SK
ॐ नमः संविद्वपुषे शिवाय | अथ ईश्वरप्रत्यभिज्ञाविमर्शिनी | निराभासात्पूर्णादहमिति [निराशंसांत् - K.ष्.ष्.] पुरा भासयति यद् द्विशाखामाशास्ते तदनु च विभङ्क्तुं निजकलाम् | स्वरूपादुन्मेषप्रसरणनिमेषस्थितिजुषस् - तदद्वैतं वन्दे परमशिवशक्त्यात्म निखिलम् || १ || भास्करी | ॐ | शिवादिक्षोण्यन्तं रसगुणमितं तत्त्वनिचयं पदे सप्तत्रिंशे मितिविषयतारोहकलिते | पदे त्वष्टात्रिंशे पुनरपि मितौ तावति पुनः प्रभुः क्रीडाशीलो जयति रचयन कोपि परमः || १ || चिदानन्देच्छावित्कृतिमयवपुर्भासनपरा [मपि - C.] पराभावे [भावी - C.] तद्वत्तदपरदशावेशसमये | ततो मायारूपा चतुरमपराभावलसने त्रिरूपाऽसौ देवी जयति शिवशक्तिर्भगवती || २ || स्वरूपे संलीनं कृतिविदिमयं [विधि - C.] सर्वविषयं निजैश्वर्यं स्वस्मिन्नहमिति विभुर्भासयति [विभो - C.] यः | ततोर्थौघं सृष्ट्वा न्विदमिति गृहीत्वा पुनरिमं वशीब्भावं तत्राभिनयति य एनं हृदि भजे || ३ || स्थितः स्वच्छे भावे परविशदवैधुर्यपदगे स्वयं साक्षात्कृत्वा [साक्षात्कृत्य - C.] यमलमवतारं तु कृपया | द्विधात्मोद्भूतिं यो [या - C.] मम [समरचितवान् - C.] रचितवान् भक्तिसुलभो गुरोस्त्राता चायं जयति जगदीशः परशिवः || ४ || प्रणौमि तं विघ्नहरं सुरेशं ज्ञप्तिञ्च देवं गुरुपादुकाञ्च | विद्यानिधीन् [विद्यानिधिम् - C.] कौलनरोत्तमादीन् गुरु/स्तथारब्धसमुद्यमोहम् || ५ || यः कण्ठधौम्यायनताप्रसिद्धविशुद्धराजानकवंशजातः | स भास्कराख्यो द्विज एष टीकां करोति शास्त्रेऽभिनवोदितेऽस्मिन् || ६ || शक्तौ स्थितायामथवास्थितायां मया विनोदार्थमयं प्रयत्नः | आरभ्यते भो विबुधाः क्षमध्वं मात्सर्यहासे [मात्सर्यहासौ - C.] न सतां प्रवृत्तिः || ७ ||