Commentary on the Thirty Verses

Triṃśikāvijñaptikārikā with Sthiramati's Triṃśikāvijñaptibhāṣya · Tरिंशिकाविज्ञप्तिकारिका wइथ् Sथिरमतिऽस् Tरिंशिकाविज्ञप्तिभाष्य

Commentary on the Thirty Verses

Triṃśikāvijñaptikārikā with Sthiramati's Triṃśikāvijñaptibhāṣya

Tरिंशिकाविज्ञप्तिकारिका wइथ् Sथिरमतिऽस् Tरिंशिकाविज्ञप्तिभाष्य

SK
Vअसुबन्धु: Tरिंशिकाविज्ञप्तिकारिका
SK
नमो बुद्धाय ||
SK
पुद्गलधर्मनैरात्म्ययोर् अप्रतिपन्नविप्रतिपन्नानाम् अविपरीतपुद्गलधर्मनैरात्म्यप्रतिपादनार्थं त्रिंशिकाविज्ञप्तिप्रकरणारम्भः |
SK
पुद्गलधर्मनैरात्म्यप्रतिपादनं पुनः क्लेशज्ञेयावरणप्रहाणार्थम् | तथा ह्य् आत्मदृष्टिप्रभवा रागादयः क्लेशाः पुद्गलनैरात्म्यावबोधश् च सत्कायदृष्टेः प्रतिपक्षत्वात् तत्प्रहाणाय प्रवर्तमानः सर्वक्लेशान् प्रजहाति | धर्मनैरात्म्यज्ञानाद् अपि ज्ञेयावरणप्रतिपक्षत्वात् ज्ञेयावरणं प्रहीयते | क्लेशज्ञेयावरणप्रहाणम् अपि मोक्षसर्वज्ञत्वाधिगमार्थम् | क्लेशा हि मोक्षप्राप्तेर् आवरणम् इति अतस् तेषु प्रहीणेषु मोक्षो ऽधिगम्यते | ज्ञेयावरणम् अपि सर्वस्मिन् ज्ञेये ज्ञानप्रवृत्तिप्रतिबन्धभूतम् अक्लिष्टम् अज्ञानम् | तस्मिन् प्रहीणे सर्वाकारे ज्ञेये ऽसक्तम् अप्रतिहतञ् च ज्ञानं प्रवर्तत इत्य् अतः सर्वज्ञत्वम् अधिगम्यते |
SK
अथ वा धर्मपुद्गलाभिनिविष्टाश् चित्तमात्रं यथाभूतं न जानन्तीत्य् अतो धर्मपुद्गलनैरात्म्यप्रदर्शनेन सफले विज्ञप्तिमात्रे ऽनुपूर्वेण प्रवेशार्थं प्रकरणारम्भः |
SK
अथ वा विज्ञानवद् विज्ञेयम् अपि द्रव्यत एवेति केचिन् मन्यन्ते | विज्ञेयवद् विज्ञानम् अपि संवृतित एव न परमार्थत इत्य् अस्य द्विप्रकारस्याप्य् एकान्तवादस्य प्रतिषेधार्थः प्रकरणारम्भः ||
SK
आत्मधर्मोपचारो हि विविधो यः प्रवर्तते | १अब्
SK
लोकशास्त्रयोर् इति वाक्यशेषः |
SK
विज्ञानपरिणामे ऽसौ | १च्
SK
आत्मधर्मोपचार इति संबध्यते | आत्मा धर्माश् चोपचर्यन्त इत्य् आत्मधर्मोपचारः | स पुनर् आत्मप्रज्ञप्तिर् धर्मप्रज्ञप्तिश् च | विविध इत्य् अनेकप्रकारः | आत्मा जीवो जन्तुर् मनुजो माणव इत्य् एवमादिक आत्मोपचारः स्कन्धा धातव आयतनानि रूपं वेदना संज्ञा संस्कारा विज्ञानम् इत्य् एवमादिको धर्मोपचारः |
SK
अयं द्विप्रकारो ऽप्य् उपचारो विज्ञानपरिणाम एव न मुख्ये आत्मनि धर्मेषु चेति | कुत एतत् | धर्माणाम् आत्मनश् च विज्ञानपरिणामाद् बहिर् अभावात् | को ऽयं परिणामो नाम | अन्यथात्वम् | कारणक्षणनिरोधसमकालः कारणक्षणविलक्षणः कार्यस्यात्मलाभः परिणामः | तत्रात्मादिविकल्पवासनापरिपोषाद् रूपादिविकल्पवासनापरिपोषाच् चालयविज्ञानाद् आत्मादिनिर्भासो विकल्पो रूपादिनिर्भासश् चोत्पद्यते | [Tव्भ्_४२] तम् आत्मादिनिर्भासं रूपादिनिर्भासञ् च तस्माद् विकल्पाद् बहिर्भूतम् इवोपादायात्माद्युपचारो रूपादिधर्मोपचारश् चानादिकालिकः प्रवर्तते विनापि बाह्येनात्मना धर्मैश् च | तद् यथा तैमिरिकस्य केशोण्डुकाद्युपचार इति | यच् च यत्र नास्ति तत् तत्रोपचर्यते | तद् यथा बाहीके गौः |
SK
एवं विज्ञानस्वरूपे बहिश् चात्मधर्माभावात् परिकल्पित एवात्मा धर्माश् च न तु परमार्थतः सन्तीति विज्ञानवद् विज्ञेयम् अपि द्रव्यत एवेत्य् अयम् एकान्तवादो नाभ्युपेयः |
SK
उपचारस्य च निराधारस्यासंभवाद् अवश्यं विज्ञानपरिणामो वस्तुतो ऽस्तीत्य् उपगन्तव्यो यत्रात्मधर्मोपचारः प्रवर्तते | अतश् चायम् अभ्युपगमो न युक्तिक्षमो विज्ञानम् अपि विज्ञेयवत् संवृतित एव न परमार्थत इति | संवृतितो ऽप्य् अभावप्रसङ्गान् न हि संवृतिर् निरुपादाना युज्यते |
SK
तस्माद् अयम् एकान्तवादो द्विप्रकारो ऽपि निर्युक्तिकत्वात् त्याज्य इत्य् आचार्यवचनम् | एवञ् च सर्वं विज्ञेयं परिकल्पितस्वभावत्वाद् वस्तुतो न विद्यते विज्ञानं पुनः प्रतीत्यसमुत्पन्नत्वाद् द्रव्यतो ऽस्तीत्य् अभ्युपेयम् | प्रतीत्यसमुत्पन्नत्वं पुनर् विज्ञानस्य परिणामशब्देन ज्ञापितम् |
SK
कथम् एतद् गम्यते विना बाह्येनार्थेन विज्ञानम् एवार्थाकारम् उत्पद्यत इति | बाह्यो ह्य् अर्थः स्वाभासविज्ञानजनकत्वेन विज्ञानस्यालम्बनप्रत्यय इष्यते न कारणत्वमात्रेण समनन्तरादिप्रत्ययाद् विशेषाप्रसङ्गात् |
SK
सञ्चितालम्बनाश् च पञ्चविज्ञानकायास् तदाकारत्वात् | न च सञ्चितम् अवयवसंहतिमात्राद् अन्यद् विद्यते | तदवयवान् अपोह्य सञ्चिताकारविज्ञानाभावात् | तस्माद् विनैव बाह्येनार्थेन विज्ञानं सञ्चिताकारम् उत्पद्यते |
SK
न च परमाणव एव संचितास् तस्यालम्बनं परमाणूनाम् अतदाकारत्वात् | न ह्य् असञ्चितावस्थातः सञ्चितावस्थायां परमाणूनां कश्चिद् आत्मातिशयः | तस्माद् असञ्चितवत् सञ्चिता अपि परमाणवो नैवालम्बनम् |
SK
अन्यस् तु मन्यते | एकैक परमाणुर् अन्यनिरपेक्ष्यो ऽतीन्द्रियो बहवस् तु परस्परापेक्षा इन्द्रियग्राह्याः | तेषाम् अपि सापेक्षनिरपेक्षावस्थयोर् आत्मातिशयाभावाद् एकान्तेनेन्द्रियग्राह्यत्वम् अतीन्द्रियत्वं वा |
SK
यदि च परमाणव एव परस्परापेक्षा विज्ञानस्य विषयीभवन्ति | एवं सति यो ऽयं घटकुड्याद्याकारभेदो विज्ञाने स न स्यात् प्ररमाणूनाम् अतदाकारत्वात् | न चान्यनिर्भासस्य विज्ञानस्यान्याकारो विषयो युज्यते ऽतिप्रसङ्गात् | न च परमाणवः स्तम्भादिवत् परमार्थतः सन्त्य्| अर्वाङ्मध्यपरभागसद्भावात् |
SK
तदनभ्युपगमे वा पूर्वदक्षिणापरोत्तरादिदिग्भेदो यः स परमाणोर् न स्यात् | ततश् च विज्ञानवत् परमाणोर् अप्य् अमूर्तत्वम् अदेशस्थत्वञ् च प्रसज्यते | एवं बाह्यार्थाभावाद् विज्ञानम् एवार्थाकारम् उत्पद्यते स्वप्नविज्ञानवद् इत्य् अभ्युपेयम् | वेदनादयो ऽपि नातीतानागतास् तदाकारविज्ञानजनका निरुद्धाजातत्वात् | न च वर्तमाना वर्तमानजनका उत्पद्यमानावस्थायाम् असत्त्वात् | [Tव्भ्_४६] उत्पन्नावस्थायां विज्ञानस्यापि तदाकारेणोत्पन्नत्वान् न किञ्चित् कर्तव्यम् अस्तीति मनोविज्ञानम् अप्य् अनालम्बनम् एवोत्पद्यते |
SK
अन्यस् त्व् आह | असत्य् आत्मनि मुख्ये धर्मेषु चोपचारो न युज्यते | उपचारो हि त्रिषु सत्सु भवति नान्यतमाभावे मुख्यपदार्थे तत्सदृशे ऽन्यस्मिन् विषये तयोश् च सादृश्ये | तद् यथा मुख्ये ऽग्नौ तत्सदृशे च माणवके तयोश् च साधारणे धर्मे कपिलत्वे तीक्ष्णत्वे वा सत्य् अग्निर् माणवक इत्य् उपचारः क्रियते | अत्र ह्य् अग्निर् माणवक इति जातिर् द्रव्यं वोपचर्यते | उभयथाप्य् उपचाराभावः |
SK
तत्र तावन् न जातेः साधारणं कपिलत्वं तीक्ष्णत्वं वा | न च साधारणधर्माभावे माणवके जातेर् उपचारो युज्यते ऽतिप्रसङ्गात् | अतद्धर्मत्वे ऽपि जातेस् तीक्ष्णत्वकपिलत्वयोर् जात्यविनाभावित्वान् माणवके जात्युपचारो भविष्यति | जात्यभावे ऽपि तीक्ष्णत्वकपिलत्वयोर् माणवके दर्शनाद् अविनाभावित्वम् अयुक्तम् | अविनाभावित्वे चोपचाराभावो ऽग्नाव् इव माणवके ऽपि जातिसद्भावात् | तस्मान् न माणवके जात्युपचारः संभवति |
SK
नापि द्रव्योपचारः सामान्यधर्माभावात् | न हि यो ऽग्नेस् तीक्ष्णो गुणः कपिलो वा स एव माणवके | किं तर्हि ततो ऽन्यः | विशेषस्य स्वाश्रयप्रतिबद्धत्वान् न विनाग्निगुणेनाग्नेर् माणवके उपचारो युक्तः | अग्निगुणसादृश्याद् युक्त इति चेत् | एवम् अप्य् अग्निगुणस्यैव तीक्ष्णस्य कपिलस्य वा माणवकगुणे तीक्ष्णे कपिले वा सादृश्याद् उपचारो युक्तो न तु माणवके ऽग्नेर् गुणसादृश्येनासंबन्धात् | तस्माद् द्रव्योपचारो ऽपि नैव युज्यते |
SK
मुख्यो ऽपि पदार्थो नैवास्ति तत्स्वरूपस्य सर्वज्ञानाभिधानविषयातिक्रान्तत्वात् | प्रधाने हि गुणरूपेणैव ज्ञानाभिधाने प्रवर्तेते तत्स्वरूपासंस्पर्शात् | अन्यथा च गुणवैयर्थ्यप्रसङ्गः | न हि ज्ञानाभिधानव्यतिरिक्तो ऽन्यः पदार्थस्वरूपपरिच्छित्त्युपायो ऽस्तीत्य् अतः प्रधानस्वरूपविषयज्ञानाभिधानाभावान् नैव मुख्यः पदार्थो ऽस्तीत्य् अवगन्तव्यम् | एवं यावच् छब्दे संबन्धाभावाज् ज्ञानाभिधानाभाव एवञ् चाभिधानाभिधेयाभावान् नैव मुख्यः पदार्थो ऽस्ति | अपि च सर्व एवायं गौण एव न मुख्यो ऽस्ति | गौणो हि नाम यो यत्राविद्यमानेन रूपेण प्रवर्तते | सर्वश् च शब्दः प्रधाने ऽविद्यमानेनैव गुणरूपेण प्रवर्तते अतो मुख्यो नास्त्य् एव | तत्र यद् उक्तं असत्य् आत्मनि मुख्ये धर्मेषु चोपचारो न युक्त इति तद् अयुक्तम् |
SK
विज्ञानपरिणामः कति प्रभेद इति न ज्ञायते | अतस् तत्प्रभेदोपदर्शनार्थम् आह |
SK
परिणामः स च त्रिधा || १द्
SK
यत्रात्माद्युपचारो धर्मोपचारश् च स पुनर् हेतुभावेन फलभावेन च भिद्यते | तत्र हेतुपरिणामो यालयविज्ञाने विपाकनिष्यन्दवासनापरिपुष्टिः | फलपरिणामः पुनर् विपाकवासनावृत्तिलाभाद् आलयविज्ञानस्य पूर्वकर्माक्षेपपरिसमाप्तौ या निकायसभागान्तरेष्व् अभिनिर्वृत्तिः | निष्यन्दवासनावृत्तिलाभाच् च या प्रवृत्तिविज्ञानानां क्लिष्टस्य च मनस आलयविज्ञानाद् अभिनिर्वृत्तिः | तत्र प्रवृत्तिविज्ञानं कुशलाकुशलम् आलयविज्ञाने विपाकवासनां निष्यन्दवासनाञ् चाधत्ते | अव्याकृतं क्लिष्टञ् च मनो निष्यन्दवासनाम् एव |
SK
यो ऽसौ त्रिविधः परिणाम उक्तो ऽसाव् अपि न ज्ञायते | अतस् तद्भेदप्रदर्शनार्थम् आह |
SK
विपाको मननाख्यश् च विज्ञप्तिर् विषयस्य च | २अब्
SK
इति | स एष त्रिविधः परिणामो विपाकाख्यो मननाख्यो विषयविज्ञप्त्याख्यश् च | तत्र कुशलाकुशलकर्मवासनापरिपाकवशाद् यथाक्षेपं फलाभिनिर्वृत्तिर् विपाकः | क्लिष्टं मनो नित्यं मननात्मकत्वान् मननाख्यम् | रूपादिविषयप्रत्यवभासत्वाच् चक्षुरादिविज्ञानं षट्प्रकारम् अपि विषयविज्ञप्तिः |
SK
तत्स्वरूपनिर्देशम् अन्तरेण न तत् प्रतीयते इत्य् अतो यस्य यत् स्वरूपं तद् यथाक्रमं प्रदर्शयन्न् आह |
SK
तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम् २च्द्
SK
इति | तत्रेति यो ऽयम् अनन्तरोक्तस् त्रिविधः परिणामः | आलयाख्यम् इत्य् आलयविज्ञानसंज्ञकं यद् विज्ञानं स विपाकपरिणामः | तच् च सर्वसांक्लेशिकधर्मबीजस्थानत्वाद् आलयः | आलयः स्थानम् इति पर्यायौ | अथ वालीयन्ते उपनिबध्यन्ते ऽस्मिन् सर्वधर्माः कार्यभावेन तद् वालीयते उपनिबध्यते कारणभावेन सर्वधर्मेष्व् इत्य् आलयः | विजानातीति विज्ञानम् | सर्वधातुगतियोनिजातिषु कुशलाकुशलकर्मविपाकत्वाद् विपाकः | सर्वधर्मबीजाश्रयत्वात् सर्वबीजकम् | यदि प्रवृत्तिविज्ञानव्यतिरिक्तम् आलयविज्ञानम् अस्ति ततो ऽस्यालम्बनम् आकारो वा वक्तव्यः | न हि निरालम्बनं निराकारं वा विज्ञानं युज्यते | नैव तन् निरालम्बनं निराकारं वेष्यते | किं तर्ह्य् [Tव्भ्_५२] अपरिच्छिन्नालम्बनाकारम् | किं कारणम् | यस्माद् आलयविज्ञानं द्विधा प्रवर्तते | अध्यात्मम् उपादानविज्ञप्तितो बहिर्धापरिच्छिन्नाकारभाजनविज्ञप्तितश् च |
SK
तत्राध्यात्मम् उपादानं परिकल्पितस्वभावाभिनिवेशवासना साधिष्ठानम् इन्द्रियरूपं नाम च | अस्यालम्बनस्यातिसूक्ष्मत्वाद्
SK
असंविदितकोपादिस्थानविज्ञप्तिकञ् च तत् | ३अब्
SK
असंविदितक उपादिर् यस्मिन् असंविदितका च स्थानविज्ञप्तिर् यस्मिन् तद् आलयविज्ञानम् असंविदितकोपादिस्थानविज्ञप्तिकम् |
SK
उपादानम् उपादिः | स पुनर् आत्मादिविकल्पवासना रूपादिधर्मविकल्पवासना च | तत्सद्भावाद् आलयविज्ञानेनात्मादिविकल्पो रूपादिविकल्पश् च कार्यत्वेनोपात्त इति तद् वासनात्मादिविकल्पानां रूपादिविकल्पानाञ् चोपादिर् इत्य् उच्यते | सो ऽस्मिन्न् इदं तद् इति प्रतिसंवेदनाकारेणासंविदित इत्य् अतस् तद् असंविदितकोपादिर् इत्य् उच्यते |
SK
आश्रयोपादानञ् चोपादिः | आश्रय आत्मभावः साधिष्ठानम् इन्द्रियरूपं नाम च | तस्य पुनर् यद् उपादानम् उपगमनम् एकयोगक्षेमत्वेन तद् उपादिः |
SK
तत्र कामरूपधात्वोर् द्वयोर् नामरूपयोर् उपादानम् | आरूप्यधातौ तु रूपवीतरागत्वाद् रूपविपाकानभिनिर्वृत्तेर् नामोपादानम् एव | किन् तु वासनावस्थम् एव तत्र रूपं न विपाकावस्थम् | तत् पुनर् उपादानम् इदन्तया प्रतिसंवेदयितुम् अशक्यम् इत्य् अतो ऽसंविदित इत्य् उच्यते |
SK
स्थानविज्ञप्तिर् भाजनलोकसंनिवेशविज्ञप्तिः | साप्य् अपरिच्छिन्नालम्बनाकारप्रवृत्तत्वाद् असंविदितेत्य् उच्यते |
SK
कथं विज्ञानम् अपरिच्छिन्नालम्बनाकारं भविष्यतीति | अन्यविज्ञानवादिनाम् अपि निरोधसमापत्त्याद्यवस्थासु तुल्यम् एतत् | न च निरोधसमापत्त्याद्यवस्थासु विज्ञानं नैवास्तीति शक्यते प्रतिपत्तुम् | युक्तिविरोधात् सूत्रविरोधाच् चेति |
SK
तत्रालयाख्यं विज्ञानम् (२च्)
SK
इत्य् उक्तं विज्ञानञ् चावश्यं चैत्तैः संप्रयुक्तम् इत्य् अतो वक्तव्यं कतमैः कतिभिश् च तेभ्यः संप्रयुज्यते | तथा किं तैः सर्वदा संप्रयुज्यते | उत नेत्य् अत आह |
SK
सदा स्पर्शमनस्कारवित्संज्ञाचेतनान्वितम् ३च्द्
SK
इति | सदेति यावद् आलयविज्ञानं तावद् एभिः स्पर्शमनस्कारवेदनासंज्ञाचेतनाख्यैः पञ्चभिः सर्वत्रगैर् धर्मैर् अन्वितम् | वेदना वित् |
SK
तत्र स्पर्शस् त्रिकसंनिपाते इन्द्रियविकारपरिच्छेदः | वेदनासंनिश्रयदानकर्मकः | इन्द्रियविषयविज्ञानानि त्रीण्य् एव त्रिकम् | तस्य कार्यकारणभावेन समवस्थानं त्रिकसंनिपातः | तस्मिन् सति तत्समकालम् एवेन्द्रियस्य सुखादिवेदनानुकूलो यो विकारस् तेन [Tव्भ्_५६] सदृशो विषयस्य सुखादिवेदनीयाकारपरिच्छेदो यः स स्पर्शः | इन्द्रियं पुनर् येन विशेषेण सुखदुःखादिहेतुत्वं प्रतिपद्यते स तस्य विकारः | स्पर्शः पुनर् इन्द्रियविकारसादृश्येनेन्द्रियं स्पृशतीन्द्रियेण वा स्पृश्यत इति स्पर्श उच्यते | अत एव विषयविकारपरिच्छेदात्मको ऽपीन्द्रियविकारपरिच्छेद उक्तः | वेदनासंनिश्रयत्वम् अस्य कर्म | एवं ह्य् उक्तं सूत्रे सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते सुखं वेदितम् इति विस्तरः |
SK
मनस्कारश् चेतस आभोगः | आभुजनम् आभोगः | आलम्बने येन चित्तम् अभिमुखीक्रियते | स पुनर् आलम्बने चित्तधारणकर्मकः | चित्तधारणं पुनस् तत्रैवालम्बने पुनः पुनश् चित्तस्यावर्जनम् | एतच् च कर्म चित्तसन्ततेर् आलम्बननियमेन विशिष्टं मनस्कारम् अधिकृत्योक्तं न तु यः प्रतिचित्तक्षणं तस्य हि प्रतिक्षणम् एव व्यापारो न क्षणान्तरे |
SK
वेदना अनुभवस्वभावा | सा पुनर् विषयस्याह्लादकपरितापकतदुभयाकारविविक्तस्वरूपसाक्षात्करणभेदात् त्रिधा भवति | सुखा | दुःखा | अदुःखासुखा च |
SK
एवं त्व् अन्ये मन्यन्ते | शुभाशुभानां कर्मणां फलविपाकं प्रत्यनुभवन्त्य् अनेनेत्य् अनुभवः | तत्र शुभानां कर्मणां सुखो ऽनुभवः फलविपाकः | अशुभानां दुःखः | उभयेषाम् अदुःखासुखः |
SK
अत्र चालयविज्ञानम् एव शुभाशुभकर्मविपाकः | तत्संप्रयुक्तैवोपेक्षा परमार्थतः शुभाशुभानां कर्मणां फलविपाकः | सुखदुःखयोस् तु कुशलाकुशलकर्मविपाकजत्वाद् विपाकोपचारः |
SK
तत्र सुखो ऽनुभवो यस्मिन्न् उत्पन्ने वियोगेच्छा निरुद्धे च पुनः संयोगेच्छा जायते | दुःखो ऽनुभवो यस्मिन्न् उत्पन्ने वियोगेच्छा निरुद्धे च पुनर् असंयोगेच्छा | अदुःखासुखो यस्मिन्न् उत्पन्ने निरुद्धे चोभ्यं न जायते |
SK
संज्ञा विषयनिमित्तोद्ग्रहणम् | विषय आलम्बनम् | निमित्तं तद्विशेषो नीलपीताद्यालम्बनव्यवस्थाकारणम् | तस्योद्ग्रहणं निरूपणं नीलम् एतन् न पीतम् इति |
SK
चेतना चित्ताभिसंस्कारो मनसश् चेष्टा यस्यां सत्याम् आलम्बनं प्रति चेतसः प्रस्पन्द इव भवत्य् अयस्कान्तवशाद् अयःप्रस्पन्दवत् |
SK
वेदना त्रिविधा सुखा दुःखा अदुःखासुखा च | धर्माश् चतुः प्रकाराः कुशला अकुशला अनिवृताव्याकृता निवृताव्याकृताश् च | तत्रालयविज्ञाने विद् इति सामान्योपदेशेन न विज्ञायते तिसॄणां वेदनानां कतमा वेदना | तथा तद् अपि किं कुशलम् अकुशलम् अनिवृताव्याकृतं निवृताव्याकृतम् इति न विज्ञायत इत्य् अत आह |
SK
उपेक्षा वेदना तत्रानिवृताव्याकृतञ् च तत् | ४अब्
SK
तत्रेत्य् आलयविज्ञानम् एव प्रकृतत्वात् संबध्यते | उपेक्षैवालयविज्ञाने वेदना न सुखा न दुःखा तयोः परिच्छिन्नालम्बनाकारत्वाद् रागद्वेषानुशयितत्वाच् च |
SK
अनिवृताव्याकृतञ् च तत् | (४ब्)
SK
आलयविज्ञानम् इति प्रकृतम् | तत्रानिवृतग्रहणं निवृतव्यवच्छेदार्थम् | अव्याकृतग्रहणं कुशलाकुशलव्यवच्छेदार्थम् |
SK
मनोभूमिकैर् आगन्तुकैर् उपक्लेशैर् अनावृतत्वाद् अनिवृतम् | विपाकत्वाद् विपाकं प्रति कुशलाकुशलत्वेनाव्याकरणाद् अव्याकृतम् |
SK
तथा स्पर्शादयः | ४च्
SK
यथालयविज्ञानम् एकान्तेन विपाको ऽपरिच्छिन्नालम्बनाकारं सदा स्पर्शादिभिर् अन्वितं तत्र चोपेक्षैव वेदनानिवृताव्याकृतञ् च तथा स्पर्शादयो ऽप्य् एकान्तेन विपाका एवापरिच्छिन्नालम्बनाकाराश् च | आत्मानं हित्वेतरैश् चतुर्भिर् आलयविज्ञानेन च नित्यम् अनुगतास् तेषु चोपेक्षैव वेदनानिवृताव्याकृताश् चालयविज्ञानवत् | न हि विपाकेन संप्रयुक्तानाम् अविपाकत्वम् अपरिच्छिन्नालम्बनाकारेण च परिच्छिन्नालम्बनाकारत्वं संभवति | एवम् अन्यत्रापि वाच्यम् ||
SK
किं पुनस् तद् आलयविज्ञानम् एकम् अभिन्नम् आसंसारम् अनुवर्तते | उत संतानेन | न हि तद् एकम् अभिन्नम् अनुवर्तते क्षणिकत्वात् |
SK
किं तर्हि |
SK
तच् च वर्तते स्रोतसौघवत् || ४द्
SK
तच् चेत्य् आलयविज्ञानम् एव संबध्यते | तत्र स्रोतो हेतुफलयोर् नैरन्तर्यप्रबन्धेन प्रवृत्तिः | उदकसमूहस्य पूर्वापरभागाविच्छेदेन प्रवाह ओघ इत्य् उच्यते | यथा ह्य् ओघस् तृणकाष्ठगोमयादीन् आकर्षयङ् गच्छत्य् एवम् आलयविज्ञानम् अपि पुण्यापुण्यानेञ्ज्यकर्मवासनानुगतं स्पर्शमनस्कारादीन् आकर्षन् स्रोतसासंसारम् अव्युपरतं प्रवर्तत इति |
SK
तस्यैवं श्रोतसा प्रवृत्तस्य कस्याम् अवस्थायां व्यावृत्तिर् इत्य् आह |
SK
तस्य व्यावृत्तिर् अर्हत्त्वे | ५अ
SK
किं पुनर् अर्हत्त्वम् | यद्योगाद् अर्हन्न् इत्य् उच्यते | कस्य पुनर् योगाद् अर्हन्न् इत्य् उच्यते | क्षयज्ञानानुत्पादज्ञानलाभात् | तस्यां ह्य् अवस्थायाम् आलयविज्ञानाश्रितदौष्ठुल्यनिरवशेषप्रहाणाद् आलयविज्ञानं व्यावृत्तं भवति | सैव चार्हदवस्था | उक्तः सविभङ्गो विपाकपरिणामः |
SK
इदानीं मननाख्यां द्वितीयं परिणामम् आह | तद् आश्रित्य प्रवर्तत इति विस्तरः | तत्र यथा चक्षुरादिविज्ञानानां चक्षुरादय आश्रयत्वेन रूपादयश् चालम्बनत्वेन प्रसिद्धा नैव क्लिष्टस्य मनस आश्रय आलम्बनं वा प्रसिद्धम् |
SK
न च विज्ञानम् आश्रयालम्बननिरपेक्षं युज्यत इत्य् अतः क्लिष्टस्य मनस आश्रयालम्बनप्रतिपादनार्थं निरुक्तिप्रतिपादनार्थञ् चाह |
SK
तद् आश्रित्य प्रवर्तते | तदालम्बं मनोनाम विज्ञानं मननात्मकम् || ५ब्च्द्
SK
तद् आश्रित्य प्रवर्तत इति तच्छब्देनालयविज्ञानम् अभिसंबध्यते | तद्वासनाश्रयो ह्य् आलयविज्ञानम् अतस् तद् आश्रित्य प्रवर्तते सन्तानेनोत्पद्यत इत्य् अर्थः | अथ वा यस्मिन् धातौ भूमौ वालयविज्ञानं विपाकस् तद् अपि क्लिष्टं मनस् तद्धातुकं तद्भूमिकं चेति तत्प्रतिबद्धवृत्तित्वात् तद् आश्रित्य प्रवर्तते |
SK
तदालम्बम् इत्य् आलयविज्ञानालम्बनम् एव सत्कायदृष्ट्यादिभिः संप्रयोगाद् अहं ममेत्य् आलयविज्ञानालम्बनत्वात् | कथं पुनर् यत एव चित्ताद् उत्पद्यते तद् एव तदालम्बनं भवति | यथा तद् अनिच्छतां केषांचित् कस्याञ्चिद् अवस्थायां यत एव चित्तान् मनोविज्ञानम् उत्पद्यते तदालम्बनम् एव तद् उत्पद्यते |
SK
मनोनाम विज्ञानम् इति मन इति नाम आख्या यस्य विज्ञानस्य तद् आलयविज्ञानम् आश्रित्य प्रवर्ते तदालम्बनं च मनोनामेत्य् अनेनालयविज्ञानात् प्रवृत्तिविज्ञानाच् च व्यवच्छिनत्ति | तत् पुनः किं स्वभावम् इत्य् आह | मननात्मकम् इति | एवं मननात्मकत्वान् मन इत्य् उच्यते नैरूक्तेन विधिना |
SK
विज्ञानस्वरूपत्वाद् अवश्यं तच् चैत्तैः संप्रयुज्यते | इदं तु न ज्ञायते कतमैस् तच् चैत्तैः कियद्भिः कियन्तं कालं वा संप्रयुज्यत इत्य् अत आह |
SK
क्लेशैश् चतुर्भिः सहितं निवृताव्याकृतैः सदा | ६अब्
SK
चैत्ता हि द्विप्रकाराः क्लेशास् तद् अन्ये च | तदन्येभ्यो व्यवच्छेदार्थम् आह क्लेशैर् इति | क्लेशा अपि षट् | न च तैः संप्रयुज्यते ऽतश् चतुर्भिर् इत्य् आह | सहितम् इति संप्रयुक्तम् |
SK
क्लेशा अपि द्विविधाः | अकुशला निवृताव्याकृताश् च | अकुशलेभ्यो विशेषार्थम् आह निवृताव्याकृतैर् इति | न हि निवृतेन विज्ञानेनाकुशलानां संप्रयोगः संभवति | निवृताः क्लिष्टत्वात् | अव्याकृताः कुशलाकुशलत्वेनाव्याकरणात् | सदेति सर्वकालम् | यावत् तद् अस्ति तावत् तैः संप्रयुक्तम् |
SK
सामान्यनिर्देशाद् विशेषतो न ज्ञायन्त इति विशेषतो निर्दिशति |
SK
आत्मदृष्ट्यात्ममोहात्ममानात्मस्नेहसंज्ञितैः || ६च्द्
SK
उपादानस्कन्धेष्व् आत्मेति दर्शनम् आत्मदृष्टिः सत्कायदृष्टिर् इत्य् अर्थः | मोहो ऽज्ञानम् | आत्मन्य् अज्ञानम् आत्ममोहः | आत्मविषये मान आत्ममानो ऽस्मिमान इत्य् अर्थः | आत्मनि स्नेह आत्मस्नेह आत्मप्रेमेत्य् अर्थः | तत्रालयविज्ञानस्वरूपे संमूढः सन्न् आलयविज्ञाने आत्मदृष्टिम् उत्पादयति | आत्मदर्शनाद् या चित्तस्योन्नतिः सो ऽस्मिमानः | एतस्मिंस् त्रये सत्य् आत्माभिमते वस्तुनि यो ऽभिष्वङ्गः स आत्मस्नेहः |
SK
आह च |
SK
अविद्यया चात्मदृष्ट्या चास्मिमानेन तृष्णया | एभिश् चतुर्भिः संक्लिष्टं मननालक्षणं मनः ||
SK
विपर्यासनिमित्तं तु मनः क्लिष्टं सदैव तत् | कुशलाव्याकृते चित्ते सदाहङ्कारकारणम् ||
SK
एते ह्य् आत्ममोहादयः क्लेशा मनोवन् नवभूमिकाः |
SK
इह च सामान्येनाभिधानान् न ज्ञायते किं स्वभूमिकैर् एव संप्रयुज्यते | उतान्यभूमिकैर् अपीत्य् अत आह |
SK
यत्रजस् तन्मयैर् ७अ
SK
इति | यत्र जातो यत्रजः | तन्मयैर् इति यत्र धातौ भूमौ वा जातस् तद्धातुकैस् तद्भूमिकैर् एव च संप्रयुज्यते | नान्यधातुकैर् अन्यभूमिकैर् वा |
SK
किं पुनश् चतुर्भिर् एव क्लेशैः संप्रयुज्यते | नेत्य् आह |
SK
अन्यैः स्पर्शाद्यैश् च | ७ब्
SK
संप्रयुज्यत इति संबध्यते | चशब्दः समुच्चयार्थः | स्पर्शाद्यैर् इति स्पर्शमनस्कारवेदनासंज्ञाचेतनाभिः | एते हि पञ्च धर्माः सर्वत्रगत्वात् सर्वविज्ञानैः संप्रयुज्यन्ते | एतैर् अपि यत्र जातस् तन्मयैर् एव संप्रयुज्यते नान्यधातुभूमिकैः |
SK
अथ वान्यैर् इति मूलविज्ञानसंप्रयुक्तेभ्यो व्यवच्छेदार्थम् | मूलविज्ञाने ह्य् अनिवृताव्याकृताः स्पर्शादयः | क्लिष्टे तु मनसि मनोवन् निवृताव्याकृताः |
SK
यदि तत् क्लिष्टं मनः कुशलक्लिष्टाव्याकृतावस्थास्व् अविशेषेण प्रवर्तते न तस्य तर्हि निवृत्तिर् अस्ति | अनिवृत्ते च तस्मिन् कुतो मोक्ष इति कथं न मोक्षाभावः प्रसज्यते | न प्रसज्यते यस्माद्
SK
अर्हतो न तत् | न निरोधसमापत्तौ मार्गे लोकोत्तरे न च || ७ब्च्द्
SK
अर्हतस् तावद् अशेषक्लेशप्रहाणात् क्लिष्टं मनो नैवास्ति | तद् धि भावाग्रिकभावनाप्रहातव्यक्लेशवद् अर्हत्त्वप्राप्त्यानन्तर्यमार्गेणैव प्रहीयते | तद् अन्यक्लेशवद् अर्हत्त्वावस्थायान् नैव विद्यते | आकिञ्चन्यायतनवीतरागस्याप्य् अनागामिनो निरोधसमापत्तिलाभिनो मार्गबलेन निरोधसमापत्तेर् लभ्यत्वां मार्गवन् निरोधसमापत्त्यवस्थायाम् अपि निरुध्यते | निरोधाच् च व्युत्थितस्य पुनर् आलयविज्ञानाद् एव प्रवर्तते |
SK
मार्गे लोकोत्तरे न चेति (७द्)
SK
लोकोत्तरग्रहणं लौकिकव्यवच्छेदार्थम् | लौकिके तु मार्गे क्लिष्टं मनः प्रवर्तत एव | नैरात्म्यदर्शनस्यात्मदर्शनप्रतिपक्षत्वान् न लोकोत्तरमार्गे प्रवर्तितुम् उत्सहेत | विपक्षप्रतिपक्षयोर् अयौगपद्याल् लोकोत्तरमार्गे तन् निरुध्यते | तस्माद् अपि व्युत्थितस्य पुनर् आलयविज्ञानाद् एवोत्पद्यते |
SK
द्वितीयः परिणामो ऽयम् ८अ
SK
उद्दिष्टो निदिष्टश् चेति निगमयति |
SK
द्वितीयपरिणामान्तरं तृतीयः परिणामो वक्तव्य इत्य् अत आह |
SK
तृतीयः षड्विधस्य या | विषयस्योपलब्धिः सा ८ब्च्
SK
तृतीयो विज्ञानपरिणाम इति वाक्यशेषः | षड्विधस्येति षट्प्रकारस्य रूपशब्दगन्धरसस्प्रष्टव्य धर्मात्मकस्य विषयस्य या उपलब्धिर् ग्रहणं प्रतिपत्तिर् इत्य् अर्थः |
SK
सा पुनः किं कुशलाकुशलाव्याकृतेत्य् अत आह |
SK
कुशलाकुशलाद्वया || ८द्
SK
कुशलाकुशलाद्वयेत्य् अव्याकृतापि | अलोभाद्वेषामोहैः संप्रयुक्ता कुशला | लोभद्वेषमोहैः संप्रयुक्ताकुशला | कुशलाकुशलैर् असंप्रयुक्ताद्वया न कुशला नाकुशलेत्य् अर्थः |
SK
सा पुनः कीदृशैश् चैतसिकैः संप्रयुज्यते | कियन्तो वा तत्संप्रयोगिणश् चैतसिका इत्य् अत आह |
SK
सर्वत्रगैर् विनियतैः कुशलैश् चैतसैर् असौ | संप्रयुक्ता तथा क्लेशैर् उपक्लेशैस् त्रिवेदना || ९
SK
य एते सर्वत्रगादय उद्दिष्टास् ते न विज्ञायन्त इत्य् अतस् तत्प्रदर्शनार्थम् आह |
SK
अद्याः स्पर्शादयः | १०अ
SK
आदौ निर्दिष्टत्वाद् आद्याः सर्वत्रगा इत्य् अर्थः | तथा हि |
SK
सदास्पर्शमनस्कारवित्संज्ञाचेतनान्वितम् (३च्द्)
SK
इति प्रथमतो निर्दिष्टाः | स्पर्श एषाम् आदिर् इति स्पर्शादयः | ते पुनः स्पर्शमनस्कारादयः पञ्च धर्माः सर्वचित्तम् अनुगच्छन्तीति सर्वत्रगाः | तथा ह्य् एत आलयविज्ञाने क्लिष्टे मनसि प्रवृत्तिविज्ञानेषु चाविशेषेण प्रवर्तन्ते |
SK
विनियतान् अधिकृत्याह |
SK
छन्दाधिमोक्षस्मृतयः सह | समाधिधीभ्यां नियताः | १०ब्च्
SK
विशेषे नियतत्वाद् विनियताः | एषां हि विशेष एव विषयो न सर्वः |
SK
तत्र छन्दो ऽभिप्रेते वस्तुन्य् अभिलाषः | अभिप्रेते वस्तुन्य् अभिलाष इति प्रतिनियतविषयत्वं ज्ञापितं भवत्य् अनभिप्रेते छन्दाभावात् | दर्शनश्रवणादिक्रियाविषयत्वेन यद् अभिमतं वस्तु तद् अभिप्रेतम् | तत्र दर्शनश्रवणादिप्रार्थना छन्दः | स च वीर्यारम्भसंनिश्रयदानकर्मकः |
SK
अधिमोक्षो निश्चिते वस्तुनि तथैवावधारणम् | निश्चितग्रहणम् अनिश्चितप्रतिषेधार्थम् | युक्तित आप्तोपदेशतो वा यद् वस्तु असंदिग्धं तन् निश्चितम् | येनैवाकारेण तन् निश्चितम् अनित्यदुःखाद्याकारेण तेनैवाकारेण तस्य वस्तुनश् चेतस्य् अभिनिवेशनम् | एवम् एतन् नान्यथेत्य् अवधारणम् अधिमोक्षः | स चासंहार्यताकर्मकः | अधिमुक्तिप्रधानो हि स्वसिद्धान्तात् परप्रवादिभिर् अपहर्तुं न शक्यते |
SK
स्मृतिः संस्तुते वस्तुन्य् असंप्रमोषश् चेतसो ऽभिलपनता | संस्तुतं वस्तु पूर्वानुभूतम् | आलम्बनग्रहणाविप्रणाशकारणत्वाद् असंप्रमोषः | पूर्वगृहीतस्य वस्तुनः पुनः पुनर् आलम्बनाकारस्मरणम् अभिलपनता | अभिलपनम् एवाभिलपनता | सा पुनर् अविक्षेपकर्मिका | आलम्बनाभिलपने सति चित्तस्यालम्बनान्तर आकारान्तरे वा विक्षेपाभावाद् अविक्षेपकर्मिका |
SK
समाधिर् उपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता | उपपरीक्ष्यं वस्तु गुणतो दोषतो वा | एकाग्रता एकालम्बनता | ज्ञानसंनिश्रयदानकर्मकः | समाहिते चित्ते यथाभूतपरिज्ञानात् |
SK
धीः प्रज्ञा | साप्य् उपपरीक्ष्य एव वस्तुनि प्रविचयो योगायोगविहितो ऽन्यथा वेति | प्रविचिनोतीति प्रविचयः | यः सम्यङ् मिथ्या वा संकीर्णस्वसामान्यलक्षणेष्व् इव धर्मेषु विवेकावबोधः | युक्तिर् योगः | स पुनर् आप्तोपदेशो ऽनुमानं प्रत्यक्षञ् च | तेन त्रिप्रकारेण योगेन यो जनितः स योगविहितः | स पुनः श्रुतमयश् चिन्तामयो भावनामयश् च |
SK
तत्राप्तवचनप्रामाण्याद् यो ऽवबोधः स श्रुतमयः | युक्तिनिध्यानजश् चिन्तामयः | समाधिजो भावनामयः |
SK
अयोगो ऽनाप्तोपदेशो ऽनुमानाभासो मिथ्या प्रणिहितश् च समाधिः | तेनायोगेन जनितो ऽयोगविहितः | उपपत्तिप्रतिलम्भिको लौकिकव्यवहारावबोधश् च न योगविहितो नायोगविहितः | एषा च संशयव्यावर्तनकर्मिका | संशयव्यावर्तनं प्रज्ञया धर्मान् प्रविचिन्वतो निश्चयलाभाद् इति |
SK
एते हि पञ्च धर्माः परस्परं व्यतिरिच्यापि प्रवर्तन्ते | एवञ् च यत्राधिमोक्षस् तत्र नावश्यम् इतरैर् अपि भवितव्यम् | एवं सर्वत्र वाच्यम् | उक्ता विनियताः ||
SK
तदनन्तरोद्दिष्टास् त्व् इदानीं कुशला वक्तव्या इत्य् अत आह |
SK
श्रद्धाथ ह्रीर् अपत्रपा || १०द्
SK
अलोभादित्रयं वीर्यं प्रश्रब्धिः साप्रमादिका | आहिंसा कुशलाः | ११अब्च्
SK
एत एकादश धर्मा इति वाक्यशेषः |
SK
तत्र श्रद्धा अस्तित्वगुणवत्त्वशक्यत्वेषु कर्मफलसत्यरत्नेष्व् अभिसंप्रत्ययः प्रसादश् चेतसो ऽभिलाषः | श्रद्धा हि त्रिधा प्रवर्तते | सति वस्तुनि गुणवत्य् अगुणवति वा संप्रत्ययाकारा | सति गुणवति च प्रसादाकारा | सति गुणवति च प्राप्तुम् उत्पादयितुं वा शक्ये ऽभिलाषाकारा | चेतसः प्रसाद इति | श्रद्धा हि चित्तकालुष्यवैरोधिकीत्य् अतस् तत्संप्रयोगे क्लेशोपक्लेशमलकालुष्यविगमाच् चित्तं श्रद्धाम् आगम्य प्रसीदतीति चेतसः प्रसाद उच्यते | सा पुनश् छन्दसंनिश्रयदानकर्मिका |
SK
ह्रीर् आत्मानं धर्मं वाधिपतिं कृत्वावद्येन लज्जा | सद्भिर् गर्हितत्वाद् अनिष्टविपाकत्वाच् च पापम् एवावद्यम् | तेनावद्येन कृतेनाकृतेन वा या चित्तस्यावलीनता लज्जा सा ह्रीः | इयं च दुश्चरितसंयमसंनिश्रयदानकर्मिका |
SK
अपत्राप्यं लोकम् अधिपतिं कृत्वावद्येन लज्जा | लोके ह्य् एतद् गर्हितं मां चैवं कर्माणं विदित्वा गर्हिष्यतीत्य् अश्लोकादिभयाद् अवद्येन लज्जते | इदम् अपि दुश्चरितसंयमसंनिश्रियदानकर्मकम् |
SK
अलोभो लोभप्रतिपक्षः | लोभो नाम भवे भवोपकरणेषु च यासक्तिः प्रार्थना च | तत्प्रतिपक्षो ऽलोभो भवे भवोपकरणेषु वानासक्तिः वैमुख्यञ् च | अयञ् च दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः |
SK
अद्वेषो द्वेषप्रतिपक्षो मैत्री | द्वेषो हि सत्त्वेषु दुःखे दुःखस्थानीयेषु च धर्मेष्व् आघातः | अद्वेषो द्वेषप्रतिपक्षत्वात् सत्त्वेषु दुःखे दुःखस्थानीयेषु च धर्मेष्व् अनाघातः | अयम् अपि दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः |
SK
अमोहो मोहप्रतिपक्षो यथाभूतसंप्रतिपत्तिः | मोहः कर्मफलसत्यरत्नेष्व् अज्ञानम् | मोहप्रतिपक्षत्वाद् अमोहस् तेष्व् एव कर्मफलसत्यरत्नेषु संप्रतिपत्तिः | अयम् अपि दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः |
SK
वीर्यं कौसीद्यप्रतिपक्षः कुशले चेतसो ऽभ्युत्साहः | न तु क्लिष्टे | क्लिष्टे तूत्साहः कुत्सितत्वात् कौसीद्यम् एव | एतच् च कुशलपक्षपरिपूरणपरिनिष्पादनकर्मकम् |
SK
प्रश्रब्धिर् दौष्ठुल्यप्रतिपक्षः कायचित्तकर्मण्यता | दौष्ठुल्यं कायचित्तयोर् अकर्मण्यता सांक्लेशिकधर्मबीजानि च | तदपगमे प्रश्रब्धिसद्भावात् | तत्र कायकर्मण्यता कायस्य स्वकार्येषु [Tव्भ्_८०] लघुसमुत्थानता यतो भवति | चित्तकर्मण्यता सम्यङ्मनसिकारसंप्रयुक्तस्य चित्तस्याह्लादलाघवनिमित्तं यच् चैतसिकं धर्मान्तरं यद्योगाच् चित्तम् अव्याहतम् आलम्बने प्रवर्तते ऽतस् तच् चित्तकर्मण्यतेत्य् उच्यते | कायस्य पुनः स्प्रष्टव्यविशेष एव प्रीत्याहृतः कायप्रश्रब्धिर् वेदितव्या | प्रीतमनसः कायः प्रश्रभ्यत इति सूत्रे वचनात् | इयं तद्वशेनाश्रयपरावृत्तितो ऽशेषक्लेशावरणनिष्कर्षणकर्मिका |
SK
साप्रमादिका | सहाप्रमादेन प्रवर्तत इति साप्रमादिका | का पुनर् असौ | उपेक्षा | कुत एतत् | एकान्तकुशलत्वात् सर्वकुशलानां चेह निर्देशाधिकाराच् छ्रद्धादिवत् साक्षाद् अनिर्देशात् तद्व्यतिरिक्तान्यकुशलाभावाच् चोपेक्षैव विज्ञायते |
SK
तत्राप्रमादः प्रमादप्रतिपक्षः | अलोभाद् यावद् वीर्यम् अप्रमादः | यान् अलोभादीन् निश्रित्याकुशलान् धर्मान् प्रजहाति तत्प्रतिपक्षांश् च कुशलान् धर्मान् भावयति ते ऽलोभादयो ऽप्रमादः | अत एव प्रमादप्रतिपक्षः प्रमादस्यातो विपरीतत्वात् | स पुनर् लौकिकलोकोत्तरसंपत्तिपरिपूरणकर्मकः |
SK
उपेक्षा चित्तसमता चित्तप्रशठता चित्तानाभोगता | एभिस् त्रिभिः [Tव्भ्_८२] पदैर् उपेक्षाया आदिमध्यावसानावस्था द्योतिता | तत्र लयौद्धत्यं वा चेतसो वैषम्यम् | तस्याभावाद् आदौ चित्तसमता | ततो ऽनभिसंस्कारेणाप्रयत्वेन समाहितस्य चेतसो यथायोगं समस्यैव या प्रवृत्तिः सा चित्तप्रशठता | सा पुनर् अवस्था लयौद्धत्यशङ्कानुगताचिरभावितत्वात् | ततो भावनाप्रकर्षगमनात् तद्विपक्षदूरीभावात् तच्छङ्काभावे लयौद्धत्यप्रतिपक्षनिमित्तेष्व् आभोगम् अकुर्वतो ऽनाभोगावस्था चित्तस्यानाभोगता | इयञ् च सर्वक्लेशोपक्लेशानवकाशसंनिश्रयदानकर्मिका |
SK
अविहिंसा विहिंसाप्रतिपक्षः | वधबन्धनादिभिः सत्त्वानाम् अविहेठनम् अविहिंसा सत्त्वेषु करुणा | कं रुणद्धीति करुणा | कम् इति सुखस्याख्या सुखं रुणद्धीत्य् अर्थः | कारुणिको हि परदुःखदुःखी भवतीति | इयं चाविहेठनकर्मिका | उक्ता एकादश कुशलाः |
SK
तदनन्तरोद्दिष्टास् तु क्लेशा इत्य् अतस् तान् अधिकृत्याह |
SK
क्लेशा रागप्रतिघमूढयः || ११द्
SK
मानदृग्विचिकित्साश् च १२अ
SK
इति | रागश् च प्रतिघश् च मूढिश् च रागप्रतिघमूढयः |
SK
तत्र रागो भवभोगयोर् अध्यवसानं प्रार्थना च | स पुनर् दुःखसंजननकर्मकः | दुःखम् अत्रोपादानस्कन्धास् तेषां कामरूपारूप्यतृष्णावशाद् अभिनिर्वृत्तेः | अतो रागस्य दुःखसंजननं कर्म निर्दिश्यते |
SK
प्रतिघः सत्त्वेष्व् आघातः सत्त्वेषु रूक्षचित्तता येनाविष्टः सत्त्वानां वधबन्धनादिकम् अनर्थञ् चिन्तयति | स पुनर् अस्पर्शविहारदुश्चरितसंनिश्रियदानकर्मकः | स्पर्शः सुखम् | तेन सहितो विहारः स्पर्शविहारः | न स्पर्शविहारो ऽस्पर्शविहारः | दुःखसहित इत्य् अर्थः | आघातचित्तस्यावश्यं दौर्मनस्यसमुदाचाराच् चित्तं तप्यते | चित्तानुविधानाच् च कायो ऽपि तप्यत एवेति सर्वेर्यापथेषु सदुःखसविघातो ऽस्पर्शविहारो भवति | प्रतिहतचित्तस्य च न किञ्चिद् दुश्चरितं विदूर इति प्रतिघो ऽस्पर्शविहारदुश्चरितसंनिश्रयदानकर्मक उक्तः |
SK
मोहो ऽपायेषु सुगतौ निर्वाणे तत्प्रतिष्ठापाकेषु हेतुषु तेषां चाविपरीते हेतुफलसंबन्धे यद् अज्ञानम् | अयञ् च संक्लेशोत्पत्तिसंनिश्रियदानकर्मकः | तत्र क्लेशकर्मजन्मात्मकस् त्रिविधः संक्लेशः | तस्योत्पत्तिः पूर्वपूर्वसंक्लेशनिमित्ताद् उत्तरोत्तरस्य संक्लेशस्यात्मलाभः | तस्योत्पत्तेः संनिश्रयदानकर्म | [Tव्भ्_८६] मूढस्यैव हि मिथ्याज्ञानसंशयरागादिक्लेशपौनर्भविककर्मजन्मनां प्रवृत्तेर् नामूढस्येति |
SK
मानः | मानो हि नाम सर्व एव सत्कायदृष्टिसमाश्रयेण प्रवर्तते | स पुनश् चित्तस्योन्नतिलक्षणः | तथा ह्य् आत्मात्मीयभावं स्कन्धेष्व् अध्यारोप्यायम् अहम् इदं ममेत्य् आत्मानं तेन तेन विशेषेणोन्नमयति | अन्येभ्यो ऽधिकं मन्यते | स चागौरवदुःखोत्पत्तिसंनिश्रयदानकर्मकः | अगौरवं गुरुषु गुणवत्सु च पुद्गलेषु स्तब्धता कायवाचोर् अप्रश्रितिता दुःखोत्पत्तिः पुनर् अत्र पुनर्भवोत्पत्तिः | स च पुनश् चित्तोन्नतिस्वरूपाभेदे ऽपि चित्तोन्नतिनिमित्तभेदात् सप्तधा भिद्यते | मानो ऽतिमान इत्य् एवमादि |
SK
हीनात् कुलविज्ञानवित्तादिभिः श्रेयान् अस्मि कुलविज्ञानवित्तादिभिर् इति या चित्तस्योन्नतिः सदृशेन वा कुलादिभिर् एव सदृशो ऽस्मीति या चित्तस्योन्नतिः स मानः |
SK
अतिमानः | कुलविज्ञानवित्तादिभिः सदृशात् त्यागशीलपौरुषादिभिः श्रेयान् अस्मि श्रेयसा वा कुलविद्यादिभिः सदृशो ऽस्मि विज्ञानवित्तादिभिर् इत्य् अयम् अतिमानः |
SK
श्रेयसः कुलविज्ञानवित्तैर् अहम् एव श्रेयान् अस्मि कुलविज्ञानवित्तैर् इति या चित्तस्योन्नतिर् अयं मानातिमानः |
SK
अस्मिमानः | पञ्चसूपादानस्कन्धेष्व् आत्मात्मीयरहितेष्व् आत्मात्मीयाभिनिवेशाद् या चित्तस्योन्नतिः सो ऽस्मिमानः |
SK
अभिमानः | अप्राप्त उत्तरे विशेषाधिगमे प्राप्तो मयेति या चित्तस्योन्नतिः सो ऽभिमानः |
SK
ऊनमानः | बह्वन्तरविशिष्टात् कुलविद्यादिभिर् अल्पान्तरहीनो ऽस्मि कुलविद्यादिभिर् इति या चित्तस्योन्नतिर् अयम् ऊनमानः |
SK
मिथ्यामानः | अगुणवतो गुणवान् अस्मीति या चित्तस्योन्नतिः स मिथ्यामानः | अगुणा हि दौःशील्यादयस् ते यस्य विद्यन्ते सो ऽगुणवान् | तस्माद् गुणवान् अस्मीत्य् अनेन हि दानशीलाद्यभावे ऽपि गुणवत्त्वम् अभ्युपगतं भवतीत्य् अतो निर्वस्तुकत्वान् मिथ्यामान इत्य् उच्यते |
SK
दृग् इति सामान्यनिर्देशे ऽपि क्लेशाधिकारात् पञ्चैव क्लेशात्मिकाः सत्कायदृष्ट्यादिका दृष्टयः संबध्यन्ते | न लौकिकी सम्यग्दृष्टिर् अनास्रवा वा | आसां तु क्लिष्टनितीरणाकारत्वाद् अविशेषे ऽप्य् आलम्बनाकारभेदात् परस्परतो भेदः |
SK
तत्र सत्कायदृष्टिर् यत् पञ्चसूपादानस्कन्धेष्व् आत्मात्मीयदर्शनम् |
SK
अन्तग्राहदृष्टिस् तेष्व् एव पञ्चसूपादानस्कन्धेष्व् आत्मात्मीयत्वेन गृहीतेषु यद् उच्छेदतः शाश्वततो वा दर्शनम् |
SK
मिथ्यादृष्टिः | यया मिथ्यादृष्ट्या हेतुं वापवदति फलं क्रियां वा सद् वा वस्तु नाशयति सा सर्वदर्शनपापत्वान् मिथ्यादृष्टिर् इत्य् उच्यते |
SK
दृष्टपरामर्शः पञ्चसूपादानस्कन्धेष्व् अग्रतो विशिष्टतः श्रेष्ठतः परमतश् च यद् दर्शनम् |
SK
शिलव्रतपरामर्शः पञ्चसूपादानस्कन्धेषु शुद्धितो मुक्तितो नैर्याणिकतश् च यद् दर्शनम् |
SK
विचिकित्सा | कर्मफलसत्यरत्नेषु विमतिः | विविधा मतिर् विमतिः स्यान् न स्याद् इति | प्रज्ञातश् चेयं जात्यन्तरम् एवोक्ता |
SK
उक्ताः षट्क्लेशास् तदनन्तरोद्दिष्टास् त्व् इदानीम् उपक्लेशा वक्तव्या इत्य् अत आह |
SK
क्रोधोपनाहने पुनः | म्रक्षः प्रदाश ईर्ष्याथ मात्सर्यं सह मायया || १२ब्च्द्
SK
शाठ्यं मदो ऽविहिंसाह्रीर् अत्रपा स्त्यानम् उद्धतः | आश्रद्ध्यम् अथ कौसीद्यं प्रमादो मुषिता स्मृतिः || १३
SK
विक्षेपो ऽसंप्रजन्यञ् च कौकृत्यं मिद्धम् एव च | वितर्कश् च विचारश् चेत्य् उपक्लेशा द्वये द्विधा || १४
SK
तत्र क्रोधो वर्तमानम् अपकारम् आगम्य यश् चेतस आघातः | अयं चाघातस्वरूपत्वात् प्रतिघान् न भिद्यते | किं त्व् अस्य प्रतिघस्यावस्थाविशेषे प्रज्ञप्तत्वात् प्रतिघांशिकः | वर्तमानम् अपकारम् आगम्य यश् चेतस आघातः सत्त्वासत्त्वविषयो दण्डदानादिसंनिश्रयदानकर्मकश् च स क्रोध इति प्रज्ञप्यते |
SK
उपनाहो वैरानुबन्धः | क्रोधाद् ऊर्ध्वं ममानेनेदम् अपकृतम् इत्य् अस्य वैरात्मकस्यानुशयस्यानुत्सर्गः प्रबन्धेन प्रवर्तनम् उपनाहः | अयञ् चाक्षान्तिसंनिश्रयदानकर्मकः | अक्षान्तिर् अपकारामर्षणं प्रत्यपकारचिकीर्षा च | अयम् अपि क्रोधवत् प्रद्वेषावस्थाविशेषे प्रज्ञप्यते | अतः प्रज्ञप्तिसन्न् एव वेदितव्यः |
SK
म्रक्ष आत्मनो ऽवद्यप्रच्छादना | छन्दद्वेषभयादीन् निराकृत्य काले तद्धितैषिणा चोदकेन तत् त्वम् एवंकारीत्य् अनुयुक्तस्य मोहांशिक्य् अवद्यप्रच्छादना म्रक्षः | मोहांशिकत्वं तु म्रक्षस्य प्रच्छादनाकारत्वात् | अयञ् च कौकृत्यास्पर्शसंनिश्रयदानकर्मकः | [Tव्भ्_९२] धर्मतैषा यद् अवद्यं प्रच्छादयतः कौकृत्यम् उत्पद्यते कौकृत्याच् चावश्यं दौर्मनस्येन संप्रयोगाद् अस्पर्शविहार इति |
SK
प्रदाशश् चण्डवचोदाशिता | चण्डं वचः प्रगाढं पारुष्यं मर्मघट्टनयोगेन | दशनशीलो दाशी | तद्भावो दाशिता | अयञ् च भावप्रत्ययः स्वार्थिकः | चण्डेन वचसा प्रदशतीति चण्डवचोदाशिता | अयञ् च क्रोधोपनाहपूर्वकश् चेतस आघातस्वभाव इति प्रतिघांशिक एव न द्रव्यतो विद्यते | अयञ् च वाग्दुश्चरितप्रसवकर्मकः | अस्पर्शविहारकर्मकश् च तद्वतः पुद्गलस्य दुःखसंवासत्वात् |
SK
ईर्ष्या परसंपत्तौ चेतसो व्यारोषः | लाभसत्काराध्यवसितस्य लाभसत्कारकुलशीलश्रुतादीन् गुणविशेषान् परस्योपलभ्य द्वेषांशिको ऽमर्षकृतश् चेतसो व्यारोष ईर्ष्या | स्वम् आश्रयं व्याप्य रोषो व्यारोषः | दौर्मनस्यसंप्रयोगात् तत्पूर्वकश् चास्पर्शविहार इति दौर्मनस्यास्पर्शविहारकर्मिकोच्यते |
SK
मात्सर्यं दानविरोधी चेतस आग्रहः | उपात्तं वस्तु धर्मामिषकौशलात्मकं येन पूजानुग्रहकाम्ययार्थिने ऽनर्थिने वा दीयते तद् दानम् | तस्मिन् सति दानाभावात् तद्विरोधीत्य् उच्यते | लाभसत्काराध्यवसितस्य जीवितोपकरणेषु रागांशिकश् चेतस आग्रहो ऽपरित्यागेच्छा मात्सर्यम् | इदं चासंलेखसंनिश्रयदानकर्मकम् | असंलेखः पुनर् मात्सर्येणानुपयुज्यमानानाम् अप्य् उपकरणानां संनिचयाद् वेदितव्यः |
SK
माया परवञ्चनायाभूतार्थसंदर्शनता | लाभसत्कारध्यवसितस्य परवञ्चनाभिप्रायेणान्यथावस्थितस्य शीलादेर् अर्थस्यान्यथा प्रकाशना | इयञ् च सहिताभ्यां रागमोहाभ्याम् अभूतान् गुणान् प्रकाशयतस् तयोः समुदितयोः प्रज्ञप्यत इति क्रोधादिवत् प्रज्ञप्तित एव न द्रव्यत इति मिथ्याजीवसंनिश्रयदानकर्मिका |
SK
शाठ्यं स्वदोषप्रच्छादनोपायसंगृहीतञ् चेतसः कौटिल्यम् | स्वदोषप्रच्छादनोपायः परव्यामोहनम् | तत् पुनर् अन्येनान्यत् प्रतिसरन् विक्षिपत्य् अपरिस्फुटं वा प्रतिपद्यते | अत एव शाठ्यं म्रक्षाद् भिद्यते | स हि स्फुटम् एव प्रच्छादयति न काक्वा | इदम् अपि लाभसत्काराध्यवसितोपायाभ्यां रागमोहाभ्यां स्वदोषप्रच्छादनार्थं परव्यामोहनाय प्रवर्तते | तयोर् एव सहितयोः प्रज्ञप्यते | इदञ् च सम्यगववादलाभपरिपन्थकर्मकम् | सम्यगववादस्य यो लाभो योनिशो मनसिकारस् तस्यान्तरायं करोति |
SK
मदः स्वसंपत्तौ रक्तस्योद्धर्षश् चेतसः पर्यादानम् | कुलारोग्ययौवनबलरूपैश्वर्यबुद्धिमेधाप्रकर्षः स्वसंपत्तिः | उद्धर्षो हर्षविशेषः | येन हर्षविशेषेण चित्तम् अस्वतन्त्रीक्रियते तेन तदात्मतन्त्रीकरणात् पर्यात्तं भवतीत्य् एतद् उक्तञ् चेतसः पर्यादानम् इति | अयञ् च सर्वक्लेशोपक्लेशसंनिश्रयदानकर्मकः |
SK
विहिंसा सत्त्वविहेठना | विविधैर् वधबन्धनताडनतर्जनादिभिः सत्त्वानां हिंसा विहिंसा | विहेठ्यन्ते ऽनया सत्त्वा वधबन्धनादिभिर् दुःखदौर्मनस्योत्पादनाद् इति सत्त्वविहेठना | सा पुनः प्रतिघांशिकी निर्घृणता सत्त्वेषु चित्तरूक्षता सत्त्वविहेठनकर्मिका विहिंसेत्य् उच्यते |
SK
आह्रीक्यं स्वयम् अवद्येनालज्जा | तस्मिन् कर्मण्यात्मानम् अयोग्यं मन्यमानस्यापि यावद्येनालज्जा साह्रीक्यं ह्रीविपक्षभूतम् |
SK
अनपत्राप्यं परतो ऽवद्येनालज्जा | लोकशास्त्रविरुद्धम् एतन् मया क्रियत इत्य् एवम् अवगच्छतो ऽपि या तया पापक्रिययालज्जा सापत्राप्यविपक्षभूतम् अनपत्राप्यम् |
SK
एतच् च द्वयम् अपि सर्वक्लेशोपक्लेशसाहाय्यकर्मकम् | रागद्वेषमोहप्रकारेषु सर्वासत्कार्यप्रभवहेतुषु रागद्वेषयोर् अयौगपद्याद् यथासंभवं प्रज्ञप्यते न तु स्वतन्त्रम् अस्ति |
SK
स्त्यानञ् चित्तस्याकर्मण्यता स्तैमित्यम् | स्तिमितस्य भावः स्तैमित्यं यद्योगाच् चित्तं जडीभवति स्तिमितं भवति नालम्बनं प्रतिपत्तुं समुत्सहते | एतच् च सर्वक्लेशोपक्लेशसहाय्यदानकर्मकम् | मोहांशे प्रज्ञप्तत्वाच् च मोहांशिकम् एव न पृथग् विद्यते |
SK
औद्धत्यं चित्तस्याव्युपशमः | व्युपशमो हि शमथस् तद्विरुद्धो ऽव्युपशमः | स पुनर् एष रागानुकूलं पूर्वहसितरसितक्रीडिताद्यनुस्मरतश् चेतसो ऽव्युपशमहेतुः शमथपरिपन्थकर्मकः |
SK
आश्रद्ध्यां कर्मफलसत्यरत्नेष्व् अनभिसंप्रत्ययः श्रद्धाविपक्षः | श्रद्धा ह्य् अस्तित्वगुणवत्त्वशक्यत्वेष्व् अभिसंप्रत्ययः प्रसादो ऽभिलाषश् च यथाक्रमम् | अश्रद्धा तद्विपर्येणास्तित्वगुणवत्त्वशक्यत्वेष्व् अनभिसंप्रत्ययो ऽप्रसादो ऽनभिलाषश् च | कौसीद्यसंनिश्रयदानकर्मकम् | अश्रद्दधानस्य प्रयोगच्छन्दाभावात् कौसीद्यसंनिश्रयदानकर्मकत्वम् |
SK
कौसीद्यं कुशले चेतसो ऽनभ्युत्साहो वीर्यविपक्षः | कुशले कायवाङ्मनःकर्मणि निद्रापार्श्वशयनसुखम् आगम्य यो मोहांशिकश् चेतसो ऽनभ्युत्साहः | एतच् च कुशलपक्षप्रयोगपरिपन्थकर्मकम् |
SK
प्रमादो यैर् लोभद्वेषमोहकौसीद्यैः क्लेशाद् रागद्वेषमोहादिकाच् चित्तं न रक्षति कुशलं च तत्प्रतिपक्षभूतं न भावयति | तेषु लोभद्वेषमोहकौसीद्येषु प्रमादः प्रज्ञप्यते | अयञ् चाकुशलवृद्धिकुशलपरिहाणिसंनिश्रयदानकर्मकः |
SK
मुषिता स्मृतिः क्लिष्टा स्मृतिः | क्लिष्टेति क्लेशसंप्रयुक्ता | इयञ् च विक्षेपसंनिश्रयदानकर्मिका |
SK
विक्षेपो रागद्वेषमोहांशिकश् चेतसो विसारः | विविधं क्षिप्यते ऽनेन चित्तम् इति विक्षेपः | यै रागद्वेषमोहैश् चित्तं समाध्यालम्बनाद् बहिः क्षिप्यते तेषु यथासंभवं विक्षेपः प्रज्ञप्यते | एष च वैराग्यपरिपन्थकर्मः |
SK
असंप्रजन्यं क्लेशसंप्रयुक्ता प्रज्ञा ययासंविदिता कायवाक्चित्तचर्या अभिक्रमप्रतिक्रमादिषु वर्तते करणीयाकरणीयाज्ञानात् | एतच् चापत्तिसंनिश्रयदानकर्मकम् |
SK
कौकृत्यं चेतसो विप्रतिसारः | कुत्सितं कृतम् इति कुकृतम् | तद्भावः कौकृत्यम् | इह तु कुकृतविषयश् चेतसो विलेखः कौकृत्यं चैतसिकाधिकारात् | एतच् च चित्तस्थितिपरिपन्थकर्मकम् |
SK
मिद्धम् अस्वतन्त्रवृत्तिचेतसो ऽभिसंक्षेपः | वृत्तिर् आलम्बने प्रवृत्तिः | सास्वतन्त्रा चेतसो यतो भवति तन् मिद्धम् | कायसन्धारणासमर्था वा वृत्तिश् चेतसो ऽस्वतन्त्रा सा यतो भवति तन् मिद्धम् | अभिसंक्षेपश् चेतसश् चक्षुरादीन्द्रियद्वारेणाप्रवृत्तिः | एतच् च मोहांशे प्रज्ञपनान् मोहांशिकं कृत्यातिपत्तिसंनिश्रयदानकर्मकञ् च |
SK
वितर्कः पर्येषको मनोजल्पः प्रज्ञाचेतनाविशेषः | पर्येषकः किम् एतद् इति निरूपणाकारप्रवृत्तः | मनसो जल्पो मनोजल्पः | जल्प इव जल्पः | जल्पो ऽर्थकथनम् | चेतनाप्रज्ञाविशेष इति चेतनायाश् चित्तपरिस्पन्दात्मकत्वात् प्रज्ञायाश् च गुणदोषविवेकाकारत्वात् | तद्वशेन चित्तप्रवृत्तेः कदाचिच् चित्तचेतनयोर् वितर्कः प्रज्ञप्तिः कदाचित् प्रज्ञाचेतसोर् यथाक्रमम् अनभ्यूहाभ्युहावस्थयोः | अथ वा चेतनाप्रज्ञयोर् एव वितर्कः प्रज्ञप्तिस् तद्वशेन चित्तस्य तथाप्रवृत्तत्वात् | स एव चित्तस्यौदारिकता | औदारिकतेति स्थूलता वस्तुमात्रपर्येषणाकारत्वात् |
SK
एष च नयो विचारे ऽपि द्रष्टव्यः | विचारो ऽपि हि चेतनाप्रज्ञाविशेषात्मकः | प्रत्यवेक्षको मनोजल्प एव | इदं तद् इति पूर्वाधिगतनिरूपणात् | अत एव च चित्तसूक्ष्मतेत्य् उच्यते |
SK
एतौ च स्पर्शास्पर्शविहारसंनिश्रयदानकर्मकौ | अनयोश् चौदारिकसूक्ष्मतया व्यवस्थापनात् पृथक्करणम् |
SK
द्वये द्विधेति | (१४द्)
SK
द्वयञ् च द्वयञ् च द्वये | ते पुनः कौकृत्यमिद्धे वितर्कविचारौ च | एते च चत्वारो धर्मा द्विधा क्लिष्टा अक्लिष्टाश् च |
SK
तत्राकुशलम् अकृत्वा कुशलञ् च कृत्वा यश् चेतसो विलेखस् तत् संक्लिष्टं कौकृत्यम् | यत् कुशलम् अकृत्वाकुशलञ् च कृत्वा तत् कौकृत्यम् अक्लिष्टम् |
SK
मिद्धम् अपि क्लिष्टचित्ताविद्धं क्लिष्टचित्तसंप्रयुक्तं च क्लिष्टम् | अक्लिष्टचित्ताविद्धम् अक्लिष्टचित्तसंप्रयुक्तञ् चाक्लिष्टम् |
SK
कामव्यापादविहिंसादिवितर्काः क्लिष्टाः | नैश्क्रम्यादिवितर्का अक्लिष्टाः | एवं परोपघातोपायविचारः क्लिष्टः | परानुग्रहोपायविचारो ऽक्लिष्टः |
SK
तत्र ये कौकृत्यमिद्धवितर्कविचाराः क्लिष्टास् त एवोपक्लेशा नेतरे |
SK
तत्र यथा रूपशब्दाद्युपलब्धिः षट्प्रकारा यथासंभवं सर्वैश् चैतसिकैः संप्रयुज्यते सर्वत्रगैर् विनियतैः कुशलैः क्लेशैर् उपक्लेशैश् च एवं त्रिवेदना तिसृभिश् च वेदनाभिः संप्रयुज्यते सुखया दुःखया अदुःखासुखया च | सौमनस्यदौर्मनस्योपेक्षास्थानीयेषु रूपादिषु तदुत्पत्तेः कुशला अकुशला अव्याकृता च | आलयविज्ञानन् तु सर्वत्रगैः पञ्चभिर् एव संप्रयुज्यते नान्यैः | तत्र चोपेक्षैव वेदना अनिवृताव्यकृतञ् च | क्लिष्टं मनः सर्वत्रगैः पञ्चभिश् चतुर्भिश् च क्लेशैर् आत्ममोहादिभिः सदा संप्रयुज्यते | तत्रोपेक्षैव वेदना निवृताव्याकृतञ् चेति |
SK
इदम् इदानीञ् चिन्त्यते | किं पञ्चानाञ् चक्षुर्विज्ञानादीनां युगपद् आलम्बनप्रत्ययसान्निध्ये ऽप्य् आलयविज्ञानाद् एकस्यैवोत्पत्तिर् भवति न द्वयोर् न बहूनां वा | यथैके मन्यन्ते | न द्वयोर् न बहूनां वा युगपत् समनन्तरप्रत्ययाभावाद् एकस्यैव विज्ञानस्योत्पत्तिर् भवति | न चैकं विज्ञानं बहूनां समन्तरप्रत्ययत्वं प्रतिपत्तुम् उत्सहते | उतानियमेन |
SK
यद्य् एकस्यैव प्रत्ययसांनिध्यम् एकम् एवोत्पद्यते | एवं द्वयोर् बहूनाञ् च प्रत्ययसांनिध्ये उत्पत्तिर् भवतीत्य् अत आह |
SK
पञ्चानां मूलविज्ञाने यथाप्रत्ययम् उद्भवः | विज्ञानानां सह न वा तरङ्गाणां यथा जले || १५
SK
पञ्चानाम् इति चक्षुरादिविज्ञानानां तदनुचरमनोविज्ञानसहित्ःन्ःम् | पञ्चानां चक्षुरादिविज्ञानानां बीजाश्रयत्वात् तदुत्पत्तेर् गतिषु जन्मोपादानाच् चालयविज्ञानं मूलविज्ञानम् इत्य् उच्यते | यथाप्रत्ययम् उद्भव इति यस्य यस्य यः प्रत्ययः संनिहितस् तस्य तस्य नियमेनोद्भव आत्मलाभः | सह न वेति युगपत् क्रमेण वा | तरङ्गाणां यथा जल इत्य् आलयविज्ञानात् प्रवृत्तिविज्ञानानां युगपद् अयुगपच् चोत्पत्तौ दृष्टान्तः | यथोक्तम् |
SK
तद्यथा विशालमते महत उदकौघस्य वहतः सचेद् एकस्य तरङ्गस्योत्पत्तिप्रत्ययः प्रत्युपस्थितो भवत्य् एकम् एव तरङ्गं प्रवर्तते | सचेद् द्वयोस् त्रयाणां संबहुलानां तरङ्गाणाम् उत्पत्तिप्रत्ययः प्रत्युपस्थितो भवति यावत् संबहुलानि तरङ्गाणि प्रवर्तन्ते | न च तस्योदकौघस्य स्रोतसा वहतः समुच्छित्तिर् भवति | न पर्युपयोगः प्रज्ञायते | एवम् एव विशालमते तदोघस्थानीयम् आलयविज्ञानं संनिश्रित्य प्रतिष्ठाय सचेद् एकस्य चक्षुर्विज्ञानस्योत्पत्तिप्रत्ययः प्रत्युपस्थितो भवत्य् एकम् एव चक्षुर्विज्ञानं प्रवर्तते | सचेद् द्वयोस् त्रयाणां सचेत् पञ्चानां विज्ञानानाम् उत्पत्तिप्रत्ययः प्रत्युपस्थितो भवति सकृद् यावत् पञ्चानां प्रवृत्तिर् भवति |
SK
अत्र गाथा |
SK
आदानविज्ञान गभीरसूक्ष्मो ओघो यथा वर्तति सर्वबीजो | बालान एषो मयि न प्रकाशि मा हैव आत्मा परिकल्पयेयुर्
SK
इति | न हि विज्ञानप्रतिनियमेनालम्बनप्रत्ययवत् समनन्तरप्रत्यय इष्यते | सर्वविज्ञानोत्पत्तौ सर्वस्य विज्ञानस्य तत्समनन्तरप्रत्ययत्वाभ्युपगमात् | अत एकस्माद् अपि समनन्तरप्रत्ययाद् आलम्बनप्रत्ययसान्निध्ये द्वयोर् बहूनां वा विज्ञानानाम् उत्पत्तिर् न विरूध्यते | किञ् चात्र कारणं यत् समनन्तरप्रत्ययप्रतिनियमाभावे पञ्चानाञ् च युगपद् आलम्बनप्रत्ययसान्निध्य एकेनैवोत्पत्तव्यं न पञ्चभिर् अपीति | तस्माद् अलम्बनसद्भावे पञ्चानाम् अपि चोत्पत्तिर् इत्य् अभ्युपेयम् |
SK
इदम् ईदानीं वक्तव्यम् | किं मनोविज्ञानं चक्षुरादिविज्ञानैः सह प्रवर्तते विना च | उत नैवेत्य् अत आह |
SK
मनोविज्ञानसंभूतिः सर्वदासंज्ञिकाद् ऋते | समापत्तिद्वयान् मिद्धान् मूर्च्छनाद् अप्य् अचित्तकात् || १६
SK
इति | सर्वदेति सर्वकालं चक्षुरादिविज्ञानैः सह विना चेत्य् अर्थः | अस्योत्सर्गस्येमम् अपवादम् आरभते |
SK
आसंज्ञिकाद् ऋते समापत्तिद्वयान् मिद्धान् मूर्च्छनाद् अप्य् अचित्तकाद् इति | (१६ब्द्)
SK
तत्रासंज्ञिकम् असंज्ञिसत्त्वेषु देवेषूपपन्नस्य यश् चित्तचैतसिकानां धर्माणां निरोधः |
SK
समापत्तिद्वयम् असंज्ञिसमापत्तिर् निरोधसमापत्तिश् च |
SK
तत्रासंज्ञिसमापत्तिः | तृतीयाद् ध्यानाद् वीतरागस्योर्ध्वम् अवीतरागस्य निःसरणसंज्ञापूर्वकेण मनसिकारेण मनोविज्ञानस्य तत्संप्रयुक्तानाञ् च चैत्तानां यो निरोधः सो ऽत्रासंज्ञिसमापत्तिर् इत्य् उच्यते | निरुध्यते ऽनेनेति निरोधः | स पुनः ससंप्रयोगस्य मनोविज्ञानस्य समुदाचारनिरोधः | आश्रयस्यावस्थाविशेषः | स च समापत्तिचित्ताद् अनन्तरञ् चित्तान्तरोत्पत्तिविरुद्ध आश्रयः प्राप्यत इति समापत्तिर् इत्य् उच्यते | निरोधसमापत्तिर् आकिञ्चन्यायतनवीतरागस्य शान्तविहारसंज्ञापूर्वकेण मनसिकारेण ससंप्रयोगस्य मनोविज्ञानस्य क्लिष्टस्य च मनसो यो निरोधः | इयम् अप्य् असंज्ञिसमापत्तिवद् आश्रयस्यावस्थाविशेषे प्रज्ञप्यते |
SK
अचित्तकं मिद्धं गाढमिद्धोपहतत्वाद् आश्रयस्य तावत्कालं मनोविज्ञानाप्रवृत्तेर् अचित्तकम् इत्य् उच्यते |
SK
अचित्तिका मूर्च्छा | आगन्तुकेनाभिघातेन वातपित्तश्लेष्मवैषम्येण वा यद् आश्रयवैषम्यं मनोविज्ञानप्रवृत्तिविरुद्धं तत्राचित्तिका मूर्च्छोपचर्यते |
SK
एताः पञ्चावस्था वर्जयित्वा तदन्यासु सर्वास्व् अवस्थासु मनोविज्ञानप्रवृत्तिर् वेदितव्या | एवम् आसंज्ञिकादिषु मनोविज्ञाने निरुद्धे तदपगमे पुनः कुत उत्पद्यते यतस् तस्य कालक्रिया न भवति | तत् पुनर् आलयविज्ञानाद् एवोत्पद्यते | तद् धि सर्वविज्ञानबीजकम् इति |
SK
यत्र विज्ञानपरिणामे आत्मधर्मोपचारः स पुनस् त्रिधेत्य् उद्दिश्य विस्तरेण त्रिविधो ऽपि निर्दिष्टः |
SK
इदानीम् आत्मधर्मोपचारो यः प्रवर्तते स विज्ञानपरिणाम एव न विज्ञानपरिणामाच् च पृथग् अस्त्य् आत्मा धर्मा चेति यत् प्रतिज्ञातं तत्प्रसाधनार्थम् आह |
SK
विज्ञानपरिणामो ऽयं विकल्पो यद् विकल्प्यते | तेन तन् नास्ति तेनेदं सर्वं विज्ञाप्तिमात्रकम् || १७
SK
इति | यो ऽयं विज्ञानपरिणामस् त्रिविधो ऽनन्तरम् अभिहितः सो ऽयं विकल्पः | अध्यारोपितार्थाकारास् त्रैधातुकाश् चित्तचैत्ता विकल्प उच्यते | यथोक्तम् |
SK
अभूतपरिकल्पस् तु चित्तचैत्तास् त्रिधातुका इति |
SK
तेन त्रिविधेन विकल्पेनालयविज्ञानक्लिष्टमनःप्रवृत्तिविज्ञानस्वभावेन ससंप्रयोगेण यद् विकल्प्यते भाजनम् आत्मास्कन्धधात्वायतनरूपशब्दादिकं वस्तु तन् नास्तीत्य् अतः स विज्ञानपरिणामो विकल्प उच्यते | असदालम्बनत्वात् |
SK
कथं पुनर् एतद् विज्ञायते तदालम्बनम् असद् इति | यद् धि यस्य कारणं तस्मिन् समग्रे चाविरुद्धे च तद् उत्पद्यते नान्यथा | विज्ञानञ् च मायागन्धर्वनगरस्वप्नतिमिरादाव् असत्य् अप्यालम्बने जायते | यदि च विज्ञानस्यालम्बनप्रतिबद्ध उत्पादः स्याद् एवं सति मायादिष्व् अर्थाभावान् न विज्ञानम् उत्पद्यते |
SK
तस्मात् पूर्वकान् निरुद्धात् तज्जातीयविज्ञानाद् विज्ञानम् उत्पद्यते | न बाह्याद् अर्थात् तस्मिन्न् असत्य् अपि भावात् | दृष्टा चाभिन्ने ऽप्य् अर्थे प्रतिपत्तॄणां परस्परविरुद्धा प्रतिपत्तिः | न चैकस्य परस्परविरुद्धानेकात्मकत्वं युज्यते | तस्माद् अध्यारोपितरूपत्वाद् विकल्पस्यालम्बनम् असद् इति प्रतिपत्तव्यम् |
SK
अनेन तावत् समारोपान्तं परिहृत्यापवादान्तपरिजिहीर्षया आह |
SK
तेनेदं सर्वं विज्ञाप्तिमात्रकम् (१७च्द्)
SK
इति | तेनेति तस्मात् | यस्मात् परिणामात्मकेन विकल्पेन यद् विकल्प्यते तेन तन् नास्ति तस्माद् विषयाभावात् सर्वं विज्ञप्तिमात्रकम् | सर्वम् इति त्रैधातुकम् असंस्कृतञ् च | मात्रशब्दस् तदधिकविषयव्यवच्छेदार्थः | ककारः पादपूरणार्थः |
SK
यदि सर्वं विज्ञप्तिमात्रकम् एव न ततो ऽन्यः कर्ता करणं वास्ति कथं मूलविज्ञानाद् अनधिष्ठिताद् असति करणे विकल्पाः प्रवर्तन्त इत्य् आह |
SK
सर्वबीजं हि विज्ञानं परिणामस् तथा तथा | यात्य् अन्योन्यवशाद् येन विकल्पः स स जायते || १८
SK
तत्र सर्वधर्मोत्पादनशक्त्यनुगमात् सर्वबीजं विज्ञानम् इत्य् आलयविज्ञानम् | विज्ञानं ह्य् असर्वबीजम् अप्य् अस्तीत्य् अतः सर्वबीजम् इत्य् आह | विज्ञानाद् अन्यद् अपि कैश्चित् प्रधानादि सर्वबीजं कल्प्यत इति विज्ञानम् इत्य् आह | अथ वा | एकपदव्यभिचारे ऽपि विशेषणविशेष्यत्वदर्शनान् नायं दोषः |
SK
परिणामस् तथा तथा यात्य् अन्योन्यवशाद् इति | (१८ब्च्)
SK
पूर्वावस्थातो ऽन्यथाभावः परिणामः | तथा तथेति तस्य तस्य विकल्पस्यानन्तरोत्पादनसमर्थावस्थां प्राप्नोतीत्य् अर्थः |
SK
अन्योन्यवशाद् इति | तथा हि चक्षुरादिविज्ञानं स्वशक्तिपरिपोषे वर्तमाने शक्तिविशिष्टस्यालयविज्ञानपरिणामस्य निमित्तं सो ऽपि आलयविज्ञानपरिणामश् चक्षुरादिविज्ञानस्य निमित्तं भवति | एवम् अन्योन्यवशाद् यस्माद् उभयं प्रवर्तते तस्माद् आलयविज्ञानाद् अन्येनानधिष्ठिताद् अनेकप्रकारो विकल्पः स स जायते | तत्र च वर्तमाने जन्मनि यथालयविज्ञानात् प्रवृत्तिविज्ञानस्योत्पत्तिर् भवति तथाख्यातम् |
SK
इदानीं विज्ञप्तिमात्रे अनागतं जन्म वर्तमानजन्मनिरोधे सति यथा प्रतिसंधीयते तत् प्रदर्शयन्न् आह |
SK
कर्मणो वासना ग्राहद्वयवासनया सह | क्षीणे पूर्वविपाके ऽन्यं विपाकं जनयन्ति तत् || १९
SK
इति | पुण्यापुण्यानेञ्ज्यचेतना कर्म | तेन कर्मणा यद् अनागतात्मभावाभिनिर्वृत्तये आलयविज्ञाने सामर्थ्यम् आहितं सा कर्मवासना | ग्राहद्वयं ग्राह्यग्रहो ग्राहकग्राहश् च | तत्र विज्ञानात् पृथग् एव स्वसन्तानाध्यासितं ग्राह्यम् अस्तीत्य् अध्यवसायो ग्राह्यग्राहः | तच् च विज्ञानेन प्रतीयते विज्ञायते गृह्यत इति यो ऽयं निश्चयः स ग्रहकग्राहः | पूर्वोत्पन्नग्राह्यग्राहकग्राहाक्षिप्तम् अनागततज्जातीयग्राह्यग्राहकग्राहोत्पत्तिबीजं ग्राहद्वयवासना | तत्र कर्मवासनाभेदाद् गतिभेदेनात्मभावभेदो बीजभेदाद् अङ्कुरभेदवत् |
SK
[Tव्भ्_११४] ग्राहद्वयवासना तु सर्वकर्मवासनानां यथास्वम् आक्षिप्तात्मभावोत्पादने प्रवृत्तानां सहकारित्वं प्रतिपद्यते | तद्यथा अबादयो बीजस्याङ्कुरोत्पत्ताव् इति |
SK
एवञ् च न केवलाः कर्मवासना ग्राहद्वयवासनाननुगृहीता विपाकञ् जनयन्तीत्य् उक्तं भवति | अत एवाह | ग्रहाद्वयवासनया सहेति |
SK
क्षीणे पूर्वविपाके ऽन्यं विपाकं जनयन्ति तद् इति | (१९च्द्)
SK
पूर्वजन्मोपचितेन कर्मणा य इति विपाको ऽभिनिर्वृत्तस् तस्मिन् क्षीण इत्य् आक्षेपकाले पर्यन्तावस्थिते यथाबलं कर्मवासना ग्राहद्वयवासनासहिता उपभूक्ताद् विपाकाद् अन्यं विपाकं तद् एवालयविज्ञानं जनयन्ति | आलयविज्ञानव्यतिरेकेणान्यस्य विपाकस्याभावात् | क्षीणे पूर्वविपाक इत्य् अनेन शाश्वतान्तं परिहरति | अन्यं विपाकं जनयन्तीत्य् उच्छेदान्तम् |
SK
चक्षुरादिविज्ञानव्यतिरिक्तम् आलयविज्ञानम् अस्ति | तद् एव च सर्वबीजकं न चक्षुरादिविज्ञानम् इति कुत एतत् | आगमाद् युक्तितश् च | उक्तं हि भगवताभिधर्मसूत्रे |
SK
[Tव्भ्_११६]
SK
अनादिकालिको धातुः सर्वधर्मसमाश्रयः | तस्मिन् सति गतिः सर्वा निर्वाणाधिगमो ऽपि च ||
SK
न चालयविज्ञानम् अन्तरेण संसारप्रवृत्तिर् निवृत्तिर् वा युज्यते | तत्र संसारप्रवृत्तिर् निकायसभागान्तरेषु प्रतिसन्धिबन्धः | निवृत्तिः सोपधिशेषो निरुपधिशेषश् च निर्वाणधातुः | तत्रालयविज्ञानाद् अन्यत् संस्कारप्रत्ययं विज्ञानं न युज्यते | संस्कारप्रत्ययविज्ञानाभावे प्रवृत्तेर् अप्य् अभावः |
SK
संसारस्यालयविज्ञानानभ्युपगमे प्रतिसन्धिविज्ञानं वा संस्कारप्रत्ययं परिकल्प्येत संस्कारपरिभाविता वा षड् विज्ञानकायाः | तत्र ये संस्काराः प्रातिसंधिकविज्ञानप्रत्ययत्वेनेष्यन्ते तेषाञ् चिरनिरुद्धत्वान् निरुद्धस्य चासत्वाद् असतश् च प्रत्ययत्वाभावान् न संस्कारप्रत्ययं प्रतिसन्धिविज्ञानं युज्यते | प्रतिसन्धौ च नामरूपम् अप्य् अस्ति न केवलं विज्ञानम् | तत्र विज्ञानम् एव संस्कारप्रत्ययं न नामरूपम् इति का तत्र युक्तिः | तस्मात् संस्कारप्रत्ययं नामरूपम् इति वाक्तव्यम् | न तु विज्ञानम् इति | [Tव्भ्_११८] कतमद् अन्यद् विज्ञानप्रत्ययं नामरूपम् | यद् उत्तरकालम् इति चेत् तस्य प्रातिसन्धिकनामरूपात् क आत्मातिशयो यतस् तद् एव विज्ञानप्रत्ययं न पूर्वम् | पूर्वञ् च संस्कारप्रत्ययं नोत्तरम् इति | अतश् च संस्कारप्रत्ययं नामरूपम् एवास्तु किं प्रतिसन्धिविज्ञानेनाङ्गान्तरेण परिकल्पितेन | तस्मान् न प्रतिसन्धिविज्ञानं संस्कारप्रत्यत्ययं युज्यते |
SK
संस्कारपरिभाविता वा षड्विज्ञानकाया अपि न संस्कारप्रत्ययं विज्ञानं युज्यते | किं कारणम् | न हि विज्ञानं विपाकवासनां निष्यन्दवासनां वा स्वात्मन्य् आधातुं समर्थं स्वात्मनि कारित्रविरोधात् | नाप्य् अनागते तस्य तदानुत्पन्नत्वात् | अनुत्पन्नस्य चासत्त्वात् | नाप्य् उत्पन्ने पूर्वस्य तदा निरुद्धत्वात् | अचित्तिकासु च निरोधसमापत्त्याद्यवस्थासु पुनः संस्कारपरिभावितचित्तोत्पत्त्यसंभवाद् विज्ञानप्रत्ययं नामरूपं न स्यात् | तदभावाट् षडायतनं न स्यात् | एवं यावज् जातिप्रत्ययं जरामरणं न स्यात् | ततश् च संसारप्रवृत्तिर् एव न स्यात् |
SK
तस्माद् अविद्याप्रत्ययाः संस्कारास् तदधिवासितञ् चालयविज्ञानं संस्कारप्रत्ययं विज्ञानम् | तत्प्रत्ययं प्रतिसन्धौ नामरूपम् इत्य् एषैव नीतिर् अनवद्या |
SK
संसारनिवृत्तिर् अपि आलयविज्ञाने असति न युज्यते | संसारस्य हि कर्मक्लेशाश् च कारणं तयोश् च क्लेशाः प्रधानम् | तथा हि क्लेशाधिपत्यात् कर्म पुनर्भवाक्षेपसमर्थं भवति नान्यथा | तथाक्षिप्तपुनर्भवो ऽपि कर्म क्लेशाधिपत्याद् एव पुनर्भवो भवति नान्यथा | एवञ् च क्लेशा एव संसारप्रवृत्तेः प्रधानत्वान् मूलम् | अतस् तेषु प्रहीणेषु संसारो विनिवर्तते नान्यथा | न चालयविज्ञानम् अन्तरेण तत्प्रहाणं युज्यते |
SK
कथं पुनर् न युज्यते | संमुखीभूतो वा क्लेशः प्रहीयते बीजावस्थो वा | तत्र संमुखीभूतः प्रहीयत इत्य् अनिष्टिर् एवेयम् | तत्प्रहाणमार्गस्थानाद् बीजावस्थो ऽपि नैव प्रहीयते | न हि प्रतिपक्षात् तदानीं किञ्चिद् अन्यद् अभ्युपगम्यते यत्र क्लेशबीजं व्यवस्थितं तत्प्रतिपक्षेण प्रहीयेत | अथ प्रतिपक्षचित्तम् एव क्लेशबीजानुषक्तम् इष्यते | न हि तत् क्लेशबीजानुषक्तम् एव तत्प्रतिपक्षो भवितुम् अर्हति | न चाप्रहीणक्लेशबीजानां संसारनिवृत्तिः संभवति | तस्माद् अवश्यम् आलयविज्ञानं तदन्यविज्ञानसहभूभिः क्लेशोपक्लेशैर् भाव्यते स्वबीजपुष्ट्याधानत इत्य् अभ्युपेयम् | ये पुनश् चित्तत एव संततिपरिणामविशेषाद् यथाबलं वासनावृत्तिलाभे सति क्लेशोपक्लेशाः प्रवर्तन्ते तेषाञ् चालयविज्ञानव्यवस्थितं बीजं तत्सहभुवा क्लेशप्रतिपक्षमार्गेणापनीयते | तस्मिंश् चापनीते न पुनस् तेनाश्रयेण क्लेशानाम् उत्पत्तिर् इति सोपधिशेषो निर्वाणधातुः प्राप्यते | पूर्वकर्माक्षिप्तजन्मनिरोधे च ततो ऽन्यजन्माप्रतिसंधानान् निरुपधिशेषो निर्वाणधातुः | न हि कर्म विद्यमानम् अपि क्लेशेषु प्रहीणेषु सहकारिकारणभावात् पुनर्भवम् अभिनिर्वर्तयितुं समर्थम् |
SK
एवम् आलयविज्ञाने सति संसारप्रवृत्तिर् निवृत्तिश् च नान्यथेत्य् अवश्यं चक्षुरादिविज्ञानव्यतिरिक्तम् आलयविज्ञानं तद् एव च सर्वधर्मबीजानुगतं न चक्षुरादिविज्ञानम् इत्य् अभ्युपगन्तव्यम् | विस्तरविचारस् तु पञ्चस्कन्धकोपनिबन्धाद् वेदितव्यः ||
SK
यदि विज्ञप्तिमात्रम् एवेदं कथं न सूत्रविरोधः | सूत्रेषु हि त्रयः स्वभावा उक्ताः परिकल्पितः परतन्त्रः परिनिष्पन्नश् च | नास्ति विरोधः | विज्ञप्तिमात्र एव सति स्वभावत्रयव्यवस्थानात् | कथम् इत्य् अत आह |
SK
येन येन विकल्पेन यद् यद् वस्तु विकल्प्यते | परिकल्पित एवासौ स्वभावो न स विद्यते || २०
SK
आध्यात्मिकबाह्यविकल्प्यवस्तुभेदेन विकल्पानाम् आनन्त्यं प्रदर्शयन्न् आह | येन येन विकल्पेनेति |
SK
यद् यद् वस्तु प्रकल्प्यते | आध्यात्मिकं बाह्यं वान्तशो यावद् बुद्धधर्मा अपि | परिकल्पित एवासौ स्वभाव इति | अत्र कारणम् आह | न स विद्यत इति |
SK
यद् वस्तु विकल्प्यविषयस् तद् यस्मात् सत्ताभावान् न विद्यते | तस्मात् तद् वस्तु परिकल्पितस्वभावम् एव | न हेतुप्रत्ययप्रतिबद्धस्वभावम् | तथा ह्य् एकस्मिन् वस्तुनि तदभावे च परस्परविरुद्धानेकविकल्पप्रवृत्तिर् दृष्टा | न च तद् एकं वस्तु तदभावो वा परस्परविरुद्धानेकस्वभावो युज्यते | तस्मात् सर्वम् इदं विकल्पमात्रम् एव तदर्थस्य परिकल्पितरूपत्वात् | उक्तं च सूत्रे |
SK
न खलु पुनः सुभूते धर्मास् तथा विद्यन्ते यथा बालपृथग्जना अभिनिविष्टा इति |
SK
परिकल्पितानन्तरं परतन्त्रस्वभावो वक्तव्य इति | अत आह |
SK
परतन्त्रस्वभावस् तु विकल्पः प्रत्ययोद्भवः | २१अब्
SK
अत्र च विकल्प इति परतन्त्रस्वरूपम् आह | प्रत्ययोद्भव इत्य् अनेनापि परतन्त्राभिधानप्रवृत्तिनिमित्तम् आह | तत्र परिकल्पः कुशलाकुशलाव्याकृतभेदभिन्नास् त्रैधातुकाश् चित्तचैत्ताः |
SK
यथोक्तम् |
SK
अभूतपरिकल्पस् तु चित्तचैत्तास् त्रिधातुका इति |
SK
परैर् हेतुप्रत्ययैस् तन्त्र्यत इति परतन्त्र उत्पाद्यत इत्य् अर्थः | स्वतो ऽन्यहेतुप्रत्ययप्रतिबद्धात्मलाभ इति यावदुक्तं भवति | उक्तः परतन्त्रः |
SK
परिनिष्पन्नः कथम् इत्य् अत आह |
SK
निष्पन्नस् तस्य पूर्वेण सदा रहितता तु या || २१च्द्
SK
अविकारपरिनिष्पत्त्या स परिनिष्पन्नः | तस्येति परतन्त्रस्य पूर्वेणेति परिकल्पितेन तस्मिन् विकल्पे ग्राह्यग्राहकभावः परिकल्पितः | तथा हि तस्मिन् विकल्पे ग्राह्यग्राहकत्वम् अविद्यमानम् एव परिकल्प्यत इति परिकल्पितम् उच्यते | तेन ग्राह्यग्राहकेण परतन्त्रस्य सदा सर्वकालम् अत्यन्तरहितता या स परिनिष्पन्नस्वभावः ||
SK
अत एव स नैवान्यो नानन्यः परतन्त्रतः | २२अब्
SK
अत एव स नैवेति परिकल्पितेन स्वभावेन परतन्त्रस्य सदा रहितता परिनिष्पन्नः | रहितता च धर्मता | सा च धर्मता धर्मान् नान्या नानन्या युज्यते | परिनिष्पन्नश् च परतन्त्रधर्मतेत्य् अतः परतन्त्रात् परिनिष्पन्नो नान्यो नानन्य इति बोद्धव्यः | यदि हि परिनिष्पन्नः परतन्त्राद् अन्यः स्याद् एवं न परिकल्पितेन परतन्त्रः शून्यः स्यात् | अथानन्य एवम् अपि परिनिष्पन्नो न विशुद्धालम्बनः स्यात् परतन्त्रवत् संक्लेशात्मकत्वात् | एवं परतन्त्रश् च न क्लेशात्मकः स्यात् | परिनिष्पन्नाद् अनन्यत्वात् परिनिष्पन्नवत् |
SK
अनित्यतादिवद् वाच्यो २२च्
SK
नान्यो नानन्य इति वाक्यशेषः | यथा ह्य् अनित्यता दुःखतानात्मता च | संस्कारादिभ्यो नान्या नानन्या | यदि संस्कारेभ्यो ऽनित्यता अन्या | एवं तर्हि संस्कारा नित्याः स्युः | अथानन्या एवम् अपि संस्काराः प्रध्वंसाभावरूपाः स्युर् अनित्यतावत् | एवं दुःखतादिष्व् अपि वाच्यम् |
SK
यदि ग्राह्यग्राहकभावरहितः परतन्त्रः कथम् असौ गृह्यते अगृह्यमाणो वा कथम् अस्तीति विज्ञायते | अत आह |
SK
नादृष्टे ऽस्मिन् स दृश्यते || २२द्
SK
नादृष्टे ऽस्मिन्न् इति परिनिष्पन्नस्वभावे स दृश्यत इति परतन्त्रः स्वभावः | निर्विकल्पलोकोत्तरज्ञानदृश्ये परिनिष्पन्ने स्वभावे अदृष्टे अप्रतिविद्धे असाक्षात्कृते तत्पृष्ठलब्धशुद्धलौकिकज्ञानगम्यत्वात् परतन्त्रो ऽन्येन ज्ञानेन न गृह्यते | अतः परिनिष्पन्ने ऽदृष्टे परतन्त्रो न दृश्यते | न पुनर् लोकोत्तरज्ञानपृष्ठलब्धेनापि ज्ञानेन न दृश्यते |
SK
तथा निर्विकल्पप्रवेशायां धारण्याम् उक्तम् |
SK
तत् पृष्ठलब्धेन ज्ञानेन मायामरीचिस्वप्नप्रतिश्रुत्कोदकचन्द्रनिर्मितसमान् सर्वधर्मान् प्रत्येतीति |
SK
अत्र च धर्माः परतन्त्रसंगृहीता अभिप्रेताः | परिनिष्पन्नश् चाकाशवद् एकरसः | ज्ञानञ् च यथोक्तं
SK
निर्विकल्पेन ज्ञानेनाकाशसमतया तान् सर्वधर्मान् पश्यतीति परतन्त्रधर्माणां तथतामात्रदर्शनात् ||
SK
यदि द्रव्यम् एव परतन्त्रः कथं सूत्रे सर्वधर्मा निःस्वभावा अनुत्पन्ना अनिरुद्धा इति निर्दिश्यन्ते | नास्ति विरोधः यस्मात् |
SK
त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम् | सन्धाय सर्वधर्माणां देशिता निःस्वभावता || २३
SK
त्रय एव स्वभावा न चतुर्थो ऽस्तीति ज्ञापनार्थं संख्यानिर्देशः | स्वेन स्वेन लक्षणेन विद्यमानवद् भवतीति स्व्भावः |
SK
त्रिविधा निःस्वभावता लक्षणनिःस्वभावता उत्पत्तिनिःस्वभावता परमार्थनिःस्वभावता च | सर्वधर्माः परिकल्पितपरतन्त्रपरिनिष्पन्नात्मकाः |
SK
इदानीं त्रिविधस्य स्वभावस्य या यस्य निःस्वभावता तां तस्य प्रदर्शयन्न् आह |
SK
प्रथमो लक्षणेनैव निःस्वभावो ऽपरः पुनः | न स्वयंभाव एतस्येत्य् अपरा निःस्वभावता || २४
SK
धर्माणां परमार्थश् च स यतस् तथतापि सः | २५अब्
SK
प्रथमः परिकल्पितः स्वभावो ऽयं च लक्षणेनैव निःस्वभावस् तल्लक्षणस्योत्प्रेक्षितत्वात् | रूपलक्षणं रूपम् | अनुभवलक्षणा वेदनेत्यादि | अतश् च स्वरूपाभावात् खपुष्पवत् स्वरूपेणैव निःस्वभावः |
SK
अपरः पुनर् इति परतन्त्रस्वभावः | न स्वयंभाव एतस्य मायावत् परप्रत्ययेनोत्पत्तेः | अतश् च यथा प्रख्याति तथास्योत्पत्तिर् नास्तीत्य् अतो ऽस्योत्पत्तिनिःस्वभावतेत्य् उच्यते |
SK
धर्माणां परमार्थश् च स यतस् तथापि स इति | (२५अब्)
SK
परमं हि लोकोत्तरज्ञानं निरुत्तरत्वात् तस्यार्थः परमार्थः | अथ वाकाशवत् सर्वत्रैकरसार्थेन वैमल्याविकारार्थेन च परिनिष्पन्नः स्वभावः परमार्थ उच्यते | स यस्मात् परिनिष्पन्नः स्वभावः सर्वधर्माणां परतन्त्रात्मकानां परमार्थः | तद्धर्मतेति कृत्वा तस्मात् परिनिष्पन्न एव स्वभावः परमार्थनिःस्वभावाता परिनिष्पन्नस्याभावस्वभावत्वात् |
SK
किं पुनः परमार्थाभिधानेनैव परिनिष्पन्नो ऽभिधातव्यः | नेत्य् आह | किं तर्हि
SK
तथतापि सः | (२५ब्)
SK
अपिशब्दान् न केवलं तथताशब्देनैवाभिधातव्यः | किं तर्हि यावन्तो धर्मधातुपर्यायाः सर्वैस् तैर् अप्य् अभिधातव्य इति ||
SK
सर्वकालं तथाभावात् २५च्
SK
तथता | तथा हि पृथग्जनशैक्षाशैक्षावस्थासु सर्वकालं तथैव भवति | नान्यथेति तथतेत्य् उच्यते |
SK
किं पुनस् तथतावत् परिनिष्पन्न एव विज्ञप्तिमात्रता | उतान्या विज्ञप्तिमात्रता | अत आह |
SK
सैव विज्ञप्तिमात्रता || २५द्
SK
सुविशुद्धलक्षणावबोधाद् यथोक्तम् |
SK
नाम्नि तिष्ठति तच् चित्तं तदा तन्मात्रदर्शनात् | नाम्नि स्थानाच् च विज्ञप्ताव् उपलम्भः प्रहीयते ||
SK
नोपलम्भं तदा धातुं स्पृशते भावनान्वयात् | सर्वावरणविमोक्षं विभुत्वं लभते तदा ||
SK
इति | सैव विज्ञप्तिमात्रतेत्य् अनेन वचनेनाभिसमय उक्तः |
SK
यदि विज्ञप्तिमात्रम् एवेदं कस्माच् चक्षुःश्रोत्रघ्राणरसनस्पर्शनैः रूपशब्दगन्धरसस्पर्शान् गृह्णातीत्य् अस्य भवतीत्य् अत आह |
SK
यावद् विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठते | ग्राहद्वयस्यानुशयस् तावन् न विनिवर्तते || २६
SK
अथ वा यास् ताः कर्मवासना ग्राहद्वयवासनासहिताः
SK
क्षीणे पूर्वविपाके ऽन्यं विपाकं जनयन्तीत्य् (१९च्द्)
SK
उक्तं तस्मात् कथं प्रहाणम् अप्रहाणं चेत्य् अत आह |
SK
यावद् विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ट्ःअत (२६अब्)
SK
इति विस्तरः | यावच् चित्तधर्मतायां विज्ञप्तिमात्रसंशब्दितायां विज्ञानं नावतिष्ठते किं तर्हि ग्राह्यग्राहकोपलम्भे चरति | ग्राहद्वयं ग्राह्यग्राहो ग्राहकग्राहश् च | तस्यानुशयस् तदाहितम् अनागतग्राहद्वयोत्पत्तये बीजम् आलयविज्ञाने | यावद् अद्वयलक्षणे विज्ञप्तिमात्रत्वे योगिनश् चित्तं न प्रतिष्ठितं भवति तावद् ग्राह्यग्राहकानुशयो न विनिवर्तते न प्रहीयत इत्य् अर्थः | अत्र च बहिर् उपलम्भाप्रहाणेनाध्यात्मिकोपलम्भाप्रहाणं दर्शितम् इति | अतो ऽस्यैवम् भवत्य् अहं चक्षुरादिभिः रूपादीन् गृह्णामीति |
SK
इदम् इदानीं वक्तव्यं किम् अर्थरहितचित्तमात्रोपलम्भाच् चित्तधर्मतावस्थानम् | नेत्य् आह | किं तर्हि |
SK
विज्ञप्तिमात्रम् एवेदम् इत्य् अपि ह्य् उपलम्भतः | स्थापयन्न् अग्रतः किञ्चित् तन्मात्रे नावतिष्ठते || २७
SK
इति अथ वा यः पुनर् आभिमानिकः श्रुतमात्रकेण जानीयद् अहं विज्ञप्तिमात्रतायां शुद्धायां स्थित इति तद्ग्रहव्युदासार्थम् आह |
SK
विज्ञप्तिमात्रम् एवेदम् इत्य् अपि ह्य् उपलम्भत इत्य् (२७अब्)
SK
आदि | विज्ञप्तिमात्रम् एवेदं अर्थरहितं न बाह्यो ऽर्थो ऽस्तीत्य् एवम् उपलम्भतो ग्रहणतः चित्रीकरणत इत्य् अर्थो ऽग्रत इत्य् अभिमुखं [Tव्भ्_१३६] स्थापयन्न् इति यथाश्रुतं मनसा बहुप्रकारत्वाद् योगाचारालम्बनानां किंचिद् इत्य् आहास्थिसंकलिकं वा विनीलकं वा विपूयकं वा विपडुमकं वा व्याध्मातकादिकं वा तन्मात्रे नावतिष्ठते विज्ञानोपलम्भाप्रहाणात् |
SK
कदा पुनर् विज्ञानग्राहस्य प्रहाणं चित्तधर्मातायाञ् च प्रतिष्ठितो भवतीत्य् अत आह |
SK
यदा त्व् आलम्बनं ज्ञानं नैवोपलभते तदा | स्थितं विज्ञप्तिमात्रत्वे ग्राह्याभाभावे तदग्रहात् || २८
SK
यस्मिन् काले देशनालम्बनं अववादालम्बनं प्राकृतं वा रूपशब्दाद्यालम्बनं ज्ञानं बहिश् चित्तान् नोपलभते न पश्यति न गृह्णाति नाभिनिविशते यथाभूतार्थदर्शनान् न तु जात्यन्धवत् तस्मिन् काले विज्ञानग्राहस्य प्रहाणं स्वचित्तधर्मतायां च प्रतिष्ठितो भवति | अत्रैव कारणम् आह |
SK
ग्राह्याभावे तदग्रहाद् इति | (२८द्)
SK
ग्राह्ये सति ग्राहको भवति न तु ग्राह्याभाव इति | ग्राह्याभावे ग्राहकाभावम् अपि प्रतिपद्यते | न केवलं ग्राह्याभावम् | एवं हि [Tव्भ्_१३८] समसमालम्ब्यालम्बकं निर्विकल्पं लोकोत्तरं ज्ञानम् उत्पद्यते | ग्राह्यग्राहकाभिनिवेशानुशयाः प्रहीयन्ते स्वचित्तधर्मतायां च चित्तम् अवस्थितं भवति |
SK
यदैवं विज्ञप्तिमात्रतायां चित्तम् अवस्थितं भवति तदा कथं व्यपदिश्यत इत्य् आह |
SK
अचित्तो ऽनुपलम्बो ऽसौ ज्ञानं लोकोत्तरञ् च तत् | आश्रयस्य परावृत्तिर् द्विधादौष्ठुल्यहानितः || २९
SK
स एवानास्रवो धातुर् अचिन्त्यः कुशलो ध्रुवः | सुखो विमुक्तिकायो ऽसौ धर्माख्यो ऽयं महामुनेः || ३०
SK
इति | तद् अनेन श्लोकद्वयेन दर्शनमार्गम् आरभ्योत्तरविशेषगत्या फलसंपत्तिर् उद्भाविता विज्ञप्तिमात्रताप्रविष्टयोगिनः | तत्र ग्राहकचित्ताभावाद् ग्राह्यार्थानुपलम्भाच्
SK
चाचित्तो ऽनुपलम्भो ऽसौ | (२९अ)
SK
अनुचितत्वाल् लोके समुदाचाराभावान् निर्विकल्पत्वाच् च लोकाद् उत्तीर्णम् इति
SK
ज्ञानं लोकोत्तरञ् च तद् इति | (२९ब्)
SK
तस्य ज्ञानस्यानन्तरं आश्रयस्य परावृत्तिर् भवतीति ज्ञापनार्थम् आह |
SK
आश्रयस्य परावृत्तिर् इति | (२९च्)
SK
आश्रयो ऽत्र सर्वबीजकम् आलयविज्ञानम् | तस्य परावृत्तिर् या दौष्ठुल्यविपाकद्वयवासनाभावेन निवृत्तौ सत्यां कर्मण्यताधर्मकायाद्वयज्ञानभावेन परावृत्तिः |
SK
सा पुनर् आश्रयपरावृत्तिः कस्य प्रहाणात् प्राप्यते | अत आह |
SK
द्विधादौष्ठुल्यहानितः | (२९द्)
SK
द्विधेति क्लेशावरणदौष्ठुल्यं ज्ञेयावरणदौष्ठुल्यञ् च | दौष्ठुल्यम् आश्रयस्याकर्मण्यता | तत् पुनः क्लेशज्ञेयावरणयोर् बीजम् | सा पुनर् आश्रयपरावृत्तिः श्रावकादिगतदौष्ठुल्यहानितश् च प्राप्यते यद् आह विमुक्तिकाय इति |
SK
बोधिसत्त्वगतदौष्ठुल्यहानितश् च प्राप्यते यद् आह
SK
धर्माख्यो ऽयं महामुनेर् इति | (३०द्)
SK
द्विधा आवरणभेदेन सोत्तरा निरुत्तरा चाश्रयपरावृत्तिर् उक्ता |
SK
अत्र गाथा |
SK
ज्ञेयम् आदानविज्ञानं द्वयावरणलक्षणम् | सर्वबीजं क्लेशबीजं बन्धस् तत्र द्वयोर् द्वयोः ||
SK
इति | द्वयोर् इति श्रावकबोधिसत्त्वयोः | आद्यस्य क्लेशबीजं इतरस्य द्वयावरणबीजं तदुद्घातात् सर्वज्ञतावाप्तिर् भवतीति |
SK
स एवानास्रवो धातुर् इति (३०अ)
SK
स एवाश्रयपरावृत्तिरूपः | अनास्रवो धातुर् इत्य् उच्यते निर्दौष्ठुल्यत्वात् | सर्वास्रवविगत इत्य् अनास्रवः | आर्यधर्महेतुत्वाद् धातुः | हेत्वर्थो ह्य् अत्र धातुशब्दः |
SK
अचिन्त्यस् तर्कागोचरत्वात् प्रत्यात्मवेद्यत्वाद् दृष्टान्ताभावाच् च | कुशलो विशुद्धालम्बनत्वात् क्षेमत्वाद् अनास्रवधर्ममयत्वाच् च | ध्रुवो नित्यत्वाद् अक्षयतया | सुखो नित्यत्वाद् एव यद् अनित्यं तद् दुःखं अयं च नित्य इति तस्मात् सुखः |
SK
क्लेशावरणप्रहाणाच् छ्रावकाणां विमुक्तिकायः |
SK
स एवाश्रयपरावृत्तिलक्षणो धर्माख्यो ऽप्य् उच्यते महामुनेर् भूमिपारमिताभावनया क्लेशज्ञेयावरणप्रहाणात् | आश्रयपरावृत्तिसमुदागमान् महामुनेर् धर्मकाय इत्य् उच्यते | संसारापरित्यागात् तदनुपसंक्लेशत्वाद् बोधिसत्त्वानां सर्वधर्मविभुत्वलाभतश् च धर्मकाय इत्य् उच्यते | महामुनेर् इति परमौनेययोगाद् बुद्धो भगवान् महामुनिर् इति ||
SK
त्रिंशिकाविज्ञप्तिभाष्यं समाप्तम् || कृतिर् आचार्यस्तिरमतेः ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Vasubandhu: Triṃśikāvijñaptikārikā with Sthiramati's Triṃśikāvijñaptibhāṣya (sa_vasubandhu-triMzikAvijJaptikArikA-comm.htm).

Source