप[मा]त्मेति समनुपश्यति रूपवन्तमात्मानमात्मीयं (रूपं) रूपे आत्मानं वेदनां संज्ञां संस्कारान् विज्ञानमात्मेति समनुपश्यति विज्ञानवन्तमात्मानमात्मीयं विज्ञानं विज्ञाने आत्मानं तत्र कत्यात्मदृष्टयः कत्यात्मीयदृष्टयः पञ्चात्मदृष्टयः पञ्चदशात्मीयदृष्टयः // केन कारणेन पञ्च [दशा]त्मीयदृष्टयः / सम्बन्धात्मीयतामुपादाय वशवर्त्तनात्मीयतामुपादाय अविनिर्भोगवृत्त्यात्मीयतां चोपादाय / सत्कायदृष्टिर्निरूपितवस्तुका वक्तव्या अनिरुपितवस्तुका वक्तव्या / अनिरूपितवस्तु(का) वक्तव्या रज्ज्वां सर्पबुद्धिवत् /
17 SK क्रोधः कतमः / प्रत्युपस्थिते अपकारनिमित्ते प्रति[घां] शिकश्चेतस आघातः / शस्त्रादानं दण्डादानादिसंरम्भसन्निश्रयदानकर्मकः / उपनोहः कतमः तत ऊर्ध्वं प्रतिघांशिक एव वैराशयस्यानुत्सर्गः / अक्षान्तिसन्निश्रयदानकर्मकः / मक्षः कतमः / सम्यक् चोदितस्य मोहांशिका अवद्यप्रच्छादना / कौकृत्यास्पर्श विहारसन्निश्रयदानकर्मकः / मदाशः कतमः / प्रतिघांशिकः क्रोधोपनाहपूर्वङ्गमश्चेतस आघातः / उच्चप्रगाढपारुष्यवचनसन्निश्रयदान कर्मकः अपुण्यप्रसवकर्मकः अस्पर्शविहारकर्मकश्च // ईर्ष्या कतमा / लाभसत्कारा ध्यवसितस्य परसंपत्तिविशेषे द्वेषांशिकः अ[मर्ष] कृतश्चेतसो व्यारोपः / दौर्मनस्यास्पर्शविहारकर्मकः / मात्सर्यं कतमत् / लाभसत्काराध्यवसितस्य परिष्कारेषु रागांशिश्चेतस आग्रहः / असंलेखसन्निश्रयदानकर्मकम् // माया कतमा / लाभसत्काराध्यवसितस्य रागमोहांशिका अभूतगुणसंदर्शना / मिथ्याजीवसन्निश्रयदानकर्मिका // शाठ्यं क[तमत्] / लाभसत्काराध्यवसितस्य (Aभिध्-स् ९) रागमोहांशिका भूतदोषविमालना / सम्यगववादलाभपरिपन्थकरम् // मदः कतमः / आरोग्यं वा आगम्य यौवनं वा दीर्घायुष्कलक्षणं वोपलभ्यन्यतमान्यतमां वा सास्रवां संपत्तिं रागांशिकन्नन्दीसौमनस्यम् / सर्व्वक्लेशोपक्लेशसन्निश्रयदानकर्मकः // विहिन्सा कतमा / प्रति[घांशि]का निर्वृणता निष्करणता निर्दयता / विहेठनकर्मिका // आह्रीक्यं कतमत् / रागद्वेषमोहांशिका स्वयमवद्येनालज्जना / सर्व्वक्लेशोपक्लेशसाहाय्यकर्मकम् // अनपत्राप्यं कतमत् / रागद्वेषमोहांशिका परतो ऽवद्येनलज्जना / सर्व्वक्लेशोपक्लेशसाहाय्यकर्मकम् //
0 SK स्त्यानं कतमत् / मोहांशिका चित्ताकर्मण्यता / सर्वक्लेशोपक्लेशसाहाय्यकर्मकम् // औद्धत्य कतमत् / शुभनिमित्तमनुसरतो रागांशिकश्चेतसो ऽव्युपशमः / शमथपरिपन्थकर्मकम् // आश्रदुध्वं कतमत् / मोहांशिकः कुशलेषु धर्मेषु चेतसो ऽनभिसंप्रत्ययो ऽप्रसादो ऽनभिलाषः / कौसीद्यसन्निश्रयदानकर्मकम् // कौसीद्यं कतमत् / निद्रापार्श्वशयन सुखल्लिकामागम्य मोहांशिकश्चेतसो ऽनभ्युत्साहः / कुशलपक्षप्रयोगपरिपन्थकर्मकम् // प्रमोदः कतमः / सकौसीद्यान् रागद्वेषमोहान्निश्रित्य कुशलानां धर्माणामभावना सास्रवेभ्यश्च धर्मेभ्यश्चेतसो ऽनारक्षा / अकुशलवृद्धिकुशलपरिहाणिसन्निश्रयदानकर्मकः // मुषितस्मृतिता कतमा / क्लेश संप्रयुक्ता स्मृतिः / विक्षेपसन्निश्रयदानकर्मिका // असंप्रजन्यं कतमत् / क्लेशसंप्रयुक्ता प्रज्ञा यया असंविदिता कायवाक्चित्तचर्या प्रवर्तते / आपत्तिसन्निश्रयदानकर्मकम् // विक्षेपः कतमः / रागद्वेषमोहांशिकश्चेतसो विसारः / स पुनः स्वभावविक्षेपः बहिर्धाविक्षेपः अध्यात्मविक्षेपः निमि(त्त) विक्षेपः दौष्ठुल्यविक्षेपः मनसिकारविक्षेपश्च / स्वभावविक्षिपः कतमः / पञ्च विज्ञान कायाः // बहिर्धा विक्षेप कतमः / कुशलप्रयुक्तस्य पंचसु कामगुणेषु चेतसो विसारः // अध्यात्मविक्षेपः कतमः / कुशलप्रयुक्तस्य लयौद्धत्यास्वादना / निमित्तविक्षेप कतमः / परसंभावनां पुरस्कृत्य (Aभिध्-स् १०) कुशलप्रयोगः // हौष्ठुल्यविक्षेपः कतमः / अहंकारममकारास्मिमानपक्ष्यं दौष्ठुल्यमागन्य कुशलप्रयुक्तस्योत्पन्नोत्पन्नेषु वेदितेष्वहमिति वा ममेति वा अस्मीति वा उद्ग्रहो व्यवकिरणा निमित्तीकारः // मनसिकारविक्षेपः कतमः / समपत्त्यन्तरं वा यानान्तरं वा समापद्यमानस्य संश्रयतो वा यो विसारः / वैराग्यपरि पन्थकर्मकः मिद्धं कतमत् / मिद्धनिमित्तमागम्य मोहांशिकश्चेतसो ऽभिसंक्षेपः कुशलः अकुशलः अव्याकृतः काले वा अकाले वा युक्तो वा अयुक्तो वा / कृत्याविपत्तिसन्निश्रयदानकर्मकम् // कौकृत्यं कतमत् / यदभिप्रेतानभिप्रेतं कारणाकारणामागम्य मोहांशिकश्चेतसो विप्रतिसारः / कुशलमकुशलमव्याकृतं काले अकाले युक्तमयुक्तञ्च // चित्तस्थितिपरिपन्थकर्मकः // वितर्कः कतमः / चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पः / सा च चित्तस्यौदारिकता // विचारः कतमः / चेतनां वा निश्रित्य प्रज्ञां वा प्रत्यवेक्षको मनोजल्पः / स च चित्तस्य सूक्ष्मता / स्पर्शास्पर्शविहारसंनिश्रयदानकर्मकौ / अपि खलु कुशलानां धर्माणां स्वविपक्षप्रहाणं कर्म / क्लेशोपक्लेशानां स्वप्रतिपक्षपरिपन्थनं कर्म
0 SK चित्त विप्रयुक्ताः संस्काराः कतमे / प्राप्तिरसंज्ञिसमापत्तिनिरोधसमापत्तिरासंज्ञिकं जीवितेन्द्रियं निकायसभागता जातिर्जरा स्थितिरनित्यता नामकायाः पदकायाः व्यञ्जनकायाः पृथग्जनत्वं प्रवृत्तिः प्रतिनियमो योगः जवो ऽनुक्रमः कालो देशः संख्या सामग्री च // प्राप्तिः कतमा / कुशलकुशलांनां धर्माणामाचयापचये प्राप्तिः प्रतिलग्भः समन्वागम इति प्रज्ञप्तिः // असंज्ञिसमापत्तिः कतमा / शुभकृत्स्नवीतरागस्योपर्यवीतरागस्य निःसरणसंज्ञापूर्वकेण मनसिकारेणास्थावराणां चित्तचैतसिकानां धर्माणां निरोधे असंज्ञिसमापत्तिरिति प्रज्ञप्तिः // निरोधसमापत्तिः कतमा / आकिंचन्यायतनवीतरागस्य भवाग्रादुच्चलितस्य शान्तविहारसंज्ञापूर्वकेण (Aभिध्-स् ११) मनसिकारेणास्थावराणां चित्तचैतसिकानां धर्माणां निरोधे निरोधसमापत्तिरिति प्रज्ञप्तिः // आसंज्ञिकं कतमत् / असंज्ञिसत्त्वेषुदेवेषूपपन्नस्यास्थावराणां चित्तचैतसिकानां धर्माणां निरोधे आसंज्ञिकप्रिति प्रज्ञप्तिः // जीवितेन्द्रियं कतमत् / निकायसभागे पूर्वकर्माविद्धे स्थितिकालनियमे आयुरिति प्रज्ञप्तिः // निकायसभागः कतमः / तेषां तेषां सत्त्वानां तस्मिं स्तस्मिन् सत्त्वनिकाये आत्मभावसदृशतायां निकायसभाग इति प्रज्ञप्तिः // जातिः कतमा / निकायसभागे संस्काराणामभूत्वाभावे जातिरिति प्रज्ञप्तिः // जरा कतमा / निकायसभामे संस्काराणां प्रबन्धान्यथात्वे जरेति प्रज्ञप्तिः // स्थितिः कतमा / निकायसभागे प्रबन्धाविप्रणाशे स्थितिरिति प्रज्ञप्तिः // अनित्यता कतमा / निकायसभागे संस्काराणां प्रबन्धविनाशे अनित्यतेति प्रज्ञप्तिः // नामकायाः कतमे / धर्माणां स्वभावाधिवचने नामकाया इति प्रज्ञप्तिः // पदकायाः कतमे / धर्माणां विशेषाधिवचने पदकाया इति प्रज्ञप्तिः // व्यञ्जनकायाः कतमेः तदुभयाश्रयेष्वक्षरेषु व्यञ्जनकाया इति प्रज्ञप्तिः / तदुभयाभिव्यञ्जनतामुपादाय / वर्णो ऽपि सः / अर्थसंवर्णनतामुपादाय / अक्षरे पुनः पर्यायाक्षरणतामुपादाय // पृथग्जनत्वं कतमत् / आर्यधर्माणामप्रतिलाभे पृथग्जनत्वमिति प्रज्ञप्तिः // प्रवृत्तिः कतमा / हेतुफल प्रबन्धानुपच्छेदे प्रवृत्तिरिति प्रज्ञप्तिः / प्रतिनियमः कतमः / हेतुफलनानात्वे प्रतिनियम इति प्रज्ञप्तिः // योगः कतमः / हेतुफलानुरूप्ये योग इति प्रज्ञप्तिः // जवः कतमः / हेतुफलाशुप्रवृत्तौ जव इति प्रज्ञप्तिः // अनुक्रमः कतमः / हेतुफलैकत्ये प्रवृत्तौ अनुक्रम इति प्रज्ञप्तिः // कालः कतमः / हेतुफलप्रबन्धप्रवृत्तौ काल इति प्रज्ञप्तिः // देशः कतमः / पूर्वदक्षिणपश्चिमोत्तरा धरोर्ध्वासु सर्वतो दशसु दिक्षु हेतुफल एव देश इति प्रज्ञप्तिः // संख्या कतमा / संस्काराणां प्रत्येकशो भेदे संख्येति प्रज्ञप्तिः // सामग्री कतमा / हेतुफलप्रत्ययसमवधाने सामग्रीति प्रज्ञप्तिः
20 SK विज्ञानस्कन्धव्यवस्थानं कतमत् / यच्चित्तं मनोविज्ञानमपि / तत्र (Aभिध्-स् १२) चित्तं कतमत् / स्कन्धधात्वायतनवासनापरिभावितं सर्ववीजकमालयविज्ञानं विपाकविज्ञानमादानविज्ञानमपि तत् / तद्वासनाचिततामुपादाय // मनः कतमत् / यन्नित्यकालम्मन्यनात्माकमालयविज्ञानं चतुर्भिः क्लेशैः संप्रयुक्तमात्मदृष्ट्यात्मस्नेहेनास्मिमानेनाविद्यया च / तच्च सर्वत्रगं कुशले ऽप्यकुशले ऽप्यव्याकृते ऽपि स्थापयित्वा मार्गसभ्मुखीभावं निरोधसमापत्तिमशैक्ष भूमिं च यच्च षण्णां विज्ञानानां समनन्तरनिरुद्धं विज्ञानम् // विज्ञानं कतमत् / षड् विज्ञानकायाः / चक्षुर्विज्ञानं श्रोत्रघ्राणजिव्हाकायमनोविज्ञानम् / चक्षुर्विज्ञानं कतमत् / चक्षुराश्रया रूपालम्बना प्रति विज्ञप्तिः // श्रोत्रविज्ञानं कतमत् / श्रोत्राश्रया शब्दालम्बना प्रतिविज्ञप्तिः // घ्राणविज्ञानं कतमत् / घ्राणाश्रया गन्धालम्बना प्रतिबिज्ञप्तिः / जिल्हाविज्ञानं कतमत् / जिव्हाश्रया रसालम्बना प्रतिविज्ञप्तिः // कायविज्ञानं कतमत् / कायाश्रया स्प्रष्टव्यालम्बना प्रतिविज्ञप्तिः // मनोविज्ञानं कतमत् / मनआश्रया धर्मालम्बना प्रतिविज्ञप्तिः //
21 SK धातुव्यवस्थानं कतमत् / रूपस्कन्धा एव दश धातवः / चक्षुर्धातुः रूपधातुः श्रोत्रधातुः शब्दधातुः घ्राणधातुः गन्धधातुः जिव्हाधातुः रसधातुः कायधातुः स्प्रष्टव्यधातुः मनो धात्वेकदेशश्च // वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धश्च धर्मधात्वेकदेशः / विज्ञानस्कन्ध एच सप्त विज्ञानघातवः / चक्षुरादयः षड् विज्ञानधातवो मनोधातुश्च // धर्मधातौ स्कन्धैरसंगृहीतं कतमत् / धर्मधातावसंस्कृता धर्माः / ते ऽसंस्कृताधर्माः पुनरष्टधा / कुशलधर्मतथता अकुशलधर्मतथता अव्याकृतधर्मतथता आकाशम् अप्रतिसंख्या निरोधः प्रतिसंख्यानिरोधः आनिंज्यं संज्ञावेदयितनिरोधश्च // कुशलधर्मतथता कतमा / नैरात्म्यम् / सा पुनरुच्यते शून्यता अनिमित्तं भूतकोटिः परमार्थो धर्माधातुश्च // किमुपादाय तथता तथतोच्यते / अनन्ययाभावतामुपादाय / किमुपादाय तथता नैरात्म्यमुच्यते / द्विविधात्मविप्रयुक्ततामुपादाय / किमुपादाय तथता शून्यतोच्यते / सर्वसंक्लेशाप्रचारतामुपादाय / (Aभिध्-स् १३) किमुपादाय तथता अनिमित्तमुच्यते / सर्वनिमित्तोपशमतामुपादाय / किमुपादाय तथता भूतकाटिरुच्यते / अविपर्यासालम्बनतामुपादाय / किमुपादाय तथता परमार्थ उच्यते / परमार्थज्ञानगोचरस्थानतामुपादाय / किमुपादाय तथता धर्मधातुरुच्यते / सर्वेषां श्रावकाणां प्रत्येकबुद्धानां च बुद्ध धर्मनिमित्ताश्रयतामुपादाय // यथा कुशललधर्मतथता तथा अकुशलधर्मतथता अव्याकृत धर्मतथता च ज्ञेया // आकाशं कतमत् / रूपाभावः सर्वकृत्यावकाशतामुपादाय // अप्रतिसंख्यानिरोधः कतमः / यो निरोधो न विसंयोगः // प्रतिसंख्यानिरोधः कतमः / यो निरोधो विसंयोगः // आनिज्यं कतमत् / शुभकृत्स्नवीतरागस्योपर्यवीतरागस्य सुखनिरोधः // संज्ञावेदयितनिरोधः कतमः / आकिंचन्यायतनवीतरागस्य भावाग्रादुच्चलितस्य शान्तविहारसंज्ञामनसिकारपूर्वकेण अस्थावराणां चित्तचैतसिकानां धर्माणां तदेकत्यानां च स्थावराणां निरोधः // पंचरूपाणि वेदनासंज्ञासंस्कारस्कन्धाः ते ऽष्टौ असंस्कृता धर्माश्चैवं ते षोडश धर्मधातव उच्यन्ते /
22 SK आयतनव्यवस्थानं कतमत् / दश रूपधातव एव दश रूपायतनानि / सप्त विज्ञानधातव एव मनआयतुनम् / धर्मधातुर्धर्मायतनम् // अनेने नयेन स्कन्धधात्वायतनानि त्रिषु धर्मेषु संगृहीतानि भवन्ति / रूपस्कन्धो धर्मधातुर्मनआयतनं च //
23 SK यदुक्तं चक्षुश्च चक्षुर्धातुश्चेति / किं स्याच्चक्षुश्च चक्षुर्धातुश्च / आहोस्वित् स्याच्चक्षुर्धातुश्च चक्षुश्च / स्याच्चक्षुर्न चक्षुर्धातुः / यथा अर्हतश्चरमं चक्षुः / स्याच्चक्षर्धातु र्न चक्षुः / यथा अण्डे वा कलले वा अर्वुदे वा पेश्यां वा मातुःकुक्षौ वालब्धं चक्षुर्लब्धं वा नष्टम् / आरूप्येषूपपन्नस्य पृथग्जनस्य वा यश्चक्षुर्हेतुः / स्याच्चक्षुश्चक्षुर्धातुश्च / शिष्टास्ववस्थाषु / न स्याच्चक्षुर्न चक्षुर्धातुश्च / निरुपाधिशेषनिर्वाणधातुसमापन्नस्य आरूप्येषूपपन्नस्यार्यस्य वा // यथा चक्षुश्य चक्षुर्धातुश्च तथा श्रोत्रघ्राणजिव्हाकाय धातवो यथायोग्यं वेदितव्याः // किं स्यान्मनो ऽपि मनोधातुरपि अहोस्वित् स्यान्मनोधातुरपि मनो ऽपि / स्यान्मनो (Aभिध्-स् १४) न मनोधातुः / यथा अर्हतश्चरमं मनः / स्यान्मनोधातुर्न मनः / यथा निरोधसमापन्नस्य यो मनोहेतुः / स्यान्मनो ऽपि मनोधातुरपि / शिष्टास्ववस्थासु / न स्यान्मनो ऽपि मनोधातुरपि / यथा निरूपाधिशेषनिर्वाणधातुसमापन्नस्य /
24 SK तद्भूमावुत्पन्नः किं तद्भूमिकेन चक्षुषा तद्भूमिकानि रूपाणि पश्यति / तद्भूमिकेन चक्षुषा तद्भूमिकानि रूपाणि पश्यति, अन्यभूमिकेनापि / कामधातावपपन्नः मावचरेण चक्षुषा कामावचराणि रूपाणि पश्यति / रूपावचरेणोर्ध्वभूमिकेअन चक्षुषा अधरभूमिकान्यपि रूपाणि पश्यति / यथा चक्षुषा रूपाणि प्रतिगृण्हाति तथ श्रोत्रेण शब्दं प्रतिगृण्हाति / यथा कामधातावुत्पन्नस्तथा रूपधातावुत्पन्नः कामावचरेण घ्राणेन जिव्हया कायेन चा कामावचरान् गन्धान् जिघ्रति रसानास्वादने स्पर्शान् बुध्यति च // रूपधातावुत्पन्नो रूपावचरेण कायेन स्वभूमिकान् स्पर्शान् बुध्यति / तस्मिन् धातौ स्वभावतो न गन्धरसौ / विज्ञप्त्याहाररागविरहात् / अनेन नयेन न घ्राणजिव्हयो र्विज्ञानम् / कामधातावुत्पन्नः कामावचरेण मनसा त्रैधातुकाननास्रवांश्च धर्मान विजानाति // यधा कामधातावुत्पन्नस्तथा रूपधातावुत्पन्नः // आरूप्यधातावुत्पन्न आरूप्यावचरेण मनसा आरूप्यावचरान् स्वभूमिकाननास्रवांश्च धर्मान् विजानाति / अनास्रवेण मनसा त्रैधातुकाननास्रवांश्च धर्मान् विजानाति //
25 SK किमुपादाय स्कन्धानां तथानुक्रमः / विज्ञानाधिष्ठानतामुपादाय // चत्वारि विज्ञानाधिष्ठानानि विज्ञानानि च पूर्वापराश्रितानि / यथा रूपं तथा भवः / यथा वेदयते तथा संजानीते / यथा संजानीते तथा चेतयते / यथा चेतयते तथा विज्ञानं तत्र तत्रोपगं भवति / संक्लेशव्यवदानतः / यत्र संक्लिश्यते व्यवदायते च / वेदनानिमित्तग्रहणाभिसंस्कारेण संक्लेशव्यवदानाभ्यां च संक्लिश्यते व्यवदायते च / अनेन नयेन स्कन्धानामुक्रमो निर्दिश्यते /
26 SK कथं धातूनां तथानुक्रमः / लौकिक वस्तु विकल्पप्रवृत्तिता मुपादाय // कतमा लौकिकी वस्तुविकल्पप्रवृत्तिः / लोके प्रथमं पश्यति / दृष्ट्वा (Aभिध्-स् १५) व्यतिसारयति / व्यतिसार्य स्नापितं गन्धं माल्यं च परिचरति / ततो नानाविधं प्रणीतं भोजनं परिचरति / ततो ऽनेकशय्यासनदासीपरिकान् परिचरति / अपरतो मनोधातोरपि तेषु तेषु विकल्पः // एवं च अध्यात्मधातोरनुक्रमेण बहिर्धाधातोर्व्यवस्थानम् / तदनुक्रमेण विज्ञानधातोर्व्यवस्थानम् // यथा धातूनामनुक्रम आयतनानामपि तद्वत् //
27 SK स्कन्धार्थः कतमः / यत् किंचिद्रूपम् / अतीतमनागतं प्रत्युत्पन्नमध्यात्मं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे यद्वान्तिके तत्सर्वमभिसंक्षिप्योच्यते रूपस्कन्धः राश्यर्थमुपादय / यथा वित्तराशिः / एवं यावत् विज्ञानस्कन्धम् // आपिच दुःखवैपुल्य लक्षणतामुपादाय स्कन्ध उच्यते / यथामहावृक्षस्कन्धः / यदुक्तं सूत्रे / यथा ऐकान्तिकमहादुःखसमुदयतः // अपि च संक्लेशतो भारवहनतामुपादाय स्कन्ध उच्यते / यथा स्कन्धेन भारमुद्वहति /
28 SK धात्वर्थः कतमः / सर्वधर्मवीजार्थः / स्वलक्षणधारणार्थः / कार्यकारण भावधारणार्थः / सर्वप्रकारधर्मसंग्र हधारणार्थञ्च /
29 SK आयतनार्थः कतमः / विज्ञानायद्वारार्थ आयतनार्थः / यथा बुद्धेन भाषितम् रूपं बुद्बुदोपमं वेदना फेनोपमा संज्ञा मरीचिकोपमा संस्काराः पर्णो पमा विज्ञानं मायोपममिति / किमर्थं रूपं बुद्बुदोपमं यावद् विज्ञानं मायोपममिति / अनात्मतो ऽशुचितो हीनरसतो ऽदृढतो ऽसारतश्च /
30 SK (अथमूलवस्तुनि त्रिधर्मपरिच्छेदे प्रथमे द्वितीयो भागः /)
31 SK पुनः स्कन्धधात्वायतनानां विकल्पाः कतमे / तथाचोदानम् /
32 SK द्रव्यमन्तो ज्ञेयरूपाण्यास्रवोत्पन्नकादि च अतीताः प्रत्ययाश्चैव कथं कति किमर्थिभिः //
33 SK स्कन्धधात्वायतनेषु कथं द्रव्यमत् कति द्वयमन्ति किमर्थं द्रव्यमत्परीक्षा / अभिलापनिरपेक्षस्तदन्यनिरपेक्षश्चेन्द्रियगोचरो द्रव्यमत् / सर्वं द्रव्यमत् / आत्मद्रव्या भिनिवेशत्याजनार्थम् // कथं प्रज्ञप्तिमत् / कति प्रज्ञप्तिमन्ति किमर्थं प्रज्ञप्तिमत्परीक्षा / अभिलापसापेक्षस्तदन्यसापेक्षश्चेन्द्रियगोचरः प्रज्ञप्तिमत् / सर्वं प्रज्ञप्तिमत् / प्रज्ञप्तिमदात्मा भिनिवेशत्याजनार्थम् / कथं संवृतिमत् / कति संवृतिमन्ति / किमर्थं संवृतिमत्परीक्षा / संक्लेशालम्बनं संवृतिमत् / सर्वं संवृतिमत् / संक्लेशनिमित्तात्माभिनिवेशत्यजनार्थम् // कथं परमार्थसत् / कति परमार्थसन्ति / किमर्थं परमार्थसत्परीक्षा / व्यवदानालम्बनं परमार्थसत् / सर्वं परमार्थसत् / व्यवदाननिमित्तात्माभिनिवेशत्याजनार्थम् //
34 SK कथं ज्ञेयं कति ज्ञेयानि किमर्थं ज्ञेयपरीक्षा / ज्ञेयानि पंच / रूपं चित्तं चैतसिका धर्माश्चित्तविप्रयुक्ताः संस्कारा असंस्कृतं च / यत्र संक्लेशो व्यवदानं वयत् संक्लिश्यते व्यवदायते वा यश्च संक्लेशयति व्यवदाययति वा या च तत्रावस्था या च व्यवदानता तदाश्रयेण सर्वं ज्ञेयम् // तत्र रूपं रूपस्कन्धो दशरूपधातवो दश रूपायतनानि धर्मधात्वायतनसंगृहीतानि च रूपाणि // चित्तं विज्ञानस्कन्धः सप्तविज्ञानधातवो मनआयतनं च // चैतसिका धर्मा वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो धर्मधात्वायतनैकदेशश्च / चित्तविप्रयुक्ताः संस्काराः चित्त विप्रयुक्तः संस्कारस्कन्धो धर्मधात्वायतनैकदेशश्च // असंस्कृतं धर्मधात्वायतनैकदेशः // अपि खलु ज्ञेया धर्माः अधिमुक्तिज्ञानगोचरतो ऽपि युक्तिज्ञानगोचरतो ऽपि अविसारज्ञानगोचरतो ऽपि प्रत्यात्मज्ञानगोचरतो ऽपि परात्मज्ञानगोचरतो ऽपि अधरज्ञानगोचरतो ऽपि ऊर्ध्वज्ञानगोचरतो ऽपि विदूषणज्ञानगोचरतो ऽपि (अ)समुत्थानज्ञानगोचरतो ऽपि अनुत्पादज्ञानगोचरतो ऽपि ज्ञानज्ञानगोचरतो ऽपि निष्ठाज्ञानगोचरतो ऽपि महार्थज्ञानगोचरतो ऽपि / जानकपश्यकात्माभिनिवेशत्माजनार्थम् // (Aभिध्-स् १७) कथं विज्ञेयं कति विज्ञेयानि किमर्थं विज्ञेयपरीक्षा / अविकल्पनतो ऽपि विकल्पनतो ऽपि हेतुतो ऽपि प्रवृत्तितो ऽपि निमित्ततो ऽपि नैमित्तकतो ऽपि विपक्षप्रतिपक्षतो ऽपि सूक्ष्मप्रभेदतो ऽपि विज्ञेयं द्रष्टव्यम् / सर्वाणि विज्ञेयानि / द्रष्टा द्यात्माभिनिवेशत्याजनार्थम् // कथमभिज्ञेयं कत्यभिज्ञेयानि किमर्थमभिज्ञेयपरीक्षा / संक्रान्तितो ऽपि अनुश्रवतो ऽपि चरितप्रवेशतो ऽपि आगतितो ऽपि गतितो ऽपि निःसरणतो ऽपि / सर्वाण्यभिज्ञेयानि / सानुभावात्माभिनिवेशत्याजनर्थम् //
35 SK कथं रूपि कति रूपीणि किमर्थं रूपिपरीक्षा / रूपि तदात्मतो ऽपि भूताश्रयतो ऽपि नन्दीसमुदयतो ऽपि प्रदेशतो ऽपि देशव्याप्तितो ऽपि देशोपदे(श)तो ऽपि देशगोचरतो ऽपि द्वयसमय गोचरतो ऽपि सम्बन्धतो ऽप्य नुवन्धतो ऽपि प्ररूपणतो ऽपि व्याबाधनतो ऽपि संप्रापणतो ऽपि संचयव्यवस्थानतो ऽपि वहिर्मुखतो ऽपि अन्तर्मुखतो ऽपि आयततो ऽपि परिछिन्नतो ऽपि तत्कालतो ऽपि निदर्शनतो ऽपि रूपि द्रष्टव्यम् / सर्वाणि रूपीणि यथायोगं वा / रूप्या(त्मा)भिनिवेशत्याजनार्थम् // कथमरूपि कत्यरूपीणि किमर्थमरूपिपरीक्षा / रूपिविपर्ययेणाप्यं रूपि / सर्वाण्यरूपीणि यथायोगं वा / अरूप्यात्माभिनिवेशत्याजनार्थम् // कथं सनिदर्शनं कति सनिदर्शनानि किमर्थं सनिदर्शनपरीक्षा / चक्षुर्गोचरः सनिदर्शनम् / शिष्टस्य रूपिवत् प्रभेदः / सर्वाणि सनिदर्शनानि यथायोगं वा / चाक्षुषात्माभिनिवेशत्याजना र्थम् // कथमनिर्दर्शनं कत्यनिदर्शनानि किमर्थमनिदर्शनपरीक्षा / सनिदर्शनविपर्ययेणानिदर्शनं द्रष्टव्यम् / सर्वाण्यनिदर्शनानि यथायोगं वा / (अ)चाक्षुषा त्माभिनिवेशत्याजनार्थम् / कथं सप्रतिघं कति सप्रतिघानि किमर्थं सप्रतिघ परीक्षा / यत् सनिदर्शनं सप्रति घमपि तत् / अपि खलु त्रिभिः कारणैः सप्रतिघं द्रष्टव्यम् / जातितो ऽपि उपचयतो ऽपि अपरिकर्मकृततो ऽपि तत्र जातितः यद्य(द)न्यो ऽन्यमावृणोत्यव्रियते च / तत्रोपचय(त)ः परमणोरूर्द्धम् / तत्रापरिकर्मकृततः यन्न समाधिवशवर्त्तिरूपम् / अपि खलु प्रकोपपदस्थानतः - सप्रतिघम् / सर्वाणि सप्रतिघानि यथायोगं वा / (Aभिध्-स् १८) असर्वगतात्माभिनिवेशत्याजनार्थम् // कथमप्रतिघं कत्यप्रतिघानि किमर्थमप्रतिघपरीक्षा / सप्रतिघविपर्येणाप्रतिघम् / सर्वाण्यप्रतिघानि यथायोगं वा / सर्वगतात्माभिनिवेशत्याजनार्थम् //
36 SK कथं सास्रवं कति सास्रवाणि किमर्थं सास्रवपरीक्षा / आस्रवतदात्मतो ऽपि आस्रवसंबन्धतो ऽपि आस्रवानुवन्धतो ऽपि आस्रवानुकूल्यतो ऽपि आस्रवान्वयतो ऽपि सास्रवं द्रष्टव्यम् / पञ्चोपादानस्कन्धाः सास्रवाः पञ्चदश धातवो दशायतनानि त्रयाणां धातूनां द्वयोश्चायतनयोः प्रदेशः / आस्रवयुक्तात्माभिनिवेशत्याजनार्थम् // कथमनास्रवं कत्यनास्रवाणि किमर्थमनास्रवपरीक्षा / सास्रवविपर्ययेणानास्रवम् / पञ्चानुपादनस्कन्धाः त्रयाणां धातूनां द्वयोश्चायततनयोः प्रदेशः / आस्रववियुक्तात्मात्माभिनिवेशत्याजनार्थम् / कथं सरणं कति सरणानि किमर्थं सरणपरीक्षा / यद्रूपान् रागद्वेषमोहानागम्य शस्त्रादानदण्डादानकलहभण्डनविग्रहविवादाः संभवन्ति तदात्मतो ऽपि तत्सम्बन्धतो ऽपि तद्बन्धतो ऽपि तदनुबन्धतो ऽपि तदानुकूल्यतो ऽपि तदन्वयतो ऽपि सरणं द्रष्टव्यम् / यावन्ति सास्रवाणि तावन्ति सरणानि / रणयुक्तात्माभिनिवेशत्याजनार्थम् // कथमरणं कत्यरणानि किमर्थमरणपरीक्षा / सरणविपर्ययेणारणम् / यावन्त्यनास्रवाणि तावन्त्यरणानि / रणविप्रयुक्तात्माभिनिवेशत्याजनार्थम् // कथं सामिषं कति सामिषाणि किमर्थं सामिषपरीक्षा / यद्रूपान् रागद्वेषमोहानागम्य पौनर्भविकमात्मभावमध्यवस्यति तदात्मतो ऽपि तत्सम्बन्धतो ऽपि तद्बन्धतो ऽपि तदनुबन्धतो ऽपि तदानुकूल्यतो ऽपि तदन्वयतो ऽपि सामिषं द्रष्टव्यम् / यावन्ति सरणानि तावन्ति सामिषाणि / आमिषयुक्तात्माभिनिवेशत्याजनार्थम् // कथं निरामिषं कति निरामिषाणि किमर्थं निरामिषपरीक्षा / सामिषविपर्ययेण निरामिषम् / यावन्त्यरणानि तावन्ति निरामिषाणि / आमिषवियुक्तात्माभिनिवेशत्याजनार्थम् // कथं ग्रेधाश्रितं कति ग्रेधा श्रितानि किमर्थं ग्रेधाश्रितपरीक्षा / यद्रूपान् रागद्वेषमोहानागम्य पञ्चकामगुणानध्यवस्यति तदात्मतो ऽपि तत्सम्बन्धतो ऽपि (Aभिध्-स् १९) तब्दन्धतो ऽपि तदनुबन्धतो ऽपि तदानुकुल्यतो ऽपि तदन्वयतो ऽपि ग्रेधाश्रितं द्रष्टव्यम् / यावन्ति सामिषाणि तावन्तिग्रेधाश्रितानि / ग्रेधयुक्तात्माभिनिवेशत्याजनार्थम् / कथं नैष्क्रम्याश्रितं कति नैष्क्रम्याश्रितानि किमर्थं नैष्क्रम्याश्रितपरीक्षा / ग्रेधाश्रितविपर्ययेण नैष्क्रम्याश्रितम् / यावन्तिनिरामिषाणि तावन्तिनैष्क्रम्याश्रितानि / ग्रेधवियुक्तात्माभिनिवेशत्याजनार्थम् // कथं संस्कृतं कति संस्कृतानि किमर्थं संस्कृतपरीक्षा यस्योत्पा दो ऽपि प्रज्ञायते व्ययो ऽपि स्थित्यन्यथात्वमपि तत्सर्वं संस्कृतं द्रष्टव्यम् / सर्वाणि संस्कृतानि स्थापयित्वा धर्मधात्वायतनैकदेशम् / अनित्यात्माभिनिवेशत्याजनार्थम् // कथमसंस्कृतं कत्यसंस्कृतानि किमर्थमसंस्कृतपरीक्षा / संस्कृतविपर्ययेणासंस्कृतम् / धर्मधात्वायतनैकदेशः / नित्यात्माभिनिवेशत्याजनार्थम् / अनुपादान स्कन्धाः संस्कृतं वक्तव्यमसंस्कृतं वक्तव्यम् (?) / न संस्कृतं नासंस्कृतं वक्तव्यम् / तत्कस्य हेतोः / कर्मक्लेशानभिसंस्कृततामुपादाय न संस्कृतम् / कामकारसंमुखी विमुखीभावतामुपादाय नासंस्कृतम् // यदुक्तं भगवता द्वयमिदं संस्कृतं चासंस्कृतं चेति [?] // तत्कथं येनार्थेन संस्कृतं न तेनार्थेनासंस्कृतम् / येनासंस्कृतं न तेनार्थेन संस्कृतमित्यत्र नयो द्रष्टव्यः // कथं लौकिकं कति लौकिकानि किमर्थं लौकिकपरीक्षा / त्रैधातुकपर्यापन्नं लौकिकं लोकोत्तर पृष्ठलब्धं च तत्प्रतिभासम् / स्कन्धानामेकदेशः पञ्चदश धातवः दशायतनानि त्रयाणां धातूनां द्वयोश्चायतनयोः प्रदेशः / आत्मनि लोकाभिनिवेशत्याजनार्थम् // कथं लोकोत्तरं कति लोकोत्तराणि किमर्थं लोकोत्तरपरीक्षा / त्रैधातुकप्रतिपक्षो( ऽ) विपर्यासनिष्प्रपञ्चनिर्विकल्पतया च निर्विकल्पं लोकोत्तरम् / अपि खलु पर्यायेण लोको त्तरपृष्टलब्धं लोकोत्तरम् / (अ)लौकिका श्रिततामुपादाय / स्कन्धानामेकदेशःत्रयाणां धातूनां द्वयोश्चायतनयोः / केवलात्माभिनिवेशत्याजनार्थम् //
37 SK कथमुत्पन्नं कत्युत्पन्नानि किमर्थमुत्पन्नपरीक्षा / अतीत प्रत्युत्पन्नमुत्पक्षम् / सर्वेपामेकदेशः अशाश्वतात्माभिनिवेशत्याजनार्थम् // अपि खलु चतुर्विशतिविधमुत्पन्नम् / आद्युत्पन्नं प्रबन्धोत्पन्नम् उपचयोत्पन्नम् आश्रयोत्पन्नं विकारोत्पन्नं परिपाकोत्पन्नं हान्युत्पन्नं विशेषोत्पन्नं प्रभास्वरोत्पन्नम् अप्रभास्वरोत्पन्नं संक्रान्त्युत्पन्नं सवीजोत्पन्नम् अवीजोत्पन्नं प्रतिबिम्बविभुत्वनिदर्शनोत्पन्नं परंपरोत्पन्नं क्षणभङ्गोत्पन्नं संयोगवियोगोत्पन्नम् अवस्थान्तरोत्पन्नं च्युतोपपादोत्पन्नं संवर्त्तविवर्त्तोत्पन्नं पूर्वकालोत्पन्नं मरणकालो त्पन्नम् अन्तरोत्पन्नं प्रतिसन्धिकालोत्पन्नं च // कथमनुत्पन्नं कत्यनुत्पन्नानि किमर्थमनुत्पन्नपरीक्षा / अनागतमसंस्कृतं चानुत्पन्नम् / सर्वेपामेकदेशः / शाश्वतात्माभिनिवेशत्याजनार्थम् // अपि खलूत्पन्नविपर्ययेणानुत्पन्नम् // कथं ग्राहकं कति ग्राहकाणि किमर्थं ग्राहकपरीक्षा / रूपीन्द्रियं चित्तचैतसिकाश्च धर्मा ग्राहकं द्रष्टव्यम् / त्रयः स्कन्धा रूपसंस्कारस्कन्धैकदेशः द्वादश धातवः षडायतनानि धर्मधात्वायतनैकदेशश्च / भोक्तात्मा भिनिवेशलाजनार्थम् // अपि खलु अप्राप्तग्राहकं प्राप्तग्राहकं स्वलक्षणवर्त्तमानप्रत्येक ग्राहकं स्वसामान्यलक्षणसर्वकालं सर्वविषयग्राहकं च ग्राहकं द्रष्टव्यम् / सामग्रीविज्ञान समुत्पत्तितामुपादाय / प्रज्ञप्तिकश्च ग्राहकवादो द्रष्टव्यः // कथं ग्राह्यं कति ग्राह्यानि किमर्थं ग्राह्यपरीक्षा / यत्तावद् ग्राहकं ग्राह्यमपि तत् / स्याद्ग्राह्यं न (ग्राहकं) ग्राहकगोचर एवार्थः / सर्वाणि (ग्राह्याणि) विषयात्माभिनिवेशत्याजनार्थम् // कथं वहिर्मुखं कति बहिर्मुखानि किमर्थं बहिर्मुख परीक्षा / कामप्रतिसंयुक्तं बहिर्मुखं स्थापयित्वा बुद्धशासने श्रुतमयचिन्तामयतदनुधर्मपरिगृहीतां श्चित्तचैतसिकान् धर्मान् / च त्वारो धातवः द्वे चायतने तदन्येषां चैकदेशः / अवीतरागात्माभिनिवेशत्याजनर्थम् / कथमन्तर्मुखं कत्यन्तर्मुखानि किमर्थमन्तमुखपरीक्षा / बहिर्मुखविपर्ययेणान्तर्मुखम् / चतुतो धातून् स्थापयित्वा द्वे चायतने तदन्येषामेकदेशः / वीतरागात्माभिनिवेशत्याजनार्थम् // (Aभिध्-स् २१) कथं क्लिष्टं कति क्लिष्टानि किमर्थं क्लिष्टपरीक्षा / अकुशलं निवृताव्याकृतं च क्लिष्टम् / निवृताव्याकृतं पुनः सर्वत्रगमनः संप्रयुक्तः क्लेशो रूपारूप्य प्रतिसंयु(क्त)श्च / स्कन्धानां दशानां धातुनां चतुर्ण्णामायतनानामेकदेशः / क्लेशयुक्तात्माभिनिवेशत्याजनार्थम् // कथमक्लिष्टं कत्यक्लिष्टानि किमर्थमक्लिष्ट(प)रीक्षा / कुशलमनिवृताव्याकृतं वाक्लिष्टम् / अष्टौ धातवः अष्टायतनानि स्कन्धानां शेषाणां च धात्वायतनानामेकदेशः / क्लेशवियुक्तात्माभिनिवेशत्याजनार्थम् //
38 SK कथमतीतं कत्यतीतानि किमर्थमतीतपरिक्षा / उत्पन्ननिरुद्ध लक्षणतो ऽपि हेतुफलोपयो गतो ऽपि संक्लेशव्यवदानकारित्र समतिक्रान्तितो ऽपि हेतुपरिग्रहविनाशतो ऽपि फलस्वलक्षणभावाभावतापि स्मरसंकल्पनिमित्ततोहपि अपेक्षासंक्लेशनिमित्ततो ऽपि उपेक्षाव्यवदाननिमित्ततो ऽपि अतितं द्रष्टव्यम् सर्वेषामेकेदशः / प्रवर्त्तकात्माभिनिवेशत्याजनार्थम् // कथमनागतं कत्यनागतानि किमर्थमनागतपरीक्षा / हेतौ सत्य नुत्पन्नतो ऽपि अलब्धस्व लक्षणतो ऽपि हेतुफलानुपयोगतो ऽपि संक्लेशव्यवदानभावा प्रत्युपस्थानतो ऽपि हेतुस्वभा वाभावतो ऽपि अभिनन्दनासंक्लेश निमित्ततो ऽपि अभिनन्दनाव्यवदाननिमित्ततो ऽप्यनागतं द्रष्टव्यम् / सर्वेषामेकदेशः / प्रवर्त्तकात्माभिनिवेशत्याजनार्थम् //
39 SK कथं प्रत्युत्पन्नं कति प्रत्युत्पन्नानि किमर्थं प्रत्युत्पन्नपरीक्षा / उत्पन्नानिरुद्ध लक्षणतो ऽपि हेतुफलोपयोगानुपयोगतो ऽपि संक्लेश व्यवदानप्रत्युपस्थानतो ऽपि अतीतानागत भाव निमित्ततो ऽपि कारित्रप्रत्युपस्थानतो ऽपि प्रत्युत्पन्नं द्रष्टव्यम् / सर्वेषामेकदेशः / प्रवर्त्तकात्माभिनिवेशत्याजनार्थमेव // अतीतानागतप्रत्युत्पन्नं पुनः कथावस्तु न निर्वाणम् / प्रत्यात्मवेदनीयतया निरभिलप्यतामुपादाय भुतभव्यवर्त्तमानपरिहा राधिष्ठानतां चोपादय // कथं (Aभिध्-स् २२) कुशलं कति कुशलानि किमर्थं कुशलपरीक्षा / स्वभावतो ऽपि सम्बन्धतो ऽपि अनुबन्धतो ऽपि उत्थानतो ऽपि परमार्थतो ऽपि उपपत्तिलाभतो ऽपि प्रयोगतो ऽपि पुरस्कारतो ऽपि अनुग्रहतो ऽपि परिग्रहतो ऽपि प्रतिपक्षतो ऽप्युपशमतो ऽपि निष्यन्दतो ऽपि कुशलं द्रष्टव्यम् / स्कन्धानां दशानां धातुनां चतुर्णां चायतानानां प्रदेशः / धर्मयुक्तात्माभिनिवेशत्याजनार्थम् // स्वभावतः कुशलं कतमत् श्रद्धादय एकादश चैतसिका धर्माः // सम्बन्धतः कुशलं कतमत् / तत्संप्रयुक्ता धर्माः // अनुबन्धतः कुशलं कतमत् / तेषामेव या वासना // उत्थनतः कुशलं कतमत् / तत्समुत्थापितं कायकर्म्म वाक्कर्म्म // परमार्थतः कुशलं कतमत् / तथता // उपपत्तिलाभतः कुशलं कतमत् / एषामेव कुशलानां धर्माणां पूर्वाभ्यासमागम्यं तद्रूपा विपाकाभिनिर्वृतिः / यथा तेष्वेव प्रकृत्या अप्रतिसंख्याय रूचिः संतिष्ठते // प्रयोगतः कुशलं कतमत् / सत्पुरुषसंसेवामागम्य सद्धर्मश्रवणं योनिशो मनस्कारं धर्मानुधर्मप्रतिपत्तिं कुशलस्य भावना // पुस्कारतः कुशलं कतमत् / यत्तथागतं वा पुरस्कृत्य चैत्ये वा पुस्तगते वा चित्रगते धर्मं वा पुरस्कृत्य धर्माधिष्ठानि पुस्तके पूजाकर्म // अनुग्रहतः कुशलं कतमत् / यच्चतुर्भि संग्रहवस्तुभिः सत्त्वाननुगृण्हतः // परिग्रहतः कुशलं कतमत् / यद्दानमयेन पुण्यक्रियावस्तुना वा शीलमयेन वा स्वर्गोपपत्तिपरिग्रहो वा आढ्यो कुलोपपत्तिपरिग्रहो वा व्यवदानानुकूल्यपरिग्रहो वा प्रतिपक्षतः कुशलं कतमत् / यो विदूषणाप्रतिपक्षः आधारप्रतिपक्ष दूरोभाव प्रतिपक्षः विष्कम्भणाप्रतिपक्षः विसंयोगप्रतिपक्षः क्लेशावरणप्रतिपक्षः ज्ञेयावरणप्रतिपक्षः // उपशमतः कुशलं कतमत् / यत्तत्पर्यादाय रागप्रहाणं पर्यादाय द्वेषप्रहाणं पर्यादाय मोहप्रहाणं पर्यादाय सर्वक्लेशप्रहाणं संज्ञावेदयितनिरोधः सोपधिशेषो निरुपधिशेषो निर्वाणधातुरप्रतिष्ठितनिर्वाणं च // निष्यन्दतः कुशलं कतमत् / उपशमप्राप्तस्य तदाधिपत्येन वैशेषिका गुणा अभिज्ञादयो लौकिकलोकोत्तराः साधारणासाधारणाः // कथमकुशलं कत्यकुशलानि किमर्थमकुशलपरीक्षा / स्वभावतो ऽपि संबन्धतो ऽपि अनुबन्धतो ऽपि उत्थानतो ऽपि परमार्थतो ऽपि उपपत्तिलाभतो ऽपि प्रयोगतो ऽपि पुरस्कारतो ऽपि उपघाततो ऽपि परिग्रहतो ऽपि (Aभिध्-स् २३) विपक्षतो ऽपि परिपन्थतो ऽप्यकुशलं द्रष्टव्यम् / स्कन्धानां दशानां धातुनां चतुर्ण्णामायतनानां प्रदेशः // अधर्मयुक्तात्माभिनि वेशत्याजनार्थम् // स्वभावतो ऽकुशलं कतमत् / मनःसंप्रयुक्तं रूपारूप्यावचरं च क्लेशं स्थापयित्वा तदन्यः क्लशोपक्लेशो दुश्चरितसमुत्थापकः // सम्बन्धतो ऽकुशलं कतमत् / तैरेव क्लेशोपक्लेशैः संप्रयुक्ता धर्माः // अनुबन्धतो ऽकुशलं कतमत् / तेषामेव वासना // उत्थानतो ऽकुशलं कतमत् समुत्थापितं कायवाक्कर्म // परमार्थतो ऽकुशलं कतमत् / सर्वसंसारः / उपपत्तिलाभतो ऽकुशलं कतमत् / यथापि तदकुशला भ्यास स्तूदपो विपाको ऽभिनिवर्त्तते येनाकुशल एव रूचिः सन्तिष्ठते // प्रयोगतो ऽकुशलं कतमत् / यथापि तदसत्पुरुषसंसेवामागम्यसद्धर्मश्रवणमयोनि शोमनस्कारं कायेन दुश्चरितं चरति वाचा मनसा दुश्चरीतं चरति // पुरस्कारतो ऽकुशलं कतमत् / यथापि तदन्यतमान्यतमं देवनिकायसन्निश्रयं पुरस्कृत्य हिंसापूर्वकं वा कुदृष्टिपूर्वकं वा चैत्यं प्रतिष्ठापयति तत्र वा पूजाकर्म प्रयोजयति यत्र महान् जनकायो ऽपुण्येन युज्यते / उपघाततो ऽकुशलं कतमत् / यथापि तत्सत्त्वेषु कायेन वाचा मनसा मिथ्या प्रतिपद्यते // परिग्रहतो ऽकुशलं कतमत् / यथा तत्कायेन दुश्चरितं चरित्वा वाचा मनसा दुश्चरितं चरित्वा दुर्गतौ वा सुगतौ वा अनिष्टं फलं गृण्हात्यक्षेपकं वा परिपूरकं वा // विपक्षतो ऽकुशलं कतमत् / ये प्रतिपक्षविपक्षा धर्माः // परि पन्थतो ऽकुशलं कतमत् ये कुशलान्तरायिका धर्माः // कथमव्याकृतं कत्यव्याकृतानि किमर्थमव्याकृतपरीक्षा / स्वाभावतो ऽपि सम्बन्धतो ऽपि अनुबन्धतो ऽपि उत्थानतो ऽपि परमार्थतो ऽपि उपपत्तिलाभतो ऽपि प्रयोगतो ऽपि पुरस्कारतो ऽपि अनुग्रहतो ऽपि उपभोगतो ऽपि परिग्रहतो ऽपि प्रतिपक्षतो ऽपि उपशमतो ऽपि निष्यन्दतो ऽपि अव्याकृतं प्रष्ठव्यम् / अष्टौ धातवः अष्टावायतनानि शेषाणां स्कन्धधात्वायतना(ना)मेकदेशः / धर्माधर्मवियुक्तात्माभिनिवेशत्याजनार्थम् // स्वभावतो ऽव्याकृतं कतमत् / अष्टौ रूपीणि धात्वायतनानि ससंप्रयोगं मनोजीवितेन्द्रियं निकायसभागो नाम कायपदकायव्यञ्जनकायाश्च // सम्बन्धतो ऽव्याकृतं कतमत् / अदुष्टाप्रसन्नचित्तस्य तैरेव नामपदव्यञ्जनकायैः परिगृहीताः चित्तचैतसिका (Aभिध्-स् २४) धर्माः // अनुबन्धतो ऽव्याकृतं कतमत् / तेषामेवाभिलापवासना / उत्थानतो ऽव्याकृतं कतमत् / तत्परिगृहीतैश्चित्तचैतसिकैर्धर्मैर्य त्समुत्थापितं कायवाक्कर्म // परमार्थतो ऽव्याकृतं कतमत् / आकाशमप्रतिसंख्यानिरोधश्च // उपपत्तिलाभतो ऽव्याकृतं कतमत् / अकुशलानां कुशलसास्रवाणां च धर्माणां विपाकः / प्रयोगतो ऽव्याकृतं कतमत् अक्लिष्टाकुशलचेतस ऐर्यापथिकं शैल्पस्थानिकं च // पुरस्कारतो ऽव्याकृतं कतमत् / यथापि तदन्यतमान्यतमं देवनिकायसन्निश्रयं पुरस्कृत्य हिंसाकुदृष्टि विवर्जितं चैत्यं वा प्रतिष्ठापयति पूजाकर्म वा प्रयोजयति यत्र महाजनकायो न पुण्यं प्रसवति नापुण्यम् // अनुग्रहतो ऽव्याकृतं कतमत् / यथापि तद्दासभृतककर्मकरेषु पुत्रदारेषु वा अदुष्टाप्रसन्नचित्तो दानं ददाति // उपभोगतो ऽव्याकृतं कतमत् / यथापि तदप्रतिसंख्याक्लिष्टचित्तो भोगान्भुंक्ते // परिग्रहतो ऽव्याकृतं कतमत् / यथापि तच्छिल्पस्थानस्याभ्यस्तत्वादायत्यां तद्रूपं मात्मभावपरिग्रहं करोति येन लघु लध्वेव तेषु शिल्पस्थानेषु शिक्षानिष्ठां गच्छति // प्रतिपक्षतो ऽव्याकृतं कतमत् / यथापि तत् प्रतिसंख्याय भैषज्यं निषेवते // उपशमतो ऽव्याकृतं कतमत् / रूपारूप्यवचरः क्लेशः शमथोपगूढतामुपादाय // निष्यन्दतो ऽव्याकृमतं कतमत् निर्वाणचित्तसहजम् // अपि खलु निदर्शनतः कुशलमप्यकुशलमप्यव्याकृतमपि द्रष्टव्यम् // तत्पुनः कतमत् // यद्बुद्धाः परमपारमिप्राप्ताश्च बोधिसत्त्वा निदर्शयन्ति सत्त्वानामनुग्रहार्थं न तु तेषां तत्र तथा काचित् परिनिष्पत्तिः / कथं कामप्रतिसंयुक्तं कति का(म)प्रतिसंयुक्तानि किमर्थं कामप्रतिसंयुक्तपरीक्षा / अवीतरागस्य सास्रवकुशलाकुशलाव्याकृतं कामप्रति संयुक्तं द्रष्टव्यम् / चत्वारो धातवो द्वे चायतने तदन्येषां च स्कन्धधात्वायतनानामेकदेशः / कामावीतरागात्माभिनिवेशत्याजनार्थम् // कथं रूपप्रतिसंयुक्तानि किमर्थं रूपप्रतिसंयुक्तपरीक्षा / कामवीतरागस्य रूपावीतरागस्य कुशलाव्यकृतं रूपप्रतिसंयुक्तं द्रष्टव्यम् // चतुरो धातून द्वे चायतने स्थापयिता तदन्येषां स्कन्धधात्वायतनानामेकदेशः / (Aभिध्-स् २५) कामवीतरागात्मभिनिवेशत्याजनार्थम् // कथमारूपप्यप्रतिसंयुक्तं कत्यारूप्यप्रतिसंयुक्तानि किमर्थमारूप्यप्रतिसंयुक्तापरीक्षा / रूपवीतरागस्यारूप्यावीतरागस्य कुशलाव्याकृतं वारूप्यप्रतिसंयुक्तं द्रष्टव्यम् / चतुर्णांस्कन्धानां द्वयो श्चायतनयोः प्रदेशः / रूपवीतरागात्माभिनिवेशत्याजनार्थम् // वैराग्यं पुनरेकदेशवैराग्यं स्कलवैराग्यं प्रतिवेधवैराग्यमुपघातवैराग्यं समुद्घातवैराग्यं च द्रष्टव्यम् / अपि खलु दश वैराग्याणि / प्रकृतिवैराग्यमुपघातवैराग्यमुपस्तम्भवैराग्यं समुत्कर्षवैराग्यं सम्मोहवैराग्यं प्रतिपक्षवैराग्यं परिज्ञावैराग्यं प्रहाणि वैराग्यं सोत्तरवैराग्यं निरुत्तरवैराग्यम् // प्रकृतिवैराग्यं कतमत् / दुःखायां वेदनायां दुःखस्थानीयेषु च धमषु या प्रतिकुलता // उपघातवैराग्यं कतमत् / मैथुनप्रयुक्तस्य दाहविगमे या प्रतिकूलता // उपस्तम्भवैराग्यं कतमत् / सुभुक्तवतो मृष्टे ऽपि भोजने या प्रतिकूलता // समुत्कर्षवैराग्यं कतमत् / उच्चतरं स्थानं प्राप्तव तो निर्हीने स्थाने या प्रतिकूलता // सम्मोहवैराग्यं कतमत् / बालानां निर्वाणे या प्रतिकूलता // प्रतिपक्ष वैराग्यं कतमत् / लौकिकेन वा लोकोत्तरेण वा मार्गेण यत्क्लेशप्रहाणम् // परिज्ञावैराग्यं कतमत् / प्रतिलब्धदर्शनमार्गस्य त्रैधातुके या प्रतिकूलता // प्रहाणिवैराग्यं कतमत् / भूमौ भूमौ क्लेशान् प्रजहतो या प्रतिकूलता // सोत्तरवैराग्यं कतमत् / लौकिकानां श्रावकप्रत्येकबुद्धानां च यद्वैराग्यम् // निरुत्तरं वैराग्यं कतमत् / यद् बुद्धबोधिसत्त्वानां वैराग्यं सर्वसत्त्वहितसुखाधिष्ठानता मुपादाय // कथं शैक्षं कति शैक्षाणि किमर्थं शैक्षपरीक्षा / मोक्षप्रयुक्तस्य कुशलं शैक्षं द्रष्टव्यम् / स्कन्धाना दशानां धातूनां चतुर्णां चायतनामेकदेशः / मोक्षप्रयुक्तात्माभिनिवेशत्याजनार्थम् // कथमशैक्षं कत्यशैक्षाणि किमर्थमशैक्षपरीक्षा / शिक्षायां निष्ठागतस्य कुशलमशैक्षं द्रष्टव्यम् / स्कन्धानां दशानां धातूनां चतुर्णां चायतनानां प्रदेशः / भुक्तात्माभिनिवेशत्याजनार्थम् // कथं नैवशैक्षानाशैक्षं कति नैवशैक्षानाशैक्षानि किमर्थं नैवशैक्षानाशैक्ष परीक्षा / पृथग्जनस्य कुशलाकुशलाव्यकृतं शैक्षस्य क्लिष्टाव्याकृतमशैक्षस्य चाव्याकृतमसंस्कृतं च नैवशैक्षानाशैक्षं द्रष्टव्यम् / अष्टौ धातवो ऽष्टा वायतनानि तदन्येषां (Aभिध्-स् २६) स्कन्धधात्वायतनानां प्रदेशः / अमुक्तात्माभिनिवेशत्याजनार्थम् // कथं दर्शनप्रहातव्यं कति दर्शनप्रहातव्यानि किमर्थं दर्शनप्रहातव्यपरीक्षा / परिकल्पिता क्लिष्टा दृष्टिः विचिकित्सादृष्टिस्थानं ये च दृष्टौ विप्रतिपन्नाः क्लेशोपक्लेशाः यच्च दृष्ट्या समुत्थापितं कायवा क्कर्म सर्वं चापायिकं स्कन्धधात्वायतनं दर्शनप्रहातव्यं द्रष्टव्यम् / सर्वेषामेकदेशः / दर्शनसंपन्नात्माभिनिवेशत्याजनार्थम् // कथं भावनाप्रहातव्यं कति भावनाप्रहातव्यानि किमर्थं भावनाप्रहातव्यपरीक्षा / लब्धदर्शनमार्गस्य तदूर्ध्वं दर्शनप्रहातव्यविपर्ययेण सास्रवा धर्माः / सर्वेषामेकदेशः / भावनासंपन्नात्माभिनिवेशत्यजनार्थम् // कथमप्रहातव्यं कत्यप्रहातव्यानि किममर्थमप्रहातव्यपरीक्षा / अनास्रवमप्रहातव्यं द्रष्टव्यं स्थापयित्वा निर्वेधभागीयम् / स्कंधानां दशानां धातूनां चतुर्णां चायतनानां प्रदेशः / सिद्धात्माभिनिवेशत्याजनार्थम् // कथं प्रतीत्यसमुत्पन्नं कति प्रतीत्यसमुत्पन्नानि किमर्थं प्रतीत्यसमुत्पन्नपरीक्षा / लक्षणतो ऽप्यङ्गविभागतो ऽपि अङ्गसमासतो ऽप्यङ्गप्रत्ययत्वव्यवस्थानतो ऽपि अङ्गकर्मव्यवस्थानतो ऽपि अङ्गसंक्लेशसंग्रहतो ऽपि अर्थतो ऽपि गाम्भीर्यतो ऽपि प्रभेदतो ऽप्यनुलोम(प्रतिलोम) तो ऽपि प्रतीत्यसमुत्पन्नं द्रष्टव्यम् / सर्वाणि धर्मधात्वायतनैकदेशं स्थापयित्वा / अहेतुविषमहेतुकात्माभिनिवेशत्याजनार्थम् // कथं लक्षणतः / निरी(ह)प्रत्ययोत्पत्तितामुपादाय अनित्यप्रत्ययोत्पत्तितामुपादाय समर्थप्रत्ययोत्पत्तितामुपादाय // कथमङ्गविभागतः / द्वादशाङ्गानि / द्वादशाङ्गः प्रतीत्यसमुत्पादः अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपदानं भवो जाति र्जरामरणं च // कथमङ्गसमासतो ऽपि / आक्षेपकाङ्गमाक्षिप्ताङ्गमभिनिर्वर्त्तकाङ्गमभिनिर्वृत्त्यङ्गं च // आक्षेपकाङ्गं कतमत् / अविद्या संस्कारा विज्ञानं च // आक्षिप्तकाङ्गं कतमत् / नामरूपं षडायतनं स्पर्शो वेदना च // अभिन्रिवर्त्तकाङ्गं कतमत् / तृष्णा उपादानं भवश्च / अभिनिर्वृत्त्यङ्गं कतमत् / जाति र्जरामरणं च // कथमङ्गप्रत्ययत्वव्यवस्थानतः / वासनातो ऽप्यावेधतो ऽपि मनसिकारतो ऽपि सहभावतो ऽप्याङ्गानां प्रत्ययत्वव्यवस्थानं वेदितव्यं तच्च यथायोगम् // कथमङ्गकर्मव्यवस्थानतः / अविद्या किंकर्मिका / भवे च सत्त्वान् संमोहयति प्रत्ययश्च (Aभिध्-स् २७) भवति संस्काराणाम् // संस्काराः किंकर्मकाः / गतिषु च सत्त्वान् विभजन्ति प्रत्ययाश्च भवन्ति विज्ञानवासनायाः // विज्ञानं किं कर्मकम् / सत्त्वानां कर्मबन्धं च धारयति प्रत्ययश्च भवति नामरूपस्य // नामरूपं च किंकर्मकम् / आत्मभावं च सत्त्वान् ग्राहयति प्रत्ययश्च भवति षडायतनस्य // षडायतनं किंकर्मकम् // आत्मभावपरिपूरिं च सत्त्वान् ग्राहयति प्रत्य यश्च भवति स्पर्शस्य // स्पर्शः किंकर्मकः / विषयोपभोगे च सत्त्वान् प्रवर्त्तयति प्रत्ययश्च भवति वेदनायाः / वेदना किंकर्मिका / जन्मोपभोगे च सत्त्वान् प्रवर्त्तयति प्रत्ययश्च भवति तृष्णायाः // तृष्णा किंकर्मिका / जन्मनि च सत्त्वानाकर्षयति प्रत्ययश्च भवति उपादानस्य // उपादानं किंकर्मकम् / पुनर्भवादानार्थं सोपादानं च सत्त्वानां विज्ञानं करोति प्रत्ययश्च भवति भवस्य // भवः किंकर्मकः / पुनर्भवे च सत्त्वानभिमुखीकरोति प्रत्ययश्च भवति जातेः // जातिः किंकर्मिका / नामरूपषडायतनस्पर्शवेदनानुपूर्व्या च सत्त्वानभिनिर्वर्त्तयति प्रत्ययश्च भवति जरामरणस्य // जरामरणं किंकर्मकम् / पुनः पुनर्वयःपरिणामेन जीवितपरिणामेन च सत्त्वान्योजयति // कथमङ्गसंक्ले शसंग्रहतः / या चाविद्या या च तृष्णा यच्चोपादानमित्ययं संक्लेशसंग्रहः / ये च संस्कारा यच्च विज्ञानं यश्च भव इत्ययं कर्मसंक्लेशसंग्रहः / शेषाणि जन्मसंक्लेशसंग्रहः // कथमर्थतः / निःकर्तृकार्थः प्रतीत्यसमुत्पादार्थः / सहेतुकार्थः निःसत्त्वार्थः परतंत्रार्थः निरोहकार्थः अनित्यार्थः क्षणिकार्थः हेतुफलप्रबन्धानुपच्छेदार्थः अनुरूपहेतुफलार्थः विचित्रहेतुफलार्थः प्रतिनियतहेतुफलार्थश्च प्रतीत्यसमुत्पादार्थः // कथं गाम्भीर्यतः / हेतु गाम्भीर्यतो ऽपि लक्षणगाम्भीर्यतो ऽपि उत्पत्तिभागाम्भीर्यतो ऽपि स्थितिगाम्भीर्यतो ऽपि वृत्तिगाम्भीर्यतो ऽपि गाम्भीर्यं द्रष्टव्यम् // अपि खलु क्षणिकः प्रतीत्यसमुत्पादः स्थितितश्चोपलभ्यते / निरीहकप्रत्ययः प्रतीत्यसमुत्पादः समर्थप्रत्ययश्चोपलभ्यते / निःसत्त्वः प्रतीत्यसमुत्पादः अत्त्वतश्चोपलभ्यते / न स्वतो न परतो न द्वाभ्यां न स्वयंकाराप(र)काराहेतुसमुत्पन्नः / अतो ऽपि गम्भीरः // कथं (Aभिध्-स् २८) प्रभेदतः / विज्ञानोत्पत्तिप्रभेदतः च्युत्युपपत्तिप्रभेदतः वाह्यशस्योत्पत्तिप्रभेदतः संवर्त्तविवर्त्तप्रभे दत्तः आहारोपस्तम्भप्रभेदतः इष्टानिष्टगतिविभागप्रभेदतः विशुद्धिप्रभेदतः प्रभावप्रभेदतश्च प्रभेदो द्रष्टव्यः // कथमनुलोमप्रतिलोमतः / संक्लेशा नुलोमप्रतिलोमतो ऽपि व्यवदानानुलोमप्रतिलोमतो ऽपि प्रतीत्यसमुत्पादस्यानुलोमप्रतिलोमनिर्द्देशो द्रष्टव्यः //
40 SK (अथ मूलवस्तुनि त्रिधमपरिच्छेदे प्रथमे तृतीयो भागः)
41 SK कथं प्रत्ययः कति प्रत्ययाः किमर्थं प्रत्ययपरीक्षा / हेतुतो ऽपि समनन्तरतो ऽपि आलम्बनतो ऽप्यधिपतितो ऽपि प्रत्ययो द्रष्टव्यः / सर्वाणि प्रत्ययः / आत्महेतुकधर्माभिनिवेशत्याजनार्थम् // हेतुप्रत्ययः कतमः / आलयविज्ञानं कुशलवासना च // अपि खलु स्वभावतो ऽपि प्रभेदतो ऽपि सहायतो ऽपि संप्रतिपत्तितो ऽपि परिपन्थतो ऽपि परिग्रहतो ऽपि हेतुप्रत्ययो द्रष्टव्यः // कथं स्वभावतः / कारणं हेतुस्वभावतः // कथं प्रभेदतः / उत्पत्तिकारणं तद्यथा चक्षुः सामग्री विज्ञानस्य // स्थितिकारणं तद्यथा आहारो भूतानां सत्त्वानां संभवैषिणां च // धृतिकारणं तद्यथा पृथिवी सत्त्वानाम् // प्रकाशकारणं तद्यथा प्रदीपो रूपाणाम् // विकारकारणं तद्यथा अग्निरिन्धनस्य // वियोगकारणं तद्यथा दात्रं छेद्यस्य // परिणतिकारणं तद्यथा शिल्पस्थाना दिकं हिरण्यादीनाम् // संप्रत्ययकारणं तद्यथा धूमो ऽग्नेः / संप्रत्यायनकारणं तद्यथा प्रतिज्ञाहेतुदृष्टान्ताः साध्यस्य // प्रापणकारणं तद्यथा मार्गो निर्वाणस्य // व्यवहारकारणं तद्यथा नाम संज्ञा दृष्टिश्च // अपेक्षाकारणं यदपेक्ष्य यत्रार्थित्वमुत्पद्यते / तद्यथा जिघत्सामपेक्ष्य भोजने // आक्षेपकारणं विदूरः प्रत्ययः / तद्यथा अविद्या जरामरणस्य // अभिनिर्वृत्तिकारणमासन्नः प्रत्ययः / तद्यथा अविद्या संस्काराणाम् // परिग्रहकारणं तदन्यः प्रत्ययः / तद्यथा क्षेत्रोदकपास्या (? वाप्या)दिकं सस्योदयस्य // आवाहककारणमनुकूलतः प्रत्ययः / तद्यथा सम्यग्राजासेवा राजाराधनायाः // प्रति नियमकारणं प्रत्ययवैचित्र्यम् / तद्यथा पञ्चगतिप्रत्ययाः पञ्चानां गतीनाम् // सहकारिकारणं प्रत्ययसामग्री / तद्यथा विज्ञानस्य इन्द्रियमपरिभिन्नं विषय आभासगतः तज्जश्च मनस्कारः प्रत्युपस्थितः // (Aभिध्-स् २९) विरोधि कारणमन्तरायः / तद्यथा सस्यस्याशनिः // अविरोधकारणम(न)न्तरायः / तद्यथा तस्यैवान्तरायस्याभावः // कथं सहायतः / ये धर्माः सहभावेनोत्पद्यन्ते नान्यतमवैकल्येन / तद्यथा भूतानि भौतिकञ्च // कथं संप्रतिपत्तितः / ये धर्माः स(ह)भावेनालम्बनं संप्रतिपद्यन्ते नान्यतमवैकल्येन / तद्यथा चित्तं चैतसिकाश्च // कथं पुष्टितः / पूर्वभावितानां कुशलाकुशलाव्याकृतानां धर्माणां या अपरान्ते उत्तरोत्तरा पुष्टतरा पुष्टतमा प्रवृत्तिः // कथं परिपन्थतः / या क्लेशानामन्यतमभावनयान्यतमप्रबन्धपुष्टिदृढीकारः / निर्वाणसन्तानदूरीकरणाय // कथं परिग्रहतः / अकुशलाः कुशलसास्रवाश्च धर्माः / आत्मभावपरिग्रहाय // कथं समनन्तरतः नैरन्तर्यसमनन्तरतो ऽपि सभागविसभागचित्तचैत्तोत्पत्तिसमनन्तरतो ऽपि समनन्तरप्रत्ययो द्रष्टव्यः // कथमालम्बनतः / परिच्छिन्नविषयालम्बनतो ऽपि अपरिच्छिन्नविषयालम्बनतो ऽपि अचित्रीकारविषयालम्बनो ऽपि (सचित्रीकारविषयालम्बनतो ऽपि) सवस्तु शिक्षालम्बनतो ऽपि अवस्तुकविषयालम्बनतो ऽपि वस्त्वालम्बनतो ऽपि परिकल्पालम्बनतापि विपर्यस्तालम्बनतो ऽपि अविपर्यस्तालम्बतोपि सव्याघातालम्बनतो ऽपि अव्याघातालम्बनतो ऽपि आलम्बनप्रत्ययो द्रष्टव्यः // कथमधिपतितः / प्रतिष्ठाधिपतीतो ऽप्यावेधाधिपतितो ऽपि सहभावाधिप तितो ऽपि विषयाधिपतितो ऽपि प्रसवाधिपतितो ऽपि स्थानाधिपतितो ऽपि फलोपभोगाधिपतितो ऽपि लौकिकविशुद्ध्य धिपतितो ऽपि लोकोत्तरविशुद्ध्य धिपतितो ऽपि अधिपति प्रत्ययो द्रष्टव्यः //
42 SK कथं सभागतत्सभागं कति सभागतत्सभागानि किमर्थं सभागतत्सभागपरीक्षा / विज्ञानाविरहिततत्सादृश्येन्द्रियविषयप्रबन्धोत्पत्तितो ऽपि विज्ञानविरहितस्वसादृश्यप्रबन्धोत्पत्तितो ऽपि सभागतत्सभागं द्रष्टव्यम् / रूपस्कन्धैकदेशः पञ्चरूपीणि धात्वायतनानि विज्ञानयुक्तायुक्तात्माभिनिवेशत्याजनार्थम् // कथमुपात्तं कत्युपात्तानि किमर्थमुपात्तपरीक्षा / वेदनोत्पत्याश्रय(रूप) त उपात्तं द्रष्टव्यम् / रूपस्कन्धैकदेशः पञ्च रूपीणि धात्वायतनानि - चतुर्णां चैकदेशः / (Aभिध्-स् ३०) देहवशवर्त्त्या त्माभिनिवेशत्याजनार्थम् // कथमिन्द्रियं कतीन्द्रियाणि किमर्थभिन्द्रियपरीक्षा / विषयग्रहणाधिपतितो ऽपि कुशलप्रबन्धाधिपतितो ऽपि निकायसभागस्थानधिपतितो ऽपि शुभाशुभकर्मफलभोगाधिपतितो ऽपि लौकिकवैराग्याधिओपतितो ऽपि लोकोत्तरवैराग्याधिपतितो ऽपि इन्द्रियं द्रष्टव्यम् / वेदनास्कन्धो विज्ञानस्कन्ध रूपसंस्कारस्कन्धैकदेशः द्वादश धातवः षडायतनानि धर्मधात्वायतनैकदेशश्च / आत्माधिपत्यभिनिवेशत्याजनार्थम् // कथं दुःखदुःखता कति दुःखदुःखतानि किमर्थं दुःखदुःखतापरीक्षा / दुःखवेदनास्वलक्षणतो ऽपि दुःखवेदनीयधर्मस्वलक्षणतो ऽपि दुःखदुःखता द्रष्टव्या / सर्वेपामेकदेशः / दुःखितात्माभिनिवेशत्याज नार्थम् // कथं विपरीणामदुःखता कति विपरीणामदुःखतानि किमर्थं विपरिणामदुःखतापरीक्षा / सुखवेदनाविपरिणतिस्वलक्षणतो ऽपि सुखवेदनीयधर्मविपरिणतिस्वलक्षणतो ऽपि तत्र चानुनयचित्तविपरिणतितो ऽपि विपरिणामदुःखता द्रष्टव्या / सर्वेपामेकदेशः / सुखितात्माभिनिवेशत्याजनार्थम् // कथं संस्कारदुःखता कति संस्कारदुःखतानि किमर्थं संस्कारदुःखतापरीक्षा / अदुःखासुखवेदना स्वलक्षणतो ऽपि अदुःखासुख वेदनीयस्वधर्मलक्षणतो ऽपि तदुभयदौष्ठुल्यपरिग्रहतो ऽपि द्वयाविनिर्मोक्षानित्यानुबन्धायोगक्षेमतो ऽपि संस्कारदुःखता द्रष्टव्या / स्कन्धानां त्रयाणां धातूनां द्वयोश्चायतनयोरेकदेशं स्थापयित्वा सर्वाणि / अदुःखासुखात्मभिनिवेशत्याजनार्थम् // कथं सविपाकं कति सविपाकानि किमर्थं सविपाकपरीक्षा / अकुशलं कुशलसास्रवं च सविपाकं द्रष्टव्यम् / स्कन्धानां दशानां धातुनां चतुर्णां चायतनानामेकदेशः / स्कन्धोपनिक्षेपकप्रतिसंघायकात्माभिनिवेशत्याजनार्थम् // विपाकः पुनरालयविज्ञानं ससंप्रयोगं द्रष्टव्यम् / तदन्यत्तु विपाकजम् // कथमाहारः कत्याहाराः किमर्थं माहारपरीक्षा / परिणतितो ऽपि पारिणामिकः विषयतो ऽपि वैषयिकः आशयतो ऽप्याशि (? शयि)कः उपादानतो ऽप्युपादानिकः आहारो द्रष्टव्यः / त्रयाणां स्कन्धानामेकादशानां धातूनां पञ्चानाञ्चायतनानामेकदेशः / आहारस्थितिकात्मभिनिवेशत्यजनार्थम् // अपि खल्वाहारो ऽशुद्धा श्रयस्थितिकः शुद्धाशुद्धाश्रयस्थितिकः शुद्धाश्रयस्थितिकः स्थितिसांदर्शिनकश्च द्रष्टव्यः // कथं सोत्तरं (Aभिध्-स् ३१) कति सोत्तराणि किमर्थं सोत्तरपरीक्षा / संस्कृततो ऽसंस्कृतैकदेशतश्च सोत्तरं द्रष्टव्यम् / धर्मधात्वायतनैकदेशं स्थापयित्व सर्वाणि / आत्मद्रव्यहीनाभिनिवेशत्याजनार्थम् // कथमनुत्तरं कत्यनुत्तराणि किमर्थमनुत्तर परीक्षा / असंस्कृतैकदेशतो ऽनुत्तरं द्रष्टव्यम् / धर्मधात्वायतनैकदेशः / आत्मद्रव्याग्राभिनिवेशत्याजनार्थम् / इत्यनेन नयेनाप्रमाणः प्रभेदनयः //
43 SK अपि खलु समासतः स्कन्धधात्वायतनानां प्रभेदस्त्रिविधः / परिकल्पितलक्षणप्रभेदः विकल्पितलक्षणप्रभेदः धर्मतालक्षणप्रभेदश्च // तत्र परिकल्पितलक्षणप्रभेदः कतमः / स्कन्धधात्वायतनेष्वात्मेति वा सत्त्वो जीवो जन्तुः पोषो पुग्दलो मनुजो मानव इति वा यत्परिकल्प्यते // विकल्पितलक्षणप्रभेदः कतमः / तान्येव स्कन्धधात्वायतनानि // धर्मतालक्षणप्रभेदः कतमः / तेष्वेव स्कन्धधात्वायतनेष्वात्माभावः सत्त्वजीवजन्तुपोषपुग्दलमनुजमानवानामभावः नैरात्म्यास्तिता //
44 SK अपि खलु चतुर्विधः प्रभेदः / लक्षणप्रभेदः प्रकारप्रभेवा आक्षयप्रभेदः सन्ततिप्रभेदश्च // लक्षणप्रभेदः कतमः / प्रत्येकं स्कन्धधात्वायतनानां स्वलक्षण भेदः // प्रकारप्रभेदः / तेषामेवस्कन्धधात्वायतनानां द्रव्यमन्तः प्रज्ञप्तिमन्तः संवृतिमन्तः परमार्थमन्तः रूपिणो ऽरूपिणः सनिदर्शना अनिदर्शना इत्येवमादि यथानिर्द्दिष्टः // आश्रयप्रभेदः कतमः / यावन्तः सत्त्वाश्रया स्तावन्ति स्कन्धधात्वायतनानि // सन्ततिप्रभेदः कतमः / प्रतिक्षणं स्कन्धधात्वायतानानां प्रवृत्तिः // लक्षणप्रभेदे कुशलः किं परिजानाति / आत्माभिनिवेशं परिजानाति // प्रकारप्रभेदे कुशलः किं परिजानाति / पिण्डसंज्ञां परिजानाति // आश्रयप्रभेदे कुशलः किं परिजानाति / अकृताभ्यागमकृतविप्रणाशसंज्ञां परिजानाति // सन्ततिप्रभेदे कुशलः किं परिजाति / स्थिरसंज्ञां परिजानाति //
0 SK अपि खलु षड्विधः प्रभेदः एषामेव स्कन्धधात्वायतननाम् / बहिर्मुखप्रभेदः अन्तर्मुखप्रभेदः आयत कालभेदः परिच्छिन्नकालप्रभेदः तत्कालप्रभेदः संदर्शनप्रभेदश्च / बहिर्मुखप्रभेदः कतमः / यद्भूयसा कामावचरप्रभेदः // अन्तर्मुखप्रभेदःकतमः / सर्वाः सामाधिभूमयः // आयतकालप्रभेदः कतमः / पृथग्जनानाम् // परिच्छिन्नकालप्रभेदः कतमः / शैक्षाणां स्थापयित्वा चरमक्षणे स्कन्धधात्वायतनानि (Aभिध्-स् ३२) तदन्यानि अशैक्षाणाम् // तत्कालप्रभेदः कतमः / अशैक्षाणां चरमक्षणे स्कन्धधात्वायतनानि // संदर्शनप्रभेदः कतमः / बुद्धानां पारमिप्राप्तानां बोधिसत्त्वानां महासत्त्वानां च सनिदर्शनानि स्कन्धधात्वायतनानि
46 SK (अथ महायानाभिधर्मसमुच्चयशास्त्रे मूलवस्तुनि संग्रहपरिच्छेदो द्वितीयः)
0 SK संग्रहः कतमः / संग्रह एकादशविधो द्रष्टव्यः / लक्षणसंग्रहः धातुसंग्रहः जातिसंग्रहः अवस्थासंग्रहः सहायसंग्रहः देशसंग्रहः कालसंग्रहः एकदेशसंग्रहः सकलसंग्रहः इतरेतरसंग्रहः परमार्थसंग्रहश्च // लक्षणसंग्रहः कतमः / स्कन्धधात्वायतनानां प्रत्येकं स्वलक्षणेनैव तत्तत्संग्रहः // धातुसंग्रहः कतमः / स्कन्धधात्वायतनानां वीजभूतेनालयविज्ञानेन तत्तद्धातुसंग्रहः // जतिसंग्रहः कतमः / स्कन्धधात्वायतनानां विलक्षणानामपि स्कन्धधात्वायतनैरन्यो ऽन्यसंग्रहः // अवस्थासंग्रहः कतमः / सुखावस्थानां स्कन्धधात्वायतानानां स्वलक्षणेन संग्रहः / दुःखावस्थानामदुःखासुखावस्थानामपि / अवस्थामुपादाय // सहाय संग्रहः कतमः / रूपस्कन्धः तदन्यैःस्कन्धैरन्यो ऽयं सहायतः सहायैः संगृहीतः / एवं तदन्ये स्कन्धा धातव आयतनानि च / देशसंग्रहः कतमः / पूर्वदिगाश्रितानां स्कन्धधात्वायतनानां स्वलक्षणेन संग्रहः / एवं तदन्यदिशामपि स्कन्धधात्वायतनानां वेदितव्यम् // कालसंग्रहः कतमः / अतीतानां स्कन्धधात्वायतनानां स्वलक्षणेन संग्रहः / अनागतानां प्रत्युत्पन्नानामपि स्कन्धधात्वायतनानाम् / एकदेशसंग्रहः कतमः / यावन्तो धर्माः स्कन्धधात्वायतनैः संगृहीताः तेषामन्यतमसंग्रह एकदेश संग्रहो वेदितव्यः // सकलसंग्रहः कतमः / यावन्तो धर्माः स्कन्धधात्वायतनैः संगृहीताः तेषामशेषतः संग्रहः सकलसंग्रहो वेदितव्यः // इतरेतरसंग्रहः कतमः रूपस्कन्धसंग्रहे कति धातवः कत्यायतनानि / दशानामेकदेशः / वेदनास्कन्धसंग्रहे कति धातवः कत्यायतनानि / एकदेशः / यथा वेदनास्कन्धस्तथासंज्ञासंस्कार स्कन्धौ // विज्ञानस्कन्धसंग्रहे कति धातवः कत्यायतनानि / सप्त धातव एकमायतनम् // चक्षुर्धातुसंग्रहे कति स्कन्धः कत्यायतनानि / रूपस्कन्धैकदेश (Aभिध्-स् ३३) एकमायतम् // चक्षुर्धातुवत् श्रोत्रध्राणजिव्हाकाय रूपशब्दगन्धरसस्प्रष्टव्यभ्रातवः // मनोधातुसंग्रहे कति स्कन्धाः कत्यायतनानि / एकः स्कन्ध एकमायतनम् // धर्मधातुसंग्रहे कति स्कन्धाः कत्यायतनानि / त्रयः स्कन्धा रूपस्कन्धैकदेश एकमायतनम् // चक्षुर्विज्ञानधातुसंग्रहे कति स्कन्धाः कत्यायतनानि विज्ञानस्कन्धामनआयतनयोरेकदेशः / चक्षुर्विज्ञानवत् श्रोत्रघ्रांणजिव्हाकायमनोविज्ञानधातवः // चक्षुरायतनसंग्रहे कति स्कन्धाःकति धातवः / रूपस्कन्धैकदेश एको धातुश्च / यथा चक्षुरायतनं तया श्रोत्रघ्राणजिह्वाकायरूपशब्दगन्धरसस्प्रष्टव्यायतनानि // मनआयतनसंग्रहे कति स्कन्धाः कति धातवः / एकः स्कन्धः सप्त धातवः / धर्मायतनसंग्रहे कतिस्कन्धाः कति धातवः / त्रयाणां स्कन्धाना मेकदेश एको धातुश्च // तद्वत् तदन्ये धर्माः स्कन्धधात्वायतनैर्निर्दृश्यन्ते अन्ये च न स्कन्धधात्वायतनैर्निर्द्दिश्यन्ते / यथा द्रव्यमन्तः प्रज्ञाप्तिमन्तः संवृतिमन्तः परमार्थमन्तो ज्ञेया विज्ञेया अभिज्ञेया रूपिणो ऽरूपिणः सनिदर्शना अनिदर्शना इत्येवमादयः पूर्वं निर्दृष्टाः / (तेषां) यथायोगं स्कन्धधात्वायतनैरितरेतरसंग्रहेवेदितव्यः // परमार्थसंग्रहः कतमः / स्कन्धधात्वायतनानां तथतासंग्रहकुशलः कमनुशंस लभते / आलम्बने ऽभिसंक्षेपानुशंसं प्रतिलभते / यथा यथा आलम्बनेषु चित्ताभिसंक्षेपः तथा तथा कुशलमूलाभिवृद्धिः
48 SK (अथ महायानाभिधर्मसमुच्चयशास्त्रे मूलवस्तुनि संप्रयोगपरिच्छेदस्तृतीयः /)
49 SK संप्रयोगः कतमः / समासतः संप्रयोगः षड्विधः / अविनिर्भाग संप्रयोगः मिश्रीभाव संप्रयोगः समवधानसंप्रयोगः सहभावसंप्रयोगः कृत्यानुष्ठानसंप्रयोगः संप्रतिपत्तिसंप्रयोगश्च // अविनिर्भागसंप्रयोगः कतमः / सर्वेषां देशिनां परमाणुपर्यापन्नानां रूपांशिकानामन्योन्यमविनिर्भागः // मिश्रीभावसंप्रयोगः कतमः / (Aभिध्-स् ३४) परमाणोरूर्ध्वं सर्वेषां देशिनां रूपांशिकानां परस्परं मिश्रीभावः // समवधानसंप्रयोगः कतमः / देशिनामेव समुदायिनां रूपपरंपरायां समवधानम् // सहभावसंप्रयोगः कतमः / एकस्मिन् काये स्कन्धधात्वायतनानां सहकालप्रवृत्तिः सममुत्पत्ति स्थितिनिरोधाः / कृत्यानुष्ठानसंप्रयोगः कतमः / एकस्मिन् कृत्यांनुष्ठाने परस्परं संप्रयोगः / यथा द्वयोर्भिक्ष्वोरन्यतरभिक्षोः क्रियानुष्ठाने अन्यो ऽयं संप्रयोगः // संप्रतिपत्ति संप्रयोगः कतमः / चित्तचैतसिकानामेकस्मिन्नालम्बने ऽन्योन्यं संप्रतिपत्तिः / स संप्रतिपत्तिसंप्रयोगः पुनरनेकार्थकः / यथा परभावेन संप्रयोगः न स्वभावेन / अविरुद्ध्योः संप्रयोगो न विरुद्धयोः / सदृशकालयोः संप्रयोगो अविसदृशकालयोः सभागधातुभूमिकयोरविसभाग(धातु)भूमिकयोः // सर्वत्रगसंप्रयोगस्तद्यथा वेदना संज्ञाचेतनास्पर्शमनस्कार विज्ञानानाम् // अपि खलु क्लिष्टसर्वत्रगः संप्रयोगो मनसि चतुर्ण्णां क्लेशानाम् // कादाचित्कः संप्रयोगस्तद्यथा चित्ते श्रद्धादीनां कुशलानां रागादीनां च क्लेशोपक्लेशानाम् // आवस्थिकः संप्रयोगः सुखाया वेदनायाः ससंप्रयोगायाः / एवं दुःखाया अदुःखासुखायाः // अविच्छिन्नः संप्रयोगः सचित्तिकायामवस्थायाम् / विच्छिन्नः संप्रयोगो ऽचित्तकसमापत्त्यन्तरितस्य // बहिर्मुखः संप्रयोगो यद्भूयसा काम प्रतिसंयुक्तानां चित्तचैतसिकानाम् // अन्तर्मुखः संप्रयोगः यद्भूयसा समाहितभूमिकानां चित्तचैतसिकानाम् // उचितः संप्रयोगः पार्थग्जनिकानां चित्तचैतसिकानां तदेकत्यानां च शैक्षाशैक्षाणाम् // अनुचितः संप्रयोगः लोकोत्तराणां चित्तचैतसिकानामाद्यतदुत्तराणां लोकोत्तरपृष्ठलब्धानां च // संप्रयोगकुशलः कमनुशंसं प्रतिलभते / चित्तमात्रे वेदनादीनां सांक्लेशिकानांव्यावदानिकानाञ्च धर्माणां संप्रयोगं जानाति / तच्च जाननात्मा वेदयते संजानाति चेतयते स्मरति संक्लिश्यते व्यवदायते चेतयत्य भिनिवेशं प्रजहाति नैरात्म्यमवतरति //
50 SK (अथाभिधमसमुच्चयशास्त्रे मूलवस्तुनि समन्वागमपरिच्छेदश्चतुर्थः)
51 SK समन्वागमः कतमः / लक्षणतः पूर्ववत् // तत्प्रभेदः पुनः त्रिविधः / बीजसमन्वागमः वशितासमन्वागमः समुदाचारसमन्वागमश्च // वीजसमन्वागमः कतमः / कामधातौ जातो भूतः कामप्रतिसंयुक्तैः क्लेशोपक्लेशैः रूपारूप्यप्रतिसंयुक्तैश्च क्लेशोपक्लेशैर्वीजसमन्चागमेन समन्चागतः उपपत्तिप्रातिलाभिकैश्च // कुशलैः // रूपधातौ जातो भूतः कामप्रतिसंयुक्तैः क्लैशोपक्लेशैः वीजसमन्वागमेन समन्वागतो ऽसमन्वागतश्च वक्तव्यः / रूपप्रतिसंयुक्तैरारूप्यप्रतिसंयुक्तैश्च क्लैशोपक्लेशैः बीजसमन्वागमेन समन्वागतो ऽसमन्वागतश्च वक्तव्यः / आरूप्यप्रतिसं(यु)क्तैः क्लेशोपक्लेशैः बीजसमन्वागमेन समन्वागतः उपपत्ति(प्राति)लाभिकैश्च कुशलैः // त्रैधातु कप्रतिपक्ष लाभी यस्य यस्य प्रकारस्य प्रतिपक्ष उत्पन्नस्तस्य बीजसमन्वागमेनासमन्वागतः / यस्य प्रतिपक्षो नोत्पन्नस्तस्य बीजसमन्वागमेन समन्वागतः // वशितासमन्वागमः कतमः / प्रयोगिकानां धर्माणां वशितासमन्वागमेन समन्वागतः लौकिकानां लोकोत्तराणां वा ध्यानविमोक्षसमाधिसमापत्त्यादीनां तदेकत्याजां(चा) व्याकृतानाम् // समुदाचारसमन्वागमः कतमः / स्कन्धधात्वायतनानां यो य एव धर्मः संमुखीभूतः कुशलो वा अकुशलो वा अव्याकृतो वा तस्य समुदाचारसमन्वागमेन समन्वागतः // समुच्छिन्नकुशलमूलः कुशलानां धर्माणां बीजसमन्वागमेन समन्वागतो ऽसमन्वागतश्च वक्तव्यः // आत्यन्तिकः पुनः संक्लेशसमन्वागमः अपरिनिर्वाणधर्मकाणामिच्छन्तिकानां द्रष्टव्यः / मोक्षहेतुवैकल्यादात्यन्तिक एषां हेत्वसमन्वागमः // समन्वागमकुशलः कमनुशंसं प्रतिलभते / आचयापचयज्ञो भवति धर्माणाम् / तथा आचयापचयज्ञो न कस्यां चिल्लौकिक्यां संपत्तौ विपत्तौ वा एकान्तिकसंज्ञी भवति यावदेवानुनयप्रतिघप्रहाणाय //
52 SK अभिधर्मसमुच्चये लक्षणसमुच्चयो नाम प्रथमः समुच्चयः //
53 SK [अथाभिधर्मसमुच्चयशास्त्रे विनिश्चयसमुच्चये सत्यपरिच्छेदः प्रथमः // ]
54 SK विनिश्चयः कतमः / सत्यविनिश्चयो धर्मविनिश्चयः प्राप्तिविनिश्च सांकथ्यविनिश्चयश्च //
55 SK सत्यविनिश्चयः कतमः / चत्वायार्यसत्यानि दुःखं समुदयो निरोधो मार्गश्च / दुःखसत्यं कतसत् / तत्सत्त्वजन्मतो जन्माधिष्टानतश्च वेदितव्यम् / सत्त्वजन्म कतमत् / नरकसत्त्वजन्मतिर्यक्प्रेतेषु मनुष्येषु पूर्वविदेहेष्वपगोदानीयेषु जाम्बूद्वीपेषु उत्तरेषु कुरुषु देवेषु चतुर्मा(हा)राजकायिकेषु त्रायस्त्रिंशेषु यामेषु तुषितेषु निर्माणरतिषु परनिर्मितवशवर्तिषु ब्रह्मपुरोहितेषु महाब्राह्मेषुपरीत्ताभेष्व (प्रमाणाभेषु आभास्वरेषु परीत्तशुभेष्व)प्रमाणशुभेषु शुभकृत्स्नेष्वनभ्रकेषु पुण्यप्रसवेषु वृहत्फलेष्व संज्ञिसत्त्वेष्वबृहेष्वतपेषु सुदृशेषु सुदर्शनेष्वकनिष्ठेष्वाकाशानन्त्यायतनेषु विज्ञानानन्त्यायतनेष्वाकिञ्चन्यायतनेषु नैवसंज्ञानासंज्ञायतनेषु //
56 SK जन्माधिष्ठानं कतमत् / भाजनलोकः / वायुमण्डले अप्मण्डलम्प्रतिष्ठितम् / अप्मण्डले पृथिवीमण्डलम् / पृथिवीमण्डले सुमेरुः सप्तकाञ्चनपर्वताः चत्वारो द्वीपाः अष्टावन्तरद्वीपाः अभ्यन्तरः समुद्रो वाह्यसमुद्रश्चतस्रः सुमेरुपरिषण्डाः चतुर्महाराजकायिकानां वापस्त्रिंशानां स्थानान्तराणि चक्रचाडः पर्वतः आकाशे विमानानि यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्त्तिनां देवानां रूपावचराणां च असुराणां स्थानान्तराणि नारकाणां स्थानान्तराणि / उष्णनरकाःशीतनरकाः प्रत्येकनरकाश्च तदेकत्यानां च तिर्यक्प्रेतानां स्थानान्तराणि यावदादित्याः परिचरन्तो दिशो ऽवभासयन्ते वैरोचनास्तावत्साहस्रके लोके सहस्रं चन्द्राणां सहस्रं सूर्यणां सहस्रं सुमेरूणां पर्वतराजाणां सहस्रं चतुर्णां द्वीपानां सहस्रं चतुर्महाराजकायिकानां देवानां सहस्रं त्रायस्त्रिंशानां सहस्रं यामानां सहस्रं तुषितानां सहस्रं निर्माणरतीनां सहस्रं परनिर्मितवशवर्त्तिनां सहस्रं ब्रह्मलौकिकानामिदमुच्यते सहस्रचूडिको लोकधातुः // सहस्रं सहस्रचूडिकानां धातूनामुच्यते द्वितीयो (Aभिध्-स् ३७) मध्यमसाहस्रो लोकधातुः // सहस्रं मध्यमसाहस्रधातूनामुच्यते तृतीयो महासाहस्रो लोकधातुः / एवं स त्रिसाहस्रो महासाहस्रो लोकधातुः महाचक्रवाड पर्वतमण्डल परिवेष्टितः / स च त्रिसाहस्रमहासाहस्रो लोकधातुः सप्रसंवर्त्तविवर्त्तः / तथा च देवः चक्राकारान् वृष्टिविन्दून् निरन्तरं निरवच्छिन्न माकाशाद् वर्षति / तथा च पूर्वस्यां दिशि निरन्तरं निरवच्छिन्न मप्रमाणो लोकधातुः संवर्त्तिष्यते वा विवर्त्तिष्यते वा संवर्त्तते वा संवृत्तस्तिष्ठति वा विवर्त्तते वा विवृत्तस्तिष्ठति वा / यथा पूर्वस्यां दिशि तथा सर्वासु दशसु दिक्षु / यश्च सत्त्वलोको यश्च भाजनलोकः कर्मक्लेशः जनितः कर्मक्लेशाधिपतेयश्च सर्वमुच्यते दुःखसत्यम् / परिशुद्धलोकधातुस्तु न दुःखसत्यसंगृहीःतो न कर्मक्लेश जनितः न कर्मक्लेशाधिपतेयश्च / केवलं महाप्रणिधानेन व्यवदानकुशलमूलाधिपतिना आकृष्यते तदुत्पत्तिस्थानं चाचिन्त्यं केवलं बुद्धेन बुध्यते न ध्यायिनां ध्यानगोचरः किं पुनः चिन्तयताम् //
57 SK अपि खलु दुःखलक्षणप्रभेदा अष्टौ / ᳚जातिर्दुःखं जरा दुःखं व्याधिदुःखं मरणं दुःखम् अप्रियसंप्रयोगो दुःखं प्रियविप्रयोगो दुःखं यदपीच्छन्न लभते तदपि दुःखं संक्षिप्तेन पञ्चोपादानस्कन्धा दुःखम्᳚ // जातिः किमुपादाय दुःखम् / संबाधदुःखतां तदन्यदुःखाश्रयतां चोपादाय / जरा किमुपादाय दुःखम् / काले विपरीणतिदुःखतामुपादाय // व्याधि किमुपादाय दुःखम् / भूतेषु विपरीणतिदुःखतामुपादाय // मरणं किमुपादाय दुःखम् / जीवितविप्रणाशदुःखतामुपादाय //
58 SK अप्रियसंप्रयोगः किमुपादाय दुःखम् / संयोगज दुःखतामुपादाय // प्रियविप्रयोगः किमुपादाय दुःखम् / विप्रयोगज दुःखतामुपदाय // यदपीच्छन्न लभते तत् किमुपादाय दुःखम् / काम्यफलाभावज दुःखतामुपादाय // संक्षिप्तेनपञ्चोपादानस्कन्धाः किमुपादाय दुःखम् / दौष्ठुल्यदुःखतामुपादाय // एवमष्टौ संगृहीतानि षड् भवन्ति / संवाधदुःखं विपरिणति दुःखं संप्रयोगदुःखं विप्रयोगदुःखं काम्यफलाभावदुःखं दौष्ठुल्यदुःखं च // एवं षड् बाहुल्येनाष्टौ भवन्ति / (Aभिध्-स् ३८) षड् समानान्यष्टौ भवन्ति // यदुक्तं तिस्रो दुःखताः / तासु अष्टौ दुःखानि संगृहितानि भवन्ति / तत्र कथं तिसृषु संगृहीतान्यष्टौ अष्टसु वा संगृहीतास्तिस्रः / पारंपर्षलक्षण संग्रहात् / जातिर्दुखं जरा दुःखं व्याधिर्दुःखं मरणं दुःखम् अप्रियसंप्रयोगो दुःखमिति सन्तानदुःखदुःखता / प्रियविप्रयोगो दुःखं यदपीच्छन्न लभते तदपि दुःखं तद्विपरिणामदुःखता / संक्षिप्तेन पञ्चोपादानस्कन्धा दुःखं तत् संस्कारदुःखता // यदुक्तं द्विविधे दुःखे इति / तत् संवृतिसत्येन दुःखं परमार्थसत्येन दुःखं च / कतमत् संवृतिसत्येन दुःखं कतमत् परमार्थसत्येन दुःखम् / जातिर्दुःखं यावत् यदपीच्छन्न् लभते तदपि दुःखमिति संवृतिसत्येन दुःखम् / यदुक्तं संक्षिप्तेन पञ्चोपादानस्कन्धा दुःखमिति परमार्थसत्येन दुःखम् //
59 SK दुःखसत्यस्य सामान्यलक्षणं कतमत् / अनित्यलक्षणं दुःखलक्षणं शून्यलक्षणमनात्मलक्षणं च // अनित्यलक्षणं कतमत् / समासतो द्वादशविधम् / असल्लक्षणं विनाशलक्षणं विपरिणतिलक्षणं वियोगलक्षणं सन्निहितलक्षणंधर्मतालक्षणं क्षणलक्षणं प्रबन्धलक्षणं व्याध्यादि लक्षणं चित्तचित्ताकारवृत्तिलक्षणं भोगसंपत्तिर्विपत्ति लक्षणं भाजनलोकसंवर्त्तविवर्त्तलक्षणम् // असल्लक्षणं कतमत् / स्कन्धधात्वायतनेषु सर्वकालि कात्मात्मीयता नित्याभावः // विनाशलक्षणं कतमत् / संस्काराणामुत्पन्नानां निरोधः / तक्तालं भूत्वाभावः // विपरिणतिलक्षणं कतमत् / संस्काराणामन्यथाभावः / प्रबन्धासादृश्येन प्रवृत्तिः // वियोगलक्षणं कतमत् / संस्कारेषु वशित्वभ्रंशः परैःस्वीकरणं वा / सन्निहितलक्षणं कतमत् / समुपस्थितानित्यता / यत्तदानीमेवानुभूयमानानित्यता // धर्मतालक्षणं कतमत् / आगामिन्यनित्यता / यामावश्यमनुभविष्यति // क्षणलक्षणं कतमत् / संस्काराणां क्षणादूर्द्धमनवस्थानम् // प्रबन्धलक्षणं कतमत् / अनादिमति संस्कारे उत्पन्ननिरुद्धा नां प्रबन्धाप्रहाणम् // व्यध्यादि लक्षण कतमत् / (Aभिध्-स् ३९) चतुर्णां भूतानां कालोपभोगः जीवितविपरिणामः / चित्तचित्ताकार वृत्तिलक्षणं कतमत् / कदाचित् सारागं चित्तं संभवति कदाचिद् वीतरागं चित्तं संभवति / यद्वत् सद्वेषं वा वीतद्वेषं वा समोहं वा वीतमोहं वा संक्षिप्तं वा विहिसां वा निम्नं वा उन्नतं वा उद्धतं वा अनुद्धतं वा उपशान्तं वा अनुपशान्तं वा समाहित वा असमाहितं वा / एवमादि चित्तसंसारवृत्तिः // भोगसंपत्तिविपत्ति लक्षणं कतमत् / संपत्तीनामन्ते विपत्तिर्विनाशः / भाजनलोकसंवर्त्त विवर्त्त लक्षणं कतमत् / अग्न्यम्बुवायुभिस्त्रिविधः संवर्त्तविवर्त्तः / तिसृणां संवर्त्तर्नानां शीर्षाणि द्वितीय तृतीय चतुर्थध्यानानि / चतुर्थध्याने वाह्यानां विमानानां तु वाह्याभावत् एव संवर्त्तविवर्त्तः / केवलं तैर्देवैः तानि विमानानि सह निर्वर्त्तन्ते सह निरुध्यन्ते एतदुच्यते संवर्त्त विवर्त्तः // अपि खलु त्रयो ऽन्तरकल्पाः दुर्भिक्षव्याधिशस्त्रैर्भवन्ति / हीनस्य त्रिविधकल्पास्यान्ते तैः शस्त्रादिभिर्निर्याणं भवति / यदालोकधातुः संवृत्तो भवति / एको ऽन्तरकल्प प्रथमः अपकर्षः / एकान्तरकल्पः पश्चिम उत्कर्षः / अष्टादश अन्तरकल्पा उत्कर्षापकय / एवं च विंशतिमन्तरकल्पान् लोकधातुः संवर्त्तते / विंशतिमातरकल्पात् लोकधातुर्विवर्त्तते / विंशतिमन्तरकल्पान् लोकधातुर्विवृत्तस्तिष्ठति / संकलिकाश्चैते ऽशीतिरन्तरकल्पा एको महाकल्पो भवति / तया कल्पसंख्याया रूपारूप्याचराणां देवानामायुःप्रमाणं वर्ण्यते // यदुक्तम् अन्यतरे, सत्त्वा आयुःक्षयाद् वा पुण्य क्षयाद् वा कर्मक्षयाद् वा तस्मादधिष्ठानात् च्यवन्ते इति / तत्र आयुदायः कतमः / काले मरणम् / पुण्यक्षयः कतमः / अकाले मरणम् अपुण्यमरणम् / येन सत्त्वा आस्वाद समापत्त्यां रज्यन्ते / पुण्यक्षयाच्च हेतोः ते जीविताच्च्यवन्ते / कर्मक्षयः कतमः / उपपद्यवेदनीयकर्मणः अपरपर्यावेदनीयकर्मणश्च उभयो क्षयान्मरण /
60 SK दुःखलक्षणं कतमत् / तिस्रो दुःखताः अष्टाका वा दुःखं षडाकारं वा (Aभिध्-स् ४०) दुःखं बाहुल्येन पूर्वमुक्तं तद् दुःखं नाम / किं प्रतीत्यसूत्रे उक्तं यदनित्यं तद् दुःखमिति / उभयांशिकीमनित्यतां प्रतीत्य दुःखलक्षणं प्रज्ञायते / उत्पादांशिकीमनित्यतां प्रतीत्य दुःखदुःखता प्रज्ञायते / व्ययांशिकीमनित्यतां प्रतीत्य विपरिणामदुःखता प्रज्ञायते / उभयांशीकिमनित्यतां प्रतीत्य संस्कारदुःखता प्रज्ञायते // तथा च संस्कारानित्यतां संस्कारविपरिणामतां च संधायोक्तं भगवता मया यत्किंचिद् वेदितमिदमत्र दुःखस्येति // अपि खलु उत्पादव्ययधर्मद्वयानुगतेषु संस्कारेषु जात्यादयो ऽष्टौ दुःखानि / प्रज्ञायन्ते इत्यभिसंधाय बुद्धेन भाषितं यदनित्यं तद् दुःखमिति / अपि च अनित्येषु संस्कारेषु जात्यादिकं दुःखं प्रज्ञायते इति अनित्यतो दुःखं न सर्वे संस्कारा इत्यत्राधिसन्धिर्वेदितव्यः //
61 SK शून्यतालक्षणं कतमत् / तेषु तस्य अभावः / अनेन नयेन समनुपश्यनाशून्यता / पुनः तेषु अन्यस्य भावः / अनेन नयेन यथाभूतज्ञानभावः / एतद् वतारशून्यतोच्यते / यथाभूतज्ञानमविपरीतो ऽर्थः / तेषु अभावः कतमः / स्कन्धधात्वायतनेषु नित्यध्रुवकूटस्थाविपरिणामधर्मात्मात्मीयाभावः / अनेन नयेन तेषां शून्यता / तेषु अन्यस्य भावः कतमः / ते ष्वेव नैरात्म्यम् / तच्च आत्मनो नास्तिता अनात्मनो ऽस्तिता सती शून्यता // एतदभिसंधायोक्तं भगवता सतो यथाभूतज्ञानं भावः / असतो यथाभूतज्ञानमभावः // अपि खलु त्रिविधा शून्यता / स्वभावशून्यता तथाभावशून्यता प्रकृतिशून्यता च / आद्या परिकल्पिता द्रष्टव्या / तृतीया परिनिष्पन्नस्वभावा द्रष्टव्या //
62 SK अनात्मलक्षणं कतमत् / यथात्मवादे स्थितस्य आत्मलक्षणस्य स्कन्धधात्वायतनेषु (Aभिध्-स् ४१) तल्लक्षणस्याभावः / स्कन्धधात्वायतनेषु आत्मलक्षणाभावतामुपादाय / इदमुच्यते अनात्मलक्षणम् // एतदभिसंघायोक्तं भगवता सर्वे धर्मा अनात्मान इति // अपि चोक्तं भगवता नैतत् सर्वं मम नैषो ऽहमस्मि न मे स आत्मा इति / एवमेतं यथाभूतं संप्रज्ञाय द्रष्ठव्यम् इति तस्य को ऽर्थ उक्तः / बहिर्धावस्तभिसंधायोक्तं नैतत् सर्वं ममेति / कुत एतत् / बहिर्धावस्तुनि कल्पितात्मीयलक्षणम् / अतः आत्मीयनिष्कर्षणम् / अध्यात्मवस्तुनि परिकल्पितात्मात्मीयलक्षणम् / अत आत्मात्मीयोभयनिष्कर्षणम् /
63 SK पूर्वमुक्तम् अनित्यं क्षणलक्षणमिति / तत् कथं ज्ञायते / यथा चित्तचैतसिकानां क्षणिकता तथा रूपादीनामपि क्षणिकता द्रष्टव्या / चित्तोपात्ततामुपादाय चित्तैकयोगक्षेमतामुपादाय चित्तविकारतद्विकारतामुपादाय चित्ताश्रयतामुदापादाय चित्ताधिपत्यसंभूततामुपादाय चित्त्वशवर्त्तिनां चोपादाय // अपि खलु अत्यन्तविकारोपालब्धितामुपादाय उत्पन्नस्य चानपेक्ष्य प्रत्ययं स्वरसविनाशितामुपादाय रूपस्यापि क्षणिकता द्रष्टव्या //
64 SK यदुक्तं यत्किंचिद्रूपं सर्वन्तच्चत्वारि महाभूतानि चत्वारि च महाभूतान्युपादायेति / तत्किं सन्धायोक्तम् / संभवं सन्धायोक्तम् / एकदेशाश्रयीभावार्थ उपादायार्थः // यत्र पुनः समुदाये यद्भूतमुपलभ्यते तत्तत्रा स्तिति वक्तव्य / (अस्ति एकभौतिकः अस्ति द्विभौतिकः) अस्ति यावत्सार्वभौतिकः / उपादायरूपे ऽपि यदुपादायरूपं यस्मिन् समुदाय उपलभ्यते तत्तत्रास्तीति वेदितव्यम् // यत्पुनरूच्यते परमाणुसंचित्तो रूप समुदाय इति तत्र निःशरीरः (Aभिध्-स् ४२) परमाणुर्वेदितव्यः / बुद्ध्या पर्यन्तप्रभेदतस्तु परमाणुव्यवस्थानं पिण्डसंज्ञाविभाघनतामुपादाय रूपे द्रव्याः परिनिष्पत्तिप्रवेशतां चोपादाय //
65 SK तत् पुनरेतद् दुःखमस्ति विपुलमसंलिखितं संलिखितं संलिखिता संलिखितं च // अस्ति मध्यमसंलिखितम् अस्ति तनुकमसंलिखितम् अस्ति तनुत्तरं संलिखितम् अस्ति तनुतमं संलिखितम् अस्त्यदुःखं दुःखप्रतिभासं महासंलेखप्रत्युपस्थानं च // कतमद्विपुलं दुःखमसंलिखितम् / यत्कामावचरमनुपचितकुशलमूलानाम् // कतमत्संलिखितम् / तदेवोत्पन्नमोक्षभागीयानाम् // कतमत्संलिखितासंलिखितम् / तदेव लौकिकवैराग्यायावरोपितकुशलमूलानाम् // कतमन्मध्यमसंलिखितम् / रूपधातूपपन्नानां विवर्जितमोक्षभागीयानाम् / कतमत्तनुकमसंलिखितम् // आरूप्योपपन्नानां विवर्जितमोक्षभागीयानाम् // कतमत्तनुत्तरं संलिखितम् / यच्छैक्षाणाम् // कतमत्तनुतमं संलिखितम् / यदशैक्षाणां जीवितेन्द्रियप्रत्ययं षडायतनम् // कतमददुःखं दुःखप्रतिभासं महासंलेखप्रत्युपस्थानम् / यत्पारमिप्राप्तानां बोधिसत्त्वानामचिन्त्य भवोपपत्तिषु //
0 SK यदुक्तं मरणं दुःखमिति / तत्र मरणं त्रिविधम् / कुशलचित्तस्याव्याकृतचित्तस्य च // पटुके चित्तप्रकारे स्वकुशल मूलबलाधानतो (वा) परोपसंहारतो वा कुशलचित्तस्य मरणं द्रष्टव्यम् // पटुक एव चित्तप्रकारे स्वाकुशलमुलबलाधा नतो वा परोपसंहारतो वा अकुशलचित्तस्य मरणं द्रष्टव्यम् // पटुके वा चित्तप्रकारे अपटुके वा तदुभयवै कल्यादभिसंस्कारासमर्थस्य वा अव्याकृतचित्तस्य मरणं द्रष्टव्यम् // शुभकारिणः अधःकाय स्तत्प्रथमतः शीतीभवति // अशुभकारिणः पुनः ऊर्ध्वंकायः शीतीभवति // तत्राशुभकारिणो ऽन्तराभवो ऽभिनिर्वर्त्तते / तद्यथा कृष्णस्य कुतपस्य निर्भासो ऽन्धकारतमिस्राया वा रात्र्याः // अशुभकारिणस्तद्यथा शुक्लस्य परस्य निर्भासज्योत्स्नाया वा रात्र्याः / अन्तराभव(ः) कामधातौ रूपधातौ चोपपद्यमानस्यारूपधातोश्चयमानस्य / (Aभिध्-स् ४३) स च मनोमयो गन्धर्व इत्यपि / परं सप्ताहं तिष्ठत्यन्तरेण च्यवते / एकदा च व्यावर्त्तते / तत्रस्थश्च कर्मोपचिनोनि सभागांश्च सत्त्वान् पश्यति / यत्र चोपपद्यते तदाकृतिरप्रतिहतगतिश्च / ऋद्धिमानिव वाशुगामी उपपत्त्यायतने प्रतिहन्यते / उपपत्त्यायतने तुलावनामोन्नामयोगेन च्यवते प्रतिसन्धि च वध्नाति / अन्तराभवस्थश्चोपपत्त्यायतने रागमुत्पादयति / यदन्यश्च क्लेशः प्रत्ययो भवति / सहरागेणान्तराभवो निरुध्यते कललं च सविज्ञानकमुत्पद्यते // स च विपाकस्तत ऊर्ध्वमिन्द्रियाभिन्रिवृत्तिः यथा प्रतित्यसमुत्पादे चतृसृष्वायोनिषु / अण्डजायां जरयुजायां संस्वेदजायामुपपदुकायञ्च
67 SK (अथ विनिश्चये सत्यपरिच्छेदे प्रथेमे द्वितीयो भागः)
68 SK समुदयसत्यं कतमत् / क्लेशः क्लेशाधिपतेयञ्च कर्म // प्राधान्यनिर्द्देशस्तु (? शास्तु) भगवता तृष्णा पौनर्भविकी नन्दीरागसहगता तत्र तत्राभिनन्दिनी समुदयसत्यनिर्देशेन निर्दिष्टा // प्राधान्यार्थः कतमः / यः सर्वत्रगार्थः // सर्वत्रगार्थः कतमः / तथ हि तृष्णा वस्तुसर्वत्रगा अवस्थासर्वत्रगा अध्वसर्वत्रगा धातुसर्वत्रगा एषणा सर्वत्रगा प्रकारसर्वत्रगा च केशः कतमः / परिसंख्यानतो ऽपि लक्षणतो ऽप्युत्थान तो ऽप्यालम्बनतो ऽपि संप्रयोगतो ऽपि पर्यायतो ऽपि विप्रतिपत्तितो ऽपि धतुतो ऽपि निकायतो ऽपि प्रहाणतो ऽपि क्लेशो द्रष्टव्यः // परिसंख्यानं कतमत् // षट् क्लेशा दश वा // षट् क्लेशाः कतमत् / रागः प्रतिघो मानो ऽविद्या विचिकित्सा दृष्टिश्च // त एव दृष्टेः पञ्चाकार्जभेदेन दश भवन्ति // लक्षणं कतमत् / यो धर्म उत्पद्यमानो ऽप्रशान्तलक्षण उत्पद्यमानेन येन काय चित्तप्रबन्धाप्रशमप्रवृत्तिः / इदं क्लेशलक्षणम् / उत्थानं कतमत् / क्लेशानुशयश्चाप्रहीणो भवति क्लेशस्थानीयश्च धर्म आभासगतो भवति / तत्र च अयोनिशो मनस्कारः प्रत्यवस्थितो भवति / एवं क्लेश उत्पद्यते / इदमुच्यते उत्थानम् // आलम्बनं कतमत् सर्वक्लेशप्रयोगः // सर्वक्लेशालम्बनं सर्वक्लेशवस्त्वालम्बनं (Aभिध्-स् ४४) च / अपि खलु कामावचरः क्लेशः स्थापयित्वा अविद्या दृष्टि विचिकित्सां च तदन्यः उर्ध्वभूम्यनालम्बनः / ऊर्ध्वभूमिकः क्लेशः अधोभूम्यनालम्बनः / तद्भूमितो वीतरागत्वात् / निरोधमार्गसत्या लम्बनः क्लेशो निरोधमर्गालम्बनानभिश्लिष्टः / तत्परिकल्पस्त्वस्यालम्बनमित्युच्यते // क्लेशः पुनर्द्विविधः / अवस्तुकालम्बनः सवस्तुकालम्बनश्च // अवस्तुकालम्बनः कतमः दृष्टयो दृष्टिसंप्रयुक्ताश्च धर्माः // तदन्यः सवस्तुकालम्बन इत्युच्यते //
69 SK संप्रयोगः कतमः / रागः प्रतिघेन न संप्रयुज्यते / प्रतिघवद्विचिकित्सयापि न संप्रयुज्यते / शिष्टेषु संप्रयोगो लभ्यते // यथा रागस्तथा प्रतिघो ऽपि द्रष्टव्यः // प्रतिघो रागेण मानेन दृष्ट्या च न संप्रयुज्यते // मानः प्रतिघेन विचिकित्सया च न संप्रयुज्यते // अविद्या द्विविधा / सर्वक्लेशसंप्रयुक्ता अविद्या / असामान्या अविद्या / असामान्य अविद्या कतमा / सत्येष्वज्ञानम् // दृष्टिः प्रतिघेन विचिकित्सया च न संप्रयुज्यते // क्रोधादय उपक्लेशा अन्यो ऽन्यं न संप्रयुज्यन्ते // आह्रीक्यमनपत्राप्यं च सर्वत्राकुशले सामान्येन संप्रयुज्येते // स्त्यानमौद्धत्यमाश्रद्ध्यं कौसीद्यं प्रमादश्च सर्वत्र क्लिष्टे संप्रयुज्यते //
70 SK पर्यायः कतमः / सर्वक्लेशा नानार्थाश्रया नानवस्थाः पर्यायाः / संयोजनं बन्धनं अनुशयः उपक्लेशः पर्यवस्थानम् ओघः योगः उपादानम् ग्रन्थः निवरणम् खिलः मलः निघः शल्यः किंचनः दुश्चरितम् आस्रवः विघातः परिदाहः रणः ज्वरः वनसः विबन्धः //
71 SK संयोजनानि कति कथं संयोजनं कुत्र संयोजनम् / संयोजनानि नव / अनुनयसंयोजनम् प्रतिघसंयोजनम् मानसंयोजनम् अविद्यासंयोजनम् दृष्टिसंयोजनम् परामर्शसंयोजनम् विचिकित्सासंयोजनम् ईर्ष्यासंयोजनम् मात्सर्यसंयोजनं च /
72 SK अनुनयसंयोजनं कतमत् / त्रैधातुको रागः / अनुनयसंप्रयोजनेन संप्रयुक्तः त्रैधातुकं नोद्वेजयति / अनुद्वेगेन कुशलसमुदाचारः कुशलासमुदाचारश्च / तेन आयत्यां दुःखाभिनिवृत्तो दुःखेन संयुज्यते //
73 SK प्रतिघसंयोजनं कतमत् / सत्त्वेषु दुःखे दुःखस्थानीयेषु न धर्मेषु चित्तस्य विहिंसा / प्रतिघसंयोजनेन संप्रयुक्तो प्रतिघनिमित्तेषु चित्तं नोपेक्षते / अनुपेक्षया च अकुशलसमुदाचारः कुशलासमुदाचारश्च / तेन आयत्यां लौकिकदुःखाभिनिवृत्तौ दुःखेन संयुज्यते //
74 SK मानसंयोजनं कतमत् / सप्त मानाः / मानो ऽतिमानो मानतिमानो ऽस्मिमानो ऽभिमान ऊनमानो मिथ्यामानश्च / मानः कतमः / हीनान् श्रेयानस्मि (अ) सदृशेन सदृशो ऽस्मीति वा या चित्तस्योन्नतिः / अतिमानः कतमः / सदृशात् श्रेयानस्मि श्रेयसा सदृशो ऽस्मीति वा या चित्तस्योन्नतिः / मानातिमानः कतमः / श्रेयसः श्रेयानस्मीति या चित्तस्योन्नतिः / अस्मिमानः कतमः / पञ्चसूपादानस्कन्धेष्वात्मात्मीयाभिनिवेशाद्या चित्तस्योन्नतिः / अभिमानः कतमः / अप्राप्त उत्तरे विशेषा धिगमे प्राप्तो मयेति या चित्तस्योन्नतिः / ऊनमानः कतमः / वह्वन्तरविशिष्टादल्पान्तरहीनो ऽस्मीति या चित्तस्योन्नतिः / मिथ्यामानः कतमः / अगुणवतो गुणवानस्मीति या चित्तस्योन्नतिः / मानसंयोजनेन संप्रयुक्त आत्मात्मीयौ न संजानाति / असंज्ञानात् आत्मात्मीयग्रहः अकुशलसमुदाचारः कुशला समुदाचारश्च / तेनायत्यां दुःखाभिनिवृत्तौ दुःखेन संयुज्यते //
75 SK अविद्यासंयोजनं कतमत् / त्रैधातुकमज्ञानम् / अविद्यसंयोजनेन संप्रयुक्ता दुःखधर्मान् समुदयधर्मान् नाध्यवस्यति / अनध्यवसायेन अकुशलसमुदाचारः कुशलासमुदाचारश्च / तेनायत्यां लौकिकदुःस्वाभिनिवृत्तौ दुःखेन संयुज्यते //
76 SK दृष्टिसंयोजनं कतमत् / तिस्रो दृष्ठयः / सत्कायदृष्टिरन्ताग्राहदृष्टिर्मिथ्याःदृष्टिश्च / दृष्टिसंयोजनेन संप्रयुक्तो मिथ्यानिःसरणं परिकल्पितविप्रतिसारं पर्येषने अभिनिविशते / मिथ्यानिःसरणाभिनिवेशेनाकुशलसमुदाचारः कुशलासमुदाचारश्च / तेनायत्यां लौकिकदुःखभिनिवृत्तौ दुःखेन संयुज्यते //
77 SK परामर्शसंयोजनं कतमत् / दृष्टिपरामर्शः शीलव्रतपरामर्शश्च / (Aभिध्-स् ४६) परामर्शसंयोजनेन संप्रयुक्तो मिथ्यानिःसरणोपायं कल्पयत्यभिनिविशते / मिथ्यानिःसरणोपायामिनिवेशेनाकुशलसमुदाचारः कुशलासमुदाचारश्च / तेनायत्यां लौकिकदुःखाभिनिवृत्तौ दुःखेन संयुज्यते //
78 SK विचिकित्सासंयोजनं कतमत् / सत्येषु विमतिः / विचिकित्सासंयोजनेन संप्रयुक्तो बुद्धधर्मसंघेषु रत्नेषु विचिकित्सते रत्नत्रयं न समुदावरति / रत्नत्रयासमुदाचारेणाकुशलसमुदाचारः कुशलासनुदाचारश्च / तेनायत्यां लौकिकदुःखाभिनिवृत्तौ दुःखेन संयुज्यते //
79 SK ईर्ष्यासंयोजनं कतमत् / लाभसत्काराध्यवसितस्य परसंपत्तावमर्षकृतश्चेतसो व्यारोषः / ईर्ष्यासंयोजनेन संप्रयुक्तो लाभसत्कारान् अनुनयति धर्मं न गुरुकरोति / लाभसत्कारगुरुकारेणा कुशलसमुदाचारः कुशलासमुदाचारश्च / तेनायत्यां लौकिकदुःखभिनिवृत्तौ दुःखेन संयुज्यते //
80 SK मात्सर्यसंयोजनं कतमत् / लाभसत्काराध्यवसितस्य परिष्कारेषु चेतस आग्रहः / मात्सर्यसंयोजनेन संप्रयुक्त उपचयमनुनयति त द्वर्जनतां च न सत्करोति / उपचयानुनयेनाकुशलसमुदाचारः कुशलासमुदाचारश्च / तेनायत्यां लौकिकदुःखभिनिवृत्तौ दुःखेन संयुज्यते //
81 SK बन्धनं त्रिविधम् / रागबन्धनं द्वेषबन्धनं मोहबन्धनं च / रागबन्धनेन सत्त्वानां विपरीणामदुःखतायां बन्धनम् / द्वेषबन्धनेन सत्त्वानां दुःखदुःखतायां बन्धनम् / मोहबन्धनेन सत्त्वानां संस्कारदुःखतायां बन्धनम् / अपिच रागद्वेषमोहान्निश्रित्य कुशलसमुदाचारेषु न वशवर्त्तितां लभते / अत उच्यते बन्धनम् //
82 SK अनुशयाः सप्त / कामरागानुशयः प्रतिघानुशयः भवरागानुशयः मानानुशयः अविद्यानुशयः दृष्टयनुशयः विचिकित्सानुशयश्च / कामरागानुशयः कतमः / कामरागपक्षीयं दौष्ठुल्यम् // प्रतिघानुशयः कतमः / प्रतिघपक्षीयं दौष्ठुल्यम् // भवरागानुशयः कतमः / रूपारूप्यरागपक्षीयं दौष्ठुल्यम् // मानानुशयः कतमः / मानपक्षीयं दोष्ठुल्यम् // अविद्यानुशयः कतमः अविद्यापक्षीयं दौष्ठुल्यम् // दृष्ट्यनुशयः कतमः / दृष्टिपक्षीयं दौष्ठुल्यम् // विचिकित्सानुशयः कतमः / विचिकित्सापक्षीयं दौष्ठुल्यम् // कामैषाणाया अविरतस्य कामरागप्रतिघानुशयावनुशयाते / (Aभिध्-स् ४७) भवेषणाया अविरतस्य भवरागानुशयो ऽनुशेते / मिथ्याब्रह्मचर्यैषणाया अविरतस्य मानाविद्यादृष्टि विचिकित्सानुशया अनुशेरते / ते सत्त्वा हीनप्रतिपक्षं लभन्ते मदो मानश्चोत्पद्यते आर्यसत्येषु संमोहश्च / मिथ्यामोक्षं मोक्षोपायं च संतोरयन्ति बुद्धशासनधर्मविनयेषु विमतिः विचिकित्सा च //
83 SK उपक्लेशस्तु यक्लेशास्ते उपक्लेशा अपि भवन्ति / उपक्लेशास्तु न क्लेशाः / क्लेशान् स्थापयित्वा तदन्यः क्लिष्टः संस्कारस्कन्धसंगृहीतः सर्वश्चैतसिको धर्मः / स पुनः कतमः / षड्रागादीन् क्लेशान् स्थापयित्वा क्लिष्टः संस्कारस्कन्धसंगृहीतः क्रोधादिकश्चैतसिको धर्मः / अपि खलु रागो द्वेषो मोहश्च चैतसिका उपक्लेशा उच्यन्ते / यैश्चित्ते उपक्लेशो न वैराग्यं न विउमोक्षो नावरणप्रहाणम् / अत उच्यन्ते उपक्लेशाः / तथा च भगवतोक्तम् दीर्घरात्रं वो रागद्वेषमोहा उपक्लिश्यन्तुइ विक्षिपन्ति चित्रं संक्लिश्यन्ति /
84 SK पर्यवस्थानान्यष्टौ / स्त्यानं मिद्धमौद्धत्यं कौकृत्यमीर्ष्या मात्सर्यमाहिक्यमनपत्राप्यं च / पुनः पुनः उद्वेगेन चित्तं पर्ययनह्यन्तीति पर्यवस्थानानि / तथाच शमथप्रग्रहनिमित्तभावनाकाले तत्सन्निश्रय ब्रह्मचर्या दिशुद्धि संगृहीतशील काले चित्तं पर्यवनह्यन्ति //
85 SK ओघश्चतुर्विधः / कामौघः मवौघः दृष्ट्चोघः अविद्यौघश्च / स्त्रोतो ऽनुकूलः प्रवाहावर्त्त ओघार्थः / संकेशान्वयतः / आद्यः कामैषणाभावना / द्वितीयः भवैषणाभावना / अपरावुभौ मिथ्याब्रह्मचर्यैषणाभावना / आश्रयाश्रितसंबन्धयोगेन //
86 SK योगश्चतुर्विधः / कामयोगः भवयोगः दृष्टियोगः अविद्यायोगश्च / विसंयोगपरिपन्थकरो योगार्थः / विशुद्धिविपर्ययतः / ते पुनर्यथायोगमेषणात्रयभावना /
87 SK उपादानानि चत्वारि / कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानमात्मवादोपादानं च / विवादमूलोपादानं पौनर्भविकोपादानं चोपादानं द्रष्टव्यम् / (Aभिध्-स् ४८) तेन किं भवति / कामरागविबन्धग्रेधासंक्लेशहेतुना गृहिणो ऽन्यो ऽन्यं विवदन्ति / तदु विवादमूलं प्रथममुपादनम् / दृष्टिरागविबन्धग्रेधा संक्लेशहेतुना प्रव्रजिता अन्यो ऽन्यं विवदन्ति / तद् विवादमूलमपरमुपादानत्रयम् // द्वाषष्टिर्दृष्टिगतयो दृष्ट्युपादानम् / नानावृतशीलैः कृच्छ्रं तपः शीलव्रतोपादानम् // तदाश्रिता च सत्कायदृष्टिः आत्मवादोपादानम् // दृष्टिशीलव्रतोपादानाभ्यां तीर्थ्या अन्यो ऽन्यं विवदन्ति / आत्मवादोपादाने तु तीर्थ्या अन्यो ऽन्यं न विवदन्ति / धार्मिकैः सार्धमन्यो ऽन्यं विवदन्ति // एवं च विवादमूले ऽभिनिवेशात् पौनर्भविकदुःखविपाकोपादानाक्षेपाच्चोपादानान्युच्यन्ते /
88 SK ग्रन्थाश्चत्वारः / अभिध्याकायग्रन्थः व्यापादकायग्रन्थः शीलव्रत परामर्शकायग्रन्थः तत्सत्याभिनिवेशोपादानकायग्रन्थश्च / समाहितमनःस्वभावस्य कायस्य परिग्रन्थार्थेन ग्रन्थो वेदितव्यः / तेन किं भवति / चतुर्विधं चित्तं विक्षिप्यते / वित्तादिषु अनुनयहेतोः चित्तं विक्षिप्यते / विवादस्तुषु अप्रतिपत्तिहेतोः चित्तं विक्षिप्यते / दुष्करशीलव्रतदुःखहेतोः चित्तं विक्षिप्यते / अयोनिशो ज्ञेय सन्तीरणहेतोः चित्तं विक्षिप्यतेए //
89 SK निवरणानि पञ्च / कामच्छन्दनिवरणम् व्यापादनिवरणम् स्त्यानमिद्धनिवरणम् औद्धत्यकौकृत्यनिवरणम् विचिकित्सानिवरणं च / कुशलपक्षस्यासंप्रख्यानं निवरणं द्रष्टव्यम् / तच्च प्रव्रज्यायामभिरतौ चोदनायां प्रतिपत्तौ शमथे प्रग्रहे उपेक्षायां च //
90 SK खिलस्त्रिविधः / रागखिलो द्वेषखिलो मोहखिलश्च / रागद्वेषमोहान्निश्रित्य पूर्वाभ्यासेन रागादिचर्यापरिनिष्पादनम् / चित्तस्यादान्ततया अकर्मण्यतया दुर्विमोक्षतया च सत्त्वैस्तस्याश्चर्याया दुर्भेद्यत्वात् खिल इत्युच्यते //
91 SK मलास्त्रयः / रागमलो द्वेषमलो मोहमलश्च / तच्च रागद्वेषमोहान्निश्रित्य (Aभिध्-स् ४९) दौशीलम् / तत् संप्रजानब्दिः सब्रह्मचारिभिर्ग्रामे वा अरण्ये वा तथा कुर्वन्तं पश्यद्भिरुच्यते अयं खल्वायुष्मान् करोत्येवं कृत्यं चरत्येवमाचरितं ग्रामकण्टक आमिषो ऽशुचिः / अतो मला नाम //
92 SK निघास्त्रयः / रागनिघो द्वेषनिघो मोहनिघश्च / रागद्वेषमोहान्निश्रित्य दीर्घकालं पुनः पुनर्जातिमरणेषु विलश्यन्ते इत्युच्यन्ते निघाः //
93 SK शल्यास्त्रयः / रागशल्यो द्वेषशल्यो मोहशल्यश्च / रागद्वेषमोहान्निश्रित्य भवे भवोपकरणेषु वा अध्येषणासमुत्पादेन प्रबन्धानुपच्छेदेन बुद्धे धर्मे संघे दुःखसमुदयनिरोधमार्गेषु वा विचिकित्सासमुत्पादेन वा शल्या नाम //
94 SK किंचनास्त्रयः / रागकिंचनो द्वेषकिंचनो मोहकिंचनश्च / रागद्वेषमोहान्निश्रित्य वित्तसंचयेषु सभयाः सवैरा भूयो विहारविक्षेपाः किंचना नाम /
95 SK दुश्चरितानि त्रीणि / रागदुश्चरितं द्वेषदुश्चरितं मोहदुश्चरितं च / रागद्वेषमोहान्निश्रित्य कायवाङ्मनोदुश्चरितानि चरन्तीति दुश्चरितानीत्युच्यते / पुनः रागद्वेषमोहान्निश्रित्योत्पन्नानां बहूनामकुशलदुश्चरितानामकुशलमूलत्वेन त्रिभिर्व्यवस्थानम् / तत् कथम् / सत्त्वा लोके आमिषकिंचित्कहतो चरन्ति / लोके ऽपकार निमित्तपरिकल्पहतोः दुश्चरितं चरन्ति / लोके मिथ्याधर्माभिनिवेशहेतोः दुश्चरितं चरन्ति / इति ते रागद्वेषमोहा दुश्चरितानि अकुशलमूलानि /
96 SK आस्रवास्रयः / कामास्रवो भवास्रवो ऽविद्यास्रवश्च / चित्तावेसारं स्त्रतं कुर्वन्ती त्यास्रवाः इत्युच्यन्ते / ते पुनः कथम् / बहिर्धा विसारं निश्रित्य कामास्रवः / अन्तर्धाविसारं निश्रित्य भवास्रवः / तदुभयाश्रयविसारं निश्रित्य अविद्यास्रवः //
97 SK विघातास्त्रयः / रागविघातो द्वेषविघातो मोहविघातश्च / रागद्वेषमोहान्निश्रित्य भवे परिष्करेषु वा एषणा / अभावे विघाते सर्वदा दारिद्य दुःखादिभिः क्लिष्टा भवन्तीति विघाताः /
98 SK परिदाहास्त्रयः / रागपरिदाहो द्वेषपरिदाहो मोहपरिदाहश्च / रागद्वेषमोहसन्निश्रयेण अयोनिशो निमित्ताभिनिवेशो ऽनुव्यञ्जनाभिनिवेशश्च / तेन निमित्तानुव्यञ्जनाभिनिवेशेन कायं चित्तं च परिदहन्तीति परिदाहाः //
99 SK उपायासास्त्रयः / रागोपायासो द्वेषोपायासो मोहोपायसश्च / रागद्वेषमोहसन्निश्रयेण तत्र तत्र रतिरध्यवसानं च / तद्विपरिणामे शोकपरिदेवनादुःखदौर्मनस्योपायसैः स्पृष्टा भवन्तीत्यु पायासाः //
100 SK रणास्त्रयः / रागरणो द्वेषरणो मोहरणश्च / रागद्वेषमोहसन्निश्रयेण शस्त्रादानदण्डादिभिः रणयन्ति नानाविधं भण्डनं कलहं कुर्वन्तीति रागादयो रणा उच्यन्ते //
101 SK ज्वरास्त्रयः / रागज्वरो द्वेषज्वरो मोह ज्वरश्च / रागद्वेषमोहसन्निश्रयेण अधर्मरागेण महादहनेन परिदहन्ति विषमलोभेन महादहनेन परिदहन्ति मिथ्याधर्मेण महादहनेन परिदहन्तीति ज्वरा नाम //
102 SK वनसास्त्रयः / रागवनसो द्वेषवनसो मोहवनसश्च / रागद्वेषमोहसन्निश्रयेण जातिमरणमूलेषु संस्कारेषु संयोजयन्ति संजनयन्ति सत्त्वान् नानाविधकायेषु पञ्चगतिसंसारेषु अभिनिर्वर्त्तयन्तीति रागादयो वनसा इत्युच्यन्ते //
103 SK विबन्धास्त्रयः / रागविबन्धो द्वेषविबन्धो मोहविबन्धश्च / रागद्वेषमोहसन्निश्रयेण कायसापेक्षता वित्तसापेक्षता बोध्यभावः कोलाहलरतिः परित्तकुशलधर्मलाभे ऽपि सन्तोषः / तैः कुशलधर्मान्न भावयन्तीति विबन्धाः उच्यन्ते / एवमादयः क्लेशार्थानां पर्याया अप्रमाणाः //
104 SK विप्रतिपत्तिः कतमा / रागः प्रतिघश्च द्वौ क्लेशौ विषये दृष्टौ च विप्रतिपन्नौ / (Aभिध्-स् ५१) मानः सत्त्वेषु दृष्टौ च विप्रतिपन्नः / सत्कायान्तग्राहमिथ्यादृष्टयो ज्ञेये विप्रतिपन्नाः / दृष्टिपरामर्शशीलव्रतपरामर्शौ दृष्टौ विप्रतिपन्नौ / विचिकित्सा प्रतिपक्षे विप्रतिपन्ना / अविद्या सर्वत्र विप्रतिपन्ना / दश क्लेशा दुःखे समुदये च विप्रतिपन्नाः / तन्निदानपदस्थानतः / पुनः दश क्लेशा निरोधे मार्गे च विप्रतिपन्नाः / तैस्तत्रोत्राससंजननतः //
105 SK धातु कतमः / प्रतिघं स्थापयित्वा तदन्ये सर्वे त्रैधातुकप्रतिसंयुक्ताः / प्रतिघस्तु कामधातुप्रतिसंयुक्तः / अपि खलु रागः कामधातौ सुखसौमनस्योपेक्षाभि संप्रयुज्यते / यथा कामधातौ तथा प्रथमद्वितीयध्यानयोः / तृतीयध्याने सुखोपेक्षाभ्यां संप्रयुज्यते / तदूर्ध्वमुपेक्षया संप्रयुज्यते // प्रतिघो दुःखदौर्मनस्योसुखोपेक्षाभिः संप्रयुज्यते // मानः कामधातौ सौमनस्योपेक्षाभिः संप्रयुज्यते / प्रथमद्वितीयध्यानयो सुखसौमनस्योपेक्षाभिः संप्रयुज्यते / तृतीयध्याने सुखोपेक्षाभ्यां संप्रयुज्यते / तदूर्ध्वमुपेक्षयैव संप्रयुज्यते // यथा मानस्तथा सत्कायदृष्टिः अन्तग्राहदृष्टिः दृष्टिपरामर्शः शीलव्रतपरामर्शश्च // मिथ्यादृष्टिः कामधातौ दौर्मनस्यसौमनस्योपेक्षाभिः संप्रयुज्यते / रूपधातावारुप्यधातौ च यथावेदितं संप्रयुज्यते // विचिकित्सा कामधातौ दौरमनस्योपेक्षाभ्यां संप्रयुज्यते / रूपधातावारूप्यधातौ च यथावेदितं संप्रयुज्यते // अविद्या द्विविधा / संप्रयुक्ता असामान्या च / सर्वक्लेशसंप्रयोगतः संप्रयुक्ता अविद्या यथावेदितं संप्रयुज्यते / आसामान्या अविद्या कामधातौ दौर्मनस्योपेक्षाभ्यां संप्रयुज्यते / तदूर्ध्वधातौ यथावेदितं संप्रयुज्यते // कथं सर्वक्लेशा उपेक्षया संप्रयुज्यन्ते / सर्वक्लेशानामौदासीन्यमागम्यास्तगमनतामुपादाय // अपि खलु रागः कामधातौ षड्विज्ञानकायिकः // यथा रागस्तथा प्रतिघो ऽविद्या च // रागो रूपधातौ चतुर्विज्ञानकायिकाः / आरूप्यधातौ मनोविज्ञानकायिकः // यथा रागस्तथा अविद्या // मानो दृष्टिर्विचिकित्सा च सर्वत्र मनोविज्ञानकायिकाः // अपि खलु रागः प्रतिघो मानश्च कामधातौ वस्त्वेकदेशप्रवृत्तिकाः / कामधातुवद् रूपधातावारूप्यधातावपि शिष्टाः क्लेशाः सर्वत्र सर्ववस्तु प्रवृत्तिकाः //
106 SK निकायः कतमः / द्वौ क्लेशनिकायौ / दर्शनप्रहातव्यनिकायो भावनाप्रहातव्यनिकायश्च / दर्शनप्रहातव्यनिकायः पुनश्चतुर्विधः / दुःखदर्शनप्रहातव्यनिकायः समुदयदर्शनप्रहातव्यनिकायः / निरोधदर्शनप्रहातव्यनिकायः मार्गदर्शनप्रहातव्यनिकायश्च / कामधातौ दुःखदर्शनप्रहातव्या दश क्लेशाः / दुःखदर्शनप्रहातव्यवत् समुदयदर्शनप्रहातव्याः निरोधदर्शनप्रहातव्या मार्गदर्शनप्रहातव्याश्च / रूपधातौ दुःखादिचतुर्विधदर्शनप्रहातव्याः प्रत्येकं नवक्लेशाः स्थापयित्वा प्रतिघम् / रूपधातुवदारूप्यधातावपि / एवं च दर्शनप्रहातव्यक्लेशनिकाया द्वादशाधिकं शतं क्लेशाः // कामधातौ भावना प्रहातव्याः षट्क्लेशाः / सहजा सत्कायदृष्टिः अन्तप्राहदृष्टिः रागः प्रतिघो मानो ऽविद्या च / रूपधातौ भावनाप्रहातव्याः पञ्च क्लेशाः स्थापयित्वा प्रतिघम् / रूपधातुवदारूप्यधातावपि / एवं च भावनाप्रहातव्यनिकायाः षष्टिः क्लेशाः //
107 SK प्रहाणं कतमत् / तथा पर्यायप्रहाणं तेन मनस्कारेण प्रहाणम् / तस्मात् प्रतिलम्भात् प्रहाणम् / तथा पर्यायप्रहाणं कतमत् / परिज्ञानतः परिवर्जनतः प्रतिपक्षलाभतश्च / परिज्ञानं कतमत् / तन्निदानवस्तुपरिज्ञानम् स्वभावपरिज्ञानम् आदीनवपरिज्ञानं च / परिवर्जनं कतमत् / तत्कालोत्पन्नस्यानादानम् / प्रतिपक्षलाभः कतमः / अनुत्पन्नस्यानुत्पादत उत्पन्नस्य वर्जनतो वा प्रतिपक्ष लाभमार्गः // तेन मनस्कारेण प्रहाणम् / कीदृशेन मनस्कारेण किं प्रजहाति / असंभिन्नालम्बनेन मनस्कारेण सर्वधर्मा अनात्मान इति पश्यति / अनित्याकारा इति क्लेशान् प्रजहाति / अनित्याकार परिकर्मतः // तस्मात् प्रतिलम्भात् प्रहाणम् / कस्मात् प्रतिलम्भात् प्रजहाति / नातीतात् निरुद्धतः / नानागतात् अनुत्पन्नतः / न प्रत्युत्पन्नात् असहभावतः / केवलं क्लेशदौष्ठुल्यप्रतिलम्भात् प्रजहातीति प्रहाणम् / यथा यथा दौष्ठुल्यमुत्पद्यते तथा तथा प्रतिपक्ष उत्पद्यते यथा यथा प्रतिपक्ष उत्पद्यते तथा तथा दौष्ठुल्यनिरोधः / समं समम् / यथा (Aभिध्-स् ५३) लोके ज्योतिरुत्पद्यते तमश्च निरुध्यते / तद्विसंयोगतो यदानागतक्लेशो ऽनुत्पन्नधमषु अवतिष्ठते तत् प्रहाणमुच्यते //
108 SK क्लेशाधिपतेयं कर्म कतमत् / चेतना कर्म चेतयित्वा कर्म च / सर्वं कर्मलक्षणं नाम // पुनः कर्म पञ्चविधम् / उपलब्धिकर्म कारित्रकर्म व्यवसायकर्म परिणतिकर्म प्राप्तिकर्म च / अस्मिंस्त्वर्थे यद् भूयसा व्यवसायकर्माभिप्रेतम् // चेतनाकर्म कतमत् / पुण्यकर्म अपुण्यकर्म आनिंज्यकर्म च // चेतयित्वा कर्म कतमत् / कायकर्म वाक्कर्म मनस्कर्म च / तानि त्रीणि कायवाङ्मनस्कर्माणि अकुशलानि कुशलानि च / अकुशलानि कतमानि दशाकुशलकर्मपथाः / प्राणातिपातः अदत्तादानम् काममिथ्याचारः मृषावादः पिशुनवाक् परुषवाक् संभिन्नप्रलापः अभिद्या व्यापादः मिथ्यादृष्टिश्च / कुशलानि कतमानि / दश कुशलकर्मापथाः / प्राणातिपाताद् विरतिः अदत्तादानाद्विरतिः काममिथ्याचाराद्विरतिः मृषावादाद्विरतिः पिशुनवाचो विरतिः परुषवाचो विरतिः संभिन्नप्रलापाद्विरतिः अनभिध्या अव्यापादः सम्यग्दृष्टिश्च // अपिच प्राणातिपातादीनां यथायोगं पञ्च लक्षणप्रभेदाः / वस्तुतः आशयतः प्रयोगतः क्लेशतः निष्ठागमनतश्च //
109 SK यदुक्तं सूत्रे चेतनाकर्म / कतमानि चेतनाकर्माणि पराज्ञप्तिसंचेतनीयताकर्म परमसंज्ञप्तिसंचेततीयताकर्म अविज्ञायसंचेतनीयताकर्म मूलाभिनिवेशसचेतनीयताकर्म विपर्याससंचेतनीयताकर्म च / तेषु मूलाभिनिवेशसंचेतनीयताकर्म विपर्यासंचेतन यता कर्म च / तेषु मूलाभिनिवेशसंचेतनीयता कर्मविपर्याससंचेतनीयताकर्मभ्यां यदि कृतं भवत्युपचितं च न नास्य विपाकः प्रतिसंवेद्यते / कृतं समुदाचारसमुत्थापितम् / उपचितं च वासना समुपचितम् //
110 SK यदूक्तं सूत्रे नियतवेदनीयं कर्म इति / कतमे नियप्ताः कर्मकियानियमः विपाकपतिसंवेदनानियमः अवस्थानियमश्च //
111 SK तन्न दशानामकुशलानां कर्मपथानां विपाकफलं त्रिषु अपायेषु / मृदूमध्याधिमात्राणां तिर्यक्प्रेतनरकेषु विपाकः / निप्यन्दफलं प्रत्येकं तदानुरूप्येण मनुष्येषूपनन्नाना मात्मभावपरिग्रहयोर्विपत्तिः / अधिपतिफलं प्रत्येकं तदानुरूप्येणैव वाह्यानां भावानां विपत्तिः / यथोक्तं सूत्रे / दशानां कुशलानां कर्मपथानां विपाकफलं देवमनुष्यमतिषूपपद्यमानानां देवेषु मनुष्येषु वा विपाकः / निष्यन्दफलं तदायतनेषु प्रत्येकं तदानुरूप्येण आत्माभावपरिग्रहयोः संपत्तिरभिनिर्वर्त्तते / अधिपत्तिफलं तदायतनेषु प्रत्येकं तदानुरूप्येणैव वाह्यानां भावानां संपत्तिरभिनिर्वर्त्तते /
112 SK कुशलानामकुशलानां च कर्मणां सुगतौ दुर्गतौ च विपाको ऽभिनिर्वर्त्तते / तच्चाक्षेपकेण कर्मणा परिपूरकेण च कर्मणा / आक्षेपकं कर्म कतमत् / येन फल विपाको ऽभिनिर्वर्त्तते / परिपूरकं कर्म कतमत् / येनोपपन्न इष्टानिष्टफलं वेदयते / येन एकेन कर्मणा एकमात्मभवनाक्षिपति वा अनेकेन कर्मणा एकमात्मभावमाक्षिपति वा अनेकेन कर्मणा अनेकमात्मभावमाक्षिपति वा // एकः सत्त्वो ऽनेकेन कर्मणा समन्वागतः / तत्र विपाकफलवेदनायाः कः क्रमः / काये यद् औदारिकं पूर्वं पच्यते च्युतिकाले प्रत्युपस्थितं वा पूर्वं बहुलीकारतां गतं वा अत्रसमाचरितं वा / तद्विपाकः पूर्वं पच्यते //
113 SK यदुक्तं सूत्रे त्रिविधं कर्म पुण्यकर्म अपुण्य कर्म आनिंज्यकर्म च / पुण्यकर्म कतमत् / कामप्रतिसंयुक्तं कुशलं कर्म / अपुण्यकर्म कतमत् / अकुशलं कर्म / आनिंज्यकर्म कतमत् / रूपारूप्यप्रतिसंयुक्तं कुशलं कर्म // यदुक्तं सूत्रे अविद्यालम्बनाः संस्काराः पुण्यानिंज्या अपुण्यानिंज्याश्चेति / कतमे (Aभिध्-स् ५५) पुण्यानिंज्या अविद्यालम्बनाः संस्कारा उत्पद्यन्ते / द्विविधः संमूढः / फलविपाकसंमूढः तत्त्वार्थसंमूढश्च / फलविपाकसंमूढस्यापुण्याः संस्काराः / तत्त्वार्थसंमूढस्य पुण्यानिंज्याः संस्काराः /
114 SK प्राणातिपातस्य कर्मपथस्य लोभद्वेषमोहैः प्रयोगः / द्वेषेणैव निष्ठा / प्राणातिपातवत् परुषवागव्यापादयोरपि कर्मपथयोः / अदत्तादानस्य कर्मपथस्य लोभद्वेषमोहैः प्रयोगः / लोभेनैव निष्ठा / अदत्तादानवत् काममिथ्याचाराभिध्ययोः कर्मपथयोः / मृषावादस्य कर्मपथस्य लोभद्वेषमोहैः प्रयोगः / त्रयाणामन्यतमेन निष्ठा / मृषावादवत् संभिन्नप्रलापपिशुनवाचोः कर्मपथयोः / मिथ्यादृष्टेः कर्मपथस्य रागद्वेषमोहैः प्रयोगः / मोहेनैव निष्ठा /
115 SK यदुक्तं सूत्रे साधारणं कर्म असाधारणं कर्म वलवत्कर्म दुर्वलं कर्म च / साधारणं कर्म कतमत् / यत्कर्म भाजनलोके नानाविधं विकल्पं करोति // असाधारणं कर्म कतमत् / यत्कर्म सत्त्वलोके नानविधं विकल्पं करोति // अपि च सत्त्वानामन्योन्याधिपतेयं कर्मापि / येन कर्मबलेन सत्त्वानामन्योन्याधिपतिप्रत्ययः प्रोक्तः / तेषामन्योन्याधिपतिबलतस्तदप्युच्यते साधारणं कर्म / यतः सूत्रे उक्तम् / यथा सत्त्वानामान्यैः सत्त्वैः सह अन्योन्यं दर्शनादिकं नोपभोगो नोपलब्धिः / बलवत्कर्म कतमत् / प्रतिपक्षबलवत्पुग्दलस्य संचेतनीयमकुशलं कर्म / प्रतिपक्षवलविस्काम्भणेन वेदनीयनरककर्मप्रवृत्तेः दृष्टधर्मवेदनायाः परिनिष्पादनं दृष्टधर्मवेदनीयनरककर्मप्रवृत्तेरनुत्पादः / येन तत्कर्म बलवदित्युच्यते / प्रातिपक्षिककर्मबलवतः सर्वं संचेतनीयं कुशलं कर्म बलवदित्युच्यते / तत्कर्म निश्रित्योक्तं भगवता ममार्यश्रावका अप्रमाणवैपुल्यकर्मणि चित्तं कुशलं परिभावयन्ति अभिसंस्कृते सप्रमाणे कर्मणि नाक्षिपन्ति नावस्थापयन्ति न परिहापयन्ति तत्संख्याते / यदपि प्रतिपक्षदुर्बलपुग्दलस्य संचेतनीयमकुशलं कर्म तदपि कुशलात्कर्मणो (Aभिध्-स् ५६) बलवदित्युच्यते / यत् पुनः संचेतनीयं कर्म नियतविपाकमप्रहीणमपरिज्ञातं तद् बलवत् कर्म इत्युच्यते / तन्मनसि निधायोक्तं सर्वं च कुशलाकुशलं कर्म नियतविपाकमार्यमार्गेण प्रहीणं बलवत् कर्म इत्युच्यते / यदपि कामप्रतिसंयुक्तमकुशलं कर्म यदपि पूर्वमभ्यस्तं यदपि पदस्थं यदप्यसाध्यमभिसंस्कृतं कर्म अपरिनिर्वाणधर्मतः तदपि प्रकृत्या बलवत् कर्म इत्युच्यते / क्षेत्रतो ऽपि चित्ताभिसंस्कारतो ऽपि बलवत् कर्म वेदितव्यम् / पुनर्नवभिराकारैर्बलवत् कर्म वेदितव्यम् / तद्यथा क्षेत्रतः वस्तुतः स्वभावतः आश्रयतः मनसिकारतः आशयतः सहायतः बहुलीकारतः बाहुजन्यतश्च // तद्विपर्येण दुर्बलं कर्म //
116 SK भगवतोक्तं य एवं वदेद्यथायं पुरुषपुग्दलः कर्म करोत्युपचिनोति तथा तथा विपाकं प्रतिसंवेदयत इत्येवं सति ब्रह्मचर्यभासो न भवत्यवकाशश्च न प्रज्ञायते सम्यग् दुःखक्षयाय दुःखस्यान्तक्रियायै / यस्त्वेवं वदेद्यथायं पुरुषपुग्दलो यथावेदनीयं कर्म करोत्युपचिनोति तथा तथा यथावेदनीयं विपाकं प्रतिसंवेदयत इत्येवं सति ब्रह्मचर्यभासो भवत्यवकाशश्च प्रज्ञायते सम्यग् दुःखक्षयाय दुःखस्यान्तक्रियायै / इति यदुक्तं सूत्रे तत्र को ऽभिसंधिः / तत्र बुद्धा मनस्येवं मिथ्यावचनं प्रतिषेद्धुं कामयन्ते / यत् सुखसहगतस्य कर्मणः सुखसहगत एव विपाको ऽभिनिर्वर्त्तते दुःखसहगतस्य कर्मणो दुःखसहगत एव विपाको ऽभिनिर्वर्त्तते अदुःखासुखसहगतस्य कर्मणस्तत्सहगत एव विपाको ऽभिनिर्वर्त्तते / इत्येवमुक्तम् / सम्यग्वचनं त्वेवमनुमन्यते / सुखसहगतस्य कर्मणः सुखवेदनीयस्य सुखविपाको ऽनुज्ञायते दुःखवेदनीयस्य दुःखविपाको ऽनुज्ञायते अदुःखासुखवेदनीयस्यादुःखासुखविपाको ऽनुज्ञायते / दुःखसहगतस्य कर्मणः सुखवेदनीयस्य सुखविपाको ऽनुज्ञायते दुःखवेदनीयस्य दुःखविपाको ऽनुज्ञायते अदुःखासुखवेदनीयस्यादुःखासुखविपाको ऽनुज्ञायते / अदुःखासुखसहगतस्य कर्मणः सुखवेदनीयस्य (Aभिध्-स् ५७) सुखविपाको ऽनुज्ञायते दुःखवेदनीयस्य दुःखविपाको ऽनुज्ञायते अदुःखासुखवेदनीयस्यादुःखासुखविपाको ऽनुज्ञायते / एषो ऽभिसन्धिः तत्र सूत्रे /
117 SK अपि खलु कर्मप्रभेदस्त्रिविधः / संवरकर्म असंवरकर्म नैवसंवरनासंवरकर्म च / संवरकर्म कतमत् / प्रातिमोक्षसंवरसंगृहीतं कर्म ध्यानसंवरसंगृहीतं कर्म अनास्रवसंवरसंगृहीतं कर्म च // प्रातिमोक्षसंवरसंगृहीतं कर्म कतमत् / सप्त संघोपपन्नानां संवराः / भिक्षुसंवरः भिक्षुणीसंवरः शिक्षमाणवसंवरः श्रामणेरसंवरः श्रामणेरी संवरः उपासकसंवरः उपासिकासंवरः उपवाससंवरश्च // कतमं पुग्दलमधिकृत्य प्रव्रजितसंवरो व्यवस्थापितः / दुश्चरितविवेकचरितं कामविवेकचरितं पुग्दलमधिकृत्य / कं पुग्दलमधिकृत्य उपासकोपासिकासंवरो व्यवस्थापितः / दुश्चरितविवेकचरितमधिकृत्य नो तु कामविवेकचरितं पुग्दलम् // कं पुग्दलमधिकृत्योपवाससंवरो व्यवस्थापितः / नैव दुश्चरितविवेकचरितं न कामविवेकचरितं पुग्दलमधिकृत्य // उपासकानामेकत्यानां शिक्षास्यानीयानां शिक्षसमवागम इत्युच्यते / उपासकसंवरो ऽसमन्वागम इत्युच्यते / उक्तः समन्वागमः शीलविपत्तिरप्युच्यते / यथा षण्डपण्डकानाम् / तेषा मुपासकसंवरः प्रतिषिध्यते न वा / तेषामुपासकसंवरो न प्रतिषिध्यते / केवलं तेषामुपासकत्वं प्रतिषिध्यते / भिक्षुभिक्षुणीनामुभयप्रव्रजितानां संघस्य पक्षस्य संसेवोपासनायोग्यत्वात् / पण्डकः पुनः पञ्चविधः / जातिपण्डकः ईर्ष्यापण्डकः पक्षपण्डकः आसेचनकपण्डकः आपत्पण्डकश्च //
118 SK ध्यानसंवरसंगृहितं कर्म कतमत् / दौःशील्यसमुत्थापकानां क्लेशानां वीजोपघाते सति कामेभ्यो वीतरागस्य या विरतिः / प्रथमध्यानवीतरागस्य या विरतिः / द्वितीयध्यनवीतरागस्य या विरतिः / तृतीयध्यानवीतरागस्य या विरतिः / सोच्यते ध्यानसंवरसंगृहीतं कायवाक्कर्म /
119 SK अनास्रवसंवरसंगृहीतं कर्म कतमत् / सत्यदर्शनेन अनास्रवमनस्कारबलेन प्रतिलब्धा अनास्रवा विरतिः / सोच्यते अनास्रवसंवरसंगृहीतं कर्म //
120 SK असंवरकर्म कतमत् / अभिजन्मतो वा तत्कर्मसमादानतो वा तत्कर्माध्याचारनिश्चयः असंवर इत्युच्यते / ते पुनरसंवराः कतमे / औरभ्रिकाः कौक्कृटिकाः शौकरिकाः शाकुनिकाः मात्स्यिकाः लुब्धकाः वागुरिकाः चोराः घातकाः गोवंधकाः नागवंधकाः माण्डलिकाः नागमण्डलिकाः कारागारिकाः सूचकाः उपघातकाः प्रभृतयः /
121 SK नैवसंवरनासंवर संगृहीतं कर्म कतमत् / नैवसंवरनासंवरविहारः कुशलाकुशलं कर्म //
122 SK पुनः कर्मप्रभेदस्त्रिविधः / सुखवेदनीयं कर्म दुःखवेदनीयं कर्म अदुःखासुखवेदनीयं कर्म च // सुखवेदनीयं कर्म कतमत् / कामावचरात् तृतीयध्यानं यावद् यत् कुशलं कर्म // दुःखवेदनीयं कर्म कतमत् / अकुशलं कर्म // अदुःखासुखवेदनीयं कर्म कतमत् / तृतीयध्यानादूर्ध्वं यत् कुशलं कर्म /
123 SK कर्मप्रभेदः पुनस्त्रिविधः / दृष्टधर्मवेदनीयं कर्म उपपद्यवेदनीयं कर्म अपरपर्यायवेदनीयं कर्म च // दृष्टधर्मवेदनीयं कर्म कतमत् / तत्कर्म दृष्टे धर्मे यस्य विपाको विपच्यते / तच्च मैत्रीसमापत्तेरुच्चलितस्यं परिहाणिं वृद्धिं वा कुर्वतः दृष्टे धर्मे विपाको लभ्यते // यथा मैत्रीसमापत्तेरुच्चलितस्य तथा अरणसमापत्तेरुच्चलितस्य निउरोधसमापत्तेरुच्चलितस्य स्त्रोतापत्तिफलादुच्चलितस्य अर्हत्त्वफलादुच्चलितस्य च / बुद्धप्रमुखे संघे कुशलमकुशलं च कुर्वतः दृष्टे धर्मे विपाको लभ्यते // अन्येषां तीव्राशयप्रयोगेण कुशलाकुशलकर्मप्रतिपन्नानामपि दृष्टे धर्मे विपाको लभ्यते // उपपद्यवेदनीयं कर्म कतमत् / तत्कर्म अनन्तरे जन्मनि यस्य विपाको विपच्यते / (Aभिध्-स् ५९) तद्यथा पंचनान्तर्यकर्माणि / अपि च यान्यन्यानि कुशलाकुशलानि कर्माणि येषामनन्तरे जन्मनि विपाको विपच्यते तत्सर्वमुच्यते उपपद्यवेदनीयं कर्म // अपरपर्यायवेदनीयं कर्म कतमत् / तत्कर्म यस्यानन्तरजन्मनो ऽपरपर्यायेषु विपाको विपच्यते / तदुच्यते ऽपरपर्यायवेदनीयं कर्म /
124 SK पुनः कर्मप्रभेदश्चतुर्विधः / कृष्णं कृष्णविपाकं कर्म शुक्लं शुक्लविपाकं कर्म कृष्णशुक्लं कृष्णशुक्लविपाकं कर्म अकृष्णशुक्लाविपाकं व्यामिश्रं कर्म // कृष्णं कृष्णविपाकं कर्म कतमत् / अकुशलं कर्म // शुक्लं शुक्लविपाकं कर्म कतमत् / त्रैधातुकं कुशलं कर्म // कृष्णशुक्लं कृष्णशुक्लविपाकं कर्म कतमत् / कामप्रतिसंयुक्तं कर्म यत् कर्म वा आशयतः प्रयोगतो वा शुक्लं यत् कर्म वा प्रयोगतः कृष्णमाशयतः शुक्लम् // अकृष्णशुक्लाविपाकं व्यामिश्रं कर्म कतमत् / प्रयोगानन्तर्यमार्गे ऽनास्रवं कर्म अविशेषेण च सर्वस्यानास्रवकर्मणः परिपन्थमानुकूल्यस्वभावमधिकृत्य वंकदोषकषायाणां शौचेयानां मौनेयानां च कर्मणां यथाक्रमं व्यवस्थानं वेदितव्यम् / तथा च दानानि शौचेयानि कर्माणि / दानकर्म कतमत् / निदानतः उत्थानतः प्रदेशतः स्वभावतश्च दानकर्म विकल्प्यते / निदानम् अलोभो ऽद्वेषो ऽमोहश्च कुशलमूलानि // उत्थानं तान्येव चेतनासहगतानि // प्रदेशो देयानि वस्तूनि // स्वभावो दानसंपत्तिकाले कायवाङ्मनस्कर्माणि // दानसंपत् कतमा / अभीक्ष्णदानतः अपक्षपातदानतः इच्छापरिपूरणदानतश्च दानसंपद् वेदितव्या / अपि च अनिश्रितदानतः महाशुचिदानतः परम प्रहृष्टदानतः अभिक्ष्णदानतः क्षेत्रभाजनदानतः नवपुराणसंविभागदानतश्च दानसंपद् वेदितव्या // देयसंपत् कतमा / अनभिदुतदेयवस्तुतः अपरापकृतदेयवस्तुतः अकुथितविमलदेयवस्तुतः शुचिदेयवस्तुतः धर्मार्जितदेयवस्तुतश्च देयसंपद् वेदितव्या //
125 SK तथाचोक्तं सूत्रे शीलसमन्वागतः प्रातिमोक्षसंवरसंवृत आचारगोचरसंपन्नो ऽणुमात्रेष्ववद्येषु महाभयदर्शी शिक्षते शिक्षापदेषु इति // कथं शीलसमन्वागतो भवति / विशुद्धशीलनुप्क्षणोपपन्नतः // कथं प्रातिमोक्षसंवरसंवृतो भवति / नैर्याणिकशीलसंधारणतः // कथमाचारगोचरसंपन्नो भवति / विशुद्धशीलसहभावतो ऽगर्हितानाम् // कथमणुमात्रेष्ववद्येषु महाभयदर्शी भवति // तीव्रेण गौरवेण शीलशिक्षणतः // कथं शिक्षते शिक्षापदेषु / शिक्षाशीलानां शिक्षणतः //
126 SK अतः परं शीलमारभ्य यद् बुद्धेन सूत्रेषु निर्दृष्टं कायेन संवृतो भवतीत्येवमादि // कथमुच्यते कायेन वाचा संवृतो भवति / संप्रजन्यपरिगृहीततः // कथं कायवाक्संपत्त्या संपन्नो भवति / आपत्त्यनापत्तिदानतः // कथं परिशुद्धकायवाक्समुदाचारो भवति / अविप्रतिसारादीनां क्रमेण संप्रतिपत्त्या यावत् समाधिलाभसन्निश्रय तः // कथं कुशलकायवाक्समुदाचारो भवति / क्लिष्टवितर्कव्यवतीर्णतः // कथमनवद्यकायवाक्समुदाचारो भवति / मिथ्याप्रणिधिपरिवर्जनेन ब्रह्मचर्यभावनातः // कथमव्यावध्यकायवाक्समुदाचारो भवति / परेषामनवज्ञया सुखसंवासतः / कथमानुलोमिकायवाक्समुदाचारो भवति / निर्वाणप्राप्त्यनुकूलतः / कथ मनुच्छविककायवाक्समुदाचारो भवति / कुशलस्य च्छादनतो ऽकुशलस्य प्रकाशनतश्च // कथमौपयिककायवाक्समुदाचारो भवति / सब्रह्मचर्यग्रहणशीलतः // कथं प्रतिरूपकायवाक्समुदाचारो भवति / गुरुषु गुरुस्थानीयेषु चानिहितमानतः // कथं प्रदक्षिणकायायवाक्समुदाचारो भवति / अववादे प्रदक्षिणप्राहिततः // कथमतप्तकायवाक्समुदाचारो भवति / कष्टपोहीनाधिमुक्ति विवर्जिततः // कथमतनुताप्यकायवाक्समुदाचारो भवति / समुत्सृष्टभोगकर्मान्ताविप्रतिसारितः / कथमविप्रतिसारिकायवाक्समुदाचारो भवति / अल्पमात्रेणासंतुष्टाविप्रतिसारितया //
127 SK यदुक्तं भगवता यथा सत्त्वाः / कर्मस्वका कर्मदायादाः कर्मयोनीयाः कर्मप्रतिसरणाः कर्म सर्वान् सत्त्वान् विभजति उच्चनीचतया हीनप्रणीततया (Aभिध्-स् ६१) इति // कथं सत्त्वाः कर्मस्वका भवन्ति / स्वयंकृतकर्मनिपाकप्रतिसंवेदनातामुपादय // कथं कर्मदायादा भवन्ति / स्वयं कृतकर्मविपाकप्रतिसंवेदनतायां कुशलाकुशलानां कर्मणामन्योन्यदायादतामुपादाय // कथं कर्मयोनीया भवन्ति / सत्त्वानां महेतुविषमहेतुविवर्जितयोनितामुपादाय // कथं कर्मप्रतिसरणा भवन्ति / प्रतिपक्षकर्मविशिष्टकर्मबन्धनाश्रयतामुपादाय // कथं कर्मणा सत्त्वो उच्चनीचा भवन्ति / यत् कर्मणा सुगतौ दुर्गतौ वात्मभावप्रभेदं लभन्ते // कथं हीनप्रणीता भवन्ति / यत् सत्त्वा गुणदोषप्रभेदेन समन्वागता भवन्ति //
128 SK यदुक्तं भगवता सत्त्वानां कर्मविपाको ऽचिन्त्य इति / तत्र कथं कर्मविपाकश्चिन्त्यः कथं कर्मविपाको ऽचिन्त्यः / कुशलस्य कर्मणो देवमनुष्यगतिस्विष्ट विपाकला भश्चिन्त्यः / अकुशलस्य कर्मणो हीनासु तिसृषु दुर्गतिषु अनिष्टविपाकलाभश्चिन्त्यः / अयं चिन्त्यः // येन कर्मणा सत्त्वानामात्मभावविपाकवैचित्र्यमभुनिर्वर्त्तते सो ऽचिन्त्यः / तदेव कुशलाकुशलं कर्मस्थानवस्तुहेतुविपाकप्रकारादिप्रभेदेरचिन्त्यम् / विविधवाह्यवस्तुवैचित्र्याभिनिर्वर्त्तकं कर्माचिन्त्यम् / मणिमन्त्रौपधिमुष्टियोगप्रतिसंयुक्तं कर्माचिन्त्यम् / योगिनां प्रभावकर्मचिन्त्युअम् / बोधिसत्त्वानां वशिताभिः क्रियमाणं कर्मा चित्न्यम् / तद्यथा आयुर्वशितया चित्तवशितया परिष्कारवशितया कर्मवशितया उपपत्तिवशितया अधिमुक्तिवशितया प्रणिधानवशितया ऋद्धिवशितया ज्ञानवशितया धर्मवशितया / एवं च बोधिसत्त्वानां महासत्त्वानामेवमादिभिर्वशिताभिर्यत्कर्म क्रियते तदचिन्त्यम् / सर्वेषां बुद्धानां वुद्धकृत्यानुष्ठानं कर्माचिन्त्यम् //
129 SK तथा च समुदयसत्यं समासतो लक्षणप्रभेदेन चतुर्विधम् / हेतुलक्षणं समुदयलक्षणं प्रभवलक्षणं प्रत्यलक्षणं च / हेतुलक्षणं कतमत् / पुनर्भववासनाया आहारकं कारणं हेतुरिति हेतुलक्षणं वेदितव्यम् // समुदयलक्षणं कतमत् / तेषां तेषामुपचितवासनानां सत्त्वानां तस्मिंस्तस्मिन् सत्त्वनिकाये उदयस्य कारणमिति (Aभिध्-स् ६२) समुदयलक्षणं वेदितव्यम् // प्रभुवलक्षणं कतमत् / प्रत्यात्मं सन्तानानां सर्वप्रकारप्रकर्षोद्भवस्य कारणमिति प्रभवलक्षणं वेदितव्यम् // प्रत्यलक्षणं कतमत् / सत्त्वानाषान्पप्राप्त्यत्ययकारणमिति प्रत्ययकारणं वेदितव्यम् //
130 SK (अथ विनिश्चये सत्यपरिच्छेदे प्रथमे तृतीयो भागः) /
131 SK निरोधसत्यं कतमत् / लक्षणतः गाम्भीर्यतः संवृतितः परमार्थतः अपरिपूरितः परिपूरितः निरलंकारतः सालंकारतः शेषतः अशेषतः अग्रतः पर्यायतश्च निरोधसत्यं वेदितव्यम् //
132 SK लक्षणतः कतमत् / तथतायामार्य मार्गे क्लेशानामनुत्पादो यो निरोधाश्रयो निरोधको निरोधस्वभावो वा // तन्निरोधसत्यलक्षणम् // यदुक्तं भगवता चक्षुः श्रोत्रे घ्राणजिव्हाकायाः / मनश्च तेषु आयतनेषु नामरूपयोरात्यन्तिकनिरोधो न शेषः इति / यच्चोक्तं तदायतनं वेदितव्यं यथा चक्षुश्च निरुध्यते रूपसंज्ञा च विरज्यते यावत् मनश्च निरुध्यते धर्मसंज्ञा च विरज्यते इति / अनेन नयेन आलम्बनानां प्रापणं तथतायामालम्बनादूर्ध्वं सास्रवाणां धर्माणां निरोधः / तन्निरोधसत्य लक्षणम् //
133 SK गाम्भीर्यतः कतमत् / यत् तेषां संस्काराणामुपरमान्निरोधः / तथोपरमात् तेषां संस्काराणां निरोधो नान्यो वाच्यः नानन्यो वाच्यः नाप्यन्यो नाप्यनन्यो वाच्यः न नैवान्यो नानन्यो वाच्यः // कुतः / निष्प्रपञ्चतः / अस्मिंस्त्वर्थे प्रपञ्चोत्पत्तिः न संचिन्त्या न मार्गेण न न्यायेन न कुशलप्रयोगेण चिन्त्या इति / यदुक्तं भगवता तेषां षण्णां स्प्रष्टाव्ययतनानां क्षयो विरागो निरोधो व्युपशमो ऽस्तंगम इत्येवमादि / स्यादन्यः स्यादनन्यः स्यादन्यो ऽपि नान्यो ऽपि (Aभिध्-स् ६३) स्यान्नैवान्यो नानन्यो ऽपि इति निष्प्रपञ्च प्रपञ्च उत्पद्यते // यावत् षडायतनानि तावत् प्रपञ्चाः // यदा षडायतनानां निरोधश्छेदः तदा प्रपञ्चानां विरतिः //
134 SK संवृतितः कतमत् / लौकिकमार्गैर्वीजनिग्रहेण यो निरोधो लभ्यते / अतो भगवता तदांशिकनिर्वाणमित्युच्यते // परमार्थतः कतमत् / आर्यप्रज्ञया बीजनिर्मूलनेन यो निरोधो लभ्यते // अपरिपूरितः कतमत् / शैक्षाणां स्त्रोतापन्नफलसंग्रहेण वा सकृदागमिफलसंग्रहेण वा अनागामिफलसंग्रहेण वा यो निरोधः // परिपूरितः कतमत् / अशैक्ष्याणामर्हत्त्वफलसंग्रहेण यो निरोधः // निरलंकारतः कतमत् / प्रज्ञाविमुक्तानामर्हतां यो निरोधः // सालंकारतः कतमत् / उभयभाग विमुक्तानां त्रैविद्यानां षडभिज्ञानामर्हतां यो निरोधः // शेषतः कतमत् / सोपधिशेषो यो निरोधः // अशेषतः कतमत् / निरुपधिशेषो यो निरोधः // अग्रतः कतमत् / बुद्धानां बोधिसत्त्वानामप्रतिष्ठितनिर्वाणसंग्रहेण यो निरोधः / स्पर्शविहारिणां सर्वेषां सत्त्वानां हितसुखाधिष्ठानतः //
135 SK पर्यायतः कतमत् / अशेषप्रहाणं प्रतिनिःसर्गः व्यन्तीभावः क्षयो विरागो निरोधो व्युपशमो ऽस्तंगम इत्येवमादि // किमुपादायोच्यते अशेषप्रहाणम् / परिशिष्टानि पदान्युपादाय // किमुपादायोच्यते प्रतिनिःसर्गः / पर्यवस्थानप्रतिनिःसरणतामुपादाय // किमुपादायोच्यते क्षयः / दर्शनमार्गेण प्रतिपक्षविसंयोगलाभता मुपादाय // किमुपादायोच्यते विरागः / भावनामार्गेण प्रतिपक्षविसंयोगलाभतामुपादाय // किमुपादायोच्यते निरोधः / आयत्यां तत्फलदुःखानुत्पत्तितामुपादाय // किमुपादायोच्यते व्युपशमः / दृष्टे धर्मे तत्फलचेत्तदुःखासमुदाचारतामुपादाय // किमुपादायोच्यते ऽस्तंगमः / सोपधिशेष निरोधतामुपादाय //
136 SK किमुपादाय स निरोधः पुनरसंस्कृतमित्युच्यते / लक्षणत्रयविरहतामुपादाय // किमुपादाय स निरोधः पुनर्दुर्दर्श इत्युच्यते / चर्मचक्षुषो दिव्यचक्षुषश्च (Aभिध्-स् ६४) गोचरातिकमणतामुपादाय // किमुपादाय स निरोधः पुनरचलमित्युच्यते / मतिषु संचारबिरहमामुपादाय // किमुपादाय स निरोधः पुनरमत मित्युच्यते / तृष्णात्रयविरहतामुपादाय // किमुपादाय स निरोधः पुनरमृतमित्युच्यते / स्कन्धमारविरहतामुपादाय // किमुइपादाय स निरोधः पुनरनास्रवमित्युच्यते / सर्व क्लेशमारविरहतामुपादाय // किमुपादाय स निरोधः पुनर्लयनमित्युच्यते / अनवद्यप्रीतिसुखसंनिश्रयतामुपादाय // किमुपादाय स निरोधः पुनर्द्वीपमित्युच्यते / त्रैधातुकपरिच्छेदतामुपादाय // किमुपादाय स निरोधः पुनस्त्राणमित्युच्यते / सर्वमहादुःखोपद्रवापगमतामुपादाय // किमुपादाय स निरोधः पुनः शरणमित्युच्यते / आशयप्रयोगयोरवन्ध्यपदस्थानतामुपादाय // किमुपादाय स निरोधः पुनः परायणमित्युच्यते / सर्वस्य परमार्यत्वस्यागमनपदस्थाणतामुपादाय // किमुपादाय स निरोधः पुनरच्युतमित्युच्यते / जातिविरहतामुपादाय // किमुपादाय स निरोध पुनर्निर्वारमित्युच्यते / सर्वक्लेशसन्तापविरहतां सर्वेच्छालाभदुःखमहासन्तापविरहतां चोपादाय // किमुपादाय स निरोधः पुनर्निष्पदारिदाहमिओत्युते / सर्व शोकपरिदेवनादुःखदौर्मनस्य विक्षेपविरहतामुपादाय // किमुपादाय स निरोधः पुनः क्षेममित्युच्यते / हिंसा भयरहितविहारपदस्थानतामुपादाय // किमुपादाय स निरोधः पुनः शिवमित्युच्यते / लाभवस्तुपदस्थान तामुपादाय // किमुपादाय स निरोधः पुनः सौवर्णिकमित्युच्यते परमार्थसुखाधिष्ठानतामुपादाय // किमुपादाय स निरोधः पुनः स्वस्त्ययनमित्युच्यते / तत्सुखप्रयोगप्राप्तिपदस्थानतामुपादाय // किमुपादाय स निरोधः पुनरोग्यमित्युच्यते / सर्वावरणरो गविरहतामुपादाय // किमुपादाय स निरोधः पुनरार्निज्यमित्युच्यते / सर्वविक्षेपविरहतामुपादाय // किमुपादाय स निरोधः पुनर्निर्वाणमित्युच्यते / अनिमित्तशान्तमहा सुखविहारपदस्थानतामुपादाय / किमुपादाय स निरोधः पुनरजातमित्युच्यते / प्रतिसंध्युपपत्तिविरहतामुपादाय // किमुपादाय स निरोधः पुनरभूतमित्युच्यते / तदुत्तरकालोत्पत्तिविरहतामुपादाय // (Aभिध्-स् ६५) किमुपादाय स निरोधः पुनरस्कृतमित्युच्यते / पूर्वान्तकर्मक्लेशबलवदा वेधविरहतामुपादाय // किमुपादाय स निरोधः पुनरसंस्कृतमित्युच्यते / वर्तमानकर्म क्लेशानभिसंस्कार पदस्थानतामुपादाय / किमुपादाय स निरोधः पुनरनुत्पन्नमित्युच्यते / अनागतसन्तत्युत्पादविरहतामुपादाय //
137 SK तथा निरोधसत्यस्य समासतश्चत्वारो लक्षणप्रभेदाः / निरोधलक्षणं शान्तलक्षणं प्रणीतलक्षणं निःसरणलक्षणं च / किमुपादाय निरोधलक्षणम् / क्लेशविसंयोगतामुपादाय // किमुपादाय शान्तलक्षणम् / दुःखविसंयोगतामुपादाय / किमुपादाय प्रणीतलक्षणम् / सुखशुच्यधिष्ठानतामुपादाय // किमुपादाय निःसरणलक्षणम् / नित्यहिताधिष्ठानतामुपादाय //
138 SK (अथ विनिश्चये सत्यपरिच्छेदे प्रथमे चतुर्थो भागः)
139 SK मार्गसत्यं कतमत् / येन दुःखं परिजानीते समुदयं प्रजहाति निरोधं साक्षात्करोति मार्गं भावयति / एतत् संक्षेपेण मार्गसत्यलक्षणमित्युच्यते // पुनः मार्गः पञ्चविधः / संभारमार्गः प्रयोगमार्गः दर्शनमार्ग भावनामार्गः निष्ठामार्गश्च /
140 SK संभारमार्गः कतमः / पृथग्जनानां शीलम् इन्द्रियद्वाररक्षा भोजने मात्राज्ञता प्रथमरात्रौ तदुत्तररात्रिषु वा नित्यममिद्धं वीर्यभावना शमथविपश्यना संप्रजन्यविहारश्च // यद्वा पुनरन्यदौपनिषदं कुशलम् श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा भावनामयी प्रज्ञा // तद्भावनया अभिसमयविमोक्षस्थानभाजनां प्रतिलभते /
141 SK प्रयोगमार्गः कतमः / यः संभारमार्गः स प्रयोगमार्गः / यस्तु प्रयोगमार्गः सन संभारमार्गः / संभारमार्गोपचितानि निर्वेधभागीयानि कुशलमूलानि ऊष्मगतः मूर्धानः सत्यानुकूलक्षान्ति लौकिकाग्रधर्मश्च // ऊष्मगतं कतमत् / प्रत्यात्मं सत्ये प्वालोकलब्धः समाधिः प्रज्ञा संयोगश्च // मूर्धानं कतमत् / प्रत्यात्मं सत्येष्वालोकवृद्धः समाधिः प्रज्ञा संयोगश्च // सत्यानुकूलक्षान्तिः कतमा / प्रत्यात्मं सत्येष्वेकदेशप्रविष्टानुसृतः (Aभिध्-स् ६६) समाधिः प्रज्ञा संयोगश्च // लौकिकाग्रधर्मः कतमः / प्रत्यात्मं सत्येष्वानन्तर्यचित्तसमाधिः प्रज्ञा संयोगश्च //
142 SK दर्शनमार्गः कतमः / समासतो लौकिका ग्रधर्मानन्तरमनुपलम्भः समाधिः प्रज्ञा संयोगश्च // समसमालम्ब्यालम्बनज्ञामपि तत् / प्रत्यात्ममपनीतसत्त्वसंकेतधर्मसंकेतसर्वतो ऽपनीतोभयसंकेतालम्बनधर्मज्ञानमपि तत् //
143 SK प्रभेदशः शुनर्दर्शनमार्गो लौकिकाग्रधर्मानन्तरं दुःखे धर्मज्ञानक्षान्तिः, दुःखे धर्मज्ञानं दुःखे ऽन्वयज्ञानक्षान्तिः दुःखे ऽन्वयज्ञानं समुदये धर्मज्ञानक्षान्तिः समुदये धर्मज्ञानं समुदये ऽन्वयज्ञानक्षान्तिः समुदये ऽन्वयज्ञानं निरोधे धर्मज्ञानक्षान्तिः निरोधे धर्मज्ञानं निरोधे ऽन्वयज्ञानक्षान्तिः निरोधे ऽन्वयज्ञानं मार्गे धर्मज्ञानक्षान्तिं मार्गे धर्मज्ञानं मार्गे ऽन्वयज्ञानक्षान्तिः मार्गे ऽन्वयज्ञानम् // एवंच षोडश ज्ञानक्षान्तिभिर्दर्शनमार्गप्रभेदाः //
144 SK दुखं कतमत् / दुःखसत्यम् // दुःखे धर्मः कतमः / दुःखसत्याधिपतेयः शासनधर्मः // धर्मज्ञानं कतमत् / प्रयोगमार्गे सत्याधिपतेयं धर्मविचारणाज्ञानम् // ज्ञानक्षान्तिः कतमा / पूर्वाधिपतिबलविचारणामुपादाय प्रत्यात्मं दुःखसत्ये प्रत्यक्षानुभाविनी अनास्रवा प्रज्ञा / यया प्रज्ञाया दुःखदर्शनप्रहातव्यान् सर्वक्लेशान् प्रजहाति / तस्मादुच्यते दुःखे धर्मज्ञानक्षान्तिरिति // दुःखे धर्मज्ञानं कतमत् / क्षान्त्यनन्तरं येन ज्ञानेन पूर्वोक्तेभ्यः क्लेशेभ्यो विमुक्तिं साक्षात्करोति / तस्मादुच्यते दुःखे धर्मज्ञानमिति / दुःखे अन्वयज्ञानक्षान्तिः कतमा / दुःखे धर्मज्ञानक्षान्त्यां दुःखे धर्मज्ञाने च प्रत्यात्मं प्रत्यक्षानुभाविनी अनास्रवा प्रज्ञा उत्पद्यते यदुत्तरमन्वय एष आर्यधर्माणाम् / तस्मादुच्यते दुःखे अन्वयज्ञानक्षान्तिः // दुःखे अन्वयज्ञानं कतमत् / तदनन्तरमनास्रवं ज्ञानमुत्पद्यते / येन ज्ञानेन दुःखे अन्वयज्ञानक्षान्तिमुपधारयति / तद् दुःखे ऽन्वयज्ञानमित्युच्यते // तद्वदन्येषु सत्येषु यथायोग्यम् /
145 SK क्षान्तिर्ज्ञानक्षयो ज्ञेयः / तत्र अवस्थायां धर्मक्षान्तिज्ञानैः ग्राह्यावनोघः / अन्वयक्षान्तिज्ञानैर्ग्राहकावबोधः / अपि च एषु सर्वेषु क्षान्तिज्ञानेषु अनिमित्तप्रेक्षाविहारी वेदितव्यः // इमे षोडश चित्तक्षणा दर्शनमार्ग आख्यातः // ज्ञेये ज्ञानोत्पत्तिपरिसमाप्तिरेकश्चित्तलक्षणो वेदितव्यः //
146 SK सर्वं हि मार्गसत्यं चतुर्भिः प्रकारैरनुगन्तव्यम् / व्यवस्थानतः विकल्पनतः अनुभवतः परिपूरितश्च / व्यवस्थानतः कतमत् / यथास्वमधिगमनिष्ठाप्राप्ताः श्रावकादयः / तत्पृष्ठलब्धेन ज्ञानेन प्रापणनिमित्तप्रमाणैः नामपदव्यञ्जनकायैः मार्गसत्यं व्यवस्थापयन्ति / विकल्पनतः कतमत् / अभिसमयप्रयुक्ता लौकिकेन ज्ञानेन यथाव्यवस्थानं विकल्पोयन्तो यदभ्यस्यन्ति // अनुभवतः कतमत् / तथाभ्यस्यन्तो मया (?यदा)दितो दर्शनमार्गाख्यां लोकोत्तरां निष्प्रपञ्चावस्थां प्रत्यात्ममनुभवति // परिपूरितः कतमत् / तदूर्ध्वं यामाश्रयपरिवृत्तिं परिपूर्य यावदधिगमनिष्ठां प्राप्नुवन्ति / तेन पुनरधिगमनिष्ठाप्राप्तास्तत्पृष्ठलब्धेन ज्ञानेन नामपदव्यञ्जनकायैः मार्गसत्यं व्यवस्थापयन्ति //
147 SK यदुक्तं सूत्रे विरज्ञो वीतमलं धर्मेषु धर्मचक्षुरूदपादि इति / तद्दर्शनमार्गमधिकृत्योक्तम् / तत्र धर्मक्षान्तिभिर्विरजः धर्मज्ञानैर्वीतमलम् परिज्ञया प्रहाणेन मार्गशुद्धिलाभेन च //
148 SK यदुक्तं सूत्रे दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा सर्वैः तीर्णकांक्षः तीर्णविचिकित्सः अपरप्रत्ययः शास्तुः शासनो ऽनन्यनेयः धर्मेषु वैशारद्यप्राप्त इति तदपि दर्शनमार्गमधिकृत्योक्तम् / दृष्टधर्मा धर्मक्षान्तिभिः / प्राप्तधर्मा धर्मज्ञानैः / विदितधर्मा अन्वयक्षान्तिभिः / पर्यवगाढधर्मा अन्वयज्ञानैः / सर्वैः तीर्णकांक्षः स्वाधिगमे क्षान्तिज्ञानैः कांक्षाभावेन / तीर्णविचिकित्सः पराधिगमे तदवस्थस्य विमत्यभावेन / अपरप्रत्ययः मार्गभावनायां न परतः स्वयं कुशलावर्जनेन / शास्तुः शासने ऽनन्यनेयः बुद्धशासने (Aभिध्-स् ६८) ऽन्यतीर्थ्यैरनेयतामुपादाय / धर्मेषु वैशारद्यप्राप्तः अधिगमनारम्य परिप्रश्नधर्मेषु अलीनचित्ततामुपादाय /
149 SK भावनामार्गः कतमः / दर्शनमार्गादूर्ध्वं लौकिको मार्गो लोकोत्तरमार्गः मृदुमार्गो मध्यमार्गो ऽधिमात्रो मार्गः प्रयोगमार्गः आनन्तर्यमार्गः विमुक्तिमार्गः विशेषमार्गश्च //
150 SK लौकिको मार्गः कतमः / लौकिकं प्रथमं ध्यानं द्वितीयं तृतीयं चतुर्थं ध्यानमाकाशानत्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चत्यायतनं नैवसंज्ञानासंज्ञायतनं च // त एते ध्यानारूप्याः संक्लेशव्यवदानव्यवस्थान विशुद्धिभिर्वेदितव्याः // कथं संक्लेशतः / चत्वार्यव्याकृतमूलानि तृष्णा दृष्टिर्मानो ऽविद्या च // तृष्णया आस्वाद संक्लेशेन संक्लिश्यते // दृष्ट्या दृष्ट्युत्तरध्यायितया संक्लिश्यते / मानेन मानोत्तरध्यायितया संक्लिश्यते / अविद्यया विचिकित्सोत्तरध्यायितया संक्लिश्यते / तथा च संक्लिष्टचेतसां रूपारूप्यावचराः क्लेशोपक्लेशाः प्रवर्त्तन्ते // कथं व्यवदानतः / शुद्धका ध्यानारूप्याः कुशलत्वाद् व्यवदाता इत्युच्यन्ते // कथं व्यवस्थानतः / अङ्गव्यवस्थानतः समापत्तिव्यवस्थानतः मात्राव्यवस्थानतः संज्ञाकरणव्यवस्थानश्च // कथमङ्गव्यवस्थानतः / प्रथमं ध्यानं पञ्चाङ्गम् / पञ्चाङ्गानि वितर्को विचारः प्रीतिः सुखं चित्तैकाग्रता च // द्वितीयं ध्यानं चतुरङ्गम् / चत्वार्यङ्गानि अध्यात्मसंप्रसादः प्रीतिः सुखं चित्तैकाप्रता च // तृतीयं ध्यानं पञ्चाङ्गम् / पञ्चाङ्गानि उपेक्षा स्मृतिः संप्रजन्यं सुखं चित्तैकाग्रता च // चतुर्थं ध्यानं चतुरङ्गम् / चत्वार्यङ्गानि उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिः अदुःखासुखा वेदना चित्तैकाग्रता च // प्रतिपक्षाङ्गमुपादाय अनुशंसाङ्गमुपादाय तदुभयाश्रयस्वभावाङ्गं चोपादाय आरुप्येष्वङ्गव्यवस्थानं नास्ति / शमथैकरसतामुपादाय // कथं समापत्तिव्यवस्थानतः / सप्तभिर्मनस्कारैः प्रथमं ध्यानं समापद्यते / एवं यावन्नैवसंज्ञानासंज्ञायतनं च // सप्त मनस्काराः कतमे / लक्षणप्रति संवेदी मनस्कारः आधिमोक्षिकः प्राविवेजः रतिसंग्राहकः मीमांसकः प्रयोगनिष्ठः प्रयोगनिष्ठाफलश्च (Aभिध्-स् ६९) मनस्कारः // कथं मात्राव्यवस्थानतः / प्रथमं ध्यानं सुदुपरिभावितं मध्यपरिभावितमधिमात्रपरिभावितश्च // [तद्यथा] प्रथमं ध्यानमेत्रं शिष्टानि ध्यानान्यारूप्याश्च // मृदुमध्याधिमात्रपरिभावितस्य प्रथमस्य ध्यानस्य फलं त्रिविधा प्रथमा ध्यानोपपत्तिः / यथा प्रथमस्य ध्यानस्य एवं शिष्टानां ध्यानानां त्रिविधा ध्यानोपपत्तिः / आरूप्येषु स्थानान्तराभावमुपादायोपपत्तिभेदो नास्ति / तत्र मृदुमध्याधिमात्रपरिभावितत्वादारूप्याणामुपपत्तावुच्चनीचता हीनप्रणीतता प्रज्ञायते // कथं संज्ञाकरणव्यवस्थानतः / प्रथमध्यानसंगृहीतान्यावतः समाधीन् बुद्धबोधिसत्त्वाः समापद्यन्ते / तेषां श्रावकप्रत्येकबुद्धा नामाभिज्ञा अपि न भवन्ति / यथा प्रथमध्यानसंगृहीतानेवमवशिष्टध्यानसंगृहीतान्यदुत ध्यानपारमितां निश्रित्य // कथं विशुद्धितः / प्रान्तकोटिकं प्रथमं ध्यानं यावन्नैव संज्ञानासंज्ञायतनं विशुद्धिरित्युच्यते //
151 SK लोकोत्तरो मार्गः कतमः / भावनामार्गे दुःखसमुदयनिरोधमार्गज्ञानानि धर्मज्ञानान्वयपक्ष्याणि तैश्च संप्रयुक्तः समाधिः प्रथमं वा ध्यानं यावदाकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं, लौकिकमेव अपरिस्फुटं संज्ञाप्रचारतामुपादाय / तत श्चानिमित्तमित्युच्यते // यथोक्तं भगवता यावदेव संज्ञासमापत्तिः तावदाज्ञाप्रतिवेध इति / निरोधसमापत्तिर्लोकोत्तरा मनुष्येष्वभिनिर्हियते / मनुष्येष्व भिनिर्हृता मनुष्येषुरूपधातौ वा संमुखीक्रियते / आरूप्येष्व स्याः संमुखीभावो नास्ति / शान्तविमोक्षविपाकविहारीणां तद्यत्नानारम्भतामुपादाय //
152 SK मृदुमार्गः कतमः / मृदुमृदुर्मृदुमध्यो मृद्वधिमात्रश्च येन त्रैधातुकावचराणा क्लेशानां भूमौ भूमावधिमात्राधिमात्रमधिमात्रमध्यमधिमात्रामृदुं क्लेशप्रकार प्रजहाति //
153 SK मध्यो मार्गः कतमः / मध्यमृदुर्मध्यमध्यो मध्याधिमात्रश्च येन त्रैधातुकावचराणां क्लेशानां भूमौ भूमौ मध्याधिमात्रं मध्यमध्यं मध्यमृदुं क्लेशप्रकारं प्रजहाति //
154 SK अधिमात्रो मार्गः कतमः / अधिमात्रमृदुरधिमात्रमध्यो ऽधिमात्राधिमात्रश्च येन त्रैधातुकावचराणां क्लेशानां भूमौ भूमौ मृद्वधिमात्रं मृदुमध्यं मृदुमृदुं क्लेशप्रकारं प्रजहाति //
155 SK प्रयोगमार्गः कतमः / येन क्लेशं प्रजहाति // आनन्तर्यमार्गः कतमः / यस्यानन्तरं निरन्तरः क्लेशः प्रहीणो भवति // विमुक्तिमार्गः कतमः / येन प्रहीणे क्लेशे विमुक्तिं साक्षात्करोति // विशेषमार्गः कतमः / तदन्यस्य क्लेशप्रकारस्य प्रयोगानन्तर्यविमुक्तिमार्गाः विशेषमार्गः / अपि खलु क्लेशप्रहाणप्रयोगं निराकृत्य धर्मचिन्तायां वा प्रयुक्तस्य धर्मविहारे वा समापत्तिविशेषे वा यो मार्गः / अपि खलु वैशेषिकान् गुणानभिनिर्हरतो वा यो मार्गः //
156 SK मार्गभावना कतमा / प्रतिलंभभावना निषेवणभावना निर्धावनभावना प्रतिपक्षभावना च // प्रतिलम्भभावना कतमा / अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय या भावना // निषेवणभावना कतमा / उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भूयोभावाय वृद्धिविपुलतायै या भावना / निर्धावनभावना कतमा / उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय या भावना // प्रतिपक्षभावना कतमा / अनुत्पन्नानां पापकानामकुशकुनां धर्माणामनुत्पादाय (Aभिध्-स् ७१) या भावना // अपि खलु मार्ग उत्पद्यमानः स्वां वासनामव स्थापयति सा प्रतिलम्भभावना / स एव संमुखीभूतो भावनां गच्छति सा निषेवणभावना / स्वमावरणं विजहाति सा निर्धावनभावना / विहीन श्चावरणमायत्यामनुत्पत्तिधर्मतायामवस्थापयति सा प्रतिपक्षभावना // अपि खलु चतुर्विधः प्रतिपक्षः विदूषणाप्रतिपक्षः प्रहाणप्रतिपक्षः आधारप्रतिपक्षः दूरीभावप्रतिपक्षश्च प्रतिपक्षभावनेत्युच्यते // विदूषणाप्रतिपक्षः कतमः / सास्रवेषु संस्कारेष्वादीनवदर्शनम् // प्रहाणप्रतिपक्षः कतमः / प्रयोगान्तर्यमार्गः // आधरप्रतिपक्षः कतमः / विमुक्तिमार्गः / दूरीभावप्रतिपक्षः कतमः // तदु परिमो मार्गः //
157 SK अपि खलु वस्तुपरीक्षामार्गः व्यावसायिको मार्गः समाधिपरिकर्ममार्गः अभिसमयप्रायोगिको मार्गः अभिसमयश्लिष्टो मार्गः अभिसमयमार्गः विशुद्धिनैर्याणिको मार्गः निश्रयेन्द्रियभिन्नो मार्गः शिक्षात्रयपरिशोधनो मार्गः सर्वगुणनिर्हारको मार्गः मार्गसंग्रहमार्गश्च मार्ग इत्युच्यते // स पुनरेष यथाक्रमं सप्तत्रिंशदबोधिपक्षा धर्माः चतस्रः प्रतिपदः चत्वारि धर्मपदानि शमथ(ऐ) विपश्यना त्रिणी चेन्द्रियाणी //
158 SK स्मृत्युपस्थानानामालम्वनं स्वभावः सहायः भावना भावनाफलञ्च वेदितव्यम् / यथा स्मृत्युपस्थानानामेवमवशिष्टानां बोधिपक्षाणाम् // स्मृत्युपस्थानानामालम्बनं कतमत् / कायो वेदना चित्तं धर्माः // अपि खल्वात्माश्रयवस्तु आत्मोपभोगवस्तु आत्मवस्तु आत्मसंक्लेशव्यवदानवस्तु च // स्वभावः कतमः / प्रज्ञा स्मृतिश्च // सहायः कतमः / तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः / भावना कतमा / अध्यात्मं कायादिषु कायाद्यनुपश्यना // यथा अध्यात्ममेवं बहिर्धा अध्यात्मवहिर्धा // अध्यात्मं कायः कतमः / यान्यस्मिन् काये आध्यत्मिकानि रूपीण्यायतनानि // बहिर्धाकायः कतमः / बहिर्धा रूपीण्यायतनानि // अध्यात्मवहिर्द्धा कायः कतमः / आध्यात्मिकायतनसंबद्धानि (Aभिध्-स् ७२) बाह्यान्यायतनानि / इन्द्रियाधिष्ठानानि पारसान्तानिकानि चाध्यात्मिकानि रूपीण्यायतयानि / काये कायानुपश्यना कतमा / या विकल्पप्रतिबिम्बकायेन प्रकृतिबिम्बकायस्य समतापश्यना / अध्यात्मं वेदना कतमा / अध्यात्मं कायमुपादायोत्पन्ना वेदना // बहिर्द्धा वेदना कतमा / बहिर्द्धा कायमुपादयोत्पन्ना वेदना // अध्यात्मबहिर्द्धा वेदना कतमा / अध्यात्माबहिर्द्धाकायमुपादायोत्पन्नावेदना // यथा वेदना एवं चित्तं धर्माः // यथा काये कायानुपश्यना एवं वेदनादिषु वेदनाद्यनुपश्यना यथायोगं वेदितव्याः / अपि खलु भावना छन्दो वीर्यं व्यायाम उत्साहः उत्सूढिरप्रतिवाणिः स्मृतिः संप्रजन्यं अप्रमादश्च // छन्दभावना अमनसिकरोपक्लेशप्रतिपक्षेण / वीर्यभावना कौसीद्योपक्लेशप्रतिपक्षेण / व्यायामभावना लयौद्धत्योपक्लेशप्रतिपक्षेण // उत्साहभावना चेतसो ऽलीनत्वोपक्लेशप्रतिपक्षेण // उत्सूढिभावना विषादपरिस्रवपरिखेदोपक्लेशप्रतिपक्षेण // अप्रतिवाणिभावना कुशलपक्षेण अल्पमात्र संतुष्ट्युपक्लेशप्रतिपक्षेण // स्मृतिभावना भगवतः शासने संमोषोपक्लेशप्रतिपक्षेण // संप्रजन्यभावना आपत्तिविप्रतिसारोपक्लेशप्रतिपक्षेण // अप्रमादभावना कुशलेषु निक्षिप्तधुरतोपक्लेशप्रतिपक्षेण // भावनाफलं कतमत् / चतु र्विपर्यासप्रहाणं चतुः सत्यावतारः कायादिविसंयोगः //
159 SK चतुः सम्यक्प्रहाणानामालम्बनं कतमत् / उत्पन्नानुत्पन्नविपक्षप्रतिपक्षाः // स्वभावः कतमः / व्यायामः // सहायः कतमः / तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः / भावना कतमा / तदुक्तं सूत्रे छन्दं जनयति व्यायच्छते वीर्यमारभते चित्तं प्रगृण्हाति चित्तं प्रदधाति / इत्येवमादिभिः पदैस्तत्रवीर्याश्रयभावना परिदीपिता // आश्रयः छन्दः / वीर्यमुद्योगः / शमथग्रग्रहोपेक्षानिमित्तमनसिकारेषु छन्दं (जनयति) लयौद्धत्यापकर्षणे वीर्यमारभते एवं तदनन्तरं (Aभिध्-स् ७३) चित्तं प्रगृण्हाति प्रदधातीप्रत्युच्यते / भावना फलं कतमत् / अशेषविपक्षहानिः प्रतिपक्षप्रतिलम्भः प्रतिपक्षवृद्धिश्च // तदुच्यते भावनाफलम् /
160 SK चतुरृद्धिपादानामालम्बनं कतमत् / निष्पज्ञेन समाधिना यत्करणीयं कृत्यम् // स्वभावः कतमः / समाधिः // सहायः कतमः / छन्दोवीर्यं चित्तं मीमांसा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः // छन्दसमाधिः कतमः / यत्सत्कृत्य प्रयोगमागम्य स्पृशति चित्तस्यैकाग्रताम् // वीर्यसमधिः कतमः / यत्सातत्य प्रयोगमागम्य स्पृशति चित्तस्यैकाग्रताम् // चित्तसमाधिः कतमः / पूर्वसमाधिभावनामागम्य स्वरसेन स्पृशति चित्तस्यैकाग्रताम् // मीमांसासमाधिः कतमः / देशनाधर्मश्रवणमागम्य प्रत्यात्मं प्रतिसंख्याय स्पृशति चित्तस्यैकाग्रताम् // पुनः छन्दसमाधिः यत् छन्दं जनयन् स्पृशति चित्तस्यैकग्रताम् // वीर्यसमाधिः यत् वीर्यमारप्रमाणः स्पृशति चित्तस्यैकाग्रताम् // चित्तसमाधिः यत् चित्तं प्रदधत् स्पृशति चित्तस्यैग्रताम् // मीमांसासमाधिः यत् चित्तं प्रगृण्हन् स्पृशति चित्तस्यैकाग्रताम् // भावना कतमा / अष्टानां प्रहाणसंस्काराणामभ्यासः / कतमे अष्टौ / छन्दः व्यायामः श्रद्धा प्रश्रब्धिः स्मृतिः संप्रजन्यं चेतना उपेक्षा च / ते पुनरष्टौ समासतश्चतुर्धा संगृह्यन्ते / व्यायसायिकः अनुग्राहकः औपनिवन्धिकः प्रातिपक्षिकश्च // छन्दवीर्यचित्तमीमांसाभावना पुनर्द्विविधा / निदानं संक्षेपविक्षेप परिवर्जनभावन अलीनत्वाविक्षेपतदुभयाश्रयानुकूलभावना च // फलं कतमत् / कुशलसमाधिपरिकर्मतः यथाकर्मं धर्माभिज्ञा यथाचित्तमभिज्ञाप्रदर्शनम् / अपि च तेषु तेषु धर्मेषु अधिगमः प्रातिः कर्मण्यता वशिता कारित्रं यथेष्टं नानाविधानामृदुध्यादीनां वस्तूनां निष्पादनमधिगुणानां निर्हारश्च //
161 SK पञ्चेन्द्रियाणामालम्बनं कतमत् / चत्वार्यार्यसत्यानि // स्वभावः कतमः / श्रद्धा वीर्य स्मृतिः समाधिः प्रज्ञा च // सहाय कतमः / तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः // भावना कतमा / यत् श्रद्धेन्द्रियेण सत्येषु अभिसंप्रत्ययसमुत्थानं प्रयोगभावना / वीर्येन्द्रियेण सत्येषु उत्पन्नाभिसंप्रत्ययस्याभिसंबोध्यर्थं व्यायामसमुत्थानप्रयोगभावना / स्मृतीन्द्रियेण सत्येषु आरब्धवीर्यस्य स्मृतिसंप्रयोगा धर्मसंमोपसमुत्थानप्रयोगभावना / समाधीन्द्रियेण सत्येषु संप्रयुक्त स्मृतेः चित्तैकाग्रतासमुत्थानप्रयोगभावना / प्रज्ञेन्द्रियेण सत्येषु समाहितचित्तस्य प्रविचयसमुत्थानप्रयोगभावना / भावनाफलं कतमत् / सत्याभिसमयसमुत्थानतः उष्मगतमूर्धपरिकर्मतश्च क्षान्तिलौकिकाग्रधर्मनिर्हारः //
162 SK यथा पञ्चेन्द्रियाणि तथा पञ्च बलानि / एषां विशेषः तैः विपक्षान्तरायनिर्ल्लेखो ऽनवमुद्यतेति बलानीत्युच्यन्ते //
163 SK सप्त बोध्यङ्गानामालम्बनं कतमत् / चतुर्णामार्यसत्यानां यथाभूतता / स्वभावः कतमः / स्मृतिः धर्मविचयः वीर्यं प्रीतिः प्रश्रब्धिः समाधिः उपेक्षा च // स्मृतिः संनिश्रयाङ्गम् / धर्मविचयः स्वभावाङ्गम् / वीर्यं निर्याणाङ्गम् / प्रीतिः अनुशंसाङ्गम् / प्रश्रब्धिः / समाधिः उपेक्षा चासंक्लेशाङ्गम् / असंक्लेशतः असंक्लेशाश्रयतः असंक्लेशस्वभावतश्च // सहायः कतमः / तत्संप्रयुक्ताश्रित्तचैतसिका धर्माः // भावना कतमा / विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतं स्मृतिसंबोध्यङ्गम् / यथा स्मृतिसंबोध्यङ्गं तथा यावत् उपेक्षासंबोध्यङ्गम् // एभिः चतुभिः पदैर्यथाक्रमं चतुःसत्यालम्बनाबोध्यङ्गभावना परिदीपिता / भावनाफलं कतमत् / दर्शनहेयानां क्लेशानां प्रहाणम् //
164 SK अष्टानामार्यमार्गाङ्गानामालम्बनं कतमत् / तदुत्तरकालं चतुर्णामार्यसत्यानां यथाभूतता // स्वभावः कतमः / सम्यग्दृष्टिः सम्यक्कर्म्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिश्च // सम्यगदृष्टिउः परिच्छेदाङ्गम् / (Aभिध्-स् ७५) सम्यक्संकल्प परसंप्रापणाङ्गम् / सम्यग्वाक्कर्मान्ताजीवाः परसंप्रत्यपाङ्गम् / दर्शनशीलाजीवविशुद्धितामुपादाय / सम्यग्व्यायामः क्लेशावरणविशोधनाङ्गम् / सम्यक्समाधिः वैशेषिकगुणावरण विशोधनाङ्गम् // सहायः कतमः / तत्संप्रयुक्ताश्चित्तचैतसिकाधर्माः // भावना कतमा / भावना तु बोध्यङ्गवत् // भावना फलं कतमत् / परिच्छेदः परसंप्रापणं परसंप्रत्ययः क्लेशावरणविशोधनमुपक्लेशावरणविशोधनं वैशेषिकगुणावरणविशोधनं च //
165 SK चतस्रः प्रतिपदः कतमाः / दुःखा प्रतिपद् धन्धाभिज्ञा दुःखा प्रतिपत् क्षिप्राभिज्ञा सुखा प्रतिपद् धन्धाभिज्ञा सुखा प्रतिपत् क्षिप्राभिज्ञा // प्रथमा मृद्विन्द्रियाणामनुपलब्धमौलध्यानम् / द्वितीया तीक्ष्णेन्द्रियाणामनुपलब्धमौलध्यानम् / तृतीया मृद्विन्द्रियाणामुपलभमौलध्यानम् / चतुर्थी तीक्ष्णेन्द्रियाणामुपलब्धमौल ध्यानम् //
166 SK चत्वारि धर्मपदानि कतमानि / अलोभाद्वेषाणां सम्यक् स्मृतिः सम्यक् समाधिः / अलोभाद्वेषाणामधिशीलशिक्षाविशुद्धिः / सम्यक्स्मृतानामधिचित्तशिक्षाविशुद्धिः / सम्यक्समाधितानामधिप्रज्ञशिक्षाविशुद्धिः //
167 SK शमथः कतमः / अध्यात्मं चित्तस्य उपनिबन्धः स्थापना संस्थापना अवस्थापना उपस्थापना दमनं शमनं व्युपशमनम् एकोतीकरणं समाधानं च // विपश्यना कतमा / या धर्मान् विचिनोति प्रविविनोति परिवितर्क्कयति परिमीमांसमापतये / च काम प्रतिपक्षदौष्ठुल्यनिमित्तसंयोजनतः कामाभिभवानां विपर्यासतः अविपर्यस्तचित्तस्यावस्थापनतश्च // अपि खलु शमथविपश्यनामागम्य चत्वारो मार्गाः / एकत्यः शमथस्य लाभी न विपश्यनायाः / तत्प्रकारं शमथं निश्रित्य विपश्यनामापना / एकत्यः विपश्यनाया लाभी न शमथस्य / तत्प्रकारां विपश्यना निश्रित्य शमथभावना / एकत्यः न शमथस्य लाभी नापि विपश्यनायाः / तत्संबद्धचित्तस्य लयौ द्धत्यापकर्षणाद् युगपदुभयमार्ग भावना / एकत्यः शमथस्य लाभी विपश्यनायाश्च / तस्य शमथविपश्यनोभयमार्ग युक्तस्य समं युगपत् प्रवृत्तिः //
168 SK त्रीणीन्द्रियाणि / अज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियं (Aभिध्-स् ७६) च // अज्ञातमाज्ञास्यामीन्द्रियं कतमत् / प्रयोगमार्गे पञ्चदशसु च दर्शनमार्गचित्तक्षणेषु यदिन्द्रियम् // आज्ञेन्द्रियं कतमत् / षोडशात् दर्शनमार्गचित्तक्षणाद्रूध्वं सर्वस्मिन् शैक्षमार्गे यदिन्द्रियम् // आज्ञातावीन्द्रियं कतमत् / अशैक्षमार्गेयदिन्द्रियम् //
169 SK प्रथमध्यानभूमिकानां भावनामार्गे कामावचराणि कुशलमूलकान्यपि भावनां गच्छन्ति / तेषु विभुत्वलाभतः / यथा प्रथमध्यानभूमिकानां कामावचराणि कुशलमूलकानि भावनां गच्छन्ति तथा सर्वेपामूर्द्वभूमिकानां भावनामार्गे अधोभूमिकानि कुशलमूलकानि भावनां गच्छन्ति / तेषु विभुत्वलाभतः //
170 SK निष्ठामार्गः कतमः / वज्रोपमः समधिः / सर्वदौष्ठुल्यानां प्रतिप्रश्रब्धेः सर्वसंयोगानां प्रहाणात् सर्वविसंयोगानामधिगमाच्च / तदनन्तरं निरन्तराश्रयप्रवृत्तिः प्राप्तक्षयज्ञानम् अनुत्पादज्ञानं दशाशैक्षा धर्माः / कतमे दश / अशैक्षस्य सम्यग्दृष्टिर्यायद शैक्षस्य सम्यक्समाधिः अशैक्षस्य सम्यग्विमोक्षः अशैक्षस्य सम्यग् ज्ञानं च // एवमादयो धर्मा निष्ठामार्ग उच्यते // कतमानि सर्वदौष्ठुल्यानि / सं क्षेपतश्चतुर्विशतिः / तद्यथा सर्वत्रगमभिलापदौष्ठुल्यं वेदितदौष्ठुल्यं क्लेशदौष्ठुल्यं कर्मदौष्ठुल्यं विपाकदौष्ठुल्यं क्लेशावरणादौष्ठुल्यं कर्मावरणदौष्ठुल्यं विपाकावरणदौष्ठुल्यं निवरणदौष्ठुल्यं वितर्क्कदौष्ठुल्यं आहारदौष्ठुल्यं मैथुनदौष्ठुल्यं स्वप्नदौष्ठुल्यं व्याधिदौष्ठुल्यं जरादौष्ठुल्यं मरणदौष्ठुल्यं परिश्रमदौष्ठुल्यं दृढदौष्ठुल्यम् औदारिकदौष्ठुल्यं मध्यदौष्ठुल्यं सूक्ष्मदौष्ठुल्यं समापत्त्यावरणदौष्ठुल्यं ज्ञेयावरणदौष्ठुल्यं च // संयोगः कतमः / दौष्ठुल्याचितेषु संयोगलाभतेति विज्ञप्तिः // विसंयोगः कतमः / दौष्ठुल्यविक्षिप्तेषु विसंयोगलाभतेति विज्ञप्तिः // वज्रोपमः समाधिः कतमः / भावनामार्गगतस्य तदुत्तरं संयोजनप्रहाणमार्गवस्थायां यः समाधिः प्रयोगमार्गसंग्रहो वा आनन्तर्यमार्गसंग्रहो वा / प्रयोगमार्गसंग्रहस्तु ततः परं सर्वैरावरणैरच्छाद्यः सर्वावराणानां च भेदक इति / आनन्तर्यमार्गसंग्रहस्तु यदनन्तरं क्षयज्ञानानुत्पादज्ञानोत्पत्तिः / स च समाधिः निरन्तरः दृढः एकरसः व्यापी च // एतदर्थप्रतिबिम्बनार्थं (Aभिध्-स् ७७) भगवतोक्तं तद्यथा महाशैलपर्वतो ऽखण्डो ऽच्छिद्रो ऽशुषिर एकघनः सुसंवृत्तो दशदिग्वाताकम्प्यश्च // कतमा नाम निरन्तराश्रयप्रवृत्तिः / अशैक्षमार्गलाभिनः त्रिविधा आश्रयप्रवृत्तिः / कतमास्तिस्रः / चित्ताश्रयमप्रवृत्तिः मार्याश्रपप्रवृत्तिः दौष्ठुल्याश्रयप्रवृत्तिश्च // क्षयज्ञानं कतमत् / हेतुक्षयेण यद् शानं लभ्यते क्षयविषया लम्बनं वा // अनुत्पादज्ञानं कतमत् / फलप्रहाणेन यद् ज्ञानं लभ्यते फलानुत्पत्तिविषयालम्बनं वा // दशाशैक्षा धर्मास्तु अशैक्षाणां शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं चाधिकृत्य वेदितव्याः //
171 SK तथा च मार्गसत्यस्य चत्वारः प्रकारभेदाः / मार्गलक्षणं न्यायलक्षणं प्रतिपद्लक्षणं नैर्याणिकलक्षणं च // किमुपादाय मार्गलक्षणम् / तत्त्वार्थपरिमार्गणतामुपादाय // किमुपादाय न्यायलक्षणम् / क्लेशप्रतिपक्षतामुपादाय // किमुपादाय प्रतिपल्लक्षणम् / चित्ताविपर्यासप्रतिपादनातामुपादाय // किमुपादाय नैर्याणिकलक्षणम् / नित्यपदयानतामुपादाय //
172 SK सत्येषु षोडशाकाराः लौकिका लोकोत्तराश्च // लौकिकानां लोकोत्तराणां च कतमः प्रभेदः / ज्ञेये अकुशलप्रवेशकुशल्यप्रवेशस्त्रभावप्रभेदतः सावरणनिरावरणस्वभावप्रभेदतः सविकल्पनिर्विकल्पस्वभावप्रभेदतश्च // केन हेतुना सत्येषु अनित्यदुःखादयः षोडश लौऔकिकाकाराः / तथागत अप्रतिवेधतः क्लेशानुशयतः अभिलापमुखेन प्रपञ्चनतश्च // लोकोत्तराकाराः तद्विपर्ययेण / लोकोत्तराकारेषु वर्त्तमानो ऽनित्यार्थं पश्यति साक्षादनुभवति नोत्वनित्यं पश्यति अभिलापप्रपञ्चमुखेन / यथा अनित्याकारा अनित्यार्थे एवं शिष्ठाकराः शिष्टार्थेषु यथायोगं वेदितव्याः //
173 SK (अथ विनिश्चये धर्मपरिच्छेदो द्वितीयो भागः /)
174 SK धर्मविनिश्चयः कतमः / आर्यशासनं द्वादशाङ्गधर्मः / कतमानि द्वादशाङ्गानि / सूत्रं गेयं व्याकरणं गाथा उदानं निदानम् अवदानम् इतिवृतकं जातकं वैपुल्यम् अद्भुतधर्मः उपदेशश्च //
175 SK १. सूत्रं कतमत् / यदभिप्रेतार्थं सूचनाकारेण गद्यभाषितम् / दशानुशंसान् संपश्यन् तथागतः सूचनाकारेण धर्मं देशयति सुखं व्यवस्थापयति सुखं देशयति / श्रोतापि सुखमुद्गृण्हाति धर्मगौरवतया क्षिप्रं बोधि संभारान् परिपूरयति आशुधर्मतां प्रतिविध्यति / बुद्धे ऽवेत्यप्रसादं लभते धर्मे संघे चावेत्य प्रसादं लभते / परमदृष्टधर्मसुखविहारं स्पृशति / सांकथ्यविनिश्चयेन सतां चित्तमाराधयति / पण्डितः पण्डित इति संख्यां गच्छति //
176 SK २. गेयं कतमत् / सूत्राणां मध्ये वा अन्ते वा गाथया यद् गीयते / सूत्रेषु अनिरूपितो ऽर्थो वा यद् व्याख्यायते / अतो गेयमित्युच्यते //
177 SK ३. व्याकरणं कतमत् / तत् स्थानेषु समतिक्रान्तानामतीतानामार्य श्रावकाणां प्राप्त्युत्पत्तिप्रभेदव्याकरणम् / अपि च सूत्रेषु निरूईपितार्थस्य स्फुटीकरणम् / विवृत्याभिसन्धिव्याकरणात् //
178 SK ४. गाथा कतमा / सूत्रेषु पादयोगेन देश्यते / द्विपदी त्रिपदी चतुष्पदी पंचपदी षट्पदी वा //
179 SK ५. उदानं कतमत् / सूत्रेषु कदाचित् तथागतेन आत्तमनस्केन यदुदाहृतम् //
180 SK ६. निदानं कतमत् / पृष्टेन यद् भाषितम् / सोत्पत्तिकं शिक्षाप्रज्ञाप्तेकं वा / अतो ऽपि निदानम् //
181 SK ७. अवदानं कतमत् / सूत्रेषु सदृष्टान्तकं भाषितम् //
182 SK ८. इतिवृत्तकं कतमत् / यदार्यश्रावकाणां पूर्वलौकिकं वृत्तं देशयति //
183 SK ९. जातकं कतमत् / यत् बोधिसत्त्वचरितपिटकसंप्रयुक्तं वृत्तं देशयति //
184 SK १०. वैपुल्यं कतमत् / बोधिसत्त्वपिटकसंप्रयुक्तं भाषितम् / यदुच्यते वैपुल्यं तद् वैदल्यमप्युच्यते वैतुल्यमप्युच्यते / किमर्थं वैपुल्यमुच्यते / सर्वसत्त्वानां हितसुखाधिष्ठानतः उदारगम्भीरधर्मदेशनातश्च // किमर्थमुच्यते वैदल्यम् / सर्वावरणविदलनतः // किमर्थमुच्यते वैतुल्यम् / उपमानधर्माणां तुलनाभावतः //
185 SK ११. अद्भुतधर्मः कतमः / यत्र श्रावकबोधिसत्त्वतथागतानां परमा द्भुताश्चर्यधर्माणां देशना //
186 SK १२. उपदेशः कतमः / सर्वगम्भोरगूढ धर्मलक्षणानामविपरीतं व्याख्यानम् /
187 SK एवं सूत्रादीनि द्वादशाङ्गान्यार्यशासनानि त्रिषु पिटकेषु संगृहीतानि भवन्ति / कतमानि त्रीणि / सूत्रपिटकं विनयपिटकम् अभिधर्मपिटकं च / तानि पुनर्द्विविधानि / श्रावकपिटकं बोधिसत्त्वपिटकं च / सूत्रं गेयं व्याकरणं गाथा उदानं चैतानि पञ्च श्रावकाणां पिटकस्य सूत्रपिटके संगृहीतानि भवन्ति / निदानमवदानमितिवृत्तकं जातकं चैतानि चत्वारि द्वयोः पिटकयोः सपरिवारे विनयपिटके संगृहीतानि भवन्ति / वैपुल्यमद्भुतधर्मश्च एते द्वे बोधिसत्त्वपिटकस्य सूत्रपिटके संगृहीते भवतः / उपदेश एकः श्रावकबोधिसत्त्वपिटकयोः अभिधर्मपिटके संगृहीतो भवति /
188 SK किमुपादाय तथागतस्य पिटकत्रयव्यवस्थानम् / विचिकित्सोपक्लेशप्रतिपक्षका मतामुपादाय सूत्रपिटकव्यवस्थानम् / अन्तद्वयानुयोगोपक्लेशप्रतिपक्षकामतामुपादाय विनयपिटकव्यवस्थानम् / स्वयंदृष्टिपरामर्शग्रहोपक्लेशप्रतिपक्षकामतामुपादाय अभिधर्मपिटकव्यवस्थानम् / पुनः शिक्षात्रयव्युत्पत्तिकामतामुपादाय सूत्रपिटकव्यवस्थानम् / अधिशीलाधिचित्तशिक्षानिष्पादनकामतामुपादाय विनयपिटकव्यवस्थानम् / अधिप्रज्ञशिक्षानिष्पादनकामतामुपादाय अभिधर्मपिटकव्यवस्थानम् // पुनः सम्यग् धर्मार्थव्युत्पत्तिकामतामुपादाय सूत्रपिटकव्यवस्थानम् / (Aभिध्-स् ८०) धर्मार्थसाक्षात्क्रियापदस्थानप्रभाविता मुपादाय विनयपिटकव्यवस्थानम् / ज्ञानिनां सांकथ्यविनिश्चयधर्मसंभोगसुख विहाराश्रयतामुपादाय अभिधर्मपिटकव्यवस्थानम् //
189 SK स एष पिटकत्रयसंगृहीतो धर्मः कस्य गोचरः / श्रुतमय चिन्तामयभावनामयानां चित्तचैतसिकानां धर्माणां गोचरः // यदुक्तं सुत्रे चित्तचैतसिका धर्माः सालम्बनाः साकारः साश्रयाः ससंप्रयोगाश्च / तेषामस्मिन् धर्मे आलम्बनं कतमत् / सूत्रादिकम् // आकारः कतमः / स्कन्धादयस्तत्संप्रयुक्ताश्चार्थाः // आश्रयः कतमः / परविज्ञप्तिः स्मृतिर्वासना च // संप्रयोगः कतमः / अन्यो ऽन्यसहायभावेन आलम्बने आकारैः संप्रतिपत्तिः //
190 SK धर्मे आलम्बनप्रभेदः कतमः / संक्षेपेण चतुर्विधः आख्यातः / व्याप्यालम्बनं चरितविशोधनालम्बनं कौशल्यालम्बनं क्लेशविशोधनालम्बनं च //
191 SK व्याप्यालम्बनं पुनश्चतुर्विधम् / सविकल्पप्रतिबिम्बालम्बनं निर्विकल्पप्रतिविम्बालम्बनं वस्तुपर्यन्तालम्बनं कार्यपरिनिष्पत्त्यालम्बनं च // सविकल्पप्रतिबिम्बालम्बनं कतमत् / अधिमुक्तिमनस्कारेण यत् शमथविपश्यनाविषयालम्बनम् // निर्विकल्पप्रतिविम्बालम्बनं कतमत् / तत्त्वमनस्कारेण यत् शमथविपश्यनाविषयालम्बनम् // वस्तुपर्यन्तालम्बनं कतमत् / सर्वधर्माणां क्षयभाविकता यथावद्भाविकता च // क्षयभाविकता कतमा / स्कन्धधात्वायतनानि // यथावद्भाविकता कतमा / चत्वारि आर्यसत्यानि षोडशाकाराः तथता सर्वे अनित्याः संस्काराः सर्वे दुःखा संस्काराः सर्वे ऽनात्मानो धर्माः निर्वाणं शान्तं शून्यमप्रणिहितमनिमित्तं च // कार्यपरिनिष्पत्त्यालम्बनं कतमत् / आश्रयपरिवृत्तिः / इयमाश्रयपरिवृत्तिरचिन्त्या // षोडशाकारेषु शून्ये कति आकाराः संगृहीता भवन्ति / द्वौ / अप्रणिहिते कति आकाराः संगृहीता भवन्ति / षट् / अनिमित्ते कत्याकाराः संगृहीता भवन्ति / अष्टौ /
192 SK चरितविशोधनालम्बनं पञ्चविधम् / भूयोरागचरितानामशुभविषयालम्बनम् / भूयोद्वेषचरितानां करुणाभावना विषयालम्बनम् / भूयोमोहचरितानां निकायप्रत्ययता प्रतीत्यसमुत्पादविषयालम्बनम् / मदमानचरितानां धातुप्रभेदविषयालम्बनम् / वितर्क्कचरितानामवताराप्रतिवाणि स्मृतिविषयालम्बनम् //
193 SK कौशल्यालम्बनं पञ्चविधम् / स्कन्धकौशल्यं धातुकौशल्यम् आयतनकौशल्यं प्रतीत्युअसमुत्पादकौशल्यं स्थानास्थानकौशल्यं च // स्थानास्थानकौशल्येन कमर्थं पश्यति / ज्ञेये प्रतित्यसमुत्पादकौशल्यं पश्यति // स्थानास्थानकौशल्यप्रतीत्यसमुत्पादकौशल्ययोः कः प्रभेदः / यत् धर्मा धर्मानभिनिष्यन्दयन्ति नह्येषां निर्हेतुको नापि विषमहेतुक उत्पाद इतीदं प्रतीत्यसमुत्पादकौशल्यम् / हेतुफलानुरूप्ये वेदयितोत्पाद इतीदं स्थानास्थानकौशल्यम् //
194 SK क्लेशविशोधनलम्बनं कतमत् / यद् अधोभूमिकानामौदरिकता ऊर्ध्वभूमिकानां शान्तता तथता चत्वार्यसत्यानि च / एतानि क्लेशविशोधनालम्बनानि नाम //
195 SK तत्र धर्ममीमांसाकामेन कतिभिर्युक्तिभिर्विचार्यते / चतसृभिर्युक्तिभिः / अपेक्षायुक्तिः कार्यकारणयुक्तिः उपपत्तिसाधनयुक्तिः धर्मतायुक्तिश्च // अपेक्षायुक्तिः कतमा / या संस्काराणामुत्पत्तौ प्रत्ययापेक्षा / कार्यकारणयुक्तिः कतमा / पृथग्लक्षणानां धर्माणां प्रत्येकं कार्यकारणानि // उपपत्तिसाधनयुक्तिः कतमा / उपपत्तिसाधनार्थं साध्यस्यार्थस्य प्रामाणाविरुद्ध उपदेशः // धर्मतायुक्तिः कतमा / अनादिकालात् स्वलक्षणसामान्यलक्षणस्थितधर्मेषु या धर्मतापरिनिष्पत्तिः सा धर्मता // इति धर्मेषु विचारणा //
196 SK धर्मेषु कतमाः पर्येषणाः संभवन्ति / चतस्रः पर्येषणाः संभवन्ति / नामपर्येषणा वस्तुपर्येषणा स्वभावप्रज्ञप्तिपर्येषणा विशेषप्रज्ञप्तिपर्येषणा च // नामपर्येषणा कतमा / धर्मेषु नामकायपदकायव्यञ्जनकायानामपरिनिष्पन्नं स्वलक्षणमिति (Aभिध्-स् ८२) या सन्तीरणा // वस्तुपर्येषणा कतमा / धर्माणां स्कन्धधात्वायतनानामपरिनिष्पक्षं खलक्षणमिति या संतीरणा // स्वभावप्रज्ञप्तिपर्येषणा कतमा / धर्माणा मभिधानाभिधेयसंबन्धे स्वभावप्रज्ञप्तिमात्रस्य व्यवहारनिमित्ततासन्तीरणा // विशेषप्रज्ञप्तिपर्येषणा कतमा / धर्माणामभिधानाभिधेयसम्बन्धे विशेषप्रज्ञप्तिमात्रस्य व्यवहारनिमित्ततासन्तीरणा // इति धर्मपर्येषणाभावना //
197 SK धर्मेषु यथाभूतपरिज्ञानानि कतमानि संभवन्ति / चत्वारि यथाभूतपरिज्ञानानि / नामपर्येषितं यथाभूतपरिज्ञानं वस्तुपर्येषितं यथाभूतपरिज्ञानं स्वभावप्रज्ञप्तिपर्येषितं यथाभूतपरिज्ञानं विशेषप्रज्ञप्तिपर्येषितं यथाभूतपरिज्ञानं / नामपर्येषितं यथाभूतपरिज्ञानं कतमत् / यथाभूतस्य नामानुपलब्धिज्ञानम् // वस्तुपर्येषितं यथाभूतपरिज्ञानं कतमत् / यथाभूतस्य वस्तुलक्षणानुपलब्धिज्ञानम् // स्वभावप्रज्ञप्तिपर्येषितं यथाभूतपरिज्ञानं कतमत् / यथाभूतस्य द्रव्यस्वभावानुपलब्धिज्ञानम् // विशेषप्रज्ञप्तिपर्येषितं यथाभूतपरिज्ञानं कतमत् / यथाभूतस्य द्रव्यविशेषानुपलब्धिज्ञानम् /
198 SK धर्ममाश्रित्य समाधिप्रयुक्तस्य योगभूमिः कतमा ज्ञेया / पञ्चाकाराः / आधारः आधानम् आदर्शः आलोकः आश्रयश्च / आधारः कतमः / संभृतबोधिसंभारस्य ऊष्मगतादिषु आर्यसत्येषु च यद् वाहुश्रुत्यम् // आधानं कतमत् / तदालम्बनो योनिशो मनस्कारः // आदर्शः कतमः / तदालम्बनः सनिमित्तः समाधिः // आलोकः कतमः / ग्राह्यग्राहकानुपलब्धिज्ञानम् // एतदधिकृत्य सुष्ठु उक्तं बुद्धेन भगवता
199 SK प्रतिबिम्बं मनः पश्यन् बोधिसत्त्वः समाहितः / व्यावर्त्त्य विषये संज्ञा स्वसंज्ञामुपधारयन् //
200 SK एवमात्मस्थचित्तो ऽसौ ग्राह्याभावं विबोधयेत् / ततश्च ग्राहकाभावं नोपलम्भं स्पृशेत्ततः // इति /
201 SK आश्रयः कतमः / आश्रयपरिवृत्तिः //
202 SK कथं धर्मेषु धर्मकुशलो भवति / बहुश्रुततामुपादाय // कथमर्थकुशलो भवति / अभिधर्मे अभिविनये लक्षणज्ञतामुपादाय // कथं व्यञ्जनकुशलो भवति / स्व निरुक्तव्यञ्जन(ज्ञ)तामुपादाय // कथं निरुक्तिकुशलो भवति / आत्मात्मीयेति जनपदनिरुक्तिमनभिनिविश्यानुव्यवहारज्ञतामुपादाय // कथं पूर्वान्तापरान्तानुसन्धिकुशलो भवति / पूर्वान्ते उद्ग्रहणं तामपरान्ते निःसरणं तामुपादाय //
203 SK कथं धर्मेषु धर्मविहारी भवति / भावनामनागम्य केवलश्रुतचिन्ताप्रयोगेण न धर्मविहारी भवति / श्रुतचिन्तामनगम्य केवलभावनाप्रयोगेण न धर्मविहारी भवति / उभयमागम्योभयविहारेण धर्मविहारी भवति // उद्ग्रहाय स्वाध्यायदेशनाभिः श्रुतमयं द्रष्टव्यम् // समधिप्रयोगासन्तुष्टिभ्यां भावनामयं द्रष्टव्यम् // प्रयोगः सातत्यसत्कृत्यप्रयोगेणाविपरीतप्रयोगेण च द्रष्टव्यः // असन्तुष्टिरनास्वादितोत्तशमयप्रयोगेण द्रष्टव्या //
204 SK केन कारणेन वैपुल्यं बोधिसत्त्वानां पारमितापिटकमुच्यते / पारमितानां संख्यानिर्द्देशतामुपादाय लक्षणनिर्द्देशतामुपादाय क्रमनिर्देशतामुपादाय निरुक्तिनिर्देशतामुपादाय भावनानिर्देशता मुपादाय प्रभेदनिर्देशतामुपादाय संग्रहनिर्देशतामुपादाय विपक्षनिर्देशतामुपादय गुणवर्णननिर्देशतामुपादाय अन्यो ऽन्यविनिश्चयतां चोपादाय //
205 SK केन कारणेन वैपुल्यं औदार्यं गाम्भीर्य च देश्यते / सर्वाकारज्ञता(म) उदारगम्भीरतामुपादय // केन कारणेन वैपुल्ये एकत्या(ः) सत्त्वा औदार्यगाम्भीर्यं नाधिमुच्यन्ते उत्त्रसन्ति / धर्मतावियुक्ततामुपादाय (Aभिध्-स् ८४) अनवरोपितकुशलमूलतामुपादाय पापमित्रपरिग्रहतां चोपादाय // केन कारणेन वैपुल्ये एकत्याः सत्त्वा अधिमुच्यन्ते / (अधिमुच्य)माना अपि न निर्यान्ति / स्वयंदृष्टिपरामर्श स्थापितया / इदं च सन्धायोक्तं भगवता महाधर्मादर्शे धर्मपर्याये बोधिसत्त्वस्य यथारुत मयोनिशो धर्मान्विचिन्वतः अष्टाविंशतिरसदृष्टय उत्पद्यन्ते // अष्टाविंशतिरसदृष्टयः कतमाः / निमित्तदृष्टिः प्रज्ञप्त्यपवाददृष्टिः परिकल्पापवाददृष्टिः तत्त्वापवाददृष्टिः परिग्रहदृष्टिः परिणतिदृष्टिः अनवद्यतादृष्टिः निःसरणदृष्टिः अवज्ञादृष्टिः प्रकोपदृष्टिः विपरीतदृष्टिः प्रसवदृष्टिः अनभ्युपगमदृष्टिः कुसृतिदृष्टिः सत्कारदृष्टि दृढमूढतादृष्टिः मूलदृष्टिः दृष्टावदृष्टदृष्टिः प्रयोगनिराकरणदृष्टिः अनैर्याणिकदृष्टिः आवरणोपचयदृष्टिः अपुण्यप्रसवदृष्टिः वैफल्यदृष्टिः निग्राह्यदृष्टिः अभ्याख्यानदृष्टिः अकथ्यदृष्टिः महादृष्टिः अभिमानदृष्टिश्च //
206 SK यदुक्तं वैपुल्ये निःस्वभावाः सर्वधर्मा इति / तत्र को ऽभिसन्धिः / स्वयमभावतामुपादाय स्वेनात्मनाभावतामुपादाय स्वे भावे ऽनवस्थितात्म (ता)मुपादाय बालग्राहवच्चालक्षणतामुपादाय // अपि खलु परिकल्पिते स्वभावे लक्षणनिःस्वभावतामुपादाय परतन्त्रे उत्पत्तिनिःस्वभावतामुपादाय परिनिष्पन्ने परमार्थनिःस्वभावतामुपादाय // अनुत्पन्ना अनिरुद्धा आदिशान्ता(ः) प्रकृतिपरिनिर्वृता इति को ऽभिसन्धिः / यथा निःस्वभावास्तथा अनुत्पन्नाः / यथा अनुत्पन्नास्तथा अनिरुद्धाः / यथा अनुत्पन्नाश्चानिरुद्धाश्च तथा आदिशान्ताः / यथा आदिशान्ता स्तथा प्रकृतिपरिनिर्वृताः //
207 SK अपि खलु चत्वारो ऽभिप्रायाः / यैर्वैपुल्ये तथागतानामभिप्रायो ऽनुगन्तव्यः / समताभिप्रायः कालान्तराभिप्रायः अर्थान्तराभिप्रायः पुग्दलाशयाभिप्रायश्च //
208 SK चत्वारो ऽभिसन्धयो यैवपुल्ये तथागतानामभिसन्धिरनुगन्तव्यः / अवतारणाभिसंधिः लक्षणाभिसन्धिः प्रतिपक्षाभिसन्धिः परिणामनाभिसन्धिश्च //
209 SK वैपुल्ये धर्मसमाधिकुशलो बोधिसत्त्वः कथं प्रत्यवगन्तव्यः / पञ्चभिः कारणैः / प्रतिक्षणं सर्वदौष्ठुल्याश्रयं द्रावयति / नानात्वसंज्ञाविगतां च धर्मारामरतिं प्रतिलभते / अपरिच्छिन्नाकारं वाप्रमाणां धर्मावभासं संज्ञानाति / विशुद्धभागीयानि चास्याविकल्पितानि निमित्तानि समुदाचरन्ति / धर्मकायपरिपूरि परिनिष्पत्तये चोत्तरादुत्तरतरं हेतुमयपरिग्रहं करोति /
210 SK तत्र पञ्चविधायां भावनायां फलं पञ्चविधं निर्वत्तिर्तमिति दर्शयति / पञ्चविधा भावना संभिन्नभावना अनिमित्तभावना अनाभोगभावना उत्तप्तभावना परिवृत्तिनिभः(?) भावना यथाक्रमम् //
211 SK केन कारणेन वैपुल्यधर्मो धूपमाल्यादिभिः पूज्यो न तथा श्रावकधर्मः सर्वसत्त्वहितसुखाधिष्ठानतामुपादाय //
212 SK अभिधर्मसमुच्चये धर्मविनिश्चयो नाम तृतीयः समुच्चयः //
213 SK (महायानाभिधर्मसमुच्चयशास्त्रे विनिश्चये प्राप्तिपरिच्छेदे तृतीये प्रथमो भागः /)
214 SK प्राप्तिविनिश्चयः कतमः / संक्षेपतो द्विविधः / पुद्गलव्यवस्थानतः अभिसमय व्यवस्थापनतश्च द्रष्टव्यः //
215 SK पुद्गलव्यवस्थानं कतमत् / समासतः सप्तविधम् / रोग चरितप्रभेदतः निर्याणप्रभेदतः आधारप्रभेदतः प्रयोगप्रभेदतः फलप्रभेदतः धातुप्रभेदतः चर्याप्रभेदतश्च //
216 SK रोगचरितप्रभेदः कतमः / सप्तविधः / रागचरितः द्वेषचरित मोहचरितः मानचरितः वितर्कचरितः समभागचरितः मन्दरजस्क चरितश्च पुद्गलप्रभेदः // निर्याणप्रभेदः कतमः / त्रिविधः / श्रावकयानिकः प्रत्येकबुद्धयानिकः महायानिकश्च पुद्गलप्रभेदः // आधारप्रभेदः कतमः / त्रिविधः / असंभृतसंभारः संभृतासंभृतसंभारः संभृतसंभारश्च पुद्गलप्रभेदः // प्रयोगप्रभेदः कतमः / श्रद्धानुसारी धर्मानुसारी च पुद्गलप्रभेदः // फलप्रभेदः कतमः / सप्तविंशतिविधः / श्रद्धाधिमुक्तः दृष्टिप्राप्तः कायसाक्षी प्रज्ञाविमुक्तः उभयतोभागविमुक्तः स्त्रोतापत्तिफलप्रतिपक्षकः स्त्रोतआपन्नः सकृदागामिफलप्रतिपन्नकः सकृदागामी अनागामिफलप्रतिपन्नकः अनागामी अर्हत्त्वफलप्रतिपन्नकः अर्हन् सप्तकृद्भवपरमः कुलंकुलः एकवीचिकः अन्तरापरिनिर्वायी उपपद्यपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायी ऊर्द्द्वंस्त्रोताः परिहाणधर्मा अर्हन् चेतनाधर्मा अर्हन् अनुरक्षणाधर्मा अर्हन् स्थिताकम्प्यः अर्हन् प्रतिवेधधर्मा अर्हन् अकोप्यधर्मा अर्हन् च पुद्गलप्रभेदः // धातुप्रभेदः कतमः / कामावचरः पृथग्जनः शीक्षो ऽशैक्षश्च / एवं त्रिविधः कामावचरो रूपावचर आरुप्यावचरः / कामावचरो रूपावचरश्च बोधिसत्त्वः कामावचरः प्रत्येकबुद्धः अचिन्त्यश्च तथागतः पुद्गलप्रभेदः // चर्याप्रभेदः कतमः / संक्षेपतः पञ्चविधः / अधिमुक्तिचारी बोधिसत्त्वः अध्याशयचारी बोधिसत्त्वः निमित्तचारी बोधिसत्त्वः अनिमित्तचारि बोधिसत्त्वः अनभिसंस्कारचारी बोधिसत्त्वश्च पुद्गलप्रभेदः //
217 SK रागचरितः पुद्गलः कतमः / तीव्रा यतरागः / एवं द्वेषचरितो मोहचरितो मानचरितो वितर्कचरितश्च पुद्गलः तीव्रायतविशिष्टः // समभागचरितः (Aभिध्-स् ८७) पुद्गलः कतमः // प्रकृतिस्थक्लेशः // मन्दरजस्कचरितः पुद्गलः कतमः / प्रकृतिस्थतनुतरक्लेशः //
218 SK श्रावकयानिकः पुद्गलः कतमः / यः समापन्नो वा असमापन्नो वा श्रावकधर्मताविहारी प्रकृत्या मृद्विन्द्रियः स्वविमुक्तये प्रणिहितः वैराग्यभावनया विमुक्ताशयः श्रावकपिटकमवलम्ब्य वीर्यभावनया धर्मानुधर्मचारी दुःखस्यान्तमनुप्राप्नोति // प्रत्येकबुद्धयानिकः पुद्गलः कतमः / यः समापन्नो वा असमापन्नो वा प्रत्येकबुद्धधर्मताविहारी प्रकृत्या मध्येन्द्रियः स्वविमुक्तये प्रणिहितः वैराग्यभावनया विमुक्ताशयः केवलभावनया चाधिगतवोध्याशयः श्रावकपिटकमवलम्ब्य वीर्यभावनया धर्मानुधर्मचारी अनुत्पादितपूर्वनिर्वेधभागीयः उत्पादितपूर्वनिर्वेधभागीयः अप्राप्तपूर्वफलः अबुद्धलौकिकः अध्यात्म चेतनया आर्य मार्गसंमुखीभूतः खड्गविषाणकल्पः एकविहारी प्रत्येकजिनः वर्ग्गचारि दुःखस्यान्तमनुप्राप्नोति // महायानिकः पुद्गलः कतमः / यः समापन्नो वा असमापन्नो वा बोधिसत्त्वधर्मताविहारी प्रकृत्या तीक्ष्णेन्द्रियः सर्वसत्त्वविमोक्षाय प्रणिहितः अप्रतिष्ठितनिर्वाणाशयः बोधिसत्त्वपिटकमवलम्ब्य वीर्यभावनया धर्मानुधर्मचारी सत्त्वान् परिपाचयति शुद्धां बुद्धभूमिं भावयति व्याकरणं च प्रतिलभते सम्यक्संबोधिं च साक्षात्करोति //
219 SK असंभृतसंभारः पुद्गलः कतमः / सत्याधिपतेयं धर्ममालम्ब्य मृदुमात्रसमुत्थितः शुद्धश्रद्धाधिमुक्तः मृदुमात्रामोक्षभागीयसमन्वागतः अनियतजन्मकालिकः // संभृतासंभृतसंभारः पुद्गलः कतमः / सत्याधिपतेयं धर्ममालम्ब्य मध्यमात्रसमुत्थितः शुद्धश्रद्धाधिमुक्तः मध्यमात्रमोक्षभागीयसमन्वागतो नियतजन्मकालिकः // संभृतसंभारः पुद्गलः कतमः / सत्याधिपतयं धर्ममालम्ब्य अधिमात्रसमुत्थितः शुद्धश्रद्धाधिमुक्तः अधिमात्रमोक्षभागीयसमन्वागतः (Aभिध्-स् ८८) तज्जन्मकालिकः // पुनः असंभृतसंभारः सत्याधिपतेयं धर्ममालम्ब्य सत्येषु मृदुमात्रसत्य धर्मनिध्यानक्षान्तिसमन्वागतो मृदुमात्र निर्वेधभागीयसन्वागत अनिवतजन्मकालिकः // संभृतासंभृतसंभारः सत्याधिपतेयं धर्ममालम्ब्य सत्येषु मध्यमात्रसत्य धर्मनिध्यानक्षान्तिसमन्वागतः मध्यमात्रनिर्वेधभागीयसमन्वागतो निथतजन्मकालिकः // संभृतसंभारः सत्याधिपतेयं धर्ममालम्ब्य सत्येषु अधिमात्रसत्य धर्मनिध्यानक्षान्तिसमन्वागतः अधिमात्रनिर्वेधभागीयसमन्वागतः तज्जन्मकालिकः // तत्र त्रिमात्रनिर्वेधभागीयो लौकिकाग्रधर्मं स्थापयित्वा लौकिकाग्रधर्मप्रकृत्यैव क्षणिकः अप्रावन्धिकः // तज्जन्मकालिकः अभिसमयं समापद्यमानो ऽपूर्ववस्थ मृदुमध्याधिमात्रमोक्षभागीयेभ्यो [निर्वेध]भागीयेभ्यश्च परिहीयते / तच्च समुदाचारपरिहाणितो नो तु वासनापरिहाणितः /
220 SK श्रद्धानुसारी पुद्गलः कतमः / संभृतसंभारो मृद्विन्द्रियः परोपदेशमनुस्मृत्य यः सत्याभिसमयाय प्रयुज्यते // धर्मानुसारी कतमः / संभृतसंभारस्तीक्ष्णेन्द्रियः स्वयमेव सत्याधिपतेयं धर्ममनुस्मृत्य यः [सत्याभि]समयाय प्रयुज्यते //
221 SK श्रद्धाधिमुक्तः कतमः / फलकाले श्रद्धानुसारी यः पुग्दलः // दृष्टिप्राप्तः कतमः / फलकाले धर्मानुसारी यः पुद्गलः // कायसाक्षी कतमः / शैक्षः अष्टविमोक्षध्यायी यः पुद्गलः // प्रज्ञाविमुक्तः कतमः / क्षीणास्रवो भोत्वष्टविमोक्षध्यायो यः पुग्दलः // उभयतोभागविमु[क्तः कत]मः / क्षीणास्रवो ऽष्टविमोक्षध्यायी यः पुद्गलः // स्त्रोतापत्तिफलप्रतिपन्नकः कतमः / निर्वेधभागीयेषु पञ्चदशसु दर्शनमार्गचित्तक्षणेषु यः पुद्गलः // स्त्रोत आपक्षः कतमः / षोडशे दर्शनमार्गचित्तक्षणे यःपुद्गलः //
222 SK दर्शनमार्ग(ः) सत्यकत्वनियामावक्रान्तिः / धर्माभि[समये]पि सः / कामेष्ववीतरागः पुद्गलः सम्यक्त्वनियाममवक्रामन् स्त्रोतआपन्नो भवति // यद्भूयो वीतरागः सम्यक्त्वनियाममवक्रामन् सकृदागामी भवति / कामेभ्यो वीतरागः सम्यक्त्वनियाममवक्रामन्ननागामी भवति // यदा दर्शन प्रहातव्यानां क्लेशानां प्रहाणात् [स्तोत आ]पन्नो भवति // केन कारणेन त्रयाणां संयोजनानां प्रहाणात् स्त्रोतआपन्नो भवति / प्रधानसंग्रह(त) ऽभवति / प्राधान्यं किमुपादाय / अनुच्चलनकारणतामुपादाय / उच्चलितस्य मिथ्यानिर्याणकारणतामुपादाय / सम्यगनिर्याण(कारण)तां चोपादाय // अपि खलु ज्ञेयविप्र[तिपत्ति]कारणतामुपादाय दृष्टिविप्रतिपत्तिकारणतामुपादाय प्रतिपक्षविप्रतिपत्तिकारणतां चोपादाय // सकृदागामिफलप्रतिपन्नकः कतमः / भावनामार्गे कामावचराणां पञ्चप्रकाराणां क्लेशानां प्रहाणमार्गे यः पुद्गलः / सकृदागामी कतमः / भावनामार्गे कामावचरस्य षष्ठस्य क्लेशप्रका[रस्य प्र] हाणमार्गे यः पुग्दलः // अनागामिफलप्रतिपन्नकः कतमः / भावनामार्गे कामावचराणां सप्तमाष्टमानां क्लेशप्रकाराणां प्रहाणमार्गे यः पुद्गलः // अनागामी पुद्गलः कतमः / भावनामर्गे कामावचरस्य नवमस्य क्लेशप्रकारस्य प्रहाणमार्गे यः पुद्गलः // यदा सर्वेषां कामावचरा[णां भाव]नाप्रहातव्यानां प्रहाणादनागामी भवति // केन कारणेन पञ्चानामवरभागीयानां संयोजना प्रहाणादनागामीत्युच्यते / प्रधानसंग्रहमुपादाय // प्राधान्यं किमुपादाय / गत्यवर कारणतां धात्वपरकारणतां चोपादाय // अर्हत्त्वफलप्रतिपन्नकः कतमः / यावद्भावाग्रिकाणामष्टप्रकाराणां [क्लेशानां] प्रहाणमार्गे यः पुद्गलः // अर्हन् (Aभिध्-स् ९०) कतमः / भावाम्रिकस्य नवमस्य क्लेशप्रकारस्य प्रहाणमार्गे यः पुद्गलः // यदा त्रैधातुकानां कामावचराणां सर्व्वक्लेशानां प्रहाणादर्हन् भवति // केन कारणेनोर्द्भभागीयानां प्रहाणादर्हन्नित्युच्यते / प्रधानसंग्रहमुपादाय / प्रधान संग्रहः कि[मुपादाय] / विमोक्षोपादान कारणतामुपादाय / ऊर्द्द्वा परित्यागकारणतां चोपादाय / सप्तकृद्भवरपरमः कतमः / स्त्रोतआपन्न एव पुद्गलः सप्तकृत्वो ऽपि मिश्रोमिश्र देवमनुष्येषु भवात् संसृत्य यो दुःखस्यान्तमनुप्राप्नोति // कुलंकुलः कतमः / देवेषु वा कुलात्कुलं गत्वा [मनुष्ये]षु वा यो दुःखस्यान्तमनुप्राप्नोति // एकवीचिकः कतमः / सकृदागामी देवेष्वेव यो दुःखस्यान्तमनुप्राप्नोति // अन्तरापरिनिर्वायी कतमः / उपपत्तिसंयोजने प्रहीणे अभिनिवृत्तिसंयोजने अप्रहीणे अन्तराभवमभिनिर्वर्त्तयन्नेव यो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति अभिनिवृत्तो वा अन्तराभवे उपपत्तिभवगमनाय चेतयन्नेवयो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति / अभिसंचेतयित्वा वा उपपत्तिभवमभिसंप्रस्थितः [भवानु]पपत्तिच्छन्दं यो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति // उपपद्यपरिनिर्वायी कतमः / उभयसंयोजने अप्रहीणे रूपधातावुपपन्नमात्र एव यो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति // अनभिसंस्कारपरिनिर्वायी कतमः / उपपन्नः अनभिसंस्कारेण यो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति // अभिसंस्कारपरिनिर्वायी कतमः / उपपन्नो ऽभिसंस्कारेण यो मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति // ऊर्ध्वंस्त्रोताः कतमः / उपपन्नो रूपावचराणां भूमौ भूमौ यावदकनिष्ठगान् प्रविश्य तन्नानास्रव मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति / पुन कश्चिद् यावद् भवाग्रगान् मार्गं संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति / अपि च व्यवकीर्णभावितस्य चतुर्थस्य ध्यानस्य पञ्चप्रकारा प्रभेदाः / मृदुपरिभावितं मध्यपरिभावितमधिमात्रपरिभावितमधिमात्राधिमात्रापरिभावितमध्याधिमात्रपरिभावितं (Aभिध्-स् ९१) च / तैः व्यवकीर्णाभावितस्य चतुर्थध्यानस्य पञ्चप्रभेदैः यथाक्रमं पश्चसु शुद्धावासेषूपपत्तिः //
223 SK परिहाणधर्मा अर्हन् कतमः / मृद्विन्द्रियप्रकृतिको विक्षिप्तो वा अविक्षिप्तो वा चेतयित्वा वा अचेतयित्वा वा दृष्टधर्मसुख विहारात् परिहाणमेति // चेतनाधर्मा अर्हन् कतमः / मृद्विन्द्रियप्रकृतिको विक्षिप्तो वा अविक्षिप्तो वा अचेतयित्वा दृष्टधर्मसुखविहारात् परिहाणमेति चेतयित्वा न परिहाणमेति // अनुरक्षणाधर्मा अर्हन् कतमः / मृद्विन्द्रियप्रकृतिको विक्षिप्तो दृष्टधर्मसुखविहारात् / परिहाणमेति अविक्षिप्तो न परिहाणमेति // स्थिताकम्प्यः अर्हन् कतमः / मृद्विन्द्रिय प्रकृतिको विक्षिप्तो वा अविक्षिप्तो वा दृष्टधर्मसुखविहारात् न परिहाणमेति नापि इन्द्रियाण्युत्तापयति // प्रतिवेधनाधर्मा अर्हन् कतमः / मृद्विन्द्रियाप्रकृतिको विक्षिप्तो वा अविक्षिप्तो वा दृष्टधर्मसुखविहरात् न परिहाणमेति केवल मिन्द्रिया ण्युत्तापयति // अकोप्यधर्मा अर्हन् कतमः / तीक्ष्णेन्द्रियप्रकृतिको विक्षिप्तो व अविक्षिप्तो वा न दृष्टधर्मसुखविहारात् परिहाणमेति //
224 SK कामावचरः पृथग्जनः कतमः / कामधातावुपपन्नो भवति आर्यधप्राप्तः पुद्गलः च // कामावचरः शैक्षः कतमः / कामाधातावुपपन्नो भवति अधर्मं च प्राप्तः पुद्गलः / संयोजनं चावशिष्यते // कामावचरो ऽशैक्षः कतमः / कामाधातावुपपन्नो भवति आर्यधर्मं च प्राप्तः पुद्गलः / संयोजनं नावशिष्यते // यथा कामावचरास्त्रयः तथा रूपावचरा आरुप्यवचरा अपि // कामावचरो रूपावचरो बोधिसत्त्वः कतमः / आरूप्यधातुव्यवकर्षितेन ध्यानेन संप्रयुक्तो ध्यानसुखैर्विहरतीति कामधातावप्युपपन्नो रूपधातावप्युपपन्नः पुद्गल कामावचरः प्रत्येकबुद्धः कतमः / अबुद्धभवे कामधातौ स्वतः प्रत्येकबुद्धबोधिमभिसंबुद्धः // (Aभिध्-स् ९२) अचिन्त्यः तथागतः कतमः / कामधातौ तुषितभवनयासमारभ्य यावत् महापरिनिर्वाणं दर्शयति सर्वां बोधिसत्त्वचर्यां बुद्धचर्यां महाचर्यां दर्शयतीति पुद्गलः /
225 SK अधिमुक्तिचारी बोधिसत्त्वः पुद्गलः कतमः / अधिमुक्तिचर्याभूमौ स्थितो मृदुमध्याधिमात्रबोधिसत्त्वक्षान्तिसमन्वागतः पुद्गलः // अध्याशयचारी बोधिसत्त्वः पुद्गलः कतमः / दशसु भूमिषु स्थितो यो बोधिसत्त्वः // सनिमित्तचारी बोधिसत्त्वः पुद्गलः कतमः / प्रमुदिताविमलाप्रभाकर्यर्चिष्मतीसुदुर्जयाभिमुखीभूमिषु स्थितो यो बोधिसत्त्वः // अनिमित्तचारी बोधिसत्त्वः पुद्गलः कतमः / दुरंगमभूमौ स्थितो यो बोधिसत्त्वः // अनभिसंस्कारचारी बोधिसत्त्वः पुद्गलः कतमतः / अचला साधुमतीधर्ममेघासु भूमिषु स्थितो यो बोधिसत्त्वः //
226 SK पुनः खलु स्त्रोतआपन्नः पुग्दलो यदुक्तः स द्विविधः / क्रमनैर्याणिकः सकृन्नैर्याणिकश्च / क्रसनैर्याणिको यथा पुर्वमुक्तः // सकृन्नैर्याणिकः सत्याभिसमयमभिसंप्रविष्टः अप्राप्त समापत्तिमाश्रित्य अधिगतेन लोकोत्तरमाग्रेण सकृत त्रैधातुकावचरान् सर्वक्लेशान् प्रजहाति प्रकारशः प्रजहाति / द्वयोः फलयो स्त्रोतापत्तिफलार्हत्त्वफलयोः प्रज्ञाप्यते / स च पुद्गलो भूयो दृष्टे धर्मे मरणकाले आज्ञामारागयति / यदि नारागयति प्रणिधानवशेन / तर्हि प्रणिधानवशेन कामधातावेवोपपन्नः अवुद्धभवे प्रत्येकजिनोभवति /
227 SK (अथ विनिश्चये प्राप्तिपरिच्छेदे तृतीये द्वितीयो भागः)
228 SK अभिसमयव्यवस्थानं कतमत् / समासतो दशविधम् / धर्माभिसमयः (Aभिध्-स् ९३) अर्थाभिसमयः तत्त्वाभिसमयः पृष्ठाभिसमयः रत्नाभिसमयः असमुदाचाराभिसमयः निष्ठाभिसमयः श्रावकाभिसमयः प्रत्येकबुद्धाभिसमयः बोधिसत्त्वाभिसमयश्च //
229 SK धर्माभिसमयः कतमः / सत्याधिपतेयेषु धर्मेषु अधिमात्रस्य अधिमुक्तिप्रसादस्य प्रतिलम्भः यथासंप्रत्ययं चर्या च //
230 SK अर्थाभिसमयः कतमः सत्याधिपतेयेषु धर्मेषु अधिमात्रायाः सत्येषु धमनिध्यानक्षान्तेः प्रतिलम्भः / सा क्षान्ति निर्वेधभागीयावस्थां गता / सा पुनस्त्रिविधेन योनिशो मनस्कारेण प्रभाविता / स त्रिविधस्तु अधिमात्रमृदुः अधिमात्रमध्यो ऽधिमात्राधिमात्रश्च //
231 SK तत्त्वाभिसमयः कतमः / षोडशे दर्शनमार्गचित्तक्षणे य आर्यमार्गं प्रतिलभते / दर्शनमार्गे पुनः सत्ये व्यवस्थापनाद्यभिसमयान्तिकानि संमुखीकरोति / भावनामार्गे तत्संवृतिज्ञानानि प्रतिलभते न तु संमुखीकरोति / भावनामार्गे तत्संवृतिज्ञानबलेन संमुखीकरोति /
232 SK पृष्ठाभिसमयः कतमः / सर्वो भावनामार्गः //
233 SK रत्नाभिसमयः कतमः / बुद्धे ऽवेत्य प्रसादः धर्मे ऽत्य प्रसादः संघे ऽवेत्य प्रसादः //
234 SK असमुदाचाराभिसमयः कतमः / अकारणसंवरलाभात् शिक्षागतस्य यदात्मनो नरकक्षयं तिर्यग्योनिक्षयः प्रेतयोनिक्षयः अवाङ्पतनदुर्गतिक्षयः इति / न पुनरुपादाय तद् दुर्गतिकर्म दुर्गतिविपाको ऽभिनिर्वर्त्तते /
235 SK निष्ठाभिसमयः कतमः / यथा मार्गसत्ये निष्ठामार्ग उक्तः //
236 SK श्रावकाभिसमयः कतमः / पूर्वोक्तः सप्तविधो ऽभिसमयः / श्रावकाणां परतो घोषमागम्य प्रतिलम्भतः श्रावकाभिसमय इत्युच्यते //
237 SK प्रत्येकबुद्धाभिसमयः कतमः / पूर्वोक्ताः सप्ताभिसमयाः / परतो घोषमनागम्य प्रतिलम्भतः प्रत्येकबुद्धाभिसमय इत्युच्यते //
238 SK बोधिसत्त्वाभिसमयः कतमः / पूर्वोक्तेषु सप्ताभिसमयेषु या समुदागमक्षान्तिः नो तु सक्षात्किर्या / केवलं बोधिसत्त्व प्रमुदिताभूमौ बोधिसत्त्वस्य सम्यक्त्वनियामावक्रान्तिः / सा बोधिसत्त्वाभिसमयो वेदितव्याः //
239 SK श्रावकाभिसमयात् बोधिसत्त्वाभिसमयस्य को विशेषः / संक्षेपत एकादश / आलम्बनविशेषः उपस्तम्भविशेषः प्रतिवेधविशेषः अभ्युपगमविशेषः निर्याणविशेषः परिग्रहविशेषः व्यवस्थानविशेषः प्रतिष्ठापरिवारविशेषः अभिजन्मविशेषः जन्मविशेषः फलविशेषश्च / फलविशेषः पुनर्दशविधः / आश्रयपरिवृत्तिविशेषतः गुणसमृद्धिविशेषतः पञ्चाकारविशेषतः त्रिकायविशेषतः निर्वाणविशेषतः मिश्रोपमिश्रज्ञानशक्तिलाभविशेषतः आवरणविशुद्धिविशेषतः मिश्रोपमिश्रकर्मक्रियाविशेषतः अभिसंबोधिनिर्वाणसन्दर्शनोपायविशेषतः पञ्चाकारपरित्राणविशेषतश्च वेदितव्यः //
240 SK अप्रमाणादिवैशेषिकगुणानां कतमैरभिसमयैः संग्रहः / पृष्ठाभिसमयनिष्ठाभिसमयाभ्यां संग्रहो वेदितव्यः // तेषां संग्रहः पुनः कतमः / अप्रमाणानि विमोक्षाः अभिभ्वायतनानि कृत्सायतनानि अरणाप्रणीधिज्ञानम् प्रतिसंविदः अभिज्ञा लक्षणानुव्यञ्जनानि परिशुद्धयः वलानि वैशारद्यानि स्मृत्युपस्थानानि अरक्षाणि असंप्रमोषधर्मता वासनासमुद्धातः महाकरुणा आवेणिका बुद्धधर्माः सर्वाकारज्ञता इत्येवमादयो गुणा यथा सूत्रान्तरेषु निर्दिष्टाः //
241 SK अप्रमाणानि कतमानि / चत्वारि अप्रमाणानि / मैत्री कतमा / ध्यानं निश्रित्य सत्त्वाः सुखेन संप्रयुज्येरन्निति विहारसमृद्धौ समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः // करुणा कतमा / ध्यानं निश्रित्य सत्त्वा दुःखेन वियुज्येरन्निति विहारसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् // मुदिता कतमा / (Aभिध्-स् ९५) ध्यानं निश्रित्य सत्त्वाः सुखेन न वियुज्येरन्निति विहारसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् // उपेक्षा कतमा / ध्यानं निश्रित्य सत्त्वा हित लभेरन्निति विहारसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् //
242 SK विमोक्षाः कतमे / अष्टौ विमोक्षाः / कथं रूपी रूपाणि पश्यतीति / ध्यानं निश्रित्य अध्यात्मं द्रष्टरि रूपसंज्ञाया अविभावानाद् द्रष्टरी रूपसंज्ञायाः संनिवेशनाद् वा दृश्य रूपादि पश्यतीति विहारसमृद्धो समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः यावद् निर्माणावरणाद् विमुक्तिः // कथमध्यात्ममरूपसंज्ञी वहिर्द्धा रूपाणि पश्यति / ध्यानं निश्रित्य द्रष्टरि रूपसंज्ञाया विभावनाद् अरूपसंज्ञायाः संनिवेशनाद्वा दृश्य रूपाणि पश्यतीति विहारसमृद्धौ समाधि प्रज्ञा शेषं पूर्ववत् // कथं शुभं विमोक्षं कायेन साक्षात्कृत्योपसंपद्य विहरतीति / ध्यानं निश्रित्य अध्यात्मं शुभाशुभेषु रूपेषु अन्योन्यापेक्षासंज्ञाया अन्योन्यानुगमसंज्ञाया अन्योन्यैकरससंज्ञायाश्च लभात् तत्र लब्धे विहारसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् यावत् शुभशुभनिर्माणात् संक्लेशोत्पत्त्यावरणाच्च विमुक्तिः // आकाशानन्त्यायतनविमोक्षः कतमः / विमोक्षानुकूला काशानन्त्यायतनविमोक्षः तथा विज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनविमोक्षा अपि द्रष्टव्यः यावत् विमोक्षः शान्तो विमोक्षः असक्त्यावरणं च // संज्ञावेदयितनिरोधविमोक्षः कतमः / नैवसंज्ञानसंज्ञायतनविमोक्षं निश्रित्य समतिक्रान्तानां शिष्टे शान्ते विमोक्षे मोक्षानुसदृशो विहारः विहारसमृद्धौ च चित्तचैतसिकानां निरोधः संज्ञावेदयितनिरोधावरणाद् विमुक्त्यर्थम् //
243 SK अभिभ्वायतनानि कतमानि / अष्टावभिभ्वायतनानि / पूर्वाणी चत्वारि अभिभ्वायतनानि द्वाभ्यां विमोक्षाभ्यां व्यवस्थाप्यन्ते / उत्तराणि चत्वारि अभिभ्वावतनानि एकेन विमोक्षेण व्यवस्थाप्यन्ते / तत्र विमोक्षैरालम्बनमधिमुच्यते अभिभ्वायतनेषु आलम्बनप्रभिभवति / वशवर्त्तनता मुपादाय // सत्त्वसंख्यातानि असत्त्वसंख्यातानि चाश्रित्य रूपाणि परित्ताधिमात्राण्युच्यन्ते / शुभाशुभान्याश्रित्य रूपाणि सुवर्णदुर्वर्णान्युच्यन्ते / मानुष्यकदिव्यान्याश्रित्य रूपाणि हीनप्रणीतान्युच्यन्ते // शिष्टानि यथा विमोक्षेषूक्तानि // आलम्बनाभिभवनतामुपादाय अभिभ्वायतनानीत्युच्यन्ते //
244 SK कृत्स्नायतनानि कतमानि / दश कृत्स्नायतनानि / कृत्स्नस्फरणालम्बनतामुपादाय कृत्स्नायतनानीत्युच्यते / कृत्स्नस्फरणविहारसमृद्धौ समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः कृत्स्नायतनानीत्युच्यन्ते // किमुपादाय कृत्स्नायतनेषु पृथिव्यादिव्यवस्थापनम् / तैः कृत्स्नायतनैः आश्रयाश्रितरूपाणि पश्यतीति कृत्स्नस्फरणतामुपदय / शिष्टानि यथायोगं विमोक्षवत् // तथा च कृत्स्नायतनैः परिनिष्पत्तिर्विमोक्षाणाम् //
245 SK अरणा कतमा / ध्यानं निश्रित्य क्लेशोत्पत्त्यनुरक्षाविहारसमृद्धौ समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः //
246 SK प्रणिधिज्ञानं कतमत् / ध्यानं निश्रित्य ज्ञेय ज्ञानप्रणिधिसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् //
247 SK प्रतिसंविदः कतमाः / चतस्रः प्रतिसंविदः / धर्मप्रतिसंविद् कतमा / ध्यानं निश्रित्य सर्वधर्म पर्यायेषु अव्याघातसमृद्धौ समाधीः प्रज्ञाशेषं पूर्ववत् // अर्थप्रतिसंविद् कतमा / ध्यानं निश्रित्य लक्षणे अभिप्राये (Aभिध्-स् ९७) चाव्याघातसमृद्दौ समाधिः प्रज्ञा शेषं पूर्ववत् // निरुक्तिप्रतिसंविद् कतमा / ध्यानं निश्रित्य जनपदभापायामनुव्यवहारे धर्मनिर्वचने च अव्याघात समृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् // प्रतिभानप्रतिसंविद् कतमा / ध्यानं निश्रित्य धर्मप्रभेदेषु अव्याघातसमृद्धौ समाधिः प्रज्ञा शेषं पूर्ववत् //
248 SK अभिज्ञा कतमाः / षडभिज्ञाः / ऋद्ध्यभिज्ञा कतमा / ध्यानं निश्रित्य विचित्रर्द्धिविकुर्वित समृद्धौ समाधिः प्रज्ञा तत्सप्रयुक्ताश्च चित्तचैतसिका धर्माः // दिव्यश्रोत्राभिज्ञा कतमा / ध्यानं निश्रित्य विचित्राणां शब्दानामनुश्रवसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // चेतःपर्यायाभिज्ञा कतमा / ध्यानं निश्रित्य परसत्त्वेषु चित्तचरितपर्याय प्रवेशसमृद्धौ यः समाधि प्रज्ञा शेषं पूर्ववत् // पूर्वनिवासानुस्मृत्यभिज्ञा कतमा / ध्यानं निश्रित्य पूर्वान्तचर्यानुस्मरणसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // च्युत्युपपादाभिज्ञा कतमा / ध्यानं निश्रित्य सत्त्वानां च्युत्युपपादप्रकार संदर्शनसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // आस्रवक्षयाभिज्ञा कतमा / ध्यानं निश्रित्य आस्रवक्षयज्ञानसमृद्धौ यः समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः //
249 SK लक्षणानुव्यञ्जनानि कतमानि / ध्यानं निश्रित्य लक्षणानुव्यञ्जनैर्विभ्राजमानसन्दर्शनसमृद्धौ यः समाधिः प्रज्ञा तत्संप्रयूक्ताश्च चित्तचैतसिका धर्माः तत्समुत्थितविपाकाश्च //
250 SK परिशुद्धयः कतमाः / चतस्रः परिशुद्धयः / आश्रयपरिशुद्धिः कतमाः / ध्यानं निश्रित्य यथाकाममश्रयस्योपादाने स्थानपरित्यागानां समृद्धौ यः समाधीः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः // आलम्बनपरिशुद्धिः कतमा / ध्यानं निश्रित्य यथाकाममालम्बननिर्माणपरिणामनज्ञानानां समृद्धौ यः समाधि प्रज्ञा शेषं पूर्ववत् // चित्तपरिशुद्धिः कतमा / ध्यानं निश्रित्य यथाकामं समाधिमुखवशवर्त्तिसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // ज्ञानपरिशुद्धिः कतमा / ध्यानं निश्रित्य यथाकामं धारणीमुखसन्धारणसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
251 SK बलानि कतमानि / बश तथागतबलानि / स्थानास्थानबलं कतमत् ध्यानं निश्रित्य सर्वप्रकार स्थानास्थानज्ञानसमृद्धौ यः समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः // कर्मस्वकज्ञानबलं कतमत् / ध्यानं निश्रित्य सर्वप्रकार कर्मस्वकज्ञानसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // शिष्टानि बलानि यथायोगं वेदितव्यानि //
252 SK वैशारद्यानि कतमानि / चत्वारि वैशारद्यानि // अभिसंबोधिवैशारद्यं कतमत् / ध्यानं निश्रित्य स्वार्थमेवारभ्य सर्वाकारज्ञेयाभिसंबोधिप्रतिज्ञाप्रतिष्ठापनसमृद्धौ यः समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः // आस्रवक्षयवैशारद्यं कतमत् / ध्यानं निश्रित्य स्वार्थमेवारभ्य सर्वाकारस्रवक्षयप्रतिज्ञा प्रतिष्ठापनसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // अन्तरायिकधर्मवैशारद्यं कतमत् / ध्यानं निश्रित्य परार्थमारभ्य सर्वाकारान्तरायिकधर्मप्रतिज्ञाप्रतिष्ठापनसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् // नैर्याणिकप्रतिपदवैशारद्यं कतमत् / ध्यानं निश्रित्य परार्थमारभ्य सर्वाकार नैर्याणिकमार्गधर्म प्रतिज्ञाप्रतिष्ठापनसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
253 SK स्मृत्युपस्थानानि कतमानि / त्रीण्येव स्मृत्युपस्थानानि / गणपरिकर्षणे सर्वाकारसंक्लेशासमुदाचारसमृद्धौ यः समाधिः प्रज्ञा शेषं पुर्ववत् //
254 SK अरक्षाणि कतमानि / त्रीण्येरवारक्षाणि // गणपरिकर्षणे यथाकाममववादानुशासनीप्रयोगसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
255 SK असंप्रमोषधर्मता कतमा / सर्वाकारस्य यथावत् कृतस्स भाषितस्य चाभिलपनसमृद्धौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
256 SK वासनासमुद्घातः कतमः / सर्वज्ञस्य सतः असर्वज्ञचेष्टितासमुदाचारसमृद्दौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
257 SK महाकरुणा कतमा / निरन्तरं सर्वप्रकारदुःखालम्बनकरुणाविहारसमृद्दौ यः समाधिः प्रज्ञा शेषं पूर्ववत् //
258 SK आवेणिका बुद्धधर्माः कतमे / अष्टादशावेणिका बुद्धधर्माः // असाधारण कायवाङ्गनस्कर्थपरिशुद्धि समृद्दौ साश्रयाणां सफलानां तथागतेन्द्रियाणमप्राप्त्यामपरिहाणिसमृद्धौ असाधारण कर्मसमुदाचारसमृद्धौ असाधारणज्ञानविहारसमृद्धौ च यः समाधिः प्रज्ञा शेषं पूर्ववत् //
259 SK सर्वाकारज्ञता कतमा / स्कन्धधात्वायतनानां सर्वाकारज्ञतासमृद्धौ यः समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः //
260 SK एतेषां गुणानमभिनिर्हारः कतमः / विशुद्धानि चत्वारि ध्यानानि निश्रित्य अन्यतीर्थीयः श्रावको बोधिसत्त्वो वा अभिनिर्हरति चत्वारि अप्रमाणान्येवं पञ्चाभिज्ञाः / शेषान् गुणान् प्रान्तकोटिकं चतुर्थं ध्यानं निश्रित्य श्रावको बोधिसत्त्वस्तथागतो वाभिनिर्हरति // तत्पुनः किमुपादाय / ध्यानसन्निश्रयेण यथाव्यवस्थानमनसिकारवहुलीकारतामुपादाय //
261 SK त एते गुणा द्विविधाः / स्वकारित्रप्रत्युपस्थानाश्च वैहारिकाश्च // ये स्वकारित्रप्रत्युपस्थानाः ते लोकोत्तरपृष्ठलब्धाः संवृतिज्ञानस्वभावा द्रष्टव्याः // ये पुनर्वैहारिकास्ते लोकोत्तरज्ञानस्वभावा द्रष्टव्याः //
262 SK अप्रमाणैः किं कर्म करोति / विपक्षं जहाति / अनुकम्पाविहारितया पुण्य संभारं परिपूरयति सत्त्वपरिपाके च न परिखिद्यते // विमोक्षैः किं कर्म करोति / निर्माणकर्माभिनिर्हरति / शुभनिर्माणे न संक्लिश्यते शान्तेषु विमोक्षेषु न सज्जति / परमप्रशान्तेन चार्यविहारेण विहरति / अधिमुच्यनता मुपादाय // अभिभ्वायतनैः किं कर्म करोति / त्रयाणां विमोक्षाणामालम्बनं वशे वर्त्तयत्यालम्बनाभिभवनतामुपादाय // कृत्स्नायतनैः किं कर्म करोति / विमोक्षालम्बनं परिनिष्पादयति कृत्स्नस्फरणतामुपादाय // अरणया किं कर्म करोति / आदेयवचनो भवति // प्रणिधिज्ञानेन किं कर्म करोति / भूतभव्यवर्त्तमानं व्याकरोति बहुमतश्च भवति लोकस्य // प्रतिसंविद्भिः किं कर्म (Aभिध्-स् १००) करोति / देशनया सत्त्वचित्तानि संतोषयति // अभिज्ञाभिः किं कर्म करोति / शासने कायकर्मणा आवर्जयति / वाक्कर्मणा चित्तादेशनयावर्जयति सत्त्वचरितं च ज्ञात्वा आगतिं च गतिं च निःसरणे सत्त्वान् यथावदववदते // लक्षणानुव्यञ्जनैः किं कर्म करोति / दर्शनमात्रकेण महापुरुषत्वे संप्रत्ययं जनयति चित्तान्यभिप्रसादयति // परिशुद्धिभिः किं कर्म करोति / संचिन्त्य भवोपपत्तिं परिगृण्हाति / आकाङ्क्षयन्कल्पं वा कल्पावशेषं वा तिष्ठति आयुःसंस्कारान् वा उत्सृजति / धर्मवशवर्त्ती भवति समाधिवशवर्ती सद्धर्मं च सन्धारयति // बलैः किं कर्म करोति / अहेतुविषमहेतुवादं प्रत्याखायाकृताभ्यागमवादे च सम्यग भ्युदयमार्गं देशयति सत्त्वचित्तचरितानि चानुप्रविश्य देशनाभाजनतां चाशयं चानुशयं चालम्बनं च संभारं च भव्यतां च निःसरणं च यथावन्निःश्रेयसमार्गं देशयति / सर्वमारांश्च निगृण्हाति सर्वत्र च प्रश्नं पृच्छति पृष्टो व्याकरोति // वैशारद्यैः किं कर्म करोति / पर्षदि सम्यगात्मनः शास्तृत्वं व्यवस्थापहति चोदकांश्चान्यतीर्थ्यान्निगृण्हाति // स्मृत्युपस्थानैः किं कर्म गणमववदते समनुशास्ति // असंमोषधर्मतया किं कर्म करोति / बुद्धकृत्यं न हापयति // वासनासमुद्घातेन किं कर्म करोति / निःक्लेशः क्लेशप्रतिरूपां चेष्टान्न(द)र्शयति // महाकरुणया किं कर्म करोति / षट्कृत्वो रात्रिंदिवसेन लोकं व्यवलोकयति // आवेणिकैर्बुद्धधर्मैः किं कर्म करोति / सर्वश्रावकप्रत्येकबुद्धान् कायवाङ्मनस्कर्मपरिशुद्ध्या प्राप्त्या चारेण विहारेण वाभिभवति // (Aभिध्-स् १०१) सर्वाकारज्ञतया किं कर्म करोति / सर्वसत्त्वानां सर्वसंशयां श्छिनत्ति धर्मनेत्रीञ्च दीर्घकालमवस्थापयति येन परिपक्षा (? क्ष्याः) सत्त्वाः परिपच्यन्ते परिपकाश्च विमुच्यन्ते // एष्वभिसमयेषूत्तरोत्तरं विशिष्टं मार्गं लभमानः पूर्वकं हीनं मार्गं विजहाति संकलनप्रहाणं च साक्षात्करोति / निरुपधिशेषे निर्वाणधातौ श्रावकः सर्वम्मार्गसमवसर्गविहान्या विजहाति नो तु बोधिसत्त्वः // अतएव बोधिसत्त्वा अक्षयकुशलमूला अक्ष(य)गुणा इत्युच्यन्ते //
0 SK यान्यव्याकृतवस्तूनि व्यवस्थापितानि किमुपादाय / अयोनिशःपरिप्रश्न तामुपादाय // (अयोनिशः परिप्रश्नता किमुपादाय /) हेतुफलसंक्लेशव्यवदानचिन्तापस्रिवर्जनतामुपादाय
264 SK केन कारणेन बोधिसत्त्वो बोधिमनव वद्यामवक्रान्तः स्त्रोतापन्नो न भवति / स्त्रोतःप्रतिपत्त्यपरिनिष्पन्नतामुपादाय // केन कारणेन सकृदागामी न भवति / अप्रमाणसंचिन्त्य भवोपप्रत्तिपरिग्रहतामुपादाय // केन कारणेनानागामी न भवति / ध्यानैर्विहृत्य कामधातावुपपद्यानतामुपादाय / बोधिसत्त्वः सत्यान्यभि समयेन लब्ध्वा दशसु मूमिषु भावनामार्गेण ज्ञेयावरणप्रतिपक्षमार्गं भावयति न क्लेशावरणप्रतिपक्षमार्गम् // तथा च बोधिप्राप्तः क्लेशावरणं ज्ञेयावरणं च विजहाति अर्हन् तथागतश्च संपद्यते // स च बोधिसत्त्वः सर्वक्लेशाप्रहाणात् मन्त्रोषधयो विषमिव सर्वक्लेशान् अभिभवति सर्वान् क्लेशान् दोषांश्च नोत्पादयति सर्वासु भूमिषु अर्हन्निव क्लेशान् प्रजहाति /
265 SK अपि खलु बोधिसत्त्वो ज्ञेयेषु भावनाकुशलो भवति उपायेषु भावनाकुशलो भवति अभूतपरिकल्पेषु भावनाकुशलो भवति निर्विकल्पेषु भावनाकुशलो भवति तेन कालेन कालमिन्द्रियाण्युत्तापयति /
266 SK ज्ञेयं कतमत् / संक्षेपेण षड्विधम् / भ्रान्तिः भ्रान्त्याश्रयः अभ्रान्त्याश्रयः भ्रान्त्यभ्रान्तिः अभ्रान्तिः अभ्रान्तिनिष्यन्दश्च // उपायकौशल्यं कतमत् / संक्षेपराश्चतुर्विधम् / (Aभिध्-स् १०२) सत्त्वपरिपाककौशल्यं बुद्धधर्मपरिपुरणकौशल्यं क्षिप्राभिज्ञाकौशल्यं मार्गानुपच्छेदकौशल्यं च // अभूतपरिकल्पः कतमः / संक्षेपतो दशविधः / मूलविकल्पः निमित्तिविकल्पः निमित्तप्रतिभासविकल्पः निमित्तविकारविकल्पः निमित्तिप्रतिभासविकारविकल्पः परोपनीतविकल्पः अयोनिशोविकल्पः योनिशोविकल्पः अभिनिवेशविकल्पः विक्षेपविकल्पश्च // स पुनः दशविधः / अभावविकल्प भावविकल्पः समारोपविकल्पः अपवादविकल्पः एकत्ववि कल्पः पृथक्त्वविकल्पः स्वभावविकल्पः विशेषविकल्पः यथानामार्थविकल्पः यथार्थनामविकल्पश्च // निर्विकल्पता कतमा / समासतस्त्रिविधा / सन्तुष्टिनिर्विकल्पता अविपर्यासनिर्घिकल्पता निष्प्रपञ्चनिर्विकल्पता च // ता इमास्तित्रः पृथग्जनश्रावकबोधिसत्त्वानां यथाक्रमं वेदितव्याः // यासौ निमित्ततो निष्प्रपञ्चनिर्विकल्पता तस्याः पुनः अभावस्य पञ्च निमित्तानि / न अमनसिकारतः न मनसिकारसमतिक्रमतः न व्युपशमतः न स्वभावतः न आलम्बने ऽभिसंस्कारतश्च / अपि खलु आलंबने ऽनभिसंस्कारतः / बोधिसत्त्वः प्रकृत्या तीक्ष्णेन्द्रियः कथं पुनः इन्द्रियाप्युत्तापयतीति / तीक्ष्णमृद्विन्द्रियमाश्रित्य तीक्ष्णमध्येन्द्रियमभिनिर्हरति / पुनः तीक्ष्णमध्येन्द्रियमाश्रित्य तीक्ष्णतीक्ष्णेन्द्रियमभिनिर्हरति //
267 SK (इति अभिधर्मसमुच्चये प्राप्तिविनिश्चयो नाम चतुर्थः समुच्चयः //) //
268 SK (अथ महायानभिधर्मसमुच्चयशास्त्रे विनिश्चयभागे सांकथ्यपरिच्छेदश्चतुर्थः)
269 SK सांकथ्यविनिश्चयः कतमः / संक्षेपतः सप्तविधः / अर्थविनिश्चयः व्याख्याविनिश्चयः प्रभिद्यसंदर्शनविनिश्चयः संप्रश्नविनिश्चयः संग्रहविनिश्चयः वादविनिश्चयः अभिसन्धिविनिश्चयश्च //
270 SK अर्थविनिश्चयः कतमः / यत्र षडर्थानारभ्य विनिश्चयो भवति // कतमे (Aभिध्-स् १०३) षडर्थाः / स्वभावार्थः हेत्वर्थः फलार्थः कर्मार्थः योगार्थः वृत्त्यर्थश्च // स्वभावार्थस्त्रंयः स्वभावाः // हेत्वर्थस्त्रयो हेतवः // उत्पत्तिहेतुः प्रवृत्तिहेतुः सिद्धिहेतुश्च // फलार्थः पञ्चफलानि / विपाकफलं निष्यन्दफलं अधिपतिफलं पुरुषकारफलं विसंयोगफलं च // कर्मार्थः पञ्च कर्माणि / उपलब्धिकर्म कारित्रकर्म व्यावसायकर्म परिणतिकर्म प्राप्तिकर्म च // योगार्थः पञ्च योगाः / सामूहिको योगः आनुबन्धिको योगः सांबन्धिको योगः आवस्थिको योगः वैकारिको योगश्च // वृत्त्यर्थः पञ्च वृत्तयः / लक्षणवृत्तिः अवस्थानवृत्तिः विपर्यासवृत्तिः अविपर्यासवृत्तिः प्रभेदवृत्तिश्च //
271 SK व्याख्याविनिश्चयः कतमः / येन सूत्रान्तान् व्याचष्टे // स पुनः कतमः / संक्षेपेण षड्विधः / परिज्ञेयवस्तु परिज्ञेयो ऽर्थः परिज्ञोपनिषद् परिज्ञा परिज्ञाफलम् तत्प्रवेदना च // अपि खलु चतुर्दश मुखानि व्याख्याविनिश्चयस्य / कतमानि चतुर्दश / व्याख्यासंग्रहमुखम् वस्तुसंग्रहमुखम् अङ्गोपाङ्गमुखम् उग्गरोत्तरनिर्हारमुखम् प्रतिक्षेपमुखम् अक्षरपरिणाममुखम् नाशानाशमुखम् पुद्गलव्यवस्थानमुखम् प्रभेदव्यवस्थानमुखम् नयमुखम् परिज्ञादिमुखम् बला बलमुखम् प्रत्याहारमुखम् अभिनिर्हारमुखं च //
272 SK प्रभिद्यसंदर्शनविनिश्चयः कतमः / यथानिर्दिष्टेषु स्कन्धादिषु धर्मेषु यथायोगमेकावचरकः पूर्वपदकः पश्चात्पदकः द्विकोटिकः त्रिकोटिकः चतुष्कोटिकः ॐकारितः प्रातिक्षेपिक इत्येवमादयः //
273 SK संप्रश्नविनिश्चयः कतमः / अष्टाकारकायदेशेन अष्टाकारयायदेशने च (Aभिध्-स् १०४) प्रश्नव्याकरणेन सर्वसत्यमिथ्या विनिश्चयः / अपि खलु चत्वारः संप्रश्न विनिश्चयमार्गाः / दूषकः प्रतिष्ठापकः छेदकः बोधकश्च //
274 SK संग्रहविनिश्चयः कतमः / दशभिः स्थानैः संगृहीतो विनिश्चयः // कतमानि दश स्थानानि / कृत्यानुष्ठानविनिश्चयस्थानम् अवतारविनिश्चयस्थानम् अधिमुक्तिविनिश्चयस्थानम् युक्तिविनिश्चयस्थानम् सांकथ्यविनिश्चयस्थानम् प्रतिवेधविनिश्चयस्थानम् विशुद्धिविनिश्चयस्थानम् अभिनिर्हारपदप्रभेदविनिश्चयस्थानम् अनाभोगाभोगमात्रसर्वार्थसिद्धिविनिश्चयस्थानं च /
275 SK वादविनिश्चयः कतमः / संक्षेपतः सप्तविधः / वादः वादाधिकरणं वादाधिष्ठानं बादालंकारः वादनिग्रहः वादनिःसरणं बादे बहुकरा धर्माश्च //
276 SK प्रथमो वादः पुनः षड्विधः / वादः प्रवादः विवादः अपवादः अनुवाद अववाश्च // वादः सर्वलोकवचनम् // प्रवादः लोकानुश्रुतो वादः / लोकज्ञानप्रवादतः // विवादः परस्परं विरुद्धयोर्वादे ऽवस्थानम् // अपवादः परस्परं कोपसंरम्भपारुष्यनचनम् // अनुवादः विशुद्धज्ञानदर्शनानुकूलः सांकथ्यविनिश्चयः // अववादः सत्त्वानां असमाहितचित्तानां चित्तसमाधानाय समाहितचित्तानां विमोक्षलाभाय देशनावादः //
277 SK द्वितीयं वादाधिकरणं राजकुलं वा प्रजाकुलं वा प्रामाणिकानां सहायकानां धर्मार्थकुशलानां श्रमणब्राह्मणानां नादसभा वा /
278 SK तृतीयं वादाधिष्ठानं यदधिष्ठाय वादः क्रियते / संक्षेपतो द्विविधम् / साध्यं साधनं च / साध्यं द्विविधम् / स्वभावो विशेषश्च // साधनानि अष्टौ / प्रतिज्ञा हेतुः दृष्टान्तः उपनयः निगमनं प्रत्यक्षं अनुमानं आप्तागमश्च // साध्यस्य स्वभावः आत्मस्वभावो धर्मस्वभावो वा / विशेषः आत्मविशेषो धर्मविशेषो वा // प्रतिज्ञा साध्यस्य स्वरुचितार्थस्य परसंप्रापणविज्ञापना / हेतुः तस्मिन्नेव साध्ये अप्रतीतस्यार्थस्य संप्रत्ययनिमित्तं प्रत्यक्षोपलम्भानुपलम्भसमाख्यानम् // दृष्टान्त दृष्ट अन्तेन अदृष्टास्य अन्तस्य समीकरणसमाख्यानम् // उपनयः शिष्टतज्जातीय र्म्मापगमाय नयत्वसमाख्यानम् // निगमनं निष्ठागमनसमाख्यानम् // प्रस्वसत्प्रकाशाभ्रान्तो ऽर्थः // अनुमानं प्रत्यक्षशिष्टसंप्रत्ययः // आप्तागमः तदुविरुद्धोपदेशः //
279 SK चतुर्थो वादालंकारः वादाधिष्ठाने सम्यग्युक्तिभिः वादसभायां गम्भीरो निपुणश्च भवतीति वादालंकार इत्युच्यते / स पुनः षड्विधः / स्वपरसमयज्ञता वाक्करणसंपद् वैशरद्यं प्रतिभानं स्थैर्यं दाक्षिण्यं च //
280 SK पञ्चमो वादनिग्रहः कथात्यागः कथासादः कथादोषश्च // कथात्यागः स्वावाददोषाभ्युपगमः परवाअगुणाभ्युपगमश्च // कथासादः अन्यवस्तुप्रतिसरणेन व्यावृत्तिः बाह्यवस्तुवचनेन मूलपरतिज्ञापरित्यागः क्रोधमदमानम्राक्षादि प्रदर्शनं च // यथोक्तं सूत्रे / कथादोषः संक्षेपेण नवविधः / आकुलं संरब्धम् अगमकम् अमितम् अनर्थकम् अकालम् अस्थिरम् अप्रदीप्तम् अप्रवद्धं च //
281 SK षष्ठं वादनिःसरणं गुणदोषौ विचार्य वादान्निःसरत्यकरणेन वा प्रतिवादित्यभाजनतां पर्षदो वैगुण्यमात्मनो ऽकौशल्यं च ज्ञात्वा वादं न करोति / प्रतिवादिनि भाजनतां पर्षदो गुणवत्त्वमात्मनः कौशल्यं च ज्ञात्वा वादं करोति //
282 SK वादे बहुकरा धर्माः समासतस्त्रयः / स्वपरसमयज्ञता यया सर्वत्र निपुणो वादं करोति / वैशारद्यं येन निपुणः समग्रपर्षदि वादं करोति / प्रतिमानं येन निपुणः सर्वांन् कठिनान् प्रश्नान् व्याकरोति //
283 SK अपि खलु स्वहितसुख कामेन वादेषु अभिज्ञातुं प्रवर्त्तितव्यं न परैः विवादं कर्तुम् / तदुक्तं भगवता महायाना भिधर्मसुत्रे / बोधिसत्त्वेन वीर्यमारभमाणेन कुशलपक्षप्रयुक्तेन प्रतिपत्तिसारकेण धर्मानुधर्मचारिणा सर्वसत्त्वसंग्राहकेण क्षिप्रमनुत्तरां सम्यक् संबोधिमभिसंबुध्यता द्वादशस्थानधर्मान् समनुपश्यता न परैः सह विवादः कार्यः // कतमे द्वादश / अनुत्तरार्थपरमधर्मदेशनायां संप्रत्ययो दुर्लभः / प्राश्निकानामववादग्राहकं चित्तं दुर्लभम् / सभ्या गुणदोषविचारकाश्च दुर्लभा / वादे प्रयुक्तानां षड्दोषविरहो दुर्लभः / कतमे षट् / असत्पक्षभिनिवेशदोषः कुसृतिवचनदोषः अकालिकवाक्करणदोषः कथासाददोषः पारुप्यवचतदोषः चित्ताघातदोषश्च / वादे संरम्भाभावो दुर्लभः / वादे परचित्तानुरक्षणं दुर्लभम् / वादे अनुरक्षणे ऽपि चित्तसमाधिदुर्लभः / वादे चित्तस्य निकार्सपरोत्कर्षकामता दुर्लभा / निकर्षपरोत्कर्षयोरपि चित्तस्यासंक्लेशो दुर्लभः / संक्लिष्टे तु चित्ते स्पर्शविहारो दुर्लभः / अस्पर्शविहारे तु कुशलधर्मभावना दुर्लभा / निरन्तरं कुशलधर्मे ऽभाविते तु असमाहिचित्तस्य क्षिप्रं समाधिलाभः समाहितचित्तस्य वा क्षिप्रं विमोक्षलाभो दुर्लभः //
284 SK अभिसन्धिविनिश्चयः कतमः / उक्तादन्यो ऽर्थः / नामपदव्यञ्जनकायानां छन्नस्याभिसन्धेः अन्यार्थाभिव्यञ्जने विपरिणामः //
285 SK यथोक्तं सूत्रे / मातरं पितरं हत्वा राजानं द्वौ बहुश्रुतौ / राष्ट्रं सानुचरं हत्वा नरो विशुद्ध उच्यते //
286 SK अपिचोक्तं सूत्रे / अश्रद्धो ऽकृतज्ञश्च सन्धिच्छेदी च यो नरः / हतावकाशो वान्ताशः स वै उत्तमपुरुषः //
287 SK पुनश्चोक्तं सूत्रे / असारे सारमतयो विपर्यासे च सुस्थिताः / क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुत्तमाम् //
288 SK अपि चोक्तं सूत्रे बोधिसत्त्वो महासत्त्वः पञ्चभिर्धर्मैः समन्वागतो दानपार मितायां क्षिप्रं परिपूरिं लभते / कतमे पञ्च / मात्सर्यधर्मतामनुवृंहयति / दानेन च परिखिद्यते / याचनकं च द्वेष्टि / न किंचित् कदाचिद् ददाति / दूरे च भवति दानस्य // पुनश्चोक्तं सूत्रे / बोधिसत्त्वो महासत्त्वः पञ्चधर्मसमन्वागतो ब्रह्मचारी भवति परमेण विशुद्धेन ब्रह्मचर्येण समन्वागतः // कतमे पञ्च // नान्यत्र मैथुन्यान्मैथुनस्य निःसरणं पर्येषते / मैथुनप्रहाणेनोपेक्षको भवति / उत्पन्नं च मैथुनरोगमधिवासयति / मैथुनप्रतिपक्षेण च धर्मेणोत्त्रस्यति / अभीक्ष्णं च द्वयद्वयं समापद्यते //
289 SK किमुपादायेदं शास्त्रमभिधर्मसमुच्चय इति नाम लभते / संक्षेपतस्त्रिभिरर्थैः / समेत्योच्चयतामुपादाय समन्तादुच्चयतामुपादाय सम्यगुच्चयतां चोपादाय //
290 SK (इति अभिधर्मसमुच्चये सांकथ्यविनिश्चयो नाम पञ्चमः समुच्चयः //) //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Asaṅga: Abhidharmasamuccaya (sa_asaGga-abhidharmasamuccaya.htm).
Source