००५०१ धिमुक्तैः सत्त्वगतिचरितसूक्ष्मनानाधिमुक्त्यवतारकुशलैर् अप्रतिहतचित्तै- ००५०२ र् अधिमात्रक्सान्तिसमन्वागतैर् याथात्मावतारणकुशलैः सर्वबुद्धक्षेत्रआनन्तव्यूह- ००५०३ प्रणिधानप्रस्थानपरिगृहीतैर् असंख्येयलोकधातुबुद्धानुस्मृतिसमाहित- ००५०४ सततसमिताभिमुखीभूतैर् अपरिमितबुद्धाध्येषणकुशलैर् नानादृष्ट्यनुशयपर्यव- ००५०५ स्थानक्लेशप्रशमनकुशलैः समाधिविक्रीडितशतसहस्रनिर्हारकुशलैः तद् यथा ००५०६ भद्रपालेन च बोधिसत्त्वेन महासत्त्वेन रत्नाकरेण च सार्थवाहेन च नर- ००५०७ दत्तेन च वरुणदत्तेन च शुभगुप्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेष- ००५०८ मतिना च वर्धमानमतिना च अमोघदर्शिना च सुसम्प्रस्थितेन च सुवि- ००५०९ क्रान्तविक्रमिणा च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च सूर्यगर्भेण च ००५१० अनुपमचिन्तिना च अवलोकितेश्वरेण च महास्थामप्राप्तेन च मञ्जु- ००५११ श्रिया च वज्रमतिना च रत्नमुद्राहस्तेन च नित्योक्षिप्तहस्तेन च मैत्रे- ००५१२ येण च बोधिसत्त्वेन महासत्त्वेन एवम् प्रमुखैर् अनेकैर् बोधिसत्त्वकोटीनियुत- ००५१३ शतसहस्रैः सार्धम्/ ००५१४ अथ खलु भगवान् स्वयम् एव सिंहासनं प्रज्ञप्य न्यषीदत् पर्यङ्कं बद्ध्वा ००५१५ ऋजुकायं प्रणिधाय अभिमुखीं स्मृतिम् उपस्थाप्य समाधिराजं नाम ००५१६ समाधिं समापद्यते स्म यत्र सर्वसमाधयो ऽन्तर्गमान् संग्रहं समव- ००५१७ सरणं गच्छन्ति/ ००५१८ अथ खलु भगवान् स्मृतिमान् सम्प्रजानंस् तस्मात् समाधेर् व्युत्थाय
०४४१२ पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अ- ०४४१३ ध्यात्म{शून्यतायां युक्तो युक्त इति वक्तव्यः/} बहिर्धा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} अध्यात्मबहिर्धा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} यावत् परभावशून्य- ०४४१४ तायां युक्तो युक्त इति वक्तव्यः/ एवं हि शारिपुत्र बोधिसत्त्वो महा- ०४४१५ सत्त्वः प्रज्ञापारमितायां चरन्न् आसु सर्वासु शून्यतासु युक्तो युक्त इति ०४४१६ वक्तव्यः/ स आभिः शून्यताभिः प्रज्ञापारमितायां चरन् न तावद् बोधि- ०४४१७ सत्त्वो महासत्त्वो युक्त इति वक्तव्यो ऽयुक्त इति/ तत् कस्य हेतोः/ तथा ०४४१८ हि न स रूपं न वेदनां न संज्ञां न संस्कारान् न विज्ञानं युक्तम् इति वा ०४४१९ अयुक्तम् इति वा समनुपश्यति// [इति दुःखसत्याववादः//] ०४४२० स न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति/ न
SK
०४५०१ वेदनाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति न संज्ञाम् उत्पाद- ०४५०२ धर्मिणीं {वा निरोधधर्मिणीं वा समनुपश्यति}/ न संस्कारानुत्पादधर्मिणो {वा निरोधधर्मिणिणो वा समनुपश्यति}/ न विज्ञानम् उत्पाद- ०४५०३ धर्मि {वा निरोधधर्मि वा समनुपश्यति}/ न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति/ ०४५०४ न वेदनां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति/ न ०४५०५ संज्ञां {संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति}/ न संस्कारान् {संक्लेशधर्मिणो वा व्यवदानधर्मिणो वा समनुपश्यति}/ न विज्ञानम् {संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति}/ ०४५०६ पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो न रूपं वेदनायां समव- ०४५०७ सरतीति समनुपश्यति/ न वेदना संज्ञायां {समवसरतीति समनुपश्यति}/ न संज्ञा संस्कारेषु ०४५०८ {समवसरतीति समनुपश्यति}/ न संस्कारा विज्ञाने {समवसरन्तीति समनुपश्यति}/ न विज्ञानं धर्मे {समवसरतीति समनुपश्यति}/ न धर्मः ०४५०९ क्वचिद् धर्मे समवसरतीति समनुपश्यति/ तत् कस्य हेतोः/ न हि कश्चि- ०४५१० द् धर्मः क्वचिद् धर्मे समवसरति प्रकृतिशून्यताम् उपादाय/ तत् कस्य हेतोः/ ०४५११ तथा हि शारिपुत्र या रूपस्य शून्यता न तद् रूपम्/ या वेदनायाः शून्यता ०४५१२ न सा वेदना/ या संज्ञायाः शून्यता न सा संज्ञा/ या संस्काराणां ०४५१३ शून्यता न ते संस्काराः/ या विज्ञानस्य शून्यता न तद् विज्ञानम्/ तत् कस्य ०४५१४ हेतोः/ तथा हि या रूपशून्यता न सा रूपयति/ या वेदनाशून्यता न ०४५१५ सा वेदयति/ या संज्ञाशून्यता न सा संजानीते/ या संस्कारशून्यता
SK
०४६०१ न साभिसंस्कारोति/ या विज्ञानशून्यता न सा विजानाति/ तत् कस्य ०४६०२ हेतोः/ तथा हि शारिपुत्र नान्यद् रूपम् अन्या शून्यता/ नान्या शून्यता अन्य- ०४६०३ द् रूपम्/ रूपम् एव शून्यता शून्यतैव रूपम्/ नान्या वेदना अन्या शून्यता/ ०४६०४ नान्या शून्यता अन्या वेदना/ वेदनैव शून्यता शून्यतैव वेदना/ नान्या ०४६०५ संज्ञा अन्या शून्यता/ नान्या शून्यता अन्या संज्ञा/ संज्ञैव शून्यता ०४६०६ शून्यतैव संज्ञा/ नान्ये संस्कारा अन्या शून्यता/ नान्या शून्यता ०४६०७ अन्ये संस्काराः/ संस्कारा एव शून्यता शून्यतैव संस्काराः/ नान्यद् ०४६०८ विज्ञानम् अन्या शून्यता/ नान्या शून्यता अन्यद् विज्ञानम्/ विज्ञानम् एव ०४६०९ शून्यता शून्यतैव विज्ञानम्/ [इति समुदयसत्याववादः//] ०४६१० शून्यता शारिपुत्र नोत्पद्यते न निरुध्यते/ न संक्लिश्यते न व्यव- ०४६११ दायते/ न हीयते न वर्धते/ नातीता नागता न प्रत्युत्पन्ना/ या च ०४६१२ ईदृशी न तत्र रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानं न पृथिवी- ०४६१३ धातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न चक्षु- ०४६१४ र् आयतनं न रूपायतनं न श्रोत्रायतनं न शब्दायतनं न घ्राणायतनं न ०४६१५ गन्धायतनं न जिह्वायतनं न रसायतनं न कायायतनं न स्प्रष्टव्यायतनं न ०४६१६ मनआयतनं न धर्मायतनम्/ न चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञान- ०४६१७ धातुः/ न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः/ न घ्राणधातुर् न ०४६१८ गन्धधातुर् न घ्राणविज्ञानधातुः/ न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञान- ०४६१९ धातुः/ न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः/ न मनोधातुर् न ०४६२० धर्मधातुर् न मनोविज्ञानधतुः/ नाविद्योत्पादो नाविद्यानिरोधः/ न ०४६२१ संस्कारोत्पादो न संस्कारनिरोधः/ ०४६२२ {{न विज्ञानोत्पादो न विज्ञाननिरोधः/ न नामरूपोत्पादो न नामरूपनिरोधः/ न षडायतनोत्पादो न षडायतननिरोधः/ न स्पर्शोत्पादो न स्पर्शनिरोधः/ न वेदनोत्पादो न वेदनानिरोधः/ न तृष्णोत्पादो न तृष्णानिरोधः/ नोपादानोत्पादो नोपादाननिरोधः/ न भवोत्पादो न भवनिरोधः/ न जात्युत्पादो न जातिनिरोधः/}}
SK
०४७०१ न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासोत्पादो न जरा- ०४७०२ मरणशोकपरिदेवदुःखदौर्मनस्योपायासनिरोधः न दुःखं न समुदयो ०४७०३ न निरोधो न मार्गो न प्राप्तिर् नाभिसमयो न स्रोतआपन्ना न स्रोत- ०४७०४ आपत्तिफलम् न सकृदागामी न सकृदागामिफलम्/ नानागामी ०४७०५ नानागामिफलं नार्हत्त्वं नार्हत्त्वफलम् न प्रत्येकबुद्धा न प्रत्येकबोधिः ०४७०६ न बुद्धो न बोधिः/ एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापार- ०४७०७ मितायां चरन् युत्को युक्त इति वक्तव्यः/ [इति निरोधसत्याववादः//] ०४७०८ स प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त ०४७०९ इति वा आत्मानं समनुपश्यति/ न शीलपारमितायां युक्त इति वा ०४७१० अयुक्त इति वा समनुपश्यति/ न क्षान्ति{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न वीर्य{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न ०४७११ ध्यान{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न प्रज्ञा{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न रूपे युक्त इति वा अयुक्त इति वा ०४७१२ समनुपश्यति/ न वेदनायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न संज्ञायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न ०४७१३ संस्कारेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न विज्ञाने युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चक्षुषि युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न ०४७१४ श्रोत्रे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न घ्राणे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न जिह्वायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न काये ०४७१५ युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न मनसि युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न रूपे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न शब्दे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ ०४७१६ न गन्धे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न रसे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न स्प्रष्टव्ये युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न धर्मे ०४७१७ युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न स्मृत्युपस्ह्तानेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न सम्यक्प्रहाणेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न ऋद्धि- ०४७१८ पादेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ नेन्द्रियेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न बलेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न बोध्यङ्गे ०४७१९ युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न मार्गेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चस्तुर्षु सत्येषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चतुर्षु ०४७२० वैशारद्येषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चतसृषु प्रतिसंवित्सु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ नाभिज्ञासु ०४७२१ युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न दशसु तथागतबलेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ नाष्टादशस्व् आवेणिकेषु
SK
०४८०१ बुद्धधर्मेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ यावन् न सर्वाकारज्ञतायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न सर्वज्ञज्ञाने ०४८०२ युक्त इति वा अयुक्त इति वा समनुपश्यति/ तद् अनेनापि ते शारि- ०४८०३ पुत्र पर्यायेणैवं वेदितव्यं बोधिसत्त्वो महासत्त्व एवं प्रज्ञापारमितायां ०४८०४ युक्तो युक्त इति वक्तव्यः//
SK
०४८०५ पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न ०४८०६ शून्यतां शून्यतया योजयति न शून्यतायोगम्/ नानिमित्तम् अनि- ०४८०७ मित्तेन योजयति नानिमित्तयोगम्/ नाप्रणिहितम् अप्रणिहितेन ०४८०८ योजयति नाप्रणिहितयोगम्/ तत् कस्य हेतोः/ तथा हि शून्यता न ०४८०९ योगो नायोगः एवम् अनिमित्तम् अप्रणिहितं न योगो नायोगः/ एवं ०४८१० युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्तो युक्त ०४८११ इति वक्तव्यः/ ०४८१२ पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ०४८१३ धर्माणां स्वलक्षणशून्यताम् अवतरति/ एवम् अवतरन् न रूपं योजयति ०४८१४ न वियोजयति न वेदनां योजयति न वियोजयति/ न संज्ञां {योजयति न वियोजयति}/ ०४८१५ न संस्कारान् {योजयति न वियोजयति}/ न विज्ञानं {योजयति न वियोजयति}/ न रूपं पूर्वान्तेन {योजयति न वियोजयति}/ पूर्वा- ०४८१६ न्तम् एव न समनुपश्यति/ न रूपम् अपरान्तेन {योजयति न वियोजयति}/ अपरान्तम् एव न ०४८१७ समनुपश्यति/ न रूपं प्रत्युत्पन्नेन {योजयति न वियोजयति}/ प्रत्युत्पन्नम् एव न समनुपश्यति/ ०४८१८ न वेदनां पूर्वान्तेन {योजयति न वियोजयति}/ पूर्वान्तम् एव न समनुपश्यति/ न वेदना-
SK
०४९०१ म् अपरान्तेन {योजयति न वियोजयति} अपरान्तम् एव न समनुपश्यति/ न वेदनां प्रत्युत्पन्नेन ०४९०२ योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/ ०४९०३ {{न संज्ञां पूर्वान्तेन योजयति न वियोजयति/ पूर्वान्तम् एव न समनुपश्यति/ न संज्ञां अपरान्तेन योजयति न वियोजयति/ अपरान्तम् एव न समनुपश्यति/ न संज्ञां प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/ न संस्कारान् पूर्वान्तेन योजयति न वियोजयति/ पूर्वान्तम् एव न समनुपश्यति/ न संस्कारान् अपरान्तेन योजयति न वियोजयति/ अपरान्तम् एव न समनुपश्यति/ न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/ ०४९०४ न विज्ञानं पूर्वान्तेन योजयति न वियोजयति/ पूर्वान्तम् एव न समनुपश्यति/ न विज्ञानं अपरान्तेन योजयति न वियोजयति/ अपरान्तम् एव न समनुपश्यति/ न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/}} ०४९०५ पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न ०४९०६ पूर्वान्तम् अपरान्तेन योजयति नापरान्तं पूर्वान्तेन योजयति/ न ०४९०७ प्रत्युत्पन्नं पूर्वान्तेन वा अपरान्तेन वा योजयति/ नापरान्तं पूर्वा- ०४९०८ न्तेन वा प्रत्युत्पन्नेन वा योजयति/ न पूर्वान्तम् अपरान्तेन वा प्रत्युत्प- ०४९०९ न्नेन वा योजयति/ अध्वशून्यताम् उपादाय एवं युज्यमानः शारि- ०४९१० पुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः/ ०४९११ पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् एवं ०४९१२ युज्यते यथा युज्यमानो न सर्वाकारज्ञताम् अतीतेन योजयति/ ०४९१३ अनीतम् एव न समनुपश्यति कथम् अतीतेन सर्वाकारज्ञतां योजयति/ ०४९१४ न सर्वाकारज्ञताम् अनागतेन योजयति/ अनागतम् एव न समनुपश्यति ०४९१५ कथम् अनागतेन सर्वाकारज्ञतां योजयति/ न सर्वाकारज्ञतां प्रत्युत्पन्नेन ०४९१६ योजयति/ प्रत्युत्पन्नम् एव न समनुपश्यति कथं प्रत्युत्पन्नेन सर्वाकार- ०४९१७ ज्ञतां योजयति/ एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञा- ०४९१८ पारमितायां युक्त इति वक्तव्यः//
SK
०४९१९ पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न
SK
०५००१ रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति/ न वेदनां ०५००२ सर्वाकारज्ञतया योजयति वेदनाम् एव न समनुपश्यति/ न संज्ञां ०५००३ {सर्वाकारज्ञतया योजयति संज्ञाम् एव न समनुपश्यति}/ न संस्काराण् {सर्वाकारज्ञतया योजयति संस्काराण् एव न समनुपश्यति}/ न विज्ञानं {सर्वाकारज्ञतया योजयति विज्ञानम् एव न समनुपश्यति}/ न चक्षुः {सर्वाकारज्ञतया योजयति चक्षुर् एव न समनुपश्यति}/ न ०५००४ श्रोत्रं {सर्वाकारज्ञतया योजयति श्रोत्रम् एव न समनुपश्यति}/ न घ्राणं {सर्वाकारज्ञतया योजयति घ्राणम् एव न समनुपश्यति}/ न जिह्वां {सर्वाकारज्ञतया योजयति जिह्वाम् एव न समनुपश्यति}/ न कायं {सर्वाकारज्ञतया योजयति कायम् एव न समनुपश्यति}/ न मनः {सर्वाकारज्ञतया योजयति मनो एव न समनुपश्यति}/ ०५००५ न रूपं {सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति}/ न शब्दान् {सर्वाकारज्ञतया योजयति शब्दान् एव न समनुपश्यति}/ न गन्धान् {सर्वाकारज्ञतया योजयति गन्धान् एव न समनुपश्यति}/ न रसान् {सर्वाकारज्ञतया योजयति रसान् एव न समनुपश्यति}/ न स्प्रष्टव्यं ०५००६ {सर्वाकारज्ञतया योजयति स्प्रष्टव्यम् एव न समनुपश्यति}/ न धर्मान् {सर्वाकारज्ञतया योजयति धर्मान् एव न समनुपश्यति}/ एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः ०५००७ प्रज्ञापारमितायां युक्त इति वक्तव्यः/ ०५००८ पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न ०५००९ दानपारमितां सर्वाकारज्ञतया योजयति दानपारमिताम् एव न ०५०१० समनुपश्यति/ न शीलपारमितां सर्वाकारज्ञतया योजयति शील- ०५०११ पारमिताम् एव न समनुपश्यति/ ०५०१२ {{न क्षान्तिपारमितां सर्वाकारज्ञतया योजयति क्षान्तिपारमिताम् एव न समनुपश्यति/ न वीर्यपारमितां सर्वाकारज्ञतया योजयति वीर्यपारमिताम् एव न समनुपश्यति/ न ध्यानपारमितां सर्वाकारज्ञतया योजयति ध्यानपारमिताम् एव न समनुपश्यति/ न प्रज्ञापारमितां सर्वाकारज्ञतया योजयति प्रज्ञापारमिताम् एव न समनुपश्यति/ न स्मृत्युपस्थानानि सर्वाकारज्ञतया योजयति स्मृत्युपस्थानान्य् एव न समनुपश्यति/ न सम्यक्प्रहाणानि सर्वाकारज्ञतया योजयति सम्यक्प्रहाणान्य् एव न समनुपश्यति/ न ऋद्धिपादान् सर्वाकारज्ञतया योजयति ऋद्धिपादान् एव न समनुपश्यति/ न इन्द्रियाणि सर्वाकारज्ञतया योजयति इन्द्रियाण्य् एव न समनुपश्यति/ न बलानि सर्वाकारज्ञतया योजयति बलान्य् एव न समनुपश्यति/ न बोध्यङ्गानि सर्वाकारज्ञतया योजयति बोध्यङ्गान्य् एव न समनुपश्यति/ न मार्गान् सर्वाकारज्ञतया योजयति मार्गान् एव न समनुपश्यति/ न प्रतिसंविदः सर्वाकारज्ञतया योजयति प्रतिसंविदो एव न समनुपश्यति/ न वैशारद्यानि सर्वाकारज्ञतया योजयति वैशारद्यान्य् एव न समनुपश्यति/ न अभिज्ञाः सर्वाकारज्ञतया योजयति अभिज्ञा एव न समनुपश्यति/ न दशतथागतबलानि सर्वाकारज्ञतया योजयति दशतथागतबलान्य् एव न समनुपश्यति/}} ०५०१३ नाष्टादशावेणिकान् बुद्ध- ०५०१४ धर्मान् सर्वाकारज्ञतया योजयति अष्टाअदशावेणिकान् बुद्धधर्मान् एव ०५०१५ न समनुपश्यति/ एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञा- ०५०१६ पारमितायां युक्त इति वक्तव्यः/
SK
०५१०१ पुनर् अपरं शाइपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न ०५१०२ बुद्धं सर्वाकारज्ञतया योजयति बुद्धम् एव न समनुपश्यति/ न सर्वा- ०५१०३ कारज्ञतां बुद्धेन योजयति सर्वाकारज्ञताम् एव न समनुपश्यति/ ०५१०४ न बोधिं सर्वाकारज्ञतया योजयति बोधिम् एव न समनुपश्यति/ न ०५१०५ सर्वाकारज्ञतां बोध्या योजयति सर्वाकारज्ञताम् एव न समनुपश्यति/ ०५१०६ तत् कस्य हेतोः/ बुद्ध एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धः/ ०५१०७ बोधिर् एव सर्वाकारज्ञता सर्वाकारज्ञतैव बोधिः/ एवं युज्यमानः ०५१०८ शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः/ ०५१०९ [इति बुद्धरत्नाववादः//] ०५११० पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न ०५१११ रूपं भवतीति योजयति न रूपं विभवतीति योजयति/ न वेदना ०५११२ भवतीति योजयति न वेदना विभवतीति योजयति/ ०५११३ {{न संज्ञा भवतीति योजयति न संज्ञा विभवतीति योजयति/ न संस्कारा भवन्तीति योजयति न संस्कारा विभवन्तीति योजयति/ न विज्ञानं भवतीति योजयति न विज्ञानं विभवतीति योजयति}}/ न रूपं नित्यम् इति योज- ०५११४ यति न रूपम् अनित्यम् इति योजयति/ न रूपं सुखम् इति योजयति न ०५११५ रूपं दुःखम् इति योजयति/ न रूपम् आत्मेति योअजयति न रूपम् अनात्मेति ०५११६ योजयति/ न रूपं शान्तम् इति योजयति न रूपम् अशान्तम् इति ०५११७ योजयति/ न वेदना नित्येति योजयति न वेदना अनित्येति ०५११८ योजयति/ न वेदना सुखेति योजयति न वेदना दुःखेति
SK
०५२०१ योजयति/ न वेदना आत्मेति योजयति न वेदना अनात्मेति योजयति/ ०५२०२ न वेदना शान्तेति योजयति न वेदना अशान्तेति योजयति/ ०५२०३ न संज्ञा {{नित्येति योजयति न संज्ञा अनित्येति योजयति/ न संज्ञा सुखेति योजयति न संज्ञा दुःखेति योजयति/ न संज्ञा आत्मेति योजयति न संज्ञा अनात्मेति योजयति/ न संज्ञा शान्तेति योजयति न संज्ञा अशान्तेति योजयति}}/ न संस्कारा नित्या इति योजयति न संस्कारा अनित्या ०५२०४ इति योजयति/ न संस्काराः सुखा इति योजयति न संस्कारा दुःखा ०५२०५ इति योजयति/ न संस्कारा आत्मान इति योजयति न संस्कारा ०५२०६ अनात्मान इति योजयति/ न संस्काराः शान्ता इति योजयति ०५२०७ न संस्कारा अशान्ता इति योजयति/ न विज्ञानं {{नित्यम् इति योजयति न विज्ञानम् अनित्यम् इति योजयति/ न विज्ञानं सुखम् इति योजयति न विज्ञानं दुःखम् इति योजयति/ न विज्ञानम् आत्मेति योअजयति न विज्ञानम् अनात्मेति योजयति/ न विज्ञानं शान्तम् इति योजयति न विज्ञानम् अशान्तम् इति योजयति}}/ ०५२०८ न रूपं शून्यम् इति योजयति न रूपम् अशून्यम् इति योजयति/ ०५२०९ न रूपं सनिमित्तम् इति वा चरति न रूपम् अनिमित्तम् इति वा ०५२१० चरति/ न रूपं सप्रणिहितम् इति वा चरति न रूपम् अप्रणिहित- ०५२११ म् इति वा चरति/ न वेदना शून्येति वा चरति न वेदना ०५२१२ अशून्येति वा चरति/ न वेदना सनिमित्तेति वा चरति न वेदना ०५२१३ अनिमित्तेति वा चरति/ न वेदना सप्रणिहितेति वा चरति न ०५२१४ वेदना अप्रणिहितेति वा चरति/ न संज्ञा {{शून्येति वा चरति न संज्ञा अशून्येति वा चरति/ न संज्ञा सनिमित्तेति वा चरति न संज्ञा अनिमित्तेति वा चरति/ न संज्ञा सप्रणिहितेति वा चरति न संज्ञा अप्रणिहितेति वा चरति}}/ न संस्काराः ०५२१५ शून्या {{इति वा चरति न संस्कारा अशून्या इति वा चरति/ न संस्काराः सनिमित्ता इति वा चरति न संस्कारा अनिमित्ता इति वा चरति/ न संस्काराः सप्रणिहिता इति वा चरति न संस्कारा अप्रणिहिता इति वा चरति}}/ न विज्ञानं शून्यम् {{इति योजयति न विज्ञानम् अशून्यम् इति योजयति/ न विज्ञानं सनिमित्तम् इति वा चरति न विज्ञानम् अनिमित्तम् इति वा चरति/ न विज्ञानं सप्रणिहितम् इति वा चरति न विज्ञानम् अप्रणिहितम् इति वा चरति/}}/ य एवं चरति स प्रज्ञा- ०५२१६ पारमितायां चरतीति नोपैति न चरतीति नोपैति चरति च न ०५२१७ चरति चेति नोपैति नैव चरति न न चरतीति नोपैति/ एवं ०५२१८ चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः/
SK
०५३०१ पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न ०५३०२ दानपारमितायाः कृतशः प्रज्ञापारमितायां चरति/ न शीलपार- ०५३०३ मितायाः कृतशः प्रज्ञापारमितायां चरति/ न क्षान्तिपारमितायाः ०५३०४ {कृतशः प्रज्ञापारमितायां चरति}/ न वीर्यपारमितायाः {कृतशः प्रज्ञापारमितायां चरति}/ न ध्यानपारमितायाः {कृतशः प्रज्ञापारमितायां चरति}/ न ०५३०५ प्रज्ञापारमितायाः {कृतशः प्रज्ञापारमितायां चरति}/ नाविनिवर्तनीयभूमेः {कृतशः प्रज्ञापारमितायां चरति}/ न सत्त्वपरि- ०५३०६ पाकहेतोः {कृतशः प्रज्ञापारमितायां चरति}/ न बुद्धक्षेत्रपरिशुद्धिहेतोः {कृतशः प्रज्ञापारमितायां चरति}/ न दशानां तथा- ०५३०७ गतबलानां {कृतशः प्रज्ञापारमितायां चरति}/ न चतुर्णां वैशारद्यानां {कृतशः प्रज्ञापारमितायां चरति}/ न चतसृणां प्रति- ०५३०८ संविदां {कृतशः प्रज्ञापारमितायां चरति}/ नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां {कृतशः प्रज्ञापारमितायां चरति}/ नाध्यात्म- ०५३०९ शून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न बहिर्धाशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ नाध्यात्मबहिर्धाशून्य- ०५३१० तायाः {कृतशः प्रज्ञापारमितायां चरति}/ न शून्यताशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न महाशून्यतायाः ०५३११ {कृतशः प्रज्ञापारमितायां चरति}/ न परमार्थशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न संस्कृतशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ ०५३१२ नात्यन्तशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ नानवराग्रशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ नानव- ०५३१३ कारशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न प्रकृतिशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न सर्वधर्म- ०५३१४ शून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न स्वलक्षणशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ नानुपलम्भशून्य- ०५३१५ तायाः {कृतशः प्रज्ञापारमितायां चरति}/ नाभावस्वभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न भावशून्यतायाः ०५३१६ {कृतशः प्रज्ञापारमितायां चरति}/ नाभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न स्वभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न पर- ०५३१७ भावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न तथतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न धर्मधातोः {कृतशः प्रज्ञापारमितायां चरति}/ न ०५३१८ भूतकोटेः {कृतशः प्रज्ञापारमितायां चरति}/ तत् कस्य हेतोः/ न हि बोधिसत्त्वो महासत्त्वः प्रज्ञा- ०५३१९ पारमितायां चरन् कस्यचिद् धर्मस्य संभेदं समनुपश्यति/ एवं शारिपुत्र ०५३२० बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दिव्यस्य चक्षुषः कृतशः ०५३२१ प्रज्ञापारमितायां चरति/ न दिव्यस्य श्रोत्रस्य कृतशः प्रज्ञापार- ०५३२२ मितायां चरति/ न परचित्तज्ञानस्य कृतशः प्रज्ञापारमितायां चरति/
०७५०१ न रूपम् मन्यते/ न वेदनां {मन्यते}/ न संज्ञां {मन्यते}/ न संस्कारान् {मन्यते}/ न विज्ञानं {मन्यते}/ ०७५०२ न पृथिवीधातुं {मन्यते}/ नाब्धातुं {मन्यते}/ न तेजोधातुं {मन्यते}// न वायुधातुं {मन्यते}/ ०७५०३ नाकाशधातुं {मन्यते}/ न विज्ञानधातुं {मन्यते}/ न चक्षुर्धातुं {मन्यते}/ न रूपधातुं {मन्यते}/ ०७५०४ न चक्षुर्विज्ञानधातुं {मन्यते}/ न श्रोत्रधातुं {मन्यते}/ न शब्दधातुं {मन्यते}/ न श्रोत्र- ०७५०५ विज्ञानधातुं {मन्यते}/ {{न घ्राणधातुं मन्यते/ न गन्धधातुं मन्यते/ न घ्राणविज्ञानधातुं मन्यते/ न जिह्वाधातुं मन्यते/ न रसधातुं मन्यते/ न जिह्वाविज्ञानधातुं मन्यते/ न कायधातुं मन्यते/ न स्प्रष्टव्यधातुं मन्यते/ न कायविज्ञानधातुं मन्यते/ न मनोधातुं मन्यते/ न धर्मधातुं मन्यते/ न मनोविञानधातुं मन्यते/}} ०७५०६ न स्मृत्युपस्थानानि {मन्यते}/ न ०७५०७ सम्यक्प्रहाणानि {मन्यते}/ न ऋद्धिपादान् {मन्यते}/ नेन्द्रियाणि/ न बलानि {मन्यते}/ न ०७५०८ बोध्यङ्गानि {मन्यते}/ न मार्गं {मन्यते}/ न दानपारमितां {मन्यते}/{{न शीलपारमितां मन्यते/ न क्षान्तिपारमितां मन्यते/ न वीर्यपारमितां मन्यते/ न ध्यानपारमितां मन्यते/}} न प्रज्ञापार- ०७५०९ मितां {मन्यते}/ न वैशारद्यानि {मन्यते}/ न पतिसंविदः {मन्यते}/ न दशतथागतबलानि {मन्यते}/ ०७५१० नाष्टादशावेणिकान् बुद्धधर्मान् {मन्यते}/ न स्रोतआपत्तिफलं/ न सकृदा- ०७५११ गामिफलं/ नानागामिफलं {मन्यते}/ नार्हत्त्वं {मन्यते}/ न प्रत्येकबोधिं {मन्यते}/ न {बोधिसत्त्वं} ०७५१२ महासत्त्वं {मन्यते}/ नानुत्तरां सम्यक्संबोधिं मन्यते/ एवं हि शारिपुत्र ०७५१३ {बोधिसत्त्वो} महासत्त्वः षट्भिः पारमिताभिर् वर्धते/ न च केनचिद् अव- ०७५१४ मृद्यते/ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रज्ञापारमितायां स्थित्वा सर्वज्ञानं ०७५१५ परिपूरयन्ति/ येन ज्ञानेन समन्वागतानां सर्वाण्य् अपायद्वाराणि पिथि-
SK
०७६०१ तानि भवन्ति/ नापि मनुष्यदारिद्र्यविपत्तिम् अनुभवन्ति/ नापि ०७६०२ तादृशम् आत्मभावं परिगृह्णन्ति/ येन निन्दनीया भवन्ति सदेवकस्य ०७६०३ लोकस्य// [इत्य् अपरिश्रान्त्यववादः//] ०७६०४ शारिपुत्र आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य सर्वज्ञज्ञानम्/ ०७६०५ भगवान् आह/ येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वः पूर्वस्यां दिशि ०७६०६ गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति तेषां ०७६०७ धर्मदेशनां शृणोति संघं च पर्युपास्ते/ बुद्धक्षेत्रविशुद्धिं च पश्यति/ ०७६०८ एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिशि {{गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति तेषां धर्मदेशनां शृणोति संघं च पर्युपास्ते/ बुद्धक्षेत्रविशुद्धिं च पश्यति}}/ ०७६०९ येन ज्ञानेन समन्वागतानां {बोधिसत्त्वानां} महासत्त्वानां न बुद्ध- ०७६१० संज्ञा भवति/ न बोधि{संज्ञा भवति} / न श्रावक{संज्ञा भवति} / न प्रत्येकबुद्ध{संज्ञा भवति} / नात्म{संज्ञा भवति} ०७६११ न पर{संज्ञा भवति} / न बुद्धक्षेत्र{संज्ञा भवति} / येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वो ०७६१२ दानपारमितायां चरति/ {{शीलपारमितायां चरति/ क्षान्तिपारमितायां चरति/ वीर्यपारमितायां चरति/ ध्यानपारमितायां चरति/}} प्रज्ञापारमितायां चरति/ ०७६१३ न च पारमिताम् उपलभते/ येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वः ०७६१४ स्मृत्युपस्ह्तानानि भावयति न च स्मृत्युपस्थानान्य् उपलभते/ सम्यक्- ०७६१५ प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति न च सम्यक्प्रहाणर्द्धि- ०७६१६ पादेन्द्रियबलबोध्यंगमार्गान् उपलभते/ बलवैशारद्यावेणिकान् बुद्धधर्मान् ०७६१७ समुदानयति न च बलवैशारद्यावेणिकान् बुद्धधर्मान् उपलभते/ इदं ०७६१८ शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य ज्ञानं येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महा- ०७६१९ सत्त्वः सर्वबुद्धधर्मांश् च परिपूरयति/ न च सर्वबुद्धधर्मांश् च मन्यते//
०७८०१ यत् पुनः शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य दिव्यचक्षुः तच् चातुर्महाराज- ०७८०२ कायिका देवा न प्रजानन्ति/ न त्रयस्त्रिंशा देवाः प्रजानन्ति/ न यामा ०७८०३ देवाः प्रजानन्ति/ {{न तुषिता देवाः प्रजानन्ति/ न निर्माणरतयो देवाः प्रजानन्ति/ न परनिर्मितवशवर्तिनो देवाः प्रजानन्ति/ न ब्रह्मकायिका देवाः प्रजानन्ति/ न ब्रह्मपुरोहिता देवाः प्रजानन्ति/ न ब्रह्मपारिषद्या देवाः प्रजानन्ति/ न परीत्ताभा देवाः प्रजानन्ति/ न अप्रमाणाभा देवाः प्रजानन्ति/ न आभास्वरा देवाः प्रजानन्ति/ न परीत्तशुभा देवाः प्रजानन्ति/ न अप्रमाणशुभा देवाः प्रजानन्ति/ न शुभकृत्स्ना देवाः प्रजानन्ति/ न अनभ्रका देवाः प्रजानन्ति/ न पुण्यप्रसवा देवाः प्रजानन्ति/ न बृहत्फला देवाः प्रजानन्ति/ न असंज्ञिसत्त्वा देवाः प्रजानन्ति/ न शुद्धावासा देवाः प्रजानन्ति/ न अस्पृहा देवाः प्रजानन्ति/ न अतपा देवाः प्रजानन्ति/ न सदृशा देवाः प्रजानन्ति/ न सुदर्शना देवाः प्रजानन्ति/ न अकनिष्ठा देवाः प्रजानन्ति/}} ०७८०४ तेनैव परिशुद्धेन दिव्येन चक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु ०७८०५ लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परि- ०७८०६ शुद्धेन दिव्येन चक्षुषा दक्षिणस्यां {{दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा }} ०७८०७ ऊर्ध्वं दिशि गङ्गादनीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोप- ०७८०८ पादं यथाभूतं प्रजानाति/ इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं ०७८०९ दिव्यचक्षुः//
SK
०७८१० शारिपुत्र आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं प्रज्ञा- ०७८११ चक्षुः/ भगवान् आह/ येन शारिपुत्र प्रज्ञाचक्षुषा समन्वागतो {बोधिसत्त्वो} ०७८१२ महासत्त्वो न कञ्चिद् धर्मं प्रजानाति संस्कृतं वा असंस्कृतं वा कुशलं वा ०७८१३ अकुशलं वा सावद्यं वा अनवद्यं वा सास्रवं वा अनास्रवं वा संक्लेशं वा ०७८१४ निष्क्लेशं लौकिकं वा लोकोत्तरं वा संक्लिष्टं वा व्यवदानम् वा/ येन ०७८१५ प्रज्ञाचक्षुषा {बोधिसत्त्वेन} महासत्त्वेन कश्चिद् धर्मो न दृष्टो न श्रुतो न मतो ०७८१६ न विज्ञातः/ इदम् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं प्रज्ञाचक्षुः/
०८४०१ सूर्यचन्द्रमसौ एवं महर्द्धिकौ महानुभावौ पाणिना परामृशति परि- ०८४०२ मार्ष्टि यावद् ब्रह्मलोकाद् अपि कायं वशेन वर्तयति/ तया च ऋद्ध्या न ०८४०३ मन्यते/ तथा हि स ताम् ऋद्धिं नोपलभते यया मन्यते तद् अपि न ०८४०४ मन्यते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावा- ०८४०५ नुपलब्धिताम् उपादाय/ स न ऋद्धिवेतनाम् अप्य् उत्पादयति न ऋद्ध्यभि- ०८४०६ निर्हारचेतनां वा अन्यत्र सर्वज्ञताम् अनसिकारात्/ एवं हि शारिपुत्र ०८४०७ {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् ऋद्धिविध्यभिज्ञासाक्षात्क्रिया- ०८४०८ ज्ञानम् अभिनिर्हरति/ ०८४०९ स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तम् आनुष्यकेण शब्दान् ०८४१० शृणोति दिव्यान् मानुष्यकांश् च/ न च तेन दिव्येन श्रोत्रेण मन्यते अहं ०८४११ शब्दान् शृणोमि/ तथा हि स तम् अपि शब्दं नोपलभते स्वभाव- ०८४१२ शून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय ०८४१३ स न दिव्यश्रोत्रचेतनाम् अप्य् उत्पादयति न दिव्यश्रोत्राभिनिर्हारचेतनां ०८४१४ वा अन्यत्र सर्वाकारज्ञतामनसिकारात्/ एवं हि शारिपुत्र बोधिसत्त्वो ०८४१५ महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यश्रोत्राभिज्ञासाक्षात्क्रिया- ०८४१६ ज्ञानम् अभिनिर्हरति/
SK
०८५०१ स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति/ ०८५०२ सरागचित्तं सरागचित्तम् इति यथाभूतं प्रजानाति/ विगतरागं चित्तं ०८५०३ विगतरागं चित्तम् इति यथाभूतं प्रजानाति/ सदोषं चित्तं सदोषं ०८५०४ चित्तम् इति यथाभूतं प्रजानाति/ वीतदोषं/ समोहि चित्तं/ वीत- ०८५०५ मोहं/ सतृष्णं/ वीततृष्णं/ सोपादानं/ निरुपादानं/ संक्षिप्तं/ ०८५०६ विक्षिप्तं/ परीत्तं चित्तं/ विपुलं/ महद्गतं/ समाहितं/ असमाहितं/ ०८५०७ विविक्तं/ अविविक्तं/ सास्रवं/ अनास्रवं/ साङ्गणं/ अनङ्गणं/ ०८५०८ सोत्तरं/ अनुत्तरं/ तेन च न मन्यते/ तथा हि ताच् चित्तम् अचित्त- ०८५०९ म् अचिन्त्यताम् उपादाय/ सो ऽहं प्रजानामीति न मन्यते/ तद् एव चित्तं ०८५१० नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभा- ०८५११ वानुपलब्धिताम् उपादाय/ न स परचित्तचेतनाम् अप्य् उत्पादयति न ०८५१२ परचित्ताभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्/ ०८५१३ एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्व- ०८५१४ चित्तचरिताभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति/
SK
०८६०१ स पूर्वनिवासानुस्मृतिज्ञानेन एकाम् अपि जातिम् अनुस्मरति द्वे तिस्रो ०८६०२ यावज् जातिशतसहस्राण्य् अप्य् अनुस्मरति/ स एकम् अपि चित्तम् अनुस्मरति ०८६०३ यावच् चित्तशतम् अपि/ एकम् अपि दिवसं दिवसशतम् अपि/ एकम् अपि ०८६०४ मासं मासशतम् अपि/ एकम् अपि वर्षं वर्षशतम् अपि/ एकम् अपि कल्पं कल्प- ०८६०५ शतम् अपि/ अनेकानि अपि कल्पशतान्य् अनेकान्य् अपि कल्पसहस्राण्य् अनेका- ०८६०६ न्य् अपि कल्पशतसहस्राण्य् एकानि अपि कल्पकोटिनियुतशतसहस्राणि ०८६०७ अनुस्मरति यावत् पूर्वान्तकोटीम् अप्य् अनुस्मरति/ अमुत्राहम् आसम् एवंनामा ०८६०८ एवंगोत्र एवंजातिः एवमाहार एवंचिरस्थितिकः एवमायुः- ०८६०९ पर्यन्तः/ स ततश् च्युतो ऽमुत्रोपपन्नः ततश् च्युत इहास्म्य् उपपन्न इति/ स ०८६१० एवं साकारं सादृशं सनिर्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति/ तेन ०८६११ च पूर्वनिवासानुस्मृत्यभिज्ञानेन न मन्यते/ तथा हि तज् ज्ञानम् अज्ञान- ०८६१२ म् अचिन्त्यताम् उपादाय/ सो ऽहम् प्रजानामीति न मन्यते/ स तद् एव ०८६१३ ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय ०८६१४ स्वभावानुपलब्धिताम् उपादाय/ न स पूर्वनिवासानुस्मृतिचेतनाम् अप्य् उ- ०८६१५ त्पादयति/ न पूर्वनिवासानुस्मृत्यभिनिर्हारचेतनां वा अन्यत्र सर्वा- ०८६१६ कारज्ञतामनसिकारात्/ एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः
१०००१ जानकपश्यकाः सर्व एते प्रज्ञप्तिधर्माः सर्व एते अनुत्पादा अनिरोधा १०००२ यावद् एव नाममात्रेण व्यवह्रियन्ते/ एवम् एव सुभूते या च प्रज्ञापारमिता १०००३ यश् च {बोधिसत्त्वो} महासत्त्वो यच् च बोधिसत्त्वनाम सर्व एते प्रज्ञप्तिधर्माः सर्व एते १०००४ अनुत्पादा अनिरोधा यावद् एव नाममात्रेण व्यवह्रियते/ तद् यथापि १०००५ नाम सुभूते इदम् आध्यात्मिकं रूपम् इति धर्मप्रज्ञप्तिमात्रं तस्याश् च धर्म- १०००६ प्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/ वेद- १०००७ नेति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते} संज्ञेति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ संस्कारा इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ विज्ञानम् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ एवम् एव १०००८ सुभूते प्रज्ञापारमिता च बोधिसत्त्वश् च बोधिसत्त्वनाम च सर्व एते १०००९ प्रज्ञप्तिधर्मास् तेषाञ् च प्रज्ञप्तिधर्माणां नोत्पादो न निरोधो ऽन्यत्र नामसङ्केत- १००१० मात्रेण व्यवह्रियते/ चक्षुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ यद् उत चक्षुर् इति तच् च चक्षुर् ना- १००११ ध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते/ श्रोत्रम् इति{सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ यद् उत श्रोत्र- १००१२ म् इति तच् च श्रोत्रं नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते/ १००१३ घ्राणम् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ जिह्वेति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ काय इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ मन इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ रूपम् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ १००१४ शब्द इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ गन्ध इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ रस इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ स्पर्श इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ धर्म इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ १००१५ चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुः इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च नाध्यात्मं न बहिर्धा १००१६ नोभयम् अन्तरेणोपलभ्यन्ते/ श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातु- १००१७ र् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}/ घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}/ जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}/
SK
१०१०१ कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}/ मनो- १०१०२ धातु धर्मधातुर् मनोविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}/ एवम् एव सुभूते यद् उ- १०१०३ च्यते प्रज्ञापारमितेति/ बोधिसत्त्व इति बोधिसत्त्वनामेति च धर्म- १०१०४ प्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम- १०१०५ सङ्केतमात्रेण व्यवह्रियते/ तच् च नाम नाध्यात्मं न बहिर्धा नोभय- १०१०६ म् अन्तरेणोपलभ्यते/ तद् यथापि नाम सुभूते यद् एतद् आध्यात्मिकं शरीरं १०१०७ शरीरम् इति व्यवह्रियते शिरोग्रीवा उदरमंसौ स्कन्धौ बादु पृष्ठं १०१०८ पार्श्वकाः कट्यूरु जङ्घे पादावस्थीनीति व्यवह्रियन्ते ते च प्रज्ञप्तिधर्मा- १०१०९ स् तेषाञ् च नोत्पादो {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}} एवम् एव सुभुते १०११० यद् उच्यते प्रज्ञापारमितेति बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते १०१११ प्रज्ञप्तिधर्मास् तेषाञ् च नोत्पादा {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}} तद् १०११२ यथापि नाम सुभूते बाह्यं तृणकाष्ठं शाखापर्णपलाशं सर्वं तं नाना- १०११३ नामधेयैर् व्यपदिश्यते तेषाञ् च नाम्नां नोत्पादो {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}} १०११४ तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते/ १०११५ एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति {{बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् ते च नामधेयैर् व्यपदिश्यन्ते तेषाञ् च नोत्पादा न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}} १०११६ तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते/ १०११७ एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ १०११८ पुनर् अपरं सुभूते तद् यथापि नाम स्वप्नप्रतिश्रुत्कामरीचिप्रतिभासमायोप- १०११९ मास् तथागतनिर्मिताः सर्वे ते धर्मप्रज्ञप्तिमात्रास् तेषाञ् च नोत्पादो {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}}
SK
१०२०१ एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति {{यद् उच्यते प्रज्ञापारमितेति बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् तेषाञ् च नोत्पादा न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}} १०२०२ एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायाञ् चरता १०२०३ नामसङ्केतप्रज्ञप्त्याम् अववादप्रज्ञप्त्यां धर्मप्रज्ञप्त्याञ् च शिक्षितव्यम्// [इति १०२०४ दुःखे धर्मज्ञानम्//] १०२०५ एवं हि सुभुते प्रज्ञापारमितायां चरन् {बोधिसत्त्वो} महासत्त्वो न रूपं १०२०६ नित्यम् इति समनुपश्यति/ न रूपं सुखम् इति {समनुपश्यति}/ न रूपं दुःखम् इति १०२०७ {समनुपश्यति}/ न रूपम् आत्मेति {समनुपश्यति}/ न रूपम् अनात्मेति {समनुपश्यति}/ न रूपं शान्त- १०२०८ म् इति {समनुपश्यति}/ न रूपम् अशान्तम् इति {समनुपश्यति}/ न रूपम् शून्यम् इति {समनुपश्यति}/ १०२०९ न रूपम् अशून्यम् इति {समनुपश्यति}/ न रूपं निमित्तम् इति {समनुपश्यति}/ न रूपम् अनिमित्त- १०२१० म् इति {समनुपश्यति}/ न रूपं प्रणिहितम् इति {समनुपश्यति}/ न रूपम् अप्रणिहितम् इति १०२११ {समनुपश्यति}/ न रूपं संस्कृतम् इति {समनुपश्यति}/ न रूपम् असंस्कृतम् इति {समनुपश्यति}/ न रूप- १०२१२ म् उत्पन्नम् इति {समनुपश्यति}/ न रूपम् अनुत्पन्नम् इति {समनुपश्यति}/ न रूपं निरुद्धम् इति १०२१३ {समनुपश्यति}/ न रूपम् अनिरुद्धम् इति {समनुपश्यति}/ न रूपं विविक्तम् इति {समनुपश्यति}/ न १०२१४ रूपम् अविविक्तम् इति {समनुपश्यति}/ न रूपं कुशलम् इति {समनुपश्यति}/ न रूपम् अकुशल- १०२१५ म् इति {समनुपश्यति}/ न रूपं सावद्यम् इति {समनुपश्यति}/ न रूपम् अनवद्यम् इति {समनुपश्यति}/ १०२१६ न रूपं सास्रवम् इति {समनुपश्यति}/ न रूपम् अनास्रवम् इति {समनुपश्यति}/ न रूपं संक्लेश- १०२१७ म् इति {समनुपश्यति}/ न रूपं निःक्लेशम् इति {समनुपश्यति}/ न रूपं लौकिकम् इति {समनुपश्यति}/ १०२१८ न रूपं लोकोत्तरम् इति {समनुपश्यति}/ न रूपं संक्लेशम् इति {समनुपश्यति}/ न रूपं व्यव- १०२१९ दानम् इति {समनुपश्यति}/ न रूपं संसार इति {समनुपश्यति}/ न रूपं निर्वाणम् इति १०२२० समनुपश्यति/ न वेदना नित्येति {समनुपश्यति}/ {{न वेदना सुखेति समनुपश्यति/ न वेदना दुःखेति समनुपश्यति/ न वेदनात्मेति समनुपश्यति/ न वेदनानात्मेति समनुपश्यति/ न वेदना शान्तेति समनुपश्यति/ न वेदनाशान्तेति समनुपश्यति/ न वेदना शून्येति समनुपश्यति/ न वेदनाशून्येति समनुपश्यति/ न वेदना निमित्तेति समनुपश्यति/ न वेदनानिमित्तेति समनुपश्यति/ न वेदना प्रणिहितेति समनुपश्यति/ न वेदनाप्रणिहितेति समनुपश्यति/ न वेदना संस्कृतेति समनुपश्यति/ न वेदनासंस्कृतेति समनुपश्यति/ न वेदनोत्पन्नेति समनुपश्यति/ न वेदनानुत्पन्नेति समनुपश्यति/ न वेदना निरुद्धेति समनुपश्यति/ न वेदनानिरुद्धेति समनुपश्यति/ न वेदना विविक्तेति समनुपश्यति/ न वेदनाविविक्तेति समनुपश्यति/ न वेदना कुशलेति समनुपश्यति/ न वेदनाकुशलेति समनुपश्यति/ न वेदना सावद्येति समनुपश्यति/ न वेदनानवद्येति समनुपश्यति/ न वेदना सास्रवेति समनुपश्यति/ न वेदनानास्रवेति समनुपश्यति/ न वेदना संक्लेशेति समनुपश्यति/ न वेदना निःक्लेशेति समनुपश्यति/ न वेदना लौकिकेति समनुपश्यति/ न वेदना लोकोत्तरेति समनुपश्यति/ न वेदना संक्लेशेति समनुपश्यति/ न वेदना व्यवदानेति समनुपश्यति/ न वेदना संसारेति समनुपश्यति/ न वेदना निर्वाणेति समनुपश्यति/}}/ न संज्ञा नित्येति {समनुपश्यति}/
SK
१०३०१ {{न संज्ञा सुखेति समनुपश्यति/ न संज्ञा दुःखेति समनुपश्यति/ न संज्ञात्मेति समनुपश्यति/ न संज्ञानात्मेति समनुपश्यति/ न संज्ञा शान्तेति समनुपश्यति/ न संज्ञाशान्तेति समनुपश्यति/ न संज्ञा शून्येति समनुपश्यति/ न संज्ञाशून्येति समनुपश्यति/ न संज्ञा निमित्तेति समनुपश्यति/ न संज्ञानिमित्तेति समनुपश्यति/ न संज्ञा प्रणिहितेति समनुपश्यति/ न संज्ञाप्रणिहितेति समनुपश्यति/ न संज्ञा संस्कृतेति समनुपश्यति/ न संज्ञासंस्कृतेति समनुपश्यति/ न संज्ञोत्पन्नेति समनुपश्यति/ न संज्ञानुत्पन्नेति समनुपश्यति/ न संज्ञा निरुद्धेति समनुपश्यति/ न संज्ञानिरुद्धेति समनुपश्यति/ न संज्ञा विविक्तेति समनुपश्यति/ न संज्ञाविविक्तेति समनुपश्यति/ न संज्ञा कुशलेति समनुपश्यति/ न संज्ञाकुशलेति समनुपश्यति/ न संज्ञा सावद्येति समनुपश्यति/ न संज्ञानवद्येति समनुपश्यति/ न संज्ञा सास्रवेति समनुपश्यति/ न संज्ञानास्रवेति समनुपश्यति/ न संज्ञा संक्लेशेति समनुपश्यति/ न संज्ञा निःक्लेशेति समनुपश्यति/ न संज्ञा लौकिकेति समनुपश्यति/ न संज्ञा लोकोत्तरेति समनुपश्यति/ न संज्ञा संक्लेशेति समनुपश्यति/ न संज्ञा व्यवदानेति समनुपश्यति/ न संज्ञा संसारेति समनुपश्यति/ न संज्ञा निर्वाणेति समनुपश्यति/}} न संस्कारा नित्या इति समनुपश्यति {{न संस्काराः सुखा इति समनुपश्यति/ न संस्कारा दुःखा इति समनुपश्यति/ न संस्कारा आत्मानो इति समनुपश्यति/ न संस्कारा अनात्मानो इति समनुपश्यति/ न संस्काराः शान्ता इति समनुपश्यति/ न संस्कारा अशान्ता इति समनुपश्यति/ न संस्काराः शून्या इति समनुपश्यति/ न संस्कारा अशून्या इति समनुपश्यति/ न संस्कारा निमित्ता इति समनुपश्यति/ न संस्कारा अनिमित्ता इति समनुपश्यति/ न संस्काराः प्रणिहिता इति समनुपश्यति/ न संस्कारा अप्रणिहिता इति समनुपश्यति/ न संस्काराः संस्कृता इति समनुपश्यति/ न संस्काराः असंस्कृता इति समनुपश्यति/ न संस्कारा उत्पन्ना इति समनुपश्यति/ न संस्कारा अनुत्पन्ना इति समनुपश्यति/ न संस्कारा निरुद्धा इति समनुपश्यति/ न संस्कारा अनिरुद्धा इति समनुपश्यति/ न संस्कारा विविक्ता इति समनुपश्यति/ न संस्कारा अविविक्ता इति समनुपश्यति/ न संस्कारा कुशला इति समनुपश्यति/ न संस्कारा अकुशला इति समनुपश्यति/ न संस्काराः सावद्या इति समनुपश्यति/ न संस्कारा अनवद्या इति समनुपश्यति/ न संस्काराः सास्रवा इति समनुपश्यति/ न संस्कारा अनास्रवा इति समनुपश्यति/ न संस्काराः संक्लेशा इति समनुपश्यति/ न संस्कारा निःक्लेशा इति समनुपश्यति/ न संस्कारा लौकिका इति समनुपश्यति/ न संस्कारा लोकोत्तरा इति समनुपश्यति/ न संस्कारा संक्लेशा इति समनुपश्यति/ न संस्कारा व्यवदाना इति समनुपश्यति/ न संस्काराः संसारा इति समनुपश्यति/ न संस्कारा निर्वाणा इति समनुपश्यति/}} न विज्ञानन् नित्यम् इति १०३०२ समनुपश्यति {{न विज्ञानं सुखम् इति समनुपश्यति/ न विज्ञानं दुःखम् इति समनुपश्यति/ न विज्ञानं आत्मेति समनुपश्यति/ न विज्ञानम् अनात्मेति समनुपश्यति/ न विज्ञानं शान्तम् इति समनुपश्यति/ न विज्ञानम् अशान्तम् इति समनुपश्यति/ न विज्ञानं शून्यम् इति समनुपश्यति/ न विज्ञानं अशून्यम् इति समनुपश्यति/ न विज्ञानं निमित्तम् इति समनुपश्यति/ न विज्ञानं अनिमित्तम् इति समनुपश्यति/ न विज्ञानं प्रणिहितम् इति समनुपश्यति/ न विज्ञानम् अप्रणिहितम् इति समनुपश्यति/ न विज्ञानं संस्कृतम् इति समनुपश्यति/ न विज्ञानम् असंस्कृतम् इति समनुपश्यति/ न विज्ञानम् उत्पन्नम् इति समनुपश्यति/ न विज्ञानम् अनुत्पन्नम् इति समनुपश्यति/ न विज्ञानं निरुद्धम् इति समनुपश्यति/ न विज्ञानम् अनिरुद्धम् इति समनुपश्यति/ न विज्ञानं विविक्तम् इति समनुपश्यति/ न विज्ञानम् अविविक्तम् इति समनुपश्यति/ न विज्ञानं कुशलम् इति समनुपश्यति/ न विज्ञानम् अकुशलम् इति समनुपश्यति/ न विज्ञानं सावद्यम् इति समनुपश्यति/ न विज्ञानं अनवद्यम् इति समनुपश्यति/ न विज्ञानं सास्रवम् इति समनुपश्यति/ न विज्ञानम् अनास्रवम् इति समनुपश्यति/ न विज्ञानं संक्लेशम् इति समनुपश्यति/ न विज्ञानं निःक्लेशम् इति समनुपश्यति/ न विज्ञानं लौकिकम् इति समनुपश्यति/ न विज्ञानं लोकोत्तरम् इति समनुपश्यति/ न विज्ञानं संक्लेशम् इति समनुपश्यति/ न विज्ञानं व्यवदानम् इति समनुपश्यति/ न विज्ञानं संसारम् इति समनुपश्यति/ न विज्ञानं निर्वाणम् इति समनुपश्यति/}} १०३०३ एवं न चक्षुर्धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति/ न १०३०४ रूपधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति/ न चक्षुर्विज्ञान- १०३०५ धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति/ न चक्षुर्धातुः सुख १०३०६ इति वा दुःख इति वा समनुपश्यति/ न रूपधातुः सुख इति वा दुःख १०३०७ इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः सुख इति वा दुःख इति १०३०८ वा समनुपश्यति/ {{न चक्षुर्धातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न रूपधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न चक्षुर्धातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न रूपधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न चक्षुर्धातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न रूपधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न चक्षुर्धातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न रूपधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न चक्षुर्धातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न रूपधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न चक्षुर्धातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न रूपधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न चक्षुर्धातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न रूपधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न चक्षुर्धातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न रूपधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न चक्षुर्धातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न रूपधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न चक्षुर्धातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न रूपधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न चक्षुर्धातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न रूपधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न चक्षुर्धातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न रूपधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न चक्षुर्धातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न रूपधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न चक्षुर्धातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न रूपधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न चक्षुर्धातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न रूपधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न चक्षुर्धातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न रूपधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}/ एवं न श्रोत्रधातुर् न शव्दधातुर् न श्रोत्रविज्ञान- १०३०९ धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति/ न श्रोत्रधातुर् न १०३१० शब्दधातुर् न श्रोत्रविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति १०३११ {{न श्रोत्रधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न शब्दधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न श्रोत्रधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न शब्दधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न श्रोत्रधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न शब्दधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न श्रोत्रधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न शब्दधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न श्रोत्रधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न शब्दधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न श्रोत्रधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न शब्दधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न श्रोत्रधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न शब्दधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न श्रोत्रधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न शब्दधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न श्रोत्रधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न शब्दधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न श्रोत्रधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न शब्दधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न श्रोत्रधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न शब्दधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न श्रोत्रधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न शब्दधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न श्रोत्रधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न शब्दधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न श्रोत्रधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न शब्दधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न श्रोत्रधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न शब्दधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न श्रोत्रधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न शब्दधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}/ न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् नित्य इति वा १०३१२ अनित्य इति वा समनुपश्यति/ न घ्राणधातुर् न गन्धधातुर् न १०३१३ घ्राणविज्ञानधातुः सुख इति वा दुःख इति समनुपश्यति {{न घ्राणधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न गन्धधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न घ्राणधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न गन्धधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न घ्राणधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न गन्धधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न घ्राणधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न गन्धधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न घ्राणधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न गन्धधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न घ्राणधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न गन्धधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न घ्राणधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न गन्धधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न घ्राणधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न गन्धधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न घ्राणधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न गन्धधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न घ्राणधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न गन्धधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न घ्राणधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न गन्धधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न घ्राणधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न गन्धधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न घ्राणधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न गन्धधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न घ्राणधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न गन्धधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न घ्राणधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न गन्धधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न घ्राणधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न गन्धधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}/ १०३१४ न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् नित्य इति वा अनित्य १०३१५ इति वा समनुपश्यति/ न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञान- १०३१६ धातुः सुख इति वा दुःख इति वा समनुपश्यति {{न जिह्वाधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न रसधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न जिह्वाधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न रसधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न जिह्वाधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न रसधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न जिह्वाधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न रसधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न जिह्वाधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न रसधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न जिह्वाधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न रसधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न जिह्वाधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न रसधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न जिह्वाधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न रसधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न जिह्वाधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न रसधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न जिह्वाधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न रसधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न जिह्वाधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न रसधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न जिह्वाधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न रसधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न जिह्वाधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न रसधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न जिह्वाधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न रसधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न जिह्वाधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न रसधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न जिह्वाधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न रसधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}/ न काय- १०३१७ धातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् नित्य इति वा अनित्य इति १०३१८ वा समनुपश्यति/ न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः १०३१९ सुख इति वा दुःख इति वा समनुपश्यति {{न कायधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न कायविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न कायधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न कायविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न कायधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न कायविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न कायधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न कायविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न कायधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न कायविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न कायधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न कायविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न कायधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न कायविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न कायधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न कायविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न कायधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न कायविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न कायधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न कायविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न कायधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न कायविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न कायधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न कायविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न कायधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न कायविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न कायधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न कायविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न कायधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न कायविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न कायधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न कायविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}} न मनोधातुर् न १०३२० धर्मधातुर् न मनोविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनु-
SK
१०४०१ पश्यति/ न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सुख इति वा १०४०२ दुःख इति वा समनुपश्यति {{न मनोधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न धर्मधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न मनोविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न मनोधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न धर्मधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न मनोविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न मनोधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न धर्मधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न मनोविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न मनोधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न धर्मधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न मनोविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न मनोधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न धर्मधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न मनोविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न मनोधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न धर्मधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न मनोविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न मनोधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न धर्मधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न मनोविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न मनोधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न धर्मधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न मनोविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न मनोधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न धर्मधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न मनोविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न मनोधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न धर्मधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न मनोविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न मनोधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न धर्मधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न मनोविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न मनोधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न धर्मधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न मनोविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न मनोधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न धर्मधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न मनोविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न मनोधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न धर्मधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न मनोविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न मनोधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न धर्मधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न मनोविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न मनोधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न धर्मधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न मनोविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}/ १०४०३ यद् अपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा १०४०४ दुःखं वा अदुःखासुखं वा तद् अपि न नित्यम् इति वा नानित्यम् इति वा १०४०५ समनुपश्यति/ एवं न सुखम् इति वा न दुःखम् इति वा समनुपश्यति/ १०४०६ नात्मेति वा नानात्मेति वा समनुपश्यति {{न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति}}/ यद् अपि श्रोत्रशब्दश्रोत्र- १०४०७ विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा १०४०८ तद् अपि न नित्यम् इति वा नानित्यम् इति वा {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति/}} यद् अपि घ्राणगन्ध- १०४०९ घ्राणविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखा- १०४१० सुखं वा तद् अपि न नित्यम् इति वा नानित्यम् इति वा {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति/}} यद् अपि १०४११ जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं १०४१२ वा अदुःखासुखं वा तद् अपि न नित्यम् इति वा नानितय्म् इति वा {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति/}} १०४१३ यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा १०४१४ दुःखं वा अदुःखासुखं वा तद् अपि न नित्यम् इति वा नानित्यम् इति १०४१५ वा समनुपश्यति/ न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति १०४१६ {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति/}} यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं १०४१७ सुखं वा दुःखं वा अदुःखासुखं वा/ तद् अपि न संसारम् इति वा न १०४१८ निर्वाणम् इति वा समनुपश्यति/ यद् अपि मनोधर्ममनोविज्ञानसंस्पर्श- १०४१९ प्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि १०४२० न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति/ न सुखम् इति १०४२१ न दुःखम् इति नात्मेति नानात्मेति {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति/}}// [इति १०४२२ दुःखे ऽन्वयज्ञानक्षान्तिः//]
SK
१०५०१ तत् कस्य हेतोः/ तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां १०५०२ चरन् प्रज्ञापारमितां प्रज्ञापारमितानाम तं च बोधिसत्त्वं तत् च १०५०३ बोधिसत्त्वनाम न समनुपश्यति/ संस्कृते वा धाताव् असंस्कृते वा धातौ १०५०४ तथा हि सुभूते बोधिसत्त्वः प्रज्ञापारमितायां चरन् नैतान् सर्वधर्मान् १०५०५ कल्पयति न विकल्पयति/ सो ऽविकल्पे धर्मे स्थित्वा स्मृत्युपस्थानानि १०५०६ भावयति/ प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापार- १०५०७ मितानाम समनुपश्यति/ न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनु- १०५०८ पश्यति/ एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिता- १०५०९ तथागतबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् भावयति १०५१० {{प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम समनुपश्यति/ न बोधिसत्त्वं नापि बोधिसत्त्वनाम}} समनुपश्यति अन्यत्र सर्वाकारज्ञता १०५११ मनसिकारात्// [इति दुःखे ऽन्वयज्ञानम्//] १०५१२ तथा हि तेन प्रज्ञापारमितायां चरता धर्मलक्षणं प्रतिविद्धं भवति/ १०५१३ यच् च धर्माणां लक्षणं तन् न संक्लिश्यते न व्यवदायते/ एवं हि सुभूते १०५१४ {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्ति- १०५१५ र् अनुबोद्धव्या// [इति समुदये धर्मक्षान्तिः//] १०५१६ स नामसांकेतिक्या धर्मप्रज्ञप्त्या अवबुध्य न रूपम् अभिनिवेक्ष्यते न १०५१७ वेदनाम् {अभिनिवेक्ष्यते}/ न संज्ञाम् {अभिनिवेक्यते}/ न संस्कारान् {अभिनिवेक्ष्यते}/ न विज्ञानम् {अभिनिवेक्ष्यते}/
SK
१०६०१ न चक्षुर् {अभिनिवेक्ष्यते}/ न रूपम् {अभिनिवेक्ष्यते}/ न चक्षुर्विज्ञानम् {अभिनिवेक्ष्यते}/ न चक्षुःसंस्पर्श- १०६०२ म् {अभिनिवेक्ष्यते}/ यद् अपि चक्षुःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अ- १०६०३ दुःखासुखं वा तद् अपि {नाभिनिवेक्ष्यते}/ न श्रोत्रम् {अभिनिवेक्ष्यते} न शब्दं न श्रोत्रविज्ञानं न १०६०४ श्रोत्रसंस्पर्शं यद् अपि श्रोत्रसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा १०६०५ अदुःखासुखं वा तद् अपि {नाभिनिवेक्ष्यते}/ {{न घ्राणम् अभिनिवेक्ष्यते न गन्धं न घ्राणविज्ञानं न घ्राणसंस्पर्शं यद् अपि घ्राणसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते/ न जिह्वाम् अभिनिवेक्ष्यते न रसं न जिह्वाविज्ञानं न जिह्वासंस्पर्शं यद् अपि जिह्वासंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते/}} १०६०६ {{न कायम् अभिनिवेक्ष्यते न स्प्रष्टव्यं न कायं न कायविज्ञानं न कायसंस्पर्शं यद् अपि कायसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते/ न मनो अभिनिवेक्ष्यते न धर्मम् न मनोविज्ञानं न मनःसंस्पर्शं यद् अपि मनःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते/}}/ नापि संस्कृतधातुम् {अभिनिवेक्ष्यते}/ नाप्य् असंस्कृतधातुम् {अभिनिवेक्ष्यते}//
SK
१०६०७ [इति समुदये धरम्ज्ञानम्//] १०६०८ स न दानपारमिताम् अभिनिवेक्ष्यते/ न शील{पारमिताम् अभिनिवेक्ष्यते}/ न क्षान्ति- १०६०९ {पारमिताम् अभिनिवेक्ष्यते}/ न वीर्य{पारमिताम् अभिनिवेक्ष्यते}/ न ध्यान{पारमिताम् अभिनिवेक्ष्यते}/ न प्रज्ञा{पारमिताम् अभिनिवेक्ष्यते}/ न नामापि १०६१० न लक्षणम् अपि तासाम् अभिनिवेक्ष्यते/ न काये ऽभिनिवेक्ष्यते/ ना मांस- १०६११ चक्षुष्य् {अभिनिवेक्ष्यते}/ न दिव्यचक्षुष्य् {अभिनिवेक्ष्यते}/ न प्रज्ञाचक्षुष्य् {अभिनिवेक्ष्यते}/ न धर्मचक्षु- १०६१२ ष्य् {अभिनिवेक्ष्यते}/ न बुद्धचक्षुष्य् {अभिनिवेक्ष्यते}/ नाभिज्ञास्व् {अभिनिवेक्ष्यते}/ नाध्यात्मशून्यताया- १०६१३ म् {अभिनिवेक्ष्यते}/ न बहिर्धाशून्यतायाम् {अभिनिवेक्ष्यते}/ नाध्यात्मबहिर्धाशून्यतायाम् {अभिनिवेक्ष्यते}/ १०६१४ न शून्यताशून्यतायां न महाशून्यतायां न परमार्थशून्यतायां न संस्कृत- १०६१५ शून्यतायां नासंस्कृतशून्यतायां नात्यन्तशून्यतायां नानवराग्रशून्यतायां १०६१६ नानवकारशून्यतायां न प्रकृतिशून्यतायां न सर्वधर्मशून्यतायां न स्वल- १०६१७ क्षणशून्यतायां नानुपलम्भशून्यतायां नाभावस्वभावशून्यतायां न भावशून्य-
SK
१०७०१ तायां नाभावशून्यतायां न स्वभावशून्यतायां न परभावशून्यताया- १०७०२ म् अभिनिवेक्ष्यते/ न तथतायां न भूतकोट्यां न धर्मधातौ न सत्त्व- १०७०३ परिपाके न बुद्धक्षेत्रपरिशुद्धौ नोपायकौशल्ये ऽभिनिवेक्ष्यते/ तत् १०७०४ कस्य हेतोः/ तथा हि ते सर्वधर्मा न संविद्यन्ते यश् चाभिनिविक्शेत/ येन १०७०५ चाभिनिविशेत यत्र चाभिनिविशेत// [इति समुदये ऽन्वयज्ञानक्षान्तिः//] १०७०६ एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् अनभि- १०७०७ निविष्टः सर्वधर्मेषु दानपारमितया विवर्द्धते/ शील{पारमितया विवर्द्धते}/ क्षान्ति{पारमितया विवर्द्धते}/ १०७०८ वीर्य{पारमितया विवर्द्धते}/ ध्यान{पारमितया विवर्द्धते}/ प्रज्ञा{पारमितया विवर्द्धते}/ बोधिसत्त्वनियामम् अवक्रामति//
SK
१०७०९ [इति समुदये ऽन्वयज्ञानम्//] १०७१० एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अविनिवर्त- १०७११ नीयां भूमिम् अवक्रामति// [इति निरोधे धरम्ज्ञानक्षान्तिः//] १०७१२ एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो ऽभिज्ञाः परिपूरयति/ १०७१३ अभिज्ञाः परिपूर्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति सत्वांश् च परिपाचयति १०७१४ बुद्धांश् च भगवतः सत्करोति गुरूकरोति मानयति तेनैव कुशलमूलेन १०७१५ तेषां बुद्धानां भगवतां चान्तिक उपपद्यते धर्मं च शृणोति श्रुताश् चास्य १०७१६ धर्मा न जातूच्छेत्स्यन्ते यावद् आ बोधिमण्डाद् इति धारणीमुखानि १०७१७ प्रतिलप्स्यते समाधिमुखानि प्रतिलप्स्यते/ एवं हि सुभूते {बोधिसत्त्वेन} १०७१८ महासत्त्वेन र्पज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिर् अनु- १०७१९ बोद्धव्या// [इति निरोधे धर्मज्ञानम्//]
१२००१ संजानीते/ {{एवं वेदना प्रहातव्या अनेन वेदना प्रहातव्येति नाभिनिविशते नाधितिष्ठति न संजानीते/ एवं संज्ञा प्रहातव्या अनेन संज्ञा प्रहातव्येति नाभिनिविशते नाधितिष्ठति न संजानीते/ एवं संस्काराः प्रहातव्या अनेन संस्काराः प्रहातव्या इति नाभिनिविशते नाधितिष्ठति न संजानीते/ एवं विज्ञानं प्रहातव्यम् अनेन विज्ञानं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते}}/ एवं १२००२ दुःखं परिक्षयम् अनेन दुःखं परिक्षयम् इति एवं समुदयः प्रहातव्यो ऽनेन समुदयः १२००३ प्रहातव्य इति नाभिनिविशते नाधितिष्ठति न संजातीते// [इति समुदय- १२००४ सत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः//] १२००५ एवं निरोधः साक्षात्कर्तव्यो ऽनेन निरोधः साक्षात्कर्तव्य इति/ एवं १२००६ मार्गो भावयितव्यो ऽनेन मार्गो भावयितव्य इति/ अयं संक्लेश इदं १२००७ व्यवदानम् इति/ इमे धर्माः सेवितव्याः इमे धर्मा न सेवितव्या इति/ इह १२००८ चरितव्यम् इह न चरितव्यम्/ अयं मार्गो भावयितव्यो ऽयं न भावयितव्यः/ १२००९ इयं बोधिसत्त्वस्य शिक्षा इयम् अशिक्षा/ इयं बोधिसत्त्वस्य न दानपारमिता १२०१० इयं {बोधिसत्त्वस्य} न शील{पारमिता} इयं {बोधिसत्त्वस्य} न क्षान्ति{पारमिता} इयं {बोधिसत्त्वस्य} न वीर्य{पारमिता} इयं {बोधिसत्त्वस्य} न ध्यान{पारमिता} १२०११ इयं {बोधिसत्त्वस्य} न प्रज्ञा{पारमिता} इदं बोधिसत्त्वस्योपायकौशलम् इदम् अनुपायकौशलम् इति नाभि- १२०१२ निविशते नाधितिष्ठति न संजानीते ऽयं बोधिसत्त्वस्य मूर्धामः/ सचेद् आ- १२०१३ युष्मन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् एवं नाभिनिविशते १२०१४ नाधितिष्ठति न संजानीते इयं बोधिसत्त्वस्यानुलोमिकी धर्मतृष्णा आमः/ १२०१५ शारिपुत्र आह/ कतमः पुनर् आयुष्मन् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य न्यामः/ १२०१६ सुभूतिर् आह/ इहायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् १२०१७ नाध्यात्मशून्यतया बहिर्धाशून्यतां समनुपश्यति/ न बहिर्धाशून्यतया १२०१८ अध्यात्मशून्यतां समनुपश्यति/ न बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतां १२०१९ समनुपश्यति/ नाध्यात्मबहिर्धाशून्यतया बहिर्धाशून्यतां समनुपश्यति/ १२०२० नाध्यात्मबहिर्धाशून्यतया शून्यताशून्यतां समनुपश्यति/ न शून्यताशून्यतया १२०२१ अध्यात्मबहिर्धाशून्यतां समनुपश्यति/ न शून्यताशून्यतया महाशून्यतां
SK
१२१०१ समनुपश्यति/ {{न शून्यताशून्यतया परमार्थशून्यतां समनुपश्यति/ न शून्यताशून्यतया संस्कृतशून्यतां समनुपश्यति/ न शून्यताशून्यतया अत्यन्तशून्यतां समनुपश्यति/ न शून्यताशून्यतया अनवराग्रशून्यतां समनुपश्यति/ न शून्यताशून्यतया अनवकारशून्यतां समनुपश्यति/ न शून्यताशून्यतया प्रकृतिशून्यतां समनुपश्यति/ न शून्यताशून्यतया सर्वधर्मशून्यतां समनुपश्यति/ न शून्यताशून्यतया स्वलक्षणशून्यतां समनुपश्यति/ न शून्यताशून्यतया अनुपलम्भशून्यतां समनुपश्यति/ न शून्यताशून्यतया अभावस्वभावशून्यतां समनुपश्यति/ न शून्यताशून्यतया भावशून्यतां समनुपश्यति/ न शून्यताशून्यतया अभावशून्यतां समनुपश्यति/}} न १२१०२ परभावशून्यतया स्वभावशून्यतां समनुपश्यति/ अयं हि शारिपुत्र १२१०३ {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वन्यामः// [इति १२१०४ निरोधसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः//] १२१०५ पुनर् अपरं शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरतैवं शिक्षितव्यम्/ १२१०६ यथा शिक्षमाणेन रूपं ज्ञातव्यं न च तेन मन्तव्यम्/ वेदनासंज्ञासंस्कारा विज्ञानं १२१०७ {ज्ञातव्यं न च तेन मन्तव्यं} चक्षुर् ज्ञातव्यं एवं श्रोत्रं घ्राणं जिह्वा कायो मनो {ज्ञातव्यं न च तेन मन्तव्यं}/ शब्दगन्ध- १२१०८ रसस्प्रष्टव्यधर्मा {ज्ञातव्या न च तैर् मन्तव्यं}}/ दानपारमिता ज्ञातव्या {{न च तया मन्तव्यं/ शीलपारमिता ज्ञातव्या न च तया मन्तव्यं/ क्षान्तिपारमिता ज्ञातव्या न च तया मन्तव्यं/ वीर्यपारमिता ज्ञातव्या न च तया मन्तव्यं/}} प्रज्ञापारमिता {ज्ञातव्या न च तया मन्तव्यं}/ १२१०९ एवं पञ्चाभिज्ञाः पञ्चचक्षूंषि चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धि- १२११० पादेन्द्रियबलबोध्यङ्गमार्गा भावयितव्या न च तैर् मन्तव्यम्/ चत्वारि १२१११ वैशारद्यानि दशतथागतबलानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा १२११२ {ज्ञातव्या न च तैर् मन्तव्यं}/ एवं हि शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता बोधि- १२११३ चित्तं नाम ज्ञातव्यं समचित्तं नामोदारचित्तं नाम {ज्ञातव्यं न च तेन मन्तव्यं}/ तत् कस्य १२११४ हेतोः/ तथा तच् चित्तम् अचित्तं प्रकृतिश् चित्तस्य प्रभास्वरा/ १२११५ शारिपुत्र आह/ का पुनर् आयुष्मन् सुभूते चित्तस्य प्रभास्वरता/ १२११६ सुभूतिर् आह/ यद् आयुष्मन् शारिपुत्र चित्तं न रागेण संयुक्तं न विसंयुक्तं
१२३१३ [इति सर्वेषां हेतुत्वविशेषः//] १२३१४ अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ यो ऽहं भगवन् न १२३१५ बोधिसत्त्वं न प्रज्ञापारमितां विन्दामि नोपलभे न समनुपश्यामि तत् १२३१६ कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि/ १२३१७ एवद् एव मे भगवन् कौकृत्यं स्यात्/ यो ऽहं वस्तु न विन्दामि नोपलभे न १२३१८ समनुपश्यामि सो ऽहं भगवन् वस्त्व् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् कतमेन
SK
१२४०१ धर्मेण कतमं धर्मम् अववदिष्याम्य् अनुशासिष्यामि/ एतद् एव मे भगवन् कौकृत्यं १२४०२ स्यात्/ यो ऽहं सर्वधर्मान् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् नामधेयमात्रेण १२४०३ आयव्ययं कुर्यां बोधिसत्त्व इति वा प्रज्ञापारमितेति वा/ अपि तु खलु पुन- १२४०४ र् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य १२४०५ हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न १२४०६ विष्ठितं नाविष्ठितम्/ रूपस्याहं भगवन्न् आयं च व्ययं च नोपलभे न समनुपश्यामि/ १२४०७ वेदनाया अहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ संज्ञाया अहं {भगवन् नायञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ संस्काराणाम् अहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ विज्ञानस्याहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ सो ऽहं १२४०८ भगवन् रूपादीनाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं १२४०९ करिष्यामि बोधिसत्त्व इति/ अनेन भगवन् पर्यायेण तद् अपि नामधेयं १२४१० न स्थितं {नास्थितं न विष्ठितं नाविष्ठितम्}/ तत् कस्य हेतोः/ अविद्यमानत्वात् तस्य नामधेयस्य/ एवं १२४११ तन् नाम न स्थितं {नास्थितं न विष्ठितं नाविष्ठितम्}/ चक्षुषो ऽहं श्रोत्रस्याहं {{घ्राणस्याहं जिह्वाया अहं कायस्याहं}} मनसो ऽहं {भगवन् नायञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ अपि तु १२४१२ खलु पुनर् भगवन् वेदयितं रूपं नाम वेदना नाम {{संज्ञा नाम संस्कारा नाम}} विज्ञानं नाम/ १२४१३ चक्षुः श्रोत्रं {घ्राणं जिह्वा कायो} मन इति नाम/ एतानि नामधेयानि न स्थितानि १२४१४ नास्थितानि न विष्ठितानि नाविष्ठितानि/ तत् कस्य हेतोः/ अविद्यमानत्वेन १२४१५ तेषां नामधेयानाम्/ १२४१६ एवं तानि नामधेयानि न स्थितानि नास्थितानि न विष्ठितानि नाविष्ठि- १२४१७ तानि/ रूपस्याहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ एवं शब्दगन्धरसस्प्रष्टव्यधर्माणाम् आयञ् च व्ययञ् च न १२४१८ समनुपश्यामि नोपलभे/ सो ऽहं भगवन् रूप{{शब्दगन्धरसस्प्रष्टव्य}}धर्माणाम् आयञ् च
SK
१२५०१ व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व १२५०२ इति/ अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/}} चक्षुर्विज्ञान- १२५०३ स्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ एवं श्रोत्रविज्ञानस्य्{{आहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ घ्राणविज्ञानस्याहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ जिह्वाविज्ञानस्याहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ कायविज्ञानस्याहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/}} मनोविज्ञानस्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ सो ऽहं १२५०४ भगवंश् चक्षुर्विज्ञानस्य्{{आयञ् च व्ययञ् च न समनुपश्यन् श्रोत्रविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन् घ्राणविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन् जिह्वाविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन् कायविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन्}} मनोविज्ञानस्यायञ् च व्ययञ् च समनुपश्यन् १२५०५ {{कस्य नामधेयं करिष्यामि बोधिसत्त्व इति/}} अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/}} १२५०६ चक्षुःसंस्पर्शस्याहं भगवन् यावच् चक्षुःसंस्पर्शप्रत्ययवेदयितस्यायञ् च {व्ययञ् च न समनुपश्यामि नोपलभे/} श्रोत्रसंस्पर्शस्याहं १२५०७ भगवन् यावच् छ्रोत्रसंस्पर्शप्रत्ययवेदयितस्यायञ् च {व्ययञ् च न समनुपश्यामि नोपलभे/} {{घ्राणसंस्पर्शस्याहं भगवन् यावद् घ्राणसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ १२५०८ जिह्वासंस्पर्शस्याहं भगवन् यावज् जिह्वासंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ कायसंस्पर्शस्याहं भगवन् यावत् कायसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे/}} मनःसंस्पर्शस्याहं भगवन् यावत् मनःसंस्पर्शप्रत्ययवेदयित- १२५०९ स्यायञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ पृथिवीधातोर् एवम् अब्धातोस् तेजोधातोर् वायुधातोर् आकाशधातोर् विज्ञान- १२५१० धातोर् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ एवम् अविद्या यावज् जरामरणस्याहं भवगन् आयञ् च{व्ययञ् च न समनुपश्यामि नोपलभे}/ एवम् अविद्या- १२५११ निरोधस्य यावज् जरामरणनिरोधस्याहं आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ स्कन्धधात्वायतनप्रतीत्यस- १२५१२ मुत्पादानाम् अहं भगवन् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ रागद्वेषमोहानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ पर्युत्थानावरणानु- १२५१३ शयसंयोजनदृष्टिकृतानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ दानपारमिताया अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/} {{शीलपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ क्षान्तिपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ वीर्यपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ ध्यानपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/}} प्रज्ञापारमिताया १२५१४ अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ आत्मनो ऽहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे} एवं सत्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेद- १२५१५ कजानकपश्यकानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ स्मृत्युपस्थानानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ एवं सम्यक्प्रहाणर्द्धिपा- १२५१६ देन्द्रियबलबोध्यङ्गमार्गस्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ शून्यताया अनिमित्तस्याप्रणिहितस्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ १२५१७ चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ १२५१८ बुद्धानुस्मृतेर् धर्मानुस्मृतेः संघानुस्मृतेः शीलानुस्मृतेस् त्यागानुस्मृतेर् देवतानु- १२५१९ स्मृतेर् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ आनापानानुस्मृतेर् मरणानुस्मृतेर् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ पञ्चानां चक्षुषाम् अभिज्ञानां १२५२० वैशारद्यानां दशानां तथागतबलानाम् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ अष्टादशानाम् आवेणिकानाम् अहं भगवन्
SK
१२६०१ बुद्धधर्माणाम् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ सो ऽहं भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् आयञ् च १२६०२ व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व १२६०३ इति/ अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/}} स्वन्पोपमानाम् अहं १२६०४ भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयञ् च{व्ययञ् च समनुपश्यामि नोपलभे}/ एवं मायोपमानां प्रति- १२६०५ श्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिम्बोपमानां मरीच्युपमानां उदक- १२६०६ चन्द्रोपमानां निर्मितकोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धाना- १२६०७ म् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ एवं विविक्तस्य शान्तस्यानुत्पादस्यानिरोधस्यासंक्लेशस्या- १२६०८ व्यवदानस्य अहं भगवन् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ एवं धर्मधातोस् तथताया भूतकोटेर् द्धर्म- १२६०९ स्थितिताया धर्मनियामताया अहं भगवन् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ एवं कुशलानाम् अकुश- १२६१० लानां सावद्यानाम् अनवद्यानां सास्रवाणाम् अनास्रवाणां संक्लेशानां निः- १२६११ क्लेशानां लौकिकानां लोकोत्तराणां संस्कृतानाम् असंस्कृतानां संक्लेशानां १२६१२ व्यवदानानां सांसारिकाणां नैवाणिकानां अहं भगवन् धर्माणाम् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ १२६१३ अतीतानागतप्रत्युत्पन्नानां धर्माणाम् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ भगवतो ऽप्य् अहं भगवन् १२६१४ आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागताना- १२६१५ म् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् १२६१६ आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ {{दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/}} १२६१७ {{अपि तु खलु पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/}} आयञ् च व्ययञ् चानु- १२६१८ पलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अ- १२६१९ ववदिष्याम्य् अनुशासिष्यामि/ अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/}} १२६२० सर्वधर्मतथताया अहं भगवन् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे/}} १२६२१ [इति मध्योष्मगतस्यालम्बनाकारविशेषः//] १२६२२ यापीयं भगवन् धर्मसंकेतिकी धर्मप्रज्ञप्तिर् यद् उत बोधिसत्त्व इति/ १२६२३ सा न केनचिद् वचनीया स्कन्धेन वा धातुना वा आयतनेन वा
SK
१२७०१ यावद् आवेणिकेन वा बुद्धधर्मेण/ यावद् एवैषा धर्मप्रज्ञप्तिः/ तद् यथापि १२७०२ नाम भगवन् स्वप्नो न केनचिद् वचनीयः प्रतिश्रुत्को प्रतिभासः १२७०३ प्रतिबिम्बं निर्मितकं न केनचिद् वचनीयम्/ तद् याथापि नाम भगवन् १२७०४ पृथिव्यप्तेजोवाय्वाकाशं नाम {न केनचिद् वचनीयं}/ तद् यथापि नाम भगवन् शीलम् इति १२७०५ समाधिर् इति प्रज्ञेति विमुक्तिर् इति विमुक्तिज्ञानदर्शनम् इति नाम {न केनचिद् वचनीयं}/ स्रोतआपन्न १२७०६ इति नाम {न केनचिद् वचनीयं}/ सकृदागामीति अनागमीति अर्हन्न् इति प्रत्येकबुद्ध इति १२७०७ यावद् बोधिसत्त्वधर्म इति तथागत इति बुद्ध तिइ तथतेति बुद्धधर्म इति १२७०८ नाम {न केनचिद् वचनीयं}/ कुशलेन वा अकुशलेन वा सावद्येन वा अनवद्येन वा सुखेन वा १२७०९ दुःखेन वा आत्मना व अनात्मना वा शान्तेन वा अशान्तेन वा विविक्तेन वा १२७१० अविविक्तेन वा निमित्तेन वा अनिमित्तेन वा भावेन वा अभावेन वा १२७११ इमम् अप्य् अहं भगवन् अर्थवशं प्रतीत्य एवं वदामि एतद् एव मे भगवन् १२७१२ कौकृत्यं स्यात्/ यो ऽहं सर्वधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनु- १२७१३ पश्यन् नामधेयमात्रेणायञ् च व्ययञ् च कुर्यां बोधिसत्त्व इति/ अपि तु खलु १२७१४ पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् १२७१५ कस्य हेतोः/ अविद्यमानत्वात् तस्य नामधेयस्य/ एवं तत् नामधेयं १२७१६ न स्थितं नास्थितं न विष्ठितं नाविष्ठितं/ स चेह भगवन् एवं {बोधिसत्त्वस्य} महा- १२७१७ सत्त्वस्य प्रज्ञापारमितायां भाष्यमाणायां चित्तं नावलीयते न संलीयते १२७१८ न विप्रतिसारी भवति/ मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते
SK
१२८०१ नियतं महासत्त्वो ऽविनिवर्तणीयायां बोधिसत्त्वभूमौ स्थितो वेदितव्यः १२८०२ सुस्थितो ऽस्थानयोगेन// [इति अधिमात्रोष्मगतस्यालम्बनाकारविशेषः//] १२८०३ पुनर् अपरं बह्गवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायाञ् चरतो न रूपे स्थातव्यं १२८०४ {{न वेदनायां स्थातव्यं न संज्ञायां स्थातव्यं न संस्कारेषु स्थातव्यं }} न विज्ञाने स्थातवय्ं/ तेन न चक्षुषि स्थातव्यं {{न श्रोत्रे स्थातव्यं न घ्राणे स्थातव्यं न जिह्वायां स्थातव्यं न काये स्थातव्यं}} १२८०५ न मनसि स्थातव्यं/ तेन न रूपे स्थातव्यं न शब्दे {{स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं}} न धर्मे १२८०६ स्थातव्यम्/ तेन न चक्षुर्विज्ञाने स्थातवय्ं {{न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं }} न मनोविज्ञाने स्थातव्यं/ १२८०७ तेन न चक्षुःसंस्पर्शे स्थातव्यं न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यं {{न श्रोत्रसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शप्रत्ययवेदयिते स्थातव्यं न घ्राणसंस्पर्शे स्थातव्यं न घ्राणसंस्पर्शप्रत्ययवेदयिते स्थातव्यं न जिह्वासंस्पर्शे स्थातव्यं न जिह्वासंस्पर्शप्रत्ययवेदयिते स्थातव्यं न कायसंस्पर्शे स्थातव्यं न कायसंस्पर्शप्रत्ययवेदयिते स्थातव्यं}} १२८०८ न मनःसंस्पर्शे न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्/ तेन न पृथिवी- १२८०९ धातौ स्थातव्यं {{नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम्}} न विज्ञानधातौ स्थातव्यम्/ तेन नाविद्यायां स्थातव्यं १२८१० न संस्कारेषु {{स्थातव्यं न विज्ञायां स्थातव्यम् न नामरूपे स्थातव्यं न षडायतनेषु स्थातव्यं न स्पर्शे स्थातव्यं न वेदनायां स्थातव्यं न तृष्णायां स्थातव्यं न उपादाने स्थातव्यं न भवे स्थातव्यं न जातौ स्थातव्यं न जरामरणे स्थातव्यं न जरामरणे स्थातव्यं न शोके स्थातव्यं न परिदेवे स्थातव्यं न दुःखे स्थातव्यं}} न दौर्मनस्योपयासेषू स्थातव्यम्/ तत् कस्य हेतोः/ तथा १२८११ हि भगवन् रूपं रूपत्वेन शून्यं/ वेदना {{वेदनात्वेन शून्या संज्ञा संज्ञात्वेन शून्या संस्काराः संस्कारत्वेन शून्या}} विज्ञानं विज्ञानत्वेन शून्यं १२८१२ या च भगवन् रूपस्य शून्यता न तद् रूपं/ न चान्यत्र शून्यताया रुपं रूपम् एव १२८१३ शून्यता शून्यतैव रूपम्/ {{या च भगवन् वेदनायाः शून्यता न सा वेदना/ न चान्यत्र शून्यताया वेदना वेदनैव शून्यता शून्यतैव वेदना/ या च भगवन् संज्ञायाः शून्यता न सा संज्ञा/ न चान्यत्र शून्यताया संज्ञा संज्ञैव शून्यता शून्यतैव संज्ञा/ या च भगवन् संस्काराणां शून्यता न ते संस्काराः/ न चान्यत्र शून्यताया संस्काराः संस्काराः शून्यता शून्यतैव संस्काराः/}} १२८१४ या च भगवन् विज्ञानस्य शून्यता न तद् विज्ञानं न चान्यत्र शून्यताया विज्ञानं १२८१५ विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्/ १२८१६ अनेन भगवन् पर्यायेण {बोधिअत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे १२८१७ स्थातव्यं {न वेदनायां स्थातव्यं न संज्ञायां स्थातव्यं न संस्कारेषु स्थातव्यं} न विज्ञाने स्थातव्यं/ न पृथिवीधातौ {{स्थातव्यं नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम्}} न १२८१८ विज्ञानधातौ स्थातव्यं/ तत् कस्य हेतोः/ तथा हि भगवन् पृथिवीधतुः पृथिवी- १२८१९ धातुत्वेन शून्या/ या च पृथिवीधातुशून्यता नासौ पृथिवीधातुर् न चान्यत्र १२८२० शून्यतायाः पृथिवीधातुः/ पृथिवीधातुर् एव शून्यता/ शून्यतैव पृथिवीधातुः/ १२८२१ एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुस् तथा हि भगवन् विज्ञानधातुर् वि- १२८२२ ज्ञानधातुत्वेन शून्या/ या च विज्ञानधातुशून्यता नासौ विज्ञानधातुर् न चान्यत्र १२८२३ शून्यताया विज्ञानधातुर् विज्ञानधातुर् एव शून्यता/ शून्यतैव विज्ञानधातुः/ अनेन
SK
१२९०१ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न पृथिवीधातौ स्थातव्यं {{नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम्}} न विज्ञानधातौ १२९०२ स्थातव्यम्/ न रूपे स्थातव्यं {{न शब्दे स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं}} न धर्मे स्थातव्यं/ तत् कस्य हेतोः/ तथा हि १२९०३ भगवन् रूपं रूपत्वेन शून्यम् {{शब्दः शब्दत्वेन शून्यो गन्धो गन्धत्वेन शून्यो रसो रसत्वेन शून्यः स्प्रष्टव्यं स्प्रष्टव्यत्वेन शून्यम्/ या च भगवन् रूपस्य शून्यता न तद् रूपं/ न चान्यत्र शून्यताया रुपं रूपम् एव शून्यता शून्यतैव रूपम्/ या च भगवन् शब्दस्य शून्यता न स शब्दः/ न चान्यत्र शब्दात् शब्दः शब्द एव शून्यता शून्यतैव शब्दः/ या च भगवन् गन्धस्य शून्यता न स गन्धः/ न चान्यत्र गन्धाद् गन्धो गन्ध एव शून्यता शून्यतैव गन्धः/ या च भगवन् रसस्य शून्यता न स रसः/ न चान्यत्र रसाद् रसो रस एव शून्यता शून्यतैव रसः/ या च भगवन् स्प्रष्टव्यस्य शून्यता न तद् स्प्रष्टव्यम्/ न चान्यत्र स्प्रष्टव्यात् स्प्रष्टव्यं स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टयम्/}} १२९०४ {{या च भगवन् धर्मस्य शून्यता न स धर्मः/ न चान्यत्र धर्माद् धर्मो}} धर्म एव शून्यता शून्यतैव धर्मः/ अनेन १२९०५ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न रूपे {स्थातव्यं} {{न शब्दे स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं}} न धर्मे {स्थातव्यं} न चक्षुषि {स्थातव्यं} १२९०६ {{न श्रोत्रे स्थातव्यं न घ्राणे स्थातव्यं न जिह्वायां स्थातव्यं न काये स्थातव्यं}} न मनसि {स्थातव्यं}/ न चक्षुर्विज्ञाने {स्थातव्यं} {{न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं}} न मनोविज्ञाने १२९०७ {स्थातव्यं}/ तत् कस्य हेतोः/ तथा हि भगवंश् चक्षुर्विज्ञानं चक्षुर्विज्ञानत्वेन शून्यम् १२९०८ {{श्रोत्रविज्ञानं श्रोत्रविज्ञानत्वेन शून्यम् घ्राणविज्ञानं घ्राणविज्ञानत्वेन शून्यम् जिह्वाविज्ञानं जिह्वाविज्ञानत्वेन शून्यम् कायविज्ञानं कायविज्ञानत्वेन शून्यम् मनोविज्ञानं मनोविज्ञानत्वेन शून्यम्/ या च भगवन् चक्षुर्विज्ञानस्य शून्यता न तद् चक्षुर्विज्ञानं न चान्यत्र शून्यताया चक्षुर्विज्ञानं चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानम्/ या च भगवन् श्रोत्रविज्ञानस्य शून्यता न तद् श्रोत्रविज्ञानं न चान्यत्र शून्यताया श्रोत्रविज्ञानं श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानम्/ या च भगवन् घ्राणविज्ञानस्य शून्यता न तद् घ्राणविज्ञानं न चान्यत्र शून्यताया घ्राणविज्ञानं घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानम्/ या च भगवन् जिह्वाविज्ञानस्य शून्यता न तद् जिह्वाविज्ञानं न चान्यत्र शून्यताया जिह्वाविज्ञानं जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानम्/ या च भगवन् कायविज्ञानस्य शून्यता न तद् कायविज्ञानं न चान्यत्र शून्यताया कायविज्ञानं कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानम्/ या च भगवन् मनोविज्ञानस्य शून्यता न तद् मनोविज्ञानं न चान्यत्र शून्यताया मनोविज्ञानं मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानम्/}} अनेन १२९०९ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुर्विज्ञाने {स्थातव्यं} {{न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं}} न मनोविज्ञाने १२९१० {स्थातव्यं}/ न चक्षुःसंस्पर्शे {स्थातव्यं} {{न श्रोत्रसंस्पर्शे स्थातव्यं न घ्राणसंस्पर्शे स्थातव्यं न जिह्वासंस्पर्शे स्थातव्यं न कायसंस्पर्शे स्थातव्यं}} न मनःसंस्पर्शे {स्थातव्यं}/ तत् कस्य १२९११ हेतोः/ तथा हि भगवंश् चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शत्वेन शून्यः १२९१२ {{श्रोत्रसंस्पर्शश् श्रोत्रसंस्पर्शत्वेन शून्यो घ्राणस्पर्शश् घ्राणसंस्पर्शत्वेन शून्यो जिह्वासंस्पर्शश् जिह्वासंस्पर्शत्वेन शून्यः कायसंस्पर्शश् कायसंस्पर्शत्वेन शून्यः मनःसंस्पर्शश् मनःसंस्पर्शत्वेन शून्यः/ या च भगवन् चक्षुःसंस्पर्शस्य शून्यता न स चक्षुःसंस्पर्शः/ न चान्यत्र शून्यताया चक्षुःसंस्पर्शः चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः/ या च भगवन् श्रोत्रसंस्पर्शस्य शून्यता न स श्रोत्रसंस्पर्शः/ न चान्यत्र शून्यताया श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्श एव शून्यता शून्यतैव श्रोत्रसंस्पर्शः/ या च भगवन् घ्राणसंस्पर्शस्य शून्यता न स घ्राणसंस्पर्शः/ न चान्यत्र शून्यताया घ्राणसंस्पर्शः घ्राणसंस्पर्श एव शून्यता शून्यतैव घ्राणसंस्पर्शः/ या च भगवन् जिह्वासंस्पर्शस्य शून्यता न स जिह्वासंस्पर्शः/ न चान्यत्र शून्यताया जिह्वासंस्पर्शः जिह्वासंस्पर्श एव शून्यता शून्यतैव जिह्वासंस्पर्शः/ या च भगवन् कायसंस्पर्शस्य शून्यता न स कायसंस्पर्शः/ न चान्यत्र शून्यताया कायसंस्पर्शः कायसंस्पर्श एव शून्यता शून्यतैव कायसंस्पर्शः/ या च भगवन् मनःसंस्पर्शस्य शून्यता न स मनःसंस्पर्शः/ न चान्यत्र शून्यताया मनःसंस्पर्शः मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः/}} अनेन भगवन् पर्यायेण १२९१३ {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुःसंस्पर्शे {स्थातव्यं} न मनःसंस्पर्शे {स्थाअतव्यं}/ न चक्षुःसंस्पर्शप्रत्यय- १२९१४ वेदयिते {स्थातव्यं} एवं यावन् न मनःसंस्पर्शप्रत्ययवेदयिते {स्थातव्यं}/ तत् कस्य हेतोः/ १२९१५ तथा हि भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं १२९१६ {{श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितत्वेन शून्यं कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं/ या च भगवन् चक्षुःसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् चक्षुःसंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितम्/ या च भगवन् श्रोत्रसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् श्रोत्रसंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव श्रोत्रसंस्पर्शप्रत्ययवेदयितम्/ या च भगवन् घ्राणसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् घ्राणसंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव घ्राणसंस्पर्शप्रत्ययवेदयितम्/ या च भगवन् जिह्वासंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् जिह्वासंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदयितम्/ या च भगवन् कायसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् कायसंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव कायसंस्पर्शप्रत्ययवेदयितम्/ या च भगवन् मनःसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् मनःसंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्/}} १२९१७ अनेन भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते {स्थातव्यं} १२९१८ {{न श्रोत्रसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न घ्राणसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न जिह्वासंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं }} न मनःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते {स्थातव्यं}/ नाविद्यायां {स्थातव्यं}/ एवं १२९१९ यावन् न जरामरणे/ तत् कस्य हेतोः/ तथा हि भगवन् अविद्या अविद्यात्वेन १२९२० शून्या/ या चाविद्याशून्यता न सा अविद्या न चान्यत्र शून्यताया अविद्या १२९२१ अविद्यैव शून्यता शून्यतैवाविद्या/ एवं संस्काराः सम्स्कारत्वेन शून्याः १२९२२ विज्ञानं विज्ञानत्वेन शून्यं {{नामरूपं नामरूपत्वेन शून्यं षडायतनानि षडायतनत्वेन शून्यानि स्पर्शः स्पर्शत्वेन शून्यो वेदना वेदनात्वेन शून्या तृष्णा तृष्णात्वेन शून्या उपादानम् उपादानत्वेन शून्यं भवो भवत्वेन शून्यो जातिर् जातित्वेन शून्या/}} तथा हि भगवन् जरामरणं
SK
१३००१ जरामरणत्वेन शून्यम्/ या च जरामरणशून्यता न तज् जरामरणं न चान्यत्र १३००२ शून्यताता जरामरणं जरामरणम् एव शून्यता शून्यतैव जरामरणम्/ अनेन १३००३ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाविद्यायां स्थातव्यं {{न संस्कारेषु स्थातव्यं न विज्ञाने स्थातव्यं न नामरूपे स्थातव्यं न षडायतनेषु स्थातव्यं न स्पर्शे स्थातव्यं न वेदनायां स्थातव्यं न तृष्णायां स्थातव्यं न उपादाने स्थातव्यं न भवे स्थातव्यं न जातौ स्थातव्यं}} न जरामरने स्थातव्यम्/ १३००४ एवं स्कन्धधात्वायतनेषु च न कर्तव्यम्/ पुनर् अपरं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} स्मृत्युपस्थानेषु १३००५ न स्थातव्यम्/ तत् कस्य हेतोः/ तथा हि भगवन् स्मृत्युपस्थानानि स्मृत्युप- १३००६ स्थानत्वेन शून्यानि/ {{या च भगवन् स्मृत्युपस्थानानां शून्यता न तानि स्मृत्युपस्थानानि/ न चान्यत्र स्मृत्युपस्थानेभ्यः स्मृत्युपस्थानानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि/}} तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} १३००७ न स्मृत्युपस्थानेषु {स्थातव्यं}/ एवं सम्यक् प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्ग- १३००८ पारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु न {स्थातव्यं}/ तत् १३००९ कस्य हेतोः/ तथा ह्य् आवेणिकबुद्धधर्म आवेणिकबुद्धधर्मत्वेन शून्या/ {{या च भगवन् आवेणिकबुद्धधर्मस्य शून्यता न स आवेणिकबुद्धधर्मः/ न चान्यत्रावेणिकबुद्धधर्माद् आवेणिकबुद्धधर्म आवेणिकबुद्धधर्म एव शून्यता शून्यतैव आवेणिकबुद्धधर्मः/}} १३०१० तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न सम्यक्प्रहाणर्द्धि- १३०११ पादेन्द्रिय{बलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविद्}आवेणिकबुद्धधर्मेषु न स्थातव्यम्/ १३०१२ पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न दानपारमितायां {स्थातव्यम्}/ तत् कस्य हेतोः/ १३०१३ तथा हि दानपारमितैव शून्या दानपारमितास्वभावेन/ {{शीलपारमितैव शून्या शीलपारमितास्वभावेन/ क्षातिपारमितैव शून्या क्षान्तिपारमितास्वभावेन/ वीर्यपारमितैव शून्या वीर्यपारमितास्वभावेन/ ध्यानपारमितैव शून्या ध्यानपारमितास्वभावेन/ प्रज्ञापारमितैव शून्या प्रज्ञापारमितास्वभावेन/ या च भगवन् दानपारमितायाः शून्यता न सा दानपारमिता/ न चान्यत्र दानपारमितायाः दानपारमिता दानपारमितैव शून्यता शून्यतैव दानपारमिता/ या च भगवन् शीलपारमितायाः शून्यता न सा शीलपारमिता/ न चान्यत्र शीलपारमितायाः शीलपारमिता शीलपारमितैव शून्यता शून्यतैव शीलपारमिता/ या च भगवन् क्षान्तिपारमितायाः शून्यता न सा क्षान्तिपारमिता/ न चान्यत्र क्षान्तिपारमितायाः क्षान्तिपारमिता क्षान्तिपारमितैव शून्यता शून्यतैव क्षान्तिपारमिता/ या च भगवन् वीर्यपारमितायाः शून्यता न सा वीर्यपारमिता/ न चान्यत्र वीर्यपारमितायाः वीर्यपारमिता वीर्यपारमितैव शून्यता शून्यतैव वीर्यपारमिता/ या च भगवन् ध्यानपारमितायाः शून्यता न सा ध्यानपारमिता/ न चान्यत्र ध्यानपारमितायाः ध्यानपारमिता ध्यानपारमितैव शून्यता शून्यतैव ध्यानपारमिता/ या च भगवन् प्रज्ञापारमितायाः शून्यता न सा प्रज्ञापारमिता/ न चान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता प्रज्ञापारमितैव शून्यता शून्यतैव प्रज्ञापारमिता/}} १३०१४ तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} १३०१५ न दानपारमितायां {स्थातव्यं} {{न शीलपारमितायां स्थातव्यं न क्षान्तिपारमितायां स्थातव्यं न वीर्यपारमितायां स्थातव्यं न ध्यानपारमितायां स्थातव्यं}} न प्रज्ञापारमितायां {स्थातव्यम्}/ १३०१६ पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} अक्षरेषु न {स्थातव्यं}/ अक्षराभिनिर्हारेषु न {स्थातव्यं}/ १३०१७ एकोदाहारे द्विरुदाहारे त्रिरुदाहारे न {स्थातव्यं}/ तत् कस्य हेतोः/ तथा हि १३०१८ अक्षराणि शून्यान्य् अक्षरस्वभावेन/ या च भगवन्न् अक्ष्रशून्यता न सा अक्षराणि १३०१९ न चान्यत्र शून्यताया अक्षराणि अक्ष्सरान्य् एव शून्यता शून्यतैवाक्षराणि/ १३०२० तद् अनेन भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाक्षरेषु स्थातव्यम्/ पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}
SK
१३१०१ नाभिज्ञासु स्थातव्यम्/ तत् कस्य हेतोः/ अभिज्ञा एव शून्या अभिज्ञा- १३१०२ स्वभावेन या च भगवन्न् अभिज्ञाशून्यता न ता अभिज्ञा न चान्यत्र शून्यताया १३१०३ अभिज्ञा अभिज्ञा एव शून्यता शून्यतैवाभिज्ञा/ तद् अनेन भगवन् पर्यायेण १३१०४ {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाभिज्ञासु स्थातव्यम्/ १३१०५ पुनर् अपरं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न रूपम् अनित्यम् इति {स्थातव्यं}/ न वेदना न संज्ञा न १३१०६ संस्कारा न विज्ञानम् अनित्यम् इति {स्थातव्यं}/ तत् कस्य हेतोः/ तथा हि रूपानित्यता १३१०७ अनित्यतास्वभावेन शून्या या च भगवन् रूपानित्यता शून्यता न सा १३१०८ अनित्यता न चान्यत्र शून्यताया अनित्यता अनित्यतैव शून्यता शून्यतैव १३१०९ अनित्यता/ तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} रूपम् अनित्यम् इति न १३११० स्थातव्यं {{वेदनानित्येति न स्थातव्यं संज्ञानित्येति न स्थातव्यं संस्कारा अनित्या इति न स्थातव्यं विज्ञानम् अनित्यम् इति न स्थातव्यम्}}/ १३१११ एवं न रूपं दुःखम् इति {स्थातव्यं}/ न वेदना न संज्ञा न संस्कारा न विज्ञानं १३११२ दुःखम् इति स्थातव्यं/ तत् कस्य हेतोः/ तथा हि रूपदुःखता दुःखतास्वभावेन १३११३ शून्या/ या च भगवन् रूपदुःखताशून्यता न सा दुःखता न चान्यत्र शून्यताया १३११४ दुःखता दुःखतैव शून्यता शून्यतैव दुःखता/ तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} १३११५ न रूपं दुःखम् इति स्थातव्यम्/ न वेदना न संज्ञा न संस्कारा न विज्ञानम्/ तत् १३११६ कस्य हेतोः/ तथा हि विज्ञानदुःखता दुःखतास्वभावेन शून्या/ या च भगवन् १३११७ विज्ञानदुःखताशून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव १३११८ शून्यता शून्यतैव दुःखता/ तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न विज्ञानम् १३११९ दुःखम् इति स्थातव्यम्/ {{एवं न रूपम् अनात्मम् इति स्थातव्यं/ न वेदना न संज्ञा न संस्कारा न विज्ञानं अनात्मम् इति स्थातव्यं/ तत् कस्य हेतोः/ तथा हि रूपानात्मतानात्मतास्वभावेन शून्या/ या च भगवन् रूपानात्मताशून्यता न सानात्मता न चान्यत्र शून्यताया अनात्मतानात्मतैव शून्यता शून्यतैवानात्मता/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपम् अनात्मम् इति स्थातव्यम्/ न वेदना न संज्ञा न संस्कारा न विज्ञानम्/ तत् कस्य हेतोः/ तथा हि विज्ञानानात्मतानात्मतास्वभावेन शून्या/ या च भगवन् विज्ञानानात्मताशून्यता न सानात्मता न चान्यत्र शून्यताया अनात्मतानात्मतैव शून्यता शून्यतैवानात्मता/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानम् अनात्मम् इति स्थातव्यम्/ एवं न रूपं शान्तम् इति स्थातव्यं/ न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तम् इति स्थातव्यं/ तत् कस्य हेतोः/ तथा हि रूपशान्तता शान्ततास्वभावेन शून्या/ या च भगवन् रूपशान्तताशून्यता न सा शान्तता न चान्यत्र शून्यताया शान्तता शान्ततैव शून्यता शून्यतैव शान्तता/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तम् इति स्थातव्यम्/ न वेदना न संज्ञा न संस्कारा न विज्ञानम्/ तत् कस्य हेतोः/ तथा हि विज्ञानशान्तता शान्ततास्वभावेन शून्या/ या च भगवन् विज्ञानशान्तताशून्यता न सा शान्तता न चान्यत्र शून्यताया शान्तता शान्ततैव शून्यता शून्यतैव शान्तता/}} १३१२० तद् अनेनापि
SK
१३२०१ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न विज्ञानं शान्तम् इति {स्थातव्यं}/ एवं हेतु- १३२०२ समुदयप्रभवप्रत्ययतायां न {स्थातव्यं}/ १३२०३ पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} तथतायां न {स्थातव्यं}/ तत् कस्य हेतोः/ तथा हि १३२०४ तथता तथतास्वभावेन शून्या/ या च भगवंस् तथतायाः शून्यता न सा तथता १३२०५ न चान्यत्र तथतायाः शून्यता तथतैव शून्यता शून्यतैव तथता/ तद् अनेनापि १३२०६ भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} तथतायां न स्थातव्यम् एव धर्मतायाम् न स्थातव्यम्/ १३२०७ तत् कस्य हेतोः/ तथा हि धर्मता धर्मतास्वभावेन शून्या १३२०८ {{या च भगवंस् धर्मतायाः शून्यता न सा धर्मता न चान्यत्र धर्मतायाः शून्यता धर्मतैव शून्यता शून्यतैव धर्मता/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यम्/ धर्मधातौ न स्थातव्यम्/ तत् कस्य हेतोः/ तथा हि धर्मधातुर् धर्मधातुस्वभावेन शून्यो या च भगवंस् धर्मधातोः शून्यता न स धर्मधातुर् न चान्यत्र धर्मधाओः शून्यता धर्मधातुर् एव शून्यता शून्यतैव धर्मधातुः/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यम्/ धर्मनियामतायां न स्थातव्यम्/ तत् कस्य हेतोः/ तथा हि धर्मनियामता धर्मनियामतास्वभावेन शून्या या च भगवंस् धर्मनियामतायाः शून्यता न सा धर्मनियामता न चान्यत्र धर्मनियामतायाः शून्यता धर्मनियामतैव शून्यता शून्यतैव धर्मनियामता/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतायां न स्थातव्यम्/ भूतकोट्यां न स्थातव्यम्/ तत् कस्य हेतोः/ तथा हि भूतकोटिर् भूतकोटिस्वभावेन शून्या या च भगवंस् भूतकोट्याः शून्यता न सा भूतकोटिर् न चान्यत्र भूतकोट्याः शून्यता भूतकोटिर् एव शून्यता शून्यतैव भूतकोटिः/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यम्}}/ १३२०९ पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} सर्वधारणीमुखेषु न स्थातव्यम्/ तत् कस्य १३२१० हेतोः/ तथा हि धारणीमुखानि धारणीमुखैः शून्यानि {{या च भगवंस् धारणीमुखानां शून्यता न तानि धारणीमुखानि न चान्यत्र धारणीमुखेभ्यः शून्यता धारणीमुखान्य् एव शून्यता शून्यतैव धारणीमुखानि/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}} १३२११ धारणीमुखेषु न स्थातव्यम्/ १३२१२ पुनर् अपरं भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् अनुपायकुशलो १३२१३ ऽहङ्कारममकारपतितेन मानसेन सचेद् रूपे तिष्ठति रूपाभिसंस्कारे चरति १३२१४ न चरति प्रज्ञापारमितायाम्/ सचेद् वेदनायां संज्ञायां संस्कारेषु सचेद् १३२१५ विज्ञाने तिष्ठति विज्ञानाभिसंस्कारे चरति न चरति प्रज्ञापारमितायाम्/ तत् १३२१६ कस्य हेतोः/ न ह्य् अभिसंस्कारे चरन् प्रज्ञापारमितायां परिगृह्णाति न प्रज्ञापार- १३२१७ मितायां योगम् आपद्यते न प्रज्ञापारमितां परिपूरयति, अपरिपूरयन् प्रज्ञापार- १३२१८ मितां न निर्यास्यति सर्वाकारज्ञतायाम्/ तत् कस्य हेतोः/ तथा हि भगवन् १३२१९ रूपम् अपरिगृहीतं वेदनासंज्ञासंस्काराविज्ञानम् अपरिगृहीतम्/ तत् कस्य हेतोः/ यश् च १३२२० रूपस्यापरिग्रहो न तद् रूपम् प्रकृतिशून्यताम् उपादाय वेदनासंज्ञासंस्कारा यश् च १३२२१ विज्ञानस्यापरिग्रहो न तद् विज्ञानं प्रकृतिशून्यताम् उपादाय एवं यावद् १३२२२ भूतकोटिर् अपरिगृहीता/ तत् कस्य हेतोः/ यश् च भाउतकोट्या अपरिग्रहो न सा १३२२३ भूतकोटिः प्रकृतिशून्यताम् उपादाय एवं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} प्रकृतिशून्याः सर्वधर्माः
१५२१२ [इति तत्रैव सप्तमो भावनामार्गप्रज्ञप्तिविकल्पः//] १५२१३ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अन्या माया अन्या सर्वशून्यता/ {सुभूतिर् आह/ नो भगवन्}/ [इति १५२१४ तत्रैवाष्टमो विशेषमार्गप्रज्ञप्तिविकल्पः/] १५२१५ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अन्या माया अन्यानि दशबलानि/ अन्या माया १५२१६ अन्ये ऽष्टादशावेणिकाबुद्धधर्माः/ {सुभूतिर् आह/ नो भगवन्}/ १५२१७ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अन्या माया अन्यो बोधिः/ {सुभूतिर् आह}/ नो भगवन् अन्या १५२१८ माया अन्यद् रूपं रूपम् एव भगवन् माया मायैव भगवन् रूपम् १५२१९ {{नो भगवन् अन्या माया अन्या वेदना वेदनैव भगवन् माया मायैव भगवन् वेदना नो भगवन् अन्या माया अन्या संज्ञा संज्ञैव भगवन् माया मायैव भगवन् संज्ञा नो भगवन् अन्या माया अन्ये संस्काराः संस्कारा एव भगवन् माया मायैव भगवन् संस्कारा}} नो भगवन् अन्या माया अन्यद् विज्ञानं विज्ञानम् एव भगवन् माया १५२२० मायैव भगवन् विज्ञानम्/ १५२२१ न बह्गवन् अन्यच् चक्षुर् अन्या माया न भगवन् अन्यद् रूपम् अन्या माया १५२२२ {{न भगवन् अन्यत् श्रोत्रम् अन्या माया न भगवन् अन्यः शब्दो अन्या माया न भगवन् अन्यद् घ्राणम् अन्या माया न भगवन् अन्यो गन्धो ऽन्या माया न भगवन् अन्या जिह्वा अन्या माया न भगवन् अन्यो रसो ऽन्या माया न भगवन् अन्यः कायो अन्या माया न भगवन् अन्यत् स्प्रष्टव्यम् अन्या माया न भगवन् अन्यद् मनो ऽन्या माया न भगवन् अन्यो धर्मो ऽन्या माया न भगवन् अन्यच् छ्रोत्रविज्ञानम् अन्या माया न भगवन् अन्यच् छ्रोत्रविज्ञानं अन्या माया न भगवन् अन्यद् घ्राणविज्ञानं अन्या माया न भगवन् अन्यज् जिह्वाविज्ञानं अन्या माया न भगवन् अन्यत् कायविज्ञानं अन्या माया न भगवन् अन्यद् मनोविज्ञानं अन्या माया न भगवन् अन्यच् चक्षूरूपचज्षुर्विज्ञानं अन्या माया न भगवन् अन्यच् छ्रोत्रशब्दश्रोत्रविज्ञानं अन्या माया न भगवन् अन्यद् घ्राणगन्धघ्राणविज्ञानं अन्या माया न भगवन् अन्यज् जिह्वारसजिह्वाविज्ञानं अन्या माया न भगवन् अन्यत् कायस्प्रष्टव्यकायविज्ञानं अन्या माया न भगवन् अन्यत् मनोधर्ममनोविज्ञानम् अन्या माया न भगवन् अन्यः चक्षुःसंस्पर्शो ऽन्या माया न भगवन् अन्यः श्रोत्रसंस्पर्शो ऽन्या माया न भगवन् अन्यो घ्राणसंस्पर्शो ऽन्या माया न भगवन् अन्यो जिह्वासंस्पर्शो ऽन्या माया न भगवन् अन्यः कायसंस्पर्शो ऽन्या माया न भगवन् अन्यो मनःसंस्पर्शो ऽन्या माया/ न भगवन् अन्यच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदनाद् उत्पद्यते वेदयितं सुखं वा दुखं वा}} अदुःखं वा असुखं वा/ १५२२३ न भगवन् अन्या माया अन्ये बोधिपक्षा धर्माः/ बोधिपक्षा धर्मा एव १५२२४ भगवन् माया/ मायैव भगवन् बोधिपक्षा धर्माः/ न भगवन्
SK
१५३०१ अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः/ अष्टादशावेणिका बुद्धधर्मा १५३०२ एव भगवन् माया मायैव भगवन्न् अष्टादशावेणिका बुद्धधर्माः/ न भगवन् अन्या १५३०३ माया अन्यो बोधिः बोधिर् एव माया मायैव भगवन् बोधिः/ १५३०४ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अपि नु मायाया उत्पादो वा निरोधो वा/ {सुभूतिर् आह/ नो भगवन्}/ {भगवान् आह/ १५३०५ तत् किं मन्यसे सुभूते}/ मायायाः संक्लेशो वा व्यवदानं वा/ {सुभूतिर् आह/ नो भगवन्}/ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ यस्य नोत्पादो १५३०६ न निरोधो न संक्लेशो न व्यवदानं स प्रज्ञापारमितायां शिक्षते ध्यान- १५३०७ पारमितयां {{शिक्षते वीर्यपारमितायां शिक्षते क्षान्तिपारमितायां शिक्षते शीलपारमितायां शिक्षते}} दानपारमितायां शिक्षते/ अप्रमाणध्यानारूप्यसमापत्तिषु १५३०८ शिक्षते सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिक- १५३०९ बुद्धधर्मेषु शिक्षते/ सर्वज्ञतायां निर्यास्यति यावत् सर्वाकारज्ञताम् अनु- १५३१० प्राप्स्यति/ {सुभूतिर् आह/ नो भगवन्}/ १५३११ {भगवान् आह/ तत् किं मन्यसे सुभूते/} अत्रैषा संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारो बोधिसत्त्व इति पञ्च- १५३१२ सूपादानस्कन्धेषु/ {सुभूतिर् आह/ नो भगवन्}/ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारमात्रेण १५३१३ पञ्चानाम् उपादानस्कन्धानाम् उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा १५३१४ उपलभ्यते/ {सुभूतिर् आह/ नो भगवन्}/ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ यस्य न संज्ञा न समज्ञा न प्रज्ञप्तिर् न १५३१५ व्यवहारो न नाम न नामप्रज्ञप्तिर् न कायो न कायकर्म न वाक् न वाक्कर्म न १५३१६ मनो न मनःकर्म नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् अपि न स १५३१७ प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति/ {सुभूतिर् आह/ नो भगवन्}/ {भगवान् आह}/ १५३१८ एवं खलु सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां १५३१९ निर्यास्यति अनुपलम्भयोगेन/ {सुभूतिर् आह}/ एवं भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापार- १५३२० मितायां शिक्षमाणेन मायापुरुषेणैव शिक्षितव्यं भगवत्य् अनुत्तरायां सम्यक्- १५३२१ संबोधौ/ तत् कस्य हेतोः/ तथा हि भगवन् स एव मायापुरुषो वेदितव्यः/ १५३२२ यद् उत पञ्चोपादानस्कन्धाः/ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अपि त्व् इमे पञ्चोपादानस्कन्धाः १५३२३ प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति/ {सुभूतिर् आह/ नो भगवन्}/ तत्
SK
१५४०१ कस्य हेतोः/ तथा हि भगवन्न् अभावस्वभावाः पञ्चोपादानस्कन्धाः/ एवं स्वप्नोपमाः १५४०२ पञ्चस्कन्धाः स्वप्नश् चाभावस्वभावो नोपलभ्यते तथैव पञ्चस्कन्धा अभाव- १५४०३ स्वभावतया नोपलभ्यन्ते/ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ प्रतिश्रुत्कोपमाः पञ्चस्कन्धाः प्रतिभासो- १५४०४ पमाः निर्मितकोपमाः प्रतिबिम्बोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा १५४०५ सर्वाकारज्ञतायां निर्यास्यति/ {सुभूतिर् आह/ नो भगवन्}/ तत् कस्य हेतोः/ तथा हि १५४०६ भगवन्न् अभावस्वभावो प्रतिश्रुत्क एव प्रतिभासो निर्मितकं प्रतिबिम्बस् तथैव १५४०७ पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्ते/ तथा हि भगवन् मायोपमं रूपं १५४०८ मायोपमा वेदना {{मायोपमा संज्ञा मायोपमाः संस्कारा मायोपमं}} विज्ञानं/ यच् च विज्ञानं तत् षडिन्द्रियं ते पञ्चस्कन्धास् ते १५४०९ च अध्यात्मशून्यतया नोपलभ्यन्ते/ बहिर्धाशून्यतया {नोपलभ्यन्ते}/ अध्यात्म- १५४१० बहिर्धाशून्यतया {नोपलभ्यन्ते}/ यावद् अभावस्वभावशून्यतया {नोपलभ्यन्ते}/ सचेद् एवं बह्गवन् १५४११ भाष्यमाणो यो {बोधिसत्त्वो} महासत्त्वो नावलीयते न संलीयते न विप्रतिसारी भवति १५४१२ नोत्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते, वेदितव्यम् अयम् भगवन् निर्यास्यति १५४१३ सर्वज्ञतायां सर्वाकारज्ञताम् अनुप्राप्स्यति// [इति तत्रैव नवमोऽशैक्समार्गप्रज्ञप्ति- १५४१४ विकल्पः//] [इति द्वितीयो ग्राहकविकल्पः//] १५४१५ अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ मा खलु भगवन् १५४१६ नवयानसंप्रस्थितो {बोधिसत्त्वो} महासत्त्व इमं निर्देशं श्रुत्वा अवलीयते संलीयते १५४१७ विप्रतिसारी भवेत्/ उत्त्रस्येत् सन्त्रस्येत् सन्त्रासम् आपद्येत/ भगवान् आह/ १५४१८ सचेत् सुभूते नवयानसंप्रस्थितो {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् अनुपाय- १५४१९ कुशलो भवेन् न च कल्याणमित्रहस्तगतो भवेत् उत्त्रस्येत् संत्रस्येत् सन्त्रासम् आपद्येत/ १५४२० सुभूतिर् आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायाञ् चरत १५४२१ उपायकौशल्यं यत्र चरन् {बोधिसत्त्वो} महासत्त्वो {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते}/ १५४२२ भगवान् आह/ इह सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन १५४२३ रूपम् अनित्यम् इति प्रत्यवेक्षते न चोपलभते/ वेदनां {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}/ संज्ञां {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}/ संस्कारान्
SK
१५५०१ {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्या इति प्रत्यवेक्षते न चोपलभते}/ विज्ञानं {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}/ इदं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरत १५५०२ उपायकौशल्यं वेदितव्यम्/ १५५०३ पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन १५५०४ रूपं दुःखम् इति प्रत्यवेक्षते न चोपलभते १५५०५ {{वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखा इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शून्यम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्येति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्येति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्या इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्यम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनात्मेति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मा इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शान्तम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्ता इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/}} १५५०६ {{पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं विविक्तम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्ता इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनिमित्तम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्ता इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहिता इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत}} उपायकौशल्यं वेदितव्यम्/ १५५०७ पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रति- १५५०८ संयुक्तैर् मनसिकारैर् यां धर्मदेशनाङ् करोत्य् अनुपलम्भयोगेन इयं {बोधिसत्त्वस्य} महासत्त्वस्य १५५०९ दानपारमिता/ तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम् अ- १५५१० परामर्षणता {इयं बोधिसत्त्वस्य महासत्त्वस्य} शील{पारमिता}/ {या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} क्षमणारोचनप्रत्यवेक्षणता {इयं बोधिसत्त्वस्य महासत्त्वस्य} १५५११ क्षान्ति{पारमिता}/ {या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} अनुत्सृष्टिर् {इयं बोधिसत्त्वस्य महासत्त्वस्य} वीर्य{पारमिता}/ {या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} च श्रावकप्रत्येक- १५५१२ बुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अनवकाशदानता अन्येषाम् अपि वाकुशलानां १५५१३ धर्माणाम् {इयं बोधिसत्त्वस्य महासत्त्वस्य} ध्यान{पारमिता}/ एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमिता- १५५१४ याञ् चरन् {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते}/ १५५१५ पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रत्यवेक्षते न रूप- १५५१६ शून्यतया रूपं शून्यं, रूपम् एव शून्यता, शून्यतैव रूपम्/ न वेदनाशून्यतया १५५१७ वेदना शून्या, वेदनैव शून्यता, शून्यतैव वेदना, १५५१८ {{न संज्ञाशून्यतया संज्ञा सून्या, संज्ञैव शून्यता, शून्यतैव संज्ञा/ न संस्कारशून्यतया संस्काराः शून्याः, संस्कारा एव शून्यता, शून्यतैव संस्काराः/ न विज्ञानशून्यतया विज्ञानं शून्यम्, विज्ञानम् एव शून्यता, शून्यतैव विज्ञानम्/ न चक्षुःशून्यतया चक्षुः शून्यम्, चक्षुर् एव शून्यता, शून्यतैव चक्षुः/ न श्रोत्रशून्यतया श्रोत्रं शून्यम्, श्रोत्रम् एव शून्यता, शून्यतैव श्रोत्रम्/ न घ्राणशून्यतया घ्राणं शून्यम्, घ्राणम् एव शून्यता, शून्यतैव घ्राणम्/ न जिह्वाशून्यतया जिह्वा शून्या, जिह्वैव शून्यता, शून्यतैव जिह्वा/ न कायशून्यतया कायः शून्यः, काय एव शून्यता, शून्यतैव कायः/ न मनःशून्यतया मनः शून्यम्, मन एव शून्यता, शून्यतैव मनः/ न रूपशून्यतया रूपं शून्यम्, रूपम् एव शून्यता, शून्यतैव रूपम्/ न शब्दशून्यतया शब्दः शून्यः, शब्द एव शून्यता, शून्यतैव शब्दः/ न गन्धशून्यतया गन्धो शून्यः, गन्ध एव शून्यता, शून्यतैव गन्धः/ न रसशून्यतया रसः शून्यः, रस एव शून्यता, शून्यतैव रसः/ न स्प्रष्टव्यशून्यतया स्प्रष्टव्यं शून्यम्, स्प्रष्टव्यम् एव शून्यता, शून्यतैव स्प्रष्टव्यम्/ न धर्मशून्यतया धर्मः शून्यः, धर्म एव शून्यता, शून्यतैव धर्मः/ न चक्षुर्विज्ञानशून्यतया चक्षुर्विज्ञानं शून्यम्, चक्षुर्विज्ञानम् एव शून्यता, शून्यतैव चक्षुर्विज्ञानम्/ न श्रोत्रविज्ञानशून्यतया श्रोत्रविज्ञानं शून्यम्, श्रोत्रविज्ञानम् एव शून्यता, शून्यतैव श्रोत्रविज्ञानम्/ न घ्राणविज्ञानशून्यतया घ्राणविज्ञानं शून्यम्, घ्राणविज्ञानम् एव शून्यता, शून्यतैव घ्राणविज्ञानम्/ न जिह्वाविज्ञानशून्यतया जिह्वाविज्ञानं शून्यम्, जिह्वाविज्ञानम् एव शून्यता, शून्यतैव जिह्वाविज्ञानम्/ न कायविज्ञानशून्यतया कायविज्ञानं शून्यम्, कायविज्ञानम् एव शून्यता, शून्यतैव कायविज्ञानम्/ न मनोविज्ञानशून्यतया मनोविज्ञानं शून्यम्, मनोविज्ञानम् एव शून्यता, शून्यतैव मनोविज्ञानम्/ न चक्षुःसंस्पर्शशून्यतया चक्षुःसंस्पर्शः शून्यः, चक्षुःसंस्पर्श एव शून्यता, शून्यतैव चक्षुःसंस्पर्शः/ न श्रोत्रसंस्पर्शशून्यतया श्रोत्रसंस्पर्शः शून्यः, श्रोत्रसंस्पर्श एव शून्यता, शून्यतैव श्रोत्रसंस्पर्शः/ न घ्राणसंस्पर्शशून्यतया घ्राणसंस्पर्शः शून्यः, घ्राणसंस्पर्श एव शून्यता, शून्यतैव घ्राणसंस्पर्शः/ न जिह्वासंस्पर्शशून्यतया जिह्वासंस्पर्शः शून्यः, जिह्वासंस्पर्श एव शून्यता, शून्यतैव जिह्वासंस्पर्शः/ न कायसंस्पर्शशून्यतया कायसंस्पर्शः शून्यः, कायसंस्पर्श एव शून्यता, शून्यतैव कायसंस्पर्शः/ न मनःसंस्पर्शशून्यतया मनःसंस्पर्शः शून्यः, मनःसंस्पर्श एव शून्यता, शून्यतैव मनःसंस्पर्शः/ न चक्षुःप्रत्ययवेदयितशून्यतया चक्षुःप्रत्ययवेदयितं शून्यम्, चक्षुःप्रत्ययवेदयितम् एव शून्यता, शून्यतैव चक्षुःप्रत्ययवेदयितम्/ न श्रोत्रप्रत्ययवेदयितशून्यतया श्रोत्रप्रत्ययवेदयितं शून्यम्, श्रोत्रप्रत्ययवेदयितम् एव शून्यता, शून्यतैव श्रोत्रप्रत्ययवेदयितम्/ न घ्राणप्रत्ययवेदयितशून्यतया घ्राणप्रत्ययवेदयितं शून्यम्, घ्राणप्रत्ययवेदयितम् एव शून्यता, शून्यतैव घ्राणप्रत्ययवेदयितम्/ न जिह्वाप्रत्ययवेदयितशून्यतया जिह्वाप्रत्ययवेदयितं शून्यम्, जिह्वाप्रत्ययवेदयितम् एव शून्यता, शून्यतैव जिह्वाप्रत्ययवेदयितम्/ न कायप्रत्ययवेदयितशून्यतया कायप्रत्ययवेदयितं शून्यम्, कायप्रत्ययवेदयितम् एव शून्यता, शून्यतैव कायप्रत्ययवेदयितम्/ न मनःप्रत्ययवेदयितशून्यतया मनःप्रत्ययवेदयितं शून्यम्, मनःप्रत्ययवेदयितम् एव शून्यता, शून्यतैव मनःप्रत्ययवेदयितम्/ न स्मृत्युपस्थानशून्यतया स्मृत्युपस्थानानि शून्यानि, स्मृत्युपस्थानान्य् एव शून्यता, शून्यतैव स्मृत्युपस्थानानि/}} १५५१९ एवं सम्यक्प्रहाणर्द्धि- १५५२० पादेन्द्रियबलबोध्यङ्गानि/ न मार्गशून्यतया मार्गः शून्यो, मार्ग एव शून्यता, १५५२१ शून्यतैव मार्गः/ न बलवैशारद्यावेणिकबुद्धधर्मशून्यतया बुद्धधर्माः शून्याः, १५५२२ बुद्धधर्मा एव शून्यता शून्यतैव बुद्धधर्माः/ इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य
१९८०१ {तत्र कतमा} अभावशून्यता/ अभाव उच्यते असंस्कृतम्/ तच् चासंस्कृतम् असंस्कृतेन १९८०२ शून्यम् {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}/ {इयम् उच्यते} अभावशून्यता/ १९८०३ {तत्र कतमा} स्वभावशून्यता/ स्वभावो हि प्रकृतिर् अविपरीतता तस्या या १९८०४ तया शून्यता {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}/ न सा ज्ञानेन दर्शनेन च कृता/ तत् कस्य हेतोः/ १९८०५ प्रकृतिर् अस्यैषा/ {इयम् उच्यते} स्वभावशून्यता/ १९८०६ {तत्र कतमा} परभावशून्यता/ या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थितै- १९८०७ वैषा धर्माणां धर्मता धर्मस्थितिता {{धर्मनियामता}} भूतकोटिस् तस्या या तया शून्यता/ १९८०८ {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}/ न सा परेण कृता/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ १९८०९ इयम् उच्यते परभावशून्यता/ इदम् उच्यते सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्//
SK
१९८१० [इति ज्ञानसम्भारः//] १९८११ {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यद् उत शूअर्ङ्गमो नाम समाधिः/ १९८१२ {{रत्नमुद्रो नाम समाधिः/ सुचन्द्रो नाम समाधिः/ चन्द्रध्वजकेतुर् नाम समाधिः/ सर्वधर्ममुद्रो नाम समाधिः/ अवलोकितमूर्द्धा नाम समाधिः/ धर्मधातुनियतो नाम समाधिः/ नियतध्वजकेतुः नाम समाधिः/ वज्रोपमो नाम समाधिः/ सर्वधर्मप्रवेशमुद्रो नाम समाधिः/ समाहितावस्थाप्रतिष्ठानो नाम समाधिः/ राजमुद्रो नाम समाधिः/ बलवीर्यो नाम समाधिः/ सर्वधर्मसमुद्गतो नाम समाधिः/ निरुक्तिनियतप्रवेशो नाम समाधिः/ आसेचनकप्रवेशो नाम समाधिः/ दिगवलोकनो नाम समाधिः/ धारणीमुद्रो नाम समाधिः/ असंप्रमुषितो नाम समाधिः/ समवसरणो नाम समाधिः/ आकाशस्फारणो नाम समाधिः/ वज्रमण्डलो नाम समाधिः/ ध्वजाग्रकेतुराजो नाम समाधिः/ इन्द्रकेतुः नाम समाधिः/ स्रोतोऽनुगतो नाम समाधिः/ सिंहविजृम्भितो नाम समाधिः/ व्यत्यस्तसमापत्तिः नाम समाधिः/ रणंजहो नाम समाधिः/ वैरोचनो नाम समाधिः/ निमिषो नाम समाधिः/ निकेतस्थितो नाम समाधिः/ निश्चितो नाम समाधिः/ विपुलप्रतिपन्नो नाम समाधिः/ अनन्तप्रभो नाम समाधिः/ प्रभाकरो नाम समाधिः/ वरधर्ममुद्रो नाम समाधिः/ समन्तावभासो नाम समाधिः/ शुद्धावासो नाम समाधिः/ विमलप्रभो नाम समाधिः/ अरतिकरो नाम समाधिः/ अजयो नाम समाधिः/ तेजोवती नाम समाधिः/ क्षयापगतो नाम समाधिः/ अनिर्जितो नाम समाधिः/ विवृतो नाम समाधिः/ सूर्यप्रदीपो नाम समाधिः/ चन्द्रविमलो नाम समाधिः/ शुद्धप्रतिभासो नाम समाधिः/ आलोककरो नाम समाधिः/ काराकारो नाम समाधिः/ ज्ञानकेतुः नाम समाधिः/ चित्तस्थितो नाम समाधिः/ समन्तावलोको नाम समाधिः/ सुप्रतिष्ठितो नाम समाधिः/ रत्नकोटिः नाम समाधिः/ सर्वधर्मसमता नाम समाधिः/ रतिजहो नाम समाधिः/ धर्मङ्गतो नाम समाधिः/ विकिरणो नाम समाधिः/ सर्वधर्मपदप्रभेदो नाम समाधिः/ समाक्षरावतारो नाम समाधिः/ अनिगरो नाम समाधिः/ प्रभाकरो नाम समाधिः/ नामनियतप्रवेशो नाम समाधिः/ अनिकेतचारी नाम समाधिः/ वितिमिरापगतो नाम समाधिः/ चारित्रवती नाम समाधिः/ अचलो नाम समाधिः/ विषमशान्तिः नाम समाधिः/ सर्वगुणसंचयो नाम समाधिः/ निश्चितो नाम समाधिः/ शुभपुष्पितशुद्धो नाम समाधिः/ बोध्यङ्गवती नाम समाधिः/ अनन्तप्रभा नाम समाधिः/ आगमसमो नाम समाधिः/ विमतिविकिरणो नाम समाधिः/ प्रतिच्छेदकरो नाम समाधिः/ आकारानभिनिवेशनिर्हारो नाम समाधिः/ आकारानवकारो नाम समाधिः/ निरतिशयसर्वभवतलविकिरणो नाम समाधिः/ संकेतरुतप्रवेशो नाम समाधिः/ घोषवती नाम समाधिः/ निरक्षरविमुक्तिः नाम समाधिः/ तेजोवती नाम समाधिः/ ज्वलनोल्का नाम समाधिः/ रक्षानुपरिशोषणो नाम समाधिः/ अनाविलक्षान्तिः नाम समाधिः/ सर्वाकारावतारो नाम समाधिः/ सर्वसुखदुःखनिरभिनन्दी नाम समाधिः/ अक्षयाकारो नाम समाधिः/ धारणीमतिः नाम समाधिः/ सम्यकमिथ्यात्वसंग्रहो नाम समाधिः/ रोषविरोषप्रतिरोषो नाम समाधिः/ विमलप्रभो नाम समाधिः/ शारवती नाम समाधिः/ परिपूर्णविमलचन्द्रप्रभो नाम समाधिः/ विद्युत्प्रभो नाम समाधिः/ महाव्यूहो नाम समाधिः/ सर्वलोकप्रभाकरो नाम समाधिः/ समाधिसरता नाम समाधिः/ अनयविनयनयविमुक्तो नाम समाधिः/ अनुसरणसर्वसमवसरणो नाम समाधिः/ अनिलनियतो नाम समाधिः/ तथतास्थितनिश्चितो नाम समाधिः/ कायकलिसंप्रमथनो नाम समाधिः/ वाक्कलिविध्वंसनो नाम समाधिः/ गगनकल्पो नाम समाधिः/}} आकाशासङ्गविमुक्तिनिरुप- १९८१३ लेपो नाम समाधिः/ तत्र कतमः शूरङ्गमो नाम समाधिः, {{येन समाधिना सर्वसमाधीनां गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः/ तत्र कतमो रत्नमुद्रो नाम समाधिः/ येन समाधिना सर्वसमाधयो मुद्रिता भवत्य् अयम् उच्यते}} १९८१४ रत्नमुद्रो नाम समाधिः/ तत्र कतमः सिंहविक्रीडितो नाम १९८१५ समाधिः// यत्र समाधौ स्थित्वा सर्वसमाधिभिर् विक्रीडति/ अयम् उच्यते १९८१६ सिंहविक्रीडितो नाम समाधिः/ तत्र कतमः सुचन्द्रो नाम समाधिः/ यत्र १९८१७ समाधौ स्थित्वा सर्वसमाधीन् अवभासयति/ अयम् उच्यते सुचन्द्रो नाम समाधिः/ १९८१८ {तत्र कतमः} चन्द्रध्वजकेतुर् {नाम समाधिः}/ यः सर्वसमाधीनां ध्वजं धारयति/ {अयम् उच्यते चन्द्रध्वजकेतुर् नाम समाधिः}/ {तत्र कतमः} १९८१९ सर्वधर्मोद्गतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिभिर् उद्गच्छति/ {अयम् उच्यते सर्वधर्मोद्गतो नाम समाधिः}/ {तत्र कतमः} अवलोकित-
२२६०१ निर्यातो वा निर्यास्यतो वा धर्मधातोः/ स सुभूते निर्याणम् इच्छेत् तथतायाः २२६०२ यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेद् एवं भूतकोटेर् अचिन्त्यधातोर् आका- २२६०३ शधातोः प्रहाणधातोर् विरागकोटेर् अनुत्पादस्यानिरोधस्याभावस्य स २२६०४ निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् रूपशून्यतायाः २२६०५ स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/ एवं २२६०६ वेदनाशून्यतायाः {{संज्ञाशून्यतायाः संस्कारशून्यतायाः}} विज्ञानशून्यतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} तत् कस्य हेतोः/ न हि २२६०७ सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति न वेदना- २२६०८ शून्यता {{संज्ञाशून्यता संस्कारशून्यता}} विज्ञानशून्यता त्रैधातुकात् {{निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/}} तत् कस्य २२६०९ हेतोः/ तथा हि सुभूते रूपं रूपेण शून्यम् २२६१० {{वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्याः}}/ चक्षुःशून्यतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} एवं श्रोत्रशून्यतायाः {{घ्राणशून्यतायाः जिह्वाशून्यतायाः कायव्यशून्यतायाः}} मनःशून्य- २२६११ तायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} एवं रूपशून्यतायाः {{शब्दशून्यतायाः गन्धशून्यतायाः रसशून्यतायाः स्प्रष्टव्यशून्यतायाः}} धर्मशून्यतायाः/ २२६१२ {{चक्षुर्विज्ञानशून्यतायाः श्रोत्रविज्ञानशून्यताया घ्राणविज्ञानशून्यताया जिह्वाविज्ञानशून्यतायाः कायविज्ञानशून्यताया मनोविज्ञानशून्यतायाः चक्षुःसंस्पर्शशून्यतायाः श्रोत्रसंस्पर्शशून्यताया घ्राणसंस्पर्शशून्यताया जिह्वासंस्पर्शशून्यतायाः कायसंस्पर्शशून्यताया मनःसंस्पर्शशून्यतायाः चक्षुःसंस्पर्शवेदयितशून्यतायाः श्रोत्रसंस्पर्शवेदयितशून्यतायाः घ्राणसंस्पर्शवेदयितशून्यतायाः जिह्वासंस्पर्शवेदयितशून्यतायाः कायसंस्पर्शवेदयितशून्यतायाः}} २२६१३ मनःसंस्पर्शजवेदयितशून्यतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} तत् कस्य हेतोः/ न हि सुभूते २२६१४ चक्षुःशून्यता {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ एवं न श्रोत्रशून्यता {{न घ्राणशून्यता न जिह्वाशून्यता न कायशून्यता}} न मनःशून्यता {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ २२६१५ {{एवं न रूपशून्यता न शब्दशून्यता न गन्धशून्यता न रसशून्यता न स्प्रष्टव्यशून्यता न धर्मशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/ एवं न चक्षुर्विज्ञानशून्यता न श्रोत्रविज्ञानशून्यता न घ्राणविज्ञानशून्यता न जिह्वाविज्ञानशून्यता न कायविज्ञानशून्यता न मनोविज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/ एवं न चक्षुःसंस्पर्शशून्यता न श्रोत्रसंस्पर्शशून्यता न घ्राणसंस्पर्शशून्यता न जिह्वासंस्पर्शशून्यता न कायसंस्पर्शशून्यता न मनःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/ एवं न चक्षुःसंस्पर्शवेदयितशून्यता न श्रोत्रसंस्पर्शवेदयितशून्यता न घ्राणसंस्पर्शवेदयितशून्यता न जिह्वासंस्पर्शवेदयितशून्यता न कायसंस्पर्शवेदयितशून्यता}} २२६१६ न मनःसंस्पर्शजवेदयितशून्यता {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ तत् कस्य हेतोः/ तथा हि सुभूते चक्षुश् च- २२६१७ क्षुषा शून्यं श्रोत्रं श्रोत्रेण शून्यं {{घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं}} २२६१८ {{रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यो स्प्रष्टव्यं स्प्रष्टव्येन शून्यं धर्मो धर्मेण शून्यो चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यः श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यो घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यो जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः कायसंस्पर्शः कायसंस्पर्शेन शून्यो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजया वेदनया शून्या श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजया वेदनया शून्या घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजया वेदनया शून्या जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजया वेदनया शून्या कायसंस्पर्शजा वेदना कायसंस्पर्शजया वेदनया शून्या}} मनःसंस्पर्शजा वेदना २२६१९ मनःसंस्पर्शजया वेदनया शून्या/ २२६२० स्वप्नस्य स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} विस्तरेण कर्तव्यम्/ एवं मरीच्या मायायाः २२६२१ प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिम्बस्य गन्धर्वनगरस्य तथागतनिर्मितस्य स २२६२२ {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} तत् कस्य हेतोः/ न हि सुभूते स्वप्नस्य स्वभावस् त्रैधातुकान् निर्यास्यति २२६२३ न सर्वाकारज्ञतायां स्थास्यति/ एवं न मरीच्याः स्वभावः {{न मायायाः स्वभावः न प्रतिश्रुत्कायाः स्वभावः न प्रतिभासस्य स्वभावः न प्रतिबिम्बस्य स्वभावः न गन्धर्वस्य स्वभावः}} न तथा- २२६२४ गतनिर्मितस्य स्वभावस् त्रैधातुकात् {निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/} तत् कस्य हेतोः/
SK
२२७०१ तथा हि सुभूते स्वप्नस्वभावः स्वप्नस्वभावेन शून्यः {{मरीचिस्वभावः मरीचिस्वभावेन शून्यः मायास्वभावः मायास्वभावेन शून्यः प्रतिश्रुत्कास्वभावः प्रतिश्रुत्कास्वभावेन शून्यः प्रतिभासस्वभावः प्रतिभासस्वभावेन शून्यः प्रतिबिम्बस्वभावः प्रतिबिम्बस्वभावेन शून्यः गन्धर्वस्वभावः गन्धर्वस्वभावेन शून्यः}} तथागतनिर्मित- २२७०२ स्वभावस् तथागतनिर्मितस्वभावेन शून्यः/ [इति दर्शनमार्गे प्रथमग्राह्यविकल्प- २२७०३ प्रतिपक्षः//] २२७०४ दानपारमितायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} एवं शीलपारमितायाः {{क्षान्तिपारमितायाः वीर्यपारमितायाः ध्यानपारमितायाः}} प्रज्ञापार- २२७०५ मितायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} तत् कस्य हेतोः/ तथा हि सुभूते यो दानपारमितायाः २२७०६ स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ एवं शील{पारमितायाः} क्षान्ति{पारमिताया} वीर्य{पारमिताया} ध्यान{पारमितायाः}/ तथा हि २२७०७ यः प्रज्ञा{पारमितायाः} स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ तत् कस्य हेतोः/ तथा हि {सुभूते} दानपारमिता- २२७०८ स्वभावो दानपारमितास्वभावेन शून्यः/ २२७०९ {{शीलपारमितास्वभावो शीलपारमितास्वभावेन शून्यः/ क्षान्तिपारमितास्वभावो क्षान्तिपारमितास्वभावेन शून्यः/ वीर्यपारमितास्वभावो वीर्यपारमितास्वभावेन शून्यः/ ध्यानपारमितास्वभावो ध्यानपारमितास्वभावेन शून्यः/}} २२७१० अध्यात्मशून्यतायाः स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां २२७११ निर्याणम् इच्छेत्/ तत् कस्य हेतोः/ तथा हि यो ऽध्यात्मशून्यतायाः २२७१२ स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/ २२७१३ तत् कस्य हेतोः/ तथा हि सुभूते अध्यात्मशून्यता अध्यात्मशून्यतया २२७१४ शून्या/ २२७१५ बहिर्धाशून्यता {{बहिर्धाशून्यतया शून्या}} अध्यात्मबहिर्धाशून्यता {{अध्यात्मबहिर्धाशून्यतया शून्या}} यावत् २२७१६ अभावस्वभावशून्यता {{अभावस्वभावशून्यतया शून्या}} स्मृत्युपस्थानानि {{स्मृत्युपस्थानैः शून्यानि}} सम्यक्प्रहाणानि {{सम्यक्प्रहाणैर् शून्यानि}} ऋद्धिपादा {{ऋद्धिपादैः शून्याः}} २२७१७ इन्द्रियाणि {{इन्द्रियैः शून्यानि}} बलानि {{बलैः शून्यानि}} बोध्यङ्गानि {{बोध्यङ्गैः शून्यानि}} मार्गः {{मार्गेण शून्यो}} अप्रमाणध्यानारूप्यसमापत्तयः {{अप्रमाणध्यानारूप्यसमापत्तिभिः शून्याः}} २२७१८ दशतथागतबलानि {{दशतथागतबलैः शून्यानि}} चतुर्वैशारद्यानि {{चतुर्वैशारद्यैः शून्यानि}} चतस्रः प्रतिसंविदः {{चतसृभिः प्रतिसंविद्भिः शून्याः}} २२७१९ तथा हि सुभूते बुद्धधर्मा बुद्धधर्मैः शून्याः// [इति दर्शनमार्गे २२७२० द्वितीयग्राह्यविकल्पप्रतिज्पक्षः//] २२७२१ अर्हतः स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/ २२७२२ तत् कस्य हेतोः/ तथा हि सुभूते यो ऽर्हतः स्वभावो न स त्रैधातुकान् निर्यास्यति २२७२३ न सर्वाकारज्ञतायां स्थास्यति/ तत् कस्य हेतोः/ तथा हि सुभूते अर्हत्- २२७२४ स्वभावो ऽर्हतः स्वभावेन शून्यः/ २२७२५ {{प्रत्येकबुद्धस्य स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/ बोधिसत्त्वस्य महासत्त्वस्य स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/ तथागतस्य स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/}} स्रोत-
SK
२२८०१ आपत्तिफलस्य स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} एवं सकृदागामिफलस्य अनागामिफलस्य अर्हत्त्वस्य २२८०२ प्रत्येकबोधेर् मार्गज्ञतायाः सर्वाकारज्ञतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} तत् कस्य हेतोः/ तथा हि २२८०३ सुभूते यः स्रोतआपत्तिफलस्य स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ तत् कस्य हेतोः/ तथा हि २२८०४ स्रोतआपत्तिफलस्वभावः स्रोतआपत्तिफलस्वभावेन शून्यः/ एवं सकृदागामि- २२८०५ फलस्य यः स्वभावो ऽनागामिफलस्य यः स्वभावो ऽर्हत्त्वस्य यः स्वभावः प्रत्येक- २२८०६ बुद्धत्वस्य यः स्वभावो मार्गज्ञताया यः स्वभावः सर्वाकारज्ञताया यः स्वभावो २२८०७ न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ तत् कस्य हेतोः/ तथा हि सर्वाकारज्ञतायाः स्वभावः सर्वाकारज्ञता- २२८०८ स्वभावेन शून्यः// [इति दर्शनमार्गे प्रथमग्राहकविकल्पप्रतिपक्षः//] २२८०९ नाम्नः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} एवं निमित्तस्य सङ्केतस्य व्यवहारस्य प्रज्ञप्तेः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} २२८१० तत् कस्य हेतोः/ तथा हि सुभूते यो नाम्नः स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ तत् कस्य २२८११ हेतोः/ तथा हि सुभूते नामस्वभावो नामस्वभावेन शून्यः/ एवं सङ्केतस्य यः २२८१२ स्वभावो व्यवहारस्य यः स्वभावः प्रज्ञप्तेर् यः स्वभावो न स त्रैधातुकान् निर्यास्यति २२८१३ न सर्वाकारज्ञतायां स्थास्यति/ तत् कस्य हेतोः/ तथा हि प्रज्ञप्तिस्वभावः प्रज्ञप्ति- २२८१४ स्वभावेन शून्यः/ {{अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यो}} २२८१५ {{अनिरोधस्वभावो ऽनिरोधस्वभावेन शून्यः}} तथा हि अनभिसंस्कारस्वभावो ऽनभि- २२८१६ संस्कारस्वभावेन शून्यः/ एवं हि सुभूते महायानम्/ न स त्रैधातुकान् निर्यास्यति २२८१७ न सर्वाकारज्ञतायां स्थास्यति/ अचलितं तद् यानम्// [इति दर्शनमार्गे २२८१८ द्वितीयग्राहकविकल्पप्रतिपक्षः//] २२८१९ यत् पुनः सुभूतिर् एवम् आह/ क्व तद् यानं स्थास्यतीति/ न तद् यानं क्वचित्
SK
२२९०१ स्थास्यति/ तत् कस्य हेतोः/ तथा हि {सुभूते} अस्थिताः सर्वधर्माः/ अपि तु {सुभूते} २२९०२ अस्थानं न स्थानयोगेन तद् यानं स्थास्यति/ तद् यथापि नाम {सुभूते} धर्म- २२९०३ धातुर् न {स्थितो नास्थितः}/ एवम् एव {सुभूते} तत् महयानं न {स्थितं नास्थितम्}/ तद् यथापि नाम सुभूते २२९०४ अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो न {स्थितो नास्थितः}/ एवम् एव {सुभूते} २२९०५ तत् महायानं न {स्थितं नास्थितम्}/ तथा हि {सुभूते} धर्मध्तुर् धर्मधातुना शून्यः/ तत् २२९०६ कस्य हेतोः/ न हि {सुभूते} धर्मधातुस्वभावः स्थितो वा अस्थितो वा/ २२९०७ तत् कस्य हेतोः/ तथा हि {सुभूते} धर्मधातुस्वभावो धर्मधातुस्वभावेन शून्यः/ २२९०८ एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो ऽनभिसंस्कारेण शून्यः/ २२९०९ तत् कस्य हेतोः/ न हि {सुभूते} अनभिसंस्कारस्वभावः स्थितो वा अस्थितो २२९१० वा/ तत् कस्य हेतोः/ तथा हि {सुभूते} अनभिसंस्कारस्वभावो ऽनभिसंस्कार- २२९११ स्वभावेन शून्यः/ एवं हि {सुभूते} तद् यानं न क्वचित् स्थास्यति अस्थितम् अस्थानयोगेन २२९१२ अचाल्ययोगेन// [इति भावनामार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः//] २२९१३ यत् पुनः सुभूतिर् एवम् आह/ कस् तेन यानेन निर्यास्यतीति/ न कश्चित् तेन २२९१४ यानेन निर्यास्यति/ तत् कस्य हेतोः/ तथा हि {सुभूते} यच् च तद् यानं येन च २२९१५ निर्यास्यति यश् च निर्यास्यति यतश् च निर्यास्यति सर्व एते धर्मा न संविद्यन्ते २२९१६ एवम् असंविद्यमानानां सर्वधर्माणां कतमो धर्मः कतमेन धर्मेण निर्यास्यति/ तत् २२९१७ कस्य हेतोः/ तथा हि {सुभूते} नात्मा उपलभ्यते न सत्त्वो न जीवो {{न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको}} न २२९१८ पश्यक उपलभ्यते आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय/ एवं यावत् २२९१९ पश्यकस्यात्यन्तविशुद्धिताम् उपादाय धर्मधातुर् {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ एवम् अनुत्पादो {{ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम्}} २२९२० अनभिसंस्कारो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ स्कन्धधात्वायतनानि {नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय}/ प्रतीत्यसमुत्पादो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ २२९२१ दानपारमिता {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ एवं शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता} २२९२२ {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ अध्यात्मशून्यता {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ २२९२३ {{यावद् अभावस्वभावशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ स्मृत्युपस्थानानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ सम्यक्प्रहाणानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ ऋद्धिपादा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ इन्द्रियाणि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ बलानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ बोध्यङ्गानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ मार्गः नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ अप्रमाणध्यानारूप्यसमापत्तयः नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ दशतथागतबलानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ चतुर्वैशारद्यानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ चतस्रः प्रतिसंविदः नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ अष्टादशावेणिकबुद्धधर्मा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ अर्हन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ प्रत्येकबुद्धो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ बोधिसत्त्वो महासत्त्वो नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ तथागतो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ स्रोतआपत्तिफलो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ सकृदागामिफलो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ अनागामिफलो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ अर्हत्त्वम् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ प्रत्येकबोधिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ मार्गज्ञता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/}} २२९२४ सर्वाकारज्ञाता {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ प्रमुदिता भूमिर् {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ एवं विमला प्रभाकरी
२३५०१ सुभूते तस्य यानस्य न पूर्वा {{दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् यथापि नाम सुभूते २३५०२ आकाशं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न २३५०३ पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फटिकरजतवर्णम्/ एवम् एव सुभूए २३५०४ तत् महायानं न दीर्घं {{न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फटिकरजतवर्णम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् यथापि नाम सुभूते २३५०५ आकाशं नातीतं नानागतं न प्रत्युत्पन्नम्/ एवम् एव सुभूते तत् महायानं २३५०६ नातीतं {{नानागतं न प्रत्युत्पन्नम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् यथापि नाम सुभूते आकाशस्य न हानिः २३५०७ न वृद्धिर् एवम् एव सुभूते तस्य महायानस्य न हानिः {{न वृद्धिः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ २३५०८ तद् {यथापि नाम सुभूते} आकाशस्य न संक्लेशो न व्यवदानम्/ एवम् एव {{सुभूते तस्य महायानस्य न संक्लेशो न व्यवदानम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति/} तद् {यथापि नाम सुभूते} २३५०९ आकाशस्य नोत्पादो न निरोधो न स्थितिन विष्ठितिर् न स्थितेर् अन्यथात्वम्/ २३५१० एवम् एव {{सुभूते तस्य महायानस्य नोत्पादो न निरोधो न स्थितिन विष्ठितिर् न स्थितेर् अन्यथात्वम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतम्/ २३५११ एवम् एव {{सुभूते तद् महायानं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न दृष्टं न श्रुतं न मतं न विज्ञातम्/ एवम् एव २३५१२ {{सुभूते तद् महायानं न दृष्टं न श्रुतं न मतं न विज्ञातम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न २३५१३ प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यम्/ एवम् एव {{सुभूते तद् महायानं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} २३५१४ आकाशं न विपाको न विपाकधर्मि/ एवम् एव {{सुभूते तद् महायानं न विपाको न विपाकधर्मि/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न काम- २३५१५ धातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नम्/ एवम् एव {{सुभूते तद् महायानं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ २३५१६ तद् {यथापि नाम सुभूते} आकाशं न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो २३५१७ न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः/ एवम् एव {{सुभूते तद् महायानं न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ २३५१८ तद् {यथापि नाम सुभूते} आकाशे न शुक्लविदर्शनाबूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न २३५१९ तनुभूमिर् न वीतरागभूमिर् न कृताविभूमिः/ एवम् एव {{सुभूते तस्मिन् महायाने न शुक्लविदर्शनाबूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनुभूमिर् न वीतरागभूमिर् न कृताविभूमिः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशे न २३५२० स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं २३५२१ न बुद्धत्वम्/ एवम् एव {{सुभूते तस्मिन् महायाने न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशे न श्रावकभूमिर् न प्रत्येकबुद्ध- २३५२२ भूमिर् न सम्यक्संबुद्धभूमिः/ एवम् एव {{सुभूते तस्मिन् महायाने न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न रूपि नारूपि
SK
२३६०१ न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तम्/ एवम् एव २३६०२ {{सुभूते तद् महायानं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा २३६०३ न शान्तं नाशान्तं/ एवम् एव {{सुभूते तद् महायानं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न शून्यं नाशून्यं न २३६०४ निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितम्/ एवम् एव {{सुभूते तद् महायानं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं २३६०५ न विविक्तं नाविविक्तं नालोको नान्धकारः/ एवम् एव {{सुभूते तद् महायानं न विविक्तं नाविविक्तं नालोको नान्धकारः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं २३६०६ न लभ्यते नोपलभ्यते/ एवम् एव {{सुभूते तद् महायानं न लभ्यते नोपलभ्यते/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न प्रव्याहारो २३६०७ नाप्रव्याहारः/ एवम् एव {{सुभूते तद् महायानं न प्रव्याहारो नाप्रव्याहारः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}// [इति समतानिर्याणम्//] २३६०८ यत् पुनः सुभूतिर् एवम् आह/ यथाकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां २३६०९ सत्त्वानाम् अवकाशः/ एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरि- २३६१० माणानां सत्त्वानाम् अवकाश इति/ एवम् एतत् सुभूते एवम् एतत्/ यथा २३६११ {{आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम्}} अवकाश इति/ तत् कस्य हेतोः/ २३६१२ सत्त्वासत्तया हि सुभूते आकाशासत्ता वेदितव्या/ आकाशासत्तया महा- २३६१३ यानासत्ता वेदितव्या/ अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेया- २३६१४ णाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि २३६१५ सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं सर्वम् एतन् नोपलभ्यते/ २३६१६ पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या आकाशासत्तया २३६१७ महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासत्ता वेदितव्या/ एवं २३६१८ हि सुभूते तस्मिन् {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}}/ तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च २३६१९ महायानं यच् चाप्रमेयं सर्वम् एवं नोपलभ्यते/ २३६२० पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता २३६२१ {{वेदितव्या आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया असंख्येयासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चासंख्येयं सर्वम् एवं}} नोपलभ्यते/
SK
२३७०१ पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या तथागतासत्तयां २३७०२ {{अपरिमाणासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चापरिमाणं सर्वम् एवं नोपलभ्यते}}/ २३७०३ पुनर् अपरं {{सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या आकाशासत्तया}} महायानासत्ता २३७०४ वेदितव्या/ महायानासत्तया असंस्कृतासत्ता वेदितव्या असंस्कृतासत्तयाप्रमेया- २३७०५ सत्ता वेदितव्या अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या असंख्येयासत्तया २३७०६ अपरिमाणासत्ता वेदितव्या अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं २३७०७ हि सुभूते तस्मिन् {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/}} तत् कस्य हेतोः/ तथा हि सुभूते ये च सत्त्वा यश् च २३७०८ तथागतो यच् चाकाशं यच् च महायानं यच् चासंस्कृतं यच् चाप्रमेयं यच् चासंख्येयं २३७०९ यच् चापरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/ २३७१० पुनर् अपरं सुभूते आत्मसत्त्वासत्तया सत्त्वजीवपोषपुरुषपुद्गलमनुजमानव- २३७११ कारकवेदकजानकपश्यकासत्ता वेदितव्या/ जानकपश्यकासत्तया भूतकोट्यसत्ता २३७१२ वेदितव्या/ भूतकोट्यसत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ २३७१३ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि {सुभूते} तस्मिन् २३७१४ {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/}} तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यश् च यावज् जानकपश्यको या च २३७१५ भूतकोटिः यच् चाप्रमेयम् असंख्येयम् अपरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/ २३७१६ पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदि- २३७१७ तव्या/ यावज् जानकपश्यकासत्तया अचिन्त्यधात्वसत्ता वेदितव्या/ अचिन्त्य- २३७१८ धात्वसत्तया रूपस्कन्धासत्ता वेदितव्या/ रूपस्कन्धासत्तया वेदना- २३७१९ {{स्कन्धासत्ता वेदितव्या/ वेदनास्कन्धसत्तया संज्ञास्कन्धासत्ता वेदितव्या/ संज्ञास्कन्धासत्तया संस्कारस्कन्धासत्ता वेदितव्या/ संस्कारस्कन्धासत्तया}} विज्ञानस्कन्धासत्ता वेदितव्या/ विज्ञानस्कन्धासत्तया आकाशासत्ता २३७२० वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्र- २३७२१ मेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयारिमाणासत्तया २३७२२ सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/}} तत् कस्य हेतोः/ २३७२३ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/
SK
२३८०१ पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ २३८०२ यावज् जानकपश्यकासत्तया चक्षुरसत्ता वेदितव्या/ चक्षुरसत्तया श्रोत्रघ्राण- २३८०३ जिह्वाकायमनो ऽसत्ता वेदितव्या/ मनो ऽसत्तया आकाशासत्ता वेदितव्या/ २३८०४ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येया- २३८०५ परिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता २३८०६ वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां २३८०७ सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये २३८०८ च सर्वधर्माः सर्व एते नोपलभ्यन्ते/ २३८०९ पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} २३८१० दानपारमितासत्ता वेदितव्या दानपारमितासत्तया शील{{पारमितासत्ता वेदितव्या शीलपारमितासत्तया}} क्षान्ति{{पारमितासत्ता वेदितव्या क्षान्तिपारमितासत्तया}} वीर्य{{पारमितासत्ता वेदितव्या वीर्यपारमितासत्तया}} २३८११ ध्यान{{पारमितासत्ता वेदितव्या ध्यानपारमितासत्तया}} प्रज्ञापारमितासत्ता वेदितव्या/ प्रज्ञापारमितासत्तया आकाशासत्ता २३८१२ {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} २३८१३ पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} २३८१४ अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभाव- २३८१५ शून्यतासत्ता वेदितव्या/ अभावस्वभावशून्यतासत्तया आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} २३८१६ पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} २३८१७ स्मृत्युपस्थानासत्ता वेदितव्या स्मृत्युपस्थानासत्तया सम्यक्प्रहाणासत्ता २३८१८ वेदितव्या सम्यक्प्रहाणासत्तया ऋद्धिपादासत्ता वेदितव्या/ २३८१९ {{ऋद्धिपादासत्तया इन्द्रियासत्ता वेदितव्या इन्द्रियासत्तया बलासत्ता वेदितव्या बलासत्तया बोध्यङ्गासत्ता वेदितव्या बोध्यङ्गासत्तया मार्गासत्ता वेदितव्या मार्गासत्तया वैशारद्यासत्ता वेदितव्या वैशारद्यासत्तया प्रतिसंविदासत्ता वेदितव्या प्रतिसंविदासत्तया पारमितासत्ता वेदितव्या पारमितासत्तया तथागतबलासत्ता वेदितव्या तथागतबलासत्तया आवेणिकबुद्धधर्मासत्ता वेदितव्या}} २३८२० आवेणिकबुद्धधर्मासत्तया आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} २३८२१ पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} गोत्रभूम्यसत्ता वेदितव्या/ गोत्रभूम्यसत्तया २३८२२ अष्टमकभूम्यसत्ता वेदितव्या २३८२३ {{अष्टमकभूम्यसत्तया दर्शनभूम्यसत्ता वेदितव्या दर्शनभूम्यसत्तया तनुभूम्यसत्ता वेदितव्या तनुभूम्यसत्तया वीतरागभूम्यसत्ता वेदितव्या वीतरागभूम्यसत्तया कृताविभूम्यसत्ता वेदितव्या}} कृताविभूम्यसत्तया २३८२४ आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}}
SK
२३९०१ पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} स्रोतआपन्नासत्ता वेदितव्या स्रोतआपन्ना- २३९०२ सत्तया सकृदागाम्यसत्ता वेदितव्या {{सकृदागाम्यसत्तया अनागाम्यसत्ता वेदितव्या अनागाम्यसत्तया अर्हदसत्ता वेदितव्या अर्हदसत्तया प्रत्येकबुद्धासत्ता वेदितव्या}} २३९०३ प्रत्येकबुद्धासत्तया आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} २३९०४ पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} श्रावकयानासत्ता वेदितव्या श्रावकयानासत्तया २३९०५ प्रत्येकबुद्धयानासत्ता वेदितव्या प्रत्येकबुद्धयानासत्तया तथागतासत्ता वेदितव्या २३९०६ तथागतासत्तया सर्वाकारज्ञतासत्ता वेदितव्या/ सर्वाकारज्ञतासत्तया आकाशा- २३९०७ सत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} २३९०८ तद् यथापि नाम सुभूते निर्वाणधाताव् अप्रमेयाणाम् असंख्येयानाम् अपरि- २३९०९ माणानां सत्त्वानाम् अवकाशः/ एवम् एव सुभूते तस्मिन् महायाने {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}/ तद् २३९१० यथापि नाम सुभूते आकाशे {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}/ एवम् एव सुभूते तस्मिन् महायाने {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}//
SK
२३९११ [इति सत्त्वार्थनिर्याणम्//] २३९१२ यद् अपि सुभूतिर् एवम् आह/ नापि तस्य महायानस्य आगतिर् दृश्यते नापि २३९१३ गतिर् न स्थानं दृश्यत इति/ एवम् एतत् सुभूते तस्य महायानस्यागतिर् न दृश्यते २३९१४ नापि गतिर् न स्थानं दृश्यते/ तत् कस्य हेतोः/ अचला हि सुभूते सर्वधर्मास् ते २३९१५ न क्वचिद् गच्छन्ति न कुतश्चिद् आगच्छन्ति न क्वचित् तिष्ठन्ति/ तत् कस्य २३९१६ हेतोः/ न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न २३९१७ क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य २३९१८ प्रकृतिः कुतश्चिद् आगच्छति न क्वचित् तिष्ठति/ २३९१९ {{न हि सुभूते रूपस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य तथता कुतश्चिद् आगच्छति न क्वचित् तिष्ठति/ न हि सुभूते रूपस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति न क्वचित् तिष्ठति/ न हि सुभूते रूपस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति न क्वचित् तिष्ठति}}/ न सुभूते चक्षुषः २३९२० प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न २३९२१ क्वचित् तिष्ठति/ एवं न श्रोत्रस्य न घ्राणस्य न जिह्वाया न कायस्य न सुभूते २३९२२ मनसः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् २३९२३ गच्छति न क्वचित् तिष्ठति/ {{न सुभूते पृथिवीधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न अब्धातोर् न तेजोधातोर् न वायुधातोर्}} २३९२४ {{न सुभूते आकाशधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ {{न सुभूते धर्मधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न तथताया न भूतकोटेर् न सुभूते अचिन्त्य-}}
SK
२४००१ {{धातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ {{न सुभूते दानपारमितायाः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न शीलपारमितायाः न क्षान्तिपारमितायाः न वीर्यपारमितायाः न ध्यानपारमितायाः न सुभूते प्रज्ञापारमितायाः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ न सुभूते स्मृत्युपस्थानानां प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न सम्यक्प्रहाणानां न ऋद्धिपादानां न इन्द्रियाणां न बलानां न बोध्यङ्गानां न सुभूते मार्गस्य प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ २४००२ {{न सुभूते अप्रमाणध्यानारूप्यसमापत्तीनां प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न तथागतबलानां न वैशारद्यानां न प्रतिसंविदां न सुभूते अष्टादशावेणिकानां बुद्धधर्मानां न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ २४००३ {{न सुभूते बोधेः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ न सुभूते असंस्कृतस्य न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}// [इत्य् अनाभोगनिर्याणम्//] २४००४ यद् अपि तत् सुभूतिर् एवम् आह/ नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त २४००५ {उपलभ्यते} मध्य {उपलभ्यते} त्र्यध्वसमं तद् यानं तस्मात् महायानं महायानम् इत्य् उ- २४००६ च्यते/ एवम् एतत् सुभूते एवम् एतत्/ नास्य यानस्य पूर्वान्त {उपलभ्यते} २४००७ {{नापरान्त उपलभ्यते मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मात् महायानं महायानम् इत्य्}} उच्यते/ तत् कस्य हेतोः/ तथा हि सुभूते अतीतो ऽध्वा- २४००८ तीतेनाध्वना शून्यः/ अनागतो ऽध्वा अनागतेनाध्वना शून्यः/ प्रत्युत्- २४००९ पन्नो ऽध्वा प्रत्युत्पन्नेनाध्वना शून्यः/ त्र्यध्वसमता त्र्यध्वसमतया शून्या/ २४०१० महायानं महायानेन शून्यम् बोधिसत्त्वो बोधिसत्त्वेन शून्यः/ न सुभूते २४०११ शून्यता एका वा द्वे वा तिस्रो वा चतस्रो वा पञ्च वा षट् वा सप्त वा अष्ट वा २४०१२ नव वा दश वा तस्मात् त्र्यध्वसम्तया समम् इदं यानं {बोधिसत्त्वस्य} महासत्त्वस्य २४०१३ नापि तत्र समम् उपलभ्यते न विषमं नापि तत्र वा राग उपलभ्यते न विरागः/ २४०१४ न दोष {उपलभ्यते} नादोषः/ न मोह {उपलभ्यते} नामोहः/ न नाम {उपलभ्यते} नानाम/ यावन् न २४०१५ कुशलम् {उपलभ्यते} नाकुशलम्/ न सास्रवम् {उपलभ्यते} नानास्रवम्/ न सावद्यम् {उपलभ्यते} नानवद्यम्/ २४०१६ न क्लेश {उपलभ्यते} नाक्लेशः/ न क्लेशक्षय {उपलभ्यते} नाक्लेशक्षयः/ न लौकिकम् {उपलभ्यते} न २४०१७ लोकोत्तरम्/ न संक्लेश {उपलभ्यते} न व्यवदानम्/ न संसार {उपलभ्यते} न निर्वाणम्/ २४०१८ नाप्य् अत्र नित्यम् {उपलभ्यते} नानित्यम्/ न सुखम् {उपलभ्यते} न दुःखम्/ नात्मा {उपलभ्यते} नानात्मा/ २४०१९ न शान्तम् {उपलभ्यते} नाशान्तम्/ न कामधातुर् {उपलभ्यते} न कामधातुसमतिक्रमः/ न रूप- २४०२० धातुर् {उपलभ्यते} न रूपधातु{समैक्रमः}/ नारूप्यधातुर् {उपलभ्यते} नारूप्यधातु{समैक्रमः}/ तत् कस्य २४०२१ हेतोः/ तथा हि तस्य स्वभावो नोपलभ्यते अतीतं सुभूते रूपम् अतीतेन रूपेण २४०२२ शून्यम्/ {{अनागतं रूपम् अनागतेन रूपेण शून्यम्/ प्रत्युत्पन्नं रूपं प्रत्युत्पन्नेन रूपेण शून्यं}}/ एवम् अतीता वेदना २४०२३ संज्ञा संस्काराः/ अतीतं विज्ञानम् अतीतेन विज्ञानेन शून्यम्/ २४०२४ {{अनागतं विज्ञानम् अनागतेन विज्ञानेन शून्यम्/ प्रत्युत्पन्नं विज्ञानम् प्रत्युत्पन्नेन विज्ञानेन शून्यम्/}}/ तत् कस्य हेतोः/ न शून्यतायाम् अतीतं रूपम् उप-
SK
२४१०१ लभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते कुतः पुनः शून्यतायाम् अतीतं २४१०२ रूपम् उपलप्स्यते/ न शून्यतायाम् अतीता वेदना उपलभ्यते/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}/ {कुतः पुनः शून्यतायां} २४१०३ अतीता वेदना उपलप्स्यते/ २४१०४ {{न शून्यतायाम् अतीता संज्ञा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां अतीता संज्ञा उपलप्स्यते/ न शून्यतायाम् अतीताः संस्कारा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां अतीताः संस्कारा उपलप्स्यते/ न शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां अतीतं विज्ञानम् उपलप्स्यते}}/ एवं न शून्यतायाम् अनागतं रूपं वेदनासंज्ञासंस्कारा व्ज्ञानम् उपलभ्यते/ २४१०५ न शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}/ {कुतः पुनः शून्यतायां} प्रत्युत्पन्नं रूपम् उपलप्स्यते/ २४१०६ {{न शून्यतायां प्रत्युत्पन्ना वेदना उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदना उपलप्स्यते/ न शून्यतायां प्रत्युत्पन्ना संज्ञा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञा उपलप्स्यते/ न शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलप्स्यते/ न शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलप्स्यते}}/ न शून्यतायाम् अतीतानागत- २४१०७ प्रत्युत्पन्नं रूपम् उपलभ्यते/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}/ {कुतः पुनः शून्यतायां} अतीतानागतप्रत्युत्पन्नं रूपम् उपलप्स्यते/ २४१०८ न शून्यतायाम् २४१०९ {{अतीतानागतप्रत्युत्पन्ना वेदना उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना उपलप्स्यते/ न शून्य्तायाम् अतीतानागतप्रत्युत्पन्ना संज्ञा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना संज्ञा उपलप्स्यते/ न शून्य्तायाम् अतीतानागतप्रत्युत्पन्नाः संस्कारा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां} अतीतानागतप्रत्युत्पन्नाः संस्कारा उपलप्स्यते/ न शून्य्तायाम् अतीतानागतप्रत्युत्पन्नं विज्ञानम् उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्नं विज्ञानम् उपलप्स्यते}}/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते} {कुतः पुनः शून्यतायां}/ २४११० पूर्वान्ततः सुभूते दानपारमिता नोपलभ्यते/ अपरान्ततो ऽपि {सुभूते} दान{पारमिता नोपलभ्यते}/ २४१११ प्रत्युत्पन्नतो ऽपि {सुभूते} दान{पारमिता नोपलभ्यते}/ अध्वसमतया दान{पारमिता नोपलभ्यते}/ न {सुभूते} अध्वसमताया- २४११२ म् अतीताध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते/ कुतः पुनः समताया- २४११३ म् अतीतानागतप्रत्युत्पन्ना दानपारमितोपलप्स्यते/ एवं पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अ- २४११४ ध्वसु शील{पारमिता नोपलभ्यते}/ {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} क्षान्ति{पारमिता नोपलभ्यते}/ {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} वीर्य{पारमिता नोपलभ्यते}/ {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} ध्यान{पारमिता नोपलभ्यते}/ पूर्वान्ततः {सुभूते} २४११५ प्रज्ञा{पारमिता नोपलभ्यते} {{अपरान्ततो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते/ प्रत्युत्पन्नतो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते/ अध्वसमतया प्रज्ञापारमिता नोपलभ्यते/ न सुभूते अध्वसमतायाम् अतीताध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते/ कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना}} प्रज्ञापारमितोपलप्स्यते/ २४११६ पुनर् अपरं सुभूते {पूर्वान्तापरान्तमध्येषु} स्मृत्युपस्थानानि नोपलभ्यन्ते/ त्र्यध्वसमतायां २४११७ स्मृत्युपस्थानानि नोपलभ्यन्ते/ न {सुभूते} समतायाम् अतीतानागतप्रत्युत्पन्ना २४११८ ऽध्वान उपलभ्यन्ते/ समतैव समतायां नोपलभ्यते/ कुतः पुनः समतायाम् अती-
२४३०१ सुभूतिः स्थविरस् तथागतेन प्रज्ञापारमितायाः कृतशो ऽधीष्टो महायानम् उपदेष्टाअव्यं २४३०२ मन्येत/ २४३०३ अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ मा हैवाहं भगवन् प्रज्ञा- २४३०४ पारमितां व्यतिक्रम्य महायानम् उपदिशामि/ २४३०५ भगवान् आह/ न हि सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानम् उपदिशसि/ २४३०६ तत् कस्य हेतोः/ तथा हि सुभूते ये केचित् कुशला बोधिपक्षा २४३०७ धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा वा बुद्ध- २४३०८ धर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति/ २४३०९ सुभूतिर् आह/ कतमे भगवन् कुशला बोधिपक्षा धर्माः श्रावकधर्माः २४३१० {{वा प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं}} गच्छन्ति/ २४३११ भगवान् आह/ तद् यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि २४३१२ चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि २४३१३ आर्याष्टाङ्गमार्गाः/ शून्यतानिमित्ताप्रणिहितविमोक्षमुखं चत्वार्य् अ- २४३१४ प्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः/ दान{पारमिता} २४३१५ शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता}/ दश तथागत- २४३१६ बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महा- २४३१७ करुणा अष्टादशावेणिका बुद्धधर्माः/ असंप्रमुषितधर्मता सदो- २४३१८ पेक्षाविहारिता/ इमे {सुभूते} कुशला बोधिपक्षा धर्माः श्रावकधर्माः २४३१९ प्रत्येकबुद्धधर्माः {{बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं}} गच्छन्ति/ २४३२० यच् च {सुभूते} महायानं या च ध्यान{पारमिता} या च वीर्य{पारमिता} या च २४३२१ क्षान्ति{पारमिता} या च शील{पारमिता} या च दान{पारमिता} यच् च रूपं या च वेदना या च २४३२२ संज्ञा ये च संस्कारा यच् च विज्ञानं यच् च चक्षुर् यच् च श्रोत्रं २४३२३ {{यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यच् च रूपंं यश् च शब्दो यश् च गन्धो यश् च रसो यच् च स्प्रष्टव्यं यश् च धर्मो यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो या च चक्षुःसंस्पर्शजा वेदना या च श्रोत्रसंस्पर्शजा वेदना या च घ्राणसंस्पर्शजा वेदना या च जिह्वासंस्पर्शजा वेदना या च कायसंस्पर्शजा वेदना या च मनःसंस्पर्शजा वेदना}} २४३२४ {{यानि च चत्वारि स्मृत्युपस्थानानि यानि च चत्वारि सम्यक्प्रहाणानि ये च चत्वार ऋद्धिपादाः यानि च पञ्चेन्द्रियाणि यानि च पञ्च बलानि यानि च सप्त बोध्यङ्गानि यश् च आर्याष्टाङ्ग-}} २४३२५ मार्गो यानि चाप्रमाणानि यानि च ध्यानानि याश् चारूप्यसमापत्तयो यानि
SK
२४४०१ च तथागतबलानि यानि च वैशारद्यानि याश् च चतस्रः प्रतिसंविदो यानि च २४४०२ शून्यतानिमित्ताप्रणिहितानि ये चासंस्कृता धर्मा यच् च दुःखं यश् च समुदयो २४४०३ यश् च निरोधो यश् च मार्गो यश् च कामधातुर् यश् च रूपधातुर् यश् चारूप्यधातुर् या २४४०४ चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च २४४०५ यावद् अभावस्वभावशून्यता ये च समाधयो यानि च धारणीमुखानि ये च २४४०६ यावद् अष्टादशावेणिका बुद्धधर्मा यश् च तथागतप्रवेदितो धर्मविनयो यश् च धर्मधातु- २४४०७ र् या च तथता या च भूतकोटिः यश् चाचिन्त्यधातुर् यच् च निर्वाणम् सर्व एते धर्मा न २४४०८ संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः/ २४४०९ अनेन पर्यायेण सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि/ २४४१० तत् कस्य हेतोः/ न हि सुभूते अन्यत् महायानम् अन्या प्रज्ञापारमिता अन्या २४४११ ध्यान{पारमिता} {{अन्या वीर्यपारमिता अन्या क्षान्तिपारमिता अन्या शीलपारमिता}} अन्या दान{पारमिता}/ इति हि महायानञ् च प्रज्ञा{पारमिता} ध्यानवीर्य- २४४१२ क्षान्तिशीलदान{पारमिता} चाद्वयम् एतद् अद्वैधीकारं न सुभूते अन्यत् महायानं अन्यानि २४४१३ स्मृत्युपस्थानानि इति हि महायानं स्मृत्युपस्थानानि चाद्वयम् एतद् अद्वैधीकारम्/ २४४१४ एवं नान्यत् {{महायानं अन्यानि सम्यक्प्रहाणानि इति हि महायानं सम्यक्प्रहाणानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्ये ऋद्धिपादा इति हि महायानम् ऋद्धिपादाः चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि इन्द्रियानि इति हि महायानम् इन्द्रियानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि बलानि इति हि महायानम् बलानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि बोध्यङ्गानि इति हि महायानम् बोध्यङ्गानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्ये मार्गा इति हि महायानम् मार्गाः चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि अप्रमाणध्यानानि इति हि महायानम् अप्रमाणध्यानानि चाद्वयम् एतद् अद्वैधीकारम्/}} २४४१५ {{नान्यत् महायानं अन्या आरूप्यसमापत्तयः इति हि महायानम् आरूप्यसमापत्तयः चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि दशबलानि इति हि महायानम् दशबलानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि वैशारद्यानि इति हि महायानम् वैशारद्यानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्याः प्रतिसंविदाः इति हि महायानम् वैशारद्यानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्ये अष्टादशावेणिका बुद्धधर्मा इति हि महायानम् अष्टादशावेणिका बुद्धधर्मा चाद्वयम् एतद् अद्वैधीकारम्/}} २४४१६ अनेन कारणेन सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि//
२४८०१ यथापि नाम आयुष्मन् {शारिपुत्र} यथा आकाशस्य न पूर्वान्त उपलभ्यते नापरान्त २४८०२ {उपलभ्यते} न मध्य {उपलभ्यते} अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते एव- २४८०३ म् एवायुष्मन् {शारिपुत्र} रूपस्य नैव पूर्वान्त {उपलभ्यते} नापरान्त {उपलभ्यते} न मध्यम् {उपलभ्यते}/ तत् २४८०४ कस्य हेतोः/ रूपशून्यताम् उपादाय/ न च शून्यतायाः पूर्वान्तो वा अपरान्तो २४८०५ वा मध्यं नोपलभ्यते/ वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य नैव पूर्वान्त २४८०६ {उपलभ्यते} नापरान्त {उपलभ्यते} मध्यम् {उपलभ्यते}/ तत् कस्य हेतोः/ विज्ञानशून्यताम् उपादाय/ २४८०७ न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते/ शून्यतेति च २४८०८ व्यवह्रियते/ अनेनायुष्मन् शारिपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वा- २४८०९ पर्यन्तता वेदितव्या/ {वेदना संज्ञा संस्काराः/} विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या/ २४८१० एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु यावज् जरामरणशोक- २४८११ परिदेवदुःखदौर्मनस्योपायासेषु/ स्मृत्युपस्थानानि {{सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः अष्टादशावेणिका}} बुद्धधर्मा आयुष्मन् २४८१२ {शारिपुत्र} आकाशसमाः/ तत् कस्य हेतोः/ तद् यथापि नामायुष्मन् {शारिपुत्र} २४८१३ आकाशस्य नैवादिर् नान्तो न मध्यम् उपलभ्यते अनन्तापर्यन्ततया आकाश- २४८१४ म् इति च व्यवह्रियते एवम् एवायुष्मन् {शारिपुत्र} बुद्धधर्माणां नादिर् नान्तो न मध्य- २४८१५ म् उपलभ्यते/ बुद्धधर्मशून्यताम् उपादाय/ न च शून्यतायाः पूर्वान्तो वा अपरान्तो २४८१६ वा मध्यं नोपलभ्यते/ अनेआयुष्मन् {शारिपुत्र} पर्यायेण बुद्धधर्मापर्यन्ततया २४८१७ बोधिसत्त्वापर्यन्तता वेदितव्या/ २४८१८ यत् पुनर् आयुष्मन् {शारिपुत्र} एवं वदसि/ केन कारणेन रूपं बोधिसत्त्वैत्य् एव- २४८१९ म् अपि न विद्यते नोपलभ्यते/ {वेदना संज्ञा संस्कारा} विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न २४८२० {विद्यते नोपलभ्यते} इति/ रूपम् आयुष्मन् शारिपुत्र रूपेण शून्यम् {वेदनासंज्ञासंस्कारा} विज्ञानम् आयुष्मन् २४८२१ {शारिपुत्र} विज्ञानेन शून्यम्/ तत् कस्य हेतोः/ न ह्य् आयुष्मन् {शारिपुत्र} शून्यतायां रूपं २४८२२ संविद्यते/ नापि शून्यतायां बोधिसत्त्वः संविद्यते/ {वेदना संज्ञा संस्काराः}/ न शून्यतायां
SK
२४९०१ विज्ञानं संविद्यते नापि शून्यतायां बोधिसत्त्वः संविद्यते/ अनेनायुष्मन् शारिपुत्र २४९०२ पर्यायेण रूपं बोधिसत्त्व इति एवम् अपि न {विद्यते नोपलभ्यते}/ {वेदना संज्ञा संस्काराः} विज्ञानं बोधिसत्त्व इति २४९०३ एवम् अपि न {विद्यते नोपलभ्यते}/ २४९०४ पुनर् अपरम् आयुष्मन् {शारिपुत्र} दानपारमिता दानपारमितया शून्या {{शीलपारमिता शीलपारमितया शून्या क्षान्तिपारमिता क्षान्तिपारमितया शून्या वीर्यपारमिता वीर्यपारमितया शून्या ध्यानपारमिता ध्यानपारमितया शून्या}} २४९०५ प्रज्ञापारमिता प्रज्ञापारमितया शून्या/ तत् कस्य हेतोः/ न हि शून्यतायां २४९०६ दानपारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते एवं शील{पारमिता} {{क्षान्तिपारमिता वीर्यपारमिता}} २४९०७ ध्यान{पारमिता}/ न शून्यतायां प्रज्ञापारमिता विद्यते न शून्यतायां बोधिसत्त्वो २४९०८ विद्यते/ अध्यात्मशून्यता {आयुष्मन्} {शारिपुत्र} अध्यात्मशून्यतया शून्या एवं यावद् अ- २४९०९ भावस्वभावशून्यता अभावस्वभावशून्यतया शून्या/ स्मृत्युपस्थानानि २४९१० स्मृत्युपस्थानैः शून्यानि एवं सम्यक्प्रहाणानि ऋद्धिपादाः {{इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः}} अष्टादशा- २४९११ वेणिका बुद्धधर्मा अष्टादशावेणिकैः बुद्धधर्मैः शून्या/ धर्मधातुर् धर्मधातुना शून्यः २४९१२ समाधिः समाधिना शून्यः {{धारणीमुखानि धारणीमुखैः शून्यानि सर्वज्ञता सर्वज्ञतया शून्या}} २४९१३ {{मार्गज्ञता मार्गज्ञतया शून्या सर्वाकारज्ञता सर्वाकारज्ञतया शून्या श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं}}/ २४९१४ श्रावकत्वेन श्रावकः शून्यः प्रत्येकबुद्धत्वेन प्रत्येकबुद्धः शून्यस् तथागतत्वेन २४९१५ तथागतः शून्यः/ तत् कस्य हेतोः/ न हि शून्यतायां तथागतो विद्यते न २४९१६ शून्यतायां बोधिसत्त्वो विद्यते/ अनेनायु{ष्मन्} {शारिपुत्र} पर्यायेण रूपं बोधिसत्त्व २४९१७ इति एवम् अपि न {विद्यते नोपलभ्यते}/ {वेदना संज्ञा संस्काराः} विज्ञानं बोधिसत्त्व इति एवम् अपि न {विद्यते नोपलभ्यते}/ २४९१८ यद् अप्य् {आयुष्मान्} {शारिपुत्र} आह/ केन कारणेनैवं वदसि/ एवम् अहं {बोधिसत्त्वं} महासत्त्वं २४९१९ सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां २४९२० प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति/ रूपम् {आयुष्मन्} {शारिपुत्र} रूपे न २४९२१ {संविद्यते नोपलभ्यते}/ रूपं वेदनायां न {संविद्यते नोपलभ्यते}/ वेदना वेदनायां न {संविद्यते नोपलभ्यते}/ वेदना रूपे न {संविद्यते नोपलभ्यते}/ २४९२२ रूपं वेदना च संज्ञायां न {संविद्यते नोपलभ्यते}/ संज्ञा संज्ञायां न {संविद्यते नोपलभ्यते}/ संज्ञा रूपे न {संविद्यते नोपलभ्यते} २४९२३ संज्ञा रूपवेदनयोर् न {संविद्यते नोपलभ्यते}/ रूपं वेदनासंज्ञासंस्कारेषु न {संविद्यते नोपलभ्यते}/ संस्काराः संस्कारेषु २४९२४ न {संविद्यन्ते नोपलभ्यन्ते}/ संस्कारा रूपवेदनासंज्ञासु न {संविद्यते नोपलभ्यते}/ रूपवेदनासंज्ञासंस्कारा विज्ञाने न
SK
२५००१ {संविद्यन्ते नोपलभ्यन्ते}/ विज्ञानं विज्ञाने न {संविद्यते नोपलभ्यते}/ विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न {संविद्यते नोपलभ्यते}/ २५००२ {{चक्षुः चक्षुसि संविद्यते नोपलभ्यते श्रोत्रं श्रोत्रे संविद्यते नोपलभ्यते घ्राणं घ्राणे संविद्यते नोपलभ्यते जिह्वा जिह्वायां संविद्यते नोपलभ्यते कायः काये संविद्यते नोपलभ्यते मनो मनसि संविद्यते नोपलभ्यते/ तत्रापीतरान्य् इतरेषु च न संविद्यन्ते नोपलभ्यन्ते/ रूपं रूपे संविद्यते नोपलभ्यते शब्दः शब्दे संविद्यते नोपलभ्यते गन्धो गन्धे संविद्यते नोपलभ्यते रसो रसे संविद्यते नोपलभ्यते स्प्रष्टव्यं स्प्रष्टव्ये संविद्यते नोपलभ्यते धर्मो धर्मे संविद्यते नोपलभ्यते/ तत्रापीतरे इतरेषु च न संविद्यते नोपलभ्यते/ चक्षुर्विज्ञानं चक्षुर्विज्ञाने संविद्यते नोपलभ्यते श्रोत्रविज्ञानं श्रोत्रविज्ञाने संविद्यते नोपलभ्यते घ्राणविज्ञानं घ्राणविज्ञाने संविद्यते नोपलभ्यते जिह्वाविज्ञानं जिह्वाविज्ञाने संविद्यते नोपलभ्यते कायविज्ञानं कायविज्ञाने संविद्यते नोपलभ्यते मनोविज्ञानं मनोविज्ञाने संविद्यते नोपलभ्यते/ तत्रापीतरान्य् इतरेषु च न संविद्यन्ते नोपलभ्यन्ते/}} २५००३ {{चक्षुःसंस्पर्शः चक्षुःसंस्पर्शे संविद्यते नोपलभ्यते श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शे संविद्यते नोपलभ्यते घ्राणसंस्पर्शो घ्राणसंस्पर्शे संविद्यते नोपलभ्यते जिह्वासंस्पर्शः जिह्वासंस्पर्शे संविद्यते नोपलभ्यते कायसंस्पर्शः कायसंस्पर्शे संविद्यते नोपलभ्यते मनःसंस्पर्शः मनःसंस्पर्शे संविद्यते नोपलभ्यते/ तत्रापीतर इतरस्मिन् च न संविद्यते नोपलभ्यते/ चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते कायसंस्पर्शजा वेदना कायसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते मनःसंस्पर्शजा वेदना मनःसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते/ तत्रापीतर इतरस्मिन् च न संविद्यते नोपलभ्यते/}} २५००४ तत्रापीतरा इतरासु च २५००५ सा न {संविद्यन्ते नोपलभ्यन्ते}/ स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न {संविद्यन्ते नोपलभ्यते}/ एवं २५००६ सम्यक्प्रहाणानि ऋद्धिपादाः {{इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः}} अष्टादशावेणिका बुद्धधर्मा अष्टादशा- २५००७ वेणिकेषु बुद्धधर्मेषु न {संविद्यन्ते नोपलभ्यन्ते}/ तत्रापीतरे इतरेषु च ते न {संविद्यन्ते नोपलभ्यन्ते}/ २५००८ {{अध्यात्मशून्यता अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते}} २५००९ {{समाधिः समाधौ न संविद्यते नोपलभ्यते धारणी धारणीयां न संविद्यते नोपलभ्यते}}/ पृथग्जनभूमिः गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनु- २५०१० भूमिर् वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिस् तथागतभूमिः २५०११ सवज्ञताभूमिः/ स्रोतआपन्न स्रोतआपन्नत्वे न {संविद्यते नोपलभ्यते}/ एवं सकृदागामी २५०१२ अनागामी अर्हन् प्रत्येकबुद्धः प्रत्येकबुद्धत्वे न {संविद्यते नोपलभ्यते}/ बोधिसत्त्वो बोधिसत्त्वत्वे २५०१३ न {संविद्यते नोपलभ्यते}/ तथागतस् तथागतत्वे न {संविद्यते नोपलभ्यते}/ प्रज्ञापारमिता प्रज्ञापारमितायां न {संविद्यते नोपलभ्यते}/ २५०१४ प्रज्ञापारमितायाम् अववादानुशासनी न {संविद्यते नोपलभ्यते}/ अववादानुशासन्यां प्रज्ञापारमिता २५०१५ न {संविद्यते नोपलभ्यते}/ एवं ह्य् {आयुष्मन्} {शारिपुत्र} सर्वधर्मा संविद्यमानत्वेन अनुपलम्भेन बोधि- २५०१६ सत्त्वो न {संविद्यते नोपलभ्यते}// [इति प्राप्तिनिर्याणे प्रापकप्रतिषेधः//] २५०१७ यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ केन कारणेन नामधेयमात्रम् एतत् यद् उत २५०१८ बोधिसत्त्व इति/ केन कारणेन्{आयुष्मन्} सुभूते एवं वदसि आगन्तुकम् एतन् नाम- २५०१९ धेयं प्रक्षिप्तं यद् उत बोधिसत्त्व इति/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} नाम दशभ्यो २५०२० दिग्भ्यो न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति सर्वधर्माणाम् एव २५०२१ बोधिसत्त्वानां नामापि न कुतश्चिद् एति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ २५०२२ आगन्तुकम् एतन् नामधेयं तथा हि यद्रूपं यद्वेदना यत्संज्ञा यत्संस्कारा यद्विज्ञान- २५०२३ म् इति नामधेयं न तद् रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम्/ तत् कस्य २५०२४ हेतोः/ तथा हि नाम शून्यं नामस्वभावेन यच् च शून्यं न तन् नाम/ तेन कारणेन
SK
२५१०१ नोच्यते बोधिसत्त्व इति नामधेयमात्रम् एतद् इति/ पुनर् अपरम् {आयुष्मन्} {शारिपुत्र} नामधेयमात्र- २५१०२ म् एतद् यद् उत दानपारमितेति/ न च दानपारमितायां नाम न च नाम्नि दानपार- २५१०३ मिता/ तत् कस्य हेतोः/ यच् च नाम या च दानपारमिता उभयम् एतन् न {संविद्यते नोपलभ्यते}/ २५१०४ तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति/ एवं नामधेयमात्रम् एतद् यद् उत २५१०५ शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} नामधेयमात्रम् एतद् यद् उत प्रज्ञा{पारमिता} २५१०६ इति {{न च प्रज्ञापारमितायां नाम न च नाम्नि प्रज्ञापारमिता/ तत् कस्य हेतोः/ यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते/ तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति/}}/ {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत बोधिसत्त्व इति/ २५१०७ नामधेयमात्रम् एतद् यद् उत अध्यात्म{शून्यता} बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद् अ- २५१०८ भावस्वभाव{शून्यता}/ न चाध्यात्मन्यतायां नाम न च नाम्नि अध्यात्म{शून्यता} २५१०९ बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद् भावस्वभाव{शून्यता}/ तत् कस्य हेतोः/ २५११० तथा हि यच् च नाम या चाध्यात्म{शून्यता} या च बहिर्धा{शून्यता} या चाध्यात्मबहिर्धा{शून्यता} २५१११ या च यावद् भावस्वभाव{शून्यता} सर्व एते न {संविद्यन्ते नोपलभ्यन्ते}/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण २५११२ नामधेयमात्रम् एतत् यद् उत बोधिसत्त्व इति/ {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत स्मृत्युपस्थानानि न २५११३ च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि २५११४ {{तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च स्मृत्युपस्थानान्य् उभयं एतन् न संविद्यन्ते नोपलभ्यन्ते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत सम्यक्प्रहाणानि न च सम्यक्प्रहाणेषु नाम न च नाम्नि सम्यक्प्रहाणानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च स्मृत्युपस्थानान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत ऋद्धिपादा न च ऋद्धिपादेषु नाम न च नाम्नि ऋद्धिपादाः/ तत् कस्य हेतोः/ तथ हि यच् च नाम ये च ऋद्धिपादाः उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत इन्द्रियानि न च इन्द्रियेषु नाम न च नाम्नि इन्द्रियानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च इन्द्रियान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत बलानि न च बलेषु नाम न च नाम्नि बलानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च बलान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत बोध्यङ्गानि न च बोध्यङ्गेषु नाम न च नाम्नि बोध्यङ्गानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च बोध्यङ्गान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत मार्गा न च मार्गेषु नाम न च नाम्नि मार्गाः/ तत् कस्य हेतोः/ तथ हि यच् च नाम ये च मार्गा उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत अप्रमाणध्यानानि न च अप्रमाणध्यानेषु नाम न च नाम्नि अप्रमाणध्यानानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च अप्रमाणध्यानान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत आरूप्यसमापत्तयो न च आरूप्यसमापत्तिषु नाम न च नाम्नि आरूप्यसमापत्तयः/ तत् कस्य हेतोः/ तथ हि यच् च नाम याश् च आरूप्यसमापत्तय उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत दशबलानि न च दशबलेषु नाम न च नाम्नि दशबलानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च दशबलान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत वैशारद्यानि न च वैशारद्येषु नाम न च नाम्नि वैशारद्यानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च वैशारद्यान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत प्रतिसंविदा न च प्रतिसंविदासु नाम न च नाम्नि प्रतिसंविदाः/ तत् कस्य हेतोः/ तथ हि यच् च नाम याश् च प्रतिसंविदा उभयं एतन् न संविद्यते नोपलभ्यते/}} २५११५ {{आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत अष्टादशावेणिका बुद्धधर्मा न च अष्टादशावेणिकेषु बुद्धधर्मेषु नाम न च नाम्नि अष्टादशावेणिका बुद्धधर्माः/ तत् कस्य हेतोः/ तथ हि यच् च नाम ये च अष्टादशावेणिका बुद्धधर्मा उभयं एतन् न संविद्यते नोपलभ्यते}}/ २५११६ {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत समाधिर् इति यावत् सर्वज्ञतेति/ न च सर्वज्ञतायां नाम २५११७ न च नाम्नि सर्वज्ञता/ तत् कस्य हेतोः/ तथा हि यच् च नाम या च सर्वज्ञता २५११८ उभयम् एतन् न {संविद्यते नोपलभ्यते}/ २५११९ यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि केन कारणेनोच्यते यथा आत्मात्मेति २५१२० चोच्यते अत्यान्ततया चानभिनिवृत्त आत्मेति/ आत्मा {शारिपुत्र} अत्यन्ततया न {संविद्यते नोपलभ्यते}/ २५१२१ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया {आयुष्मन्} {शारिपुत्र} सत्त्वो जीवः २५१२२ पोषः {{पुरुषः पुद्गलो मनुजो मानवः कारको वेदको जानकः}} पश्यको न {संविद्यते नोपलभ्यते}/ {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}/ अत्यन्ततया {आयुष्मन्} {शारिपुत्र} रूपं न {संविद्यते नोपलभ्यते}/ २५१२३ {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}/ वेदना संज्ञा संस्कारा अत्यन्ततया {आयुष्मन्} {शारिपुत्र} विज्ञानं न {संविद्यते नोपलभ्यते}/ २५१२४ {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}/ {{अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर् न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं श्रोत्रं घ्राणं जिह्वा कायः/ अत्यन्ततया आयुष्मन् शारिपुत्र मनो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र रूपं न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं शब्दो गन्धो रसः स्प्रष्टव्यम्/ अत्यन्ततया आयुष्मन् शारिपुत्र धर्मो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानम्/ अत्यन्ततया आयुष्मन् शारिपुत्र मनोविज्ञानं न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुःसंस्पर्शो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः/ अत्यन्ततया आयुष्मन् शारिपुत्र मनःसंस्पर्शो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/}}
२५६०१ दानपारमिताया व्ययो {{न सा दानपारमिता/ यो भगवन् शीलपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् क्षान्तिपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् वीर्यपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् ध्यानपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् प्रज्ञापारमिताया व्ययो न सा दानपारमिता/}} २५६०२ {{यो भगवन् अध्यात्मशून्यताया व्ययो न सा अध्यात्मशून्यता/ यो भगवन् बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता/ यो भगवन् अध्यात्मबहिर्धाशून्यताया व्ययो न सा अध्यात्मबहिर्धाशून्यता/ यो भगवन् शून्यताशून्यताया व्ययो न सा शून्यताशून्यता/ यो भगवन् महाशून्यताया व्ययो न सा महाशून्यता/ यो भगवन् परमार्थशून्यताया व्ययो न सा परमार्थशून्यता/ यो भगवन् संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता/ यो भगवन् अत्यन्तशून्यताया व्ययो न सा अत्यन्तशून्यता/ यो भगवन् अनवराग्रशून्यताया व्ययो न सा अनवराग्रशून्यता/ यो भगवन् अनवकारशून्यताया व्ययो न सा अनवकारशून्यता/ यो भगवन् प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता/ यो भगवन् सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता/ यो भगवन् स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता/ यो भगवन् अनुपलम्भशून्यताया व्ययो न सा अनुपलम्भशून्यता/ यो भगवन् अभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता/ यो भगवन् भावशून्यताया व्ययो न सा भावशून्यता/ यो भगवन् अभावशून्यताया व्ययो न सा अभावशून्यता/ यो भगवन् स्वभावशून्यताया व्ययो न सा स्वभावशून्यता/ यो भगवन् परभावशून्यताया व्ययो न सा परभावशून्यता/ यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि/ यो भगवन् सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि/ यो भगवन् ऋद्धिपादानां व्ययो न ते ऋद्धिपादाः/ यो भगवन् इन्द्रियानां व्ययो न तानीन्द्रियानि/ यो भगवन् बलानां व्ययो न तानि बलानि/ यो भगवन् बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि/ यो भगवन् मार्गानां व्ययो न ते मार्गाः/ यो भगवन् अप्रमाणध्यानानां व्ययो न तान्य् अप्रमाणध्यानानि/ यो भगवन् आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः/ यो भगवन् दशबलानां व्ययो न तानि दशबलानि/ यो भगवन् वैशारद्यानां व्ययो न तानि वैशारद्यानि/ यो भगवन् प्रतिसंविदानां व्ययो न ताः प्रतिसंविदाः/ यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि/ यो भगवन् अष्टादशावेणिकानां बुद्धधर्मानां व्ययो न ते बुद्धधर्माः/ इति हि बुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्/ तत् कस्य हेतोः/ तथा हि व्ययो न एको न द्वौ न बहवो}} न पृथक्/ तस्माद् यो २५६०३ बुद्धधर्माणां व्ययो न ते बुद्धधर्माः/ २५६०४ यत् पुनर् भगवन् उच्यते/ रूपम् इत्य् अद्वयस्यैषागणनाकृता/ वेदना संज्ञा संस्कारा २५६०५ यत् पुनर् उच्यते विज्ञानम् इत्य् अद्वयस्यैषागणनाकृता/ यत् कस्येति पुनर् उच्यते २५६०६ रूपं यावत् सर्वाकारज्ञतेत्य् अद्वयस्यैषागणनाकृता// [इति प्राप्तिनिर्याणे २५६०७ प्राप्यप्रापकसम्बन्धप्रतिषेधः//] २५६०८ अथ खल्व् {आयुष्मन्} {शारिपुत्र} आयुष्मन्तं सुभूतिम् एतद् अवोचत्/ कथम् {आयुष्मन्} {सुभूते} {बोधिसत्त्वो} २५६०९ महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् उपपरीक्षते/ कतम {आयुष्मन्} {सुभूते} २५६१० बोधिसत्त्वः/ कतमा प्रज्ञापारमिता/ कतमा उपपरीक्षमाणा/ २५६११ {सुभूतिर्} आह/ यद् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ कतमो बोधिसत्त्व इति/ बोधि- २५६१२ र् एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति/ तया च बोध्या सर्वधर्माणाम् आकारं २५६१३ जानाति/ न चात्राभिनिविशते/ २५६१४ कतमेषां धर्माणाम् आकारान् जानाति/ रूपस्याकारान् जानाति न २५६१५ चात्राभिनिविशते/ वेदनाया {{आकारान् जानाति न चात्राभिनिविशते/ संज्ञाया आकारान् जानाति न चात्राभिनिविशते/ संस्कारानाम् आकारान् जानाति न चात्राभिनिविशते/}} विज्ञानस्याकारान् {जानाति न चात्राभिनिविशते}/ एवं २५६१६ व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य सप्तत्रिंशद्बोधि- २५६१७ पक्षाणां धर्माणाम् आकारान् {जानाति न चात्राभिनिविशते}/ एवम् अप्रमाणध्यानारूप्यसमापत्तीनां २५६१८ पारमितानां बलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकानां बुद्धधर्माणाम् आकारान् २५६१९ {जानाति न चात्राभिनिविशते}/ २५६२० {शारिपुत्र} आह/ कतमे ते सुभूते सर्वधर्माणाम् आकाराः/ २५६२१ {सुभूतिर्} आह/ यैर् {आयुष्मन्} {शारिपुत्र} आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः रूपशब्दगन्धर- २५६२२ सस्प्रष्टव्यधर्मा वा आध्यात्मिकबाह्या वा धर्माः संस्कृता असंस्कृता वा आकारैर् यैर् २५६२३ ते इम उच्यन्ते सर्वधर्माणाम् आकाराः/ २५६२४ यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ कतमा प्रज्ञापारमितेति/
SK
२५७०१ आरता आरमितैषा {आयुष्मन्} {शारिपुत्र} तेनोच्यते प्रज्ञापारमितेति/ कुत आरता २५७०२ आरमिता/ स्कन्धेभ्यो धातुभ्य आयतनेभ्य प्रतीत्यसमुत्पादाद् दानपारमितायाः २५७०३ शील{पारमितायाः} {{क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः}} प्रज्ञापारमिताया आरता आरमिता/ अध्यात्मशून्यताया २५७०४ {{बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया}} यावद् अभावस्वभावशून्यताया आरता आरमिता/ स्मृत्युपस्थानेभ्य २५७०५ आरता आरमिता/ सम्यक्प्रहाण्{{एभ्य ऋद्धिपादेभ्य इन्द्रियेभ्यो बलेभ्यो बोध्यङ्गेभ्यो मार्गेभ्यो ऽप्रमाणध्यानेभ्य आरूप्यसमापत्तिभ्यो दशबलेभ्यो वैशारद्येभ्यः प्रतिसंविद्भ्यो ऽष्टादशावेणिकेभ्यो}} बुद्धधर्मेभ्य आरता आरमिता/ २५७०६ यावत् सर्वज्ञताया आरता आरमिता/ एषा तेनोच्यते प्रज्ञापारमितेति/ अने- २५७०७ न्{आयुष्मन्} {शारिपुत्र} पर्यायेण आरता आरमिता एषा यद् उत प्रज्ञापारमिता/ २५७०८ यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ कतमा उपपरीक्षणेति/ इह्{आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} २५७०९ महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न नित्यम् इत्य् उपपरीक्षते नानित्यम् इति २५७१० न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति २५७११ न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति २५७१२ नाप्रणिहितम् इति उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/ २५७१३ न वेदनां न संज्ञां न संस्कारान् न विज्ञानं नित्यम् इत्य् उपपरीक्षते/ नानित्यम् इति २५७१४ {{न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/}} एवं चक्षुः श्रोत्रं घ्राणं जिह्वां कायं मनो न नित्यम् इति २५७१५ {{उपपरीक्षते/ नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/}} एवं रूपशब्दगन्धरसस्प्रष्टव्यधर्मा न नित्या इति २५७१६ {{उपपरीक्षन्ते/ नानित्या इति न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशाउन्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षन्ते/ न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षन्ते/}} एवं चक्षुर्विज्ञानं {{न नित्यम् इत्य् उपपरीक्षते/ नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/ न श्रोत्रविज्ञानं न घ्राणविज्ञानं न जिह्वाविज्ञानं न कायविज्ञानं न मनोविज्ञानं नित्यम् इत्य् उपपरीक्षते/ नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/}} २५७१७ एवं चक्षुःसंस्पर्शो {{न नित्य इत्य् उपपरीक्षते/ नानित्य इति न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति नाशान्त इति न शून्य इति नाशाउन्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इत्य् उपपरीक्षते/ न विविक्त इति नाविविक्त इत्य् उपपरीक्षते/ न श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न जिह्वासंस्पर्शो न कायसंस्पर्शो न मनःसंस्पर्शो नित्य इत्य् उपपरीक्षते/ नानित्य इति न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति नाशान्त इति न शून्य इति नाशाउन्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इत्य् उपपरीक्षते/ न विविक्त इति नाविविक्त इत्य् उपपरीक्षते/}} २५७१८ एवं चक्षुःसंस्पर्शप्रत्ययवेदना {{न नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} २५७१९ {{न श्रोत्रसंस्पर्शप्रत्ययवेदना न घ्राणसंस्पर्शप्रत्ययवेदना न जिह्वासंस्पर्शप्रत्ययवेदना न कायसंस्पर्शप्रत्ययवेदना न मनःसंस्पर्शप्रत्ययवेदना नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवं दानपारमिता {{न नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} २५७२० {{न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवम् अध्यात्मशून्यता {{न नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} २५७२१ {{न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न शून्यताशून्यता न महाशून्यता न परमार्थशून्यता न संस्कृतशून्यता नात्यन्तशून्यता नानवराग्रशून्यता नानवकारशून्यता न प्रकृतिशून्यता न सर्वधर्मशून्यता न स्वलक्षणशून्यता नानुपलम्भशून्यता नाभावस्वभावशून्यता न भावशून्यता नाभावशून्यता न स्वभावशून्यता न परभावशून्यता नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवं स्मृत्युपस्थानानि न नित्यानीति {{उपपरीक्षन्ते/ नानित्यानीति न सुखानीति न दुःखानीति नात्मानीति नानात्मानीति न शान्तानीति नाशान्तानीति न शून्यानीति नाशाउन्यानीति न निमित्तानीति नानिमित्तानीति न प्रणिहितानीति नाप्रणिहितानीत्य् उपपरीक्षन्ते/ न विविक्तानीति नाविविक्तानीत्य् उपपरीक्षन्ते/}} २५७२२ एवं सम्यक्प्रहाणानि {{ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदा अष्टादशावेणिका}} बुद्धधर्माः/ समाधयः सर्व- २५७२३ धारणीमुखानि सर्वज्ञता न नित्येति {{उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवं ह्य् {आयुष्मन्} {शारिपुत्र} २५७२४ {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् उपपरीक्षते/ २५७२५ {शारिपुत्र} आह/ केन कारणेन्{आयुष्मन्} {सुभूते} एवं वदसि यो रूपस्यानुत्पादो न तद् रू- २५७२६ पम्/ यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्/ २५७२७ एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्य- २५७२८ तासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु
SK
२५८०१ प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञासु अष्टादशावेणिकेषु बुद्धधर्मेषु यः २५८०२ सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति/ २५८०३ {सुभूतिर्} आह/ रूपम् {आयुष्मन्} {शारिपुत्र} शून्यं रूपेण/ या च्{आयुष्मन्} {शारिपुत्र} शून्यता न २५८०४ तद् रूपं नोत्पादः/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो रूपस्यानुत्पादो न तद् रूपम् वेदना २५८०५ संज्ञा संस्कारा विज्ञानं शून्यं विज्ञानेन/ या च्{आयुष्मन्} {शारिपुत्र} शून्यता न तद् विज्ञानं नोत्- २५८०६ पादः/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्/ दान- २५८०७ पारमिता {आयुष्मन्} {{शारिपुत्र शून्या दानपारमिता/ या चायुष्मन् शारिपुत्र शून्यता न सा दानपारमिता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता शून्या प्रज्ञापारमितया/ या चायुष्मन् शारिपुत्र शून्यता न सा प्रज्ञापारमिता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता/ अध्यात्मशून्यता आयुष्मन् शारिपुत्र शून्या अध्यात्मशून्यता/ या चायुष्मन् शारिपुत्र शून्यता न सा अध्यात्मशून्यता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो अध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता परभावशून्यता शून्या परभावशून्यतया/ या चायुष्मन् शारिपुत्र शून्यता न सा परभावशून्यता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो परभावशून्यताया अनुत्पादो न सा परभावशून्यता/}} २५८०८ {{स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र शून्यानि स्मृत्युपस्थानानि/ या चायुष्मन् शारिपुत्र शून्यता न तानि स्मृत्युपस्थानानि नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानान्य् आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदा अष्टादशावेणिका बुद्धधर्माः सर्वाकारज्ञता शून्या सर्वाकारज्ञतया/ या चायुष्मन् शारिपुत्र शून्यता न सा सर्वाकारज्ञता नोत्पादः}}/ अनेन्{आयुष्मन्} {शारिपुत्र} २५८०९ पर्यायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता/ २५८१० {शारिपुत्र} आह/ किं कारणम् {आयुष्मन्} {सुभूते} एवं वदसि/ यो रूपस्य व्ययो २५८११ न तद् रूपम्/ यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् विज्ञान- २५८१२ म् इति/ एवं व्यस्तसमस्तेषु {{स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु}} २५८१३ प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यः सर्वाकारज्ञताया व्ययो न सा २५८१४ सर्वाकारज्ञता/ २५८१५ {सुभूतिर्} आह/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं या च २५८१६ वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं सर्व एते धर्मा न संयुक्ता न वि- २५८१७ संयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः/ एवं २५८१८ व्यस्तसमस्तेषु {{स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु}} बुद्धधर्म- २५८१९ समाधिधारणीमुखेषु यश् च व्ययो यावत् सर्वाकारज्ञता यच् चाद्वैधीकारं सर्व एते २५८२० धर्मा न संयुक्ताः {{अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः/}} अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो रूपस्य व्ययो २५८२१ न तद् रूपम्/ एवं वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् वि- २५८२२ ज्ञानम्/ एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतासु समाधि- २५८२३ धारणीमुखेषु यावद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता/ २५८२४ {शारिपुत्र} आह/ केन कारणेन्{आयुष्मन्} {सुभूते} एवं वदसि यद् इदम् उच्यते रूपम् इत्य् अद्वय- २५८२५ स्यैषा गणना कृतेति/ वेदना संज्ञा संस्काराः/ यद् इदम् उच्यते विज्ञानम् इत्य् अ- २५८२६ द्वयस्यैषा गणना कृतेति यावद् यद् इदम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना २५८२७ कृतेति/ २५८२८ {सुभूतिर्} आह/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} नान्यो ऽनुत्पादो ऽन्यद् रूपम्/ अनुत्पाद एव