Levels of the Disciple

Śrāvakabhūmi · Śरावकभूमि

Levels of the Disciple

Śrāvakabhūmi

Śरावकभूमि

SK
रिङ् ब यिन् ते / दे नि स्ग्रिब् प źएस् ब्यऽओ //
SK
र्ग्यु गङ् दग् गिस् योङ्स् सु म्य ङन् लस् ऽदऽ बऽइ छोस् चन् र्नम्स् योङ्स् सु म्य ङन् लस् म ऽदस् पऽइ र्ग्यु नि ब्źइ पो दे दग् यिन् नो // दे दग् क्यङ् गङ् गि त्स्हे सङ्स् र्ग्यस् ऽब्युङ् ब दङ् दम् पऽइ छोस् ङन् प दङ् र्जेस् सु म्थुन् पऽइ ग्दम्स् ङग् र्जेस् सु ब्स्तन् प र्ञेद् चिङ् र्ग्यु दे दग् क्यङ् मेद् पर् ग्युर् प, देऽइ त्स्हे न द्गे बऽइ र्त्स ब दग् योङ्स् सु स्मिन् चिङ् रिम् ग्यिस् योङ्स् सु म्य ङन् लस् ऽदऽ बर् यङ् ऽग्युर् रो //
SK
योङ्स् सु म्य ङन् लस् मि ऽदऽ बऽइ छोस् चन् र्नम्स् नि ङेस् पऽइ त्स्होग्स् ल ग्नस् प यिन् पस् / दे दग् नि र्क्येन् र्ञेद् क्यङ् रुङ् म र्ञेद् क्यङ् रुङ् स्ते / र्नम् प थम्स् चद् क्यि थम्स् चद् दु योङ्स् सु म्य ङन् लस् ऽदऽ बऽइ स्कल् ब मेद् प खो न यिन् नो //
SK
(I)-A-II-४ Mस्.-, Sह्.-, W.*६०-१०, P.३ब्६, D.३ब्१, N.४ब्३, Cओ.३ब्२, Cह्.३९६ब्७ दे ल योङ्स् सु म्य ङन् लस् ऽदऽ बऽइ छोस् चन् र्नम्स् क्यि गङ् दग् म त्स्हङ् źइङ् मेद् ल ञे बर् म ग्युर् न योङ्स् सु म्य ङन् लस् मि ऽदऽ बऽइ र्क्येन् र्नम्स् गङ् źए न / स्म्रस् प / र्क्येन् ग्ञिस् ते / ग्ञिस् गङ् źए न/ ग्त्सो बो दङ् द्मन् पऽओ //
SK
(I)-A-II-४-अ Mस्.-, Sह्.-, P.३ब्७, D.३ब्२, N.४ब्४, Cओ.३ब्३, Cह्.३९६ब्१० र्क्येन् ग्त्सो बो गङ् źए न / स्म्रस् प / ऽदि ल्त स्ते / दम् पऽइ छोस् क्यि द्बङ् दु ब्यस् पऽइ ग्źअन् ग्यि स्ग्र दङ् / नङ् गि त्स्हुल् ब्źइन् यिद् ल ब्येद् पऽओ //
SK
(I)-A-II-४-ब् Mस्.-, Sह्.-, W.*६०-२८, P.३ब्८, D.३ब्२, N.४ब्५, Cओ.३ब्३, Cह्.३९६ब्११ र्क्येन् द्मन् प गङ् źए न / स्म्रस् प / र्क्येन् द्मन् प नि मङ् स्ते / ऽदि ल्त स्ते / आत्मसम्पत्, परसम्पत्, कुशलो धर्मच्छन्दह्, प्रव्रज्या, शीलसंवरः, इन्द्रियसंवरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं, जागरिकानुयोगः, संप्रजानद्विहारिता, प्राविवेक्यं, निवरणविशुद्धिः, समाधिसंनिश्रयश् च //
SK
(I)-A-II-४-ब्-(१) Mस्.२अ१L, Sह्.५-३, W.*६०-३३, P.४अ२, D.३ब्४, N.४ब्६, Cओ.३ब्५, Cह्.३९६ब्१५ दे ल ब्दग् गि ऽब्योर् प गङ् źए न / मिर् ग्युर् प दङ् / युल् द्बुस् सु स्क्येस् प दङ् /] इन्द्रियैर् अविकलता, आयतनगतः प्रसादः, अपरिवृत्तकर्मान्तता //
SK
(I)-A-II-४-ब्-(१)-इ Mस्-२अ१L, Sह्.५-३, P.४अ३, D.३ब्५, N.४ब्७, Cओ.३ब्६, Cह्.३९६ब्१७ तत्र मनुष्यत्वं कतमत् / यथापीहैकत्यो मनुष्याणां सभागतायां प्रत्याजातो भवति / पुरुषश् च पुरुषेन्द्रियेण समन्वागतः स्त्रीश् च / इदम् उच्यते मनुष्यत्वम् //
SK
(I)-A-II-४-ब्-(१)-इइ Mस्.२अ१R, Sह्.५-८, P.४अ४, D.३ब्५, N.५अ१, Cओ.३ब्६, Cह्.३९६ब्१९ आर्यायतने प्रत्याजातिः कतमा / यथापीहैकत्यो मध्येषु जनपदेषु प्रत्याजातो भवति, पूर्ववद् यावद् यत्र गतिः सत्पुरुषाणाम् / इयम् उच्यते आर्यायतने प्रत्याजातिः //
SK
(I)-A-II-४-ब्-(१)-इइइ Mस्-२अ२L, Sह्.६-१, W.*६०-३३, P.४अ५, D.३ब्६, N.५अ२, Cओ.४अ१, Cह्.३९६ब्२१ इन्द्रियैर् अविकलता कतमा / यथापीहैकत्यो ऽजडो भवत्य् अनेडक इति विस्तरः / अङ्गप्रत्यङ्गाविकलो वा यद्रूपेणाङ्गप्रत्यङ्गावैकल्येन श्रोत्रावैकल्यादिकेन भव्यः कुशलपक्षसमुदागमाय / इदम् उच्यते इन्द्रियावैकल्यम् //
SK
(|)-A-II-४-ब्-(१)-इव् Mस्.२अ३L, Sह्.६-६, P.४अ७, D.३ब्७, N.५अ३, Cओ.४अ२, Cह्.३९६ब्२५ आयतनगतः प्रसादः कतमः / यथापीहैकत्येन तथागतप्रवेदिते धर्मविनये श्रद्धा प्रतिलब्धा भवति चेतसः प्रसादः / अयम् उच्यते आयतनगतः प्रसादः / तत्रायतनं तथागतप्रवेदितो धर्मविनयः सर्वेषां लौकिकलोकोत्तराणां शुक्लधर्माणाम् उत्पत्तये / या पुनर् अत्र श्रद्धा तेन पूर्वङ्गमेनाधिपत्येन स आयतनगतः प्रसादः / सर्वक्लेशमलकलुष्यापनयनत् //
SK
(I)-A-II-४-ब्-(१)-व् Mस्.२अ४L, Sह्.६-१३, W.*६०-३५, P.४ब्१, D.४अ२, N.५अ६, Cओ.४अ५, Cह्.३९६च्२ अपरिवृत्तकर्मान्तता कतमा/ येन पञ्चानाम् आनन्तर्याणां कर्मणां, तद्यथा मातृवधात् पितृवधाद् अर्हद्वधात् संघभेदात् तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादाद् अन्यतमान्यतमाद् आनन्तर्यं कर्म दृष्ट एव धर्मे न कृतं भवति नाध्याचरितम् इयम् उच्यते ऽपरिवृत्तकर्मान्ततेति / इमानि पञ्चानन्तर्याणि कर्माणि कृतोपचितानि दृष्ट एव धर्मे परिवर्त्याभव्यो भवति परिनिर्वाणायार्यमार्गस्योत्पत्तये / तस्माद् एतानि परिवृत्तकर्मान्ततेत्य् उच्यते //
SK
स्वयम् एवानेन स आत्मभाव एभिः पञ्चभिर् अङ्गैः संपादितो भवति / तस्माद् आत्मसंपद् इत्य् उच्यते //
SK
(I)-A-II-४-ब्-(२) Mस्.२अ६L, Sह्.७-१, W.*६१-२, P.४ब्५, D.४अ५, N.५ब्५, Cओ,४ब्१, Cह्.३९६च्९ परसम्पत् कतमा / तद्यथा बुद्धानाम् उत्पादः, सद्धर्मदेशना, देशितानां धर्माणाम् अवस्थानम्, अवस्थितानां च धर्माणाम् अनुप्रवर्तनम्, परतश् च प्रत्यनुकम्पा //
SK
(I)-A-II-४-ब्-(२)-इ Mस्.२अ६M, Sह्.७-४, P.४ब्६, D.४अ६, N.५ब्३, Cओ.४ब्२, Cह्.३९६च्११ तत्र बुद्धानाम् उत्पादः कतमः / यथापीहैकत्यः सर्वसत्त्वेषु कल्याणहिताध्याशयम् उत्पाद्य प्रभूतैर् दुष्करसहस्रैर् महता च पुण्यज्ञानसम्भारेण [ब्स्कल् प ग्रङ्स् मेद् प ग्सुम् ग्यिस् थ मःइ लुस् फ्यि म]-आत्मभावप्रतिलम्भे बोधिमण्डे निषद्य, पञ्च निवरणानि प्रहाय, चतुर्षु स्मृत्युपस्थानेषु सूपस्थितचित्तः, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते / अयम् उच्यते बुद्धानाम् उत्पादः / अतीतानागतप्रत्युत्पन्नेष्व् अध्वसु एवम् एव [सङ्स् र्ग्यस् ब्चोम् ल्दन् ऽदस् थम्स् चद् दे खो न ब्źइन् दु ऽब्युङ् ब यिन् नो //]
SK
(I)-A-II-४-ब्-(२)-इइ Mस्-२अ८L, Sह्.७-१२, P.५अ२, D.४ब्२, N.५ब्५, Cओ.४ब्५, Cह्.३९६च्१८ सद्धर्मदेशना कतमा / त एवं बुद्धा भगवन्तो लोक उत्पद्य तस्यैव च श्रावका लोकानुकम्पाम् उपादाय चत्वार्य् आर्यसत्यान्य् आरभ्य दुःखसमुदयनिरोधमार्गान् धर्मदेशनां वर्तयन्ति, यद् उत सूत्रगेयव्याकरणगाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशान् / इयम् उच्यते सद्धर्मस्य देशना / सद्भिर् अयं धर्मो निर्यातो देशितः प्रशस्तो बुद्धैश् च बुद्धश्रवकैश् च / [देऽइ फ्यिर् दम् पऽइ छोस् ते / दे ब्शद् प गङ् यिन् प देस् नि दम् पऽइ छोस् स्तोन् प źएस् ब्यऽओ //]
SK
(१)-A-II-४-ब्-(२)-इइइ Mस्-२ब्१L, Sह्.७-१७, P.५अ६, D.४ब्५, N.६अ२, Cओ.५अ१, Cह्.३९६च्२७ देशितानां धर्माणाम् अवस्थानं कतमत् / देशिते सद्धर्मे प्रवर्तिते धर्मचक्रे यावच् च बुद्धो भगवान् जीवति तिष्ठति च परिनिर्वृते च बुद्धे भगवति यावता कालेन प्रतिपत्तिर् न हीयते सद्धर्मश् च नान्तर्धीयते / इदम् उच्यते सद्धर्मस्यावस्थानं / [ग्नस् प दे यङ् दोन् दम् पऽइ छोस् म्ङोन् सुम् दु ब्य बऽइ त्स्हुल् ग्यिस् यिन् पर् रिग् पर् ब्यऽओ //]
SK
(I)-A-II-४-ब्-(२)-इव् Mस्.२ब्२L, Sह्.८-५, P.५अ८, D.४ब्७, N.६अ४, Cओ.५अ३, Cह्.३९७अ१ अवस्थितानां धर्माणाम् अनुप्रवर्तनं कतमत् / यत् त एवाधिगन्तारः सद्धर्मस्य सद्धर्मसाक्षात्क्रियायै भव्यां प्रतिबलतां जनानां विदित्वा यथाधिगताम् एवानुलोमिकीम् अववादानुशासनीम् अनुप्रवर्तयन्ति / इदम् उच्यते ऽवस्थितानां धर्माणाम् अनुप्रवर्तनम् //
SK
(I)-A-II-४-ब्-(२)-व् Mस्.२ब्२R, Sह्.८-१०, P.५ब्२, D.५अ१, N.६अ५, Cओ.५अ३, Cह्.३९७अ४ परतः प्रत्यनुकम्पा कतमा / पर उच्यन्ते दायकदानपतयह् ते यानि तस्यानुलोमिकानि जीवितोपकरणानि तैः प्रत्यनुकम्पन्ते, यदुत (Śभ् I १६) चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर्, इयम् उच्यते परतः प्रत्यनुकम्पा //
SK
(I)-A-II-४-ब्-(३) Mस्.२ब्३M, Sह्.८-१५, W.*६१-८, P.५ब्४, D.५अ२, N.६अ५, Cओ.५अ६, Cह्.३९७अ७ कुशलो धर्मच्छन्दः कतमः / यथापीहैकत्यस् तथागतस्य वा तथागतश्रावकस्य वान्तिकाद् धर्मं श्रुत्वा श्रद्धां प्रतिलभते / स तां प्रतिलभ्य, इदं प्रतिसंशिक्षते / ᳚संबाधो गृहावासो रजसाम् आवासः / अभ्यवकाशं प्रव्रज्य यन् न्व् अहं सर्वं कडत्रवर्गं धनधान्यहिरण्यं चोत्सृज्य स्वाख्याते धर्मविनये सम्यग् एवागाराद् अनगारिकां प्रव्रजेयं, प्रव्रजित्वा च प्रतिपत्त्या संपादयेयम्᳚ इति / य एव समुत्पन्नश् छन्दः कुशलेषु धर्मेषु, अयम् उच्यते कुशलो धर्मच्छन्दः //
SK
(I)-A-II-४-ब्-(४) Mस्.२ब्५L, Sह्.९-४, W.*६६-१०, P.५ब्८, D.५अ५, N.६ब्२, Cओ.५ब्२, Cह्.३९७अ१४ प्रव्रज्या कतमा / या तम् एव कुशलं धर्मच्छन्दम् अधिपतिं कृत्वा ज्ञप्तिचतुर्थेन वा कर्मणोपसंपच् छ्रामणेरशीलसमादानं वा / इयम् उच्यते प्रव्रज्या //
SK
(I)-A-II-४-ब्-(५) Mस्.२ब्५M, Sह्.९-८, W.*६१-१२, P.६अ१, D.५अ६, N.६ब्५, Cओ.५ब्३, Cह्.३९७अ१६ शीलसंवरः कतमः / स तथा प्रव्रजितः शीलवान् विहरति, प्रातिमोक्षसंवरसंवृतः, आचारगोचरसंपन्नः, अणुमात्रेष्व् अवद्येषु भयदर्शी, समादाय शिक्षते शिक्षापदेषु / अयम् उच्यते शीलसंवरः //
SK
(I)-A-II-४-ब्-(६) Mस्.२ब्६L, Sह्.९-१३, W.*६१-२०, P.६अ३, D.५अ७, N.६ब्५, Cओ.५ब्५, Cह्.३९७अ१९ इन्द्रियसंवरः कतमः / स तम् एव शीलसंवरं निश्रित्यारक्षितस्मृतिर् भवति निपकस्मृतिः स्मृत्यारक्षितमानसः समावस्थावचारकः / स चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति, नानुव्यंजनग्राही, यतो ऽधिकरणम् अस्य पापका अकुशला धर्माश् चित्तम् अनुस्रवेयुः, तेषां संवराय (Śभ् I १८) प्रतिपद्यते, रक्षति चक्षुरिन्द्रियम्, चक्षुरिन्द्रियेण संवरम् अपद्यते / स श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यानि, मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति नानुव्यंजनग्राही, यतो ऽधिकरणम् अस्य पापका अकुशला धर्माश् चित्तम् अनुस्रवेयुः, तेषां संवराय प्रतिपद्यते, रक्षति मन-इन्द्रियं, मन-इन्द्रियेण संवरम् आपद्यते / अयम् उच्यते इन्द्रियसंवरः //
SK
(I)-A-II-४-ब्-(७) Mस्.२ब्८M, Sह्.१०-४, W.*६२-७, P.६अ८, D.५ब्४, N.७अ२, Cओ.६अ२, Cह्.३९७ब्१ भोजने मात्रज्ञता कतमा / स तथा संवृतेन्द्रियः प्रतिसंख्यायाहारम् आहरति, न दर्पार्थं न मदार्थं न मण्डनार्थं न विभूषणार्थं, यावद् एवास्य कायस्य स्थितये यापनायै जिघत्सोपरतये ब्रह्मचर्यानुग्रहाय इति / पौराणां च वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामि / यात्रा च मे भविष्यति बलं च सुखं चानवद्यता च स्पर्शविहारता च / इयम् उच्यते भोजने मात्रज्ञता //
SK
(I)-A-II-४-ब्-(८) Mस्.३अ१M, Sह्.१०-११, W.*६२-१०, P.६ब्३, D.५ब्६, N.७अ४, Cओ.६अ५, Cह्.३९७ब्७ पूर्वरात्रापररात्रं जागरिकानुयोगः कतमः / स तथा भोजने मात्रज्ञो दिवा चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / स रात्र्याः प्रथमे यामे चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोध्य, ततो विहारान् निर्गम्य बहिर् विहारस्य पादौ प्रक्षाल्य, दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयत्य् पादे पादम् आधाय, आलोकसंज्ञी स्मृतः संप्रजानन्न् उत्थानसंज्ञाम् एव मनसिकुर्वन्, स रात्र्याः पश्चिमे यामे लघु लघ्व् एव प्रतिविबुध्य, (Śभ् I २०) चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति. इयम् उच्यते पूर्वरात्रापररात्रं जागरिकानुयुक्तता //
SK
(I)-A-II-४-ब्-(९) Mस्.३अ३M, Sह्.११-१०, W.*६२-३४, P.६ब्७, D.६अ३, N.७ब्१, Cओ.६ब्२, Cह्.३९७ब्१६ संप्रजानद्विहारिता कतमा / स तथा जागरिकानुयुक्तो ऽभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवति, आलोकितव्यवलोकिते संमिञ्जितप्रसारिते सांघाटीचीवरपात्रधारणे ऽशितपीतखादितस्वादिते निद्राक्लमविनोदने गते स्थिते निषण्णे शयिते जागृते भाषिते तूष्णींभावे संप्रजानद्विहारी भवति / इयम् उच्यते संप्रजानद्विहारिता //
SK
(I)-A-II-४-ब्-(१०) Mस्.३अ४M, Sह्.१२-४, W.*६३-९, P.७अ२, D.६अ५, N.७ब्३, Cओ.६ब्४, Cह्.३९७ब्२२ प्राविवेक्यं कतमत् / स एभिर् धर्मैः परिकर्मभूमिं शोधयित्वा विविक्तानि शयनासनान्य् अध्यावसत्य् अरण्यानि वृक्षमूलानि शून्यागाराणि पर्वतकन्दरगिरिगुहापलालपुंजाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि / इदम् उच्यते प्राविवेक्यम् //
SK
(I)-A-II-४-ब्-(११) Mस्.३अ५L, Sह्.१३-१, W.*६३-११, P.७अ४, D.६अ७, N.७ब्५, Cओ.६ब्५, Cह्.३९७ब्२६ निवरणविशुद्धिः कतमा / सो ऽरण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा पञ्चभ्यो निवरणेभ्यश् चित्तं विशोधयति, कामच्छन्दाद् व्यापादात् स्त्यानमिद्धाद् औद्धत्यकौकृत्याद् विचिकित्सायाः / स एभ्यो निवरणेभ्यश् चित्तं विशोध्य विनिवरणम् समाधिकल्यतायाम् अवस्थापयति / इयम् उच्यते निवरणविशुद्धिः //
SK
(I)-A-II-४-ब्-(१२)-(इ),(इइ),(इइइ),(इव्) Mस्.३अ६L, Sह्.१४-१, W.*६३-१६, P.७अ६, D.६ब्२, N.७ब्७, Cओ.६ब्७, Cह्.३९७च्२ समाधिसंनिश्रयः कतमः / स पञ्च निवरणानि प्रहाय चेतस उपक्लेशकराणि संक्लेशकराणि /
SK
विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विअहरति /
SK
स वितर्कविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति /
SK
स प्रीतेर् विरागाद् उपेक्षको विहरति स्मृतः संप्रजानन् सुखं च कायेन प्रतिसंवेदयते यत् तद् आर्या आचक्षते ᳚उपेक्षकः स्मृतिमान् सुखविहारीति तृतीयं ध्यानम् उपसंपद्य विहरति /
SK
स सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति / अयम् उच्यते समाधिसंनिश्रयः //
SK
(I)-A-IIऽ Mस्.३अ८R, Sह्.१५-१०, W.ऽ६३-२१, P.७ब्४, D.६ब्६, N.८अ५, Cओ.७अ६, Cह्.३९७च्११ सो ऽनयानुपूर्व्या-उत्तरोत्तरान् विशिष्टान् विशिष्टतरान् विशिष्टतमान् प्रत्ययान् आत्मसम्पत्पूर्वान् समाधिसंनिश्रयपर्यवसानान् समुदानयति / एवं परिशुद्धे चित्ते पर्यवदाते अनंगणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिंज्यप्राप्ते, सचेत् चत्वार्य् आर्यसत्यान्य् आरभ्य तेषां परिज्ञायै प्रहाणाय साक्षात्क्रियायै भावनायै परतो घोषम् अववादानुशासनीं लभते, एवम् असौ भव्यो भवति प्रतिबलश् च योगविहितस्य मनस्कारस्योत्पादनाय तत्पूर्विकायाश् च सम्यग्दृष्टेः, यया चत्वार्य् आर्यसत्यान्य् अभिसमागच्छति, विमुक्तिञ् च परिपूरयति, निरुपधिशेषे च निर्वाणधातौ परिनिर्वाति / तत्र या सम्यग्दर्शनम् उपादाय विमुक्तिपरिपूरिः निरुपधिशेषपरिनिर्वाणं चायं गोत्रसमुदागमो वेदितव्यः / तत्रात्मसंपदम् उपादाय यावत् समाधिसंनिश्रयो ऽयं हीनः समुदागमप्रत्ययो वेदितव्यः / तत्र यश् चतुःसत्यदेशनाववादाधिपतेयः परतो घोषो यश् च योनिशो मनस्कारः, अयं प्रधानः समुदागमप्रत्ययो वेदितव्यः / इदम् उच्यते गोत्रव्यवस्थानम् //
SK
(I)-A-III Mस्.३ब्३R, Sह्.१६-७, W.*६३-३६, P.८अ४, D.७अ५, N.८ब्४, Cओ.७ब्५, Cह्.३९७च्२५ गोत्रस्थस्य पुद्गलस्य कतमानि लिङ्गानि / आह / यान्य् अपरिनिर्वाणधर्मकस्य लिङ्गानि तद्विपर्ययेण गोत्रस्थस्य पुद्गलस्य लिङ्गानि वेदितव्यानि //
SK
(I)-A-IIIऽ Mस्.३ब्४M, Sह्.१६-११, P.८अ५, D.७अ६, N.८ब्५, Cओ.७ब्६, Cह्.३९७च्२७ कानि पुनर् अपरिनिर्वाणधर्मकलिङ्गानि यैः समन्वागतो ऽपरिनिर्वाणधर्मकः पुद्गलः ᳚अपरिनिर्वाणधर्मको ऽयम्᳚ इति विज्ञेयः / आह / बहून्य् अपरिनिर्वाणधर्मकलिङ्गानि प्रदेशमात्रं तु निर्देक्ष्यामि //
SK
(I)-A-IIल्-अ Mस्.३ब्५L, Sह्.१६-१५, P.८अ७, D.७अ७, N.८ब्६, Cओ.७ब्७, Cह्.३९८अ१ इहापरिनिर्वाणधर्मकस्य पुद्गलस्यादित एवालयतृष्णा सर्वेण सर्वं सर्वथा च सर्वबुध्धैर् आश्रयसंनिविष्टा अप्रहाणधर्मिणी भवत्य् अनुत्पीड्या दूरागता प्रगाढसंनिविष्टा / इदं प्रथमम् अगोत्रस्थस्य पुद्गलस्य लिङ्गम् //
SK
(I)-A-IIल्-ब् Mस्.३ब्६L, Sह्.१६-१९, P.८ब्१, D.७ब्२, N.९अ१, Cओ.८अ२, Cह्.३९८अ६ पुनर् अपरम् अगोत्रस्थः पुद्गलः / अनेकपर्यायेण संसारदोषान् विचित्रान् प्रभूतांश् च श्रुत्वा, निर्वाणगुणांश् चानेकपर्यायेण विचित्रान् प्रभूतांश् च श्रुत्वा, परीत्तम् अपि प्रपञ्चे संसारे दोषदर्शनम् आदीनवदर्शनं संवेगमात्रकं नोत्पादितवान् अतीतम् अध्वानम् उपादाय, नोत्पादयिष्यत्य् अनागतम् अध्वानम् उपादाय, नोत्पादयति वर्तमानम् अध्वानम् उपादाय, परीत्तकलामात्रकम् अवरमात्रकं निर्वाणे तृष्णाक्षये विरागे निरोधे गुणदर्शनम् अनुशंसदर्शनं प्रसादमात्रकम् अतीतानागतप्रत्युत्पन्नम् अध्वानम् उपादाय नोत्पादितवान् नोत्पादयिष्यति नोत्पादयति / इदं द्वितीयम् अगोत्रस्थं लिङ्गम् //
SK
(I)-A-IIल्-च् Mस्.३ब्७R, Sह्.१७-९, P.८ब्४, D.७ब्५, N.९अ४, Cओ.८अ६, Cह्.३९८अ१७ पुनर् अपरम् अगोत्रस्थः पुद्गलः / आदित एवाधिमात्रेणाह्रिक्यानपत्राप्येण समन्वागतो भवति / येनायम् अघृणचित्तश् चासंकुचितचित्तश् च प्रहृष्टचित्तश् च सर्वं पापम् अध्याचरति / न च कदाचित् तन् निदानं विप्रतिसारी भवति / [ग्źइ देस् त्स्हे ऽदिऽइ zअङ् zइङ् दङ् ब्चस् पऽइ ब्दग् ञिद् ञम्स् प खो न त्सम् दु म्थोङ् बर् zअद् दे /] इदं तृतीयम् अगोत्रस्थं लिङ्गम् //
SK
(I)-A-IIल्-द् Mस्.४अ१L, Sह्.१७-१४, P.८ब्७, D.७ब्६, N.९अ५, Cओ.८ब्१, Cह्.३९८अ२३ पुनर् अपरम् अगोत्रस्थः पुद्गलः / सर्वाकारपरिपूर्णे स्फुटे युक्ते चित्रे गमके दुःखं वारभ्य समुदयं वा निरोधं वा मार्गं वा सद्धर्मे देश्यमाने न लभते चेतस आवर्जनमात्रकम् अधिमुक्तिमात्रकं च / [स्पु zइङ् źएस् ब्येद् पऽअम् / म्छि म ब्क्रुग् चेस् ब्येद् प थोब् पर् ग्युर् प ल्त चि स्मोस् ते /] अतीतानागतप्रत्युत्पन्नम् अध्वानम् उपादाय / इदं चतुर्थम् अगोत्रस्थं लिङ्गम् //
SK
(I)-A-IIल्-ए Mस्.४अ२M, Sह्.१८-७, P.९अ२, D.८अ१, N.९ब्१, Cओ.८ब्३, Cह्.३९८ब्१ पुनर् अपरम् अगोत्रस्थः पुद्गलः / सचेत् कदाचित् कर्हिचित् स्वाख्याते धर्मविनये प्रव्रजति, स राजाभिनिर्णीतो वा, चोराभिनिर्णीतो वा, ऋणार्तो वा भयार्तो वाजीविकाभयभीतो वा, नात्मदमाय, नात्मशमाय, नात्मपरिनिर्वाणाय, (Śभ् I २८) न श्रामण्याय, न ब्राह्मण्याय, तथा प्रवर्जितो ऽपि सार्धं गृहस्थप्रवर्जितैः स्थितः, प्रणिधाय ब्रह्मचर्यं चरति, ᳚देवो वा स्यां देवान्यतरो वे᳚ति, शिक्षां वा प्रत्याख्याय प्रहाणाय वर्त्तते / दुःशीलो वा भवत्य् अन्तःपूतिर् अवस्रुतः कशंबकजातः शंखस्वरसमाचारः, अश्रमणः श्रमणप्रतिज्ञः, अब्रह्मचारी ब्रह्मचारिप्रतिज्ञः. अतीतानागतप्रत्युत्पन्नेष्व् अध्वस्व् अगोत्रस्थस्य पुद्गलस्यैवम् एव प्रव्रज्या वेदितव्या / न चाशिक्षाकामस्य पुद्गलस्य प्रव्रज्योपसंपद्भिक्षुभावः / तद् अनेन पर्यायेणानेनाभिसन्धिनार्थतो [रब् तु ब्युङ् ब म यिन् ग्यि रब् तु ब्युङ् बऽइ र्तग्स् दङ् छ लुग्स् ऽद्zइन् प त्सम् ग्यिस् रब् तु ब्युङ् ब] इति संख्यां गच्छति / इदं पञ्चमम् अगोत्रस्थस्य पुद्गलस्य लिङ्गम् //
SK
(I)-A-IIल्-f Mस्.४अ४M, Sह्.१८-१७, P.९ब्२, D.८अ७, N.९ब्७, Cओ.९अ३, Cह्.३९८ब्१८ पुनर् अपरम् अगोत्रस्थः पुद्गलः / यत् किंचित् कुशलं कर्म करोति कायेन वाचा मनसा वा, तत् सर्वं भवाभिप्रायो वा विशिष्टम् आयतिपुनर्भवम् अभिप्रार्थयमानः, भोगाभिप्रायो वा विशिष्टं भोगम् अभिप्रार्थयमानो करोति / इदं सष्ठम् अगोत्रस्थस्य पुद्गलस्य लिङ्गम् //
SK
एवंभागीयानि चास्य बहूनि लिङ्गानि संविद्यन्ते यैः समन्वागतो ऽपरिनिर्वाणधर्मको ऽपरिनिर्वाणधर्मक इति संख्यां गच्छति //
SK
(I)-A-IV Mस्.४अ५M, Sह्. १९-७, W.*६४-६, P.९ब्५, D.८ब्३, N. १०अ२, Cओ.९अ५, Cह्.३९८ब्२५ तत्र कतमे गोत्रस्थाः पुद्गलाः / आह / अस्ति गोत्रस्थः पुद्गलः / गोत्र एव स्थितो नावतीर्णो न निष्क्रान्तः, गोत्रस्थो ऽवतीर्णो न निष्क्रान्तः, गोत्रस्थो ऽवतीर्णो निष्क्रान्तः, मृद्विन्द्रियः, मध्येन्द्रियः, तीक्ष्णेन्द्रियः, रागचरितः, (Śभ् I ३०) द्वेषचरितः, मोहचरितः, अक्षण्योपपन्नः, क्षण्योपपन्नः, प्रमत्तः, अप्रमत्तः, मिथ्याप्रतिपन्नः, अमिथ्याप्रतिपन्नः आवृतः, अनावृतः, दूरे, अन्तिके, परिपक्वश् चापरिपक्वश् च, विशुद्धश् चाविशुद्धश् च //
SK
(I)-A-IV-अ Mस्.(४अ७L), Sह्.१९-१५, P.१०अ१, D.८ब्६, N.१०अ६, Cओ.९ब्२, Cह्.३९८च्४ तत्र कतमो गोत्रस्थः पुद्गलो गोत्र एव स्थितो नावतीर्णो न निष्क्रान्तः / यथापीहैकत्यः पुद्गलो लोकोत्तरधर्मबीजैः समन्वागतो भवति / न च पुनर् अद्यापि लभते सत्पुरुषसंसेवां वागम्य सद्धर्मश्रवणं वा तथागतप्रवेदिते धर्मविनये श्रद्धां, न शीलं समाददाति, न श्रुतम् उद्गृह्णाति, न त्यागं बृंहयति, न दृष्टिम् ऋजूकरोति / अयं गोत्र एव स्थितो नावतीर्णो न निष्क्रान्तः //
SK
(I)-A-IV-ब् Mस्.(४ब्१L), Sह्.१९-२२, P.१०अ४, D.९अ१, N.१०ब्१, Cओ.९ब्४, Cह्.३९८च्११ कतमो गोत्रस्थो ऽवतीर्णो न निष्क्रान्तः / [स्ङर् ब्शद् पऽइ नग् पोऽइ फ्योग्स् लस्] विपर्ययेण शुक्लपक्षेण गोत्रस्थश् चावतीर्णश् च वेदितव्यः / अयं तु विशेषो नो तु लाभी भवत्य् आर्यमार्गस्य तत्फलस्य च क्लेशविसंयोगस्य //
SK
(I)-A-IV-च् Mस्.४ब्१M, Sह्.२०-४, P.१०अ६, D.९अ२, N.१०ब्२, Cओ.९ब्५, Cह्.३९८च्१५ कतमो गोत्रस्थश् चावतीर्णश् च निष्क्रान्तश् च / एतद् एवोक्त्वायं विशेषो लाभी भवत्य् आर्यमार्गस्य तत्फलस्य च क्लेशविसंयोगस्य //
SK
(I)-A-IV-द् Mस्.(४ब्२L), Sह्.२०-७, P.१०अ७, D.९अ३, N.१०ब्३, Cओ.९ब्६, Cह्.३९८च्१७ तत्र मृद्विन्द्रियः पुद्गलः कतमः / यस्य पुद्गलस्य ज्ञेये वस्तुन्य् (Śभ् I ३२) आलम्बने ऽत्यर्थं धन्धवाहीनीन्द्रियणि भवन्ति मन्दवहीनि वा श्रुतमयेन वा चिन्तामयेन वा भावनामयेन वा मनसिकारेण संप्रयुक्तानि, यदुत श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा वा न समर्थानि न प्रतिबलानि धर्मस्य वा प्रतिवेधायार्थस्य वाशु च प्रतिवेधाय तत्त्वस्य / अयम् उच्यते मृद्विन्द्रियः पुद्गलः //
SK
(I)-A-IV-ए Mस्.४ब्३L, Sह्.२०-१५, P.१०ब्१, D.९अ५, N.१०ब्५, Cओ.१०अ१, Cह्.३९८च्२३ तत्र मध्येन्द्रियः कतमः / यस्य नात्यर्थं ज्ञेये वस्तुन्य् आलम्बने धन्दवाहीनीन्द्रियाणीति सर्वं पूर्ववद् विस्तरेण वक्तव्यम् / अयम् उच्यते मध्येन्द्रियः पुद्गलः //
SK
(I)-A-IV-f Mस्.४ब्३M, Sह्.२०-१८, P.१०ब्३, D.९अ५, N.१०ब्६, Cओ.१०अ२, Cह्.३९८च्२६ तीक्ष्णेन्द्रियः पुद्गलः कतमः / यस्य पुद्गलस्य ज्ञेये वस्तुन्य् आलम्बने ऽधन्धवाहीनीन्द्रियाणि भवन्त्य् अमन्दवाहीनि, श्रुतमयेन वा चिन्तामयेन वा भावनामयेन वा मनसिकारेण संप्रयुक्तानि, यदुत श्रद्धा विर्यं स्मृतिः समाधिः प्रज्ञा वा शक्तानि भवन्ति धर्मस्य प्रतिवेधायार्थस्य वाशु च प्रतिवेधाय तत्त्वस्य / अयम् उच्यते तीक्ष्णेन्द्रियः पुद्गलः //
SK
(I)-A-IV-ग् Mस्.४ब्४M, Sह्.२१-६, P.१०ब्५, D.९अ७, N.११अ१, Cओ.१०अ४, Cह्.३९९अ३ रागचरितः पुद्गलः कतमः / यो रंजनीय आलम्बने तीव्ररागश् च भवत्य् आयतरागश् च / अयम् उच्यते रागचरितः पुद्गलः //
SK
(I)-A-IV-ह् Mस्.४ब्५L, Sह्.२१-६, P.१०ब्७, D.९ब्१, N.११अ२, Cओ.१०अ५, Cह्.३९९अ३ द्वेषचरितः पुद्गलः कतमः / यः दूषणीये प्रतिघस्थानीय आलम्बने (Śभ् I ३४) तीव्रद्वेषश् च भवत्य् आयतद्वेषश् च / अयम् उच्यते द्वेषचरितः पुद्गलः //
SK
(I)-A-IV-इ Mस्.४ब्५M, Sह्.२१-१२, P.१०ब्७, D.९ब्२, N.११अ२, Cओ.१०अ६, Cह्.३९९अ८ मोहचरितः पुद्गलः कतमः / यो ज्ञेये वस्तुनि तीव्रमोहश् च भवत्य् आयतमोहश् च / अयम् उच्यते मोहचरितः पुद्गलः //
SK
(I)-A-IV-ज्,क्,ल्,म्,न्,ओ,प्,q Mस्.४ब्५R, Sह्.२१-१५, P.१०ब्८, D.९ब्३, N.११अ२, Cओ.१०अ७, Cह्.३९९अ११ अक्षण्योपपन्नप्रमत्तमिथ्याप्रतिपन्नावृताः पूर्ववद् वेदितव्याः / तद्विपर्ययेण क्षण्योपपन्नाप्रमत्तामिथ्याप्रतिपन्नानावृता वेदितव्याः //
SK
(I)-A-IV-र्-(१),-(२) Mस्.४ब्६M, Sह्.२१-१८, P.११अ२, D.९ब्४, N.११अ३, Cओ.१०ब्१, Cह्.३९९अ१४ दूरे पुद्गलः कतमः / अस्ति पुद्गलः कालदूरतया निर्वाणस्य दूरे, अस्ति प्रयोगदूरतया /
SK
तत्र कतमः कालदूरतया दूरे / अनेकैर् जातिशतैर् अनेकैर् जातिसहस्रैर् अनेकैर् जातिशतसहस्रैस् ततः पश्चाद् भव्यो [ग्दोद् र्क्येन् र्ञेद् नस् योङ्स् सु म्य ङन् लस् ऽदऽ बऽइ स्कल् प योद् पर् ऽग्युर् रो /]
SK
कतमः प्रयोगदूरतया दूरे / पुद्गलो गोत्र एव केवले स्थितो भवति नावतीर्णः, स भव्यो भवत्य् आशु प्रत्ययलाभाय परिनिर्वाणाय / स निर्वाणायानारब्धप्रयोगत्वात् प्रयोगदूरतया दूरे न कालदूरतया / अयम् उच्यते दूरे पुद्गलः //
SK
(१)-A-IV-स्-(१),-(२) Mस्.४ब्७R, Sह्.२२-७, P.११अ७, D.९ब्७, N.११ब्१, Cओ.१०ब्४, Cह्.३९९अ२५ आसन्ने पुद्गलः कतमः / गङ् zअग् दुस् थग् ञे बस् म्य ङन् लस् ऽदऽ ब (Śभ् I ३६) थग् ञे ब यङ् योद् दो // स्ब्योर् ब थग् ञे बस् म्य ङन् लस् ऽदऽ ब थग् ञे ब यङ् योद् दो //
SK
दे ल दुस् थग् ञे बस् म्य ङन् लस् ऽदऽ ब थग् ञे ब गङ् źए न / लुस् दङ् ग्नस् क्यि द्ङोस् पो थ म ल ग्नस् शिङ् दे लुस् दे ञिद् क्यिस् योङ्स् सु म्य ङन् लस् ऽदऽ बर् ब्येद् प दङ् / स्कद् चिग् दे ल बर् छद् मेद् पर् ञोन् मोङ्स् प स्पोङ् प म्ङोन् सुम् दु ब्येद् प गङ् यिन् प स्ते / दे नि दुस् थग् ञे बस् म्य ङन् लस् ऽदऽ ब थग् ञे ब यिन् नो //
SK
स्ब्योर् ब थग् ञे बस् म्य ङन् लस् ऽदऽ ब थग् ञे ब गङ् źए न / दे नि रिग्स् ल ग्नस् शिङ् źउग्स् प गङ् यिन् प स्ते / दे दग् ग्चिग् तु ब्स्दुस् प नि गङ् zअग् थग् ञे ब źएस् ब्यऽओ //
SK
(I)-A-IV-त् Mस्.-, Sह्.-, P.११ब्२, D.१०अ३, N.११ब्४, Cओ.१०ब्७, Cह्.३९९ब्५ अपरिपक्वः पुद्गलः कतमः / गङ् zअग् गङ् ल ग्नस् नस् योङ्स् सु म्य ङन् लस् ऽदऽ ब दङ् यङ् दग् प ञिद् दु ङेस् प ल ऽजुग् पर् ऽग्युर् बऽइ थ मऽइ लुस् फ्यि म म थोब् प गङ् यिन् प स्ते / अयम् उच्यते ऽपरिपक्वः पुद्गलः //
SK
(I)-A-IV-उ Mस्.-, Sह्.-, P.११ब्३, D.१०अ४, N.११ब्५, Cओ.११अ१, Cह्.३९९ब्८ परिपक्वः पुद्गलः कतमः / गङ् zअग् गङ् ल ग्नस् नस् योङ्स् सु म्य ङन् लस् ऽदऽ ब दङ् यङ् दग् प ञिद् दु ङेस् प ल ऽजुग् पर् ऽग्युर् बऽइ थ मऽइ लुस् फ्यि म थोब् प गङ् यिन् प स्ते / अयम् उच्यते परिपक्वः पुद्गलः //
SK
(I)-A-IV-व् Mस्.-,Sह्.-,P.११ब्४, D.१०अ४, N.११ब्६, Cओ.११अ२, Cह्.३९९ब्११ अविशुद्धः पुद्गलः कतमः / गङ् zअग् ऽफग्स् पऽइ लम् म ब्स्क्येद् चिङ्, देऽइ ऽब्रस् बु ञोन् मोङ्स् प दङ् ब्रल् ब म्ङोन् सुम् दु म ब्यस् प गङ् यिन् प स्ते / अयम् उच्यते ऽविशुद्धः पुद्गलः //
SK
(I)-A-IV-w Mस्.-,Sह्.-,P.११ब्५, D.१०अ५, N.११ब्६, Cओ.११अ३, Cह्.३९९ब्१३ ऌ विशुद्धः पुद्गलः कतमः / दे लस् ब्zलोग् प यिन् पर् रिग् पर् ब्यऽओ //
SK
दे दग् नि रिग्स् ल ग्नस् पऽइ गङ् zअग् र्नम्स् शेस् ब्य स्ते / ऽदि ल्त स्ते / म źउग्स् प र्नम्स् ग्źउग् पर् ब्य ब दङ् / योङ्स् सु म स्मिन् पर् र्नम्स् योङ्स् सु स्मिन् पर् (Śभ् I ३८) ब्य ब दङ् / र्नम् पर् म दग् प र्नम्स् र्नम् पर् दग् पर् ब्य ब गङ् दग् गि दोन् दु सङ्स् र्ग्यस् ब्चोम् ल्दन् ऽदस् र्नम्स् ऽजिग् र्तेन् दु ब्युङ् źइङ् / छोस् क्यि ऽखोर् लो दग् ब्स्कोर् बर् म्द्zअद् प दङ् / ब्स्लब् पऽइ ग्źइ र्नम्स् ऽछऽ बर् म्द्zअद् प दग् यिन् नो //
SK
(बर् ग्यि स्दोम् नि /
SK
रङ् ब्źइन् दङ् नि दे र्नम्स् ग्źअग् // र्तग्स् र्नम्स् दङ् नि गङ् zअग् दग् //
SK
दे दग् थम्स् चद् म्दोर् ब्स्दुस् ते // रिग्स् क्यि सर् नि शेस् पर् ब्य //)
SK
ञन् थोस् क्यि स लस् रिग्स् क्यि स र्द्zओग्स् सो // //
SK
(I)-B Mस्.-, Sह्.-, W.*६५-१, P.१२अ१, D.१०ब्१, N.१२अ२, Cओ.११अ६, Cह्.३९९ब्१९ [दे ल ऽजुग् पऽइ स गङ् źए न / स्म्रस् प / यश् चायम् अवतारस्य स्वभावो यच् च व्यवस्थानं यानि चेमान्य् अवतीर्णानां लिङ्गानि ये चेमे ऽवतीर्णाः पुद्गलास् तत् सर्वम् अभिसंक्षिप्यावतारभूमिर् इत्य् उच्यते //
SK
(I)-B-I Mस्.-, Sह्.-, P.१२अ२, D.१०ब्२, N.१२अ३, Cओ.११अ७, Cह्.३९९ब्२७ दे ल ऽजुग् पऽइ रङ् ब्źइन् गङ् źए न / ऽदि ल रिग्स् ल ग्नस् पऽइ गङ् zअग् म्य ङन् लस् ऽदऽ बऽइ स बोन् ग्यि छोस् दङ् ल्दन् प दे नि / गङ् गि त्स्हे सङ्स् र्ग्यस् ऽब्युङ् ब योद् चिङ् युल् द्बुस् क्यि मि र्कुन् म म यिन् प दग् दङ् क्ल क्लो म यिन् प र्नम्स् सु र्ग्यस् पर् स्ङ म ब्źइन् दु स्क्येस् पर् ग्युर् न / दङ् पो खो नर् सङ्स् र्ग्यस् र्नम्स् दङ् सङ्स् र्ग्यस् क्यि ञन् थोस् र्नम्स् ल ब्ल्त ब दङ् द्रुङ् दु ऽग्रो ब दङ् ब्स्ञेन् ब्कुर् ब्य ब र्ञेद् पर् ऽग्युर् źइङ् / दे दग् लस् छोस् थोस् नस् दङ् पोर् दद् प थोब् प दङ् त्स्हुल् ख्रिम्स् यङ् दग् पर् लेन् प दङ् थोस् प ऽद्zइन् प दङ् ग्तोङ् ब स्पेल् ब दङ् ल्त ब स्ब्योङ् बर् ब्येद् दो //
SK
देऽइ ऽओग् तु छोस् यङ् दग् पर् ब्लङ्स् पऽइ र्ग्यु दे दङ् र्क्येन् देस् / लुस् źइग् चिङ् त्स्हे दे यङ् दग् पर् ऽदस् नस् क्यङ् / र्नम् पर् स्मिन् पऽइ स्क्ये म्छेद् द्रुग् गिस् zइन् पऽइ द्बङ् पो ख्यद् पर् दु ऽफग्स् प दग् ऽथोब् पर् ऽग्युर् źइङ् / देऽइ दे दग् क्यङ् दद् प शिन् तु म्छोग् र्नम्स् दङ् शिन् तु ग्त्सो बो दग् स्क्ये बऽइ र्तेन् दु ऽग्युर् ब दङ् / त्स्हुल् ख्रिम्स् यङ् दग् पर् ब्लङ्स् प दङ् थोस् प ग्zउङ् ब दङ् ग्तोङ् ब स्पेल् ब दङ् ल्त ब स्ब्यङ्स् प शिन् तु म्छोग् दङ् ग्त्सो बो दङ् दम् पर् ग्युर् प दग् गि र्तेन् दु ग्युर् पर् यङ् ऽग्युर् रो // दद् प ल सोग्स् पऽइ छोस् शिन् तु म्छोग् दङ् ग्त्सो बो दङ् दम् पर् ग्युर् प गङ् दग् यिन् प दे दग् क्यङ् यङ् र्नम् पर् स्मिन् प ग्źअन् ग्यि र्तेन् दु ऽग्युर् źइङ् / र्नम् पर् स्मिन् प दे यङ् ऽजिग् र्तेन् लस् ऽदस् पऽइ छोस् दङ् र्जेस् सु म्थुन् पऽइ द्गे ब ग्źअन् दग् गि र्तेन् दु ऽग्युर् ते /
SK
दे ल्तर् ग्चिग् गि र्ग्यु दङ् र्तेन् दु ग्चिग् ग्युर् पऽइ स्ब्यिन् पऽइ स्तोब्स् ब्स्क्येद् पस् / गोङ् नस् गोङ् दु गङ् ल ग्नस् न / योङ्स् सु म्य ङन् लस् ऽदऽ ब दङ् यङ् दग् प ञिद् दु ङेस् प ल ऽजुग् पर् ऽग्युर् बऽइ थ मऽइ लुस् फ्यि म थोब् पऽइ बर् ग्यि स्क्ये ब ख्यद् पर् चन् दु ऽग्रो ब गङ् यिन् प दे नि ऽजुग् प źएस् ब्यऽओ //
SK
दे चिऽइ फ्यिर् źए न / दे देऽइ त्स्हे न / म्य ङन् लस् ऽदऽ ब थोब् पर् ब्य ब दङ् (Śभ् I ४२) म्य ङन् लस् ऽदऽ ब ऽग्रो बर् ब्य ब दङ् रिम् ग्यिस् ऽग्रो बर् ब्य ब दङ् शिन् तु म्थर् थुग् पर् ब्य बऽइ फ्यिर् लम् गङ् यिन् प दङ् लम् स्रङ् गङ् यिन् प दङ् स्ग्रुब् प गङ् यिन् प देर् źउग्स् प दङ् यङ् दग् पर् źउग्स् प दङ् रब् तु źउग्स् प यिन् पस् न / देऽइ फ्यिर् źउग्स् प źएस् ब्य स्ते / दे नि ऽजुग् पऽइ रङ् ब्źइन् źएस् ब्यऽओ //
SK
(I)-B-II Mस्.-, Sह्.-, P.१२ब्५, D.११अ३, N.१२ब्५, Cओ.१२अ२ Cह्.३९९च्१७ ऽजुग् पऽइ र्नम् पर् ग्źअग् प गङ् źए न / रिग्स् योद् प दङ् / ऽजुग् प योद् प दङ् / योङ्स् सु स्मिन् पर् ब्येद् प ञिद् योद् प दङ् / योङ्स् सु स्मिन् प योद् प स्ते / źउग्स् प खो न यिन् ल योङ्स् सु स्मिन् पर् ब्येद् प ञिद् क्यङ् म यिन् योङ्स् सु स्मिन् प यङ् म यिन् प यङ् योद् दो / źउग्स् प यङ् यिन् योङ्स् सु स्मिन् पर् ब्येद् प ञिद् क्यङ् यिन् ल योङ्स् सु स्मिन् प म यिन् प यङ् योद् दो / źउग्स् प यङ् यिन् योङ्स् सु स्मिन् प यङ् यिन् ल योङ्स् सु स्मिन् पर् ब्येद् प ञिद् म यिन् प यङ् योद् दो / źउग्स् प यङ् म यिन् योङ्स् सु स्मिन् पर् ब्येद् प ञिद् क्यङ् म यिन् योङ्स् सु स्मिन् प यङ् म यिन् प यङ् योद् दो //
SK
(I)-B-II-१ Mस्.-, Sह्.-, P.१२ब्८, D.११अ५, N.१२ब्७, Cओ.१२अ४, Cह्.३९९च्२१ दे ल रिग्स् गङ् źए न / स्म्रस् प / स्ङ म ब्źइन् नो //
SK
(I)-B-II-२ Mस्.-, Sह्.-, P.१३अ१, D.११अ५, N.१२ब्७, Cओ.१२अ५, Cह्.३९९च्२२ दे ल źउग्स् प गङ् źए न / रिग्स् ल ग्नस् पऽइ गङ् zअग् गिस् स्ङोन् दे ब्źइन् ग्शेग्स् पस् ग्सुङ्स् पऽइ छोस् ऽदुल् ब ल दद् प म थोब् प लस् / दङ् पोर् थोब् पर् ग्युर् चिङ् त्स्हुल् ख्रिम्स् यङ् दग् पर् लेन् प दङ् थोस् प ऽद्zइन् प दङ् ग्तोङ् ब स्पेल् ब दङ् ल्त ब स्ब्योङ् बर् ब्येद् प गङ् यिन् प स्ते / दे नि źउग्स् प źएस् ब्यऽओ //
SK
(I)-B-II-३ Mस्.-, Sह्.-, P.१३अ२, D.११अ६, N.१३अ१, Cओ.१२अ६, Cह्.३९९च्२४ योङ्स् सु स्मिन् पर् ब्येद् प ञिद् गङ् źए न / दे ल्तर् źउग्स् पऽइ गङ् zअग् दे ञिद् गङ् ल ग्नस् न / योङ्स् सु म्य ङन् लस् ऽदऽ ब दङ् यङ् दग् प ञिद् दु ङेस् प ल ऽजुग् पर् ऽग्युर् बऽइ थ मऽइ लुस् फ्यि म थोब् प म ग्तोग्स् प / źउग्स् पऽइ गोङ् यन् छद् नस् स्क्ये ब गोङ् नस् गोङ् म दग् तु द्बङ् पो शिन् तु म्छोग् दङ् ग्त्सो बो दङ् दम् प दङ् शिन् तु ख्यद् पर् दु ऽफग्स् प दग् यङ् दग् पर् स्ग्रुब् पर् (Śभ् I ४४) ब्येद् प गङ् यिन् प स्ते / दे नि योङ्स् सु स्मिन् पर् ब्येद् प ञिद् चेस् ब्यऽओ //
SK
(I)-B-II-४ Mस्.-, Sह्.-, P.१३३५, D. ११ ब् १, N. १३अ३, Cओ.१२ब्१, Cह्.३९९च्२९ दे ल योङ्स् सु स्मिन् प गङ् źए न / देस् गङ् ल ग्नस् न / योङ्स् सु म्य ङन् लस् ऽदऽ ब दङ् यङ् दग् प ञिद् दु ङेस् प ल ऽजुग् पर् ऽग्युर् बऽइ थ मऽइ लुस् फ्यि म थोब् पर् ग्युर् प गङ् यिन् प स्ते / दे नि योङ्स् सु स्मिन् प źएस् ब्यऽओ //
SK
(I)-B-II-५ Mस्.-, Sह्.-, P.१३अ६, D.११ब्२, N.१३अ४, Cओ.१२ब्२, Cह्.४००अ३ दे ल źउग्स् प खो न यिन् ल योङ्स् सु स्मिन् पर् ब्येद् प ञिद् क्यङ् म यिन् योङ्स् सु स्मिन् प यङ् म यिन् प गङ् źए न / दे ब्źइन् ग्शेग्स् पस् ग्सुङ्स् पऽइ छोस् ऽदुल् ब ल दङ् पोर् दद् प दङ् ल्त ब स्ब्योङ् बर् ब्येद् पऽइ बर् नि थोब् पर् ग्युर् ल / देऽइ गोङ् दु नि स्क्ये ब ग्चिग् त्सम् यङ् म्ङोन् पर् ब्स्ग्रुब् पर् मि ब्येद् प गङ् यिन् प स्ते / दे नि źउग्स् प खो न यिन् ल योङ्स् सु स्मिन् पर् ब्येद् प ञिद् क्यङ् म यिन् योङ्स् सु स्मिन् प यङ् निअ यिन् प źएस् ब्यऽओ //
SK
(I)-B-II-६ Mस्.-, Sह्.-, P.१३अ८, D.११ब्३, N.१३अ६, Cओ.१२ब्४, Cह्.४००अ६ दे ल źउग्स् प यङ् यिन् योङ्स् सु स्मिन् पर् ब्येद् प ञिद् क्यङ् यिन् ल योङ्स् सु स्मिन् प म यिन् प गङ् źए न / दे ब्źइन् ग्शेग्स् पस् ग्सुङ्स् पऽइ छोस् ऽदुल् ब ल दङ् पोर् दद् प दङ् ल्त ब स्ब्योङ् बर् ब्येद् पऽइ बर् यङ् थोब् पर् ग्युर् ल / देऽइ गोङ् दु स्क्ये ब ग्चिग् गम् ग्ञिस् सम् रब् तु मङ् पो दग् क्यङ् म्ङोन् पर् स्ग्रुब् पर् ब्येद् मोद् क्यि / गङ् ल ग्नस् न / योङ्स् सु म्य ङन् लस् ऽदऽ ब दङ् यङ् दग् प ञिद् दु ङेस् प ल ऽजुग् पर् ऽग्युर् बऽइ थ मऽइ लुस् फ्यि म म थोब् प गङ् यिन् प स्ते / दे नि źउग्स् प यङ् यिन् योङ्स् सु स्मिन् पर् ब्येद् प ञिद् क्यङ् यिन् ल योङ्स् सु स्मिन् प म यिन् प źएस् ब्यऽओ //
SK
(I)-B-II-७ Mस्.-, Sह्.-, P.१३ब्४, D.११ब्६, N.१३ब्१, Cओ.१२ब्७, Cह्.४००अ१२ दे ल źउग्स् प यङ् यिन् योङ्स् सु स्मिन् प यङ् यिन् ल योङ्स् सु स्मिन् पर् ब्येद् प ञिद् म यिन् प गङ् źए न / ऽदि ल्त स्ते / दे ल्तर् źउग्स् पऽइ गङ् zअग् दे ञिद् क्यिस् (Śभ् I ४६) गङ् ल ग्नस् न / योङ्स् सु म्य ङन् लस् ऽदऽ ब दङ् यङ् दग् प ञिद् दु ङेस् प ल ऽजुग् पर् ऽग्युर् बऽइ थ मऽइ लुस् क्यि फ्यि म थोब् चिङ् र्ञेद् पर् ग्युर् प गङ् यिन् प स्ते / दे नि źउग्स् प यङ् यिन् / योङ्स् सु स्मिन् प यङ् यिन् ल / योङ्स् सु स्मिन् पर् ब्येद् प ञिद् म यिन् प źएस् ब्यऽओ //
SK
(I)-B-II-८ Mस्.६अ१L, Sह्.-, P.१३ब्६, D.११ब्७, N.१३ब्३, Cओ.१३अ१, Cह्.४००अ१९ तत्र कतमो नावतीर्णो न परिपच्यमानो न परिपक्वः. [ऽदि ल्त स्ते / योङ्स् सु म्य ङन् लस् ऽदऽ बऽइ छोस् चन् ग्यि गङ् zअग् रिग्स् खो न ल ग्नस् ल] नावतीर्णः, अयम् उच्यते नैवावतीर्णः पुद्गलो न परिपच्यमानो न परिपक्वः /
SK
अपि तु भव्य एव सो ऽवताराय परिपाकाय / अस्ति पुनः पुद्गलो यो ऽभव्य एवावताराय परिपाकाय वा, तद् यथा गोत्रविरहितो ऽपरिनिर्वाणधर्मको यः पुद्गलः, अयम् अत्यन्ताद् एवाभव्यो ऽवताराय परिपाकाय वा, किं पुनः परिनिर्वाणाय भव्यो भविष्यति //
SK
(I)-B-II-९ Mस्.६अ२L/१३ब्७M, Sह्.२५-३, W.* ६५-६, P.१४अ३, D.१२अ४, N.१३ब्७, Cओ.१३अ५, Cह्.४००अ२३ तत्र सर्वेषाम् एव पुद्गलानां षड्भिः स्थानैः संग्रहो भवति / कतमैः) षड्भिः / भव्यो मृदुकुशलमूलसमन्वागतो मध्यकुशलमूलसमन्वागतो ऽधिमात्रकुशलमूलसमन्वागतो निष्ठाप्रायोगिको निष्ठागतश् च //
SK
(I)-B-II-९-अ Mस्.१३ब्७R, Sह्.२५-७, P.१४अ४, D.१२अ५, N.१४अ१, Cओ.१३अ६, Cह्.४००अ२८ तत्र कतमो भव्य एव पुद्गलः / यो गोत्रस्थो न चाद्यापि तत्प्रथमतस् तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभते (Śभ् I ४८) यावद् दृष्टिं ऋजूकरोति / अयम् उच्यते भव्य एव पुद्गलः //
SK
(I)-B-II-९-ब् Mस्.१४अ१L, Sह्.२५-४, P.१४अ६, D.१२अ६, N.१४अ२, Cओ.१३अ७, Cह्.४००ब्२ तत्र कतमो मृदुकुशलमूलसमन्वागतः / यो गोत्रस्थस् तेन तथागतप्रवेदिते धर्मविनये तत्प्रथमतः श्रद्धा प्रतिलब्धा भवति यावद् द्र्स्तिर् ऋजूकृता / अयम् उच्यते मृदुकुशलमूलसमन्वागतः पुद्गलः //
SK
(I)-B-II-९-च् Mस्.१४अ१R, Sह्.२६-१, P.१४अ७, D.१२अ७, N.१४अ३, Cओ.१३ब्१, Cह्.४००ब्६ तत्र कतमो मध्यकुशलमूलसमन्वागतः / यो गोत्रस्थः पुद्गलस् तत्प्रथमतस् तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभ्य यावद् दृष्टिम् ऋजुं कृत्वा, ततः परेणैकं वा द्वे वा संबहुलानि वा जन्मान्य् अभिनिर्वर्तयति विशेषाय परैति / नो चरमम् आत्मभावं प्रतिलभते, यत्र स्थितः परिनिर्वाति सम्यक्त्वं च न्यामम् अवक्रामति / अयम् उच्यते मध्यकुशलमूलसमन्वागतह्पुद्गलः //
SK
(I)-B-II-९-द् Mस्.१४अ२L, Sह्.२६-६, P.१४ब्२, D.१२ब्३, N.१४अ६, Cओ.१३ब्३, Cह्.४००ब्१२ तत्र कतमो ऽधिमात्रकुशलमूलसमन्वागतः पुद्गलः / यः पुद्गलो विशेषाय परैति स चरमम् आत्मभावं प्रतिलभते / यत्र स्थितः परिनिर्वाति सम्यक्त्वं च न्यामम् अवक्रामति / अयम् उच्यते ऽधिमात्रकुशलमूलसमन्वागतः पुद्गलः //
SK
(I)-B-II-९-ए Mस्.१४अ३L, Sह्.२६-९, P.१४ब्३, D.१२ब्३, N.१४अ७, Cओ.१३ब्५, Cह्.४००ब्१६ तत्र कतमो निष्ठाप्रायोगिकः पुद्गलः / यः पुद्गलश् चरमम् आत्मभावं प्रतिलभ्यास्रवक्षयाय सम्यगववादानुशासनीं सद्धर्मश्रवणं वा प्रतिलभ्य सम्यग् एव प्रयुज्यते, न चाद्यापि सर्वेण सर्वं सर्वथा प्रतिपद्यत आस्रवक्षयम् अनुप्राप्नोति, न निष्ठां गच्छति / अयम् उच्यते निष्ठाप्रायोगिकः पुद्गलः //
SK
(I)-B-II-९-f Mस्.१४अ४L, Sह्.२६-१५, P.१४ब्६, D.१२ब्५, N.१४ब्२, Cओ.१३ब्७, Cह्.४००ब्२० तत्र निष्ठागतः पुद्गलः कतमः / यः सम्यगवोदितः सम्यगनुशिष्टो यदुतास्रवक्षयाय, तथा तथा प्रतिपद्यते / यत् सर्वेण सर्वं सर्वथास्रवक्षयम् अनुप्राप्नोति, कृतकृत्यो भवति परमशीतीभावप्राप्तः / अयम् उच्यते निष्ठागतः पुद्गलः //
SK
(I)-B-II-९ऽ Mस्.१४अ५L, Sह्.२६-२०, W.*६५-१४, P.१४ब्८, D.१२ब्६, N.१४ब्६, Cओ.१४अ२, Cह्.४००ब्२५ तत्र भव्यजातीयः पुद्गलो गोत्रं निश्रित्य गोत्रं प्रतिष्ठाय मृदूनि कुशलमूलानि प्रतिलभते, अवतीर्णश् च भवति / सो ऽवतीर्णो मृदूनि कुशलमूलानि निश्रित्य प्रतिष्ठाय मध्यानि कुशलमूलानि प्रतिलभते, तैश् चात्मानं परिपाचयति / स तथा परिपच्यमानो मध्यानि कुशलमूलानि निश्रित्य प्रतिष्ठायाधिमात्राणि कुशलमूलानि प्रतिलभते, परिपक्वश् च भवति / सो ऽधिमात्रकुशलमूलहेतुसमुदागतेनात्मभावप्रतिलम्भेन यदा संभारञ् च समुदानयति, चित्तैकाग्रताञ् च स्पृशति, सम्यक्त्वञ् च न्यामम् अवक्रामति, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वा साक्षात्करोति / नो त्व् अग्रफलम् अर्हत्त्वम् साक्षात्करोति / तदा निष्ठाप्रायोगिक इत्य् उच्यते / यदा तु सर्वक्लेशप्रहाणम् अर्हत्त्वम् साक्षात्करोति, तदा निष्ठागतो भवति /
SK
सैषादिमध्यपर्यवसाना सर्वश्रावकचर्या षड्भिः पुद्गलव्यवस्थानैः संदर्शिता भवति / तत्र गोत्रेणादिः श्रावकचर्यायाः (Śभ् I ५२) संदर्शितः / निष्ठया पर्यवसानम् / तदन्येन मध्यं संदर्शितम् //
SK
(I)-B-II-१० Mस्.१४अ८L, Sह्.२७-२, P.१५अ७, D.१३अ४, N.१५अ२, Cओ.१४अ७, Cह्.४००च्१२ तत्रावतीर्णानां पुद्गलानां किं परिमाणनियतस् तुल्यश् च सर्वेषां कालो भवति परिनिर्वाणाय, आहोस्विद् अपरिमाणनियतो ऽतुल्यनिश्चयः सर्वेषां कालो भवति परिनिर्वाणाय / आह / नैषां परिमाणनियतः कालो नापि च तुल्यः सर्वेषां परिनिर्वाणाय / अपि तु यथायोगम् एषां यथाप्रत्ययलाभं परिनिर्वाणं वेदितव्यम् / केषांचिच् चिरेण, केषांचिन् नातिचिरेण, केषांचित् पुनः क्षिप्रम् एव परिनिर्वाणं भवति / अपि तु यो गोत्रस्थः पुद्गलः सर्वः क्षिप्रं परिनिर्वाति, सो ऽवश्यं त्रीणि जन्मान्य् अभिनिर्वर्तयति / एकस्मिन्न् अवतरति, एकस्मिन् परिपच्यते, एकस्मिन् जन्मनि परिपक्वो भवति, तत्रैव च परिनिर्वाति / नो चेत् परिनिर्वाति सो ऽवश्यं शैक्षः कालं करोति / परञ् च सप्तभवान् अभिनिर्वर्तयति / इदम् उच्यते ऽवतारव्यवस्थानम् //
SK
(I)-B-III-१ Mस्.१४ब्२R, Sह्.२८-१४, W.*६६-८, P.१५ब्५, D.१३ब्२, N.१५अ७, Cओ.१४ब्५, Cह्.४००च्२४ अवतीर्णस्य पुद्गलस्य कतमानि लिङ्गानि / इह गोत्रस्थः पुद्गलो ऽवतीर्णमात्र एव यदा जन्मान्तरपरिवर्तेनापि स्मृतिसंप्रमोषं प्रतिलभते / स्वशास्तरि धर्मविनये वा सति, संविद्यमाने ऽपि दुराख्याते धर्मविनये स्वाख्याते ऽप्य् अनेकपर्यायेण दुराख्यातस्य धर्मविनयस्य वर्णम् स्तुतिम् आनुशंसं श्रुत्वा नावतरति, न प्रव्रजति / प्रव्रजितो ऽप्य् अवतीर्णो लघु लघ्व् एव प्रत्युदावर्तते / प्रकृत्यैव चास्य तत्रारोचकः संतिष्ठते / मधुनि जातस्येव च प्राणकस्य शुक्ते प्रक्षिप्तस्य, कामोपभोगिनो वा कर्दमे स्यन्दनिकायां प्रक्षिप्तस्य, यथापि तत् पूर्वकेणैव हेतुबलाधानेन // स्वाख्यातस्य वा पुनर् धर्मविनयस्य नैव वर्णस्तुतिम् आनुशंसं शृणोति वा / अल्पमात्रम् अवरमात्रं वा श्रुत्वा, अश्रुत्वा वा, (Śभ् I ५४) लघु लघ्व् एवावतरति प्रव्रजति वा / तथा प्रव्रजितश् चावतीर्णो न प्रत्युदावर्तते / प्रकृत्यैव चास्य तत्र रुचिः संतिष्ठते / मधुप्राणकस्येव मधुनि, कामोपभोगिनो वा प्रणीतायां कामचर्यायाम् / यथापि तत् पूर्वकेणैव हेतुबलाधानेन / इदं प्रथमम् अवतीर्णस्य पुद्गलस्य लिङ्गम् //
SK
(I)-B-IIल्-२ Mस्.१४ब्५R, Sह्.२९-१४, W.*६६-१२, P.१६अ४, D.१३ब्७, N.१५ब्६, Cओ.१५अ५, Cह्.४०१अ११ पुनर् अपरम् अवतीर्णः पुद्गलो न च तावद् विसंयुक्तो भवत्य् अपायाक्षणगमनीयैः क्लेशैः, न च पुनर् अक्षणेषूपपद्यते / अवतीर्णं च पुद्गलं सन्धायोक्तं भगवता /
SK
सम्यग्दृष्टिर् अधिमात्रा लौकिकी यस्य विद्यते / अपि जातिसहस्राणि नासौ गच्छति दुर्गतिम् //
SK
स पुनर् यदाधिमात्रेषु कुशलमूलेषु प्रविष्टो भवत्य् अनुपूर्वेण परिपाकगमनीयेषु तदा नाक्षणेषूपपद्यते, न त्व् अन्येषु / इदं द्वितीयम् अवतीर्णस्य पुद्गलस्य लिङ्गम् //
SK
(I)-B-IIल्-३ Mस्.१४ब्७L, Sह्.३०-३, P.१६अ८, D.१४अ३, N.१६अ२, Cओ.१४अ७, Cह्.४०१अ१८ पुनर् अपरम् अवतीर्णपुद्गलो बुद्धस्य वा धर्मस्य वा संघस्य वा गुनाञ् छ्रुत्वा, अनुस्मृत्या वा लभते चेतसः प्रसादम् उदारं कुशलं नैष्क्रम्योपसंहितं, भूयो भूयस् तेनालम्बनेन प्रसादद्रवचित्ततया अश्रुप्रपातान् रोमांचांश् च प्रतिलभते / इदं तृतीयम् अवतीर्णस्य पुद्गलस्य लिङ्गम् //
SK
(I)-B-IIल्-४ Mस्.१४ब्८L, Sह्.३०-९, P.१६ब्२, D.१४अ४, N.१६अ३, Cओ.१५ब्२, Cह्.४०१अ२२ पुनर् अपरम् अवतीर्णः पुद्गलः प्रकृत्यैव तीव्रेण ह्रीव्यपत्राप्येण समन्वागतो भवति, यदुत सर्वसावद्यस्थानसमुदाचारेषु / इदं चतुर्थम् अवतीर्णस्य पुद्गलस्य लिङ्गम् //
SK
(I)-B-IIल्-५ Mस्.१५अ१L, Sह्.३०-१३, P.१६ब्३, D.१४अ५, N.१६अ४, Cओ.१५ब्३, Cह्.४०१अ२६ पुनर् अपरम् अवतीर्णः पुद्गलः छन्दिको भवति / तीव्रच्छन्द उद्देशे (Śभ् I ५६) स्वाध्याये परिपृच्छायां योगे मनसिकारे, किंकुशलगवेषी च भवति / इदं पञ्चमम् अवतीर्णस्य पुद्गलस्य लिङ्गम् //
SK
(I)-B-IIल्-६ Mस्.१५अ१M, Sह्.३०-१७, P.१६ब्४, D.१४अ६, N.१६अ५, Cओ.१५ब्४, Cह्.४०१अ२९ पुनर् अपरम् अवतीर्णः पुद्गलः सर्वकर्मान्तेष्व् अनवद्येषु सर्वसमादानेषु कुशलपक्षप्रयोगेषु दृढारम्भश् च भवति स्थिरारम्भश् च निश्चितारम्भश् च, यदुत समागमाय / इदं षष्ठम् अवतीर्णस्य पुद्गलस्य लिङ्गम् //
SK
(I)-B-IIल्-७ Mस्.१५अ२L, Sह्.३१-१, P.१६ब्६, D.१४अ७, N.१६अ६, Cओ.१५ब्६, Cह्.४०१ब्४ पुनर् अपरम् अवतीर्णः पुद्गलो मन्दरजस्कजातीयो भवति, मन्दमन्दं क्लेशपर्यवस्थानम् उत्पादयति न च पुनः प्रबन्धं स्थापयति, अशठश् च भवत्य् अमायावी निहतमदमानाहंकारो गुणाभिनिविष्टो दोषद्वेष्टा / इदं सप्तमम् अवतीर्णस्य पुद्गलस्य लिङ्गम् //
SK
(I)-B-IIल्-८ Mस्.१५अ३L, Sह्.३१-६, P.१६ब्८, D.१४ब्२, N.१६ब्१, Cओ.१५ब्७, Cह्.४०१ब्८ पुनर् अपरम् अवतीर्णः पुद्गलो ऽसंलीनचित्तो भवत्य् उदारेष्व् अधिगम्येषु स्थानेषु नात्मानं परिभवति, नाप्रतिबलतायाम् अवस्थापयति, अधिमुक्तिबहुलो भवति / इदम् अष्टमम् अवतीर्णस्य पुद्गलस्य लिङ्गम् //
SK
इमान्य् एवंभागीयानि प्रभूतान्य् अवतीर्णानां पुद्गलानां लिङ्गानि वेदितव्यानि येषाम् एतत् प्रदेशमात्रम् आख्यातम् //
SK
पुनर् एतानि लिङ्गानि मृदुकुशलमूलस्थस्यावतीर्णस्य मृदूनि भवन्ति, सच्छिद्राण्य् अनिरन्तराण्य् अपरिशुद्धानि / मध्यकुशलमूलस्थितस्य मध्यानि / अधिमात्रकुशलमूलस्थितस्याधिमात्राणि, निश्छिद्राणि निरन्तराणि परिशुद्धानि / इमान्य् उच्यन्ते ᳚अवतीर्णस्य पुद्गलस्य लिङ्गानि᳚ यैर् लिङ्गैः समन्वागतो ऽवतीर्णो ऽवतीर्ण इति संख्यां गच्छति / तानि पुनर् एतानि गोत्रस्थानाम् अवतीर्णानां च पुद्गलानाम् आनुमानिकानि लिङ्गानि (Śभ् I ५८) वेदितव्यानि / बुद्धा एव तु भगवन्तः परमपारमिप्रप्ताश् च श्रावकास् तायिनस् तत्र प्रत्यक्षदर्शिनः, सुविशुद्धेन ज्ञानदर्शनेन प्रत्यनुभवन्ति, यदुत गोत्रं चावतारं च //
SK
(I)-B-IV Mस्.१५अ६L, Sह्.३२-३, W.*६६-१८, P.१७अ७, D.१४ब्७, N.१६ब्६, Cओ.१६अ६, Cह्.४०१ब्२६ अवतीर्णाः पुद्गलाः कतमे / अस्त्य् अवतीर्णः पुद्गलो ऽवतीर्ण एव न परिपच्यमानो न परिपक्वो न निष्क्रान्तः, अस्ति परिपच्यमानो न परिपक्वो न निष्क्रान्तः, अस्ति परिपक्वो न निष्क्रान्तः, अस्ति निष्क्रान्तो न परिपक्वः / एषां च पूर्ववद् विभागो वेदितव्यः // ये ऽपि तदन्ये मृद्विन्द्रियादयः पुद्गलाः गोत्रभूमौ निर्दिष्टा / तेषाम् इहापि यथायोगं विभागो वेदितव्यः //
SK
तत्र यश् चायम् अवतारस्य स्वभावो यच् च व्यवस्थानं यानि चेमान्य् अवतीर्णानां लिङ्गानि ये चेमे ऽवतीर्णाः पुद्गलास् तत् सर्वम् अभिसंक्षिप्य᳚अवतारभूमिर्᳚ इत्य् उच्यते //
SK
उद्दानम् /
SK
स्वभावस् तद्व्यवस्थानं लिङ्गं पुद्गल एव च / अवतारभूमिर् विज्ञेया सर्वम् एतत् समासतः //
SK
श्रावकभूमाव् अवतारभूमिः समाप्ता //
SK
(I)-C Mस्.१५ब्१M, Sह्.३३-१, W.*६६-२५, P.१७ब्४, D.१५अ४, N.१७अ३, Cओ.१६ब्४, Cह्.४०१च्११ नैष्क्रम्यभूमिः कतमा / आह / यच् च लौकिकेन मार्गेण वैराग्यगमनं, यच् च लोकोत्तरेण मार्गेण वैराग्यगमनं, यश् च तयोः सम्भारः, तद् एकध्यम् अभिसंक्षिप्य नैष्क्रम्यभूमिर् इत्य् उच्यते //
SK
(I)-C-I Mस्.१५ब्२L, Sह्.३५-७, W.*६६-३३, P.१७ब्६, D.१५अ५, N१७अ४, Cओ.१६ब्५, Cह्.४०१च्१८ लौकिकेन मार्गेण वैराग्यगमनं कतमत् / यथापीहैकत्यः कामधाताव् औदारिकदर्शी भवति / प्रथम एव स समापत्त्युपपत्तिके ध्याने विवेकजे प्रीतिसुखे शान्तदर्शी भवति / स तथादर्शी तद्बहुलविहारि सन् कामवैराग्यम् अनुप्राप्नोति, प्रथमं च ध्यानम् समापद्यते / एवं प्रथमध्यानाद् ऊर्ध्वम् सर्वास्व् अधरिमासु भूमिष्व् औदारिकदर्शि भवति, सर्वासु चोपरिमासु भूमिषु शान्तदर्शी, स तथादर्शी तद्बहुलविहारी समानो यावद् आकिञ्चन्यायतनाद् वैराग्यम् अनुप्राप्नोति नैवसंज्ञानासंज्ञायतनं च समापद्यते / इदम् उच्यते लौकिकेन मार्गेण वैराग्यगमनं, नास्त्य् अत उत्तरि नातो भूयः //
SK
(I)-C-II Mस्.१५ब्३R, Sह्.३६-२, W.*६७-२५, P.१८अ२, D.१५ब्१, N.१७अ७, Cओ.१७अ२, Cह्.४०२अ२ लोकोत्तरेण मार्गेण वैराग्यगमनं कतमत् / यथापीहैकत्यः सत्पुरुषाणां दर्शी, आर्यधर्मेषु कोविदः, [ऽफग् पऽइ छोस् र्नम्स् ल ब्zओ ब ल ल], दुःखं वा दुःखतो यथाभूतं प्रजानाति, समुदयं वा समुदयतः, निरोधं वा निरोधतः, मार्गं वा मार्गतः, शैक्षेण ज्ञानदर्शनेन समन्वागतः / ततश् चोत्तरि मार्गं भावयंस् त्रैधातुकेभ्यो दर्शनभावनाप्रहातव्येभ्यो धर्मेभ्य आत्मानं विसंयोजयति, विमोचयत्य् एवं चासौ त्रैधातुकसमतिक्रान्तो भवति / इदम् उच्यते लोकोत्तरेण मार्गेण वैराग्यगमनम् //
SK
(I)-C-III Mस्.१५ब्५M/१२अ१M, Sह्.३६-११, W.*६८-१, P.१८अ६, D.१५ब्४, N.१७ब्३, Cओ.१७अ५, Cह्.४०२अ१० तत्र संभारः कतमः / तद्यथा, आत्मसंपत्, परसंपत्, कुशलो धर्मच्छन्दः, शीलसंवरः, इन्द्रियसंवरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयुक्तता, संप्रजानद्विहारिता, कल्याणमित्रता, सद्धर्मश्रवणचिन्तना, अनन्तरायः, त्यागः, श्रमणालंकारश् च, इतीमे धर्मा लौकिकलोकोत्तरवैराग्यगमनाय संभार इत्य् उच्यते //
SK
१ (I)-C-III-१,२,३ Mस्.१२अ१R, Sह्.३७-४, P.१८ब्२, D.१५ब्७, N.१७ब्६, Cओ.१७ब्१, Cह्.४०२अ१९ `` तत्र या चात्मसंपत् परसंपत् कुशलश् च धर्मच्छन्द एषां पूर्ववद् विभागो वेदितव्यः / यद् उक्तं निहीने बीजसमुदागमप्रत्यये //
SK
(I)-C-IIल्-४ Mस्.१२अ२L, Sह्.३७-७, P.१८ब्३, D.१५ब्७, N.१७ब्६, Cओ.१७ब्, Cह्.४०२अ२१ तत्र शीलसंवरः कतमः / यथापीहैकत्यः शीलवान् विहरति, यावत् समादाय शिक्षते शिक्षापदेषु //
SK
(I)-C-IIल्-४-अ-(१)-इ Mस्.१२अ२R, Sह्.३७-१०, P.१८ब्४, D.१६अ२, N.१८अ१, Cओ.१७ब्३, Cह्.४०२अ२५ कथं शीलवान् विहरति / यथासमात्तेषु शिक्षापदेष्व् अविपन्नकायकर्मान्तश् च भवत्य् अविपन्नवाक्कर्मान्तश् च, अखण्डचारी, अच्छिद्रचारि / एवं शीलवान् भवति //
SK
(I)-C-IIल्-४-अ-(१)-इइ Mस्.१२अ३M, Sह्.३७-१४, P.१८ब्६, D.१६अ३, N.१८अ२, Cओ.१७ब्४, Cह्.४०२अ२७ कथं प्रातिमोक्षसंवरसंवृतो भवति / सप्तनैकायिकं शीलं प्रातिमोक्षसंवर इत्य् उच्यते / त एते निकायभेदेन बहवः संवरा भवन्ति / अस्मिंस् त्व् अर्थे भिक्षुसंवरम् अधिष्ठायाह प्रातिमोक्षसंवरसंवृतह्//
SK
(I)-C-IIल्-४-अ-(१)-इइइ Mस्.१२अ४L, Sह्.३८-२, P.१८ब्८, D.१६अ४, N.१८अ३, Cओ.१७ब्६, Cह्.४०२ब्२ कथम् आचारसंपन्नो भवति / यथापि तद् ईर्यापथं वेतिकरणीयं वा कुशलपक्षप्रयोगं वाधिष्ठाय लोकानुवर्तिना लोकानुत्क्रान्तेन विनयानुवर्तिना विनयानुत्क्रान्तेन चाचारेण समन्वागतो भवति //
SK
(I)-C-IIल्-४-अ-(१)-इइइ-(अ) Mस्.१२अ४R, Sह्.३८-६, P.१९अ१, D.१६अ५, N.१८अ४, Cओ.१७ब्७, Cह्.४०२ब्५ तत्रेर्यापथाधिष्ठान आचारः कथं न लोकोत्क्रान्तो न विनयोत्क्रान्तः / यथापि तद् यत्र चंक्रमितव्यं यथा चंक्रमितव्यं तत्र तथा चंक्रम्यते, येन न लोकगर्हितो भवति न सतां सम्यग्गतानां सत्पुरुषाणां सहधार्मिकाणां विनयधराणां विनयशिक्षितानाम् अवद्यो भवति गर्ह्यस्थानीयः / यथा चङ्क्रम एवं स्थानं निषद्या शय्या वेदितव्या //
SK
(I)-C-IIल्-४-अ-(१)-इइइ-(ब्) Mस्.१२अ५R, Sह्.३८-१४, P.१९अ४, D.१६अ७, N.१८अ७, Cओ.१८अ२, Cह्.४०२ब्१३ तत्रेतिकरणीयाधिष्ठान आचारः कथं न लोकोत्क्रान्तो भवति न विनयोत्क्रान्तः / इतिकरणीयम् उच्यते चीवराच्छादनम् उच्चारप्रस्रावम् उदकदन्तकाष्ठं ग्रामप्रवेशः पिण्डपातनिर्हारपरिभोगः पात्रनिर्मादनं स्थापनं च पादप्रक्षालनं शयनासनप्रज्ञप्तिः / तस्यैव चाभिसंक्षेपः पात्रकर्मचीवरकर्मेति / यद् वा पुनर् एवंभागीयं किंचित् तद् इतिकरणीयम् इत्य् उच्यते / तच् च यथायोगं यत्र कल्पयितव्यं, यथा च कल्पयितव्यं तत्र तथा कल्पयति / येन लौकिकानाम् अननुयोज्यो भवत्य् अविगर्हितः / विनयधराणां विनयशिक्षितानाम् अनपवाद्यो भवत्य् अविगर्हितः, सम्यग्गतानां सहधार्मिकाणाम् / एवम् इतिकरणीयाधिष्ठान आचारो लोकानुत्क्रान्तो भवति विनयानुत्क्रान्तश् च //
SK
(I)-C-IIल्-४-अ-(१)-इइइ-(च्) Mस्.१२ब्१L, Sह्.३९-६, P.१९ब्२, D.१६ब्४, N.१८ब्४, Cओ.१८अ७, Cह्.४०२ब्२६ तत्र कुशलपक्षप्रयोगाधिष्ठान आचारः कथं लोकानुत्क्रान्तश् च भवति विनयानुत्क्रान्तश् च / कुशलपक्ष उच्यते तद्यथा स्वाध्यायो गुरूणाम् सामीचीकर्मोपस्थानं च, तथा ग्लानोपस्थानम्, अन्यो ऽन्यम् अनुकम्पाचित्तम् उपस्थाप्य च्छन्ददानं, उद्देशः / प्रयोगः परिपृच्छा धर्मश्रवणदक्षस्यानलसस्य, विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यक्रिया, परेषां च कुशलपक्षसमादापना धर्मदेशना / प्रतिसंलयनप्रवेशपर्यङ्कनिबन्धनिषद्या, इति य एवंभागीया अप्य् अन्ये धर्मा अयम् उच्यते कुशलपक्षप्रयोगः / स एवं कुशलपक्षप्रयोगो यथायोगं यथा परिकीर्तितं, यत्र कल्पयितव्यं तत्र तथ कल्पयति / येन नानुयोज्यो भवति गर्हितो लौकिकानां विनयधराणां विनयशिक्षितानां सतां सम्यग्गतानाम् सत्पुरुषाणां सहधार्मिकाणाम् / अयम् उच्यते कुशलपक्षप्रयोगाधिष्ठान आचारो लोकानुत्क्रान्तो विनयानुत्क्रान्तश् च / य एभिर् आकारैः संपन्न आचार इयम् उच्यत आचारसंपत् / एवं चाचारसंपन्नो भवति //
SK
(I)-C-IIल्-४-अ-(१)-इव् Mस्.१२ब्४L, Sह्.४०-५, P.२०अ१, D.१७अ३, N.१९अ२, Cओ.१८ब्६, Cह्.४०२च्१५ कथं च गोचरसंपन्नो भवति / पञ्च भिक्षोर् अगोचराः / कतमे पञ्च / तद्यथा घोषो वेश्यं पानागारो राजकुलं चण्डालकठिनम् एव पञ्चमम् इति / य एतांस् तथागतप्रतिक्षिप्तान् अगोचरान् वर्जयित्वान्यत्र गोचरे चरत्य् अनवद्ये तत्र कालेनैवं गोचरसंपन्नो भवति //
SK
(I)-C-IIल्-४-अ-(१)-व् Mस्.१२ब्५L, Sह्.४१-१, P.२०अ४, D.१७अ५, N.१९अ४, Cओ.१९अ१, Cह्.४०२च्२० कथम् अणुमात्रेष्व् अवद्येषु भयदर्शी भवति / अणुमात्रम् अवद्यम् उच्यते क्षुद्राणुक्षुद्राणि शिक्षापदानि, येष्व् अध्यापत्तिर् व्युत्थानं च प्रज्ञायते, तेषां याध्यापत्तिर् इदम् अवद्यम् अणुमात्रम् / पुनस् तथा हि तस्या अध्यापत्तेर् अल्पकृच्छ्रेण व्युत्तिष्ठते, येन तद् अणुमात्रम् इत्य् (Śभ् I ६८) उच्यते / तत्र कथं भयदर्शी भवति / ᳚मा हैवाहम् एषाम् अध्यापत्तिहेतोर् अभव्यो वा स्याम् अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै, अपायगो वा स्याम् अपायगामी, आत्मा वा मे अपवदेत्, शास्ता वा देवता वा विज्ञा वा सब्रह्मचारिणो धर्मतया विगर्हेयुः, दिग्विदिक्षु च मे पापको वर्णकीर्तिशब्दश्लोको ऽभ्युद्गच्छेत्᳚ / स एभ्यो दृष्टधर्मसांपरायिकेभ्यस् तद्धेतुकेभ्यो ऽनिष्टेभ्यो धर्मेभ्यो भयदर्शी भवति / येन तानि क्षुद्राणुक्षुद्राणि शिक्षापदानि जीवितहेतोर् अपि न संचिन्त्याध्यापद्यते / कदाचित् कर्हिचित् स्मृतिसंप्रमोषाद् अध्यापन्नो लघु लघ्व् एव यथाधर्मं प्रतिकरोति व्युत्तिष्ठते / एवम् अणुमात्रेष्व् अवद्येषु भयदर्शी भवति //
SK
(I)-C-IIल्-४-अ-(१)-वि Mस्.१२ब्८R, Sह्.४१-१९, P.२०ब्३, D.१७ब्४, N.१९ब्३, Cओ.१९अ७, Cह्.४०३अ५ कथं समादाय शिक्षते शिक्षापदेषु / आह / पूर्वम् अनेन प्रातिमोक्षसंवरसमादाने ज्ञप्तिचतुर्थेन कर्मणोपसंपद्यमानेन कतिपयानां शिक्षापदानां शरीरं श्रुतं, सातिरेकं च तदन्यम् अर्धतृतीयं शिक्षापदशतं प्रातिमोक्षसूत्रोद्दिष्टं प्रतिज्ञयैवोपगतं ᳚सर्वत्र शिक्षिष्यामी᳚ति, आचार्योपाध्यायानाम् अन्तिकाच् छ्रुत्वा, आलप्तकसंलप्तकसंस्तुतकसप्रियकानाम् / अर्धार्धमासं च प्रातिमोक्षसूत्रोद्देशतः, ततश् च तेन सर्वशिक्षापदसमादानात् प्रातिमोक्षसंवरः प्रतिलब्धः / तत उत्तरकालं येषु शिक्षापदेषु कुशलो भवति तानि तावन् नाध्यापद्यते / अध्यापन्नश् च यथाधर्मं प्रतिकरोति / येषु पुनः (Śभ् I ७०) शिक्षापदेष्व् अकुशलो भवति, अव्युत्पन्नबुद्धिः तानि पूर्वं प्रतिज्ञासमादानेन समादत्तान्य् एतर्हि व्युत्पत्तिकौशल्यतया समाददाति / तेभ्यः पूर्वं यथापरिकीर्तितेभ्यः स्थानेभ्य आचार्यस्य वोपाध्यायस्य वा पूर्ववत्, व्युत्पत्तिकौशल्यतया च पुनः समादाय, यथानुशिष्टो ऽन्यूनम् अनधिकं शिक्षते तेषु गुरुगुरुस्थानीयव्यपदिष्टेषु शिक्षापदेषु, अविपरीतग्राही च भवत्य् अर्थस्य व्यञ्जनस्य च / एवं समादाय शिक्षते शिक्षापदेष्व् अयम् / तावद् विभंगः शीलसंवरस्य विस्तरकृतः //
SK
(I)-C-IIल्-४-अ-(२) Mस्.१३अ४M, Sह्.४२-२१, W.*६८-३४, P.२१अ३, D.१८अ३, N.२०अ२, Cओ.१९ब्७, Cह्.४०३अ२२ तत्र कतमः समासार्थः / तत्रायं समासार्थस् त्रिलक्षण एव शीलस्कन्धः परिदीपितो भगवता, तद्यथाविप्रणाशलक्षणः, स्वभावलक्षणः, स्वभावगुणलक्षणश् च //
SK
(I)-C-IIल्-४-अ-(२)-इ यथा कथम् इति यत् तावद् आह शीलवान् विहरतीत्य् अनेन तावद् अविप्रणाशलक्षणं शीलसंवरस्याख्यातम् //
SK
(I)-C-IIल्-४-अ-(२)-इइ यत् पुनर् आह प्रातिमोक्षसंवरसंवृत इत्य् अनेन स्वभावलक्षणम् आख्यातम् //
SK
(I)-C-IIल्-४-अ-(२)-इइइ, इव्, व्, वि यत् पुनर् आह / आचारगोचरसंपन्न इति, अनेन परम् उपनिधाय तथा समादत्तस्य प्रातिमोक्षसंवरस्य गुणलक्षणम् आख्यातम् //
SK
तथापि परे ताम् आचारगोचरसंपदम् उपलभ्याप्रसन्नाश् च प्रसीदन्ति, प्रसन्नानां च भवति भूयोभावः, प्रसन्नाश् च प्रसन्नाधिकारं कुर्वन्ति / न च मनांसि प्रदूषयन्ति, नावर्णं निश्चारयन्ति / अन्यथा शीलसंपन्नस्याचारगोचरसंपन्नस्यायं पराधिपतेयो गुण आनुशंसा न भवेत्, (Śभ् I ७२) एतद्विपर्ययेण वास्य दोष एव भवेत् //
SK
यत् पुनर् आह / अणुमात्रेष्व् अवद्येषु भयदर्शी समादाय शिक्षते शीक्षापदेष्व् इति, अनेनाध्यात्माधिपतेयगुणानुशंसलक्षणम् आख्यातम् / तत् कस्य हेतोः / यद् अप्य् एवम् आचारगोचरसंपन्नः पराधिपतेयं गुणानुशंसं प्रतिलभेत, अपि तु शीलं विपादयित्वा तद्धेतोस् तत्प्रत्ययम् अपायेषूपपद्यते / अभव्यतां वाप्राप्तस्य प्राप्तये पूर्ववत् //
SK
यत् पुनर् अणुमात्रेष्व् अवद्येषु भयदर्शी भवति / प्राग् एवाधिमात्रेषु समादाय च शिक्षते शिक्षापदेषु तस्मात् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् सुगताव् उपपद्यते / भव्यो वा भवत्य् अप्राप्तस्य प्राप्तये पूर्ववद् / अनेन कारणेनाध्यात्माधिपतेयो ऽयं शीलसंवरस्य गुणानुशंस इत्य् उच्यते //
SK
(I)-C-IIल्-४-अ-(२)-इऽ Mस्.१३ब्२L, Sह्.४४-४, P.२१ब्७, D.१८ब्४, N.२०ब्३, Cओ.२०ब्१, Cह्.४०३ब्१५ अपरः पुनः पर्यायः / समासतो भगवता समादत्तशीलता परिदीपिता, नैर्याणिकशीलता च, शीलभावना च /
SK
तत्र यत् तावद् आह / ᳚शीलवान् विहरती᳚त्य् अनेन समादत्तशीलताख्याता //
SK
(I)-C-IIल्-४-अ-(२)-इइऽ यत् पुनर् आह / ᳚प्रातिमोक्षसंवरसंवृत᳚ इत्य् अनेन नैर्याणिकशीलताख्याता / तथा हि प्रातिमोक्षसंवरसंगृहीतं शीलम् अधिशीलं शिक्षेत्य् उच्यते / अधिशीलं च शिक्षां निश्रित्य, अधिचित्तं च, अधिप्रज्ञं च सिक्षां भावयत्य्, एवम् असौ सर्वदुःखक्षयाय निर्यातो भवति / यदुताधिशीलं प्रतिष्ठाय पूर्वंगमं कृत्वा तस्मात् प्रातिमोक्षसंवरो नैर्याणिकं शीलम् इत्य् उच्यते //
SK
(I)-C-IIल्-४-अ-(२)-इइइऽ,इव्ऽ,व्ऽ,विऽ यत् पुनर् आह / ᳚आचारगोचरसंपन्नो ऽणुमात्रेष्व् अवद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेष्व्᳚ इत्य् अनेन शीलभावनाख्याता / एभिर् आकारैस् तत् प्रातिमोक्षसंवरशीलं भावयितव्यम् / एवं च भावितं सुभावितं (Śभ् I ७४) भवतीति /
SK
स एष एकः शीलसंवरः षडाकारदेशनाप्रत्युपस्थानो वेदितव्यः //
SK
(I)-C-IIल्-४-ब् Mस्.१३ब्५L, Sह्.४४-२१, W.*६९-२२, P.२२अ६, D.१९अ३, N.२१अ१, Cओ.२१अ१, Cह्.४०३ब्२९ स खलु एष शीलसंवरो दशभिः कारणैर् विपन्नो वेदितव्यः / विपर्ययाद् दशभिश् चैव कारणैः संपन्नः //
SK
कतमैर् दशभिः कारणैर् विपन्नो भवति / आदित एव दुर्गृहीतो भवति, अतिलीनो भवति, अतिसृतो भवति, प्रमादकौसीद्यपरिगृहीतो भवति, मिथ्याप्रणिहितो भवति, आचारविपत्त्या परिगृहीतो भवति, आजीवविपत्त्या परिगृहीतो भवति, अन्तद्वयपतितो भवति, अनैर्याणिको भवति, समादानपरिभ्रष्टश् च भवति //
SK
(I)-C-IIल्-४-ब्-(१) Mस्.१३ब्६M/९ब्६M, Sह्.४५-८, P.२२ब्१, D.१९अ५, N.२१अ३, Cओ.२१अ३, Cह्.४०३च्६ तत्र कथम् आदितो दुर्गृहीतं शीलं भवति / यथापीहैकत्यो राजाभिनिर्णीतो वा प्रव्रजितश्, चौराभिनिर्णीतो वा, ऋणार्तो वा, भयार्तो वा, अजीविका भयभीतो वा, न श्रामण्याय, न ब्राह्मण्याय, नात्मशमाय, नात्मदमाय, नात्मपरिनिर्वाणाय / एवम् आदितो दुर्गृहीतो भवति //
SK
(I)-C-IIल्-४-ब्-(२) Mस्.९ब्६M, Sह्.४६-४, P.२२ब्४, D.१९अ७, N.२१अ५, Cओ.२१अ५, Cह्.४०३च्१३ कथम् अतिलीनो भवति / यथापीहैकत्यो ऽलज्जी भवति मन्दकौकृत्यः, शैथिलिकः शिथिलकारी शिक्षापदेषु / एवम् अतिलीनो भवति //
SK
(I)-C-IIल्-४-ब्-(३) Mस्.९ब्७L, Sह्.४६-७, P.२२ब्५, D.१९ब्१, N.२१अ६, Cओ.२१अ६, Cह्.४०३च्१५ कथम् अतिसृतो भवति / यथापीहैकत्यो दुर्गृहीतग्राही भवत्य् अस्थानकौकृत्यः / सौकृत्यकरणीयेषु स्थानेषु कौकृत्यायमानः / अस्थाने परेषाम् अन्तिके परिभवचित्तं वाघातं वोत्पादयति प्रवेदयति / एवम् अतिसृतं भवति //
SK
(I)-C-IIल्-४-ब्-(४) Mस्.१०अ१L, Sह्.४६-११, P.२२ब्७, D.१९ब्२, N.२१अ७, Cओ,२१ब्१, Cह्,४०३च्१९ कथं प्रमादकौसीद्यपरिगृहीतं भवति / यथापीहैकत्यो याम् अतीतम् अध्वानम् उपादायापत्तिम् आपन्नः, सा चानेन स्मृतिसंप्रमोषाद् एकत्या न यथाधर्मं प्रतिकृता भवति / यथातीतम् अध्वानम् उपादाय, एवम् अनागतं वर्तमानम् अध्वानम् उपादाय याम् आपत्तिम् आपन्नो भवति, सा चानेन स्मृतिसंप्रमोषाद् एकत्या न यथाधर्मं प्रतिकृता भवति / न च पूर्वम् एवापत्तेर् आयत्याम् अनध्यापत्तये तीव्रम् औत्सुक्यम् आपद्यते, यन् न्व् ᳚अहं तथा तथा चरेयं विहरेयम्, यथा यथा चरन् विहरंश् चापत्तिं नाध्यापद्येय᳚ / तथा च तथा चरति विहरति यथापत्तिम् अध्यापद्यते / सो ऽनेन पूर्वान्तसहगतेनापरान्तसहगतेन मध्यान्तसहगतेन पूर्वकालकरणीयेन सहानुचरेण च प्रमादेन समन्वागतः निद्रासुखं शयनसुखं पार्श्वसुखं च स्वीकरोति / अदक्षश् च भवत्य् अलसः, अनुत्थानसंपन्नः, न कर्ता भवति विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यम् / एवं प्रमादकौसीद्यपरिगृहीतं भवति //
SK
(I)-C-इII-४-ब्-(५) Mस्.१०अ३R, Sह्.४७-७, P.२३अ६, D.१९ब्६, N.२१ब्५, Cओ.२१ब्७, Cह्.४०४अ४ कथं मिथ्याप्रणिहितं भवति / यथापीहैकत्यः प्रणिधाय ब्रह्मचर्यं चरति / ᳚अनेनाहं शीलेन वा व्रतेन वा तपसा वा ब्रह्मचर्यवासेन वा देवो वा स्यां देवान्यतमो वा᳚ / लाभसत्कारकामो भवति, परतः लाभसत्कारं प्रार्थयते, लाभसत्कारस्य स्पृहयति / एवं मिथ्याप्रणिहितं भवति //
SK
(I)-C-IIल्-४-ब्-(६) Mस्.१०अ४M, Sह्.४७-१३, P.२३अ८, D.२०अ१, N.२१ब्७, Cओ.२२अ१, Cह्.४०४अ९ कथम् आचारविपत्त्या परिगृहीतं भवति / यथापीहैकत्य ईर्यापथं वाधिष्ठायेतिकरणीयं वा कुशलपक्षप्रयोगं वा लोकोत्क्रान्तश् च भवति विनयोत्क्रान्तश् च पूर्ववद् / एवम् आचारविपत्त्या परिगृहीतं भवति //
SK
(I)-C-IIल्-४-ब्-(७) Mस्.१०अ५M, Sह्.४७-१७, P.२३ब्२, D.२०अ२, N.२२अ१, Cओ.२२अ२, Cह्.४०४अ१३ कथम् आजीवविपत्त्या परिगृहीतं भवति / यथापीहैकत्यो महेच्छो भवत्य् असंतुष्टो दुष्पोषो दुर्भरजातीयः / स चाधर्मेण चीवरं (Śभ् I ७८) पर्येषते न धर्मेण, अधर्मेण पिण्डपातं शयनासनं ग्लानप्रत्ययभैषज्यपरिष्कारं पर्येषते न धर्मेण / स च चीवरपिण्डपातशयनासनग्लानप्रत्ययभैसज्यपरिष्कारहेतोर् आत्मनो गुणसंभावनानिमित्तम् अप्राकृतं विठपितम् ईर्यापथं कल्पयति, अनुद्धतेन्द्रियताम् अचपलेन्द्रियतां शान्तेन्द्रियतां च परेषाम् उपदर्शयति / येनास्य परे गुणसंभावनाज्ञाता दातव्यं कर्तव्यं मन्यन्ते, यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैसज्यपरिष्कारान् / ध्वाङ्क्षश् च भवति मुखरः प्रगल्भः केलायिता नामगोत्रोद्गृहीता बहुश्रुतो भवति धर्मधरः / लाभकारणाद् एव च परेषां धर्मं संलपति बुद्धभाषितं वा श्रावकभाषितं वा, आत्मनो वा गुणान् भूतान् वा किंचिद् वा पुनः समारोप्य स्वयम् एव वक्ता भवति, लापयति वा परैः / अनुत्तरेण वोपदर्शयिता, चीवरार्थी वा, अन्यतमान्यतमेन वा श्रामणकेन परिष्कारेणार्थी प्रभूतेन वाग्रतरेण वा / अविहन्यमानो ऽपि प्राकृतस्य चीवरस्योपदर्शयिता भवति, अप्य् एवर्न् श्राद्धा ब्राह्मणगृहपतयः चीवरेण विघातं संलक्षयित्वा प्रभूतं प्रणीतं चीवरं दातव्यं कर्तव्यं मंस्यन्ते / यथा चीवरम् एवम् अन्यतमान्यतमं श्रामणकं जीवितपरिष्कारम् / श्राद्धानां च ब्राह्मणगृहपतीनाम् अन्तिकाद् यथाकामं वालभमानः, असत्सु वासंविद्यमानेषु भोगेष्व् अलभमान एवं चोपरोधेन याचते निष्पिष्य, निष्पिष्यापि चैनान् परुषयत्य् अपि / हीनं वा पुनर् लब्ध्वा तथा संविद्यमानेषु भोगेषु तं लाभं पंसयत्य् अवसादयति / संमुखं च दातारं दानपतिम् एवं चाह ᳚हं भो, कुलपुत्र, सन्त्य् एके कुलपुत्राः कुलदुहितरश् च ये तवान्तिकान् नीचकुलीनतराश् च दरिद्रतराश् च / ते पुनर् एवं चैवं च प्रणीतदायिनो मन-आपदायिनश् च / कस्मात् त्वं तेषाम् अन्तिकाद् उच्चकुलीनतरश् चाढ्यतरश् च समान एवम् अमना-आपदायी, चाप्रणीतपरीत्तदायी चे᳚ति / य एभिर् आकारैः कुहनां वा निश्रित्य लपनां वा नैमित्तिकतां वा (Śभ् I ८०) नैष्पेषिकतां वा लाभेन वा लाभं निश्चिकीर्षतां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परतः पर्येषते, सो ऽधर्मेण / यः पुनर् अधर्मेण सो ऽस्य भवति मिथ्याजीवः / एवं तच् छीलम् आजीवविपत्त्या परिगृहीतं भवति //
SK
(I)-C-IIल्-४-ब्-(८) Mस्.१०ब्५M, Sह्.४९-२२, P.२४ब्४, D.२१अ१, N.२२ब्६, Cओ.२३अ१, Cह्.४०४ब्१६ कथम् अन्तद्वयपतितं भवति / यथापीहैकत्यः कामसुखल्लिकानुयुक्तो भवत्य् अध्यवसितः, तान् परतः प्रतिलब्धान् धर्मेण वाधर्मेण वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैसज्यपरिष्कारान् परिभुङ्क्ते, आदीनवादर्शी निःसरणम् अप्रजानन् / अयम् उच्यत एको ऽन्तः / पुनर् अपरम् इहैकत्य आत्मक्लमथानुयुक्तो भवत्य् अनेकपर्यायेणात्मानम् आतापयति संतापयति कष्टव्रतसमादायी च भवति / तद्यथा कण्ठका पाश्रयो वा भवति भस्मापाश्रयो मुसलापाश्रयः फलकापाश्रयो भवति / उत्कुटुकस्थितो भवत्य् उत्कुटुकप्रहाणयोगम् अनुयुक्तः / अग्निपरिचारको भवति, यावत् त्रिर् अप्य् अग्निं परिचरति / उदकम् अध्यारोहो भवति, यावत् त्रिर् अप्य् उदकम् अध्यारोहति / एकपादकः स्थित्वा यतः सूर्यस् ततः परिवर्तते / इति यो वा पुनर् अप्य् एवंभागीय आत्मक्लमथानुयोगः/ अयम् उच्यते द्वितीयो ऽन्तः / एवम् अन्तद्वयपतितं भवति //
SK
(I)-C-IIल्-४-ब्-(९) Mस्.११अ१R, Sह्.५०-१६, P.२५अ३, D.२१अ६, N.२३अ५, Cओ.२३अ६, Cह्.४०४ब्२६ कथम् अनैर्याणिकं भवति / यथापीहैकत्यः शीलं वा व्रतं वा दृष्ट्या परामृशति / ᳚अनेनैव शीलेन वा व्रतेन वा शुद्धिर् भविष्यति / मुक्तिर् निर्याणं भविष्यती᳚ति / सर्वं च शीलम् इतो बाह्यानां सुरक्षितम् अपि सुविशुद्धम् अपि तद् उपमया विशुद्ध्यानैर्याणिकम् इत्य् उच्यते / एवम् अनैर्याणिकं भवति //
SK
(I)-C-IIल्-४-ब्-(१०) Mस्.११अ२R, Sह्.५१-४, P.२५अ६, D.२१ब्१, N.२३अ६, Cओ.२३ब्१, Cह्.४०४च्१ कथं समादानपरिभ्रष्टं भवति / यथापीहैकत्यः सर्वेण सर्वम् अलज्जी भवति निरपेक्षः श्रामण्ये, स च भवति दुःशीलः पापधर्मा अन्तःपूतिर् अवस्रुतः कशम्बकजातः शंखस्वरसमाचारः, अश्रमणः श्रमणप्रतिज्ञः, अब्रह्मचारी ब्रह्मचारिप्रतिज्ञः एवम् समादानपरिभ्रष्टं भवति //
SK
एभिर् दशभिः कारणैर् विपन्नं शीलं शीलविपत्तिर् इत्य् उक्ता भगवता / अपि च शीलव्यसनम् अप्य् उक्तं भगवता / तच् चैभ्यः कारणेभ्यो द्वाभ्यां कारणाभ्यां वेदितव्यं, या चानैर्याणिकता यश् च समादानभ्रंशः, तदन्यैश् च कारणैः शीलविपत्तिर् एव वेदितव्या //
SK
(I)-C-IIल्-४-च् Mस्.११अ४M, Sह्.५१-१६, P.२५ब्३, D.२१ब्४, N.२३ब्३, Cओ.२३ब्५, Cह्.४०४च्१० एषाम् एव च कृष्णपक्सव्यवस्थितानां कारणानां विपर्ययेण शुक्लपक्ष्यैः कारणैः शीलसंपत्तिर् वेदितव्या शीलविशुद्धिश् च //
SK
(I)-C-IIल्-४-द् Mस्.११अ४R, Sह्.५२-१, W.ऽ६९-३६, P.२५ब्४, D.२१ब्५, N.२३ब्४, Cओ.२३ब्६, Cह्.४०४च्११ क्वचित् पुनर् भगवता शीलं मूलार्थेनोक्तम् / यथोक्तम् /
SK
सुप्रतिष्ठितमूलः स्याच् चित्तस्योपशमे रतः / संयुक्तो च विसंयुक्तो दृष्ट्यादृष्ट्यार्यपापया // इति गाथा //
SK
क्वचिद् अलंकारशब्देनोक्तं / यथोक्तं / शीलालंकारसंपन्नो भिक्षुर् वा भिक्षुणी वा / अकुशलं प्रजहाति कुशलं भावयति /
SK
क्वचिद् अनुलेपनशब्देनोक्तम् / यत्राह / शीलानुलेपनसंपन्नो भिक्षुर् वा भिक्षुणी वेति पूर्ववत् /
SK
क्वचिद् गन्धशब्देनोक्तम् / अस्ति तद् आनन्द गन्धजातम् यस्यानुवातम् अपि गन्धो वाति, प्रतिवातम् अप्य्, अनुवातम् अपि प्रतिवातम् अपि गन्धो वाति /
SK
क्वचिद् सुचरितशब्देनोक्तम् / यत्राह / कायसुचरितस्येष्टो विपाको दृष्टे धर्मे ऽभिसंपराये च एवं वाक्सुचरितस्य /
SK
क्वचिद् संवरशब्देनोक्तम् / यत्राह / दाता दानपतिः शीलवान् भवति / संवरस्थाय्य् आगमदृष्टिः फलदर्शी //
SK
अपि चोक्तम् / शीलवान् विहरति, प्रातिमोक्षसंवरसंवृत इति विस्तरः //
SK
(I)-C-IIल्-४-द्-(१) Mस्.११अ७M, Sह्.५३-६, P.२६अ४, D.२२अ३, N.२४अ३, Cओ.२४अ५, Cह्.४०५अ२ केन कारणेन भगवता शीलं मूलशब्देनोक्तं प्रतिष्ठार्थाधारार्थो मूलार्थः / तच् चैतच् छीलं सर्वेषाम् एव लौकिकलोकोत्तराणां गुणानाम् अनवद्यानाम् अग्र्यानां प्रवरानाम् सुखाहाराणां, प्रतिष्ठास्थानीयं (Śभ् I ८६) चोत्पत्तये प्रतिलंभाय तस्मान् मूलशब्देनोच्यते / तद्यथा पृथिवी प्रतिष्ठा भवत्य् आधारस् तृणगुल्मौषधिवनस्पतीनाम् उत्पत्तये, एवम् एव शीलं विस्तरेण पूर्ववद् वाच्यम् //
SK
(I)-C-IIल्-४-द्-(२) Mस्.११ब्२L, Sह्.५३-४, P.२६अ७, D.२२अ६, N.२४अ५, Cओ.२४अ७, Cह्.४०५अ७ केन कारणेन शीलम् अलंकारशब्देनख्याताम् / आह / यानि तदन्यानि भूषणानि तद्यथा हर्षा वा, कटका वा, केयूरा वा, मुद्रिका वा, जातरूपरजतमाला वा, तानि यावाद् अयं दह्रो भवति शिशुः कृष्णकेशः प्रत्यग्रयौवनसमन्वागतः तावद् अस्य विभूषणानि प्रावृतानि शोभामात्रां जनयन्ति / न त्व् एवं पुनर् जीर्णस्य, वृद्धस्य, महIIअस्याशीतिकस्य वा, नावतिकस्य वा, खण्डदन्तस्य, पलितशिरसो, नान्यत्र तैर् विभूषणैः प्रावृतैः स विडम्बित इव ख्याति / आरोग्यव्यसने वा, भोगव्यसने वा, ज्ञातिव्यसने वा प्रत्युपस्थिते न शोभते / शीलं पुनः सर्वेषां सर्वकालं च शोभाकरं भवति / तस्माद् अलंकारशब्देनोच्यते //
SK
(I)-C-IIल्-४-द्-(३) Mस्.११ब्३R, Sह्.५४-९, P.२६ब्३, D.२२ब्१, N.२४ब्१, Cओ.२४ब्३, Cह्.४०५अ१६ केन कारणेन शीलम् अनुलेपनशब्देनोक्तम् / तत् खलु कुशलम् अनवद्यं शीलसमादानं सर्वदौःशील्यसमादानहेतुकं कायपरिदाहं चित्तपरिदाहम् अपनयति / घर्माभितप्तस्योत्तमग्रीष्मपरिदाहे काले प्रत्युपस्थिते चन्दनानुलेपनं वा कर्पूरानुलेपनं वा / अनेन कारणेन शीलम् अनुलेपनशब्देनोच्यते //
SK
(I)-C-IIल्-४-द्-(४) Mस्.११ब्४R, Sह्.५४-१५, P.२६ब्६, D.२२ब्३, N.२४ब्३, Cओ.२४ब्५, Cह्.४०५अ२१ केन कारणेन शीलं गन्धजातशब्देनोच्यते / शीलवतः खलु पुरुषपुद्गलस्य दिग्विदिक्षु कल्याणः कीर्तियशःशब्दश्लोको निश्चरति / विविधानां (Śभ् I ८८) वा मूलगन्धजातानां सारगन्धजातानां वा, पुष्पगन्धानां वा वातेरितानां दिग्विदिक्षु मन-आपो गन्धो निश्चरति / अनेन कारणेन शीलं गन्धजातशब्देनोच्यते //
SK
(I)-C-IIल्-४-द्-(५) Mस्.११ ब्६L, Sह्.५४-२, P.२६ब्८, D.२२ब्५, N.२४ब्५, Cओ.२४ब्७, Cह्.४०५अ२५ केन कारणेन शीलं सुचरितशब्देनोच्यते / सुखगामिन्य् एषा चर्या स्वर्गगामिनी सुगतिगामिनी / एषा चर्या तस्मात् सुचरितम् इत्य् उच्यते //
SK
(I)-C-IIल्-४-द्-(६) Mस्.११ब्६M, Sह्.५५-२, P.२७अ२, D.२२ब्६, N.२४ब्५, Cओ.२५अ१, Cह्.४०५अ२७ केन कारणेन शीलं संवरशब्देनोच्यते / निवृत्तिस्वभाव एष धर्मो निवृत्तिलक्षणो विरतिस्वभावः / तस्मात् संवरशब्देनोच्यते //
SK
(I)-C-IIल्-४-ए Mस्.११ब्७M, Sह्.५५-४, P.२७अ३, D.२२ब्७, N.२४ब्६, Cओ.२५अ२, Cह्.४०५अ२९ अस्य पुनः शीलसंवरस्य त्रिविधा प्रत्यवेक्षा परिशुद्धिनिमित्तम् / कतमा त्रिविधा / यदुत कायकर्मप्रत्यवेक्षा, वाक्कर्मप्रत्यवेक्षा, मनस्कर्मप्रत्यवेक्षा //
SK
(I)-C-IIल्-४-ए-(१) Mस्.१२अ१LV८अ१L, Sह्.५५-८, P.२७अ४, D.२३अ१, N.२४ब्७, Cओ.२५अ३, Cह्.४०५ब्२ कथम् एतानि कर्माणि प्रत्यवेक्षमाणः शीलसंवरं परिशोधयति / यत् कर्म कायेन प्रणिहितं भवति कर्तुं तद् एवं प्रत्यवेक्षते / ᳚किन् नु व्याबाधिकं मे एतत् कायकर्मात्मनः परेषाम्, अकुशलं दुःखोदयं दुःखविपाकम् आहोस्विद्, अव्याबाधिकं मे एतत् कायकर्म आत्मनः परेषां कुशलं सुखोदयं सुखविपाकं᳚ / सचेत् स एवं प्रत्यवेक्षमाणो जानाति, ᳚व्याबाधिकं मे एतत् कायकर्मात्मनो वा परस्य वाकुशलं दुःखोदयं, दुःखविपाकं᳚, स प्रतिसंहरति, तत्कर्म (Śभ् I ९०) न करोति, नानुप्रयच्छति / सचेत् पुनर् जानात्य् अव्याबाधिकं मे एतत् कायकर्म कुशलं पूर्ववत्, स करोति तत् कायेन कर्म न प्रतिसंहरति, अनुप्रयच्छति / यद् अप्य् अनेनातीतम् अध्वानम् उपादाय कायेन कर्म कृतैः भवति / तद् अप्य् अभीक्ष्णं प्रत्यवेक्षते / ᳚किं नु व्याबाधिकं मे एतत् पूर्ववत् / सचेत् स एवं प्रत्यवेक्ष्माणो जानाति व्याबाधिकं मे एतत्᳚ कायकर्म पूर्ववत् / सविज्ञानां सब्रह्मचारिणाम् अन्तिके प्रतिदेशयति, यथाधर्मं प्रतिकरोति / सचेत् पुनर् एवं प्रत्यवेक्षमाणो जानात्य् अव्याबाधिकं मे एतत् कायकर्म पूर्ववत् / स तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलं विहरत्य्, एवम् अस्य तत् कायकर्म सुप्रत्यवेक्षितं च भवति, सुविशोधितं च यदुतातीतानागतप्रत्युत्पन्नेष्व् अध्वसु //
SK
(I)-C-IIल्-४-ए-(२) Mस्.८अ४R, Sह्.५६-१७, P.२७ब्५, D.२३ब्१, N.२५अ७, Cओ.२५ब्३, Cह्.४०५ब्१८ यथा कायकर्मैवं वाक्कर्म वेदितव्यम् //
SK
(I)-C-IIल्-४-ए-(३) Mस्.८अ५L, Sह्.५६-१८, W/७०-२८, P.२७ब्६, D.२३ब्१, N.२५ब्१, Cओ.२५ब्३, Cह्.४०५ब्१९ अतीतान् संस्कारान् प्रतीत्योत्पद्यते मनः / अनागतान्, प्रत्युत्पन्नान् संस्कारान् प्रतीत्योत्पद्यते मनः / तन्मनो ऽभीक्ष्णं प्रत्यवेक्षते, ᳚किं नु व्याबाधिकं मे एतन् मनः᳚ पूर्ववत् / यावन् नोत्पादयति, प्रतिसंहरति, नानुप्रयच्छति तन्मनस्कर्म / शुक्लपक्षेण पुनर् उत्पादयति, न प्रतिसंहरति, अनुप्रयच्छति तन्मनस्कर्म / एवम् अनेन तन् मनस्कर्म प्रत्यवेक्षितं भवति, सुपरिशोधितं, यदुतातीतानागतप्रत्युत्पन्नेष्व् अध्वसु /
SK
तत् कस्य हेतोः, अतीते ऽप्य् अध्वन्य् अनागते ऽपि प्रत्युत्पन्ने ऽपि ये केचिच् (Śभ् I ९२) छ्रमणा वा, ब्राह्मणा वा, कायकर्म, वाक्कर्म, मनस्कर्म प्रत्यवेक्ष्य परिशोध्य, परिशोध्य, बहुलं व्याहार्षुः, सर्वे ते एवं प्रत्यवेक्ष्य, परिशोध्य च / यथोक्तं भगवतायुस्मन्तं राहुलम् आरभ्य /
SK
कायकर्माथ वाक्कर्म, मनस्कर्म च राहुल / अभीक्ष्णं प्रत्यवेक्षस्व, स्मरन् बुद्धानुशासनम् //
SK
एतच् छ्रामणकं कर्म, अत्र शिक्षस्व राहुल / अत्र ते शिक्षमाणस्य, श्रेय एव न पापकम् //
SK
तत्र यद् एवं विचिनोति ᳚तत् कायकर्म, वाक्कर्म, मनस्कर्म किं व्याबाधिकं मे᳚ इति विस्तरेण पूर्ववद्, इयं प्रत्यवेक्षणा, यत् पुनर् एकत्यं प्रतिसंहरति प्रतिदेशयत्य् एकत्यम् अनुप्रयच्छति / तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलं विहरतीयम् उच्यते परिशोधना //
SK
(I)-C-IIल्-४-f Mस्.८अ८M, Sह्.५८-१, W.*७१-९, P.२८अ७, D.२४अ१, N.२५ब्७, Cओ.२६अ३, Cह्.४०५च्१२ तत्रैवं परिशुद्धस्य शीलसंवरस्य दशानुशंसा वेदितव्याः /
SK
कतमे दश //
SK
(I)-C-IIल्-४-f-(१) Mस्.८अ८R, Sह्.५९-१, P.२८अ८, D.२४अ१, N.२६अ१, Cओ.२६अ४, Cह्.४०५च्१३ इह शीलवान् पुरुषपुद्गलः शीलविशुद्धिम् आत्मनः प्रत्यवेक्षमाणो ऽविप्रतिसारं प्रोतिलभते / अविप्रतिसारिणः प्रामोद्यं प्रमुदितचित्तस्य प्रीतिर् जायते / प्रीतमनसः कायः प्रश्रभ्यते / स प्रश्रब्धकायः सुखं वेदयते / सुखितस्य चित्तं समाधीयते समाहितचित्तो यथाभूतं प्रजानाति / यथाभूतं पश्यति / यथाभूतं जानन् पश्यन् निर्विद्यते निर्विण्णो विरज्यते, विरक्तो विमुच्यते,विमुक्तस्य विमुक्तो ऽस्मी᳚ति ज्ञानदर्शनं भवति / यावन् निरुपधिशेषे निर्वाणधातौ परिनिर्वाति / यच् छीलवान् पुरुषपुद्गलः शीलविशुद्ध्यधिपतेयम् अविप्रतिसारं प्रतिलभते / अनुपूर्वेण यावन् निर्वाणगमनायायं प्रथमः शीलानुशंसः //
SK
(I)-C-IIल्-४-f-(२) Mस्.८ब्२M, Sह्.६०-१२, P.२८ब्६, D.२४अ५, N.२६अ५, Cओ.२६ब्१, Cह्.४०५च्२२ पुनर् अपरं शीलवान् पुरुषपुद्ग्लः मरणकालसमये प्रत्युपस्थिते, ᳚कृतं बत मे सुकृतं कायेन वाचा मनसा, न कृतं बत मे दुश्चरितं कायेन पूर्ववत्᳚ इति ᳚या गतिः कृतपुण्यानां कृतकुशलानाम् कृतभयभीरुत्राणानां तां गतिं प्रेत्य, गमिष्यामी᳚ति द्वितीयम् अविप्रतिसारं प्रतिलभते सुगतिगमनाय, अविप्रतिसारिणो हि पुरुषपुद्गलस्य भद्रकं मरनं भवति भद्रिका कालक्रिया भद्रको ऽभिसंपरायः / अयं द्वितीयः शीलानुशंसः //
SK
(I)-C-IIल्-४-f-(३) Mस्.८ब्३R, Sह्.६०-१, P.२९अ२, D.२४ब्१, N.२६ब्१, Cओ.२६ब्४, Cह्.४०६अ१ पुनर् अपरं शीलवतः पुरुषपुद्गलस्य दिग्विदिक्षु कल्याणो वर्णकीर्तियशशब्दश्लोको निश्चरति / अयं तृतीयः शीलानुशंसः //
SK
(I)-C-IIल्-४-f-(४) Mस्.८ब्४M, Sह्.६१-३, P.२९अ३, D.२४ब्२, N.२६ब्२, Cओ.२६ब्५, Cह्.४०६अ३ पुनर् अपरं शीलवान् पुरुषपुद्गलः सुखम् स्वपिति सुखं प्रतिबुध्यते / निष्परिदाहेन कायेन चित्तेन च / अयं चतुर्थः शीलानुशंसः//
SK
(I)-C-IIल्-४-f-(५) Mस्.८ब्४R, Sह्.६१-६, P.२९अ४, D.२४ब्३, N.२६ब्२, Cओ.२६ब्६, Cह्.४०६अ५ पुनर् अपरं शीलवान् पुरुषपुद्गलः सुप्तो ऽपि देवानां रक्ष्यो भवति / अयं पञ्चमः शीलानुशंसः //
SK
(I)-C-IIल्-४-f-(६) Mस्.८ब्५L, Sह्.६१-९, P.२९अ५, D.२४ब्३, N.२६ब्३, Cओ.२६ब्७, Cह्.४०६अ७ पुनर् अपरं शीलवान् पुरुषपुद्गलः न शंकी भवति परतः पापस्य, न भीतो न संत्रस्तमानसः / अयं षष्ठः शीलानुशंसः //
SK
(I)-C-IIल्-४-f-(७) Mस्.८ब्५M, Sह्.६१-१२, P.२९अ६, D.२४ब्४, N.२६ब्४, Cओ.२७अ१, Cह्.४०६अ९ पुनर् अपरं शीलवान् पुरुषपुद्गलः बधकानां प्रत्यर्थिकानाम् अपिप्रत्यमित्राणां छिद्रप्राप्तो ऽपि रक्ष्यो भवति, सर्वदा ᳚अयं पुरुषपुद्गल᳚ (Śभ् I ९६) इति विदित्वा मित्रतां वापद्यते मध्यस्थतां वा / अयं सप्तमः शीलानुशंसः //
SK
(I)-C-IIल्-४-f-(८) Mस्.८ब्६L, Sह्.६१-१७, P.२९अ८, D.२४ब्६, N.२६ब्५, Cओ.२७अ२, Cह्.४०६अ१३ पुनर् अपरं पूर्ववद् व्याडानां यक्षाणां नैवासिकानाम् अमनुष्याणां छिद्रप्राप्तो ऽपि रक्ष्यो भवति / यदुत तद् एव शीलम् अधिपतिं कृत्वा / अयम् अष्टमः शीलानुशंसः //
SK
(I)-C-IIल्-४-f-(९) Mस्.८ब्६M, Sह्.६१-२१, P.२९ब्१, D.२४ब्७, N.२६ब्६, Cओ.२७अ४, Cह्.४०६अ१६ पुनर् अपरं शीलवान् पुरुषपुद्गलः धर्मेणाल्पकृच्छ्रेण परतो लाभं लभते / यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, यदुत शीलाधिकरणहेतोः सत्कृतश् च भवति, गुरुकृतो राज्ञां राजमात्राणां नैगमजानपदानां धनिनां श्रेष्ठिनाम् सार्थवाहानाम् / अयं नवमः शीलानुशंसः //
SK
(I)-C-IIल्-४-f-(१०) Mस्.८ब्७M, Sह्.६२-५, P.२९ब्४, D.२५अ२, Cओ.२७अ६, N.२७अ१, Cह्.४०६अ२१ पुनर् अपरं पूर्ववत् सर्वप्रणिधानानि समृध्यन्ति / सचेद् आकांक्षते ᳚कामधातौ क्षत्रियमहाशालकुलानां ब्राह्मणमहाशालकुलानां वा गृहपतिमहाशालकुलानां वा चतुर्महाराजकायिकानां वा देवानां, त्रायस्त्रिंशानां वा यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां सभागतायोपपद्येय᳚ इति, उपपद्यते यथापि तद् विशुद्धत्वाच् छीलानां /
SK
सचेद् आकांक्षते ᳚अहो वताहं ध्यानानि च समापद्य दृष्टे धर्मे सुखं विहरेयम् / रूपोपगानां च देवानां सभागतायोपपद्येय᳚ इति, विहरत्य् उपपद्यते च / तच् च शीलवतो वीतरागस्य प्रणिधानं समृध्यति /
SK
सचेद् आकांक्षते ᳚ये ते शान्ता विमोक्षा अतिक्रम्य तान् आरुप्यान् चोपसंपद्य विहरयेय / आरूप्योपगतानां च देवानां सभागतायोपपद्येय᳚ इति, पूर्ववत् //
SK
सचेद् आकांक्षते ᳚अत्यन्तनिष्ठनिर्वाणम् अधिगच्छेयम्᳚ इत्य् अधिगच्छति // तच् च विशुद्धत्वाच् छीलानां सर्वत्र च वीतरागत्वात् /
SK
अयं दशमः शीलानुशंसो वेदितव्यः //
SK
निर्दिष्टः शीलस्कन्धो विभागशः, निर्दिष्टा विपत्तिसंपत्तिः, निर्दिष्टानि पर्यायनामानि, निर्दिष्टा परिशुद्धिप्रत्यवेक्षा, निर्दिष्टो ऽनुशंसः //
SK
स एष सर्वाकारपरिपूर्णः शीलसंवरः संभारपरिगृहीत आख्यात उत्तनो विवृतः प्रकाशितो, यत्रात्मकामैः श्रामण्यब्राह्मण्यकामैः कुलपुत्रैः शिक्षितव्यम् //
SK
उद्दानम् / विभङ्गस् त्रिविधो ज्ञेयः संपद् दशविधा भवेत् / पर्यायश् च षडाकारो विशुद्धिस् त्रिविधा मता / अनुशंसो दशविधः एषो ऽसौ शीलसंवरः /
SK
(I)-C-IIल्-५-अ-(१)-. Mस्.९अ३R, Sह्.६३-१४, P.३०ब्२, D.२५ब्३, N.२७ब्३, Cओ.२८अ१,Cह्.४०६ब्१७ इन्द्रियसंवरः कतमः / यथापीहैकत्यः इन्द्रियैर् गुप्तद्वारो विहरत्य् आरक्षितस्मृतिर् निपकस्मृतिर् इति विस्तरः /
SK
तत्र कथम् इन्द्रियैर् गुप्तद्वारो विहरति / आरक्षितस्मृतिर् भवति निपकस्मृतिर् इति विस्तरेण यावद् रक्षति मन-इन्द्रियं मन-इन्द्रियेण संवरम् आपद्यते / एवम् इन्द्रियैर् गुप्तद्वारो विहरति //
SK
(I)-C-IIल्-५-अ-(१ )-इइ Mस्.९अ४R, Sह्.६४-६, P.३०ब्३, D.२५ब्६, N.२७ब्६, Cओ.२८अ४, Cह्.४०६ब्२१ तत्र कथम् आरक्षितस्मृतिर् भवति / यथापीहैकत्येनेन्द्रियगुप्तद्वारताम् एवाधिपतिं कृत्वा श्रुतम् उद्गृहीतं भवति चिन्तितं वा पुनर् भावितं वा / तेन च श्रुतचिन्ताभावनाधिपतेया स्मृतिः प्रतिलब्धा भवति / स तस्या एव स्मृतेः प्रतिलब्धाया असंप्रमोषार्थम् अधिगमार्थम् अविनाशार्थं कालेन कालं तस्मिन्न् एव श्रुते योगं करोत्य् अभ्यासं करोति, चिन्तायां भावनायां योगम् अभ्यासं करोति / न भवति स्रस्तप्रयोगो निराकृतप्रयोगः, एवम् अनेन तस्याः श्रुतसमुदागतायाश् चिन्ताभावनासमुदागतायाः स्मृतेः कालेन कालं श्रुतचिन्ताभावनायोगक्रियाया आरक्षा कृता भवति / एवम् आरक्षितस्मृतिर् भवति //
SK
(I)-C-IIल्-५-अ-(१)-इइइ Mस्.९अ६R, Sह्.६५-९, P.३०ब्७, D.२६अ२, N.२८अ२, Cओ.२८ब्१, Cह्.४०६च्३ कथं निपकस्मृतिर् भवति / स तस्याम् एव स्मृतौ नित्यकारी च भवति निपुणकारी च भवति / तत्र या नित्यकारिता इयम् उच्यते सातत्यकारिता / तत्र या निपुणकारिता इयम् उच्यते सत्कृत्यकारिता / स एवं सातत्यकारी सत्कृत्यकारी निपकस्मृतिर् इत्य् उच्यते / स यथारक्षितस्मृतिर् भवति तथा तां स्मृतिं न संप्रमोषयति / स यथा निपकस्मृतिर् भवति तथा तस्याम् एवाप्रमुषितायां स्मृतौ बलाधानप्राप्तो भवति / येन शक्तो भवति प्रतिबलश् च रूपाणाम् अभिभवाय शब्दानां गन्धानां रसानाम् स्प्रष्टव्यानां धर्माणाम् अभिभवाय //
SK
(I)-C-IIल्-५-अ-(१)-इव् Mस्.९ब्१M, Sह्.६६-४, P.३१अ३, D.२६अ५, N.२८अ४, Cओ.२८ब्४, Cह्.४०६च्१० कथं स्मृत्यारक्षितमानसो भवति / चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं, चक्षुर्विज्ञानानन्तरम् उत्पद्यते विकल्पकं मनोविज्ञानम्, येन विकल्पकेन मनोविज्ञानेन प्रियरूपेषु रूपेषु सम्रज्यते, अप्रियरूपेषु रूपेषु व्यापद्यते / स ताम् एवाधिपतिं कृत्वा तस्माद् अयोनिशोविकल्पात् संक्लेशसमुत्थापकात् तन् मानसं रक्षति, यथा संक्लेशो नोत्पद्यते / एवं श्रोत्रं घ्राणं जिह्वां कायं/ मनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानम् / तच् च मनोविज्ञानम् अस्त्य् अयोनिशोविकल्पसहगतं संक्लेशसमुत्थापकम् / येन प्रियरूपेषु धर्मेषु संरज्यते, अप्रियरूपेषु धर्मेषु व्यापद्यते, स तां स्मृतिम् एवाधिपतिं कृत्वा तस्माद् अयोनिशोविकल्पात् संक्लेशसमुत्थापकात् तन् मानसं रक्षति एवम् अस्य संक्लेशो नोत्पद्यते / एवं स्मृत्यारक्षितमानसो भवति //
SK
(I)-C-IIल्-५-अ-(१)-व् Mस्.९ब्४L, Sह्.६६-१९, P.३१ब्२, D.२६ब्३, N.२८ब्३, Cओ.२९अ३, Cह्.४०६च्२० कथं समावस्थावचारको भवति / समावस्थोच्यते उपेक्षा कुशला वा अव्याकृता वा / स तस्माद् अयोनिशोविकल्पात् संक्लेशसमुत्थापकात् तन् मानसं रक्षित्वा कुशलायां वोपेक्षायाम् अव्याकृतायां वावचारयति / तेनोच्यते समावस्थावचारकः / एवं समावस्थावचारको भवति //
SK
(I)-C-II!-५-अ-(१)-व्-(अ) Mस्.९ब्५L, ६अ२M, Sह्.६७-३, P.३१ब्४, D.२६ब्५, N.२८ब्५, Cओ.२९अ५, Cह्.४०६च्२४ कथं पुनस् तस्माद् अयोनिशोविकल्पात् संक्लेशसमुत्थापकान् मानसं रक्षति / न निमित्तग्राही भवति तेषु रूपेषु शब्देषु गन्धेषु रसेषु स्प्रष्टव्येषु धर्मेषु नानुव्यञ्जनग्राही, यतो ऽधिकरणम् अस्य पापका अकुशला धर्माश् चित्तम् अनुस्रवेयुः / सचेत् पुनः स्मृतिसंप्रमोषात् क्लेशप्रचुरतया वा विवर्जयतो ऽपि निमित्तग्राहम् अनुव्यञ्जनग्राहम् उत्पद्यन्त एव पापका अकुशला ये धर्मा अनुस्रवन्त्य् एव चित्तं / तेषां संवराय प्रतिपद्यते / आभ्यां द्वाभ्याम् आकाराभ्यां तस्मात् संक्लेशसमुत्थापकाद् अयोनिशोविकल्पात् तन् मानसं रक्षितं भवति //
SK
(I)-C-IIल्-५-अ-(१)-व्-(ब्)-(ई) Mस्.६अ२R, Sह्.६७-९, P.३१ब्८, D.२७अ१, N.२९अ१, Cओ.२९ब्१, Cह्.४०७अ२ कथं च पुनस् तन् मानसम् आभ्याम् आकाराभ्यां संरक्ष्य कुशलायां वोपेक्षायाम् अवचारयत्य् अव्याकृतायां वा / द्वाभ्याम् एवाकाराभ्याम् / कतमाभ्यां द्वाभ्याम् / यथाह रक्षति चक्षुरिन्द्रियं चक्षुरिन्द्रियेण संवरम् आपद्यते / यथा चक्षुरिन्द्रियं एवं श्रोत्रघ्राणजिह्वाकायान्, रक्षति मन-इन्द्रियं मन-इन्द्रियेण संवरम् आपद्यते / आभ्यां द्वाभ्याम् आकाराभ्यां कुशलायां वाव्याकृतायां वोपेक्षायां तन् मानसम् अवचारयति //
SK
(I)-C-IIल्-५-अ-(१)-व्-(ब्)-(D Mस्.६अ४L, Sह्.६८-१, P.३२अ४, D.२७अ३, N.२९अ३, Cओ.२९ब्३, Cह्.४०७अ८ कथं चक्षुर्विज्ञेयेषु रूपेषु न निमित्तग्राही भवति / निमित्तग्राह उच्यते, यच् चक्षुर्विज्ञानगोचरो रूपं तस्य गोचरस्य ग्राही भवति चक्षुर्विज्ञानेन / एवं निमित्तग्राही भवति यदुत चक्षुर्विज्ञेयेषु रूपेषु (Śभ् I १०६) / सचेत् पुनस् तं गोचरं परिवर्जयति चक्षुर्विज्ञनस्यैवं न निमित्तग्राही भवति चक्षुर्विज्ञेयेषु रूपेषु / यथा चक्षुर्विज्ञेयेषु रूपेष्व् एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु //
SK
(I)-C-IIल्-५-अ-(१)-व्-(ब्)-(३) Mस्.६अ५R, Sह्.६८-१०, P.३२अ७, D.२७अ५, N.२९अ६, Cओ.२९ब्६, Cह्.४०७अ१३ कथं नानुव्यञ्जनग्राही भवति चक्षुर्विज्ञेयेषु रूपेषु / अनुव्यञ्जनग्राह उच्यते, यस् तेष्व् एव चक्षुर्विज्ञेयेषु रूपेषु चक्षुर्विज्ञानस्यैव समनन्तरसहोत्पन्नस्य विकल्पकस्य मनोविज्ञानस्य यो गोचरः संरागाय वा संद्वेषाय वा संमोहाय वा, तस्य ग्राही भवति मनोविज्ञानेन / एवम् अनुव्यञ्जनग्राहि भवति यद् उत चक्षुर्विज्ञेयेषु रूपेषु / तं गोचरं परिवर्जयति, नोत्पादयति तदालम्बनं तन् मनोविज्ञानम् एवं नानुव्यञ्जनग्राही भवति यदुत चक्षुर्विज्ञेयेषु रूपेषु / एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु //
SK
(I)-C-IIल्-५-अ-(१)-व्-(ब्)-०-(अ)ऽ Mस्.६अ७L, Sह्.६८-१७, P.३२ब्४, D.२७ब्२, N.२९ब्२, Cओ.३०अ३, Cह्.४०७अ२१ अपरा जातिर् निमित्तग्राहस्यानुव्यंजनग्राहस्य च / तत्र निमित्तग्राहो यच् चक्षुषा रूपाण्य् आभासगतानि तज्जं मनस्कारं संमुखीकृत्य पश्यति / तत्रानुव्यञ्जनग्राहः, तान्य् एव रूपाणि चक्षुसाभासगतानि तज्जं (Śभ् I १०८) मनसिकारं संमुखिकृत्य पश्यति, अपि तु परतो ऽनुश्रवपूर्वकं, शृणोति ᳚सन्त्य् एवंरूपाण्य् एवंरूपाणि चक्षुर्विज्ञेयां रूपाणी᳚ति यानि तानि तदनुगतानि नामानि पदानि व्यञ्जनानि यान्य् अधिपतिं कृत्वा यानि निश्रित्य यानि प्रतिष्ठायायं पुरुषपुद्गलो यथाश्रुतानि चक्षुर्विज्ञेयानि रूपाणि विकल्पयति/ अयम् उच्यते ऽनुव्यञ्जनग्राहः / यथा चक्षुर्विज्ञेयेषु रूपेषु, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु वेदितव्यम् //
SK
(I)-C-IIल्-५-अ-(१)-व्-(ब्)-०-(ब्)ऽ Mस्.६ब्२M,Sह्. ६९-७, P.३३अ१, D.२७ब्६, N.२९ब्६, Cओ.३०अ७, Cह्.४०७ब्१ स पुनर् अयं निमित्तग्राहो ऽनुव्यञ्जनग्राहश् चास्ति यन्निदानम् अस्य यदधिकरणं यदधिपतेयम् अस्य पापका अकुशला धर्माश् चित्तम् अनुस्रवन्ति / अस्ति यन् न तन्निदानं न तदधिकरणं न तदधिपतेयं पापका अकुशला धर्माश् चित्तम् अनुस्रवन्ति / तत्र यो ऽयं निमित्तग्राहो ऽनुव्यञ्जनग्राहश् चायोनिशोग्राहः यन्निदानं यदधिकरणं यदधिपतेयम् अस्य पापका अकुशला धर्माश् चित्तम् अनुस्रवन्ति / तद्रूपम् असौ निमित्तग्राहम् अनुव्यञ्जनग्राहं च परिवर्जयति //
SK
(I)-C-IIल्-५-अ-(१)-व्-(ब्)-(५) Mस्.६ब्४L, Sह्.६९-१७, P.३३अ५, D.२८अ१, N.३०अ१, Cओ.३०ब्३, Cह्.४०७ब्८ पापका अकुशला धर्माः कतमे / रागः, रागसमुत्थापितं कायदुश्चरितं वाग्दुश्चरितं मनोदुश्चरितम् / द्वेषो, मोहः, मोहसमुत्थापितं च कायदुश्चरितं वाग्दुश्चरितं मनोदुश्चरितम् इम उच्यन्ते ᳚पापका अकुशला धर्माः᳚ //
SK
(I)-C-IIल्-५-अ-(१)-व्-(ब्)- Mस्.६ब्४R, Sह्.७०-१, W.*७१-१४, P.३३अ७, D.२८अ३, N.३०अ३, Cओ.३०ब्५, Cह्.४०७ब्१२ कथम् एते चित्तम् अनुस्रवन्ति / यदालम्बनं चित्तमनोविज्ञानम् उत्पद्यते गच्छति प्रतिसरति, तदालम्बनास् तदालम्बनास् तेन चित्तमनोविज्ञानेन संप्रयुक्ताः कायवाङ्मनोदुष्चरितसमुत्थापकास् ते रागद्वेषमोहा उत्पद्यन्ते गच्छन्ति प्रतिसरन्ति / तेनोच्यन्ते ᳚चित्तम् अनुस्रवन्ति᳚ //
SK
(I)-C-IIल्-५-अ-(१)-व्-(ब्)-(Z) Mस्.६ब्५M, Sह्.७०-७, P.३३ब्२, D.२८अ५, N.३०अ५, Cओ.३०ब्७, Cह्.४०७ब्१६ एवं तावन् निमित्तग्राहेणानुव्यञ्जनग्राहेण च य उत्पद्यते संक्लेशश् चक्षुर्विज्ञेयेषु रूपेषु यावन् मनोविज्ञेयेषु धर्मेषु, सो ऽस्य नोत्पद्यते निमित्तग्राहम् अनुव्यञ्जनग्राहं च परिवर्जयतः / सचेत् पुनः स्मृतिसंप्रमोषाद् वा क्लेशप्रचुरतया वा, एकाकिनो ऽपि विहरतः पूर्वदृष्टानि चक्षुर्विज्ञेयानि रूपाण्य् अधिपतिं कृत्वा, पूर्वानुभूताङ् श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयान् धर्मान् अधिपतिं कृत्वा, उत्पद्यन्ते पापका अकुशला धर्माः, तान् उत्पन्नान् नाधिवासयति प्रजहाति विशोधयति व्यन्तीकरोति / तेनोच्यते ᳚तेषां संवराय प्रतिपद्यते᳚ //
SK
(I)-C-IIल्-५-अ-(१)-व्-(ब्)-(D Mस्.६ब्७L, Sह्.७०-३, P.३३ब्४, D.२८ब्१, N.३०ब्१, Cओ.३१अ३, Cह्.४०७ब्२४ स येषु रूपेषु चक्षुः प्रेरयितव्यं भवति, येषु श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु मनः प्रेरयितव्यं भवति, तेषु तथा प्रेरयति यथा न संक्लिश्यते / एवम् अनेन तस्मात् संक्लेशान् मन-इन्द्रियं रक्षितं भवति / तेनोच्यते ᳚रक्षति मन-इन्द्रियम्᳚ //
SK
(I)-C-IIल्-५-अ-(१)-व्-(ब्)-(९) Mस्.७अ१M, Sह्.७१-२, P.३३ब्८, D.२८ब्३, N.३०ब्२, Cओ.३१अ५, Cह्.४०७ब्२९ येषु पुनश् चक्षुर्विज्ञेयेषु रूपेषु चक्षुरिन्द्रियं न प्रेरयितव्यं भवति, येषु श्रोत्रघ्राणजिह्वाकाय मनोविज्ञेयेषु धर्मेषु मन-इन्द्रियं न प्रेरयितव्यं भवति, तेषु सर्वेण सर्वं सर्वथा न प्रेरयति / तेनोच्यते ᳚चक्षुरिन्द्रियेण संवरम् आपद्यते᳚ / तेनोच्यते यावन् ᳚मन-इन्द्रियेण संवरम् आपद्यते᳚ /
SK
अयं तावद् विभङ्गो विस्तरेणेन्द्रियसंवरस्य विज्ञेयः //
SK
(I)-C-IIल्-५-ब्-(१) Mस्.७अ२M, Sह्.७१-१०, P.३४अ३, D.२८ब्५, N.३०ब्४, Cओ.३१ब्१, Cह्.४०७च्७ त्| समासार्थः / येन च संवृणोति, यच् च संवृणोति, यतश् च संवृणोति, यथा च संवृणोति, या चासौ संवृतिः, तत् सर्वम् एकध्यम् अभिसम्क्षिप्य इन्द्रियसंवर᳚ इत्य् उच्यते //
SK
तत्र केन संवृणोति / यारक्षिता च स्मृतिस् [द्रन् प ल र्तग् ऽग्रुस् ब्येद् प ब्स्गोम् प गङ् यिन् प स्ते] तया संवृणोति //
SK
किं संवृणोति / चक्षुरिन्द्रियं संवृणोति / श्रोत्रघ्राणजिह्वाकायमन-इन्द्रियं संवृणोति / इदं संवृणोति //
SK
कुतः संवृणोति / प्रियरूपाप्रियरूपेभ्यो रूपेभ्यः शब्देभ्यो यावद् धर्मेभ्यो ऽतः संवृण्तोति //
SK
कथं संवृणोति / न निमित्तग्राही भवति नानुव्यञ्जनग्राही, यतो ऽधिकरणम् एव पापका अकुशला धर्माश् चित्तम् अनुस्रवन्ति / तेषां संवराय प्रतिपद्यते / रक्षतीन्द्रियम् इन्द्रियेण संवरम् आपद्यते / इत्य् एवं संवृणोति //
SK
का पुनः संवृतिः / यद् आहम् / स्मृत्यारक्षितमानसो भवति, समावस्थावचारकः / इयम् उच्यते संवृतिः //
SK
(I)-C-IIल्-५-ब्-(२) Mस्.७अ४M, Sह्.७२-७, P.३४ब्२, D.२९अ३, N.३१अ२, Cओ.३१ब्५, Cह्.४०७च्१८ पुनर् अपरः समासार्थः / यश् च संवरोपायः, यच् च संवरणीयं वस्तु, या च संवृतिः / तद् एकध्यम् अभिसंक्षिप्य ᳚इन्द्रियसंवर᳚ इत्य् उच्यते //
SK
तत्र कतमः संवरोपायः / यद् आह / आरक्षितस्मृतिर् भवति निपकस्मृतिर् इति चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यञ्जनग्राही, यावन् मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति नानुव्यञ्जनग्राही, यतो ऽधिकरणं एव पापका अकुशला धर्माश् चित्तम् अनुस्रवन्ति / तेषां (Śभ् I ११४) संवराय प्रतिपद्यते / रक्षतीन्द्रियम् इन्द्रियेण संवरम् आपद्यते / अयम् उच्यते संवरोपायः //
SK
संवरणीयं वस्तु कतमत् / चक्षू रूपं चैवं यावन् मनो धर्माश् चेदम् उच्यते संवरणीयं वस्तु //
SK
तत्र संवृतिः कतमा / यद् आह / स्मृत्यारक्षितमानसो भवति समावस्थावचारक इतीयम् उच्यते संवृतिः //
SK
(I)-C-IIल्-५-ब्-(३) Mस्.७अ६R, Sह्.७२-१, P.३४ब्८, D.२९अ७, N.३१अ६, Cओ.३२अ३, Cह्.४०७च्२८ स खल्व् अयम् इन्द्रियसंवरः समासतो द्विविधः / प्रतिसंख्यानबलसंगृहीतो भावनाबलसंगृहीतश् च //
SK
तत्र प्रतिसंख्यानबलसंगृहीतः, येन विषयेष्व् आदीनवं पश्यति नो तु तम् आदीनवं व्यपकर्षति प्रजहाति //
SK
तत्र भावनाबलसंगृहीतः, येन विषयेष्व् आदीनवं पश्यति, तं च पुनर् आदीनवं व्यापकर्षति प्रजहाति //
SK
तत्र प्रतिसंख्यानबलसंगृहीतेनेन्द्रियसंवरेन विषयालम्बनं क्लेशपर्यवस्थानं नोत्पादयति न संमुखीकरोति / न त्व् एवाश्रयसन्निविष्टम् अनुशयं प्रजहाति, समुद्घातयति //
SK
तत्र भावनाबलसंगृहीतेनेन्द्रियसंवरेण विषयालम्बनं च क्लेशपर्यवस्थानं नोत्पादयति न संमुखीकरोति / सर्वदा सर्वकालम् आश्रयसन्निविष्टं चानुशयं प्रजहाति समुद्घातयति //
SK
अयं विशेषो ऽयम् अभिप्राय इदं नानाकरणं प्रतिसंख्यानबलसंगृहीतस्य भावनाबलसंगृहीतस्य चेन्द्रियसंवरस्य //
SK
तत्र यो ऽयं प्रतिसंख्यानबलसंगृहीत इन्द्रियसंवरो ऽयं संभारमार्गसंगृहीतः, यः पुनर् भावनाबलसंगृहीत इन्द्रियसंवरः स वैराग्यभूमिपतितो वेदितव्यः //
SK
(I)-C-IIल्-६ Mस्.७ब्२R, Sह्.७३-१९, W.*१४०-१९, P.३५अ७, D.२९ब्५, N.३१ब्५, Cओ.३२ब्२, Cह्.४०८अ१४ भोजने मात्रज्ञता कतमा / यथापीहैकत्यः प्रतिसंख्यायाहारम् आहरति / न द्रवार्थं, न मदार्थम्, न मण्डनार्थं, न विभूसणार्थम् इति विस्तरेण पूर्ववत् //
SK
(I)-C-IIल्-६-अ-(१)-इ Mस्.७ब्३L, Sह्.७४-३, W.*१४०-२२, P.३५ब्२, D.२९ब्७, N.३१ब्७, Cओ.३२ब्५, Cह्.४०८अ१७ कथं प्रतिसंख्यायाहारम् आहरति / प्रतिसंख्योच्यते प्रज्ञा, यया प्रज्ञया कवडंकारस्याहारस्यादीनवं समनुपश्यत्य् आदीनवदर्शनेन च विदूषयित्वाभ्यवहरति //
SK
(I)-C-IIल्-६-अ-(१)-इ-(अ) Mस्.७ब्३R, Sह्.७५-२, W.*१४०-२५, P.३५ब्४, D.३०अ१, N.३२अ१, Cओ.३२ब्६, Cह्.४०८अ१९ तत् पुनर् आदीनवदर्शनं कतमत् / यदुत यस्यैव कवडंकारस्य परिभोगान्वयो वा विपरिणामान्वयो वा पर्येषणान्वयो वा //
SK
(I)-C-IIल्-६-अ-(१)-इ-(अ)- Mस्.७ब्४L, Sह्.७५-५, W/१४०-२७, P.३५ब्५, D.३०अ२, N.३२अ१, Cओ.३२ब्६, Cह्.४०८अ२१ परिभोगान्वय आदीनवः कतमः / यथापीहैकत्यो यस्मिन् समय आहारम् आहरति वर्णसंपन्नम् अपि गन्धसंपन्नम् अपि रससंपन्नम् अपि सुप्रणीतम् अपि तस्य कवडंकार आहारः समनन्तरक्षिप्त एवास्ये यदा दन्तयन्त्रविचूर्णितश् च लालाविसरविक्लिन्नश् च भवति लालापरिवेष्टितश् च भवति / स तस्मिन् समये कण्ठनालीप्रलुठितश् च भवति / स यासौ पूर्विका पुराणा मनापता तां सर्वेण सर्वं विजहाति / परां च विकृतिम् आपद्यते / यस्यां च विकृतौ वर्तमानश् छर्दितकोपमः ख्याति / तदवस्थं चैनं सचेद् अयं भोक्ता पुरुषपुद्गलः सचेद् आकारतो (Śभ् I ११८) मनसिकुर्यात् समनुस्मरेत्, नास्य सर्वेण सर्वम् अन्यत्रापि तावद् अविपरिणते, प्रणीते भोजने भोगकामता संतिष्ठेत, कः पुनर् वादस् तत्र तदवस्थ इति / य एभिर् आकारैर् अनेकविधैर् अनयानुपूर्व्या भोजनपरिभोगम् अधिपतिं कृत्वा यासौ शुभा वर्णनिभा अन्तर्धीयते, आदीनवश् च प्रादुर्भवत्य् अशुचिसंगृहीतः / अयम् उच्यते परिभोगान्वय आदीनवो यदुताहारे //
SK
(I)-C-IIल्-६-अ-(१)-इ-(अ)- Mस्.७ब्६R/४६अ५M,Sह्.७६-१०,W.*१४१-११, P.३६अ४,D.३०अ७, N.३२अ७,Cओ.३३अ५, Cह्.४०८ब्३ तत्र कतमो विपरिणामान्वय आदीनव आहारे / तस्य तम् आहारम् आहृतवतस् भुक्तवतो यदा विपरिणमति रात्र्या मध्यमे वा यामे, पश्चिमे वा यामे, तदा स रुधिरमांसस्नाय्वस्थित्वगादीन्य् अनेकविधानि बहुनानाप्रकाराण्य् अस्मिन् काये ऽशुचिद्रव्याणि विवर्धयति संजनयति / [दे दग् लस् ल ल नि ब्शङ् ब दङ् / ग्चि बऽइ द्ङोस् पोर् योङ्स् सु ऽजु बर् ऽग्युर् źइङ् /] परिणतश् चाधोभागी भवति / यद् अस्य दिवसे शोचयितव्यं च भवति तेन च यः स्पृष्टो भवति हस्तो वा पादो वा, अन्यतमान्यतमं वाङ्गप्रत्यङ्गम्, तद् विजुगुप्सनीयं भवत्य् आत्मनः परेषां च / तन्निदानाश् चास्योत्पद्यन्ते काये बहवः कायिका आबाधाः / तद्यथा गण्डः, पिटकः, दद्रू, विचर्चिका, कण्डूः, कुष्ठः, किटिभः, किलासः, ज्वरः, कासः, शोथः, शोषः, अपस्मारः, आटक्करं, पाण्डुरोगः, रुधिरं, पित्तभगन्दर इतीमे चान्ये ऽप्य् एवंभागीयाः काये कायिका आबाधा उत्पद्यन्ते / भुक्तं (Śभ् I १२०) वास्य विपद्यते / येनास्य काये विषूचिका संतिष्ठते / अयम् उच्यते विपरिणामान्वय आदीनवो यदुताहारे //
SK
(I)-C-IIल्-६-अ-(१)-इ-(अ)-(३) Mस्.४६अ७M, Sह्.७८-२, W.*१४१-२५, P.३६ब्४, D.३०ब्५, N.३२ब्५, Cओ.३३ब्४, Cह्.४०८ब्१४ तत्र कतमः पर्येषणान्वय आदीनव आहारे / पर्येषणान्वय आदीनवो ऽनेकविधः समुदाननाकृतः, आरक्षाकृतः, स्नेहपरिभ्रंशकृतः / अतृप्तिकृतः, अस्वातन्त्र्यकृतः, दुश्चरितकृतश् च //
SK
(I)-C-IIल्-६-अ-(१)-इ-(अ)-(D-(१)Mस्.४६ब्१L, Sह्.७८-८, W.*१४१-२७, P.३६ब्५, D.३०ब्७, N.३२ब्७, Cओ.३३ब्५, Cह्.४०८ब्१८ तत्र कतम आदीनव आहारे समुदाननाकृतः / यथापीहैकत्य आहारहेतोर् आहारनिदानं शीते शीतेन हन्यमानः, उष्णे उष्णेन हन्यमानः, उत्सहते, घटते, व्यायच्छते / कृषिणा वा, गोरक्ष्येण वा, वाणिज्येन वा, लिपिगणनान्यसनसंख्यामुद्रयानेकविधेन शिल्पस्थानकर्मस्थानेनाप्रतिलब्धस्य वाहारस्य प्रतिलम्भाय, उपचयाय वा, यथाहारस्यैवम् आहारनिदानस्य तस्यैवम् उत्सहतः, घटतः, व्यायच्छतः / सचेत् ते कर्मान्ता विपद्यन्ते स तन्निदानं शोचति, क्लाम्यति, परिदेवते, उरस् ताडयति, क्रन्दति, संमोहम् आपद्यते / ᳚मोहो बत मे व्यायामो निष्फल᳚ इति / अयं समुदाननासहगत आदीनवो यदुताहारे //
SK
(I)-C-IIल्-६-अ-(१)-इ-(अ)-(३)-(२)Mस्.४६ब्२R, Sह्.७८-२०, W.*१४२-१०, P.३७अ३, D.३१अ३,N.३३अ४,Cओ.३४अ३, Cह्.४०८ब्२७ सचेत् संपद्यते स तस्यारक्षाधिकरणहेतोस् तीव्रम् औत्सुक्यम् आपद्यते / ᳚कच्चिन् मे भोगा राज्ञा वापह्रियेरंश् चौरैर् वा, अग्निना वा दह्येरन्न् उदकेन वोह्येयुः, कुनिहिता वा निधयः प्रणश्येयुः, कुप्रयुक्ता (Śभ् I १२२) वा कर्मान्ताः प्रलुज्येरन्, अप्रिया वा दायादा अधिगच्छेयुः, कुले वा कुलाङ्गार उत्पद्येत, यस् तान् भोगान् अनयेन व्यसनम् आपादयेत्᳚ / अयम् आरक्षासहगत आदीनवो यदुताहारे //
SK
(I)-C-IIल्-६-अ-(१)-इ-(अ)-(३)-(३)Mस्.४६ब्४L, Sह्.७९-५, W.*१४२-१७, P.३७अ६, D.३१अ६, N.३३अ६, Cओ.३४अ५, Cह्.४०८च्५ कतम आदीनवः स्नेहपरिभ्रंशकृतः / यथापि तद् आहारनिदानम् आहाराधिकरणहेतोर् माता पुत्रस्यावर्णं भाषते / पुत्रो मातुः, पिता पुत्रस्य, पुत्रः पितुः, भ्राता भगिन्या, भगिनी भ्रातुः, सहायकः सहायकस्य, प्रागेव जनो जनस्य, ते चान्यो ऽन्यं विगृहीता भवन्ति, विवादम् आपन्नास् तथोदारा ब्राह्मणक्षत्रियगृहपतिमहासाला आहाराधिकरणहेतोर् एवं विगृहीता विवादम् आपन्नाः, अन्यो ऽन्यं पाणिना प्रहरन्ति, लोष्टेनापि, दण्डेनापि, शस्त्रेणापि प्रहरन्ति / अयम् उच्यते स्नेहपरिभ्रंशकृत आदीनवः //
SK
(I)-C-IIल्-६-अ-(१)-इ-(अ)-(३)-(४)Mस्.४६ब्५M, Sह्.७९-१६, W.*१४२-२६, P.३७ब्२, D.३१ब्१.N.३३ब्२,Cओ.३४ब्१, Cह्.४०८च्११ तत्र कतमो ऽतृप्तिकृत आदीनवः / यथापि तद् राजानः क्षत्रिया मूर्द्धाभिषिक्ताः स्वेषु ग्राम निगमराष्ट्रराजधानीष्व् असंतुष्टा विहरन्त उभयतो व्यूहकानि संग्रामानीकानि प्रतिसरन्ति शंखैः कंप्यमानैः, पटहैर् वाद्यमानैः, इषुभिः क्षिप्यमाणैर् विविधैस् ते तत्र भ्रान्तेनाश्वेन सार्धं समागच्छन्ति भ्रान्तेन हस्तिना, रथेन, पत्तिना सार्धं समागच्छन्ति / इषुभिः शक्तिभिर् वापकृत्तगात्रा मरणं वा निगच्छन्ति मरणमात्रकम् वा दुःखम् / अयम् उच्यते ऽतृप्तिकृत आदीनव इति यो वा पुनर् अन्यो ऽप्य् एवंभागीयः //
SK
(I)-C-IIल्-६-अ-(१)-इ-(अ)-(३)-(५)Mस्.४६ब्७L, Sह्.८०-४, W.*१४२-३५, P.३७ब्६, D.३१ब्४, N.३३ब्५, Cओ.३४ब्४, Cह्.४०८च्१८ तत्र कतम ऽस्वातन्त्र्यकृत आदीनवः / यथापि तद् राज्ञः पौरुषेया आवरोधिकानि नगराण्य् अनुप्रस्कन्दतः तप्तेनापि तैलेनावसिच्यन्ते, तप्तया वसया, तप्तया गोमयलोडिकया, तप्तेन ताम्रेण, तप्तेनायसा / इषुभिः शक्तिभिश् चापकृत्तगात्रा मरणं वा निगच्छन्ति मरणमात्रकं वा दुःखम् / अयम् उच्यते ऽस्वातन्त्र्यकृत आदीनव इति यो वा पुनर् अन्यो ऽप्य् एवंभागीयः //
SK
(I)-C-IIल्-६-अ-(१)-इ-(अ)-(३)(६)Mस्.४६ब्८M, Sह्.८०-१२, W.*१४३-४, P.३८अ१, D.३१ब्६, N.३३ब्७, Cओ.३४ब्६, Cह्.४०८च्२३ तत्र कतमो दुश्चरितकृत आदीनवः / यथापि तद् एकत्येनाहारनिदानं प्रभूतं कायेन दुश्चरितं कृतं भवत्य् उपचितं, यथा कायेनैवं वाचा मनसा स च यस्मिन् समय आबाधिको भवति, दुःखितो, बाधग्लानः, तस्य तत् पूर्वकं कायदुश्चरितं वाङ्मनोदुश्चरितम्, पर्वतानां वा पर्वतकूटानां वा, सायाह्ने यच् छायावलम्बते ऽध्यवलम्बते ऽभिप्रलम्बते / तस्यैवं भवति / ᳚कृतं बत मे पापं न कृतं बत मे पुण्यं कायेन वाचा मनसा, सो ऽहं या गतिः कृतपापानां गतिं प्रेत्य गमिष्यामी᳚ति विप्रतिसारी कालं करोति कालं च कृत्वा ऽपायेषूपपद्यते यदुत नरकेषु तिर्यक्प्रेतेषु / अयम् उच्यते दुश्चरितकृत आदीनवः //
SK
(I)-C-IIल्-६-अ-(१)-इ-(Dऽ Mस्.४७अ२M, Sह्.८१-५, W.*१४३-१५, P.३८अ६, D.३२अ३, N.३४अ३, Cओ.३५अ४, Cह्.४०९अ६ तस्यैवं भवति / इत्य् अयम् आहारः पर्येष्यमाणो ऽपि सादीनवः / परिभुज्यमानो ऽपि सादीनवः / परिभुक्तो ऽपि परिणाम आदीनवः / एवम् अस्ति पुनर् अस्याहारस्य काचिद् अनुशंसमात्रा, सा पुनः कतमा / आहारस्थितिको ऽयं काय आहारं निश्रित्य तिष्ठति / नानाहरः / इयम् अप्य् आनुशंसमात्रा /
SK
(Śभ् I १२६) एवम् अस्याहारस्थितिको ऽयं काय्ः सुचिरम् अपि तिष्ठञ् च वर्षशतं वा तिष्ठति / किंचिद् वा पुनर् भूयः सम्यक् परिह्रियमाणः / अस्ति चास्यार्वाग् उपरतिः / तत्र ये कायस्थितिमात्रे प्रतिपन्नाः न ते सुप्रतिपन्नाः, ये कायस्थितिमात्रकेण संतुष्टा न च ते सुसंतुष्टा, न च पुनस् त आहारकृतं परिपूर्णम् अनवद्यं अनुशंसं प्रत्यनुभवन्ति / ये पुनर् न कायस्थितिमात्रकेण संतुष्टाः, न कायस्थितिमात्रके प्रतिपन्नाः, अपि तु ताम् एव कायस्थितिं निश्रित्य ब्रह्मचर्यं समुदागमाय प्रतिपन्नाः, ते सुप्रतिपन्नाः, त एव च पुनः परिपूर्णम् अनवद्यम् अनुशंसं प्रत्यनुभवन्ति //
SK
(I)-C-IIल्-६-अ-(१)-इइ-(अ) Mस्.४७अ५L, Sह्.८२-३, W.*१४३-२९, P.३८ब्५, D.३२ब्१, N.३४ब्२, Cओ.३५ब्२, Cह्.४०९अ१६ ᳚तन् न मे प्रतिरूपं स्याद् यद् वा प्रत्यवरेणाहारानुशंसमात्रकेण संतुष्टो विहरेयम् / न मे प्रतिरूपं स्याद् यद् अहं बालसभागतां बालसहधार्मिकताम् अध्यापद्येयम्᳚ / एवम् आहारे सर्वाकारं परिपूर्णम् आदीनवं ज्ञात्वा स इतः प्रतिसंख्यायादीनवदर्सी, निःसरणान्वेषी चाहारनिःसरणार्थम् एव पुत्रमांसोपमम् आहारम् आहरति /
SK
तस्यैवं भवति / ᳚एवम् एते दायकदानपतयः कृच्छ्रेण भोगान् समुदानीय, महान्तं पर्येषणाकृतम् आदीनवं प्रत्यनुभवन्तः, प्रपीड्य प्रपीड्य त्वङ्मांसशोणितम् अस्माकम् अनुप्रयच्छन्ति / यदुतानुकम्पाम् उपादाय विशेषफलार्थिनस् तस्यास्माकं तथा प्रतिलब्धस्य पिण्डपातस्यायम् एवंरूपो ऽनुरूपः परिभोगः स्यात् / यद् अहं तथा (Śभ् I १२८ ) परिभूतम् आत्मानं स्थापयित्वा परिभुञ्जीय, यथा तेषां काराः कृता अत्यर्थं महाफलाः स्युर् महानुशंसा महाद्युतयो महाविस्ताराः, चन्द्रोपमश् च कुलान्य् उपसंक्रमेयं व्यवकृष्य कायं, व्यवकृष्य चित्तं ह्रीमान् अप्रगल्भः, अनात्मोत्कर्सी, अपरपन्सी / यथा स्वेन लाभेन सुचित्तः स्यां सुमनाः, एवं परस्यापि लाभेन सुचित्तः स्यां सुमनाः / एवंचित्तश् च पुनः कुलान्य् उपसंक्रमेयं, तत् कुत एतल् लभ्यं प्रव्रजितेन परकुलेषु यद् ददतु मे परे मा न ददतु / सत्कृत्य, मासत्कृत्य, प्रभूतं मा स्तोकं, प्रणीतं मा लूहं, त्वरितं मा धन्धम् / एवं चरितस्य मे कुलान्य् उपसंक्रामतः सचेत् परे न दद्युस् तेनाहं न तेषाम् अन्तिक आघातचित्ततया प्रतिघचित्ततया व्यवदीर्येयम् / न च पुनस् तन्निदानं कायस्य भेदाद् अपायोपपत्त्या विघातम् आपद्येयम् / यदुत ताम् एवाघातचित्ततां प्रतिघचित्तताम् अधिपतिं कृत्वा सचेद् असत्कृत्य न सत्कृत्य, सचेत् स्तोकं न प्रभूतम् / सचेल् लूहं न प्रणीतं, सचेद् धन्धं न त्वरितं दद्युः / तयाहं नाघातचित्ततया, प्रतिघचित्ततया च व्यवदीर्येयम्᳚ इति विस्तरेण पूर्ववत् / ᳚इमं चाहं कवडीकारम् आहारं निश्रित्य तथा तथा प्रतिपद्येयं, ताञ् च मात्रां प्रतिवेद्येयम् / येन मे जीवितेन्द्रियनिरोधश् (Śभ् I १३०) च न स्यान् न च पिण्डकेन क्लाम्येयम् / ब्रह्मचर्यानुग्रहश् च मे स्याद् एवं च मे श्रमणभावे प्रव्रजितभावे स्थितस्यायं पिण्डपातपरिभोगः प्रतिरूपश् च परिशुद्धश् चानवद्यश् च स्याद्᳚ एभिर् आकारैः स प्रतिसंख्यायाहारम् आहरति //
SK
(I)-C-IIल्-६-अ-(१)-इKब्) Mस्.४८अ१L, Sह्.८४-३, W.*१४४-२८, P.३९ब्७, D.३३अ६, N.३५अ७, Cओ.३६ब्२, Cह्.४०९ब्१६ आहारः पुनः कतमः / चत्वार आहाराः / कवडंकारः, स्पर्शः, मनःसंचेतना, विज्ञानं चास्मिंस् त्व् अर्थे कवडंकार आहारो ऽभिप्रेतः / स पुनः कतमः / तद्यथा मन्था वा, अपूपा वा, ओदनकुल्मासं वा, सर्पिः, तैलं, मधु, फणितं, मांसं, मत्स्या, वIIऊरा, लवणं, क्षीरं, दधि, नवनीतम् इतीमानि चान्यानि चैवंरूपाण्य् उपकरणानि यानि कवडानि कृत्वाभ्यवह्रियन्ते / तस्मात् कवडंकार इत्य् उच्यते / आहरतीति भुण्क्ते, प्रतिनिषेवत्य् अभ्यवहरति, खादति, भक्षयति, स्वादयति, पिबति, चूषतीति पर्यायाः //
SK
(I)-C-IIल्-६-अ-(२) Mस्.४८अ२R, Sह्.८५-५, W.M४५-७, P.४०अ३, D.३३ब्२, N. ३५ब्३, Cओ.३६ब्३, Cह्.४०९ब्२२ न द्रवार्थम् इति / यश् चैते कामोपभोगिन इत्य् अर्थम् आहारम् आहरन्ति / यद् ᳚वयम् आहारेण प्रीणितगात्राः संतर्पितगात्राः प्रत्युपस्थिते सायाह्नकाले समये, अभिक्रान्तायां रजन्याम्, मौलीबद्धिकाभिः सार्धम् अलाबुरोमशबाहुभिः कन्दुकस्तनिभिर् नारीभिः सार्धं क्रीडन्तः, रममाणाः, परिचारयन्तः, औद्धत्यं द्रवं प्राविष्करिष्याम᳚ इति / द्रव एष आर्ये धर्मविनये यदुत कामरागोपसंहिता मैथुनोपसंहिताः पापका अकुशला धर्मा वितर्काः / यैर् अयं (Śभ् I १३२) खाद्यमानो बाध्यमान उद्धतेन्द्रियो भवत्य् उन्नतेन्द्रियश् च, द्रुतमानसः, प्लुतमानसः, अस्थितमानसो ऽव्युपशान्तमानसः, ते पुनर् अत्यर्थम् आहारम् आहरन्तो द्रवार्थम् आहरन्तीत्य् उच्यते / श्रुतवांस् त्व् आर्यश्रावकः प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणं प्रजानन् परिभुङ्क्ते / न तु तथा यथा ते कामोपभोगिनो भुञ्जन्ते / तेनाह न द्रवार्थम् //
SK
(I)-C-IIल्-६-अ-(३) Mस्.४८अ५L, Sह्.८६-११, W.*१४५-२०, P.४०ब्१, D.३३ब्७, N.३६अ१, Cओ.३७अ४, Cह्.४०९च्५ न मदार्थं न मण्डनार्थं न विभूषणार्थम् इति / यथापि त एव कामोपभोगिन इत्य् अर्थम् आहारम् आहरन्ति / ᳚अद्य वयम् आहारम् आहृतवन्तो यदुत प्रभूतञ् च तृप्तितो यथाशक्त्याबलम् / स्निग्धं च, वृष्यञ् च, बृंहणीयञ् च, वर्णसंपन्नं, गन्धसंपन्नं, रससंपन्नम् एन्धीभूते / निर्गतायां रजन्यां शक्ता भविष्यामः प्रतिबला व्यायामकरणः, यदुताततिक्रियया वा, निर्घातेन, व्यायामशिलया वा, उल्लोठनेन वा, पृथिवीखातेन वा, बाहुव्यायामेन वा, पादावष्टम्भनेन वा, प्लवनेन वा लङ्घनेन वा चक्रव्यायामेन वा / तं च पुनर् व्यायामं निश्रित्य बलवन्तो भविष्यामः व्यायतगात्रा / दीर्घं चारोगाः, चिरकालं चास्माकं यौवनम् अनुवर्तकं भविष्यति, नो तु त्वरितं विरूपकरणी जरा देहम् अभिभविष्यती᳚ति / ᳚चिरतरं च जीविष्याम᳚ (Śभ् I १३४) इति / ᳚प्रभूतभक्षणे च प्रतिबला भविष्यामः / भुक्तं च सम्यक् परिणमिष्यति / दोषाणां चापचयः कृतो भविष्यति᳚/ इत्य् आरोग्यमदार्थं, यौवनमदार्थम्, जीवितमदार्थं परिभुञ्जते /
SK
तेषां पुनर् एवं भवति / ᳚कृतव्यायामा वयं स्नात्रसंविधानं करिष्यामो यदुत शुचिना तोयेन गात्राणि प्रक्षालयिष्यामः / प्रक्षालितगात्राश् च केशानि च प्रसाधयिष्यामः / विविधेन चानुलेपनेन, कायम् अनूपलिप्य विविधैर् वस्त्रैर् विविधैर् माल्यैर् विविधैर् अलंकारैः कायं भूषयिष्यामः᳚ / तत्र यत् स्नानप्रसाधनानुलेपनम् इदम् उच्यते तेषां मण्डनम् / तथा मण्डनजातानां यद् वस्त्रमाल्याभरणधारणम् इदम् उच्यते विभूषणम् इति / मण्डनार्थं विभूषणार्थं परिभुञ्जते / त एवं मदमत्ता मण्डनजातिविभूषितगात्राः / प्रत्युपस्थिते मध्याह्नसमये सायाह्नसमये वा भक्तसमये तृषिता बुभुक्षिताश् च, परेण तर्षेण, परया नन्द्या, परेणामोदेन, अनादीनवदर्शिनो निःसरणम् अप्रजानन्तो यथोपपन्नम् आहारम् आहरन्ति / यावद् एव पुनः पुनर् द्रवार्थं, मदार्थम्ं, मण्डनार्थं, विभूषणार्थं च / श्रुतवांस् त्व् आर्यश्रावकः प्रतिसंख्यानबलिक आदीनवदर्शी निःसरनं प्रजानन् परिभुङ्क्ते / न तु तथा यथा ते कामोपभोगिनः परिभुञ्जते/ ᳚नान्यत्रेमम् असंनिषेवणं प्रहातव्यम् आहारं प्रतिनिषेवमाण एव प्रहास्यामी᳚ति //
SK
(I)-C-IIल्-६-अ-(४) Mस्.४८ब्३M, Sह्.८८-१६, W.*१४६-१९, P.४१ब्१, D.३४ब्४, N.३६ब्५, Cओ.३८अ१, Cह्.४१०अ३ यावद् एवास्य कायस्य स्थितय इति भुक्त्वा नाभुक्त्वा यश् च जीवितस्य कायस्थितिर् इत्य् उच्यते / ᳚सो ऽहम् इमम् आहारम् आहृत्य जीविष्यामि, न मरिष्यामी᳚त्य् आहरति / तेनाह यावद् एवास्य कायस्य स्थितये //
SK
(I)-C-IIल्-६-अ-(५)-इ Mस्.४८ब्४L, Sह्.८९-१, W.*१४६-२३, P,४१ब्२, D.३४ब्५, N.३६ब्७, Cओ.३८अ३, Cह्.४१०अ७ कथं यापनाया आहरति / द्विविधा यात्रा, अस्ति कृच्छ्रेण यात्रा अस्त्य् अकृच्छ्रेण //
SK
(I)-C-IIल्-६-अ-(५)-इ-(अ) Mस्.४८ब्४M, Sह्.८९-२, W.*१४६-२३, P.४१ब्३, D.३४ब्६, N.३६ब्७, Cओ.३८अ३, Cह्.४१०अ९ कृच्छ्रेण यात्रा कतमा / यद्रूपम् आहारम् आहरतो जिघत्सा दौर्बल्यं वा भवति / दुःखितो वा बाढग्लानः / अधर्मेण वा पिण्डपातं पर्येषते, न धर्मेण / रक्तः परिभुङ्क्ते सक्तो गृद्धो ग्रथितो मूर्छितो ऽध्यवसितो ऽध्यवसायम् आपन्नः / गुरुको वास्य कायो भवत्य् अकर्मण्यः, अप्रहाणक्षमः, येनास्य धन्धं चित्तं समाधीयते / कृच्छ्रेण वाश्वासप्रश्वासाः प्रवर्तन्ते / स्त्यानमिद्धं वा चित्तं पर्यवनहति / इयम् उच्यते कृच्छ्रेण यात्रा //
SK
(I)-C-IIल्-६-अ-(५)-इ-(ब्) Mस्.४८ब्५M, Sह्.८९-११, W.M४६-३२, P.४१ब्७, D.३५अ२, N.३७अ३, Cओ.३८अ७, Cह्.४१०अ१६ अकृच्छ्रेण यात्रा कतमा / यथापि तद्रूपम् आहारम् आहरतो यथा जिघत्सा दौर्बल्यं वा न भवति / नाभ्यधिको भवति दुःखितो वा बाधग्लानः / धर्मेण वा पिण्डपातं पर्येषते, न वाधर्मेण / अरक्तो वा परिभुङ्क्ते ऽसक्तो ऽगृध्रो ऽग्रथितो ऽमूर्छितो ऽनध्यवसितो ऽनध्यवसायम् आपन्नः / न चास्य कायो गुरुको भवति कर्मण्यो भवति प्रहाणक्षमः / येनास्य त्वरितं चित्तं समाधीयते / अल्पकृच्छ्रेणाश्वसप्रश्वासाः प्रवर्तन्ते / स्त्यानमिद्धं चित्तं न पर्यवनहति / इयम् उच्यते ऽल्पकृच्छ्रेण यात्रा //
SK
तत्र या कृच्छ्रेण यात्रा तया जीवितस्थितिर् भवति, कायस्य सावद्या ससंक्लिष्टा / तत्र ये ऽयम् अल्पकृच्छ्रेण यात्रा तया जीवितस्थितिर् भवति / कायस्य सा च पुनर् अनवद्यासंक्लिष्टा / तत्र श्रुतवान् आर्यश्रावकः सावद्याम् संक्लिष्टां यात्रां परिवर्जयति, अनवद्याम् असंक्लिष्टां यात्रां गच्छति, प्रतिषेवते / तेनाह यापनायै //
SK
(I)-C-IIल्-६-अ-(५)-इइ Mस्.४८ब्८L, Sह्.९०-११, W.*१४७-६, P.४२अ७, D.३५अ७, N.३७ब्२, Cओ.३८ब्६, Cह्.४१०अ२९ सा पुनर् अनवद्यासंक्लिष्टा यात्रा या पूर्वम् उक्ता तां कथं कल्पयति / आह / यद्य् ᳚अयं जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाये᳚ति, ᳚पौराणां च वेदनां प्रहास्यामि नवां च नोत्पादयिष्यामि / यात्रा च मे भविष्यति / बलं च, सुखं चानवद्यता च, स्पर्शविहारता चे᳚ति / एवं प्रतिषेवमाणः अनवद्याम् असंक्लिष्टां यात्रां कल्पयति //
SK
(I)-C-IIल्-६-अ-(५)-इइ-(अ) Mस्.४९अ१M, Sह्.९१-३, W.*१४७-१२, PA२ब्१, D.३५ब्२, N.३७ब्४, Cओ.३९अ१, Cह्.४१०ब्४ कथं च पुनर् जिघत्सोपरतय आहरति / प्रत्युपस्थिते भक्तसमये, उत्पन्नायां क्षुधायां, यदा परिभुङ्क्ते तस्यैव क्षुत्पर्यवस्थानस्य जिघत्सादौर्बल्यस्य च प्रतिविगमाय ताञ् च मात्रां परिभुङ्क्ते / यथास्य भुक्तवतो ऽकाले पुनर् जिघत्सादौर्बल्यं न बाधते, यदुत सायाह्नसमये वा, अभिक्रान्तायां वा रजन्यां, श्वोभूते ऽप्रत्युपस्थिते भक्तसमये / एवं जिघत्सोपरतय आहरति //
SK
(I)-C-IIल्-६-अ-(५)-इइ-(ब्) Mस्.४९अ२M, Sह्.९१-१०, W.*१४७-१९, P.४२ब्४, D.३५ब्४, N.३७ब्६, Cओ.३९अ३, Cह्.४१०ब्१० कथं ब्रह्मचर्यानुग्रहायाहरति / तां मात्रां परिभुङ्क्ते / तद्रूपम् आहारम् आहरति / येनास्य कुशलपक्षे प्रयुक्तस्य दृष्ट एव धर्मे भुक्तसमनन्तरं तस्मिन्न् एव वा दिवसे ऽगुरुकः कायो भवति / कर्मण्यश् च भवति, प्रहाणक्षमश् च, येनास्य त्वरितत्वरितं चित्तं समाधीयते / अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्तन्ते / स्त्यानमिद्धं चित्तं न पर्यवनहति, येनायं भव्यो भवति प्रतिबलश् च क्षिप्रम् एव, अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै / एवं ब्रह्मचर्यानुग्रहायाहरति //
SK
(I)-C-IIल्-६-अ-(५)-इइ-(च्) Mस्.४९अ४M, Sह्.९१-२०, W.*१४७-२८, P.४२ब्८, D.३५ब्७, N.३८अ२, Cओ.३९अ६, Cह्.४१०ब्१७ कथं ᳚पौराणां वेदनां प्रहास्यामी᳚त्य् आहरति / यथापि तद् अतीतम् अध्वानम् उपादायामात्रया वा परिभुक्तं भवत्य् अपथ्यं वा, अपरिणते वा, येनास्य विविधः कायिक आबाधः समुत्पन्नो भवति / तद्यथा कण्डूः, (Śभ् I १४०) कुष्ठः किटिभः किलास इति विस्तरेण पूर्ववत् / तस्य चाबाधनिदान उत्पद्यन्ते शारीरिका वेदना दुःखास् तीव्राः, खराः, कटुका, अमनापाः / तस्याबाधस्योपशमाय तासां च तन्निदानानां दुःखानां वेदनानाम् उपशमाय हितं पथ्यम् अनुकूलम् आनुलोमिकं वैद्योपदिष्टेन विधिना भैषज्यं प्रतिषेवते / सांप्रेयं चाहारम् आहरति / येनास्योत्पन्नस्याबाधस्य तन्निदानानां च दुःखानां वेदनानां प्रहाणं भवति / एवं ᳚पौराणां वेदनां प्रहास्यामी᳚त्य् आहारम् आहरति //
SK
(I)-C-IIल्-६-अ-(५)-इइ-(द्) Mस्.४९अ६M, Sह्.९२-१३, W.*१४७-३८, P.४३अ४, D.३६अ३, N.३८अ५, Cओ.३९ब्३, Cह्.४१०ब्२७ कथम् ᳚नवां वेदनां नोत्पादयिष्यामी᳚त्य् आहारम् आहरति / स वर्तमानम् अध्वानम् उपादाय सुखी, अरोगः, बलवान्, नामात्रया वा परिभुङ्क्ते, अपथ्यं वा, अपरिणते वा / येनास्यानागतम् अध्वानम् उपादाय श्वो वा, उत्तरश्वो वा, विषूचिका वा काये संतिष्ठेत / अन्यतमान्यतमो वा काये कायिक आबाधः समुत्पद्येत / तद्यथा कण्डूः, कुष्ठः, किटिभः, किलास इति विस्तरेण पूर्ववत् / तन्निदाना उत्पद्येरञ् छारीरिका वेदनाः पूर्ववत् / एवं च ᳚नवां वेदनां नोत्पादयिष्यामी᳚त्य् आहरति //
SK
(I)-C-IIल्-६-अ-(५)-इइ-(ए) Mस्.४९ब्२L, Sह्.९३-१, W.*१४८-६, PA३अ७, D.३६अ५, N.३८ब्१, Cओ.३९ब्५, Cह्.४१०च्५ कथं ᳚यात्रा मे भविष्यति बलं च सुखं चानवद्यता च स्पर्शविहारता चे᳚त्य् आहरति / यत् तावद् भुक्त्वा जीवतीत्य् एवं यात्रा भवति / यत् पुनर् जिघत्सादौर्बल्यम् अपनयति एवम् अस्य बलं भवति / यत् पुनः पौराणां वेदनां प्रजहाति / नवां नोत्पादयत्य् एवम् अस्य सुखं भवति / यत् पुनर् धर्मेण पिण्डपातं पर्येष्ट्यारक्तः परिभुङ्क्ते ऽसक्त इति विस्तरेण पूर्ववद् एवम् अस्यानवद्यता भवति / यत् पुनर् (Śभ् I १४२) भुक्तवतो न गुरुकः कायो भवति, कर्मण्यश् च भवति, प्रहाणक्षमो विस्तरेण पूर्ववद् एवम् अस्य स्पर्शविहारता भवति /
SK
तेनाह प्रतिसंख्यायाहारम् आहरति / न द्रवार्थं, न मदार्थं, न मण्डनार्थम् इति विस्तरेण पूर्ववद् अयं तावद् भोजने मात्रज्ञताया विस्तरविभागः //
SK
(I)-C-IIल्-६-ब्-(१) Mस्.४९ब्४L, Sह्.९३-१४, W.M४८-१७, P,४३ब्४, D.३६ब्२, N.३८ब्५, Cओ.४०अ२, Cह्.४१०च्१५ समासार्थः पुनः कतमः / आह / यं च परिभुङ्क्ते यथा च परिभुङ्क्ते ऽयं समासार्थः / कं परिभुङ्क्ते / यदुत कवडंकारम् आहारं, मन्था वा, अपूपा वा, ओदनकुल्माषं वा विस्तरेण पूर्ववत् / कथं परिभुङ्क्ते / प्रतिसंख्याय परिभुङ्क्ते / न द्रवार्थं, न मदार्थं, न मण्डनार्थम् इति विस्तरेण पूर्ववत् //
SK
(I)-C-IIल्-६-ब्-(२) Mस्.४९ब्५L, Sह्.९३-२१, W.* १४८-२३, P.४३ब्७, D.३६ब्५, N.३८ब्७, Cओ.४०अ५, Cह्.४१०च्१९ पुनर् अपरः समासार्थः / प्रतिपक्षपरिगृहीतं च परिभुङ्क्ते कामसुखल्लिकान्तविवर्जितं चात्मक्लमथान्तविवर्जितं च ब्रह्मचर्यानुग्रहाय च /
SK
कथं प्रतिपक्षपरिगृहीतम् / यद् आह / प्रतिसंख्यायाहारम् आहरति /
SK
कथं कामसुखल्लिकान्तविवर्जितं च / यद् आह / न द्रवार्थं न मदार्थं, न मण्डनार्थं, न विभूषणार्थम् इति /
SK
कथम् आत्मक्लमथान्तविवर्जितम् / यद् आह / ᳚जिघत्सोपरतये, पौराणां च वेदनां प्रहास्यामि / नवां च नोत्पादयिष्यामि / यात्रा च मे भविष्यति / बलं च सुखं चे᳚ति /
SK
कथं ब्रह्मचर्यानुग्रहाय परिभुङ्क्ते / यद् आह / ब्रहमचर्यानुग्रहाय, ᳚अनवद्यता च स्पर्शविहारता च मे भविष्यती᳚ति //
SK
(I)-C-IIल्-६-ब्-(३)-(अ) Mस्.४९ब्६R, Sह्.९४-११, W.*१४८-३३, P.४४अ४, D.३७अ२, N.३९अ४, Cओ४०ब्२, Cह्.४१ल१ पुनर् अपरः समासार्थः / द्वयम् इदं भोजनं, चाभोजनं च / तत्राभोजनं यत् सर्वेण सर्वम् सर्वथा किंचिन् न परिभुङ्क्ते / (Śभ् I १४४) अभुञ्जानश् च म्रियते /
SK
तत्र भोजनं द्विविधम् / समभोजनं, विषमभोजनं च / तत्र समभोजनं यन् नात्यल्पं नातिप्रभूतम्, नापथ्यम्, नापरिणते न संक्लिष्टम् /
SK
तत्र विषमभोजनं यद् अत्यल्पम् अतिप्रभूतं च, अपरिणते वा, अपथ्यं वा, संक्लिष्टं वा परिभुङ्क्ते /
SK
तत्र समभोजने नात्यल्पभोजने जिघत्सादौर्बल्यम् अनुत्पन्नं नोत्पादयति, उत्पन्नं प्रजहाति /
SK
तत्र नातिप्रभूतभोजनेन समभोजनेन न गुरुकः कायो भवत्य् अकर्मण्यः, अप्रहाणक्षमो विस्तरेण पूर्ववत् /
SK
तत्र परिणतभोजनेन पथ्यभोजनेन समभोजनेन पौराणां च वेदनां प्रजहाति / नवां च नोत्पादयिष्यत्य् एवम् अस्य यात्रा भवति बलं च, सुखं च /
SK
असंक्लिष्टभोजनेन समभोजनेनानवद्यता च भवति स्पर्शविहारता च /
SK
तत्रात्यल्पभोजनं येन जीवति जिघत्सादौर्बल्यपरीतश् च जीवति / अतिप्रभूतभोजनम् / येनास्य गुरुभाराध्याक्रान्तः कायो भवति / न च कालेन भक्तं परिणमति /
SK
तत्रापरिणतभोजनेन विषूचिका काये संतिष्ठते / अन्यतमान्यतमो वा काये कायिक आबाधः समुत्पद्यते / यथापरिणतभोजनेनैवम् अपथ्यभोजनेन /
SK
तत्रायम् अपथ्यभोजने विशेषः / दोषः प्रचयं गच्छति, खरं चाबाधं स्पृशति /
SK
तत्र संक्लिष्टभोजनेनाधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुङ्क्ते, सक्तो गृद्धो ग्रथित इति विस्तरेण पूर्ववत् / इति यः समभोजनं च परिभुङ्क्ते / विषमभोजनं च परिवर्जयति / तस्माद् भोजने समकारीत्य् उच्यते / भोजने च समकारितैषा एभिर् आकारैर् आख्याता, उत्ताना, विवृता, संप्रकाशिता / यदुत प्रतिसंख्यायाहारम् आहरति / (Śभ् I १४६) न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थम् इति विस्तरेण पूर्ववत् //
SK
(I)-C-IIल्-६-ब्-(३)-(ब्) Mस्.५०अ५R, Sह्.९६-१, W.*१४९-२०, P.४५अ२, D.३७ब्५, N.४०अ१, Cओ.४१अ६, Cह्.४११अ२७ तत्र यत् तावद् आह / ᳚प्रतिसंख्यायाहारम् आहरति / न द्रवार्थं, न मदार्थं, न मण्डनार्थं न विभूषणार्थम्᳚, यावद् एव,᳚अस्य कायस्य स्थितये, यापनायै᳚, अनेन तावद् अभोजनं च प्रतिक्षिपति /
SK
यत् पुनर् आह / ᳚जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय᳚ विस्तरेण यावत् ᳚स्पर्शविहारतायै᳚, अनेन विषमभोजनं प्रतिक्षिपति /
SK
कथं च पुनर् विषमभोजनं प्रतिक्षिपति / [᳚ब्क्रेस् प ब्सल् बर् ब्य बऽइ फ्यिर् źएस् गङ् ग्सुङ्स् प देस् नि / रे źइग् zअस् ह चङ् छुङ् बऽइ zअस् रन् प म यिन्᳚ प स्पोङ् बर् ब्येद् दो] /
SK
यत् तावत् आह / ᳚ब्रह्माचर्यानुग्रहाय᳚, अनेनातिप्रभूतभोजनं प्रतिक्षिपति /
SK
यद् आह / ᳚पौराणां च वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामी᳚त्य् अनेनापरिणतभोजनताम् अपथ्य भोजनतां च प्रतिक्षिपति /
SK
यद् आह / ᳚यात्रा च मे भविष्यति, बलं᳚, अनेन नात्यल्पभोजनतां नातिप्रभूतभोजनतां च दर्शयति /
SK
यद् आह / ᳚सुखं च मे भविष्यती᳚त्य् अनेन परिणतभोजनतां पथ्यभोजनतां च दर्शयति /
SK
यद् आह / ᳚अनवद्यता च मे भविष्यति, स्पर्शविहारता चे᳚त्य् अनेनासंक्लिष्टभोजनतां दर्शयति /
SK
यो ऽसाव् अधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुङ्क्ते / सक्तो विस्तरेण पूर्ववत् / स संक्लिष्टश् च परिभुङ्क्ते, सावद्यता चास्य भवति / तस्यैव च कुशलपक्षप्रयुक्तस्य प्रतिसंलयने, योगे, मनसिकारे, उद्देशस्वाध्याये, अर्थचिन्तायां त एव पापका अकुशला वितर्काश् चित्तम् अनुस्रवन्ति / ये ऽस्य तन्निंनाम्, तत्प्रवणां, तत्प्राग्भाराम् (Śभ् I १४८) चित्तसन्ततिं प्रवर्तयन्ति / येनास्य स्पर्शविहारो न भवति /
SK
सा चेयं द्विविधा स्पर्शाविहारता / अतिप्रभूतभोजनपरिवर्जनाच् च येनास्य न गुरुकः कायो भवत्य् अकर्मण्यः, अप्रहाणक्षम इति विस्तरेण पूर्ववत् / आहारे चास्वादाकरणाद् येनास्य वितर्कसंक्षोभकृतास्पर्शविहारता न भवति /
SK
तद् एवं सति सर्वैर् एभिः पदैर् भोजने समकारिता व्याख्याता भवति / इयम् उच्यते भोजने मात्रज्ञता // विस्तरतः संक्षेपतश् च //
SK
(I)-C-IIल्-७-अ-(१)-इ Mस्.५०ब्३R, Sह्.९७-१६, P.४५ब्७, D.३८ब्१, N.४०ब्५, Cओ.४२अ३, Cह्.४११च्६ पूर्वरात्रापररात्रं जागरिकायोगस्यानुयुक्तता कतमा / तत्र कतमः पूर्वरात्रः / कतमो ऽपररात्रः / कतमो जागरिकायोगः / कतमा जागरिकायोगस्यानुयुक्तता //
SK
(I)-C-IIल्-७-अ-(१)-इइ Mस्.५०ब्४L, Sह्.९८-३, W.*७१-२८, P.४५ब्८, D.३८ब्२, N.४०ब्६, Cओ.४२अ४, Cह्.४११च्८ तत्रायं सायाह्नं पूर्वरात्रः, सायाह्नं सूर्यस्यास्तंगमनम् उपादाय, यो रात्र्याः पूर्वभागः सातिरेकं प्रहरम् / अपररात्रः कतमः / यो रात्र्या अपरभागः सातिरेकं प्रहरम् /
SK
तत्रायं जागरिकायोगः / यद् आह / दिवा चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / रात्र्याः प्रथमे यामे चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / परिशोध्य, बहिर् विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन शय्यां कल्पयति पादे पादम् आधाय, आलोकसंज्ञी स्मृतः संप्रजानन्न् उत्थानसंज्ञाम् एव मनसिकुर्वन्, स रात्र्याः पश्चिमे यामे लघु लघ्व् एव प्रतिविबुध्य, चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति /
SK
तत्रेयं जागरिकायोगस्यानुयुक्तता / यथापि तद् बुद्धस्य भगवतः श्रावको जागरिकायोगस्य श्रोता तत्र च शिक्षितुकामो भवति / तथाभूतस्यास्य ᳚यज् जागरिकायोगम् आरभ्य बुद्धानुज्ञातं जागरिकायोगं संपादयिष्यामी᳚ति यश् छन्दो वीर्यो व्यायामो निष्क्रमः पराक्रमः स्थान आरम्भ उत्साह उत्सूधिर् अप्रतिवाणिश् चेतसः (Śभ् I १५२) संग्रहः सातत्यम् //
SK
(I)-C-IIल्-७-अ-(२)-इ-(अ)-(द्) Mस्.५०ब्७M, Sह्.९९-९, W.*७१-३७, P.४६अ८, D.३९अ२, N.४१अ५, Cओ.४२ब्३, Cह्.४११च्२२ तत्र कथं दिवा चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / ᳚दिवा᳚ उच्यते सूर्यस्याभ्युद्गमनसमयम् उपादाय यावद् अस्तंगमनसमयात् / ᳚चङ्क्रम᳚ उच्यत आयते विपुलमापिते पृथिवीप्रदेशे गमनप्रत्यागमनप्रतिसंयुक्तं कायकर्म / ᳚निषद्या᳚ उच्यते यथापीहैकत्यो मञ्चे वा पीठे वा तृणसंस्तरे वा निषीदति, पर्यङ्कम् आभुज्य, ऋजुं कायं प्रणिधायाभिमुखीं स्मृतिम् उपस्थाप्य / आवरणान्य् उच्यन्ते पञ्च निवरणानि / आवरणीया धर्मा ये निवरणस्थानीया धर्मा निवरणाहारकाः / ते पुनः कतमे / कामच्छन्दः, व्यापादः, स्त्यानमिद्धम्, औद्धत्यकौकृत्यम्, विचिकित्सा, शुभता प्रतिघनिमित्तम् अन्धकारो ज्ञातिजनपदामरवितर्कः पौराणस्य च हसितक्रीडितरमितपरिवारितस्यानुस्मृतिः, त्रयश् चाध्वानः, त्र्यध्वगता चायोनिशोधर्मचिन्ता //
SK
(I)-C-IIल्-७-अ-(२)-इ-(द्)-(१) Mस्.५१अ२R, Sह्.१००-७, P.४६ब्६, D.३९अ६, N.४१ब्३, Cओ.४३अ१, Cह्.४१२अ५ एभ्यः कथं चङ्क्रमेण चित्तं परिशोधयति / कतिभ्यश् च परिशोधयति / स्त्यानमिद्धात् स्त्यानमिद्धाहारकाच् चावरणात् परिशोधयति / आलोकनिमित्तम् अनेन साधु च सुष्ठु च सुगृहीतं भवति सुमनसिकृतम् सुजुष्टं सुप्रतिविद्धम् / स आलोकसहगतेन सुप्रभाससहगतेन चित्तेन छन्ने वा, अभ्यवकाशे वा, चङ्क्रमे चङ्क्रम्यमाणः अन्यतमान्यतमेन प्रसदनीयेनालम्बनेन चित्तं संदर्शयति समुत्तेजयति संप्रहर्षयति / (Śभ् I १५४) यदुत बुद्धानुस्मृत्या व, धर्मसंघशीलत्यागदेवतानुस्मृत्या वा / कये वा पुनर् अनेन स्त्यानमिद्धादीनवप्रतिसंयुक्ता धर्माः श्रुता भवन्त्य् उद्गृहीता धृताः / तद्यथा सूत्रं गेयं व्याकरणं गाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्र्नोपदेशाः / येषु स्त्यानमिद्धम् अनेकपर्यायेण विगर्हितं विजुगुप्सितम् / स्त्यानमिद्धप्रहाणं पुनः स्तुतं वर्णितं प्रशस्तम् / तान् विस्तरेण स्वरेण स्वाध्यायं करोति / परेषां वा प्रकाशयति, अर्थं वा चिन्तयति तुलयत्य् उपपरीक्सते, दिशो वा व्यवलोकयति, चन्द्रनक्षत्रग्रहतारासु वा दृष्टिं चारयति, उदकेन मुखम् आक्लेदयति / एवम् अस्य तत् स्त्यानमिद्धपर्यवस्थानम् अनुत्पन्नं च नोत्पद्यते, उतपन्नं च प्रतिविगच्छति / एवम् अनेन तस्माद् आवरणीयाद् धर्माच् चित्तं परिशोधितं भवति //
SK
(I)-C-IIल्-७-अ-(२)-इ-(द्)-(१)-(२) Mस्.५१अ६M, Sह्.१०१-७, P.४७अ७, D.३९ब्७, N,४२अ३, Cओ,४३ब्२, Cह्.४१२अ२३ तत्र निषद्यया कतमेभ्य आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / कथं च पुनः परिशोधयति / आह / चतुर्भ्य आवरणीयेभ्यो धर्मेभ्यः परिशोधयति, कामच्छन्दाद् व्यापादाद् औद्धत्यकौकृत्याद् विचिकित्सायास् तदाहारकेभ्यश् च धर्मेभ्यः //
SK
(I)-C-IIल्-७-अ-(२)-इ-(द्)-(१)-(२)-इ Mस्.५१ब्१L, Sह्.१०१-१०, P.४७ब्१, D,४०अ१, N.४२अ४, Cओ.४३ब्३, Cह्.४१२अ२६ स उत्पन्ने वा कामच्छन्दपर्यवस्थाने प्रतिविनोदनायानुत्पन्ने वा दूरीकरणाय, निषद्य पर्यङ्कम् आभुज्य, ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य, विनीलकं वा विपूयकं वा विपडुमकं वा व्याध्मातकं विखादितकं वा विलोहितकं वास्थिं वा शंकलिकां वान्यतमान्यतमं भद्रकं समाधिनिमित्तं मनसिकरोति / ये वा पुनर् अनेन धर्माः कामरागप्रहाणम् एवारभ्य कामच्छन्दप्रहाणायोद्गृहीता भवन्ति, धृता वचसा परिजिता मनसान्वीक्षिता दृष्ट्या सुप्रतिविद्धाः / तद्यथा सूत्रं गेयं व्याकरणम् इति विस्तरेण पूर्ववत् / ये ऽनेकपर्यायेण कामरागं कामच्छन्दं कामालयं कामनियन्तिं कामाध्यवसानं विगर्हन्ति विवर्णयन्ति विजुगुप्सयन्ति / कामरागप्रहाणम् (Śभ् I १५६) अनेकपर्यायेण स्तुवन्ति वर्णयन्ति प्रशंसन्ति / तान् धर्मांस् तथा निषण्णो योनिशो मनसिकरोति / एवम् अस्यानुत्पन्नं च कामच्छन्दपर्यवस्थानं नोत्पद्यते, उत्पन्नं च कामच्छन्दपर्यवस्थानं प्रतिविगच्छति //
SK
(I)-C-IIल्-७-अ-(२)-इ-(द्)-(१)-(२)-इइ Mस्.५१ब्३L, Sह्.१०२-८, P.४७ब्८, D.४०अ७, N.४२ब्३, Cओ.४४अ२, Cह्.४१२ब्११ तत्र व्यापादे ऽयं विशेषः / तथा निषण्णो मैत्रीसहगतेन चित्तेनावैरेणासपथेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेन सुभावितेनैकां दिशाम् अधिमुच्य स्फरित्वोपसंपद्य विहरति / तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम् इत्य् ऊर्ध्वम् अधस् तिर्यक् सर्वम् अनन्तं लोकम् स्फरित्वोपसंपद्य विहरति / शेषं पूर्ववत् //
SK
(I)-C-IIल्-७-अ-(२)-इ-(द्)-(१)-(२)-इइइ Mस्.५१ब्४R, Sह्.१०२-१५, P.४८अ३, D.४०ब्२, N.४२ब्५, Cओ.४४अ४, Cह्.४१२ब्१६ तत्रौद्धत्यकौकृत्ये विशेषः / तद्यथा निषण्णो ऽध्यात्मम् एव चित्तं स्थापयति संस्थापयति संनिष्पादयत्य् एकोतीकरोति समाधत्ते / शेषं पूर्ववत् //
SK
(I)-C-IIल्-७-अ-(२)-इ-(द्)-(१)-(२)-इव् Mस्.५१ब्५M,W.*७२-८,Sह्.१०२-१९,P.४८अ४,DAOब्३, N.४२ब्५,Cओ.४४अ५, Cह्.४१२ब्१८ तत्र विचिकित्सानिवरणे विशेषः / तथा सन् निषण्णो ऽतीतम् अध्वानं नायोनिशो मनसिकरोति, अनागतं प्रत्युत्पन्नम् अध्वानं नायोनिशो मनसिकरोति / ᳚किं न्व् अहम् अभूवम् अतीते ऽध्वनि, आहोस्विन् नाहम् अतीते ऽध्वनि, को न्व् अहम् अभूवं, कथं न्व् अहम् अभूवम् अतीते ऽध्वनि / को न्व् अहं भविष्याम्य् अनागते ऽध्वनि, कथं भविष्याम्य् अनागते ऽध्वनि / के सन्तः के भविष्यामः / अयं सत्त्वः कुत आगतः, इतश् च्युतः कुत्रगामी भविष्यति᳚ स इत्येवंरूपम् अयोनिशोमनसिकारं वर्जयित्वा योनिशो मनसिकरोति, अतीतम् अप्य् अध्वानम् अनागतं प्रत्युत्पन्नम् अप्य् अध्वानम् /
SK
स धर्ममात्रं पश्यति वस्तुमात्रं सच् च सतो ऽसच् चासतो हेतुमात्रं (Śभ् I १५८) फलमात्रं, नासद्भूतं समारोपं करोति, न सद्वस्तु नाशयत्य् अपवदति, भूतं भूततो जानाति / यदुतानित्यतो वा दुःखतो वा शून्यतो वानात्मतो वानित्येषु दुःखेषु शून्येष्व् अनात्मसु धर्मेषु / स एवं योनिशो मनसिकुर्वन्, बुद्धे ऽपि निष्काङ्क्षो भवति निर्विचिकित्सः, धर्मे संघे दुःखे समुदये निरोधे मार्गे हेतौ हेतुसमुत्पन्नेषु धर्मेषु निष्काङ्क्षो भवति निर्विचिकित्सः / शेषं पूर्ववत् //
SK
(I)-C-IIल्-७-अ-(२)-इ-(द्)-(१)-(२)-इऽ,इइऽ,इइइऽ,इव्ऽ Mस्.५२अ२M, Sह्.१०३-१८, PA८ब्४, D.४१अ२, N.४३अ३, Cओ.४४ब्४, Cह्.४१२च्४ तत्र व्यापादे वक्तव्यम् / यो ऽनेन प्रतिघं प्रतिघनिमित्तं चारभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरः /
SK
औद्धत्यकौकृत्ये वक्तव्यम् / अनेनौद्धत्यकौकृत्यम् आरभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरेण पूर्ववत् /
SK
विचिकित्सायां वक्तव्यम् / ये ऽनेन विचिकित्साम् आरभ्य, तस्याश् च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरेण पूर्ववत् /
SK
एवम् अनेन कामच्छन्दनिवरणाद् व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानिवरणाच् चित्तं विशोधितं भवति, तदाहारकेभ्यश् च धर्मेभ्य आवरणीयेभ्यः / तेनाह / चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति /
SK
सा खल्व् एषा धर्माधिपतेयावरणीयेभ्यो धर्मेभ्यश् चित्तस्य परिशोधनाख्यात //
SK
(I)-C-IIल्-७-अ-(२)-इ-(द्)-(२) Mस्.५२अ४R, Sह्.१०४-११, P.४९अ१, D.४१अ६, N.४३ब्२, Cओ.४५अ१, Cह्.४१२च्१३ अस्ति पुनर् आत्माधिपतेया लोकाधिपतेया चावरणीयेभ्यो धर्मेभ्यश् चित्तपरिशोधना /
SK
आत्माधिपतेया कतमा / यथापि तदुत्पन्ने ऽन्यतमान्यतमस्मिन् निवरणे, आत्मत एवाप्रतिरूपतां विदित्वा, उत्पन्नं निवरणं नाधिवासयते प्रजहाति विनोदयति व्यन्तीकरोति, तेन निवरणेनात्मानं लज्जायमानः, चेतस (Śभ् I १६०) उपक्लेशकरेण प्रज्ञादौर्बल्यकरेण विघातपक्ष्येण / एवम् असाव् आत्मानम् एवाधिपतिं कृत्वा, आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति /
SK
कथं लोकम् अधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश् चित्तैः परिशोधयति / इहास्य निवरणे समुत्पन्न उत्पत्तिकाले वा प्रत्युपस्थित एवं भवति, ᳚अहं चेद् अनुत्पन्नं निवरणम् उत्पादयेयं, शास्ता मे ऽपवदेद् देवता अपि विज्ञा अपि सब्रह्मचारिणो धर्मतया विगर्हेयुर्᳚ इति / स लोकम् एवाधिपतिं कृत्वा, अनुत्पन्नं च निवरणं नोत्पादयति, उत्पन्नं च प्रजहाति / एवं लोकम् अधिपतिं कृत्वा, आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति //
SK
(I)-C-IIल्-७-अ-(२)-इइ-(अ) Mस्.५२अ८M, Sह्.१०५-१२, P.४९अ८, D.४१ब्४, N.४३ब्८, Cओ.४५अ६, Cह्.४१२च्२७ शयनासनप्रतिगुप्त्यर्थं पुनर् ᳚लोकाचारश् चानुवृत्तो भविष्यती᳚ति / यावद् रात्र्याः प्रथमे यामे चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोध्य, बहिर् विहारस्य पादौ प्रक्षालयति / प्रक्षाल्य, विहारं प्रविश्य शय्यां कल्पयति / यावद् एव स्वप्नौपचयिकानां महाभूतानाम् उपचयाय / उपचितो ऽयं कायः कर्मण्यतरश् च भविष्यति, अनुकूलतरश् च सातत्येन निपके कुशलपक्षप्रयोगे //
SK
(I)-C-IIल्-७-अ-(२)-इइ-(ब्) Mस्.५२ब्१R, Sह्.१०५-२४, W.*७२-३०, P.४९ब्४, D.४१ब्७, N.४४अ३, Cओ.४५ब्२, Cह्.४१३अ३ केन कारणेन दक्सिणेन पार्श्वेन शय्यां कल्पयति / सिंहस्य प्राणिनः साधर्म्येण / किं पुनर् अत्र साधर्म्यम् / सिंहः प्राणी सर्वेषां तिर्यग्योनिगतानां प्राणिनां विक्रान्त उत्साही दृढपराक्रमः / भिक्षुर् अपि जागरिकायोगानुयुक्त आरब्धवीर्यो विहरति विक्रान्त उत्साही दृढपराक्रमः / अतस् तस्य सिंहोपमैव शय्या प्रतिरूपा भवति, नो तु प्रेतशय्या देवशय्या, न कामभोगिशय्या / तथा हि ते सर्व एव कुसीदा हीनवीर्या मन्दबलपराक्रमाः / (Śभ् I १६२) अपि तु धर्मतैषा यद् दक्षिणेन पार्श्वेन सिंहोपमां शय्यां कल्पयतो न तथा गात्राणां विक्षेपो भवति, न च शयानस्य स्मृतिसंप्रमोषो भवति, न च गाढं स्वपिति, पापकांश् च स्वप्नान् न पश्यति / अन्यथा तु शय्यां कल्पयतो विपर्ययेण सर्वे दोषा वेदितव्याः / तेनाह / पादे पादम् आधाय दक्षिणेन पार्श्वेन शय्यां कल्पयति //
SK
(I)-C-IIल्-७-अ-(२)-इइ-(च्) Mस्.५२ब्४L, Sह्.१०६-१६, P.५०अ२, D.४२अ४, N.४४ब्१, Cओ,४५ब्७, Cह्.४१३अ१३ कथम् आलोकसंज्ञि शय्यां कल्पयति / आलोकनिमित्तम् अनेन सूद्गृहीतं भवति सुमनसिकृतं सुजुष्टं सुप्रतिविद्धम् / तद् एव मनसिकुर्वन् स प्रभासहगतेन चित्तेन शय्यां कल्पयति / सुप्तस्यापि चास्य येन न भवति चेतसो ऽन्धकारायितत्वम् / एवम् आलोकसंज्ञी शय्यां कल्पयति //
SK
(I)-C-IIल्-७-अ-(२)-इइ-(द्) Mस्.५२ब्५L, Sलि. १०६-२१, P.५Oअ४, D.४२अ६, N.४४ब्२, Cओ.४६अ२, Cह्.४१३अ१७ कथं स्मृतः शय्यां कल्पयति / ये ऽनेन धर्माः श्रुता भवन्ति चिन्तिता वा भाविता वा कुशला अर्थोपसंहिताः, तदन्वयास्य स्मृतिर् यावत् स्वपनकाले ऽनुवर्तिनी भवति / ययास्य सुप्तस्यापि त एव धर्मा जाग्रतो त्वाभिलपन्ति, तेष्व् एव च धर्मेषु तच्चित्तं बहुलम् अनुविचरति / इति यथास्मृत्या यथास्मृतः कुशलचित्तः शय्यां कल्पयति, अव्याकृतचित्तो वा / एवं स्मृतः शय्यां कल्पयति //
SK
(I)-C-IIल्-७-अ-(२)-इइ-(ए) Mस्.५२ब्६L, Sह्.१०७-७, P.५०अ७, D.४२ब्१, N,४४ब्४, Cओ.४६अ४, Cह्.४१३अ२३ कथं संप्रजानन् शय्यां कल्पयति / सुप्तस्यास्य तथा स्मृतस्य यस्मिन् समये ऽन्यतमान्यतमेनोपक्लेशेन चेतसः संक्लेशो भवति / स (Śभ् I १६४) उत्पद्यमानम् एव तं संक्लेशं सम्यग् एव प्रजानाति, नाधिवासयति, प्रजहाति, प्रतिविध्यति, प्रत्युदावर्तयति मानसम् / तेनोच्यते संप्रजानन् शय्यां कल्पयति //
SK
(I)-C-IIल्-७-अ-(२)-इइ-(f) Mस्.५२ब्७L, Sह्.१०७-१४, P.५०ब्१, D.४२ब्२, N.४४ब्६, Cओ.४६अ६, Cह्,४१३अ२७ कथं उत्थानसंज्ञाम् एव मनसिकुर्वन् शय्यां कल्पयति / स वीर्यसंप्रगृहीतं चित्तं कृत्वा शय्यां कल्पयति / सुप्रतिबुद्धिकया सुह्रस्वमिद्धः / तद्यथारण्यको मृगः, नो तु सर्वेण सर्वं मिद्धावक्रमणनिम्नं चित्तं करोति, न तत्प्रवणं, न तत्प्राग्भारम् /
SK
अपि चास्यैवं भवति / ᳚अहो बताहं बुद्धानुज्ञातां जागरिकां सर्वेण सर्वं सर्वथा संपादयेयम्᳚ इति / तस्याश् च संपादनार्थं भ्र्शं घनरसेन प्रयोगेण छन्दगतो विहरत्य् अभियुक्तश् च /
SK
अपि चास्यैवं भवति / ᳚यथाहम् अद्य जागरिकार्थम् आरब्धवीर्यो व्यहार्षं, कुशलानां च धर्माणां भावनायै दक्षो ऽनलस उत्थानसंपन्नः / श्वः प्रभाते, निर्गतायां च रजन्यां, भूयस्या मात्रयारब्धवीर्यो विहरिष्याम्य् उत्थानसंपन्न᳚ इति /
SK
तत्रैकयोत्थानसंज्ञया न गाढं स्वपिति / येनायं शक्नोति लघु लघ्व् एवोत्थानकाल उत्थातुं, न कालातिक्रान्तं प्रतिबुध्यति / द्वितीययोत्थानसंज्ञया बुद्धानुज्ञातां सिंहशय्यां कल्पयत्य् अन्यूनाम् अनधिकाम् / तृतीययोत्थानसंज्ञया च्छन्दं न स्रंसयति / स्मृतिसंप्रमोषे सत्य् उत्तरत्रोत्तरत्र समादानाय प्रयुक्तो भवति / एवम् उत्थानसंज्ञाम् एव मनसिकुर्वन् शय्यां कल्पयति //
SK
(I)-C-IIल्-७-अ-(२)-इइइ Mस्.५३अ२M, Sह्.१०८-१२, W.*७२-४, P.५०ब्८, D.४३अ१, N.४५अ५, Cओ.४६ब्५, Cह्.४१३ब्१४ स रात्र्याः पश्चिमे यामे लघु लघ्व् एव प्रतिविबुध्य चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयतीति / रात्र्याः पश्चिमो याम उच्यते, यो ऽपररात्रः सातिरेकं प्रहरम् / स चायम् आलोकसंज्ञी स्मृतः संप्रजानन्न् उत्थानसंज्ञाम् एव मनसिकुर्वन् रात्याः मध्यमं यामं सातिरेकं प्रहरं मिद्धम् अवक्रामयित्वा, यस्मिम् समये व्युत्तिष्ठते तत्र तस्मिम् समये व्युत्तिष्ठते कर्मण्यकायो भवति, उत्थाय नाधिमात्रेण स्त्यानमिद्धपर्यवस्थानेनाभिभूतः / येन नास्योत्तिष्ठतो धन्धायितत्वं वा स्याद् मन्दायितत्वं वालस्यकौसीद्यं वा / असति वा पुनस् तस्मिन् धन्धायितत्वे मन्दायितत्व आलस्यकौसीद्ये लघु लघ्व् एवोत्थानं भवत्य् आभोगमात्रात् / चङ्क्रमनिषद्याभ्यां आवरणीयेभ्यो धर्मेभ्यश् चित्तस्य परिशुद्धिः पूर्ववद् वेदितव्या / अयं तावत् पूर्वरात्रापररात्रं जागरिकायोगस्यानुयुक्तताविस्तरविभागः //
SK
(I)-C-IIल्-७-ब्-(१) Mस्.५३अ४R, Sह्.१०९-६, P.५१अ६, D.४३अ६, N.४५ब्२, Cओ.४७अ२, Cह्.४१३ब्२४ समासार्थाः पुनः कतमे / इह जागरिकायोगम् अनुयुक्तस्य पुरुषपुद्गलस्य चत्वारि सम्यक्करणीयानि भवन्ति / कतमानि चत्वारि / यावज् जाग्रति तावत् कुशलपक्षं न रिञ्चति, सातत्येन निपके कुशलधर्मभावनायाम् / कालेन च शय्यां कल्पयति, नाकालेन / सुप्तश् चासंक्लिष्टचित्तो (Śभ् I १६८) मिद्धम् अवक्रामयति, न संक्लिष्टचित्तः / कालेन च प्रतिविबुध्यते, नोत्थानकालम् अतिवर्तते / [नम् ग्यि छ स्तोद् दङ् / नम् ग्यि छ स्मद् ल मि ञल् बर् स्ब्योर् बऽइ र्जेस् सु ब्र्त्सोन् पऽइ स्क्येस् बु गङ् zअग् गिस् यङ् दग् पर् ब्य ब नि ब्źइ पो दे दग् यिन् नो /] इतीमानि चत्वारि सम्यक्करणीयान्य् आरभ्य भगवता श्रावकाणां जागरिकायोगानुयुक्तता देशिता //
SK
(I)-C-IIल्-७-ब्-(२) Mस्.५३अ६M, Sह्.१०९-१६,W.*७३-१३, P.५१ब्३, D.४३ब्२, N.४५ब्६, Cओ.४७अ६, Cह्.४१३च्४ कथं च पुनर् देशितः / यत् तावद् आह / ᳚दिवा चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति / एवं रात्र्याः प्रथमयामं चङ्क्रमनिषद्याभ्याम् आवरणियेभ्यो धर्मेभ्यश् चित्तं परिशोधयती᳚त्य् अनेन तावत् प्रथमं सम्यक्करणीयम् आख्यातम् / यदुत यावज् जाग्रति तावत् कुशलपक्षं न रिञ्चति / उद्युक्तो सातत्येन निपके कुशलधर्मभावनायाम् /
SK
यस्मात् पुनर् आह / ᳚बहिर् विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य दक्षिणेन पार्श्वेन शय्यां कल्पयति / पादे पादम् आधाये᳚त्य् अनेन द्वितीयम् सम्यक्करणीयम् आख्यातम् / यदुत कालेन शय्यां कल्पयति, नाकालेन /
SK
यत् पुनर् आह / ᳚आलोकसंज्ञी स्मृतः संप्रजानन्न् उत्थानसंज्ञाम् एव मनसिकुर्वन् शय्यां कल्पयती᳚त्य् अनेन तृतीयं सम्यक्करणीयम् आख्यातम् / यदुतासंक्लिष्टचित्तो मिद्धम् अवक्रामयति, न संक्लिष्टचित्त इति/
SK
यत् पुनर् आह / ᳚रात्र्याः पश्चिमे यामे लघु लघ्व् एव प्रतिविबुध्य, चङ्क्रमनिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयती᳚त्य् (Śभ् I १७०) अनेन चतुर्थं सम्यक्करणीयम् आख्यातम् / यदुत कालेन प्रतिविबुध्यति, नोत्थानकालम् अतिवर्तते / इति तत्र यद् उक्तम् / ᳚आलोकसंज्ञी स्मृतः संप्रजानन् व्युत्थानसंज्ञाम् एव मनसिकुर्वन् शय्यां कल्पयती᳚त्य् / अतो द्वाभ्यां कारणाभ्याम् असंक्लिष्टचित्तो मिद्धम् अवक्रामयति, यदुत स्मृत्या, संप्रजन्येन / द्वाभ्यां पुनः कारणाभ्यां, कालेन प्रतिविबुध्यते, नो तु कालम् अतिवर्तते, यदुतालोकसंज्ञयोत्थानसंज्ञया च /
SK
कथं पुनः / स्मृत्या कुशलम् आलम्बनं परिगृह्य स्वपिति / संप्रजन्येन तस्मात् कुशलाद् आलम्बनाच् च्यवमानं संक्लिश्यमानं च चित्तं लघु लघ्व् एव सम्यक् प्रजानाति / एवम् अस्याभ्यां द्वाभ्यां कारणाभ्याम् असंक्लिष्टचित्तस्य शय्या भवति /
SK
तत्रालोकसंज्ञयोत्थानसंज्ञया च न गाढं स्वपिति, नास्य दूरानुगतम् तन्मिद्धपर्यवस्थानं भवति / इत्य् आभ्यां द्वाभ्यां कारणाभ्यां कालेन प्रतिविबुध्यते, नोत्थानकालम् अतिवर्तते /
SK
अयं जागरिकायोगानुयुक्तस्य समासार्थः / यश् च पूर्वको विस्तरविभागः, यश् चायं समासार्थः, इयम् उच्यते पूर्वरात्रापररात्रं जागरिकायोगानुयुक्तता// //
SK
(I)-C-IIल्-८-अ-(१) Mस्.५३ब्४L, Sह्.१११-११, P-५२ब्३, D.४४अ७, N.४६ब्३, Cओ.४८अ४, Cह्.४१३च्२९ संप्रजानद्विहारिता कतमा / यथापीहैकत्यो ऽभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवति / आलोकितव्यवलोकिते संमिञ्जितप्रसारिते संघाटीचीवरपात्रधारणे / अशिते पीते खादिते स्वादिते, गते स्थिते निषण्णे शयिते, जागृते, भाषिते तूष्णींभावे, निद्राक्लमप्रतिविनोदने संप्रजानद्विहारि भवति //
SK
(I)-C-IIल्-८-अ-(२)-इ Mस्.५३ब्५L, Sह्.११२-१, P.५२ब्५, D.४४ब्१, N.४६ब्५, Cओ.४८अ६, Cह्.४१४अ७ तत्र कतमो ऽभिक्रमः / प्रतिक्रमः कतमः / अभिक्रमप्रतिक्रमे संप्रजानद्विहारता कतमा /
SK
तत्राभिक्रमः / यथापीहैकत्यो ग्रामं वोपसंक्रामति, ग्रामान्तरं वा कुलं वा कुलान्तरं वा विहारं वा विहारान्तरं वा /
SK
तत्र प्रतिक्रमः / यथापीहैकत्यो ग्रामद् वा प्रतिनिवर्तते, ग्रामान्तराद् वा कुलाद् वा कुलान्तराद् वा विहाराद् वा विहारान्तराद् वा /
SK
तत्र संप्रजानद्विहारिता / अभिक्रममाणो ᳚ऽभिक्रमामी᳚ति सम्यग् एव प्रजानाति / प्रतिक्रममाणः ᳚प्रतिक्रमामी᳚ति सम्यग् एव प्रजानाति / ᳚अत्र मयाभिक्रमितव्यं, अत्र मया पुनर् नाभिक्रमितव्यम्᳚ इति सम्यग् एव प्रजानाति / ᳚अयं वा मे ऽभिक्रमणकालः, अयं नाभिक्रमणकाल᳚ इति सम्यग् एव प्रजानाति / इदम् अस्योच्यते संप्रजन्यम् /
SK
सचेत् तेन संप्रजन्येन समन्वागतः / अभिक्रममाणः प्रजानात्य् ᳚अभिक्रमामी᳚ति / यत्र चानेनाभिक्रमितव्यं भवति तत्र चाभिक्रमति / कालेन चाभिक्रमति नाकालेन / यथा चाभिक्रमितव्यं भवति तद्रूपया (Śभ् I १७४) चर्ययाचारेणाकल्पेनेर्यापथेन तथाभिक्रामति / इयम् अस्योच्यते संप्रजानद्विहारिता, यदुताभिक्रमप्रतिक्रमयोः //
SK
(|)-C-|||-८-अ-(२)-इइ Mस्.५३ब्८M, Sह्.११३-७, P.५३अ४, D.४४ब्७, N.४७अ३, Cओ.४८ब्५, Cह्.४१४अ२३ तत्र कतमद् आलोकितम् / कतमद् व्यवलोकितम् / कतमालोकितव्यवलोकितेसंप्रजानद्विहारिता /
SK
तस्यास्य पूर्वपरिकीर्तितेषु वस्तुष्व् अभिक्रमतः प्रतिक्रमतश् च / यद् अबुद्धिपूर्वकम् अप्रयत्नपूर्वकम् अच्छन्दपूर्वकम् अन्तराले चक्षुषा रूपदर्शनम् / इदम् उच्यत आलोकितम् /
SK
यत् पुनर् तेषूपसंक्रान्तप्रतिक्रान्तस्य बुद्धिपूर्वकं प्रयत्नपूर्वकं छन्दपूर्वकं चक्षुषा रूपदर्शनम् / तद्यथा राज्ञां राजमात्राणां नैगमानां जानपदानां वा ब्राह्मणानां गृहपतिनां धनिनां श्रेष्ठिनाम् सार्थवाहानाम्, तदन्येषां बाह्यकानां लयनानां मारुतानाम् अवरकाणां प्रासादानां हर्म्यतलानाम् इति / यद् वा पुनर् अन्येषां लोकचित्राणां दर्शनम् / इदम् उच्यते व्यवलोकितम् /
SK
यत् पुनर् आलोकितं च व्यवलोकितं च स्वलक्षणतः सम्यग् एव प्रजानाति / यच् चावलोकयितव्यं यच् च व्यवलोकयितव्यं तद् अपि सम्यग् एव प्रजानाति / यदालोकयितव्यं यदा व्यवलोकयितव्यं तद् अपि सम्यग् एव प्रजानाति / यथालोकयितव्यं यथा व्यवलोकयितव्यं तद् अपि सम्यग् एव (Śभ् I १७६) प्रजानाति / इदम् अस्योच्यते संप्रजन्यम् /
SK
स तेन संप्रजन्येन समन्वागतः / सचेद् आलोकयमानो व्यवलोकयमानो जानात्य् ᳚आलोकयामि व्यवलोकयामी᳚ति / यच् चालोकयितव्यं व्यवलोकयितव्यं तद् आलोकयति व्यवलोकयति / यदालोकयितव्यं व्यवलोकयितव्यं तदालोकयति व्यवलोकयति / यथालोकयितव्यं व्यवलोकयितव्यं तथालोकयति व्यवलोकयति / इयम् अस्योच्यते संप्रजानद्विहारिता यदुतालोकितव्यवलोकिते //
SK
(I)-C-IIल्-८-अ-(२)-इइइ Mस्.५४अ४M, Sह्.११४-११, P.५३ब्६, DA५अ७, N.४७ब्४, Cओ.४९अ६, Cह्.४१४ब्११ तत्र कतमत् संमिञ्जितम्, कतमत् प्रसारितं, कतमा संमिञ्जितप्रसारिते संप्रजानद्विहारिता / स तथालोकयमानो व्यवलोकयमानश् च, अभिक्रमपूर्वकं प्रतिक्रमपूर्वकं च, यत् पादौ वा संमिञ्जयति प्रसारयति, बाहू वा संम्जयति प्रसारयति, हस्तौ वा संमिञ्जयति प्रसारयति, अन्यतमान्यतमं वाङ्गप्रत्यङ्गं संमिञ्जयति प्रसारयति / इदम् उच्यते संमिञ्जितप्रसारितम् /
SK
स चेत् संमिञ्जितप्रसारितं स्वलक्षणतः सम्यग् एव प्रजानाति / संमिञ्जयितव्यं प्रसारयितव्यं च सम्यग् एव प्रजानाति / यदा च संमिञ्जयितव्यं यदा प्रसारयितव्यं तद् अपि सम्यग् एव प्रजानाति / यथा च संमिञ्जयितव्यं यथा प्रसारयितव्यं तद् अपि सम्यग् एव प्रजानाति / इदम् अस्योच्यते संप्रजन्यम् / स तेन संप्रजन्येन समन्वागतः / स चेत् संमिञ्जयमानः प्रसारयमानो जानाति, ᳚संमिञ्जयामि प्रसारयामी᳚ति / यच् च संमिञ्जयितव्यं प्रसारयितव्यं संमिञ्जयति प्रसारयति / यदा च संमिञ्जयितव्यं प्रसारयितव्यं तदा संमिञ्जयति प्रसारयति / यथा (Śभ् I १७८) च संमिञ्जयितव्यं प्रसारयितव्यं तथा संमिञ्जयति प्रसारयति / इयम् अस्योच्यते संप्रजानद्विहारिता यदुत संमिञ्जितप्रसारिते //
SK
(I)-C-IIल्-८-अ-(२)-इव् Mस्.५४अ७M, Sलि.११५-११, P.५४अ७, D.४५ब्६, N.४८अ३, Cओ.४९ब्५, Cह्.४१४ब्२२ तत्र कतमत् संघाटीधारणं, कतमच् चीवरधारणं, कतमत् पात्रधारणं, कतमा संघाटीचीवरपात्रधारणे संप्रजानद्विहारिता /
SK
यत् तावद् अस्य ज्येष्टं चीवरं षष्टिखण्डं वा नवतिखण्डं वा, द्विगुणसीवितं वैकगुणसीवितं वा / इयम् उच्यते संघाटी / तस्य प्रावरणं परिभोगः सम्यग् एव परिहरणं धारणम् इत्य् उच्यते /
SK
यत् पुनर् अस्य मध्यं वा कनीयो वाधिष्ठानिकं वा चीवरम् अतिरेकचीवरं वा विकल्पनार्हं विकल्पितं वा / तच् चीवरम् इत्य् उच्यते / तस्य प्रावरणं परिभोगः सम्यग् एव परिहरणं धारणम् इत्य् उच्यते /
SK
यत् पुनर् अस्याधिष्टानिकम् आयसं वा मृन्मयं वा भैक्षभाजनम् / इदम् उच्यते पात्रम् / तस्य परिभोगः सम्यग् एव परिहरणं धारणम् इत्य् उच्यते /
SK
सचेत् पुनर् अयं तां संघाटीं चीवरं पात्रं धारणं वा स्वलक्षणतः सम्यग् एव प्रजानाति / यच् च संघाटीचीवरपात्रधारणं कल्पिकम् अकल्पिकं वा तद् अपि सम्यग् एव प्रजानाति / यदा च संघाटीचीवरपात्रधारणं धारयितव्यं तद् अपि सम्यग् एव प्रजानाति / यथा च धारयितव्यं तद् अपि सम्यग् एव प्रजानाति / इदम् अस्योच्यते संप्रजन्यम् /
SK
स तेन संप्रजन्येन समन्वागतः सचेत् संघाटीं चीवरं पात्रं धारयमाणो जानाति ᳚धारयामी᳚ति / यच् च धारयितव्यं तद् धारयति / यदा (Śभ् I १८०) च धारयितव्यं तदा धारयति / यथा च धारयितव्यं तथा धारयति / इयम् अस्योच्यते संप्रजानद्विहारिता यदुत संघाटीचीवरपात्रधारणे //
SK
(I)-C-IIल्-८-अ-(२)-व् Mस्.४५ब्४R, Sह्.११६-१९, P.५५अ१, D,४६अ६, N.४८ब्३, Cओ.५०अ५, Cह्.४१४च्११ तत्र कतमद् अशितं, कतमत् पीतं, कतमत् खादितं, कतमत् स्वादितं, कतमाशितपीतखादितस्वादिते संप्रजानद्विहारिता /
SK
यः कश्चित् पिण्डपातपरिभोगः सर्वं तद् अशितम् इत्य् उच्यते /
SK
तस्य पुनर् द्विधाभेदः, खादितं स्वादितं च / तत्र खादितं, मन्था वा, अपूपो वा, ओदनकुल्माषं वेति, यद् वा पुनर् अन्यतमम् आभिसंस्कारिकम् अन्नं विकृतं भोज्यं प्राणसंधारणम् / इदम् उच्यते खादितम्, अशितम् अपीदम् /
SK
स्वादितं कतमत् / तद्यथा क्षीरं दधि नवनीतम् सर्पिस् तैलं मधु फाणितं मांसं मत्स्या वIIऊरा लवणं वनफलं वा भक्षप्रकारं वा / इदम् उच्यते स्वादितम्, अशितम् अपीदम्/
SK
यत् पुनः पीयते खण्डरसं वा, शर्करारसं वा, काञ्चिकं वा, दधिमण्डं वा, शुक्तं वा, तक्रं वा, अन्ततः पानीयम् अपि / इदम् उच्यते पीतम् /
SK
अशितपीतखादितस्वादितं स्वलक्षणतः सम्यग् एव प्रजानाति / यच् चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तद् अपि सम्यग् एव प्रजानाति / यदा चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तद् अपि सम्यग् एव प्रजानाति / यथा चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तद् अपि सम्यग् एव प्रजानाति / इदम् अस्योच्यते संप्रजन्यं /
SK
स तेन संप्रजन्येन समन्वागतो ऽश्ननः पिबमानः खादमानः स्वादयमानः स चेज् जानात्य् ᳚अश्नामि पिबामि खादामि स्वादयामी᳚ति / यच् (Śभ् I १८२) चाशितव्यं पातव्यं खादितव्यं स्वादितव्यं तद् अश्नाति यावत् स्वादयति / यदा चाशितव्यं यावत् स्वादयितव्यं तदाश्नाति यावत् स्वादयति / यथा चाशितव्यं यावत् स्वादयितव्यं तथाश्नाति यावत् स्वादयति / इयम् अस्योच्यते संप्रजानद्विहारिता यदुताशितपीतखादितस्वादिते //
SK
(I)-C-IIल्-८-अ-(२)-वि Mस्.५५अ२M, Sह्.११८-७,W.*७४-१, P.५५ब्६, D.४६ब्७, N.४९अ५, Cओ.५०ब्६,Cह्.४१५अ५ तत्र कतमद् गतम्, कतमत् स्थितम्, कतमन् निषण्णम्, कतमच् छयितं, कतमज् जाग्र्तम्, कतमद् भाषितम्, कतमस् तूष्णींभावः, कतमा निद्राक्लमप्रतिविनोदना, कतमा गते स्थिते निषण्णे शयिते जाग्र्ते भाषिते तूष्णींभावे निद्राक्लमप्रतिविनोदनायां संप्रजानद्विहारिता /
SK
यथापीहैकत्यश् चङ्क्रमे वा चङ्क्रम्यते, सहधार्मिकाणां वोपसंक्रामति, अध्वानं वा प्रतिपद्यते / इदम् अस्योच्यते गतम् /
SK
यथापीहैकत्यश् चङ्क्रमे वा तिष्ठति, सहधार्मिकाणां वा पुरतस् तिष्ठत्य् आचार्याणाम् उपाध्यायानां गुरूणां गुरुस्थानीयानाम् / इदम् उच्यते स्थितम् /
SK
यथापीहैकत्यो मञ्चे वा पीठे वा तृणसंस्तरके वा संनिविशति वा संनिषीदति वा, पर्यङ्कम् आभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखीं स्मृतिम् उपस्थाप्य / इदम् उच्यते निषण्णम् / यथापीहैकत्यो बहिर् विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति, पादे पादम् आधाय, मञ्चे वा पीठे वा तृणसंस्तरके वा, अरण्ये वा वृक्षमूले वा शुन्यागारे वा / इदम् उच्यते शयितम् /
SK
यथापीहैकत्यो दिवा चङ्क्रमणिषद्याभ्याम् आवरणीयेभ्यो धर्मेभ्यश् चित्तं परिशोधयति, एवं रात्र्याः प्रथमे यामे पश्चिमे यामे / इदम् उच्यते जागृतम् /
SK
यथापीहैकत्यस् तथा जागरिकायोगानुयुक्तो ऽनुद्दिष्टांश् च धर्मान् (Śभ् I १८४) उद्दिशति पर्यवाप्नोति, तद्यथा सूत्रं गेयं व्याकरणम् इति विस्तरेण पूर्ववत् / उद्दिष्टेषु च धर्मेषु वचसा परिचयं करोति, यदुत विस्तरेण स्वाध्यायक्रियया, परेषां वा विस्तरेण संप्रकाशयति, कालेन कालम् आलपति प्रतिसंमोदयति विज्ञैः सब्रह्मचरिभिः सार्धं तदन्यैर् वा गृहस्थैर् यदुतोद्योजनपरिष्कारार्थम् / इदम् उच्यते भाषितम् /
SK
यथापीहैकत्यो यथाश्रुतानां यथा पर्यवाप्तानां धर्माणां वचसा परिजितानाम् एकाकी रहोगतो ऽर्थं चिन्तयति तुलयत्य् उपपरीक्षते / प्रतिसंलीनो वा पुनर् भवत्य् अध्यात्मम् एव चित्तं स्थापयति / संस्थापयत्य् अवस्थापयत्य् उपस्थापयति दमयति शमयति व्युपशमयत्य् एकोतीकरोति समाधत्ते विपश्यनायां वा योगं कोरोति / अयम् उच्यते तूष्णींभावः* /
SK
यथापीहैकत्यो ग्रीष्मसमये प्रत्युपस्थित उत्तमग्रीष्मपरिदाहकाले वर्तमाने, उष्णेन वा बाध्यते श्रान्तो वा भवति, क्लान्तस्योत्पद्यते ऽकाले निद्राक्लमः स्वपितुकामः / अयम् उच्यते निद्राक्लमः //
SK
(I)-C-IIल्-८-अ-(२)-विइ Mस्.५५ब्३L, Sह्.१२०-८, P.५६ब्७, D.४७ब्४, N.५०अ२, Cओ.५१ब्४, Cह्.४१५ब्७ सचेत् पुनर् अयं गतं यावन् निद्राक्लमविनोदनां तत्स्वलक्षणतः सम्यग् एव प्रजानाति / यत्र च गन्तव्यं यावन् निद्राक्लमः प्रतिविनोदयितव्यः, तद् अपि सम्यग् एव प्रजानाति / यदा च गन्तव्यं यावद् यदा निद्राक्लमः प्रतिविनोदयितव्यः, तद् अपि सम्यग् एव प्रजानाति / यथा च गन्तव्यं भवति यथा च यावन् निद्राक्लमः प्रतिविनोदयितव्यः, तद् अपि सम्यग् एव प्रजानाति / इदम् अस्योच्यते संप्रजन्यम् /
SK
स तेन संप्रजन्येन समन्वागतो गच्छन् यावन् निद्राक्लमम् (Śभ् I १८६) प्रतिविनोदयन् स चेज् जान्ति, ᳚गच्छामि यावन् निद्राक्लमं प्रतिविनोदयामी᳚ति / यत्र च गन्तव्यं भवति यत्र च यावन् निद्राक्लमः प्रतिविनोध्यितव्यो भवति, तत्र गच्छति तत्र यावन् निद्राक्लमं प्रतिविनोदयति / यदा च गन्तव्यं भवति यदा च यावन् निद्राक्लमः प्रतिविनोदयितव्यो भवति, तदा गच्छति तदा यावन् निद्राक्लमं प्रतिविनोदयति / यथा च गन्तव्यं भवति यथा यावन् निद्राक्लमः प्रतिविनोदयितव्यो भवति, तथा गच्छति तथा यावन् निद्राक्लमं प्रतिविनोदयति / इयम् अस्योच्यते संप्रजानद्विहारिता यदुत गतस्थितनिषण्णशयितजागृतभाषिततूष्णींभावनिद्राक्लमप्रतिविनोदनायाम् //
SK
(I)-C-IIल्-८-अ-(३)-इ Mस्.५५ब्५R, Sह्.१२१-३, P.५७अ६, D.४८अ२, N.५०अ७, Cओ.५२अ२, Cह्.४१५ब्२० संप्रजानद्विहारितायाः कतमानुपूर्वी, कतमा वस्तुविभावना / यथापीहैकत्यो यं यम् एव ग्रामं वा निगमं वोपनिश्रित्य विहरति /
SK
तस्यैवं भवति / ᳚मया खल्व् अयं ग्रामो वा निगमो वा पिण्डायोपसंक्रमितव्यः / पिण्डाय चरित्वा पुनर् एव विहारं प्रतिनिष्क्रमितव्यम् / सन्ति पुनर् अत्र कुलानि ग्रामे वा नगरे वा यानि मया नोपसंक्रमितव्यानि, तानि पुनः कतमानि / तद्यथा घोषंऽ पानागारं वेश्यं राजकुलं चण्डालकठिनम् / यानि वा पुनः कुलान्य् एकान्तेन प्रतिहतान्य् अप्रत्युदावर्तानि /
SK
सन्ति च पुनः कुलानि यानि मयोपसंक्रमितव्यानि / तद्यथा क्षत्रियमहासालकुलानि वा ब्राह्मणमहासलकुलानि वा गृहपतिमहासालकुलानि वा नैगमकुलानि वा जानपदकुलानि वा धनिकुलानि वा श्रेष्ठिकुलानि वा सार्थवाहकुलानि वा /
SK
यानि वा कुलानि मयोपसंक्रमितव्यानि तानि नातिसायम् उपसंक्रमितव्यानि तानि विकालम् / न च कार्यव्यग्रेषु दायकदानपतिषु, न क्रीडारतिमण्डनयोगम् अनुयुक्तेषु, न ग्राम्यधर्माय प्रवृत्तेषु, न कुपितेषु / तथा चोपसंक्रमितव्यानि यथोपसंक्रामन्न् अहं न भ्रान्तेन हस्तिना सार्धं समागच्छेयं न भ्रान्तेन रथेन पुनश् चण्डेनाश्वेन न चण्डया गवा न चण्डेन कुक्कुरेण / न गहनं न कण्टकवाटं वा मर्देयं, न श्वभ्रे पल्वले प्रपाते प्रपतेयम् / न स्यन्दनिकायां न (Śभ् I १९०) गूथकठिक्के / चन्द्रोपमश् च कुलान्य् उपसंक्रमेयं ह्रीमान् अप्रगल्भो व्यवकृष्य कायं व्यवकृष्य चित्तं न लाभकामो न सत्कारकामः / यथा स्वेन लाभेन सुचित्तः सुमनास् तथा परस्यापि लाभेन सुचित्तः सुमना अनात्मोत्कर्ष्य् अपरपंसको ऽनुकंपाचित्तो दयाचित्तः / एवं च पुनर् उपसंक्रमितव्यानि / तत् कुत एतल् लभ्यं प्रव्रजितेन परकुलेषु यद् ददतु मे परे मा न ददतु, यावत् त्वरितं मा धन्धम् इति विस्तरेण / उपसंक्रम्य च मे प्रतिग्रहे मात्रा करणीया / न च लाभहेतोः कुहना करणीया लपना नैमित्तिकता नैष्पेषिकता लाभेन लाभनिश्चिकीर्षता करणीया / स च लाभो ऽरक्तेन परिभोक्तव्यः, असक्तेनागृद्धेनाग्रथितेनामूधितेनानध्यवसितेनाध्यवसायम् अनापन्नेन᳚ //
SK
(I)-C-IIल्-८-अ-(३)-इइ Mस्. ५६अ६M, Sह्.१२२-२०, W.*७४,१७*;२०**, P.५८अ५, D.४८ब्७, N.५१अ५, Cओ.५३अ१, Cह्.४१५च्२० यानि च रूपाणि तत्रोपसंक्रमतोपसंक्रान्तेन वा द्रष्टव्यानि भवन्ति न तान्य् एकत्यानि द्रष्टव्यानि तानि चैकत्यानि द्रष्टव्यानि / तत्र यानि न द्रष्टव्यानि तेषूत्क्षिप्तचक्षुषा भवितव्यं सुसंवृतेन्द्रियेण / यानि पुनर् द्रष्टव्यानि तेषु सूपस्थितां स्मृतिम् उपस्थाप्य / (Śभ् I १९२) कथंरूपाणि पुना रूपाणि नावलोकयितव्यानि / तद्यथा नटो नर्तको हासको लासक इति / यद् वा पुनर् अन्यच् चारणजातं नृत्ते वा गीते वा वादिते वा प्रवृत्तम् / तथा मातृग्रामो विशेषेण पुनः शिशुर् उदारवर्णो रञ्जनीय इति / यानि च पुना रूपाणि दृष्टानि ब्रह्मचर्योपघाताय ब्रह्मचर्यान्तरायाय, पापकानां चाकुशलानां वितर्काणां समुदाचाराय संवर्तेरन् / तद्रूपाणि रूपाणि नावलोकयितव्यानि, न व्यवलोकयितव्यानि /
SK
᳚कथंरूपाणि पुना रूपाणि द्रष्टव्यानि᳚ / तद्यथा जीर्णं वा वृद्धं वा महIIअकं वा खुरुखुरुप्रश्वासकायं पुरतःप्राग्भारकायं दण्डम् अवष्टभ्य प्रवेपमानेन कायेन, आबाधिकं वा दुःखितं बाढग्लानम् आध्मातपादम् आध्मातहस्तम् आध्मातोदरम् आध्मातमुखं पाण्डुकछविवर्णम्, दर्द्रूलं वा कच्छूलं वा कुष्ठितं वा दुःखितहतगात्रम्, पक्वगात्रम् उपहतेन्द्रियं, मृतं वा कालगतम् एकाहमृतं वा द्व्यहमृतं वा सप्ताहमृतं वा, काकैः कुररैः खाद्यमानं, गृध्रैह् श्वभिः सृगालैर् विविधैर् वा तिर्यग्जातिगतैः प्राणिभिर् भक्ष्यमाणम् अभिनिर्ह्रियमाणं वा / मञ्च आरोप्योपरि वितानेन प्रसारितेन पुरतः पृष्ठतश् च महाजनकायेन रोदमानेन क्रन्दमानेन भस्मावकीर्णप्रमुक्तकेशेन तथा शोकजातं दुःखजातं परिदेवजातं दौर्मनस्यजातम् उपायासजातं, यन् ᳚मया द्रष्टव्यम्᳚ इत्य् एवंरूपाणि चान्यानि चैवंभागीयानि रूपाणि द्रष्टव्यानि, यानि ब्रह्मचर्यानुग्रहाय कुशलानां च वितर्काणां समुदाचाराय संवर्तन्ते //
SK
(I)-C-IIल्-८-अ-(३)-इइइ Mस्.५६ब्५R, Sह्.१२४-६, P.५९अ१, D.४९ब्२, N.५२अ१, Cओ.५३ब्३, Cह्.४१६अ१० न कायप्रचालकम् उपसंक्रमितव्यं न बाहुप्रचालकं न शीर्षप्रचालकं नोच्चग्घिकया न हस्तावलग्निकया न सोढौकिकया / नाननुज्ञातेनासने निषत्तव्यं, नाप्रत्यवेक्ष्यासनम्, न सर्वकायम् समवधाय, न पादे पादम् आधाय, न सक्थ्नि सक्थिना, नाभिसंक्षिप्य पादौ, नाभिविक्षिप्य पादौ //
SK
(I)-C-IIल्-८-अ-(३)-इव् Mस्.५६ब्६R, Sह्.१२४-१२, P.५९अ४, D.४९ब्४, N.५२अ३, Cओ.५३ब्५, Cह्.४१६अ१५ नोद्गुण्ठिकया कृतेन, नोच्चस्तिकया, न वितस्तिकया, न पर्यस्तिकया, परिमण्डलं चीवरं प्रावृत्य, नात्युत्कृष्टं नात्यपकृष्टम्, न हस्तिशुण्डकं न तालवृन्तकं न नागफणकं न कुल्माषपिण्डिकं चीवरं प्रावरितव्यम् / नानागते खादनीये पात्रम् उपनामयितव्यं, न च खादनीयभोजनीयस्योपरि धारयितव्यम् / नानास्तीर्णे पृथिवीप्रदेशे प्रपाते प्राग्भारे पात्रं स्थापयितव्यम् //
SK
(I)-C-IIल्-८-अ-(३)-व् Mस्.५७अ२L, Sह्.१२४-१९, P.५९अ७, D.४९ब्६, N.५२अ६, Cओ.५३ब्७, Cह्.४१६अ२० सावदानं पिण्डपातं परिभोक्तव्यम् / नौदनेन सूपिकं प्रतिच्छादयितव्यम्, न सूपिकेनौदनम् / नातित्तिनिकायोगम् अनुयुक्तेन परिभोक्तव्यम् / नातिस्थूलं नातिपरीत्तं परिमण्डलम् आलोप आलोपयितव्यम् / न हस्तावलेहकं न पात्रावलेहकम्, न हस्तसंधूनकं न पात्रसंधूनकम्, न कवडच्छेदकम्, पिण्डपातं परिभोक्तव्यम् //
SK
(I)-C-IIल्-८-अ-(३)-वि Mस्.५७अ३L, Sह्.१२५-६, P.५९ब्२, D.५०अ१, N.५२ब्१, Cओ.५४अ२, Cह्.४१६अ२५ ᳚विहारगतेनापि मे तेभ्यः कुलेभ्यः प्रत्यागतेन प्रतिनिष्क्रान्तेन दिवा वा रात्रौ वा प्रातिपौद्गलिके चङ्क्रमे चङ्क्रमितव्यं, न परक्ये ऽविश्वास्ये ऽप्रवारिते ऽनुद्दिष्टे / न श्रान्तकायेन न क्लान्तकायेन, अनौद्धत्याभिनिगृहीते चित्ते, कुशलपक्षप्रयुक्ते नाकुशलमनसिकारानुगते (Śभ् I २००) ऽन्तर्गतैर् इन्द्रियैर् अबहिर्गतेन मानसेन, नातिद्रुतं नातिचपलं नैकान्तेन गमनप्रत्यागमनप्रतिसंयुक्तेन, कालेन कालं गच्छता कालेन कालं तिष्ठता /
SK
तथा स्वे विहारे स्वे परिगणे स्वक्यां कुटिकायाम् उद्देशिकायां प्रातिपौद्गलिकायां, न परक्यायाम् अविश्वास्यायाम् अप्रवारितायाम् / तथा मञ्चे वा पीठे वा तृणसंस्तरणे वा, अरण्ये वा वृक्षमूले वा शून्यागारे वा निषत्तव्यं, पर्यङ्कम् आभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखीं स्मृतिम् उपस्थाप्य //
SK
(I)-C-IIल्-८-अ-(३)-विइ Mस्.५७अ५M, Sह्.१२५-२०, P.५९ब्७, D.५०अ६, N.५२ब्५, Cओ.५४अ६, Cह्.४१६ब्८ रात्र्या मध्यमे यामे स्वपितव्यम् / दिवा पूर्वकं च यामम् कुशलपक्षेणातिनामयितव्यम् / एवं च पुनः स्वपितव्यं, आलोकसंज्ञिना स्मृतेन संप्रजानेनोत्थानसंज्ञाम् एव मनसिकुर्वता, रात्र्याः पश्चिमे यामे लघु लघ्व् एव प्रतिविबुध्य //
SK
(I)-C-IIल्-८-अ-(३)-विइइ Mस्.५७अ६M, Sह्.१२६-३, P.६०अ१, D.५०अ७, N.५२ब्६, Cओ.५४ब्१, Cह्.४१६ब्११ भाष्ये वा स्वाध्यायक्रियायां वा योगः करणीयः, प्रहाणे वा प्रतिसंलयने, धर्मचिन्तायाम् / लोकायताश् च मन्त्रा विवर्जयितव्याः, चित्राक्षराश् चित्रपदव्यञ्जना अनर्थोपसंहिताः, ये नाभिज्ञायै न संबोधाय न निर्वाणाय संवर्तन्ते / ये वा पुनर् धर्मास् तथागतभाषिता गम्भीरा गम्भीराभासाः शून्यताप्रतिसंयुक्ता इदंप्रत्ययताप्रतीत्यसमुत्पादानुलोमास् ते सत्कृत्योद्गृहीतव्याः दृढं च स्थिरं च सूद्गृहीताश् च न नाशयितव्याः, प्रतिपत्त्याः संपादनार्थं, न लाभसत्कारहेतोः / ते च पुनर् धर्मा वचसा सुपरिजिताः कर्तव्याः / न च सङ्गणिकाया अतिनामयितव्यम् न कर्मारामतया न भाष्यारामतया, कालेन च कलम् उपस्थितया स्मृत्या विज्ञस्य सब्रह्मचारिण आलपितव्याः संलपितव्याः प्रतिसंमोदयितव्याः / परिपृच्छनजातीयेन च भवितव्यं, किंकुशलगवेषिणा, अनुपालम्भचित्तेन, मितवादिना, युक्तभाणिना, [ग्नम् पोर् स्म्र ब दङ्] प्रशान्तभाणिना च, परेषां धार्म्यां कथां कथयितुकामेन / तूष्णींभावेन च ये पापका अकुशला वितर्का न (Śभ् I २०४) वितर्कयितव्याः / न चायोनिशोधर्मचिन्ताप्रयुक्तेन / [म्ङोन् पऽइ ङ र्ग्यल् चन् दु मि ब्य ब दङ् / ख्यद् पर् र्तोग्स् प चुङ् zअद् त्सम् दङ् / ङन् ङोन् त्सम् ग्यि बर् म दोर् स्ग्यिद् लुग् पर् मि ब्य ब दङ् / ब्सं पर् मि ब्य बऽइ ग्नस् र्नम्स् योङ्स् सु स्पङ् बर् ब्य ब दङ् / दुस् दुस् सु źइ ग्नस् दङ् / ल्हग् म्थोङ् ल ब्र्त्सोन् पर् ब्य ब दङ् / स्पोङ् ब ल द्गऽ ब दङ् / र्ग्युन् दु छुद् पर् ब्य ब ल ब्र्त्सोन् प दङ् / गुस् पर् ब्य ब ल ब्र्त्सोन् पर् ब्यऽओ स्ञम् प दङ् //
SK
(I)-C-IIल्-८-अ-(३)-इx Mस्.-, Sह्.-, P.६०ब्२, D.५०ब्७, N.५३अ७, Cओ.५५अ१, Cह्.४१६ब्२९ ब्दग् द्प्यिद् कऽइ त्स्ह बस् ग्दुङ्स् पऽम् / दे ल्तर् ब्र्त्सोन् प दङ् / ऽबद् प दङ् / र्त्सोल् बऽम् / रुङ् बऽइ ब्य ब चुङ् zअद् ब्येद् पस् योङ्स् सु ङल् बऽइ र्ग्यु दङ् / योङ्स् सु ङल् बऽइ ग्źइ लस् दुस् म यिन् पर् ग्ञिद् क्यि स्ञोम् प स्क्ये बर् ग्युर् न / देऽइ दोन् दु चि नस् क्यङ् म्युर् ब म्युर् ब खो नर् दे मेद् पर् ऽग्युर् źइङ् / दुस् युन् रिङ् पोर् द्गे बऽइ फ्योग्स् ञम्स् पर् मि ऽग्युर् ब दङ् / द्गे बऽइ फ्योग्स् क्यि बर् छद् दु मि ऽग्युर् बर् ब्य बऽइ फ्यिर् / युद् त्सम् źइग् ग्ञिद् ब्सङ् बर् ब्य स्ते / देर् यङ् ब्दग् गि स्गो ब्चद् पऽम् / द्गे स्लोङ् योद् न ल्तर् ग्źउग् पऽम् / ऽदुल् बऽइ ब्स्रुङ् ब दङ् / ऽदुल् बऽइ छो गस् छोस् गोस् क्यिस् ब्चिङ्स् ल / ग्नस् द्बेन् पर् ऽदुग् स्ते / ग्ञिद् ब्सङ् बर् ब्यऽओ स्ञम् दु सेम्स् प यिन् ते / देस् न देऽइ ग्ञिद् क्यि स्ञोम् प र्नम् प थम्स् चद् क्यि थम्स् चद् दु मेद् पर् ऽग्युर् रो //
SK
(I)-C-IIल्-८-अ-(४) Mस्.-, Sह्.-, P.६०ब्६, D.५१अ३, N.५३ब्३, Cओ.५५अ४, Cह्.४१६च्७ दे नि ऽदि ल्त स्ते / र्ग्यु ब दङ् स्प्योद् प लस् ब्र्त्सम्स् नस् / शेस् ब्źइन् दु (Śभ् I २०६) स्प्योद् प ञिद् क्यि गो रिम्स् यिन् ते / दन् पो खो नर् दे ल्तर् त्स्हुल् ब्źइन् यिद् ल ब्येद् प दङ् / शेस् रब् दङ् ल्दन् पऽइ सेम्स् म्ङोन् पर् ऽदु ब्येद् प गङ् यिन् प दे नि देऽइ शेस् ब्źइन् źएस् ब्यऽओ //
SK
दे ल्तर् शेस् ब्źइन् दङ् ल्दन् पस् र्ग्यु ब दङ् स्प्योद् प थम्स् चद् मि ञुङ् बर् स्ग्रुब् पर् ब्येद् प गङ् यिन् प दे नि शेस् ब्źइन् दु स्प्योद् प ञिद् चेस् ब्यऽओ //
SK
दे ल ऽग्रो ब दङ् / ल्दोग् प दङ् / छुङ् zअद् ब्ल्तस् प दङ् / र्नम् पर् ब्ल्तस् प दङ् / ब्स्कुम् प दङ् / ब्र्क्यङ् ब दङ् / स्नम् स्ब्यर् दङ् / छोस् गोस् दङ् / ल्हुङ् ब्zएद् ब्चङ् ब गङ् यिन् प दङ् / zओस् प दङ् / ऽथुङ्स् प दङ् / ऽछोस् प दङ् / म्यङ्स् प गङ् यिन् प दे ल शेस् ब्źइन् दु स्प्योद् प गङ् यिन् प दे नि ग्रोङ् दु र्ग्यु ब दङ् ल्दन् प ल शेस् ब्źइन् दु स्प्योद् प ञिद् चेस् ब्यऽओ //
SK
दे ल सोङ् ब दङ् / स्दोद् प दङ् / ऽदुग् प दङ् / ञल् ब दङ् / मि ञल् ब दङ् / स्म्र ब दङ् / मि स्म्र ब गङ् यिन् प दङ् / ग्ञिद् क्यि स्ञोम् प ब्सङ् ब गङ् यिन् प दे ल शेस् ब्źइन् दु स्प्योद् प गङ् यिन् प दे नि ग्त्सुग् लग् खङ् न स्प्योद् प दङ् ल्दन् प ल शेस् ब्źइन् दु स्प्योद् प ञिद् चेस् ब्य स्ते /
SK
दे नि रे źइग् शेस् ब्źइन् दु स्प्योद् प ञिद् क्यि र्नम् पर् द्ब्ये ब र्ग्यस् प यिन् पर् रिग् पर् ब्यऽओ //
SK
(I)-C-IIल्-८-ब्-(१) Mस्.-, Sह्.-, P.६१अ३, D.५१ब्१, N.५३ब्७, Cओ.५५ब्२, Cह्.४१६च्१७ दोन् म्दोर् ब्स्दु ब गङ् źए न / र्ग्यु ब दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ दङ् / स्प्योद् प दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ दङ् / र्ग्यु ब दङ् ल्दन् प दङ् / स्प्योद् प दङ् ल्दन् पऽइ लस् ल शेस् ब्źइन् दु स्प्योद् प र्नम् प ब्źइ गङ् यिन् प दे नि दोन् म्दोर् ब्स्दु ब źएस् ब्यऽओ //
SK
दे ल र्ग्यु ब दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ गङ् źए न / ऽदि ल्त स्ते / लुस् क्यि लस् दङ् / मिग् गि लस् दङ् / यन् लग् दङ् / ञिङ् लग् थम्स् चद् क्यि लस् दङ् / छोस् गोस् दङ् / ल्हुङ् ब्zएद् क्यि लस् दङ् / ब्सोद् स्ञोम्स् क्यि लस् ते / दे नि र्ग्यु ब दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ źएस् ब्यऽओ //
SK
दे ल रे źइग् ल्दोग् प दङ् ऽग्रो ब źएस् ब्य ब गङ् ग्सुङ्स् प देस् नि र्ग्यु ब दङ् ल्दन् पऽइ लुस् क्यि लस् ब्स्तन् तो // ᳚छुङ् zअद् ब्ल्तस् प दङ् / र्नम् पर् ब्ल्तस् प᳚ źएस् गङ् ग्सुङ्स् प देस् नि र्ग्यु ब दङ् ल्दन् पऽइ मिग् गि लस् ब्स्तन् तो // (Śभ् I २०८) ᳚ब्स्कुम् प दङ् / ब्र्क्यङ् ब᳚ źएस् ब्य ब गङ् ग्सुङ्स् प देस् नि र्ग्यु ब दङ् ल्दन् पऽइ यन् लग् दङ् ञिङ् लग् थम्स् चद् क्यि लस् ब्स्तन् तो // ᳚स्नम् स्ब्यर् दङ् / छोस् गोस् दङ् / ल्हुङ् ब्zएद् ब्चङ् ब᳚ źएस् गङ् ग्सुङ्स् प देस् नि र्ग्यु ब दङ् ल्दन् पऽइ छोस् गोस् दङ् / ल्हुङ् ब्zएद् क्यि लस् ब्स्तन् तो // ᳚zओस् प दङ् / ऽथुङ्स् प दङ् / ऽछोस् प दङ् / म्यङ्स् प᳚ źएस् गङ् ग्सुङ्स् प देस् नि र्ग्यु ब दङ् ल्दन् पऽइ ब्सोद् स्ञोम्स् क्यि लस् ब्स्तन् तो //
SK
स्प्योद् प दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ गङ् źए न / ऽदि ल्त स्ते / लुस् क्यि लस् दङ् / ङग् गि लस् दङ् / यिद् क्यि लस् दङ् / ञिन् मोऽइ लस् दङ् / म्त्स्हन् मोऽइ लस् ते / दे नि स्प्योद् प दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ źएस् ब्यऽओ //
SK
दे ल रे źइग् ᳚सोङ् ब दङ् / स्दोद् प दङ् / ऽदुग् प᳚ źएस् गङ् ग्सुङ्स् प देस् नि स्प्योद् प दङ् ल्दन् पऽइ लुस् क्यि लस् ब्स्तन् तो // ᳚स्म्र ब᳚ źएस् गङ् ग्सुङ्स् प देस् नि स्प्योद् प दङ् ल्दन् पऽइ ङग् गि लस् ब्स्तन् तो // ᳚ञल् ब दङ् / मि स्म्र ब दङ् / ग्ञिद् क्यि स्ञोम् प ब्सङ् ब᳚ źएस् गङ् ग्सुङ्स् प देस् नि स्प्योद् प दङ् ल्दन् पऽइ यिद् क्यि लस् ब्स्तन् तो // ᳚मि ञल् ब᳚ źएस् गङ् ग्सुङ्स् प देस् नि स्प्योद् प दङ् ल्दन् पऽइ ञिन् मोऽइ लस् दङ् / म्त्स्हन् मोऽइ लस् दङ् / लुस् क्यि लस् दङ् / ङग् गि लस् क्यङ् ब्स्तन् तो // ᳚ञल् ब᳚ źएस् गङ् ग्सुङ्स् प देस् नि स्प्योद् प दङ् ल्दन् पऽइ म्त्स्हन् मोऽइ लस् दङ् यिद् क्यि लस् खो नर् यङ् ब्स्तन् ते / दे नि स्प्योद् प दङ् ल्दन् पऽइ लस् र्नम् प ल्ङ यिन् पर् रिग् पर् ब्यऽओ //
SK
(I)-C-IIल्-८-ब्-(२) Mस्.-, Sह्.-, P.६१ब्६, D.५२अ१, N.५४ब्१, Cओ.५६अ३, Cह्.४१७अ६ दे ल र्ग्यु ब दङ् ल्दन् प दङ् / स्प्योद् प दङ् ल्दन् पऽइ लस् ल शेस् ब्źइन् दु स्प्योद् प र्नम् प ब्źइ गङ् źए न / दङ् पो खो नर् ᳚लस् ऽदि ल्त बु źइग् ब्र्त्सम् मो᳚ źएस् र्ग्यु बऽइ लस् सम् / स्प्योद् पऽइ लस् शिग् र्त्स्ॐ पर् ब्येद् प न / लस् दे ञिद् ल द्रन् प ञे बर् ग्źअग् चिङ् / बग् योद् पर् स्प्योद् ल / लस् दे द्रन् पस् योङ्स् सु zइन् चिङ् बग् योद् पस् क्यङ् योङ्स् सु zइन् पस् / ग्źइ गङ् ल फ्योग्स् गङ् दु / दुस् गङ् गि त्स्हे जि स्ञेद् चिग् र्नम् प गङ् गिस् जि ल्तर् ब्र्तग् पर् ब्य बऽइ ग्źइ दे ल / फ्योग्स् देर् दुस् देऽइ त्स्हे / दे स्ञेद् चिग् र्नम् प देस् दे ल्तर् र्तोग् पर् ब्येद् चिङ् रब् तु शेस् पर् ब्येद् प स्ते / दे ल्तर् र्तोग् पर् ब्येद् चिङ् / रब् तु शेस् पर् ब्येद् प न त्स्हे ऽदि ञिद् ल ख न म थो ब मेद् प दङ् / ल्हुङ् ब मेद् प (Śभ् I २१०) दङ् / ऽग्योद् प मेद् प दङ् / यिद् ल ग्चग्स् प मेद् प दङ् / र्जेस् सु ग्दुङ् ब मेद् पर् ऽग्युर् ब दङ् / त्स्हे फ्यि म ल यङ् ख न म थो ब मेद् चिङ् लुस् źइग् स्ते / शि बऽइ ऽओग् तु ङन् सोन् ङन् ऽग्रो लोग् पर् ल्तुङ् ब सेम्स् चन् द्म्यल् ब र्नम्स् सु स्क्ये बर् मि ऽग्युर् ब दङ् / म थोब् प थोब् पर् ब्य बऽइ त्स्होग्स् क्यि र्ग्यु ब्यस् पर् ऽग्युर् ब यिन् नो //
SK
दे नि शेस् ब्źइन् दु स्प्योद् प ञिद् क्यि दोन् म्दोर् ब्स्दुस् प यिन् ते / र्नम् पर् द्ब्ये ब र्ग्यस् पर् स्ङ म गङ् यिन् प दङ् / दोन् म्दोर् ब्स्दु ब गङ् यिन् प दे नि शेस् ब्źइन् दु स्प्योद् प ञिद् चेस् ब्यऽओ //
SK
(I)-C-IIल्-९-अ-(१) Mस्.-, Sह्.-,W.*७४-२४(Eन्ग्लिस्ः त्र्.),P.६२अ४,D.५२अ६,N.५४ब्६,Cओ.५६अ७, Cह्.४१७अ१९ दे ल द्गे बऽइ ब्शेस् ग्ञेन् गङ् źए न / र्ग्यु र्नम् प ब्र्ग्यद् क्यिस् र्नम् प थम्स् चद् योङ्स् सु र्द्zओग्स् पऽइ द्गे बऽइ ब्शेस् ग्ञेन् यिन् पर् रिग् पर् ब्यऽओ //
SK
ब्र्ग्यद् गङ् źए न / ऽदि ल्तर् ऽदि न ल ल दङ् पो खो नर् त्स्हुल् ख्रिम्स् ल ग्नस् प यिन् प दङ् / मङ् दु थोस् प यिन् प दङ् / र्तोग् प दङ् ल्दन् प यिन् प दङ् / र्जेस् सु स्ञिङ् ब्र्त्से ब दङ् ल्दन् प यिन् प दङ् / यिद् योङ्स् सु मि स्क्यो ब यिन् प दङ् / ब्zओद् प दङ् ल्दन् प यिन् प दङ् / मि ऽजिग्स् प दङ् ल्दन् प यिन् प दङ् / त्स्हिग् गि ब्य ब दङ् ल्दन् प यिन् नो //
SK
(I)-C-IIल्-९-अ-(१)-इ Mस्.-, Sह्.-, P.६२अ६, D.५२ब्१, N.५५अ१, Cओ.५६ब्२, Cह्.४१७ब्१ दे ल जि ल्तर् न त्स्हुल् ख्रिम्स् ल ग्नस् प यिन् źए न / र्ग्यस् पर् स्ङ म ब्źइन् दु त्स्हुल् ख्रिम्स् दङ् ल्दन् पर् ग्नस् प दङ् / सो सोर् थर् बऽइ स्दोम् पस् ब्स्दम्स् प दङ् / द्गे स्ब्योङ् गि लम् ऽदोद् प दङ् / ब्रम् zएऽइ लम् ऽदोद् प दङ् / ब्दग् दुल् बर् ब्य ब दङ् / ब्दग् źइ बर् ब्य ब दङ् / ब्दग् योङ्स् सु म्य ङन् लस् ऽदऽ बर् ब्य बऽइ फ्यिर् źउग्स् प यिन् ते / दे ल्तर् न त्स्हुल् ख्रिम्स् ल ग्नस् प यिन् नो //
SK
(I)-C-IIल्-९-अ-(१)-इइ Mस्.५७ब्२R, Sह्.१२७-२, P.६२अ८, D.५२ब्३, N.५५अ२, Cओ.५६ब्३, Cह्.४१७ब्५ जि ल्तर् न मङ् दु थोस् प यिन् źए न / देस् छोस् त्स्हङ्स् पर् स्प्योद् प दङ् / थोग् मर् द्गे ब / बर् दु द्गे ब / थ मर् द्गे ब / दोन् ब्zअङ् पो / त्स्हिग् ऽब्रु ब्zअङ् पो / म ऽद्रेस् प / योङ्स् सु र्द्zओग्स् प / योङ्स् सु दग् प / योङ्स् सु ब्यङ् ब गङ् दग् यिन् प दे दग् म्ङोन् पर् ब्र्जोद् पस् म्ङोन् पर् र्जोद् पर् ब्येद् प दङ् / एवंरूपा अनेन बहवो धर्मा उद्गृहीता भवन्ति धृता वचसा परिजिता मनसा चान्वीक्षिता दृष्ट्या सुप्रतिविद्धाः / एवं बहुश्रुतो भवति //
SK
(I)-C-IIल्-९-अ-(१)-इइइ Mस्.५७ब्३L, Sह्.१२९-१, P.६२ब्३, D.५२ब्५, N.५५अ४, Cओ.५६ब्५, Cह्.४१७ब्९ कथम् अधिगन्ता भवति / लाभी भवत्य् अनित्यसंज्ञाया अनित्ये दुःखसंज्ञाया दुःखे ऽनात्मसंज्ञाया आहारे प्रतिकूलसंज्ञायाः सर्वलोके ऽनभिरतिसंज्ञाया आदीनवसंज्ञायाः प्रहाणसंजाया विरागसंज्ञाया निरोधसंज्ञाया मरणसंज्ञाया अशुभसंज्ञाया विनीलकसंज्ञाया विपूयकसंज्ञाया विपडुमकसंज्ञाया व्याध्मातकसंज्ञाया विखादितकसंज्ञाया विलोहितकसंज्ञाया विक्षिप्तकसंज्ञाया अस्थिसंज्ञायाः शून्यताप्रत्यवेक्षणसंज्ञायाः / लाभी भवति प्रथमस्य ध्यानस्य द्वितीयस्य तृतीयस्य चतुर्थस्याकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनस्य मैत्र्याः करुणाया मुदिताया उपेक्षायाः स्रोतआपत्तिफलस्य सकृदागामिफलस्यानागामिफलस्य चर्द्धिविषयस्य पूर्वनिवासस्य दिव्यस्य श्रोत्रस्य च्युत्युपपादस्य चेतःपर्यायस्यार्हत्त्वस्याष्टविमोक्षध्यायित्वस्य / शक्तो भवति प्रतिबलश् च परेषां त्रिभिः प्रातिहार्यैर् अववदितुम्, ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण, अनुशासनाप्रातिहार्येण / एवम् अधिगन्ता भवति //
SK
(I)-C-IIल्-९-अ-(१)-इव् Mस्.५७ब्५M, Sह्.१२९-१६, P.६३अ३, D.५३अ४, N.५५ब्४, Cओ.५७अ५, Cह्.४१७ब्२२ कथम् अनुकम्पको भवति / परेषाम् अन्तिके कारुणिको भवति दयापन्नह् / अर्थकामो भवति हितकामः सुखकामः स्पर्शकामो योगक्षेमकामः / एवम् अनुकम्पको भवति //
SK
(I)-C-IIल्-९-अ-(१)-व् Mस्.५७ब्५R, Sह्.१२९-२०, P.६३अ५, D.५३अ५, N.५५ब्५, Cओ.५७अ६, Cह्.४१७ब्२५ कथम् अपरिखिन्नमानसो भवति / संदर्शको भवति समादापकः समुत्तेजकः संप्रहर्षकः / अयासी चतसृनां पर्षदां धर्मदेशनायै दक्षो भवत्य् अनलस उत्थानसंपन्न आरब्धवीर्यजातीयः / एवम् अपरिखिन्नमानसो भवति //
SK
(I)-C-IIल्-९-अ-(१)-वि Mस्.५७ब्६R, Sह्.१३०-२, P.६३अ७, D.५३अ७, N.५५ब्७, Cओ.५७ब्१, Cह्.४१७ब्२९ कथं क्षमावान् भवति / आक्रुष्टो न प्रत्याक्रोशति / रोषितो न प्रतिरोषयति / तादितो न प्रतिताडयति / भण्डितो न प्रतिभण्डयति / आकोटानप्रत्याकोटानक्षमो भवति / प्रगाढेष्व् अपि बन्धनेषु रोधनेषु ताडनेषु कुत्सनेषु तर्जनेषु छेदनेष्व् आत्मापराधी भवति / कर्मविपाकं च प्रतिसरति / न परेषाम् अन्तिके कुप्यति / नाप्य् अनुशयं वहति / इति विमानितो ऽपि विवर्णितो ऽपि विजुगुप्सितो ऽपि न विकृतिम् आपद्यते / नान्यत्रार्थायैव चेतयते / क्षमश् च भवति शीतस्योष्णस्य जिघत्सायाः पिपासाया दंशमशकवातातपसरीसृपसंस्पर्शानाम् / परतो दुरुक्तानाम् दुरागतानां वचनपथानाम् उत्पन्नानां शारीरिकाणां वेदनानां दुःखानां तीव्राणां खराणां कटुकानाम् अमनआपानां प्राणहारिणीनां क्षमो भवत्य् अधिवासनजातीयः / एवं क्षमावान् भवति //
SK
(I)-C-IIल्-९-अ-(१)-विइ Mस्.५८अ२L, Sह्.१३०-१८, P.६३ब्५, D.५३ब्५, N.५६अ५, Cओ.५७ब्६, Cह्.४१७च्९ कथं विशारदो भवति / असंलीनचित्तः पर्षदि धर्मं देशयत्य् अगद्गदस्वरो ऽसंप्रमुषितस्मृतिप्रतिभानः / न चास्य शारद्यहेतोः शारद्यनिदानं भयं वाक्रामति समाविशति / नापि कक्षाभ्यां स्वेदो मुच्यते रोमकूपेभ्यो वा / एवं विशारदो भवति //
SK
(I)-C-IIल्-९-अ-(१)-विइइ Mस्.५८अ२R, Sह्.१३१-४, P.६३ब्६, D.५३ब्६, N.५६अ६, Cओ.५७ब्६, Cह्.४१७च्१३ कथं वाक्करणेनोपेतो भवति / पौर्या वाचा समन्वागतो भवति, वल्ग्वा, विस्पष्टया, विज्ञेयया, श्रवणीयया, अप्रतिकूलया, अनिश्रितया, अपर्यन्तया / एवं वाक्करणेनोपेतो भवति कल्याणवाक्यः //
SK
(I)-C-IIल्-९-अ-(२) Mस्.५८अ३M, Sह्.१३१-९, W.*७४-३३, P.६३ब्८, D.५७ब्७, N.५६अ७, Cओ.५८अ१, Cह्.४१७च्१७ स एभिर् अष्टाभिः कारणैः समन्वागतश् चोदको भवति, स्मारकः अववादकः, अनुशासकः, धर्मदेशकः //
SK
(I)-C-IIल्-९-अ-(२)-इ Mस्.५८अ३R, Sह्.१३१-१२, P.६४अ१, D.५४अ१, N.५६ब्१, Cओ.५८अ१, Cह्.४१७च्१८ कथं चोकदो भवति / यद् उताधिशीले च शीलविपत्त्या, अध्याचर आचारविपत्त्या, दृष्टेन श्रुतेन परिशङ्कया चोदयति, भूतेन नाभूतेन कालेन नाकालेनार्थोपसंहितेन नानर्थोपसंहितेन श्लक्ष्णेन न परुषेण मित्रवत्तया न द्वेषान्तरेण / एवं चोदको भवति //
SK
(I)-C-IIल्-९-अ-(२)-इइ Mस्.५८अ४R, Sह्.१३१-१८, W.*७५-१, P.६४अ३, D.५४अ३, N.५६ब्३, Cओ.५८अ३, Cह्.४१७च्२३ कथं स्मारको भवति / आपत्तिं वा स्मारयति धर्मं वार्थं वा / कथम् आपत्तिम् स्मारयति / यथापि तदापत्तिम् अध्यापद्यमानो न स्मरति तम् एनं स्मारयति, ᳚आयुष्मन्न् अमुष्मिन् देशे, अमुष्मिन् वस्तुनि, अमुष्मिन् काले, एवंरूपं चैवंरूपाम् आपत्तिम् आपन्न᳚ इति / एवम् आपत्तिं स्मारयति /
SK
कथं धर्मं स्मारयति / यथापि तच्छ्रुतानुगृहितान् धर्मान् एकाकी न स्मरति, स्मर्तुम् इच्छति / तद्यथा सूत्रं गेयं व्याकरणम् इति विस्तरेण पूर्ववन् न स्मरति तम् एनं स्मारयति / उत्स्मारणिकां वास्यानुप्रयच्छति, आपृच्छनपरिपृच्छनिकां वा / एवं धर्मं स्मारयति /
SK
कथम् अर्थं स्मारयति / यथापि तदर्थं विस्मरति तम् एनं स्मारयति / पुनर् अपि प्रतिनवीकरोति, उत्तानीकरोति, देशयति, संप्रकाशयति, यच् चापि कुशलम् अर्थोपसंहितं ब्रह्मचर्योपसंहितं चिरकृतं चिरभाषितम् अप्य् अनुस्मारयिता भवति / एवं स्मारको भवति //
SK
(I)-C-IIल्-९-अ-(२)-इइइ Mस्.५८अ७M, Sह्.१३२-१६, P.६४ब्१, D.५४ब्१, N.५७अ१, Cओ.५८ब्१, Cह्.४१८अ८ कथम् अववादको भवति / प्राविवेक्ये प्रतिसंलयने योगे मनसिकारे शमथविपश्यनायां कालेन कालम् आनुलोमिकम् अववादं प्रवर्तयति / कालेन च कालं तत्प्रतिसंयुक्तां कथां करोति / तद्यथा चेतोविनिवरणसांप्रेयगामिनीं शीलकथां वा समाधिकथां वा प्रज्ञाकथां वा विमुक्तिकथां वा विमुक्तिज्ञानदर्शनकथां वाल्पेच्छाकथां वा संतुष्टिकथां वा प्रहाणकथां विरागकथां निरोधकथाम् अपचयकथाम् असंसर्गकथाम् दंप्रत्ययताप्रतीत्यसमुत्पादानुIओमां कथां करोति / एवम् अववादको भवति //
SK
(I)-C-IIल्-९-अ-(२)-इव् Mस्.५८ब्२L, Sह्.१३३-३, P.६४ब्५, D.५४ब्४, N.५७अ४, Cओ.५८ब्४, Cह्.४१८अ१५ कथम् अनुशासको भवति / धर्मेण विनयेन शास्तुः शासने समनुशासको (Śभ् I २२२) भवति / आचार्यो वोपाध्यायो वा सहधार्मिको वा गुरुर् वा गुरुस्थानीयो वान्यतमान्यतमस्मिन्न् अधिकरणे ऽत्रिसृतं व्यतिक्रान्तं विदित्वा, कालेन कालम् अवसादयति दण्डकर्मानुप्रयच्छति प्रवासयति चैनं / पुनर् अपि च धर्मेण समये प्रतिसंस्तरसामीचीसंज्ञपितिं प्रतिगृह्णाति संग्राहकश् च भवति / करणीये चाकरणीये वाध्याचारानध्याचाराद् अध्याचीर्णे ऽनध्याचीर्णे च शास्त्य् अनुशास्ति / एवम् अनुशासको भवति //
SK
(I)-C-IIल्-९-अ-(२)-व् Mस्.५८ब्३M, Sह्.१३३-१३, P.६४ब्८, D.५४ब्६, N.५७अ७, Cओ.५८ब्७, Cह्.४१८अ२३ कथं च धर्मदेशको भवति / कालेन कालं पूर्वकालकरणीयां कथां करोति, तद्यथा दानकथां शीलकथाम् स्वर्गकथाम् / कामेष्व् आदीनवनिःसरणान् व्यवदानपक्षान् धर्मान् विस्तरेण संप्रकाशयति / कालेन कालं सामुत्कर्षिकीं चतुरार्यसत्यप्रतिसंयुक्तां कथां कथयति / दुःखं वारभ्य समुदयं वा निरोधं वा मार्गं वा / सत्त्वपरिपाकाय वा सत्त्वव्यवदानाय वा सद्धर्मस्य वा चिरस्थितये / युक्तैः पदव्यञ्जनैः सहितैर् आनुलोमिकैर् आनुच्छविकैर् औपायिकैः प्रतिरूपैः प्रदक्षिणैर् निपकस्याङ्गसंभारैः /
SK
तां च पुनः कथां कालेन करोति, सत्कृत्यानुपूर्वम् अनुसंधिम् अनुसहितं हर्षयन् रोचयन् तोषयन्न् उत्साहयन्न् अनवसादयंस् च युक्तां सहिताम् अव्यवकीर्णां धार्मिकीं यथापर्षन् मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तो ऽनिश्रितो लाभसत्कारश्लोके न चात्मानम् उत्कर्षयति, न परान् पंसयति / एवं धर्मदेशको भवति //
SK
(I)-C-IIल्-९-अ-(३) Mस्.५८ब्६L, Sह्.१३४-९, P.६५अ७, D.५५अ५, N.५७ब्६, Cओ.५९अ५, Cह्.४१८ब्७ यश् चैभिर् अष्टाभिर् अङ्गैः समन्वागतो भवति, एवं च कालेन कालं चोदको भवति स्मारको ऽववादको ऽनुशासको धर्मदेशकह्, तस्मात् स कल्याणमित्र इत्य् उच्यते / अयं तावत् कल्याणमित्रताया विस्तरविभागः//
SK
(I)-C-IIल्-९-ब् Mस्.५८ब्६R, Sह्.१३४-१४, P.६५ब्१, D.५५अ६, N ५७ब्७, Cओ.५९अ७, Cह्.४१८ब्१० समासार्थः पुनः कतमः / सचेद् अयं मित्रसुहृदनुकम्पक आदित एव हितकामो भवति, सुखकामश् च / तच् च पुनर् हितसुखं यथाभूतं प्रजानाति, अविपर्यस्तो भवत्य् अविपरीतदृष्टिः / प्रतिबलस् च भवत्य् उपायकुशलः यद् उतास्यैव हितसुखस्य समुदागमायोपसंहाराय / दक्षस् च भवत्य् अनलस उत्थानसंपन्न आरब्धवीर्यजातीयः, यद् उत तम् एव हितसुखोपसंहारम् आरभ्य / एभिश् चतुर्भिः कारणैः सर्वाकारपरिपूर्णः / समासतः कल्याणमित्रो वेदितव्यः / अयं च पुनः कल्याणमित्रतायाः समासार्थः /
SK
यश् च पूर्वको विस्तरविभागो यश् चायं समासार्थ इयम् उच्यते कल्याणमित्रता //
SK
(I)-C-IIल्-१०-अ-(१) Mस्.५९अ२R, Sह्.१३५-६, W.*७५-६, P.६५ब्५, D.५५ब्३, N.५८अ४, Cओ.५९ब्३, Cह्.४१८ब्१९ सद्धर्मश्रवणचिन्तना कतमा / सद्धर्म उच्यते बुद्धैश् च बुद्धश्रावकैश् च सद्भिः सम्यग्गतैः सत्पुरुषैर् आख्यातो देशित उत्तानो विवृतः संप्रकाशितः /
SK
स पुनः कतमः / तद्यथा सूत्रं गेयं व्याकरणम् इति विस्तरेण पूर्ववद् द्वादशाङ्गवचोगतम् सद्धर्म इत्य् उच्यते //
SK
(I)-C-IIल्-१०-अ-(१)-इ Mस्.५९अ३M, Sह्.१३६-१, W.*७५-१८, P.६६अ१, D.५५ब्६, N.५८अ७, Cओ.५९ब्६, Cह्.४१८ब्२३ तत्र सूत्रं कतमत् / यत् तत्र तत्र भगवता तांस् तान् विनेयांस् तानि तानि विनेयचारितानि चारभ्य स्कन्धप्रतिसंयुक्ता वा कथा कृता, धातुप्रतिसंयुक्ता वा कथा कृता, धातुसङ्गणप्रतिसयुक्ता वा, आयतनप्रतिसंयुक्ता वा, प्रतीत्यसमुत्पादप्रतिसंयुक्ता वा, आहारसत्यप्रतिसंयुक्ता वा, श्रावकप्रत्येकबुद्धतथागतप्रतिसंयुक्ता वा, स्मृत्युपस्थानसम्यक्प्रहाण र्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाङ्गप्रतिसंयुक्ता वा, अशुभानापानस्मृतिशिक्षावेत्यप्रसादप्रतिसंयुक्ता कथा कृता / सा च कथा संगीतिकारैः परिगृह्य शासनचिरस्थितये यथायोगम् (Śभ् I २२८) अनुपूर्वेण रचितानुपूर्वेण समायुक्ता प्रतिरूपैर् नामकायपदकायव्यञ्जनकायैर्, यद् उत तेषां तेषाम् अर्थानां सूचनाय कुशलानाम् अर्थोपसंहितानां ब्रह्मचर्योपसंहितानाम् / इदम् उच्यते सूत्रम् //
SK
(I)-C-IIल्-१०-अ-(१)-इइ Mस्.५९अ५R, Sह्.१३७-३, W.ऽ७६-१६, P.६६अ६, D.५६अ३, N.५८ब्४, Cओ.६०अ४, Cह्.४१८च्५ गेयं कतमत् / यस्यान्ते पर्यवसाने गाथाभिगीता, यच् च सूत्रं नेयार्थम् / इदम् उच्यते गेयम् //
SK
(I)-C-IIल्-१०-(१)-इइइ Mस्.५९अ६L, Sह्.१३७-५, W.V६-२०, P.६६अ७, D.५६अ४, N.५८ब्५, Cओ.६०अ४, Cह्.४१८च्७ व्याकरणं कतमत् / यस्मिञ् छ्रावकेभ्यो ऽभ्यतीतकालगत उपपत्तौ व्याक्रियते, यच् च सूत्रं नीतार्थम् / इदम् उच्यते व्याकरणम् //
SK
(I)-C-IIल्-१०-(१)-इव् Mस्.५९अ६M, Sह्.१३७-८, W.*७६-२६, P.६६अ८, D.५६अ४, N.५८ब्५, Cओ.६०अ५, Cह्.४१८च्९ गाथा कतमा / या न गद्येन भाषिता, अपि तु पादोपनिबन्धेन द्विपदा वा त्रिपदा वा चतुष्पदा वा पञ्चपदा वा षट्पदा वा / इयम् उच्यते गाथा //
SK
(I)-C-IIल्-१०-अ-(१)-व् Mस्.५९अ७L, Sह्.१३७-११, W.*७६-३२, P.६६ब्१, D.५६अ५, N.५८ब्६, Cओ.६०अ६, Cह्.४१८च्१२ उदानं कतमत् / यत् पुद्गलस्य नाम गोत्रम् अपरिकीर्तयित्वानुद्दिश्य भाषितम् आयत्यां वा सद्धर्मचिरस्थितये शासनचिरस्थितये (Śभ् I २३०) च / इदम् उच्यते उदानम् //
SK
(I)-C-IIल्-१०-अ-(१)-वि Mस्.५९३७M, Sह्.१३८-२, W.*७७-१, P.६६ब्२, D.५६अ६, N.५८ब्७, Cओ.६०अ७, Cह्.४१८च्१४ निदानं कतमत् / यत् पुद्गलस्य नाम गोत्रं परिकीर्तयित्वोद्दिश्य भाषितम्, यच् च किंचिद् विनयप्रतिसंयुक्तं सोत्पत्तिकं सनिदानं प्रातिमोक्षसूत्रम् / इदम् उच्यते निदानम् //
SK
(I)-C-IIल्-१०-अ-(१)-विइ Mस्.५९ब्१L, Sह्.१३८-६, W.*७७-९, P.६६ब्३, D.५६अ७, N.५९अ१, Cओ.६०ब्१, Cह्.४१८च्१७ अवदानं कतमत् / यत् सदृष्टान्तकम् उदाहृतम्, येन दृष्टान्तेन यस्य प्रकृतस्यार्थस्य व्यवदानं भवति / इदम् उच्यते ऽवदानम् //
SK
(I)-C-IIइ-१०-अ-(१)-विइइ Mस्.५९ब्१M, Sह्.१३८-९, W.*७७-१५, P.६६ब्४, D.५६ब्१, N.५९अ२, Cओ.६६ब्१, Cह्.४१८च्१८ वृत्तकं कतमत् / यत् किंचित् पूर्वयोगप्रतिसंयुक्तम् / इदम् उच्यते वृत्तकम् //
SK
(I)-C-IIल्-१०-अ-(१)-इx Mस्.५९ब्१R, Sह्.१३८-११, W.*७७-२०, P.६६ब्५, D.५६ब्१, N.५९अ२, Cओ.६०ब्२, Cह्.४१८च्२० जातकं कतमत् / यद् अतीतम् अध्वानम् उपादाय तत्र तत्र भगवतश् च्युत्युपपादेषु बोधिसत्त्वचर्या दुष्करचर्याख्याता / इदम् उच्यते जातकम् //
SK
(I)-C-IIल्-१०-अ-(१)-x Mस्.५९ब्२M, Sह्.१३८-१४, P.६६ब्६, D.५६ब्२, N.५९अ३, Cओ.६०ब्४, Cह्.४१८च्२२ वैपुल्यं कतमत् / यत्र बोधिसत्त्वानां मार्गो देश्यते ऽनुत्तरायै सम्यक्संबोधये दशबलानावरणज्ञानसमुदागमाय / इदम् उच्यते वैपुल्यम् //
SK
(I)-C-IIल्-१०-अ-(१)-xइ Mस्.५९ब्२R, Sह्.१३९-१, W.*७७-२६, P.६६ब्७, D.५६ब्३, N.५९अ४, Cओ.६०ब्४, Cह्.४१८च्२५ अद्भुता धर्माः कतमे / यत्र बुद्धानां च बुद्धश्रावकाणां च भिक्षूणां च भिक्षुणीनां च शिक्षमाणानां श्रामणेराणां श्रामणेरिकाणाम् उपासकानाम् उपासिकानां साधारणासाधारणाश् च तदन्यप्रतिविशिष्टाश् चाश्चर्याद्भुतसंमता गुणविशेषा आख्याताः / इम उच्यन्ते ऽद्भुता धर्माः //
SK
(I)-C-IIल्-१०-अ-(१)-xइइ Mस्.५९ब्३R, Sह्.१३९-७, W.*७७-३६, P.६७अ२, D.५६ब्५, N.५९अ६, Cओ.६०ब्६, Cह्.४१९अ१ उपदेशाः कतमे / सर्वमातृकाभिधर्मः सूत्रान्तनिष्कर्षः सूत्रान्तव्याख्यानम् उपदेश इत्य् उच्यते //
SK
(I)-C-IIल्-१०-अ-(२) Mस्.५९ब्४L, Sह्.१३९-१०, W.*७८-४, P.६७अ३, D.५६ब्६, N.५९अ७, Cओ.६०ब्६, Cह्.४१९अ३ तच् चैतद् द्वादशाङ्गवचोगतम्, अस्ति सूत्रम्, अस्ति विनयः अस्त्य् अभिधर्मः / तत्र यत् तावद् आह, सूत्रं गेयं व्याकरणं गाथोदानावदानवृत्तकजातकवैपुल्याद्भुतधर्मा इति, इदं तावत् सूत्रम् / यत् पुनर् आह, निदानम् इति, अयम् उच्यते विनयः / यत् पुनर् आह, उपदेशा इति, अयम् उच्यते ऽभिधर्मः /
SK
तच् चैतद् द्वादशाङ्गवचोगतं पिटकत्रयसंगृहीतं सद्भिः सम्यग्गतैर् देशितं सद्धर्म इत्य् उच्यते //
SK
(I)-C-IIल्-१०-अ-(३) Mस्.५९ब्५M, Sह्.१३९-१७, W.*७८-१२, P.६७अ७, D.५७अ१, N.५९ब्३, Cओ.६१अ२, Cह्.४१९अ१० तस्य श्रवणं सद्धर्मश्रवणम् / तत् पुनः कतमत् / यथापीहैकत्यः सूत्रधरो वा भवति, विनयधरो वा, मातृकाधरो वा, सूत्रविनयधरो वा, सूत्राभिधर्मधरो वा, विनयमातृकाधरो वा, सूत्रविनयमातृकाधरो वा / इदम् उच्यते सद्धर्मश्रवणम् /
SK
तत् पुनः श्रवणं द्विविधम् / व्यञ्जनश्रवणम् अर्थश्रवणं च //
SK
(I)-C-IIल्-१०-ब्-(१) Mस्.५९ब्६L,Sह्.१४०-६,W.*७८-१८,**७८-२०f.६७अ८,D.५७अ३N.५९ब्४,Cओ.६१अ४,Cह्.४१९अ१७ चिन्तना कतमा / यथापीहैकत्यस् तान् एव यथाश्रुतान् धर्मान् एकाकी रहोगतः, षड् अचिन्त्यानि स्थानानि तद्यथा, आत्मचिन्तां सत्त्वचिन्तां लोकचिन्तां सत्त्वानां कर्मविपाकचिन्तां ध्यायिनां ध्यायिविषयं बुद्धानां बुद्धविषयं वर्जयित्वा, स्वलक्षणतः सामान्यलक्षणतश् च चिन्तयति //
SK
(I)-C-IIल्-१०-ब्-(२) Mस्.५९ब्७L, Sह्.१४०-१२, W.*७८-३१, P.६७ब्३, D.५७अ५, N.५९ब्६, Cओ.६१अ६, Cह्.४१९अ२२ सा पुनश् चिन्ता द्विविधा / गणनाकारा सह गणनायोगेन धर्माणाम् / तुलनाकारा युक्त्या गुणदोषोपपरीक्षणाकारा / सचेत् स्कन्धप्रतिसंयुक्तां देशनां चिन्तयति, सचेद् अन्यतमान्यतमां पूर्वनिर्दिष्टां देशनां चिन्तयति, आभ्यां द्वाभ्याम् आकाराभ्यां चिन्तयति //
SK
(I)-C-IIMO-ब्-(२)-इ Mस्.५९ब्७R, Sह्.१४०-१६, P.६७ब्५, D.५७अ६, N.६०अ१, Cओ.६१ब्१, Cह्.४१९अ२७ यथा पुनः कथम् इति / रूपम् उच्यते दश रूपीण्य् आयतनानि यच् च धर्मायतनपर्यापन्नं रूपम् स च रूपस्कन्धः / तिस्रो वेदना वेदनास्कन्धः / षट् संज्ञाकायाः संज्ञास्कन्धः / षट् चेतनाकायाह् संस्कारस्कन्धः / षड् विज्ञानकाया विज्ञानस्कन्धः / इत्य् एवं गणनासंख्याकारया स्कन्धदेशनां चिन्तयति / उत्तरोत्तरप्रभेदेन येन वा पुनर् अस्याः संख्यागणनाकारायाश् चिन्ताया अप्रमाणः प्रवेशनयो वेदितव्यः //
SK
(I)-C-IIल्-१०-ब्-(२)-इइ Mस्.६०अ२L, Sह्.१४१-७, W.७८-३७, P.६८अ१, D.५७ब्२, N.६०अ४, Cओ.६१ब्३, Cह्.४१९ब्५ कथं युक्त्युपपरीक्षाकारया चिन्तया स्कन्धदेशनां चिन्तयति / चतसृभिर् युक्तिभिर् उपपरीक्षते /
SK
कतमाभिश् चतसृभिः / यद् उतापेक्षायुक्त्या, कार्यकरणयुक्त्या, उपपत्तिसाधनयुक्त्या, धर्मतायुक्त्या //
SK
(I)-C-IIल्-१०-ब्-(२)-इइ-(अ) Mस्.६०अ२R, Sह्.१४१-११, W.*७९-८, P.६८अ२, D.५७ब्३, N.६०अ५, Cओ.६१ब्४, Cह्.४१९ब्८ अपेक्षायुक्तिः कतमा / द्विविधापेक्षा, उत्पत्त्यपेक्षा प्रज्ञप्त्यपेक्षा च / तत्रोत्पत्त्यपेक्षा यैर् हेतुभिर् यैः प्रत्ययैः स्कन्धानां प्रादुर्भावो भवति, तस्यां स्कन्धोत्पत्तौ ते हेतवस् ते प्रत्यया अपेक्ष्यन्ते / यैर् नामकायपदकायव्यञ्जनकायैः स्कन्धानां प्रज्ञप्तिर् भवति, तस्याम् (Śभ् I २३८) स्कन्धप्रज्ञप्तौ ते नामकायपदकायव्यञ्जनकाया अपेक्ष्यन्ते / इयम् उच्यते स्कन्धेषूत्पत्त्यपेक्षा प्रज्ञप्त्यपेक्षा च / या चोत्पत्त्यपेक्षा या च प्रज्ञप्त्यपेक्षा सा युक्तिर् योग उपायः स्कन्धोत्पत्तये स्कन्धप्रज्ञप्तये / तस्माद् अपेक्षायुक्तिर् इत्य् उच्यते //
SK
(I)-C-IIल्-१०-ब्-(२)-इइ-(ब्) Mस्.६०अ४M, Sह्.१४२-३, W.*७९-१५, P.६८अ७, D.५७ब्६, N.६०ब्१, Cओ.६१ब्७, Cह्.४१९ब्१६ कार्यकरणयुक्तिः कतमा / यद् उत्पन्नानां स्कन्धानां स्वेन हेतुना स्वेन प्रत्ययेन तस्मिंस् तस्मिन् स्वकार्यकरणे विनियोगः / तद्यथा, चक्षुषा रूपाणि द्रष्टव्यानि, श्रोत्रेण शब्दाः श्रोतव्याः, यावन् मनसा धर्मा विज्ञेया इति / रूपेण चक्षुषो गोचरे ऽवस्थातव्यम्, शब्देन श्रोत्रस्य, एवं यावद् धर्मैर् मनस् इति / यद् वा पुनर् अन्यद् अप्य् एवंभागीयं, तत्र तत्र धर्माणाम् अन्योन्यं कार्यकरणे प्रति युक्तिर् योग उपायः / इयम् उच्यते कार्यकरणयुक्तिः //
SK
(I)-C-IIल्-१०-ब्-(२)-इइ-(च्) Mस्.६०अ५R, Sह्.१४२-१२, W.*७९-१७, P.६८ब्३, D.५८अ१, N.६०ब्४, Cओ.६२अ३, Cह्.४१९ब्२३ उपपत्तिसाधनयुक्तिः कतमा / अनित्याः स्कन्धा इति, प्रतीत्यसमुत्पन्ना दुःखाः शून्या अनात्मान इति त्रिभिः प्रमाणैर् उपपरीक्षते / यद् उताप्तागमेन प्रत्यक्षेणानुमानेन च / एभिस् त्रिभिः प्रमाणैर् उपपत्तियुक्तैः सतां हृदयग्राहकैर् व्यवस्थापना साधना क्रियते / यद् उत स्कन्धानित्यताया वा प्रतीत्यसमुत्पन्नताया वा दुःखताया वा (Śभ् I २४०) शून्यताया वनात्मताया वा / इयम् उच्यत उपपत्तिसाधनयुक्तिः //
SK
(I)-C-IIल्-१०-ब्-(२)-इइ-(द्) Mस्.६०अ७L, Sह्.१४३-४, W.*७९-१९, P.६८ब्६, D.५८अ४, N.६०ब्६, Cओ.६२अ५, Cह्.४१९ब्२८ धर्मतायुक्तिः कतमा / केन कारणेन तथाभूता एते स्कन्धाः, तथाभूतो लोकसंनिवेशः / केन कारणेन खरलक्षणा पृथिवी द्रवलक्षणा आप उष्णलक्षणं तेजः समुदीरणलक्षणो वायुः / केन कारणेनानित्याः स्कन्धाः केन कारणेन शान्तं निर्वाणम् इति / तथा केन कारणेन रूपणलक्षनं रूपम्, अनुभवनलक्षणा वेदना, संजाननालक्षणा संज्ञा, अभिसंस्करणलक्षणाः संस्काराः, विजाननालक्षणं विज्ञानम् इति / प्रकृतिर् एषां धर्माणाम् इयम्, स्वभाव एष ईदृशः, धर्मतैषा / यैव चासौ धर्मता सैवात्र युक्तिर् योग उपायः / एवं वैतत् स्यात्, अन्यथा वा, नैव वा स्यात्, सर्वत्रैव च धर्मतैव प्रतिसरणं धर्मतैव युक्तिः / चित्तनिध्यापनाय चित्तसंज्ञापनाय / इयम् उच्यते धर्मतायुक्तिः /
SK
एवं चतसृभिर् युक्तिभिः स्कन्धदेशनोपपरीक्ष्यते यावत् पुनर् अन्या काचिद् देशनेति //
SK
(I)-C-IIल्-१०-ब्-(३) Mस्.६०ब्२M, Sह्.१४३-१८, P.६९अ४, D.५८ब्१, N.६१अ४, Cओ.६२ब्३, Cह्.४१९च्१० यैवम् आभ्यां द्वाभ्याम् आकाराभ्यां गणनासंख्याकारया च युक्त्युपपरीक्षणाकारया च सम्यगुपनिध्यापना तस्यास् तस्या देशनायाः सा चिन्ता //
SK
(I)-C-IIल्-१०-च् Mस्.६०ब्३L, Sह्.१४३-२१, P.६९अ५, D.५८ब्२, N.६१अ५, Cओ.६२ब्४, Cह्.४१९च्१४ इयम् उच्यते सद्धर्मश्रवणचिन्ता//
SK
(I)-C-IIल्-११-अ Mस्.६०ब्३L, Sह्.१४४-१, W.*८०-१२, P.६९अ६, D.५८ब्२, N.६१अ५, Cओ.६२ब्४, Cह्.४१९च्१५ अनन्तरायः कतमः / अनन्तरायो द्विविधः / अध्यात्मम् उपादाय बहिर्धा च / तत्राध्यात्मं बहिर्धा चोपादायान्तरायं वक्ष्यति / तद्विपर्ययेणानन्तरायो वेदितव्यः //
SK
(I)-C-IIल्-११-अ-(१) Mस्.६०ब्३M, Sह्.१४४-५, P.६९अ७, D.५८ब्३, N.६१अ६, Cओ.६२ब्५, Cह्.४१९च्१७ अध्यात्मम् उपादायान्तरायः कतमः / यथापीहैकत्यः पूर्वम् एव कृतपुण्यो न भवति / सो ऽकृतत्वात् पुण्यानां न लाभी भवति कालेन कालम् आनुलोमिकानां जीवितपरिष्काराणाम्, यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् / तीव्ररागो भवत्य् आयतरागः, तीव्रद्वेष आयतद्वेषः, तीव्रमोह आयतमोहः / पूर्वं वानेनाबाधसंवर्तनीयानि कर्माणि कृतानि भवन्ति / यद्धेतोर् आबाधबहुलो भवति / दृष्ट एव धर्मे विषमचारी भवति / येनास्याभीक्ष्णं वातो वा कुप्यति पित्तं वा श्लेष्मं वा, विषूचिका वा काये संतिष्ठते / भोजनगुरुको भवति बह्वर्थो बहुकृत्यो गणसंनिपातबहुलो भवति / कर्मारामो वा भाष्यारामो वा निद्रारामः सङ्गणिकारामः संसर्गारामः प्रपञ्चारामः / आत्मसंप्रग्राहकश् चपलः प्रमत्तः कुदेशवासी वा / इत्य् एवंभागीया अन्तराया अध्यात्मम् उपादाय वेदितव्याः //
SK
(I)-C-IIल्-११-अ-(२) Mस्.६०ब्६M, Sह्.१४४-२१, P.६९ब्५, D.५८ब्७, N.६१ब्३, Cओ.६३अ२, Cह्.४१९च्२९ बहिर्धोपादायान्तरायाः कतमे / यथापि तद् असत्पुरुषापाश्रयः, यतो न लभते कालेन कालम् आनुलोमिकीम् अववादानुशासनीं, कुदेशे वा वसति / यत्रास्य वासं कल्पयतो दिवा वौविलको भवति प्रभूतः, रात्रौ वोच्चशब्दो महाशब्दो महाजनकायस्य निर्घोसः / तीव्रकटुकश् च वातातपसंस्पर्शो मनुष्याद् अमनुष्याद् अपि भयम् / अयम् एवंभागीयो बहिर्धोपादायान्तरायो वेदितव्यः / अयं तावद् विस्तरविभागः //
SK
(I)-C-IIल्-११-ब् Mस्.६०ब्७M, Sह्.१४५-८, W/८०-१४, P.६९ब्८, D.५९अ३, N.६१ब्६, C०.६३अ४, Cह्.४२०अ७ समासार्थः पुनः कतमः / समासतस् त्रिविधो ऽन्तरायः / प्रयोगान्तरायः प्राविवेक्यान्तरायः प्रतिसंलयनान्तरायश् च /
SK
(I)-C-IIल्-११-ब्-(१) Mस्.६१अ१L, Sह्.१४५-११, P.७०अ१, D.५९अ३, N.६१ब्६, Cओ.६३अ५, Cह्.४२०अ९ तत्र प्रयोगान्तरायः कतमः / येनान्तरायेण समवहितेन संमुखीभूतेनाशक्तो भवत्य् अप्रतिबलः सर्वेण सर्वं कुशलपक्षप्रयोगे /
SK
स पुनः कतमः / यद् आबाधको भवति दुःखितो बाढग्लानः / (Śभ् I २४८) अभीक्ष्णम् अस्य वातो वा कुप्यते पित्तं व श्लेष्मं वा विषूचिका वास्य काये संतिष्ठते / अपि त्व् अस्य दशत्य् अहिर् वृश्चिको वा शतपदी वा मनुष्यो वैनं विहेठयत्य् अमनुष्यो वा / न च लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् / अयम् एवंभागीयः प्रयोगान्तरायो वेदितव्यः //
SK
(I)-C-IIल्-११-ब्-(२) Mस्.६१अ२M, Sह्.१४५-२१, P.७०अ५, D.५९अ६, N.६२अ१, Cओ.६३ब्१, Cह्.४२०अ१६ प्राविवेक्यान्तरायः कतमः / यद् भोजनगुरुको भवति / बह्वर्थो बहुकृत्यो बहुकरणीयः कर्मारामरतिं रतो भवति / तेषु तेष्व् इतिकरणीयेषु प्रसृतमानसः / भाष्यारामो भवति / शक्तः प्रतिबलः सन् प्राविवेक्ये प्रहाणे प्रतिसंलयने भावनायाम् उद्देशस्वाध्यायमात्रकेण संतुष्टः / निद्रारामो भवति / स्त्यानमिद्धपर्यवस्थितः कुसीदजातीयो निद्रासुखं पार्श्वसुखं शयनसुखं च स्वीकरोति / सङ्गणिकारामो भवति / सार्धं गृहस्थप्रव्रजितै राजकथां वा करोति, चोरकथां वान्नकथां वा पानकथां वा वस्त्रकथां वा वेश्याकथां वा वीथीकथां वा जनपदमहामात्राख्यानकथां वा लोकाख्यानकथां वा समुद्राख्यानकथां वा / इत्य् एवंभागीययानर्थोपसंहितया कथया कालम् अतिनामयति /
SK
तत्र चाभिरतो भवत्य् अभीक्ष्णञ् च गणसंनिपातबहुलो भवति / तेषु तेष्व् अधिकरणेषु व्याक्षिप्तमानसो भवति व्याकुलमानसः / (Śभ् I २५०) संसर्गारामो भवति / गृहस्थप्रव्रजितानाम् असमवहितानां च [म्थोङ् बर् ऽदोद् चिङ् / फ्रद् प र्नम्स् दङ् ऽब्रल् बर् मि ऽदोद् प दङ्] / प्रपञ्चारामो भवति / प्रपञ्चरतो ऽवक्रमणीयेषु पूर्वंगमः प्राविवेक्येषु निक्षिप्तधुरः / इम एवंभागीया धर्माः प्रविवेकान्तरायो वेदितव्यः / यैः समवहितैः संमुखीभूतैर् न सुकरं भवत्य् अरण्यवनप्रस्थानि प्रान्तानि शयनासनान्य् अध्यावसितुम्, अरण्यानि वा वृक्षमूलानि वा शून्यागाराणि वा //
SK
(I)-C-III-११-ब्-(३) Mस्.६१अ६M, Sह्.१४७-२, P.७०ब्६, D.५९ब्५, N.६२ब्२, Cओ.६३ब्७, Cह्.४२०ब्५ प्रतिसंलयनान्तरायः कतमः / तद्यथा प्रतिसंलयनम् उच्यते शमथो विपश्यना च / तत्रास्ति शमथान्तरायः, अस्ति विपश्यनान्तरायः //
SK
(I)-C-IIल्-११-ब्-(३)-इ Mस्.६१ब्१L, Sह्.१४७-४, P.७०ब्७, D.५९ब्६, N.६२ब्२, Cओ.६४अ१, Cह्.४२०ब्७ तत्र शमथान्तरायः कतमः / प्रमादो ऽदेशवासश् च / यथास्य प्रमत्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति, शमथमात्रं वास्वादयति, लीनत्वाय वा चित्तम् उपनामयति, अन्धकारायितत्वं वा चेतसो भवति / यद्रूपेण चादेशवासेन मनुष्यकृतो वामनुष्यकृतो वा परतः संघट्टो भवति / येनास्य चित्तं बहिर्धा विक्षिप्यते / अयं शमथान्तरायः प्रतिसंलयनान्तरायो वेदितव्यः //
SK
(I)-C-IIल्-११-ब्-(३)-इइ Mस्.६१ब्२L, Sह्.१४७-१२, P.७१अ२, D.६०अ१, N.६२ब्५, Cओ.६४अ४, Cह्.४२०ब्१३ विपश्यनान्तरायः कतमः / यदुतात्मसंप्रग्राहश् चापल्यं च //
SK
(I)-C-IIल्-११-ब्-(३)-इइ-(अ) Mस्.६१ब्२M, Sह्.१४७-१४, P.७१अ२, D.६०अ१, N.६२ब्५, Cओ.६४अ४, Cह्.४२०ब्१४ तत्रात्मसंप्रग्रहो यथापि तद् ᳚अहम् अस्त्य् उच्चकुलः प्रव्रजितो ऽलीनः, अन्ये च भिक्षवो न तथे᳚त्य् आत्मानम् उत्कर्षयति संप्रगृह्णाति, परांश् च पंसयति / एवम् ᳚आध्यकुलप्रव्रजितो ऽदीनः᳚, एवम् ᳚अभिरूपो दर्शनीयः प्रासादिकः᳚, एवं ᳚बहुश्रुतः श्रुताधारः श्रुतसंनिचयः᳚, एवम् ᳚अहम् अस्मि कल्याणवाक्यो वाक्करणेनोपेतः, अन्ये च भिक्षवो न तथे᳚त्य् आत्मानम् उत्कर्षयति संप्रगृह्णाति, परांश् च पंसयति /
SK
स आत्मानं संप्रगृह्णान् ये ते भवन्ति भिक्षवः स्थविरा रात्रिज्ञा अभ्यवचीर्णब्रह्मचर्यास् तान् न कालेन कालं परिपृच्छति परिप्रश्नी करोति / ते चास्य न कालेन कालम् अविवृतानि च स्थानानि विवृण्वन्ति, विवृतानि च स्थानान्य् उत्तानीकुर्वन्ति, न च गम्भीरम् अर्थपदं साधु च सुष्ठु च प्रज्ञया प्रतिविध्य संप्रकाशयन्ति यावद् एव ज्ञानदर्शनस्य विशुद्धये / एवमस्य स आत्मसंप्रग्रह आन्तरायिको भवति यदुत विपश्यनायाः /
SK
पुनर् अपरम् अल्पमात्रकस्यावरमात्रकस्य ज्ञानदर्शनमात्रकस्य स्पर्शविहारमात्रकस्य लाभी भवति / स तेन ज्ञानमात्रकेण दर्शनमात्रकेण (Śभ् I २५४) स्पर्शविहारमात्रकेणात्मानम् उत्कर्षयति संप्रगृह्णाति / स आत्मानं संप्रगृह्णंस् तावता संतुष्टो भवति, नोत्तरि व्यायच्छते / एवम् अस्यान्तरायः कृतो भवत्य् आत्मसंप्रग्रहेण यदुत विपश्यनायाः //
SK
(I)-C-IIल्-११-ब्-(३)-इइ-(ब्) Mस्.६१ब्६M, Sह्.१४८-१३, P.७१ब्३, D.६०ब्१, N.६३अ५, Cओ.६४ब्४, Cह्.४२०ब्२९ चपलो वा पुनर् अनुपशान्तेन्द्रियो भवत्य् उद्धतेन्द्रिय उन्नतेन्द्रियः / स दूषितचित्ती भवति दुर्भाषितभाषी दुष्कृतकर्मकारी, न स्थिरं धर्मांश् चिन्तयति, न दृढं चिन्तयति / येन विपश्यनां न पूरयति न विशोधयति / एवम् अस्य चापल्यम् अन्तरायो भवति यदुत विपश्यनाया इति //
SK
(I)-C-IIल्-११-ब्-(३)-इइइ Mस्.६२अ१M, Sह्.१४८-२०, W.*८०-१९, P.७१ब्६, D.६०ब्३, N.६३अ७, Cओ.६४ब्६, Cह्.४२०च्५ द्वौ धर्मौ शमथान्तरायौ / यदुत प्रमादो ऽदेशवासश् च / द्वौ धर्मौ विपश्यनान्तरायौ / यदुतात्मसंप्रग्रहश् चापल्यम् च /
SK
इति यश् च शमथान्तरायः / यश् च विपश्यनान्तरायः / अयम् उच्यते प्रतिसंलयनान्तरायः /
SK
अयं च पुनर् अन्तरायस्य समासार्थ इति //
SK
(I)-C-IIल्-११-च् Mस्.६२अ२L, Sह्.१४९-२, P.७१ब्८, D.६०ब्४, N.६३ब्१, Cओ.६४ब्७, Cह्.४२०च्९ यश् चायं समासार्थो यश् च पूर्वको विस्तरविभागस् तद् एकध्यम् अभिसंक्षिप्यान्तराय इत्य् उच्यते / अस्य चान्तरायस्य विपर्ययेणानन्तरायो (Śभ् I २५६) वेदितव्य इति / य एषाम् अन्तरायाणाम् अभावो विगमो ऽसङ्गतिर् असमवधनम् / अयम् उच्यते ऽनन्तरायः //
SK
(I)-C-IIल्-१२-अ Mस्.६२अ३L, Sह्.१४९-८, W.*८०-३०, P.७२अ२, D.६०ब्५, N.६३ब्३, Cओ.६५अ१, Cह्.४२०च्११ त्यागः कतमः / यद् दानम् अनवद्यं चित्तालंकारार्थं चित्तपरिष्कारार्थं योगसंभारार्थम् उत्तमार्थस्य प्राप्तये ददाति /
SK
तत्र को ददाति / कुत्र ददाति / किं ददाति / केन ददाति / कथं ददाति / कस्माद् ददाति / येनास्य दानम् अनवद्यं भवति //
SK
(I)-C-IIल्-१२-अ-(१) Mस्.६२अ३L, Sह्.१५१-१, P.७२अ४, D.६०ब्७, N.६३ब्४, Cओ.६५अ३, Cह्.४२०च्१६ आह / दाता दानपतिर् ददाति / तत्र कतमो दाता कतमो दानपतिः / यः स्वैर् एव पाणिभिर् ददाति, अयम् उच्यते दाता / यस्य स्वकं दीयते तच् च दातुकामस्य नादातुकामस्य, अयम् उच्यते दानपतिः //
SK
(I)-C-IIल्-१२-अ-(२) Mस्.६२अ३L, Sह्.१५१-५, W.*८१-४, P.७२अ५, D.६१अ१, N.६३ब्६, Cओ.६५अ४, Cह्.४२०च्१८ तत्र कुत्र ददाति / आह / चतुर्षु ददाति / दुःखिताय, wपकारिणे, इष्टाय, विशिष्टाय च /
SK
(I)-C-IIल्-१२-अ-(२)-इ Mस्.६२अ४R, Sह्.१५१-७, P.७२अ६, D.६१अ२, N.६३ब्६, Cओ.६५अ५, Cह्.४२०च्१९ तत्र दुःखितायेति / कृपणा वा, वनीयका वा, अध्वगा वा, याचनका (Śभ् I २५८) वा, अन्धा व, बधिरा वा, अनाथा वा, अप्रतिसरणा वा, उपकरणविकला इति / ये वा पुनर् अन्ये ऽप्य् एवंभागीयाः / इम उच्यन्ते दुःखिताः //
SK
(I)-C-IIल्-१२-अ-(२)-इइ Mस्.६२अ४R, Sह्.१५१-११, P.७२अ८, D.६१अ३, N.६४अ१, Cओ.६५अ६, Cह्.४२०च्२३ उपकारिणः कतमे / तद्यथा मातापितरम्, आपायकं, पोषकम्, संवर्धकम् इति / ये वा पुनर् अटवीकान्तराद् उत्तारयन्ति, दुर्भिक्षाद् वा, परचक्रभयाद् वा, बन्धनाद् वा, आबाधाद् वा / हितोपदेशकाश् चास्य भवन्ति, सुखोपदेशका हितसुखोपसंहारकाः, उत्पन्नोत्पन्नेषु चाधिकरणेषु सहायकाः सहनन्दिनः सहशोकाः, आपत्सु चैनं न परित्यजन्तीति / ये वा पुनर् अन्ये ऽप्य् एवंभागीयाः / इम उच्यन्त उपकारिणः //
SK
(I)-C-IIल्-१२-अ-(२)-इइइ Mस्.६२अ६R, Sह्.१५१-१९, P.७२ब्४, D.६१अ५, N.६४अ३, Cओ.६५ब्१, Cह्.४२१अ१ इष्टाः कतमे / ये संस्तुताः, येषाम् अस्यान्तिके भवति प्रेम वा गौरवं वा / भक्तिवादो वा अलप्तकाः संस्तुतकाः सप्रियकाश् च भवन्तीति / ये वा पुनर् अन्ये ऽप्य् एवंभागीयाः / इम उच्यन्त इष्टाः //
SK
(I)-C-IIल्-१२-अ-(२)-इव् Mस्.६२अ७M, Sह्.१५१-२३, P.७२ब्५, D.६१अ७, N.६४अ४, Cओ.६५ब्२, Cह्.४२१अ४ विशिष्टाः कतमे / ते श्रमणब्राह्मणाः {MS श्रवण-}, साधुरूप संमताः, अव्याबाध्याः, अव्याबाध्यरताः, विगतरागाः, रागविनयाय प्रतिपन्नाः, विगतद्वेषाः, द्वेषविनयाय प्रतिपन्नाः, विगतमोहाः, मोहविनयाय प्रतिपन्ना इति / ये वा पुनर् अन्ये ऽप्य् एवंभागीयाः इम उच्यन्ते विशिष्टाः //
SK
(I)-C-IIल्-१२-अ-(३) Mस्.६२ब्१L, Sह्.१५२-६, W.*८१-१०, P.७२ब्८, D.६१ब्१, N.६४अ६, Cओ.६५ब्४, Cह्.४२१अ९ तत्र किं ददातीत्य् आह / समासतः सत्त्वसंख्यातम् असत्त्वसंख्यातं च वस्तु ददाति /
SK
(I)-C-IIल्-१२-अ-(३)-इ Mस्.६२ब्१M, Sह्.१५२-८, P.७२ब्८, D.६१ब्२, N.६४अ७, Cओ.६५ब्५, Cह्.४२१अ११ तत्र सत्त्वसंख्यातं वस्तु कतमत् / तद्यथा पुत्रदारं दासीदासकर्मकरपौरुषेयं हस्त्यश्वगवेडककुक्कुटस्त्रीपुरुषदारकदारिकम् इति / यद् वा पुनर् अन्यद् अप्य् एवंभागीयं वस्तु / अध्यात्मं वा पुनर् उपादाय करचरणशिरोमांसरुधिरवसादीन्य् अनुप्रयच्छति / इदम् अपि सत्त्वसंख्यातं दानं यत्र बोधिसत्त्वबोधाः संदृश्यन्ते / अस्मिंस् त्व् अर्थे नेदं दानम् अभिप्रेतम् / येषु तु सत्त्वेष्व् अस्यैश्वर्यं भवति, वशिता च प्रभविष्णुता च, अर्हति च तान् सत्त्वान् परेषां प्रतिपादयितुम् / प्रतिपादयंश् चात्मानम् अनवद्यं करोति / न तद्धेतोस् तत्प्रत्ययं परे मनांसि प्रदूषयन्ति / ये च सत्त्वाः परेषु प्रतिपादितास् ते न व्यापादिता भवन्ति /
SK
इदम् उच्यते नवद्यम् सत्त्वसंख्यातवस्तुदानम् //
SK
(I)-C-IIल्-१२-अ-(३)-इइ Mस्.६२ब्३R, Sह्.१५२-२१, P.७३अ६, D.६१ब्६, N.६४ब्४, Cओ.६६अ२, Cह्.४२१अ२१ असत्त्वसंख्यातं वस्तु कतमत् / तद्यथा धनवस्तु धान्यवस्तु देशवस्तु //
SK
(I)-C-IIल्-१२-अ-(३)-इइ-(अ) Mस्.६२ब्४L, Sह्.१५३-२, P.७३अ६, D.६१ब्६, N.६४ब्४, Cओ.६६अ२, Cह्.४२१अ२३ तत्र धनवस्तु कतमत् / तद्यथा मणिमुक्तावैदूर्यशंखशिलाप्रवाडाश्मगर्भमुसारगल्वजातरूपरजतलोहितिकादक्षिणावर्तम् इति / यद् वा पुनर् अन्यद् अप्य् एवंभागीयं रत्नं वा हिरण्यं वा रूप्यं वा वस्त्रं वा भाण्डोपस्करं वा गन्धजातं वा माल्यजातं वा / इदम् उच्यते धनवस्तुस् //
SK
(I)-C-IIल्-१२-अ-(३)-इइ-(ब्) Mस्.६२ब्५L, Sह्.१५३-८, P.७३ब्१, D.६२अ१, N.६४ब्६, Cओ. ६६अ४, Cह्.४२१अ२७ धान्यं कतमत् / यत् किंचिद् भोज्यं वा पेयं वा / तद्यथा यवा वा, शालिर् वा, गोधूमा वा, कोला वा, कुलत्था वा, तिला वा, माषा वा, इक्षुरसो वा, [दर् ब दङ्,] मृद्वीकारसो वेति / यद् वा पुनर् अन्यद् ९) अप्य् एवंभागीयम् / इदम् उच्यते धान्यम् //
SK
(I)-C-III-१२-अ-(३)-इइ-(च्) Mस्.६२ब्६L, Sह्. १५३-१३, P.७३ब्२, D.६२अ२, N.६४ब्७, Cओ.६६अ५, Cह्.४२१ ब्१ देशवस्तु कतमत् / तद्यथा क्षेत्रवस्तु, गृहवस्तु, आपणवस्तु, पुण्यशालाविहारप्रतिष्ठापनम् इति / यद् वा पुनर् अन्यद् अप्य् एवंभागीयम् / इदम् उच्यते देशवस्तु /
SK
तत्र यच् च सत्त्वासत्त्वसंख्यातं वस्तु, इदं ददातीति //
SK
(I)-C-IIल्-१२-अ-(४) Mस्.६२ब्६R, Sह्.१५३-१८, P.७३ब्४, D.६२अ४, N.६५अ२, Cओ.६६अ७, Cह्.४२१ब्५ केन ददातीति / या चालोभसहगता चेतना चित्ताभिसंस्कारो मनस्कर्म / यच् च तत्समुत्थापितं कायकर्म वाक्कर्म देयवस्तुपरित्यागाय स्वसन्ताने वा परसन्ताने वा / अनेन ददाति //
SK
(I)-C-IIल्-१२-अ-(५) Mस्.६२ब्७R, Sह्.१५४-१, P.७३ब्६, D.६२अ५, N.६५अ३, Cओ.६६ब्१, Cह्.४२१ब्७ तत्र कथं ददातीति / श्रद्धया ददाति / आगमदृष्टिः फलदर्शी (Śभ् I २६६) सत्कृत्य ददाति / प्रणतचित्तः स्वहस्तं ददात्य् अनपविद्धम् / कालेन ददाति यथैतत् परेषाम् उपयोग्यं स्यात् / परान् अनुपहत्य ददाति / धर्मेण समयेनासाहसेन समुदानयित्वा शुचि ददाति / प्रणीतं कल्पिकं ददाति / येन न परे सावद्या भवन्ति, नात्मा / अभीक्ष्णं ददाति / विनीय मात्सर्यमलं संनिधिमलं च दानं ददाति / पूर्वम् एव दानात् सुमना ददंश् चित्तं प्रसादयति दत्त्वा चाविप्रतिसारी भवति / एवं ददाति //
SK
(I)-C-IIल्-१२-अ-(६) Mस्.६३अ२L, Sह्.१५४-११, W.*८१-१६, P.७४अ३, D.६२ब्१, N.६५अ७, Cओ.६६ब्४, Cह्.४२१ब्१७ कस्माद् ददाति / आह / कारुण्याद् वा ददाति यदुत दुःखितेषु / कृतज्ञतया ददाति यदुतोपकारिषु / प्रेम्णा गौरवेण भक्त्या ददाति यदुतेष्टेषु / Iऔकिकलोकोत्तरविशेषप्रार्थनया ददाति यदुत विशिष्टेषु / तस्माद् ददातीत्य् उच्यते //
SK
(I)-C-IIल्-१२-ब् Mस्.६३अ३L, Sह्.१५४-१६, P.७४अ५, D.६२ब्३, N.६५ब्१, Cओ.६६ब्६, Cह्.४२१ब्२१ एभिर् आकारैर् अतो ऽस्य गृहिणो वा प्रव्रजितस्य वा चित्तालंकारार्थं चित्तपरिष्कारार्थं योगसंभारार्थम् उत्तमार्थस्य प्राप्तये तद् दानम्, अनवद्यं भवति /
SK
अयम् उच्यते त्यागः //
SK
(I)-C-IIल्-१३-अ Mस्. ६३अM३,Sह्. १५५-१, W.*८१-२६, P.७४अ७, D.६२ब्४,N.६५ब्३,Cओ.६६ब्७,Cह्.४२१ब्२५ श्रमणालंकारः कतमः / तद्यथैकत्यः श्राद्धो भवति, अशठः, अल्पाबाधः, आरब्धवीर्यजातीयः, प्राज्ञः, अल्पेच्छः, संतुष्टः, सुपोषः, सुभरः, धुतगुणसमन्वागतः, प्रासादिकः, मात्रज्ञः, सत्पुरुषधर्मसमन्वागतः, पण्डितलिङ्गसमन्वागतः, क्षमः, सूरतः, पेशलश् च भवति //
SK
(I)-C-IIल्-१३-अ-(१) Mस्.६३अM४,Sह्. १५५-८, P.७४ब्१, D.६२ब्५, N.६५ब्४, Cओ.६७अ२, Cह्.४२१च्५ कथं श्राद्धो भवति / प्रसादबहुलो भवति, अवकल्पनाबहुलः, विमुक्तिबहुलः, छन्दिकश् च कुशलेषु धर्मेषु / स शास्तरि प्रसीदति, न काङ्क्षति, न विचिकित्सति / शास्तारं सत्करोति, गुरुकरोति, मानयति, पूजयति / सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरति / यथा शास्तर्य् एवं धर्मे सब्रह्मचारिषु शिक्षायाम् अववादानुशासन्यां प्रतिसंस्तरे ऽप्रमादे समाधौ / एवं श्राद्धो भवति //
SK
(I)-C-IIल्-१३-अ-(२) Mस्.६३अ५R,Sह्.१५५-१६, P.७४ब्५, D.६३अ१, N.६५ब्७, Cओ.६७अ५, Cह्.४२१च्१२ कथम् अशठो भवति / ऋजुको भवति, ऋजुकजातीयः / यथाभूतम् आत्मानम् आविष्कर्ता भवति, शास्तुर् अन्तिके विज्ञानां च सब्रमचारिणाम् / एवम् अशठो भवति //
SK
(I)-C-IIल्-१३-अ-(३) Mस्.६३अ६M,Sह्. १५६-३, P.७४ब्६, D.६३अ२, N.६६अ१, Cओ.६७अ६, Cह्.४२१च्१४ कथम् अल्पाबाधो भवति / अरोगजातीयः समया पाचन्या ग्रहण्या समन्वागतो भवति, नात्युष्णया, नातिशीतया, अव्याबाधया, ऋतुसुखया/ ययास्याशितपीतखादितास्वादितानि सम्यक् सुखेन परिपाकं गच्छन्ति / एवम् अल्पाबाधो भवति //
SK
(I)-C-IIल्-१३-अ-(४) Mस्.६३अ७L,Sह्. १५६-८, P.७४ब्८, D.६३अ३, N.६६अ२, Cओ.६७अ७, Cह्.४२१च्१८ कथम् आरब्धवीर्यजातीयो भवति / स्थामवान् विहरति, वीर्यवान्, उत्साही, दृढपराक्रमः, अनिक्षिप्तधुरः कुशलेषु धर्मेषु / दक्षश् च भवति, अनलसः, उत्थानसंपन्नः / कर्ता भवति विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यम् / एवम् आरब्धवीर्यजातीयो भवति //
SK
(I)-C-IIल्-१३-अ-(५) Mस्.६३ब्१L,Sह्.१५६-१३, P.७५अ२, D.६३अ४, N.६६अ४, Cओ.६७ब्२, Cह्.४२१च्२२ कथं प्राज्ञो भवति / मेधास्मृतिबुद्धिसंपन्नो भवति / अधन्धेन्द्रियः, अमूढेन्द्रियः, अनेडकः, अहस्तसंवाचिकः प्रतिबलः सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुम् इति / सहजयापि बुद्ध्या (Śभ् I २७२) समन्वागतो भवति / प्रायोगिकयापि बुद्ध्या समन्वागतो भवति / एवं प्राज्ञो भवति //
SK
(I)-C-IIल्-१३-अ-(६) Mस्.६३ब्१R,Sह्.१५६-१९, P.७५अ४, D.६३अ६, N.६६अ६, Cओ.६७ब्३, Cह्.४२१च्२६ कथम् अल्पेच्छो भवति / यावद्भिर् गुणैः समन्वागतो भवत्य् अल्पेच्छताम् आदिं कृत्वा, तैः परतो ज्ञातुं न समन्वेषते, कश्चिन् मे परे न जानीयुः, ᳚अल्पेच्छ᳚ इति वा, ᳚एवंगुणयुक्त᳚ इति / एवम् अल्पेच्छो भवति //
SK
(I)-C-IIल्-१३-अ-(७) Mस्.६३ब्२M,Sह्. १५७-१, P.७५अ६, D.६३अ७, N.६६अ७, Cओ.६७ब्५, Cह्.४२१च्२८ कथं संतुष्टो भवति / इतरेतरेण चीवरपिण्डपातेन शयनासनेन तुष्टो भवति, संतुष्टः / सो ऽलब्ध्वा चीवरं लूहं वा प्रणीतं वा नोत्कण्ठति, न परितस्यति / लब्ध्वा च पुनर् अरक्तः परिभुङ्क्ते ऽसक्त इति विस्तरेण पूर्ववत् / यथा चीवरम् एवं पिण्डपातः शयनासनम् / एवं संतुष्टो भवति //
SK
(I)-C-IIल्-१३-अ-(८) Mस्.६३ब्३M,Sह्. १५७-७, P.७५अ८, D.६३ब्२, N.६६ब्२, Cओ.६७ब्६, Cह्.४२२अ५ कथं सुपोषो भव्ति / आत्मास्यैकः पोष्यो भवति / न तु परे, तद्यथा दारका वा मनुष्या वेति, ये वा पुनर् अन्ये ऽपि के चिद् / येषाम् अर्थाय यान् पर्येष्टिम् आपद्येत, परे चैनं दायकदानपतयो दुष्पोष्यम् इति पश्येरन् / एवं सुपोषो भवति //
SK
(I)-C-IIल्-१३-अ-(९) Mस्.६३ब्४L,Sह्.१५७-१२, P.७५ब्२, D.६३ब्३, N.६६ब्३, Cओ.६८अ१, Cह्.४२२अ७ कथं सुभरो भवति / अल्पेनापि यापयति / लूहेनापि यापयति / एवं सुभरो भवति //
SK
(I)-C-IIल्-१३-अ-(१०) Mस्.६३ब्४M,Sह्.१५७-१४, W.* ८२-१, P.७५ब्३, D.६३ब्३, N.६६ब्४, Cओ.६८अ१, Cह्.४२२अ९ कथं धुतगुणसमन्वागतो भवति / प्राप्तपिण्डपातिको भवति, सावदानपिण्डपातिकः / एकासनिकः / खलुपश्चाद्भक्तिकः / त्रैचीवरिकः / नामतिकः / पांसुकूलिकः / आरण्यकः / वृक्षमूलिकः / आभ्यवकाशिकः / श्माशानिकः / नैषद्यिकः / )याथासंस्तरिकः / त एते पिण्डपातं चीवरं शयनासनम् आरभ्य द्वादशका धुतगुणा भवन्ति त्रयोदशका वा /
SK
तत्र पिण्डपातिकत्वं भिद्यमानं द्विधा भवति, प्राप्तपिण्डपातिकः सावदानपिण्डपातिकश् च //
SK
(I)-C-IIल्-१३-अ-(१०)-इ Mस्.-,Sह्. १५८-७, P.७५ब्५, D.६३ब्६, N.६६ब्६, Cओ.६८अ४, Cह्.४२२अ१५ तत्र प्राप्तपिण्डपातिकः कतमः / [ऽद्रिस् पऽइ ख्यिम् दग् नस्] यथालब्धं यथोपसंपन्नं पिण्डपातं परिभुङ्क्ते //
SK
(I)-C-IIल्-१३-अ-(१०)-इइ Mस्.६३ब्५R, Sह्.१५८-७,W.*८२-१३,P.७५ब्७,D.६३ब्६, N.६६ब्७,Cओ.६८अ४,Cह्.४२२अ १७ सावदानपिण्डपातिकः कतमः / वेश्मानुवेश्य कुलानि भिक्षित्वा पर्यटित्वा यथालब्धं यथोपसंपन्नं पिण्डपातं परिभुङ्क्ते / नो त्व् उच्चैः शुण्डां प्रणिधाय कुलान्य् उपसंक्रामति / ᳚अतो ऽहं लप्स्ये प्रणीतं खादनीयम् भोजनीयं यावदाप्तम्᳚ /
SK
तत्र पिण्डपातिकत्वम् अविशेषेणारभ्य द्वादश भवन्ति प्रभेदं पुनर् आरभ्य त्रयोदश //
SK
(I)-C-IIल्-१३-अ-(१०)-इइइ Mस्.६३ब्६R, Sह्.१५८-१४, P.७६अ१, D.६४अ१, N.६७अ२, Cओ.६८अ६, Cह्.४२२अ२१ तत्रैकासनिकत्वं कतमत् / एकस्मिन्न् आसने निषण्णो यावत् परिभोक्तव्यं तावत् परिभुङ्क्ते / व्युत्थितश् च पुनस् तस्माद् आसनान् न परिभुङ्क्ते / इदम् उच्यते एकासनिकत्वम् //
SK
(I)-C-IIल्-१३-अ-(१०)-इव् Mस्.६३ब्७M,Sह्.१५८-१८, P.७६अ२, D.६४अ२, N.६७अ३, Cओ.६८अ७, Cह्.४२२अ२३ खलुपश्चाद्भक्तिकत्वं कतमत् / भोजनार्थं निषण्णस् तावन् न परिभुङ्क्ते, यावत् सर्वभोजनं प्रतीच्छति, यावता जानाति शक्ष्यामि यापयितुम् / यतश् च पुनर् जानीते ᳚न मे ऽत उत्तरि भोजनेन कृत्यं (Śभ् I २७८) भविष्यती᳚ति, ततः सर्वं परिगृह्यारभते परिभोक्तुम् / एवं खलुपश्चाद्भक्तिको भवति //
SK
(I)-C-IIल्-१३-अ-(१०)-व् Mस्.६४अ१M,Sह्.१५९-२, P.७६अ४, D.६४अ३, N.६७अ४, Cओ.६८ब्१, Cह्.४२२अ२८ कथं त्रैचीवरिको भवति / त्रिभिश् च चीवरैर् यापयति, सांघाटिना, उत्तरासंगेन, अन्तर्वासेन च / त्रयाणां चीवराणाम् अतिरेकम् उत्तरं न धारयति / एवं त्रैचीवरिको भवति //
SK
(I)-C-IIल्-१३-अ-(१०)-वि Mस्.६४अ१R,Sह्.१५९-६, P.७६अ५, D.६४अ५, N.६७अ६, Cओ.६८ब्२, Cह्.४२२ब्२ कथं नामतिको भवति / यत् किंचिच् चीवरं धारयति त्रिचीवरं वा, अतिरेकचीवरं वा / सर्वं तद् और्णिकं धारयति / न त्व् अन्यत् / एवं नामतिकं धारयति //
SK
(I)-C-IIल्-१३-अ-(१०)-विइ Mस्.६४अ२M,Sह्.१५९-१०, P.७६अ६, D.६४अ५, N.६७अ६, Cओ.६८ब्३, Cह्.४२२ब्५ कथं पांसुकूलिको भवति / यच् चीवरं परैर् मुक्तं भवत्य् उच्छिष्टं छोरितं रथ्यायां वा, वीथ्यां वा, चत्वरे वा, श्र्ङ्गाटके वा, पथि वा, उत्पथे वा, उच्चारसंसृष्टं वा प्रस्रावसंसृष्टं वा, उच्चारप्रस्रावपूयरुधिरखेटप्रक्षितं वा / ततो यद् अशुचि तद् अपनीय, सारम् आदाय, शोधयित्वा सीवित्वा विवर्णीकृत्य धारयति / एवं पांसुकूलिको भवति //
SK
(I)-C-IIल्-१३-अ-(१०)-विइइ Mस्.६४अ३M,Sह्.१५९-१७, P.७६ब्१, D.६४अ६, N.६७ब्१, Cओ.६८ब्५, Cह्.४२२ब्९ कथम् आरण्यको भवति / अरण्यवनप्रस्थानि प्रान्तानि शयनासनान्य् अध्यावसति, यानि व्यवकृष्टानि ग्रामनिगमानाम् / एवम् आरण्यको भवति //
SK
(I)-C-IIल्-१३-अ-(१०)-इx Mस्.६४अ३R,Sह्. १५९-२०, P.७६ब्२, D.६४अ७, N.६७ब्१, Cओ.६८ब्६, Cह्.४२२ब्१२ कथं वृक्षमूलिको भवति / वृक्षमूले वासं कल्पयति वृक्षमूलं निश्रित्य / एवं वृक्समूलिको भवति //
SK
(I)-C-IIल्-१३-अ-(१०)-x Mस्.६४अ[मर्गिन्],Sह्. १६०-३, P.७६ब्३, D.६४ब्१, N.६७ब्२, Cओ.६८ब्६, Cह्.४२२ब्१४ कथम् आभ्यवकाशिको भवति / अभ्यवकाशे वासं कल्पयति, अनवच्छन्ने विवृते देशे / एवम् आभ्यवकाशिको भवति //
SK
(I)-C-IIल्-१३-अ-(१०)-xइ Mस्.६४अ[मर्गिन्],Sह्. १६०-६, P.७६ब्३, D.६४ब्१, N.६७ब्३, Cओ.६८ब्७, Cह्.४२२ब्१५ कथं श्माशानिको भवति / श्मशाने वासं कल्पयति, यत्र मृतमृतो जनकायो ऽभिनिर्ह्रियते / एवं श्माशानिको भवति //
SK
(I)-C-IIल्-१३-अ-(१०)-xइइ Mस्.६४अ४L,Sह्. १६०-९, P.७६ब्४, D.६४ब्२, N.६७ब्३, Cओ.६८ब्७, Cह्.४२२ब्१७ कथं नैषद्यिको भवति / मञ्चे वा पीठे वा तृणसंस्तरे वा निषद्यया कालम् अतिनामयति / नो तु मञ्चं वा पीठं वा कुड्यं वा वृक्षमूलं वा तृणसंस्तरं वा निश्रित्य पृष्ठं वा पार्श्वं वा ददाति / एवं नैषद्यिको भवति //
SK
(I)-C-IIल्-१३-अ-(१०)-xइइइ Mस्.६४अ५L,Sह्.१६०-१५, P.७६ब्५, D.६४ब्३, N.६७ब्४, Cओ.६९अ१, Cह्.४२२ब्२१ कथं याथासंस्तरिको भवति / यस्मिन् तृणसंस्तरे वा पर्णसंस्तरे वा शय्यां कल्पयति / तृणसंस्तरं वा पर्णसंस्तरं वा सकृद् यथैव संस्तृतं भवति तथैव शय्यां कल्पयति / नो तु पुनर् विकोपयत्य् अभिसंस्करोति च / एवं याथासंस्तरिको भवति //
SK
(I)-C-IIल्-१३-अ-(१०)-अ Mस्.६४अ५R,Sह्.१६०-२०,W.८२-१८,**८२-२९, P.७६ब्७, D.६४ब्४, N.६७ब्५, Cओ.६९अ२, Cह्.४२२ब्२४ केनैते धुतगुणा उच्यन्ते / तद्यथा, ऊर्णा वा कर्पासं वा यस्मिन् समये धुतं भवति संकृत्तं विचूर्णं तस्मिन् समये मृदु च भवति लघु च कर्मण्यं च, यदुत सूत्राभिनिर्हारे वा तूलाभिनिर्हारे वा /
SK
एवम् एवेहैकत्यस्य पिण्डपातपातरागेण पिण्डपाते चित्तं सक्तं भवति संसक्तं, चीवररागेण चीवरे चित्तम् सक्तं भवति संसक्तम्, शयनासनरागेण शयनासने चित्तं सक्तं भवति संसक्तम् / स एभिर् धुतगुणैर् विशोधयत्य् ऋजूकरोति, मृदु कर्मण्यम् आर्जवम् आस्रवं विधेयम्, यदुत ब्रह्मचर्यवासाय /
SK
तेनोच्यन्ते धुतगुणा इति //
SK
(I)-C-IIल्-१३-अ-(१०)-ब् Mस्.६४ब्२M, Sह्.१६१-९,P.७७अ३, D.६४ब्७, N.६८अ२, Cओ.६९अ५, Cह्.४२२च्४ तत्र पिण्डपातरागो द्विविधो ऽन्तरायः / प्रणितभोजनरागः प्रभूतभोजनरागश् च / तत्र प्रणीतभोजनरागस्य प्रहाणाय पिण्डपातिकः / प्रभूतभोजनरागस्य प्रहाणायैकासनिकः खलुपश्चाद्भक्तिकश् च भवति /
SK
चीवररागो त्रिविधो ऽन्तरायः / प्रभूतचीवररागश् चीवरे मृदुसंस्पर्शरागः प्रणीतचीवररागश् च / तत्र प्रभूतचीवररागस्य प्रहाणाय त्रैचीवरिको भवति / चीवरे मृदुसंस्पर्शरागस्य प्रहाणाय नामतिको भवति / प्रणीतचीवररागस्य प्रहाणाय पांशुकूलिको भवति /
SK
शयनासनरागश् चतुर्विधो ऽन्तरायः / तद्यथा संसर्गरागः, प्रतिश्रयरागः, पार्श्वसुखशयनसुखरागः, आस्तरणप्रत्यास्तरणोपच्छादनरागः / तत्र संसर्गरागस्य प्रहाणायारण्यको भवति / प्रतिश्रयरागस्य प्रहाणाय वृक्षमूलिक आभ्यवकाशिकः श्माशानिको भवति / अपि च श्माशानिकत्वं मिथुनरागस्य प्रहाणाय भवति / पार्श्वसुखशयनसुखरागस्य प्रहाणाय नैषद्यिको भवति / आस्तरणप्रत्यास्तरणोपच्छादनरागस्य प्रहाणाय याथासंस्तरिको भवति / एवं (Śभ् I २८६) धुतगुणसमन्वागतो भवति //
SK
(I)-C-IIल्-१३-अ-(११) Mस्.६४ब्५L, Sह्.१६२-७, P.७७ब्३, D.६५अ५, N.६८अ७, Cओ.६९ब्४, Cह्.४२२च्१८ कथं प्रासादिको भवति / प्रासादिकेनाभिक्रमप्रतिक्रमेण समन्वागतो भवति, आलोकितव्यवलोकितेन संमिञ्जितप्रसारितेन सांघाटीचीवरपात्रधारणेन / एवं प्रासादिको भवति //
SK
(I)-C-IIल्-१३-अ-(१२) Mस्.६४ब्५R,Sह्.१६२-११, P.७७ब्४, D.६५अ६, N.६८ब्१, Cओ.६९ब्५, Cह्.४२२च्२० कथं मात्रज्ञो भवति / इह श्राद्धा ब्राह्मणगृहपतयो स्वर्थं प्रवारयन्ति, यद् उत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः / तत्र प्रतिग्रहे मात्रां जानाति एवं मात्रज्ञो भवति //
SK
(I)-C-IIल्-१३-अ-(१३) Mस्.६५अ१L,Sह्.१६२-१५, P.७७ब्६, D.६५अ७, N.६८ब्३, Cओ.६९ब्६, Cह्.४२२च्२२ कथं सत्पुरुषधर्मसमन्वागतो भवति / उच्चकुलप्रव्रजितो वा सन्न् आढ्यकुलप्रव्रजितो वाभिरूपो वा दर्शनीयः प्रासादिको बहुश्रुतो वाक्करणेनोपेतः / अन्यतमान्यतमस्य वा ज्ञानमात्रकस्य दर्शनमात्रकस्पर्शविहारमात्रकस्य लाभी सन्न् एतेन नात्मानम् उत्कर्षयति परांश् च पंसयति / [छोस् दङ् र्जेस् सु म्थुन् पऽइ छोस् ऽबऽ źइग् ब्स्ग्रुब् पर् ब्य ब खो न यिन् पर् रिग् नस् /] नान्यत्र (Śभ् I २८८) धर्मानुधर्मप्रतिपन्नो भवति / एवं सत्पुरुषधर्मसमन्वागतो भवति //
SK
(I)-C-IIल्-१३-अ-(१४) Mस्.६५अ२M,Sह्.१६२-२२, P.७८अ१, D.६५ब्२, N.६८ब्५, Cओ.७०अ१, Cह्.४२२च्२८ कथं पण्डितलिङ्गसमन्वागतो भवति / कर्मलक्षणो बालः कर्मलक्षणः पण्डितः / यथा कथम् इति / बालो दुश्चिन्तितचिन्ती भवति, दुर्भाषितभासी दुष्कृतकर्मकारी / पण्डितः पुनः सुचिन्तितचिन्ती भवति, सुभाषितभाषी सुकृतकर्मकारी / एवं पण्डितलिङ्गसमन्वागतो भवति //
SK
(I)-C-IIल्-१३-अ-(१५) Mस्.६५अ३M,Sह्.१६३-६, P.७८अ४, D.६५ब्४, N.६८ब्७, Cओ.७०अ३, Cह्.४२३अ४ कथं क्षमो भवति / आक्रुष्टो न प्रत्याक्रोशति / रोषितो न प्रतिरोषयति / ताडितो न प्रतिताडयति / भण्डितो न प्रतिभण्डयति / स चायुष्मान् क्षमो भवति शीतस्योष्णस्य जिघत्सायाः पिपासाया दंशमशकवातातपसरीसृपसंस्पर्शाणाम्, परतो दुरुक्तानां दुरागतानां वचनपथानाम् / शारीरिकाणां वेदनानां दुःखानां तीव्राणां खराणां कटुकानाम् अमन-आपानां प्राणहारिणीनां क्षमो भवत्य् अधिवासनजातीयः / एवं क्षमो भवति //
SK
(I)-C-IIल्-१३-अ-(१६) Mस्.६५अ४R,Sह्.१६३-१५, P.७८अ७, D.६५ब्६, N.६९अ२, Cओ.७०अ५, Cह्.४२३अ९ कथम् सूरतो भवति / यथापि तन् मैत्रेण कायकर्मणा समन्वागतो भवति, मैत्रेण वाक्कर्मणा, मैत्रेण मनस्कर्मणा, शास्तुर् अन्तिके विज्ञानां च सब्रह्मचारिणाम् / साधारणपरिभोगी च भवति, अप्रतिभोगी च भवत्य् अप्रतिगुप्तभोजी, लाभैर् धार्मिकैर् धर्मप्रतिलब्धैः, (Śभ् I २९०) पात्रगतैः पात्रपर्यापन्नैः/ शीलसामान्यगतश् च भवति, दृष्टिसामान्यगतश् च / स एभिः षड्भिः संरञ्जनीयैर् धर्मैः समन्वागतः प्रियकरणैर् गुरुकरणैर् अविवादकरणैः, सुखसंवास्यो भवति, अविहेठनजातीयः / अभिनन्दन्ति चैनं विज्ञाः सब्रह्मचारिण एकव्यवसायम् / एवम् सूरतो भवति //
SK
(I)-C-IIल्-१३-अ-(१७) Mस्.६५अ६R,Sह्. १६४-३, P.७८ब्३, D.६६अ२, N.६९अ५, Cओ.७०ब्५, Cह्.४२३अ१८ कथं पेशलो भवति / विगतभृकुटिर् भवत्य् उत्तानमुखवर्णः, स्मितपूर्वंगमः, पूर्वाभिभाषी, प्रियवादी, संग्रहशीलः, शुद्धसन्तानः / एवं पेशलो भवति //
SK
(I)-C-IIल्-१३-ब् Mस्.६५अ७M,Sह्. १६४-६, P.७८ब्५, D.६६अ३, N.६९अ६, Cओ.७०ब्३, Cह्.४२३अ२० स एभिर् धर्मैः समन्वागतो धर्मकामो भवति, गुणकामः / न Iआभसत्कारकीर्तिश्लोककामः / न समारोपिकया मिथ्यादृष्ट्या समन्वागतो भवति, नाप्य् अपवादिकया / असन्तं धर्मं न समारोपयति / सन्तं धर्मं नापवदति / स ᳚यत् तद् भवति कवितं कावेयं चित्राक्षरं चिह्नपदव्यञ्जनं लोकायतप्रतिसंयुक्तम्, तन् निरर्थकम्᳚ इति विदित्वा, आरात् परिवर्जयति, न तेनेयते, न तेन प्रीयते /
SK
न चोत्सदं पात्रचीवरं धारयति / गृहस्थैः सार्धं संसर्गं परिवर्जयति क्लेशवर्धनम् / आर्यैः सह संसर्गं करोति ज्ञानविशोधकम् / न च मित्रकुलानि करोति प्रतिगृह्णाति / ᳚मा मे ततो निदानं भविष्यत्य् अनेकपर्यायेण व्याक्षेपाद् व्यापारो वा तेषां वा पुनर् विपरिणामाद् अन्यथीभावाद् उत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा᳚ इति /
SK
उत्पन्नोत्पन्नांश् च क्लेशोपक्लेशान् नाधिवासयति, प्रजहति, विनोदयति, व्यन्तीकरोति / ᳚मा मे ऽतोनिदानम् उत्पद्यते दृष्टधार्मिकं वा दुःखं सांपरायिकं वे᳚ति /
SK
श्रद्धादेयं च न विनिपातयति, अच्युतशीलः, अभ्रष्टव्रतः, श्रद्धादेयं परिभुङ्क्ते / न च श्रद्धादेयं प्रतिक्षिपति / न शिक्षां प्रत्याख्याति /
SK
आत्मदोषान्तरस्खलितगवेषी वा भवति / प्रतिच्छन्नकल्याणो विवृतपापकः / परदोषान्तरस्खलितेषु नाभोगः / संचिन्त्य चापत्तिर् नापद्यते जीवितहेतोर् अपि / आपन्नश् च लघु लघ्व् एव यथाधर्मं (Śभ् I २९४) प्रतिकरोति / इतिकरणीयेषु च दक्षो भवत्य् अनलसः स्वयंकारी / न परतः कायपरिचर्यां पर्येषते /
SK
बुद्धानां च बुद्धश्रावकाणां चाचिन्त्यम् अनुभावं, गम्भीरां च देशनाम् अधिमुच्यते, न प्रतिक्षिपति, ᳚तथागता एव जानकाः पश्यकाः, नाहम्᳚ इति विदित्वा, न च स्वयंदृष्टिपरामर्शस्थायी भवत्य् असमञ्जसग्राही दुःप्रतिनिःसर्गमन्त्री /
SK
स एभिर् गुणैर् युक्त एवंविहारी एवंशिक्षमाणः श्रमणालंकारेणालंकृतः शोभते / तद्यथा कश् चिद् एव पुरुषो युवा मण्डनजातीयः कामोपभोगी स्नातानुलिप्तो ऽवदातवस्त्रप्रावृतो विविधैर् भूषणैर् अलंकृतः शोभते, तद्यथा हर्षैर् वा केयूरैर् वाङ्गुलिमुद्रिकया वा जातरूपरजतमालया वा / एवम् एव स एभिर् विविधैः श्रमणालंकारैर् गुणैर् अलंकृतो भासते तपति विरोचते / तस्माच् छ्रमणालंकार इत्य् उच्यते / अयम् उच्यते श्रमणालंकारः //
SK
// उद्दानम् //
SK
श्राद्धाशठो ऽल्पाबाधवीर्यं प्रज्ञाल्पेच्छता संतुष्टिः / सुपोषता सुभरता धुतप्रासादिकमात्रता / सत्पुरुषः पण्डितलिङ्गं च क्षान्तिः सौरत्यपेशला // [१]
SK
स्याद् आत्मपरसंपत्तिच्छन्दः शीलेन्द्रियस् तथा / भोजनं चैव जागर्या संप्रजानद्विहारिता // [२]
SK
तथा कल्याणमित्रः सद्धर्मश्रवणचिन्तना / अनन्तरायस् त्यागश् च अलंकारेण पश्चिमः // [३]
SK
लौकिकं चैव वैराग्यं तथा लोकोत्तरेण च / तयोश् चैव हि संभारो भूमिर् नैष्क्रम्यसंज्ञिता // [४]
SK
// योगाचारभूमौ श्रावकभूमिसंगृहीतायां प्रथमं योगस्थानम् //
SK
(II)-A-I Mस्.६६अ२L, Sह्.१६९-१, W.८३-१३, P.८०अ२, D.६७अ४, N.७०ब्२, Cओ.७१ब्२, Cह्.४२४अ१ तत्र कति पुद्गला ये ऽस्यां नैष्क्रम्यभूमौ यथादेशितायां यथापरिकीर्तितायां निष्क्रामन्ति / कथं च पुद्गलानां व्यवस्थानं भवति / कतमद् आलम्बनम् / कतमो ऽववादः / कतमा शिक्षा / कतमे शिक्षानुलोमिका धर्माः / कतमो योगभ्रंशः / कतमे योगाः / कतमो मनस्कारः / कतमद् योगकरणीयम् / कति योगाचाराः / कतमा योगभावना / कतमद् भावनाफलम् / कति पुद्गलपर्यायाः / कति माराः / कति मारकर्माणि / कथम् आरम्भो विफलो भवति //
SK
(II)-A-II-१-अ Mस्.६६अ३R, Sह्.१६९-१४, W.८४-१, P.८०अ७, D.६७अ७, N.७०ब्५, Cओ.७१ब्७, Cह्.४२४अ१७ तत्र पुद्गला अष्टाविंशतिः / कतमे ऽष्टाविंशतिः / तद्यथा मृद्विन्द्रियः / तीक्ष्णेन्द्रियः / उत्सदरागः / उत्सदद्वेषः / उत्सदमोहः / उत्सदमानः / उत्सदवितर्कः / समप्राप्तः / मन्दरजस्कजातीयः / प्रतिपन्नकः / फलस्थः / श्रद्धानुसारी / धर्मानुसारी / श्रद्धाधिमुक्तः / दृष्टिप्राप्तः / कायसाक्षी / सप्तकृद्भवपरमः / कुलंकुलः / एकवीचिकः / अन्तरापरिनिर्वायी / उपपद्यपरिनिर्वायी / अनभिसंस्कारपरिनिर्वायी / साभिसंस्कारपरिनिर्वायी / ऊर्ध्वंस्रोता / (Śभ् II ४) समयविमुक्तः / अकोप्यधर्मा / प्रज्ञाविमुक्तः / उभयतोभागविमुक्तश् चेति //
SK
(II)-A-II-१-अ-(१) Mस्.६६अ५M, Sह्.१७०-७, P.८०ब्४, D.६७ब्४, N.७१अ२, Cओ.७२अ४, Cह्.४२४अ२५ तत्र मृद्विन्द्रियः पुद्गलः कतमः / यस्य पुद्गलस्य मृदूनीन्द्रियाणि धन्धवाहीनि मन्दवाहीनि ज्ञेये वस्तुनीति पूर्ववत् / स पुनर् द्विविधो वेदितव्यः / आदित एव मृद्विन्द्रियगोत्रो परिभावितेन्द्रियश् च //
SK
(II)-A-II-१-अ-(२) Mस्.६६अ६L, Sह्.१७०-१२, P.८०ब्६, D.६७ब्५, N.७१अ३, Cओ.७२अ५, Cह्.४२४अ२८ तीक्ष्णेन्द्रियः पुद्गलः कतमः / यस्य पुद्गलस्य तीक्ष्णानीन्द्रियाण्य् अधन्धवाहीनि भवन्त्य् अमन्दवाहीनि ज्ञेये वस्तुनीति पूर्ववत् / स पुनर् द्विविधो वेदितव्यः / आदित एव तीक्ष्णेन्द्रियगोत्रः परिभावितेन्द्रियश् च //
SK
(II)-A-II-१-अ-(३) Mस्.६६अ६R, Sह्.१७०-१७, P.८०ब्७, D.६७ब्६, N.७१अ५, Cओ.७२अ६, Cह्.४२४ब्४ रागोत्सदः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु राग आसेवितो भावितो बहुलीकृतः, स तेन हेतुना तेन प्रत्ययेनैतर्हि रञ्जनीये वस्तुनि तीव्ररागश् च भवत्य् आयतरागश् च / अयम् उच्यते रागोत्सदः पुद्गलः //
SK
(II)-A-II-१-अ-(४) Mस्.६६अ७M, Sह्.१७१-१, P.८१अ१, D.६७ब्७, N.७१अ६, Cओ.७२ब्१, Cह्.४२४ब्८ द्वेषोत्सदः पुद्गलः कतमः / येन पुद्गलेन द्वेषः पूर्वम् अन्यासु (Śभ् II ६) जातिष्व् आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन प्रत्ययेनैतर्हि द्वेषणीये वस्तुनि तीव्रद्वेषश् च भवत्य् आयतद्वेषश् च / अयम् उच्यते द्वेषोत्सदः पुद्गलः //
SK
(II)-A-II-१-अ-(५) Mस्.६६अ८L, Sह्.१७१-६, P.८१अ३, D.६८अ१, N.७१अ७, Cओ.७२ब्२, Cह्.४२४ब्११ मोहोत्सदः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु मोह आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन प्रत्ययेनैतर्हि मोहनीये वस्तुनि तीव्रमोहश् च भवत्य् आयतमोहश् च / अयम् उच्यते मोहोत्सदः पुद्गलः //
SK
(II)-A-II-१-अ-(६) Mस्.६६ब्१L, Sह्.१७१-११, P.८१अ५, D.६८अ३, N.७१ब्२, Cओ.७२ब्३, Cह्.४२४ब्१५ मानोत्सदः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु मान आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेन च प्रत्ययेनैतर्हि मननीये वस्तुनि तीव्रमानश् च भवत्य् आयतमानश् च / अयम् उच्यते मानोत्सदः पुद्गलः//
SK
(II)-A-II-१-अ-(७) Mस्.६६ब्१R, Sह्.१७१-१६, P.८१अ७, D.६८अ४, N.७१ब्३, Cओ.७२ब्४, Cह्.४२४ब्१८ वितर्कोत्सदः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु वितर्क आसेवितो भावितो बहुलीकृतः, तेन च हेतुना तेनैव प्रत्ययेनैतर्हि वितर्कस्थानीये वस्तुनि तीव्रवितर्कश् च भवत्य् आयतवितर्कश् च / अयम् उच्यते वितर्कोत्सदः पुद्गलः //
SK
(II)-A-II-१-अ-(८) Mस्.६६ब्२R, Sह्.१७१-२१, P.८१ब्१, D.६८अ५, N.७१ब्४, Cओ.७२ब्६, Cह्.४२४ब्२२ समप्राप्तः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु रागो द्वेषो मोहो मानो वितर्को नासेवितो भावितो बहुलीकृतः / न चैते धर्मा आदीनवतो दृष्टा विदूषिताः संतीरिताः / स तेन हेतुना तेन प्रत्ययेन रञ्जनीये वा वस्तुनि द्वेषणीये मोहनीये मन्यनीये वितर्कनीये न तीव्ररागो भवति नाप्य् आयतरागः / न चास्य न समुदाचरति रागो यदुत तेन वस्तुन / यथा राग एवं द्वेषो मोहो मानो वितर्कः / अयम् उच्यते समप्राप्तः पुद्गलः //
SK
(II)-A-II-१-अ-(९) Mस्.६६ब्४L, Sह्.१७२-८, P.८१ब्५, D.६८ब्२, N.७२अ१, Cओ.७३अ२, Cह्.४२४ब्२९ मन्दरजस्कः पुद्गलः कतमः / येन पुद्गलेन पूर्वम् अन्यासु जातिषु न राग आसेवितो भावितो बहुलीकृतः / आदीनवतश् च बहुलं दृष्टो भवति विदूषितः संतीरितः / स तेन हेतुना तेन प्रत्ययेनैतर्हि रञ्जनीये वस्तुनि समवहिते संमुखीभूते ऽधिमात्रे प्रचुर उल्बणे धन्धं रागम् उत्पादयति / मध्ये परीत्ते नैवोत्पादयति / यथा राग एवं द्वेषो मोहो मानो वितर्को वेदितव्यः / अयम् उच्यते मन्दरजस्कः पुद्गलः //
SK
(II)-A-II-१-अ-(१०) Mस्.६६ब्५R, Sह्.१७२-१७, P.८२अ१, D.६८ब्४, N.७२अ३, Cओ.७३अ५, Cह्.४२४च्५ प्रतिपन्नकः पुद्गलः कतमः / आह / प्रतिपन्नकाः पुद्गलाश् चत्वारः / कतमे चत्वारः / तद्यथा स्रोत-आपत्तिफलप्रतिपन्नकः, सकृदागामिफलप्रतिपन्नकः, अनागामिफलप्रतिपन्नकः, अर्हत्त्वफलप्रतिपन्नकश् च / अयम् उच्यते प्रतिपन्नकः पुद्गलः //
SK
(II)-A-II-१-अ-(११) Mस्.६६ब्६R, Sह्.१७३-२, P.८२अ३, D.६८ब्५, N.७२अ५, Cओ.७३अ६, Cह्.४२४च्८ फलस्थः पुद्गलः कतमः / आह / स्रोत-आपन्नः, सकृदागामी, अनागामी, अर्हन् / अयम् उच्यते फलस्थः पुद्गलः //
SK
(II)-A-II-१-अ-(१२) Mस्.६६ब्७L, Sह्.१७५-१, P.८२अ५, D.६८ब्७, N.७२अ६, Cओ.७३ब्१, Cह्.४२४च्११ श्रद्धानुसारी पुद्गलः कतमः / यः पुद्गलः परतो ऽववादानुशासनीं पर्येषते / तद्बलेन च प्रतिपद्यते यदुत फलस्याधिगमाय / नो तूद्गृहीतेषु धर्मेषु पर्यवाप्तेषु चिन्तितेषु तुलितेषूपपरीक्षितेषु स्वयम् एव शक्तो भवति प्रतिबलस् तान् धर्मान् भावनाकारेणानुसर्तुम् / नान्यत्र पुद्गलानुसारिण्या श्रद्धया प्रतिपद्यते / तस्माच् छ्रद्धानुसारीत्य् उच्यते //
SK
(II)-A-II-१-अ-(१३) Mस्.६६ब्८M, Sह्.१७५-८, P.८२अ८, D.६९अ२, N.७२ब्१, Cओ.७३ब्३, Cह्.४२४च्१६ धर्मानुसारी पुद्गलः कतमः / यः पुद्गलो यथाश्रुतेषु धर्मेषु पर्यवाप्तेषु चिन्तितेषु तुलितेषूपपरीक्षितेषु स्वयम् एव शक्तो भवति प्रतिबलस् तान् धर्मान् भावनाकारेणानुसर्तुम् / नो तु परतो ऽववादानुशासनीं पर्येषते, यदुत फलस्याधिगमाय / अयम् उच्यते धर्मानुसारी पुद्गलः //
SK
(II)-A-II-१-अ-(१४) Mस्.६७अ१M, Sह्.१७५-१४, P.८२ब्२, D.६९अ३, N.७२ब्३, Cओ.७३ब्४, Cह्.४२४च्२० श्रद्धाधिमुक्तः पुद्गलः कतमः / आह / स एव श्रद्धानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलम् अधिगच्छति स्पर्शयति साक्षात्करोति परतो ऽववादानुशासनीम् आगम्य, तस्मिन् समये श्रद्धाधिमुक्त इत्य् उच्यते //
SK
(II)-A-II-१-अ-(१५) Mस्.६७अ२L, Sह्.१७६-४, P.८२ब्४, D.६९अ४, N.७२ब्४, Cओ.७३ब्६, Cह्.४२४च्२३ दृष्टिप्राप्तः पुद्गलः कतमः / आह / स एव धर्मानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलम् अधिगच्छति स्पर्शयति साक्षात्करोति परतो नाववादानुशासनीम् आगम्य, तस्मिन् समये दृष्टिप्राप्त इत्य् उच्यते //
SK
(II)-A-II-१-अ-(१६) Mस्.६७अ२R, Sह्.१७७-३, P.८२ब्५, D.६९अ५, N.७२ब्५, Cओ.७३ब्७, Cह्.४२४च्२५ कायसाक्षी पुद्गलः कतमः / यो ऽयं पुद्गलो ऽनुलोमप्रतिलोमम् अष्टौ विमोक्षान् समापद्यते व्युत्तिष्ठते च / कायेन च साक्षात्कृत्य बहुलं विहरति / न च सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्नोति / अयम् उच्यते कायसाक्षी पुद्गलः //
SK
(II)-A-II-१-अ-(१७) Mस्.६७अ३M, Sह्.१७७-८, W.८४-२५, P.८२ब्७, D.६९अ७, N.७२ब्७, Cओ.७४अ१, Cह्.४२४च्२७ सप्तकृद्भवपरमः पुद्गलः कतमः / यो ऽयं पुद्गलस् त्रयाणाम् संयोजनानां प्रहाणात् सत्कायदृष्टेः शीलव्रतपरामर्शस्य विचिकित्सायाः स्रोत-आपन्नो भवति / अविनिपातधर्मा नियतः संबोधिपरायणः सप्तकृद्भवपरमः सप्तकृत्वो देवांश् च मनुष्यांश् च संधाव्य संसृत्य दुःखस्यान्तं करोति / अयम् उच्यते सप्तकृद्भवपरमः पुद्गलः //
SK
(II)-A-II-१-अ-(१८) Mस्.६७अ४M, Sह्.१७८-१, P.८३अ२, D.६९ब्२, N.७३अ२, Cओ.७४अ३, Cह्.४२५अ२ कुलंकुलः पुद्गलः कतमः / [स्म्रस् प / रिग्स् नस् रिग्स् सु स्क्ये ब नि ग्ञिस् ते / ल्हऽइ रिग्स् नस् रिग्स् सु स्क्ये ब दङ् / मिऽइ रिग्स् नस् रिग्स् सु स्क्ये बऽओ // दे ल ल्हऽइ रिग्स् नस् रिग्स् सु स्क्ये ब नि / ल्ह र्नम्स् क्यि रिग्स् नस् रिग्स् सु म्त्स्हम्स् स्ब्यर् źइङ् / ऽखोर् नस् स्दुग् ब्स्ङल् म्थर् ब्येद् प गङ् यिन् पऽओ / दे ल मिऽइ रिग्स् नस् रिग्स् सु स्क्ये ब नि / मि र्नम्स् क्यि रिग्स् नस् रिग्स् सु म्त्स्हम्स् स्ब्यर् źइङ् / ऽखोर् नस् स्दुग् ब्स्ङल् म्थर् ब्येद् प गङ् यिन् प स्ते] / उभाव् अपि स्रोत-आपन्नौ पुद्गलौ वेदितव्यौ //
SK
(II)-A-II-१-अ-(१९) Mस्.६७अ४R, Sह्.१७८-३, P.८३अ५, D.६९ब्४, N.७३अ४, Cओ.७४अ६, Cह्.४२५अ६ तत्रैकवीचिकः पुद्गलः कतमः / यस्य सकृदागामिनः पुद्गलस्यानागामिफलप्रतिपन्नकस्य कामावचराणां क्लेशानाम् अधिमात्रमध्यक्लेशाः प्रहीणा भवन्ति / मृदुकाश् चैके ऽवशिष्टा भवन्ति / सकृच् च कामावचरदेवभवम् अभिनिर्वर्त्य तत्रैव परिनिर्वाति / न पुनः सकृद् आगच्छतीमं लोकम् / अयम् उच्यत एकवीचिकः पुद्गलः //
SK
(II)-A-II-१-अ-(२०) Mस्.६७अ५R, Sह्.१७८-१०, P.८३अ७, D.६९ब्५, N.७३अ६, Cओ.७४अ७, Cह्.४२५अ११ अन्तरापरिनिर्वायी पुद्गलः कतमः / आह / अन्तरापरिनिर्वायिणः पुद्गलास् त्रयः / एको ऽन्तरापरिनिर्वायी पुद्गलश् च्युतमात्र एवान्तराभवाभिनिर्वृत्तिकाले ऽन्तराभवम् अभिनिर्वर्तयति / अभिनिर्वृत्ते समकालम् एव परिनिर्वाति / तद्यथा परीत्तः शकलिकाग्निर् उत्पन्न एव परिनिर्वाति /
SK
द्वितीयो ऽन्तरापरिनिर्वायी पुद्गलो ऽन्तराभवम् अभिनिर्वर्तयति / अभिनिर्वृत्ते ऽन्तराभवे तत्रस्थ एव कालान्तरेण परिनिर्वाति / नो तु येनोपपत्तिभवस् तेनाद्याप्य् उपनतो भवति / तद्यथा, अयोगुडानां वायःस्थालानां वा दीप्ताग्निसंप्रतप्तानाम् अयोघनैर् हन्यमानानाम् अयःप्रपाटिकोत्पतत्य् एव परिनिर्वाति / तृतीयो ऽन्तरापरिनिर्वायी पुद्गलो ऽन्तराभवम् अभिनिर्वर्त्य येनोपपत्तिभवस् तेनोपनमति / उपनतश् च पुनर् अनुपपन्न एव परिनिर्वाति / तद्यथायस्प्रपाटिकोत्पत्य पृथिव्याम् अपतितैव परिनिर्वाति /
SK
त इमे त्रयो ऽन्तरापरिनिर्वायिणः पुद्गला एकध्यम् अभिसंक्षिप्यान्तरापरिनिर्वायी पुद्गल इत्य् उच्यते //
SK
(II)-A-II-१-अ-(२१) Mस्.६७ब्२M, Sह्.१८०-१३, P.८३ब्७, D.७०अ४, N.७३ब्५, Cओ.७४ब्६, Cह्.४२५अ२२ उपपद्यपरिनिर्वायी पुद्गलः कतमः / य उपपन्नमात्र एव परिनिर्वाति / अयम् उच्यत उपपद्यपरिनिर्वायी पुद्गलः //
SK
(II)-A-II-१-अ-(२२) Mस्.६७ब्२R, Sह्.१८०-१५, P.८४अ१, D.७०अ५, N.७३ब्६, Cओ.७४ब्७, Cह्.४२५अ२४ अनभिसंस्कारपरिनिर्वायी पुद्गलः कतमः / १३) यो ऽनभिसंस्कारेणाप्रयत्नेनाखेदेन मार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वाति / अयम् उच्यते ऽनभिसंस्कारपरिनिर्वायी पुद्गलः //
SK
(II)-A-II-१-अ-(२३) Mस्.६७ब्३L, Sह्.१८१-३, P.८४अ२, D.७०अ६, N.७३ब्७, Cओ. ७५अ१, Cह्.४२५अ२७ साभिसंस्कारपरिनिर्वायी पुद्गलः कतमः / यो ऽभिसंस्कारेण प्रयत्नेन खेदेन मार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वाति / अयम् उच्यते साभिसंस्कारपरिनिर्वायी पुद्गलः //
SK
(II)-A-II-१-अ-(२४) Mस्.६७ब्३R, Sह्.१८१-७, P.८४अ४, D.७०अ७, N.७४अ१, Cओ. ७५अ३, Cह्.४२५अ२९ ऊर्ध्वंस्रोताः पुद्गलः कतमः / यः पुद्गलो ऽनागामी प्रथमे ध्यान उपपन्नः स न तत्रस्थ एव परिनिर्वाति / अपि तु तस्माच् च्यवित्वोत्तरोत्तरम् उपपत्त्यायतनम् अभिनिर्वर्तयन् यावद् अकनिष्ठान् वा देवान् गच्छति, नैवसंज्ञानासंज्ञायतनं वा / अयम् उच्यत ऊर्ध्वंस्रोताह् पुद्गलः //
SK
(II)-A-II-१-अ-(२५) Mस्.६७ब्४R, Sह्.१८२-६, P.८४अ६, D.७०ब्२, N.७४अ३, Cओ. ७५अ४, Cह्.४२५ब्५ समयविमुक्तः पुद्गलः कतमः / यो मृद्विन्द्रियगोत्रः पुद्गलो लौकिकेभ्यो दृष्टधर्मसुखविहारेभ्यः परिहीयते / चेतयति वा मरणाय / अनुरक्षते वा विमुक्तिम् / अत्यर्थाप्रमादचर्याम् अनुयुक्तो भवति, यदुतैताम् एवापरिहाणिम् अधिपतिं कृत्वा / तन्मात्रो वास्य कुशलपक्षो भवति, नो तु तेषां तेषां रात्रिंदिवसानां क्षणलवमुहूर्तानाम् अत्ययाद् अत्यर्थं विशेषाय परैति / यावन् न तीव्रम् अभियोगं करोति / अयम् उच्यते समयविमुक्तः पुद्गलः //
SK
(II)-A-II-१-अ-(२६) Mस्.६७ब्६L, Sह्.१८३-१, P.८४ब्२, D.७०ब्४, N.७४अ६, Cओ. ७५अ७, Cह्.४२५ब्११ अकोप्यधर्मा पुद्गलः कतमः / एतद्विपर्ययेणाकोप्यधर्मा पुद्गलो वेदितव्यः //
SK
(II)-A-II-१-अ-(२७) Mस्.६७ब्६M, Sह्.१८३-३, P.८४ब्३, D.७०ब्५, N.७४अ६, Cओ. ७५अ७, Cह्.४२५ब्१२ प्रज्ञाविमुक्तः पुद्गलः कतमः / यः पुद्गलः सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्नोति / नो त्व् अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति / अयम् उच्यते प्रज्ञाविमुक्तः पुद्गलः //
SK
(II)-A-II-१-अ-(२८) Mस्.६७ब्७L, Sह्.१८३-७, P.८४ब्४, D.७०ब्६, N.७४ब्१, Cओ.७५ब्१, Cह्.४२५ब्१५ उभयतोभागविमुक्तः पुद्गलः कतमः / यः पुद्गलः सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्नोति / अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति / तस्य क्लेशावरणाच् च चित्तं मुक्तं भवति, विमोक्षावरणाच् च / अयम् उच्यत उभयतोभागविमुक्तः पुद्गलः //
SK
(II)-A-II-२-अ Mस्.६८अ१M, Sह्.१८४-१, W.८५-५, P.८४ब्६, D.७०ब्७, N.७४ब्२, Cओ.७५ब्३, Cह्.४२५ब्२० पुद्गलव्यवस्थानं कतमत् / एकादशभिः प्रभेदैः पुद्गलव्यवस्थानं वेदितव्यम् / कतमैर् एकादशभिः / तद्यथा इन्द्रियप्रभेदेन, निकायप्रभेदेन, चरितप्रभेदेन, प्रणिधानप्रभेदेन, प्रतिपत्प्रभेदेन, मार्गफलप्रभेदेन, प्रयोगप्रभेदेन, समापत्तिप्रभेदेन, उपपत्तिप्रभेदेन, परिहाणिप्रभेदेन, आवरणप्रभेदेन च //
SK
-II-२-अ-(१) Mस्.६८अ२L, Sह्.१८४-७, P.८५अ१, D.७१अ२, N.७४ब्४, Cओ.७५ब्५, Cह्.४२५ब्२५ इन्द्रियप्रभेदेन तावत् / मृद्विन्द्रियतीक्ष्णेन्द्रियपुद्गलयोर् व्यवस्थानम् //
SK
-II-२-अ-(२) Mस्.६८अ२L, Sह्. १८४-९, P.८५अ२, D.७१अ३, N.७४ब्५, Cओ.७५ब्५, Cह्.४२५ब्२७ निकायप्रभेदेन सप्तविधं पुद्गलव्यवस्थानम् / भिक्षुर् भिक्षुणी शिक्षमाणा श्रामणेरः श्रामणेर्य् उपासक उपासिका च //
SK
-II-२-अ-(३) Mस्.६८अ२M, Sह्. १८४-१२, P.८५अ३, D.७१अ३, N.७४ब्६, Cओ.७५ब्६, Cह्.४२५च्१ तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानम् / यो ऽयं रागोत्सदः पुद्गलः स रागचरितः / यो द्वेषोत्सदः स द्वेषचरितः / यो मोहोत्सदः स मोहचरितः / यो मानोत्सदः स मानचरितः / यो वितर्कोत्सदः स वितर्कचरितः / यः समप्राप्तः स समभागचरितः /
SK
यो मन्दरजस्कः स मन्दचरितो वेदितव्यः //
SK
-II-२-अ-(३)-इ Mस्.६८अ३M, Sह्.१८५-१, P.८५अ६, D.७१अ५, N.७५अ१, Cओ.७६अ१, Cह्.४२५च्८ तत्र रागचरितस्य पुद्गलस्य कतमानि लिङ्गानि / इह रागचरितः पुद्गलः परीत्ते सर्वनिहीने रञ्जनीये वस्तुनि घनम् अधिमात्रं रागपर्यवस्थानम् उत्पादयति / कः पुनर् वादो मध्यप्रणीते / तच् च पुना रागपर्यवस्थानं संतत्या चिरकालम् अवस्थापयति / दीर्घकालम् अनुबद्धो भवति /
SK
तेन पर्यवस्थानेन रञ्जनीयैर् धर्मैर् अभिभूयते / नो तु शक्नोति रञ्जनीयान् धर्मान् अभिभवितुम् / स्निग्धेन्द्रियश् च भवत्य् अखरेन्द्रियः, अकर्कशेन्द्रियः, अपरुषेन्द्रियः / नात्यर्थं परेषां विहेठनजातीयो यदुत कायेन वाचा दुर्विवेज्यश् च भवति दुःसंवेज्यश् च / हीनाधिमुक्तिकश् च भवति / दृढकर्मान्तः / स्थिरकर्मान्तः / दृढव्रतः / स्थिरव्रतः / सहिष्णुश् च भवत्य् उपकरणेषु परिष्कारेषु लोलुपजातीयस् तद्गुरुकश् च, सौमनस्यबहुलश् च भवत्य् आनन्दीबहुलो विगतभृकुटिर् उत्तानमुखवर्णः स्मितपूर्वंगमः / इत्य् एवंभागीयानि रागचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि //
SK
-II-२-अ-(३)-इइ Mस्.६८अ६L, Sह्.१८५-१७, P.८५ब्६, D.७१ब्४, N.७५अ६, Cओ.७६अ६, Cह्.४२५च्१९ तत्र द्वेषचरितस्य पुद्गलस्य लिङ्गानि कतमानि / इह द्वेषचरितः पुद्गलो (Śभ् II २६) द्वेषणीये वस्तुनि परीत्तेन प्रतिघवस्तुनिमित्तेन घनं प्रभूतं प्रतिघपर्यवस्थानम् उत्पादयति / कः पुनर् वादो मध्याधिमात्रेण / तस्य च प्रतिघपर्यवस्थानस्य दीर्घकालं संततिम् अवस्थापयति / चिरकालम् अनुबद्धो भवति / प्रतिघपर्यवस्थानेन स द्वेषणीयैर् धर्मैर् अभिभूयते / नो तु द्वेषणीयान् धर्माञ् छक्नोत्य् अभिभवितुम् / रूक्षेन्द्रियश् च भवति / खरेन्द्रियः कर्कशेन्द्रियः परुषेन्द्रियश् च भवति / अत्यर्थं च परेषां विहेठनजातीयो भवति यदुत कायेन वाचा / सुविवेज्यश् च भवति सुसंवेज्यः / ध्वाङ्क्षो भवति मुखरः, प्रगल्भः, अनधिमुक्तिबहुलः / न दृढकर्मन्तो न स्थिरकर्मन्तो न दृढव्रतो न स्थिरव्रतः / दौर्मनस्यबहुलश् च भवत्य् उपायासबहुलः / अक्षमो भवत्य् असहिष्णुः, विलोमनजातीयः, अप्रदक्षिणग्राही दुष्प्रत्यानेयजातीयः, उपनाहबहुलः / क्रूराशयश् चण्डश् च भवत्य् आदाशी प्रत्यक्षरवादी सो ऽल्पमात्रम् अप्य् उक्तः सन्न् अभिषज्यते, कुप्यति, व्यापद्यते मद्गुः प्रतितिष्ठति कोपं संजनयति / विकृतभृकुटिश् च भवति / अनुत्तानमुखवर्णः, परसंपत्तिद्वेष्टा, ईर्ष्याबहुलः / इत्य् एवंभागीयानि द्वेषचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि //
SK
-II-२-अ-(३)-इइइ Mस्.६८ब्१R, Sह्.१८६-१६, P.८६अ७, D.७२अ३, N.७५ब्६, Cओ.७६ब्५, Cह्.४२६अ४ तत्र कतमानि मोहचरितस्य पुद्गलस्य लिङ्गानि / इह मोहचरितः पुद्गलो मोहस्थानीये वस्तुनि परीत्ते घनं प्रभूतं मोहपर्यवस्थानम् उत्पादयति / प्राग् एव मध्याधिमात्रे / दीर्घं च कालं तस्य मोहपर्यवस्थानस्य संततिम् अवस्थापयति / तेन च अनुबद्धो भवति / स मोहनीयैर् धर्मैर् अभिभूयते / नो तु मोहनीयान् धर्माञ् छक्नोत्य् अभिभवितुम् / धन्धेन्द्रियश् च भवति / जडेन्द्रियश् च भवति, मन्देन्द्रियश् च शिथिलकायकर्मान्तः, शिथिलवाक्कर्मान्तः, दुश्चिन्तितचिन्ती, दुर्भाषितभाषी, दुष्कृतकर्मकारी, अलसो ऽनुत्थानसंपन्नः, मन्दभाषी, दुर्मेधः, मुषितस्मृतिः, असंप्रजानद्विहारी, वामग्राही, दुर्विवेज्यः, दुःसंवेज्यः, हीनाधिमुक्तिकः / जड एडमूको हस्तसंवाचिकः / अप्रतिबलः सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुम् / प्रत्ययहार्यश् च भवति परहार्यः परप्रणेयः / इत्य् एवंभागीयानि मोहचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि //
SK
-II-२-अ-(३)-इव् Mस्.६८ब्४M, Sह्.१८७-१३, P.८६ब्७, D.७२ब्१, N.७६अ५, Cओ.७७अ४, Cह्.४२६अ१६ तत्र कतमानि मानचरितस्य पुद्गलस्य लिङ्गानि / इह मानचरितः पुद्गलो मानस्थानीये वस्तुनि परीत्ते ऽपि घनं प्रभूतम्ं मानपर्यवस्थानम् उत्पादयति / कः पुनर् वादो मध्याधिमात्रे / तस्य च मानपर्यवस्थानस्य (Śभ् II ३०) दीर्घकालं संततिम् अवस्थापयति / तेन चानुबद्धो भवति / स मानस्थानीयैर् धर्मैर् अभिभूयते / नो तु मानस्थानीयान् धर्माञ् छक्नोत्य् अभिभवितुम् / उद्धतेन्द्रियश् च भवत्य् उन्नतेन्द्रियश् च कायमण्डनानुयोगम् अनुयुक्तश् च भवति/ अधिमात्रम् उन्नतां च वाचं भाषते नावनताम् / मातापितृज्ञातिगुरुस्थानीयानां च न कालेन कालं यथानुरूपाम् अपचितिं कर्ता भवति / स्तब्धो भवति, अप्रणतकायो नाभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्मशीलः / आत्मप्रग्राहको भवत्य् आत्मोत्कर्षपरपंसकः / लाभकामः सत्कारकामः कीर्तिशब्दश्लोककामः / उत्प्लावनाभाण्डो दुर्विवेज्यश् च भवति दुःसंवेज्यः / उदाराधिमुक्तिश् च भवति / मन्दकारुण्यः / अधिमात्रं चात्मसत्त्वजीवपोषपुरुषपुद्गलदृष्टिमन्युबहलो भवति, उपनाही च / इत्य् एवंभागीयानि मानचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि //
SK
-II-२-अ-(३)-व् Mस्.६८ब्८R, Sह्.१८८-१५, P.८७अ७, D.७२ब्७, N.७६ब्४, Cओ.७७ब्३, Cह्.४२६ब्१ तत्र कतमानि वितर्कचरितस्य पुद्गलस्य लिङ्गानि / इह वितर्कचरितः पुद्गलो वितर्कस्थानीये वस्तुनि परीत्ते ऽपि घनं प्रभूतं वितर्कपर्यवस्थानम् उत्पादयति / कः पुनर् वादो मध्याधिमात्रे / तच् च पर्यवस्थानं दीर्घकालम् अवस्थापयति / तेन चानुबद्धो (Śभ् II ३२) भवति / स वितर्कस्थानीयैर् धर्मैर् अभिभूयते / नो तु वितर्कस्थानीयान् धर्माञ् छक्नोत्य् अभिभवितुम् / अस्थिरेन्द्रियश् च भवति चपलेन्द्रियश् चञ्चलेन्द्रियो व्याकुलेन्द्रियः / त्वरितकायकर्मान्तस् त्वरितवाक्कर्मान्तः / दुर्विवेज्यो दुःसंवेज्यः / प्रपञ्चारामः प्रपञ्चरतः / काङ्क्षाबहुलो विचिकित्साबहुलः / छन्दिकश् च भवत्य् अस्थिरव्रतो ऽनिश्चितव्रतः / अस्थिरकर्मान्तो ऽनिश्चितकर्मान्तः / शंकाबहुलः प्रमुषितस्मृतिः / विवेकानभिरतो विक्षेपबहुलः / लोकचित्रेषु छन्दरागानुसृतः, दक्षो ऽनलस उत्थानसंपन्नः / इत्य् एवंभागीयानि वितर्कचरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि /
SK
इदं चरितप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् //
SK
-II-२-अ-(४) Mस्.६९अ३L, Sह्.१८९-११, P.८७ब्८, D.७३अ६, N.७७अ३, Cओ.७८अ२, Cह्.४२६ब्१४ तत्र८१ प्रणिधानप्रभेदेन पुद्गलव्यवस्थानम् / अस्ति पुद्गलः श्रावकयाने कृतप्रणिधानः, अस्ति प्रत्येकबुद्धयाने, अस्ति महायाने / तत्र यो ऽयं पुद्गलः श्रावकयाने कृतप्रणिधानः स स्याच् छ्रावकगोत्रः, स्यात् प्रत्येकबुद्धगोत्रः, स्यान् महायानगोत्रः / तत्र यो ऽयं पुद्गलः प्रत्येकायां बोधौ कृतप्रणिधानः सो ऽपि स्यात् प्रत्येकबुद्धगोत्रः, स्याच् छ्रावकगोत्रः, स्यान् महायानगोत्रः / तत्र यो ऽयं पुद्गलो महायाने कृतप्रणिधानः सो ऽपि स्याच् छ्रावकगोत्रः, स्यात् प्रत्येकबुद्धगोत्रः, स्यान् महायानगोत्रः /
SK
तत्र यो ऽयं श्रावकगोत्रः पुद्गलः प्रत्येकायां बोधाव् अनुत्तरायां वा सम्यक्संबोधौ कृतप्रणिधानः, स श्रावकगोत्रत्वाद् अवश्यम् अन्ते काले (Śभ् II ३४) तत्प्रणिधानं व्यावर्त्य श्रावकयानप्रणिधान एवावतिष्ठते / एवं प्रत्येकबुद्धयानगोत्रो महायानगोत्रो वेदितव्यः /
SK
तत्र भवत्य् एषां पुद्गलानां प्रणिधानसंचारः प्रणिधानव्यतिकरः / नो तु गोत्रसंचारः, गोत्रव्यतिकरः / अस्मिंस् त्व् अर्थे श्रावकयानप्रणिधानाः श्रावकगोत्राश् चैते पुद्गला वेदितव्याः / एवं प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं भवति //
SK
-II-२-अ-(५) Mस्.६९अ६L, Sह्.१९०-८, Cहोइ.१६२-६, P.८८ब्१, D.७३ब्५, N.७७ब्२, Cओ.७८ब्१, Cह्.४२६च्२ कथं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं भवति / एषां यथोद्दिष्टानां यथापरिकीर्तितानां पुद्गलानां चतसृभिः प्रतिपद्भिर् निर्याणं भवति / कतमाभिश् चतसृभिः / अस्ति प्रतिपद् दुःखा धन्धाभिज्ञा/ अस्ति प्रतिपद् दुःखा क्षिप्राभिज्ञा / अस्ति प्रतिपत् सुखा धन्धाभिज्ञा / अस्ति प्रतिपत् सुखा क्षिप्राभिज्ञा /
SK
तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानालाभिनो या प्रतिपद् इयम् उच्यते दुःखा धन्धाभिज्ञा / तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानालाभिनो या प्रतिपद् इयम् उच्यते दुःखा क्षिप्राभिज्ञा / तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपद् इयम् उच्यते सुखा धन्धाभिज्ञा / तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपद् इयम् उच्यते सुखा क्षिप्राभिज्ञा / एवं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् /
SK
-II-२-अ-(६) Mस्.६९अ८M, Sह्.१९०-२२, P.८८ब्७, D.७४अ१, N.७७ब्६, Cओ.७८ब्५, Cह्.४२६च्१३ तत्र कथं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् / तद्यथा चतुर्णां प्रतिपन्नकानां स्रोत-आपत्तिफलप्रतिपन्नकस्य, सकृदागामिफलप्रतिपन्नकस्य, अनागामिफलप्रतिपन्नकस्य, अर्हत्त्वफलप्रतिपन्नकस्य / (Śभ् II ३६) चतुर्णां च फलस्थानां, स्रोत-आपन्नस्य, सकृदागामिनो, ऽनागामिनो, ऽर्हतश् च / ये प्रतिपन्नकमार्गे वर्तन्ते ते प्रतिपन्नकास् तेषां प्रतिपन्नकमार्गेण व्यवस्थानम् / ये तत्फलश्रामण्यफलव्यवस्थितास् तेषां मार्गफलव्यवस्थानम् / एवं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं भवति //
SK
-II-२-अ-(७) Mस्.६९ब्१R, Sह्.१९१-१०, P.८९अ४, D.७४अ५, N.७८अ३, Cओ.७९अ२, Cह्.४२६च्२२ कथं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति / तद्यथा श्रद्धानुसारिधर्मानुसारिणा / नो यः पुद्गलः श्रद्धानुसारेण प्रयुक्तः स श्रद्धानुसारी / यो धर्मेषु अपरप्रत्ययविनयानुसारेण प्रयुक्तः स धर्मानुसारी / एवं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति //
SK
-II-२-अ-(८) Mस्.६९ब्२R, Sह्.१९१-१५, P.८९अ६, D.७४अ७, N.७८अ५, Cओ.७९अ३, Cह्.४२६च्२७ तत्र कथम् समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति / तद्यथा कायसाक्ष्य् अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरति / न च सर्वेण सर्वम् आस्रवक्षयम् अनुप्राप्तो भवति / रूपी रूपाणि पश्यति / अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति / शुभं विमोक्षं (Śभ् II ३८) कायेन साक्षात्कृत्वोपसंपद्य विहरति / अकाशानन्त्यायतनम्, विज्ञ् स्नानन्त्यायतनम्, आकिञ्चन्यायतनम्, नैवसंज्ञानासंज्ञायतनम्, )संज्ञावेदयितनिरोधम् अनुलोमप्रतिलोमं समापद्यते च, व्युत्तिष्ठते च / एवं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति //
SK
-II-२-अ-(९) Mस्.६९ब्४L, Sह्.१९२-३, P.८९ब्३, D.७४ब्३, N.७८ब्१, Cओ.७९अ७, Cह्.४२७अ६ कथम् उपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति / तद्यथा सप्तकृद्भवपरमस्य, कुलंकुलस्य, एकवीचिकस्य, अन्तरापरिनिर्वायिणः, उपपद्यपरिनिर्वायिणः, अनभिसंस्कारपरिनिर्वायिणः, साभिसंस्कारपरिनिर्वायिणः, ऊर्ध्वंस्रोतसश् च / एवम् उपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति //
SK
-II-२-अ-(१०) Mस्.६९ब्५L, Sह्.१९२-७, P.८९ब्६, D.७४ब्५, N.७८ब्३, Cओ.७९ब्२, Cह्.४२७अ१० कथं परिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति / तद्यथा समयविमुक्तस्यार्हतो यो भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय / अपरिहाणिप्रभेदेन पुनर् व्यवस्थानम् / अकोप्यधर्मकस्यार्हतो यो न भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय / एवम् अपरिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति //
SK
-II-२-अ-(११) Mस्.६९ब्६L, Sह्.१९२-१३, P.९०अ१, D.७४ब्७, N.७८ब्५, Cओ.७९ब्४, Cह्.४२७अ१४ तत्र कथम् आवरणप्रभेदेन पुद्गलव्यवस्थानं भवति / तद्यथा प्रज्ञाविमुक्तस्योभयतोभागविमुक्तस्यार्हतः / तत्र प्रज्ञाविमुक्तो ऽर्हन् क्लेशावरणविमुक्तः, न समापत्त्यावरणात् / उभयतोभागविमुक्तस् त्व् अर्हन् क्लेशावरणाच् च विमुक्तः समापत्त्यावरणाच् च / तस्माद् उभयतोभागविमुक्त (Śभ् II ४०) इत्य् उच्यते / एवम् आवरणप्रभेदेन पुद्गलव्यवस्थानं भवति //
SK
-II-२-ब् Mस्.६९ब्७L, Sह्.१९२-१९, P.९०अ४, D.७५अ२, N.७९अ१, Cओ.७९ब्६, Cह्.४२७अ२० एभिः प्रभेदैर् यथोद्दिष्टैर् यथोद्दिष्टानां पुद्गलानां यथाक्रमं व्यवस्थानं वेदितव्यम् //
SK
(II)-A-II-३ Mस्.६९ब्७M, Sह्.१९२-२१, Sअ.४-२, W.८६-१, P.९०अ५, D.७५अ३, N.७९अ२, Cओ.७९ब्७, Cह्.४२७अ२२ तत्रालम्बनं कतमत् / आह / चत्वार्य् आलम्बनवस्तूनि / कतमानि चत्वारि / व्याप्य् आलम्बनम्, चरितविशोधनम् आलम्बनम्, कौशल्यालम्बनम्, क्लेशविशोधनं चालम्बनम् //
SK
-II-३-अ-(१) Mस्.६९ब्७R, Sह्.१९३-४, Sअ.४-६, P.९०अ६, D.७५अ४, N.७९अ३, Cओ.८०अ१, Cह्.४२७अ२४ तत्र व्याप्य् आलम्बनं कतमत् / आह / तद् अपि चतुर्विधम् / तद्यथा अविकल्पं प्रतिबिम्बम्, निर्विकल्पं प्रतिबिम्बं, वस्तुपर्यन्तता, कार्यपरिनिष्पत्तिश् च //
SK
-II-३-अ-(१)-इ Mस्.६९ब्८M, Sह्.१९३-७, Sअ.४-१०, P.९०अ८, D.७५अ५, N.७९अ४, Cओ.८०अ२, Cह्.४२७अ२७ तत्र सविकल्पं प्रतिबिम्बं कतमत् / यथापीहैकत्यः सद्धर्मश्रवणं वाववादानुशासनीं वा निश्रित्य, दृष्टं वा, श्रुतं वा, परिकल्पितं वोपादाय ज्ञेयवस्तुसभागं प्रतिबिम्बम् समाहितभूमिकैर् विपश्यनाकारैर् विपश्यति, विचिनोति, प्रविचिनोति, परिवितर्कयति, परिमीमांसां आपद्यते /
SK
तत्र ज्ञेयं वस्तु / तद्यथाशुभा वा, मैत्री वा, इदंप्रत्ययताप्रतीत्यसमुत्पादो वा, धातुप्रभेदो वा, आनापानस्मृतिर् वा, स्कन्धकौशल्यं वा, धातुकौशल्यम् आयतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यम्, अधोभूमीनाम् औदारिकत्वं, उपरिभूमीनां शान्तत्वं, दुःखसत्यम्, समुदयसत्यं, निरोधसत्यं, मार्गसत्यम् / इदम् उच्यते ज्ञेयं वस्तु /
SK
तस्यास्य ज्ञेयवस्तुनो ऽववादानुशासनीं वागम्य, सद्धर्मश्रवणम् वा, तन्निश्रयेण समाहितभूमिकं मनस्कारं संमुखीकृत्य, तान् एव धर्मान् (Śभ् II ४४) अधिमुच्यते तद् एव ज्ञेयं वस्त्व् अधिमुच्यते / तस्य तस्मिन् समये प्रत्यक्षानुभाविक इवाधिमोक्षः प्रवर्तते ज्ञेयवस्तुनि / न तज् ज्ञेयं वस्तु प्रत्यक्षीभूतं भवति समवहितं संमुखीभूतम् / न च पुनर् अन्यत् तज्जातीयं द्रव्यम् / अपि त्व् अधिमोक्षानुभवः स तादृशो मनस्कारानुभवः समाहितभूमिकः, येन तस्य ज्ञेयस्य वस्तुनो ऽनुसदृशं तद् भवति प्रतिभासम् / येन तद् उच्यते ज्ञेयवस्तुसभागं प्रतिबिम्बम् इति / यद् अयं योगी सन्तीरयंस् तस्मिन् प्रकृते ज्ञेये वस्तुनि परीक्ष्ये गुणदोषावधारणं करोति / इदम् उच्यते सविकल्पं प्रतिबिम्बम् //
SK
-II-३-अ-(१)-इइ Mस्.७०अ४L, Sह्. १९४-२१, Sअ.६-४, W.८६-९, P.९१अ४, D.७५ब्५, N.७९ब्५, Cओ.८०ब्३, Cह्.४२७ब्१५ निर्विकल्पं प्रतिबिम्बं कतमत् / इहायं योगी प्रतिबिम्ननिमित्तम् उद्गृह्य न पुनर् विपश्यति, विचिनोति, प्रतिविचिनोति, परिवितर्कयति, परिमीमांसाम् आपद्यते / अपि तु तद् एवालम्बनम् अमुक्तो शमथाकारेण तच् चित्तं शमयति / यदुत नवाकारया चित्तस्थित्याध्यात्मम् एव चित्तं स्थापयति, संस्थापयति, अवस्थापयति, उपस्थापयति, दमयति, शमयति, व्युपशमयति, एकोतीकरोति, समाधत्ते / तस्य तस्मिन् समये निर्विकल्पं (Śभ् II ४६) तत् प्रतिबिम्बम् आलम्बनं भवति / यत्रासाव् एकांशेनैकाग्रां स्मृतिम् अवस्थापयति, तद् आलम्बनम् / नो तु विपश्यति, विचिनोति, प्रतिविचिनोति, परिवितर्कयति, परिमीमांसाम् आपद्यते /
SK
तच् च प्रतिबिम्बं प्रतिबिम्बम् इत्य् उच्यते / [तिङ् ङे ऽद्zइन् ग्यि म्त्स्हन् म दङ् / तिङ् ङे ऽद्zइन् ग्यि स्प्योद् युल् ग्यि युल् दङ् / तिङ् ङे ऽद्zइन् ग्यि थब्स् दङ् / तिङ् ङे ऽद्zइन् ग्यि स्गो दङ् / यिद् ल ब्येद् पऽइ र्तेन् दङ् / नङ् दु र्नम् पर् र्तोग् पऽइ लुस् दङ् / स्नङ् ब्र्ञन् źएस् क्यङ् ब्य स्ते] / इतीमानि तस्य ज्ञेयवस्तुसभागस्य प्रतिबिम्बस्य पर्यायनामानि वेदितव्यानि //
SK
-II-३-अ-(१)-इइइ Mस्.७०अ६L, Sह्.१९५-१३, Sअ.७-६, P.९१ब्३, D.७६अ३, N.८०अ३, Cओ,८१अ१, Cह्.४२७ब्२८ वस्तुपर्यन्तता कतमा / यालम्बनस्य यावद्भाविकता यथावद्भाविकता च /
SK
तत्र यावद्भाविकता कतमा / यस्मात् परेण नास्ति रूपस्कन्धो वा, वेदनास्कन्धो वा, संज्ञास्कन्धो वा, संस्कारस्कन्धो वा, विज्ञानस्कन्धो वेति सर्वसंस्कृतवस्तुसंग्रहः पञ्चभिर् धर्मैः / सर्वधर्मसंग्रहो धातुभिर् आयतनैः सर्वज्ञेयवस्तुसंग्रहश् चार्यसत्यैः / इयम् उच्यते यावद्भाविकता /
SK
तत्र यथावद्भाविकता कतमा / यालम्बनस्य भूतता तथता / चतसृभिर् युक्तिभिर् युक्त्युपेतता / यदुतापेक्षायुक्त्या, कार्यकारणयुक्त्या, उपपत्तिसाधनयुक्त्या, धर्मतायुक्त्या च / इति या चालम्बनस्य यावद्भाविकता या च (Śभ् II ४८) यथावद्भाविकता तद् एकध्यम् अभिसंक्षिप्य वस्तुपर्यन्ततेत्य् उच्यते //
SK
-II-३-अ-(१)-इव् Mस्.७०ब्१R, Sह्.१९६-१२, Sअ.८-८, P.९२अ१, D.७६अ७, N.८०ब्१, Cओ.८१अ५, Cह्.४२७च्८ तत्र कार्यपरिनिष्पत्तिः कतमा / यद् अस्य योगिन आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयाच् छमथविपश्यनाया यह् प्रतिबिम्बालम्बनो मनस्कारः स परिपूर्यते / तत्परिपूर्याश् चाश्रयः परिवर्तते / सर्वदौष्ठुल्यानि च प्रतिप्रश्रभ्यन्ते / आश्रयपरिवृत्तेश् च प्रतिबिम्बम् अतिक्रम्य तस्मिन्न् एव ज्ञेये वस्तुनि निर्विकल्पं प्रत्यक्षं ज्ञानदर्शनम् उत्पद्यते / प्रथमध्यानसमापत्तुः प्रथमध्यानलाभिनः प्रथमध्यानगोचरे, द्वितीयतृतीयचतुर्थध्यानसमापत्तुश् चतुर्थध्यानलाभिनश् चतुर्थध्यानगोचरे, आकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिञ्चन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तुस् तIIआभिनस् तद्गोचरे / इयम् उच्यते कार्यपरिनिष्पत्तिः //
SK
तान्य् एतानि भवन्ति चत्वार्य् आलम्बनवस्तूनि सर्वत्रगानि सर्वेष्व् आलम्बनेष्व् अनुगतानि / अतीतानागतप्रत्युत्पन्नैः सम्यक्सम्बुद्धैर् देशितानि / तेनैतद् व्याप्य् आलम्बनम् इत्य् उच्यते /
SK
अपि चैतद् आलम्बनम् शमथपक्ष्यं विपश्यनापक्ष्यं सर्ववस्तुकम् भूतवस्तुकं, हेतुफलवस्तुकं च / तेन तद् व्यापीत्य् उच्यते / यत् तावद् त् आह ᳚सविकल्पं प्रतिबिम्बम्᳚ इतीदम् अत्र विपश्यनपक्ष्यस्य / यत् पुनर् आह ᳚निर्विकल्पं प्रतिबिम्बम्᳚ इतीदम् अत्र शमथपक्ष्यस्य / यत् पुनर् आह ᳚वस्तुपर्यन्तते᳚ तीदम् अत्र सर्ववस्तुकताया भूतवस्तुकतायाश् च / यद् आह ᳚कार्यपरिनिष्पत्तिर्᳚ इतीदम् अत्र हेतुफलसंबन्धस्य //
SK
-II-३-अ-(२)-इ Mस्.७०ब्५R, Sह्.१९७-१७, Sअ.९-१३, W.८६-३२, P.९२ब्५, D.७७अ१, N.८१अ३, Cओ.८१ब्७, Cह्.४२७च्२७ यथोक्तं भगवतायुष्मन्तं रेवतम् आरभ्य /
SK
᳚एवम् अनुश्रूयते᳚, आयुष्मान् रेवतो भगवन्तं प्रश्नम् अप्राक्षीत् /
SK
᳚कियति, भदन्त, भिक्षुर् योगी योगाचार आलम्बने चित्तम् उपनिबध्नाति. कतमस्मिन्न् आलम्बने चित्तम् उपनिबध्नाती᳚ति / ᳚कथं पुनर् आलम्बने चित्तम् उपनिबद्धं सूपनिबद्धं भवति᳚ //
SK
-II-३-अ-(२)-इइ-(अ) Mस्.७०ब्६M, Sह्. १९८-४, Sअ.१०-४, W.ऽ८६-३७, P.९२ब्८, D.७७अ२, N.८१अ४, Cओ.८२अ२, Cह्.४२८अ३ भगवान् आह / ᳚साधु, साधु, रेवत, साधु खलु त्वं रेवत, एतम् अर्थं पृच्छसि / तेन हि शृणु साधु च सुष्ठु च मनसिकुरु, भाषिष्ये / इह, रेवत, भिक्षुर् योगी योगाचारश् चरितं वा विशोधयितुकामः, कौशल्यं वा कर्तुकामः, आस्रवेभ्यो वा चित्तं विमोचयितुकामः, अनुरूपे चालम्बने चित्तम् उपनिबध्नाति, प्रतिरूपे च सम्यग् एव चोपनिबध्नाति, तत्र चानिराकृतध्यायी भवति /
SK
कथम् अनुरूप आलम्बने चित्तम् उपनिबध्नाति / सचेद् रेवत, भिक्षुर् योगी योगाचारो रागचरित एव सन्न् अशुभालम्बने चित्तम् उपनिबध्नाति / एवम् अनुरूप आलम्बने चित्तम् उपनिबध्नाति, द्वेषचरितो वा पुनर् मैत्र्याम् / मोहचरितो वेदंप्रत्ययताप्रतीत्यसमुत्पादे, मानचरितो वा धातुप्रभेदे / सचेद् रेवत, स भिक्षुर् योगी योगाचारो वितर्कचरित एव सन्न् आनापानस्मृतौ (Śभ् II ५२) चित्तम् उपनिबध्नाति / एवं सो ऽनुरूप आलम्बने चित्तम् उपनिबध्नाति /
SK
सचेत् स रेवत, भिक्षुः संस्काराणां स्वलक्षणे संमूध आत्मसत्त्वजीवजन्तुपोषपुद्गलवस्तुसंमूढः स्कन्धकौशल्ये चित्तम् उपनिबध्नाति / हेतुसंमूधो धातुकौशल्ये, प्रत्ययसंमूध आयतनकौशल्ये, अनित्यदुःखानात्मसंमूढः प्रतीत्यसमुत्पादस्थानास्थानकौशल्ये, कामधातोर् वा वैराग्यं कर्तुकामः, कामानाम् औदारिकत्वे रूपाणां शान्तत्वे, रूपेभ्यो वा वैराग्यं कर्तुकामो रूपाणाम् औदारिकत्व आरूप्यशान्ततायां च चित्तम् उपनिबध्नाति / सर्वत्र वा सत्कायान् निर्वेत्तुकामः, विमोक्तुकामः, दुःखसत्ये समुदयसत्ये, निरोधसत्ये, मार्गसत्ये चित्तम् उपनिबध्नाति / एवं हि, रेवत, भिक्षुर् योगी योगचारो ऽनुरूप आलम्बने चित्तम् उपनिबध्नाति //
SK
-II-३-अ-(२)-२-इइ-(ब्) Mस्.७१अ५M, Sह्.१९९-(९), Sअ.११-१३, P.९३ब्७, D.७७ब्५, N.८२अ१, Cओ.८२ब्५, Cह्.४२८अ२८ कथं च रेवत, भिक्षुर् योगी योगाचारः प्रतिरूप आलम्बने चित्तम् उपनिबध्नाति / इह रेवत, भिक्षुर् यद् यद् एव ज्ञेयं वस्तु विचेतुकामो भवति, प्रविचेतुकामः परिवितर्कयितुकामः परिमीमांसयितुकामः, तच् च तेन पूर्वम् एव दृष्टं वा भवति, श्रुतं वा मतं वा विज्ञातं वा / स तद् एव दृष्टम् अधिपतिं कृत्वा श्रुतं मतं विज्ञातम् अधिपतिं कृत्वा समाहितभूमिकेन मनस्कारेण मनसिकरोति / विकल्पयत्य् अधिमुच्यते / स न तद् एव ज्ञेयं वस्तु समवहितं संमुखीभूतं पश्यत्य् अपि तु तत्प्रतिरूपकम् अस्योत्पद्यते तत्प्रतिभासं वा, ज्ञानमात्रं वा, दर्शनमात्रं वा, प्रतिस्मृतमात्रं वा यदालम्बनम् अयं भिक्षुर् योगी योगाचारः कालेन कालं चित्तम् संशमयति, कालेन कालम् अधिप्रज्ञे धर्मविपश्यनायां (Śभ् II ५४) योगं करोति / एवं हि स रेवत, भिक्षुर् योगी योगाचारः प्रतिरूप आलम्बने चित्तम् उपनिबध्नाति //
SK
-II-३-अ-(२)-२-इइ-(च्) Mस्.७१अ७R, Sह्.१९९-(१९), Sअ.१२-१३, P.९४अ६, D.७८अ३, N.८२अ६, Cओ.८३अ३, Cह्.४२८ब्१० कथं च रेवत, भिक्षुर् योगी योगाचारः सम्यग् एवालम्बने चित्तम् उपनिबध्नाति / सचेद् अयं रेवत, भिक्षुर् योगी योगाचार आलम्बने चित्तम् उपनिबध्नाति यावद् अनेन ज्ञेयं ज्ञातव्यं भवति, तच् च यथाभूतम् अविपरीतम् / एवं हि, रेवत, भिक्षुर् योगी योगाचारः सम्यग् एवालम्बने चित्तम् उपनिबध्नाति //
SK
-II-३-अ-(२)-२-इइ-(द्) Mस्.७१अ८M, Sह्.२००-२, Sअ.१३-६, P.९४ब्१, D.७८अ५, N.८२ब्१, Cओ.८३अ५, Cह्.४२८ब्१५ कथं च रेवत, भिक्षुर् योगी योगाचारो ऽनिराकृतध्यायी भवति / सचेत् स रेवत, भिक्षुर् योगी योगाचार एवम् आलम्बने सम्यक् प्रयुज्यमानः सातत्यप्रयोगी च भवति सत्कृत्यप्रयोगी च कालेन च कालं शमथनिमित्तं भावयति प्रग्रहनिमित्तम् उपेक्षानिमित्तम् आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयात् सर्वदौष्ठुल्यानां प्रतिप्रश्रब्धेर् आश्रयपरिशुद्धिम् अनुप्राप्नोति स्पर्शयति साक्षात्करोति / ज्ञेयवस्तुप्रत्यवेक्षतया चालम्बनपरिशुद्धिं रागविरागाच् चित्तपरिशुद्धिम् अविद्याविरागाज् ज्ञानपरिशुद्धिम् अधिगच्छति स्पर्शयति साक्षात्करोति / एवं हि, स रेवत, भिक्षुर् (Śभ् II ५६) योगी योगाचारो ऽनिराकृतध्ययी भवति /
SK
यतश् च रेवत, भिक्षुर् अस्मिन्न् आलम्बने चित्तम् उपनिबध्नाति, एवं चालम्बने चित्तम् उपनिबध्नाति, एवम् अस्य तच् चित्तम् आलम्बने सूपनिबद्धं भवति᳚ //
SK
-II-३-अ-(३)-इ Mस्.७१ब्२R, Sह्.२००-१८, Sअ.१३-६, P.९४ब्७, D.७८ब्२, N.८२ब्६, Cओ.८३ब्३, Cह्.४२८ब्२७ तत्र गाथा /
SK
निमित्तेषु चरन् योगी सर्वभूतार्थवेदकः / बिम्बध्यायी साततिकः पारिशुद्धिं निगच्छति //
SK
तत्र यत् तावद् आह ᳚निमित्तेषु चरन् योगी᳚त्य् अनेन तावच् छमथनिमित्ते प्रग्रहनिमित्त उपेक्षानिमित्ते सततकारिता सत्कृत्यकारिता चाख्याता / यत् पुनर् आह ᳚सर्वभूतार्थवेदक᳚ इत्य् अनेन वस्तुपर्यन्तताख्याता / यत् पुनर् आह ᳚बिम्बध्यायी साततिक᳚ इत्य् अनेन सविकल्पं निर्विकल्पं च प्रतिबिम्बम् आख्यातम् / यत् पुनर् आह ᳚पारिशुद्धिं निगच्छती᳚त्य् अनेन कार्यपरिनिष्पत्तिर् आख्याता //
SK
पुनर् अपि चोक्तं भगवता /
SK
चित्तनिमित्तस्य कोविदः प्रविवेकस्य च विन्दते रसम् / ध्यायी निपकः प्रतिस्मृतो भुङ्क्ते प्रीतिसुखं निरामिषम् //
SK
तत्र यत् तावद् आह ᳚चित्तनिमित्तस्य कोविद᳚ इत्य् अनेन सविकल्पं निर्विकल्पं च प्रतिबिम्बं निमित्तशब्देनाख्यातम्, वस्तुपर्यन्तता कोविदशब्देन / यत् पुनर् आह ᳚प्रविवेकस्य च विन्दते रसम्᳚ इत्य अनेनालम्बने सम्यक् (Śभ् II ५८) प्रयुक्तस्य प्रहाणारामता भावनारामता चाख्याता / यत् पुनर् आह ᳚ध्यायी निपकः प्रतिस्मृत᳚ इत्य् अनेन शमथविपश्यनाया भावनासातत्यम् आख्यातम् / यत् पुनर् आह ᳚भुङ्क्ते प्रीतिसुखं निरामिषम्᳚ इत्य् अनेन कार्यपरिनिष्पत्तिर् आख्याता /
SK
तद् एवं सत्य् एतद् व्याप्य् आलम्बनम् आप्तागमविशुद्धं वेदितव्यं युक्तिपतितं च / इदम् उच्यते व्याप्य् आलम्बनम् //
SK
-II-३-ब् Mस्.७१ब्६R, Sह्.२०२-३, P.९५ब्२, D.७९अ२, N.८३अ६, Cओ.८३अ३, Cह्.४२८च्१८ तत्र चरितविशोधनम् आलम्बनं कतमत् / तद्यथा, अशुभा, मैत्री, इदंप्रत्ययताप्रतीत्यसमुत्पादः, धातुप्रभेदः, आनापानस्मृतिश् च //
SK
-II-३-ब्-(१)-इ तत्राशुभा कतमा / आह / षड्विधाशुभा / तद्यथा प्रत्यशुभता, दुःखाशुभता, अवराशुभता, आपेक्षिक्य् अशुभता, क्लेशाशुभता, प्रभंगुराशुभता च //
SK
-II-३-ब्-(१)-इ-(अ) Mस्.७२अ१L, Sह्.२०३-१, P.९५ब्५, D.७९अ५, N.८३ब्१, Cओ.८४अ५, Cह्.४२८च्२२ तत्र प्रत्यशुभता कतमा / आह / प्रत्यशुभताध्यात्मम् उपादाय बहिर्धा चोपादाय वेदितव्या //
SK
-II-३-ब्-(१)-इ-(अ) तत्राध्यात्मम् उपादाय / तद्यथा केशा, रोमाणि, नखा, दन्ता, रजः, (Śभ् II ६०) मलं, त्वक्, मांसं, अस्थि, स्नायु, सिरा, )वृक्का, हृदयं, प्लीहकं, क्लोमम्, अन्त्राणि, अन्त्रगुणः, आमाशयं, पक्वाशयं, यकृत्, पुरीषम्, अश्रु, स्वेदः, खेटः, शिङ्घाणकं, वसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितम्, मस्तकं, मस्तकलुङ्गं, प्रस्रावः //
SK
-II-३-ब्-(१)-इ-(अ) Mस्.७२३२L, Sह्.२०३-११, P.९६अ२, D.७९अ७, N.८३ब्५, Cओ.८४ब्१, Cह्.४२८च्२८ तत्र बहिर्धोपादायाशुभा कतमा / तद्यथा विनीलकं वा, विपूयकं वा, विपटुमकं वा, व्याध्मातकं वा, विखादितं वा, विलोहितकं वा, विक्षिप्तकं वा, अस्थि वा, शङ्कलिका वा, अस्थिशङ्कलिका वा, उच्चारकृतं वा, प्रस्रावकृतं वा, खेटकृतं वा, शिङ्घाणककृतं वा, रुधिरम्रक्षितं वा, पूयम्रक्षितं वा, गूथकठिIIअं वा, स्यन्दनिका वा / इत्य् एवंभागीया बहिर्धोपादाय प्रत्यशुभता वेदितव्या / या चाध्यात्मम् उपादाय या च बहिर्धोपादायाशुभता, इयम् उच्यते प्रत्यशुभता //
SK
-II-३-ब्-(१)-इ-(ब्) तत्र दुःखाशुभता कतमा / यद् दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते कायिकचैतसिकम् असातं वेदयितं वेदनागतम् इयम् उच्यते दुःखाशुभता //
SK
-II-३-ब्-(१)-(च्) Mस्.७२अ४L, Sह्.२०४-६, P.९६अ७, D.७९ब्४, N.८४अ२, Cओ.८४ब्५, Cह्.४२९अ७ तत्रावराशुभता कतमा / यत् सर्वनिहीनं वस्तु, सर्वनिहीनो धातुस् तद्यथा कामधातुः, यस्मात् पुनर् हीनतरश् चावरतरश् च प्रतिक्रुष्टतरश् चान्यो धातुर् नास्ति / इयम् उच्यत अवराशुभता //
SK
-II-३-ब्-(१)-इ-(द्) तत्रापेक्षिक्य् अशुभता कतमा / तद्यथा तद् एकत्यं वस्तु शुभम् अपि सद् अन्यच् छुभतरम् अपेक्ष्याशुभतः ख्याति / तद्यथारूप्यान् अपेक्ष्य रूपधातुर् अशुभतः ख्याति / सत्कायनिरोधं निर्वाणम् अपेक्ष्य यावद् भवाग्रम् अशुभत्वे संख्यां गच्छति / इयम् एवंभागीयापेक्षिक्य् अशुभता //
SK
-II-३-ब्-(१)-(ए) Mस्.७२अ५M, Sह्.२०४-१६, P.९६ब्४, D.७९ब्७, N.८४अ५, Cओ.८५अ१, Cह्.४२९अ१५ तत्र क्लेशाशुभता कतमा / त्रैधातुकावचराणि सर्वाणि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानि क्लेशाशुभतेत्य् उच्यते //
SK
-II-३-ब्-(१)-इ-(f) तत्र प्रभंगुराशुभता कतमा / या पञ्चानाम् उपादानस्कन्धानाम् अनित्यता, अध्रुवता, अनाश्वासिकता, विपरिणामधर्मता / इयम् उच्यते प्रभंगुराशुभता /
SK
इतीयम् अशुभता रागचरितस्य विशुद्धय आलम्बनम् //
SK
-II-३-ब्-(१ )-इइ Mस्.७२अ६M, Sह्.२०४-२१, P.९६ब्७, D.८०अ१, N.८४अ७, Cओ.८५अ३, Cह्.४२९अ१९ तत्र रागस् तद्यथा अध्यात्मं कामेषु कामच्छन्दः कामरागः, बहिर्धा कामेषु मैथुनच्छन्दो मैथुनरागः, विषयच्छन्दो विषयरागः, (Śभ् II ६४) रूपच्छन्दो रूपरागः, सत्कायच्छन्दः सत्कायरागश् चेत्य् अयं पञ्चविधो रागः / तस्य पञ्चविधस्य रागस्य प्रहाणाय प्रतिविनोदनायासमुदाचाराय षड्विधाशुभतालम्बनम् //
SK
-ल्|-३-ब्-(१)-इइ-(अ) तत्राध्यात्मम् उपादाय प्रत्यशुभतालम्बनेनाध्यात्मं कामेषु कामच्छन्दात् कामरागाच् चित्तं विशोधयति //
SK
-II-३-ब्-(१ )-इइ-(ब्)-१,-२,-३,-४ Mस्.७२अ७R, Sह्.२०५-९, P.९७अ३, D.८०अ४, N.८४ब्३, Cओ.८५अ७, Cह्.४२९अ२५ तत्र बहिर्धोपादाय प्रत्यशुभतालम्बनेन बहिर्धा कामेषु मैथुनच्छन्दाद् मैथुनरागाच् चतुर्विधा रागप्रतिसंयुक्ताद् वर्णरागसंस्थानरागस्पर्शरागोपचाररागप्रतिसंयुक्ताच् चित्तं विशोधयति /
SK
तत्र यदा विनीलकं वा, विपूयकं वा, विपटुमकं वा, व्याध्मातकं वा, विखादितकं वा मनसिकरोति, तदा वर्णरागाच् चित्तं विशोधयति /
SK
यदा पुनर् विलोहितकं मनसिकरोति, तदा संस्थानरागाच् चित्तं विशोधयति /
SK
यदा पुनर् अस्थि वा शङ्कलिकां वास्थिशङ्कलिकां वा मनसिकरोति, तदा स्पर्शरागाच् चित्तं विशोधयति /
SK
यदा विक्षिप्तकं मनसिकरोति, तदोपचाररागाच् चित्तं विशोधयति /
SK
एवं स मैथुनरागाच् चित्तं विशोधयति //
SK
-II-३-ब्-(१)-इइ-(ब्)-१ऽ,-२ऽ,-३ऽ,-४ऽ Mस्.७२ब्१R, Sह्.२०५-२०, P.९७ब्१, D.८०ब्१, N.८४ब्७, Cओ.८५ब्४, Cह्.४२९ब्६ अत एव भगवता बहिर्धोपादाय प्रत्यशुभता सा चतसृषु शिवपथिकासु व्यवस्थापिता / या यैवानेन शिवपथिका दृष्टा भवति / एकाहमृता वा सप्ताहमृता वा काकैः कुररैः खाद्यमाना गृध्रैः श्वभिः सृगालैः / तत्र तत्रेमम् एव कायम् उपसंहरति / अयम् अपि मे काय एवंभावी, एवंभूतः, एवंधर्मताम् अनतीतः इति / अनेन तावद् विनीलकम् उपादाय यावद् विखादितकम् आख्यातम् /
SK
यत् पुनर् आह ᳚यानेन शिवपथिका दृष्टा भवति / अपगतत्वङ्मांसशोणितस्नायूपनिबद्धे᳚त्य् अनेन विलोहितकम् आख्यातम् /
SK
यत् पुनर् आह / ᳚यान्य् एव शिवपथिकास्थानानि दृष्टानि भवन्ती᳚ति [देस् नि रुस् गोङ् दङ् / केङ् रुस् दङ् / रुस् पऽइ केङ् रुस् ब्स्तन् तो /]
SK
यत् पुनर् आह / ᳚[देस् लग् पऽइ रुस् प दग् क्यङ् लोग्स् शिग् / र्कङ् पऽइ रुस् प दग् क्यङ् लोग्स् शिग् / लोङ् बुऽइ रुस् प दग् क्यङ् लोग्स् शिग् / पुस् मोऽइ रुस् प दग् क्यङ् लोग्स् शिग् (D., Cओ. अद्द् ल) / र्त्सिब् लोग्स् क्यि रुस् प दग् दङ् / द्पुङ् पऽइ रुस् प दग् दङ् / लग् ङर् ग्यि रुस् प दङ्] / पृष्ठीवंशः, हनुचक्रम्, दन्तमाला, शिरःकपालं, तथा भिन्नप्रतिभिन्नानि, एकवार्षिकाणि द्विवार्षिकाणि यावत् सप्तवार्षिकाणि श्वेतानि शंखनिभानि, कपोतवर्णानि पांसुचूर्णव्यतिमिश्राणि दृष्टानि भवन्ती᳚त्य् अनेन विक्षिप्तकम् आख्यातम् / एवं प्रत्यशुभतालम्बनेन बहिर्धोपादाय चतुर्विधा रागप्रतिसंयुक्ताद् मैथुनरागाच् चित्तं विशोधयति //
SK
-II-३-ब्-(१)-इइ-च्,-द्,-ए Mस्.७२ब्४R, Sह्.२०६-१९, P.९८अ३, D.८१अ१, N.८५अ७, Cओ.८६अ३, Cह्.४२९ब्२४ तत्र दुःखताशुभतालम्बनेनावराशुभतालम्बनेन च विषयप्रतिसंयुक्तात् कामरागाच् चित्तं विशोधयति /
SK
तत्रोपेक्षाशुभतालम्बनेन रूपरागाच् चित्तं विशोधयति᳚ /
SK
तत्र क्लेशाशुभतालम्बनेन प्रभंगुराशुभतालम्बनेन चा भवाग्रम् उपादाय सत्कायछन्दरागाच् चित्तं विशोधयति /
SK
इदं तावद् रागचरितस्य चरितविशोधनम् आलम्बनम् / संभवं प्रत्य् एतद् उच्यते / सर्वं सर्वाकारम् अशुभतालम्बनं संगृहीतं भवति / अस्मिंस् त्व् अर्थे प्रत्यशुभतैवाभिप्रेता / तदन्या त्व् अशुभता तदन्यस्यापि चरितस्य विशुद्धय आलम्बनम् //
SK
-II-३-ब्-(२) Mस्.७२ब्६M, Sह्.२०७-७, Mऐ.२७७, P.९८अ८, D.८१अ४, N.८५ब्४, Cओ.८६अ७, Cह्.४२९च्३ तत्र मैत्री कतमा / यो मित्रपक्षे वा, अमित्रपक्षे वा, उदासीनपक्षे वा, हिताध्याशयम् उपस्थाप्य मृदुमध्याधिमात्रस्य सुखस्योपसंहारायाधिमोक्षः समाहितभूमिकः / तत्र यो मित्रपक्षो ऽमित्रपक्ष उदासीनपक्षश् चेदम् आलम्बनम् / तत्र यो हिताध्याशयः, सुखोपसंहाराय चाधिमोक्षः समाहितभूमिको ऽयम् आलम्बक इति / यच् चालम्बनं यश् चालम्बकस् तद् एकध्यम् अभिसंक्षिप्य मैत्रीत्य् उच्यते //
SK
तत्र यत् तावद् आह ᳚मैत्रीसहगतेन चित्तेने᳚त्य् अनेन तावत् त्रिषु पक्षेषु मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे हिताध्याशय आख्यातः /
SK
यत् पुनर् आह ᳚अवैरेणासपत्नेनाव्याबाधेने᳚त्य् अनेन तस्यैव हिताध्याशयस्य त्रिविधं लक्षणम् आख्यातम् / तत्रावैरतया हिताध्याशयः, (Śभ् II ७०) सा पुनर् अवैरता द्वाभ्यां पदाभ्याम् आख्याता, असपत्नतया, अव्याबाधतया च / तत्राप्रत्यनीकभावस्थानार्थेनासपत्नता / अपकाराविचेष्टनार्थेनाव्याबाधता /
SK
यत् पुनर् आह / ᳚विपुलेन महद्गतेनाप्रमाणेने᳚त्य् अनेन मृदुमध्याधिमात्रस्य सुखस्योपसंहार आख्यातः कामावचरस्य, प्रथमद्वितीयध्यानभूमिकस्य वा, तृतीयध्यानभूमिकस्य वा /
SK
यत् पुनर् आह / ᳚अधिमुच्य स्फरित्वोपसंपद्य विहरती᳚त्य् अनेन सुखोपसंहारायाधिमोक्षः समाहितभूमिक आख्यातः स पुनर् एष सुखोपसंहारो हिताध्याशयपरिगृहीत आधिमोक्षिकमनस्कारानुगतः /
SK
अदुःखासुखिते मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे सुखकामे वेदितव्यः /
SK
यस् तु दुःखितो वादुःखितो वा पुनर् मित्रपक्षो ऽमित्रपक्ष उदासीनपक्षो वा / तत्र यो दुःखितः स करुणाया आलम्बनम् / यः सुखितः स मुदिताया आलम्बनम्, इयम् उच्यते मैत्री /
SK
तत्र व्यापादचरितः पुद्गलो मैत्रीं भावयन् सत्त्वेषु यो व्यापादस् तं प्रतनूकरोति / व्यापादाच् चित्तं परिशोधयति //
SK
-II-३-ब्-(३) Mस्.७३अ४M, Sह्. २१०-३, P.९९अ७, D.८१ब्७, N.८६अ७, Cओ.८७अ३, Cह्.४३०अ४ तत्रेदंप्रत्ययताप्रतीत्यसमुत्पादः कतमः / यत् त्रिष्व् अध्वसु संस्कारमात्रं धर्ममात्रं वस्तुमात्रं हेतुमात्रं फलमात्रं युक्तिपतितं यदुतापेक्षायुक्त्या कार्यकरणयुक्त्योपपत्तिसाधनयुक्त्या धर्मतायुक्त्या च, धर्माणाम् एव धर्माहारकत्वं निष्कारकवेदकत्वं च / इदम् उच्यत (Śभ् II ७२) इदंप्रत्ययताप्रतीत्यसमुत्पादालम्बनम् / यद् आलम्बनं मनसिकुर्वन् मोहाधिकः पुद्गलो मोहचरितो मोहं प्रजहाति तनूकरोति मोहचरिताच् चित्तं विशोधयति //
SK
-II-३-ब्-(४) Mस्.७३अ५L, Sह्.२११-१, P.९९ब्३, D.८२अ३, N.८६ब्३, Cओ.८७अ६, Cह्.४३०अ१२ तत्र धातुप्रभेदः कतमः / तद्यथा षड्धातवः पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुश् च //
SK
-II-३-ब्-(४)-इ Mस्.७३अ६M, Sह्.२११-४, P.९९ब्४, D.८२अ३, N.८६ब्४, Cओ.८७अ६, Cह्.४३०अ१३ तत्र पृथिवीधातुर् द्विविधः / आध्यात्मिको बाह्यश् च /
SK
तत्राध्यात्मिको यद् अस्मिन् काये ऽध्यात्मं प्रत्यात्मं खक्खटम् खरगतम् उपगतम् उपादत्तम् /
SK
बाह्यः पुनः पृथिवीधातुर् यद् बाह्यं खक्खटं खरगतम् अनुपगतम् अनुपादत्तम् /
SK
स पुनर् आध्यात्मिकपृथिवीधातुः कतमः / तद्यथा केशा, रोमाणि, नखा, दन्ता, रजः, मलं, त्वक्, मांसम्, अस्थि, स्नायु, सिरा, वृक्का, हृदयं, प्लीहकं, क्लोमकम्, अन्त्राणि, अन्त्रगुणाः, आमाशयः, पक्वाशयः, यकृत्, पुरीषम् / अयम् उच्यत आध्यात्मिकः पृथिवीधातुः /
SK
स पुनर् बाह्यः पृथिवीधातुः कतमः / काष्ठानि वा, लोष्टानि वा, शर्करा वा, कठिIIआ वा, वृक्षा वा, पर्वताग्रा वेति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः / अयम् उच्यते बाह्यः पृथिवीधातुः //
SK
-II-३-ब्-(४)-इइ Mस्.७३ब्१R, Sह्.२१३-२, P.१००अ२, D.८२अ७, N ८७अ१, Cओ.८७ब्३, Cह्.४३०अ२१ अब्धातुः कतमः / अब्धातुर् द्विविधः / आध्यात्मिको बाह्यश् च /
SK
तत्राध्यात्मिको ऽब्धातुः ᳚ कतमः / यद् अध्यात्मं प्रत्यात्मं स्नेहः स्नेहगतम् आपो ऽब्गतम् उपगतम् उपादत्तम् / तद्यथा अश्रु, स्वेदः, खेतः, शिंघाणकः, वसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितं, मस्तकम्, मस्तकलुंगम्, प्रस्रावः / अयम् उच्यत आध्यात्मिको ऽब्धातुः /
SK
बाह्यो ऽब्धातुः कतमः / यद् बाह्यम् आपो ऽब्गतम्, स्नेहः स्नेहगतम् अनुपगतम् अनुपादत्तम् / तत् पुनर् उत्सो वा, सरांसि वा, तडागा वा, नद्यो वा, प्रस्रवणानि वेति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः / अयम् उच्यते बाह्यो ऽब्धातुः //
SK
-II-३-ब्-(४)-इइइ Mस्.७३ब्३M, Sह्.२१४-३, P.१००अ७, D.८२ब्३, N.८७अ४, Cओ.८७ब्६, Cह्.४३०ब्१ तेजोधातुः कतमः / तेजोधातुर् द्विविध आध्यात्मिको बाह्यश् च /
SK
तत्राध्यात्मिकस् तेजोधातुः कतमः / यद् अध्यात्मं प्रत्यात्मं तेजस् तेजोगतम् ऊष्मोष्मागतम् उपगतम् उपादत्तम् / तद्यथा यद् अस्मिन् काये तेजो येनायं काय आतप्यते, संतप्यते, परितप्यते / येन चाशितपीतखादितस्वादितं सम्यक् सुखेन परिपाकं गच्छति / यस्य चोत्सदत्वाज् ज्वारितो ज्वारित इति संख्यां गच्छति / अयम् उच्यत आध्यात्मिकस् तेजोधातुः /
SK
बाह्यस् तेजोधातुः कतमः / यद् बाह्यं तेजस् तेजोगतम् ऊष्मोष्मागतम् अनुपगतम् अनुपादत्तम् / तत् पुनर् यन् मनुष्या अरणीसहगतकेभ्यो गोमयचूर्णेभ्यः समन्वेषन्ते / यद् उत्पन्नं ग्रामम् अपि दहति, (Śभ् II ७६) ग्रामप्रदेशम् अपि, नगरं वा, नगरप्रदेशं वा, जनपदं वा, जनपदप्रदेशं वा, द्वीपं वा, कक्षं वा, दावं वा, काष्ठं वा, तृणं वा, गोमयं वा दहन् परैतीति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः / अयम् उच्यते बाह्यस् तेजोधातुः //
SK
-II-३-ब्-(४)-इव् Mस्.७३ब्६L, Sह्.२१५-७, W.८७-२०, P.१००ब्६, D.८२ब्७, N.८७ब्२, Cओ.८८अ४, Cह्.४३०ब्११ तत्र वायुधातुः कतमः / वायुधातुर् द्विविधः, आध्यात्मिको बाह्यश् च /
SK
तत्राध्यात्मिको वायुधातुर् यद् अप्य् अध्यात्मं प्रत्यात्मं वायुर् वायुगतं लघुत्वं समुदीरणत्वम् उपगतम् उपादत्तम् / स पुनः कतमः / सन्त्य् अस्मिन् काय ऊर्ध्वंगमा वायवः, अधोगमा वायवः, पार्श्वशया वायवः, कुक्षिशया वायवः, पृष्ठिशया वायवः वाय्वष्ठीला वायवः, क्षुरकपिप्पलकशस्त्रका वायवः, विषूचिका वायवः, आश्वासप्रश्वासा वायवः, अङ्गप्रत्यङ्गानुसारिणो वायवः / अयम् उच्यत आध्यात्मिको वायुधातुः /
SK
बाह्यो वायुधातुः कतमः / यद् बाह्यं वायुर् वायुगतं लघुत्वं, समुदीरणत्वम् अनुपगतम् अनुपादत्तम् / स पुनः कतमः / सन्ति बहिर्धा पूर्वा वायवः, दक्षिणा वायवः, उत्तरा वायवः, पश्चिमा वायवः, सरजसो वायवः, अरजसो वायवः, परीत्ता महद्गता वायवः, विश्वा वायवः, वैरम्भा वायवः, वायुमण्डलकवायवः / भवति च समयो यस्मिन् महान् वायुस्कन्धः समुदागतो वृक्षाग्रान् अपि (Śभ् II ७८) पातयति, कुड्याग्रान् अपि पातयति, पर्वताग्रान् अपि पातयति / पातयित्वा निरुपादानो निर्गच्छति / यं सत्त्वाश् चीवरकर्णकेन वा पर्येषन्ते, तालवृन्तेन वा, विधमनकेन वेति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः / अयम् उच्यते बाह्यो वायुधातुः //
SK
-II-३-ब्-(४)-व् Mस्.७४अ२R, Sह्.२१७-१, P.१०१अ७, D.८३अ७, N.८८अ१, Cओ.८८ब्३, Cह्.४३०ब्२६ आकाशधातुः कतमः / यच् चक्षुःसौषिर्यं वा, श्रोत्रसौषिर्यं वा, घ्राणसौषिर्यं वा, मुखसौषिर्यं वा, कण्ठसौषिर्यं वेति, येन वाभ्यवहरति, यत्र वाभ्यवहरति, येन वाभ्यवह्रियते, अधोभागेन प्रघरतीति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः / अयम् उच्यत आकाशधातुः //
SK
-II-३-ब्-(४)-वि Mस्.७४अ३R, Sह्.२१८-६, P.१०१ब्१, D.८३ब्१, N.८८अ३, Cओ.८८ब्४, Cह्.४३०ब्२८ विज्ञानधातुः कतमः / यच् चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानम् / तत् पुनश् चित्तं मनो विज्ञानं च / अयम् उच्यते विज्ञानधातुः //
SK
-II-३-ब्-(४)ऽ Mस्.७४अ४L, Sह्.२१८-९, P.१०१ब्२, D.८३ब्२, N.८८अ४, Cओ.८८ब्४, Cह्.४३०च्१ तत्र मानचरितः पुद्गल इमं धातुप्रभेदं मनसिकुर्वन् काये पिण्डसंज्ञां विभावयति, अशुभसंज्ञां च प्रतिलभते, न च पुनस् तेनोन्नतिं गच्छति, मानं प्रतनूकरोति / तस्माच् चरिताच् चित्तं (Śभ् II ८०) विशोधयति / अयम् उच्यते धातुप्रभेदः / मानचरितस्य पुद्गलस्य चरितविशोधनम् आलम्बनम् //
SK
-II-३-ब्-(५) Mस्.७४अ५L, Sह्.२१९-१, W.८८-१५, P.१०१ब्५, D.८३ब्४, N.८८अ६, Cओ.८८ब्७, Cह्.४३०च्५ तत्रानापानस्मृतिः कतमा / आश्वासप्रश्वासालम्बना स्मृतिर् इयम् उच्यत आनापानस्मृतिः //
SK
-II-३-ब्-(५)-इ-(अ) Mस्.७४अ५M, Sह्.२२०-१, W.*८६-१६, P. १०१ ब्६, D.८३ब्४, N.८८अ६, Cओ. ८९अ१, Cह्.४३०च्७ तत्र द्वाव् आश्वासौ / कतमौ द्वौ / आश्वासो ऽन्तराश्वासश् च / द्वौ प्रश्वासौ / कतमौ द्वौ / प्रश्वासो ऽन्तरप्रश्वासश् च /
SK
तत्राश्वासो यः प्रश्वाससमनन्तरम् अन्तर्मुखो वायुः प्रवर्तते यावन् नाभीप्रदेशात् /
SK
तत्रान्तराश्वासो य उपरते ऽस्मिन्न् आश्वासे न तावत् प्रश्वास उत्पद्यते, यदन्तराले विश्रामस्थानसहगत इत्वरकालीनस् तदनुसदृशो वायुर् उत्पद्यते / अयम् उच्यते ऽन्तराश्वासः /
SK
यथाश्वासो ऽन्तराश्वासश् चैवं प्रश्वासो ऽन्तरप्रश्वासश् च वेदितव्यः /
SK
तत्रायं विशेषो बहिर्मुखो वायुः प्रवर्तत इति वक्तव्यम्, नाभीदेशम् उपादाय, यावन् मुखाग्रान् नासिकाग्रात्, ततो वा पुनर् बहिः //
SK
-II-३-ब्-(५)-इ-(ब्) Mस्.७४अ७R, Sह्.२२०-१५, W.८८-३८, P.१०२अ३, D.८४अ१, N.८८ब्३, Cओ.८९अ५, Cह्.४३०च्१६ द्वाव् आश्वासप्रश्वासनिदानौ / कतमौ द्वौ / तदाक्षेपकं च कर्म, नाभीप्रदेशसौषिर्यं च, ततो वा पुनर् उत्तरि यत् कायसौषिर्यम् //
SK
-II-३-ब्-(५)-इ-(च्) Mस्.७४ब्१L, Sह्.२२१-१, W.८९-४, P.१०२अ४, D.८४अ२, N.८८ब्४, Cओ.८९अ६, Cह्.४३०च्१८ द्वाव् आश्वासप्रश्वासयोः संनिश्रयौ / कतमौ द्वौ / कायश् चित्तं च / तत् कस्य हेतोः / कायसंनिश्रिताश् चित्तसंनिश्रिताश् चाश्वासप्रश्वासाः प्रवर्तन्ते / ते च यथायोगं सचेत् कायसंनिश्रिता एव प्रवर्तेरन्, असंज्ञिसमापन्नानां, निरोधसमापन्नानाम् असंज्ञिसत्त्वेषु देवेषूपपन्नानां सत्त्वानां प्रवर्तेरन् / सचेच् चित्तसंनिश्रिता एव प्रवर्तेरन्, तेनारूप्यसमापन्नोपपन्नानाम् सत्त्वानां प्रवर्तेरन् /
SK
सचेत् कायसंनिश्रिताश् चित्तसंनिश्रिताः प्रवर्तेरंस् ते च न यथायोगं, तेन चतुर्थध्यानसमापन्नोपपन्नानाम् सत्त्वानां कललगतानां चार्बुदगतानां पेशीगतानाम् सत्त्वानां प्रवर्तेरन् / न च प्रवर्तन्ते / तस्माद् आश्वासप्रश्वासाः कायसंनिश्रिताश् चित्तसंनिश्रिताश् च प्रवर्तन्ते ते च यथायोगम् //
SK
-II-३-ब्-(५)-इ-(द्) Mस्.७४ब्३M, Sह्.२२१-१६, W.९०-१, P.१०२ब्३, D.८४अ६, N.८९अ२, Cओ.८९ब्३, Cह्.४३०च्२६ द्वे आश्वासप्रश्वासयोर् गती / कतमे द्वे / आश्वासयोर् अधोगतिः, प्रश्वासयोर् ऊर्ध्वगतिः //
SK
-II-३-ब्-(५)-इ-(ए) Mस्.७४ब्३R, Sह्.२२१-१८, W.९०-४, P.१०२ब्४, D.८४अ७, N.८९अ३, Cओ.८९ब्४, Cह्.४३०च्२८ द्वे आश्वासप्रश्वासयोर् भूमी / कतमे द्वे / औदारिकं च सौषिर्यं, सूक्ष्मं च सौषिर्यम् /
SK
तत्रौदारिकं सौषिर्यं नाभीप्रदेशम् उपादाय यावन् मुखनासिकाद्वारम् / मुखनासिकाद्वारम् उपादाय यावन् नाभीप्रदेशसौषिर्यम् /
SK
सूक्ष्मसौषिर्यं कतमत् / सर्वकायगतानि रोमकूपानि //
SK
-II-३-ब्-(५)-इ-(f) Mस्.७४ब्४M, Sह्.२२२-३, W.९०-१५, P.१०२ब्६, D.८४ब्२, N.८९अ४, Cओ.८९ब्६, Cह्.४३१अ३ चत्वार्य् आश्वासप्रश्वासानां पर्यायनामानि / कतमानि चत्वारि / वायवः, आनापानाः, आश्वासप्रश्वासाः, कायसंस्काराश् चेति / तत्रान्यैर् वायुभिः (Śभ् II ८४) साधारणं पर्यायनामैकं यदुत वायुर् इति / असाधारणानि तदन्यानि त्रीणि //
SK
-II-३-ब्-(५)-इ-(ग्) Mस्.७४ब्५L, Sह्.२२२-८, W.*९०-१९, P.१०२ब्८, D.८४ब्३, N.८९अ६, Cओ.८९ब्७, Cह्.४३१अ६ द्वाव् अपक्षालाव् आश्वासप्राश्वासप्रयुक्तस्य / कतमौ द्वौ / अतिशिथिलप्रयोगता च, अत्यवष्टब्धप्रयोगता च /
SK
तत्रातिशिथिलप्रयोगतया कौसीद्यप्राप्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति, बहिर्धा वा विक्षिप्यते / तथात्यवष्टब्धप्रयुक्तस्य कायवैषम्यम् वोत्पद्यते चित्तवैषम्यं वा /
SK
कथं कायवैषम्यम् उत्पद्यते / बलाभिनिग्रहेणाश्वासप्रश्वासान् अभिनिष्पीडयतः काये विषमा वायवः प्रवर्तन्ते / ये ऽस्य तत्प्रथमतस् तेषु तेष्व् अङ्गप्रत्यङ्गेषु स्फुरन्ति / ये स्फुरका इत्य् उच्यन्ते / ते पुनः स्फुरका वायवो विवर्धमाना रुजका भवन्ति / ये ऽस्य तेषु तेष्व् अङ्गप्रत्यङ्गेषु रुजाम् उत्पादयन्ति / इदम् उच्यते कायवैषम्यम् /
SK
कथं चित्तवैषम्यम् उत्पद्यते / चित्तं वास्य विक्षिप्यते / प्रगाढेन वा दौर्मनस्योपायासेनाभिभूयते / एवं चित्तवैषम्यम् उत्पद्यते //
SK
-II-३-ब्-(५)-इइ Mस्.७५अ१M, Sह्.२२३-१, W.९०-२४, P.१०३अ६, D.८४ब्७, N.८९ब्३, Cओ.९०अ५, Cह्.४३१अ१७ अस्याः खल्व् आनापानस्मृतेः पञ्चविधः परिचयो वेदितव्यः / तद्यथा गणनापरिचयः स्कन्धावतारपरिचयः प्रतीत्यसमुत्पादावतारपरिचयः सत्यावतारपरिचयः षोडशाकारपरिचयश् च //
SK
-II-३-ब्-(५)-इइ-(अ) Mस्.७५अ२L, Sह्.२२३-५, W.९०-३१, P.१०३अ८, D.८५अ२, N.८९ब्५, Cओ.९०अ६, Cह्.४३१अ२१ तत्र गणनापरिचयः कतमः / समासतश् चतुर्विधो गणनापरिचयः (Śभ् II ८६) / तद्यथैकैकगणना, द्वयैकगणना, अनुलोमगणना, प्रतिलोमगणना च //
SK
-II-३-ब्-(५)-इइ-(अ)-(१) Mस्.७५अ२R, Sह्.२२३-८, P.१०३ब्१, D.८५अ३, N.८९ब्६, Cओ.९०अ७, Cह्.४३१अ२४ तत्रैकैकगणना कतमा / यदाश्वासः प्रविष्टो भवति, तदाश्वासप्रश्वासालम्बनोपनिबद्धया स्मृत्यैकम् इति गणयति / यदाश्वासे निरुद्धे प्रश्वास उत्पद्य निर्गतो भवति तदा द्वितीयं गणयति, एवं यावद् दश गणयति / एषा हि गणना संख्या नातिसंक्षिप्ता नातिविस्तरा / इयम् उच्यत एकैकगणना //
SK
-II-३-ब्-(५)-इइ-(अ)-(२) Mस्.७५अ३R, Sह्.२२३-१४, P.१०३ब्४, D.८५अ४, N.८९ब्७, Cओ.९०ब्२, Cह्.४३१अ२८ द्वयैकगणना कतमा / यदाश्वासः प्रविष्टो भवति निरुद्धश् च प्रश्वास उत्पन्नो भवति निर्गतश् च, तदैकम् इति गणयति / अनेन गणनायोगेन यावद् दश गणयति / इयम् उच्यते द्वयैकगणना / आश्वासं च प्रश्वासं चेदं द्वयम् एकध्यम् अभिसंक्षिप्यैकम् इति गणयति, तेनोच्यते द्वयैकगणना //
SK
-II-३-ब्-(५)-इइ-(अ)-(३) Mस्.७५अ४R, Sह्.२२३-२०, P.१०३ब्६, D.८५अ६, N.९०अ२, Cओ.९०ब्४, Cह्.४३१ब्३ अनुलोमगणना कतमा / अनयैवैकैकगणनया द्वयैकगणनया वानुलोमं यावद् दश गणयति / इयम् उच्यते ऽनुलोमगणना //
SK
-II-३-ब्-(५)-इइ-(अ)-(४) Mस्.७५अ५L, Sह्.२२४-२, P. १०३ब्७, D.८५अ६, N.९०अ३, Cओ.९०ब्४, Cह्.४३१ ब्६ प्रतिलोमगणना कतमा / प्रतिलोमं दश उपादाय नवाष्टौ सप्त षट् पञ्च यावद् एकं गणयति / इयम् उच्यते प्रतिलोमगणना /
SK
यदा स एकैकगणनां निश्रित्य द्वयैकगणनां वा, अनुलोमगणनायां, प्रतिलोमगणनायां च कृतपरिचयो भवति, न चास्यान्तराच् चित्तं विक्षिप्यते, अविक्षिप्तचित्तश् च गणयति, तदास्योत्तरगणनाविशेषो व्यपदिश्यते //
SK
-II-३-ब्-(५)-इइ-(अ)-(५) Mस्.७५अ६L, Sह्.२२४-१०, P.१०४अ२, D.८५ब्१, N.९०अ५, Cओ.९०ब्६, Cह्.४३१ब्१२ कतमो गणनाविशेषः / एकैकगणनया वा, द्वयैकगणनया वा, द्वयम् एकं कृत्वा गणयति / तत्र द्वयैकगणनया चत्वार आश्वासप्रश्वासा एकं (Śभ् II ८८) भवति, एकैकगणनया पुनर् आश्वासः प्रश्वासश् ᳚ चैकं भवति / एवं यावद् दश गणयति / एवम् उत्तरोत्तरवृद्ध्या यावच् छतम् अप्य् एकं कृत्वा गणयति / तदा शतैकगणनयानुपूर्वेण यावद् दश गणयति / एवम् अस्य गणनाप्रयुत्कस्य यावद् दशैकं कृत्वा गणयति / यावच् च दश परिपूरयति / तया दशैकगणनया न चास्यान्तराच् चित्तं विक्षिप्यते / इयता तेन गणनापरिचयः कृतो भवति /
SK
तस्य च गणनाप्रयुक्तस्य सचेद् अन्तराच् चित्तं विक्षिप्यते, तदा पुनः प्रतिनिवर्त्यादितो गणयितुम् आरभते ऽनुलोमं वा, प्रतिलोमं वा / यदा चास्य गणनापरिचयात् तच् चित्तं स्वरसेनैव वाहिमार्गसमारूढम् आश्वासप्रश्वासालम्बनोपनिबद्धम् अव्यवच्छिन्नं निरन्तरं, प्रवर्तमान आश्वासे प्रवृत्तिग्राहकम्, निरुद्ध आश्वासे निवृत्तिग्राहकं प्रश्वासशून्यावस्थाग्राहकं, प्रवृत्ते प्रश्वासे प्रवृत्तिग्राहकं, निवृत्ते पुनर् निवृत्तिग्राहकम् आश्वासशून्यावस्थाग्राहकम् अविकंप्यम् अविचलम् अविक्षेपाकारम्, साभिरामं च प्रवर्तते /
SK
इयता गणनाभूमिसमतिक्रमो भवति / पुनस् तदागणयितव्यं भवति / नान्यत्राश्वासप्रश्वासालम्बनं चित्तम् उपनिबध्यते / आश्वासप्रश्वासा अनुगन्तव्याश् चाभिलक्षयितव्याश् च सान्तराश्वासप्रश्वासाः सप्रवृत्तिनिवृत्त्यवस्थाः / अयम् उच्यते गणनापरिचयः //
SK
Mस्.७५ब्२L, Sह्.२२५-१२, P.१०४ब्६, D.८६अ२, N.९०ब्६, Cओ,९१ब्१, Cह्.४३१च्४ स खल्व् एष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते / तेषाम् एतद् (Śभ् II ९०) व्याक्षेपस्थानं भवति चित्तस्थितये चित्तनिरतये / अन्यथा गणनाम् अन्तरेण तेषां स्त्यानमिद्धं वा चित्तं पर्यवनहेत, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तानां तु तेषाम् एतन् न भवति /
SK
ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयस् तेषां पुनर् गणनाप्रयोगेण प्रियारोहता भवति / तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्व् एव प्रतिविध्यन्ति, न च तेनाभिरमन्ते / ते पुनर् आश्वासप्रश्वासालम्बनां स्मृतिम् उपनिबध्य यत्र च प्रवर्तन्ते यावच् च प्रवर्तन्ते, यथा च प्रवर्तन्ते, यदा च प्रवर्तन्ते, तत् सर्वम् अनुगच्छत्य् उपलक्षयत्य् उपस्थितया स्मृत्या / अयम् एवंरूपस् तेषां प्रयोगः /
SK
तस्य च प्रयोगस्यासेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयात् कायप्रस्रब्धिर् उत्पद्यते, चित्तप्रस्रब्धिश् च / एकाग्रतां च स्पृशत्य् आलम्बनाभिरतिं च निर्गच्छति //
SK
-II-३-ब्-(५)-इइ-(ब्) Mस्.७५ब्४M, Sह्.२२६-५, W.९०-३६, P.१०५अ४, D.८६अ७, N.९१अ४, Cओ.९१ब्५, Cह्.४३१च्१६ स एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धान् अवतरति / कथं च पुनर् अवतरति / ये चाश्वासप्रश्वासा यश् चैषाम् आश्रयकायस् तं मनसिकुर्वन् रूपस्कन्धम् अवतरति / या तेषाम् आश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्तानुभावना स वेदनास्कन्ध इत्य् अवतरति / या संजानना स संज्ञास्कन्ध इत्य् अवतरति / या चासौ स्मृतिर् या च चेतना, या च तत्र प्रज्ञा, अयं संस्कारस्कन्ध इत्य् अवतरति / यच् (Śभ् II ९२) चित्तं मनो विज्ञानम् अयं विज्ञनस्कन्ध इत्य् अवतरति / या तद्बहुलविहारिता एवं स्कन्धेष्व् अवतीर्णस्यायम् उच्यते स्कन्धावतारपरिचयः //
SK
-II-३-ब्-(५)-इइ-(च्) Mस्.७५ब्६L, Sह्.२२६-१७, P.१०५ब्१, D.८६ब्३, N.९१अ७, Cओ.९२अ१, Cह्.४३१च्२६ यदा चानेन स्कन्धमात्रं दृष्टं भवति परिज्ञातं संस्कारमात्रं वस्तुमात्रं तदा स एषाम् एव संस्काराणां प्रतीत्यसमुत्पादम् अवतरति / कथं च पुनर् अवतरति / स एवं समन्वेषते पर्येषते, ᳚इतीम आश्वासप्रश्वासाः किमाश्रिताः किंप्रत्ययाः᳚ / तस्यैवं भवति / ᳚कायाश्रिता एत आश्वासप्रश्वासाः कायप्रत्ययाश् चित्ताश्रिताश् चित्तप्रत्ययाश् च᳚ /
SK
᳚कायः पुनश् चित्तं च किंप्रत्ययं च / स ᳚कायश् चित्तं च जीवितेन्द्रियप्रत्ययम्᳚ इत्य् अवतरति / ᳚जीवितेन्द्रियं पुनः किंप्रत्ययम्᳚ / स पूर्वसंस्कारप्रत्ययं जीवितेन्द्रियम् इत्य् अवतरति /
SK
᳚पूर्वकः संस्कारः किंप्रत्ययः / स ᳚पूर्वकः संस्कारो ऽविद्याप्रत्यय᳚ इत्य् अवतरति / इति ह्य् अविद्याप्रत्ययः पूर्वकः संस्कारः, पूर्वसंस्कारप्रत्ययं जीवितेन्द्रियं, जीवितेन्द्रियप्रत्ययः कायश् चित्तं च, कायचित्तप्रत्यया आश्वासप्रश्वासाः / तत्राविद्यानिरोधात् संस्कारनिरोधः / संस्कारनिरोधाज् जीवितेन्द्रियनिरोधः / जीवितेन्द्रियनिरोधात् (Śभ् II ९४) कायचित्तनिरोधः / कायचित्तनिरोधाद् आश्वासप्रश्वासनिरोधः/ एवम् असौ प्रतीत्यसमुत्पादम् अवतरति / स तद्बहुलविहारी प्रतीत्यसमुत्पादावतारे कृतपरिचय इत्य् उच्यते / अयम् उच्यते प्रतीत्यसमुत्पादावतारपरिचयः //
SK
-II-३-ब्-(५)-इइ-(द्) Mस्.७६अ१M, Sह्.२२८-१, P.१०६अ२, D.८७अ२, N.९१ब्७, Cओ.९२अ७, Cह्.४३२अ१२ स एवं प्रतीत्यसमुत्पादे कृतपरिचयो ᳚य एते संस्काराः प्रतीत्यसमुत्पन्ना अनित्या एत᳚ इत्य् अवतरति / ᳚अनित्यत्वाद् अभूत्वा च भवन्ति भूत्वा प्रतिविगच्छन्ति / पुनर् एते ऽभूत्वा भवन्ति भूत्वा च प्रतिविगच्छन्ति ते जातिधर्माणः, जराधर्माणः, व्याधिधर्माणः, मरणधर्माणः / ये जातिजराव्याधिमरणधर्माणस् ते दुःखाः, ये दुःखास् ते ऽनात्मानः, अस्वतन्त्राः, स्वामिविरहिताः᳚ / एवं सो ऽनित्यदुःखशून्यानात्माकारैर् दुःखसत्यम् अवतीर्णो भवति / तस्यैवं भवति / ᳚या काचिद् एषां संस्काराणाम् अभिनिर्वृत्तिर् दुःखभूता रोगभूता गण्डभूता सर्वासौ तृष्णाप्रत्यया / यत् पुनर् अस्या दुःखजनिकायास् तृष्णाया अशेषप्रहाणम् एतच् छान्तम् एतत् प्रणीतम् एवं च मे जानत एवं बहुलविहारिणस् तृष्णाया अशेषप्रहाणं भविष्यती᳚ति / एवं हि समुदयसत्यं निरोधसत्यं मार्गसत्यम् अवतीर्णो भवति / स तद्बहुलविहारी यदा सत्यान्य् अभिसमागच्छति / अयम् अस्योच्यते सत्यावतारपरिचयः /
SK
तस्यैवम् सत्येषु कृतपरिचयस्य दर्शनप्रहातव्येषु क्लेशेषु प्रहीणेषु भावनाप्रहातव्या अवशिष्टा भवन्ति //
SK
-II-३-ब्-(५)-इइ-(ए) Mस्.७६अ४ L, Sह्.२२८-१९, P.१०६ब्३, D.८७ब्१, N.९२अ६, Cओ.९२ब्६, Cह्.४३२अ२८ येषां प्रहाणाय षोडशाकारपरिचयं करोति / कतमे पुनः षोडशाकाराः / (Śभ् II ९६) तद्यथा स्मृत आश्वसन् ᳚स्मृत आश्वसिमी᳚ति शिक्षते / स्मृतः प्रश्वसन् ᳚प्रश्वसिमी᳚ति शिक्षते / दीर्घम् ह्रस्वं सर्वकायप्रतिसंवेद्य् आश्वसन् ᳚सर्वकायप्रतिसंवेद्य् आश्वसिमी᳚ति शिक्षते / सर्वकायप्रतिसंवेदी प्रश्वसन् ᳚सर्वकायप्रतिसंवेदी प्रश्वसिमी᳚ति शिक्षते / प्रस्रभ्य कायसंस्कारान् आश्वसन् ᳚प्रस्रभ्य कायसंस्कारान् आश्वसिमी᳚ति शिक्षते / प्रस्रभ्यकायसंस्कारान् प्रश्वसन् ᳚प्रस्रभ्य कायसंस्कारान् प्रश्वसिमी᳚ति शिक्षते / प्रीतिप्रतिसंवेदी सुखप्रतिसंवेदी शिक्षते / चित्तसंस्कारप्रतिसंवेदी प्रस्रभ्य चित्तसंस्कारान् आश्वसन् ᳚प्रस्रभ्य चित्तसंस्कारान् आश्वसिमी᳚ति शिक्षते / प्रस्रभ्य चित्तसंस्कारान् प्रश्वसन् ᳚प्रस्रभ्य चित्तसंस्कारान् प्रश्वसिमी᳚ति शिक्षते / चित्तप्रतिसंवेदी / अभिप्रमोदयंश् चित्तं समादधंश् च्र्त्तं विमोचयंश् चित्तम् आश्वसन् ᳚विमोचयंश् चित्तम् आश्वसिमी᳚ति शिक्षते / विमोचयंश् चित्तं प्रश्वसन् ᳚विमोचयंश् चित्तं प्रश्वसिमी᳚ति शिक्षते / अनित्यानुदर्शी, प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्श्य् आश्वसन् ᳚निरोधानुदर्श्य् आश्वसिमी᳚ति शिक्षते / निरोधानुदर्शी प्रश्वसन् निरोधानुदर्शी प्रश्वसिमीति (Śभ् II ९८) शिक्षते //
SK
-II-३-ब्-(५)-इइ-(f) Mस्.७६अ७M, Sह्.२३१-९, P.१०७अ७, D.८८अ३, N.९३अ१, Cओ.९३अ७, Cह्.४३२ब्२८ कः पुनर् एषां विभाग आकाराणाम् / स शैक्षो दृष्टपदो लाभी भवति चतुर्णां स्मृत्युपस्थानानाम् / आश्वासप्रश्वासालम्बनं च मनस्कारम् आरभते ऽवशिष्टानां संयोजनानां प्रहाणाय / तेनाह ᳚स्मृत आश्वसन् ऽस्मृत आश्वसिमीऽति शिक्षते, स्मृतः प्रश्वसन् ऽप्रश्वसिमीऽति शिक्षते᳚ /
SK
यदाश्वासं वा प्रश्वासं वालम्बते तदा ᳚दीर्घम् आश्वसिमि प्रश्वसिमी᳚ति शिक्षते /
SK
यदान्तराश्वासम् अन्तरप्रश्वासं वालम्बनीकरोति तदा ᳚ह्रस्वम् आश्वसिमि प्रश्वसिमी᳚ति शिक्षते / तथा ह्य् आश्वासप्रश्वासा दीर्घाः प्रवर्तन्ते, अन्तराश्वासा अन्तरप्रश्वासाश् च ह्रस्वाः / ते यथैव प्रवर्तन्ते तथैवोपलक्षयति जानाति /
SK
यदा सूक्ष्मसौषिर्यगतान् आश्वासप्रश्वासान् रोमकूपानुप्रविष्टान् काये ऽधिमुच्यते, आलम्बनीकरोति तदा सर्वकायप्रतिसंवेदी भवति /
SK
यस्मिन् वा पुनः समये निरुद्ध आश्वासे ऽन्तराश्वासे च / आश्वासप्रश्वासशून्याम् आश्वासप्रश्वासापेताम् अवस्थाम् आलम्बनीकरोति / (Śभ् II १००) निरुद्धे च प्रश्वासे ऽन्तरप्रश्वासे च / अनुत्पन्न आश्वासे ऽन्तराश्वासे च / प्रश्वासाश्वासशून्यां तद्व्यपेतां तद्व्यवहितां रिक्ताम् अवस्थाम् आलम्बनीकरोति / तस्मिन् समये प्रस्रभ्य कायसंस्कारान् आश्वसन्, ᳚प्रस्रभ्य कायसंस्कारान् आश्वसिमी᳚ति शिक्षते / प्रस्रभ्य कायसंस्कारान् प्रश्वसन्, ᳚प्रस्रभ्य कायसंस्कारान् प्रश्वसिमी᳚ति शिक्षते /
SK
अपि तु खलु तस्यासेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयात् / ये खरा दुःसंस्पर्शा आश्वासप्रश्वासाः पूर्वम् अकृतपरिचयस्य प्रवृत्त भवन्ति / कृतपरिचयस्य अन्ये च मृदवः सुखसंस्पर्शाः प्रवर्तन्ते / तेनाह ᳚प्रस्रभ्य कायसंस्कारान् आश्वसिमीति शिक्षते᳚ /
SK
स चैवम् आनापानस्मृतिप्रयोगेण च युक्तः सचेल् लाभी भवति प्रथमस्य वा ध्यानस्य द्वितीयस्य वा तस्मिन् समये प्रीतिप्रतिसंवेद्य् आश्वसन्, ᳚प्रीतिप्रतिसंवेद्य् आश्वसिमी᳚ति शिक्षते /
SK
सचेत् पुनर् लाभी भवति निष्प्रीतिकस्य तृतीयस्य ध्यानस्य स तस्मिन् समये सुखप्रतिसंवेदी भवति / तृतीयाच् च ध्यानाद् ऊर्ध्वम् आनापानस्मृतिसंप्रयोगो नास्ति / येन यावत् तृतीयध्यानात् परिकीर्तितम् संगृहीतम् /
SK
तस्यैवं प्रीतिप्रतिसंवेदिनो वा सुखप्रतिसंवेदिनो वा सचेत् कदाचित् कर्हचित् स्मृतिसंप्रमोषाद् उत्पद्यते / ᳚अस्मी᳚ति वा, ᳚अयम् अहम् अस्मी᳚ति वा, ᳚भविष्यामी᳚ति वा, ᳚न भविष्यामी᳚ति वा, ᳚रूपी भविष्याम्य् अरूपी भविष्यामि᳚ (Śभ् II १०२) / ᳚संज्ञी, असंज्ञी, नैवसंज्ञीनासंज्ञी भविष्यामी᳚ति, एवम् संमोहसंज्ञाचेतनासहगतम् इञ्जितं मन्यितप्रपञ्चिताभिसंस्कृतं तृष्णागतम् उत्पद्यते / स तद् उत्पन्नं लघु लघ्व् एव प्रज्ञया प्रतिविध्यति नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति / एवं चित्तसंस्कारप्रतिसंवेदी ᳚प्रस्रभ्य चित्तसंस्कारान् आश्वसिमी᳚त्य् आश्वसन् ᳚प्रस्रभ्य चित्तसंस्कारान् आश्वसिमी᳚ति शिक्षते /
SK
सचेत् पुनर् लाभी भवति मौलानां प्रथमद्वितीयतृतीयानां ध्यानानां स चावश्यम् अनागम्यस्य प्रथमध्यानसामन्तकस्य लाभी भवति / स तं निश्रित्योत्पन्नं स्वं चित्तं प्रत्यवेक्षते / सरागं वा विगतरागं वा सद्वेषं वा विगतद्वेषं वा समोहं विगतमोहं, संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतं व्युपशान्तं अव्युपशान्तं समाहितम् असमाहितं सुभावितम् असुभावितं विमुक्तं चित्तम् अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति प्रतिसंवेदयति / तेनाह चित्तप्रतिसंवेदी /
SK
स यदा स्त्यानमिद्धनिवरणेन चित्तं निवृतं भवत्य् अध्यात्मम् संशमयतस् तदान्यतमान्यतमेन प्रसदनीयेनालम्बनेन संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति / तेनाहाभिप्रमोदयंश् (Śभ् II १०४) चित्तम् /
SK
यदा पुनर् औद्धत्यनिवरणेन कौकृत्यनिवरणेन निवृतं पश्यत्य् अभिसंप्रगृह्णतस् तदान्यतमान्यतमेन प्रसदनीयेनालम्बनेन संदर्शयत्य् अध्यात्मम् अवस्थापयति शमयति समाधत्ते / तेनाह समादधंश् चित्तम् /
SK
यदा च तच् चित्तम् आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयान् निवरणसमुदाचाराद् दूरीकृतं भवति निवरणेभ्यो विशोधितम् / तेनाह विमोचयंश् चित्तम् आश्वसन् ᳚विमोचयंश् चित्तम् आश्वसिमी᳚ति शिक्षते /
SK
तस्य निवरणेभ्यो विमुक्तचेतसो मार्गभावनाया आन्तरायिकेभ्यो ऽनुशया अवशिष्टा भवन्ति प्रहातव्याः / स तेषां प्रहाणाय मार्गं संमुखीकरोति / यदुत संस्कारानित्यताम् एव साधु च सुष्ठु च योनिशः प्रत्यवेक्सते / तेनाह अनित्यानुदर्शी /
SK
तेन च पूर्वं प्रथमद्वितीयतृतीयध्यानसन्निश्रयेणानागम्यसंनिश्रयेण वा पुनः शमथयोगः कृतः / एतर्ह्य् अनित्यानुदर्शी विपश्यनायां योगं करोति / एवम् अस्य तच् चित्तं शमथविपश्यनापरिभावितं धातुषु विमुच्यते यदुतानुशयेभ्यः /
SK
कतमे धातवः / यश् च प्रहाणधातुर् यश् च विरागधातुर् यश् च निरोधधातुः / तत्र सर्वसंस्काराणां दर्शनप्रहातव्यानां प्रहाणात् (Śभ् II १०६) प्रहाणधातुः / सर्वसंस्काराणां भावनाप्रहातव्यानां प्रहाणाद् विरागधातुः / सर्वोपधिनिरोधान् निरोधधातुः / स एवं त्रीन् धातुञ् शान्ततो मनसिकुर्वन् क्षेमत आरोग्यतः शमथविपश्यनां भावयति / येनास्यासेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयाद् अवशिष्टेभ्यो भावनाप्रहातव्येभ्यः क्लेशेभ्यश् चित्तं विमुच्यते / तेनाह प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्श्य् आश्वसन् ᳚निरोधानुदर्श्य् आश्वसिमी᳚ति शिक्षते /
SK
एवम् अयं दर्शनभावनाप्रहातव्येषु क्लेशेषु प्रहीणेष्व् अर्हन् भवति क्षीणास्रवः, नास्त्य् अस्यात उत्तरि करणीयम् / भवति कृतो ऽस्य परिचयः / अयम् अस्योच्यते षोडशाकारः परिचयः / यश् चायं पञ्चविधः परिचय इयम् अस्योच्यत आनापानस्मृतिः /
SK
यत्र वितर्कचरितः पुद्गलः प्रयुज्यमानः प्रियारोहतया प्रयुज्यते / सव्यापारं चैतद् आलम्बनं सव्याक्षेपम् अध्यात्मं प्रत्यात्मम् आसन्नासन्नं, येनास्य तत्र प्रयुज्यमानस्य यो वितर्कसंक्षोभः स न भवति / त्वरितत्वरितं च चित्तम् आलम्बने संतिष्ठते, अभिरमते / इदं पञ्चमं वितर्कचरितस्य पुद्गलस्य चरितविशोधनम् आलम्बनम् //
SK
-II-३-च् Mस्.७७अ७R, Sह्. २३७-६, W.*९१-२४, P.१११अ३, D.९१अ३, N.९६अ२, Cओ.९६अ६, Cह्.४३३च्१ तत्र कौशल्यालम्बनं कतमत् / तद्यथा स्कन्धकौशल्यं धातुकौशल्यम् आयतनकौशल्यं प्रतीत्यसमुत्पादकौशल्यं स्थानास्थानकौशल्यम् //
SK
-II-३-च्-(१) Mस्.७७अ८M, Sह्.२३७-९, P.१११अ४, D.९१अ४, N.९६अ३, Cओ.९६अ७, Cह्.४३३च्४ तत्र कतमे स्कन्धाः, कतमत् स्कन्धकौशल्यम् / आह / पञ्च स्कन्धाः रूपस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश् च /
SK
तत्र रूपस्कन्धः कतमः / यत् किञ्चिद् रूपं सर्वं तच् चत्वारि महाभूतानि चत्वारि महाभूतान्य् उपादाय / तत् पुनर् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वौदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा दूरे वान्तिके वा /
SK
तत्र वेदनास्कन्धः कतमः / सुखवेदनीयं वा स्पर्शं प्रतीत्य, दुःखवेदनीयं वा, अदुःखासुखवेदनीयं वा / षड् वेदनाकायाश् चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदना /
SK
तत्र संज्ञास्कन्धः कतमः / तद्यथा सनिमित्तसंज्ञा, अनिमित्तसंज्ञा, परीत्तसंज्ञा, महद्गतसंज्ञा, अप्रमाणसंज्ञा, नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनसंज्ञा / षट् संज्ञाकायाश् चक्षुःसंस्पर्शजा संज्ञा श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा संज्ञा /
SK
संस्कारस्कन्धः कतमः / षट् चेतनाकायाश् चक्षुःसंस्पर्शजा चेतना, श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा चेतना / वेदनां च संज्ञां च स्थापयित्वा ये तदन्ये चैतसिका धर्माः / तत्र विज्ञानस्कन्धः कतमः / यच् चित्तं मनो विज्ञानम् / ते पुनः षड् विज्ञानकायाः / चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानम् /
SK
सा चैषा वेदना संज्ञा संस्कारस् तच् चैतद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वेति विस्तरेण पूर्ववत् / इम उच्यन्ते स्कन्धाः /
SK
स्कन्धकौशल्यं कतमत् / य एतान् यथोद्दिष्टान् धर्माN नानात्मकतया (Śभ् II ११०) च जानाति बह्वात्मकतया च, न च ततः परम् उपलभते विकल्पयति वा / इदम् उच्यते समासतः स्कन्धकौशल्यम् /
SK
तत्र कतमा नानात्मकता स्कन्धानाम् / अन्य एव रूपस्कन्धो ऽन्यो वेदनास्कन्ध एवम् अन्यो यावद् विज्ञानस्कन्धः / इयं नानात्मकता /
SK
तत्र कतमा बह्वात्मकता / यो रूपस्कन्धो ऽनेकविधो बहुनानाप्रकारः, भूतभौतिकभेदेनातीतानागतप्रत्युत्पन्नादिकेन च प्रकारभेदेन / इयम् उच्यत अनेकात्मकता रूपस्कन्धस्य / एवम् अवशिष्टानाम् स्कन्धानां यथायोगं वेदितव्यम् /
SK
किं च न तस्मात् परम् उपलभते विकल्पयति / स्कन्धमात्रम् उपलभते वस्तुमात्रम् / नो तु स्कन्धव्यतिरेकेणात्मानम् उपलभते नित्यध्रुवम् अविपरिणामधर्मकम् / नाप्य् आत्मीयं, किंचिद् इदं नोपलभते, न विकल्पयति तस्मात् परेण //
SK
-११-३-०(२) Mस्.७७ब्६L, Sह्.२४४-१२, P.११२अ६, D.९२अ३, N.९७अ२, Cओ.९७अ५, Cह्.४३४अ३ तत्र कतमे धातवः / कतमद् धातुकौशल्यम् / आह / अष्टादश धातवः / चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुः श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर् घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुः कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् मनोधातुर् धर्मधातुर् मनोविज्ञानधातुः / इम उच्यन्ते धातवः /
SK
तत्र कतमद् धातुकौशल्यम् / यत् पुनर् एतान् अष्टादश धर्मान् स्वकात् स्वकाद् धातोः स्वकस्वकाद् बीजात् स्वकस्वकाद् गोत्राज् जायन्ते निर्वर्तन्ते प्रादुर्भवन्तीति जानाति रोचयन्न् उपनिध्याति / इदम् उच्यते धातुकौशल्यम् / यद् अष्टादशानां धर्माणाम् स्वकस्वकाद् धातोः प्रवृत्तिं जानाति तद् एवम् सति हेतुप्रत्ययकौशल्यम् एतद् यदुत धातुकौशल्यम् //
SK
-II-३-च्-(३) Mस्.७७ब्८M, Sह्.२४५-१२, P.११२ब्३, D.९२अ७, N.९७अ६, Cओ.९७ब्१, Cह्.४३४अ११ तत्र कतमान्य् आयतनानि / कतमद् आयतनकौशल्यम् / आह / द्वादशायतनानि, चक्षुरायतनम्, रूपायतनम्, श्रोत्रायतनम्, शब्दायतनम्, घ्राणायतनम्, गन्धायतनम्, जिह्वायतनम्, रसायतनम्, कायायतनम्, स्प्रष्टव्यायतनम्, मन-आयतनम्, धर्मायतनं च / इमान्य् उच्यन्त आयतनानि /
SK
कतमद् आयतनकौशल्यम् / तत्र चक्षुर् अधिपती रूपाण्य् आलम्बनं चक्षुर्विज्ञानस्य ससंप्रयोगस्योत्पत्तये, समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः / तत्र श्रोत्रम् अधिपतिः शब्द आलम्बनं समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः श्रोत्रविज्ञानस्य ससंप्रयोगस्योत्पत्तये / एवं यावन् मनःसमनन्तरं तज्जो मनस्कारो ऽधिपतिप्रत्ययो धर्म आलम्बनं मनोविज्ञानस्य ससंप्रयोगस्योत्पत्तये, इति त्रिभिः प्रत्ययैः समनन्तरप्रत्ययेन आलम्बनप्रत्ययेन अधिपतिप्रत्ययेन च षण्णां विज्ञानकायानां प्रवृत्तिर् भवति ससंप्रयोगाणाम् इति / यद् एवम् आध्यात्मिकबाह्येष्व् आयतनेषु प्रत्ययकौशल्यम् / इदम् उच्यत आयतनकौशल्यम् //
SK
-II-३-च्-(४) Mस्.७८अ३L, Sह्.२४७-१०, P.११३अ३, D.९२ब्५, N.९७ब्५, Cओ.९७ब्७, Cह्.४३४अ२२ तत्र कतमः प्रतीत्यसमुत्पादः, कतमत् प्रतीत्यसमुत्पादकौशल्यम् / आह / अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम् / विस्तरेण यावत् / एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति / अयम् उच्यते प्रतीत्यसमुत्पादः /
SK
यत् पुनर् धर्मा एव धर्मान् अभिस्पन्दयन्ति धर्मा एव धर्मान् परिस्पन्दयन्ति / संस्कारा एव धर्माणाम् आहारकाः, ते च हेतुसमुत्पन्नत्वात् (Śभ् II ११४) प्रतीत्यसमुत्पन्नत्वाद् अभूत्वा भवन्ति भूत्वा च प्रतिविगच्छन्ति / तस्माद् अनित्या एते संस्काराः / ये पुनर् अनित्यास् ते जातिधर्माणो जराधर्माणो व्याधिधर्माणो मरणधर्माणः शोकपरिदेवदुःखदौर्मनस्योपायासधर्माणः / ते जराधर्मित्वाद् यावद् उपायासधर्मित्वाद् दुःखाः / ये वा पुनर् दुःखा, अस्वतन्त्रा, दुर्बलास् त अनात्मान इति / यद् एभिर् आकारैः प्रतीत्यसमुत्पन्नेषु धर्मेष्व् अनित्यज्ञानम्, दुःखज्ञानम्, नैरात्म्यज्ञानम् / इदम् उच्यते प्रतीत्यसमुत्पादकौशल्यम् //
SK
-II-३-च्-(५) Mस्.७८अ६L, Sह्.२४९-३, P.११३ब्५, D.९३अ५, N.९८अ६, Cओ.९८अ७, Cह्.४३४ब्६ स्थानास्थानकौशल्यं पुनः प्रतीत्यसमुत्पादकौशल्यविशेष एव वेदितव्यम् //
SK
तत्रायं विशेषः / स्थानास्थानकौशल्येनाविषमहेतुकतां जानाति / अस्ति कुशलाकुशलानां कर्मणां फलविपाकः / कुशलानां पुनर् इष्टः फलविपाकः / अकुशलानाम् अनिष्ट इति / यद् एवं ज्ञानम् इदम् उच्यते स्थानास्थानकौशल्यम् /
SK
तच् चैतत् पञ्चस्थानकौशल्यं समासतः स्वलक्षणकौशल्यं भवति सामान्यलक्षणकौशल्यं च / तत्र स्कन्धकौशल्येन स्वलक्षणकौशल्यम् आख्यातम् अवशिष्टैः सामान्यलक्षणकौशल्यम् / इदम् उच्यते कौशल्यालम्बनम् //
SK
-II-३-द्-(१) Mस्.७८ब्१R, Sह्.२४९-१२, W.*९१-३३, P.११४अ१, D.९३ब्१, N.९८ब्२, Cओ.९८ब्३, Cह्.४३४ब्१४ तत्र क्लेशविशोधनम् आलम्बनं कतमत् / आह / अधोभूमीनाम् औदारिकत्वम् उपरिभूमीनां शान्तत्वं च / तद्यथा कामधातौ प्रथमध्यानस्य एवं यावन् नैवसंज्ञानासंज्ञायतनस्य /
SK
तत्र कतमा औदारिकता / औदारिकता द्विविधा / स्वभावौदारिकता संख्यौदारिकता च /
SK
तत्र स्वभावौदारिकता कामधाताव् अपि पञ्चस्कन्धाः संविद्यन्ते प्रथमे तु ध्याने / ये कामावचरास् ते सादीनवतराश् च दुःखविहारतराश् च, (Śभ् II ११६) अल्पकावस्थायितराश् च, हीनतराः प्रतिक्रुष्टतराश् च / इयम् एषाम् स्वभावौदारिकता / प्रथमे तु ध्याने न तथा तेन ते शान्ततराः प्रणीततरा इत्य् उच्यन्ते /
SK
तत्र संख्यौदारिकता कतमा / कामावचरो रूपस्कन्धः प्रभूततरः परिज्ञेयः प्रहातव्य एवं यावद् विज्ञानस्कन्धः / इयम् उच्यते संख्यौदारिकता / एवम् उपरिमासु भूमिषु स्वभावौदारिकता संख्यौदारिकता च यथायोगं वेदितव्याः /
SK
इयं तूपरिमासु भूमिषु यावद् आकिंचन्यायतनात् तदौदारिकता वेदितव्याः, सर्वा अधरिमा भूमयो दुःखविहारतराश् च अल्पायुष्कतराश् च / नैवसंज्ञानासंज्ञायतनं पुनः शान्तम् एव, उपरि श्रेष्ठतराया भूमेर् अभावात् /
SK
तत्र समासत आदीनवार्थ औदारिकतार्थः / यस्यां यस्यां भूमौ प्रभूततरम् आदीनवं भवति, सा आदीनवत औदारिकेत्य् उच्यते /
SK
यस्यां तु यस्यां भूमाव् अल्पतरम् आदीनवं भवति, सा आदीनवतः शान्तेत्य् उच्यते / इदं लौकिकानां लौकिकेन मार्गेण क्लेशविशोधनम् आलम्बनम्, तथापि तस्याधरिमां भूमिम् आदीनवतः पश्यतः / रोगतः, अयोगक्षेमतः, उपरिमां च भूमिं शान्ततः / य अधोभूमिकाः क्लेशा यावद् आकिंचन्यायतनभूमिकाः कामधातुम् उपादाय ते प्रहीयन्ते / न त्व् अत्यन्ततः प्रहीयन्ते / ते पुनर् एव ते प्रतिसंधिका भवन्ति //
SK
-II-३-द्-(२)-इ Mस्.७८ब्६M, Sह्.२५१-११, P.११४ब्६, D.९४अ३, N.९९अ४, Cओ.९९अ४, Cह्.४३४च्९ लोकोत्तरेण वा पुनर् मार्गेण क्लेशविशोधनम् आलम्बनं चतुर्विधं तद्यथा दुःखसत्यं समुदयसत्यं निरोधसत्यं मार्गसत्यं च /
SK
तत्र दुःखसत्यं कतमत् / तद्यथा जातिर् दुःखं जरा दुःखं व्याधिर् मरणम् अप्रियसंप्रयोगः प्रियविनाभाव इच्छाविघातश् च / संक्षेपतः पञ्चोपादानस्कन्धा दुःखम् /
SK
तत्र समुदय आर्यसत्यं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभिनन्दिनी /
SK
तत्र निरोध आर्यसत्यं यद् अस्या एव तृष्णाया अशेषप्रहाणम् /
SK
मार्गसत्यम् आर्याष्टाङ्गो मार्गः /
SK
तत्र कृष्णपक्षं शुक्लपक्षं चोपादाय हेतुफलव्यवस्थानेन चतुःसत्यव्यवस्थानम् / तत्र दुःखसत्यं फलम् / समुदयसत्यं हेतुः / निरोधसत्यं फलम् / मार्गसत्यं हेतुः प्राप्तये स्पर्शनायै /
SK
तत्र दुःखसत्यं व्याधिस्थानीयं तत् प्रथमतः परिज्ञेयम् / समुदयसत्यं व्याधिनिदानस्थानीयं तच् चान्तरं परिवर्जयितव्यम् / निरोधसत्यम् आरोग्यस्थानीयं तच् च स्पर्शयितव्यं साक्षात्कर्तव्यम् / मार्गसत्यं भैषज्यस्थानीयं तच् चासेवितव्यं भावयितव्यं बहुलीकर्तव्यम् //
SK
-II-३-द्-(२)-इइ Mस्.७९अ३M, Sह्. २५३᳚११, P.११५अ७, D.९४ब्३, N.९९ब्४, Cओ.९९ब्३, Cह्.४३४च्२३ भूतं चैतत् तथा अवितथा अविपरीतम् अविपर्यस्तं दुःखं दुःखार्थेन, यावन् मार्गो मार्गार्थेन तस्मात् सत्यम् इत्य् उच्यते / स्वलक्षणं च न विसंवदति / तद्दर्शनाच् चाविपरीता बुद्धयः प्रवर्तन्ते / तेन सत्यम् इत्य् उच्यते //
SK
-II-३-द्-(२)-इइइ Mस्.७९अ४L, Sह्.२५४-५, P.११५ब्१, D.९४ब्४, N.९९ब्५, Cओ.९९ब्५, Cह्.४३४च्२६ कस्मात् पुनर् एतान्य् आर्याणाम् एव सत्यानि भवन्ति / आर्या एतानि सत्यान्य् एव समानानि सत्यतो जानन्ति पश्यन्ति यथाभूतम् / बालास् तु न जानन्ति, न पश्यन्ति यथाभूतम् / तस्माद् आर्यसत्यानीत्य् उच्यन्ते / बालानाम् एतद् धर्मतया सत्यं नावबोधेन / आर्याणां तूभयथा //
SK
-II-३-द्-(२)-इव्-(अ) Mस्.७९अ४R, Sह्.२५४-१०, P.११५ब्४, D.९४ब्६, N.९९ब्७, Cओ.९९ब्६, Cह्.४३५अ१ तत्र जातिदुःखम् इति जायमानस्य दुःखा वेदनोत्पद्यते कायिकचैतसिकी, न तु जातिर् एव दुःखं दुःखनिदानम् सा एवं यावद् इच्छाविघातो दुःखम् इति, इच्छाविघातनिदानं दुःखम् उत्पद्यते कायिकचैतसिकम्, न त्व् इच्छाविघात एव दुःखं दुःखनिदानं पुनः स इति पेयालम् /
SK
संक्षेपतः पञ्चोपादानस्कन्धा दुःखम् इत्य् एभिर् जात्यादिभिः पर्यायैर् दुःखदुःखतैव परिदीपिता /
SK
तत्र विपरिणामदुःखता संस्कारदुःखता चावशिष्टा सा पुनः पञ्चोपादानस्कन्धदुःखतया परिदीपिता भवति / तथा हि पञ्चोपादानस्कन्धास् त्रिवेदनापरिगतास् ते तथोक्ताया दुःखदुःखताया भाजनभूताः / या च नोक्ता विपरिणामदुःखता संस्कारदुःखता च साप्य् एष्व् एव द्रष्टव्या /
SK
केन पुनः कारणेन भगवता दुःखदुःखतैव परिकीर्तिता स्वशब्देन, विपरिणामदुःखता संस्कारदुःखता पुनः पर्यायेण / तथा हि दुःखदुःखतायाम् आर्याणां बालानां च तुल्या दुःखताबुद्धिः प्रवर्तते / संवेजिका अत्यर्थं दुःखदुःखता पूर्वम् अकृतप्रज्ञानाम् एवं च देश्यमाने सुखम् अवतारो भवति सत्येषु विनेयानाम् //
SK
-II-३-द्-(२)-इव्-(ब्) Mस्.७९अ७R, Sह्.२५६-४, P.११६अ४, D.९५अ४, N.१००अ६, Cओ.९९ब्६, Cह्.४३५अ१६ तत्र त्रिविधाया दुःखतायाः कथं व्यवस्थानं भवति / यत् तावद् दुःखं जातिर् दुःखं यावद् इच्छाविघातो दुःखम् इत्य् अनेन साधिष्ठाना दुःखा वेदना आख्याता सा च दुःखदुःखता / इदं दुःखदुःखताया व्यवस्थानम् /
SK
ये ये वा पुनर् एतद् विपक्षा धर्मास् तथा यौवनं जरायाः, व्याधेर् आरोग्यम्, जीवितं मरणस्य, प्रियसंप्रयोगो ऽप्रियसंप्रयोगस्य, अप्रियविनाभावः प्रियविनाभावस्य, इच्छासंपत्तिर् इच्छाविघातस्य / ये च दुःखायां वेदनायां प्रवृत्ताः क्लेशाः साधिष्ठानाः, ये चारोग्यादिषु सुखस्थानीयेषु धर्मेषु तन्निर्जातायां च वेदनायां ये प्रवृत्ताः क्लेशाः / इयम् उच्यते विपरिणामदुःखता /
SK
तत्र सुखा वेदना साधिष्ठाना, अनित्यतया परिणमन्ती अन्यथीभावाधिपतेयं दुःखं विदधाति / क्लेशाः पुनः सर्वत्र प्रवृत्ताः पर्यवस्थानत एव दुःखा भवन्ति / विपरिणामश् च स चेतसस् तस्माद् विपरिणामदुःखतेत्य् उच्यते / यथोक्तं भगवता, ᳚अवदीर्णविपरिणतेन चित्तेन मातृग्रामस्य हस्तग्रहणं चे᳚ति विस्तरः / यथा चोक्तं ᳚कामच्छन्दपर्यवस्थितः कामच्छन्दपर्यवस्थानप्रत्ययं तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते᳚ / एवं व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सापर्यवस्थितस् तद् अनेनागमेनाप्तेन परमाप्तेन क्लेशेषु दुःखार्थो ऽपि लभ्यते विपरिणामार्थो ऽपि / तेनोच्यते क्लेशविपरिणामदुःखतेति, इदं विपरिणामदुःखताया व्यवस्थानं /
SK
संस्कारदुःखता पुनः सर्वत्रगा उपादानस्कन्धेषु / संक्षेपतस् तु या च दुःखदुःखता, या च क्लेशसंगृहीता विपरिणामदुःखता, या च (Śभ् II १२४) साधिष्ठानसुखवेदनासंगृहिता तां स्थापयित्वा ये तदन्ये स्कन्धा अदुःखासुखसहगतास् तन्निर्जातास् तदुत्पत्तिप्रत्ययास् तस्य चोत्पन्नस्य स्थितिभाजनाः / इयम् उच्यते संस्कारदुःखता /
SK
ये स्कन्धा अनित्या उदयव्यययुक्ताः सोपादानास् त्रिवेदनाभिर् अनुषक्ता दौष्ठुल्योपगता अयोगक्षेमपतिता अविनिर्मुक्ता दुःखदुःखताया विपरिणामदुःखताया अस्ववशवर्तिनश् च / इयम् उच्यते संस्कारदुःखतया दुःखता / इदं संस्कारदुःखताया व्यवस्थानम् /
SK
तत्र तृष्णा प्रार्थनाभिलाषो ऽभिनन्दनेति पर्यायाः / सा पुनः प्रार्थना त्रिभिर् मुखैः प्रवृत्ता तद्यथा पुनर्भवप्रार्थना, विषयप्रार्थना च / तत्र या पुनर्भवप्रार्थना सा पौनर्भविकी तृष्णा / विषयप्रार्थना पुनर् द्विविधा / प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता, अप्राप्तेषु च विषयेषु संयोगाभिलाषसहगता / तत्र या प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता नन्दीरागसहगतेत्य् उच्यते / या पुनर् अप्राप्तेषु विषयेषु संयोगाभिलाषसहगता तत्रतत्राभिनन्दिनीत्य् उच्यते /
SK
निरोधो ऽपि द्विविधः / क्लेशनिरोधो, उपक्लेशनिरोधश् च /
SK
मार्गो ऽपि द्विविधः / शैक्षो ऽशैक्षश् च /
SK
इदम् आलम्बनं क्लेशविशोधनं लोकोत्तरेण मार्गेण वेदितव्यम् //
SK
-II-३-ए Mस्.७९ब्७M, Sह्.२५८-११, P.११७ब्३, D.९६अ५, N.१०१ब्१, Cओ.१०१अ५, Cह्.४३५ब्२१ तेनाह चतुर्विधम् आलम्बनम् / व्याप्यालम्बनं चरितविशोधनं कौशल्यालम्बनं क्लेशविशोधनं चेति /
SK
(II)-A-II-४-अ Mस्.७९ब्७R, Sह्.२५८-१३, W.ऽ९१-३७, P.११७ब्४, D.९६अ६, N.१०१ब्२, Cओ.१०१अ६, Cह्.४३५ब्२३ तत्राववादः कतमः / चतुर्विधो ऽववादः / अविपरीताववादः, अनुपूर्वाववादः, आगमाववादः, अधिगमाववादश् च /
SK
तत्राविपरीताववादः कतमः / यद् अविपरीतं धर्मम् अर्थं च देशयति ग्राहयति भूतं यद् अस्य निर्याति सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै / अयम् उच्यते ऽविपरीताववादः /
SK
अनुपूर्वाववादः कतमः / यत् कालेन धर्मं देशयति / उत्तानोत्तानानि स्थानानि तत्प्रथमतो ग्राहयति वाचयति, ततः पश्चाद् गम्भीराणि, प्रथमस्य वा सत्यस्याभिसमयाय तत्प्रथमतो ऽववदते, ततः पश्चात् समुदयनिरोधमार्गसत्यस्य, प्रथमस्य ध्यानस्य समापत्तये तत्प्रथमतो ऽववदते / ततः पश्चाद् अन्यासां ध्यानसमापत्तीनाम् / अयम् एवंभागीयो ऽनुपूर्वाववादो वेदितव्यः / तत्रागमाववादो यथा तेन गुरूणाम् अन्तिकाद् आगमितं भवति, गुरुस्थानीयानां योगज्ञानाम् आचार्याणाम् उपाध्यायस्य वा, तथागतस्य वा, तथागतश्रावकस्य वा तथैवानेनान्यूनमधिकं कृत्वा परान् अववदते / अयम् उच्यत आगमाववादः /
SK
तत्राधिगमाववादो यथानेन ते धर्मा अधिगता भवन्ति / स्पर्शिताः साक्षात्कृता, एकाकिना व्यवकृष्टविहारिणा / तथैव परेषां प्राप्तये / स्पर्शनायै साक्षात्क्रियाया अववदते / अयम् उच्यते ऽधिगमाववादः //
SK
-II-४-ब् Mस्.८०अ३M, Sह्.२६०-१५, P.११८अ७, D.९६ब्६, N.१०२अ२, Cओ.१०१ब्५, Cह्.४३५च्९ अस्ति पुनः सर्वाकारपरिपूर्णो ऽववादः / स पुनः कतमः / यस् त्रिभिः प्रातिहार्यैर् अववदति / ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण, अनुशास्तिप्रातिहार्येण /
SK
ऋद्धिप्रातिहार्येण, अनेकविधं ऋद्धिविषयम् उपदर्शयत्य् आत्मनि च बहुमानं जनयति परेषाम् / यथा तेन बहुमानजाताः श्रोत्रावधानेन (Śभ् II १२८) योगे मनसिकार आदरजाता भवन्ति / तत्र देशनाप्रातिहार्येण चित्तचरितआ समन्वेष्य अनुशास्तिप्रातिहार्येण यथेन्द्रियम्, यथाचरितम्, यथावतारं धर्मदेशनां देशयति, प्रतिपत्तौ समनुशास्ति / तेनायं प्रातिहार्यत्रयसंगृहीतः सर्वाकारपरिपूर्णाववादो भवति //
SK
(II)-A-II-५-अ-(१) Mस्.८०अ५M, Sह्.२६१-८, W.*९२-४, P.११८ब्५, D.९७अ२, N.१०२अ६, Cओ.१०२अ१, Cह्.४३५च्२० तत्र शिक्षा कतमा / आह / तिस्रः शिक्षाः / अधिशीलंशिक्षा, अधिचित्तम् अधिप्रज्ञंशिक्षा /
SK
तत्राधिशीलंशिक्षा कतमा / यथापि तच् ᳚छीलवान् विहरती᳚ति विस्तरेण पूर्ववत् /
SK
तत्राधिचित्तंशिक्षा विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं च प्रथमं ध्यानं यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति / इयम् अधिचित्तंशिक्षा / अपि खलु सर्व आरूप्यास् तदन्याश् च समाधिसमापत्तयो ऽधिचित्तंशिक्षेत्य् उच्यते / अपि तु ध्यानानि निश्रित्य तत्प्रथमतः सत्याभिसमयो न्यामावक्रान्तिर् भवति / न तु सर्वेण सर्वं विना ध्यानैस् तस्मात् प्रधानानि ध्यानानि कृत्वाधिचित्तंशिक्षेत्य् उक्तानि /
SK
तत्राधिप्रज्ञंशिक्षा यच् चतुर्ष्व् आर्यसत्येषु यथाभूतं ज्ञानं //
SK
-II-५-अ-(२) Mस्.८०अ७M, Sह्.२६३-१, P.११९अ५, D.९७अ७, N.१०२ब्४, Cओ.१०२अ६, Cह्.४३६अ७ केन कारणेन तिस्र एव शिक्षा न तत ऊर्ध्वम् / आह / समाधिप्रतिष्ठार्थेन ज्ञानसन्निश्रयार्थेन कृत्यकरणार्थेन च /
SK
तत्र समाधिप्रतिष्ठार्थेनाधिशीलंशिक्षा / तथा हि शीलं प्रतिष्ठाय चित्तैकाग्रतां स्पृशति चित्तसमाधिम् /
SK
तत्र ज्ञानसन्निश्रयार्थेनाधिचित्तंशिक्षा / तथा हि समाहितचित्तस्यैकाग्रतास्मृत्या ज्ञेये वस्तुनि यथाभूतं ज्ञानदर्शनं प्रवर्तते /
SK
तत्र कृत्यकरणार्थेनाधिप्रज्ञंशिक्षा / तथा हि सुविशुद्धेन ज्ञानदर्शनेन क्लेशप्रहाणम् साक्षात्करोति / एष हि स्वार्थ एतत् परमं कृत्यं (Śभ् II १३२) यदुत क्लेशप्रहाणं तत उत्तरिकरणीयं पुनर् नास्ति / तेनैतास् तिस्र एव शिक्षाः //
SK
-II-५-अ-(३) Mस्.८०ब्१M, Sह्.२६३-१३, Cहोइ.१५७-६, P.११९ब्२, D.९७ब्४, N.१०३अ१, Cओ.१०२ब्२, Cह्.४३६अ१७ काः पुनर् आसां शिक्षाणाम् आनुपूर्वी / सुविशुद्धशीलस्य अविप्रतिसारः / अविप्रतिसारिणः प्रामोद्यं प्रीतिः प्रस्रब्धिः सुखम्, सुखितस्य चित्तसमाधिः समाहितचित्तो यथाभूतं प्रजानाति यथाभूतं पश्यति / यथाभूतं जानन् पश्यन् निर्विद्यते निर्विण्णो विरज्यते / विरक्तो विमुच्यते / विमुक्तो ऽनुपादाय परिनिर्वाति / एवम् इमानि शीलानि भावितान्य् अग्रतायाम् उपनयन्ति / यदुतानुपादाय परिनिर्वाणम् / इयम् आसां शिक्षाणाम् आनुपूर्वी //
SK
-II-५-अ-(४) Mस्.८०ब्२R, Sह्.२६४-५, P.११९ब्७, D.९७ब्७, N.१०३अ४, Cओ.१०२ब्५, Cह्.४३६अ२४ तत्र केन कारणेनाधिशीलं शिक्षा अधिशीलम् इत्य् उच्यते, एवम् अधिचित्तम् अधिप्रज्ञम् / अधिकारार्थेनाधिकार्थेन च /
SK
तत्र कथम् अधिकारार्थेन / अधिचित्तम् अधिकृत्य यच् छीलं सा अधिशीलं शिक्षा / अधिप्रज्ञम् अधिकृत्य यश् चित्तसमाधिः, सा अधिचित्तंशिक्षा / क्लेशप्रहाणम् अधिकृत्य यज् ज्ञानं दर्शनम्, सा अधिप्रज्ञंशिक्षा / एवम् अधिकारार्थेन /
SK
कथम् अधिकार्थेन / या चाधिशीलंशिक्षा या चाधिचित्तं या चाधिप्रज्ञंशिक्षा एताः शिक्षा अस्मिन्न् एव शासने, असाधारणा इतो बाह्यैः / एवम् अधिकार्थेन //
SK
-II-५-अ-(५) Mस्.८०ब्४M, Sह्.२६४-१६, Cहोइ.*१५८-५, P.१२०अ५, D.९८अ४, N.१०३ब्१, Cओ.१०३अ२, Cह्.४३६ब्३ अस्ति पुनर् अधिचित्तंशिक्षा या अधिप्रज्ञंशिक्षाया आवाहिका, अस्त्य् अधिप्रज्ञंशिक्षा या अधिचित्तंशिक्षाया आवाहिका / तद्यथा आर्यश्रावको ऽलाभी मौलानां ध्यानानाम्, शैक्षो दृष्टपदः, ततः पश्चाद् भावनाप्रहातव्यानां (Śभ् II १३४) क्लेशानां प्रहाणाय प्रयुज्यमानः स्मृतिसंबोध्यङ्गं भावयति यावद् उपेक्षासंबोध्यङ्गम् / इयम् अधिप्रज्ञंशिक्षा अधिचित्तंशिक्षाया आवाहिका / अधिचित्तं पुनः शिक्षां अधिप्रज्ञाया आवाहिका पूर्वम् एवोक्ता /
SK
तत्रास्त्य् अधिशीलं शिक्षा नाधिचित्तम्, नाधिप्रज्ञम् / अस्त्य् अधिशीलम् अधिचित्तम्, नाधिप्रज्ञम् / न त्व् अस्त्य् अधिप्रज्ञंशिक्षा या विनाधिशीलेनाधिचित्तेन च / अतो यत्राधिप्रज्ञंशिक्षा तत्र तिस्रः शिक्षा वेदितव्याः / इदं तावच् छिक्षाव्यवस्थानं तत्र योगिना योगप्रयुक्तेन शिक्षितव्यम् //
SK
-II-५-अ-(६) Mस्.८०ब्६R, Sह्.२६५-९, P.१२०ब्५, D.९८ब्१, N.१०३ब्६, Cओ.१०३अ६ Cह्.४३६ब्१४ तत्र त्रयः पुद्गलाः सत्यान्य् अभिसमागच्छन्ति / कतमे त्रयः / तद्यथा / अवीतरागो यद्भूयो वीतरागः, वीतरागश् च / तत्र सर्वेण सर्वम् अवीतरागः सत्यान्य् अभिसमागच्छन् सहसत्याभिसमयात् स्रोत-आपन्नो भवति / यद्भूयो वीतरागः पुनः सत्यान्य् अभिसमागच्छन् सहसत्याभिसमयात् सकृदागामी भवति / वीतरागः सत्यान्य् अभिसमागच्छन् सहसत्याभिसमयाद् अनागामी भवति //
SK
-II-५-ब् Mस्.८०ब्७R, Sह्.२६६-१, P.१२१अ१, D.९८ब्४, N.१०४अ२, Cओ.१०३ब्२, Cह्.४३६ब्१९ त्रीणीन्द्रियाणि / अनाज्ञातम् आज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातवत इन्द्रियम् / एषाम् इन्द्रियाणां कथं व्यवस्थानं भवति / अनभिसमितानां सत्यानाम् अभिसमयाय प्रयुक्तस्यानाज्ञातम् आज्ञास्यामीन्द्रियव्यवस्थानम् / अभिसमितवतः शैक्षस्याज्ञेन्द्रियव्यवस्थानम् / कृतकृत्यस्याशैक्षस्यार्हत आज्ञातावीन्द्रियव्यवस्थानम् //
SK
-II-५-च् Mस्.८१अ१L, Sह्.२६७-५, P.१२१अ४, D.९८ब्६, N.१०४अ४, Cओ.१०३ब्३, Cह्.४३६ब्२५ त्रीणि विमोक्षमुखानि / तद्यथा शून्यता अप्रणिहितम् आनिमित्तम् /
SK
एषां त्रयाणां विमोक्षमुखानां कथं व्यवस्थानं भवति / आह / द्वयम् इदं संस्कृतम् असंस्कृतं च /
SK
तत्र संस्कृतं त्रैधातुकप्रतिसंयुक्ताः पञ्च स्कन्धाः, असंस्कृतं पुनर् निर्वाणम् / इदम् उभयं यच् च संस्कृतम्, यच् चासंस्कृतम् इत्य् उच्यते सत् / यत् पुनर् इदम् उच्यत आत्मा वा, सत्त्वो वा, जीवो वा, जन्तुर् वा, इदम् असत् /
SK
तत्र संस्कृते दोषदर्शनाद् आदीनवदर्शनाद् अप्रणिधानं भवति / अप्रणिधानाच् चाप्रणिहितं विमोक्षमुखं व्यवस्थाप्यते /
SK
निर्वाणे पुनस् तत्र प्रणिधानवतः प्रणिधानं भवति / शान्तदर्शनं प्रणीतदर्शनं निःसरणदर्शनं च, निःसरणदर्शनाच् च पुनर् आनिमित्तं विमोक्षमुखं व्यवस्थाप्यते /
SK
तत्रासत्य् असंविद्यमाने नैव प्रणिधानं नाप्रणिधानं भवति / तद् यथैवासत् तथैवासद् इति जानतः पश्यतः शून्यताविमोक्षमुखं व्यवस्थाप्यते / एवं त्रयाणां विमोक्षमुखानां व्यवस्थानं भवति //
SK
(II)-A-II-६-अ-(१) Mस्.८१अ३R, Sह्.२६८-१२, P.१२१ब्३, D.९९अ४, N.१०४ब्२, Cओ.१०३ब्७, Cह्.४३६च्११ तत्र कतमे शिक्षानुलोमिका धर्माः / आह / दश शिक्षाविलोमा धर्माः / तेषां प्रतिपक्षेण दश शिक्षानुलोमिका वेदितव्याः /
SK
तत्र कतमे दश शिक्षाविलोमा धर्माः / तद्यथा मातृग्रामः शिशुर् उदारवर्णो रञ्जनीयः शिक्षाप्रयुक्तस्य कुलपुत्रस्याधिमात्रम् अन्तरायकरः परिपन्थकः / सत्कायपर्यापन्नेषु संस्कारेषु नियन्तिः / आलस्यम्, कौसीद्यम् / सत्कायदृष्टिः कवडंकाराहारम् उपादाय रसरागो लोकाख्यानकथास्व् अनेकविधासु बहुनानाप्रकारासु चित्रासु छन्दरागानुनयः, धर्मचिन्तायोगमनसिकारापक्षालः /
SK
स पुनः कतमः / तद्यथा काङ्क्षा विमतिर् विचिकित्सा रत्नेषु वा सत्येषु वा स्कन्धेषु वा कर्मफले वा प्रहाणप्रयुक्तस्य च कायदौष्ठुल्यः शैथिलिकस्य शमथविपश्यनापक्षालमनसिकारः स्त्यानमिद्धेन वा चित्ताभिभवश् चित्ताभिसंक्षेपः / अन्वारब्धवीर्यस्य वा कायिकक्लमश् चैतसिकोपायासः / अतिलीनवीर्यस्य विशेषासंप्राप्तिः कुशलपक्षपर्यादानम् / लाभेन वा यशसा वा प्रशंसया वा अन्यतमान्यतमेन वा सुखलवमात्रत्वेन नन्दीसौमनस्यम् औद्धत्यम् अव्युपशम औद्बिल्यम् उत्प्लावितत्वम् / सत्कायनिरोधे निर्वाण उत्त्रासश् छम्भितत्वम् / अमात्रया भाष्यप्रयोगः, अत्यभिजल्पः, धर्म्याम् अपि कथां कथयता विगृह्यकथाम् आरम्भानुयोगः / पूर्वदृष्टश्रुतानुभूतेषु विषयेष्व् अनेकविधेषु बहुनानाप्रकारेषु चित्तविसारश् चित्ताक्षेपः / अचिन्त्येषु च स्थानेषु निध्यायितत्वम् / इमे धर्मचिन्तायोगमनसिकारापक्षाला वेदितव्याः / (Śभ् II १४०)
SK
ध्यानसमापत्तिसुखास्वादनता, आनिमित्तं समापत्तुकामस्य संस्कारनिमित्तानुसारिता / स्पृष्टस्य शारीरिकाभिर् वेदनाभिर् दुःखाभिर् यावत् प्राणहारिणीभिर् जीवितनियन्तिर् जीविताशा, तदाशानुगतस्य शोचना, क्लाम्यना, परिदेवना / इतीमे दश शिक्षाविलोमा धर्माः //
SK
-II-६-अ-(२) Mस्.८१ब्२R, Sह्.२७०-३, P.१२२अ८, D.९९ब्६, N.१०५अ५, Cओ.१०४ब्२, Cह्.४३७अ६ कतमे दश शिक्षापदानां विलोमानां धर्माणां प्रतिपक्षेण शिक्षानुलोमिका भवन्ति / तद्यथा / अशुभसंज्ञा / अनित्यसंज्ना / अनित्ये दुःखसंज्ञा / दुःखे ऽनात्मसंज्ञा / आहारे प्रतिकूलसंज्ञा / सर्वलोके ऽनभिरतिसंज्ञा / आलोकसंज्ञा / विरागसंज्ञा / निरोधसंज्ञा / मरणसंज्ञा / इतीमा दश संज्ञा आसेविता भाविता बहुलीकृता दशविधस्य शिक्षापरिपन्थकस्य दशानां शिक्षाविलोमानां धर्माणां प्रहाणाय संवर्तन्ते /
SK
तत्र धर्मालोकः, अर्थालोकः, शमथालोकः, विपश्यनालोकश् च / एतान् आलोकान् अधिपतिं कृत्वा आलोकसंज्ञा / अस्मिन्न् अर्थ अभिप्रेता धर्मचिन्तायोगमनसिकाराः परिपन्थस्य प्रहाणाय //
SK
-II-६-ब् Mस्.८१ब्४R, Sह्.२७०-१५, W.*९२-१२, Cहोइ.१५८-१२, P.१२२ब्५, D.१००अ३, N.१०५ब्२, Cओ.१०४ब्६, Cह्.४३७अ१५ तत्रापरे दश शिक्षानुलोमिका धर्मा वेदितव्याः / कतमे दश / तद्यथा पूर्वको हेतुः / आनुलोमिक उपदेशः / योनिशः प्रयोगः / सातत्यसत्कृत्यकारिता / तीव्रच्छन्दता / योगबलाधानता / कायचित्तदौष्ठुल्यप्रतिप्रस्रब्धिः / अभीक्ष्णप्रत्यवेक्षा / अपरितमना / निरभिमानता च /
SK
तत्र पूर्वको हेतुः कतमः / यः पूर्वम् इन्द्रियपरिपाक इन्द्रियसमुदागमश् च /
SK
तत्रानुलोमिक उपदेशो य उपदेशो ऽविपरीतश् चानुपूर्विकश् च /
SK
तत्र योनिशः प्रयोगो यथैवाववादितस् तथैव प्रयुज्यते / तथा प्रयुज्यमानः सम्यग्दृष्टिम् उत्पादयति /
SK
तत्र सातत्यसत्कृत्यकारिता यद्रूपेण प्रयोगेण अवन्ध्यं च कालं करोति कुशलपक्षेण / क्षिप्रम् एव कुशलपक्षं समुदानयति /
SK
तत्र तीव्रच्छन्दता यथापि तद् उत्तरे विमोक्षस्पृहाम् उत्पादयति / ᳚कदास्विद् अहं तद् आयतनम् उपसंपद्य विहरिष्यामि यद् आर्या आयतनम् उपसंपद्य विहरन्ती᳚ति /
SK
तत्र योगबलाधानता द्वाभ्यां कारणाभ्यां योगबलाधानप्राप्तो भवति / प्रकृत्यैव च तीक्ष्णेन्द्रियतया, दीर्घकालाभ्यासपरिचयेन च /
SK
तत्र कायचित्तदौष्ठुल्यप्रतिप्रस्रब्धिर् यथापि तच् छ्रान्तकायस्य क्लान्तकायस्योत्पद्यते कायदौष्ठुल्यं चित्तदौष्ठुल्यम् / तद् ईर्यापथान्तरकल्पनया प्रतिप्रस्रम्भयति / अतिवितर्कितेनातिविचारितेनोत्पद्यते कायचित्तदौष्ठुल्यम्, तदाध्यात्मं चेतः शमथानुयोगेन प्रतिप्रस्रम्भयति /
SK
चित्ताभिसंक्षेपेण चित्तलयेन स्त्यानमिद्धपर्यवस्थानेनोत्पद्यते कायचित्तदौष्ठुल्यम् / तद् अधिप्रज्ञं धर्मविपश्यनया, प्रसदनीयेन च मनस्कारेण प्रस्रम्भयति / प्रकृत्यैव चाप्रहीणक्लेशस्य क्लेशपक्षं कायचित्तदौष्ठुल्यम् अविगतं भवति / सदानुषक्तं तत् सम्यङ्मार्गभावनया प्रतिप्रस्रम्भयति /
SK
तत्राभीक्ष्णप्रत्यवेक्षा अभीक्ष्णं शीलान्य् आरभ्य कुकृतं प्रत्यवेक्षते सुकृतं च / अकृतं च प्रत्यवेक्षते, कृतं च / कुकृताच् चाकृताद् व्यावर्तते / सुकृताच् चाकृतान् न प्रत्युदावर्तते / कुकृताच् च कृतात् प्रत्युदावर्तते / सुकृताच् च कृतान् न प्रत्युदावर्तते / तथा क्लेशानां प्रहीणाप्रहीणानां मीमांसामनस्कारम् अधिपतिं कृत्वा अभीक्ष्णं प्रत्यवेक्षते /
SK
तत्र प्रहीणतां ज्ञात्वा [यिद् ब्दे बर् ऽग्युर् ल / म स्पङ्स् बर् शेस् न] पुनः पुनस् तम् एव मार्गं भावयति /
SK
तत्रापरितमना / यत् कालान्तरेण ज्ञातव्यं द्रष्टव्यं प्राप्तव्यं तद् अजानतो ऽपश्यतो ऽनधिगच्छतः परितमना उत्पद्यते, चैतसिकः क्लमः, चैतसिको विघातः / ताम् उत्पन्नां नाधिवासयति प्रजहाति /
SK
तत्र निरभिमानता / अधिगमे प्राप्तौ स्पर्शनायां निरभिमानो भवति / अविपरीतग्राही, प्राप्ते प्राप्तसंज्ञी, अधिगते ऽधिगतसंज्ञी साक्षात्कृते साक्षत्कृतसंज्ञी /
SK
इतीमे दश धर्माः शिक्षाकामस्य योगिन आदिमध्यपर्यवसानम् उपादाय शिक्षाम् अनुलोमयन्ति, न विलोमयन्ति / तेनोच्यन्ते शिक्षानुलोमिका इति //
SK
(II)-A-II-७-अ Mस्.८२अ५R, Sह्.२७३-१, W.९२-२३, P.१२४अ४, D.१०१अ४, N.१०६ब्३, Cओ.१०५ब्६, Cह्.४३७ब्२३ तत्र कतमो योगभ्रंशः / आह / चत्वारो योगभ्रंशाः / कतमे चत्वारः / अस्ति योगभ्रंश आत्यन्तिकः / अस्ति तावत्कालिकः / अस्ति प्राप्तिपरिहाणिकः / अस्ति मिथ्याप्रतिपत्तिकृतः //
SK
-II-७-अ-(१),-(२),-(३) Mस्.८२अ६M, Sह्.२७३-५, P.१२४अ४, D.१०१अ५, N.१०६ब्४, Cओ.१०५ब्७, Cह्.४३७ब्२६ तत्रात्यन्तिको योगभ्रंशो ऽगोत्रस्थानां पुद्गलानां वेदितव्यः / ते ह्य् अपरिनिर्वाणधर्मकत्वाद् अत्यन्तपरिभ्रष्टा एव योगाद् भवन्ति /
SK
तत्र तावत्कालिकः / तद्यथा गोत्रस्थानां परिनिर्वाणधर्मकाणां प्रत्ययविकलानाम्, ते हि दूरम् अपि परम् अपि गत्वा अवश्यम् एव प्रत्ययान् आसादयिष्यन्ति / योगं च संमुखीकृत्य भावयित्वा परिनिर्वास्यन्ति / तेनैष तेषां तावत्कालिक एव योगभ्रंशो भवति /
SK
तत्र प्राप्तिपरिहाणिको योगभ्रंशः / यथापीहैकत्ये प्राप्ताद् अधिगताज् ज्ञानदर्शनस्पर्शविहारात् परिहीयन्ते //
SK
-II-७-अ-(४) Mस्.८२अ७R, Sह्.२७३-१५, P.१२४ब्२, D.१०१ब्१, N.१०७अ१, Cओ.१०६अ३, Cह्.४३७च्५ तत्र मिथ्याप्रतिपत्तिकृतो योगभ्रंशः / यथापीहैकत्यो ऽयोनिशः प्रयुज्यमानो नाराधको भवति योगस्य, नाराधयति न्याय्यं धर्मं कुशलम् / यथापीहैकत्यो बहुक्लेशो भवति, प्रभूतरजस्कजातीयः पटुविज्ञानश् च भवति पटुबुद्धिः सहजया बुद्ध्या समन्वागतः स श्रुतम् उद्गृह्णाति श्रुतं पर्यवाप्नोत्य् अल्पं वा, प्रभूतं वा / अरण्ये वा पुनर् विहरति, आगतागतानां च गृहिप्रव्रजितानाम्, ऋजुकानाम्, ऋजुकजातीयानां (Śभ् II १४८) धर्मदेशनया चित्तम् आराधयति कुहनानुचरितया च चेष्टया कायवाक्प्रतिसंयुक्तया / तस्य तेन हेतुभावेन तेन प्रत्ययेनोत्पद्यते लाभसत्कारश्लोकः / स ज्ञातो भवति महापुण्यो लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्, सत्कृतश् च भवति, गुरुकृतः, राज्ञां राजमात्राणाम्, यावत् सार्थवाहानाम्, अर्हत्संमतः / तस्यान्वावर्तन्ते श्रावकाः, गृहिणः, प्रव्रजिता अपि, अन्वावृत्तेषु ग्रेधं निगमयत्य् आवर्तते बाहुल्याय /
SK
तस्यैवं भवति / ᳚सन्ति मे श्रावकाः, गृहिप्रव्रजिता ये, मयि संभावना जाता येषाम् अर्हत्संमतस् ते चेन् माम् उपसंक्रम्य योगे मनसिकारे शमथविपश्यनायां प्रश्नं पृच्छेयुः / तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्य् एवं सति या संभावना सा च हीयेत्, न च स्याम् अर्हत्संमतः, यन् न्व् अहं स्वयम् एव चिन्तयित्वा तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयम्᳚ / स एतम् एवार्थम् अधिपतिं कृत्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयम् एव चिन्तयित्वा तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयति /
SK
स चास्य योगो न सूत्रे ऽवतरति न विनये संदृश्यते / धर्मतां च विलोमयति / स ये ते भिक्षवः सूत्रधरा, विनयधरा, मातृकाधरास् तेषं तद् योगस्थानं विनिगूहति न प्रकाशयति / ये ऽप्य् अस्य श्रवका (Śभ् II १५०) भवन्ति गृहिणः, प्रव्रजिताश् च, तान् अपि योगप्रतिगुप्तय आज्ञापयति /
SK
तत् कस्य हेतोः / ᳚मा हैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद् योगस्थानं श्रुत्वा सूत्रे ऽवतारयेयुः, तच् च नावतरेत् / विनये संदर्शयेयुः, तच् च न संदृश्येत् / धर्मतया उपपरीक्षेयुः, तच् च धर्मतां विरोधयेत् / ते च ततो निदानम् अप्रतीता भवेयुर् अप्रतीतवचनैश् च मां चोदयेयुः / अधिकरणानि चोत्पादयेयुः᳚ /
SK
᳚एवम् अहं पुनर् अपि न सत्कृतः स्यां न गुरुकृतः, राज्ञां राजामात्राणां यावद् धनिनां श्रेष्ठिनां सार्थवाहानाम्, न च पुनर् लाभी स्यां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्᳚ इति /
SK
स ताम् एव लाभसत्कारकामताम् अधिपतिं कृत्वा अधर्मे धर्मसंज्ञी, विनिधाय संज्ञां रुचिम् अधर्मं धर्मतो दीपयति संप्रकाशयति /
SK
तत्र ये ऽस्य दृष्ट्यनुमतम् आपद्यन्ते ते ऽप्य् अधर्मे धर्मसंज्ञिनो भवन्ति मन्दत्वान् मोमुहत्वात् ते ऽधर्मे धर्मसंज्ञिनो यथानुशिष्टा अपि प्रतिपद्यमाना मिथ्याप्रतिपन्ना एव ते वेदितव्याः / अयम् एवंरूपो मिथ्याप्रतिपत्तिकृतो योगभ्रंशः सद्धर्मप्रतिरूपको ह्य् असद्धर्मः सद्धर्मस्यान्तर्धानाय /
SK
इतीमे चत्वारो योगभ्रंशा ध्यायिना भिक्षुणा योगाचारेण परिज्ञेया वर्जयितव्याः //
SK
(II)-A-II-८-अ Mस्-८२ब्७M, Sह्.२७५-२३, W.९२-३१, Cहोइ.१६३-१, P.१२५ब्८, D.१०२ब्२, N.१०८अ३, Cओ.१०७अ४, Cह्.४३८अ१६ तत्र योगः कतमः / आह / चतुर्विधो योगः / तद्यथा श्रद्धा छन्दो वीर्यम् उपायश् च //
SK
-II-८-अ-(१) Mस्.८२ब्७R, Sह्.२७६-२, W.९२-३२, Cहोइ.१६३-९, P.१२६अ१, D.१०२ब्३, N.१०८अ३, Cओ.१०७अ४, Cह्.४३८अ१७ तत्र श्रद्धा द्व्याकारा द्विविधाधिष्ठाना, अभिसंप्रत्ययाकारा प्रसादाकारा च, धर्मयुक्तिविचारणाधिष्ठाना पुद्गलानुभावाधिमुक्त्यधिष्ठाना च //
SK
-II-८-अ-(२) Mस्.८२ब्८L, Sह्.२७६-५, W/९२-३५, Cहोइ.१६३-१०, ७, P.१२६अ२, D.१०२ब्४, N.१०८अ४, Cओ.१०७अ५, Cह्.४३८अ२० छन्दो ऽपि चतुर्विधः / तद्यथा प्राप्तये यथापीहैकत्य उत्तरे विमोक्षस्पृहाम् उत्पादयति, विस्तरेण पूर्ववत् / परिपृच्छायै यथापीहैकत्यः स्पृहाम् उत्पादयत्य् आरामं गमनाय, विज्ञानां सब्रह्मचारिणां योगज्ञानाम् अन्तिकम् अश्रुतस्य श्रवणाय, श्रुतस्य च पर्यवदानाय / संभारसमुदागमाय च्छन्दो यथापीहैकत्यः शीलसंवरपारिशुद्धये, इन्द्रियसंवरपारिशुद्धये, भोजने मात्रज्ञतायाम्, जागरिकानुयोगे, संप्रजानद्विहारितायाम् उत्तरोत्तरां स्पृहाम् उत्पादयति / अनुयोगाय च्छन्दो यथापीहैकत्यः सातत्यप्रयोगतायां सत्कृत्यप्रयोगतायां च मार्गभावनायां स्पृहाम् उत्पादयत्य् अभिलाषं कर्तुकामताम् / इत्य् अयं चतुर्विधश् छन्दः / यदुत प्राप्तये परिपृच्छनायै संभारसमुदागमाय अनुयोगाय च //
SK
-II-८-अ-(३) Mस्.८३अ१R, Sह्.२७६-२०, W.*९३-१, Cहोइ.१६४-८, P.१२६अ८, D.१०२ब्७, N.१०८ब्१, Cओ.१०७ब्२, Cह्.४३८ब्१ तत्र वीर्यम् अपि चतुर्विधं तद्यथा श्रवणाय, चिन्तनायै, भावनायै, आवरणपारिशुद्धये च /
SK
तत्र श्रवणाय वीर्यं / यद् अश्रुतं च शृण्वतः, पर्यवदापयतः, चेतसो ऽभ्युत्साहः, अविन्यस्तप्रयोगता / एवं यथाश्रुतानां धर्माणाम् एकाकिनो रहोगतस्यार्थम्, चिन्तयतस् तुलयत उपपरीक्षमाणस्य / एवं प्रतिसंलयनप्रविष्टस्य कालेन कालं शमथविपश्यनां भावयतः / एवम् अहोरात्रानुयुक्तस्य चंक्रमनिषद्याभ्यां निवरणेभ्यश् चित्तं विशोधयतः, यश् चेतसो ऽभ्युत्साहः, अविन्यस्तप्रयोगता //
SK
-II-८-अ-(४) Mस्.८३अ३M, Sह्.२७७-१०, W.*९३-३, Cहोइ.१६५-१, P.१२६ब्५, D.१०३अ४, N.१०८ब्५, Cओ.१०७ब्५, Cह्.४३८ब्९ तत्रोपायो ऽपि चतुर्विधः / तद्यथा शीलसंवरम् इन्द्रियसंवरम् अधिपतिं कृत्वा सूपस्थितस्मृतिता तथा चोपस्थितस्मृतेर् अप्रमादश् चेतस आरक्षा / कुशलानां धर्माणां निषेवणा / तथा वाप्रमत्तस्याध्यात्मं चेतःशमथयोगः / अधिप्रज्ञं च धर्मविपश्यना //
SK
स चायं योगश् चतुर्विधः / षोडशाकारो भवति //
SK
-II-८-ब् Mस्.८३अ४M, Sह्.२७७-१६, W.९३-२३, Cहोइ.१६५-१०, P.१२६ब्८, D.१०३अ६, N.१०८ब्७, Cओ.१०७ब्७, Cह्.४३८ब्१३ तत्र श्रद्धया प्राप्तव्यम् अर्थम् अभिसंप्रत्येति / प्राप्तिम् (Śभ् II १५६) अभिसंप्रत्ययात् कर्तुकामताम् उत्पादयति कुशलेषु धर्मेषु / स एवं कर्तुकामो ऽहोरात्रानुयुक्तो विहरति / उत्साही दृढपराक्रमः / तच् च वीर्यम् उपायपरिगृहीतम् अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय असाक्षात्कृतस्य साक्षात्क्रियायै संवर्तते / तस्माद् इमे चत्वारो धर्मा योग इत्य् उच्यते४१ //
SK
(II)-A-II-९-अ Mस्.८३अ५R, Sह्.२७८-१, W.९४-१, P.१२७अ३, D.१०३ब्१, N.१०९अ२, Cओ.१०८अ२,Cह्.४३८ब्१९ तत्र मनसिकारः कतमः / चत्वारो मनस्काराः / कतमे चत्वारः / तद्यथा बलवाहनः, सच्छिद्रवाहनः, निश्छिद्रवाहनः, अनाभोगवाहनश् च //
SK
-II-९-अ-(१) Mस्.८३अ६R, Sह्.२७८-८, W.९४-३, P.१२७अ४, D.१०३ब्२, N.१०९अ३, Cओ.१०८अ३, Cह्.४३८ब्२१ तत्र बलवाहनो मनस्कारः कतमः / तद्यथा आदिकर्मिकस्याध्यात्मम् एव चित्तं स्थापयतः संस्थापयतश् च धर्मान् प्रविचिन्वतः, यावन् मनस्कारं न प्राप्नोति, तावद् अस्य बलवाहनो मनस्कारो भवति / बलाद् अवष्टभ्य तच् चित्तम् एकाग्रतायाम् अवस्थापयति / तेनोच्यते बलवाहन इति //
SK
-II-९-अ-(२) Mस्.८३अ७M, Sह्.२७९-५, W.९४-८, P. १२७अ६, D. १०३ब्३, N. १०९अ५, Cओ. १०८अ४, Cह्.४३८ब्२५ तत्र सच्छिद्रवाहनो मनस्कारः कतमः / यो लब्धमनस्कारस्योर्ध्वं लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा यो लक्षणप्रतिसंवेदी मनस्कारः / तथा हि समाधिस् तत्र चिन्तया व्यवकीर्यते, नैकान्तेन भावनाकारेण प्रवर्तते //
SK
-II-९-अ-(३) Mस्.८३अ८L, Sह्.२७९-१०, W.९४-११, P.१२७ब्१, D.१०३ब्५, N.१०९अ६, Cओ.१०८अ५, Cह्.४३८ब्२८ तत्र निश्छिद्रवाहनो मनस्कारः कतमः / लक्षणप्रतिसंवेदिनो मनस्काराद् ऊर्ध्वं यावत् प्रयोगनिष्ठान् मनसिकारात् //
SK
-II-९-अ-(४) Mस्.८३अ८M, Sह्.२७९-१२, W.९४-१३, P.१२७ब्२, D.१०३ब्५, N.१०९अ७, Cओ.१०८अ६, Cह्.४३८च्१ तत्रानाभोगवाहनो मनस्कारः कतमः / यः प्रयोगनिष्ठाफलो मनस्कारः //
SK
-II-९-ब्-(१),(२),(३),(४) Mस्.८३अ८R, Sह्.२७९-१४, P.१२७ब्३, D.१०३ब्६, N.१०९अ७, Cओ.१०८अ७, Cह्.४३८च्३ अपरे चत्वारो मनस्काराः / तद्यथा आनुलोमिकः, प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयश् च /
SK
तत्रानुलोमिको मनस्कारः / येनालम्बनं विदूषयति सम्यक्प्रयोगं चारभते, नो तु क्लेशं प्रजहाति /
SK
तत्र प्रातिपक्षिकः / येन क्लेशं प्रजहाति /
SK
तत्र प्रसदनीयः / येन लीनं चित्तं प्रग्राहकैर् निमित्तैर् अभिप्रमोदयति संप्रहर्षयति प्रगृह्णाति /
SK
तत्र प्रत्यवेक्षणीयो मनस्कारः / तद्यथा मीमांसामनस्कारः, यम् अधिपतिं कृत्वा प्रहीणाप्रहीणतां क्लेशानां प्रत्यवेक्षते //
SK
-II-९-च् Mस्.८३ब्२L, Sह्.२८०-४, P. १२७ब्८, D. १०४अ२, N. १०९ब्४, Cओ. १०८ब्३, Cह्.४३८च्१० तत्रालम्बनं मनसिकुर्वता कति निमित्तानि मनसिकर्तव्यानि भवन्ति / आह / चत्वारि / तद्यथालम्बननिमित्तं निदाननिमित्तं परिवर्जनीयं निमित्तं निषेवणीयं च निमित्तम् //
SK
-II-९-च्-(१) Mस्.८३ब्२R, Sह्.२८०-७, P.१२८अ१, D.१०४अ३, N.१०९ब्५, Cओ.१०८ब्४, Cह्.४३८च्१२ तत्रालम्बननिमित्तम् / यज् ज्ञेयवस्तुसभागं प्रतिबिम्बं प्रतिभासः //
SK
-II-९-च्-(२) Mस्.८३ब्३L, Sह्.२८०-१०, P.१२८अ२, D.१०४अ३, N.१०९ब्५, Cओ.१०८ब्४, Cह्.४३८च्१३ तत्र निदाननिमित्तम् / तद्यथा समाधिसंभारोपचयः, आनुलोमिक (Śभ् II १६२) उपदेशः, भावनासहगतस् तीव्रच्छन्दः संवेजनीयेषु धर्मेषु संवेगः, विक्षेपाविक्षेपपरिज्ञावधानम्, परतश् चासंघट्टो मनुष्यकृतो वामनुष्यकृतो वा शब्दकृतो वा व्यायामकृतो वा / तथा विपश्यनापूर्वंगमो ऽध्यात्मं चित्ताभिसंक्षेप उत्तप्ततराया विपश्यनाया उत्तरत्र निदाननिमित्तम् / तथा शमथपूर्वंगमा विपश्यना उत्तप्ततरस्य शमथस्योत्तरत्र निदाननिमित्तम् //
SK
-II-९-च्-(३)-इ,इइ,इइइ,इव् Mस्.८३ब्४M, Sह्.२८०-१९, P.१२८अ६, D.१०४अ६, N.११०अ१, Cओ.१०८ब्६, Cह्.४३८च्१९ तत्र परिवर्जनीयनिमित्तं चतुर्विधम् / तद्यथा लयनिमित्तम् औद्धत्यनिमित्तं सङ्गनिमित्तं विक्षेपनिमित्तं च /
SK
तत्र लयनिमित्तम् / येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं लीनत्वाय परैति /
SK
तत्र औद्धत्यनिमित्तम् / येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम् उद्धन्यते /
SK
तत्र सङ्गनिमित्तम् / येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम् आलम्बने रज्यते संरज्यते संक्लिश्यते /
SK
तत्र विक्षेपनिमित्तम् / येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं बहिर्धा विक्षिप्यते /
SK
तानि पुनर् निमित्तानि यथा समाहितायां भूमौ //
SK
-II-९-द् Mस्.८३ब्६L, Sह्.२८१-८, P.१२८ब्२, D.१०४ब्२, N.११०अ४, Cओ.१०९अ२, Cह्.४३८च्२६ एभिर् मनस्कारैर् आलम्बनम् अधिमुच्यतः कत्य् अधिमोक्षा भवन्ति / आह / नवाधिमोक्षाः / तद्यथा प्रभास्वरश् चाप्रभास्वरश् च जडः पटुः परीत्तो महद्गतो ऽप्रमाणः परिशुद्धो ऽपरिशुद्धश् चेति /
SK
तत्र प्रभास्वरो ऽधिमोक्षः / य आलोकनिमित्ते सूद्गृहीत आलोकसहगतः /
SK
तत्राप्रभास्वरो ऽधिमोक्षः / तद्यथा आलोकनिमित्ते ऽनुद्गृहीते ऽन्धकारसहगतः /
SK
तत्र जडो ऽधिमोक्षः / यो मृद्विन्द्रियसन्तानपतितः /
SK
तत्र पटुर् अधिमोक्षः / यस् तीक्ष्णेन्द्रियसन्तानपतितः /
SK
तत्र परीत्तो ऽधिमोक्षः / यः परीत्तश्रद्धाछन्दसहगतः परीत्तालम्बनश् च / इति मनस्कारपरीत्ततया चालम्बनपरीत्ततया च परीत्तो ऽधिमोक्षः /
SK
तत्र महद्गतो ऽधिमोक्षः / तद्यथा यो महद्गतश्रद्धाछन्दसहगतः, महद्गतं वालम्बनम् अधिमुच्यते यो ऽधिमोक्षः / इति मनस्कारमहद्गततया चालम्बनमहद्गततया च महद्गतो ऽधिमोक्षः /
SK
तत्राप्रमाणो ऽधिमोक्षः / अप्रमाणश्रद्धाछन्दसहगतः, अनन्तम् वा अपर्यन्तम् आलम्बनम् अधिमुच्यते यो ऽधिमोक्षः / इति मनस्काराप्रमाणतया चालम्बनाप्रमाणतया चाप्रमाणो ऽधिमोक्षः /
SK
तत्र परिशुद्धो ऽधिमोक्षः / यः सुभावितः परिनिष्पन्नः पर्यवसानगतः /
SK
अपरिशुद्धो वा पुनः यो न सुभावितो न परिनिष्पन्नो न पर्यवसानगतः //
SK
(II)-A-II-१० Mस्.८४अ१R, Sह्.२८३-२, W.*९५-४, P.१२९अ३, D.१०४ब्७, N.११०ब्४, Cओ.१०९ब्२, Cह्.४३९अ१६ तत्र कति योगस्य योगकरणीयानि / आह / चत्वारि / कतमानि चत्वारि / तद्यथाश्रयनिरोधः, आश्रयपरिवर्तः, आलम्बनपरिज्ञानम्, आलम्बनाभिरतिश् च /
SK
तत्राश्रयनिरोधः प्रयोगमनसिकारभावनानुयुक्तस्य यो दौष्ठुल्यसहगत आश्रयः सो ऽनुपूर्वेण निरुध्यते, प्रस्रब्धिसहगतश् चाश्रयः परिवर्तते / अयम् आश्रयनिरोधो ऽयम् आश्रयपरिवर्तो योगकरणीयम् /
SK
तत्रालम्बनपरिज्ञानम् आलम्बनाभिरतिश् च / अस्त्य् आलम्बनपरिज्ञानम् आलम्बनाभिरतिर् आश्रयनिरोधपरिवर्तपूर्वंगमम्, यच् चालम्बनपरिज्ञानम् आलम्बनाभिरतिं चाधिपतिं कृत्वाश्रयो निरुध्यते परिवर्तते च / अस्त्य् आलम्बनपरिज्ञानम् आलम्बनाभिरतिर् आश्रयविशुद्धिपूर्वंगमम् आश्रयशुद्धिम् अधिपतिं कृत्वा सुविशुद्धम् आलम्बनज्ञानं कार्यपरिनिष्पत्तिकाले प्रवर्तते, अभिरतिश् च /
SK
तेनोच्यते चत्वारि योगस्य योगकरणीयानीति //
SK
(II)-A-II-११-अ-(१),(२),(३) Mस्.८४अ४R, Sह्.२८४-४, W.९५-११, P.१२९ब्२, D.१०५अ५, N.१११अ२, Cओ.१०९ब्६, Cह्.४३९ब्१ तत्र कति योगाचाराः / आह / त्रयः / तद्यथा आदिकर्मिकः, कृतपरिचयः, अतिक्रान्तमनस्कारश् च /
SK
तत्रादिकर्मिको योगाचारो मनस्कारादिकर्मिकः क्लेशविशुद्ध्यादिकर्मिकश् च /
SK
तत्र मनस्कारादिकर्मिकस् तत्प्रथमकर्मिक एकाग्रतायां यावन् मनस्कारं न प्राप्नोति चित्तैकाग्रतां न स्पृशति /
SK
तत्र क्लेशविशुद्ध्यादिकर्मिकः / अधिगते ऽपि मनस्कारे क्लेशस्य चित्तं विशोधयितुकामस्य यIIअक्षणप्रतिसंवेदिनो मनस्कारस्यारम्भः प्रतिग्रहश् चाभ्यासः / अयं क्लेशविशुद्ध्यादिकर्मिकः /
SK
तत्र कृतपरिचयः कतमः / लक्षणप्रतिसंवेदिनं मनस्कारम् स्थापयित्वा तदन्येषु षट्सु मनस्कारेषु प्रयोगनिष्ठापर्यन्तेषु कृतपरिचयो भवति /
SK
तत्रातिक्रान्तमनस्कारः प्रयोगनिष्ठाफले मनस्कारे वेदितव्यः / अतिक्रान्तो ऽसौ भवति प्रयोगभावनामनस्कारम्, स्थितो भवति भावनाफले / तस्माद् अतिक्रान्तमनस्कार इत्य् उच्यते //
SK
-११-११-ब्-(१),(२),(३) Mस्.८४अ७M, Sह्.२८४-२३, P.१३०अ१, D.१०५ब्३, N.१११अ७, Cओ.११०अ३, Cह्.४३९ब्१५ अपि च कुशलं धर्मच्छन्दम् उपादाय प्रयुज्यमानो यावन् निर्वेधभागीयानि कुशलमूलानि नोत्पादयति तावद् आदिकर्मिको भवति /
SK
यदा पुनर् निर्वेधभागीयान्य् उत्पादयति, तद्यथा ऊष्मगतानि मूर्धानः (Śभ् II १७०) सत्यानुलोमाः क्षान्तयो लौकिका अग्रधर्माः, तदा कृतपरिचयो भवति /
SK
यदा पुनः सम्यक्त्वं न्यामम् अवक्रामति सत्यान्य् अभिसमागच्छत्य् अपरप्रत्ययो भवत्य् अनन्यनेयः शास्तुः शासने, तदातिक्रान्तमनस्कारो भवति / परप्रत्ययं मनस्कारम् अतिक्रम्यापरप्रत्यये स्थितः / तस्माद्, अतिक्रान्तमनस्कार इत्य् उच्यते //
SK
(II)-A-II-१२-अ-(१) Mस्.८४ब्१L, Sह्.२८५-११, W.९६-१४, P.१३०अ६, D.१०५ब्६, N.१११ब्४, Cओ.११०अ६, Cह्.४३९ब्२२ तत्र योगभावना कतमा / आह / द्विविधा / तद्यथा संज्ञाभावना बोधिपक्ष्या भावना च /
SK
तत्र संज्ञाभावना कतमा / तद्यथा लौकिकमार्गप्रयुक्तः सर्वास्व् अधरिमासु भूमिष्व् आदीनवसंज्ञां भावयति / निर्वाणाय वा पुनः प्रयुक्तः प्रहाणधातौ विरागधातौ निरोधधातौ शान्तदर्शी प्रहाणसंज्ञां विरागसंज्ञां निरोधसंज्ञां च भावयति / शमथाय वा पुनः प्रयुक्त ऊर्ध्वमधःसंज्ञां शमथपक्ष्यां भावयति / विपश्यनायां प्रयुक्तः पश्चात्पुरःसंज्ञां विपश्यनापक्ष्यां भावयति //
SK
-II-१२-अ-(२) Mस्.८४ब्२R, Sह्.२८७-२, P.१३०ब्१, D.१०६अ२, N.१११ब्७, Cओ.११०ब्१, Cह्.४३९ब्२८ तत्रोर्ध्वमधःसंज्ञी इमम् एव कायं यथास्थितं यथाप्रणिहितम् ऊर्ध्वं पादतलाद् अधः केशमस्तकात् पूर्णं नानाविधस्याशुचेः प्रत्यवेक्षते / सन्त्य् अस्मिन् काये केशा रोमाणीति पूर्ववत् / तत्र पश्चात्पुरःसंज्ञी / यथापि तद् एकत्येन प्रत्यवेक्षणानिमित्तम् एव साधु च सुष्ठु च सूद्गृहीतं भवति सुमनसीकृतम् सुजुष्टं सुप्रतिविद्धम् / तद्यथा स्थितो निषण्णं प्रत्यवेक्षते, निषण्णो वा निपन्नम्, पुरतो वा गच्छन्तं पृष्ठतो गच्छन् प्रत्यवेक्षते / सा खल्व् एषा त्रैयध्विकानां संस्काराणां प्रतीत्यसमुत्पन्नानां विपश्यनाकारा प्रत्यवेक्षा परिदीपिता /
SK
तत्र यत् तावद् आह ᳚स्थितो निषण्णं प्रत्यवेक्षत᳚ इत्य् अनेन परिदीपितं वर्तमानेन मनस्कारेण_ अनागतं ज्ञेयं प्रत्यवेक्षते / वर्तमानापि (Śभ् II १७४) मनस्कारावस्था उत्पन्ना ᳚स्थिते᳚त्य् उच्यते / अनागता पुनर् ज्ञेयावस्था अनुत्पन्नत्वाद् उत्पादाभिमुखत्वाच् च ᳚निषण्णे᳚त्य् उच्यते /
SK
यत् पुनर् आह ᳚निषण्णो वा निपन्नं प्रत्यवेक्षत᳚ इत्य् अनेन प्रत्युत्पन्नेन मनस्कारेणातीतस्य ज्ञेयस्य प्रत्यवेक्षणा परिदीपिता / प्रत्युत्पन्ना हि मनस्कारावस्था निरोधाभिमुखा ᳚निषण्णे᳚त्य् उच्यते / अतीता पुनर् निरुद्धत्वाज् ज्ञेयावस्था ᳚निपन्ने᳚त्य् उच्यते /
SK
यत् पुनर् आह ᳚पुरतो वा गच्छन्तं पृष्ठतो गच्छन् प्रत्यवेक्षत᳚ इत्य् अनेन प्रत्युत्पन्नेन मनस्कारेणानन्तरनिरुद्धस्य मनस्कारस्य प्रत्यवेक्षा परिदीपिता / तत्र य उत्पन्नोत्पन्नो मनसिकारो ऽनन्तरनिरुद्धह् स पुरतो यायी /
SK
तत्र यो ऽनन्तरोत्पन्नो ऽनन्तरोत्पन्नो मनस्कारो नवनवो ऽनन्तरनिरुद्धस्यानन्तरनिरुद्धस्य ग्राहकः स पृष्ठतो यायी /
SK
तत्र शमथं च विपश्यनां च भावयंस् तदुभयपक्ष्याम् आलोकसंज्ञां भावयति / इयं संज्ञाभावना //
SK
II-१२-ब् Mस्.८४ब्७M, Sह्.२८८-१९, W.*९७-१, P.१३१अ५, D.१०६ब्३, N.११२ब्२, Cओ.१११अ२, Cह्.४३९च्१८ तत्र बोधिपक्ष्यभावना कतमा / यः सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अभ्यासः परिचय आसेवना भावना बहुलीकार इयम् उच्यते बोधिपक्ष्यभावना / तद्यथा चतुर्णाम् स्मृत्युपस्थानानाम्, चतुर्णां (Śभ् II १७६) सम्यक्प्रहाणानाम्, चतुर्णाम् ऋद्धिपादानाम्, पञ्चनाम् इन्द्रियाणाम्, पञ्चानां बलानाम्, सप्तानां बोध्यङ्गानाम्, आर्याष्टाङ्गस्य मार्गस्य /
SK
कायस्मृत्युपस्थानस्य वेदनाचित्तधर्मस्मृत्युपस्थानस्य /
SK
अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय च्छन्दैः जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति प्रदधातीति सम्यक्प्रहाणस्य, उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय, अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय, उत्पन्नानां कुशलानां धर्माणाम् स्थितये ऽसंमोषाय भावनापरिपूरये भूयोभाववृद्धिविपुलतायै छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति प्रदधातीति सम्यक्प्रहाणस्य /
SK
छन्दसमाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य /
SK
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियस्य /
SK
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलानाम् /
SK
स्मृतिसंबोध्यङ्गस्य धर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षासंबोध्यङ्गस्य च /
SK
सम्यग्दृष्टेः सम्यक्संकल्पस्य सम्यग्वाक्कर्मान्ताजीवानाम् सम्यग्व्यायामस्य सम्यक्स्मृतेः सम्यक्समाधेश् च //
SK
-II-१२-ब्-(१)-इ-(अ) Mस्.८५अ३R, Sह्.२९१-५, W.९७-२२, P.१३२अ१, D.१०७अ४, N.११३अ३, Cओ.१११ब्३, Cह्.४४०अ१३ तत्र कतमः कायः / कतमा काये कायानुपश्यना / कतमा स्मृतिः / कतमानि स्मृतेर् उपस्थानानि / आह /
SK
कायः पञ्चत्रिंशतिविधः / तद्यथा आध्यात्मिको बाह्यश् च, इन्द्रियसंगृहीतो ऽनिन्द्रियसंगृहीतश् च, सत्त्वसंख्यातो ऽसत्त्वसंख्यातश् च, दौष्ठुल्यसहगतः प्रश्रब्धिसहगतश् च, भूतकायो भौतिककायश् च, नामकायो रूपकायश् च, नारकस् तैर्यग्योनिकः पैतृविषयिको मानुष्यको दिव्यश् च, सविज्ञानको ऽविज्ञानको वा, अन्तःकायो बहिःकायश् च, विपरिणतो ऽविपरिणतश् च, स्त्रीकायः पुरुषकायः पण्डककायश् च, मित्रकायो ऽमित्रकाय उदासीनकायश् च, हीनकायो मध्यकायः प्रणीतकायश् च, दह्रकायो यूनकायो वृद्धकायश् च / अयं तावत् कायस्य प्रभेदः //
SK
-II-१२-ब्-(१)-इ-(ब्) Mस्.८५अ५R, Sह्.२९२-११, P.१३२अ७, D.१०७ब्१, N.११३अ७, Cओ.१११ब्७, Cह्.४४०अ२१ तत्रानुपश्यना त्रिविधा / या कायम् अधिपतिं कृत्वा श्रुतमयी वा प्रज्ञा चिन्तामयी वा भावनामयी वा, यया प्रज्ञया सर्वं कायं सर्वाकारं सम्यग् एवोपपरीक्षते संतीरयत्य् अनुप्रविशत्य् अनुबुध्यते //
SK
-II-१२-ब्-(१)-इ-(च्) Mस्.८५अ६M, Sह्.२९२-१५, P.१३२ब्१, D.१०७ब्२, N.११३ब्१, Cओ.११२अ१, Cह्.४४०अ२३ तत्र स्मृतिर् यद् अस्य कायम् अधिपतिं कृत्वा ये धर्मा उद्गृहीतास् तेषाम् एव च धर्माणां यो ऽर्थश् चिन्तितो ये च भावनया साक्षात्कृताः, तत्र व्यञ्जने चार्थे च साक्षात्क्रियायां च तच्चेतसो ऽसंमोषः, ᳚सूद्गृहीता वा म एते धर्माः᳚, ᳚न वे᳚ति, ᳚सूपलक्षिता वा तत्र तत्र प्रज्ञया᳚, ᳚न वे᳚ति, ᳚सुसंस्पर्शिताः तत्र तत्र विमुक्त्या᳚, ᳚न वे᳚ति स्मृतिर् उपस्थिता भवति / (Śभ् II १८०) इदं स्मृतेर् उपस्थानम् //
SK
-II-१२-ब्-(१)-इ-(द्) Mस्.८५अ७M, Sह्.२९३-६, P. १३२ब्५, D. १०७ब्५, N. ११३ब्४, Cओ. ११२अ३, Cह्.४४०अ२९ अपि च स्मृत्यारक्षायै स्मृतेर् उपस्थानं विषयासंक्लेशायालम्बनोपनिबन्धाय च /
SK
तत्र स्मृत्यारक्षा यथोक्तं पूर्वम् एव्᳚आरक्षितस्मृतिर् भवति निपकस्मृतिर्᳚ इति /
SK
तत्र विषयासंक्लेशाय / यथोक्तं ᳚स्मृत्यारक्षितमानसः समावस्थाचारको᳚ ᳚न निमित्तग्राही नानुव्यञ्जनग्राही᳚ यावद् विस्तरेण ᳚रक्षति मन-इन्द्रियं मन-इन्द्रियेण संवरम् आपद्यते᳚ /
SK
तत्रालम्बनोपनिबन्धाय / यथोक्तं चतुर्विध आलम्बने स्मृतिम् उपनिबध्नतः / तद्यथा व्यापिन्य् आलम्बने चरितविशोधने कौशल्यालम्बने क्लेशविशोधने वा /
SK
एभिस् त्रिभिर् आकारैर् या सूपस्थितस्मृतिता, इदम् उच्यते स्मृतेर् उपस्थानम् //
SK
-II-१२-ब्-(१)-इइ Mस्.८५ब्१R, Sह्.२९३-१८, P.१३३अ३, D.१०८अ१, N.११४अ१, Cओ.११२ब्७, Cह्.४४०ब्८ तत्र वेदना कतमा / तद्यथा सुखा दुःखा अदुःखासुखा च वेदना / तत्र सुखापि कायिकी दुःखाप्य् अदुःखासुखापि / यथा कायिकी, एवं चैतसिकी / सुखापि सामिषा दुःखाप्य् अदुःखासुखापि / एवं निरामिषापि, एवं गर्धाश्रिता, नैष्क्रम्याश्रिता वेदना सुखापि दुःखाप्य् अदुःखासुखापि /
SK
सैषा एकविंशतिविधा वेदना भवति, नवविधा वा //
SK
-II-१२-ब्-(१)-इइइ Mस्.८५ब्२R, Sह्.२९४-७, W.९७-३९, P.१३३अ७, D.१०८अ४, IM.११४अ४, Cओ.११३अ२, Cह्. ४४०ब्१३ तत्र चित्तं कतमत् / तद्यथा सरागं चित्तं विगतरागं सद्वेषं विगतद्वेषं समोहं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतं व्युपशान्तम् अव्युपशान्तं समाहितम् असमाहितं सुभावितम् असुभावितं सुविमुक्तं चित्तम् असुविमुक्तं चित्तम् / तद् एतद् अभिसमस्य विंशतिविधं चित्तं भवति //
SK
-II-१२-ब्-(१)-इव् Mस्.८५ब्३R, Sह्.२९४-१३, P.१३३ब्२, D.१०८अ६, N.११४अ७, Cओ.११२ब्५, Cह्.४४०ब्१८ तत्र धर्माः कतमे / रागो रागविनयश् च, द्वेषो द्वेषविनयश् च, मोहो मोहविनयश् च, संक्षेपो विक्षेपो लयः प्रग्रह औद्धत्यम् अनौद्धत्यं व्युपशमो ऽव्युपशमः, सुसमाहितता न सुसमाहितता सुभावितमार्गता न सुभावितमार्गता सुविमुक्तता न सुविमुक्तता च / इतीमे कृष्णशुक्लपक्षव्यवस्थिता विंशतिधर्मा वेदितव्याः संक्लेशव्यवदानपक्ष्याः //
SK
-II-१२-ब्-(१)-इइऽ Mस्.८५ब्५L, Sह्.२९५-८, P.१३३ब्६, D.१०८ब्२, N.११४ब्३, Cओ.११२ब्७, Cह्.४४०ब्२३ तत्र सुखा वेदना यत् सुखवेदनीयम् स्पर्शं प्रतीत्योत्पद्यते सातं वेदितं वेदनागतम् / सा पुनर् या पञ्चविज्ञानसंप्रयुक्ता सा कायिकी, या पुनर् मनोविज्ञानसंप्रयुक्ता सा चैतसिकी /
SK
यथा सुखवेदनीयम् एवं दुःखवेदनीयम् अदुःखासुखवेदनीयम् स्पर्शं प्रतीत्योत्पद्यते ऽसातं नैव सातं नासातं वेदितं वेदनागतम् / इदम् उच्यते दुःखा अदुःखासुखा वेदना / सा पुनर् या पञ्चविज्ञानकायसंप्रयुक्ता सा कायिकी, या मनोविज्ञानसंप्रयुक्ता सा चैतसिकी /
SK
या निर्वाणानुकूला नैर्वेधिकी अत्यन्तनिष्ठताया अत्यन्तविमलताया अत्यन्तब्रह्मचर्यपर्यवसानायै संवर्तते सा निरामिषा / या पुनर् धातुपतिता भवपतिता सा सामिषा / या पुना रूपारूप्यप्रतिसंयुक्ता वैराग्यानुकूला वा सा नैष्क्रम्याश्रिता / या पुनः कामप्रतिसंयुक्ता न च वैराग्यानुकूला सा गर्धाश्रिता //
SK
-II-१२-ब्-(१)-इइइऽ Mस्.८५ब्७R, Sह्.२९६-१३, P.१३४अ६, D.१०९अ१, N.११५अ१, Cओ.११३अ६, Cह्.४४०च्५ तत्र सरागं चित्तं यद् रञ्जनीये वस्तुनि रागपर्यवस्थितम् / विगतरागं यद् रागपर्यवस्थानापगतम् / सद्वेषं यद् द्वेषणीये वस्तुनि द्वेषपर्यवस्थितम् / विगतद्वेषं यद् द्वेषपर्यवस्थानापगतम् / तत्र संमोहं यन् मोहनीये वस्तुनि मोहपर्यौअस्थितम् / विगतमोहं यद् मोहपर्यवस्थानापगतम् /
SK
तान्य् एतानि षट् चित्तानि चारसहगतानि वेदितव्यानि / तत्र त्रीणि संक्लेशपक्ष्याणि त्रीणि संक्लेशप्रातिपक्षिकाणि / तत्र संक्षिप्तचित्तं यच् छमथाकारेणाध्यात्मालम्बनोपनिबद्धम् / विक्षिप्तं यद् बहिर्धा पञ्चसु कामगुणेष्व् अनुविसृतम् /
SK
तत्र लीनं चित्तं यत् स्त्यानमिद्धसहगतम् / प्रगृहीतं यत् प्रसदनीयेनालम्बनेन संप्रहर्षितम् / उद्धतं चित्तं यद् अतिसंप्रग्रहाद् औद्धत्यपर्यवस्थितम् / अनुद्धतं चित्तं यत् प्रग्रहकाले चाभिसंक्षेपकाले चोपेक्षाप्राप्तम् /
SK
तत्र व्युपशान्तं चित्तं यन् निवरणेभ्यो विमुक्तम् / अव्युपशान्तं पुनर् यद् अविमुक्तम् /
SK
तत्र समाहितं चित्तं यन् निवरणविमोक्षान् मौलध्यानप्रविष्टम् / असमाहितं यद् अप्रविष्टम् /
SK
तत्र सुभावितं चित्तं यत् तस्यैव समाधेर् दीर्घकालपरिचयान् निकामलाभी भवत्य् अकृच्छ्रलाभ्य् आशुसंपत्ता / तत्र न सुभावितम् चित्तम् एतद्विपर्ययेण वेदितव्यम् /
SK
तत्र सुविमुक्तं चित्तं यत् सर्वतश् चात्यन्ततश् च विमुक्तम् / न सुविमुक्तं चित्तं यन् न सर्वतो नाप्य् अत्यन्ततो विमुक्तम् /
SK
इतीमानि चतुर्दश चित्तानि विहारगतानि वेदितव्यानि / तत्र निवरणविशुद्धिभूमिम् आरभ्य विहारगतान्य् अष्टौ चित्तानि / संक्षिप्तं वित्क्षिप्तं यावद् व्युपशान्तम् अव्युपशान्तम् इति / क्लेशविशुद्धिं पुनर् आरभ्य विहारगतानि षट् चित्तानि / यावत् सुविमुक्तं चित्तं न सुविमुक्तम् इति /
SK
यत् पुनः सत्य् अध्यात्मं निवरणे ᳚अस्ति मे निवरणम्᳚ इति जानाति, असति निवरणे ᳚नास्ति मे निवरणम्᳚ इति जनाति / यथा चानुत्पन्नस्य निवरणस्योत्पादो भवति तद् अपि प्रजानाति, यथा चोत्पन्नस्य विगमो भवति तद् अपि प्रजानाति /
SK
तत्र सति चक्षुःसंयोजने यावन् मनःसंयोजने ᳚अस्ति मे यावन् मनःसम्योजनम्᳚ इति, असति यावन् मनःसंयोजने ᳚नास्ति मे यावन् मनःसंयोजनम्᳚ इति प्रजानाति / यथा चानुत्पन्नस्य यावन् मनःसंयोजनस्योत्पादो भवति तद् अपि प्रजानाति, यथा चोत्पन्नस्य निरोधो भवति तद् अपि प्रजानाति /
SK
सत्य् अध्यात्मम् स्मृतिसंबोध्यङ्गे ᳚अस्ति मे स्मृतिसंबोध्यङ्गम्᳚ इति प्रजानाति, असति ᳚नास्ति मे᳚ प्रजानाति / यथा चानुत्पन्नस्य स्मृतिसंबोध्यङ्गस्योत्पादो भवति तद् अपि प्रजानाति, यथा चोत्पन्नस्य स्थितिर् भवत्य् असंमोषो भावनापरिपूरिभूयोभाववृद्धिविपुलता तद् अपि प्रजानाति /
SK
यथा स्मृतिसंबोध्यङ्गम् एवं धर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षासंबोध्यङ्गं वेदितव्यम् इति //
SK
-II-१२-ब्-(१)-इव्ऽ Mस्.८६अ७M, Sह्.२९९-१३, P.१३५ब्४, D.११०अ२, N.११६अ४, Cओ.११४अ७, Cह्.४४१अ१३ यद् एवं स्वभावनिदानादीनवप्रतिपक्षाकारैः संक्लिष्टधर्मपरिज्ञानम् इदं शरीरं धर्मस्मृत्युपस्थानस्य //
SK
-II-१२-ब्-(१)-व् Mस्.८६अ७R, Sह्.२९९-१५, P.१३५ब्५, D.११०अ३, N.११६अ५, Cओ.११४अ७, Cह्.४४१अ१४ यथा काये कायानुपश्यना स्मृत्युपस्थानम् उक्तम् एवं वेदनायां चित्ते धर्मेषु यथायोगं वेदितव्यम् /
SK
तत्र कथम् अध्यात्मं काये कायानुदर्शी विहरति, कथं बहिर्धा, कथम् अध्यात्मबहिर्धा /
SK
यदा अध्यात्मं प्रत्यात्मं सत्त्वसंख्याते काये कायानुपश्यी विहरति, एवम् अध्यात्मं काये कायानुदर्शी विहरति /
SK
यदा बहिर्धा असत्त्वसंख्यातं रूपम् आलम्बनीकरोति, एवं बहिर्धा काये कायानुदर्शी विहरति /
SK
यदा बहिर्धा परक्यं सत्त्वसंख्यातं रूपम् आलम्बनीकरोति, एवम् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति /
SK
तत्राध्यात्मं रूपम् उपादाय स्वक्यं सत्त्वसंख्यातं या उत्पन्ना वेदना चित्तं धर्मास् तान् आलम्बनीकुर्वन्न् अध्यात्मं वेदनासु चित्ते धर्मेषु धर्मानुदर्शी विहरति / बाह्यम् असत्त्वसंख्यातं रूपम् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् तान् आलम्बनीकुर्वन् बहिर्धा वेदनायां चित्ते धर्मेषु धर्मानुदर्शी विहरति /
SK
बहिर्धा बाह्यं रूपं सत्त्वसंख्यातम् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् तान् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा वेदनायां चित्ते धर्मेषु धर्मानुदर्शी विहरति //
SK
-II-१२-ब्-(१)-व्-(अ) Mस्.८६ब्२R, Sह्.३००-१५, P.१३६अ५, D.११०ब्२, N.११६ब्४, Cओ.११४ब्६, Cह्.४४१अ२९ अपरः पर्यायः / इन्द्रियसंगृहीतं रूपम् आलम्बनीकुर्वन्न् अध्यात्मं काये कायानुपश्यी विहरति / अनिन्द्रियसंगृहीतं रूपम् अनुपगतम् अनुपादत्तम् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति / अनिन्द्रियसंगृहीतम् एव रूपम् अध्यात्मम् उपगतम् उपादत्तं रूपम् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुपश्यी विहरति / एवं पूर्वं त्रिविधं रूपम् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् तान् यथायोगम् आलम्बनीकुर्वंस् तथादर्शी विहरतीति वेदितव्यम् //
SK
-II-१२-ब्-०)-व्-(ब्) Mस्.८६ब्४L, Sह्.३०१-६, P.१३६ब्१, D.११०ब्४, N.११६ब्६, Cओ.११५अ१, Cह्.४४१ब्६ अपरः पर्यायः / यत् समाहितभूमिकं प्रश्रब्धिसहगतं रूपम् आलम्बनीकरोत्य् एवम् अध्यात्मं काये कायानुदर्शी विहरति / यत् स्वक्यम् एवाध्यात्मम् असमाहितभूमिकं दौष्ठुल्यसहगतं रूपम् आलम्बनीकरोत्य् एवं बहिर्धा काये कायानुपश्यी विहरति / परक्यं दौष्ठुल्यसहगतं प्रश्रब्धिसहगतं च रूपम् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा (Śभ् II १९२) काये कायानुदर्शी विहरत्य् एवं तद् उपादायोत्पन्ना वेदना चित्तं धर्मा यथायोगं वेदितव्याः //
SK
-II-१२-ब्-(१)-व्-(च्) Mस्.८६ब्५M, Sह्.३०१-१४, P.१३६ब्५, D.११०ब्७, N.११७अ२, Cओ.११५अ४, Cह्.४४१ब्१३ अपरः पर्यायः / अध्यात्मं भूतरूपम् आलम्बनीकुर्वन्न् अध्यात्मं काये कायानुदर्शी विहरति / बाह्यं भूतरूपम् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति / तच् च भूतरूपम् उपादाय यद् उत्पन्नम् इन्द्रियविषयसंगृहीतम् उपादायरूपं चालम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति / एवं तद् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् ते ऽपि यथायोगं वेदितव्याः //
SK
-II-१२-ब्-(१)-व्-(द्) Mस्.८६ब्६R, Sह्.३०१-२१, P.१३६ब्८, D.१११अ२, N.११७अ५, Cओ.११५अ६, Cह्.४४१ब्१९ अपरः पर्यायः / यदा सविज्ञानकं कायम् अध्यात्मम् आलम्बनीकरोत्य् एवम् अध्यात्मं काये कायानुदर्शी विहरति / अविज्ञानकं रूपं सत्त्वसंख्यातं विनीलकादिष्व् अवस्थास्व् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति / अविज्ञानकस्य च रूपस्यातीते काले सविज्ञानतां सविज्ञानकस्य च रूपस्यानागते काले ऽविज्ञानतां तुल्यधर्मतां समधर्मताम् आलम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति /
SK
एवं तद् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् ते ऽपि यथायोगं वेदितव्याः //
SK
अपरः पर्यायः / आत्मनो ऽन्तःकायं केशरोमनखादिभिर् आकारैर् आलम्बनीकुर्वन्न् अध्यात्मं काये कायानुदर्शी विहरति / परेषाम् अन्तःकायं केशरोमनखादिभिर् आकारैर् आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति / आत्मनश् च बहिःकायम् अविपरिणतं विनीलकादिभिर् आकारैः (Śभ् II १९४) परेषां च बहिःकायं विपरिणतम् अविपरिणतं च विनीलकादिभिर् आकारैस् तुल्यधर्मतयालम्बनीकुर्वन्न् अध्यात्मबहिर्धा काये कायानुदर्शी विहरति /
SK
तद् उपादाय या उत्पन्ना वेदना चित्तं धर्मास् ते ऽपि यथायोगं वेदितव्याः /
SK
इत्य् एवंभागीयाः कायवेदनाचित्तधर्मप्रभेदेन बहवः पर्याया वेदितव्याः / इमे तु कतिपयाः पर्यायाः संप्रकाशिताः //
SK
Mस्.८७अ२L, Sह्.३०३-४, W.*९८-५, P.१३७ब्२, D.१११ब्२, N.११७ब्५, Cओ.११५ब्५, Cह्.४४१च्६ तत्र चतुर्णां विपर्यासानां प्रतिपक्षेण भगवता चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि /
SK
तत्राशुचौ शुचीति विपर्यासप्रतिपक्षेण कायस्मृत्युपस्थानं व्यवस्थापितम् / तथा हि भगवता कायस्मृत्युपस्थानभावनायाम् अशुभाप्रतिसम्युक्ताश् चतस्रः शिवपथिका देशिताः, या अस्य बहुलंकुर्वन्मनसिकुर्वतः, अशुचौ शुचीति विपर्यासः प्रहीयते /
SK
तत्र दुःखे सुखम् इति विपर्यासप्रतिपक्षेण वेदनास्मृत्युपस्थानं व्यवस्थापितम् / वेदनासु वेदनानुदर्शी विहरन् ᳚यत् किंचिद् वेदितम् इदम् अत्र दुःखस्ये᳚ति यथाभूतं प्रजानाति, एवम् अस्य यो दुःखे सुखम् इति विपर्यासः स प्रहायते /
SK
तत्र अनित्ये नित्यम् इति विपर्यासप्रतिपक्षेण चित्तस्मृत्युपस्थानं व्यवस्थापितम् / तस्य सरागादिचित्तप्रभेदेन तेषां तेषां रात्रिंदिवसानाम् अत्ययात् क्षणलवमुहूर्तानाम् अनेकविधानां बहुनानाप्रकारतां (Śभ् II १९६) चित्तस्योपलभ्य यो ऽनित्ये नित्यम् इति विपर्यासः स प्रहीयते /
SK
तत्रानात्मन्य् आत्मेति विपर्यासप्रतिपक्षेण धर्मस्मृत्युपस्थानं व्यवस्थापितम् / तस्य येषाम् आत्मदृष्ट्यादिकानां संक्लेशानां सद्भावाद् येषाम् अनात्मदृष्ट्यादिकानां कुशलानां धर्माणाम् असद्भावात् स्कन्धेष्व् आत्मदर्शनं भवति, नान्यस्य, स्वलक्षणतः सामान्यलक्षणतश् च धर्मान् धर्मानुदर्शिनो यथाभूतं पश्यतः, यो ऽनात्मन्य् आत्मेति विपर्यासः स प्रहीयते //
SK
-II-१२-ब्-(१)-व्-(f) Mस्.८७अ६L, Sह्.३०५-१, P.१३८अ४, D.११२अ१, N.११८अ६, Cओ.११६अ५, Cह्.४४१च्२२ अपरः पर्यायः / प्रायेण हि लोक एवं प्रवृत्तः / स्कन्धेषु स्कन्धमात्रं धर्ममात्रं यथाभूतम् अप्रजानन् यथा ᳚काय आश्रितः, यदाश्रितश् च सुखदुःखम् उपभुञ्जे᳚, धर्माधर्माभ्याम् संक्लिश्यते व्यवदायते च / तत्रात्मन आश्रयवस्तुसंमोहापनयनार्थं कायस्मृत्युपस्थानं व्यवस्थापितम् / तस्यैवात्मनो ऽनुभवनवस्तुसंमोहापनयनार्थं वेदनास्मृत्युपस्थानं व्यवस्थापितम् / यत्रैव च ते चित्ते मनसि विज्ञान आत्मग्राहेण संमूढा आत्मवस्तुसंमोहापनयनार्थेन चित्तस्मृत्युपस्थानं व्यवस्थापितम् / तस्यैव च चित्तसंक्लेशव्यवदानवस्तुसंमोहापनयनार्थं धर्मस्मृत्युपस्थानं व्यवस्थापितम् //
SK
-II-१२-ब्-(१)-व्-(ग्) Mस्.८७अ७R, Sह्.३०५-१०, W.९८-२२, P.१३८ब्२, D.११२अ५, N.११८ब्३, Cओ.११६ब्२, Cह्.४४१च्२९ अपरः पर्यायः / यत्र च कर्म करोति, यदर्थं च करोति, यश् च कर्म करोति, येन च करोति, तत् सर्वम् एकध्यम् अभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि, तत्र काये करोति वेदनार्थं चित्तं कुशलाकुशलैर् धर्मैः //
SK
-II-१२-ब्-(१)-व्-(ह्) Mस्.८७ब्१R, Sह्.३०६-४, P.१३८ब्४, D.११२अ७, N.११८ब्४, Cओ.११६ब्४, Cह्.४४२अ५ अपरः पर्यायः / यत्र च संक्लिश्यते विशुध्यते यतश् च यश् च येन क्लिश्यते विशुध्यते, तद् एकध्यम् अभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि, तत्र काये संक्लिश्यते विशुध्यते च वेदनाभ्यश् चित्तं धर्मैः संक्लिश्यते विशुध्यते च //
SK
-II-१२-ब्-(१)-वि Mस्.८७ब्२M, Sः ३०६-१०, P.१३८ब्७, D.११२ब्२, N.११८ब्७, Cओ.११६ब्६, Cह्.४४२अ१० तत्र स्मृत्युपस्थानम् इति को ऽर्थः / आह / यत्र च स्मृतिम् उपस्थापयति येन च स्मृतिम् उपस्थापयति तद् उच्यते स्मृत्युपस्थानम् / यत्र स्मृतिम् उपस्थापयति तद् आलम्बनस्मृत्युपस्थानम् / येन स्मृतिम् उपस्थापयति तत्र या प्रज्ञा स्मृतिश् च समाधिसंग्राहिका तत् स्वभावस्मृत्युपस्थानम् / तदन्ये तत्संप्रयुक्ताश् चित्तचैतसिका धर्माः संसर्गस्मृत्युपस्थानम् /
SK
अपि च कायवेदनाचित्तधर्माधिपतेयो यो मार्गः समुत्पन्नः कुशलः सास्रवो ऽनास्रवश् च तत् स्मृत्युपस्थानम् / स पुनः श्रुतमयश् चिन्तामयो भावनामयश् च / तत्र श्रुतचिन्तामयः सास्रव एव, भावनामयः स्यात् सास्रवः स्याद् अनास्रवः //
SK
-II-१२-ब्-(२) Mस्.८७ब्४M, Sह्.३०७-५, P.१३९अ५, D.११२ब्६, N.११९अ४, Cओ.११७अ३, Cह्.४४२अ२६ स एवं चतुर्षु स्मृत्युपस्थानेषु कृतपरिचय औदारिकौदारिकं विपर्यासम् अपनीय कुशलाकुशलधर्माभिज्ञः / तदनन्तरम् ᳚अनुत्पन्नानाइः पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय, उत्पन्नानां प्रहाणाय, अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय, उत्पन्नानाम् स्थितय᳚ इति विस्तरेण पूर्ववद् यावच् चित्तं प्रगृह्णाति प्रदधाति //
SK
-II-१२-ब्-(२)-इ-(अ) Mस्.८७ब्५M, Sह्.३०७-१२, P.१३९अ८, D.११३अ२, N.११९अ६, Cओ.११७अ५, Cह्४४२ब्२ तत्र कतमे पापका अकुशला धर्माः / यत् कामावचरं क्लिष्टं कायकर्म वाक्कर्म मनस्कर्म कायवाङ्मनोदुश्चरितसंगृहीतम्, ये च तत्समुत्थापकाः क्लेशास् ते पुनर् ये ऽसमवहिता असंमुखीभूतास् ते ऽनुत्पन्नाः, ये समवहिताः संमुखीभूतास् त उत्पन्नाः /
SK
तत्र कुशला धर्मा ये तत्प्रातिपक्षिका धर्मा दुश्चरितप्रातिपक्षिका निवरणप्रातिपक्षिकाः संयोजनप्रातिपक्षिका वा / ते ऽप्य् अनुत्पन्नास् तथैव वेदितव्या उत्पन्नाश् च यथा पापका अकुशला धर्माः //
SK
-II-१२-ब्-(२)-इ-(ब्)-(१) Mस्.८७ब्६R, Sह्.३०८-५, P.१३९ब्४, D.११३अ५, N.११९ब्३, Cओ.११७ब्१, Cह्.४४२ब्८ तत्र यदानुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय स्पृहाम् उत्पादयति प्रणिधत्ते ᳚सर्वेण सर्वं सर्वथा नोत्पादयिष्यामी᳚ति, एवं छन्दं जनयति / उत्पन्नान् वा पुनः समवहितान् ᳚सर्वेण सर्वं नाधिवासयिष्यामि प्रहास्यामि प्रतिविनोदयिष्यामि᳚ /
SK
यद् अनुत्पन्नेषु पापकेष्व् अकुशलेषु धर्मेषु पूर्वम् एवानुत्पादाय स्पृहाम् उत्पादयति प्रणिधत्ते नाधिवासयितुकामो भवति, अयम् अनुत्पन्नानाम् (Śभ् II २०२) अनुत्पादाय च्छन्दः / यद् वोत्पन्नान् नाधिवासयति प्रहाणयति, अयम् उत्पन्नानां प्रहाणाय च्छन्दः //
SK
-II-१२-ब्-(२)-इ-(ब्)-(२) Mस्.८८अ२L, Sह्.३०८-१४, P.१३९ब्७, D.११३अ७, N.११९ब्५, Cओ.११७ब्४, Cह्.४४२ब्१४ ते पुनः पापका अकुशला धर्मा अतीतवस्त्वालम्बना वा अनागतवस्त्वालम्बना वा वर्तमानविषयालम्बना वोत्पद्यन्ते, ते भवन्ति परोक्षविषयालम्बनाः प्रत्यक्षविषयालम्बनाश् च / ये ऽतीतानागतवस्त्वालम्बनास् ते परोक्षविषयालम्बनाः, ये वर्तमानविषयालम्बनास् ते प्रत्यक्षविषयालम्बनाः //
SK
-II-१२-ब्-(२)-इ-(ब्)-(३) Mस्.८८अ२R, Sह्.३०८-२०, P.१४०अ२, D.११३ब्२, N.११९ब्७, Cओ.११७ब्५, Cह्.४४२ब्१८ तत्र परोक्षविषयालम्बनानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय व्यायच्छते / प्रत्यक्षविषयालम्बनानां पुनर् अनुत्पन्नानाम् अनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यम् आरभते /
SK
तथा हि तेषां दृढतरेण वीर्यारम्भेणानुत्पत्तिः प्रहाणं वा भवति / अपि च मृदुमध्यानां पर्यवस्थानानाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां प्रहाणाय उयायच्छते / अधिमात्राणां पर्यवस्थानानाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहानाय वीर्यम् आरभते /
SK
सचेद् अतीत आलम्बने चरति, तथा चरति यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते / सचेत् पुनः स्मृतिसंप्रमोषाद् उत्पद्यते नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति / यथातीत आलम्बन एवम् अनागते ऽपि वेदितव्यम् / (Śभ् II २०४) एवम् अयम् अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादायोत्पन्नानां च प्रहाणाय ᳚व्यायच्छत᳚ इत्य् उच्यते /
SK
सचेद् अयं वर्तमान आलम्बने चरति, तथा तथा चरति यथा तेनालम्बनेन क्लेशो नोत्पद्यते / सचेत् पुनः स्मृतिसंप्रमोषाद् उत्पद्यत उत्पन्नं नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति / एवम् अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादायोत्पन्नानां च प्रहाणाय ᳚वीर्यम् आरभत᳚ इत्य् उच्यते //
SK
-II-१२-ब्-(२)-इ-(ब्)-(४) Mस्.८८अ६M, Sह्.३०९-१९, P.१४०ब्२, D.११४अ१, N.१२०अ६, Cओ.११८अ४, Cह्.४४२च्७ सन्ति पापका अकुशला धर्मा ये संकल्पवशेनोत्पद्यन्ते न विषयबलेन, सन्ति ये संकल्पबलेन च विषयबलेन च /
SK
तत्र संकल्पवशेनोत्पद्यन्ते न उइषयबलेन, तद्यथा विहरतो ऽतीतानागतालम्बनेन य उत्पद्यन्ते /
SK
तत्र संकल्पवशेन च विषयबलेन चोत्पद्यन्ते, तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते, अवश्यं तत्रायोनिशःसंकल्पो भवति //
SK
Mस्.८८अ७M, Sह्.३१०-४, P.१४०ब्५, D.११४अ३, N.११८अ६, Cओ.१२०ब्२, Cह्.४४२च्१३ तत्र ये संकल्पबलेनोत्पद्यन्ते तेषाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय व्यायच्छते / तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते तेषाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय वीर्यम् आरभते //
SK
-II-१२-ब्-(२)-इ-(च्) Mस्.८८अ८M, Sह्.३१०-१०, P.१४०ब्७, D.११४अ४, N.११८ब्१, Cओ.१२०ब्३, Cह्.४४२च्१७ तत्र्᳚आनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय च्छन्दं जनयती᳚ति / ये कुशला धर्मा अप्रतिलब्धा असंमुखीभूताश् च तेषां प्रतिलम्भाय संमुखीभावाय च स्पृहाम् उत्पादयति चित्तं प्रणिधत्ते, तीव्रा प्रतिलब्धुकामता संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति / अयम् ᳚अनुत्पन्नानां कुशलानां धर्माणाम् उत्पत्तये छन्दः᳚ /
SK
᳚उत्पन्नानां च कुशलानां धर्माणाम् स्थितये ऽसंमोषाय भावनापरिपूरये छन्दं जनयती᳚ति, ᳚उत्पन्नाः कुशला धर्मा᳚ ये प्रतिलब्धाः संमुखीभूताश् च / तत्र प्रतिलम्भाविगमं प्रतिलब्धापारिहाणिम् अधिकृत्याह ᳚स्थितय᳚ इति / संमुखीभावाद् अधन्धायितत्वम् अधिकृत्याह ᳚असंमोषाये᳚ति / तेषाम् एव च कुशलानां धर्माणां प्रतिलब्धानां संमुखीभूतानाम् आसेवनान्वयात् परिनिष्पत्तिं निष्ठागमनम् अधिकृत्याह ᳚भावनापरिपूरय᳚ इति / तत्र च स्पृहाम् उत्पादयति चित्तं प्रणिधत्ते तीव्रा चास्य स्थितिकामता असंमोषकामता भावनापरिपूरिकामता प्रत्युपस्थिता भवति / अयम् उच्यत ᳚उत्पन्नानां कुशलानां धर्माणां स्थितये ऽसंमोषाय भावनापरिपूरये छन्दः᳚ //
SK
Mस्.८८ब्३M, Sह्.३११-७, P.१४१अ६, D.११४ब्२, N.११८ब्६, Cओ.१२१अ२, Cह्.४४३अ२ तत्र ᳚व्यायच्छत᳚ इति प्रतिलब्धानां संमुखीभावाय / ᳚वीर्यम् आरभते᳚ ऽप्रतिलब्धानां प्रतिलम्भाय /
SK
तत्र ᳚व्यायच्छत᳚ उत्पन्नानां स्थितये ऽसंमोषाय / ᳚वीर्यम् आरभते᳚ भावनापरिपूरये /
SK
अपि च मृदुमध्यानां कुशलानां धर्माणाम् अनुत्पन्नानाम् उत्पादाय, उत्पन्नानां च स्थितये ऽसंमोषाय व्यायच्छते / अधिमात्राणां कुशलानां धर्माणाम् अनुत्पन्नानाम् उत्पादाय, उत्पन्नानां च यावद् भावनापरिपूरये वीर्यम् आरभते /
SK
तत्र ᳚चित्तं प्रगृह्णाति᳚ / यदा तच् चित्तं शमथभावनायाम् एकाग्रतायां प्रयुक्तं भवति, अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय, (Śभ् II २०८) एवं विस्तरेण यावद् उत्पन्नानां कुशलानां धर्माणां स्थितये ऽसंमोषाय भावनापरिपूरये तच् च तथाध्यात्मम् अभिसंक्षिप्तं लीनत्वाय परैति, लीनत्वाभिशङ्कि चैवं पश्यति / तदान्यतमान्यतमेन प्रग्राहकेण निमित्तेन प्रसदनीयेन प्रतिगृह्णाति संहर्षयति / एवं चित्तं प्रगृह्णाति /
SK
कथं ᳚प्रदधाति᳚ / पुनर् उद्धतम् औद्धत्याभिशङ्कि वा प्रग्रहकाले पश्यति, तदा पुनर् अप्य् अध्यात्मम् अभिसंक्षिपति शमथाय प्रणिदधाति //
SK
-II-१२-ब्-(२)-इ-(द्) Mस्.८८ब्७M, Sह्.३१२-१०, W.*९८-३२, P.१४१ब्६, D.११५अ१, N.१२१ब्१, Cओ.११९अ५, Cह्.४४३अ१७ तान्य् एतानि भवन्ति चत्वारि सम्यक्प्रहाणानि / कृष्णपक्ष्याणां धर्माणाम् अनुत्पन्नानाम् अनुत्पादाय, उत्पन्नानां च प्रहाणाय च्छन्दो व्यायामो वीर्यारम्भश् चित्तप्रग्रहः प्रदधनम् इमे द्वे सम्यक्प्रहाणे / शुक्लपक्ष्याणां धर्माणाम् अनुत्पन्नानाम् उत्पादाय, विस्तरेण द्वे सम्यक्प्रहाणे वेदितव्ये / तद्यथा कृष्णपक्ष्याणाम् /
SK
तत्रैकं संवरणप्रहाणम्, यद् ᳚उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय च्छन्दं जनयती᳚ति विस्तरेण /
SK
द्वितीयं प्रहाणप्रहाणम्, यद् ᳚अनुत्पन्नानाम् अनुत्पादाय च्छन्दं जनयती᳚ति विस्तरेण / उत्पन्नं हि संवरयितव्यं पापकं वस्तु, अनुत्पन्नं च यत् तद् असमुदाचारतः प्रहीणम् एव तद् असंमुखीभावतः प्रहातव्यं इति कृत्वा, प्रहीणस्य प्रःआणं प्रहाणप्रहाणम् /
SK
तत्र भावनाप्रहाणम् एकम् / यद् आह / ᳚अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाये᳚ति विस्तरेण यावच् ᳚चित्तं प्रगृह्णाति प्रदधाती᳚ति /
SK
तथा हि कुशला धर्मा आसेव्यमाना भाव्यमाना, अप्रतिलब्धाश् च प्रतिलभ्यन्ते, प्रतिलब्धाश् च संमुखीक्रियन्ते / तत्रानुरक्षणाप्रहाणम् एकम् / यद् आह / ᳚उत्पन्नानां कुशलानां धर्माणां स्थितये᳚ विस्तरेण यावच् ᳚चित्तं प्रगृह्णाति, प्रदधाति᳚ / तथा हि प्रतिलब्धेषु संमुखीकृतेषु च कुशलेषु धर्मेषु या प्रमादवर्जना अप्रमादनिषेवणा च सा कुशलानां धर्माणां स्थितये, असंमोषाय, भावनापरिपूरये संवर्तते / एवम् उत्पन्नाः कुशला धर्मा अनुरक्षिता भवन्ति / अयं तावत् सम्यक्प्रहाणानां विस्तरविभागः //
SK
-II-१२-ब्-(२)-इइ Mस्.८९अ३R, Sह्.३१३-१४, P.१४२अ८, D.११५ब्२, N.१२२अ२, Cओ.११९ब्५, Cह्.४४३ब्८ समासार्थः पुनः कतमः / आह / कृष्णशुक्लपक्षिकस्य त्यागादानवस्तुनो ऽध्याशयसंपत् प्रयोगसंपच् च परिदीपिता भवति / तत्राध्याशयसंपच् छन्दजननतया, प्रयोगसंपत् पुनर् व्यायामवीर्यारम्भचित्तप्रग्रहप्रदधनैः / एतावच् च योगिना करणीयम् / यत् प्रहातव्यस्य वस्तुनः प्रहाणाय प्राप्तव्यस्य च वस्तुनः प्राप्तये पूर्वम् एव स्पृहाजातेन भवितव्यम्, पर्यवस्थानप्रहाणाय वीर्यम् आरब्धव्यम् अनुशयप्रहाणाय च, कालेन कालं शमथप्रग्रहोपेक्षानिमित्तानि भावयितव्यानि (Śभ् II २१२) / पर्यवस्थानप्रहाणानुशयप्रहाणाय च ये प्रतिपक्षिका धर्माः कुशलास् ते समुदानयितव्याः / तच् चैतत् सर्वं चतुर्भिः सम्यक्प्रहाणैः परिदीपितं भवति / अयं समासार्थः //
SK
-II-१२-ब्-(३) Mस्.८९अ६M, Sह्.३१४-५, P.१४२ब्५, D.११५ब्६, N.१२२अ६, Cओ.१२०अ२, Cह्.४४३ब्१८ तत्र चत्वारः समाधयः / तद्यथा छन्दसमाधिः, वीर्यसमाधिः, चित्तसमाधिः, मीमांसासमाधिश् च /
SK
तत्र च्छन्दम् अधिपतिं कृत्वा यः प्रतिलभ्यते समाधिर् अयं छन्दसमाधिः / वीर्यम्, चित्तम्, मीमांसाम् अधिपतिं कृत्वा यः प्रतिलभ्यते समाधिर् अयं मीमांसासमाधिः //
SK
-II-१२-ब्-(३)-इ-(अ) Mस्.८९अ७R, Sह्.३१५-४, P.१४२ब्७, D.११५ब्७, N.१२२ब्१, Cओ.१२०अ४, Cह्.४४३ब्२३ यदा तावद् अयं छन्दम् एव केवलं जनयति / छन्दजातश् च तान् पापकान् अकुशलान् धर्मान् स्वभावतो निदानत आदीनवतः प्रतिपक्षतश् च सम्यग् एवोपनिदध्याति, एकाग्रां स्मृतिं प्रवर्तयति / एवं कुशलान् धर्मान् स्वभावतो निदानतो ऽनुशंसतो निःसरणतः सम्यग् एवोपनिदध्याति, एकाग्रां स्मृतिम् अवस्थापयति, तद्बहुलाकाराद् एकाग्रताम् स्पृशति पर्यवस्थानसमुदाचारदूरीकरणयोगेन / न त्व् अद्याप्य् अनुशयं (Śभ् II २१४) समुद्घातयति पापकानाम् अकुशलानां धर्माणाम् / अयम् अप्य् उच्यते छन्दाधिपतेयः //
SK
-II-१२-ब्-(३)-इ-(ब्) Mस्.८९ब्२M, Sह्.३१६-१०, P.१४३अ३, D.११६अ३, N.१२२ब्४, Cओ.१२०अ७, Cह्.४४३ब्२९ स अतीते वानागतप्रत्युत्पन्ने वा पुनर् आलम्बने पापकाकुशलधर्मस्थानीये मृदुमध्याधिमात्रक्लेशपर्यवस्थानीये, अनुत्पन्नस्य वानुत्पादाय, उत्पन्नस्य वा प्रहाणाय, व्यायच्छमानो वीर्यम् आरभमाणः / तत्रालम्बने विचरतः, तस्य वालम्बनस्य स्वभावतो निदानत आदीनवतः प्रतिपक्षतश् च सम्यग् उपनिध्यायतः, एकाग्रां स्मृतिम् उपस्थापयतः, यत् तद्बहुलविहारिणश् चित्तैकाग्रता उत्पद्यते पर्यवस्थानसमुदाचारदूरीकरणयोगेन / न त्व् अद्याप्य् अनुशयं समुद्घातयति पापकानाम् अकुशलानां धर्माणाम् / अयं वीर्याधिपतेयः समाधिः //
SK
-II-१२-ब्-(३)-इ-(च्) Mस्.८९ब्४M, Sह्.३१६-१९, P.१४३अ७, D.११६अ६, N.१२२ब्७, Cओ.१२०ब्३, Cह्.४४३च्८ लीनं वा पुनश् चित्तं प्रगृह्णतः, प्रगृहीतं चित्तं समादधतः, कालेन च कालम् अध्युपेक्षितो यत् पापकाकुशलान् धर्मान् पापकाकुशलधर्मस्थानीयान्वयान्, कुशलाकुशलान् धर्मान् कुशलाकुशलस्थानीयांश् च धर्मान् स्वभावतो निदानत आदीनवतो ऽनुशंसतः प्रतिपक्षतो निःसरणतः, सम्यग् उपनिध्यायतः, एकाग्रां स्मृतिम् उपस्थापयतः, (Śभ् II २१६) तद्बहुलविहारिणो या उत्पद्यन्ते चित्तस्यैकाग्रता / विस्तरेण यावत् / अयम् उच्यते चित्ताधिपतेयः समाधिः //
SK
-II-१२-ब्-(३)-इ-(द्) Mस्.८९ब्५R, Sह्.३१७-८, P.१४३ब्३, D.११६ब्२, N.१२३अ३, Cओ.१२०ब्६, Cह्.४४३च्१५ तत्र ये पापकाकुशलधर्मस्थानीया धर्मा भवन्त्य् अयोनिशोमनसिकुर्वतः / त एव कुशलधर्मस्थानीया भवन्ति योनिशोमनसिकुर्वतः / तस्यैवं पर्यवस्थानेषु दूरीकृतेषु, पर्यवस्थानप्रतिपक्षिकेषु च समाधिप्रमुखेषु धर्मेष्व् उत्पन्नेषु, ते पापका अकुशला धर्मा न समुदाचरन्ति /
SK
तस्यैवं भवति / ᳚किं सतः संविद्यमानान् पापकान् अकुशलान् धर्मान् न प्रतिसंवेदयाम्य् आहोस्विद् असतो ऽसंविद्यमानान् यन् न्व् अहं परिमीमांसेयम्᳚ / स मीमांसामनस्कारम् अधिपतिं कृत्वा प्रहीणाप्रहीणतां मीमांसते, सम्यग् एवोपनिध्यायति, एकाग्राम् स्मृतिम् उपस्थापयति / तद्बहुलविहारी च स्पृशति चित्तस्यैकाग्रताम् / येन निरभिमानो भवति / ᳚पर्यवस्थानमात्रकान् मे चित्तं विमुक्तं न तु सर्वेण सर्वम् अनुशयेभ्यः, तत्प्रतिपक्षाश् च मे समाधिप्रमुखाः कुशला धर्माः प्रतिलब्धा, भाविता, न त्व् अनुशयप्रातिपक्षिका᳚ इति यथाभूतं प्रजानाति / अयम् अस्योच्यते मीमांसासमाधिः //
SK
-II-१२-ब्-(३)-इ-(ए) Mस्.९०अ१R, Sह्.३१८-५, P.१४४अ२, D.११६ब्७, N.१२३ब्२, Cओ.१२१अ४, Cह्.४४३च्२९ स तं चतुर्विधं समाधिम् अधिपतिं कृत्वा पर्यवस्थानेषु दूरीकृतेषु, सर्वेण सर्वम् अनुशयसमुद्घाताय पापकानाम् अकुशलानां धर्माणां तत्प्रातिपक्षिकाणाञ् च कुशलानां धर्माणां समुदागमाय पुनर् अपि छन्दं जनयति व्यायच्छत इति विस्तरेण चतुर्भिः सम्यक्प्रहाणैः प्रयुज्यते //
SK
-II-१२-ब्-(३)-इइ-(अ) Mस्.९०अ२R, Sह्.३१८-१०, W*.९९-१, P.१४४अ४, D.११७अ२, N.१२३ब्४, Cओ.१२१अ५, Cह्.४४४अ४ तथाप्रयुक्तस्य तथाभूतस्याष्टौ प्रःआणसंस्कारा भवन्ति / ये ऽस्यानुशयसमुद्घाताय च प्रवर्तन्ते समाधिपरिपूरये च /
SK
तद्यथा छन्दः ᳚कदाचित् समाधिं परिपूरयिष्यामि, अनुशयांश् च प्रहास्यामि पापकानाम् अकुशलानां धर्माणाम्᳚ /
SK
व्यायामो यावत् प्रतिपक्षभावनायाम् अविन्यस्तप्रयोगता /
SK
श्रद्धा या अविन्यस्तप्रयोगस्य विहरत उत्तरे ऽधिगमे श्रद्दधानता, अभिसंप्रत्ययः /
SK
तत्र प्रश्रब्धिर् यच् छ्रद्धाप्रसादपूर्वंगमं प्रामोद्यं प्रीतिः, प्रीतमनसश् चानुपूर्वा पापकाकुशलधर्मपक्षस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धिः / तत्र स्मृतिर् या नवाकारा, नवाकारायाश् चित्तस्थितेः शमथपक्ष्यायाः संग्राहिका /
SK
तत्र संप्रजन्यम् या विपश्यनापक्ष्या प्रज्ञा /
SK
तत्र चेतना यश् चित्ताभिसंस्कारः प्रहीणाप्रहीणतां मीमांसमानस्य यश् चित्ताभिसंस्कारः शमथविपश्यनानुकूलः कायकर्म वाक्कर्म समुत्थापयति /
SK
तत्रोपेक्षा यातितानागतप्रत्युत्पन्नेषु पापकाकुशलधर्मस्थानीयेषु चरतश् चित्तासंक्लेशा चित्तसमता / आभ्यां द्वाभ्यां कारणाभ्यां प्रहीणताम् अनुशयानां परिच्छिनत्ति जानाति / यदुत विषयविपरोक्षया चेतनया विषयाविपरोक्षया चोपेक्षया /
SK
इमे ऽष्टौ प्रहाणसंस्कारा भवन्ति //
SK
-II-१२-ब्-(३)-इइ-(ब्) Mस्.९०अ६M, Sह्.३२०-१७, W.*९९-२१, P.१४४ब्४, D.११७ब्१, N.१२४अ३, Cओ.१२१ब्५, Cह्.४४४अ२१ स चैषो ऽष्टप्रहाणसंस्कारयोगो भवत्य् अनुशयसमुद्घाताय / तत्र छन्दश् छन्द एव, यो व्यायाम इदं वीर्यम्, या श्रद्धा सा श्रद्धा, या च प्रश्रब्धिर् या च स्मृतिर् यच् च संप्रजन्यं या च चेतना या चोपेक्षा अयम् उपायः / तद् इदं सर्वम् अभिसमस्य, ये च पूर्वकाश् छन्दसमाधयः, ये चेमे प्रहाणसंस्काराः प्रहीणेष्व् अनुशयेषु परिनिष्पन्ने समाधौ, छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्य् उच्यते / वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्य् उच्यते /
SK
-II-१२-ब्-(३)-इइइ Mस्.९०ब्१L, Sह्.३२१-५, W.१००-१, P.१४४ब्८, D.११७ब्४, N.१२४अ७, Cओ.१२१ब्७, Cह्.४४४अ२९ केन कारणेन ऋद्धिपाद इत्य् उच्यते / आह / तद्यथा यस्य पादः संविद्यते सो ऽभिक्रमप्रतिक्रमपराक्रमसमर्थो भवति / एवम् एव यस्यैते धर्माः संविद्यन्ते, एष च समाधिः संविद्यते परिपूर्णः, स एवं परिशुद्धे चित्ते, पर्यवदाते, अनङ्गणे, विगतोपक्लेशे, ऋजुभूते, कर्मण्यस्थिते, आनिञ्ज्यप्राप्ते, अभिक्रमप्रतिक्रमपराक्रमसमर्थो भवति, लोकोत्तराणां धर्माणां प्राप्तये स्पर्शनायै / एषा हि परा ऋद्धिः परा समृद्धिः, यदुत लोकोत्तरा धर्माः / तेनोच्यत ऋद्धिपाद इति //
SK
-II-१२-ब्-(४)-इ-(अ) Mस्.९०ब्२R, Sह्.३२१-१५, P.१४५अ३, D.११७ब्७, N.१२४ब्३, Cओ.१२२अ३, Cह्.४४४ब्८ स एवं समाधिप्रतिष्ठितः समाधिं निश्रित्याधिचित्तंशिक्षायाम् अधिप्रज्ञंशिक्षायां योगं करोति / तत्रास्य योगं कुर्वतः परेषां चाधिगमे शास्तुः श्रावकाणां च यो ऽभिसंप्रत्ययः प्रसादः / श्रद्दधानता अधिपत्यर्थेन श्रद्धेन्द्रियम् इत्य् उच्यते /
SK
कुत्र पुनर् अस्याधिपत्यम् / आह / लोकोत्तरधर्मोत्पत्तिप्रमुखानां वीर्यस्मृतिसमाधिप्रज्ञानाम् उत्पत्तय आधिपत्यम् / ये ऽपि ते वीर्यादयस् तेषाम् अपि लोकोत्तरधर्मोत्पत्तय आधिपत्यम् / यावत् प्रतिपत्तय आधिपत्यम् / यावत् प्रज्ञाया लोकोत्तरधर्मोत्पत्तय आधिपत्यम् / तेनैतानि श्रद्धादीनि पञ्चेन्द्रियाणि भवन्ति //
SK
-II-१२-ब्-(४)-इ-(ब्) Mस्.९०ब्४M, Sह्.३२२-११, P. १४५अ८, D.११८अ४, N.१२४ब्६, Cओ.१२२अ७, Cह्.४४४ब्१७ या पुनः पूर्वेणापरं विशेषाधिगमं संजानतस् तदनुसारेण तदुत्तरलोकोत्तरधर्माधिगमायाभिसंप्रत्ययः प्रसादः श्रद्दधानता / सा अनवमृद्यतार्थेन श्रद्धाबलम् इत्य् उच्यते / केन पुनर् न शक्यते ऽवमृदितुम् / असंहार्या सा श्रद्धा देवेन वा, मारेण वा, ब्रह्मणा वा, केनचिद् वा पुनर् लोके सहधर्मेण, क्लेशपर्यवस्थानेन वा / तेन सानवमृद्येत्य् उच्यते / तत्प्रमुखास् तत्पूर्वंगमा ये वीर्यादयस् ते ऽपि बलानीत्य् उच्यन्ते / तैः स बलैर् बलवान् सर्वं मारबलं विजित्य प्रयुज्यत आस्रवाणां क्षयाय / तस्माद् बलानीत्य् उच्यन्ते //
SK
-II-१२-ब्-(४)-इइ Mस्.९०ब्६M, Sह्.३२३-७, W.*१००-२२, P.१४५ब्३, D.११८अ७, N.१२५अ३, Cओ.१२२ब्३, Cह्.४४४ब्२६ तत्र यच् च श्रद्धेन्द्रियं यच् च श्रद्धाबलं चतुर्ष्व् एतद् अवेत्यप्रसादेषु द्रष्टव्यम् / तत् कस्य हेतोः / यो ऽसौ सम्यक्त्वन्यामावक्रान्तस्यावेत्यप्रसादः स तद्धेतुकस् तत्प्रत्ययस् तन्निदानः / तस्माद् धेतुफलसंबन्धेन तस्यास् तद् अधिपतिफलम् इति कृत्वा तत्र द्रष्टव्यम् इत्य् उक्तं भगवता, न तु तच्छरीरता तल्लक्षणता /
SK
तत्र वीर्येन्द्रियं चतुर्षु सम्यक्प्रहाणेषु द्रष्टव्यम् / तत् कस्य हेतोः / यानि कतमानि सम्यक्प्रहाणानि / यानि दर्शनप्रहातव्यक्लेशप्रहाणाय प्रायोगिकाणि सम्यक्प्रहाणानि, तान्य् अत्र सम्यक्प्रहाणान्य् अभिप्रेतानि / तानि ह्य् अत्यन्ततायै पापकानाम् अकुशलानां धर्माणां प्रहाणाय संवर्तन्ते /
SK
तत्र स्मृतीन्द्रियं चतुर्षु स्मृत्युपस्थानेषु द्रष्टव्यम् / इतीमानि चत्वारि स्मृत्युपस्थानान्य् अशेषविपर्यासप्रहाणाय संवर्तन्ते /
SK
तत्र समाधीन्द्रियं चतुर्षु ध्यानेषु द्रष्टव्यम् / यानि ध्यानान्य् अनागामितायां प्रायोगिकाणि /
SK
तत्र प्रज्ञेन्द्रियं चतुर्ष्व् आर्यसत्येषु द्रष्टव्यम् / इति यत् सत्यज्ञानं चतुर्णाम् आर्यसत्यानाम् अभिसमयाय संवर्तते श्रामण्यफलप्राप्तये / यथेन्द्रियाण्य् एवं बलानि वेदितव्यानि //
SK
-II-१२-ब्-(४)-इइइ Mस्.९१अ२R, Sह्.३२४-८, W.*१०१-५, P.१४६अ३, D.११८ब्६, N.१२५ब्२, Cओ.१२३अ२, Cह्.४४४च्१० स एषाम् इन्द्रियाणाम् एतेषां च बलानाम् आसेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयान् निर्वेधभागीयानि कुशलमूलान्य् उत्पादयति मृदुमध्याधिमात्राणि / तद्यथोष्मगतानि मूर्धानः सत्यानुलोमाः क्षान्तयो लौकिकाग्रधर्माः /
SK
तद्यथा कश्चिद् एव पुरुषो ऽग्निनाग्निकार्यं कर्तुकामो ऽग्निनार्थ्य् अधरारण्याम् उत्तरारणिं प्रतिष्ठाप्याभिमथ्नन्न् उत्सहते घटते व्यायच्छते / तस्योत्सहतो घटतो व्यायच्छतश् च तत्प्रथमतो ऽधरारण्याम् ऊष्मा जायते / सैव चोष्माभिवर्धमाना ऊर्ध्वम् आगच्छति /
SK
भूयस्या मात्रयाभिवर्धमाना निरर्चिषम् अग्निं पातयति, अग्निपतनसमनन्तरम् एव चार्चिर् जायते / यथार्चिषोत्पन्नया जातया संजातयाग्निकार्यं करोति / यथाभिमन्थनव्यायाम एवं पञ्चानाम् इन्द्रियाणाम् आसेवना द्रष्टव्या / यथाधरारण्या तत्प्रथमत एवोष्मगतं भवत्य्, एवम् ऊष्मगतानि द्रष्टव्यानि / पूर्वंगमानि निमित्तभूतान्य् अग्निस्थानीयानाम् अनास्रवाणां धर्माणां क्लेशपरिदाहकानाम् उत्पत्तये / यथा तस्यैवोष्मण ऊर्ध्वम् आगमनम् एवं मूर्धानो द्रष्टव्याः / यथा धूमप्रादुर्भाव एवं सत्यानुलोमाः क्षान्तयो द्रष्टव्याः / यथाग्नेः पतनं निरर्चिष एवं लौकिकाग्रधर्मा द्रष्टव्याः / यथा तदनन्तरम् अर्चिष उत्पाद एवं लोकोत्तरानास्रवा धर्मा द्रष्टव्याः / ये लौकिकाग्रधर्मसंगृहीतानां पञ्चानाम् इन्द्रियाणां समनन्तरम् उत्पद्यन्ते //
SK
-II-१२-ब्-(५) Mस्.९१अ६R, Sह्.३२५-१७, P.१४६ब्५, D.११९अ६, N.१२६अ४, Cओ.१२३ब्२, Cह्.४४४च्२९ ते पुनः कतमे / आह / सप्तबोध्यङ्गानि / यो ऽसौ यथाभूतावबोधः सम्यक्त्वन्यामावक्रान्तस्य पुद्गलस्य तस्यैतान्य् अङ्गानि / स हि यथाभूतावबोधः सप्ताङ्गपरिगृहीतः, त्रिभिः शमथपक्ष्यैः, त्रिभिर् विपश्यनापक्ष्यैः, एकेनोभयपक्ष्येण / तस्माद् बोध्यङ्गानीत्य् उच्यन्ते /
SK
तत्र यश् च धर्मविचयः, यच् च वीर्यम्, या च प्रीतिर् इतीमानि त्रीणि विपश्यनापक्ष्याणि / तत्र या च प्रस्रब्धिः, यश् च समाधिः, या चोपेक्षा (Śभ् II २३०) इतीमानि त्रीणि शमथपक्ष्याणि / स्मृतिर् उभयपक्ष्या सर्वत्रगेत्य् उच्यते / स तस्मिन् समये तत्प्रथमतो बोध्यङ्गलाभाच् छैक्षो भवति दृष्टपदः //
SK
-II-१२-ब्-(६) Mस्.९१ब्१R, Sह्.३२६-१०, P.१४७अ१, D.११९ब्२, N.१२६अ७, Cओ.१२३ब्५, Cह्.४४५अ८ दर्शनप्रहातव्याश् चास्य क्लेशाः प्रहीणा भवन्ति, भावनाप्रहातव्याश् चावशिष्टाः / स तेषां प्रहाणाय त्रिस्कन्धम् आर्याष्टाङ्गं मार्गं भावयति /
SK
तत्र या च सम्यग्दृष्टिर्, यश् च सम्यक्संकल्पः, यश् च सम्यग्व्यायामः, अयं प्रज्ञास्कन्धः / तत्र ये सम्यक्वाक्कर्मान्ताजीवाः, अयं शीलस्कन्धः / तत्र या च सम्यक्स्मृतिः, यश् च सम्यक्समाधिः, अयं समाधिस्कन्धः /
SK
केन कारणेनार्याष्टाङ्गो मार्ग इत्य् उच्यते / आह / आर्यस्य शैक्षस्य दृष्टपदस्यायं मार्ग इयं प्रतिपद् अष्टाभिर् अङ्गैः संगृहीतः, अपरिशेषः सर्वक्लेशप्रहाणाय विमुक्तिसाक्षात्क्रियायै / तेनोच्यत आर्याष्टाङ्गो मार्गः //
SK
-II-१२-ब्-(६)-इ Mस्.९१ब्३M, Sह्.३२७-१३, P.१४७अ५, D.११९ब्६, N.१२६ब्४, Cओ.१२४अ२, Cह्.४४५अ१५ तत्र यश् च बोध्यङ्गकाले तत्त्वावबोधः प्रतिलब्धः, प्रतिलभ्य च यत् तस्यैव प्रज्ञया व्यवस्थानं करोति यथाधिगतस्यावबोधस्य, तद् उभयम् एकध्यम् अभिसंक्षिप्य सम्यग्दृष्टिर् इत्य् उच्यते /
SK
तां सम्यग्दृष्टिम् अधिपतिं कृत्वा यन् नैष्क्रम्यसंकल्पं संकल्पयत्य् अव्यापादसंकल्पम् अविहिंसासंकल्पम् / अयम् उच्यते सम्यक्संकल्पः /
SK
सचेत् तावद् वितर्केषु चित्तं क्रामति, स एवंरूपान् वितर्कान् वितर्कयति / सचेत् पुनः कथायां चित्तं क्रामति, सम्यग्दृष्टिम् अधिपतिं कृत्वा तेनैव कुशलात् संकल्पाद् धर्म्यां कथां कथयति / सास्य भवति सम्यग्वाक् /
SK
सचेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् अर्थी (Śभ् II २३२) भवति, तत्पर्येषणां वापद्यते / सो ऽभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवत्य् आलोकितव्यवलोकिते, संमिञ्जितप्रसारिते सांघाटीचीवरपात्रधारणे ऽशितपीतखादितास्वादिते / विहारगतो वा पुनः पर्येषितेषु चीवरादिषु गते स्थिते निषण्णे यावन् निद्राक्लमप्रतिविनोदने संप्रजानद्विहारी भवति / अयम् अस्योच्यते सम्यक्कर्मान्तः /
SK
स तच् चीवरं यावद् भैषज्यपरिष्कारं धर्मेण पर्येषते / यावन् मिथ्याजीवकरकधर्मविवर्जितः / सो ऽस्य भवति सम्यगाजीवः /
SK
ये पुनर् विरतिसंगृहीताः सम्यग्वाक्कर्मान्ताजीवाः, ते ऽनेन पूर्वम् एव मनस्कारलाभाद् बोध्यङ्गैर् एव सह लब्धा भवन्ति /
SK
यो ऽप्य् आर्यकान्तानि शीलान्य् उच्यन्ते / केन कारणेन / दीर्घकालं ह्य् एतद् आर्याणां सतां सम्यग्गतानाम् इष्टं कान्तं प्रियं मन-आपं ᳚कच्चिद् अहं तद् वाग्दुश्चरितस्य कायदुश्चरितस्य मिथ्याजीवस्याकरणं संवरं प्रतिलभेयम्᳚ / यद् अस्य दीर्घरात्रम् इष्टं कान्तं प्रियं मन-आपं तद् अनेन तस्मिन् समये प्रतिलब्धं भवति / तस्माद् आर्यकान्तम् इत्य् उच्यते / तथा हि स लब्धेष्व् आर्यकान्तेषु शीलेषु, न संप्रजानो म्र्षां वाचं भाषते, न संचिन्त्य प्राणिनं जीविताद् व्यपरोपयति, नादत्तम् आदत्ते, (Śभ् II २३४) न कामेषु मिथ्या चरति, न चाधर्मेण चीवरादीनि पर्येषते / इति तान्य् आर्यकान्तानि शीलान्य् अधिपतिं कृत्वा मार्गभावनाकाले या वाक् प्रवर्तते यच् च कायकर्म यश् चाजीवः, ते ऽपि सम्यग्वाक्कर्मान्ताजीवा इत्य् उच्यन्ते /
SK
तस्य सम्यग्दृष्टिसम्यक्संकल्पवाक्कर्मान्ताजीवसन्निश्रयेण भावनाप्रयुक्तस्य यच् छन्दो वीर्यो व्यायामो निष्क्रमः पराक्रमस्थामारम्भश् चेतसः संप्रग्रहः सातत्यम् / अयम् उच्यते सम्यग्व्यायामः / यच् चत्वारि स्मृत्युपस्थानान्य् अधिपतिं कृत्वाविपर्याससंगृहीता स्मृतिर् नवाकारा नवाकारचित्तस्थितिसंग्राहिका / इयम् उच्यते सम्यक्स्मृतिः सम्यक्समाधिश् च //
SK
-II-१२-ब्-(६)-इइ Mस्.९२अ४L, Sह्.३३०-१, P.१४८अ७, D.१२०ब्६, N.१२७ब्५, Cओ.१२५अ३, Cह्.४४५ब्१६ तद् एतत् सर्वम् अभिसमस्यार्याष्टाङ्गो मार्गश् चारकरणीये च विहारकरणीये चावस्थितः / तत्र सम्यग्वाक्कर्मान्ताजीवाश् चारकरणीये / विहारकरणीयं पुनर् द्विविधम् / शमथो विपश्यना च / तत्र या च सम्यग्दृष्टिः, यश् च सम्यक्संकल्पः, यश् च सम्यग्व्यायाम इयं विपश्यना / तत्र या च सम्यक्स्मृतिर् यश् च सम्यक्समाधिर् अयं शमथः /
SK
एवं परिशुद्धान् वाक्कर्मान्ताजीवान् निश्रित्य शमथविपश्यनां भावयति कालेन कालं निरवशेषसंयोजनप्रहाणं साक्षात्करोत्य् अग्रफलम् अर्हत्त्वं (Śभ् II २३६) प्राप्नोति / प्राकर्षिकश् च भावनामार्गः कालान्तराभ्यासेन क्लेशान् प्रजहाति / ज्ञानमात्रप्रतिबद्धस् तु दर्शनमार्गो ज्ञानोत्पत्तिमात्रकेण क्लेशान् प्रजहाति / अनेन कारणेन वाक्कर्मान्ताजीवा भावनामार्गे व्यवस्थापिताः /
SK
इति य एवम् एषाम् अनयानुपूर्व्या सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अभ्यासः परिचयः / इयम् उच्यते बोधिपक्ष्या भावना //
SK
(II)-A-II-१३-अ Mस्.९२अ७M, Sह्.३३१-१, W.M०२-४, P.१४८ब्५, D.१२१अ५, N.१२८अ४, Cओ,१२५ब्१, Cह्.४४५ब्२९ तत्र भावनाफलं कतमत् / आह / चत्वारि श्रामण्यफलानि / स्रोत-आपत्तिफलं सकृदागामिफलम् अनागामिफलम् अग्रफलम् अर्हत्त्वम् /
SK
तत्र कतमच् छ्रामण्यम्, कतमत् फलम् / आह / मार्गः, क्लेशप्रहाणं फलम् / अपि च पूर्वोत्पन्नस्य मार्गस्य पश्चाद् उत्पन्नो मार्गः फलं मध्यो विशिष्टो वा सदृशो वा / पुनस् तत्र केन कारणेन चत्वारि व्यवस्थापितानि / आह / चतुर्विधक्लेशप्रहाणप्रतिपक्षतया //
SK
-II-१३-अ-(१) Mस्.९२ब्१R, Sह्.३३२-३, P.१४८ब्७, D.१२१अ७, N.१२८अ६, Cओ.१२५ब्३, Cह्.४४५च्५ तद्यथा निर्वस्तुकानां क्लेशानाम् अपायगमनीयानाम् अपायगमनहेतुभूतानां प्रहाणात् प्रतिपक्षोत्पादाच् च स्रोत-आपत्तिफलं व्यवस्थापितम् / त्रयाणां तु संयोजनानां प्रहाणाद् व्यवस्थापितं भगवता त्रिषु पक्षेषु, गृहिपक्षे, दुराख्यातधर्मविनयपक्षे स्वाख्यातधर्मविनयपक्षे च, त्रयाणां संयोजनानां मार्गोत्पत्तये विबन्धकरत्वात् /
SK
तत्र गृहिपक्षे सत्कायदृष्टिः, ययायम् आदित एव न प्रयुज्यत इत्य् आदित उत्त्रासिका सत्कायदृष्टिः /
SK
दुराख्याते धर्मविनये शीलव्रतपरामर्शः, उच्चलितो ऽपि मिथ्यां प्रतिपादयति येनार्यमार्गो नोत्पद्यते /
SK
स्वाख्याते धर्मविनये विचिकित्सा, तत्रोच्चलितश् च भवति, न च मिथ्याप्रतिपन्नो ऽपि त्व् अनभ्यासात् तस्य यावद् यथाभूतदर्शनं न भवति ज्ञेये वस्तुनि तावत् काङ्क्षा विमतयो विबन्धकरा भवन्ति (Śभ् II २४०) मार्गस्योत्पत्तये /
SK
अनेन तावत् कारणेन स्रोत-आपत्तिफलव्यवस्थानम् //
SK
-II-१३-अ-(२) Mस्. ९२ब्४R, Sह्.३३३-१, P.१४९अ५, D.१२१ब्५, N.१२८ब्४, Cओ.१२६अ१, Cह्.४४५च्१७ तस्यास्य स्रोत-आपन्नस्य परं सप्त भवा अवशिष्टा भवन्ति / स चास्य जन्मप्रबन्धो यदा च जन्मप्राबन्धिकान् क्लेशान् प्रजहाति देवभवसंगृहीतान् मनुष्यभवसंगृहीतांश् च, येषां प्रहाणात् परम् एकं देवभवम् अभिनिर्वर्तयत्य् एकं मनुष्यभवम् / तस्मिन् समये सकृदागामिफलं व्यवस्थाप्यते //
SK
-II-१३-अ-(३) Mस्.९२ब्५R, Sह्.३३३-७, P.१४९अ७, D.१२१ब्६, N.१२८ब्५, Cओ.१२६अ२, Cह्.४४५च्२१ यदा तु देवभवम् एव केवलम् अभिनिर्वर्तयति, इहप्रत्यागमजन्मिकं क्लेशं प्रहाय, तदानागामिफलं व्यवस्थाप्यते //
SK
-II-१३-अ-(४) Mस्.९२ब्६L, Sह्.३३३-९, P.१४९अ७, D.१२१ब्७, N.१२८ब्६, Cओ.१२६अ३, Cह्.४४५च्२३ सर्वभवोपपत्तिसंवर्तनीयक्लेशप्रहाणाद् अग्रफलम् अर्हत्त्वफलं व्यवस्थाप्यते //
SK
-II-१३-अ-(५) Mस्.९२ब्६L, Sह्.३३४-१, P.१४९अ७, D.१२१ब्७, N.१२८ब्६, Cओ.१२६अ३, Cह्.४४५च्२४ तत् पुनः सकृदागामिफलं त्रयाणाम् संयोजनानां प्रहाणाद् रागद्वेषमोहानां च तनुत्वाद् भगवता व्यवस्थापितम्, पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामिफलम्, पर्यादाय सर्वक्लेशप्रहाणाद् अर्हत्त्वफलम् / इदम् उच्यते भावनाफलम् //
SK
-II-१३-ब् Mस्.९२ब्७L, Sह्.३३४-६, P.१४९ब्२, D.१२२अ२, N.१२९अ१, Cओ.१२६अ५, Cह्.४४५च्२८ तत्र ये रागद्वेषमोहमानवितर्कचरितेषु पुद्गलेषु पूर्वं तावच् (Śभ् II २४२) चरितविशोधन आलम्बने चरितं विशोधयितव्यं ततः पश्चाच् चित्तस्थितिम् अधिगच्छन्ति / तेषां प्रतिनियतम् एव तद् आलम्बनम् अवश्यं तैस् तेनालम्बनेन प्रयोक्तव्यम् /
SK
समभागचरितस्य तु यत्र प्रियारोहिता तत्र तेन प्रयोक्तव्यं केवलं चित्तस्थितये, न तु चरितविशुद्धये / यथा समभागचरित एवं मन्दरजस्को वेदितव्यः /
SK
अयं त्व् एषां विशेष्ः / रागादिचरितः प्रयुज्यमानश् चिरेणाधिगन्ता भवति, समभागचरितो नातिचिरेण, मन्दरजस्कस् त्व् आशु त्वरितत्वरितं चित्तस्थितिम् अधिगच्छति //
SK
-II-१३-ब्-(१) Mस्.९३अ२L, Sह्.३३४-१६, P.१४९ब्६, D.१२२अ६, N.१२९अ५, Cओ.१२६ब्१, Cह्.४४६अ८ तत्रोक्तानि पूर्वं रागादिचरितानां पुद्गलानां लिङ्गानि / समभागचरितस्य पुद्गलस्य मन्दरजस्कस्य च कतमानि लिङ्गानि / आह / समभागचरितस्य पुद्गलस्य सर्वाणि तानि लिङ्गानि संविद्यन्ते यानि रागादिचरितानाम्, तानि रागादीनि तु नाधिमात्राणि न प्रधानानि यथा रागादिचरितानाम् / समप्राप्तानि तानि भवन्ति, प्रत्ययेषु सत्सु प्रज्ञायन्ते //
SK
-II-१३-ब्-(२) Mस्.९३अ३L, Sह्.३३५-२, P.१४९ब्८, D.१२२अ७, N.१२९अ७, Cओ.१२६ब्३, Cह्.४४६अ१३ तत्र मन्दरजस्कस्य पुद्गलस्य लिङ्गानि / अनावृतो भवत्य् आदिशुद्धसंभारसंभृतः / प्रसादबहुलो मेधावी पुण्यवान् गुणान्वितश् च भवति //
SK
-II-१३-ब्-(२)-इ Mस्.९३अ३M, Sह्.३३५-५, W.*१०२-१८, P.१५०अ१, D.१२२ब्१, N.१२९ब्१, Cओ.१२६ब्४, Cह्.४४६अ१६ तत्र त्रीण्य् आवरणानि कर्मावरणं क्लेशावरणं विपाकावरणम् /
SK
तत्र कर्मावरणं पञ्चानन्तर्याणि कर्माणि / यच् चान्यद् अपि किंचित् कर्म संचेतनीयं गुरुकर्म विपक्वविपाकं मार्गोत्पत्तये निबन्धकारकम् /
SK
तत्र क्लेशावरणं तीव्रक्लेशतायतक्लेशता च / या दृष्टे धर्मे चरितविशोधनेनालम्बनविशोधनेन न शक्यते विशोधयितुम् /
SK
तत्र विपाकावरणं यत्रार्यमार्गस्याप्रवृत्तिर् अप्रचार उपपत्त्यायतने, तत्र वा विपाकम् अभिनिर्वर्तयति / यत्र वार्यमार्गस्य प्रवृत्तिः प्रचारः, तत्रोपपन्नो जडो भवत्य् एडमूको हस्तसंवाचिकः, अप्रतिबलो भवति सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुम् //
SK
-II-१३-ब्-(२)-इइ Mस्.९३अ५M, Sह्.३३५-१७, P.१५०अ५, D.१२२ब्५, N.१२९अ४, Cओ.१२६ब्७, Cह्.४४६अ२७ तत्रादिशुद्धिः शीलं च सुविशुद्धं दृष्टिश् च ऋज्वी /
SK
तत्र शीलं सुविशुद्धं दशभिः कारणैर् वेदितव्यम् /
SK
तत्र दृष्ट्यृजुता, श्रद्धां संप्रयोगात्, अधिमुक्तिसंप्रयोगात्, विगतमायाशाठ्यतया, सुचिन्तितधर्मार्थस्य निःकाङ्क्षानिर्विचिकित्साप्रयोगनिर्याणतया / (Śभ् II २४६)
SK
या दृष्टिः श्रद्धया संप्रयुक्ता, अस्माद् धर्मविनयाद् असंहार्या भवति /
SK
अधिमुक्त्या च संप्रयुक्ता, बुद्धानां बुद्धश्रावकाणां च, अचिन्त्यम् अनुभावम्, अचिन्त्यानि चोपपत्त्यायतनानि, गम्भीरां च देशनाम्, अव्याकृतवस्तु चाधिमुच्यते, नोत्त्रसति, न संत्रासम् आपद्यते /
SK
विगतमायाशाठ्या च या दृष्टिः, यया ऋजुको भवति / ऋजुकजातीयो यथानुशिष्टश् च प्रतिपद्यते, यथाभूतं चात्मानम् आविष्करोति /
SK
धर्माणां वानित्यताम् आरभ्य दुःखतां शून्यताम् अनात्मताम् अर्थः सुविचिन्तितो भवति सुतुलितः सूपपरीक्षितः, यद्धेतोर् अयं निःकाङ्क्षो भवति निर्विचिकित्सः, द्वेधापथापगतो विशेषाय परैति /
SK
इतीयं चतुराकारा दृष्टिर् यथोद्दिष्टा दृष्ट्यृजुतेत्य् उच्यते //
SK
-II-१३-ब्-(२)-इइइ Mस्.९३अ८M, Sह्.३३६-१९, P.१५०ब्३, D.१२३अ३, N.१३०अ३, Cओ.१२७अ५, Cह्.४४६ब्१२ तत्र संभारसंभृतता, विस्तरेण संभारः पूर्वम् एव निर्दिष्टः / समासतः पुनश् चतुर्विधो भवति / पुण्यसंभारो ज्ञानसंभारः पूर्वको दृष्टधार्मिकश् च /
SK
तत्र पुण्यसंभारो येनाप्य् एतर्ह्य् आनुलोमिकाः परिष्काराः प्रचुरा भवन्ति प्रदक्षिणाः, कल्याणमित्राणि च प्रतिलभते, अनन्तरायश् च प्रयुक्तस्य भवति /
SK
तत्र ज्ञानसंभारो येन मेधावी भवति, प्रतिबलः सुभाषितदुर्भाषितानां (Śभ् II २४८) धर्माणाम् अर्थम् आज्ञातुम्, लाभी भवत्य् आनुलोमिकाया धर्मदेशनायाः, अर्थदेशनायाः, अववादानुशासन्याः /
SK
तत्र पूर्वको येनैतर्हि परिपक्वानीन्द्रियाणि लभते पूर्वकुशलमूलोपचयात् /
SK
तत्र दृष्टधार्मिकस् तद्यथा कुशलो धर्मच्छन्दः, तथा परिपक्वेन्द्रियस्य शीलसंवर इन्द्रियसंवर इति विस्तरेण पूर्ववत् //
SK
-II-१३-ब्-(२)-इव् Mस्.९३ब्२R, Sह्.३३७-१४, P.१५०ब्८, D.१२३अ६, N.१३०अ७, Cओ.१२७ब्२, Cह्.४४६ब्२२ तत्र प्रसादबहुलता, न शास्तरि काङ्क्षति न विचिकित्सति प्रसीदत्य् अधिमुच्यते, यथा शास्तर्य् एवं धर्मे शिक्षायाम् / इति विस्तरेण पूर्ववत् //
SK
-II-१३-ब्-(२)-व् Mस्.९३ब्३M, Sह्.३३७-१७, P.१५१अ१, D.१२३अ७, N.१३०ब्१, Cओ.१२७ब्३, Cह्.४४६ब्२५ तत्र मेधा ययाशु धर्मम् उद्गृह्णाति, चिरेण धर्मम् अर्थं च न विस्मारयति, आशु धर्मम् अर्थं च प्रतिविध्यति //
SK
-II-१३-ब्-(२)-वि Mस्.९३ब्३R, Sह्.३३८-१, P.१५१अ२, D.१२३ब्१, N.१३०ब्१, Cओ.१२७ब्४, Cह्.४४६ब्२७ तत्र कृतपुण्यता ययाभिरूपो भवति दर्शनीयः प्रासादिको दीर्घायुर् भवति, आदेयवाक्यो महेशाख्यो ज्ञातो भवति महापुण्यो लाभी चीवरादीनाम्, सत्कृतो गुरुकृतश् च राजादीनाम् //
SK
-II-१३-ब्-(२)-विइ Mस्.९३ब्४M, Sह्.३३८-५, W.१०२-२६, P.१५१अ४, D.१२३ब्२, N.१३०ब्३, Cओ.१२७ब्५, Cह्.४४६च्२ तत्र गुणान्वित इति गुणा अल्पेच्छतादयो वेदितव्याः, यथोक्ताः श्रमणालंकारे, तैर् अयं प्रकृत्यैव समन्वागतो भवति /
SK
इतीमान्य् एवंभागीयानि मन्दरजस्कस्य पुद्गलस्य लिङ्गानि वेदितव्यानि //
SK
(II)-A-II-१४-अ Mस्.९३ब्५L, Sह्.३३८-९, W.*१०३-१, P.१५१अ५, D.१२३ब्३, N.१३०ब्४, Cओ.१२७ब्६, Cह्.४४६च्६ तत्र षट् पुद्गलपर्यायाः / कतमे षट् / तद्यथा श्रमणो ब्राह्मणो ब्रह्मचारी भिक्षुर् यतिः प्रव्रजितश् चेति //
SK
-II-१४-अ-(१) Mस्.९३ब्५M, Sह्.३३८-११, W.*१०३-७, P.१५१अ६, D.१२३ब्४, N.१३०ब्५, Cओ.१२७ब्७, Cह्.४४६च्८ तत्र चत्वारः श्रमणाः / मार्गजिनः, मार्गदेशिकः, मार्गजीवी, मार्गदूषी च /
SK
तत्र यः सुगतः स मार्गजिनः, यो धर्मवादी स मार्गदेशिकः, यः सुप्रतिपन्नः स मार्गजीवी, यो मिथ्याप्रतिपन्नः स मार्गदूषी /
SK
सुगतश् चोच्यते यो ऽशेषं रागद्वेषमोहक्षयम् अनुप्राप्तः / धर्मवादी यो रागद्वेषमोहविनयाय धर्मं देशयति / सुप्रतिपन्नो यो रागद्वेषमोहविनयाय प्रतिपन्नः / दुःशीलपापधर्मा मिथ्याप्रतिपन्नः /
SK
अपि च शैक्षाशैक्षा मार्गजिना इत्य् उच्यन्ते, दर्शनभावनाप्रहातव्यानां क्लेशानां विजयात् /
SK
तत्र तथागतो बोधिसत्त्वाश् चायत्यां बोधाय प्रतिपन्नाः / श्रावकाश् च सूत्रधरा विनयधरा मातृकाधराश् च, ये सांकेतिकं धर्मविनयं धारयन्ति, धर्मनेत्रीं प्रवर्तयन्ति / इम उच्यन्ते मार्गदेशिकाः /
SK
तत्र ये पृथग्जनकल्याणका आत्महिताय प्रतिपन्ना लज्जिनाः कौकृतिकाः शिक्षाकामाः / अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै प्रयुक्ता, भव्याश् च प्रतिबला यावद् असाक्षात्कृतस्य (Śभ् II २५२) साक्षात्क्रियायै / इम उच्यन्ते मार्गजीविनः /
SK
अप्य् एषाम् ऊष्मा येनेम आर्यस्य प्रज्ञेन्द्रियस्योत्पत्तये न मृता जीवन्तीत्य् उच्यन्ते / तेनोच्यन्ते मार्गजीविन इति /
SK
तत्र यो ऽयं पुद्गलो दुःशीलः पापधर्मा यावद् अब्रह्मचारी ब्रह्मचारिप्रतिज्ञः / अयम् उच्यते मार्गदूषी / दूषितो ऽनेन मार्गो भवति मूलत आदितः / येनायम् अभव्यो भवत्य् अप्रतिबलः, अभाजनभूतो मार्गस्योत्पत्तये, सत्यां संविद्यमानायां मार्गदेशनायां सति संविद्यमाने ऽधिगमे / तस्मान् मार्गदूषीत्य् उच्यते /
SK
इदं च संधायोक्तं भगवता / इह प्रथमः श्रमणः, इह यावच् चतुर्थः, शून्याः परप्रवादाः श्रमणैर् ब्राह्मणैश् च / यत्रार्याष्टाङ्गो मार्गः प्रज्ञायते तत्र प्रथमश्रमणस् तत्र यावच् चतुर्थ इति //
SK
-II-१४-अ-(२) Mस्. ९४अ२R, Sह्.३४०-६, W. १०३-२०, P.१५२अ२, D.१२४अ७, N.१३१ब्१, Cओ.१२८ब्३, Cह्.४४७अ६ तत्र त्रयो ब्राह्मणाः / तद्यथा जातिब्राह्मणः, संज्ञाब्राह्मणः, प्रतिपत्तिब्राह्मणश् च /
SK
तत्र जातिब्राह्मणः, यो ऽयं ब्राह्मणकुले जातो योनिजो मातृसंभूतः, उपेतो मातृतः पितृतः /
SK
तत्र संज्ञाब्राह्मण इति लोके नाम भवति संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारः /
SK
तत्र प्रतिपत्तिब्राह्मणः, यो ऽत्यन्तनिष्ठो भवति कृतार्थः / वाहिता भवन्त्य् अनेन पापका अकुशला धर्माः / यथोक्तं न कार्यं ब्राह्मणस्यास्ति कृतार्थो ब्राह्मणः स्मृत इति //
SK
-II-१४-अ-(३) Mस्.९४अ४M, Sह्,३४१-३, P.१५२अ४, D.१२४ब्२, N.१३१ब्३, Cओ.१२८ब्५, Cह्.४४७अ१३ तत्र त्रयो ब्रह्मचारिणः / तद्यथा विरतिसमादायी तदन्तरप्रहायी तदत्यन्तप्रहायी च /
SK
तत्र विरतिसमादायी, यो ब्रह्मचर्याद् मैथुनधर्मात् प्रतिविरतो भवति समादत्तशिक्षः / तत्र तदन्तरप्रहायी, यो लौकिकेन मार्गेण कामवीतरागः पृथग्जनः / तत्र तदत्यन्तप्रहायी, तद्यथानागामी, अर्हन् वा पुनः //
SK
-II-१४-अ-(४) Mस्.९४अ५L, Sह्.३४१-१०, P.१५२अ७, D.१२४ब्४, N.१३१ब्६, Cओ.१२८ब्७, Cह्.४४७अ१९ तत्र पञ्च भिक्षवः / भिक्षतीति भिक्षुः, प्रतिज्ञाभिक्षुः, संज्ञाभिक्षुः, भिन्नक्लेशत्वाद् भिक्षुः, ज्ञप्तिचतुर्थेन कर्मणोपसंपादितो भिक्षुः //
SK
-II-१४-अ-(५) Mस्.९४अ५R, Sह्.३४१-१३, P.१५२अ८, D.१२४ब्५, N.१३१ब्७, Cओ.१२९अ१, Cह्.४४७अ२१ तत्र त्रयो यतयः / दौःशील्यसंयमाद् यतिः, यो ऽकुशलात् कायवाक्कर्मणः प्रतिविरतः /
SK
विषयसंयमाद् यतिः, य इन्द्रियैर् गुप्तद्वारः, आरक्षितस्मृतिर् निपकस्मृतिर् विस्तरेण पूर्ववत् /
SK
क्लेशसंयमाद् यतिः, यस्य दर्शनभावनाप्रहातव्याः क्लेशाः प्रहीणाः, (Śभ् II २५६) उत्पन्नोत्पन्नं च छन्दवितर्कं व्यापादविहिंसावितर्कम्, अभिध्याव्यापादमिथ्यादृष्टिक्रोधोपनाहम्रक्षप्रदाशादीन्य् आपायिकानि स्थानानि नैरयिकाणि दुर्गतिगामीन्य् अश्रमणकारकाण्य् उत्पन्नोत्पन्नानि, नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति / सो ऽयं द्विविधः क्लेशसंयमो भवति / पर्यवस्थानसंयमः, अनुशयसंयमश् च //
SK
-II-१४-अ-(६) Mस्.९४अ७M, Sह्.३४२-२, P.१५२ब्५, D.१२५अ३, N.१३२अ४, Cओ.१२९अ६, Cह्.४४७ब्२ तत्र द्वौ प्रव्रजितौ / स्वाख्यातधर्मविनयो दुराख्यातधर्मविनयश् च /
SK
तत्र स्वाख्यातधर्मविनयः / भिक्षुभिक्षुणी शिक्षमाणा श्रामणेरश्रामणेरी, अपि च प्रव्राजयत्य् आत्मनः पापकान् अकुशलान् धर्मान्, स प्रव्रजित इत्य् उच्यते परमार्थतः /
SK
तत्र दुराख्यातधर्मविनयः / तद्यथा तीर्थिकपरिव्राजो निर्ग्रन्थो वा परिव्राजकः पाण्डुरक इति, यो वा पुनर् अन्यो ऽप्य् एवंभागीयः /
SK
तेनाह श्रमणो ब्राह्मणो ब्रह्मचारी भिक्षुर् यतिः प्रव्रजित इति पुद्गलपर्यायाः //
SK
-II-१४-ब् Mस्.९४अ९L, Sह्.३४२-११, W.*१०४-३३, P.१५३अ१, D.१२५अ६, N.१३२ब्१, Cओ.१२९ब्२, Cह्.४४७ब्१३ तत्राष्टौ पुद्गलाः / चत्वारि पुद्गलव्यवस्थाननिदानानि /
SK
कतमे ऽष्टौ पुद्गलाः / तद्यथा समर्थो ऽसमर्थः / उपायज्ञो ऽनुपायज्ञः / साततिको ऽसाततिकः / कृतपरिचयो ऽकृतपरिचयश् चेति /
SK
तत्र चत्वारि पुद्गलव्यवस्थाननिदानानि, एषाम् एवाष्टानां पुद्गलानां व्यवस्थानाय चत्वारि प्रभेदनिदानानि भवन्ति / तद्यथेन्द्रियप्रभेदः परिपक्वेन्द्रियो ऽपरिपक्वेन्द्रियश् च / योगप्रभेदो योगज्ञो ऽयोगज्ञश् च / प्रयोगभेदः सातत्यसत्कृत्य न सातत्यसत्कृत्य प्रयुक्तश् च / कालप्रभेदो दीर्घकालभावितमार्गो न दीर्घकालभावितमार्गश् च /
SK
इतीमे चत्वारः प्रभेदाः कथं निदानानि भवन्त्य् अष्टानां पुद्गलानां व्यवस्थानाय / तत्र यः परिपक्वेन्द्रियो ऽयं समर्थः / अपरिपक्वेन्द्रियो ऽसमर्थः / योगज्ञ उपायज्ञकुशलः / अयोगज्ञो ऽनुपायज्ञकुशल इत्य् अर्थः / सातत्यसत्कृत्य प्रयोगी साततिको निपक इत्य् उच्यते / असातत्यसत्कृत्य प्रयोग्य् असाततिको ऽनिपक इत्य् उच्यते / दीर्घकालभावितमार्गः कृतपरिचयः / न दीर्घकालभावितमार्गो ऽकृतपरिचयः /
SK
इत्य् एवम् इन्द्रियप्रभेदेन योगप्रयोगकालप्रभेदेनाष्टानां पुद्गलानां व्यवस्थानम् /
SK
यो यावत् पुद्गलो ऽपरिपक्वेन्द्रियः, स तावद् उपायज्ञो ऽपि साततिको ऽपि कृतपरिचयो ऽपि, नाराधको भवति न्याय्यस्य धर्मस्य कुशलस्य /
SK
तत्र परिपक्वेन्द्रियश् चेद् भवति न चोपायज्ञो भवति, नाराधको भवति /
SK
परिपक्वेन्द्रियो भवत्य् उपायज्ञो न सततिको न क्षिप्राभिज्ञो भवति /
SK
तत्र परिपक्वेन्द्रियो भवत्य् उपायज्ञो साततिको न कृतपरिचयः, न तावत् कृतस्वार्थो भवति कृतकृत्यः /
SK
यतश् च परिपक्वेन्द्रियो भवत्य् उपायज्ञः साततिकः कृतपरिचयश् च भवति, एवं स आराधको भवति, क्षिप्राभिज्ञश् च, कृतस्वकार्थश् च भवति कृतकृत्यः //
SK
(II)-A-II-१५ Mस्.९४ब्५L, Sह्.३४३-१०, W.*१०५-१, P.१५३ब्५, D.१२६अ१, N.१३३अ४, Cओ.१३०अ४, Cह्.४४७च्१५ तत्र चत्वारो माराः संबहुलानि मारकर्माणि वेदितव्यानि योगिना योगप्रयुक्तेन / ते च परिज्ञाय परिवर्जयितव्याः /
SK
तत्र चत्वारो माराः / तद्यथा स्कन्धमारः, क्लेशमारः, मरणमारः, देवपुत्रमारश् च / पञ्चोपादानस्कन्धाः स्कन्धमारः / त्रैधातुकावचराः क्लेशाः क्लेशमारः / तेषां तेषां सत्त्वानां तस्मात् तस्मात् सत्त्वनिकायाद् यन् मरणं कालक्रिया मरणमारः / यो ऽस्य कुशलपक्षप्रयुक्तस्य स्कन्धक्लेशमृत्युसमतिक्रमाय कामधातूपपन्नो देवपुत्र ऐश्वर्यप्राप्तः, अन्तरायम् उपसंहरति व्याक्षेपकरणे, अयम् उच्यते देवपुत्रमारः /
SK
तत्र यत्र च म्रियते, येन च म्रियते, यश् चासौ मृत्युः, येन च मृत्युं न समतिक्रामत्य् अन्तरायिकेन वस्तुना / इत्य् एतद् अधिकृत्य चत्वारो मारा व्यवस्थापिताः / तत्र पञ्चसूपादानस्कन्धेषु जातेषु वर्तमानेषु म्रियते / क्लेशाज् जनयत्य् आयत्याम्, जातश् च म्रियते / च्युतिश् च च्यवनता सत्त्वानां जीवितेन्द्रियनिरोधः कालक्रिया स्वभावत एव मृत्युः / देवपुत्रमारश् च मरणसमतिक्रमाय प्रयुक्तस्यान्तरायम् उपसंहरति / येन नैव वा शक्नोति मरणधर्मतां समतिक्रमितुम्, कालान्तरेण वा समतिक्रामति /
SK
तत्रावशगतो मारस्य भवति लौकिकमार्गवीतरागः पृथग्जन (Śभ् II २६४) इहस्थस् तत्रोपपन्नो वा / वशगतः पुनर् यो ऽवीतरागः / तत्र यो ऽवीतरगः, स एव हस्तगतो यथाकामकरणीयः / वीतरागो वा पुनर् बद्धो मारबन्धनैः, अपरिमुक्तो मारपाशैः, यस्मात् स पुनर् अप्य् आगन्ता इमां धातुम् //
SK
(II)-A-II-१६ Mस्.९४ब्९M, Sह्.३४५-२२, P.१५४अ६, D.१२६ब्२, N.१३३ब्५, Cओ.१३०ब्६, Cह्.४४८अ७ तत्र मारकर्माणि, यस्य कस्यचित् कुशलो धर्मच्छन्दः समुत्पन्नो नैष्क्रम्योपसंहितः कामग्रेधम् अधिपतिं कृत्वा प्रवर्तते, वेदितव्यं मारकर्मैतद् इति /
SK
इन्द्रियैर् गुप्तद्वारस्य विहरतः, यस्य रञ्जनीयेषु रूपेषु शब्दगन्धरसस्प्रष्टव्यधर्मेषु निमित्तग्राहितायाम् अनुव्यञ्जनग्राहितायां चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतद् इति /
SK
एवं भोजनेषु मात्रज्ञस्य विहरतः, प्रणीतेषु रसेषु छन्दरागम् अनुनयेन चित्तं प्रस्कन्दति भक्तवैषम्ये /
SK
एवं पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तस्य विहरतः, निद्रासुखे, शयनसुखे, पार्श्वसुखे चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतद् इति /
SK
तथा संप्रजानद्विहारिणो विहरतः, अभिक्रमप्रतिक्रमादिषु शिशुम् उदारवर्णं रञ्जनीयं मातृग्रामं दृष्ट्वायोनिशो निमित्तग्राहेण चित्तं प्रस्कन्दति / लोकचित्राणि वा दृष्ट्वा चित्तं प्रस्कन्दति / बह्वर्थतायां बहुकृत्यतायां चित्तं प्रस्कन्दति / तद्यथा गृहस्थप्रव्रजितैः संसर्गरामतायां पापमित्रैः सहैकव्यवसितायां दृष्ट्यनुमतये चित्तं प्रस्कन्दति / वेदितव्यं मारकर्मैतद् इति /
SK
तथा बुद्धे धर्मे संघे, दुःखे समुदये निरोधे मार्गे, इहलोके परलोके, काङ्क्षा विमतय उत्पद्यन्ते, वेदितव्यं मारकर्मैतद् इति /
SK
अरण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, महान्तं भयभैरवं पश्यति / उत्त्रासकरं रोमहर्षणम्, ब्राह्मणवेषेण वा, मनुष्यवेषेण वा, अमनुष्यवेषेण वा, कश्चिद् उपसंक्रम्यायोनिशः शुक्लपक्षाद् विच्छिन्दयति कृष्णपक्षे च समादापयति, वेदितव्यं मारकर्मैतद् इति /
SK
यदा लाभसत्कारे चित्तं प्रस्कन्दति, मात्सर्ये महेच्छतायाम् असंतुष्टौ क्रोधोपनाहकुहनालपनादिषु श्रमणालंकारविपक्षेषु धर्मेषु चित्तं प्रस्कन्दति, वेदितव्यं मारकर्मैतद् इति /
SK
इतीमान्य् एवंभागीयानि मारकर्माणि वेदितव्यानि तानि चतुर्णां माराणां यथायोगम् //
SK
(II)-A-II-१७ Mस्.९५अ५R, Sह्.३४७-९, W.*१०५-८, P.१५५अ३, D.१२७अ६, N.१३४ब्२, Cओ.१३१ब्२, Cह्.४४८ब्४ तत्र त्रिभिः कारणैः सम्यक्प्रयुक्तस्याप्य् आरम्भो विफलो भवति / तद्यथा इन्द्रियसमुदागमेन, अनुलोमाववादेन, समाधिदुर्बलतया च /
SK
इन्द्रियाणि चेन् न समुदागतानि, आनुलोमिकश् चाववादो भवति, समाधिश् च केवलवान्, एवम् अस्यारम्भो विफलो भवति /
SK
इन्द्रियाणि चेन् न समुदागतानि भवन्ति, अववादश् च नानुलोमिको भवति, समाधिश् च बलवान् भवति, एवारम्भो विफलः /
SK
इन्द्रियाणि चेत् समुदागतानि, नाववादश् चानुलोमिको भवति, समाधिश् च दुर्बलो भवति, एवारम्भो विफलः /
SK
इन्द्रियाणि चेत् समुदागतानि भवन्ति, आनुलोमिकश् चाववादो भवति, समाधिश् च दुर्बलो भवति, एवारम्भो विफलः /
SK
इन्द्रियाणि चेत् समुदागतानि भवन्ति, आनुलोमिकश् चाववादः, समाधिश् च बलवान्, एवम् अस्यारम्भः सफलो भवति / एभिस् त्रिभिः कारणैर् विफलो भवति, त्रिभिर् एव कारणैः सफलः //
SK
// उद्दानम् //
SK
पुद्गलास् तद्व्यवस्थानम् अथ आलम्बनेन च / अववादश् च शिक्षा च तथा शिक्षानुलोमिकाः / योगभ्रंशश् च योगश् च मनस्कारश् च योगिनः / करणीयं भावना च फलं पुद्गलपर्यायः / मारश् च मारकर्माणि आरम्भो विफलो भवेत् //
SK
// योगाचारभूमौ श्रावकभूमिसंगृहीतायां द्वितीयं योगस्थानम् //
SK
Aप्पेन्दिx I Aसमाहिता भूमिः
SK
Mस्. B*अ१L-B*अ६L, P. १८१ब्७-१८२ब्७, D. १५९अ६-१६०अ४, Cह्. ३४४ब्१९-च्१५, Dएल्. १३४-१३६. असमाहिता भूमिः कतमा / सा समासतो द्वादशाकारा वेदितव्या /
SK
अस्त्य् असमाहिता भूमिः स्वभावतो ऽसमाहिता तद्यथा पञ्च विज्ञानकायाः /
SK
अस्त्य् असमाहिता भूमिः प्रस्रब्धिवैकल्यात् तद्यथा कामावचाराश् चित्तचैतसिका धर्माः, सत्याम् अपि चित्तैकाग्रतायां ते चित्तचैतसिका धर्मा न प्रस्रब्ध्युपगूढाः प्रवर्तन्ते, इति येन सा असमाहितेत्य् उच्यते /
SK
अस्त्य् असमाहिता भूमिर् अनारम्भात् तद्यथा कामोपभोगिनाम् अध्यवसितानां कामेषु कामान् उपभुञ्जानानाम् /
SK
अस्त्य् असमाहिता भूमिर् विक्षेपात् तद्यथादिकर्मिकाणां समाधिप्रयुक्तानां पञ्चसु कामगुणेष्व् अनुविक्षिप्ते ऽनुविसृते चेतसि /
SK
अस्त्य् असमाहिता भूमिः संक्षेपात् तद्यथादिकर्मिकाणाम् एव समाधिप्रयुक्तानाम् अध्यात्मम् अभिसंक्षिप्ते चेतसि स्त्यानमिद्धाभिभवतः /
SK
अस्त्य् असमाहिता भूमिर् अप्रतिलम्भात् तद्यथा तेषाम् एउआदिकर्मिकाणां समाधिप्रयुक्तानां विक्षेपसंक्षेपानुपक्लिष्टे ऽपि चेतस्य् अलब्धमनस्काराणां ये चित्तचैतसिका धर्माः /
SK
अस्त्य् असमाहिता भूमिर् अपरिपूर्णत्वात् तद्यथा लब्धमनस्काराणाम् अलब्धप्रयोगनिष्ठामनस्काराणाम् अलब्धतत्फलानां च /
SK
अस्त्य् असमाहिता भूमिः संक्लेशात् तद्यथा लब्धप्रयोगनिष्ठाफलमनस्काराणाम् अन्यतमान्यतमेनास्वादादिकेनोपक्लेशेनोपक्लिष्टे चेतसि /
SK
अस्त्य् असमाहिता भूमिर् अवशित्वात् तद्यथा लब्धप्रयोगनिष्ठाफलमनस्काराणाम् (Śभ् II २७८) एवासंक्लिष्टचेतसाम् अपि समापत्तिस्थितिव्युत्थाननिमित्तेष्व् अवशिताप्राप्तानां निकामाकृच्छ्राकिसरालाभिनाम् /
SK
अस्त्य् असमाहिता भूमिर् अविशुद्धेस् तद्यथा निकामाकृच्छ्राकिसरलाभिनाम् अपि लौकिकसमापत्तॄणाम् असमुद्घातितक्लेशानुशयाश् चित्तचैतसिका धर्माः /
SK
अस्त्य् असमाहिता भूमिर् व्युत्थानात् तद्यथा प्रतिलब्धात् समाधेर् व्युत्थितस्यापरिहीणस्य /
SK
अस्त्य् असमाहिता भूमिः परिहाणेस् तद्यथा प्रतिलब्धात् समाधेः परिहीणस्य //
SK
योगाचारभूमाव् असमाहिता भूमिः समाप्ता // //
SK
Aप्पेन्दिx II Śरुतमयी भूमिः
SK
A. I-१ P.२०९अ१,D.१८२ब्२, N.१९५ब्३, Cह्.३५४अ६ [छोस् ब्दुन् पो ऽदि दग् नि ब्देन् प यङ् दग् प जि ल्त ब ब्źइन् दु म्ङोन् पर् र्तोग्स् शिङ् र्नम् पर् ग्रोल् ब योङ्स् सु र्द्सोग्स् पर् ऽग्युर् ब यिन् ते / ल्हग् म्थोङ् गि फ्योग्स् ग्सुम् स्ते / छोस् र्नम् पर् ऽब्येद् प दङ् / ब्र्त्सोन् ऽग्रुस् दङ् / द्गऽ ब दङ् / źइ ग्नस् क्यि फ्योग्स् ग्सुम् स्ते / शिन् तु स्ब्यङ्स् प दङ् / तिङ् ङे ऽद्zइन् दङ् / ब्तङ् स्ञोम्स् दङ् / ग्चिग् नि źइ ग्नस् दङ् / ल्हग् म्थोङ् गि फ्योग्स् ते / ऽदि स्त स्ते द्रन् पऽओ //
SK
A. I-२ P.२०९अ३, D.१८२ब्३, N.१९५ब्५, Cह्.३५४अ१० द्बङ् पो दङ् / ऽब्रस् बु दङ् / र्नम् पर् थर् ब लस् गङ् zअग् ब्दुन् दु र्नम् पर् ब्źअग् पर् रिग् पर् ब्य स्ते / źउग्स् पऽइ लम् ल द्बङ् पो र्तुल् पो दङ् / द्बङ् पो र्नोन् पो दद् प दङ् / छोस् क्यि र्जेस् सु ऽब्रङ् ब ग्ञिस् दङ् / ऽब्रस् बुऽइ लम् ल / दे ग्ञिस् ञिद् दद् पस् मोस् प दङ् / ल्त बस् थोब् प दङ् / स्ञोम्स् पर् ऽजुग् पऽइ स्ग्रिब् प लस् नि र्नम् पर् ग्रोल् ल / ञोन् मोङ्स् पऽइ स्ग्रिब् प लस् नि र्नम् पर् म ग्रोल् ब स्ते / लुस् क्यि म्ङोन् सुम् दु ब्येद् प दङ् / ञोन् मोङ्स् पऽइ स्ग्रिब् प लस् नि र्नम् पर् ग्रोल् ल / स्ञोम्स् पर् ऽजुग् पऽइ स्ग्रिब् प लस् नि र्नम् पर् म ग्रोल् ब स्ते / शेस् रब् क्यिस् र्नम् पर् ग्रोल् ब दङ् / स्ञोम्स् पर् ऽजुग् प दङ् / ञोन् मोङ्स् प ग्ञि गऽइ स्ग्रिब् प लस् र्नम् पर् ग्रोल् ब स्ते / ग्ञि गऽइ छ लस् र्नम् पर् ग्रोल् बऽओ //
SK
A. I-३ P.२०९अ७, D.१८२ब्६, N.१९६अ१, Cह्.३५४अ१६ र्ग्यु ग्सुम् पो र्नम् प ब्दुन् पो ऽदि दग् नि नङ् गि सेम्स् म्ञम् पर् ऽजोग् चिङ् / यङ् दग् पर् सेम्स् र्त्से ग्चिग् तु ब्येद् पर् ऽग्युर् ब स्ते / ऽजुग् पर् ब्येद् प दङ् / ग्नस् प दङ् म्थुन् प दङ् / स्दुद् पर् ब्येद् पऽओ //
SK
ऽजिग् र्तेन् पऽइ यङ् दग् पऽइ ल्त ब स्ब्यिन् प योद् दो / źएस् ब्य ब ल सोग्स् पऽइ र्नम् प दङ् / दे दग् ञिद् ल ब्र्तेन् नस् ख्यिम् ग्यि ग्नस् नि कुन् तु (zŚभ् II २८६) ग्नोद् पऽओ // ख्यिम् नि स्क्योन् यिन् नो / źएस् ब्य ब ल सोग्स् पऽइ र्नम् प स्ते / म्ङोन् पर् ब्युङ् ब दङ् ल्दन् पऽइ यङ् दग् पऽइ र्तोग् प नि ऽजुग् पर् ब्येद् पऽओ) //
SK
źउग्स् zइन् नस् यङ् दग् पऽइ ङग् दङ् / लस् दङ् ऽत्स्हो ब यङ् दग् पर् ब्लङ्स् प नि ग्नस् प दङ् म्थुन् पऽओ //
SK
ऽजुग् पर् ब्येद् पऽइ र्ग्यु दङ् / ग्नस् प दङ् म्थुन् पऽइ र्ग्यु देऽइ ऽओग् तु त्स्हुल् ब्źइन् यिद् ल ब्येद् प दङ् ल्दन् प न यङ् दग् पऽइ र्त्सोल् ब दङ् / द्रन् प गङ् यिन् प दे नि स्दुद् पर् ब्येद् पऽइ र्ग्यु यिन् पर् रिग् पर् ब्यऽओ //
SK
A. I-४ P.२०९ब्३, D.१८३अ२, N.१९६अ५, Cह्.३५४अ२३ ऽ ऽ ऽदोद् प ल ञे बर् स्प्योद् प र्नम्स् नि ऽदि ल्त बुऽइ फ्यिर् नोर् सोग्स् पर् ऽदोद् दे / ऽदि ल्तर् ब्दे ब ऽदोद् प खो नऽइ फ्यिर् यिन् ल / ब्दे ब ब्दुन् पो ऽदि दग् नि ऽफग्स् पऽइ नोर् ब्दुन् लस् ब्युङ् ब स्ते / दे दग् नि फल् पऽइ नोर् कुन् तु ब्सग्स् प थम्स् चद् क्यिस् थोब् पर् मि ऽग्युर् ब स्ते /
SK
दद् प दङ् ल्दन् पऽइ ब्दे ब दङ् / ब्दे ऽग्रोर् स्क्ये ब लस् ब्युङ् ब दङ् / ब्दग् गि छ म यिन् प ल ल्तोस् नस् / ख न म थो ब कुन् तु मि स्प्योद् पस् ऽग्योद् प मेद् प लस् ब्युङ् ब दङ् / दे ब्źइन् दु ग्źअन् ग्यिस् स्मद् प ल ल्तोस् प दङ् / छोस् दङ् दोन् लेग्स् पर् र्तोग्स् प दङ् ल्दन् पऽइ ब्दे ब दङ् / फ्यि म ल यो ब्यद् दङ् मि ल्दन् प मेद् प लस् ब्युङ् ब दङ् / दोन् दम् प र्तोग्स् प लस् ब्युङ् बऽइ ब्दे ब स्ते / र्नम् प दु म ख न म थो ब मेद् पऽइ ब्दे ब ऽदि दग् नि / ऽजिग् र्तेन् पऽइ नोर् कुन् तु ब्सग्स् प लस् र्नम् प थम्स् चद् क्यि थम्स् चद् दु थोब् पर् मि ऽग्युर् ते / ग्źअन् दु न त्स्हे ऽदि ञिद् ल यो ब्यद् क्यिस् मि ब्रेल् ब लस् ब्युङ् ब त्सम् दु zअद् ल दे यङ् ख न म थो ब दङ् ब्चस् प यिन् नो //
SK
A. I-५ P.२०९ब्८, D. १८३अ६, N. १९६ब्२, Cह्.३५४ब्४ ब्दुन् पो ऽदि दग् नि ब्दुद् दङ् ञोन् मोङ्स् पऽइ फ्योग्स् क्यि स्तोब्स् यिन् ते / ब्स्तन् प ल ग्नोद् पर् ब्येद् प दङ् / ङन् ऽग्रोर् ऽग्रो बऽइ ञेस् पर् स्प्योद् प कुन् (Śभ् II २८८) तु स्प्योद् प दङ् / ब्दग् गि छ म यिन् पर् मि ल्त स्ते / बर् दु ग्चोद् पऽइ छोस् ब्स्तेन् प दङ् / ग्źअन् ग्यिस् स्मद् प लस् मि ल्त स्ते / बर् दु ग्चोद् पऽइ छोस् ब्स्तेन् प दङ् / द्गे ब दङ् / मि द्गे ब दङ् / ख न म थो ब दङ् ब्चस् प दङ् / ख न म थो ब मेद् प दङ् / ङन् प दङ् / ब्zअङ् पो दङ् / नग् पो दङ् / द्कर् पोऽइ रब् तु द्ब्ये ब दङ् ब्चस् पऽइ र्तेन् चिङ् ऽब्रेल् बर् ऽब्युङ् बऽइ छोस् र्नम्स् मि र्तोग्स् प दङ् / सेर् स्नऽइ द्रि मस् zइल् ग्यिस् नोन् पऽइ सेम्स् क्यिस् / स्नोद् स्प्यद् दङ् / यो ब्यद् मङ् पो ऽछङ् ब दङ् / ब्लुन् źइङ् ब्लो छुङ् ल शिन् तु र्मोङ्स् पऽओ /
SK
ब्दुद् दङ् ञोन् मोङ्स् पऽइ फ्योग्स् क्यि स्तोब्स् ऽदि दग् zइल् ग्यिस् म्नन् प दङ् / र्नम् पर् ब्स्त्सल् बऽइ फ्यिर् ऽफग्स् पऽइ छोस् ऽदुल् ब ल दद् प ल सोग्स् पऽइ स्तोब्स् ब्दुन् पो खो न योद् पर् रिग् पर् ब्यऽओ //
SK
A. I-६,-७ P.२१०अ५, D.१८३ब्२, N.१९६ब्५, Cह्.३५४ब्११ दोन् दम् पऽइ छोस् म्य ङन् लस् ऽदस् पऽइ मि म्थुन् पऽइ फ्योग्स् क्यि छोस् ब्दुन् पो ऽदि दग् नि दम् पऽइ छोस् योङ्स् सु ऽग्रिब् चिङ् / नुब् पर् ऽग्युर् ब स्ते / दे दग् क्यङ् र्गुद् प र्नम् प ग्सुम् दु ऽदुस् ते /
SK
ञे बर् स्प्यद् प र्गुद् प दङ् / ल्हग् पऽइ ब्सं प र्गुद् प दङ् / स्ब्योर् ब र्गुद् पऽओ /
SK
दे ल छोस् गोस् ल सोग्स् प ब्zअङ् पो ऽदोद् प दङ् / मङ् पो ऽदोद् प दङ् / दे लस् ब्युङ् बऽइ लोङ्स् स्प्योद् नि ञे बर् स्प्यद् प र्गुद् पऽओ /
SK
लम् दङ् लम् ग्यि ऽब्रस् बु म्य ङन् लस् ऽदस् प ल / म्ङोन् पर् यिद् मि छेस् प नि ल्हग् पऽइ ब्सम् प र्गुद् पऽओ //]
SK
Mस्.१५ब्६L, P.२१०अ७, D.१८३ब्४, N.१९७अ१, Cह्.३५४ब्१६ कौसीद्यं मुषितस्मृतिता विक्षिप्तचित्तता दौष्प्रज्ञं प्रयोगविपत्तिः /
SK
तत्र उपभोगविपत्तिर् लोभाकुशलमूलपक्ष्या / आशयप्रयोगविपत्तिः पुनर् मोहाकुशलमूलपक्ष्या / एतद्विपर्ययेण शुक्लपक्षो वेदितव्यः //
SK
A. I-८ Mस्.१५ब्६R, P.२१०ब्१, D१८३ब्६, N.१९७अ२, Cह्.३५४ब्१९ सप्तेमे धर्माः परमार्थनिर्वाणपक्ष्याः सद्धर्मापरिहाणाय चिरस्थितिकतायै संवर्तन्ते / श्रुतमयी प्रज्ञा, चिन्तामयी, भावनामयी प्रज्ञा, आश्रयस्य विषमपरिहरणता, सम्यगामिषधर्मपर्येष्टिः, निरभिमानता, सत्कारार्हानर्हेषु सत्करणासत्करणाय पुद्गलप्रविचयः /
SK
तत्र श्रुतम् अव्युत्पन्नस्यार्थस्य व्युत्पत्तये, चिन्ता सुनिश्चितार्थाभ्यूहनतायै, भावना क्लेशप्रहाणाय, आश्रयस्य विषमपरिहारः प्रहाणक्षमकर्मण्यतायै, सम्यगामिषधर्मपर्येषणा क्षिप्राभिज्ञतायै, निरभिमानतावरमात्राधिगमासंतुष्टये, पुद्गलविचयो ज्ञातमहापुण्यादीनाम् अस्पृहणतायै, अल्पेच्छादीनां च स्पृहणतायै //
SK
A. I-९ Mस्.१६अ२M, P.२१०ब्७, D.१८४अ३, N.१९७अ७, Cह्.३५४च्२ सप्तेमानि सत्त्वानाम् उपपत्त्यायतनानि येषु सत्त्वानां विज्ञानानि प्रवाहतः संमुखीकुर्वन्ते / अपायान् असंज्ञिसत्त्वान् नैवसंज्ञानासंज्ञायतनं स्थापयित्वा /
SK
निर्वित्पदस्थानभूतत्वाद् अपाया न विज्ञानस्थितिः, एकान्तेन तत्र विज्ञानस्यासमुदाचारान् नासंज्ञिसत्त्वाः / समुदाचारासमुदाचारतो ऽनैकान्तिकत्वान् न नैवसंज्ञानासंज्ञायतनम् /
SK
तत्र कायविसभागता कायनानात्वं संज्ञाविसभागता संज्ञनानात्वम्, एतद्विपर्ययाद् एकत्वकायता, एकत्वसंज्ञिता च वेदितव्या /
SK
तत्र ब्रह्मलोकाद् अर्वाग् विसभागकायविचित्ररूपकायात्मभावप्रसवा / ब्रह्मलोके पुनस् तत्प्रथमाभिनिर्वृत्ता ये तेषाम् एवं भवति / ᳚ब्रह्मणा वयं सृष्टाः᳚ / ब्रह्मणो ऽप्य् एवं भवति / ᳚मयैते सृष्टा᳚ इतीयं तेषां संज्ञासभागता /
SK
द्वितीयध्यानाद् ऊर्ध्वम् सर्वे ऽर्चिःसंनिभकायत्वाद् एकत्वकायाः / आभास्वरे पुनर् देवनिकाये पूर्वपश्चाद् उपपन्नानां भयाभयसंज्ञा ब्रह्मलोकदहार्चिर्दर्शनात् तेषां विसभागसंज्ञा वेदितव्या //
SK
A. I-१० Mस्.१६अ५L, P.२११अ६, D.१८४ब्२, N.१९७ब्६, Cह्.३५४च्१७ सप्तभिः सत्त्वानां दौष्ठुल्यैः सर्वक्लेशपक्ष्यदौष्ठुल्यसंग्रहो वेदितव्यः, हीनधातुकरागद्वेषपक्ष्यम्, मध्यप्रणीतधातुरागपक्ष्यम् / हीनमध्यप्रणीतधातुकमानाविद्यादृष्टिविचिकित्सापक्ष्यं च दौष्ठुल्यम् //
SK
A. I-११ Mस्.१६अ५R, P.२११अ८, D.१८४ब्३, N.१९८अ१, Cह्.३५४च्२० सप्तभिर् आकारैर् इतोबाह्यकानां दुराख्यातो धर्मविनयः सदोषो वेदितव्यः / व्युत्पत्तिदोषेण, चारित्रदोषेण, सन्निश्रयदोषेण, संकल्पदोषेण, व्यवसायदोषेण, अधिचित्तदोषेण, अधिप्रज्ञदोषेण /
SK
किंचापीतोबाह्यकः श्रुतम् उद्गृह्णाति / तत् पुनश् चतुर्विपर्यासानुकूलत्वाद् उपारम्भेति / वादप्रतिमोक्षानुशंसकथाप्रत्युपस्थापनत्वाच् च तत्कृता व्युत्पत्तिः सदोषा / शीलम् आचाराजीवविपत्तिपरिगृहीतत्वात् स्वयं वानैर्याणिकत्वात् सदोषम् / मित्रं विपरीतमार्गदेशिकत्वात् सदोषम् / (Śभ् II २९४) विवेको मिथ्यासंकल्पोपहतचित्तत्वात् सदोषः / व्यवसाय उपायविरहितत्वात् सदोषः / अधिचित्तं मुषितस्मृतेस् तृष्णामानाविद्याविचिकित्सोत्तराध्यायित्वात् सदोषम् / अधिप्रज्ञं द्वाषष्टिभिर् दृष्टिगतैर् उपहतत्वात् सदोषम् /
SK
एतद्विपर्ययेण स्वाख्याते धर्मविनय एतान्य् एव सप्तवस्तूनि निर्दोषाणि वेदितव्यानि //
SK
A. I-१२ Mस्.१६अ८M, P.२११ब्७, D.१८५अ१, N.१९८अ६, Cह्.३५५अ४ सप्तेमे भिक्षूणाम् उत्पन्नस्याधिकरणस्य व्युपशमाय संवर्तन्ते / शेषं तद्यथा वस्तुसंग्रहण्याम् //
SK
तत्रेमानि सप्तेत्य् अधिकरणानि / संमुखापत्तिव्युत्पादनाधिकरणम्, अतीतसंमुषितापत्तिव्युत्पादनाधिकरणम्, अस्वतन्त्र्यापत्तिव्युत्पादनाधिकरणम्, आपत्तिविमर्शाधिकरणम्, [ल्तुङ् ब ग्तन् ल ऽबेब्स् पस् र्त्सोद् ब दङ् / ब्दग् ञिद् क्यिस् ल्तुङ् ब ल ऽग्योद् प र्त्सोद् ब दङ् /] पक्षापरपक्षव्यवस्थितयोर् अन्योऽन्यम् आपत्तिचोदनापकर्षणाधिकरणम् // //
SK
सप्तकैर् बुद्धवचने ज्ञेयाधिष्ठानम् // //
SK
A. II-१ Mस्.१६ब्२L, P,२१२अ३, D.१८५अ३, N.१९८ब्२, Cह्.३५५अ११ अष्टभिर् अङ्गैः संगृहीता भिक्षोर् निरवशेषसंप्रयोजनप्रहाणाय तिस्रो भावना वेदितव्याः / शीलभावना, समाधिभावना, प्रज्ञाभावना च / सम्यग्वाक्कर्मान्ताजीवैः शीलभावना, सम्यक्स्मृतिसमाधिभ्यां समाधिभावना, सम्यग्दृष्टिसंकल्पव्यायामैः प्रज्ञाभावना //
SK
A. II-२ Mस्.१६ब्२R, P.२१२अ५, D.१८५अ५, N.१९८ब्४, Cह्.३५५अ२० सफलम् सम्यक्प्रयोगम् अधिपतिं कृत्वा व्यवदानपक्ष्याणाम् अष्टानां पुद्गलानां व्यवस्थानं वेदितव्यम् / प्रतिपन्नकानां चतुर्णां फलस्थानां चतुर्णाम् //
SK
A. II-३ Mस्.१६ब्३L, P.२१२अ६, D.१८५अ७, N.१९८ब्५, Cह्.३५५अ२१ द्वे इमे दाने अष्टाकारे वेदितव्ये, सदोषं च दानं निर्दोषं च दानम् /
SK
तत्र सदोषं सप्ताकारम्, एकाकारं पुनर् निर्दोषम् / अस्ति दानं कौसीद्योपहतत्वात् सदोषम् / अस्त्य् अकामकारात् सदोषं सामिषदोषस्य दारिद्रभीतस्येश्वराभिलाषिणः / अस्त्य् अतीतसापेक्ष्यतया सदोषम् / अस्त्य् अनागताभिनन्दनतया सदोषम् / अस्त्य् अवज्ञादोषात् सदोषम् / अस्ति ज्ञाताभिलाषदोषात् सदोषम् / अस्त्य् उपभोगाभिलाषात् सदोषम् /
SK
निर्दोषं पुनर् दानं निर्वाणपरिनामितं तत्संभारभृतम् / निरामिषचेतसो ऽपि सुगतिगमनायापि महाभोगताया अपि संवर्तते //
SK
A. II-४,-५ Mस्.१६ब्४R, P.२१२ब्३, D.१८५ब्२, N.१९९अ२, Cह्.३५५ब्६ चत्वारि स्थानान्य् अधिष्ठायाष्टसु कालेषु कौसीद्यं प्राविष्कुर्वन् वीर्यम् अनारभमानो वेदितव्यः, कुसीदजातीयो ऽयं पुद्गलो ऽनारब्धवीर्यजातीय इति /
SK
पिण्डपातसन्निश्रयम् इतिकरणीयं चारिकविक्रमणं धातुवैषम्यं च / इतीमानि चत्वारि स्थानान्य् अधिष्ठाय प्रणीतप्रभूतभोजनकायगौरवकाले, परीत्तलूहभोजनकायक्लमकाले, इतिकरणीये प्रयोक्तुकामस्य बलानुरक्षणकाले, इतिकरणीयं कृतवतः श्रमकाले, चारिकां विप्रक्रमितुकामस्य बलानुरक्षणकाले, अभिप्रक्रान्तस्याध्वपरिश्रमकाले, व्याधितस्य व्याधिदुःखसन्निपातकाले, व्याधिव्युत्थितस्य श्रम्यागमनाशङ्काकाले, इति कुसीदजातीयः पुद्गलः / यावत् कौसीद्योपधिं न लभते, तावद् अस्य वीर्यमात्रकं प्रज्ञायते / यदा कौसीद्योपधिं लभते तदा त्वरितत्वरितं कौसीद्यं प्राविष्करोति / तस्मात् कुसीदजातीय इत्य् उच्यते / एतद्विपर्ययेण चत्वार्य् एवैतानि स्थानान्य् अधिष्ठाय, एष्व् एवाष्टसु कालेषु वीर्यम् आरभमाणः, अभिभूय कौसीद्यम् आरब्धवीर्यजातीयः पुद्गलो वेदितव्यः / स लभमानो ऽपि कौसीद्योपधिं वीर्यम् आरभते / प्राग् एवालभमानः / तस्माद् आरब्धवीर्यजातीय इत्य् उच्यते //
SK
A. II-६ Mस्.१६ब्८L, P.२१३अ२, D.१८६अ१, N.१९९ब्१, Cह्.३५५ब्२१ अष्टाव् इमे सम्यक्प्रणिधानपरिगृहीता इष्टोपपत्तिहेतवः / कामेष्व् अभ्युपपत्तिकोदयकामानां सर्वेण च सर्वं कामविवेकम् अनभिलषताम् अष्टप्रकारेष्टोपपत्त्यायतनोपपत्तये संवर्तन्ते / मनुष्यदुर्भगप्रणिहितं परीत्तं दानमयं शीलमयम् / एवं मनुष्यसुभगचातुर्महाराजकायिकत्रायस्त्रिंशयामतुषितनिर्माणरतिपरनिर्मितवशवर्तिदेवप्रणिहितं परीत्तं दानमयं च शीलमयम् //
SK
A. II-७ Mस्.१७अ१R, P.२१३अ५, D.१८६अ३, N.१९९ब्३, Cह्.३५५ब्२५ चतुर्भिः कारणैर् मनुष्येषु चतसृणां तथागतस्य पर्षदां व्यवस्थानं वेदितव्यम् / त्रिभिः कारणैर् देवभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् / अग्र्याभिधानभूतत्वात्, दक्षिणीयसमन्तत्वात्, अपराधीनभोगवृत्तित्वात्, समुत्सृष्टभोगवृत्तित्वात्, एभिश् चतुर्भिः कारणैर् मनुष्यभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् / भूमिभागसन्निश्रितपर्यन्तत्वात्, कामधातुपर्यन्तत्वात्, वाक्संस्कारपर्यन्तत्वात् / देवभूतानां चतसृणां पर्षदां व्यवस्थानं वेदितव्यम् //
SK
A. II-८ Mस्.१७अ३L, P.२१३ब्१, D.१८६अ६, N.१९९ब्६, Cह्.३५५च्२ त्रिषु लौकिकेषु स्थानेषु वर्तमानो लोकः सततसमितम् अष्टाभिर् धर्मैः स्पृश्यते / इच्छायाम्, व्यवसाये, प्रत्यये च / इच्छायां वर्तमानो लाभेनापि स्पृश्यते, अलाभेनापि / व्यवसाये वर्तमानो पराभिमते वा परानभिमते वा, परोक्षागतेन वर्णावर्णवादेन स्पृश्यते, संमुखानुगतेन वा / प्रत्यये वर्तमानः पूर्वके दृष्टधार्मिके वा सुखप्रत्यये दुःखप्रत्यये वा सुखदुःखाभ्याम् स्पृश्यते //
SK
A. II-९ Mस्.१७अ४M, P,२१३ब्४, D.१८६ब्१, N.२००अ१, Cह्.३५५च्७ अष्टाव् इमे ऽनागामिनाम् अर्हतां वाधिमोक्षा आर्यप्रभावमहाविहाराभिनिर्हाराय संवर्तन्ते / अविभूयाध्यात्मं रूपसंज्ञां बहिरसंक्लिष्टरूपाधिमोक्षः / विभूयाध्यात्मं रूपसंज्ञां द्वितीयः / शुभाशुभाद्वयरूपपरमोपेक्षाधिमोक्षः / इतीमे त्रयो ऽधिमोक्षाः सर्वरूपवशित्वायार्यर्द्धिनिर्हाराय (Śभ् II ३०२) संवर्तन्ते / येयम् ऋद्धिर् असाधारणा सर्वपृथग्जनैः / आकाशानन्ताधिमोक्षः, विज्ञानानन्ताधिमोक्षः, आकिञ्चनाधिमोक्षः, नैवसंज्ञानासंज्ञायतनाधिमोक्षः, सूक्ष्मसूक्ष्मस्वरसवाहिचित्ताधिमोक्षश् च, इतीमे पञ्चाधिमोक्षा अनुपूर्वेण सुपरिकर्मकृताः संज्ञावेदयितनिरोधसमापत्तिपरमविहारनिर्हाराय संवर्तन्ते //
SK
A. II-१० Mस्.१७अ६M, P.२१४अ१, D.१८६ब्५, N.२००अ६, Cह्.३५५च्१६ यानि च रूपाणि पश्यति यथा च पश्यति, त्रिषु विमोक्षेषु प्रथमेषु प्रयुक्त इति विमोक्षत्रयप्रयोगमार्गं संजानाति, अष्टाव् अभिभ्वायतनानि वेदितव्यानि / तत्र परीत्तानि महद्गतानि सुवर्णदुर्वर्णानि हीनप्रणीतानि रूपाणि पश्यति बहिर्धासमाहितगोचराण्य् आभासप्राप्तानि / समाधिगोचरालम्बनेन मनसिकारेणानाभासगतायाम् अभिभूय, शमथाकारेण तानि समाधिगोचरानि [शेस् सो / ल्हग् म्थोङ् गि र्नम् पस् नि म्थोङ् स्ते / तिङ् ङे ऽद्zइन् ग्यि स्प्योद् युल् दे दग् जि ल्तर्] जानाति पश्यति / यथा तानि तेन विमृष्टानि भवन्त्य् उपलक्षितानि तथा संज्ञितेषु बहिर्धासमाधिगोचरेषु भवति / एवं तानि रुपाणि पश्यति /
SK
अष्टकैर् बुद्धवचनज्ञेयाधिष्ठानं समाप्तम् //
SK
A. IIल्-१ Mस्.१७अ८R, P.२१४अ६, D.१८७अ१, N.२००ब्३, Cह्.३५५च्२६ नवानां संयोजनानां व्यवस्थानं वेदितव्यम् / वस्तुसंग्रहण्याम् /
SK
A. IIल्-२ Mस्.१७ब्१L, P.२१४अ७, D.१८७अ२, N.२००ब्४, Cह्.३५५च्२७ नवेमान्य् उपपत्त्यायतनानि येषूपपन्नानां सत्त्वानां तत्र तत्र समानसंवासता प्रज्ञायते / स्थापयित्वापायान् पूर्वस्मिन् निर्वित्पदस्थानभूतत्वात् //
SK
नवकैर् बुद्धवचनज्ञेयाधिष्ठानं समाप्तम् // //
SK
A. IV-१ Mस्. १७ब्१ R, P.२१४अ८, D. १८७अ३, N.२००ब्५, Cह्.३५६अ१ दशभिः कृत्स्नायतनैर् विमोक्षाणां कार्यपरिनिष्पत्तिर् वेदितव्या / शेषं विमोक्षाभिभ्वायतनकृत्स्नायतनानां तद्यथा वस्तुसंग्रहण्याम् /
SK
A. IV-२ Mस्.१७ब्२L, P.२१४ब्२, D.१८७अ४, N.२००ब्६, Cह्.३५६अ३ दशभिर् अशैक्षैर् अङ्गैः पञ्चानाम् अशैक्षाणां स्कन्धानां संग्रहो वेदितव्यः / शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धानाम् //
SK
दशकैर् बुद्धवचने ज्ञेयाधिष्ठानं समाप्तम् //
SK
समाप्तं च बुद्धवचनज्ञेयाधिष्ठानम् // //
SK
B. Mस्.१७ब्२R, P.२१४ब्४, D.१८७अ५, N.२०१अ१, Cह्.३५६अ८ चिकित्सा कतमा, सा चतुराकारा वेदितव्या / तद्यथाबाधकौशल्यम्, आबाधसमुत्थानकौशल्यम्, उत्पन्नस्याबाधस्य प्रहाणकौशल्यम्, प्रहीणस्याबाधस्यायात्याम् अनुत्पादकौशल्यम् / एषां च कौशल्यानां विभङ्गो यथा सूत्रम् एव वेदितव्यः // //
SK
C. Mस्.१७ब्३L, P,२१४ब्, D.१८७अ७, N.२०१अ२, Cह्.३५६च्११
SK
D. Mस्.२३अ३L, P.२२८ब्६, D.१९९ब्२, N.२१४अ२, Cह्.३६०च्२१ शब्दविद्या कतमा / सा षडाकारा द्रष्टव्या / धर्मप्रज्ञप्तिव्यवस्थानतः / अर्थप्रज्ञप्तिव्यवस्थानतः / पुद्गलप्रज्ञप्तिव्यवस्थानतः / कालप्रज्ञप्तिव्यवस्थानतः / संख्याप्रज्ञप्तिव्यवस्थानतः / सखिलाधिकरणव्यवस्थानतश् च //
SK
उद्दानम् //
SK
धर्मार्थपुद्गलः कालाः संख्याधिकरणं च यत् / सखिलं तद् अधिष्ठानं शब्दस्येह समासतः /
SK
D.I. Mस्.२३अ४L, P.२२९अ१, D.१९९ब्४, N.२१४अ४, Cह्.३६०च्२८ तत्र धर्मप्रज्ञप्तिव्यवस्थानं नामकायपदकायव्यञ्जनकायाः / पञ्चगुणयुक्तश् च शब्दः / अग्राम्यलघ्वोजस्वी संबद्धः स्वर्थश् च /
SK
D.II. Mस्.२३अ४R, P.२२९अ२, D.१९९ब्५, N.२१४अ५, Cह्.३६१अ२ तत्रार्थप्रज्ञप्तिव्यवस्थानं दशाकारं वेदितव्यम् / इन्द्रियव्यवस्थानतः / महाभूतव्यवस्थानतः / कर्मव्यवस्थानतः / पर्येषणाव्यवस्थानतः / अधर्मव्यवस्थानतः / धर्मव्यवस्थानतः / संपत्तिव्यवस्थानतः / विपत्तिव्यवस्थानतः / उपभोगव्यवस्थानतः / अनुरक्षणाव्यवस्थानतश् च //
SK
उद्दानम् //
SK
चक्षुरादि पृथिव्यादि कायकर्मादि चैषणा / अधर्मधर्मसंपत्तिविपद्भोगानुरक्षणा /
SK
D.II-१ Mस्.२३अ५R, P.२२९ब्५, D.१९९ब्७, N.२१४ब्१, Cह्.३६१अ८ तत्रेन्द्रियव्यवस्थानतस् तद्यथा दर्शनार्थः श्रवणार्थो जिघ्रणार्थः स्वादनार्थः स्पर्शनार्थो विजाननार्थश् च /
SK
D.II-२ Mस्.२३अ६M, P.२२९ब्६, D.२००अ१, N.२१४ब्२, Cह्.३६१अ९ तत्र महाभूतव्यवस्थानतः / तद्यथा प्रतिष्ठाद्यर्थः / अभिष्यन्दनाद्यर्थः, दीपाद्यर्थः / कम्पनाद्यर्थश् च //
SK
D.II-३ Mस्.२३अ६R, P.२२९ब्७, D.२००अ२, N.२१४ब्२, Cह्.३६१अ१० * १ ः इ तत्र कर्मव्यवस्थानतः / तद्यथा गमनाद्यर्थो भाषणाद्यर्थः / चेतनास्मृतिबुद्ध्याद्यर्थश् च //
SK
D.II-४ Mस्.२३अ७L, P.२२९ब्८, D.२००अ२, N.२१४ब्३, Cह्.३६१अ११ तत्रैषणाव्यवस्थानतः / तद्यथा मार्गणाद्यर्थः //
SK
D.II-५ Mस्.२३अ७L, P.२३०अ१, D.२००अ३, N.२१४ब्३, Cह्.३६१अ१२ तत्राधर्मव्यवस्थानतः / तद्यथा हिंसास्तेयाद्यर्थः //
SK
D.II-६ Mस्.२३अ७M, P.२३०अ१, D.२००अ३, N.२१४ब्४, Cह्.३६१अ१२ तत्र धर्मव्यवस्थानतः / तद्यथा दानसंयमाद्यर्थः //
SK
D.II-७ Mस्.२३अ७M, P.२३०अ२, D.२००अ३, N.२१४ब्४, Cह्.३६१अ१३ तत्र संपत्तिव्यवस्थानतः / तद्यथा प्राप्तिप्रीतिहर्षाद्यर्थः //
SK
D.II-८ Mस्.२३अ७R, P.२३०अ३, D.२००अ४, N.२१४ब्५, Cह्.३६१अ१३ तत्र विपत्तिव्यवस्थानतः / तद्यथा नाशभयदैन्याद्यर्थः //
SK
D.II-९ Mस्.२३अ८L, P.२३०अ३, D.२००अ४, N.२१४ब्५, Cह्.३६१अ१४ तत्रोपभोगव्यवस्थानतः / तद्यथा भोजनपानाच्छादनालिङ्गनोपचाराद्यर्थः //
SK
D.११-१० Mस्.२३अ८L, P.२३०अ४, D.२००अ५, N.२१४ब्६, Cह्.३६१अ१५ तत्रानुरक्षणाव्यवस्थानतः / तद्यथा पालनपोसणभरणाद्यर्थः //
SK
अपि खलु षड्भिर् आकारैः समासतो ऽर्थो वेदितव्यः / स्वभावार्थो हेत्वर्थः फलार्थः क्रियार्थो विशेषसंयोगार्थः प्रवृत्त्यर्थश् च /
SK
उद्दानम् //
SK
स्वभावहेतुतत्कार्यतत्क्रियायोगवृत्तिभिः /
SK
D.III. Mस्.२३ब्१L, P,२३०अ६, D.२००अ६, N.२१४ब्७, Cह्.३६१अ२१ तत्र पुद्गलप्रज्ञप्तिव्यवस्थानम् / स्त्रीपुंनपुंसकव्यवस्थानतः / प्रथममध्यमोत्तमपुरुषव्यवस्थानतश् च //
SK
D.IV. Mस्.२३ब्१M, P,२३०अ७, D.२००अ७, N.२१५अ१, Cह्.३६१अ२४ तत्र कालप्रज्ञाप्तिव्यवस्थानम् / त्रिविधः कालो ऽतीतो ऽतीतविशिष्टः, अनागतो ऽनागतविशिष्टः, वर्तमानो वर्तमानविशिष्टश् च /
SK
D.V. Mस्.२३ब्१R, P,२३०अ८, D.२००अ७, N.२१५अ२, Cह्.३६१अ२७ तत्र संख्याप्रज्ञप्तिव्यवस्थानम् / त्रिविधा संख्या / एकसंख्या द्विसंख्या बहुसंख्या च /
SK
D.VI. Mस्.२३ब्२L, P.२३०ब्१, D.२००ब्१, N.२१५अ२, Cह्.३६१अ२९ तत्राधिकरणव्यवस्थानम् / खिलव्यवस्थानं च / पञ्चाधिकरणानि सन्धिनामसमासस् तद्धितम् आख्यातं च / खिलं पुनर् धातुपाठादि तद् उभयम् अपि समस्य सखिलम् अधिकरणम् इत्य् उच्यते /
SK
E. Mस्.२३ब्२R, P.२३०ब्२, D.२००ब्२, N.२१५अ४, Cह्.३६१ब्४ तत्र शिल्पकर्मस्थानविद्या कतमा / समासतो द्वादशाकारं शिल्पं / तत्र यज् ज्ञानं सा शिल्पकर्मस्थानविद्येत्य् उच्यते / द्वादशाकारं शिल्पं कतमत् / तद्यथा कृषिशिल्पं वणिज्यशिल्पं राजपौरुष्यशिल्पं (Śभ् II ३१२) लिपिगणनसंख्यामुद्राशिल्पं नैमित्तिकशिल्पं मन्त्रिशिल्पं घटानशिल्पं संजननशिल्पं वानशिल्पं संयोजनशिल्पं पाकशिल्पम् गान्धर्वशिल्पं च //
SK
// योगाचारभूमौ श्रुतमयी भूमिः //
SK
Aप्पेन्दिx III चिन्तामयी भूमिः
SK
Mस्.२३ब्४L, P.२३०ब्६, D.२००ब्५, N.२१५अ६, Cह्.३६१ब्११ चिन्तामयी भूमिः कतमा / सा समासतस् त्र्याकारा वेदितव्या / स्वभावविशुद्धितो ज्ञेयप्रविचयतो धर्मप्रविचयतश् च //
SK
A. Mस्.२३ब्४M, P.२३०ब्७, D.२००ब्५, N.२१५अ७, Cह्.३६१ब्१८ तत्र स्वभावविशुद्धिः कतमा / सा नवाकारा वेदितव्या / यथापि तद् एकत्यो यथाश्रुतान् यथापर्याप्तान् धर्मान् एकाकी रहोगतश् चिन्तयति / अचिन्त्यं परिवर्जयित्वा चिन्त्यं चिन्तयति / कालापदेशमहापदेशं च परिजानाति / अर्थप्रतिसरणश् च चिन्तयति, न व्यञ्जनप्रतिसरणः / किंचिच् च श्रद्धयाधिमुच्यते, किंचित् प्रज्ञया व्यवचारयति दृढं च चिन्तयति / स्थिरं च चिन्तयति / प्रतनुं च चिन्तयति / तां च चिन्तां पर्यवसानगतां करोति, नान्तराविषादम् आपद्यते / इत्य् अनया नवाकारया विशुद्ध्या सुविशुद्धा चिन्तेत्य् उच्यते //
SK
B. Mस्.२३ब्६L, P.२३१अ३, D.२०१अ१, N.२१५ब्४, Cह्.३६१द् ः .० तत्र ज्ञेयप्रविचयः कतमः / यः परीक्ष्यस्यार्थस्य प्रविचयः / परीक्ष्यो ऽर्थः कतमः / सच् च सतो ऽसच् चासतः परीक्ष्यो ऽर्थ इत्य् उच्यते //
SK
B. I. Mस्.२३ब्६M, P.२३१अ५, D.२०१अ२, N.२१५ब्५, Cह्.३६१च्४ ऽत् परीक्ष्यं सद्वस्तु कतमत् / तत् पञ्चविधं द्रष्टव्यम् / स्वलक्षणसत् सामान्यलक्षणसत् संकेतलक्षणसद् धेतुलक्षणसत् फललक्षणसच् च //
SK
B. I-१ Mस्.२३ब्७L, P,२३१अ६, D.२०१अ३, N.२१५ब्६,Cह्.३६१च्७ स्वलक्षणसत् कतमत् / तत् त्रिविधं द्रष्टव्यम् / परमार्थलक्षणसन् निमित्तलक्षणसद् वर्तमाणलक्षणसच् च /
SK
परमार्थलक्षणसत् कतमत् / यो निरभिलप्यो ऽर्थः सर्वधर्मेषु लोकोत्तरज्ञानगोचरो ऽव्यवस्थाप्यलक्षणः /
SK
निमित्तसत् कतमत् / तच् चतुर्भिर् आकारैर् द्रष्टव्यम् / यत्र नामोपलभ्यते / वस्तूपलभ्यते / तच् च नाम तस्मिन् वस्तुनि न व्यभिचरति भ्रान्तिव्यभिचारतो वानित्यव्यभिचारतो वा / तच् च नाम तस्मिन् वस्तुन्य् अव्याहतं प्रवर्तते / न क्वचिद् अनुवर्तते क्वचिद् व्यावर्तते /
SK
वर्तमानसत् कतमत् / यद् उत्पन्नं हेतुफलभूतं च / तद् एतत् सर्वम् एकध्यम् अभिसंक्षिप्य स्वलक्षणसद् इत्य् उच्यते //
SK
B. I-२ Mस्.२३ब्८R, P.२३१ब्२, D.२०१अ७,N.२१६अ३, Cह्.३६१च्१६ सामान्यलक्षणसत् कतमत् / तद् अपि पञ्चविधं द्रष्टव्यम् / जातिसामान्यलक्षणं कृत्यानुष्ठानसामान्यलक्षणं सर्वसंस्कारसामान्यलक्षणम् सर्वसास्रवसामान्यलक्षणं सर्वधर्मसामान्यलक्षणम् च /
SK
जातिसामान्यलक्षणं कतमत् / रूपवेदनासंज्ञासंस्कारविज्ञानानां स्वजातिः / सैकध्यम् अभिसंक्षिप्य जातिसामान्यलक्षणम् इत्य् उच्यते /
SK
कृत्यानुष्ठानसामान्यलक्षणं कतमत् / कुशलसास्रवा धर्मा इष्टफलाभिनिर्वृत्तौ कृत्यानुष्ठानसामान्यलक्षणेन सामान्यलक्षणाः / यथा (Śभ् II ३२२) कुशला धर्मा इष्टफलाभिनिर्वृत्ताव् एवम् अकुशला धर्मा अनिष्टफलाभिनिर्वृत्तौ, स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि मार्गाङ्गानि बोधिपक्ष्यधर्मा बोधिप्राप्तौ कृत्यानुष्ठानसामान्यलक्षणेन सामान्यलक्षणाः /
SK
सर्वसंस्कारसामान्यलक्षणं कतमत् / अनित्यता सर्वसंस्काराणाम् / सर्वसास्रवसामान्यलक्षणं कतमत् / दुःखता सर्वसास्रावाणाम् / सर्वधर्मसामान्यलक्षणं कतमत् / शून्यता नैरात्म्यं च सर्वधर्माणाम् / तद् इदम् उच्यते सामान्यलक्षणम् //
SK
B. I-३ Mस्.२४अ३R, P.२३२अ२, D.२०१ब्५, N.२१६ब्१, Cह्.३६२अ१ संकेतलक्षणं कतमत् / यत्र षड्विधो वादः प्रवर्तते तत् संकेतलक्षणं वेदितव्यम् / षड्विधो वादः कतमः / स्वामिसंबन्धयुक्तो वादः, तत्तदन्यान्यवर्जितो वादः, सांकेतिको वादः, सांघातिको वादः, असर्वत्रगो वादः, मनित्यश् च वादः //
SK
B. I-३-अ Mस्.२४अ४M, P.२३२अ५, D.२०१ ब्७, N.२१६ब्४, Cह्.३६२अ५ स्वामिसंबन्धयुक्तो वादः कतमः / यो वादः स्वामिसंबन्धेन लक्षणप्रत्यवगम्यो भवति / नान्तरेण स्वामिसंबन्धम् / तद्यथा ᳚जातिर्᳚ इत्य् उक्तः ᳚कस्येयं जातिर्᳚ इति, स्वामिसंबन्धम् अपेक्षते वादः / रूपस्य जातिर् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य जातिर् नो तु ᳚रूपम्᳚ इत्य् उक्ते ᳚कस्येदं रूपम्᳚ इति स्वामिसंबन्धम् अपेक्षते वादः /
SK
यथा जातिर् एवं जरा स्थितिर् अनित्यतैवंभागीयाश् चित्तविप्रयुक्ताः संस्कारा यथायोगं वेदितव्याः / अयम् उच्यते स्वामिसंबन्धयुक्तो वादः / स च (Śभ् II ३२४) यत्र वर्तते तत् संकेतलक्षणं वेदितव्यम् //
SK
B. I-३-ब् Mस्.२४अ६L, P.२३२ब्१, D.२०२अ३, N.२१६ब्४, Cह्.३६२अ१२ तत्तदन्यान्यवर्जितो वादः कतमः / यो वादो नैव तेन तस्य नैवान्येनान्यस्य निर्देशाय भवति / स तत्तदन्यान्यवर्जित इत्य् उच्यते /
SK
यस् तेनैव तस्य व्यपदेशाय वादः स द्रव्यलक्षणे ऽपि वर्तते संकेतलक्षणे ऽपि / यश् चान्येनान्यस्य व्यपदेशाय वादः सो ऽपि द्रव्यलक्षणे ऽपि वर्तते संकेतलक्षणे ऽपि / यश् चायं नैव तेन तस्य नैवान्येनान्यस्य व्यपदेशाय वाद एकांशेन संकेतलक्षण एव प्रवर्तते /
SK
कतमश् च तेन तस्यैव व्यपदेशाय वादो द्रव्यलक्षणे प्रवर्तते / तद्यथा पृथिव्याः काठिन्यम् इत्य् यो वादः / कथं संकेतलक्षणे ऽपि प्रवर्तते / अश्मनो माण्डल्यम् इत्य् यो वादः / यथा पृथिव्याः काठिन्यम् अश्मनो माण्डल्यम् एवम् अपां द्रवत्वं तैलस्य पिण्डस् तेजस औष्ण्यम् अग्नेर् अर्चि वायोः समुदीरणत्वम् अनिलस्य वेगः /
SK
कथम् अन्येनान्यस्य व्यपदेशाय वादो द्रव्ये सति वर्तते / तद्यथा चक्षुषोर् विज्ञानं कायस्य स्पर्श इत्य् एवमादि / कथं प्रज्ञप्तिसति / तद्यथा बुद्धदत्तस्य गुणमित्रस्य वा भोजनं पानं यानं वस्त्रम् अलंकार इत्य् एवमादि /
SK
कथं नैव तेन तस्य नाप्य् अन्येनान्यस्य व्यपदेशाय वाद एकान्तेन संकेतलक्षण एव प्रवर्तते / तद्यथा गृहस्य द्वारं गृहस्य कुड्यं कुम्भस्य मुखं कुम्भस्य पार्श्वं सेनाया रथो वनस्य वृक्षः शतस्य दशकं दशकस्य तृकम् इत्य् एवमादि /
SK
अयम् उच्यते तत्तदन्यान्यवर्जितो वादः //
SK
B. I-३-च् Mस्.२४ब्२L, P.२३३अ२, D.२०२ब्३, N.२१७ब्१, Cह्.३६२अ२९ सांकेतिको वादः कतमः / षड्विधनिमित्तलक्षणे व्यावहारिकः स्वभावप्रज्ञप्तिवादः / षड्विधं निमित्तलक्षणं कतमत् / वस्तुलक्षणं विज्ञेयलक्षणं शुभादिलक्षणम् अनुग्रहादिलक्षणं व्यवहारनिमित्तलक्षणम् मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणं च /
SK
वस्तुलक्षणं कतमत् / यद् विज्ञानेन गृह्णाति /
SK
विज्ञेयलक्षणं कतमत् / यन् मनस्कारेण विज्ञानस्योत्पत्तये संवर्तते / शुभादिलक्षणं कतमत् / यत् स्पर्शेन गृह्णाति /
SK
अनुग्रहादिलक्षणं कतमत् / यद् वेदनया गृह्णाति /
SK
व्यवहारनिमित्तलक्षणं कतमत् / यत् संज्ञया गृह्णाति /
SK
मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणं कतमत् / यच् चेतनया गृह्णाति //
SK
B. I-३-द् Mस्.२४ब्४L, P.२३३अ७, D.२०२ब्७, N.२१७ब्६, Cह्.३६२ब्७ सांघातिको वादः कतमः / यः प्रभूतेषु समग्रेषु समुदितेषु स्वभावव्यवस्थानवादः / तद्यथाध्यात्मं रूपवेदनासंज्ञासंस्कारविज्ञानेष्व् आत्मादिवादो बहिर्धा वा रूपगन्धरसस्प्रष्टव्येषु तथा तथा सन्निविष्टेषु गृहकुम्भसेनावनादिवादः //
SK
B. I-३-ए Mस्.२४ब्४R, P.२३३ब्२, D.२०३अ२, N.२१८अ१, Cह्.३६२ब्११ असर्वत्रगो वादः कतमः / यो वादः क्वचिद् अनुवर्तते, क्वचिद् व्यावर्तते / तद्यथा गृहे गृहवादो ग्रामनगरराष्ट्रादिभ्यो व्यावर्तते / कुम्भे कुम्भवादो घटघटीशरावादिभ्यो व्यावर्तते / सेनावादः पृथक्स्त्रीपुरुषदारकदारिकादिभ्यो व्यावर्तते / वनवादः पृथग्वृक्षमूलगण्डपत्रपुष्पफलादिभ्यो व्यावर्तते //
SK
B. I-३-f Mस्.२४ब्६L, P.२३३ब्५, D.२०३अ४, N.२१८अ३, Cह्.३६२ब्१८ अनित्यो वादः कतमः / स चतुर्भिर् आकारैर् द्रष्टव्यः / भेदतो ऽभेदतो ऽभिसंस्कारतः परिणामतश् च /
SK
कथं भेदतः / तद्यथा कुम्भे भग्ने यः कुम्भ इति वादः सो ऽवहीयते / कपालवादः प्रादुर्भवति /
SK
कथम् अभेदतः / तद्यथा नानाद्रव्यसमवायविहिते चूर्णे वा धूपे वा यो नानाद्रव्यवादः सो ऽवहीयते / धूपचूर्णवादः प्रादुर्भवति /
SK
कथम् अभिसंस्कारतः / तद्यथानभिसंस्कृते सुवर्णपिण्डे हर्षकटककेयूराद्या अभिसंस्कारपरिणते यः सुवर्णपिण्डवादः सो ऽवहीयते / हर्षकटककेयूरवादः प्रादुर्भवति /
SK
कथं परिणामतः / तद्यथा परिणते भोजनपाने यो भोजनपानवादः सो ऽवहीयते / उच्चारप्रस्राववादः प्रादुर्भवति /
SK
इत्य् अयम् एवंभागीयो ऽनित्यो वादो वेदितव्यः /
SK
इत्य् अयं षड्विधो वादो यत्र प्रवर्तते तत् संकेतलक्षणं वेदितव्यम् / इदम् उच्यते संकेतलक्षणम् //
SK
B. I-४ Mस्.२४ब्८M, P.२३४अ४, D.२०३ब्२, N.२१८ब्२, Cह्.३६२ब्२८ हेतुलक्षणं कतमत् / तत् समासतः पञ्चविधं द्रष्टव्यम् / इष्टहेतुर् अनिष्टहेतुः पुष्टिहेतुः प्रवृत्तिहेतुर् निवृत्तिहेतुश् च /
SK
इष्टहेतुः कतमः / कुशलसास्रवा धर्माः /
SK
अनिष्टहेतुः कतमः / अकुशला धर्माः /
SK
पुष्टिहेतुः कतमः / पूर्वोत्पन्नाः कुशलाकुशलाव्याकृता धर्मा आसेविता भाविता बहुलीकृताः पश्चादुत्पन्नानां कुशलाकुशलाव्याकृतानां धर्माणाम् उत्तरोत्तराणां पुष्टतराणां पुष्टतमानां पुष्टिहेतुर् इत्य् उच्यन्ते //
SK
प्रवृत्तिहेतुः कतमः / येन बीजेन यया वासनया येन सहायेन येषां धर्मानां प्रवृत्तिर् भवति स तेषां प्रवृत्तिहेतुर् इत्य् उच्यते /
SK
निवृत्तिहेतुः कतमः / संस्कारनिवृत्तेः संक्लेशनिवृत्तेः सर्वौपशमिको मार्गः पारिनिर्वाणिकः संबोधिगामी ससंभारः सप्रयोगः सोत्पत्तिकः सनिष्पत्तिको निवृत्तिहेतुर् इत्य् उच्यते /
SK
इदं समस्तं हेतुलक्षणं विस्तरेण विभागः पुनर् हेतुफलचिन्तायां द्रष्टव्यः //
SK
B. I-५ Mस्.२५अ३L, P.२३४ब्२, D.२०३ब्७, N.२१८ब्७, Cह्.३६२च्११ फललक्षणं कतमत् / यद् अस्मात् पञ्चविधाद् धेतोर् उत्पन्नं प्राप्तं सिद्धं निष्पन्नं प्रवृत्तं तत् फललक्षणं वेदितव्यम् //
SK
B. II. Mस्.२५अ३M, P.२३४ब्३, D.२०४अ१, N.२१९अ१, Cह्.३६२च्१४ परीक्ष्यम् असद्वस्तु कतमत् / तद् अपि पञ्चलक्षणं द्रष्टव्यम् / अनुत्पन्नासन् निरुद्धासद् इतरेतरासत् परमार्थासद् अत्यन्तासच् च /
SK
अनुत्पन्नासत् कतमत् / अनागताः संस्काराः /
SK
निरुद्धासत् कतमत् / अतीताः संस्काराः /
SK
इतरेतरासत् कतमत् / यद् इतरलक्षणेनेतरेषां धर्माणां विरहितता अविद्यमानता, इतरधर्मासमवधानता वा पुनर् इतरेषां धर्माणाम् /
SK
परमार्थासत् कतमत् / व्यावहारिकेण स्वभावप्रज्ञप्तिवादेन यः स्वभावो व्यवस्थापितः /
SK
अत्यन्तासत् कतमत् / वन्ध्यापुत्रादि यत् किंचिद् एवंभागीयम् //
SK
B. III. Mस्.२५अ५L, P.२३४ब्७, D.२०४अ४, N.२१९अ५, Cह्.३६२च्२१ अपि खलु पञ्चविधास्तिता पञ्चविधैव नास्तिता //
SK
B. IIल्-१ Mस्.२५अ५M, P.२३४ब्७, D.२०४अ४, N.२१९अ५, Cह्.३६२च्२१ पञ्चविधास्तिता कतमा / परिनिष्पन्नलक्षणास्तिता परतन्त्रलक्षणास्तिता परिकल्पितलक्षणास्तिता विशेषलक्षणास्तिता अवक्तव्यलक्षणास्तिता च /
SK
तत्र प्रथमा पारमार्थिकं लक्षणम् /
SK
अनु द्वितीया प्रतीत्यसमुत्पन्नलक्षणम् /
SK
अनु तृतीया संकेतलक्षणम् /
SK
अनु चतुर्थ्य् अध्वलक्षणं जातिलक्षणं जरालक्षणं स्थितिलक्षणम् अनित्यलक्षणं दुःखलक्षणं शून्यलक्षणं नैरात्म्यलक्षणं वस्तुलक्षणं विज्ञेयलक्षणं ग्राह्यलक्षणं शुभादिलक्षणम् अनुग्रहादिलक्षणं व्यवहारनिमित्तलक्षणं मिथ्याप्रतिपत्त्यादिनिमित्तलक्षणम् इत्य् एवंभागीयं लक्षणं विशेषलक्षणं वेदितव्यम् /
SK
अनु पञ्चमा चतुराकारया अवक्तव्यतया अवक्तव्यलक्षणम् / असत्त्वात् तद्यथा पुद्गलः स्कन्धेभ्यो ऽन्यो ऽनन्य इति / गम्भीरत्वान् निरभिलप्यधर्मता, अचिन्त्यस् तथागतानां धर्मकायः, अचिन्त्यो बुद्धविषयः / तथा भवति तथागतः परंमरणाद् इत्य् एवमादि / अनर्थोपसंहितत्वात् तद्यथा ये ते धर्मा अधर्मार्थब्रह्मचर्योपसंहितास् ते ऽभिसंबुद्धा अपि नोक्ता भगवता / तथाधर्मलक्षणव्यवस्थानतस् तद्यथा तथता संस्कारेभ्यो ऽन्यानन्यत्वेनावक्तव्या //
SK
B. IIल्-२ Mस्.२५ब्१M, P.२३५ब्७, D.२०४ब्४, N.२१९ब्६, Cह्.३६३अ८ पञ्चविधा नास्तिता कतमा / परमार्थलक्षणनास्तिता स्वतन्त्रलक्षणनास्तिता सर्वेण सर्वं स्वलक्षणनास्तिता अविशेषलक्षणनास्तिता वक्तव्यलक्षणनास्तिता च // //
SK
Aप्पेन्दिx IV Āभिप्रायिकार्थगाथानिर्देश
SK
A. I-१ Mस्१*अ१L, Mस्G.२६ब्१M, P.२४५अ६, D.२१२ब्५, N.२२८ब्४, Cह्.३६७अ६ (१) शिक्षासु पारमिप्राप्तः सर्वसंशयनाशकः / शिक्षां प्रब्रूहि मे पृष्टो या च शिक्षासु शिक्षणा // इति //
SK
ब्रह्मणा भगवान् सर्वशिक्षापदपर्यन्तप्राप्तितश् च स्वार्थसंपदम् असाधारणाम् आरभ्योत्पन्नोत्पन्नसर्वसत्त्वसंशयच्छेदकत्वेन चासाधारणां परार्थप्रतिपत्तिम् आरभ्य स्तुतिपूर्वं पृष्टः ᳚काः कियत्यश् च शिक्षाः, कथं च तासु शिक्षितव्यम्᳚ //
SK
A. I-२ Mस्१*अ१R, Mस्G.२६ब्१M, P.२४५ब्१, D.२१२ब्७, N.२२९अ१, Cह्.३६७अ१३ ततो भगवान् बहुकृत्यताभीषणा अलसजातीयानां प्रोत्साहनाभिप्रायः सर्वशिक्षाः समस्य संक्षेपतस् तिसृभिः शिक्षाभिर् निर्दिशति /
SK
(२) अधिशीलम् अधिचित्तम् अधिप्रज्ञं च मारिष / तिस्रः शिक्षाः समासेन शृणु या तासु शिक्षणा // इति //
SK
तत्र शीलचित्तप्रज्ञा अधिकृत्य विक्षिप्तचित्तस्य अविक्षेपायोगोपदेशतो ऽधिशीलंशिक्षया, असमाहितचित्तस्य समाधानायोगोपदेशतो ऽधिचित्तंशिक्षया, समाहिताविमुक्तचित्तस्य विमोक्षायोगोपदेशतो ऽधिप्रज्ञंशिक्षया च, योगिनाम् सर्वकृत्यपरिसमाप्तेः, तास्व् एव तिसृषु शिक्षास्व् अन्तर्णीयाभिप्रायतो भगवता देशिताः //
SK
A. I-३ Mस् १*अ३M, Mस्G.२६ब्१R, P.२४५ब्७, D.२१३अ४, N.२२९अ५, Cह्.३६७अ२२ तासु पुनः शिक्षणा येन योगेन ताः शिक्षा निष्पादयति / तत्र
SK
(३) भवेत् षडङ्गसंपन्नश् चतुःस्थितिसुखान्वितः / चतुर्षु चतुराकारज्ञानशुद्धः सदा भवेत् // इति //
SK
अनया गाथया यथाक्रमं तासां तिसृणां शिक्षाणां प्रयोगं दर्शयति / ᳚षडङ्गसंपन्न᳚ इत्य् अधिशीलंशिक्षाम् अधिकृत्य शिक्षाणां षडङ्गानि / शीलवान् विहरति, प्रातिमोक्षसंवरसंवृतः, आचारसंपन्नः, गोचरसंपन्नः, अणुमात्रेष्व् अवद्येषु भयदर्शी, समादाय शिक्षते शिक्षापदेष्व् इत्य् एभिश् च षड्भिर् अङ्गैश् चतुर्विधा शीलविशुद्धिः परिदीपिता/
SK
तत्र ᳚शीलवान् विहरती᳚त्य् अधिकृत्य ᳚प्रातिमोक्षसंवरसंवृत᳚ इत्य् अनेन नैर्याणिकशीलता विशुद्धिः, मोक्षाधिकारिकं हि नैर्याणिकम् / ᳚आचारगोचरसंपन्न᳚ इत्य् एताभ्याम् अनुत्कृष्टशीलता विशुद्धिः / ᳚अणुमात्रेष्व् अवद्येषु भयदर्शी᳚ति निश्छिद्रशीलता विशुद्धिः / ᳚समादाय शिक्षते शिक्षापदेष्व्᳚ इत्य् अविपर्यस्तशीलता विशुद्धिः /
SK
एवं षडङ्गसंपन्नतयाधिशीलंशिक्षाप्रयोगं निश्रित्य ᳚चतुःस्थितिसुखान्वित᳚ इत्य् अधिचित्तंशिक्षाप्रयोगं दर्शयति /
SK
चत्वारि ध्यानानि चतुर्विधा चित्तस्थितिः, सा च दृष्टधर्मसुखविहारत्वात् सुखेत्य् उच्यते /
SK
᳚चतुर्षु चतुराकारज्ञानशुद्धः सदा भवेद्᳚ इत्य् अधिप्रज्ञंशिक्षाम् अधिकृत्याह / चतुर्षु दुःखसमुदयनिरोधमार्गसत्येष्व् एकैकस्मिन्न् अनित्यादिचतुराकारज्ञानशुद्धिप्रभाषितत्वाद् अधिप्रज्ञंशिक्षायाः //
SK
A. I-४ Mस्.१*अ७R, Mस्G,२६ब्२L, P.२४६ब्२, D.२१३ब्५, N.२३०अ१, Cह्.३६७ब्१३ (४) सुप्रतिष्ठितमूलः स्याच् चित्तस्योपशमे रतः / संयुक्तो ऽथ विसंयुक्तो दृष्ट्या दृष्ट्यार्यपापया // इति //
SK
अनया गाथया शिक्षात्रयस्य क्रमेणोत्पत्तिं दर्शयति / मूलं ह्य् अधिशीलं (Śभ् II ३४४) प्रथमा शिक्षा / तदन्वयत्वाद् उत्तरयोः /
SK
ततः शीलवतो ऽविप्रतिसाराद्यनुपूर्व्या चित्तसमाधानाभिरत्या द्वितीया /
SK
ततः समाहितचित्तस्य यथाभूतदर्शनाद् आर्यदृष्टिसंयोगतः पापदृष्टिवियोगतश् च तृतीया //
SK
A. I-५ Mस्.र्ब्२L, Mस्G,२६ब्२M, P.२४६ब्५, D.२१४अ१, N.२३०अ४, Cह्.३६७ब्१९ (५) आदिशुद्धो ध्यानरतः सत्ये च कुशलो भवेत् / उत्पादयेद् वर्जयेच् च बृंहयेत् सत्यम् एव च // इति //
SK
अनया गाथया तासाम् एव तिसृणां शिक्षाणां यथाक्रमं शुद्धिविशेषं दर्शयति / तत्र ᳚आदिशुद्ध᳚ इति प्रथमायाः / ᳚ध्यानरत᳚ इति द्वितीयायाः / ᳚सत्ये च कुशल᳚ इति तृतीयायाः / तत् पुनः ᳚सत्यकौशल्यम् उत्पादयेद्᳚ इति मार्गसत्यस्योत्पादनात् / ᳚वर्जयेद्᳚ इति दुःखसमुदयसत्ययोर् वर्जनात् / ᳚बृंहयेद्᳚ इति निरोधसत्यस्य पुनः पुनर् मृदुमध्याधिमात्रक्लेशप्रहाणनिरोधेन ब्र्ंहणात् /
SK
A. I-६ Mस्.१*ब्३R, Mस्G,२६ब्३L, P.२४७अ१, D.२१४अ४, N.२३०अ७, Cह्.३६७ब्२६ (६) शिक्षापदेषु विद्यन्ते चतस्रो गतयस् त्रिषु / विवर्जयित्वा द्वे गती द्वे गती समुदानयेत् // इति //
SK
अनया गाथया शीलचित्तप्रज्ञाख्येषु शिक्षाधिष्ठानेषु शिक्षाणां संपादनविपादनाद्, यथासंभवं तत्फलभूता याश् चतस्रो गतयः,
SK
कामधातौ देवमनुष्यसंगृहीता सुगतिर् अधिशीलसंपत्तिफला, कामधाताव् एव तदन्यगतिसंगृहीताधिशीलविपत्तिफला दुर्गतिः, रूपारूप्यधातौ देवगतिसंगृहीताधिचित्तफला ऊर्ध्वगतिः, त्रैधातुकापर्यापन्ना चाधिप्रज्ञफला निर्वाणगतिः /
SK
एताभ्यो गतिभ्य आद्ये द्वे सुगतिदुर्गती वर्जयित्वा, उत्तरे द्वे ऊर्ध्वगतिनिर्वाणगती समुदानयेल् लौकिकलोकोत्तराभ्यां मार्गाभ्याम् इत्य् एतद् दर्शयति //
SK
A. II Mस्. १ *ब्५R, Mस्G.२६ब्३M, P.२४७अ७, D.२१४ब्१ N.२३०ब्५, Cह्.३६७च्७ (७) द्वे द्वयप्रत्युपस्थाने एका निर्वाणगामिनी / अनुपूर्वोपनिषदभिन्नसंभिन्नभाविता // इति //
SK
अस्यां गाथायां यथाधिशीलाधिचित्तशिक्षयोः प्रथमायाश् चानुपूर्वेणाधिचित्ताधिप्रज्ञशिक्षाद्वयोपनिषद्भावेन प्रत्युपस्थानम् / मध्यमायाश् चाधिप्रज्ञध्यानसंवरसंगृहीताधिशीलशिक्षा द्वयोपणिषद्भावेन प्रत्युपस्थानम् / उत्तमायाश् चैकस्या निर्वाणोपनिषद्भावेन प्रत्युपस्थानम् / व्यस्तसमस्तानं च यथासंभवं भावनाम् / तद् दर्शयति //
SK
A. II-१ Mस्.र्ब्७R, Mस्G.२६ब्३M, P.२४७ब्३, D.२१४ब्४, N.२३१अ१, Cह्.३६७च्१४ (८) निष्कौकृत्यो भवेद् आदौ पश्चाच् च सुखितो यतः / आद्यासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः // इति //
SK
अनया गाइहया यथाधिशीलंशिक्षा अविप्रतिसाराद्यानुपूर्व्या, उत्तरोपनिषद्भावेन वर्तते / तद् दर्शयति //
SK
A. II-२ Mस्.२ऽअ१M, Mस्G.२६ब्३R, P.२४७ब्४, D.२१४ब्५, N.२३१अ२, Cह्.३६७च्१६ (९) यतो विशोधयेज् ज्ञानं शुभोत्पत्तिसमन्वितः / मध्यासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः // इति //
SK
अधिचित्तंशिक्षाया भावनामयविशिष्टकुशलमूलोत्पत्त्याद्यानुपूर्व्या (Śभ् II ३४८) उत्तमशिक्षोपनिषत्त्वं दर्शयति //
SK
A. II-३ Mस्.२*अ२L, Mस्G.२६ब्४L, P.२४७ब्६, D.२१४ब्६, N.२३१अ४, Cह्.३६७च्२० (१०) यतो विमोचयेच् चित्तं प्रपञ्चं च निरोधयेत् / श्रेष्ठासौ सर्वशिक्षाणां यत्र शिक्षेत पण्डितः // इति //
SK
अधिप्रज्ञंशिक्षाया निर्वाणोपनिषत्त्वाच् छ्रेष्ठत्वं दर्शयति //
SK
A. II-४-अ Mस्.२*अ२M, Mस्G.२६ब्४M, P.२४७ब्७, D.२१४ब्७, N.२३१अ५, Cह्.३६७च्२३ (११) अशुद्धिगामिनी प्रतिपत् तथा सुगतिगामिनी / आद्या प्रतिपद् उक्तेयं सा च निष्केवला मता // इति //
SK
यथाधिशीलंशिक्षा विपादिता दुर्गतिहेतुः, संपादिता च सुगतिहेतुः, केवलापि च विनोत्तराभ्यां शिक्षाभ्यां शक्यते संपादयितुम् / तद् दर्शयति //
SK
A. II-४-ब् Mस्.२*अ३M, Mस्G.२६ब्४R, P.२४८अ१, D.२१५अ२, N.२३१अ६, Cह्.३६७च्२६ (१२) विशुद्धिगामिनी प्रतिपन् न सर्वात्यन्तगामिनी / मध्या प्रतिपद् उक्तेयं मापि निष्केवला मता // इति //
SK
यथा मध्यमा प्रतिपत् कामधातुवैराग्यविशुद्ध्या विशुद्धगामिनी, ऊर्ध्वधात्ववैराग्यात् कामरागानुशयस्य चात्यन्त [म फ्यिन् पऽइ फ्यिर् / थम्स् चद् ग्तन् दु र्नम् पर् दग् पर् ऽग्रो ब म यिन् प दङ् / जि ल्तर् म्छोग् मेद् चिङ् दङ् पो मेद् पर् ऽबऽ źइग् गिस् ऽग्रुब् पर् मि ऽग्युर् ब दे स्तोन् तो //]
SK
A. II-४-च् Mस्-, Mस्G.२६ब्५L, P.२४८अ४, D.२१५अ४, N.२३१ब्१, Cह्.३६८अ२ (१३) विशुद्धगामिनी प्रतिपद् या सर्वात्यन्तगामिनी / श्रेष्ठा प्रतिपद् उक्तेयं स नैवाद्वयकेवल // [चेस् ब्य ब नि /
SK
खम्स् ग्सुम् पऽइ ऽदोद् छग्स् दङ् ब्रल् ब दङ् / बग् ल ञल् यङ् ग्तन् फ्यिन् प दङ् जि ल्तर् म्छोग् दे थम्स् चद् ग्तन् दु ऽग्रो ब यिन् ल / स्ङ म ग्ञिस् मेद् पर् यङ् ग्चिग् पुस् ऽग्रुब् पर् मि ऽग्युर् ब दे स्तोन् तो //]
SK
A. IIल्-१ Mस्.२*अ४L, Mस्G.२६ब्५M, P.२४८अ६, D.२१५अ५, N.२३१ ब्३, Cह्.३६८अ५ (१४अ) शिक्षेत यो न शिक्षेत उभौ तौ पण्डितौ मतौ /
SK
[zएस् ब्य बऽइ त्स्हिग्स् सु ब्चद् प फ्येद् क्यिस् नि ब्स्लब् प ग्सुम् पो ऽदि दग् ल ब्स्लब् प र्नम्स् यङ् दग् पर् स्लोब् क्यि / लोग् पर् मि] शिक्षणात् पण्डितलक्षणं दर्शयति /
SK
(१४ब्) शिक्षेत यो न शिक्षेत उभौ तौ बालसंमतौ // इति //
SK
उत्तरार्धेन मिथ्याशिक्षाणां नैव च शिक्षाणां बाललक्षणं दर्शयति //
SK
A. IIल्-२ Mस्.२*अ४M, Mस्G.२६ब्५M, P.२४८अ८, D.२१५अ७, N.२३१ब्५, Cह्.३६८अ११ (१५) परिग्रहपरित्यागाद् दौष्ठुल्यापगमात् तथा / प्रत्यक्षत्वाच् च ज्ञेयस्य शिक्षादानं त्रिधा भवेत् // इति //
SK
यस्य गृहकलत्रादिपरिगृहीतपरित्यागाद् यस्य समाधिविपक्षस्य दौष्ठुल्यस्य प्रहाणाद् यस्य च चतुःसत्यलक्षणस्य ज्ञेयतत्त्वस्य प्रत्यक्षीकरणाद् यथाक्रमं शिक्षात्रयं संपद्यते, तद् दर्शयति //
SK
A. IIल्-३ Mस्.२*अ५M, Mस्G.२६ब्५R, P.२४८ब्३, D.२१५ब्१, N.२३१ब्७, Cह्.३६८अ१६ (१६अ) सालम्बनानालम्बनाः सूक्ष्मौदारिकसंहिताः // इति //
SK
अनेन गाथार्धेनोत्तमयोः प्रथमायाश् च यथाक्रमं सालम्बनानालम्बनत्वेन सूक्ष्मौदारिकत्वेन प्रभेदं दर्शयति //
SK
(१६ब्) समादानप्राविवेक्यघोष-आभोगसंहृताः // इति //
SK
उत्तरार्धेन प्रथममध्यमोत्तमानां यथाक्रमं प्रतिज्ञानाभिनिर्हृतत्वं कायचित्तविवेकाभिनिर्हृतत्वं परघोषाध्यात्मयोनिशोमनस्काराभिनिर्हृतत्वं च दर्शयति //
SK
A. IIल्-४ Mस्.२*अ६R, Mस्G.२६ब्६L, P.२४८ब्६, D.२१५ब्४, N.२३२अ३, Cह्.३६८अ२१ (१७) एका एका भवेच् छिक्षा सद्वितीयापरा भवेत् / एका स्यात् सतृतीयैव ता बुधः समतिक्रमेत् // इति //
SK
प्रथमाम् एकां केवलाम् उपदर्शयति / मध्यमा तु न विना ताम्, उत्तमा न विना ते / ताभ्यश् च समतिक्रमो ऽशैक्षस्यार्हतो वेदितव्यः //
SK
A. IV-१ Mस्.२*अ७M, Mस्G.२६ब्६M, P.२४८ब्८, D.२१५ब्५, N.२३२अ४, Cह्.३६८अ२४ (१८) अभ्रष्टशीलः शिक्षासु प्रतिज्ञोपगतो भवेत् / अगर्हितसमाचारः पञ्चस्थानविवर्जितः // इति //
SK
᳚अभ्रष्टशीलः शिक्षास्व्᳚ इति शीलवान् विहरतीत्य् एतद् दर्शयति / ᳚प्रतिज्ञोपगतो भवेद्᳚ इति प्रतिमोक्षसंवरसंवृतत्वम् / ᳚अगर्हितसमाचार᳚ऽ इत्य् आचाराविपत्तिम् / ᳚पञ्चस्थानविवर्जित᳚ इति गोचराविपत्तिम् / पञ्चस्थानानि भिक्षोर् अगोचरः, राजकुलं घोषः पानागारं वेशश् चण्डालकठिनं च / तत्र घोषः सूना द्रष्टव्या / तत्रोद्घोषौरभ्रिकादिभिर् अभ्यस्तावद्यं पापकर्मोरभ्रादिवधः क्रियते //
SK
A. IV-२ Mस्.२*ब्१L, Mस्G.२६ब्६R, P.२४९अ५, D.२१६अ२, N.२३२ब्१, Cह्.३६८ब्४ (१९अ) अनापत्ताथ व्युत्थाता निष्कौकृत्यो ऽथ कौकृती / इति //
SK
अणुमात्रेष्व् अवद्येषु भयदर्शितां दर्शयति / तत्र यथा व्युत्थाता तथा निष्कौकृत्यः, यथा कौकृती तथानापत्ता //
SK
(१९ब्) शिक्षाम् आगमयेत् तत्र प्रतिपद्येत भावतः // इति //
SK
समादाय शिक्षते शिक्षापदेष्व् इति, एतद् दर्शयति //
SK
A. IV-३ Mस्.२*ब्१R, Mस्G.२६ब्७L, P.२४९अ७, D.२१६अ३, N.२३ब्३, Cह्.३६८ब्७ (२०) प्रत्याख्यानं न कुर्वीत जीवितार्थं न नाशयेत् / प्रतिपत्तौ स्थितो नित्यं प्रवृत्तविनयो भवेत् // इति //
SK
अनया गाथया चतुर्भिः पदैर् यथाक्रमं ध्रुवशीलतां दृढशीलतां साततकारितां साततवर्तितां च दर्शयति //
SK
A. IV-४ Mस्.२*ब्२M, Mस्G.२६ब्७M, P.२४९ब्१, D.२१६अ४, N.२३२ब्४, Cह्.३६८ब्१० (२१अ) प्रतिज्ञां शोधयेत् पूर्वम् आजीवम् अपि शोधयेत् / इति /
SK
अनेन गाथार्धेन आचाराजीवविशुद्धिं दर्शयति / आचारस्य हि प्रतिज्ञापूर्वकम् आचरणम् इति प्रतिज्ञेत्य् उच्यते /
SK
(२१ब्) अन्तद्वयं वर्जयित्वा प्रणिधानं विवर्जयेत् // इति //
SK
कामसुखल्लिकानुयोगान्तात्मक्लमथानुयोगान्तयोः स्वर्गादिप्रणिधानस्य च विवर्जनाच् छीलविशुद्धिम् एव दर्शयति //
SK
A. V-१-अ Mस्.२*ब्३M, Mस्G.२६ब्७R, P.२४९ब्३, D.२१६अ६, N.२३२ब्६, Cह्.३६८ब्१५ (२२) अन्तरायकरान् धर्मान् नाभिगृध्येत् कथंचन / चित्तक्षोभकरान् धर्मान् उत्पन्नान् नाधिवासयेत् // इति //
SK
अनया गाथया, इन्द्रियागुप्तद्वारतादीनां शिक्षाविशुद्ध्यन्तरायकराणाम् अगुणदर्शित्वेनानध्यवसानात् / अकुशलानां च कामव्यापादवितर्कादीनां मनःसंक्षोभकराणाम् उत्पन्नानाम् अनधिवासनेन शिक्षाविशुद्धिं दर्शयति //
SK
A. V-१-ब् Mस्.२*ब्४M, Mस्G.२६ब्७R, P.२४९ब्६, D.२१६ब्१, N.२३३अ१, Cह्.३६८ब्२० (२३) नातिलीनो नातिसृतः सदा सूपस्थितस्मृतिः / मूलसामन्तकैः शुद्धं ब्रह्मचर्यं चरेद् अपि // इति //
SK
मन्दकौकृत्यास्थानकौकृत्यविवर्जनया स्मृतिसंप्रमोषविवर्जनया च निष्ठाकालप्रयोगकालयोर् ब्रह्मचर्यशुद्धिं परिदीपयति //
SK
A. V-१-च् Mस्.२*ब्५L, Mस्G.२६ब्८L, P.२४९ब्७, D.२१६ब्२, N.२३३अ३, Cह्.३६८द् (२४) भवेद् आरब्धवीर्यश् च नित्यं दृढपराक्रमः / निषेवेताप्रमादं च पञ्चाङ्गं सुप्रतिष्ठितः // इति //
SK
संनाहप्रयोगाव्यावर्त्यवीर्यतया पञ्चविधाप्रमादनिषेवणतया च शिक्षाविशुद्धिविशेषम् एवं दर्शयति / तत्र पञ्चाङ्गो ऽप्रमादो ऽतीतानागतप्रत्युत्पन्नपूर्वकालकरणीयसहानुचरः //
SK
A. V-१-द् Mस्.२*ब्६L, Mस्G.२६ब्८M, P.२५०अ२, D.२१६ब्४, N.२३३अ५, Cह्.३६८च्१० (२५) भवेत् प्रच्छन्नकल्याणस् तथा विवृतपापकः / लूहेन वा प्रणीतेन तुष्टः स्याच् चीवरादिना //
SK
(२६) अल्पेन वर्तयेद् यात्रां लूहेनापि च वर्तयेत् / धूतान् गुणान् समादद्यात् शमार्थं क्लेशवर्जितः //
SK
एताभ्यां गाथाभ्यां ज्ञात्रकामताया महेच्छतासंतुष्टिहेतुभूतायाः, तयोश् च महेच्छतासंतुष्ट्योः शिक्षाविशुद्धिविबन्धहेत्वोः परिवर्जनेन शिक्षाविशुद्धिं दर्शयति //
SK
A. V-१-ए Mस्.२*ब्७M, Mस्G.२७अ१M, P.२५०अ५, D.२१६ब्६, N.२३३अ७, Cह्.३६८च्१५ (२७) स्याद् ईर्यापथसंपन्नो मात्रां कुर्यात् प्रतिग्रहे / तदर्थं कल्पिताम् ईर्यां कुर्यान् नैव कथंचन // इति //
SK
ईर्यापथसंपत्त्या परेषाम् अकुहनार्थया प्रतिग्रहमात्रज्ञतया च यावद् ब्रह्मचर्यवासाज् जीवितस्थित्युपकरणोपादानाच् छिक्षाविशुद्धिम् एव दर्शयति //
SK
A. V-१-f Mस्.२*ब्८L, Mस्G.२७अ१M, P.२५०अ७, D.२१६ब्७, N.२३३ब्२, Cह्.३६८च्१९ (२८) आत्मनश् च गुणान् भूतान् न लपेन् नापि लापयेत् / तान् गुणान् अथ चार्थित्वं निमित्तेन न दर्शयेत् //
SK
(२९) परेषाम् अन्तिकात् कुर्यान् नोपरोधेन याचनाम् / धर्मणोपगतं लाभं लाभेनेह न संचयेत् // इति //
SK
एताभ्यां गाथाभ्यां लपनानैमित्तिकतानैष्पेशिकतालाभेनलाभनिश्चिकीर्षुकतापरिवर्जनेन शिक्षाविशुद्धिविशेषं दर्शयति //
SK
A. V-१-f-(१) Mस्.३*अ१L, Mस्G.२७अ२L, P.२५०ब्१, D.२१७अ१, N.२३३ब्४, Cह्.३६८च्२४ (३०) लाभं नैवाभिगृध्येत सत्कारं च कथंचन / दृष्टिं च नाभिनिविशेत् समारोपापवादिकाम् // इति //
SK
लाभसत्कारागृद्धतया पञ्चविधकुदृष्ट्यनभिनिवेशतश् च विशुद्धिविशेषं दर्शयति //
SK
A. V-१-f-(२) Mस्.३*अ१M, Mस्G.२७अ२M, P.२५०ब्३, D.२१७अ३, N.२३३ब्५, Cह्.३६८च्२७ (३१) लोकायतांस् तथा मन्त्रान् निरर्थान् न परामृशेत् / अपार्थं धारयेन् नैव उत्सदं पात्रचीवरम् // इति //
SK
कुदृष्टिहेतूनाम् इतोबाह्यककुशास्त्राणां पञ्चोपादानस्कन्धविप्रतिबन्धार्थेन लोकायतकृतानाम् अपरामर्षतः, लाभसत्कारगृद्धिहेतोश् च उत्सदपात्रचीवरधारणस्य परिवर्जनतो हेतुविशुद्ध्या शिक्षाविशुद्धिं दर्शयति //
SK
A. V-१-ग् Mस्.३*अ२M, Mस्G.२७अ२R, P.२५०ब्६, D.२१७अ५, N.२३४अ१, Cह्.३६९अ५ (३२) गृहस्थैः सहसंसर्गं न कुर्यात् क्लेशवर्धनम् / आर्यैस् तु सहसंसर्गं कुर्याज् ज्ञानविशोधनम् // इति //
SK
विपक्षहेतोः प्रतिपक्षहेतोश् च वर्जनात् सेवनाच् च विशुद्धिं दर्शयति //
SK
(३३) कुर्यान् मित्रकुलं नैव शोकव्याक्षेपकारकम् / दुःखस्य जनकान् क्लेशान् उत्पन्नान् नाधिवासयेत् // इति //
SK
यथा गृहस्थैः सहसंसर्गः शोकव्याक्षेपं कृत्वा क्लेशविवर्धनो दुःखहेतुः, यथा चार्यसंसर्गो दुःखजनकक्लेशोत्पन्नानधिवासनया प्रतिपक्षहेतुः, तद् दर्शयति //
SK
A. V-१-ह् Mस्.३*अ३R, Mस्G.२७अ३M, P.२५१अ२, D.२१७ब्१, N.२३४अ४, Cह्.३६९अ१३ (३४) श्रद्धादेयं न भुञ्जीत कथंचिच् च क्षतव्रतः / प्रत्याख्यानं न कुर्वीत सद्धर्मस्य कथंचन // इति //
SK
लाभसत्कारानभिगृद्धेः कुदृष्ट्यनभिनिवेशस्य च श्रद्धादेयाविनिपातनेन सद्धर्माप्रतिक्षेपणेन चायत्याम् अपि कामाध्यवसानकुदृष्ट्युत्पादहेतुपरिवर्जनतो विशुद्धिविशेषं दर्शयति //
SK
A. V-१-इ Mस्.३*अ४R, Mस्G.२७अ३M, P.२५१अ४, D.२१७ब्३, N.२३४अ६, Cह्.३६९अ१८ (३५) परेषां स्खलिते दोषे अनाभोगः सुखी भवेत् / आत्मनः स्खलितं दोषं ज्ञात्वा विवृणुयात् पुनः // इति //
SK
परेषां च दोषदर्शनाभोगविवर्जनेन, स्वकुशलपक्षाविक्षेपसौमनस्योत्पत्त्या, आत्मदोषपरिज्ञानाविष्करणेन च निरभिमानतया शिक्षाविशुद्धिं दर्शयति //
SK
A. V-१-ज् Mस्.३*अ५R, Mस्G.२७अ३R, P.२५१अ६, D.२१७ब्४, N.२३४अ७, Cह्.३६९अ२३ (३६) आपत्तिं च तथापन्नो यथाधर्मं प्रकल्पयेत् / तथेतिकरणीयेषु स्वयंकारी पटुर् भवेत् // इति //
SK
आपत्तिव्युत्थानतः परेभ्यश् चोपस्थानपरिचर्यास्वीकरणकामतापरिवर्जनतो ऽपि विशुद्धिं दर्शयति //
SK
A. V-१-क् Mस्.३ऽअ६M, Mस्G.२७अ४L, P.२५१अ८, D.२१७ब्५, N.२३४ब्२, Cह्.३६९अ२६ (३७) बुद्धानां श्रावकाणां च अनुभावं च देशनाम् / श्राद्धो ऽवद्यदर्शी च नाभ्याचक्षीत सर्वथा // इति //
SK
श्रद्धासंपत्त्या अभ्याख्याने चावद्यदर्शितया विशुद्धिः परिदीपिता //
SK
A. V-१-ल् Mस्.३*अ६R, Mस्G.२७अ४M, P.२५१ब्१, D.२१७ब्६, N.२३४ब्३, Cह्.३६९अ२९ (३८) सुगम्भीरेषु धर्मेषु अतर्कावचरेषु च / पौराणम् आगमं त्यक्त्वा स्वदृष्टिं न परामृशेत् // इति //
SK
स्वयंदृष्टिपरामर्षस्थायित्वपरिवर्जनतो ऽपि विशुद्धिविशेषः परिदीपितः //
SK
A. V-२-अ Mस्.३*अ७M, Mस्G.२७अ४R, P.२५१ब्३, D.२१७ब्७, N.२३४ब्४, Cह्.३६९ब्३ (३९) व्यवकृष्टविहारी स्यात् प्रान्ते हि शयनासने / कुशलान् भावयेद् धर्मान् दृढवीर्यपराक्रमः // इति //
SK
कायचित्तस्य व्यवकृष्टतया समाध्यनुकूलशयनासनासेवनतया अकुशलवितर्कवर्जितैकान्तशुक्लधर्मभावनया लयौद्धत्याद्युपक्लेशानभिभवनीयत्वेन च सुसंनद्धप्रयोगतयाधिचित्तंशिक्षणोपायविशेषं दर्शयति //
SK
A. V-२-ब् Mस्.३*अ८L, Mस्G २७अ५L, P.२५१ ब्६, D.२१८अ२, N.२३४ब्६, Cह्.३६९ब्८ (४०) अच्छन्दिकश् छन्दजातः अप्रदुष्टो विदूषणः / निर्मिद्धश् चैव मिद्धीव काले शान्तो न च स्थितः //
SK
(४१) निष्कौकृत्यः सकौकृत्यो निःकाङ्क्षो ऽथ च काङ्क्षति / सर्वथा सर्वदा युक्तो भवेत् संयक्प्रयोगवान् // इति //
SK
आभ्यां गाथाभ्यार्ह्* कामच्छन्दव्यापादस्त्यानमिद्धौद्धत्यकwकृत्यविचिकित्सानिवरणपरिवर्जनात् कुशलधर्मच्छन्दिकतया कामविदूषणेन, कुशलपक्षप्रयोगकल्यतानिमित्तं च काले मिद्धनिषेवणेन, चित्तं शमयतश् च लीयमाने चित्ते तदाशङ्किनि वा प्रसदनीयनिमित्तमनसिकाराच् छमानवस्थितत्वेन, चारगतस्य च प्राग् आपत्तेस् तदनध्याचारतः सकौकृत्यतया, उत्तरोत्तरविशेषाकाङ्क्षणतया च सत्कृत्यसातत्येन च संयक्प्रयुक्तस्य चाधिचित्तंशिक्षाविशुद्धिं दर्शयति //
SK
A. V-२-च् Mस्.३*ब्१M, Mस्G.२७अ५M, P.२५२अ३, D.२१८अ६, N.२३५अ३, Cह्.३६९ब्१८ (४२) नुदनो बोधनश् चैव तथा संयोजनो ऽपरः / नैमित्तिकस्नेहनश् च तथा विलसनो ऽपरः //
SK
(४३) निष्पीडनश् च परमः स्नेहनः कल्प उच्यते / कामरागस्य जनकस् तं बुधः परिवर्जयेत् // इति //
SK
अत्राष्टविधस्य विकल्पस्य मैथुनरागजनकस्यादाव् आरभ्य क्रमेणोत्पद्यमानस्य यावन् निष्ठागमनतः परिवर्जनया शिक्षाविशुद्धिविशेषः परिदीपितः /
SK
तत्र नुदनो विकल्पो यो रञ्जनीये वस्तुन्य् अयोनिशोमनस्कारसंप्रयुक्तश् चित्तस्य प्रेरकः / बोधनो यस् तस्मिन्न् एव वस्तुनि प्रबुद्धरागपर्यवस्थानसंप्रयुक्तः / (Śभ् II ३६६) संयोजनस् तस्यैव वस्तुनः पर्येषकः / नैमित्तिकस् तस्मिन्न् एव वस्तुनि विचित्रशुभनिमित्तग्रहकः / स्नेहनः प्राप्ते तस्मिन् वस्तुन्य् अध्यवसानसंप्रयुक्तः / विलसनो यस् तस्मिन्न् एव वस्तुनि विचित्रपरिभोगाभिलाषनानामुखप्रवृत्तः / निष्पीडनो यो द्वयद्वयेन्द्रियसमापत्तिकाले / परमस्नेहनो यो ऽशुचिविप्रमोक्षकाले //
SK
A. V-२-द्-(१) Mस्.३ऽब्३R, Mस्G.२७अ६L, P.२५२ब्२, D.२१८ब्३, N.२३५ब्१, Cह्.३६९च्४ (४४) अतृप्तिकरकाः कामाः बहुसाधारणास् तथा / अधर्महेतवश् चैव तथा तृष्णाविवर्धकाः //
SK
(४५) सतां विवर्जनीयाश्च क्षिप्रं विलयगामिनः / प्रत्ययेष्व् आश्रिताः कामाः प्रमादस्य च भूमयः // इति //
SK
अष्टाभिर् आकारैर् दृष्टे धर्मे संपराये च यथायोगं कामानाम् आदीनवदर्शनेन कामच्छन्दप्रहाणोपायं दर्शयति //
SK
A. V-२-द्-(२) Mस्.३*ब्४M, Mस्G.२७अ६R, P.२५२ब्४, D.२१८ब्५, N.२३५ब्३, Cह्.३६९च्८ (४६) करङ्कसदृशाः कामाः मांसपेश्युपमास् तथा / तृणोल्कासदृशाश् चैव तथा अग्निशिखोपमाः //
SK
(४७) आशीविषोपमाश् चैव तथा स्वप्नोपमाः पुनः / याच्ञालंकारसदृशास् तथा वृक्षफलोपमाः //
SK
(४८अ) एवं कामान् परिज्ञाय नाभिगृध्येत् कथंचन // इति //
SK
अत्र पूर्वोक्तानाम् अष्टानाम् अतृप्तिकरत्वादिनां कामेष्व् आदीनवानाम् सर्वलोकसिद्धैर् उपमोपन्यासैर् आदीनवत्वं दर्शयति / ये नामैवं बहुष्व् आविष्कृतादीनवाः कथं नाम तेषु पण्डितो गृध्येद् इति संदर्शनार्थम् /
SK
तत्रातृप्तिकरकाः करङ्कसदृषत्वात् / बहुसाधारणा मांसपेश्युपमत्वात् / अधर्महेतवस् तृणोल्कासादृश्येनात्यक्तादहनप्रत्युपस्थानतया / तृष्णाविवर्धना अग्निखदोपमतया तृष्णासंजननसाधर्म्येण / (Śभ् II ३६८) सतां वर्जनीया आशीविषोपमतया / क्षिप्रं विलयगामिनः स्वप्नोपमतया / प्रत्ययाश्रिता याच्ञालंकारसदृशतया / प्रमादभूमयो वृक्षाग्रफलोपमतया //
SK
A. V-३ Mस्.३*ब्६R, Mस्G.२७अ७M, P.२५३अ२, D.२१९अ३, N.२३६अ१, Cह्.३६९च्२२ (४८ब्) सद्धर्मं शृणुयान् नित्यं चिन्तयेद् भावयेद् अपि / (४९) शान्तौदारिकदर्शी प्राग् भावनैकान्तिको भवेत् / विजह्य क्लेशदौष्ठुल्यं प्रहाणे च रतो भवेत् //
SK
(५०) मीमांसकः स्यान् निमित्ते प्रयोगपरमो भवेत् / कुर्याच् च कामवैराग्यं रूपवैराग्यम् एव च //
SK
(५१) सत्याभिसमयं कुर्यात् सर्ववैराग्यम् एव च / दृष्टे धर्मे च निर्वायात् तथा उपधि संक्षयात् // इति //
SK
अत्र लक्षणप्रतिसंवेद्यादिभिः सप्तभिर् मनस्कारैर् लौकिकलोकोत्तरमार्गविशुद्ध्या सोपधिनिरुपधिनिर्वाणफलाधिप्रज्ञंशिक्षाविशुद्धिः परिदीपिता /
SK
तत्र लक्षणप्रतिसंवेदी सद्धर्मश्रवणचिन्तनवचनेन परिदीपितः / अधिमोक्षिको भावनावचनेन / तदधिमुक्तिभावनतः / शान्तौदारिकदर्शी प्राग् इति प्राविवेक्यः / भावनैकान्तिको भवेद् इति रतिसंग्राहकः / मीमांसकः स्यान् निमित्त इति मीमांसामनस्कारः / प्रयोगपरमो भवेद् इति प्रयोगनिष्ठः / कुर्याच् च कामवैराग्यं रूपवैराग्यम् एव च / सत्याभिसमयं कुर्यात् सर्ववैराग्यम् एव चेति लौकिकलोकोत्तरप्रयोगनिष्ठाफलं च //
SK
// आभिप्रायिकार्थगाथानिर्देशः समाप्तः //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Śrāvakabhūmi (sa_zrAvakabhUmi.htm).

Source