ऋतं च स्वाध्यायप्रवचने च / सत्यं च स्वाध्यायप्रवचने च / तपश्च स्वाध्यायप्रवचने च / दमश्च स्वाध्यायप्रवचने च / शमश्च स्वाध्यायप्रवचने च / अग्नयश्च स्वाध्यायप्रवचने च / अग्निहोत्रं च स्वाध्यायप्रवचने च / अतिथयश्च स्वाध्यायप्रवचने च / मानुषं च स्वाध्यायप्रवचने च / प्रजा च स्वाध्यायप्रवचने च / प्रजनश्च स्वाध्यायप्रवचने च / प्रजातिश्च स्वाध्यायप्रवचने च / सत्यमिति सत्यवचा राथीतरः / तप इति तपोनित्यः पौरुशिष्टिः / स्वाध्यायप्रवचने एवेति नाको मौदगल्यः / तद्धि तपस्तद्धि तपः //
स एको मनुष्यगन्धर्वाणामानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं मनुष्यगन्धर्वाणामानन्दाः / स एको देवगन्धर्वाणामानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं देवगन्धर्वाणामानन्दाः / स एकः पितॄणां चिरलोकलोकानामानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः / स एक आजानजानां देवानामानन्दः //
SK
श्रोत्रियस्य चाकामहतस्य / ते ये शतम् आजानजानां देवानामानन्दाः / स एकः कर्मदेवानां देवानामानन्दः / ये कर्मणा देवानपियन्ति / श्रोत्रियस्य चाकामहतस्य / ते ये शतं कर्मदेवानां देवानामानन्दाः / स एको देवानामानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं देवानामानन्दाः / स एक इन्द्रस्यानन्दः //
SK
श्रोत्रियस्य चाकामहतस्य / ते ये शतमिन्द्रस्यानन्दाः / स एको बृहस्पतेरानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं बृहस्पतेरानन्दाः / स एकः प्रजापतेरानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं प्रजापतेरानन्दाः / स एको ब्रह्मण आनन्दः / श्रोत्रियस्य चाकामहतस्य //