सर्वं सुखं विद्धि सुदुःखनाशात् सर्वं च सद्रूपमसस्यनाशात् | चिद्रूपमेव प्रतिभानयुक्तं तस्मादखण्डं मम रूपमेतत् || ४ || न हि जनिर्मरणं गमनागमौ न च मलं विमलं न च वेदनम् | चिन्मयं हि सकलं विराजते स्फुटतरं परमस्य तु योगिनः || ५ || कथं त्वं निष्प्रतियोगिकपरमात्मासि स्वप्रतियोगिनानात्वस्य विद्यमानत्वादित्याशङ्कमानमालक्ष्य भगवान् स्वस्य निष्प्रतियोगिकाद्वितीयत्वस्थापनाय स्वानुभवं प्रकटयति- न हीति | यस्मादेवं तस्मात् || १ || स्वान्यत् दृश्यते श्रूयते चेदित्यत्राह- दृश्यत इति | कीदृशं ब्रह्म त्वं भवसीत्यत्राह- नित्येति || २ || जीववद्देहधारणसामान्यात् त्वमपि संसारदुःखी भवसीत्यत आह- आनन्देति || ३ || सच्चिदानन्दाखण्डं मां विद्धीत्याह- सर्वमिति || ४ || निर्विशेषज्ञानयोगिनो मद्रूपमेव विभातीत्याह- न हि जनिरिति | योगी स्वात्मनो मम जनिमृतिगमनागमनादिविक्रिया नास्तीति मत्वा सर्वत्र मामेव निष्प्रतियोगिकचिन्मात्रं पश्यतीत्यर्थः || ५ || चिन्मात्रभावापत्तिसाधनमौनविधिः सत्यचिद्घनमखण्डमद्वयं सर्वदृश्यरहितं निरामयम् | यत् पदं विमलमद्वयं शिवं तत् सदाहमिति मौनमाश्रय || ६ || प्. ४८७) जन्ममृत्युसुखदुःखवर्जितं जातिनीतिकुलगोत्रदूरगम् | चिद्विवर्तजगतोऽस्य कारणं तत् सदाहमिति मौनमाश्रय || ७ || पूर्णमद्वयमखण्डचेतनं विश्वभेदकलनादिवर्जितम् | अद्वितीयपरसंविदंशकं तत् सदाहमिति मौनमाश्रय || ८ || तवेश्वरत्वेन निष्प्रतियोगिकचिन्मात्रत्वं युज्यते | ममानीशत्वेन तद्भावापत्त्युपायमादिशेति पृच्छमानमालक्ष्य भगवान् स्वभावापत्त्युपायमादिशति- सत्येति || ६-८ || भगवतः सच्चिदानन्दत्वम् केनाप्यबाधितत्वेन त्रिकालेऽप्येकरूपतः | विद्यमानत्वमस्त्येतत् सद्रूपत्वं सदा मम || ९ || निरुपाधिकनित्यं यत् सुप्तौ सर्वसुखात् परम् | सुखरूपत्वमस्त्येतदानन्दत्वं सदा मम || १० ||
SK
एवं मुनेः स्वभावापत्त्युपायमुपदिश्य तद्दार्ढ्याय स्वात्मनः सच्चिदानन्दत्वं साधनयति- केनेति || ९-१० || भगवद्भक्तिरेव मोक्षसाधनम् दिनकरकिरणैर्हि शार्वरं तमो निबिडतरं झटिति प्रणाशमेति | घनतरभवकारणं तमो य- द्धरिदिनकृत्प्रभया न चान्तरेण || ११ || प्. ४८८) मम चरणस्मरणेन पूजया च स्वकतमसः परिमुच्यते हि जन्तुः | न हि मरणप्रभवप्रणाशहेतु- र्मम चरणस्मरणादृतेऽस्ति किंचित् || १२ || आदरेण यथा स्तौति धनवन्तं धनेच्छया | तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् || १३ || मद्भावापत्तिहेतुमद्भक्तिं विना कोऽपि न मुच्यत इति सदृष्टान्तमुपपादयति- दिनकरेति | दिनकृत्प्रभया विनाशमेति || ११-१२ || कश्चिद्राजसेव्यपि दारिद्र्यतो मुच्यते तथा मामुपास्य को वा स्वातिरिक्तभ्रमतः न मुच्यत इत्याह- आदरेणेति || १३ || ईश्वरस्य सर्वसमत्वम् आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु | तथा मत्संनिधावेव समस्तं चेष्टते जगत् || १४ || शुक्तिकायां यथा तारं कल्पितं मायया तथा | महदादि जगन्मायामयं मय्येव केवलम् || १५ || चण्डालदेहे पश्वादिस्थावरे ब्रह्मविग्रहे | अन्येषु तारतम्येन स्थितेषु न तथा ह्यहम् || १६ || विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् | तथा विज्ञानविध्वस्तं जगन्मे भाति तन्न हि || १७ || प्. ४८९) न देहो नेन्द्रियप्राणो न मनोबुद्ध्यहंकृतिः | न चित्तं नैव माया च न च व्योमादिकं जगत् || १८ || न कर्ता नैव भोक्ता च न च भोजयिता तथा | केवलं चित्सदानन्दब्रह्मैवाहं जनार्दनः || १९ || स्वाज्ञादिलोकप्रवृत्तिनिवृत्तिनिमित्तमप्यहमेवेत्याह- आदित्येति || १४ || मदतिरिक्तं मय्येव विकल्पितम् | विषमेष्वपि समोऽहमेवेत्याह- शुक्तिकायामिति || १५-१६ || मदज्ञानविकल्पितं मज्ज्ञानतो न भातीत्याह- विनष्टेति | विनष्टदिग्भ्रमस्यापि भ्रमापाये || १७ || तवापि जगदन्तःपातिदेहेन्द्रियादिसत्त्वात् कथं जगत् न भातीत्युच्यते इत्यत्राह- न देह इति || १८-१९ ||
SK
चित्तमेव संसारकारणम् जलस्य चञ्चलादेव चञ्चलत्वं यथा रवेः | तथाहंकारसंबन्धादेव संसार आत्मनः || २० || चित्तमूलं हि संसारस्तत्प्रयत्नेन शोधयेत् | हन्त चित्तमहत्तायां कैषा विश्वासता तव || २१ || क्व धनानि महीपानां ब्राह्मणः क्व जगन्ति वा | प्राक्तनानि प्रयातानि गताः सर्गपरंपराः || २२ || कोटयो ब्रह्मणां याता भूपा नष्टाः परागवत् | स चाध्यात्माभिमानोऽपि विदुषोऽप्यासुरत्वतः || २३ || विदुषोऽप्यासुरश्चेत् स्यान्निष्फलं तत्त्वदर्शनम् | प्. ४९०) तव ईश्वरस्य देहादिवैरल्यमस्तु वस्तुतो निर्विशेषब्रह्मरूपत्वात् | जीवानां बन्धमोक्षहेतू कावित्यत्र अतस्मिंस्तद्भावातद्भावावित्याह- जलस्येति || २० || एवं संसारमूलं किम् इत्यत्र चित्तमित्याह- चित्तेति | संसारमूलचित्तस्य सत्त्वात् तद्विकल्पितं सर्वं सत्यम् इति मन्यमानं प्रत्याह- हन्तेति | चित्ततत्कार्यस्य भ्रान्त्युज्जीवकत्वात् तदपाये यथापूर्वमदर्शनात् चित्ततत्कार्यकलना नास्त्येवेत्यर्थः || २१-२२ || विदुषोऽप्येवं सत्यवत् भातं चेत् तस्य वैदुष्यं नास्तीत्याह- स चेति | यः अनात्मनि आत्मधीप्रभवः अविद्वद्गोचरः स चाध्यात्माभिमानः देहाभिमानः स्वान्यत्र ममतापि विदुषोऽप्यनर्थकर एव | कुतः ? देहादावात्मात्मीयाभिमानस्य आसुरत्वतः आसुरकृत्यत्वात् || २३ || अविदुष इव विदुषोऽपि आसुरश्चेत् तदार्जिततत्त्वदर्शनं निष्फलमेव स्यात् | तथा च श्रुतिः- ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः | नचास्ति किंचित् कर्तव्यमस्ति चेन्न स तत्त्ववित् || इति || अनात्मनि रागाद्यनुभवो विद्वल्लक्षणम् उत्पाद्यमाना रागाद्या विवेकज्ञानवह्निना || २४ || यथा तदैव दह्यन्ते कुतस्तेषां प्ररोहणम् | यथा सुनिपुणः सम्यक् परदोषेक्षणे रतः || २५ || तथा चेन्निपुणः स्वेषु को न मुच्येत बन्धनात् | अनात्मविदमुक्तोऽपि सिद्धिजालानि वाञ्छति || २६ || द्रव्यमन्त्रक्रियाकालयुक्त्याप्नोति मुनीश्वर | नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् || २७ ||
SK
आत्मनात्मनि संतृप्तो नाविद्यामनुधावति | ये केचन जगद्भावास्तानविद्यामयान् विदुः || २८ || प्. ४९१) कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो विमज्जति | द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः || २९ || परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन | सर्वेच्छाकलना शान्तावात्मलाभोदयाभिधः || ३० || स कथं सिद्धिवाञ्छायां कथमर्हत्यचित्तकः || इति || अविद्वत्सेव्यासुरभावस्य विद्वद्दशासमकालमेव ज्ञानाग्निग्धत्वात् भस्मावशेषितस्य पुनः प्ररोहासंभवमाह- उत्पाद्येति || २४ || परदोषान्वेषणवत् स्वासुरभावोदितश्चेत् ततः को वा न मुच्यते इत्याह- यथेति || २५ || अनात्मज्ञोऽणिमादिसिद्धिं तदुचितसाधनतो गच्छति | आत्मज्ञस्तु तदनात्मकार्यं मत्वा तत्रोपरमते | तस्य तदिच्छैव नोदेतीत्याह- अनात्मविदिति || २६-२७ || महान्तस्तु ये केचन जगद्भावाः सिद्धिरूपाः तान् || २८ || द्रव्यादयः सिद्धिदा अपि ब्रह्मभावापत्तौ नोपकुर्वन्तीत्याह- द्रव्येति || २९ || जीवन्मुक्तस्य ब्रह्मातिरेकेण वाञ्छनीयाभावान्न किमपि अयं वाञ्छतीत्यर्थः || ३० || इतिशब्दः अध्यायपरिसमाप्त्यर्थः || इति तृतीयोऽध्यायः चतुर्थोऽध्यायः १. ब्राह्मणम् सप्तभूमिकासु जीवन्मुक्तिभूमिकाचतुष्टयम् अथ ह ऋभुं भगवन्तं निदाघः पप्रच्छ जीवन्मुक्तिलक्षणमनुब्रूहीति || १ || तथेति स होवाच | सप्तभूमिषु जीवन्मुक्ताश्चत्वारः || २ || प्. ४९२) शुभेच्छा प्रथमा भूमिका भवति | विचारणा द्वितीया | तनुमानसी तृतीया | सत्त्वापत्तिस्तुरीया | असंसक्तिः पञ्चमी | पदार्थभावना षष्ठी | तुरीयगा सप्तमी || ३ || अचित्तजीवन्मुक्तलक्षणं जिज्ञासुः निदाघः ऋभुं तदियत्तां पृच्छतीत्याह- अथेति | पप्रच्छ- किमिति ? जीवन्मुक्तिलक्षणमनुब्रूहीति || १ || किं तदुवाचेत्यत्र- सप्तभूमिष्विति || २ || कीदृश्यः भूमयः इत्यत्राह- शुभेति || ३ || प्रणवविकृत्यकारादेः चातुर्विध्यम् प्रणवात्मिका भूमिकाः अकारोकारमकारार्धमात्रात्मकाः || ४ || स्थूलसूक्ष्मबीजसाक्षिभेदेनाकारादयश्चतुर्विधाः || ५ ||
SK
प्रणवविकृतयस्तु अकारोकारमकारार्धमात्रात्मकाः || ४ || प्रणवविकृत्यकारादेः चातुर्विध्यमाह- स्थूलेति || ५ || अकारस्थूलादीनामध्यक्षाः तदवस्था जाग्रत्स्वप्नसुषुप्तितुरीयाः || ६ || अकारस्थूलांशे जाग्रद्विश्वः | सूक्ष्मांशे तत्तैजसः | बीजांशे तत्प्राज्ञः | साक्ष्यंशे तत्तुरीयः || ७ || उकारस्थूलांशे स्वप्नविश्वः | सूक्ष्मांशे तत्तैजसः | बीजांशे तत्प्राज्ञः | साक्ष्यंशे तत्तुरीयः || ८ || मकारस्थूलांशे सुषुप्तविश्वः | सूक्ष्मांशे तत्तैजसः | बीजांशे तत्प्राज्ञः | साक्ष्यंशे तत्तुरीयः || ९ || अर्धमात्रास्थूलांशे तुरीयविश्वः | सूक्ष्मांशे तत्तैजसः | बीजांशे तत्प्राज्ञः | साक्ष्यंशे तुरीयतुरीयः || १० || प्. ४९३) या अकारादिप्रविभक्ताः तदवस्थाः || ६ || अकारस्थूलादिक्रमेण तदध्यक्षविभागमाह- अकारेति | समष्टिजाग्रज्जाग्रदाद्यध्यक्षा विराड्विराडादितुर्यबीजान्ताः, तद्व्यष्टिसमष्ट्यैक्याध्यक्षास्तु ओत्रोत्राद्यविकल्पानुज्ञैकरसान्ता भवन्तीति ज्ञातव्याः || ७-९ || व्यष्टिसमष्टिकलनाविरलसाक्ष्यंशप्रविभक्तसाक्ष्यंशेस्वातिरिक्तव्यष् ट्यादिकलनाकलिताकारस्थूलांशादिप्रविभक्तजाग्रज्जाग्रदादिपञ्चदशा वस्थातदध्यक्षपटलासंभवप्रबोधादपि पराभूमिरूपः तुरीयतुरीयः विजयत इत्यर्थः || १० || प्रणवावयवशः भूमिकाभेदाः अकारादितुरीयांशाः प्रथमद्वितीयतृतीयभूमिकाः | उकारतुरीयांशाः चतुर्थी भूमिका | मकारतुरीयांशाः पञ्चमी | अर्धमात्राप्रविभक्तप्रथमद्वितीयतृतीयांशाः षष्ठी भूमिका | तदतीता सप्तमी भूमिका || ११ || तत्र अकारादितुरीयांशाः | तदतीता सप्तमी भूमिका भवतीत्यर्थः || ११ || चतुर्विधाः जीवन्मुक्ताः भूमित्रयेषु विहरन् मुमुक्षुर्भवति | तुरीयभूम्यां विहरन् ब्रह्मविद्भवति | पञ्चमभूम्यां विहरन् ब्रह्मविद्वरो भवति | षष्ठभूम्यां विहरन् ब्रह्मविद्वरीयान् भवति | सप्तमभूम्यां विहरन् ब्रह्मविद्वरिष्ठो भवति || १२ || जीवन्मुक्तचातुर्विध्यं कथमित्यत्र- भूमित्रयेष्विति || १२ || प्. ४९४) २. मन्त्रः सप्तभूमिकानिर्देशः
SK
तत्रैते श्लोका भवन्ति- ज्ञानभूमिः शुभेच्छा स्यात् प्रथमा समुदीरिता | विचारणा द्वितीया तु तृतीया तनुमानसी || १ || सत्त्वापत्तिश्चतुर्थी स्यात् ततोऽसंसक्तिनामिका | पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता || २ || अत्र मन्त्रग्रामानुवादं दर्शयति- तत्रैते श्लोका भवन्तीति | संक्षेपतो भूमिकानामानि उक्तानि || १-२ || सप्तभूमिकाविवरणम् स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः | वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः || ३ || शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् | सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा || ४ || विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता | यत्र सा तनुतामेति प्रोच्यते तनुमानसी || ५ || भूमिकात्रितयाभ्यासाच्चित्तेऽर्थविरतेर्वशात् | सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता || ६ || प्. ४९५) दशाचतुष्टयाभ्यासादसंसर्गफला तु या | रूढसत्त्वचमत्कारा प्रोक्तासंसक्तिनामिका || ७ || भूमिकापञ्चकाभ्यासात् स्वात्मारामतया भृशम् | आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् || ८ || परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम् | पदार्थभावना नाम षष्ठी भवति भूमिका || ९ || भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्भनात् | यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः || १० || तासां लक्षणमाह- स्थित इति | इमाः शुभेच्छेत्यादिसप्तभूमिकाः महदन्नपूर्णाक्ष्युपनिषत्सु प्रायशो व्याख्याताः || ३-१७ || सप्तभूमिकासु बुद्ध्यवस्थाभेदनिरूपणम् शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् | यथावद्वेद बुद्ध्येदं जगज्जाग्रति दृश्यते || ११ || अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते | पश्यन्ति स्वप्नवल्लोकं तुर्यभूमिसुयोगतः || १२ || विच्छिन्नशरदभ्रांशविलयं प्रविलीयते | सत्वावशेष एवास्ते हे निदाघ दृढीकुरु || १३ || पञ्चभूमिं समारुह्य सुषुप्तिपदनामिकाम् | शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके || १४ ||
SK
प्. ४९६) अन्तर्मुखतया नित्यं बहिर्वृत्तिपरोऽपि सन् | परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते || १५ || कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः | सप्तमी गूढसुप्त्याख्या क्रमप्राप्ता पुरातना || १६ || यत्र नासन्न सद्रूपो नाहं नाप्यनहंकृतिः | केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः || १७ || केवलब्रह्मात्मभावनाविधिः अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे | अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे || १८ || मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव | भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव || १९ || द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह | दर्शनप्रथमाभासमात्मानं केवलं भज || २० || हे निदाघ त्वम् अन्तर्बाह्यकलनाविरलं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति भजेत्याह- अन्तरिति || १८ || मनःकल्पितभेदजातं ग्राह्यं तद्ग्राहकं मानसं तदुभयं मा भवेत्यर्थः || १९ || अन्तःशून्य इत्यादि केवलं भज इत्यन्तं मैत्रेयोपनिषदि व्याख्यातम् || २० || जीवन्मुक्तलक्षणम् यथास्थितमिदं यस्य व्यवहारवतोऽपि च | अस्तंगतं स्थितं व्योम स जीवन्मुक्त उच्यते || २१ || प्. ४९७) नोदेति नास्तमायाति सुखे दुःखे मनःप्रभा | यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते || २२ || यो जागर्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते | यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते || २३ || रागद्वेषभयादीनामनुरूपं चरन्नपि | योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते || २४ || यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते | कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते || २५ || यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः | हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते || २६ || यः समस्तार्थजालेषु व्यवहार्यपि शीतलः | परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते || २७ || प्रजहाति यदा कामान् सर्वांश्चित्तगतान् मुने | मयि सर्वात्मके तुष्टः स जीवन्मुक्त उच्यते || २८ ||