Garland of Birth Stories

Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 · Jआतकमाला, १-८, ११-१२, १९-२०, २२, २४, २६, ३२, ३५

Garland of Birth Stories

Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35

Jआतकमाला, १-८, ११-१२, १९-२०, २२, २४, २६, ३२, ३५

SK
विविधक्लेशभुजङ्गाज् जगद् उद्धर्तुं भवौघपातालात् / बुद्धत्वाय विशालो न भवत्य् अमहात्मनां प्रणिधिः //
SK
तद्यथानुश्रूयते ऽतीते ऽध्वनिसदाकुसुमितोपवनरमणीयपर्यन्तापर्यन्तजनसमूहसंबाधवीथीचत्वरापणमणिकनकस्तम्भपङ्क्तिमनोहरभवनान्तराला शरदधिकविमलतारापतितारकागणाभ्यलंकृता द्यौर् इव प्रभावती प्रभावती नाम राजधानी बभूव | तस्यां च सकलवसुधावधूहारयष्टिभूतायां मणिर् इवामलप्रभासः प्रभासो नाम राजा बभूव |
SK
यस्यामलस्फटिकभित्तिषु मन्दिरान्तः कर्णावतंसतिलकप्रविलोकिनीनाम् / हस्ताः प्रसाधनविधौ मृदवो ऽङ्गनानां नादर्शधारणपरिश्रमदुःखम् ऊहुः //
SK
विश्राणनाम्बुपरिवर्धितपुण्यबीजं यं बान्धवा ददृशुर् अम्बुधरायमाणम् / यस्यासहन्त बलिनो ऽप्य् अरयो न कोपम् अह्नाय वैद्युतम् इव ज्वलनं पतन्तम् //
SK
तस्यैवंविधविभूतिपराक्रमोदयस्य कदाचिद् उदयभूधरशिखरम् इव सवितुर् अमलमणिसहस्रविच्छुरितोभयपार्श्वं सिंहासनम् अधितस्थुषः क्षितिपतेर् यथास्थापनम् उपविष्टब्राह्मणराजसामन्तामात्यदूतवर्गां दौवारिकनिषिध्यमानपरिशङ्कितेतरजनां बहिर्निबद्धहस्त्यश्वरथवराम् आस्थानीम् आलोकयतः समुत्पत्यानुज्ञातप्रवेशैर् वनचरकैर् अवनितलविनिहितजानुभिः प्रकृतिलघुमानसत्वाद् आगतसाध्वसगद्गदस्खलितवचनैर् निवेदितम् |
SK
अस्माभिर् अद्रिगहने करिणां समूहे दृष्टः करी कुमुदराशिर् इवावदातः मूले नवाम्बुधरवृन्दतिरस्कृतस्य प्रालेयशैलशिखरस्य सरूपमूर्तिः //
SK
इदानीं तु ग्रहणे देवः प्रमाणम् इत्य् अथ स राजा संप्राप्तायां शरदि करिग्रहणाभिवृद्धकुतूहलो हलयोत्रोन्मूल्यमानमुस्तदर्भमूलसंभूततटतटाशब्दां क्वचित् क्षेत्रगोपिकाहस्ततालध्वनिविमिश्रच्छोट्कारशब्दसंत्राससमुत्पतितशुकपक्षाक्षेपविचलितपरिणतकपिशकलमशुङ्कजालां भक्तहारीपरिवेष्यमाणकृषीवलान्तिकनिलीनचकितवायसां कलुषपल्वलजलावस्थितरोमन्थायमानमहिषीयूथसवदनावघूर्णनविनिवारितदंशपातां श्रूयमाणप्रविचरितगोगणचलितकिङ्किणीविक्वणां केदारतामरसनालस्खलितशरारिकादम्बचक्रवाकमिथुनां नगरग्रामसंबद्धां क्षेत्रभुवम् अतिक्रम्य सैन्यसंत्रासविभिद्यमानहरिणकुलाकुलम् अश्वक्षुरच्छिद्यमानशष्पाङ्कुरं रथवराधिरोही सितातपत्रविनिवारितदिवसकरकिरणसंतापस् तद् अचलवनान्तरं प्रविवेश ||
SK
अथ गजपतिम् आरात् तं स्थितं यूथमध्ये सुरभिविशदगन्धां शल्लकीं खण्डयन्तम् / अवनिपतिर् अपश्यद् दानलेखोपकण्ठभ्रमदलिकुलम् ईषत् कर्णतालैः क्षिपन्तम् //
SK
पश्यामस् तावद् अस्य गजपतेर् अस्य चास्मन्मत्तहस्तिनो युद्धम् इति विचिन्त्य प्रभासः संयातं नाम हस्त्यारोहम् उवाच | प्रोत्क्षिप्तमुख पटम् इमं कृत्वा कुञ्जरवरं संचोदयैतेन वनदन्तिना सह युद्धायेति | यद् देव आज्ञापयतीति हस्तास्फालनजनितयुद्धोत्साहं तदभिमुखं तम् आधोरणः परसैन्यनिवारणं वारणम् अकरोत् | अथ परस्परालोकनक्रोधाद् अधिकतरसमभिवृद्धमदकणपङ्क्तिसंसिक्तसुरभीकृतभूरजसोः परिघगुरुविषाणसंघट्टध्वनिभीषणम् अयं भग्नो ऽयं भग्न इति सेनाजनेनावलोक्यमानयोश् चिरम् अभवद् युद्धम् ||
SK
अन्योन्यप्रतिघातभिन्नमुखयोर् उद्वृत्तपिङ्गाक्षयोर् आक्षेपेण विकल्पितश्रवणयोः श्वेतासिताभ्रत्विषोः / क्रोधाद् उत्क्षिपतोः करौ द्विरदयोः स्थूलौ चलत्पुष्करौ किं चित् पल्लवपाटले गतवती व्यक्तिं तयोस् तालुनी //
SK
श्वेतद्विपाधिपविषाणविघट्टनेन संभूतवह्निकणिकाशबलीकृतानि तस्याथ राजकरिणो रदनाश्रयाणि जातानि लोहवलयानि परिश्लथानि //
SK
भग्ने च क्षितिपगजे गजेन तेन व्रीडावान् अभवद् अधोमुखः स यन्ता तद्यूथं पुनर् अधिगम्य कुञ्जरेन्द्रो गम्भीरो ऽप्य् अवनिपतिः सविस्मयो ऽभूत् //
SK
ततः प्रभासं महामात्राः समुपगम्योचुः | देव दुःसाध्यो ऽयम् एभिः समस्तैर् अपि करिभिर् मन्त्रपरिजप्तैर् ओषधिबलैर् अयम् अनेकपो वशीकर्तव्य इति | तथेति च स राजाभिधाय पुनस् तां राजधानीम् आजगाम | ते ऽपि तेनोपायेन तं गन्धहस्तिनं करिणीभिः परिवृतम् आनीय हस्तिशालां प्रवेश्यालाने निबध्य राज्ञो निवेदयाम् आसुर् आनीतः स गज इति | ततो राजा संयातं हस्तिदमकम् उवाच | भद्र तथायम् इभराजो दमयितव्यो यथा मद्वाहनयोग्यो भवतीति | स च सशिरःप्रणामं गृहीतराजाववादस् तं दन्तिनं दमयाम् आस ||
SK
स हस्तिदमको यां यां शिक्षां समुपदिष्टवान् स्वशिष्य इव मेधावी तां तां जग्राह कुञ्जरः //
SK
ततः समानीय महामतङ्गजं मतङ्गजानां मददर्पहारिणम् विनम्रमूर्धा विनयात् कृताञ्जलिः क्षितीशम् आधोरण ऊचिवान् इदम् //
SK
अयं स दान्तः क्षितिपाल वारणः प्रकामम् अन्यक्षितिपालवारणः गजेन्द्रशिक्षां समुपेत्य सांप्रतं मदो ऽपि नैनं गमयत्य् असांप्रतम् //
SK
विनाङ्कुशेनापि विनापि वेणुना न विक्रियां याति विनापि सादिना मया गृहाणेति पुनः प्रचोदितो गजो ऽयम् अद्याज् ज्वलितान् अयोगुडान् //
SK
ततः समारुह्य पराभवन्मदं गजेन्द्रम् एनं तुहिनाचलोपमं ननु स्वयं रत्नपरीक्षणक्षमः परीक्षतां जातकुतूहलो भवान् //
SK
अथ प्रभासस् तं कुञ्जरवरं शरत्कालधवलम् इव दिवाकरो बलाहकम् अधिरुह्य सान्तःपुरपरिवारः प्रमदवनक्रीडाम् अनुभवितुं प्रातिष्ठत ||
SK
अथ सरसि सलीलं तोयम् अङ्गे क्षिपन्तीं विशदनिगडभङ्गं खण्डयन्तीं मृणालम् स मृदुगतिर् अपश्यद् दन्तिनीं दन्तिराजः स्फुटितं अभिमृशन्तीं पुष्करं पुष्करेण //
SK
कमलगहनमध्ये तां स दृष्ट्वा करेणुं गजपतिर् अभिजघ्ने रागशल्येन चित्ते / स्खलितपरुषवाचा वार्यमाणो ऽपि यन्त्रा त्वरिततरम् अधावत् सापि भीता प्रतस्थे //
SK
करिणम् अनुपतन्तं प्रस्थितां तां करेणुं विदधतम् इव लेखां पाण्डरां विग्रहेण / त्वरितम् अनुपतन्तः सप्तिभिर् वायुनुन्नं वहनम् इव तटस्थाः किं चिद् ऐक्ष्यन्त भृत्याः //
SK
न कदा चिद् अहं त्वया निरस्ता किम् इदं निष्करुणत्वम् ईदृशं ते / इति षट्चरणावली मुहूर्तं रुदतीवानुजगाम तस्य मार्गम् //
SK
गजम् अङ्कुशपातभिन्नकुम्भं स नियन्ता न शशाक तं निरोद्धुम् पुरुषो ऽपि न शक्यते नियन्तुं किम् उ तिर्यग् मदनान्धमन्दबुद्धिः //
SK
क्षिप्रम् एव च गवलमलिनदावाग्निधूमधूसरगिरिगह्वरान्तम् अतिविषमभूभागम् इभकुलोन्मूलिततरुशिखरपर्यस्तशकुनिकुलायपतितभग्नाण्डकपालशबलितैकदेशं व्याघ्रोपयुक्तोज्झितमृगकडेवरपिशितविघसावलीनगृध्रवायसजंबुकम् अतिपरुषचीरीविरावभीषणम् अरुणसारथिकिरणसंतापितभूधरशिखरोपलजालम् असत्सङ्गतम् इवानभिरामं सा हस्तिनी भीता यत् प्रविवेश सो ऽपि च रागवशात् कण्टकिवंशतरुशाखास्खलनाभिघातक्षतोरुजङ्घभुजवक्षःस्थलप्रसृतशोणितम् अवनिपतिम् उद्वहन्न् अगणयंस् तान् अङ्कुशप्रहारांस् तद् एवारण्यं प्रपेदे ||
SK
पक्वोदुम्बररागपाटलमुखच्छायैः क्षणं निश्चलैर् घण्टाशब्दकुतूहलात् तरुगतैः शाखामृगैर् वीक्षितः / मातङ्गः पतिताङ्कुशः कुशचयश्यामां विहाय स्थलीम् उद्ग्रीवैश् च गृहीतशष्पकवलैर् दृष्टो मुहूर्तं मृगैः //
SK
ततः स हस्तिदमकः तं राजानम् उवाच | देव गजपतिर् अयम् इदानीम् अनङ्कुशतया दुर्जन इव लज्जाविरहात् सुतराम् अविधेयः | यदि कथं चिद् अयं दुष्टहस्ती कस्य चित् तरोर् अधस्ताद् यायात् तत् तस्य शाखाम् अवलम्ब्य देवेनात्मा स्थिरयितव्य इति | स राजा पतितकिरीटकेयूरहारांशुकः शुकास्वादितसिन्दूरानुरञ्जितप्रमदाधरानुरूपफलाम् अनिष्फलजीविताशः कथम् अपि न्यग्रोधशाखिनः शाखां चिरविरहपर्युत्सुकाम् इव दयितां घनम् आश्लिक्षत | अवतस्थे च तरुवरस्य स्कन्धे ||
SK
यातस्य द्विरदपतेर् अनोकहानां शाखाग्रैर् विलुलितकर्णचामरस्य दूरत्वान् नयनपथातिगस्य तारं तं घण्टाध्वनिम् अशृणोन् न भूमिपालः //
SK
अथ तस्य नृपतेः शुद्धान्तसीमन्तिन्यो बाष्पपरिप्लुतेक्षणाः प्रविश्य भवनं भुवनपतिशोकवशाद् अवनितलगताः पुनः पुनर् इति परिदेवनां कर्तुम् आरेभिरे |
SK
पतितः क्व चित् क्षितिरजःपरुषे गिरिगह्वरे पृथुशिलाविषमे स निरायुधो ऽद्य वसुधाधिपतिः कथम् आगमिष्यति वनात् सभयात् //
SK
विनिपातभग्नशिथिलांसभुजः स तृषाथवा प्रबलया ग्लपितः कुशसूचिभिन्नमृदुपादतलः कथम् अद्य पास्यति पिपासुर् अपः //
SK
अवितर्कितां स गमितः करिणा कथम् आपदं परिवृतो ऽपि जनैः अथवा सुखासुखफलस्य विधेर् अतिवर्तते क इव नाम पथः //
SK
यदि तस्य किं चिद् अशिवं नृपतेर् वयम् अप्य् अभीष्टमरणा नियतम् हतयूथपं न खलु केसरिणा करिणीकुलं गिरिवने रमते //
SK
आधोरणः समुपगम्य स नाम दिष्ट्या स प्राणितीति कथयेद् वसुधातलेन्द्रः भूयो ऽपि तं स्मितमनोहरवक्त्रचन्द्रं पश्येम नाम नृपतिं श्रियम् उद्वहन्तम् //
SK
इति तान्य् अवरोधनानि विलापपराणि नयनजलक्षलितपत्रलेखानि समाश्वास्यामात्यजनः सपरिजनः कर्णीरथान् अधिरुह्य क्रमेण गत्वा तां तस्य गजपतेश् चरणविन्यासपरिमृदितलोष्टदर्भां मदलवनिपाताधिवासिततृणाङ्कुरपर्यन्तां परिभ्रमन्मधुकरगणां पदवीम् अनुससार ||
SK
लुलितविलूनसूत्रनिचयच्युतगुरुतरलं परिमलपाण्डुमौक्तिकगुणस्थगितमृदुतृणम् उपगिरि हारम् ऐक्षत ततः स नरपतिजनः स्थितचकितातिशुक्लभुजगद्युतिमुषम् अभितः //
SK
हारदर्शनाच् च नियतम् आसन्नो देव इति मन्यमानास् ते ऽमात्याः स्तोकम् अन्तरं गत्वा तस्य न्यग्रोधस्याधस्तात् तं राजानं पिपासाक्षामपरिपाण्डुशरीरम् आलुलितमौलिम् अतितीक्ष्णकण्टकतरुविटपाभिपातजनितवेदनम् अपश्यन् | अवतीर्य च कर्णीरथेभ्यस् तुरगेभ्यश् च प्रमुदितमनसो बिसविवरविनिःसृतम् इव सचीपतिं दिवौकसः सादरम् उपासां चक्रिरे | स च नरपतिर् अशेषं तम् एव वृत्तान्तं तेभ्यो ऽकथयत् | अथ ते ऽमात्याः प्रीतास् तं दशरथतनयम् इव रथवरम् आरोप्य तस्माद् अरण्यप्रदेशात् पुनस् तन्नगरं अनिन्युः | आगते च तस्मिन्न् अवनिभुजि प्रभावतीं राजधानीं प्रतीतहृदयाः पौरास् तोरणावबध्यमानसुरभिविविधकुसुममालानिलीयमानद्विरेफाम् उत्क्षिप्तध्वजपताकां गन्धोदकाधिवासितरथ्यान्तरां प्रवृत्तचित्रनृत्तोत्सवाम् अकुर्वन् | सो ऽपि च हस्ती तस्यां वासितायां कृतमदनकुतूहलः समदहलधरलीलाम् इवाभ्यस्यन् पुनस् तेन हस्तिपकेन भयलज्जाविमूढमनसा तस्य राज्ञः सकाशम् अनिन्ये ||
SK
दृष्ट्वा ततस् तस्य नराधिपस्य त्रासान् नियन्तारम् उदीर्णकम्पम् कोपाद् अभूतां नयने क्षणेन विकोशरक्तोत्पलरक्तरागे //
SK
क्रोधराहुकलुषीकृतवदनेन्दुश् चावोचद् राजा | अरे दुरात्मन् हस्तिपकाधम किं भवान् उपक्षिप्तः केन चिद् यद् एनम् अदान्तं दुष्टहस्तिनं माम् आरोपितवान् असि | ननु प्रोक्तवांश् च भवान् यथायं कुञ्जरवरो ममाज्ञया ज्वलितान् अप्य् अयोगुडान् अश्नीयाद् इति पश्याम इदानीं ते सत्यम् ||
SK
अथाभिनवघर्मांशुसंनिभाद् दन्तिनः पुरः आकृष्य हुतभुङ्मध्यान् न्यवेशयद् अयोगुडान् //
SK
बभाषे च महामात्रं मन्त्रिभिश् चकितैर् वृतः अवतीर्य गजं दीप्तान् आदयैनान् अयोगुडान् //
SK
स तथेति प्रतिश्रुत्य गृहीत्वा वेणुम् अग्रतः गृहाणेत्य् अवदन् नागं न चासौ वामतां ययौ //
SK
तम् अयोगुडम् आदित्सुम् आलोक्य च मतङ्गजम् संयातम् अब्रवीद् राजा वार्यताम् इति कुञ्जरः //
SK
तेन हस्तिदमकेन कुञ्जरे वारिते ऽथ पुनर् ऊचिवान् नृपः देहमात्रकविनिग्रहे क्षमो न त्व् अयं चपलचित्तनिग्रहे //
SK
अथ शुद्धावासो देवो विहायसि स्थित्वा यद्य् अयम् अवनिपतिर् बुद्धानां भगवतां गुणपरंपरां शृणुयात् ततो निःसंशयेन बुद्धत्वाय प्रणिधानं कुर्याद् इति | तद् इदम् अत्र प्राप्तकालम् इमम् एव महामात्रम् अनुप्रविशामीति विचिन्त्य क्षणाद् एव तच्छरीरम् अनुप्रविवेश | ततः संयातस् तं राजानम् उवाच
SK
कृशीकृताङ्गास् तपसा फलाशिनः स्मरेण नीता मुनयो ऽपि विक्रियाम् मनोदमस् तैर् अपि चेन् न शक्यते प्रकर्तुम् अन्येन कथं करिष्यते //
SK
राजोवाच कः खलु चित्तदमने शक्तः स्यात् |
SK
संयात उवाच
SK
बुद्धा नाम जगन्नाथा भूता भाविन एव च ते हि स्वपरचेतांसि शक्ता दमयितुं ननु //
SK
तस्य बुद्ध इति श्रुत्वा वाक्यं तस्मान् निषादिनः बहुत्वम् इव संप्राप्तः प्रसादः पुलकोद्गमैः //
SK
राजोवाच | भद्र ननु कथ्यतां तावत् किंप्रभावा बुद्धा इति |
SK
संयात उवाच |
SK
अविद्यातिमिरान्धानां पुनर्भवनिवृत्तये यत् तद्बोध्यं पदं शान्तं तद् बुद्धं तैस् तथागतैः //
SK
ततः स राजा प्रमुदितमनाः पुनर् उवाच | नन्व् आख्यायतां तावत् कथं बुद्धत्वम् अधिगम्यत इति | संयात उवाच |
SK
दानशीलक्षमावीर्यध्यानप्रज्ञासमन्वितैः घटमानैः प्रयत्नेन बुद्धत्वं प्राप्यते नृभिः //
SK
अथ स राजा बुद्धत्वाधिगममार्गम् उपलभ्य प्रणिधिम् इति चकार ||
SK
ततो ऽहम् आशु भूयासं भूयोभिः सत्त्वशान्तये गुणैर् दानादिभिर् युक्तो बुद्धो बोद्धव्यकोविदः //
SK
प्रणिधिम् इति महान्तं बोधिसत्त्वे विशुद्धे कृतवति कृतबुद्धौ बुद्धिमन्तो ननन्दुः / स्वबलविलयचिन्तावागुरामध्यवर्ती मृग इव शरविद्धो विव्यथे पुष्पकेतुः //
SK
मनःक्षेत्रे रूढं प्रणिधितरुम् आनन्दितजनं समुद्भूतप्रायप्रथमकरुणापुष्पसमयम् / क्रमेणाच्छिन्नेच्छाविभवमहता दानपयसा फलार्थी भूपालः प्रतिदिनम् असिञ्चत् तरुम् इव //
SK
अलंकुर्वाणस्य क्षितिपचरितं व्योमविपुलं बिभित्सोर् दुर्भेदं पिहितजगदज्ञानतिमिरम् / वितेने राजेन्दोः प्रणिधिशरदारम्भविमला भृशं दानज्योत्स्ना प्रणयिकुमुदानन्दजननी //
SK
भृत्यान् भृशं च कलभान् इव पालयन्तं लक्ष्मीं चिराय करिणीम् इव रञ्जयन्तम् दानार्थिनः प्रणयिनः परिवव्रुर् एत्य तं नृपतिं मधुकरा इव वारणेन्द्रम् //
SK
दुरासदो वह्निर् इवाभवत् पुरा य एव संरम्भविजिह्मितेक्षणः स एव बोधौ विनिबद्धनिश्चयो जनस्य जज्ञे ह्रदवन् नराधिपः //
SK
अपेतमात्सर्यतमः शरीरिणां क्रमात् स्वभावान्तरम् एति मानसम् य एव धूमो नयनप्रबाधनः स एव मेघत्वम् उपैति संचितः //
SK
अतिदानपरायणस्य राज्ञः प्रददौ भृत्यजनो ऽपि तस्य दानम् ऋतुर् एव स तादृशो हि कश् चित् तरवो भूरिफला भवन्ति यत्र //
SK
अवलोक्य नृपं गुणानुरक्तं प्रकृतीनाम् अपि जायते गुणेच्छा शशिनः प्रभयानुविध्यमानो विमलं वारि ददाति चन्द्रकान्तः //
SK
सगुणेन जनेन युज्यमानः सुमनाः को न भवेद् गुणानुरागी मुनिगोचरम् एत्य मन्दबुद्धिस् त्यजति व्यालमृगो ऽपि रौद्रभावम् //
SK
इति बुद्धगुणानुरूपवर्णां गिरम् आकर्ण्य मनोहरां नियन्तुः अभवद् भवबन्धभङ्गहेतुः प्रणिधिः प्राक्तन एष शाक्यसूनोः //
SK
तद् एवं श्रुतसुगतगुणमाहात्म्याः पुरुषविशेषाः शरीरिणां संसारदुःखोच्छित्तये बुद्धत्वाधिगमाय वीर्यसंनाहम् आबद्धवन्त इति विचिन्त्य सम्यक्संबोधिलाभाय घटमानेन धीमता प्रथमम् एव दानपारमितायां यत्नः करणीय इति ||
SK
प्रभासजातकं समाप्तम् ||
SK
यः परदुःखैर् दुःखी तद्विच्छित्त्यै कृतप्रतिज्ञश् च / जगदर्थम् ईहमानः स एव सहते स्वदुःखानि //
SK
तद्यथानुश्रूयते विबुधगणाश्रमभूतायां नयप्रतापविजितसर्वसामन्तेन ब्रह्मदत्तेन राज्ञाधिष्ठितायां वाराणस्यां राजधान्याम् उपचितविविधपुण्यसंभारो ऽनेकशास्त्रकलाकौशलप्रख्यातकीर्तिस् त्यागदाक्षिण्यक्षमादीनाम् अधिष्ठानं गुणानां सुहृत्प्रणयिबन्धुजनप्रियः सुप्रियो नाम बोधिसत्त्वः सार्थवाहो बभूव |
SK
दातव्यम् इति सर्वेभ्यः सर्वदा सर्वम् एव च प्रतिज्ञेयम् अभूत् तस्य सर्वसत्त्वानुकम्पिनः //
SK
लोकव्यसनम् उच्छेत्तुम् अत्यन्तं कृतचेतसाम् प्रतिज्ञा सत्त्वमहती महताम् एव जायते //
SK
प्रह्लादितजनस् त्यागस् तस्य चेतसि पप्रथे इन्दोर् इव शरत्काले ध्वान्तभेदी महोदयः //
SK
अस्मदर्थम् अयं धत्ते भोगान् पुण्यबलार्जितान् इत्य् अर्थेष्व् अर्थिनस् तस्य ममताम् आललम्बिरे //
SK
अस्याम् अनेन सुधिया प्रणिधानबीजम् उप्तं मनोभुवि जिनत्वफलाय नूनम् प्राग् दानपारमितयेति स पुण्यकर्मा सोत्कण्ठयेव सहसा घनम् आलिलिङ्गे //
SK
इत्य् उपचितकुशलमूलस्य महाप्रदानप्रवृत्तस्य सत्त्वार्थं प्रति करुणाप्रतोदसंचोदितमनस्तुरङ्गस्य व्यवसायरथाधिरोहिणो बोधिसत्त्वस्य
SK
न मोक्ष्यत्य् अयम् अह्नाय दानपारमिताम् इति शेषाः पारमितास् तस्य तस्थुर् उत्कण्ठिता इव //
SK
अथ स महात्मा निदाघदिनकरकिरणैर् इव जलाशयम् आपीयमानम् अनुदिवसम् अर्थिभिर् अल्पावशेषं कोशसारम् आलोक्य याचनकजनाशां विफलाम् अशक्नुवन् कर्तुं रत्नद्वीपगमनाभिलाषी विविधपण्यपरिपूरितम् उच्छ्रितशीतपटस्खलितमृदुपवनम् अतिनिपुणकर्णधारावलम्बितकर्णम् आप्तपरिजनाधिष्ठितम् अनेकवणिग्जनपरिवृतो वहनम् आरुह्य
SK
फुल्लातसीकुसुमसंस्तरसंनिकाशम् आकाशम् आगतम् इवोदकतां समन्तात् भास्वद्भुजङ्गमणिदीपसहस्रम् अन्तर् गम्भीरदुर्गमजलं जलधिं जगाहे //
SK
वहनगतिवशाच् च निमज्जत इव वेलातटशाखिनः क्षणम् एव समवलोक्य पवनबलोदीर्यमाणमहातरङ्गविषमम् अग्रतो धावन्तम् इव च क्रमेण महासमुद्रम् उत्तीर्य रत्नद्वीपम् आगम्य विविधानि रत्नान्य् आदाय सह तैर् वणिग्भिर् अविघ्नेन सुप्रियः पुनः प्रतिनिवृत्य सार्थं स्थलपथेन नेतुम् आरेभे |
SK
एतं समेत्य विमुखो न गतो ऽर्थिवर्गश् चेतो ऽस्य वैरिणि सुते च समानवृत्ति एवं गुणान् अभिदधद् गुणलालसस्य सार्थं न तस्करगणो ऽपि मुमोष तस्य //
SK
शुचिशीलविभूषणे जने जगदर्थप्रतिबद्धचेतसि अपि धर्मपराङ्मुखो जनः सुहृदीवाभ्युपयाति भद्रताम् //
SK
ततः स महात्मा वाराणसीम् उपगम्य प्रीतमनोभिर् बन्धुभिर् आलोक्यमानः स्वभवनम् अनुप्रविश्य तेन रत्नद्वीपाद् उपात्तेन स्वापतेयेनार्थिजनसंमाननाम् अनुदिवसम् अकरोत् |
SK
महात्मनस् तस्य परार्थसंपदः प्रयच्छतो दानम् उदारचेतसः अवन्ध्यभूरिप्रणयैः समागतैर् अभूद् गृहद्वारम् अशून्यम् अर्थिभिः //
SK
अथ स महात्मा कदाचिद् वरशयनीयम् उपगतः क्षणदायाम् इदम् अचिन्तयत् | इदम् अपि न पर्याप्तम् एवम् अर्थिजनप्रतिपूजनायां द्रविणम् इति | कीदृशं पुनर् यात्राफलं साधयेयं येन मे सततम् अव्यवच्छिन्नदानप्रतीतमनसो ऽर्थिनः स्युर् इत्य् अपि नामेयं त्वरितम् अपयायान् निशीथिनी यतो ऽहं संमानयेयम् अर्थिवर्गम् इति |
SK
सर्वो जन्तुः काङ्क्षति ग्लानिकाले खेदार्तो वा चित्तसौख्याय निद्राम् एषा दातुर् दानविघ्नं करोतीत्य् आसीत् साधोस् तस्य निद्रैव दुःखम् //
SK
अथ स महासत्त्वो निद्रावशम् उपगतः स्वप्ने विमलकिरणचक्रवालाभ्युद्गतपरिवेषनिमग्नमूर्तिम् अलिकुलाभिनीलशिथिलकेशपाशावच्छादितैकांसदेशां कमलपलाशाभिताम्रायताक्षीं कनककलशानुरूपपयोधरोपरिकीर्णहारमणिप्रभासमुद्द्योतितवक्षःस्थलाम् अभिनवबन्धुजीवकुसुमाभिरक्ताधरां त्रिवलीसोपानाधिरोहणविजिह्मीकृतप्रतनुरोमराजिकाम् इन्दुकान्तिम् इव मूर्तिमतीं कर्णाभरणमणिप्रभाभ्यक्तकपोलपत्त्रलेखां तनुधवलोत्तरीयसंवृताङ्गीं शरच्चन्द्रिकाप्रभापरिगताम् इव कार्तस्वरप्रतिमाम् अप्रतिरूपां देवताम् अपश्यत् | सा चैनम् अभिव्यज्यमानदशनमणिकिरणावभासितानना स्फुटमधुरेण वचसेदम् अभ्यधात् |
SK
प्रयास्यतीयं तनुतां क्रमेण दानातिरागात् तव कोशसम्पत् क्षपाक्षये क्षीणशशाङ्कशोभे निवर्तमानेव समुद्रवेला //
SK
त्वयि प्रयास्यन्ति ततो गतोदये निपात्य दृष्टिं विमुखत्वम् अर्थिनः अपास्तकेकाश् च्युतचारुचन्द्रिकाश् चिरं मयूरा इव शारदाम्बुदे //
SK
क्षयं गतायाम् इति कोशसंपदि त्वम् अर्थिनः प्राप्य शुचं गमिष्यसि इयं तु दित्सा भवतः प्रथीयसी कदाचिद् अप्य् एष्यति नैव विक्रियाम् //
SK
गते क्षयं दारुणि चञ्चलार्चिषः क्षयं प्रयाति द्युतिर् आशुशुक्षणेः प्रकामम् अभ्यासविवर्धितोदया न चैव दित्सा महतां विपत्स्व् अपि //
SK
अयं परिक्षीणधनो ऽपि नार्थिनः करोति याच्ञाश्रयभङ्गकातरान् इति प्रकाशीकृतनिश्चयो जनैर् जनो न कृच्छ्रे ऽपि जहात्य् उदारताम् //
SK
इति तथ्यम् अहं ब्रुवे भवन्तं भवविच्छेदि पदं गवेषयन्तम् व्यवसायतनुत्रम् आशु बद्ध्वा बदरद्वीपम् उपेहि लोकभूत्यै //
SK
शृणु तत्र मयोपदिश्यमानं गमनं भूधरनागयक्षभीमम् बहुभिश् च पयोधिभिर् निरुद्धं यद् अलं साधयितुं त्वम् एव शक्तः //
SK
मलयाचलरोहिणी सुधेति स्थिरवीर्यौषधिर् अस्ति पुण्यगन्धा हविषा परिपच्य ताम् अशान श्रमतृष्णाभिभवक्षुधाक्षयाय //
SK
पञ्चद्वीपशतान्य् अतीत्य सरितस् तास् ताश् च भीमाम्भसस् तीर्त्वा च प्लवमध्यगो जलनिधीन् पुण्येन वीर्येण च तुङ्गस्योपरि भूभृतो ऽस्ति महती नाम्ना महौघौषधिस् ताम् आदाय महाभुजङ्गमविषच्छेदाय यायास् ततः //
SK
पुरस्ताच् च सूचिभेद्यं वेत्रवनम् अतिक्रम्य जलधितीरे भूधरकन्दरान्तरावस्थितं ताराक्षं नाम राक्षसं द्रक्ष्यसि |
SK
सुप्तस्य जाग्रत इव ज्वलिताग्निदीप्तेर् यस्याक्षिणी तपनमण्डलतुल्यतारे आपिङ्गपक्ष्मपरिवेष्टितवर्त्मलेखे निद्राक्षये मुकुलिते इव चाप्रकम्पे //
SK
सुप्तस्य तस्य घननिश्वसितानिलेन प्रम्लानपाण्डुकुसुमास् तरवो भवन्ति जिह्वा विनिष्पतति चास्यपुटात् स्फुरन्ती विद्युल्लता जलधराद् इव भीमनादात् //
SK
ततो यक्षभुजगशान्त्यर्थम् अतीतबुद्धभाषितानि सूत्रपदानि पठता भवता गन्तव्यम् | गत्वा च नातिदूरे रोहितकं नाम विविधोद्यानकुसुमसुरभिपवनम् अनेकरत्नप्रभोद्भासितजलधितटभूधरान्तरम् उच्चावचजनसंबाधविपणिमार्गम् अमरपुरप्रतिमं पुरं द्रक्ष्यसि | तत्र च पौर्णमासीनिशाकरप्रियदर्शनो विविधगुणौघो माघनामा सार्थवाहः | स ते बदरद्वीपस्य पन्थानम् उपदर्शयिष्यति | स च महासार्थवाहो गाढग्लानतया सिंहशार्दूलभीषणाचलवनान्तराणि बहूनि योजनानि गत्वा कालकर्मणा योक्ष्यते | न च भवता तत्रापि विषादः करणीयः |
SK
प्रेर्यमाणाः करुणया धीराः सत्त्वहितं प्रति बद्ध्वोत्साहमयं वर्म साधयन्ति समीप्सितम् //
SK
पश्चाद् देवतानुभावात् पुण्यप्रभावाच् च दूरम् अतिक्रम्य हिमगिरिशिखरानुकारिप्राकारपरिवेष्टितं रजतनगरं पिहितद्वारं द्रक्ष्यसीति | तत्र च भवता पुनस् तान्य् एव सूत्रपदानि पठितव्यानि | ततः स्वयम् एव तद् द्वारम् अपावृतकपाटं भविष्यति |
SK
ततो निर्यास्यन्ति स्तनकलशभारेण गुरुणा प्रकामं क्लाम्यन्त्यः स्फुटदशनभासः स्मितवशात् अरालभ्रूलेखाः कुवलयदलश्यामनयनाश् चतस्रः किन्नर्यस् तनुधवलदिव्यांशुकभृतः //
SK
तासु च मृदुहसितकटाक्षभ्रूविलासप्रकाशितमन्मथास्व् अपि भवता भगिनीसंज्ञा करणीया | ताश् च भवतो बदरद्वीपस्य पन्थानं दर्शयिष्यन्ति | ततो बदरद्वीपाधिपतिः किन्नरराजो देवताप्रोत्साहितो भवते चिन्तामणिं दास्यति | तत्र च वैडूर्यमयस्य नगरस्यान्तिकजातम् उपवनम् आगतम् अकृष्टोप्तस्य शालेर् अतुषं फलम् अश्नन्तम् उदितम् इव शरद्वलाहकं वलाहकनामानम् अश्वराजं द्रक्ष्यसि | स त्वां विहायसा कृतार्थं वाराणसीम् आनेष्यतीत्य् अभिधाय सा देवतान्तरधीयत | बोधिसत्त्वो ऽपि च कल्याणस्वप्नदर्शनात् परं प्रमोदम् उद्वहन् नियमेनाहं बदरद्वीपयात्राफलम् आसादयिष्यामीति विचिन्त्य देवताः पूजयित्वा श्रमणब्राह्मणकृपणेभ्यश् च दानानि दत्त्वा यथादेवतोपदिष्टं चतुर्दशभिः संवत्सरैर् बदरद्वीपम् आगम्य किन्नराधिपतिसकाशात् तं चिन्तामणिम् आसाद्य चिन्तयामास | अपि नाम स तुरगपतिर् आगच्छेद् इति |
SK
विचिन्तितं तेन च पुण्यकर्मणा परार्थनिष्पत्तिनिबद्धचेतसा परिस्फुरन् राशिर् इवेन्दुरोचिषां स चाश्वराजस् त्वरितं समाययौ //
SK
समेत्य चोवाच स मानुषीं गिरं दुकूलसूत्राकृतिसान्द्रकेसरः इतः पुरात् सागरशैलदुर्गमान् नयामि कं त्वां विषयं विहायसा //
SK
तं सुप्रियः प्रियगुणो गुणिनां प्रवेकः प्रोवाच वाजिवरम् इन्दुमरीचिशुभ्रम् मत्तद्विरेफशबलोपवनान्तरालां वाराणसीं नयतु मां द्रुतम् अश्वराजः //
SK
उक्तस् तुरङ्गपतिनाथ स धीरसत्त्वः पृष्ठं ममेदम् अधिरुह्य भव स्थिराङ्गः रत्नं स्ववाससि निबध्य च शुद्धरश्मि तं पक्षिराजसमरङ्घसम् आरुरोह //
SK
भिन्दन् खुरैः प्रविरलान् क्वचिद् अम्बुवाहान् सौदामनीसमवभासपिशङ्गिताङ्गः उत्पत्य खं स्तिमितसागरवारिनीलं वाराणसीम् अवततार स वाजिराजः //
SK
तं च स्वभवनसमीपे ऽवतार्य वलाहकः पुनर् बदरद्वीपम् एव प्रत्याययौ | बोधिसत्त्वो ऽपि च प्रविश्य प्रमुदितमनोभिः प्रणयिभिः सुहृद्बन्धुभिः प्रत्युद्गतः स्वभवनम् अन्यस्मिन्न् अहनि बहिर् निष्क्रम्य तं चिन्तामणिं ध्वजाग्रम् आरोप्येदम् उवाच |
SK
यद् यद् इच्छति यो द्रव्यम् इह मानुषदुर्लभम् तत् तच् चिन्तामणिर् अयं सम्यक् तस्मै प्रयच्छतु //
SK
तदा च तस्मिन् देशे निर्व्यापारकृषीवलजनम् अनुदकतया धवलजलदशकलशबलदिक्कान्तम् उपरतगोकडेवरावस्थितवायसगणम् अत्याकुलदरिद्रवर्गम् अपर्याप्तभैक्षोपहारं महद् दुर्भिक्षम् आसीत् | ततः स जनकाय उपेत्य सुप्रियम् उवाच | धान्यम् एव तावद् अयं मणिवरः प्रवर्षत्व् इति | तथास्त्व् इति चोक्तं बोधिसत्त्वेन विचिन्त्य विलोकितश् चासौ महामणिः |
SK
क्वचित् तरुपलाशेषु स्खलता व्योमपातिना धान्येन महता भूमिर् बभूव च निरन्तरा //
SK
ततो विचित्रा मणयः स्फुरत्त्विषः शुचिद्युतीन्य् आभरणानि चासकृत् विकम्पितान्य् आपतता नभस्वता तनूनि वासांसि च पेतुर् अम्बरात् //
SK
अथो विचित्राभरणाम्बरस्रजः प्रवृत्तनानोत्सवतूर्यनिस्वनाः सविस्मयास् तं जनतानुकम्पिनं पुरस्कृतं तुष्टुवुर् इत्थम् अर्थिनः //
SK
अहो बतात्यद्भुतम् एतद् ईहितं परोपकाराय गृहीतजन्मनः अहो यशोभिस् तव कुन्दपाण्डुभिस् तिरस्कृतेयं हसतीव मेदिनी //
SK
अवश्यम् अस्त्य् एव जनस्य तादृशी स्वभाग्यसंपत् कुशलावलम्बिनः भवादृशानां जगदर्थकारिणां यद् एवम् उत्पत्तिर् अवन्ध्यजन्मनाम् //
SK
निर्वासितमहादुःखो दत्ताक्लिष्टमहाफलः विपाक इव धर्मस्य सुखहेतुस् त्वम् अर्थिनाम् //
SK
तद् एवम् आत्मदुःखम् अगणयित्वा जगत्सुखविधायिनो महाकारुणिका न प्रतिज्ञाम् अवसादयन्ति महात्मान इति स्वसुखनिरपेक्षेण परार्थनिष्पादनपटुना बोधिगामिना भवितव्यम् इति ||
SK
|| बदरद्वीपजातकं द्वितीयम् ||
SK
|| ३ Dहर्मकामजातकम् ||
SK
नान्यत्र बोधिसत्त्वाद् अज्ञानतमोनिरस्तये योग्यः / कश् चित् सुभाषितमणिं चिक्राय प्राणमूल्येन //
SK
तद्यथानुश्रूयते बोधिसत्त्वः किल श्रुतशीलादिगुणाभिलक्षिते क्षितितलालङ्कारभूते भूतानुकम्पिनि सततप्रवृत्तब्रह्मघोषाग्निहोत्रसमिद्दर्भकर्मान्ते विनीतशिष्यपरिवृताध्यापके ब्राह्मणकुले लोकहिताय व्यायच्छमानो वशित्वाद् उदपादि | प्रतिदिवसम् आपूर्यमाणकान्तिश् च स महात्मा
SK
यथा यथा संववृधे जगत्प्रियः शशीव भिन्दंस् तिमिरं मरीचिभिः तथा तथा तन् महतीम् महाकुलं जलं पयोधेर् इव वृद्धिम् आययौ //
SK
कश् चिद् एव महाभाग्यो जायते संमतःसताम् तरुलतेव वंशश्रीर् यम् आलम्ब्य विवर्धते //
SK
तस्य च महानुभावस्य कृतोपनयनसंस्कारस्य प्रमादबहुले यौवने वर्तमानस्य विनिवृत्तव्यसनदोषस्य पराम् अवेक्ष्य धर्मकामतां धर्मकाम इत्य् एव ज्ञातयो ऽनुरूपं नाम चक्रुः |
SK
प्रायेण प्राणिनो लोके गुणिनो वा गुणस्य वा नामापि पुण्यनिर्जातं प्रयाति रमणीयताम् //
SK
सुभाषितं तस्य सुभाषितार्थिनः कुतश् चिद् आकर्णयतो विपश्चितः नितान्तम् आनन्दथुचित्रकर्मकृच् चकार रोमोद्गमबिन्दुवर्तनाम् //
SK
पूतेन लोकम् अवभासयता समन्तात् कान्तेन भिन्नतमसा प्रथितागमेन शुद्धेन कस्य हृदयं शशलक्ष्मणेव न ह्लाद्यते सुपुरुषस्य सुभाषितेन //
SK
शुश्राव भिन्नतिमिरं तिमिरान्तकारी यस्मात् सुभाषितम् अतीव सुभाषितज्ञः प्रख्यातबुद्धिमहिमा महतां सदःसु प्रीतः परं शतसहस्रम् अदात् स तस्मै //
SK
स च महात्मा यत्र यत्र गच्छति स्म तत्र तत्र जनेन प्रतिपूज्यते स्म | ततः कदा चिद् अन्यतमो दुष्टचेतास् तदपकारचिकीर्षया ब्राह्मणस् तस्य महात्मनस् तं लाभसत्कारविशेषम् अनुदिवसम् अभिवर्धमानम् असहमानः सामर्षं त्वरितपदं तत्सकाशम् आजगाम |
SK
असंप्राप्यान्यतः पूजां गुणलभ्याम् असज्जनः अन्यस्मै मान्यमानाय पण्डितायाभ्यसूयति //
SK
स च दुरात्मा राक्षस इव ब्राह्मणरूपधारीतम् महासत्त्वम् उपगम्येदम् अभ्यधात् |
SK
श्रुतं मयातीव सुभाषितप्रियो भवान् किल ज्ञानविशेषवित्तगः अतो ऽस्म्य् अवज्ञातजनस् त्वदन्तिकं सुभाषितप्राभृतवान् उपागतः //
SK
परिभ्रमन् गन्धवतीः शिलीमुखो विहाय फुल्लाः सहकारमञ्जरीः मदं पिपासुः समुपैति दन्तिनो गुणान्तरं तत्र स पश्यति ध्रुवम् //
SK
अथ बोधिसत्त्वः सुभाषितोपायनवन्तं तं ब्राह्मणम् आलोक्य प्रहर्षप्रोद्भिद्यमानपुलकशोभः समुत्थाय स्वागतं सुभाषितमहारत्नवणिजे ब्राह्मणाय | वयं सुभाषितमणीनां क्रेतार इत्य् उक्त्वा तं द्विजातिम् आत्मीये महत्य् आसने समुपवेश्य स्वयमवनौ निषसाद | ततो धर्मकामं सुहृदस् सविस्मयम् एवम् ऊचुः |
SK
श्रोष्यामीति सुभाषितानि भवतो जातं मुखं सस्मितं श्रुत्वा यास्यति साश्रु लोचनयुगं प्रीत्या श्रियं काम् अपि अह्नश् छेदवशात् सुगन्धि कुमुदं मन्दं समुन्मीलति प्राप्येन्दोः किरणान् अपास्ततमसः शोभां परां पुष्यति //
SK
अथ धर्मकामः सबहुमानम् आलोकयंस् तं ब्राह्मणम् अवोचत् | अभिधातुम् अर्हत्य् आचार्यः शुश्रूषमाणाय शिष्यायेति | अथ स पापीयान् एनम् उवाच | यदि भवान् महति खाते निर्धूमज्वलनपरिपूरिते सुभाषितरत्नलोभाद् आत्मानं मुञ्चेत् ततो ऽहम् इदं सुभाषितम् अश्रुतपूर्वम् अतिमनोहरम् अभिदध्याम् इति | अथ बोधिसत्त्वः सत्त्वपरिबृंहितमतिर् इदम् अभ्यधात् | महाब्राह्मण | नेदं दुष्करम् आत्मदुःखानपेक्षिणाम् मादृशानाम् | किं तु |
SK
सुभाषितं जगदुदयाय सज्जनान् महीरुहात् फलम् इव संचिनोम्य् अहं गते मयि ज्वलनवतीम् महाखदाम् अयं जनः कथम् इव तद् ग्रहीष्यति //
SK
ब्राह्मण उवाच || श्रावयित्वेदम् सुभाषितम् अखिलस्य जनकायस्य ततो ऽग्निखदायाम् आत्मानं मोक्ष्यसि | बोधिसत्त्व उवाच | यथा आच्य रोचते तथास्तु |
SK
अनवतीर्य चिराय दुरुत्तरं सुविपुलं व्यवसायमहोदधिम् क्षपितमोहमहातिमिरः कथं जगति बोधिमणिः सुलभो भवेत् //
SK
तद् अहम् एष सुभाषितलालसो जलम् इव प्रविशामि हुताशनम् न मम धर्मकथाहृतचेतसो हुतवहो ऽपि करिष्यति वेदनाम् //
SK
इति निगद्य सुखातम् अखानयद्दहनवच् च नृभिस् तद् अकारयत् / निरगमच् च बहिर्भवनान्तरात् सपदि तेन सह द्विजरक्षसा //
SK
हुतभुजि ज्वलिते च महामतिर् निपतितुं कृतनिश्चयमानसः सखिभिर् अश्रुपरीतविलोचनैः स रुरुधे परिरभ्य सुहृत्तया //
SK
अथ धर्मकामं सुहृदो ज्ञातयश् च विषादाश्रुपूर्णनयनाः सगद्गदम् एवम् ऊचुः | किम् इदम् इति सुभाषितरसेनानपेक्षितक्कार्यो दुष्प्रापम् इदम् अमलकुलोत्पन्नम् उडुपतिकिरणविशुद्धयशोऽधिष्ठानं मानुष्यम् अवमन्य ज्ञातिजनं चात्यन्तदुःखभागिनं कृत्वात्मानं परित्यक्तुम् इच्छसि | ननु विनिवर्त्यताम् इयममार्गयायिनी बुद्धिः | पश्यतु भवान् |
SK
ये नाम वल्लभतरास् सततं जनस्य पुत्राद् अपीष्टफलदाद् दयिताज् जनाच् च क्रीणासि तैर् असुभिर् आत्मसुखानपेक्षी कस्मात् सुभाषितम् अतीव सुभाषितज्ञः //
SK
अथ बोधिसत्त्वस्तस्य जनकायस्य सुभाषितगुणाविष्करणेन धर्मदेशनाम् इति चकार |
SK
विज्ञानम् उज्ज्वलयति प्रतिभां तनोति तत्त्वं प्रकाशयति कापथम् उच्छिनत्ति साधोः सुभाषितम् अहो परिचीयमानं कल्याणमित्रम् इव किं न हितं करोति //
SK
यत्रोदिते विमलधाम्नि विवस्वतीव पुम्नां मतिः कमलिनीव विबोधम् एति अत्यन्तभिन्नतिमिरं सुधिया परस्मात् तद् ग्राह्यम् आत्मनिमयेनकथं न सूक्तम् //
SK
तस्माद् अहं दहनदाहम् अचिन्तयित्वा ताथागतीं गतिम् अनुप्रतिपत्तुम् इच्छन् प्रज्ञागुरुं गुरुम् इवालघुसूक्तहेतोः प्रीतः शरीरगुरुदक्षिणयार्चयामि //
SK
मानुष्यं देवभूयं वा प्राप्यते सुकृताश्रयात् कदाचिल् लभ्यते पुम्भिः सुभाषितरसायनम् //
SK
तन् न मे कुशलपक्षावलम्बिनो भवन्तो विघ्नम् उत्पादयितुम् अर्हन्तीति तान् सुहृदो बान्धवांश् च सानुनयं विनिवार्य ज्वलनसात्कर्तुम् आत्मानं तरुस्कन्धम् आरुह्य तं ब्राह्मणम् उवाच | आचार्य प्रोच्यताम् अधुना तत् सुभाषितम् इति | ब्राह्मण उवाच |
SK
प्रदानपटुभिर् नित्यं शीले च विमले स्थितैः अत्यन्तवीर्यसंनाहैः प्राप्यते पदम् अक्षयम् //
SK
अथ बोधिसत्त्वः प्रमुदितमनास् तां गाथाम् उद्गृह्य तस्मै जनसमूहाय श्रावयाम् आस | ततस् ते सुहृदस् तम् एनम् अर्थम् ऊचुः |
SK
परं प्रमोदं जनयेत् पुनः पुनः तवैव सूक्तं कुशलावलम्बिनः विषादहेतुत्वम् उपागतं यतो दुरुक्तम् अस्माकम् इदं ततो ननु //
SK
अथ तत्र प्रकृतिकरुणार्द्राशयो मातृग्रामस्तस्य साधोर् असंबन्धोऽपि शोकवशाद् एवं परिदेवनपरो बभूव |
SK
सुगन्धिना वाङ्मधुनाधिवासितं परिस्फुरन्दन्तमरीचिकेसरम् मुखाम्बुजं श्रीमद् इदं हुताशनः कथं न्व् अयं निष्करुणो ऽस्य धक्ष्यति //
SK
विशुद्धचामीकरगौरम् अग्निना परीयमाणं परिकूणितेक्षणम् शरीरम् अस्येदम् अहो भविष्यति प्रदग्धदारुप्रतिमं मलीमसम् //
SK
उद्यत्सिमसिमाशब्दम् अनलान्तरवर्तिनः श्यामीभवद् इदं गात्रं द्रष्टुं को ऽस्याद्य शक्ष्यति //
SK
द्विधेव क्रियमाणानां वेणूनां पर्वनिःस्वनम् बान्धवाः कथम् अस्यास्थ्नां श्रोष्यन्ति स्फुटतां ध्वनिम् //
SK
अमी समीरणासङ्गचलत्पल्लवपाणयः मा धाक्षीरेनम् इत्य् अग्निं वारयन्तीव पादपाः //
SK
बाष्पतोयाविलाक्षाणां विदारयति नो मनः बन्धूनाम् अस्य दीनानां हा हेत्य् एकाक्षरं वचः //
SK
इह गोष्ठी कृतानेन दत्तं धनम् इहार्थिने इत्य् अस्य सुहृदः साधोर् देशयिष्यन्ति सास्रवः //
SK
ज्ञातेयेन विनास्माकं दुःखं दहति मानसम् सुहृदो ज्ञातयो वास्य धारयिष्यन्त्य् असून् कथम् //
SK
तन् नेदम् अतिकरुणं रौद्रं कर्मास्य दुष्करकारिणः शक्यते द्रष्टुम् इत्य् अभिधाय स स्त्रीजनो गृहाभिमुखः प्रतस्थे | ततो बोधिसत्त्वः प्रणिधिम् एवम् आविश्चकार |
SK
न प्रार्थये पदम् अहं शुभलभ्यम् ऐन्द्रं विद्याधराधिपतितां न च नापि राज्यम् भूयासम् अस्य जगतः सुगतत्वम् आप्य दुःखक्षयार्थम् अमुना कुशलोदयेन //
SK
इत्य् उक्त्वा तेन महात्मना मुक्तश् चात्मा | सद्य एव च सो ऽग्निर् उपशान्तज्वालाकलापधूमसंघातः सुरभिकमलोद्भेदगन्धाधिवासितदिगन्तरालं कमलिनीपलाशस्थितविमलसलिललवं स्फटिककणाकीर्णमरकतशिलानुरूपम् अलिकुलचक्रवाकमिथुनहंसकादम्बोपशोभितं पद्माकरत्वम् अगमत् |
SK
कृतार्थम् इव पद्मत्वं मन्यमाने कुशेशये सो ऽपि च स्थितम् आत्मानम् अद्राक्षीद् धीमतां वरः //
SK
पादोपान्तभ्रान्तमत्तद्विरेफः शान्तो धर्मं धर्मकामो ब्रुवाणः शोभां गाढं पद्मपत्त्रायताक्षः पद्मासीनः पद्मयोनेर् दधार //
SK
एष स्वप्नः स्याद् इयं किं नु माया वह्निः क्वायं क्वेदमम्भोरुहत्वम् इत्य् आश्चर्यं विस्मयाक्षिप्तचित्ताः तं पश्यन्तस् ते जना वाचम् ऊचुः //
SK
तेषां तम् आलोकयतां जनानाम् अम्भोजमध्यस्थितम् उन्नतेच्छम् हर्षाश्रुणासंभवता क्षणेन रुषेव शोकाश्रुजलं निरस्तम् //
SK
पतितम् अथ नभस्तः कीर्णकिञ्जल्कगन्धं समनुगतम् अलीनां पङ्क्तिभिः पुष्पवर्षम् अभवद् अपि च मारः पौष्पम् आधायपार्श्वे धनुर् उपहितशोकःपाणिविन्यस्तवक्त्रः //
SK
अथ स ब्राह्मणो ज्वलिताङ्गारमध्यगतम् इवात्मानम् ष्णनिश्वासाभितप्तमुखान्तरालः कथम् अपि धारयन्न् इदम् अवोचत् |
SK
गम्भीरे क्षितिविवरे परिस्फुरन्तं पश्यामि ज्वलनम् इवाग्रतो महान्तम् एषा च ज्वरपरितर्जितातिदुःखा मेदिन्यां मम विनिमज्जतीव मूर्तिः //
SK
तीव्राग्निं नरकम् इमं पतिष्यतो मे त्वं भूयाः शरणम् इहाद्य धर्मकाम तुङ्गेच्छाः परहितवेधसो महान्तस् त्वादृष्काः सुहृदि रिपौ च तुल्यभावाः //
SK
अथ बोधिसत्त्वस् तदनुकम्पया सत्याधिष्ठानम् अकरोत् |
SK
येन सत्येन सत्त्वार्थं बोधिचर्यां चराम्य् अहम् तेन मा स्म गमद् विप्रो नरकं ज्वलितानलम् //
SK
इति बोधिसत्त्वेनाभिहितःस ब्राह्मणः सद्य एव हरिचन्दनानुलिप्तम् इवात्मानं प्रमुमुदे |
SK
कल्याणमित्रम् आगम्य जगदर्थविचक्षणम् प्रयाति विलयं सद्यः पापं पापकृताम् अपि //
SK
अथ बोधिसत्त्वः प्रमुदितमनोभिः सुहृद्बन्धुप्रणयिभिर् आलोक्यमानो दानशीलादिसमुत्तेजनाय धर्म्यां कथां चकार |
SK
आगमतो ऽनुमानाच् च द्वयानिश्चयकारणात् विशेषनिश्चयोत्पत्तेः प्रत्यक्षं बलवत्तरम् //
SK
महापरित्यागम् इमं सविस्मयश् चिरं विलोक्येव मम स्फुरच्छिखः कृशानुर् अन्वक्षम् अयं शरीरिणां प्रफुल्लपद्माकरताम् उपागतः //
SK
ततः समालोक्य महान्तम् अद्भुतं प्रभावम् एनं विपुलस्य कर्मणः शुभाशुभस्यास्ति फलं सुखासुखं विचिन्त्य चेदं विजहीत कापथम् //
SK
प्रमादनिद्राविनिमीलितात्मनां शरीरिणां सौपायिकी प्रबोधना विपश्चितां तु स्फुटबुद्धिचक्षुषां सति प्रबोधे किम् इव प्रबोध्यते //
SK
हितोन्मुखानाम् अपि धर्म्यया गिरा भृशं प्रबोधं जनयन्ति साधवः गतेर् विशेषो भवति प्रसर्पतां प्रतोदसंचोदनया हि वाजिनाम् //
SK
बहुच्छलं पालयता गृहाश्रमं न धीमता विश्वसनीयम् अण्व् अपि न युज्यते स्वप्तुम् अनाहिताङ्कुशप्रचण्डमत्तद्विरदाधिरोहिणः //
SK
सुतप्रलापा भवनं समृद्धिमद् विलासलावण्यविभूषिताः स्त्रियः प्रसङ्गिनां सर्वम् अमेधसाम् इदं शमानुकूलस्य निरोधकं पथः //
SK
कथं चिद् अष्टाभिर् अपोढम् अक्षणैर् अवाप्य मानुष्यम् इदं सुदुर्लभम् / शमाय यो न त्वरते प्रमादभाग् नियोजनीयो ऽनडुहाम् असौ धुरि //
SK
इदम् अवाप्तम् अवाप्यम् इदं पुनः कृतम् इदं करणीयम् इदं नृणाम् इति मनोगृहचित्रणया क्षयं व्रजति नैव मनोरथवर्तिका //
SK
विषयोपभोगम् अवसानदारुणं परिरभ्य चन्दनम् इवाहिवेष्टितम् सुखम् इत्य् अभूतपरिकल्पनानुगा बहुदुःखजालम् अधिशेरते जनाः //
SK
धिग् अहो तिरस्कृतम् अविद्यया जगत् सकलं कलङ्कितम् अनङ्गजैर् मलैः यद् इदं समेत्य मरणारिगोचरं गजसुप्तिकाम् इव विधाय तिष्ठति //
SK
हृतसत्पथं निवरणारिभिः शठैर् अविचिन्त्य संततम् अनित्यताभयम् अनुशासनं प्लवम् अपास्य सौगतं विनिमज्जति व्यसनसागरे जगत् //
SK
प्रतिक्षणं क्षयम् उपयातिजीवितं प्रशाम्यतो वपुर् इव कृष्णवर्त्मनः अतः सदा विषयपराङ्मुखीम् इमां त्वरावतीं कुरुतमतिं हितं प्रति //
SK
इति वचनम् अयुक्तन्यायम् उक्तम् मया चेद् अनुभवत यथेष्टं कामसौख्यानुबन्धम् अथ तु गुणवद् एतत् साधवः चिन्तयित्वा श्रयत विषयतृष्णां रोधिनींशान्तिम् अग्र्याम् //
SK
इति धर्मदेशनां कृत्वा बोधिसत्त्वःससुहृज्जनो गृहं प्रविवेश |
SK
तद् एवं सुभाषितरत्नपरीक्षापटुना तेन भगवता प्राणैर् अपि सुभाषितानि क्रीतानीति विचिन्त्य सततम् एव दुःखोच्छेदम् इच्छता प्राज्ञेन धर्मकथाश्रवणे महान् आदरः करणीयः | कल्याणमित्रसेवा चाभिलषितफलनिष्पादिनी भवतीति तदनुवर्तिना भवितव्यम् इति ||
SK
|| धर्मकामजातकं नाम तृतीयम् ||
SK
तिर्यग्योनिगतैर् अपि सद्भिः प्राणाः परार्थम् उत्सृष्टाः / को नाम पुरुषभूतः सक्तिं धनमात्रके कुर्यात् //
SK
तद्यथानुश्रूयते स्तिमितनिलीनशुकसंघातहरितशाद्वलोपगूढभूभागे विविधशिखरितरुच्छायोपविष्टरोमन्थायमानहरिणगणे भ्रमदलिकुलोपगीयमानकुसुमितलतासंपर्कसुरभिपवनाकम्प्यमाननिर्झरवारिधौतशिलातलपर्यन्ते मुनिजनमनोऽनुकूले कूलविटपिलताकिसलयास्खलितसरित्तरङ्गाहतकुमुदधवलफेनशेखरालंकृतसलिले सलिलचरविहङ्गोन्नादितपद्मिनीवने क्वचिद् अचलवनान्तरे बोधिसत्त्वः शशो भवति स्म | तस्य च तत्र सहवासगुणाद् अभिवृद्धसौहृदः प्रशमोपचयशान्तेन्द्रियग्रामो ग्राम्योपभोगपराङ्मुखमनाश् चीराजिनाषाढकमण्डलुमात्रपरिग्रहः कष्टतपास् तापसः सहायो बभूव |
SK
शान्तौ समानधर्माणौ समदुःखसुखोदयौ ताव् अन्योन्यम् अपश्यन्तौ न रेमाते सुहृत्तमौ //
SK
बाल्ये शशेन रहितः कंचित् कालं भवत्य् अनुष्णांशुः / न तु तेन शशाकृतिना कदाचिद् अपि स व्रती सुहृदा //
SK
साप्तपदीनं सख्यं भवति सतां प्रकृतिशुद्धचित्तानाम् / किम् उतान्योन्यगुणकथाविश्रम्भनिबद्धभावानाम् //
SK
भवति शमाभिरतानां पुंसां धर्माय पाटवं बुद्धेः / प्रतनुमनसां तिरश्चां धर्मारम्भे कुतः संज्ञा //
SK
शशजातिर् अहो क्वेयं क्वेदं वाक्सौष्ठवं क्व च शमो ऽयम् / अभवद् इति देवतानां शश एव सविस्मयं चेतः //
SK
अथ कदाचिद् असलिलतया परिपाण्डुषु सासूयकृषीवलजनावलोक्यमानेषु विश्रान्तविद्युल्लताविलासेषु पवनबलविच्छिन्नसंघातेषु जलदेषु दिनकरकिरणापीतसावशेषसलिलेषु परिम्लानगर्भलघुशालिच्छन्नेषु केदारेषु सकृत्पूरविच्छेदप्रतनुजलविमुक्तविपुलतरपुलिनतटावस्थितस्फुटितोत्तानशुक्तिपुटास्व् सरित्स्व् आघर्मक्लमविनिबद्धश्वासप्रचलत्कण्ठेषु मदकाले ऽपि विनिवृत्तनृत्तव्यापारेषु नीलकण्ठेषु निम्नप्रविरूढशुष्कशष्पाङ्कुरायां वसुमत्याम् अलब्धतृणाहारतया परिक्षामकुक्षिषु मन्दगमनचलितशिथिलसास्नासु क्षीरक्षयलघूध्नीषु परिदुर्बलवत्सासु वत्सतरीषु शाकप्रायकदन्नाभ्यवहारकृशपरुषाङ्गेषु दरिद्रजनेषु दुर्भिक्षदोषपराङ्मुखीकृतातिथिजनसत्कारेषु ग्रामेषु क्वचित् क्वचिच् छ्रूयमाणमन्थानशब्देषु गोकुलेषु स तापसस् तं शशम् अवोचत् | अहो कृतोपकारम् अपि विपत्सु नानुवर्तन्ते प्रकृतिलघवः प्राणिनः | पश्यतु भवान् अयं हि |
SK
आसारेण विभिन्नचन्द्रकमणिं तन्वन् कलापं मुदा लास्यं लासकवत् पुरा विरचयन् स्तौतीव यं केकया तस्मिन्न् एव शिखी निरम्भसि घने चक्षुःप्रदानालसः प्रायेणोदयवन्तम् एव भजते स्वार्थप्रवीणो जनः //
SK
निस्तोया विरलीभवन्ति जलदा विच्छिन्नम् ऐन्द्रं धनुः श्रूयन्ते न कलापिनां गिरिगुहासंसर्गदीर्घा गिरः सर्वं वस्तु निसर्गभङ्गुरम् इति ध्यात्वेव शोकाच् चिरं विद्युल्लासिकया विलासमधुरं लास्यं परित्यज्यते //
SK
जातं क्षीणफलं फलद्रुमवनं शोषं गता वीरुधः प्रम्लानानि शनैर् बिसानि बिसिनीपङ्के खरत्वं गते यो ऽप्य् आसीद् बदरेङ्गुदीफलचयः स्वल्पो ममात्रोटजे क्षीणः सो ऽपि सुदुष्कराय तपसे यात्रां करिष्ये कथम् //
SK
आहारेण विना प्रतिक्षणम् अयं देहः क्लमं गच्छति क्लान्त्या चेतसि योगिनः प्रतिहते स्थैर्यं समाधेः कुतः प्राज्ञस्यापि समाधिहीनमनसस् तत्त्वाभिमुख्यं कुतस् तत्त्वादर्शनबद्धमोहतिमिरः पश्चाद् वृथा श्राम्यति //
SK
त्यक्त्वा ततो ऽजिनकमण्डलुवल्कलानि स्थास्यामि बान्धवजनेन सह स्वगेहे दुर्भिक्षदोषम् अपवाह्य पुनर् वनान्ते वत्स्यामि वत्सल चिरं भवता सहात्र //
SK
अथ बोधिसत्त्वश् चिरसंवासाभिवर्धितप्रेमार्द्रहृदयस् तम् ऋषिम् उवाच |
SK
आलानम् उन्मूल्य सुखाभिकाङ्क्षी यातः कथंचिद् द्विरदो वनान्तम् विस्मृत्य भूयो ऽङ्कुशपातदुःखं जनान्तम् एवेच्छति गन्तुम् अज्ञः //
SK
शमेन मेधावितया तपोगुणैः श्रुतेन च ज्ञेयपथानुगामिना मुनींस् त्वम् अन्यान् अभिभूय वर्तसे रविः प्रदीपान् इव दूरम् अंशुभिः //
SK
इति त्वम् आलोकितशास्त्रनिश्चयो ऽप्य् अनन्धकारेण विवेकचक्षुषा प्रवेष्टुकामो विषयारिगोचरं कथं प्रमाद्यन्न् इव नाम लक्ष्यसे //
SK
तमोविनिर्भेदि पथां प्रकाशकं मनःप्रसादं जनयच् छरीरिणाम् न वेत्ति धन्धः सुधियां सुभाषितं प्रसादि जात्यन्ध इवेन्दुमण्डलम् //
SK
स्वबुद्धिदीपेन विना तमस्विनीं सुखानुषक्तिं त्यजतीति का कथा गृहस्थतायां रमयन्ति यन् मनोविशुद्धसत्त्वास् तद् असांप्रतं महत् //
SK
द्विसन्ध्यम् आज्याहुतिगन्धवासितैर् निवेशितान्तर्बदरेङ्गुदीफलैः जलाशयालीनशरारिसारसैस् तरूपगूढैर् उटजैर् अलंकृताः //
SK
तपस्विकन्योद्धृतकुम्भवारिणा प्रसिच्यमानोद्गतबालपादपाः तटद्रुमच्छायनिरुद्धसिन्धवः समुच्छ्वसत्पुष्पसुगन्धिवायवः //
SK
परिभ्रमत्तापसपुत्रकानुगैः क्वचिन् मृगैः खण्डितवीरणाङ्कुराः जपाच् चलच्छ्मश्रुनिरुद्धकन्धरैस् तपोधनैर् आश्रितशैलगह्वराः //
SK
अहो दृढस्नेहनिबद्धचेतसाम् असत्सुखास्वादलवानुषङ्गिणाम् न नाम पर्युत्सुकयन्ति रागिणाम् अमेधसां चित्तम् उपत्यका भुवः //
SK
अकुशलजनसेव्यं कापथं प्राप्य मोहात् स्खलति नियतम् अज्ञः स्नेहपाशान् अमुक्त्वा सुकृतिभिर् अनुयाते संविदानो ऽपि मार्गे यद् अरजसि न तिष्ठत्य् एतद् अप्राप्तम् अत्र //
SK
बहुव्यसनदोषम् अपि नाम गार्हस्थ्यम् अवेत्य कथम् इमां शमानुकूलां विमुक्तिमार्गप्रकाशिनीं प्रव्रज्याम् अपास्य सुखलवहेतोर् महत् प्रतिभयं दुःखपातालं प्रवेष्टुम् इच्छसि | यच् च भवताभिधीयते पुनर् अहं तपोवनम् आगमिष्यामीति नेदं श्रद्धीयते | कुतः | प्रचुरविघ्नो हि गृहवासः |
SK
इन्द्रियार्थवशगस्य कामिनीः पश्यतः स्मितविलासभूषणाः अप्य् अखण्डफलदे तपोवने रागिकस्य हृदयं निवेक्ष्यते //
SK
अपि च महर्षे विषयानुवर्तिनो हि प्राणिनो महान्ति व्यसनान्य् अनुभवन्ति | पश्य |
SK
मृगो मृगयुगीतेन नीयते शरगोचरम् विषयास्वादलुब्धानां भवन्त्य् एव विपत्तयः //
SK
शलभः प्रयाति पतितो विभावसौ गुरुदाहदुःखम् उपगम्य पञ्चताम् कमनीयरूपहृतचेतसां कथं न भविष्यति व्यसनम् अङ्गिनां पुनः //
SK
यदि नाददीत बडिशस्थम् आमिषं शकली क एनम् उदकात् समुद्धरेत् सुखलुब्धबुद्धिर् अनुबद्धम् अग्रतो न भयं विलोकयति बालिशो जनः //
SK
कमले निमीलति शिलीमुखः स्थितः समुपैति कृच्छ्रम् अतिगन्धलालसः गजबन्धकीम् अनुसरन् वनात् करी सहते प्रतोदनिशिताङ्कुशव्यथाम् //
SK
विपदां पदं तनुधियां विमोहनं स्थिरबुद्धिभिः परिहृतं महात्मभिः यदि वः सनातनसुखस्पृहास्त्य् अतो विषवज् जहीत विषयाहिगोचरम् //
SK
ऋषिर् उवाच | सत्यम् अनेकेषां परिभवादीनां दोषशराणां शरव्यभूतो गृहवासः सुखलवास्वादमोहितात्मभिर् न शक्यते परित्यक्तुम् | किं तु |
SK
शश सुहृत्तम शीलयशोनिधेर् भवत एव गुणा ननु तादृशाः मम भविष्यति यैर् हृतचेतसः पुनर् इहागमनं शमम् इच्छतः //
SK
बोधिसत्त्व उवाच | यद्य् अवश्यम् एव गन्तुम् अभिलषितं तथाप्य् एकम् इमं दिवसम् इहोषित्वा श्वः स्वम् अभिप्रायम् अनुष्ठातासि | ततः स मुनिर् एवं चिन्तयामास | नियतम् अयं मां निमन्त्रयितुकामः |
SK
जम्बूवनं क्वचिद् अनेन फलाभिरामं दृष्टं भवेत् किम् अथवा फलितो ऽत्र चूतः पाकाभिताम्रसुकुमारफलाधिवासो शैलान्तरे क्वचिद् उदुम्बरपादपो वा //
SK
अथ शशस् तां रजनीम् अतिवाह्य प्रभातसमये कृत्स्नं तद् वनं परिभ्रम्यालब्धमूलफलश् चिन्तयामास |
SK
अस्मिन्न् अभुक्तवति सक्षुधि दुर्बलाङ्गे शान्ते मुनौ समसुखव्यसने सुसख्यौ भोक्ष्ये तृणं कथम् अहं हरितं वनान्ते पास्यामि शीतविमलं सलिलं कथं वा //
SK
अथवा सत्य् अस्मिन्न् अर्थिजनसाधनक्षमे शरीरे किम् अहम् अशक्त इव विषण्णमनास् तिष्ठामि | ततस् तम् ऋषिम् उपगम्योवाच | महर्षे प्रतिपाल्यतां तावन् मुहूर्तं यावद् अहम् आहारजातं किंचिद् उपहरामि | ततः स मुनिर् अचिन्तयत् | परिक्षीणकन्दमूलफले ऽस्मिन् वने कीदृशी पुनर् आहारोपहरणशक्तिर् अस्य स्यात् | अथ स महात्मा ज्वलिताङ्गारराशिम् अवलोक्य प्रणिधिम् एवम् अभिवर्धयामास |
SK
यथार्थिनः क्षुदुपशमाय निर्व्यथस् त्यजाम्य् असून् हुतभुजि चञ्चलार्चिषि तथा जगद्व्यसननिरस्तिकारिणीं सुदुर्लभां दशबलताम् अवाप्नुयाम् //
SK
मुक्तः स्वात्मा परार्थे प्रमुदितमनसा चिन्तयित्वेति तेन क्लेशच्छेदाय शान्तं पदम् अभिलषता प्राणिनां बान्धवेन शान्तज्वालाकलापः स च वनदहनस् तस्य पुण्यानुभावात् प्रेङ्खत्तोयोर्मिलेखं प्रचलदलिकुलं प्राप पद्माकरत्वम् //
SK
अथ स मुनिः कष्टम् इत्य् उक्त्वा दहननिर्वापणाय गृहीतसलिलकमण्डलुस् त्वरितम् उपगम्य तं महात्मानं विकसितपुण्डरीकमध्ये ऽवतिष्ठमानं धर्मं देशयन्तम् अपश्यत् |
SK
अधिष्ठितं तेन भृशं शशेन रराज तद् वारिणि पुण्डरीकम् शरत्प्रसन्ने नभसि प्रसन्नं प्रकाशलक्ष्मेव शशाङ्कबिम्बम् //
SK
ततः स मुनिस् तं शशं पुण्डरीकावस्थितम् आलोक्य विस्मितमनाः स्तुतिम् इमां प्रव्याजहार |
SK
अहो परार्थप्रतिपत्तिदक्षिणं यशोनिधेः कर्म तवेदम् अद्भुतम् अचिन्त्यमाहात्म्यविशेषसंश्रयो महामतिः को ऽपि शशायते भवान् //
SK
अयं प्रदीप्तः क्व समीरसारथिः क्व चात्र राजीववनत्वम् ईदृशम् महात्मनां पुण्यबलैर् अधिष्ठितो विषद्रुमो ऽप्य् ओषधिवृक्षताम् इयात् //
SK
ततः स महात्मा तस्मात् पुण्डरीकाद् अवतीर्य प्रविष्टश् च तेन सह मुनिना पर्णशालाम् | विदितबोधिसत्त्ववृत्तान्तेन च विस्मितमनसा मघवता समन्ताद् अञ्जनाचलनीलजलधरपटलपिहितदिनकरम् अचिरप्रभाप्रकाशपरिपिञ्जरदिगन्तरम् अम्बरतलम् अकारि |
SK
ततो ववुः प्रचलितवारिशीकराः समन्ततः कुटजभिदः समीरणाः विरेजिरे समुदितपङ्क्तिभिः फलैः शुकाश्रिता गिरिसहकारपादपाः //
SK
समुद्गते मधुकरवेणुनिस्वने मृदङ्गवद् ध्वनति च वारिनिर्झरे ननर्त खं नवजलदं विलोकयन् स्थितो गिरेर् उपरि मयूरलासकः //
SK
मनोहरं धनुर् अवतत्य वज्रिणो निपातितस्फुटबहुशीकरेषवः वितेनिरे स्फुरदचिरप्रभासयः पयोधराः क्षपितनिदाघविद्विषः //
SK
परिभ्रमद्भ्रमरनिपातकोपितः समुच्छ्वसत्प्रतरुणकेतकाश्रितः श्वसन्न् अयोवलयसरूपविग्रहः पुनः पुनः फणम् अतनोद् भुजङ्गमः //
SK
दयिताविरहोत्सुकोत्सुकैः पथिकैः शैलपथद्रुमाश्रितैः परिशुश्रुविरे ऽल्पयाचिनां जलधारान्तरचारिणां गिरः //
SK
ददृशुः पथिकाङ्गनाः स्फुरन्तीं तडितं वारिमुचि प्रवेपिताक्ष्यः उपरि द्विरदस्य वायुनुन्नां ध्वजबद्धाम् इव कौङ्कुमीं पताकाम् //
SK
शिखिचन्द्रकमिश्रकाशवंशं क्वचिद् आवर्तपरिभ्रमच्छिलीन्ध्रम् अभवज् जलम् आविलं नदीनां तटजम्बूफलपातभिन्नफेनम् //
SK
जम्बूफलैः शबलितानि सरित्तटानि पश्यन् भुवश् च मृदुशाद्वलरम्यशोभाः पर्णोटजे क्वणति वारिकणाभिघातात् तिष्ठन् सह प्रमुमुदे स मुनिः शशेन //
SK
पप्रच्छ तम् अथानेन व्यवसायेन भूयसा स्थानं दिव्यसुखाकाङ्क्षी किम् ऐन्द्रं विजिगीषसे //
SK
आचचक्षे शशस् तस्मै धीरचेतास् तपस्विने बुद्धत्वम् अहम् इच्छामि प्राणिनां दुःखशान्तये //
SK
स मुनिस् तम् उवाचाथ यदा बुद्धो भविष्यसि तदा स्यां तव शिष्यो ऽहं स चास्मै प्रत्यपद्यत //
SK
तद् एवं तिर्यग्गतो ऽप्य् असौ भगवान् बोधिसत्त्वचर्यां चरन् प्राणैर् अपि परोपकारं कृतवान् इति बुद्धे भगवति प्रसादपरायणैर् भवितव्यम् इति |
SK
|| शशजातकं चतुर्थम् ||
SK
को विस्मयं न नीतः शिरसस् त्यागेन बोधिसत्त्वस्य / अथवा फलानुरूपाः प्रायो महतां समारम्भाः //
SK
तद्यथानुश्रूयते हुतवहसखबलसमुदीरितमहातरङ्गस्य क्षीरोदजलधेर् अनुकारिणा हिमगिरिहारेणाभ्यलंकृतायाः कौबेर्या दिग्वध्वाः प्रमनसा पत्त्रलेखेव विश्वकर्मणा लिखिता विविधजनसंबाधा पवनविधूयमानोपवनकुसुमगन्धाधिवासितदिगन्तराला सदा सुभिक्षत्वात् परिपूर्णकोषकोष्ठागारा श्रीर् इव नगररूपेणावस्थिता भद्रशिला नाम राजधानी येयम् अधुना तक्षशिलेति ख्यातिम् आगता | तस्यां च नीतिभुजबलपराजितान्यराजसामन्तः समुद्र इव सरितां सर्वसंपदाम् आश्रयः सर्वविद्यानां पात्रभूतो भूतानुकम्पी विमलवदनेन्दुशोभाह्रेपितचन्द्रप्रभश् चन्द्रप्रभो नाम राजा बभूव |
SK
श्रियम् अरिपुरनारीपद्मिनीनां हरन्ती सखिजनकुमुदानां ह्लादम् उत्पादयन्ती निशि मनुजपतीन्दोस् तस्य देहप्रभैव क्षपिततिमिरजाला दीपकार्यं चकार //
SK
तस्य च राज्ञो लोकोत्तरेयम् अखिलजनविस्मयकारिणी प्रतिज्ञाभूत् |
SK
यदि मां मृगयेत कश्चिद् अर्थी नयने प्राणनिबन्धनं शिरो वा भवभङ्गकरं पदं यियासुः प्रणयच्छेदम् अहं न तस्य कुर्याम् //
SK
बोधिसत्त्वस्य च दशशतवसोर् इवारुणः सततपुरःसरो ऽमात्यगणप्रधानो महाप्रज्ञो महाचन्द्रो नामामात्यो बभूव |
SK
परस्परगुणालापौ परस्परहितोन्मुखौ न कदाचिद् अभूतां तौ परस्परवियोगिनौ //
SK
अथ कदाचिन् महाचन्द्रो रात्रौ निद्रावशम् उपगतो दग्धपलाशराशिनीलपरुषच्छविभिर् अनलज्वालाकलापकपिलकेशश्मश्रुभिः केसरिनखरकुटिलतीक्ष्णकररुहैः सलिलाध्मातगुरुजलधरबृहत्कुक्षिभिर् अयःस्तम्भपीवरततभुजोरुभिः शशिकलाकुटिलदंष्ट्राविभक्तसृक्कान्तैः स्फुरदचिरप्रभाविजिह्मभ्रूभङ्गैः सरुधिरपुरुषचर्मावच्छादितकौपीनैर् यातुधानैः स्वप्ने तस्य नृपतेर् अपह्रियमाणं विगलितचूडामणिं मौलिम् अपश्यत् | प्रतिविबुध्य च विमनस्क एवम् अचिन्तयत् | अहो कटुविपाको ऽयं मया स्वप्नो दृष्टः | स्वामिनश् च नः प्रतिज्ञा शरीरम् अपि याचितेनार्थिने मया दातव्यम् इति | तद् यावत् तस्य नृपतेर् न कश्चिच् छिरो मृगयते तावद् अनेकानि रत्नमयानि शिरांसि शिल्पिभिः कारयामीति | तैर् एव कंचिच् छिरोयाचकं बहिर् एव प्रतिपूज्य विसर्जयिष्यामीति |
SK
भूपालः पृथिवीम् एनां पालयन् पालितेन्द्रियः कृतात्मा सुचिरं जीवञ् जीवयत्व् अखिलं जनम् //
SK
अथ महाचन्द्रो ऽमात्यमुख्यः शिरांसि रत्नमयानि कारयित्वा बहिर् एव याचनकजनं विचारयामास केनार्थ इति | ततो गन्धमादनपर्वते वानरानूकमुखः परिणतनालिकेलवल्कलपरुषविरलकेशश्मश्रुर् अकृतभ्रूकुटिर् अपि कृतभ्रूकुटिर् इव दग्धस्थूणासितकर्कशच्छविः प्रस्थितजलौकःकुटिलस्थूलसिराजालविषमजङ्घोरुभुजो भुजग इव प्रकृतिरौद्रो रौद्राक्षो नाम ब्राह्मणः प्रतिवसति स्म | तस्य चिन्ता समभवत् | चन्द्रप्रभः किल राजा सर्वंददस् तद् गच्छामि तावत् तं राजानं शिरोयाचनेन व्यर्थप्रतिज्ञं करिष्यामीति | कस्य नामास्ति शिरःप्रदाने शक्तिर् इति विचिन्त्य क्रमेण भद्रशिलाम् आययौ |
SK
विचचाल ततः सभूधरा मुहुराघूर्णितसागरा धरा सरितो जलम् उद्धुराविलं चलपाठीनविकम्पितान्तरम् //
SK
न विरेजतुर् इन्दुभास्करौ रजसा धूसरदर्पणाकृती अभवन् ककुभः समन्ततो मलिनाः प्रोषितभर्तृका इव //
SK
अनृताव् अपि शाखिनाम् अभूत् कुसुमं पाण्डुपलाशकेसरम् ववुर् उद्धतपांसुसंचयाः शिखिलेशानुगता इवानिलाः //
SK
अभवत् सचराचरा धरा मलिनक्षामजनाकुलाकुला क्षणदा परिधूम्रतारका शशिनीवास्तसमीपम् आगते //
SK
वने ऽश्नतीनाम् अपि कोमलं तृणं क्षणाद् गवां क्षीरम् अगात् परिक्षयम् धवित्रधूतो ऽपि निवेशिताङ्गतिर् मखेषु जज्वाल न यज्वनां शिखी //
SK
अथ विविधान्य् अजन्यानि विलोक्य भद्रशिलानिवासी जनः किम् इदम् इति समाशङ्कमानः पर्याकुलताम् आजगाम | ये तु तत्र निपुणतरास् ते राज्ञो विनाशम् आसन्नम् उत्प्रेक्षमाणास् तुमुलमनसो भूत्वा परस्परम् एवम् ऊचुः |
SK
उत्पातजनितं कृच्छ्रं मा भूद् अस्य महीभुजः यस्याश्रित्य भुजच्छायां देहिनः शेरते सुखम् //
SK
अथ साश्रुलोचना नगरदेवता महाचन्द्रायामात्याय निवेदयामास | रौद्राक्षो नामायं ब्राह्मणो ऽस्य राज्ञः शिरो याचितुम् आगतस् तन् निवार्यतां केनचिद् उपायेनेति | अथामात्यस् तानि रत्नमयानि शिरांस्य् आनीय रौद्राक्षम् उवाच | महाब्राह्मण येनार्थस् तद् अहम् एव ते प्रतिपादयामि | किं भवतो राज्ञा दृष्टेन प्रयोजनम् इति ||
SK
भवति तनुधनाद् अपीष्टलाभो यदि पुरुषात् किम् अतो महाधनेन यदि गजपदमात्रखाततोयं हरति तृषं वद सागरेण को ऽर्थः //
SK
ब्राह्मण उवाच |
SK
न स्थूलक्षीरधाराः सितजलदरुचः प्रार्थये गाः सवत्साः किंचित्कर्णावधूतभ्रमदलिनिवहान् नैव मत्तद्विपेन्द्रान् नालंकारान् प्रसन्नस्फुटकिरणमणीन् नापि वासोविशेषान् याचे मूर्धानम् अस्माद् अहम् अवनिभुजः सर्वदो ऽयं किलेति //
SK
अमात्य उवाच |
SK
अमूनि ते रत्नमयानि साधो ददामि भक्तिप्रवणः शिरांसि न चेद् अमीभिस् तव कृत्यम् अस्ति मदीयम् अद्यैव शिरो गृहाण //
SK
स्वाम्यर्थं बिभ्रतः प्राणान् भृत्यस्य स्थिरचेतसः तद्धेतोः साधनीभूतास् ते चेन् ननु कृतार्थता //
SK
ब्राह्मण उवाच | किम् अनेन पुनरुक्तेन | अभिचारुके कर्मणि पृथिवीपतिशिरसा मम प्रयोजनम् | अथ चन्द्रप्रभो दिव्येन चक्षुषा तं शिरोयाचनकं बहिर् अवस्थितम् आलोक्य प्रियसुहृदम् इव प्रत्युद्गम्य तम् अमात्यमुख्यम् अभिहितवान् | अलम् अलम् अर्थिनः प्रणयम् उपहत्य | संसारसागरोत्तरणाय सेतुभूताः खलु बोधिसत्त्वानाम् अर्थिनः |
SK
उत्तितीर्षोर् उदन्वन्तं दूरपारं दुरुत्तरम् यो भिनत्ति प्लवं बद्धं कथं स सुहृद् उच्यताम् //
SK
तस्माद् धर्मसहायेन पुंसा धर्मानुवर्तिनः उत्साह एव कर्तव्यो धर्मविघ्नो न युज्यते //
SK
ईदृशो न भवेद् अर्थी यदि मोक्षस्य कारणम् बोधिसत्त्वस्य पूर्येत दानपारमिता कथम् //
SK
इत्य् उक्त्वा खड्गम् आकृष्य ब्राह्मणस्यार्पयन् नृपः मम च्छिन्धि शिरो विप्र प्रोक्तवान् इति चाव्यथः //
SK
क्व ब्राह्मणः क्व हृदयं करुणापरोक्षं चण्डालसंगतम् इवाहम् अनेन मन्ये यज्ञोपवीतम् इति तस्य चिरं विचिन्त्य विप्रस्य वक्षसि सलज्जम् इवावतस्थे //
SK
अथ स ब्राह्मण उवाच | नाहम् अमात्यसुहृद्बन्धुजनपरिवृतस्य भवतः शक्नोमि शिरश् छेत्तुम् | एकाकी भवान् भवितुम् अर्हतीति | ततः स राजा सशपथं विनिवर्त्य तं बाष्पसलिलपरिप्लुताक्षं जनसमूहं तेन निस्त्रिंशपाणिना ब्राह्मणेनानुगम्यमानो रत्नगर्भं नामोद्यानम् अगमत् | अथ महाचन्द्रो ऽमात्य इति परिदेवनापरिदीनाक्षरम् उवाच |
SK
अपगतशिरसं निरीक्षितुं मनुजपतिं बत को ऽद्य शक्ष्यति उपहतयजमानसत्क्रियं क्रतुम् इव पुण्यजनैर् उपप्लुतम् //
SK
इदम् अवनिभुजा विनाधुना पुरम् अतिदीनजनं न भास्यति भ्रमदलिकुलसंकुलं गजैः सलिलम् इवोद्धृतफुल्लपुष्करम् //
SK
तद् यावद् अस्य नृपतेर् न शृणोमि मृत्युं प्राणान् अहं प्रथमम् एव जहामि तावत् एवं विचिन्त्य स समाधिबलेन धीमान् स्वायंभुवीं गतिम् अगात् स्वतनुं विहाय //
SK
धन्यः स एव पुरुषः समवाप्य सौख्यं वृत्तं प्रकाश्य जगतीन्दुमरीचिशुभ्रम् प्राप्ताम् अवेक्ष्य सुहृदां महतीं विपत्तिं प्राप्नोति यः प्रथमम् एव शरीरभङ्गम् //
SK
अथ रत्नगर्भम् आक्रीडं प्रविष्टे राजनि महान् आक्रन्दशब्दो ऽन्तःपुरे समभूत् | प्रविश्य च तद् उद्यानं स ब्राह्मणस् तं राजानम् अवोचत् | एवम् अवस्थितस्य स्वस्थरूपस्य भवतो नाहम् असिं कण्ठे पातयितुं शक्नोमि | राजोवाच | ब्राह्मण ततो माम् अत्र सदापुष्पे चम्पकतरौ बधान | स च तथा ब्राह्मणः कृतवान् | अथोद्यानदेवतास् तं रौद्रकर्माणम् एवम् ऊचुः |
SK
निशितं वसुधाभर्तुर् असिं कथम् अनागसः अस्य नाम जगद्बन्धोस् त्वं कण्ठे पातयिष्यसि //
SK
अकारणक्रौर्यविरूक्षमानसः शिरो यदि च्छेत्स्यति भूपतेर् भवान् तवाप्य् अशन्या स्फुरितस्फुलिङ्गया शिरः करिष्याम इदं विजर्जरम् //
SK
अथ स राजा ताः प्रमदवनदेवताः सानुनयम् इति वारयामास | न खलु मम भवतीभिर् अनुत्तरां संयक्संबोधिं जिगमिषोर् महान् अन्तरायः करणीयः | अनुमोदनया हि पुण्याप्तिर् भवत्य् अतो ऽन्यथा कुशलपक्षहानिर् एव |
SK
अर्थिभ्यो याचमानेभ्यो दत्तानां शिरसां मया अमुना शिरसाद्येदं सहस्रं परिपूर्यते //
SK
इति बोधिसत्त्ववचनम् आकर्ण्य ता देवतास् ततः स्थानात् प्रतिजग्मुः | अथ स राजा प्रणिधिम् एवम् अकरोत् |
SK
शिरःप्रदानात् कुशलं यद् अस्माच् चिराय विस्मापितसर्वलोकात् अवाप्य बोधिं मम तेन शान्तौ भवेयुर् अस्थीनि तिलाणुकानि //
SK
अस्मिन् पुरे भद्रशिलाभिधाने शिरांसि दत्तानि मया च यस्मिन् स्थाने भवेत् तत्र मनोऽभिरामे स्तूपो महान् देहभृतां हिताय //
SK
इति कृतप्रणिधेर् वसुधापतेर् अकरुणः करुणामृदुचेतसः स भुजगद्युतिना सहसासिना कमलवन् मुखपङ्कजम् अच्छिनत् //
SK
छिन्ने ततः शिरसि भूमिपतेः क्षणेन निर्मुक्तफुल्लकुसुमाश्रुकणानुबद्धाः जघ्नुः स्वपल्लवकरैर् अनिलावधूतैर् आत्मानम् उत्सुकतयेव लतातरुण्यः //
SK
निर्भिन्नफेनवलयं पवनेन वाताव्यालोलवीचिभुजकम्पितपद्मवक्त्रम् तस्मिन्न् अभूद् उपवने नलिनीवधूनां वृन्दं सशोकम् इव षट्पदकूजितेन //
SK
दिष्टान्तं गतवति राज्ञि राजधानी निःश्रीकप्रचुरजनाकुला न रेजे निःशब्दस्तिमितशरारिचक्रवाका याते ऽस्तं दिवसकरे मृणालिनीव //
SK
अथ गतवति तस्मिन् भूभुजि ब्रह्मभूयं चलति जलधिवेला निस्वनाक्रन्दवत्याः रुदितम् इव पृथिव्या दूरम् उत्क्षिप्य तुङ्गौ कपिलधवलभासौ मेरुकैलासबाहू //
SK
स च ब्राह्मणस् तत्केशेषु शिरः समवलम्ब्य तस्माद् उपवनान् निर्गन्तुम् आरेभे | ततो भद्रशिलानिवासी जनः शोकवशाद् एवम् उवाच |
SK
सिंहासनस्थस्य नृपस्य भृत्यैर् यद् उन्मुखैर् दृष्टम् उदीर्णहर्षैः तन् नीयते म्लानसरोरुहाभं द्विजेन केशेषु शिरो गृहीतम् //
SK
अपि च |
SK
यः पूर्वाचलसंस्थितस्य शशिनः शोभां वहन् भूयसीं दृष्टः सादरम् उन्मुखैः करिवरस्कन्धस्थितो राजभिः कण्ठच्छेदविसारिसान्द्ररुधिरव्यादिग्धवक्षःस्थलः श्येनैः सो ऽयम् अधोमुखैः क्षितिपतिर् भ्राम्यद्भिर् आलोक्यते //
SK
दीनाश् चितां सुमहतीं सचिवा रुदन्तः कर्पूरचन्दनतुरुष्कवतीं विधाय तस्मिन् निवेश्य नृपतिं व्यजनानिलेन मन्त्रैर् हुतं हुतवहं ज्वलयां बभूवुः //
SK
अथ तां ज्वलन्तीं चिताम् आलोक्य परिदेवमानः स जनकाय एवम् अवोचत्| अहो भगवत्य् अनित्यता नाम निर्विशेषा |
SK
मन्दं दत्तविलेपना शशभृतः कान्तिं हरन्ती पुरा या स्पृष्टा प्रमदाङ्गुलीकिसलयैर् गोरोचनाधारिभिः सेयं पातितवासवध्वजनिभा राज्ञः शमालम्बिनी लोलाभिः परिमृश्यते हुतवहज्वालाङ्गुलीभिस् तनुः //
SK
तद् एवं स्वशिरःपरित्यागो ऽप्य् अस्खलितमनसा बोधिसत्त्वभूतेन भगवता कृत इति विचिन्त्य बोधिम् इच्छतान्येनापि त्यागपरायणेन साधुना भवितव्यम् इति |
SK
आचख्यौ भगवांश् चेदम् अर्हताम् अर्हतां वरः जातकं जितसंसारमहादुःखपरंपरः //
SK
तदा चन्द्रप्रभो नाम बभूवाहं महीपतिः अमात्यः शारिपुत्रो ऽभूद् देवदत्तश् च स द्विजः //
SK
|| चन्द्रप्रभजातकम् पञ्चमम् ||
SK
स्त्रीत्वे ऽपि बोधिसत्त्वश् छित्त्वा मांसं ददौ निजाद् देहात् / किम् उताधिकसत्त्वबले परार्थकुशले मनुष्यत्वे //
SK
तद्यथानुश्रूयते विविधोपवनश्यामपर्यन्ता धनदायमानवणिग्जनपरिपूर्णविपणिमार्गा गान्धारविषयतिलकभूता विभूषणम् इव क्षितेर् उत्पलावती नाम राजधानी येयं पुष्कलावतीत्य् अधुना ख्याता | तस्यां च बोधिसत्त्वः प्रथमयौवनोपचीयमानकान्तिलावण्यशोभा देवतेव स्वभवनस्य रूप्यावती नाम स्त्री बभूव |
SK
उपशान्ततया परोपकारप्रतिपत्त्या मनसश् च पाटवेन अतिविस्मयकारिणी जनानां करुणा मूर्तिमतीव सा बभासे //
SK
अथ कदाचित् तत्र देशे कुशलमूलक्षयात् परिक्षीणकोशकोष्ठागारावलोकनपरिदीनजनम् अरुणसारथिकिरणसंतापविलीनसावशेषहिमगिरितुहिनम् अतुहिनतया परिशुष्यत्सरित्सलिलम् असलिलतया च परिम्लानकेदारं तदवलोकनविषण्णकृषीवलजनम् अपरिपूर्णातिथिमनोरथम् अतिदुर्बलगोपालानुगम्यमानपरेतावशेषविरलगोगणम् आहारपरायणदरिद्रजनम् असज्जनसंगतम् इव पीडाकरम् अतिमहद् दुर्भिक्षम् अभवत् |
SK
विनिमग्नमनोज्ञचूचुकाः शुचिचामीकरकुम्भसंनिभाः कठिनत्वम् अनन्धसां जहुः प्रमदानां गुरवः पयोधराः //
SK
परिहीनमृजासु बिभ्रतीष्व् अधिकं बाहुलतासु तानवम् अगमन् परिदीनचक्षुषां शिथिलत्वं वलयानि योषिताम् //
SK
परिरूक्षशिरोरुहाकुलानि क्षणदाभङ्गशशाङ्कधूसराणि वदनानि बभूवुर् अङ्गनानां विगतभ्रूललितस्मितोदयानि //
SK
उपलिप्य मृदा गृहान्तरालं शिशवे पर्युषितं प्रदाय भोज्यम् गृहिणी न तथात्मनानुतेपे गृहिणं वीक्ष्य यथा क्षुधावसन्नम् //
SK
मृतवत्सतया निरस्तचारी कवलव्याहृतिकम्पमानसास्ना गृहिणीं गृहम् आगता वनाद् गौर् अधिकं साश्रुविलोचनां चकार //
SK
परिदुर्बलतां क्रमाद् गतानाम् अतृणाहारतया शनैर्गतीनाम् अधिकं शिथिलत्वम् आगतेषु क्षयम् ऊधःसु गवां पयो जगाम //
SK
आदश्य किंचिद् अधरं परिदुर्बलेन लाङ्गूलमूलम् अवलम्ब्य समाकुलेन उच्चिक्षिपे कथम् अपि प्रकटास्थिसंधिर् गोपालकेन जरती सुरभिः कृशाङ्गी //
SK
क्षीणान्नपानो मृतगोधनो ऽपि पटच्चरप्रावृतपाण्डुगात्रः जनो न तस्मिन् विषये विमोक्तुं गृहान् निवासोपहतः शशाक //
SK
अथ रूप्यावती क्वचिद् अवचरके प्रसूतिवशाद् अधिकतरप्रज्वलितक्षुदग्निसंतापितशरीरां निम्नतरकपोलनयनकुक्षिरन्ध्राम् अभिव्यक्तपर्शुकापङ्क्तिम् अतिमलिनजर्जरवसनसंवृताङ्गीम् आत्मस्नेहगौरवाद् अपेततनयस्नेहां तद् एवापत्यं जिघांसन्तीं कांचित् सैरन्ध्रीम् अपश्यत् | आलोक्य च ताम् उक्तवती | भगिनि किम् इदम् अतिनृशंसं कर्म कर्तुकामासीति | सा योषिद् एवम् अचिन्तयत् | इयं खलु रूप्यावती दानशीला करुणावती च | ततो यद्य् अहम् अस्याः कथयेयम् इमं वृत्तान्तं नियतम् एषा मम क्षुत्प्रतीकारं कुर्याद् इति विचिन्त्योवाच | भगिनि बाढम् अस्मि प्रसवाभिवृद्धेन क्षुदग्निना परिगतशरीरा | तद् इच्छामि पुत्रकम् इमं भक्षयितुम् इति |
SK
सुतम् अप्य् औरसं नाम द्विषन्तम् इव पश्यताम् आत्मस्नेहो हि सत्त्वानां धर्माधर्मौ न पश्यति //
SK
अथ रूप्यावती करुणाप्रवर्तितबाष्पाविललोचनोत्पला तां स्त्रियम् इति बभाषे |
SK
करुणरोदनमात्रविभावितव्यथम् इमं कुटिलाकुलकेशकम् अकरुणे कथम् अत्स्यसि बालकं हरिणशावमनोहरनेत्रकम् //
SK
द्रुतगतिप्रचलोच्चशिखण्डके क्षितिरजःपरुषेक्षणपक्ष्मणि परसुते ऽपि शिशौ मृदुचेतसां भवति वत्सलता खलु योषिताम् //
SK
हसितविस्फुरिताधरपल्लवं कृतविशेषकम् आयतलोचनम् कथम् इदं स्खलिताकुलसंकथं सुतमुखं न निरीक्षितुम् इच्छसि //
SK
कुर्वन्तम् अश्वगमनाभिनयं शिशुत्वाद् दण्डाश्वकस्थमलिनाकुलकाकपक्षम् हासस्फुरद्दशनकुड्मलपङ्क्तिशोभं का योषिद् इच्छति विलोकयितुं न पुत्रम् //
SK
व्याकोशतुण्डकम् उदाननवीक्षमाणम् आहारकाङ्क्षिणम् उदीरितरूक्षशब्दम् पुष्णाति शावम् अनुगामिनम् आदरेण काकी क्षुधा परिगतापि सती किम् उ स्त्री //
SK
अपि च | कदाचिद् अयं जनः श्रुत्वा कोपवशाद् इयं सा पुत्रघातिनीति पिशाचीम् इव भवतीम् अस्माद् देशान् निर्वासयेत् ततो विरम्यताम् अस्मात् साहसाद् इति |
SK
मृगशावम् इव व्याघ्री भक्षयित्वेमम् अर्भकम् कथं प्रज्वलितान् पापे भक्षयिष्यस्य् अयोगुडान् //
SK
सा प्रोवाच | किं करवाणि भगिनि यन् न शक्नोमि सोढुम् एनं सर्वाङ्गीणं क्षुदग्निम् इति | अथ रूप्यावतीत्थम् अचिन्तयत् | यदि नामाहम् एनं बालकम् आदाय यास्यामि नियतम् एषा प्राणवियोगम् एष्यति | अथास्याः क्षुत्प्रतीकारार्थम् अन्नम् अतिचिराद् आनेष्यामि तत एषा पुत्रकम् इमं प्राणैर् वियोजयिष्यति |
SK
कालातीतं निष्फलं कर्म कुर्वन् मोहाल् लोकः केवलं खेदम् एति वोढुं युक्तं तावद् एवातपत्रं तिग्मज्योतिर् यावद् अस्तं न याति //
SK
तद् इदम् अत्र प्राप्तकालं स्वमांसेनैनां प्रीणयिष्यामीति ||
SK
असारात् सारम् आदेयं शरीरात् पातुकाद् इतः स्रोतोभिन्नचलन्मूलात् फलं तटतरोर् इव //
SK
ततः सा योषित् पुनर् उवाच | भगिनि गम्यतां नाहं तव पुरस्ताद् इमं बालकं प्रमापयितुं शक्नोमि | अथ रूप्यावती ताम् अवोचत् | आनीयतां तावद् यदि ते किंचिद् अत्र शस्त्रम् अस्ति | सा च रूप्यावत्याः शस्त्रम् अर्पयामास |
SK
छित्त्वा ततः स्तनयुगं निशितेन तेन शस्त्रेण हेमकलशाकृति वान्तरक्तम् तस्यै ददौ युवतये क्षुदुपप्लुतायै रूप्यावती स्वतनुदुःखम् अचिन्तयन्ती //
SK
हरन्ति प्राणिनां दुःखम् आत्मदुःखानपेक्षिणः परदुःखेन बाध्यन्ते न स्वदुःखेन ते यतः //
SK
तच् च स्तनयुगं तस्यै योषिते प्रदाय रूप्यावती स्वभवनान्तरं प्रविवेश |
SK
स्तनद्वयच्छेदविसारिशोणितप्रदिग्धहाराम्बरमेखलागुणा वपुष्मती लोहितचन्दनार्चिता बभूव हेमप्रतिमेव साङ्गना //
SK
अथ रूप्यावतीं भर्ता ससंभ्रमम् उत्थायासनात् पप्रच्छ |
SK
केनेदं तव कल्याणम् अकल्याणेन सुन्दरि शरीरं राक्षसेनेव कृतं कृत्तपयोधरम् //
SK
सा तं वृत्तान्तं पत्ये निवेद्य पुनर् उवाच | शीघ्रम् आर्यपुत्रस् तस्यै प्रसवाभिवर्धितक्षुदग्नये योषिते दातुम् अर्हत्य् अन्नपानम् इति | स च रूप्यावतीभर्ता विस्मितमनास् तथेत्य् अभिधाय |
SK
सुस्वादु सर्वपात्रीणं करुणापात्रभूतया तयोक्तं प्राहिणोद् अन्नं तस्यै दुर्गतयोषिते //
SK
अथ सा जनतालोक्य रूप्यावत्यास् तद् अद्भुतम् विस्मयाच् चालयामास मुहुर् अङ्गुलिपल्लवान् //
SK
इदं चाभिदधौ लोकस् तां तवानेन कर्मणा त्यागे प्रोत्साहितं नूनं चेतो मत्सरिणाम् अपि //
SK
दानपारमिता यासौ श्रूयते बोधिम् इच्छताम् सा त्वं लोकोपकाराय ध्रुवं मूर्तिमती स्थिता //
SK
स्त्रीत्वं क्वेदं बुद्धिर् एषा क्व तीक्ष्णा क्वायं त्यागः सौकुमार्यं क्व चेदम् अस्याः साध्व्याः सर्वदानातिगेन त्यागेनान्ये ह्रेपितास् त्यागवन्तः //
SK
अथ रूप्यावत्या भर्ता सत्याधिष्ठानम् इति चकार |
SK
यथा नान्यस्य पुंसो ऽपि श्रूयते दानम् ईदृशम् तथा तेनाशु सत्येन स्तां मे पत्न्याः पयोधरौ //
SK
इत्य् उक्ते गृहिणा तेन सत्याधिष्ठानकारिणा स्तनभारालसं तस्या वक्षः पुनर् अजायत //
SK
लोकस्य दानसलिलेन तृषं हरन्ती दन्तांशुकेसरमनोहरवक्त्रपद्मा तस्मिन् पुरे गुरुपयोधरचक्रवाका रूप्यावतीकमलिनी पुनर् आबभासे //
SK
अथ सुरपतिः किं पुनर् अनेन सर्वलोकत्यागातिशायिना त्यागेन रूप्यावती माम् अमरपुरात् प्रच्याव्य स्वयम् एव देवाधिपत्यं कर्तुकामा स्याद् इति विचिन्त्य साशङ्कमनास् तस्यास् तं भावं जिज्ञासमानः प्रसारितजलधरपटलाभिनीलम् अन्तरीक्षम् अवगाह्योत्पलावतीं राजधानीम् अवतीर्य मृणालसूत्रधवलयज्ञोपवीताभ्यलंकृतवक्षःस्थलं कण्ठेगुणीकृताक्षमालम् अबलानयनशबलकृष्णाजिनतिरस्कृतस्कन्धैकदेशं दक्षिणकरविन्यस्तपल्लवपुटकं द्विजातिरूपम् अभिनिर्माय भिक्षार्थी नाम रूप्यावत्या भवनम् आगमत् | अथ रूप्यावती विविधं भक्ष्यभोज्यम् आदाय शक्राय द्विजातिमूर्तये प्रायच्छत् | प्रस्तावपूर्वकं चैनां सुरपतिर् उवाच |
SK
तव स्तनपरित्यागसंभूतेन विसारिणा शङ्खच्छेदावदातेन यशसालंकृतं जगत् //
SK
किम् ऐन्द्रम् अमुना स्थानं तपसा विजिगीषसे कुतूहलवशाद् भद्रे पृच्छामि भवतीम् अहम् //
SK
आचख्ये सुरपतये ऽथ सा यथावद् वाञ्छामि त्रिभुवनशान्तये जिनत्वम् एतेन द्विज मम सूनृतेन सद्यः पुंभावो जगति गुणाश्रयस् तथास्तु //
SK
इत्य् उक्ते वचसि जगाम सा नरत्वं शक्रो ऽपि स्वपुरम् अगात् प्रतीतचेताः निर्वृत्तं जगति तद् अद्भुतं विदित्वा लोकश् च स्थिरतरनिश्चयो बभूव //
SK
श्मश्रूद्गमं प्रविरलाञ्जनचूर्णनीलम् आविर्भवन्तम् अवलोक्य तदाननेन्दौ सद्यः पयोधरयुगं गजकुम्भपीनम् अन्तर्दधे पृथुनि वक्षसि लज्जयेव //
SK
बोधिसत्त्वस्य च रूप्यावत इति लोके नाम प्रख्यातिम् अगात् | अथोत्पलावत्यां राजधान्यां कदाचिद् अपुत्रो राजा पञ्चत्वम् उपजगाम | कालगते च तस्मिन् राजनि राहुगृहीतरजनिकरेव निशीथिनी सा पुरी न रराज | राजविनाशाभिवृद्धशोकाश् चामात्याः केषुचिद् अहःस्व् अतीतेषु शुद्धान्तजनम् आश्वास्य पौरवर्गम् एवम् ऊचुः | अनायकत्वाद् अयं देशः कदाचिद् अरातिभिर् आगत्य निःस्वापतेयः क्रियेत | प्रदीप्तगृहनिर्वापणाय कूपखननम् इव चातीतकालम् आयासहेतुर् एव च नः समीहितं स्याद् इति | तद् इदम् अत्र प्राप्तकालम् अयं रूप्यावतः कुमारः सकलराजलक्षणोपेत आभिगामिकगुणसंपन्नश् च तद् इमम् एवाधिपत्यायाभिषेक्ष्याम इति |
SK
तस्याभिषेकम् अथ चक्रुर् उदीर्णहर्षाः पौराः परोपकृतितत्परमानसस्य सार्धं च चामरयुगेन मनोऽभिरामम् उच्चिक्षिपे परिजनेन सितातपत्रम् //
SK
तच् चक्रिरे विपणितोरणबद्धमालं शैलालिनाम् अभिनयेन मनोऽभिरामम् गन्धाम्बुसेकसुरभीकृतमार्गरथ्यं पौराः कुबेरभवनेन पुरं समानम् //
SK
काले जलं जलधराः प्रददुः प्रकामम् ईतिः कदाचिद् अपि न व्यसनं चकार तत्र प्रशासति नयेन महीं महीशे शुश्राव दुःखम् इति नैव जनः कदाचित् //
SK
कृष्या विना बहुफलः कलमो बभूव वृक्षाः सदा कुसुमभूरिफला बभूवुः तस्मिन् सुराजनि पृथाव् इव पाति राज्यम् उस्राः स्वयं दुदुहिरे ऽतनुदुग्धधाराः //
SK
अच्छिन्नदानपरिपूर्णमनोरथेन शक्तित्रयोदयवता विजितेन्द्रियेण नानागुणाभरणभूषितविग्रहेण राजन्वती क्षितिर् अभूत् क्षितिपेन तेन //
SK
आरुह्य सो ‘थ मणिचारु नरेन्द्रसिंहः सिंहासनं नृपनमस्कृतपादपद्मः पद्मानुकारिवदनः प्रविवेकधर्मो धर्मं दिदेश परमार्थफलं जनाय //
SK
दानस्य पश्यत विपाकमहत्त्वम् एतद् अत्रैव मे युवतिताम् अपनीय येन उद्भावितं प्रथितजन्मफलं त्रिवर्गं लोकाधिपत्यरमणीयम् इदं नरत्वम् //
SK
दानद्रुमात् कुसुममात्रम् इदं प्रसूतम् अन्यद् भविष्यति फलं विपुलं परत्र एतद् विचार्य बहुधार्थिवसुन्धरायां शीलामलान् अखिलदाननिधीन् निधत्त //
SK
न स्युर् गुणपयःसिक्ता यद्य् अर्थिक्षेत्रभूमयः दाता दानफलाकाङ्क्षी दानबीजं क्व रोपयेत् //
SK
बन्धुभ्यो ये ऽतिरिच्यन्ते कीर्तिपुण्यप्रदायिनः त्रासयेत् को ऽर्थिनः प्राज्ञो भ्रूभङ्गभुजगेन तान् //
SK
एकः प्राह गिरं मुहुः स्तुतिमतीम् एकस् तु रूक्षाक्षराम् एकः सादरम् ईक्षते धनमदात् सावज्ञम् एवापरः एकः साधु ददाति पुण्ययशसी वस्त्व् एकम् एवापरो दूरं मां प्रति याचिता विजयते दातारम् एभिर् गुणैः //
SK
दिशः कर्तव्याश् चेद् गुणकुसुममालासुरभयः पुनर् भोक्तुं हृद्यं फलम् अतनु वाञ्छास्ति यदि वा अतः संरोप्यन्तां प्रणयिजनभूमाव् उदयिनो महाकीर्तिच्छायाः प्रतिदिवसम् एवार्थतरवः //
SK
वर्षाणि षष्टिम् अथ लोकम् अनुप्रविश्य कृत्वार्थिनां गुणवतां च सुखान्य् अभीक्ष्णम् कीर्त्या दिशः कुमुदपाण्डुरयावभास्य जन्मान्तरं गुरुबलः स नृपो जगाम //
SK
तद् एवं स्त्रीत्वे ऽपि तेन भगवता स्वमांसानि दत्तानि को नाम मनुष्यभूतो बाह्ये वस्तुन्य् अपेक्षां कुर्याद् इति त्यागिजनप्रोत्साहनाय वर्णनीयम् इति |
SK
|| रूप्यावतीजातकं षष्ठम् ||
SK
बहिरङ्गम् अपि द्रव्यं कृच्छ्राद् गुणिने ऽपि दीयते नीचैः / प्रियम् अपि देहं सन्तस् तिर्यग्भ्यो पि प्रयच्छन्ति //
SK
तद्यथानुश्रूयते श्रूयमाणमनोहरायां दृश्यमानविस्मयकरायाम् उत्तरापथसारभूतायां विकसितकमलोत्पलवनाभ्यलङ्कृतोपवनायां पवनविधूयमानसुरगोष्ठध्वजपताकायां उत्पलावत्यां राजधान्यां बोधिसत्त्वो ऽन्यतमद् अमरपुरम् इव पारिजात उत्पद्यमानः श्रेष्ठिकुलम् अशोभयत् | अथ श्रेष्ठी प्रधानपुत्रजन्मलब्धप्रमोदः प्रवृत्तचित्रोत्सवविशेषे विविधातोद्यध्वनिश्रवणप्रनृत्तमयूराभ्यलङ्कृताजिरे बलिसखमधुपरिस्रवन्मदाभिरज्यमानयुवतिकपोले मणितोरणावबध्यमानविविधसुरभिस्रजि प्रियाख्यानप्रतीतपरिजने स्वभवने समन्वितसुहृद्बन्धुवर्गे महद् अर्थिभ्यो विश्राणनम् अदात् |
SK
श्रेष्ठ्यात्मजस्य प्रभया हिमांशोर् अहारि कान्तिः परितः स्फुरन्त्या यतस् ततो ऽस्य स्वजनो ऽनुरूपं चकार चन्द्रप्रभ एव नाम //
SK
तं च पिता बालशशिनम् इव प्रतिदिवसम् उपचीयमानकान्तिशोभम् अन्यतमस्मै श्रुतशीलादिगुणप्रकाशनाम्ने शास्त्रकाव्यकलाग्रहणाय गुरवे निवेदयाम् आस |
SK
तदन्तेवासिनो सो ऽथ मेधया च श्रुतेन च नाचिरेणैव कालेन विजिग्ये विजितेन्द्रियः //
SK
तस्य मेधां समालोक्य सर्वशिष्यातिशायिनीम् साधुवादपरः प्रश्ने गुरुर् आसीत् सविस्मयः //
SK
भिन्नान्धकारपटला प्रकाशितपथापथा विद्या तत्राधिकं रेजे ज्योत्स्नेव कुमुदाकरे //
SK
दिव्येन चक्षुषा दृष्ट्वा यं यं निधिम् अवाप सः प्रायच्छत् प्राप्तकल्याणो निःशेषं तं तम् अर्थिने //
SK
स्वसत्त्वसदृशं तेन तथा दानम् अदीयत नाश्रूयन्त यथा वाचो देहीति पुनर् अर्थिनाम् //
SK
अथ तस्य गुरोस् तानि पञ्चमात्राणि शिष्यशतानि चन्द्रप्रभम् एवम् ऊचुः | अहो प्रणयिनाम् उपरि भवतो महतीम् अनुकम्पां मन्यामहे | यदि कश् चिद् अर्थी भवन्तम् असून् अपि मृगयते नियमेन तान् तस्मिन् भवान् प्रयच्छेद् इति | बोधिसत्त्व उवाच | मा मैवं याचनक एव दातारम् अनुकम्पया विशिनष्टि कुतः |
SK
पात्रीकृत्य य आत्मानं दातृश्रेयोविधित्सया सहते प्रार्थनादुःखं तादृङ् नास्त्य् अनुकम्पकः //
SK
कीर्तिम् अत्र फलं प्रेत्य द्वयम् अर्थी प्रयच्छति धनमात्रम् अदात् तस्मात् प्रदातुः स विशिष्यते //
SK
देहीति निगदन्न् अर्थी लघुर् इत्य् अभिधीयते नास्तीति निगदन् दाता ततो लघुतरो ननु //
SK
यात्यन्तम् उपकाराय दातुः कल्पलतायते प्रकाशितफलश्लाघ्या सा लघ्वी कथम् अर्थिता //
SK
यदि न स्युर् अमी जगद्विभूत्यै परितः पुण्यपयःसृजो ऽर्थिमेघाः न हि दातृपयोधयो भवेयुर् गुणमुक्तागुरुकीर्तिकुक्षिभाजः //
SK
ततस् ते शिष्याः पुनर् अपि बोधिसत्त्वं पप्रच्छुः | कथ्यतां तावत् किम् अनेन महाप्रदानफलेन शातक्रतवीं श्रियम् इच्छति भवान् उत चक्रवर्तित्वम् इति | बोधिसत्त्व उवाच | न खलु मे प्रकृतिभङ्गुरं पदम् अभिलषति बुद्धिः | पश्यन्तु भवन्तः |
SK
यद् यद् भवपटमध्ये रूपं संस्कारशिल्पिभिः क्रियते / उन्मार्ष्टि तत् तद् एषा क्रुद्धेवानित्यता चपला //
SK
अध्यासितं सुकृतिभिः कामद्वेषपराङ्मुखैः भवाग्रम् अपि नागम्यं कृतान्तस्य दुरात्मनः //
SK
क्षीयते पाल्यमानापि प्राणिनाम् आयुषः स्थितिः चित्रकर्मणि विन्यस्ता वर्तिकेव क्षणे क्षणे //
SK
नचिरं दीप्यते लक्ष्मीः प्राप्य क्रूराम् अनित्यताम् चतुष्पथप्रदीपस्य शिखेव पवनाहता //
SK
मूढाः सिंहीम् इवोद्विग्नाः के चित् पश्यन्त्य् अनित्यताम् ताम् एवान्ये कृतधियः सृगालीम् इव निर्भयाः //
SK
न दुनोति मनो मृत्युः कृतपुण्यस्य धीमतः वितपत्य् अध्वगं नार्कश् छत्रच्छायातिरस्कृतम् //
SK
मदमानतमोनिमित्तम् एते कुपितव्यालदुरासदाः सदैव विभवाः क्षणवर्तिनः प्रजानाम् अनुबन्धा इव शब्दशास्त्रभाजः //
SK
जगद् इति सचराचरं विदित्वा सलिलरयाहतफेनराशिकं तु अपगतमदमानमोहजालाः सपदि घटध्वम् अजन्मने पुमांसः //
SK
ततो ऽहम् अत्यन्तम् एव लोकदुःखक्षयायानुत्तरां सम्यक्संबोधिम् इच्छामीति | अथ ते शिष्याः प्रमुदितमनसः पुनर् एवम् ऊचुः | किं बहुनाभिहितेन |
SK
भ्रूमध्यस्थं स्फुरितकिरणं बिभ्रद् ऊर्णाशशाङ्कं संतन्वानं विजिततमसाम् मण्डलं दीधितीनाम् उत्पश्यामस् तव गुणमहत् सौगतं भावि रूपं हेमच्छेदद्युति तनुभृतां मुक्तिमार्गप्रकाशि //
SK
सर्वथा वयम् अपि प्राप्तसंबोधेस् तव शिष्या भवेम इति | बोधिसत्व उवाच ||
SK
अरण्यानीं बहुव्यालां निस्तितीर्षन् प्रयत्नवान् गन्तुकामः शिवं स्थानं को वा नेच्छत्य् अनुप्लवान् //
SK
प्रपन्नो ऽस्माकम् अनेन महात्मनामृतसंविभाग इति विचिन्त्य जातप्रीतिषु गतेषु शिष्येषु स्वान् आलयान् कदा चिद् उपगह्वरगतो बोधिसत्त्व एवं चिन्तयाम् आस | कृतः खलु मयालमर्थो ऽर्थिजन इदानीं स्वमांसशोणितेन तिरश्चः प्रीणयामीति विचिन्त्य शस्त्रम् आदाय मधुसर्पिषी च बन्धूनाम् अकथयित्वा माहारजनवसनानुरूपसंध्यायवनिकातिरस्कृतायाम् अपरस्याम् आशायां घनीभवत्तिमिरतिरोधीयमानायां जगत्यां भवनान्तरज्वाल्यमानप्रदीपप्रभासंपर्काद् द्विगुणमुखशोभेषु तरुणीजनेषु गृहीतविशेषमण्डनासु सललितभ्रूलेखोत्क्षेपावलोकनहसितविलासबडिशाकृष्टकामिजनहृदयमीनासु गणिकासु सखीजनदीयमानसंदेशश्रवणावहितनिश्चलनयनासु शम्भलीषु प्रियजनसंकेतसमुत्सुकासु तिलकावलोकनकुतूहलाद् दर्पणतलविन्यस्तदृष्टिषु कामिनीषु ट्ल्̃श्रूयमाणक्षीरधाराशब्दासु गोपिनीरुद्धवत्सोल्लेहनचलितकिङ्किणीसास्नासु वत्सतरीषु चत्वरोपविष्टरोमन्थनसुखविनिमीलितनयनैर् विपणिवृषभैः संरुद्धमार्गेषु नगररथ्यान्तरेषु समदहलधरकपोलाभिपाटलरागे पूर्वाचलशिखरम् अधितस्थुषि शशलक्ष्मणि कुमुदवनप्रबोधगन्धाधिवासितपवने प्राप्ते प्रदोषसमये ऽद्यतमङ्गतभर्तृकाकेशपाशपरुषधूमधूसरीकृतविविधपादपम् उन्मुखपापजम्बुकीविरावविवृतवदनविवरविनिःसृतहुतवहावभासप्रकाशीकृतशूलप्रोतपुरुषस्कन्धनिलीनपिशिताध्मातनिश्चलगृध्रभासकङ्कम् अतिरौद्रलामागणावकृष्यमाणार्धदग्धचितामध्यस्थितपुरुषकडेवरं क्व चिन् निशाचरोपयुज्यमानमानुषपिशितशब्दश्रवणविगलितभूतगणमुखलालालवम् अन्यत्र डाकिनीकरावलम्बितकर्तनीविच्छिद्यमानपुरुषसक्थिविगलितरुधिरधारासंसिक्तभूतलम् अनिभृतहुतवहज्वालाङ्गुलीसंतर्जनाद् इवापसृतमहान्धकारं क्व चिद् अभिनवकुमुदावदातपरिपाण्डुशिरःकपालतरलम् अन्यत्र श्माशानिकभिक्षुसमालोक्यमानप्रमदाकडेवरावलग्नगोमायुगणं क्व चिद् दिव्यावादिकालिखितमण्डलपर्यन्तस्थितदिक्पालविकोशीकृतविमलनिस्त्रिंशसंक्रान्तस्फुरितहुताशनप्रतिबिम्बाभीलदर्शनं महाश्मशानम् आजगाम | मैत्रीमन्त्रकृतशरीररक्षं च बोधिसत्त्वं न तत्र रक्षोऽङ्गनाजनश् छलयितुं शशाक | स च महात्मा श्मशानैकदेशे मृगधूर्तकाकार्षणविचलितप्रकाशोदरान्त्रजालक्रव्यवृक्कापर्शुकासंधिम् अनिलोद्धूतचिताभस्मकणपरिपाण्डुरीकृतव्याकुलकेशपाशां श्येनापहृताधरतया विभाव्यमानविकृतदशनमालाम् उपरतां प्रमदाम् आलोक्य संविग्नमनास् तद्गतस्तिमितदृष्टिर् इदम् अवोचत् | अहो रागिणाम् अदूरदर्शिनी बुद्धिर् येषाम् ईदृशे ऽपि वैराग्यहेतौ स्त्रीकडेवरे रागोत्पत्तिर् भवतीति |
SK
मनोहरे यत्र विनिश्चलेक्षणे प्रियेण सिन्दूरविशेषकः कृतः इहाद्य तत्रैव विलासिनीमुखे मुहुः शृगालेन पदं निधीयते //
SK
स्मितेन ये किं चिद् उदीरितत्विषो मनो हरन्ति स्म जनस्य रागिणः श्ववायसालुप्तविजर्जराधरास् त एव दन्ता विकृतत्वम् आगताः //
SK
अगान् मुदं ये दयितो विलोकयन् सषट्पदाम्भोजपलाशचारुणी कृते खगैस् ते हृतमांसशोणिते विलोचने व्यालबिलानुकारिणी //
SK
चिराय यौ पल्लवकोमलच्छवी सपत्त्रलेखाव् अकरोत् सखीजनः कपोलयोर् अस्थ्यवशेषयोस् तयोः क्व सा गताद्यैव मधूकपाण्डुता //
SK
स्पृष्टं प्रियेण सुखकुञ्चितलोचनायाः संजातरोमपिटकं यद् अभूत् तरुण्याः एतत्(?)पयोधरयुगं रुधिराभिताम्रैस् तत् सारमेयदशनैः परिभिद्यते ऽद्य //
SK
कान्तो ऽंसदेशगलिताकुलकेशपुष्पाम् आलिङ्ग्य यां सुखम् अशेत निमीलिताक्षीम् किं तां श्मशानवसुधाशयने शयानां नाश्लिष्यति प्रियतमां सहसा समेत्य //
SK
स्नाय्वस्थिमांसरुधिरान्त्रमये कुपिण्डे (?) स्त्रीसंज्ञके प्रचुरदोषभुजङ्गकीर्णे अस्मिन्न् अभूतपरिकल्पहतो जनो ऽयं वैराग्यवस्तुनि वृथा खलु रागम् एति //
SK
ते तीक्ष्णदुर्जननिकारशरैर् न विद्धा धीरास् त एव शमसौख्यभुजस् त एव सीमन्तिनीविषलतागहनं व्युदस्य ये ऽवस्थिताः शमफलेषु तपोवनेषु //
SK
अथ तत्राभ्युच्छ्रितधूमराशियूपे मानुषवसोपायनाहुतिनिपातजनितज्वालिताङ्गारच्छीकारशब्दे प्रारब्धभण्डकाविरावाभिचारुकमन्त्रकर्मणि श्मशानाध्वरे निशितेन शस्त्रेणाङ्गानि परितक्ष्य मधुघृताभ्याम् अभ्यज्य
SK
स्रवत्कीलालधारार्द्रं भुज्यमानं पिपीलिकैः आत्मानम् आत्मनैवासौ निनाय पशुतां प्रभुः //
SK
तत्र च कलङ्कपरुषपिण्डितसंनाहमलिनच्छविः करिरुधिरोपदिग्धमृगपतिनखरकुटिलरक्ततीक्ष्णतुण्डः कुपितभुजगनयनसदृशविलोचनो लोहकन्धुवापरुषनखरः खरविरसध्वानसंत्रासितान्यपक्षिगणः कठिनपक्षशब्दसंसूच्यमानगतिर् उच्चङ्गमो नाम पक्षी |
SK
स्कन्धं स तस्य विहगः सहसाधिरुह्य स्थाणोर् इवाचलसमुच्छ्रितविग्रहस्य आकृष्य नेत्रम् अरविन्दपलाशतुल्यं भूयो मुमोच रुधिराकुलपक्ष्मलेखम् //
SK
स्नेहेन शावम् अनुपालयितुं कृतास्था शार्दूलम् अप्य् अभिमुखं प्रयाति स्निग्धापि नाम करुणाजननी परार्थनिष्पत्तये कथम् अबाधत बोधिसत्त्वम् //
SK
अथ स विहङ्गमो बोधिसत्त्वं पप्रच्छ | नियतम् आकृष्यमाणे ऽस्मिन् मया नयने महतीम् वेदनाम् अनुभवति भवान् इति | बोधिसत्त्व उवाच | यदि केन चिद् अनुपयुक्तम् मे शरीरं क्षयम् अगमिष्यत् ततो ममाभविष्यत् पीडा | संप्रति त्व् एवम् उपयुज्यमानम् अनेकैः सत्त्वैर् आलोक्य परां प्रीतिम् अनुभवामीति |
SK
यदि शरीरम् इदं व्यसनास्पदं व्रजति साधनतां मुहुर् अङ्गिनाम् बहुमतं महताम् इति रत्नवद् भुजगवद् बहुदोषम् अतो ऽन्यथा //
SK
अथ बोधिसत्त्वो भक्षयन्तु मां यथासुखं क्रव्याशिन इति विचिन्त्य मृगम् इवात्मानं दर्शयाम् आस ||
SK
समुपागतैर् अथ वयोभिर् अविततविरावभैरवैः तस्य पिशितम् असकृत् क्षपितं न तु चित्तधैर्यम् अभवत् पराङ्मुखम् //
SK
असवः शरीरम् अथ तस्य गुणकुसुमगन्धवासितम् वासतरुम् इव खगाः पतितं विजहुः कथं चिद् उदितव्यथाकुलाः //
SK
ततो स्तशिखरिशिरसः सुचिरपरिभोगमलिनम् इव कुन्दावतंसम् उडुपतिम् अपनीय गतायां क्षपाङ्गनायां जवाकुसुमशेखर इव दिवसमुखहस्तेनावबध्यमाने पूर्वाचलशिरसि घर्मांशौ दिवसकरकिरणहस्तसंस्पर्शसुखाभिव्यज्यमानकमलनालकण्टकरोमाञ्चासु विनिद्रासु कमलिनीविलासिनीषु कुररविरुतानुकारिषु विमुच्यमानेषु नगरद्वारकपाटेषु प्रतिविबुध्य बोधिसत्त्वस्य पितानिष्टशङ्काव्यथिथमनाः ससुहृत्परिजनबन्धुवर्गस् तनयान्वेषनव्याकुलस् तत् तच् चिन्तयाम् आस |
SK
निशि किम् अहिना दष्टः स्यान् मे सुतः स परिभ्रमन्न् उत विकरुणैर् भूषां हृत्वा हतः प्रतिरोधकैः रदनपरिघक्षुण्णोरस्कः क्षितीश्वरदन्तिना किम् अथ गमित[ः] स्तम्भं भङ्क्त्वा पुरं समवर्तिनः //
SK
क्रमेण चोपगम्य श्मशानैकदेशे गृध्रैर् अवलुप्यमानमांसं बोधिसत्त्वं कथम् अपि प्रत्यभिज्ञाय स जनः श्रेष्ठिने निवेदयाम् आस | कष्टम् अयम् असौ महात्मा पञ्चत्वम् उपगतो यथा तर्क्यते तथा नियतम् अनेनात्मा तिर्यग्भ्यो निवेदित इति | तच् च श्रुत्वा स श्रेष्ठी परशुनिकृत्त इव पादपो निपपात | चिरेण च प्रतिलब्धसंज्ञ इति विलापपरो बभूव |
SK
विलोक्य गृध्रैर् इमम् इत्थम् आत्मजं विलुप्यमानं शिथिलास्थिबन्धनम् अहो विधेर् दुश्चरितेन भूयसा तथापि च प्राणिमि कर्कशाशयः //
SK
दया तिरश्चाम् उपरीयम् ईदृशी स्वदेहदानेन यदि प्रकाशिता समुज्झता मां पितरं निरागसं कथं त्वया निष्करुणत्वम् ईहितम् //
SK
मृदूपधाने शयने मनोहरे सुखं शयित्वा धवलोत्तरच्छदे इहाद्य शेषे कथम् अस्थिसंकुले चिताधरित्रीशयने सभस्मनि //
SK
याते ऽत्र पुत्रक दिवं करुणासहाये त्वय्य् उत्सुकीकृतजने स्वसुखानपेक्षे गोष्ठीषु सद्गुणकथाकुसुमार्चितासु श्रोष्यामि कस्य वचनानि मनोहराणि //
SK
त्वं मे निवापसलिलाञ्जलिम् अश्रुमिश्रम् उत्कः प्रदास्यसि किलेति विचिन्तितो यः स्नेहार्द्रशुद्धमनसापि स नाम भूत्वा भग्नस् त्वया किम् इति वत्स मनोरथो मे //
SK
इति श्रेष्ठी चिरम् विलप्य बोधिसत्त्वशरीरे ऽग्निसत्कारं कृत्वा प्रस्रुतनयनोदकाभिषिक्तमुखः शून्य इव साक्रन्दशब्दं स्वभवनम् आजगाम |
SK
प्रतिदिशम् अथ मेरोः कुञ्जविस्तीर्णशब्दाः कनकपटहभेरीदुन्दुभीस् ताडयित्वा अमुचद् अमरसंघस् तत्र निर्वाणवह्नौ सुरभिकुसुमवर्षं बोधिसत्त्वास्थिराशौ //
SK
तद् एवं तेन भगवता बोधिसत्त्वचर्यां चरता परार्थ आत्मा बहुशः परित्यक्त इति विचिन्त्य बुद्धे भगवति परः प्रसादः करणीय इति ||
SK
|| श्रेष्ठिजातकं सप्तमं ||
SK
तत्याज बोधिसत्त्वस् तृणम् इव देहं परार्थसंसिद्ध्यै / स्वसुखन् नापेक्षन्ते परसुखसंपादिनो धीराः //
SK
तद्यथानुश्रूयते शरदपगतजलधरसंघातायां दिवीव चन्द्रमाः | सकलाशसिमण्डलकिरणावभासितायां क्षपायाम् इव कुमुदवनविकासः | प्रमदवनभूमाव् इव च कमलाकरः | प्रथमयौवनसमृद्धाव् इव विनयः | स्फुटमधुराक्षरपदायां वाचीवार्थः | शरच्चन्द्रिकयेव दीर्घत्वम् आगतया विमलसलिलया स्पष्टमीनकुलाकुलया तटतरुकुसुमपरागपरिपिञ्जरीकृतफेनपङ्क्तिरसनाकलापया वराणसया निम्नगयालङ्कृतायां प्रकृतिरमणीयायां वाराणस्यां राजधान्यां स्फुरितदशनमणिकिरणावभासाभ्यलङ्कृतवदनपद्मः पद्मको नाम राजा बोधिसत्त्वो बभूव ||
SK
कान्त्या च रूपेण च तेजसा च प्रह्लादसंमोहनतापहेतून् अवज्ञया यो युगपज् जिगाय शशाङ्कपुष्पायुधघर्मरश्मीन् //
SK
विहङ्गमानां फलिनीव पादपे शिलीमुखानाम् इव पद्मिनीवने वनीपकानां जगदेकबान्धवे बभूव यस्मिन् सुहृदीव निर्वृतिः //
SK
जगदर्थसाधनसमुद्यतात्मनः करुणापरिग्रहविशुद्धमेधसः प्रविवेश यस्य हृदयं न मत्सरः कृतमन्त्ररक्षम् इव वेश्म पन्नगः //
SK
त्यागेन सत्त्वमहता प्रथितेन यस्य व्याप्तासु दिक्षु विनिवारितमत्सरेण शुश्राव याचकजनस्य न जातु लोको देहीति लाघवकराणि पुनर् वचांसि //
SK
हृदयतुहिनशैलात् त्यागसानोः प्रवृत्तां समुपहतरजस्कां स्नापिताशेषलोकाम् सकलभुवनवन्द्यो यः परार्थैककार्यः शशिकिरणविशुद्धां कीर्तिगङ्गां जगाह //
SK
कस्यापद् अपनेयाद्य प्रीणनीयो धनेन कः को निधेयः शिवे मार्गे यस्याभूद् ईदृशी स्थितिः //
SK
आत्मानं भवविच्छित्त्यै सुवर्त्मनि निधित्सताम् न परार्थाद् ऋते कश् चिद् व्यापारो ऽन्यो महात्मनाम् //
SK
भुजवीर्यपराजितं जितारेः परदेशं बलिनो बलानि यस्य अभिसस्रुर् उदीर्णतुङ्गवृद्धेः सलिलानीव तटान्तम् अम्बुराशेः //
SK
अपरस्परदिण्डिमैः स्वनद्भिः करिणो (१७अ) यस्य वितन्यमानकोपाः वशगाः परितः प्रयाणकाले कथम् अप्य् अङ्कुशधारिणां बभूवुः //
SK
भयवशाद् उपशान्तमदोदयाः शिथिलितासिशरासनमुष्टयः मृगपतेर् इव दर्पम् अरातयो युधि गजा इव यस्य न सेहिरे //
SK
प्रथिततेजसि यत्र परस्परं प्रणयसौख्यविवर्धितसंपदः विटपिनीव खगाः फलदे प्रजाः सततम् एव सुखाय विशश्रमुः //
SK
अथ कदा चित् तस्य राज्ञो देशे धातुवैषम्याद् उपचीयमानोदराग्निः प्रतिदिवसम् आपाण्डुदुर्बलशरीरो निरोजस्को जनकायो महता रोगेण जग्रसे | बोधिसत्त्वाज्ञया च भिषजः सादरम् अपि चिकित्सां कुर्वन्तो न तं व्याधिम् अपहर्तुं तस्य जनस्य शेकुः | अथ स राजा तान् वैद्यान् उवाच | केनोपयेनायं जनस्य व्याधिर् अपहर्तुं शक्यः स्याद् इति | भिषज ऊचुः | देव यदि रोहीतमत्स्यमांसं स्यात् ततः शक्नुयामो वयम् एनं जनम् अनातङ्कं कर्तुम् इति | अथ स राजा परम् अपि प्रयत्नं कुर्वन् न कुतश् चिद् रोहीतमत्स्यम् उपलेभे ||
SK
ततः कदा चित् स बहिर् विनिर्ययौ मतङ्गजस्कन्धगतः क्षितीश्वरः सितातपत्रप्रतिवारितातपः प्रकीर्णकभ्रान्तिविकम्पितांशुकः //
SK
नोल्लाघिनस् तम् अथ भृत्यजनानुयातं स्कन्धस्थितं गजपतेः क्षितिपं विलोक्य उत्क्षिप्य दीनवदनाः सहसैव हस्तांस् त्रायस्व नो नृप गदाद् इति वाचम् ऊचुः //
SK
अथ बोधिसत्त्वस् तेषां व्याधिमतां तुमुलमनसां करुणम् आक्रन्दशब्दं आकर्ण्य दुःखायमानहृदयो दयापरिचयाद् उद्गतबाष्पसलिलतिरोहिताक्ष इदम् अचिन्तयत् | किं मम राज्यसुखेन यत्र मे विषयनिवासिनाम् इयम् अवस्थितिः | प्रविश्य च भवनम् आहूय सचिवान् इदम् अवोचत् | इच्छाम्य् अहं ज्यायस्तनयाभिषेकं कर्तुम् इति | अथामात्या ऊचुः ||
SK
नवयौवनकर्कशे शरीरे द्विषतां भङ्गकरे पराक्रमे च सति चाभ्युदये परार्थहेतौ किम् अकाले भवतो वनं यियासा //
SK
राजोवाच | न खल्व् एवं यथा भवन्तस् तर्कयन्तीति | अमात्याः पुनर् ऊचुः | को ऽभिप्रायो देवस्य | राजोवाच | दुःस्वप्नदर्शनाद् आगताशङ्को ऽहम् एवं तर्कयामि | कदा चिद् अतर्कितैवेयम् अनित्यता समागम्य मां विनाशयेत् | अतः पुत्रम् अभिषिक्तं द्रष्टुम् इच्छामीति | अमात्याः प्रोचुः | यद् आज्ञापयति देव इति ||
SK
अथ समुच्छ्रितकाञ्चनतोरणे गृहवरे वरतूर्यपटुध्वनौ अभिषिषेच सुतं सुतवत्सलः क्षितिपतिः क्षितिपालनमस्कृतः //
SK
अथ स कुमारः पितरम् आगम्योवाच | आज्ञापयतु तातः कथं मया व्यवहर्तव्यम् इति | राजोवाच | श्रूयतां वत्स | सर्वथा न कदा चिद् आयुष्मता प्रणयिणाम् उपरि निरादरेण भवितव्यम् इति | पश्य ||
SK
निन्दाहेतुः सद्गतीनां निरोद्धा शून्यागारं जालिनीयातुधान्याः श्रेयःसेतुध्वंसनो ऽम्भःप्रवाहो लोभान्धानां मत्सरो वैरिभूतः //
SK
पूर्वं नीचाः स्वापतेयप्रसक्ता दग्ध्वात्मा(१७ब्)नं मत्सराज्याशनेन भ्रूभङ्गार्चिर्ज्वालरूक्षैर् वचोभिर् नास्तीत्य् अन्ते याचितारं दहन्ते //
SK
ते धीमन्तस् ते सुजन्मान ऽ; जन्मान्यत्वे ते न पश्यन्त्य् अपायान् नीतो नात्मा यैर् अयं दुःखहेतोर् वल्मीकत्वं मत्सराशीविषस्य //
SK
इभ्यो ऽपि प्रतिषेधपांसुमलिनां यो वक्ति दैन्यां गिरं दूरात् तं जनम् अर्थिनः परिहरन्त्य् आशाविसंवादकम् तृष्णाशोषिततालवो ऽपि पथिका न स्नानपानक्रियाः कुर्वन्त्य् अप्य् अमले जनङ्गमगृहद्वारोदपानाम्भसि //
SK
दीर्घैः श्मश्रुभिर् अन्धकारवदना दूरप्रविष्टेक्षणाः वार्यन्ते पुरुषैर् उपात्तलगुडैः प्रेता यद् अम्भोऽर्थिनः तत्त्वज्ञस् तद् उवाच मत्सरफलं बन्धुः प्रजानाम् जिनः संचिन्त्येति परोपकारविमुखी पुंसा न क्ऽ; मतिः //
SK
अपि च वत्स | लोके बहुमानम् इच्छता त्वया सत्यत्यागश्रमादाक्षिण्यादिभिर् गुणमणिभिर् आत्माभ्यलङ्कर्तव्यः ||
SK
गुणीयन्तः शान्ता जगदहितविच्छेदपटवो विरूढप्रेमाणो गुणिषु सुधियः सूनृतगिरः परिष्वक्ता लक्ष्म्या न च मदकलङ्केन मलिना निलीयन्ते पुम्भिः पुरुषगणनादौ सुपुरुषाः //
SK
धुरां ये वोढारः सकलजगदाधिश्रमनुदो धियो येषां स्वच्छा रुच इव मणीनां वितमसः प्रियं कर्तुं वाञ्छन्त्य् असुभिर् अपि ये च प्रणयिनां कथं ते नाधेयाः प्रथमगणनायां गुणवताम् //
SK
न च भवता प्रचुरपुरुषेणेव गुणवत्स्व् अनादरेण भवितव्यम् | पश्य ||
SK
अनुष्णांशुं दृष्ट्वा गुणिनम् इव संप्राप्तम् अतिथिं पयोवृद्ध्या सिन्धुः प्रथयति मुहुः संभ्रमम् इव न वर्धन्ते तोयान्य् उदयवति तत्रैव सरसां प्रमोदाविर्भावो महति महताम् एव भवति //
SK
अथ प्रकाशीभवदुडुगणशबले नभसि रचितशशिविशेषकायां पूर्वस्यां दिशि शलभकुलपतनविचलितदीपशिखाङ्गुलीसंतर्जितेनेव नवजलनीलावभासा तमसा विमुक्तान्तरेषु भवनेषु वासयष्टिविलीननिश्चलेषु ताम्रचूलेष्व् अगुरुधूपामोदाधिवासितेषु विलेपनव्यापारचलितमुखरवलयालङ्कृतहस्तपद्माभिर् अबलाभिर् अध्यासितमृदुशयनीयतलेषु वासगृहेषु प्रविरलजनक्रयविक्रयायां क्व चिद् अपि वीथीयमानापणावीथ्यां बोधिसत्त्वस् तनयम् अनुशिष्य दीपिकालोकावभास्यमानालेख्यशोभां भवनस्योत्तमां भुवम् आरुह्य विसर्जितसर्वान्तःपुरजनस् तस्यां वराणसायां नद्याम् आत्मानं मुमुक्षुर् एवम् उवाच ||
SK
अस्यां नद्यां महाकायः सितरत्नामलाम्भसि रोहीतः स्याम् अहं मत्स्यो लोकस्य व्याधिशान्तये //
SK
इति प्रजार्थं परिवर्धितोदयां दयाविशेषानुगतां गुणातनुम् तनुं मुमोच स्फुरिताकुलाम्बरां वराणसायां सरिति क्षितीश्वरः //
SK
अथ भूपतिः स विरराज पयसि निपतन् स्वमन्दिरात् कल्पतरुर् इव सुमेरुतटात् त्रिदशेश्वरद्विप[महा]विषाणघट्टितः //
SK
पतिते ऽथ भूभुजि समीरलुलितधवलाकुलाम्बरे वारि चलितशफरीनिवहं (१८अ) चलचक्रवाकमुदलङ्घयत् तटं //
SK
तस्यां स नद्यां पतितः क्षणेन समुत्थिताम्बुध्वनिभीषणायाम् हिमाद्रिसानोर् अनुरूपकायो रोहीतमत्स्यः समभून् नरेन्द्रः //
SK
स च महात्मा सितसिकतामनोहरं पुलिनम् उत्तीर्य यदि माम् अयं जनकायः प्राणेभ्यो वियोजयेत् ततो दुष्कृतफलेन युक्तो दुर्गतिपरायणः स्याद् इति | तद् इदम् अत्र प्राप्तकालं स्वयम् एव सर्वेन्द्रियनिरोधं कृत्वा जीवितं परित्यक्ष्यामीति विचिन्त्य प्राणान् अत्याक्षीत् | अथ कलुषसलिलाभिषिक्तसितद्विरदकुम्भाकृताव् अस्तगिरिशिखरावलम्बिनि शिशिरांशौ प्रतनुपांसूपदिग्धस्फटिकमणिनिभासु प्रविरलीभवन्तीषु तारासु | संमीलत्सु कुमुदगहनेषु विनिद्रीभवत्सु कमलाकरेषु हरितालरसेनेव बालातपेन परिच्छुरितेषु गिरिशिखरेषु नरपतिशून्यं शयनं शयनपालिकाजनाद् उपलभ्यामात्याः | क्व पुना राजा गतः स्याद् इति भवनसमीपजातम् उपवनम् आलोक्य समन्ततः परिभ्रमन्तो ददृशुर् वराणसायाः समुद्रपत्याः पुलिने मुक्ताराशिम् इव दीर्घीकृतं रोहीतमत्स्यम् | ते च शुश्रुवुर् अदृश्यवपुषो गगनस्थस्य दिवौकसो गम्भीरां भारतीम् ||
SK
आतङ्कदुःखविच्छित्त्यै जनस्यास्य स भूपतिः मुक्त्वात्मानं नदीतोये गतो रोहीतमत्स्यताम् //
SK
अथ ते ऽमात्यास् तच् छ्रुत्वा शोकदुःखव्यथितमनस इदम् ऊचुः | अहो करुणया राजानम् आत्मानं सत्त्वहितार्थम् एव परित्याजयन्त्या सकला वसुधेयम् अनाथीकृतेति बहुविधम् इति विलप्य शून्यमनसः स्वान् आलयान् अभिजग्मुः ||
SK
उपलभ्य च वृत्तान्तम् अमात्येभ्यस् तम् आकुला देवी प्रस्रुतबाष्पाक्षी व्यलपत् तस्य भूपतेः //
SK
श्रुते ऽपि नाम त्वयि लोकबान्धवे स्वयं गतो ऽसाव् इति भूपतिर् दिवम् तथापि चानिष्ठितिदुःखभागिनीं जिजीविषा मां न विहातुम् इच्छति //
SK
तवानुकम्पासुकुमारचेतसो न जातु रूक्षं हृदयं द्विषत्य् अपि इमं विहायानुगतं विनागसा गतो ऽसि कस्माद् अनुरागिणं जनम् //
SK
विमुञ्च हे चण्डि रुषं महीयसीम् इति ब्रुवाणः प्रमदाजनाग्रहः अकारणेर्ष्याकुपिताम् अधोमुखीं प्रसादयिष्यत्य् उपगम्य को ऽद्य माम् //
SK
विधाय कर्णे विकचम् नवोत्पलं निवेश्य चारून् अलकांस् तरङ्गिणः मनोहरम् मण्डनभूमिकास्थितः क्रमेण को मे तिलकं करिष्यति //
SK
अकारि येनाङ्कनिवेशलालिता प्रियेव या रागवती प्रियेण मे चिराय सा तेन विनाद्य वल्लकी भविष्यति ध्यानवतीव कुक्कुहा //
SK
य ऊढवांस् तस्य मुखेन्दुशोभया स्थितैकपद्मस्य जलस्य तुल्यताम् स एव शोकाद् इव हा भविष्यति प्रभातचन्द्राकृतिर् एस दर्पणः //
SK
मनोहरं पञ्जरमध्यवर्तिने प्रदाय तुभ्यं परिणामि जाम्बवम् शिरीषनिर्यूहनिभं प्रियेण मे विनाद्य कस् त्वां शुक पाठयिष्यति //
SK
अपेतसख्यः स गतो मम प्रियो न केशपाशेन पुनः प्रयोजनम् चिराय वैधव्यविधानशंसिनी ममाद्य वेणी किम् इयं न बध्यते //
SK
क्षणाद् अथान्तःपुरसुन्दरीजनो निशम्य देव्याः परिदेवनाम् इति विसर्जितादर्शविलोकनादरो मनोहरां मण्डन(१८ब्)रसिकां जहौ //
SK
विहाय का चिन् नयनान्तसङ्गिनीं द्रुतं शलाकां नयनाञ्जनोत्सुका विषादवत्य् अर्धसमाप्तम् अङ्गना व्यनीनिजद् बाष्पवती विशेषकम् //
SK
विकासिनीं केसरपुष्पमालिकां शिरोरुहेभ्यः परिमुच्य विक्लवा सुगन्धिम् अन्या कणभेदपिञ्जरां व्ययुक्त का चित् सहकारमञ्जरीम् //
SK
विलोलमालाभरणाकुलांशुका निपेतुर् अन्याः कुटिलाकुलालकाः भ्रमद्द्विरेफाः प्रलयानिलाहता मनोहराः कल्पलता इव स्त्रियः //
SK
निशम्य काश् चित् परिचारिकाजनात् सबाष्पनेत्राः क्षितिपस्य पञ्चताम् प्रदोषपद्मिन्य इवा*निलाकुला निपत्य भूमाउ निमिमीलुर् अङ्गनाः //
SK
अन्या शनैः परिजनेन विलोक्यमानम् आलिख्य तं नरपतिं विजितेन्दुकीर्तिम् उत्सङ्गसंस्थम् अबला रुदती विषादात् तत्याज चित्रफलकं सह वर्तकाभिः //
SK
केशान् विलुच्य सुरभीन् परिलूनसूत्रैः फुल्लैः क्व चित् प्रविरलैः कुसुमैः परीतान् काश् चिद् विभिन्नवलयैः कमलाभिताम्रैर् आजघ्निरे मुहुर् उरांसि करैस् तरुण्यः //
SK
अथ ते ऽमात्याः शोकवशाद् आगतबाष्पसलिलबिन्दुना करुणविलापेन तेन ज्येष्ठपुत्रेण निवापसलिलाञ्जलिं दापयित्वा तद् अन्तःपुरं कथं चिद् आश्वास्य तं व्याधिग्रस्तं जनम् ऊचुः | क्रियतां तस्य राज्ञो ऽभिप्रायः | एवं हि स पूजितो भविष्यति | अथ स जनकायः शस्त्रैश् छित्त्वा तस्य रोहीतमत्यस्यस्य मांसम् आनीय वैद्याभिहितेन क्रमेणोपयुज्य तस्माद् व्याधेः प्रमुमुचे ||
SK
तद् एवं स भगवान् बोधिसत्त्वभूतः सत्त्वार्थं दुष्कराणि कृतवान् इति को नाम तस्मिन् महाकारुणिके भगवति बुद्धे सचेता जनो भक्तिमान् न स्याद् इति ||
SK
|| पद्मकजातकम् अष्टमम् ||
SK
तृणम् इव जीवितम् इष्टं करुणानुगताः परार्थम् उज्झन्तः / कठिनमनसाम् अपि मनो नयन्ति मृदुतां महात्मानः //
SK
तद्यथानुश्रूयते स्वच्छसलिलतया चन्द्रिकयेव द्रवीभूतया मृदुपवनप्रेरिततरङ्गसंघातया चक्रवाकमिथुनोपशोभितपुलिनया वराणसया निम्नगयाभ्यलंकृताचलान्तरे विविधतरुच्छायापिहितजलाशयजले सुकुमारशाद्वलहरितभूभागे क्वचिद् अरण्ये बोधिसत्त्वो मृगयूथाधिपतिर् बभूव |
SK
क्षीरोदफेनधवलेन तनूदरेण पृष्ठेन च भ्रमरसंहतिमेचकेन ताराविलासशबलस्फुरिताग्रपक्ष्मा रेजे कटाक्ष इव यो गहनान्तभूमेः //
SK
तस्यैवंविधस्य बोधिसत्त्वस्य किंचिद् रूपलावण्यप्रमाणानुकारी देवदत्तस् तत्समीपचारी नातिमहतो मृगयूथस्याधिपत्यं चकार ||
SK
ताभ्याम् अधिपतिभ्यां ते पालिते तृणम् अश्नती शङ्कावियोगविश्रब्धं मृगयूथे विचेरतुः //
SK
अथ कदाचित् सात्मीभूतमृगयाव्यसनो ब्रह्मदत्तो नाम राजा निर्गम्य वाराणस्यास् तिर्यगुरःस्थलविनिवेशितधन्वा वाजिवराधिरोही सदृशानुयात्रस् तुरगखुरसमुद्धतपांसुपरिधूसरनयनपक्ष्मा दिवसकरसंतापजनितस्वेदकणाक्रान्तललाटदेशः ससैन्यध्वनिसंत्रासोत्पतितमयूरतित्तिरिचकोरवनकृकवाकूनि विषमोन्नतानि निम्नभूमिभागानि क्वचित्पदातिचरणसंत्रासितहरिणखुरविन्यासचकितस्फुरितशफरीकुलविमुक्तस्रवन्तीतटसलिलानि मत्तगजपतिकपोलनिकषणसंक्रान्तमदाधिवासिततरुस्कन्धसमीपभ्रान्तमधुकरगणानि तटविटपिशाखावलग्नशुष्कककुभाक्षफलमद्गुबलाकापिच्छपरिमिश्रकाशकुशवंशतरुपर्णसंचयसूच्यमानचिरातिक्रान्तगिरिसरित्पूराणि पल्वलपङ्कविनिमग्नव्याघ्रपदानि पक्वोदुम्बरगन्धाधिवासितगह्वराणि पवनचलिततनुपताकाकुटिलभुजगसृतिभिर् अङ्कितमार्गपांसूनि वनान्तराणि विलोकयन् किंचिद् अतिक्रम्य तन् मृगयूथद्वयं विश्रब्धस्थितं सैन्येन परिवेष्टयामास |
SK
अथ विलोक्य चमूं धृतकार्मुकां चलखलीनसमुच्छ्रितनिस्वनाम् अशरणाः परिभिन्नकदम्बका भयवशेन मृगाः परिदुद्रुवुः //
SK
अवलोक्य समन्ततः परीतान् नृपसैन्येन मृगान् स बोधिसत्त्वः शरधेः शरम् उद्धरन्तम् आराद् अवनीशं समुपेत्य संबभाषे //
SK
युगपन् मृगसंक्षयाय कस्माद् धनुर् एतत् क्रियते त्वया सबाणम् दिवसे दिवसे महानसं ते मृगम् एकैकम् अहं विसर्जयिष्ये //
SK
निजगाद महीपतिस् ततस् तं यदि सत्यं मृग तत् तथा करिष्ये न करिष्यसि चेद् इमां व्यवस्थां प्रहरिष्यामि ततो मृगेषु भूयः //
SK
प्रतिपद्य गते ऽथ भूमिपाले धवलच्छत्त्रनिवारितार्कतापे निजगाद समेत्य बोधिसत्त्वो हरिणांस् तान् पुनर् एकताम् उपेतान् //
SK
युगपत् समुपागते विनाशे यदि लभ्येत पुनः क्रमः स साधुः क्रमम् एत्य चिराय शान्तिहेतुं भविता नाम कदाचिद् अन्यद् एव //
SK
गजकुम्भविभेदपण्डितानां बलिनां केसरिणाम् अपि द्विषन्तः क्षपयन्ति शरैर् असून् नरेन्द्राः किम् उ दर्भाग्रभुजां वने मृगाणाम् //
SK
सितमणिशुचिभिस् तमो विभिन्दञ् जगद् अवभास्य मरीचिभिः शशाङ्कः पतति विगतकान्तिर् अस्तशैलात् क्षणविशरारव एव सर्वभावाः //
SK
सलिलम् उरुतरङ्गं रंहसा क्षोभयित्वा हरति जलधिमध्यात् पन्नगं वैनतेयः अतिपतति न कश्चित् कर्मणां कोविदो ऽपि प्रथितगुरुबलो ऽपि प्राक्तनानां विपाकम् //
SK
इति कर्मगतिं ज्ञात्वा विज्ञानपटवो बुधाः प्राणात्यये ऽपि नायान्ति विषादं धीरचेतसः //
SK
अथ यूथपतिद्वयसमादेशात् ताभ्यां यूथाभ्याम् अहन्य् अहन्य् एकैको मृगस् तस्य राज्ञो भोजनपक्तिकाले महानसम् अगात् | एवं च कतिपयेष्व् अहःस्व् अतिक्रान्तेषु देवदत्तयूथवर्तिन्याः समापन्नसत्त्वाया हरिण्याः प्राप्तो गमनवारः | ततः सा स्वयूथपतिम् आगम्योवाच | स्वामिन् नियतं श्वः प्रसवित्री भवितास्मि | ततः प्रसूय वने मृगशावं विनिक्षिप्य गन्तास्मि | मया खलु तत्र युक्तं मर्तुम् | नैतेन गर्भस्थेन शावकेनेति | देवदत्तो यूथपतिर् उवाच | तत् कतमो ऽन्यो मृगस् तव वारे प्राप्ते गमिष्यति | सर्वथा त्वयैव गन्तव्यम् अनात्मज्ञा भवती या ममाज्ञां लङ्घयतीति | तेन यूथपतिना निर्भर्त्सिता सापसृत्य मृगी चिन्तयामास | यो ऽयं द्वितीयो यूथपतिर् अयम् अतिकारुणिकस् तस्माद् एनम् अपि तावद् अभ्यर्थयिष्ये | गत्वा च बोधिसत्त्वम् उवाच |
SK
मम यूथपते वारः प्राप्तो गन्तुं नृपालयम् आसन्नप्रसवा चास्मि तद् एनं रक्ष शावकम् //
SK
प्रसूतमात्रम् आलीनम् अवलिह्य च जिह्वया स्तनं च पाययित्वाहं शावं चञ्चलनेत्रकम् //
SK
वनान्ते शङ्खशकलच्छायैर् दशनकुड्मलैः स्पृशन्तं शाद्वलशिखां विलोक्य च पुरःस्थितम् //
SK
मम यूथपते यूथे भगिन्य् अस्ति कनीयसी गमिष्यामि कृतार्थाहं तस्यां निक्षिप्य पुत्रकम् //
SK
इति पुत्रलालसां तां हरिणीम् अभिधायिनीं समालोक्य / यूथपतेर् आरूढं सुतराम् अनुकम्पया हृदयम् //
SK
अपरिचिते ऽप्य् अनुकम्पा दुःखिनि सुतरां विवर्धते साधोः / जलसिक्तमूलजाला लतेव वृक्षं समालम्ब्य //
SK
यस्यैवास्त्य् अनुकम्पा दीनं शरणागतं समालोक्य तद्व्यसनभङ्गहेतुं स एव कुरुते परं यत्नम् //
SK
ताम् ऊचिवान् अथ मृगीं मृगयूथनाथो भद्रे परित्यज शुचं मनसि स्फुरन्तीम् त्वं तिष्ठ निर्वृतिम् उपेत्य वने चरन्ती यास्याम्य् अहं नरपतेः स्वयम् एव वेश्म //
SK
बालं शिरीषहरितं तृणम् आदशन्तं चन्द्रांशुजालविमलं सलिलं पिबन्तम् संक्रीडमानम् इह पुत्रकम् एणशावैः सार्धं चिरं समवलोकय चञ्चलाक्षम् //
SK
आश्वास्य ताम् इति मृगीं स जगाद धीरस् त्राता यथाद्य हरिणी मरणान् मयेयम् दुःखात् पुनर्भवकृताज् जनतां तथैव त्रायेय मारजयिनीं समवाप्य बोधिम् //
SK
इत्य् उक्त्वा स यूथपतिर् उदराक्रान्तिबद्धोष्मणः खुरपुटोत्खातरजस्कान् मृगरोमन्थनोज्झितबदरास्थिनिचितपर्यन्ताद् वसतिस्थानात् प्राग् एव समुत्थाय विमनसा यूथेनानुगम्यमानो वाराणसीम् अभितः प्रतस्थे |
SK
विकोशपुष्पास् तम् अथाकुलाकुलाः कलैर् अलीनां विरुतैर् विसारिभिः विधूतशाखाग्रकरा नभस्वता निवर्तयामासुर् इवाचलद्रुमाः //
SK
विमुच्यमानं सुहृदेव तेन तन् मृगेण वाताहतलोलपल्लवम् विसारिचीरीविरुतं समन्ततो वनं रुरोदेव समुत्सुकोत्सुकम् //
SK
अथ बोधिसत्त्वो वाराणसीसमीपम् आगम्य किंचिद् विलम्ब्य तन् मृगयूथम् इत्य् उवाच | निवर्त्यताम् इदानीम् | सुलभवियोगानि हि लोकसंगतानि | सुचिरम् अपि वसन्तकालरमणीयम् अरविन्दवनम् उपास्य हिमसमयपरिम्लानपलाशकेसरकर्णिकम् अपगतगन्धम् अपहाय गच्छत्य् एव प्रकृतिचञ्चला श्रीः | अवभास्य च प्रावृट्कालजलदपटावगुण्ठितानि दिग्वधूमुखानि लास्यम् इव च दर्शयित्वा विरक्ता इव वेश्याङ्गनाः शरत्कालविगलितसलिललघून् अपगतविभवान् कामुकान् इव परित्यजन्ति जलधरान् अचिरप्रभाः | क्षणदामुखविशेषकः शिशिरांशुर् अपि प्रभातसमये परित्यज्यते सहजया कान्त्या | सर्वथा न तत् किंचिज् जगति विद्यते यन् नान्योन्यवियोगि स्याद् इति विचिन्त्य धर्मपरायणैर् युष्माभिर् भूत्वा सम्यग् आत्मा परिपालनीय इति | तच् च मृगयूथं स्थित्वा बोधिसत्त्वम् आ चक्षुर्विषयाद् गच्छन्तम् अवलोक्य पितृवियोगाद् इव शोकशल्यक्षतहृदयं शून्यम् इव तद् वनं प्रत्याजगाम | बोधिसत्त्वो ऽपि च हरिणवराहमहिषाजास्थिनिचये लग्नश्वगणकलहभीषणम् उत्पतितावलीनसरघाकुलमांसपेशीकम् उपनिहितनिशातकर्तनीकं मृगागमनप्रतीक्षिभिर् औरभ्रिकैर् आकीर्णसूनास्थानम् आगम्यावतस्थे | ते च तद्वधाधिकृताः पुरुषा यूथपतिम् आदाय राज्ञे दर्शयामासुः |
SK
अथाभाषत तं राजा हरिणं हरिणेक्षणः अपरिक्षीणयूथस् त्वं वद किं स्वयम् आगतः //
SK
बोधिसत्त्व उवाच |
SK
गर्भिणी हरिणी देव शरणं माम् उपागता पुत्रदर्शनकाङ्क्षिण्यास् तस्या वारे ऽहम् आगतः //
SK
पुत्रकं द्रष्टुम् इच्छन्त्याः पूरयित्वा मनोरथम् एण्यास् तस्याः परं प्रीतो मन्ये ऽहं मृत्युम् उत्सवम् //
SK
हरिणीं हरिणं चात्र यातुम् आलोक्य मृत्यवे यन् मे समभवद् दुःखं तद् अद्य न भविष्यति //
SK
तस्मात् प्रमापय नरेश्वर माम् इदानीम् औरभ्रिकैः कथय देव विलम्बसे किम् अत्यायतेन करुणाकवचेन बद्धं चेतो भिनत्ति न विषादशरो ममेदम् //
SK
अथ स राजा तस्य तां परार्थप्रतिपत्तिपटीयसीम् अनुकम्पां विचिन्त्य विस्मितमतिर् उपालब्ध इव लज्जया बोधिसत्त्वम् उवाच | साधु साधु यूथपते |
SK
परार्थनिष्पत्तिनिबद्धचेता मृगाकृतिस् त्वं पुरुषप्रधानः परोपघाताय निबद्धयत्ना वयं खलु व्यालमृगैः समानाः //
SK
अथ बोधिसत्त्वो विप्रतिसारवन्तं राजानम् अवेत्य जातविश्रम्भमुखम् इत्य् उवाच |
SK
शरणम् उपगतं कृतापराधं रिपुम् अपि पासि किल व्युदस्य कोपम् कथय कथम् अनागसां मृगाणाम् उपरि पतन्ति तवेषवो निशाताः //
SK
प्रहृतं न त्वया युद्धे द्विषत्य् अपि पराङ्मुखे निहंसि भयवित्रस्तान् हरिणान् नश्यतः कथम् //
SK
जहीहि मृगयाक्रीडाम् असत्संकल्पवर्धिताम् नरकाग्नेः स्फुरद्दीप्तेर् भवित्री येयम् आहुतिः //
SK
अथ स राजा प्रमुदितमनास् तं यूथपतिं महति सिंहासन आरोप्य सविनयं नीचैरासनम् अधिष्ठाय प्रोक्तवान् | अहो सुभाषितं क्रियतां मे मोहतिमिरापनोदिनी धर्मदेशनेति | ततो बोधिसत्त्वः सकलया राजपर्षदावलोक्यमानस् तं राजानं संराधयन्न् इत्य् उवाच |
SK
सुभाषितप्रीतिर् अनुन्नतिः श्रिया परार्थनिष्पत्तिपटीयसी क्रिया गुणेष्व् अतृप्तिर् गुणवत्सु चादरो विरूढम् एतच् चरितं महात्मनाम् //
SK
नितान्तम् आविष्कृततुङ्गतेजसी उभे मनुष्यस्य मनुष्यलक्ष्मणी अदैन्यम् आपत्स्व् अपि चित्तगौरवाद् अपत्रपा चार्यपथप्रकाशिनी //
SK
खलाः प्रकृत्यैव मलीमसाशया वृथा परेषाम् अयशःसु जाग्रति स्वचित्तशुद्धौ विनिविष्टबुद्धयो बुधाः पुनस् तेषु भृशं दयालवः //
SK
नरेषु तुल्योदयपौरुषेष्व् अपि क्रिया न सर्वस्य परोपकारिणी परिस्फुरज्ज्योतिषि निर्घने नभस्य् अगस्त्य एवाम्बु करोति निर्विषम् //
SK
विचिन्त्यमानो ऽपि करोति विस्मयं विसारिणा सच्चरितेन सज्जनः यदा तु चक्षुःपथम् एति देहिनां तदामृतेनेव मनांसि सिञ्चति //
SK
यस्यायामि परोपकारसलिलस्रोतो न विच्छिद्यते धीचक्षुश् च वियोगि यस्य तमसा द्वाव् एव तौ जाग्रतः अन्येषां पशुधर्मणां परहितव्यापारदुर्मेधसां तुल्ये रात्र्यहनी प्रमत्तमनसाम् अज्ञाननिद्रावताम् //
SK
संसारे भ्रमतो महान्धतमसे संतिष्ठमानस्य वा साधोः साधुफले नितान्तमहती द्वे एव ते मां प्रति यत्र प्रोज्झ्य गृहं तपोवनम् अभिप्रस्थीयते श्रेयसे यस्मिन् वा क्रियते विवेकपटुभिः साकं कथा सूरिभिः //
SK
भुज्यन्ते स्वगृहस्थिता इव सुखं यस्यार्थिभिः संपदः पट्वी यस्य च धीस् तमःप्रहतये द्वाव् एव तौ प्राणितः यस् त्व् आत्मंभरिर् उन्नते ऽपि विभवे हीनश् च विद्वत्तया तस्यालेख्यमणेर् इवाकृतिभृतः सत्ताप्य् असत्ता ननु //
SK
कृच्छ्राल् लब्धम् अपि क्रमेण भवति प्रभ्रंशि भूयः सुखं तद्भ्रंशे परितापम् एति पुरुषश् चित्तानलं ज्वालयन् दुःखस्यास्य भवानुबन्धजननी हेतुः शठा जालिनी ते ऽत्यन्तं सुखिनो मनःसु निहिता यैः सम्यग् अल्पेच्छता //
SK
मोहच्छेदि सुभाषितं विनयति द्रव्यं विनैव श्रमाद् अद्रव्ये तु भवन्त्य् अपि स्फुटपदा व्यर्थोपदेशा गिरः कर्मारेण पटीयसापि विघनव्योमेन्द्रनीलच्छविः श्रीगर्भः क्रियते कलङ्कपरुषाद् घण्टीकृतान् नायसः //
SK
इति गुणागुणान्तरविदा महाराजेन सत्पथाश्रयिणा भवितव्यम् इति | अथ स राजा धर्मकथामृतास्वादप्रीणितमना दत्तमृगाभयः सबहुमानम् इति बोधिसत्त्वं प्रशशंस |
SK
उत्पादे सति लोक एष मरणव्याधिश्रमैर् बाध्यते तृष्णातन्तुनिबन्धनस्य जगतो भूयस् त एवाधयः इत्य् अच्छिन्नपुनर्भवप्रतिभयः संसार आ निर्वृतेर् युष्मत्संगमहेतुर् इत्य् अवमतो नायं सदोषो ऽपि नः //
SK
अथ बोधिसत्त्वः सिंहासनाद् अवतीर्य राजानम् आपप्रच्छे |
SK
मया विना नृवर विषण्णमानसं समाकुलं हरिणकुलं भविष्यति अकण्टकां चिरम् अनुशाधि मेदिनीं व्रजाम्य् अहं त्वरितपदं तदन्तिकम् //
SK
ततः स यूथपतिः क्षितिपालानुमतस् तद् एव वनम् आजगाम |
SK
अथ यूथपतिं विलोक्य दूरान् मुदितं तन् मृगयूथम् उत्सुकाक्षम् दशनाग्रगृहीतशष्पदर्भं त्वरितं प्रत्युदियाय बद्धपङ्क्ति //
SK
विनिमीलितलोचनेव यासीद् धरिणी यूथपतौ गते वनान्तात् समुपेयुषि सैव तत्र धीरे पुनर् उन्मीलितलोचनेव जाता //
SK
आगम्य साथ हरिणी हरिणप्रधानम् इत्थं जगाद मुदिता चलितायताक्षी प्रह्लादयन् मम मनः शिशुर् एष दावे संक्रीडते हरिणनाथ तव प्रसादात् //
SK
बोधिसत्त्वो ऽपि च तन् मृगयूथद्वयम् आश्वास्य परां प्रीतिम् उपजगाम | तद् एवं परहितपरायणः स भगवांस् तिर्यग्भूतो ऽप्य् आसीद् इति विन्चिन्त्य तदुपारोपितप्रसादा भवत यूयम् इति ||
SK
|| मृगजातकं प्रथमम् ||
SK
शीलं परिपालयता त्राताः सत्त्वा मयूरभूतेन / प्राणभयाद् येन पुरा कस् तत्र न रोपयेद् भक्तिम् //
SK
तद्यथानुश्रूयते सुरभिकमलवनच्छन्नमहाविमलसलिलेन प्रह्लादितसिद्धजनमानसेन मानसेन महासरसा सकलशशिमण्डलबिम्बेनेवालंकृतैकदेशे त्रिपथगासलिलनिपातक्षोभितभूर्जदेवदारुनमेरुवने प्रस्रुतानेकप्रस्रवणे तुहिनोपचयस्थूलतरशिखरसहस्रतया रजतस्तम्भैर् इवोपरिसमाकीर्णे केसरिसंत्रासप्रस्थितचमरयूथस्फुरितवालसंघातोपवीज्यमाननिकुञ्जे निर्झरसलिलप्रक्षाल्यमानशिलातले कुसुमितलताप्रान्तभ्रान्तमुखरमधुकरगणसंगीते साभिषेक इव राजमाने भूधरवरे हिमवति धौतेन्द्रनीलविमलदण्डाकृतिशिरोधरः शङ्खच्छेदावदातापाङ्गदेशः स्फुटितपारिभद्रककुसुमाभिरक्ततुण्डो विपुलविचित्रपक्षतिर् इन्दीवरपलाशाकीर्णतरुणशिरीषकुसुमसंघातानुरूपबृहत्कलापः सुवर्णावभासो नाम बोधिसत्त्वो मयूराधिपतिर् बभूव |
SK
मयूरवरम् उत्पाद्य तं विचित्रतनूरुहम् विस्मिता इव पश्यन्तो बभूवुः कर्मशिल्पिनः //
SK
मेघारम्भे जातनृत्यानुरागं पश्यन्तीनां तं मयूराधिराजम् स्तोकोद्द्योता ह्रीमतीनाम् इवासन् मन्दा विद्युल्लासिकानां विलासाः //
SK
मृदङ्गवद् ध्वानिनि वारिनिर्झरे द्विरेफवीणासु कलस्वनासु च लतावनान्तर्गृहके मनोहरे ननर्त चित्रं स मयूरलासकः //
SK
परिस्फुरच्चन्द्रकरत्नमण्डलस् तटान्तम् आरुह्य यदा ननर्त सः समीरणाधूतवनो हिमाचलस् तदा विभाति स्म किरीटवान् इव //
SK
कान्तं वितन्वति कलापम् अनङ्गवध्वा चित्रे विशेषक इवालिखिते धरित्र्याम् तत्र स्थिता शिखिनि सिद्धविलासिनीनां गाढं कुतूहलवशान् न ततर्प दृष्टिः //
SK
आपाण्डुमेघपटलावृतदिङ्मुखान्ते मुक्तामलाम्भसि शरत्समये ऽभ्युपेते यस्यां स चन्द्रकमणीन् असृजत् कलापी भूर् इन्द्रनीलशकलैर् इव सा बभासे //
SK
कान्ते विचेरुषि शनैर् अपुलाकपक्षे यूथानुयातगमने कुशलैकपक्षे तस्मिन् महीधरवरस्य मयूरराज इन्द्रायुधैः शबलितेव मही रराज //
SK
अथ कदाचिद् अनिलबलविभिद्यमानकुसुमगन्धाधिवासितदिङ्मुखेषु भ्रमदलिकुलशबलेषु कलभरदनपरिपाण्डुषु रामणीयकं गतेषु केतकेषु कुटजककुभनीपकदम्बकुसुमसुरभीकृतनिकुञ्जेष्व् इन्द्रगोपकाभ्यलंकृतमरकतहरितशाद्वलश्यामवनभूमिषु नयनरम्येषु महीधरेषु स्फुरिततडिद्वलयलाञ्छितोदरेषु दर्शितेन्द्रायुधेषु धाराशरनिपातप्रोद्वासितनिदाघवैरिषु नभःपिधायिषु जलधरेषु शिशिरशीकरस्पर्शापनीतदिवसकरसंतापेषु परित्यजत्सु चन्दनद्रुमान् फणिषु प्रथमपूरप्रियतमतरङ्गहस्तावलुच्यमानफेनावतंसासु कलुषसलिलवसनपिधीयमानविपुलपुलिनजघनासु मत्तास्व् इव प्रागल्भ्यम् उपगतासु सरिदङ्गनासु सबाष्पप्रोषितभर्तृकाजननयनावलोक्यमानेषु मेघध्वनिप्रमुदितेषु विमुक्तमधुरारावेषु गृहमयूरेषु नवजलदसलिलकणनिपातजनितकणकणाशब्देषु तालतालीनालिकेरवनेषु स मयूरराजः प्रभातसमये तनुजलकणगुरुकृतकलापः श्रुतिहृदयहारिणीं केकां विमुञ्चन् नभःशोभार्थम् इवोत्पत्य वाराणसीसमीपेन प्रागात् | तस्यां च पुरि ब्रह्मदत्तेन राज्ञा सह सुप्तप्रतिविबुद्धा परस्परपरिष्वङ्गापहृतविलेपना किंचित्परिपाटललोचनोत्पलानुपमा नाम तस्य राज्ञो देवी पप्रच्छ |
SK
वद कस्य ध्वनिर् अयं तारस् ताराधिपानन येन प्रतार्यमाणेन मम प्रह्लादितं मनः //
SK
राजोवच | देवि सुवर्णावभासो नाम मानुषालापो मयूरराजो हिमवति कृताधिवासस् तस्यैष नभसा संचरमाणस्य प्रकृतिमनोहरः कनकमरकतेन्द्रनीलवैडूर्यराशिप्रभास्वरस्य स्वरः | पुनः सकुतूहला देव्य् उवाच | कुतः पुनर् असौ मयूराधिपतिर् देवस्य श्रुतिपथम् आगत इति | राजोवाच |
SK
पुरुषाणां तिरश्चां वा गुणा एव प्रकाशकाः भिन्नान्धकारनिवहा मणीनाम् इव रश्मयः //
SK
मयूराकृतिम् आस्थाय को ऽपि केनापि हेतुना नयनोत्सवभूतो ऽसौ स्थितो गौरीगुरोर् वने //
SK
शिखियूथाधिपतिना तेनालंकृतगह्वरः नाथवन्तम् इवात्मानं मन्यते तुहिनाचलः //
SK
गर्जितेन प्रयच्छन्तः साधुवादम् इवाम्बुदाः बद्धनृत्तं तम् ईक्षन्ते स्फुरद्भिस् तडिदीक्षणैः //
SK
घनसमयनाटकादाव् आहूता बर्हिसूत्रधारेण / सहसा तडिद् आत्मानं दर्शयति नटीव सविलासम् //
SK
अथानुपमा तेन तस्य मयूराधिपतेः श्रुतिहारिणा स्वरेणाक्षिप्तहृदया मृदुहसितभ्रूलताक्षेपपरावर्तनावलोकनक्रीडापरिबृंहितैर् विलासैस् तं राजानं वशीकृत्योवाच | देव क्रियतां यत्नस् तस्य मयूराधिपतेर् ग्रहणाय | क्रीडनको ऽस्माकम् अन्तःपुरे भविष्यति |
SK
अन्तःपुरमध्यगतस्फुटचन्द्रकधारिणा मयूरेण विविधमणिकर्णपूरेव तेन नो गृहमही भवतु //
SK
राजोवाच | देवि न किलासौ शक्यते ग्रहीतुम् | देव्य् उवाच |
SK
सृजतः सुरभीन् मदाम्बुबिन्दून् बलिनो ऽपि द्विरदान् वशं नयन्ति पुरुषाः पटुवीर्यबुद्ध्युपायाः किम् उत स्वल्पबलोदयान् विहङ्गान् //
SK
ह्रियते बडिशेन वारिमध्यात् पृथुरोमा नयनाध्वनश् च्युतो ऽपि किम् उपायवताम् असाध्यम् अस्ति व्यवसाये हि सति क्रियाः फलन्ति //
SK
भवतो ऽस्ति मतिर् विशेषपट्वी बहवः सन्ति विपश्चितः सहायाः सफलीक्रियते न चेन् ममेच्छा भवता स्नेहपराङ्मुखो ऽसि नूनम् //
SK
शावान् कुलायकगतान् परिपातुकामा नद्याः प्रगृह्य तनुपक्षपुटेन तोयम् दावानलं किल सिषेच मुहुः कपोती स्निग्धो जनो न खलु चिन्तयति स्वपीडाम् //
SK
अथ स राजा मा देवि क्रोधं कार्षीर् अकार्यम् अपि त्वदर्थे कुर्याम् | अतः करोम्य् अहं तद्ग्रहणाय यत्नम् इत्य् उवाच |
SK
विलासिनीनां मदनानुकर्षिणा विलासपाशेन निबद्धमानसः शुभाशुभान्वेषणसुप्तचेतनः प्रयात्य् अनिघ्नो ऽपि हि निघ्नतां जनः //
SK
अमर्त्यतेजोऽवयवान् अवाप्य या तिलोत्तमेति प्रथिता सुराङ्गना त्रिलोकनाथो ऽपि तयात्मशोभया चतुर्मुखत्वं गमितस् त्रिलोचनः //
SK
तपोनिधिं गाधिसुतं तपोवने महाधियं मेनकया हृतेन्द्रियम् अवज्ञयाकृष्य मृणालकार्मुकं शरेण विव्याध हसन् मनोभवः //
SK
यद् एधते लाघवहेतुर् अर्थिता पतन्ति यन् मूर्ध्नि निकारपांसवः स्पृशन्त्य् अधिक्षेपशराश् च यन् मनस् तद् अङ्गनाभिः क्रियते शरीरिणाम् //
SK
आबध्य व्यवसायवर्म पुरतो विन्यस्य तृष्णाचमूम् आरोप्य प्रसभं नितान्तकठिनं निर्व्रीडताकार्मुकम् अर्थित्वाहवमध्यम् एत्य विवशाः सीमन्तिनीभिः कृता नीचेभ्यो ऽपि सहन्त एव पुरुषा भ्रूभङ्गबाणव्रणम् //
SK
अथ स राजा शाकुनिकान् आहूयावोचत् | अस्ति सुवर्णावभासो नाम हिमवति मयूराधिपतिस् तं भवन्तः शीघ्रम् आनयन्तु | न चेद् आनेष्यथ ततः सर्वान् एव भवतस् तीक्ष्णेन दण्डेनान्तकसकाशं प्रहेष्यामीति | ते च मरणभीतास् तथेति प्रतिश्रुत्य कंचिन् निपुणतरं शाकुनिकम् अभ्यर्थ्य विसर्जयामासुः | स च शाकुनिकः क्रमेण हिमाचलम् आगम्य विज्ञाय तस्य मयूराधिपतेर् गोचरभूमिं विरचय्य पाशान् एकान्ते ऽवतस्थे |
SK
प्रालेयाद्रेस् तुङ्गसानोर् उपघ्ने न्यस्तं यद् यत् तेन शाकुन्तिकेन तेनात्यर्थं बर्हिणा दृष्टमात्रं तत् तद् दूराच् चिच्छिदे पाशजालम् //
SK
अथ हिमवति दूरस्था दिव्यचक्षुषो मुनयस् तं बोधिसत्त्वप्रभावम् आलोक्य विस्मितमनस एवम् ऊचुः |
SK
दृष्ट्यानेन श्रीमता पुण्यधाम्ना छिन्नाः पाशा गाढबन्धा यथेमे साधोर् अस्य प्राप्तबोधेस् तथैव प्रज्ञाशस्त्रं छेत्स्यति क्लेशपाशान् //
SK
अथ स शाकुनिकः पाशच्छेदविषण्णमनाः समुपगम्य कृताञ्जलिस् तस्मै मयूराधिपतये तां क्रूरां राजाज्ञाम् आख्यायाब्रवीत् |
SK
प्राणविच्छेदभीतानां शरण्य शरणार्थिनाम् श्वेतापाङ्गपते भूयास् त्वम् एव शरणं हि नः //
SK
दृष्ट्या च्छिन्नास् त्वया पाशाः शङ्खच्छेदसितान्तया स त्वम् ईदृक्प्रभावः सन् कथम् अस्मान् न पास्यसि //
SK
तम् आलोकयतो दीनं मग्नं बन्धुम् इवापदि आपुपूरे मनस् तस्य दुःखेन करुणात्मनः //
SK
न त्रास्यते कथं सत्त्वान् धीरो ऽयं व्यसनाद् इति शीलपारमिता तस्मिन् निःसंदिग्धेव तस्थुषी //
SK
मां चेन् न संत्यजसि बोधिम् अवाप्तुकाम एतान् मयूरवर पाहि नरेन्द्रदण्डात् तं शीलपारमितया जनितप्रसादम् इत्थं कृपा शिखिनम् उक्तवतीव साध्वी //
SK
अथ बोधिसत्त्वस् तान् मरणभीतान् प्रति दुःखायमान ईदृशम् अचिन्तयत् |
SK
मधुरस्वरः सुरुचिराङ्गरुहो यदि नाभविष्यम् अहम् अत्र वने न नरेश्वराद् अकरुणप्रकृतेर् भयम् आगमिष्यद् इति शाकुनिकान् //
SK
इति मन्निमित्तम् अयम् आर्तमना व्यसनं न यावद् उपयाति जनः परिचोदितः क्षितिभुजा मरणात् परिपालयामि खलु तावद् इमम् //
SK
अकारणे वा सति वापि कारणे समेत्य यन् नाम परो विनश्यति अनेकधिग्वादशरक्षतात्मना किम् ईदृशा तस्य जनस्य जन्मना //
SK
इति बोधिसत्त्वश् चिन्तयित्वा तम् उवाच | गच्छतु भवान् अग्रतस् तस्मै राज्ञे निवेदयितुं ममागमनम् इति | अथ स शाकुनिकः प्रमुदितमनास् त्वरितम् आगम्य न्यवेदयद् इदानीम् एवास्मदनुकम्पया देव स मयूराधिपतिर् आगच्छतीति | ततः स राजा सह देव्या पौरजनेन च कुतूहलवशात् तदागमनप्रतीक्षी पुनः पुनर् अन्तरीक्षम् आलोकयामास | सो ऽपि च मयूरराजः समाश्वास्य विनिवर्त्य चानुगामिनं मयूरगणम् अम्बरतलम् उत्पत्य सहसैवोपगम्य प्रकृतिमधुरया केकया सकलं वाराणसीजनम् आनन्दयामास | ततस् तस्य तां केकाम् आकर्ण्य नियमेन स मयूराधिपतिर् आगच्छतीति विचिन्त्य प्रमुदितमनसो नूपुरविरावसंत्रासितकपोतपालीनिलीनपारावतमिथुनाः द्रुततरगमनविगलितकर्णावतंसकाः काश्चिद् अनवसितविशेषकाङ्कितललाटमध्याः सिन्दूराभिताम्राङ्गुलयो द्रुतगमनविघ्नकारिणे गुरुनितम्बभरायात्यसूयन्त्यः किंचिद् गत्वा चापरा गुरुजनावलोकनव्रीडिताः पुनस् त्वरितां गतिम् अवरुन्धानाः प्रहर्षविकसन्नयनकुवलयपलाशप्रान्तस्पृष्टश्रवणान्ताश् च काश्चिद् अपराः पुनर् अर्धालिखितं चित्रफलकम् अपास्य क्षीणप्राणप्रायप्रान्तवर्तिकाः करण्डकेषु विनिक्षिप्य सितजलदतुहिनकुन्दमृणालस्फटिकरजतधवलानि सौधतलान्य् आरुरुहुर् अपराश् च स्त्रियो वातायनान्य् अभिजग्मुः |
SK
अथ जालगवाक्षवर्तिनीनाम् अबलानां वदनैर् विशालनेत्रैः शिखिदर्शनजातसंभ्रमाणां बहुचन्द्रेव भृशं पुरी रराज //
SK
कौतूहलाद् अनिलवेल्लितकाकपक्षा रंहस्विनो हरिणशावमनोहराक्षाः आलोकिताः प्रमनसा जननीजनेन निर्जग्मुर् उन्नतमुखाः शिशवो गृहेभ्यः //
SK
क्रीडां विहाय च मनोहरकन्दुकोत्थां स्वेदावबद्धकणचारुललाटदेशाः किंचित्कुचोद्गमसमुन्नमितोत्तरीया निश्चक्रमुः प्रतनुबाहुलताः कुमार्यः //
SK
अयम् अयम् इति बर्ही दर्शनप्रोन्नताभिः स्फुटनखमणिभाभिः पद्मपत्त्रारुणाभिः स्मितरुचिरमुखीनां राजसीमन्तिनीनां किसलयितम् इवासीद् अङ्गुलीभिः पुरं तत् //
SK
क्षणाच् च सुरासुरसंग्रामात् क्षुरप्रनिकृत्तदण्डः केतुर् इव विविधमणिविचित्रस् तस्य राज्ञो भवनान्तरालम् अलंकुर्वन् स मयूरराजो निपपात |
SK
युगपद् अथ जनानां विद्रुमाकारतुण्डे शिखिनि गुरुकलापे दृष्टयस् तत्र पेतुः ददति धनम् उदारे क्षिप्रम् आशाः समन्ताद् अभिलषितफलानाम् अर्थिनां दातरीव //
SK
राजा च राजमहिषी च मयूरराजम् आलोक्य तं तुतुषतुः समवाप्य कामम् लोकस्य दुर्लभम् अवाप्य हि वस्तु किंचित् खिन्नं प्रमोदमुदम् उद्वहतीव चेतः //
SK
ततः प्रमुदितमनाः स राजा तं मयूरराजं राजार्हे रदनपादे समुपवेश्यासने पश्चाद् आसनम् अध्यतिष्ठत् | अथ बोधिसत्त्वो मधुरगम्भीरेण स्वरेण तं राजानम् इत्य् आबभाषे |
SK
जित्वेन्द्रियाणि बलवन्ति बलेन बुद्धेर् युञ्जन् मुहुः प्रणयिनां प्रणयं फलेन एतां समुद्रवसनां व्यसनान्य् अपास्य भुपाल पालय चिरं पृथिवीं नयेन //
SK
तव धर्ममयाः कच्चिद् एधन्ते धर्मसेतवः अगाधं दुःखजलधिं यान् आलम्ब्योत्तरिष्यसि //
SK
रन्ध्रावलोकिभिः क्रूरैर् दुर्गृहीतैर् इवाहिभिः कच्चिद् दृष्टमहादोषैर् विषयैर् नातिबाध्यसे //
SK
भृत्येषु च विनीतेषु कलत्रेषु सुतेषु च कच्चित् ते कुशलं राजन् देहे चात्र यशोनिधौ //
SK
राजोवाच |
SK
भवत्य् अकुशलं तावन् मयूराधिप देहिनाम् परार्थपटुना यावत् संगमो न भवादृशा //
SK
संचरन्मुरजमेघनिस्वनं नर्तकीतडिदलंकृतान्तरम् त्वाम् अवाप्य शिखिराज मन्दिरं वारिवाहसमयायते मम //
SK
कान्तामुखस्य तिलको नभसः शशाङ्कः स्वच्छप्रभस्य मणिर् आभरणस्य शुद्धः जातश् चिराभिलषितो ऽस्य मयूरनाथ मद्वेश्मनश् च महतस् त्वम् अलंकरिष्णुः //
SK
इत्य् अभिसंराध्य स राजा दीपप्रभावभासितभवनान्तराले प्राचीवधूगृहीतशशिदर्पणे विभाव्यमानतारकाकुमुदवनाभ्यलंकृतनभःसरसि प्राप्ते च क्षणदामुखे सुरभिकुसुमपल्लवास्तीर्णं मयूराधिपतये मृदु शयनीयम् आदिदेश | दिवसे दिवसे च परिपाकसुरभिमृदूनि फलानि प्रायच्छत् | अथ कदाचित् काले गच्छति स राजा किंचित् करणीयम् उद्दिश्य बोधिसत्त्वम् अनुपमाया देव्या हस्ते निक्षिप्य नातिमहता सैन्येनानुगम्यमानस् तुरगखुरपुटोत्खातमार्गपांसुपरिधूसरकिसलयकुसुममञ्जरीकाणि वनान्तराणि कुर्वन्न् अमलसलिलवाहिनीतटवेतसच्छायानिलीननिश्चलबकबलाकावलोक्यमानचकितशफरीकुलाकुलतटपयस्काः त्वरितरथचरणध्वनिसंत्रासरसितचक्रवाकमिथुनपरित्यज्यमानसितपुलिनास् तास् ताः समुद्रपत्नीर् आलोकयंस् त्रस्तसारङ्गोत्पतनसाचीकृतानि चटुलबहुनयनानीव दिगन्तराणि पश्यन् प्रसृतगोकुलदशनच्छिद्यमानशष्पाङ्कुरान् इक्षुवणोपरुद्धान् अनेकांश् च ग्रामसीम्नो ऽतिक्रम्य किंचिद् देशान्तरं जगाम |
SK
साथ क्षितीशमहिषी महिषीविषाणधूम्रालकाकुलमुखी परिपाण्डुराङ्गी वातायनप्रसृतम् आयतपक्ष्मलेखं चक्षुश् चिरं व्रजति धूर्तविटे बबन्ध //
SK
दृष्ट्वा च तां सुनयनां नयनाभिरामां भित्तेः समीपम् अगमद् विटपुङ्गवो ऽसौ पार्श्वानि वीक्ष्य चकिता च पुनः पुनः सा कर्णोत्पलं सुरभि तस्य मुमोच गात्रे //
SK
आदाय तत् कुवलयं विकसत्पलाशम् आघ्राय मूर्ध्नि च निवेश्य स जृम्भमाणः अस्तं विवस्वति गते विवशः कथंचित् तस्याः क्रमेण नयनानुगतः प्रतस्थे //
SK
गत्वा ततः स गणिकाभवनं विलासी गाढं वितानहृदयः शयने निविश्य निश्वाससूचितमनोभवबाणपातस् तस्याः प्रकामम् उदकण्ठत वीतधैर्यः //
SK
ऊचे विटो गणिकया परिहासपूर्वं पश्यामि शून्यम् इव सांप्रतम् आर्यपुत्रम् धूर्तस् ततः स निजगाद निगूढभावो द्यूते जितो ऽहम् इति तेन वितानता मे //
SK
अथ स विटस् तां वर्षशतोपमां रजनीं मन्यमानस् तद्गतमनाः समुत्थाय रहसि कस्मैचित् सुहृदे तं वृत्तान्तम् आवेदयामास | श्रूयतां वयस्य ह्यो मया यद् अनुभूतम् इति | येयं राज्ञो ऽग्रमहिषी निमेषमात्रेण मानुषीति लोके वर्ण्यते सलीलम् आलोकयन्त्या कर्णाद् आदाय |
SK
वातायनं समवलम्ब्य विलासवत्या हासस्फुरद्दशनरत्नमयूखभासा नाम्ना तयानुपमयोत्पलम् उत्पलाक्ष्या रूपेण चानुपमयोपरि मे विमुक्तम् //
SK
सा वातयानमुखसंगतचन्द्रवक्त्रा चन्द्रप्रभां दशनरत्नरुचा हरन्ती भ्रूकार्मुकेण सविलासम् उदीरितेन चक्षुःशरं मयि विमुक्तवती कृशाङ्गी //
SK
तच् चिन्त्यतां तावत् संगमोपाय इति | अथ सुहृद् विहस्योवाच | कदाचित् काकतालीयम् इदं भवेत् त्वं च नृपतिभवनभित्तिसमीपम् अनुप्राप्तस् तस्याश् च कथम् अपि किम् अप्य् आलोकयन्त्याः | स्वयम् एव तवोपरि कर्णोत्पलं पतितं स्याद् अतो मा भवान् गणिकाविटजनमध्यम् आगम्यात्मानं हास्यवस्तु कार्षीत् | तत् परित्यज्यताम् अयम् असद्विकल्पः | यद्य् अपि च कामयमानया राजमहिष्या तवोपरि कर्णोत्पलं पातितं स्यात् तथापि न युज्यत एवेयम् उत्कण्ठा | दुर्लभकामिनीजनसमागमोपायचिन्ता हि पुरुषस्य महतीम् अरतिम् उत्पादयति | निद्राम् अपहरत्य् अङ्गानि दुर्बलयति भोजनरुचिम् अपास्यति | हितवादिनाम् अपि सुहृदाम् उपदेशं नाभिनन्दति प्रवृद्धनवसलिलौघसरिद् इव तटलतां धर्मस्थितिम् उन्मूलयति रम्याण्य् अपि द्वेष्टि | सज्जनगुणकथाभ्यसूयिनी सर्वथा प्रतिसंख्यानबलेनेयम् अभावं शक्यते नेतुम् इति | विट उवाच | अनेकदेहलीलङ्घना जघनसंपर्कनिष्णातबुद्धयो मादृशा धूर्तपुरुषाः कथं सकामाम् अकामां वा सीमन्तिनीं न ज्ञास्यन्ति | श्रूयतां वयस्य | श्रवणकण्डूयनस्तनप्रकाशनलज्जापरावृत्तावलोकनहसितादयो हि भावाः स्त्रीणां सकामं हृदयम् आविष्कुर्वन्तीति | किम् अत्र संदेहेन | सुहृद् उवाच | यद्य् एवं खगपतिर् इव प्राकारम् अपि लङ्घयित्वा भवान् नृपतिभवनं रात्रौ प्रविशेत् | किं न्व् अकृतसंकेता तत्रभवती राजमहिषी प्रतिबोध्यमाना त्वया |
SK
विनीतनिद्राकुललोचनोत्पला प्रवेपिताङ्गी जघनच्युताम्बरा ससाध्वसा को ऽयम् इति प्रभाषिणी भविष्यति व्याघ्रभयान् मृगीव सा //
SK
ततः परिजनकोलाहलप्रबुद्धकाञ्चुकीये राजकुले नायतिक्षमम् एतत् कर्म पश्यामि | एवं च तयोर् मिथो विचारयतोर् एव मृदुगमनचलितमुखरनूपुरमनोहरचरणकमलयुगलविन्यासेनार्चयन्तीव वसुधातलम् अभिनयगतिम् इव दर्शयन्ती चकितहरिणनयनस्पर्धिना सविलासावलोकनद्विगुणशोभेन कर्णसुहृदा चक्षुषा ह्रेपितम् इव किंचिद् अवनतं कर्णोत्पलं नियच्छन्ती स्थूलमुक्ताहारमणिप्रभोद्द्योतितगुरुपयोधरा पयोधरविरहप्रकाशनिशाकरा निशेव मूर्तिमती किंचिद् आतपजनितस्वेदकणजालकाक्रान्तविशेषकान्ता विशेषकान्तबकुलमालिकापरिपूरितकेशहस्ता हस्तावलम्बितशिथिलमेखलाकलापा कलापिचन्द्रकमध्यनीलम् उत्तरीयम् उद्वहन्ती प्रतनुमेचकया रोमराज्या विपुलगम्भीरनाभिनिम्नताम् इव दिदृक्षमाणयोपशोभितत्रिवलीतरङ्गविषममध्या मध्याह्नसमयदिवसकरकिरणालिङ्गितेव कमलमाला गमनपरिश्रमवशाद् ईषत्परिम्लानसुकुमारशरीरयष्टिः कर्पूरसुरभिताम्बूलरागारुणाधरा परिणतलवलीफलाभिपाण्डुकपोलतलालिखितपत्त्रलेखा विग्रहवतीव लक्ष्मीर् लक्ष्मीवती नामानुपमरूपानुपमया देव्या प्रहिता वचनकुशला कुशलशिल्पिघटितेव कनकप्रतिमा दूती | समागम्याभिवाद्य च तद् विटद्वयम् उपविश्य विज्ञाय च तयोर् निर्यन्त्रणसुहृत्तां विश्रब्धम् एव राजमहिषीवृत्तान्तम् आचष्टे |
SK
पुष्पायुधप्रतिनिधे भवनान्तगामी दृष्टो यदानुपमयासि नरेन्द्रपत्न्या सा मे सखी करतलार्पितवक्त्रपद्मा कार्श्यं तदाप्रभृति पाण्डुरतां च धत्ते //
SK
तनुतरम् अमृणालपङ्कपाण्डु च्युतधृति सांप्रतम् अङ्गम् उद्वहन्त्याः मनसि मनसिजः शरान् अशेषान् अविरतम् अस्यति मे वयस्य सख्याः //
SK
कुसुमशयनम् ऊष्मणाङ्गजेन प्रतिदिवसं वितपत्य् अनङ्गतन्वी उपवनम् अपि चारु वीक्षमाणा न च रमते हरिणीव यूथमुक्ता //
SK
इति कुसुमधनुःशराहताङ्गीम् अविरतनिश्वसितस्फुरत्कपोलाम् अवनमितमुखीं ह्रिया सुगात्रां रमय सखीं वचसापि तावद् अद्य //
SK
अथावसितवचनायां तस्यां दूत्यां स तस्य वयस्यो विहस्यावोचत् | अवश्यम् एव स्फुटितसहकारमञ्जरीको वसन्तसमयः कोकिलया सह युज्यते | सिद्धास् ते मनोरथा इति | विट उवाच | सर्वथा कृतार्थो ऽस्मि सखि कथ्यतां तावत् कतमस्मिन् प्रदेशे कस्यां वा वेलायां मयानुपमा द्रष्टव्येति | दूत्य् उवाच | किंचिद् आसन्ने प्रसुप्तजने निशीथे यो ऽसौ बहिःप्राकारसमीपरोही न्यग्रोधस् तम् अधिरुह्य तस्यैव नृपतिभवनभित्तिसंश्लिष्टप्रमदवनोपरिप्रसृतशाखयावतीर्य वयस्येन तत्र सुवर्णावभासाय मयूराधिपतये दीर्घिकातटचित्रशालावस्थिताहारसलिलोपनयनच्छलेनानुपमा चिरम् आत्मानं विनोदयन्ती समभिगमनीयेति | विट उवाच | सखि मद्वचनाद् एवम् अनुपमा वक्तव्या |
SK
उपरि ममोत्पलम् असितं कर्णाद् आदाय यत् त्वया मुक्तम् / जीवितम् इव तद् दयितं म्लानम् अपि न संत्यजाम्य् एतत् //
SK
तथास्त्व् इति च प्रणम्य गतायां तस्यां वचनहार्यां बहुलपक्षान्धकारतिरस्करणदुरालक्ष्येषु पथिषु श्रूयमाणसुप्तगजनिश्वासेष्व् आलानस्थानेषु प्रथमयामिकजनप्रोत्थाप्यमानद्वितीयजागरणाधिकृतेषु गुल्मकपुरुषेषु निश्चलपतत्रिगणाध्यासितशाखाकुलायेषु वितपिषु स्थाणुम् अप्य् आलोक्य पुरतः पुरुष इति शङ्कमानः सुरभिवर्णकानुलिप्तः स विटः प्रथमजलधरनीलपटावगुण्ठितशरीरो वामकक्षावलम्बितनिशितकरवालः सह तेन सुहृदा प्रत्यासन्ने ऽर्धरात्रे समुपगम्य दूत्युपदिष्टेनोपायेन पुनर्दर्शनायेति सुहृदम् आमन्त्र्य प्रमदवनं प्राविशत् | अथ तम् आगच्छन्तम् आलोक्य गृहीतसविशेषमण्डनानुपमा चिन्तयामास | नियतम् अवतरन्न् अयम् अनया वटशाखयानेन मयूरेण दृष्टः | कदाचिद् अयम् इमं वृत्तान्तम् आगताय राज्ञे निवेदयेद् इति | तद् एनं शिखिनं विषसंपृक्तेनाहारेणाभावम् एव नेष्यामीति विचिन्त्य |
SK
शिखिने विषसंपृक्तम् आहारम् उदकं च सा ददाव् अस्ववशीभूता रागेण च भयेन च //
SK
अपेतकौलीनभयः सुखाशया विमोहितः पुण्यसपत्नभूतया अनात्मवान् किं न करोत्य् असांप्रतं गतत्रपो रागपरायणो जनः //
SK
स च मयूराधिपतिः किंचित् तिक्तम् आहारम् उदकं चास्वाद्य नियतम् अनुपमयानेन पुरुषेण सह संगमम् अभिलषन्त्या जातशङ्कया मह्यं विषं दत्तं | तद् इदम् अत्र प्राप्तकालम् |
SK
एतौ स्त्रीपुंसौ जातरागान्धबुद्धी यावद् वाधूक्यं सांप्रतं नोपयातः धर्म्यां कुर्वाणः संकथां कापथघ्नीं तावद् वैराग्यं नेतुम् एनौ यतिष्ये //
SK
इति विचिन्त्य स महात्मा तं विटम् आजुहाव | महात्मन्न् इहोपविश्य मत्संकथया विनोद्यात्मानं यथाभिप्रेतम् अनुष्ठास्यसीति | स च विटः कुतूहलवशाद् उपगम्य मयूराधिपतिसमीपे समुपविवेश | सापि च राज्ञी किंचित् तम् आलोक्य ससाध्वसा तूष्णीम् एवावतस्थे | ततो बोधिसत्त्वस् तयोर् उपविष्टयोः पुरस्ताद् इति वैराग्यसंबन्धिनीं कथाम् अकरोत् |
SK
अहो हास्यज्योत्स्नापरिचयमनोज्ञो मुखशशी सलीलप्रस्थानं स्तनयुगलम् उच्छ्रायि सुभगम् नरस्येत्थं मोहात् परयुवतिरूपं कलयतः प्रसंख्यानाभावात् कुसुमधनुर् अन्तः प्रविशति //
SK
निरुन्धाना हस्तं मम रहसि नीवीशिथिलिनं भविष्यत्य् एवं सा प्रथमतरलज्जानतमुखी इति स्त्रीसङ्गार्थं बहुविधविकल्पान्धमनसः शरीरं रन्ध्रेक्षी प्रतिदिनम् अनङ्गः क्रशयति //
SK
आगच्छेत् पुनर् अद्य सा गुरुभयात् तस्याः कुतो ऽभ्यागमः शर्वर्याम् अथवाहम् एव चकितं गच्छामि सुप्ते जने दूत्याप्य् अद्य चिरं कृतं किम् उ मनस् तस्या निवृत्तं भवेद् इत्य् आरूढविकल्पनाकुलधियः किं तत् सुखं कामिनः //
SK
संकल्पात्
SK
प्रभवत्य् अनङ्गदहनस् तापस् ततो जायते संतापाद् अरतिः स्मृतेः प्रमथनी स्मृत्या विना ह्रीः कुतः ह्रीभङ्गाद् वचनीयतापरिभवः क्लेशेषुविद्धात्मनोः स्याताम् आधिमतोः कदा नु सुखिनी स्त्रीपुंसयोश् चेतसी //
SK
अक्षाणां वशम् आगतः सुखम् इति व्यामोहितश् चिन्तया कामार्तः परयोषिते स्पृहयति व्रीडाविहीनो जनः श्लिष्यन्तीं स्त्रियम् आयसीं हुतवहज्वालास्फुलिङ्गाकुलां सोढुं शक्ष्यति तां कथं नु नरके प्रादुर्भवद्वेपथुः //
SK
इति परदारासङ्गं बहुदोषम् अवेत्य धैर्यम् आलम्ब्य / भगिनीसंज्ञां कृत्वा तस्मात् प्राज्ञो निवर्तेत //
SK
तद् एवम् अल्पस्य नाम सुखस्य हेतोर् अनेकानलज्वालासहस्रालिङ्ग्यमानविकूणिताक्षाणाम् अशुभकर्मकारिणाम् आर्तनादकरुणम् तीक्ष्णक्रकचपाट्यमानशिरसां चापरेषां रुधिरधारोक्षितज्वलितभूतलम् क्रूरयमपुरुषोद्गूर्णलोहमुद्गराभिघातविचूर्ण्यमानपुरुषशरीरास्थिध्वानभीषणम् अयःशाल्मलीकण्टकपरिभिद्यमानैर् अपरैश् च मुहुर् अभिनिस्वनद्भिर् उपचितपर्यन्तं नरकम् इच्छन्त्य् अमेधसः पतितुम् इत्य् अहो महद् एतद् अज्ञानम् | अथासौ विटस् तेन मयूराधिपतिना नरककथां वर्ण्यमानाम् आकर्ण्य संविग्नमना विनिवर्तितपरदाराभिलाष उवाच |
SK
अहो त्वद् एनां नरकोपवर्णनां प्रकामम् आकर्ण्य मुहुर् भयंकरीम् उदर्चिषं नारकजातवेदसं विलोकयामीव समुत्थितध्वनिम् //
SK
तद् अद्यारभ्य रागान्धजनचित्तापहारिणे नमो ऽस्तु परदाराय सुगतिद्वाररोधिने //
SK
शुभाशुभपथाख्यानव्यक्तीकृतविनिश्चयः आचार्यम् इव पश्यामि भवन्तम् अनुशासकम् //
SK
इमां च राजमहिषीम् अखण्डितपतिव्रताम् अपेतरागतिमिरो मन्ये ऽहं भगिनीम् इव //
SK
अथानुपमा तस्य भगिनीति वचनम् उपश्रुत्य परां व्रीडाम् उपगता तां च बोधिसत्त्वधर्मदेशनाम् अवधार्य संविग्नमतिर् इदम् उवाच | मया खलु मन्दभाग्यया नरकगामिन्या कामरागवशगयास्मै मयूराकृतये महर्षये विषसंपृक्तम् अन्नम् उदकं च विश्राणितं तत् कथम् इदानीं कर्तव्यम् इति | तां च विप्रतिसारवतीम् आलोक्य बोधिसत्त्वो धीरयामास ||
SK
मैत्रीमन्त्रेण मे नित्यं शरीरम् अभिमन्त्रितम् नैव हालाहलेनापि विषेनायाति विक्रियाम् //
SK
देवि मा स्म गमः शङ्कां मदपायकृताम् इति न चाहं कथयिष्यामि किंचिद् ईदृङ् महीभुजे //
SK
अथानुपमा तद्वचनम् आकर्ण्य परं परितोषम् उपजगाम | सो ऽपि च विटस् तं मयूराधिपतिम् अभिवाद्य विनिवृत्तपरदारव्यसनस् तेनैव न्यग्रोधेन स्वनिलयम् अगात् | अथ प्रभातसमये ब्रह्मदत्तः समापय्य स्वराज्यकरणीयम् आगम्य प्रविश्य च स्वभवनं प्राग् एव मयूराधिपतिम् अगात् | परस्परकुशलवार्त्तां च नृपतिमयूराधिपती पप्रच्छतुः | अथान्यस्मिन्न् अहनि राजानं शिखिपतिर् एवम् उवाच |
SK
मम विरहविषाददीनचित्तं न पिबति वारि फलं न चापि भुङ्क्ते जलधरसमये ऽपि वीतनृत्तं शिखिकुलम् आकुलतां ध्रुवं प्रयातम् //
SK
इति नरवर पालय त्वम् एनां भुवम् अखिलां विजितेन्द्रियारिवर्गः अहम् अपि हिमवन्तम् इन्दुगौरं त्वदनुमतः शिखिपालनाय यामि //
SK
इति तम् अभिदधानम् इन्द्रनीलच्छविगलम् आयतचारुबर्हभारम् कथम् अपि गमनाय यूथनाथं नगरवराद् अनुमन्यते स्म राजा //
SK
नृपतिनाथ समुत्सुकचेतसा पुरजनेन च तेन विलोकितः अभजताम्बरम् अम्बुदसंवृतं शिखिवरः शिखिनां हितकाम्यया //
SK
अथ विलोक्य मनोहरम् अम्बरे शिखिनम् आयतबर्हभरालसम् अमुचद् उत्सुकतां समुपागतं नयनवारिकणान् अवरोधनम् //
SK
तीव्रे मनोधृतिभिदि प्रियविप्रयोगे रूढं यद् अश्रु मतिलोचनसंनिरोधे तन् मूर्तिमन् नियतम् आधिहुताशतापाद् दुःखं द्रवीभवति सङ्गवतो जनस्य //
SK
दृष्ट्वा ततश् चलकलापशिरोधरं तं दूरान् मयूरवृषभं नभसा व्रजन्तम् प्रत्युद्ययुश् चलितपक्षपुटाः प्रतीताः केकाः कलाः कलगिरः शिखिनः सृजन्तः //
SK
अथ शिखिनि समेते तत्र भूपालपार्श्वाद् गुणवति सुहृदीव प्राप्तसर्वाभिलाषे तुहिनगिरिर् उदग्रं प्रीतिम् आविश्चकार प्रविसृतहिमहासः शष्परोमोद्गमेन //
SK
बोधिसत्त्वो ऽपि च समेत्य तन् मयूरयूथं चिरविरहपर्युत्सुकं पक्षाभ्याम् आलिङ्ग्य समाश्वासयामास | तद् एवम् आत्मनि निरपेक्षेण तेन भगवता बोधिसत्त्वभूतेन प्राणाः प्राणात्ययात् परिपालिता इति विचिन्त्य सुगतिभवनद्वारप्रकाशिनि प्रदीपभूते शीले भवद्भिर् आदरः करणीय इति |
SK
|| इति मयूरजातकम् ||
SK
जानाति क्षान्तिफलं य एव रागादिशान्तिम् अन्विच्छन् / कुरुते स एव धीरः प्रहरत्य् अपि वैरिणि क्षान्तिम् //
SK
तद्यथानुश्रूयते
SK
विविधतरुकुसुमगन्धाधिवासितदिगन्तराले रेवासलिलक्षालितविपुलान्तरीयशिलातले पवनचलितवेणुवनपलाशसलसलाशब्दसंत्रासोत्कर्णचलितमृगकुले क्वचिद् अनलप्रसूतभयोत्पतितशकुनिगणे क्वचिद् उच्छ्रितशिखरस्थितधवलबलाहकच्छायाश्यामीकृतनितम्बे क्वचिद् इभयूथभज्यमानशल्लकीगन्धसुरभीकृतनिकुञ्जे क्वचित् पुलिन्दीजनसमुच्चीयमानपतितविरलमयूरचन्द्रके चन्द्रकिरणविमलसलिलप्रस्रवणे ऽन्यत्र तापसकन्यकागणानीयमानलताकुसुमसमुद्भ्रान्तालिकुलोपगीते शुकहरितशाद्वलरमणीयवसुधातले विन्ध्यभूभृति शरज्जलधराकृतिबृहद्देहः शेषभुजगानुरूपकरः कमलाभिताम्रपुष्करः क्षुण्णाभिनवमुस्तासुरभिमदलेखाश्यामकपोलः सुसंस्थितनखपादः कलधौतरचितकुम्भाकृतिकुम्भः क्षमाङ्कुशविनिवारितामार्गप्रस्थितिः स्थितिर् इव सर्वगुणानां षड्दन्तो गन्धहस्ती बोधिसत्त्वो गजयूथाधिपतिर् बभूव |
SK
रेजे स यूथपतिर् इन्दुमरीचिगौरो मुक्ताविपाण्डुरदनः पृथुपीनकुम्भः पुञ्जीकृतः पशुपतेर् इव नृत्तकाले हासो महान् अपहृतक्षणदान्धकारः //
SK
वाताहतानि कुसुमानि समुत्सृजन्तः किञ्जल्करेणुपरिपिञ्जरकेसराणि तं शाखिनस् तुहिनशैलसितं गजेन्द्रं भक्त्याभितुष्टुवुर् इव भ्रमरस्वरेण //
SK
विहाय दूरात् कुसुमानि शाखिनां हसत्पलाशानि कुशेशयानि च कपोलयोस् तस्य मदाम्बुदिग्धयोः शनैर् अलीयन्त मुदा शिलीमुखाः //
SK
निरन्तरं पीनकपोलशोभितं समन्ततो वासितदिङ्मुखान्तरम् स यूथभर्ता पिबतः शनैर् मदं न कर्णतालैर् भ्रमरान् अवारयत् //
SK
मनोहरम् अविच्छिन्नं प्राज्यं याचनका इव जगृहुः षट्पदास् तस्माद् दानं दानपतेर् इव //
SK
तेन च यूथपतिना समाश्रितो विन्ध्यगिरिः कनकगिरेर् अप्य् आत्मानम् अभ्यधिकम् इवामन्यत | तच् च गजयूथं सम्यक् तेन परिपाल्यमानं राजन्वद् इव राज्यम् अनुदिवसम् अवर्धत |
SK
तस्य भद्रा सुभद्रा च प्रकृत्या भद्रचेतसः दयिते दयितक्षान्तेर् द्वे करेणू बभूवतुः //
SK
अथ कदाचिद् अनिलचलितपताककुटिलविद्युल्लतापरिस्फुरणसंमीलितविपुलाक्ष्याः सलिलभरगुरुजलधरगर्जितसंत्रासप्रवेपिताङ्घ्र्याः तनुभुजलतोत्क्षेपोन्नततरगुरुपयोधरायाः खड्गप्रभावभासितदक्षिणभुजं कल्पतरुकुसुमम् आजिघ्रन्तं दयितम् आलिङ्गन्त्याः पतितकर्णोत्पलायाः शिथिलकेशपाशच्छन्नांसदेशायाः पवनचलितम् उत्तरीयम् अवरुन्धत्याः स्फुरिताभरणमणिकिरणावभासितशरीरयष्टेर् नभसा गच्छन्त्या विद्याधर्याः किसलयसुकुमारात् पाणेः परिभ्रष्टम् अभिनवम् आमोदाधिवासितदिगन्तरालम् अलिकुलपरिगीतं कनकसूचीसदृशकेसरं रथचक्रप्रमाणं हरितालकपिलमकरन्दम् अरविन्दं मानससरःसंभूतं तस्य गजपतेर् एकाकिनस् तत्राचलवरे विहरतः पुरस्तात् पपात | तच् च कमलम् आदाय स एवम् अचिन्तयत् | भद्रायाः सुभद्रायाश् च मे पत्न्योर् या प्रथमम् आगमिष्यति तस्यै प्रसादम् अहं दास्यामि |
SK
परिभ्रमद्भृङ्गकुलाकुलान्तरं सुगन्धिकिञ्जल्कविकीर्णकेसरम् इदं हसच्चारुपलाशसंचयं मुदा प्रदास्यामि महाकुशेशयम् //
SK
अथ सुभद्रायै प्रथमम् आगतायै तत् कनकमयम् अम्भोरुहं स गजपतिः प्रायच्छत् | सापि च तद् आघ्राय सबहुमानं शिरसि निवेशयामास | पश्चाच् च भद्रा समुपगम्य तत् सुभद्रायाः कुम्भमध्यावस्थितम् अरविन्दम् आलोक्य नियतम् इदम् अम्भोरुहम् अस्यै सपत्न्यै माम् अवमन्यानेन यूथपतिना दत्तम् इति विचिन्त्य पराम् ईर्ष्याम् आगम्य तं द्विरदपतिम् अपहायान्यत्र विजहार |
SK
सा यत्र दृष्टम् अहनि द्विरदेन तेन दत्तं सुगन्धि विकचं कमलं सपत्न्यै तत्रेर्ष्यया परिगता न तृणं जघास नाम्भः पपौ ग्लपितमूर्तिर् उदन्ययापि //
SK
असद्विकल्पनाहुत्या को नाम समना जनः ईर्ष्यावह्निशिखाम् इद्धाम् आत्मदाहाय वर्धयेत् //
SK
ते सुखं शेरते धीरा नामार्गेण प्रयान्ति ते न मनोगृहम् अध्यास्ते येषाम् ईर्ष्याभुजङ्गमी //
SK
अथ भद्रा विन्ध्यशिलातले तरुच्छायापिहितविनिबद्धपर्यङ्कध्याननिश्चलनयनम् आलिखितम् इव मत्तचकोरविलोचनरक्तचीवरप्रावृताङ्गं प्रत्येकबुद्धम् आलोक्य सरसः कुसुमान्य् आनीयार्चयामास |
SK
क्षिप्ताभिर् ऊर्ध्वम् अथ वाशितया स भास्वांस् ताभिर् मुनिः कुमुदपङ्क्तिभिर् आबभासे उद्भासिनीभिर् अचिरद्युतिभासिताङ्गः संध्यापयोधर इवोपरि तारकाभिः //
SK
अथ सा हस्तिनी विन्ध्याचलतटम् आरुह्य यद् अस्मात् प्रत्येकबुद्धार्चनकुशलमूलात् फलं तेनाहम् अस्य गन्धहस्तिनो वधाय राजमहिषी स्याम् इति विचिन्त्यात्मानं मुमोच | तस्याश् च शरीरभारपरिभग्नतरुशाखायाः पतनशब्दम् आकर्ण्य |
SK
उत्पेतुः प्रचलितचन्द्रका मयूराः शार्दूलो दृशम् उदमीलयत् प्रसुप्तः संत्रासात् तृणकवलं विहाय दूराद् उत्कर्णं मृगकुलम् आकुलं बभूव //
SK
सा च कालं कृत्वान्यतरस्य राज्ञो जातिस्मरा दुहिता बभूव | किंचिदुद्भिद्यमानस्तनमुकुलां च तां त्रिवलीसोपानमालाधिरोहणजातखेदेनेव नवयौवनशिल्पिना समन्मथम् उपचीयमानशरीरलावण्यां प्रारब्धलज्जाहसितविलासाम् अलिकुलश्यामकेशपाशां कनकच्छेदावदातां श्रियम् इव मूर्तिमतीं पिता कस्मैचिद् एव नृपतये प्रायच्छत् | सा च तं राजानम् अनन्यस्त्रीसदृशैर् अबलागुणैर् अपहृतेन्द्रियं कृत्वा कदाचिच् चन्दनानुलिप्तस्तनगात्री निश्वासपरिकुञ्चिताधरपुटा ज्वरिताम् इवात्मानं दर्शयामास | यदा च भिषग्भिश् चिकित्स्यमानापि तथैव ज्वरच्छद्मना परिचेष्टते स्म तदा तस्या भर्ता भृशम् अरतिम् आजगाम | सा चैनम् उवाच |
SK
नैष ज्वरो मे हरिचन्दनेन जीमूतशीतेन न मारुतेन प्रयाति शान्तिं स्फटिकामलेन न चांशुजालेन निशाकरस्य //
SK
विन्ध्याचले ऽस्ति द्विरदाधिराजः श्वेताम्बुदाभो गुरुषड्विषाणः मृणालशुक्लेषु महत्सु तस्य दन्तेषु सन्ति क्षितिपाल मुक्ताः //
SK
लिप्येत ताभिर् यदि मे शरीरं पिष्टाभिर् अम्भःकणनिर्मलाभिः तद्दन्तशय्या यदि मे क्रियेत दाहज्वरस्यास्य ततः शमः स्यात् //
SK
अथ स राजा नियतम् अनया देव्या जातिस्मरया जात्यन्तरे श्रुतो दृष्टो वा विन्ध्यवनवासी गन्धहस्तीति निश्चयम् उपेत्य व्याधम् आहूयावोचत् |अस्ति विन्ध्याचले षड्दन्तो गन्धहस्ती | यदि तस्य दन्तान् आनेष्यसि ततो ऽहं भवन्तं महतार्थेन योजयिष्यामीति | व्याध उवाच | यथा शक्ष्यामि तथा करिष्यामीति | देव्य् उवाच | अहम् उपायं जानामि यथासौ गन्धहस्ती विश्रम्भम् आयातीति |
SK
दृष्ट्वा प्रव्रजितं शान्तं काषायाम्बरधारिणम् सुशिष्य इव मेधावी प्रणम्यार्चयति द्विपः //
SK
परिधाय ततः सम्यक् काषाये वाससी त्वया आहन्तव्यः शरेणासौ विषदिग्धेन मर्मणि //
SK
स च तथेति प्रतिश्रुत्य काषायवसनसंभृताङ्गः सशरं धनुर् आदाय विन्ध्याचलम् अगमत् | अथ तम् अचलवनान्तरे संचरन्तम् आलोक्य तद् गजयूथं साशङ्कम् इभाधिपतये निवेदयामास |
SK
काषायवसनः को ऽपि स्फुलिङ्गकपिलेक्षणः लोहस्तम्भवपुः सत्त्वांस् त्रासयन्न् इव लक्ष्यते //
SK
बोधिसत्त्व उवाच | न खलु काषायवासः शङ्कनीयम् | पश्यन्तु भवन्तः |
SK
अपत्रपा शान्तिपथस्य सूचकं ध्वजो मुनीनां मदभङ्गकारणम् कषायरक्तं यदि देहभूषणं जनस्य विश्रम्भनिमित्तम् अम्बरम् //
SK
अथ तस्य यूथस्य नातिदूरे ऽवस्थितः स व्याधस् तरुणात्मानम् आवृत्य धनुर् आरोपयामास |
SK
तं संदधानम् इभराजविनाशनाय ज्यायां शरं शितफलं तुचिसारमय्याम् शाखाकरैः किसलयाङ्गुलिभिस् तरूणां विन्ध्यो न्यवारयद् इव श्वसनावधूतैः //
SK
मदमुकुलितनेत्रं कर्णविन्यस्तहस्तं विटपिनि निकषन्तं दानदिग्धं कपोलम् विदितकुशलमार्गं मार्गणेन द्विपेन्द्रं मृगरिपुर् उपकण्ठं वायुकुम्भे जघान //
SK
अथ निपतितकार्मुकोत्तरीयं द्विरदगणेन रुषानुगम्यमानम् गजपतिर् उपगूढवान् मृगारिं सुतम् इव तं परिसान्त्वयन् भयार्तम् //
SK
क्व रिपुर् अयम् अहो कृतापकारो द्विरदपतेः करुणा क्व चेदृशीयम् क्षितिधरगहनान्तदेवतानां ध्रुवम् इति चेतसि विस्मयो बभूव //
SK
निशितशरविभिन्ने तत्र मातङ्गनाथे स्रुतरुधिरलवाङ्कं धूनयत्य् आस्यम् ईषत् तद् अमुचद् इभयूथं शल्लकीनां सुगन्धीन् उपगतगुरुशोकं पल्लवान् अर्धदष्टान् //
SK
तम् उज्जहाराथ शरं गृहीत्वा करेण किंचिन्नतपुष्करेण बलात् सुभद्रा करिणः करेणुः कोपं पतेः क्षान्तिर् इव स्फुरन्तम् //
SK
विषादिनी तस्य गजाधिपस्य बाणव्रणं शोणितलेशदिग्धम् विच्छिन्नमुक्तागुणसंनिभेन सिषेच सा पुष्करशीकरेण //
SK
विगाहमानः सलिलं पिपासया मदेन को मे सुरभीकरिष्यति इति स्फुटावर्ततरङ्गनिस्वना भृशं विचुक्रोश शुचेव नर्मदा //
SK
तवाद्य कच्चिद् विशिखक्षतोद्भवा तनुत्वम् आयाति गजेन्द्र वेदना इति भ्रमन्त्यश् चटुलाः कपोलयोः शनैर् अपृच्छन्न् इव भृङ्गपङ्क्तयः //
SK
विसारिकालागुरुधूमधूसरैर् विलोलविद्युद्वलयाङ्कितोदरैः घनैर् ललाटंतपम् उष्णदीधितिं समावृणोत् तस्य सुखाय वासवः //
SK
प्रसन्नरेवाजलसङ्गशीतलः प्रफुल्लनानाकुसुमाधिवासितः समागतो बन्धुर् इव द्विपाधिपं शरेण विद्धं व्यजति स्म मारुतः //
SK
अथ गजपतिर् यदि कथंचिद् अन्तकालं करिष्यामि तद् इदं गजयूथम् अनाथतां यास्यतीति विचिन्त्य सत्याधिष्ठानम् इति चकार ||
SK
अपकारिण्य् अपि प्रेम यथास्मिन् मृगलुब्धके तथानेनाद्य सत्येन क्षयम् आयातु मे विषम् //
SK
अथ सत्याधिष्ठानप्रभावात् सद्य एवापगतशरमूर्च्छावेदनः स गजपतिर् अभूत् | तं च तथा स्वास्थ्यम् आगतम् आलोक्य स व्याधः प्रणम्य तं राजमहिषीवृत्तान्तम् आख्यायाभ्युवाच |
SK
दन्तार्थं दन्तिनां नाथ क्रूरेणाक्रूरमानस आहतो ऽसि हतद्वेष मयापात्रेण पत्त्रिणा //
SK
इति श्रुत्वा वचस् तस्य व्याधस्य द्विरदाधिपः उच्चखान विषाणानि करेणादाय निर्व्यथः //
SK
बभार स करस् तस्य निबद्धरुधिरस्रुतिः सक्तबन्धूकमालायाः पुण्डरीकस्रजः श्रियम् //
SK
तेनैव सत्यवाक्येन तस्य नाथस्य दन्तिनाम् उत्पेदिरे क्षणाद् दन्ताः शङ्खच्छेदार्जुनाः पुनः //
SK
अथ पुनारदनोद्भवविस्मितः करिपतेः सितवारिधरत्विषः स रदनान् उपगृह्य वनान्तरान् मृगरिपुः क्षितिपालगृहं ययौ //
SK
अथ दन्तावलोकनप्रमुदितमनाः स राजा तं लुब्धकं यथाप्रतिपन्नेनार्थेन योजयामास | सापि च राज्ञी तं छद्मज्वरम् अपास्य तानि विषाणानि दृष्ट्वा जातपश्चात्तापा तम् ईर्ष्यावृत्तान्तम् अन्यजन्मानुभूतं पत्ये निवेद्य बाष्पसलिलव्याप्तनयनोत्पला तत् तद् विललाप |
SK
अहो धिग् ईर्ष्यां गुणपक्षघातिनीं यया मया मोहितमन्दचित्तया वने वसंस् तापसशान्तमानसः स यूथभर्ता गमितो यमक्षयम् //
SK
महात्मना येन चिराय पालितं न शक्यते स्मान्यगजैः प्रबाधितुम् समाकुलं तेन विनाद्य दन्तिना कथं नु तन् नागकुलं भविष्यति //
SK
निरन्तरं यस्य मदं पिपासवः परिभ्रमन्ति स्म मुहुः कपोलयोः समाकुलास् तेन विनाद्य षट्पदाश् चिराद् उपैष्यन्ति मृणालिनीवनम् //
SK
अभून् मुहुस् तस्य गजाधिपस्य यः कपोलकाषेण परिस्फुरत्त्वचः चिराय तं तन्मदलेशवासितं ध्रुवं सुभद्रा न जहाति शाखिनम् //
SK
समुद्रवेलारशनाविभूषिते समुच्छ्वसत्कोमलशाद्वलांशुके दधासि मां किं पतिमुख्यघातिनीं क्षिते विदारं न ददासि किं नु मे //
SK
अथ तां राज्ञीं तथा विलापपरां स व्याधो धीरयामास | मा देवि शोकं कार्षीः | सत्याधिष्ठानमाहात्म्येन स महात्मा पुनरुद्भूतमनोहरमहाविषाणः समपगतशरविषवेगः सत्त्वोपकाराय प्राणान् बिभ्रत् करोत्य् एव तस्य महतो गजयूथस्याधिपत्यम् इति ||
SK
अथ वचनम् इदं निशम्य तस्मान् नृपमहिषी प्रमनाः पुनर् बभूव क्षितिपतिर् अपि विस्मयं जगाम द्विरदपतेः करुणां मुहुर् विचिन्त्य //
SK
तद् एवं क्षान्तिफलम् अभिलषन्तः करुणात्मकाः शस्त्रेणापि प्रहरति वैरिणि सत्याम् अपि शक्तौ क्षमन्त एव महात्मान इत्य् अवधार्य क्षमायाम् आदरः करणीय इति ||
SK
|| हस्तिजातकं नवमम् ||
SK
अपहृतदंष्ट्र इवाहिःक्षाम्यति शक्त्या विना सरोषो ऽपि / सति सामर्थ्ये नोज्झति यः क्षान्तिं स क्षमी ज्ञेयः //
SK
तद्यथानुश्रूयते पराक्रमनीतिप्रभावविजितान्यराजसामन्तः प्रभूतहस्त्यश्वकोशसंपदुपेतस् तेजस्वी धीरः शुश्रूषादिभिः प्रज्ञागुणैर् अधिष्ठितस् त्रिवर्गानुकूलप्रकृतिः प्रकृतिदक्षिणो दक्षिणापथाधिपतिः कलिङ्गराजो नाम राजा बभूव |
SK
भुजवीर्यपराजितं जितारेः परदेशं बलिनो बलानि यस्य अभिसस्रुर् उदीर्णतुङ्गवृद्धेः सलिलानीव तटान्तम् अम्बुराशेः //
SK
अपरस्परडिण्डिमैः स्वनद्भिः करिणो यस्य वितन्यमानकोपाः वशगाः परितः प्रयाणकाले कथम् अप्य् अङ्कुशधारिणां बभूवुः //
SK
तस्यैवंविधबलोदयस्य नरपतेः सपत्नैर् अखण्डितमानस्य खण्डधारो नाम द्विजातिर् अमात्यो बभूव | स च राजा कुलसंततिविच्छेदभीरुः कदाचिद् अनेकान् देवताविशेषांस् तनयार्थम् उपयाचते स्म | ततः खण्डधारस् तं राजानम् उवाच | प्रविशतु देवो ऽन्तःपुरम् अहं देवस्य पुत्रार्थं देवतां समुपासिष्ये राज्यं च प्रतिपालयिष्यामीति | तथेति च राजाभिधायान्तःपुरं प्रविश्य विषयपरायणो बभूव | खण्डधारो ऽपि च स्वनामाङ्कं सर्वपरिच्छेदजातं राज्यम् अनुशशास | कलिङ्गराजो ऽपि च विविधनृत्तगीतावलोकनश्रवणापहृतहृदयः सुरपतिर् इवाप्सरोगणपरिवृतो ऽवरोधनजनमध्यगतो विजहार |
SK
मनोहराव् आर्द्रमधूकपाण्डू समुद्गिरन्ताव् इव कान्तिम् इन्दोः कस्याश्चिद् आदर्शनिबद्धदृष्टेः सपत्त्रलेखाव् अकरोत् कपोलौ //
SK
अपश्यद् अन्यां स्तिमितायताक्षीं स्मितेन किंचिच्चलिताधराग्राम् नवोत्पलावस्थितम् उत्पलेन तिरोदधानां चकितं द्विरेफम् //
SK
पराङ्मुखीं कांचिद् अधिष्ठितासनां मनोहरालेख्यपटावलोकिनीम् उपेत्य निःशब्दपदं स भूपतिश् चकार हस्तद्वयसंवृतेक्षणाम् //
SK
विधुन्वतीं पाणिम् अलं मयेति भियास्वनाम् अस्फुरिताभिधानाम् स्तनौ दुकूलेन तिरोदधानां जग्राह दूतीम् अपि वेपिताङ्गीम् //
SK
त्वम् एव मे भाविनि जीवितं परं निधेहि दृष्टिं मयि वल्गुहासिनि इति ब्रुवन् कांचिद् अवाङ्मुखीं स्थितां प्रसादयामास कथंचिद् अङ्गनाम् //
SK
किंचिच्चलन्मुखरनूपुरभूषणेन पादेन कुट्टिमतलं लिखतीं सलीलम् कर्णे जगाद किम् अपि प्रमदां हसन्तीं लक्ष्यीकृतो ऽन्यवनितानयनेषुपातैः //
SK
अथ तस्य नरपतेर् एवम् अखण्डविषयसुखानुभाविनस् ताः शुद्धान्तमत्तकाशिन्यो विविधमृदुहसितकथाक्रोधेर्ष्याभ्रूभङ्गमनोहरैर् विलासैर् अतीव हृदयम् आचिक्षिपुः ||
SK
परिहासकालचलितोन्नतभ्रुवः स्मितचन्द्रिकापरिगताननेन्दवः त्रिवलीविजिह्मतनुरोमराजयो न मनो हरन्ति वद कस्य योषितः //
SK
स्फुरितप्रकाशदशनावलीरुचः परितः क्षरन्त्य इव कान्तिम् ऐन्दवीम् न हरन्ति कं नु लवलीसुगन्धयः प्रमदाजनस्य मदमण्डना गिरः //
SK
वदनेन्दवः श्रवणरुद्धदृष्टयः परपुष्टकण्ठरुचयः शिरोरुहाः परिणामितालफलसंनिभाः स्तना न मनोहरं किम् इव नाम योषिताम् //
SK
न गतास् त एव लघुतां जगत्त्रये सुखिनस् त एव सुधियस् त एव च बहुदोषसर्पनिचितानि संश्रिता न विलासिनीविषलतावनानि ये //
SK
अथ काले गच्छति देव्य् आपन्नसत्त्वा बभूव |
SK
तस्या गुणनिधौ वृद्धिं याते गर्भे दिने दिने अग्रयोः संभृतक्षीरौ जग्मतुः श्यामतां स्तनौ //
SK
जानुनोर् उपरि न्यस्य पाणी पल्लवकोमलौ दृष्ट्वा भर्तारम् उत्तस्थौ सा कथंचिद् इवासनात् //
SK
अद्य प्रसविनी स्यान् नु श्वो वेति सकुतूहलः पुत्रार्थी भूपतिः स्निग्धं ताम् अपश्यत् पुनः पुनः //
SK
अथ विशुद्धे ऽहनि साक्ष्णां निधिम् इव स्वप्रभयावभासितनृपतिभवनान्तरम् अमरकुमाराकारम् अखिलभुवनालंकारभूतं तनयम् असूत |
SK
शरीरप्रभया चान्द्रीं स जहार यतः प्रभाम् तस्याकारि ततो नाम चन्द्र इत्य् एव बन्धुभिः //
SK
अन्यासाम् अपि त्रिंशन्मात्राणां राज्ञीनां तनया जज्ञिरे | अथाष्टवर्षदेशीयांश् चन्द्रेण कुमारेण सह कुमारान् क्षत्रविद्याग्रहणाय कस्मैचिद् गुरवे निवेदयामास | सर्वांश् च तान् कुमारान् मृगयादिव्यसनपरायणान् अनेकैः कलागुणैस् तेजसा भुजबलेन च चन्द्रः कुमारो ऽतिशिष्ये |
SK
जायन्ते गुणबान्धवाः सुमतयः श्लाघ्यं गरिम्णां पदं रूढं लाघवदोष एव महतां केषांचिद् आ जन्मनः दृश्यन्ते हि नरा महत्य् अपि कुले जाताः समानाः शुना किं नोदन्वत इद्धरत्ननिचयाच् छम्बूक उत्पद्यते //
SK
समाना नीलता सत्यं शिखिचन्द्रेन्द्रनीलयोः सा तु रत्नगता श्लाघ्या कल्याणं हि सदाश्रयः //
SK
विद्यन्ते न गुणाः पुंसि क्वचिद् आकृतिमत्य् अपि इन्द्रनीलाकृतिं काचो वहन्न् अपि न तद्गुणः //
SK
अथ स राजा बोधिसत्त्वं यौवराज्ये ऽभिषिच्य तेभ्यो ऽपि च कुमारेभ्यः किंचिद् देशम् अदात् | अथ च चन्द्रो मनुजाधिपानुमतः सह भ्रातृभिः स्वदेशं गत्वा खण्डधारनामाङ्कानि दृष्ट्वोवाच | सर्वथा नाममात्रेणास्मत्पिता राजा खण्डधार एवात्राधिपतिर् इति | कुमारा ऊचुः | नन्व् अपनीयेदं खण्डधारनाम स्वानि स्वानि स्वदेशे नामानि वयं सर्वोपकरणेषु लेखयामः | तथेति च प्रतिपन्ने चन्द्रेण प्रथमं चन्द्रनामारोप्य पश्चाद् आत्मीयानि नामानि ते लेखयामासुः | तच् च तथा निर्वृत्तं विज्ञाय खण्डधारः परं कोपम् आगम्य ब्राह्मणान् संनिपात्य रहस्य् अवोचत् | अपहृतम् अनेन मे राजपुत्रेणाधिपत्यम् | तद् इदम् अत्र प्राप्तकालं केनचिद् उपांशुना चन्द्रः प्राणैर् वियोजनीय इति | पश्यन्तु भवन्तः |
SK
लघीयः प्राज्यं वा फलम् अभिमतं प्राप्तुमनसा निरीहेण स्थातुं क्षणम् अपि न युक्तं मतिमता कुलालो दण्डेन भ्रमयति न चेच् चक्रम् अनिशं शरावः कुम्भो वा न हि भवति सत्याम् अपि मृदि //
SK
ब्राह्मणा ऊचुः | त्वम् एवोपायम् अत्र वस्तुनि शक्तो ऽधिगन्तुम् इति | खण्डधार उवाच | यद्य् एवं ततो यदि कथंचिद् अयं राजा स्वप्नं भवताम् अग्रतो निवेदयेत् ततो युष्माभिर् वक्तव्यं देव खण्डधारः स्वप्नफलाभिज्ञः | स एष प्रष्टव्य इति | तथेति च ब्राह्मणाः प्रतिपेदिरे | अथ कदाचित् स राजा स्वप्नदर्शनोद्विग्नहृदयस् तेभ्यो ब्राह्मणेभ्यः स्वप्नं निवेदयामास | ब्राह्मणैश् च खण्डधारः स्वप्नाध्यायवेदीति निर्दिष्टः | ततः स राजा खण्डधारम् आहूय स्वप्नम् इति निवेदयामास |
SK
स्वप्ने किलाद्य पुरम् एतद् अशेषम् अन्त्रैर् आवेष्टितं परिविधूसरदीनलोकम् बद्ध्वा निपीडिततनुः कुनयेन चाहं क्षिप्तश् चिताभुवि कडेवरसंकुलायाम् //
SK
तद् अस्य तावत् स्वप्नस्य गुरवः फलम् आख्यातुम् अर्हन्तीति | खण्डधार उवाच | देव कष्टः खलु स्वप्नस्य विपाको दृश्यते |
SK
राज्याद् वा महतो भ्रंशं स्वप्नस् तत् सूचयत्य् अयम् मासद्वयेन गन्तव्यं दिष्टान्तम् अथवा त्वया //
SK
श्रुत्वा वचस् तस्य स भूमिपालो विप्रस्य विप्रोषितकान्तिशोभः मर्तव्यम् इत्य् आगतसाध्वसत्वान् नोद्यानभूमौ न गृहे ऽभिरेमे //
SK
विचिन्त्यमानं मरणं प्रकृत्या करोति दूरे ऽपि मनोविषादम् समुत्फणाशीविषदुर्निरीक्ष्यं शरीरिणां किं पुनर् अत्युपोढम् //
SK
अथ स राजा खण्डधारम् उवाच | भवेत् पुनः कश्चिद् उपायो येनाहं राज्यपरिभ्रंशं न प्राप्नुयाम् अकालमरणं वेति | खण्डधार उवाच | तेन खलु देवः श्रोतुम् अर्हत्य् उपायम् इति | सह चन्द्रेण कुमारेण सर्वकुमारा यज्ञकर्मण्य् आलब्धव्या अन्ये च चतुष्पदाः प्राणिनः |
SK
तल्लोहितस्य शुकतुण्डविलोहितस्य पूर्णां वितानभुवि पुष्करिणीं विशालाम् भूपाल यद्य् अवतरिष्यसि तन् न राज्याद् भ्रंशं गमिष्यसि परेतपतेर् वशं वा //
SK
अथ स राजा पुनर् अपि मे जीवतः पुत्रा गुणवत्तरा भविष्यन्तीति विचिन्त्य तान् कुमारान् निगडबद्धान् आनीय खण्डधारम् उवाच | प्रारभ्यताम् आध्वरं कर्मेति |
SK
ततः कुमारेषु भृशं विषादिषु प्रवर्तिते कर्मणि साप्ततन्तवे महीभुजो ज्येष्ठसुताद् विनाकुलः स मन्त्रिधूर्तो निजगाद पार्थिवम् //
SK
नृचन्द्र चन्द्रः स भवच्छरीरजो बलावलिप्तो यदि नागमिष्यति तदा शुभध्वंसि विधानम् आध्वरं भविष्यतीदं न फलाय भूयसे //
SK
राजोवाच | गुरुजनभक्तः खलु चन्द्रः कुमारस् तन् न ममाज्ञां लङ्घयिष्यति | दूतम् अस्मै प्रहेष्यामीति | तथेति च प्रतिपन्ने खण्डधारेण स राजा दूतम् आहूयोवाच | गच्छ यत्र तत्रावस्थितं चन्द्रं ब्रूहि शीघ्रं भवता मत्सकाशम् आगन्तव्यम् इति | तथेति स च दूतः परिगृहीतराजशासनो बोधिसत्त्वसकाशम् आजगाम | स च महात्मा सपरिजनः सुरभिमासप्रारब्धसहकारमञ्जरीकम् अतिमुक्तकाशोकतिलकगन्धाधिवासितलतामण्डपम् अखण्डशोभं विलासवसतिम् इव वसन्तलक्ष्म्याः किंचिद् उद्यानं प्रविश्यात्मानं विनोदयामास | प्रतीहारनिवेदितो ऽभ्यनुज्ञातप्रवेशश् च दूतः प्रततबाष्पकणवर्षिणा मुखेन प्रणम्य चन्द्रं कथम् अपि तम् अनेकसत्त्वविनाशायोपचरितम् अध्वरवृत्तान्तम् आख्याय तां राजाज्ञां निवेदयामास | ततो बोधिसत्त्वं सुहृदो बान्धवाश् चैवम् ऊचुः | सर्वम् इदं तव नाशाय दुरात्मनः खण्डधारस्य च्छन्दविचेष्टितम् | महाधूर्तस्य यतेर् इव शान्ता च शरीरक्रिया राक्षसस्येव चाशुद्धम् अन्तःकरणम् | अहो दुरात्मनां चरितानि सर्वथा |
SK
प्रशान्तवेषे ऽपि विरूक्षमानसे न दुर्जने विश्वसनीयम् अण्व् अपि बको हि तिष्ठन्न् अपि निश्चलस् तटे परिस्फुरन्तीं शफरीं न हन्ति किम् //
SK
उपनयति विषादं धैर्यम् अप्य् आश्रितानां जनयति परिमोहं तापम् अन्तर् विधत्ते अहिविषम् इव दंशप्राप्तम् एकान्ततीव्रं चरितम् अभजनीयं दुःसहं दुर्जनस्य //
SK
तद् आज्ञापयतु कुमारो यावद् एनं दुरात्मानं रक्षोवृत्तिम् अफलब्राह्मणनामानं खण्डधारकं बद्ध्वानयामः परेतनाथवशं वा प्रापयाम इति | बोधिसत्त्व उवाच | सत्यं ममापि खण्डधारं प्रति किंचिद् अभ्युत्थितः कोप आसीत् | स तु मे हुतवह इव सलिलधारया क्षमयोपशान्तिं नीतः | यदि चास्मत्प्राणैर् गुरवश् चिरजीविनो भवन्ति ननु कृतार्था वयम् इति तद् अलम् अत्रभवतां खण्डधारं प्रति कोपेन यास्याम्य् एवाहम् | अथ स दूतो विस्मयाद् इत्य् अवोचत् | अहो महद् आश्चर्यं सर्वथा कुमारः परमार्थक्षमी | कुतः |
SK
उत्तिष्ठन्तं यस्य वैरिक्षयाय क्रोधव्यालं क्षान्तिविद्या रुणद्धि श्रेयःप्राप्तो बद्धशुद्धाशयानां लब्धालोकः सो ऽग्रणीः क्षान्तिभाजाम् //
SK
अथ बोधिसत्त्वो बाष्पसलिलकणमुचा स्वपरिजनेनानुगम्यमानो रथवरम् आरुह्य यज्ञमध्यगतं पितरम् आगम्य चोवाच |
SK
त्यक्तो ऽस्मि यदि तातेन स्वजीवितगवेषिणा मम देहम् इमं यज्ञपशुताम् उपकल्पय //
SK
मया त्यक्तो ऽसि पुत्रेति ब्रुवाणस्य महीपतेः चन्द्रस्योपरि दुःखेन निपेतुर् बाष्पबिन्दवः //
SK
यदा चिरम् अपि स्थित्वा गन्तव्यं मृत्युगोचरम् तदा परविनाशेन को वाञ्छेद् आयुषः स्थितिम् //
SK
अथ खण्डधारस् तान् ऋत्विज उवाच | शृण्वन्तूपाध्यायाः प्रथमाहुतौ पात्यमानायां चन्द्रः कुमारः प्राग् आनद्धव्यः पश्चाद् इमे कुमारा इति |
SK
इति ब्रुवाणम् उद्ग्रीवाः खण्डधारं व्यलोकयन् कुमाराः सुकुमाराङ्गाः शार्दूलं हरिणा इव //
SK
अथ ते कुमाराः कृताञ्जलयो बोधिसत्त्वम् इति विज्ञापयामासुः |
SK
त्वयि स्थिते भ्रातरि लोकवत्सले महात्मनि ज्यायसि तुङ्गचेतसि पशून् इवास्मान् कथम् एष निर्घृणो यमक्षयं नेष्यति खण्दधारकः //
SK
अथ तेषां भ्रातॄणां वचनम् आकर्ण्य दुःखायमानहृदयो बोधिसत्त्वो मैत्रीसमन्वितं समाधिम् आललम्बे |
SK
समाधिना तस्य विशुद्धचेतसः समाहतानाम् च समाहितात्मनः भुजङ्गनीलानि सविस्मयात्मनां नृपात्मजानां निगडानि पुस्फुटुः //
SK
निगडस्फुटनविस्मिते च तस्मिन् राजनि किम् इदम् इति च जातविमर्शे तत्र खण्डधारके |
SK
उदियाय पयोगुरुः पयोदः पिदधद् द्यां शितिकण्ठकण्ठनीलः स्फुरितप्रभया तडिद्भृकुट्या कुपितो राक्षसवज् जगर्ज चोच्चैः //
SK
खगमुक्तविभग्नपादपानि ध्वनिमन्ति प्रचलच्छिलातलानि शिखराणि निपातयन् गिरीणां प्रववौ वह्निसखः प्रचण्डवेगः //
SK
प्रमुमोच ततो घनाघनं तद् घनजालं घनम् अश्मनां समूहम् भृशम् आकुलचेतसां द्विजानां मखमध्ये प्रणवध्वनिः शशाम //
SK
परिपाटलयन् पयोधराणाम् उदराणि प्रभया पयोगुरूणि द्रुतम् अस्तम् इयाय पार्थिवस्य व्यसनं द्रष्टुम् अशक्नुवन्न् इवार्कः //
SK
कुपितैर् इव शातकुम्भकुम्भाः क्रतुभूमौ निहिताः प्रताड्यमानाः उपलैस् त्वरितं दिवः पतद्भिः कृतभङ्गाः परिचक्वणुश् चलन्तः //
SK
प्रशशाम भयाद् इवाध्वराग्निः परितः प्रस्फुरिताकुलस्फुलिङ्गः गलितश्लथपाण्डुधूमजालो गगनाद् अश्मभिर् आहतः पतद्भिः //
SK
करिणां गुरुलोहकोशबद्धा रदनाः श्लिष्टमृदस् तटाभिघातात् उपलाभिहताः परिक्वणन्तो मुमुचुः प्रस्फुरितत्विषः स्फुलिङ्गान् //
SK
निपपात शिखी निवासयष्टेः कृकवाकुर् विरसं ररास भीतः उपलाभिहताश् च लोलनेत्रा विविशुश् छेकमृगा गृहोदराणि //
SK
शिशिरं जलदानिलं पिपासुः पृथुवल्मीकविनिर्गतार्धभोगः फणम् आशु सफूत्कृतं वितन्य प्रविवेशाश्मभिर् आहतो भुजङ्गः //
SK
परिहृत्य तु बोधिसत्त्वम् आरात् सकुमारं निपतत्सु वेगवत्सु उपलेषु नृपः सखण्डधारो भवनं भीतजनाकुलं प्रतस्थे //
SK
सचिवस्य महीपतेश् च यातोस् तडिदुद्द्योतविभाविते ऽर्धमार्गे अशनिः शिरसी बिभेद भेदच्युतमस्तिष्कलवोपदिग्धकेशे //
SK
मृतम् अश्रुमती जनान् निशम्य क्षितिपालं क्षितिपालपूजिताज्ञम् मृदुचित्ततयातिदुःखभारात् सहसा जीवितम् उत्ससर्ज देवी //
SK
अथ भीतजनोज्झितान्तरालं भवनं भूमिपतेः स्फुटत्कपाटम् उपलाभिहतं पपात सद्यः कनकस्तम्भविभङ्गजातनादम् //
SK
मृतौ भवेताम् अथ किं नु जीवितौ शठाशयौ पार्थिवखण्डधारकौ इति स्फुरद्भिः परितः पयोधरा रुषेव विद्युन्नयनैर् व्यलोकयन् //
SK
अथ प्रभातसमये बोधिसत्त्वः पित्रोर् अग्निसंस्कारं कृत्वा दत्तनिवापसलिलाञ्जलिः संविग्नमतिर् अहो सूक्तम् इदं बुद्धानां भगवताम् उत्पन्नप्रध्वंसिनः सर्वभावा इति विचिन्त्य तान् भ्रातॄन् उवाच |
SK
मां पुत्रवृक्षं संवृद्ध्यै सा सिक्त्वा स्नेहवारिणा अनवाप्तफला मत्तः क्व याता जननी मम //
SK
पृथिवीं पृथिवीपालः पालयित्वा पिता मम क्व यातः खण्डधारेण सह खण्डितधर्मणा //
SK
स्मरणीयविभूतीदं पतितस्तम्भतोरणम् शोचन्तीव गुरोः सद्म विच्युताः शालभञ्जिकाः //
SK
इमा विषमसंपातस्फुटिता गलितेष्टकाः आत्मानम् इव शोचन्ति धूसराश् चित्रभित्तयः //
SK
किं नु संगीतशालेयम् उत वासगृहं भवेत् कृच्छ्राद् इत्य् अनुमीयन्ते भागा भग्नस्य वेश्मनः //
SK
आसीद् इह गृहं स्थाने श्रीमत् तस्य महीपतेः इत्य् उत्सुको जनः शोकाद् अन्येभ्यः कथयिष्यति //
SK
निःश्रीकम् उपलाघातपरेतशुककोकिलम् इदं च भवनोद्यानं ध्यायतीव महीपतेः //
SK
अनिष्ठितसुखाशानां विपत्तिं प्रतिपालयन् इतिशब्दः समाप्त्यर्थः सोत्कण्ठ इव तिष्ठति //
SK
पुंसाम् अच्छिन्नकृत्यानां करिष्यति करोति च चकार च समाप्त्यर्थम् इतिशब्दम् अनित्यता //
SK
स्थितायां मय्य् अपि व्योम नित्यम् इत्य् अभिधीयते इत्य् ऊर्ध्वम् इव पश्यन्ती क्रोधात् तिष्ठत्य् अनित्यता //
SK
अपराधीनवृत्तित्वाद् उपलब्धमनःशमाः अपास्तबान्धवस्नेहा निःसङ्गाः सुखम् आसते //
SK
संकल्पाद् विषयाभिलाषिणि जने तृष्णा करोत्य् आस्पदं तृष्णाबद्धमना निकारमलिनं बध्नाति सेवाञ्जलिम् सेवार्तः परम् आरिराधयिषया निघ्नो भवत्य् अन्धवन् निघ्नो दुःखपरम्परापरिभवक्लेशैर् अधिष्ठीयते //
SK
कृच्छ्राल् लब्धम् अपि क्रमेण भवति प्रभ्रंशि भूयः सुखं तद्भ्रंशे परितापम् एति पुरुषश् चित्तानलं ज्वालयन् दुःखस्यास्य भवानुबन्धजननी हेतुः शठा जालिनी ते ऽत्यन्तं सुखिनो मनःसु निहिता यैः सम्यग् अल्पेच्छता //
SK
ततो ऽहं राज्यम् उत्सृज्य बहुव्यसनकण्टकम् शान्त्यै शान्तिपथस्थानं गमिष्यामि तपोवनम् //
SK
अथाभिषिच्यानुजम् आहितक्रियं द्विजातिभिर् भ्रातरम् उद्यताशिषम् विहाय लक्ष्मीं तपसो विवृद्धये वनाय वव्राज स धीरमानसः //
SK
तद् एवं तेन भगवता बोधिसत्त्वभूतेनापकारिण्य् अपि क्षमा न शिथिलीकृतेति विचिन्त्य श्रेयोगवेषिभिः क्षान्तिबलैर् भवितव्यम् इति ||
SK
|| चन्द्रजातकं दशमम् ||
SK
न विना वीर्यात् तन्व् अपि फलम् ईप्सितम् आप्यते जगद्भूत्यै / इति खेदम् अगणयित्वा व्यायच्छन्ते महाभागाः //
SK
तद्यथानुश्रूयते क्वचिद् अमलसलिलवाहिन्या वेतसपङ्क्तिश्यामतीरलेखया मद्गुकुलानुगम्यमानचकितमीनकुलाकुलाम्भस्तलया प्रसारितदुकूलधवलपुलिनया निम्नगया परिक्षिप्तभूधरपार्श्वे क्वचिद् दावानलार्धदग्धपरिणतामलकाक्षबदराकीर्णवसुधातले मरकतसूचीहरितदर्भाङ्कुरोपचिते क्वचिद् वराहावतरणसंत्रासपरिप्लुतदर्दुरपरिमुच्यमानपल्वलतटान्ते ऽन्यत्र मृगपिशिताध्मातप्रसुप्तशार्दूलाध्यासितगुहामुखे विविधवल्लीवलयपरिवेष्टितनिम्नकुटिललेखाङ्किततरुस्कन्धे घनपलाशवंशीवनरोधान्धकारनिकुञ्जे गहनान्तरे बोधिसत्त्वो मृगयूथाधिपतिर् बभूव | तेन च महात्मना राज्यम् इव सद्वृत्तेन नरपतिनानुपाल्यमानं हरिणयूथम् अकुतोभयं महतीं वृद्धिम् अगमत् |
SK
हरिणं हरकण्ठनीलपृष्ठं हरिसत्त्वं हरितं तृणं दशन्तम् सदसत्पथवेदिनं मृगास् ते तम् उपाध्यायम् इवान्वगुः सुशिष्याः //
SK
अथ कदाचित् प्रियमृगयस्य तन् मृगयूथं व्याधसकाशात् कस्यचिद् अवनिपतेः श्रुतिपथम् आजगाम | स च राजा गृहीतधन्वा तुरगवराधिरोही सैन्यपरिवृतस् तद् वनम् आगम्य दूरात् तं मृगयूथम् आलोकयामास |
SK
विहाय रोमन्थनम् उन्मुखस्थिरः स कृष्णसारः शरपातशङ्कितान् मृगान् निनीषुं शरगोचरं नृपं विलोकयामास चमूपुरःसरम् //
SK
विलोक्य संभूतखलीननिस्वनं जिघांसु तत् सैन्यम् अधिज्यकार्मुकम् मृगैः परीतो भयलोलदृष्टिभिः स यूथभर्तेदम् अचिन्तयद् ध्रुवम् //
SK
महीपतिः पाति सुखं सुखार्थिनीं प्रजाम् अनुत्पन्नभयां शुभाश्रयात् अचिन्तयित्वात्मगतं परिश्रमं स रक्षिता यो व्यसने ऽपि रक्षति //
SK
अमून् भयभ्रान्तविलोललोचनान् परिस्रवच्छोणितसिक्तभूतलान् मृगान् पुरस्तात् पततः स्फुरत्तनून् विलोकयिष्यामि कथं शराहतान् //
SK
मृगांस् तद् एनान् मृगयाविनोदिनो न यावद् आघ्नन्ति शितैः शिलीमुखैः बलेन तावद् भयलोलचक्षुषां प्रयत्नम् एषां करवाणि रक्षणे //
SK
इदम् वनम् अनेन सैन्येन सर्वतः परिक्षिप्तं तत् कतमया दिशा मृगयूथं निर्वाहयामीति समन्ततो ऽवलोक्याचिन्तयत् | भवतु लब्ध उपायः | इमां गिरिसरितम् उल्लङ्घ्य स्वस्ति मृगेभ्यः स्याद् इति तर्कयामि | न चैकेन क्रमेणैते हरिणाः शक्यन्त एतां शीघ्रसलिलवाहिनीं समुद्रपत्नीं उल्लङ्घितुम् इति | तद् इदम् अत्र प्राप्तम् अस्याः सरितो मध्यावस्थितस्य मम पृष्ठे क्रमं दत्त्वा सुखम् एते मृगा यास्यन्तीति विचिन्त्य क्वचित् तटतरुशिखाप्रस्खलितसलिलायाः परिभ्रमदावर्तमध्यभ्रान्तविशीर्णफेनसङ्घायास् तस्याः क्षितिधरसरितो मध्यम् अवगाह्य स्थिरयित्वात्मानं स महात्मा तान् मृगान् उवाच |
SK
परिप्लुत्य तटाद् अस्माद् दत्त्वा पृष्ठे क्रमं मम यात यातभयाः शीघ्रं स्वयूथ्याः संकटाद् इतः //
SK
शरीरं विशरारुत्वाद् धर्माभावाच् च फल्गु मे युष्मन्निर्वाहणात् सारं लप्स्यते सुचिराद् इदम् //
SK
परोपकारविमुखो यदा कायः कलिस् तदा यदा त्व् अन्यद्धितालम्बी कायरत्नम् इदं तदा //
SK
परिपातुम् अहं भयात् समर्थो यदि युष्मान् नृपसैनिकानुबद्धान् सफलो ऽद्य भवेत् ततः पृथिव्यां मम यूथाधिपतित्वशब्द एषः //
SK
आगम्यतां तद् अधुना ननु तावद् एव युष्मासु यावद् इषवो न पतन्ति शाताः पृष्ठं ममाचलसरिज्जलसेतुभूतम् आरुह्य निस्तरत सैन्यभयाद् अमुष्मात् //
SK
अथ ते हरिणा मरणभीता यूथपतिपृष्ठे क्रमं दत्त्वा नदीसलिलम् उल्लङ्घ्य द्वितीयं कूलम् उपगन्तुम् आरेभिरे |
SK
यथा यथा तस्य भृशं निपेतुः पृष्ठे मृगास् त्रासविलोलनेत्राः तथा तथासौ मृगयूथभर्ता खुरान् स्थिरत्वं प्रसभं निनाय //
SK
रुधिरम् अथ मृगाणां पत्युर् उत्खातमांसात् खुरपुटपरिभिन्नात् तस्य चक्षार पृष्ठात् मृगकुलम् अचलान्तं गच्छद् आलोक्य चारात् स रुजम् अगणयित्वा प्रीतिम् एवाललम्बे //
SK
परिपालितसत्त्वानाम् उपायेन बलेन वा रुणद्धि महतां दुःखं अन्तःप्रीतिपरम्परा //
SK
अथ स राजा हरिणनिस्तरणाय सरित्सलिलमध्यसंक्रमीभूतात्मानं यूथपतिम् आलोक्य विस्मयम् आगम्य शरासनेषु शरान् संदधानं सेनाजनम् उवाच | यः खलु कश्चिन् मृगम् आहन्यात् सो ऽस्मद्द्रोहीति |
SK
अथाववादम् आकर्ण्य स जनस् तस्य भूपतेः बाणविश्लेषिणः सद्यश् चकार धनुषो गुणान् //
SK
बोधिसत्त्वो ऽपि च किं नु निस्तीर्णाः सर्वे मृगाः स्युर् न वेति पश्चाद् आलोकयन्न् अपश्यद् एकम् अतीव भयचञ्चलाक्षम् अतिक्रान्तं यूथम् आलोकयन्तम् असामर्थ्याद् अनुत्सहमाणं क्रमं दातुं कतमया दिशा गच्छामीति दोलायमानहृदयं हरिणशावकम् आलोक्य च परमां करुणाम् आललम्बे |
SK
जहीहि शङ्कां न हि बोधिसत्त्वो भवन्तम् उत्स्रक्ष्यति बालम् एकम् द्विरेफशब्दैर् इति पुष्पवन्त आश्वासयामासुर् इव द्रुमास् तम् //
SK
अथ यूथपतिः प्रत्युत्तीर्य तस्मात् सलिलात् तं मृगशावकम् उवाच |
SK
अङ्गाधिरुह्य मत्पृष्ठं विमुञ्च मरणव्यथाम् भवन्तं सरितः पारं नेष्याम्य् अहम् इतस् तटात् //
SK
उद्धर्तुं वीर्यम् आरब्धं येन लोकं भवार्णवात् स त्वां नोत्तारयिष्यामि कथम् एकं नदीजलात् //
SK
अथ तेनाधिरूढो ऽसौ मृगशावेन वीर्यवान् जगाहे करुणालम्बी सरितं वीचिमालिनीम् //
SK
अमूनि पृष्ठे तव विक्षतानि रुजं न गाढां जनयन्ति कच्चित् इति ब्रुवाणेव समुत्तरन्तं परामृशत् तम् सरिद् ऊर्मिहस्तैः //
SK
अथ यूथाधिपतिस् तं मृगशावकम् उत्तार्य तस्याः सरितः प्रहर्षविशाललोचनया मात्रा संयोजयामास |
SK
कृत्वाथ जानुनी भूमौ मृगशावः पिपासितः जग्राह त्वरितं मातुः संभूतप्रस्रुती स्तनौ //
SK
सा चैनं परिवृत्तास्या स्तन्यपानचलाननम् आलिलेह मुहुः स्नेहाज् जिह्वया चलिताग्रया //
SK
अथ बोधिसत्त्वः परिश्रमवशात् खुरक्षतवेदनया चावसन्नशरीरप्रयत्नः |
SK
कथंचिद् अन्विष्य खुराङ्कशाद्वलां शनैर् मृगाणां पदवीं समाकुलः निविश्य मन्दं रुधिरोक्षितः क्षितौ क्षणं विशश्राम स संभृतश्रमः //
SK
इमां दशां निर्घृणयाद्य वत्स सत्या जनन्यापि मयासि नीतः इति क्षताङ्गं करुणानुतापाद् भृशं रुरोदेव तम् ईक्षमाणा //
SK
स च राजा तां सरितम् उत्तीर्य सपरिजनस् तुरगाद् अवतीर्य विस्मितमनास् तं महात्मानम् उपससाद | स यूथाधिपती राजानम् आलोक्याब्रवीत् |
SK
अभ्युत्थानार्हम् आलोक्य यत् त्वां नाहं समुत्थितः नादाक्षिण्यं तद् एतन् मे श्रमेणास्म्य् अवसादितः //
SK
अथ स राजा सविस्मयम् उपविश्य कुशलं पृष्ट्वा यूथपतिम् इति संराधयन्न् उवाच |
SK
निर्व्रीडैः परम् उपहन्तुम् उद्यतास्त्रैर् भोगेच्छातिमिरनिरुद्धबुद्धिनेत्रैः धर्मज्ञो हरिणमुनिः कृपासहायो मादृक्षैर् नरपशुभिस् त्वम् अर्चनीयः //
SK
बिभर्ति भृत्यान् नृप आत्मरक्षणं विधित्सुर् आयोधनकालनिर्भयान् स्वयूथरक्षापटुना तु सर्वथा नयेन ते भूमिभुजां जितो नयः //
SK
चित्रं किम् अत्र बहवो यदि भूमिपालं भृत्या रणान्तरगतं परिपालयन्ति एकेन नाम हरिणा बहवस् त्वयामी यत् पालिताः खलु तद् अद्भुतम् एतद् अत्र //
SK
बहुगुणकरुणान्विता तवेयं गुणविकलां करुणावियोगलघ्वीम् हरिण हरिणता विशेषलाभाद् अवहसतीव मनुष्यतां ममैताम् //
SK
इत्य् अभिसंराध्य स राजा यूथपतिम् अपृच्छत् | कीदृशं पुनर् अनेन परोपकारपटुना वीर्येण भवान् पदम् अभिलषति | बोधिसत्त्व उवाच |श्रूयतां महाराज |
SK
बुद्धत्वम् अधिगन्तुं मे वीर्यं वीर्यवतां वर यथाशक्ति मृगत्वे ऽपि सतीदं नावसीदति //
SK
यथा मयामी हरिणा भयाकुलाः प्रतारिता भीमरयान् नदीजलात् तथा बहुक्लेशसमाकुलं जगत् प्रतारयेयं भवदुःखतोयधेः //
SK
न च महाराज शक्यते वीर्यपराङ्मुखेन बलवताप्य् अभिलषितं पदम् अभिगन्तुम् | पश्य |
SK
आलस्यात् ससहायो ऽपि न गच्छत्य् उदयं जनः हस्ताग्रात् स्खलितो भूमौ तोयार्द्र इव कन्दुकः //
SK
अपि च |
SK
विपश्चिताप्य् अलसधिया सुखाश्रयं न शक्यते पदम् अभिगन्तुम् उच्छ्रितम् अवाहितं वहनम् अरित्रधारिभिश् चिराद् अपि व्रजति न पारम् अम्बुधेः //
SK
राजोवाच | सम्यग् अभिहितं मृगयूथाधिपतिना | कुतः |
SK
जातस्यापि कुले विशुद्धयशसि प्रख्यातभोगोदये प्राप्तस्यापि सभासु पण्डितधुराम् अग्र्यां विपश्चित्तया आलस्यान् न मनोरथः सकृद् अपि प्राप्नोति पुंसः फलं लक्ष्यं नैति गुणार्पितो ऽपि विशिखः क्षेप्तुः प्रयत्नाद् विना //
SK
तद् इत्थं वीर्यावलम्बिना भवता शक्यम् अधिगन्तुं बौद्धं पदम् इति |
SK
ये शान्तं पदम् आरुरुक्षव इह क्लेशैर् अभिन्नाशयास् त्वत्तः प्राक् कृतिनः कृतप्रणिधयो बोधौ घटन्ते जनाः तेषां वर्त्मनि वाजिनाम् इव परिश्रान्त्या शनैर् धावताम् आजानेय इवोज्झितश्रमभयो भावी भवान् अग्रिमः //
SK
बिभ्राणं परिवेषिणीं वितमसां देहत्विषां संहतिं धर्मं धर्मकथाभिलाषिणि मुहुः प्रख्यापयन्तं जने छिन्नक्लेशनिबन्धनं गुणधनैर् अभ्यर्चितं सूरिभिस् त्वां बुद्धत्वम् उपागतं गतभवं द्रक्ष्यन्ति धन्या जनाः //
SK
इति स राजा बोधिसत्त्वम् अभिसंराध्योवाच | अहो भवन्तम् एवं धर्माभिमुखम् आलोक्य ममापि धर्माभिलाष उत्पन्नः |
SK
तद् आचक्ष्व महाबुद्धे धर्मं धर्मविदां वर सेव्यमानेन शुद्धेन येन यायां न दुर्गतिम् //
SK
बोधिसत्त्व उवाच | यद्य् एवम् अतः श्रोतुम् अर्हति महाराजः |
SK
अवद्याद् विनिवृत्तिश् च प्रवृत्तिश् च शुभाश्रये धर्मतत्त्वम् इदं सम्यग् आख्यातं ख्यातबुद्धिभिः //
SK
स्फुटीकृते ऽपि तत्त्वे ऽस्मिन् प्रकाशितशुभाशुभे यो गच्छति विमार्गेण सो ऽन्धः सत्य् अपि चक्षुषि //
SK
इति प्रज्ञाप्रदीपेन विलोकितमहापथः भजस्व भजमानानि कर्माणि क्लेशहानये //
SK
क्षितीश क्षपिताज्ञान क्षितिं धर्मेण पालय तीक्ष्णदण्डाद् भूमिपालान् नित्यम् उद्विजते जनः //
SK
यदि यशसि मृणालभङ्गशुक्ले जगदवभासिनि ते ऽस्ति काचिद् इच्छा फलम् अभिमतम् आप्तुकामता वा बिभृहि गुणाभरणं ततो विशुद्धम् //
SK
अथ स नरपतिर् अहो भवतो ऽनया धर्मदेशनया प्रह्लादितम् इदं मे हृदयम् इत्य् अभिधाय परां प्रीतिम् आजगाम |
SK
ततो यूथपतेस् तस्य खुरक्षतसमुत्थया आविष्टस्य रुजा गुर्व्या निमिमीलतुर् अक्षिणी //
SK
तस्याथ नृपतिः कृत्वा-चितां चन्दनदारुभिः अग्निसंस्कारम् अकरोत् कृतिनः पुण्यजन्मनः //
SK
अथ तत्र गते सुहृदीव दिवं हरिणे करुणाविमलप्रकृतौ अनुशोच्य चिरं वसुधाधिपतिः पुरम् आगमद् आशु वितानमनाः //
SK
तस्मिन् मृगे मृगवधूसदृशेक्षणाभिः सत्त्वोपकारकुशले कुशलान्विताभिः ज्ञाताव् इव व्युपरते विरतक्रियाभिर् अच्छिन्नम् अश्रु मुमुचे वनदेवताभिः //
SK
प्रावेपताथ वसुधा चलिताद्रिशृङ्गा वातानिलेन परिवर्धितसागरोर्मिः भ्रान्तद्विरेफशबलश् च विकीर्णगन्धो मन्दारपुष्पनिकरो नभसः पपात //
SK
निर्वाणकाले च भगवता भिक्षूनां पुरस्ताद् इदं जातकम् अभ्यधायि |
SK
मृगयूथाधिपस् तत्र वने ऽभूवम् अहं तदा परिव्राट् च सुभद्रो ऽयं बभूव मृगशावकः //
SK
भगवतश् च प्राक् परिनिर्वृते तत्र सुभद्रे परिव्राजके भिक्षवः पप्रच्छुः | कानि पुनः कर्माणि सुभद्रेण कृतानि यत् सर्वश्रावकेभ्यः पश्चाद् अर्हत्फलं प्राप्य प्रथमम् एव च भगवतः परिनिर्वृत इति | भगवान् आह |
SK
काश्यपो नाम बुद्धो ऽभूज् ज्ञेयसागरपारगः नाम्नाशोको ऽभवद् भिक्षुः स्वस्रीयस् तस्य तायिनः //
SK
सुलभं मे परं ज्योतिर् मातुले सुगते सति अशोकः परिचिन्त्येति न व्यायच्छत मुक्तये //
SK
देशान्तरम् अशोके ऽथ गते गतपुनर्भवः काश्यपो निर्वृतौ चेतः कृतवान् कृतिणां वरः //
SK
ततः स्थिते ऽशोकतरोर् अधस्ताद् अशोकभिक्षौ विनिबद्धशोका महीरुहे तत्र कृताधिवासा मुमोच मुक्ताद्युति देवताश्रु //
SK
भविष्यतीत्य् अद्य विचिन्तयन्त्या जिनस्य निर्वाणम् अनिर्वृतायाः पपात पाराशरिणः शरीरे तस्यास्रम् उष्णं वनदेवतायाः //
SK
निरभ्रम् एतद् गगनं कुतो नु ममेदम् अम्भः पतितं शरीरे इति ब्रुवन्न् उन्मुखम् ईक्षमाणः स देवतां तां रुदतीम् अपश्यत् //
SK
पप्रच्छ चैनां परिदीनदीनां किं देवते रोदिषि जातशोका सा चास्य कण्ठस्खलिताभिधाना भिक्षोः कथंचित् कथयां बभूव //
SK
महामुनिः कारुणिको जगद्धितं विहाय दग्धानुशयेन्धनो वशी प्रदाय निर्वास्यति काश्यपो ऽधुना जनाय शोकं कृपणेति रोदिमि //
SK
अकम्पिते वादिवचःपतङ्गकैः परिप्रकाशीकृतसत्पथापथे मुनिप्रदीपे परिनिर्वृतिं गते जगत्त्रयव्यापि तमो भविष्यति //
SK
निशम्य चेदं वनदेवतावचः स मर्मणीवाभिहतः शितेषुणा पपात भूमौ विनिमीलितेक्षणश् चिरात् समुत्थाय च पर्यदेवत //
SK
अपृच्छद् एनं वनदेवतोत्सुका प्रचक्ष्व भिक्षो किम् इति प्ररुद्यते स मातुलो मे भगवान् इति व्यथां कथं न यास्यामि स चेदम् अब्रवीत् //
SK
मनोहरं वाक्कुसुमं जिनद्रुमाद् गृहीतम् अत्यल्पम् इदं प्रमादिना जगत्त्रयक्लेशपरंपराहरं मया न लब्धं फलम् अल्पबुद्धिना //
SK
इदम् मनःसद्मनि मे कृताश्रयं निरोधकं मुक्तिपथस्य दारुणम् विभिद्य कस्मान् न गतो ऽसि निर्वृतिं तथागतेन्दोर् वचनांशुभिस् तमः //
SK
अथ सा देवता तं भिक्षुम् इदम् अवोचत् | अलम् अलम् अतिविषादेन | यावन् न निर्वाणम् उपगच्छति स भगवांस् तावद् एव भवन्तं मन्त्रप्रभावाद् आकाशेन नेष्यामीति | अनुकम्पितः स्याम् अहं भवत्येत्य् उक्तवति तत्र तथागतभागिनेये सा देवता तस्माद् अशोकान् मन्त्रपरिजप्तानि कुसुमान्य् आदाय ममैनम् अशोककुसुमाञ्जलिम् ईक्षमाणो नभसा गच्छन्तीम् माम् अनुगच्छेत्य् उवाच |
SK
अथान्वगात् तां नभसा स देवताम् अशोकपुष्पाञ्जलिबद्धलोचनः क्षणेन चागम्य तथागतान्तिकं जगाद बाष्पं विसृजन् मुहुर् मुहुः //
SK
प्रमादिनं बालम् अपेतधीप्लवं निमग्नम् अज्ञानमहापयोनिधौ मुनीन्द्र मां दुःखमहोर्मिपीडितं क्षणाद् अनुत्तार्य कथं नु गच्छसि //
SK
इति ब्रुवाणं परिगद्गदाक्षरं क्षरन्तम् अस्रं कलुषीकृतेक्षणम् क्षणाद् विमोक्षाय निवर्त्य कापथात् पथा विशुद्धेन निनाय तं जिनः //
SK
अथार्हत्फलभागिनं भागिनेयं कृत्वा सकलं च लोकं वचनांशुभिः प्रकाश्य काश्यपः सम्यक्संबुद्धः परिनिर्ववौ | परिनिर्वृते च तत्र भगवति शोकवशीकृतेषु सुरासुरकिन्नरमहोरगयक्षमनुष्येषु नभसः परिपतति मन्दारकुसुमवर्षे सा देवता शोकवशाद् इति तत् तद् विलपितुम् आरेभे |
SK
सिंहासनोपविष्टस्य वाक्पुष्पानि विमुञ्चतः कस्य श्रोष्यति लोको ऽयं धर्मार्थी धर्मदेशनाम् //
SK
त्वयि नाथ परं ज्योतिः प्राप्ते ऽस्तम् इव भास्करे तमसा दुर्निवारेण निमीलितम् इदं जगत् //
SK
अद्य त्वयि गते शान्तिम् अशान्तेन मनोभुवा जगन् मोहयितुं नूनं पुनर् आरोपितं धनुः //
SK
गते मुनौ शान्तिम् अनाश्रया वयं क्व विश्रमिष्याम उदीर्णमन्यवः गुणैर् इति ज्ञेयपथानुगामिना मुनीन्द्र विक्रुष्टम् इव त्वया विना //
SK
भवन्तं बोधाय प्रणिधिम् अवलम्ब्य त्रिभुवने भ्रमन्तं सत्त्वार्थं स्थिरधियम् अहं नोज्झितवती परित्यज्य त्वं मां किम् इति जननीं वत्सल गतः प्रयाते त्वय्य् एवं रुदितम् इव दीनं करुणया //
SK
अथ स भिक्षुर् अभ्यधात् | अलम् अलं देवते विषादेन न क्वचिद् इयम् अनित्यता न प्रहरति यत्रेदृशस्यापि भगवतो वज्रगुरुसारस्याभाव इति | अथ सा देवता कथंचिद् आत्मानं धीरयित्वा प्रणिधिम् इति चकार |
SK
माम् आगम्य यथानेन भिक्षुणासादितं फलम् तथा शाक्यमुनेः शिष्यः पश्चिमः स्याम् अहं तदा //
SK
अर्हत्फलं समासाद्य निर्वाणसमये मुनेः तस्मात् प्राक् परिनिर्वायां सोढुं शोकम् अशक्नुवन् //
SK
अथ भगवांस् तेषां भिक्षूणां पुरस्ताद् इदं वर्णयित्वा पुनर् उवाच |
SK
यासाव् अशोकनिलया बभूव वनदेवता स परिव्राट् सुभद्रो ऽयं भद्रचेता महामतिः //
SK
प्रणिधानवशाद् एष मम श्रावकतां गतः प्रथमं मम निर्वाणात् तस्माद् एव च निर्वृतः //
SK
इति जातकम् एतद् अद्भुतं विधिवच् छाक्यमुनिप्रकाशितम् विदुषां मनसः प्रशान्तये प्रथनीयं मधुराभिधायिना //
SK
परहितकरणार्थं ख्यापितातिप्रतिज्ञैर् अपि विपदि न मुक्तो वीर्यसंनाहबन्धः इति परिविगणय्य प्राप्तुम् अत्यन्तनिष्ठां भुवनहितविधाने मा स्म गातालसत्वम् //
SK
|| इति मृगजातकम् ||
SK
रिपुम् अपि नोपेक्षन्ते करुणामृदुचेतसो गदग्रस्तम् / लोकस्य बन्धुभूताः किं पुनर् अच्छिन्नजन्मानम् //
SK
तद्यथानुश्रूयते समधिगतवेदवेदाङ्गतिहासः परमार्थज्ञः परमार्थाभिलाषी सर्वसत्त्वानुकम्पी मूलिको नाम ब्राःमणो बोधिसत्त्वो बभूव | स च महात्मा व्याधिमतां व्याधिप्रशमनाय हिमवन्मन्दरपरियात्रसह्यविन्ध्यवनान्तराण्य् ओषधिनिमित्तं विचचार |
SK
आलोकयन्न् अथ भुजङ्गमवेष्टितानि सान्द्राणि चन्दनवनानि निदाघकाले शृङ्गाग्रविस्खलनजर्जरिताग्रजालं बभ्राम सिद्धनिलयं मलयं कदा चित् //
SK
हारीततुण्डपरिखण्डितविद्युतानि पश्यन् नवानि मरिचानि दरीमुखेषु जिघ्रन् समीरचलितं कुसुमाधिवासम् अध्यास्त खेदविगमाय शिलां स धीरः //
SK
कृतपरिश्रमविनोदश् च समुत्थाय महौषधीनां खनित्रेण मूलानि चखान | बद्ध्वा च महान्तम् औषधभारं गच्छाम्य् अधुनाउषधप्रदानेन जनम् अनामयं करिष्यामीति विचिन्त्य मलयात् प्रतिष्ठमानो गाढग्लानिपरिपाण्डुतनुशरीरम् उपान्तनिहितकमण्डलुपात्रं परिणततृणसंस्तरोपविष्टम् अग्रतोनिषण्णहरिणमिथुनम् अभिनवसंध्यासदृशचीवरप्रावृताङ्गम् उपशान्तेन्द्रियं प्रत्येकबुद्धम् अद्राक्षीत् ||
SK
आलोक्य शान्तम् अथ तं विनयावलम्बी स्कन्धान् महान्तम् अवतार्य स मूलभारम् भक्तिप्रसादभरम् उद्गिरतेव दूराद् आलग्नभूमिरजसा शिरसा ववन्दे //
SK
.... .... .... .... HJम्_२४.५
SK
स ब्राह्मणश् चैनम् अपृच्छद् एवं पश्याम्य् अहं ग्लानशरीरम् आर्यम् आरूढरोगाभिभवप्रतन्व्या प्रत्येकबुद्धस् तम् उवाच वाचा //
SK
इदं च वल्मीकसमं शरीरं उत्पादितं कर्मपरंपराभिः कुर्व्वद्भिर् आधिं जगताम् अनेकैर् अध्यासितं व्याधिभुजङ्गमैश् च //
SK
इयं जराकेशरिणी यदा च शरीरम् आक्रामति मानकस्य मदं विषादाद् विगतेन्द्रियार्थस् तदास्य चित्तद्विरदो जहाति //
SK
ततो परो मृत्युर् अकारणारिः कुटीरकं देहमयं भनक्ति भग्ने हि यस्मिन् भवति क्षणेन सर्वक्रियाणां विरतिर् जनस्य //
SK
इमैस् त्रिभिर् मृत्युजरागदारिभिः प्रबाध्यते कर्मसमीरितैर् जनः अनन्तरक्लेशहुताशसम्भवो भवो यम् आर्यैर् अत एव नेष्यते //
SK
इति विचार्य विचारपटुर् भवान् प्रतिभयान् भुजगप्रतिमान् भवान् शमपथे विनिवेश्य मनोरथं समधिरोहतु वीर्यमयं रथं //
SK
अथ बोधिसत्त्वः अहो सुभाषितम् इत्य् अभिधाय तं प्रत्येकजिनम् अभिमन्त्र्याब्रवीत् |
SK
सुभाषितमणेः प्राप्तिर् अविद्यातिमिरच्छिदः नान्यत्र स्वच्छगम्भीरधीतोयान् साधुसागरात् //
SK
सुपुरुषपरिचोदितस्य धर्मे पटुतरतां पुरुषस्य याति वीर्यं वहनम् इव समीरणप्रणुन्नं सलिलनिधौ स्थितदक्षकर्णधारं //
SK
ततो ऽहं भदन्तं तावत् परिचरिष्यामि यावद् अस्माद् ग्लान्यान् महाकान्ताराद् इव समुत्तीर्ण इत्य् अभिधाय गगनमध्यप्रत्यासन्ने स्फुरदङ्शुमण्डले विवस्वति तरुच्छायानिलीनेषु श्वासवशपरिस्फुरत्प्रकाशजिह्वातालुषु श्वेतापाङ्गेषु पल्वलसलिलावतरणसमुत्सुकेषु सजलजलधरनीलेषु वनमहिषयूथेषु सुरभिशिशिरचन्दनतरुविटपान् सुतरां परिवेष्टयत्सु भुजगेषु तीक्ष्णतरातपालिङ्गनसंतप्तपांसुनिकरेषु पथिकजनविमुच्यमानेष्व् अध्वसु मलयतरुगृहपतिविश्राणितं परिपाकमृदुसुरभिविविधफलपिण्डपातम् आनीय |
SK
स पलाशैः पलाशस्य महद् आतपवारणम् कृत्वा प्रत्येकबुद्धस्य दधारातपशान्तये //
SK
न चिन्तयति यः खेदम् उपायकुशलो वणिक् लभते विपुलं लाभं चतस्रः संभ्रमन् दिशः //
SK
बोधिसत्त्वो विचिन्त्येति तस्य कर्तुम् उपासनाम् न क्षुधं नातपं तीव्रं न च खेदम् अजीगणत् //
SK
बुधान् उपासीत न चेज् जगद्गुरून् आवाप्नुयान् नैव जनः सुभाषितम् धनाय यो गच्छति रत्नमेदिनीं स युज्यते रत्नविशेषसम्पदा //
SK
इति स परिचरंस् तम् आर्यवृत्तं कुशलफलोपचयाय धीरसत्त्वः प्रतिदिवसम् उपाचितप्रसादः सफलम् अमन्यत साध्व् अजन्मलाभम् //
SK
अथ स प्रत्येकजिनो बोधिसत्त्वस्य द्विगुणतरप्रसादजननार्थम् अम्बरतलम् उत्पत्य तत् तत् प्रातिहार्यम् अदर्शयत् ||
SK
परिविस्फुरदङ्शुपरीततनुः पयसीव ततान नभस्य् अमले शुशुभे च सुवर्णगिरिप्रतिमः कमलासनमध्यगतः स वशी //
SK
प्रविवेश मुहुः परिभिद्य महीम् उदियाय शनैः सवितेव पुनः अनयच् च स योगबलाद् बहुतां युगपद् भुजयोः सलिलज्वलनौ //
SK
स्पृशति स्म विलोलनखद्युतिना कमलप्रतिमेन करेण रविम् बहुताम् अगमद् गतजन्मभयस् सलिलेष्व् इव शुद्धवपुस् तपनः //
SK
तम् इति प्रसमीक्ष्य महर्द्धिबलं द्युतिमन्तम् अनुष्णमरीचिम् इव सुचिरं स्तिमितीकृतनेत्रयुगो द्विजमुख्यतमः स जगाद मुदम् //
SK
तं प्रातिहार्यरमणीयतरप्रभावं प्रत्येकबुद्धम् अवलोक्य दृढप्रसादैः विद्याधरैर् मुमुचिरे नभसा व्रजद्भिः पुष्पाणि केशररजःकपिशोदराणि //
SK
अथ बोधिसत्त्वः क्षितितलविनिहितजानुः प्रमोदापूर्यमाणहृदयः शिरसि विनिवेशिताञ्जलिस् तं प्रत्येकजिनं प्रभास्वरैर् वचनमणिभिर् अभ्यर्चयाम् आस ||
SK
इमाम् आलोक्य भवतः प्रातिहार्यवतीं तनुम् ब्रह्मापि विस्मयं यायान् मादृक् किम् उ पृथग्जनः //
SK
दर्शितप्रातिहार्येण भवता दीप्ततेजसा इदम् अध्यासितं व्योम द्विसूर्यम् इव लक्ष्यते //
SK
योगिनां त्वादृशाम् एतद् ऋद्धिमाहात्म्यम् अद्भुतम् परानुग्रहनिष्पत्तिपटूनां व्यक्तिम् अर्छति //
SK
आत्मार्थं भासते नेन्दुः प्राचीमुखविशेषकः परार्था एव महताम् उदयाः शुद्धचेतसाम् //
SK
यदि नाहम् उपागमिष्यम् एनं मलयं चन्दनपादपान्धकारम् न भवत्समुपासनासमुत्थं कुशलं मुक्तिपथस्य बीजम् आप्स्यम् //
SK
मदनुग्रहकाम्यया दधानस् तनुम् एताम् अतनुप्रभावगुर्व्वीम् मलयाद्रिवनान्तरे स्थितो ऽसि क्षपितक्लेश गदच्छलेन नूनम् //
SK
दधतीद्धरुचो मणिं समुद्राः स्फटिकच्छेदसितं पयः पयोदाः महतीं फलसम्पदं च वृक्षाश् चिरम् आयुश् च भवादृशाः परार्थम् //
SK
वाक्तन्तुभिस् तव गुणस्तुतिपुष्पमालां संग्रन्थ्य यत् कुशलमूलफलं मयाप्तम् प्रज्ञास्पदं दशबलत्वम् अवाप्य तेन भूयासम् अस्य जगतो भवभङ्गहेतुः //
SK
अथ स प्रत्येकबुद्धः तस्य ब्राहमणस्य बुद्धत्वाय प्रणिधिम् आकर्ण्य प्रमुदितमनास् तत्रैवान्तरधीयत | बोधिसत्त्वो ऽपि च महान्तम् इव लाभम् अधिगम्य
SK
प्रत्येकबुद्धपदपांसुम् असौ निवेश्य मूर्ध्नि प्रसादसमुदीरितरोमकूपः आत्तौषधिर् मलयशैलवनान्तरालाल् लोकस्य रोगम् अपनेतुम् अगाज् जनान्तम् //
SK
तद् एवं स भगवान् बोधिसत्त्वभूतः सकललोकस्य क्लेशव्याधिम् अपहर्तुकामः करुणाप्रोत्साहितवीर्यबलः स्वखेदम् अगणयित्वा ग्लानम् प्रत्येकबुद्धं परिचचारेत्य् अतः कुशलफलम् अभिलषता कुलपुत्रेण ग्लानपरिचर्यायान् नानादरेण भवितव्यम् इति ||
SK
|| मूलिकजातकं चतुर्थं ||
SK
ध्यानप्रदीपभासा लब्धालोको ऽपि नैति निर्वाणम् / यद् बोधिं प्राप्तुमनास् तत् सत्त्वहितानुबन्धाय //
SK
तद्यथानुश्रूयते | समधिगतवेदतत्त्वो विविधशास्त्राभ्यासविमलमतिर् अनेकासु विद्वत्सदःसु प्रसृतकीर्तिः स्वसमयव्यापारपरायणो गृहाश्रमम् अध्यावसन् कदा चित् बोधिसत्त्वो जाज्वली नाम ब्राह्मणो बभूव | स च महात्मा विदितगार्हस्थ्यदोषः प्रशमसुखाभिलाषी परिपूर्णविभवे ऽपि भवने रतिम् अलभमानः कदा चिद् एवम् अचिन्तयत् ||
SK
विभवे सति जायते मदः सति तस्मिन् प्रशमः कुतो भवेत् असति प्रशमे गतत्रपो मलिनं कर्म समीहते जनः //
SK
मुहुर् अप्रियसंप्रयोगदुःखं मुहुर् आधिः प्रियविप्रयोगकाले द्रविणार्जनखिन्नमानसानां यदि वाञ्छा विफला ततो विषादः //
SK
गृहिणाम् इति नित्यम् आकुलानां स्वजनस्नेहनिबद्धमानसानाम् सुखम् इत्य् अफलाभिमानभाजां तनुर् अप्य् अस्ति न निर्वृतिर् गृहेषु //
SK
गृहसंज्ञकम् इत्य् अपास्य कष्टं त्वरितं बन्धनम् एतद् आत्मकामः तपसाम् अभिवृद्धये वनान्तं प्रशमस्थानम् अहं ततः श्रयिष्ये //
SK
इति स चिन्तयित्वा महात्मा परित्यज्य गृहवासं स्तिमितसलिलवाहिन्या कुसुमिततटतरुशोभितया शास्त्राभ्यासनिर्मलयेव प्रज्ञया निम्नगयालङ्कृतभूधरैकदेशे विस्रब्धहरिणगणदशनदष्टशाद्वलरमणीये नलिनीवननिलीनकलहंसकादम्बचक्रवाकोपशोभिते योगिमनोऽनुकूले क्व चिद् अतिमहति वनान्तरे कृष्णाजिनशबलीकृतवक्षःस्थलः स्थानविशेषलाभपरितुष्टयेव ब्राह्म्या श्रियालिङ्गितमूर्तिर् मूर्तिमान् इव संतोषः कं चिद् विटपिनम् आश्रित्य योगाबद्धमनास् तपश् चरितुम् आरेभे ||
SK
ध्यानैकतानमनसा विजितेन्द्रियेण संतोषलाभसुखिना करुणान्वितेन यस् तेन संश्रित उदारधिया द्विजेन मेने मुदेव स तरुस् तरुतां कृतार्थाम् //
SK
तृणास्तरणम् आस्तीर्य नासाप्राहितलोचनः दध्यौ स ध्यायिनाम् अग्र्यो ध्येयम् एकाग्रमानसः //
SK
वीर्यपारमितामार्गवाहनोपचितश्रमम् ध्यानपारमिता धीरं व्यशिश्रमद् इवाथ तम् //
SK
कामेभ्यो ऽकुशलेभ्यश् च धर्मेभ्यो ऽवस्थितं पृथक् सवितर्कविचारं च विशुद्धात्मा विवेकजम् //
SK
कृतप्रीतिसुखास्वादम् आस्वादितशमामृतः स लेभे प्रथमं ध्यानं ध्याता मार्गस्य लब्धये //
SK
अवितर्काविचारं च विचारकुशलस् ततः सो ऽध्यात्मसंप्रसादाच् च द्वितीयं ध्यानम् आददे //
SK
विरज्य च शनैः प्रीतेः स्मृतिमान् समुपेक्षकः धीरः कायसुखास्वादी तृतीयं ध्यानम् आप सः //
SK
उपेक्षापरिशुद्धं च प्रहाणात् सुखदुःखयोः विरागाच् च ततः प्रीतेश् चतुर्थं ध्यानम् आययौ //
SK
एवम् असाव् उत्पादितचतुर्ध्यानो मूर्तिवत्येव करुणयालिङ्गितमूर्तिर् उपशमपरायणस् तत्र वने तिरश्चाम् अपि बन्धुर् इव विश्रम्भहेतुर् आसीत् ||
SK
मृगाः कपोताः शिखिनश् चकोराः भद्राशया व्यालमृगाश् च ते ते विहृत्य शिष्या इव काननान्ते विशश्रमुस् तस्य समीपम् एत्य //
SK
अथ तस्य महात्मनः कदा चिद् आबद्धपर्यङ्कस्य चरणसमीपावस्थितमृगमिथुनस्य ध्याननिश्चलनयनस्य प्रत्यासन्नप्रसवा कपोती तृणानि तनूनि च दारुशकलानि चञ्च्वादाय विनिबद्धजटाकलापमौलौ शिरसि निलीय किञ्चिन्निम्नमध्यकुलायं रचयित्वा तत्राण्डानि मुक्त्वा तृणबीजाश्वत्थफलाद्याहारकाङ्क्षिणी नभः समुत्पत्य वनान्तरेषु विहृत्य पुनः पुनर् आगम्य च तान्य् अण्डान्य् अवष्टभ्यावतस्थे ||
SK
ततः कपोतीतनुपिञ्छसंकुले तदङ्गसंपीडनसंभृतोष्मणि कुलायके ऽण्डानि विपाटलाङ्गकाः कपोतपोताः परिभिद्य निर्ययुः //
SK
विलोक्य शावान् अथ तान् कपोतिका मुहुर् जिघत्साविवृताग्रतुण्डकान् अचिन्तयित्वा महतीं निजां क्षुधं प्रियङ्गुनीवारफलैः पुपोष सा //
SK
कपोतकास् ते प्रभवत्तनूरुहा गृहीतबीजाम् अवलोक्य मातरम् मुहुर् मुखानि प्रच(२)लाग्रपक्षकाः प्रसारयाम् आसुर् उदीरितस्वराः //
SK
ध्यानावसानसमये ऽथ समित्फलार्थं शान्तेन्द्रियो जिगमिषुः स मुनिर् वनान्तम् दृष्ट्वा गृहीततृणवृक्षफलां कपोतीं तस्थौ कुलायवति मूर्ध्नि निलीयमानाम् //
SK
अथ बोधिसत्त्वो नियतम् अत्र मम जटाभारे विरचिततृणकाष्ठशकलालया प्रसूतेयं कपोती | यदि चाहम् उत्थाय समिधां कन्दमूलफलानां चाहरणाय गमिष्यामि ततो नियतम् एषा तपस्विनी स्थानम् इदम् आगम्य ||
SK
अनीक्षमाणाद्य कपोतपोतकान् इमान् प्रकाशीकृतताम्रतालुकान् निलीय वृक्षेषु शुचा मुहुर् मुहुर् नभः समुत्पत्य परिभ्रमिष्यति //
SK
अहो जन्मशतभ्रान्तिवासनैषानुवर्तते तिरश्चाम् अप्य् अपत्येषु संरूढो यद् अपह्नवः //
SK
यदि न स्युर् अपत्यानि मित्रं वा बन्धुर् एव वा स्वताक्षः स्यात् स्वताभावान् निर्बीजो ऽपह्नवः कुतः //
SK
असत्य् अपह्नवे चेतः परिवृण्वन्ति नाधयः असत्स्व् आधिषु निःसङ्गः सुखम् आस्ते शमान्वितः //
SK
उत्पाद्यापत्यसंज्ञानि दुःखानि क्लेशमोहितः खेदम् एति जनो मूढः पश्चात्तापेन तापितः //
SK
अनस्य् अनिच्छन्न् अपि गौर् बलीयसा यथा बलाच् छाकटिकेन योज्यते शुभाशुभेनैष कुबुद्धिर् अस्यते तथा भवोदन्वति कर्मणा जनः //
SK
तस्मात् कपोतशिशवो न भवन्ति यावद् अस्मज्जटालयगताः प्रविरूढपक्षाः ध्यानामृतोपचितचित्तशरीरतुष्टिः तिष्ठामि तावद् इह निश्चलमूर्तिर् एव //
SK
इति विचिन्त्य बोधिसत्त्वः कपोतशावकानुकम्पया क्षुधम् अविगणय्य पुनः पर्यङ्कम् आबध्य ध्यानसुखेनात्मानं प्रीणयाम् आस | प्रविरूढपक्षेषु कपोतशावकेषु मात्रा सह गगनं उत्प्लुत्य गतेषु तत्समीपनिवासिनी देवता समुपगम्य बोधिसत्त्वम् आलोक्य विस्मयसमध्यासितमतिर् अहो महात्मनो ऽस्य महर्षेः सत्त्वेष्व् अनुकम्पा यत् प्राक्तनात् ध्यानाद् उत्थाय कपोतकपरिरक्षणाय पुनर् अपि ध्यानेनात्मानं निश्चलीकृत्यायम् अवस्थितः || न चैष महात्मा गतेष्व् अप्य् एतेषु कपोतकेषु कुलायम् इमं शिरस्तः समपनेष्यति | तद् अहम् एवास्य जटामुकुटविरचितम् एनं कपोतालयम् अपनेष्यामीति विचिन्त्य ||
SK
विकीर्णम् अन्तः क्व चिद् अण्डखण्डैः सा तं कुलायं मुनिसत्तमस्य शनैः शनैः पल्लवकोमलेन करद्वयेनापनिनाय मूर्ध्नः //
SK
गतायाम् च तस्यां देवतायां बोधिसत्त्वो ध्यानाच् चित्तम् अपनीय शिरसो लघुत्वम् अवेत्यैवं चिन्तयाम् आस ||
SK
प्ररूढपक्षेषु कपोतकेषु गतेषु मात्रा सह काननान्तम् केनापि भक्तिप्रवणेन नूनं तदालयो मे शिरसो ऽपनीतः //
SK
इति विचिन्त्योत्थाय स महात्मा समित्कुशकुसुमफलान्य् आनीय कृताभिषेकः ||
SK
हुत्वाग्निं स्फुरदुदितार्चिषं दिनार्धे व्यापङ्कं फलम् उपयुज्य बद्धगन्धम् नासाग्रस्थितनयनस् तरोर् अधस्ताद् आरेभे पुनर् अपि योगम् एकचित्तः //
SK
तद् एवम् ध्यानविलोकिततत्त्वः क्षमो ऽपि निर्वाणम् उपगन्तुं स भगवान् बोधिसत्त्वभूतो लोकहिताय बहूपद्रवे ऽपि संसारे परिभ्रान्तवान् इति विचिन्त्य बुद्धे भगवति परः प्रसाद उत्पादनीय इति ||
SK
|| जाज्वलिजातकं षष्ठम् ||
SK
तृणम् अपि रक्षन्ति बुधा यत्नेन महीयसान्यनिक्षिप्तम् / प्रज्ञागुरवः किं पुनर् अश्रान्ताः प्राणिनिक्षेपम् //
SK
तद्यथानुश्रूयते धौतरजतस्तम्भानुरूपसतुहिनशिखराग्रस्खलनपरिजर्जरीकृतजलधरस्य मुक्ताचूर्णनिकरधवलप्रालेयोपरिव्याधगणानुसृतचमरखुरमार्गस्य हरवृषभविषाणोल्लेखविषमीकृतविविधकुक्षेर् अनेकभूर्जसरलदेवदारुनमेरुपद्मकवनश्यामनिकुञ्जस्य प्रसृतनिर्झरसलिलक्षालितमूलभूमेः क्षणदासमयज्वलितमहौषधित्वात् कृतप्रदीपसहस्रस्येव विद्याधरमिथुनपरिभोगसुरभीकृतमानससरस्तीरपर्यन्तलतागृहकान्तरस्य क्वचित् केसरितलप्रहारविनिपातितभीतप्रस्फुरितन्यङ्कुचरणक्षेपोत्खाततृणस्य क्वचिद् उमाचरणतलालक्तकाण्कितशाद्वलश्यामभूमेर् अन्यत्र शकुनितुण्डखण्डितपरिणततरुफलाकीर्णोपवनान्तरस्य पवनवितन्यमानोच्चावचकुसुमगन्धसुरभेः सुरभिमासप्रारब्धविटपिमुकुलाङ्कुरस्य कुररविनिपातशब्दभीतशकुनिकुलविमुच्यमानगङ्गातीरसलिलस्य सलीलकिन्नरमिथुनगीतश्रवणनिश्चलमृगकुलस्य तुङ्गशिखरतया क्षीरसागरस्येवोच्चताम् उपगतस्य हिमगिरेर् एकदेशे सादरम् इव तरुभिः कुसुमार्चितद्वारशिलातलां हरिततृणाङ्कुरोद्भेदश्यामपर्यन्तां विकचकमलेन सरसाभ्यलंकृतसमीपाम् अनतिमहतीं गुहाम् अध्यावसन्न् अतिबहलहरिद्रासलिलाभिषिक्तदुकूलसूत्रपरिपिङ्गकेसरनिरुद्धकन्धरः किसलयसुकुमारलोलतरजिह्वः किंचित्परिम्लानातिमुक्तककुसुमराशिपरिपाण्डुविग्रहः शशिकलाकोटिकुटिलतीक्ष्णदंष्ट्रः पृथूरस्कः पीवरप्रकोष्ठः प्रतनुमध्यः स्फुरितखदिराङ्गारकपिलनयनयुगलः श्येनतुण्डवृजिननखाङ्कुरः श्यामप्रान्तवालधिर् अलंकार इव तुहिनगिरेर् अनिन्दिताङ्गो नाम कदाचिद् अनुत्त्रासितद्विरदमृगो मृगाधिपतिर् बोधिसत्त्वो बभूव |
SK
अवेत्य तस्याथ निसर्गभद्रतां मुनेर् इव प्राणिषु भद्रचेतसः स्वभावभद्राः कमनीयलोचना मुदा मृगा बन्धुम् इवैनम् अन्वयुः //
SK
शमान्वितः केसरवल्कलाकुलो मृगानुयातो मृगराजतापसः शनैः स निष्क्रम्य गुहोटजान्तराच् चखाद पक्वानि फलानि शाखिनाम् //
SK
फलोपयोगाय वनान्तरे चरन् स खेलगामी चलचारुकेसरः महागृहस्थैर् अतिथिप्रियैर् इव प्रतीक्ष्यते स्मातिथिवन् महीरुहैः //
SK
गुहान्तरान् निष्पततो हिमात्यये प्रकाशतालोर् अतिमात्रजृम्भणात् ततान तस्याङ्गसुखं पुरः शनैर् दिवाकरः प्राभृतवन् नवातपम् //
SK
अयं मृगाणां पतिर् अत्र भूधरे पतत्रिणां तार्क्ष इवोरुविक्रमः इतीव तस्योपरि जातसंभ्रमा निशाकरच्छत्त्रम् अधारयन् निशा //
SK
पपौ स यस्यां सरिति क्षपाकरप्रसन्नम् अम्भः शिशिरं तटस्थितः कृतार्थम् आत्मानम् अमन्यतेव सा स्फुटं जहासेव च फेनपङ्क्तिभिः //
SK
हिमाचलस् तेन विशुद्धचेतसा महात्मना केसरिणा समाश्रितः महान्तम् आत्मानम् अतीव भासतो मुदेव मेने कनकाचलाद् अपि //
SK
क्व च भुवनभयंकरं हरित्वं क्व च करुणास्य गरीयसी मृगेषु इति मुनिम् इव तं स्थितं हिमाद्रौ मृगरिपवो ऽपि मृगाधिपं प्रणेमुः //
SK
अथ कदाचित् तस्य मृगपतेर् अवनिपतेर् इव सलीलम् आसन्नकुसुमितलतानर्तकीकिसलयाङ्गुलिसमाहन्यमानमधुकरश्रेणिवीणाशब्दरमणीये प्रसृतनिर्झरमृदङ्गध्वनिप्रवर्तितमयूरलासके गुहाद्वारे समुपविष्टस्य पुरस्तान् निष्पीदितालक्तकगुलिकापरिपाटलमुखम् अभिनवामलकीफलानुरूपनयनम् आत्तपरिणतोदुम्बराभ्यां शावकाभ्याम् अध्यासितस्कन्धं फलरसार्द्रमलिनकराङ्गुलीकं वानरमिथुनम् अभिप्रणम्योवाच |
SK
अनिन्दितम् अहो कर्म तव वाक्कायचेतसाम् अनिन्दिताङ्ग इत्य् एतत् त्वन्नामानुगुणं स्मृतम् //
SK
अहो त्यागक्षमावीर्यगाम्भीर्यकरुणादयः त्वद्गुणाः गुणिनां श्रेष्ठ मुनीन् अप्य् अतिशेरते //
SK
अहो वृत्तेन शुद्धेन भवतः शुद्धचेतसः परं मार्दवम् आनीतं क्रूराणाम् अपि मानसम् //
SK
धन्यो ऽयं धन्यहिमवान् हिमच्छन्नशिलातलः इति धीरस्वभावेन यस् त्वया समुपाश्रितः //
SK
तस्माद् इमौ शिशू भीमव्यालदर्शनभीरुकौ निक्षिप्य त्वयि गच्छावो वनम् आवां फलार्थिनौ //
SK
उपादाय फलं यावद् आव्रजावो वनान्तरात् रक्षणीयौ त्वया तावद् एतौ चपलगात्रकौ //
SK
कापेयं चपलत्वं च तुल्यकालम् इदं द्वयम् तस्माद् आभ्यां कृता बाधा सोढव्या भवता क्षणम् //
SK
दुःखान्य् अपि गरीयांसि परार्थप्रतिपत्तये सहन्त एव धीमन्त आत्मसौख्यानपेक्षिणः //
SK
भयम् इच्छति यो हर्तुम् अत्यन्तम् भीरुचेतसाम् मनःसंतापिनीं पीडां स कथं न सहिष्यते //
SK
इति समभिहितः स तेन सिंहः कपिमिथुनेन सुताभिरक्षणाय नृप इव पररक्षणक्षमो ऽपि क्षणम् इदम् आकुलतां गतः प्रदध्यौ //
SK
शक्यते हि महान् अपि कनकराशिर् अन्यनिक्षिप्तो ऽभिरक्षितुम् | कथम् इमौ चपलप्रकृती वानरशिशू रक्षणीयाव् इति | अथ वा येन मया सकलम् एव संसारभयाज् जगत् परिपालनीयं सो ऽहम् एतौ न परिपालयिष्यामीति न तु युक्तम् इदं मया वितर्कयितुम् इति स महात्मा विनिश्चित्य तत् प्रवङ्गमिथुनम् उवाच |
SK
तद् गच्छतं तुहिनशैलम् इमं विगाह्य तुङ्गैः स्नुभिर् गगनमध्यम् इवोल्लिखन्तम् स्वादूनि शीघ्रतरम् आनयतं फलानि प्रेम्णा शिशुद्वयम् इदं परिपालयामि //
SK
अथ तत् कपिमिथुनं बोधिसत्त्वसमीपे तत् पुत्रकद्वयं विनिक्षिप्य सान्त्वयित्वा च त्वरिततरगमनं फलोपनयनाय हिमवद्वनान्तराणि परिबभ्राम | अचिरगतयोश् च तयोः कप्योस् तस्मिन् महात्मनि केसरिणि पितरीव तौ कपिशावौ प्रेमाबबन्धतुः | अनिन्दिताण्गश् च ताभ्यां परिणतिस्वादूनि शिथिलदशनप्रान्तगृहीतानि फलानि प्रायच्छत् | तौ च प्रकृतिचपलतया तस्य महात्मनस् तां तां विहेठनां चक्रतुः |
SK
गुहाजिरोपान्तवने मनोहरे हरेः सुषुप्सोः सुखशीतमारुते रुतेन तौ वानरशावकौ मुहुर् मुहूर्तनिद्रासुखम् अस्य जघ्नतुः //
SK
निद्रानिमीलिते किंचित् पुनस् तस्य विलोचने अङ्गुलिभ्यां तुतुदतुः स्फुलिङ्गापिङ्गतारके //
SK
सुखं तस्योपविष्टस्य स्थित्वाचकितम् अन्तिके प्रान्ते लाङ्गूलम् आदाय समाचकृषतुर् मुहुः //
SK
सटां व्यालम्ब्य पृष्ठं च तस्यारुह्य पुनः पुनः सहजाच् चापलाद् दूरम् उत्पत्योत्पत्य पेततुः //
SK
विद्यमानेष्व् अपि पुरः प्रभूतेषु फलेषु तौ जिघत्सोर् आननात् तस्य समाचिक्षिपतुः फलम् //
SK
इति दुश्चेष्टितं तत् तत् तयोर् वानरशावयोः करुणाभद्रचित्तत्वात् स सेहे पुत्रयोर् इव //
SK
सर्वत्र समचित्तानां सुखदुःखानपेक्षिणाम् सतां सर्वधुरीणानां न क्वचित् खिद्यते मनः //
SK
अथ कदाचिद् अतिपरुषविपुलपक्षसंघातः कुटिलकर्कशनखाग्रः प्रकृतिरौद्रनयनः क्वचिद् अलब्धपिशिताहारः परिभ्रम्य गगनतलं निशातक्षुरतीक्ष्णतुण्डः क्षुरको नाम गृध्रः सशब्दवेगः सहसावपत्य तौ बोधिसत्त्वसमीपवर्तिनौ फलास्वादेन चलितधवलतनुदन्तपङ्क्ती वानरशिशू भयविवृतविकृतमुखकौ विरसतरव्याहृती चरणाभ्याम् आदाय त्वरिततरम् अन्तरीक्षम् उत्पत्य हिमगिरिशिखरे व्यलीयत | बोधिसत्त्वो ऽपि च कष्टं कष्टम् इत्य् अभिधाय यद्य् अहम् एनं गृध्रं पराक्रमेणाभिद्रवेयं पुनर् अयम् उत्पत्यान्यत्र विषमतरे शिखरे निलीय प्रवगशिशुद्वयम् इदम् विपादयेत् | सर्वथा नेदं कपिशिशुद्वयं मया शक्यते द्रष्टुम् |
SK
अभिवर्धितवेदनाकुलाक्षं विरसव्याहृतिलक्ष्यतालुरन्ध्रम् उदरस्रुतशोनितार्द्ररोम क्षुधितश्येनविलुप्यमानमांसम् //
SK
अनेन गृध्रेण विलुप्तमांसके प्रकामम् अस्मिन् कपिशावकद्वये फलान्य् उपादाय तयोर् उपेतयोः किम् अद्य शक्ष्याम्य् अभिधातुम् अग्रतः //
SK
पातुं गतौ चपलकौ सरसो जलं नु वृक्षं फलार्थम् अभिरुह्य नु किं निविष्टौ स्याताम् इमां किम् अथ वाद्रिगुहां प्रविष्टौ व्यालेन केनचिद् उतात्र विपादितौ तौ //
SK
तूष्णीं स्थितो मृगपते किम् अधोमुखस् त्वम् आचक्ष्व ताव् इह शिशू क्व गतौ भवेताम् इत्थं तयोः प्रवगयोः परिदीनदृष्ट्योः श्रोष्यामि विह्वलपदानि कथं वचांसि //
SK
उपलभ्य चिरात् तयोर् अभावं सुतयोः कुन्दविपाण्डुदन्तपङ्क्त्योः समुपेत्य शुचा करिष्यतस् तौ बडिशोत्तारितमीनवेपनानि //
SK
तद् इदम् अत्र प्राप्तकालं मन्ये |
SK
यावद् व्याघ्रनखाङ्कुराकृतिभृता चञ्च्वा विभिद्योदरे गृध्रो ऽयं कपिशावयोर् भयवतोर् अन्त्राणि नाकर्षति गत्वा तावद् अहं हिमाद्रिशिखरप्रान्तं निवेश्योन्मुखः सान्त्वेनैनम् उपायपूर्वकम् अहं नेष्यामि धर्म्यां स्थितिम् //
SK
इति विचिन्त्य स महात्मा गृध्रसमीपम् आगम्योवाच | भो शकुनिवर मम हस्ते पितृभ्याम् एतौ शावकौ निक्षिप्तौ तन् न युक्तं भवतो विवृतदशनदीनमुखकौ विरसस्वरौ विपादयितुम् एनाव् इति |
SK
नूनं तवाप्य् अपत्यानि भूतपूर्वाणि सन्ति वा यादृशो भवतस् तेषु स्नेहो ऽन्यस्यापि तादृशः //
SK
इति कारुण्यम् आलम्ब्य मा वधीः कपिशावकौ तृप्तिर् आत्यन्तिकी नास्ति भुक्त्वाप्य् एनौ तवातुरौ //
SK
धिग् अहो जीवितं तस्य धिग् आत्मस्नेहम् ईदृशम् यः शरीरकलेः पुष्टिं करोति परहिंसया //
SK
अज्ञानाज् जायते स्नेहः सदोषे ऽपि शरीरके तत्पुष्टये करोत्य् अज्ञो निमित्तकर्म दुर्गतेः //
SK
आत्मात्मीयविनाभावाद् यः शून्यं सर्वम् ईक्षते तस्याभूतविकल्पोत्थं न रुणद्धि मनस् तमः //
SK
तमोऽभावाद् यदा तत्त्वम् आसादयति कोविदः तदा भवति मोक्षाय शुभाशुभपराङ्मुखः //
SK
सिंहान् नान्यो मांसभुक् कश्चिद् अस्ति क्रूरो वेति स्पष्टम् एतत् पृथिव्याम् सैंहीं कष्टां योनिम् अप्य् आश्रितो ऽहं नेच्छाम्य् एतां प्राणिहिंसाम् अधर्म्याम् //
SK
मृगम् इह गहने मृगेन्द्रजुष्टे मृगरिपुणाभिहतं स्वयं मृतं वा खगवर नभसि भ्रमन् निरीक्ष्य द्रुतगतिर् अत्स्यसि तस्य मांसम् एत्य //
SK
क्षुधम् अपि महतीं ततो ऽधिवास्य ज्वलनशिखाम् इव देहम् उत्तपन्तीम् नरकनिपतनाय मा स्म कार्षीर् अकुशलम् ईदृशम् उज्झिताप्रमादः //
SK
अन्तःसत्त्वास्थिसंधिस्फुटनतटतटाशब्दहुंकारभीमाः संतन्वन्तः स्फुलिङ्गानिकरम् उरुशिखालोहितध्यामभीमाः लोलज्वालाकलापा नरकहुतभुजः सूरिभिः कथ्यमानाः कुर्वन्त्य् आधिं जनस्य श्रवणम् अपि गताः किं पुनः संस्पृशन्तः //
SK
आयस्यां कूणिताक्षं ज्वलितहुतवहस्पर्शसंतापितायां कुम्भ्यां गाढं नदन्तं क्वथितपरिचलत्तैलपूर्णास्यकण्ठम् आलोक्यालेख्यभित्तौ लिखितम् अपि नरं नारकं पच्यमानं हिंस्रो ऽपि क्रूरभावात् क इव न विरमेद् दुर्गतिप्राप्तिहेतोः //
SK
श्रुत्वा दुर्गतिदुःखानि विरमत्य् अशुभान् न यः सो ऽनद्धापुरुषाकारः पाषाणहृदयो ऽपि वा //
SK
अथ स गृध्रो बोधिसत्त्वधर्मदेशनाप्रसादितमतिर् अभिप्रणम्योवाच | मृगपते प्रकाशितम् इदम् भवता बाललक्षणम् | पण्डितलक्षणम् इदानीं व्याख्यातुम् अर्हसीति | अथ बोधिसत्त्वः प्रसन्नमनसम् एनम् अवेत्योवाच | यद्य् एवम् अतः श्रूयतां पण्डितलक्षणम् इति |
SK
अलाभे लाभे वा सुहृदि हितवाचि द्विषति वा स्तुतौ निन्दायां वा महति विभवे वा विपदि वा विकारं यो नायात्य् उपशमविशुद्धेन मनसा स्थितः स प्राज्ञानाम् उपरि सवितेव द्युतिमताम् //
SK
अथवा किम् अनेन भवतः पण्डितलक्षणश्रवणेन | विमुच्येताम् एतौ कपिशावकाव् आत्मानम् एवाहं ते प्रदास्यामीति |
SK
त्वम् अद्धि मांसं पिब शोणितं च ममाक्षिणी चोद्धर निश्चलस्य इतीदम् उक्त्वा विनिमीलितेक्षणश् चिरं विनिष्कम्पतनुर् बभूव सः //
SK
दध्वान दुन्दुभिर् अथ ध्वनिना दिगन्तान् आपूरयन् सुरपतेः पुरमध्यवर्ती गृध्राय दत्ततनुम् आनमितैः शिरोभिः सिंहं स्थिता नभसि तुष्टुविरे च सिद्धाः //
SK
चचाल भूश् चलितसुवर्णभूधरा विसिस्मिये त्रिदशगणः सवासवः उदीरितस्तुतिभिर् अहीश्वरैर् अपि प्रपातितास् तदुपरि पुष्पवृष्टयः //
SK
अथ केसरिणो गुहान्तिके निदधौ वानरशावकौ खगः नखभिन्नतनू विनिश्चलौ भयमूर्च्छाविनिमीलितेक्षणौ //
SK
शनैर् उपागम्य च बोधिसत्त्वम् उत्थापयामास स गृध्रवर्यः स्थितो ऽग्रतस् तस्य विनीतभावो जगाद भक्त्या स्तुतिम् ईदृशीं च //
SK
दयालुता क्वेयम् अहो तवोच्छ्रिता क्व सिंहतेयं जगतो भयंकरी चिराय केनापि विशेषहेतुना भवान् मुनिः को ऽपि मृगाधिपायते //
SK
प्रज्ञावलम्बि यस्यैव समदुःखसुखं मनः स एव प्राणमूल्येन क्रीणात्य् आपद्गतं परम् //
SK
त्वादृशा न भवेयुश् चेत् स्थिराः सज्जनसेतवः दुःखोदन्वति मज्जेयुर् अगाधे महति प्रजाः //
SK
इमाम् आकर्ण्य कल्याणीं भवतो धर्मदेशनाम् अद्यारभ्य करिष्यामि वैरिष्व् अपि दयाम् अहम् //
SK
पृच्छामि च भवन्तं किं पुनर् अनेन तपसा पदम् अभिलषसीति | बोधिसत्त्व उवाच |
SK
अनादिसंसारविवर्तनश्रमप्रबाधनादुःखपरंपराहतम् जगत् समुद्धर्तुम् इदं भवोदधेस् तथागतत्वाय ममायम् आदरः //
SK
गृध्र उवाच | ईदृङ् महाप्रज्ञस्य भवतो न दुर्लभं बौद्धं पदं सर्वथा |
SK
गम्भीरैर् अदुरासदैः सदसतां विज्ञातृभिः कर्मणां शास्त्राविष्कृतबुद्धिभिः परहितव्यापारसक्तात्मभिः साध्वीनाम् अवगन्तृभिर् भवभिदां ताथागतीनां गिरां मोहच्छेदि भवे भवे भवतु नो युष्मद्विधैः संगतम् //
SK
गुहान्तिके मया तत्र स्थापितौ कपिशावकौ तस्मान् माम् अधुना साधो विसर्जयितुम् अर्हसि //
SK
बोधिसत्त्व उवाच | अहो पटुविज्ञानो ऽसि यत् त्वयायम् अस्मदुपदेशो गृहीतः |
SK
बोध्यं बन्धुगिरा स्फुटीकृतम् अपि स्थूलं न गृह्णाति यः सूक्ष्मे वस्तुनि तस्य शास्त्रविषये व्यर्थं मतिः खिद्यते द्रष्टुं यस्य न शक्तिर् अस्ति भवनद्वारं प्रकाशे सति च्छिद्रं सूक्ष्मतरं स जाततिमिरः सूच्याः कथं द्रक्ष्यति //
SK
उपदेष्टरि सत्य् अपि प्रमादी न हि बालो मतिवामतां जहाति ऋजुताम् उपनीतम् अप्य् अभीक्ष्णं पुनर् आगच्छति वक्रतां श्वपुच्छम् //
SK
उपदिष्टपथः प्रसन्नशास्त्रैर् अनवाचीनमतिर् न यात्य् अमार्गम् पटुभद्रमनाः परीतदेहः पटुभिर् वेणुधरैर् इव द्विपेन्द्रः //
SK
अयम् अक्षगणः सुसंयतो न विकारं कुरुते विपश्चितः सुगृहीतफणो भुजङ्गमो न हि शक्नोत्य् अपराद्धुम् अण्व् अपि //
SK
अपकारफलं जनस्य गाढं पदम् ऐश्वर्यम् असज्जने तनोति हरितालम् अहेर् निषिक्तम् अन्तर् वदने तीव्रतरं विषं करोति //
SK
जितम् इन्द्रियवैरिभिः प्रमादाज् जनम् इच्छा विनिपातयत्य् अनर्थे प्रविलीनसुवर्णदर्शनीया शलभं दीप्तिर् इव स्फुरन्तम् अग्नौ //
SK
अविपश्चितम् इन्द्रियार्थसक्तिः पुरुषं पातयति स्वधर्ममार्गात् श्लथबन्धनरुद्धनाभिमूलं फलम् अग्राद् इव पादपस्य पक्तिः //
SK
न चेद् भवेयुः प्रकृतिप्रबाधना विषद्रुमाशीविषशस्त्रवह्नयः असज्जनस्याविलतीक्ष्णचेतसः समा भवेत् केन पुनः सहोपमा //
SK
अकारणक्रोधक उष्णभाषणः खलो भृकुट्या विषमीकृतेक्षणः अनेकरन्ध्रोत्थितभीमपन्नगः करोति वल्मीक इवाधिकं भयम् //
SK
निशातया रोषशिलातले दृढं परोपघाताय मुदाभ्युदीर्णया दुनोति कं नाम न गोचरं गतं गतत्रपो वागसिधारया खलः //
SK
शठत्वसंनाहभृतः खलाश् चिरं दुरावराश् चेन्द्रियसैन्यमध्यगाः अरुंतुदाः साधुजने ऽपि निष्कृपाः कृपाणधाराम् इव पातयन्ति गाम् //
SK
बुधो न विश्वासम् इयाद् असज्जने विनीतवेषे ऽपि मनोज्ञवाच्य् अपि सुरूपदेहो ऽपि कलस्वनो ऽपि सन् न किं मयूरः स्फुरतो ऽत्ति पन्नगान् //
SK
यदीष्यते चित्तकुटुम्बपोषणं चिराय वा धीमहिषीविवर्धनम् अतो विपश्चिज्जलदोदये सति प्रकीर्यतां सद्गुणबीजम् आत्मनि //
SK
चिराय सत्संगतशुद्धमानसो न यात्य् असत्संगतम् आत्मवान् नरः मनोहरेन्दीवरपुष्पगोचरो न जातु भृङ्गः कुणपे निलीयते //
SK
रणगतस्य यथा रतिर् उद्भवत्य् अनपराद्धशरस्य धनुष्मतः गुणशरैर् अतिदूरनिपातिभिः प्रहतदोषरिपोः सुधियस् तथा //
SK
अतिविशुद्धम् अहार्यम् अकृत्रिमं गुणविभूषणम् आर्यजनार्चितम् समुपलभ्य नरस्य न जायते सुरवराभरणेष्व् अपि विस्मयः //
SK
सुखम् अत्यन्तम् अन्विच्छन् गुणानां वा समुद्भवम् असज्जनम् अतस् त्यक्त्वा कल्याणं मित्रम् आश्रयेत् //
SK
न जातु प्रीतये साधोर् अनार्यजनसंगतम् स्नातस्य तीर्थसलिलैः शुक्लेतरम् इवाम्बरम् //
SK
संपर्केण तमोभिदाम् जगदघप्रध्वंसिनां धीमतां क्रूरो ऽपि प्रकृतिं विहाय मलिनाम् आलम्बते भद्रताम् यत् तृष्णाग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् उज्झत्य् अम्बुधरोदरस्थितम् अपां पत्युः पयः क्षारताम् //
SK
तद् गम्यताम् यथासुखम् इति बोधिसत्त्वेनाभिहितः स पक्षी तं महात्मानं प्रदक्षिणीकृत्य गगनतलम् उत्पत्य परिभ्रमन् ददर्श रुधिराभिरक्तनखमुखश्मश्रुणा व्याघ्रेणोपयुज्यमानमांसम् उपचितमेदःपीवरस्कन्धम् अभिनवमुस्तास्वादनसुरभीकृतवदनान्तरालम् अवनितलोत्किरणमलिनकुटिलदंष्ट्राद्वयम् ईषत्पङ्कोपदिग्धशरीरम् अनतिदूरावस्थितगृध्रमण्डलपरिवृतम् उपान्ततरुनिलीनमुखरवायसगणावलोक्यमानं वराहतरुणम् | आलोक्य चैवम् अचिन्तयद् यावद् अयं व्याघ्रः कृताहारपर्याप्तिर् भूत्वा स्वनिलयं गच्छति तावद् अहम् एकान्ते तिष्ठामीति स्थित्वा च क्रमेण |
SK
शार्दूले प्रमनसि तत्र लब्धतृप्तौ संगत्या स्ववसतिम् आगते सलीलम् वाराहं पलम् उपयुज्य बद्धमेदः श्येनो ऽपि स्वनिलयम् आजगाम तूर्णम् //
SK
मृगपतिर् अपि भानौ किंशुकोत्तंसरागे स्थितवति कनकाद्रेर् मूर्ध्नि भास्वन्मयूखे तरुविटपकुलायालीनचञ्चद्विहङ्गचलितमृदुसटान्तः स्वं निवासं जगाम //
SK
दृष्ट्वा च तौ क्षुरकनखविभिन्नतनू तनूभूतचेष्टौ मूर्च्छावशविनिमीलितनयनौ कपिशिशू दुःखायमानहृदयो भवतु सलिलाभिषेकेणानयोर् मूर्च्छापनोदं करिष्यामीति विचिन्त्य |
SK
निरुद्धम् अम्भस्तटसेविभिर् विभिर् निरन्तरम् पल्लवविद्रुमैर् द्रुमैः शनैर् उपेतालि कुशेशयाशया व्यगाहतापिञ्जरकेसरः सरः //
SK
अवगाह्य च तत् सरो महद् द्रुतम् उत्तीर्य विलम्बिकेसरः स गुहान्तिकम् आगमन् मुहुश् चरणन्यासविभुग्नशाद्वलम् //
SK
शितगृध्रनखक्षताङ्गयोर् अथ शाखामृगशावयोस् तयोः उपरि त्वरितं स केसरं सलिलस्रावि दुधाव केसरी //
SK
हरिकेसरवारिसिच्यमानौ गुरुमूर्च्छापगमाद् उपेतसंज्ञौ उदमीलयतां विलोचनानि स्फुरितोत्तानमुखौ प्रवङ्गशावौ //
SK
गृध्रातिभीतपरिवेपितकातराङ्गौ तौ तस्थतुर् मृगपतेश् चरणान्तम् एत्य आलोलपल्लवमनोहरयाथ सो ऽपि स्नेहेन तौ रसनया मुहुर् आलिलेह //
SK
वृन्तच्युतं परिणतं फलम् आदयित्वा प्रेम्णा मुहुः स्वतनयाव् इव सान्त्वयित्वा खद्योतदीपतरलां स्वगुहां प्रविश्य सुष्वाप तौ स परिरभ्य सुखं निशायाम् //
SK
क्रमेण च परिम्लानमालतीकुसुमशेखरपरिधूसरनिशाकरपरिमुच्यमानपश्चिमदिग्भागायां स्ववसतिस्थानोत्थितमात्रहरिणदशनादश्यमानतृणाङ्कुरायां पूर्वसंध्यासंरज्यमानसागरसलिलायां प्रविरलीभवन्नक्षत्रगणायां कमलवनप्रबोधरमणीयतरसलिलाशयायां तरुविटपावतरणचलितशिखिकलापमनोहरतरवनान्तरायाम् अपगतायां रात्रौ गुहासमीपतरुलताकुसुमपर्यन्तसंचारिणीभिर् अलिकुलावलीभिः सादरम् उपगीयमान इवानिन्दितकर्मानिन्दिताङ्गः |
SK
तपने तपनीयकुम्भवद् दिशम् आक्रामति शातमन्यवीम् शनकैः कपिशावकान्वितः स्फुरितालम्बिसटो विनिर्ययौ //
SK
अथ गृहीतफलं फललुब्धकौ स्वतनयाव् अवलोकयितुं मुदा मृगपतेर् वसतिं द्रुतम् उत्सुकं प्रवगयोर् मिथुनं द्रुतम् आगमत् //
SK
उपगतं गतमानमदोदयो मृदुपदं मृदुवाक् करुणान्वितम् कृतनमस्कृति तन् मिथुनं हरिः कुशलपूर्वम् अभाषत लोकवित् //
SK
कपिशावकयोः सर्वम् यथावृत्तम् अनुक्रमात् ततश् चरमम् आचख्यौ गृध्रापहरणं तयोः //
SK
अतिक्रान्ताम् अथ श्रुत्वा व्यापदं पुत्रयोः शुचा गृध्रक्षतानि गात्राणि तयोः पस्पृशतुः कपी //
SK
ऊचतुश् चेदम् आर्द्रार्द्रं स्तुतियुक्तं मृगाधिपम् भवता रक्षता पुत्राव् आवाम् अपि सुरक्षितौ //
SK
तन्वन् धर्मकथागङ्गां चिह्नितो गुणसानुभिः यशस्तुहिनसंछन्नो जङ्गमस् त्वं हिमाचलः //
SK
ये न मान्ति तनोर् अन्तर् असंख्या भवतो गुणाः मन्ये केसरतां प्राप्य ते ऽमी बहिर् अवस्थिताः //
SK
स्तिमितम् उदधेः क्षुभ्णात्य् अम्भः पतत्रिपतिः पतञ् जलदपटलच्छन्नस्येन्दोः प्रसर्पति न द्युतिः तव पुनर् अघव्युच्छेदिन्यां स्थितौ स्थितम् अन्यतां न तु गमयितुं चेतः शुद्धं रजस्तमसी क्षमे //
SK
पालयित्वा सुताव् एताव् आवयोर् यच् छुभं त्वया प्राप्तं तेनातिमहता लभस्व प्रार्थितं फलम् //
SK
तद् इमाव् उपगृह्य पुत्रकौ भवता यत्नवताभिपालितौ बहुबन्धुपरीतगह्वरां वसतिं याव वनान्तरे निजाम् //
SK
तेन प्रोक्तौ यातम् इत्य् उत्सुकौ तौ कृत्वा भक्त्या वन्दनां तस्य साधोः शान्तस्थानात् पुत्रकारूढपृष्ठौ मन्दं मन्दं जग्मतुः काननान्तम् //
SK
यातोः पित्रोः पृष्ठमध्याधिरूढौ लग्नौ गाढं स्कन्धरोम्णां समूहे व्यावर्त्येषल् लोचनान्य् उत्सुकौ तौ भूयो भूयो दृष्टवन्तौ मृगेन्द्रम् //
SK
तं निक्षेपं सर्वनिक्षेपसारं सारप्रज्ञागोचरः सो ऽर्पयित्वा स्कन्धाद् भारं स्थापयित्वेव भूमौ खेदच्छेदाद् भूयसीं प्रीतिम् आप //
SK
नान्यत् कष्टतरं किंचित् प्राणिनिक्षेपधारणात् प्रत्यर्पणाच् च तस्यैव नान्यद् अस्ति सुखम् नृणाम् //
SK
तद् एवं तेन भगवता तिर्यग्गताव् अपि वर्तमानेन सुचिरम् अभिरक्षितः प्राणिनिक्षेपः | तदवस्थेनापि च प्रज्ञापरिचयः कृत इति विचिन्त्य
SK
यस् तेन धर्मनिक्षेपो निक्षिप्तः साधु तायिना पालनीयः स युष्माभिर् अत्यन्तं सुखम् इच्छुभिः //
SK
|| इति सिंहजातकम् ||
SK
विजहति दिव्यम् अपि सुखं त्रिभुवनहितकाम्यया महात्मानः / परदुःखं हि गरीयो दुःखयति दयावतां चेतः //
SK
तद्यथानुश्रूयते सकलपारमिताधिगमात् प्रत्यासन्नबोधिः स्वप्रभयावभासिताङ्गः कदाचिद् बोधिसत्त्वस् तुषितभवने समुदपादि | स च महात्मा तन्निवासिनां देवानां धर्म्यया कथया सन्मार्गम् अभिप्रकाश्यैवम् अचिन्तयत् | कृतयुगे हि धर्मपरायणो लोकः सुखम् अवतार्यते सत्पथम् | अस्मिंस् तु कलियुगे मदमानलोभरागद्वेषमोहवशीकृताः प्राणिनः सुखलवमोहितात्मानो दुर्गतिपरायणाः | तन् मया युक्तं बोधिम् अवगम्य संसाराज् जगद् उद्धर्तुम् इति | मध्यदेशे च श्रद्धाविशुद्धमना लोकः | यश् चैष शुद्धोदनः कपिलवस्तुनि महानगरे नरपतिर् अयम् अतीव सच्चरितेन महर्षीन् अप्य् अतिशेते | तद् अस्यैवाग्रमहिष्या मायायाः कुक्षौ जन्मपरिग्रहं करिष्यामीति विचिन्त्य निशि सुप्तायाः स्वप्ने |
SK
कृत्वा हिमाद्रिधवलं गुरुषड्विषाणं दानाधिवासितमुखं द्विरदस्य रूपम् शुद्धोदनस्य वसुधाधिपतेर् महिष्याः कुक्षिं विवेश स जगद्व्यसनक्षयाय //
SK
अथ देवी महामाया राज्ञे तं स्वप्नं निवेदयामास | देव स्वप्ने किल ममाद्य शरदम्बुधरावदातः षड्दन्तो गजेन्द्रो दक्षिणं कुक्षिं भित्त्वोदरं प्रविष्ट इति | ततः स राजा तं स्वप्नं स्वप्नफलविदां द्विजातीनां पुरस्ताद् वर्णयामास | ते च ब्राह्मणास् तम् ऊचुः | महाराज चक्रवर्ती ते पुत्रो भविष्यतीति | स च राजा प्रतीतमनास् तान् द्विजातीन् सत्कृत्य विससर्ज |
SK
सान्तःपुरजना देवी कदाचिद् अथ लुम्बिनीम् जगामानुमते राज्ञः संभूतोत्तमदोहदा //
SK
शाखाम् आलम्बमानायाः पुष्पभारावलम्बिनीम् देव्याः कुक्षिं विभिद्याशु बोधिसत्त्वो विनिर्ययौ //
SK
तं जातमात्रम् अथ काञ्चनयूपगौरः प्रीतः सहस्रनयनः शनकैर् अगृह्णात् मान्दारपुष्पनिकरैः सह तस्य मूर्ध्नि खान् निर्मले च विनिपेततुर् अम्बुधारे //
SK
संस्थापितो बलभिदा जगदेकनाथो धीरः क्रमेण भुवि सप्तपदानि गत्वा अत्यद्भुतां गिरम् इमां निजगाद शान्तां जन्मेदम् अन्त्यम् इति मे तमसाम् अभावात् //
SK
तस्य प्रभाथ मुषिताशिशिरांशुदीप्तिः शान्तात्मनो वसुमतीम् अवभासयन्ती इद्धैः पतङ्गशशिनोः किरणैर् अभेद्यं भीमान्धकारनरकेषु तमो बिभेद //
SK
अयम् अयम् महात्मा धर्मराजो ऽभिषिक्त इति प्रमुदितमनोभिर् अमरैश् चाम्बरतले दुन्दुभयो ऽभिजघ्निरे | शिबिकाम् चाधिरुह्य देवी बोधिसत्त्वम् आदाय स्वभवनम् अगमत् | अथात्यद्भुतविस्मितमनाः शुद्धोदनः सर्वबन्धनमोक्षं कारयित्वा समुच्छ्रितध्वजपताकविचित्रविपणिमार्गम् अतिसुरभिगन्धोदकोक्षितवसुधातलम् अभिनवकुसुमोपहारशबलरथ्यान्तरं कपिलवस्तुनगरम् अकारयत् |
SK
शबलहरिणकृत्तिच्छादितस्कन्धदेशं निचयम् अनलभासाम् उद्वहन्तम् जटानाम् असितम् अनसितानां कर्मणाम् संनिधानं क्षितिपतिर् अशृणोत् खाद् आपतन्तं जनेभ्यः //
SK
अथ स राजाभ्युत्थाय तं महर्षिं विदितबोधिसत्त्वजन्मानं प्रविशन्तम् अभिगम्याभिवाद्यार्घप्रदानादिना च सत्कारेण सत्कृत्य कृतासनपरिग्रहं चैनं कुशलं पृष्ट्वा धात्र्यङ्कगतं बोधिसत्त्वं दर्शयन्न् उवाच | भगवन् दृश्यतां तावद् अयं मे तनयः किं दीर्घायुः स्याद् इति | अथासितो बोधिसत्त्वम् आलोक्य चैवम् अचिन्तयत् |
SK
यथायं लक्षणैः स्पष्टैर् भूषणैर् इव भूषितः जगद्दुःखापनोदाय तथा बुद्धो भविष्यति //
SK
यदायं भविता बुद्धो यास्यामि मरणं तदा श्रोष्यन्त्य् अस्मात् कथां धर्म्यां ये ते धन्याः शरीरिणः //
SK
इति चिन्तयतस् तस्य महर्षेः शुद्धचेतसः नयने नतपक्ष्माग्रे बभूवतुर् उदश्रुणी //
SK
अथ शुद्धोदनः साश्रुनयनम् असितम् अवलोक्य ससंभ्रमम् उवा- च | नियतम् अयम् अल्पायुः | तेन भगवान् साश्रुलोचनः सम्वृत्तः | कष्टम् अविकसितम् एव मे तनयकमलम् इदम् अन्तकद्विरदपतिर् उन्मूलयिष्यति | असितो ऽब्रवीत् | अलम् अलं महाराज शोकेन | अहम् आत्मानम् अनुशोचामि | यदायं विषयान् उत्सृज्य जरामरणग्रस्तान् देहिनो ऽवलोक्य संविग्नमनास् तपोवनं गत्वा बुद्धो भविष्यति तदाहं पञ्चत्वम् उपयास्यामीत्य् अतो मम शोकेन साश्रुम् इदं चक्षुः कृतम् इत्य् अभिधाय गते तस्मिन् महर्षौ सिद्धार्थ इति नाम बोधिसत्त्वस्य कृत्वाचिरेणैव कालेन गुरुसकाशाद् अधिगतसर्वविज्ञानस्य तस्य सदृशात् कुलाद् यशोधरां नाम वरयित्वा वधूम् आनिनाय | कथम् अयं जरामरणरोगानभिज्ञ एव मे तनयः स्याद् इति विचिन्त्य शुद्धोदनो ऽन्तर्भवन एवान्तःपुरमध्यवर्तिनम् अविच्छिन्ननृत्तगीतावलोकनश्रवणपरायणं बोधिसत्त्वं कारयामास | स च यशोधरायां राहुलं नाम तनयं जनयित्वा कदाचिद् गीतोपनिबद्धानि प्रमदवनानि श्रुत्वा बहिर्निष्क्रमणाय बुद्धिं कृत्वा पित्राभ्यनुज्ञातो रथवरम् अधिरुह्य कृतशोभां कपिलवस्तुवीथीम् आलोकयन् परिचचार |
SK
श्रुत्वाथ तं परिजनान् नयनाभिरामं साक्षान् मनोभवम् इव श्रवणायताक्षम् तद्दर्शनं प्रति समुत्सुकमानसानां चेष्टा बभूव विविधा नगराङ्गनानाम् //
SK
अथ काचिद् असमाप्तमण्डनार्द्रतिलकाभ्यलंकृतललाटमध्या श्रवणपरिच्युतकुवलयोत्थायाञ्जितैकविलोचना गृहीतशलाकेन कमलानुकारिणा हस्तेन पश्यैनम् अनङ्गानुकारिणम् कुमारं गच्छन्तम् इति सख्यै दर्शयामास | काचित् पुनर् अहो भाग्यवती यशोधरा यास्य धर्मचारिणीति विचिन्त्य चिरम् एनं स्तिमितनयनापश्यत् | अपरा पुनः करद्वयावलम्बितगवाक्षस्तम्भशालभञ्जिकेव भृशम् अशोभत | किम् एवं राजपुत्रदर्शनकुतूहलाद् अतित्वरितं गच्छसि | समुत्क्षिपैनम् अर्धबद्धं स्तनतटात् पतन्तं हारम् अयं त्वम् अहो चपलेति ब्रुवाणः कुपितो गुरुजनः पश्यति | किम् इति निर्व्रीडासीति काचिद् अपराम् उपालब्धवती | काचित् पुनर् गुरुपयोधरैकदेशे संस्पर्शेनार्धापावृतं कपाटम् अनुजग्राहेव | नैकाकिन्यास् तवैव कुमारदर्शनकुतूहलं दीयताम् तावद् अन्तरम् अहम् अपि कुतूहलवती राजपुत्रं द्रष्टुकामा काचिद् इत्य् अभाषत |
SK
कुमारं द्रष्टुकामानां तासाम् इति विसर्पणात् मेखलानूपुरध्वानो भवनेषु व्यतन्यत //
SK
गच्छन् नरेन्द्रतनयो ऽथ पथि क्रमेण दण्डार्पितप्रचलपाणिम् अपेतकान्तिम् वृद्धं व्यलोकयद् अतीव सितोत्तमाङ्गं शुद्धाधिवासपरिनिर्मितम् आनताङ्गम् //
SK
अथ बोधिसत्त्वः सारथिम् अपृच्छत् कथय तावत् कः पुनर् अयम् आरोपितधनुरानतपरिदुर्बलाङ्गः परिणतकाशकुसुमसितशिरसिजः शिरःप्रकम्पेण किम् अपि प्रलयन्न् इवालोक्यते | सारथिर् उवाच | कुमार जरा नाम सर्वलोकव्यापिनी शरीरेन्द्रियपाटवहारिणी मदनकथातिरस्करणी कुपितेव यूनाम् यौवनमदम् उत्सारयति ययैष इमाम् अवस्थां नीत इति | अथ स महात्मा पुनर् उवाच | यदि जरा तारुण्यम् एवं विनाशयति का नाम रतिर् अस्मिन् परिणामिनि देहे | सूत उवाच | कुमार न केवलं जरा व्याधिर् अपि धातुक्षोभसंभूतो देहिनां महान् अनर्थः | ततो ऽपरो मृत्युर् नाम सर्वक्रियापहरणपटुर् अनर्थतरो यः परिचिन्त्यमानो ऽपि शरीरिणां महद् दुःखम् उत्पादयति | बोधिसत्त्व उवाच |
SK
त्रिभिर् इमैर् अनुबद्धम् अहो जगन् मरणरोगजरारिभिर् अन्वहम् महति नाम भये सति दारुणे कथम् इदम् विषयैकपरायणम् //
SK
इति निवर्तय सूत रथं लघु व्रज गृहाय पुनः किम् इहास्यते मरणरोगजरापरिशङ्किनो मम भविष्यति नोपवने रतिः //
SK
अथ राजा संविग्नमनसं बोधिसत्त्वं श्रुत्वा तां चासितस्य वाचम् अनुस्मृत्य भविष्यत्तनयवियोगाशङ्कितमनाः सारथये संदिदेश | प्रमदवनम् एव कुमारो नेतव्य इति | स च सारथिः प्रसभम् एनम् उपवनम् एव प्रविश्याभिहितवान् | द्रष्टुम् अर्हत्य् आयुष्मान् इह हि |
SK
किंचित् किंचित् कुसुमहसितव्यक्तिशोभावतीनां मन्दं मन्दं मलयमरुता सर्पता नर्तितानाम् आभान्त्य् आसाम् उपवनलताकन्यकानां विजिह्माः पर्यन्तेषु भ्रमदलिकुलश्रेणिवेण्यः क्वणन्त्यः //
SK
अथ बोधिसत्त्वो रथाद् अवतीर्य जरामरणरोगचिन्तापर्याकुलमतिर् अन्तःशल्य इव द्विरदपतिर् इत्य् अब्रवीत् | धैर्यच्छिदस्
SK
तनुधियाम् विरसावसानाः शान्तात्मभिः परिहृता भुजगा इवोग्राः यूनो ऽपि मन्मथपरस्य जगत्सपत्नाः पर्याकुलं न हि मनो विषया हरन्ति //
SK
अथ स राजा नृत्तगीतकुशलाः प्रकाशाङ्गना बोधिसत्त्वहृदयापकर्षणाय तद् उपवनम् प्राहिणोत् | ताश् च कुमारम् अभिगम्य मदजनितप्रागल्भ्यास् तां तां चेष्टाम् आविश्चक्रुः | अथ काचिद् एनम् उक्तवती पश्य कुमार | वान्त्य्
SK
एते मलयानिलाः सुरभयः पुष्पद्रुमाकम्पिनश् चूतस्य भ्रमरः प्रदक्षिणयति प्रोद्भेदिनीं मञ्जरीम् चापारोपणदीर्घसूत्रकम् इमं स्वस्थं त्वया स्थीयते शङ्के चोदयतीति पुष्पधनुषं तारध्वनिः कोकिलः //
SK
अपि च |
SK
स्वरजःकृताङ्गरागा बाला सहकारमञ्जरीकन्या / भ्रमरवरेण भ्रमता क्षणम् इव परिहीयते तन्वी //
SK
अपरा पुनर् एनम् उवाच |
SK
शिलीमुखं भुक्तलतावधूजनं विलोक्य तत्पुष्परजोविधूसरम् समीरणाकम्पितबालपङ्कजा मुहुर् मुहुस् तर्जयतीव पद्मिनी //
SK
काचित् त्व् एनम् अब्रवीत् |
SK
गच्छाम्य् अहं तव कृते कुसुमानि यावद् एतानि सूक्ष्ममकरन्दनिरन्तराणि मद्दृष्टिबाधिनम् अशान्तगतिद्विरेफं दूरात् कुमार विनिवारय तावद् एव //
SK
अपरा पुनः सहासम् अभितः स्थित्वैनम् अभ्यधात् |
SK
आधूतं बकुलज्यया मधुकरव्याधूतकिञ्जल्कया विन्यस्योरसि शङ्खभङ्गधवलच्छायं धनुः कौसुमम् गाम्भीर्याद् अवधीरयन्तम् अबलास् त्वाम् आजिघांसुः स्मरः पौष्पं बाणम् ऋजूकरोति नियतं संमीलितैकेक्षणः //
SK
बोधिसत्त्व उवाच | अलम् अलं भगिन्य एभिर् असत्प्रलापैः | न खलु मम संविग्ने मनसि सलिलधारा इव हुतभुजि शृङ्गारकथाः समवकाशम् अधुना लभन्ते |
SK
भगिन्य इति तत् तस्य निशम्य वचनं स्त्रियः मुखानि नमयामासुस् त्रपया त्यक्तविभ्रमाः //
SK
ह्रीतं तद् युवतिकदम्बकं विदित्वा संविग्नं नृपतनयं च शुद्धबुद्धिम् तूणीरे नियतम् इषून् निधाय पौष्पान् सव्रीडं धनुर् अवतारितं स्मरेण //
SK
अथ बोधिसत्त्वस् तत्र प्रमदवने रतिम् अलभमानो ऽस्तम् उपेयुषि सवितरि रथवरम् अधिरुह्य ताश् चाङ्गना भवनम् आजग्मुः | ततो बोधिसत्त्वः शृङ्गारकथाम् अवमन्यमानः शयनतले विनिविश्य जरामरणरोगान् एव मनसि निधाय चिन्तापरो बभूव | ततः शुद्धावासैस् तस्य महात्मनः संवेजनाय शयनपालिकानाम् सद्य एव निद्रावक्तव्यता क्रियते स्म | तत्र च कासांचिद् अविरलशब्दश्वासवशप्रकाशदशनानि विगलितलालालवव्याप्तपर्यन्तानि वदनान्य् अभूवन् | अन्परासां च कुट्टिमतलपर्यस्तानि प्रशिथिलविगलितदुकूलतया प्रव्यक्तोरूणि पयोधरोपरिव्यवकीर्णहाराणि निक्षिप्तविषमभुजलतानि मृतानाम् इव शरीराण्य् आसन् | अपरा च मुरजपुष्करविनिवेशितद्विगुणबाहूपधानविनिहितानना विष्टराद् विनिपत्य तथैव शिष्ये | कस्याश्चिन् निद्रापहृताङ्गुलियत्नात् कराद् अधरविश्लिष्टप्रथमरन्ध्रः प्रमदानयनतारकानीलो वंशः पपात | द्विरदविलोडितानाम् इव कमलिनीनां विविधावस्थं तासां च रूपम् आलोक्य हसितम् इव यष्टिप्रदीपैः | अथ बोधिसत्त्वस् तासाम् युवतीनां निन्दां कृत्वाभ्युत्थाय निष्क्रम्य च्छन्दकम् उत्थाप्योवाच |
SK
इमं समुत्तर्तुमना भवार्णवं तपोवनं गन्तुम् अहं समुद्यतः अतस् त्वम् अस्मद्व्यवसायसिद्धये महाजवं कन्थकम् अश्वम् आनय //
SK
छन्दकश् च शुद्धाधिवासैश् चोद्यमानस् तद् राजशासनम् अनादृत्य तथेति प्रतिश्रुत्य वामकक्ष्याविनिहितासिः कन्थकम् अश्ववरम् आनिना- य | बोधिसत्त्वाधिरूढं तम् अश्वं पश्चाद् वध्र्यावलम्बिना च्छन्दकेन सह यक्षकुमाराः करतलविनिहितखुरं प्रभातसमये नभसा महर्षेर् अराडस्याश्रमसमीपम् अवतारयामासुर् इति |
SK
अथ व्युदस्याभरणानि विग्रहात् स भासितानि स्फुटरत्नतेजसा तरङ्गिनः कोकिलकण्ठमेचकांश् चकर्त खड्गेन शनैः शिरोरुहान् //
SK
तं छन्दकः समवलोक्य निरस्तभूषं स्वच्छं जलाशयम् इवापहृतारविन्दम् संतापितः प्रबलशोकहुताशनेन मुक्तानिभान् नयनवारिकणान् मुमोच //
SK
बोधिसत्त्व उवाच | न खलु धर्मोन्मुखे सुहृदि स्वजने वा तपोवनाभिप्रस्थिते विषादं कर्तुम् अर्हति सज्जनः | तद् गच्छ मम गुरुजनम् एवं ब्रूहि |
SK
अथवेयम् तनुः क्षीणा तीव्रेण तपसा मम मया वा तत् पदं लब्धं यद् दृष्टं तत्त्वदर्शिभिः //
SK
छन्दकश् च तथेति बोधिसत्त्वम् अभिप्रणम्याश्वम् आभरणानि चादाय क्रमेण नगरम् आगम्य तं बोधिसत्त्वसंदेशं नरपतये निवेदयामास | श्रुत्वा च तस्य विनिश्चयं सहान्तःपुरेण शुद्धोदनो बहुविधं विललाप | बोधिसत्त्वश् च लुब्धकरूपधारिणो देवपुत्रात् स्वेन शशिकिरणरुचिना वसनयुगेन काषाये वाससी क्रीत्वा परिधाय शनैः शनैर् अराडस्याश्रमं जगाम | दृष्ट्वा च बोधिसत्त्वम् आगच्छन्तम् अराडः स्वागतं स्वागतम् इत्य् अभिधाय स्वम् उटजम् आनीय वेत्रासने समुपवेश्य कुशलपूर्वकम् आलापं चकार | ततो बोधिसत्त्वस् तम् अपृच्छत् |
SK
कीदृशो भवताम् धर्मः कथम् वा सो ऽधिगम्यते तत्त्वं मे द्रष्टुकामाय वक्तुम् अर्हति सत्तमः //
SK
अराड उवाच | श्रोतुम् अर्हति महाभाग इति | प्रकृतिविकारयोर् जन्मजरामृत्यवस् तत्त्वम् इत्य् अभिहितम् | प्रकृतिश् च पञ्च महाभूतान्य् अहंकारो व्यक्तं चेति | विकारश् चेन्द्रियाणि तदर्थाश् च पाणिपादवाक्पायूपस्थं मन इत्य् अस्य क्षेत्रं विजानाति | तत् क्षेत्रज्ञ इत्य् अभिधीयते | क्षेत्रज्ञं चात्मानम् अवचक्षते तत्त्वविदः | यच् चोत्पादावसानान् मरणधर्मात्मकं तद् व्यक्तम् इति बोद्धव्यम् अव्यक्तम् एतद्विपर्ययाद् इति | अज्ञानं कर्म तृष्णा च संसारहेतवो विज्ञेयाः | त्रितये चावस्थितो जन्तुर् न सत्त्वम् अतिक्रम्य वर्तते | विप्रत्ययाहंकारसंदेहाभिसंप्लवाविशेषानुपायसङ्गाभ्यवपाताः | विप्रत्ययो नाम विपरीतप्रवर्तनम् | अहम् अभिदधाम्य् अहं वेद्मीत्य् एवमाद्य् अहंकारः | यस् त्व् असंदिग्धान् अपि भावान् मृत्पिण्डवद् एकीभावेन पश्यति स संदेह इति मन्तव्यः | यद् एव चाहं तान्य् एवामूनि मनोबुद्धिकर्माणि | यश् चैष गणः सो ऽहम् इत्य् अभिसंप्लवम् उदाहरन्ति | अविशेषः पुनः प्रतिबुद्धाप्रतिबुद्धयोर् अविशेषज्ञता प्रकृतीनां च सो ऽविशेष इति बोद्धव्यः | स्वाहाकारवषट्कारप्रोक्षणाभ्युक्षणादयो ह्य् अनुपाय इति बोद्धव्यः | यत्र वस्तुनि सक्तिम् उपेत्य् अमेधा मनोवाग्बुद्धिकर्मभिः सो ऽभिष्वङ्ग इत्य् अभिधीयते | ममेदम् अस्याहम् इति यद् दुःखम् अभिमन्यते सो ऽभ्यवपातः | प्राणिनां संसारहेतुर् आलस्यं नाम | तमो मोहो मृत्युजन्मनी | महामोहः काम इति संज्ञितः | तामिस्रं च क्रोध इत्य् अवगम्यताम् | विषादः पुनर् अन्धतामिस्रम् अभिधीयते | अनयाविद्यया पञ्चपर्वया बालिशो बद्धमना जात्यादौ महति दुःखे पुनः पुनर् आवर्तते | तत्र चाहं द्रष्टा श्रोता मन्ता कार्यकारणं चेत्य् एवम् अवगम्य संसारे परिभ्रमति | एभिश् च हेतुभिर् जन्मस्रोतःप्रवृत्तिर् दृष्टा हेत्वभावाज् जन्माभाव इति | तत्र च मोक्षकामः प्रतिबुद्धाप्रतिबुद्धौ व्यक्ताव्यक्ते च जानीयात् | एतच् चतुष्टयम् अवगम्य क्षेत्रज्ञः सर्वदुःखनिर्मुक्तः पदम् अक्षरम् अवाप्नोतीति |
SK
त्यक्त्वादितो भवनिबन्धनम् आदिबीजम् आदाय लिङ्गम् अपवृत्तसुखाभिलाषः संतोषवान् पदम् अनुत्तमम् आप्तुकामः शीलं विशुद्धम् उपगृह्य वसेद् वनान्ते //
SK
पश्चाच् च रागवैराग्यप्रभवे भयक्षेमे विदित्वा निगृह्य सर्वेन्द्रियग्रामं मनःशमम् आलम्ब्य ततः कामेभ्यो विविक्तं व्यापादादिभ्यश् च विवेकजं प्रथमं ध्यानं सवितर्कम् आप्नोति | स चैवंविधेन कामद्वेषविगर्हिणा शमेनान्वितो ब्रह्मलोकम् अधिगच्छति | तांश् च वितर्कान् मनःसंक्षोभकरान् अवेत्य तद्विरहितं प्रीतिसुखात्मकं द्वितीयं ध्यानम् आसादयति | तया च प्रीत्या ह्रियमाणमना देवेष्व् आभास्वरेषूपपद्यते | यः पुनस् तस्मात् प्रीतिसुखाच् चित्तम् उच्चालयति स तृतीयं सुखप्रीतिरहितं ध्यानम् आप्नोति | तत् तृतीयध्याननिमग्नमनाश् च शुभकृत्स्नेष्व् अमरेषु जन्म प्रतिलभते | तादृशं च सुखम् आसाद्य यो व्यपेक्षां करोति स चतुर्थं सुखदुःखविरहितं ध्यानम् उपलभते | तच् च दीर्घत्वाद् आयुषः केचिन् मुक्तिम् एवाध्यवस्यन्ति | कस्मात् सुखदुःखविच्छेदाच् चेतसश् चाव्यापारात् | अस्य च ध्यानस्य बृहत्फलैर् देवैः सामान्यं फलम् आचक्षते विद्वांसः | तस्माच् च समाधेर् व्युत्थितः शरीरिणां दोषान् आलोक्य शरीरविनिवृत्तिहेतोर् ज्ञानम् अधिगच्छति | तद् अपि च ध्यानम् अपहाय विशेषकाङ्क्षी रूपाद् अपि विरज्यते | यानि चास्मिन् दुःखानि शरीरे विद्यन्ते तान्य् आदौ बुद्ध्या समवलोकयंस् ततो घनेष्व् अपि द्रव्येष्व् आकाशाधिमुक्तिम् उत्पादयति | आकाशगतं चात्मानम् अभिसंक्षिप्यानन्तम् आकाशम् आलोकयन् विशेषाद् अधिगमाद् आत्मकौशलाद् आत्मानम् आत्मनि संक्षिप्य किंचिन् नास्तीत्य् आकिंचन्य इति संज्ञाम् उपगतः शरीरविरहान् मुक्त इत्य् अभिधीयते | बोधिसत्त्व उवाच |
SK
यदि चेतयितास्त्य् एव कुतो मुक्तिर् भविष्यति तस्मिन् सति प्रवर्तन्ते कुशलाकुशलक्रियाः //
SK
यथा च सलिलभूमिविरहान् न बीजं केनचित् प्रविरूढम् आलोकितं तत्प्रत्ययाच् च दृष्टं विरोहद् एवम् आत्मापि गृहीतव्यः | कर्माज्ञानतृष्णात्यागाच् च यो निश्चीयते मोक्षः सति चात्मनि तत्परित्यागम् नोपलभामहे | तदपरित्यागाच् च कुतो मोक्ष इत्य् अहंकारपरित्यागश् च सत्य् आत्मनि कुतो भवेत् | सति चाहंकारे स्थितम् एवेदं जन्मस्रोतसीत्य् अभिधाय |
SK
अराडस्याश्रमात् तस्मान् निष्क्रम्य स महामतिः तपोभिर् दुष्करैस् तीव्रैः शोषयामास विग्रहम् //
SK
नानेन तपसा तत्त्वाधिगमो भवतीति च मत्वोत्थाय परिदुर्बलशरीरो बोधिसत्त्वो नैरञ्जनायां सरिति स्नात्वा सुनन्दाप्रतिपादितं पिण्डम् अभ्यवहृत्य कालेन भुजगराजेनाभिष्टुतः |
SK
स चाषपङ्क्त्याततनीलपक्षया परीतदेहः परिपाटलाङ्गया सरोरुहाणां प्रचलत्पलाशया स्रजेव नीलोत्पलपत्त्रमिश्रया //
SK
अथ मन्दपदं गत्वा धीमान् हेमाचलद्युतिः अधस्ताद् बोधिवृक्षस्य निषसाद स बोधये //
SK
ततो दुहितृभिः सार्धं चापम् आदाय कौसुमम् आजगाम मनोयोनिस् तस्य क्षोभयितुं मनः //
SK
आजिघ्रन्ती पुरस् तस्य मालतीकुसुमं नवम् काचिन् न्यमीलयत् कांचिद् दृष्टिम् आलोलतारकाम् //
SK
सखीकर्णे ऽभिधायान्या किम् अपि स्मितपूर्वकम् तत्र लीलावती रामा काशयन्ती मुखं ययौ //
SK
सकामा दर्शयन्त्य् अन्या जगादेति जिनर्षभम् रामायाः श्लथकाञ्चीकं नितम्बस्रस्तम् अंशुकम् //
SK
क्व च यौवनम् एतद् इन्दुकान्तं क्व च ते तपसे मनोऽभिलाषः भज कामम् अतो निवर्तयस्व वद किं तपसः फलं त्वयाप्तुम् //
SK
हितकाम्यतया ब्रुवे भवन्तं किम् अतः परम् आप्तुम् इच्छसि त्वम् गृहिधर्मम् अबाधिनं महान्तं न विहाय किम् अन्यद् अस्ति पुण्यम् //
SK
त्वदधिगमसमुत्सुकासु धीमन् किम् इयम् अदयिता मनोहरास्व् अपीति मुखलवदन्ती कामिनी कामुकां वदनकमलानि नखेन खण्डयन्ती //
SK
यदा च तासु बोधिसत्त्वः सावज्ञम् अपि दृष्टिविषाणि विक्षिपत्स्व् अपि नानाचेष्टानि दर्शयत्सु ध्यानस्तिमिताक्ष एव तस्थौ तदा मारः प्रव्याजहार | भीषयित्वैनम् उत्थापयतेति |
SK
ततः सिंहमुखः कश्चित् फूत्कारेण पुनः पुनः बोधिसत्त्वस्य त्रासार्थं वह्नेः कणान् व्यसर्जयत् //
SK
ते कृशानुकणास् तस्य किंकरस्य मुखोज्झिताः निपतन्तः क्षणाज् जग्मुः प्रफुल्लपुष्पताम् मुनेः //
SK
शतवक्त्रेण तीक्ष्णाग्रां क्षेप्ता शक्तिं यदाक्षिपत् विकसत्केसरव्यूहो बभूवोत्पलशेखरः //
SK
दंष्ट्राधरेण चान्येन विद्युदापिङ्गलत्विषा क्षिप्तान्य् अयोगुडोष्णानि पुष्पाणि बभूवुः क्षणात् //
SK
अन्येनाभ्युद्यतो बाहुः सखड्गः पिङ्गचक्षुषा लोहस्तम्भसमुच्छ्रायः क्षणान् निश्चलतां ययौ //
SK
अथ मदनविजेतुः सिद्धमन्त्रानिलेन जलधितटगवह्निः किंकराणां समूहः असितगतिसखेन प्रेर्यमाणः समन्ताद् इव विरसविकीर्णः क्षीणरोचिःशतो ऽभूत् //
SK
ततः सैन्यभग्नाद् विषादवति कुसुमकेतौ भगवांश् चतुर्थध्यानाद् व्युत्थायेदम् अचिन्तयत् |
SK
आत्मनश् चेत् सुखाद् दुःखात् पुण्यं पापं प्रसूयते कथं न भद्रता नित्यं धर्माभावे च देहिनाम् //
SK
रूपसौभाग्यभाग्यादिभेदः कथम् इहेष्यते यदि पूर्वकृतं नास्ति कथम् अत्र शुभाशुभौ //
SK
कर्मणां हेतुकं कर्म चेत् सारादि न कल्पयेत् अहेतुकं जगत् स्याच् चेत् कः कर्मस्वकतां वदेत् //
SK
सुखहेतुः सुखम् स्याच् चेद् दुःखं दुःखस्य हेतुकम् तपसा दुष्करेणैवं कथं मुक्तिर् भविष्यति //
SK
ईश्वरः कारणं केचिद् अबुधाः संप्रचक्षते कथं न समता लोके समवर्तीश्वरो हि सः //
SK
इत्य् एवम् अबुधाः केचिद् अस्तिनास्तिप्रवादिनः कुदृष्टिकर्मतो हीना जायन्ते नरकेष्व् अपि //
SK
सुदृष्टिकर्मतो भद्रा आर्यज्ञानप्रवेदिनः स्वर्गलोकं गताः केचित् कायवाक्चित्तसंयमात् //
SK
अहो भवरतो लोकः क्लेशसंघैर् विहन्यते जराव्याधिविपन्नश् च मृतः पुनः प्रजायते //
SK
अथ बोधिसत्त्वस्यैवम् अभवत् | कस्मिन् सति जरामरणं भवति किं च प्रत्ययात् | पुनर् एवम् अभवत् | यद् उताविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् उपादानप्रत्ययो भवो भवप्रत्यया जातिर् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्त्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति | अविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधान् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधो वेदनानिरोधात् तृष्णानिरोधस् तृष्णानिरोधाद् उपादाननिरोध उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधो जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते | एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति | इत्य् एवं बोधिसत्त्वस्य प्रज्ञाचक्षुर् उदपादि |
SK
अथासौ भगवान् बुद्धः प्रज्ञालोकप्रकाशकः वैहायसं समुद्गम्य सिंहनादं ननाद च //
SK
सिंहो ऽहं वादिजन्तूनां विरजस्को निरास्रवः दुःखस्यान्तं करिष्यामि सत्त्वानां निरहंकृतिः //
SK
ततश् चकम्पे सधराधरा धरा वेलाम् व्यतीत्य प्रससार सागरः संसक्तमन्द्राशयसौम्यनिस्वनाः दिवौकसां दुन्दुभयः प्रसस्वनुः //
SK
दिशः प्रसन्नाभरणाश् चकाशिरे मार्तण्डचन्द्रौ शरदीव रेजतुः परिभ्रमच् चन्दनचूर्णरञ्जितं पपात पुष्पं नभसः सुगन्धिमत् //
SK
समाययुर् विस्मयफुल्ललोचना दिवौकसस् तत्र सहाप्सरोगणैः ववौ मनोज्ञात्मगुणः समीरणो मनःसु हर्षो जगतां व्यजृम्भत //
SK
उदीरिता हर्षपरीतमानसैर् महद्भिर् भूतगणैः सविस्मयैः बुद्धस्य धर्मातिशयस्तवाश्रयाः समन्ततः शुश्रुविरे गिरः शुभाः //
SK
अहो बतौदार्यम् अहो सुबुद्धिता विशुद्धिताम् पश्य यथास्य चेतसः अहो स्वसौख्येषु निसङ्गता मतेर् नमो ऽस्तु ते ऽत्यद्भुतधैर्यविक्रम //
SK
सनाथतां साधु जगद् गतं त्वया पुनर्विबुद्धेक्षणपङ्कजश्रिया अमोघरूपा बत पुण्यसंचयाश् चिरस्य धर्मेण खलूर्जितं जितम् //
SK
सर्वबुद्धाश् च बुद्धाय वदन्तः साधु साध्व् इति सौवर्णरत्नच्छत्त्राणि प्रयच्छन्ति स्म सुश्रिये //
SK
अथ सर्वदेवगणा बोधिसत्त्वं बोधिमण्डनिषण्णं प्राप्ताभिज्ञं जितमारबलं जयोद्गतच्छत्त्रध्वजपताकं पुरुषवैद्यं विगतभयसिंहं सुदान्तनागं त्रैविद्यप्राप्तम् दशबलविक्रमं पूर्वप्रणिधिबोधिप्राप्तं विदित्वाभिसंपूजयन्त इति प्रार्थयामासुः |
SK
नाथोद्य जगतां धीर मारहन्तर् जिनर्षभ अन्धभूते जगत्य् एवं प्रज्ञादीपं प्रकाशय //
SK
क्षुत्पिपासाहते लोके दुर्दृष्टिविकलाशये सर्वपारमितामेघैर् धर्मामृतं प्रवर्षय //
SK
इति तुष्टाः सर्वे च देवगणाः प्राञ्जलयस् तत्रैव तस्थुः |
SK
ततो ऽत्र कामावचराः सुवक्त्राः सुगन्धपुष्पाक्षतलाजतोयैः सौवर्णकुम्भैश् च सगीतवाद्यैस् तस्याभिषेकं सफलं प्रचक्रुः //
SK
अथ तथागतो महानन्दः सर्वसत्त्वानां धर्मं देशयामीति ततः समुत्थाय चरितुं प्रचक्राम | अथ मारो भगवन्तं समेत्योवाच |
SK
परिनिर्वातु बुद्धः संश् चित्तसंकल्पवर्जितः महान्तो मुनयः प्राज्ञा निर्वाणं हि ययुर् व्रतैः //
SK
एवम् उक्ते ऽथ मारे ऽस्मिन् भगवांस् तम् उवाच सः अहं तावन् न पापीयन्न् आगमिष्यामि निर्वृतिम् //
SK
यावन् न भिक्षवो धीरा दान्ताः प्राज्ञा विशारदाः आर्यज्ञानप्रसंबोधा भविष्यन्ति बहुश्रुताः //
SK
यावन् न त्रीणि रत्नानि लोके संप्रथितानि च दानपारादिभिः शक्ता बोधिसत्त्वा जितार्थिनः //
SK
भविष्यन्ति न मे यावद् बोधिप्राप्ता जितारयः तावत् पापिष्ठ यास्यामि निर्वाणं न क्षयान्तकृत् //
SK
एवम् उक्ते ऽथ शाक्येन्द्रे ऽधोमुखः कुसुमायुधः हतो ऽहम् इति काष्ठेन विषसाद महीं लिखन् //
SK
अथ मारकन्यकाः पितरं विषादवन्तं दृष्ट्वा सहसैत्य प्रत्यभाषन्त |
SK
दुर्मनासि कथं तात प्रोच्यतां यद्य् असौ नरः रागपाशेन तं बद्ध्वा कुञ्जरं वानयामहे //
SK
आनयित्वा च तं शीघ्रं करिष्यामि वशं तव तात मा गा विषादं तं नरो ऽयं किम् अतो भयम् //
SK
मार आह |
SK
अर्हन् स सुगतो लोके न रागस्य वशं व्रजेत् विषयं मे व्यतिक्रान्तं तस्माच् छोचाम्य् अहं भृशम् //
SK
ततस् ताः स्त्रीचापल्याद् अविदितप्रभावा बोधिसत्त्वस्य प्रभूतयौवनमत्तकाशिन्यः पितुर् वचनम् अनुश्रुत्य बोधिसत्त्वम् उपसंक्रान्तास् तन्मनः संक्षोभयितुं प्रचक्रमिरे |
SK
बभाष शक्येन्द्रम् अनिन्दिताधरा विलासिनी तं मधुरप्रलापिनी स्तनौ प्रकाश्य द्विपकुम्भनिर्जितौ मुखेन चन्द्रं कमलं च हासिनी //
SK
एकातपत्रं जगतः प्रभुत्वं नवं वयः सौम्यवपुश् च कान्तम् एतांश् च हित्वा तपसा किमर्थं रमस्व कामं मम काम्यदेहे //
SK
अन्या सुरामा मृगशावकाक्षी शनैः शनैस् तं मदविह्वलाङ्गी गत्या जयन्ती गजराजहंसौ किंचिद् विहस्याथ मुनिं बभाषे //
SK
सौवर्णमुक्ताभरणाङ्गभूषं त्वदर्थम् एवेह बिभर्मि राजन् प्रभुङ्क्ष्व कामं तपसः फलं तत् कामे प्रसक्ता मुनयो ह्य् अटन्ते //
SK
आच्छाद्य वस्त्रेण मुखार्धभागं निबध्य दृष्टिं मुनिवंशकेतौ तस्थौ तदग्रे किम् अपि प्रवक्तुं विकाशयन्ती कमलं सलीला //
SK
लोकानुकम्पा तव चेन् मतं स्याद् विहाय मातापितरौ च मित्रान् वने वसंस् त्वं कम् इवोद्धरिष्येर् इति प्रगल्भं मनसीव तस्याः //
SK
कुर्वन्ति भावानि मुनिं विजेतुं यथा यथा ताः स्म विलासवत्यः तस्थौ निरीहे निरहंकृतौ च तथा तथासौ स्तिमितायताक्षः //
SK
एता मुनेर् भावविदर्शयन्त्यो मनो ऽथ हर्तुं न च शक्नुवन्त्यः तपोऽपराधाज् जरसा निपीतं वपुर् विरूपं तमसाभिजग्मुः //
SK
ततस् ताः पितुर् अन्तिकं गत्वैवम् आहुः |
SK
सत्यं वदसि नस् तात न रागेण स नीयते विषयं नो व्यतिक्रान्तं वयं शोचामहे ऽपि तत् //
SK
तत् साधु नस् तातेदम् जराजर्जरशरीरम् अन्तर्धापय | मार आह |
SK
नाहं पश्यामि तं लोके पुरुषं सचराचरे बुद्धस्य यो ह्य् अधिष्ठानं शक्नुयात् कर्तुम् अन्यथा //
SK
तं गत्वा त्वरितं यूयं प्रार्थयध्वं गुणाम्बुधिम् स वः पौराणकं कायं करिष्यति यथामतम् //
SK
ततस् तास् तथागतं प्रार्थयित्वा लब्धपौराणाधिकसुन्दरदेहाः स्वभवनं ययुः | अथ दुर्दिने संजाते मुचिलिन्दनागराजः स्वभवनान् निष्क्रम्य भगवतः काये शीतार्तं मा भूद् इति सप्तभिः फणैर् आच्छाद्य दुर्दिने व्यतिक्रान्ते तथागतं प्रणम्य स्वभवनं जगाम | ततश् चरकपरिव्राजकवृद्धश्रावकगौतमनिर्ग्रन्थाजीविकादयस् तं तथागतं न्यग्रोधमूलस्थं प्रणिपत्योचुः | अपि भगवता गौतमेनैतत् सप्ताहदुर्दिनं सम्यक् सुखेन व्यतिनामितम् इति | भगवान् आह |
SK
सुखं विवेकतुष्टस्य सदा शान्तौ स्थितस्य च सुखं विरागतो लोके पापानां समतिक्रमात् //
SK
ततस् तथागतो ध्यानसुखवेदी तारायणमूले तस्थौ | तन्मुहूर्ते त्रपुषभल्लिकौ वणिजौ विविधपण्यं गृहीत्वा दक्षिणापथाद् उत्तरापथं गच्छन्तौ काषायसंवृतशान्तदेहं तथागतं पश्यन्तौ प्रहर्षजातौ तत्पादौ शिरसाभिवन्द्य मधुपायसपूर्णपिण्डपात्रं तस्मै प्रददतुः | अथ तथागतस्य भोजनकालं ज्ञात्वा चत्वारो महाराजानः सपरिवाराः पुष्पधूपगन्धमाल्यविलेपनतूर्यताडावचरसंगीतकैः पूजां कृत्वा सर्पिमण्डपात्राणि प्रयच्छन्ति स्म | अथ भगवांस् तानि पात्राणि प्रतिगृह्य मङ्गलवाक्यपूर्वं तान् उवाच |
SK
श्रीर् वो ऽस्तु दक्षिणे हस्ते श्रीर् वो वामकरे स्थिता श्रीर् वो ऽस्तु सर्वलोकेषु मालेव शिरसि स्थिता //
SK
स्वस्ति कुर्वन्तु वो देवास् तिष्ठतां गच्छतां पथि मतिर् धर्मे सदा भूयात् पापे म भूत् कदा चन //
SK
लब्धार्थाः सततं यूयं नीरोगाः परमायुषः अनेन कर्मणा बौद्धा भवन्तु सुगतात्मजाः //
SK
इति श्रुत्वा मुनेर् वाक्यं चित्तपद्मप्रकाशिकाः बुद्धे धर्मे च संघे च ते नित्यम् शरणं ययुः //
SK
अथ तथागतस्यैतद् अभवत् |
SK
दुष्करेण मया बोधिः प्राप्तेयं परमार्थतः देशयेयं परेभ्यश् चेन् न ते जानन्त्य् अलं ततः //
SK
इति निश्चित्य सारज्ञस् तूष्णीभावं ययौ मुनिः मूर्खानां मण्डले संस्थो मौनत्वाद् विप्रशोभते //
SK
अथ खलु शिखी ब्राह्मणस् तथागतरश्मिसंचोदितः सार्धं शक्रादिदेवगणै रात्रौ दिव्यावभासेनावभास्य तथागतम् अभिवन्द्य च धर्मदेशनतायै प्रार्थयामास |
SK
मोहान्धे भगवांल् लोके प्रज्ञादीपं प्रदीपय क्षुत्पिपासाहते लोके धर्मामृतं प्रवर्षय //
SK
यतो बोधिं समासाद्य दुष्करेणैव तापसा ध्यानसुखेषु लीनो ऽसि लोको ऽयम् प्रलयं व्रजेत् //
SK
अथ तथागतस् तम् शिखिनं ब्राह्मणं तूष्णीभावेनाधिवासयति स्म | तस्मिन्न् एव समये मागधानां पापाचारत्वान् महोत्पातम् उदपादि | पुनर् अपि शिखी ब्राह्मणस् तथागतम् एतद् अवोचत् |
SK
भगवन् मगधे देशे महोत्पातसमाकुलाः भवन्ति विकला लोका भूतयक्षैर् उपद्रुताः //
SK
तेषां पापाग्निशान्तये धर्मामृतं प्रवर्षय यथापूर्वं प्रतिज्ञातं साफल्यं कुरु सांप्रतम् //
SK
अथ भगवांस् तं सर्वावन्तं लोकधातुं बुद्धचक्षुषावलोकयन्न् अधमोत्तममध्यमां लोकस्थितिं दृष्ट्वा देशयेयं वा न वेति विचिन्तयन् करुणया संचोदितः शिखिने ब्राह्मणाय धर्मदेशनतया स्वीकृतवान् धर्मं देशयिष्यामीति | ततः शिखी ब्राह्मणः प्रमुदितमना मुनेश् चरणौ वन्दित्वा स्वभवनं ययौ | अथ बोधिवृक्षदेवता प्रणम्यैवम् आह | क्व भगवन् धर्मचक्रं प्रवर्तयिष्यसीति | तथागत आह | वाराणस्यां मृगदाव इति | कुतः |
SK
काशी पुण्यवती भूमिः सुभिक्षा सुजनाश्रया यत्र देवाः सदा सन्त्य् अप्य् अमरा मर्तुम् इच्छया //
SK
अपि च |
SK
तत्र प्रवर्तितं चक्रं पूर्वबुद्धैस् तथागतैः अनागताश् च तत्रैव वर्तयिष्यन्ति धर्मकम् //
SK
ततो वाराणसीं गमिष्यामीति प्रस्थितं तथागतम् आजीवको दृष्ट्वा प्रणामं कृतवान् | तेनैव सार्धं विविधां संमोदनां कथां कृत्वा भगवतः क्व गमनाभिप्रायम् इत्य् अभ्यनुयुक्तस् तथगतश् चैनम् अवोचत् |
SK
वाराणसीं गमिष्यामि गत्वा वै योगिनां पुरिम् अन्धभूतस्य लोकस्य धर्मोल्कां संप्रकाशये //
SK
गच्छ गौतमेत्य् उत्थाय स आजीवको दक्षिणाभिमुखः प्रक्रान्तः | तथागतो ऽपि वाराणसीम् अभिगच्छन् गङ्गामहानदीं विहायसा तीर्त्वानुपूर्वेण जनपदचारिकां चरन् पात्रचीवरम् आदाय वाराणसीं महानगरीं पिण्डाय प्राविक्षत् | तस्यां पिण्डाय चरित्वा कृतभक्त ऋषिपतने मृगदावे देवताभिः प्रज्ञप्तरत्नसिंहासने पर्यङ्कम् आभुज्य समाधिस्तिमितविग्रहस् तस्थौ | ततः पञ्चका भद्रवर्गीया भिक्षवस् तथागतस्य पादौ शिरोभिर् वन्द्य प्राञ्जलयो निषेदुः | अथ तथागतदेहाद् रश्मिर् निश्चरन् सर्वावन्तं लोकधातुम् अवभास्य संचोदयति स्म |
SK
मानुषं दुर्लभं प्राप्य क्षणसंपत् सुदुर्लभा तथागतस्य चोत्पत्तिर् उदुम्बरसुदुर्लभा //
SK
अद्य काशीं गतो बुद्धो लोकानां दुःखशान्तये तद् वो धर्मे मतिः कार्या समायातात्र सत्वरम् //
SK
ततः समन्ताद् दिग्भ्यः पूर्वप्रणिधानसमन्वागता बोधिसत्त्वगणाः शक्रब्रह्मादिलोकपालाः सुरासुरयक्षगन्धर्वगरुडकिन्नरमहोरगनागराजमनुष्याश् च स्वस्वभवनाद् आगत्य तथागतस्य महतीं पूजां प्रकुर्वन्तश् चरणयोर् निपत्य भगवन्तम् अभिसंमुखास् तत्रैव तस्थुः | ततो धर्मचक्रप्रवर्तनो नाम बोधिसत्त्वो भगवन्तं प्रदक्षिणीकृत्य प्रणम्य सर्वरत्नमयं सहस्रारं नानासुगन्धिपुष्पदामसंयुक्तं तथागतपूजार्थम् उपनामय्य कृताञ्जलिपुटो धर्मचक्रप्रवर्तनायैनं प्रार्थयामास |
SK
भगवन् मुनिशार्दूल जितमार जिनर्षभ पूरय धर्मशङ्खां च कुतीर्थमृगभीतये //
SK
यस् त्वं पूर्वादिभिः पूर्वं प्रणिधिं कृतवान् इति बुद्धो भवेयं लोकेषु सत्त्वदुःखप्रशान्तये //
SK
तत् कुरु भगवन् नाथ प्रतिज्ञायाश् च पूरणम् नो चेद् भगवांश् छास्ता भवदुःखाकुलं जगत् //
SK
दीपंकरप्रसादेन बुद्धो भवसि सांप्रतम् दुःखाग्निदीपितं लोकं दृष्ट्वामृतं प्रवर्षय //
SK
ब्रह्माद्या लोकपालाश् च श्रोतुकामाः समागताः दुःखमूलप्रहाणाय धर्मचक्रं प्रवर्तय //
SK
अथावोचन् महाबौद्धः शाक्यसिंहो दयोदधिः पर्षदं च समालोक्य भिक्षून् आलभ्य पञ्चकान् //
SK
अविद्याबीजसंभूतः स्कन्धाङ्कुरः प्ररोहति पुण्यपापरसं पीत्वा भववृक्षो महान् भवेत् //
SK
तस्य फलं महत् स्वादु परिणामं विषायते तद् एवं विषफलं ज्ञात्वा त्यक्तव्यं दूरतो बुधैः //
SK
विषवृक्षाङ्कुरं दग्धुं बीजम् एव प्रदह्यताम् अविद्याबीजदग्धेन भवान् मुक्तिर् भवेद् ध्रुवम् //
SK
इत्य् एवं भगवान् बुद्धः पुरुषदम्यसारथिः धर्मचक्रं प्रवर्त्याथ पुनर् धर्मं दिदेश सः //
SK
श्रावकाणां चतुःसत्यम् आर्यम् अष्टाङ्गमार्गिकम् आदाव् अन्ते च मध्ये च कल्याणं ब्रह्मचर्यकम् //
SK
ततः प्रहर्षाद् इव साचलाचला मही चकम्पे निभृतार्णवांशुका वितस्तनुः खे सुरदुन्दुभिस्वना दिशः प्रसादाभरणाश् चकाशिरे //
SK
प्रसक्तमन्दस्तनिताः प्रहासिनस् तडित्पिनद्धाश् च घनाः समन्ततः परस्पराश्लेषविकीर्णरेणुभिः प्रसक्तम् एनं कुसुमैर् अवाकिरन् //
SK
समुद्वहन् धीरगतिः समीरणः सुगन्धि नानाद्रुमपुष्पजं रजः मुदा प्रवृत्तैर् अविभक्तभक्तिभिस् तम् अर्चयामास कृशांशुकैर् इव //
SK
अथ सर्वावते धातौ बभूवुर् ब्रह्मचारिणः बुद्धस्य वचनं श्रुत्वा बुद्धधर्मपरायणाः //
SK
ततः सर्वे समुत्थाय पुजां कृत्वा जगद्गुरोः सनाथं स्याज् जगच् चाद्य इति प्रोक्ता ययुर् मुदा //
SK
भगवान् अपि सकलसत्त्वोद्धारं करिष्यामीति समुत्थाय जनपदचारिकां प्रचरति स्म | तद् एवम् अयं भगवांस् त्रिभुवनहितकाम्यया दिव्यसुखम् अपि विजह्य दुष्करं कृतवान् इति बुद्धे परः प्रसादः करणीयः | सत्कृत्य च तद्धर्मं श्रोतव्यम् एवं दुष्करेण बोधिप्राप्तवान् इति | एष राजकुमारो राज्यसुखतृप्तो दिव्यस्त्रीपरिभोगविरतः सकलराज्यभोग्यानि तृणवद् विजह्य परदुःखेन दुःखी दुष्करचर्यां चरन् बलवन्तं मारं विजित्वा सम्यक्संबोधिम् अपि प्राप्तो बुद्धो बभूव | अयम् एव भगवाञ् छाक्यसिंहस् त्रिभुवननाथ इति बोधिगवेषिणा पुरुषेण राज्यसुखम् अपि विरमणीयम् | दुष्करेणापि भवितव्यं मारम् अपि जेतव्यम् इति बोधिसत्त्वेन बोधिवाञ्छया भवितव्यम् इति ||
SK
|| इति शाक्यसिंहतथागतजातकं समाप्तम् ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Haribhaṭṭa: Jātakamālā, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35 (sa_haribhaTTa-jAtakamAlA1-8--11-12--19-20--22--24--26--32--35.htm).

Source