Taittiriya Upanishad with Shankara's Commentary

Taittirīya-Upaniṣad with Śaṃkarabhāṣya · तैत्तिरीयोपनिषद्भाष्यम्

Taittiriya Upanishad with Shankara's Commentary

Taittirīya-Upaniṣad with Śaṃkarabhāṣya

तैत्तिरीयोपनिषद्भाष्यम्

SK
यस्माज् जातं जगत् सर्वं यस्मिन्न् एव प्रलीयते / येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः //
SK
यैर् इमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः / व्याख्याताः सर्ववेदान्तास् तान् नित्यं प्रणतो ऽस्म्य् अहम् //
SK
तैत्तिरीयकसारस्य मयाचार्यप्रसादतः / विस्पष्टार्थरुचीनां हि व्याख्येयं सम्प्रणीयते //
SK
नित्यान्य् अधिगतानि कर्माण्य् उपात्तदुरितक्षयार्थानि, काम्यानि च फलार्थिनां पूर्वस्मिन् ग्रन्थे / इदानीं कार्मोपादानहेतुपरिहाराय ब्रह्मविद्या प्रस्तूयते / कर्महेतुः कामः स्यात् / प्रवर्तकत्वात् / आप्तकामानां हि कामाभावे स्वात्मन्य् अवस्थानात् प्रवृत्त्यनुपपत्तिः / आत्मकामत्वे चाप्तकामता / आत्मा हि ब्रह्म / तद्विदो हि परप्राप्तिं वक्ष्यति / अतो ऽविद्यानिवृत्तौ स्वात्मन्य् अवस्थानं परप्राप्तिः / अभयं प्रतिष्ठां विन्दते (Tऐत्त्U २,७.१) एतम् आनन्दमयम् आत्मानम् उपसङ्क्रामति (Tऐत्त्U २,८.५) इत्य् आदिश्रुतेः / काम्यप्रतिषिद्धयोर् अनारम्भाद् आरब्धस्य चोपभोगेन क्षयान् नित्यानुष्ठानेन च प्रत्यवायाभावाद् अयत्नत एव स्वात्मन्य् अवस्थानं मोक्षः / अथवा निरतिशयायाः प्रीतेः स्वर्गशब्दवाच्यायाः कर्महेतुत्वात् कर्मभ्य एव मोक्ष इति चेत् / न / कर्मानेकत्वात् / अनेकानि ह्य् आरब्धफलान्य् अनारब्धफलानि चानेकजन्मान्तरकृतानि विरुद्धफलानि कर्माणि सम्भवन्ति / अतस् तेष्व् अनारब्धफलानाम् एकस्मिञ् जन्मन्य् उपभोगेन क्षयासम्भवात् शेषकर्मनिमित्तशरीरारम्भोपपत्तिः, कर्मशेषसद्भावसिद्धिश् च / तद् य इह रमणीयचरणाः (Cह्U ५,१०.७) ततः शेषेण इत्य् आदिश्रुतिस्मृतिशतेभ्यः / इष्टानिष्टफलानाम् अनारब्धानां क्षयार्थानि नित्यानीति चेन् न / अकरणे प्रत्यवायश्रवणात् / प्रत्यवायशब्दो ह्य् अनिष्टविषयः नित्याकरणनिमित्तस्य प्रत्यवायस्य दुःखरूपस्यागामिनः परिहारार्थानि नित्यानीत्यभ्युपगमान् नानारब्धफलकर्मक्षयार्थानि / यदि नामानारब्धफलकर्मक्षयार्थनि नित्यानि कर्माणि, तथाप्य् अशुद्धम् एव क्षपयेयुर् न शुद्ध विरोधाभावात् / न हीष्टफलस्य कर्मणः शुद्धरूपत्वान् नित्यैर् विरोध उपपद्यते / शुद्धाशुद्धयोर् हि विरोधो युक्तः / न च कर्महेतूनां कामाना ज्ञानाभावे निवृत्त्यसम्भवाद् अशेषकर्मक्षयोपपत्तिः / अनात्मविदो हि कामो ऽनात्मफलविषयत्वात् स्वात्मनि च कामानुपपत्तिर् नित्यप्राप्तत्वात् स्वयं चात्मा परं ब्रह्मेत्य् उक्तम् / नित्यानां चाकरणम् अभावस् ततः प्रत्यवायानुपपत्तिर् इति / अतः पूर्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणम् इति शतृप्रत्ययस्य नानुपपत्तिः अकुर्वन् विहित कर्म (VइP ३,१८.३९) इति / अन्यथाभावाद्भावोत्पत्तिर् इति सर्वप्रमाणव्याकोप इति / अतो अयत्नतः स्वात्मन्य् अवस्थानम् इत्य् अनुपपन्नम् /
SK
यच् चोक्ततं निरतिशयप्रीतेः स्वर्गशब्दवाच्यायाः कर्मनिमित्तत्वात् कर्मारभ्य एव मोक्ष इति / तन् न / नित्यवान् मोक्षस्य / न हि नित्यं किञ्चिद् आरभ्यते लोके यद् आरब्धं तद् अनित्यम् इति / अतो न कर्मारभ्यो मोक्षः / विद्यासहितानां कर्मणां नित्यारम्भसामर्थ्यम् इति चेत् / न / विरोधात् / नित्यं चारभ्यत इति विरुद्रम् / यद् धि नष्टं तद् एव नोत्पद्यत इति प्रध्वंसाभाववन्नित्यो ऽपि मोक्ष आरभ्य एवेति चेन् न / मोक्षस्य भावरूपत्वात् / प्रध्वंसाभावो ऽप्य् आरभ्यत इति न सम्भवति, अभावस्य विशेषाभावाद् विकल्पमात्रम् एतत् / भावप्रतियोगी ह्य् अभावः / यथा ह्य् अभिन्नो ऽपि भावो घटपटादिभिर् विशेष्यत अभिन्न एव घटभावः पटभाव इति, एवं निर्विशेषो ऽप्य् अभावः क्रियागुणयोगाद् द्रव्यादिवद्विकल्प्यते / न ह्य् अभाव उत्पलादिवद्विशेषणसहभावी / विशेषणवत्त्वे भाव एव स्यात् / विद्याकर्मकर्तुर् नित्यत्वाद् विद्याकर्मसन्तानजनितमोक्षनित्यत्वम् इति चेन् न / गंगास्रोतोवत् कर्तृत्वस्य दुःखरूपत्वात् / कर्तृत्वोपरमे च मोक्षविच्छेदात् / तस्माद् अविद्याकामकर्मोपादानहेतु निवृत्तौ स्वात्मन्य् अवस्थानं मोक्ष इति, स्वयं चात्मा ब्रह्म तद्विज्ञानाद् अविद्यानिवृत्तिः, इति ब्रह्मविद्यार्थोपनिषद् आरभ्यते /
SK
उपनिषद् इति विद्योच्यते / तत्सेविनां गर्भजन्मजरादिनिशातनात् तदवसादनाद् वा, ब्रह्मणो वोपनिगमयितृत्वाद् उपनिषण्णं वास्यां परं श्रेय इति / तदर्थत्वाद् ग्रन्थो ऽप्य् उपनिषत् //
SK
ॐ शं नो मित्रः शं वरुणः / शं नो भवत्वर्यमा / शं न इन्द्रो बृहस्पतिः / शं नो विष्णुरुरुक्रमः / नमो ब्रह्मणे / नमस्ते वायो / त्वमेव प्रत्यक्षं ब्रह्मासि / त्वामेवप्रत्यक्षं ब्रह्म वदिष्यामि / ऋतं वदिष्यामि / सत्यं वदिष्यामि / तन्मामवतु / तद्वक्तारमवतु / अवतु माम् / अवतु वक्तारम् // ॐ शान्तिः शान्तिः शान्तिः // इति शिक्षाध्याये प्रथमो ऽनुवाकः //
SK
शं सुखं प्राणवृत्तेर् अह्नश् चाभिमानी देवतात्मा मित्रो नो ऽस्माकं भवतु / तथैवापानवृत्तेः रात्रेश् चाभिमानी देवतात्मा वरुणः / चक्षुष्यादित्ये चाभिमान्य् अर्यमा / बले इन्द्रः / वाचि बुद्धौ च बृहस्पतिः / विष्णुरुरुक्रमो विस्तीर्णक्रमः पादयोर् अभिमानी / एवम् अध्यात्मदेवताः / शं नो भवत्व् इति सर्वत्रानुषङ्गः / तासु हि सुखकृत्सु विद्याश्रवणधारणोपयोगाप्रतिबन्धेन भविष्यन्तीति तत्सुखकर्तृत्वं प्रार्थ्यते — शं नो भवत्व् इति / ब्रह्मविद्याविविदिषुणा नमस्कारब्रह्मवदनक्रिये वायुविषये ब्रह्मविद्योपसर्गशान्त्यर्थं क्रियेते / सर्वक्रियाफलानां तदधीनत्वाद् ब्रह्म वायुस् तस्मै ब्रह्मणे नमः / प्रह्वीभावं करोमीति वाक्यशेषः / नमस्ते तुभ्यं हे वायो / नमस्करोमीति परोक्षप्रत्यक्षाभ्यां वायुर् एवाभिधीयते / किञ्च त्वम् एव चक्षुराद्यपेक्ष्य बाह्यं सन्निकृष्टम् अव्यवहितं प्रत्यक्षं ब्रह्मासि यस्मात् तस्मात् त्वाम् एव प्रत्यक्षं ब्रह्म वदिष्यामि / ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितम् अर्थं त्वदधीनत्वात् त्वाम् एव वदिष्यामि / सत्यम् इति स एव वाक्कायाभ्यां सम्पाद्यमानः, सो ऽपि त्वदधीन एव सम्पाद्यते इति त्वाम् एव सत्यं वदिष्यामि / तत्सर्वात्मकं वाय्वाख्यं ब्रह्म मयैवं स्तुतं सन्मां विद्यार्थिनाम् अवतुविद्या संयोजनेन / तद् एव ब्रह्म वक्तारम् आचार्यं च वक्तृत्वसामर्थ्यसंयोजनेनावतु / अवतु माम् अवतु वक्तारम् इति पुनर्वचनमादरार्थम् / ॐ शान्तिः शान्तिः शान्तिर् इति त्रिर् वचनम् आध्यात्मिकाधिभौतिकाधिदेविकानां विद्याप्राप्स्युपसर्गाणां प्रशमार्थम् //
SK
इति प्रथमो ऽनुवाकः
SK
ॐ शीक्षां व्याख्यास्यामः / वर्णः स्वरः / मात्रा बलम् / साम सन्तानः / इत्युक्तः शीक्षाध्यायः // इति द्वितीयो ऽनुवादकः //
SK
अर्थज्ञानप्रधानत्वाद् उपनिषदो ग्रन्थपाठे यत्नोपरमो मा भूद् इति शीक्षाध्याय आरभ्यते — शिक्षा शिक्ष्यते ऽनयेति वर्णाद्युच्चारणलक्षणम् / शिक्ष्यन्त इति वा शिक्षा वर्णादयः / शिक्षैव शीक्षा / दैर्ध्यं छान्दसम् / तां शीक्षां व्याख्यास्यामो विस्पष्टमा समन्तात् प्रकथयिष्यामः चक्षिङो वा ख्याञादिष्टस्य व्याङ्पूर्वस्य व्यक्तत्वात् कर्मण एतद् रूपम् / तत्र वर्णो ऽकारादिः / स्वर उदात्तादिः / मात्रा ह्रस्वाद्याः / बलं प्रयत्नविशेषः / साम वर्णानां मध्यम् अवृत्त्योच्चारणं समता / सन्तानः सन्ततिः, संहितेत्य् अर्थः / एष हि शिक्षितव्यो ऽर्थः शिक्षा यस्मिन्न् अध्याये सो ऽयं शीक्षाध्याय इत्य् एवम् उक्त उदितः / उक्त इत्य् उपसंहारार्थः //
SK
इति द्वितीयो ऽनुवाकः
SK
सह नौ यशः / सह नौ ब्रह्मवर्चसम् / अथातः संहिताया उपनिषिदं व्याख्यास्यामः / पञ्चस्वधिकरणेषु / अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् / ता महासंहिताया इत्याचक्षते / अथाधिलोकम् / पृथिवी पूर्वरूपम् / द्यौरुत्तररूपम् / आकाशः सन्धिः //
SK
अधुना संहितोपनिषद् उच्यते / तत्र संहिताद्युपनिषत्परिज्ञाननिमित्तं यद्यशः प्राप्यते तन् नावावयोः शिष्याचार्ययोः सहैवास्तु / तन्निमित्तं च यद्ब्रह्मवर्चसं तेजः तच् च सहैवास्त्व् इति शिष्यवचनम् आशीः / शिष्यस्य ह्य् अकृतार्थत्वात् प्रार्थनोपपद्यते, नाचार्यस्य / कृतार्थत्वात् / कृतार्थो ह्य् आचार्यो नाम भवति / अथानन्तरमध्यय नलक्षणविधानस्य पूर्ववृत्तस्य, अतः यतो ऽत्य् अर्थं ग्रन्थभाविता बुद्धिर् न शक्यते सहसार्थज्ञानविषये ऽवतारयितुम् इत्य् अतः संहिताया उपनिषदं संहिताविषयं दर्शनम् इत्य् एतद् ग्रन्थसन्निकृष्टाम् एव व्याख्यास्यामः / पञ्चस्वधिकरणेष्व् आश्रयेषु ज्ञानविषयेष्व् इत्य् अर्थः / कानि तानीत्य् आहाधिलोक लोकेष्व् अधि यद् दर्शन तद् अधिलोकम् / तथाधिज्यौतिषम् अधिविद्यम् अधिप्रजम् अध्यात्मम् इति / ता एताः पश्चविषया उपनिषदो लोकादिमहावस्तुविषयत्वात् संहिताविषयत्वाच् च महत्यश् च ताः संहिताश् च महासंहिता इत्य् आचक्षते कथयन्ति वेदविदः / अथ तासां यथोपन्यस्तानां मध्ये अधिलेक दर्शनम् उच्यते / दर्शनक्रमविवक्षार्थो ऽथशब्दः सर्वत्र / पृथ्वी पूर्वरूपं, पूर्वो वर्णः पूर्वरूपम् / संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्य् उक्तं भवति / तथा द्यौर् उत्तररूपम् आकाशो ऽन्तरिक्षलोकः सन्धिर् मध्यं पूर्वोत्तररूपयोः सन्धीयत अस्मिन् पूर्वोत्तररूपे इति //
SK
वायुः सन्धानम् / इत्यधिलोकम् / अथाधिजौतिषम् / अग्निः पूर्वरूपम् / आदित्य उत्तररूपम् / आपः सन्धिः / वैद्युतः सन्धानम् / इत्यधिज्यौतिषम् / अथाधिविद्यम् / आचार्यः पूर्वरूपम् //
SK
अन्तेवास्युत्तररूपम् / विद्या सन्धिः / प्रवचनं सन्धानम् / इत्यधिविद्यम् / अथाधिप्रजम् / माता पूर्वरूपम् / पितोत्तररूपम् / प्रजा सन्धिः / प्रजननं सन्धानम् / इत्यधिप्रजम् //
SK
अथाध्यात्मम् / अधरा हनुः पूर्वरूपम् / उत्तरा हनुरुत्तर रूपम् / वाक्सन्धिः / जिह्वासन्धानम् / इत्यध्यात्मम् / इतीमा महासंहिताः / य एवमेता महासंहिता व्याख्याता वेद / सन्धीयते प्रजया पशुभिः / ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन //
SK
इति तृतीयो ऽनुवाकः
SK
वायुः सन्धानम् / सन्धीयते ऽनेनेति सन्धानम् / इत्य् अधिलोकं दर्शनम् उक्तम् / अथाधिज्यौतिषमित्य् आदि समानम् / इतीमा इत्य् उक्ता उपप्रदर्श्यन्ते / यः कश्चिद् एवम् एता महासंहिता व्याख्याता वेदोपास्ते / वेदेत्य् उपासनं स्याद् विज्ञानाधिकारात् इति प्राचीनयोग्योपास्स्व (Tऐत्त्U १,६.२) इति च वचनात् / उपासनं च यथाशास्त्रं तुल्यप्रत्ययसन्ततिर् असङ्कीर्णा चातत्प्रत्ययैः शास्त्रोक्तालम्बनविषया च / प्रसिद्धश् चोपासनशब्दार्थो लोके गुरुम् उपास्ते, राजानम् उपास्त इति / यो हि गुर्वादीन् सन्ततम् उपचरति स उपास्त इत्य् उच्यते / स च फलम् आप्नोत्युपासनस्य / अतो ऽत्रापि च य एवं वेद, सन्धीयते प्रजादिभिः स्वर्गान्तैः / प्रजादिफलान्य् आप्नोतीत्य् अर्थः //
SK
यश्छन्दसामृषभो विश्वरूपः / छन्दोभ्यो ऽध्यमृतात्संबभूव / स मेन्द्रो मेधया स्पृणोतु / अमृतस्य देव धारणो भूयासम् / शरीरं मे विचर्षणम् / जिह्वा मे मधुमत्तमा / कर्णाभ्यां भूरि विश्रुवम् / ब्रह्मणः कोशो ऽसि मेधया पिहितः / श्रुतं मे गोपाय //
SK
आवहन्ती वितन्वाना कुर्वाणाचीरमात्मनः / वासांसि मम गावश्च / अन्नपाने च सर्वदा / ततो मे श्रियमावह / लोमशां पशुभिः सह स्वाहा / आमायन्तु ब्रह्मचारिणः स्वाहा / विमायन्तु ब्रह्मचारिणः स्वाहा / प्रमयन्तु ब्रह्मचारिणः स्वाहा / दमायन्तु ब्रह्मचारिणः स्वाहा / शमायन्तु ब्रह्मचारिणः स्वाहा // शामायन्तु ब्रह्मचारिणः स्वाहा //
SK
यशो जने ऽसानि स्वाहा / श्रेयान् वस्यसो ऽसानि स्वाहा / तं त्वा भग प्रविशानि स्वाहा / स मा भग प्रविश स्वाहा / तस्मिन् सहस्रशाखे निभगाहं त्वयि मृजे स्वाहा / यथापः प्रवता यन्ति यथा मासा अहर्जरम् / एवं मां ब्रह्मचारिणः / धातरायन्तु सर्वतः स्वाहा / प्रतिवेशो ऽसि प्र मा भाहि प्र मा पद्यस्व //
SK
इति चतुर्थो ऽनुवाकः
SK
यश् छन्दसाम् इति मेधाकामस्य श्रीकामस्य च तत्प्राप्तिसाधनं जपहोमाव् उच्येते / स मेन्द्रो मेधया स्पृणोतु (Tऐत्त्U १,४.१) ततो मे श्रियमावह (Tऐत्त्U १,४.२) इति च लिङ्गदर्शनात् / यश् छन्दसां वेदानाम् ऋषभम् इव र्षभः प्राधान्यात् / विश्वरूपः सर्वरूपः, तद् यथा शङ्कुना (Cह्U २,२३.३) इत्य् आदि श्रुत्यन्तरात् / अत एव र्षभत्वम् ओङ्कारस्य / ओङ्कारो ह्य् अत्रोपास्य इत्य् ऋषभादिशब्दैः स्तुतिन्याय्यैवोङ्कारस्य / छन्दोभ्यो वेदेभ्यो, वेदा ह्य् अमृतं, तस्माद् अमृताद् अधिसम्बभूव / लोकदेववेदव्याहृतिभ्यः सारिष्ठं जिघृक्षोः / प्रजापतेस् तपस्यत ओङ्कारः सारिष्ठत्वेन प्रत्यभाद् इत्य् अर्थः / न हि नित्यस्योङ्कारस्याञ्जसैवोत्पत्तिर् अवकल्पते / स एवम्भूत ओङ्कार इन्द्रः सर्वकामेशः परमेश्वरो मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु बलयतु वा / प्रज्ञाबलं हि प्रार्थ्यते / अमृतस्यामृतत्वहेतुभूतस्य ब्रह्मज्ञानस्य तदधिकारात्, हे देव धारणो धारयिता भूयासं भवेयम् / किञ्च शरीरं मे मम विचर्षणं विचक्षणं योग्यम् इत्य् एतत् / भूयाद् इति प्रथमपुरुषविपरिणामः / जिह्वा मे मधुमत्तमा मधुमत्यतिशयेन मधुरभाषिणीत्य् अर्थः / कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यश्रवं, श्रोता भूयासम् इत्य् अर्थः / आत्मज्ञानयोग्यः कार्यकारणसङ्घातो ऽस्त्व् इति वाक्यार्थः / मेधा च तदर्थम् एव हि प्रार्थ्यते / ब्रह्मणः परमात्मनः कोशो ऽसि / असेर् इवोपलब्ध्यधिष्ठानत्वात् / त्वं हि ब्रह्मणः प्रतीक, त्वयि ब्रह्मोपलभ्यते / मेधया लौकिकप्रज्ञया पिहित आच्छादितः स त्वं सामान्यप्रज्ञैर् अविदिततत्त्व इत्य् अर्थः / श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं विज्ञानं मे गोपाय रक्ष / तत्प्राप्त्यविस्मरणादिकं कुर्व् इत्य् अर्थः / जपार्था एते मन्त्रा मेधाकामस्य // Tऐत्त्UBह्_१,४.१ // होमार्थास्त्व् अधुना श्रीकामस्य मन्त्रा उच्यन्त आवहन्त्य् आनयन्ती / वितन्वाना विस्तारयन्ती / तनोतेस् तत्कर्मत्वात् / कुर्वाणा निर्वर्तयन्ती अचीरम् अचिरं क्षिप्रम् एव / छान्दसो दीर्घः / चिरं वा / आत्मनो मम, किम् इत्य् आह — वासांसि वस्त्राणि मम गावश् च गाश् चेति यावत् / अन्नपाने च सर्वदैवम् आदीनि कुर्वाणा श्रीर्या तां ततो मेधानिर्वर्तनात् परमावह आनय / अमेधसो हि श्रीर् अनर्थायैवेति / किंविशिष्टाम् / लोमशामजाव्यादियुक्तामन्यैश् च पशुभिः संयुक्तामावहेति / अधिकाराद् ओङ्कार एवाभिसम्बध्यते / स्वाहा, स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः / आ मायन्त्व् इति / आयन्तु माम् इति व्यवहितेन सम्बन्धः, ब्रह्मचारिणः / विमायन्तु प्रमायन्तु दमायन्तु शमायन्त्व् इत्य् आदि // Tऐत्त्UBह्_१,४.२ // यशो यशस्वी जने जनसमूहे ऽसानि भवानि / श्रेयान् प्रशस्यतरो वस्यसो वसीयसो वसुतराद् वसुमत्तराद् वा तुल्यजातीयानां विशेषवान् धनवत्स्वजातीयपुरुषाद् विशेषवान् अहम् असानीत्य् अर्थः / किञ्च तं ब्रह्मणः कोशभूतं त्वा त्वां हे भगवन् पूजार्ह प्रविशानि, प्रविश्य चानन्यस् त्वद् आत्मैव भवानीत्य् अर्थः / स त्वम् अपि मा मां भग भगवन् पूजावन्प्रविश आवयोर् एकत्वम् एवास्तु / तस्मिंस् त्वयि सहस्रशाखे बहुभेदे निमृजे शोधयाम्य् अहं पापकृत्याम् / यथा लोक आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति / यथा च मासा अहर् जरं संवत्सरो ऽहर् जरः / अहोभिः परिवर्तमानो लोकाञ् जरयतीत्य् अहानि वास्मिञ् जीर्यन्त्य् अन्तर्भवन्तीत्य् अहर् जरः / तं च यथा मासा यन्त्य् एवं मां ब्रह्मचारिणो हे धातः सर्वस्य विधातः, मामायन्त्व् आगच्छन्तु सर्वतः सर्वदिग्भ्यः / प्रतिवेशः श्रमापनयनस्थानम् आसन्नं गृहम् इत्य् अर्थः / एवं त्वं प्रतिवेश / इव प्रतिवेशस् त्वच् छीलिनां सर्वपापदुःखापनयनस्थानम् असि / अतो मा मां प्रति प्रभाहि प्रकाशयात्मानं प्रपद्यस्व च मां, रसविद्धम् इव लोहं त्वन्मयं त्वदात्मानं कुर्व् इत्य् अर्थः / श्रीकामो ऽस्मिन् विद्याप्रकरणे ऽभिधीयमानो धनार्थः / धनं च कर्मार्थम् / कर्म चोपात्तदुरितक्षयार्थम् / तत्क्षये हि विद्या प्रकाशते / तथा च स्मृतिः — ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः / यथादर्शतले प्रख्ये पश्यन्त्य् आत्मानम् आत्मनि (Mभ् १२,१९७.८) इति //
SK
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः / तासामु ह स्मैतां चतुर्थीम् / माहाचमस्यः प्रवेदयते / मह इति / तत् ब्रह्म / स आत्मा / अङ्गान्यन्या देवताः / भूरिति वा अयं लोकः / भुव इत्यन्तरिक्षम् / सुवरित्यसौ लोकः //
SK
मह इत्यादित्यः / आदित्येन वाव सर्वे लोक महीयन्ते / भूरिति वा अग्निः / भुव इति वायुः / सुवरित्यादित्यः / मह इति चन्द्रमाः / चन्द्रमसा वाव सर्वाणि ज्योतिंषि महीयन्ते / भूरिति वा ऋचः / भुव इति सामानि / सुवरिति यजूंषि //
SK
मह इति ब्रह्म / ब्रह्मणा वाव सर्वे वेदा महीयन्ते / भूरिति वै प्राणः / भुव इत्यपानः / सुवरिति व्यानः / मह इत्यन्नम् / अन्नेन वाव सर्वे प्राण महीयन्ते / ता वा एताश्चतस्रश्चतुर्ध / चतस्रश्चतस्रो व्याहृतयः / ता यो वेद / स वेद ब्रह्म / सर्वे ऽस्मै देवा बलिमावहन्ति //
SK
इति पञ्चमो ऽनुवाकः
SK
संहिताविषयम् उपासनम् उक्तं, तद् अनु मेधाकामस्य श्रीकामस्य च मन्त्रा अनुक्रान्ताः ते च पारम्पर्येण विद्योपयोगार्था एव / अनन्तरं व्याहृत्यात्मनो ब्रह्मणो ऽन्तर् उपासनं स्वाराज्यफलं प्रस्तूयते / भूर् भुवः सुवर् इति / इतीत्य् उक्तोपप्रदर्शनार्थः / एतास् तिस्र इति च प्रदर्शितानां परामर्शार्थः / परामृष्टाः स्मर्यन्ते वै इत्य् अनेन / तिस्र एताः प्रसिद्धा व्याहृतयः स्मर्यन्त इति यावत् / तासम् इयं चतुर्थी व्याहृतिम् अहेति / ताम् एतां चतुर्थीं महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते / उ ह स्म, इत्य् एतेषां वृत्तानुकथनार्थत्वाद् विदितवान् ददर्शेत्य् अर्थः / माहाचमस्यग्रहणमार्षानुस्मरणार्थम् / ऋषिस्मरणम् अप्य् उपासनाङ्गम् इति गम्यत इहोपदेशात् / येयं माहाचमस्येन दृषा व्याहतिर् मह इति तद् ब्रह्म महद् धि ब्रह्म महश् च व्याहृतिः / किं पुनस् तत्? स आत्मा / आप्नोतेर् व्याप्तिकर्मणः आत्मा / इतराश् च व्याहृतयो लोका देवा वेदाः प्राणश् च मह इत्य् अनेन व्याहृत्यात्मानादित्यचन्द्रब्रह्मान्नभूतेन व्याप्यन्ते यतः / अतो ऽङ्गान्य् अवयवा अन्या देवताः / देवताग्रहणम् उपलक्षनार्थं लोकादीनां / मह इत्य् एतस्य व्याहृत्यात्मनो देव लोकादयश् च सर्वे ऽवयवभूता यत अत आह — आदित्यादिभिर् लोकादयो महीयन्त इति / आत्मनो ह्य् अङ्गानि महीयन्ते महनं वृद्धिर् उपचयो, महीयन्ते वर्धन्त इत्य् अर्थः / अयं लोको ऽग्निर् ऋग्वेदः प्राण इति प्रथमा व्याहृतिर् भूर् इति / अन्तरिक्षं वायुः सामान्यपान इति द्वितीया व्याहृतिर् भुवः / असौ लोक आदित्यो यजूंषि व्यान इति तृतीया व्याहृतिः सुवः / आदित्यश् चन्द्रमा ब्रह्मान्नम् इति चतुर्थी व्याहृतिः महः / इत्य् एवम् उत्तरोत्तरा एकैकाश् चतुर्धा भवन्ति /
SK
मह इति ब्रह्म, ब्रह्मेत्य् ओङ्कारः शब्दाधिकारे ऽन्यस्यासम्भवात् / उक्तार्थम् अन्यत् / ता वा एताश् चतस्रश् चतुर्थेति / ता वै एता भूर् भुवः सुवर् मह इति चतस्र एकैकशश् चतुर्धा चतुःप्रकाराः / धाशब्दः प्रकारवचनः / चतस्रश् चतस्रः सत्यश् चतुर्धा भवन्तीत्य् अर्थः / तासां यथाक्लप्तानां पुनर् उपदेशस् तथैवोपासननियमार्थः / ता यथोक्ता व्याहृतीयो वेद स वेद विजानाति / किं तद् ब्रह्म / ननु तद् ब्रह्म स आत्मेति ज्ञाते ब्रह्मणि नवक्तव्यम् अविज्ञातवत् स वेद ब्रह्मेति / न! तद् विशेषविवक्षुत्वाद् अदोषः / सत्यं विज्ञातं चतुर्थव्याहृत्यात्मा ब्रह्मेति, न तु तद् विशेषो हृदयान्तरुपलभ्यत्वं मनोमयत्वादिश् च / शान्तिसमृद्धं (Tऐत्त्U १,६.२) इत्य् एवम् अन्तो विशेषणविशेष्यरुपो धमपूगो विज्ञायत इति / तद्विवक्षुर् हि शास्त्रम् अविज्ञातम् इव ब्रह्म मत्वा स वेद ब्रहेत्य् आह / अतो न दोषः / यो हि वक्ष्यमाणेन धर्मपूगेण विशिष्टं ब्रह्म वेद स वेद ब्रह्मेत्य् अभिप्रायः / अतो वक्ष्यमाणानुवाकेनैकवाक्यतास्य, उभयोर् ह्य् अनुवाकयोर् एकम् उपासनम् / लिङ्गाच् च / भूर् इत्य् अग्नौ प्रतितिष्ठतीत्य् आदिकं लिङ्गम् उपासन् ऐकत्वे / विधायकाभावाच् च / न हि — वेदोपासितव्य इति विधायकः कश्चिच् छब्दो ऽस्ति / व्याहृत्यनुवाके ता यो वेद (Tऐत्त्U १,५.३) इति च वक्ष्यमाणार्थत्वान् नोपासनभेदकः / वक्ष्यमाणार्थत्वं च तद्विशेषविवक्षुत्वादिन्यादिनोक्तम् / सर्वे देवा अस्मा एव विदुष अङ्गभूता आवहन्त्य् आनयन्ति बालीं स्वाराज्यप्राप्तौ सत्याम् इत्य् अर्थः //
SK
भूभुर्वःस्वःस्वरूपा मह इत्य् एतस्य व्याहृत्यात्मनो ब्रह्मणो ऽङ्गान्य् अन्या देवता इत्य् उक्तम् / यस्य ता अङ्गभूतास् तस्यैतस्य ब्रह्मणः साक्षाद् उपलभ्ध्यर्थम् उपासनार्थं च हृदयाकाशः स्थानम् उच्यते शालग्राम इव विष्णोः | तस्मिन् हि तद्ब्रह्मोपास्यमानं मनोमयत्वादिधर्मविशिष्टं साक्षाद् उपलभ्यते, पाणाविवामलकम् / मार्गश् च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्य् अनुवाक आरभ्यते —
SK
स य एषो ऽन्तरहृदय आकाशः / तस्मिन्नयं पुरुषो मनोमयः / अमृतो हिरण्मयः / अन्तरेण तालुके / य एष स्तन इवावलंबते / सेन्द्रयोनिः / यत्रासौ केशान्तो विवर्तते / व्यपोह्य शीर्षकपाले / भूरित्यग्नौ प्रतितिष्ठति / भुव इति वायौ //
SK
स इति व्युत्क्रम्यायं पुरुष इत्य् अनेन सम्बध्यते / य एषो ऽन्तहृदये हृदयस्यान्तः / हृदयम् इति पुण्डरीकाकारो मांसपिण्डः प्राणायतनो ऽनेकनाडीसुषिर ऊध्र्वनालो ऽधोभुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते / तस्यान्तर्य एष आकाशः प्रसिद्ध एव करकाकाशवत् / तस्मिन् सो ऽयं पुरुषः / पुरिं शयनात् पूर्णा वा भूरादयो लोका येनेति पुरुषो मनोमयः / मनो विज्ञानम् / मनुतेर् ज्ञानकर्मणस् तन्मयस् तदुपलभ्यत्वात् / मनुते ऽनेनेति वा मनो ऽन्तःकरणं, तदभिमानी तन्मयस् तल्लिङ्गो वा / अमृतो ऽमरणधर्मा हिरण्मयो ज्योतिर्मयः / तस्यैवं लक्षणस्य हृदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्येश्वररूपप्रतिपत्तये मार्गो ऽभिधीयते / हृदयाद् ऊर्ध्र्वं प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु च प्रसिद्धा / सा चान्तरेण मध्ये प्रसिद्धे तालुके तालुकयोर् गता / यश् चैष तालुकयोर् मध्ये स्तन इवावलम्बते मांसखण्डस्तस्य चान्तरेणेत्य् एतत् / यत्र च केशान्तः केशानाम् अन्तो ऽवसानं मूलं केशान्तो विवर्तते विभागेन वर्तते मूर्धप्रदेश इत्य् अर्थः / तं देशं प्राप्य तत्र विनिःसृता / व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरःकपाले विनिर्गता या सेन्द्रयोनिर् इन्द्रस्य ब्रह्मणो योनिर् मार्गः स्वरूपप्रतिपत्तिद्वारम् इत्य् अर्थः / तयैवं विद्वान् मनोमयात्मदर्शी मूर्ध्नोविनिष्क्रम्यास्य लोकस्याधिष्ठाता भूर् इति व्याहृतिरूपो यो ऽग्निर् महतो ब्रह्मणोङ्गभूतस् तस्मिन्न् अग्नौ प्रतितिष्ठत्य् अग्न्यात्मनेमं लोकं व्याप्नोतीत्य् अर्थः / तथा भुव इति द्वितीयव्याहृत्यात्मनि वायौ / प्रतितिष्ठतीत्य् अनुवर्तते //
SK
सुवरित्यादित्ये / मह इति ब्रह्मणि / आप्नोति स्वाराज्यम् / आप्नोति मनसस्पतिम् / वाक्पतिश्चक्षुष्पतिः / श्रोत्रप्तिर्विज्ञानपतिः / एतत्ततो भवति / आकाशशरीरं ब्रह्म / सत्यात्म प्राणारामं मन आनन्दम् / शान्ति समृद्धममृतम् / इति प्राचीनयोग्योपास्स्व //
SK
इति षष्ठो ऽनुवाकः
SK
सुवारिति तृतीयव्याहृत्यात्मन्य् आदित्ये / मह इत्य् अङ्गिनि चतुष्थव्याहृत्यास्मनि ब्रह्मणि प्रतितिष्ठति / तेष्व् आत्मभावेन स्थित्वाप्नोति ब्रह्मभूतः स्वाराज्यं स्वराड्भावं स्वयम् एव राजाधिपतिर् भवति, अङ्गभूतानां देवानां यथा ब्रह्म / देवाश् च सर्वे ऽस्मै बलिम् आवहन्त्य् अङ्गभूता यथा ब्रह्मणे / आप्नोति मनसस्पतिम् / सर्वेषां हि मनसां पतिः सर्वात्मकत्वाद् ब्रह्मणः / सर्वैर् हि मनोभिस् तन्मनुते / तद् आप्नोत्य् एवं विद्वान् / किञ्च वाक्पतिः सर्वासां वाचां पतिर् भवति / तथैव चक्षुष्पतिश् चक्षुषां पतिः / श्रोत्रपतिः श्रोत्राणां पतिः / विज्ञानपतिर् विज्ञानानां च पतिः / सर्वात्मकत्वात् सर्वप्राणिनां करणैस् तद्वान् भवतीत्य् अर्थः / किञ्च ततो ऽप्य् अधिकतरम् एतद् भवति / किं तत् / उच्यते / आकाशशरीरम् आकाशः शरीरम् अस्याकाशवद् वा सूक्ष्मं शरीरम् अस्येत्य् आकाशशरीरम् / किं तत् / प्रकृतं ब्रह्म / सत्यात्म सत्यं मूर्तामूर्तम् अवितथं स्वरूपं वात्मा स्वभावो ऽस्य तद् इदं सत्यात्म / प्राणारामं प्राणेष्व् आरमणम् आक्रीडा यस्य तत्प्राणारामम् / प्राणानां वारामो यस्मिंस् तत्प्राणारामम् / मन आनन्दम् / आनन्दभूतं सुखकृद् एव यस्य मनस्तन्मन आनन्दम् / शान्तिसमृद्धं शान्तिर् उपशमः / शान्तिश् च तत्समृद्धं च शान्तिसमृद्धम् / शान्त्या वा समृद्धं तदुपलभ्यत इति शान्तिसमृद्धं / अमृतम् अमरणधर्मि / एतच् चाधिकतरं विशेषणं तत्रैव मनोमय इत्य् आदौ द्रष्टव्यम् इति / एवं मनोमयत्वादिधर्मैर् विशिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य, उपास्स्वेत्य् आचार्यवचनोक्तिर् आदरार्था //
SK
यद् एतद् व्याहृत्यात्मकं ब्रह्मोपास्यम् उक्तं तस्यैवेदानीं पृथिव्यादिपाङ्क्तस्वरूपेणोपासनम् उच्यते / पश्चसङ्ख्यायोगात् पङ्क्तिच्छन्दः सम्पत्तिः / ततः पाङ्कत्वं सर्वस्य / पाङ्गश् च यज्ञः / पञ्चपदा पङ्तिः / पाङ्क्तो यज्ञः (Aइत्Bर् ५,२४.१) इति श्रुतेः / तेन यत् सर्वं लोकाद्यात्मान्तं च पाङ्क्तं परिकल्पयति यज्ञम् एव तत् परिकल्पयति / तेन यज्ञेन परिकल्पितेन पाङ्कात्मकं प्रजापतिम् अभिसम्पद्यते / तत् कथं पाङ्कम् इदं सर्वम् इत्य् आत आह
SK
पृथिव्यन्तरिक्षं द्यौर्दिशो ऽवान्तरदिशाः / अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि / आप ओषधयो वनस्पतय आकाश आत्मा / इत्यधिभूतम् / अथाध्यात्मम् / प्राणो व्यानो ऽपान उदानः समानः / चक्षुः श्रोत्रं मनो वाक् त्वक् / चर्म मांसं स्नावास्थि मज्जा / एतदधिविधाय ऋषिरवोचत् / पाङ्क्तं वा इदं सर्वम् / पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति //
SK
इति सप्तमो ऽनुवाकः
SK
पृथिव्यन्तरिक्षं द्यौर् दिशो ऽवान्तरदिशः इति लोकपाङ्कम् / अग्निर् वायुर् आदित्यश् चन्द्रमा नक्षत्राणीति देवतापाङ्कम् / आप ओषधयो वनस्पतय आकाश आत्मेति भूतपाङ्क्तम् / आत्मेति विराड्भूताधिकारात् / इत्य् अधिभूतम् इत्य् अधिलोकाधिदैवतपाङ्क्तद्वयोपलक्षणार्थम् / लोकदेवतापाङ्क्तयोश् चाभिहितत्वात् / अथानन्तरम् अध्यात्मं पाङ्क्तत्रयम् उच्यते — प्राणादि वायुपाङ्क्तम् / चक्षुरादीन्द्रियपाङ्क्तम् / चर्मादि धातुपाङ्क्तम् / एतावद् धीदं सर्वम् अध्यात्मम् / बाह्यं च पाङ्क्तम् एवेत्य् एतद् एवम् अधिविधाय परिकल्प्यर्षिर् वेद एतद् दर्शनसम्पन्नो वा कश्चिद् ऋषिर् अवोचद् उक्तवान् / किम् इत्य् आह — पाङ्क्तं वा इदं सर्वं पाङ्क्तेनैवाध्यात्मिकेन सङ्ख्यासामान्यात् पाङ्क्तं बाह्यं स्पृणोति बलयति पूरयति / एकात्मतयोपलभ्यत इत्य् एतत् / एवं पाङ्क्तम् इदं सर्वम् इति यो वेद स प्राजापत्यात्मैव भवतीत्य् अर्थः // Tऐत्त्UBह्_१,७.१ //
SK
ओमिति ब्रह्म / ओमितीदं सर्वम् / ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति / ओमिति सामानि गायन्ति / ॐशोमिति शस्त्राणि शंसन्ति / ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति / ओमिति ब्रह्मा प्रसौति / ओमित्यग्निहोत्रमनुजानाति / ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति / ब्रह्मैवोपाप्नोति //
SK
इति अष्टमो ऽनुवाकः
SK
व्याहृत्यात्मनो ब्रह्मण उपासनम् उक्तम् / अनन्तरं च पाङ्क्तस्वरूपेण तस्यैवोपासनम् उक्तम् / इदानीं सर्वोपासनाङ्गभूतस्योङ्कारस्योपासनं विधित्स्यते / परापरब्रह्मदृष्ट्या ह्य् उपास्यमान ओङ्कारः शब्दमात्रो ऽपि परापरब्रह्मप्राप्तिसाधनं भवति / स ह्य् आलम्बनं ब्रह्मणः परस्यापरस्य च, प्रतिमेव विष्णोः / एतेनैवायतनेनैकतरम् अन्वेति (Pरश्U ५.२) इति श्रुतेः / ओम् इति / इतिशब्दः स्वरूपपरिच्छेदार्थः / ओम् इत्य् एतच् छब्दरूपं ब्रह्मेति मनसा धारयेद् उपासति / यत ओम् इतीदं सर्वं हि शब्दरूपम् ओङ्कारेण व्याप्तम् / तद् यथा शङ्कुना (Cह्U २,२३.३) इति श्रुत्यन्तरात् / अभिधानतन्त्रं ह्य् अभिधेयम् इत्य् अत इदं सर्वम् ओङ्कार इत्य् उच्यते / ओङ्कारस्तुत्यर्थम् उत्तरो ग्रन्थः / उपास्यत्वात् तस्य / ओम् इत्य् एतद् अनुकृतिर् अनुकरणम् / करोमि यास्यामि चेति कृतमुक्त ओम् इत्य् अनुकरोत्य् अन्यः / अत ओङ्कारो ऽनुकृतिः / ह स्म वेति प्रसिद्धावद्योतकाः / प्रसिद्धं ह्य् ओङ्कारस्यानुकृतित्वम् / अपि च ओ श्रावय इति प्रेषपूर्वकमाश्रावयन्ति प्रतिश्रावयन्ति / तथोम् इति सामानि गायन्ति सामगाः / ॐ शोम् इति शस्त्राणि शंसन्ति शस्त्रशंसितारो ऽपि / तथोम् इत्य् अध्वर्युः प्रतिगरं प्रतिगृणाति / ओम् इति ब्रह्मा प्रसौत्य् अनुजानाति / ओमित्य् अग्निहोत्रम् अनुजानाति / जुहोमीत्य् उक्त ओम् इत्य् एवानुज्ञां प्रयच्छति / ओम् इत्य् एव ब्राह्मणः प्रवक्ष्यन् प्रवचनं करिष्यन्न् अध्येष्यमाण ओम् इत्य् एवाह ओम् इति प्रतिपद्यते ऽध्येतुम् इत्य् अर्थः / ब्रह्म वेदम् उपाप्नवानीति प्राप्नुयां ग्रहीष्यामीत्य् उपाप्नोत्य् एव ब्रह्म / अथवा ब्रह्म परमात्मानम् उपाप्नवानीत्य् आत्मानं प्रवक्ष्यन् प्रापयिष्यन्न् ओम् इत्य् एवाह / स च तेनोङ्कारेण ब्रह्म प्राप्नोत्य् एव / ओङ्कारपूर्वे प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात् तस्माद् ओङ्कारं ब्रह्मेत्य् उपासीतेति वाक्यार्थः //
SK
इत्य् अष्टमो ऽनुवाकः
SK
ऋतं च स्वाध्यायप्रवचने च / सत्यं च स्वाध्यायप्रवचने च / तपश्च स्वाध्यायप्रवचने च / दमश्च स्वाध्यायप्रवचने च / शमश्च स्वाध्यायप्रवचने च / अग्नयश्च स्वाध्यायप्रवचने च / अग्निहोत्रं च स्वाध्यायप्रवचने च / अतिथयश्च स्वाध्यायप्रवचने च / मानुषं च स्वाध्यायप्रवचने च / प्रजा च स्वाध्यायप्रवचने च / प्रजनश्च स्वाध्यायप्रवचने च / प्रजातिश्च स्वाध्यायप्रवचने च / सत्यमिति सत्यवचा राथीतरः / तप इति तपोनित्यः पौरुशिष्टिः / स्वाध्यायप्रवचने एवेति नाको मौदगल्यः / तद्धि तपस्तद्धि तपः //
SK
इति नवमो ऽनुवाकः
SK
विज्ञानाद् एवाप्नोति स्वाराज्यम् इत्य् उक्तत्वाच् छौतस्मार्तानां कर्मणामानर्थक्यं प्राप्तम् इत्य् एतन् मा प्रापदिति कर्मणां पुरुषार्थं प्रति साधनत्वप्रदर्शनार्थम् इहोपन्यासः / ऋतम् इति व्याख्यातम् / स्वाध्यायो ऽध्ययनम् / प्रवचनम् अध्यापनं ब्रह्मयज्ञो वा / एतान्य् ऋतादीन्य् अनुष्ठेयानीति वाक्यशेषः / सत्यं सत्यवचनं यथाव्याख्यातार्थं वा तपः कृच्छ्रादि / दमो बाह्यकरणोपशमः / शमो ऽन्तःकरणोपशमः / अग्नय आधातव्याः / अग्निहोत्रं च होतव्यम् / अतिथयश् च पूज्याः / मानुषम् इति लौकिकः संव्यवहारः / तच् च यथाप्राप्तम् अनुष्ठेयम् / प्रजा चेत् पाद्या / प्रजनश् च प्रजननम् ऋतौ भार्यागमनम् इत्य् अर्थः / प्रजातिः पौत्रोत्पत्तिः पुत्रो निवेशयितव्य इत्य् एतत् / सर्वैर् एतैः कर्मभिर् युक्तस्यापि स्वाध्यायप्रवचने यत्नतो ऽनुष्ठेये इत्य् एवम् अर्थं सर्वेण सह स्वाध्यायप्रवचनग्रहणम् / स्वाध्यायाधीनं ह्य् अर्थज्ञानम् / अर्थज्ञानायत्तं च परं श्रेयः / प्रवचनं च तदविस्मरणार्थं धर्मप्रवृद्ध्यर्थं च / अतः स्वाध्यायप्रवचनयोर् आदरः कार्यः / सत्यम् इति सत्यम् एवानुष्ठातव्यम् इति सत्यवचाः सत्यम् एव वचो यस्य सो ऽयं सत्यवचा, नाम वा तस्य / राथीतरो रथीतरसगोत्रो राथीतर आचार्यो मन्यते / तप इति तप एव कर्तव्यम् इति तपोनित्यस् तपसि नित्यस् तपः परः तपोनित्य इति वा नाम / पौरुशिष्टिः पुरुशिष्ठस्यापत्यं पौरुशिष्टिर् आचार्यो मन्यते / स्वाध्यायप्रवचने एवानुष्ठेये इति नाको नामतो मुद्रलस्यापत्यं मौद्गल्य आचार्यो मन्यते / तद् धि तपस् तद् धि तपः / हि यस्मात् स्वाध्यायप्रवचने एव तपस् तस्मात् ते एवानुष्ठेये इति / उक्तानाम् अपि सत्यतपःस्वाध्यायप्रवचनानां पुनः ग्रहणमादरार्थम् //
SK
अहं वृक्षस्य रेरिवा / कीर्तिः पृष्ठं गिरेरिव / ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि / द्रविणं सवर्चसम् / सुमेध अमृतोक्षितः / इति त्रिशङ्कोर्वेदानुवचनम् //
SK
इति दशमो ऽनुवाकः
SK
अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्राम्नायः / स्वाध्यायश् च विद्योत्पत्तये / प्रकरणात् / विद्यार्थं हि इदं प्रकरणम् / न चान्यार्थत्वम् अवगम्यते / स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिर् अवकल्प्यते / अहं वृक्षस्योच्छेदात्मकस्य संसारवृक्षस्य रेरिवा प्रेरथितान्तर्याम्यात्मना / कीर्तिः ख्यातिर् गिरेः पृष्ठम् इवोच्छ्रिता मम / ऊर्ध्वपवित्र ऊर्ध्वं कारणं पवित्रं पावनं ज्ञानप्रकाश्यं परमं ब्रह्म यस्य सर्वात्मनो मम, सो ऽहम् ऊर्ध्वपवित्रः / वाजिनीव वाजवतीव / वाजमन्नं तद्वति सवितरीत्य् अर्थः / यथा सवितर्यमृतमात्मतत्त्वं विशुद्धं प्रसिद्धं श्रुतिस्मृतिशतेभ्यः, एवं स्वमृतं शोभनं विशुद्धम् आत्मतत्त्वम् अस्मि भवामि / द्रविणं धनं सवर्चसं दीप्तिमत् तद् एवात्मतत्त्वम् अस्मीत्य् अनुवर्तते / ब्रह्मज्ञानं वात्मतत्त्वप्रकाशकत्वात् सवर्चसम् / द्रविणम् इव द्रविणं मोक्षसुखहेतुत्वात् / अस्मिन् पक्षे प्राप्तं मयेत्य् अध्याहारः कर्तव्यः / सुमेधाः शोभना मेधा सर्वज्ञलक्षणा यस्य मम सो ऽहं सुमेधाः / संसारस्थित्युत्पत्तिसंहारकौशलयोगात् सुमेधस्त्वम् / अत एवामृतो ऽमरणधर्माक्षितो ऽक्षीणो ऽव्यय अक्षितो वा / अमृतेन वोक्षितः सिक्तः / अमृतोक्षितो ऽहम् इत्य् आदि ब्राह्मणम् / इत्य् एवं त्रिशङ्क ऋषेर् ब्रह्मभूतस्य ब्रह्मविदो वेदानुवचनं, वेदो वेदनम् आत्मैकत्वविज्ञानं, तस्य प्राप्तिम् अनु वचनं वेदानुवचनम् / आत्मनः कृतकृत्यताख्यापनार्थं वामदेववत् त्रिशङ्कुनार्षेण दर्शनेन दृष्टी मन्त्राम्नाय आत्मविद्याप्रकाशक इत्य् अर्थः / अस्य च जपो विद्योत्पत्यर्थो ऽवगम्यते / ऋतं चेत्य् आदिधर्मोपन्यासाद् अनन्तरं च वेदानुवचनपाठाद् एतद् अवगम्यते / एवं श्रौतस्मार्तेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्रह्म विविदिषोर् आर्षाणि दर्शनानि प्रादुर्भवन्त्य् आत्मादिविषयाणीति //
SK
इति दशमोनुवाक
SK
वेदमनूच्याचार्योन्तेवासिनमनुशास्ति / सत्यं वद / धर्मं चर / स्वाध्यायान्मा प्रमदः / आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः / सत्यान्न प्रमदितव्यम् / धर्मान्न प्रमदितव्यम् / कुशलान्न प्रमदितव्यम् / भूत्यैन प्रमदितव्यम् / स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् //
SK
देवपितृकार्याभ्यां न प्रमदितव्यम् / मातृदेवो भव / पितृदेवो भव / आचार्यदेवो भव / अतिथिदेवो भव / यान्यनवद्यानि कर्माणि / तानि सेवितव्यानि / नो इतराणि / यान्यस्माकं सुचरितानि / तानि त्वयोपास्यानि //
SK
नो इतराणि / ये के चारुमच्छ्रेयांसो ब्राह्मणाः / तेषां त्वयासनेन प्रश्वसितव्यम् / श्रद्धया देयम् / अश्रद्धयादेयम् / श्रिया देयम् / ह्रिया देयम् / भिया देयम् / संविदा देयम् / अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् //
SK
ये तत्र ब्राह्मणाः संमर्शिनः / युक्ता आयुक्ताः / अलूक्षा धर्मकामाः स्युः / यथा ते तत्र वर्तेरन् / तथा तत्र वर्तेथाः / अथाभ्याख्यातेषु / ये तत्र ब्राह्मणाः संमर्शिनः / युक्ता आयुक्ताः / अलूक्षा धर्मकामाः स्युः / यथा ते तेषु वर्तेरन् / तथा तेषु वर्तेथाः / एष आदेशः / एष उपदेशः / एषा वेदोपनिषत् / एतदनुशासनम् / एवमुपासितव्यम् / एवमु चैतदुपास्यम् //
SK
इति एकादशो ऽनुवाकः
SK
वेदम् अनूच्येत्य् एवम् आदिकर्तव्यतोपदेशारम्भः प्राग् ब्रह्मविज्ञानान् नियमेन कर्तव्यानि श्रौतस्मार्तकर्माणीत्य् एवम् अर्थः / अनुशासनश्रुतेः पुरुषसंस्कारार्थत्वात् / संस्कृतस्य हि विशुद्धसत्त्वस्यात्मज्ञानमञ्जसैवोत्पद्यते / तपसा कल्मषं हन्ति विद्ययामृतम् अश्नुते (Mअनु १२,१०४) इति स्मृतिः / वक्ष्यति च तपसा ब्रह्म विजिज्ञासस्व (Tऐत्त्U ३,३.१-३,५.१) इति / अतो विद्योत्पत्त्यर्थम् अनुष्ठेयानि कर्माणि / अनुशास्तीत्य् अनुशासनशब्दाद् अनुशासनातिक्रमे हि दोषोत्पत्तिः / प्राग् उपन्यासाच् च कर्मणां केवलब्रह्मविद्यारम्भाच् च पूर्व कर्माण्य् उपन्यस्तानि / उदितायां च ब्रह्मविद्यायां अभयं प्रतिष्ठां विन्दते (Tऐत्त्U २,७.१) न विभेति कुतश्चन (Tऐत्त्U २,९.१) किम् अहं साधु नाकरवम् (Tऐत्त्U २,९.१) इत्य् एवम् आदिना कर्मनैष्किञ्चन्यं दर्शयिष्यति / अतो ऽवगम्यते पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्माणीति / मन्त्रवर्णाच् च — अविद्यया मृत्यु, तीर्त्व विद्ययामृतम् अश्नुते (ĪU ११) इति / ऋतादीनां पूर्वत्रोपदेश आनर्थक्यपरिहारार्थः / इह तु ज्ञानोत्पत्त्यर्थत्वात् कर्तव्यनियमार्थः / वेदम् अनूच्याध्याप्य् आचार्यो ऽन्तेवासिनं शिष्यम् अनुशास्ति ग्रन्थग्रहणाद् अनुपश्चाच् छास्ति तदर्थे ग्राहयतीत्य् अर्थः / अतो ऽवगम्यते ऽधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान् न समावर्तितव्यम् इति / बुद्ध्वा कर्माणि चारभेत् इति स्मृतेश् च / कथम् अनुशास्तीत्य् आह सत्यं वद यथाप्रमाणावगतं वक्तव्यं तद्वद / तद्वद् धर्मं चर / धर्म इत्य् अनुष्ठेयानां सामान्यवचनं, सत्यादिविशेषनिर्देशात् / स्वाध्यायाद् अध्ययनान् मा प्रमदः प्रमादं मा कार्षीः / अचार्याय आचार्यार्थं प्रियम् इष्टं धनम् आहृत्यानीय दत्त्वा विद्यानिष्क्रयार्थम् आचार्येण चानुज्ञातो ऽनुरूपान् दारान् आहृत्य प्रजातन्तु प्रजासन्तानं मा व्यवच्छेत्सीः, प्रजासन्ततेर् विच्छित्तिर्नकर्तव्या / अनुत्पद्यमाने ऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्य् अभिप्रायः / प्रजाप्रजननप्रजातित्रयनिर्देशसामर्थ्यात् / अन्यथा प्रजननश् चेत्य् एतद् एकम् एवावक्ष्यत् / सत्यान् न प्रमदितव्यं प्रमादो न कर्तव्यः / सत्याच् च प्रमदनम् अनृतप्रसङ्गः / प्रमादशब्दसामर्थ्यात् / विस्मृत्याप्य् अनृतं न वक्तव्यम् इत्य् अर्थः / अन्यथासत्यवदनप्रतिषेध एव स्यात् / धर्मान् न प्रमदितव्यम् / धर्मशब्दस्यानुष्ठेयविषयत्वाद् अननुष्ठानं प्रमादः, स न कर्तव्यः अनुष्ठातव्य एव धर्म इति यावत् / एवं कुशलाद् आत्मरक्षार्थात् कर्मणो न प्रमदितव्यम् / भूतिर् विभूतिस् तस्यै भूत्यै भूत्यर्थान् मङ्गलयुक्तात् कर्मणो न प्रमदितव्यम् / स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् / स्वाध्यायो ऽध्ययनं प्रवचनमध्यापनं ताभ्यां न प्रमदितव्यम् / ते हि नियमेन कर्तव्ये इत्य् अर्थः / तथा देवपितृकार्याभ्यां न प्रमदितव्यम् / दैवपित्र्ये कर्मणी कर्तव्ये / मातृदेवो माता देवो यस्य स त्वं मातृदेवो भव स्याः / एवं पितृदेव आचार्यदेवो ऽतिथिदेवो भव / देवतावद् उपास्या एत इत्य् अर्थः / यान्य् अपि चान्यान्यनवद्यान्यनिन्दितानि शिष्टाचारलक्षणानि कर्माणि तानि सेवितव्यानि कर्तव्यानि त्वया / नो न कर्तव्यानीतराणि सावद्यानि शिष्ट्कृतान्य् अपि / यान्य् अस्माकम् आचार्याणां सुचरितानि शोभनचरितान्य् आम्रायाद्याविरुद्धानि तान्य् एव त्वयोपास्यान्य् अदृष्टार्थान्य् अनुष्ठेयानि, नियमेन कर्तव्यानीति यावत् / नो इतराणि विपरीतान्य् आचार्यकृतान्य् अपि / ये के च विशेषिता आचायत्वादिधर्मैर् अस्मदस्मत्तः श्रेयांसः प्रशस्यतरास् ते च ब्राह्मणा न क्षत्रियादयः तेषाम् आसनेनासनदानादिना त्वया प्रश्वसितव्यम् / प्रश्वसनं प्रश्वासः श्रमापनयः तेषां श्रमस्त्वयापनेतव्य इत्य् अर्थः / तेषां वासने गोष्ठीनिमित्ते समुदिते, तेषु न प्रश्वसितव्यं प्रश्वासो ऽपि न कर्तव्यः / केवलं तदुक्तसारग्राहिणा भवितव्यम् / किञ्च यत् किञ्चिद् देयं तच् छ्रद्धयैव दातव्यम् / अश्रद्धया अदेयं न दातव्यम् / श्रियाविभूत्या देयं दातव्यम् / हिया लज्जया च देयम् / भिया भयेन च देयम् / संविदा च / संविन्मत्रादिकार्यम् / अथैवं वर्तमानस्य यदि कदाचित् ते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वाचारलक्षणे विचिकित्सा संशयः स्यात् / ये तत्र तस्मिन् देशे काले वा ब्राह्मणास् तत्र कर्मादौ युक्ता इति व्यवहितेन सम्बन्धः कर्तव्यः / सम्मर्शिनो विचारक्षमाः / युक्ता अभियुक्ताः कर्मणि वृत्ते वा / अयुक्ता अपरप्रयुक्ताः / अलूक्षा अरूक्षा अक्रूरमतयः / धर्मकामा अदृष्टार्थिनो ऽकामहताम् इत्य् एतत् स्युर् भवेयुः / ते ब्राह्मणा यथा येन प्रकारेण तत्र तस्मिन् कर्मणि वृत्ते वा वर्तेरंस् तथा त्वम् अपि वर्तेथाः / अथाभ्याख्यातेष्व् अभ्याख्याता अभ्युक्ता दोषेण सन्दिह्यमानेन संयोजिताः केनचित् तेषु च, यथोक्ततं सर्वम् उपनयेद् ये तत्रेत्य् आदि / एष आदेशो विधिः / एष उपदेशः पुत्रादिभ्यः पित्रादीनाम् अपि / एषा वेदोपनिषद् वेदरहस्यं वेदार्थ इत्य् एतत् / एतद् एवानुशासनम् ईश्वरवचनम् / आदेशवाक्यस्य विधेर् उक्तत्वात् / सर्वेषां वा प्रमाणभूतानाम् अनुशासनम् एतत् / यस्माद् एवं तस्माद् एवं यथोक्तं सर्वम् उपासितव्यं कर्तव्यम् / एवम् उ चैतद् उपास्यम् उपास्यम् एव चैतन् नानुपास्यम् इत्य् आदरार्थं पुनर् वचनम् // Tऐत्त्UBह्_१,११.४ //
SK
अत्रैतच् चिन्त्यते विद्याकर्मणोविवेकार्थ — किं कर्मभ्य एव केवलेभ्यः परं श्रेयः, उत विद्यासङ्ख्यपेक्षेभ्यः, आहोस्विद् विद्याकर्मभ्यां संहताभ्यां, विद्याया वा कर्मापेक्षाया, उत केवलाया एव विद्याया इति / तत्र केवलेभ्य एव कर्मभ्यः स्यात् / समस्तवेदार्थज्ञानवतः कर्माधिकारात् / वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना (Mअनु २,१६५) इति स्मरणात् / अधिगमश् च सहोपनिषदर्थेनात्मज्ञानादिना / विद्वान् यजते विद्वान् याजयति इति च विदुष एव कर्मण्य् अधिकारः प्रदर्श्यते सर्वत्र / ज्ञात्वा चानुष्ठानम् इति च / कृत्स्नश् च वेदः कर्मार्थ इति हि मन्यन्ते केचित् / कर्मभ्यश् चेत् परं श्रेयो नावाप्यते वेदो ऽनर्थकः स्यात् / न / नित्यत्वान् मोक्षस्य / नित्यो हि मोक्ष इष्यते / कर्मकार्यस्य चानित्यत्वं प्रसिद्धं लोके, कर्मभ्यश् चेच् छ्रेयो ऽनित्यं स्यात् तच् चानिष्टम् / ननु काम्यप्रतिषिद्धयोर् अनारम्भाद् आरब्धस्य च कर्मण उपभोगेनैव क्षयान्न् इत्य् आनुष्ठानाच् च प्रत्यवायानुपपत्तेः ज्ञाननिरपेक्ष एव मोक्ष इति चेत् / तच् च न / शेषकर्मसम्भवात् तन्निमित्तशरीरान्तरोत्पत्तिः प्राप्नोतीति प्रत्युक्तम् / कर्मशेषस्य च नित्यानुष्ठानेनाविरोधात् क्षयानुपपत्तिर् इति च / यद् उक्तं समस्तवेदार्थज्ञानवतः कर्माधिकाराद् इत्य् आदि, तच् च न / श्रुतज्ञानव्यतिरेकाद् उपासनस्य / श्रुतज्ञानमात्रेण हि कर्मण्य् अधिक्रियते नोपासनाम् अपेक्षते / उपासनं च श्रुतज्ञानाद् अर्थान्तरं विधीयते मोक्षफलं, अर्थान्तरप्रसिद्धेश् च स्यात् / श्रोतव्यः (BĀU २,४.५; BĀU ४,५.६) इत्य् उक्त्वा तद्व्यतिरेकेण मन्तव्यो निदिध्यासितव्यः (BĀU २,४.५; BĀU ४,५.६) इति यत्नान्तरविधानान् मनननिदिध्यासनयोश् च प्रसिद्धं श्रवणज्ञानाद् अर्थान्तरत्वम् / एवं तर्हि विद्यासंव्यपेक्षेभ्यः कर्मभ्यः स्यान् मोक्षः / विद्यासहितानां च कर्मणां भवेत् कार्यान्तरारम्भसामर्थ्यम् / यथा स्वतो मरणज्वरादिकार्यारम्भसमर्था नामपि विषदध्यादीनां मन्त्रशर्करादिसंयुक्तानां कार्यातरारम्भसामर्थ्यं, एवं विद्यासहितैः कर्मभिर् मोक्ष आरभ्यत इति चेत् / न / आरभ्यस्यानित्यत्वाद् इत्य् उक्तो दोषः / वचनाद् आरभ्यो ऽपि नित्य एवेति चेत् / न / ज्ञापकत्वाद् वचनस्य / वचनं नाम यथाभूतस्यार्थस्य ज्ञापकं नाविद्यमानस्य कर्टृ / न हि वचनशतेनापि नित्यम् आरभ्यत आरब्धं वा अविनाशि भवेत् / एतेन विद्याकर्मणोः संहतयोर् मोक्षारम्भकत्वं प्रत्युक्तम् / विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तक इति चेत् / न / कर्मणः फलान्तरदर्शनात् / उत्पत्तिसंस्कारविकाराप्तयो हि फलं कर्मणो दृश्यते / उत्पत्त्यादिफलविपरीतश् च मोक्षः / गतिश्रुतेर् आप्य इति चेत् / सूर्यद्वारेण (MU १,२.११) तयोर्ध्वम् आयन् (KअU २,३.१६) इत्य् एवम् आदिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत् / न / सर्वगतत्वाद् गन्तृभ्यश् चानन्यत्वात् / आकाशादिकारणत्वात् सर्वगतं ब्रह्म / ब्रह्माव्यतिरिक्ताश् च सर्वे विज्ञानात्मानः / अतो नाप्यो मोक्षः / गन्तुर् अन्यद् विभिन्नं देशं प्रति भवति गन्तव्यम् / न हि येनैवाव्यतिरिक्तं यत् तत् तेनैव गम्यते / तद् अनन्यत्वप्रसिद्धिश् च, तत् सृष्ट्वा तद् एवानुप्राविशत् (Tऐत्त्U २,६.१) क्षेत्रज्ञं चापि मां विद्धि (Bह्G १३,३) इत्य् एवम् आदिश्रुतिस्मृतिशतेभ्यः / गत्यैश्वर्यादिश्रुतिविरोध इति चेत् / अथापि स्याद् यद्य् अप्राप्यो मोक्षस् तदा / गतिश्रुतीनां स एकधा (Cह्U ७,२६.२) स यदि पितृलोककामो भवति (Cह्U ८,२.१) स्त्रीभिर् वा यानैर् वा (Cह्U ८,१२.३) इत्य् आदिश्रुतीनां च कोपः स्याद् इति चेत् / न / कार्यब्रह्मविषयत्वात् तासाम् / कार्ये हि ब्रह्मणि स्त्र्यादयः स्युर् न कारणे एकम् एवाद्वितीयं (Cह्U ६,२.१) यत्र नान्यत् पश्यति (Cह्U ७,२४.१) तत् केन कं पश्येत् (BĀU २,४.१४; ४,५.१५) इत्य् आदिश्रुतिभ्यः / विरोधाच् च विद्याकर्मणोः समुच्चयानुपपत्तिः / प्रविलीनकर्त्रादिकारकविशेषतत्वविषया हि विद्या तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते / न ह्य् ऐकं वस्तु परमार्थतः कर्त्रादिविशेषवत् तच् छून्यं चेत्य् उभयथा द्रष्टुं शक्यते / अवश्यं ह्य् अन्यतरन् मिथ्या स्याद् अन्यतरस्य च मिथ्यात्वप्रसङ्गे युक्तं यत् स्वाभाविकाज्ञानविषयस्य द्वैतस्य मिथ्यात्वम्, यत्र हि द्वैतम् इव भवति (BĀU २,४.१४; ४,५.१५) मृत्योः स मृत्युम् आप्नोति (KअU २,१.१०/४,१०) अथ यत्रान्यत् पश्यति ... तद् अल्पम् (Cह्U ७,२४.१) अन्यो ऽसाव् अन्यो ऽहम् अस्मि (BĀU १,४.१०) उदरम् अन्तरं कुरुते अथ तस्य भयं भवति (Tऐत्त्U २,७.१) इत्य् आदि श्रुतिशतेभ्यः / सत्यत्वं चैकत्वस्य एकधैवानुद्रष्टव्यं (BĀU ४,४.२०) एकम् एवाद्वितीय (Cह्U ४,२.१) ब्रह्मैवेदं सर्वम् (MU २,२.११) आत्मैवेदं सर्वम् (७,२५.२) इत्य् आदिश्रुतिभ्यः / न च सम्प्रदानादिकारकभेदादर्शने कर्मोपपद्यते / अन्यत्वदर्शनापवादाश् च विद्याविषये सहस्रशः श्रूयन्ते / अतो विरोधो विद्याकर्मणोः / अतश् च समुच्चयानुपपत्तिः /
SK
तत्र यद् उक्तं संहताभ्यां विद्याकर्मभ्यां मोक्ष इति / अनुपपन्नं तत् / विहितत्वात् कर्मणाम् / श्रुतिविरोध इति चेत् / यद्य् उपमृद्य कत्रादिकारकविशेषमात्मैकत्वविज्ञान विधीयते / सर्पादिभ्रान्तिविज्ञानोपमर्दकरज्ज्वादिविषयविज्ञानवत् प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद् विरोधः / विहितानि च कर्माणि / स च विरोधो न युक्तः / प्रमाणत्वात् श्रुतीनाम् इति चेन् न, पुरुषार्थोपदेशपरत्वात् श्रुतीनाम् / विद्योपदेशपरा तावत् श्रुतिः संसारात् पुरुषो मोक्षयितव्य इति संसारहेतोर् अविद्याया विद्यया निवृत्तिः कर्तव्येति विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः / एवम् अपि कत्रादिकारकसद्भावप्रतिपादनपरं शास्त्रं विरुध्यत एवेति चेन् न / यथाप्राप्तम् एव कारकास्तित्वम् उपादायोपात्तदुरितक्षयार्थं कर्माणि विदधच् छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं च कारकास्तित्वे व्याप्रियते / उपचितदुरितप्रतिबन्धस्य हि विद्योत्पत्तिर् नावकल्पते / तत्क्षये च विद्योत्पतिः स्यात् ततश् चाविद्यानिवृत्तिस् तत अत्यन्तिकः संसारोपरमः / अपि चानात्मदर्शिनो ह्य् अनात्मविषयः कामः / कामयमानश् च करोति कर्मणि / ततस् तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः / तद्व्यतिरेकेण अत्मैकत्वदर्शिनो विषयाभावात् कामानुत्पत्तिरात्मनि चानन्यत्वात् कामानुत्पत्तौ स्वात्मन्य् अवस्थानं मोक्ष इत्य् अतो ऽपि विद्याकर्मणोः विरोधः / विरोधाद् एव च विद्या मोक्षं प्रति न कर्माण्य् अपेक्षते / स्वात्मलाभे तु पूर्वोपचितदुरितप्रतिबन्धापनयद्वारेण विद्याहेतुत्वं प्रतिपद्यन्ते कर्माणि नित्यानीति / अत एवास्मिन् प्रकरण उपन्यस्तानि कर्माणीत्य् अवोचाम / एवं चाविरोधः कर्मविधिश्रुतीनाम् / अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम् /
SK
एवं तर्ह्य् आश्रमान्तरानुपपत्तिः, कर्मनिमित्तत्वाद् विद्योत्पत्तेः / गार्हस्थ्ये च विहितानि कर्माणीत्य् ऐकाश्रम्यम् एव / अतश् च यावज् जीवादिश्रुतयो ऽनुकूलतराः स्युः / न / कर्मानेकत्वात् / न ह्य् अग्निहोत्रादीन्य् एव कमणि / ब्रह्मचर्यं तपः सत्यवदनं शमो दम अहिंसेत्य् एवम् आदीन्य् अपि कर्माणोतराश्रमप्रसिद्धानि विद्योत्पत्तौ साधकतमान्यसङ्कीर्णानि विद्यन्ते ध्यानधारणादिलक्षणानि च / वक्ष्यति च — तपसा ब्रह्म विजिज्ञासस्व (Tऐत्त्U ३,३.१-३,५.१) इति / जन्मान्तरकृतकर्मभ्यश् च प्राग् अपि गार्हस्थ्याद् विद्योत्पत्तिसम्भवात् कर्मार्थत्वाच् च गार्हस्थ्यप्रतिपत्तेः, कर्मसाध्यायां च विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिर् अनर्थिकैव / लोकार्थत्वाच् च पुत्रादीनाम् / पुत्रादिसाध्येभ्यश् चायं लोकः पितृलोको देवलोक इत्य् एतेभ्यो व्यावृत्तकामस्य नित्यसिद्धात्मदर्शिनः कर्मणि प्रयोजनम् अपश्यतः कथं प्रवृत्तिर् उपपद्यते? प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनम् अपश्यतः कर्मभ्यो निवृत्तिर् एव स्यात् / प्रव्रजिष्यन् वा अरे ऽहम् अस्मात् स्थानाद् अस्मि (BĀU ४,५.२) इत्य् एवम् आदिश्रुतिलिङ्गदर्शनात् / कर्म प्रति श्रुतेर् यत्नाधिक्यदर्शनाद् अयुक्तम् इति चेत् अग्निहोत्रादिकर्म प्रति श्रुतेर् अधिको यत्नो, महांश् च कर्मण्य् आयासो ऽनेकसाधनसाध्यत्वाद् अग्निहोत्रादीनाम् / तपो ब्रह्मचर्यादीनां चेतराश्रमकर्मणां गार्हस्थ्ये ऽपि समानत्वाद् अल्पसाधनापेक्षवाच् चेतरेषां न युक्तस् तुल्यवद् विकल्प आश्रमिभिस् तस्येति चेन् न / जन्मान्तरकृतानुग्रहात् / यद् उक्तं कर्मणि श्रुतेर् अधिको यत्न इत्य् आदि / नासौ दोषः / यतो जन्मान्तरकृतम् अप्य् अग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पत्तिं प्रति / येन च जन्मनैव विरक्ता दृश्यन्ते केचित् / केचित् तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः / तस्माद् जन्मान्तरकृतसंस्कारेभ्यो विरक्तानाम् आश्रमान्तरप्रतिपत्तिर् एवेष्यते / कर्मफलबाहुल्याच् च / पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासङ्ख्येयत्वात् तत् प्रति च पुरुषाणां कामबाहुल्यात् तदर्थः श्रुतेर् अधिको यत्नः कर्मसूपपद्यते / आशिषां बाहुल्यदर्शनाद् इदं मे स्याद् इदं मे स्याद् इति / उपायत्वाच् च / उपायभूतानि हि कर्माणि विद्यां प्रतीत्य् अवोचाम / उपाये ऽधिको यत्नः कर्तव्यो नोपेये / कर्मनिमित्तत्वाद् विद्याया यत्नान्तरानर्थक्यम् इति चेत् कर्मभ्य एव पूर्वोपचितदुरितप्रतिबन्धक्षयाद् एव विद्योत्पद्यते चेत् कर्मभ्यः पृथग् उपनिपच् छ्रवणादियत्नो ऽनर्थक इति चेत् / न / नियमाभावात् / न हि प्रतिबन्धक्षयाद् एव विद्योत्पद्यते न त्व् ईश्वरप्रसादतपोध्यानाद्यनुष्ठानाद् इति नियमो ऽस्ति / अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात् साक्षाद् एव च कारणत्वाच् छ्रवणमनननिदिध्यासनादीनाम् / अतः सिद्धान्याश्रमान्तराणि / सर्वेषां चाधिकारो विद्यायां, परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् //
SK
शं नो मित्रः शं वरुणः / शं नो भवत्वर्यमा / शं न इन्द्रो बृहस्पतिः / शं नो विष्णुरुरुक्रमः / नमो ब्रह्मणे / नमस्ते वायो / त्वमेव प्रत्यक्षं ब्रह्मासि / त्वामेव प्रत्यक्षं ब्रह्मावादिषम् / ऋतमवादिषम् / सत्यमवादिषम् / तन्मामावीत् / तद्वक्तारमावीत् / आवीन्माम् / आवीत् वक्तारम् / ॐ शान्तिः शान्तिः शान्तिः //
SK
इति द्वादशो ऽनुवाकः
SK
अतीतविद्याप्राप्त्युपसर्गशमनार्थं शान्ति पठति शं नो मित्र इति / व्याख्यातम् एतत् पूर्वम् // इति शिक्षाध्यायः //
SK
शं नो मित्रः शं वरुणः / शं नो भवत्व् अर्यमा / शं न इन्द्रो बृहस्पतिः / शं नो विष्णुर् उरुकमः / नमो ब्रह्मणे / नमस् ते वायो / त्वम् एव प्रत्यक्षं ब्रह्मासि / त्वाम् एव प्रत्यक्षं ब्रह्म वदिष्यामि / ऋतं वदिष्यामि / सत्यं वदिष्यामि / तन् माम् अवतु / तद्वक्तारम् अवतु / अवतु माम् / अवतु वक्तारम् / ॐ शान्तिः शान्तिः / शान्तिः //
SK
ॐ शं नो मित्रः शं वरुणः / शं नो भवत्व् अर्यमा / शं न इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः / नमो ब्रह्मणे / नमस् ते वायो / त्वम् एव प्रत्यक्षं ब्रह्मासि / त्वाम् एव प्रत्यक्षं ब्रह्म वदिष्यामि / ऋतं वदिष्यामि / सत्यं वदिष्यामि / तन् माम् अवतु / तद्वत्तारम् अवतु / अवतु माम् / अवतु वक्तारम् / ॐ सह नाववतु / सह नौ भुनक्तु / सह वीर्यं करवावहै / तेजस्वि नावधीतम् अस्तु मा विद्विषावहै / ॐ शान्तिः शान्तिः शान्तिः / शं नो मित्र इत्य् आद्यतीतविद्याप्राप्त्युपसर्गप्रशम् अनार्था शान्तिः पाठिंता / इदानीं तु वक्ष्यमाणब्रह्मविद्याप्राप्त्य् उपसर्गोपशम् अनार्था शान्तिः पठ्यते शं नो मित्र इति सह नाववत्व् इति च / शं नो मित्र इत्य् आदि पूर्ववत् स्पष्टम् / सह नाववतु नौ शिष्याचार्यौ सहैवावतु रक्षतु / सह नौ भुनक्तु ब्रह्म भोजयतु / सह वीर्यं विद्यादिनिमित्तं सामर्थ्यं करवावहै निर्वतयावहै / तेजस्वि नाव् आवयोस् तेजस्विनोर् अधीतं स्वधीतम् अस्तु / अर्थज्ञानयोग्यम् अस्त्व् इत्य् अर्थः / मा विद्विषावहै विद्याग्रहणनिमित्तं शिष्यस्याचार्यस्य वा प्रमादकृताद् अन्यायाद् विद्वेषः प्राप्तः, तच् छमनायेयम् आशीः मा विद्विषावहा इति / मैवेतरेतरं विद्वेषम् आपद्यावहै / शान्तिः शान्तिः शान्तिर् इति त्रिर् वचनाम् उक्तार्थम् / वक्ष्यमाणविद्याविघ्नप्रशम् अनार्था चेयं शान्तिः / अविघ्नेनात्मविद्याप्राप्तिर् आशास्यते तन्मूलं हि परं श्रेय इति /
SK
ॐ ब्रह्मविदाप्नोति परम् / तदेषाभुक्ता / सत्यं ज्ञानमनन्तं ब्रह्म / यो वेद निहितं गुहायां परमे व्योमन् / सो ऽश्नुते सर्वान् कामान् सह / ब्रह्मणा विपश्चितेति / तस्माद्वा एतस्मादात्मन आकाशः संभूतः / आकाशाद्वायुः / वायोरग्निः / अग्नेरापः / अदभ्यः पृथिवी / पृथिव्या ओषधयः / ओषधीभ्योन्नम् / अन्नात्पुरुषः / स वा एष पुरुषो ऽन्न्नरसमयः / तस्येदमेव शिरः / अयं दक्षिणः पक्षः / अयमुत्तरः पक्षः / अयमात्मा / इदं पुच्छं प्रतिष्ठा / तदप्येष श्लोको भवति //
SK
संहितादिविषयाणि कर्मभिर् अविरुद्धान्य् उपासनान्य् उक्तानि / अनन्तरं च अन्तःसोपाधिकात्मदर्शनम् उक्तं व्याहृतिद्वारेण स्वाराज्यफलम् / न चैतावताशेषतः संसारबीजस्योपमर्दनम् अस्तीत्य् अतो ऽशेषोपद्रवबीजस्याज्ञानस्य निवृत्त्यर्थं विधूतसर्वोपाधिविशेषात्मदर्शनार्थम् इदम् आरभ्यते ब्रह्मविदाप्नोति परम् इत्य् आदि / प्रयोजनं चास्या ब्रह्मविद्याया अविद्यानिवृत्तिः ततश् चात्यन्तिकः संसाराभावः / वक्ष्यति च — विद्वान् न बिभेति कुतश्चन (Tऐत्त्U २,९.१) इति / संसारनिमित्ते च सति अभयं प्रतिष्ठां च विन्दत (Tऐत्त्U २,७.१) इत्य् अनुपपन्नम् / कृताकृते पापपुण्ये / न तपत इति च / अतो ऽवगम्यते ऽस्माद् विज्ञानात् सर्वात्मब्रह्मविषयाद् आत्यन्तिकः संसाराभाव इति / स्वयम् एव च प्रयोजनम् आह ब्रह्मविदाप्नोति परम् इत्य् आदाव् एव सम्बन्धप्रयोजनज्ञापनार्थम् / निर्ज्ञातयोर् हि सम्बन्धप्रयोजनयोर् विद्याश्रवणग्रहणधारणाभ्यासार्थं प्रवर्तते / श्रवणादिपूर्वकं हि विद्याफलम् श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (BĀU २,४.५; ४,५.६) इत्य् आदिश्रुत्यन्तरेभ्यः / ब्रह्मविद् ब्रह्मेति वक्ष्यमाणलक्षणं, बृहत्तमत्वाद् ब्रह्म, तद् वेत्ति विजानातीति ब्रह्मविद् अप्नोति परं निरतिशयं, तद् एव ब्रह्म परम् / न ह्य् अन्यस्य विज्ञानाद् अन्यस्य प्राप्तिः / स्पष्टं च श्रुत्यन्तरं ब्रह्मप्राप्तिम् एव ब्रह्मविदो दर्शयति स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति (MU ३,२.९) इत्य् आदि /
SK
ननु सर्वगतं सर्वस्य चात्मभूतं ब्रह्मवक्ष्यति / अतो नाप्यं, आप्तिश्चान्यस्यान्येन परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा / अपरिच्छिन्नं सर्वात्मकं च यद् ब्रह्म इत्य् अतः परिच्छिन्नवदनात्मवच् च तस्याप्तिर् अनुपपन्ना / नायं दोषः / कथम् / दर्शनादर्शनापेक्षत्वाद् ब्रह्मण आप्त्यनाप्त्योः / परमार्थतो ब्रह्मरूपस्यापि सतो ऽस्य जीवस्य भूतमात्राकृतबाह्यपरिच्छिन्नान्नमयाद्यात्मदर्शिनस् तदासक्तचेतसः / प्रकृतसङ्ख्यापूरणस्यात्मनो ऽव्यवहितस्यापि बाह्यसङ्ख्येयविषयासक्तचित्ततया स्वरूपाभावदर्शनवत्परमार्थब्रह्मस्वरूपाभावदर्शनलक्षणया अविद्यया अन्नमयादीन् बाह्याननात्मन आत्मत्वेन प्रतिपन्नत्वाद् अन्नमयाद्यनात्मभ्यो नान्यो ऽहम् अस्मीत्य् अभिमन्यते / एवम् अविद्ययात्मभूतम् अपि ब्रह्मानाप्तं स्यात् / तस्यैवम् अविद्ययानाप्तब्रह्मस्वरूपस्य प्रकृतसङ्ख्यापूरणस्यात्मनो ऽविद्ययानाप्तस्य सतः केनचित् स्मारितस्य पुनस् तस्यैव विद्ययाप्तिर् यथा, तथा श्रुत्युपदिष्टस्य सर्वात्मब्रह्मण आत्मत्वदर्शनेन विद्यया तदाप्तिर् उपपद्यत एव / ब्रह्मविद् आप्नोति परम् (Tऐत्त्U २,१.१) इति वाक्यं सूत्रभूतं सर्वस्य वल्ल्यर्थस्य / ब्रह्मविद् आप्नोति परम् (Tऐत्त्U २,१.१) इत्य् अनेन वाक्येन वेद्यतया सूत्रितस्य ब्रह्मणो ऽनिर्धारितस्वरूपविशेषस्य सर्वतो व्यावृत्तस्वरूपविशेषसमर्पणसमर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायाविशेषेण चोक्तवेदनस्य ब्रह्मणो वक्ष्यमाणलक्षणस्य विशेषेण प्रत्यगात्मतयानन्यरूपेण विज्ञेयत्वाय, ब्रह्मविद्याफलं च ब्रह्मविदो यत् परब्रह्मप्राप्तिलक्षणम् उक्तं, स सर्वात्मभावः सर्वसंसारधर्मातीत ब्रह्मस्वरूपत्वम् एव नान्यद् इत्य् एतत् प्रदर्शनाय चैषर्गुदाहियते — तद् एषाभ्युक्तेति / तत् तस्मिन्न् एव ब्राह्मणवाक्योक्ते ऽर्थ एषर्गभ्युक्ता आम्नाता / सत्यं ज्ञानम् अनन्तं ब्रह्म (Tऐत्त्U २,१.१) इति ब्रह्मणो लक्षणार्थं वाक्यम् / सत्यादीनि हि त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्रह्मणः / विशेष्यं ब्रह्म विवक्षितत्वाद् वेद्यतया / वेद्यत्वेन यतो ब्रह्म प्राधान्येन विवक्षितं, तस्माद् विशेष्यं विज्ञेयम् / अत अस्माद् विशेषणविशेष्यत्वाद् एव सत्यादीन्य् एकविभक्त्यन्तानि पदानि समानाधिकरणानि / सत्यादिभिस् त्रिभिर् विशेषणैर् विशेष्यमाणं ब्रह्म विशेष्यान्तरेभ्यो निर्धार्यते / एवं हि तज्ज्ञातं भवति यद् अन्येभ्यो निर्धारितम् / यथा लोके नीलं महत्सुन्ध्युत्पलम् इति /
SK
ननु विशेष्यं विशेषणान्तरं व्यभिचरद्विशेष्यते, यथा नीलं रक्तं चोत्पलम् इति / यदा ह्य् अनेकानि द्रव्याण्य् एकजातीयान्य् अनेकविशेषणयोगीनि, तदा विशेषणस्यार्थवत्त्वम् / न ह्य् कस्मिन्न् एव वस्तुनि विशेषणान्तरायोगाद् यथासाव् एक आदित्य इति, तथैकम् एव च ब्रह्म, न ब्रह्मान्तराणि येभ्यो विशेष्येत नीलोत्पलवत् / न / लक्षणार्थत्वाद् विशेषणानाम् / नायं दोषः / कस्मात् / यस्माल् लक्षणार्थप्रधानानि विशेषणानि, न विशेषणप्रधानान्येव / कः पुनर् लक्षणलक्ष्ययोर् विशेषणविशेष्ययोर् वा विशेष इति / उच्यते / समानजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य, लक्षणं तु सर्वत एव, यथावकाशप्रदात्राकाशम् इति / लक्षणार्थं च वाक्यम् इत्य् अवोचाम / सत्यादिशब्दा न परस्परं सम्बध्यन्ते, परार्थत्वाद् विशेष्यार्था हि ते / अत एकैको विशेषणशब्दः परस्पर निरपेक्षो ब्रह्मशब्देन सम्बध्यते — सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेति / सत्यम् इति यद् रूपेण यन् निश्चितं तद्रूपं न व्यभिचरति, सत् सत्यम् / यद् रूपेण यन् निश्चितं तद्रुपं व्यभिचरदनृतम् इत्य् उच्यते / अतो विकारो ऽमृतं वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यं (Cह्U ६,१.४) एवं सद् एव सत्यम् इत्य् अवधारणात् / अतः सत्यं ब्रह्मेति ब्रह्म विकारान् निवर्तयति / अतः कारणत्वं प्राप्तं ब्रह्मणः / कारणस्य च कारकत्वं, वस्तुत्वान् मृद्वदचिद्रूपता च प्राप्ता अत इदम् उच्यते ज्ञानं ब्रह्मेति / ज्ञानं ज्ञप्तिर् अवबोधो — भावसाधनो ज्ञानशब्दो न तु ज्ञानकर्तृ, ब्रह्मविशेषणत्वात् सत्यानन्ताभ्यां सह / न हि सत्यतानन्तता च ज्ञानकर्तृत्त्वे सत्य् उपपद्येते / ज्ञानकर्तृत्वेन हि — विक्रियमाणं कथं सत्यं भवेदनन्तं च? यद् धि न कुतश्चित् प्रविभज्यते तद् अनन्तम् / ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तम् इत्य् अनन्तता न स्यात् / यत्र नान्यद्विजानाति स भूमाथ यत्रान्यद् विजानाति तदल्पम् (Cह्U ७,२४.१) इति श्रुत्यन्तरात् / नान्यद् विजानातीति विशेषप्रतिषेधाद् आत्मानं विजानातीति चेन् न / भूमलक्षणविधिपरत्वाद् वाक्यस्य / यत्र नान्यत् पश्यति (Cह्U ७,२४.१) इत्य् आदि भूम्नो लक्षणविधिपरं वाक्यम् / यथा प्रसिद्धम् एवान्यो ऽन्यत् पश्यतीत्य् एतद् उपादाय यत्र तन्नास्ति स भूमेति भूमस्वरूपं तत्र ज्ञाप्यते / अन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वान् न स्वात्मनि क्रियास्तित्वपरं वाक्यम् / स्वात्मनि च भेदाभावाद् विज्ञानानुपपत्तिः / आत्मनश् च विज्ञेयत्वे ज्ञात्रभावप्रसङ्गः / ज्ञेयत्वेनैव विनियुक्तत्वात् /
SK
एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन चोभयथा भवतीति चेन् न / युगपद् अनंशत्वात् / नहि निरवयवस्य युगपज् ज्ञेयज्ञातृत्वोपपत्तिः / आत्मनश् च घटादिवद् विज्ञेयत्वे ज्ञानोपदेशानर्थक्यम् / नहि घटादिवत् प्रसिद्धस्य ज्ञानोपदेशो ऽर्थवान् / तस्माज् ज्ञातृत्वे सत्यानन्त्यानुपपत्तिः / सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेषवत्त्वे सति / सन्मात्रत्वं च सत्यत्वम् तत्सत्यं (Cह्U ६,७.७) इति श्रुत्यन्तरात् / तस्मात् सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद् भावसाधनो ज्ञानशब्दः / ज्ञानं ब्रह्मेति कर्तृत्वादि कारकनिवृत्त्यर्थं मृदादिवदचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते / ज्ञानं ब्रह्मेति वचनात् प्राप्तम् अन्तवत्त्वं, लौकिकस्य ज्ञानस्यान्तवक्त्वदर्शनात् / अतः तन्निवृत्त्यर्थम् आह — अनन्तम् इति / सत्यादीनाम् अनृतादिधर्मनिवृत्तिपरत्वाद् विशेष्यस्य च ब्रह्मण उत्पलादिवद् अप्रसिद्धत्वात् / मृगतृष्णांभसि स्नातः खपुष्पकृतशेखरः / एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः इतिवच् छून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत् / न / लक्षणार्थत्वात् / विशेषणत्वे ऽपि सत्यादीनां लक्षणार्थप्राधान्यम् इत्य् अवोचाम / शून्ये हि लक्ष्ये ऽनर्थकं लक्षणवचनं, अतः लक्षणार्थत्वान् मन्यामहे न शून्यार्थतेति / विशेषणार्थत्वे ऽपि च सत्यादीनां स्वार्थापरित्याग एव / शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः / सत्याद्यर्थैर् अर्थवत्वे तु तद्विपरीतधर्मवद्भ्यो विशेष्येभ्यो ब्रह्मणो विशेष्यस्य नियन्तृत्वम् उपपद्यते / ब्रह्मशब्दो ऽपि स्वार्थेनार्थवान् एव / तत्रानन्तशब्द अन्तवत्त्वप्रतिषेधद्वारेण विशेषणम् / सत्यज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवतः /
SK
तस्माद् वैतस्माद् आत्मन इति ब्रह्मण्य् एवात्मशब्दप्रयोगाद् वेदितुर् आत्मैव ब्रह्म / एतम् आनन्दमयम् आत्मानम् उपसङ्क्रामतीति च आत्मतां दर्शयन्ति / तत्प्रवेशाच् च, तत्सृष्ट्वा तद् एवानुप्राविशद् (Tऐत्त्U २,६.१) इति च तस्यैव जीवरूपेण शरीरप्रवेशं दर्शयति / अतो वेदितुः स्वरूपं ब्रह्म / एवं तर्ह्य् आत्मत्वाज् ज्ञानकर्तृत्वं, आत्मा ज्ञातेति हि प्रसिद्धम् / सो ऽकामतेति च कामिनो ज्ञानकर्तृत्वप्रसिद्धिः / अतो ज्ञानकर्तृत्वाज् ज्ञप्तिर् ब्रह्मेत्य् अयुक्तं, अनित्यत्वप्रसङ्गाच् च / यदि नाम ज्ञप्तिर् ज्ञानम् इति भावरूपता ब्रह्मणः तदाप्य् अनित्यत्वं प्रसज्येत, परतन्त्र्यं च / धात्वर्थानां कारकापेक्षत्वात् / ज्ञानं च धात्वर्थः / अतो ऽस्यानित्यत्वं परतन्त्रता च / न, स्वरूपाव्यतिरेकेण कार्यत्वोपचारात् / आत्मनः स्वरूपं ज्ञप्तिर् न ततो व्यतिरिच्यत अतो नित्यैव / तथापि बुद्धेर् उपाधिलक्षणायाश् चक्षुरादिद्वारैर् विषयाकारेण परिणामिन्या ये शब्दाद्याकारावभासाः त आत्मविज्ञानस्य विषयभूत / उत्पद्यमाना एव आत्मविज्ञानेन व्याप्ता उत्पद्यन्ते / तस्माद् आत्मविज्ञानावभास्याश् च ते विज्ञानशब्दवाच्याश् च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्य् अविवेकिभिः परिकल्प्यन्ते / यत् तु ब्रह्मणो विज्ञानं तत्सवितृप्रकाशवद् अग्न्युष्णत्ववच् च ब्रह्मस्वरूपाव्यतिरिक्तं स्वरूपम् एव तत् / न तत्कारणान्तरसव्यपेक्षम् / नित्यस्वरूपत्वात् सर्वभावानां च तेनाविभक्तदेशकालत्वात् कालाकाशादिकारणत्वाच् च निरतिशयसूक्ष्मत्वाच् च / न तस्यान्यद् अविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद् भविष्यद् वास्ति / तस्मात् सर्वज्ञं तद्ब्रह्म / मन्त्रवर्णाश् च — अपाणिपादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः / स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तम् आहुर् अग्र्यं पुरुषं महान्तम् (Śव्U ३,१९) इति / न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते ऽविनाशित्वान् न तु तदूद्वितीयम् अस्ति (BĀU ४,३.३०) इत्य् आदिश्रुतेश् च / विज्ञातृस्वरूपाव्यतिरेकात् करणादिनिमित्तानपेक्षत्वाश् च ब्रह्मणो ज्ञानस्वरूपत्वे ऽपि नित्यत्वप्रसिद्धिः / अतो नैव धात्वर्थस् तदक्रियारूपत्वात् / अत एव च न ज्ञानकर्तृ, तस्माद् एव च न ज्ञानशब्दवाच्यम् अपि तद्ब्रह्म / तथापि तदाभासवाचकेन बुद्धिधर्मविषयेण / ज्ञानशब्देन तल् लक्ष्यते, न तूच्यते, शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात् / तथा सत्यशब्देनापि / सर्वविशेषप्रत्यस्तमितस्वरूपत्वाद् ब्रह्मणो बाह्यसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यते सत्यं ब्रह्मेति / न तु सत्यशब्दवाच्यम् एव ब्रह्म / एवं सत्यादिशब्दा इतरेतरसन्निधानाद् अन्योन्यनियम्यनियामकाः सन्तः सत्यादिशब्दवाच्यात् तन्निवर्तका ब्रह्मणो, लक्षणार्थाश् च भवन्तीति / अतः सिद्धं यतो वाचो निवर्तन्ते / अप्राप्य मनसा सह (Tऐत्त्U २,४.१; २,९.१) अनिरुक्तो ऽनिलयने (Tऐत्त्U २,७.१) इति चावाच्यत्वं, नीलोत्पलवदवाक्यार्थत्वं च ब्रह्मणः /
SK
तद् यथाव्याख्यातं ब्रह्म यो वेद विजानाति निहितं स्थितं गुहायाम् / गूहतेः संवरणार्थस्य निगूढा अस्यां ज्ञानक्षेयज्ञातृपदार्था इति गुहा बुद्धिः गूढावस्यां भोगापवर्गौ पुरुषार्थाव् इति वा, तस्यां परमे प्रकृष्टे व्योमन्व्योम्न्याकाशे ऽव्याकृताख्ये / तद् धि परमं व्याम एतस्मिन् खल्व् अक्षरे गार्ग्य् आकाशः (BĀU ३,८.११) इत्य् अक्षरसन्निकर्षात् / गुहायां व्योम्नीति वा सामानाधिकरण्याद् अव्याकृताकाशम् एव गुहा, तत्रापि निगूढाः सर्वे पदार्थास् त्रिषु कालेषु, कारणत्वात् सूक्ष्मतरत्वाच् च / तस्मिन्न् अन्तर्निहितं ब्रह्म / हार्दम् एव तु परमं व्योमेति न्याय्यं, विज्ञानाङ्गत्वे व्योम्नो विवक्षितत्वात् / यो वै स बहिर्धा पुरुषाद् आकाशो यो वै सो ऽन्तः पुरुष आकाशो यो ऽयम् अन्तर्हृदय आकाशः (Cह्U ३,१२.७) इति श्रुत्यन्तरात् प्रसिद्धं हार्दस्य व्योम्नः परमत्वम् / तस्मिन् हार्दे व्योम्नि या बुद्धिर् गुहा तस्यां निहितं ब्रह्म तद्व्यावृत्त्या विविक्ततयोपलभ्यत इति / न ह्य् अन्यथा विशिष्टदेशकालसम्बन्धो ऽस्ति ब्रह्मणः सर्वगत्वान् निर्विशेषत्वाच् च / स एवं ब्रह्म विजानन् किम् इत्य् आह — अश्नुते भुङ्क्ते सर्वान् निरवशेषान् कामान् काम्यभोगान् इत्य् अर्थः / किम् अस्मद् आदिवत् पुत्रस्वर्गादीन् पर्यायेण? नेत्य् आह सह युगपद् एकक्षणोपारूढान् एवैकयोपलब्ध्या सवितृप्रकाशवन् नित्यया ब्रह्मत्वरूपाव्यतिरिक्तया, याम् अवोचाम सत्यं ज्ञानम् अनन्तम् (Tऐत्त्U २,१.१) इति / एतत् तद् उच्यते — ब्रह्मणा सहेति / ब्रह्मभूतो विद्वान् ब्रह्मस्वरूपेणैव सर्वान् कामान् सहाश्नुते, न यथोपाधिकृतेन स्वरूपेणात्मनो जलसूर्यकादिवत् प्रतिबिम्बभूतेन सांसारिकेण धर्मादिनिमित्तापेक्षांश् चक्षुरादिकरणापेक्षांश् च सर्वान् कामान् पर्यायेणाश्नुते लोकः / कथं तर्हि, यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्यब्रह्मात्मस्वरूपेण धर्मादिनिमित्तान् अपेक्षांश् चक्षुरादिकरणनिरपेक्षांश् च सर्वान् कामान् सहैवाश्नुत इत्य् अर्थः विपश्चिता मेधाविना सर्वज्ञेन / तद्वि वैपश्चित्यं यत्सर्वज्ञत्वं, तेन सर्वज्ञस्वरूपेण ब्रह्मणाश्नुत इति / इतिशब्दो मन्त्रपरिसमाप्त्यर्थः /
SK
सर्व एव वल्ल्यर्थो ब्रह्मविद् आप्नोति परम् (Tऐत्त्U २,१.१) इति ब्राह्मणवाक्येन सूत्रितः / स च सूत्रतो ऽर्थः संक्षेपतो मन्त्रेण व्याख्यातः / पुनस् तस्यैव विस्तरेणार्थनिर्णयः कर्तव्य इत्य् उत्तरस् तद्विवृत्तिस्थानीयो ग्रन्थ आरभ्यते — तस्माद् वा एतस्माद् इत्य् आदिः / तत्र च सत्यं ज्ञानम् अनन्तं ब्रह्म (Tऐत्त्U २,१.१) इत्य् उक्ततं मन्त्रादौ, तत् कथं सत्यम् अनन्तं चेत्य् अत आह / तत्र त्रिविधं ह्य् आनन्त्यं देशतः कालतो वस्तुतश् चेति / तद् यथा देशतो ऽनन्त आकाशो, न हि देशतस् तस्य परिच्छेदो ऽस्ति / न तु कालतश् चानन्त्यं वस्तुतश् चाकाशस्य / कस्मात् कार्यत्वात् / नैवं ब्रह्मण आकाशवत् कालतो ऽप्य् अन्तवत्त्वम् अकार्यत्वात् / कार्य हि वस्तु कालेन परिच्छिद्यते / अकार्यं च ब्रह्म / तस्मात् कालतो ऽप्य् अनन्तम् / तथा वस्तुतः / कथं पुनर् वस्तुत अनन्त्यं सर्वानन्यत्वात् / भिन्नं हि वस्तु वस्त्वन्तरस्यान्तो भवति / वस्त्वन्तरबुद्धिर् हि प्रसक्ताद् वस्त्वन्तरान् निवर्तते / यतो यस्य बुद्धेर् निवृत्तिः स तस्यान्तः / तद् यथा गोत्वबुद्धिर् अश्वत्वाद् विनिवर्तत इत्य् अश्वत्वान्तं गोत्वम् इत्य् अन्तवद् एव भवति / स चान्तो भिन्नेषु वस्तुषु दृष्टो, नैवं ब्रह्मणो भेदः / अतो वस्तुतो ऽप्य् आनन्त्यम् / कथं पुनः सर्वानन्यत्वं ब्रह्मण इत्य् उच्यते, सर्ववस्तुकारणत्वात् / सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्रह्म / कार्यापेक्षयावस्तुतो ऽन्तवत्त्वम् इति चेन् न / अनृतत्वात् कार्यावस्तुनः / न हि कारण व्यतिरेकेण कार्यं नाम वस्तुतो ऽस्ति / यतः कारणबुद्धिर् विनिवर्तेत / वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यं (Cह्U ६,४.१) एवं सद् एव सत्यम् इति श्रुत्यन्तरात् / तस्माद् आकाशादिकारणत्वाद् देशतस् तावद् अनन्तं ब्रह्म / आकाशो ह्य् अनन्त इति प्रसिद्धं देशतः, तस्य चेदं कारणं, तस्मात् सिद्धं देशत आत्मन आनन्त्यम् / न ह्य् असर्वगतात् सर्वगतम् उत्पद्यमनं लोके किञ्चिद् दृश्यते / अतो निरतिशयम् आत्मन आनन्त्यं देशतः, तथाकार्यत्वात् कालतः, तद्भिन्नवस्त्वन्तराभावाच् च वस्तुतः / अत एव निरतिशयसत्यवम् /
SK
तस्माद् इति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते / एतस्माद् इति मन्त्रवाक्येणानन्तरं यथालक्षितम् / यद् ब्रह्मादौ ब्राह्मणवाक्येन सूत्रितं, यच् च सत्यं ज्ञानम् अनन्तं ब्रह्मेत्य् अनन्तरम् (Tऐत्त्U २,१.१) एव लक्षितं, तस्माद् एतस्माद् ब्रह्मण आत्मन आत्मशब्दवाच्यात् / आत्मा हि तत्सर्वस्य तत्सत्यं स आत्मा (Cह्U ६,८.१६) इति श्रुत्यन्तरात् / अतो ब्रह्मात्मा / तस्माद् एतस्माद् ब्रह्मण आत्मस्वरूपाद् आकाशः सम्भूतः समुत्पन्नः / आकाशो नाम शब्दगुणो ऽवकाशकरो मूर्तद्रव्याणाम् / तस्माद् आकाशात् स्वेन स्पर्शगुणेन पूर्वेण च आकाशगुणेन शब्देन द्विगुणो वायुः / सम्भूत इत्य् अनुवर्तते / वायोश् च स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणो ऽग्निः सम्भूतः / अग्नेश् च स्वेन रसगुणेन पूर्वैश् च त्रिभिश् चतुर्गुणा आपः सम्भूताः / अद्भ्यः स्वेन गन्धगुणेन पूर्वैश् चतुर्भिः पञ्चगुणा पृथिवी सम्भूता / पृथिव्या ओषधयः / ओषधीभ्यो ऽन्नम् / अन्नाद्रेतोरूपेण परिणतात् पुरुषः शिरःपाण्याद्याकृतिमान् / स वा एष पुरुषो ऽन्नरसमयो ऽन्नरसविकारः, पुरुषाकृतिभावितं हि सर्वेभ्यो ऽङ्गेभ्यस् तेजः सम्भूतं रेतो बीजं, तस्माद् यो जायते सो ऽपि तथा पुरुषाकृतिर् एव स्यात् / सर्वजातिषु जायमानानां जनकाकृतिनियम् अदर्शनात् / सर्वेषाम् अप्य् अन्नरसविकारत्वे ब्रह्मवंशत्वे चाविशिष्टे कस्मात् पुरुष एव गृह्यते प्राधान्यात् / किं पुनः प्राधान्यम्? कर्मज्ञानाधिकारः / पुरुष एव हि शक्तत्वाद् अर्थित्वाद् अपर्युदस्तत्वाच् चार्थी विद्वान्सम् अर्थः कर्मज्ञानयोर् अधिक्रियते — पुरुषे त्व् एवाविस्तराम् आत्मा स हि प्रज्ञानेन सम्पन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेदश्वस्तनं वेद लोकालोकौ मत्र्येनामृतम् ईक्षति इत्य् एवं सम्पन्नः / अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानं (Aइत्Ā २,३.२-५) इत्य् आदिश्रुत्यन्तरदर्शनात् / स हि पुरुष इह विद्यया आन्तरतमं ब्रह्म सङ्क्रामयितुम् इष्टस् तस्य च बाह्याकारविशेषेष्व् अनात्मस्वात्मभाविता बुद्धिर् अनालम्ब्य विशेषं कश्चित् सहसा आन्तरतम् अप्रत्यगात्मविषया निरालम्बना च कर्तुम् अशक्येति दृष्टशरीरात्मसामान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्न् आह — तस्येदम् एव शिरः / तस्यास्य पुरुषस्यान्नरसमयस्येदम् एव शिरः प्रसिद्धम् / प्राणमयादिष्व् अशिरसां शिरस्त्वदर्शनाद् इहापि तत्प्रसङ्गो मा भूद् इतीदम् एव शिर इत्य् उच्यते / एवं पक्षादिषु योजना / अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः / अयं सव्यो बाहुरुत्तरः पक्षः / अयं मध्यमो देहभाग आत्मा अङ्गानाम् मध्यं ह्य् एषाम् अङ्गानाम् आत्मा (Aइत्U ३,५.४) इति श्रुतेः इदम् इति नाभेर् अधस्ताद्यदङ्गं तत्पुच्छं प्रतिष्ठा / प्रतितिष्ठत्य् अनयेति प्रतिष्ठा / पुच्छम् इव पुच्छमधोलम्बनसामान्याद्यथा गोः पुच्छम् / एतत् प्रकृत्योत्तरेषां प्राणमयादीनां रूपकत्वसिद्धिः, मूषानिषिक्तद्रुतताम्रप्रतिमावत् / तद् अप्य् एष श्लोको भवति / तत् तस्मिन्न् एवार्थे ब्राह्मणोक्ते ऽन्नमयात्मप्रकाशक एष श्लोको मन्त्रो भवति //
SK
अन्नाद्वै प्रजाः प्रजायन्ते / याः काश्च पृथिवींश्रिताः / अथो अन्नेनैव जीवन्ति / अथैनदपि यन्त्यन्ततः / अन्नं हि भूतानां ज्येष्ठम् / तस्मात् सर्वौषधमुच्यते / सर्वं वै ते ऽन्नमाप्नुवन्ति / ये ऽन्नं ब्रह्मोपासते / अन्नं हि भूतानां ज्येष्ठम् / तस्मात् सर्वौषधमुच्यते / अन्नाद्भूतानि जायन्ते / जातान्यन्नेन वर्धन्ते / अद्यते ऽत्ति च भूतानि / तस्मादन्नं तदुच्यत इति / तस्माद्वा एतस्मादन्नरसमयात् / अन्यो ऽन्तर आत्मा प्राणमयः / तेनैष पूर्णः / स वा एष पुरुषविध एव / तस्य पुरुषविधताम् / अन्वयं पुरुषविधः / तस्य प्राण एव शिरः / व्यानो दक्षिणः पक्षः / अपान उत्तरः पक्षः / आकाश आत्मा / पृथिवी पुच्छं प्रतिष्ठा / तदप्येष श्लोको भवति //
SK
अन्नाद्रसादिभावपरिणतंआत् / वा इति स्मरणार्थः / प्रजाः स्थावरजङ्गमाः प्रजायन्ते / याः काश्चाविशिष्टाः पृथिवीं श्रिताः पृथिवीमाश्रितास्ताः सर्वा अन्नाद् एव प्रजायन्ते / अथो अपि जाता अन्नेनैव जीवन्ति प्राणान् धारयन्ति वर्धन्त इत्य् अर्थः / अथाप्य् एनद् अन्नम् अपियन्त्य् अपिगच्छन्ति / अपिशब्दः प्रतिशब्दार्थे / अन्नं प्रति प्रलीयन्त इत्य् अर्थः / अन्ततो ऽन्ते जीवनलक्षणाया वृत्तेः परिसमाप्तौ / कस्मात् / अन्नं हि यस्मात् भूतानां प्राणिनां ज्येष्ठं प्रथमजम् / अन्नमयादीनां हीतरेषां भूतानां कारणम् अन्नम् / अतो ऽन्नप्रभवा अन्नजीवना अन्नप्रलयाश् च सर्वाः प्रजाः / यस्माच् चैवं तस्मात् सर्वौषधं सर्वप्राणिनां देहदाहप्रशमनम् अन्नम् उच्यते /
SK
अन्नब्रह्मविदः फलम् उच्यते / सर्वं वै ते समस्तम् अन्नजातम् आप्नुवन्ति / के / ये ऽन्नं ब्रह्म यथोक्तम् उपासते / कथं? अन्नजो ऽन्नात्मान्नप्रलयो ऽहं तस्माद् अन्नं ब्रह्मेति / कुतः पुनः सर्वान्नप्राप्तिफलम् अन्नात्मोपासनम् इत्य् उच्यते — अन्नं हि भूतानां ज्येष्ठम् / भूतेभ्यः पूर्वम् उत्पन्नत्वाज् ज्येष्ठं हि यस्मात् तस्मात् सर्वौषधम् उच्यते / तस्माद् उपपन्ना सर्वान्नात्मोपासकस्य सर्वान्नप्राप्तिः / अन्नाद् भूतानि जायन्ते, जातान्य् अन्नेन वर्धन्त इत्य् उपसंहारार्थं पुनर् वचनम् / इदानीम् अन्ननिर्वचनम् उच्यते — अद्यते भुज्यते चैव यद् भूतैर् अत्ति च भूतानि स्वयं, तस्माद् भूतैर् भुज्यमानत्वाद् भूतभोक्तृत्वाच् चान्नं तद् उच्यते / इतिशब्दः प्रथमकोशपरिसमाप्त्यर्थः / अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्यो ऽभ्यन्तरतमं ब्रह्म विद्यया प्रत्यगात्मवेन दिदर्शयिषु शास्त्रम् अविद्याकृतपञ्चकोशापनयनेनानेकतुषकोद्रववितुषीकरणेनेव तद् अन्तर्गततण्डुलान् प्रस्तौति, तस्माद् वा एतस्माद् अनरसमयाद् इत्य् आदि / तस्माद् एतस्माद् यथोक्ताद् अन्नरसमयात् पिण्डाद् अन्यो व्यतिरिक्तो ऽन्तरो ऽभ्यन्तर आत्मा पिण्डवद् एव मिथ्यापरिकल्पितम् आत्मत्वेन प्राणमयः, प्राणो वायुस् तन्मयस् तत्प्रायः / तेन प्राणमयेन एष अन्नरसमय आत्मा पूर्णो वायुनेव दृतिः / स वा एष प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव शिरःपक्षादिभिः / किं स्वत एव, नेत्य् आह / प्रसिद्धं तावद् अन्नरसमयस्यात्मनः पुरुषविधत्वम् / तस्यान्नरसमयस्य पुरुषविधतां पुरुषाकारताम् / अन्वयं प्राणमयः पुरुषविधो मूषानिषिक्तप्रतिमावन्न स्वत एव / एवं पूर्वस्य पूर्वस्य पुरुषविधता, ताम् अनूत्तरोत्तरः पुरुषविधो भवति, पूर्वः पूर्वश् चोत्तरोत्तरेण पूर्णः / कथं पुनः पुरुषविधतास्येत्य् उच्यते — तस्य प्राणमयस्य प्राण एव शिरः प्राणमयस्य वायुविकारस्य प्राणो मुखनासिकानिःसरणो वृत्तिविशेषः शिर एव परिकल्प्यते, वचनात् / सर्वत्र वचनाद् एव पक्षादिकल्पना / व्यानो व्यानवृत्तिर् दक्षिणः पक्षः / अपान उत्तरः पक्षः / आकाश आत्मा, या आकाशस्थो वृत्तिविशेषः समानाख्यः स आत्मेव आत्मा प्राणवृत्त्यधिकाराद् मध्यस्थत्वादितराः पर्यन्ता वृत्तीर् अपेक्ष्य आत्मा / मध्यं ह्य् एषाम् अङ्गानाम् आत्मा (Aइत्U ३,५.४) इति श्रुतिप्रसिद्ध मध्यस्थस्यात्मत्वम् / पृथिवी पुच्छं प्रतिष्ठा / पृथिवीति पृथिवीदेवता आध्यात्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात् / सैषा पुरुषस्यापानम् अवष्टभ्य (Pरश्U ३,८) इति हि श्रुत्यन्तरम् / अन्यथोदानवृत्त्योर्ध्वगमनं गुरुत्वात् पतनं वा स्याच् छरीरस्य / तस्मात् पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्यात्मनः / तत् तस्मिन्न् एवार्थे प्राणमयात्मविषय एष श्लोको भवति //
SK
प्राणं देवा अनु प्राणन्ति / मनुष्याः पशवश्च ये / प्राणो हि भूतानामायुः / तस्मात् सर्वायुषमुच्यते / सर्वमेव त आयुर्यन्ति / ये प्राणं ब्रह्मोपासते / प्राणो हि भूतानामायुः / तस्मात् सर्वायुषमुच्यत इति / तस्यैष एव शारीर आत्मा / यः पूर्वस्य / तस्माद्वा एतस्मात् प्राणमयात् / अन्यो ऽन्तर आत्मा मनोमयः / तेनैष पूर्णः / स वा एष पुरुषविध एव / तस्य पुरुषविधताम् / अन्वयं पुरुषविधः / तस्य यजुरेव शिरः / ऋग्दक्षिणः पक्षः / सामोत्तरः पक्षः / आदेश आत्मा / अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा / तदप्येष श्लोको भवति //
SK
प्राणं देवा अनु प्राणन्ति / देवा अग्न्यादयः प्राणं वाय्वात्मानं प्राणनशक्तिमन्तमनु तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति, प्राणनक्रियया क्रियावन्तो भवन्ति / अध्यात्माधिकाराद् देवा इन्द्रियाणि प्राणम् अनु प्राणन्ति मुख्यप्राणम् अनु चेष्टन्त इति वा / तथा मनुष्याः पशवश् च ये ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति / अतश् च नान्नमयेनैव परिच्छिन्नेन आत्मना आत्मवन्तः प्राणिनः / किं तर्हि? तदन्तर्गतेन प्राणमयेनापि साधारणेनैव सर्वपिण्डव्यापिना आत्मवन्ती मनुष्यादयः / एवं मनोमयादिभिः पूर्वपूर्वव्यापिभिर् उत्तरोत्तरैः सूक्ष्मैर् आनन्दमयान्तैर् आकाशादिभूतारब्धैर् अविद्याकृतैर् आत्मवन्तः सर्वे प्राणिनः / तथा स्वाभाविकेनाप्याकाशादिकारणेन नित्येनाविकृतेन सर्वगतेन सत्यज्ञानानन्तलक्षणेन पश्चकोशातिगेन सर्वात्मना आत्मवन्तः / स हि परमार्थत आत्मा सर्वेषाम् इत्य् एतद् अप्य् अर्थाद् उक्ततं भवति / प्राणं देवा अनुप्राणन्तीत्य् उक्तं तत् कस्माद् इत्य् आह — प्राणो हि यस्मात् भूतानां प्राणिनाम् आयुर् जीवनम् / यावद् ध्य् अस्मिञ् शरीरे प्राणो वसति तावद् आयुः (Kष्U ३,२) इति श्रुत्यन्तरात् / तस्मात् सर्वायुषम् / सर्वेषाम् आयुः सर्वायुः सर्वायुर् एव सर्वायुषम् इत्य् उच्यते / प्राणापगमे मरणप्रसिद्धेः / प्रसिद्धं हि लोके सर्वायुष्ट्वं प्राणस्य / अतो ऽस्माद् बाह्यात् असाधारणाद् अन्नमयाद् आत्मनो ऽपक्रम्य अन्तः साधारणं प्राणमयमात्मानं ब्रह्मोपासते ये ऽहम् अस्मि प्राणः सर्वभृतानाम् आत्मायुर्जीवनहेतुत्वाद् इति, ते सर्वम् एवायुर् अस्मिंल् लोके यान्ति नापमृत्युना म्रियन्ते प्राक्प्राप्ताद् आयुष इत्य् अर्थः / शतं वर्षाणीति तु युक्ततं सर्वम् आयुरेति इति श्रुतिप्रसिद्धेः / किं कारणं? प्राणो हि भृतानाम् आयुस् तस्मात् सर्वायुषम् उच्यत इति / यो यद्गुणकं ब्रह्मोपास्ते स तद्गुणभाग्भवतीति विद्याफलप्राप्तेर् हेत्वर्थं पुनर्वचनं प्राणो हीत्य् आदि / तस्य पूर्वस्यान्नमयस्यैष एव शरीरे ऽन्नमये भवः शारीर आत्मा / कः / य एष प्राणमयः / तस्माद् वा एतस्माद् इत्य् आद्युक्तार्थम् अन्यत् / अन्यो ऽन्तर आत्मा मनोमयः / मन इति सङ्कल्पाद्यात्मकम् अन्तःकरणं तन्मयो मनोमयो, सो ऽयं प्राणभयस्याभ्यन्तर आत्मा / तस्य यजुर् एव शिरः / यजुर् इति अनियताक्षरपादावसानो मन्त्रविशेषः तज्जातीयवचनो यजुःशब्दस् तस्य शिरस्त्वं प्राधान्यात् / प्राधान्यं च यागादौ सन्निपत्योपकारात् / यजुषा हि हविर् दीयते स्वाहाकारादिना / वाचनिकी वा शिरादिकल्पना सर्वत्र / मनसो हि स्थानप्रयत्ननादस्वरवर्णपदवाक्यविषया तत्सङ्कल्पात्मिका तद्भाविता वृत्तिः श्रोत्रादिकरणद्वारा यजुःसङ्केतविशिष्टा यजुर् इत्य् उच्यते / एवम् ऋग् एवं साम च / एवञ्श् च मनोवृत्तित्वे मन्त्राणां वृत्तिर् एवावर्त्यत इति मानसो जप उपपद्यते / अन्यथा अविषयत्वान् मन्त्रो नावर्तयितुं शक्यो घटादिवद् इति मानसो जपो नोपपद्यते / मन्त्रावृत्तिश् च चोद्यते बहुशः कर्मसु / अक्षरविषयस्मृत्यावृत्त्या मन्त्रावृत्तिः स्याद् इति चेन् न / मुख्यार्थासम्भवात् / त्रिः प्रथमामन्वाह त्रिरुत्तमाम् (ŚBर् ११,२.१.४) इति ऋगावृत्तिः श्रूयते / तत्र र्चो ऽविषयत्वे तद्विषयस्मृत्या आवृत्तौ च क्रियमाणायां त्रिः प्रथमामन्वाहेति र्गावृत्तिर् मुख्यो ऽर्थश् चोदितः परित्यक्तः स्यात् / तस्मान् मनोवृत्युपाधिपरिच्छिन्नं मनोवृत्तिनिष्ठमात्मचैतन्यम् अनादिनिधनं यजुःशब्दवाच्यम् आत्मविज्ञानं मन्त्रा इति / एवञ् च नित्यत्वोपपत्तिर् वेदानाम् / अन्यथा विषयत्वे रूपादिवदनित्यत्वं च स्यात् / नैतद् युक्तम् / सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्म (Tऐत्त्Ā ३,११.१) इति च श्रुतिर् नित्यात्मनैकत्वं ब्रुवन्ती ऋगादीनां नित्यत्वे समञ्जसा स्यात् / ऋचो अक्षरे परमे व्योमन्य् अस्मिन् देवा अधि विश्वे निषेदुः? (Śव्U ४,८) इति च मन्त्रवर्णः / आदेशो ऽत्र ब्राह्मणमादेष्टव्यविशेषानादिशतीति / अथर्वणाङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणां च शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधानत्वात् पुच्छं प्रतिष्ठा / तद् अप्य् एष श्लोको भवति मनोमयात्मप्रकाशकः पूर्ववत् //
SK
यतो वाचो निवर्तन्ते / अप्राप्य मनसा सह / आनन्दं ब्रह्मणो विद्वान् / न बिभेति कदाचनेति / तस्यैष एव शारीर आत्मा / यः पूर्वस्य / तस्माद्वा एतस्मान्मनोमयात् / अन्योन्तर आत्मा विज्ञानमयः / तेनैष पूर्णः / स वा एष पुरुषविध एव / तस्य पुरुषविधताम् / अन्वयं पुरुषविधः / तस्य श्रद्धैव शिरः / ऋतं दक्षिणः पक्षः / सत्यमुत्तरः पक्षः / योग आत्मा / महः पुच्छं प्रतिष्ठा / तदप्येष श्लोको भवति //
SK
यतो वाचो निवर्तन्त अप्राप्य मनसा सहेत्य् आदि / तस्य पूर्वस्य प्राणमयस्यैष एवात्मा शारीरः शरीरे प्राणमये भवः शारीरः / कः / य एष मनोमयः / तस्माद् वैतस्माद् इत्य् आदि पूर्ववत् / अन्यो ऽन्तर आत्मा विज्ञानमयो मनोमयस्याभ्यन्तरो विज्ञानमयः / मनोमयो वेदात्मोक्तः / वेदार्थविषया बुद्धिर् निश्चयात्मिका विज्ञानं, तच् चाध्यवसायलक्षणम् अन्तःकरणस्य धर्मः / तन्मयो निश्चयविज्ञानैः प्रमाणस्वरूपैर् निर्वर्तित आत्मा विज्ञानमयः / प्रमाणविज्ञानपूर्वको हि यज्ञादिस्तायते / यज्ञादिहेतुत्वं च वक्ष्यति श्लोकेन / निश्चयविज्ञानवतो हि कर्तव्येष्व् अर्थेषु पूर्वं श्रद्धोत्पद्यते / सा सर्वकर्तव्यानां प्राथम्याच् छिर इव शिरः / ऋतसत्ये यथा व्याख्याते एव / योगो युक्तिः समाधानम् / आत्मेवात्मा / आत्मवतो हि युक्तस्य समाधानवत अङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति / तस्मात् समाधानं योग आत्मा विज्ञानमयस्य / महः पुच्छं प्रतिष्ठा / मह इति महत्तत्त्वं प्रथमजम् / महद्यक्षं प्रथमजं (BĀU ५,४.१) इति श्रुत्यन्तरात् / पुच्छं प्रतिष्ठा कारणत्वात् / कारणं हि कार्याणां प्रतिष्ठा / यथा वृक्षवीरुधां पृथिवी / सर्वविज्ञानानां च महत्तत्त्वं कारणम् / तेन तद्विज्ञानमयस्यात्मनः प्रतिष्ठा / तद् अप्य् एष श्लोको भवति पूर्ववत् / यथान्नमयादीनां ब्राह्मणोक्तानां प्रकाशकाः श्लोका, एवं विज्ञानमयस्यापि
SK
विज्ञानं यज्ञं तनुते / कर्माणि तनुते ऽपि च / विज्ञानं देवाः सर्वे / ब्रह्म ज्येष्ठमुपासते / विज्ञानं ब्रह्म चेद्वेद / तस्मच्चेन्न प्रमाद्यति / शरीरे पाप्मनो हित्वा / सर्वान्कामान्समश्नुत इति / तस्यैष एव शारीर आत्मा / यः पूर्वस्य / तस्माद्वा एतस्माद्विज्ञानमयात् / अन्यो ऽन्तर आत्मानन्दमयः / तेनैष पूर्णः / स वा एष पुरुषविध एव / तस्य पुरुषविधताम् / अन्वयं पुरुषविधः / तस्य प्रियमेव शिरः / मोदो दक्षिणः पक्षः / प्रमोद उत्तरः पक्षः / आनन्द आत्मा / ब्रह्म पुच्छं प्रतिष्ठा / तदप्येष श्लोको भवति // Tऐत्त्U_२,५.१ //
SK
विज्ञानं यज्ञं तनुते / विज्ञानवान् हि यज्ञं तनोति श्रद्धादिपूर्वकम् / अतो विज्ञानस्य कर्तृत्वं तनुत इति / कर्माणि च तनुते / यस्माद् विज्ञानकर्तृकं सर्वं तस्माद् युक्तं विज्ञानमय आत्मा ब्रह्मेति / किञ्च विज्ञानं ब्रह्म सर्वे देवा इन्द्रादयो ज्येष्ठं प्रथमजत्वात् सर्वप्रवृत्तीनां वा तत्पूर्वकवात् प्रथमजं विज्ञानं ब्रह्मोपासते ध्यायन्ति, तस्मिन् विज्ञानमये ब्रह्मण्य् अभिमानं कृत्वोपासत इत्य् अर्थः / तस्मात् ते महतो ब्रह्मण उपासनाज् ज्ञानैश्वर्यवन्तो भवन्ति / तच् च विज्ञानं ब्रह्म चेद् यदि वेद विजानाति, न केवलं वेदैव तस्माद् ब्रह्मणश् चेन् न प्रमाद्यति, बाह्येष्व् एवानात्मस्वात्मभावितः, तस्मात् प्राप्तं विज्ञानमये ब्रह्मण्य् आत्मभावनायाः प्रमदनं, तन्निवृत्त्यर्थम् उच्यते — तस्माच् चेन् न प्रमाद्यतीति / अन्नमयादिष्व् आत्मभावं हित्वा केवले विज्ञानमये ब्रह्मण्य् आत्मत्वं भावयन् नास्ते चेद् इत्य् अर्थः / ततः किं स्याद् इत्य् उच्यते — शरीरे पाप्मनो हित्वा, शरीराभिमाननिमित्ता हि सर्वे पाप्मानस् तेषां च विज्ञानमये ब्रह्मण्य् आत्माभिमानान् निमित्तापाये हानम् उपपद्यते, छत्रापाय इव च्छायायाः / तस्माच् छरीराभिमाननिमित्तान् सर्वान् पाप्मनः शरीरप्रभवाञ् शरीर एव हित्वा विज्ञानमयब्रह्मस्वरूपापन्नः तत्स्थान्सर्वान् कामान् विज्ञानमयेनैवात्मना समश्नुते सम्यग्भुङ्क इत्य् अर्थः / तस्य पूर्वस्य मनोमयस्यात्मैष एव शरीरे मनोमये भवः शारीरः / कः / य एष विज्ञानमयः / तस्माद् वैतस्माद् इत्य् उक्तार्थम् / आनन्दमय इति कार्यात्मप्रतीतिर् अधिकारान् मयट्शब्दाच् च / अन्नादिमया हि कार्यात्मानो भौतिका इहाधिकृताः / तदधिकारपतितश् चायम् आनन्दमयः / मयट् चात्र विकारार्थे दृष्टो यथान्नमय इत्य् अत्र / तस्मात् कार्यात्मा आनन्दमयः प्रत्येतव्यः / सङ्क्रमणाच् च आनन्दमयम् आत्मानम् उपसङ्क्रामति (Tऐत्त्U २,८.५) इति वक्ष्यति / कार्यात्मनां च सङ्क्रमणम् अन्नात्मनां दृष्टम् / सङ्क्रमणकर्मत्वेन चानन्दमय आत्मा श्रूयते / यथान्नमयम् आत्मानम् उपसङ्क्रामतीति / न चात्मन एवोपसङ्क्रमणम् / अधिकारविरोधाद् असम्भवाच् च / न ह्य् आत्मनैवात्मन उपसङ्क्रमणं सम्भवति / स्वात्मनि भेदाभावात् / आत्मभूतं च ब्रह्म सङ्क्रमितुः / शिर आदिकल्पनानुपपत्तेश् च / न हि यथोक्तलक्षण आकाशादिकारणे ऽकार्यपतिते शिर आद्यवयवरूपकल्पनोपपद्यते / अदृश्ये ऽनात्म्ये ऽनिरुत ऽनिलयने (Tऐत्त्U २,७.१) अस्थूलमनणु (BĀU ३,८.८) नेति नेत्य् आत्मा (BĀU ३,९.२६) इत्य् आदिविशेषापोहश्रुतिभ्यश् च / मन्त्रोदाहरणानुपपत्तेश् च / न हि प्रियशिर आद्यवयवविशिष्टे प्रत्यक्षतो ऽनुभूयमान आनन्दमय आत्मनि ब्रह्मणि नास्ति ब्रह्मेत्य् आशङ्काभावात् / असन् नेव स भवत्य् असद्ब्रह्मेति वेद चेत् (Tऐत्त्U २,६.१) इति मन्त्रोदाहरणम् उपपद्यते / ब्रह्म पुच्छं प्रतिष्ठेत्य् अपि चानुपपन्नं पृथग् ब्रह्मणः प्रतिष्ठात्वेन ग्रहणम् / तस्मात् कार्यपतित एवानन्दमयो न पर एवात्मा / आनन्द इति विद्याकर्मणोः फलम् / तद्विकार आनन्दमयः / स च विज्ञानमयाद् आन्तरः / यज्ञादिहेतोर् विज्ञानमयाद् अस्यान्तरत्वश्रुतेः / ज्ञानकर्मणोर् हि फलं भोक्त्रर्थत्वाद् अन्तरतमं स्यात् / अन्तरतमश् चानन्दमय आत्मा पूर्वेभ्यः / विद्याकर्मणोः प्रियाद्यर्थत्वाच् च / प्रियादिप्रयुक्ते हि विद्याकर्मणी / तस्मात् प्रियादीनां फलरूपाणाम् आत्मसन्निकर्षात् विज्ञानमयाद् अस्याभ्यन्तरत्वम् उपपद्यते, प्रियादिवासनानिर्वर्तितो ह्य् आत्मा आनन्दमयो विज्ञानमयाश्रितः स्वप्न उपलभ्यते / तस्यानन्दमयस्यात्मन इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः प्राधान्यात् / मोद इति प्रियलाभनिमित्तो हर्षः / स एव च प्रकृष्टो हर्षः प्रमोदः / आनन्द इति सुखसामान्यम् आत्मा प्रियादीनां सुखावयवानां तेष्व् अनुस्यूतत्वात् / आनन्द इति परं ब्रह्म / तद् धि शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्रादिविषयविशेषोपाधाव् अन्तःकरणवृत्तिविशेषे तमसा अप्रच्छाद्यमाने प्रसन्ने ऽभिव्यज्यते / तद्विषयसुखम् इति प्रसिद्धं लोके / तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्मणो ऽनवस्थितत्वात् सुखस्य क्षणिकत्वम् / तद्यदन्तःकरणं तपसा तमोघ्नेन विद्यया ब्रह्मचर्येण श्रद्धया च निर्मलत्वम् आपद्यते यावद् यावत् तावद् विविक्ते प्रसन्ने ऽन्तःकरण आनन्दविशेष उत्कृष्यते विपुलीभवति / वक्ष्यति च रसो वै सः / रसो ह्य् एवायं लब्ध्वा नन्दी भवति ... एष ह्य् एवानन्दयाति (Tऐत्त्U २,७.१) / एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति (BĀU ४,३.३२) इति श्रुत्यन्तरात् / एवञ् च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्ष आनन्दस्य वक्ष्यते / एवं चोत्कृष्यमाणस्यानन्दमयस्यात्मनः परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परम् एव यत्प्रकृतं सत्यज्ञानानन्तलक्षणं, यस्य च प्रतिपत्त्यर्थं पञ्चान्नादिमयाः कोशा उपन्यस्ताः यच् च तेभ्य आभ्यन्तरं, येन ते सर्व आत्मवन्तः, तद्ब्रह्म पुच्छं प्रतिष्ठा / तद् एव च सर्वस्याविद्यापरिकलिपतस्य द्वैतस्यावसानभूतम् अद्वैतं ब्रह्म प्रतिष्ठा / आनन्दमयस्यैकत्वावसानत्वात् / अस्ति तद् एकम् अविद्याकल्पितस्य द्वैतस्यावसानभूतम् अद्वैतं ब्रह्म प्रतिष्ठा पुच्छम् / तद् एतस्मिन्न् अप्य् अर्थम् एष श्लोको भवति //
SK
असन्नेव स भवति / असदब्रह्मेति वेद चेत् / अस्ति ब्रह्मेति चेद्वेद / सन्तमेनं ततो विदुरिति / तस्यैष एव शारीर आत्मा / यः पूर्वस्य / अथातो ऽनुप्रश्नाः / उताविद्वानमुं लोकं प्रेत्य / कश्चन गच्छती३ आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता३उ / सो ऽकामयत / बहु स्यां प्रजायेयेति / स तपो ऽतप्यत / स तपस्तप्त्वा / इदं सर्वमसृजत / यदिदं किञ्च / तत्सृष्ट्वा / तदेवानुप्राविशत् / तदनुप्रविश्य / सच्च त्यच्चाभवत् / निरुक्तं चानिरुक्तं च / निलयनं चानिलयनं च / विज्ञानं चाविज्ञानं च / सत्यं चानृतं च सत्यमभवत् / यदिदं किञ्च / तत्सत्यमित्याचक्षते / अ तदप्येष श्लोको भवति //
SK
असन्न् एवासत्सम एव, यथासन्न् अपुरुषार्थसम्बन्ध्येवं स भवत्य् अपुरुषार्थसम्बन्धी / को ऽसौ? यो ऽसद् अविद्यमानं ब्रह्मेति वेद विजानाति चेद् यदि / तद्विपर्ययेण यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिबीजं सर्वविशेषप्रत्यस्तमितम् अपि, अस्ति तद्ब्रह्मेति वेद चेत् / कुतः पुनर् आशङ्का तन् नास्तित्वे, व्यवहारातीतत्वं ब्रह्मण इति ब्रूमः / व्यवहारविषये हि वाचारम्भणमात्रे ऽस्तित्वभाविता बुद्धिस् तद्विपरीते व्यवहारातीते नास्तित्वम् अपि प्रतिपद्यते / यथा घटादिर् व्यवहारविषयतयोपपन्नः संस्तद्विपरीतो ऽसन्न् इति प्रसिद्धम् / एवं तत्सामान्याद् इहापि स्याद् ब्रह्मणो नास्तित्वं प्रत्याशङ्का / तस्माद् उच्यते — अस्ति ब्रह्मेति चेद् वेदेति / किं पुनः स्यात् तद् अस्तीति विजानतस् तदाह — सन्तं विद्यमानं ब्रह्मस्वरूपेण परमार्थसदात्मापन्नम् एवंविदं विदुर् ब्रह्मविदः / ततस् तस्माद् अस्तित्ववेदनात् सो ऽन्येषां ब्रह्मवद्विज्ञेयो भवतीत्य् अर्थः / अथवा यो नास्ति ब्रह्मेति मन्यते स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्थालक्षणस्याश्रद्दधानतया नास्तित्वं प्रतिपद्यते ब्रह्मप्रतिपत्त्यर्थत्वात् तस्य / अतो नास्तिकः सो ऽसन्नसाधुर् उच्यते लोके / तद्विपरीतः सन्यो ऽस्ति ब्रह्मेति चेद् वेद, स तद्ब्रह्मप्रतिपत्तिहेतुं सन्मार्गं वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथावत्प्रतिपद्यते यस्मात् ततस् तस्मात् सन्तं साधुमार्गस्थम् एनं विदुः साधवः / तस्माद् अस्तीत्य् एव ब्रह्म प्रतिपत्तव्यम् इति वाक्यार्थः / तस्य पूर्वस्य विज्ञानमयस्यैष एव शरीरे विज्ञानमये भवः शारीर आत्मा / को ऽसौ / य एष आनन्दमयः / तं प्रति नास्त्य् आशङ्का नास्तित्वे / अपोढसर्वविशेषत्वात् तु ब्रह्मणो नास्तित्वं प्रत्याशङ्का युक्ता / सर्वसामान्याच् च ब्रह्मणः / यस्माद् एवम् अतस् तस्मात् अथानन्तरं श्रोतुः शिष्यस्यानुप्रश्ना आचार्योक्तिम् अन्वेते प्रश्ना अनुप्रश्नाः — सामान्यं हि ब्रह्म आकाशादिकारणत्वाद् विदुषो ऽविदुषश् च / अत अविदुषो ऽपि ब्रह्मप्राप्तिर् आशङ्क्यते / उताप्य् अविद्वान् अमुं लोकं परमात्मानम् इतः प्रेत्य कश्चन, चनशब्दो ऽप्य् अर्थे, अविद्वान् अपि गच्छति प्राप्नोति? किंवा न गच्छतीति द्वितीयो ऽपि प्रश्नो द्रष्टव्यो ऽनुप्रश्ना इति बहुवचनात् / विद्वांसं प्रत्यन्यौ प्रश्नौ — यद्य् अविद्वान् सामान्यं कारणम् अपि ब्रह्म न गच्छति, ततो विदुषो ऽपि ब्रह्मागमनम् आशङ्क्यते / अतस् तं प्रति प्रश्न आहो विद्वान् इति / उकारं च वक्ष्यमाणम् अधस्ताद् अपकृष्य तकारं च पूर्वस्माद् उतशब्दाद् व्यासज्य आहो इत्य् एतस्मात् पूर्वम् उतशब्दं संयोज्य पृच्छत्य् उताहो विद्वान् इति / विद्वान् ब्रह्मविद् अपि कश्चिद् इतः प्रेत्यामुं लोकं समश्नुते प्राप्नोति / समश्नुते उ इत्य् एवं स्थिते ऽयादेशे यलोपे च कृते ऽकारस्य प्लुतिः समश्नुता३ उ इति / विद्वान् समश्नुते ऽमुं लोकम् / किंवा यथाविद्वान् एवं विद्वान् अपि न समश्नुत इत्य् अपरः प्रश्नः / द्वाव् एव वा प्रश्नौ विद्वदविद्वद्विषयौ / बहुवचनं तु सामथ्र्यप्राप्तप्रश्नान्तरापेक्षया घटते / असद्ब्रह्मेति वेद चेत् / अस्ति ब्रह्मेति चेद् वेद (Tऐत्त्U २,६.१) इति श्रवणाद् अस्ति नास्तीति संशयः / ततो ऽर्थप्राप्तः किम् अस्ति नास्तीति प्रथमो ऽनुप्रश्नः / ब्रह्मणो ऽपक्षपातित्वाद् अविद्वान् गच्छति न गच्छतीति द्वितीयः / ब्रह्मणः समत्वे ऽप्य् अविदुष इव विदुषो ऽप्य् अगमनम् आशङ्क्य किं विद्वान् समश्नुते न समश्नुत इति तृतीयो ऽनुप्रश्नः /
SK
एतेषां प्रतिवचनार्थम् उत्तरग्रन्थ आरभ्यते / तत्रास्तित्वम् एव तावद् उच्यते / यच् चोक्ततं सत्यं ज्ञानम् अनन्तं ब्रह्म (Tऐत्त्U २,१.१) इति तत्र कथं सत्यत्वम् इत्य् एतद् वक्तव्यम् इतीदम् उच्यते / सत्त्वोक्त्यैव सत्यत्वम् उच्यते / उक्तं हि सद् एव सत्यम् इति / तस्मात् सत्त्वोक्त्यैव सत्यत्वम् उच्यते / कथम् एवम् अर्थातावगम्यते ऽस्य ग्रन्थस्य? शब्दानुगमात् / अनेनैव ह्य् अर्थेनान्वितान्य् उत्तराणि वाक्यानि / तत्सत्यम् इत्य् आचक्षते (Tऐत्त्U २,६.१) यद् एष आकाश आनन्दो न स्यात् (Tऐत्त्U २,७.१) इत्य् आदीनि / तत्रासद् एव ब्रह्मेत्य् आशङ्कयते / कस्मात् / यद् अस्ति तद्विशेषतो गृह्यते यथा घटादि / यन् नास्ति तन् नोपलभ्यते तथा शशविषाणादि / तथा नोपलभ्यते ब्रह्म / तस्माद् विशेषतो ऽग्रहणान् नास्तीति / तन् न / आकाशादिकारणत्वाद् ब्रह्मणः न नास्ति ब्रह्म / कस्मात् / आकाशादि हि सर्वं कार्यं ब्रह्मणो जातं गृह्यते / यस्माच् च जायते किञ्चित् तद् अस्तीति दृष्टं लोके यथा घटाङ्कुरादिकारणं मृद्बीजादि / तस्माद् आकाशादिकारणत्वाद् अस्ति ब्रह्म / न चासतो जातं किञ्चिद् गृह्यते लोके कार्यम् / असतश् चेन् नामरूपादिकार्यं निरात्मकत्वान् नोपलभ्येत / उपलभ्यते तु / तस्माद् अस्ति ब्रह्म / असतश् चेत् कार्ये गृह्यमाणम् अप्य् असदन्वितम् एव स्यात् / न चैवं, तस्माद् अस्ति ब्रह्म / तत्र कथम् असतः सज्जायेतेति श्रुत्यन्तरम् असतः सज्जन्मासम्भवम् अन्वचष्टे न्यायतः / तस्मात् सद् एव ब्रह्मेति युक्तम् / तद् यदि मृद्बीजादिवत्कारणं स्याद् अचेतनं तर्हि / न / कामयितृत्वात् / न हि कामयित्रचेतनम् अस्ति लोके / सर्वज्ञे हि ब्रह्मेत्य् अवोचाम / अतः कामयितृत्वोपपत्तिः / कामयितृत्वाद् अस्मदादिवदनाप्तकामम् इति चेत्, न / स्वातन्त्र्यात् / यथान्यान् परवशीकृत्य कामादिदोषाः प्रवर्तयन्ति, न तथा ब्रह्मणः प्रवर्तकाः कामाः / कथं तर्हि, सत्यज्ञानलक्षणाः स्वात्मभूतत्वाद् विशुद्धाः / नतैर् ब्रह्म प्रवर्त्यते / तेषां तु तत्प्रवर्तकं ब्रह्म प्राणिकर्मापेक्षया / तस्मात् स्वातन्त्र्यं कामेषु ब्रह्मण अतो नानाप्तकामं ब्रह्म / साधनान्तरानपेक्षत्वाच् च /
SK
किञ्च यथान्येषामनात्मभूता धर्मादिनिमित्तापेक्षा कामाः स्वात्मव्यतिरिक्तकार्यकरणसाधनान्तरापेक्षाश् च, न तथा ब्रह्मणो निमित्ताद्यपेक्षत्वम् / किं तर्हि, स्वात्मनो ऽनन्याः / तद् एतद् आह — सो ऽकामयत / स आत्मा यस्माद् आकाशः सम्भूतो ऽकामयत कामितवान् / कथं बहुं स्यां बहु प्रभूतं स्यां भवेयम् / कथम् एकस्यार्थान्तरान् अनुप्रवेशे बहुत्वं स्याद् इत्य् उच्यते / प्रजायेयोत्पद्येय / न हि पुत्रोत्पत्तेर् इवार्थान्तरविषयं बहुभवनम् / कथं तर्ह्य् आत्मस्थानभिव्यक्तनामरूपाभिव्यक्त्या / यद् आत्मस्थ अनभिव्यक्ते नामरूपे व्याक्रियेते, तदा नामरूप आत्मस्वरूपापरित्यागेनैव ब्रह्मणाप्रविभक्तदेशकाले सर्वावस्थासु व्याक्रियेते / तद् एतन् नामरूपव्याकरणं ब्रह्मणो बहुभवनम् / नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिर् उपपद्यते ऽल्पत्वं वा यथाकाशस्यालपत्वं बहुत्वं च वस्त्वन्तरकृतम् एव / अतस् तद् द्वारेणैवात्मा बहु भवति / न ह्य् आत्मनो ऽन्यद् अनात्मभूतं तत्प्रविभक्तदेशकालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद् वा वस्तु विद्यते / अतो नामरूपे सर्वावस्थे ब्रह्मणैवात्मवती / न ब्रह्म तदात्मकम् / ते ततप्रत्याख्याने न स्त एवेति तदात्मक उच्येते / ताभ्यां चोपाधिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसंव्यवहारभाग् ब्रह्म /
SK
स आत्मैवङ्कामः संस्तपो ऽतप्यत / तप इति ज्ञानम् उच्यते / यस्य ज्ञानमयं तपः (MU १,१.९) इति श्रुत्यन्तरात् / आप्तकामत्वाच् चेतरस्यासम्भव एव तपसः / तत्तपो तप्यत तप्तवान् / सृज्यमानजगद्रचनादिविषयामालोचनाम् अकरोद् आत्मेत्य् अर्थः / स एवम् आलोच्य तपस् तप्त्वा प्राणिकर्मादिनिमितानुरूपम् इदं सर्वं जगद् देशतः कालतो नाम्ना रूपेण च यथानुभवं सर्वैः प्राणिभिः सर्वावस्थैर् अनुभूयमानम् असृजत सृष्टवान् / यद् इदं किञ्च यत्किञ्चेदम् अविशिष्टम् / तद् इदं जगत्सृष्ट्वा किम् अकरोद् इत्य् उच्यते — तद् एव सृष्टं जगदनुप्राविशद् इति /
SK
तत्रैतच् चिन्त्यं — कथम् अनुप्राविशद् इति / किं, यः स्रष्टा स तेनैवात्मनानुप्राविशद् उतान्येनेति? किं तावद् युक्तम्? वत्वाप्रत्ययश्रवणाद्यः स्रष्टा स एवानुप्राविशद् इति / ननु न युक्तं मृद्वच् चेत् कारणं ब्रह्म, तदात्मकत्वात् कार्यस्य / कारणम् एव हि कार्यात्मना परिणमते / अतो ऽप्रविष्टस्यैव कार्योत्पत्तेर् ऊध्र्वं पृथक् कारणस्य पुन प्रवेशो ऽनुपपन्नः / न हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशो ऽस्ति / यथा घटे चूर्णात्मन मृदो ऽनुप्रवेशः, एवम् अनेनात्मना नामरूपकार्ये ऽनुप्रवेश आत्मन इति चेत् श्रुत्यन्तराच् च अनेन जीवेनात्मनानुप्रविश्य (Cह्U ६,३.२) इति, नैवं युक्तम् एकत्वाद् ब्रह्मणः / मृदात्मनस् त्व् अनेकत्वात् सावयवत्वाच् च युक्तो घटे मृदश् चूर्णात्मनानुप्रवेशः / मृदश् चूर्णस्याप्रविष्टदेशवत्वाच् च / न त्व् आत्मन एकत्वे सति निरवयत्वावप्रविष्टदेशाभावाच् च प्रवेश उपपद्यते / कथं तर्हि प्रवेशः स्यात्? युक्तश् च प्रवेशः, श्रुतत्वात् तद् एवानुप्राविशद् इति / सावयम् एवास्तु / तर्हि सावयवत्वान् मुखे हस्तप्रवेशवन्नामरूपकार्ये जीवात्मनानुप्रवेशो युक्त एवेति चेन् न / अशून्यदेशत्वात् / नहि कार्यात्मना परिणतस्य नामरूपकार्यं देशव्यतिरेकेणात्मशून्यः प्रदेशो ऽस्ति यं प्रविशेज् जीवात्मना / कारणवेव चेत् प्रविशेज् जीवात्मत्वं जह्याद् यथा घटो मृत्प्रवेशे घटत्वं जहाति / तद् एवानुप्राविशद् इति च श्रुतेर् न कारणानुप्रवेशो युक्तः / कार्यान्तरम् एव स्याद् इति चेत् / तद् एवानुप्राविशद् इति / जीवात्मरूपं कार्यं नामरूपपरिणतं कार्यान्तरम् एवापद्यत इति चेन् न / विरोधात् / न हि घटो घटान्तरम् आपद्यते, व्यतिरेकश्रुतिविरोधाच् च / जीवस्य नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन् / तदापत्तौ मोक्षासम्भवाच् च / न हि यतो मुच्यमानस् तद् एवापद्यते / न हि शृङ्खलापत्तिवद्धस्य तस्करादेः / बाह्यान्तरभेदेन परिणतम् इति चेत् तद् एव कारणं ब्रह्म शरीराद्याधारत्वेन तदन्तर्जीवात्मना आधेयत्वेन च परिणतम् इति चेन् न, बहिःष्ठस्य प्रवेशोपपत्तेः / नहि यो यस्यान्तःस्थः स एव तत्प्रविष्ट उच्यते / बहिःष्ठस्यानुप्रवेशः स्यात् प्रवेशशब्दार्थस्यैवं दृष्टत्वात् / यथा गृहं कृत्वा प्राविशद् इति / जलसूर्यकादिप्रतिबिम्बवत्प्रवेशः स्याद् इति चेन् न / अपरिच्छिन्नात्वाद् अनूर्तत्वाच् च / परिच्छिन्नस्य मूर्तस्यान्यस्यान्यत्र प्रसादस्वभावके जलादौ सूर्यकादिप्रतिबिम्बोदयः स्यात् / न त्व् आत्मनः, अमूर्तत्वाद् आकाशादिकारणस्यात्मनः व्यापकत्वात् / तद्विप्रकृष्टदेशप्रतिबिम्बाधारवस्त्वन्तराभावाच् च प्रतिबिम्बवत्प्रवेशो न युक्तः / एवं तर्हि न वास्ति प्रवेशो, न च गत्यन्तरम् उपलभामहे / तद् एवानुप्राविशद् (Tऐत्त्U २,६.१) इति श्रुतेः / श्रुतिश् च नो ऽतीन्द्रियविषये विज्ञानोत्पत्तौ निमित्तं न चास्माद् वाक्याद् यत्नवताम् अपि विज्ञानम् उत्पद्यते / हन्त तर्ह्य् अनर्थकत्वाद् अपोह्यम् एतद् वाक्यं तत्सृष्ट्वा तद् एवानुप्राविशत् (Tऐत्त्U २,६.१) इति / न / अन्यार्थत्वात् / किम् अर्थम् अस्थाने चर्चा? प्रकृतो ह्य् अन्यो विवक्षितो ऽस्य वाक्यस्यार्थो ऽस्ति, स स्मर्तव्यः, ब्रह्मविद् आप्नोति परम् (Tऐत्त्U २,१.१) सत्यं ज्ञानम् अनन्तं ब्रह्म (Tऐत्त्U २,१.१) यो वेद निहितं गुहायाम् (Tऐत्त्U २,१.१) इति / तद्विज्ञानं च विवक्षितं, प्रकृतं च तत् / ब्रह्मस्वरूपावगमाय चाकाशाद्यन्नमयान्तं कार्यं प्रदर्शितं, ब्रह्मावगमश् चारब्धः / तत्रान्नमयाद् आत्मनो ऽन्यो ऽन्तर आत्मा प्राणमयः, तदन्तर्मनोमयो विज्ञानमय इति विज्ञानगुहायां प्रवेशितः / तत्र चानन्दमयो विशिष्ट आत्मा प्रदर्शितः / अतः परमानन्दमयलिङ्गाधिगमद्वारेणानन्दविवृद्ध्यवसान आत्मा / ब्रह्म पुच्छं प्रतिष्ठा सर्वविकल्पास्पदो निर्विकल्पो ऽस्याम् एव गुहायाम् अधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते / न ह्य् अन्यत्रोपलभ्यते ब्रह्म निर्विशेषत्वात् / विशेषसम्बन्धो ह्य् उपलब्धिहेतुर् दृष्टः / यथा राहोश् चन्द्रार्कविशेषसम्बन्धः / एवम् अन्तःकरणगुहात्मसम्बन्धो ब्रह्मण उपलब्धिहेतुः / सन्निकर्षाद् अवभासात्मकत्वाच् चान्तःकरणस्य / यथा चालोकविशिष्टा घटाद्युपलब्धिर् एवं बुद्धिप्रत्ययालोकविशिष्टा आत्मोपलब्धिः स्यात / तस्माद् उपलब्धिहेतौ गुहायां निहितम् इति प्रकृतम् एव / तद्भृत्तिस्थानीये त्व् इह पुनस् तत्सृष्ट्वा तद् एवानुप्राविशत् (Tऐत्त्U २,६.१) इत्य् उच्यते / तद् एवेदम् आकाशादिकारणं कार्यं सृष्ट्वा तदनुप्रविष्टम् इवान्तर्मुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञात्र् इत्य् एवं विशेषवद् उपलभ्यते / स एव तस्य प्रवेशः / तस्माद् अस्तितत्कारणं ब्रह्म / अतो ऽस्तित्वाद् अस्तीत्य् एवोपलब्धव्यं तत् / तत्कार्यम् अनुप्रविश्य, किं, सच् च मूर्तं त्याच् चामूर्तम् अभवत् / मूर्तामूर्ते ह्य् आव्याकृतनामरूप आत्मस्थे अन्तर्गतेनात्मना व्याक्रियेते / व्याकृते च मूर्तामूर्तशब्दवाच्ये ते आत्मना त्व् अप्रविभक्तदेशकाल इति कृत्वा आत्मा ते अभवद् इत्य् उच्यते / किञ्च निरुक्तं चानिरुक्तं च, निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यो देशकालविशिष्टतयेदं तद् इत्य् उक्तं, अनिरुक्ततं तद्विपरीतम् / निरुक्तानिरुक्त अपि मूर्तामूर्तयोर् एव विशेषणं / यथा सच् च त्यच् च प्रत्यक्षपरोक्षे, तथा निलयनं चानिलयनं च / निलयनं नीडम् आश्रयो मूर्तस्यैव धर्मः / अनिलयनं तद्विपरीतम् अमूर्तस्यैव धर्मः / त्यद् अनिरुक्तानिलयनान्यमूर्तधर्मत्वे ऽपि व्याकृतविषयाण्य् एव / सर्गोत्तरकालभावश्रवणात् / त्यद् इति प्राणाद्यनिरुक्तं तद् एवानिलयनं च / अतो विशेषणान्य् अमूर्तस्य व्याकृतविषयाण्य् एवैतानि / विज्ञानं चेतनम् अविज्ञानं तद्रहितम् अचेतन पाषाणादि / सत्यं च व्यवहारविषयम् अधिकारान् न परमार्थसत्यम् / एकम् एव हि परमार्थसत्यं ब्रह्म / इह पुनर् व्यवहारविषयम् आपेक्षिकं सत्यं, मृगतृष्णिकाद्यनृतापेक्षयोदकादि सत्यम् उच्यते / अनृतं च तद्विपरीतम् / किं पुनर् एतत् सर्वम् अभवत् / सत्यं परमार्थसत्यं, किं पुनस् तत्? ब्रह्म / सत्यं ज्ञानम् अनन्तं ब्रह्मेति प्रकृतत्वात् / यस्मात् सत्त्यदादिकं मूर्तामूर्तधर्मजातं यत्किञ्चेदं सर्वम् अविशिष्टं विकारजातम् एकम् एव सच्छब्दवाच्यं ब्रह्माभवत्तद्व्यतिरेकेणाभावान् नामरूपविकारस्य, तस्मात् तद्ब्रह्म सत्यम् इत्य् आचक्षते ब्रह्मविदः / अस्ति नास्तीत्य् अनुप्रश्नः प्रकृतः, तस्य प्रतिवचनविषय एतद् उक्तं — आत्माकामयत बहु स्याम् इति / स यथाकामं चाकाशादिकार्यं सत्त्यदादिलक्षणं सृष्ट्वा तद् अनुप्रविश्य पश्यञ् शृण्वन् मन्वानो विजानन् बह्व् अभवत् / तस्मात् तद् एवेदम् आकाशादिकारणं कार्यस्थं परमे व्योमन् हृदयगुहायां निहितं तत्प्रत्ययावभासविशेषेणोपलभ्यमानम् अस्तीत्य् एवं विजानीयादित्युक्तं भवति / तद् एतस्मिन्न् अर्थे ब्राह्मणोक्त एष श्लोको मन्त्रो भवति / यथा पूर्वेष्व् अन्नमयाद्यात्मप्रकाशकाः पञ्चस्व् अपि, एवं सर्वान्तरम् आत्मास्तित्वप्रकाशको ऽपि मन्त्रः कार्यद्वारेण भवति //
SK
// इति षष्ठो ऽनुवाकः //
SK
असद्वा इदमग्र आसीत् / ततो वै सदजायत / तदात्मानं स्वयमकुरुत / तस्मात्तत्सुकृतमुच्यत इति / यद्वै तत् सुकृतम् / रसो वै सः / रसं ह्येवायं लब्ध्वानन्दी भवति / को ह्येवान्यात्कः प्राण्यात् / यदेष आकाश आनन्दो न स्यात् / एष ह्येवानन्दयाति / यदा ह्येवैष एतस्मिन्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रतिष्ठां विन्दते / अथ सो ऽभयं गतो भवति / यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते / अथ तस्य भयं भवति / तत्वेव भयं विदुषो ऽमन्वानस्य / तदप्येष श्लोको भवति //
SK
असद् वा इदम् अग्र आसीत् / असद् इति व्याकृतनामरूपविशेषविपरीतरूपम् अविकृतं ब्रह्मोच्यते / न पुनर् अत्यन्तम् एवासत् / न ह्य् असतः सज्जन्मास्ति / इदम् इति नामरूपविशेषवद्व्याकृतं जगद् अग्रे पूर्वं प्रागुत्पत्तेर् ब्रह्मैवासच्छब्दवाच्यम् आसीत् / ततो ऽसतो वै सत्प्रविभक्तनामरूपविशेषमजायतोत्पन्नम् / किं ततः प्रविभक्तं कार्यम् इति पितुर् इव पुत्रः? नेत्य् आह / तदसच्छब्दवाच्यं स्वयम् एवात्मानम् एवाकुरुत कृतवत् / यस्माद् एवं तस्मात् तद् ब्रह्मैव सुकृतं स्वयं कर्त्र् उच्यते / स्वयं कर्तृ ब्रह्मेति प्रसिद्धं लोके सर्वकारणत्वात् / यस्माद् वा स्वयम् अकरोत् सर्वं सर्वात्मना, तस्मात् पुण्यरूपेणापि तद् एव ब्रह्म कारणं सुकृतम् उच्यते / सर्वथापि तु फलसम्बन्धादिकारणं सुकृतशब्दवाच्यं प्रसिद्धं लोके / यदि पुण्यं यदि वान्यत् सा प्रसिद्धिः नित्ये चेतनवत्कारणे सत्य् उपपद्यते, तस्माद् अस्ति तद्ब्रह्म, सुकृतप्रसिद्धेः / इतश् चास्ति / कुतः रसत्वात् / कुतो रसत्वप्रसिद्धिर् ब्रह्मणो इत्य् अत आह — यद् वै तत्सुकृतं रसो वै सः / रसो नाम तृप्तिहेतुर् आनन्दकरो मधुराम्लादिः प्रसिद्धो लोके / रसम् एव ह्य् अयं लब्ध्वा प्राप्य आनन्दी सुखी भवति / नासत आनन्दहेतुत्वं दृष्टं लोके / बाह्यानन्दसाधनरहिता अप्य् अनीहा निरेषणा ब्राह्मणा बाह्यरसलाभाद् इव सानन्दा दृश्यन्ते विद्वांसः, नूनं ब्रह्मैव रसस् तेषाम् / तस्माद् अस्ति तत् तेषाम् आनन्दकारणं रसवद्ब्रह्म / इतश्चाति / कुतः? प्राणनादिक्रियादर्शनात् / अयम् अपि हि पिण्डो जीवतः प्राणेन प्राणित्यपानेनापान् इति / एवं वायवीया ऐन्द्रियकाश् च चेष्टाः संहतैः कार्यकारणैर् निर्वर्त्यमना दृश्यन्ते / तच् चैकार्थवृत्तित्वेन संहननं नान्तरेण चेतनम् असंहतं सम्भवति / अन्यत्रादर्शनात् / तद् आह यद् यदि एष आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यान् न भवेत् को ह्य् एव लोके ऽन्याद् अपानचेष्टां कुर्याद् इत्य् अर्थः / कः प्राण्यात् प्राणनं वा कुर्यात् / तस्माद् अस्ति तद् ब्रह्म / यद् अर्थाः कारणप्रणनादिचेष्टाः तत् कृत एव चानन्दो लोकस्य / कुतः / एष ह्य् एव पर आत्मा आनन्दयात्यानन्दयति सुखयति लोकं धर्मानुरूपम् / स एवात्मानन्दरूपो ऽविद्यया परिच्छिन्नो विभाव्यते प्राणिभिर् इत्य् अर्थः / भयाभयहेतुत्वाद् विद्वदविदुषोर् अस्ति तद् ब्रह्म / सद्वस्त्वाश्रयणेन ह्य् अभयं भवति / नासद्वस्त्वाश्रयणेन भयनिवृत्तिर् उपपद्यते / कथम् अभयहेतुत्वभित्य् उच्यते — यदा ह्य् एव यस्माद् एष साधक एतस्मिन् ब्रह्मणि, किंविशिष्टे ऽदृश्ये, दृश्यं नाम द्रष्टव्यं विकारो दर्शनार्थत्वाद् विकारस्य / न दृश्यम् अदृश्यविकार इत्य् अर्थः / एतस्मिन्न् अदृश्ये ऽविकारे ऽविषयभूते ऽनात्म्ये ऽशरीरे यस्माद् अदृश्यं तस्माद् अनात्म्यं यस्माद् अनात्म्यं तस्माद् अनिरुक्तम् / विशेषो हि निरुच्यते / विशेषश् च विकारः / अविकारं च ब्रह्म / सर्वविकारहेतुत्वात् / तस्माद् अनिरुक्तम् / यत एवं तस्माद् अनिलयनं निलयनं नीड आश्रयो न निलयनम् अनिलयनम् अनाधारं तस्मिन्न् एतस्मिन्न् अदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने (Tऐत्त्U २,७.१) सर्वकार्यधर्मविलक्षणे ब्रह्मणीति वाक्यार्थः / अभयम् इति क्रियाविशेषणम् / अभयाम् इति वा लिङ्गान्तरं परिणम्यते / प्रतिष्ठां स्थितिम् आत्मभावं विन्दते लभते / अथ तदा स तस्मिन् यानात्वस्य भयहेतोर् अविद्याकृतस्या दर्शनाद् अभयं गतो भवति / स्वरूपप्रतिष्ठो ह्य् असौ यदा भवति, तदा नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति / अन्यस्य ह्य् अन्यतो भयं भवति, न आत्मन एवात्मनो भयं युक्तम् / तस्माद् आत्मैवात्मनो ऽभयकारणम् / सर्वतो हि निर्भया ब्राह्मणा दृश्यन्ते सत्सु भयहेतुषु / तच्चायुक्तम् असति भयत्राणे ब्रह्मणि / तस्मात् तेषाम् अभयदर्शनाद् अस्ति तदभयकारणं ब्रह्मेति / कदासाव् अभयं गतो भवति साधकः? यदा नान्यत् पश्यत्य् आत्मनि चान्तरं भेदं न कुरुते, तदाभयं गतो भवतीत्य् अभिप्रायः / यदा पुनर् अविद्यावस्थायां हि यस्माद् एषो ऽविद्यावानविद्यया प्रत्युपस्थापित वस्तु तैमिरिकद्वितीयचन्द्रवत् पश्यत्य् आत्मनि चैतस्मिन् ब्रह्मणि, उदपि, अरमल्पमण्य् अन्तरं छिद्रं भेददर्शनं कुरुते / भेददर्शनम् एव ह्य् अन्तरणकरणम् अल्पम् अपि भेदं पश्यतीत्य् अर्थः / अथ तस्माद् भेददर्शनाद् धेतोर् अस्य भेददर्शिन आत्मनो भयं भवति / तस्माद् आत्मेवात्मनो भयकारणम् अविदुषः / तद् एतद् आह — तद्ब्रह्म त्व् एव भयं भेददर्शिनो ऽविदुष ईश्वरो ऽन्यो मत्तो ऽहम् अन्यः संसारीत्य् एवंविदुषो भेददृष्टम् ईश्वराख्यं तद् एव ब्रह्माल्पम् अप्य् अन्तरं कुर्वतो भयं भवत्य् एकत्वेनामन्वानस्य / तस्माद् विद्वान् अप्य् अविद्वान् एवासौ यो ऽयम् एकम् अभिन्नम् आत्मतत्त्वं न पश्यति / उच्छेदहेतुदर्शनाद् ध्य् उच्छेद्याभिमतस्य भयं भवति / अनुच्छेद्यो ह्य् उच्छेदहेतुः / तत्रास्त्य् उच्छेदहेताव् अनुच्छेद्ये तद्दर्शनकार्ये भयं युक्तम् / सर्वं च जगद्भयवत् दृश्यते / तस्माज् जगतो भवदर्शनाद् गम्यते नूनं तद् अस्ति भयकारणम् उच्छेदहेतुर् अनुच्छेद्यात्मक यतो जगद्बिभेतीति / तद् एतस्मिन्न् अप्य् अर्थ एष श्लोको भवति // इति सप्तमो ऽनुवाकः //
SK
भीषास्माद्वातः पवते / भीषोदेति सूर्यः / भीषास्मादग्निश्चेन्द्रश्च / मृत्युर्धावति पञ्चम इति / सैषानन्दस्य मीमांसा भवति / युवा स्यात्साधुयुवाध्यायकः / आशिष्ठो दृढिष्ठो बलिष्ठः / तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् / स एको मानुष आनन्दः / ते ये शतं मानुषा आनन्दाः //
SK
स एको मनुष्यगन्धर्वाणामानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं मनुष्यगन्धर्वाणामानन्दाः / स एको देवगन्धर्वाणामानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं देवगन्धर्वाणामानन्दाः / स एकः पितॄणां चिरलोकलोकानामानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः / स एक आजानजानां देवानामानन्दः //
SK
श्रोत्रियस्य चाकामहतस्य / ते ये शतम् आजानजानां देवानामानन्दाः / स एकः कर्मदेवानां देवानामानन्दः / ये कर्मणा देवानपियन्ति / श्रोत्रियस्य चाकामहतस्य / ते ये शतं कर्मदेवानां देवानामानन्दाः / स एको देवानामानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं देवानामानन्दाः / स एक इन्द्रस्यानन्दः //
SK
श्रोत्रियस्य चाकामहतस्य / ते ये शतमिन्द्रस्यानन्दाः / स एको बृहस्पतेरानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं बृहस्पतेरानन्दाः / स एकः प्रजापतेरानन्दः / श्रोत्रियस्य चाकामहतस्य / ते ये शतं प्रजापतेरानन्दाः / स एको ब्रह्मण आनन्दः / श्रोत्रियस्य चाकामहतस्य //
SK
भीषा भयेनास्माद् वातः पवते / भीषोदेति सूर्यः / भीषास्माद् अग्निश् चेन्द्रश् च मृत्युर् धावति पश्चम इति / वातादयो हि महार्हाः स्वयम् ईश्वराः सन्तः पवनादिकार्येष्व् आयासबहुलेषु नियताः प्रवर्तन्ते / तद्युक्तं प्रशास्तरि सति, यस्मात् नियमेन तेषां प्रवर्तन, तस्माद् अस्ति भयकारणं तेषां प्रशास्तृ ब्रह्म / यतस् ते भृत्या इव राज्ञो ऽस्माद् ब्रह्मणो भयेन प्रवर्तन्ते तच् च भयकारणम् आनन्दं ब्रह्म / तस्यास्य ब्रह्मण आनन्दस्यैषा मीमांसा विचारणा भवति / किम् आनन्दस्य मीमांस्यम् इत्य् उच्यते / किम् आनन्दो विषयविषयिसम्बन्धजनितो लौकिकानन्दवदाहोस्वित्स्वाभाविक, इत्य् एवम् एषा आनन्दस्य मीमांसा / तत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधसम्पत्तिनिमित्त उत्कृष्टः / स य एष निर्दिश्यते ब्रह्मानन्दानुगमार्थम् / अनेन हि प्रसिद्धेनानन्देन व्यावृत्तविषयबुद्भिगम्य आनन्दो ऽनुगन्तुं शक्यते / लौकिको ऽप्य् आनन्दो ब्रह्मानन्दस्यैव मात्रा अविद्यया तिरस्क्रियमाणे विज्ञान उत्कृष्यमाणायां चाविद्यायां ब्रह्मादिभिः कर्मवशाद्यथाविज्ञानं विषयादिसाधनसम्बन्धवशाच् च विभाव्यमानश् च लोके ऽनवस्थितो लौकिकः सम्पद्यते / स एवाविद्याकामकर्मापकर्षेण मनुष्यगन्धर्वायुत्तरोत्तरभूमिष्वकामहतविद्वच्छ्रोत्रियप्रत्यक्षो विभाव्यते शतगुणोत्तरोतरोत्कर्षेण यावद् धिरण्यगर्भस्य ब्रह्मण आनन्द इति / निरस्ते त्व् अविद्याकृते विषयविषयिविभागे विद्यया स्वाभाविकः परिपूर्ण एक आनन्दो ऽद्वैतो भवतीय् एतम् अर्थं विभावयिष्यन्न् आह युवा प्रथमवयाः / साधुयुवेति साधुश् चासौ युवा चेति यूनो विशेषणम् / युवाप्य् असाधुर् भवति साधुर् अप्य् अयुवा अतो विशेषणं युवा स्यात् साधुयुवेति / अध्यायको ऽधीतवेदः / आशिष्ठ अशास्तृतमः / दृढिष्ठो दृढतमः / बलिष्ठो बलवत्तमः / एवम् आध्यात्मिकसाधनसम्पन्नः / तस्येयं पृथिव्युर्वीं सर्वा वित्तस्य वित्तेनोपभोगसाधनेन दृष्टार्थेनादृष्टार्थेन च कर्मसाधनेन सम्पन्ना पूर्णा राजा पृथिवीपतिर् इत्य् अर्थः / तस्य च य आनन्दः स एको मानुषो मनुष्याणां प्रकृष्ट एक आनन्दः / ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणाम् आनन्दः / मानुषानन्दाच्छतगुणेनोत्कृष्टो मनुष्यगन्धर्वाणाम् आनन्दो भवति / मनुष्याः सन्तः कर्मविद्याविशेषाद् गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः / ते ह्य् अन्तर्धानादिशक्तिसम्पन्नाः सूक्ष्मकार्यकरणाः / तस्मात् प्रतिघाताल्पत्वं तेषां द्वन्द्वप्रतिघातशक्तिः साधनसम्पत्तिश् च / ततो ऽप्रतिहन्यमानस्य प्रतिकारवतो मनुष्यगन्धर्वस्य स्याच् चित्तप्रसादः / तत्प्रसादविशेषात् सुखविशेषाभिव्यक्तिः / एवं पूर्वस्याः पूर्वस्या भूमेर् उत्तरस्याम् उत्तरस्यां भूमौ प्रसादविशेषतः शतगुणेनानन्दोत्कर्ष उपपद्यते / प्रथमं त्व् अकामहताग्रहणं मनुष्यविषयभोगकामानभिहतस्य श्रोत्रियस्य मनुष्यानन्दाच् छतगुणेनानन्दोत्कर्षो मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्य् एवम् अर्थम् / साधुयुवाध्यायक इति श्रोत्रियत्वावृजिनवे गृह्येते / ते ह्य् अविशिष्टे सर्वत्र / अकामहतत्वं तु विषयोत्कर्षापकर्षतः सुखोत्कर्षापकर्षाय विशेष्यते / अतो ऽकामहतग्रहणम्, तद्विशेषतः शतगुणसुखोत्कर्षोपलब्धेर् अकामहतत्वस्य परमानन्दप्राप्तिसाधनविविधानार्थम् / व्याख्यातमन्यत् / देवगन्धवा जातित एव / चिरलोकलोकानाम् इति पितॄणां विशेषणम् / चिरकालस्थायी लोको येषां पितॄणां ते चिरलोकलोका इति / आजान इति देवलोकस् तस्मिन्न् आजाने जाता आजानजा देवाः, स्मार्तकर्मविशेषतो देवस्थानेषु जाताः / कर्म देवा ये वैदिकेन कर्मणाग्निहोत्रादिना केवलेन देवानपियन्ति / देवा इति त्रयंस् त्रिशद्धविर्भुजः / इन्द्रस् तेषां स्वामी / तस्याचार्यो बृहस्पतिः / प्रजापतिर् विराट् त्रैलोक्यशरीरो ब्रह्मा समष्टिव्यष्टिरूपः संसारमण्डलव्यापी / यत्रैत अनन्दभेदा एकतां गच्छन्ति धर्मश् च तन्निमित्तो ज्ञानं च तद्विषयम् अकामहतत्वं च निरतिशयं यत्र, स एष हिरण्यगर्भो ब्रह्मा तस्यैष आनन्दः श्रोत्रियेणावृजिनेनाकामहतेन च सर्वतः प्रत्यक्षम् उपलभ्यते / तस्माद् एतानि त्रीणि साधनानीत्य् अवगम्यते / तत्र श्रोत्रियत्वावृजिनत्वे नियते, अकामहतत्वं तूत्कृष्यत इति प्रकृष्टसाधनता अवगम्यते / तस्याकामहतत्वप्रकर्षतश् चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण आनन्दो यस्य परमानन्दस्य मात्रैकदेशः / एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति (BĀU ४,३.३२) इति श्रुत्यन्तरात् / स एष अनन्दो यस्य मात्रा समुद्राम्भस इव विप्रुषः प्रविभक्ता यत्रैकतां गता स एष परमानन्दः स्वाभाविक अद्वैतत्वात् / आनन्दानन्दिनोश् चाविभागो ऽत्र /
SK
स यश्चायं पुरुषे / यश्चासावादित्ये / स एकः / स य एवंवित् / अस्माल्लोकात्प्रेत्य / एतमन्नमयमात्मानमुपसङ्क्रामति / एतं प्राणमयमात्मानमुपसङ्क्रामति / एतं मनोमयमात्मानमुपसङ्क्रामति / एतं विज्ञानमयमात्मानमुपसङ्क्रामति / एतमानन्दमयमात्मानमुपसङ्क्रामति / तदप्येष श्लोको भवति //
SK
तद् एतन् मीमांसाफलम् उपसंह्रियते — स यश् चायं पुरुष इति / यो गुहायां निहितः परमे व्योम्न्याकाशादिकार्यं सृष्ट्वा अन्नमयान्तं, तद् एवानुप्रविष्टः, स य इति निर्दिश्यते / को ऽसौ? अयं पुरुषे / यश् चासाव् आदित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्ठो, यस्यैकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्य् उपजीवन्ति, स यश् चासाव् आदित्य इति निर्दिश्यते / स एको भिन्नप्रदेशस्थघटाकाशाकाशैकत्ववत् / ननु तन्निर्देशे स यश् चायं पुरुष इत्य् अविशेषतो ऽध्यात्मं न युक्तो निर्देशो, यश् चायं दक्षिणे ऽक्षन् (BĀU ५,५.२) इति तु युक्तः, प्रसिद्धत्वात् / न / पराधिकारात् / परो ह्य् आत्मात्राधिकृतो अदृश्ये ऽनात्म्ये (Tऐत्त्U २,७.१) भीषास्माद् वातः पवते (Tऐत्त्U २,८.१) सैषानन्दस्य मीमांसा (Tऐत्त्U २,८.१) इति / न ह्य् अकस्माद् अप्रकृतो युक्तो निर्देष्टुं, परमात्मविज्ञानं च विवक्षितम् / तस्मात् पर एव निर्दिश्यते स एक इति / नन्व् आनन्दस्य मीमांसा प्रकृता तस्या अपि फलम् उपसंहर्तव्यम् / अभिन्नः स्वाभाविक आनन्दः परमात्मैव, न विषयविषयिसम्बन्धजनित इति / ननु तदनुरूप एवायं निर्देशः स यश् चायं पुरुषे यश् चासाव् आदित्ये स एक (Tऐत्त्U २,८.५) इति भिन्नाधिकरणस्थविशेषोपमर्देन / नन्व् एवम् अप्य् आदित्यविशेषग्रहणम् अनर्थकम् / नानर्थकम् / उत्कर्षापकर्षापोहार्थत्वात् / द्वैतस्य हि मूर्तामूर्तलक्षणस्य यः पर उत्कर्षः सवित्रभ्यन्तर्गतः स चेत् पुरुषगतविशेषोपमर्देन परमानन्दम् अपेक्ष्य समो भवति, न कश्चिद् उत्कर्षो ऽपकर्षो वा तां गतिं गतस्येत्य् अभयं प्रतिष्ठां विन्दत (Tऐत्त्U २,७.१) इत्य् उपपन्नम् / अस्ति नास्तीत्य् अनुप्रश्नो व्याख्यातः / कार्यरसलाभप्राणनाभयप्रतिष्ठाभयदर्शनोपपत्तिभ्यो ऽस्त्य् एव तदाकाशादिकारणं ब्रह्मेत्य् अपाकृतो ऽनुप्रश्न एकः, द्वाव् अन्याव् अनुप्रश्नो विद्वदविदुषोर् ब्रह्मप्राप्त्यप्राप्तिविषयौ / तत्र विद्वान् समश्नुते न समश्नुत इत्य् अनुप्रश्नो ऽन्त्यः / तदपाकरणायोच्यते / मध्यमो ऽनुप्रश्नो अन्त्यापाकरणाद् एवापाकृत इति तदपाकरणाय न यत्यते / स यः कश्चिद् एवं यथोक्ततं ब्रह्मोत्सृज्योत्कर्षापकर्षम् अद्वैतं सत्यं ज्ञानम् अनन्तम् अस्मीत्य् एवं वेत्तीत्य् एवंवित् / एवंशब्दस्य प्रकृतपरामर्शार्थत्वात् / स किम्? अस्माल् लोकात् प्रेत्य, दृष्टादृष्टेष्टविषयसमुदायो ह्य् अयं लोकस् तस्माद् अस्माल् लोकात् प्रेत्य प्रत्यावृत्त्य निरपेक्षो भूत्वैतं यथाव्याख्यातम् अन्नमयम् आत्मानम् उपसङ्क्रामति, विषयजातम् अन्नमयात् पिण्डात्मनो व्यतिरिक्तं न पश्यति, सर्वं स्थूलभूतम् अन्नमयम् आत्मानं पश्यतीत्य् अर्थः / ततो ऽभ्यन्तरम् एतं प्राणमयं सर्वान्नमयात्मस्थम् अविभक्तम् / अथैतं मनोमयं विज्ञानम् अयम् आनन्दमयम् आत्मानम् उपसङ्क्रमति / अथ अदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रतिष्ठां विन्दते (Tऐत्त्U २,७.१) / तत्रैतच्चिन्त्यम् / को ऽयम् एवंवित् कथं वा सङ्कामतीति / किं परस्माद् आत्मनो ऽन्यः सङ्कमणकर्ता प्रविभक्त उत स एवेति / किं ततः, यद्य् अन्यः स्यात् श्रुतिविरोधः / तत्सृष्ट्वा तद् एवानुप्रविशत् (Tऐत्त्U २,६.१) अन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद (BĀU १,४.१०) एकम् एवाद्वितीयम् (Cह्U ६,२.१) तत् त्वम् असि (Cह्U ६,८.७; ६,९.४; ६,१०.३; ६,११.३; ६,१२.३; ६,१३.३; ६,१४.३; ६,१५.३; ६,१६.३) इति / अथ स एवानन्दमयम् आत्मानम् उपसङ्क्रामतीति, कर्मकर्तृत्वानुपपत्तिः / परस्यैव च संसारित्वं पराभावो वा / यद्य् उभयथा प्राप्तो दोषो न परिहर्तुं शक्यत इति व्यर्था चिन्ता / अथान्यतरस्मिन् पक्षे दोषाप्राप्तिस् तृतीये वा पक्षे ऽदुष्टे, स एव शास्त्रार्थ इति व्यर्थैव चिन्ता / न / तन्निर्धारणार्थत्वात् / सत्यं प्राप्तो दोषो न शक्यः परिहर्तुम् अन्यतरस्मिन् तृतीये वा पक्षे ऽदुष्टे ऽवधृते व्यर्था चिन्ता स्यान् न तु सो ऽवधृत इति तदवधारणार्थत्वात् अर्थवत्य् एवैषा चिन्ता / सत्यम् अर्थवती चिन्ता / शास्त्रार्थावधारणार्थत्वात् / चिन्तयसि च त्वं न तु निर्णेष्यसि किन् न निर्णेतव्यम् इति वेदवचनं? न, कथं तर्हि बहुप्रतिपक्षत्वात् / एकत्ववादी त्वं, एकः वेदार्थपरवात् / बहवो हि नानात्ववादिनो वेदबाह्याः क्व प्रतिपक्षा अतो ममाशङ्कां न निर्णेष्यसीति / एतद् एव मे स्वस्त्ययनं यन् माम् एकयोगिनम् अनेकयोगिबहुप्रतिपक्षम् आत्थ / अतो जेष्यामि सर्वान् आरभे च चिन्ताम् / स एव तु स्यात् तद्भावस्य विवक्षितत्वात् / तद्विज्ञानेन परमात्मभावो ह्य् अत्रविवक्षितो ब्रह्मविद् आप्नोति परम् इति / न ह्य् अन्यस्यान्यभावापत्तिर् उपपद्यते / ननु तस्यापि तद्भावापत्तिर् अनुपपन्नैव / न / अविद्याकृतानात्मापोहार्थत्वात् / या हि ब्रह्मविद्यया स्वात्मप्राप्तिर् उपदिश्यते साविद्याकृतस्यान्नादिविशेषात्मन आत्मत्वेनाध्यारोपितस्यानात्मनो ऽपोहार्था / कथम् एवम् अर्थतावगम्यते, विद्यामात्रोपदेशात् / विद्यायाश् च दृष्टं कार्यम् अविद्यानिवृत्तिस् तच् चेह विद्यामात्रम् आत्मप्राप्तौ साधनम् उपदिश्यते / मार्गविज्ञानोपदेशवद् इति चेत् तदात्मत्वे विद्यामात्रसाधनोपदेशो ऽहेतुः / कस्मात् / देशान्तरप्राप्तौ मार्गविज्ञानोपदेशदर्शनात् / न हि ग्राम एव गन्तेति चेत् / न, वैधर्म्यत् / तत्र हि ग्रामविषयं विज्ञानं नोपदिश्यते, तत्प्राप्तिमार्गविषयम् एवोपदिश्यते विज्ञानं, न तथेह ब्रह्मविज्ञानव्यतिरेकेण साधनान्तरविषयं विज्ञानम् उपदिश्यते / उक्तकर्मादिसाधनापेक्षं ब्रह्मविज्ञानं परप्राप्तौ साधनम् उपदिश्यत इति चेत् / न / नित्यत्वान् मोक्षस्येत्य् आदिना प्रत्युक्तत्वात् / श्रुतिश् च तत् सृष्ट्वा तद् एवानुप्राविशत् (Tऐत्त्U २,६.१) इति कार्यस्य तदात्मत्वं दर्शयति / अभयप्रतिष्ठोपपत्तेश् च यदि हि विद्यावान्त्वात्मनो ऽन्यन् न पश्यति ततो अभयं प्रतिष्ठां विन्दते (Tऐत्त्U २,७.१) इति स्याद् भयहेतोः परस्यान्यस्याभावात् / अन्यस्य चाविद्याकृतत्वे विद्यया अवस्तुत्वदर्शनोपपत्तिः / तद् धि द्वितीयस्य चन्द्रस्यासत्त्वं यदतैमिरिकेण चक्षुष्मता न गृह्यते / नैवं न गृह्यत इति चेन् न / सुप्तसमाहितयोर् अग्रहणात् / सुषुप्ते ऽग्रहणमन्यासक्तवद् इति चेत् न / सर्वाग्रहणात् / जाग्रत्स्वप्नयोर् अन्यस्य ग्रहणात् सत्त्वम् एवेति चेत् / न / अविद्याकृतत्वाज् जाग्रत्स्वप्नयोः / यदन्यग्रहणं जाग्रत्स्वप्नयोस् तदविद्याकृतं विद्याभावे ऽभावात् / सुषुप्ते ऽग्रहणम् अप्य् अविद्याकृतम् इति चेत् / न / स्वाभाविकत्वात् / द्रव्यस्य हि तत्त्वम् अविक्रिया, परानपेक्षत्वात् / विक्रिया न तत्त्वं, परापेक्षत्वात् / नहि कारकापेक्षं वस्तुनस् तत्त्वं, सतो विशेषः कारकापेक्षेओ, विशेषश् च विक्रिया / जाग्रत्स्वप्नयोश् च ग्रहणं विशेषः / यद् धि यस्य नान्यापेक्षं स्वरूपं, तत् तस्य तत्त्वं, यदन्यापेक्षं न तत्तत्त्वम् / अन्याभावे ऽभावात् / तस्मात् स्वाभाविकत्वाज् जाग्रत्स्वप्नवन् न सुषुप्ते विशेषः / येषां पुनर् ईश्वरो ऽन्य आत्मनः कार्ये चान्यत् तेषां भयानिवृत्तिः, भयस्यान्यनिमित्तत्वात् सतश् चान्यस्यात्महानानुपपत्तिः / न चासत आत्मलाभः / सापेक्षस्यान्यस्य भयहेतुत्वम् इति चेन् न / तस्यापि तुल्यत्वात् / यद्धर्माद्यनुसहायीभूतं नित्यम् अनित्यं वा निमित्तम् अपेक्ष्यान्यद्भयकारणं स्यात्, तस्यापि तथाभूतस्य आत्महानाभावाद् भयानिवृत्तिः आत्महाने वा सदसतोर् इतरेतरापत्तौ सर्वत्रानाश्वास एव न एकत्वपक्षे पुनः सनिमित्तस्य संसारस्याविद्याकल्पितात्वाद् अदोषः / तैमिरिकदृष्टस्य हि द्वितीयचन्द्रस्य नात्मलाभो नाशो वास्ति / विद्याविद्यायोस् तद्धर्मत्वम् इति चेन् न / प्रत्यक्षत्वात् / विवेकाविवेको रूपादिवत्प्रत्यक्षाव् उपलभ्येते अन्तःकरणस्थौ / नहि रूपस्य प्रत्यक्षस्य सतो द्रष्टृधर्मत्वम् / अविद्या च स्वानुभवेन रूप्यते मूढो ऽहम् अविविक्तं मम विज्ञानम् इति / तथा विद्याविवेको ऽनुभूयते / उपदिशन्ति चान्येभ्य आत्मनो विद्यां बुधाः / तथा चान्ये ऽवधारयन्ति / तस्मान् नामरूपपक्षस्यैव विद्याविद्ये नामरूपे च, नात्मधर्मौ / नामरूपयोनिर् वहिता ते यद् अन्तरा तद्ब्रह्म (Cह्U ८,१४.१) इति श्रुत्यन्तरात् / ते च पुनर् नामरूपे सवितर्यहोरात्रे इव कल्पिते न परमार्थतो विद्यमाने / अभेदे एतम् आनन्दमयम् आत्मानम् उपसङ्क्रामति (Tऐत्त्U २,८.५) इति कर्मकर्तृत्वानुपपत्तिर् इति चेन् न / विज्ञानमात्रत्वात् सङ्क्रमणस्य / न जलूकादिवत्सङ्कमणम् इहोपदिश्यते, किं तर्हि विज्ञानमात्रं सङ्क्रमणश्रुतेर् अर्थः / ननु मुख्यम् एव सङ्क्रमणं श्रूयते उपसङ्क्रमति इति चेत् / न / अन्नमये ऽदर्शनात् / न ह्य् अन्नमयम् उपसङ्क्रामतो बाह्याद् अस्माल् लोकाज् जलूकावत्सङ्क्रमणं दृश्यते ऽन्यथा वा / मनोमयस्य बर्हिर्निर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्त्या आत्मसङ्क्रमणम् इति चेत् / न स्वात्मनि क्रियाविरोधात्, अन्यो ऽन्नमयम् अन्यम् उपसङ्क्रामतीति प्रकृत्य मनोमयो विज्ञानमयो वा स्वात्मानम् एवोपसङ्क्रामतीति विरोधः स्यात् / तथा नानन्दमयस्यात्मसङ्क्रमणम् उपपद्यते / तस्मान् न प्राप्तिः सङ्क्रमणं, नाप्य् अन्नमयादीनाम् अन्यतमकर्टक पारिशेष्यात् अन्नमयाद्य् आनन्दमयान्तात्मव्यतिरिक्तकर्तृकं ज्ञानमात्रं च सङ्क्रमणम् उपपद्यते / ज्ञानमात्रत्वे चानन्दमयान्तःस्थस्यैव सर्वान्तरस्याकाशाद्यन्नमयान्तं कार्यं सृष्ट्वानुप्रविष्टस्य हृदयगुहाभिसम्बन्धाद् अन्नमयादिष्व् अनात्मस्वात्मविभ्रमः सङ्क्रमणेनात्मविवेकविज्ञानोत्पत्या विनश्यति / तद् एतस्मिन्न् अविद्याविभ्रमनाशे सङ्क्रमणशब्द उपचर्यते, न ह्य् अन्यथा सर्वगतस्यात्मनः सङ्क्रमणम् उपपद्यते / वस्त्वन्तराभावाच् च / न च स्वात्मन एव सङ्क्रमणम् / नहि जलूका आत्मानम् एव सङ्क्रामति / तस्मात् सत्यं ज्ञानम् अनन्तं ब्रह्मोति यथोक्तलक्षणात्मप्रतिपत्त्यर्थम् एव बहुभवनसर्गप्रवेशरसलाभाभयसङ्क्रमणादि परिकल्प्यते ब्रह्मणि सर्वव्यवहाराविषये, न तु परमार्थतो निर्विकल्पे ब्रह्मणि क्रश्चिद् अपि विकल्प उपपद्यते / तम् एतं निर्विकल्पम् आत्मानम् एवं क्रमेणोपसङ्क्रम्य विदित्वा न बिभेति कुतश्चन अभयं प्रतिष्ठां विन्दते (Tऐत्त्U २,७.१) इत्य् एतस्मिन्न् अर्थे ऽप्य् एष श्लोको भवति / सर्वस्यैवास्य प्रकरणस्यानन्दवल्ल्यर्थस्य संक्षेपतः प्रकाशनायैष मन्त्रो भवति / इति अष्टमो ऽनुवाकः //
SK
यतो वाचो निवर्तन्ते / अप्राप्य मनसा सह / आनन्दं ब्रह्मणो विद्वान् / न बिभेति कुतश्चनेति / एतं ह वाव न तपति / किमहं साधु नाकरवम् / किमहं पापमकरवमिति / स य एवं विद्वानेते आत्मानं स्पृणुते / उभे ह्येवैष एते आत्मानं स्पृणुते / य एवं वेद / इत्युपनिषत् //
SK
इति ब्रह्मवल्ली //
SK
यतो यस्मान् निर्विकल्पात् यथोक्तलक्षणात् अद्वयानन्दादात्मनो, वाचो ऽभिधानानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान् निर्विकल्पे ऽद्वये ऽपि ब्रह्मणि प्रयोक्तृभिः प्रकाशनाय प्रयुज्यमानानि, अप्राप्याप्रकाश्यैव निवर्तन्ते स्वसामर्थ्याद् धीयन्ते / मन इति प्रत्ययो विज्ञानम् / तच् च यत्राभिधानं प्रवृत्तम् अतीन्द्रिये ऽप्य् अर्थे तद् अर्थे च प्रवर्तते प्रकाशनाय / यत्र च विज्ञानं तत्र वाचः प्रवृत्तिः / तस्मात् सहैव वाङ्मनसमोरभिधानप्रत्यययोः प्रवृत्तिः सर्वत्र / तस्मात् ब्रह्मप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचो यस्माद् अप्रत्ययविषयाद् अनभिधेयाद् अदृश्यादिविशेषणात् सहैव मनसा विज्ञानेन सर्वप्रकाशनसमर्थेन निवर्तन्ते, तं ब्रह्मण आनन्दं श्रोत्रियस्यावृजिनस्याकामहतस्य सर्वेषणाविनिर्मुक्तस्यात्मभूतं विषयविषयिसम्बन्धविनिर्मुक्ततं स्वाभाविकं नित्यम् अविभक्ततं परमानन्दं ब्रह्मणो विद्वान् यथोक्तेन विधिना न बिभेति कुतश्चन / निमित्ताभावात् / नहि तस्माद् विदुषो ऽन्यद्वस्त्वन्तरम् अस्ति भिन्नं यतो बिभेति / अविद्यया यदोदरम् अन्तरं कुरुते अथ तस्य भयं भवतीति युक्तम् / विदुषश् चाविद्याकार्यस्य तैमिरिकदृष्टद्वितीयचन्द्रवन्नाशाद् भयनिमित्तस्य न बिभेति कुतश्चनेति युज्यते / मनोमये चोदाहृतो मन्त्रो मनसो ब्रह्मविज्ञानसाधनत्वात् / तत्र ब्रह्मत्वम् अध्यारोप्य तत्स्तुत्यर्थं न बिभेति कदाचनेति भयमात्रं प्रतिषिद्धम् / इहाद्वैतविषये न बिभेति कुतश्चनेति भयनिमित्तम् एव प्रतिषिध्यते /
SK
नन्व् अस्ति भयनिमित्तं साध्वकरणं पापक्रिया च / नैवम् / कथम् इत्य् उच्यते — एतं यथोक्तम् एवंविदम् / ह वावेत्य् अवधारणार्थौ / न तपति नोद्वेजयति न सन्तापयति / कथं पुनः साध्वकरणं पापक्रिया च न तपतीत्य् उच्यते / किं कस्मात् साधु शोभनं कर्म नाकरवं न कृतवान् अस्मीति पश्चात्सन्तापो भवत्य् आसन्ने मरणकाले / तथा किं कस्मात् पापं पतिषिद्धं कर्माकरवं कृतवान् अस्मीति च नरकपतनादिदुःखभयात् तापो भवति / त एते साध्वकरणपापक्रिये एवम् एनं न तपतो, यथाविद्वांसं तपतः / कस्मात् पुनर् विद्वांसं न तपत इत्य् उच्यते — स य एवं विद्वान् एते साध्वसाधुनी तापहेतू इत्य् आत्मानं स्पृणुते प्रीणयति बलयति वा, परमात्मभावेनोभे पश्यतीत्य् अर्थः / उभे पुण्यपापे हि यस्माद् एवम् एष विद्वान् एत आत्मानम् आत्मरूपेणेव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वात्मानं स्पृणुत एव / कः? य एवं वेद यथोक्तम् अद्वैतम् आनन्दं ब्रह्म वेद, तस्यात्मभावेन दृष्टे पुण्यपापे निर्वीय अतापके जन्मान्तरारम्भके न भवतः / इतीयम् एवं यथोक्ता अस्यां वल्लयां ब्रह्मविद्योपनिषत्सर्वाभ्यो विद्याभ्यः परमरहस्यं दर्शितम् इत्य् अर्थः / परं श्रेयो ऽस्यां निषण्णम् इति //
SK
ॐ / सह नाव् अवतु / सह नौ भुनक्तु / सह वीर्यं करवावहै / तेजस्वि नाव् अधीतम् अस्तु मा विद्विषावहै // ॐ शान्तिः शान्तिः शान्तिः //
SK
सत्यं ज्ञानम् अनन्तं ब्रह्म (Tऐत्त्U २,१.१) आकाशादिकार्यम् अन्नमयान्तं सृष्ट्वा तद् एवानुप्रविष्टं विशेषवद् इवोपलभ्यमानं यस्मात् तस्मात् सर्वकार्यविलक्षणम् अदृश्यादिधर्मकम् एवानन्दं तद् एवाहम् इति विजानीयाद् अनुप्रवेशस्य तदर्थत्वात् / तस्यैवं विजानतः शुभाशुभे कर्मणी जन्मान्तरारम्भके न भवत इत्य् एवम् आनन्दवल्ल्यां विवक्षितो ऽर्थः / परिसमाप्ता च ब्रह्मविद्या / अतः परं ब्रह्मविद्यासाधनं तपो वक्तव्यम्, अन्नादिविषयाणि चोपासनान्य् अनुक्तानीत्य् अतः इदम् आरभ्यते
SK
भृगुर्वै वारुणिः / वरुणं पितरमुपससार / अधीहि भगवो ब्रह्मेति / तस्मा एतत्प्रोवाच / अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति / तं होवाच / यतो वा इमानि भूतानि जायन्ते / येन जातानि जीवन्ति / यत्प्रयन्यभिसंविशन्ति / तद्विजिज्ञासस्व / तद्ब्रह्मेति / स तपो ऽतप्यत / स तपस्तप्त्वा //
SK
आख्यायिका विद्यास्तुतये, प्रियाय पुत्राय पित्रोक्तेति भृगुर् वै वारुणिः / वैशब्दः प्रसिद्धानुस्मारको, भृगुर् इत्य् एवं नामा प्रसिद्धो ऽनुस्मार्यते / वारुणिर् वरुणस्यापत्यं वारुणिर् वरुणं पितरं ब्रह्म विजिज्ञासुर् उपससारोपगतवान् / अधीहि भगवो ब्रह्मेत्य् अनेन मन्त्रेण / अधीह्य् अध्यापय कथय / स च पिता विधिवदुपसन्नाय तस्मै पुत्रायैतद् वचनं प्रोवाच / अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचम् इति / अन्नं शरीरं तदभ्यन्तरं च प्राणम् अत्तारम् अनन्तरम् उपलब्धिसाधनानि चक्षुः श्रोत्रं मनो वाचम् इत्य् एतानि ब्रह्मोपलब्धौ द्वाराण्य् उक्तवान् / उक्त्वा च द्वारभूतान्य् एतान्य् अन्नादीनि तं भृगुं होवाच ब्रह्मणो लक्षणम् / किं तत् / यतो यस्माद् वेमानि ब्रह्मादीनि स्तम्बपर्यन्तानि भूतानि जायन्ते / येन जातानि जीवन्ति प्राणान् धारयन्ति वर्धन्ते / विनाशकाले च यत्प्रयन्ति यद्ब्रह्म प्रतिगच्छन्ति, अभिसंविशन्ति तादात्म्यम् एव प्रतिपद्यन्ते, उत्पत्तिस्थितिलयकालेषु यदात्मतां न जहति भूतानि तद् एतद् ब्रह्मणो लक्षणम् / तद्ब्रह्म विजिज्ञासस्व विशेषेण ज्ञातुम् इच्छस्व / यदेवंलक्षणं ब्रह्म तदन्नादिद्वारेण प्रतिपद्यस्वेत्य् अर्थः / श्रुत्यन्तरं च — प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्म पुराणम् अग्रयम् (BĀU ४,४.१८) इति ब्रह्मोपलब्धौ द्वाराण्य् एतानीति दर्शयति / स भृगुर् ब्राह्मोपलब्धिद्वाराणि ब्रह्मलक्षणं च श्रुत्वा पितुः तपो ब्रह्मोपलब्धिसाधनत्वेनातप्यत तप्तवान् / कुतः पुनर् अनुपदिष्टस्यैव तपसः साधनत्वप्रतिपत्तिर् भृगोः? सावशेषोक्तः / अन्नादिब्रह्मणः पतिपत्तौ द्वारं लक्षणं च यतो वा इमानीत्य् आद्युक्तवान् / सावशेषं हि तत्साक्षाद् ब्रह्मणो ऽनिर्देशात् / अन्यथा हि स्वरूपेणैव ब्रह्म निर्देष्टव्यं जिज्ञासवे पुत्रायेदम् इत्थंरूपं ब्रह्मेति / न चैव निरदिशत् किं तर्हि सावशेषम् एवोक्तवान् / अतो ऽवगम्यते नूनं साधनान्तरम् अप्य् अपेक्षते पिता ब्रह्मविज्ञानं प्रतीति / तपोविशेषप्रतिपत्तिस् तु सर्वसाधकतमल्वात् / सर्वेषां हि नियतसाध्यविषयाणां साधनानां तप एव साधकतमं साधनम् इति हि प्रसिद्धं लोके / तस्मात् पित्रा अनुपदिष्टम् अपि ब्रह्मविज्ञानसाधनत्वेन तपः प्रतिपेदे भृगुः / तच् च तपो बाह्यान्तःकरणसमाधानं, तद्द्वारकत्वाद् ब्रह्मप्रतिपत्तेः / मनसश् चेन्द्रियाणां च ह्य् एकाग्रयं परमं तपः / तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते (Mभ् १२,२३२.१३) इति स्मृतेः / स च तपस् तप्त्वा
SK
अन्नं ब्रह्मेति व्यजानात् / अन्नादध्येव खल्विमानि भुतानि जायन्ते / अन्नेन जातानि जीवन्ति / अन्नं प्रयन्त्यभिसंविशन्तीति / तद्विज्ञाय / पुनरेव वरुणं पितरमुपससार / अधीहि भगवो ब्रह्मेति / तं होवाच / तपसा ब्रह्म विजिज्ञासस्व / तपो ब्रह्मेति / स तपो ऽतप्यत / स तपस्तप्त्वा //
SK
अन्नं ब्रह्मेति व्यजानाद् विज्ञातवान् / तद् धि यथोक्तलक्षणोपेतम् / कथम् / अन्नाद् ध्य् एव खल्व् इमानि भूतानि जायन्ते / अन्नेन जातानि जीवन्ति / अन्नं प्रयन्त्यभिसंविशन्तीति / तस्माद् युक्तम् अन्नस्य ब्रह्मत्वम् इत्य् अभिप्रायः / स एवं तपस् तप्त्वा अन्नं ब्रह्मेति विज्ञाय लक्षणेनोपपत्त्या च पुनर् एव संशयमापन्नो वरुणं पितरम् उपससार / अधीहि भगवो ब्रह्मेति / कः पुनः संशयहेतुर् अस्येत्य् उच्यते — अन्नस्योत्पत्तिदर्शनात् / तपसः पुनः पुनर् उपदेशः साधनातिशयत्वावधारणार्थः / यावद् ब्रह्मणो लक्षणं निरतिशयं न भवति यावच् च जिज्ञासा न निवर्तते तावत् तप एव ते साधनम् / तपसैव ब्रह्म विजिज्ञासस्वेत्य् अर्थः / ऋज्वन्यत् //
SK
प्राणो ब्रह्मेति व्यजानात् / प्राणादध्येव खल्विमानि भूतानि जायन्ते / प्राणेन जातानि जीवन्ति / प्राणं प्रयन्त्यभिसंविशन्तीति / तद्विज्ञाय / पुनरेव वरुणं पितरमुपससार / अधीहि भगवो ब्रह्मेति / तं होवाच / तपसा ब्रह्म विजिज्ञासस्व / तपो ब्रह्मेति / स तपो ऽतप्यत / स तपस्तप्त्वा // १ //
SK
मनो ब्रह्मेति व्यजानात् / मनसो ह्येव खल्विमानि भूतानि जायन्ते / मनसा जातानि जीवन्ति / मनः प्रयन्त्यभिसंविशन्तीति / तद्विज्ञाय / पुनरेव वरुणं पितरमुपससार / अधीहि भगवो ब्रह्मेति / तं होवाच / तपसा ब्रह्म विजिज्ञासस्व / तपो ब्रह्मेति / स तपो ऽतप्यत / स तपस्तप्त्वा //
SK
विज्ञानं ब्रह्मेति व्यजानात् / विज्ञानादध्येव खल्विमानि भूतानि जायन्ते / विज्ञानेन जातानि जीवन्ति / विज्ञानं प्रयन्त्यभिसंविशन्तीति / तद्विज्ञाय / पुनरेव वरुणं पितरमुपससार / अधीहि भगवो ब्रह्मेति / तं होवाच / तपसा ब्रह्म विजिज्ञासस्व / तपो ब्रह्मेति / स तपो ऽतप्यत / स तपस्तप्त्वा //
SK
आनन्दो ब्रह्मेति व्यजानात् / आनन्दाध्येव खल्विमानि भूतानि जायन्ते / आनन्देन जातानि जीवन्ति / आनन्दं प्रयन्त्यभिसंविशन्तीति / सैषा भार्गवी वारुणी विद्या / परमे व्योमन्प्रतिष्ठिता / स य एवं वेद प्रतितिष्ठति / अन्नवानन्नादो भवति / महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन / महान् कीर्त्या //
SK
एवं तपसा विशुद्धात्मा प्राणादिषु साकल्येन ब्रह्मलक्षणम् अपश्यन् शनैः शनैर् अन्तरनुप्रविश्यान्तरतमम् आनन्दं ब्रह्म विज्ञातवांस् तपसैव साधनेन भृगुः / तस्माद् ब्रह्म विजिज्ञासुना बाह्यान्तःकरणसमाधानलक्षणं परमं तपः साधनम् अनुष्ठेयम् इति प्रकरणार्थः / अधुनाख्यायिकां चोपसंहृत्य श्रुतिः स्वेन वचनेनाख्यायिकानिर्वृत्तम् अर्थम् आचप्टे — सैषा भार्गवी भृगुणा विदिता वरुणेन प्रोक्ता वारुणी विद्या परमे व्योमन्हृदयाकाशगुहायां परम आनन्दे ऽद्वैते प्रतिष्ठिता परिसमाप्ता अन्नमयाद् आत्मनो ऽधिप्रवृत्ता / य एवम् अन्यो ऽपि तपसैव साधनेनानेनैव क्रमेणानुप्रविश्यानन्दं ब्रह्म वेद स एवं विद्याप्रतिष्ठानात् प्रतितिष्ठत्य् आनन्दे परमे ब्रह्मणि, ब्रह्मैव भवतीत्य् अर्थः / दृष्टं च फलं तस्योच्यते — अन्नवान् प्रभूतम् अन्नम् अस्य विद्यत इत्य् अन्नवान् / सत्तामात्रेण तु सर्वो ह्य् अन्नवान् इति विद्याया विशेषो न स्यात् / एवम् अन्नमतीत्य् अन्नादो दीप्ताग्निर् भवतीत्य् अर्थः / महान् भवति / केन महत्त्वम् इत्य् अत आह — प्रजया पुत्रादिना पशुभिर् गावाश्वादिभिर् ब्राह्मवर्चसेन शमदमज्ञानादिनिमित्तेन तेजसा / महान् भवति कीर्त्त्या ख्यात्या शुभाचारनिमित्तया //
SK
अन्नं न निन्द्यात् / तदव्रतम् / प्राणो वा अन्नम् / शरीरमन्नादम् / प्राणे शरीरं प्रतिष्ठितम् / शरीरे प्राणः प्रतिष्ठितः / तदेतदन्न्मन्ने प्रतिष्ठितम् / स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति / अन्नवानन्नादो भवति / महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन / महान् कीर्त्या //
SK
किञ्चान्नेन द्वारभूतेन ब्रह्म विज्ञातं यस्मात् तस्मात् गुरुम् इवान्नं न निन्द्यात् / तद् अस्यैवं ब्रह्मविदो व्रतम् उपदिश्यते / व्रतोपदेशो ऽन्नस्तुतये, स्तुतिभाक्त्वं चान्नस्य ब्रह्मोपलब्ध्युपायत्वात् / प्राणो वान्नम् / शरीरान्तर्भावात् प्राणस्य / यद्य् अस्यान्तः प्रतिष्ठितं भवति तत् तस्यान्नं भवतीति / शरीरे च प्राणः प्रतिष्ठितस् तस्मात् प्राणो ऽन्नं शरीरम् अन्नादम् / तथा शरीरम् अप्य् अन्नं प्राणो ऽन्नोदः / कस्मात् प्राणे शरीरं प्रतिष्ठितम्? तन्निमित्तत्वाच् छरीरस्थितेः / तस्मात् तद् एतद् उभयं शरीरं प्राणश् चान्नमन्नादश् च / येनान्योन्यस्मिन् प्रतिष्ठितं तेनान्नम् / येनान्योन्यस्य प्रतिष्ठा तेनान्नादः / तस्मात् प्राणः शरीरं चोभयम् अन्नम् अन्नादं च / स य एवम् एतद् अन्नम् अन्ने प्रतिष्ठितं वेद प्रतितिष्ठत्य् अन्नान्नादात्मनैव / किञ्चान्नवानन्नादो भवतीत्य् आदि पूर्ववत् //
SK
अन्नं न परिचक्षीत / तदव्रतम् / आपो वा अन्नम् / ज्योतिरन्नादम् / अप्सु ज्योतिः प्रतिष्ठितम् / ज्योतिष्यापः प्रतिष्ठिताः / तदेतदन्नमन्ने प्रतिष्ठितम् /स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति / अन्नवानन्नादो भवति / महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन / महान् कीर्त्या //
SK
अन्नं न परिचक्षीत न परिहरेत् / तद्व्रतं पूर्ववत्स्तुत्यर्थम् / तद् एवं शुभाशुभकल्पनया अपरिहीयमाणं स्तुतं महीकृतम् अन्नं स्यात् / एवं यथोक्तम् उत्तरेष्व् अप्य् आपो वान्नम् इत्य् आदिषु योजयेत् //
SK
अन्नं बहु कुर्वीत / तदव्रतम् / पृथिवी वा अन्नम् / आकाशो ऽन्नादः / पृथिव्यामाकाशः प्रतिष्ठितः / आकाशे पृथिवी प्रतिष्ठिता / तदेतदन्नमन्ने प्रतिष्ठितम् / स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति / अन्नवानन्नादो भवति / महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन / महान्कीर्त्या //
SK
अप्सु ज्योतिर् इत्य् अब्ज्योतिषोर् अन्नान्नादगुणत्वेनोपासकस्यान्नस्य बहुकरर्णव्रतम् //
SK
न कञ्चन वसतौ प्रत्याचक्षीत / तदव्रतम् / तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् / अराध्यस्मा अन्नमित्याचक्षते / एतद्वै मुखतो ऽनं राद्धम् / मुखतो ऽस्मा अन्नं राध्यते / एतद्वै मध्यतो ऽनं राद्धम् / मध्यतो ऽस्मा अन्नं राध्यते / एदद्वै अन्ततो ऽन्नं राद्धम् / अन्ततो ऽस्मा अन्नं राध्यते //
SK
तथा पृथिव्याकाशोपासकस्य वसतौ वसतिनिमित्तं कश्चन कश्चिद् अपि न प्रत्याचक्षीत वसत्य् अर्थम् आगतं न निवारयेद् इत्य् अर्थः / वासे च दत्ते ऽवक्ष्यं ह्य् अशनं दातव्यम् / तस्माद् यया कया च विधया येन येन च प्रकारेण बह्वन्नं प्राप्नुयाब्दह्वन्नसंग्रहं कुर्याद् इत्य् अर्थः / यस्माद् अन्नवन्तो विद्वांसो ऽभ्यातायान्नार्थिने ऽराधि संसिद्धमस्मा अन्नम् इत्य् आचक्षते, न नास्तीति प्रत्याख्यानं कुर्वन्ति, तस्माच् च हेतोर् बह्वन्नं प्राप्नुयाद् इति पूर्वेण सम्बन्धः / अपि चान्नदानस्य माहात्म्यम् उच्यते / यथा यत्कालं प्रत्यच्छत्य् अन्नं तथा तत्कालम् एव प्रत्युपनमते / कथम् इति तद् एतद् आह एतद् वै अन्नं मुखतो मुख्ये प्रथमे वयसि मुख्यया वा वृत्त्या पूजापुरःसरम् अभ्यागतायान्नार्थिने राद्धं संसिद्धं प्रयच्छतीति वाक्यशेषः / तस्य किं फलं स्याद् इत्य् उच्यते — मुखतः पूर्वे वयसि मुख्यया वा वृत्त्यास्मा अन्नदायान्नं राध्यते, यथादत्तम् उपतिष्ठत इत्य् अर्थः / एवं मध्यतो मध्यमे वयसि मध्यम् एन चोपचारेण / तथान्ततो ऽन्ते वयसि जघन्येन चोपचारेण परिभवेन तथैवास्मै राध्यते संसिध्यत्य् अन्नम् //
SK
क्षेम इति वाचि / योगक्षेम इति प्राणापानयोः / कर्मेति हस्तयोः / गतिरिति पादयोः / विमुक्तिरिति पायौ / इति मानुषीः समाज्ञाः / अथ दैवीः / तृप्तिरिति वृष्टौ / बलमिति विद्युति //
SK
य एवं वेद य एवम् अन्नस्य यथोक्तं माहात्म्यं वेद तद्दानस्य च फलं तस्य यथोक्त फलम् उपनमते / इदानीं ब्रह्मण उपासनप्रकार उच्यते — क्षेम इति वाचि / क्षेमो नामोपात्तपरिरक्षणम् / ब्रह्म वाचि क्षेमरूपेण प्रतिष्ठितम् इत्य् उपास्यम् / योगक्षेम इति, योगो ऽनुपात्तस्योपादानम् / तौ हि योगक्षेमौ प्राणापानयोः सतोः भवतो यद्य् अपि, तथापि न प्राणापाननिमित्ताव् एव, किं तर्हि ब्रह्मनिमित्तौ / तस्माद् ब्रह्म योगक्षेमात्मना प्राणापानयोः प्रतिष्ठितम् इत्य् उपास्यम् / एवम् उत्तरेष्व् अन्येषु तेन तेनात्मना ब्रह्मैवोपास्यम् / कर्मणो ब्रह्मनिर्वर्त्यत्वाद् धस्तयोः कर्मात्मना ब्रह्मप्रतिष्ठितम् इत्य् उपास्यम् / गतिर् इति पादयोः / विमुक्तिर् इति पायौ / इत्य् एता मानुषीर् मनुष्येषु भवा मानुष्यः समाज्ञा अध्यात्मिक्यः समाज्ञा ज्ञानानि विज्ञानान्य् उपासनानीत्य् अर्थः / अथानन्तरं दैवीर् दैव्यो देवेषु भवाः समाज्ञा उच्यन्ते / तृप्तिर् इति वृष्टौ / वृष्टेर् अन्नादिद्वारेण तृप्तिहेतुत्वाद् ब्रह्मैव तृप्त्यात्मना वृष्टौ व्यवस्थितम् इत्य् उपास्यम् / तथान्येषु तेन तेनात्मना ब्रमैवोपास्यम् / तथा बलरूपेण विद्युति //
SK
यश इति पशुषु / ज्योतिरिति नक्षत्रेषु / प्रजातिरमृतमानन्द इत्युपस्थे / सर्वमित्याकाशे / तत्प्रतिष्ठेत्युपासीत / प्रतिष्ठावान् भवति / तन्मह इत्युपासीत / महान्भवति / तन्मन इत्युपासीत / मानवान्भवति //
SK
यशोरूपेण पशुषु / ज्योतीरूपेण नक्षत्रेषु / प्रजातिरमृतम् अमृतत्वप्राप्तिः पुत्रेणर्णविमोक्षद्वारेणानन्दः सुखम् इत्य् एतत् सर्वम् उपस्थनिमित्तं ब्रह्मैवानेनात्मनोपस्थे प्रतिष्ठितम् इत्य् उपास्यम् / सर्वं ह्य् आकाशे प्रतिष्ठितम् अतो यत्सर्वम् आकाशे तद्ब्रह्मैवेत्य् उपास्यम् / तच् चाकाशं ब्रह्मैव / तस्मात् तत्सर्वस्य प्रतिष्ठेत्य् उपासीत / प्रतिष्ठागुणोपासनात् प्रतिष्ठावान् भवति / एवं पूर्वेष्व् अपि यद् यत्राधीतं फलं तद्ब्रह्मैव तदुपासनात् तद्वान् भवतीति द्रष्टव्यम् / श्रुत्यन्तराच् च — तं यथा यथोपासते तद् एव भवति (ŚBर् १०,५.२.२०) इति / तन्मह इत्य् उपासीत / महो महत्त्वगुणवत्तदुपासीत / महान्भवति / तन्मन इत्य् उपासीत / मननं मनः / मानवान् भवति मननसमर्थो भवति //
SK
तन्नम इत्युपासीत / नम्यन्ते ऽस्मै कामाः / तदब्रह्मेत्युपासीत / ब्रह्मवान्भवति / तदब्रह्मणः परिमर इत्युपासीत / पर्येणं म्रियन्ते द्विषन्तः सपत्नाः / परि ये ऽप्रिया भ्रातृव्याः / स यश्चायं पुरुषे / यश्चासावादित्ये / स एकः //
SK
तन्नम इत्य् उपासीत / नमनं नमो नमनगुणवत्तदुपासीत / नम्यन्ते प्रह्वीभवन्त्यस्मा उपासित्रे कामाः काम्यन्त इति भोग्या विषया इत्य् अर्थः तद्ब्रह्मेत्य् उपासीत / ब्रह्म परिवृढतमम् इत्य् उपासीत / ब्रह्मवांस् तद्गुणो भवति / तद्ब्रह्मणः परिमर इत्य् उपासीत / ब्रह्मणः परिमरः परिम्रियन्ते ऽस्मिन् पञ्च देवता विद्युद्वृष्टिश् चन्द्रमा आदित्यो ऽग्निर् इत्य् एताः / अतो वायुः परिमरः, श्रुत्यन्तरप्रसिद्धेः / स एषैवायं वायुर् आकाशेनानन्य इत्य् आकाशो ब्रह्मणः परिमरः, तस्माद् आकाशं वाय्वात्मानं ब्रह्मणः परिमर इत्य् उपासीत / पर्येनम् एवंविदं प्रतिस्पर्धिनो द्विषन्तो ऽद्विषन्तो ऽपि सपत्ना यतो भवन्त्य् अतो विशेष्यन्ते द्विषन्तः सपत्ना इति / य एनं द्विषन्तः सपत्नाः ते परिम्रियन्ते प्राणान् जहति / किञ्च ये चाप्रिया अस्य भ्रातृव्या अद्विषन्तो ऽपि ते च परिम्रियन्ते / प्राणो वा अन्नं शरीरम् अन्नादम् इत्य् आरभ्याकाशान्तस्य कार्यस्यैवान्नान्नादत्वं उक्तम् / उक्तं नाम किं तेन, तेनैतत् सिद्धं भवति, कार्यविषय एव भोज्यभोक्तृत्वकृतः संसारो न, त्व् आत्मनीति / आत्मनि तु भ्रान्त्योपचर्यते / ननु आत्मापि परमात्मनः कार्यं ततो युक्तस् तस्य संसार इति / न / असंसारिण एव प्रवेशश्रुतेः / तत्सृष्ट्वा तद् एवानुप्राविशत् (Tऐत्त्U २,६.१) इत्य् आकाशादिकारणस्य ह्य् असंसारिण एव परमात्मनः कार्येष्व् अनुप्रवेशः श्रूयते / तस्मा कार्यानुप्रविष्टो जीव आत्मा पर एवासंसारी / सृष्ट्वानुप्राविशद् इति समानकर्तृत्वोपपत्तेश् च / सर्गप्रवेशक्रिययोश् चैकश् चेत् कर्ता ततः क्त्वाप्रत्ययो युक्तः / प्रविष्टस्य तु भावान्तरापत्तिर् इति चेत् / न / प्रवेशस्यान्यार्थत्वेन प्रत्याख्यातत्वात् / अनेन जीवेन (Cह्U ६,३.२) इति विशेषश्रुतेर् धर्मान्तरेणानुप्रवेश इति चेत् / न / तत् त्वम् असि (Cह्U ६,८.७; ६,९.४; ६,१०.३; ६,११.३; ६,१२.३; ६,१३.३; ६,१४.३; ६,१५.३; ६,१६.३) इति पुनस् तद्भावोक्तः / भावान्तरापन्नस्यैव तदपोहार्था सम्पद् इति चेत् / न / तत् सत्यं स आत्मा तत् त्वम् असि (Cह्U ६,८.७; ६,९.४; ६,१०.३; ६,११.३; ६,१२.३; ६,१३.३; ६,१४.३; ६,१५.३; ६,१६.३) इति सामानाधिकरण्यात् / दृष्टं जीवस्य संसारित्वम् इति चेत् / न / उपलब्धुर् अनुपलभ्यत्वात् / संसारधर्मविशिष्ट आत्मोपलभ्यत इति चेत् / न / अधर्माणां धर्मिणो ऽव्यतिरेकात् कर्मत्वानुपपत्तेः / उष्णप्रकाशयोर् दाह्यप्रकाश्यत्वानुपपत्तिवत् त्रासादिदर्शनात् दुःखित्वाद्यनुमीयत इति चेत् / न / त्रासादेर् दुःखस्य चोपलभ्यमानत्वान् नोपलब्धृधर्मत्वम् / कापिलकाणाद् आदितर्कशास्त्रविरोध इति चेत् / न / तेषां मूलाभावे वेदविरोधे च म्रान्तत्वोपपत्तेः / श्रुत्युपत्तिभ्यां च सिद्धम् आत्मनो ऽसंसारित्वं, एकत्वाच् च / कथम् एकत्वम् इत्य् उच्यते — स यश् चायं पुरुषे यश् चासाव् आदित्ये स एकः (Tऐत्त्U २,८.५) इत्य् एवम् आदि पूर्ववत् सर्वम् //
SK
स य एवंवित् / अस्माल्लोकात्प्रेत्य / एतमन्नमयमात्मानमुपसङ्क्रम्य /एतं प्राणमयमात्मानमुपसङ्क्रम्य / एतं मनोमयमात्मानमुपसङ्क्रम्य / एतं विज्ञानमयमात्मानमुपसङ्क्रम्य / एतमानन्दमयमात्मानमुपसङ्क्रम्य / इमांल्लोकन्कामान्नी कामरूप्यनुसञ्चरन् / एतत् साम गायन्नास्ते / हा३वु हा३वु हा३वु //
SK
अन्नमयादिक्रमेणानन्दमयमा मानमुपसङ्क्रम्य तत्साम गायन्नास्ते / सत्यं ज्ञानम् इत्य् अस्या ऋचो ऽर्थ व्याख्यातो विस्तरेण तद्विवरणभूतया आनन्दवल्या / सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता (Tऐत्त्U २,१.१) इति तस्य फलवचनस्यार्थविस्तारो नोक्तः / के ते, किंविषया वा सर्वे कामाः, कथं वा ब्रह्मणा सह समष्नुते, इत्य् एतद् वक्तव्यम् इतीदम् इदानीम् आरभ्यते / तत्र पितापुत्राख्यायिकायां पूर्वविद्याशेषभुतायां तपो ब्रह्मविद्यासाधनम् उक्तम् / प्राणादेर् आकाशान्तस्य च कार्यस्यान्नान्नादत्वेन विनियोगश् चोक्तः / ब्रह्मविषयोपासनानि च / ये च सर्वे कामाः प्रतिनियतानेकसाधनसाध्या आकाशादिकार्यभेदविषया एते दर्शिताः / एकत्वे पुनः कामकामित्वानुपपत्तिः / भेदजातस्य सर्वस्यात्मभूतत्वात् / तत्र कथं युगपद्ब्रह्मस्वरूपेण सर्वान् कामान् एवंवित्समश्रुत इत्य् उच्यते — सर्वात्मत्वोपपतेः / कथं सर्वात्मत्वोपपत्तिर् इत्य् आह — पुरुषादित्यस्थात्मैकत्वविज्ञानेनापोह्योत्कर्षापकर्षावन्नमयादीनात्मनो ऽविद्याकलिपतान् क्रमेण सङ्क्रम्यानन्दमयान्तान् सत्यं ज्ञानम् अनन्तं ब्रह्मादृश्यादिधर्मकं स्वाभाविकम् आनन्दम् अजम् अमृतम् अभयम् अद्वैतं फलभूतमापन इमांल् लोकान् भूरादीन् अनुसञ्चरन्न् इति व्यवहितेन सम्बन्धः / कथमनुसञ्चरन् / कामात्री कामतो ऽन्नमस्येति कामात्री / तथा कामतो रूपाण्य् अस्येति कामरूपी / अनुसञ्चरन् सर्वात्मनेमांल् लोकान् आत्मावेनानुभवन् / किम्, एतत् साम गायन्न् आस्ते / समत्वाद् ब्रह्मैव साम सर्वानन्यरूपं गायन् शब्दयन्नात्मैकत्वं प्रख्यापयंल् लोकानुग्रहार्थं तद्विज्ञानफलं चातीव कृतार्थत्वं गायन्न् आस्ते तिष्ठति / कथम् / हा ऽवु हा ऽवु हा ऽवु / अहो इत्य् एतस्मिन्न् अर्थे ऽत्यन्तविस्मयख्यापनार्थम्
SK
अहमन्नमहमन्नमहमन्नम् / अहमन्नादो३ ऽहमन्नादो३ ऽहमन्नादः / अहं श्लोककृदहं श्लोककृदहं श्लोककृत् / अहमस्मि प्रथमजा ऋता३स्य / पूर्वं देवेभ्यो ऽमृतस्य ना३भायि / यो मा ददाति स इदेव मा३वाः / अहमन्नमन्नमदन्तमा३द्मि / अहं विश्वं भुवनमभ्यभवा३म् / सुवर्न ज्योतिः / य एवं वेद / इत्युपनिषत् //
SK
इति दशमो ऽनुवाकः // इति भुगृवल्ली // इति तैत्तिरीयोपनिषत् //
SK
कः पुनर् असौ विस्मय इत्य् उच्यते — अद्वैत आत्मा निरञ्जनो ऽपि सन्न् अहम् एवान्नम् अन्नादश् च / किञ्चाहम् एव श्लोककृत् / श्लोको नामान्नान्नादयोः सङ्घातस् तस्य कर्ता चेतनावान् / अन्नस्यैव वा परार्थस्यान्नादार्थस्य सतो ऽनेकात्मकस्य पारार्थ्येन हेतुना सङ्घात् अकृत् / त्रिर् उक्तिर् विस्मयत्वख्यापनार्था / अहम् अस्मि भवामि / प्रथमजाः प्रथमजः प्रथमोत्पन्नः / ऋतस्य सत्यस्य मूर्तामूर्तस्यास्य जगतो देवेभ्यश् च पूर्वम् अमृतस्य नाभिर् अमृतत्वस्य नाभिर्मध्यं मत्संस्थम् अमृतत्वं प्राणिनाम् इत्य् अर्थः / यः कश्चिन् मामामन्नमन्नार्थिभ्यो ददाति प्रयच्छत्य् अन्नात्मना ब्रवीति स इदित्थमेवमविनष्टं यथाभूतं मामावा अवतीत्य् अर्थः / यः पुनर् अन्यो मामदत्त्वा अर्थिभ्यः काले प्राप्ते ऽन्नम् अत्ति तम् अन्नमदन्तं भक्षयन्तं पुरुषम् अहम् अन्नम् एव सम्प्रत्यद्मि भक्षयामि / अत्राह — एवं तर्हि बिभेमि सर्वात्मत्वप्राप्तेर् मोक्षात् / अस्तु संसार एव यतो मुक्तो ऽप्य् अहम् अन्नभूत अद्यः स्याम् अन्नस्य / एवं मा भैषीः संव्यवहारविषयत्वात् सर्वकामशासनस्य / अतीत्यायं संव्यवहारविषयम् अन्नान्नादादिलक्षणम् अविद्याकृतं विद्यया ब्रह्म्त्वम् आपन्नो विद्वांस् तस्य नैव द्वितीयं वस्वन्तरम् अस्ति यतो बिभेत्य् अतो न भेतव्यं मोक्षात् / एवं तर्हि किम् इदम् आहाहम् अन्नम् अहम् अन्नाद इति, उच्यते / यो ऽयम् अन्नान्नादादिलक्षणः संव्यहारः कार्यभूतः स संव्यवहारमात्रम् एव, न परमार्थवस्तु / स एवम्भूतो ऽपि ब्रह्मनिमित्तो ब्रह्मव्यतिरेकेणासन्न् इति कृत्वा ब्रह्मविद्याकार्यस्य ब्रह्मभावस्य स्तुत्यर्थम् उच्यते, अहम् अन्नम् अहम् अन्नम् अहम् अन्नम् अहम् अन्नादो ऽहम् अनादो ऽहम् अन्नाद इत्य् आदि / अतो भयादिदोषगन्धो ऽप्य् अविद्यानिमित्तो ऽविद्योच्छेदाद् ब्रह्मभूतस्य नास्तीति / अहं विश्वं समस्तं भुवनं भूतैः सम्भजनीयं ब्रह्मादिभिर् भवन्तीति वास्मिन् भूतानीति भुवनम् अभ्यभवाम् अभिभवामि परेणेश्वरेण स्वरूपेण / सुवर्न ज्योतीः सुवरादित्यो, नकार उपमार्थे / आदित्य इव सकृद्विभातमस्मदीयं ज्योतीर् ज्योतिः प्रकाश इत्य् अर्थः / इति वल्लीद्वयविहितोपनिषत्परमात्मज्ञानं, ताम् एतां यथोक्ताम् उपनिषदं शान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वा भृगुवत्तपो महदास्थाय य एवं वेद तस्येदं फलं यथोक्तमोक्ष इति //
SK
ॐ सह नाववतु / सह नौ भुनक्तु / सह वीर्यं करवावहै / तेजस्वि नावधीतम् अस्तु मा विद्विषावहै / ॐ शान्तिः शान्तिः शान्तिः //
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीशङ्करभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्यं समाप्तम् //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Taittirīya Upaniṣad Śāṅkara-bhāṣya: corpustei HTML transform of the Taittirīya Śāṅkara-bhāṣya.

Source