SK
प्. १) साधनमाला | ई ॐ नमः सर्वबुद्धबोधिसत्त्वेभ्यः | श्रीमत्त्रिसमयं वन्दे सर्वसम्पत्सुखोदयम् | भवदुर्गतिखिन्नानां चिन्तारत्नमिवाद्भुतम् || अस्त्येव साधनं सम्यक् पूर्वाचार्यैरिहोदितम् | किन्तु विस्तरभीरुणा संक्षिप्तमुपदिश्यते || इह खलु श्रीत्रिसमयराजे महातन्त्रराजे महातन्त्रे [क्: रेअद्स् तन्त्रमण्डले] मन्त्रमण्डले रजोमण्डले [रजोमण्डले द्रोप्पेद् इन् अल्ल् ओथेर् ंष्ष् एxचेप्त् ण्] वा विधिवल्लब्धाधिकारो मन्त्री तदुक्तसमयसम्वरस्थः पूर्वसेवां चिकीर्षुः पर्वतारण्यादिषु गुहागृहारामलयनादिषु वा विविक्तविजनेषु मनोरमेषु वसन् आदौ तावदिमां मूलविद्यां बुद्धप्रतिमाया अग्रतो [क्: रेअद्स् रान्तद] मण्डलकं [क्: ण मण्डलम्] पुष्पाभिकीर्णं कृत्वा प्रणम्य बोधिचित्तमुत्पाद्य सर्वबुद्धबोधिसत्त्वेभ्य आत्मानं निर्यात्य तत्प्रणामालम्बनजापमभ्यसन् [क्: ण लम्ब ; ढ्: स्यन् इन्] सहस्रं जपेत् | ततः सर्वमन्त्राणां लक्षजापः [क् ढ् अ: जायम्] कृतो भवति | सर्वरक्षादिमन्त्राश्चास्य सिद्धा भवन्ति | तत्रेयं विद्या - प्. २) नमः सर्वबुद्धबोधिसत्त्वानां अमला मलहारका अनन्ताः ससुताः सर्वजिना असीमनिष्ठा वरदामम [क्, ढ् अ: वर] देन्तु [सिच्. चोर्रेच्त् fओर्म् इस् ददतु] अत्युदारं वरमग्र्यं सम सर्वदा अनन्तम् | तत्र इमे वज्रपदाः | अरर असम सम [क्, ढ् अ: असमसमन्ता] समन्तानन्त धर्म ते खण खण महावीराचले सम सम असहमहाबले कण कण महावराग्रिके हह हह [क्, ढ् अ: हुहु हुहु] वज्रवज्राह्वये धर धर हुṁ हुṁ मण्डलं समबलाग्रविक्रमे [क्, ढ् अ: वराग्र] कुरु कुरु तुरु तुरु सर्वथा सर्वं हि ज्वल ज्वल अग्रे अग्रिणि हुṁ फट् [क्, ढ् अ: फट् फट्] स्वाहा | ततः सर्वकर्मावरणक्षयार्थं सर्वतथागतहृदयं शताक्षरं तेनैव विधिना अष्टसहस्रं जपेत् | सद्धर्मदूषणानन्तर्यादिकं कर्मावरणं प्रहीयते | इदं च तत् -