SK
ॐ तत्सत् || शिवमस्तु || श्रीशिवकामसुन्दरीसमेतश्रीचित्सभेशाय मङ्गलम् श्रीज्ञानसम्बन्धपरमाचार्यपरब्रह्मणे नमः || श्रीमदघोरशिवाचार्यविरचिता क्रियाक्रमद्योतिका व्याख्या पद्धतिः || मङ्गलम् || टेxत्- वन्दे निःश्वाधिकं शान्तमनादिनिधने शिवम् | निष्कलं निष्कलङ्कन्तु शक्तिं ज्ञानक्रियात्मिकाम् || २ || (१) व्याख्या- श्रीमन्निर्मलमणिगुरुविरचिता प्रभाख्या क्रियाक्रमद्योतिका व्याख्या || शिवं शक्तिं गणाधीशं गुहं वागीश्वरीं क्रमात् | कुर्वाससमृषिं वन्दे पैङ्गलाद्यांश्च देशिकान् || (२) || चन्द्रार्द्धचूडशिखरिप्रभवस्तनोति गौरीस्तनोदितपयोजलधिं निपीय | यो विघ्नपादपमहाननभङ्गलीलां तं मत्तवारणमहं शरणं प्रपद्ये || (२) प्. २) चिद्व्यक्तिः क्रियते मलावृतिमतां येनाऽत्मनामन्वहं स्रष्टा पालयिता समस्तजगतां हर्ता च यो राजते | यस्यासीन्महिमा महानविषयो वाक्चेतसोस्सर्वदा तं वन्दे शिवमम्बिकासहचरं स्वाभीष्टसंसिद्धये || (३) २. यदीयमुद्राभिनयेन योगिनो यदीयमौनेन च मुक्तसंशयाः | स्मिताभिरामाननमिन्दुशेखरं भजेऽविशन्तं वटमूलवासिनम् || ४ या पक्वनीहार बलं विभिद्य परं नृणां व्यञ्जयते शिवत्वम् | ज्ञानक्रियारूपवती शिवस्य शक्तिः पुरस्तादियमानिरस्तु || ५ श्रीशैवागमविष्टपे परशिवाद्यर्थस्वरूपक्रमं योऽविद्यातिमिरं व्यपोह्य निखिलं विद्योतयत्यादरात् | स्वव्याख्यानमहामयुखनिवहैर्दीछाविशिष्टात्मनां वन्देऽघोरशिवाख्यदेशिकरविं बोधाय तं सर्वदा || ६ यस्यालोको दुरितनिकरं दुस्तरं संविभिद्य प्. ३) श्रेयरसद्यो वितरति परं भक्तिभाजां प्रजानाम् | श्रीमत्पद्मालयपुरपतिं मद्गुरुं तं दयालुं वन्दे शैवागमजलनिधिं वामदेवाभिधानम् || (७) कामिकादिशिवज्ञानं मृगेन्द्रादिमसंहिताः | श्रीरौरवमतङ्गादि संहितावृत्तिसंहतीः || (८) श्रीसोमशंभुपूर्वाणामाचार्याणाञ्च पद्धतीः | संविचार्य यथाबोधं सदाचार्यापदेशतः || (९)