SK
प्. १) अथ श्रीविद्यार्णवतन्त्रम् || श्रीविद्यारण्ययतिविरचितम् || प्रथमः श्वासः उद्यत्सूर्यसहस्रभास्वरतनुः सूक्ष्मातिसूक्ष्मा परा विद्युत्पुञ्जनिभेन्दुकोटिसदृशी धामत्र्याध्यासिनी | तत्तेजस्त्रितयात्मकैक (मुनि ? मनु) भिर्वाक्कामशक्त्याख्ययुक्कूटैस्त्र्यब्धिशरर्तुभिः परिणता नित्यात्मिका पातु वः || १-१ || या श्रीमधुमती शक्तिर्जगच्चैतन्यरूपिणी | सा स्तान्मे पुरतो नित्यं मालिनी विश्वविग्रहा || १-२ || मतद्वयं समालोड्य तत्सङ्कीर्णभिया पृथक् | प्रकाश्यते परातन्त्रं मया विद्यार्णवाभिधम् || १-३ || मधुमत्या महादेव्यास्तादात्म्यं कादिसंज्ञकम् | कालीमतं तु मालिन्यास्तादात्म्यं तान्त्रिका विदुः || १-४ || षट्त्रिंशद्व्यञ्जनैर्मूलभूतैः शिवमयैः पृथक् | षोडशस्वरसंभिन्नैः पूर्णमण्डलसंज्ञकैः || १-५ || षट्त्रिंशद्गुणितैः सिद्धकालनित्यास्वरूपकैः | नवात्मकैर्व्याप्तिभेदाद् द्विगुणीकृतविग्रहैः || १-६ || तद्द्वैगुण्यमयैस्तत्त्वैर्यन्त्रैस्तद्द्विगुणीकृतैः | तत्तद्भेदैर्भिन्नमूर्तिः प्रोक्ता वेदप्रकारिका || १-७ || षट्त्रिंशत्तत्त्वसम्पूर्णा सर्वमन्त्रफलप्रदा | देवी मधुमती या तत्तादात्म्यं कादिसंज्ञकम् || १-८ || आम्नायसमयापञ्चपञ्चिकापीठदर्शनैः | उत्पत्तिस्थितिसंहारभेदैर्वृन्दमयैः स्तुता || १-९ || मालिनी कथ्यते या तत्तादात्म्यं कालिकामतम् | मतद्वयपरिज्ञानाच्छिवतुल्यो भवेन्नरः || १-१० || कालतत्त्वमतव्याप्तिसम्प्रदायाङ्गभावनाः | स्थूलसूक्ष्मपरोपाङ्गबीजशक्त्यर्णपल्लवान् || १-११ || तत्तत्क्रमं तदाचारं तदुत्पत्तिं तदर्चनम् | गुरुतः शास्त्रतो ज्ञात्वातत्तत्कर्मण्यतन्द्रितः || १-१२ || आद्यन्तमध्यरहित आदिमध्यान्तसंयुतः | अनादितत्त्वसंशोधी परतन्त्रस्वतन्त्रवित् || १-१३ || विदध्याद्यजनं देव्याः फलं स्यादन्यथान्यथा | गुरुक्रममविज्ञाय पूजयेद्यः परां शिवाम् || १-१४ || सा पूजा निष्फला ज्ञेया भस्मन्यर्पितहव्यवत् | तस्माद्यत्नेन विज्ञेया मूलाद् गुरुपरम्पराम् || १-१५ ||