The Upanishad on the Crest of Yoga

Yogaśikhopaniṣat

The Upanishad on the Crest of Yoga

Yogaśikhopaniṣat

SK
योगशिखोपनिषत् सह नाववतु- इति शान्तिः प्रथमोऽध्यायः मुक्तिमार्गजिज्ञासा सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः | तेषां मुक्तिः कथं देव कृपया वद शंकर || १ || सर्वसिद्धिकरं मार्गं मायाजालनिकृन्तनम् | जन्ममृत्युजराव्याधिनाशनं सुखदं वद || २ || इति || विवरणम् योगज्ञाने यत्पदाप्तिसाधनत्वेन विश्रुते | तत् त्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते || इह खलु कृष्णयजुर्वेदप्रविभक्तेयं योगशिखोपनिषत् ससाधनज्ञानयोगसर्वस्वप्रकटनव्यग्रा ब्रह्ममात्रविश्रान्ता विजयते | अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते | शिष्याचार्यभावं- vidyāstutyarthā | ādau ākhyāyikāmavatārayati- sarva iti || 1 || kiṃ tadityatra- sarveti || 2 || p. 391) muktimārgasya durlabhatvam hiraṇyagarbhaḥ papraccha sa hovāca maheśvaraḥ | nānāmārgaistu duṣprāpaṃ kaivalyaṃ paramaṃ padam || 3 || siddhimārgeṇa labhate nānyathā padmasaṃbhava | lokopakārthaṃ maheśvaraṃ prati hiraṇyagarbhaḥ papraccha | tatpraśnamaṅgīkṛtya sa hovāca | kiṃ taduvācetyatra vakṣyamāṇārthaṃ prakāśayan stauti- nāneti | nirviśeṣajñānaikagamyatvāt || 3 || nānyaḥ panthāḥ ayanāya vidyate iti śrutisiddhasiddhimārgeṇa | kaivalyasiddhiprado'yaṃ mārgo nirviśeṣabrahmamātrajñānarūpaḥ tenaiva kaivalyaṃ labhate nānyathetyarthaḥ || brahma kevalaśāstrāgamyam patitāḥ śāstrajāleṣu prajñayā tena mohitāḥ || 4 || svātmaprakāśarūpaṃ tat kiṃ śāstreṇa prakāśyate | niṣkalaṃ nirmalaṃ śāntaṃ sarvātītaṃ nirāmayam || 5 || tadeva jīvarūpeṇa puṇyapāpaphalairvṛtam | paramātmapadaṃ nityaṃ tat kathaṃ jīvatāṃ gatam || 6 || tattvātītaṃ mahādeva prasādāt kathayeśvara |
SK
उन्मार्गगामिन आभासज्ञानिनो विडम्बयति- पतिता इति | ब्रह्मचर्यगुरुकुलवाससाधनचतुष्टयादिकं विस्मृत्य तन्त्रत्रयं मयाधीतं नाधीतं तुर्यतन्त्रकम् इत्यादिस्वरूपदर्शनसिद्धाञ्ज- brahmaṇo vyāviddhapadavākyārthatvena svayaṃ prakāśarūpatvāt, yenārthavanti taṃ kiṃ tu vijñātāraṃ prakāśayet | p. 392) svātmaprakāśarūpaṃ brahma kīdṛśam ityatra- niṣkalamiti | prāṇādināmāntaṣoḍaśakalāpahnavasiddhaṃ brahma niṣpratiyogikaniṣkalaṃ brahmamātramityarthaḥ || 5 || niṣkalasya brahmamātratve jīvajātaṃ tadbhinnamityata āha- tadeveti | yat svajñadṛṣṭyā svamātram avaśiṣṭaṃ svājñadṛṣṭyā tadeva | kathaṃ punaḥ brahma jīvatvaṃ bhajatītyākṣipati- paramātmeti || 6 || tat kīdṛśam ? tattvātītam || brahmaṇo jīvabhāvaḥ sarvabhāvapadātītaṃ jñānarūpaṃ nirañjanam || 7 || vāyuvat sphuritaṃ svasmiṃstatrāhaṃkṛtirutthitā | pañcātmakamabhūt piṇḍaṃ dhātubaddhaṃ guṇātmakam || 8 || sukhaduḥkhaiḥ samāyuktaṃ jīvabhāvanayā kuru | tena jīvābhidhā proktā viśuddhe paramātmani || 9 || praśnottaraṃ bhagavānāha- sarveti || 7 || tadeva svājñadṛṣṭyā vyomni vāyuvat iti | tatsakāśāt pañcātmakamabhūt piṇḍam | yanniṣpratiyogikasvamātramavaśiṣṭaṃ tadeva svajñādidṛṣṭyā kiṃcit sphuritaṃ sat sākṣibhāvaṃ bhajati | tripādbhūtireva nityabhūtitayā cakāsti | nityabhūtireva pūrṇāhaṃbhāvametya līlābhūtiḥ bhavati | līlābhūtirapi paricchinnapiṇḍābhimānāt mohabhūtiḥ | sāpi piṇḍādirūpeṇa jaḍabhūtirapi bhavatītyarthaḥ || 8-9 || kāmādidoṣavimuktajīvasya śivatvam kāmakrodhabhayaṃ cāpi mohalobhamatho rajaḥ | janma mṛtyuśca kārpaṇyaṃ śokastandrā kṣudhā tṛṣā || 10 || p. 393) tṛṣṇā lajjā bhayaṃ duḥkhaṃ viṣādo harṣa eva ca | ebhirdoṣairvinirmuktaḥ sa jīvaḥ śiva ucyate || 11 ||
SK
त्रिपादेव परिच्छिन्नपिण्डाभिमानात् मोहभूतित्वं भजतीत्युक्तं पुनर्मोहभूतेः लीलादिभूतित्वं कथमित्यत्र त्रिपादस्मीति प्रबोधतः पिण्डाद्यभिमतिमूलकामादिवृत्तित्यागसम-कालं त्रिपाद्भूतिरेव भवतीत्याह- कामेति || १० || कामादिवृत्तिपरिग्रह एष दोषः, त्रिपाद्भूतेः मोहभूतिप्रापकत्वात् || ११ || ज्ञानयोगाभ्यां दोषविनाशः तस्माद्दोषविनाशार्थमुपायं कथयामि ते | ज्ञानं केचिद्वदन्त्यत्र केवलं तन्न सिद्धये || १२ || योगहीनं कथं ज्ञानं मोक्षदं भवतीह भो | योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि || १३ || तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् | यस्मादेवं कामादिवृत्तिसङ्गादनर्थो जातः तस्मात् | मोहभूतेस्त्रिपाद्भूतित्वप्रापकोपायः कः इत्यत्र पश्यतेहापि सन्मात्रमसदन्यत् ब्रह्मव्यतिरिक्तं न किंचिदस्ति, ब्रह्ममात्रमसन्न हि, इत्यादिश्रुतिसिद्धस्वातिरिक्तासत्प्रपञ्चापह्नवज्ञानप्रादुर्भूत- traipadabrahmamātrāvasthānalakṣaṇavikalebarakaivalya syādityatra na vivādaḥ, svājñānaprabhavajīvatvādeḥ svajñānavadhikatvāt tajjñānasya caramajanmāśrayatvāt | tadvinā saviśeṣābhāsajñānaṃ keciditi || 12-13 || yathoktasādhanavikalabaddhacittāśritābhāsasaviśeṣa-jñānasya svaphalasādhanānīśatvāt vividhaphalgusiddhiprāpakābhāsa-yogasyāpi mukhyayogaphalaprāpaṇānīśatvācca yasmādetāvābhāsajñānayogau pratisvikena svaphalasādhanānīśau p. 394) bhavataḥ tasmāt jñānayogau samuccitya mumukṣuḥ dṛḍhamabhyaset | tenābhāsajñānayogau svagatābhāsatāṃ vihāya niṣpratiyogikanirviśeṣabrahmamātrajñānaparyavasannau bhavataḥ | tathā ca śrutiḥ śāmyati hyastramastreṇa malena kṣālyate malam ityādi | tatra yogābhāsastu ābhāsajñānagatābhāsatvaṃ nirmūlya nirviśeṣajñānaparyavasanno bhavati || jñānasvarūpaṃ tatphalaṃ ca jñānasvarūpamevādau jñeyaṃ jñānaikasādhanam || 14 || ajñānaṃ kīdṛśaṃ ceti pravicāryaṃ mumukṣuṇā | jñātaṃ yena nijaṃ rūpaṃ kaivalyaṃ paramaṃ padam || 15 ||
SK
असौ दोषैर्विनिर्मुक्तः कामक्रोधभयादिभिः | सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते || १६ || स्वात्मरूपं यथा ज्ञानं पूर्णं तद्व्यापकं तथा | कामक्रोधादिदोषाणां स्वरूपान्नास्ति भिन्नता || १७ || पश्चात् तस्य विधिः किं नु निषेधोऽपि कथं भवेत् | विवेकी सर्वदा मुक्तः संसारभ्रमवर्जितः || १८ || परिपूर्णस्वरूपं तत् सत्यं कमलसंभव | सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि || १९ || यत एवमतो निर्विशेषज्ञानं स्वफलसाधनसमर्थं स्यादेवेति मनसि निधाय मुमुक्षुभिः ज्ञानाज्ञानेयत्ता ज्ञातव्येत्याह- ज्ञानेति || १४ || तत्र निर्विशेषज्ञानस्वरूपमाह- ज्ञातमिति | तदेव यथोक्तज्ञानमित्यर्थः || १५ || य एवं प्. ३९५) ज्ञानी सोऽयम् असौ कृतकृत्यो भवतीत्यर्थः | पुनराभासज्ञा-नाभिप्रायेणाक्षिपति | किमिति ? कामक्रोधादिसर्वदोषैरिति | कामक्रोधा-दयो दोषाः स्वाज्ञानविजृम्भिताः || १६ || सर्वदोषग्रासस्वज्ञाने वा तदेकसिद्धे स्वात्मनि सोडासंभवं प्रकटयन् परिहरति- स्वात्मेति | यथा स्वात्मरूपं सर्वपरिपूर्णं व्याप्यसत्त्वे व्यापकमपि भवति तथा तद्गोचरज्ञानस्य तन्मात्रपर्यवसन्नत्वान्न तत् भिद्यते | स्वात्मातिरेकेण ज्ञानाभावेऽपि कामादिदोषाः तद्भिन्ना भवेयुरित्यत आह- कामेति | न हि निष्प्रतियोगिकब्रह्ममात्रे कामादिदोषपूगः स्यान्न वेति स्मृतिर्वा कथं सेद्धुं पारयति ब्रह्ममात्रगतनिष्प्रतियोगिकतायाः स्वातिरिक्तमस्ति नास्तीति गन्धासहत्वात् || १७ || एवं ज्ञानी कृतकृत्यो भवतीत्याह- विवेकीति || १८ || तस्यैव ब्रह्मत्वमाह- परिपूर्णेति | संसारिकभ्रमविरलब्रह्मविदो ब्रह्मत्वात् यत् सत्यमिति ख्यातं तदेव स्वाज्ञादिदृष्ट्या सकलादिभावं भजतीत्याह- सकलमिति || १९ || आभासज्ञान्यज्ञानिनोरविशेषः कलिना स्फूर्तिरूपेण संसारभ्रमतां गतम् | निष्कलं निर्मलं साक्षात् सकलं गगनोपमम् || २० || उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् | एतद्रूपं समायातः स कथं मोहसागरे || २१ ||
SK
निमज्जति महाबाहो त्यक्त्वा विद्यां पुनःपुनः | सुखदुःखादिमोहेषु यथा संसारिणां स्थितिः || २२ || तथा ज्ञानी यदा तिष्ठेद्वासनावासितस्तदा | तयोर्नास्ति विशेषोऽत्र समा संसारभावना || २३ || ज्ञानं चेदीदृशं ज्ञातमज्ञानं कीदृशं पुनः | प्. ३९६) अप्रकाशकल्यन्तःकरणयोगात् संसारित्वं भजतीवेत्याह- yanniṣkalamityādiviśeṣaṇaviśiṣṭametadrūpaṃ cittaśuddhisādhanacatuṣṭayasaṃpattyabhāve'pi yena kenopāyena samāyāto yadi jñānī tadā kṛtakṛtyo bhavet, sa kathaṃ svāttajñānaṃ vihāya svājñavanmohasāgare nimajjatīti praśnottaraṃ bhagavānāha- sukheti || 21-22 || tathā ayamābhāsajñānī | svājñānenāsyāpi samā || 23 || ābhāsajñāninaḥ jñānam | ābhāsajñānājñānayoravirodhādekārthaparyavasāyitvaṃ yujyate ityarthaḥ | ābhāsajñānino yogena vinā na mokṣasiddhiḥ jñānaniṣṭho'virakto'pi dharmajño'vijitendriyaḥ || 24 || vinā dehe'pi yogena na mokṣaṃ labhate vidhe | apakvāḥ paripakvāśca dehino dvividhāḥ smṛtāḥ || 25 || apakvā yogahīnāstu pakvā yogena dehinaḥ | sarvo yogāgninā deho hyajaḍaḥ śokavarjitaḥ || 26 || jaḍastu pārthivo jñeyo hyapakvo duḥkhado bhavet | tasya yogaṃ vinā akiṃcitkaratāmāha- jñāneti | svāropitajñānaniṣṭhaḥ | śāstrato dharmajñaḥ | svayaṃ avijitendriyaḥ || 24 || ayamābhāsajñānī yogena vinā svāttajñānagatābhāsamalaṃ saṃkṣālya śuddhaṃ jñānaṃ prāpya tatsamakālaṃ na kadāpi mokṣaṃ labhate, yogodakasya cittamalaśodhakatvāt | nahyaśuddhacittāsāditajñānaṃ kāryakāri bhavatītyarthaḥ | ābhāsapāramārthikabhedena jñāninau dvividhāvityāha- apakva iti || 25 || kevalābhāsajñāninaḥ apakvāḥ aśuddhāntaratvāt | yogena pakvāḥ pāramārthikajñāninaḥ ityarthaḥ | śuddhāśuddhajñāninoradhiṣṭhitadehādeḥ jaḍājaḍatāmāha- sarva iti | jñānāgnidagdhakalmaṣatvāt jñānidehāderajaḍatvaṃ yujyate ityatra yathaiva mṛnmayaḥ kumbhaḥ tadvaddeho'pi cinmayaḥ iti śruteḥ || 26 || p. 397) ābhāsajñānināṃ duḥkhānivṛttiḥ
SK
ध्यानस्थोऽसौ तथाप्येवमिन्द्रियैर्विवशो भवेत् || २७ || तानि गाढं नियम्यापि तथाप्यन्यैः प्रबाध्यते | शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानसैस्तथा || २८ || अन्यैर्नानाविधैर्जीवैः शास्त्राग्निजलमारुतैः | शरीरं पीड्यते तैस्तैश्चित्तं संक्षुभ्यते ततः || २९ || तथा प्राणविपत्तौ तु क्षोभमायाति मारुतः | ततो दुःखशतैर्व्याप्तं चित्तं क्षुब्धं भवेन्नृणाम् || ३० || देहावसानसमये चित्ते यद्यद्विभावयेत् | तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् || ३१ || देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः | तस्माज्ज्ञानं च वैराग्यं जीवस्य केवलं श्रमः || ३२ || पिपीलिका यथा[दा?] लग्ना देहे ध्यानाद्विमुच्यते | असौ किं वृश्चिकैर्दृष्टो देहान्ते वा कथं सुखी || ३३ || तस्मान्मूढा न जानन्ति मिथ्यातर्केण वेष्टिताः | यद्याभासज्ञानी शुद्धज्ञानिवत् ध्यानस्थः | विवशो भवेत् ब्रह्मातिरेकेण इन्द्रियादिकं नास्तीत्यसमाहितकरणग्रामत्वात् || २७ || यथाबलं तानि || २८-२९ || नराणां निर्विशेषब्रह्मज्ञानीतराणाम् || ३०-३१ || यस्मादाभासज्ञानिनः एवं न विदुः तस्मात् आभासज्ञानम् | निर्विशेषज्ञानिनोऽप्येवं न विदुरिति चेत्, सत्यं ब्रह्मातिरेकेण देहः तदवसानसमयो वा अस्ति चेत् जानन्ति, निर्विशेषब्रह्ममात्रावगतेः देहाद्युपलक्षिताविद्यापदतत्कार्यजातमस्ति प्. ३९८) नास्तीति विभ्रमापह्नवपूर्वकत्वात् | तस्मादाभासज्ञानी अत्र विषयो भवतीति मन्तव्यम् | ज्ञानियोगिशब्देन मुख्यज्ञानियोगिनौ गृहीतौ चेत् मूलश्रुत्यनुरूपं भवेदिति चेन्न ; मूलश्रुतेरप्याभासज्ञान्यादिविषयतात्पर्यत्वात्, चतुर्थाध्याये शुद्धज्ञानिसमाचारस्य स्फुटीकृतत्वाच्च | न हि कदापि श्रुतिर्विरुद्धार्थं वदति तस्मादाभासपारमार्थिकज्ञानिनौ मिथोविविक्तं श्रुतिरनुवदतीति वक्तुं युक्तमित्यर्थः || ३२ || आभासज्ञानी अस्मिन् प्रकरणे विशेषितव्यः इति स एव विशेष्यते- पिपीलिकेति || ३३ || यस्मादेवं ब्रह्मातिरेकेण स्वदेहध्यानतद्विरोधादिकमस्तीति भ्रान्तिः तस्मात् || अहंभाव एव सर्वानर्थमूलम्
SK
अहंकृतिर्यदा यस्य नष्टा भवति तस्य वै || ३४ || देहस्त्वपि भवेन्नष्टो व्याधयश्चास्य किं पुनः | जलाग्निशस्त्रखातादिबाधा कस्य भविष्यति || ३५ || यदा यदा परिक्षीणा पुष्टा चाहंकृतिर्भवेत् | तमनेनास्य नश्यन्ति प्रवर्तन्ते रुगादयः || ३६ || कारणेन विना कार्यं न कदाचन विद्यते | अहंकारं विना तद्वद्देहे दुःखं कथं भवेत् || ३७ || स्वाज्ञविकल्पितदेहादौ अहंकृतिः || ३४ || ज्ञानिनो विदेहत्वात् यद्यपि स्वाज्ञदृष्ट्या देहोऽस्तु शस्त्रखातादिः तस्यैवास्तु ज्ञानिनो न काचित् क्षतिरस्तीत्यर्थः || ३५ || यदि पुनरस्य देहादावहंभावः उदेति तदा स्वाज्ञवत् सर्वानर्थो भवतीत्याह- यदेति | अनेन देहाभिमानदोषेण अस्य ब्रह्मास्मीत्यादिवृत्तयो नश्यन्ति तिरोभवन्ति | किंच तं देहाभिमानिनं प्रति रुगादयः प्रवर्तन्ते || ३६ || अहंभाव एव सर्वानर्थमूलमित्याह- कारणेनेति || ३७ || प्. ३९९) योगसिद्धस्य ईश्वरत्वं जीवन्मुक्तत्वं च शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम् | तत् कथं कुरुते तेषां सुखदुःकादिकं फलम् || ३८ || इन्द्रियाणि मनो बुद्धिः कामक्रोधादिकं जितम् | तेनैव विजितं सर्वं नासौ केनापि बाध्यते || ३९ || महाभूतानि तत्त्वानि संहृतानि क्रमेण च | सप्तधातुमयो देहो दग्धो योगाग्निना शनैः || ४० || देवैरपि न लक्ष्येत योगिदेहो महाबलः | भेदबन्धविनिर्मुक्तो नानाशक्तिधरः परः || ४१ || यथाकाशस्तथा देह आकाशादपि निर्मलः | सूक्ष्मात् सूक्ष्मतरो दृश्यः स्थूलास्थूलो जडाजडः || ४२ || इच्छारूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः | क्रीडते त्रिषु लोकेषु लीलया यत्रकुत्रचित् || ४३ || अचिन्त्यशक्तिमान् योगी नानारूपाणि धारयेत् | संहरेच्च पुनस्तानि स्वेच्छया विजितेन्द्रियः || ४४ || नासौ मरणमाप्नोति पुनर्योगबलेन तु | हठेन मृत एवासौ मृतस्य मरणं कुतः || ४५ || मरणं यत्र सर्वेषां तत्रासौ परिजीवति | यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै || ४६ ||
SK
प्. ४००) कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते | जीवन्मुक्तः सदा स्वच्छः सर्वदोषविवर्जितः || ४७ || सर्वे स्वाज्ञाः | ब्रह्मात्मैक्ययोगिभिः || ३८ || ब्रह्मातिरिक्तं न किंचिदस्ति इति ज्ञानखड्गेन इन्द्रियाणि || ३९ || किंच- महाभूतानि || ४० || सम्यग्ज्ञानिनः ईश्वरभावापत्त्या सत्यसंकल्पत्वाद्यदि सम्यग्ज्ञानयोगी अयं देहः सर्वादृश्यो भवतु ईश्वरादिसामर्थ्यमीहते तदा देवैरपीति || ४१-४४ || नासौ मरणमाप्नोति मरणादेः देहनिष्ठत्वेन योगिनो देहातीतत्वात्, न जायते म्रियते वा विपश्चित् इति श्रुतेः | ब्रह्मातिरेकेण देहादिकं नास्तीति बोध एव हठः, हठेन सम्यग्ज्ञानेन मृत एवासौ देहः || ४५ || या निशा सर्वभूतानाम् इत्यादिस्मरणात् || ४६-४७ || आभासज्ञानिनां विडम्बनम् विरक्ता ज्ञानिनश्चान्ये देहेन विजिताः सदा | ते कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः || ४८ || देहान्ते ज्ञानिभिः पुण्यात् पापाच्च फलमाप्यते | ईदृशं तु भवेत् तत्तद् भुक्त्वा ज्ञानी पुनर्भवेत् || ४९ || योगव्याविद्धचित्तमलनिर्विशेषज्ञानिनमीश्वरत्वेन जीवन्मुक्तत्वेन च स्तुत्वा तदपेक्षया आभासज्ञानिनो विडम्बयति- विरक्ता इति | स्वातिरिक्तविषये विशेषेण रक्ताः विरक्ताः || ४८ || प्रारब्धादिकर्मफलं भुक्त्वा ज्ञानी पुनर्भवेत् | न हि पारमार्थिकज्ञानिनः पुण्यपापतत्फलोच्चावचजन्मादिकमस्ति, आभासज्ञानिनि तु सर्वमुपपद्यत इति श्रुतेराशयः | अन्यथा ब्रह्म वेद ब्रह्मैव भवति य एवं निर्बीजं वेद निर्बीज एव स भवति, तमेव विद्वानमृत प्. ४०१) इह भवति नान्यः पन्था अयनाय विद्यते इत्यादयो वेदनसमकालमेव ब्रह्ममात्रावस्थानलक्षणविदेहकैवल्यानुवादि- punarbhavoktirābhāsajñāniniṣṭheti || 49 || teṣāṃ siddhasaṃgatyā kṛtakṛtyatvam paścāt puṇyena labhate siddhena saha saṃgatim | tataḥ siddhasya kṛpayā yogī bhavati nānyathā || 50 || tato naśyati saṃsāro nānyathā śivabhāṣitam | tādṛśābhāsajñāninaḥ sukṛtaviśeṣāt jīvanmuktasaṃgatyā kṛtakṛtyatā syādityāha- paścāditi || 50 ||
SK
ज्ञानयोगयोः मिथः कार्यकारणत्वम् योगेन रहितं ज्ञानं न मोक्षाय भवेद्विधे || ५१ || ज्ञानेनैव विना योगो न सिध्यति कदाचन | आभासज्ञानयोगसमुच्चयाभिप्रायेण प्रातिस्विकेन तयोः निन्दोच्यते- योगेनेति || ५१ || योग एव परमो मोक्षमार्गः जन्मान्तरैश्च बहुभिर्योगो ज्ञानेन लभ्यते || ५२ || ज्ञानं तु जन्मनैकेन योगादेव प्रजायते | तस्माद्योगात् परतरो नास्ति मार्गस्तु मोक्षदः || ५३ || प्. ४०२) प्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति मन्यते | किमसौ मननादेव मुक्तो भवति तत्क्षणात् || ५४ || पश्चाज्जन्मान्तरशतैर्योगादेव विमुच्यते | न तथा भवतो योगाज्जन्ममृत्यू पुनःपुनः || ५५ || प्राणापानसमायोगश्चन्द्रसूर्यैकता भवेत् | सप्तधातुमयं देहमग्निना रञ्जयेद् ध्रुवम् || ५६ || व्याधयस्तस्य नश्यन्ति छेदखातादि का कथा | तदसौ परमाकाशरूपो देह्यवतिष्ठति || ५७ || किं पुनर्बहुनोक्तेन मरणं नास्ति तस्य वै | देहिवद् दृश्यते लोके दग्धकर्पूरवत् स्वयम् || ५८ || तयोः मिथः कार्यकारणतामाह- जन्मेति || ५२ || यस्मादेवं तस्मात् | नास्ति आभासज्ञानगताभासतां ग्रसित्वा शुद्धज्ञानजनकत्वात् | अत एव योगमार्गस्तु ज्ञानद्वारा मोक्षदः || ५३ || योगाभावे ज्ञानाभासेनापि प्रविचार्य | कदाचित्कमननादेव || ५४ || योगादेव विमुच्यते इति योगं स्तौति | यथा आभासज्ञानिनां जन्ममृत्यू भवतः न तथा || ५५ || सप्तधातुमयं देहं- शुक्लादयः सप्तधातवः देहस्य तन्मयत्वात् तम् || ५६-५८ || योगसंस्कृतमनस्त्येव आत्मज्ञानोत्पत्तिः चित्तं प्राणेन संबद्धं सर्वजीवेषु संस्थितम् | रज्ज्वा यद्वत् सुसंबद्धः पक्षी तद्वदिदं मनः || ५९ || प्. ४०३) नानाविधैर्विचारस्तु न बाध्यं जायते मनः | तस्मात् तस्य जयोपायः प्राण एव हि नान्यथा || ६० || तर्कैर्जल्पैः शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः | न वशो जायते प्राणः सिद्धोपायं विना विधे || ६१ || उपायं तमविज्ञाय योगमार्गे प्रवर्तते | खण्डज्ञानेन सहसा जायते क्लेशवत्तरः || ६२ ||
SK
योऽजित्वा पवनं मोहाद्योगमिच्छति योगिनाम् | सोऽपक्वं कुम्भमारुह्य सागरं तर्तुमिच्छति || ६३ || यस्य प्राणो विलीनोऽन्तः साधके जीविते सति | पिण्डो न पतितस्तस्य चित्तं दोषैः प्रबाधते || ६४ || संस्थितं स्वात्मानं विषयीकरोतीत्यर्थः | तद्वदिदं मनः, प्राणबन्धनं हि सोम्य मनः इति श्रुतेः || ५९ || यस्मादेवं तस्मात् || ६०-६५ || योगाभ्यास एव प्रथमकृत्यम् शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते | तस्माज्ज्ञानं भवेद्योगाज्जन्मनैकेन पद्मज || ६५ || तस्माद्योगं तमेवादौ साधको नित्यमभ्यसेत् | मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्षहेतवे || ६६ || प्. ४०४) योगात् परतरं पुण्यं योगात् परतरं शिवम् | योगात् परतरं सूक्ष्मं योगात् परतरं न हि || ६७ || योऽपानप्राणयोरैक्यं रजसो रेतसस्तथा | सूर्याचन्द्रमसोर्योगो जीवात्मपरमात्मनोः || ६८ || एवं हि द्वन्द्वजालस्य संयोगो योग उच्यते | यस्माद्योग एवं प्रभाववान् तस्मात् || ६६-६८ || योगशिखोपदेशः अथ योगशिखां वक्ष्ये सर्वज्ञानेषु चोत्तमाम् || ६९ || यदानुध्यायते मन्त्रं गात्रकम्पोऽथ जायते | आसनं पद्मकं बद्ध्वा यच्चान्यदपि रोचते || ७० || नासाग्रे दृष्टिमारोप्य हस्तपादौ च संयतौ | मनः सर्वत्र संगृह्य ॐकारं तत्र चिन्तयेत् || ७१ || ध्यायते सततं प्राज्ञो हृत्कृत्वा परमेश्वरम् | एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते || ७२ || ईदृशे तु शरीरे वा मतिमान्नोपलक्षयेत् | आदित्यमण्डलाकारं रश्मिज्वालासमाकुलम् || ७३ || तस्य मध्यगतं वह्निं प्रज्वलेद्दीपवर्तिवत् | दीपशिखा तु या मात्रा सा मात्रा परमेश्वरे || ७४ ||
SK
प्. ४०५) इत्थं योगं स्तुत्वा अथ अनन्तरं योगसारभूतां शिखां प्रपञ्चयति- अथेति | योगमस्तकविलसितत्वात् योगशिखा | आभासादि- aśuddhacittāśrayajñānagatābhāsagrāsat-vāt | tāṃ tubhyaṃ vakṣye ityarthaḥ || 69 || kiṃ tat ityatra tadiyattāṃ tadabhyāsakramaṃ cāha- yadeti | mantāram anusaṃdhātāraṃ trāyate iti mantraḥ nādaḥ | mantraṃ mantro yadā anudhyāyate anusaṃdhīyate tadā atha anantaraṃ yogino gātrakampo jāyate | tadupaśamanārthaṃ āsanamiti | yaccānyadapi rocate siddhāsanādi || 70 || evam āsane sthitvā nāsāgre iti || 71 || tadānīṃ dehadṛṣṭiḥ na kāryetyāha- eketi | vīṇādaṇḍasya śarīramaṇṭapādhāratvāt | sthūṇaśabdena āgāmyādikarmatrayamucyate | pañcadaivata śabdena brahmādisadāśivāntapañcabrahmāṇa ucyante || 72 || etatsaṃghāte śarīre svātmātmīyadṛṣṭiṃ na kuryādityarthaḥ | tataḥ kiṃ kartavyamityatra svahṛdaye ādityeti || 73 || prāṇāyāmānukūladhyā-nena mūlādhāragatāgnijvālāvalīyutaṃ bhāvayedityarthaḥ | tatra dīpaśikhārūpeṇa parameśvaro bhāvanīya ityāha- dīpaśikheti | mūlādhārasthadīpaśikhā tu yā mātrā nīvāraśūkādapi tanvī sā mātrā tadākāreṇa parameśvare bhāvite sati || 74 || yogābhyāsāt paramapadasākṣātkāraḥ bhindanti yoginaḥ sūryaṃ yogābhyāsena vai punaḥ | dvitīyaṃ suṣumnādvāraṃ pariśubhraṃ samarpitam || 75 || kapālasaṃpuṭaṃ pītvā tataḥ paśyati tatpadam | atha tatprasādato yoginaḥ yogābhyāsabalena sūryamaṇḍalaṃ bhittvā tatpadaṃ yāntītyatra sūryadvāreṇa te virajāḥ prayānti iti śruteḥ || saṃnyastaṃ puruṣaṃ dṛṣṭvā sthānāccalati bhāskaraḥ | eṣa me maṇḍalaṃ bhittvā paraṃ brahma prayāsyati ||
SK
प्. ४०६) इति स्मृत्यनुरोधेन संन्यासयोगिनः सूर्यमण्डलं भित्त्वा तत्पदं यान्तीत्युक्तम् | केवलयोगिनस्तु द्वितीयं सुषुम्नाद्वारं कुण्डलिन्या विभिद्य || ७५ || तन्मार्गेण कलालसंपुटं सहस्रारचक्रं प्रविश्य तत्र रवीन्द्वग्निजममृतं पीत्वा ततः तत्पदं तत्रत्यतूरीयं तुरीयातीतं वा सोऽहमिति पश्यति पश्यन्ति | ततः तदात्तज्ञानानुरोधेन सविशेषं निर्विशेषं वा ब्रह्म प्रयान्तीत्यर्थः || ध्यानाशक्तस्य पुण्यलोकप्राप्तिः अथ तद् ध्यायते जन्तुरालस्याच्च प्रमादतः || ७६ || यदि त्रिकालमागच्छेत् स गच्छेत् पुण्यसंपदम् | पुण्यमेतत् समासाद्य संक्षिप्य कथितं मया || ७७ || एवं ध्यातुमशक्तानां पुण्यलोकाप्तिमाह- अथेति | यदि यो जन्तुः यथावत् ध्यानकलनायामालस्यात् प्रमादतश्च भेदधिया तत् ब्रह्म ध्यायते ध्यायति || ७६ || एवम् अहरहः त्रिकालं ध्यानमागच्छेत् ध्यानं करोति सोऽयं मुनिः स्वभावनानुरोधेन पुण्यसंपदं ब्रह्मेन्द्राद्यैश्वर्यं गच्छेत् प्राप्नुयात् | एतत्पुण्यानुरोधेन संक्षेपेण मयोक्तमित्यर्थः || ७७ || लब्धयोगस्य स्वात्मबोधः लब्धयोगोऽथ बुध्येत प्रसन्नं परमेश्वरम् | जन्मान्तरसहस्रेषु यदा क्षीणं तु किल्बिषम् || ७८ || तदा पश्यति योगेन संसारोच्छेदनं महत् | वक्ष्यमाणरीत्या लब्धयोगः स्वात्मानं बुध्यते इत्याह- लब्धेति | सोऽहमिति बुध्येत | किल्बिषवतां स्वातिरिक्तकलनोच्छेदनेश्वरसाक्षात्कारः कुत इत्यत्र आह- जन्मान्तरेति | नित्यादिकर्मफलसमर्पणसंतुष्टेश्वरप्रसादतः यदा || ७८ || प्. ४०७) योगाभ्यासार्थं जितप्राणगुरूपसदनम् अधुना संप्रवक्ष्यामि योगाभ्यासस्य लक्षणम् || ७९ || मरुज्जयो यस्य सिद्धः सेवयेत् तं गुरुं सदा | गुरुवक्त्रप्रसादेन कुर्यात् प्राणजयं बुधः || ८० || तदा पश्यति योगेनेत्युक्तं, सोऽयं योगः कीदृशः इत्याकाङ्क्षायां तदियत्तां ससाधनां सफलामाचष्टे- अधुनेति || ७९ || तत् गुरुमुखेनैव ज्ञेयमित्याह- मरुदिति || ८० || सरस्वतीचालनम्
SK
वितस्तिप्रमितं दैर्घ्यं चतुरङ्गुलविस्तृतम् | मृदुलं धवलं प्रोक्तं वेष्टनाम्बरलक्षणम् || ८१ || आदौ सरस्वतीनाडीचालनपुरःसरं कुण्डलिनीस्थितिं तच्चालनोपायं चाह- वितस्तीति | सरस्वतीनाडीमस्तकमुक्तलक्षणलक्षितवस्त्रेणावेष्ट्य ब्राह्मे मुहूर्ते उत्थाय मुहूर्तपर्यन्तं निर्भयाच्चालयेत् || ८१ || कुण्डलीचालनेन ग्रन्थित्रयभेदः निरुध्य मारुतं गाढं शक्तिचालनयुक्तितः | अष्टधा कुण्डलीभूतामृज्वीं कुर्यात्तु कुण्डलीम् || ८२ || पायोराकुञ्चनं कुर्यात् कुण्डलीं चालयेत् तदा | मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः || ८३ || एतदेव परं गुह्यं कथितं तु मया तव | वज्रासनगतो नित्यमूर्ध्वाकुञ्चनमभ्यसेत् || ८४ || प्. ४०८) वायुना ज्वलितो वह्निः कुण्डलीमनिशं दहेत् | संतप्ता साग्निना जीवा शक्तिस्त्रैलोक्यमोहिनी || ८५ || प्रविशेच्चन्द्रदण्डे तु सुषुम्नावदनान्तरे | वायुना वह्निना सार्धं ब्रह्मग्रन्थिं भिनत्ति सा || ८६ || विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थौ च तिष्ठति | ततस्तु कुम्भकैर्गाढं पूरयित्वा पुनः पुनः || ८७ || सरस्वतीनाडीचालनानन्तरं निरुध्य || ८२ || तदा पायोः | कुण्डलिनीचालनतोऽस्य विमृत्युत्वमाह- मृत्युवक्त्रेति || ८३ || कुण्डलीं चालयेदिति यदुक्तं सोपायं तदाह- वज्रेति || ८४ || आकुञ्चनोत्थवायुना | तेन दाहेन संतप्ता || ८५ || ततः सा किं करोतीत्यत्र प्रविशेत् इति | सुषुम्नायाः चन्द्रवत् शीतलत्वात् कुण्डलीतापशान्तिकरत्वं योग्यनुभवसिद्धमित्यर्थः | दृक्प्राणवायुना | मूलाधारप्रवेशमार्गकवाटाभं ब्रह्मग्रन्थिम् || ८६ || अनाहतकवाटं विष्णुग्रन्थिम् | आज्ञाकवाटे रुद्रग्रन्थौ | रुद्रग्रन्थिभेदनोपायमाह- तत इति || ८७ || कुम्भकचतुष्टयाम्भासविधिः अथाभ्यसेत् सूर्यभेदमुज्जायीं चापि शीतलीम् | भस्त्रां च सहितो नाम स्याच्चतुष्टयकुम्भकः || ८८ || बन्धत्रयेण संयुक्तः केवलप्राप्तिकारकः | कुम्भकभेदमाह- अथेति || ८८-८९ || प्. ४०९) सूर्यकुम्भकलक्षणम् अथास्य लक्षणं सम्यक् कथयामि समासतः || ८९ ||
SK
एकाकिना समुपगम्य विविक्तदेशं प्राणादिरूपममृतं परमार्थतत्त्वम् | लध्वाशिना धृतिमता परिभावितव्यं संसाररोगहरमौषधमद्वितीयम् || ९० || सूर्यनाड्या समाकृष्य वायुमभ्यासयोगिना | विधिवत् कुम्भकं कृत्वा रेचयेच्छीतरश्मिना || ९१ || उदरे बहुरोगघ्नं क्रिमिदोषं निहन्ति च | मुहुर्मुहुरिदं कार्यं सूर्यभेदमुदाहृतम् || ९२ || आदौ समुदायलक्षणमुच्यते- एकाकिनेति || ९० || ततः सूर्यभेदलक्षणं तत्फलं चाह- सूर्येति || ९१-९२ || उज्जायीकुम्भकलक्षणम् नाडीभ्यां वायुमाकृष्य कुण्डल्याः पार्श्वयोः क्षिपेत् | धारयेदुदरे पश्चाद्रेचयेदिडया सुधीः || ९३ || कण्ठे कफादिदोषघ्नं शरीराग्निविवर्धनम् | नाडीजलापहं धातुगतदोषविनाशनम् || ९४ || गच्छतस्तिष्ठतः कार्यमुज्जाय्याख्यं तु कुम्भकम् | उज्जायीकुम्भकलक्षणमाह- नाडीभ्यामिति || ९३-९४ || प्. ४१०) शीतलीकुम्भकलक्षणम् मुखेन वायुं संगृह्य घ्राणरन्ध्रेण रेचयेत् || ९५ || शीतलीकरणं चेदं हन्ति पित्तं क्षुधां तृषम् | शीतलीलक्षणमाह- मुखेनेति || ९५ || भस्त्रिकाकुम्भकलक्षणम् स्तनयोरथ भस्त्रेव लोहकारस्य वेगतः || ९६ || रेचयेत् पूरयेद्वायुमाश्रमं देहगं धिया | यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् || ९७ || कण्ठसंकोचनं कृत्वा पुनश्चन्द्रेण रेचयेत् | वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् || ९८ || कुण्डलीबोधकं वक्त्रदोषघ्न शुभदं सुखम् | ब्रह्मनाडीमुखान्तःस्थकफाद्यर्गलनाशनम् || ९९ || सम्यग्बन्धसमुद्भूतं ग्रन्थित्रयविभेदकम् | विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् || १०० || भस्त्रिकाकुम्भकलक्षणमाह- स्तनयोरिति | भस्त्रिकाचालकस्तनयोः समम् अथ || ९६-९९ || भस्त्रिकाकुम्भकात् रुद्रग्रन्थिरपि भिद्यते इत्यर्थः || १०० || बन्धत्रयविधिः बन्धत्रयमथेदानीं प्रवक्ष्यामि यथाक्रमम् | नित्यं कृतेन तेनासौ वायोर्जयमवाप्नुयात् || १०१ ||
SK
प्. ४११) चतुर्णामपि भेदानां कुम्भके समुपस्थिते | बन्धत्रयमिदं कार्यं वक्ष्यमाणं मया हि तत् || १०२ || प्रथमो मूलबन्धस्तु द्वितीयोड्डीयणाभिधः | जालंधरस्तृतीयस्तु लक्षणं कथयाम्यहम् || १०३ || कुम्भकचतुष्टयाङ्गतया बन्धत्रयलक्षणमाह- बन्धेति || १०१-१०४ || मूलबन्धः गुदं पार्ष्ण्या तु संपीड्य वायुमाकुञ्चयेद् बलात् | वारं वारं यथा चोर्ध्वं समायाति समीरणः || १०४ || प्राणापानौ नान्दबिन्दू मूलबन्धेन चैकताम् | गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः || १०५ || नादबिन्दुशब्देन बुद्धिमनसी उच्येते || १०५-१०७ || उड्डियाणबन्धः कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः | बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः || १०६ || तस्मादुड्डीयणाख्योऽयं योगिभिः समुदाहृतः | उड्डियाणं तु सहजं गुरुणा कथितं सदा || १०७ || अभ्यसेत् तदतन्द्रस्तु वृद्धोऽपि तरुणो भवेत् | नाभेरूर्ध्वमधश्चापि ताणं कुर्यात् प्रयत्नतः || १०८ || षाण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः | प्. ४१२) ताणम् आकुञ्चनम् || १०८-१११ || जालंधरबन्धः पूरकान्ते तु कर्तव्यो बन्धो जालंधराभिधः || १०९ || कंठसंकोचरूपोऽसौ वायुमार्गनिरोधकः | कण्ठमाकुञ्च्य हृदये स्थापयेद् दृढमिच्छया || ११० || बन्धो जालंधराख्योऽयममृताप्यायकारकः | अधस्तात् कुञ्चनेनाशु कण्ठसंकोचने कृते || १११ || मध्ये पश्चिमताणेन स्यात् प्राणो ब्रह्मनाडिगः | कुण्डल्या ग्रन्थित्रयविभेदनेन निर्विकल्पकप्राप्तिः वज्रासनस्थितो योगी चालयित्वा तु कुण्डलीम् || ११२ || कुर्यादनन्तरं भस्त्रीं कुण्डलीमाशु बोधयेत् | भिद्यन्ते ग्रन्थतो वंशे तप्तलोहशलाकया || ११३ || तथैव पृष्ठवंशे स्याद् ग्रन्थिभेदस्तु वायुना | पिपीलिकायां लग्नायां कण्डूस्तत्र प्रवर्तते || ११४ || सुषुम्नायां तथाभ्यासात् सततं वायुना भवेत् | रुद्रग्रन्थिं ततो भित्त्वा ततो याति शिवात्मकम् || ११५ ||
SK
चन्द्रसूर्यौ समौ कृत्वा तयोर्योगः प्रवर्तते | गुणत्रयमतीतं स्याद् ग्रन्थित्रयविभेदनात् || ११६ || शिवशक्तिसमायोगे जायते परमा स्थितिः | प्. ४१३) बन्धत्रयमुक्तो योगी वज्रासनेति || ११२-११६ || ब्रह्मरन्ध्रगततुरीय एव शिवः, शक्तिस्तु कुण्डलिनी, तयोर्योगादेव परमा स्थितिः सहजनिर्विकल्पकावस्था जायते इत्यर्थः || सुषुम्नायाः मोक्षमार्गत्वं कालभोक्तृत्वं च यथा करी करेणैव पानीयं प्रपिबेत् सदा || ११७ || सुषुम्नावज्रनालेन पवमानं ग्रसेत् तथा | वज्रदण्डसमुद्भूता मणयश्चैकविंशतिः || ११८ || सुषुम्नायां स्थिताः सर्वे सूत्रे मणिगणा इव | मोक्षमार्गे प्रतिष्ठाना सुषुम्ना विश्वरूपिणी || ११९ || यथैव निश्चितः कालश्चन्द्रसूर्यनिबन्धनात् | आपूर्य कुम्भितो वायुर्बहिर्नो याति साधके || १२० || पुनःपुनस्तद्वदेव पश्चिमद्वारलक्षणम् | पूरितस्तु स तद्द्वारैरीषत्कुम्भकतां गतः || १२१ || प्रविशेत् सर्वगात्रेषु वायुः पश्चिममार्गतः | रेचितः क्षीणतां याति पूरितः पोषयेत् ततः || १२२ || सुषुम्नया प्राणोदकं पिबेदित्यत्र दृष्टान्तमाह- यथेति || ११७ || वज्रदण्डो नाम सुषुम्नाश्रयो वीणादण्डः तत्र भवा एकविंशतिमणयश्चणकवन्मांसपिण्डाः सुषुम्नामार्गगतध्वान्तग्रासत्वात् दीपवत् प्रकाशरूपेण मूलाधारमारभ्य ब्रह्मरन्ध्रान्तं सुषुम्नावेणुपर्ववत् विद्यन्ते योगिप्रत्यक्षाः भवन्तीत्यर्थः || ११८ || तथाविधसुषुम्नाया मोक्षमार्गत्वं कालभोक्तृत्वं चाह- मोक्षेति |
SK
प्. ४१४) विश्वरूपिणी विश्वाधारब्रह्माश्रयत्वात् || ११९ || निमिषादिकल्पान्तकालः यत्र विलीयते सेयं सुषुम्ना कालभोक्त्रीत्यर्थः | साधके योगिनि या सुषुम्ना वर्तते तया आपूर्य कुम्भितो वायुः उच्छ्वासनिश्वासरूपेण निमेषादिकल्पान्तकालकलनानिर्वाहकः प्राणवायुः सहसा बहिः नो याति | अतः कालभोक्तृत्वं सुषुम्नायाः सिद्धमित्यर्थः || १२० | यदि प्रमादतः सुषुम्नाया बहिः निर्गच्छति तदा पुनः पुनः तद्वत् पूर्ववदेव | सुषुम्नया प्राणमापूर्य कुम्भयेदिति यत्तत् पश्चिमद्वारलक्षणं भवति | सोऽयं प्राणः तद्द्वारैः तद्द्वारेण पूरितः सन्नादावीषत्कुम्भकतां भजति || १२१ || ततः प्राणवायुः पश्चिममार्गतः सर्वगात्रेषु प्रविशेत् | यदि कालकर्मसंयोगतः सुषुम्नया रेचितो वायुः क्षीणतां याति ततः तदा पूरितः शरीरं पोषयेत् पुष्टिं कुर्यादित्यर्थः || १२२ || सुषुम्नायोगेन ब्रह्मज्ञानसिद्धिः यत्रैव जातं सकलेबरं मन- स्तत्रैव लीनं कुरुते स योगात् | स एव मुक्तो निरहंकृतिः सुखी मूढा न जानन्ति हि पिण्डपातिनः || १२३ || चित्तं विनष्टं यदि भासितं स्यात् तत्र प्रतीतो मरुतोऽपि नाशः | न चेद्यदि स्यान्न तु तस्य शास्त्रं नात्मप्रतीतिर्न गुरुर्न मोक्षः || १२४ || जम्बुको रुधिरं यद्वद् बलादाकृष्यति स्वयम् | ब्रह्मनाडी तथा धातून् संतताभ्यासयोगतः || १२५ || प्. ४१५) अनेनाभ्यासयोगेन नित्यमासनबन्धतः | चित्तं विलीनतामेति बिन्दुर्नो यात्यधस्तथा || १२६ ||
SK
स्वातिरिक्तमनस्तत्कार्यजातारोपापवादाधिष्ठानात्मज्ञानं यस्यास्ति स एव मुक्त इत्याह- यत्रेति | स्वातिरिक्तभ्रमतो मुक्तः | एवम् अधिष्ठानयाथात्म्यज्ञानं ये न जानन्ति ते मूढाः तेषामावृतित्रयावृतदृष्टित्वात् मूढत्वं सिद्धमित्यर्थः || १२३ || यस्य एवमधिष्ठानज्ञानं नोदेति तद्दृष्ट्या श्रुत्याचार्यतत्प्रभवज्ञानतत्फलमोक्षादिकं नास्तीत्याह - चित्तमिति | तज्जन्म व्यर्थमित्यर्थः || १२४ || यतः अयम् अधिष्ठानज्ञानाभावोऽनर्थहेतुः अतः तत्प्रबोधार्थम् उत्तरो ग्रन्थ आरभ्यते | ब्रह्मातिरिक्तधातुषु सत्सु ब्रह्मज्ञानं कथं भवतीत्यत्र जम्बूको रुधिरमिव धातून् सुषुम्ना ग्रसति ततो ब्रह्मज्ञानं जायते इत्याह- जम्बुक इति | ब्रह्मनाडी तथा धातून् बहिःपदार्थतत्प्रबोधान् ग्रसत्येव | ततो ब्रह्मज्ञानमुदेति तत्समकालं स्वातिरिक्तभ्रममुक्तिश्च भवति | एवं सिद्धावुपायस्तु- संततेति | योगतः उक्तार्थसिद्धिः स्यादित्यर्थः || १२५ || अभ्यासतः किं स्यादित्यत्र अनेनेति || १२६ || योगाभ्यासेन स्वरूपावस्थितिसिद्धिक्रमः रेचकं पूरकं मुक्त्वा वायुना स्थीयते स्थिरम् | नानानादाः प्रवर्तन्ते संस्रवेच्चन्द्रमण्डलम् || १२७ || नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषास्ततस्तदा | स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् || १२८ || कथितं तु तव प्रीत्या ह्येतदभ्यासलक्षणम् | ततः किं स्यादित्यत्र रेचकमिति | यदा वायुः स्थिरो भवति तदा नानानादाः || १२७ || एवम् अमृतास्वादनतः, ब्रह्मातिरिक्तं न किंचिदस्ति इति प्रबोधाच्च नश्यन्ति इत्यादि || १२८ || प्. ४१६) मन्त्रादियोगचतुष्टयात्मको महायोगः मन्त्रो लयो हठो राजयोगान्ता भूमिकाः क्रमात् || १२९ || एक एव चतुर्धायं महायोगोऽभिधीयते | पुनस्ते महायोगं कथयामित्याह- मन्त्र इति || १२९ || मन्त्रयोगः हकारेण बहिर्याति सकारेण विशेत् पुनः || १३० || हंसहंसेति मन्त्रोऽयं सर्वैर्जीवैश्च जप्यते | गुरुवाक्यात् सुषुम्नायां विपरीतो भवेज्जपः || १३१ || सोऽहं सोऽहमिति यः स्यान्मन्त्रयोगः स उच्यते |
SK
आदौ मन्त्रयोगलक्षणमाह- हकारेणेति || १३० || मन्त्रोऽयं सदावशादुच्छ्वासनिश्वासरूपेण सर्वैः जप्यते | अयोगिनामेव भवतीत्यर्थः | योगिनां तु गुरुवाक्यात् इति || १३१ || हठयोगः प्रतीतिमन्त्रयोगाच्च जायते पश्चिमे पथि || १३२ || हकारेण तु सूर्यः स्यात् सकारेणेन्दुरुच्यते | सूर्याचन्द्रमसोरैक्यं हठ इत्यभिधीयते || १३३ || सूत्रवाक्यपठितलययोगं पश्चाद्विवक्षन् हठयोगलक्षणमाह- प्रतीतीति || १३२ || चन्द्रसूर्यैक्यं जायते इत्याह- हकारेणेति || १३३ || प्. ४१७) लययोगः हठेन गृह्यते जाड्यं सर्वदोषसमुद्भवम् | क्षेत्रज्ञः परमात्मा च तयोरैक्यं यदा भवेत् || १३४ || तदैक्ये साधिते ब्रह्मंश्चित्तं याति विलीनताम् | पवनः स्थैर्यमायाति लययोगोदये सति || १३५ || लयात् संप्राप्यते सौख्यं स्वात्मानन्दं परं पदम् | लययोगलक्षणमाह- हठेनेति || १३४-१३५ || राजयोगः योनिमध्ये महाक्षेत्रे जपाबन्धूकसंनिभम् || १३६ || रजो वसति जन्तूनां देवीतत्त्वं समावृतम् | रजसो रेतसो योगाद्राजयोग इति स्मृतः || १३७ || अणिमादिपदं प्राप्य राजते राजयोगतः | राजयोगलक्षणमाह- योनीति || १३६ || शशि[शिश्न ? śaktiśivayogāt rājayogaḥ || 137 || yogasāmānyasvarūpam, yogena muktiprāptiśca prāṇāpānasamāyogo jñeyaṃ yogacatuṣṭayam || 138 || saṃkṣepāt kathitaṃ brahman nānyathā śivabhāṣitam | krameṇa prāpyate prāpyamabhyāsādeva nānyathā || 139 || p. 418) ekenaiva śarīreṇa yogābhyāsācchanaiḥ śanaiḥ | cirāt saṃprāpyate muktirmarkaṭakrama eva saḥ || 140 || mantrādiyogacatuṣṭayasyāpi ekārthaparyavasāyitvamāha- prāṇeti | yogacatuṣṭaye'pi prāṇāpānayogaḥ samāna ityarthaḥ || 138 || evaṃ saṃkṣepāt svoktayogaphalamāha- krameṇeti | nirviśeṣabrahmajñānasamakālaprāpyakaivalyavadyogaphalasya na hyacirāt prāptiriṣyate ityarthaḥ || 139-140 || asiddhayogasya mṛtasya uttarajanmani siddhiprakāraḥ
SK
योगसिद्धिं विना देहः प्रमादाद्यदि नश्यति | पूर्ववासनया युक्तः शरीरं चान्यदाप्नुयात् || १४१ || ततः पुण्यवशात् सिद्धो गुरुणा सह संगतः | पश्चिमद्वारमार्गेण जायते त्वरितं फलम् || १४२ || पूर्वजन्मकृताभ्यासात् सत्वरं फलमश्नुते | योगाभ्यासिनो योगफलाप्तेः पुरा यदि देहो नश्यति तदा तत्कृतश्रमो निष्फलो भवतीत्यत आह- योगेति | तदायं योगी पूर्ववासनया || १४१-१४२ || अभ्यासयोगादेव मुक्तिः एतदेव हि विज्ञेयं तत् काकमतमुच्यते || १४३ || नास्ति काकमतादन्यदभ्यासाख्यमतः परम् | तेनैव प्राप्यते मुक्तिर्नान्यथा शिवभाषितम् || १४४ || प्. ४१९) तदेव स्तौति- एतदिति | वस्तुतः अस्याः स्थितिः केत्याक्षेपार्थेन किंशब्देन मायोच्यते | सा यस्य वशे वर्तते सोऽयं काको मायी महेश्वरः | मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम् इति श्रुतिसिद्धकाकस्य महेश्वरस्याभ्यासयोगाख्यमिदमेव मतम् || १४३ || अज्ञानिनामाभासज्ञानिनामपि तच्चित्तमालिन्यसंक्षालनद्वारा निर्विशेषब्रह्मज्ञानहेतुत्वात् कलौ तेनैव प्रायशो मुक्तिः प्राप्यते नान्यथेत्यर्थः || १४४ || योगिनः सर्वैश्वर्यजीवन्मुक्त्यादिसिद्धिलाभः हठयोगक्रमात् काष्ठा सह जीवलयादिकम् | नाकृतं मोक्षमार्गं स्यात् प्रसिद्धं पश्चिमं विना || १४५ || आदौ रोगाः प्रणश्यन्ति पश्चाज्जाड्यं शरीरजम् | ततः समरसो भूत्वा चन्द्रो वर्षत्यनारतम् || १४६ || धातूंश्च संग्रहेद्वह्निः पवनेन समं ततः | नानानादाः प्रवर्तन्ते मार्दवं स्यात् कलेबरम् || १४७ || जित्वा वृष्ट्यादिकं जाड्यं खेचरः स भवेन्नरः | सर्वज्ञोऽसौ भवेत् कामरूपः पवनवेगवान् || १४८ || क्रीडते त्रिषु लोकेषु जायन्ते सिद्धयोऽखिलाः | कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते || १४९ || अहंकारक्षये तद्वद्देहे कठिनता कुतः | सर्वकर्ता च योगीन्द्रः स्वतन्त्रोऽनन्तरूपवान् || १५० || जीवन्मुक्तो महायोगी जायते नात्र संशयः |
SK
प्. ४२०) हठयोगं स्तौति- हठेति | अकृतमकृत्रिमं तयोर्ध्वमायन्नमृतत्त्वमेति सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी इत्यादिश्रुतिप्रसिद्धं यत्रार्थजातं तत्तज्ज्ञानेन सह जीवतो योगिनो लयादिकमश्नुते तदिदं हठयोगक्रमादनुष्ठानात् सिद्धं पश्चिमं मोक्षमार्गं महापथं विना योगिनां कापि काष्ठा न विद्यते इत्यर्थः || १४५ || इत्थंभूतयोगप्रशंसापूर्वकं नानाविधसिद्धिभूषणं योगिनं जीवन्मुक्तत्वेन ईश्वरत्वेन च स्तौति- आदाविति | आदौ अभ्यासदशायामेव सर्वं रोगाः | शरीरजम् आलस्यादि | प्राणाग्निसूर्यचन्द्रशक्तिशिवयोगतश्चन्द्रोऽनारतमन-वरतम् अमृतधारां वर्षति || १४६ || ततो मूलाधारगतोऽग्निः पवनेन समं स्थित्वा धातूंश्च संग्रहेत् बलवृद्धिं वीर्यस्तम्भनं च कुर्यादित्यर्थः | मार्दवं बालवत् कोमलं भवतीत्यर्थः || १४७ || जित्वा अभ्रं भूत्वा मेघो भवति इत्यादिजडतां विहाय तेजसा खेचरः स भवेन्नरः | एवमभ्यासयोगी सोऽयं सूर्यो भवतीत्यर्थः | किंच- सर्वज्ञः || १४८ || स्वेच्छामात्रेण जायन्ते | कथं पुनरस्य कलेबरं काठिन्यं विहाय मार्दवं भजतीत्यत्र सदृष्टान्तमुत्तरमाह- कर्पूर इति | दीपकणिकायोगतः कर्पूरे || १४९ || योगाग्निना अहंकारक्षये | मार्दवदेहः आकाशदेहो वा भवेदयमित्यर्थः | किंच- सर्वकर्ता || १५० || कृत्रिमाकृत्रिमसिद्धीनां गोपनविधिः द्विविधाः सिद्धयो लोके कल्पिताकल्पितास्तथा || १५१ || रसौषधिक्रियाजालमन्त्राभ्यासादिसाधनात् | सिध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः || १५२ || अनित्या अल्पवीर्यास्ताः सिद्धयः साधनोद्भवाः | साधनेन विनाप्येवं जायन्ते स्वत एव हि || १५३ || स्वात्मयोगैकनिष्ठेषु स्वातन्त्र्यादीश्वरप्रियाः | प्रभूताः सिद्धयो यास्ताः कल्पनारहिताः स्मृताः || १५४ || प्. ४२१) सिद्धा नित्या महावीर्या इच्छारूपाः स्वयोगजाः | चिरकालात् प्रजायन्ते वासनारहितेषु च || १५५ ||
SK
तास्तु गोप्या महायोगात् परमात्मपदेऽव्यये | विना कार्यं सदा गुप्तं योगसिद्धस्य लक्षणम् || १५६ || योगजाः सिद्धयः कतिविधाः इत्यत्र कृत्रिमाकृत्रिमभेदेन द्विविधा इत्याह- द्विविधा इति || १५१-१५२ || अकल्पितास्तु साधनेन || १५३-१५४ || स्वेनैव सिद्धाः || १५५ || तासां गोपनीयतामाह- तास्त्विति | महायोगात् परमात्मपदे स्थितेन योगिना कार्यं विना ताः सिद्धयो गोपनीयाः | सदा सिद्धिजालं गुप्तं गोप्यं भवितव्यमिति यत् तद्योगसिद्धस्य लक्षणं सहजमित्यर्थः || १५६ || योगसिद्धजीवन्मुक्तयोः सूचकम् यथाकाशं समुद्दिश्य गच्छद्भिः पथिकैः पथि | नानातीर्थानि दृश्यन्ते नानामार्गास्तु सिद्धयः || १५७ || स्वयमेव प्रजायन्ते लाभालाभविवर्जिते | योगमार्गे तथैवेदं सिद्धिजालं प्रवर्तते || १५८ || परीक्षकैः स्वर्णकारैर्हेम संप्रोच्यते यथा | सिद्धिर्भिलक्षयेत् सिद्धं जीवन्मुक्तं तथैव च || १५९ || अलौकिकगुणस्तस्य कदाचिद् दृश्यते ध्रुवम् | सिद्धिभिः परिहीनं तु नरं बद्धं तु लक्षयेत् || १६० || प्. ४२२) सिद्धयो योगिनामेव स्युः इति संकल्पिता भवेयुरित्यत आह- यथेति | कार्यं समुद्दिश्य | तथा यदृच्छया योगिनो नानामार्गाः सिद्धयो दृश्यन्ते || १५७ || योगिनि स्वयमेव | यथा आकाशमार्गे तीर्थानि दृश्यन्ते योगमार्गे || १५८ || स्वर्णं स्वर्णपरीक्षकवत् सिद्धं सिद्धिभिः परीक्ष्य तन्निकटे सिद्धयो यदि स्युः तदा तं सिद्धं मुक्तं विद्यात् | यदि ताः न स्युः तदा तं बद्धं विद्यादित्याह- परीक्षकैरिति | यद्ययं ज्ञानी तदा तं जीवन्मुक्तम् || १५९ || तस्मिन् यद्यस्ति तदा चिरपरिचयात् अलौकिकेति | तस्य तस्मिन् || १६० || देहे सत्यपि ज्ञानिनो विदेहमुक्तिलाभः अजरामरपिण्डो यो जीवन्मुक्तः स एव हि | पशुकुक्कुटकीटाद्या मृतिं संप्राप्नुवन्ति वै || १६१ || तेषां किं पिण्डपातेन मुक्तिर्भवति पद्मज | न बहिःप्राण आयाति पिण्डस्य पतनं कुतः || १६२ ||
SK
पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते | देहे ब्रह्मत्वमायाते जलानां सैन्धवं यथा || १६३ || अनन्यतां यदा याति तदा मुक्तः स उच्यते | विमतानि शरीराणि इन्द्रियाणि तथैव च || १६४ || ब्रह्म देहत्वमापन्नं वारि बुद्बुदतामिव | यद्ययं योगसहितज्ञानी तदा अजरेति | अजरामरपिण्डत्वं ज्ञानयोगिनः कथम् ? पिण्डस्याजरामरत्वे अस्य पिण्डपातलक्षणविदेहमुक्तिस्वप्नोऽपि दुर्लभः इत्यत आह- पश्चिति || १६१ || न बहिःप्राण आयाति योगी || १६२ || पिण्डपातेनोत्था मुक्तिः हन्यते नेति काक्वर्थः | किंतु हन्यत एवेत्यर्थः | प्. ४२३) विदेहमुक्तिः कथमित्यत्र देह इति | जलानां कार्यं सैन्धवम् || १६३ || परदृष्टिसमर्पितदेहाभासादावात्मात्मीयाभिमतिवैरल्य- videhamukto bhavatītyarthaḥ | videhamukteḥ svātirekeṇa kiṃcidasti nāstīti vibhramāpahnavapūrvakatvāt svamātrātirekeṇa dehāsubhānaṃ śivajīvabhānaṃ jagadvibhānaṃ paramātmabhānam | nānāvibhānaṃ na hi bhāti yasmin sa rāmacandro'smi videhamuktaḥ || iti videhamuktimahāvākyaprabhokteḥ, ātyantikadehādyabhimānāsaṃbhavajñānyeva paradṛṣṭyā dehe satyapi videhamukto bhavatītyarthaḥ | anyathā idānīṃ me dehādiḥ ātmātmīyābhimānatayā satyavat bhāti tena jīvo baddhaḥ syām, idānīṃ dehādiḥ vyāvahārikaprātibhāsikadṛṣṭibhyāṃ mithyātvena dṛśyate jīvanmukto vā syām, ito vartamānadehapātānantaraṃ videhamukto bhaviṣyāmīti svātiriktakalanāvatāṃ videhamuktiḥ bhavitavyā syāt | na hi teṣāṃ svapne'pi sā bhaviturmarhati teṣāṃ svātiriktadehābhāsānuvartanādityatra tasmin kāle videhātidehesmaraṇavarjitaḥ | īṣanmātraṃ smṛtaścedyastadā sarvasamanvitaḥ || iti || aṇumātre'pi vaidharmye jāyamāne vipaścitaḥ | asaṃgatāpi nāstyeva kimutāvaraṇacyutiḥ ||
SK
इति श्रुतेः गौडपादाचार्योक्तेश्च | येषां स्वातिरेकेण देहादिकमस्तीति भ्रान्तिः तद्दृष्ट्या देहापायसिद्धेयं विदेहमुक्तिः स्यादेव | येषां पुनः स्वातिरिक्तदेहाद्युपलक्षितस्वाविद्यापदतत्कार्यजातमस्ति नास्तीति विभ्रमोक्तिरप्यपह्नवतां भजति तदपह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रज्ञानसमकालमेव ते परदृष्ट्या देहवन्त इव भाता अपि विदेहमुक्ता एव भवन्तीत्यत्र न विवाद इति सिद्धम् | तथा च स्मृतिः- प्. ४२४) स्वकल्पितशरीरादावात्मात्मीयाभिमानतः | जीवत्वमेत्य चिन्मात्रं बद्धवत् संसरत्यहो || यदि स्वज्ञानतो देहः प्रातिभासिकतामियात् | तदा जीवन्मुक्तवत् तच्चिन्मात्रं प्रतिभाति हि || स्वमात्रव्यतिरेकेण यदा देहादि न स्फुरेत् | तदा विदेहकैवल्यं चिन्मात्रं प्राप्तवत् भवेत् || स्वकल्पितशरीरादिः भात्वा भातु सदा स्वयम् | चिन्मात्रमेव चिन्मात्रमचिन्मात्रं भवेत् कथम् || इति || प्रकृते तु परदृष्ट्या विमतानि | सन्तु न सन्तु वा || १६४ || सर्वप्रकारेणापि ब्रह्म | यथा वार्यतिरिक्तं बुद्बुदादिकं नास्ति तथा ब्रह्मातिरेकेण देहादिकं नास्तीत्यर्थः || पिण्डाण्डस्य शिवालयत्ववर्णनम् दशद्वारपुरं देहं दशनाडीमहापथम् || १६५ || दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् | षडाधारापवरकं षडन्वयमहावनम् || १६६ || चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् | बिन्दुनादमहालिङ्गं शिवशक्तिनिकेतनम् || १६७ || देहं शिवालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् | उत्तमाधिकारिणां ब्रह्मयाथात्म्यं प्रकटयित्वा मध्यमाधिकारिणां पिण्डाण्डेयत्तां प्रकटयति- दशद्वारेति || १६५-१६६ || चतुराम्नायदीपकं चतुर्वेदप्रकाशकमित्यर्थः बिन्दुनादमहालिङ्गं विन्दुः मनः, नादो बुद्धिः, प्. ४२५) तद्वृत्तिसहस्रभावाभावप्रकाशकमहालिङ्गं प्रत्यक्चैतन्यं यत्र तत् तथोक्तम् | शिवशक्तिनिकेतनम्, जीवकुण्डल्याधारत्वात् देहस्येत्यर्थः || १६७ || देहं शिवालयं प्रोक्तम्, देहो देवालयः प्रोक्तः स जीवः केवलः शिवः | त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ||
SK
इति श्रुत्यन्तरात् || आधारषट्कपीठचतुष्टययोः विवरणम् गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् || १६८ || शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते | यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता || १६९ || यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते | यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते || १७० || यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः | तदेतत् कामरूपाख्यं पीठं कामफलप्रदम् || १७१ || स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले षडश्रके | नाभिदेशे स्थितं चक्रं दशारं मणिपूरकम् || १७२ || द्वादशारं महाचक्रं हृदये चाप्यनाहतम् | तदेतत् पूर्णगिर्याख्यं पीठं कमलसंभव || १७३ || कण्ठकूपे विशुद्ध्याख्यं यच्चक्रं षोडशाश्रकम् | पीठं जालंधरं नाम तिष्ठत्यत्र सुरेश्वर || १७४ || प्. ४२६) आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् | उड्याणाख्यं महापीठमुपरिष्टात् प्रतिष्ठितम् || १७५ || चतुरश्रं धरण्यादौ ब्रह्मा तत्राधिदेवता | अर्धचन्द्राकृतिजलं वुष्णुस्तस्याधिदेवता || १७६ || त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता | वायोर्बिम्बं तु षट्कोणमीश्वरोऽस्याधिदेवता || १७७ || आकाशमण्डलं वृत्तं देवतास्य सदाशिवः | नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः || १७८ || षडाधारापवरकमित्यंशं विवृणोति- गुदेति || १६८-१७० || चतुष्पीठसमाकीर्णमित्यंशं च विवृणोति- तदेतदिति || १७१- brahmāsmīti viduḥ, jyotirliṅgaṃ bhruvormadhye nityaṃ dhyāyet sadā yatiḥ iti śruteḥ | evaṃ piṇḍāṇḍayāthātmyaṃ pratyañcamātmānaṃ yo jānāti so'yaṃ muniḥ brahmāṇḍayāthātmyaṃ brahma jānāti vyaṣṭisamaṣṭiprapañcāpavādādhikaraṇapratyakparacitorekatvāt | kṛtakṛtyo bhavatītyarthaḥ || 178 || iti prathamo'dhyāyaḥ dvitīyo'dhyāyaḥ yogajñānādhikārī punaryogasya māhātmyaṃ śrotumicchāmi śaṃkara | yena vijñānamātreṇa khecarīsamatāṃ vrajet || 1 ||
SK
प्. ४२७) शृणु ब्रह्मन् प्रवक्ष्यामि गोपनीयं प्रयत्नतः | द्वादशाब्दं तु शुश्रूषां यः कुर्यादप्रमादतः || २ || तस्मै वक्ता यथातथ्यं दान्ताय ब्रह्मचारिणे | पाण्डित्यादर्थलोभाद्वा प्रमादाद्यः प्रयच्छति || ३ || तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् | मूलमन्त्रं विजानाति यो विद्वान् गुरुदर्शितम् || ४ || एवं ईश्वरमुखात् ज्ञानयोगं श्रुत्वाप्यतृप्त इव चतुराननः पुनर्योगज्ञानमाहात्म्यं पृच्छतीत्याह- पुनरिति | खेचरसूर्यवदतितेजस्वी भवेत् || १ || प्रश्नोत्तरं भगवानाह- शृण्विति || २ || मया वक्ष्यमाणविद्यां तस्मै || ३ || अनधिकारिविद्यादानदोषेण तत् सर्वं हीयते इत्यर्थः | यद्यधिकारी गुरुमुखतो यथावत् विजानाति स कृतकृत्यो भवतीत्याह- मूलेति || ४ || प्रणवाख्यमूलमन्त्रमहिमा शिवशक्तिमयं मन्त्रं मूलाधारात् समुत्थितम् | तस्य मन्त्रस्य वै ब्रह्मन् श्रोता वक्ता च दुर्लभः || ५ || एतत् पीठमिति प्रोक्तं नादलिङ्गं मदात्मकम् | तस्य विज्ञानमात्रेण जीवन्मुक्तो भवेज्जनः || ६ || अणिमादिकमैश्वर्यमचिरादेव जायते | तन्मन्त्रं स्तौति- शिवेति | स मन्त्रः प्रणवो नादो वा भवितुमर्हति | तदियत्तां बुद्ध्वा वक्ता श्रोता परमेश्वरोऽहमेव | न हि मद्व्यतिरिक्तः कोऽपि प्. ४२८) तदियत्ताज्ञो वक्ता श्रोता अस्ति || ५ || तन्मन्त्रस्वरूपमाचष्टे- sarvādhikaraṇatvāt pīṭhatvam | yadbhajatāṃ svātiriktaliṅgajñānaṃ na dadāti tannādaliṅgam | tat kiṃ tvatto'nyadityatra ahamevātmā svarūpaṃ yasya tat madātmakameva abhidhānābhidheyayorekatvāt | tajjñānaphalamāha- tasyeti || 6 || mūlamantratvanirvacanam mananāt prāṇanāccaiva madrūpasyāvabodhanāt || 7 || mantramityucyate brahman madadhiṣṭhānato'pi vā | mūlatvāt sarvamantrāṇāṃ mūlādhārāt samudbhavāt || 8 || mūlasvarūpaliṅgatvānmūlamantra iti smṛtaḥ |
SK
तस्य मूलमन्त्रत्वं कुत इत्यत आह- मननादिति || ७ || मन्त्रमिति विभक्तिव्यत्ययः | तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णानि एवमेव्ॐकारेण सर्वा वाक् सन्तृण्णा ॐकार एवेदं सर्वम् इति श्रुत्यनुरोधेन मूलत्वात् || ८ || नादलिङ्गत्वनिर्वचनम् सूक्ष्मत्वात् कारणत्वाच्च लयनाद्गमनादपि || ९ || लक्षणात् परमेशस्य लिङ्गमित्यभिधीयते | पुनस्तस्य लिङ्गत्वं सूत्रत्वं चाह- सूक्ष्मत्वादिति || ९-१० || सूत्रत्वनिर्वचनम् संनिधानात् समस्तेषु जन्तुष्वपि च संततम् || १० || सूचकत्वाच्च रूपस्य सूत्रमित्यभिधीयते | प्. ४२९) प्रणवस्य बिन्दुपीठत्वम् महामाया महालक्ष्मीर्महादेवी सरस्वती || ११ || आधारशक्तिरव्यक्ता यया विश्वं प्रवर्तते | सूक्ष्माभा बिन्दुरूपेण पीठरूपेण वर्तते || १२ || प्रणवस्यैव मूलमन्त्रत्वेन लिङ्गत्वेन सूत्रत्वेन च प्रकृतत्वात् प्रकृतित्वम् प्रणवत्वात् प्रकृतित्वं वदन्ति ब्रह्मवादिनः इति श्रुतेः | सेयं प्रकृतिः कीदृशीत्यत आह- महामायेति || ११ || यया प्रणवप्रकृत्या अभिधानाभिध्येयात्मकं विश्वं प्रवर्तते, या च दुर्गालक्ष्मीसरस्वतीत्वेन व्यवह्रियते सेयमाधारशक्तिरव्यक्तरूपा भवति | केन रूपेण व्यक्ताव्यक्तत्वमित्यत्र बिन्दुः मनस्तद्रूपेण सूक्ष्माभा | कामरूपादिचुतुष्पीठरूपेण स्थूलत्वम् || १२ || निर्विशेषप्रणवब्रह्मावगत्युपायः बिन्दुपीठं विनिर्भिद्य नादलिङ्गमुपस्थितम् | प्राणेनोच्चार्यते ब्रह्मन् षण्मुखीकरणेन च || १३ || गुरूपदेशमार्गेण सहसैव प्रकाशते |
SK
एवं स्थूलसूक्षाकारेण या वर्तते तद्गतहेयांशापायसिद्धं ब्रह्म गुरूपदेशतो निर्विशेषं प्रकाशते इत्याह- बिन्द्विति | हे ब्रह्मन् या प्राणापानव्यापारतः सोऽहमोमित्युच्चार्यते तद्गतहेयांशं बिन्दुपीठं व्यक्ताव्यक्तात्मकं गुरूपदेशमार्गेण षण्मुखीकरणेन, चशब्दतो निर्विशेषब्रह्मज्ञानासिना च, तिलशो विनिर्भिद्य वर्तमानस्य योगिनः यदुपस्थितं नादलिङ्गं स्वातिरिक्तबिन्दुपीठोपलक्षितजाग्रज्जाग्र- svājñādidṛṣṭimohe satyasati kālatraye'pi yanna dadāti turyaturīyaṃ brahma niṣpratiyogikasvamātratayā sahasaiva prakāśate ityarthaḥ || 13 || p. 430) sthūlasūkṣmabījarūpaiḥ trividhaṃ brahma sthūlaṃ sūkṣmaṃ paraṃ ceti trividhaṃ brahmaṇo vapuḥ || 14 || pañcabrahmamayaṃ rūpaṃ sthūlaṃ vairājamucyate | hiraṇyagarbhasūkṣmaṃ tu nādaṃ bījatrayātmakam || 15 || yatturyaturyarūpeṇa avaśiṣṭaṃ tadeva svājñādidṛṣṭitāratamyānurodhena sthūlasūkṣmapararūpeṇa tridhā vibhātītyāha- sthūlamiti || 14 || tatra sthūlaṃ tu pañceti | aparaṃ tu hiraṇyeti | tuśabdāt bījacaitanyamapi gṛhyate | tattu ākārādibījatrayātmakam || 15 || śuddhatattvasya ātmamantrābhyāsaikavedyatvam paraṃ brahma paraṃ satyaṃ saccidānandalakṣaṇam | aprameyamanirdeśyamavāṅmanasagocaram || 16 || śuddhaṃ sukṣmaṃ nirākāraṃ nirvikāraṃ nirañjanam | anantamaparicchedyamanūpamamanāmayam || 17 || ātmamantrasadābhyāsāt paratattvaṃ prakāśate | sarvasmāt paraṃ tu ātmamantrābhyāsena prakāśate na svenetyāha- आत्ममन्त्रशब्देन प्रणवमहावाक्यजातमुंच्यते | सुप्तेरुत्थाय सुप्त्यन्तं ब्रह्मैकं प्रविचिन्त्यताम् इति श्रुत्यनुरोधेन श्रवणमनननिदिध्यासनानुसंधानं अभ्यासः || परतत्त्वाभिव्यक्तिचिह्नानि तदभिव्यक्तिचिह्नानि सिद्धिद्वाराणि मे शृणु || १८ || प्. ४३१) दीपज्वालेन्दुखद्योतविद्युन्नक्षत्रभास्वराः | दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्य योगिनः || १९ || अणिमादिकमैश्वर्यमचिरात् तस्य जायते |
SK
एवं परतत्त्वसाक्षात्काराभिव्यक्तिचिह्नानि कानीत्यत आह- तदिति || १८-१९ || यदीच्छा जायते तदा अणिमादिकम् | नादानुसंधानमहिमा नास्ति नादात् परो मन्त्रो न देवः स्वात्मनः परः || २० || नानुसंधेः परा पूजा न हि तृप्तेः परं सुखम् | गोपनीयं प्रयत्नेन सर्वदा सिद्धिमिच्छता || २१ || नादात्मानुसंधानतृप्तितुल्यं नास्तीत्याह- नास्तीति || २० || एवंविशेषणविशिष्टस्वात्ममन्त्रस्यातिरहस्यार्थत्वेन गोपनीयतामाह- गोपनीयमिति || गुरुभगवद्भक्तेरेव परतत्त्वज्ञानसंभवः मद्भक्त एतद्विज्ञाय कृतकृत्यः सुखी भवेत् | यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ | तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः || २२ || इति || एतज्ज्ञानफलमाह- मद्भक्त इति || २१ || श्रुत्याचार्यभक्तस्यैव उक्तार्थः प्रकाशते इत्याह- यस्येति || २२ || इति द्वितीयोऽध्यायः तृतीयोऽध्यायः नादब्रह्मणः परापश्यन्त्यादिरूपचतुष्टयम् यन्नमस्यचिदाख्यातं यत् सिद्धीनां च कारणम् | येन विज्ञानमात्रेण जन्मबन्धात् प्रमुच्यते || १ || अक्षरं परमो नादः शब्दब्रह्मेति कथ्यते | मूलाधारगता शक्तिः स्वाधारा बिन्दुरूपिणी || २ || तस्यामुत्पद्यते नादः सूक्ष्मबीजादिवाङ्कुरः | तां पश्यन्तीं विदुर्विश्वं यया पश्यन्ति योगिनः || ३ || हृदये व्यज्यते घोषो गर्जत्पर्जन्यसंनिभः | तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते || ४ || प्राणएन च त्वराख्येन प्रथिता वैखरी पुनः | नास्ति नादात् परो मन्त्रः इति यदुक्तं तद्वैखरीप्रपञ्चप्रपञ्चनाय तृतीयाध्याय आरभ्यते- यन्नमस्येति | नमस्त्वैक्यं प्रवदेत् इति श्रुत्यनुरोधेन यन्नमस्य यदैक्यमनुभूय योगिभिः स्वशिष्येभ्यः चिदतिरिक्तं न किंचिदस्ति इत्याख्यातमित्यत्र चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च | चित्त्वं चिदहमेते च लोकाश्चिदिति भावयेत् || इत्यादि श्रुतेः | यत् सर्वसिद्धिनिदानं पर्यवसानं चिन्मात्रसिद्धिसमकालं सिद्धिजालस्यासिद्धिपदं गतत्वात् यद्विज्ञानमात्रतः स्वातिरिक्तभ्रमात् अज्ञोऽपि
SK
प्. ४३३) मुच्यते स्वाज्ञानविजृम्भितस्वातिरिक्तविभ्रमस्य स्वज्ञानतः प्रलयप्रमाणतः स्वयमेव अवशिष्यते इत्यत्र स्मृतिः स्वाज्ञानोत्थे स्वातिरिक्ते स्वज्ञानात् प्रलयं गते | प्रतियोगिविनिर्मुक्तं स्वमात्रमवशिष्यते || इति || १ || यज्ज्ञानात् मुच्यते इत्युक्तं तत् स्वाज्ञादिदृष्टिमाश्रित्य परापररूपेण द्विधा भिद्यते इत्याह- अक्षरमिति | अत्र स्वज्ञदृष्ट्या अनुभूतं तु अक्षरं परमः परमाक्षरमित्यर्थः | स्वाज्ञदृष्ट्यनुभूतं तु नादः नादरूपं शब्दब्रह्म परमाक्षरावगत्युपायभूतम्, शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति इति श्रुतेः | तदेतदपरं ब्रह्म क्व आविर्भवतीत्यत आह- मूलेति | मूलाधारगता परेति चित्सामान्यात्मिका बिन्द्वाख्याव्यक्तरूपिणी नादाधारा काचन शक्तिरस्ति || २ || तस्यामेव सूक्ष्मबीजाङ्कुरवन्नाद उत्पद्यते इत्यत्र परायामङ्कुरीभूय पश्यन्त्यां द्विदलीकृता | मध्यमायां मुकुलिता वैखर्यां विकसीकृता || इति श्रुतेः | या परात्वेनाभिमता तामेव पश्यन्तीं मध्यमां वैखरीं च विदुरित्याह- तामिति || ३ || मूलाधारस्थपरायां योऽङ्कुरतां गतः सोऽयं नादः अनाहताख्यपश्यन्त्यां हृदये || ४ || सैव प्राणेन || ५- vikharīsvarūpavivaraṇam śākhāpallavarūpeṇa tālvādisthānaghaṭṭanāt || 5 || akārādikṣakārāntānyakṣarāṇi samīrayet | akṣarebhyaḥ padāni syuḥ padebhyo vākyasaṃbhavaḥ || 6 || sarve vākyātmakā mantrā vedaśāstrāṇi kṛtsnaśaḥ | purāṇāni ca kāvyāni bhāṣāśca vividhā api || 7 || p. 434) saptasvarāśca gāthāśca sarve nādasamudbhavāḥ | eṣā sarasvatī devī sarvabhūtaguhāśrayā || 8 || vāyunā vahniyuktena preryamāṇā śanaiḥ śanaiḥ | dvitrivarṇapadairvākyairityevaṃ vartate sadā || 9 || vaikharīsākṣātkārāt vāksiddhiḥ ya imāṃ vaikharīṃ śaktiṃ yogī svātmani paśyati | sa vāksiddhimavāpnoti sarasvatyāḥ prasādataḥ || 10 || vedaśāstrapurāṇānāṃ svayaṃ kartā bhaviṣyati |
SK
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः | गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति || इति श्रुतिसिद्धवैखरीज्ञानफलमाह- य इति || १० || परमाक्षरस्वरूपम् यत्र बिन्दुश्च नादश्च सोमसूर्याग्निवायवः || ११ || इन्द्रियाणि च सर्वाणि लयं गच्छन्ति सुव्रत | वायो यत्र विलीयन्ते मनो यत्र विलीयते || १२ || प्. ४३५) यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः | यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते || १३ || यत्रोपरमते चित्तं निरुद्धं योगसेवया | यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति || १४ || सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् | एतत् क्षराक्षरातीतमनक्षरमितीर्यते || १५ || क्षरः सर्वाणि भूतानि सूत्रात्माक्षर उच्यते | अक्षरं परमं ब्रह्म निर्विशेषं निरञ्जनम् || १६ || अलक्षणमलक्ष्यं तदप्रतर्क्यमनूपमम् | अपारपारमच्छेद्यमचिन्त्यमतिनिर्मलम् || १७ || आधारं सर्वभूतानामनाधारमनामयम् | अप्रमाणमनिर्देश्यमप्रमेयमतीन्द्रियम् || १८ || अस्थूलमनणुह्रस्वमदीर्घमजमव्ययम् | अशब्दस्पर्शरूपं तदचक्षुःश्रोत्रनामकम् || १९ || सर्वज्ञं सर्वगं शान्तं सर्वेषां हृदये स्थितम् | सुसंवेद्यं गुरुमतात् सुदुर्बोधमचेतसाम् || २० || निष्कलं निर्गुणं शान्तं निर्विकारं निराश्रयम् | निर्लेपकं निरापायं कूटस्थमचलं ध्रुवम् || २१ || परमाक्षरं किमित्याकाङ्क्षायां यत् सर्वापवादाधिष्ठानं स्वाधिष्ठेयनिरूपिताधिष्ठानतापायसिद्धं तदेतदित्याह- यत्रेति || ११ || वायो वायवः || १२-१४ || अनक्षरं परमाक्षरम् || १५-१९ || गुरुमतात् गुरूक्तार्थानुष्ठानात् || २०-२५ || प्. ४३६) शब्दब्रह्मभक्तिभावनाभ्यां परब्रह्माधिगमः ज्योतिषामपि तज्ज्योतिस्तमःपारे प्रतिष्ठितम् | भावाभावविनिर्मुक्तं भावनामात्रगोचरम् || २२ || भक्तिगम्यं परं तत्त्वमन्तर्लीनेन चेतसा | भावनामात्रमेवात्र कारणं पद्मसंभव || २३ ||
SK
यथा देहान्तरप्राप्तिकारणं भावना नृणाम् | विषयं ध्यायतः पुंसो विषये रमते मनः || २४ || मामनुस्मरतश्चित्तं मय्येवात्र विलीयते | सर्वज्ञत्वं परेशत्वं सर्वसंपूर्णशक्तिता || २५ || अनन्तशक्तिमत्त्वं च ममानुस्मरणाद्भवेत् | इति || निष्कामधिया शब्दब्रह्माभिधाननादोपासकानां शब्दब्रह्मप्रसादतः सर्वापवादाधिकरणं एतत् क्षराक्षरातीतमनक्षरम् इत्यादिना यत् निर्विशेषम् इत्यादि परं तत्त्वम् इत्यन्तविशेषणविशिष्टं निष्प्रतियोगिकब्रह्ममात्रं स्वयमेवेति प्रसीदति | यत एवम् अतः शब्दब्रह्मपरब्रह्मणोरुपायोपेयत्वं सिद्धमित्यर्थः | यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेबरम् | तं तमेवैति कौन्तेय सदा तद्भावभावितः || इति स्मृत्यनुरोधेन यथा देहान्तरप्राप्तिकारणं भावनैव तथा अस्मिन् लोके ये ये सविशेषेण निर्विशेषेण वा भावेन मां भजन्ति ते ते पुरुषाः सविशेषं निर्विशेषं वा ब्रह्म भवन्तीत्यत्र तं यथा यथोपासते तथैव भवति इति श्रुतेः | इतिशब्दः अध्यायपरिसमाप्त्यर्थः || इति तृतीयोऽध्यायः चतुर्थोऽध्यायः जीवत्वस्य असत्यत्वम् चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् | जीवत्वं च तथा ज्ञेयं रज्ज्वां सर्पग्रहो यथा || १ || रज्ज्वज्ञानात् क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी | भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला || २ ||
SK
स्वातिरिक्ताविद्यापदतत्कार्यजातं सर्वैरपि नानाविधभेदभिन्नं सत् सत्यत्वेन अनुभूयते | तत् कथं भावनाशतेनाप्यभावपदं भजतीत्याकाङ्क्षायां- परमार्थदृष्ट्यभातत्वात् स्वातिरिक्तं नास्त्येव | न हि शशशृङ्गवदवस्तुनि भावना प्रसरति | यत् परमार्थं वस्तु निष्प्रतियोगिकब्रह्ममात्रमवशिष्यते तदेव स्वाज्ञदृष्टेः स्वातिरिक्तवदवभासते | यदा पुनः स्वज्ञानेन स्वाज्ञानं नष्टं भवति तदा ब्रह्मातिरिक्तं परमार्थदृष्टेः ब्रह्ममात्रमवशिष्यते इत्येतदर्थप्रपञ्चनार्थं चतुर्थाध्याय आरम्भते- चैतन्यस्येति | घटशरावाद्यनुगतव्योमवत् चैतन्यस्य | जीवत्वं वास्तवम् इत्यत्र सदृष्टान्तमुत्तरमाह- जीवत्वमिति || १ || ब्रह्मातिरेकेण जगतो दृश्यमानत्वात् तत् सत्यमित्यत्र तत्सत्त्वस्य स्वाज्ञानावधिकत्वात् स्वज्ञानोदये तज्जगच्चिदेव भवतीति सदृष्टान्तमाह- रज्ज्वज्ञानादिति || २ || सर्वप्रपञ्चस्य ब्रह्मत्वम् उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते | तस्मात् सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् || ३ || व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् | इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः || ४ || प्. ४३८) ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः | तस्मादेतानि ब्रह्मैव भवन्तीति विचिन्तय || ५ || ब्रह्मैव सर्वनामानि रूपाणि विविधानि च | कर्माण्यपि समग्राणि बिभर्तीति विभावय || ६ || सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् | ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् || ७ || कार्यकारणव्याप्यव्यापककलनासत्त्वात् प्रपञ्चोऽस्तीति मन्यमानमालक्ष्याह- उपादानमिति | यस्मादेवं तस्मात् || ३-४ || नामरूपकर्मवत् भूतजातस्य ब्रह्मकार्यत्वहेतुना तद्ब्रह्मैवेति सदृष्टान्तमाह- ब्रह्मण इति | यस्मात् ब्रह्मणः || ५ || किंच- ब्रह्मैव || ६ || यथा सुवर्णात् || ७ || ब्रह्मातिरिक्तदर्शनात् अनर्थप्राप्तिः स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः | यस्तिष्ठति विमूढात्मा भयं तस्यापि भाषितम् || ८ ||
SK
यदज्ञानाद् भवेद् द्वैतमितरत् तत् प्रपश्यति | आत्मत्वेन तदा सर्वं नेतरत् तत्र चाण्वपि || ९ || ईषदपि ब्रह्मातिरिक्तमस्तीति पश्यतोऽनर्थमाह- स्वल्पमिति | यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति इति श्रुत्यन्तरेणापि भयं भाषितमित्यर्थः || ८ || स्वाज्ञानविजृम्भितं द्वैतं स्वाज्ञानेनाद्वैतं विभातीत्याह- यदिति || ९ || प्. ४३९) व्यावहारिकप्रपञ्चस्य मिथ्यात्वम् अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् | सद्रूपो यथा स्वप्न उत्तरक्षणबाधितः || १० || स्वप्ने जागरितं नास्ति जागरे स्वप्नता न हि | द्वयमेव लये नास्ति लयोऽपि ह्यनयोर्न च || ११ || त्रयमेव भवेन्मिथ्या गुणत्रयविनिर्मितम् | अस्य द्रष्टा गुणातीतो नित्यो ह्येष चिदात्मकः || १२ || यद्वन्मृदि घटभ्रान्तिः शुक्तौ हि रजतस्थितिः | तद्ब्रह्मणि जीवत्वं वीक्षमाणे विनश्यति || १३ || यदा मृदि घटो नाम कनके कुण्डलाभिधा | शुक्तौ हि रजतख्यातिर्जीवशब्दार्थता परे || १४ || यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले | पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि || १५ || यथैव शून्यो वेतालो गन्धर्वाणां पुरं यथा | यथाकाशे द्विचन्द्रत्वं तद्वत् सत्ये जगत्स्थितिः || १६ || यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् | घटनाम्ना यथा पृथ्वी पटनाम्ना तन्तवः || १७ || जगन्नाम्ना चिदाभाति सर्वं ब्रह्मैव केवलम् | प्. ४४०) स्वातिरिक्तस्य व्यावहारिकसत्यत्वं मन्यमानं प्रत्याह- अनुभूत इति || १० || जाग्रदाद्यवस्थानां मिथो व्यभिचारित्वं तत्कल्पनाधारस्य नित्यत्वं चाह- स्वप्न इति || ११-१२ || जीवत्वादिकं स्वातिरिक्तयाथात्म्यज्ञानावधिकमिति सदृष्टान्तमाह- यद्वदिति || १३-१७ || स्वातिरिक्तप्रपञ्चस्य अत्यन्तासंभवः यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् || १८ || यथा नास्ति नभोवृक्षस्तथा नास्ति जगत्स्थितिः | गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात् || १९ || वीक्ष्यमाणे प्रपञ्चे तु ब्रह्मैवाभाति भासुरम् |
SK
किं बहुना वातिरिक्तप्रपञ्चस्यात्यन्तासंभवमाह- यथेति || १८-१९ || अज्ञानकृतः आत्मनि देहाद्यारोपः सदैवात्मा विशुद्धोऽस्मि ह्यशुद्धो भाति वै सदा || २० || यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् | यथैव मृन्मयः कुम्भस्तद्वद्देहोऽपि चिन्मयः || २१ || आत्मानात्मविवेकोऽयं मुधैव क्रियते बुधैः | सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका || २२ || विनिर्णीता विमूढेन देहत्वेन तथात्मता | घटत्वेन यथा पृथ्वी जलत्वेन मरीचिका || २३ || प्. ४४१) गृहत्वेन हि काष्ठानि खड्गत्वेनैव लोहता | तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः || २४ || इति || यत एवमतः सदैवेति || २०-२१ || तथा सति आत्मेत्यादि | अनात्मनो दुर्लभत्वात् सर्पत्वेन || २२-२३ || वस्तुतस्तु सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकमेवेति फलितोऽर्थः || २४ || इतिशब्दः अध्यायपरिसमाप्त्यर्थः || इति चतुर्थोऽध्यायः पञ्चमोऽध्यायः देहस्य विष्ण्वालयत्वम् पुनर्योगं प्रवक्ष्यामि गुह्यं ब्रह्मस्वरूपकम् | समाहितमना भूत्वा शृणु ब्रह्मन् यथाक्रमम् || १ || दशद्वारपुरं देहं दशनाडीमहापथम् | दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् || २ || षडाधारापवरकं षडन्वयमहावनम् | चतुष्पीठसमाकीर्णं चतुराम्नायदीपकम् || ३ || बिन्दुनादमहालिङ्गविष्णुलक्ष्मीनिकेतनम् | देहं विष्ण्वालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् || ४ || उत्तमाधिकारिणामेवं निर्विशेषं ब्रह्म प्रतिपाद्य मध्यमाधिकारिणां पुरोक्तोऽपि योगो भूयोऽपि सप्रकारं वक्तव्य इति पञ्चमाध्याय आरभ्यते- पुनरिति || १-२ || योगाचार्यैः भुसुण्डप्रभृतिभिः मन्त्र- लय- हठ- राज- भावनासहजयोगसंप्रदायभेदेन प्. ४४२) षडन्वय एव महावनं यस्मिन् तत् तथोक्तम्, एकैकस्य अन्वयस्य समुद्रवदपारत्वात् || ३ || पुरा शिवशक्तिनिकेतनं शिवालयमित्युक्तं, पुनःविष्णुलक्ष्मीनिकेतनं विष्ण्वालयमित्युक्तिः शिवविष्ण्वोः भेदभ्रमनिरसनार्थेति मन्तव्या || ४-१५ || आधारषट्कपीठचतुष्टययोः विवरणम्
SK
गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् | शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते || ५ || यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता | यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते || ६ || यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते | यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः || ७ || तदेतत् कामरूपाख्यं पीठं कामफलप्रदम् | स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूलं षडश्रकम् || ८ || नाभिदेशे स्थितं चक्रं दशास्रं मणिपूरकम् | द्वादशारं महाचक्रं हृदये चाप्यनाहतम् || ९ || तदेतत् पूर्णगिर्याख्यं पीठं कमलसंभव | कण्ठकूपे विशुद्धाख्यं यच्चक्रं षोडशाश्रकम् || १० || पीठं जालंधरं नाम तिष्ठत्यत्र चतुर्मुख | आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् || ११ || प्. ४४३) उड्याणाख्यं महापीठमुपरिष्टात् प्रतिष्ठितम् | स्थानान्येतानि देहेऽस्मिञ्छक्तिरूपं प्रकाशते || १२ || चतुरश्रा धरण्यादौ ब्रह्मा तत्राधिदेवता | अर्धचन्द्राकृति जलं विष्णुस्तस्याधिदेवता || १३ || त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता | वायोर्बिम्बं तु षट्कोणं संकर्षोऽत्राधिदेवता || १४ || आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता | नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः || १५ || शांभवस्थानमेतत्ते वर्णितं पद्मसंभव | एतत् प्रथमाध्यायान्ते प्रायशः उक्तमित्याह- शांभवेति || नाडीचक्रस्वरूपम् अतः परं प्रवक्ष्यामि नाडीचक्रस्य निर्णयम् || १६ || मूलाधारत्रिकोणस्था सुषुम्ना द्वादशाङ्गुला | मूलार्धच्छिन्नवंशाभा ब्रह्मनाडीति सा स्मृता || १७ || इडा च पिङ्गला चैव तस्याः पार्श्वद्वये गते | विलम्बिन्यामनुस्यूते नाडिकान्तमुपागते || १८ || इडायां हेमरूपेण वायुर्वामेन गच्छति | पिङ्गलायां तु सूर्यात्मा याति दक्षिणपार्श्वतः || १९ || विलम्बिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता | तत्र नाड्यः समुत्पन्नास्तिर्यगूर्ध्वमधोमुखाः || २० ||
SK
प्. ४४४) तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थितम् | गान्धारी हस्तिजिह्वा च तस्मान्नेत्रद्वयं गते || २१ || पूषा चालम्बुसा चैव श्रोत्रद्वयमुपागते | शूरा नाम महानाडी तस्माद्भ्रूमध्यमाश्रिता || २२ || विश्वोदरी तु या नाडी सा भुङ्क्तेऽन्नं चतुर्विधम् | सरस्वती तु या नाडी सा जिह्वान्तं प्रसर्पते || २३ || राकाह्वया तु या नाडी पीत्वा च सलिलं क्षणात् | क्षुतमुत्पादयेद् घ्राणे श्लेष्माणं संचिनोति च || २४ || कण्ठकूपोद्भवा नाडी शङ्खिन्याख्या त्वधोमुखी | अन्नसारं समादाय मूर्ध्नि संचिनुते सदा || २५ || नाभेरधोगतास्तिस्रो नाडयः स्युरधोमुखाः | मलं त्यजेत् कुहूर्नाडी मूत्रं मुञ्चति वारुणी || २६ || चित्राख्या सीविनी नाडी शुक्लमोचनकारिणी | नाडीचक्रमिति प्रोक्तं बिन्दुरूपमतः शृणु || २७ || ततो नाडीचक्रस्वरूपमाह- अत इति || १६-२७ || बिन्द्वग्निसोमात्मकं ब्रह्मशरीरत्रयम् स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः | स्थूलं शुक्लात्मकं बिन्दुः सूक्ष्मं पञ्चाग्निरूपकम् || २८ || सोमात्मकः परः प्रोक्तः सदा साक्षी सदाच्युतः | प्. ४४५) कालाग्न्यादि पञ्चाग्निरूपकम् || २८ || पञ्चाग्निभावना, तत्फलं च पातालानामधोभागे कालाग्निर्यः प्रतिष्ठितः || २९ || स मूलाग्निः शरीरेऽग्निर्यस्मान्नादः प्रजायते | बडबाग्निः शरीरस्थो ह्यस्थिमध्ये प्रवर्तते || ३० || काष्ठपाषाणयोर्वह्निर्ह्यस्थिमध्ये प्रवर्तते | काष्ठपाषाणजो वह्निः पार्थिवो ग्रहणीगतः || ३१ || अन्तरिक्षगतो वह्निर्वैद्युतः स्वान्तरात्मकः | नभःस्थः सूर्यरूपोऽग्निर्नाभिमण्डलमाश्रितः || ३२ || विषं वर्षति सूर्योऽसौ स्रवत्यमृतमुन्मुखः | तालुमूले स्थितश्चन्द्रः सुधां वर्षत्यधोमुखः || ३३ || भ्रूमध्यनिलयो बिन्दुः शुद्धस्फटिकसंनिभः | महाविष्णोश्च देवस्य तत् सूक्ष्मं रूपमुच्यते || ३४ || एतत् पञ्चाग्निरूपं यो भावयन् बुद्धिमान् धिया | तेन भुक्तं च पीतं च हुतमेव न संशयः || ३५ ||
SK
क्रमात् पञ्चाग्निस्वरूपमाह- पातालानामिति | अतलादिपातालानां पातालान्तलोकानां पातालानाम् || २९ || कालाग्निरेव नादाधाराग्निर्भूत्वा शरीरे वर्तते || ३० || तथा काष्ठेति | ग्रहणीगतः- pañcāgnibhāvanāphalamāha- etaditi || 35 || p. 446) kuṇḍalinīprabodhanam sukhasaṃsevitaṃ svapnaṃ sujīrṇamitabhojanam | śarīraśuddhiṃ kṛtvādau sukhamāsanamāsthitaḥ || 36 || prāṇasya śodhayenmārgaṃ recapūrakakumbhakaiḥ | gudamākuñcya yatnena mūlaśaktiṃ prapūjayet || 37 || evamāhārataḥ śarīraśuddhim | svasya yena sukhadhāraṇā syāt tat sukhamāsanam || 36 || mūlaśaktiṃ prapūjayet kuṇḍalinīśaktiṃ prabodhayedityarthaḥ || 37-42 || khecarīmudrābhyāsaḥ tatphalaṃ ca nābhau liṅgasya madhye tu uḍyāṇākhyaṃ ca bandhayet | uḍḍīya yāti tenaiva śaktitoḍyāṇapīṭhakam || 38 || kaṇṭhaṃ saṃkocayet kiṃcidbandho jālaṃdharo hyayam | bandhayet khecarīmudrāṃ dṛḍhacittaḥ samāhitaḥ || 39 || kapālavivare jihvā praviṣṭā viparītagā | bhruvorantargatā dṛṣṭirmudrā bhavati khecarī || 40 || khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ | na pīyūṣaṃ patatyagnau na ca vāyuḥ pradhāvati || 41 || na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate | na ca mṛtyurbhavet tasya yo mudrāṃ vetti khecarīm || 42 || p. 447) sahasrāre nārāyaṇabhāvanātaḥ kaivalyasiddhiḥ tataḥ pūrvāpare vyomni dvādāśānte'cyutātmake | uḍyāṇapīṭhe nirdvandve nirālambe nirañjane || 43 || tataḥ paṅkajamadhyasthaṃ candramaṇḍalamadhyagam | nārāyaṇamanudhyāyet sravantamamṛtaṃ sadā || 44 || bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ | kṣīyante cāsya karmāṇi tasmin dṛṣṭe parābare || 45 || tato yogī sahasrārākāśe sravadamṛtaṃ nārāyaṇaṃ svātmatayā dhyāyan granthisaṃśayakarmāsaṃbhavakaivalyasiddhimetītyāha- tata iti | sahasrāre ājñāyāṃ vā || 43-45 || yathoktabhāvanāyuktasya tattatsiddhyupāyāḥ
SK
अथ सिद्धिं प्रवक्ष्यामि सुखोपायं सुरेश्वर | जितेन्द्रियाणां शान्तानां जितश्वासविचेतसाम् || ४६ || नादे मनोलयं ब्रह्मन् दूरश्रवणकारणम् | बिन्दौ मनोलयं कृत्वा दूरदर्शनमाप्नुयात् || ४७ || कालात्मनि मनो लीनं त्रिकालज्ञानकारणम् | परकायमनोयोगः परकायप्रवेशकृत् || ४८ || अमृतं चिन्तयेन्मूर्ध्नि क्षुत्तृषाविषशान्तये | पृथिव्यां धारयेच्चित्तं पातालगमनं भवेत् || ४९ || प्. ४४८) सलिले धारयेच्चित्तं नाम्भसा परिभूयते | अग्नौ संधारयेच्चित्तमग्निना दह्यते न सः || ५० || वायौ मनोलयं कुर्यादाकाशगमनं भवेत् | आकाशे धारयेच्चित्तमणिमादिकमाप्नुयात् || ५१ || विराड्रूपे मनो युञ्जन् महिमानमवाप्नुयात् | चतुर्मुखे मनो युञ्जन् जगत्सृष्टिकरो भवेत् || ५२ || इन्द्ररूपिणमात्मानं भावयन् मर्त्यभोगवान् | विष्णुरूपे महायोगी पालयेदखिलं जगत् || ५३ || रुद्ररूपे महायोगी संहरत्येव तेजसा | नारायणे मनो युञ्जन् नारायणमयो भवेत् | वासुदेवे मनो युञ्जन् सर्वसिद्धिमवाप्नुयात् || ५४ || यथा संकल्पयेद्योगी योगयुक्तो जितेन्द्रियः | तथा तत्तदवाप्नोति भाव एवात्र कारणम् || ५५ || एवं भावयतः ते नानाविधसिद्ध्युपायं वदामीत्याह- अथेति || ४६ || बिन्दौ चक्षुस्तारके || ४७-६१ || गुरुपूजाविधिः गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाच्युतः | न गुरोरधिकः कश्चित् त्रिषु लोकेषु विद्यते || ५६ || प्. ४४९) दिव्यज्ञानोपदेष्टारं देशिकं परमेश्वरम् | पूजयेत् परया भक्त्या तस्य ज्ञानफलं भवेत् || ५७ || यथा गुरुस्तथैवेशो यथैवेशस्तथा गुरुः | पूजनीयो महाभक्त्या न भेदो विद्यतेऽनयोः || ५८ || नाद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् | अद्वैतं भावयेद्भक्त्या गुरोर्देवस्य चात्मनः || ५९ || योगशिखामहिमा योगशिखां महागुह्यं यो जानाति महामतिः | न तस्य किंचिदज्ञातं त्रिषु लोकेषु विद्यते || ६० || न पुष्यपापे नास्वस्थो न दुःखं न पराजयः | न चास्ति पुनरावृत्तिरस्मिन् संसारमण्डले || ६१ || सिद्धिषु उपेक्षाविधिः
SK
सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः | तथापि ज्ञाततत्त्वोऽसौ मुक्त एव न संशयः || ६२ || इत्युपनिषत् || विज्ञातस्वात्मतत्त्वानां योगिनां सिद्धिगोपनागोपनतो न काचित् क्षतिः लाभो वा अस्तीत्यर्थः | इत्युपनिषच्छब्दः पञ्चमाध्यायसमाप्त्यर्थः || ६२ || इति पञ्चमोऽध्यायः षष्ठोऽध्यायः कुण्डलिनीशक्तेः उपासनाविधिः उपासनाप्रकारं मे ब्रूहि त्वं परमेश्वर | येन विज्ञानमात्रेण मुक्तो भवति संसृतेः || १ || उपासनाप्रकारं ते रहस्यं श्रुतिसारकम् | हिरण्यगर्भ वक्ष्यामि श्रुत्वा सम्यगुपासय || २ || सुषुम्नायै कुण्डलिन्यै सुधायै चन्द्रमण्डलात् | मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने || ३ || स्वाज्ञलोको येन मुच्यते तदुपायोपासनाप्रकारं ब्रूहीति महेश्वरं प्रति चतुर्मुखः पृच्छतीत्याह- उपासनेति || १ || प्रश्नोत्तरं भगवानाह- उपासनेति || २ || उपासनामन्त्रतत्प्रकारं तत्फलं चाह- सुषुम्नाया इति || ३ || सुषुम्नास्वरूपम् शतं चैका च हृदयस्य नाड्य- स्तासां मूर्धानमभिनिःसृतैका | तयोर्ध्वमायन्नमृतत्वमेति विष्वड्ङ्न्या उत्क्रमेण भवन्ति || ४ || एकोत्तरं नाडिशतं तासां मध्ये परा स्मृता | सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी || ५ || इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु | तयोर्मध्ये परं स्थानं यस्तद्वेद स वेदवित् || ६ || प्. ४५१) प्राणान् संधारयेत् तस्मिन् नासाभ्यन्तरचारिणः | भूत्वा तत्रायतप्राणः शनैरेव समभ्यसेत् || ७ || गुदस्य पृष्ठभागेऽस्मिन् विणादण्डस्तु देहभृत् | दीर्घास्थिदेहपर्यन्तं ब्रह्मनाडीति कथ्यते || ८ || तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः | इडापिङ्गलयोर्मध्ये सुषुम्ना सूर्यरूपिणी || ९ || सुषुम्नारूपं तन्मार्गगमनफलं चाह- शतमिति || ४-१५ || सुषुम्नायाः सर्वाधारत्वम् सर्वं प्रतिष्ठितं तस्मिन् सर्वगं सर्वतोमुखम् | तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः || १० || भूतलोका दिशः क्षेत्राः समुद्राः पर्वताः शिलाः | द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः || ११ ||
SK
स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः | बीजं बीजात्मकस्तेषां क्षेत्रज्ञाः प्राणवायवः || १२ || सुषुम्नान्तर्गतं विश्वं तस्मिन् सर्वं प्रतिष्ठितम् | नानानाडीप्रसवगं सर्वभूतान्तरात्मनि || १३ || ऊर्ध्वमूलमधःशाखं वायुमार्गेण सर्वगम् | द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः || १४ || सर्वमार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मकाः | अधश्चोर्ध्वं च कुण्डल्याः सर्वद्वारनिरोधनात् || १५ || प्. ४५२) पराशक्तेः उद्वोधनम् वायुना सह जीवोर्ध्वज्ञानान्मोक्षमवाप्नुयात् | ज्ञात्वा सुषुम्ना तद्भेदं कृत्वा पायुं च मध्यगम् || १६ || कृत्वा तु बैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् | द्विसप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे || १७ || सुषुम्ना सांभवी शक्तिः शेषास्त्वन्ये निरर्थकाः | हृल्लेखे परमानन्दे तालुमूलव्यवस्थिते || १८ || अत ऊर्ध्वं निरोधे तु मध्यमं मध्यमध्यमम् | उच्चारयेत् परां शक्तिं ब्रह्मरन्ध्रनिवासिनीम् | यदि भ्रमरसृष्टिः स्यात् संसारभ्रमणं त्यजेत् || १९ ||
SK
जीवशक्तिः कुण्डलिनीत्यर्थः || १६ || बैन्दवस्थाने भ्रूमध्ये | पञ्जरे शरीरे || १७ || हृल्लेखे ह्रींकारवाच्ये परमानन्दे ईश्वरतत्त्वे तालुमूलव्यवस्थिते चित्तादिकं निरोधयेत् || १८ || मध्यमं तुरीयं, मध्यमध्यमं तुर्यतुरीयं, तत्र लक्ष्यं कृत्वा उच्चारयेत्, षोडशमात्राकालं प्रणवप्रकृतिमुच्चारयेत् | ब्रह्मरन्ध्रनिवासिनीम्- षोडशसंख्यापूरकमात्रायाः पराभूमित्वेन ब्रह्मरन्ध्रासनत्वात् | तत्र यदीति | स्वातिरिक्तं विकल्प्य परिभ्रमतीति भ्रमरः कामसंकल्पादिमनोवृत्तिपूगः, कामः संकल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिः अधृतिः ह्रीः धीः भीः इत्येतत् सर्वं मन एव इति श्रुतेः | तत्सृष्टिः कल्पना स्यात् | तत्र कदापि कल्पनावकाशो नह्यस्ति ब्रह्मरन्ध्रस्य निर्बीजत्वात् | यदि भ्रूमध्यादधःप्रदेशमेत्य विशुद्धिचक्रे कामसंकल्पादिसृष्टिः स्यात् तदाज्ञाचक्रमवष्टभ्य स्वानर्थकारणं संसारभ्रमणं स्वातिरिक्तविषयपरिभ्रमणं स्वातिरिक्तं न किंचिदस्ति इति धैर्येण त्यजेत् अपह्नवं कुर्यादित्यर्थः || १९ || प्. ४५३) परमात्मध्यानम् गमागमस्थं गमनादिशून्यं चिद्रूपदीपं तिमिरान्धकारम् | पश्यामि ते सर्वजनान्तरस्थं नमामि हंसं परमात्मरूपम् || २० || अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः | ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः | तन्मनो विलयं याति तद्विष्णोः परमं पदम् || २१ || ततः किमित्यत आह- गमेति | स्वान्तःकरणवृत्तिकदम्बगमना- vastutaḥ svātiriktāntaḥkaraṇatatkāryābhāvāt gamanādiśūnyam | tataḥ svātiriktaṃ timirāndhakāraṃ cidrūpāgniśikhayā dīpayati bhasmāvaśeṣaṃ karotīti cadrūpadīpam | śiṣṭaṃ spaṣṭam || 20 || anāhatopalakṣitamūlādhārādivaikharyantaprādur-bhūtaśabdajyotiḥ prapañcakalanākalitasavṛttikamānasāsaṃbhavaprabo-dhasiddhaṃ viṣṇupadam avaśiṣyate ityarthaḥ || 21 || ādhārabrahmaṇi prāṇādivilayānmuktiḥ kecidvadanti cādhāraṃ suṣumnā ca sarasvatī | ādhārājjāyate viśvaṃ viśvaṃ tatraiva līyate || 22 ||
SK
तस्मात् सर्वप्रयत्नेन गुरुपादं समाश्रयेत् | आधारशक्तिनिद्रायां विश्वं भवति निद्रया || २३ || तस्यां शक्तिप्रबोधेन त्रैलोक्यं प्रतिबुध्यते | आधारं यो विजानाति तमसः परमश्नुते || २४ || तस्य विज्ञानमात्रेण नरः पापैः प्रमुच्यते || २५ || प्. ४५४) आधारचक्रमहसा विद्युत्पुञ्जसमप्रभा | तदा मुक्तिर्न संदेहो यदि तुष्टः स्वयं गुरुः || २६ || आधारचक्रमहसा पुण्यपापे निकृन्तयेत् | आधारवातरोधेन लीयते गगनान्तरे || २७ || आधारवातरोधेन शरीरं कम्पते यथा | आधारवातरोधेन योगी नृत्यति सर्वदा | आधारवातरोधेन विश्वं तत्रैव दृश्यते || २८ || सृष्टिराधारमाधारमाधारे सर्वदेवताः | आधारे सर्ववेदाश्च तस्मादाधारमाश्रयेत् || २९ || आधारे पश्चिमे भागे त्रिवेणीसंगमो भवेत् | तत्र स्नात्वा च पीत्वा च नरः पापात् प्रमुच्यते || ३० || आधारे पश्चिमं लिङ्गं कवाटं तत्र विद्यते | तस्योद्घाटनमात्रेण मुच्यते भवबन्धनात् || ३१ || आधारपश्चिमे भागे चन्द्रसूर्यौ स्थिरौ यदि | तत्र तिष्ठति विश्वेशो ध्यात्वा ब्रह्ममयो भवेत् || ३२ || केचित् नादाधारप्राणादिविलयात् स्वाधेयाभावतो निराधारब्रह्मस्वरूपावस्थानलक्षणमुक्तिः स्यादिति वदन्ति | तदपि युक्तमेवेत्याह- केचिदिति | सुषुम्नासरस्वतीनाड्यौ यत्र प्रतिष्ठिते तन्मूलाधारमित्यर्थः | तस्य ब्रह्मात्मना विश्वारोपापवादाधिकरणतामप्याह- आधारादिति || २२ || यस्मादेवं तस्मात् | येन मूलाधारयाथात्म्यं दर्शितं स गुरुः परमात्मा स्वाज्ञानमोचकत्वात् |
SK
प्. ४५५) तत्पादं तद्भावं समाश्रयेत् | किंच- आधारेति | आधारशक्तिः कुण्डलिनी तस्याः स्वाधारावस्थितिः निद्रा तस्यां सत्यां विश्वं स्वाज्ञाननिद्राविशिष्टं भवति || २३ || तत्प्रबोधस्तु सुषुम्नाप्रवेशः | तेन त्रैलोक्ययाथात्म्यबोधो जायते | एवं ज्ञानफलमाह- आधारमिति || २४-२५ || मुक्तेः गुरुप्रसादैकलभ्यत्वात्, यमेवैष वृणुते तेन लभ्यः इति श्रुतेः || २६ || किंच- आधारेति | विश्वं तत्रैव दृश्यते- स्वातिरिक्तं नेति प्रकाशते इत्यर्थः || २७-२८ || आधारत्वं कथमित्यत्र यतः स्वातिरिक्तसृष्टिः स्वाधारमवष्टभ्यः प्रवृत्ता यतः तदभावे न संभवति, अतः सर्वाधारमधिष्ठानं ब्रह्मेति सिद्धम् | तत् कथमित्यत्र आधारे सति सर्वदेवताः || २९ || इडा पिङ्गला सुषुम्ना चेति त्रिवेणी || ३० || पश्चिमलिङ्गं प्रत्यक्चैतन्यं तत्कवाटमावारकं ग्रन्थित्रयम् || ३१ || आधारपश्चिमे भागे सुषुम्नायाम् || ३२ || चक्रेषु ब्रह्मादिमूर्तिध्यानेन ब्रह्मरन्ध्रप्रवेशः आधारपश्चिमे भागे मूर्तिस्तिष्ठति संज्ञया | षट् चक्राणि च निर्भिद्य ब्रह्मरन्ध्राद्बहिर्गतम् || ३३ || वामदक्षे निरुद्धन्ति प्रविशन्ति सुषुम्नया | ब्रह्मरन्ध्रं प्रविश्यन्ति ते यान्ति परमां गतिम् || ३४ || ब्रह्मादीनां मूर्तिः | एवमुपासकाः तत्तच्चक्रालङ्कारमूर्तिध्यानपुरस्सरं षट्चक्राणीति | ब्रह्मरन्ध्रात् सुषुम्नारन्ध्रात् पुरा बहिर्गतं प्राणमादौ योगिनो वामदक्षे इडापिङ्गले निरुद्धन्ति निरोधं कुर्वन्ति | ततः तत्प्राणादयः सहसा सुषुम्नाया क्रमात् ग्रन्थित्रयालंकृतषट्चक्राणि च निर्भिद्य चन्द्रसूर्याग्न्यैक्यजम् अमृतमास्वाद्य सहस्रारचक्रोज्ज्वलत्तुरीयं तुरीयातीतं वा प्रविशन्ति | ये एवं ब्रह्मरन्ध्रम् || ३३-३४ || प्. ४५६) ब्रह्मरन्ध्रविलीनकरणस्य मुक्तिः सुषुम्नायां यदा हंसः अध ऊर्ध्वं प्रधावते | सुषुम्नायां यदा प्राणं भ्रामयेद्यो निरन्तरम् || ३५ || सुषुम्नायां यदा प्राणः स्थिरो भवति धीमताम् | सुषुम्नायां प्रवेशेन चन्द्रसूर्यौ लयं गतौ || ३६ ||
SK
तदा समरसं भावं यो जानाति स योगवित् | सुषुम्नायां यदा यस्य म्रियते मनसो रयः || ३७ || सुषुम्नायां यदा योगी क्षणैकमपि तिष्ठति | सुषुम्नायां यदा योगी क्षणार्धमधितिष्ठति || ३८ || सुषुम्नायां यदा योगी सुलग्नो लवणाम्बुवत् | सुषुम्नायां यदा योगी लीयते क्षीरनीरवत् || ३९ || भिद्यते च तदा ग्रन्थिश्छिद्यन्ते सर्वसंशयाः | क्षीयन्ते परमाकाशे ते यान्ति परमां गतिम् || ४० || यत्करणपटलं सुषुम्नाद्वारेण ब्रह्मरन्ध्रे विलीयते ते मुक्ता भवन्तीत्याह- सुषुम्नायामिति | हंसः प्राणः || ३५-३९ || एवं सुषुम्नाविलयफलमाह- भिद्यत इति | जीवेशभेदग्रन्थिः || ४० || सुषुम्नायोगमहिमा गङ्गायां सागरे स्नात्वा नत्वा च मणिकर्णिकाम् | मध्यनाडीविचारस्य कलां नार्हन्ति षोडशीम् || ४१ || प्. ४५७) श्रीशैलदर्शनान्मुक्तिर्वाराणस्यां मृतस्य च | केदारोदकपानेन मध्यनाडीप्रदर्शनात् || ४२ || अश्वमेधसहस्राणि वाजपेयशतानि च | सुषुम्नाध्यानयोगस्य कलां नार्हन्ति षोडशीम् || ४३ || सुषुम्नायां यदा गोष्ठीं यः कश्चित् कुरुते नरः | स मुक्तः सर्वपापेभ्यो निश्रेयसमवाप्नुयात् || ४४ || सुषुम्नैव परं तीर्थं सुषुम्नैव परो जपः | सुषुम्नैव परं ध्यानं सुषुम्नैव परा गतिः || ४५ || अनेकयज्ञदानानि व्रतानि नियमानि च | सुषुम्नाध्यानयोगस्य कलां नार्हन्ति षोडशीम् || ४६ || सुषुम्नाविचारादिकं स्तौति- गङ्गायामिति || ४१-४६ || चिच्छक्तिजीवयोः स्थानविवेकः ब्रह्मरन्ध्रे महास्थाने वर्तते सततं शिवा | चिच्छक्तिः परमा देवी मध्यमे सुप्रतिष्ठिता || ४७ || मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजे तथा | नादरूपा परा शक्तिर्ललाटस्य तु मध्यमे || ४८ || भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके | बिन्दुमध्ये च जीवात्मा सूक्ष्मरूपेण वर्तते || ४९ || हृदये स्थूलरूपेण मध्यमे न तु मध्यमे || ५० ||
SK
प्. ४५८) ब्रह्मरन्ध्रादिस्थानेषु चिच्छक्त्यादयो वर्तन्ते | बिन्द्वादिमध्ये जीवोऽपि वर्तते | सोऽयं प्राणापानवशतो विश्रान्तिमलब्ध्वा उच्छ्वासादिव्यापारच्छलेन हंसमनुजपनिष्ठो भवतीत्याह- ब्रह्मरन्ध्र इति | मध्यमे भ्रूमध्ये च || ४७ || हृदयाकाशे च तथा वर्तते इत्यनुषज्यते || ४८ || बिन्दुमयी मनोरूपिणी || ४९ || मध्यमे हृदये स्थूलरूपेण जीवो वर्तते, न तु मध्यमे, भ्रूमध्ये सहस्रारे वा न तु जीवः सरति | यदि भ्रूमध्यादौ गच्छति तदा क्षरः परमाक्षरो वा भवतीत्यर्थः || ५० || वायुवशस्य जीवस्य हंसमन्त्रजपप्रकारः प्राणापानवशो जीवो ह्यधश्चोर्ध्वं प्रधावति | वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते || ५१ || आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः | प्राणापानसमाक्षिप्तस्तथा जीवो न विश्रमेत् || ५२ || अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति | हकारेण बहिर्याति सकारेण विशेत् पुनः || ५३ || हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा | तद्विद्वानक्षरं नित्यं यो जानाति स योगवित् || ५४ || सोऽयं प्राणापानेति | केन मार्गेण यावद्[धावन्न] दृश्यते इत्यत्र वामेति || ५१ || तच्चलनदृष्टान्तमाह- आक्षिप्त इति || ५२ || तत् कथम् ? हकारेणेति || ५३ || इत्थंभूतोऽपि जीवः स्वगतजीवत्वं निरस्याक्षरोऽस्मीति ज्ञानात् तदेव भवतीत्याह- तदिति || ५४ || प्. ४५९) कुण्डल्यवस्थाभेदतो बन्धमुक्तिव्यवस्था कन्दोर्ध्वे कुण्डली शक्तिर्मुक्तिरूपाथ योगिनाम् | बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् || ५५ || कुण्डली यदि स्वस्थानादूर्ध्वं गच्छति तदायं मुक्तो भवति, यदि सा स्वस्थानं न मुञ्चति तदायं बद्धो भवतीत्याह- कन्देति || ५५ || प्रणवस्य सर्वाधारत्वम् भूर्भुवः स्वरिमे लोकाश्चन्द्रसूर्याग्निदेवताः | यासु मात्रासु तिष्ठन्ति तत् परं ज्योतिरोमिति || ५६ || त्रयः कालास्त्रयो देवास्त्रयो लोकास्त्रयः स्वराः | त्रयो वेदाः स्थिता यत्र तत् परं ज्योतिरोमिति || ५७ || भूरादिलोकाधारः प्रणवः इत्याह- भूरिति || ५६-५७ ||
SK
चित्तचलनाचलनाभ्यां बन्धमुक्ती चित्ते चलति संसारो निश्चलं मोक्ष उच्यते | तस्माच्चित्तं स्थिरीकुर्यात् प्रज्ञया परया विधे || ५८ || चित्तं कारणमर्थानां तस्मिन् सति जगत्त्रयम् | तस्मिन् क्षीणे जगत् क्षीणं तच्चिकित्स्यं प्रयत्नतः || ५९ || यतः चित्तचलनाचलने बन्धमोक्षहेतू अतः स्वातिरेकेण चित्तं नास्तीत्यनुसंधेयमित्याह- चित्त इति | यस्मादेवं तस्मात् || ५८-५९ || प्. ४६०) चित्तस्य स्वात्मानतिरिक्तत्वानुसंधानेन ब्रह्मसाक्षात्कारः मनोऽहं गगनाकारं मनोऽहं सर्वतोमुखम् | मनोऽहं सर्वमात्मा च न मनः केवलः परः || ६० || मनः कर्माणि जायन्ते मनो लिप्यति पातकैः | मनश्चेन्दुन्मनीभूयान्न पुण्यं न च पातकम् || ६१ || मनसा मन आलोक्य वृत्तिशून्यं यदा भवेत् | ततः परं परब्रह्म दृश्यते च सुदुर्लभम् || ६२ || मनसा मन आलोक्य मुक्तो भवति योगवित् | मनसा मन आलोक्य उन्मन्यन्तं सदा स्मरेत् || ६३ || मनसा मन आलोक्य योगनिष्ठः सदा भवेत् | मनसा मन आलोक्य दशप्रत्ययदृश्यते || ६४ || यदा प्रत्यया दृश्यन्ते तदा योगीश्वरो भवेत् || ६५ || बिन्दुनादकलाज्योतिरबिन्दुर्ध्रुवतारकम् | शान्तं च तदतीतं च परं ब्रह्म तदुच्यते || ६६ || मनस्तु ब्रह्मावरणं तन्मनसः सत्त्वांशतः नष्टे निवारणं ब्रह्म प्रकाशत इत्याह- मन इति | शुद्धसत्त्वेश्वरभावमापन्नमनस्तु मनोऽहं गगनाकारं, संकल्पादिवृत्त्यभावात् | तथा चेत् सत्त्ववृत्तिमन्मनो ब्रह्मेत्यत आह- न मनः केवलः पर इति || ६० || रजस्तमोवृत्तिकं मनस्तु मनः कर्माणि जायन्ते | यस्य मनश्चेदुन्मनीभूयात् || ६१ || सात्त्विकभावापन्नेन मनसा तम आदिभावापन्नं मन आलोक्य मिथ्येति दृष्ट्वा एवं दर्शनतो वृत्तिशून्यम् || ६२-६३ ||
SK
प्. ४६१) आलोक्य स्थितस्य योगिनः दशप्रत्ययदृश्यते- दशमोऽसि इति बोधितस्य दशमोऽस्मि इति प्रत्ययवत् तत् त्वमसि इति बोधितस्य ब्रह्मास्मि इति प्रत्ययो दृश्यते | ब्रह्मास्मीति ज्ञानमुदेतीति भावः || ६४-६५ || प्रत्ययगोचरं ब्रह्म कीदृशमित्यत्र बिन्दुनादेति | स्वाज्ञादिदृष्ट्या विराडादिरूपेण बिन्दुनादकलाज्योतिः | ओत्रादेर्विराडादिविलक्षणत्वात् अबिन्दुः ओता, ध्रुवतारकम् अनुज्ञातृचैतन्यं, स्वकार्यापेक्षया स्वयं ध्रुवं सत् स्वोपासकभवसागरसंतारणात् | विराडाद्यनुज्ञात्रन्तकलनाशान्तं अनुज्ञैकरसचैतन्यं, तदतीतं त्वविकल्पचैतन्यम् | यत् बिन्द्वादि तदतीतान्तं विभाति वस्तुतः तत् सर्वं परं ब्रह्मेत्युच्यते | स्वातिरिक्तबिन्द्वादिगतहेयांशापह्नवसिद्धनिष्प्रतियोगिकस्वमात्रतया बृंहणात् ब्रह्मत्वं निरंकुशमित्यर्थः || ६६ || प्राणचित्तयोरविनाभावः हसत्युल्लसति प्रीत्या क्रीडते मोदते तदा | तनोति जीवनं बुद्ध्या बिभेति सर्वतो भयात् || ६७ || रोधते बुध्यते शोके मुह्यते नवसंपदा | कम्पते शत्रुकार्येषु कामेन रमते हसन् || ६८ || स्मृत्या कामरतं चित्तं विजानीयात् कलेबरे | यत्र देशे वसेद्वायुश्चित्तं तद्वसते ध्रुवम् || ६९ || मनश्चन्द्रो रविर्वायुर्दृष्टिरग्निरुदाहृतः | बिन्दुनादकला ब्रह्मन् विष्णुब्रह्मेशदेवताः || ७० || ब्रह्मातिरेकेण यच्चिन्तनीयं तच्चित्तमित्याह- हसतीति || ६७-६८ || एवं हसनादिकामरमणान्तस्मृत्या | प्राणचित्तयोरविनाभावतामाह- यत्रेति || ६९ || प्. ४६२) मनःप्राणदृष्टीनां चन्द्रार्काग्नितां बिन्दुनादकलानां ब्रह्मविष्ण्वीशतां चाह- मन इति || ७० || नादानुसंधानं मनोलयहेतुः सदा नादानुसंधानात् संक्षीणा वासना भवेत् | निरञ्जने विलीयेते मरुन्मनसि पद्मज || ७१ || यो वै नादः स वै बिन्दुस्तद्वै चित्तं प्रकीर्तितम् | नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसाधयेत् || ७२ || मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् | मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् || ७३ ||
SK
वासनावन्मनोलयहेतुः किमित्यत्र सदेति | वासनाक्षयसमकालं निरञ्जने || ७१ || नादबिन्दुचित्तानामेकत्वं भावनीयमित्याह- य इति || ७३ || कथं पुनः मनोबिन्द्वोरेकत्वमित्यत आह- मन इति || ७३ || मनोयुक्तप्राणाभ्यासविधिः षट् चक्राणि परिज्ञात्वा प्रविशेत् सुखमण्डलम् | प्रविशेद्वायुमाकृष्य तथैवोर्ध्वं नियोजयेत् || ७४ || वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् | समाधिनैकेन समममृतं यान्ति योगिनः || ७५ || सर्वानर्थहेतुमनोविलयार्थं षट्चक्रपरिज्ञानपूर्वकं मनोयुक्तपवनाभ्यासः कर्तव्य इत्याह- षडिति | सुषुम्नान्तर्विलसितं सुखमण्डलम् || ७४ || योगिनः समाधिसमकालं कृतकृत्या भवन्तीत्याह- समाधिनेति || ७५ || प्. ४६३) गुरूपदेशपूर्वकमभ्यासं विना न ज्ञानोदयः यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना | विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि || ७६ || घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते | भिन्ने तस्मिन् घटे चैव दीपज्वालावभासते || ७७ || स्वकायं घटमित्युक्तं यथा जीवो हि तत्पदम् | गुरुवाक्यसमं भिन्ने ब्रह्मज्ञानं प्रकाशते || ७८ || कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववद्दृढम् | अभ्यासवासनाशक्त्या तरन्ति भवसागरम् || ७९ || इत्युपनिषत् || अभ्यासं विना ज्ञानं नोदेतीत्यत्र सदृष्टान्तमुत्तरमाह- यथेति || ७६ || किंच- घटमध्ये || ७७ || घटमित्युक्तम्, अत्र प्रथमार्थे द्वितीया | जीवो हि तत्पदं जीवगतहेयांशापाये जीवस्य तत्पदत्वात् | तद्गतस्वाज्ञाने गुरुवाक्यसमं भिन्ने || ७८ || नौकाचालकस्थानीय आचार्यः प्लवस्थानीयोऽयं तदुपदिष्टार्थः | सन्तस्तमाश्रित्य भवसागरं तरन्तीत्याह- कर्णेति | शिष्याः श्रुत्याचार्यप्रसादजज्ञानसमकालं निष्प्रतियोगिकब्रह्ममात्रावस्थानलक्षणकैवल्यं यान्तीत्यर्थः || ७९ || इतिशब्दः षष्ठाध्यायपरिसमाप्त्यर्थः | उपनिषच्छब्दस्तु शास्त्रपरिसमाप्त्यर्थः || इति षष्ठोऽध्यायः
SK
श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | योगशिखोपनिषदो व्याख्यानं लिखितं स्फुटम् | शिखोपनिषदो व्याख्याग्रन्थः सप्तशतं स्मृतः || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे त्रिषष्टिसंख्यापूरकं योगशिखोपनिषद्विवरणं संपूर्णम्

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin [M00301].

Source