The Story of the Descent into the Womb

Garbhāvakrāntyavadāna · Gअर्भावक्रान्त्यवदान

The Story of the Descent into the Womb

Garbhāvakrāntyavadāna

Gअर्भावक्रान्त्यवदान

SK
चम्पोपान्ते विमलनलिनीतीरपर्यन्तवसी शास्ता पूर्वं सकलभुवनानुग्रहाय प्रवृत्तह् / पृष्टः स्पर्शावगतिरुचिना (?) भिक्षुणानन्दनाम्ना गर्भारम्भात् प्रभृति जनताजन्मवृत्तिं जगाद // KAव्क्_१०.१ //
SK
शुक्लैः कृष्णैः शबलरुचिभिर् देहिनां कर्मसूत्रैश् चित्रं लोके बहुतरदशं दृश्यते जन्मवस्त्रम् / जीर्णस्यापि व्यसनमलिनस्नेहलीनः प्रयत्नैर् यस्यात्यन्तं चिरपरिणतेर् नैव निर्याति रागः // KAव्क्_१०.२ //
SK
पुंसः शुक्रं विगलितधृतेर् आर्तवं योषितश् च स्पर्शावेशव्यतिकरजुषोः संगमे संनिपातात् / एकीभूतं व्रजति नियमात् कस्य चिद् बीजभावं यो ऽन्तस् तस्मिन् भवति सहसा संनिकाषे यथाग्निः // KAव्क्_१०.३ //
SK
रागोद्गारः स्फटिकशकलं मेघम् अम्भोधिपाथः पुष्पामोदस् तिलं इव शनैः काञ्चनं वाग्नितापः / सो ऽयं गर्भं विशति नियतैर् अप्य् असंलक्ष्यवृत्तिर् वायुर् गन्धैर् इव बहुविधैः कर्मभिर् वास्यमानः // KAव्क्_१०.४ //
SK
तस्मिन् सूक्ष्मक्रमपरिणतिर् मीनपर्युष्टके (?) ऽसौ नानाकारप्रचुररचनाचित्ररूपो ऽप्य् अलक्ष्यः / कं चित् कालं वहति विकृतिं निर्विकारायमानो मायूराण्डे जलमय इव व्यक्तभक्तिर् मयूरः // KAव्क्_१०.५ //
SK
तत्राधानाद् घनकललताशल्यपेश्याद्यवस्थास् त्यक्त्वा तास् ता जठरजनितेनोष्मणा पच्यमानः / पूर्णैर् मासैर् नवभिर् अथवावर्तकर्मक्रमो ऽसौ क्लेशं भुङ्क्ते किम् अपि विषमं दुःखसंज्ञाप्रपन्नः // KAव्क्_१०.६ //
SK
काले वृन्तात् स्वयं इव फलं विच्युतं कर्मपाकात् तत्कालोत्थैर् अविहतजवैः प्रेरितः पूतिवातैः / लक्ष्याभ्यासायतनसचिवैर् आचितः कर्मबन्धैर् निर्यात्य् अन्तः शर इव धनुर्यन्त्रणैर् यन्त्रमुक्तः // KAव्क्_१०.७ //
SK
उत्तानास्यः सरलरसनश् चूचुकाग्रं लिहानः स्तन्यं मातुः पिबति यद् असौ नैव कर्णेन नाक्ष्णा / जन्माभ्यासव्यसनयतनायाससंवासलिना सा तस्याग्रे सकलकलनादेशिनि वासनैव // KAव्क्_१०.८ //
SK
स्यूतैर् अन्तर् विविधविषयस्वादसंपादभेदैर् व्याप्तः सूतैर् (?) बिसलव इव व्यक्ततन्तुप्रतानैः / मूधः सो ऽथ प्रकृतिसचिवैर् इन्द्रियैर् दत्तसम्ज्ञः स्तन्यालापाकृतिपरिमलस्पर्शनैर् वेत्ति धात्रीम् // KAव्क्_१०.९ //
SK
हस्ताकर्षैः शयनवसनाघर्षणैः पीड्यमानः स्थाने स्थाने तरलिततनुः कीटकैर् भक्ष्यमाणः / नित्याक्रन्दी वचनविरहात् कायिकीं क्लेशशैलीं कं बोब्रूते विषमविपदाम् आस्पदत्वं प्रयातः // KAव्क्_१०.१० //
SK
पीडोद्वान्तैश् छुरितवदनः प्रोच्छलत्क्षीरपूरैर् उत्तानोरस्तलनिपतितैर् उक्षितो लक्ष्यते ऽसौ / मायावध्वाः स्मरणहरणप्रौढकेलीविलासे हासेनेव स्फुरितरुचिना निर्भरव्याप्तकायः // KAव्क्_१०.११ //
SK
सो ऽथ प्राप्ते लिपिपरिचये हेलया दत्तहस्ते संसारे ऽस्मिन्न् अविचलितया बन्धलेख्यक्रियासु / जन्मावर्तं निजं इव लिखन् दीर्घं ॐकारम् आदौ वर्गे वर्गे वितरति मतिं भोगसर्गे निविष्टः // KAव्क्_१०.१२ //
SK
प्राप्तप्रज्ञः कथम् अपि गलद्बालभावप्रमोहः कामौत्सुक्यात् पुनर् अपि परे यौवने नष्टसंज्ञः / निःसारेषु व्यसनविलसद्मेघसौदामिनीनां बध्नात्य् आस्थां स्थिरतरधिया योषितां विभ्रमेषु // KAव्क्_१०.१३ //
SK
वाचि श्रोत्रं वपुर् अपि चलालिङ्गनेष्व् अङ्गनानां घ्राणं वक्त्रासवपरिमले स्वादनं तद्रसे च / पात्रे कुर्वन् दृशम् अपि मुखे सुप्तसर्वक्रियो ऽसौ धत्ते मात्रं तनुपरिणतांनीव सर्वेन्द्रियाणि // KAव्क्_१०.१४ //
SK
द्वेष्टि स्निग्धं परिचितपरिद्वेषशीलः स कामी वाञ्छत्य् अन्यां नवनवरसः सप्रयत्नो ऽन्यकामाम् / इत्य् अन्योन्यानुचितचरितालक्ष्यवैलक्ष्यसाक्षी हास्यायैव प्रकृतिविरसश् चित्रतन्त्रो ऽस्य कामः // KAव्क्_१०.१५ //
SK
अल्पाधारे विषयजलधौ मज्जतः सज्जतश् च भ्रष्टस्यास्य प्रतिहतगतेः कुञ्जरस्येव पङ्के / किंकर्तव्यावगतिरहिता जायते मोहमूर्च्छा नीतस्यान्ध्यं कतिपयदिनस्थायिना यौवनेन // KAव्क्_१०.१६ //
SK
यावत्कालं भ्रमति चलति प्रीयते जृम्भते ऽसौ स्मेरं स्मेरं वदति मदनालिङ्गितैर् अङ्गभङ्गैः / तावत् तस्योपरि परिपतर्य् एव कालप्रमुक्ता प्रालेयालीधवलपलितच्छद्मना वध्यमाला // KAव्क्_१०.१७ //
SK
काले काले क्षणकलनया मोहनिद्रावशेन प्राप्तं नास्मिन् वपुषि सुकृतं नैव दत्तं न भुक्तं / इत्थं चौरैर् इव स मुषितश् चिन्तयत्य् एव दुःखात् संमूढानां अनुशयफलः सो ऽवसादप्रमादः // KAव्क्_१०.१८ //
SK
तस्मिन् याते ललितवनितापुष्पवल्लीवसन्ते दुष्कर्माप्तद्रविणतुलया यौवने स्वप्नकल्पे / नष्टाशेषप्रकृतिर् अखिलैः खेदिताङ्गैर् विरक्तैर् राज्यभ्रंशे नृप इव सुखं सो ऽथ शोचत्य् अतीतं // KAव्क्_१०.१९ //
SK
आयुर् नीतं न च समुचितं याचकायोपनीतं नाप्य् उन्नीतं दिशि दिशि यशः सत्पथं न प्रतीतं पीतं याच्ञाविषम् अधिगतं स्फीतसंतापशीतं भीतं पापात् किम् अपि न मया यत् तद् एव प्रणीतं // KAव्क्_१०.२० //
SK
क्वासौ हेमद्रुमरुचिहरा हारिणी यौवनश्रीः कायः क्वायं कृमिहततरुप्रायविच्छायपाकः / दूराद् एताः परिहृतदृशाः कोणलीनं तरुण्यः शुष्कं शीतं तरुम् इव वने वानरं मां वदन्ति // KAव्क्_१०.२१ //
SK
सो ऽयं कायः श्रयति विलयं नैव मायानिकायः स्रस्ताः सर्वे दशनमणयस् ते च केशाः न दोषाः / गात्रोत्साहे प्रहरति मरुन् नैव मोहप्ररोहे क्षीणस्येयं शयनशरणस्यापि तृष्णाक्षया मे // KAव्क्_१०.२२ //
SK
संचिन्त्येति प्रसृतविषमश्वासहिक्कार्दितो (?) ऽसौ सद्यस् त्यक्तुं चिरपरिचिताम् उद्यतो लोकयात्राम् / मूकिभूतः स्वजनविरहं ध्यायति ध्वस्तधैर्यः शक्तिच्छेदाद् ऋणं इव महत् प्राप्तकालो दरिद्रः // KAव्क्_१०.२३ //
SK
भूमिं गेहं वसु परिजनं पुत्रदारादि चान्यत् तावत् तावत् कलयति धिया प्राणपर्यन्तकाले / यावज् जन्मन्य् अपि पुनर् असौ स्नेहमोहानुबन्धैस् तैस् तैर् अन्तः कृतपरिचयस् तन्मयीभावम् एति // KAव्क्_१०.२४ //
SK
दुःखं दुःसहपापकर्मजनितं कुम्भीसहस्रान्तरे भुक्त्वा रौरवकालसूत्रनरकेष्व् आवर्तते योनिषु / यद् वा पुण्यकलार्जितं सुखपदं तत् संक्षये दुःखदं सानागामिफलाप्तये विमलधीस् तस्मात् समाधीयतां // KAव्क्_१०.२५ //
SK
इति भीमभवाम्भोधिसंतारणकृतव्रतः / समादिदेश भगवान् सत्त्वानां कुशलाप्तये // KAव्क्_१०.२६ //
SK
/ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां गर्भावक्रान्तिनिर्देशो नाम दशमः पल्लवः /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kṣemendra: Garbhāvakrāntyavadāna (sa_kSemendra-garbhAvakrAntyavadAna.htm).

Source
Garbhāvakrāntyavadāna — Reader · Sutraya