The Upanishad of Shiva

Śivopaniṣad · Śइवोपनिषद्

The Upanishad of Shiva

Śivopaniṣad

Śइवोपनिषद्

SK
कैलासशिखरासीनम् अशेषामरपूजितम् कालघ्नं श्रीमहाकालम् ईश्वरं ज्ञानपारगम् //
SK
कैलास-शिखर-आसीनम् अशेष-अमर-पूजितम् काल-घ्नं श्री-महाकालम् ईश्वरं ज्ञान-पारगम् //
SK
संपूज्य विधिवद् भक्त्या ऋष्यात्रेयः सुसंयतः सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः //
SK
संपूज्य विधिवद् भक्त्या ऋष्य्-आत्रेयः सुसंयतः सर्व-भूत-हित-अर्थाय पप्रच्छ इदं महा-मुनिः //
SK
ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः ते मुच्यन्ते कथं घोराद् भगवन् भवसागरात् //
SK
ज्ञान-योगं न विन्दन्ति ये नरा मन्द-बुद्धयः ते मुच्यन्ते कथं घोराद् भगवन् भव-सागरात् //
SK
एवं पृष्टः प्रसन्नात्मा ऋष्य् आत्रेयेण धीमता मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते //
SK
एवं पृष्टः प्रसन्न-आत्मा ऋष्य् आत्रेयेण धीमता मन्द-बुद्धि-विमुक्त्य्-अर्थं महा-कालः प्रभाषते //
SK
पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः देव्याः सर्वगणानां च संक्षेपाद् ग्रन्थकोटिभिः //
SK
पुरा रुद्रेण गदिताः शिव-धर्माः सनातनाः देव्याः सर्व-गणानां च संक्षेपाद् ग्रन्थ-कोटिभिः //
SK
आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य नॄणाम् इह तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम् //
SK
आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य नॄणाम् इह ताप-त्रय-प्रपीडां च भोग-तृष्णा-विमोहिनीम् //
SK
ते धर्माः स्कन्दनन्दिभ्याम् अन्यैश् च मुनिसत्तमैः सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः //
SK
ते धर्माः स्कन्द-नन्दिभ्याम् अन्यैश् च मुनि-सत्तमैः सार-मादाय निर्दिष्टाः सम्यक्-प्रकरण-अन्तरैः //
SK
साराद् अपि महासारं शिवोपनिषदं परम् अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम् //
SK
साराद् अपि महा-सारं शिव-उपनिषदं परम् अल्प-ग्रन्थं महा-अर्थं च प्रवक्ष्यामि जगद्-धितम् //
SK
शिवः शिव इमे शान्तनाम चाद्यं मुहुर्मुहुः उच्चारयन्ति तद् भक्त्या ते शिवा नात्र संशयः //
SK
शिवः शिव इमे शान्तनाम चा अद्यं मुहुर्-मुहुः उच्चारयन्ति तद् भक्त्या ते शिवा न अत्र संशयः //
SK
अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः यस्माद् विलक्षणास् तेभ्यस् तस्माद् ईशः शिवः स्मृतः //
SK
अशिवाः पाश-संयुक्ताः पशवः सर्व-चेतनाः यस्माद् विलक्षणास् तेभ्यस् तस्माद् ईशः शिवः स्मृतः //
SK
गुणो बुद्धिर् अहंकारस् तन्मात्राणीन्द्रियानि च भूतानि च चतुर्विंशद् इति पाशाः प्रकीर्तिताः //
SK
गुणो बुद्धिर् अहंकारस् तन्-मात्राणि इन्द्रियानि च भूतानि च चतुर्-विंशद् इति पाशाः प्रकीर्तिताः //
SK
पञ्चविंशकम् अज्ञानं सहजं सर्वदेहिनाम् पाशाजालस्य तन् मूलं प्रकृतिः कारणाय नः //
SK
पञ्चविंशकम् अज्ञानं सहजं सर्व-देहिनाम् पाशा-जालस्य तन् मूलं प्रकृतिः कारणाय नः //
SK
सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः मद्भावाच् च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात् //
SK
सत्य-ज्ञाने निबध्यन्ते पुरुषाः पाश-बन्धनैः मद्-भावाच् च विमुच्यन्ते ज्ञानिनः पाश-पञ्जरात् //
SK
षड्विंशकश् च पुरुषः पशुर् अज्ञः शिवागमे सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः //
SK
षड्विंशकश् च पुरुषः पशुर् अज्ञः शिव-आगमे सप्तविंश इति प्रोक्तः शिवः सर्व-जगत्-पतिः //
SK
यस्माच् छिवः सुसंपूर्णः सर्वज्ञः सर्वगः प्रभुः तस्मात् स पाशहरितः स विशुद्धः स्वभावतः //
SK
यस्माच् छिवः सुसंपूर्णः सर्वज्ञः सर्वगः प्रभुः तस्मात् स पाश-हरितः स विशुद्धः स्व-भावतः //
SK
पशुपाशपरः शान्तः परमज्ञानदेशिकः शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते //
SK
पशु-पाश-परः शान्तः परम-ज्ञान-देशिकः शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते //
SK
एतद् एव परं ज्ञानं शिव इत्य् अक्षरद्वयम् विचाराद् याति विस्तारं तैलबिन्दुर् इवाम्भसि //
SK
एतद् एव परं ज्ञानं शिव इत्य् अक्षर-द्वयम् विचाराद् याति विस्तारं तैल-बिन्दुर् इव अम्भसि //
SK
सकृद् उच्चारितं येन शिव इत्य् अक्षरद्वयम् बद्धः परिकरस् तेन मोक्षोपगमनं प्रति //
SK
सकृद् उच्चारितं येन शिव इत्य् अक्षर-द्वयम् बद्धः परिकरस् तेन मोक्ष-उपगमनं प्रति //
SK
द्व्यक्षरः शिवमन्त्रो ऽयं शिवोपनिषदि स्मृतः एकाक्षरः पुनश् चायम् ओम् इत्य् एवं व्यवस्थितः //
SK
द्व्य्-अक्षरः शिव-मन्त्रो ऽयं शिव-उपनिषदि स्मृतः एक-अक्षरः पुनश् च अयम् ओम् इत्य् एवं व्यवस्थितः //
SK
नामसंकीर्तणाद् एव शिवस्याशेषपातकैः यतः प्रमुच्यते क्षिप्रं मन्त्रो ऽयं द्व्यक्षरः परः //
SK
नाम-संकीर्तणाद् एव शिवस्य अशेष-पातकैः यतः प्रमुच्यते क्षिप्रं मन्त्रो ऽयं द्व्य्-अक्षरः परः //
SK
यः शिवं शिवम् इत्य् एवं द्व्यक्षरं मन्त्रम् अभ्यसेत् एकाक्षरं वा सततं स याति परमं पदम् //
SK
यः शिवं शिवम् इत्य् एवं द्व्य्-अक्षरं मन्त्रम् अभ्यसेत् एक-अक्षरं वा सततं स याति परमं पदम् //
SK
मित्रस्वजनबन्धूनां कुर्यान् नाम शिवात्मकम् अपि तत् कीर्तनाद् याति पापमुक्तः शिवं पुरम् //
SK
मित्र-स्वजन-बन्धूनां कुर्यान् नाम शिव-आत्मकम् अपि तत् कीर्तनाद् याति पाप-मुक्तः शिवं पुरम् //
SK
विज्ञेयः स शिवः शान्तो नरस् तद्भावभावितः आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते //
SK
विज्ञेयः स शिवः शान्तो नरस् तद्-भाव-भावितः आस्ते सदा निरुद्विग्नः स देह-अन्ते विमुच्यते //
SK
हृद्य् अन्तःकरणं ज्ञेयं शिवस्य आयतनं परम् हृत्पद्मं वेदिका तत्र लिङ्गम् ॐकारम् इष्यते //
SK
हृद्य् अन्तः-करणं ज्ञेयं शिवस्य आयतनं परम् हृत्-पद्मं वेदिका तत्र लिङ्गम् ॐ-कारम् इष्यते //
SK
पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम् अहिंसा गोमयं प्रोक्तं शान्तिश् च सलिलं परम् //
SK
पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम् अहिंसा गोमयं प्रोक्तं शान्तिश् च सलिलं परम् //
SK
कुर्यात् संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम् पूजयेद् ध्यानयोगेन संतोषैः कुसुमैः सितैः //
SK
कुर्यात् संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम् पूजयेद् ध्यान-योगेन संतोषैः कुसुमैः सितैः //
SK
धूपश् च गुग्गुलुर् देयः प्राणायामसमुद्भवः प्रत्याहारश् च नैवेद्यम् अस्तेयं च प्रदक्षिणम् //
SK
धूपश् च गुग्गुलुर् देयः प्राण-आयाम-समुद्भवः प्रत्याहारश् च नैवेद्यम् अस्तेयं च प्रदक्षिणम् //
SK
इति दिव्योपचारैश् च संपूज्य परमं शिवम् जपेद् ध्यायेच् च मुक्त्यर्थं सर्वसङ्गविवर्जितः //
SK
इति दिव्य-उपचारैश् च संपूज्य परमं शिवम् जपेद् ध्यायेच् च मुक्त्य्-अर्थं सर्व-सङ्ग-विवर्जितः //
SK
ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः मृतः शिवपुरं गच्छेत् स तेन शिवकर्मणा //
SK
ज्ञान-योग-विनिर्मुक्तः कर्म-योग-समावृत्तः मृतः शिव-पुरं गच्छेत् स तेन शिव-कर्मणा //
SK
तत्र भुक्त्वा महाभोगान् प्रलये सर्वदेहिनाम् शिवधर्माच् छिवज्ञानं प्राप्य मुक्तिम् अवाप्नुयात् //
SK
तत्र भुक्त्वा महा-भोगान् प्रलये सर्व-देहिनाम् शिव-धर्माच् छिव-ज्ञानं प्राप्य मुक्तिम् अवाप्नुयात् //
SK
ज्ञानयोगेन मुच्यन्ते देहपाताद् अनन्तरम् भोगान् भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः //
SK
ज्ञान-योगेन मुच्यन्ते देह-पाताद् अनन्तरम् भोगान् भुक्त्वा च मुच्यन्ते प्रलये कर्म-योगिनः //
SK
तस्माज् ज्ञानविदो योगात् तथाज्ञाः कर्मयोगिनः सर्व एव विमुच्यन्ते ये नराः शिवम् आश्रिताः //
SK
तस्माज् ज्ञान-विदो योगात् तथ आज्ञाः कर्म-योगिनः सर्व एव विमुच्यन्ते ये नराः शिवम् आश्रिताः //
SK
स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम् ते भोगान् प्राप्य मुच्यन्ते प्रलये शिवविद्यया //
SK
स भोगः शिव-विद्या-अर्थं येषां कर्म अस्ति निर्मलम् ते भोगान् प्राप्य मुच्यन्ते प्रलये शिव-विद्यया //
SK
विद्या संकीर्तनीया हि येषां कर्म न विद्यते ते चावर्त्य विमुच्यन्ते यावत् कर्म न तद् भवेत् //
SK
विद्या संकीर्तनीया हि येषां कर्म न विद्यते ते चा अवर्त्य विमुच्यन्ते यावत् कर्म न तद् भवेत् //
SK
शिवज्ञानविदं तस्मात् पूजयेद् विभवैर् गुरुम् विद्यादानं च कुर्वीत भोगमोक्षजिगीषया //
SK
शिव-ज्ञान-विदं तस्मात् पूजयेद् विभवैर् गुरुम् विद्या-दानं च कुर्वीत भोग-मोक्ष-जिगीषया //
SK
शिवयोगी शिवज्ञानी शिवजापी तपोऽधिकः क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः //
SK
शिव-योगी शिव-ज्ञानी शिव-जापी तपोऽधिकः क्रमशः कर्म-योगी च पञ्च-एते मुक्ति-भाजनाः //
SK
कर्मयोगस्य यन् मूलं तद् वक्ष्यामि समासतः लिङ्गम् आयतनं चेति तत्र कर्म प्रवर्तते //
SK
कर्म-योगस्य यन् मूलं तद् वक्ष्यामि समासतः लिङ्गम् आयतनं च इति तत्र कर्म प्रवर्तते //
SK
// इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः //
SK
अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत् गर्भाद् वापि विभागेन स्थाप्य लिङ्गं शिवालये //
SK
अथ पूर्व-स्थितो लिङ्गे गर्भः स त्रि-गुणो भवेत् गर्भाद् व आपि विभागेन स्थाप्य लिङ्गं शिव-आलये //
SK
यावल् लिङ्गस्य दैर्घ्यं स्यात् तावद् वेद्याश् च विस्तरः लिङ्गतृतीयभागेन भवेद् वेद्याः समुच्छ्रयः //
SK
यावल् लिङ्गस्य दैर्घ्यं स्यात् तावद् वेद्याश् च विस्तरः लिङ्ग-तृतीय-भागेन भवेद् वेद्याः समुच्छ्रयः //
SK
भागम् एकं न्यसेद् भूमौ द्वितीयं वेदिमध्यतः तृतीयभागे पूजा स्वाद् इति लिङ्गं त्रिधा स्थितम् //
SK
भागम् एकं न्यसेद् भूमौ द्वितीयं वेदि-मध्यतः तृतीय-भागे पूजा स्वाद् इति लिङ्गं त्रिधा स्थितम् //
SK
भूमिस्थं चतुरश्रं स्वाद् अष्टाश्रं वेदिमध्यतः पूजार्थं वर्तुलं कार्यं दैर्घ्यात् त्रिगुणविस्तरम् //
SK
भूमि-स्थं चतुर्-अश्रं स्वाद् अष्ट-अश्रं वेदि-मध्यतः पूजा-अर्थं वर्तुलं कार्यं दैर्घ्यात् त्रि-गुण-विस्तरम् //
SK
अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः ऊर्ध्वं रुद्रः क्रमाद् वापि ब्रह्मविष्णुमहेश्वराः //
SK
अधो-भागे स्थितः स्कन्दः स्थिता देवी च मध्यतः ऊर्ध्वं रुद्रः क्रमाद् व आपि ब्रह्म-विष्णु-महेश्वराः //
SK
एत एव त्रयो लोका एत एव त्रयो गुणाः एत एव त्रयो वेदा एतच् चान्यत् स्थितं त्रिधा //
SK
एत एव त्रयो लोका एत एव त्रयो गुणाः एत एव त्रयो वेदा एतच् च अन्यत् स्थितं त्रिधा //
SK
नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश् चापि मध्यमः विद्यात् कनीयस् त्रैहस्तं लिङ्गमानम् इदं स्मृतम् //
SK
नव-हस्तः स्मृतो ज्येष्ठः षड्-ढस्तश् च अपि मध्यमः विद्यात् कनीयस् त्रै-हस्तं लिङ्ग-मानम् इदं स्मृतम् //
SK
गर्भस्यानतः प्रविस्तारस् तदूनश् च न शस्यते गर्भस्यानतः प्रविस्ताराद् तदुपर्य् अपि संस्थितम् //
SK
गर्भस्य अनतः प्रविस्तारस् तद्-ऊनश् च न शस्यते गर्भस्य अनतः प्रविस्ताराद् तद्-उपर्य् अपि संस्थितम् //
SK
प्रासादं कल्पयेच् छ्रीमान् विभजेत त्रिधा पुनः भाग एको भवेज् जङ्घा द्वौ भागौ मञ्जरी स्मृता //
SK
प्रासादं कल्पयेच् छ्रीमान् विभजेत त्रिधा पुनः भाग एको भवेज् जङ्घा द्वौ भागौ मञ्जरी स्मृता //
SK
मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत् गर्भाद् अर्धेन विस्तारम् आयामं च सुशोभनम् //
SK
मञ्जर्या अर्ध-भाग-स्थं शुक-नासं प्रकल्पयेत् गर्भाद् अर्धेन विस्तारम् आयामं च सुशोभनम् //
SK
गर्भाद् वापि त्रिभागेन शुकनासं प्रकल्पयेत् गर्भाद् अर्धेन विस्तीर्णा गर्भाच् च द्विगुणायता //
SK
गर्भाद् व आपि त्रि-भागेन शुक-नासं प्रकल्पयेत् गर्भाद् अर्धेन विस्तीर्णा गर्भाच् च द्वि-गुण-आयता //
SK
जङ्घाभिश् च भवेत् कार्या मञ्जर्यङ्गुलराशिना प्रासादार्धेन विज्ञेयो मण्डपस् तस्य वामतः //
SK
जङ्घाभिश् च भवेत् कार्या मञ्जर्य्-अङ्गुल-राशिना प्रासाद-अर्धेन विज्ञेयो मण्डपस् तस्य वामतः //
SK
मण्डपात् पादविस्तीर्णा जगती तावदुच्छ्रिता प्रासादस्य प्रमाणेन जगत्या सार्धम् अङ्गणम् //
SK
मण्डपात् पाद-विस्तीर्णा जगती तावद्-उच्छ्रिता प्रासादस्य प्रमाणेन जगत्या सार्धम् अङ्गणम् //
SK
प्राकारं तत्समन्ताच् च गुपुराद् आलभूषितम् प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम् //
SK
प्राकारं तत्-समन्ताच् च गु-पुराद् आल-भूषितम् प्राकार-अन्तः स्थितं कार्यं वृष-स्थानं समुच्छ्रितम् //
SK
नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ प्राकाराद् दक्षिणे कार्यं सर्वोपकरणान्वितम् //
SK
नन्दीश्वर-महाकालौ द्वार-शाखा-व्यवस्थितौ प्राकाराद् दक्षिणे कार्यं सर्व-उपकरण-अन्वितम् //
SK
पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत् प्राकारगुप्तं तत् कार्यं मैत्रस्थानसमन्वितम् //
SK
पञ्च-भौमं त्रि-भौमं वा योगीन्द्रावसथं महत् प्राकार-गुप्तं तत् कार्यं मैत्र-स्थान-समन्वितम् //
SK
स्थानाद् दशसमायुक्तं भव्यवृक्षजलान्वितम् तन् महानसम् आग्नेय्यां पूर्वतः सत्त्रमण्डपम् //
SK
स्थानाद् दश-समायुक्तं भव्य-वृक्ष-जल-अन्वितम् तन् महा-अनसम् आग्नेय्यां पूर्वतः सत्त्र-मण्डपम् //
SK
स्थानं चण्डेशम् ऐशान्यां पुष्पारामं तथोत्तरम् कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम् //
SK
स्थानं चण्डेशम् ऐशान्यां पुष्प-आरामं तथ ऊत्तरम् कोष्ठ-आगारं च वायव्यां वारुण्यां वरुण-आलयम् //
SK
शमीन्धनकुशस्थानम् आयुधानां च नैरृतम् सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत् //
SK
शमी-इन्धन-कुशस्थानम् आयुधानां च नैरृतम् सर्व-लोक-उपकाराय नगर-स्थं प्रकल्पयेत् //
SK
श्रीमदायतनं शम्भोर् योगिनां विजने वने शिवस्यायतने यावत् समेताः परमाणवः //
SK
श्रीमद्-आयतनं शम्भोर् योगिनां विजने वने शिवस्या अयतने यावत् समेताः परम-अणवः //
SK
मन्वन्तराणि तावन्ति कर्तुर् भोगाः शिवे पुरे महाप्रतिमलिङ्गानि महान्त्य् आयतनानि च //
SK
मन्वन्तराणि तावन्ति कर्तुर् भोगाः शिवे पुरे महा-प्रतिम-लिङ्गानि महान्त्य् आयतनानि च //
SK
कृत्वाप्नोति महाभोगान् अन्ते मुक्तिं च शाश्वतीम् लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती //
SK
कृत्वा आप्नोति महा-भोगान् अन्ते मुक्तिं च शाश्वतीम् लिङ्ग-प्रतिष्ठां कुर्वीत यदा तल्-लक्षणं कृती //
SK
पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत् पालाशोदुम्बराश्वत्थपृषदाज्यतिलैर् यवैः //
SK
पञ्च-गव्येन संशोध्य पूजयित्व आधिवासयेत् पालाश-उदुम्बर-अश्वत्थपृषद्-आज्य-तिलैर् यवैः //
SK
अग्निकार्यं प्रकुर्वीत दद्यात् पूर्णाहुतित्रयम् शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद् बुधः //
SK
अग्नि-कार्यं प्रकुर्वीत दद्यात् पूर्ण-आहुति-त्रयम् शिवस्य अष्ट-शतं हुत्वा लिङ्ग-मूलं स्पृशेद् बुधः //
SK
एवं मध्ये ऽवसाने तन् मूर्तिमन्त्रैश् च मूर्तिषु अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः //
SK
एवं मध्ये ऽवसाने तन् मूर्ति-मन्त्रैश् च मूर्तिषु अष्टौ मूर्ति-ईश्वराः कार्याः नवमः स्थापकः स्मृतः //
SK
प्रातः संस्थापयेल् लिङ्गं मन्त्रैस् तु नवभिः क्रमात् महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत् //
SK
प्रातः संस्थापयेल् लिङ्गं मन्त्रैस् तु नवभिः क्रमात् महा-स्नापन-पूजां च स्थाप्य लिङ्गं प्रपूजयेत् //
SK
गुरोर् मूर्तिधराणां च दद्याद् उत्तमदक्षिणाम् यतीनां च समस्तानां दद्यान् मध्यमदक्षिणाम् //
SK
गुरोर् मूर्ति-धराणां च दद्याद् उत्तम-दक्षिणाम् यतीनां च समस्तानां दद्यान् मध्यम-दक्षिणाम् //
SK
दीनान्धकृपणेभ्यश् च सर्वासाम् उपकल्पयेत् सर्वभक्ष्यान्नपानाद्यैर् अनिषिद्धं च भोजनम् //
SK
दीन-अन्ध-कृपणेभ्यश् च सर्वासाम् उपकल्पयेत् सर्व-भक्ष्य-अन्न-पान-आद्यैर् अनिषिद्धं च भोजनम् //
SK
कल्पयेद् आगतानां च भूतेभ्यश् च बलिं हरेत् रात्रौ मातृगणानां च बलिं दद्याद् विशेषतः //
SK
कल्पयेद् आगतानां च भूतेभ्यश् च बलिं हरेत् रात्रौ मातृ-गणानां च बलिं दद्याद् विशेषतः //
SK
एवं यः स्थापयेल् लिङ्गं तस्य पुण्यफलं शृणु कुलत्रिंशकम् उद्धृत्य भृत्यैश् च परिवारितः //
SK
एवं यः स्थापयेल् लिङ्गं तस्य पुण्य-फलं शृणु कुल-त्रिंशकम् उद्धृत्य भृत्यैश् च परिवारितः //
SK
कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः विमुच्य पापकलिलं शिवलोकं व्रजेन् नरः तत्र भुक्त्वा महाभोगान् प्रलये मुक्तिम् आप्नुयात् //
SK
कलत्र-पुत्र-मित्र-आद्यैः सहितः सर्व-बान्धवैः विमुच्य पाप-कलिलं शिव-लोकं व्रजेन् नरः तत्र भुक्त्वा महा-भोगान् प्रलये मुक्तिम् आप्नुयात् //
SK
// इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः //
SK
अथान्यैर् अल्पवित्तैश् च नृपैश् च शिवभावितैः शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम् //
SK
अथ अन्यैर् अल्प-वित्तैश् च नृपैश् च शिव-भावितैः शक्तितः स्व-आश्रमे कार्यं शिव-शान्ति-गृह-द्वयम् //
SK
गृहस्येशानदिग्भागे कार्यम् उत्तरतो ऽपि वा खात्वा भूमिं समुद्धृत्य शल्यान् आकोट्य यत्नतः //
SK
गृहस्या इशान-दिग्-भागे कार्यम् उत्तरतो ऽपि वा खात्वा भूमिं समुद्धृत्य शल्यान् आकोट्य यत्नतः //
SK
शिवदेवगृहं कार्यम् अष्टहस्तप्रमाणतः दक्षिणोत्तरदिग्भागे किंचिच् दीर्घं प्रकल्पयेत् //
SK
शिव-देव-गृहं कार्यम् अष्ट-हस्त-प्रमाणतः दक्षिण-उत्तर-दिग्-भागे किंचिच् दीर्घं प्रकल्पयेत् //
SK
हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम् चतुष्कोणेषु संयोज्यम् अर्घ्यपात्रादिसंश्रयम् //
SK
हस्त-मात्र-प्रमाणं च दृढ-पट्ट-चतुष्टयम् चतुष्-कोणेषु संयोज्यम् अर्घ्य-पात्र-आदि-संश्रयम् //
SK
गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम् उदगर्वाक् च्छ्रितां(?) किंचिच् चतुःशीर्षकसंयुताम् //
SK
गर्भ-मध्ये प्रकुर्वीत शिव-वेदिं सुशोभनाम् उदगर्वाक् च्छ्रितां(?) किंचिच् चतुः-शीर्षक-संयुताम् //
SK
त्रिहस्तायाम् अविस्ताराम् षोडशाङ्गुलम् उच्छ्रिताम् तच्छीर्षाणीव हस्तार्धम् आयामाद् विस्तरेण च //
SK
त्रि-हस्तायाम् अविस्ताराम् षोडश-अङ्गुलम् उच्छ्रिताम् तच्-छीर्षाणि इव हस्त-अर्धम् आयामाद् विस्तरेण च //
SK
शिवस्थण्डिलम् इत्य् एतच् चतुर्हस्तं समं शिरः मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत् //
SK
शिव-स्थण्डिलम् इत्य् एतच् चतुर्-हस्तं समं शिरः मूर्ति-नैवेद्य-दीपानां विन्यास-अर्थं प्रकल्पयेत् //
SK
शैवलिङ्गेन कार्यं स्यात् कार्यं मणिजपार्थिवैः स्थण्डिलार्धे च कुर्वन्ति वेदिम् अन्यां सवर्तुलाम् //
SK
शैव-लिङ्गेन कार्यं स्यात् कार्यं मणिज-पार्थिवैः स्थण्डिल-अर्धे च कुर्वन्ति वेदिम् अन्यां स-वर्तुलाम् //
SK
षोडशाङ्गुलम् उत्सेधां विस्तीर्णां द्विगुणेन च गृहे न स्थापयेच् छैलं लिङ्गं मणिजम् अर्चयेत् //
SK
षोडश-अङ्गुलम् उत्सेधां विस्तीर्णां द्वि-गुणेन च गृहे न स्थापयेच् छैलं लिङ्गं मणिजम् अर्चयेत् //
SK
त्रिसंध्यं पार्थिवं वापि कुर्याद् अन्यद् दिनेदिने सर्वेषाम् एव वर्णानां स्फाटिकं सर्वकामदम् //
SK
त्रि-संध्यं पार्थिवं व आपि कुर्याद् अन्यद् दिने-दिने सर्वेषाम् एव वर्णानां स्फाटिकं सर्व-काम-दम् //
SK
सर्वदोषविनिर्मुक्तम् अन्यथा दोषम् आवहेत् आयुष्मान् बलवाञ् श्रीमान् पुत्रवान् धनवान् सुखी //
SK
सर्व-दोष-विनिर्मुक्तम् अन्यथा दोषम् आवहेत् आयुष्मान् बलवाञ् श्रीमान् पुत्रवान् धनवान् सुखी //
SK
वरम् इष्टं च लभते लिङ्गं पार्थिवम् अर्चयन् तस्माद् धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् //
SK
वरम् इष्टं च लभते लिङ्गं पार्थिवम् अर्चयन् तस्माद् धि पार्थिवं लिङ्गं ज्ञेयं सर्व-अर्थ-साधकम् //
SK
निर्दोषं सुलभं चैव पूजयेत् सततं बुधः यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा //
SK
निर्दोषं सुलभं चैव पूजयेत् सततं बुधः यथा यथा महा-लिङ्गं पूजा श्रद्धा यथा यथा //
SK
तथा तथा महत् पुण्यं विज्ञेयम् अनुरूपतः प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः तावत्कल्पान् महाभोगस् तत्कर्तास्ते शिवे पुरे //
SK
तथा तथा महत् पुण्यं विज्ञेयम् अनुरूपतः प्रतिमा-लिङ्ग-वेदीषु यावन्तः परम-अणवः तावत्-कल्पान् महा-भोगस् तत्-कर्ता आस्ते शिवे पुरे //
SK
// इति शिवोपनिषदि शिवगृहाध्यायस् तृतीयः //
SK
अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम् पूर्वापराष्टहस्तं स्याद् द्वादशोत्तरदक्षिणे //
SK
अथ-एकभिन्न-अविच्छिन्नं पुरतः शान्ति-मण्डपम् पूर्व-अपर-अष्ट-हस्तं स्याद् द्वादश-उत्तर-दक्षिणे //
SK
तद् द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम् पटद्वयं भवेत् स्थाप्य स्रुवाद्यावारहेतुना //
SK
तद् द्वार-भित्ति-संबद्धं कपि-च्छुक-समावृतम् पट-द्वयं भवेत् स्थाप्य स्रुव-आद्य्-आवार-हेतुना //
SK
द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलम् उच्छ्रितम् तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये //
SK
द्वारं त्रिशाखं विज्ञेयं नवत्य्-अङ्गुलम् उच्छ्रितम् तद्-अर्धेन च विस्तीर्णं सत्-कवाटं शिव-आलये //
SK
दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम् सत्कवाटद्वयोपेतं श्रीमद् वाहनमण्टपम् //
SK
दीर्घं पञ्च-नवत्या च पञ्च-शाखा-सुशोभितम् सत्-कवाट-द्वय-उपेतं श्रीमद् वाहन-मण्टपम् //
SK
द्वारं पश्चान्मुखं ज्ञेयम् अशेषार्थप्रसाधकम् अभावे प्राङ्मुखं कार्यम् उदग्दक्षिणतो न च //
SK
द्वारं पश्चान्-मुखं ज्ञेयम् अशेष-अर्थ-प्रसाधकम् अभावे प्राङ्-मुखं कार्यम् उदग्-दक्षिणतो न च //
SK
गवाक्षकद्वयं कार्यम् अपिधानं सुशोभनम् धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः //
SK
गव-अक्षक-द्वयं कार्यम् अपिधानं सुशोभनम् धूम-निर्गमन-अर्थाय दक्षिण-उत्तर-कुड्ययोः //
SK
आग्नेयभागात् परितः कार्या जालगवाक्षकाः ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया //
SK
आग्नेय-भागात् परितः कार्या जाल-गव-अक्षकाः ऊर्ध्व-स्तूपिकया युक्ता ईषच्-छिद्र-पिधानया //
SK
शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः चतुरश्रवेदि(का) श्रीमन् मेखलात्रयभूषितम् //
SK
शिव-अग्निहोत्र-कुण्डं च वृत्तं हस्त-प्रमाणतः चतुर्-अश्र-वेदि(का) श्रीमन् मेखला-त्रय-भूषितम् //
SK
कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम् शिवाग्निहोत्रशरणं कर्तव्यम् अतिशोभनम् //
SK
कुड्यं द्वि-हस्त-विस्तीऋणं पञ्च-हस्त-समुच्छ्रितम् शिव-अग्निहोत्र-शरणं कर्तव्यम् अतिशोभनम् //
SK
जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत् बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम् //
SK
जगती-स्तम्भ-पट्ट-आद्यं सप्त-संख्यं च कल्पयेत् बन्ध-योग-विनिर्मुक्तं तुल्य-स्थान-पद-अन्तरम् //
SK
ऐष्टकं कल्पयेद् यत्नाच् छिवाग्न्यायतनं महत् चतुःप्रेगीवकोपेतम्(?) एकप्रेगीवकेन वा(?) //
SK
ऐष्टकं कल्पयेद् यत्नाच् छिव-अग्न्य्-आयतनं महत् चतुः-प्रेगीवक-उपेतम्(?) एक-प्रेगीवकेन वा(?) //
SK
सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम् शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम् //
SK
सुधा-प्रलिप्तं कर्तव्यं पञ्च-अण्डक-बिभूषितम् शिव-अग्नि-होत्र-शरणं चतुर्-अण्डक-संयुतम् //
SK
बहिस् तद् एव जगती त्रिहस्ता वा सुकुट्टिमा तावद् एव च विस्तीर्णा मेखलादिविभूषिता //
SK
बहिस् तद् एव जगती त्रि-हस्ता वा सुकुट्टिमा तावद् एव च विस्तीर्णा मेखल-आदि-विभूषिता //
SK
कर्तव्या चात्र जगती तस्याश् चाधः समन्ततः द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता //
SK
कर्तव्या च अत्र जगती तस्याश् च अधः समन्ततः द्वि-हस्त-मात्र-विस्तीर्णा तद्-अर्ध-अर्ध-समुच्छ्रिता //
SK
अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना दशहस्तप्रमाणा च चतुरङ्गुलम् उच्छ्रिता //
SK
अन्या वृत्ता प्रकर्तव्या रुद्र-वेदी सुशोभना दश-हस्त-प्रमाणा च चतुर्-अङ्गुलम् उच्छ्रिता //
SK
रुद्रमातृगणानां च दिक्पतीनां च सर्वदा सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत् //
SK
रुद्र-मातृ-गणानां च दिक्-पतीनां च सर्वदा सर्व-अग्र-पाक-संयुक्तं तासु नित्य-बलिं हरेत् //
SK
वेद्य् अन्या सर्वभूतानां बहिः कार्या द्विहस्तिका वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम् //
SK
वेद्य् अन्या सर्व-भूतानां बहिः कार्या द्वि-हस्तिका वृष-स्थानं च कर्तव्यं शिव-आलोकन-संमुखम् //
SK
अग्रार्षसवितुर् व्योम वृषः कार्यश् च पश्चिमे व्योम्नश् चाधस् त्रिगर्भं स्यात् पितृतर्पणवेदिका //
SK
अग्र-आर्ष-सवितुर् व्योम वृषः कार्यश् च पश्चिमे व्योम्नश् च अधस् त्रि-गर्भं स्यात् पितृ-तर्पण-वेदिका //
SK
प्राकारान्तर्बहिः कार्यं श्रीमद् गोपुरभूषितम् पुष्पारामजलोपेतं प्राकारान्तं च कारयेत् //
SK
प्राकार-अन्तर्-बहिः कार्यं श्रीमद् गो-पुर-भूषितम् पुष्प-आराम-जल-उपेतं प्राकार-अन्तं च कारयेत् //
SK
मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम् भूमिकाद्वयविन्यासाद् उत्क्षिप्तं कल्पयेद् बुधः //
SK
मृद्-दारुजं तृण-च्छन्नं प्रकुर्वीत शिव-आलयम् भूमिका-द्वय-विन्यासाद् उत्क्षिप्तं कल्पयेद् बुधः //
SK
शिवदक्षिणतः कार्यं तभुक्तेर् योग्यम् आलयम् शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम् //
SK
शिव-दक्षिणतः कार्यं त-भुक्तेर् योग्यम् आलयम् शय्या-आसन-समायुक्तं वास्तु-विद्या-विनिर्मितम् //
SK
ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः धूमश्वगर्दभध्वाङ्क्षाश् चत्वारश् चार्थनाशकाः //
SK
ध्वज-सिंहौ वृष-गजौ चत्वारः शोभनाः स्मृताः धूम-श्व-गर्दभ-ध्वाङ्क्षाश् चत्वारश् च अर्थ-नाशकाः //
SK
गृहस्यायामविस्तारं कृत्वा त्रिगुणम् आदितः अष्टभिः शोधयेद् आपैः शेषश् च गृहम् आदिशेत् //
SK
गृहस्या अयाम-विस्तारं कृत्वा त्रि-गुणम् आदितः अष्टभिः शोधयेद् आपैः शेषश् च गृहम् आदिशेत् //
SK
इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत् अप्य् एकं दिवसं भक्त्या तस्य पुण्यफलं शृणु //
SK
इति शान्ति-गृहं कृत्वा रुद्र-अग्निं यः प्रवर्तयेत् अप्य् एकं दिवसं भक्त्या तस्य पुण्य-फलं शृणु //
SK
कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः कुलैकविंशद् उत्तार्य देवलोकम् अवाप्नुयात् //
SK
कलत्र-पुत्र-मित्र-आद्यैः स भृत्यैः परिवारितः कुल-एकविंशद् उत्तार्य देव-लोकम् अव-आप्नुयात् //
SK
नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः हेमवर्णाः स्त्रियश् चान्याः सुन्दर्यः प्रियदर्शनाः //
SK
नील-उत्पल-दल-श्यामाः पीन-वृत्त-पयो-धराः हेम-वर्णाः स्त्रियश् च अन्याः सुन्दर्यः प्रिय-दर्शनाः //
SK
ताभिः सार्धं महाभोगैर् विमानैः सार्वकामिकैः इच्छया क्रीडते तावद् यावद् आभूतसंप्लवम् //
SK
ताभिः सार्धं महा-भोगैर् विमानैः सार्व-कामिकैः इच्छया क्रीडते तावद् यावद् आ-भूत-संप्लवम् //
SK
ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम् दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात् //
SK
ततः कल्प-अग्निना सार्धं दह्यमानं सुविह्वलम् दृष्ट्वा विरज्यते भूयो भव-भोग-महा-अर्णवात् //
SK
ततः संपृच्छते रुद्रांस् तत्रस्थान् ज्ञानपारगान् तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणम् आप्नुयात् //
SK
ततः संपृच्छते रुद्रांस् तत्र-स्थान् ज्ञान-पारगान् तेभ्यः प्राप्य शिव-ज्ञानं शान्तं निर्वाणम् आप्नुयात् //
SK
अविरक्तश् च भोगेभ्यः सप्त जन्मानि जायते पृथिव्यधिपतिः श्रीमान् इच्छया वा द्विजोत्तमः //
SK
अविरक्तश् च भोगेभ्यः सप्त जन्मानि जायते पृथिव्य्-अधिपतिः श्रीमान् इच्छया वा द्विजोत्तमः //
SK
सप्तमाज् जन्मनश् चान्ते शिवज्ञानम् अनाप्नुयात् ज्ञानाद् विरक्तः संसाराच् छुद्धः खान्य् अधितिष्ठति //
SK
सप्तमाज् जन्मनश् च अन्ते शिव-ज्ञानम् अनाप्नुयात् ज्ञानाद् विरक्तः संसाराच् छुद्धः खान्य् अधितिष्ठति //
SK
इत्य् एतद् अखिलं कार्यं फलम् उक्तं समासतः उत्सवे च पुनर् ब्रूमः प्रत्येकं द्रव्यजं फलम् //
SK
इत्य् एतद् अखिलं कार्यं फलम् उक्तं समासतः उत्सवे च पुनर् ब्रूमः प्रत्येकं द्रव्यजं फलम् //
SK
सद्गन्धगुटिकाम् एकां लाक्षां प्राण्यङ्गवर्जिताम् कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात् फलम् //
SK
सद्-गन्ध-गुटिकाम् एकां लाक्षां प्राण्य्-अङ्ग-वर्जिताम् कर्पास-अस्थि-प्रमाणं च हुत्व आग्नौ शृणुयात् फलम् //
SK
यावत् सत्गन्धगुटिका शिवाग्नौ संख्यया हुता तावत्कोट्यस् तु वर्षाणि भोगान् भुङ्क्ते शिवे पुरे //
SK
यावत् सत्-गन्ध-गुटिका शिव-अग्नौ संख्यया हुता तावत्-कोट्यस् तु वर्षाणि भोगान् भुङ्क्ते शिवे पुरे //
SK
एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम् वर्षकोटिद्वयं भोगैर् दिव्यैः शिवपुरे वसेत् //
SK
एक-अङ्गुल-प्रमाणेन हुत्व आग्नौ चन्दन-आहुतिम् वर्ष-कोटि-द्वयं भोगैर् दिव्यैः शिव-पुरे वसेत् //
SK
यावत्केसरसंख्यानं कुसुमस्यानले हुतम् तावद्युगसहस्राणि शिवलोके महीयते //
SK
यावत्-केसर-संख्यानं कुसुमस्य अनले हुतम् तावद्-युग-सहस्राणि शिव-लोके महीयते //
SK
नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम् यत् फलं चन्दनस्योक्तम् उशीरस्य तदर्धकम् //
SK
नाग-केसर-पुष्पं तु कुङ्कुम-अर्धेन कीर्तितम् यत् फलं चन्दनस्य उक्तम् उशीरस्य तद्-अर्धकम् //
SK
यत् पुष्पधूपभष्यान्नदधिक्षीरघृतादिभिः पुण्यलिङ्गार्चने प्रोक्तं तद् धोमस्य दशाधिकम् //
SK
यत् पुष्प-धूप-भष्य अन्नदधि-क्षीर-घृत-आदिभिः पुण्य-लिङ्ग-अर्चने प्रोक्तं तद् धोमस्य दश-अधिकम् //
SK
हुत्वाग्नौ समिधस् तिस्रौ शिवोमास्कन्दनामभिः पश्चाद् दद्यात् तिलान्नानि होमयीत यथाक्रमम् //
SK
हुत्व आग्नौ समिधस् तिस्रौ शिव-उमा-स्कन्द-नामभिः पश्चाद् दद्यात् तिल-अन्नानि होमयीत यथा-क्रमम् //
SK
पलाशाअङ्कुरजारिष्टपालाल्यः(?) समिधः शुभाः पृषदाज्यप्लुता हुत्वा शृणु यत् फलम् आप्नुयात् //
SK
पलाश-अअङ्कुरज-अरिष्टपालाल्यः(?) समिधः शुभाः पृषद्-आज्य-प्लुता हुत्वा शृणु यत् फलम् आप्नुयात् //
SK
पलाशाङ्कुरसंख्यानां यावद् अग्नौ हुतं भवेत् तावत्कल्पान् महाभोगैः शिवलोके महीयते //
SK
पलाश-अङ्कुर-संख्यानां यावद् अग्नौ हुतं भवेत् तावत्-कल्पान् महा-भोगैः शिव-लोके महीयते //
SK
तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः कल्पार्धसंमितं कालं भोगान् भुङ्क्ते शिवे पुरे //
SK
तल्-लक्ष्य-मध्य-संभूतं हुत्व आग्नौ समिधः शुभाः कल्प-अर्ध-संमितं कालं भोगान् भुङ्क्ते शिवे पुरे //
SK
शमीसमित्फलं देयम् अब्दान् अपि च लक्षकम् शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः //
SK
शमी-समित्-फलं देयम् अब्दान् अपि च लक्षकम् शम्य्-अर्ध-फलवच्-छेषाः समिधः क्षीर-वृक्षजाः //
SK
तिलसंख्यांस् तिलान् हुत्वा ह्य् आज्याक्ता(?) यावती भवेत् तावत् स वर्षलक्षांस् तु भोगान् भुङ्क्ते शिवे पुरे //
SK
तिल-संख्यांस् तिलान् हुत्वा ह्य् आज्याक्ता(?) यावती भवेत् तावत् स वर्ष-लक्षांस् तु भोगान् भुङ्क्ते शिवे पुरे //
SK
यावत् सुरौषधीरज्ञस्(?) तिलतुल्यफलं स्मृतम् इतरेभ्यस् तिलेभ्यश् च कृष्णानां द्विगुणं फलम् //
SK
यावत् सुरौषधीरज्ञस्(?) तिल-तुल्य-फलं स्मृतम् इतरेभ्यस् तिलेभ्यश् च कृष्णानां द्विगुणं फलम् //
SK
लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः दशसाहस्रिका ज्ञेयाः शेषाः स्युर् बीजजातयः //
SK
लाज-अक्षताः स-गो-धूमाः वर्ष-लक्ष-फल-प्रदाः दश-साहस्रिका ज्ञेयाः शेषाः स्युर् बीज-जातयः //
SK
पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम् क्षीरवृक्षसमृद्धे ऽग्नौ फलं सार्धार्धिकं भवेत् //
SK
पलाश-इन्धन-जे वह्नौ होमस्य द्विगुणं फलम् क्षीर-वृक्ष-समृद्धे ऽग्नौ फलं सार्ध-अर्धिकं भवेत् //
SK
असमिद्धे सधूमे च होमकर्म निरर्थकम् अन्धश् च जायमानः स्याद् दारिद्र्योपहतस् तथा //
SK
असमिद्धे सधूमे च होम-कर्म निरर्थकम् अन्धश् च जायमानः स्याद् दारिद्र्य-उपहतस् तथा //
SK
न च कण्टकिभिर् वृक्षैर् अग्निं प्रज्वाल्य होमयेत् शुष्कैर् नवैः प्रशस्तैश् च काष्ठैर् अग्निं समिन्धयेत् //
SK
न च कण्टकिभिर् वृक्षैर् अग्निं प्रज्वाल्य होमयेत् शुष्कैर् नवैः प्रशस्तैश् च काष्ठैर् अग्निं समिन्धयेत् //
SK
एवम् आज्याहुतिं हुत्वा शिवलोकम् अवाप्नुयात् तत्र कल्पशतं भोगान् भुङ्क्ते दिव्यान् यथेप्सितान् //
SK
एवम् आज्य-आहुतिं हुत्वा शिव-लोकम् अवाप्नुयात् तत्र कल्प-शतं भोगान् भुङ्क्ते दिव्यान् यथ-ईप्सितान् //
SK
स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च याहुतिर् दीयते वह्नौ सा पूर्णाहुतिर् उच्यते //
SK
स्रुच ऐक-आहित-मात्रेण व्रतस्या अपूरितेन च या आहुतिर् दीयते वह्नौ सा पूर्ण-आहुतिर् उच्यते //
SK
एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः सर्वकामम् अवाप्नोति शिवलोके व्यवस्थितः //
SK
एकां पूर्ण-आहुतिं हुत्वा शिवेन शिव-भावितः सर्व-कामम् अवाप्नोति शिव-लोके व्यवस्थितः //
SK
अशेषकुलजैर् सार्धं स भृत्यैः परिवारितः आभूतसंप्लवं यावद् भोगान् भुङ्क्ते यथेप्सितान् //
SK
अशेष-कुलजैर् सार्धं स भृत्यैः परिवारितः आ-भूत-संप्लवं यावद् भोगान् भुङ्क्ते यथा-ईप्सितान् //
SK
ततश् च प्रलये प्राप्ते संप्राप्य ज्ञानम् उत्तमम् प्रसादाद् ईश्वरस्यैव मुच्यते भवसागरात् //
SK
ततश् च प्रलये प्राप्ते संप्राप्य ज्ञानम् उत्तमम् प्रसादाद् ईश्वरस्य एव मुच्यते भव-सागरात् //
SK
शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति सो ऽपि पापरि नरः सर्वैर् मुक्तः शिवपुरं व्रजेत् //
SK
शिव-पूर्ण-आहुतिं वह्नौ पतन्तीं यः प्रपश्यति सो ऽपि पापरि नरः सर्वैर् मुक्तः शिव-पुरं व्रजेत् //
SK
शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः ते ऽपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः //
SK
शिव-अग्नि-धूम-संस्पृष्टा जीवाः सर्वे चर-अचराः ते ऽपि पाप-विनिर्मुक्ताः स्वर्गं यान्ति न संशयः //
SK
शिवयज्ञमहावेद्या जायते ये न सन्ति वा ते ऽपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः //
SK
शिव-यज्ञ-महा-वेद्या जायते ये न सन्ति वा ते ऽपि यान्ति शिव-स्थानं जीवाः स्थावर-जङ्गमाः //
SK
पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत् होमयेद् अतसीतैलं तिलतैलं विना नरः //
SK
पूर्ण-आहुतिं घृत-अभावे क्षीर-तैलेन कल्पयेत् होमयेद् अतसी-तैलं तिल-तैलं विना नरः //
SK
सर्षपेङ्गुडिकाशाम्रकरञ्जमधुकाक्षजम् प्रियङ्गुबिल्वपैप्पल्यनालिकेरसमुद्भवम्(?) //
SK
सर्षप-इङ्गुडि-काश-आम्रकरञ्ज-मधुकाक्षजम् प्रियङ्गु-बिल्व-पैप्पल्यनालिकेर-समुद्भवम्(?) //
SK
इत्य् एवम् आदिकं तैलम् आज्याभावे प्रकल्पयेत् दूर्वया बिल्वपत्त्रैर् वा समिधः संप्रकीर्तिताः //
SK
इत्य् एवम् आदिकं तैलम् आज्य-अभावे प्रकल्पयेत् दूर्वया बिल्व-पत्त्रैर् वा समिधः संप्रकीर्तिताः //
SK
अन्नार्थं होमयेत् क्षीरं दधि मूलफलानि वा तिलार्थं तण्डुलैः कुर्याद् दर्भार्थं हरितैस् तृणैः //
SK
अन्न-अर्थं होमयेत् क्षीरं दधि मूल-फलानि वा तिल-अर्थं तण्डुलैः कुर्याद् दर्भ-अर्थं हरितैस् तृणैः //
SK
परिधीनाम् अभावेन शरैर् वंशैश् च कल्पयेत् इन्धनानाम् अभावेन दीपयेत् तृणगोमयैः //
SK
परिधीनाम् अभावेन शरैर् वंशैश् च कल्पयेत् इन्धनानाम् अभावेन दीपयेत् तृण-गोमयैः //
SK
गोमयानाम् अभावेन महत्य् अम्भसि होमयेत् अपाम् असंभवे होमं भूमिभागे मनोहरे //
SK
गोमयानाम् अभावेन महत्य् अम्भसि होमयेत् अपाम् असंभवे होमं भूमि-भागे मनो-हरे //
SK
विप्रस्य दक्षिणे पाणाव् अश्वत्थे तदभावतः छागस्य दक्षिणे कर्णे कुशमूले च होमयेत् //
SK
विप्रस्य दक्षिणे पाणाव् अश्वत्थे तद्-अभावतः छागस्य दक्षिणे कर्णे कुश-मूले च होमयेत् //
SK
स्वात्माग्नौ होमयेत् प्राज्ञः सर्वाग्नीनाम् असंभवे अभावे न त्यजेत् कर्म कर्मयोगविधौ स्थितः //
SK
स्व्-आत्म-अग्नौ होमयेत् प्राज्ञः सर्व-अग्नीनाम् असंभवे अभावे न त्यजेत् कर्म कर्म-योग-विधौ स्थितः //
SK
आपत्काले ऽपि यः कुर्याच् छिवाग्नेर् मनसार्चनम् स मोहकञ्चुकं त्यक्त्वा परां शान्तिम् अवाप्नुयात् //
SK
आपत्-काले ऽपि यः कुर्याच् छिव-अग्नेर् मनस-अर्चनम् स मोह-कञ्चुकं त्यक्त्वा परां शान्तिम् अवाप्नुयात् //
SK
प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः //
SK
प्राण-अग्नि-होत्रं कुर्वन्ति परमं शिव-योगिनः बाह्य-कर्म-विनिर्मुक्ता ज्ञान-ध्यान-समाकुलाः //
SK
// इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश् चतुर्थः //
SK
अथाग्नेयं महास्नानम् अलक्ष्मीमलनाशनम् सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम् //
SK
अथा अग्नेयं महा-स्नानम् अलक्ष्मी-मल-नाशनम् सर्व-पाप-हरं दिव्यं तपः श्री-कीर्ति-वर्धनम् //
SK
अग्निरूपेण रुद्रेण स्वतेजः परमं बलम् भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम् //
SK
अग्नि-रूपेण रुद्रेण स्व-तेजः परमं बलम् भूति-रूपं समुद्गीर्णं विशुद्धं दुर्-इत-अपहम् //
SK
यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम् रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च //
SK
यक्ष-रक्षः-पिशाचानां ध्वंसनं मन्त्र-सत्-कृतम् रक्षा-अर्थं बाल-रूपाणां सूतिकानां गृहेषु च //
SK
यश् च भुङ्क्ते द्विजः कृत्वा [अ]न्नस्य वा परिधित्रयम्(?) अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर् न लिप्यते //
SK
यश् च भुङ्क्ते द्विजः कृत्वा [अ]न्नस्य वा परिधि-त्रयम्(?) अपि शूद्रस्य पङ्क्ति-स्थः पङ्क्ति-दोषैर् न लिप्यते //
SK
आहारम् अर्धभुक्तं च कीटकेशादिदूषितम् तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति //
SK
आहारम् अर्ध-भुक्तं च कीट-केश-आदि-दूषितम् तावन्-मात्रं समुद्धृत्य भूति-स्पृष्टं विशुद्ध्यति //
SK
आरण्यं गोमयकृतं करीषं वा प्रशस्यते शर्करापांसुनिर्मुक्तम् अभावे काष्ठभस्मना //
SK
आरण्यं गो-मय-कृतं करीषं वा प्रशस्यते शर्करा-पांसु-निर्मुक्तम् अभावे काष्ठ-भस्मना //
SK
स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना गोमयेषु च दग्धेषु हीष्टकानि च येषु च //
SK
स्व-गृह-आश्रम-वल्लिभ्यः कुलाल-आलय-भस्मना गो-मयेषु च दग्धेषु हि इष्टकानि च येषु च //
SK
सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम् (दुःखोपार्) शङ्खकुन्देन्दुवर्णाभम् आदद्याज् जन्तुवर्जितम् //
SK
सर्वत्र विद्यते भस्म दुःखापार्जन-रक्षणम् (दुःख-उपार्-) शङ्ख-कुन्द-इन्दु-वर्ण-आभम् आदद्याज् जन्तु-वर्जितम् //
SK
भस्मानीय प्रयत्नेन तद् रक्षेद् यत्नवांस् तथा मार्जारमूषिकाद्यैश् च नोपहन्येत तद् यथा //
SK
भस्मा अनीय प्रयत्नेन तद् रक्षेद् यत्नवांस् तथा मार्जार-मूषिका-आद्यैश् च न उपहन्येत तद् यथा //
SK
पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम् शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम् //
SK
पञ्च-दोष-विनिर्मुक्तं गुण-पञ्चक-संयुतम् शिव-एकादशिका-जप्तं शिव-भस्म प्रकीर्तितम् //
SK
जातिकारुकवाक्कायस्थानदुष्टं च पञ्चमम् पापघ्नं शांकरं रक्षापवित्रं योगदं गुणाः(?) //
SK
जाति-कारुक-वाक्-कायस्थान-दुष्टं च पञ्चमम् पाप-घ्नं शांकरं रक्षापवित्रं योगदं गुणाः(?) //
SK
शिवव्रतस्य शान्तस्य भासकत्वाच् छुभस्य च भक्षणात् सर्वपापानां भस्मेति परिकीर्तितम् //
SK
शिव-व्रतस्य शान्तस्य भासकत्वाच् छुभस्य च भक्षणात् सर्व-पापानां भस्म इति परिकीर्तितम् //
SK
भस्मस्नानं शिवस्नानं वारुणाद् अधिकं स्मृतम् जन्तुशैवालनिर्मुक्तम् आग्नेयं पङ्कवर्जितम् //
SK
भस्म-स्नानं शिव-स्नानं वारुणाद् अधिकं स्मृतम् जन्तु-शैवाल-निर्मुक्तम् आग्नेयं पङ्क-वर्जितम् //
SK
अपवित्रं भवेत् तोयं निशि पूर्वम् अनाहृतम् नदीतडागवापिषु गिरिप्रस्रवणेषु च //
SK
अपवित्रं भवेत् तोयं निशि पूर्वम् अनाहृतम् नदी-तडाग-वापिषु गिरि-प्रस्रवणेषु च //
SK
स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम् असाधारणम् एवोक्तं भस्मस्नानं द्विजन्मनाम् //
SK
स्नानं साधारणं प्रोक्तं वारुणं सर्व-देहिनाम् असाधारणम् एव उक्तं भस्म-स्नानं द्वि-जन्मनाम् //
SK
त्रिकालं वारुणस्नानाद् अनारोग्यं प्रजायते आग्नेयं रोगशमनम् एतस्माद् सार्वकामिकम् //
SK
त्रि-कालं वारुण-स्नानाद् अनारोग्यं प्रजायते आग्नेयं रोग-शमनम् एतस्माद् सार्व-कामिकम् //
SK
संध्यात्रये ऽर्धरात्रे च भुक्त्वा चान्नविरेचने शिवयोग्य् आचरेत् स्नानम् उच्चारादिक्रियासु च //
SK
संध्या-त्रये ऽर्ध-रात्रे च भुक्त्वा च अन्न-विरेचने शिव-योग्य् आचरेत् स्नानम् उच्चार-आदि-क्रियासु च //
SK
भस्मास्तृते महीभागे समे जन्तुविवर्जिते ध्यायमानः शिवं योगी रजन्यन्तं शयीत च //
SK
भस्म-आस्तृते मही-भागे समे जन्तु-विवर्जिते ध्यायमानः शिवं योगी रजन्य्-अन्तं शयीत च //
SK
एकरात्रोषितस्यापि या गतिर् भस्मशायिनः न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैर् अपि //
SK
एक-रात्र-उषितस्य अपि या गतिर् भस्म-शायिनः न सा शक्या गृह-स्थेन प्राप्तुं यज्ञ-शतैर् अपि //
SK
गृहस्थस् त्र्यायुष्ॐकारैः स्नानं कुर्यात् त्रिपुण्ड्रकैः यतिः सार्वाङ्गिकं स्नानम् आपादतलमस्तकात् //
SK
गृह-स्थस् त्र्य्-आयुष्ॐकारैः स्नानं कुर्यात् त्रि-पुण्ड्रकैः यतिः सार्व-आङ्गिकं स्नानम् आ-पाद-तल-मस्तकात् //
SK
शिवभक्तस् त्रिधा वेद्यां भस्मस्नानफलं लभेत् हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी //
SK
शिव-भक्तस् त्रिधा वेद्यां भस्म-स्नान-फलं लभेत् हृदि मूर्ध्नि ललाटे च शूद्रः शिव-गृह-आश्रमी //
SK
गणाः प्रव्रजिताः शान्ताः भूतिम् आलभ्य पञ्चधा शिरोललाटे हृद्बाह्वोर् भस्मस्नानफलं लभेत् //
SK
गणाः प्रव्रजिताः शान्ताः भूतिम् आलभ्य पञ्चधा शिरो-ललाटे हृद्-बाह्वोर् भस्म-स्नान-फलं लभेत् //
SK
संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च यः कुर्याद् भस्मना स्नानं तस्य पुण्यफलं शृनु //
SK
संवत्सरं तद्-अर्धं वा चतुर्दश्य्-अष्टमीषु च यः कुर्याद् भस्मना स्नानं तस्य पुण्य-फलं शृनु //
SK
शिवभस्मनि यावन्तः समेताः परमाणवः तावद्वर्षसहस्राणि शिवलोके महीयते //
SK
शिव-भस्मनि यावन्तः समेताः परम-अणवः तावद्-वर्ष-सहस्राणि शिव-लोके महीयते //
SK
एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः मित्रस्वजनभृत्यैश् च समस्तैः परिवारितः //
SK
एक-विंश-कुल-उपेतः पत्नी-पुत्र-अदि-संयुतः मित्र-स्वजन-भृत्यैश् च समस्तैः परिवारितः //
SK
तत्र भुक्त्वा महाभोगान् इच्छया सार्वकामिकान् ज्ञानयोगं समासाद्य प्रलये मुक्तिम् आप्नुयात् //
SK
तत्र भुक्त्वा महा-भोगान् इच्छया सार्व-कामिकान् ज्ञान-योगं समासाद्य प्रलये मुक्तिम् आप्नुयात् //
SK
भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम्(?) अनेन वै स देहेन रुद्रश् चङ्क्रमते क्षितौ //
SK
भस्म भस्म-अन्तिकं येन गृहीतं नैष्ठिक-व्रतम्(?) अनेन वै स देहेन रुद्रश् चङ्क्रमते क्षितौ //
SK
भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम् //
SK
भस्म-स्नान-रतं शान्तं ये नमन्ति दिने दिने ते सर्व-पाप-निर्मुक्ता नरा यान्ति शिवं पुरम् //
SK
इत्य् एतत् परमं स्नानम् आग्नेयं शिवनिर्मितम् त्रिसंध्यम् आचरेन् नित्यं जापी योगम् अवाप्नुयात् //
SK
इत्य् एतत् परमं स्नानम् आग्नेयं शिव-निर्मितम् त्रि-संध्यम् आचरेन् नित्यं जापी योगम् अवाप्नुयात् //
SK
भस्मानीय प्रदद्याद् यः स्नानार्थं शिवयोगिने कल्पं शिवपुरे भोगान् भुक्त्वान्ते स्याद् द्विजोत्तमः //
SK
भस्मा अनीय प्रदद्याद् यः स्नान-अर्थं शिव-योगिने कल्पं शिव-पुरे भोगान् भुक्त्व आन्ते स्याद् द्विजोत्तमः //
SK
आग्नेयं वारुणं मान्त्रं वायव्यं त्व् ऐन्द्रपञ्चमम् मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम् //
SK
आग्नेयं वारुणं मान्त्रं वायव्यं त्व् ऐन्द्र-पञ्चमम् मानसं शान्ति-तोयं च ज्ञान-स्नानं तथ आष्टमम् //
SK
आग्नेयं रुद्रमन्त्रेण भस्मस्नानम् अनुत्तमम् अम्भसा वारुणं स्नानम् कार्यं वारुणमूर्तिना //
SK
आग्नेयं रुद्र-मन्त्रेण भस्म-स्नानम् अनुत्तमम् अम्भसा वारुणं स्नानम् कार्यं वारुण-मूर्तिना //
SK
मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत् ध्यायमानः शिवं शान्तम् मन्त्रस्नानं परं स्मृतम् //
SK
मूर्धानं पाणिना आलभ्य शिव-एकादशिकां जपेत् ध्यायमानः शिवं शान्तम् मन्त्र-स्नानं परं स्मृतम् //
SK
गवां खुरपुटोत्खातपवनोद्धूतरेणुना कार्यं वायव्यकं स्नानम् मन्त्रेण मरुदात्मना //
SK
गवां खुर-पुट-उत्खातपवन-उद्धूत-रेणुना कार्यं वायव्यकं स्नानम् मन्त्रेण मरुद्-आत्मना //
SK
व्यभ्रे ऽर्के वर्षति स्नानं कुर्याद् ऐन्द्रीं दिशं स्थितः आकाशमूर्तिमन्त्रेण तद् ऐन्द्रम् इति कीर्तितम् //
SK
व्यभ्रे ऽर्के वर्षति स्नानं कुर्याद् ऐन्द्रीं दिशं स्थितः आकाश-मूर्ति-मन्त्रेण तद् ऐन्द्रम् इति कीर्तितम् //
SK
उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत् अभ्युक्षयेच् छिरस् तेन स्नानं मानसम् उच्यते //
SK
उदकं पाणिना गृह्य सर्व-तीर्थानि संस्मरेत् अभ्युक्षयेच् छिरस् तेन स्नानं मानसम् उच्यते //
SK
पृथिव्यां यानि तीर्थानि सरांस्य् आयतनानि च तेषु स्नातस्य यत् पुण्यं तत् पुण्यं क्षान्तिवारिणा //
SK
पृथिव्यां यानि तीर्थानि सरांस्य् आयतनानि च तेषु स्नातस्य यत् पुण्यं तत् पुण्यं क्षान्ति-वारिणा //
SK
न तथा शुध्यते तीर्थैस् तपोभिर् वा महाध्वरैः पुरुषः सर्वदानैश् च यथा क्षान्त्या विशुद्ध्यति //
SK
न तथा शुध्यते तीर्थैस् तपोभिर् वा महा-अध्वरैः पुरुषः सर्व-दानैश् च यथा क्षान्त्या विशुद्ध्यति //
SK
आक्रुष्टस् ताडितस् तस्माद् अधिक्षिप्तस् तिरस्कृत क्षमेद् अक्षममानानां स्वर्गमोक्षजिगीषया //
SK
आक्रुष्टस् ताडितस् तस्माद् अधिक्षिप्तस् तिरस्-कृत क्षमेद् अक्षम-मानानां स्वर्ग-मोक्ष-जिगीषया //
SK
यैव ब्रह्मविदां प्राप्तिर् यैव प्राप्तिस् तपस्विनाम् यैव योगाभियुक्तानां गतिः सैव क्षमावताम् //
SK
य ऐव ब्रह्म-विदां प्राप्तिर् य ऐव प्राप्तिस् तपस्विनाम् य ऐव योग-अभियुक्तानां गतिः स ऐव क्षमावताम् //
SK
ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः निर्मलः सुविशुद्धश् च विज्ञेयः सूर्यरश्मिवत् //
SK
ज्ञान-अमल-अम्भसा स्नातः सर्वद ऐव मुनिः शुचिः निर्मलः सुविशुद्धश् च विज्ञेयः सूर्य-रश्मिवत् //
SK
मेध्यामेध्यरसं यद्वद् अपि वत्स विना करैः नैव लिप्यति तद् दोषैस् तद्वज् ज्ञानी सुनिर्मलः //
SK
मेध्य-अमेध्य-रसं यद्वद् अपि वत्स विना करैः न एव लिप्यति तद् दोषैस् तद्वज् ज्ञानी सुनिर्मलः //
SK
एषाम् एकतमे स्नातः शुद्धभावः शिवं व्रजेत् अशुद्धभावः स्नातो ऽपि पूजयन्न् आप्नुयात् फलम् //
SK
एषाम् एकतमे स्नातः शुद्ध-भावः शिवं व्रजेत् अशुद्ध-भावः स्नातो ऽपि पूजयन्न् आप्नुयात् फलम् //
SK
जलं मन्त्रं दया दानं सत्यम् इन्द्रियसंयमः ज्ञानं भावात्मशुद्धिश् च शौचम् अष्टविधं श्रुतम् //
SK
जलं मन्त्रं दया दानं सत्यम् इन्द्रिय-संयमः ज्ञानं भाव-आत्म-शुद्धिश् च शौचम् अष्ट-विधं श्रुतम् //
SK
अङ्गुष्ठतलमूले च ब्राह्मं तीर्थम् अवस्थितम् तेनाचम्य भवेच् छुद्धः शिवमन्त्रेण भावितः //
SK
अङ्गुष्ठ-तल-मूले च ब्राह्मं तीर्थम् अवस्थितम् तेना अचम्य भवेच् छुद्धः शिव-मन्त्रेण भावितः //
SK
यद् अधः कन्यकायाश् च तत् तीर्थं दैवम् उच्यते तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम्(?) //
SK
यद् अधः कन्यकायाश् च तत् तीर्थं दैवम् उच्यते तीर्थं प्रदेशिनी-मूले पित्र्यं पितृ-विधोदयम्(?) //
SK
मध्यमाङ्गुलिमध्येन तीर्थम् आरिषम् उच्यते करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम् //
SK
मध्यम-अङ्गुलि-मध्येन तीर्थम् आरिषम् उच्यते कर-पुष्कर-मध्ये तु शिव-तीर्थं प्रतिष्ठितम् //
SK
वामपाणितले तीर्थम् औमम् नाम प्रकीर्तितम् शिवोमातीर्थसंयोगात् कुर्यात् स्नानाभिषेचनम् //
SK
वाम-पाणि-तले तीर्थम् औमम् नाम प्रकीर्तितम् शिव-उमा-तीर्थ-संयोगात् कुर्यात् स्नान-अभिषेचनम् //
SK
देवान् दैवेन तीर्थेन तर्पयेद् अकृताम्भसा उद्धृत्य दक्षिणं पाणिम् उपवीती सदा बुधः //
SK
देवान् दैवेन तीर्थेन तर्पयेद् अकृत-अम्भसा उद्धृत्य दक्षिणं पाणिम् उपवीती सदा बुधः //
SK
प्राचीनावीतिना कार्यं पितॄणां तिलवारिणा तर्पणं सर्वभूतानाम् आरिषेण निवीतिना //
SK
प्राचीन-आवीतिना कार्यं पितॄणां तिल-वारिणा तर्पणं सर्व-भूतानाम् आरिषेण निवीतिना //
SK
सव्यस्कन्धे यदा सूत्रम् उपवीत्य् उच्यते तदा प्राचीनावीत्य् असव्येन निवीती कण्ठसंस्थिते //
SK
सव्य-स्कन्धे यदा सूत्रम् उपवीत्य् उच्यते तदा प्राचीन-आवीत्य् असव्येन निवीती कण्ठ-संस्थिते //
SK
पितॄणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत् उपस्थाय ततः सूर्यं यजेच् छिवम् अनन्तरम् //
SK
पितॄणां तर्पणं कृत्वा सूर्याया अर्घ्यं प्रकल्पयेत् उपस्थाय ततः सूर्यं यजेच् छिवम् अनन्तरम् //
SK
// इति शिवोपनिषदि शिव-भस्म-स्नानाध्यायः पञ्चमः //
SK
अथ भक्त्या शिवं पूज्य नैवेद्यम् उपकल्पयेत् यद् अन्नम् आत्मनाश्नीयात् तस्याग्रे विनिवेदयेत् //
SK
अथ भक्त्या शिवं पूज्य नैवेद्यम् उपकल्पयेत् यद् अन्नम् आत्मन आश्नीयात् तस्या अग्रे विनिवेदयेत् //
SK
यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत् शिवाय स शिवे लोके कल्पकोटिं प्रमोदते //
SK
यः कृत्वा भक्ष्य-भोज्यानि यत्नेन विनिवेदयेत् शिवाय स शिवे लोके कल्प-कोटिं प्रमोदते //
SK
यः पक्वं श्रीफलं दद्याच् छिवाय विनिवेदयेत् गुरोर् वा होमयेद् वापि तस्य पुण्यफलं शृणु //
SK
यः पक्वं श्रीफलं दद्याच् छिवाय विनिवेदयेत् गुरोर् वा होमयेद् व आपि तस्य पुण्य-फलं शृणु //
SK
श्रीमद्भिः स महायानैर् भोगान् भुङ्क्ते शिवे पुरे वर्षाणाम् अयुतं साग्रं तदन्ते श्रीपतिर् भवेत् //
SK
श्रीमद्भिः स महा-यानैर् भोगान् भुङ्क्ते शिवे पुरे वर्षाणाम् अयुतं स-आग्रं तद्-अन्ते श्री-पतिर् भवेत् //
SK
कपित्थम् एकं यः पक्वम् ईश्वराय निवेदयेत् वर्षलक्षं महाभोगैः शिवलोके महीयते //
SK
कपित्थम् एकं यः पक्वम् ईश्वराय निवेदयेत् वर्ष-लक्षं महा-भोगैः शिव-लोके महीयते //
SK
एकम् आम्रफलं पक्वं यः शम्भोर् विनिवेदयेत् वर्षाणाम् युतं भोगैः क्रीडते स शिवे पुरे //
SK
एकम् आम्र-फलं पक्वं यः शम्भोर् विनिवेदयेत् वर्षाणाम् युतं भोगैः क्रीडते स शिवे पुरे //
SK
एकं वटफलं पक्वं यः शिवाय निवेदयेत् वर्षलक्षं महाभोगैः शिवलोके महीयते //
SK
एकं वट-फलं पक्वं यः शिवाय निवेदयेत् वर्ष-लक्षं महा-भोगैः शिव-लोके महीयते //
SK
यः पक्वं दाडिमं चैकं दद्याद् विकसितं नवम् शिवाय गुरवे वापि तस्य पुण्यफलं शृणु //
SK
यः पक्वं दाडिमं च एकं दद्याद् विकसितं नवम् शिवाय गुरवे व आपि तस्य पुण्य-फलं शृणु //
SK
यावत् तद्बीजसंख्यानं शोभनं परिकीर्तितम् तावदष्टायुतान्य् उच्चैः शिवलोके महीयते //
SK
यावत् तद्-बीज-संख्यानं शोभनं परिकीर्तितम् तावद्-अष्ट-अयुतान्य् उच्चैः शिव-लोके महीयते //
SK
द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत् भक्त्या वा शिवयोगिभ्यस् तस्य पुण्यफलं शृणु //
SK
द्राक्षा-फलानि पक्वानि यः शिवाय निवेदयेत् भक्त्या वा शिव-योगिभ्यस् तस्य पुण्य-फलं शृणु //
SK
यावत् तत्फलसंख्यानम् उभयोर् विनिवेदितम् तावद्युगसहस्राणि रुद्रलोके महीयते //
SK
यावत् तत्-फल-संख्यानम् उभयोर् विनिवेदितम् तावद्-युग-सहस्राणि रुद्र-लोके महीयते //
SK
द्राक्षाफलेषु यत् पुण्यं तत् खर्जूरफलेषु च तद् एव राजवृक्षेषु पारावतफलेषु च //
SK
द्राक्षा-फलेषु यत् पुण्यं तत् खर्जूर-फलेषु च तद् एव राज-वृक्षेषु पारावत-फलेषु च //
SK
यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे अष्टलक्षं महाभोगैः कृडते स शिवे पुरे //
SK
यो नारङ्ग-फलं पक्वं विनिवेद्य महेश्वरे अष्ट-लक्षं महा-भोगैः कृडते स शिवे पुरे //
SK
बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च जम्बूफलेषु यत् पुण्यं तत् पुण्यं तिन्दुकेषु च //
SK
बीजपूरेषु तस्य अर्धं तद्-अर्धं लिकुचेषु च जम्बू-फलेषु यत् पुण्यं तत् पुण्यं तिन्दुकेषु च //
SK
पनसं नारिकेलं वा शिवाय विनिवेदयेत् वर्षलक्षं महाभोगैः शिवलोके महीयते //
SK
पनसं नारिकेलं वा शिवाय विनिवेदयेत् वर्ष-लक्षं महा-भोगैः शिव-लोके महीयते //
SK
पुरुषं च प्रियालं च मधूककुसुमानि च जम्बूफलानि पक्वानि वैकङ्कतफलानि च //
SK
पुरुषं च प्रियालं च मधूक-कुसुमानि च जम्बू-फलानि पक्वानि वैकङ्कत-फलानि च //
SK
निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले दशवर्षसहस्राणि रुद्रलोके महीयते //
SK
निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले दश-वर्ष-सहस्राणि रुद्र-लोके महीयते //
SK
क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत् वर्षलक्षं महाभोगैर् मोदते स शिवे पुरे //
SK
क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत् वर्ष-लक्षं महा-भोगैर् मोदते स शिवे पुरे //
SK
वालुकात्रपुसादीनि यः फलानि निवेदयेत् शिवाय गुरवे वापि पक्वं च करमर्दकम् //
SK
वालुका-त्रपुस-आदीनि यः फलानि निवेदयेत् शिवाय गुरवे वा अपि पक्वं च करमर्दकम् //
SK
दशवर्षसहस्राणि रुद्रलोके महीयते बदराणि सुपक्वानि तिन्तिडीकफलानि च //
SK
दश-वर्ष-सहस्राणि रुद्र-लोके महीयते बदराणि सुपक्वानि तिन्तिडीक-फलानि च //
SK
दर्शनीयानि पक्वानि ह्य् आमलक्याः फलानि च एवम् आदीनि चान्यानि शाकमूलफलानि च //
SK
दर्शनीयानि पक्वानि ह्य् आमलक्याः फलानि च एवम् आदीनि च अन्यानि शाक-मूल-फलानि च //
SK
निवेदयति शर्वाय शृणु यत् फलम् आप्नुयात् एकैकस्मिन् फले भोगान् प्राप्नुयाद् अनुपूर्वशः //
SK
निवेदयति शर्वाय शृणु यत् फलम् आप्नुयात् एक एकस्मिन् फले भोगान् प्राप्नुयाद् अनुपूर्वशः //
SK
पञ्चवर्षसहस्राणि रुद्रलोके महीयते गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम् //
SK
पञ्च-वर्ष-सहस्राणि रुद्र-लोके महीयते गोधूम-चन्दक-आद्यानि सुकृतं सक्तु-भर्जितम् //
SK
निवेदयीत शर्वाय तस्य पुण्यफलं शृणु यावत् तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत् //
SK
निवेदयीत शर्वाय तस्य पुण्य-फलं शृणु यावत् तद्-बीज-संख्यानं शुभं भ्रष्टं निवेदयेत् //
SK
तावद्वर्षसहस्राणि रुद्रलोके महीयते यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत् //
SK
तावद्-वर्ष-सहस्राणि रुद्र-लोके महीयते यः पक्वानि इक्षु-दण्डानि शिवाय विनिवेदयेत् //
SK
गुरवे वापि तद् भक्त्या तस्य पुण्यफलं शृणु इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते //
SK
गुरवे व आपि तद् भक्त्या तस्य पुण्य-फलं शृणु इक्षु-पर्णानि च एक-एकं वर्ष-लोकं प्रमोदते //
SK
साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम् निवेद्य परमेशाय शुक्तिमात्ररसस्य तु //
SK
साकं शिव-पुरे भोगैः पौण्ड्रं पञ्च-गुणं फलम् निवेद्य परम-ईशाय शुक्ति-मात्र-रसस्य तु //
SK
वर्षकोटिं महाभोगैः शिवलोके महीयते निवेद्य फाणितं शुद्धं शिवाय गुरवे ऽपि वा //
SK
वर्ष-कोटिं महा-भोगैः शिव-लोके महीयते निवेद्य फाणितं शुद्धं शिवाय गुरवे ऽपि वा //
SK
रसात् सहस्रगुणितं फलं प्राप्नोति मानवः गुडस्य फलम् एकं यः शिवाय विनिवेदयेत् //
SK
रसात् सहस्र-गुणितं फलं प्राप्नोति मानवः गुडस्य फलम् एकं यः शिवाय विनिवेदयेत् //
SK
अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते खण्डस्य पलनैवेद्यं गुडाच् छतगुणं फलम् //
SK
अम्ब-कोटिं शिवे लोके महा-भोगैः प्रमोदते खण्डस्य पल-नैवेद्यं गुडाच् छत-गुणं फलम् //
SK
खण्डात् सहस्रगुणितं शर्कराया निवेदने मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत् //
SK
खण्डात् सहस्र-गुणितं शर्कराया निवेदने मत्सण्डिकां महा-शुद्धां शंकराय निवेदयेत् //
SK
कल्पकोटिं नरः साग्रं शिवलोके महीयते परिशुद्धं भृष्टम् आज्यं सिद्धं चैव सुसंस्कृतम् //
SK
कल्प-कोटिं नरः साग्रं शिव-लोके महीयते परिशुद्धं भृष्टम् आज्यं सिद्धं च एव सुसंस्कृतम् //
SK
मासं निवेद्य शर्वाय शृणु यत् फलम् आप्नुयात् अशेषफलदानेन यत् पुण्यं परिकीर्तितम् //
SK
मासं निवेद्य शर्वाय शृणु यत् फलम् आप्नुयात् अशेष-फल-दानेन यत् पुण्यं परिकीर्तितम् //
SK
तत् पुण्यं प्राप्नुयात् सर्वं महादाननिवेदने पनसानि च दिव्यानि स्वादूनि सुरभीणि च //
SK
तत् पुण्यं प्राप्नुयात् सर्वं महा-दान-निवेदने पनसानि च दिव्यानि स्वादूनि सुरभीणि च //
SK
निवेदयेत् तु शर्वाय तस्य पुण्यफलं शृणु कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः //
SK
निवेदयेत् तु शर्वाय तस्य पुण्य-फलं शृणु कल्प-कोटिं नरः साग्रं शिव-लोके व्यवस्थितः //
SK
पिबन् शिवामृतं दिव्यं महाभोगैः प्रमोदते दिने दिने च यस् त्व् आपं वस्त्रपूतं समाचरेत् //
SK
पिबन् शिव अमृतं दिव्यं महा-भोगैः प्रमोदते दिने दिने च यस् त्व् आपं वस्त्र-पूतं समाचरेत् //
SK
सुखाय शिवभक्तेभ्यस् तस्य पुण्यफलं शृणु महासरांसि यः कुर्याद् भवेत् पुण्यं शिवाग्रतः //
SK
सुखाय शिव-भक्तेभ्यस् तस्य पुण्य-फलं शृणु महा-सरांसि यः कुर्याद् भवेत् पुण्यं शिव-अग्रतः //
SK
तत् पुण्यं सकलं प्राप्य शिवलोके महीयते यद् इष्टम् आत्मनः किंचिद् अन्नपानफलादिकम् //
SK
तत् पुण्यं सकलं प्राप्य शिव-लोके महीयते यद् इष्टम् आत्मनः किंचिद् अन्न-पान-फल-आदिकम् //
SK
तत् तच् छिवाय देयं स्याद् उत्तमं भोगम् इच्छता न शिवः परिपूर्णत्वात् किंचिद् अश्नाति कस्यचित् //
SK
तत् तच् छिवाय देयं स्याद् उत्तमं भोगम् इच्छता न शिवः परिपूर्णत्वात् किंचिद् अश्नाति कस्यचित् //
SK
किन्त्व् ईश्वरनिभं कृत्वा सर्वम् आत्मनि दीयते न रोहति यथा बीजं स्वस्थम् आश्रयवर्जितम् //
SK
किन्त्व् ईश्वर-निभं कृत्वा सर्वम् आत्मनि दीयते न रोहति यथा बीजं स्वस्थम् आश्रय-वर्जितम् //
SK
पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान् निराश्रयम् सुक्षेत्रेषु यथा बीजम् उप्तं भवति सत्फलम् //
SK
पुण्य-बीजं तथा सूक्ष्मं निष्फलं स्यान् निराश्रयम् सुक्षेत्रेषु यथा बीजम् उप्तं भवति सत्-फलम् //
SK
अल्पम् अप्य् अक्षयं तद्वत् पुण्यं शिवसमाश्रयात् तस्माद् ईश्वरम् उद्दिश्य यद् यद् आत्मनि रोचते //
SK
अल्पम् अप्य् अक्षयं तद्वत् पुण्यं शिव-समाश्रयात् तस्माद् ईश्वरम् उद्दिश्य यद् यद् आत्मनि रोचते //
SK
तत् तद् ईश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना यः शिवाय गुरोर् वापि रचयेन् मणिभूमिकम् //
SK
तत् तद् ईश्वर-भक्तेभ्यः प्रदातव्यं फल-अर्थिना यः शिवाय गुरोर् वा अपि रचयेन् मणि-भूमिकम् //
SK
नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश् च शोभनम् यावत् तत् पत्त्रपुष्पाणां परिसंख्या विधीयते //
SK
नैवेद्य भोजन-अर्थं यः पत्त्रैः पुष्पैश् च शोभनम् यावत् तत् पत्त्र-पुष्पाणां परिसंख्या विधीयते //
SK
तावद्वर्षसहस्राणि सुरलोके महीयते पलाशकदलीपद्मपत्त्राणि च विशेषतः //
SK
तावद्-वर्ष-सहस्राणि सुर-लोके महीयते पलाश-कदली-पद्मपत्त्राणि च विशेषतः //
SK
दत्त्वा शिवाय गुरवे शृणु यत् फलम् आप्नुयात् यावत् तत्पत्त्रसंख्यानम् ईश्वराय निवेदितम् //
SK
दत्त्वा शिवाय गुरवे शृणु यत् फलम् आप्नुयात् यावत् तत्-पत्त्र-संख्यानम् ईश्वराय निवेदितम् //
SK
तावदब्दायुतानां स लोके भोगान् अवाप्नुयात् यावत् ताम्बुलपत्त्राणि पूगांश् च विनिवेदयेत् //
SK
तावद्-अब्द-अयुतानां स लोके भोगान् अवाप्नुयात् यावत् ताम्बुल-पत्त्राणि पूगांश् च विनिवेदयेत् //
SK
तावन्ति वर्षलक्षाणि शिवलोके महीयते यच् छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत् //
SK
तावन्ति वर्ष-लक्षाणि शिव-लोके महीयते यच् छुद्धं शङ्ख-चूर्णं वा गुरवे विनिवेदयेत् //
SK
ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु यावत् ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत् //
SK
ताम्बूल-योग-सिद्ध्य्-अर्थं तस्य पुण्य-फलं शृणु यावत् ताम्बूल-पत्त्राणि चूर्णमानेन भक्षयेत् //
SK
तावद्वर्षसहस्राणि रुद्रलोके महीयते जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम् //
SK
तावद्-वर्ष-सहस्राणि रुद्र-लोके महीयते जाती-फलं स-कङ्कोलं लता-कस्तूरिका-उत्पलम् //
SK
इत्य् एतानि सुगन्धीनि फलानि विनिवेदयेत् फले फले महाभोगैर् वर्षलक्षं तु यत्नतः //
SK
इत्य् एतानि सुगन्धीनि फलानि विनिवेदयेत् फले फले महा-भोगैर् वर्ष-लक्षं तु यत्नतः //
SK
कामिकेन विमानेन क्रीडते स शिवे पुरे त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ //
SK
कामिकेन विमानेन क्रीडते स शिवे पुरे त्रुटि-मात्र-प्रमाणेन कर्पूरस्य शिवे गुरौ //
SK
वर्षकोटिं महाभोगैः शिवलोके महीयते पूगताम्बूलपत्त्राणाम् आधारं यो निवेदयेत् //
SK
वर्ष-कोटिं महा-भोगैः शिव-लोके महीयते पूग-ताम्बूल-पत्त्राणाम् आधारं यो निवेदयेत् //
SK
वर्षकोट्यष्टकं भोगैः शिवलोके महीयते यश् चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत् //
SK
वर्ष-कोट्य्-अष्टकं भोगैः शिव-लोके महीयते यश् चूएण-आधार-सत्-पात्रं कस्य अपि विनिवेदयेत् //
SK
मोदते स शिवे लोके वर्षकोटीश् चतुर्दश मृत्काष्ठवंशखण्डानि यः प्रदद्याच् छिवाश्रमे //
SK
मोदते स शिवे लोके वर्ष-कोटीश् चतुर्दश मृत्-काष्ठ-वंश-खण्डानि यः प्रदद्याच् छिव-आश्रमे //
SK
प्राप्नुयाद् विपुलान् भोगान् दिव्याञ् छिवपुरे नरः माणिक्यं कलशं पात्रीं स्थाल्यादीन् भाण्डसंपुटान् //
SK
प्राप्नुयाद् विपुलान् भोगान् दिव्याञ् छिव-पुरे नरः माणिक्यं कलशं पात्रीं स्थाल्य-आदीन् भाण्ड-संपुटान् //
SK
दत्त्वा शिवाग्रजस् तेभ्यः शिवलोके महीयते तोयाधारपिधानानि मृद्वस्त्रतरुजानि वा //
SK
दत्त्वा शिव-अग्रजस् तेभ्यः शिव-लोके महीयते तोय-आधार-पिधानानि मृद्-वस्त्र-तरुजानि वा //
SK
वंशालाबुसमुत्थानि दत्त्वाप्नोति शिवं पुरम् पञ्चसंमार्जनीतोयं गोमयाञ्जनकर्पटान् //
SK
वंश-आलाबु-समुत्थानि दत्त्वा आप्नोति शिवं पुरम् पञ्च-संमार्जनी-तोयं गोमय-अञ्जन-कर्पटान् //
SK
मृत्कुम्भपीटिकां दद्याद् भोगाञ् छिवपुरे लभेत् यः पुष्पधूपगन्धानां दधिक्षीरघृताम्भसाम् //
SK
मृत्-कुम्भ-पीटिकां दद्याद् भोगाञ् छिव-पुरे लभेत् यः पुष्प-धूप-गन्धानां दधि-क्षीर-घृत-अम्भसाम् //
SK
दद्याद् आधारपात्राणि शिवलोके स गच्छति वंशतालादिसंभूतं पुष्पाधारकरण्डकम् //
SK
दद्याद् आधार-पात्राणि शिव-लोके स गच्छति वंश-ताल-आदि-संभूतं पुष्प-आधार-करण्डकम् //
SK
इत्य् एवमाद्यान् यो दद्याच् छिवलोकम् अवाप्नुयात् यः स्रुक्स्रुवादिपात्राणि होमार्थं विनिवेदयेत् //
SK
इत्य् एवम्-आद्यान् यो दद्याच् छिव-लोकम् अवाप्नुयात् यः स्रुक्-स्रुव-आदि-पात्राणि होम-अर्थं विनिवेदयेत् //
SK
वर्षकोटिं महाभागैः शिवलोके महीयते यः सर्वधातुसंयुक्तं दद्याल् लवणपर्वतम् //
SK
वर्ष-कोटिं महा-भागैः शिव-लोके महीयते यः सर्व-धातु-संयुक्तं दद्याल् लवण-पर्वतम् //
SK
शिवाय गुरवे वापि तस्य पुण्यफलं शृणु कल्पकोटिसहस्राणि कल्पकोटिशतानि च //
SK
शिवाय गुरवे व आपि तस्य पुण्य-फलं शृणु कल्प-कोटि-सहस्राणि कल्प-कोटि-शतानि च //
SK
स गोत्रभृत्यसंयुक्तो वसेच् छिवपुरे नरः विमानयानैः श्रीमद्भिः सर्वकामसमन्वितैः //
SK
स गोत्र-भृत्य-संयुक्तो वसेच् छिवपुरे नरः विमान-यानैः श्रीमद्भिः सर्व-काम-समन्वितैः //
SK
भोगान् भुक्त्वा तु विपुलांस् तदन्ते स महीपतिः मनःशिलां हरीतालं राजपट्टं च हिङ्गुलम् //
SK
भोगान् भुक्त्वा तु विपुलांस् तद्-अन्ते स मही-पतिः मनः-शिलां हरीतालं राज-पट्टं च हिङ्गुलम् //
SK
गैरिकं मणिदन्तं च हेमतोयं तथाष्टमम् यश् च तं पर्वतवरं शालितण्डुलकल्पितम् //
SK
गैरिकं मणि-दन्तं च हेम-तोयं तथा अष्टमम् यश् च तं पर्वत-वरं शालि-तण्डुल-कल्पितम् //
SK
शिवायगुरवे वापि तस्य पुण्यफलं शृणु कल्पकोटिशतं साग्रं भोगान् भुङ्क्ते शिवे पुरे //
SK
शिवाय-गुरवे वा अपि तस्य पुण्य-फलं शृणु कल्प-कोटि-शतं स-अग्रं भोगान् भुङ्क्ते शिवे पुरे //
SK
यः सर्वधान्यशिखरैर् उपेतं यवपर्वतम् घृततैलनदीयुक्तं तस्य पुण्यफलं शृणु //
SK
यः सर्व-धान्य-शिखरैर् उपेतं यव-पर्वतम् घृत-तैल-नदी-युक्तं तस्य पुण्य-फलं शृणु //
SK
कल्पकोटिशतं साग्रं भोगान् भुङ्क्ते शिवे पुरे समस्तकुलजैः सार्धं तस्यान्ते स महीपतिः //
SK
कल्प-कोटि-शतं स-अग्रं भोगान् भुङ्क्ते शिवे पुरे समस्त-कुलजैः स-अर्धं तस्य अन्ते स मही-पतिः //
SK
तिलधेनुं प्रदद्याद् यः कृत्वा कृष्णाजिने नरः कपिलायाः प्रदानस्य यत् फलं तद् अवाप्नुयात् //
SK
तिल-धेनुं प्रदद्याद् यः कृत्वा कृष्ण-अजिने नरः कपिलायाः प्रदानस्य यत् फलं तद् अवाप्नुयात् //
SK
घृतधेनुं नरः कृत्वा कांस्यपात्रे सकाञ्चनान् निवेद्य गोप्रदानस्य समग्रं फलम् आप्नुयात् //
SK
घृत-धेनुं नरः कृत्वा कांस्य-पात्रे स-काञ्चनान् निवेद्य गो-प्रदानस्य समग्रं फलम् आप्नुयात् //
SK
द्वीपिचर्मणि यः स्थाप्य प्रदद्याल् लवणाढकम् अशेषरसदानस्य यत् पुण्यं तद् अवाप्नुयात् //
SK
द्वीपि-चर्मणि यः स्थाप्य प्रदद्याल् लवण-आढकम् अशेष-रस-दानस्य यत् पुण्यं तद् अवाप्नुयात् //
SK
मरिचाढेन कुर्वीत(?) मारीचं नाम पर्वतम् दद्याद् यज् जीरकं पूर्वम् आग्नेयं हिङ्गुम् उत्तमम् //
SK
मरिचाढेन कुर्वीत(?) मारीचं नाम पर्वतम् दद्याद् यज् जीरकं पूर्वम् आग्नेयं हिङ्गुम् उत्तमम् //
SK
दक्षिणे गुडशुण्ठीं च नैरृते नागकेसरम् पिप्पलीं पश्चिमे दद्याद् वायव्ये कृष्णजीरकम् //
SK
दक्षिणे गुड-शुण्ठीं च नैरृते नाग-केसरम् पिप्पलीं पश्चिमे दद्याद् वायव्ये कृष्ण-जीरकम् //
SK
कौबेर्याम् अजमोदं च त्वगेलाश् चेशदैवते कुस्तुम्बर्याः प्रदेयाः स्युर् बहिः प्राकारतः स्थिताः //
SK
कौबेर्याम् अज-मोदं च त्वग्-एलाश् चा इश-दैवते कुस्तुम्बर्याः प्रदेयाः स्युर् बहिः प्राकारतः स्थिताः //
SK
ककुभाम् अन्तरालेषु समन्तात् सैन्धवं न्यसेत् सपुष्पाक्षततोयेन शिवाय विनिवेदयेत् //
SK
ककुभाम् अन्तरालेषु समन्तात् सैन्धवं न्यसेत् स-पुष्प-अक्षत-तोयेन शिवाय विनिवेदयेत् //
SK
यावत् तद्दीपसंख्यानं सर्वम् एकत्र पर्वते तावद्वर्षशताद् ऊर्ध्वं भोगान् भुङ्क्ते शिवे पुरे //
SK
यावत् तद्-दीप-संख्यानं सर्वम् एकत्र पर्वते तावद्-वर्ष-शताद् ऊर्ध्वं भोगान् भुङ्क्ते शिवे पुरे //
SK
कूश्माण्डं मध्यतः स्थाप्य कालिङ्गं पूर्वतो न्यसेत् दक्षिणे क्षीरतुम्बीं तु वृन्ताकं पश्चिमे न्यसेत् //
SK
कूश्माण्डं मध्यतः स्थाप्य कालिङ्गं पूर्वतो न्यसेत् दक्षिणे क्षीर-तुम्बीं तु वृन्ताकं पश्चिमे न्यसेत् //
SK
पटीसान्य् उत्तरे स्थाप्य कर्कटीम् ईशदैवते न्यसेद् गजपटोलांश् च मधुरान् वह्निदैवते //
SK
पटीसान्य् उत्तरे स्थाप्य कर्कटीम् ईश-दैवते न्यसेद् गज-पटोलांश् च मधुरान् वह्नि-दैवते //
SK
कारवेल्लांश् च नैरृत्यां वायव्यां निम्बकं फलम् उच्चावचानि चान्यानि फलानि स्थापयेद् बहिः //
SK
कारवेल्लांश् च नैरृत्यां वायव्यां निम्बकं फलम् उच्च-अवचानि च अन्यानि फलानि स्थापयेद् बहिः //
SK
अभ्यर्च्य पुष्पधूपैश् च समन्तात् फलपर्वतम् शिवाय गुरवे वापि प्रणिपत्य निवेदयेत् //
SK
अभ्यर्च्य पुष्प-धूपैश् च समन्तात् फल-पर्वतम् शिवाय गुरवे व आपि प्रणिपत्य निवेदयेत् //
SK
यावत् तत्फलसंख्यानं तद्दीपानां च मध्यतः तावद्वर्षसहस्राणि रुद्रलोके महीयते //
SK
यावत् तत्-फल-संख्यानं तद्-दीपानां च मध्यतः तावद्-वर्ष-सहस्राणि रुद्रलोके महीयते //
SK
मूलकं मध्यतः स्थाप्य तत्पूर्वे वालमूलकम् आग्नेय्यां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकम् //
SK
मूलकं मध्यतः स्थाप्य तत्-पूर्वे वाल-मूलकम् आग्नेय्यां वास्तुकं स्थाप्य याम्यायां क्षार-वास्तुकम् //
SK
पालक्यं नैरृते स्थाप्य सुमुखं पश्चिमे न्यसेत् कुहद्रकं च वायव्याम् उत्तरे वापि तालिकीम् //
SK
पालक्यं नैरृते स्थाप्य सुमुखं पश्चिमे न्यसेत् कुहद्रकं च वायव्याम् उत्तरे व आपि तालिकीम् //
SK
कुसुम्भशाकम् ऐशान्यां सर्वशाकानि तद्बहिः पूर्वक्रमेण विन्यस्य शिवाय विनिवेदयेत् //
SK
कुसुम्भ-शाकम् ऐशान्यां सर्व-शाकानि तद्-बहिः पूर्व-क्रमेण विन्यस्य शिवाय विनिवेदयेत् //
SK
यावत् तन्मूलनालानां पत्त्रसंख्या च कीर्तिता तावद्वर्षसहस्राणि रुद्रलोके महीयते //
SK
यावत् तन्-मूल-नालानां पत्त्र-संख्या च कीर्तिता तावद्-वर्ष-सहस्राणि रुद्र-लोके महीयते //
SK
दत्त्वा लभेन् महाभोगान् गुग्गुल्वद्रेः पलद्वयम् वर्षकोटिद्वयं स्वर्गे द्विगुणं गुडमिश्रितैः //
SK
दत्त्वा लभेन् महा-भोगान् गुग्गुल्व्-अद्रेः पल-द्वयम् वर्ष-कोटि-द्वयं स्वर्गे द्वि-गुणं गुड-मिश्रितैः //
SK
गुडार्द्रकं सलवणम् आम्रमञ्जरिसंयुतम् निवेद्य गुरवे भक्त्या सौभाग्यं परमं लभेत् //
SK
गुड-आर्द्रकं स-लवणम् आम्र-मञ्जरि-संयुतम् निवेद्य गुरवे भक्त्या सौभाग्यं परमं लभेत् //
SK
हस्तारोप्येण वा कृत्वा महारत्नान्वितां महीम् निवेदयित्वा शर्वाय शिवतुल्यः प्रजायते //
SK
हस्त-आरोप्येण वा कृत्वा महा-रत्न-अन्वितां महीम् निवेदयित्वा शर्वाय शिव-तुल्यः प्रजायते //
SK
वज्रेन्द्रनीलवैडूर्यपद्मरागं समौक्तिकम् कीटपक्षं सुवर्णं च महारत्नानि सप्त वै //
SK
वज्र-इन्द्रनील-वैडूर्यपद्म-रागं स-मौक्तिकम् कीट-पक्षं सुवर्णं च महा-रत्नानि सप्त वै //
SK
यश् च सिंहासनं दद्यान् महारत्नान्वितं नृपः क्षुद्ररत्नैश् च विविधैस् तस्य पुण्यफलं शृणु //
SK
यश् च सिंह-आसनं दद्यान् महा-रत्न-अन्वितं नृपः क्षुद्र-रत्नैश् च विविधैस् तस्य पुण्य-फलं शृणु //
SK
कुलत्रिंशकसंयुक्तः सान्तःपुरपरिच्छदः समस्तभृत्यसंयुक्तः शिवलोके महीयते //
SK
कुल-त्रिंशक-संयुक्तः स-अन्तः-पुर-परिच्छदः समस्त-भृत्य-संयुक्तः शिव-लोके महीयते //
SK
तत्र भुक्त्वा महाभोगान् शिवतुल्यपराक्रमः आमहाप्रलयं यावत् तदन्ते मुक्तिम् आप्नुयात् //
SK
तत्र भुक्त्वा महा-भोगान् शिव-तुल्य-पराक्रमः आ-महा-प्रलयं यावत् तद्-अन्ते मुक्तिम् आप्नुयात् //
SK
यदि चेद् राज्यम् आकङ्क्षेत् ततः सर्वसमाहितः सप्तद्वीपसमुद्रायाः क्षितेर् अधिपतिर् भवेत् //
SK
यदि चेद् राज्यम् आकङ्क्षेत् ततः सर्व-समाहितः सप्त-द्वीप-समुद्रायाः क्षितेर् अधिपतिर् भवेत् //
SK
जन्मकोटिसहस्राणि जन्मकोटिशतानि च राज्यं कृत्वा ततश् चान्ते पुनः शिवपुरं व्रजेत् //
SK
जन्म-कोटि-सहस्राणि जन्म-कोटि-शतानि च राज्यं कृत्वा ततश् च अन्ते पुनः शिव-पुरं व्रजेत् //
SK
एतद् एव फलं ज्ञेयं मकुटाभरणादिषु रत्नासनप्रदानेन पादुके विनिवेदयेत् //
SK
एतद् एव फलं ज्ञेयं मकुट-आभरण-आदिषु रत्न-आसन-प्रदानेन पादुके विनिवेदयेत् //
SK
दद्याद् यः केवलं वज्रं शुद्धं गोधूममात्रकम् शिवाय स शिवे लोके तिष्ठेद् आप्रलयं सुखी //
SK
दद्याद् यः केवलं वज्रं शुद्धं गोधूम-मात्रकम् शिवाय स शिवे लोके तिष्ठेद् आ-प्रलयं सुखी //
SK
इन्द्रनीलप्रदानेन स वैडूर्यप्रदानतः मोदते विविधैर् भोगैः कल्पकोटिं शिवे पुरे //
SK
इन्द्रनील-प्रदानेन स वैडूर्य-प्रदानतः मोदते विविधैर् भोगैः कल्प-कोटिं शिवे पुरे //
SK
मसूरमात्रम् अपि यः पद्मरागं सुशोभनम् निवेदयित्वा शर्वाय मोदते कालम् अक्षयम् //
SK
मसूर-मात्रम् अपि यः पद्म-रागं सुशोभनम् निवेदयित्वा शर्वाय मोदते कालम् अक्षयम् //
SK
निवेद्य मौक्तिकं स्वच्छम् एकभागैकमात्रकम् भोगैः शिवपुरे दिव्यैः कल्पकोटिं प्रमोदते //
SK
निवेद्य मौक्तिकं स्वच्छम् एक-भाग-एक-मात्रकम् भोगैः शिव-पुरे दिव्यैः कल्प-कोटिं प्रमोदते //
SK
कीटपक्षं महाशुद्धं निवेद्य यवमात्रकम् शिवायाद्यः शिवे लोके मोदते कालम् अक्षयम् //
SK
कीट-पक्षं महा-शुद्धं निवेद्य यव-मात्रकम् शिवाया अद्यः शिवे लोके मोदते कालम् अक्षयम् //
SK
हेम्ना कृत्वा च यः पुष्पम् अपि माषकमात्रकम् निवेदयित्वा शर्वाय वर्षकोटिं वसेद् दिवि //
SK
हेम्ना कृत्वा च यः पुष्पम् अपि माषक-मात्रकम् निवेदयित्वा शर्वाय वर्ष-कोटिं वसेद् दिवि //
SK
क्षुद्ररत्नानि यो दद्याद् धेम्नि बद्धानि शम्भवे मोदते स शिवे लोके कल्पकोट्ययुतं नरः //
SK
क्षुद्र-रत्नानि यो दद्याद् धेम्नि बद्धानि शम्भवे मोदते स शिवे लोके कल्प-कोट्य्-अयुतं नरः //
SK
यथा यथा महारत्नं शोभनं च यथा यथा तथा तथा महत् पुण्यं ज्ञेयं तच् छिवदानतः //
SK
यथा यथा महा-रत्नं शोभनं च यथा यथा तथा तथा महत् पुण्यं ज्ञेयं तच् छिव-दानतः //
SK
भूमिभागे स()विस्तीऋणे जम्बूद्वीपं प्रकल्पयेत् अष्टावरणसंयुक्तं नगेन्द्राष्टकभूषितम् //
SK
भूमि-भागे स(-)विस्तीऋणे जम्बू-द्वीपं प्रकल्पयेत् अष्ट-आवरण-संयुक्तं नग-इन्द्र-अष्टक-भूषितम् //
SK
तन्मध्ये कारयेद् दिव्यं मेरुप्रासादम् उत्तमम् अनेकशिखराकीर्णम् अशेषामरसंयुतम् //
SK
तन्-मध्ये कारयेद् दिव्यं मेरु-प्रासादम् उत्तमम् अनेक-शिखर-आकीर्णम् अशेष-अमर-संयुतम् //
SK
बहिः सुवर्णनिचितं सर्वरत्नोपशोभितम् चतुःप्रग्रीवकोपेतं चक्षुर्लिङ्गसमायुतम् //
SK
बहिः सुवर्ण-निचितं सर्व-रत्न-उपशोभितम् चतुः-प्रग्रीवक-उपेतं चक्षुर्-लिङ्ग-समायुतम् //
SK
चतुर्दिक्षु वनोपेतं चतुर्भिः संयुतैः शरैः चतुर्णां पुरयुक्तेन प्राकारेण च संयुतम् //
SK
चतुर्-दिक्षु वन-उपेतं चतुर्भिः संयुतैः शरैः चतुर्णां पुर-युक्तेन प्राकारेण च संयुतम् //
SK
मेरुप्रासादम् इत्य् एवं हेमरत्नविभूषितम् यः कारयेद् वनोपेतं सो ऽनन्तफलम् आप्नुयात् //
SK
मेरु-प्रासादम् इत्य् एवं हेम-रत्न-विभूषितम् यः कारयेद् वन-उपेतं सो ऽनन्त-फलम् आप्नुयात् //
SK
भूम्यम्भःपरमाणूनां यथा संख्या न विद्यते शिवायतनपुण्यस्य तथा संख्या न विद्यते //
SK
भूम्य्-अम्भः-परम-अणूनां यथा संख्या न विद्यते शिव-आयतन-पुण्यस्य तथा संख्या न विद्यते //
SK
कुलत्रिंशकसंयुक्तः सर्वभृत्यसमन्वितः कलत्रपुत्रमित्रैश् च सर्वस्वजनसंयुतः //
SK
कुल-त्रिंशक-संयुक्तः सर्व-भृत्य-समन्वितः कलत्र-पुत्र-मित्रैश् च सर्व-स्व-जन-संयुतः //
SK
आश्र्तितोपाश्रितैः सर्वैर् अशेषगणसंयुतः यथा शिवस् तथैवायं शर्वलोके स पूज्यते //
SK
आश्र्तित उपाश्रितैः सर्वैर् अशेष-गण-संयुतः यथा शिवस् तथ एव अयं शर्व-लोके स पूज्यते //
SK
न च मानुष्यकं लोकम् आगच्छेत् कृपणं पुनः सर्वज्ञः परिपूर्णश् च मुक्तः स्वात्मनि तिष्ठति //
SK
न च मानुष्यकं लोकम् आगच्छेत् कृपणं पुनः सर्व-ज्ञः परिपूर्णश् च मुक्तः स्वात्मनि तिष्ठति //
SK
यः शिवाय वनं कृत्वा मुदाब्दसलिलोत्थितम्(?) तद् दण्डकोपशोभं च हस्ते कुर्वीत सर्वदा //
SK
यः शिवाय वनं कृत्वा मुदाब्द-सलिल-उत्थितम्(?) तद् दण्डक-उपशोभं च हस्ते कुर्वीत सर्वदा //
SK
शोभयेद् भूतनाथं वा चन्द्रशालां क्वचित् क्वचित् वेदीं वाथाभ्यपद्यन्त प्रोन्नताः स्तम्भपङ्क्तयः //
SK
शोभयेद् भूत-नाथं वा चन्द्र-शालां क्वचित् क्वचित् वेदीं व आथ अभ्यपद्यन्त प्रोन्नताः स्तम्भ-पङ्क्तयः //
SK
शातकुम्भमयीं वापि सर्वलक्षणसंयुताम् ईश्वरप्रतिमां सौम्यां कारयेत् पुरुषोच्छ्रिताम् //
SK
शात-कुम्भ-मयीं व आपि सर्व-लक्षण-संयुताम् ईश्वर-प्रतिमां सौम्यां कारयेत् पुरुष-उच्छ्रिताम् //
SK
त्रिशूलसव्यहस्तां च वरदाभयदायिकां सव्यहस्ताक्षमालां च जटाकुसुमभूषिताम् //
SK
त्रिशूल-सव्य-हस्तां च वरद-अभय-दायिकां सव्य-हस्त-अक्ष-मालां च जटा-कुसुम-भूषिताम् //
SK
पद्मसिंहासनासीनां वृषस्थां वा समुच्छ्रिताम् विमानस्थां रथस्थां वा वेदिस्थां वा प्रभान्विताम् //
SK
पद्म-सिंह-आसन-आसीनां वृषस्थां वा समुच्छ्रिताम् विमानस्थां रथस्थां वा वेदिस्थां वा प्रभा-अन्विताम् //
SK
सौम्यवक्त्रां करालां वा महाभैरवरूपिणीम् अत्युच्छ्रितां सुविस्तीर्णां नृत्यस्थां योगसंस्थिताम् //
SK
सौम्य-वक्त्रां करालां वा महा-भैरव-रूपिणीम् अत्युच्छ्रितां सुविस्तीर्णां नृत्यस्थां योग-संस्थिताम् //
SK
कुर्याद् असंभवे हेम्नस् तारेण विमलेन च आरकूटमयीं वापि ताम्रमृच्छैलदारुजाम् //
SK
कुर्याद् असंभवे हेम्नस् तारेण विमलेन च आरकूट-मयीं व आपि ताम्र-मृच्-छैल-दारुजाम् //
SK
अशेषकैः सरूपैश् च वर्णकैर् वा पटे लिखेत् कुड्ये वा फलके वापि भक्त्या वित्तानुसारतः //
SK
अशेषकैः सरूपैश् च वर्णकैर् वा पटे लिखेत् कुड्ये वा फलके व आपि भक्त्या वित्त-अनुसारतः //
SK
एकां सपरिवारां वा पार्वतीं गणसंयुताम् प्रतीहारसमोपेतां(?) कुर्याद् एवाविकल्पतः //
SK
एकां स-परिवारां वा पार्वतीं गण-संयुताम् प्रतीहार-सम-उपेतां(?) कुर्याद् एव अविकल्पतः //
SK
पीठं वा कारयेद् रौप्यं ताम्रं पित्तलसंभवम् चतुर्मुखैकवक्त्रं वा बहिः काञ्चनसंस्कृतम् //
SK
पीठं वा कारयेद् रौप्यं ताम्रं पित्तल-संभवम् चतुर्-मुख-एक-वक्त्रं वा बहिः काञ्चन-संस्कृतम् //
SK
पृथक्पृथगनेकानि कारयित्वा मुखानि तु सौम्यभैरवरूपाणि शिवस्य बहुरूपिणः //
SK
पृथक्-पृथग्-अनेकानि कारयित्वा मुखानि तु सौम्य-भैरव-रूपाणि शिवस्य बहु-रूपिणः //
SK
नानाभरणयुक्तानि हेमरौप्यकृतानि च शिवस्य रथयात्रायां तानि लोकस्य दर्शयेत् //
SK
नाना-आभरण-युक्तानि हेम-रौप्य-कृतानि च शिवस्य रथ-यात्रायां तानि लोकस्य दर्शयेत् //
SK
उक्तानि यानि पुण्यानि संक्षेपेण पृथक् पृथक् कृत्वैकेन ममैतेषाम् अक्षयं फलम् आप्नुयात् //
SK
उक्तानि यानि पुण्यानि संक्षेपेण पृथक् पृथक् कृत्व ऐकेन मम एतेषाम् अक्षयं फलम् आप्नुयात् //
SK
मातुः पितुः सहोपायैर्(?) दशभिर् दशभिः कुलैः कलत्रपुत्रमित्राद्यैर् भृत्यैर् युक्तः स बान्धवैः //
SK
मातुः पितुः सह उपायैर्(?) दशभिर् दशभिः कुलैः कलत्र-पुत्र-मित्र-आद्यैर् भृत्यैर् युक्तः स बान्धवैः //
SK
अयुतेन विमानानां सर्वकामयुतेन च भुङ्क्ते स्वयं महाभोगान् अन्ते मुक्तिम् अवाप्नुयात् //
SK
अयुतेन विमानानां सर्व-काम-युतेन च भुङ्क्ते स्वयं महा-भोगान् अन्ते मुक्तिम् अवाप्नुयात् //
SK
मण्डपस्तम्भपर्यन्ते कीलयेद् दर्पणान्वितम् अभिषिच्य जना यस्मिन् पुजां कुवन्ति बिल्वकैः //
SK
मण्डप-स्तम्भ-पर्यन्ते कीलयेद् दर्पण-अन्वितम् अभिषिच्य जना यस्मिन् पुजां कुवन्ति बिल्वकैः //
SK
कालकालकृतिं कृत्वा कीलयेद् यः शिवाश्रमे सर्वलोकोपकाराय पूजयेच् च दिने दिने //
SK
काल-काल-कृतिं कृत्वा कीलयेद् यः शिव-आश्रमे सर्व-लोक-उपकाराय पूजयेच् च दिने दिने //
SK
धूपवेलाप्रमाणार्थं कल्पयेद् यः शिवाश्रमे क्षरन्तीं पूर्यमाणां वा सदायामे घटीं नृपः //
SK
धूप-वेला-प्रमाण-अर्थं कल्पयेद् यः शिव-आश्रमे क्षरन्तीं पूर्यमाणां वा सदा आयामे घटीं नृपः //
SK
एषाम् एकतमं पुण्यं कृत्वा पापविवर्जितः शिवलोके नरः प्राप्य सर्वज्ञः स सुखी भवेत् //
SK
एषाम् एकतमं पुण्यं कृत्वा पाप-विवर्जितः शिव-लोके नरः प्राप्य सर्वज्ञः स सुखी भवेत् //
SK
रथयात्रां प्रवक्ष्यामि शिवस्य परमात्मनः सर्वलोकहितार्थाय महाशिल्पिविनिर्मिताम् //
SK
रथ-यात्रां प्रवक्ष्यामि शिवस्य परम-आत्मनः सर्व-लोक-हित-अर्थाय महा-शिल्पि-विनिर्मिताम् //
SK
रथमध्ये समावेश्य यथा यष्टिं तु कीलयेत् यष्टेर् मध्ये स्थितं कार्यं विमानम् अतिशोभितम् //
SK
रथ-मध्ये समावेश्य यथा यष्टिं तु कीलयेत् यष्टेर् मध्ये स्थितं कार्यं विमानम् अतिशोभितम् //
SK
पञ्चभौमं त्रिभौमं वा दृढवंशप्रकल्पितम् कर्मणा सुनिबद्धं च रज्जुभिश् च सुसंयुतम् //
SK
पञ्च-भौमं त्रि-भौमं वा दृढ-वंश-प्रकल्पितम् कर्मणा सुनिबद्धं च रज्जुभिश् च सुसंयुतम् //
SK
पञ्चशालाण्डिकैर् युक्तं नानाभक्तिसमन्वितम् चित्रवर्णपरिच्छन्नं पटैर् वा वर्णकान्वितैः //
SK
पञ्च-शाला-अण्डिकैर् युक्तं नाना-भक्ति-समन्वितम् चित्र-वर्ण-परिच्छन्नं पटैर् वा वर्णक-अन्वितैः //
SK
लम्बकैः सूत्रदाम्ना च घण्टाचामरभूषितम् बुद्बुदैर् अर्धचन्द्रैश् च दर्पणैश् च समुज्ज्वलम् //
SK
लम्बकैः सूत्र-दाम्ना च घण्टा-चामर-भूषितम् बुद्बुदैर् अर्ध-चन्द्रैश् च दर्पणैश् च समुज्ज्वलम् //
SK
कदल्यर्धध्वजैर् युक्तं महाच्छत्त्रं महाध्वजम् पुष्पमालापरिक्षिप्तं सर्वशोभासमन्वितम् //
SK
कदल्य्-अर्ध-ध्वजैर् युक्तं महा-च्छत्त्रं महा-ध्वजम् पुष्प-माला-परिक्षिप्तं सर्व-शोभा-समन्वितम् //
SK
महारथविमाने ऽस्मिन् स्थापयेद् गणसंयुतम् ईश्वरप्रतिमां हेम्नि प्रथमे पुरमण्डपे //
SK
महा-रथ-विमाने ऽस्मिन् स्थापयेद् गण-संयुतम् ईश्वर-प्रतिमां हेम्नि प्रथमे पुर-मण्डपे //
SK
मुखत्रयं च बध्नीयाद् बहिः कुर्यात् तथाश्रितम् पुरे पुरे बहिर् दिक्षु गृहकेषु समाश्रितम् //
SK
मुख-त्रयं च बध्नीयाद् बहिः कुर्यात् तथा आश्रितम् पुरे पुरे बहिर् दिक्षु गृहकेषु समाश्रितम् //
SK
चतुष्कं शिववक्त्राणां संस्थाप्य प्रतिपूजयेत् दिनत्रयं प्रकुर्वीत स्नानम् अर्चनभोजनम् //
SK
चतुष्कं शिव-वक्त्राणां संस्थाप्य प्रतिपूजयेत् दिन-त्रयं प्रकुर्वीत स्नानम् अर्चन-भोजनम् //
SK
नृत्यक्रीडाप्रयोगेण गेयमङ्गलपाठकैः महावादित्रनिर्घोषैः पौषपूर्णिमपर्वणि //
SK
नृत्य-क्रीडा-प्रयोगेण गेय-मङ्गल-पाठकैः महा-वादित्र-निर्घोषैः पौष-पूर्णिम-पर्वणि //
SK
भ्रामयेद् राजमार्गेण चतुर्थे ऽहनि तद्रथम् ततः स्वस्थानम् आनीय तच्छेषम् अपि वर्धयेत् //
SK
भ्रामयेद् राज-मार्गेण चतुर्थे ऽहनि तद्-रथम् ततः स्व-स्थानम् आनीय तच्-छेषम् अपि वर्धयेत् //
SK
अवधार्य जगद्धात्री प्रतिमाम् अवतारयेत् महाविमानयात्रैषा कर्तव्या पट्टके ऽपि वा //
SK
अवधार्य जगद्-धात्री प्रतिमाम् अवतारयेत् महा-विमान-यात्र एषा कर्तव्या पट्टके ऽपि वा //
SK
वंशैर् नवैः सुपक्वैश् च कटं कुर्याद् भरक्षमम्(?) वृत्तं द्विगुणदीर्घं च चतुरश्रम् अधः समम् //
SK
वंशैर् नवैः सुपक्वैश् च कटं कुर्याद् भर-क्षमम्(?) वृत्तं द्वि-गुण-दीर्घं च चतुर्-अश्रम् अधः समम् //
SK
सर्वत्र चर्मणा बद्धं महायष्टिसमाश्रितम् मुखं बद्धं च कुर्वीत वंशमण्डलिना दृढम् //
SK
सर्वत्र चर्मणा बद्धं महा-यष्टि-समाश्रितम् मुखं बद्धं च कुर्वीत वंश-मण्डलिना दृढम् //
SK
कटे ऽस्मिंस् तानि वस्त्राणि स्थाप्य बध्नीत यत्नतः उपर्य् उपरि सर्वाणि तन्मध्ये प्रतिमां न्यसेत् //
SK
कटे ऽस्मिंस् तानि वस्त्राणि स्थाप्य बध्नीत यत्नतः उपर्य् उपरि सर्वाणि तन्-मध्ये प्रतिमां न्यसेत् //
SK
वर्णकैः कुङ्कुमाद्यैश् च चित्रपुष्पैश् च पूजयेत् नानाभरणपूजाभिर् मुक्ताहारप्रलम्बिभिः //
SK
वर्णकैः कुङ्कुम-आद्यैश् च चित्र-पुष्पैश् च पूजयेत् नाना-आभरण-पूजाभिर् मुक्ता-आहार-प्रलम्बिभिः //
SK
रथस्य महतो मध्ये स्थाप्य पट्टद्वयं दृढम् अधरोत्तरभागेन मध्ये छिद्रसमन्वितम् //
SK
रथस्य महतो मध्ये स्थाप्य पट्ट-द्वयं दृढम् अधर-उत्तर-भागेन मध्ये छिद्र-समन्वितम् //
SK
कटियष्टेर् अधोभागं स्थाप्य छिद्रमयं शुभैः आबद्ध्य कीलयेद् यत्नाद् यष्ट्यर्धं च ध्वजाष्टकम् //
SK
कटि-यष्टेर् अधो-भागं स्थाप्य छिद्र-मयं शुभैः आबद्ध्य कीलयेद् यत्नाद् यष्ट्य्-अर्धं च ध्वज-अष्टकम् //
SK
कटस्य पृष्टं सर्वत्र कारयेत् पटसंवृतम् तत्पटे च लिखेत् सोमं सगणं सवृषं शिवम् //
SK
कटस्य पृष्टं सर्वत्र कारयेत् पट-संवृतम् तत्-पटे च लिखेत् सोमं स-गणं स-वृषं शिवम् //
SK
विचित्रपुष्पस्रग्दाम्ना समन्ताद् भूषयेत् कटम् रवकैः किङ्किणीजालैर् घण्टाचामरभूषितैः //
SK
विचित्र-पुष्प-स्रग्-दाम्ना समन्ताद् भूषयेत् कटम् रवकैः किङ्किणी-जालैर् घण्टा-चामर-भूषितैः //
SK
महापूजाविशेषैश् च कौतूहलसमन्वितम् वाद्यारम्भोपचारेण मार्गशोभां प्रकल्पयेत् //
SK
महा-पूजा-विशेषैश् च कौतूहल-समन्वितम् वाद्य-आरम्भ-उपचारेण मार्ग-शोभां प्रकल्पयेत् //
SK
तद् रथं भ्रामयेद् यत्नाद् राजमार्गेण सर्वतः ततः स्वाश्रमम् आनीय स्थापयेत् तत्समीपतः //
SK
तद् रथं भ्रामयेद् यत्नाद् राज-मार्गेण सर्वतः ततः स्व-आश्रमम् आनीय स्थापयेत् तत्-समीपतः //
SK
महाशब्दं ततः कुर्यात् तालत्रयसमन्वितम् ततस् तुष्णीं स्थिते लोके तच्छान्तिम् इह धारयेत् //
SK
महा-शब्दं ततः कुर्यात् ताल-त्रय-समन्वितम् ततस् तुष्णीं स्थिते लोके तच्-छान्तिम् इह धारयेत् //
SK
शिवं तु सर्वजगतः शिवं गोब्राह्मणस्य च शिवम् अस्तु नृपाणां च तद्भक्तानां जनस्य च //
SK
शिवं तु सर्व-जगतः शिवं गो-ब्राह्मणस्य च शिवम् अस्तु नृपाणां च तद्-भक्तानां जनस्य च //
SK
राजा विजयम् आप्नोति पुत्रपौत्रैश् च वर्धताम् धर्मनिष्ठश् च भवतु प्रजानां च हिते रतः //
SK
राजा विजयम् आप्नोति पुत्र-पौत्रैश् च वर्धताम् धर्म-निष्ठश् च भवतु प्रजानां च हिते रतः //
SK
कालवर्षी तु पर्जन्यः सस्यसंपत्तिर् उत्तमा सुभिक्षात् क्षेमम् आप्नोति कार्यसिद्धिश् च जायताम् //
SK
काल-वर्षी तु पर्जन्यः सस्य-संपत्तिर् उत्तमा सुभिक्षात् क्षेमम् आप्नोति कार्य-सिद्धिश् च जायताम् //
SK
दोषाः प्रयान्तु नाशं च गुणाः स्थैर्यं भजन्तु वः बहुक्षीरयुता गावो हृष्टपुष्टा भवन्तु वः //
SK
दोषाः प्रयान्तु नाशं च गुणाः स्थैर्यं भजन्तु वः बहु-क्षीर-युता गावो हृष्ट-पुष्टा भवन्तु वः //
SK
एवं शिवमहाशान्तिम् उच्चार्य जगतः क्रमात् अभिवर्ध्य ततः शेषम् ऐश्वरीं सार्वकामिकीम् //
SK
एवं शिव-महा-शान्तिम् उच्चार्य जगतः क्रमात् अभिवर्ध्य ततः शेषम् ऐश्वरीं सार्व-कामिकीम् //
SK
शिवमालां समादाय सदासीपरिचारिकः फलैर् भक्षैश् च संयुक्तां गृह्य पात्रीं निवेशयेत् //
SK
शिव-मालां समादाय स-दासी-परिचारिकः फलैर् भक्षैश् च संयुक्तां गृह्य पात्रीं निवेशयेत् //
SK
पात्रीं च धारयेन् मूर्ध्ना सोष्णीषां देवपुत्रकः अलंकृतः शुक्लवासा धार्मिकः सततं शुचिः //
SK
पात्रीं च धारयेन् मूर्ध्ना स-उष्णीषां देव-पुत्रकः अलं-कृतः शुक्ल-वासा धार्मिकः सततं शुचिः //
SK
ततश् च तां समुत्क्षिप्य पाणिना धारयेद् बुधः प्रब्रूयाद् अपरश् चात्र शिवधर्मस्य भाजकः //
SK
ततश् च तां समुत्क्षिप्य पाणिना धारयेद् बुधः प्रब्रूयाद् अपरश् च अत्र शिव-धर्मस्य भाजकः //
SK
तोयं यथा घटीसंस्थम् अजस्रं क्षरते तथा क्षरते सर्वलोकानां तद्वद् आयुर् अहर्निशम् //
SK
तोयं यथा घटी-संस्थम् अजस्रं क्षरते तथा क्षरते सर्व-लोकानां तद्वद् आयुर् अहर्-निशम् //
SK
यदा सर्वं परित्यज्य गन्तव्यम् अवशैर् ध्रुवम् तदा न दीयते कस्मात् पाथेयार्थम् इदं धनम् //
SK
यदा सर्वं परित्यज्य गन्तव्यम् अवशैर् ध्रुवम् तदा न दीयते कस्मात् पाथेय-अर्थम् इदं धनम् //
SK
कलत्रपुत्रमित्राणि पिता माता च बान्धवाः तिष्ठन्ति न मृतस्यार्थे परलोके धनानि च //
SK
कलत्र-पुत्र-मित्राणि पिता माता च बान्धवाः तिष्ठन्ति न मृतस्य अर्थे पर-लोके धनानि च //
SK
नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा यतः सर्वैः परित्यक्तं नरं धर्मो ऽनुगच्छति //
SK
न अस्ति धर्म-समं मित्रं न अस्ति धर्म-समः सखा यतः सर्वैः परित्यक्तं नरं धर्मो ऽनुगच्छति //
SK
तस्माद् धर्मं समुद्दिश्य यः शेषाम् अभिवर्धयेत् समस्तपापनिर्मुक्तः शिवलोकं स गच्छति //
SK
तस्माद् धर्मं समुद्दिश्य यः शेषाम् अभिवर्धयेत् समस्त-पाप-निर्मुक्तः शिव-लोकं स गच्छति //
SK
उपर्य् उपरि वित्तेन यः शेषाम् अभिवर्धयेत् तस्येयम् उत्तमा देया यतश् चान्या न वर्धते //
SK
उपर्य् उपरि वित्तेन यः शेषाम् अभिवर्धयेत् तस्य इयम् उत्तमा देया यतश् च अन्या न वर्धते //
SK
इत्य् एवं मध्यमां शेषां वर्धयेद् वा कनीयसीम् ततस् तेषां प्रदातव्या सर्वशोकस्य शान्तये //
SK
इत्य् एवं मध्यमां शेषां वर्धयेद् वा कनीयसीम् ततस् तेषां प्रदातव्या सर्व-शोकस्य शान्तये //
SK
येनोत्तमा गृहीता स्याच् शिवशेषा महीयसी प्रापणीया गृहं तस्य तथैव शिरसा वृता //
SK
येन उत्तमा गृहीता स्याच् शिव-शेषा महीयसी प्रापणीया गृहं तस्य तथ ऐव शिरसा वृता //
SK
ध्वजच्छत्त्रविमानाद्यैर् महावादित्रनिःस्वनैः गृहद्वारं ततः प्राप्तम् अर्चयित्वा निवेशयेत् //
SK
ध्वज-च्छत्त्र-विमान-आद्यैर् महा-वादित्र-निःस्वनैः गृह-द्वारं ततः प्राप्तम् अर्चयित्वा निवेशयेत् //
SK
दद्याद् गोत्रकलत्राणां भृत्यानां स्वजनस्य च तर्पयेच् चानतान्(?) भक्त्या वादित्रध्वजवाहकान् //
SK
दद्याद् गोत्र-कलत्राणां भृत्यानां स्व-जनस्य च तर्पयेच् चा अनतान्(?) भक्त्या वादित्र-ध्वज-वाहकान् //
SK
एवम् आदीयते भक्त्या यः शिवस्योत्तमा गृहे शोभया राजमार्गेण तस्य धर्मफलं शृणु //
SK
एवम् आदीयते भक्त्या यः शिवस्य उत्तमा गृहे शोभया राज-मार्गेण तस्य धर्म-फलं शृणु //
SK
समस्तपापनिर्मुक्तः समस्तकुलसंयुतः शिवलोकम् अवाप्नोति सभृत्यपरिचारकः //
SK
समस्त-पाप-निर्मुक्तः समस्त-कुल-संयुतः शिव-लोकम् अवाप्नोति स-भृत्य-परिचारकः //
SK
तत्र दिव्यैर् महाभोगैर् विमानैः सार्वकामिकैः कल्पानां क्रीडते कोटिम् अन्ते निर्वाणम् आप्नुयात् //
SK
तत्र दिव्यैर् महा-भोगैर् विमानैः सार्व-कामिकैः कल्पानां क्रीडते कोटिम् अन्ते निर्वाणम् आप्नुयात् //
SK
रथस्य यात्रां यः कुर्याद् इत्य् एवम् उपशोभया भक्षभोज्यप्रदानैश् च तत्फलं शृनु यत्नतः //
SK
रथस्य यात्रां यः कुर्याद् इत्य् एवम् उपशोभया भक्ष-भोज्य-प्रदानैश् च तत्-फलं शृनु यत्नतः //
SK
अशेषपापनिर्मुक्तः सर्वभृत्यसमन्वितः कुलत्रिंशकम् उद्धृत्य सुहृद्भिः स्वजनैः सह //
SK
अशेष-पाप-निर्मुक्तः सर्व-भृत्य-समन्वितः कुल-त्रिंशकम् उद्धृत्य सुहृद्भिः स्वजनैः सह //
SK
सर्वकामयुतैर् दिव्यैः स्वच्छन्दगमनालयैः महाविमानैः श्रीमद्भिर् दिव्यस्त्रीपरिवारितः //
SK
सर्व-काम-युतैर् दिव्यैः स्व-च्छन्द-गमन-आलयैः महा-विमानैः श्रीमद्भिर् दिव्य-स्त्री-परिवारितः //
SK
इच्छया क्रीडते भोगैः कल्पकोटिं शिवे पुरे ज्ञानयोगं ततः प्राप्य संसाराद् अवमुच्यते //
SK
इच्छया क्रीडते भोगैः कल्प-कोटिं शिवे पुरे ज्ञान-योगं ततः प्राप्य संसाराद् अवमुच्यते //
SK
शिवस्य रथयात्रायाम् उपवासपरः क्षमी पुरतः पृष्ठतो वापि गच्छंस् तस्य फलं शृणु //
SK
शिवस्य रथयात्रायाम् उपवास-परः क्षमी पुरतः पृष्ठतो व आपि गच्छंस् तस्य फलं शृणु //
SK
अशेषपापनिर्मुक्तः शुद्धः शिवपुरं गतः महारथोपमैर् यानैः कल्पाशीतिं प्रमोदतेä //
SK
अशेष-पाप-निर्मुक्तः शुद्धः शिव-पुरं गतः महा-रथ-उपमैर् यानैः कल्प-अशीतिं प्रमोदतेä //
SK
ध्वजच्छत्त्रपताकाभिर् दीपदर्पणचामरैः धूपैर् वितानकलशैर् उपशोभा सहस्रशः //
SK
ध्वज-च्छत्त्र-पताकाभिर् दीप-दर्पण-चामरैः धूपैर् वितान-कलशैर् उपशोभा सहस्रशः //
SK
गृहीत्वा याति पुरतः स्वेच्छया वा परेच्छया संपर्कात् कौतुकाल् लाभाच् छिवलोके व्रजन्ते ते //
SK
गृहीत्वा याति पुरतः स्व-इच्छया वा पर-इच्छया संपर्कात् कौतुकाल् लाभाच् छिव-लोके व्रजन्ते ते //
SK
शिवस्य रथयात्रां तु यः प्रपश्यति भक्तितः प्रसङ्गात् कौतुकाद् वापि ते ऽपि यान्ति शिवं पुरम् //
SK
शिवस्य रथ-यात्रां तु यः प्रपश्यति भक्तितः प्रसङ्गात् कौतुकाद् व आपि ते ऽपि यान्ति शिवं पुरम् //
SK
नानायत्नादिशेषान्ते नानाप्रेक्षणकानि च कुर्वीत रथयात्रायां रमते च विभूषिता //
SK
नाना-यत्न-आदि-शेष-अन्ते नाना-प्रेक्षणकानि च कुर्वीत रथ-यात्रायां रमते च विभूषिता //
SK
ते भोगैर् विविधैर् दिव्यैः शिवासन्ना गणेश्वराः क्रीडन्ति रुद्रभवने कल्पानां विंशतीर् नराः //
SK
ते भोगैर् विविधैर् दिव्यैः शिव-आसन्ना गण-ईश्वराः क्रीडन्ति रुद्र-भवने कल्पानां विंशतीर् नराः //
SK
महता ज्ञानसङ्घेन तस्माच् छिवरथेन च पृथक्जीवा मृता यान्ति शिवलोकं न संशयः //
SK
महता ज्ञान-सङ्घेन तस्माच् छिव-रथेन च पृथक्-जीवा मृता यान्ति शिव-लोकं न संशयः //
SK
श्रीपर्वते महाकाले वाराणस्यां महालये जल्पेश्वरे कुरुक्षेत्रे केदारे मण्डलेश्वरे //
SK
श्री-पर्वते महा-काले वाराणस्यां महा-आलये जल्प-ईश्वरे कुरु-क्षेत्रे केदारे मण्डल-ईश्वरे //
SK
गोकर्णे भद्रकर्णे च शङ्कुकर्णे स्थलेश्वरे भीमेश्वरे सुवर्णाक्षे कालञ्जरवने तथा //
SK
गो-कर्णे भद्र-कर्णे च शङ्कु-कर्णे स्थल-ईश्वरे भीम-ईश्वरे सुवर्ण-अक्षे कालञ्जर-वने तथा //
SK
एवम् आदिषु चान्येषु शिवक्षेत्रेषु ये मृताः जीवाश् चराचराः सर्वे शिवलोकं व्रजन्ति ते //
SK
एवम् आदिषु च अन्येषु शिव-क्षेत्रेषु ये मृताः जीवाश् चर-अचराः सर्वे शिव-लोकं व्रजन्ति ते //
SK
प्रयागं कामिकं तीर्थम् अविमुक्तं तु नैष्ठिकम् श्रीपर्वतं च विज्ञेयम् इहामुत्र च सिद्धिदम् //
SK
प्रयागं कामिकं तीर्थम् अविमुक्तं तु नैष्ठिकम् श्री-पर्वतं च विज्ञेयम् इह अमुत्र च सिद्धि-दम् //
SK
प्रसङ्गेनापि यः पश्येद् अन्यत्र प्रस्थितः क्वचित् श्रीपर्वतं महापुण्यं सो ऽपि याति शिवं पुरम् //
SK
प्रसङ्गेन अपि यः पश्येद् अन्यत्र प्रस्थितः क्वचित् श्री-पर्वतं महा-पुण्यं सो ऽपि याति शिवं पुरम् //
SK
व्रजेद् यः शिवतीर्थानि सर्वपापैः प्रमुच्यते पापयुक्तः शिवज्ञानं प्राप्य निर्वाणम् आप्नुयात् //
SK
व्रजेद् यः शिव-तीर्थानि सर्व-पापैः प्रमुच्यते पाप-युक्तः शिव-ज्ञानं प्राप्य निर्वाणम् आप्नुयात् //
SK
तीर्थस्थानेषु यः श्राद्धं शिवरात्रे प्रयत्नतः कल्पयित्वानुसारेण कालस्य विषुवस्य च //
SK
तीर्थ-स्थानेषु यः श्राद्धं शिव-रात्रे प्रयत्नतः कल्पयित्व आनुसारेण कालस्य विषुवस्य च //
SK
तीर्थयात्रागतं शान्तं हाहाभूतम् अचेतनम् क्षुत्पिपासातुरं लोके पांसुपादं त्वरान्वितम् //
SK
तीर्थ-यात्रा-गतं शान्तं हाहा-भूतम् अचेतनम् क्षुत्-पिपास-आतुरं लोके पांसु-पादं त्वर-अन्वितम् //
SK
संतर्पयित्वा यत्नेन म्लानलक्ष्मीम् इवाम्बुभिः पाद्यासनप्रदानेन कस् तेन पुरुषः समः //
SK
संतर्पयित्वा यत्नेन म्लान-लक्ष्मीम् इव अम्बुभिः पाद्य-आसन-प्रदानेन कस् तेन पुरुषः समः //
SK
अश्नन्ति यावत् तत्पिण्डं तीर्थनिर्धूतकल्मषाः तावद्वर्षसहस्राणि तद्दातास् ते शिवे पुरे //
SK
अश्नन्ति यावत् तत्-पिण्डं तीर्थ-निर्धूत-कल्मषाः तावद्-वर्ष-सहस्राणि तद्-दातास् ते शिवे पुरे //
SK
दद्याद् यः शिवसत्त्रार्थं महिषीं सुपयस्विनीम् मोदते स शिवे लोके युगकोटिशतं नरः //
SK
दद्याद् यः शिव-सत्त्र-अर्थं महिषीं सु-पयस्विनीम् मोदते स शिवे लोके युग-कोटि-शतं नरः //
SK
आर्ताय शिवभक्ताय दद्याद् यः सुपयस्विनीम् अजाम् एकां सुपुष्टाङ्गीं तस्य पुण्यफलं शृणु //
SK
आर्ताय शिव-भक्ताय दद्याद् यः सु-पयस्विनीम् अजाम् एकां सु-पुष्ट-अङ्गीं तस्य पुण्य-फलं शृणु //
SK
यावत् तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च तावद्वर्षसहस्राणि रुद्रलोके महीयते //
SK
यावत् तद्-रोम-संख्यानं तत्-प्रसूति-कुलेषु च तावद्-वर्ष-सहस्राणि रुद्र-लोके महीयते //
SK
मृदुरोमाञ्चितां कृष्णां निवेद्य गुरवे नरः रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलम् आप्नुयात् //
SK
मृदु-रोम-अञ्चितां कृष्णां निवेद्य गुरवे नरः रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलम् आप्नुयात् //
SK
गजाश्वरथसंयुक्तैर् विमानैः सार्वकामिकैः सानुगः क्रीडते भोगैः कल्पकोटिं शिवे पुरे //
SK
गज-अश्व-रथ-संयुक्तैर् विमानैः सार्व-कामिकैः स-अनुगः क्रीडते भोगैः कल्प-कोटिं शिवे पुरे //
SK
निवेद्याश्वतरं पुष्टम् अदुष्टं गुरवे नरः संगतिं सोपकरणं भोगान् भुङ्क्ते शिवे पुरे //
SK
निवेद्य अश्वतरं पुष्टम् अदुष्टं गुरवे नरः संगतिं स-उपकरणं भोगान् भुङ्क्ते शिवे पुरे //
SK
दिव्याश्वयुक्तैः श्रीमद्भिर् विमानैः सार्वकामिकैः कोटिं कोटिं च कल्पानां तदन्ते स्यान् महीपतिः //
SK
दिव्य-अश्व-युक्तैः श्रीमद्भिर् विमानैः सार्व-कामिकैः कोटिं कोटिं च कल्पानां तद्-अन्ते स्यान् मही-पतिः //
SK
अपि योजनमात्राय शिबिकां परिकल्पयेत् गुरोः शान्तस्य दान्तस्य तस्य पुण्यफलं शृणु //
SK
अपि योजन-मात्राय शिबिकां परिकल्पयेत् गुरोः शान्तस्य दान्तस्य तस्य पुण्य-फलं शृणु //
SK
विमानानां सहस्रेण सर्वकामयुतेन च कल्पकोट्ययुतं साग्रं भोगान् भुङ्क्ते शिवे पुरे //
SK
विमानानां सहस्रेण सर्व-काम-युतेन च कल्प-कोट्य्-अयुतं स-अग्रं भोगान् भुङ्क्ते शिवे पुरे //
SK
छागं मेषं मयूरं च कुक्कुटं शारिकां शुकम् बालक्रीडनकान् एतान् इत्य् आद्यान् अपरान् अपि //
SK
छागं मेषं मयूरं च कुक्कुटं शारिकां शुकम् बाल-क्रीडनकान् एतान् इत्य् आद्यान् अपरान् अपि //
SK
निवेदयित्वा स्कन्दाय तत्सायुज्यम् अवाप्नुयात् भुक्त्वा तु विपुलान् भोगांस् तदन्ते स्याद् द्विजोत्तमः //
SK
निवेदयित्वा स्कन्दाय तत्-सायुज्यम् अवाप्नुयात् भुक्त्वा तु विपुलान् भोगांस् तद्-अन्ते स्याद् द्विज-उत्तमः //
SK
मुसलोलूखलाद्यानि गृहोपकरणानि च दद्याच् छिवगृहस्थेभ्यस् तस्य पूण्यफलं शृणु //
SK
मुसल-उलूखल-आद्यानि गृह-उपकरणानि च दद्याच् छिव-गृहस्थेभ्यस् तस्य पूण्य-फलं शृणु //
SK
प्रत्येकं कल्पम् एकैकं गृहोपकरणैर् नरः अन्ते दिवि वसेद् भोगैस् तदन्ते च गृही भवेत् //
SK
प्रत्येकं कल्पम् एक-एकं गृह-उपकरणैर् नरः अन्ते दिवि वसेद् भोगैस् तद्-अन्ते च गृही भवेत् //
SK
खर्जूरतालपत्त्रैर् वा चर्मणा वा सुकल्पितम् दत्त्वा कोट्यासनं वृत्तं शिवलोकम् अवाप्नुयात् //
SK
खर्जूर-ताल-पत्त्रैर् वा चर्मणा वा सुकल्पितम् दत्त्वा कोट्य्-आसनं वृत्तं शिव-लोकम् अवाप्नुयात् //
SK
प्रातर्नीहारवेलायां हेमन्ते शिवयोगिनाम् कृत्वा प्रतापनायाग्निं शिवलोके महीयते //
SK
प्रातर्-नीहार-वेलायां हेमन्ते शिव-योगिनाम् कृत्वा प्रतापनाय अग्निं शिव-लोके महीयते //
SK
सूर्यायुतप्रभादीप्तैर् विमानैः सार्वकामिकैः कल्पकोटिशतं भोगान् भुक्त्वा स तु महीपतिः //
SK
सूर्य-अयुत-प्रभा-दीप्तैर् विमानैः सार्व-कामिकैः कल्प-कोटि-शतं भोगान् भुक्त्वा स तु मही-पतिः //
SK
यः प्रान्तरं विदेशं वा गच्छन्तं शिवयोगिनम् भोजयीत यथाशक्त्या शिवलोके महीयते //
SK
यः प्रान्तरं विदेशं वा गच्छन्तं शिव-योगिनम् भोजयीत यथा-शक्त्या शिव-लोके महीयते //
SK
यश् छत्त्रं धारयेद् ग्रीष्मे गच्छते शिवयोगिने स मृतः पृथिवीं कृत्स्नाम् एकच्छत्त्राम् अवाप्नुयात् //
SK
यश् छत्त्रं धारयेद् ग्रीष्मे गच्छते शिव-योगिने स मृतः पृथिवीं कृत्स्नाम् एक-च्छत्त्राम् अवाप्नुयात् //
SK
यः समुद्धरते मार्गे मात्रोपकरणासनम् शिवयोगप्रवृत्तस्य तस्य पुण्यफलं शृणु //
SK
यः समुद्धरते मार्गे मात्र-उपकरण-आसनम् शिव-योग-प्रवृत्तस्य तस्य पुण्य-फलं शृणु //
SK
कल्पायुतं नरः साग्रं भुक्त्वा भोगाञ् छिवे पुरे तदन्ते प्राप्नुयाद् राज्यं सर्वैश्वर्यसमन्वितम् //
SK
कल्प-अयुतं नरः स-अग्रं भुक्त्वा भोगाञ् छिवे पुरे तद्-अन्ते प्राप्नुयाद् राज्यं सर्व-एश्वर्य-समन्वितम् //
SK
अभ्यङ्गोद्वर्तनं स्नानम् आर्तस्य शिवयोगिनः कृत्वाप्नोति महाभोगान् कल्पाञ् छिवपुरे नरः //
SK
अभ्यङ्ग-उद्वर्तनं स्नानम् आर्तस्य शिव-योगिनः कृत्वा आप्नोति महा-भोगान् कल्पाञ् छिव-पुरे नरः //
SK
अपनीय समुच्छिष्टं भक्तितः शिवयोगिनाम् दशधेनुप्रदानस्य फलम् आप्नोति मानवः //
SK
अपनीय समुच्छिष्टं भक्तितः शिव-योगिनाम् दश-धेनु-प्रदानस्य फलम् आप्नोति मानवः //
SK
पञ्चगव्यसमं ज्ञेयम् उच्छिष्टं शिवयोगिनाम् तद् भुक्त्वा लभते शुद्धिं महतः पातकाद् अपि //
SK
पञ्च-गव्य-समं ज्ञेयम् उच्छिष्टं शिव-योगिनाम् तद् भुक्त्वा लभते शुद्धिं महतः पातकाद् अपि //
SK
नारी च भुक्त्वा सत्पुत्रं कुलाधारं गुणान्वितम् राज्ययोग्यं धनाढ्यं च प्राप्नुयाद् धर्मतत्परम् //
SK
नारी च भुक्त्वा सत्-पुत्रं कुल-आधारं गुण-अन्वितम् राज्य-योग्यं धन-आढ्यं च प्राप्नुयाद् धर्म-तत्-परम् //
SK
यश् च यां शिवयज्ञाय गृहस्थः परिकल्पयेत् शिवभक्तो ऽस्य महतः परमं फलम् आप्नुयात् //
SK
यश् च यां शिव-यज्ञाय गृह-स्थः परिकल्पयेत् शिव-भक्तो ऽस्य महतः परमं फलम् आप्नुयात् //
SK
शिवोमां च प्रयत्नेन भक्त्याब्दं यो ऽनुपालयेत् गवां लक्षप्रदानस्य संपूर्णं फलम् आप्नुयात् //
SK
शिव-उमां च प्रयत्नेन भक्त्य आब्दं यो ऽनुपालयेत् गवां लक्ष-प्रदानस्य संपूर्णं फलम् आप्नुयात् //
SK
प्रातः प्रदद्यात् सघृतं सुकृतं बालपिण्डकम् दूर्वां च बालवत्सानां(?) तस्य पुण्यफलं शृणु //
SK
प्रातः प्रदद्यात् स-घृतं सुकृतं बाल-पिण्डकम् दूर्वां च बाल-वत्सानां(?) तस्य पुण्य-फलं शृणु //
SK
यावत् तद्बालवत्सानां पानाहारं प्रकल्पयेत् तावदष्टायुतान् पूर्वैर् भोगान् भुङ्क्ते शिवे पुरे //
SK
यावत् तद्-बाल-वत्सानां पान-आहारं प्रकल्पयेत् तावद्-अष्ट-अयुतान् पूर्वैर् भोगान् भुङ्क्ते शिवे पुरे //
SK
विधवानाथवृद्धानां प्रदद्याद् यः प्रजीवनम् आभूतस्संप्लवं यावच् छिवलोके महीयते //
SK
विधव-अनाथ-वृद्धानां प्रदद्याद् यः प्रजीवनम् आ-भूत-स्संप्लवं यावच् छिव-लोके महीयते //
SK
दद्याद् यः सर्वजन्तूनाम् आहारम् अनुयत्नतः त्रिः पृथ्वीं रत्नसंपूर्णां यद् दत्त्वा तत् फलं लभेत् //
SK
दद्याद् यः सर्व-जन्तूनाम् आहारम् अनुयत्नतः त्रिः पृथ्वीं रत्न-संपूर्णां यद् दत्त्वा तत् फलं लभेत् //
SK
विनयव्रतदानानि यानि सिद्धानि लोकतः तानि तेनैव विधिना शिवमन्त्रेण कल्पयेत् //
SK
विनय-व्रत-दानानि यानि सिद्धानि लोकतः तानि तेन एव विधिना शिव-मन्त्रेण कल्पयेत् //
SK
निवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च प्राप्नुयाद् विपुलान् भोगान् दिव्याञ् छिवपुरे नरः //
SK
निवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च प्राप्नुयाद् विपुलान् भोगान् दिव्याञ् छिव-पुरे नरः //
SK
पुनर् यः कर्तरीं दद्यात् केशक्लेशापनुत्तये सर्वक्लेशविनिर्मुक्तः शिवलोके सुखी भवेत् //
SK
पुनर् यः कर्तरीं दद्यात् केश-क्लेश-अपनुत्तये सर्व-क्लेश-विनिर्मुक्तः शिव-लोके सुखी भवेत् //
SK
नासिकाशोधनं दद्यात् संदंशं शिवयोगिने वर्षकोटिं महाभोगैः शिवलोके महीयते //
SK
नासिका-शोधनं दद्यात् संदंशं शिव-योगिने वर्ष-कोटिं महा-भोगैः शिव-लोके महीयते //
SK
नखच्छेदनकं दत्त्वा शिवलोके महीयते वर्षलक्षं महाभोगैः शिवलोके महीयते //
SK
नख-च्छेदनकं दत्त्वा शिव-लोके महीयते वर्ष-लक्षं महा-भोगैः शिव-लोके महीयते //
SK
दत्त्वाञ्जनशलाकां वा लोहाद्यां शिवयोगिने भोगाञ् छिवपुरे प्राप्य ज्ञानचक्षुर् अवाप्नुयात् //
SK
दत्त्व आञ्जन-शलाकां वा लोह-आद्यां शिव-योगिने भोगाञ् छिव-पुरे प्राप्य ज्ञान-चक्षुर् अवाप्नुयात् //
SK
कर्णशोधनकं दत्त्वा लोहाद्यं शिवयोगिने वर्षकोटिं महाभोगैः शिवलोके महीयते //
SK
कर्ण-शोधनकं दत्त्वा लोह-आद्यं शिव-योगिने वर्ष-कोटिं महा-भोगैः शिव-लोके महीयते //
SK
दद्याद् यः शिवभक्ताय सूचीं कौपीनशोधनीम् वर्षलक्षं स लक्षार्धं शिवलोके महीयते //
SK
दद्याद् यः शिव-भक्ताय सूचीं कौपीन-शोधनीम् वर्ष-लक्षं स लक्ष-अर्धं शिव-लोके महीयते //
SK
निवेद्य शिवयोगिभ्यः सूचिकं सूत्रसंयुतम् वर्षलक्षं महाभोगैः क्रीडते स शिवे पुरे //
SK
निवेद्य शिव-योगिभ्यः सूचिकं सूत्र-संयुतम् वर्ष-लक्षं महा-भोगैः क्रीडते स शिवे पुरे //
SK
दद्याद् यः शिवयोगिभ्यः सुकृतां पत्रवेधनीम् वर्षलक्षं महाभोगैः शिवलोके महीयते //
SK
दद्याद् यः शिव-योगिभ्यः सुकृतां पत्र-वेधनीम् वर्ष-लक्षं महा-भोगैः शिव-लोके महीयते //
SK
दद्याद् यः पुस्तकादीनां सर्वकार्यार्थकर्तृकाम् पञ्चलक्षं महाभोगैर् मोदते स शिवे पुरे //
SK
दद्याद् यः पुस्तक-आदीनां सर्व-कार्य-अर्थ-कर्तृकाम् पञ्च-लक्षं महा-भोगैर् मोदते स शिवे पुरे //
SK
शमीन्धनतृणादीनां दद्यात् तच्छेदनं च यः क्रीडते स शिवे लोके वर्षलक्षचतुष्टयम् //
SK
शमी-इन्धन-तृण-आदीनां दद्यात् तच्-छेदनं च यः क्रीडते स शिवे लोके वर्ष-लक्ष-चतुष्टयम् //
SK
शिवाश्रमोपभोगाय लोहोपकरणं महत् यः प्रदद्याग् कुठाराद्यं तस्य पुण्यफलं शृणु //
SK
शिव-आश्रम-उपभोगाय लोह-उपकरणं महत् यः प्रदद्याग् कुठार-आद्यं तस्य पुण्य-फलं शृणु //
SK
यावत् तत्फलसंख्यानं लोहोपकरणे भवेत् तावन्ति वर्षलक्षाणि शिवलोके महीयते //
SK
यावत् तत्-फल-संख्यानं लोह-उपकरणे भवेत् तावन्ति वर्ष-लक्षाणि शिव-लोके महीयते //
SK
शिवायतनवित्तानां रक्षार्थं यः प्रयच्छति धनुःखड्गायुधादीनि तस्य पुण्यफलं शृणु //
SK
शिव-आयतन-वित्तानां रक्षा-अर्थं यः प्रयच्छति धनुः-खड्ग-आयुध-आदीनि तस्य पुण्य-फलं शृणु //
SK
एकैकस्मिन् परिज्ञेयम् आयुधे चापि वै फलम् वर्षकोट्यष्टकं भोगैः शिवलोके महीयते //
SK
एक-एकस्मिन् परिज्ञेयम् आयुधे च अपि वै फलम् वर्ष-कोट्य्-अष्टकं भोगैः शिव-लोके महीयते //
SK
यः स्वात्मभोगभृत्यर्थं कुसुमानि निवेदयेत् शिवाय गुरवे वापि तस्य पुण्यफलं शृणु //
SK
यः स्वात्म-भोग-भृत्य्-अर्थं कुसुमानि निवेदयेत् शिवाय गुरवे व आपि तस्य पुण्य-फलं शृणु //
SK
यावद् अन्योऽन्यसंबन्धास् तस्यांशाः परिकीर्तिताः वर्षलक्षं स तावच् च शिवलोके प्रमोदते //
SK
यावद् अन्यो-ऽन्य-संबन्धास् तस्य अंशाः परिकीर्तिताः वर्ष-लक्षं स तावच् च शिव-लोके प्रमोदते //
SK
नष्टापहृतम् अन्विष्य पुनर् वित्तं निवेदयेत् शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु //
SK
नष्ट-अपहृतम् अन्विष्य पुनर् वित्तं निवेदयेत् शिव-आत्मकं शिवाय एव तस्य पुण्य-फलं शृणु //
SK
यावच् छिवाय तद्वित्तं प्राङ् निवेद्य फलं स्मृतम् नष्टम् आनीय तद् भूयः पुण्यं शतगुणं लभेत् //
SK
यावच् छिवाय तद्-वित्तं प्राङ् निवेद्य फलं स्मृतम् नष्टम् आनीय तद् भूयः पुण्यं शत-गुणं लभेत् //
SK
देवद्रव्यं हृतं नष्टम् अन्वेष्यम् अपि यत्नतः न प्राप्नोति तदा तस्य प्राप्नुयाद् द्विगुणं फलम् //
SK
देव-द्रव्यं हृतं नष्टम् अन्वेष्यम् अपि यत्नतः न प्राप्नोति तदा तस्य प्राप्नुयाद् द्विगुणं फलम् //
SK
ताम्रकुम्भकटाहाद्यं यः शिवाय निवेदयेत् शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु //
SK
ताम्र-कुम्भ-कटाह-आद्यं यः शिवाय निवेदयेत् शिव-आत्मकं शिवाय एव तस्य पुण्य-फलं शृणु //
SK
यावच् छिवाय तद् वित्तं प्राङ् निवेद्य फलं स्मृतम् नष्टम् आनीय तद् भूयः पुण्यं शतगुणं लभेत् //
SK
यावच् छिवाय तद् वित्तं प्राङ् निवेद्य फलं स्मृतम् नष्टम् आनीय तद् भूयः पुण्यं शत-गुणं लभेत् //
SK
स्नानसत्त्रोपभोगाय तस्य पुण्यफलं शृणु यावत् तत्फलसंख्यानं ताम्रोपकरणे स्थितम् //
SK
स्नान-सत्त्र-उपभोगाय तस्य पुण्य-फलं शृणु यावत् तत्-फल-संख्यानं ताम्र-उपकरणे स्थितम् //
SK
पले पले वर्षकोटिं मोदते स शिवे पुरे यः पत्त्रपुष्पवस्तूनां दद्याद् आधारभाजनम् //
SK
पले पले वर्ष-कोटिं मोदते स शिवे पुरे यः पत्त्र-पुष्प-वस्तूनां दद्याद् आधार-भाजनम् //
SK
तद्वस्तुदातुर् यत् पुण्यं तत् पुण्यं सकलं भवेत् दत्त्वोपकरणं किंचिद् अपि यो वित्तम् अर्थिनाम् //
SK
तद्-वस्तु-दातुर् यत् पुण्यं तत् पुण्यं सकलं भवेत् दत्त्व उपकरणं किंचिद् अपि यो वित्तम् अर्थिनाम् //
SK
यद् वस्तु कुरुते तेन तत्प्रदानफलं लभेत् यः शौचपीतवस्त्राणि क्षाराद्यैः शिवयोगिनाम् //
SK
यद् वस्तु कुरुते तेन तत्-प्रदान-फलं लभेत् यः शौच-पीत-वस्त्राणि क्षार-आद्यैः शिव-योगिनाम् //
SK
स पापमलनिर्मुक्तः शिवलोकम् अवाप्नुयात् यः पुष्पपट्टसंयुक्तं पटगर्भं च कम्बलम् //
SK
स पाप-मल-निर्मुक्तः शिव-लोकम् अवाप्नुयात् यः पुष्प-पट्ट-संयुक्तं पट-गर्भं च कम्बलम् //
SK
प्रदद्याच् छिवयोगिभ्यस् तस्य पुण्यफलं शृणु तेषां च वस्त्रतन्तूनां यावत्संख्या विधीयते //
SK
प्रदद्याच् छिव-योगिभ्यस् तस्य पुण्य-फलं शृणु तेषां च वस्त्र-तन्तूनां यावत्-संख्या विधीयते //
SK
तावद्वर्षसहस्राणि भोगान् भुङ्क्ते शिवे पुरे श्लक्ष्णवस्त्राणि शुक्लानि दद्याद् यः शिवयोगिने //
SK
तावद्-वर्ष-सहस्राणि भोगान् भुङ्क्ते शिवे पुरे श्लक्ष्ण-वस्त्राणि शुक्लानि दद्याद् यः शिव-योगिने //
SK
चित्रवस्त्राणि तद्भक्त्या तस्य पुण्यफलं शृणु यावत् तत्सूक्ष्मवस्त्राणां तन्तुसंख्या विधीयते //
SK
चित्र-वस्त्राणि तद्-भक्त्या तस्य पुण्य-फलं शृणु यावत् तत्-सूक्ष्म-वस्त्राणां तन्तु-संख्या विधीयते //
SK
तावद्युगानि संभोगैः शिवलोके महीयते शङ्खपात्रं तु विस्तीर्णं भाण्डं वापि सुशोभनम् //
SK
तावद्-युगानि संभोगैः शिव-लोके महीयते शङ्ख-पात्रं तु विस्तीर्णं भाण्डं व आपि सुशोभनम् //
SK
प्रदद्याच् छिवयोगिभ्यस् तस्य पुण्यफलं शृणु दिव्यं विमानम् आरूढः सर्वकामसमन्वितम् //
SK
प्रदद्याच् छिव-योगिभ्यस् तस्य पुण्य-फलं शृणु दिव्यं विमानम् आरूढः सर्व-काम-समन्वितम् //
SK
कल्पकोट्ययुतं साग्रं शिवलोके महीयते शुक्त्यादीनि च पात्राणि शोभनान्य् अमलानि च //
SK
कल्प-कोट्य्-अयुतं स-अग्रं शिव-लोके महीयते शुक्त्य्-आदीनि च पात्राणि शोभनान्य् अमलानि च //
SK
निवेद्य शिवयोगिभ्यः शङ्खार्धेन फलं लभेत् स्फाटिकानां च पात्राणां शङ्खतुल्यफलं स्मृतम् //
SK
निवेद्य शिव-योगिभ्यः शङ्ख-अर्धेन फलं लभेत् स्फाटिकानां च पात्राणां शङ्ख-तुल्य-फलं स्मृतम् //
SK
शैलजानां तदर्धेन पात्राणां च तदर्धकम् तालखर्जूरपात्राणां वंशजानां निवेदने //
SK
शैलजानां तद्-अर्धेन पात्राणां च तद्-अर्धकम् ताल-खर्जूर-पात्राणां वंश-जानां निवेदने //
SK
अन्येषाम् एवम् आदीनां पुण्यं वार्क्ष्यार्धसंमितम् वंशजार्धसमं पुण्यं फलपात्रनिवेदने //
SK
अन्येषाम् एवम् आदीनां पुण्यं वार्क्ष्य-अर्ध-संमितम् वंश-ज-अर्ध-समं पुण्यं फल-पात्र-निवेदने //
SK
नानापर्णपुटाणां च साराणां वा फलार्धकम् यस् ताम्रकांस्यपात्राणि शोव्हनान्य् अमलानि च //
SK
नाना-पर्ण-पुटाणां च साराणां वा फल-अर्धकम् यस् ताम्र-कांस्य-पात्राणि शोव्हनान्य् अमलानि च //
SK
स्नानभोजनपानार्थं दद्याद् यः शिवयोगिने ताम्रां कांसीं त्रिलोहीं वा यः प्रदद्यात् त्रिपादिकाम् //
SK
स्नान-भोजन-पान-अर्थं दद्याद् यः शिव-योगिने ताम्रां कांसीं त्रि-लोहीं वा यः प्रदद्यात् त्रि-पादिकाम् //
SK
भोजने भोजनाधारं गुरवे तत्फलं शृणु यावत् तत्पलसंख्यानं त्रिपाद्या भोजनेषु च //
SK
भोजने भोजन-आधारं गुरवे तत्-फलं शृणु यावत् तत्-पल-संख्यानं त्रि-पाद्या भोजनेषु च //
SK
तावद्युगसहस्राणि भोगान् भुङ्क्ते शिवे पुरे लोहं त्रिपादिकं दत्त्वा सत्कृत्वा शिवयोगिने //
SK
तावद्-युग-सहस्राणि भोगान् भुङ्क्ते शिवे पुरे लोहं त्रि-पादिकं दत्त्वा सत्-कृत्वा शिव-योगिने //
SK
दशकल्पान् महाभोगैर् नरः शिवपुरे वसेत् यः प्रदद्यात् त्रिविष्टम्भं भिक्षापात्रसमाश्रयम् //
SK
दश-कल्पान् महा-भोगैर् नरः शिव-पुरे वसेत् यः प्रदद्यात् त्रि-विष्टम्भं भिक्षा-पात्र-समाश्रयम् //
SK
वंशजं दारुजं वापि तस्य पुण्यफलं शृणु दिव्यस्त्रीभोगसंपन्नो विमाने महति स्थितः //
SK
वंश-जं दारु-जं व आपि तस्य पुण्य-फलं शृणु दिव्य-स्त्री-भोग-संपन्नो विमाने महति स्थितः //
SK
चतुर्युगसहस्रं तु भोगान् भुङ्क्ते शिवे पुरे भिक्षापात्रमुखाच्छादम् वस्त्रपर्णादिकल्पितम् //
SK
चतुर्-युग-सहस्रं तु भोगान् भुङ्क्ते शिवे पुरे भिक्षा-पात्र-मुख-आच्छादम् वस्त्र-पर्ण-आदि-कल्पितम् //
SK
दत्त्वा शिवपुरे भोगान् कल्पम् एकं वसेन् नरः संश्रयं यः प्रदद्याच् च भिक्षापात्रे कमण्डलौ //
SK
दत्त्वा शिव-पुरे भोगान् कल्पम् एकं वसेन् नरः संश्रयं यः प्रदद्याच् च भिक्षा-पात्रे कमण्डलौ //
SK
कल्पितं वस्त्रसूत्राद्यैस् तस्य पुण्यफलं शृणु तद्वस्त्रपूततन्तूनां संख्या यावद् विधीयते //
SK
कल्पितं वस्त्र-सूत्र-आद्यैस् तस्य पुण्य-फलं शृणु तद्-वस्त्र-पूत-तन्तूनां संख्या यावद् विधीयते //
SK
तावद्वर्षसहस्राणि रुद्रलोके महीयते सूत्रवल्कलवालैर् वा शिक्यभाण्डसमाश्रयम् //
SK
तावद्-वर्ष-सहस्राणि रुद्र-लोके महीयते सूत्र-वल्कल-वालैर् वा शिक्य-भाण्ड-समाश्रयम् //
SK
यः कृत्वा दामनीयोक्त्रं प्रग्रहं रज्जुम् एव वा एवम् आदीनि चान्यानि वस्तूनि विनिवेदयेत् //
SK
यः कृत्वा दामनी-योक्त्रं प्रग्रहं रज्जुम् एव वा एवम् आदीनि च अन्यानि वस्तूनि विनिवेदयेत् //
SK
शिवगोष्ठोपयोगार्थं तस्य पुण्यफलं शृणु यावत् तद्रज्जुसंख्यानं प्रदद्याच् छिवगोकुले //
SK
शिव-गोष्ठ-उपयोग-अर्थं तस्य पुण्य-फलं शृणु यावत् तद्-रज्जु-संख्यानं प्रदद्याच् छिव-गोकुले //
SK
तावच् चतुर्युगं देही शिवलोके महीयते यथा यथा प्रियं वस्त्रं शोभनं च यथा यथा //
SK
तावच् चतुर्-युगं देही शिव-लोके महीयते यथा यथा प्रियं वस्त्रं शोभनं च यथा यथा //
SK
तथा तथा महापुण्यं तद्दानाद् उत्तरोत्तरम् यः पन्थानं दिशेत् पृष्टं प्रणष्टं च गवादिकं //
SK
तथा तथा महा-पुण्यं तद्-दानाद् उत्तर-उत्तरम् यः पन्थानं दिशेत् पृष्टं प्रणष्टं च गव-आदिकं //
SK
स गोदानसमं पुण्यं प्रज्ञासौख्यं च विन्दति कृत्वोपकारम् आर्तानां स्वर्गं याति न संशयः //
SK
स गो-दान-समं पुण्यं प्रज्ञा-सौख्यं च विन्दति कृत्व उपकारम् आर्तानां स्वर्गं याति न संशयः //
SK
अपि कण्टकम् उद्धृत्य किमुतान्यं महागुणम्(?) अन्नपानौषधीनां च यः प्रदातारम् उद्दिशेत् //
SK
अपि कण्टकम् उद्धृत्य किम्-उत-अन्यं महा-गुणम्(?) अन्न-पान-औषधीनां च यः प्रदातारम् उद्दिशेत् //
SK
आर्तानां तस्य विज्ञेयं दातुस् तत्सदृशं फलम् शिवाय तस्य संरुद्धं कर्म तिष्ठति यद् विना //
SK
आर्तानां तस्य विज्ञेयं दातुस् तत्-सदृशं फलम् शिवाय तस्य संरुद्धं कर्म तिष्ठति यद् विना //
SK
तद् अल्पम् अपि यज्ञाङ्गं दत्त्वा यज्ञफलं लभेत् अपि काशकुशं सूत्रं गोमयं समिदिन्धनम् //
SK
तद् अल्पम् अपि यज्ञ-अङ्गं दत्त्वा यज्ञ-फलं लभेत् अपि काश-कुशं सूत्रं गो-मयं समिद्-इन्धनम् //
SK
शिवयज्ञोपयोगार्थं प्रवक्ष्यामि समासतः सर्वेषां शिवभक्तानां दद्याद् यत् किंचिद् आदरात् दत्त्वा यज्ञफलं विद्यात् किमु तद्वस्तुदानतः //
SK
शिव-यज्ञ-उपयोग-अर्थं प्रवक्ष्यामि समासतः सर्वेषां शिव-भक्तानां दद्याद् यत् किंचिद् आदरात् दत्त्वा यज्ञ-फलं विद्यात् किमु तद्-वस्तु-दानतः //
SK
// इति शिवोपनिषदि फलोपकरणप्रदानाध्यायः षष्ठः //
SK
अथ स्वर्गापवर्गार्थे प्रवक्ष्यामि समासतः सर्वेषां शिवभक्तानां शिवाचारम् अनुत्तमम् //
SK
अथ स्वर्ग-अपवर्ग-अर्थे प्रवक्ष्यामि समासतः सर्वेषां शिव-भक्तानां शिव-आचारम् अनुत्तमम् //
SK
शिवः शिवाय भूतानां यस्माद् दानं प्रयच्छति गुरुमूर्तिः स्थितस् तस्मात् पूजयेत् सततं गुरुम् //
SK
शिवः शिवाय भूतानां यस्माद् दानं प्रयच्छति गुरु-मूर्तिः स्थितस् तस्मात् पूजयेत् सततं गुरुम् //
SK
नालक्षणे यथा लिङ्गे सांनिध्यं कल्पयेच् छिवः अल्पागमे गुरौ तद्वत् सांनिध्यं न प्रकल्पयेत् //
SK
न अलक्षणे यथा लिङ्गे सांनिध्यं कल्पयेच् छिवः अल्प-आगमे गुरौ तद्वत् सांनिध्यं न प्रकल्पयेत् //
SK
शिवज्ञानार्थतत्त्वज्ञः प्रसन्नमनसं गुरुम् शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतरः //
SK
शिव-ज्ञान-अर्थ-तत्त्वज्ञः प्रसन्न-मनसं गुरुम् शिवः शिवं समास्थाय ज्ञानं वक्ति न हि इतरः //
SK
गुरुं च शिववद् भक्त्या नमस्कारेण पूजयेत् कृताञ्जलिस् त्रिसंध्यं च भूमिविन्यस्तमस्तकः //
SK
गुरुं च शिववद् भक्त्या नमस्-कारेण पूजयेत् कृत-अञ्जलिस् त्रिसंध्यं च भूमि-विन्यस्त-मस्तकः //
SK
न विविक्तम् अनाचान्तम्(?) चङ्क्रमन्तं तथाकुलम् समाधिस्थं व्रजन्तं च नमस्कुर्याद् गुरुं बुधः //
SK
न विविक्तम् अनाचान्तम्(?) चङ्क्रमन्तं तथा आकुलम् समाधि-स्थं व्रजन्तं च नमस्-कुर्याद् गुरुं बुधः //
SK
व्याख्याने तत्समाप्तौ च संप्रश्ने स्नानभोजने भुक्त्वा च शयने स्वप्ने नमस्कुर्यात् सदा गुरुम् //
SK
व्याख्याने तत्-समाप्तौ च संप्रश्ने स्नान-भोजने भुक्त्वा च शयने स्वप्ने नमस्-कुर्यात् सदा गुरुम् //
SK
ग्रामान्तरम् अभिप्रेप्सुर् गुरोः कुर्यात् प्रदक्षिणम् सार्वाङ्गिकप्रणामं च पुनः कुर्यात् तदागतः //
SK
ग्राम-अन्तरम् अभिप्रेप्सुर् गुरोः कुर्यात् प्रदक्षिणम् सार्व-आङ्गिक-प्रणामं च पुनः कुर्यात् तद्-आगतः //
SK
पर्वोत्सवेषु सर्वेषु दद्याद् गन्धपवित्रकम् शिवज्ञानस्य चारम्भे प्रवासगमनागतौ //
SK
पर्व-उत्सवेषु सर्वेषु दद्याद् गन्ध-पवित्रकम् शिव-ज्ञानस्य चा अरम्भे प्रवास-गमन-आगतौ //
SK
शिवधर्मव्रतारम्भे तत्समाप्तौ च कल्पयेत् प्रसादनाय कुपितो विजित्य च रिपुं तथा //
SK
शिव-धर्म-व्रत-आरम्भे तत्-समाप्तौ च कल्पयेत् प्रसादनाय कुपितो विजित्य च रिपुं तथा //
SK
पुण्याहे ग्रहशान्तौ च दीक्षायां च सदक्षिणम् आवार्य पदसंप्राप्तौ पवित्रे चोपविग्रहे //
SK
पुण्य-अहे ग्रह-शान्तौ च दीक्षायां च स-दक्षिणम् आवार्य पद-संप्राप्तौ पवित्रे च उपविग्रहे //
SK
उपानच्छत्त्रशयनं वस्त्रम् आसनभूषणम् पात्रदण्डाक्षसूत्रं वा गुरुसक्तं न धारयेत् //
SK
उपानच्-छत्त्र-शयनं वस्त्रम् आसन-भूषणम् पात्र-दण्ड-अक्ष-सूत्रं वा गुरु-सक्तं न धारयेत् //
SK
हास्यनिष्ठीवनास्फोटम् उच्चभाष्यविजृम्भणम् पादप्रसारणं गतिं न कुर्याद् गुरुसंनिधौ //
SK
हास्य-निष्ठीवन-आस्फोटम् उच्च-भाष्य-विजृम्भणम् पाद-प्रसारणं गतिं न कुर्याद् गुरु-संनिधौ //
SK
हीनान्नपानवस्त्रः स्यान् नीचशय्यासनो गुरोः न यथेष्टश् च संतिष्ठेत् कलहं च विवर्जयेत् //
SK
हीन-अन्न-पान-वस्त्रः स्यान् नीच-शय्या-आसनो गुरोः न यथा-इष्टश् च संतिष्ठेत् कलहं च विवर्जयेत् //
SK
प्रतिवाते ऽनुवाते वा न तिष्ठेद् गुरुणा सह असंश्रये च सततं न किंचित् कीर्तयेद् गुरोः //
SK
प्रतिवाते ऽनुवाते वा न तिष्ठेद् गुरुणा सह असंश्रये च सततं न किंचित् कीर्तयेद् गुरोः //
SK
अन्यासक्तो न भुञ्जानो न तिष्ठन्न् अपराङ्मुखः न शयनो न चासीनः संभास्येद् गुरुणा सह //
SK
अन्य-आसक्तो न भुञ्जानो न तिष्ठन्न् अपराङ्-मुखः न शयनो न चा असीनः संभास्येद् गुरुणा सह //
SK
दृष्ट्वैव गुरुम् आयान्तम् उत्तिष्ठेद् दूरतस् त्वरम् अनुज्ञातश् च गुरुणा संविशेच् चानुपृष्ठतः //
SK
दृष्ट्व ऐव गुरुम् आयान्तम् उत्तिष्ठेद् दूरतस् त्वरम् अनुज्ञातश् च गुरुणा संविशेच् च अनुपृष्ठतः //
SK
न कण्ठं प्रावृतं कुर्यान् न च तत्रावसक्तिकाम् न पादधावनस्नानं यत्र पश्येद् गुरुः स्थितः //
SK
न कण्ठं प्रावृतं कुर्यान् न च तत्र अवसक्तिकाम् न पाद-धावन-स्नानं यत्र पश्येद् गुरुः स्थितः //
SK
न दन्तधावनाभ्यङ्गम् आयामोद्वर्तनक्रियाः उत्सर्गपरिधानं च गुरोः कुर्वीत पश्यतः //
SK
न दन्त-धावन-अभ्यङ्गम् आयाम-उद्वर्तन-क्रियाः उत्सर्ग-परिधानं च गुरोः कुर्वीत पश्यतः //
SK
गुरुर् यद् अर्पयेत् किंचिद् गृहासन्नं तदञ्जलौ पात्रे वा पुरतः शिष्यस् तद् वक्त्रम् अभिवीक्षयन् //
SK
गुरुर् यद् अर्पयेत् किंचिद् गृह-आसन्नं तद्-अञ्जलौ पात्रे वा पुरतः शिष्यस् तद् वक्त्रम् अभिवीक्षयन् //
SK
यद् अर्पयेद् गुरुः किंचि तन् नम्रः पुरतः स्थितः पाणिद्वयेन गृह्णीयत् स्थापयेत् तच् च सुस्थितम् //
SK
यद् अर्पयेद् गुरुः किंचि तन् नम्रः पुरतः स्थितः पाणि-द्वयेन गृह्णीयत् स्थापयेत् तच् च सुस्थितम् //
SK
न गुरोः कीर्तयेन् नाम परोऽक्षम् अपि केवलम् समानसंज्ञम् अन्यं वा नाह्वयीत तदाख्यया //
SK
न गुरोः कीर्तयेन् नाम परोऽक्षम् अपि केवलम् समान-संज्ञम् अन्यं वा ना अह्वयीत तद्-आख्यया //
SK
स्वगुरुस् तद्गुरुश् चैव यदि स्यातां समं क्वचित् गुरोर् गुरुस् तयोः पूज्यः स्वगुरुश् च तदाज्ञया //
SK
स्व-गुरुस् तद्-गुरुश् च एव यदि स्यातां समं क्वचित् गुरोर् गुरुस् तयोः पूज्यः स्व-गुरुश् च तद्-आज्ञया //
SK
अनिवेद्य न भुञ्जीत भुक्त्वा चास्य निवेदयेत् नाविज्ञाप्य गुरुं गच्छेद् बहिः कार्येण केनचित् //
SK
अनिवेद्य न भुञ्जीत भुक्त्वा च अस्य निवेदयेत् न अविज्ञाप्य गुरुं गच्छेद् बहिः कार्येण केनचित् //
SK
गुर्वाज्ञया कर्म कृत्वा तत्समाप्तौ निवेदयेत् कृत्वा च नैत्यकं सर्वम् अधीयीताज्ञया गुरोः //
SK
गुर्व्-आज्ञया कर्म कृत्वा तत्-समाप्तौ निवेदयेत् कृत्वा च नैत्यकं सर्वम् अधीयीता अज्ञया गुरोः //
SK
मृद्भस्मगोमयजलं पत्त्रपुष्पेन्धनं समित् पर्याप्तम् अष्टकं ह्य् एतद् गुर्वर्थं तु समाहरेत् //
SK
मृद्-भस्म-गो-मय-जलं पत्त्र-पुष्प-इन्धनं समित् पर्याप्तम् अष्टकं ह्य् एतद् गुर्व्-अर्थं तु समाहरेत् //
SK
भैषज्याहारपात्राणि वस्त्रशय्यासनं गुरोः आनयेत् सर्वयत्नेन प्रार्थयित्वा धनेश्वरान् //
SK
भैषज्य-आहार-पात्राणि वस्त्र-शय्य-आसनं गुरोः आनयेत् सर्व-यत्नेन प्रार्थयित्वा धन-ईश्वरान् //
SK
गुरोर् न खण्डयेद् आज्ञाम् अपि प्राणान् परित्यजेत् कृत्वाज्ञां प्राप्नुयान् मुक्तिं लङ्घयन् नरकं व्रजेत् //
SK
गुरोर् न खण्डयेद् आज्ञाम् अपि प्राणान् परित्यजेत् कृत्वा आज्ञां प्राप्नुयान् मुक्तिं लङ्घयन् नरकं व्रजेत् //
SK
पर्यटेत् पृथिवीं कृत्स्नां सशैलवनकाननाम् गुरुभैषज्यसिद्ध्यर्थम् अपि गच्छेद् रसातलम् //
SK
पर्यटेत् पृथिवीं कृत्स्नां स-शैल-वन-काननाम् गुरु-भैषज्य-सिद्ध्य्-अर्थम् अपि गच्छेद् रसातलम् //
SK
यद् आदिशेद् गुरुः किंचित् तत् कुर्याद् अविचारतः अमीमांस्या हि गुरवः सर्वकार्येषु सर्वथा //
SK
यद् आदिशेद् गुरुः किंचित् तत् कुर्याद् अविचारतः अ-मीमांस्या हि गुरवः सर्व-कार्येषु सर्वथा //
SK
नोत्थापयेत् सुखासीनं शयानं न प्रबोधयेत् आसीनो गुरुम् आसीनम् अभिगच्छेत् प्रतिष्ठितम् //
SK
न उत्थापयेत् सुख-आसीनं शयानं न प्रबोधयेत् आसीनो गुरुम् आसीनम् अभिगच्छेत् प्रतिष्ठितम् //
SK
पथि प्रयान्तं यान्तं च यत्नाद् विश्रमयेद् गुरुम् क्षित्पिपासातुरं स्नातं ज्ञात्वा शक्तं च भोजयेत् //
SK
पथि प्रयान्तं यान्तं च यत्नाद् विश्रमयेद् गुरुम् क्षित्-पिपास-आतुरं स्नातं ज्ञात्वा शक्तं च भोजयेत् //
SK
अभ्यङ्गोद्वर्तनं स्नानं भोजनष्ठीवमार्जनम् गात्रसंवाहनं रात्रौ पादाभ्यङ्गं च यत्नतः //
SK
अभ्यङ्ग-उद्वर्तनं स्नानं भोजन-ष्ठीव-मार्जनम् गात्र-संवाहनं रात्रौ पाद-अभ्यङ्गं च यत्नतः //
SK
प्रातः प्रसाधनं दत्त्वा कार्यं संमार्जनाञ्जनम् नानापुष्पप्रकरणं श्रीमद्व्याख्यानमण्डपे //
SK
प्रातः प्रसाधनं दत्त्वा कार्यं संमार्जन-अञ्जनम् नाना-पुष्प-प्रकरणं श्रीमद्-व्याख्यान-मण्डपे //
SK
स्थाप्यासनं गुरोः पूज्यं शिवज्ञानस्य पुस्तकम् तत्र तिष्ठेत् प्रतीक्षंस् तद् गुरोर् आगमनं क्रमात् //
SK
स्थाप्या असनं गुरोः पूज्यं शिव-ज्ञानस्य पुस्तकम् तत्र तिष्ठेत् प्रतीक्षंस् तद् गुरोर् आगमनं क्रमात् //
SK
गुरोर् निन्दापवादं च श्रुत्वा कर्णौ पिधापयेत् अन्यत्र चैव सर्पेत् तु निगृह्णीयाद् उपायतः //
SK
गुरोर् निन्दा-अपवादं च श्रुत्वा कर्णौ पिधापयेत् अन्यत्र च एव सर्पेत् तु निगृह्णीयाद् उपायतः //
SK
न गुरोर् अप्रियं कुर्यात् पीडितस् तारितो ऽपि वा नोच्चारयेच् च तद्वाक्यम् उच्चार्य नरकं व्रजेत् //
SK
न गुरोर् अप्रियं कुर्यात् पीडितस् तारितो ऽपि वा न उच्चारयेच् च तद्-वाक्यम् उच्चार्य नरकं व्रजेत् //
SK
गुरुर् एव पिता माता गुरुर् एव परः शिवः यस्यैव निश्चितो भावस् तस्य मुक्तिर् न दूरतः //
SK
गुरुर् एव पिता माता गुरुर् एव परः शिवः यस्य एव निश्चितो भावस् तस्य मुक्तिर् न दूरतः //
SK
आहाराचारधर्माणां यत् कुर्याद् गुरुर् ईश्वरः तथैव चानुकुर्वीत नानुयुञ्जीत कारणम् //
SK
आहार-आचार-धर्माणां यत् कुर्याद् गुरुर् ईश्वरः तथ ऐव च अनुकुर्वीत न अनुयुञ्जीत कारणम् //
SK
यज्ञस् तपांसि नियमात् तानि वै विविधानि च गुरुवाक्ये तु सर्वाणि संपद्यन्ते न संशयः //
SK
यज्ञस् तपांसि नियमात् तानि वै विविधानि च गुरु-वाक्ये तु सर्वाणि संपद्यन्ते न संशयः //
SK
अज्ञानपङ्कनिर्मग्नं यः समुद्धरते जनम् शिवज्ञानात्महस्तेन कस् तं न प्रतिपूजयेत् //
SK
अज्ञान-पङ्क-निर्मग्नं यः समुद्धरते जनम् शिव-ज्ञान-आत्म-हस्तेन कस् तं न प्रतिपूजयेत् //
SK
इति यः पूजयेन् नित्यं गुरुमूर्तिस्थम् ईश्वरम् सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् //
SK
इति यः पूजयेन् नित्यं गुरु-मूर्ति-स्थम् ईश्वरम् सर्व-पाप-विनिर्मुक्तः प्राप्नोति परमं पदम् //
SK
स्नात्वाम्भसा भस्मना वा शुक्लवस्त्रोपवीतवान् दूर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत् //
SK
स्नात्व आम्भसा भस्मना वा शुक्ल-वस्त्र-उपवीतवान् दूर्वा-गर्भ-स्थितं पुष्पं गुरुः शिरसि धारयेत् //
SK
रोचनालभनं कुर्याद् धूययेद् आत्मनस् तनुम् अङ्गुलीयाक्षसूत्रं च कर्णमात्रे च धारयेत् //
SK
रोचन-आलभनं कुर्याद् धूययेद् आत्मनस् तनुम् अङ्गुलीय-अक्ष-सूत्रं च कर्ण-मात्रे च धारयेत् //
SK
गुरुर् एवंविधः श्रीमान् नित्यं तिष्ठेत् समाहितः यस्माज् ज्ञानोपदेशार्थं गुरुर् आस्ते सदाशिवः //
SK
गुरुर् एवं-विधः श्रीमान् नित्यं तिष्ठेत् समाहितः यस्माज् ज्ञान-उपदेश-अर्थं गुरुर् आस्ते सदा-शिवः //
SK
धारयेत् पादुके नित्यं मृदुवर्मप्रकल्पिते प्रगृह्य दण्डं छत्त्रं वा पर्यटेद् आश्रमाद् बहिः //
SK
धारयेत् पादुके नित्यं मृदु-वर्म-प्रकल्पिते प्रगृह्य दण्डं छत्त्रं वा पर्यटेद् आश्रमाद् बहिः //
SK
न भूमौ विन्यसेत् पादम् अन्तर्धानं विना गुरुः कुशपादकम् आक्रम्य तर्पणार्थं प्रकल्पयेत् //
SK
न भूमौ विन्यसेत् पादम् अन्तर्-धानं विना गुरुः कुश-पादकम् आक्रम्य तर्पण-अर्थं प्रकल्पयेत् //
SK
पादस्थानानि पत्त्राद्यैः कृत्वा देवगृहं विशेत् पात्रास्तरितपादश् च(?) नित्यं भुञ्जीत वाग्यतः //
SK
पाद-स्थानानि पत्त्र-आद्यैः कृत्वा देव-गृहं विशेत् पात्रास्तरित-पादश् च(?) नित्यं भुञ्जीत वाग्-यतः //
SK
न पादौ धावयेत् कांस्ये लोहे वा परिकल्पिते शौचयेत् तृणगर्भायां द्वितीयायां तथाचमेत् //
SK
न पादौ धावयेत् कांस्ये लोहे वा परिकल्पिते शौचयेत् तृण-गर्भायां द्वितीयायां तथा आचमेत् //
SK
न रक्तम् उल्बणं वस्त्रं धारयेत् कुसुमानि च न बहिर् गन्धमाल्यानि वासांसि मलिनानि च //
SK
न रक्तम् उल्बणं वस्त्रं धारयेत् कुसुमानि च न बहिर् गन्ध-माल्यानि वासांसि मलिनानि च //
SK
केशास्थीनि कपालानि कार्पासास्थितुषाणि च अमेध्याङ्गारभस्मानि नाधितिष्ठेद् रजांसि च //
SK
केश-अस्थीनि कपालानि कार्पास-अस्थि-तुषाणि च अमेध्य-अङ्गार-भस्मानि न अधितिष्ठेद् रजांसि च //
SK
न च लोष्टं विमृद्नीयान् न च छिन्द्यान् नखैस् तृणम् न पत्त्रपुष्पमूल्यानि वंशमङ्गलकाष्ठिताम् //
SK
न च लोष्टं विमृद्नीयान् न च छिन्द्यान् नखैस् तृणम् न पत्त्र-पुष्प-मूल्यानि वंश-मङ्गल-काष्ठिताम् //
SK
एवम् आदीनि चान्यानि पाणिभ्यां न च मर्दयेत् न दन्तखादनं कुर्याद् रोमाण्य् उत्पाटयेन् न च //
SK
एवम् आदीनि च अन्यानि पाणिभ्यां न च मर्दयेत् न दन्त-खादनं कुर्याद् रोमाण्य् उत्पाटयेन् न च //
SK
न पद्भ्याम् उल्लिखेद् भूमिं लोष्टकाष्ठैः करेण वा न नखांश् च नखैर् विध्यान् न कण्डूयेन् नखैस् तनुम् //
SK
न पद्भ्याम् उल्लिखेद् भूमिं लोष्ट-काष्ठैः करेण वा न नखांश् च नखैर् विध्यान् न कण्डूयेन् नखैस् तनुम् //
SK
मुहुर्मुहुः शिरः श्मश्रु न स्पृशेत् करजैर् बुधः न लिक्षाकर्षणं कुर्याद् आत्मनो वा परस्य वा //
SK
मुहुर्-मुहुः शिरः श्मश्रु न स्पृशेत् करजैर् बुधः न लिक्षा-कर्षणं कुर्याद् आत्मनो वा परस्य वा //
SK
सौवर्ण्यरौप्यताम्रैश् च शृङ्गदन्तशलाकया देहकण्डूयनं कार्यं वंशकाष्ठीकवीरणैः(?) //
SK
सौवर्ण्य-रौप्य-ताम्रैश् च शृङ्ग-दन्त-शलाकया देह-कण्डूयनं कार्यं वंश-काष्ठीक-वीरणैः(?) //
SK
न विचित्तं प्रकुर्वीत दिशश् चैवावलोकयन् न शोकार्तश् च संतिष्ठेद् धूत्वा पाणौ कपोलकम् //
SK
न विचित्तं प्रकुर्वीत दिशश् च एव अवलोकयन् न शोक-आर्तश् च संतिष्ठेद् धूत्वा पाणौ कपोलकम् //
SK
न पाणिपादवाक्चक्षुःश्रोत्रशिश्नगुदोदरैः चापलानि न कुर्वीत स सर्वार्थम् अवाप्नुयात् //
SK
न पाणि-पाद-वाक्-चक्षुःश्रोत्र-शिश्न-गुद-उदरैः चापलानि न कुर्वीत स सर्व-अर्थम् अवाप्नुयात् //
SK
न कुर्यात् केनचिद् वैरम् अध्रुवे जीविते सति लोककौतूहलं पापं संध्यां च परिवर्जयेत् //
SK
न कुर्यात् केनचिद् वैरम् अध्रुवे जीविते सति लोक-कौतूहलं पापं संध्यां च परिवर्जयेत् //
SK
न कुद्वारेण वेश्मानि नगरं ग्रामम् आविशेत् न दिवा प्रावृतशिरा रात्रौ प्रावृत्य पर्यटेत् //
SK
न कु-द्वारेण वेश्मानि नगरं ग्रामम् आविशेत् न दिवा प्रावृत-शिरा रात्रौ प्रावृत्य पर्यटेत् //
SK
नातिभ्रमणशीलः स्यान् न विशेच् च गृहाद् गृहम् न चाज्ञानम् अधीयीत शिवज्ञानं समभ्यसेत् //
SK
न अतिभ्रमण-शीलः स्यान् न विशेच् च गृहाद् गृहम् न च अज्ञानम् अधीयीत शिव-ज्ञानं समभ्यसेत् //
SK
शिवज्ञानं परं ब्रह्म तद् आरभ्य न संत्यजेत् ब्रह्मासाध्य च यो गच्छेद् ब्रह्महा स प्रकीर्तितः //
SK
शिव-ज्ञानं परं ब्रह्म तद् आरभ्य न संत्यजेत् ब्रह्म असाध्य च यो गच्छेद् ब्रह्म-हा स प्रकीर्तितः //
SK
कृताञ्जलिः स्थितः शिष्यो लघुवस्त्रम् उदङ्मुखः शिवमन्त्रं समुच्चार्य प्राङ्मुखो ऽध्यापयेद् गुरुः //
SK
कृत-अञ्जलिः स्थितः शिष्यो लघु-वस्त्रम् उदङ्-मुखः शिव-मन्त्रं समुच्चार्य प्राङ्-मुखो ऽध्यापयेद् गुरुः //
SK
नागदन्तादिसंभूतं चतुरश्रं सुशोभनम् हेमरत्नचितं वापि गुरोर् आसनम् उत्तमम् //
SK
नाग-दन्त-आदि-संभूतं चतुर्-अश्रं सुशोभनम् हेम-रत्न-चितं व आपि गुरोर् आसनम् उत्तमम् //
SK
न शुश्रूषार्थकामाश् च न च धर्मः प्रदृश्यते न भक्तिर् न यशः क्रौर्यं न तम् अध्यापयेद् गुरुः //
SK
न शुश्रूषा-अर्थ-कामाश् च न च धर्मः प्रदृश्यते न भक्तिर् न यशः क्रौर्यं न तम् अध्यापयेद् गुरुः //
SK
देवाग्निगुरुगोष्ठीषु व्याख्याध्ययनसंसदि प्रश्ने वादे ऽनृते ऽशौचे दक्षिणं बाहुम् उद्धरेत् //
SK
देव-आग्नि-गुरु-गोष्ठीषु व्याख्या-अध्ययन-संसदि प्रश्ने वादे ऽनृते ऽशौचे दक्षिणं बाहुम् उद्धरेत् //
SK
वशे सततनम्रः स्यात् संहृत्याङ्गानि कूर्मवत् तत्संमुखं च निर्गच्छेन् नमस्कारपुरस्सरः //
SK
वशे सतत-नम्रः स्यात् संहृत्य अङ्गानि कूर्मवत् तत्-संमुखं च निर्गच्छेन् नमस्-कार-पुरस्-सरः //
SK
देवाग्निगुरुविप्राणां न व्रजेद् अन्तरेण तु नार्पयेन् न च गृह्णीयात् किंचिद् वस्तु तदन्तरा //
SK
देव-अग्नि-गुरु-विप्राणां न व्रजेद् अन्तरेण तु न अर्पयेन् न च गृह्णीयात् किंचिद् वस्तु तद्-अन्तरा //
SK
न मुखेन धमेद् अग्निं नाधःकुर्यान् न लङ्घयेत् न क्षिपेद् अशुचिं वह्नौ न च पादौ प्रतापयेत् //
SK
न मुखेन धमेद् अग्निं न अधः-कुर्यान् न लङ्घयेत् न क्षिपेद् अशुचिं वह्नौ न च पादौ प्रतापयेत् //
SK
तृणकाष्ठादिगहने जन्तुभिश् च समाकुले स्थाने न दीपयेद् अग्निं दीप्तं चापि ततः क्षिपेत् //
SK
तृण-काष्ठ-आदि-गहने जन्तुभिश् च समाकुले स्थाने न दीपयेद् अग्निं दीप्तं च अपि ततः क्षिपेत् //
SK
अग्निं युगपद् आनीय धारयेत प्रयत्नतः ज्वलन्तं न प्रदीपं च स्वयं निर्वापयेद् बुधः //
SK
अग्निं युग-पद् आनीय धारयेत प्रयत्नतः ज्वलन्तं न प्रदीपं च स्वयं निर्वापयेद् बुधः //
SK
शिवव्रतधरं दृष्ट्वा समुत्थाय सदा द्रुतम् शिवो ऽयम् इति संकल्प्य हर्षितः प्रणमेत् ततः //
SK
शिव-व्रत-धरं दृष्ट्वा समुत्थाय सदा द्रुतम् शिवो ऽयम् इति संकल्प्य हर्षितः प्रणमेत् ततः //
SK
भोगान् ददाति विपुलान् लिङ्गे संपूजितः शिवः अग्नौ च विविधां सिद्धिं गुरौ मुक्तिं प्रयच्छति //
SK
भोगान् ददाति विपुलान् लिङ्गे संपूजितः शिवः अग्नौ च विविधां सिद्धिं गुरौ मुक्तिं प्रयच्छति //
SK
मोक्षार्थं पूजयेत् तस्माद् गुरुमूर्तिस्थम् ईश्वरम् गुरुभक्त्या लभेज् ज्ञानं ज्ञानान् मुक्तिम् अवाप्नुयात् //
SK
मोक्ष-अर्थं पूजयेत् तस्माद् गुरु-मूर्ति-स्थम् ईश्वरम् गुरु-भक्त्या लभेज् ज्ञानं ज्ञानान् मुक्तिम् अवाप्नुयात् //
SK
सर्वपर्वसु यत्नेन ह्य् एषु संपूजयेच् छिवम् कुर्याद् आयतने शोभां गुरुस्थानेषु सर्वतः //
SK
सर्व-पर्वसु यत्नेन ह्य् एषु संपूजयेच् छिवम् कुर्याद् आयतने शोभां गुरु-स्थानेषु सर्वतः //
SK
नरद्वयोच्छ्रिते पीठे सर्वशोभासमन्विते संस्थाप्य मणिजं लिङ्गं स्थाने कुर्याज् जगद्धितम् //
SK
नर-द्वय-उच्छ्रिते पीठे सर्व-शोभा-समन्विते संस्थाप्य मणिजं लिङ्गं स्थाने कुर्याज् जगद्-धितम् //
SK
अन्नपानविशेषैश् च नैवेद्यम् उपकल्पयेत् भोजयेद् व्रतिनश् चात्र स्वगुरुं च विशेषतः //
SK
अन्न-पान-विशेषैश् च नैवेद्यम् उपकल्पयेत् भोजयेद् व्रतिनश् च अत्र स्व-गुरुं च विशेषतः //
SK
पूजयेच् च शिवज्ञानं वाचयीत च पर्वसु दर्शयेच् छिवभक्तेभ्यः सत्पूजां परिकल्पिताम् //
SK
पूजयेच् च शिव-ज्ञानं वाचयीत च पर्वसु दर्शयेच् छिव-भक्तेभ्यः सत्-पूजां परिकल्पिताम् //
SK
प्रियं ब्रूयात् सदा तेभ्यः प्रदेयं चापि शक्तितः एवं कृते विशेषेण प्रसीदति महेश्वरः //
SK
प्रियं ब्रूयात् सदा तेभ्यः प्रदेयं च अपि शक्तितः एवं कृते विशेषेण प्रसीदति मह-ईश्वरः //
SK
छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति केवलम् इत्य् आद्यान् न वदेच् छब्दान् साक्षाद् ब्रूयात् तु मङ्गलम् //
SK
छिन्नं भिन्नं मृतं नष्टं वर्धते न अस्ति केवलम् इत्य् आद्यान् न वदेच् छब्दान् साक्षाद् ब्रूयात् तु मङ्गलम् //
SK
अधेनुं धेनुम् इत्य् एव ब्रूयाद् भद्रम् अभद्रकम् कपालं च भगालं स्यात् परमं मङ्गलं वदेत् //
SK
अधेनुं धेनुम् इत्य् एव ब्रूयाद् भद्रम् अभद्रकम् कपालं च भगालं स्यात् परमं मङ्गलं वदेत् //
SK
ऐन्द्रं धनुर् मणिधनुर् दाहकाष्ठादि चन्दनम् स्वर्यातं च मृतं ब्रूयाच् छिवीभूतं च योगिनम् //
SK
ऐन्द्रं धनुर् मणि-धनुर् दाह-काष्ठ-आदि चन्दनम् स्वर्-यातं च मृतं ब्रूयाच् छिवी-भूतं च योगिनम् //
SK
द्विधाभूतं वदेच् छिन्नं भिन्नं च बहुधा स्थितम् नष्टम् अन्वेषणीयं च रिक्तं पूर्णाभिवर्धितम् //
SK
द्विधा-भूतं वदेच् छिन्नं भिन्नं च बहुधा स्थितम् नष्टम् अन्वेषणीयं च रिक्तं पूर्ण-अभिवर्धितम् //
SK
नास्तीति शोभनं सर्वम् आद्यम् अङ्गाभिवर्धनम् सिद्धिमद् ब्रूहि गच्छन्तं सुप्तं ब्रूयात् प्रवर्धितम् //
SK
न अस्ति इति शोभनं सर्वम् आद्यम् अङ्ग-अभिवर्धनम् सिद्धिमद् ब्रूहि गच्छन्तं सुप्तं ब्रूयात् प्रवर्धितम् //
SK
न म्लेच्छमूर्खपतितैः क्रूरैः संतापवेदिभिः दुर्जनैर् अवलिप्तैश् च क्षुद्रैः सह न संवदेत् //
SK
न म्लेच्छ-मूर्ख-पतितैः क्रूरैः संताप-वेदिभिः दुर्जनैर् अवलिप्तैश् च क्षुद्रैः सह न संवदेत् //
SK
नाधार्मिकनृपाक्रान्ते न दंशमशकावृते नातिशीतजलाकीर्णे देशे रोगप्रदे वसेत् //
SK
न अधार्मिक-नृप-आक्रान्ते न दंश-मशक-आवृते न अतिशीत-जल-आकीर्णे देशे रोग-प्रदे वसेत् //
SK
नासनं शयनं पानं नमस्काराभिवादनम् सोपानत्कः प्रकुर्वीत शिवपुस्तकवाचनम् //
SK
ना असनं शयनं पानं नमस्-कार-अभिवादनम् स-उपानत्कः प्रकुर्वीत शिव-पुस्तक-वाचनम् //
SK
आचार्यं दैवतं तीर्थम् उद्धूतोदं मृदं दधि वटम् अश्वत्थकपिलां दीक्षितोदधिसंगमम् //
SK
आचार्यं दैवतं तीर्थम् उद्धूत-उदं मृदं दधि वटम् अश्वत्थ-कपिलां दीक्षित-उदधि-संगमम् //
SK
यानि चैषां प्रकाराणि मङ्गलानीह कानिचित् शिवायेति नमस्कृत्वा प्रोक्तम् एतत् प्रदक्षिणम् //
SK
यानि च एषां प्रकाराणि मङ्गलानि इह कानिचित् शिवाय इति नमस्-कृत्वा प्रोक्तम् एतत् प्रदक्षिणम् //
SK
उपानच्छत्त्रवस्त्राणि पवित्रं करकं स्रजम् आसनं शयनं पानं धृतम् अन्यैर् न धारयेत् //
SK
उपानच्-छत्त्र-वस्त्राणि पवित्रं करकं स्रजम् आसनं शयनं पानं धृतम् अन्यैर् न धारयेत् //
SK
पालाशम् आसनं शय्यां पादुके दन्तधावनम् वर्जयेच् चापि निर्यासं रक्तं न तु समुद्भवम् //
SK
पालाशम् आसनं शय्यां पादुके दन्त-धावनम् वर्जयेच् च अपि निर्यासं रक्तं न तु समुद्भवम् //
SK
संध्याम् उपास्य कुर्वीत नित्यं देहप्रसाधनम् स्पृशेद् वन्देच् च कपिलां प्रदद्याच् च गवां हितम् //
SK
संध्याम् उपास्य कुर्वीत नित्यं देह-प्रसाधनम् स्पृशेद् वन्देच् च कपिलां प्रदद्याच् च गवां हितम् //
SK
यः प्रदद्याद् गवां सम्यक् फलानि च विशेषतः क्षेत्रम् उद्दामयेच् चापि तस्य पुण्यफलं शृणु //
SK
यः प्रदद्याद् गवां सम्यक् फलानि च विशेषतः क्षेत्रम् उद्दामयेच् च अपि तस्य पुण्य-फलं शृणु //
SK
यावत् तत्पत्त्रकुसुमकन्दमूलफलानि च तावद्वर्षसहस्राणि शिवलोके महीयते //
SK
यावत् तत्-पत्त्र-कुसुमकन्द-मूल-फलानि च तावद्-वर्ष-सहस्राणि शिव-लोके महीयते //
SK
कृशरोगार्तवृद्धानां त्यक्तानां निर्जने वने क्षुत्पिपासातुराणां च गवां विह्वलचेतसाम् //
SK
कृश-रोग-आर्त-वृद्धानां त्यक्तानां निर्जने वने क्षुत्-पिपास-आतुराणां च गवां विह्वल-चेतसाम् //
SK
नीत्वा यस् तृणतोयानि वने यत्नात् प्रयच्छति करोति च परित्राणं तस्य पुण्यफलं शृणु //
SK
नीत्वा यस् तृण-तोयानि वने यत्नात् प्रयच्छति करोति च परित्राणं तस्य पुण्य-फलं शृणु //
SK
कुलैकविंशकोपेतः पत्नीपुत्रादिसंयुतः मित्रभृत्यैर् उपेतश् च श्रीमच्छिवपुरं व्रजेत् //
SK
कुल-एक-विंशक-उपेतः पत्नी-पुत्र-आदि-संयुतः मित्र-भृत्यैर् उपेतश् च श्रीमच्-छिव-पुरं व्रजेत् //
SK
तत्र भुक्त्वा महाभोगान् विमानैः सार्वकामिकैः स महाप्रलयं यावत् तदन्ते मुक्तिम् आप्नुयात् //
SK
तत्र भुक्त्वा महा-भोगान् विमानैः सार्व-कामिकैः स महा-प्रलयं यावत् तद्-अन्ते मुक्तिम् आप्नुयात् //
SK
गोब्राह्मणपरित्राणं सकृत् कृत्वा प्रयत्नतः मुच्यते पञ्चभिर् घोरैर् महद्भिः पातकैर् द्रुतम् //
SK
गो-ब्राह्मण-परित्राणं सकृत् कृत्वा प्रयत्नतः मुच्यते पञ्चभिर् घोरैर् महद्भिः पातकैर् द्रुतम् //
SK
अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यम् अकल्कता अक्रोधो गुरुशुश्रूषा शौचं संतोषम् आर्जवम् //
SK
अहिंसा सत्यम् अस्तेयं ब्रह्म-चर्यम् अकल्कता अक्रोधो गुरु-शुश्रूषा शौचं संतोषम् आर्जवम् //
SK
अहिंसाद्या यमाः पञ्च यतीनां परिकीर्तिताः अक्रोधाद्याश् च नियमाः सिद्धिवृद्धिकराः स्मृताः //
SK
अहिंसा-आद्या यमाः पञ्च यतीनां परिकीर्तिताः अक्रोध-आद्याश् च नियमाः सिद्धि-वृद्धि-कराः स्मृताः //
SK
दशलाक्षणिको धर्मः शिवाचारः प्रकीर्तितः योगीन्द्राणां विशेषेण शिवयोगप्रसिद्धये //
SK
दश-लाक्षणिको धर्मः शिव-आचारः प्रकीर्तितः योगि-इन्द्राणां विशेषेण शिव-योग-प्रसिद्धये //
SK
न विन्दति नरो योगं पुत्रदारादिसंगतः निबद्धः स्नेहपाशेन मोहस्तम्भबलीयसा //
SK
न विन्दति नरो योगं पुत्र-दारा-आदि-संगतः निबद्धः स्नेह-पाशेन मोह-स्तम्भ-बलीयसा //
SK
मोहात् कुटुम्बसंसक्तस् तृष्णया शृङ्खलीकृतः बालैर् बद्धस् तु लोको ऽयं मुसलेनाभिहन्यते //
SK
मोहात् कुटुम्ब-संसक्तस् तृष्णया शृङ्खली-कृतः बालैर् बद्धस् तु लोको ऽयं मुसलेन अभिहन्यते //
SK
इमे बालाः कथं त्याज्या जीविष्यन्ति मया विना मोहाद् धि चिन्तयत्य् एवं परमार्थौ न पश्यति //
SK
इमे बालाः कथं त्याज्या जीविष्यन्ति मया विना मोहाद् धि चिन्तयत्य् एवं परम-अर्थौ न पश्यति //
SK
संपर्काद् उदरे न्यस्तः शुक्रबिन्दुर् अचेतनः स पित्रा केन यत्नेन गर्भस्थः परिपालितः //
SK
संपर्काद् उदरे न्यस्तः शुक्र-बिन्दुर् अचेतनः स पित्रा केन यत्नेन गर्भ-स्थः परिपालितः //
SK
कर्कशाः कठिना भक्षा जीर्यन्ते यत्र भक्षिताः तस्मिन्न् एवोदरे शुक्रं किं न जीर्यति भक्ष्यवत् //
SK
कर्कशाः कठिना भक्षा जीर्यन्ते यत्र भक्षिताः तस्मिन्न् एव उदरे शुक्रं किं न जीर्यति भक्ष्यवत् //
SK
येनैतद् योजितं गर्भे येन चैव विवर्धितम् तेनैव निर्गत्ं भूयः कर्मणा स्वेन पाल्यते //
SK
येन एतद् योजितं गर्भे येन च एव विवर्धितम् तेन एव निर्गत्ं भूयः कर्मणा स्वेन पाल्यते //
SK
न कश्चित् कस्यचित् पुत्रः पिता माता न कस्यचित् यत् स्वयं प्राक्तनं कर्म पिता मातेति तत् स्मृतम् //
SK
न कश्चित् कस्यचित् पुत्रः पिता माता न कस्यचित् यत् स्वयं प्राक्तनं कर्म पिता मात ईति तत् स्मृतम् //
SK
येन यत्र कृतं कर्म स तत्रैव प्रजायते पितरौ चास्य दासत्वं कुरुतस् तत्प्रचोदितौ //
SK
येन यत्र कृतं कर्म स तत्र एव प्रजायते पितरौ च अस्य दासत्वं कुरुतस् तत्-प्रचोदितौ //
SK
न कश्चित् कस्यचिच् छक्तः कर्तुं दुःखं सुखानि च करोति प्राक्तनं कर्म मोहाल् लोकस्य केवलम् //
SK
न कश्चित् कस्यचिच् छक्तः कर्तुं दुःखं सुखानि च करोति प्राक्तनं कर्म मोहाल् लोकस्य केवलम् //
SK
कर्मदायादसंबन्धाद् उपकारः परस्परम् दृश्यते नापकारश् च मोहेनात्मनि मन्यते //
SK
कर्म-दाय-आद-संबन्धाद् उपकारः परस्-परम् दृश्यते न अपकारश् च मोहेना अत्मनि मन्यते //
SK
ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् ग्रामस्वामिप्रसादेन सुकृतं कर्षणं यथा //
SK
ईश्वर-अधिष्ठितं कर्म फलति इह शुभ-अशुभम् ग्राम-स्वामि-प्रसादेन सुकृतं कर्षणं यथा //
SK
द्वयं देवत्वमोक्षाय ममेति न ममेति च ममेति बध्यते जन्तुर् न ममेति विमुच्यते //
SK
द्वयं देवत्व-मोक्षाय मम इति न मम इति च मम इति बध्यते जन्तुर् न मम इति विमुच्यते //
SK
द्व्यक्षरं च भवेन् मृत्युस् त्र्यक्षरं ब्रह्म शाश्वतम् ममेति द्व्यक्षरं मृत्युस् त्र्यक्षरं न ममेति च //
SK
द्व्य्-अक्षरं च भवेन् मृत्युस् त्र्य्-अक्षरं ब्रह्म शाश्वतम् मम इति द्व्य्-अक्षरं मृत्युस् त्र्य्-अक्षरं न मम इति च //
SK
तस्माद् आत्मन्य् अहंकारम् उत्सृज्य प्रविचारतः विधूयाशेषसङ्गांश् च मोक्षोपायं विचिन्तयेत् //
SK
तस्माद् आत्मन्य् अहं-कारम् उत्सृज्य प्रविचारतः विधूय अशेष-सङ्गांश् च मोक्ष-उपायं विचिन्तयेत् //
SK
ज्ञानाद् योगपरिक्लेशं कुप्रावरणभोजनम् कुचर्यां कुनिवासं च मोक्षार्थी न विचिन्तयेत् //
SK
ज्ञानाद् योग-परिक्लेशं कुप्रावरण-भोजनम् कुचर्यां कुनिवासं च मोक्ष-अर्थी न विचिन्तयेत् //
SK
न दुःखेन विना सौख्यं दृश्यते सर्वदेहिनाम् दुःखं तन्मात्रकं ज्ञेयं सुखम् आनन्त्यम् उत्तमम् //
SK
न दुःखेन विना सौख्यं दृश्यते सर्व-देहिनाम् दुःखं तन्-मात्रकं ज्ञेयं सुखम् आनन्त्यम् उत्तमम् //
SK
सेवायां पाशुपाल्ये च वानिज्ये कृषिकर्मणि तुल्ये सति परिक्लेशे वरं क्लेशो विमुक्तये //
SK
सेवायां पाशुपाल्ये च वानिज्ये कृषि-कर्मणि तुल्ये सति परिक्लेशे वरं क्लेशो विमुक्तये //
SK
स्वर्गापवर्गयोर् एकं यः शीघ्रं न प्रसाधयेत् याति तेनैव देहेन स मृतस् तप्यते चिरम् //
SK
स्वर्ग-अपवर्गयोर् एकं यः शीघ्रं न प्रसाधयेत् याति तेन एव देहेन स मृतस् तप्यते चिरम् //
SK
यद् अवश्यं पराधीनैस् त्यजनीयं शरीरकम् कस्मात् तेन विमूढात्मा न साधयति शाश्वतम् //
SK
यद् अवश्यं पराधीनैस् त्यजनीयं शरीरकम् कस्मात् तेन विमूढ-आत्मा न साधयति शाश्वतम् //
SK
यौवनस्था गृहस्थाश् च प्रासादस्थाश् च ये नृपाः सर्व एव विशीर्यन्ते शुष्कस्निग्धान्नभोजनाः //
SK
यौवन-स्था गृह-स्थाश् च प्रासाद-स्थाश् च ये नृपाः सर्व एव विशीर्यन्ते शुष्क-स्निग्ध-अन्न-भोजनाः //
SK
अनेकदोषदुष्टस्य देहस्यैको महान् गुणह् यां याम् अवस्थाम् आप्नोति तां ताम् एवानुवर्तते //
SK
अनेक-दोष-दुष्टस्य देहस्य-एको महान् गुणह् यां याम् अवस्थाम् आप्नोति तां ताम् एव अनुवर्तते //
SK
मन्दं परिहरन् कर्म स्वदेहम् अनुपालयेत् वर्षासु जीर्णकटवत् तिष्ठन्न् अप्य् अवसीदति //
SK
मन्दं परिहरन् कर्म स्व-देहम् अनुपालयेत् वर्षासु जीर्ण-कटवत् तिष्ठन्न् अप्य् अवसीदति //
SK
न ते ऽत्र देहिनः सन्ति ये तिष्ठन्ति सुनिश्चलाः सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्वकर्मभिः //
SK
न ते ऽत्र देहिनः सन्ति ये तिष्ठन्ति सुनिश्चलाः सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्व-कर्मभिः //
SK
तुल्ये सत्य् अपि कर्तव्ये वरं कर्म कृतं परम् यः कृत्वा न पुनः कुर्यान् नानाकर्म शुभाशुभम् //
SK
तुल्ये सत्य् अपि कर्तव्ये वरं कर्म कृतं परम् यः कृत्वा न पुनः कुर्यान् नाना-कर्म शुभ-अशुभम् //
SK
तस्माद् अन्तर्बहिश्चिन्ताम् अनेकाकारसंस्थिताम् संत्यज्यात्महितार्थाय स्वाध्यायध्यानम् अभ्यसेत् //
SK
तस्माद् अन्तर्-बहिश्-चिन्ताम् अनेक-आकार-संस्थिताम् संत्यज्या अत्म-हित-अर्थाय स्व-अध्याय-ध्यानम् अभ्यसेत् //
SK
विविक्ते विजने रम्ये पुष्पाश्रमविभूषिते स्थानं कृत्वा शिवस्थाने ध्यायेच् छान्तं परं शिवम् //
SK
विविक्ते विजने रम्ये पुष्प-आश्रम-विभूषिते स्थानं कृत्वा शिव-स्थाने ध्यायेच् छान्तं परं शिवम् //
SK
ये ऽतिरम्याण्य् अरण्यानि सुजलानि शिवानि तु विहायाभिरता ग्रामे प्रायस् ते दैवमोहिताः //
SK
ये ऽतिरम्याण्य् अरण्यानि सुजलानि शिवानि तु विहाय अभिरता ग्रामे प्रायस् ते दैव-मोहिताः //
SK
विवेकिनः प्रशान्तस्य यत् सुखं ध्यायतः शिवम् न तत् सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा //
SK
विवेकिनः प्रशान्तस्य यत् सुखं ध्यायतः शिवम् न तत् सुखं महा-इन्द्रस्य ब्रह्मणः केशवस्य वा //
SK
इति नामामृतं दिव्यं महाकालाद् अवाप्तवान् विस्तरेणानुपूर्वाच् च ऋष्यात्रेयः(?) सुनिश्चितम् //
SK
इति नाम-अमृतं दिव्यं महा-कालाद् अवाप्तवान् विस्तरेण अनुपूर्वाच् च ऋष्य्-आत्रेयः(?) सुनिश्चितम् //
SK
प्रज्ञाम् अथा विनिर्मथ्य(?) शिवज्ञानमहोदधिम् ऋष्यात्रेयः समुद्धृत्य प्राहेदम् अणुमात्रकम् //
SK
प्रज्ञाम् अथा विनिर्मथ्य(?) शिव-ज्ञान-महा-उदधिम् ऋष्य्-आत्रेयः समुद्धृत्य प्राह इदम् अणु-मात्रकम् //
SK
शिवधर्मे महाशास्त्रे शिवधर्मस्य चोत्तरे यद् अनुक्तं भवेत् किंचित् तद् अत्र परिकीर्तितम् //
SK
शिव-धर्मे महा-शास्त्रे शिव-धर्मस्य च उत्तरे यद् अनुक्तं भवेत् किंचित् तद् अत्र परिकीर्तितम् //
SK
त्रिदैवत्यम् इदं शास्त्रं मुनीन्द्रात्रेयभाषितम् तिर्यङ्मनुजदेवानां सर्वेषां च विमुक्तिदम् //
SK
त्रि-दैवत्यम् इदं शास्त्रं मुनि-इन्द्र-आत्रेय-भाषितम् तिर्यङ्-मनुज-देवानां सर्वेषां च विमुक्ति-दम् //
SK
नन्दिस्कन्दमहाकालास् त्रयो देवाः प्रकीर्तिताः चन्द्रात्रेयस् तथात्रिश् च ऋष्य् आत्रेयो मुनित्रयम् //
SK
नन्दि-स्कन्द-महाकालास् त्रयो देवाः प्रकीर्तिताः चन्द्र-अत्रेयस् तथ आत्रिश् च ऋष्य् आत्रेयो मुनि-त्रयम् //
SK
एतैर् महात्मबिः प्रोक्ताः शिवधर्माः समासतः सर्वलोकोपकारार्थं नमस् तेभ्यः सदा नमः //
SK
एतैर् महा-आत्मबिः प्रोक्ताः शिव-धर्माः समासतः सर्व-लोक-उपकार-अर्थं नमस् तेभ्यः सदा नमः //
SK
तेषां शिष्यप्रशिष्यैश् च शिवधर्मप्रवक्तृभिः व्याप्तं ज्ञानसरः शार्वं विकचैर् इव पङ्कजैः //
SK
तेषां शिष्य-प्रशिष्यैश् च शिव-धर्म-प्रवक्तृभिः व्याप्तं ज्ञान-सरः शार्वं विकचैर् इव पङ्कजैः //
SK
ये श्रावयन्ति सततं शिवधर्मं शिवार्थिनाम् ते रुद्रास् ते मुनीन्द्राश् च ते नमस्याः स्वभक्तितः //
SK
ये श्रावयन्ति सततं शिव-धर्मं शिव-अर्थिनाम् ते रुद्रास् ते मुनि-इन्द्राश् च ते नमस्याः स्व-भक्तितः //
SK
ये समुत्थाय शृण्वन्ति शिवधर्मं दिने दिने ते रुद्रा रुद्रलोकेशा न ते प्रकृतिमानुषाः //
SK
ये समुत्थाय शृण्वन्ति शिव-धर्मं दिने दिने ते रुद्रा रुद्र-लोक-ईशा न ते प्रकृति-मानुषाः //
SK
शिवोपनिषदं ह्य् एतद् अध्यायैः सप्तभिः स्मृतम् ऋष्यात्रेयसगोत्रेण मुनिना हितकाम्यया //
SK
शिव-उपनिषदं ह्य् एतद् अध्यायैः सप्तभिः स्मृतम् ऋष्य्-आत्रेय-सगोत्रेण मुनिना हित-काम्यया //
SK
// इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः //
SK
// इति शिवोपनिषत् समाप्ता //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Śivopaniṣad (sa_zivopaniSad.htm).

Source