Lamp for the Integration of Practices

Caryāmelāvaṇapradīpa · Cअर्यामेलावणप्रदीप

Lamp for the Integration of Practices

Caryāmelāvaṇapradīpa

Cअर्यामेलावणप्रदीप

SK
Cअर्यामेलावणप्रदीपः
SK
१. प्रथमः परिच्छेदः
SK
ओम् नमः श्रीवज्रसत्त्वाय /
SK
नमत खसमनिःस्वभावशुद्धं नमताशेषमनक्षरमवाच्यम् / नमतानागतसर्वगं सुगतं नमत समस्ताशेषसर्वशून्यम् //
SK
᳚अर्थप्रतिशरणेन भवितव्यं शब्दस्तु यथा तथा᳚ इति /
SK
तन्त्रे- चतुरशीतिसाहस्रे धर्मस्कन्धे महामुनेः / तत्त्वं वै ये न जानन्ति सर्वे ते निष्फलाय वै // इति /
SK
अत आह- आदिकर्मिकसन्धानं परमार्थावतारणे / उपायश्चैव संबुद्धैः सोपानमिव निर्मितः // इति /
SK
प्रबोधनमेलावणसंशयपरिच्छेदः प्रथमः
SK
२. द्वितीयः परिच्छेदः
SK
पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः / वज्र-आयतनान्येव बोधिसत्त्वाग्र्यमण्डलम् //
SK
पृथिवी लोचना ख्याता अब्धातुर्मामकी स्मृता / पाण्डराख्या भवेत्तेजस्तारा वायुः प्रकीर्तिता //
SK
रूपशब्दादिभिर्मन्त्री देवतां भावयेत् सदा //
SK
इत्युक्तं भगवता श्रीगुह्यसमाजमहायोगतन्त्रे /
SK
कुलाः शतविधाः प्रोक्ताः संक्षेपेण तु पञ्चधा / पुनस्त्रिविधतां यान्ति कायवाक्चित्तभेदतः //
SK
᳚पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः / ᳚
SK
पञ्चहृदयमाश्रित्य पञ्चतनुविनिर्गतम् / पञ्चवायुसमायुक्तं पञ्चकामोपभोगकृत // इति /
SK
प्रक्रमणात् प्राणायामाच्चेन्द्रियद्वारैस्तन्तुभिः / प्रक्रमते सदा कालं प्राण इत्यभिधीयते //
SK
वातमूत्रपुरीषाणां शुक्रादीनां तथैव च / अपनयनादपानो ऽयं योगिभिर्लक्ष्यते सदा //
SK
अशितं खादितं लेह्यं पेयं चोष्यञ्च सर्वतः / समानयति यो नित्यं समान इति चोच्यते //
SK
ऊर्ध्वगमात् संहरणाद् भक्ष्यभोज्यादिभक्षणात् / उदानकर्मविज्ञो ऽयं ज्ञानेन सहयोगतः //
SK
व्यापनं धारणं चैव गमनागमनादिकम् / सर्वसन्धिषु व्याप्तत्वाद् व्यान इत्यभिधीयते //
SK
पृथिवी लोचना ख्याता अब्धातुर्मामकी स्मृता / तेजः पाण्डरा ख्याता वायुस्तारा प्रकीर्तिता //
SK
स्कन्धश्च धातुश्च तथैवेन्द्रियं च पञ्चैव पञ्चैव कृतप्रभेदाः / तथागताधिष्ठित एकैकशः संसारकर्माणि कुतो भवन्ति //
SK
तथा सबाह्या विषयाश्च पञ्च एकैकशः पञ्चतथागतैश्च / स्वकस्वका नित्यमधिष्ठितास्ते ज्ञानत्रयं पञ्चसमाश्रितं च //
SK
खधातुमध्यगतं चिन्तेन्मण्डलं सर्ववज्रजम् / संहारं च प्रकुर्वीत यदीच्छेच्छान्तवज्रधृग् // इति / पञ्चात्मकं पञ्चभिरेव भूतैर्दृष्टं नराणां नियतं शरीरम् / तभ्दावभावैर्नियतं स्वचित्तं प्रभावयन्तः प्रभवन्ति बुद्धाः // इति /
SK
खसमतन्त्रे ऽप्याह- पञ्चबुद्धात्मकु सर्वजगो ऽयं पश्यसु चित्रकु नाटकु दिव्यम् / यत्र हि एकु महासुहनामा नृत्यति एकु अनेक रसेन // इति /
SK
᳚संक्षेपेण तु पञ्चधा᳚
SK
कायवाक्चित्तनिध्यप्तैः स्वभावो नोपलभ्यते / मन्त्रमूर्तिप्रयोगेण न बोधिर्न च भावना //
SK
विचार्येदं समासेन कायवाक्चित्तलक्षणम् / भावयेद्विधिसंयोगं समाधिं मन्त्रकल्पितम् // इति / न योगः प्रतिबिम्बेषु निषिक्तादिषु जायते / बोधिचित्तमहायोगयोगिनस्तेन देवताः //
SK
आत्मा वै सर्वबुद्धत्वं सत्त्वसौरित्वमेव च / स्वाधिदैवद्य(त)योगेन तस्मादात्मैव साधयेत् // इति / मन्त्रनिध्यप्तिकायेन वाचा मनसि चोदितः / साधयेत् प्रवरां सिद्धिं मनःसन्तोषणप्रियाम् //
SK
कायविवेकमेलावणसंशयपरिच्छेदो द्वितीयः
SK
३. तृतीयः परिच्छेदः
SK
पञ्चवर्णं महारत्नं सर्षपस्थूलमात्रकम् / नासिकाग्रे प्रयत्नेन भावयेद्योगतः सदा // इति / पञ्चज्ञानमयं श्वासं पञ्चभूतस्वभावकम् //
SK
निश्चार्य पद्मनासाग्रे पिण्डरूपेण कल्पयेत् / पञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम् //
SK
अथ भगवान् महावज्री वज्रजापार्थभाषिणम् / प्रत्युवाच ततः सम्यक्प्रणम्यैकं जगद्रुरुः //
SK
लौकिकागममेवेदं बोधिचित्तं प्रकाशितम् //
SK
लोकोत्तरं कथं नाम प्रतिपत्स्यन्त्यागामिकाः //
SK
सर्वदृष्टिप्रहाणाय त्वया धर्मो हि देशितः / तत् कथं बोधिचित्तं तु सा दृष्टिः सुदृढीकृता //
SK
उक्तमर्थं न बुध्यन्ति संध्यायवाक्यमोहिताः / यथारुतं ते गृण्हन्ति तथैव हि पचन्ति च //
SK
अथ भगवान् विश्वो वज्रपाणिं वदेत् ततः / साधु साधु च गुह्येश व्याकृतागामिका त्वया //
SK
बोधिचित्तं भवेद्वायुरम्बरे च व्यवस्थितः / प्राणभूतश्च सत्त्वानां पञ्चात्मा दशसंज्ञकः //
SK
प्रतीत्यद्वादशाङ्गाख्यं स्वभावात् त्रितयं भवेत् / सर्वेन्द्रियप्रधानेदं वाय्वाख्यं बोधिचित्तकम् //
SK
अव्यक्तं सूक्ष्ममित्येवं व्यक्तमित्युच्यते सदा / तदाश्रयात्तु कर्माणि कुर्याद्विषयादिकं जनः //
SK
शान्तिकं पौष्टिकं चैव वश्याभिचारकं तथा / बोधिचित्तातु तत्सर्वं त्रितत्त्वनिलयाश्रया[त्] //
SK
यावच्चालोकसंकेताः कल्पिता विविधास्तथा / भवन्ति बोधिचित्तात्तु विकल्पा वायुतः सदा //
SK
सुखदुःखादिको धर्मो बीजादेव विधीयते / बोधिचित्तस्वभावो ऽसौ स्कन्धाद्यद्वयकोपमः //
SK
प्रज्ञोपायैकयोगेन बोधिचित्तं जगद् भवेत् //
SK
स्वयं समुच्चरेत्स्वामी ध्यानाध्ययनवर्जितः //
SK
दिवारात्रिविभागेन चन्द्रसूर्यप्रयोगतः / निश्वासो [हि] जगद्व्यापी बोधिचित्तैकमारुतः //
SK
शुभाशुभफलं त्यक्त्वा भवत्येव नभोपमः // इति / प्राणापानसमानाख्यानुदानव्यानसंज्ञकान् / नागकूर्मकृकरांश्च देवदत्तधनञ्जयान् //
SK
कृत्वैतदात्मनो बिम्बं स्त्रीतत्त्वं निर्माय ते पुनः // इति / कोटाक्षः कोटवः कोटाः कोटाभश्च कोटीरकः / कोलाक्षः कोलावः कोलः कोलाभश्च कलिस्तथा //
SK
नासिकाच्छिद्रसंभूतः पञ्चबुद्धकुलस्थितः / पञ्चवायुर्ध्वसञ्चारो देहे चरति नित्यशः //
SK
संवृतिघ्राणसञ्चाराद् द्वारात्तस्य विनिसृताः / वामदक्षिणद्वन्द्वाश्च स्तब्धश्चैते चतुर्विधाः //
SK
दक्षिणात् प्रसरो धातुर्हुतभुङ्मण्डलञ्च वै / रक्तवर्णमिदं वक्त्रं पद्मनाथस्य सञ्चरेत् //
SK
वामाच्च प्रसरो धातुर्वायुमण्डलनिःसृतः / हरितः श्यामसंकाशः कर्मनाथस्य सञ्चरेत् //
SK
द्वन्द्वस्य प्रसरो धातुः कनकवर्णस्य सत्रिभः / माहेन्द्रमण्डलञ्चैव रत्ननाथस्य सञ्चरेत् //
SK
स्तब्धो न प्रसरो धातुः क्षणाद्वारुणमण्डलः / शुद्धस्फटिकसंकाशं वज्रनाथस्य सञ्चरेत् //
SK
सर्वधातुं समुद्धृत्य ह्याधाराधेयधारितः / वैरोचनमहाकायो मरणान्ते विनिश्चरेत् //
SK
चतुर्मण्डलमेतद्धि जपेन्नित्यं समाहितः / अहोरात्रं सदा जापो मन्त्रिणां जपसंक्ष(ख्य)या //
SK
एकादिर्नवमध्ये तु दशभिर्यो न बध्यते / तमबद्धं विजानीयात् स वेत्ति परमं पदम् //
SK
स्वरव्यञ्जनवर्णांश्च नवसंख्यानुवर्तिनः / अबद्धान्योन्यसंयोगा यो वेत्ति स जगद्रुरुः //
SK
यो बुद्धा(द्ध्वा)वाञ्च्छयेत् सिद्धिं विमुक्तिफलसम्पदम् / स तदेव समाप्नोति अरूपो रूपवर्जितम् //
SK
भूतान्तेन समायुक्तं कलादिषोडशे स्थितम् / पञ्चपञ्चकसंयुक्तं चतुस्रयनियोजितम् //
SK
सानुस्वारं सदीर्घं च गुणसंयोगलोपवत् / ह्रस्वं समस्तवाक्यं स्यान्न चानेकं न चैककम् //
SK
यकारार्थेन यत्किञ्चित् कर्तव्यं सिद्धिमिच्छता / रेफादित्रितयेनैव जगत्कार्यं प्रवर्तते //
SK
ये वर्णाः पृष्ठतः प्रोक्ता अभिमुखाश्च ये पुनः / स्त्रीपुन्नपुंसकास्ते च धात्वादिपरिकल्पिताः //
SK
अध ऊर्ध्वसमायुक्ता ज्ञात्वा बुद्ध्या नियोजिताः / षड्भिरुक्तं चतुस्त्रै(स्त्र्यै)कान्निःस्वभावैकभावजाम् //
SK
त्रा(त्र्या)द्याद्यर्थे समायोज(ज्य) त्र्यध्वज्ञानं तु जायते / स्वप्नेन्द्रजालव द्विध्वा कुर्याज्जगत् त्रिधातुके //
SK
प्रत्याहारमिदं मन्त्रं निःस्वभावस्वभावजम् / ततः परिणतं रूपं यद् दैवतोपलम्भकम् //
SK
सांकेतिकं त्रितत्त्वस्थं प्रकृतिजापलक्षणम् / अनाख्येयमनुच्चार्यं बोधिचित्तमिदं परम् //
SK
तदेव त्रितयैकं स्यादनिर्गममनागमम् / अनिरोधः प्रशान्तश्च शाश्वतोच्छेदवर्जितम् //
SK
त्रयध्वविदाकृतसंकल्पमाकाशाभेदलक्षणम् / पारमार्थिकमेवेदं प्रत्यात्मवेद्यलक्षणम् //
SK
सर्वास्वपि क्रियाश्चै(स्वै)व निषद्यादिषु योगवित् / अनाख्येयमनुच्चार्यं त्र्यध्वातीतं जपेत् सदा //
SK
पाण्डरादि जपः(पाः) प्रोक्ताः पञ्चविंशच्छतद्वयम् / चतुर्भिर्गुणितं सम्यक् चतुर्योगं शतं नव //
SK
नवशतं तु यद् दृष्टं चतुर्विशतिपरिक्रमैः / प्रत्युत्पादाद् भवेत्ततु द्व्ययुतं शतषोडशम् //
SK
तदित्थं गुह्यसन्ध्यायां सूक्ष्मयोगं प्रकाशितम् / ध्यानाध्ययनवीतं तु तथापि जप उच्यते //
SK
अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः / महाप्राणो ह्यनुत्पादो वागुदाहारवर्जितः / सर्वाभिलापहेत्वग्र्यः सर्ववाक्सुप्रभास्वरः // इति / ज्वलन्तं दीपसदृशं हृदि मध्यमनाहतम् / अक्षरं परमं सूक्ष्मम् अकारं परमं प्रभुम् // इति / धर्मा इमे शब्दरुतेन व्याकृता धर्मश्च शब्दश्च हि नात्र लभ्यते / न चैकतां चाप्यवतीर्य धर्मताम् अनुत्तरां क्षान्तिवरां स्पृशिष्यते // इति /
SK
वाग्विवेकमेलावणसंशयपरिच्छेदस्तृतीयः
SK
४. चतुर्थः परिच्छेदः
SK
दूरङ्गमेकचरमशरीरं गुहाशयम् / ये चित्तं सन्निवेशयन्ति मुच्यन्ते मारबन्धनाद् // इति / प्रतीत्योत्पद्यते यद्यदिन्द्रियैर्विषयैर्मनः //
SK
तन्मनस्त्वशीतिख्यातस्रकारस्त्राणनार्थतः // इति /
SK
संवित्तिमात्रकं ज्ञानमाकाशवदलक्षणम् / किन्तु तस्य प्रभेदो ऽस्ति सन्ध्यारात्रिदिवात्मना //
SK
आलोकालोकभासौ च तथालोकोपलब्धकम् / चित्तं त्रिविधमित्युक्तमाधारस्तस्य कथ्यते //
SK
वायुना सूक्ष्मरूपेण ज्ञानं सन्मिश्रतां गतम् //
SK
निःसृत्येन्द्रियमार्गेभ्यो विषयानवलम्बते //
SK
आभासेन यदा युक्तो वायुर्वाहनतां गतः / तदा तत्प्रकृतिः सर्वा अस्तव्यस्ता प्रवर्तते //
SK
यत्र यत्र स्थितो वायुस्तां तां प्रकृतिमुद्वहेत // इति /
SK
चित्तविवेकसंशयमेलावणपरिच्छेदश्चतुर्थः
SK
५. पञ्चमः परिच्छेदः
SK
पयोधरा यथा नैके नानासंस्थानवर्णकाः / उभ्दूता गगनाभोगाल्लयं गच्छन्ति तत्र वै //
SK
एवंप्रकृतयः सर्वा आभासत्रयहेतुकाः / निर्विश्य विषयान् कृत्स्नान् प्रविशन्ति प्रभास्वरम् //
SK
एवंस्वभावा विज्ञानादज्ञान[पटलावृताः / कृत्वा शुभाशुभं कर्म भ्र]मन्ति गतिपञ्चके //
SK
आनन्तर्यादिकं कृत्वा नरकेषु विपच्यते / शुभं दानादिकं कृत्वा [स्वर्गादिषु महीयते //
SK
आनन्तजन्मसाहस्रं] प्राप्य चैवं पुनः पुनः / पूर्वकर्मविपाको ऽयमिति शोचति मोहतः //
SK
प्रकृत्याभा[सविधिना क्लेशवन्तश्च ये जनाः / एतज्ज्ञात्वा विमु]च्यन्ति ज्ञानिनो भवपञ्जरात् // इति / यदि शून्यमिदं सर्वमनुत्पन्नस्वभावकम् / कथं कर्मात्र संसारे सुखदुःखं प्रवर्तते //
SK
अहङ्कारममकारैस्तथारागादिभिर्मलैः / कल्पितं परतन्त्रेण दुःखात् क्लिश्यन्ति बालिशाः //
SK
चित्तमात्रमिदं सर्वं मायाकारसमुत्थितम् / ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम् // इति /
SK
कर्मान्तविभागमेलावणसंशयपरिच्छेदः पञ्चमः
SK
६. षष्ठः परिच्छेदः /
SK
इन्द्रायुधनिभं कायं लभते तत्त्वभावनात् // इति /
SK
स्कन्धे च धात्वायतनेन्द्रियादौ ज्ञानद्वये तत्र समं स्थिते ऽस्मिन् / शून्ये महत्त्वे सति यः प्रसुप्तः स्वप्नं प्रपश्येत् खलु वातवेगात् //
SK
स्वप्ने प्रबुद्धे च न चान्यभेदः संकल्पयेत् स्वप्नफलाभिलाषी / रात्रिंदिवा स्वप्नमुपैति जन्तुं महीघनत्वे सुचिरेण सुप्तः //
SK
फले न पक्वे कृतकर्मणश्च वायुः पुनः क्रामति जन्मनीह / पक्वं फलं स्याद् गत एव वायुः परत्र शीघ्रं मरणं हि लोके //
SK
यथ जिनेन्द्रो दशदिग्व्यवस्थितो मज्जास्थिमांसं न च तस्य काये / प्रवेशयेत् सत्त्वहिताय धातुनिर्माणकल्पेन करोति कृत्यम् //
SK
एवं क्रमाज्जाग्रति सुप्तचित्तः फलं च वाञ्छेत् सविकल्पजालम् / स्वप्नोपमास्ते खलु सर्वधर्मा मृषामृषाश्चाप्युभयोरभावः // इति /
SK
संवृतिसत्यमेलावणसंशयपरिच्छेदः षष्ठः
SK
७. सप्तमः परिच्छेदः
SK
यथा दीपो घटान्तःस्थो बाह्यो नैवावभासते / भिन्ने तु तद्धटे पश्चाद् दीपज्वालाभिभासते //
SK
स्वकाय एव हि घटो दीप एव हि तत्त्वकम् / गुरुवक्त्रेण संभिन्ने बुद्धज्ञानं स्फुटं भवेत् //
SK
गगनं गगनोभ्दूतमाकाशाकाशं स पश्यति / तथैव हि गुरोर्वक्त्रात्प्रयोगो ऽयं प्रदर्शितः // इति / धर्मा इमे शब्दरुतेन व्याकृता धर्मश्च शब्दश्च हि नात्र लभ्यते / न चैकतां चाप्यवतीर्य धर्मतामनुत्तरां क्षान्तिवरां स्पृशिष्यते // इति / नमस्ते वरदवज्राग्र्य भूतकोटे नमो ऽस्तु ते / नमस्ते शून्यतागर्भ बुद्धबोधे नमो ऽस्तु ते //
SK
ददस्व मे महाचार्य अभिसंबोधिदर्शनम् / सर्वबुद्धमहाज्ञानं सर्वशून्यमनुत्तरम् //
SK
ददस्व मे महासत्त्व स्वानुभावैकलक्षणम् / कर्मजन्मविनिर्मुक्तमिहैव बोधिमवाप्नुयाम् //
SK
त(त्व)त्पादपङ्कजं मुक्त्वा नास्त्यन्यच्छरणं प्रभो / तस्मात्प्रसीद बुद्धाग्र्य जगद्वीर महामुने //
SK
एवं स्तुत्वा तु तं दिव्यमध्येषणविधिं परम् / शिष्ये कारुण्यमुत्पाद्य गुरुः श्रीमान् गुणोदधिः //
SK
प्रसन्नवदनो भूत्वा सानुकम्पः प्रहर्षितः / श्रावयेत्समयं दिव्यं योगतन्त्रोभ्दवं परम् //
SK
ततः समाहिताचार्यो बोधिचित्तं निष्पादयेत् / कलशे वाथ शंखे वा बोधिचित्तं निधाय च //
SK
ततस्तं शिष्यमाहूय सर्वबुद्धैरधिष्ठितम् / अर्पयेत्समयं तस्य जिनमुद्रासमन्वितम् //
SK
अभिषेको हि दातव्यो द्वितीयेनैव वज्रिणा / माङ्गल्योव्दुष्टशब्देन वादित्रविविधस्वनैः //
SK
त्रैधातुकाभिषेकेण शिष्यः कृतनताञ्जलिः / अनुज्ञातं ततस्तस्य दद्यात्तत्रप्रचोदितः //
SK
मालासलिलसंबुद्धवज्रघण्टाथ दर्पणम् / नामाचार्यमनुज्ञात अभिषेकक्रमो ह्ययम् //
SK
ततः समर्पयेत् तस्य बाह्याभिसंबोधिलक्षणम् / संप्रदाये यदावाप्तं गुरुपर्वक्रमागतम् // इति / तोये निर्मलके नदीसरसि वा बिन्दुश्च यो लीनकः / शुद्धं तत्क्रमशो ऽनुभेदगदितं योगी स्मरेन्नित्यशः / आदर्शे ह्यनिलक्षयः क्रमगतस्तद्वन्न संप्रेक्ष्यते पिण्डग्राह इति क्रमो विधिमतामेवं समुत्प्रेक्ष्यते //
SK
सर्वाङ्गभावनातीतं कल्पनाकल्पवर्जितम् / मात्राबिन्दुसमातीतं एतन्मण्डलमुत्तमम् //
SK
विशती(ति) यः सर्वभावानां रूपारूपेषु निर्मलम् / बोधितश्चोदितं चित्तं मण्डलं मण्डलाकृतिम् //
SK
अस्तीति नास्तीति उभे ऽपि अन्ता शुद्धी अशुद्धीति इमे ऽपि अन्ता / तस्मादुभे अन्तविवर्जयित्वा मध्ये ऽपि स्थानं न करोति पण्डितः // इति / आकाशानन्तमित्यर्थं सर्वभूतमहालयम् / विभूतिः श्रीविभो राजा सर्वाशापरिपूरकः //
SK
अहो बुद्ध अहो बुद्ध अहो धर्मस्य देशना / शुद्धतत्त्वार्थशुद्धार्थ बोधिचित्त नमो ऽस्तु ते //
SK
परमार्थसत्यमेलावणसंशयपरिच्छेदः सप्तमः
SK
८. अष्टमः परिच्छेदः
SK
स्थूलं शब्दमयं प्राहुः सूक्ष्मं चित्तामयन्तथा / चित्तया रहितं यत् तद् योगिनां परमं पदम् // इति / स्वसंवेद्यं तु तत्तत्त्वं वक्तुं नान्यस्य पार्यते / भक्तिभावनया गम्यं न गम्यं चान्यथा नु तत् //
SK
ज्ञात्वा तत्त्वं ततः कृत्वा भक्तिभावमहर्निशम् / तस्मिन् परमनिर्वाणे पदे शान्ते ह्यनुत्तरे //
SK
ततस्तद्भक्तिसामर्थ्याद् भावनाबलनिर्मितम् / तस्मिन्नुत्पद्यते रूपं किमप्यानन्दजं परम् //
SK
धगित्याकारसंभूतं स्फुरत्संहाराकारकम् / भूर्भुवःस्वरिदं सर्वं द्योतयत् सचराचरम् //
SK
भावनाबलसामर्थ्यात् प्रज्ञोपायात्मकं शिवम् / सर्वक्लेशविनिर्मुक्तं सर्वलक्षणभूषितम् //
SK
शून्यताज्ञानसंभूतं निर्द्वन्द्वं परमं शिवम् / सर्वाकारवरोपेतं ग्राह्यग्राहकवर्जितम् //
SK
ज्ञानं मायोपमं शुद्धं स्वच्छं प्रकृतिनिर्मलम् / शब्दगन्धरसातीतं तथा स्पर्शविवर्जितम् //
SK
दृश्यते परमेकेन समाधौ ज्ञानचक्षुषा / छायामायोपमं दिव्यं दिव्यसंस्थानसयुतम् //
SK
स्फुरज्ज्ञानोर्मिमालाभिर्विविधानेकविग्रहम् / इन्द्रायुधनिभं कायं लभन्ते तत्त्वभावकाः //
SK
भावनायोगसामर्थ्यात् समयानां च पालनात् / ईदृशं प्राप्यते रूपं न वाच्यं यज्जिनैरपि //
SK
यत्र कायो न वाक्चित्तं स्थानं यत्सर्वगं परम् / संप्रदायवशात् तत्र स्वस्य रूपं विभाव्यते //
SK
अहो सुविस्मयकरमहो शान्तमतीन्द्रियम् / अहो परमगम्भीरं बुद्धत्वं पदमुत्तमम् // इति / अहो वज्र अहो वज्र अहो वज्रस्य देशना / यत्र न कायवाक्चित्तं तत्र रूपं विभाव्यते // इति /
SK
भट्टारकपादेनाप्युक्तम्- शौशीर्यं नास्ति ते काये मांसास्थिरुधिरं न च / इन्द्रायुधमिवाकाशे कायं दर्शितवानसि //
SK
नामयो नाशुचिः काये क्षुत्तृष्णासंभवौ न च / त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया // इति /
SK
सर्वकल्पसमुच्चये ऽप्याह-
SK
गृहीत्वा हृदयं शुद्धं वज्रदेहविभावना / दृढं सारमसौशीर्यं वज्रकायं स लब्धवान् // इति / खसमा विरजा वररूपधरा अशरीर अलक्षण प्रज्ञसुता / सुगम्भीरगुणोदधि कारुणिका दद मूर्ध्नि पाणि मम अप्रतिमा // इति /
SK
अप्रतिष्ठितनिर्वाणधातुमेलावणसंशयपरिच्छेदो ऽष्टमः
SK
९. नवमः परिच्छेदः
SK
फलेन हेतुमामुद्र्य फलमामुद्र्य हेतुना / विभाव्यमन्यथासिद्धिं कल्पकोटिर्न जायते // इति / वज्रसत्त्वो महाराजश्चोदनीयो मुहुर्मुहुः // इति / पादप्रसारिकं मुक्त्वा त्यक्त्वा संसारपेटकम् / साधयेद् वज्रसत्त्वाग्रं नित्यमुद्युक्तमानसः //
SK
कौकृत्यस्त्यानमिद्धादीन् परित्यज्य प्रयत्नतः / अन्यथा नैव सिद्धिः स्यात् कल्पकोटिशतैरपि // इति / भिक्षुभावे स्थिता ये ऽत्र ये तु तर्करता नराः / वृद्धभावे स्थिता ये तु तेषां तत्त्वं न देशयेत् // इति / उपायरहितं ज्ञानं शिक्षा चापि हि देशिता / श्रावकाणां महावीर अवता(धा)रय तेषु वै //
SK
मूलसूत्रे ऽप्याह- दशकुशलान् कर्मपथानिच्छन्ति ज्ञानवर्जिताः // इति / श्रावकयानमशिक्षथ भिक्षो बोधिचरियत तत्र चरीये / बोधिचरीं चर बुद्धगुणेषु एष निदानभविष्य स्वयंभूः // इति / दुष्करैर्नियमैस्तीर्व्रैर्मूर्तिः शुष्यति दुःखिता / दुःखाद् विक्षिप्यते चित्तं विक्षेपात् सिद्धिरन्यथा // इति /
SK
मूलसूत्रे ऽप्याह- दुष्करैर्नियमैस्तीव्रैः सेव्यमानो न सिद्ध्यति / सर्वकामोपभोगैस्तु सेवयंश्चाशु सिद्ध्यति // इति / रागो द्वेषश्च मोहश्च त्रय एते विषङ्गताः / विषत्वमुपयान्त्येव विषमेण तु सेविता //
SK
अमृतत्वं पुनर्यान्ति, अमृतेन तु सेविताः // इति / बध्यति येन जडः परिमुच्यति तेन बुधः / बोधिविभावनया विपरीतमिदं सकलम् //
SK
येन मूढाः प्रबध्यन्ते शीर्यन्ते रौरवान्तिके / तैरेव हि विमुच्यन्ते सुखं प्रज्ञाबलेन तु // इति / अथातः संप्रवक्ष्यामि सर्वतो विश्वमुत्तमम् / सर्वबुद्धसमायोगडाकिनीजालसंवरम् //
SK
रहस्ये परमे रम्ये सर्वात्मनि सदा स्थितः / सर्वबुद्धमयः श्रीमान् वज्रसत्त्वोदयः सुखः //
SK
तथागतमहादिव्यरत्नजालाद्यलङ्कृतम् / ततो घण्टावसंसक्तवितानविततोज्ज्वले //
SK
वज्रगीतिं च पूजां च गीतवाद्यैर्विकुर्वितम् / पुष्पधूपादियोगेन दीपगन्धादिभिस्तथा //
SK
प्रसाधयन्ति भवने सोद्यानादिषु वा पुनः / सर्वबुद्धसमायोगडाकिनीजालसंवरम् //
SK
तत्रासनं निवेश्यादौ मृदुसंस्पर्शजं सुखम् / विश्वपद्मपटच्छन्नं सर्वशुद्धासनं हि तत् //
SK
सर्वबुद्धसमायोगं योगेश्वरविकुर्वितम् / श्रीवज्रसत्त्वरूपास्तु विकुर्वन्ति हि यत्र(तत्तु) वै //
SK
सर्वधातुमयी(यो) वापि जीवमूलमयस्तथा / स्वाधिदैवत्प्रतिमुखैः सिद्धिमुद्राप्रवर्तनम् //
SK
निषिक्तां घटितां वापि(भि)संस्कृतां वा सुचित्रिताम् / विचित्रप्रतिबिम्बां च चिन्हमुद्रां प्रकल्पयेत् //
SK
तदासनेषु प्राणसर्वान् यथास्थानं हि विन्यसेत् / चतुरस्रं चतुर्द्वारं चतुस्तोरणमण्डितम् / वज्ररत्नपद्मादि तु द्वारपालेन योजयेत् //
SK
स्वाधिदैवत्प्रतिमुखैः सुप्रसाधितयोषितम् / स्वमुद्राचिन्हसुभगां कल्पयेद् गणमण्डलम् //
SK
चतुरस्रं चतुर्द्वारं चतुस्तोरणमण्डितम् / चतुःसूत्रसमायुक्तमष्टस्तम्भोपशोभितम् //
SK
हारार्द्धहाररचितं पट्टस्रग्दामभूषितम् / घण्टापताकसंशोभं चामरादिविभूषितम् //
SK
चन्द्रार्द्धवज्रकोणं च द्वारनिर्यूहसन्धिषु / पत्वि(क्षि)णीक्रमशीर्षादिविचित्र पटमण्डितम् //
SK
सर्वदेव्युपभोगैस्तु सेव्यमानैर्यथासुखम् / स्वाधिदैवतयोगेन स्वमात्मानं प्रपूजयेत् //
SK
पूज्यते ऽनुयोगेन सर्वयोगसुखेन तु / समास्वादयमानस्त्वतियोगेन सिद्ध्यति //
SK
अनेन सर्वबुद्धात्मा रसायनसुखेन तु / सिद्ध्येत् श्रीवज्रसत्त्वायुर्यौवनारोग्यसत्सुखम् //
SK
सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती / सर्वबुद्धमहाचित्तः सर्वबुद्धमहामहः //
SK
सर्वबुद्धमहाराजा सर्ववज्रधराधिपः / सर्वलोकेश्वरपतिः सर्वरत्नाधिपेश्वरः //
SK
ताभिः संरम्यमाणस्तु यात्युत्पत्तिं तु गच्छतः / सर्वदेवीमहासिध्य(द्ध)श्चक्रवर्ती प्रसिध्यति // इति / प्रत्यहं प्रतिमासं वा प्रतिसंवत्सरं तथा / यथाधिष्ठानतो वापि नाटयेद् बुद्धसंवरम् // इति / उत्थितो वा निषण्णो वा चंक्रमन् वा यथास्थितः / प्रहर्षन् वा जल्पन् वा यत्र तत्र यथा तथा //
SK
यद्यदिन्द्रियमार्गत्वं यायात्तत्तत्स्वभावतः / असमाहितयोगेन सर्वबुद्धमयं वहेत् //
SK
खसमं खसमाकारमपर्यन्तसागरोपमम् / रागधर्मनयो द्वेषो विलासः क्रीडाविस्तरः //
SK
गृहीतं वस्तुमात्रं च शिष्यबोधनकारणात् / कति जन्मान्तरं वक्तुं सह्यते रागदेशना //
SK
श्रीसर्वबुद्धसमायोगडाकिनीजालसंवरन्यायेन बोधिसत्त्वचरितधर्मोदयाभिसंबोधिप्रपञ्चतामेलावण-संशयपरिच्छेदो नवमः
SK
१०. दशमः परिच्छेदः
SK
महाटवीप्रदेशेषु फलपुष्पाद्यलङ्कृते / पर्वते विजने साध्यमिदं ध्यानसमुच्चयम् //
SK
सेवयन् कामगुणान् पञ्च ज्ञानार्थिरागिणः सदा // इति / कायवाक्चित्तवज्राणां कायवाक्चित्तभावनम् / स्वरूपेणैव तत्कार्यं लघुसिद्धिरवाप्यते //
SK
जटामुकुटधरं बिम्बं सितवर्णनिभं महत् / कारयेद् विधिवत् सर्वं मन्त्रसंवरसंवृतम् //
SK
षोडशाब्दिकां गृह्य सर्वालङ्कारभूषिताम् / चारुवक्त्रां विशालाक्षीं प्राप्य विद्याव्रतं चरेत् //
SK
लोचनापदसंभोगैर्वज्रचिन्हैस्तु भावयेत् / मुद्रामन्त्रविधानज्ञां मन्त्रतन्त्रसुशिक्षिताम् //
SK
कुर्यात् ताथागतीं भार्यां बुद्धबोधिप्रतिष्ठिताम् / गुह्यपूजां प्रकुर्वीत चतुःसत्त्वां(सन्ध्यं) महाव्रती //
SK
कन्दमूलफलैः सर्वं भोज्यभक्ष्यं समारभेत् / एवं बुद्धो भवेच्छीघ्रं महाज्ञानोदधिः प्रभुः //
SK
षण्मासेनैव तत्सर्वं प्राप्नुयान्नात्र संशयः / वने भिक्षां भ्रमेन्नित्यं साधको दृढनिश्चयः //
SK
ददन्ति ते भय[त्र]स्ता भोजनं दिव्यमण्डितम् / अतिक्रमन्ति यदि वज्रात्मा नाशं वज्राक्षरं भवेत् //
SK
सुरीं नागीं महायक्षीमसुरीं मानुषीमपि / प्राप्य विद्याव्रतं कार्यं त्रिवज्रज्ञानसेवितम् // इति / द्वयेन्द्रियसमापत्त्या व्यायामविधिरन्तरे / हर्षचित्तं मुनेः सिद्धौ महासुखमिति स्मृतम् //
SK
निष्प्रपञ्चचर्यामेलावणसंशयपरिच्छेदो दशमः
SK
११. एकादशः परिच्छेदः
SK
पर्वतेषु विविक्तेषु नदीप्रस्रवणेषु च / श्मशानादिष्वपि कार्यमिदं ध्यानसमुच्चयम् //
SK
प्रयोगादींश्च तत्त्वेन वर्जयेत् तत्त्ववित् सदा / वज्रसत्त्वदहंकारं मुक्त्वा नान्यत्र कारयेत् //
SK
प्रयोगा अपि न बुध्यन्ते शुद्धतत्त्वे व्यवस्थिते / नैरात्म्यपदयोगेन यावत्तत् प्रत्यवेक्ष्यते //
SK
निःस्वभावपदस्थस्य दिव्योपाययुतस्य च / सिद्ध्यते निर्विचारेण यत्किञ्चित् कल्पचोदितम् //
SK
भावनायोगसामर्थ्यात् स्वयमेवोपतिष्ठते / तत्सर्वं क्षणमात्रेण यत्किञ्चित् सिद्धिलक्षणम् //
SK
रूपाद्याध्यात्मिकान् धर्मान् पश्येत् विपश्यनोच्यते / अक्षोभ्यादियथासंख्यं कल्पयेत् शमथो भवेत् //
SK
अनयोर्निःस्वभावत्वात् तथताशान्तसंज्ञकम् / तथतामण्डले योगी सर्वबुद्धान् प्रवेशयेद् // इति / निर्वाणाग्निमहागोरे भस्मशो ऽपि न मुच्यते / न तत्र विद्यते तत्त्वं नेन्द्रियार्था न धातवः //
SK
निर्विकल्पो यदा विरः स्थितिं हित्वा तु लौकिकीम् / आचरेत् सर्वकार्याणि बुद्धाः पश्यन्ति तत् तदा //
SK
बालवद्विचरेद्युक्त्या सर्वतश्छिन्नसंशयः / निराभोगो यदा योगी तदा वर्षन्ति संपदः //
SK
अशेषपापयुक्तानां मोहावरणसुस्थिताः / उन्मत्तव्रतयोगेन षण्मासादमोघसिद्धयः //
SK
सर्वबुद्धान स्वयं पश्येत् सर्वकामैः प्रपूर्यते / न क्षीणो न च हानित्वं स्वेच्छायुर्जायते वपुः //
SK
अनुत्तरां परां बोधिं संप्राप्नोत्यप्रयत्नतः / विना यत्नेन सिध्यन्ति सर्वकामसुखोत्सुकाः //
SK
गम्भीरपदं नित्यं गच्छेत् तिष्ठन् निषण्णकः / प्रभास्वरज्ञानकौशल्याद् योगिनां लक्षणं सदा //
SK
अनेन ध्यानयोगेन चित्तरत्नं दृढीभवेत् / अधिष्ठानं च कुर्वन्ति बुद्धा बोधिप्रतिष्ठिताः //
SK
एवं भूत्वा निविष्टस्तु भावयेद् भावतत्परः / यावन्न खिद्यते चित्तं समाहितमनाः सुधीः //
SK
खिन्नस्तु पर्यटेत् पश्चाद्यथारुचितचेष्टितः / भावयेद्विपुलां बोधिमीषदुन्मीलितेक्षणः //
SK
हसन् जल्पन् क्वचित्तिष्ठन् क्वचित्कुर्यात् प्रवर्तनम् //
SK
भावनासक्तचित्तस्तु यथा खेदो न जायते //
SK
एवं समाधियुक्तस्य निर्विकल्पस्य मन्त्रिणः / कालावधिं परित्यज्य सिद्ध्यते ऽनुत्तरं पदम् // इति / सूक्ष्मरूपं लघुस्पर्शं व्याप्तिसंप्राप्तिमेव च / प्रकाशं चैव स्थैर्यं च वशित्वं कामावसानिकम् // इति / बोधिज्ञानाग्रसंप्राप्तं पश्यति बुद्धसुप्रभम् / बुद्धसंभोगकायं च आत्मानं लघु पश्यति //
SK
त्रैधातुकमहासत्त्वैः पूज्यमानं स पश्यति / बुद्धैश्च बोधिसत्त्वैश्च पञ्चकामगुणैर्ध्रुवम् //
SK
पूजितं पश्यते नित्यं महज्ञाना ग्रसम्भवम् / वज्रसत्त्वं महाबिम्बं वज्रधर्मं महायशम् //
SK
स्वबिम्बं पश्यते स्वप्ने गुह्यवज्रमहायशाः / प्रणमन्ति महाबुद्धा बोधिसत्त्वाश्च वज्रिणः //
SK
द्रक्ष्यन्ति ईदृशान् स्वप्नान् कायवाक्चित्तसिद्धिदान् / सर्वलङ्कारसम्पूर्णां सुरकन्यां मनोरमाम् //
SK
दारकं दारिकां पश्यन् स सिद्धिमधिगच्छति / दशदिक्सर्वबुद्धानां क्षेत्रस्थं पश्यति ध्रुवम् //
SK
ददन्ति हृष्टचित्तात्मा धर्मगञ्जं मनोरमम् / धर्मचक्रगतं कायं सर्वसत्त्वपरिवृतम् //
SK
पश्यते योगसमये ध्यानवज्रप्रतिष्ठितः // इति / नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन् / द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते // इति / उक्तं च सुवर्णप्रभाससूत्रे-
SK
न बुद्धः परिनिर्वाति न धर्मः परिहीयते / सत्त्वानां परिपाकाय परिनिर्वाणं निदर्शयेत् //
SK
लङ्कावतारसूत्रे ऽप्युक्तम्- न ह्यत्रोत्पद्यते किञ्चित् प्रत्ययैर्न निरुध्यते / उत्पद्यन्ते निरुध्यन्ते प्रत्यया एव कल्पिताः //
SK
अत उक्तम्- येन येन हि भावेन मनः संयुज्यते नृणाम् / तेन तन्मयतां याति विश्वरूपो मणिर्यथा //
SK
उत्पत्तिर्यत् संवृतिसत्यमेतद् मृत्युर्हि नाम परमार्थसत्यम् / क्रमद्वयस्यास्य गुरुकृपातो ज्ञाता भवेद् यः स भविष्यबुद्धः //
SK
सत्यद्वयस्याद्वयवत्प्रवेशो ऽनुच्छेदरूपो ऽप्यविशेष एव / एकत्वमेवास्त्यनयोर्द्वयोरिति विज्ञायते येन विमुक्त एषः //
SK
गिरीन्द्रमूर्ध्नः प्रपतेत् तु कश्चिद् नेच्छेच्च्युतिं स च्यवते तथापि / गुरुप्रसादाद्विहितोपदेशाद् नेच्छेद्विमुक्तिं स तथापि मुक्तः //
SK
मत्वा सत्त्वेषु तत्त्वाधिगमक्षमताभावमालोक्य लोके उत्तालाब्धितरङ्गभङ्गविकलाद्दीपस्फुलिङ्गादिव / किञ्चित् किञ्चिदुपेत्य संचितवता ग्रन्थो मयायं कृतो ये वै संवृतिसत्यभीतसुभगास्तेषामलातो भवेत् //
SK
अत्यन्तनिष्प्रपञ्चचर्यामेलावणसंशयपरिच्छेद एकादशः //
SK
समाप्तो ऽयं चर्यामेलावणप्रदीपः //
SK
कृतिरीयं महाचार्य-आर्यदेवपादानाम् //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Āryadeva: Caryāmelāvaṇapradīpa (sa_Aryadeva-caryAmelAvaNapradIpa.htm).

Source