अथ खल्वानन्द स धर्माकरो भिक्षुर्यास्तेषामेकाशीतिबुद्धकोटीनियुतशतसहस्राणां बुद्धक्षेत्रगुणालंकारव्यूहसंपदः, ताः सर्वा एके बुद्धक्षेत्रे परिगृह्य भगवतो लोकेश्वरराजस्य तथागतस्य पादौ शिरसा वन्दित्वा प्रदक्षिणीकृत्य तस्य भगवतो ऽन्तिकात्प्राक्रामत् | उत्तरि च पञ्च कल्पान् बुद्धक्षेत्रगुणालंकारव्यूहसंपदमुदारतरां प्रणीततरां च सर्वलोके दशसु दिक्षु अप्रचरितपूर्वां परिगृहीतवान्, उदारतरं च प्रणिधानमकार्षीत् || Sउख्व्_६ ||
SK
START Sउख्व् ७:
SK
इति ह्यानन्द या तेन भगवता लोकेश्वरराजेन तथागतेन तेषामेकाशीतिबुद्धक्षेत्रकोटीनियुतशतसहस्राणां संपत्तिः कथिता, ततो भिक्षुरेकाशीत्युदारप्रणीताप्रमेयतरां बुद्धक्षेत्रसंपत्तिं परिगृह्य येन स तथागतस्तेनोपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एतदवोचत् - परिगृहीता मे भगवन् बुद्धक्षेत्रगुणालंकारव्यूहसंपदिति | एवमुक्ते आनन्द स लोकेश्वरराजस्तथागतस्तं भिक्षुमेतदवोचत् - तेन हि भिक्षो भाषस्व, अनुमोदते तथागतः | अयं कालो भिक्षो, प्रमोदय पर्षदम्, हर्षं जनय, सिंहनादं नद,यं श्रुत्वा बोधिसत्त्वा महासत्त्वा एतर्ह्यनागते ऽध्वनि एवंरूपाणि बुद्धक्षेत्रगुणसंपत्तिप्रणिधिस्थानानि परिग्रहीष्यन्ति | अथानन्द स धर्माकरो भिक्षुस्तस्यां वेलायां भगवन्तमेतदवोचत् - तेन हि शृणोतु मे भगवान् ये मम प्रणिधानविशेषाः, यथा मे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य अचिन्त्यगुणालंकारव्यूहसमन्वागतं तद् बुद्धक्षेत्रं भविष्यति || Sउख्व्_७ ||
SK
START Sउख्व् ८:
SK
१. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे निरयो वा तिर्यग्योनिर्वा प्रेतविषयो वा आसुरो वा कायो भवेत्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
२. सचेन्मे भगवंस्तस्य तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः, ते पुनस्ततश्च्युत्वा निरयं वा तिर्यग्योनिं वा प्रेतविषयं वा आसुरं वा कायं प्रपतेयुः,मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
३. सचेन्मे भगवंस्तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजातास्ते च सर्वे नैकवर्णाः स्युर्यदिदं सुवर्णवर्णाः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
४. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे देवानां च मनुष्याणां च नानात्वं प्रज्ञायेत अन्यत्र नाम संवृतिव्यवहारमात्रा देवमनुष्या इति संख्यागणनातः,मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
५. सचेन्मे भगवंतस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाताः, ते च सर्वे न ऋद्धिवशितापरमपारमिताप्राप्ता भवेयुः, अन्तश एकचित्तक्षणलवेन बुद्धक्षेत्रकोटीनियुतशतसहस्रातिक्रमणतयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
६. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः, ते च सर्वे जातिस्मरा न स्युः, अन्तशः कल्पकोटीनियुतशतसहस्रानुस्मरणतयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
७. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न दिव्यस्य चक्षुषो लाभिनो भवेयुः, अन्तशो लोकधातुकोटीनियुतशतसहस्रदर्शनतयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
८. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न दिव्यस्य श्रोत्रस्य लाभिनो भवेयुः, अन्तशो बुद्धक्षेत्रकोटीनियुतशतसहस्रादपि युगपत्सद्धर्मश्रवणतया, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
९. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न परचित्तज्ञानकोविदा भवेयुः, अन्तशो बुद्धक्षेत्रकोटीनियुतशतसहस्रपर्यापन्नानामपि सत्त्वानां चित्तचरितपरिज्ञानतया, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
१०. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, तेषां काचित्परिग्रहसंज्ञोत्पद्येत, अन्तशः स्वशरीरे ऽपि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
११. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न नियताः स्युर्यादिदं सम्यक्त्वे यावन्महापरिनिर्वाणे, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
२२. सचेन्मे भगवन् बोधिप्राप्तस्त तत्र बुद्धक्षेत्रे बोधिसत्त्वा यथारूपैराकारैराकाङ्क्षेयुः कुशलमूलान्यवरोपयितुं यदिदं सुवर्णेन वा रजतेन वा मणिमुक्तावैडूर्यशङ्खशिलाप्रवालस्फटिकमुसारगल्वलोहितमुक्ताश्मगर्भादिभिर्वा अन्यतमान्यतमैः सर्वै रत्नैर्वा सर्वगन्धपुष्पमाल्यविलेपनधूपचूर्णचीवरच्छत्रध्वजपताकाप्रदीपैर्वा (Sउख्व्, Vऐद्य २२८) सर्वनृत्यगीतवाधैर्वा, तेषां च तथारूपा आहाराः सहचित्तोत्पादान्न प्रादुर्भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
२३. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः,ते सर्व न सर्वज्ञतासहगतां धर्मकथां कथयेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
२४. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये बोधिसत्त्वा एवं चित्तमुत्पादयेयुः - यदिहैव वयं लोकधातौ स्थित्वा अप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः सत्कुर्याम् गुरुकुर्याम् मानयेम पूजयेम यदिदं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्नानाविधनृत्यगीतवाद्यै रत्नवर्षैरिति, तेषां च बुद्धा भगवन्तः सहचित्तोत्पादान्न प्रतिगृह्णीयुर्यदिदमनुकम्पामुपादाय, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
२५. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाता भवेयुः, ते सर्वे न नारायणवज्रसंहतात्मभावस्थामप्रतिलब्धा भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
२७. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे यः सर्वपरीत्तकुशलमूलो बोधिसत्त्वः सो ऽन्तशो योजनशतोत्थितमुदारवर्णं बोधिवृक्षं न संजानीयात्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
२८. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे कस्यचित्सत्त्वस्योद्देशो वा स्वाध्यायो वा कर्तव्यः स्यात्, न ते सर्वे प्रतिसंवित्प्राप्ता भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
२९. सचेन्मे भगवन् बोधिप्राप्तस्य नैवं प्रभास्वरं तद्बुद्धक्षेत्रं भवेद्यत्र समन्तादप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणानि बुद्धक्षेत्राणि संदृश्येरन् तद्यथापि नाम परिमृष्टे आदर्शमण्डले मुखमण्डलम्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
३०. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे धरणीतलमुपादाय यावदन्तरीक्षाद्देवमनुष्यविषयातिक्रान्तस्याभिजातस्य धूपस्य तथागतबोधिसत्त्वपूजाप्रत्यर्हस्य सर्वरत्नमयानि नानासुरभिगन्धघटिकाशतसहस्राणि सदा निधूपितान्यव न स्युः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
३१. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे न सदाभिप्रवृष्टान्येव सुगन्धिनानारत्नपुष्पवर्षाणि सदा प्रवादिताश्च मनोज्ञस्वरा वाद्यमेघा न स्युः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
SK
३२. सचेन्मे भगवन् बोधिप्राप्तस्य ये सत्त्वा अप्रमेयासंख्येयाचिन्यातुल्येषु लोकधातुष्वाभया स्फुटा भवेयुः, ते सर्वे न देवमनुष्यसमतिक्रान्तेन सुखेन समन्वागता भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ||
अपरिमितं च आनन्द तस्य भगवतो ऽमिताभस्य तथागतस्यायुःप्रमाणं यस्य न सुकरं प्रमाणमधिगन्तुम्, इयन्ति वा कल्पशतानि, इयन्ति वा कल्पसहस्राणि, इयन्ति वा कल्पशतसहस्राअणि, इयत्यो वा कल्पकोट्यः, इयन्ति वा कल्पकोटीशतानि, इयन्ति वा कल्पकोटीसहस्राणि, इयन्ति वा कल्पकोटीशतसहस्राणि, इयन्ति वा कल्पकोटीनियुतशतसहस्राणीति | अथ तर्हि आनन्द अपरिमितमेव तस्य भगवत् आयुःप्रमाणमपर्यन्तम् | तेन स तथागतो ऽमितायुरित्युच्यते | यथा चानन्द इह लोकधातौ कल्पगणनाप्रज्ञप्तिसंकेतः, तथा सांप्रतं दश कल्पास्तस्य भगवतो ऽमितायुषस्तथागतस्योत्पन्नस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य || Sउख्व्_१४ ||
SK
START Sउख्व् १५:
SK
तस्य खलु पुनरानन्द भगवतो ऽमिताभस्य सुखावती नाम लोकधातुरृद्धा च स्फीता च क्षेमा च सुभिक्षा च रमणीया च बहुदेवमनुष्याकीर्णा च | तत्र खल्वानन्द लोकधातौ न निरयाः सन्ति न तिर्यग्योनिर्न प्रेतविषयो नासुराः काया नाक्षणोपपत्तयः | न च तानि रत्नानि लोके प्रचरन्ति यानि सुखावत्यां लोकधातौ विद्यन्ते || Sउख्व्_१५ ||
न च तत्र लोकधातौ देवानां वा मनुष्याणां वा नानात्वमस्ति अन्यत्र संवृतिव्यवहारेण देवमनुष्याविति संख्यां गच्छन्ति | तद्यथा आनन्द राज्ञश्चक्रवर्तिनः पुरतो मनुष्यहीनो मनुष्यप्रेतको न भासते न तपते न विरोचते, न च भवति विशारदो न प्रभाश्वरः, एवमेव देवानां परनिर्मितवशवर्तिनां पुरतः शक्रो देवानामिन्द्रो न भासते न तपते न विरोचते यदिदमुद्यानविमानवस्त्राभरणैराधिपत्येन ऋद्ध्या वा प्रातिहार्येण वा ऐश्वर्येण वा आनन्द, स खलु धर्माभिसमयेन धर्मपरिभोगेण वा | तत्र आनन्द यथा देवाः परिनिर्मितवशवर्तिनः, एवं सुखावत्यां लोकधातौ मनुष्या द्रष्टव्याः || Sउख्व्_२० ||