1 SK साङ्ख्यकारिका गौडपादभाष्य
2 SK कपिलाय नमस्तस्मै येनाविद्योदधौ जगति मग्ने / कारुण्यात्साङ्ख्यमयी नौरिव विहिता प्रतरणाय //
3 SK अल्पग्रन्थं स्पष्टं प्रमाणसिद्धान्तहेतुभिर्युक्तम् / शास्त्रं शिष्यहिताय समासतो ऽहं प्रवक्ष्यामि //
4 SK दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ / दृष्टे सापार्था चेन्नैकान्तात्यन्ततो ऽभावात् // ISक्_१ //
5 SK दुःखत्रयेति / अस्या आर्य्याया उपोद्घातः क्रियते / इह भगवान्ब्रह्मसुतः कपिलो नाम / तद्यथा - सनकश्च सनन्दश्च तृतीयश्च सनातनः / आसुरिः कपिलश्चैव वोढुः पञ्चशिखस्तथा / इत्येते ब्रह्मणः पुत्राः सप्त प्रोक्ता महर्षयः //
6 SK कपिलस्य सहोत्पन्ना धर्म्मो ज्ञानं वैराग्यमैश्वर्य्यञ्चेति / एवं स उत्पन्नः सन्नन्धतमसि मज्जज्जगदालोक्य संसारपारम्पर्य्येण सत्कारुण्यो जिज्ञासमानाय आसुरिसगोत्राय ब्रह्मणायेदं पञ्चविंशतितत्त्वानां ज्ञानमुक्तवान् / यस्य ज्ञानाद्दुःखक्षयो भवति / पञ्चविंशतितत्वज्ञो यत्र तत्राश्रमे वसेत् / जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः //
1 SK तदिदमाहुः / दुःखत्रयाभिघाताज्जिज्ञासेति / तत्र दुःखत्रयं- आध्यात्मिकं आधिभौतिकं आधिदैविकं चेति / तत्राध्यात्मिकं द्विविधं - शारीरं मानसं चेति / शारीरं वातपित्तश्लेष्मविपर्य्ययकृतं ज्वरातीसारादि / मानसं प्रियवियोगाप्रियसंयोगादि / आधिभौतिकं चतुर्विधं - भूतग्रामनिमित्तं मनुष्यपशुमृगपक्षिसरीसृपदंशमशकयूकामत्कुणमत्स्यमकरग्राहस्थावरेभ्यो जरायुजाण्डजस्वेदजोद्भिज्जेभ्यः सकाशादुपजायते / आधिदैविकं - देवानामिदं दैविकम् / दिवः प्रभवतीति वा दैवं तदधिकृत्य यदुपजायते शीतोष्णवातवर्षाशनिपातादिकम् / एवं यथा दुःखत्रयाभिज्ञाताज्जिज्ञासा कार्य्या क्व / तदभिघातके हेतौ / तस्य दुःखत्रयस्य अभिघातको यो ऽसौ हेतुस्तत्रेति / दृष्टे सापार्था चेत् / दृष्टे हेतौ दुःखत्रयाभिघातके सा जिज्ञासापार्था चेद्यदि / तत्राध्यात्मिकस्य द्विविधस्यापि आयुर्वेदशास्त्रक्रियया प्रियसमागमाप्रियपरिहारकटुतिक्तकषायादिक्वाथादिभिर्दृष्ट एव आध्यात्मिकोपायः / आधिभौतिकस्य रक्षादिनाभिघातो दृष्टः / दृष्टे सापार्था चेदेवं मन्यसे / न / एकान्त्यात्यन्ततो ऽभावात् / यत एकान्ततो ऽवश्यं अत्यन्ततो नित्यं दृष्टेन हेतुनाभिघातो न भवति तस्मादन्यत्र एकान्तात्यन्ताभिघातके हेतौ जिज्ञासा विविदिषा कार्येति
8 SK यदि दृष्टान्यत्र जिज्ञासा कार्य्या ततो ऽपि नैव यत आनुश्रविको हेतुर्दुःखत्रयाभिघातकः / अनुश्रवतीत्यनुश्रवस्तत्रभवः आनुश्रविकः स च आगमात्सिद्धः / यथा अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् / किन्नूनमस्मान् कृणवदरातिः किमु धूर्त्तिरमृतमर्त्यस्य //
9 SK कदाचिदिन्द्रादीनां देवानां कल्प आसीत् / कथं वयममृता अभूमेति विचार्य्यामुं यस्माद्वयमपाम सोमं पीतवन्तः सोमं तस्मादमृता अभूम अमरा भूतवन्त इत्यर्थः किंच अगन्म ज्योतिः गतवतो लब्धवतो ज्योतिः स्वर्गमिति / अविदाम देवान् दिव्यान् विदितवन्तः / एवं च किन्नूनमस्मान् कृणवदरातिः नूनं निश्चितं किं अरातिः शत्रुरस्मान् कृणवत् कर्त्तेति किमु धूर्त्तिरमृतमर्त्यस्य धूर्त्तिर्जरा हिंसा वा किं करिष्यति अमृतमर्त्यस्य / अन्यच्च श्रूयते आत्यन्तिकं फलं पशुवधेन / सर्व्वंल्लोकाञ्जयति मृत्युं तरति पाप्मानं तरति ब्रह्महत्यां तरति यो यो ऽश्वमेधेन यजत इति / एकान्तात्यन्तिके एव वेदोक्ते अपार्थे ऽवजिज्ञासा इति न / उच्यते /
10 SK दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः / तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् // ISक्_२ //
11 SK दृष्टवदानुश्रविक इति दृष्टेन तुल्यो दृष्टवत् / को ऽसौ आनुश्रविकः कस्मात्स यस्मादविशुद्धिक्षयातिशययुक्तः / अविशुद्धियुक्तः पशुघातात् तथा चोक्तम् / षट् शतानि नियुज्यन्ते पशुनां मध्यमे ऽहनि / अश्वमेधस्य वचनादूनानि पशुहिस्त्रिभिः //
12 SK यद्यपि श्रुतिस्मृतिविहितो धर्म्मस्तथापि मिश्रीभावादविशुद्धियुक्त इति / यथा बहूनीन्द्रसहस्राणि देवानां च युगे युगे / कालेन समतीतानि कालो हि दुरतिक्रमः //
2 SK एवमिन्द्रादिनाशात्क्षययुक्तः / तथातिशयो विशेषस्तेन युक्तः / विशेषगुणादर्शनादितरस्य दुःखं स्यादिति / एवमानुश्रविको ऽपि हेतुर्दृष्टवत् / कस्तर्हि श्रेयानिति चेत् / उच्यते / तद्विपरीतः श्रेयान् ताभ्यां दृष्टानुश्रविकाभ्यां विपरीतः श्रेयान् प्रशस्यतर इति / अविशुद्धिक्षयातिशयायुक्तत्वात् / स कथमित्याह / व्यक्ताव्यक्तज्ञविज्ञानात् तत्र व्यक्तं महदादिबुद्धिरहंकारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानि / अव्यक्तं प्रधानम् / ज्ञः पुरुषः / एवमेतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञानि कथ्यन्ते एतद्विज्ञानाच्छ्रेय इत्युक्तं च पञ्चविंशतितत्त्वज्ञ इति
14 SK अथ व्यक्ताव्यक्तज्ञानां को विशेष इत्युच्यते /
15 SK मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त / षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः // ISक्_३ //
3 SK मूलप्रकृतिः प्रधानम् / प्रकृतिविकृतिसप्तकस्य मूलभूतत्वात् / मूलं च सा प्रकृतिश्च मूलप्रकृतिरविकृतिः / अन्यस्मान्नोत्पद्यते तेन प्रकृतिः कस्यचिद्विकारो न भवति / महदाद्याः प्रकृतिविकृतयः सप्त / महाभूतादिति बुद्धिः बुद्ध्याद्याः सप्त बुद्धि १ अहंकारः २ पञ्चतन्मात्राणि ५ एतानि सप्तप्रकृतिविकृतयः / तद्यथा / प्रधानाद्बुद्धिरुत्पद्यते तेन विकृतिः प्रधानस्य विकार इति सैवाहंकारमुत्पादयति अतः प्रकृतिः / अहंकारो ऽपि बुद्धेरुत्पद्यत इति विकृतिः स च पञ्चतन्मात्राण्युत्पादयतीति प्रकृतिः / तत्र शब्दतन्मात्रमहंकारादुत्पद्यत इति विकृतिस्तस्मादाकाशमुत्पद्यत इति प्रकृतिः / तथा स्पर्शतन्मात्रमहंकारादुत्पद्यत इति विकृतिस्तदेवं वायुमुत्पादयतीति प्रकृतिः / गन्धतन्मात्रमहंकारादुत्पद्यत इति विकृतिस्तदेवं पृथिवीमुत्पादयतीति प्रकृतिः / रूपतन्मात्रमहंकारादुत्पद्यत इति विकृतिस्तदेवं तेज उत्पादयतीति प्रकृतिः / रसतन्मात्रमहंकारादुत्पद्यत इति विकृतिस्तदेवं आप उत्पादयतीति प्रकृतिः / एवं महदाद्याः सप्त प्रकृतयो विकृतयश्च / षोडशकश्च विकारः पञ्चबुद्धीन्द्रियाणि पञ्चकर्म्मेन्द्रियाणि एकादशं मनः पञ्चमहाभूतानि एष षोडशको गणो विकृतिरेव / विकारो विकृतिः / न प्रकृतिर्न विकृतिः पुरुषः
17 SK एवमेषां व्यक्ताव्यक्तज्ञानां त्रयाणां पदार्थानां कैः कियद्भिः प्रमाणैः केन कस्य वा प्रमाणेन सिद्धिर्भवति / इह लोके प्रमेयवस्तु प्रमाणेन साध्यते यथा प्रस्थादिभिर्व्रीहयस्तुलया चन्दनादि / तस्मात् प्रमाणमभिधेयम् /
18 SK दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् / त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि // ISक्_४ //
19 SK दृष्टं यथा श्रोत्रं त्वक् चक्षुर्जिह्वा घ्राणमिति पञ्चबुद्धीन्द्रियाणि शब्दस्पर्शरूपरसगन्धा एषां पञ्चानां पञ्चैव विषया यथासंख्यं शब्दं श्रोत्रं त्वक् स्पर्शं चक्षू रूपं जिह्वा रसं घ्राणं गन्धमिति / एतद्दृष्टमित्युच्यते प्रमाणम् / प्रत्यक्षेणानुमानेन व यो ऽर्थो न गृह्यते स आप्तवचनाद्ग्राह्यः / यथेन्द्रोः देवराजः उत्तराः कुरवः स्वर्गे ऽप्सरस इत्यादि / प्रत्यक्षानुमानाग्राह्यमथाप्तवचनाद्गृह्यते / अपि चोक्तम् / आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः / क्षीणदोषो ऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् //
20 SK स्वकर्म्मण्यभियुक्तो यः सङ्गद्वेषविवर्ज्जितः / पूजितस्तद्विधैर्नित्यमाप्तो ज्ञेयः स तादृशः //
4 SK एतेषु प्रमाणेषु सर्वप्रमाणानि सिद्धानि भवन्ति / षट् प्रमाणानि जैमिनिः / अथ कानि तान्यप्रमाणानि / अर्थापत्तिः सम्भवः अभावः प्रतिभा ऐतिह्यं उपमानं चेति षट् प्रमाणानि / तत्रार्थापत्तिर्द्विविधा दृष्टा श्रुता च / तत्र दृष्टा / एकस्मिन् पक्षे आत्मभावो गृहीतश्चेदन्यस्मिन्नप्यात्मभावो गृह्यत एव / श्रुता यथा / दिवा देवदत्तो न भुङ्क्ते अथ च पीनो दृश्यते अतो ऽवगम्यते रात्रौ भुङ्क्त इति / सम्भवो यथा / प्रस्थ इत्युक्ते चत्वारः कुडवाः सम्भाव्यन्ते / अभावो नाम / प्रागितरेतरात्यन्तसर्वाभावलक्षणः / प्रागभावो यथा देवदत्तः कौमारयौवनादिषु / इतरेतराभावः पटे घटाभावः / अत्यन्ताभावः खरविषाणवन्ध्यासुतखपुष्पवदिति / सर्वाभावः प्रध्वंसाभावो दग्धपटवदिति / यथा शुष्कधान्यदर्शनद्वृष्टेरभावो ऽवगम्यते / एवमभावो ऽनेकधा / प्रतिभा यथा / दक्षिणेन विन्ध्यस्य सह्यस्य च यदुत्तरम् / पृथिव्यामासमुद्रायां स प्रदेशो मनोरमः / एवमुक्ते तस्मिन् प्रदेशे शोभनाः गुणाः सन्तीति प्रतिभोत्पद्यते प्रतिभान्वाससंज्ञानमिति / ऐतिह्यं यथा / ब्रवीति लोको यथात्र वटे यक्षिणी प्रवसतीत्येव ऐतिह्यम् / उपमानं यथा / गौरिव गवयः समुद्र इव तडागम् / एतानि षट् प्रमाणानि त्रिषु दृष्टादिष्वन्तर्भूतानि / तत्रानुमाने तावदर्थापत्तिरन्तर्भूता / सम्भवाभावप्रतिभैतिह्योपमाश्चाप्तवचने / तस्मात्त्रिष्वेव सर्वप्रमाणसिद्धत्वात् त्रिविधं प्रमाणमिष्टं तदाह तेन त्रिविधेन प्रमाणेन प्रमाणसिद्धिर्भवतीतित वाक्यशेषः / प्रमेयसिद्धिः प्रमाणाद्धि / प्रमेयं प्रधानं बुद्धिरहंकारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानि पुरुष इति एतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञान्युच्यन्ते / तत्र किञ्चित् प्रत्यक्षेण साध्यं किञ्चिदनुमानेन किञ्चिदागमेनेति त्रिविधं प्रमाणमुक्तं
22 SK तस्य किं लक्षणमेतदाह /
23 SK प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् / तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु // ISक्_५ //
5 SK प्रतिविषयेषु श्रोत्रादिनां शब्दादिविषयेषु अध्यवसायो दृष्टं प्रत्यक्षमित्यर्थः / त्रिविधमनुमानमाख्यातं शेषवत् पूर्ववत् सामान्यतो दृष्टं चेति / पूर्वमस्यास्तीति पूर्ववद् यथा मेघोन्नत्या वृष्टिं साधयति पूर्ववृष्टित्वात् / शेषवद्यथा समुद्रादेकं जलपलं लवणमासाद्य शेषस्याप्यस्ति लवणभाव इति / सामान्यतो दृष्टम् / देशान्तराद्देशान्तरं प्राप्तं दृष्टम् / गतिमच्चन्द्रतारकं चैत्रवत् / यथा चैत्रनामानं देशान्तराद्देशान्तरं प्राप्तमवलोक्य गतिमानयामीति तद्वच्चन्द्रतारकमिति तथा पुष्पिताम्रदर्शनादन्यत्रपुष्पिताम्रा इति सामान्यतो दृष्टेन साधयति / एतत्सामान्यदृष्टम् / किञ्च तल्लिङ्गलिङ्गिपूर्वकमिति तदनुमानं लिङ्गपूर्वकं यत्र लिङ्गेन लिङ्गी अनुमीयते यथा दण्डेन यतिः / लिङ्गिपूर्वकं च यत्र लिङ्गिना लिङ्गमनुमीयते यथा दृष्ट्वा यतिमस्येदं त्रिदण्डमिति / आप्तश्रुतिराप्तवचनं च / आप्ता आचार्य्या ब्रह्मादयः / श्रुतिर्वेदः / आप्तश्च श्रुतिश्च आप्तश्रुती तदुक्तमाप्तवचनमिति
25 SK एवं त्रिविधं प्रमाणमुक्तं तत्र केन प्रमाणेन किं साध्यमुच्यते /
26 SK सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात् / तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम् // ISक्_६ //
6 SK सामान्यतो दृष्टादनुमानादतीन्द्रियाणमिन्द्रियाण्यतीत्यवर्त्तमानानां सिद्धिः प्रधानपुरुषावतीन्द्रियौ सामान्यतो दृष्टेनानुमानेन साध्येते यस्मान्महदादिलिङ्गं त्रिगुणम् / यस्येदं त्रिगुणं कार्यं तत्प्रधानमिति / यतश्चातेनं चेतनमिवाभाति अतो ऽन्यो ऽधिष्ठाता पुरुष इति / व्यक्तं प्रत्यक्षसाध्यम् / तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धं यथेन्द्रो देवराजः उत्तराः कुरवः स्वर्गे ऽप्सरस इति परोक्षमाप्तवचनात् सिद्धम्
28 SK अत्र कश्चिदाह प्रधानः पुरुषो वा नोपलभ्यते यश्च नोपलभ्यते लोके तन्नास्ति तस्मात्तावपि न स्तः / यथा द्वितीयं शिरस्तृतीयो बाहुरिति / तदुच्यते / अत्र सतामप्यर्थानामष्टधोपलब्धिर्न भवति तद्यथा /
29 SK अतिदूरात्सामीप्यादिन्द्रियघातान्मनो ऽनवस्थानात् / सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च // ISक्_७ //
7 SK इह सतामप्यर्थानामतिदूरादनुपलब्धिर्दृष्टा / यथा देशान्तरस्थानां चैत्रमैत्रविष्णुमित्राणाम् / सामीप्याद्यथा चक्षुषो ऽञ्जनानुपलब्धिः / इन्द्रियाभिघाताद्यथा बधिरान्धयोः शब्दरूपानुपलब्धिः / मनो ऽनवस्थानाद्यथा व्यग्रचित्तः सम्यक्कथितमपि नावधारयति / सौक्ष्म्याद्यथा धूमोष्मजलनीहारपरमाणवो गगनगता नोपलभ्यन्ते / व्यवधानाद्यथा कुड्येन पिहितं वस्तु नोपलभ्यते / अभिभवाद्यथा सूर्यतेजसाभिभूता ग्रहनक्षत्रतारकादयो नोपलभ्यन्ते / समानाभिहाराद्यथा मुद्गराशौ मुद्गः क्षिप्तः कुवलयामलकमध्ये कुवलयामलके क्षिप्ते कपोतमध्ये कपोतो नोपलभ्यते सनानद्रव्यमध्याहृतत्वात् / एवमष्टधानुपलब्धिः सतामर्थानामिह दृष्टा
31 SK एवं चास्ति किमभ्युपगम्यते प्रधानपुरुषयोरप्येतयोर्वानुपलब्धिः केन हेतुना केन चोपलब्धिस्तदुच्यते /
32 SK सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्कार्यतस्तदुपलब्धिः / महदादि तच्च कार्यं प्रकृतिविरूपं स्वरूपं च // ISक्_८ //
8 SK सौक्ष्म्यात्तदनुपलब्धिः प्रधानस्येत्यर्थः / प्रधानं सौक्ष्म्यान्नोपलभ्यते यथाकाशे धूमोष्मजलनीहारपरमाणवः सन्तो ऽपि नोपलभ्यन्ते / कथं तर्हि तदुपलब्धिः / कार्यतस्तदुपलब्धिः / कार्यण दृष्ट्वा कारणमनुमीयते / अस्ति प्रधानं कारणं यस्येदं कार्यम् / बुद्धिरहंकारपञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानि एव तत्कार्यम् / तच्च कार्यं प्रकृतिविरूपम् / प्रकृतिः प्रधानं तस्य विरूपं प्रकृतेरसदृशं स्वरूपं च समानरूपं च तथा लोके ऽपि पितुस्तुल्य एव पुत्रो भवत्यतुल्यश्च / येन हेतुना तुल्यमतुल्यं तदुपरिष्टाद्वक्ष्यामः
34 SK यदिदं महदादिकार्यं तत्किं प्रधाने सदुतादहोस्विदसदाचार्यविप्रतिपत्तेरयं संशयः / यतो ऽत्र सांख्यदर्शने सत्कार्यं बौद्धादीनामसत्कार्यम् / यदि सदसन्न भवत्यसत्सन्न भवतीति विप्रतिषेधस्तत्राह /
35 SK असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् / शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् // ISक्_९ //
9 SK असदकरणान्न सदसतो ऽकरणं तस्मात्सत्कार्यं इहलोके ऽसत्करणं नास्ति यथा सिकताभ्यस्तैलोत्पत्तिस्तस्मात्सतः करणादस्ति प्रागु(त्प)प्तेः / प्रधाने व्यक्तमतः सत्कार्यम् / किं चान्यदुपादानग्रहणादुपादानं कारणं तस्य ग्रहणादिहलोके यो येनार्थी स तदुपादानग्रहणं करोति दध्यर्थी क्षीरस्य न तु जलस्य तस्मात् सत्कार्यम् / इतश्च सर्वसम्भवाभावात् सर्वस्य सर्वत्रसम्भवो नास्ति यथा सुवर्णस्य रजतादौ तृणपांशुसिकतासु तस्मात् सर्वसम्भवाभावात् सत्कार्यम् / इतशच शक्तस्य शक्यकरणात् / इह कुलालः शक्तो मृद्दण्डचक्रचीवररज्जुनीरादिकरणोपकरणं वा शक्यमेव घटां मृत्पिण्डादुत्पादयति तस्मात् सत्कार्यम् / इतश्च कारणभावाच्च सत्कार्यम् / कारणं यल्लक्षणं तल्लक्षणमेव कार्यमेव यथा यवेभ्यो ऽपि यवाः व्रीहीभ्यो व्रीहयः यदासत्कार्यं स्यात्ततः कोद्रवेभ्यः शालयः स्युर्न च सन्तीति तस्मात् सत्कार्यम् / एवं पञ्चभिर्हेतुभिः प्रधाने महदादिलिङ्गमस्ति तस्मात्सत उत्पत्तिर्नासत इति
37 SK प्रकृतिविरूपं सरूपं च यदुक्तं कथमित्युच्यते /
38 SK हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् / सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् // ISक्_१० //
10 SK व्यक्तं महदादिकार्य्यं हेतुमदिति हेतुरस्यास्ति हेतुमत् / उपादानं हेतुः कारणं निमित्तमिति पर्यायाः / व्यक्तस्य प्रधानं हेतुरस्ति अतो हेतुमद्व्यक्तं भूतपर्य्यन्तं हेतुमद्बुद्धिमत्त्वं प्रधानेन हेतुमानहंकारो बुद्ध्या पञ्चतन्मात्राणि एकादशेन्द्रियाणि हेतुमन्त्यहंकारेण / आकाशं शब्दतन्मात्रेण हेतुमत् / वायुः स्पर्शतन्मात्रेण हेतुमान् / तेजो रूपतन्मात्रेण हेतुमत् / आपो रसतन्मात्रेण हेतुमत्यः / पृथिवी गन्धतन्मात्रेन हेतुमती / एवं भूतपर्य्यन्तं व्यक्तं हेतुमत् / किं चान्यदनित्यं यस्मादन्यस्मादुत्पद्यते यथा मृत्पिण्डादुत्पद्यते घटः स चानित्यः / किं चाव्याप्यसर्व्वगमित्यर्थः यथा प्रधानपुरुषौ सर्व्वगतौ नैव व्यक्तम् / किंचान्यत् सक्रियं संसारकाले संसरति त्रयोदशविधेन करणेन संयुक्तं सूक्ष्मं शरीरमाश्रित्य संसरति तस्मात् सक्रियम् / किंचान्यदनेकं बुद्धिरहंकारः पञ्चतन्मात्रान्येकादशेन्द्रियाणि च पञ्चमहाभूतानि पञ्चतन्मात्राश्रितानि / किंच लिङ्गं लययुक्तं लयकाले पञ्चमहाभूतानि तन्मात्रेषु लीयन्ते तान्येकादशेन्द्रियैः सहाहंकारे स च बुद्धौ सा च प्रधाने लयं यातीति / तथा सावयवं अवयवाः शब्दस्पर्शरसरूपगन्धाः तैः सह / किंच परतन्त्रं नात्मनः प्रभवति यथा प्रधानतन्त्रा बुद्धिः बुद्धितन्त्रो ऽहंकारः अहंकारतन्त्राणि तन्मात्राणीन्द्रियाणि च तन्मात्रतन्त्राणि पञ्चमहाभूतानि च / एवं परतन्त्रं परायत्तं व्याख्यातं व्यक्तम् / अथो ऽव्यक्तं व्याख्यामः / विपरीतमव्यक्तम् / एतैरेव गुणैर्यथोक्तैर्विपरीतमव्यक्तं हेतुमद्व्यक्तमुक्तम् / नहि प्रधानात् परं किञ्चिदस्ति यतः प्रधानस्यानुत्पत्तिः तस्मादहेतुमदव्यक्तम् / तथानित्यं च व्यक्तं नित्यमव्यक्तमनुत्पाद्यत्वात् नहि भूतानि कुतश्चिदुत्पद्यन्तेति प्रधानम् / किं चाव्यापि व्यक्तं व्यापि प्रधानं कार्य्यं स्यात् / तथा व्यक्तं लिङ्गमलिङ्गमव्यक्तं नित्यत्वान्महदादि लिङ्गं प्रलयकाले परस्परं प्रलीयते नैवं प्रधानं तस्मादलिङ्गं प्रधानम् / तथा सावयवं व्यक्तं निरवयवमव्यक्तं नहि शब्दस्पर्शरसरूपगन्धाः प्रधाने सन्ति / तथा परतन्त्रं व्यक्तं स्वतन्त्रमव्यक्तं प्रभवत्यात्मनः
40 SK एवं व्यक्ताव्यक्तयोर्वैधर्म्म्यमुक्तं साधर्म्म्यमुच्यते यदुक्तं सरूपं च /
41 SK त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि / व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् // ISक्_११ //
11 SK त्रिगुणं व्यक्तं सत्त्वरजस्तमांसि त्रयो गुणा यस्येति / अविवेकि व्यक्तं न विवेको ऽस्यास्तीति / इदं व्यक्तमिमे गुणा इति न विवेककर्त्तुं याति अयं गौरयमश्व इति यथा ये गुणास्तद्व्यक्तं यद्व्यक्तं ते च गुणा इति / तथा विषयो व्यक्तं भोज्यमित्यर्थः सर्वपुरुषाणां विषयभूतत्वात् / तथा सामान्यं व्यक्तं मूल्यदासीवत् सर्वसाधारणत्वात् / अचेतनं व्यक्तं सुखदुःखमोहान्न चेतयतीत्यर्थः / तथा प्रसवधर्मि व्यक्तं तद्यथा बुद्धेरहंकारः प्रसूयते तस्मात् पञ्चतन्मात्राणि एकादशेन्द्रियाणि च प्रसूयन्ते तन्मात्रेभ्यः पञ्चमहाभूतानि / एवमेते व्यक्तधर्माः प्रसवधर्मान्ता उक्ता एवमेभिरव्यक्तं सरूपं यथा व्यक्तं तथा प्रधानमिति / तत्र त्रिगुणं व्यक्तमव्यक्तमपि त्रिगुणं यस्यैतन्महदादि कार्यं त्रिगुणम् / इह यदात्मकं कारणं तदात्मकं कार्यमिति यथा कृष्णतन्तुकृतः कृष्ण एव पटो भवति / तथाविवेकि व्यक्तं प्रधानमपि गुणैर्न भिद्यते अन्ये गुणा अन्यत् प्रधानमेव विवक्तुं न याति तदविवेकि प्रधानम् / तथा विषयो व्यक्तं प्रधानमपि सर्वपुरुषविषयभूतत्वाद्विषय इति / तथा सामान्यं व्यक्तं प्रधानमपि सर्वसाधारणत्वात् / तथाचेतनं व्यक्तं प्रधानमपि सुखदुःखमोहान्न चेतयतीति कथमनुमीयत इह ह्यचेतनान्मृत्पिण्डादचेतनो घटा उत्पद्यते / एवं प्रधानमपि व्याख्यातम् / इदानीं तद्विपरीतस्तथा पुमानित्येतद्व्याख्यायते / सद्विपरीतस्ताभ्यां व्यक्ताव्यक्ताभ्यां विपरीतः पुमान् / तद्यथा त्रिगुणं व्यक्तमव्यक्तं चागुणः पुरुषः / अविवेकि व्यक्तमव्यक्तं च विवेकी पुरुषः / तथा विषयो व्यक्तमव्यक्तं चाविषयः पुरुषः / तथा सामान्यं व्यक्तमव्यक्तं चासामान्यः पुरुषः / अचेतनं व्यक्तमव्यक्तं च चेतनः पुरुषः सुखदुःखमोहांश्चेतयति संजानीते तस्माच्चेतनः पुरुष इति / प्रसवधर्मि व्यक्तं प्रधानं चाप्रसवधर्मी पुरुषो नहि किञ्चित् पुरुषात् प्रसूयते / तस्मादुक्तं तद्विपरीतः पुमानिति / तदुक्तं तथा च पुमानिति / तत् पूर्वस्यामार्यायां प्रधानमहेतुमद्यथा व्याख्यातं तथा च पुमान् तद्यथा हेतुमदननित्यमित्यादि व्यक्तं तद्विपरीतमव्यक्तं तत्र हेतुमद्व्यक्तमहेतुमत् प्रधानं तथा च पुमानहेतुमाननुत्पाद्यत्वात् / अनित्यं व्यक्तं नित्यं प्रधानं तथा च नित्यः पुमान् / अक्रियः सर्वगतत्वादेव / अनेकं व्यक्तमेकमव्यक्तं तथा पुमान्यप्येकः / आश्रितं व्यक्तमनाश्रितमव्यक्तं तथा च पुमाननाश्रितः / लिङ्गं व्यक्तमलिङ्गं प्रधानं तथा च पुमानप्यलिङ्गः / न क्वचिल्लीयत इति / सावयवं व्यक्तं निरवयवमव्यक्तं तथा च पुमान् निरवयवः / नहि पुरुषे शब्दादयो ऽवयवाः सन्ति / किंच परतन्त्रं व्यक्तं स्वतन्त्रमव्यक्तं तथा च पुमानपि स्वतन्त्रः / आत्मनः प्रभवतीत्यर्थः / एवमेतदव्यक्तपुरुषयोः साधर्म्यं व्याख्यातं पूर्वस्यामार्यायाम् / व्यक्तप्रधानयोः साधर्म्यं पुरुषस्य वैधर्म्यं च त्रिगुणमविवेकीत्यादि प्रकृत्यार्यायां व्याख्यातम्
43 SK तत्र यदुक्तं त्रिगुणमिति व्यक्तमव्यक्तं च तत् के ते गुणा इति तत् स्वरूपप्रतिपादनायेदमाह /
44 SK प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः / अन्यो ऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः // ISक्_१२ //
45 SK प्रीत्यात्मका अप्रीत्यात्मकाः विषादात्मकाश्च गुणाः सत्त्वरजस्तमांसीत्यर्थः / तत्र प्रीत्यात्मकं सत्त्वं प्रीतिः सुखं तदात्मकमिति / अप्रीत्यात्मकं रजः / विषादात्मकं तमः / विषादो मोहः / तथा प्रकाशप्रवृत्ति नियमार्थाः / अर्थः शब्दः सामर्थ्यवाची प्रकाशार्थं सत्त्वं प्रकाशसमर्थमित्यर्थः / प्रवृत्त्यर्थं रजो नियमार्थं तमः स्थितौ समर्थमित्यर्थः प्रकाशक्रियास्थितिशीला गुणा इति / तथान्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च / अन्योन्याभिभवाः अन्योन्याश्रयाः अन्योन्यजननाः अन्योन्यमिथुनाः अन्योन्यवृत्तयश्च ते तथोक्ताः / अन्योन्याभिभवा इति अन्योन्यं परस्परमभिभवन्तीति प्रीत्यप्रीत्यादिभिर्धर्म्मैराविर्भवन्ति यथा यदा सत्त्वमुत्कटं भवति तदा रजस्तमसी अप्रीतिप्रवृत्तिधर्म्मेण यदा तमस्तदा सत्त्वरजसी विषादस्थित्यात्मकेन इति / तथान्योन्याश्रयाश्च द्व्यणुकवद्गुणाः / अन्योन्यजननाः यथा मृत्पिण्डो घटं जनयति / तथान्योन्यमिथुनाश्च यथा स्त्रीपुंसौ अन्योन्यमिथुनौ तथा गुणाः / उक्तं च / रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः / उभयोः सत्त्वरजरोर्मिथुनं तम उच्यते //
12 SK परस्परसहाया इत्यर्थः / अन्योन्यवृत्तयश्च परस्परं वर्त्तन्ते गुणाः गुणेषु वर्त्तन्त इति वचनात् / यथा सुरूपा सुशीला स्त्री सर्व्वसुखहेतुः सपत्नीनां सैव दुःखहेतुः सैव रागिणां मोहं जनयति एव सत्वं रजस्तमसोर्वृत्तिहेतुर्यथा राजा सदोद्युक्तः प्रजापालने दुष्टनिग्रहे शिष्टानां सुखमुत्पादयति दुष्टानां दुःखं मोहं च एवं रजस्सत्त्वतमसोर्वृत्तिं जनयति / तथा तमः स्वरूपेणावरणात्मकेन सत्त्वरजसोर्वृत्तिं जनयति यथा मेघाः खमावृत्य जगतः सुखमुत्पादयन्ति ते वृष्ट्या कर्षुकाणां कर्षणोद्योगं जनयन्ति विरहिणां मोहमेवमन्योन्यवृत्तयो गुणाः
48 SK सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः / गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः // ISक्_१३ //
13 SK सत्त्वं लघु प्रकाशकं च यदा सत्त्वमुत्कटं भवति तदा लघून्यङ्गानि बुद्धिप्रकाशश्च प्रसन्नतेन्द्रियाणां भवति / उपष्टम्भकं चलं च रजः उपष्टम्भातीत्युपष्टम्भकमुद्योतकं यथा वृषो वृषदर्शने उत्कटमुपष्टम्भं करोति एव रजोवृत्तिः / तथा रजश्च चलं दृष्टं रजोवृत्तिश्चलचित्तो भवति / गुरु वरणमेकमेव तमः यदा तम उत्कटं भवति तदा गुरूण्यङ्गान्यावृतानीन्द्रियाणि भवन्ति स्वार्थासमर्थानि / अत्राह यदि गुणाः परस्परं विरुद्धाः स्वमतेनैव कमर्थं निष्पादयन्ति तर्हि कथं प्रदीपवच्चार्थतो वृत्तिः प्रदीपेन तुल्यं प्रदीपवदर्थतः साधना वृत्तिरिष्टा यथा प्रदीपः परस्परविरुद्धतैलाग्निवर्त्तिसंयोगादर्थप्रकाशान् जनयति एवं सत्त्वरजस्तमांसि परस्परं विरुद्धान्यर्थं निष्पादयन्ति
50 SK अन्तरप्रश्नो भवति त्रिगुणमविवेकि विषय इत्यादि प्रधानं व्यक्तं च व्याख्यातं तत्र प्रधानमुपलभ्यमानं महदादि च त्रिगुणमविवेक्यादीति च कथमवगम्यते तत्राह /
51 SK अविवेक्यादिः सिद्धस्त्रैगुण्यात्तद्विपर्ययाभावात् / कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् // ISक्_१४ //
14 SK यो ऽयमविवेक्यादिर्गुणः स त्रैगुण्यान्महदादौ ऽव्यक्तेनायं सिद्ध्यति / अत्रोच्यते तद्विपर्ययाभावात्तस्य विपर्ययस्तद्विपर्ययस्तस्याभावस्तद्विपर्ययाभावस्तस्मात् सिद्धमव्यक्तम् / यथा यत्रैव तन्तवस्तत्रैव पटः / अन्ये तन्तवो ऽन्यः पटो न कुतस्तद्विपर्ययाभावात् / एवं व्यक्ताव्यक्तसम्पन्नो भवति दूरं प्रधानमासन्नं व्यक्तं यो व्यक्तं पश्यति स प्रधानमपि पश्यति तद्विपर्ययाभावात् / इतश्चाव्यक्तं सिद्धं कारणगुणात्मकत्वात् कार्यस्य / लोके यदात्मकं कारणं तदात्मकं कार्यमपि तथा कृष्णेभ्यस्तन्तुभ्यः कृष्ण एव पटो भवति / एवं महदादिलिङ्गमविवेकिविषयः सामान्यचेतनं प्रसवधर्मि यदात्मकं लिङ्गं तदात्मकमव्यक्तमपि सिद्धम्
53 SK त्रैगुण्यादविवेक्यादिर्व्यक्ते सिद्धस्तद्विपर्ययाभावात् / एवं कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धमित्येतन्मिथ्या लोके यन्नोपलभ्यते तन्नास्ति एवं प्रधानमप्यस्ति किं तु नोपलभ्यते /
54 SK भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च / कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य // ISक्_१५ //
15 SK कारणमस्त्यव्यक्तमिति क्रियाकारकसम्बन्धः / भेदानां परिमाणालोके यत्र कर्त्तास्ति तस्य परिमाणं दृष्टं यथा कुलालः परिमितैर्मृत्पिण्डैः परिमितानेव घटान् करोति एवं महदपि महदादिलिङ्गं परिमितं भेदतः प्रधानकार्यमेका बुद्धिरेको ऽहंकारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानीत्येवं भेदानां परिमाणादस्ति प्रधानं कारणं यद्व्यक्तं परिमितमुत्पादयति /यदि प्रधानं न स्यात्तदा निःपरिमाणमिदं व्यक्तमपि न स्यात् परिमाणाच्च भेदानामस्ति प्रधानं यस्माद्व्यक्तमुत्पन्नम् / तथा समन्वयादिह लोके प्रसिद्धिर्दृष्टा यथा व्रतधारिणं बटुं दृष्ट्वा समन्वयति नूनमस्य पितरौ ब्राह्मणाविति एवमिदं त्रिगुणं महदादिलिङ्गं दृष्ट्वा साधयामो ऽस्य यत् कारणं भविष्यतीति अतः समन्वयादस्ति प्रधानम् / तथा शक्तितः प्रवृत्तेश्च इह यो यस्मिन् शक्तः स तस्मिन्नेवार्थे प्रवर्त्तते यथा कुलालो घटास्य करणे समर्थो घटमेव करोति न पटं रथं वा / तथास्ति प्रधानं कारणं कुतः कारणकार्यविभागात् / करोतीति कारणम् / क्रियत इति कार्यम् / कारणस्य कार्यस्य च विभागो यथा घटो दधिमधूदकपयसां धारणे समर्थो न तथा तक्तारणं मृत्पिण्डः / मृत्पिण्डो वा घटं निष्पादयति न चैवं घटो मृत्पिण्डम् / एवं महदादिलिङ्गं दृष्ट्वानुमीयते / अस्ति विभक्तं तत् कारणं यस्य विभाग इदं व्यक्तमिति / इतश्च अविभागाद्वैश्वरूपस्य विश्वं जगत् तस्य रूपं व्यक्तिः / विश्वरूपस्य भावो वैश्वरूपं तस्याविभागादस्ति प्रधानं यस्मात्रैलोक्यस्य पञ्चानां पृथिव्यादीनां महाभूतानां परस्परं विभागो नास्ति महाभूतेष्वन्तर्भूतास्त्रयो लोका इति पृथिव्यापस्तेजोवायुराकाशमिति एतानि पञ्चमहाभूतानि प्रलयकाले सृष्टिक्रमेणैवाविभागं यान्ति तन्मात्रेषु परिणामिषु तन्मात्राण्येकादशेन्द्रियाणि चाहंकारे अहंकारो बुद्धौ बुद्धिः प्रधाने एवं त्रयो लोकाः प्रलयकाले प्रकृतावविभागं गच्छन्ति तस्मादविभागात् क्षीरदधिवद्व्यक्ताव्यक्तयोरव्यक्तं कारणम्
57 SK कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च / परिणामतः सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात् // ISक्_१६ //
16 SK अव्यक्तं प्रख्यातं कारणमस्ति यस्मान्महदादिलिङ्गं प्रवर्त्तते / त्रिगुणतः त्रिगुणात् सत्त्वरजस्तमोगुणा यस्मिंस्तत्त्रिगुणं तत्किमुक्तं भवति सत्त्वरजस्तमसां साम्यावस्था प्रधानम् / तथा समुदयात् यथा गंगाश्रोतांसि त्रिणी रुद्रमूर्द्धनि पतितानि एकं स्रोतो जनयति एवं त्रिगुणमव्यक्तमेकं व्यक्तं जनयति तथा वा तन्तवः समुदिताः पटं जनयन्ति एवमव्यक्तं गुनसमुदयान्महदादि जनयतीति त्रिगुणतः समुदयाच्च व्यक्तं जगत् प्रवर्त्तते / यस्मादेकस्मात् प्रधानाद्व्यक्तं तस्मादेकरूपेण भवितव्यम् / नैष दोषः परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषादेकस्मात् प्रधानात् त्रयो लोकाः समुत्पन्नास्तुल्यभावा न भवन्ति देवाः सुखेन युक्ता मनुष्या दुःखेन तिर्यञ्चो मोहेन एकस्मात् प्रधानात् प्रवृत्तं व्यक्तं प्रतिप्रतिगुणाश्रयविशेषात् परिणमातः सलिलवद्भवति / प्रतिप्रतीति वीप्सा / गुणानामाश्रयो गुणाश्रयस्तद्विशेषस्तं गुणाश्रयविशेषं प्रतिनिधाय प्रतिप्रतिगुणाश्रयविशेषं परिणामात् प्रवर्त्तते व्यक्तं यथा आकाशादेकरसं सलिलं पतितं नानारूपात्संश्लेषाद्भिद्यते तद्रसान्तरैरेवमेकस्मात् प्रधानात् प्रवृत्तास्त्रयो लोका नैकस्वभावा भवन्ति देवेषु सत्त्वमुत्कटं रजस्तमसी उदासीने तेन ते ऽत्यन्तसुखिनो मनुष्येषु रज उत्कटं भवति सत्त्वतमसी उदासीने तेन ते ऽत्यन्तदुःखिनो तिर्यक्षु तम उत्कटं भवति सत्त्वजसी उदासीने तेन ते ऽत्यन्तमूढाः
59 SK एवमार्याद्वयेन प्रधानस्यास्तित्वमभ्युपगम्यते / इतश्चोत्तरं पुरुषास्तित्वप्रतिपादनार्थमाह /
60 SK सङ्घातपरार्थत्वात्त्रिगुणादिविपर्ययादधिष्ठानात् / पुरुषो ऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्तेश्च // ISक्_१७ //
17 SK यदुक्तं व्यक्ताव्यक्तविज्ञानान्मोक्षः प्राप्यत इति तत्र व्यक्तादनन्तरमव्यक्तं पञ्चभिः कारणैरधिगतमव्यक्तवत् पुरुषो ऽपि सूक्ष्मस्तस्याधुनानुमितास्तित्वं प्रतिक्रियते / अस्ति पुरुषः कस्मात् संघातपरार्थत्वात् / यो ऽयं महदादि संघातः स पुरुषार्थ इत्यनुमीयते अचेतनत्वात् पर्यङ्गवत् / यथा पर्यङ्क प्रत्येकं गात्रोत्पलकपादवटतूलीप्रछादनपटोपधानसंघतः परार्थो नहि स्वार्थः पर्यङ्कस्य नहि किञ्चिदपि गात्रोत्पलाद्यवयवानां परस्परं कृत्यमस्ति / अतो ऽवगम्यते ऽस्ति पुरुषो यः पर्यङ्के शेते यस्यार्थं पर्यङ्कस्तत्परार्थमिदं शरीरं पञ्चानां महाभूतानां संघातो वर्त्तते ऽस्ति पुरुषो यस्येदं भोग्यशरीरं भोग्यं महदादिसंघातरूपं समुत्पन्नमिति / इतश्चात्मास्ति त्रिगुणादिविपर्ययात् यदुक्तं पूर्वस्यामार्यायां त्रिगुनमविवेकिविषय इत्यादि / तस्माद्विपर्ययाद्येनोक्तं तद्विपरीतस्तथा पुमान् / अधिष्ठानाद्यथेह लंघनल्पवनधावनसमर्थैरश्वैर्युक्तो रथः सारथिनाधिष्ठितः प्रवर्त्तते तथात्माधिष्ठानाच्छरीरमिति / तथा चोक्तं षष्ठितन्त्रे पुरुषाधिष्ठितं प्रधानं प्रवर्त्तते / अतो ऽस्त्यात्माभोक्तृत्वात् / यथा मधुराम्ललवणकटुतिक्तकषायषड्रसोपबृंहित्स्य संय्क्तस्यान्नस्य साध्यते एवं महदादिलिङ्गस्य भोक्तृत्वाभावादस्ति स आत्मा यस्येदं भोग्यं शरीरम्ति / इतश्च कैवल्यार्थम प्रवृत्तेश्च केवलस्य भावः कैवल्यं तन्निमितं या च प्रवृत्तिस्तस्याः स्वकैवल्यार्थं प्रवृत्तेः सकाशादनुमीयते अस्त्यात्मेति यतो सर्वो विद्वानविद्वांश्च संसारसन्तानक्षयमिच्छति / एवमेभिर्हेतुभिरस्त्यात्मा शरीराद्व्यतिरिक्तः
62 SK अथ स किमेकह सर्वशरीरे ऽधिष्ठाता मणिरसनात्मकसूत्रवत् आहोस्विद्बहव आत्मानः प्रतिशरीरमधिष्ठातार इत्यत्रोच्यते /
63 SK जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च / पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव // ISक्_१८ //
18 SK जन्म च मरणं च करणानि च जन्ममरणकरणानि तेषां प्रतिनियमात् प्रत्येकनियमादित्यर्थः / यद्येक एव आत्मा स्यात्तत एकस्य जन्मनि सर्व एव जायेरन् एकस्य मरणे सर्वे ऽपि म्रियेरन् एकस्य करणवैकल्ये बाधिर्यान्धमूकत्वकुणत्वखंजत्वलक्षणे सर्वे ऽपि बधिरान्धकुणिखंजाः स्युर्न चैवं भवति तस्माज्जन्ममरणकरणानां प्रतिनियमात् पुरुषबहुत्वं सिद्धम् / इतश्चायुगपत् प्रवृत्तेश्च युगपदेककालं न युगपदयुगपत् प्रवर्त्तनं यस्मादयुगपद्धर्मादिषु प्रवृत्तिर्दृश्यते एके धर्मे प्रवृत्ता अन्ये ऽधर्मे वैराग्ये ऽन्ये ज्ञाने ऽन्ये प्रवृत्ताः तस्मादयुगपत् प्रवृत्तेश्च बहव इति सिद्धम् / किञ्चान्यत्त्रैगुण्याविपर्ययाच्चैव त्रिगुणभावविपर्ययाच्च पुरुषबहुत्वं सिद्धम् / यथा सामान्ये जन्मनि एकः सात्त्विकः सुखी / अन्यो राजसो दुःखी / अन्यस्तामसो मोहवान् / एवं त्रैगुण्यविपर्ययाद्बहुत्वं सिद्धमिति
65 SK अकर्त्ता पुरुष इत्येतदुच्यते /
66 SK तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य / कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च // ISक्_१९ //
19 SK तस्माच्च विपर्यासात्तस्माच्च यथोक्तत्रैगुण्यविपर्यासाद्विपर्ययान्निर्गुणः पुरुषो विवेकी भोक्तेत्यादिगुणानां पुरुषस्य यो विपर्यास उक्तस्तस्मात् सत्त्वरजस्तमःसु कर्त्तृभूतेषु साक्षित्वं सिद्धं पुरुषस्येति यो ऽयमधिकृतो बहुत्वं प्रति / गुणा एव कर्त्तारः प्रवर्त्तन्ते साक्षी न प्रवत्तते नापि निवर्त्तत एव / किंचान्यत् कैवल्यं केवलभावः कैवल्यमन्यत्वमित्यर्थः / त्रिगुणेभ्यः केवलः / अन्यन्माध्यस्थ्यं मध्यस्थभावः परिव्राजकवत् मध्यस्थः पुरुषः / यथा कश्चित् परिव्राजको ग्रामीणेषु कर्षणार्थेषु प्रवृत्तेषु केवलो मध्यस्थः पुरुषो ऽप्येवं गुणेषु वर्त्तमानेषु न प्रवर्त्तते / तस्माद्द्रष्टृत्वमकर्त्तृभावाश्च यस्मान्मध्यस्थस्तस्माद्द्रष्टा तस्मादकर्त्ता पुरुषस्तेषां कर्मणामिति सत्त्वरजस्तमांसि त्रयो गुणाः कर्मकर्त्तृभावेन प्रवर्त्तन्ते न पुरुष एवं पुरुषस्यास्तित्वं च सिद्धम् / यस्मात्कर्त्ता पुरुषस्तत्कथमध्यवसायं करोति धर्मं करिष्याम्यधर्मं न करिष्यामीत्यतः कर्त्ता भवति न च कर्त्ता पुरुष एवमुभयात्र दोषः स्यादिति
69 SK तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् / गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्युदासीनः // ISक्_२० //
20 SK इह पुरुषश्चेतनाकृत् तेन चेतनावभासं युक्तं महदादिलिङ्गं चेतनावदिव भवति यथा लोके घटाः शीतसंयुक्तः शीत उष्णसंयुक्त उष्ण एवं महदादि लिङ्गं तस्य संयोगात् पुरुषसंयोगाच्चेतनावदिव भवति तस्माद्गुणा अध्यवसायं कुर्वन्ति न पुरुषः / यद्यपि लोके पुरुषः कर्त्ता गंतेत्यादि प्रयुज्यते तथाप्यकर्त्ता पुरुषः कथं गुणकर्त्तृत्वे च तथा कर्त्तेव भवत्युदासीनो गुणानां कर्त्तृत्वे सति उदासीनो ऽपि पुरुषः कर्त्तेव भवति न कर्त्ता / अत्र दृष्टान्तो भवति यथाचौरश्चौरैः सह गृहीतश्चौर इत्यवगम्यत एवं त्रयो गुणाः कर्त्तारस्तैः संयुक्तः पुरुषो ऽकर्त्तापि कर्त्ता भवति कर्त्तृसंयोगात् / एवं व्यक्ताव्यक्तज्ञानां विभागो विख्यातो यद्विभागान्मोक्षप्राप्तिरिति
71 SK अथैतयोः प्रधानपुरुषयोः किं हेतुः संघात उच्यते /
72 SK पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य / पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः // ISक्_२१ //
21 SK पुरुषस्य प्रधानेन सह संयोगो दर्शनार्थं प्रकृतिं महदादिकार्यभूतपर्यन्तं पुरुषः पश्यति एतदर्थं प्रधानस्यापि पुरुषेण संयोगः / कैवल्यार्थं स च संयोगः पङ्ग्वन्धवदुभयोरपि द्रष्टव्यः यथा एकः पङ्गुरेकश्चान्ध एतौ द्वावपि गच्छन्तौ महता सामर्थ्येनाटव्यां सार्थस्य स्तेनकृतादुपप्लवात् स्वबन्धुपरित्यक्तो दैवादितश्चेरुश्च स्वगत्या च तौ संयोगमुपयातौ पुनस्तयोः स्ववचसो विश्वस्तत्वेन संयोगो गमनार्थं दर्शनार्थं च भवत्यन्धेन पंगुः स्कन्धमारोपितः एवं शरीरारूढपंगुदर्शितेन मार्गेणान्धो याति पंगुश्चान्धस्कन्धारूढः / एवं पुरुषे दर्शनशक्तिरस्ति पंगुवन्नक्रिया प्रधाने क्रियाशक्तिरस्त्यन्धवन्नदर्शनशक्तिः / यथा वानयोः पंग्वन्धयोः कृतार्थयोर्विभागो भविष्यतीप्सितस्थानप्राप्तयोरेवं प्रधानमपि पुरुषस्य मोक्षं कृत्वा निवर्त्तते पुरुषो ऽपि प्रधानं दृष्ट्वा कैवल्यं गच्छति तयोः कृतार्थयोर्विभागो भविष्यति / किं चान्यत् तत्कृतः सर्गस्तेन संयोगेन कृतस्तत्कृतः सर्गः सृष्टिः / यथा स्त्री पुरुषसंयोगात् सुतोत्पत्तिस्ततः प्रधानपुरुषसंयोगात् सर्गस्योत्पत्तिः
74 SK इदानीं सर्वविभागदर्शनार्थमाह /
75 SK प्रकृतेर्महांस्ततो ऽहङ्कारस्तस्माद्गणश्च षोडशकः / तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि // ISक्_२२ //
22 SK प्रकृतिः प्रधानं ब्रह्म अव्यक्तं बहुधानकं मायेति पर्यायाः / अलिङ्गस्याः प्रकृतेः सकाशान्महानुत्पद्यते महान् बुद्धिरासुरी मतिः ख्यातिर्ज्ञानं प्रज्ञापर्यायैरुत्पद्यते तस्माच्च महतो ऽहंकार उत्पद्यते ऽहंकारो भूतादिवैकृतस्तैजसो ऽभिमान इति पर्यायाः तस्माद्गणश्च षोडशकः तस्मादहंकाराच्छोडशकः षोडशस्वरूपेण गुण उत्पद्यते / स यथा / पञ्चतन्मात्राणि शब्दतन्मात्रं स्पर्शतन्मात्रं रुपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति / तन्मात्रसूक्ष्मपर्यायवाच्यानि / तत एकादशेन्द्रियाणि श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमिति पञ्च बुद्धीन्द्रियाणि / वाक्पाणिपादपायूपस्थाः पञ्चकर्मेन्द्रियाण्युभयात्मकमेकादशं मन एष षोडशको गणो ऽहंकारादुत्पद्यते / किंच पञ्चभ्यः पञ्च भूतानि तस्माच्छोडशकाद्गणात् पञ्चभ्यस्तन्मात्रेभ्यः सकाशात् पञ्च वै महाभूतान्युत्पद्यन्ते / यदुक्तं शब्दतन्मात्रादाकाशं स्पर्शतन्मात्राद्वायुः रूपतन्मात्रात्तेजः रसतन्मात्रादापः गन्धतन्मात्रात् पृथिवी एवं पञ्चभ्यः परमाणुभ्यः पञ्चमहाभूतान्युत्पद्यन्ते
77 SK यदुक्तं व्यक्ताव्यक्तज्ञविज्ञानान्मोक्ष इति तत्र महदादिभूतान्तं त्रयोविंशतिभेदं व्याख्यातमव्यक्तमपि भेदानां परिमाणादित्यादिना व्याख्यातं पुरुषो ऽपि संघातपरार्थत्वादित्यादिभिर्हेतुभिर्व्याख्यातः / एवमेतानि पञ्चविंशतितत्त्वानि यस्त्रैलोक्यं व्याप्तं जानाति तस्य भावो ऽस्तित्वं तत्त्वं यथोक्तम् / पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः / जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः / तानि यथा प्रकृतिः पुरुषो बुद्धिरहंकारः पञ्चतन्मात्रा एकादशेन्द्रियाणि पञ्चमहाभूतानि इत्येतानि पञ्चविंशतितत्त्वानि / तत्रोक्तं प्रकृतेर्महानुत्पद्यते तस्य महतः किं लक्षणमित्येतदाह /
78 SK अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् / सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् // ISक्_२३ //
23 SK अध्यवसायो बुद्धिलक्षणम् / अध्यवसनमध्यवसायः यथा बीजे भविष्यद्वृत्तिको ऽङ्कुरस्तद्वदध्यवसायो ऽयं घटो ऽयं पट इत्येवं स्यति या सा बुद्धिरिति लक्ष्यते सा च बुद्धिरष्टाङ्गिका सात्त्विकतामसरूपभेदात् तत्र बुद्धेः सात्त्विकं रूपं चतुर्विधं भवति धर्मो ज्ञानं वैराग्यमैश्वर्यं चेति तत्र धर्मो नाम दयादानयमनियमलक्षणस्तत्र यमा नियमाश्च पातञ्जले ऽभिहिता अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधा नियमाः / ज्ञानं प्रकाशो ऽवगमो भानमिति पर्यायास्तच्च द्विविधं बाह्यमाभ्यन्तरं चेति तत्र बाह्यं नाम वेदाः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोज्योतिषाख्यषडङ्गसहिताः पुराणानि न्यायमीमांसाधर्मशास्त्राणि चेति / आभ्यन्तरं प्रकृतिपुरुषज्ञानमियं प्रकृतिः सत्त्वरजस्तमसां साम्यावस्थायं पुरुषः सिद्धो निर्गुणोव्यापी चेतन इति / तत्र बाह्यज्ञानेन लोकपंक्तिर्लोकानुराग इत्यर्थः / आभ्यन्तरेण ज्ञानेन मोक्ष इत्यर्थः वैराग्यमपि द्विविधं बाह्यमाभ्यन्तरं च बाह्यं दृष्टविषयवैतृष्ण्यमर्जनरक्षणक्षयसंगहिंसादोषदर्शनात् विरक्तस्याभ्यन्तरं प्रधानमप्यत्र स्वप्नेन्द्रजालसदृशमिति विरक्तस्य गोक्षेप्सोर्यदुत्पद्यते तदाभ्यन्तरं वैराग्यम् / ऐश्वर्यमीश्वरभावस्तच्चाष्टगुणमणिमा महिमा गरिमा लघिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायित्वं चेति / अणोर्भावो ऽणिमा सूक्ष्मो भूत्वा जगति विचरतीति / महिमा महान् भूत्वा विचरतीति / लघिमा मृणालीतूलावयवादपि लघुतया पुष्पकेसराग्रेष्वपि तिष्ठति / प्राप्तिरभिमतं वस्तु यत्र तत्रावस्थितः प्राप्नोति / प्राकाम्यं प्रकामतो यदेवेष्यति तदेव विदधाति / ईशित्वं प्रभुतया त्रैलोक्यमपीष्टे / वशित्वं सर्वं वशीभवति / यत्र कामावसायित्वं ब्रह्मादिस्तम्बपर्यन्तं यत्र कामस्तत्रैवास्य स्वेच्छया स्थानासनविहारानाचरतीति / चत्वार एतानि बुद्धेः सात्त्विकानि रूपाणि यदा सत्त्वेन रजस्तमसी अभिभूते तदा पुमान् बुद्धिगुणान् धर्मादीनाप्नोति / किंचान्यत् तामसमस्माद्विपर्यस्तमस्माद्धर्मादेर्विपरीतं तामसं बुद्धिरूपं धर्माद्विपरीतो ऽधर्म एवमज्ञानमवैराग्यमानैश्वर्यमिति / एवं सात्त्विकैस्तामसैः स्वरूपैरष्टांगा बुद्धिस्त्रिगुणादव्यक्तादुत्पद्यते
80 SK एवं बुद्धिलक्षणमुक्तमहंकारलक्षणमुच्यते /
81 SK अभिमानो ऽहङ्कारस्तस्माद्द्विविधः प्रवर्तते सर्गः / ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव // ISक्_२४ //
24 SK एकादशकश्च गण एकादशेन्द्रियाणि तथा तन्मात्रो गणः पञ्चकः पञ्चलक्षणोपेतः शब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्ररसतन्मात्रगन्धतन्मात्रलक्षणोपेतः
83 SK किं लक्षणात् सर्ग इत्येतदाह /
84 SK सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् / भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् // ISक्_२५ //
25 SK सत्त्वेनाभिभूते यदा रजस्तमसी अहंकारे भवतस्तदा सो ऽहंकारः सात्त्विकस्तस्य च पूर्वाचार्यैः संज्ञा कृता वैकृत इति तस्माद्विकृतादहंकारादेकादशक इन्द्रियगण उत्पद्यते / तस्मात् सात्त्विकानि विशुद्धानीन्द्रियाणि स्वविषयसमर्थानि तस्मादुच्यते सात्त्विक एकादशक इति / किंचान्यद्भूतादेस्तन्मात्रः स तामसः तमसाभिभूते सत्त्वरजसी अहंकारे यदा भवतः सो ऽहंकारस्तामस उच्यते तस्य पूर्वाचार्यकृता संज्ञा भूतादिस्तस्माद्भूतादेरहंकारात्तन्मात्रः पञ्चको गण उत्पद्यते भूतानामादिभूतस्तमोबहुलस्तेनोक्तः स तामस इति / तस्माद्भूतादेः पञ्चतन्मात्रको गणः किंच तैजसादुभयं यदारजसाभिभूते सत्त्वतमसी भवतस्तदा तस्मात् सो ऽहंकारस्तैजस इति संज्ञां लभते तस्मात्तैजसादुभयमुत्पद्यते / उभयमिति एकादशो गणस्तन्मात्रः पञ्चकः / यो ऽयं सात्त्विको ऽहंकारो वैकृतिको वैकृतो भूत्वा एकादशेन्द्रियाण्युत्पादयति स तैजसमहंकारं सहायं गृह्णाति सात्त्विको निष्क्रियः स तैजसयुक्त इन्द्रियोत्पत्तौ समर्थः तथा तामसो ऽहंकारो भूतादिः संज्ञितो निष्क्रियत्वात्तैजसेनाहंकारेण क्रियावता युक्तस्तन्मात्राण्युत्पादयति तेनोक्तं तैजसादुभयमिति एवं तैजसेनाहंकारेणैन्द्रियाण्येकादश पञ्चतन्मात्राणि कृतानि भवन्ति
86 SK एकादशक इत्युक्तः यो वैकृतात् सात्त्विकादहंकारादुत्पद्यते तस्य का संज्ञेत्याह /
87 SK बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनस्पर्शनकानि / वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः // ISक्_२६ //
26 SK चक्षुरादीनि स्पर्शनपर्यन्तानि बुद्धीन्द्रियाण्युच्यन्ते / स्पृश्यते अनेनेति स्पर्शनं त्वगिन्द्रियं तद्वाची सिद्धः स्पर्शनशब्दो ऽस्ति तेनेदं पठ्यते स्पर्शनकानीति शब्दस्पर्शरूपरसगन्धान् पञ्चविषयान् बुध्यन्ते अवगच्छन्तीति पञ्च बुद्धीन्द्रियाणि / वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः कर्म कुर्वन्तीति कर्मेन्द्रियाणि / तत्र वाग्वदति हस्तौ नानाव्यापारं कुरुतः पादौ गमनागमनं पायुरुत्सर्गं करोति उपस्थ आनंदं प्रजोत्पत्त्या
89 SK एवं बुद्धीन्द्रियकर्मेन्द्रियभेदेन दशेन्द्रियाणि व्याख्यातानि मन एकादशकं किमात्मकं किं स्वरूपं चेति तदुच्यते /
90 SK उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात् / गुणपरिणामविशेषान्नानात्वं बाह्यभेदाच्च // ISक्_२७ //
27 SK अत्रेन्द्रियवर्गे मन उभयात्मकं बुद्धीन्द्रियेषु बुद्धीन्द्रियवत् कर्मेन्द्रियेषु कर्मेन्द्रियवत् कस्माद्बुद्धीन्द्रियाणां प्रवृत्तिं कल्पयति कर्मेन्द्रियाणां च तस्मादुभयात्मकं मनः संकल्पयतीति संकल्पकम् / किंचान्यदिन्द्रियं च साधर्म्यात् समानधर्मभावात् सात्त्विकाहंकाराद्बुद्धीन्द्रियाणि कर्मेन्द्रियाणि मनसा सहोत्पद्यमानानि मनसः साधर्म्यं प्रति तस्मात्साधर्म्यान्मनो ऽपीन्द्रियमेवमेतान्येकादशेन्द्रियाणि सात्त्विकाद्वैकृतादहंकारादुत्पन्नानि / तत्र मनसः का वृत्तिरिति / संकल्पो वृत्तिः / बुद्धीन्द्रियाणां शब्दादयो वृत्तयः कर्मेन्द्रियाणां वचनादयो ऽथैतानीन्द्रियाणि भिन्नानि भिन्नार्थग्राहकाणि किमीश्वरेणोत स्वभावेन कृतानि यतः प्रधानबुद्ध्यहंकारा अचेतनाः पुरुषो ऽप्यकर्त्तेत्यत्राह / इह सांख्यानां स्वभावो नाम कश्चित्कारणमस्ति / अत्रोच्यते गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च / इमान्येकादशेन्द्रियाणि शब्दस्पर्शरूपरसगन्धाः पञ्चानां वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानां संकल्पश्च मनस एवमेते भिन्नानामेवेन्द्रियाणामर्थाः गुणपरिणामविशेषात् गुणानां परिणामो गुणपरिणामस्तस्य विशेषादिन्द्रियाणां नानात्वं बाह्यार्थभेदाश्च / अथैतन्नानात्वं नेश्वरेण नाहंकारेण न बुद्ध्या न प्रधानेन न पुरुषेण स्वभावात् कृतगुणपरिणामेनेति / गुणानामचेतनत्वान्न प्रवर्त्तते प्रवर्त्तत एव कथं वक्ष्यतीहैव वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य पुरुषस्य विमोक्षार्थं तथा प्रवृत्तिः प्रधानस्य / एवमचेतनगुणाः एकादशेन्द्रियभावेन प्रवर्त्तन्ते विशेषा अपि तत्कृता एव येनोच्चैः प्रदेशे चक्षुःखलोकनाय स्थितं तथा घ्राणं तथा श्रोत्रं तथा जिह्वा स्वदेशे स्वार्थग्रहणाय / एवं कर्मेन्द्रियाण्यपि यथायथं स्वार्थसमर्थानि स्वदेशावस्थितानि स्वभावतो गुणपरिणामविशेषादेव न तदर्था अपि यत उक्तं शास्त्रान्तरे / गुणा गुणेषु वर्त्तन्ते गुणानां या वृत्तिः सा गुणविषया एवेति बाह्यार्था विज्ञेया गुणकृता एवेत्यर्थः / प्रधानं यस्य कारणमिति
92 SK अथेन्द्रियस्य कस्य का वृत्तिरित्युच्यते /
93 SK शब्दादिषु पञ्चानामालोचनमत्रमिष्यते वृत्तिः / वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् // ISक्_२८ //
28 SK मात्रशब्दो विशेषार्थः / अविशेषव्यावृत्यर्थो यथा भिक्षा मात्रं लभ्यते नान्यो विशेष इति / तथ चक्षू रूपमत्रे न रसादिषु एवं शेषाण्यपि तद्यथा चक्षुषो रूपं जिह्वाया रसो घ्राणस्य गन्धः श्रोत्रस्य शब्दः त्वचः स्पर्शः / एवमेषां बुद्धीन्द्रियाणां वृत्तिः कथिता कर्मेन्द्रियाणां वृत्तिः कथ्यते वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानां कर्मेन्द्रियाणामित्यर्थः / वाचो वचनं हस्तयोरादानं पादयोर्विहरणं पायोर्भुक्तस्याहारस्य परिणतमलोत्सर्गः उपस्थस्यानन्दः सुतोत्पत्तिर्विषया वृत्तिरिति सम्बन्धः
95 SK अधुना बुद्ध्यहंकारमनसामुच्यते /
96 SK स्वालक्षण्या वृत्तिस्त्रयस्य सैषा भवत्यसामान्या / सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च // ISक्_२९ //
29 SK स्वलक्षणस्वभावा स्वालक्षण्या / अध्यवसायो यो बुद्धिरिति लक्षणमुक्तं सैव बुद्धिवृत्तिः / तथाभिमानो ऽहंकार इत्यभिमानलक्षणो ऽभिमानवृत्तिश्च / संकल्पकं मन इति लक्षणमुक्तं तेन संकल्प एव मनसो वृत्तिः / त्रयस्य बुद्ध्यहंकारमनसां स्वालक्षण्या वृत्तिरसामान्या या प्रागभिहिता बुद्धीन्द्रियाणां च वृत्तिः साप्यसामान्यैवेति / इदानीं सामान्या वृत्तिराख्यायते / सामान्यकारनवृत्तिः सामान्येन करणानां वृत्तिः प्राणाद्या वायवः पञ्च प्राणापानसमानोदानव्याना इति पञ्च वायवः सर्वेन्द्रियाणां सामान्या वृत्तिर्यतः / प्राणो नाम वायुर्मुखनासिकान्तर्गोचरस्तस्य यत् स्पन्दनं कर्म तत् त्रयोदशविधस्यापि सामान्या वृत्तिः सति प्राणे यस्मात् करणानामात्मलाभ इति / प्राणो ऽपि पञ्चरशकुनिवत् सर्वस्य चलनं करोतीति / प्राणनात् प्राण इत्युच्यते / तथापनयनादपानस्तत्र यत्स्पन्दनं तदपि सामान्यवृत्तिरिन्द्रियस्य / तथा समानो मध्यदेशवर्ती य आहारादिनयनात्समं नयनात् समानो वायुस्तत्र यत्स्पन्दनं तत् सामान्यं करणवृत्तिः / तथा ऊर्ध्वारोहणादुत्कर्षादुन्नयनाद्वा उदानो नाभिदेशमस्तकान्तर्गोचरस्तत्रोदाने यत्स्पन्दनं तत् सर्वेन्द्रियाणां सामान्या वृत्तिः / किंच शरीरव्याप्तिरभ्यन्तरविभागश्च येन क्रियते ऽसौ शरीरव्याप्त्याकाशवद्व्यानस्तत्र यत् स्पन्दनं तत् करणजालस्य सामान्या वृत्तिरिति / एवमेते पञ्च वायवः सामान्यकरणवृत्तिरिति व्याख्याताः त्रयोदशविधस्यापि करणसामान्या वृत्तिरित्यर्थः
98 SK युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा / दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः // ISक्_३० //
30 SK युगपच्चतुष्टयस्य बुद्ध्यहंकारमनसामेकैकेन्द्रियसम्बन्धे सति चतुष्टयं भवति चतुष्टयस्य दृष्टे प्रतिविषयाध्यवसाये युगपद्वृतिर्बुद्ध्यहंकारमनश्चक्षूंषि युगपदेककालं रूपं पश्यति स्थाणुरयमिति / बुद्ध्यहंकारमनोजिह्वा युगपद्रसं गृह्णन्ति / बुद्ध्यहंकारमनोघ्राणानि युगपद्गन्धं गृह्णन्ति / तथा त्वक्श्रोत्रे अपि / किंच क्रमशश्च तस्य निर्दिष्टा तस्येति चतुष्टयस्यक्रमशश्च वृत्तिर्भवति / यथा कश्चित् पथि गच्छन् दूरादेव दृष्ट्वा स्थाणुरयं पुरुषो वेति संशये सति तत्रोपरूढां वल्लिं तल्लिङ्गं पश्यति शकुनिं वा ततो तस्य मनसा संकल्पिते संशये व्यवच्छेदभूता बुद्धिर्भवति स्थाणुरयमित्यतो ऽहंकारश्च निश्चयार्थः स्थाणुरेवेत्येवं बुद्ध्यहंकारमनश्चक्षुषां क्रमशो वृत्तिर्दृष्टा यथा रूपे तथा शब्दादिष्वपि बोद्धव्या दृष्टे दृष्टविषये / किंचान्यत्तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिरदृष्टे ऽनागते ऽतीते च काले बुद्ध्यहंकारमनसां रूपे चक्षुः पूर्विका त्रयस्य वृत्तिः स्पर्शे त्वक्पूर्विका गन्धे घ्राणपूर्विका रसे रसनपूर्विका शब्दे श्रवणपूर्विका बुद्ध्यहंकारमनसामनागते भविष्यति काले ऽतीते च तत् क्रमशो वृत्तिर्वर्त्तमाने युगपत् क्रमशश्चेति
101 SK स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् / पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् // ISक्_३१ //
31 SK स्वां स्वामिति वीप्सा बुद्ध्यहंकारमनांसि स्वां स्वां वृत्तिं परस्पराकूतहेतुकामाकूतकादरासम्भ्रम इति प्रतिपद्यन्ते पुरुषार्थकरणाय / बुद्धेरहंकारादयो बुद्धिरहंकाराकूतं ज्ञात्वा स्वस्वविषयं प्रतिपद्यते किमर्थमिति चेत् पुरुषार्थ एव हेतुः पुरुषार्थः कर्त्तव्य इत्येवमर्थं गुणानां प्रवृत्तिस्तस्मादेतानि करणानि पुरुषार्थं प्रकाशयन्ति कथं स्वयं प्रवर्तन्ते न केनचित् कार्यते करणं पुरुषार्थ एवैकः कारयतीति वाक्यार्थो न केनचिदीश्वरेण पुरुषेण कार्यते प्रबोध्यते करणम्
103 SK बुद्ध्यादि कतिविधं तदित्युच्यते /
104 SK करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् / कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च // ISक्_३२ //
32 SK करणं महदादि त्रयोदशविधं बोद्ध्यव्यं पञ्चबुद्धीन्द्रियाणि चक्षुरादीनि पञ्च कर्मेन्द्रियाणि वागादीनीति त्रयोदशविधं करणं तत्किं करोतीत्येतदाह तदाहरणधारणप्रकाशकरम् / तत्राहरणं धारणं च कर्मेन्द्रियाणि कुर्वन्ति प्रकाशं बुद्धीन्द्रियाणि / कतिविधं कार्यं तस्येति तदुच्यते / कार्यं च तस्य दशधा तस्य करणस्य कार्यं कर्तव्यमिति दशधा दशप्रकारं शब्दस्पर्शरूपरसगन्धाख्यं वचनादानविहरणोत्सर्गानन्दाख्यमेतद्दशविधं कार्यं बुद्धीन्द्रियैः प्रकाशितं कर्मेन्द्रियाण्याहरन्ति धारयन्ति चेति
106 SK अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् / साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् // ISक्_३३ //
33 SK अन्तःकरणमिति बुद्ध्यहंकारमनांसि त्रिविधं महदादिभेदात् / दशधा बाह्यं च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च दशविधमेतत्करणं बाह्यं तत्र यस्यान्तःकरणस्य विषयाख्यं बुद्ध्यहंकारमनसां भोग्यं साम्प्रतकालं श्रोत्रं वर्त्तमानमेव शब्दं शृणोति नातीतं न च भविष्यन्तं चक्षुरपि वर्तमानं रूपं पश्यति नातीतं नानागतं त्वग्वर्त्तमानं स्पर्शं जिह्वा वर्त्तमानं रसं नासिका वर्त्तमानं गन्धं नातीतानागतं चेति / एवं कर्मेन्द्रियाणि वाग्वर्त्तमानं शब्दमुच्चारयति नातीतं नानागतं पाणी वर्त्तमानं घटमाददाते नातीतमनागतं पायूपस्थौ च वर्त्तमानावुत्सर्गानन्दौ कुरुतो नातीतौ नानागतौ / एवं बाह्यं करणं साम्प्रतकालमुक्तं त्रिकालमाभ्यन्तरं करणं बुद्ध्यहंकारमनांसि त्रिकालविषयाणि बुद्धिर्वर्त्तमानं घटं बुध्यते अतीतमनागतं चेति / अहंकारो वर्त्तमाने ऽभिमानं करोत्यतीते ऽनागते च / तथा मनो वर्त्तमाने संकल्पं कुरुते अतीते ऽनागते च एवं त्रिकालमाभ्यन्तरं करणमिति
108 SK इदानीमिन्द्रियाणि कति सविशेषं विषयं गृह्णन्ति कानि निर्विशेषमिति तदुच्यते /
109 SK बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि / वाग्भवति शब्दविषया शेषान्यपि पञ्चविषयाणि // ISक्_३४ //
34 SK बुद्धीन्द्रियाणि तानि सविशेषं विषयं गृह्णाति सविशेषविषयं मानुषाणां शब्दस्पर्शरूपरसगन्धान् सुखदुःखमोहविषययुक्तान् बुद्धीन्द्रियाणि प्रकाशयन्ति देवानां निर्विशेषान्विषयान् प्रकाशयन्ति तथा कर्मेन्द्रियाणां मध्ये वाग्भवति शब्दविषया देवानां मानुषाणां च वाग्वदति श्लोकादीनुच्चारयति तस्माद्देवानां मानुषाणां च वागिन्द्रियं तुल्यं शेषाण्यपि वाग्व्यतिरिक्तानि पाणिपादपायूपस्थसंज्ञितानि पञ्चविषयाणि शब्दादयो येषां तानि पञ्चविषयाणि शब्दस्पर्शरूपरसगन्धाः पाणौ सन्ति पञ्चशब्दादिलक्षणायां भुवि पादो विहरति पाय्विन्द्रियं पञ्चक्लृप्तमुत्सर्गं करोति तथोपस्थेन्द्रियं पञ्चलक्षणं शुक्रमानन्दयति
111 SK सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् / तस्मात्त्रिविधं करणं द्वारि द्वाराणि शेषाणि // ISक्_३५ //
35 SK सान्तःकरणा बुद्धिरहंकारमनःसहितेत्यर्थह यस्मात् सर्वं विषयमवगाहते गृह्णाति त्रिष्वपि कालेषु शब्दादीन् गृह्णाति तस्मात्त्रिविधम करणं द्वारि द्वाराणि शेषाणि शेषानि करणानीति वाक्यशेषः
114 SK एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः / कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति // ISक्_३६ //
36 SK यानि करणान्युक्तानि एते गुणविशेषाः किं विशिष्टाः प्रदीपकल्पाः प्रदीपवद्विषयप्रकाशकाः परस्परविलक्षणा असदृशा भिन्नविषया इत्यर्थः / गुणविषया इत्यर्थः / गुणविशेषा गुणेभ्यो जाताः / कृत्स्नं पुरुषस्यार्थं बुद्धीन्द्रियानि कर्मेन्द्रियाण्यहंकारो मनश्चैतानि स्वं स्वमर्थं पुरुषस्य प्रकाश्य बुद्धौ प्रयच्छन्ति बुद्धिस्थं कुर्वन्तीत्यर्थः / यतो बुद्धिस्थं सर्वं विषयं सुखादिकं पुरुष उपलभ्यते
117 SK सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः / सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् // ISक्_३७ //
37 SK सर्वेन्द्रियगतं त्रिष्वपि कालेषु सर्वं प्रत्युपभोगमुपभोगं प्रति देवमनुष्यतिर्यग् बुद्धीन्द्रियकर्मेन्द्रियद्वारेण सान्तःकरणा बुद्धिः साधयति सम्पादयति यस्मात् तस्मात् सैव च विशिनष्टि प्रधानपुरुषयोर्विषयविभागं करोति प्रधानपुरुषान्तरं नानात्वमित्यर्थः / सूक्ष्ममित्यनधिकृततपश्चरणैरप्राप्यमियं प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था इयं बुद्धिरयमहंकार एतानि पञ्चतन्मात्राण्येकादशेन्द्रियाणि पञ्चमहाभूतान्ययमन्यः पुरुष एभ्यो व्यतिरिक्त इत्येव बोधयति बुद्धिर्यस्यावायादपवर्गो भवति
119 SK पूर्वमुक्तं विशेषाविशेषविषयाणि तत् के विषयास्तच्च दर्शयति /
120 SK तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः / एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च // ISक्_३८ //
38 SK यानि पञ्च तन्मात्राण्यहंकारादुत्पद्यन्ते ते शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमेतान्यविशेषा उच्यन्ते देवानामेते सुखलक्षणा विषया दुःखमोहरहितास्तेभ्यः पञ्चभ्यस्तन्मात्रेभ्यः पञ्चमहाभूतानि पृथिव्यप्तेजोवाय्वाकाशसंज्ञितानि यान्युत्पद्यन्ते / एते स्मृता विशेषाः / गन्धतन्मात्रात् पृथिवी रसतन्मात्रादापो रूपतन्मात्रात्तेजः स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रादाकाशमित्येवमुत्पन्नान्येतानि महाभूतान्येते विशेषा मानुषाणां विषयाः शान्ता सुखलक्षणा घोरा दुःखलक्षणा मूढा मोहजनका यथाकाशं कस्यचिदनवकाशादन्तर्गृहादेर्निर्गतस्य सुखात्मकं शान्तं भवति तदेव शीतोष्णवातवर्षाभिभूतस्य दुःखात्मकं घोरं भवति तदेव पन्थानं गच्छतो वनमार्गात् भ्रष्टस्य दिङ् मोहान्मूढं भवति / एवं वायुर्घर्मार्तस्य शान्तो भवति शीतार्तस्य घोरो धूलीशर्कराविमिश्रो ऽतिवान् मूढ इति / एवं तेजः प्रभृतिषु द्रष्टव्यम्
123 SK सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः / सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते // ISक्_३९ //
39 SK सूक्ष्मास्तन्मात्राणि यत्संगृहीतं तन्मात्रिकं सूक्ष्मशरीरं महदादिलिङ्गं सदा तिष्ठति संसरति च ते सूक्ष्मास्तथा मातापितृजा स्थूलशरीरोपचायका ऋतुकाले मातापितृसंयोगे शोणितशुक्रमिश्रीभावेनोदरान्तः सूक्ष्मशरीरस्योपचयं कुर्वीत तत् सूक्ष्मशरीरं पुनर्मातुरशितपीतनानाविधरसेन नाभीनिबन्धेनाप्यायते तथा प्रारब्धं शरीरं सूक्ष्मैर्मातापितृजैश्च सह महाभूतैस्त्रिविधा विशेषैः पृष्ठोदरजंघाकट्युरः शिरः प्रभृति षाट् कौशिकं पञ्चभौतिकं रुधिरमांसस्नायुशुक्रास्थिमज्जासंभृतमाकाशो ऽवकाशदानाद्वायुर्वर्द्धनात् तेजः पाकादापः संग्रहात्पृथिवी धारणात् समस्तावयवोपेतं मातुरुदराद्बहिर्भवति / एवमेते त्रिविधा विशेषा स्युः / अत्राह के नित्याः के वानित्याः सूक्ष्मास्तेषां नियताः सूक्ष्मास्तन्मात्रसंज्ञकास्तेषां मध्ये नियता नित्यास्तैरारब्धं शरीरं कर्मवशात् पशुमृगपक्षिसरीसृपस्थावरजातिषु संसरति धर्मवशादिन्द्रकादिलोकेष्वेवमेतन्नियतं सूक्ष्मशरीरं सरति यावत् ज्ञानमुत्पद्यते उत्पन्ने ज्ञाने विद्वांञ्छरीरं त्यक्त्वा मोक्षं गच्छति तस्मादेते विशेषा सूक्ष्मा नित्या इति मातापितृजा निवर्तन्ते तत् सूक्ष्मशरीरं परित्यज्येहैव प्राणत्यागवेलायां मातापितृजा निवर्तन्ते मरणकाले मातापितृजं शरीरमिहैव निवर्त्त्य भूम्यादिषु प्रलीयते यथा तत्त्वं
125 SK सूक्ष्मं च कथं संसरति तदाह /
126 SK पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् / संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् // ISक्_४० //
40 SK यदा लोकानुपन्नाः प्रधानादिसर्गे तदा सूक्ष्मशरीरमुत्पन्नमिति / किंचान्यदसक्तं न संयुक्तं तिर्यग्योनिदेवमानुषस्थानेषु सूक्ष्मत्वात् कुत्रचिदसक्तं पर्वतादिष्वप्रतिहतप्रसरं सर्ति गच्छति / नित्यं यावन्नज्ञानमुत्पद्यते तावत् संसरति तच्च महदादिसूक्ष्मपर्यन्तं महानादौ यस्य तन्महदादि बुद्धिरहंकारो मन इति पञ्च तन्मात्राणि सूक्ष्मपर्यन्तं तन्मात्रपर्यन्तं संसरति शूलग्रहपिपीलिकावत् त्रीनपि लोकान् / निरुपभोगं भोगरहितं तत् सूक्ष्मशरीरं पितृमातृजेन बाह्येनोपचयेन क्रियाधर्मग्रहणात् भोगेषु समर्थं भवतीत्यर्थः / भावैरधिवासितं पुरस्ताद्भावान् धर्मादीन् वक्ष्यामस्तैरधिवासितमुपरंजितं लिंगमिति / प्रलयकाले महदादिसूक्ष्मपर्यन्तं करणोपेतं प्रधाने लीयते असंसरणयुक्तं सदा सर्गकालमत्र वर्त्तते प्रकृतिमोहबन्धनबद्धं सत् संसरणादिक्रियास्वसमर्थमिति पुनः सर्गकाले संसरति तस्माल्लिंगं सूक्ष्मम्
128 SK किं प्रयोजनेन त्रयोदशविधं करणं संसरतीत्येवं चोदिते सत्याह /
129 SK चित्रं यथाश्रयमृते स्थाण्वादिभ्यो यथा विना छाया / तद्वद्विना विशेषैस्तिष्ठति न निराश्रयं लिङ्गम् // ISक्_४१ //
41 SK चित्रं यथा कुड्याश्रयमृते न तिष्ठति स्थाण्वादिभ्यः कीलकादिभ्यो विना छाया न तिष्ठति तैर्विना न भवत्यादिग्रहणाद्यथा शैत्यं विना नापो भवन्ति शैत्यं वाद्भिर्विना / अग्निरुष्णं विना वायुः स्पर्शं विना आकाशमवकाशं विना पृथिवी गन्धं विना तद्वदेतेन दृष्टान्तेन न्यायन विना विशेषैरविशेषैस्तन्मात्रैर्विना न तिष्ठति / अथ विशेषभूतान्युच्यन्ते शरीरं पञ्चभूतमयं वैशेषिणा शरीरेण विना क्व लिङ्गस्थानं चेति क्व एकदेहमुज्झति तदेवान्यमाश्रयति निराश्रयमाश्रयरहितं लिङ्गं त्रयोदश विधं करणमित्यर्थः
132 SK पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन / प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् // ISक्_४२ //
42 SK पुरुषार्थः कर्तव्य इति प्रधानं प्रवर्त्तते स च द्विविधः शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरो लब्धिलक्षणश्च / शब्दाद्युपलब्धिर्ब्रह्मादिषु लोकेषु गन्धादिभोगावाप्तिः गुणपुरुषान्तरोपलब्धिर्मोक्ष इति तसमादुक्तं पुरुषार्थहेतुकमिदं सूक्ष्मशरीरं प्रवर्त्तत इति / निमित्तनैमित्तिकप्रसंगेन निमित्तं धर्मादि नैमित्तिकमूर्द्ध्वगमनादि पुरस्तादेव वक्ष्यामः प्रसंगेन प्रसक्त्या प्रकृतेः प्रधानस्य विभुत्वयोगाद्यथा राजा स्वराष्ट्रे विभुत्वाद्यद्यदिच्छति तत्तत् करोतीति तथा प्रकृतेः सर्वत्र विभुत्वयोगान्निमित्तनैमित्तकं प्रसंगेन व्यवतिष्ठते पृथक् पृथग्देहधारणे लिङ्गस्य व्यवस्थां करोति / लिंगं सूक्ष्मः परमाणुभिस्तन्मात्रैरूपचितं शरीरं त्रयोदशविधकरणोपेतं मानुषदेवतिर्यग्योनिषु व्यवतिष्ठते कथं नटवत् यथा नटः पटान्तरेण प्रविश्य देवो भूत्वा निर्गच्छति पुनर्मानुषः पुनर्विदूषकः / एवं लिंगं निमित्तनैमित्तिकप्रसंगेनोदरान्तः प्रविश्य हस्ती स्त्री पुमान् भवति
134 SK भावैरधिवासितं लिंगं संसरतीत्युक्तं तत् के भावा इत्याह /
135 SK सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः / दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः // ISक्_४३ //
43 SK भावास्त्रिविधाश्चिन्त्यन्ते सांसिद्धिकाः प्राकृता वैकृताश्च / तत्र सांसिद्धिका यथा भवगतः कपिलस्यादिसर्गे उत्पद्यमानस्य चत्वारो भावाः सहोत्पन्नाः धर्मो ज्ञानं वैराग्यमैश्वर्यमिति / प्राकृताः कथ्यन्ते ब्रह्मणश्चत्वारः पुत्राः सनकसनन्दनसनातनसनत्कुमारा बभूवुः / तेषामुत्पन्नकार्यकारणानां शरीरिणां षोडशवर्षाणामेते भावाश्चत्वारः समुत्पन्नास्तस्मादेते प्राकृताः / तथा वैकृता यथा आचार्यमूर्त्तिं निमित्तं कृत्वास्मदादीनां ज्ञानमुत्पद्यते ज्ञानाद्वैराग्यं वैराग्याद्धर्मो धर्मादैश्वर्यमिति / आचार्यमूर्त्तिरपि विकृतिरिति तस्माद्वैकृता एते भावा उच्यन्ते यैरधिवासितं लिङ्गं संसरति एते चत्वारो भावाः सात्विकास्तामसाविपरीताः सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तमित्यत्र व्याख्याता एवमष्टौ धर्मो ज्ञानं वैराग्यमैश्वर्यमधर्मो ऽज्ञानमवैराग्यमनैश्वर्यमित्यष्टौ भावाः / एतदुक्तमध्यवसायो बुद्धिः धर्मो ज्ञानमिति कार्यं देहस्तदाश्रयाः कललाद्या ये मातृजा इत्युक्ताः शुक्रशोणितसंयोगे विवृद्धिहेतुकाः कललाद्या बुद्बुदमांसपेशीप्रभृतयः / तथा कौमारयौवनस्थविरत्वादयो भावा अन्नपानरसनिमित्ता निष्पद्यन्त अतः कार्याश्रयिण उच्यन्त अन्नादिविषयभोगनिमित्ता जायन्ते
137 SK निमित्तनैमित्तिकप्रसङ्गेनेति यदुक्तमत्रोच्यते /
138 SK धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण / ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः // ISक्_४४ //
44 SK धर्मेण गमनमूर्द्ध्वं धर्मं निमित्तं कृत्वोर्द्ध्वमुपनयति ऊर्द्ध्वमित्यष्टौ स्थानानि गृह्यन्ते / तद्यथा / ब्राह्मं प्राजापत्यं सौम्यमैन्द्रं गान्धर्वं राक्षसं पैशाचमिति तत् सूक्ष्मं शरीरं गच्छति पशुमृगपक्षिसरीसृपस्थावरान्तेष्वधर्मो निमित्तम् / किंच ज्ञानेन चापवर्गश्च पञ्चविंशतितत्त्वज्ञानं तेन निमित्तेनापवर्गो मोक्षः ततः सूक्ष्मं शरीरं निवर्तते परमात्मा उच्यते / विपर्ययादिष्यते बन्धः अज्ञानं निमित्तं स चैष नैमित्तिकः प्राकृतो वैकारिको दाक्षिणिकश्च बन्ध इति वक्ष्यति पुरस्तात् यदिदमुक्तम् / ऽप्राकृतेन च बन्धेन तथा वैकारिकेण च / दक्षिणाभिस्तृतीयेन बद्धो नान्येन मुच्यतेऽ;
140 SK तथान्यदपि निमित्तम् /
141 SK वैराग्यात्प्रकृतिलयः संसारो भवति राजसाद्रागात् / ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः // ISक्_४५ //
45 SK यथा कस्यचिद्वैराग्यमस्ति न तत्त्वज्ञानं तस्मादज्ञानपूर्वाद्वैराग्यात् प्रकृतिलयो मृतो ऽष्टासु प्रकृतिषु प्रधानबुद्ध्यहङ्कारतन्मात्रेषु लीयते न मोक्षः ततो भूयो ऽपि संसरति / तथा यो ऽयं राजसो रागः यजामि दक्षिणां ददामि येनामुष्मिंल्लोके ऽत्र यद्दिव्यं मानुषं सुखमनुभवाम्येतस्माद्राजसाद्रागात् संसारो भवति / तथा ऐश्वर्यादविघातः एतदैश्वर्यमष्टगुणमणिमादियुक्तं तस्मादैश्वर्यनिमित्तादविघातो नैमित्तिको भवति ब्राह्मादिषु स्थानेष्वैश्वर्यं न विहन्यते / किंचान्यद्विपर्ययाद्विपर्यासः तस्याविघातस्तस्य विपर्यासो विघातो भवत्यनैश्वर्यात् सर्वत्र विहन्यते / किंचान्यद्विपर्याद्विपर्यासः स्याविघातस्य विपर्यासो विघातो भवत्यनैश्वर्यात् सर्वत्र विहन्यते
143 SK एष निमित्तैः सह नैमित्तिकः षोडशविधो व्याख्यातः / स किमात्मक इत्याह /
144 SK एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः / गुणवैषम्यविमर्दात् तस्य भेदास्तु पञ्चाशत् // ISक्_४६ //
46 SK यथा एष षोडशविधो निमित्तनैमित्तभेदो व्याख्यात एष प्रत्ययसर्ग उच्यते / प्रत्ययो बुद्धिरित्युक्ताध्यवसायो बुद्धिर्धर्मो ज्ञानमित्यादि स च प्रत्ययसर्गश्चतुर्धा भिद्यते विपर्ययाशक्तितुष्टिसिद्धाख्यभेदात् / तत्र संशयो ऽज्ञानम् / यथा कस्यचित् स्थाणुदर्शने स्थाणुरयं पुरुषो वेति संशयः / अशक्तिर्यथा / तमेव स्थाणुं सम्यद्गृष्ट्वा संशयं छेत्तुं न शक्नोतीत्यशक्तिः / एवं तृतीयस्तुष्ट्याख्यो यथा / तमेव स्थाणुं ज्ञातुं संशयितुं वा नेच्छति किमनेनास्माकमित्येषा तुष्टिः / चतुर्थः सिद्धाख्यो यथा / आनन्दितेन्द्रियः स्थाणुमारूढां वल्लिं पश्यति शकुनिं वा तस्य सिद्धिर्भवति स्थाणुरयमिति / एवमस्य चतुर्विधस्य प्रत्ययसर्गस्य गुणवैषम्यविमर्द्दे तस्य भेदास्तु पञ्चाशत् यो ऽयं सत्त्वरजस्तमोगुणानां वैषम्यो विमर्द्दः तेन तस्य प्रत्ययसर्गस्य पञ्चाशद्भेदा भवन्ति तथा क्वापि सत्त्वमुत्कटं रजस्तमसी उदासीने क्वापि रजः क्वापि तम इति
147 SK पञ्च विपर्ययभेदा भवन्त्यशक्तेश्च करणवैकल्यात् / अष्टाविंशतिभेदास्तुष्टिर्नवधाष्टधा सिद्धिः // ISक्_४७ //
47 SK पञ्च विपर्ययभेदास्ते यथा तमो मोहो महामोहस्तामिस्रो ऽन्धतामिस्र इत्येषां भेदानां नानात्वं वक्ष्यते ऽनन्तरमेवेति / अशक्तेस्त्वष्टाविंशतिभेदा भवन्ति करणवैकल्यात् तानपि वक्ष्यामस्तथा च तुष्टिर्नवधा ऊर्द्ध्वस्रोतसि राजसानि ज्ञानानि / तथाष्टविधा सिद्धिः सात्त्विकानि ज्ञानानि तत्रैवोर्द्ध्वस्रोतसि / एतत् क्रमेणैव वक्ष्यन्ते
149 SK तत्र विपर्ययभेदा उच्यन्ते /
150 SK भेदस्तमसो ऽष्टविधो मोहस्य च दशविधो महामोहः / तामिस्रो ऽष्टादशधा तथा भवत्यन्धतामिस्रः // ISक्_४८ //
48 SK तमसस्तावदष्टधा भेदः प्रलयो ऽज्ञानाद्विभज्यते सो ऽष्टासु प्रकृतिषु लीयते प्रधानबुद्ध्यहंकारपञ्चतन्मात्राष्टासु तत्र लीनमात्मानं मन्यते मुक्तो ऽहमिति तमो भेद एषो ऽष्टविधस्य मोहस्य भेदो ऽष्टविध एवेत्यर्थः / यत्राष्टगुणमणिमाद्यैश्वर्यं तत्र संगादिन्द्रादयो देवा न मोक्षं प्राप्नुवन्ति पुनश्च तत् क्षये संसरन्त्येषो ऽष्टविधो मोह इति / दशविधो महामोहः शब्दस्पर्शरूपरसगन्धा देवानामेते पञ्चविषयाः सुखलक्षणाः मानुषाणामप्येते एव शब्दादयः पञ्च विषया एवमेतेषु दशसु महामोह इति / तामिस्रो ऽष्टदशधाष्टाविधमैश्वर्यं दृष्टानुश्रविका विषया दश एतेषामष्टादशानां सम्पदमनुनन्दन्ति विपदं नानुमोदन्त्येषो ऽष्टादशविधो विकल्पस्तामिस्रो / तथा तामिस्रमष्टगुणमैश्वर्यं दृष्टानुश्रविका दशविषयास्तथान्धतामिस्रो ऽप्यष्टादशभेद एव किंतु विषयसम्पत्तौ सम्भोगकाले य एव म्रियते ऽष्टगुणैश्वर्याद्वा भ्रश्यते ततस्तस्य महद्दुःखमुत्पद्यते सो ऽन्धतामिस्र इति / एवं विपर्ययभेदास्तमः प्रभृतयः पञ्च प्रत्येकं भिद्यमाना द्विषष्टिभेदाः संवृत्ता इति
152 SK अशक्तिभेदाः कथ्यन्ते /
153 SK एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा / सप्तदशवधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् // ISक्_४९ //
49 SK भवन्त्यशक्तेश्च करणवैकल्यादष्टाविंशतिभेदा इत्युद्दिष्टं तत्रैकादशेन्द्रियवधाः बाधिर्यमन्धताप्रसुप्तिरुपह्विकाघ्राणपाको मूकता कुणित्वं खांज्यं क्लैब्यमुन्माद इति / सह बुद्धिवधैरशक्तिरुद्दिष्टा ये बुद्धिवधास्तैः सहाशक्तेरष्टाविंशतिभेदा भवन्ति सप्तदशवधा बुद्धेः सप्तदशवधास्ते तुष्टिभेदसिद्धिभेदवैपरीत्येन तुष्टिभेदा नव सिद्धिभेदा अष्टौ ये ते विपरीतैः सह एकादश विधा एवमष्टाविंशतिविकल्पा अशक्तिरिति विपर्ययात् सिद्धितुष्टीनामेव भेदक्रमो द्रष्टव्यः
155 SK तत्र तुष्टिर्नवधा कथ्यते /
156 SK आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः / बाह्या विषयोपरमात्पञ्च नव च तुष्टयो ऽभिहिताः // ISक्_५० //
50 SK आध्यात्मिकाश्चतस्रः तुष्टयो ऽध्यात्मनि भवा आध्यात्मिका ताश्च प्रकृत्युपादानकालभाग्याख्याः / तत्र प्रकृत्याख्या यथा कश्चित् प्रकृतिं वेत्ति तस्याः सगुणनिर्गुणत्वं च तेन तत्त्वं तत् कार्यं विज्ञायैव केवलं तुष्टस्तस्य नास्ति मोक्ष एषा प्रकृत्याख्या / उपादानाख्या यथा कश्चिदविज्ञायैव तत्त्वान्युपादानग्रहणं करोति त्रिदण्डकमण्डलुविविदिकाभ्यो मोक्ष इति तस्यापि नास्त्येषा उपादानाख्या / तथा कालाख्या कालेन मोक्षो भविष्यतीति किं तत्त्वाभ्यासेनेत्येषा कालाख्या तुष्टिस्तस्य नास्ति मोक्ष इति / तथा भाग्याख्या भाग्येनैव मोक्षो भविष्यतीति भाग्याख्या / चतुर्द्धा तुष्टिरिति / बाह्याविषयोपरमाच्च पञ्च / बाह्यास्तुष्टयः पञ्च विषयोपरमात् शब्दस्पर्शरूपरसगन्धेभ्य उपरतो ऽर्जनरक्षणक्षयसंगहिंसादर्शनात् / वृद्धिनिमित्तं पाशुपाल्यवाणिज्यप्रतिग्रहसेवाः कार्या एतदर्जनं दुःखमर्जितानां रक्षणे दुःखमुपभोगात् क्षीयत इति क्षयदुःखम् / तथा विषयोपभोगसंगे कृते नास्तीन्द्रियाणामुपशम इति संगदोषः / तथा न अनुपहत्य भूतान्युपभोग इत्येष हिंसादोषः / एवमर्ज्जनादिदोषदर्शनात् पञ्चविषयोपरमात् पञ्च तुष्टयः / एवमाध्यात्मिकबाह्यभेदान्नव तुष्टयस्तासां नामानि शास्त्रान्तरे प्रोक्तानि / अम्भः सलिलमोघो वृष्टिः सुतमो पारं सुनेत्रं नारीकमनुत्तमांभसिकमिति / आसां तुष्टीनां विपरीताशक्तिभेदाद्बुद्धिबधा भवन्ति
158 SK तद्यथा अनम्भसो ऽसलिलमनोघ इत्यादिवैपरीत्याद्बुद्धिवधा इति / सिद्धिरुच्यते /
159 SK ऊहः शब्दो ऽध्ययनं दुःखविघातास्त्रयं सुहृत्प्राप्तिः / दानं च सिद्धयो ऽष्टौ सिद्धेः पूर्वो ऽङ्कुशस्त्रिविधः // ISक्_५१ //
51 SK ऊहो यथा कश्चिन्नत्यमूहते किमिह सत्यं किं परं किं नैश्रेयसं किं कृतार्थः स्यामिति चिन्तयतो ज्ञानमुत्पद्यते प्रधानादन्य एव पुरुष इत्यन्या बुद्धिरन्यो ऽहंकारो ऽन्यानि तन्मात्राणीन्द्रियाणि पञ्चमहाभूतानीत्येवं तत्त्वज्ञानमुत्पद्यते येन मोक्षो भवति एषा ऊहाख्या प्रथमा सिद्धिः / तथा शब्दज्ञानात् प्रधानपुरुषबुद्ध्यहंकारतन्मात्रेन्द्रियपञ्चमहाभूतविषयं ज्ञानं भवति ततो मोक्ष इत्येषा शब्दाख्या सिद्धिः / अध्ययनाद्वेदादिशास्त्राध्ययनात् पञ्चविंशतितत्त्वज्ञानं प्राप्य मोक्षं याति इत्येषा तृतीया सिद्धिः / दुःखविघातत्रयमाध्यात्मिकाधिभौतिकाधिदैविकदुःखत्रयविघाताय गुरुं समुपगम्य तत उपदेशान्मोक्षं यात्येषा चतुर्थी सिद्धिः / एषैव दुःखत्रयभेदात् त्रिधा कल्पनीया इति षट् सिद्धयः / तथा सुहृत्प्राप्तिर्यथा कश्चित् सुहृत् ज्ञानमधिगम्य मोक्षं गच्छति एषा सप्तमी सिद्धिः / दानं यथा कश्चिद्भगवतां प्रत्याश्रयौषधित्रिदण्डकुण्डिकादीनां ग्रासाच्छादनादीनां च दानेनोपकृत्य तेभ्यो ज्ञानमवाप्य मोक्षं यात्येषाष्टमी सिद्धिः / आसामष्टानां सिद्धीनां शास्त्रान्तरे संज्ञाः कृतास्तारं सुतारं तारतारं प्रमोदं प्रमुदितं प्रमोदमानं रम्यकं सदाप्रमुदितमिति / आसां विपर्ययात् बुद्देर्बन्धा ये विपरीतास्त अशक्तौ निक्षिप्ता यथातारमसुतारमतारतारमित्यादिद्रष्टव्यमशक्तिभेदा अष्टाविंशतिरुक्तास्ते सह बुद्धिबन्धैरेकादशेन्द्रियबन्धा इति / तत्र तुष्टिविपर्यया नव सिद्धीनां विपर्यया अष्टौ एवमेते सप्तदश बुद्धिबन्धा एतैः सहेन्द्रियबन्धा अष्टाविंशतिरशक्तिभेदाः पश्चात् कथिता इति विपर्ययाशक्तितुष्टिसिद्धीनामेवोद्देशो निर्देशश्च कृत इति / किं चान्यत् सिद्धेः पूर्वो ऽङ्कुशस्त्रिविधः सिद्धेः पूर्वा या विपर्ययाशक्तितुष्टयस्ता एव सिद्धेरंकुशस्तद्भेदादेवं त्रिविधो यथा हस्ती गृहीतांकुशेन वशो भवत्येव विपर्ययाशक्तितुष्टिभिर्गृहीतो लोको ऽज्ञानमाप्नोति तस्मादेताः परित्यज्य सिद्धिः सेव्या ससिद्धेस्तत्त्वज्ञानमुत्पद्यते तन्मोक्ष इति
161 SK अथ यदुक्तं भावैरधिवासितं लिंगं तत्र भावा धर्मादयो ऽष्टावुक्ता बुद्धिपरिणामा विपर्ययाशक्तितुष्टिसिद्धिपरिणताः स भावाख्यः प्रत्ययसर्गः लिंगं च तन्मात्रसर्गश्चतुर्दशभूतपर्यन्त उक्तस्तत्रैकेनैव सर्गेण पुरुषार्थसिद्धौ किमुभयविधसर्गेणेत्यत आह /
162 SK न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः / लिङ्गाख्यो भावाख्यस्तस्माद्विविधः प्रवर्त्तते सर्गः // ISक्_५२ //
52 SK भावैः प्रत्ययसर्गैर्विना लिंगं न तन्मात्रसर्गो न पूर्वपूर्वसंस्कारादृष्टकारितत्वादुत्तरोत्तरदेहलम्भस्य लिंगेन तन्मात्रसर्गेण च विना भावनिर्वृत्तिर्न स्थूलसूक्ष्मदेहसाध्यत्वाद्धर्मादेरनादित्वाच्च सर्गस्य बीजांकुरावन्योन्याश्रयौ न दोषाय तत्तज्जातीयापेक्षितत्वे ऽपि तत्तद्व्यक्तीनां परस्परानपेक्षित्वात्तस्माद्भावाख्यो लिंगाख्यश्च द्विविधः प्रवर्त्तते सर्ग इति
165 SK अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति / मानुष्यश्चैकविधः समासतो भौतिकः सर्गः // ISक्_५३ //
53 SK तत्र दैवमष्टप्रकारं ब्राह्मं प्राजापत्यं सौम्यमैन्द्रं गान्धर्वं याक्षं राक्षसं पैशाचमिति / पशुमृगपक्षिसरीसृपस्थावराणि भूतान्येव पञ्चविधस्तैरश्च / मानुषयोनिरेकैव इति चतुर्दशभूतानि
167 SK त्रिष्वपि लोकेषु गुणत्रयमस्ति तत्र कस्मिन् किमधिकमुच्यते /
168 SK ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः / मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः // ISक्_५४ //
54 SK ऊर्द्ध्वमित्यष्टसु देवस्थानेषु सत्त्वविशालं सत्त्वविस्तारः सत्त्वोत्कट ऊर्द्ध्वसत्त्व इति / तत्रापि रजस्तमसी स्तः / तमोविशालो मूलतः पश्वादिषु स्थावरान्तेषु सर्वःसर्गस्तमसाधिक्येन व्याप्तस्तत्रापि सत्त्वरजसी स्तः / मध्ये मानुष्ये रज उत्कटं तत्रापि सत्त्वतमसी विद्येते तस्माद्दुःखप्राया मनुष्याः / एवं ब्रह्मादिस्तम्बपर्यन्तः ब्रह्मादिस्थावरान्तः इत्यर्थः / एवमभौतिकः सर्गो लिंगसर्गो भावसर्गो भूतसर्गो दैवमानुषतैर्यग्योनय इत्येषः प्रधानकृतः षोडशः सर्गः
170 SK तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः / लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं समासेन // ISक्_५५ //
55 SK तत्रेति तेषु देवमानुषतिर्यग्योनिषु जराकृतं मरणकृतं चैव दुःखं चेतनः चैतन्यवान् पुरुषः प्राप्नोति न प्रधानं न बुद्धिर्नाहंकारो न तन्मात्राणीन्द्रियाणि महाभूतानि च / कियन्तं कालं पुरुषो दुःखं प्राप्नोतीति तद्विविनक्ति / लिंगस्याविनिवृत्तेर्यत्तन्महदादि लिंगशरीरेणाविश्य तत्र व्यक्तीभवति तद्यावन्निवर्त्तते संसारशरीरमिति संक्षेपेण त्रिषु स्थानेषु पुरुषो जरामरणकृतं दुःखं प्राप्नोति लिंगस्याविनिवृत्तेः लिंगस्य विनिवृत्तिं यावत् / लिंगनिवृत्तौ मोक्षो मोक्षप्राप्तौ नास्ति दुःखमिति / तत्पुनः केन निवर्त्तते यदा पञ्चविंशतितत्त्वज्ञानं स्यात् सत्त्वपुरुषान्यथाख्यातिलक्षणमिदं प्रधानमियं बुद्धिरयमहंकार इमानि पञ्चतन्मात्राण्येकादशेन्द्रियाणि पञ्च महाभूतानि येभ्यो ऽन्यः पुरुषो विसदृश इत्येवं ज्ञानाल्लिंगनिवृत्तिस्ततो मोक्ष इति
172 SK प्रवृत्तेः किं निमित्तमारभ्य इत्युच्यते /
173 SK इत्येष प्रकृतिकृतो महदादिविषयभूतपर्यन्तः / प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः // ISक्_५६ //
56 SK इत्येष परिसमाप्तौ निर्द्देशे च प्रकृतिविकृतौ प्रकृतिकरणे प्रकृतिक्रियायां य आरम्भो महदादिविशेषभूतपर्यन्तः प्रकृतेर्महान् महतो ऽहंकारस्तस्मात्तन्मात्राण्येकादशेन्द्रियाणि तन्मात्रेभ्यः पञ्चमहाभूतानीत्येषः प्रतिपुरुषविमोक्षार्थं पुरुषं प्रति देवमनुष्यतिर्यग्भावं गतानां विमोक्षार्थमारम्भः कथं स्वार्थ इव परार्थमारम्भः यथा कश्चित् स्वार्थं त्यक्त्वा मित्रकार्याणि करोति एवं प्रधानम् / पुरुषो ऽत्र प्रधानस्य न किञ्चित् प्रत्युपकारं करोति / स्वार्थ इव न च स्वाथः परार्थ एवार्थः शब्दादिविषयोपलब्धिर्गुणपुरुषान्तरोपलब्धिश्च त्रिषु लोकेषु शब्दादिविषयैः पुरुषा योजयितव्या अन्ते च मोक्षेणेति प्रधानस्य प्रवृत्तिस्तथा चोक्तम् / कुम्भवत् प्रधानं पुरुषार्थं कृत्वा निवर्त्तत इति
175 SK अत्रोच्यते ऽचेतनं प्रधानं चेतनः पुरुष इति मया त्रिषु लोकेषु शब्दादिभिर्विषयैः पुरुषो योज्यो ऽन्ते मोक्षः कर्त्तव्य इति कथं चेतनवत् प्रवृतिः / सत्यं किंत्वचेतनानामपि प्रवृत्तिर्दृष्टा निवृत्तिश्च यस्मादित्याह /
176 SK वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य / पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य // ISक्_५७ //
57 SK यथा तृणादिकं गवा भक्षितं क्षीरभावेन परिणम्य वत्सविवृद्धिं करोति पुष्टे च वत्से निवर्त्तत एवं पुरुषविमोक्षनिमित्तं प्रधानम् / अज्ञस्य प्रवृत्तिरित
179 SK औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः / पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् // ISक्_५८ //
58 SK यथा लोक इत्यौस्तुक्ये सति तस्य निवृत्त्यर्थं क्रियासु प्रवर्त्तते गमनागमनक्रियासु कृतकार्यो निवर्त्तते तथा पुरुषस्य विमोक्षार्थं शब्दादिविषयोपभोगोपलब्धिलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं च द्विविधमपि पुरुषार्थं कृत्वा प्रधानं निवर्तते
182 SK रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् / पुरुषस्य तथात्मानं प्रकाश्य निवर्तते प्रकृतिः // ISक्_५९ //
59 SK यथा नर्त्तकी शृङ्गारादिरसौरितिहासादिभावैश्च निबद्धगीतवादित्रवृत्तानि रङ्गस्य दर्शयित्वा कृतकार्या नृत्यान्निवर्त्तते तथा प्रकृतिरपि पुरुषस्यात्मानं प्रकाश्य बुद्ध्यहंकारतन्मात्रेन्दियमहाभूतभेदेन निवर्तते
184 SK कथं को वा स्यान्निवर्त्तको हेतुस्तदाह /
185 SK नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः / गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति // ISक्_६० //
60 SK नानाविधैरुपायैः प्रकृतिः पुरुषस्योपकारिण्यनुपकारिणः पुंसः कथं देवमानुषतिर्यग्भावेन सुखदुःखमोहात्मकभावेन शब्दादिविषयभावेन एवं नानाविधैरुपायैरात्मानं प्रकाश्याहमन्या त्वमन्य इति निवर्त्तते ऽतो नित्यस्य तस्यार्थमपार्थं कुरुते चरति च यथा कश्चित् परोपकारी सर्वस्योपकुरुते नात्मनः प्रत्युपकारमीहत एवं प्रकृतिः पुरुषार्थं कुरुते करोत्यपार्थकम्
187 SK पश्चादुक्तमात्मानं प्रकाश्य निवर्त्तते निवृत्त च किं करोतीत्याह /
188 SK प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति / या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य // ISक्_६१ //
61 SK लोके प्रकृतेः सुकुमारतरं न किञ्चिदस्तीत्येवं मे मतिर्भवति येन परार्थ एवं मतिरुत्पन्ना कस्मादहमनेन पुरुषेण दृष्टास्मीत्यस्य पुंसो पुनर्दर्शनं नोपैति पुरुषस्यादर्शनमुपयातीत्यर्थः / तत्र सुकुमारतरं वर्णयति / ईश्वरं कारणं ब्रुवते / ᳚अजो जन्तुरनीशो ऽयमात्मा नः सुखदुःखयोरीश्वरप्रेरितो गच्छेत् स्वर्गं नरकमेव वा //᳚ अपरे स्वभावकारणिकां ब्रुवते / केन शुक्लीकृता हंसा मयूराः केन चित्रिताः / स्वभावेनैवेति / अत्र सांख्याचार्या आहुः निर्गुणत्वादीश्वरस्य कथं सगुणतः प्रजा जायेरन् कथं वा पुरुषान्निर्गुणादेव तस्मात् प्रकृतेर्युज्यते यथा शुक्लेभ्यस्तन्तुभ्यः शुक्ल एव पटो भवति कृष्णेभ्यः कृष्ण एवेति / एवं त्रिगुणात् प्रधानात् त्रयो लोकास्त्रिगुणाः समुत्पन्ना इति गम्यते / निर्गुण ईश्वरः सगुणानां लोकानां तस्मादुत्पत्तिरयुक्तेति / अनेन पुरुषो व्याख्यातः / तथा केषांचित् कालः कारणमित्युक्तं च / ᳚कालः पञ्चास्ति भूतानि कालः संहरते जगत् / कालः सुप्तेषु जागर्त्ति कालो हि दुरतिक्रमः //᳚ व्यक्तमव्यक्तपुरुषास्त्रयः पदार्थास्तेन कालो ऽन्तर्भूतो ऽस्ति स व्यक्तः सर्वकर्तृत्वात् कालस्यापि प्रधानमेव कारणं स्वभावो ऽप्यत्रैव लीनः तस्मात् कालो न कारणम् / नापि स्वभाव इति / तस्मात् प्रकृतिरेव कारणं न प्रकृतेः कारणान्तरमस्तीति / न पुनर्दर्शनमुपयाति पुरुषस्य / अतः प्रकृतेः सुकुमारतरं सुभोग्यतरं न किञ्चिदीश्वरादिकारणमस्तीति मे मतिर्भवति
190 SK तथा च श्लोके रूढम् / पुरुषो मुक्तः पुरुषः संसारीति चोदितेत्याह /
191 SK तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् / संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः // ISक्_६२ //
62 SK तस्मात् कारणात् पुरुषो न बध्यते नापि मुच्यते नापि संसरति यस्मात् कारणात् प्रकृतिरेव नानाश्रया दैवमानुषतिर्यग्योन्याश्रया बुद्ध्यहंकारतन्मात्रेन्द्रियभूतस्वरूपेण बध्यते मुच्यते संसरति चेति / अथ मुक्त एव स्वभावात् स सर्वगतश्च कथं संसरत्यप्राप्तप्रापणार्थं संसरणमिति तेन पुरुषो बध्यते पुरुषो मुच्यते संसरति व्यपदिश्यते येन संसारित्वं न विद्यते सत्त्वपुरुषान्तज्ञानात् तत्त्वं पुरुषस्याभिव्यज्यते / तदभिव्यक्तो केवलः शुद्धो मुक्तः स्वरूपप्रतिष्ठः पुरुष इति / अत्र यदि पुरुषस्य बन्धो नस्ति ततो मोक्षो ऽपि नास्ति / अत्रोच्यते प्रकृतिरेवात्मानं बध्नाति मोचयति च यत्र सूक्ष्मशरीरं तन्मात्रकं त्रिविधकरणोपेतं तत् त्रिविधेन बन्धेन बध्यते / उक्तं च प्राकृतेन च बन्धेन तथा वैकारिकेण च / दाक्षिणेन तृतीयेन बद्धो नान्येन मुच्यते / तत् सूक्ष्मं शरीरं धर्माधर्मं संयुक्तम्
193 SK प्रकृतिश्च बध्यते प्रकृतिश्च मुच्यते संसरतीति कथं तदुच्यते /
194 SK रूपैः सप्तभिरेवं बध्नात्यात्मानमात्मना प्रकृतिः / सैव च पुरुषस्यार्थं प्रति विमोचयत्येकरूपेण // ISक्_६३ //
63 SK रूपैः सप्तभिरेवैतानि सप्त प्रोच्यन्ते धर्मो वैराग्यमैश्वर्यमधर्मो ऽज्ञानमवैराग्यमनैश्वर्य्यमेतानि प्रकृतेः सप्तरूपाणि तैरात्मानं स्वं बध्नाति प्रकृतिरात्मानं स्वमेव सैव प्रकृतिः पुरुषस्यार्थः पुरुषार्थः कर्त्तव्य इति विमोचयत्यात्मानमेकरूपेण ज्ञानेन
196 SK कथं तज्ज्ञानमुत्पद्यते /
197 SK एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् / अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् // ISक्_६४ //
64 SK एवमुक्तेन क्रमेन पञ्चविंशतितत्त्वालोचनाभ्यासादियं प्रकृतिरयं पुरुष एतानि पञ्चतन्मात्रेन्द्रियमहाभूतानीति पुरुषस्य ज्ञानमुत्पद्यते नास्ति नाहमेव भवामि न मे मम शरीरं तद्यतो ऽहमन्यः शरीरमन्यन्नाहमित्यपरिशेषमहंकाररहितमपरिशेषमविपर्ययाद्विशुद्धं विपर्ययः संशयो ऽविपर्ययादसंशयाद्विशुद्धं केवलं तदेव नान्यदस्तीति मोक्षकारणमुत्पद्यते ऽभिव्यज्यते ज्ञानं पञ्चविंशतितत्त्वज्ञानं पुरुषस्येति
199 SK ज्ञाने पुरुषः किं करोति /
200 SK तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् / प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः // ISक्_६५ //
65 SK तेन विशुद्धेन केवलज्ञानेन पुरुषः प्रकृतिं पश्यति प्रेक्षकवत् प्रेक्षकेण तुल्यमवस्थितः स्वस्थो यथा रंगप्रेक्षको ऽवस्थितो नर्त्तकीं पश्यतिः स्वस्थः स्वस्मिंस्तिष्ठति स्वस्थः स्वस्थानस्थितः / कथंभूतां प्रकृतिं निवृत्तप्रसवां निवृत्तः बुद्ध्यहंकारकार्य्यानर्थवशात् सप्तरूपविनिवृत्तां निवर्त्तितोभयपुरुषप्रयोजनवशाद्यैः सप्तभी रूपैर्धर्मादिभिरात्मानं बध्नाति तेभ्यः सप्तभ्यो रूपेभ्यो विनिवृत्तिं प्रकृतिं पश्यति
203 SK दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या / सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्य // ISक्_६६ //
66 SK रंगस्थ इति यथा रंगस्थ इत्येवमुपेक्षक एकः केवलः शुद्धः पुरुषस्तेनाहं दृष्टेति कृत्वा उपरता निवृता एका एकैव प्रकृतिः त्रैलोक्यस्यापि प्रधानकारणभूता न द्वितीया प्रकृतिरस्ति मूर्त्तिभेदे जातिभेदादेवं प्रकृतिपुरुषयोर्निर्वृत्तावपि व्यापकत्वात् संयोगो ऽस्ति न तु संयोगात् कुतः सर्गो भवति / सति संयोगे ऽपि तयोः प्रकृतिपुरुषयोः सर्वगतत्वात् सत्यपि संयोगे प्रयोजनं नास्ति सर्गस्य सृष्टेश्चरितार्थत्वात् प्रकृतेर्द्विविधं प्रयोजनं शब्दविषयोपलब्धिर्गुणपुरुषान्तरोपलब्धिश्च / उभयत्रापि चरितार्थत्वात् सर्गस्य नास्ति प्रयोजनं यः पुनः सर्ग इति / यथा दानग्रहणनिमित्त उत्तमर्णाधमर्णयोर्द्रव्यविशुद्धौ सत्यपि संयोगे न कश्चिदर्थसम्बन्धो भवति / एवं प्रकृतिपुरुषयोरपि नास्ति प्रयोजनमिति
205 SK यदि पुरुषस्योत्पन्ने ज्ञाने मोक्षो भाति ततो मम कस्मान्न भवतीति / अत उच्यते /
206 SK सम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ / तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः // ISक्_६७ //
67 SK यद्यपि पञ्चविंशतितत्त्वज्ञानं सम्यक् ज्ञानं भवति तथापि संस्कारवशाद्धृतशरीरो योगी तिष्ठति कथं चक्रभ्रमवच्चक्रभ्रमेण तुल्यं यथा कुलालश्चक्रं भ्रमयित्वा घटं करोति मृत्पिण्डं चक्रमारोप्य पुनः कृत्वा घटं पर्यामुञ्चति चक्रं भ्रमत्येव संस्कारवशादेवं सम्यग्ज्ञानाधिगमादुत्पन्नसम्यग्ज्ञानस्य धर्मादीनामकारणप्राप्तौ एतानि सप्त रूपाणि बन्धनभूतानि सम्यग्ज्ञानेन दग्धानि यथा नाग्निना दग्धानि बीजानि प्ररोहणसमर्थान्येवमेतानि धर्मादीनि बन्धनानि न समर्थानि / धर्मादीनामकारणप्राप्तौ संस्कारवशाद्धृतशरीरास्तिष्ठति ज्ञानाद्वर्त्तमानधर्माधर्मक्षयः कस्मान्न भवति वर्त्तमानत्वादेव क्षणान्तरे क्षयमप्येति ज्ञानं त्वनागतकर्म दहति वर्त्तमानशरीरेण च यत् करोति तदपीति विहितानुष्ठानकरणादिति संस्कारक्षयाच्छरीरपाते मोक्षः
208 SK स किंविशिष्टो भवतीत्युच्यते /
209 SK प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ / ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति // ISक्_६८ //
68 SK धर्माधर्मजनितसंस्कारक्षयात् प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानस्य निवृत्तौ ऐकान्तिकमवश्यमात्यन्तिकमनन्तर्हितं कैवल्यं केवलभावान्मोक्ष उभयमैकान्तिकात्यन्तिकमित्येव विशिष्टकैवल्यमाप्नोति
211 SK पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् / स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् // ISक्_६९ //
69 SK पुरुषार्थो मोक्षस्तदर्थं ज्ञानमिदं गुह्यं रहस्यं परमर्षिणा श्रीकपिलर्षिणा समाख्यातं सम्यगुक्तं यत्र ज्ञाने भूतानां वैकारिकाणां स्थित्युत्पत्तिप्रलया अवस्थानाविर्भावतिरोभावाश्चिन्त्यन्ते विचार्यन्ते येषां विचारात् सम्यक् पञ्चविंशतितत्त्वविवेचनात्मिका सम्पद्यते संवित्तिरिति
213 SK सांख्यं कपिलमुनिना प्रोक्तं संसारविमुक्तिकारणं हि / यत्रैताः सप्ततिरार्या भाष्यं चात्र गौडपादकृतम् //
214 SK [Uन्चोम्मेन्तेद् कारिकास्:]
215 SK एतत्पवित्र्यमग्र्यं मुनिरासुरये ऽनुकम्पया प्रददौ / आसुरिरपि पञ्चशिखाय तेन च बहुलीकृतं तन्त्रम् // ISक्_७० //
216 SK शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभिः / सङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् // ISक्_७१ //
217 SK सप्तत्यां किल यो ऽर्थास्ते ऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य / आख्यायिकाविरहिताः परवादविवर्जिताश्चेति // ISक्_७२ //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśvarakṛṣṇa: Sāṃkhyakārikā with Gauḍapāda's Bhāṣya (sa_IzvarakRSNa-sAMkhyakArikA-comm2.htm).
Source