Praise of the Transcendent World
Lokātītastava
Lओकातीतस्तव
SKलोकातीत नमस् तुभ्यं विविक्तज्ञानवेदिने | यस् त्वं जगद्धितायैव खिन्नः करुणया चिरम् || Nअग्Lओक्_०१
SKस्कन्धमात्रविनिर्मुक्तो न सत्त्वो ऽस्तीति ते मतम् | सत्त्वार्थं च परं खेदम् अगमस् त्वं महामुने || Nअग्Lओक्_०२
SKते ऽपि स्कन्धास् त्वया धीमन् धीमद्भ्यः संप्रकाशिताः | मायामरीचिगन्धर्वनगरस्वप्नसंनिभाः || Nअग्Lओक्_०३
SKहेतुतः संभवो येषां तदभावान् न सन्ति ये | कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः || Nअग्Lओक्_०४
SKभूतान्य् अचक्षुर्ग्राह्याणि तन्मयं चाक्षुषं कथम् | रूपं त्वयैवं ब्रुवता रूपग्राहो निवारितः || Nअग्Lओक्_०५
SKवेदनीयं विना नास्ति वेदनातो निरात्मिका | तच् च वेद्यं स्वभावेन नास्तीत्य् अभिमतं तव || Nअग्Lओक्_०६
SKसंज्ञार्थयोर् अनन्यत्वे मुखं दह्येत वह्निना | अन्यत्वे ऽधिगमाभावस् त्वयोक्तं भूतवादिना || Nअग्Lओक्_०७
SKकर्ता स्वतन्त्रः कर्मापि त्वयोक्तं व्यवहारतः | परस्परापेक्षिकी तु सिद्धिस् ते ऽभिमतानयोः || Nअग्Lओक्_०८
SKन कर्तास्ति न भोक्तास्ति पुण्यापुण्यं प्रतीत्यजम् | यत् प्रतीत्य न तज् जातं प्रोक्तं वाचस्पते त्वया || Nअग्Lओक्_०९
SKअज्ञायमानं न ज्ञेयं विज्ञानं तद् विना न च | तस्मात् स्वभावतो न स्तो ज्ञानज्ञेये त्वम् ऊचिवान् || Nअग्Lओक्_१०
SKलक्ष्याल् लक्षणम् अन्यच् चेत् स्यात् तल् लक्ष्यम् अलक्षणम् | तयोर् अभावो ऽनन्यत्वे विस्पष्टं कथितं त्वया || Nअग्Lओक्_११
SKलक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्जितम् | शान्तं जगद् इदं दृष्टं भवता ज्ञानचक्षुषा || Nअग्Lओक्_१२
SKन सन्न् उत्पद्यते भावो नाप्य् असन् सदसन् न च | न स्वतो नापि परतो न द्वाभ्यां जायते कथम् || Nअग्Lओक्_१३
SKन सतः स्थितियुक्तस्य विनाश उपपद्यते | नासतो ऽश्वविषाणेन समस्य शमता कथम् || Nअग्Lओक्_१४
SKभावान् नार्थान्तरं नाशो नाप्य् अनर्थान्तरं मतम् | अर्थान्तरे भवेन् नित्यो नाप्य् अनर्थान्तरे भवेत् || Nअग्Lओक्_१५
SKएकत्वे न हि भावस्य विनाश उपपद्यते | पृथक्त्वे न हि भावस्य विनाश उपपद्यते || Nअग्Lओक्_१६
SKविनष्टात् कारणात् तावत् कार्योत्पत्तिर् न युज्यते | न चाविनष्टात् स्वप्नेन तुल्योत्पत्तिर् मता तव || Nअग्Lओक्_१७
SKन निरुद्धान् नानिरुद्धाद् बीजाद् अङ्कुरसंभवः | मायोत्पादवद् उत्पादः सर्व एव त्वयोच्यते || Nअग्Lओक्_१८
SKअतस् त्वया जगद् इदं परिकल्पसमुद्भवम् | परिज्ञातम् असद्भूतम् अनुत्पन्नम् न नश्यति || Nअग्Lओक्_१९
SKनित्यस्य संसृतिर् नास्ति नैवानित्यस्य संसृतिः | स्वप्नवत् संसृतिः प्रोक्ता त्वया तत्त्वविदां वर || Nअग्Lओक्_२०
SKस्वयंकृतं परकृतं द्वाभ्यां कृतम् अहेतुकम् | तार्किकैर् इष्यते दुःखं त्वया तूक्तं प्रतीत्यजम् || Nअग्Lओक्_२१
SKयः प्रतीत्यसमुत्पादः शून्यता सैव ते मता | भावः स्वतन्त्रो नास्तीति सिंहनादस् तवातुलः || Nअग्Lओक्_२२
SKसर्वसंकल्पनाशाय शून्यतामृतदेशना | यस्य तस्याम् अपि ग्राहस् त्वयासाव् अवसादितः || Nअग्Lओक्_२३
SKनिरीहा वशिकाः शून्या मायावत् प्रत्ययोद्भवाः | सर्वधर्मास् त्वया नाथ निःस्वभावाः प्रकाशिताः || Nअग्Lओक्_२४
SKन त्वयोत्पादितं किं चिन् न च किं चिन् निरोधितम् | यथा पूर्वं तथा पश्चात् तथतां बुद्धवान् असि || Nअग्Lओक्_२५
SKआर्यैर् निसेविताम् एनाम् अनागम्य हि भावनाम् | नानिमित्तम् हि विज्ञानं भवतीह कथं चन || Nअग्Lओक्_२६
SKअनिमित्तम् अनागम्य मोक्षो नास्ति त्वम् उक्तवान् | अतस् त्वया महायाने तत् साकल्येन देशितम् || Nअग्Lओक्_२७
SKयद् अवाप्तं मया पुण्यं स्तुत्वा त्वां स्तुतिभाजनम् | निमित्तबन्धनापेतं भूयात् तेनाखिलं यगत् || Nअग्Lओक्_२८
SK|| इति लोकातीतस्तवः समाप्तः ||
SK%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
SKCओप्य्रिघ्त् (C) २००३ ब्य् Cह्र्. Lइन्द्त्नेर् - Dएन्मर्क्
SK%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%