(I)-A-II-४-ब्-(७) Mस्.२ब्८M, Sह्.१०-४, W.*६२-७, P.६अ८, D.५ब्४, N.७अ२, Cओ.६अ२, Cह्.३९७ब्१ भोजने मात्रज्ञता कतमा / स तथा संवृतेन्द्रियः प्रतिसंख्यायाहारम् आहरति, न दर्पार्थं न मदार्थं न मण्डनार्थं न विभूषणार्थं, यावद् एवास्य कायस्य स्थितये यापनायै जिघत्सोपरतये ब्रह्मचर्यानुग्रहाय इति / पौराणां च वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामि / यात्रा च मे भविष्यति बलं च सुखं चानवद्यता च स्पर्शविहारता च / इयम् उच्यते भोजने मात्रज्ञता //
तथापि परे ताम् आचारगोचरसंपदम् उपलभ्याप्रसन्नाश् च प्रसीदन्ति, प्रसन्नानां च भवति भूयोभावः, प्रसन्नाश् च प्रसन्नाधिकारं कुर्वन्ति / न च मनांसि प्रदूषयन्ति, नावर्णं निश्चारयन्ति / अन्यथा शीलसंपन्नस्याचारगोचरसंपन्नस्यायं पराधिपतेयो गुण आनुशंसा न भवेत्, (Śभ् I ७२) एतद्विपर्ययेण वास्य दोष एव भवेत् //
(Śभ् I १२६) एवम् अस्याहारस्थितिको ऽयं काय्ः सुचिरम् अपि तिष्ठञ् च वर्षशतं वा तिष्ठति / किंचिद् वा पुनर् भूयः सम्यक् परिह्रियमाणः / अस्ति चास्यार्वाग् उपरतिः / तत्र ये कायस्थितिमात्रे प्रतिपन्नाः न ते सुप्रतिपन्नाः, ये कायस्थितिमात्रकेण संतुष्टा न च ते सुसंतुष्टा, न च पुनस् त आहारकृतं परिपूर्णम् अनवद्यं अनुशंसं प्रत्यनुभवन्ति / ये पुनर् न कायस्थितिमात्रकेण संतुष्टाः, न कायस्थितिमात्रके प्रतिपन्नाः, अपि तु ताम् एव कायस्थितिं निश्रित्य ब्रह्मचर्यं समुदागमाय प्रतिपन्नाः, ते सुप्रतिपन्नाः, त एव च पुनः परिपूर्णम् अनवद्यम् अनुशंसं प्रत्यनुभवन्ति //
SK
(I)-C-IIल्-६-अ-(१)-इइ-(अ) Mस्.४७अ५L, Sह्.८२-३, W.*१४३-२९, P.३८ब्५, D.३२ब्१, N.३४ब्२, Cओ.३५ब्२, Cह्.४०९अ१६ ᳚तन् न मे प्रतिरूपं स्याद् यद् वा प्रत्यवरेणाहारानुशंसमात्रकेण संतुष्टो विहरेयम् / न मे प्रतिरूपं स्याद् यद् अहं बालसभागतां बालसहधार्मिकताम् अध्यापद्येयम्᳚ / एवम् आहारे सर्वाकारं परिपूर्णम् आदीनवं ज्ञात्वा स इतः प्रतिसंख्यायादीनवदर्सी, निःसरणान्वेषी चाहारनिःसरणार्थम् एव पुत्रमांसोपमम् आहारम् आहरति /
SK
तस्यैवं भवति / ᳚एवम् एते दायकदानपतयः कृच्छ्रेण भोगान् समुदानीय, महान्तं पर्येषणाकृतम् आदीनवं प्रत्यनुभवन्तः, प्रपीड्य प्रपीड्य त्वङ्मांसशोणितम् अस्माकम् अनुप्रयच्छन्ति / यदुतानुकम्पाम् उपादाय विशेषफलार्थिनस् तस्यास्माकं तथा प्रतिलब्धस्य पिण्डपातस्यायम् एवंरूपो ऽनुरूपः परिभोगः स्यात् / यद् अहं तथा (Śभ् I १२८ ) परिभूतम् आत्मानं स्थापयित्वा परिभुञ्जीय, यथा तेषां काराः कृता अत्यर्थं महाफलाः स्युर् महानुशंसा महाद्युतयो महाविस्ताराः, चन्द्रोपमश् च कुलान्य् उपसंक्रमेयं व्यवकृष्य कायं, व्यवकृष्य चित्तं ह्रीमान् अप्रगल्भः, अनात्मोत्कर्सी, अपरपन्सी / यथा स्वेन लाभेन सुचित्तः स्यां सुमनाः, एवं परस्यापि लाभेन सुचित्तः स्यां सुमनाः / एवंचित्तश् च पुनः कुलान्य् उपसंक्रमेयं, तत् कुत एतल् लभ्यं प्रव्रजितेन परकुलेषु यद् ददतु मे परे मा न ददतु / सत्कृत्य, मासत्कृत्य, प्रभूतं मा स्तोकं, प्रणीतं मा लूहं, त्वरितं मा धन्धम् / एवं चरितस्य मे कुलान्य् उपसंक्रामतः सचेत् परे न दद्युस् तेनाहं न तेषाम् अन्तिक आघातचित्ततया प्रतिघचित्ततया व्यवदीर्येयम् / न च पुनस् तन्निदानं कायस्य भेदाद् अपायोपपत्त्या विघातम् आपद्येयम् / यदुत ताम् एवाघातचित्ततां प्रतिघचित्तताम् अधिपतिं कृत्वा सचेद् असत्कृत्य न सत्कृत्य, सचेत् स्तोकं न प्रभूतम् / सचेल् लूहं न प्रणीतं, सचेद् धन्धं न त्वरितं दद्युः / तयाहं नाघातचित्ततया, प्रतिघचित्ततया च व्यवदीर्येयम्᳚ इति विस्तरेण पूर्ववत् / ᳚इमं चाहं कवडीकारम् आहारं निश्रित्य तथा तथा प्रतिपद्येयं, ताञ् च मात्रां प्रतिवेद्येयम् / येन मे जीवितेन्द्रियनिरोधश् (Śभ् I १३०) च न स्यान् न च पिण्डकेन क्लाम्येयम् / ब्रह्मचर्यानुग्रहश् च मे स्याद् एवं च मे श्रमणभावे प्रव्रजितभावे स्थितस्यायं पिण्डपातपरिभोगः प्रतिरूपश् च परिशुद्धश् चानवद्यश् च स्याद्᳚ एभिर् आकारैः स प्रतिसंख्यायाहारम् आहरति //
(I)-C-IIल्-६-अ-(५)-इइ-(ए) Mस्.४९ब्२L, Sह्.९३-१, W.*१४८-६, PA३अ७, D.३६अ५, N.३८ब्१, Cओ.३९ब्५, Cह्.४१०च्५ कथं ᳚यात्रा मे भविष्यति बलं च सुखं चानवद्यता च स्पर्शविहारता चे᳚त्य् आहरति / यत् तावद् भुक्त्वा जीवतीत्य् एवं यात्रा भवति / यत् पुनर् जिघत्सादौर्बल्यम् अपनयति एवम् अस्य बलं भवति / यत् पुनः पौराणां वेदनां प्रजहाति / नवां नोत्पादयत्य् एवम् अस्य सुखं भवति / यत् पुनर् धर्मेण पिण्डपातं पर्येष्ट्यारक्तः परिभुङ्क्ते ऽसक्त इति विस्तरेण पूर्ववद् एवम् अस्यानवद्यता भवति / यत् पुनर् (Śभ् I १४२) भुक्तवतो न गुरुकः कायो भवति, कर्मण्यश् च भवति, प्रहाणक्षमो विस्तरेण पूर्ववद् एवम् अस्य स्पर्शविहारता भवति /
SK
तेनाह प्रतिसंख्यायाहारम् आहरति / न द्रवार्थं, न मदार्थं, न मण्डनार्थम् इति विस्तरेण पूर्ववद् अयं तावद् भोजने मात्रज्ञताया विस्तरविभागः //
SK
(I)-C-IIल्-६-ब्-(१) Mस्.४९ब्४L, Sह्.९३-१४, W.M४८-१७, P,४३ब्४, D.३६ब्२, N.३८ब्५, Cओ.४०अ२, Cह्.४१०च्१५ समासार्थः पुनः कतमः / आह / यं च परिभुङ्क्ते यथा च परिभुङ्क्ते ऽयं समासार्थः / कं परिभुङ्क्ते / यदुत कवडंकारम् आहारं, मन्था वा, अपूपा वा, ओदनकुल्माषं वा विस्तरेण पूर्ववत् / कथं परिभुङ्क्ते / प्रतिसंख्याय परिभुङ्क्ते / न द्रवार्थं, न मदार्थं, न मण्डनार्थम् इति विस्तरेण पूर्ववत् //
SK
(I)-C-IIल्-६-ब्-(२) Mस्.४९ब्५L, Sह्.९३-२१, W.* १४८-२३, P.४३ब्७, D.३६ब्५, N.३८ब्७, Cओ.४०अ५, Cह्.४१०च्१९ पुनर् अपरः समासार्थः / प्रतिपक्षपरिगृहीतं च परिभुङ्क्ते कामसुखल्लिकान्तविवर्जितं चात्मक्लमथान्तविवर्जितं च ब्रह्मचर्यानुग्रहाय च /
SK
कथं प्रतिपक्षपरिगृहीतम् / यद् आह / प्रतिसंख्यायाहारम् आहरति /
SK
कथं कामसुखल्लिकान्तविवर्जितं च / यद् आह / न द्रवार्थं न मदार्थं, न मण्डनार्थं, न विभूषणार्थम् इति /
SK
कथम् आत्मक्लमथान्तविवर्जितम् / यद् आह / ᳚जिघत्सोपरतये, पौराणां च वेदनां प्रहास्यामि / नवां च नोत्पादयिष्यामि / यात्रा च मे भविष्यति / बलं च सुखं चे᳚ति /
SK
कथं ब्रह्मचर्यानुग्रहाय परिभुङ्क्ते / यद् आह / ब्रहमचर्यानुग्रहाय, ᳚अनवद्यता च स्पर्शविहारता च मे भविष्यती᳚ति //
SK
(I)-C-IIल्-६-ब्-(३)-(अ) Mस्.४९ब्६R, Sह्.९४-११, W.*१४८-३३, P.४४अ४, D.३७अ२, N.३९अ४, Cओ४०ब्२, Cह्.४१ल१ पुनर् अपरः समासार्थः / द्वयम् इदं भोजनं, चाभोजनं च / तत्राभोजनं यत् सर्वेण सर्वम् सर्वथा किंचिन् न परिभुङ्क्ते / (Śभ् I १४४) अभुञ्जानश् च म्रियते /
SK
तत्र भोजनं द्विविधम् / समभोजनं, विषमभोजनं च / तत्र समभोजनं यन् नात्यल्पं नातिप्रभूतम्, नापथ्यम्, नापरिणते न संक्लिष्टम् /
तस्यैवं भवति / ᳚मया खल्व् अयं ग्रामो वा निगमो वा पिण्डायोपसंक्रमितव्यः / पिण्डाय चरित्वा पुनर् एव विहारं प्रतिनिष्क्रमितव्यम् / सन्ति पुनर् अत्र कुलानि ग्रामे वा नगरे वा यानि मया नोपसंक्रमितव्यानि, तानि पुनः कतमानि / तद्यथा घोषंऽ पानागारं वेश्यं राजकुलं चण्डालकठिनम् / यानि वा पुनः कुलान्य् एकान्तेन प्रतिहतान्य् अप्रत्युदावर्तानि /
SK
सन्ति च पुनः कुलानि यानि मयोपसंक्रमितव्यानि / तद्यथा क्षत्रियमहासालकुलानि वा ब्राह्मणमहासलकुलानि वा गृहपतिमहासालकुलानि वा नैगमकुलानि वा जानपदकुलानि वा धनिकुलानि वा श्रेष्ठिकुलानि वा सार्थवाहकुलानि वा /
SK
यानि वा कुलानि मयोपसंक्रमितव्यानि तानि नातिसायम् उपसंक्रमितव्यानि तानि विकालम् / न च कार्यव्यग्रेषु दायकदानपतिषु, न क्रीडारतिमण्डनयोगम् अनुयुक्तेषु, न ग्राम्यधर्माय प्रवृत्तेषु, न कुपितेषु / तथा चोपसंक्रमितव्यानि यथोपसंक्रामन्न् अहं न भ्रान्तेन हस्तिना सार्धं समागच्छेयं न भ्रान्तेन रथेन पुनश् चण्डेनाश्वेन न चण्डया गवा न चण्डेन कुक्कुरेण / न गहनं न कण्टकवाटं वा मर्देयं, न श्वभ्रे पल्वले प्रपाते प्रपतेयम् / न स्यन्दनिकायां न (Śभ् I १९०) गूथकठिक्के / चन्द्रोपमश् च कुलान्य् उपसंक्रमेयं ह्रीमान् अप्रगल्भो व्यवकृष्य कायं व्यवकृष्य चित्तं न लाभकामो न सत्कारकामः / यथा स्वेन लाभेन सुचित्तः सुमनास् तथा परस्यापि लाभेन सुचित्तः सुमना अनात्मोत्कर्ष्य् अपरपंसको ऽनुकंपाचित्तो दयाचित्तः / एवं च पुनर् उपसंक्रमितव्यानि / तत् कुत एतल् लभ्यं प्रव्रजितेन परकुलेषु यद् ददतु मे परे मा न ददतु, यावत् त्वरितं मा धन्धम् इति विस्तरेण / उपसंक्रम्य च मे प्रतिग्रहे मात्रा करणीया / न च लाभहेतोः कुहना करणीया लपना नैमित्तिकता नैष्पेषिकता लाभेन लाभनिश्चिकीर्षता करणीया / स च लाभो ऽरक्तेन परिभोक्तव्यः, असक्तेनागृद्धेनाग्रथितेनामूधितेनानध्यवसितेनाध्यवसायम् अनापन्नेन᳚ //
SK
(I)-C-IIल्-८-अ-(३)-इइ Mस्. ५६अ६M, Sह्.१२२-२०, W.*७४,१७*;२०**, P.५८अ५, D.४८ब्७, N.५१अ५, Cओ.५३अ१, Cह्.४१५च्२० यानि च रूपाणि तत्रोपसंक्रमतोपसंक्रान्तेन वा द्रष्टव्यानि भवन्ति न तान्य् एकत्यानि द्रष्टव्यानि तानि चैकत्यानि द्रष्टव्यानि / तत्र यानि न द्रष्टव्यानि तेषूत्क्षिप्तचक्षुषा भवितव्यं सुसंवृतेन्द्रियेण / यानि पुनर् द्रष्टव्यानि तेषु सूपस्थितां स्मृतिम् उपस्थाप्य / (Śभ् I १९२) कथंरूपाणि पुना रूपाणि नावलोकयितव्यानि / तद्यथा नटो नर्तको हासको लासक इति / यद् वा पुनर् अन्यच् चारणजातं नृत्ते वा गीते वा वादिते वा प्रवृत्तम् / तथा मातृग्रामो विशेषेण पुनः शिशुर् उदारवर्णो रञ्जनीय इति / यानि च पुना रूपाणि दृष्टानि ब्रह्मचर्योपघाताय ब्रह्मचर्यान्तरायाय, पापकानां चाकुशलानां वितर्काणां समुदाचाराय संवर्तेरन् / तद्रूपाणि रूपाणि नावलोकयितव्यानि, न व्यवलोकयितव्यानि /
SK
᳚कथंरूपाणि पुना रूपाणि द्रष्टव्यानि᳚ / तद्यथा जीर्णं वा वृद्धं वा महIIअकं वा खुरुखुरुप्रश्वासकायं पुरतःप्राग्भारकायं दण्डम् अवष्टभ्य प्रवेपमानेन कायेन, आबाधिकं वा दुःखितं बाढग्लानम् आध्मातपादम् आध्मातहस्तम् आध्मातोदरम् आध्मातमुखं पाण्डुकछविवर्णम्, दर्द्रूलं वा कच्छूलं वा कुष्ठितं वा दुःखितहतगात्रम्, पक्वगात्रम् उपहतेन्द्रियं, मृतं वा कालगतम् एकाहमृतं वा द्व्यहमृतं वा सप्ताहमृतं वा, काकैः कुररैः खाद्यमानं, गृध्रैह् श्वभिः सृगालैर् विविधैर् वा तिर्यग्जातिगतैः प्राणिभिर् भक्ष्यमाणम् अभिनिर्ह्रियमाणं वा / मञ्च आरोप्योपरि वितानेन प्रसारितेन पुरतः पृष्ठतश् च महाजनकायेन रोदमानेन क्रन्दमानेन भस्मावकीर्णप्रमुक्तकेशेन तथा शोकजातं दुःखजातं परिदेवजातं दौर्मनस्यजातम् उपायासजातं, यन् ᳚मया द्रष्टव्यम्᳚ इत्य् एवंरूपाणि चान्यानि चैवंभागीयानि रूपाणि द्रष्टव्यानि, यानि ब्रह्मचर्यानुग्रहाय कुशलानां च वितर्काणां समुदाचाराय संवर्तन्ते //
SK
(I)-C-IIल्-८-अ-(३)-इइइ Mस्.५६ब्५R, Sह्.१२४-६, P.५९अ१, D.४९ब्२, N.५२अ१, Cओ.५३ब्३, Cह्.४१६अ१० न कायप्रचालकम् उपसंक्रमितव्यं न बाहुप्रचालकं न शीर्षप्रचालकं नोच्चग्घिकया न हस्तावलग्निकया न सोढौकिकया / नाननुज्ञातेनासने निषत्तव्यं, नाप्रत्यवेक्ष्यासनम्, न सर्वकायम् समवधाय, न पादे पादम् आधाय, न सक्थ्नि सक्थिना, नाभिसंक्षिप्य पादौ, नाभिविक्षिप्य पादौ //
SK
(I)-C-IIल्-८-अ-(३)-इव् Mस्.५६ब्६R, Sह्.१२४-१२, P.५९अ४, D.४९ब्४, N.५२अ३, Cओ.५३ब्५, Cह्.४१६अ१५ नोद्गुण्ठिकया कृतेन, नोच्चस्तिकया, न वितस्तिकया, न पर्यस्तिकया, परिमण्डलं चीवरं प्रावृत्य, नात्युत्कृष्टं नात्यपकृष्टम्, न हस्तिशुण्डकं न तालवृन्तकं न नागफणकं न कुल्माषपिण्डिकं चीवरं प्रावरितव्यम् / नानागते खादनीये पात्रम् उपनामयितव्यं, न च खादनीयभोजनीयस्योपरि धारयितव्यम् / नानास्तीर्णे पृथिवीप्रदेशे प्रपाते प्राग्भारे पात्रं स्थापयितव्यम् //
SK
(I)-C-IIल्-८-अ-(३)-व् Mस्.५७अ२L, Sह्.१२४-१९, P.५९अ७, D.४९ब्६, N.५२अ६, Cओ.५३ब्७, Cह्.४१६अ२० सावदानं पिण्डपातं परिभोक्तव्यम् / नौदनेन सूपिकं प्रतिच्छादयितव्यम्, न सूपिकेनौदनम् / नातित्तिनिकायोगम् अनुयुक्तेन परिभोक्तव्यम् / नातिस्थूलं नातिपरीत्तं परिमण्डलम् आलोप आलोपयितव्यम् / न हस्तावलेहकं न पात्रावलेहकम्, न हस्तसंधूनकं न पात्रसंधूनकम्, न कवडच्छेदकम्, पिण्डपातं परिभोक्तव्यम् //
SK
(I)-C-IIल्-८-अ-(३)-वि Mस्.५७अ३L, Sह्.१२५-६, P.५९ब्२, D.५०अ१, N.५२ब्१, Cओ.५४अ२, Cह्.४१६अ२५ ᳚विहारगतेनापि मे तेभ्यः कुलेभ्यः प्रत्यागतेन प्रतिनिष्क्रान्तेन दिवा वा रात्रौ वा प्रातिपौद्गलिके चङ्क्रमे चङ्क्रमितव्यं, न परक्ये ऽविश्वास्ये ऽप्रवारिते ऽनुद्दिष्टे / न श्रान्तकायेन न क्लान्तकायेन, अनौद्धत्याभिनिगृहीते चित्ते, कुशलपक्षप्रयुक्ते नाकुशलमनसिकारानुगते (Śभ् I २००) ऽन्तर्गतैर् इन्द्रियैर् अबहिर्गतेन मानसेन, नातिद्रुतं नातिचपलं नैकान्तेन गमनप्रत्यागमनप्रतिसंयुक्तेन, कालेन कालं गच्छता कालेन कालं तिष्ठता /
SK
तथा स्वे विहारे स्वे परिगणे स्वक्यां कुटिकायाम् उद्देशिकायां प्रातिपौद्गलिकायां, न परक्यायाम् अविश्वास्यायाम् अप्रवारितायाम् / तथा मञ्चे वा पीठे वा तृणसंस्तरणे वा, अरण्ये वा वृक्षमूले वा शून्यागारे वा निषत्तव्यं, पर्यङ्कम् आभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखीं स्मृतिम् उपस्थाप्य //
SK
(I)-C-IIल्-८-अ-(३)-विइ Mस्.५७अ५M, Sह्.१२५-२०, P.५९ब्७, D.५०अ६, N.५२ब्५, Cओ.५४अ६, Cह्.४१६ब्८ रात्र्या मध्यमे यामे स्वपितव्यम् / दिवा पूर्वकं च यामम् कुशलपक्षेणातिनामयितव्यम् / एवं च पुनः स्वपितव्यं, आलोकसंज्ञिना स्मृतेन संप्रजानेनोत्थानसंज्ञाम् एव मनसिकुर्वता, रात्र्याः पश्चिमे यामे लघु लघ्व् एव प्रतिविबुध्य //
SK
(I)-C-IIल्-८-अ-(३)-विइइ Mस्.५७अ६M, Sह्.१२६-३, P.६०अ१, D.५०अ७, N.५२ब्६, Cओ.५४ब्१, Cह्.४१६ब्११ भाष्ये वा स्वाध्यायक्रियायां वा योगः करणीयः, प्रहाणे वा प्रतिसंलयने, धर्मचिन्तायाम् / लोकायताश् च मन्त्रा विवर्जयितव्याः, चित्राक्षराश् चित्रपदव्यञ्जना अनर्थोपसंहिताः, ये नाभिज्ञायै न संबोधाय न निर्वाणाय संवर्तन्ते / ये वा पुनर् धर्मास् तथागतभाषिता गम्भीरा गम्भीराभासाः शून्यताप्रतिसंयुक्ता इदंप्रत्ययताप्रतीत्यसमुत्पादानुलोमास् ते सत्कृत्योद्गृहीतव्याः दृढं च स्थिरं च सूद्गृहीताश् च न नाशयितव्याः, प्रतिपत्त्याः संपादनार्थं, न लाभसत्कारहेतोः / ते च पुनर् धर्मा वचसा सुपरिजिताः कर्तव्याः / न च सङ्गणिकाया अतिनामयितव्यम् न कर्मारामतया न भाष्यारामतया, कालेन च कलम् उपस्थितया स्मृत्या विज्ञस्य सब्रह्मचारिण आलपितव्याः संलपितव्याः प्रतिसंमोदयितव्याः / परिपृच्छनजातीयेन च भवितव्यं, किंकुशलगवेषिणा, अनुपालम्भचित्तेन, मितवादिना, युक्तभाणिना, [ग्नम् पोर् स्म्र ब दङ्] प्रशान्तभाणिना च, परेषां धार्म्यां कथां कथयितुकामेन / तूष्णींभावेन च ये पापका अकुशला वितर्का न (Śभ् I २०४) वितर्कयितव्याः / न चायोनिशोधर्मचिन्ताप्रयुक्तेन / [म्ङोन् पऽइ ङ र्ग्यल् चन् दु मि ब्य ब दङ् / ख्यद् पर् र्तोग्स् प चुङ् zअद् त्सम् दङ् / ङन् ङोन् त्सम् ग्यि बर् म दोर् स्ग्यिद् लुग् पर् मि ब्य ब दङ् / ब्सं पर् मि ब्य बऽइ ग्नस् र्नम्स् योङ्स् सु स्पङ् बर् ब्य ब दङ् / दुस् दुस् सु źइ ग्नस् दङ् / ल्हग् म्थोङ् ल ब्र्त्सोन् पर् ब्य ब दङ् / स्पोङ् ब ल द्गऽ ब दङ् / र्ग्युन् दु छुद् पर् ब्य ब ल ब्र्त्सोन् प दङ् / गुस् पर् ब्य ब ल ब्र्त्सोन् पर् ब्यऽओ स्ञम् प दङ् //
(I)-C-IIल्-१०-(१)-इव् Mस्.५९अ६M, Sह्.१३७-८, W.*७६-२६, P.६६अ८, D.५६अ४, N.५८ब्५, Cओ.६०अ५, Cह्.४१८च्९ गाथा कतमा / या न गद्येन भाषिता, अपि तु पादोपनिबन्धेन द्विपदा वा त्रिपदा वा चतुष्पदा वा पञ्चपदा वा षट्पदा वा / इयम् उच्यते गाथा //
SK
(I)-C-IIल्-१०-अ-(१)-व् Mस्.५९अ७L, Sह्.१३७-११, W.*७६-३२, P.६६ब्१, D.५६अ५, N.५८ब्६, Cओ.६०अ६, Cह्.४१८च्१२ उदानं कतमत् / यत् पुद्गलस्य नाम गोत्रम् अपरिकीर्तयित्वानुद्दिश्य भाषितम् आयत्यां वा सद्धर्मचिरस्थितये शासनचिरस्थितये (Śभ् I २३०) च / इदम् उच्यते उदानम् //
स पुनः कतमः / यद् आबाधको भवति दुःखितो बाढग्लानः / (Śभ् I २४८) अभीक्ष्णम् अस्य वातो वा कुप्यते पित्तं व श्लेष्मं वा विषूचिका वास्य काये संतिष्ठते / अपि त्व् अस्य दशत्य् अहिर् वृश्चिको वा शतपदी वा मनुष्यो वैनं विहेठयत्य् अमनुष्यो वा / न च लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् / अयम् एवंभागीयः प्रयोगान्तरायो वेदितव्यः //
SK
(I)-C-IIल्-११-ब्-(२) Mस्.६१अ२M, Sह्.१४५-२१, P.७०अ५, D.५९अ६, N.६२अ१, Cओ.६३ब्१, Cह्.४२०अ१६ प्राविवेक्यान्तरायः कतमः / यद् भोजनगुरुको भवति / बह्वर्थो बहुकृत्यो बहुकरणीयः कर्मारामरतिं रतो भवति / तेषु तेष्व् इतिकरणीयेषु प्रसृतमानसः / भाष्यारामो भवति / शक्तः प्रतिबलः सन् प्राविवेक्ये प्रहाणे प्रतिसंलयने भावनायाम् उद्देशस्वाध्यायमात्रकेण संतुष्टः / निद्रारामो भवति / स्त्यानमिद्धपर्यवस्थितः कुसीदजातीयो निद्रासुखं पार्श्वसुखं शयनसुखं च स्वीकरोति / सङ्गणिकारामो भवति / सार्धं गृहस्थप्रव्रजितै राजकथां वा करोति, चोरकथां वान्नकथां वा पानकथां वा वस्त्रकथां वा वेश्याकथां वा वीथीकथां वा जनपदमहामात्राख्यानकथां वा लोकाख्यानकथां वा समुद्राख्यानकथां वा / इत्य् एवंभागीययानर्थोपसंहितया कथया कालम् अतिनामयति /
(I)-C-IIल्-११-ब्-(३)-इइ-(अ) Mस्.६१ब्२M, Sह्.१४७-१४, P.७१अ२, D.६०अ१, N.६२ब्५, Cओ.६४अ४, Cह्.४२०ब्१४ तत्रात्मसंप्रग्रहो यथापि तद् ᳚अहम् अस्त्य् उच्चकुलः प्रव्रजितो ऽलीनः, अन्ये च भिक्षवो न तथे᳚त्य् आत्मानम् उत्कर्षयति संप्रगृह्णाति, परांश् च पंसयति / एवम् ᳚आध्यकुलप्रव्रजितो ऽदीनः᳚, एवम् ᳚अभिरूपो दर्शनीयः प्रासादिकः᳚, एवं ᳚बहुश्रुतः श्रुताधारः श्रुतसंनिचयः᳚, एवम् ᳚अहम् अस्मि कल्याणवाक्यो वाक्करणेनोपेतः, अन्ये च भिक्षवो न तथे᳚त्य् आत्मानम् उत्कर्षयति संप्रगृह्णाति, परांश् च पंसयति /
SK
स आत्मानं संप्रगृह्णान् ये ते भवन्ति भिक्षवः स्थविरा रात्रिज्ञा अभ्यवचीर्णब्रह्मचर्यास् तान् न कालेन कालं परिपृच्छति परिप्रश्नी करोति / ते चास्य न कालेन कालम् अविवृतानि च स्थानानि विवृण्वन्ति, विवृतानि च स्थानान्य् उत्तानीकुर्वन्ति, न च गम्भीरम् अर्थपदं साधु च सुष्ठु च प्रज्ञया प्रतिविध्य संप्रकाशयन्ति यावद् एव ज्ञानदर्शनस्य विशुद्धये / एवमस्य स आत्मसंप्रग्रह आन्तरायिको भवति यदुत विपश्यनायाः /
(I)-C-IIल्-१२-अ-(२)-इइ Mस्.६२अ४R, Sह्.१५१-११, P.७२अ८, D.६१अ३, N.६४अ१, Cओ.६५अ६, Cह्.४२०च्२३ उपकारिणः कतमे / तद्यथा मातापितरम्, आपायकं, पोषकम्, संवर्धकम् इति / ये वा पुनर् अटवीकान्तराद् उत्तारयन्ति, दुर्भिक्षाद् वा, परचक्रभयाद् वा, बन्धनाद् वा, आबाधाद् वा / हितोपदेशकाश् चास्य भवन्ति, सुखोपदेशका हितसुखोपसंहारकाः, उत्पन्नोत्पन्नेषु चाधिकरणेषु सहायकाः सहनन्दिनः सहशोकाः, आपत्सु चैनं न परित्यजन्तीति / ये वा पुनर् अन्ये ऽप्य् एवंभागीयाः / इम उच्यन्त उपकारिणः //
SK
(I)-C-IIल्-१२-अ-(२)-इइइ Mस्.६२अ६R, Sह्.१५१-१९, P.७२ब्४, D.६१अ५, N.६४अ३, Cओ.६५ब्१, Cह्.४२१अ१ इष्टाः कतमे / ये संस्तुताः, येषाम् अस्यान्तिके भवति प्रेम वा गौरवं वा / भक्तिवादो वा अलप्तकाः संस्तुतकाः सप्रियकाश् च भवन्तीति / ये वा पुनर् अन्ये ऽप्य् एवंभागीयाः / इम उच्यन्त इष्टाः //
(I)-C-IIल्-१३-अ-(१०)-xइइ Mस्.६४अ४L,Sह्. १६०-९, P.७६ब्४, D.६४ब्२, N.६७ब्३, Cओ.६८ब्७, Cह्.४२२ब्१७ कथं नैषद्यिको भवति / मञ्चे वा पीठे वा तृणसंस्तरे वा निषद्यया कालम् अतिनामयति / नो तु मञ्चं वा पीठं वा कुड्यं वा वृक्षमूलं वा तृणसंस्तरं वा निश्रित्य पृष्ठं वा पार्श्वं वा ददाति / एवं नैषद्यिको भवति //
SK
(I)-C-IIल्-१३-अ-(१०)-xइइइ Mस्.६४अ५L,Sह्.१६०-१५, P.७६ब्५, D.६४ब्३, N.६७ब्४, Cओ.६९अ१, Cह्.४२२ब्२१ कथं याथासंस्तरिको भवति / यस्मिन् तृणसंस्तरे वा पर्णसंस्तरे वा शय्यां कल्पयति / तृणसंस्तरं वा पर्णसंस्तरं वा सकृद् यथैव संस्तृतं भवति तथैव शय्यां कल्पयति / नो तु पुनर् विकोपयत्य् अभिसंस्करोति च / एवं याथासंस्तरिको भवति //
SK
(I)-C-IIल्-१३-अ-(१०)-अ Mस्.६४अ५R,Sह्.१६०-२०,W.८२-१८,**८२-२९, P.७६ब्७, D.६४ब्४, N.६७ब्५, Cओ.६९अ२, Cह्.४२२ब्२४ केनैते धुतगुणा उच्यन्ते / तद्यथा, ऊर्णा वा कर्पासं वा यस्मिन् समये धुतं भवति संकृत्तं विचूर्णं तस्मिन् समये मृदु च भवति लघु च कर्मण्यं च, यदुत सूत्राभिनिर्हारे वा तूलाभिनिर्हारे वा /
(I)-C-IIल्-१३-ब् Mस्.६५अ७M,Sह्. १६४-६, P.७८ब्५, D.६६अ३, N.६९अ६, Cओ.७०ब्३, Cह्.४२३अ२० स एभिर् धर्मैः समन्वागतो धर्मकामो भवति, गुणकामः / न Iआभसत्कारकीर्तिश्लोककामः / न समारोपिकया मिथ्यादृष्ट्या समन्वागतो भवति, नाप्य् अपवादिकया / असन्तं धर्मं न समारोपयति / सन्तं धर्मं नापवदति / स ᳚यत् तद् भवति कवितं कावेयं चित्राक्षरं चिह्नपदव्यञ्जनं लोकायतप्रतिसंयुक्तम्, तन् निरर्थकम्᳚ इति विदित्वा, आरात् परिवर्जयति, न तेनेयते, न तेन प्रीयते /
SK
न चोत्सदं पात्रचीवरं धारयति / गृहस्थैः सार्धं संसर्गं परिवर्जयति क्लेशवर्धनम् / आर्यैः सह संसर्गं करोति ज्ञानविशोधकम् / न च मित्रकुलानि करोति प्रतिगृह्णाति / ᳚मा मे ततो निदानं भविष्यत्य् अनेकपर्यायेण व्याक्षेपाद् व्यापारो वा तेषां वा पुनर् विपरिणामाद् अन्यथीभावाद् उत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा᳚ इति /
SK
उत्पन्नोत्पन्नांश् च क्लेशोपक्लेशान् नाधिवासयति, प्रजहति, विनोदयति, व्यन्तीकरोति / ᳚मा मे ऽतोनिदानम् उत्पद्यते दृष्टधार्मिकं वा दुःखं सांपरायिकं वे᳚ति /
SK
श्रद्धादेयं च न विनिपातयति, अच्युतशीलः, अभ्रष्टव्रतः, श्रद्धादेयं परिभुङ्क्ते / न च श्रद्धादेयं प्रतिक्षिपति / न शिक्षां प्रत्याख्याति /
SK
आत्मदोषान्तरस्खलितगवेषी वा भवति / प्रतिच्छन्नकल्याणो विवृतपापकः / परदोषान्तरस्खलितेषु नाभोगः / संचिन्त्य चापत्तिर् नापद्यते जीवितहेतोर् अपि / आपन्नश् च लघु लघ्व् एव यथाधर्मं (Śभ् I २९४) प्रतिकरोति / इतिकरणीयेषु च दक्षो भवत्य् अनलसः स्वयंकारी / न परतः कायपरिचर्यां पर्येषते /
SK
बुद्धानां च बुद्धश्रावकाणां चाचिन्त्यम् अनुभावं, गम्भीरां च देशनाम् अधिमुच्यते, न प्रतिक्षिपति, ᳚तथागता एव जानकाः पश्यकाः, नाहम्᳚ इति विदित्वा, न च स्वयंदृष्टिपरामर्शस्थायी भवत्य् असमञ्जसग्राही दुःप्रतिनिःसर्गमन्त्री /
SK
स एभिर् गुणैर् युक्त एवंविहारी एवंशिक्षमाणः श्रमणालंकारेणालंकृतः शोभते / तद्यथा कश् चिद् एव पुरुषो युवा मण्डनजातीयः कामोपभोगी स्नातानुलिप्तो ऽवदातवस्त्रप्रावृतो विविधैर् भूषणैर् अलंकृतः शोभते, तद्यथा हर्षैर् वा केयूरैर् वाङ्गुलिमुद्रिकया वा जातरूपरजतमालया वा / एवम् एव स एभिर् विविधैः श्रमणालंकारैर् गुणैर् अलंकृतो भासते तपति विरोचते / तस्माच् छ्रमणालंकार इत्य् उच्यते / अयम् उच्यते श्रमणालंकारः //
-II-२-अ-(३) Mस्.६८अ२M, Sह्. १८४-१२, P.८५अ३, D.७१अ३, N.७४ब्६, Cओ.७५ब्६, Cह्.४२५च्१ तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानम् / यो ऽयं रागोत्सदः पुद्गलः स रागचरितः / यो द्वेषोत्सदः स द्वेषचरितः / यो मोहोत्सदः स मोहचरितः / यो मानोत्सदः स मानचरितः / यो वितर्कोत्सदः स वितर्कचरितः / यः समप्राप्तः स समभागचरितः /
सचेत् कायसंनिश्रिताश् चित्तसंनिश्रिताः प्रवर्तेरंस् ते च न यथायोगं, तेन चतुर्थध्यानसमापन्नोपपन्नानाम् सत्त्वानां कललगतानां चार्बुदगतानां पेशीगतानाम् सत्त्वानां प्रवर्तेरन् / न च प्रवर्तन्ते / तस्माद् आश्वासप्रश्वासाः कायसंनिश्रिताश् चित्तसंनिश्रिताश् च प्रवर्तन्ते ते च यथायोगम् //
Mस्.७५ब्२L, Sह्.२२५-१२, P.१०४ब्६, D.८६अ२, N.९०ब्६, Cओ,९१ब्१, Cह्.४३१च्४ स खल्व् एष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते / तेषाम् एतद् (Śभ् II ९०) व्याक्षेपस्थानं भवति चित्तस्थितये चित्तनिरतये / अन्यथा गणनाम् अन्तरेण तेषां स्त्यानमिद्धं वा चित्तं पर्यवनहेत, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तानां तु तेषाम् एतन् न भवति /
SK
ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयस् तेषां पुनर् गणनाप्रयोगेण प्रियारोहता भवति / तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्व् एव प्रतिविध्यन्ति, न च तेनाभिरमन्ते / ते पुनर् आश्वासप्रश्वासालम्बनां स्मृतिम् उपनिबध्य यत्र च प्रवर्तन्ते यावच् च प्रवर्तन्ते, यथा च प्रवर्तन्ते, यदा च प्रवर्तन्ते, तत् सर्वम् अनुगच्छत्य् उपलक्षयत्य् उपस्थितया स्मृत्या / अयम् एवंरूपस् तेषां प्रयोगः /
SK
तस्य च प्रयोगस्यासेवनान्वयाद् भावनान्वयाद् बहुलीकारान्वयात् कायप्रस्रब्धिर् उत्पद्यते, चित्तप्रस्रब्धिश् च / एकाग्रतां च स्पृशत्य् आलम्बनाभिरतिं च निर्गच्छति //
SK
-II-३-ब्-(५)-इइ-(ब्) Mस्.७५ब्४M, Sह्.२२६-५, W.९०-३६, P.१०५अ४, D.८६अ७, N.९१अ४, Cओ.९१ब्५, Cह्.४३१च्१६ स एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धान् अवतरति / कथं च पुनर् अवतरति / ये चाश्वासप्रश्वासा यश् चैषाम् आश्रयकायस् तं मनसिकुर्वन् रूपस्कन्धम् अवतरति / या तेषाम् आश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्तानुभावना स वेदनास्कन्ध इत्य् अवतरति / या संजानना स संज्ञास्कन्ध इत्य् अवतरति / या चासौ स्मृतिर् या च चेतना, या च तत्र प्रज्ञा, अयं संस्कारस्कन्ध इत्य् अवतरति / यच् (Śभ् II ९२) चित्तं मनो विज्ञानम् अयं विज्ञनस्कन्ध इत्य् अवतरति / या तद्बहुलविहारिता एवं स्कन्धेष्व् अवतीर्णस्यायम् उच्यते स्कन्धावतारपरिचयः //
SK
-II-३-ब्-(५)-इइ-(च्) Mस्.७५ब्६L, Sह्.२२६-१७, P.१०५ब्१, D.८६ब्३, N.९१अ७, Cओ.९२अ१, Cह्.४३१च्२६ यदा चानेन स्कन्धमात्रं दृष्टं भवति परिज्ञातं संस्कारमात्रं वस्तुमात्रं तदा स एषाम् एव संस्काराणां प्रतीत्यसमुत्पादम् अवतरति / कथं च पुनर् अवतरति / स एवं समन्वेषते पर्येषते, ᳚इतीम आश्वासप्रश्वासाः किमाश्रिताः किंप्रत्ययाः᳚ / तस्यैवं भवति / ᳚कायाश्रिता एत आश्वासप्रश्वासाः कायप्रत्ययाश् चित्ताश्रिताश् चित्तप्रत्ययाश् च᳚ /
SK
᳚कायः पुनश् चित्तं च किंप्रत्ययं च / स ᳚कायश् चित्तं च जीवितेन्द्रियप्रत्ययम्᳚ इत्य् अवतरति / ᳚जीवितेन्द्रियं पुनः किंप्रत्ययम्᳚ / स पूर्वसंस्कारप्रत्ययं जीवितेन्द्रियम् इत्य् अवतरति /
तत्र विपरिणामदुःखता संस्कारदुःखता चावशिष्टा सा पुनः पञ्चोपादानस्कन्धदुःखतया परिदीपिता भवति / तथा हि पञ्चोपादानस्कन्धास् त्रिवेदनापरिगतास् ते तथोक्ताया दुःखदुःखताया भाजनभूताः / या च नोक्ता विपरिणामदुःखता संस्कारदुःखता च साप्य् एष्व् एव द्रष्टव्या /
SK
केन पुनः कारणेन भगवता दुःखदुःखतैव परिकीर्तिता स्वशब्देन, विपरिणामदुःखता संस्कारदुःखता पुनः पर्यायेण / तथा हि दुःखदुःखतायाम् आर्याणां बालानां च तुल्या दुःखताबुद्धिः प्रवर्तते / संवेजिका अत्यर्थं दुःखदुःखता पूर्वम् अकृतप्रज्ञानाम् एवं च देश्यमाने सुखम् अवतारो भवति सत्येषु विनेयानाम् //
ये ये वा पुनर् एतद् विपक्षा धर्मास् तथा यौवनं जरायाः, व्याधेर् आरोग्यम्, जीवितं मरणस्य, प्रियसंप्रयोगो ऽप्रियसंप्रयोगस्य, अप्रियविनाभावः प्रियविनाभावस्य, इच्छासंपत्तिर् इच्छाविघातस्य / ये च दुःखायां वेदनायां प्रवृत्ताः क्लेशाः साधिष्ठानाः, ये चारोग्यादिषु सुखस्थानीयेषु धर्मेषु तन्निर्जातायां च वेदनायां ये प्रवृत्ताः क्लेशाः / इयम् उच्यते विपरिणामदुःखता /
संस्कारदुःखता पुनः सर्वत्रगा उपादानस्कन्धेषु / संक्षेपतस् तु या च दुःखदुःखता, या च क्लेशसंगृहीता विपरिणामदुःखता, या च (Śभ् II १२४) साधिष्ठानसुखवेदनासंगृहिता तां स्थापयित्वा ये तदन्ये स्कन्धा अदुःखासुखसहगतास् तन्निर्जातास् तदुत्पत्तिप्रत्ययास् तस्य चोत्पन्नस्य स्थितिभाजनाः / इयम् उच्यते संस्कारदुःखता /
तस्यैवं भवति / ᳚सन्ति मे श्रावकाः, गृहिप्रव्रजिता ये, मयि संभावना जाता येषाम् अर्हत्संमतस् ते चेन् माम् उपसंक्रम्य योगे मनसिकारे शमथविपश्यनायां प्रश्नं पृच्छेयुः / तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्य् एवं सति या संभावना सा च हीयेत्, न च स्याम् अर्हत्संमतः, यन् न्व् अहं स्वयम् एव चिन्तयित्वा तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयम्᳚ / स एतम् एवार्थम् अधिपतिं कृत्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयम् एव चिन्तयित्वा तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयति /
SK
स चास्य योगो न सूत्रे ऽवतरति न विनये संदृश्यते / धर्मतां च विलोमयति / स ये ते भिक्षवः सूत्रधरा, विनयधरा, मातृकाधरास् तेषं तद् योगस्थानं विनिगूहति न प्रकाशयति / ये ऽप्य् अस्य श्रवका (Śभ् II १५०) भवन्ति गृहिणः, प्रव्रजिताश् च, तान् अपि योगप्रतिगुप्तय आज्ञापयति /
SK
तत् कस्य हेतोः / ᳚मा हैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद् योगस्थानं श्रुत्वा सूत्रे ऽवतारयेयुः, तच् च नावतरेत् / विनये संदर्शयेयुः, तच् च न संदृश्येत् / धर्मतया उपपरीक्षेयुः, तच् च धर्मतां विरोधयेत् / ते च ततो निदानम् अप्रतीता भवेयुर् अप्रतीतवचनैश् च मां चोदयेयुः / अधिकरणानि चोत्पादयेयुः᳚ /
SK
᳚एवम् अहं पुनर् अपि न सत्कृतः स्यां न गुरुकृतः, राज्ञां राजामात्राणां यावद् धनिनां श्रेष्ठिनां सार्थवाहानाम्, न च पुनर् लाभी स्यां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्᳚ इति /
-II-९-अ-(२) Mस्.८३अ७M, Sह्.२७९-५, W.९४-८, P. १२७अ६, D. १०३ब्३, N. १०९अ५, Cओ. १०८अ४, Cह्.४३८ब्२५ तत्र सच्छिद्रवाहनो मनस्कारः कतमः / यो लब्धमनस्कारस्योर्ध्वं लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा यो लक्षणप्रतिसंवेदी मनस्कारः / तथा हि समाधिस् तत्र चिन्तया व्यवकीर्यते, नैकान्तेन भावनाकारेण प्रवर्तते //
-II-१२-ब्-(१)-इ-(च्) Mस्.८५अ६M, Sह्.२९२-१५, P.१३२ब्१, D.१०७ब्२, N.११३ब्१, Cओ.११२अ१, Cह्.४४०अ२३ तत्र स्मृतिर् यद् अस्य कायम् अधिपतिं कृत्वा ये धर्मा उद्गृहीतास् तेषाम् एव च धर्माणां यो ऽर्थश् चिन्तितो ये च भावनया साक्षात्कृताः, तत्र व्यञ्जने चार्थे च साक्षात्क्रियायां च तच्चेतसो ऽसंमोषः, ᳚सूद्गृहीता वा म एते धर्माः᳚, ᳚न वे᳚ति, ᳚सूपलक्षिता वा तत्र तत्र प्रज्ञया᳚, ᳚न वे᳚ति, ᳚सुसंस्पर्शिताः तत्र तत्र विमुक्त्या᳚, ᳚न वे᳚ति स्मृतिर् उपस्थिता भवति / (Śभ् II १८०) इदं स्मृतेर् उपस्थानम् //
SK
-II-१२-ब्-(१)-इ-(द्) Mस्.८५अ७M, Sह्.२९३-६, P. १३२ब्५, D. १०७ब्५, N. ११३ब्४, Cओ. ११२अ३, Cह्.४४०अ२९ अपि च स्मृत्यारक्षायै स्मृतेर् उपस्थानं विषयासंक्लेशायालम्बनोपनिबन्धाय च /
या निर्वाणानुकूला नैर्वेधिकी अत्यन्तनिष्ठताया अत्यन्तविमलताया अत्यन्तब्रह्मचर्यपर्यवसानायै संवर्तते सा निरामिषा / या पुनर् धातुपतिता भवपतिता सा सामिषा / या पुना रूपारूप्यप्रतिसंयुक्ता वैराग्यानुकूला वा सा नैष्क्रम्याश्रिता / या पुनः कामप्रतिसंयुक्ता न च वैराग्यानुकूला सा गर्धाश्रिता //
अपि च कायवेदनाचित्तधर्माधिपतेयो यो मार्गः समुत्पन्नः कुशलः सास्रवो ऽनास्रवश् च तत् स्मृत्युपस्थानम् / स पुनः श्रुतमयश् चिन्तामयो भावनामयश् च / तत्र श्रुतचिन्तामयः सास्रव एव, भावनामयः स्यात् सास्रवः स्याद् अनास्रवः //
-II-१२-ब्-(२)-इ-(ब्)-(२) Mस्.८८अ२L, Sह्.३०८-१४, P.१३९ब्७, D.११३अ७, N.११९ब्५, Cओ.११७ब्४, Cह्.४४२ब्१४ ते पुनः पापका अकुशला धर्मा अतीतवस्त्वालम्बना वा अनागतवस्त्वालम्बना वा वर्तमानविषयालम्बना वोत्पद्यन्ते, ते भवन्ति परोक्षविषयालम्बनाः प्रत्यक्षविषयालम्बनाश् च / ये ऽतीतानागतवस्त्वालम्बनास् ते परोक्षविषयालम्बनाः, ये वर्तमानविषयालम्बनास् ते प्रत्यक्षविषयालम्बनाः //
सचेद् अयं वर्तमान आलम्बने चरति, तथा तथा चरति यथा तेनालम्बनेन क्लेशो नोत्पद्यते / सचेत् पुनः स्मृतिसंप्रमोषाद् उत्पद्यत उत्पन्नं नाधिवासयति प्रजहाति विनोदयति व्यन्तीकरोति / एवम् अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादायोत्पन्नानां च प्रहाणाय ᳚वीर्यम् आरभत᳚ इत्य् उच्यते //
SK
-II-१२-ब्-(२)-इ-(ब्)-(४) Mस्.८८अ६M, Sह्.३०९-१९, P.१४०ब्२, D.११४अ१, N.१२०अ६, Cओ.११८अ४, Cह्.४४२च्७ सन्ति पापका अकुशला धर्मा ये संकल्पवशेनोत्पद्यन्ते न विषयबलेन, सन्ति ये संकल्पबलेन च विषयबलेन च /
SK
तत्र संकल्पवशेनोत्पद्यन्ते न उइषयबलेन, तद्यथा विहरतो ऽतीतानागतालम्बनेन य उत्पद्यन्ते /
-II-१२-ब्-(३)-इइ-(ब्) Mस्.९०अ६M, Sह्.३२०-१७, W.*९९-२१, P.१४४ब्४, D.११७ब्१, N.१२४अ३, Cओ.१२१ब्५, Cह्.४४४अ२१ स चैषो ऽष्टप्रहाणसंस्कारयोगो भवत्य् अनुशयसमुद्घाताय / तत्र छन्दश् छन्द एव, यो व्यायाम इदं वीर्यम्, या श्रद्धा सा श्रद्धा, या च प्रश्रब्धिर् या च स्मृतिर् यच् च संप्रजन्यं या च चेतना या चोपेक्षा अयम् उपायः / तद् इदं सर्वम् अभिसमस्य, ये च पूर्वकाश् छन्दसमाधयः, ये चेमे प्रहाणसंस्काराः प्रहीणेष्व् अनुशयेषु परिनिष्पन्ने समाधौ, छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्य् उच्यते / वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्य् उच्यते /
-II-१२-ब्-(५) Mस्.९१अ६R, Sह्.३२५-१७, P.१४६ब्५, D.११९अ६, N.१२६अ४, Cओ.१२३ब्२, Cह्.४४४च्२९ ते पुनः कतमे / आह / सप्तबोध्यङ्गानि / यो ऽसौ यथाभूतावबोधः सम्यक्त्वन्यामावक्रान्तस्य पुद्गलस्य तस्यैतान्य् अङ्गानि / स हि यथाभूतावबोधः सप्ताङ्गपरिगृहीतः, त्रिभिः शमथपक्ष्यैः, त्रिभिर् विपश्यनापक्ष्यैः, एकेनोभयपक्ष्येण / तस्माद् बोध्यङ्गानीत्य् उच्यन्ते /
SK
तत्र यश् च धर्मविचयः, यच् च वीर्यम्, या च प्रीतिर् इतीमानि त्रीणि विपश्यनापक्ष्याणि / तत्र या च प्रस्रब्धिः, यश् च समाधिः, या चोपेक्षा (Śभ् II २३०) इतीमानि त्रीणि शमथपक्ष्याणि / स्मृतिर् उभयपक्ष्या सर्वत्रगेत्य् उच्यते / स तस्मिन् समये तत्प्रथमतो बोध्यङ्गलाभाच् छैक्षो भवति दृष्टपदः //
तत्र या च सम्यग्दृष्टिर्, यश् च सम्यक्संकल्पः, यश् च सम्यग्व्यायामः, अयं प्रज्ञास्कन्धः / तत्र ये सम्यक्वाक्कर्मान्ताजीवाः, अयं शीलस्कन्धः / तत्र या च सम्यक्स्मृतिः, यश् च सम्यक्समाधिः, अयं समाधिस्कन्धः /
पुद्गलास् तद्व्यवस्थानम् अथ आलम्बनेन च / अववादश् च शिक्षा च तथा शिक्षानुलोमिकाः / योगभ्रंशश् च योगश् च मनस्कारश् च योगिनः / करणीयं भावना च फलं पुद्गलपर्यायः / मारश् च मारकर्माणि आरम्भो विफलो भवेत् //
A. I-१ Mस्१*अ१L, Mस्G.२६ब्१M, P.२४५अ६, D.२१२ब्५, N.२२८ब्४, Cह्.३६७अ६ (१) शिक्षासु पारमिप्राप्तः सर्वसंशयनाशकः / शिक्षां प्रब्रूहि मे पृष्टो या च शिक्षासु शिक्षणा // इति //
SK
ब्रह्मणा भगवान् सर्वशिक्षापदपर्यन्तप्राप्तितश् च स्वार्थसंपदम् असाधारणाम् आरभ्योत्पन्नोत्पन्नसर्वसत्त्वसंशयच्छेदकत्वेन चासाधारणां परार्थप्रतिपत्तिम् आरभ्य स्तुतिपूर्वं पृष्टः ᳚काः कियत्यश् च शिक्षाः, कथं च तासु शिक्षितव्यम्᳚ //
SK
A. I-२ Mस्१*अ१R, Mस्G.२६ब्१M, P.२४५ब्१, D.२१२ब्७, N.२२९अ१, Cह्.३६७अ१३ ततो भगवान् बहुकृत्यताभीषणा अलसजातीयानां प्रोत्साहनाभिप्रायः सर्वशिक्षाः समस्य संक्षेपतस् तिसृभिः शिक्षाभिर् निर्दिशति /
SK
(२) अधिशीलम् अधिचित्तम् अधिप्रज्ञं च मारिष / तिस्रः शिक्षाः समासेन शृणु या तासु शिक्षणा // इति //
A. II Mस्. १ *ब्५R, Mस्G.२६ब्३M, P.२४७अ७, D.२१४ब्१ N.२३०ब्५, Cह्.३६७च्७ (७) द्वे द्वयप्रत्युपस्थाने एका निर्वाणगामिनी / अनुपूर्वोपनिषदभिन्नसंभिन्नभाविता // इति //