The Perfection of Wisdom in Seven Hundred Lines

Saptaśatikā prajñāpāramitā · Sअप्तशतिका प्रज्ञापारमिता

The Perfection of Wisdom in Seven Hundred Lines

Saptaśatikā prajñāpāramitā

Sअप्तशतिका प्रज्ञापारमिता

SK
Mअञ्जुश्रीपरिवर्तापरपर्याया Sअप्तशतिका प्रज्ञापारमिता |
SK
ओम् नमो भगवत्यै आर्यप्रज्ञापारमितायै |
SK
एवं मया श्रुतम् | एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धं परिपूर्णेन अर्हद्भिक्षुसहस्रेण, बोधिसत्त्वानां च महासत्त्वानां महासंनाहसंनद्धानां परिपूर्णैर्दशभिर्बोधिसत्त्वशतसहस्रैः सार्धं सर्वैरविनिवर्तनीयैरनुत्तरायाः सम्यक्संबोधेः | तद्यथा - मञ्जुश्रिया च कुमारभूतेन, मैत्रेयेण च, असङ्गप्रतिभानेन च, अनिक्षिप्तधुरेण च, एवंप्रमुखैर्दशभिर्बोधिसत्त्वशतसहस्रैः ||
SK
अथ खलु मञ्जुश्रीः कुमारभूतो ऽरुणोद्गतकालसमये स्वकाद्विहारान्निष्क्रम्य येन तथागतविहारस्तेनोपसंक्रामत् | उपसंक्रम्य विहारस्य बहिर्द्वारे स्थितो ऽभूत्तथागतस्य दर्शनाय वन्दनाय पर्युपासनाय | अथायुष्मानपि शारद्वतीपुत्रः स्वकाद्विहारान्निष्क्रम्य येन तथागतविहारस्तेनोपसंक्रामद्भगवतो दर्शनाय वन्दनाय पर्युपासनाय | अथायुष्मानपि पूर्णो मैत्रायणीपुत्रः, आयुष्मानपि महामौद्गल्यायनः, आयुष्मानपि महाकाश्यपः, आयुष्मानपि महाकात्यायनः, आयुष्मानपि महाकौष्ठिलः, अन्ये च महाश्रावकाः स्वकस्वकेभ्यो विहारेभ्यो निष्क्रम्य येन भगवतो विहारस्तेनोपसंक्रान्ताः, उपसंक्रम्य एकान्ते तस्थुः ||
SK
अथ खलु भगवानभिक्रान्ताभिक्रान्तं महाश्रावकसंनिपातं विदित्वा स्वकाद्विहारान्निष्क्रम्य बहिर्द्वारस्यैकान्ते प्रज्ञप्त एवासने न्यषीदत् | निषद्य च भगवान् जानन्नेव आयुष्मन्तं शारद्वतीपुत्रमामन्त्रयते स्म - कुतस्त्वं शारद्वतीपुत्र कल्यमेवागत्य तथागतविहारद्वारे स्थितः? एवमुक्ते आयुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत् - सर्वप्रथमतरं भगवन् मञ्जुश्रीः कुमारभूतस्तथागतविहारद्वारे स्थितः, पश्चाद्वयं भगवन्तं द्रष्टुकामाः ||
SK
अथ खलु भगवान् जानन्नेव मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म - सत्यं किल त्वं मञ्जुश्रीः सर्वप्रथमतरं तथागतविहारद्वारे स्थितस्तथागतस्य दर्शनाय वन्दनाय पर्युपासनाय च? एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् - एवमेतत् भगवन्, एवमेतत् सुगत, प्रथमतरमस्म्यागतः स्वकाद्विहारान्निष्क्रम्य येन तथागतविहारस्तेनोपसंक्रान्तः, उपसंक्रम्य एकान्ते स्थितो भगवतो दर्शनाय वन्दनाय पर्युपासनाय | तत्कस्य हेतोः? तथा हि भगवन् अतृप्तो ऽहं तथागतस्य दर्शनेन वन्दनेन पर्युपासनेन च | यदप्यहं भगवन् तथागतमुपसंक्रमामि दर्शनाय वन्दनाय पर्युपासनाय, तत्सर्वसत्त्वानामर्थाय | सचेद्भगवन् (Sअप्तŚ, Vऐद्य ३४१) तथागतो द्रष्टव्यो वन्दितव्यः पर्युपासितव्यः, एवं द्रष्टव्यः, एवं वन्दितव्यः, एवं पर्युपासितव्यः, यथाहं पश्यामि यथाहं वन्दे यथाहं पर्युपासे | एवं तथागतो दृष्टो भवति वन्दितः पर्युपासितश्च | अहं च भगवन् सर्वसत्त्वानां कृतशस्तथागतं पश्यामि | भगवानाह - कथं मञ्जुश्रीस्तथागतो द्रष्टव्यो यावत् पर्युपासितव्यः? मञ्जुश्रीराह - तथताकारेण तथागतं पश्यामि अविकल्पाकारेण अनुपलम्भयोगेन, एवमनुत्पादाकारेण तथागतं पश्यामि, यावद् अभावाकारेण तथागतं पश्यामि | न च तथता समुदागच्छति, एवं तथागतं पश्यामि | न तथता भवति न विभवति, एवं तथागतं पश्यामि | न तथता देशस्था न प्रदेशस्था, एवं तथागतं पश्यामि | न तथता अतीता न अनागता न प्रत्युत्पन्ना, एवं तथागतं पश्यामि | न तथता द्वयप्रभाविता नाद्वयप्रभाविता, एवं तथागतं पश्यामि | न तथता संक्लिश्यते न व्यवदायते, एवं तथागतं पश्यामि | न तथता उत्पद्यते न निरुध्यते, एवं तथागतं पश्यामि | एवं तथागतो दृष्टो भवति वन्दितः पर्युपासितश्च | एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - एवं पश्यंस्त्वं मञ्जुश्रीः किं पश्यसि? मञ्जुश्रीराह - एवं पश्यन्नहं भगवन् न किंचित्पश्यामि | एवमहं पश्यन् न कस्यचिद्धर्मस्योत्पादं पश्यामि न निरोधं पश्यामि ||
SK
अथायुष्मान् शारद्वतीपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत् - दुष्करकारकस्त्वं मञ्जुश्रीः, यस्त्वं तथागतमेवं पश्यसि एवं पर्युपास्से, यस्य च ते सर्वसत्त्वानामन्तिके महामैत्री प्रत्युपस्थिता | न च ते काचित्सत्त्वोपलब्धिः सत्त्वाभिनिवेशो वा | सर्वसत्त्वपरिनिर्वाणाय चासि प्रतिपन्नः | न च ते कश्चित्सत्त्वाभिनिवेशः प्रवर्तते | सर्वसत्त्वानां च ते कृतशः संनाहः संनद्धः | स चानुपलम्भयोगेन यावदभावयोगेन | एवमुक्ते मञ्जुश्रीः कुमारभूतः आयुष्मन्तं शारद्वतीपुत्रमेतदवोचत् - एवमेतद् भदन्त शारद्वतीपुत्र यथा कथयसि | सर्वसत्त्वपरिनिर्वाणाय संनाहश्चैष संनद्धः | न च मे काचित् सत्त्वोपलब्धिर्वा सत्त्वाभिनिवेशो वा | नायं भदन्त शारद्वतीपुत्र संनाह एवं संनद्धः - कथमहं सत्त्वधातोरूनत्वं वा कुर्यां पूर्णत्वं वा? सचेद्भदन्त शारद्वतीपुत्र परिकल्पमुपादाय एकैकस्मिन् बुद्धक्षेत्रे गङ्गानदीवालुकोपमा बुद्धा भगवन्तो भवेयुः, एकैकश्च तथागतो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठेत् सरात्रिंदिवं च धर्मं देशयमानः, एकैकया धर्मदेशनया यावन्तो गङ्गानदीवालुकासमैर्बुद्धैर्भगवद्भिः सत्त्वा विनीताः, तावतः सत्त्वानेकैकस्तथागतः एकैकया धर्मदेशनया विनयेत्, एवमपि कृत्वा नैव सत्त्वधातोरूनत्वं वा पूर्णत्वं वा प्रज्ञायते | तत्कस्माद्धेतोः? सत्त्वविविक्तत्वात् सत्त्वासत्त्वाद् भदन्त शारद्वतीपुत्र सत्त्वधातोर्न चोनत्वं वा पूर्णत्वं वा प्रज्ञायते ||
SK
एवमुक्ते आयुष्मान् शारद्वतीपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत् - यदि मञ्जुश्रीः सत्त्वविविक्तत्वात् सत्त्वासत्त्वात् सत्त्वधातोर्नैवोनत्वं न पूर्णत्वं वा प्रज्ञायते, तत्कस्येदानीं बोधिमभिसंबुध्य धर्मं देशयिष्यसि? एवमुक्ते मञ्जुश्रीः कुमारभूत आयुष्मन्तं शारद्वतीपुत्रमेतदवोचत् - यदा तावद्भदन्त शारद्वतीपुत्र अत्यन्ततया सत्त्वानुपलब्धिः, तत्को ऽत्राभिसंभोत्स्यते? (Sअप्तŚ, Vऐद्य ३४२) कस्य वा धर्मं देशयिष्यते? तत्कस्माद्धेतोः? तथा हि भदन्त शारद्वतीपुत्र अत्यन्ततया सर्वधर्मानुपलब्धिः ||
SK
अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - यदा तावन्मञ्जुश्रीः अत्यन्ततया सर्वधर्मानुपलब्धिः, तत्किमिदानीं सत्त्वमपि प्रज्ञापयिष्यसि? अपि च | सचेन्मञ्जुश्रीः कश्चिदेवं पृच्छेत् - कियन्तः सत्त्वा इति, किं तस्य त्वं वदेः? मञ्जुश्रीराह - तस्याहं भगवन् एवं पृष्ट एवं वदेयम् - यावन्त एव बुद्धधर्मा इति | सचेद् भगवन् पुनरपि पृच्छेत् - कियत्प्रमाणः सत्त्वधातुरिति, तस्याहं भगवन् एवं पृष्ट एवं वदेयम् - यत्प्रमाणो बुद्धविषयः [इति] ||
SK
भगवानाह - सचेत्पुनरपि ते मञ्जुश्रीः कश्चिदेवं पृच्छेत् - किंपर्यापन्नः सत्त्वधातुरिति, किं तस्य त्वं वदेः? मञ्जुश्रीराह - तस्याहं भगवन् एवं पृष्ट एवं वदेयम् - यत्पर्यापन्नानुत्पादाचिन्त्यता [इति] ||
SK
भगवानाह - सचेत्पुनरपि ते मञ्जुश्रीः कश्चिदेवं पृच्छेत् - किंप्रतिष्ठितः सत्त्वधातुरिति, किं तस्य त्वं वदेः? मञ्जुश्रीराह - तस्याहं भगवन् एवं पृष्ट एवं वदेयम् - यत्प्रतिष्ठितो ऽनुत्पादधातुः तत्प्रतिष्ठितः सत्त्वधातुरिति ||
SK
भगवानाह - यस्मिन् समये त्वं मञ्जुश्रीः प्रज्ञापारमितां भावयसि, तदा कुत्र प्रतिष्ठितां प्रज्ञापारमितां भावयसि? मञ्जुश्रीराह - यस्मिन्नहं भगवन् समये प्रज्ञापारमितां भावयामि, अप्रतिष्ठितो ऽहं तस्मिन् समये प्रज्ञापारमितां भावयामि ||
SK
भगवानाह - अप्रतिष्ठितस्य ते मञ्जुश्रीः का प्रज्ञापारमिताभावना? मञ्जुश्रीराह - सैव भगवन् प्रज्ञापारमिताभावना यन्न क्वचित्प्रतिष्ठानम् ||
SK
भगवानाह - यस्मिन् समये त्वं मञ्जुश्रीः प्रज्ञापारमितां भावयसि, कतरत्ते कुशलमूलं तस्मिन् समये उपचयं गच्छति अपचयं वा? मञ्जुश्रीराह - न मे भगवन् तस्मिन् समये किंचित्कुशलमूलमुपचयं गच्छति अपचयं वा | नासौ प्रज्ञापारमितां भावयति यस्य कस्यचिद्धर्मस्य उपचयो वा अपचयो वा भवति | न सा भगवन् प्रज्ञापारमिताभावना वेदितव्या, या कस्यचिद्धर्मस्य उपचयाय वा अपचयाय वा प्रत्युपस्थिता | सा भगवन् प्रज्ञापारमिताभावना या नैव पृथग्जनधर्मान् जहाति, नापि बुद्धधर्मानुपादत्ते | तत्कस्माद्धेतोः? तथा हि भगवन् प्रज्ञापारमिताभावना न कस्यचिद्धर्मस्योपलम्भेन प्रत्युपस्थिता यं धर्मं प्रजह्यादुपाददीत वा | सा भगवन् प्रज्ञापारमिताभावना या नैव संसारदोषानुपयाति न निर्वाणगुणान् | तत्कस्माद्धेतोः? तथा हि भगवन् संसारमेव तावन्न् समनुपश्यामि, कः पुनर्वादः संसारदोषान् | निर्वाणमेव तावन्नोपलभे, कः पुनर्वादो निर्वाणगुणान् द्रक्ष्यामि | सा भगवन् प्रज्ञापारमिताभावना यन्न कस्यचिद्धर्मस्यादानं वा ग्रहणं वा निःसरणं वा | सा भगवन् प्रज्ञापारमिताभावना या न कस्यचिद्धर्मस्य हानिर्वा वृद्धिर्वोपलभ्यते | तत्कस्माद्धेतोः? न हि भगवन् अनुत्पादो हीयते वा वर्धते वा | (Sअप्तŚ, Vऐद्य ३४३) यैवं भगवन् भावना, सा प्रज्ञापारमिताभावना | सा प्रज्ञापारमिताभावना या न कंचिद्धर्ममुत्पादयति वा निरोधयति वा | सा भगवन् प्रज्ञापारमिताभावना या न कस्यचिद्धर्मस्योनत्वं वा पूर्णत्वं वा करोति | या भगवन् एवं भावना, सैव प्रज्ञापारमिताभावना | पुनरपरं भगवन् सा प्रज्ञापारमितभावना या नैवाचिन्त्यान् धर्मान् प्रार्थयते न प्रादेशिकान् | अपि तु खलु पुनर्भगवन् तदपि न संविद्यते यत्प्रार्थयते, येन प्रार्थयते, यत्र प्रार्थयते | एवं भावना भगवन् प्रज्ञापारमिताभावना | एवं प्रत्युपस्थिता इमे धर्मा अग्राः इमे धर्मा हीना इति | नापि तान् धर्मानुपलभते येषां धर्माणामग्रता वा हीनता वा स्यात् | एवं प्रज्ञापारमिताभावनायोगमनुयुक्तः कुलपुत्रः सर्वधर्मान् नोपलभते | न भगवन् प्रज्ञापारमिताभावना कंचिद्धर्ममग्रं वा हीनं वा कल्पयति | तत्कस्माद्धेतोः? न हि भगवन् अनुत्पादस्य किंचिदग्रं वा हीनं वा, नापि तथताया भूतकोट्याः, यावत् सर्वधर्माणां किंचिदग्रं वा हीनं वा | एवं भावना भगवन् प्रज्ञापारमिताभावना ||
SK
एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म - न पुनर्मञ्जुश्रीः अग्रा बुद्धधर्माः? मञ्जुश्रीराह - अग्राह्यत्वाद्भगवन् अग्रा बुद्धधर्माः | तत्किं पुनर्भगवन् सर्वधर्माः शून्या इति तथागतेनाभिसंबुद्धाः? भगवानाह - एवमेतन्मञ्जुश्रीः शून्याः सर्वधर्मास्तथागतेनाभिसंबुद्धाः | मञ्जुश्रीराह - तत्किं पुनर्भगवन् शून्यताया अग्रता वा हीनता प्रज्ञायते? भगवानाह - साधु साधु मञ्जुश्रीः, एवमेतन्मञ्जुश्रीः यथा कथयसि | न पुनर्मञ्जुश्रीः अनुत्तरा बुद्धधर्माः? मञ्जुश्रीराह - एवमेतद्भगवन् अनुत्तरा बुद्धधर्माः | तत्कस्माद्धेतोः? तथा हि भगवन् तेष्वणुरपि धर्मो न संविद्यते नोपलभ्यते | न ते अनुत्तरा बुद्धधर्माः | पुनरपरं भगवन् सा प्रज्ञापारमिताभावना या न बुद्धधर्माणामाराधनाय संवर्तते न पृग्जनधर्माणां प्रहाणाय संवर्तते | न बुद्धधर्माणां विनयित्री, न संधारयित्री | एवं भावना भगवन् प्रज्ञापारमिताभावना ||
SK
पुनरपरं सा भगवन् प्रज्ञापारमिताभावना द्रष्टव्या या न कंचिद्धर्मं चिन्तयति न विजानीते | भगवानाह - न त्वं मञ्जुश्रीः बुद्धधर्मांश्चिन्तयसि? मञ्जुश्रीराह - नो भगवन् | चिन्तयेयमहं भगवन् बुद्धधर्मान्, सचेदहं बुद्धधर्माणां परिनिष्पत्तिं पश्येयम् | न भगवन् प्रज्ञापारमिताभावना कस्यचिद्धर्मस्य विकल्पेन प्रत्युपस्थिता - इमे पृथग्जनधर्माः, इमे श्रावक धर्माः, इमे प्रत्येकबुद्धधर्माः इमे सम्यक्संबुद्धधर्मा इति | तत्कस्माद्धेतोः? तमेव भगवन् धर्मं प्रज्ञापारमिताभावनायोगमनुयुक्तः कुलपुत्रो नोपलभते, यस्यैतान् धर्मान् पृथग्जनधर्मान् वा निर्दिशेत्, शैक्षधर्मान् वा निर्दिशेत्, अशैक्षधर्मान् वा निर्दिशेत्, सम्यक्संबुद्धधर्मान् वा निर्दिशेत् | तानत्यन्ततया धर्मान् न समनुपश्यामि | एवं भावना भगवन् प्रज्ञापारमिताभावना | न भगवन् प्रज्ञापारमिताभावनायोगमनुयुक्तस्य कुलपुत्रस्यैवं भवति - अयं कामधातुः, अयं रूपधातुः, अयमारूप्यधातुः, यावद् अयं निरोधधातुरिति | तत्कस्माद्धेतोः? तथा हि स भगवन् न कश्चिद्धर्मः, यो निरोधधर्मं समनुपश्यति | एवं भावना भगवन् प्रज्ञापारमिताभावना वेदितव्या ||
SK
(Sअप्तŚ, Vऐद्य ३४४) पुनरपरं भगवन् एषा सा प्रज्ञापारमिताभावना या न कस्यचिद्धर्मस्योपकारं वा अपकारं वा करोति | न हि भगवन् प्रज्ञापारमिताभावना बुद्धधर्माणां धात्री, न पृथग्जनधर्माणामाच्छेत्री | एषैव सा भगवन् प्रज्ञापारमिताभावना या नैव पृथग्जनधर्माणां निरोधः, न बुद्धधर्माणां निरोधः, न बुद्धधर्माणां प्रतिलम्भः ||
SK
एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - साधु साधु मञ्जुश्रीः यस्त्वमिममेवंरूपं गम्भीरं धर्मं देशयसि | स्थापिता ते मञ्जुश्रीरियं मुद्रा बोधिसत्त्वानां महासत्त्वानाम्, आभिमानिकानां च श्रावकाणाम्, औपलम्भिकानां च बोधिसत्त्वयानिकानां च यथाभूतं प्रतिबोधाय | न ते मञ्जुश्रीः कुलपुत्रा वा कुलदुहितरो वा एकबुद्धपर्युपासिता भविष्यन्ति नैकबुद्धावरोपितकुशलमूलाः, ये इमं गम्भीरं प्रज्ञापारमितानिर्देशं श्रुत्वा नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते | अपि तु खलु पुनर्मञ्जुश्रीः अतिक्रम्य ते बुद्धसहस्रावरोपितकुशलमूला भविष्यन्ति, ये इमं गम्भीरं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ति, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते ||
SK
एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् - प्रतिभाति मे भगवन् भूयस्या मात्रया प्रज्ञापारमितानिर्देशः | प्रतिभातु ते मञ्जुश्रीः, इति भगवानस्यावोचत् | मञ्जुश्रीराह - एषा सा भगवन् प्रज्ञापारमिताभावना या न कस्यचिद्धर्मस्य स्थितिमुपलभते नास्थितिम् | तत्कस्माद्धेतोः? अस्थितत्वात्सर्वधर्माणां नोपलभते | एषैव स भगवन् प्रज्ञापारमिताभावना वेदितव्या, या न कस्यचिद्धर्मस्याध्यालम्बनाय प्रत्युपस्थिता | तत्कस्य हेतोः? तथा हि भगवन् निरालम्बनाः सर्वधर्माः | एवं भावना भगवन् प्रज्ञापारमिताभावना ||
SK
पुनरपरं भगवन् सा प्रज्ञापारमिताभावना द्रष्टव्या यत्र बुद्धधर्मा अपि नाभिमुखीभवन्ति कुतः पुनः प्रत्येकबुद्धधर्माः | नापि श्रावकधर्मा अभिमुखीभवन्ति, कः पुनर्वादः पृथग्जनधर्माणाम् ||
SK
पुनरपरं भगवन् सा प्रज्ञापारमिताभावना या(यां?) भावनामागम्य अचिन्त्यानपि बुद्धधर्मानचिन्त्या बुद्धधर्मा इति न विकल्पमापद्यते | सेयं भगवन् प्रज्ञापारमिताभावना बोधिसत्त्वानां महासत्त्वानां सर्वधर्माविकल्पाय द्रष्टव्या ||
SK
पुनरपरं भगवन् सा प्रज्ञापारमिताभावना या(यां?) भावनामागम्य सर्वधर्मान् बुद्धधर्मान् पश्यति, सर्वधर्मानचिन्त्यधर्मान् पश्यत्यसमनुपश्यनतया | बहुबुद्धशतसहस्रपर्युपासितास्ते भगवन् कुलपुत्राः कुलदुहितरश्च भविष्यन्ति ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापात्स्यन्ते ||
SK
पुनरपरं भगवन् सा प्रज्ञापारमिताभावना यां न कश्चिद्धर्मः संक्लिश्यते वा व्यवदायते वा समनुपश्यति | एवं भावना भगवन् प्रज्ञापारमिताभावना | सा चैषा भगवन् प्रज्ञापारमिताभावना या नैव पृथग्जननानात्वं करोति, न श्रावकनानात्वम्, न प्रत्येकबुद्धनानात्वम्, यावत् सम्यक्संबुद्धनानात्वं च करोति | एषा सा भगवन् प्रज्ञापारमिताभावना ||
SK
(Sअप्तŚ, Vऐद्य ३४५) अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म - कियन्तस्त्वया मञ्जुश्रीः तथागताः पर्युपासिताः? मञ्जुश्रीराह - यावन्तो भगवन् मायापुरुषस्य चित्तचैतसिका निरुद्धाः, इयन्तो मया भगवन् तथागताः पर्युपासिताः | भगवानाह - न त्वं मञ्जुश्रीः बुद्धधर्मसंस्थितः? मञ्जुश्रीराह - कश्चित्पुनर्भगवन् स धर्म उपलभ्यते यो न बुद्धधर्मसंस्थितः? भगवानाह - कस्य पुनर्मञ्जुश्रीः एते बुद्धधर्माः? मञ्जुश्रीराह - भगवन् तव तावदेते बुद्धधर्मा इति नाम न संविद्यते नोपलभ्यते, कुतः पुनरन्येषां भविष्यति?
SK
भगवानाह - प्राप्ता ते मञ्जुश्रीरसङ्गता? मञ्जुश्रीराह - तद्यदा तावदहं भगवन् न सङ्गतैव, तत्किं भूयो ऽहमसङ्गतामनुप्राप्स्यामि?
SK
भगवानाह - तत्किं निषण्णो ऽसि मञ्जुश्रीर्बोधिमण्डे? मञ्जुश्रीराह - भगवानेव तावद्बोधिमण्डे न निषण्णः, कथं पुनरहं निषत्स्यामि भूतकोटिं प्रमाणीकृत्य? भगवानाह - भूतकोटिरिति मञ्जुश्रीः कस्यैतदधिवचनम्? मञ्जुश्रीराह - भूतकोटिरिति भगवन् सत्कायस्यैतदधिवचनम् | भगवानाह - किं संधाय मञ्जुश्रीरेवं वदसि? मञ्जुश्रीराह - असन्नेष भगवन् कायो न सत्कायः | नैष संक्रामति न विषंक्रामति | तेनैष कायो ऽसत्काय ||
SK
अथ खल्वायुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत् - नियतास्ते भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति बोधये, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते नोत्रसिष्यन्ति न संत्रसिष्यन्ति संत्रासमापत्स्यन्ते ||
SK
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - आसन्नीभूतास्ते भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति बोधये, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते | तत्कस्माद्धेतोः? एषैव भगवन् परमा बोधिः, यैषां धर्माणामनुबोधना ||
SK
अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् - बुद्धा एव ते भगवन् बोधिसत्त्वा महासत्त्वा द्रष्टव्याः, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते | तत्कस्माद्धेतोः? बुद्ध इति परमार्थतो ऽनुत्पादस्यैतदधिवचनम् ||
SK
अथ खलु निरालम्बा भगिनी भगवन्तमेतदवोचत् - न ते भगवन् बोधिसत्त्वा महासत्त्वाः पृथग्जनधर्मान् श्रावकधर्मान् प्रत्येकबुद्धधर्मान् सम्यक्संबुद्धधर्मानध्याम्बिष्यन्ते, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते | तत्कस्माद्धेतोः? तथा हि भगवन् निरालम्बाः सर्वधर्मा असंविद्यमानत्वात् | तेनैषामालम्बनं न संविद्यते ||
SK
अथ खलु भगवानायुष्मन्तं शारद्वतीपुत्रमामन्त्रयते स्म - एवमेतच्छारद्वतीपुत्र, एवमेतत् | नियतास्ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति बोधये, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्त्रसन्ति न संत्रसन्ति न संत्रासमापत्स्यन्ते | अविनिवर्तनीयभूमौ त्वं (Sअप्तŚ, Vऐद्य ३४६) शारद्वतीपुत्र प्रतिष्ठितांस्तान् कुलपुत्रान् कुलदुहितरश्च जानीष्व, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते, मूर्ध्ना च प्रतिग्रहीष्यन्ति | ते ते शारद्वतीपुत्र परमदानपतयो भविष्यन्ति महादानपतयो विशिष्टदानपतयः | ते ते शारद्वतीपुत्र शीलसंपन्ना भविष्यन्ति परमशीलवन्तः परमविशिष्टशीलगुणपथप्राप्ताः, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते | ते ते शारद्वतीपुत्र परमया क्षान्त्या, परमेण वीर्येण, परमैर्ध्यानैः, परमया अप्रतिसमया प्रज्ञया समन्वागता भविष्यन्ति | ते ते शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा यावत् सर्वकारवरोपेतेन सर्वज्ञज्ञानेन समन्वागता भविष्यन्ति, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते ||
SK
पुनरपरं भगवन् मञ्जुश्रियं कुमारभूमेतदवोचत् - कं पुनस्त्वं मञ्जुश्रीः अर्थवशं संपश्यन् इच्छस्यनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्? मञ्जुश्रीराह - सचेदहं भगवन् बोधये संप्रतिष्ठेयम्, एवमहमिच्छेयमभिसंबोद्धुम् | नाहं भगवन् बोधिं प्रार्थयामि | तत्कस्माद्धेतोः? बोधिरेवैष यो ऽयं मञ्जुश्रीः कुमारभूतः ||
SK
एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - साधु साधु मञ्जुश्रीः, यस्त्वमिमान्येवंरूपाणि गम्भीराणि गम्भीराणि स्थानानि निर्दिशसि | यथापि त्वं पूर्वजिनकृताधिकारो ऽनुपलम्भचिरचरितब्रह्मचर्यः | मञ्जुश्रीराह - लब्ध एव भगवन् धर्मः स्यात्, यद्यहमनुपलम्भचारी स्याम् ||
SK
एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - पश्यसि त्वं मञ्जुश्रीरिमां मम श्रावकसंपदम्? मञ्जुश्रीराह पश्यामि भगवन् | भगवानाह - कथं पश्यसि? मञ्जुश्रीराह - तथाहं भगवन् पश्यामि यथा नैव पृथग्जनान पश्यामि, नैव शैक्षान् पश्यामि, नैवाशैक्षान् पश्यामि | नापि पश्यामि, नापि नैव पश्यामि, एवं पश्यामि | यन्नैव बहून् पश्यामि, नाप्यल्पकान् पश्यामि | यन्नैव विनीतान् पश्यामि, नाप्यविनीतान् पश्यामि ||
SK
अथ खल्वायुष्मान् शारद्वतीपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत् - यस्त्वं मञ्जुश्रीः श्रावकयानिकानेवं पश्यसि, सम्यक्संबुद्धयानिकान् पुनस्त्वं कथं पश्यसि? मञ्जुश्रीराह - बोधिसत्त्व इति भदन्त शारद्वतीपुत्र नाम धर्मं न समनुपश्यामि, बोधाय संप्रस्थित इति नाम धर्मं न समनुपश्यामि | बोधाय चरतीति नाम धर्मं न समनुपश्यामि | अभिसंबुध्यत इति नाम धर्मं न समनुपश्यामि | एवं भदन्त शारद्वतीपुत्र सम्यक्संबुद्धयानिकान् पश्यामि | शारद्वतीपुत्र आह - तथागतं पुनस्त्वं मञ्जुश्रीः कथं पश्यसि? मञ्जुश्रीराह - तिष्ठतु भदन्त शारद्वतीपुत्र महानागः | मा महानागं घट्टय ||
SK
एवमुक्ते आयुष्मान् शारद्वतीपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत् - बुद्ध इति मञ्जुश्रीः कस्यैतदधिवचनम्? मञ्जुश्रीराह - यत्पुनर्भदन्त शारद्वतीपुत्र उच्यते आत्मेति, कस्यैतदधिवचनम्? शारद्वतीपुत्र आह - अनुत्पादस्यैतन्मञ्जुश्रीरधिवचनं यदुत आत्मेति | मञ्जुश्रीराह - (Sअप्तŚ, Vऐद्य ३४७) एवमेतद्भदन्त शारद्वतीपुत्र यस्यैतदधिवचनमात्मेति, तस्यैतदधिवचनं बुद्ध इति | अपि तु भदन्त शारद्वतीपुत्र अपदाधिवचनमेतद् यदिदमुच्यते बुद्ध इति | न ह्येतद्भदन्त शारद्वतीपुत्र वाचाभिर्विज्ञापयितुं बुद्ध इति | वागपि भदन्त शारद्वतीपुत्र न सुकरा निरूपयितुम् - इयं वागिति, कुतः पुनर्बुद्ध इति | अपि तु भदन्त शारद्वतीपुत्र यदेवं वदसि - कस्यैतदधिवचनं बुद्ध इति, यो न समुदागतो नोत्पन्नो न निरोत्स्यते, यो न केनचिद्धर्मेण समन्वागतो नाप्यत्र किंचित्पदमभेदम्, अपदस्यैतद्भदन्त शारद्वतीपुत्र अधिवचनं यदुत बुद्ध इति | तथागतं भदन्त शारद्वतीपुत्र पर्येषितुकामेन आत्मा पर्येषितव्यः | आत्मेति भदन्त शारद्वतीपुत्र बुद्धस्यैतदधिवचनम् | यथा आत्मा अत्यन्ततया न संविद्यते नोपलभ्यते, तथा बुद्धो ऽप्यत्यन्ततया न संविद्यते नोपलभ्यते | यथा आत्मा न केनचिद्धर्मेण वचनीयः, तथा बुद्धो ऽपि न केनचिद्धर्मेण वचनीयः | यत्र न काचित्संख्या, स उच्यते बुद्ध इति | न चैतद्भदन्त शारद्वतीपुत्र सुकरमाज्ञातुमात्मेति यदधिवचनम्, एवमेतद्भदन्त शारद्वतीपुत्र न सुकरमाज्ञातुं बुद्ध इति यदधिवचनम् ||
SK
अथ खल्वायुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत् - नायं भगवन् मञ्जुश्रीः कुमारभूतस्तथा देशयति यथा आदिकर्मिका बोधिसत्त्वा आजानीयुः | एवमुक्ते मञ्जुश्रीः कुमारभूतः आयुष्मन्तं शारद्वतीपुत्रमेतदवोचत् - नाहं भदन्त शारद्वतीपुत्र तथा देशयामि यथा कृताविनो ऽप्यर्हन्त आज्ञास्यन्ति | नाप्यहं तथा देशयामि यथा कश्चिद्विज्ञास्यति | तत्कस्माद्धेतोः? न बोधिः केनचिद्विज्ञाता, नापि संबुद्धा, न दृष्टा, न श्रुता, न स्मृता, नोत्पादिता, न निरोधिता, नोद्दिष्टा, नोपदेशिता | एतावदेव भदन्त शारद्वतीपुत्र यावता बोधिः | सा च बोधिर्न भावो नाप्यभावः | तत्कस्माद्धेतोः? न बोध्या किंचिदभिसंबोद्धव्यम्, नापि बोधिर्बोधिमभिसंबुध्यते ||
SK
शारद्वतीपुत्र आह - न मञ्जुश्रीर्भगवता धर्मधातुरभिसंबुद्धः? मञ्जुश्रीराह - न भदन्त शारद्वतीपुत्र भगवता धर्मधातुरभिसंबुद्धः | तत्कस्माद्धेतोः? तथा हि भदन्त शारद्वतीपुत्र धर्मधातुरेव भगवान् | सचेद्भदन्त शारद्वतीपुत्र भगवता धर्मधातुरभिसंबुद्धः स्यात्, तद्यो ऽसावनुत्पादधातुः स निरुध्यो भवेत् | अपि तु भदन्त शारद्वतीपुत्र स एव धर्मधातुर्बोधिः | तत्कस्माद्धेतोः? निःसत्त्वो हि धर्मधातुः | अभावाः सर्वधर्मा इति बोधेरधिवचनमेतत्, यो ऽसौ धर्मधातुरिति संख्यां गच्छति | तत्कस्माद्धेतोः? सर्वधर्मा ह्यनानात्वं बुद्धविषयतः | अनानात्वमिति भदन्त शारद्वतीपुत्र अविज्ञप्तिकं पदमेतत् | अविज्ञप्तिकमिति भदन्त शारद्वतीपुत्र नैतच्छक्यं विज्ञापयितुं संस्कृतत्वेन वा यावद् असंस्कृतत्वेन वा | न तत्र काचिद्विज्ञप्तिः, तेन तदविज्ञप्तिकम् | सर्वधर्मा हि भदन्त शारद्वतीपुत्र अविज्ञप्तिकाः | तत्कस्माद्धेतोः? तथा हि सर्वधर्माणां प्रादुर्भावो नास्ति यस्मिन् स्थित्वा विज्ञप्येरन् | ये ऽप्यमी आनन्तर्यप्रसृता अचिन्त्यप्रसृताः, ते | ये च अचिन्त्यप्रसृता भूतप्रसृतास्ते | तत्कस्माद्धेतोः? भूतमिति भदन्त शारद्वतीपुत्र अभेदपदमेतत् | ये ऽपि अचिन्त्यधर्मसमन्वागताः, (Sअप्तŚ, Vऐद्य ३४८) नैव ते स्वर्गगामिनः, न अपायगामिनः, न परिनिर्वाणगामिनः | तत्कस्माद्धेतोः? न हि अचिन्त्यं गमनागमनेन प्रत्युपस्थितम्, यावत् न परिनिर्वाणं गमनागमनेन प्रत्युपस्थितम् | ये ऽपि भदन्त शारद्वतीपुत्र चतसृषु मूलापत्तिष्ववस्थिताः, अमूले ते ऽवस्थिताः | तत्कस्माद्धेतोः? न हि भदन्त शारद्वतीपुत्र अनुत्पादस्य मूलं वा अग्रं वा इष्यते | अमूलो भिक्षुरिति अप्रतिष्ठितस्य भिक्षोरेतदधिवचनम् | उत्पन्नमधिकरणमिति अधिकसमारोपस्यैतदधिवचनम् | अधिकसमारोपे भदन्त सारद्वतीपुत्र चरन् लोके दक्षिणीयो भवति | तत्कस्माद्धेतोः? तथा हि समः सो ऽधिकसमारोपः | श्राद्धो भदन्त शारद्वतीपुत्र भिक्षुर्नार्हति श्रद्धादेयं परिभोक्तुम् | अश्राद्धो भदन्त शारद्वतीपुत्र भिक्षुरर्हति श्रद्धादेयं परिभोक्तुम् | कल्पितो भदन्त शारद्वतीपुत्र भिक्षुर्नार्हति श्रद्धादेयं परिभोक्तुम् | अकल्पिको भदन्त शारद्वतीपुत्र भिक्षुरर्हति श्रद्धादेयं परिभोक्तुम् | असमुपहतनेत्रीको भिक्षुरर्हन् क्षीणास्रव इत्युच्यते ||
SK
शारद्वतीपुत्र आह - किं संधाय मञ्जुश्रीरेवं वदसि? मञ्जुश्रीराह - न समता समुपहता, या समता सैव सा नेत्री | इदं संधाय भदन्त शारद्वतीपुत्र एवं वदामि - असमुपहतनेत्रीको भिक्षुरर्हन् क्षीणास्रव इत्युच्यते | अनुत्तीर्णभय(भव?)इति भदन्त शारद्वतीपुत्र अर्हतः क्षीणास्रवस्यैतदधिवचनम् | शारद्वतीपुत्र आह - किं संधाय मञ्जुश्रीरेवं वदसि? मञ्जुश्रीराह - अणून्यपि तस्य भयानि न संविद्यन्ते | तत्किमुत्तरिष्यति? इदं संधाय भदन्त शारद्वतीपुत्र एवं वदामि - अनुत्तीर्णभय इति अर्हतः क्षीणास्रवस्यैतदधिवचनमिति ||
SK
शारद्वतीपुत्र आह - अनुत्पन्नक्षान्तिक इति मञ्जुश्रीः कस्यैतदधिवचनम्? मञ्जुश्रीराह - येन भदन्त शारद्वतीपुत्र अणुरपि धर्मो नोत्पादितः, स उच्यते ऽनुत्पन्नक्षान्तिक इति ||
SK
शारद्वतीपुत्र आह - अविनीतो भिक्षुरिति मञ्जुश्रीः कस्यैतदधिवचनम्? मञ्जुश्रीराह - अविनीतो भिक्षुरिति भदन्त शारद्वतीपुत्र अर्हतः क्षीणास्रवस्यैतदधिवचनम् | तत्कस्माद्धेतोः? अविनयो हि विनीतः, न विनयो विनीतः | इदं संधाय भदन्त शारद्वतीपुत्र एवं वदामि - अविनीतो भिक्षुरिति अर्हतः क्षीणास्रवस्यैतदधिवचनम् ||
SK
शारद्वतीपुत्र आह - अधिचित्ते चरतीति मञ्जुश्रीः कस्यैतदधिवचनम्? मञ्जुश्रीराह - अधिचित्ते चरतीति भदन्त शारद्वतीपुत्र पृथग्जनस्यैतदधिवचनम् | शारद्वतीपुत्र आह - किं संधाय मञ्जुश्रीरेवं वदसि? मञ्जुश्रीराह - तथा हि भदन्त शारद्वतीपुत्र सो ऽधिकरोति ||
SK
एवमुक्ते आयुष्मान् शारद्वतीपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत् - साधु साधु मञ्जुश्रीः, यथा अर्हन् क्षीणास्रवस्तथा कथयसि | मञ्जुश्रीराह - एवमेतद्भदन्त शारद्वतीपुत्र यथा वदसि | क्षीणास्रवो ऽस्मि, न चार्हन् | तत्कस्माद्धेतोः? तथा हि भदन्त शारद्वतीपुत्र क्षीणा मे आस्रवाः ःरावकभूमौ वा प्रत्येकबुद्धभूमौ वा | अनेन भदन्त ःआरद्वतीपुत्र पर्यायेण क्षीणास्रवो न चार्हन् ||
SK
(Sअप्तŚ, Vऐद्य ३४९) अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - स्यान्मञ्जुश्रीः पर्यायो यद्बोधिसत्त्वो महासत्त्वो बोधिमण्डे निषण्णो ऽभव्यो ऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्? मञ्जुश्रीराहस्याद्भगवन् पर्यायः यब्दोधिसत्त्वो महासत्त्वो बोधिमण्डे निषण्णः अभव्यो ऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् | तत्कस्य हेतोः? तथा हि बोधावणुरपि धर्मो न संविद्यते नोपलभ्यते | तेनोच्यते ऽनुत्तरा सम्यक्संबोधिरिति | सा च बोधिरनुत्पन्ना | तत्र न कश्चिद्धर्मः संविद्यते नोपलभ्यते, यो बोधिमण्डे निषीदेत्, यो वा बोधिमभिसंबुध्येत्, येन वा बोधिरभिसंबुध्येत, यो वा बोधिमण्डादुत्तिष्ठेदिति | अनेन भगवन् पर्यायेण अभव्यो बोधिसत्त्वो महासत्त्वो बोधिमण्डे निषण्णो ऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् ||
SK
एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - बोधिरिति मञ्जुश्रीः कस्यैतदधिवचनम्? मञ्जुश्रीराह - बोधिरिति भगवन् पञ्चानामानन्तर्याणामेतदधिवचनम् | तत्कस्माद्धेतोः? तथा हि बोधिप्रकृतिकान्येव तानि पञ्चानन्तर्याणि अभावत्वात् | तेनैषा बोधिरानन्तर्यप्रकृतिका, अनन्तर्याणामभिसंबुध्यना बोधिः, न च प्रत्यक्षीभावना सर्वधर्मेषु बोधिः | तत्कस्माद्धेतोः? सर्वधर्मा हि अत्यन्ततया अप्रत्यक्षाः | ते न केनचिदभिसंबुद्धाः, न दृष्टाः, न ज्ञाताः, यावत् न विदिताः | एवमेषा बोधिः | अपि तु खलु पुनर्भगवन् अभिमानिकैः स्थापितान्येतानि अभिसंबुधानि(द्धा? ), यावत् प्रत्यक्षीकृतानि ||
SK
एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - किं ते मञ्जुश्रीः ममान्तिके एवं भवति - तथागतो मे तथागत इति? मञ्जुश्रीराह - नो हीदं भगवन् | तत्कस्माद्धेतोः? न मे भगवन् एवं भवेत् - तथागतो मे तथागत इति | तत्कस्माद्धेतोः? [तथा चैव तथता च] यथा च तथाता, तथा चैष तथागतः | तथा हि भगवन् न तथता तथागतं विज्ञपयति, नापि तथागतस्तथतां विज्ञपयति | तत्कस्माद्धेतोः? तथा हि भगवन् परमार्थतो ऽभावा तथता | अभावस्तथागतः | तस्मात्तर्हि भगवन् न मे एवं भवति - तथागतो मे तथागत इति | अपि तु तथागत इति भगवन् नामधेयमात्रमेतत् | तत् कतरो ऽसौ तथागतो यत्र मे एवं भविष्यति - तथागतो मे तथागत इति? भगवानाह - स(तत्?)संशयस्ते मञ्जुश्रीस्तथागते? मञ्जुश्रीराह - नो हीदं भगवन् | स्यादत्र मे भगवन् संशयः, सचेत् काचित्तथागतपरिनिष्पत्तिः स्यत्, तथागतोत्पत्तिर्वा तथागतपरिनिर्वाणं वा ||
SK
एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - न तव मञ्जुश्रीरेवं भवति - उत्पन्नस्तथागत इति? मञ्जुश्रीराह - स्यान्मे भगवन् उत्पन्नस्तथागत इति, सचेद्धर्मधातोरुत्पत्तिः स्यात् ||
SK
भगवानाह - नाधिमुच्यसे त्वं मञ्जुश्रीः गङ्गानदीवालुकोपमा बुद्धा भगवन्तः परिनिर्वृता इति? मञ्जुश्रीराह - कश्चित् पुनर्भगवन् एकविषया बुद्ध भगवन्तो यदिदमचिन्त्यविषयाः? (Sअप्तŚ, Vऐद्य ३५०) भगवानाह - एवमेतन्मञ्जुश्रीः, एकविषया बुद्धा भगवन्तो यदिदमचिन्त्यविषयाः | मञ्जुश्रीराह - कश्चित्पुनर्भगवन् एतर्हि तिष्ठति? भगवानाह - एवमेतन्मञ्जुश्रीः | मञ्जुश्रीराह - तेन हि भगवन् एते गङ्गानदीवालुकोपमा बुद्धा भगवन्तो न परिनिर्वृताः | तत्कस्माद्धेतोः? तथा हि भगवन् एकविषया बुद्धा भगवन्तो यदिदमचिन्त्यविषयाः | न च अचिन्त्यता उत्पद्यते निरुध्यते वा | तस्माद्भगवन् भगवतो वा अभिसंबुद्धेन (द्धस्य?) ये ऽपि ते अनागते ऽध्वनि तथगता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति, अभिसंबुद्धा एव ते | तत्कस्माद्धेतोः? न हि अचिन्त्यता अतीता वा अनागता वा प्रत्युत्पन्ना वा | तस्माद्भगवन् विभ्रमस्तेषां लोकसंनिवेशः | प्रपञ्चयन्ति ते भगवन् लोकसंनिवेशं येषामेवं भवति - उत्पन्नस्तथागतो यावत् परिनिर्वास्यति वेति ||
SK
एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - तेन हि त्वं मञ्जुश्रीः इदं तथागताचिन्त्यम्, अचिन्त्यं निश्चिन्त्यं तथागतस्य वा अग्रत उदाहारैरुदाहरेः, अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य वा अर्हतो वा क्षीणास्रवस्य | तत्कस्माद्धेतोः? तथा हि ते श्रुत्वा नैवानुज्ञास्यन्ति, नैव प्रतिक्रोक्ष्यन्ति | तत्कस्माद्धेतोः? तथा हि तच्चिन्त्यमचिन्त्यं निश्चिन्त्यम् | मञ्जुश्रीराह - अचिन्त्यानां निश्चिन्त्यानां भगवन् सर्वधर्माणां को ऽत्रानुज्ञास्यति वा प्रतिक्रोक्ष्यति वा? भगवानाह - यथैव मञ्जुश्रीः तथागतो निश्चिन्त्यः, तथैव पृथग्जना अपि निश्चिन्त्याः | मञ्जुश्रीराह - पृथग्जना अपि भगवन् तथैव निश्चिन्त्याः? भगवानाह - एवमेतन्मञ्जुश्रीः | तत्कस्माद्धेतोः? तथा हि सर्वाण्यचिन्त्यानि निश्चिन्त्यानि | मञ्जुश्रीराह - तत्कस्माद्भगवानेवमाह - यथैव तथागतो निश्चिन्त्यः, एवं पृथग्जना अपि निश्चिन्त्या इति? ननु भगवन् पृथग्जनत्वमपि निश्चिन्त्यम् | तत्कस्माद्धेतोः? निश्चिन्त्या हि भगवन् सर्वधर्माः | ये केचिद्भगवन् परिनिर्वाणाय प्रस्थिताः, विहरिष्यन्ते ते भगवन् | तत्कस्माद्धेतोः? यैव निश्चिन्त्यता तदेव परिनिर्वाणम् | तस्मात्तर्हि भगवन् नास्ति निश्चिन्त्यतायां नानात्वम् | ये ऽपि भगवन् एवमाहुः - इमे पृथग्जनधर्माः, इमे आर्यधर्मा इति, ते इदं वचनीयाः - कल्याणमित्राणि तावत्पर्युपासध्वम्, ततः पश्चाज्ज्ञास्यथ - इमे पृथग्जनधर्माः इमे आर्यधर्मा इति ||
SK
एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - इच्छसि त्वं मञ्जुश्रीः तथागतं सर्वसत्त्वानामग्र्यम्? मञ्जुश्रीराह - इच्छेयमहं भगवन् तथागतं सर्वसत्त्वानामग्र्यम्, सचेदिह काचित्सत्त्वपरिनिष्पत्तिः स्यात् |
SK
भगवानाह - इच्छसि त्वं मञ्जुश्रीः तथागतमचिन्त्यधर्मसमन्वागतम्? मञ्जुश्रीराह - इच्छेयमहं भगवन् तथागतमचिन्त्यधर्मसमन्वागतम्, सचेत्कश्चिदचिन्त्यधर्मसमन्वागतः स्यात् ||
SK
भगवानाह - इच्छसि पुनस्त्वं मञ्जुश्रीरेवम् - इमे श्रावकास्तथागतेन विनीता इति? मञ्जुश्रीराह - इच्छेयमहं भगवन् एवम् - इमे श्रावकास्तथागतेन विनीता इति, सचेत् कश्चिदचिन्त्यधातुविनयं (Sअप्तŚ, Vऐद्य ३५१) गच्छेत् | न भगवन् बुद्धोत्पादः कश्यचिदुपकारेण वा अपकारेण वा प्रत्युपस्थितः | तक्तस्माद्धेतोः? तथा हि स्थित एष धातुः, असंकीर्ण एष धातुः, यदुत अचिन्त्यधातुः | तस्मिश्च धातौ न श्रावकनानात्वम्, यावत् न पृथग्जननानात्वमुपलभ्यते ||
SK
भगवानाह - न त्वं मञ्जुश्रीरेवमिच्छसि - अनुत्तरं पुण्यक्षेत्रं तथागत इति? मञ्जुश्रीराह - अभावत्वाभ्दगवन् पुण्यक्षेत्रं तथगतः, तेनैतदनुत्तरं पुण्यक्षेत्रम् | येनैतत्पुण्यक्षेत्रं नापुण्यक्षेत्रम्, तेनैतदनुत्तरं पुण्यक्षेत्रम् | अपि तु खलु पुनर्भगवन् नात्र कश्चिद्धर्मः समुदागच्छति न क्षीयते | एवं तत्पुण्यक्षेत्रम् | तत्र च बीजं प्रक्षिप्तं न विवर्धते न परिहीयते | भगवानाह - किं संधाय मञ्जुश्रीरेवं वदसि - तत्र क्षेत्रे बीजमवरोपितं न विवर्धते न परिहीयते इति? मञ्जुश्रीराह - तथा हि भगवन् अचिन्त्यं तत्क्षेत्रम्, एवं तत्पुण्यक्षेत्रम् ||
SK
अथ खलु तस्यां वेलायां बुद्धानुभावेन षड्विकारं महापृथिवीचालो ऽभूत्, षोडशानां च भिक्षुसहस्राणामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि, सप्तानां भिक्षुणीशतानां त्रयाणां चोपासकशतानां चत्वारिंशतश्चोपासिकासहस्राणां षष्टेश्च कामावचराणां देवकोटीनियुतशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम् ||
SK
अथ खल्वायुष्मानानन्द उत्थायासनादेकांसचीवरं प्रावृत्य दक्षिणं जानुमाण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - को भगवन् हेतुः, कः प्रत्ययो ऽस्य महतः पृथिवीचालस्य लोके प्रादुर्भावाय? एवमुक्ते भगवानायुष्मान्तमानन्दमेतदवोचत् - अयमानन्द पुण्यक्षेत्रनिर्देशो नाम धर्मपर्यायः पूर्वकैरपि बुद्धैर्भगवद्भिरस्मिन्नेव पृथिवीप्रदेशे भाषितः | अयमानन्द हेतुः, अयं प्रत्ययो ऽस्य महतः पृथिवीचालस्य लोके प्रादुर्भावाय ||
SK
सप्तशतिका प्रज्ञापारमिता समाप्ता ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Saptaśatikā prajñāpāramitā (sa_saptazatikA-prajJApAramitA.htm).

Source