Garland of Birth Stories

Jātakamālā · Jआतकमाला

Garland of Birth Stories

Jātakamālā

Jआतकमाला

SK
१. Aजातशत्रु
SK
महान्ति पापान्य् अभिभूय यस्माद् अजातशत्रुर् गुणवान् बभूव | उपेत्य सद्भिः सह संप्रयोगम् अतो निषेव्या गुणवन्त एव || GओAश्_१ ||
SK
अहो विभूतिर् गुणविस्तराणां गुणाब्धिकैर् यत् सह संप्रयुज्य | गुणैर् अभूतैर् विगुणो ऽभ्युपेति गुणप्रसिद्धिं गुणभूषनेषु || GओAश्_२ ||
SK
अभूतसंभावनया तया तु हतो ऽप्य् असौ कालवशेन भूपः | तुषारदग्धद्रुमवद् वसन्ते गुणप्रभावोज्ज्वलताम् उपैति || GओAश्_३ ||
SK
स्वभावसंसिद्धिर् इयं तथा हि जनस्य सद्वृत्तिनिरत्ययस्य | विजिह्मभावेष्व् अपि यत् प्रयाति गुणप्रसिद्धेः खलु हेतुभावम् || GओAश्_४ ||
SK
ब्रवीम्य् अतो ऽहं नरके ऽपि वासो वरं स्फुरद्वह्निशिखाकराले | न चैव सन्मित्रनिराकृतस्य सुरेश्वराणां सुखसंपदो ऽपि || GओAश्_५ ||
SK
तद्यथानुश्रूयते
SK
राजा किलाजातशत्रुर् वनद्विरदवरोपग्रहनिमित्तं स्वनगराद् अभिनिःसृत्य ददर्श महान्तं कुञ्जरवरं वनाभिमुखम् अभिद्रवन्तम् | दृष्ट्वा च पुनस् तम् एव हस्तिनम् अनुजगाम | स च दन्ती
SK
स्मृत्वा सरांसि कमलोत्पलमण्डितानि कादम्बपक्षपवनोद्धतशीकराणि | उद्भिन्नकोमलकसेरुलतावनानि वेगान् महीधरवनाभिमुखो जगाम || GओAश्_६ ||
SK
उत्कण्ठितः किसलयोज्ज्वलपादपानां वैडूर्यनीलहरितोद्गतशाद्वलानाम् | उद्धूतशीकरकरो द्विरदो वनानां तूर्णं ययौ पवननुन्न इवाम्बुगर्भः || GओAश्_७ ||
SK
अथ स महीपतिः पवनपटुजवातिशयतुरगवराधिरूढो दूराद् अपसृतबलसहायो न चिरेण खदिरबदरबिल्वेङ्गुदादिकण्टकद्रुमवनगहनां शरवणकाशकुशवंशजालजटिलदुःसंचारप्रदेशां जीर्णशीर्णविक्षिप्तास्थिकङ्कालशकलधवलभूमिभागां प्रतिभयगम्भीरश्वभ्रप्रपातस्थलस्थाणुवल्मीकदुर्निर्गमप्रवेशाम् अटवीं प्रपेदे | स च गजाधिपतिस् तस्य राज्ञो दर्शनम् अपजगाम |
SK
राजासौ विहतपराक्रमावकाशो ग्रीष्मोष्मक्लमशिथिलाकुलप्रयत्नः | भूरेणुव्यतिकरधूसराग्रकेशः संमोहं समुपजगाम साध्वसेन || GओAश्_८ ||
SK
तस्मिन् खड्गविषाणकोटिकष्ण – – ⏑ – – ⏑ – सिंहव्याघ्रवराह – ⏑ महिषव्यालावकीर्णे वने | एकाकी स नृपो भ्रमन् रविकरज्वालाप्रतापातुरस् तृष्णार्तः पदवीं ददर्श सहसा शैलेन्द्रसंप्रापिकाम् || GओAश्_९ ||
SK
तां च मुहूर्तम् अनुगच्छन् ददर्श दूराद् एव नीलविपुलस्निग्धपलाशनिचितविटपतरुवरगहनम् अचलसानुप्रदेशम् | दृष्ट्वा + + + + + + + + + + + + + + + + + + + + + + + यनः(?) प्रोवाच ||
SK
अस्मिन् नूनं प्रदेशे नवनलिनवनच्छन्नतोयं सरो वा धारा शैलोदराद् वा पतति मणिदलस्वच्छशोभा जलस्य | वृक्षास् तत्संनिकर्षाद् उपचितविपुलश्यामशाखाप्रशाखा येनैते शैलम् एतं जगद् इव सकलं सज्जनाः शोभयन्ति || GओAश्_१० ||
SK
दूरत्वाद् अ ⏑ – ⏑ – ⏑ ⏑ ⏑ – ऽ; – – ⏑ – – ⏑ – – – – ⏑ ⏑ – ⏑ भारगुरवो जीमूतपुञ्जा इव | एते वृद्धिम् उपागताः खलु पराम् आसाद्य तोयाशयं सन्मित्रं समुपेत्य साधव इव प्रध्वस्यमानारयः || GओAश्_११ ||
SK
तद् इतो गच्छामीति संप्रधार्योपेत्य च तं प्रदेशं समन्ततो विलोकयन् ददर्शान्यतमस्मिन् तरुवरगहनविवरे + + + + + + + + + + + + + + + + + + + + + + + + + + + + कोपहाराभिदर्शने विपुलशिलातलाभोगनिषण्णकृताहारप्रयोजनम् उपशमनिभृतेन्द्रियप्रचारसौम्यवपुषं शाक्यभिक्षुं दृष्ट्वा समाश्वासप्राप्तः प्रह्लादित इव विश्रान्त इव च वाजिनम् एकान्ते निबध्य सप्रश्रयमःधुरो + + + + + + + + + + + + + + + + + + + + + + + + + + क्त इव च विकचकमलवनरेणुपिञ्जरसुरभिशिशिरसमीरणेन तं भिक्षुम् अब्रवीत् | भदन्त सलिलाशयप्रदेशम् उपदेष्टुम् अर्हतीति | तेन चोपदिष्टम् | अथ स राजा तम् उपदिष्टं सलिलाशयम् उपगम्य विगतपिपासाक्लमपरि + + + + + + + + + + + + + + + + + + + ||
SK
– – ⏑ – ⏑ ⏑ ⏑ – ⏑ ⏑ – मयूखैः प्रस्वेदवारिकणिकार्द्रललाटभित्तिः | पीत्वापि वारि कमलोत्पलनालशीतं तीव्रक्लमातुरमना न धृतिं जगाम || GओAश्_१२ ||
SK
अथ स भिक्षुः सान्द्रकरुणामृतरसार्द्रशीतलेन चक्षुषा तं राजानम् अभिसमीक्ष्याब्रवीत् | क्लीबसत्त्वम् इव व्या + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + प्रवादो लोकवृत्तातिवृत्तप्रभावेष्व् अप्य् उपलक्ष्यते | न खलु सुखोचिताः परदुःखानि जानन्तीति | ननु भदन्तावैषि ||
SK
दग्धापि भू रविकरैः स्फुटदीप्तिमद्भिर् दन्दह्यते गतघृणेन दवानलेन | भर्तुः प्रवासविरहे वनितेव दुःखैस् त – ⏑ – ⏑ ⏑ ⏑ – ⏑ ⏑ – ⏑ – – || GओAश्_१३ ||
SK
– – ⏑ – ⏑ ⏑ ⏑ – ⏑ ⏑ – ⏑ – – ः संतापिता रविकरैः सुतरां प्रचण्डैः | कल्याणमित्रविकलास् तु विचारशून्या रागात्मका इव नराः प्रमदाविलासैः || GओAश्_१४ ||
SK
घर्मातुरो भयम् अनागतम् अप्रधार्य च्छायां समाश्रयति भोगिफणस्य भेकः | आपातमात्रसुख – ⏑ ⏑ – ⏑ – – – – ⏑ – ⏑ ⏑ ⏑ – म् इव राजलक्ष्मीम् || GओAश्_१५ ||
SK
संशुष्कसालतरुकोटरसंनिलीनो व्यर्थं विरौति परिशुष्कगलः कपोतः | अज्ञानगह्वरनिरुद्ध इवात्मवादी बालः पुनर्भवतृषाविषमूर्छितात्मा || GओAश्_१६ ||
SK
एते गजा रविकरोत्करतापितेषु नैव स्थलेषु न जलेषु धृतिं लभन्ते | ग्रामेषु पुष्पविकचेषु च काननेषु पारिप्लवाल्पमतयो यतयो यथैव || GओAश्_१७ ||
SK
अम्ब्व् एव (?) पल्वलजलं क्षयम् अभ्युपैति संशुष्कशैवलरजोऽरुणपङ्कलेशम् | मन्दागमस्य सदसीव विजृम्भमाणं वाक्कौशलं स्वमतिशक्तिनिराकृतस्य || GओAश्_१८ ||
SK
एते खगा वनतरून् परिवर्जयन्ति संशीर्णपर्णनिचयोर्ध्वविशुष्कशाखान् | विस्मृत्य पूर्वपरिभोगसुखान्य् अनार्या वेश्या विलुप्तधनसारम् इवाल्पसत्त्वम् || GओAश्_१९ ||
SK
दावाग्निभस्मपरुषैः पवनैर् उदस्तम् एतद् भ्रमत्य् अविरतं तरुपर्णचक्रम् | उत्पीड्यमानम् अनिशं निरवग्रहेण संसारचक्रम् इव कर्मसमीरणेन || GओAश्_२० ||
SK
पर्यन्तेषु स्फुटितशकलच्छेदसंपर्करूक्षस् तोयाभ्याशे स्रुतजलतया न द्रवो नातिशुष्कः | किंचिच्छेषाकलुषसलिलाप्लावितो मध्यभागे पङ्कः शोषं स्फुरितशफरीजालगर्भः प्रयाति || GओAश्_२१ ||
SK
किंचिच्छेषविवर्णपर्णशबला मूले कठोरारुणा मन्दश्यामपलाशसंचयवती मध्ये समार्द्रच्छविः | घर्मश्यामविभुग्नपल्लवदला प्रान्ते लता नर्तकी म्लानिं यात्य् अनिशं कलाव् इव युगे सत्पौरुषी धर्मता || GओAश्_२२ ||
SK
छत्त्रैर् व्यभ्रशशाङ्कमण्डलसितै रत्नप्रभाभास्वरैर् विक्षिप्ताः किरणा यद् अस्य बहुशो निर्याणकाले मम | तद् वैरं हृदयेन संचितम् अयं नूनं वहत्य् अंशुमान् यस्याग्निर् दहतीव दुर्जनवचस् तीक्ष्णैर् मयूखाङ्कुरैः || GओAश्_२३ ||
SK
अथ स भिक्षुः कथान्तरविवक्षया स्मितम् आविश्चकार | + + + + + + + + + + + + + स राजा समन्ततो निरीक्ष्यान्यम् अनीक्षमाणो माम् एवाधिकृत्य प्रव्रजितेन स्मितम् आदर्शितम् इति विनिश्चित्य कुतूहलाक्रान्तमतिस् तम् अब्रवीत् ||
SK
विनयधीरम् इदं च वपुस् तव स्मितम् इदं च भदन्त विधार्यते | चलति बुद्धिर् इयं पवनाहता वनलतेव किम् अत्र नु कारणम् || GओAश्_२४ ||
SK
+ + + + + + + + + + + + + + + + + + + + | अथ स पार्थिवः सुतराम् उपजातविमर्शसंभ्रमोद्भ्रान्तमानसः पुनर् अपि तं भिक्षुं स्मितप्रयोजनं पर्यपृच्छत् | स च भिक्षुस् तदुपकारकामतयैव राज्ञः प्रोवाच ||
SK
सूर्यातपो दहति वत्स शरीरकं ते तस्मात् सुखोचितम् इदं तु रोगनीडम् | दुःख ⏑ – ⏑ ⏑ ⏑ – ⏑ ⏑ – ⏑ – – – – ⏑ – ⏑ ⏑ ⏑ – अभितापितानाम् || GओAश्_२५ ||
SK
वस्त्रातपत्रतरुमन्दिरचन्दनाम्बुहारादयस् तदुपघातनिमित्तभूताः | दुःखं त्व् अनागतम् अवीचिसमुद्भवं ते नाशं प्रयास्यति नराधिप कैर् उपायैः || GओAश्_२६ ||
SK
प्राणोपरोधसमकालम् अवश्यभावि यत् प्राप्स्यसि त्वम् अकृतज्ञ बहुप्रकारम् | दुःखं यदा क्षणय – ⏑ ⏑ – ⏑ – – – त् तव तद्गजभया ⏑ ⏑ – क्षणेन || GओAश्_२७ ||
SK
कर्मेन्धनः स्फुरति तत्र (?) सदा हुताशो दुर्वृत्तशोणितवसासवपानशौण्डः | यो बान्धवान् इव परिष्वजते प्रगाढं ज्वालाभुजैर् अविरलैः स्वकृतापराधान् || GओAश्_२८ ||
SK
वीचिं वदन्ति विवरं न च तत्र का चिद् दुःखस्य वीचिर् अपि तिर्यग् उपर्य् अधो वा | यस्माद् अवीचिर् इति तेन च संप्रसिद्धः शीर्णस् तनोति भवनो नरकान्तरेषु || GओAश्_२९ ||
SK
यत्र त्वयातिथिजनप्रणयो निषेव्यो ज्वालासखीशतपरिष्वजनोचितेन | स त्वं व्यथाम् उपगतो रविरश्मितप्तो हाराद् बिभेषि न तु घोरविषाद् भुजङ्गत् || GओAश्_३० ||
SK
यस्योत्सङ्गे क्षितितलरजोधूसरस् त्वं निषण्ण – – – – ⏑ ⏑ ⏑ ⏑ ⏑ – ⏕ ⏑ ⏕ ⏕ ⏑ ⏕ ⏕ | प्रेम्णा येनाकरुणहृदयो वर्धितः पालितश् च तं त्वं हत्वा यदि न पतितस् तत्क्षणं चित्रम् एतत् || GओAश्_३१ ||
SK
बाल्ये लालासलिलमलिनं पाणिना वक्त्रपद्मं येनामृष्टं विकचकमलच्छेदताम्रोदरेण | त्वां कृत्वाङ्के कृपण भवतः कुञ्चिताः काकपक्षा ये – – – ⏑ ⏑ ⏑ ⏑ ⏑ – – ⏑ – – ⏑ – – || GओAश्_३२ ||
SK
स त्वं हत्वा पितरम् अपि ते धार्मिकं धर्मराजं कामास्वादव्यसनमदिरापानविक्षिप्तचित्तः | स्वस्थावस्थश् चरसि नरकद्वारशालां प्रविष्टो ज्वालाहस्तैर् नरकशिखिनः स्प्रष्टुम् इच्छन्ति हि त्वाम् || GओAश्_३३ ||
SK
ज्वलदनलशीखावलीपिङ्गलान्तःस्थलं सर्वतस् तुङ्गनिःसङ्गनिश्छिद्रलोहाद्रिजालावृतच्छिन्नसंभिन्नसंविग्नसंकूजितोत्कृष्टनिष्पिष्टनिष्पीडितोत्क्षिप्तविक्षिप्तलुप्तावलुप्ताश्रयप्राणिसंघाकुलभीषणं
SK
कृपणक नरकं पदा यास्यसि प्रेरितो दारुणैः कर्मवातैर् अनेकोग्रदुःखप्रकर्षातिसंतापितो दीनकण्ठो ⏑ – ऊर्ध्वबाहुर् ज्वलच्छूलचक्रासिकुन्तप्रहारव्रणोद्वान्तरक्तोक्षितस् तत्र चाकामकः संवसन् |
SK
ज्वलदनलकमण्डलाकोटरस्तब्धनेत्रैः स्फुरत्कोपसंदष्टदन्तच्छदैर् उद्यताग्रायुधैर् अन्तकाज्ञाकरैस् तिष्ठ तिष्ठेति निस्तर्जितो भीतभीतो दिशः प्रेक्षमाणः स्थितो ऽस्मीति कृच्छ्राद् अभिव्याहरन् काम् अवस्थाम् अभिप्राप्स्यसि त्वं धृतो दुष्कृतैः कर्मभिर्
SK
यदि समनुविचारयेत् तद् भवान् नूनम् – – ⏑ – – ⏑ पादोपमाः स्युर् निदाघे ऽतितीव्रा अमी भूपते न त्व् अनभ्याहता यान्ति संवेगम् अज्ञा जनाः प्रायशो दुःखयन्त्रान्तरस्थास् तु शोचन्ति मोघं प्रलापार्तिशोकाभिभूता भृशम् || GओAश्_३४ ||
SK
अपि च हे पुत्रक ||
SK
कान्ताकराग्रविधृतानि मधूनि पीत्वा निश्वाससंचितदलोत्पलचन्द्रिकाणि | संदंशयन्त्रविवृतास्यपुटान्तरालस् ताम्रं कथं कथय पास्यसि वह्निवर्णम् || GओAश्_३५ ||
SK
स्नात्वा त्वं गृहदीर्घिकाम्भसि हसत्पद्मोत्पलालंकृते तीरान्तानतपुष्पपादपलताच्छायासमालिङ्गिते | क्लिन्नस्विन्ननरास्थिपञ्जरवसानिर्यासपर्याकुले तप्ते वैतरणीजले निपतितो दुःखात् कदा मोक्ष्यसे || GओAश्_३६ ||
SK
प्रासादे शरदभ्रशुभ्रशिखरे पुष्पावलीमण्डिते वीणावेणुमृदङ्गगीतमधुरे संप्राप्य चित्रं सुखम् | नित्यं प्रज्वलितस्फुटानलशिखासंतानजालाकुलं प्राप्यावीचिम् अनेकदुःखविहतः किं नाम कर्ता भवान् || GओAश्_३७ ||
SK
लज्जामात्रविभूषणां सविनयां चारूपचारां प्रियां दृष्ट्वा प्रीतिविजृम्भमाणनयनो विश्रम्भनिर्यन्त्रणाम् | क्रोधप्रज्वलिताक्षिकोशविषमभ्रूभङ्गरौद्राननान् आलोक्यान्तककिंकरान् अभिमुखान् संमोहम् आयास्यसे || GओAश्_३८ ||
SK
श्रीमच्चामरचारुभासुरनरैर् नानाविधैर् वाजिभिः कालिङ्गैश् च विचित्रितोत्तरकुथैर् गन्धोपवाह्यैर् गजैः | तीव्रक्रोधविषैस् तृ – ⏑ ⏑ ⏑ – – – ⏑ – – ⏑ – – – – ⏑ ⏑ के विशीर्णचरणो वोढासि दीप्तान् रथान् || GओAश्_३९ ||
SK
धृतश् चूडापीडो बकुलकुसुमामोदसुभगस् त्वया मूर्ध्ना येन स्फुटमणिकरालं च मुकुटम् | स्फुरद्वह्निज्वालावलयकपिलं चक्रम् अशिवं वहन् मूर्ध्ना तेन त्वम् अनुभविता चापलफलम् || GओAश्_४० ||
SK
किं च भूयः ||
SK
कलेर् आज्ञाभङ्गो भवति सुचिराज् जन्मसमये मुनेर् यस्य प्राणिप्रियहितसमाधानविदुषः | जगन्नाथे तस्मिन् भगवति भवोपद्रवहरे प्रदुष्टानां का वा भवतु गतिर् अन्या परम् अतः || GओAश्_४१ ||
SK
उन्मीलिता इव दिशो दश यस्य दीप्तैः कीर्त्यंशुभिर् घनतमःपटलावनद्धाः | तस्मिन् प्रदोषम् उपगच्छति यस् तपस्वी स्वैर् एव कर्मभिर् असौ प्रहतः क्षतात्मा || GओAश्_४२ ||
SK
यो मातेव पितेव बान्धव इव प्राणिष्व् अनुक्रोशवान् आत्मस्नेहपराङ्मुखेन मनसा जन्माटवीगह्वरे | प्रज्ञावीर्यकृपाभ्युपायसचिवः क्लेशैर् अनाकम्पितः प्राप्तो बोधिम् अनुत्तरां स भगवान् कां सत्क्रियां नार्हति || GओAश्_४३ ||
SK
जगद्धिताधानविधानदीक्षां बभार शास्ता भृशदुर्वहां यः | मनःप्रसादायतने ऽपि तस्मिन् कथं नु चित्तानि विदूषयन्ति || GओAश्_४४ ||
SK
असज्जनसमागमस्य कटुकावसानं फलं नरेन्द्र समुपस्थितं तद् अधुना तवापायिकम् | इदं समनुचिन्त्य साधुजनसंगमः सेव्यतां ततस् तव भविष्यति व्यसनपञ्जरान् निर्गमः || GओAश्_४५ ||
SK
एवं गते ऽपि क्रियताम् प्रयत्नः पापप्रहाणे कुशलोदये च | अप्य् एव नाम व्यसनाम्बुराशेः स्यात् ते ऽवसानं नरलोकपाल || GओAश्_४६ ||
SK
अनेकरूपव्यसनोपमृष्टां समुद्रवेलाजललोलशीलाम् | नरेन्द्रलक्ष्मीम् उपगुह्य पापं कृतं त्वया दुःखशतावसानम् || GओAश्_४७ ||
SK
बहुप्रकारात्ययदारुणेषु विचार्यमाणाल्पसुखोदयेषु | विषज्य कामेषु मनस् त्वयात्मा स्वयं कृतो दुर्गतिदुःखसाक्षी || GओAश्_४८ ||
SK
अभिसन्धिकृतस्य कर्मणो न हि नाशं प्रवदन्ति सूरयः | अपि कल्पसहस्रकोटिभिः फलदं तन् नियमेन जायते || GओAश्_४९ ||
SK
अत एव जगौ जगद्वरो जगदालोककरः कृपामयः | भगवान् भवभोगनिःस्पृहः स हि कर्मस्वकतां शरीरिणाम् || GओAश्_५० ||
SK
सलिलानलराजतस्करैर् धनम् अत्रैव विलुप्यते नृणाम् | प्रभवन्ति तु तेन कर्मणा स्वम् अतः कर्म नृणां शुभाशुभम् || GओAश्_५१ ||
SK
परिवर्तति निश्चलेक्षणः क्षणमात्रप्रतिबद्धजीवितः | मरणाभिमुखो यदा नरो ननु कर्मैव तदा परायणम् || GओAश्_५२ ||
SK
स्वजनो जनवन् निवर्तने गृहवित्ताद्यपरैर् विलुप्यते | स्वकृतं त्व् अनुयाति देहिनां भवसंक्रान्त्यनुकूलवर्तिनाम् || GओAश्_५३ ||
SK
अपि च हे महाराज ||
SK
मरणवशगतस्य जन्तोर् विवृद्धोल्बणश्वासशुष्कौष्ठकण्ठस्य हिक्काप्रवेशानुबन्धाद् विनिर्धूयमानोरसः कलविकलपदाक्षरे भाषिते विह्वले चक्षुषि च्छिद्यमानेषु मर्मस्व् अनामन्त्र्य रोषाद् इव प्रस्थितैर् वायुभिः | महति शिथिलतां गते सन्धिसंघातयन्त्रे रुजातीक्ष्णसूची- निपातान्तरे क्वापि गन्तुं कृताभ्युद्यमे जीविते तिमिरगहनसंकटं निर्जनं मार्गम् आक्रामतो नास्ति पुण्याद् ऋते कश् चिद् अन्यः सखा तत् प्रयत्नं कुरु श्रेयसि || GओAश्_५४ ||
SK
अपि च महाराज ||
SK
अवश्यं त्यक्तव्यः परमदयितो बान्धवजनः प्रवेष्टव्यं घोरं सभयम् असहायेन गहनम् | प्रवासे वस्तव्यं सुचिरम् अपि चासंस्तुतजने तद् अस्मात् कर्तव्यं बहुकुशलपाथेयम् असकृत् || GओAश्_५५ ||
SK
अथ स राजा तेन भिक्षुणा तथा संवेजितो यथा क्षणेनोपलब्धकुशलमूलोपचयाभिलाषस् तीव्रभयविषादव्याकुलमानसश् च प्रोवाच ||
SK
तद् अधुना करवाणि भदन्त हे वद वदास्ति दया यदि ते मयि | निपतितं महति व्यसनार्णवे कृपणकं कृपयोद्धर मां यते || GओAश्_५६ ||
SK
जलदमारुतचन्दनशीतलैर् अपि वयं वचनैस् तव तापिताः | स्वकृतदुष्कृतशङ्कुशतक्षता विषयलौल्यपराजितमानसाः || GओAश्_५७ ||
SK
विपरिणामकटूनि मया पुरा विषयसङ्गसुखान्य् अकृतात्मनाम् | समुपगुह्य कृतं बहु दुष्कृतं दहति यन् मम संप्रति मानसम् || GओAश्_५८ ||
SK
धिग् अवरं विषमं विषयाश्रयं सुखम् अनार्यनिषेवितम् अध्रुवम् | यद् उपगम्य नरा विषयद्विषाम् इह भवन्ति सदा करुणास्पदम् || GओAश्_५९ ||
SK
अविनयो ऽनुगतो मृदितं यशो न गणितं कुलम् आयतिर् उज्झिता | ⏑ ⏑ ⏑ – कलुषं विवृतो ऽनयो विषयलौल्यतया ⏑ ⏑ यागया || GओAश्_६० ||
SK
असदृशजनसङ्गाभ्यासदोषान् मयैव प्रकृतिगुणविनाशो मन्दभाग्यस्य जातः | शठमतिभिर् अनार्यैर् विप्रलब्धो ऽस्मि वाक्यैर् यद् इह गुणधनानां शोचनीयो ऽस्मि जातः || GओAश्_६१ ||
SK
प्रकृतिरुचिरवृत्ताः साधवो नानुवृत्ताः सुच ⏑ ⏑ ⏑ ⏑ मानां वाङ्मधूनां निमित्तम् | यद् अनयगहनान्तर्वर्तिनां – ⏑ – – व्यसनशरशतानां लक्ष्यताम् आगतो ऽहम् || GओAश्_६२ ||
SK
विषयसुखलवाशापाशम् आमुच्य चित्ते तृणलवम् इव जीर्णं प्रोज्झ्य सद्वृत्तवन्तम् | परिणतिविरसानां कर्मणाम् आत्मनैव क्षितिधर इव तुङ्गा राशयः संचिता – || GओAश्_६३ ||
SK
– – – ⏑ ⏑ – ⏑ – ⏑ ⏑ ⏑ – भूयो ऽपि मां धक्ष्यति प्रोद्धूताकुललोलपिङ्गलशिखो वह्निः कथं नारकः | पापात्मा मृत एव नाम सततं यो ऽन्यो ऽपि वास्मद्विधो मृत्युः किं मृतमारिकाम् अकरुणः कर्तुं व्यवस्येन् मयि || GओAश्_६४ ||
SK
दिक्संमोहम् उपागतो ऽहम् अधुना गच्छामि कां वा दिशं मज्जामीव भदन्त शोकसरसि व्या – ⏑ – – ⏑ – – / शैलो ऽयं स्फुटतीव पापचरितं माम् अद्य संधारयन् युष्मत्पादसमाश्रयात् तु शतधा न त्व् एव याति ध्रुवम् || GओAश्_६५ ||
SK
अथ स महात्मा तं राजानं संविग्नमानसम् अवेत्य पात्रम् अयं श्रेयस इति विनिर्धार्योवाच | तेन हि महाराज तम् एव भगवन्तं विनिपात ... जनावलम्बवत्सलम् अपा ... त्यक्तसकलसत्त्वधातुम् अखिलजगद्धिताधानाम्लानप्रयोगम् अपरिमितविशुद्धोदारातिशयगुणगणरत्नाधिवासं महाकारुणिकं सर्वज्ञं सर्वदर्शनं शाक्यमुनिं शरणम् उपैहि | तत एव ते दुःखपरंपरापर्यन्तो भविष्यति + + + + + + + + + + |
SK
सुक्षेत्रे बीजम् उप्तं भवति बहुफलं तिक्तम् आस्यप्रियं वा क्षेत्रस्यासौ स्वभावो भवति समगुणः सर्वसस्यप्रसूतौ | एवं कारापकारा भगवति तनवो ऽप्य् आहिताः पापकाले पर्यन्तं नाप्नुवन्ति व्युपरतसकलक्लेशसंतानकाले || GओAश्_६६ ||
SK
अथ स भूपतिः प्रविजृम्भमाणकुशलमूलोपचयाभिलाषमृदुहृदयतया बुद्धे भगवति समुत्पन्नप्रेमगौरवप्रसादबहुमानः सप्रत्ययाश्रुसलिलबाष्पाविलदीनमृदुमुकुलितनयनयुगलवदनस् तं भिक्षुम् उदीक्षमाणो बाष्पगण्डूषोपरुध्यमानकषायकण्ठो धरणितलप्रतिष्ठितजानुमण्डलः कृतकरपुट इत्य् उवाच ||
SK
एषो ऽहं तम् ऋषिं व्रजामि शरणं प्राणैर् अपि प्राणिनाम् एकं बान्धवम् एकम् एव सुहृदं शास्तारम् एकं परम् | त्राणं त्रैभुवनार्तिगह्वरदरीव्यावर्तिनां प्राणिनाम् आचार्यं परमार्थतत्त्वविषये भूतार्थनाथं विभुम् || GओAश्_६७ ||
SK
पुनः पुनर् अनुत्तरं पुरुषदम्यसत्सारथिं प्रयामि शरणं शरण्यतमम् अप्य् अहं – ⏑ – | अचिन्त्यचरितं तम् एव भगवन्तम् अद्य कृत- प्रपञ्चविषबीजनिर्मलनिरुत्तराध्याशयम् || GओAश्_६८ ||
SK
अप्य् अस्थितिस्हितिमतां शरणं प्रपद्ये लोकोपकारकरणैकरसस्वभावम् | बुद्धं तम् एव शतधा च सहस्रधा चा- – – ⏑ – ⏑ मकरालयकर्णधारम् || GओAश्_६९ ||
SK
मन्ये पूतम् इवात्मभावम् अधुना शास्तुः प्रणामोद्भवैः पुण्याम्भोभिर् अखण्डमण्डलशशिज्योत्स्नावलीनिर्मलैः | को वा तं प्रणिपत्य सान्द्रकरुणाप्रह्लादिताध्याशयं तीव्रापायवतीं विषादमकरां तीर्णो न दुःखापगाम् || GओAश्_७० ||
SK
यत्रैको ऽप्य् अकृतधियो मनःप्रदोषः संसारं व्यसनशतैस् तनोति कृत्स्नम् | तत्रैकः कथम् अपि चेतसः प्रसादो नोच्छिन्द्याद् व्यसनसहस्रतन्तुजालम् || GओAश्_७१ ||
SK
यं गत्वा शरणम् अहं जगत्प्रदीपं सर्वासच्चरितविरोधिनीं प्रपन्नः | आर्याणां नयपदवीं समन्तभद्रां तं वन्दे कृपणजनाधिकानुकम्पम् || GओAश्_७२ ||
SK
इत्य् उक्त्वा व्यसनपराङ्मुखः स राजा संबुद्धे भगवति निश्चलप्रसादः | तं भिक्षुं क्षितितललग्नमौलिमूर्ध्ना वन्दित्वा स्वपुरवरोन्मुखो जगाम || GओAश्_७३ ||
SK
संबुद्धे प्रतिलब्धवान् नरपतिः श्रद्धाम् असौ तादृशीं यत् कर्मावरणाद्रिजालम् अकरोद् अल्पावशेषाश्रयम् | पापं यत् क्रियते जिने व्रजति तत् तैर् आर्यकार्यैः क्षयम् एकेनैव हि शक्यते विलिखितुं वज्रस्वभावो ह्य् अयम् || GओAश्_७४ ||
SK
अप्य् एव क्रकचैर् निशातदशनच्छेदावलीदन्तुरैस् तस्याज्ञा प्रविचार्यमानतनुभिः कार्यैव शास्तुर् भवेत् | यस्मात् तद्विमुखा विशन्ति नरकान् ज्वालावलीदारुणान् तस्याज्ञाप्रवणै ⏑ – नतसुखं संप्राप्यते शाश्वतम् || GओAश्_७५ ||
SK
स्वाभिप्रायम् अतो ब्रवीमि सकलं संसारम् अप्य् उत्सहे वस्तुं भीमभयानके ऽपि नरके लोके जिनालंकृते | न त्व् एवैकम् अपि क्षणं सुरपुरे संबुद्धशून्ये जगत्य् उद्वृत्तक्षतवृत्तराक्षसगणव्यालुप्तपुण्योत्सवे || GओAश्_७६ ||
SK
तद् यावन् न पतति सर्व एव लोको दुर्दृष्टिमतवितते प्रमादकूपे | सर्वज्ञप्रवचनभास्करे गते ऽस्तं तत् तावद् वचनरसायनं निषेव्यम् || GओAश्_७७ ||
SK
सर्वज्ञे परमगुरौ निवेश्य भक्तिं श्रोतव्यं वचनम् ऋषेः समन्तशोभि | निक्षिप्य व्यसनमयीं कुकार्यचिन्तां नातो ऽन्यत् परम् अधिकं यतो ऽस्ति कृत्यम् || GओAश्_७८ ||
SK
श्रवणकरकैः को ऽर्थस् तेषां असच्छ्रु ⏑ – ⏑ – ⏑ ⏑ ⏑ ⏑ ⏑ – ऽ; – – – – ऽ; ⏑ – ⏑ ⏑ – ⏑ – | ⏑ ⏑ ⏑ ⏑ ⏑ – ऽ; – – – – ऽ; ⏑ – ⏑ ⏑ – ⏑ – ⏑ ⏑ ⏑ ⏑ ⏑ – ऽ; – – – – ऽ; ⏑ – ⏑ ⏑ – ⏑ – || GओAश्_७९ ||
SK
२. Bहवलुब्धक
SK
आपायानाम् अविच्छिन्नप्रायसंसारवर्त्मनाम् | कर्मक्लेशवशावश्या दुःखमय्यः प्रवृत्तयः || GओBह्ल्_१ ||
SK
तद्यथानुश्रूयते |
SK
द्वौ भिक्षू स्रोतापन्नौ बभूवतुस् ताभ्याम् एकेनाशेषसंयोजनोपक्षयाद् अर्हत्त्वम् अधिगतम् | तद्द्वितीयस् तन्मात्रसंतुष्ट एवासीत् | स तेनार्हतोच्यते स्म | भद्रमुख शेषक्लेशविषोपशमाय यत्नम् आरभस्वेति | दुःखैकरसा भवा दुष्टपापसिद्ध्युपायानि श्रेयांसि क्षणलवपरिणामाविश्वसनीयं जीवितम् अपरिनिष्पन्नप्रकृतयो मायोपमास् तत्त्वविरोधिनः कामाः सभयाः सवैराः सोपायासाः पापक्रियाम् एवाङ्गीकृत्य प्रवृत्ताः परिभवायतनम् अकृतबुद्धीनां कृतात्मनाम् अप्य् अवहास्यताम् आवहन्ति | लेशेनाप्य् अनुगम्यमाना महद् दुःखम् आकर्षन्ति | नैतान् अनुपतन् कश् चिद् अक्षतो ऽनुपहतो वा | ह्रीमन्तो ऽप्य् एभिर् आविष्टाः पशुसहधर्मतां प्रतिपद्यन्ते | नैते तुलयन्ति वयसां परिणामवैकृतम् | यतिजनम् अप्य् एते प्रगल्भा व्यामोहयन्त्य् एव | श्रेयसो वधकाः प्रत्यमित्राश् चामी व्यतीत्य विनयनियमश्रीभराम् आर्यमर्यादाम् अनार्यकम् एवोद्भावयन्ति | समुदितकान्तिशोभम् अपि क्षणेन मलिनयन्ति पुरुषस्य शीलसौष्ठवम् | विपातिते च शीले सर्वविषयाय द्वारभूते हतोपनिषत्समाधिर् नालं प्रज्ञासंपदे | सकल एव च संसार एषां दुरन्तरायाणां पर्येषणाभिर् अतीतः | ये च श्वसूकरादीनाम् अपि साधारणा रतिप्रसङ्गदोहदाः कस् तान् साधुजनो मनसापि प्रार्थयेत् | स तम् अर्हन्तम् अब्रवीत् | भद्रमुख
SK
भवा दुःखात्मकाः सन्ति श्रेयो दुरभिसंभवम् | जीवितं चलम् अत्यन्तं कामा दोषशताकराः || GओBह्ल्_२ ||
SK
अपाया मम संक्षीणाः किञ्चिच्छेषो भवार्णवः | अनुभूय सुखं दिव्यं निर्वास्यामि नियोगतः || GओBह्ल्_३ ||
SK
अपि चाकृतपुण्यानां भवेभ्यो जायते भयम् | पुण्यसम्भारयुक्तानाम् उत्सवातिशयो भवः || GओBह्ल्_४ ||
SK
नानाविपत्तिगहनेष्व् अनयप्रपातेष्व् अन्धान् इवाशु पिथिते पथि संनिपात्य | आर्यान् अपि प्रतिभयेन पथा हरन्तः प्रख्यापयन्त्य् अशुचयो विषयाः स्वशक्तिम् || GओBह्ल्_५ ||
SK
अथ सो ऽर्हन् मन्दसंवेगापन्नो ऽयम् आयुष्मान् इति विदित्वा तम् आह |
SK
आयुष्मन् सप्रतिद्वन्द्वाः परीत्तास्वाददूषिताः | भवा निशितनिस्त्रिंशधारासंपातदारुणाः || GओBह्ल्_६ ||
SK
नोपादानक्षमास् तात भवाः क्रुद्धा इवोरगाः | विषाग्निकवलालोककरालमुखशक्तयः || GओBह्ल्_७ ||
SK
दग्धप्रवृत्त्युपादानवासनामलमानसैः | प्रवृत्तयो जगन्नाथैः सर्वा एव विवर्जिताः || GओBह्ल्_८ ||
SK
भवान् परिहरन्त्य् आराद् आत्मकामाः परीक्षकाः | परिच्छन्नतटागाधाञ् श्वभ्रापातभयंकरान् || GओBह्ल्_९ ||
SK
रतीनां सोपतापानां मुखे स परिवर्तते | अभिनन्दत्य् अनादेयान् क्षणिकान् अपि यो भवान् || GओBह्ल्_१० ||
SK
विच्छिन्नाशेषसंस्कारप्रवाहप्रतिसंधयः | प्रतिसंधिम् उपायासमूलम् आहुस् तथागताः || GओBह्ल्_११ ||
SK
विसंवादिन्य एवैता गतयो महताम् अपि | विविधानर्थनाराचसंनिपातखलूरिकाः || GओBह्ल्_१२ ||
SK
आदीप्तः सर्व एवायं संसारविषपादपः | विष्वग्विकासिदुःखाग्नेर् ज्वालामालाकदम्बकैः || GओBह्ल्_१३ ||
SK
भवोपभोगस्पृहलालसाः स्वयं प्रविश्य संमोहतमिस्रदुर्दिनान् | चरन्ति मत्ता इव भग्नलोचना घनान्धकारे विपरीतबुद्धयः || GओBह्ल्_१४ ||
SK
हितोद्यतानाम् अवकीर्य भारतीं निपातरूक्षां परिणामपेशलाम् | अनर्थपङ्कौघनिमग्नशक्तयो भवन्ति निश्वासपरायणा नराः || GओBह्ल्_१५ ||
SK
लतां द्विरेफा इव पुष्पहासिनीम् उपासते ये तु सतां सरस्वतीम् | अकार्यनिर्मोकम् अपास्य ते कलेर् मुखं न पश्यन्ति पुनर् विभीषणम् || GओBह्ल्_१६ ||
SK
स तम् अर्हन्तम् अब्रवीत् | निरुत्तराण्य् अमूनि वो वचनकुसुमानि | किं तु
SK
आपायिकानि व्यसनानि यानि मयानुभूतान्य् अतिदारुणानि | तेषां प्रतीकारनिमित्तभूतं सुखं भदन्तानुभवामि तावत् || GओBह्ल्_१७ ||
SK
अथ स महात्मा तेन तस्य वचसा सुतराम् उपजनितसंवेगो ऽब्रवीत् |
SK
न वर्णयन्ति क्षणिकाम् अपीश्वरा भवाभिनिर्वृत्तिम् अवन्ध्यवादिनः | तथा ह्य् अयं स्कन्धकदम्बकोद्भवः समुद्भवो नैकविधस्य पाप्मनः || GओBह्ल्_१८ ||
SK
भवप्रबन्धप्रणयो मनस्विनो जगद्धिताधानपरस्य युज्यते | अनुत्तरज्ञाननिबद्धचेतसां भवोद्भवो भावसुखाद् अपि प्रियः || GओBह्ल्_१९ ||
SK
पुनर्भवास्वादलवाकुलाशयः प्रवृत्तिम् अन्विच्छति यस् तु मोहनात् | मुधा स सर्वायतनोपतापिनीं विपत्तिम् अन्विच्छति सर्वतोमुखीम् || GओBह्ल्_२० ||
SK
भवाः सशोकाः सभयाः सविग्रहा विवर्जिताः सद्भिर् उदारमानसैः | नरैर् मरुद्धूतशिखा विषद्रुमा भुजङ्गमाधिष्ठितकोटरा इव || GओBह्ल्_२१ ||
SK
भवावशिष्टाः किल सप्त जातयो भयं न ते येन पुनर्भवाश्रयम् | भवानुषङ्गो ऽप्य् अशुचेर् विवृज्यते नरैर् विदग्धाभरणानुलेपनैः || GओBह्ल्_२२ ||
SK
कृतं त्वयापायिकदुःखलङ्घनं प्रवृत्तिम् अन्विच्छसि येन जन्मनः | जिजीविषुस् तीव्रविषाभिदूषितं प्रणीतम् अप्य् अन्नम् उपाददीत कः || GओBह्ल्_२३ ||
SK
अपि च हे भवाभिनन्दिन्
SK
क्रिमेर् इवावस्करकर्दमान्तर् विवर्तमानस्य यथाकथं चित् | नरस्य मातुर् जठरान्तराले किं गर्भवासो न महान् अपायः || GओBह्ल्_२४ ||
SK
कडेवरावस्करनिर्झरेण सुबद्धसासृङ्मलदुर्दिनेन | प्रजायमानस्य नरस्य दुःखम् अपायदुःखैर् अपि किं न तुल्यम् || GओBह्ल्_२५ ||
SK
दवानलप्लुष्टपलाशरूक्षं वहन् जराजर्जरम् अस्थियन्त्रम् | कथं चिद् आयासनिपीतहर्षो न किं समो ऽपायशतैर् मनुष्यः || GओBह्ल्_२६ ||
SK
विदाहिभिर् निष्प्रतिकारघोरैः कृतान्तबाणैर् इव संपतद्भिः | विभिद्यमानस्वविषात्मभावो गदैर् इहैवानुभवत्य् अपायान् || GओBह्ल्_२७ ||
SK
प्रत्यावृत्तसिताक्षिकोशविकृतव्याघ्राननो भीषणः शस्त्रेणेव विदार्यमाणकरणो मर्मच्छिदा वायुना | बन्धूनां पुरतः कृतान्तमकरेणाक्रम्य निघ्नो यदा क्रुद्धेनेव वितीर्यते ऽधिकतरं किं नाम दुःखं ततः || GओBह्ल्_२८ ||
SK
किं चायुष्मन्
SK
कर्मावेधसमुद्धतस्फुटशिखिज्वालावलीपिङ्गलो नैवावीचिर् अपि व्यथाम् उपहरत्य् आर्यस्य तां दारुणः | धीदौर्बल्यकराः समाधिविधुराः सद्वृत्तवेलाभिदो यां कुर्वन्ति मनोज्वराः परिचयाः स्फीतावलेपा मलाः || GओBह्ल्_२९ ||
SK
अथ स विषयदौरात्म्यम् इवोद्भावयंस् तं महर्षिम् अब्रवीत् |
SK
विषयासङ्गिनी बुद्धिर् दुःखेन प्रतिवार्यते | गङ्गेव कूलतोयोर्मिपर्यस्ततटपादपा || GओBह्ल्_३० ||
SK
अन्ये ऽपि बहवः शैक्षा भवसंभोगलालसाः | तर्पयन्तीन्द्रियग्रामं विषयैर् अविषादिनः || GओBह्ल्_३१ ||
SK
स चार्हंस् तैस् तद्वचोभिः सुतराम् उद्वेजितप्रतिभयस् तं शैक्षम् अवोचत् |
SK
प्रतिसंख्यानमहताम् अकृच्छ्रश् चित्तनिग्रहः | न चानुवर्तनीयास् ते विषयैर् ये पराजिताः || GओBह्ल्_३२ ||
SK
मयैव विषयोद्दामं ननु चेतो निवारितम् | अन्यैश् च व्रतिभिर् वीरैस् तत् कस्मान् नानुवर्तसे || GओBह्ल्_३३ ||
SK
विषयेषु यदि प्रमादम् एषे त्वम् अनार्याचरितेषु हन्त नष्टम् | अथ ते विरजन्ति नैव चेतस् तव को ऽर्थो वद तैर् अनर्थभूतैः || GओBह्ल्_३४ ||
SK
विषयेषु परिप्लुतेन्द्रियाणां स्वमनोविभ्रममात्रभद्रकेषु | निकटे निवसन्ति सर्वदुःखान्य् अपरिज्ञातनिपातदारुणानि || GओBह्ल्_३५ ||
SK
विषयापचयानुपातिनीनाम् अपरिम्लानसुखामृतप्रदानाम् | छलितः पुरुषः प्रसङ्गदोषैर् न च संवेत्ति निरामिषं रतीनाम् || GओBह्ल्_३६ ||
SK
परिभूतिर् उपान्तिके नराणां भवसंभोगविषक्तमानसानाम् | विषयप्रतिकुञ्चितं च चेतो विनिपातायतनानि चावृतानि || GओBह्ल्_३७ ||
SK
परिणामरताम् अशान्तरूपां विपरीताल्पसुखानुरागरम्याम् | परिभूय मनस्विनो रमन्ते कृपणां कामरतिं तपोवनेषु || GओBह्ल्_३८ ||
SK
विनिगृह्य मनः प्रमाददोलाचलम् अध्यात्मरतिव्यपाश्रयेण | अनिराकृतयोगिनो रमन्ते बहुरूपैर् अतिमानुषैर् विहारैः || GओBह्ल्_३९ ||
SK
वितथाभिनिवेषमात्ररम्याः पुरुषस्योपनमन्ति नाम कामाः | गतिचक्रचरव्रतं नराणां विषया एव समादिशन्त्य् अनार्याः || GओBह्ल्_४० ||
SK
व्यसनोपनिपातलक्ष्यवृक्षे जगति क्लेशपिशाचिकाभिभूते | उदया न तु सर्वदा भवन्ति प्रकृतिस्वास्थ्यकृतां तथागतानाम् || GओBह्ल्_४१ ||
SK
तद् अयं समयः कथं चिद् एव प्रतिलब्धः कुशलप्रयोगयोग्यः | प्रतिपत्तिविधौ भवान् प्रमाणं शकुनानां हि वनं विरावमात्रम् || GओBह्ल्_४२ ||
SK
स तम् अर्हन्तम् अब्रवीत् |
SK
शक्नुयां सुगतौ भोगस्पृहां यद्य् अप्य् उपेक्षितुम् | ब्रूयाः प्रवदतां श्रेष्ठ नैव मां त्वं पुनः पुनः || GओBह्ल्_४३ ||
SK
यतस् तु मां हरत्य् एषा कामतृष्णा निशाचरी | तेनातिवेलकृपया त्वं मां कुत्सयसे विभो || GओBह्ल्_४४ ||
SK
स तं महात्मा पुनर् अपि सानुक्रोशपेशलैर् वचोभिः संवेजयन्न् अब्रवीत् |
SK
खिन्ना वयं रुधिरबिन्दुम् उपाददानाः सांक्लेशिकेषु सभयेषु भवेषु वत्स | आयासिनीं च कटसीम् अभिवर्धयन्तो नैकान्तरायविवशाः स्वपराभवाय || GओBह्ल्_४५ ||
SK
क्रूरैः परस्परविरोधिभिर् अप्रशान्तैर् धातूरगैः प्रकुपितैर् इव कृष्णसर्पैः | आतुद्यमानवपुषाम् अपरायणानां कल्पायुतान्य् अभिगतानि च नो महात्मन् || GओBह्ल्_४६ ||
SK
प्रत्यर्थिकैर् इव समुद्यतमण्डलाग्रैः स्कन्धैर् हता वयम् अकारणबद्धवैरैः | आयासिताश् च विषयैर् विषकुम्भकल्पैस् तच् छिद्यतां भवसुखव्यसनानुरागः || GओBह्ल्_४७ ||
SK
स तम् अर्हन्तम् आह |
SK
नोपच्छेत्स्यामि यद्य् अत्र जन्मनि स्कन्धसंततिम् | उपपद्योद्धरिष्यामि त्वद्वाक्येन जिताधिना || GओBह्ल्_४८ ||
SK
स तं प्रत्याह | यद्य् अप्य् एतद् एवं तथापि
SK
सकृन् मर्तव्ये त्वं पुनर् अपि च मृत्युं मृगयसे स्फुटं दृष्ट्वालोकं तमसि विपुले मज्जसि पुनः | शिवं लब्ध्वा मार्गं कुसृतिम् उपयासि प्रतिभयां भवान् यस् त्वं वाञ्छस्य् अमृतपुरम् उत्सृज्य सुलभम् || GओBह्ल्_४९ ||
SK
समुत्तीर्यागाधात् क्रिमिकुलचलत्पङ्ककलिलात् कथं विज्ञाबालात् पिपतिषसि तस्मिन् पुनर् अपि | विमुक्तो रोगेभ्यः पुनर् अपि च रोगाय यतसे भवेभ्यो दुःखेभ्यः स्पृहयसि पुनर् यस् त्वम् अघृणः || GओBह्ल्_५० ||
SK
अनाशान् अस्वन्तान् सुलभविनिपातप्रतिभयान् सवैरान् सोद्वेगान् सपरिभवसंतापविरसान् | परित्यज्यायुष्मन् व्यसनविशिखापातविहतान् भवान् सम्यग्मार्गं भवभयहरं भावय सदा || GओBह्ल्_५१ ||
SK
दृष्टसंसारदुःखो ऽपि सो ऽभ्यासाद् रागपाप्मनः | तम् उवाच महात्मानम् आरुजन्न् इव वाक्शरैः || GओBह्ल्_५२ ||
SK
भ्रमन्ति ते बहून् कल्पान् बोधिसत्त्वा भवाध्वनि | सुदान्ताः सप्तजन्मानि भ्रमतां कीदृशी व्यथा || GओBह्ल्_५३ ||
SK
स भिक्षुस् तेन वाक्येन प्रतोदेनेव विक्षतः | तम् अब्रवीद् भवास्वादकार्पण्योपहताशयम् || GओBह्ल्_५४ ||
SK
न तेन विदिता भिक्षो या व्यथा भ्रमतां भवे | अवज्ञाय वचो ऽस्माकं पुनर् अप्य् अवभोत्स्यसे || GओBह्ल्_५५ ||
SK
पुनश् च त्वां ब्रवीमि |
SK
ये जन्मैवाधिमुक्ताः शमसुखमहतीं निर्वृतिं शुद्धसत्त्वा येषां क्लेशावशेषो ऽप्य् उपशमितबलो यो ऽप्य् उपादानम् एव | आत्मत्वेनाभ्युपेता जगद् इदम् अखिलं ये कृपाक्रान्तचित्तास् तेषां श्लाघ्या प्रवृत्तिर् गतिषु न तु भवास्वादपर्यस्तबुद्धिः || GओBह्ल्_५६ ||
SK
स्पृश्यन्ते सत्त्ववन्तो न विषयरजसा ये विविक्ताशयत्वाद् दुःखैर् नैव व्यथन्ते क्षितिधरगुरवो ये परार्थे चरन्तः | ते जन्मोपाददानाः परपुरपरिखासेतवो बोधिसत्त्वाः शोभन्ते न क्षमं तु क्षणम् अपि गतिषु स्थातुम् आत्मंभरीणाम् || GओBह्ल्_५७ ||
SK
येषां सर्वे प्रयोगाः शशिन इव कलाः सर्वसत्त्वोपजीव्या ये लोकान् पान्ति कृत्स्नान् पितर इव सुतान् दुःखपातालमग्नान् | तेषां जन्मोपदेशः सुचरितमहताम् उत्सवः श्रीविशेषः स्वार्थोद्योगानुरागाद् अनुपतति भवान् मृत्यवे केवलं तु || GओBह्ल्_५८ ||
SK
येषाम् उत्पादकाले सुचरितकिरणैर् लिख्यमानं समन्ताद् ध्वान्तं चेतः स्वरङ्गाविवरपरिचयस्फीतम् अप्य् अस्तम् एति | उन्मज्जन्तीव लोकाः प्रतिभयमहतो दुःखपङ्कौघमध्यात् तेषाम् एवानुरूपा परहितविदुषां जन्मसंतानलीला || GओBह्ल्_५९ ||
SK
किं बहुना
SK
सर्वेष्व् आचार्यवर्या नियमगुरुधरा धर्मयानाग्रधैर्याः कारुण्योच्छ्रीतवीर्या रजनिकरनिभा भास्कराभाश् च दीप्त्या | जन्माटव्यानुयात्रा नमुचिविदरणा ज्ञानदीपोल्कधाराः सर्वज्ञत्वाभिषेकाः पुरुषवरयुगाः सर्वदा बोधिसत्त्वाः || GओBह्ल्_६० ||
SK
एवम् अप्य् असाव् उच्यमानः कुशलधर्मसाधनोद्योगविधुर एव व्याहार्षीत् |
SK
समुदागमवैगुण्यविरूक्षक्षामचेतसाम् | कुशलप्रत्यया बाह्याः किं करिष्यन्ति देहिनाम् || GओBह्ल्_६१ ||
SK
प्रक्षालयन्ति मुनयो न जलेन पापं हस्तेन नाप्य् अपहरन्ति जनस्य दुःखम् | संचारयन्त्य् अधिगमं न परत्र च स्वं धर्मान् वदन्ति तु सुखप्रतिपत्तिसाध्यान् || GओBह्ल्_६२ ||
SK
अथ स क्रमेण कालगतो भरुकच्छे प्रोषितभर्तृकाया नार्याः कुक्षौ जन्म प्रतिसंदधे | कालान्तरेण च गर्भाद् अभिनिष्क्रान्तः | माता चैनम् अभिवीक्ष्य पुत्रस्नेहम् अनादृत्यापवादभयाशङ्किनी किम् अपि किम् अपि तपस्विनी विललाप | अनुनीयमानापि च समानसुखदुःखाभिः सखीभिर् असहमाना तनयवियोगव्यसनं तम् अतिमनोहरात्मभावं बालकम् अङ्के कृत्वा बाष्पवेगोपरुध्यमानस्खलितवचसा नियतम् ईदृशं किं चिद् अवोचत् |
SK
जाते पुत्रे भवन्ति प्रमुदितहृदया मातरो जीवलोके दृष्ट्वा वंशस्य लक्ष्मीम् अनुपरतरसाम् उन्मिषन्तीं समन्तात् | आनन्दान्दोलितानां भवति स दिवसो बान्धवानाम् अदीर्घो जातः शोकाय तु त्वं मम तनय कथं मन्दभाग्योदयायाः || GओBह्ल्_६३ ||
SK
दुर्वृत्ताया मम तद् अधुना कर्मणा प्रेरितस् त्वं भुङ्क्ष्वासह्यं व्यसनम् अथवा स्वस्य दुश्चेष्टितस्य | एते ऽन्ये च व्यसननिवहा मूर्ध्नि तेषां स्फुरन्ति त्यक्त्वा लज्जां सुजनदयितां ये प्रमादं भजन्ते || GओBह्ल्_६४ ||
SK
खाद्यमानपरिकोमलच्छविस् तीक्ष्णतुण्डनखरैः पतत्रिभिः | पुत्र दुर्नयफलानि भोक्ष्यसे मातुर् अद्य परिमाणवर्तकः || GओBह्ल्_६५ ||
SK
धिग् धिग् अस्तु परिणामदारुणां सङ्गिनां रतिम् अपूर्ववाहिनीम् | अध्यवस्यति ययाभिभूतधीर् ईदृशान्य् अपि जनो हतत्रपः || GओBह्ल्_६६ ||
SK
कष्टम् आयतविषादभीषणे संकटे मम विवर्तते मनः | यत्र लोकरवभीतया मया पुत्रक त्वम् अटवीं निपात्यसे || GओBह्ल्_६७ ||
SK
दारुणं बत बिधेर् विचेष्टितं दुष्करं खलु मया समीहितम् | किं करोमि शरणं व्रजामि कं पुत्र शोकशरताडिताशया || GओBह्ल्_६८ ||
SK
हा हतास्मि विघृणेन चेतसा कामदोहदपथानुपातिना | यत् सुदुष्करम् इदं करिष्यते वैशसं विहतलज्जया मया || GओBह्ल्_६९ ||
SK
भूर् इयं किम् इति नावदीर्यते नारकः क्व नु स हव्यवाहनः | यो न निर्दहति पापकारिणीं कक्षमुष्टिम् इव मां हतत्रपाम् || GओBह्ल्_७० ||
SK
विततशिखिकलापोद्भासुरालोकजालं निपतति मम वज्रं सांप्रतं किं तु मूर्ध्नि | सुतम् अकरुणचित्ता याहम् एवं त्यजामि स्तनरसपरिभोगक्लीबवक्त्रारविन्दम् || GओBह्ल्_७१ ||
SK
इत्य् एवम् अन्यथा च तस्या विलपन्त्याः किंचिच्छेषा रजनी बभूव | सा परिचारिकाम् अब्रवीत् | ज्ञायतां तावद् भद्रे किम् अवशेषं निशाया इति | साब्रवीत् | स्वामिनि संप्रति हि
SK
अरुणकिरणमालापाटलोपान्तलेखं प्रविरलतरतारं खं परावृत्तचन्द्रम् | पुलिनम् इव पयोधेर् विद्रुमक्षोदताम्रं परिमुकुलपलाशस्वस्थसंसुप्तहंसम् || GओBह्ल्_७२ ||
SK
सा प्रोवाच |
SK
इमं हृदयसंतापं दीर्घकालानुषङ्गिनम् | दुर्जातं मम मन्दाया गच्छ च्छोरय बालकम् || GओBह्ल्_७३ ||
SK
इत्य् उक्त्वा सा बाष्पवेगोपरुध्यमानहृदया पृथिव्यां सहसा निपपात | परं च संमोहम् उपजगाम |
SK
सा तथेति प्रतिश्रुत्य तम् आदाय तपस्विनम् | उपहारम् इवापूर्वं विचिक्षेप महापथे || GओBह्ल्_७४ ||
SK
पुत्रक्रौर्यं विवृतम् अशिवं जन्मदुःखोपतप्तं भर्तृस्नेहः चिरपरिचयाद् बद्धमूलो न दृष्टः | दग्धं वंशद्वयम् अपि मया दुर्नयाङ्गारवर्षैर् हा कामानां प्रकृतिर् असती सर्वदुःखप्रसूतिः || GओBह्ल्_७५ ||
SK
नासौ रुरावामुषितस्मृतित्वाच् चुकोप मात्रे न च तत्त्वदर्शी | दृष्ट्वा तु ताम् आत्मगताम् अवस्थां स्वम् एव चित्तं विनिनिन्द बालः || GओBह्ल्_७६ ||
SK
नायं जनन्या मम कामचारो न चानिमित्तं व्यसनं ममेदम् | स्वयं कृतानि व्यसनान्य् अमूनि त्वयैव मे चित्त विमुञ्च दैन्यम् || GओBह्ल्_७७ ||
SK
अनार्य तां चित्तकले प्रतार्य प्रगाढदुःखोदयदारुणेषु | भवोपभोगेष्व् अधुना विषादं किम् एव मोहाद् असमीक्ष्यकारिन् || GओBह्ल्_७८ ||
SK
हितैषिणस् तस्य वचो ऽवधीर्य त्वम् अज्ञ निर्दग्धपुनर्भवस्य | बिभेषि दुःखाद् अधुना किम् एवं स्वकर्मनिर्माणम् इदं तवैव || GओBह्ल्_७९ ||
SK
न पूजयन्ति प्रतिपत्तिभिर् ये गिरो गुरूणाम् अनुकम्पकानाम् | इमानि चान्यानि च ते लभन्ते विषादनीनां विपदां शतानि || GओBह्ल्_८० ||
SK
यथा यथा तीव्रद्वन्द्वोपनिपातजानि दुःखान्य् अनुभवति स्म तथा तथा सुतराम् उपजायमानसंवेगः साश्रुकण्ठ एव शुशोच विक्लवात्मा तपस्वी |
SK
प्रविरलतृणच्छन्नश्वभ्रप्रपातभयंकरान् मम गुरुर् असौ त्यक्त्वा यातो भवाब्धिकदुर्भवान् | तनुसुखलवक्लिष्टात्मानो वयं तु हतत्रपा भवजलनिधेर् दृष्ट्वाप्य् अन्तं पुनर् निधनं गताः || GओBह्ल्_८१ ||
SK
मतिहुतभुजा दग्ध्वा स्कन्धप्रवृत्तिविषद्रुमं स्थितिषु वशितां संप्राप्यापि प्रकाशयशोत्सवाः | सकलभुवनश्रेयः कृत्वा गताः सुगताः शमं विषयकृपणाः कष्टं नष्टा वयं भवलुब्धकाः || GओBह्ल्_८२ ||
SK
स्थानास्थानविवेकयोगविदुषा स्थानेन संवर्णिता स्कन्धानां क्षणिकाप्य् अनुत्तरगिरा निर्वृत्तिर् आयासिनी | स्थाने प्रज्वलितांस् तरून् इव खगास् त्यक्त्वा भवान् भङ्गुरान् निर्वान्ति ज्वलना इवाम्बुविहताश् चित्तेश्वरा योगिनः || GओBह्ल्_८३ ||
SK
कृत्वाभियोगम् अपि चागमगह्वरेषु स्वैरप्रचारम् अनुगृह्य मनो मनुष्याः | अल्पश्रुता इति जगत्य् उपयान्ति संख्यां चेतोविनिग्रहफलं श्रुतम् आहुर् आर्याः || GओBह्ल्_८४ ||
SK
स सूचिकाग्रैर् इव तुद्यमानः पिपीलिकैर् भुग्नकरालदंष्ट्रैः | महीरजोधूसरकोमलाङ्गो मुहुर् मुहुः संपरिवर्तते स्म || GओBह्ल्_८५ ||
SK
स मक्षिकाणां नयुतैः परीतो मृदुः प्रयत्नाकुलपाणिपादः | विचेष्टमानः करुणं कथं चिद् भवान् जगर्हे मनसानुतापी || GओBह्ल्_८६ ||
SK
क्रूरारावैः पुरबलिभुजां मण्डलैः संपतद्भिर् व्याधूतास्यो विपदम् अशिवां यो ऽस्वतन्त्रः प्रपेदे | गोमायूनां विषमविरुतैर् अग्निमालाकरालैर् आर्यस्यापि प्रकृतिमृदुकं तस्य चेतश् चकम्पे || GओBह्ल्_८७ ||
SK
क्रव्याशिनां परवधप्रणयप्रगल्भैः पूगैर् असौ परिवृतो विगतासुकल्पः | प्राख्यापयत् स भवभोगलवाभिलाषदुःखानि तस्य च वचो विगतस्रवस्य || GओBह्ल्_८८ ||
SK
तस्य तथा कृच्छ्रगतस्य पुरद्वारि परिवर्तमानस्य गवां निर्गच्छन्तीनां पुरःसरो वृषभस् तम् आयुष्मन्तं दृष्ट्वा विधियोगसामर्थ्यात् पितेवोपगु तावद् अवतस्थे यावद् अतिक्रान्तः सर्वो गौगणः | सो ऽतितीव्रवेदनातुरतनुर् अल्पस्थामतया कण्ठगतप्राणः पुनर् अपि मया व्यसनम् एवानुभवनीयं मरणाद् ऊर्ध्वम् इत्य् अभिविषादो ऽपि मृत्युर् एव तत्कालदुःखप्रतीकारम् आकारयतु | वनविहगपक्षपातोद्धृतधरणितलरजोऽवकीर्णदेहो निराक्रन्दो मन्दम् अपरिस्पन्दकरचरणवदनकमल इदानीं न भविष्यामीति बुद्धम् एव भगवन्तं नमस्कर्तुम् आरब्धः | तद्भाग्यशेषोपकृष्टा इव चोपासका बुद्धधर्मसंघानुवादाश्रयाः संकथाः कथयन्तस् तं प्रदेशम् उपजग्मुः | स तान् अवलोक्य प्रत्युज्जीवित इव मृदुस्फुटकलेन वचसा कमलपलाशकोमलं पाणिम् अभिप्रसार्याब्रवीत् | भो भोः सत्पुरुषा मुहूर्तकं तावद् अस्मदनुकम्पयावतिष्ठध्वम् इति | अथ ते सहसा तच्छब्दश्रवणसंभ्रान्ताः किम् इदं कथं चेत्य् उत्पन्नविमर्शाः स्थिता वयं भद्रमुखेते तं महासत्त्वम् आश्वासयां बभूवुः | कौतूहलाकुलसमासाश् च पुनर् एवम् ऊचुः |
SK
अवस्थांश् च वयश् चेदं वाक्सौष्ठवम् इदं च ते | मत्वा चलति नो बुद्धिः कौतूहलसमाकुला || GओBह्ल्_८९ ||
SK
तत् सौम्य वद को नाम त्वं देवो ऽप्य् अथ दानवः | कथं चेमां दशां प्राप्तः सज्जनायासकारिणीम् || GओBह्ल्_९० ||
SK
स तान् आह |
SK
मानुषो ऽस्मि महासत्त्वा नाहं देवो न दानवः | भवसंभोगतर्षेण प्राप्तस् त्व् अहम् इमां दशाम् || GओBह्ल्_९१ ||
SK
अथ ते तद्वचः श्रुत्वा संविग्नोद्धतमानसाः | अनुकम्पामृतस्निग्धं प्रत्यभाषन्त तं पुनः || GओBह्ल्_९२ ||
SK
उपासका वयं साधो नित्यं किंकुशलैषिणः | विस्तरं श्रोतुम् इच्छामः स चेत् खेदं न मन्यसे || GओBह्ल्_९३ ||
SK
स तान् इत्य् अवदद् यूयं धर्मभ्रातर एव मे | दुःखानि तावद् वार्यन्तां पश्चाद् वक्ष्यामि विस्तरम् || GओBह्ल्_९४ ||
SK
तथेति च प्रतिश्रुत्य गृहीत्वा पाणिभिः शनैः | प्रमृज्यास्तीर्य वस्त्राणि स्वानि तेषु न्यवेशयन् || GओBह्ल्_९५ ||
SK
प्रस्वस्थकायः स समाहितात्मा चत्वारि सत्यानि यथेक्षितानि | परीक्षमाणो न चिरेण साधुर् मलान् यथास्थूलमयांश् चकार || GओBह्ल्_९६ ||
SK
⏑ अनुशयविशेषं भावनामार्गहेयं ⏑ रविर् इव निशान्तध्वान्तम् उल्लिख्य भाभिः | स्वतनुम् अतनुपुण्याप्यायितान्तर्विशेषां अपहृतगुरुभारायासलघ्वीं बभार || GओBह्ल्_९७ ||
SK
अथ स महात्मा कृतकरणीयः क्षणम् अप्य् अवस्थां तां परित्यज्य सबहुमानः केवलं तेषाम् उपासकानां कृतज्ञताम् अनुरक्षन् पर्यङ्कं गगनतले बद्ध्वा तैः सबहुमानम् उदीक्ष्यमाणो विस्तरेण तेभ्यो यथावृत्तं व्याहृत्य पुनर् अपि तान् आबभाषे |
SK
अभिनन्दति यो जन्म स दुःखम् अभिनन्दति | दुःखाभिनन्दी दुःखेभ्यो न जातु परिमुच्यते || GओBह्ल्_९८ ||
SK
पक्वगण्डायमानस्य यः कायस्यास्य संभवः | ईत्युपायासदुःखानाम् उत्पादः स विदाहिनाम् || GओBह्ल्_९९ ||
SK
संसारावचरं कृत्स्नं सुखम् एकघनीकृतम् | नराणां जन्मदुःखेन क्षणिकेनाभिभूयते || GओBह्ल्_१०० ||
SK
विषोपदिग्धा निशिता इवायसाः शिखा इवाग्नेः प्रबलानिलाकुलाः | सभीमनादा इव चाश्मवृष्टयः प्रवृत्तयो दुष्प्रसहाः शरीरिणाम् || GओBह्ल्_१०१ ||
SK
भवप्रबन्धव्यसनानुषङ्गिनी मतिर् विपर्यासतमोऽवगुण्ठिता | परं समुत्क्षिप्य निपातयत्य् अधो विपत्तिपातालतले दुरुत्तरे || GओBह्ल्_१०२ ||
SK
तडिल्लतानां स्फुटनानुकारिणीम् अनेकरूपव्यसनानुबन्धिनीम् | उपाददानस्य न जात्व् इमां शिवं नरस्य संस्कारविकारसंकुलाम् || GओBह्ल्_१०३ ||
SK
स्वयं समुत्थाप्य विकल्पवासनान् समीरणोद्धूतशिखान् भवानलान् | जनाः सरोषा इव निर्दहन्त्य् अमी स्वम् इन्द्रियग्रामम् अनर्थपण्डिताः || GओBह्ल्_१०४ ||
SK
स्वभावदुःखान् प्रकृतिप्रभङ्गुरान् असारकान् फेनलवान् इवाम्भसः | अरीन् इमान् आत्मसमुद्भवान् भवान् सुखाभिमानाश् छलिताः शरीरिणः || GओBह्ल्_१०५ ||
SK
निशम्य को नाम विडम्बनाम् इमां पुमान् मदीयां श्रवणोपतापिनीम् | रतिं प्रकुर्याद् अपरिप्लुतेन्द्रियो विचित्रसंक्लेशसमुद्भवे भवे || GओBह्ल्_१०६ ||
SK
त एव सन्तः सुखम् अध्युपासते सनातनं शान्तम् अतीतमानुषम् | भवोपभोगप्रणयानुपातिनी मतिर् न येषां परिशुद्धकर्मणाम् || GओBह्ल्_१०७ ||
SK
हतावलेपाः परिशुद्धवृत्तयः स्थितास् त एवोपरि सर्वसंपदाम् | न भावनां ये श्लथयन्ति साधवः प्रवृत्त्युपादानविषोपशान्तये || GओBह्ल्_१०८ ||
SK
प्रख्याप्य दोषकणिकान् विभवान् भवानां नानाविधव्यसनसंकटसंभवानाम् | संवेज्य पर्षदम् ऋषिः स उपासकानां सद्यो ययौ प्रशमम् अग्निर् इवाम्बुषिक्तः || GओBह्ल्_१०९ ||
SK
इति भवलुब्धकावदानम् ||
SK
४. Kअपीश्वरजातकम् = GओKई
SK
अभ्यस्यन्ति तथा तथागतसुतास् त्यागं यथा स्वान् अपि प्राणान् प्राणिकृते त्यजन्ति कृपया रोगान् इवायासिनः | क्षुद्राः पापविधौ तथा त्व् अभिरतिं बध्नन्ति निःसाध्वसा भूत्वा दुश्चरितैकतानमनसो गच्छन्त्य् अधस्ताद् यथा || GओKई_१ ||
SK
तद्यथानुश्रूयते
SK
बोधिसत्त्वः किलान्यतमस्मिन् विविधवर्णगन्धरससंपन्नफलभारावनतद्रुमोपगूढे विकचसुरभिकुसुमवल्लीविराजितपर्यन्ते मरकतमणिप्रभाहरितशाद्वलकुथास्तीर्णविषमभूमिभागे कमलकुवलयाकरोन्मीलितविमलजलाशयपरिग्रहे महत्य् अरण्ये वानराधिपतिर् बभूव ||
SK
महाकृपास्वीकृतमानसत्वान् नीत्वापि पुण्यानि परं प्रकर्षम् | गतिं तिरश्चाम् अधमां प्रपेदे साधुः स केनापि तु कारणेन || GओKई_२ ||
SK
शुभाशुभैः कर्मभिर् आर्यकर्मा क्रीडन्न् इवासौ भवरङ्गमध्ये | निदर्शयाम् आस विचित्ररूपाम् उपायपूर्वाम् उपपत्तिमायाम् || GओKई_३ ||
SK
कृत्वाप्य् असौ दुर्गतिसंनिरोधम् अपायहेतोश् चिरविप्रवासात् | संमोहतामिस्रमयीं प्रपेदे तिर्यग्विपत्तिं करुणापरीतः || GओKई_४ ||
SK
प्रवर्तते कर्मवशेन लोको निराश्रयो ऽयं गतिचक्रमध्ये | बभूव तस्य त्व् अनवद्यबुद्धेः शुभाशुभे कर्मणि कामकारः || GओKई_५ ||
SK
महात्मा कायमात्रेण विनिपातं गतो ऽप्य् असौ | अविपन्नगुणाभ्यासपेशलाध्याशयो बभौ || GओKई_६ ||
SK
अनार्यैश् चरितैर् दूरान् निशम्यैव विवर्जितः | आर्याम् उद्भावयाम् आस पद्धतिं स शिवोदयाम् || GओKई_७ ||
SK
आत्मसंज्ञाविपर्यासप्रहाणाद् एव सो ऽत्यजत् | स्वसुखासङ्गिनीं चर्याम् अनार्यजनवर्तिनीम् || GओKई_८ ||
SK
वृत्तशोभां समालोक्य तस्य जातिविरोधिनीम् | मुनयो ऽप्य् अभवन्न् आत्मन्य् अवज्ञाशिथिलादराः || GओKई_९ ||
SK
स तत्र मातरम् अन्धां वृद्धां च परिचरन् विवेककामतया च स्वयूथम् अपहाय तेषु तेषु पुष्पफलसमृद्धेषु वनान्तरेष्व् अनुत्कण्ठितमना विजहार |
SK
अंसेन तां परिहरन् विषमेषु देशेष्व् अम्लायिनीं स्रजम् इवाधिपतिः कपीनाम् | आनृण्यम् अप्रतिसमं स जगाम मातुर् गर्भादिधारणपरिश्रमखेदितायाः || GओKई_१० ||
SK
पाकोपपादितरसैः स फलप्रकारैर् निष्प्राणकैश् च मधुभिः कुसुमाधिवासैः | तोयैश् च फुल्लकमलोत्पलिनीमनोज्ञैस् तां मातरं परिचचार विशुद्धसत्त्वः || GओKई_११ ||
SK
तया करुणया चासाव् अनुबद्धः कपीश्वरः | विजहार विविक्तेषु पर्वतेषु वनेषु च || GओKई_१२ ||
SK
अथ कदा चिद् अन्यतमो व्याधो धन्वी पृष्ठावापी प्रगाढावबद्धपरिकरो मालुतावतानसंयताकुलकेशभारभासुरः श्वापदान् अभिद्रवंस् तं देशम् अभिजगाम |
SK
क्रोधारक्तविलोचनं गिरिशिलाश्यामायतोरःस्थलं वल्लीकुण्डलकावबद्धकपिलव्याधूतकेशाशिवम् | दृष्ट्वा मृत्युम् इवापतन्तम् अथ तं तद्गोचराः प्राणिनो याताः क्वापि विलङ्घ्य कण्टकलतानद्धान् प्रपातान् अपि || GओKई_१३ ||
SK
अथ स दुरात्मा विफलप्रयासतया सुतरां क्रोधाग्निना प्रदीप्तमानसः सशिरःप्रकम्पं निश्वस्य च पलाशिकयावगृह्य ललाटपुटप्रस्वेदसलिलं तम् एवानुकम्पमानं तं वानराधिपतिं ददर्श पादपैकदेशावस्थितम् | दृष्ट्वा च भृशतरं क्रोधवह्निना प्रजज्वाल |
SK
अशक्नुवन्तो बलिनः प्रबाधितुं खलाः स्वदौरात्म्यविरूक्षदृष्टयः | अकारणक्रोधविषाशिवाशिवा भवन्ति साधुष्व् अपकारदारुणाः || GओKई_१४ ||
SK
अथ स दुरात्मा धनुषि निशितं सायकं संधाय वेगेन बोधिसत्त्वम् अभिदुद्राव | स च महात्मा लोभनीयतरं वपुर् अवेत्य मयि च नास्यायं निर्बन्ध इति | शक्तो ऽपि प्रत्यवस्थातुम् अपगतसंरम्भमानसः खग इव महता जवेन तद्बाणपथम् अतिचक्राम |
SK
मुष्टिप्रहारेण स शैलशृङ्गं शक्तो ऽपि संचूर्णयितुं महात्मा | जाल्मं तम् एव त्व् अनुकम्पमानस् तद्बाणसंपातपथाद् व्यतीतः || GओKई_१५ ||
SK
स च पुरुषाधमस् तीव्रतरसंरम्भमन्युवेगाकुलीकृताशयस् तां बोधिसत्त्वजननीं प्रत्याकृष्टतीक्ष्णबाणाशनिर् अभिससाद |
SK
अभ्यासयोगात् कठिनीकृतानि मनांस्य् अनार्यैश् चरितप्रसङ्गैः | पापक्रियायाम् अविचार्य कार्यं चरन्ति लोकस्य निरङ्कुशानि || GओKई_१६ ||
SK
अथ बोधिसत्त्वः पुरायं मे मातरं व्यापादयतीत्य् अविगणितस्वप्राणात्ययः ससंभ्रमद्रुततरगतिर् अभिगम्य तं व्याधं सानुनयप्रशममधुरम् इत्य् अब्रवीत् |
SK
तिष्ठ तिष्ठ महासत्त्व मा वधीर् जननीं मम | कस् तवेमां गुणो हत्वा वृद्धां प्रोषितलोचनाम् || GओKई_१७ ||
SK
तवापि नूनम् आयुष्मन् माता हृदयवल्लभा | आत्मस्नेहानुमानेन मा व्यात्सीर् मम मातरम् || GओKई_१८ ||
SK
फलमूलजलाहारां वसन्तीं विजने वने | व्यापादयितुम् अम्बां मे साधोस् तव न युज्यते || GओKई_१९ ||
SK
स्पृष्टदृष्टापचारे ऽपि पुरुषास् तुङ्गमानसाः | प्रहरन्ति न शौटीराद् दैन्योपहतचेतसि || GओKई_२० ||
SK
पुरातनैर् एव हतां कर्मभिः परुषैर् इमाम् | घ्नतो निरपराधां ते कथं नोत्पद्यते दया || GओKई_२१ ||
SK
अपि चेदं मृगेन्द्रासृक्कलङ्कितमुखं शरम् | न लज्जसे कथं नाम मुञ्चञ् छाखामृगीतनौ || GओKई_२२ ||
SK
स्फीतावलेपौ करिमस्तकेषु भुजाव् इमौ ज्याकठिनप्रकोष्ठौ | नियुज्यमानौ कृपणाश्रयेषु दौर्भाग्यम् उद्भावयतः स्फुटं ते || GओKई_२३ ||
SK
अमुक्तपूर्वो हरिणाङ्गनास्व् अप्य् अक्षूणलक्षस् तव कङ्कपत्त्रः | शिलीमुखो ऽयं प्रतिकुञ्जरीव नियुज्यमानः कपिदुर्गतायाम् || GओKई_२४ ||
SK
अभ्यर्थ्यमाना रिपुणापि धीरा बाष्पाम्बुविष्यन्दिविलोचनेन | भवन्ति तत्कालविनीयमानक्रोधोपरागाधिकरम्यशोभाः || GओKई_२५ ||
SK
तस्माद् उद्वीक्षस्व परं च लोकम् इमां च वृद्धाम् अपरायणां त्वम् | मा गा वशं रोषनिशाचरस्य लोकद्वयानर्थशतावहस्य || GओKई_२६ ||
SK
एवम् अप्य् असाव् उच्यमानः क्रौर्याभ्यासकठोरहृदयपाषाणस् तद् बोधिसत्त्ववचनम् आकर्ण्यैवावधीरयाम् आस |
SK
पापप्रसङ्गपरुषीकृतमानसेषु व्यर्था गिरो गुणिजनाभिहिता भवन्ति | विप्रस्रुता जलधरेभ्य इवाम्बुधारा वज्राग्निदग्धशिखरेषु महीरुहेषु || GओKई_२७ ||
SK
अथ वानरेश्वरस् तम् अनार्यकर्माणम् अनुनयविधुरम् अवगम्य चिन्ताम् आपेदे |
SK
मातर्य् अयं यदि मम प्रहरत्य् अनार्यः संपश्यतो मम वधः सकलः स एव | त्यक्त्वा स्वजीवितम् अतः परिपालयामि वृद्धाम् इमां कुमुदिनीधवलां च कीर्तिम् || GओKई_२८ ||
SK
कामं मृते मयि मरिष्यति विक्लवेयं हा पुत्रकेति कृपणा करुणं रुदन्ती | युक्तस् तथापि मम पूर्वतरं विनाशो द्रष्टुं गुरुव्यसनम् अस्ति न मे प्रभुत्वम् || GओKई_२९ ||
SK
जातश् च नाम न विनक्ष्यति वेत्य् अयुक्तम् उत्पाद एव नियमेन निपातहेतुः | तुल्ये च नाम मरणव्यसनोपतापे मृत्युर् वरं परहितावहिताशयस्य || GओKई_३० ||
SK
तद्गर्भसंधारणसंभृतस्य स्नेहानुबद्धस्य परिश्रमस्य | अस्याः क्रमेणैव ममाभ्युपेतो निर्वेशकालातिशयोत्सवो ऽयम् || GओKई_३१ ||
SK
दुःखं तु निर्गारयतीव चेतो ममैकम् एवाविनिवार्यवीर्यम् | अम्बा मृतं मां यद् इयं विदित्वा दुःखेन संत्यक्ष्यति जीवलोकम् || GओKई_३२ ||
SK
अर्थाय नेत्रव्यसनं तु जातम् अस्या न मां द्रक्ष्यति मार्यमाणम् | यद् अस्य तीक्ष्णेन दुराधरेण व्याधप्रयुक्तेन शिलीमुखेन || GओKई_३३ ||
SK
कृत्वा च यत् पापम् अयं तपस्वी दुःखानि संप्राप्स्यति दारुणानि | एतन् मनो निर्दहतीव मह्यं प्राणोपरोधं स्वम् अचिन्तयित्वा || GओKई_३४ ||
SK
धिग् अस्तु संक्लेशपिशाचवैशसं पृथग्जनत्वं धिग् अनर्थपण्डितम् | विपत्तिपातालतले दुरुत्तरे वृथैव यल् लोकम् इमं विमुञ्चति || GओKई_३५ ||
SK
अथ स प्रकृतिशुद्धसत्त्वस् तदवस्थो ऽप्य् अनभिजातविषाददैन्यसंभ्रममनास् तं व्याधम् अब्रवीत् |
SK
अमोघो यद् अयं बाणस् त्वया तात समुद्यतः | मयि प्रहर निःशङ्कं मा कार्षीर् मृतमारिकाम् || GओKई_३६ ||
SK
अथ सा वृद्धा वानरी तं बोधिसत्त्वस्यातिदुष्करं हृदयसंतापकरं व्यवसायम् अवेत्य पाणिभ्यां हृदयम् अभिघ्नन्ती साश्रुकण्ठा गद्गदायमानवचना बोधिसत्त्वम् आह |
SK
पुत्र मा साहसं कार्षीर् मय्य् एव प्रहरत्व् अयम् | मृतयापि मया किं स्याज् जरयापीतसारया || GओKई_३७ ||
SK
यद् अहं तात जीवामि दुर्मना दुःखभागिनी | त्वत्सङ्गमसुखाभ्यासं रसाग्रं न वरं हि तत् || GओKई_३८ ||
SK
त्वयि जीवति जीवन्ति बहवो धर्मजीविनः | निमीलिते त्वयि व्यक्तं दिशः सर्वा निमीलिताः || GओKई_३९ ||
SK
जराजनितसंवेगा विप्रोषितविलोचना | मृत्युम् एवाभिकाङ्क्षामि निश्वासैकपरायणा || GओKई_४० ||
SK
त्वं मे हृदयसर्वस्वं पुत्रकोच्छ्वसिमि त्वया | त्वयि जीवति जीवन्तीं माम् अवेहि मृताम् अपि || GओKई_४१ ||
SK
उपायासि प्रपन्नाया जराकान्तारम् आयतम् | विश्रम्भस्थानवन् मृत्युर् भाग्येनैव ममागतः || GओKई_४२ ||
SK
अथ बोधिसत्त्वो ऽभिप्रणम्यानुनेष्यन्न् अनुकम्पाशीतलैर् अपि निर्दहन्न् इव वचोभिर् जननीं प्रत्य् आह |
SK
क्षुद्रजन्तोर् अपि कृते जह्यां देहशतान्य् अपि | मातुर् अर्थे त्यजेद् देहम् इतरो ऽपि गतव्यथः || GओKई_४३ ||
SK
कायव्रणम् इमं तीव्रव्यसनापातकातरम् | तवैव परिचर्यायै मातः परिहराम्य् अहम् || GओKई_४४ ||
SK
न च मे कायिकं दुःखं तथा जनयति व्यथाम् | मानसेनैव दुःखेन यथा पीड्ये विदाहिना || GओKई_४५ ||
SK
स्वकायपरिरक्षार्थम् अध्युपेक्ष्य वधं तव | दुःखं मनोमयं सोढुं कथं शक्ष्यामि दुःसहम् || GओKई_४६ ||
SK
अपि चाम्ब |
SK
उच्छ्राया विनिपातिनः प्रियजनश्लेषा विसंयोगिनः सर्वे संनिचयाः क्षयान्तविरसा दीपाः प्रभातेष्व् इव | मृत्योर् अप्रतिवार्यवीर्यमहतः क्रीडामृगाः प्राणिनः संसाराध्वनि देहिनां विचरतां धर्मानुकृत्यं परम् || GओKई_४७ ||
SK
अथ सा बोधिसत्त्वजननी शीतैर् अनन्यसत्त्वसदृशैः करुणानिष्यन्दभूतैः स्नेहातिशयोद्गारिभिः स्वजीवितनिरपेक्षैर् अपरिम्लायमानगौरवप्रसादपेशलैस् तद्वचोभिः सुतराम् आक्लेदितहृदया व्यापिना स्वरेण तद् वनम् आपूरयन्ती सकरुणं विरुराव |
SK
अमूनि तव वाक्यानि शीतान्य् अपि दहन्ति माम् | हिमापाता इव लतां पाकपाण्डुपलाशिनीम् || GओKई_४८ ||
SK
हा मातृवत्सल रिपुष्व् अपि मैत्रचित्त क्षुद्रेष्व् अपि प्रकृतिभद्र मृदुस्वभाव | पुत्रापहाय कृपणां क्व नु यास्यसि त्वं माम् अद्य दुःखशतबाणशरव्यभूताम् || GओKई_४९ ||
SK
हा हा हतास्मि कृपणा च्युतभागधेया दैवेन साधुजननिर्दयपौरुषेण | संरक्ष मां सुचिरम् एकपदे जहासि किं पुत्रकाद्य ननु सैव तवास्मि माता || GओKई_५० ||
SK
याताः क्व ते ऽद्य मुनयो ज्वलितप्रभावाः सख्यः क्व ताः प्रतिगता वनदेवतास् ते | धर्माय रक्षति जगत् किल धर्मजीवी कस्माज् जगन् मम निमीलति पुत्रशून्यम् || GओKई_५१ ||
SK
शैला निर्झरिणः कदम्बककुभश्रेणीनिरुद्धातपा नद्यश् च स्फुटपद्मरेणुहरितक्षामोर्मिमालाधराः | संशान्ता वनराजयश् च शिखिना सुद्योतिताश् चन्द्रकैर् भानोर् अंशुकरालिताश् च दिवसा रक्षन्तु मे पुत्रकम् || GओKई_५२ ||
SK
अचेतनानाम् अपि पादपानां बभूव कम्पो रुदितेन तेन | मृदूकृतं तस्य न नाम चेतो मनाग् अपि क्रूरमनोरथस्य || GओKई_५३ ||
SK
अथ स दुरात्मा तद्वाक्यश्रवणज्वलितकोपानलादीप्तहृदयः कथापर्यवसानम् अविगणय्यैव बोधिसत्त्वं तीक्ष्णेन बाणेन मर्मदेशे ऽभिहत्य प्राणैर् वियोजयां बभूव |
SK
शिवाविरुतजर्जरा इव दिशो ऽभवंस् तत्क्षणं ततान बहलं तमो द्विरदयूथनीलं जगत् | भयाद् इव चकम्पिरे विलुलितोपलाः पर्वताः पपात शलभावलीवलयपिङ्गलं खाद् रजः || GओKई_५४ ||
SK
विशुष्कजलभैरवाः प्रदरगह्वराः सिन्धवो द्वितीय इव भास्करे समुदिते ऽभवंस् तत्क्षणम् | पपात रुधिरं दिवो घटमुखैर् इवावर्जितं हते कपिगणाधिपे सुचरितैकरत्नाकरे || GओKई_५५ ||
SK
अथ स दस्युस् तद् अतिदारुणं कर्म कृत्वा सद्यस् तद्विपाकचिह्नाकुलीकृतहृदयः स्वम् आवासम् अभिप्रतस्थे | तत्र च तत्कर्मापराधेन भैरवो निष्प्रतीकाररभसज्वालामालाकुलो महदग्निः प्रजज्वाल |
SK
दूराद् एव तम् आपतन्तम् अनिलप्रेङ्खोलनाचञ्चलैः सद्यो ऽग्निः परिषष्वजे प्रियम् इव ज्वालाभुजैर् आयतैः | कर्म क्षेत्रविशेषबृंहितफलं कर्मान्तराव्याहतं निक्षेपं वपुषो विपाकचपलं नोदीक्षते प्राणिनाम् || GओKई_५६ ||
SK
संशुष्ककक्षान्तविसर्पिणीभिर् ज्वालाभिर् अग्नेः पवनोद्धताभिः | आलिङ्गितो ऽसौ कठिनान्तरात्मा मुमोह हा हेति च संरुराव || GओKई_५७ ||
SK
अनिलाकुलितानलावलीढः कटुधूमौघनिरुद्धकण्ठतालुः | निपपात समुत्पपात चासाव् असकृन् मीन इवातुरस् तपस्वी || GओKई_५८ ||
SK
तस्यास्थिशेषम् अपि कापुरुषस्य दग्ध्वा वह्निः सरोष इव नैव शशाम शीघ्रम् | तद्दूषितां वसुमतीम् अपि दग्धुकामो जज्वाल धूमकपिशार्चिर् ⏑ – ⏑ अन्तः || GओKई_५९ ||
SK
ज्वालानां गगनतलावलम्बिनीनां संतानाः कुसुमितकर्णिकारगौराः | रेजुस् ते प्रलयविलीयमानसानोर् निर्यासाः कनकगिरेर् इव स्रवन्तः || GओKई_६० ||
SK
दग्धो दुश्चरिताग्निभिः स परुषैर् दग्धः पुनः पावकैः पापात्मा सकलत्रपुत्रविभवः शुष्को यथा पादपः | तं भूयो ऽपि ददाह दारुणतरः कर्मेन्धनो नारको वह्निर् धूमकलाकलङ्कितमुखज्वालाकलापश् चिरम् || GओKई_६१ ||
SK
अवेत्य पापकर्मणाम् इदं विपाकवैशसं विवर्जयेद् असत्क्रियां भुजङ्गमाङ्गनाम् इव | प्रसादयेच् च मानसं प्रसादनीयकर्मसु जिनौरसेष्व् अकारणप्रजाहिताभियोगिषु || GओKई_६२ ||
SK
|| इति श्रीकपीश्वरजातकं नवत्रिंशत्तमम् ||
SK
५. Mऐत्रकन्यक
SK
मातर्य् अपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर् मातरः शुश्रूषणीयाः |
SK
तद्यथानुश्रूयते
SK
विकसितसितकुमुदेन्दुकुन्दकुसुमावलीगुणगणविभूषितः पूर्वजन्मान्तरोपात्ताप्रमेयानवद्यविपुलसकलसंभारो धनदसमानरत्नाश्रयः स्वजनकृपणवनीपकभुज्यमानोदारविभवसारनिचयो मित्रो नाम सार्थवाहो बभूव |
SK
परोपकारैकरसाभिरामा विभूतयः स्फीततरा बभूवुः | तस्यार्यसत्त्वस्य नभस्य् अनभ्रे करा इवेन्दोः कुमुदावदाताः || GओMक्_१ ||
SK
तृष्णानलैः शोकशिखाप्रचण्डैश् चित्तानि दग्धानि बहुप्रकारम् | आशावतां सप्रणयाभिरामैर् दानाम्बुसेकैः शमयां बभूव || GओMक्_२ ||
SK
दृष्ट्वा लोकम् इमं धनक्षयभयात् संत्यक्तदानोत्सवं लोभक्लेशपिशाचिकावशतया संदूषिताध्याशयम् | कारुण्यात् स ददाव् अनाथकृपणक्लीबातुरेभ्यो धनं मत्वा वायुहतार्णवोर्मिचपलं स्वं जीवितं भूयसा || GओMक्_३ ||
SK
येषु व्यासज्य चेतो भुजगवरवधूभोगभीमेषु लुब्धा गाहन्ते पापगर्तं स्फुटदहनशिखाभीमपर्यन्तरन्ध्रम् | वाताघातप्रनृत्तप्रवरनरवधूनेत्रपक्ष्माग्रलोलांस् तान् अर्थान् अर्थिदुःखव्युपशमपटुभिः प्रोत्ससर्ज प्रदानैः || GओMक्_४ ||
SK
तस्यापुत्रधनत्वात् पुत्राभिलाषिणो यदा मनोरथशतैर् असकृद् उन्मिषितोन्मिषिताः पुत्रश्रियः प्रसह्य स्फीततरवैरभारेन्धनवह्निनेव विगतनिखिलप्रतीकारदारुणप्रभावमहताशु कृतान्तालयैकपरायणाः क्रियन्ते स्म तदासौ लोकप्रवादमात्रयापि पन्थानं समवतीर्य धनदवरुणकुबेरशंकरजनार्दनपितामहादीन् देवताविशेषान् पुत्रार्थं याचितुम् आरेभे |
SK
यस्मिन् यस्मिंस् तनयसरसि स्वच्छपुण्याम्बुपूर्णे वव्रे वृद्धिं समुदितमहावंशलक्ष्म्यम्बुजन्म | तत् तत् तस्य प्रबालविरसां याति तीक्ष्णांशुमालैः शोषं निन्ये रविर् इव जलं भागधेयार्कबिम्बम् || GओMक्_५ ||
SK
रुद्रं नैककपालशेखरधरं चक्रायुधं वज्रिणं स्रष्टारं मकरध्वजं गिरिसुतापुत्रं मयूरासनम् | गङ्गां शङ्खदलावदातसलिलां तां तांश् च देवान् असौ पुत्रार्थी शरणं ययौ बहु पुनर् दानं द्विजेभ्यो ददौ || GओMक्_६ ||
SK
यद् यज् जनो मङ्गलदेशनाभिर् व्रतोपवासाधिगतैश् च दुःखैः | ⏓ – ⏑ – – ⏑ ⏑ – ⏑ – – ⏓ – ⏑ – – ⏑ ⏑ – ⏑ – – || GओMक्_७ ||
SK
– – ⏑ – – ⏑ ⏑ – ⏑ – – – – ⏑ – – ⏑ ⏑ – ⏑ – – | पुत्रार्थसंसिद्धिनिमग्नबुद्धिर् विक्षिप्य खेदं स चकार तांस् तान् || GओMक्_८ ||
SK
एवम् अनेकप्रकारं कायचेतस्सोर् आयासकारिभिर् अपि व्रतोपवासमङ्गलैर् यदा नैव कदा चित् काले ऽस्य पुत्रा जीविनो बभूवुस् तदैवम् अतिविपुले प्रगाढशोकापगाम्भसि निमज्जन्तं कश् चित् साधुपुरुषो ऽब्रवीत् |
SK
कर्माण्य् एवावलम्बन्ति देहिनां सर्वसंपदः | भूतानां तुङ्गशृङ्गाच् च विनिपातो न भूतये || GओMक्_९ ||
SK
संक्लेशं बहवः प्राप्ताः पुत्रतृष्णार्तबुद्धिना [!] | न च ते ऽद्यापि जीवन्ति तत्र किं परिखिद्यसे || GओMक्_१० ||
SK
कर्माणि निर्मुच्य कथं भवेभ्यः स्वर्गौकसस् तुष्टिवशाद् इहेयुः | ये यैर् विना नात्मभवं लभन्ते ते तैर् विना जन्म कथं भजेरन् || GओMक्_११ ||
SK
ये सांसारिकनैकदुःखदहनज्वालालतालिङ्गितास् ते वाञ्छन्ति नरामरोरगसुखं प्रायेण दानादिभिः | त्वं केनापि विडम्ब्यसे जडमतिः पुत्राशयोन्मत्तको यस् त्वं द्याम् अधिगन्तुम् इच्छसि बृहत्सोपानमालाश्रयात् || GओMक्_१२ ||
SK
विधिम् अपरम् अहं ते बोधयामि प्रसिद्ध्यै त्वम् अपि च कुरु तावत् संप्रसिद्ध्यै कदा चित् | यदि भवति सुतस् ते कन्यकानाम तस्य सकलजनपदे ऽस्मिन् ख्यापयस्व प्रसिद्ध्यै || GओMक्_१३ ||
SK
अथ तस्य कालान्तरे गगनतलम् अंशुमालीव स्वकिरणनिकरैर् विराजमानं स्ववंशलक्ष्मीः पुत्रं जनयां बभूव | स च
SK
निर्वान्तामलहेमशैलशिखरप्रच्छेदगौरद्युतिः संपूर्णामलचन्द्रमण्डलसमच्छत्त्रोरुभास्वच्छिराः | मत्तैरावणचारुपुष्करकरव्यालम्बबाहुद्वयो भिन्नेन्दीवरफुल्लपत्त्रनिचयश्यामारुणान्तेक्षणः || GओMक्_१४ ||
SK
भूयः कल्पसहस्रसंचितमहापुण्यप्रभावोद्भवैः प्रव्यक्तस्फुरितेन्द्रचापरुचिरैः प्रह्लादिभिर् लक्षणैः | मूर्तिस् तस्य रराज मेरुशिखराद् धेमं यथा भूच्युतं प्रोद्गीर्णस्वमयूखजालजटिलै रत्नाङ्कुरैर् वेष्टितम् || GओMक्_१५ ||
SK
भ्रमरचमरपङ्क्तिश्यामकेशाभिरामं समविपुलललाटं श्रीमदुत्तुङ्गनासम् | तनयम् उदितचेता मैत्रकन्याभिधानं दशदिवसपरेण ख्यापयाम् आस लोके || GओMक्_१६ ||
SK
शरीरिणां वृद्धिकरैः समृद्धैर् विशेषयुक्तैर् विविधान्नपानैः | सुधावदातैः स्फुटचन्द्रपादैः पयोधिवेलेव ययौ समृद्धिम् || GओMक्_१७ ||
SK
धात्रीभिः स समुन्नीतः क्षीरैश् च सर्पिमण्डकैः | पुपोष सुन्दरं देहं ह्रदस्थम् इव पङ्कजम् || GओMक्_१८ ||
SK
अथ तस्य पिता मित्रः सार्थवाहो वणिग्जनैः | द्रव्यैर् वहनम् आरोप्य जगाहे तोयधिं मुदा || GओMक्_१९ ||
SK
तिमिङ्गिलक्षोभविवर्धितोर्मिमहोदधौ मीनविपन्नपात्रे | पितुर् व्यतीते जननीं जगाद चकार किं कर्म पिता ममेति || GओMक्_२० ||
SK
ततो ऽस्य जननी पतिवियोगशोकग्लपितहृदया चिन्ताम् आपेदे |
SK
आशापाशशताकृष्टो जनो मृत्युं न पश्यति | विषयास्वादकृपणो वारण इव बन्धनम् || GओMक्_२१ ||
SK
यद्य् अपि कथयिष्यामि पितरं यानपात्रिकम् | एषो ऽपि मम मन्दाया नाशम् एष्यति तोयधौ || GओMक्_२२ ||
SK
यावच् चायं जनपदम् इमं तस्य वृत्तिं न भूतां पृच्छत्य् अस्मै कथयति न वा सर्व एवैष लोकः | तावद् युक्तं मम सुतम् इमं मृत्युवक्त्रान्तरालं नानादुःखव्यसनगहनं व्याधिसक्तं निषेद्धुम् || GओMक्_२३ ||
SK
परो ऽपि यः साधुजनानुजुष्टं विहाय मार्गं श्रयते विमार्गम् | निवारणीयः स मताज् जनेन प्रयत्नतः किं पुनर् एव पुत्रः || GओMक्_२४ ||
SK
ततो जनानि कथयां चक्रे |
SK
पुत्रकौकरिकत्वेन पिता ते माम् अपूपुषत् | यद्य् अहं सुखिता कार्या कारयौकरिकापणम् || GओMक्_२५ ||
SK
अथ मैत्रकन्यको बोधिसत्त्वो मातुर् वचनं कुसुममालाम् इव शिरसा समभिवद्यान्यस्मिन्न् अहनि [!] औकरिकापणं प्रससार |
SK
पुण्यसंभारमहतस् तस्य सत्त्वदयावतः | प्रथमे ऽहनि संपन्नं चतुष्कार्षापणं धनम् ||
SK
स्वगर्भसंधारणदुःखितायै ददौ स तस्यै मुदितो जनन्यै | दरिद्रदुःखव्यसनच्छिदायै धनं महाभोगफलप्रसूत्यै || GओMक्_२७ ||
SK
अथ ये तस्मिन् पुरवरे चिरंतना औकरिकास् ते तस्य तम् अभिवर्धमानं क्रयविक्रयलोकम् अविषमव्यवहारनीत्या प्रकृतिप्रेमपेशलतया चावर्जितमनसं तस्मिन् महासत्त्वे व्यवहारार्थम् आपतन्तम् अवलोक्य तं तस्मात् कर्मणो विनिवर्तनार्थम् आहुः |
SK
गान्धिकापणिकः श्रेष्ठी पिता ते ऽस्मिन् पुरे पुरा | स त्वं तां वृत्तिम् उज्झित्वा श्रयसे ऽन्यां कया धिया || GओMक्_२८ ||
SK
अथ बोधिसत्त्वस् ताम् अपि जीविकाम् अपहाय गान्धिकापणं चकार |
SK
यस्मिन्न् एव दिने चक्रे स साधुर् गान्धिकापणम् | कार्षापणाष्टकं तस्य तस्मिन्न् एवोपपद्यते || GओMक्_२९ ||
SK
तम् [!] अपि मात्रे प्रतिपादितवान् | अथ गान्धिकापणिकाः पुरुषाः समेत्यागत्य च तं महासत्त्वं विच्छन्दयाम् आसुः |
SK
गान्धापणं क्लीबजनाभिपन्नं पिता न वैमद्यपुरे चकार | तत्रैव हैरण्यिकतां स कृत्वा धनानि भूयांसि समाप साधो || GओMक्_३० ||
SK
अथ मैत्रकन्यको बोधिसत्त्वस् ताम् अपि जीविकाम् अपहाय हैरण्यिकापणं चकार |
SK
तयापि तस्मिन् व्यवहारनीत्या हैरण्यिकांस् तान् अभिभूय सर्वान् | लेभे दिने स प्रथमे महार्हः कार्षापणान् षोडश तान् ददौ च || GओMक्_३१ ||
SK
दिने द्वितीये द्वात्रिंशत्कार्षापणान् उपार्ज्य सः | दक्षिणीयविशेषाय [!] मात्रे तान् अपि दत्तवान् || GओMक्_३२ ||
SK
अथ हैरण्यिकापणिकाः पुरुषाः समेत्यागत्य च तं तस्मात् कर्मणो विनिवर्तनार्थम् आहुः |
SK
शरच्चन्द्रांशुधवले लब्ध्वा जन्म कुले कथम् | कृपणां जीविकाहेतोर् वृत्तिम् आश्रयते भवान् || GओMक्_३३ ||
SK
पर्भञ्जनोद्धूतशिखाकराले हुताशने विस्फुरितस्फुलिङ्गे | विवर्तितं श्लाघ्यम् अतिव पुंसां न तु स्ववृत्तेश् च्यवनं प्रवृत्तम् || GओMक्_३४ ||
SK
महोरगश्वासविघूर्णितोग्रैस् तरङ्गभङ्गैर् विषमान् पयोधीन् | अगाधपातालविलग्नमूलान् पिता विगाह्यार्जितवान् धनं ते || GओMक्_३५ ||
SK
यद् आश्रितं कर्म जनानुवर्तिना त्वया विदग्धेन धनेप्सुनाधुना | कथं न संप्राप्स्यसि भाग्यसंपदं पितुर् व्यतीते ऽपि विशालिनीं श्रियम् || GओMक्_३६ ||
SK
वित्तेश्वरो ऽप्य् अर्थविभूतिविस्तरैर् नासासदर्था विबभार यस्य | तस्या [!] महेन्द्रामलतुल्यकीर्तेः सूनुः कथं त्वं न बिभर्षि लज्जाम् || GओMक्_३७ ||
SK
ये मृत्युं गणयन्ति नैव विपदि ग्रामं भजन्ते न ये गेहे बन्धुषु सूनुषु व्यपगतस्नेहात्मनोद्योगिनः | ते तीर्त्वा जलधीन् अगाधसलिलान् आवर्तभीमान् बुधाः प्राप्यार्थान् गजदन्तभङ्गसितया चिन्वन्ति कीर्त्या जगत् || GओMक्_३८ ||
SK
अथ मैत्रकन्यको बोधिसत्त्वस् तेभ्यो ऽप्य् तथानुगुणिनीं कथाम् अवधार्य समुद्रावतरणकृतव्यवसायो मातरम् उपसृत्योवाच | अम्ब सार्थवाहः किलास्माकं पिता पुरा तद् अनुज्ञां प्रयच्छ यद् अहम् अपि महासमुद्रम् अवतरिष्यामीति | सा पूर्वम् एव भर्तृमरणदुःखेन विगतजीविताशा स्वस्य तनयस्य तेनासंलक्षितदारुणेन वियोगशोकशस्त्रेण भृशतरं प्रविदार्यमाणहृदया स्वतनयम् आह |
SK
वत्स केन तवाख्यातं विनाकारणशत्रुणा | जीवितं कस्य ते ऽनिष्टं त्वया क्रीडां करोति कः || GओMक्_३९ ||
SK
दैवात् कथं चित् संप्राप्तं चक्षुर् एकं त्वम् अद्य मे | पुत्रक क्लेशभागिन्या मृत्युना ह्रियसे ऽधुना || GओMक्_४० ||
SK
न यावद् एकं मम दुःखशल्यं प्रयाति नाशं प्रविदार्य शोकम् | कथं नु तस्योपरि मे द्वितीयं निपात्यते पापमयैर् अमित्रैः || GओMक्_४१ ||
SK
येषां चेतो विविधविरसायासदुःखाप्रकम्प्यं यैः संत्यक्तं कृपणहृदयैर् जीवितं भोगलुब्धैः | ते संत्यक्त्वा [!] नयनगलिताश्रुप्रवाहार्द्रवक्त्रान् बन्धून् अज्ञा मकरनिलये मृत्यवे यान्ति नाशम् || GओMक्_४२ ||
SK
तन् माम् अनाथां प्रतिपालनीयां त्वज्जीविताशैकनिबन्धजीवाम् | संत्यज्य यातुं कथम् उद्यमस् ते मा सा कथा मानवरो मदीयम् || GओMक्_४३ ||
SK
स्वप्राणसंदेहकरीम् अवस्थां प्रविश्य नैकान्तसुखं प्रसाध्यम् | संपत्तयो येन वणिग्जनस्य ततो ऽहम् एवं सुत वारयामि || GओMक्_४४ ||
SK
स तस्या हितार्थं मधुराण्य् अपि वचनकुसुमानि तृणम् इवावधूय सप्रगल्भतया समवलम्बितविकत्थाशोभं किं चिद् ईदृशं प्रत्याह |
SK
वरं नैव तु जायेरन् ये जाता निर्धना जनाः | जातस्य यदि दुःखानि वरं मृत्युर् न जीवितम् || GओMक्_४५ ||
SK
आशया गृहम् आगत्य दीनदीनास् तपस्विनः | अर्थिनो मम पापस्य यान्ति निश्वस्य दुर्मनाः [!] || GओMक्_४६ ||
SK
ये शक्तिहीना विभवार्जनादौ ते देहिनो दुःखशतं सहन्ते | लोकं पुनर् दुःखशतोपतप्तं द्रष्टुं न शक्नोमि चिरायमाणः || GओMक्_४७ ||
SK
तस्माद् विलङ्घामि वचस् तवेदं यास्यामि तं त्वं प्रजहीहि शोकम् | तत्रैव यायां निधनं समुद्रे छिन्नं मया वा व्यसनं जनस्य || GओMक्_४८ ||
SK
अथ मैत्रकन्यको बोधिसत्त्वो मातरम् अप्रमाणीकृत्य निर्गत्य गृहाद् वाराणस्यां पुर्याम् आत्मानं सार्थवाहम् इत्य् उद्घोषयाम् आस |
SK
अस्याम् एव पुरा पुरंदरपुरीप्रस्पर्धिपुर्यां वणिङ् मित्रो नाम बभूव यः सुरनरप्रख्यातकीर्तिध्वजः | पुत्रस् तस्य महासमुद्रम् अचिराद् यास्यत्य् अमुष्मिन् दिने यातुं ये वणिजः कृतोपकरणास् ते सन्तु सज्जा इति || GओMक्_४९ ||
SK
अथ मैत्रकन्यको बोधिसत्त्वो विविधोपकरणसंभारसाधनानां समागृहीतपुण्याहप्रस्थानभद्राणाम् उपहृतमङ्गलविधानानां वणिजां पञ्चभिः शतैः कृतपरिवारः प्रससार | माता चैनं गच्छतीति श्रुत्वाह | ममैकपुत्रक क्व यास्यसीति करुणकरुणाक्रन्दितमात्रपरायणा कोमलविमलकमलविलासालसाभ्यां पाणिकमलाभ्यां रुचिरकनकघटितघटविकटपयोधरवरोरुभासुरम् उरः प्रगाढम् अभिताडयति | बाष्पसलिलधारापरंपरोद्भवोपरुध्यमानकण्ठी [!] अनिलबलाकुलितगलितसजलजलदपटलावलीमलिनकेशपाशा सत्वरत्वरम् अभिगम्य मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोः परिष्वज्यैवम् आह | मा मां पुत्रक परित्यज्य यासीति |
SK
अनर्थरागग्रहमूढबुद्धयो नरा हि पश्यन्ति न केवलं हितम् | सतां हिताधानविधानचेतसां गिरो ऽपि शृण्वन्ति न भूतवादिनाम् || GओMक्_५० ||
SK
मैत्रकन्यको ऽपि
SK
धरणितलनिमग्नां मातरं शोकवश्यां शिरसि कुपितचित्तः पादवज्रेण हत्वा | मुहुर् उपचितशोकः कर्मणा प्रेर्यमाणस् त्वरितमतिर् अभूत् – संप्रयातुं वणिग्भिः || GओMक्_५१ ||
SK
ततः सा माता समुत्थायाह | पुत्रक
SK
मयि गमननिवृत्तिं कर्तुम् अभ्युद्यतायां यद् उपचितम् अपुण्यं मच्छिरस्ताडनात् ते | व्यसनफलम् अनन्तं मा तु भूत् कर्मणो ऽस्य पुनर् अपि गुरुवाक्यं मातिगाः स्वप्नतो ऽपि || GओMक्_५२ ||
SK
अथ मैत्रकन्यको बोधिसत्त्वो विविधविहारायतनपर्वतोपवनगह्वरसरित्तडागारामरमणीयतरान् अनेकनगरनिगमकर्वटग्रामादीन् अनुविचरन् क्रमेण समुद्रतीरं संप्राप्य सज्जीकृतयानपात्रो भुजगपतिवदनविसृतश्वसनचपलानिलबलविलुलितविपुलविमलसलिलम् अरुणतरुणकिरणनिकररुचिरपद्मरागपुञ्जप्रभारागरञ्जितोर्मिमालाजलम् असुरस्वरसमसुरसुरेश्वरकरोदरस्फुरितहुतवहशिखावलीकरालवज्रपतनभयनिलीनधरणीधरशिखरपराहतजलोद्धतोत्तुङ्गतरङ्गभङ्गरौद्रं समुद्रम् अवततार |
SK
महानिलोत्क्षिप्ततरङ्गभङ्गैः समुल्लसद्भिः खम् इवोत्पतन्तम् | सरित्सहस्राम्बुरयप्रवाहैर् भुजैर् विलासैर् इव गृह्यमाणम् || GओMक्_५३ ||
SK
प्रक्षुब्धशीर्षोरगभीमभोगव्यावर्तितोद्वर्तिततोयराशिम् | तन्मुर्ध्नि रत्नोद्गतरश्मिपुञ्जं ज्वालाकलापोच्छुरितोर्मिचक्रम् || GओMक्_५४ ||
SK
अहिपतिवदनाद् विमुक्ततीव्रज्वलितविषानलदाहभीमशङ्खम् | तिमिनखकुलिशाग्रदारिताद्रिं तदचलपादहताम्बुमीनवृन्दम् || GओMक्_५५ ||
SK
तुङ्गतरङ्गसमुद्गततीरं तीरनिलीनकलस्वनहंसम् | हंसनखक्षतदारुणमीनं मीनविवर्तितकम्पितवेलम् || GओMक्_५६ ||
SK
रत्नलतावृतभासुरशङ्खं शङ्खसितेन्दुगभस्तिविवृद्धम् | वृद्धभुजंगमहाहवरौद्रं रौद्रमहामकराहतचक्रम् || GओMक्_५७ ||
SK
खगपतिसविलासपाणिवज्रं प्रहतविपाटितदृष्टिमूलरन्ध्रम् | प्रमुदितजलदन्तिदन्तकोटिप्रमथितनैकविलासकल्पवृक्षम् || GओMक्_५८ ||
SK
तद् एव स संलक्ष्य तीरपर्यन्तरेखं प्रकटविकटावर्तगर्तोदरभ्रमद्भ्रमितझषभुजगकुलमण्डलं नैकविचित्राद्भुताश्चर्यम् अतिशयम् अम्भसाम् आलयम् अतिक्रमतस् तस्य धरणीधरशिखरविपुलात्मभावस्य मकरकरिपतेर् विवर्तमानस्य समुत्थितैर् उर्वीधराकारदारुणैः प्रमुक्तकलकलारावरौद्रैर् महद्भिः सलिलनिवहैर् उत्पीड्यमानं तद् यानपात्रं मरणभयविषादभ्रश्यमानगात्रैर् दीनरुदिताक्रन्दितमात्रपरायणैः संयानपात्रकैः सह सहसैव सलिलनिधेर् अधः प्रवेष्टुम् आरब्धम् |
SK
उर्वीधराकारतरङ्गतुङ्गैर् उग्रैर् युगान्तानिलचण्डवेगैः | तद् यानपात्रं जलधेर् जलौघैर् आस्फाल्यमानं विददार मध्ये || GओMक्_५९ ||
SK
दंष्ट्राकराले झषवक्त्ररन्ध्रे कश् चिन् ममारार्तरवस् तपस्वी | के चिज् जलोद्गारनिरुद्धकण्ठा जग्मुर् निरुच्छ्वासगिरो व्यसुत्वम् || GओMक्_६० ||
SK
गत्वापि के चित् फलकैर् महद्भिर् अम्भोनिधेस् तीरम् अवेक्षमाणाः | दूराम्बुसंतानपरिश्रमार्तास् त्रासाकुला नेदुर् उदीर्णनादाः || GओMक्_६१ ||
SK
अथ मैत्रकन्यको बोधिसत्त्वस् तेन महता व्यसनोपनिपातेनाप्य् अनापतितभयविषाददैन्यायासमनाः समवलम्ब्य महद् धैर्यपराक्रमं ससंभ्रमं फलकम् आदाय प्रससार |
SK
ततो ऽसौ समपवनगमनजवजनितसविलासगतिभिः सलिलप्लवैर् इतस् ततः समाक्षिप्यमाणो निराहारतया च परिम्लायमाननयनवदनकमलश् चान्यैर् बहुभिर् अहोरात्रैर् यथा कथं चित् तस्य दुरवगाहसलिलस्य महार्णवस्य दक्षिणं तीरदेशम् आससाद |
SK
तीर्त्वा तम् अम्भोनिधिम् अप्रगाधम् आसाद्य तीरं फलकं मुमोच | संस्मृत्य मातुर् वचनं स पाणौ व्यासज्य मूर्धानम् इदं जगाद || GओMक्_६२ ||
SK
शृण्वन्ति ये नात्महितं गुरूणां वाक्यं हितार्थोदयकार्यभद्रम् | तेषाम् इमानि व्यसनानि पुंसां मायावहन्ति प्रभवन्ति मूर्ध्नि || GओMक्_६३ ||
SK
तैर् एव नैकव्यसनप्रदस्य तोयेन्दुबिम्बस्थितभङ्गुरस्य | प्राप्तं फलं जन्मतरोः सुधीभिर् ये मानयन्तीह गिरो गुरूणाम् || GओMक्_६४ ||
SK
मातुर् हितायैव सदोद्यतायाः प्रोल्लङ्घ्य वाक्यं मम दुष्कृतस्य | पुष्पं यद् ईदृग् भरपापदारुणं प्रान्तं गमिष्यामि कदा फलस्य || GओMक्_६५ ||
SK
हुतवहहतलेखात्यन्तपर्यन्तरौद्रं गगनौग्रं विस्मयत्यन्तवज्रम् | गुरुशिरसि दधानः पादवज्रं खलो ऽहं कथम् अवनिविदार्यश्वभ्ररन्ध्रे न लग्नः || GओMक्_६६ ||
SK
ये सन्तो हितवादिनां स्फुटधियां संपादयन्ते गिरः श्रेयस् ते समवाप्नुवन्ति नियतं क्रव्यादपुर्यां यथा | ये तूत्सृज्य महार्थसारदयितां वाचं श्रयन्ते ऽन्यथा दुस्तरे व्यसनोदधौ निपतिताः शोचन्ति ते ऽहं यथा || GओMक्_६७ ||
SK
ततो ऽसौ क्रमेण खदिरवटसरलनिचुलबकुलतमालतालनालिकेशरद्रुमवनगहनं प्रवरवारणवराहचमरशरभशम्बरमहिषविषाणकर्षणपतितमथितविविधमालुतालताजालदुःसंचरं क्व चित् क्षुभितकेसरिनिनादभयचकितवनचरकुलाकीर्णचरणं कथं चिद् अपि शबरमनुजजनचरणाक्षुण्णपर्यन्तम् अनुचरन् क्व चित् स्थित्वैवम् आह |
SK
एते दाडिमपुष्पलोहितमुखाः प्रोन्मुक्तकोलाहला हासादर्शितदन्तपङ्क्तिविरसाः शाखामृगा निर्भयाः | सर्पान् भीमविषानलस्फुरदुरुज्वालाकरालस्फुटान् हत्वा पाणितालैः प्रयान्ति विवशाः फुत्कारभीताः पुनः || GओMक्_६८ ||
SK
रम्ये कुङ्कुमशाखिनाम् अविरलच्छायाकुथाशीतले मूले कोमलनीलशाद्वलवति प्रव्यक्तपुष्पोत्करे | वंशैस् तालरवैः सगीतमधुरैः प्रच्छेदसंपादिभिः संगीताहितचेतसः प्रमुदिता गायन्त्य् अमी किन्नराः || GओMक्_६९ ||
SK
ततो नातिदूरम् अतिसृत्य महीधरवराकारं पर्वतं ददर्श |
SK
क्व चिद् उग्रतरचारुमणिप्रभया सुरभीकृतभीमगुहाविवरम् | क्व चिद् उद्धतकिन्नरगीतरवं प्रतिबुद्धससंभ्रमनागकुलम् || GओMक्_७० ||
SK
चपलानिलवेल्लितपुष्पतरुं तरुमन्दिरमूर्ध्नि चलद्भ्रमरम् | भ्रमरध्वनिपूर्णगुहाकुहरं कुहरस्थितरौद्रभुजंगकुलम् || GओMक्_७१ ||
SK
पक्षिविराजितपर्वतशृङ्गं शृङ्गशिलातलसंस्थितसिद्धम् | सिद्धवधूजनरम्यनिकुञ्जं कुञ्जनिषेवितमत्तशकुन्तम् || GओMक्_७२ ||
SK
मत्तशिखण्डिकलस्वनरम्यं रम्यगुहामुखनिर्गतसिंहम् | सिंहनिनादभयाकुलनागं नागमदाम्बुसुगन्धिसमीरम् || GओMक्_७३ ||
SK
क्व चिद् उपचितवारणदन्तशिखाशनिदारितशिखरतटं प्रविरूढविलासशिखागरुवृक्षवनं क्व चिद् उपरिपयोधरभारतरध्वनिञ्जितशिखिकुलविस्तृतपिच्छकलापविचित्रितचारुतटम् | क्व चिद् अनिलविकम्पितपुष्पतरुं स्खलितोज्ज्वलसुरभिजलं कुसुमप्रबलप्रतिवासितसानुशिखं ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – || GओMक्_७४ ||
SK
तथापरं ददर्श |
SK
लिखन्तं करालैर् नभः शृङ्गजालैः क्षिपन्तं मयूखैस् तमः सागराणाम् | वहन्तं समुद्राम्बराम् अद्रिगुर्वीं क्षरन्तं क्व चित् काञ्चनाम्भःप्रवाहम् || GओMक्_७५ ||
SK
फलितामलभूषणकल्पतरुं तरुखण्डविराजितसानुशिखम् | शिखरस्थितदेववधूमिथुनं मिथुनैर् दहतां वयसां मधुरम् || GओMक्_७६ ||
SK
क्व चिद् अर्कमहारथचक्रनिर्वातविखण्डितमयूखकलापकरालितनैकमहामणिपल्लवसंचयमौलिभरावनतोन्नतभासुरवज्रधरं क्व चिद् इन्द्रकरीन्द्रविमर्दतरङ्गरयभ्रमितप्रचलत्कलहंसकुलावलिहारनभःसरिदम्बुविधौतशिलं | क्व चिद् अण्डजराजविलाससमुच्छ्रितपक्षमहाभुजवज्रविपाटितसागरवारितलोद्धृतपन्नगभोगधरं क्व चिद् एव सुरासुरसंयुगशस्त्रविपन्नमहासुर- वैद्युतशोणितरङ्गमहावलयम् || GओMक्_७७ ||
SK
दृष्ट्वैवम् आह |
SK
एते पर्वतशृङ्गचन्दनतरुच्छायास्थलं संसृताः कर्णप्रावरणं नवारुणकरच्छायासमानश्रियः | प्रेक्षन्ते मदवारिलोलमधुलिट्प्रोल्लीढगण्डस्थलं दर्पात् केसरिणो बलेन महता प्रोन्मथ्यमाना गजम् || GओMक्_७८ ||
SK
इत्य् एवम् असाव् अतिकान्तारदुर्गं सलिलफलाहारमात्रपरायणः परिभ्रमन्न् अज्ञानतमःपटलावगुण्ठितम् इव जगत् संसारपङ्के त्रिभुवनस्वामीवोदयद् रमणकं नाम नगरं ददर्श |
SK
समुच्छ्रितोत्तुङ्गचलत्पताकैः पतत्पतत्रिस्वनवावदूकैः | सुवर्णसालैर् मणिहेमशृङ्गैर् महीधराकारगृहैः सुगुप्तैः || GओMक्_७९ ||
SK
निलीनपद्मालिकुलालिपद्मैः समुन्मिषत्पद्मरजःपिशङ्गैः | कलप्रलापाण्डजरावरम्यैर् मन्दानिलैर् आवसथीकृतं सदा || GओMक्_८० ||
SK
सुरकरिकरदघ्नकल्पवृक्षैर् मरकतरत्नतृणैः शुकांशुनीलैः | मणिकनकलताबद्धशाखैः क्व चिद् उरुभिस् तरुभिः प्रकामहारि || GओMक्_८१ ||
SK
विकसितनवकर्णिकारगौरैः कनकगृहैर् बहुरत्नशृङ्गचित्रैः | स्वकिरणरुचिरोरुरत्नसानोर् अचलपतेः सकलश्रियं दधानम् || GओMक्_८२ ||
SK
क्व चिद् अमरविलासिनीकराग्रप्रहतमहामुरजस्वनाभिरामम् | क्व चिद् उपरिपयोदतूर्यनादप्रमुदितमत्तशिखण्डिवृन्दकीर्णम् || GओMक्_८३ ||
SK
ततस् तद्दर्शनात् समुत्पन्नजीविताशो ऽसौ रमणं नगरम् उपससर्प | तस्मान् नगराद् विनिःसृत्य चतस्रो ऽप्सरसो द्रवितनवकनकरसरागावदातमूर्तयः प्रविकसिताम्बुजकुसुमरुचकरुचिनयनयुगलोत्पलविलासाः क्वणद्रुचिरविविधमणिमेखलापभारमन्दविलासगतयः कनककलशाकारपृथुतरपयोधरभरावनमिततनुमध्या दिवसकरकरस्पर्शविबोधिताम्लानकमलपलाशभासुराधरकिसलया विविधविभूषणशता निरामयदर्शनाः शिरसि विरचितोभयकमलाञ्जलयो मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोर् विन्यासितशिरसः प्राहुः |
SK
सुस्वागतं चन्द्रसमाननाय नारीजनप्रीतिविवर्धनाय | कृपामृताह्लादितमानसाय बोधौ चिराबद्धविनिश्चयाय || GओMक्_८४ ||
SK
अद्यैव दुह्खानि शमं गतानि [!] अद्यैव नो जीवितगात्रसारम् | निरत्ययप्रेमविशेषभद्राण्य् अद्यैव सौख्यानि पुरःस्थितानि || GओMक्_८५ ||
SK
इमानि दुःखाङ्कुशखण्डितानि मनांसि नः शोकपरिक्षतानि | भवन्तम् आसाद्य वसन्तकाले वनान्तराणीव विजृम्भितानि || GओMक्_८६ ||
SK
यान्य् अर्जितान्य् अन्यभवान्तरेषु कर्माणि शुक्लानि शुभोदयानि | तेषां फलं वीक्षणम् एव ते ऽलं सङ्गस् त्वया किं पुनर् एव दीर्घम् || GओMक्_८७ ||
SK
अद्यैव मा बन्धुसुहृद्वियोगशोकं कृथाः कस्य न सन्त्य् अपायाः | दास्यो वयं ते ऽप्सरश् चतस्रश् छाया न ते लङ्घयितुं समर्थाः || GओMक्_८८ ||
SK
रत्नानि वासांसि समुज्ज्वलानि शय्याश्रयाश् चारुतरा वयं च | संत्यक्तभर्ता सुरराजयोग्या शक्तिर् विधेनेह सुखं भजस्व || GओMक्_८९ ||
SK
अपि च
SK
दुःखे महत्य् अप्रतिकारघोरे ये वर्तमानाश् चिरम् उद्वहन्ति | ते दुःखभारोपनिपातमूढास् तत्रैव शीघ्रं निधनं प्रयान्ति || GओMक्_९० ||
SK
नित्ये वियोगे मरणात् पुरःस्थिते शोचन्ति ते दैवकृते वियोगे | संस्मृत्य रागोपनिपातमूढाः कामप्रहारं विषमं प्रपन्नाः || GओMक्_९१ ||
SK
शब्दायमानवरनूपुरमेखलाभिर् आदिश्यमानभवनं प्रवराप्सरोभिः | हैमाद्रिशृङ्गम् इव तत् पुरम् आविशन्तं नेमुः कृताञ्जलिपुटा बहवो ऽपि तत्र || GओMक्_९२ ||
SK
अन्यैश् [!] च पुनः
SK
किं दीप्तरश्मिर् विनिगूढरश्मिः किं पुष्पकेतुः सहसावतीर्णः | हा किं विनिक्षिप्तहराग्रवज्रो नाथः सुराणाम् इति तर्कितो ऽभूत् || GओMक्_९३ ||
SK
तिमिरनिकरलेख्या श्यामगोपक्ष्मलेख्याः स्फुटितकनकहारा न्यस्तरत्नोज्ज्वलाङ्ग्यः | विपुलभवनमालाजालवातायनस्थाः प्रमुदितमनसो ऽन्याश् चिक्षिपुः स्रस्तकाञ्च्यः || GओMक्_९४ ||
SK
रत्नप्रदीपप्रहतान्धकारं मुक्ताफलप्ररुचिरोरुहर्म्यम् | चलत्पताकाग्रविभिन्नमेघं गेहं विवेशाप्सरसां हि तासाम् || GओMक्_९५ ||
SK
तासां विलासैर् गमनैः सलीलैर् हासैः कटाक्षैर् मधुरैः प्रलापैः | क्रीडन् स कालं न विवेद यातं सर्वात्मना रागपरीतचेताः || GओMक्_९६ ||
SK
प्रत्यहं च दक्षिणेन गमनं वारयन्ति स्म | सो ऽपि यथा यथा निवार्यते तथा तथा तया दिशा गमनायोत्सुकमना बभूव |
SK
यत्रायं वार्यते लोको जनेन हितबुद्धिना | विपर्यस्तमतिस् तत्र जनः स परिधावति || GओMक्_९७ ||
SK
यदि कुर्याद् अयं लोके सुहृदां वचनं हितम् | परैति स्वर्गं पातालश्वभ्रे [!] आ स्वप्नतो ऽपि न || GओMक्_९८ ||
SK
अथ मैत्रकन्यको बोधिसत्त्वस् तासाम् अप्सरसाम् परिज्ञातगमनप्रयोजनो दक्षिणस्यां दिशि पदवीम् आरुह्य व्रजन् सदामत्तकं नाम नगरं ददर्श | तस्माद् अपि नगराद् अष्टाप्सरसः ससंभ्रमं निःसृत्य तं महासत्त्वं प्रवेशयाम् आसुः | तत्राप्य् अचिरं रतिम् अनुभूय प्रतिषिध्यमानगमनक्रियस् तेनैव दक्षिणेन पथा गच्छन् नन्दनं नाम नगरं ददर्श | तस्माद् अपि षोडशाप्सरोभिर् अभिगम्य सत्कृत्य प्रवेशयाम् आसे | तत्रापि चिरं क्रीडां सेवित्वा तस्माद् अपि ब्रह्मोत्तरं नाम नगरं प्रययौ | तत्रापि द्वात्रिंशताप्सरोभिर् भूयः सत्कारं विषयसुखम् भुक्त्वा ताः प्राह |
SK
इच्छामि गन्तुम् तद् अहं भवन्त्यो [!] मा मत्कृते शोकह्रदे शयिध्वम् | संपातभद्राणि हि कस्य नाम विश्लेषदुःखानि न सन्ति लोके || GओMक्_९९ ||
SK
स्थित्वापि येनैव चिरं वियोगः शत्रोः कृतान्ताद् भवितान्तकाले | तेनैव नेत्राश्रुजलार्द्रगण्डान् [!] युष्मान् विहायाद्य यियासुर् अस्मि || GओMक्_१०० ||
SK
वाताहताम्भोधितरङ्गलोले ये जीवलोके बहुदुःखभीमे | विश्लेषदुःखाय रतिं प्रयान्ति तेषां परो नास्ति विमूढचेताः || GओMक्_१०१ ||
SK
अथाप्सरसस् ताः समस्तास् तद्गमनवियोगशोकग्लपितऋदयाः ससंभ्रमाः कमलकुवलयकुड्मलविलासा नलिन्य इव शिरसि विरचितोभयकमलाञ्जलयः प्राहुः |
SK
अस्मासु ते कर्तुम् अनिष्टम् इष्टं कथं हि भक्तिप्रणयार्पितासु | सो ऽन्येन एकग्रहणीयरूपः शरीरकानेन वयो ग्रहीते || GओMक्_१०२ ||
SK
गत्वा तन् नगरत्रयं यद् अपि हे स्वामिन्न् इहाप्य् आगतः संप्राप्ता विषयोपभोगमधुराः संपत्तयस् ते चिरम् | गन्तव्यं न पुनस् त्वया सुबहुना प्रोक्तेन किं यासि चेत् संस्मर्तासि विपत्समुद्रपतितो वाक्यं हि नो दुःखितः || GओMक्_१०३ ||
SK
बोधिसत्त्वः प्राह |
SK
यद् अभ्यासवशान् नृणाम् उदयसंपदः स्थिराः | कथं ते नु निवार्येरन् निवर्तेरन् कथं नु वा || GओMक्_१०४ ||
SK
नियोजनीयाः सुहृदः सुहृद्भिर् यस्मिन् हिते कर्मणि नित्यकालम् | निवारणं तत्र तु ये प्रकुर्वते ते शत्रवो ऽमित्रतया भवन्ति || GओMक्_१०५ ||
SK
दिव्यं प्राप्य सुखं पुरे रमणके संचोदितः कर्मणा [!] आयातो ऽस्मि निषेवणाय परमं सौख्यं सदामत्तकम् | संप्राप्तो ऽस्मि ततः स्वकर्मकुशलेनेष्टं पुरं नन्दनं तस्माद् आगतकस्य यूयम् अधुना प्रोन्मूलिता भूमयः || GओMक्_१०६ ||
SK
तस्माद् अतो मे गमनं भवन्त्यो [!] मा वारयध्वं न हि नो ऽस्त्य् अपायः | अस्माद् विशेषाणि सुखानि मन्ये लप्स्ये ऽहम् इत्य् उच्चलितो ऽहम् अद्य || GओMक्_१०७ ||
SK
इत्य् अथ मित्रकन्यको बोधिसत्त्वस् तासाम् अप्सरसां हितम् अपि वाक्यम् अहितम् इवावज्ञया तिरस्कृत्य तेनैव दक्षिणेन पथा गच्छन् ददर्श महार्गडप्रटितप्रकटपुटचतुर्द्वारदारुणं सुरेश्वरेणाप्य् अभेद्योत्तुङ्गायसविशालप्राकारपरिवेष्टितम् अन्तर्भ्रमच्चक्रमण्डलालोकप्रमुक्तदमदमाशब्दगम्भीरभैरवम् आयसं नगरं तस्य च द्वारदेशम् उपचक्राम |
SK
संप्राप्तमात्रस्य तु तत्क्षणेन द्वारं च विस्फोटकपाटभारम् | वज्राग्रधारापरिभिन्नसानोर् विन्ध्याचलस्येव नितम्बकुक्षिः || GओMक्_१०८ ||
SK
ततो मैत्रकन्यको बोधिसत्त्वो ऽत्र विवेश |
SK
प्रविष्टमात्रस्य तु तत्क्षणेन द्वारं परिक्षिप्तकपाटयन्त्रम् | तत्कर्मवायुप्रभवैर् महद्भिः क्षणाद् भुजाग्रैर् इव संजघाट || GओMक्_१०९ ||
SK
अश्रौषीच् च प्रगाढवेदनाविक्लवहृदयपुरुषस्यान्तःप्राकारान्तरतिरस्कृतपरमभीषणनिर्नादं सकलजनोत्त्रासनम् उच्चरन्तं श्रुत्वा च द्वारदेशं त्वरितमतिर् ललङ्घ |
SK
प्रविष्टमात्रस्य ततो द्वितीयम् आस्फालितं द्वारम् इवोपरुद्धम् | पर्यन्तकालानिलवेगविद्धं द्वारं सुराणाम् इव वज्रकल्पम् || GओMक्_११० ||
SK
ततो मित्रकन्यको बोधिसत्त्वः प्रविवेश |
SK
प्रविष्टमात्रस्य पुनस् तृतीयं द्वारं परिक्षिप्तकपाटयन्त्रम् | क्षणाद् अभूत् तन् नगरं च सर्वं भ्रान्तं च कृत्स्नं स ददर्श भीतः || GओMक्_१११ ||
SK
ततो मैत्रकन्यको बोधिसत्त्वः पश्यति स्म तम् अतिदारुणाकारप्रमाणं क्रूरज्वलनमालालिङ्गितम् उदारेण पटुपवनविकीर्यमाणधूमपटलान्धकारदुर्दिनेन स्फुरत्स्फुलिङ्गावलिकरालदर्शनेनायसेन महता भ्रमता चक्रेण दार्व् इव प्रविदार्यमाणमूर्धानं स्वशिरःप्रविगलितशोणितवसारसाहारमात्रविधृतप्राणशेषं समीपं चोपगम्यैनं पर्यपृच्छत् |
SK
किं नागो ऽसि सुरो ऽसि किन्नरवरो यक्षो ऽसि किं मानुषः किं विद्याधरसैनिकः किम् असि वा दैत्यः पिशाचो ऽसि वा | किं वाकारि भवान्तरेषु भवता कर्मातिरौद्रं स्वयं यस्यास्तिव्यसनं दुरुत्तरम् इदं भुज्यं फलं क्रन्दयत् || GओMक्_११२ ||
SK
पुरुषः प्राह |
SK
नाहं नागो नैव यक्षो न देवो दैत्यो नाहं नापि गन्धर्वराजा [!] | रक्षो नाहं नापि विद्याधरो ऽपि जातिस् तुल्या संप्रतीहि त्वया नः || GओMक्_११३ ||
SK
बोधिसत्त्वः प्राह |
SK
किं कर्म भ्रमता त्वया कुमतिना संसारदुर्गे कृतं येनेदं ज्वलितानलं शिरसि ते चक्रं भ्रमत्य् आयसम् |
SK
पुरुषः प्राह |
SK
नानादुष्करकारिका भगवती संसारसंदर्शिका तत्र श्रेयःसुखोपपादनपरा मत्स्नेहबद्धाशया || GओMक्_११४ ||
SK
यां लोके प्रवदन्ति साधुमतयः क्षेत्रं परं प्राणिनां दैवावेशवशाद् अकार्यगुरुकस् तस्यां जनन्याम् अहम् | साधो प्रास्खलयं शिरःप्रहरणं पादेन पापाशयस् तेनेदं ज्वलितानलं शिरसि मे चक्रं भ्रमत्य् आयसम् || GओMक्_११५ ||
SK
अथ बोधिसत्त्वस् तस्य पुरुषस्य प्रवचनप्रतोदेन संचोदितहृदयस् तां परजुगुप्साम् आत्मन्य् अनुपश्यन्न् आह |
SK
अन्यं जुगुप्साम्य् अहम् अल्पबुद्धिर् आत्मानम् एवाद्य निनिन्द अज्ञः | येषु स्वयं दोषगणेषु मग्नस् तैर् एव लोकं कथम् अङ्कयामि || GओMक्_११६ ||
SK
मयापि यन् मातरि दक्षिणीये [!] कृतो ऽपराधः पुरुषाधमेन | तस्यैव पापस्य फलानि भोक्तुम् उल्लङ्घ्य तोयावलिम् आगतो ऽस्मि || GओMक्_११७ ||
SK
इत्य् अथ तस्य वचनानन्तरम् एव प्रभिन्ननवकुवलयदलनिर्मलान् नभस्तलात् सजलजलदनिनादगम्भीरधीरोध्वनिर् उच्चचार |
SK
किं न पश्यति कर्माणि बलवन्ति शरीरिणाम् | लोकालोकान्तरस्थायी पाशेनेव विकृष्यते || GओMक्_११८ ||
SK
ये बद्धा विषयेण दुःखनिगडे ऽनायासकर्मोत्कटे ये त्यक्त्वा गुरुवाक्यम् अन्धमतयः पापाश्रयं कुर्वते | मुक्ताः कर्मभिर् एव दुःखनिगडप्रच्छेदशूरैः शुभैर् मानुष्यं यद् अवाप्य मूढमतयो दूरे स्थिता कर्मिणः || GओMक्_११९ ||
SK
अथ तस्य वचनानन्तरम् एव कर्मानिलवेगोत्क्षिप्तम् इव तच् चक्रं चिटिचिटायमानदहनकणचयोद्गाररौद्रं तस्य मूर्ध्नः समभ्युद्गम्य मैत्रकन्यकस्य बोधिसत्त्वस्य शिरः प्रविदारयं [!] भ्रमितुम् आरब्धम् | क्षणात् स रेजे रुधिरप्रवाहैर् मूर्ध्ना [!] च्युतैः स्नातसमस्तमूर्तिः | प्रभिन्नचक्राग्रविभिन्नमूर्ध्न ऐरावणस्येव तनुः पतन्ती || GओMक्_१२० ||
SK
ततः स पुरुषो हा हेति मूर्ध्ना [!] प्रविदाहजेन तीव्रेण दुःखेन समाक्रम्यमाणशरीरकं मैत्रकन्यकं बोधिसत्त्वम् आह |
SK
दिव्याङ्गनागीतमनोहराणि चित्तप्रमोदोदयसाधनानि | संत्यज्य कस्माद् उ पुराणि तानि प्राप्तस् त्व् इदं स्थानम् अनन्तदुःखम् || GओMक्_१२१ ||
SK
देवालयं दिव्यसुखोपभोगं को नाम संप्राप्य शुभैर् अतुल्यैः | नित्यज्वलद्वह्निशिखाकरेण संप्रार्थयेद् भीमम् अपायगर्तम् || GओMक्_१२२ ||
SK
बोधिसत्त्वः प्राह |
SK
मत्तालिकोलाहलसंकुलानि वनानि पुष्पोज्ज्वलमस्तकानि | संत्यज्य नागा व्यसनं सहन्ते यया तयेच्छालतयागतो ऽहम् || GओMक्_१२३ ||
SK
राज्यानि विस्तीर्णधनोज्ज्वलानि विहाय नारीमुखपङ्कजानि | युद्धे म्रियन्ते बहवो नरेन्द्रा यया तयेच्छालतयागतो ऽहम् || GओMक्_१२४ ||
SK
समुत्पतत्तुङ्गतरङ्गरौद्रे भ्रमज्जलावर्तविमुक्तनादे | महोदधौ यान्ति नराः प्रणाशं यया तयेच्छालतयागतो ऽहम् || GओMक्_१२५ ||
SK
निरत्ययात्यन्तिकसौख्यसाधनं नरामरश्रीसुखसिद्धिमार्गम् | मुनीश्वराणां व्रतम् उत्सृजन्ति यया तयेच्छालतयागतो ऽहम् || GओMक्_१२६ ||
SK
तेषां मुनीनां विगतव्यथानां देयं कथं पादरजो न मूर्ध्नि | यैर् लङ्घितास् तीव्रविषप्रचण्डा आशाप्रपाता बहुदुःखभीमाः || GओMक्_१२७ ||
SK
किं तद् भवेद् दुःखम् अतीवतीव्रं का वा विपत्तिर् बहुदुःखयोनिः | तृष्णाविषाग्निक्षतचित्तवृत्तेर् या दूरतः संपरिवर्तिनी स्यात् || GओMक्_१२८ ||
SK
अपि च हे साधो
SK
कर्मणा परिकृष्टो ऽस्मि वर्तमानो ऽपि दूरतः | कर्षति प्राणिनस् तत्र फलं यत्र प्रयच्छति || GओMक्_१२९ ||
SK
अपि च
SK
कति वर्षसहस्राणि कति वर्षशतानि च | प्रदीप्तम् आयसं चक्रं मम मूर्ध्नि भ्रमिष्यति || GओMक्_१३० ||
SK
पुरुषः प्राह |
SK
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च | प्रदीप्तम् आयसं चक्रं तव मूर्ध्नि भ्रमिष्यति || GओMक्_१३१ ||
SK
बोधिसत्त्वः प्राह |
SK
एतद् भासुरवह्निपिङ्गलशिखाज्वालाकलापोज्ज्वलं को ऽन्यो ऽवभ्रमितं प्रयास्यति समं छित्त्वा परः चैष्यति |
SK
पुरुषः प्राह |
SK
यो मातर्य् अपकारकार्यम् अपरः कृत्वा समायास्यति तस्येदं शिरसि भ्रमिष्यति पुनर् मूर्ध्ना [!] तव प्रच्युतः || GओMक्_१३२ ||
SK
अथ बोधिसत्त्वस् तेन मूर्ध्ना [!] प्रविदाहजेन तीव्रेण दुःखेन समाकुलहृदयो ऽपि सत्त्वेष्व् अनन्तेषु समुत्पादिततीव्रकारुण्याशयस् तं पुरुषम् आबभाषे |
SK
क्षपितसकलरागक्लेशजालान्धकारा गगनतलनिलीना योगिनो ये नमस्याः | स्फुरितकटकहाराः प्रज्वलन्मौलयो ये पुनर् अमरसमूहास् ते ऽपि शृण्वन्तु सन्तः || GओMक्_१३३ ||
SK
कृत्वा दुश्चरितं स्वमातरि जगत् कृत्स्नं यदि प्रोद्वहेद् एतत्प्रज्वलिताग्निरागकपिलं चक्रं बृहन् मूर्धनि | कल्पान् कल्पसमैर् अहोभिर् अयुतान् वोढुं चिरायोत्सहे सत्त्वार्थं प्रतिपद्य मानव हि मे चित्तं न संखिद्यते || GओMक्_१३४ ||
SK
अथ तस्य सर्वसत्त्वप्रियस्य मैत्रकन्यकस्य बोधिसत्त्वस्य वचनानन्तरम् एव मूर्ध्ना [!] समुत्पत्योत्क्षिप्तम् इव तच् चक्रं सप्ततालोच्छ्रयाच् चाक्रं नभस्तलं समुत्पत्यावतस्थे |
SK
रेजे तच् चपलानिलाहतचलज्ज्वालाकलापोज्ज्वलं चक्रं खे परिवर्तमानम् असकृत्प्रोन्मुक्तभीमस्वनम् | उद्यन् [!] बिम्बम् इवारुणस्य सकलं प्रोन्मुक्तरश्म्युत्करं रत्नाद्यैः प्रविलम्बमानम् अमलैर् वैडूर्यभित्त्याश्रयैः || GओMक्_१३५ ||
SK
ततः स्रवन्निर्झरवारिचालिनः समीरणोल्लासितपुष्पशाखिनः | नभोविचुम्ब्यायतशृङ्गबाहवश् चकम्पिरे भूमिभृतो हता इव || GओMक्_१३६ ||
SK
भुजंगविक्षोभसमुद्गतोर्मयः पयोधरध्वानगभीरनादिनः | जलालया रत्नशिखानिवासिनस् तदातिवेलासलिलैर् ललङ्घिरे || GओMक्_१३७ ||
SK
प्रमुक्तनिःशेषमयूखभासुरं रराज खे मण्डलम् अंशुमालिनः | रवेर् मयूखाङ्कुरदन्तुरान्तराद् दिशः समन्ताद् ददृशुः स्फुटश्रियः || GओMक्_१३८ ||
SK
स्फुरत्तडिद्दामविराजितोरसः सुरेन्द्रचापप्रतिबद्धकङ्कणाः | पयोमुचः किंचिदवाश्रुताम्भसो वितानवद् व्योमनि ते विरेजिरे || GओMक्_१३९ ||
SK
स्रजो विचित्रा विनिपेतुर् अम्बराद् वितुष्टुवुर् हर्षतरा दिवौकसः | चिरप्रगाढव्यसना हतार्तयः क्षणाद् अभूवन् बहवो निरामयाः || GओMक्_१४० ||
SK
ज्वलति विषमचक्रे प्रान्तदीर्णोर्ध्वकायो गलितरुधिरधारासिक्तसर्वाङ्गकायः | भगवति गुणराशौ संप्रसाद्य स्वचित्तं स्वगृहम् इव स साधुर् द्याम् अयात् तत्क्षणेन || GओMक्_१४१ ||
SK
दानोदकमहत्तीर्थे शीलशौचसुनिर्मले | क्षमासुरभिशीताच्छे वीर्यागाधप्रवाहके || GओMक्_१४२ ||
SK
ध्यानस्तिमितगम्भीरे प्रज्ञापद्मप्रबोधके | तस्मिन् बोधिमहातीर्थे स्थित्वा बोधिपुरोत्सुकः || GओMक्_१४३ ||
SK
प्रक्षालयञ् छेषपापं तुषिते ऽसौ ययौ मुदा | तत्रस्थो ऽप्य् अचिरं रेमे दृष्ट्वा लोकं कृपान्वितः || GओMक्_१४४ ||
SK
तत् किम् इदम् उपनीतम् | एवं हि मातर्य् अपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर् मातरः शुश्रूषणीया इति ||
SK
इति श्रीदिव्यावदाने मैत्रकन्यकावदानं समाप्तम् ||
SK
७. Mअत्सरनन्द
SK
स्वयंकृतः सर्वसुखोपरोधी मात्सर्यतुल्यो ऽस्ति कलिर् न लोके | यत्राभिरूढा व्यसनौघमग्ना भवन्ति निश्वासपरा मनुष्याः || GओMन्_१ ||
SK
एवम् इदम् उच्यमानम् अलं संवेगाय | तद्यथानुश्रूयते |
SK
श्रावस्त्यां नन्दो नाम सार्थवाः प्रतिवसति स्म | तस्य जन्मान्तरे पात्रातिशयप्रतिपादितत्वात् तद्दानबीजस्यापरिमाणो भोगस्कन्धः प्रादुर् बभूव | मात्सर्याभ्यासात् तु नोत्सहते स्म किं चिद् अपि कस्मै चित् प्रदातुम् |
SK
तस्य क्षेत्रातिशयपतितं दानबीजं पुराणं नैकाकारं विभवनिचयं स्फीतम् आविश् चकार | पूर्वं दानाकृतपरिचयाध्याशयत्वात् तु नासौ दातुं किं चित् प्रभवति तदा मत्सराक्रान्तचेताः || GओMन्_२ ||
SK
त्यागस्यैव फलानुबन्धमधुरां चित्रां विपाकश्रियं संप्राप्य प्रहरन्त्य् अनर्थरुचयो मूलेषु ये संपदाम् | ते संत्यज्य निदाघकालसुभगान् इन्दोः कराञ् शीकरान् ह्लादायानुपतन्ति दावदहनांश् चञ्चच्छिखासंचयान् || GओMन्_३ ||
SK
नैवात्मनासौ बुभुजे कदर्यो भोगान् ददौ नापि सुहृज्जनेभ्यः | मात्सर्यभूतग्रहलुब्धचेता द्रव्यार्जनं केवलम् एव चक्रे || GओMन्_४ ||
SK
प्रविष्टपूर्वा न गृहं कदा चिद् द्विजातयस् तस्य कपालहस्ताः | शुश्राव स प्रव्रजिताननेभ्यो न दक्षिणादेशनमङ्गलानि || GओMन्_५ ||
SK
वनीयकास् तस्य गृहाजिरेभ्यो व्रजन्ति निश्वस्य विशुष्कवक्त्राः | बलिं न काका अपि नाम तस्य स्मरन्ति सिक्थप्रकरोपहारम् || GओMन्_६ ||
SK
विवाहकालेष्व् अपि नाम तस्य वादित्रशब्दो न समुच्चचार | आवाहकालेष्व् अपि तस्य गेहे सुहृज्जना दीनमुखा बभूवुः || GओMन्_७ ||
SK
दूरात् श्मशानम् इव तस्य विवर्ज्य गेहं अन्येन याचकजनस् त्वरितं जगाम | नामापि तस्य परिकीर्त्य किल प्रभाते लेभे न कश् चिद् अशनं दिवसावसाने || GओMन्_८ ||
SK
श्रुत्वापि दाननियतां स कथां चकम्पे दृष्ट्वापि याचनकम् उद्विजते कदर्यः | त्यागप्रियैः सह चकार न लोकयात्रां नन्दो जहास किल दायकम् ईक्षमाणः || GओMन्_९ ||
SK
दृष्ट्वा परस्यापि स देयधर्मान् ईर्ष्याकषायाक्षिपुटो बभूव | त्यागात्मभिः सार्धम् अनार्यकर्मा चकार नैव क्रयविक्रयं सः || GओMन्_१० ||
SK
अथ नन्दः कदा चिन् निष्प्रतीकारपरुषवेदनाक्रान्तदेहो नियतम् अहं मरिष्यामीत्य् उत्पन्नभयविषादशोकदैन्यमानसः पुत्रं चन्दनम् आहूयाब्रवीत् | वत्स चन्दन मया हि महता परिश्रमेण द्रव्यम् उपार्जितं परिपालितं च | तत् पुत्र मम प्रियम् अनुस्मरता न त्वया कस्मै किं चिद् अपि प्रदेयम् इति |
SK
चण्डालशालां व्रजत प्रगल्भान् पश्यामि युष्मान् न पुनर् यथाहम् | स याचकान् नित्यसमीक्ष्यकारी प्रोवाच रोषस्फुरिताक्षिकोशः || GओMन्_११ ||
SK
कृत्वा स कर्माणि निकृष्टकर्मा मृतस् तपस्वी मृत एव पूर्वम् | चण्डालनार्याः प्रतिसन्धिबन्धं चकार कुक्षौ क्षतलोचनायाः || GओMन्_१२ ||
SK
सत्त्वानां चरितं चित्रम् अचिन्त्या कर्मणां गतिः | मलिना बत कामानां वृत्तिः पर्यन्तदारुणा || GओMन्_१३ ||
SK
अन्धा वृद्धा दरिद्रा च चण्डाली दीर्घरोगिणी | संरागायतनं याता धिक् फलत्वं प्रसङ्गिनाम् || GओMन्_१४ ||
SK
अथ सा वृद्धचण्डाली क्रमेण दारकं प्रसूता | तस्या एतद् अभूत् | नूनम् अहं देवताभिर् अनुकम्पिता येन मे पुत्रको जातः | नियतम् अयम् आयुष्मान् अभिवर्धमानो ममान्धाया यष्टिभूतो भविष्यतीति | सा प्रहर्षाक्षिप्तहृदया समीपपरिवर्तनीं चण्डालीम् अब्रवीत् | ज्ञायतां तावद् भगिनी कीदृशो ऽयं दारक इति | सा तम् आलोक्याब्रवीत् | ईदृशो मा भूत् कश् चिद् इति | कथं कथम् इति च | तत्र पर्यनुयुक्ता प्रोवाच |
SK
निशान्ताङ्गारसंकाशः कुब्जश् चिपिटनासिकः | अन्धः संकुचिताङ्गश् च तव पुत्रो ऽयम् ईदृशः || GओMन्_१५ ||
SK
सा नैराश्योपहतसंताना आह | हा हा हताहम् अधन्येत्य् एवं परं वैकल्यम् आजगाम | आह च |
SK
न तथानागताः पीडां कुर्वन्त्य् अर्थाः शरीरिणाम् | संप्राप्ता ध्वंसमानास् तु जनयन्ति यथा व्यथाम् || GओMन्_१६ ||
SK
अथ सा जर्जरचण्डाली व्यसनविकृतहृदया सस्वरं रुरोद |
SK
पतिताहम् अनर्थकर्दमे छलिता पूर्वकृतेन कर्मणा | किम् इयं मृतमारिता कृता विधिना निष्करुणेन मे पुनः || GओMन्_१७ ||
SK
व्यसनं निरुपायदारुणं व्यसनस्यैव ममोपरि स्थितम् | अनिमित्तखरेव लक्ष्यते मयि दैवस्य गतिर् गरीयसी || GओMन्_१८ ||
SK
अहम् एव खलूरिका कृता कृपणा किं नु विपत्तिपत्त्रिणा | विधिना कृपणप्रमाथिना कुपितेनेव विहीनकर्मणा || GओMन्_१९ ||
SK
अपयुक्तविलोचनां सतीम् अशनप्रस्रवणादिवर्जिताम् | जरतीम् उपहत्य को गुणो वद मां निर्घृणचित्त दैव हे || GओMन्_२० ||
SK
एवम् अन्यथा च सा तपस्विनी बहुप्रकारं विरुरोद |
SK
अथ गर्भमलोपलिप्तदेहं तनयं तं तरुणं व्रणायमानम् | कुपितेव खरे महीतले सा विनिचिक्षेप रुजाहतं रुदन्तम् || GओMन्_२१ ||
SK
कर्माणि तीव्रपरितापफलानि कृत्वा किं रोदिषि त्वम् अधुना हतभागधेय | दुःखं मया सह सहस्व बहुप्रकारं त्वं पुत्रकेति विललाप तपस्विनी सा || GओMन्_२२ ||
SK
मिथ्याविकल्पपरिणामसुखानुपाती स्नेहो विवृद्धिम् उपयाति सुखे स्थितानाम् | दुःखोपतप्तमनसां शिथिलीभवन्ति पाशास् त्व् अमी प्रियविकल्पमया जनानाम् || GओMन्_२३ ||
SK
अथ स तपस्वी चाण्डालदारको गर्भमलाक्लेदोपलिप्तबीभत्साश्रयस् तीव्रामगन्धः कृमिमक्षिकाशतनिपानभूतः पिपीलकगणाहृतकष्टाविस्पष्टचेष्टकरचरणवदनो मांसपिण्ड इव प्रत्यग्रः क्षितितलोपनिक्षिप्तो वायसैर् अप्य् अभिभूयमानो नारक इव स्वकर्मावधूतजीवितशेषः परं कृच्छ्रम् उद्वहति स्म |
SK
तस्य कर्मापराधेन मातुः स्तन्यं क्षयं गतम् | उचिताम् अपि सा भिक्षां न लेभे दुःखभागिनी || GओMन्_२४ ||
SK
सा प्रसूतिपरिक्लेशपरिक्षामतराश्रया | जरारुजापरिक्लिष्टा प्रेतीवाभूद् भयंकरी || GओMन्_२५ ||
SK
आचाममात्राम् अपि नाम नासौ लेभे शुनाम् अप्य् अनिवारणीयाम् | तस्यैव वा कर्मभिर् आत्मजस्य स्वकर्मभिर् वा परिणामतिक्तैः || GओMन्_२६ ||
SK
अथ स चाण्डालदारको दैवसामार्थ्यात् क्रमेण यदा चङ्क्रमणक्षमः संवृत्तस् तदास्य मात्रा दण्डः खण्डमल्लकं चार्पितं गच्छेदानीम् अधन्यानुभवाशुभानां कर्मणां फलविपाकम् इति | अथ स चण्डालशिशुर् भिक्षाहेतोश् चन्दनस्यैव गृहम् उपजगाम |
SK
पूर्वाभ्यासेन तेनैव जगामासौ स्वम् आलयम् | कर्मैवात्यर्थम् अभ्यस्तं देहिनां देशिकायते || GओMन्_२७ ||
SK
अद्राक्षीच् चन्दनः सार्थवाहस् तं चाण्डालकुमारकं दण्डखण्डशरावव्यग्रहस्तं लालाजलपरिक्लिन्नवदनं भिनिभिनायमानमक्षिकाशतनिपानभूतम् बाह्याध्यात्मिकमलोपहतगात्रं रथ्यारेणुविरूक्षितकतिपयशिरोरुहं प्रकृतिखरदर्भसंस्तरपरिवर्तनविलिखिततनुम् अकृतशौचसंस्कारविधानं विकृतनासिकाबिलागलितसिंहाणखण्डपर्यवनद्धबीभत्साननं वीथीमुखात् प्रविचित्य धान्यपुलाकान् रोमन्थायमानं पूतनारूपम् इवातिविरूपं मूर्तिमन्तं संवेगं साक्षाद् इव पाप्मानम् अलक्ष्मीपुञ्जम् इव संपिण्डितम् अपूर्वम् इव पिशाचनिर्माणं विपाकसर्वस्वम् इवाशुभस्य कर्मणः समाहारम् इव संसारदुःखानां राहुमुखान्यम् इव जगच्चक्षुषां रहस्यभूमिम् इवानादेयताया विग्रहवन्तम् इव परिभवम् उपनिघातम् इव नगरस्य प्रत्यादेशम् इवापकारिणां निलयम् इवाधन्यतायाः पदम् इव दौर्भाग्यस्य गृहद्वारैकदेशे निषण्णं दण्डेन काकान् निवारयन्तम् | दृष्ट्वा च पुनः पूर्ववैरानुशयोद्बोधितकोप इव सरभसो दौवारिकम् अब्रवीत् | अरे कापुरुष निर्वासयैनम् अमङ्गलम् अलक्ष्मीकम् अप्रेक्षणीयं चण्डालाधमम् | तथा चैनं निर्भर्त्सय यथा न पुनर् इहागच्छेद् इति |
SK
स तथेति प्रतिश्रुत्य तं चण्डालकुमारकम् | दण्डेन प्रेरयाम् आस परुषां गिरम् उद्गिरन् || GओMन्_२८ ||
SK
यदि त्वां पुनर् आयातम् इह पश्यामि कश्मल | अस्मात् कष्टतरं ते ऽहं करिष्यामीति निग्रहम् || GओMन्_२९ ||
SK
क्रौर्याभ्यासावलिप्तस्य मनसो वृत्तिवैकृतम् | न हि संकोचम् आयाति खलानां कृपणेष्व् अपि || GओMन्_३० ||
SK
पपात भूमौ कृपणः स बालो दण्डाभिघातक्षतपृष्ठवंशः | प्रकाशयन् कर्मफलं स्वम् एव कर्मातिरौद्रं नरकस्य तस्य || GओMन्_३१ ||
SK
अथ स तपस्वी भग्नशिरःकपालभागो विकुञ्चितजानुमण्डलः पाषाणशकलकपालशर्करापरिक्षतक्षामजङ्घाबाहुदण्डकः समन्ततो विगलितरुधिरधारावसिच्यमानविग्रहो महीरजःकपालावरुद्धवदनविवरो विक्षिप्तदण्डकः संचूर्णितमल्लको धरणितलविकीर्णभिक्षाशेषस् तीव्रवेदनाभ्याहतशरीरो मत्स्य इव प्रतप्तसिकतामध्यगतः संपरिवर्तते स्म | अथास्य माता चिन्तयाम् आस | किं नु मे पुत्रकः प्रपाते पतितः स्याच् छुना वा भक्षित उत गवा जीविताद् व्यपरोपितः परिभूय वा बालदारकैर् विहेठितो मार्गप्रनष्टो वान्येन पथा गतः | किं वा नागच्छतीति सा पुत्रस्नेहाकृष्टहृदया पुत्र पुत्रेति क्रन्दती तं देशम् उपजगाम | स च बालदारको जनन्याः स्वरं प्रत्यभिज्ञाय भृशतरं विचुक्रोश |
SK
समानसुखदुःखानां सुहृदाम् अपि संगमे | नवीभवन्ति दुःखानि व्यतीतान्य् अपि देहिनाम् || GओMन्_३२ ||
SK
मातेत्य् अपूर्वम् एवैतद् विश्रम्भायतनं भुवि | पुत्र इत्य् एव निष्यन्दः स्नेहस्यास्य दुरत्ययः || GओMन्_३३ ||
SK
अम्बेति दीनां गिरम् ईरयन्तं सा तं परिष्वज्य तनुप्रलापम् | रुरोद तीव्रायतदीनकण्ठा निनादयन्ती पुरचत्वराणि || GओMन्_३४ ||
SK
कस्य पुत्र दया नासीत् त्वयि दुःखैकभाजने | गर्वितः को न्व् असौ लक्ष्म्या गजकर्णाग्रलोलया || GओMन्_३५ ||
SK
प्रकाशितम् इदं केन कृपणे त्वयि पौरुषम् | त्वयि प्रहरतः कस्य भूमौ न पतितः करः || GओMन्_३६ ||
SK
हतस् त्वं केन मे वत्स निरनुक्रोशचेतसा | निहतः पूर्वकेणैव कटुपाकेन कर्मणा || GओMन्_३७ ||
SK
इदम् अनार्यताचिह्नं केन त्वयि विदर्शितम् | को न्व् असौ मानुषाकारो रक्षसाम् अनुशिक्ष्यते || GओMन्_३८ ||
SK
आयसं हृदयम् कस्य कस्य वज्रमयः करः | कस्य वाक् सविषा कस्य त्वयि नासीद् दयालुता || GओMन्_३९ ||
SK
निहीनकुलजे बाले सुहृद्बन्धुविवर्जिते | जात्यन्धे परपिण्डाशे त्वयि किं रोषकारणम् || GओMन्_४० ||
SK
स बालभावात् कृपणो वराकः स्वभ्यस्तमात्सर्यतया तया च | शुशोच भैक्षं क्षितिविप्रकीर्णं न तु क्षरच्छोणितम् आत्मदेहम् || GओMन्_४१ ||
SK
अथ वृद्धचण्डाली तं दारकं क्षतविक्षतशरीरं शनैः शनैः पाणिना परामृशन्ती प्रोवाच | केन ते पुत्रकेयम् अवस्था कृता निर्दयेन पापकर्मणा पुरुषाधमेनेति | स प्राह | अम्ब आर्यचन्दनेन पुरुषो ऽभिहितो निर्वासयैनम् अमङ्गलम् अलक्ष्मीकम् अप्रेक्षणीयं चण्डालाधमम् | तेनाहम् एवं पीडित इति | अथ सा वृद्धचण्डाली दीर्घम् उष्णं विनिश्वस्य पञ्चाङ्गुलम् अभिनिपीडयन्ती कोपपरुषाक्षरम् इत्य् अवोचत् |
SK
अल्पायुषि कुतस् तस्मिन्न् आर्यता पुरुषाधमे | व्यसनोपहते बाले त्वयीदं यस्य वैकृतम् || GओMन्_४२ ||
SK
एवं तस्याः शोकवशम् उपगतायाः कृपणायाः समीपे महाजनकायः संनिपतितः | अत्रान्तरे
SK
आकृष्यमाणहृदयः कृपया महत्या वैनेयकृत्यम् अवलम्ब्य विनायकाग्र्यः | प्राविक्षद् अक्षतमना भगवान् पुरीं तां बुद्धो विबुद्धनवपङ्कजसंक्रमेण || GओMन्_४३ ||
SK
चामीकराद्रिम् इव जङ्गमम् आपतन्तं तं तायिनं स्वकिरणैः परिविष्टमूर्तिम् | पौराः प्रसादशिथिलावनतैः शिरोभिर् दूरात् प्रणेमुर् उपशान्तभवप्रपञ्चम् || GओMन्_४४ ||
SK
सितभवनगतास् तं संभ्रमोद्भ्रान्तचेष्टास् तडित इव सुमेरोः शृङ्गपर्यन्तलग्नाः | उपशमम् इव साक्षाद् आपतन्तं तरुण्यो मणिगुणकुसुमौघैर् अर्चयाम् आसुर् आर्यम् || GओMन्_४५ ||
SK
अपेतपाषाणकपालशर्करः समः स निम्नोन्नतवर्जितो ऽभवत् | भुवः प्रदेशो हरितार्द्रलेपनः प्रमुक्तपुष्पप्रकरोत्तरच्छदः || GओMन्_४६ ||
SK
निबद्धजीमूतवितानम् अम्बरं समुद्गतेन्द्रायुधतोरणं बभौ | ववुः शनैः स्पर्शसुखाः समीरणाः सिरिन्ध्रिकापुष्परजोविकर्षिणः || GओMन्_४७ ||
SK
तमालनीलोत्पलपत्त्रवृष्टयो निपेतुर् अन्तर्गतमत्तषट्पदाः | विपाटितस्येव विमानकोटिभिर् नभस्तलस्यावयवास् ततस् ततः || GओMन्_४८ ||
SK
पुण्यप्रभावजनिते भगवान् निषद्य पद्मे सहस्रदलके रथचक्रमात्रे | अम्लानपुण्यपरिपाकविमुक्तगन्धे तं चन्दनं परमकारुणिकः शशास || GओMन्_४९ ||
SK
येनार्जितं धनम् इदं परिपालितं च स्वेदोपदिग्धवपुषा कुटुकुञ्चकेन | नन्दः पिता तव स एव फलानि भुङ्क्ते तिक्तानि मत्सरविषद्रुमसंभवानि || GओMन्_५० ||
SK
स्थानाद् इतः पुनर् अयं कलुषान्तरात्मा यास्यत्य् अपायम् अनुपायभयप्रतिष्ठम् | अर्चिष्मता हुतभुजा विनिकीर्णदेहा यस्मिन् वसन्ति विवशा बहवः कदर्याः || GओMन्_५१ ||
SK
एतां सुहृज्जनविषादकरीम् अवस्थाम् आलोक्य मोहतमसः प्रतिबिम्बभूताम् | स्वाङ्गान् निकृत्य पिशितान्य् अपि को न दद्यात् संसारवर्त्मनि नरः परिवर्तमानः || GओMन्_५२ ||
SK
क्लेशान्धकारवदना विकरालदंष्ट्रा दावाग्निदग्धशिखरा इव शैलपादाः | आयासिनो यद् अनवाप्तजला भ्रमन्ति प्रेताः फलं तद् अपि लोभविषद्रुमाणाम् || GओMन्_५३ ||
SK
तृष्णाविदारितमुखाः समुपेत्य बाला दूर्वाप्रवालहरितोपनितम्बलेखाम् | संशुष्कपङ्कपटलप्रकरान्तरालां पश्यन्ति के चिद् अनलज्वलितां स्रवन्तीम् || GओMन्_५४ ||
SK
देहान् दहन्ति दहना इव चन्द्रपादाः शीता रवेर् अपि करा हि समुद्गिरन्ति | अङ्गारचूर्णपरुषाश् च भवन्त्य् अमीषां मेघाम्बुशीकरमुचो ऽपि कदम्बवाताः || GओMन्_५५ ||
SK
आशीविषैर् इव निरीक्षितमात्रशोभाः प्रेतैर् द्रुमा विमलनीलचलत्पलाशाः | सद्यो भवन्ति परिशुष्कविशीर्णपर्णाः प्रत्यादिशन्त इव मत्सरिणो मनुष्यान् || GओMन्_५६ ||
SK
प्रेतोपपत्तिनियता व्यसनाभिघाता व्यक्तीभवन्ति मनुजेष्व् अपि नैकरूपाः | क्षुत्तर्षशीतपरितापभयप्रकारास् त्यागद्विषां विपद् अतः परतो ऽनुमेया || GओMन्_५७ ||
SK
पञ्चोपतापविरसाक्षरम् अप्रगल्भं देहीति यद् वदति दुर्बलमन्दमन्दम् | वित्तावलिप्तमनसः कुलजो ऽपि साधुः सा नीचता विभवलोभपराजितानाम् || GओMन्_५८ ||
SK
आशाविघातभयसंकुचितश् च दीनो देहीत्य् अपि प्रसहते कृपणो न वक्तुम् | यन् निर्धनो धनवतः पुरुषान् अकाले मौनव्रतं तद् अपि लोभकृतं नराणाम् || GओMन्_५९ ||
SK
न जनस्य मलो ऽस्ति लोभतुल्यो न च मात्सर्यसमः परोपघातः | न च याचकतुल्यम् अस्ति मित्रं जगतां त्यागसमो न बन्धुर् अन्यः || GओMन्_६० ||
SK
परिपाकविमुक्तगन्धकोशं भ्रमराः पद्मम् इव प्रकामगन्धम् | अपनीतपरिग्रहावलेपं बहवः सत्पुरुषं भजन्ति सन्तः || GओMन्_६१ ||
SK
स्वमदार्द्रविशेषका गजेन्द्रा नवकार्तस्वरबद्धपाशकक्षाः | अनुयान्ति जनं प्रदानशीलं जविनश् चामरिणश् च वाजिमुख्याः || GओMन्_६२ ||
SK
विनयाभरणाः क्रियाभिरम्याः प्रमदाश् चित्रकलाविदग्धभावाः | उपयान्ति नरस्य दासभावं कुशलैर् एव वशीकृताः पुराणैः || GओMन्_६३ ||
SK
भवनानि विभूतिमन्ति मेरोः शिखराणीव मनोज्ञदर्शनानि | स्वकृतानवगीतकर्ममायारचितान्य् एव मुदा विशन्ति सन्तः || GओMन्_६४ ||
SK
विनिमीलितजातिवाददोषेष्व् अनपाकृष्टचरित्रभूषणेषु | उपपत्तिर् अदुर्लभा कुलेषु व्यपनीताविलमत्सराश्रयाणाम् || GओMन्_६५ ||
SK
कुसुमस्तबकाभिरामशोभं नरनारीनयनद्विरेफहारि | कुशलस्य फलं वपुर् नराणां मतिवीर्याचपलप्रयामधीरम् || GओMन्_६६ ||
SK
विकसत्कुमुदाकरातिरेकप्रभया यद् गगनं स्फुरन्ति कीर्त्या | गतलोभमलस्य ता नराणां द्युतयस् त्यागनिशाकरस्य रम्याः || GओMन्_६७ ||
SK
विशदागलितैः शिरोमणीनां किरणैर् यच् छलयन्ति पादपीठम् | नृपतेर् अनुजीविनो विनीता मधुरं त्यागवनस्पतेः फलं तत् || GओMन्_६८ ||
SK
कृपणासु बवोपभोगमात्रास्व् अथ वा कैव कथा विनाशिनीषु | निरवद्यसुखानुबन्धि रम्यं फलम् आप्नोति सनातनं प्रदानात् || GओMन्_६९ ||
SK
अवधूय बलं शमद्विषां यज् जलदानाम् इव मण्डलं नभस्वान् | पदम् अव्ययम् आप्नुवन्ति बुद्धा भगवन्तस् तद् अपि प्रदानबिजम् || GओMन्_७० ||
SK
अभिभूय परप्रवादिपूगान् परमार्थं गमयन्ति शासनं स्वम् | मुनयो भुवनैकशासितारस् तद् इदं त्यागपरंपरावसानम् || GओMन्_७१ ||
SK
अथ भगवान् पात्रीकृताध्याशयं तं जनम् अवेत्य रत्नत्रयाविचलितप्रसादं संसारवासविमुखं भवदुःखोपशमप्रतिसंयुक्ताम् एव कथां आविश् चकार |
SK
दुःखान्य् अमूनि सति जन्मनि संभवन्ति क्षीणे च जन्मनि न दुःखम् उपैति भूयः | जन्मक्षयाय मतिमान् प्रयतेत तस्माद् यः प्राप्तुम् इच्छति न दुःखशताभिघातम् || GओMन्_७२ ||
SK
दुःखं सकारणम् इदं समुपैत्य् अनादिसंतानवर्तिभयशोकविषादयोनि | तृष्णां प्रतीत्य विपरीतसुखाभिमानव्यामोहनीं त्रिभवनाटकयोगधूर्तां || GओMन्_७३ ||
SK
एषो ऽहम् इत्य् उचित एव मनोविदाही सत्कायदर्शनमयः पुरुषस्य कीलः | जन्माध्वनि भ्रमयतीदम् अनादिमध्यं संसारचक्रम् अपरिग्रहम् अप्रशान्तम् || GओMन्_७४ ||
SK
स्थित्वा शीले विगतरजसि प्राप्य चेतः समाधिं प्रज्ञालोकैर् मनसि शयितं ध्वान्तम् उल्लिख्य कृत्स्नम् | जन्माम्भोधेर् व्यसनमहतः क्षेमम् आसाद्य पारं संशान्तात्मा न दिवि भुवि वा भिक्षुर् आयाति संख्यम् || GओMन्_७५ ||
SK
यैर् निर्दग्धा मतिहुतभुजा स्कन्धसंबन्धलक्ष्यी तृष्णा नैकव्यसनविशिखापातसंधानमौर्वी | ते ऽस्मिन् धन्या जगति सुखिनस् ते त एवानवद्यास् तेषां भद्रं स्थितम् अभिमुखं ते भयेभ्यो विमुक्ताः || GओMन्_७६ ||
SK
रिक्ताकारद्रवरतिरसास्वादपर्यस्तबुद्धेर् लेशनापि व्यनुसृतवतो जालिनीं चित्रमायाम् | आयासिन्यः शिरसि विपदः संचरन्ति प्रगल्भा जन्माभ्यस्तं सुचरितफलं व्यर्थम् एव प्रयाति || GओMन्_७७ ||
SK
आयासिनीं भवविभूतिम् अवाप्तुकामैः शान्तिं परां च परतः कुशलं प्रचेयम् | आशीविषो नरपतेर् निधनाय मुक्तो हारो बभूव कुशलैः स्फुटचन्द्रगौरः || GओMन्_७८ ||
SK
किं च भूयः
SK
दुःखद्विषा हृदि न लोभकलिर् निषेव्यो जन्मान्तरोपचितलोभविषाशयस्य | शान्तात्मनो ऽपि किल निर्विवरं बभूव भक्ताभिहारसमये मुखम् एव भिक्षोः || GओMन्_७९ ||
SK
तस्मात् प्रदानसलिलैः स्नपयन्तु सन्तो मात्सर्यपङ्कमलिनानि मनोगृहाणि | लोभानलेन्धनम् इदं निधनं धनं वो यावन् न याति विपदग्निशिखावलीढम् || GओMन्_८० ||
SK
श्रुत्वा वचांसि स जनो जगदेकबन्धोर् नन्दस्य तां च विपदं विपुलाम् उदीक्ष्य | विक्षिप्य मत्सरमयीं मनसस् तमिस्रां दानादिकं सुचरितं प्रथयां बभूव || GओMन्_८१ ||
SK
इति मत्सरनन्दावदानम् ||
SK
८. Mएघ
SK
पुण्यैर् वितृप्तिम् उपयान्ति न बोधिसत्त्वाः कामैः प्रमादिन इव प्रतिपत्तिवामैः | राज्याश्रयाण्य् अपि सुखान्य् अवधीर्य धीराः पुण्याय पुण्यनिधयः श्रमम् आश्रयन्ते || GओMए_१ ||
SK
तद्यथानुश्रूयते
SK
बोधिसत्त्वः किल भगवान् प्रकृतिदक्षिणो दक्षिणापथे राजा बभूव ||
SK
संतर्पयाम् आस यतः स लोकं दानाम्बुभिः सस्यम् इवाम्बुगर्भः | ततो महामेघ इति क्षितीशो यथार्थनामातिशयो बभूव || GओMए_२ ||
SK
न तस्य राज्यद्युतिविस्तरेषु व्यासक्तदीनं हृदयं बभूव | अनर्थभूतान् स परार्थम् अर्थान् द्रुमः फलानीव बभार साधुः || GओMए_३ ||
SK
बभूव तस्मिन् पितरीव लोको विश्रम्भसंभोगसुखप्रगल्भः | सुतेष्व् इव प्रेमनिबद्धभावो बभूव सो ऽपि क्षितिपः प्रजासु || GओMए_४ ||
SK
सगौरवो ऽसौ गुरुषु प्रकृत्या दीनेषु कारुण्यमृदुस्वभावः | कृतापराधेष्व् अपि मैत्रचित्तः समन्तभद्रस् तु सुहृज्जनेषु || GओMए_५ ||
SK
बभूव तस्य ग्रहराजकीर्तेस् तथाग्रहो न स्वपरिग्रहेषु | यथा तदीयासु ममत्वम् आसीज् जनस्य संपत्स्व् अतिशायिनीषु || GओMए_६ ||
SK
जग्राह दानेन स कांश् चिद् एव प्रियाभिधानैर् अपरान् विचित्रैः | तथार्थचर्याभिर् अनर्थभीरुः कांश् चित् समानार्थतयार्थभूतः || GओMए_७ ||
SK
नैवासौ स्वं परहितप्रतिपत्प्रकारो यन् नात्मसाच् च नरलोकपतिश् चकार | को ऽपि त्व् असौ कथम् अपि द्युतिमान् कुतो ऽपि लोकेष्व् असंस्तुतसुहृद् भगवान् बभूव || GओMए_८ ||
SK
स कदा चिन् महीपतिर् अमात्यगणपुरस्कृत उदङ्मुखो ददर्शातसीकुसुमराशिसंकाशम् आकाशम् अवगाह्य पततो भगवतः प्रत्येकबुद्धान् परमविस्मितमना ह्य् अमात्यान् अब्रवीत् || पश्यन्तु भवन्तः ||
SK
एते कषायपरुषाम्बरसंवृताङ्गा व्योमातसीकुसुमराशिनिभं विगाह्य | आयान्ति के ऽप्य् उपशमस्तिमितप्रचारा भूर्जद्रुमा इव मरुद्भिर् उदस्तमूलाः || GओMए_९ ||
SK
अन्यतमो ऽप्य् अमात्यः ससंभ्रमो ऽब्रवीत् || सम्यग् अभिहितं देवेन कुतः ||
SK
आयान्त्य् अमी काञ्चनराशिगौरा विधूतकाषायपटान्तभङ्गाः | परस्परास्लिष्टविकीर्णपक्षाः खं चक्रवाका इव शोभयन्तः || GओMए_१० ||
SK
अपरो ऽप्य् आह ||
SK
स्वच्छेन्द्रनीलोपलरागम् एते नभः समुत्पत्य समापतन्ति | समीर्यमाणाः पवनेन संध्याकलङ्कितान्ताः शरदीव मेघाः || GओMए_११ ||
SK
अनुपतति न चैतान् अभ्रमाली नभस्वान् उपशमरमणीये चापतन्ति प्रकृत्या | चरणतलनिपातो लक्ष्यते व्योम्न्य् अमीषां न च गगनम् असङ्गं पादसंचारयोग्यं || GओMए_१२ ||
SK
यथा यथा ते निकटी भवन्ति व्रतीश्वराः शान्तिम् इवाकिरन्तः | तथा तथा विस्मयहर्षपूर्णा राजन्वती सा समितिश् चकम्पे || GओMए_१३ ||
SK
अतृप्ता एव ते तेषां दर्शनेन महात्मनां | बभूवुर् अथ चातीयुस् तेषां नयनगोचरं || GओMए_१४ ||
SK
अथ स पार्थिवस् तेषां महर्षीणां दर्शनेनावर्जितमनास् तान् अमात्यान् अब्रवीत् ||
SK
इदम् आश्चार्यम् आलोक्य कौतूहलसमाकुलं | मनो मम तद् इच्छामि श्रोतुम् एषां प्रविस्तरं || GओMए_१५ ||
SK
अथ तेषां नृपतिसचिवानाम् अभिज्ञाततरो ऽमात्यस् तं राजानम् अब्रवीत् || श्रूयतां महाराज ||
SK
नोत्पद्यन्ते यदा बुद्धा भगवन्तः कृपात्मकाः | अपास्य रजसां वृत्तिं दीर्घकालानुशायिनीम् || GओMए_१६ ||
SK
आवृते तमसा लोके समन्ताद् अपरायणे | भवत्य् एषां तदा जन्म जन्मपर्यन्तगामिनां || GओMए_१७ ||
SK
प्रतीत्योत्पादगाम्भीर्यदूरानुगतबुद्धयः | प्राप्तशय्यासनरता हीनदीनानुकम्पकाः || GओMए_१८ ||
SK
संसर्गभीरवो नित्यं तूष्णींभावपरायणाः | विचरन्ति जगत्य् एते जङ्गमाः पुण्यराशयः || GओMए_१९ ||
SK
आत्मानम् एकं प्रत्य् एते बुद्धा यस्माद् अतः किल | प्रत्येकबुद्धा इत्य् एवं प्रतिमानम् उपागताः || GओMए_२० ||
SK
अथ स राजा सुतरां तद्गुणाकृष्टहृदयः स तम् अमात्यम् अब्रवीत् || अथ कुत्रामी भगवन्तः प्रतिवसन्तीति || स प्राह ||
SK
मेघस्य राज्ञो विजिते जितात्मन् वसन्त्य् अमी दग्धभवाधिवासाः | हिमाद्रिकुञ्जेषु नमन्नमेरुप्रतानसंसक्तमहीरुहेषु || GओMए_२१ ||
SK
राजोवाच || अस्ति कश् चिद् उपायो येनामी मद्विषयान्तम् आवसेयुर् इत्य् अमात्यो ऽब्रवीत् || अस्ति महाराज यदि मेघराजा प्रार्थ्यते तदन्वभ्यर्थिताः किलामी त्वद्विषयम् अलं कुर्वन्त्यः प्राप्नुवन्ति चेति || अथ बोधिसत्त्वः पुण्येष्व् आदरोपदर्शनार्थम् अमात्यान् आह || तेन हि भवन्तः सज्जीकुरुत || तदनुरूपमानपात्रं स्वयम् एवाहं गत्वा मेघं राजानम् अस्मिन्न् अर्थे विज्ञापयिष्यामीत्य् अध्वसंभ्रान्तास् ते पुरुषा बोधिसत्त्वम् आहुः || नार्हति देवो दूतमात्रसाध्ये प्रयोजने खेदम् आपत्तुम् || अपि च महाराज ||
SK
आज्ञासुखरसं राज्यम् अनेकापायसंकटं | परराष्ट्रम् अतो गन्तुं सहसा तव न क्षमं || GओMए_२२ ||
SK
बोधिसत्त्वो ऽब्रवीत् ||
SK
स्वहिते ऽप्य् अभियुक्तानां करुणाविकलात्मनां | खेदः कः पुण्यकामानां भवाध्वपरिवर्तिनां || GओMए_२३ ||
SK
आत्मत्वेनैव यैर् एव तद् उपात्तं भवत्रयं | जगदत्यन्तबन्धूनां तेषां खेदः कथं भवेत् || GओMए_२४ ||
SK
न च कार्याभिनिष्पत्तिर् दूतसाध्या गरीयसी | नास्माद् गुरुतरं चास्ति करणीयं मम परं || GओMए_२५ ||
SK
न चाज्ञारभसारम्भे न राज्यभारं वहाम्य् अहं | जगतां वयम् एवेह कृपया किंकराः कृताः || GओMए_२६ ||
SK
अनेकापायसंराद्धं राज्यं येनैव भूभृतां | तेनैवास्य क्षमस् त्यागः कुपितस्येव भोगिनः || GओMए_२७ ||
SK
धर्माद् एव च संप्राप्य राज्यश्रीसुखसंपदः | औदासीन्यं कथं नाम कुर्यात् तत्रैव पण्डितः || GओMए_२८ ||
SK
अपि च भदन्तः ||
SK
विना श्रमैस् तुच्छम् असारम् अध्रुवं सुखं न कामाश्रयम् अप्य् अवाप्यते | अशेषलोकत्रयसंपदास्पदं पदं किम् अङ्गाप्रतिमस्वयंभुवां || GओMए_२९ ||
SK
निवेश्य कामेषु चलेषु मानसं मुधैव खिन्ना वयम् अन्यजन्मसु | जगद्धिताय त्व् अधुनाभिवाञ्छिता भवन्तु नस् त्व् अन्तकराः परिश्रमाः || GओMए_३० ||
SK
कथं नु तस्मिन् न यतेत बुद्धिमान् निबध्य यस्मिन्न् अभिलाषमात्रकं | असंस्तुतानाम् अपि चैकबन्धुतां जनो जनानाम् उपयाति तत्क्षणात् || GओMए_३१ ||
SK
तदत्ययाशङ्किभिश् चामात्यैः स महात्मा पुनः पुनः प्रतिबोध्यमानो ऽपि नैव तेषां वचनं प्रमाणयाम् आस ||
SK
त्यक्तस्पृहत्वात् क्षितिपस्य तस्य सर्वत्र कारुण्यमयी प्रवृत्तिः | गुणानुरागात् स तथापि तेषां पूजां मुनीनां प्रति सादरो ऽभूत् || GओMए_३२ ||
SK
गुणोद्गता एव गुणोदितेषु भवन्ति पूजाप्रतिपत्तिनम्राः | य एव रत्नातिशयान्तरज्ञास् त एव तेष्व् अत्यधिकं यतन्ते || GओMए_३३ ||
SK
फलाभिलाषोपहतान्तरात्मा परीक्षते पात्रविशेषम् एव | कृपालुकस् त्व् अर्थितयैव तुष्टः प्रवर्तते याचनकेषु सारं || GओMए_३४ ||
SK
वनस्पतीनाम् इव जन्म येषां परोपकारैकरसस्वभावं | लभेत तेषां हृदये ऽवकाशं खला फलाशा विदुषां कथं च || GओMए_३५ ||
SK
अथ स महासत्त्वो गुणानुवृत्तिस्थिरानुरागेण महता बलेन परिवृतः स्वपुरवराद् विनिर्ययौ || निर्गच्छन्तं चैनं दूर्वाप्रवालकुसुमफलव्यग्रात्युच्छ्रितैकपाणयो द्विजवरा जय जय महाराजेत्य् उच्चैर् आनन्दयाम् आसुः || अथ स महात्मा लौकिकमङ्गलापरिनिष्पत्तिम् अभिप्रकाशयन् बुद्धानाम् एव च भगवतां गुणानुवादं मङ्गलं चोद्भावयन् व्यापिना स्वरेण तान् अमङ्गले मङ्गलाभिनिवेशिनो विप्रान् अब्रवीत् ||
SK
सर्वानर्थोपसंहारप्रगल्भैः क्लेशशत्रुभिः | पराजितानां को नाम विजयः क्लीबचेतसां || GओMए_३६ ||
SK
दुर्भेदं यो बिभेद प्रविचयकिरणैर् ध्वान्तम् अन्तर्निविष्टं तृष्णावल्लीं समूलां भवतरुशिखरारोहिनीं यो ददाह | आगृह्य क्रोधसर्पं हृदयबिलतलात् को ऽपि चिक्षेप यो ऽसौ लोकालोकस्वभावः स जयति भगवान् भग्नसंसारचक्रः || GओMए_३७ ||
SK
अश्रान्तं सुविदूरगोचरचरं दुर्निग्रहं दुर्ग्रहं दुष्पूरं विषयाभिलाषकृपणं मायास्वभावं चलं | एकान्तव्यवदानमार्गविमुखं संक्लेशपक्षोन्मुखं यश् चित्तं दमयां बभूव स जयत्व् अव्यग्रचेता मुनिः || GओMए_३८ ||
SK
अन्तर्द्योतिर् अपास्य यस्य तमसाम् आयामिनीं वासनाम् अक्लिष्टाम् अपि निर्दधाव निवृतिं कालत्रयव्यापिनीं | सर्वाकारपरोपकारविषयं यस्यापरप्रत्ययं प्रज्ञानं भगवान् असौ विजयते बुद्धो जगच्छङ्करः || GओMए_३९ ||
SK
स क्रमेण व्यतीत्य तालहिंतालतमालनक्तमालनिचुलबकुलकाननोपशोभितं स्वविषयम् खदिरबदरबिल्वेङ्गुदशमीपलाशगहनदुर्गाम् अटवीं प्रपेदे || तस्य खलु महासत्त्वस्य पुण्यतर्षेण द्रुततरं व्रजतः ||
SK
रजोभिः सैन्यानां शलभकुलसंपातकपिलैर् निरुद्धं खं रेजे पुलिनम् इव पर्यस्तम् उदधेः | क्व चित् पाणिक्षेपैर् मदसुरभिशीकारशिशिरैर् जलैर् नागेन्द्राणां नवतमवनीहारपटलैः || GओMए_४० ||
SK
सो ऽतिक्रम्य ताम् अटवीम् अनुक्रमेण मेघस्य राज्ञो विषयम् अनुप्राप्तः | तदागमनसंभ्रान्तश् च मेघो महीपतिर् विदिततद्गुणप्रभावः प्रत्युद्गम्यैनं सबहुमानप्रहर्षविस्मयविकचलोचनो महता सत्कारेण मानयित्वा महार्हासनोपविष्टं तत् तत् प्रियम् अवोचत् ||
SK
सुस्वागतं क्षितीन्द्राय धन्यम् आगमनं तव | सुभाषितम् इदं लोके जीवन् भद्राणि पश्यसि || GओMए_४१ ||
SK
को नु संभावयेत् पुण्यां प्रमोदामृतपेशलां | आवयोः संगतिम् इमां हिमवद्विन्ध्ययोर् इव || GओMए_४२ ||
SK
दृश्यसे चरितैर् एव कामं लोकान्तचारिभिः | साक्षाद् वो दर्शनं यत् तु तन् मङ्गल्यफलोदयं || GओMए_४३ ||
SK
प्रत्यक्षम् अपि कल्याणं मनोरथविदूरगं | न श्रद्धत्ते जनः प्रायः प्रीतिप्रेङ्खोलिताशयः || GओMए_४४ ||
SK
स्वप्नो ऽयम् उत मायेति निश्चयं न लभामहे | भवन्तम् अपि पश्यन्तो लोचनानन्दबान्धवं || GओMए_४५ ||
SK
कच् चिद् अक्लान्तकायस् त्वं राजन् कच् चिद् अनामयः | कच् चिद् विश्रम्भनिःसङ्गः प्रणयाभिमुखो मयि || GओMए_४६ ||
SK
कच् चिन् नोत्कण्ठयन्ति त्वां दक्सिणापथचन्द्रिकाः | प्रध्यानस्तिमिताताम्रपर्यन्तनयनाः प्रियाः || GओMए_४७ ||
SK
अनपायी भवेत् कच् चिद् अयत्नः सत्समागमः | कच् चिद् अत्राभिरमसे स्वदेश इव भूपते || GओMए_४८ ||
SK
अथ बोधिसत्त्वस् तं राजानम् अम्लानप्रणयशीभरैर् वचोभिः समुत्तेजयन्न् अब्रवीत् ||
SK
दृष्ट्वैव दर्शनीयं त्वां विश्रान्तो ऽहं महीपते | अनार्यस्यापि विश्रम्भः कस्य न स्याद् भवादृशे || GओMए_४९ ||
SK
त्वय्य् असंस्तुतसद्बन्धौ बान्धवे पुरतः स्थिते | किं चान्यद् वल्लभतरं ममोत्कण्ठानिबन्धनं || GओMए_५० ||
SK
विदिताश् च महाराज मम प्रियसमागमाः | वितथाल्पसुखास्वादव्यसनायासहेतवः || GओMए_५१ ||
SK
ये ऽर्थाः स्वप्ने ऽनुभूयन्ते ये च निद्रापरिक्षये | तेसां निर्भुक्तिमुक्तानां विशेषो नोपलभ्यते || GओMए_५२ ||
SK
स्वप्नमायोपमानेषु मुहूर्तपरिणामिषु | प्रसङ्गं मतिमान् कुर्यान् न प्रियप्रणयेष्व् अतः || GओMए_५३ ||
SK
प्रियो ममेत्य् एवम् अनादिकालप्रवृत्तम् उद्वृत्तम् अनल्पगर्भं | सुखाभिधानं प्रवदन्ति दुःखं व्यतीतदुःखा मुनयः पुराणाः || GओMए_५४ ||
SK
कृपा कृपावस्तुषु संप्रतार्यते स्त्रियः कृपावस्तु विशेषतः सतां | अतो मतिर् मे करुणानुपातिनी प्रियासु राजन् न तु विभ्रमातुरा || GओMए_५५ ||
SK
स्वभावदीनाः परतन्त्रवृत्तयः सदातुरा मत्सरमानमन्मथैः | पथि प्रकीर्णा इव मांसपेशिकाः कथं नु न स्युः प्रमदाः कृपास्पदं || GओMए_५६ ||
SK
अथ स राजा प्रसादितमानसस् तैर् बोधिसत्त्ववचनकुसुमैः प्रणम्यैनम् अब्रवीत् ||
SK
आज्ञापय महाराज यत्र मां मन्यसे क्षमं | भवद्विधानां कृत्येषु वयम् आनम्रमूर्तयः || GओMए_५७ ||
SK
प्रसन्नमानसं स चैनम् अवेत्य बोधिसत्त्वः संप्रहर्षयन्न् अब्रवीत् ||
SK
तवैव सफलं जन्म सुजीवं त्वं च जीवसि | ऐश्वर्यं तव पात्रस्थं यथार्था श्रीस् तवैव च || GओMए_५८ ||
SK
यस् त्वम् एषां भगवतां भवसंभोगविद्विषां | सत्कारव्यपदेशेन तनोषि यशसा जगत् || GओMए_५९ ||
SK
सुहृदः संविभज्यन्ते दारैर् अपि धनैर् अपि | संविभागस् तु धर्मेण दुर्लभो भुवि नास्ति वा || GओMए_६० ||
SK
धर्मातिथ्यम् अतो राजन् मम त्वं कर्तुम् अर्हसि | न हि संभावना सत्सु दृष्टा वन्ध्यफलोदया || GओMए_६१ ||
SK
स्वर्गो मोक्षः सुखान्य् अर्था धर्माद् एव यशांसि च | दधद् धर्मम् अतो युङ्क्ते स्वर्गमोक्षसुखादिभिः || GओMए_६२ ||
SK
सद्धर्मप्रगुणं मित्रं करणीयं बलाद् अपि | एषैव सुहृदां लोके साधोः साधीयसी स्थितिः || GओMए_६३ ||
SK
अतिथिर् मित्रम् अर्थीव सत्कारायतनं परं मयि चैतत् त्रयं यस्माद् अतो मे ऽभ्यर्थनां कुरु || GओMए_६४ ||
SK
स्रवन्न् इव प्रसादस् ते लक्ष्यते मुखपङ्कजात् | पुण्यसंभोगवात्सल्यम् उद्गिरंल् लक्ष्यसे गिरा || GओMए_६५ ||
SK
अनुज्ञाता त्वया राजन्न् इमे प्रक्सीणकल्मषाः | वसन्तु दक्षिणीयाग्र्या दक्षिणापथभूमिषु || GओMए_६६ ||
SK
अथासौ महीपतिर् बोधिसत्त्वम् अब्रवीत् ||
SK
शक्ये तत् कुशलं दातुं स्वसंतानगतं यदि | दद्यां तद् अपि सुव्यक्तं भवते कृतवेदिने || GओMए_६७ ||
SK
वयं राज्यं च दातारो यद् वान्यत् साधु मन्यसे | तथैव प्रभुतां तत्र नावगन्तव्यम् अन्यथा || GओMए_६८ ||
SK
मया यत् पुण्यम् आर्याणाम् एषाम् अपचितेश् चितं | त्वदभ्यागमनाकालकौमुदी तत् कृतैव मे || GओMए_६९ ||
SK
मित्रम् एकान्तकल्याणं बन्धुर् अत्यन्तवत्सलः | गुणवान् दक्षिणीयस् त्वं नाथश् चानुत्तरो मम || GओMए_७० ||
SK
क्षुद्रसत्त्वो ऽपि को नाम त्वदाज्ञाम् अभिलङ्घयेत् | द्रष्टव्यरत्नं दृष्ट्वा च न प्रसीदेद् भवादृशं || GओMए_७१ ||
SK
एकं त्व् अत्र महाराज वैधुरम् अवगच्छामि | येन मे वक्तुम् अस्त्य् एतान् महर्षीन् अस्मिन् प्रयोजने संकुचति मानसम् || एते हि महात्मानो विवेकरतिप्रियत्वाद् अभिरमन्ते हिमवति शैलराजे || पश्य महाराज ||
SK
अमी हि हिमवत्प्रस्थाः कदलीखण्शमण्डिताः | विवेकायैव साधूनां शङ्खधात्रा विनिर्मिताः || GओMए_७२ ||
SK
हरिणा लुञ्चितोपान्तशाद्वलश्यामनिर्झरान् | देवदारुद्रुमान् पश्य कूटागारान् इवोद्गतान् || GओMए_७३ ||
SK
ख्यापयन्तीव लोकानां विनिपातं हिमापगाः | तरङ्गैः कूलपाषाणभिद्यमानैर् मुहुर् मुहुः || GओMए_७४ ||
SK
एताः स्निग्धच्छदच्छायाः पद्मकद्रुमराजयः | यतीन् आश्वासयन्तीव संसारोद्विग्नमानसान् || GओMए_७५ ||
SK
क्लान्तानां व्रतिनाम् एष स्वेदबिन्दून् अपोहते | प्रालेयकणसंपर्कशिशिरो वनमारुतः || GओMए_७६ ||
SK
उपत्यकाः पद्मकपुष्पपाटलाः शिलीन्ध्रकापादपवारितातपाः | इमा हिमाद्रे रमयन्ति मानसं निवृत्तसंरागविषं विपश्चितां || GओMए_७७ ||
SK
हिमाचलस्योपनितम्बरोहिणां निरीक्षमाणाः सरलाशिखावतां | वनानि चेतःस्थितिम् आप्नुवन्त्य् अमी सुमेधसः कामविवेकपेशलां || GओMए_७८ ||
SK
बोधिसत्त्वः प्रोवाच ||
SK
तिमिरद्रुमसंछन्ना विविक्ताभोगकन्दराः | तत्राप्य् अनुगुणा सन्ति वेलाशैलः प्रहाणिनां || GओMए_७९ ||
SK
तालहिन्तालमालिन्यः सरितो हरितोपलाः | सन्ति तत्रापि हारीतपक्षविक्षोभितोर्मयः || GओMए_८० ||
SK
तरङ्गिनीनाम् उपकण्ठरोहिणां पलाशिनाम् पुष्पभरातुराः शिखाः | विधूय तत्रापि यतीन् निषेवते समुद्रवेलाजलशीतलो ऽनिलः || GओMए_८१ ||
SK
सरसमरिचवल्लीश्यामरोधो वनस्य ध्वनिर् अचलसुरुङ्गामुर्च्छितो ऽप्य् अम्बुराशेः | अविरलपरिपातो ऽभ्यासयोगानुपाती स्थिरयति किल भिक्षोस् तत्र चेतःसमाधिं || GओMए_८२ ||
SK
निर्धौतोपलसानुर् अञ्जनशिलानीलैः पयोधेर् जलैर् वातायासितचन्दनद्रुमलताविक्षिप्तसूर्यातपः | शैलेन्द्रो मलयो ऽस्ति नाम जलदच्छेदावलीशेखरश् चेतः संयमिनाम् अलं रमयितुं शान्तप्रपञ्चज्वरं || GओMए_८३ ||
SK
चित्रोत्सङ्गो विषमनिचितैर् धातुपाषाणखण्डैः शष्पोद्भेदैस् तरुणतरुणैः श्यामपर्यन्तलेखः | बद्धामोदो मदजलमुचां दन्तिनां दानगन्धैर् विन्ध्यो ऽप्य् अद्रिः प्रशममहतां योगिनां संनिवासः || GओMए_८४ ||
SK
सह्याद्रेर् विलसत्तमालहरिताः प्रस्थाः प्रहाणक्षमा निःशब्दाक्षरदच्छनिर्झरजलप्रक्षालितप्रस्तराः | संन्यस्तव्यवहारशान्तमनसां जन्मप्रबन्धद्विषाम् आर्याणाम् अनपायिनीं विदधति प्रत्यात्मवेशां रतिं || GओMए_८५ ||
SK
तीरान्तानतबालवेतसतरुश्रेणीनिरुद्धातपा नद्यः स्वच्छजलान्तरालविलसन्मीनावलीमेखलाः | सख्यः प्रेमनिरत्यया इव सखे तत्राप्य् अलं योगिनाम् आक्षेप्तुं विषयाभिलाषविमुखं प्रध्यानधीरं मनः || GओMए_८६ ||
SK
अपि च महाराज ||
SK
येषाम् अस्मीत्य् अयम् अपगतश् चेतसो विप्रलम्भो यैर् अध्यस्तंगमितम् अशिवं स्कन्धसंतानबीजं | ये पश्यन्ति व्यसनदहनैर् आ भवाग्रात् प्रदीप्तं लोकं तेषां न भवति मनो लोकचित्रानुपाति || GओMए_८७ ||
SK
नित्यस्राविणम् अग्निमध्यनिहितं कुम्भं यथा मेदसां ये लोकार्थम् अनर्थभारविरसं सन्तो वहन्त्य् आश्रयं | तेषां रत्नशिलालवालवलयाः कल्पद्रुमा नन्दने लूतातन्तुवितानधूमशिखरैः कान्तारवृक्षैः समाः || GओMए_८८ ||
SK
आविर् भवन्ति तनवो ऽपि परोपकारा यस्मिंस् तद् एव रमणीयम् उपैति साधुः | दुःखेष्व् अनात्मसु चलेष्व् अपरायणेषु किं वा भवेषु रतिकारणम् अस्ति राजन् || GओMए_८९ ||
SK
स्वार्थानुरागकृपणा मतयो नराणां तुच्छे ऽपि वस्तुनि रतिं परिकल्पयन्ति | उत्पाद एव महतां हि जगद्धिताय येषां पुरन्दरपुरे ऽपि न ते रमन्ते || GओMए_९० ||
SK
प्रकृतिचञ्चलाकुलप्रसरं यैश् चित्तम् एतद् वशीकृतं | रतिर् उदेति नान्यतस् तेषां अध्यात्मचिन्ताविहारिणाम् || GओMए_९१ ||
SK
रमयन्त्य् अनुद्धृतविकल्पसायकान् सरितः सरांसि गिरयो वनानि च | अविकल्पगोचरविचारिणो यतेर् वनम् एव शान्तम् इति निश्चिता मतिः || GओMए_९२ ||
SK
अजितात्मनाम् अनुपतन्ति बुद्धयो विविधान् बहिर्मुखमनोनिबन्धनान् | अधिचित्तयोगविदुषां तु योगिनां अतिमानुषे चरति गोचरे मतिः || GओMए_९३ ||
SK
रजसां विपूयपरिणाहिमण्डलं परमाम् अवाप्य वशितां स्वचेतसि | अनपायिनीम् अनुभवन्ति ये रतिं भवनं वनं च समम् एव तान् प्रति || GओMए_९४ ||
SK
विषयान्तरान्तरितविभ्रमं मनः प्रशमे रमेत कथम् इत्य् अतो यतेः | उपदिश्यते वनतरुप्रतिश्रयो महतां समं तु विषयं मनःसुखं || GओMए_९५ ||
SK
रमणीयम् एतद् इति विकृतं मतेः प्रवदन्त्य् अवन्ध्यवचसः पुरातनाः | कृतिनां मनो हतविकल्पवासनं न समाधिजेष्व् अपि सुखेषु रज्यते || GओMए_९६ ||
SK
जगतां हितेषु चरतां महीपते करुणैकतानमनसां मनस्विनाम् | भवति व्यथातनुपरिश्रमैस् तनोर् न च कायजीवितनिकान्तिविद्विषाम् || GओMए_९७ ||
SK
गगनोपमानमनसां स्पृशन्त्य् अमी न मनः सुखारतिविकल्परेणवः | सुखम् अन्यद् एव तद् अपाकृतोपमं यद् उपासते सुकृतिनो रणंजहाः || GओMए_९८ ||
SK
व्रतिनाम् अदूरपरिसर्पिणी मनःस्थितिर् एव नाम जननीव वत्सला | सुखम् आदधाति तद् अतीतमानुषं न मरुत्पतेर् अपि यद् अस्ति वज्रिणः || GओMए_९९ ||
SK
विहतप्रियाप्रियविकल्पविभ्रमः पृथिवीसमेन विहरन्ति चेतसा | नृप यत्र तत्र भवभोगनिःस्पृहा मुनयो ऽतिशान्तसुखमौनलाभिनः || GओMए_१०० ||
SK
अनिकेतसंस्तवपरिग्रहाग्रहाः स्वजने जने च समताविहारिणः | त्रिभवोपपत्तिगहनान्तदर्शिनो हिमवद्वनेषु रतिम् आप्नुयुः कथं || GओMए_१०१ ||
SK
सुखदुःखयोर् अविषमप्रवृत्तयो नृप येन तेन परितुष्टमानसाः | सततं मृगा इव निसर्गतापसा विहरन्त्य् अनावृतविहारगोचराः || GओMए_१०२ ||
SK
विसृतां भवद्रुमशिखावलम्बिनीं विविधोपतापपरुषां विषक्तिकां | उपहात्य ये पदम् उपासते शिवं त्रिदिवे ऽपि ते नरकवाससंज्ञिनः || GओMए_१०३ ||
SK
अनुबन्धिनिं प्रतिनिवार्य संहतिं तमसां किम् अप्य् अनुभवन्ति ये सुखं | न सनत्कुमारभवने ऽपि ते रतिं विरतोपसर्गरतयः प्रकुर्वते || GओMए_१०४ ||
SK
वनराजयः कुसुमचित्रपादपाः गिरयः कदम्बतरुचुम्बिताम्बुदाः | सरितश् च हंसकुलभिन्नवीचयः परिदुर्बले मनसि लब्धप्रवृत्तयः || GओMए_१०५ ||
SK
शिरःकंपोल्लसच्चारुकुण्डलः स महीपतिः | साधु साध्व् इति संराध्य प्रतिजग्राह तद्वचः || GओMए_१०६ ||
SK
न्यायोपरोधि परिपेशलवर्णशोभम् अक्षूणकालमधुरं स्वपरोपकारि | वाक्यं सुहृज्जनमुखोच्चरितं कथं न स्याद् अप्रतिग्रहविपातितकान्तिशोभं || GओMए_१०७ ||
SK
अम्लायमानकरुणारसशीभराणि स्वान्तान्य् अनाकुलपदक्रमयोगिकानि | वाक्यानि सज्जनमुखाम्बुरुहच्युतानि प्रद्वेषरूक्षम् अपि मानसम् आक्षिपन्ति || GओMए_१०८ ||
SK
नीचेष्व् अपि प्रणतिनम्रशिरोधराणां क्रूराशयेष्व् अपि कृपामृदुमानसानां | आद्यन्तमध्यमधुराणि जिनात्मजानां वाक्यानि को भुवे विमानयितुं समर्थः || GओMए_१०९ ||
SK
तान् अभ्यर्थ्य स पार्थिवो भगवतः प्रत्येकबुद्धान् अथ प्रीत्युत्कर्षपरम्पराम् अनुभवन् काम् अप्य् अनायासिनीं | आवासं स्वम् उपोह्य सौगतभवास् ते ऽपि क्षणेनाययुः स्वर्द्ध्यैवाप्रतिघं विगाह्य विघनं खं राजहंसा इव || GओMए_११० ||
SK
स भूपतिः षष्टिसहस्रसंख्या गुहा विविक्ता जलयंत्रशीताः | संस्कार्य तेभ्यः प्रददौ प्रसन्नः प्रत्येकशो दग्धपुनर्भवेभ्यः || GओMए_१११ ||
SK
शरत्सहस्राणि सषष्टिर् एव चकार तेषां विगतज्वराणां | पूजां परां दृष्टपरायणानां संचारिणाम् पुण्यवनस्पतीनां || GओMए_११२ ||
SK
तं बोधौ स परिणमय्य पुण्यराशिं संत्यज्य प्रकृतिविनाशिनं स्वदेहं | त्रैलोक्यप्रथितपराक्रमप्रभावो मान्धाता किल वसुधाधिपो बभूव || GओMए_११३ ||
SK
संकल्पानुविधायिन्यस् तस्याभूवन् विभूतयः | सर्वलोकातिशायिन्यो निरुपायासपेशलाः || GओMए_११४ ||
SK
पुण्यान्य् एवम् असौ चकार भगवान् यस्माज् जगद्भूतये त्यक्त्वा राज्यविभूतिविस्तरसुखान्य् अम्लायमानोद्यमः | तस्मात् तत्र मनः प्रसाद्य भगवत्य् आश्चर्यरत्नाकरे पातव्यं स्वपरोपकारमधुरं तस्यैव वाक्यामृतं || GओMए_११५ ||
SK
इति श्रीमेघजातकं चत्वारिंशत्तमं || ||
SK
९. Nआग
SK
सहस्रशो ऽपि संत्यक्तुम् उत्सहन्ते स्वजीवितम् | साधवः साधुमर्यादां न मुहूर्तम् अपि क्षमाः || GओNआ_१ ||
SK
तद् यथानुश्रूयते|
SK
बोधिसत्त्वभूतः किलाहं भगवान् अपरिम्लायमानकरुणासौम्यदर्शनो नागराजो बभूव |
SK
क्रोधेन तस्य सह शाश्वतसंविरोधः क्रोधोत्तरं निगदितं समुपागतस्य | इच्छानुकूलमधुरा प्रतिसन्धिलीला साधोः सुयोनिविधुरैव बभूव तस्य || GओNआ_२ ||
SK
संप्राप्तकर्मवशितातिशयस्य यस्य लोका हृदीव निवसन्ति कृपाविशाले | रोषस् ततः कथम् उदेरति शुद्धसत्त्वात् पद्माकराद् विकसिताद् इव चित्रभानुः || GओNआ_३ ||
SK
कुवलयदलमालाकोमलं भोगचक्रं स्वमणिकिरणजालश्रीकरालं स बिभ्रत् | घनसमय इवासील् लोचनानन्दबन्धुः सुरवरपतिचापोद्भासितो वाम्बुगर्भः || GओNआ_४ ||
SK
अथ स महासत्त्वः क्रोधबहुलतां नागयोनेर् अवेत्य तत्प्रतिपक्षक्षमाकथाम् उद्भावयाम् आस स्वपर्षदि ||
SK
न हेममाला मणिदीप्तिशीभराः स्रजो न चित्रा मकरन्दपिञ्जराः | तथाभ्यलंकर्तुम् अलं शरीरिणां यथा क्षमा सर्वगुणैकरत्नका || GओNआ_५ ||
SK
मनोज्ञरूपा अपि नाम रोषिणो विषादयन्त्य् एव मनांसि देहिनाम् | विमुक्तकोशा इव पुष्पपादपाः स्वमूलसंसर्पिभुजङ्गकङ्कणाः || GओNआ_६ ||
SK
असंस्तुतानाम् अपि नाम सूरता भवन्ति विश्रम्भविशेषभाजनम् | इति क्षमां को न भजेत बुद्धिमान् अशेषलोकाश्रयसंग्रहक्षमाम् || GओNआ_७ ||
SK
इमाम् अवस्थां गमिता विदाहिनामुना वयं रोषमयेन पाप्मना | निवृत्तवैरान् अपि यद् विशङ्कते महाजनो ऽस्मान् अनिमित्तकाहतः || GओNआ_८ ||
SK
एवम् अन्यथा च स्वयूथ्यान् संज्ञापयाम् आस || अपि च ||
SK
दृष्टीविषानलमुचां स्वमणिप्रभाद्भिः पातालरन्ध्रगहनान्तविसर्पिणीभिः | तेसां स पन्नगवरः शमयां बभूव वागम्बुभिश् च हृदयानि भुजङ्गमानाम् || GओNआ_९ ||
SK
स च महात्माजन्मान्तराभ्यस्तप्रशमरतिविहारसाधनः सर्वलोकोत्तरोत्कृष्टैर् तैर् अपि विषयैर् अनाकलितमानसो विडम्बनाम् इव ताम् ऐश्वर्यलक्ष्मीम् अभिमन्यमानः प्रविवेकसुखविहारोपरोधिनं चाधिपत्यपरिश्रमम् आर्यन्यायमार्गकण्टकस्थानीयांश् च स्निग्धजनसमागमान् प्रकृतिधीरमानसः सन् गृहे ऽप्य् अरण्यसंज्ञाभावनासमर्थः सशङ्को गार्हस्थदोषम् एवोद्भावयन् स्वभवनाद् अभ्युद्गम्य विविक्तेष्व् अरण्यायतनेषु पोषधनियमालंकृतशरीरः कालम् अतिनामयाम् आस ||
SK
त्यक्त्वा गेहं विभवकलिलं ये विविक्ते वसन्ति प्रायस् तेषु प्रशमविमुखो विस्मयं याति लोकः | चित्रं मन्ये क्षणम् अपि गृहे यद् रमन्ते विदग्धा नानातङ्कप्रचयगहने बोधिसत्त्वप्रतिज्ञाः || GओNआ_१० ||
SK
अथ कदा चित् स महात्मा प्रत्यरण्यनिविष्टतरुणतरुमण्डलैकदेशावस्थितो भुजगविषोपघातयोग्यविद्याधरेण ब्राह्मणेनोपलक्षितः | स तस्य तेन नियमविशेषरमणीयेनाश्वासदेन तेजस्विभावेन विस्मितमना नास्मात् प्रत्यवायो ऽस्तीति निश्चित्य स्वजीविकोपायं च तद्ग्रहणसाहसम् अवेत्य तं भुजगपतिं विश्रम्भमुकुलितफणचक्रम् आसीनं सहसा महता दण्डेन शिरस्य् अभिजघान तप्तपांसुपूगैश् चास्य नयनानि पूरयाम् आस महत्या चैनं वररज्ज्वा गाढं ग्रीवायाम् आमर्दयां बभूव मूलागदसंमिश्रेण चैनं श्लेष्मणा वदनविवरेषु संसिक्तवान् विवृत्य चास्य वदनपुटम् अयःसंदंशेन दंष्ट्राः समुदाजहार || लोभपर्याकुलमानसश् चास्य तीक्ष्णेन शस्त्रेण घनकोशोपगूढमूलां चूडामणिम् उत्पाटयां चक्रे प्रतिनकुलचलवलयराशिकोमले चास्य भोगकुण्डले बिम्बोपधान इव निषद्य विशश्राम ||
SK
यः केलीकलहेष्व् अपि प्रणयिनीकर्णोत्पलाताडितो लज्जामन्थरकोमलालसफणच्छत्त्रो ययौ संभ्रमम् | मेने सो ऽविकृताशयः फणिवरो दण्डप्रहारान् खरान् क्षान्त्यभ्यासवशात् समीरणचलत्तूलांशुपातोपमान् || GओNआ_११ ||
SK
यो बिभ्रन् दयिताजनेन रचितां कण्ठेगुणां कोमलां खेदं नागवरः सुखोचितमयां [?] भेजे क्रियां चायताम् [?] | रज्ज्वा कर्कशपाशया पशुर् इव ग्रीवोपबद्धो भृशं तेनाकारणदारुणेन रिपुणा सो ऽभून् निरास्थो वशी || GओNआ_१२ ||
SK
यं प्रत्यग्रतमालचन्दनरसप्रश्लेषशीतैः करैर् ग्रीष्मे प्राणसमाः सरत्नवलयैर् नागोत्तमं पस्पृशुः | पादेनाभिहतः खलेन पटुना स क्षान्तिगुप्तव्रतो लेभे संततवर्तिनीं घनरसां मैत्रीं तदालम्बनाम् || GओNआ_१३ ||
SK
दंष्ट्रा बिसाङ्कुरसिता विनिगूढमूलास् तस्योच्चखान स यदा भुजगेश्वरस्य | शल्यापहारिणि तदा भिषजीव तस्मिन् विप्रे चकार स पराम् उपकारिसंज्ञाम् || GओNआ_१४ ||
SK
आर्तीयते स्म सहजान्य् अपि यानि चित्रं साधुः शिरोमणिमयानि विभूषणानि | तेषूद्धृतेषु स कृतार्थतया प्रमोदं निक्षिप्तभार इव भोगपतिर् जगाम || GओNआ_१५ | श्वासानिलैः स्फुटविषाग्निकराकरालैर् उच्छोषयेत् समकरान् अपि यः समुद्रान् | क्षान्तिं प्रियाम् इव सखीम् उपगुह्य तस्थौ स्वस्थस् तम् एव च रिपुं करुणायमानः || GओNआ_१६ ||
SK
स्याद् भस्मसाच् छिखरकोटिविपाटिताभ्रः शैलो ऽपि दृष्टिविषयं समुपेत्य यस्य | पापात्मना कुमुदनालम् इवोरगेन्द्रो नासौ चुकोपमृदितो ऽपि परानुरक्षी || GओNआ_१७ ||
SK
तीव्रप्रकारम् उपकारम् इवाविकारः सेहे कृपापरिगतः स यथा यथार्यः | क्रौर्यावलेपपरुषः स तथा तथा तं चिक्लेश पन्नगवरं विविधैर् उपायैः || GओNआ_१८ ||
SK
करुणाद्रवम् एव दुर्जनः सुतरां सत्पुरुषं प्रबाधते | मृदम् एव भिनत्ति कण्टकः कठिने कुण्ठक एव जायते || GओNआ_१९ ||
SK
स पीड्यमानः पुरुषेण तेन भुजङ्गराजो विगतव्यथेन | तम् एव रक्षन् गुणपक्षसाक्षी मुमोच न श्वासविषं विषादी || GओNआ_२० ||
SK
यथा यथा पीडयति स्म नाम तम् आर्यकर्माणम् असाव् अनार्यः | तथा तथासौ तदपायशङ्की न चक्षुर् उन्मीलयितुं विषेहे || GओNआ_२१ ||
SK
परापकारप्रतिपत्तिमारुता दुराचरास् तस्य विशुद्धकर्मणः | क्षमाशिलाधारपरिग्रहस्थिरं न कम्पयन्ति स्म मनो मनस्विनः || GओNआ_२२ ||
SK
अम्भोजरेणुकणिका इव संप्रतीच्छन् नागोत्तमः क्षितिरजो ऽर्ककरोपतप्तम् | नेत्रोपघातपटुना पटुना विमुक्तं तस्मिन् बभूव सुतरां स परानुकम्पः || GओNआ_२३ ||
SK
यः स्नातो जलयन्त्रमन्दिरगतो राजा जलैः शीतलैर् नानापुष्परजोऽधिवासशुचिभिश् चन्द्रप्रभानिर्मलैः | सिक्तः श्लेष्मलवैर् अनार्यमतिना दुर्गन्धिभिस् तेन सः प्रीत्यैवापचकार तं परिभवं क्षान्त्याम्भसेवोक्षितः || GओNआ_२४ ||
SK
एवम् अन्यथा चासौ ब्राह्मणाधमस् तं बोधिसत्त्वम् परिक्लिश्य महति करण्डे प्रक्षिप्य तेन तेन परिभ्रमन् वाराणसीं नगरीम् अनुप्राप्तः || अथ तस्य भुजगपतेस् तां रूपसंपदम् आलोक्य महाजनः परमविस्मितमनास् तं ब्राह्मणं महत्या पूजया पूजयाम् आस ||
SK
अथ तस्य महात्मनः सुमनानामान्तःपुराग्रचरा भुजगयोषिद् अतीतायाम् उचितायां तदागमनवेलायां तं भोगिपतिम् अपश्यन्ती जानाना तस्य प्रकृतिभद्रताम् अनार्यकर्मारामतां च मानुषहृदयानां तदत्ययाशङ्किनी तीव्रशोकायासव्यथितहृदया तत् तद् विकल्प्य सत्वरं रुरोद ||
SK
तमसा निरन्तरविसारिणैव मे परिवर्यते नयनगोचरं बलात् | अनिरूपितात्ययविकल्पकातरं द्रवतीव मानसम् इदं प्रियं विना || GओNआ_२५ ||
SK
स्फुटमल्लिकावनविलासलासका जलयन्त्रमन्दिरनिरोधशीतलाः | सुतरां दहन्ति मम चलमारुता दयितप्रवासपरितापिनीं तनुम् || GओNआ_२६ ||
SK
प्रतिभात्य् अपूर्वम् इव सर्वम् अद्य मे न च वेद्मि काहम् इति तेन वर्जिता | व्यसने स एव शरणं मम प्रियो विरहे तु तस्य मरणं परायणम् || GओNआ_२७ ||
SK
मणिवेदिकाकिरणपाटलोर्मयो गृहदीर्घिका न रमयन्ति मे मनः | प्रियविप्रवासपरितापविप्लुतं स्फुटपद्मकोशमकरन्दवासिताः || GओNआ_२८ ||
SK
दिशतूत्तमानि जगदुत्तमद्युतिर् मम मङ्गलानि भगवान् स एव तु | न भवान्तरे ऽपि विरहो यथा भवेद् दयितेन तेन निरवद्यकर्मणा || GओNआ_२९ ||
SK
विरहानुबन्धविरसाः समागमा जगतो ऽरपर्वपरिणामिनी स्थितिः | इति यज् जगाद मनसो ऽतिवल्लभः समुपस्थितं तद् इदम् अद्य वैशसम् || GओNआ_३० ||
SK
विकसत्स्फुलिङ्गम् अनिलाकुलार्चिषं दहनं विशामि बहुदुःखभागिनी | तनुम् उत्सृजामि शिखराद् गिरेर् इमाम् अवशिष्यते किम् अपरं ममायुषः || GओNआ_३१ ||
SK
यदि सो ऽद्य नैति सुखसौम्यदर्शनो मम मूर्तिमान् अविकलो मनोरथः | स्वयम् एव धक्ष्यति ममेदम् आश्रयं हृदयज्वलस् तुमुलशोकदारुणः || GओNआ_३२ ||
SK
इति सा रुराव कुररीव विक्लवा नयनाम्बुदुर्दिनमुखी तपस्विनी | वसुधातले गलितहारमेखला भुजगाङ्गना पतिवियोगशङ्किनी || GओNआ_३३ ||
SK
अथ सुमना नाम योषिद् बोधिसत्त्वम् अन्वेषमाना वाराणसीं नगरीम् अनुप्राप्ता ददर्श चैनं महासत्त्वं परमदारुणाम् अवस्थाम् उपगतं दृष्ट्वा च तीव्रशोकायासव्यथितहृदया प्रोवाच |
SK
स्फुरितकिरणच्छायारम्याः शिरोमणयः क्व ते क्व दयित गतास् तास् ता दंष्ट्रा बिसाङ्कुरधूसराः | वपुर् उपहतं दण्डाघातैर् नवोत्पलकोमलं विगलितहृदया (?) क्रूरेणैतत् कृपात्मक केन ते || GओNआ_३४ ||
SK
किं धर्मो ऽस्तम् इतः प्रजाहितकरः किं लोकपाला मृताः तेजः कोपविषातिसङ्गरभसं किं प्रोषितं भोगिनाम् | शून्यं किं नु पतिप्रभाभिर् अधुना निःशुक्लमूलं जगद् येन त्वं व्यसनं दुरुत्तरम् इदं प्राप्तो विनाशाय ते || GओNआ_३५ ||
SK
नासीत् कस्य दया त्वयि प्रहरतो ऽनार्यस्य शान्तात्मनि क्रौर्यं त्वय्य् अपि नाम साधुचरिते पापात्मनां जायते | त्वाम् आयासयतः कथं न पतितौ तस्य प्रकोष्ठात् करौ नाथानाथ इवापदं कथम् इमां प्राप्तस् त्वम् आयासिनीम् || GओNआ_३६ ||
SK
बोधिसत्त्वस् तु प्रत्यग्रकोपशोककलुषिताध्याशयात्मनाम् अवेत्य तूष्णीम् एव बभूव || सा पुनर् अब्रवीत् ||
SK
कस्याप्रियं जीवितम् आद्यजातं कालेन केलीं सह कः करोति | त्वदप्रियारिष्टनिविष्टचेष्टो लोकान्तरं को ऽभ्यनुगन्तुकामः || GओNआ_३७ ||
SK
शीताभिलाषी प्रविविक्षुर् अग्निं को मारुतोद्धतशिखाकलापम् | आदित्सते क्रूरविषं भुजङ्गं कः पुष्पदामाकृतिविप्रलब्धः || GओNआ_३८ ||
SK
उदधिपरिखाम् अद्यैवैनां दहामि वसुन्धरां सनगनगरग्रामारामां स्वदृष्टिहुताशनैः | न मम हृदयं शान्तिं याति त्वदप्रियताडितं दहति यदि न क्रोधाग्निर् मां पुरा निरवग्रहः || GओNआ_३९ ||
SK
अथ बोधिसत्त्वस् तां तपस्विनीम् अविषह्यकोपाग्निप्रदीप्तमानसां ह्लादयन्न् इव तदामृतशिशिराभिर् वाग्भिर् इत्य् अब्रवीत् ||
SK
अलम् अलं मा गा भद्रे वै कोपस्य चेतोविदाहिनः | प्रकृतिदुःखेषु को भूयः सत्त्वेषु दुःखानि चिन्तयेत् || GओNआ_४० ||
SK
दुःखहेतौ वर्तमानेषु शोच्येषु संक्लेशभागिषु कः पराक्रमेत् || दुःखाय स्वहितक्रमार्तेषु देहिषु न मम दंष्ट्रोत्पाटनाद् दुःखं न च दण्डसंपातजा रुजाः || दुःखयन्ति मानसं चण्डि त्वद्वाक्कर्कशास् तुदन्ति माम् || अपि च कान्ते ||
SK
बोधिसंप्राप्तये चित्तं यदैवोत्पादितं पुरा | वयं तदैव लोकानाम् आधेयक्रियतां गताः || GओNआ_४१ ||
SK
कोपवह्निम्लायमाना पुनः सैव त्वम् अन्येव लक्ष्यसे ||
SK
चन्द्रलेखेव चाम्बरे विकसद्घनधूमसंबाधधूसरे || GओNआ_४२ ||
SK
किं च ||
SK
कर्मापराधजनितं यदि दुःखम् एतत् कोपावकाश इह को नु मम द्विजातौ | कर्मेन्धनोद्धतशिखाशकलाकुलेभ्यः कुप्येत् कथं न मतिमान् नरकानलेभ्यः || GओNआ_४३ ||
SK
तद् अलं कोपदैन्येन तव चेतोविदाहिना | स्वगृहान् एव गच्छस्व संत्यागं च कुरुष्व मे || GओNआ_४४ ||
SK
सा भर्तुर् अभिप्रायं संपादयन्ती तद्वचनाप्यायितहृदया विगतकोपसंरम्भा बभूव ||
SK
कोपोपरागविगमे विवृतो ऽधिमात्रः स्नेहः प्रिये विषमवर्तिनि नागवध्वा | उद्घाटिताभ्रपटलस्फुटदिग्विभागे खे निःसपत्न इव चन्द्रमसः प्रकाशः || GओNआ_४५ ||
SK
शोकाश्रुनयनपरिप्लुता चेति बोधिसत्त्वम् अब्रवीत् ||
SK
कुतो मे दुःखभागिन्या गेहं आर्य त्वया विना | इहैव शोषम् एष्यामि या गतिस् तव सा मम || GओNआ_४६ ||
SK
विषमस्थं परित्यज्य त्वाम् अनाथ सुखैधितम् | कान्त केन सुखेनाहं द्रक्ष्यामि स्वजनं पुनः || GओNआ_४७ ||
SK
सुखे समानतां गत्वा दुःखे जह्यां यदि प्रियम् | अनार्याम् अकृतज्ञां मां धारयिष्यति भूः कथम् || GओNआ_४८ ||
SK
प्रतिभाति जगच् छून्यं त्वया विरहितं मम | त्वं मे जीवितसर्वस्वं त्वं बन्धुस् त्वं परायणम् || GओNआ_४९ ||
SK
बोधिसत्त्वो ऽथ तां साध्वीं बहलस्नेहविक्लवाम् | अनुकम्पावशात् साधुर् ईदृशं प्रत्यभाषत || GओNआ_५० ||
SK
अदृष्टपूर्वव्यसना सुखसंवर्धिता प्रिये | परिक्लेशम् इमं सोढुम् अक्षमा त्वम् अनिन्दिते || GओNआ_५१ ||
SK
मयि स्नेहो ऽस्ति यदि ते दुःखं मे यदि नेच्छसि | अदृष्टम् अद्य मां कृत्वा तद् गच्छ त्वं स्वम् आलयम् || GओNआ_५२ ||
SK
अथ सा तैर् बोधिसत्त्ववचोऽद्भिर् आक्लेदितहृदया दुःखदौर्मनस्यपर्याकुलमानसा निशीथे काशिकाराजम् उपेत्य करुणाकुलतराक्षरेण वचसा कृताञ्जलिर् अवोचत् ||
SK
आपद्गतानां व्यसनक्षयाय त्वं पञ्चमः पार्थिव लोकपालः | त्रायस्व माम् आपदि वर्तमानां दीनाम् अनाथां जगदेकनाथ || GओNआ_५३ ||
SK
अथ स राजा तद् अतिभासुरं वपुर् अवलोक्य किम् इदं कथं चेत्य् उत्पन्नजातसंभ्रमः सादरम् उत्थाय पर्यङ्कपृष्ठात् तां नागयोषितम् एतद् अवोचत् ||
SK
ध्यामीकृत्य मणिप्रदीपकिरणान् एतद् वपुस् ते स्थितं व्याहारस्फुटचित्रवर्णकरणो दिव्यप्रभावश् च ते | का नु त्वं करवाणि किं भवति ते ब्रूहि त्वदाज्ञाम् इमां मालां फुल्लदलाम् इवाद्य शिरसा सम्यक् प्रतीच्छाम्य् अहम् || GओNआ_५४ ||
SK
अथासौ भुजगवधूस् तेन तस्य राज्ञो ऽभिजात्यपेशलेन वचसा समानन्दितमनसा प्रोवाच ||
SK
आशावशानां नरदेव को ऽन्यो मनोरथं पूरयितुं समर्थः | त्यक्त्वा भवन्तं जगतो हिताय प्रजापतेर् वंशम् इवावतीर्णम् || GओNआ_५५ ||
SK
नागाङ्गनां माम् अवगच्छ राजंस् त्वद्देशपर्यन्तकृताधिवासाम् | आपद्गतं मानद पन्नगेन्द्रं त्रायस्व कृत्यं मम तद् गरीयः || GओNआ_५६ ||
SK
राजोवाच || भगिनि कस् तवासौ भुजगवरः || सा प्रोवाच ||
SK
भर्ता मम प्राणधनेश्वरो ऽसौ न्यायोप्रदेष्टा च गुरुर् गरीयान् | पितेव नित्यं हितसंविधातासुखे च विश्रम्भनिरत्ययश् च || GओNआ_५७ ||
SK
अथ स भूपतिस् तेन तस्याः स्वाम्यनुरागशीभरेण चरितेनाभिप्रसादितः || प्रोवाच चैनाम् ||
SK
भक्तिर् भर्तरि दर्शिता घनरसा दाक्षिण्यम् उन्मीलितं प्रेमोद्भावितम् आपदि स्थिरतरं प्रोद्घाटिता भद्रता | धर्मो न्यायपरिग्रहेण परमां वृद्धिं त्वयापादितो लोके साधुपतिव्रतत्वम् इति ते ख्यातिः स्थिता शाश्वती || GओNआ_५८ ||
SK
त्यक्त्वा प्रियं जीवितम् अप्य् अतो ऽहं पुण्यप्रभावोपनतं च राज्यम् | संपूरयिष्यामि मनोरथं ते पश्याद्य भद्रे दयितं विमुक्तम् || GओNआ_५९ ||
SK
अथ स राजा तस्य ब्राह्मणस्यान्तिकात् तं नागराजानं महता मूल्येन निष्क्रीय परमेण .............. सपत्नीकं स्वभवनं प्रवेश्य महार्हसिंहासनोपविष्टम् अभ्यर्चयाम् आस || अथ बोधिसत्त्वस् तेन तस्य राज्ञो ऽत्यद्भुतेन निष्कारणोपकारसंभ्रमेणाकृष्टमनाः प्रोवाचैनम् ||
SK
असंस्तुते नाम तवायम् आदरो मयि प्रसादस्थिरभक्तिपेशलः | कृतोपकारेष्व् अपि यो न दृश्यते पृथग्जनेषु सुखानुबुद्धिषु || GओNआ_६० ||
SK
प्रकाशितेयं गुणपक्षपातिता प्रजानुरागो बहुलीकृतस् त्वया | गुणे विवर्धस्व तद् उत्तरोत्तरैर् गुणेषु भद्रं जगतां अवस्थितम् || GओNआ_६१ ||
SK
इति संराध्य राजानं तम् असौ भुजगेश्वरः | अनुबद्धो दयितया कृपयेव गृहान् ययौ || GओNआ_६२ ||
SK
इति श्रीनागजातकं चत्वारिंशत्तमम् || ः ||
SK
१०. Pउण्यराशि
SK
अथाशोको महाराज उपगुप्तं यतिं गुरुम् | कृताञ्जलिपुटो नत्वा प्रार्थयच् च तथादरात् || GओPर्_१ ||
SK
भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितम् | तद् यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति || GओPर्_२ ||
SK
इति तेन नरेन्द्रेण प्रार्थिते स जिनात्मजः | उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत् || GओPर्_३ ||
SK
शृणु साधु महाराज यथा मे गुरुणोदितम् | तथाहं ते प्रवक्ष्यामि श्रुत्वा चैवं शुभे चर || GओPर्_४ ||
SK
नास्ति विपाकपर्यन्त उपकारापकारयोः | संबुद्धे सद्गुरौ तस्मात् कर्तव्यम् उपकारकम् || GओPर्_५ ||
SK
तद् यथास्तां महासत्त्वौ संबुद्धोपासकौ पुरा | कदा चित् ताव् उभौ ग्रामं गच्छन्तौ संगतौ पथि || GओPर्_६ ||
SK
संबुद्धप्रतिमां तत्र पुण्यराशिम् इवोत्तमाम् | तां समीक्ष्य तयोर् एकः प्रणत्वैवं तम् अब्रवीत् || GओPर्_७ ||
SK
अहो बत महापुण्यराशिर् अयं विराजते | भाग्येन दृश्यते ऽस्माभिर् अद्य मित्र प्रणम्यताम् || GओPर्_८ ||
SK
इति तेनोदितं श्रुत्वा दृष्ट्वापरस् तम् अब्रवीत् | अहो बत महान् मित्र पापराशिर् अयं न्व् इति || GओPर्_९ ||
SK
इति तेनोदितं श्रुत्वा प्रथमः स उपासकः | कर्णौ पिधाय हस्ताभ्यां तम् एवं पर्यभाषत || GओPर्_१० ||
SK
धिक् त्वाम् असद्बुद्धिम् असत्प्रलापिनम् [!] एवं ह्य् अपि त्वं प्रतिभाषसे ऽत्र | कस्मान् मुनेः शास्तुर् उपासको ऽपि सद्धर्ममूर्तिं प्रतिनिन्दसे ऽद्य || GओPर्_११ ||
SK
कथं न जिह्वा पतिता तवाननाद् असत्प्रलापापहता तपस्विनी | अपुण्यराशिर् भगवान् इति ब्रुवन् कथं न मग्नस् त्वम् अरे रसातले || GओPर्_१२ ||
SK
धिग् अप्रशस्ताम् असतां दुरत्ययां पृथग्जनानां प्रकृतिं चलाचलाम् | विमर्शम् अप्राप्य यथेष्टचारिणी करोति या लोकम् अपायगोचरम् || GओPर्_१३ ||
SK
सुदारुणैर् आयुधभीमदर्शनैर् अरातिभिः सार्धम् अहो वरं गतम् | त्वया सुहृच्छद्मनिगूढपाप्मना पदं न चैकं वितथप्रलापिना || GओPर्_१४ ||
SK
नमन्ति यं ब्रह्मविदो महर्षयः पुनाति यो विश्वम् इदं वृषांशुभिः | अपुण्यराशिर् यदि स व्रतीश्वरस् तथागतः पुण्यनिधिः कुतो ऽपरः || GओPर्_१५ ||
SK
मुनेः परोद्धारनिमित्तमात्रम् अप्य् उपैति यस्योद्धृतकल्मषो ऽपि सन् | स योगपर्यन्तविदां धुरि स्थितो न पुण्यराशिर् यदि को न्व् इहापरः || GओPर्_१६ ||
SK
न यस्य बुद्धिः प्रतिहन्यते क्व चिन् न च प्रहेयावयवो ऽवशिष्यते | न चास्ति सङ्गो जगदर्थसाधने स पुण्यराशिर् न कथंकथान्तशः || GओPर्_१७ ||
SK
तदुक्तं स समाकर्ण्य द्वितीयोपासकस् [!] ततः | प्रागल्भवचसा भूय आयुष्मन्तं तम् अब्रवीत् || GओPर्_१८ ||
SK
हितकाम्यतया निरत्ययं वचनं कामम् इदं सखे तव | अनुयुज्य तथापि शोभते वितथं साधुर् उदीरयन् भवान् || GओPर्_१९ ||
SK
मम भक्तिर् उदारशासने सुगते या परमानुकम्पके | विदिता तव सा तथापि मां सहसा सौम्य कथं विगर्हसे || GओPर्_२० ||
SK
आपाताल्पसुखाभिमानरसिकं पर्यन्तरिक्ताश्रयं सायासं सभयं प्रसङ्गविरसं धिग् लौकिकं संगतम् | यन् नामैवम् अकारणोद्धतरुषो मिथ्याविकल्पैर् हतं गच्छत्य् एकपदे क्षयं परिचयं विक्षिप्य मूर्ध्नो ऽन्तिकम् || GओPर्_२१ ||
SK
एतत् तेनोदितं श्रुत्वा प्रथमः स उपासकः | अन्यथा तद्वचो मत्वा मनसैवं व्यचिन्तयत् || GओPर्_२२ ||
SK
अहो ह्य् अन्यद् अनेनोक्तम् अन्यन् मया विकल्पितम् | इति चिन्ताविषण्णात्मा तस्थौ लज्जाहताशयः || GओPर्_२३ ||
SK
दृष्ट्वा स च सहायस् तं लज्जावनमिताननम् | तदभिप्रायम् आज्ञातुं प्रसह्य चैवम् अब्रवीत् || GओPर्_२४ ||
SK
साधो किं मन्यसे ह्य् अत्र यत् ते लज्जाहतं मुखम् | तावत् ते यद् अभिप्रायं तत् प्रचक्ष्व ममाग्रतः || GओPर्_२५ ||
SK
तस्यैतद् वचनं श्रुत्वा स आयुष्मान् उपासकः | तन्मनोऽन्तर्गतं सर्वम् अभिप्रायं व्यमुञ्चत || GओPर्_२६ ||
SK
चित्तं यत्र प्रसाद्य क्षणम् अपि मनुजो ऽनुत्तमे दक्षिणीये श्रीसौभाग्यप्रकर्षं भवगतिषु परं प्राप्य निर्द्वन्द्वरम्यम् | पश्चाद् आलोक्य लोकं वितथविलपितं प्रत्ययग्राहमात्रं ज्ञात्वा प्राप्नोति शान्तं कथम् इव न महान् पुण्यराशिर् भवेत् सः || GओPर्_२७ ||
SK
दत्त्वा पलालशकलस्रजम् अग्रसत्त्वे लेभे भवोपशमशान्तिसुखानि नारी | यस्मिन्न् अचिन्त्यचरितातिशयप्रभावे किं पुण्यराशिर् अयम् इत्य् अविदग्धम् एतत् || GओPर्_२८ ||
SK
कोशातकीकुसुमम् अपि प्रदाय स्तूपे मुनेः परमकारुणिकस्य यस्य | भुक्त्वालये गुणविभूतिसुखप्रकर्षं लेभे ऽङ्गनामृतपुरप्रतिपत्समृद्धिम् || GओPर्_२९ ||
SK
यस्मै पांशुप्रदानं प्रकृतिचलमना बालकैः संप्रदाय स्फीतां मर्त्येन्द्रलक्ष्मीम् अनवनतसितच्छत्त्रहासाभिरामाम् | संप्राप्यातीतचिन्तं पदम् अभयम् असद्दाहपर्यन्तशान्तं लेभे पश्चान् नरेन्द्रः कथम् इव स न भोः पुण्यराशिर् महर्षिः || GओPर्_३० ||
SK
प्रसह्य पङ्काङ्कम् ऋषेर् वराहः [!] चैत्ये वपुर् यस्य चिरं स एव | तस्यैव धर्मस्य सुधर्मतासौ यदाधिपत्येन भवाद् विमुक्तः || GओPर्_३१ ||
SK
कियान् प्रसादो जडचेतनानां सखे तिरश्चां गुणनिश्चयो वा | क्षेत्रस्य तस्यैव तु सा विभूतिर् येनात्र सत्त्वाः सफली भवन्ति || GओPर्_३२ ||
SK
दृष्ट्वा लोकविलोचनोत्सवसुखां संशान्तसर्वोद्धवां व्यामाभापरिवेषिणीं भगवतो बुद्धस्य मूर्तिं पुरा | हर्षोत्कम्पिगलश् चुकूज मधुरं प्रेङ्खत्कलापः शिखी तद्धेतोश् च शमं जगाम स शिखी धाराम्बुसिक्तो यथा || GओPर्_३३ ||
SK
मङ्गल्यत्वम् अचिन्त्ययोगमहतां सर्वार्थसिद्ध्यावहं बुद्धानां तद् उदीक्ष्यतां भगवतां संमोहनिद्राच्छिदाम् | अत्यन्तोपशमावहं भवति यत् तिर्यग्गतानाम् अपि प्राग् एवाभिमुखाशयस्य विदुषः शास्तुर् गुणाम्भोनिधेः || GओPर्_३४ ||
SK
मन्ये दर्शनम् एव तद् गुणवतां तेषाम् अवन्ध्योदयं सर्वाकारपरोपकारमधुरं पूर्वाभिसंस्कारजम् | प्रद्वेषोपहताशयान् अपि जनान् संप्रापयत्य् उत्तमं स्थानं सर्वभवोपसर्गविगमाद् एकान्तशान्तं शिवम् || GओPर्_३५ ||
SK
श्रुत्वा नाम तथागतस्य मकरः सांयात्रिकेभ्यः पुरा संपृक्तास्यपुटो ममार सुगते चेतः प्रसाद्य क्षणम् | तद्धेतोः सरितां पतिं परिमितं नीत्वा पुनर् दुस्तरं जन्माम्भोनिधिम् उत्ततार विपुलं निःसृत्य मार्गे प्लवम् || GओPर्_३६ ||
SK
अपायपातालतलावलम्बी सुरो मुनीन्द्रं शरणं प्रपद्य | स्वपुण्यसोपानपरम्पराभिः समारुरोहाग्र्यतरं विमानम् || GओPर्_३७ ||
SK
कृत्वा व्याघ्रभयान् नमो भगवते बुद्धाय सर्वात्मना नाम्नैवानुपमस्य पुण्यमहतीम् आलोक्य नान्दीं पुमान् | निःशेषव्यसनान्धकारगहनप्रध्वंसिनीं प्राप्तवाञ् छान्तिं काम् अपि वागतीतविषयां प्रह्लादसंवर्धनीम् || GओPर्_३८ ||
SK
इति भुवनमहिम्नाम् आकरं शाश्वतानां तम् अनुपमविशेषाचिन्त्यचर्यारहस्यम् | किम् अपि कथम् अपीशं शंकरं प्राप्तुम् आर्यं पदम् अमरम् अहार्यं पुण्यराशिं वदामि || GओPर्_३९ ||
SK
इति तद्गदितं श्रुत्वा स इतर उपासकः | तम् आयुष्मन्तम् आलोक्य पुनर् एवं समब्रवीत् || GओPर्_४० ||
SK
सम्यग् अभिहितं साधो भवतात्र तथापि च | ममाप्य् एवम् अभिप्रायं श्रूयतां सांप्रतं सखे || GओPर्_४१ ||
SK
कृत्वा चित्तप्रदोषं सकृद् अपि सुगते प्राप्तलोकावसाने यत्राविच्छिन्नमैत्रीजलकलशशतक्षालितान्तःप्रकोपे | आसंसारापरान्तं ज्वलदनलशिखागर्भपर्यन्तरन्ध्रं गाहन्ते ऽवीचिम् अज्ञाः कथम् इव स जिनो ऽपुण्यराशिर् न तुङ्गः || GओPर्_४२ ||
SK
एलापत्रम् अवज्ञया किल मुनौ च्छित्वा प्रमादात्मकः पार्थग्जन्यविषस्य वृत्तिम् अशिवाम् उद्भावयन् कर्मणा | एलापादपपादपाटितशिरो – – द्वमच्छोणितो नागेन्द्रः पृथुभीमभोगपटलो नाद्यापि निर्मुच्यते || GओPर्_४३ ||
SK
सूक्ष्मो ऽप्य् एवम् अनादरो भगवति प्राबन्धिकीं व्यापदं यत् सर्वायतनोपतापविरसाम् आकर्षति प्राणिनाम् | सर्वोत्कर्षदशावसानमहतीं काम् अप्य् अनायासिनीं प्राप्तः शान्तिम् अपुण्यराशिर् असतां तस्मात् स सत्त्वोत्तमः || GओPर्_४४ ||
SK
कृत्वा चेतःप्रदोषं कृपणकपुरुषो यत्र वीथीमुखस्थः कीटः कोपोपदग्धो नृपरथचरणाघातविच्छिन्नमूर्धा | ज्वालामालाकलापं विवृतम् इव भुवो भीषणं वक्त्रकोशं श्वभ्रं तस्माद् विवेश प्रतिहततिमिरो ऽपुण्यराशिस् ततो ऽसौ || GओPर्_४५ ||
SK
एवं बुद्धे भगवति गतिभ्रान्त्युपादानदाह- प्राप्ताभिज्ञे मृदुर् अपि कृतश् चेतनासंनिवेशः | संतानानान् उपततिफलप्राप्तये निर्बबन्ध सः सर्त्ता [?] – भवसुखलवास्वादलग्नाभिलाषम् || GओPर्_४६ ||
SK
मत्वा कर्मस्वकम् अनुशयस्नायुतन्त्रीप्रणेयं लोकैर् दुःखैर् विषयकृपणैर् इन्द्रियैर् विप्रलब्धम् | उत्पद्यन्ते विपदुपशमप्राप्तये ये जनानां मातुं तेषु प्रभवति पुमान् को ऽपकारोपकारौ || GओPर्_४७ ||
SK
हृत्वा धातुधरान्* स्रजो भगवतः सद्यो ऽभवद् दारको विस्फोटस्फुटितार्द्रमांसगुडको बीभत्ससर्वाश्रयः | सत्कारं प्रविधाय तत्र च पुनः सद्यो ऽभवन् निर्व्रणः तत् को नाम न पूजयेत् सहृदयः पुण्यार्णवं जङ्गमम् || GओPर्_४८ ||
SK
तस्मात् प्रदुष्टमनसां भगवान् अपुण्यराशिः प्रसन्नमनसां तु स पुण्यराशिः | पर्यायतो विगतसर्वसवासनान्तःसंक्लेशकिल्बिषदशो विषयान्तदर्शी || GओPर्_४९ ||
SK
कृत्वा भग्नां प्रतिकृतिम् ऋषेर् अङ्गना कन्दुकेन प्रकृईडन्ती करकिसलयप्रच्युतेन प्रमादात् | पश्चात्तापज्वरपरिगता पूजयित्वापि बुद्धं किं संप्राप्ता न कनकवती बाहुविच्छेददुःकम् || GओPर्_५० ||
SK
उद्यन् दर्शनम् उच्छिनत्ति सविता नक्तंचराणां यथा नॄणां ध्वान्तम् अपाकरोत्य् अविरलं रूपोपलब्ध्यै करैः | दोषस् तत्र न भास्करस्य भगवद्द्विष्तप्रसन्नात्मनां बुद्धो ऽप्य् एवम् अपुण्यपुण्यनिचयः सामान्यनाथो ऽपि सन् || GओPर्_५१ ||
SK
इति ताव् उपासकौ बुद्धगुणमाहात्म्यकीर्तनम् | कृत्वा परस्परं सत्त्वं पवित्रीकृत्य जग्मतुः || GओPर्_५२ ||
SK
एवं मत्वा महाराज संबुद्धे सद्गुरौ मुदा | श्रद्धया सत्कृतिः कार्या नापकृतिः कथं चन || GओPर्_५३ ||
SK
शास्तर्य् अवज्ञामलिनाशयानां भूमिर् विदारं न ददाति सद्यः | बुद्धप्रसादद्रवचेतसां वा न जायते रत्नमयी विचित्रं || GओPर्_५४ ||
SK
को ऽप्य् एष कर्मान्तरसंनिरोधः पुण्यप्रभावातिशयो विचित्रः | कर्माणि यत् पात्रविशेषजानि सद्यो न नॄणां फलम् उद्वमन्ति || GओPर्_५५ ||
SK
तस्यैव कापीयम् ऋषेर् अचिन्त्या विभूतिर् आवेणिकयोगसाध्वी | येनात्र कृत्वापि मनःप्रदोषं सद्यो न पातालतलं विशन्ति || GओPर्_५६ ||
SK
तल् लोकानाम् अमृतफलदे जङ्गमे पुण्यवृक्षे कार्या भक्तिर् भगवति जिने निर्जितान्तःसपत्ने | निक्षिप्याशां विषयगहनव्रातविष्वग्विषक्तां यावन् नेदं भवति भुवनं बुद्धकान्तारघोरम् || GओPर्_५७ ||
SK
उत्पद्यन्ते जगति न सदा नापि सर्वत्र बुद्धाः सर्वाकारापरतवितथग्राहनिद्राप्रसङ्गाः | कश् चित् कल्पः प्रभवति चिरात् पुण्यसंभाररम्यो यत्रोत्पादो भवति भुवनस्वामिनां भूतभूत्यै || GओPर्_५८ ||
SK
यातस्यापि प्रशान्तिं भवपुरपरिखां जालिनीं शोषयित्वा यावत् संबुद्धभानोः प्रवचनकिरणा लोकम् उद्भावयन्ति | तावत् पश्यन्तु सन्तः समविषमवतां दुर्विभागप्रभेदान् लोके दुर्दृष्टिमेघा विपदशनिमुखा दुर्निवाराः स्फुरन्ति || GओPर्_५९ ||
SK
एवं मे गुरुणाख्यातं तथा ते कथ्यते मया | तद् एवं हि परिज्ञाय कर्तव्यं भजनं मुनेः || GओPर्_६० ||
SK
ये भजन्ति सदा बुद्धं न ते गच्छन्ति दुर्गतिम् | निःक्लेशाः सबलान् माराञ् जित्वा यान्ति जिनालयम् || GओPर्_६१ ||
SK
ये च शृण्वन्ति सद्धर्मं ते ऽपि न यान्ति दुर्गतिम् | सर्वदा सत्सुखं भुक्त्वा यान्ति चान्ते सुखावतीम् || GओPर्_६२ ||
SK
ये ऽर्चयन्ति मुदा संघान् न ते ऽपि यान्ति दुर्गतिम् | सर्वसत्त्वहितं कृत्वा संप्रयान्ति शुभालये || GओPर्_६३ ||
SK
एवं मत्वा महाराज त्रिरत्नशरणं गतः | सर्वसत्त्वहितं कृत्वा संवृतिं संप्रचारय || GओPर्_६४ ||
SK
तेन ते सर्वदा भद्रम् इहामुत्रापि संभवेत् | क्रमाद् बोधिं समासाद्य निर्वृतिं वा समाप्नुयाः || GओPर्_६५ ||
SK
इति शास्त्रा समादिष्टं श्रुत्वा स नृपतिर् मुदा | तथेति संप्रतिज्ञाय प्राभ्यनन्दत् सपार्षदः || GओPर्_६६ ||
SK
पुण्यराश्यवदानं तद् इदं ये श्रद्धया मुदा | श्रावयन्त्य् अनुमोदन्ते शृण्वन्ति च समाहिताः || GओPर्_६७ ||
SK
सर्वे ऽपि ते महासत्त्वाः परिशुद्धत्रिमण्डलाः | सद्धर्मगुणसौख्यानि भुक्त्वा यान्ति जिनालयम् || GओPर्_६८ ||
SK
|| श्री || इति पुण्यराश्यवदानं समाप्तम्
SK
११. ऋषिपञ्चक
SK
मूलं मलानां प्रवदन्ति जातिं जातिप्रपञ्चोपशमप्रवीणाः | तथागताश् चावितथप्रतिज्ञाः संभोधिसत्त्वाश् च विशुद्धसत्त्वाः || GओṚप्_१ ||
SK
तद्यथानुश्रूयते |
SK
बोधिसत्त्वः किल लोकाभिमतगुणाभिलक्षिते महति ब्राह्मणकुले जन्म प्रतिजग्राह |
SK
किरणैर् इव शुक्लपक्षचन्द्रः स्वगुणैर् एव सहाभिवर्धमानः | परमां स्वकुलस्य चिह्नशोभां प्रथिमानं गमयां बभूव साधुः || GओṚप्_२ ||
SK
वयसि प्रथमे ऽपि वर्तमानो विषयेष्व् अतिबद्धमानसो ऽसौ | अतिमानुषचेष्टितस्वभावो जगतां स्मयभाजनं बभूव || GओṚप्_३ ||
SK
सो ऽपर्यवसितकुकार्यपर्याकुलम् उपशमविरोधिप्रकृष्टोपायासम् अर्थोपार्जनप्रधानकामरतिव्यवहारासारकर्मधर्मभूयिष्ठम् अविनयकलहवैरविग्रहायतनम् ईर्ष्यामात्सर्यचौर्यादिनिकेतभूतं शोकपरिदेवदुःखदौर्मनस्योपायासबहुलं मायाशाठ्यमदमानगहनं साहसावलेपाधिष्ठितम् अनार्यव्यवहारानुप्रवृत्तिजिह्मसत्त्वभावं प्रमादपदस्थानम् अनेकरूपपरिभवोपसृष्टं संनिहितदैन्यम् अनभिभूतविषादं प्रत्यासन्नविघातभयदौर्गत्यम् अविषह्योपद्रवसमुद्रं कण्टकगर्भादभ्रश्वभ्रप्रतिभयाकरम् अपास्य गार्हस्थ्यम् अन्यतमम् अश्रमपदम् अभ्यलंचकार |
SK
बहुच्छलं सो ऽथ बहुव्यलीकं बहूपसर्गं बहुदोषदुष्टम् | अपास्य गार्हस्थ्यम् अनर्थमूलं तपोवनं शान्तम् अलंचकार || GओṚप्_४ ||
SK
सरोभिर् उन्निद्रपलाशकोषकुशेशयेन्दीवरचित्रतोयैः | अलंकृतं बालकशेरुनीलप्रतीरसंसुप्तशरारिहंसैः || GओṚप्_५ ||
SK
मीनावलीरशनया सरितोपगूढं स्नेहाद् इव प्रणयिनं प्रियया प्रकामम् | सर्वर्तुपुष्पफलदैः स्वजनैर् इवान्तर् बालप्रवालहरितैस् तरुभिर् निरुद्धम् || GओṚप्_६ ||
SK
व्यालैस् तपस्विभिर् इवाकृतिमात्ररूक्षैः पर्याकुलम् जलतृणाङ्कुरतुष्टचित्तैः | तं काननान्तम् उपगम्य स बोधिसत्त्वो धर्मो ऽवतीर्ण इव विग्रहवान् व्यराजत् || GओṚप्_७ ||
SK
गृहस्थभावे ऽपे स वर्तमानो जन्मान्तराभ्यस्तविवेकवासः | आगारदोषैर् अपरिक्षतात्मा विशेषयाम् आस तपोवनस्थान् || GओṚप्_८ ||
SK
– – ⏑ – – ⏑ ⏑ – ⏑ – – प्रमादिनां कापुरुषाश्रयाणाम् | उत्कण्ठयन्ति प्रविवेकयोग्यास् त एव शान्ताः सततं वनान्ताः || GओṚप्_९ ||
SK
अभ्यस्तनैष्क्रम्यसुखोत्सवानां सतां प्रवासा इव गेहवासाः | मृगाङ्गनाकुञ्चितपल्लवानि वनानि तेषां भवनोत्तमानि || GओṚप्_१० ||
SK
परिग्रहेष्व् एव विघातबुद्धिः संतोष एव स्वधनानुरागः | येषां गृहे चारकवाससंज्ञा तेषां न चित्रो वनसंनिवासः || GओṚप्_११ ||
SK
तस्य पूर्वजन्मपरम्पराभ्यासवासनाघनस्नेहगौरवनिरत्ययाश् चत्वारः सहाया बभूवुः वायसः पारावतो भुजगो मृगश् च | ते तदाज्ञासंपादनैकतानमनसः स्वयोनिविधिना धर्मक्रियासौष्ठवेन जगत्य् अभिलक्षिता बभूवुः |
SK
छन्दोपघातविहतेष्व् अपरायणेषु तिर्यक्षु मोहबहुलेष्व् अधिकं विह्बान्ति | धर्मानुरागविशदाः प्रतिपत्तिशोभास् तामिस्रपक्षरजनीष्व् इव दीपमालाः || GओṚप्_१२ ||
SK
विस्मापयन्ति सुतरां विगुणाश्रयिण्यो धर्मक्रियाः करणपाटवयोगरम्याः | ग्रीष्मोष्मदुर्गमतरासु वनस्थलीषु प्रोद्भिद्यमानकमला इव पङ्कजिन्यः || GओṚप्_१३ ||
SK
तेषाम् एकदा स्नेहनिर्यन्त्रणरमणीयावस्थानप्रवृत्तसंकथानाम् अयं विनिश्चयो बभूव | किं नु खलु भवन्तो ऽतिशयेन दुःखं मन्यन्ते | तेषां दक्षताम् इवोद्भावयन् प्रथमतरं वायसः प्रोवाच | नेहास्ति क्षुधो ऽन्यत् परमं दुःखम् | कुतः
SK
न व्याधयो न च जरा न सुःर्द्वियोगो नानिष्टसंगममया व्यसनप्रकाराः | दुःखानि तान्य् उपहरन्ति जनस्य यानि ह्री विप्रवासपरितापकरी जिघत्सोः || GओṚप्_१४ ||
SK
दुरुत्तरक्षारतरङ्गमालिनीम् उपागता वैतरणीं प्रमादिनः | बुभुक्षया यन् निगिरन्त्य् अयोगुडान् ततो ऽस्ति न क्षुत्सदृशो ऽपरः कलिः || GओṚप्_१५ ||
SK
कडेवरावस्करनिर्झरस्रवन्मलोपलेपाकमनीयदर्शनः | रुजा परीतो ऽपि पिपासति स्तनं यद् अर्भकः क्षुद्व्यसनं ततो महत् || GओṚप्_१६ ||
SK
विनाकृतः प्राणसमैर् अपि प्रियैर् गतो ऽपि शोकस्य वशं विदाहिनः | यद् अश्रुमिश्रान् कवडान् निषेवते ततो भयं क्षुत् परमं जिनो ऽब्रवीत् || GओṚप्_१७ ||
SK
अपि च भदन्ताः
SK
जातः कुले महति मानमदावलिप्ते क्षुद्विक्षतो ऽभ्युदयकाल इव प्रहर्षात् | उच्छेषपिण्डम् अपि नाम नृपस्य भुङ्क्ते यत् सारमेय इव कष्टतरं किम् अन्यत् || GओṚप्_१८ ||
SK
प्रत्यन्तवासरतयस् तृणमात्रतुष्टा यत् तापसा इव परव्यसनानभिज्ञाः | लक्ष्यीभवन्ति हरिणाः परितः शराणां क्षुद्दुःखम् अत्र नियमेन परैमि हेतुम् || GओṚप्_१९ ||
SK
मर्मच्छिदापि पवनेन विशस्यमाना हिक्कास्फुरद्गलककण्ठविकारदेहाः | आहारयन्ति पिचुनापि यद् अन्नलेशान् न क्षुत्समं व्यसनम् अस्ति ततः प्रजानाम् || GओṚप्_२० ||
SK
अपि च साधवः
SK
आसन्नान्नभुजो नभस्तलचरा देवा इवाभास्वराः सत्त्वाः प्राथमकल्पिकाः स्वकिरणज्वालावलीमालिनः | आहारप्रणयप्रसङ्गविहतास् ते ताम् अवस्थां गताः यत् प्रेता इव वर्तयन्ति कृपणाः कृच्छ्रोपलब्धाशनाः || GओṚप्_२१ ||
SK
क्षुद्दुःखोपनिपातदीनमनसः शुष्कानि काष्ठान्य् अपि क्लिन्नानि क्रिमिसंकुलानि विघृणाः खादन्त्य् अमेध्यानि च | कक्षैः के चन यापयन्ति परुषैर् लालाजलक्लेदितैर् अन्ये ऽस्थीनि चिरोज्झितान्य् अधृतयः क्षुद्विक्षता भुञ्जते || GओṚप्_२२ ||
SK
ते राजान्तररक्षिणाम् अपि शिरस्य् आधाय पादं खगाः क्षुद्दुःखोपनिपातविस्मृतभया हृत्वामिषं भुञ्जते | वेगेनाभिपतन्ति शस्त्रकलिलप्राकारदुःसंचराञ् शूलामांसलवाभिलाषकृपणा गच्छन्ति के चित् क्षयम् || GओṚप्_२३ ||
SK
विविधान्य् अपि भोजनानि भुक्त्वा भवने स्वे मणिहेमभाजनेषु | शितकण्टकविक्षताग्रहस्ता बुभुजे सा बदराणि सत्यभामा || GओṚप्_२४ ||
SK
शापोत्सर्गानुग्रहान् म्लानशक्तिर् दिक्पर्यन्तख्यातकीर्तिप्रकाशः | विश्वामित्रो यच् चखाद श्वमांसं क्षुद्दुःखानां तेन दत्तो नियोगः || GओṚप्_२५ ||
SK
बालः पुत्रः प्रेमसर्वस्वभूतो यत् कान्तारे खादितो दम्पतिभ्याम् | क्षुद्दुःखेभ्यो नास्ति दुःखं ततो ऽन्यज् जन्माटव्यां धावतां क्रूररूपम् || GओṚप्_२६ ||
SK
याच्ञादैन्यान् म्लानवक्त्रप्रसादा देहीत्य् एवं व्याहरन्त्य् अप्रगल्भम् | द्वारि स्थित्वा विद्विषां क्षुद्विलोलाः किं मन्यध्वे दुःखम् अस्माद् बलीयः || GओṚप्_२७ ||
SK
अथैषां पारावतः प्रोवाच | सत्यं बलवत् क्षुद्दुःखम् | अपि तु ममाभिप्रायः श्रूयताम् |
SK
राग एव महद् दुःखम् इति मे निश्चिता मतिः | क्षुत् करिष्यति किं यस्माद् भस्मनापि निवार्यते || GओṚप्_२८ ||
SK
अपि च
SK
वाय्वम्बुजीर्णतरुपर्णभुजो ऽपि नाम दीर्घोपवासपरिकर्शितगात्रयन्त्राः | अन्धीभवन्ति मुनयः स्खलितप्रभावा रागेन दुःप्रतिविधानसमुद्भवेन || GओṚप्_२९ ||
SK
अम्लानचन्द्रकिरणास्व् अपि यामिनीषु प्रोत्फालिताभ्रविवरेष्व् अपि वा दिनेषु | अन्धो ऽधमो भवति रागपराजितात्मा तस्मान् न रागसदृशः कलिर् अस्ति लोके || GओṚप्_३० ||
SK
लज्जां निमीलयति सर्वगुणाग्रभूतां कीर्तिं कलङ्कयति निर्विकलप्रसादाम् | धर्मात्मनाम् अपि च नाम तिरस्करोति श्रेयांसि मेरुशिखरप्रतिमानि रागः || GओṚप्_३१ ||
SK
नायं वयस् तुलयति प्रगतं नराणां नापेक्षते कुलविशुद्धिमयीं व्यवस्थाम् | लोकापवादगहनान्य् अपि लङ्घयित्वा संकल्परागतुरगः स्वमतेन याति || GओṚप्_३२ ||
SK
संमूर्छितः कुसुमहासिषु मल्लिकानां गुल्मेषु वारिकणकण्टकितो नभस्वान् | संतापयत्य् अनुपशान्तविकल्परागं चेतो नरस्य सुतराम् अपरीक्षकस्य || GओṚप्_३३ ||
SK
सूक्ष्माणि संधिगहनान्य् अपि चावगाह्य स्वप्रत्यया बहुविधानि मतान्तराणि | मेधाविनो ऽपि ननु रागपिशाचवश्याः संप्राप्नुवन्ति परमं स्मृतिविप्रलोपम् || GओṚप्_३४ ||
SK
हत्वापि रागविषबीजविजृंभितानि स्वभ्यस्तयोगपदवीस्थिरबुद्धयो ऽपि | योषिन्मुखान्य् अलकपल्लवितान्य् उदीक्ष्य भ्रष्टा भवन्ति तपसः पशुभिः समानाः || GओṚप्_३५ ||
SK
दृङ्मार्गहेयम् अवहत्य बलं मलानाम् एकावशिष्टभवबन्धनतन्तवो ऽपि | आर्या मनःस्थितिभिदानुगताः स्मरेण लज्जालवो ऽप्य् अनुभवन्ति दशाम् अनार्याम् || GओṚप्_३६ ||
SK
उच्चैः शिरो वहति तावद् अयं प्रजासु यावन् न कामकलिदुर्ललितान्य् उपास्ते | आलिङ्गितश् च पुरुषो मदनज्वरेण श्वा संकटस्थित इव प्रखलीकृतश् च || GओṚप्_३७ ||
SK
अपि च भद्रमुखाः
SK
कण्ठोपान्तविरोधगद्गदतरं कूजञ् छनैः पृष्ठतो रागाद् रक्ततरेक्षणः सचकितं निर्भर्त्स्यमानो मुहुः | श्येनायातम् असंप्रधार्य दयिताम् अन्वेति पारावतो रागाभ्यासकलङ्कितस्य मनसः का वञ्चना दूरतः || GओṚप्_३८ ||
SK
ये नैकाङ्गुलितर्जनाम् अपि गुरोः सोढुं समर्था नराः मानात्युन्नतमानसाश् च सकलं पश्यन्त्य् अधस्ताज् जगत् | ते रागेन कदर्थिता धृतिभिदा पादैर् हता योषिताम् आज्ञा मूर्धभिर् उद्वहन्ति कृपणा मालाम् इवाम्लायिनीम् || GओṚप्_३९ ||
SK
जित्वारातीन् समरविजयख्यातशौर्यावलेपान् आयामिन्यो जगति वितताः कीर्तयो यैः समन्तात् | भिन्नास् ते ऽपि प्रकृतिचपलैर् अङ्गनावाक्यबाणैर् निर्मर्यादाः पुनर् अयशसा जीवलोकं स्फुरन्ति || GओṚप्_४० ||
SK
परिचितम् अपि श्रुत्वा वाद्यध्वनिं रजनीक्षये भवति सहसा यासां त्रासो गृहेषु सवेपथुः | मदनविहतास् ता गच्छन्ति क्षपास्व् अभिसारिका बहलतिमिरच्छन्नान् देशाञ् छिवारुतभीषणान् || GओṚप्_४१ ||
SK
मन्दं मन्दं सलीलं सकुसुमनिकरे हर्म्यपृष्थे विविक्ते खिद्यन्ते संचरन्त्यः प्रियविधृतकराम्भोरुहा यास् तरुण्यः | रागावेशावतन्त्रा बहुमहिषखुरक्षुण्णपङ्काङ्कदुर्गान् मार्गान् प्रावृड्निशासु द्रुतपदरभसं ता व्यतिक्रम्य यान्ति || GओṚप्_४२ ||
SK
वेपन्ते नववारिचूर्णशिशिरैः स्पृष्टाः कदम्बानिलैर् बाला जालगवाक्षपक्षविसृतैर् या रम्यहर्म्याश्रिताः | धारापातविशीर्णपुष्परचनाः सारङ्गपर्याकुलास् ता पङ्काङ्कितमूकनूपुररवा रात्रौ व्रजन्त्य् अध्वना || GओṚप्_४३ ||
SK
शस्त्रापाता कुवलयदलस्पर्शकल्पा भवन्ति ज्वालाश् चाग्नेर् गतघनशरच्चन्द्रिकाश्लेषशीताः | कामान् प्राप्य श्वसनचपला मूर्तयः पन्नगानां साम्यं यान्ति भ्रमरविरुतैर् दामभिर् मालतीनाम् || GओṚप्_४४ ||
SK
सर्वायतनोन्माथी तस्माद् रागो महद् दुःखम् इत्य् उक्ते भुजगो ऽब्रवीत् | ननु खलु दुःखम् रागश् चित्तविपर्यासकृद् दुराचारः | क्रोधं तु दुःखतरम् इत्य् अवैमि चेतोज्वलं तु मूलम् | कुतः
SK
विक्षिप्ताम्बुदसान्द्रचन्द्रकिरणप्रक्षालिताट्टालके वीणावेणुरवानुबद्धमधुरस्त्रीगितरम्ये गृहे | विद्धः क्रोधशिलीमुखेन पुरुषो नाप्नोति निद्रां यतः क्रोधाद् दुःखतरं न दुःखम् अपरं किं चित् ततो विद्यते || GओṚप्_४५ ||
SK
योगाभ्यासविशेषशान्तमतिभिर् वाय्वम्बुमूलाशनैर् विश्रम्भायतनत्वम् अभ्युपगतैः प्रायस् तिरश्चाम् अपि | दग्धाः क्रोधहुताशनैर् जनपदाः क्रूरैर् इवाशीविषैर् यन् मोहाद् ऋषिभिर् न दुःखम् अपरं क्रोधात् ततो विद्यते || GओṚप्_४६ ||
SK
त्रासायासविशेषलोलनयनस्त्रीबाष्पपर्याकुलं बालैश् च स्तनचूचुकार्पितमुखैः सावेगम् उन्नादितम् | संरम्भस्फुरितेक्षणत्रयशिखिज्वालापिशङ्गाननो रुद्रो यत् त्रिपुरम् ददाह विघृणः क्रोधस्य तद् वैकृतम् || GओṚप्_४७ ||
SK
तीव्रातङ्कविलोलमूलवलया नैवाञ्जलिप्रग्रहाः स्त्रीणां बाष्पकणाः करालतरला नो पक्ष्मला दृष्टयः | कुर्वन्त्य् आवरणं ललाटपटलव्यावर्तमानभ्रुवां राज्ञां क्रोधविषाशिवस्य मनसः किं नाम दुःखं ततः || GओṚप्_४८ ||
SK
गर्भाधारणयन्त्रणाम् अविगणय्यापायिकां मातरं सत्कारातिशयक्षमं च पितरं स्नेहद्रवाध्याशयम् | यद् विश्रम्भनिरत्ययांश् च सुहृदो घ्नन्ति क्षताध्याशयाः क्रोधस्यैव विपाकदारुणतरास् ता वृत्तयः साधवः || GओṚप्_४९ ||
SK
उत्पद्यन्ते परममतयः शुद्धये ये प्रजानां दुःशोधानाम् अविकलमलालीढगूढाशयानाम् | तान् अप्य् आर्यान् परहितसुखप्रक्रियामात्रहार्यान् क्रोधाविष्टा वचनविशिखैः संमुखं घ्नन्त्य् अनार्याः || GओṚप्_५० ||
SK
क्रोधाघ्रातो भवति पुरुषो दग्धलावण्यवक्त्रो ज्वालाचक्रक्रकचकलिलान् क्रोधनो यात्य् अपायान् | तेभ्यो भ्रष्टो भवति जगतो लोचनातङ्कभूतः श्रीविद्वेषो न रिपुर् अपरः क्रोधतुल्यो ऽस्ति यस्मात् || GओṚप्_५१ ||
SK
यस्मिन् रक्तो भवति पुरुषस् तत्र कुर्यात् प्रियाणि द्विष्टो यस्मै तदधिकतराण्य् अप्रियाण्य् एव धत्ते | अल्पावद्ये ऽविगतरजसा तेन रोषः प्रविष्टः क्रोधं क्रोधोपशमकुशला वद्ययोनिं वदन्ति || GओṚप्_५२ ||
SK
त्रासोत्फुल्लमुखीं मृगीम् इव वने लज्जालसभ्रूलतां संरम्भापहृतोत्तरीयवसनां विच्छिन्नकण्ठेगुणाम् | चिक्लेश प्रचुराङ्गनाम् इव सतीं दुःशासनो द्रौपदीं स्फीते यत् सदसि प्रकामचपलाः क्रोधस्य ता विप्लुषः || GओṚप्_५३ ||
SK
शान्तात्मा विजने वने प्रतिवसन् निक्षिप्तदण्डो ऽपि सन् लोकानाम् अनिमित्तपेशलरसः स्नेहार्थकारी सुहृत् | खड्गेनार्द्र इव द्रुमः शकलितो यत् क्षान्तिवादी मुनी राज्ञा दुर्जनवल्लभस्य निकषं क्रोधस्य तत् प्राहृतम् || GओṚप्_५४ ||
SK
अनेकादीनवमयो विनिपाती मनोज्वलः | इत्य् एवं सर्वदुःखानां क्रोधारिर् धुरि वर्तते || GओṚप्_५५ ||
SK
मृगो ऽब्रवीत् | सम्यग् वक्तुम् एतद् भुजगपते क्रोधवैशसं तीव्रम् | मरणभयाद् अधिकतरं दुःखम् अहं नावगच्छामि | कुतः
SK
मरणोपनिपातकातराणां कमनीयान्य् अपि मारबन्धनानि | न मनो रमयन्ति यज् जनानां न ⏑ – दुःखम् अतः परं परैमि || GओṚप्_५६ ||
SK
सुहृदां वदनानि वीक्षमाणो घनबाष्पाम्बुतरङ्गदुर्दिनानि | लभते व्यसनं यद् अन्तकाले न ततो दुःखम् अवैमि कष्टम् अन्यत् || GओṚप्_५७ ||
SK
पवनैर् अविधेयदुःखशीलैः करपत्रैर् इव पाट्यमानदेहाः | परलोकमहाप्रपातशङ्काः कृपणा दुःखम् अवाप्नुवन्ति तीव्रम् || GओṚप्_५८ ||
SK
परिपाण्डुकपोलमण्डलानि श्वसनम्लानविपाटलाधराणि | दयितावदनानि नानुकम्पां जनयन्त्य् अन्तकदन्तविक्षतानाम् || GओṚप्_५९ ||
SK
जननी मलपङ्कदिग्धवेणी सुतविश्रम्भनिरत्ययोपचारा | उपमृत्युम् उदीक्ष्य शोकपङ्के विनिमज्जत्य् अपरायणा रुदन्ती || GओṚप्_६० ||
SK
चलतां तृणपर्णपल्लवानां ध्वनिम् आकर्ण्य वने मृगा वसन्तः | अनपेक्ष्य परस्परं द्रवामः स्वसुतान् अप्य् अवधूय मृत्युभीताः || GओṚप्_६१ ||
SK
कठिनोपलशर्कराकरालेष्व् अनलप्लुष्टतृणाचलद्रुमेषु | मरणाशनिसंनिपातभीताः गिरिदुर्गेष्व् अपरायणा वसामः || GओṚप्_६२ ||
SK
रजसापि विरूक्षितात्मभावाः परुषैश् चोपहता गदप्रहारैः | महतीम् अपि यातनां वहन्ते वचनत्रासजडा भवन्ति मृत्योः || GओṚप्_६३ ||
SK
हरिणो हरिणेव बन्धुमध्याद् अभिभूय प्रसभं विकृष्यमाणः | अविखण्डितपौरुषेण मृत्युद्विषता दुःखम् अयं परैति लोकः || GओṚप्_६४ ||
SK
परिशुष्कगलान्तरालनाडाः सरितां प्राप्य तटान्य् उदन्वतीनाम् | अनवाप्तजला मृगारिभीता वयम् उत्प्लुत्य दिशो दिशं व्रजामः || GओṚप्_६५ ||
SK
देशे देशे वयम् अशरणा व्याधम् उद्वीक्ष्य हिंस्रं शष्पोद्भेदप्रचयहरितान् संपरित्यज्य दावान् | विन्ध्याटव्याम् अजगरदरीदारुणायाम् अनाथाः शार्दूलानां नखमुखशिखालक्ष्यभावं व्रजामः || GओṚप्_६६ ||
SK
तृणपुरुषकान् अप्य् आलोक्य द्रवन्ति मनांसि नो न निशि न दिवा मृत्योर् भीताः सुखानि लभामहे | विततधनुषं दृष्ट्वा व्याधं कृतान्तम् इवापरं न भवति भयत्रस्ताङ्गानां मनाग् अपि भोजनम् || GओṚप्_६७ ||
SK
तरुपल्लवाहरितपाटलाधराः क्षितिरेणुधूसरितरोमराजिकाः | हरिणाङ्गना न रमयन्ति नो मनो मरणातुरं प्रकृतिचञ्चलेक्षणाः || GओṚप्_६८ ||
SK
स्थलीवासे तुष्टा नवजलतृणास्वादपटवः सलीलं कान्ताभिः सह गमनविन्यासचतुराः | न लोकद्वेष्टारो न च न चकिता नापि भयदाः प्रयत्नाद् वध्यन्ते तद् अपि हरिणा रौद्रमतिभिः || GओṚप्_६९ ||
SK
अटताम् अटवीष्व् अवारितानां तृणशष्पाङ्कुरमात्रभोजनानाम् | वद कं नु समीक्ष्य वैरिभावं हरिणानाम् अपि विद्विषो भवन्ति || GओṚप्_७० ||
SK
ऋजुषूत्तानचित्तेषु तृणतोयोपजीविषु | हरिणेषु कथं क्रूराः प्रहरन्ति मृगद्विषः || GओṚप्_७१ ||
SK
सर्वदुःखप्रतिक्रुष्टं सर्वभूतभयंकरम् | अवैमि मरणं तस्माद् उपसर्गदुरुत्तरम् || GओṚप्_७२ ||
SK
यतश् च ते महासत्त्वाः स्वं स्वं वादम् अभिनिविष्टा न कथापर्यवसानम् आसादयन्ति ततो बोधिसत्त्वम् उपेत्य न्यायतः प्रणम्येमम् अर्थम् ऊचुः | भगवन् क्षुद्रागक्रोधमरणभयानां किं नु दुःखम् | कस्य वास्माकं सुभाषितम् इत्य् अथैनान् स मुनिवर्यो ऽब्रवीत् |
SK
सुभाषितं च सर्वेषां सर्वेषां च सुनिश्चितम् | सर्वाण्य् एतानि दुःखानि रुजन्ति भुवनत्रयम् || GओṚप्_७३ ||
SK
अपि च भद्रमुखा ममाप्य् अभिप्रायः श्रूयताम् |
SK
अभीक्ष्णसमुदाचारो धर्मे यो यस्य बाधते | आश्रमं मनसो दुःखम् इत्य् अवैमि ब्रवीमि च || GओṚप्_७४ ||
SK
स्पर्धमाना इवान्योन्यम् उपघ्नन्ति विदाहिनः | लोकान् एव निरालोकाञ् जन्मसंबन्धिनो मलाः || GओṚप्_७५ ||
SK
क्षुद्दुःखोपहतात्मानः किं न कुर्युः शरीरिणः | अपायफलसंधानदारुणं कर्मवैशसम् || GओṚप्_७६ ||
SK
व्यतिक्रान्तार्यमर्यादा रागोपक्लिष्टचेतसः | भवन्ति करुणापात्रं पुरुषास् तत्त्वदर्शिनाम् || GओṚप्_७७ ||
SK
स्फुटभ्रूभङ्गविक्षेपभ्रमद्विकृतलोचनाः | क्षणेनान्य इवाभान्ति पुरुषाः परुषा रुषा || GओṚप्_७८ ||
SK
सर्वसत्त्वैर् विनाभावप्रवासो दीर्घकालिकः | भयम् आत्यन्तिकं हीदं मरणं सर्वदेहिनाम् || GओṚप्_७९ ||
SK
एते चान्ये च ये दुःखप्रकारा रोमहर्षणाः | ते जातिम् अनुवर्तन्ते करुणाम् इव साधवः || GओṚप्_८० ||
SK
मातापित्रोर् विप्रतिपत्तिं ................ | ................. किं नाम ततः परं दुःखम् || GओṚप्_८१ ||
SK
................. ........................ ||
SK
................................... | किं नाम ततः परं दुःखम् || GओṚप्_८२ ||
SK
रुद्धोच्छ्वासस्य भृशं कृमेर् इवामेध्यपङ्कमग्नस्य | या गर्भस्थस्य दशा किं नाम ततः परं दुःखम् || GओṚप्_८३ ||
SK
कायावस्करनिर्झरविवरे निष्पिष्यमाणदेहस्य | या प्रसवस्थस्य दशा किं नाम ततः परं दुःखम् || GओṚप्_८४ ||
SK
तस्माज् जातिं दुःखं जातिजराव्याधिमरणनिर्मुक्ताः | कथयन्ति कथिकवरा जिना जितकथंकथाबीजाः || GओṚप्_८५ ||
SK
अपि चायुष्मन्तः
SK
रागो ऽनैकविधो जरा परिभवो भोगार्जना रक्षणा प्रध्वंसव्यसनं महात्ययम् असत्संपर्कजं वैकृतम् | इष्टानिष्टवियोगयोगसुलभास् ते ते मनोविप्लवा जातिं प्राप्य यतो भवन्ति जगतः सैवेह दुःखं ततः || GओṚप्_८६ ||
SK
आत्मार्थप्रतियोगिनी भगवतां येषां क्रिया सर्वदा सर्वाकारपरोपकारमधुरा येषां समुत्पत्तयः | श्लाघ्या जातिर् अचिन्त्ययोगमहतां तेषां जगच्चक्षुषां जन्म स्वार्थपरस्य तु क्षणिकम् अप्य् आपायिकी विप्लुतिः || GओṚप्_८७ ||
SK
तस्माद् ब्रूमहे |
SK
संबोधये कुरुत वा स्थिरम् अप्रमादं तूर्णं घटध्वम् अथ वा भवसंक्षयाय | एतद् द्वयं तु विरहय्य विशन्त्य् अकामा भीमान्य् अपायवडवामुखगह्वराणि || GओṚप्_८८ ||
SK
यत्नेन चेद् उभयम् एतद् अवाप्नुवन्ति यत्नः फले महति युक्ततरो मतो मे | छिद्रं वराटकम् अवाप्य सुधापि किं स्याच् चिन्तामणेर् अधिगमाय वरं श्रमो ऽपि || GओṚप्_८९ ||
SK
मां प्रत्य् अतश् च विफलो ऽपि वरं प्रयासः साधोर् महाजनहितावहिताशयस्य | इच्छाविशेषविषयस्य पराक्रमस्य प्रस्थानम् एव महतीं रतिम् आदधाति || GओṚप्_९० ||
SK
साधारणानि दयितैः सह पेलवानि आमोदयन्ति सुतरां हृदयं सुखानि | पीडाकराणि महतां समुपस्थितानि प्राकर्षिकान्य् अपि सुखानि तु यौतकानि || GओṚप्_९१ ||
SK
खद्योतानां जनयति यथा देहसद्भावमात्रं दीप्तिर् नासौ स्फुरति जगतां – ⏑ – – ⏑ – – | एवं स्वार्थप्रणयमलिनज्ञानलेशाशयानाम् अर्थावाप्तिर् विनयनकृशा नास्ति सातुल्यरूपा || GओṚप्_९२ ||
SK
आज्ञां शिरोभिर् अथ ते प्रतिगृह्य तस्य मानाभिमानमृदुभिर् मुनिसत्तमस्य | धर्मैकतानमनसः प्रथयां बभूवुः कीर्तिं शरत्कुमुदिनीधवलां समन्तात् || GओṚप्_९३ ||
SK
इति ऋषिपञ्चकजातकम् ||
SK
१२. Sअप्तकुमारिका
SK
ॐ नमो रत्नत्रयाय ||
SK
वैराग्ययुक्तं च सुभाषितं च धर्मार्थकामप्रतिबोधनं च | एकान्तरम्यं बहुसज्जनानां वक्ष्यामि किं चिच् छृणुतावदानम् || GओSक्_१ ||
SK
एवम् इदं भ्राजेत् परिपक्वकुशलमूलानां महान्तो ऽपि भोगा यौवनं वा नालम् अन्तरायायेति |
SK
तद्यथानुश्रूयते |
SK
नयविनयादिगुणश्रीसमृद्धो राजाभूत् कृकी नाम | स च भगवति काश्यपे सम्यक्संबुद्धे समुपजातप्रसादः | तस्य राज्ञः सप्त कुमार्यः पूर्वबुद्धोत्पादसंनिरोपिताभिवृद्धकुशलमूलबलाधानाः समुपजातसंसारवासनिर्वेदास् ताः सविनयोपचारं मधुरेण वचसा प्रणिपत्य पितरम् अब्रुवन् |
SK
तोयान्तर्गतचन्द्रबिम्बतरलाम् आलोक्य लोकस्थितिं कामान् क्रुद्धभुजङ्गभोगपटलच्छायोपमान् वीक्ष्य च | दृष्ट्वा दुःखहुताशनैर् जगद् इदं कृत्स्नं च संदीपितं नैष्क्रम्याभिरताशयाः खलु वयं यामः श्मशानं नृप || GओSक्_२ ||
SK
राजोवाच ||
SK
बालाः सुखोचिता यूयम् अकृतार्थमनोरथाः | कथं शक्नोम्य् अहं वक्तुम् आश्रयध्वं तपोवनम् || GओSक्_३ ||
SK
कन्यका ऊचुः |
SK
जानीमहे क्षितिपते भवतो जने ऽपि स्नेहार्द्रपेशलरसाभिनिवेष्टितानि | अस्मासु किं पुनर् अकारणवत्सलस्य स्वाङ्के विवृद्धिम् अनघां समुपागतासु || GओSक्_४ ||
SK
युष्मद्विधैर् अपि सहाभिमुखो वियोगो येनैव नो नृप निरत्ययशुद्धभावैः | तेनैव शान्तिपदम् आप्तुम् इयं मनीषा मा भूत् पुनः पुनर् अयं व्यसनोपतापः || GओSक्_५ ||
SK
अथ स राजा स्नेहवशाद् वितानीभूतहृदयो निश्चलाभिताम्रनयनयुगलः पुनः पुनस् ताः कन्यकाः समभिवीक्ष्योवाच ||
SK
आस्तीर्णकोमलविचित्रकुथोदरेषु स्वैरं विहृत्य भवनेषु कथं भवत्यः | स्प्रक्ष्यन्ति दुर्जनमनोविषमां श्मशानभूमिं सितास्थिशकलप्रकरोत्तरीयाम् || GओSक्_६ ||
SK
स्नेहोन्मुखं पितरम् एकपदे कथं वा शोकाश्रुदुर्दिनमुखीं जननीं च हित्वा | अम्लानसौहृदनिरन्तरमानसांश् च त्यक्त्वा कथं नु सुहृदस् तपसे रमध्वम् || GओSक्_७ ||
SK
अथ ताः कन्यका निरतिशयधैर्यावष्टम्भगल्भं पितरम् ऊचुः |
SK
माता पिता सुहृद् इति व्यवहारमात्रम् एतत् पुनर्भवनिपातविघातभाजाम् | भूतार्थदर्शनपरोक्षमलीमसानां लोको वृथा नरपते परिखेदम् एति || GओSक्_८ ||
SK
केनाप्य् अनर्थरुचिना कपटं प्रयुक्तम् एतत् सुहृत्स्वजनबन्धुमयं विचित्रम् | कस्यात्र कः कथम् इह स्वजनो जनो वा स्वप्नेन्द्रजालसदृशः खलु जीवलोकः || GओSक्_९ ||
SK
सालोकं भुवनत्रयं नरपते सद्धर्मवागंशुभिर् यावद् बुद्धदिवाकरस्य विलसत्कीर्तिप्रभामालिनः | निर्यातुं व्यसनान्धकारपटलच्छन्नान्तरालाद् भवात् तावन् न्याय्यम् अतः पुरा ह्य् अतिमहत् पर्येति घोरं तमः || GओSक्_१० ||
SK
वातास्फालनचञ्चलानलशिखाज्वालावलीढाद् गृहान् निर्यान्तं न निवारयन्ति पुरुषं तच्छान्तिकामा यथा | एवं दुःखमहाहुताशनशिखाग्रस्तात् समस्ताद् भवान् निष्क्रामन्तम् अनर्थजालपिहितात् सन्तो विवृण्वन्ति न || GओSक्_११ ||
SK
अथ स पार्थिवस् तासां तेन सुहृत्स्वजनबन्धुनिरपेक्षरूक्षाक्षरेण स्वकायजीविताशाविधुरेण वचसा सुतरां समुपजातशोकदैन्यमानसः पुनर् व्याह ||
SK
तपांस्य् अकालेष्व् अभिवाञ्छितानि पुष्णन्ति नार्थान् मनसो ऽनुकूलान् अकालगर्भा इव कन्यकानाम् अजातसारावयवाङ्गशोभाः || GओSक्_१२ ||
SK
भवन्त्य् अकाले तपसः प्रयोगाश् चन्द्रोपरागा इव सोपसर्गाः | तस्माद् इतो बुद्धिर् इयं कुमार्यो निवर्त्यताम् उत्पथचारिणीव || GओSक्_१३ ||
SK
सोढुं न दुःखानि वपूंषि शक्तान्य् अदृष्टदुःखानि सुखोचितानि | दन्ताभिघाता द्विरदाधिपानाम् अबद्धमूला इव चूतवृक्षाः || GओSक्_१४ ||
SK
सवह्निगर्भैर् अशिवैः शिवारुतैर् विनादितं भीषणरावगह्वरम् | भयं भयस्याप्य् उपसंहरेद् भृशं श्मशानम् आक्रन्दविरावदारुणम् || GओSक्_१५ ||
SK
क्व वो वपुर् बालमृणालकोमलं मतिः क्व चेयं करपत्त्रनिष्ठुरा | परोपकारव्यतिषक्तचेतसो विधेर् अहो मय्य् अनपेक्षरूक्षता || GओSक्_१६ ||
SK
वैडूर्यनीलमृदुशाद्वलकञ्चुकानि नानाप्रकारकुसुमप्रकरोत्कराणि | एतानि वो मदकलालिकुलाकुलानि क्रीडावनान्य् अभिमतानि भवन्तु कन्याः || GओSक्_१७ ||
SK
गृहोपवनदीर्घिकास् तटविलम्बिपुष्पद्रुमाः समीरणचलत्तरङ्गरुचकावलीमेखलाः | विबुद्धकमलोत्पलाकरनिलीनहंसस्वना रतेर् उपनिबन्धनं मघवतो ऽप्य् अलं कन्यकाः || GओSक्_१८ ||
SK
उपवीजिता जलतरङ्गलासकैर् नवमालिकाकुसुमगन्धगन्धिभिः | पवनैर् इहैव गृहकानने रतिं कुरुताङ्गनाः परभृतोपकूजिते || GओSक्_१९ ||
SK
एते जालगवाक्षपक्षविवरप्रोद्वान्तपुष्पासवा नानामोदविदिग्धवासविकसन्निःश्वासवाता इव | प्रासादा वलभीविटङ्कवलयप्रस्वस्थसुप्ताण्डजा युष्माकं रतये भवन्तु वनिताः संगीततूर्यस्वनाः || GओSक्_२० ||
SK
अथ ताः कुमार्यस् तत् पितुर् वचनम् अमृष्यमाणाः पुनर् व्याहुः ||
SK
न हि तत् सुखम् अस्ति किं चिद् अन्यन् नरलोकाधिपते दिवि क्षितौ वा | शतशश् च सहस्रधा च भुक्तं न यद् अस्माभिर् अनर्थपण्डिताभिः || GओSक्_२१ ||
SK
विषयैर् न हि तृप्तिर् इन्द्रियाणां विषयाभ्यासविशेषघस्मराणाम् | भवतीति विचिन्त्य बुद्धिमन्तः प्रयतन्ते भवबन्धनक्षयाय || GओSक्_२२ ||
SK
चपलान्य् अनवस्थितस्वभावान्य् अनिलोद्धूततरङ्गभङ्गुराणि | विनिवृत्तपुनर्भवाभिलाषा विजयन्ते यतयः षडिन्द्रियाणि || GओSक्_२३ ||
SK
भवचारकसूकरास् तु बालाश् छलिताश् चित्तकलेर् विचेष्टितेन | प्रपतन्ति सुखाभिलाषलुब्धा व्यसनेष्व् एव दुरन्तभैरवेषु || GओSक्_२४ ||
SK
अहम् इत्य् उपजातविभ्रमेयं जनता प्रज्वलितास्त्रयन्त्रकल्पान् | विषयान् उपसेवते हताशा परिणामायततीव्रदुःखहेतून् || GओSक्_२५ ||
SK
जगद् अध्रुवम् एतद् अस्वतन्त्रं विषयाशीविषपूगसंनिरुद्धम् | अवगम्य भवेषु ये रमन्ते पशवस् ते नरविग्रहोपनीताः || GओSक्_२६ ||
SK
चमरा इव वृक्षलग्नवाला निधनं कापुरुषा व्रजन्ति गेहे | विषयैर् उपरुद्धबुद्धिमार्गा वितथस्नेहलतानिबद्धचित्ताः || GओSक्_२७ ||
SK
रतिकारणम् अत्र जीवलोके व्यसनोद्भेदनिरन्तरान्तराले | वद तात किम् अस्ति येन नः स्याद् भवनेष्व् एव रतिर् बहुच्छलेषु || GओSक्_२८ ||
SK
भवनेषु नरेन्द्र भागधेयान्य् उपयुज्यानि भवान्तरार्जितानि | मुषिता इव हीनदीनचित्ता भवकान्तारपरायणा भवन्ति || GओSक्_२९ ||
SK
पुरुषाः प्रसमीक्ष्य कारिणो ऽपि व्यवहारेषु विचक्षणाः प्रकृत्या | गृहचारकम् एत्य यान्ति नाशं नृप मीनाः कुपिनीमुखं यथैव || GओSक्_३० ||
SK
बहुभिर् नरलोकपाल यत्नैर् भवनानि द्रविणानि चार्जितानि | अपहाय नरः क्षणेन याति स्वकृतादेशितमार्ग एक एव || GओSक्_३१ ||
SK
अत एव जगाद लोकनाथो नृप कर्मस्वकम् एव जीवलोकम् | मरणाभिमुखं नरं स्वकर्म स्तनपो वत्स इवानुयाति धेनुम् || GओSक्_३२ ||
SK
तद् अलं परिणामदारुणैस् तैः प्रियबन्धो प्रियसंगमाभिलाषैः | ध्रुवम् एव हि विप्रयोगदुःखं प्रियसंयोगरताशया लभन्ते || GओSक्_३३ ||
SK
अपि चापरिनिष्ठितस्वभावे प्रियता का नरवीर जीवलोके | परमार्थविचारपेलवानां प्रिय इत्य् एव हि विभ्रमो मतीनाम् || GओSक्_३४ ||
SK
यदि तु प्रियतास्ति का चिद् अस्मास्व् अनुजानीष्व महीपते ततो ऽस्मान् | अनवद्यम् अहार्यम् आर्यजुष्टं सुखम् आस्वादयितुं हि नो मनीषा || GओSक्_३५ ||
SK
अथ स राजा सुगतशासनाभिप्रसन्नो धर्मान्तरायभीरुर् जातस्नेहाक्रान्तहृदयः स्वा दुहितॄः पूर्वजन्मानुस्मरणावगमितप्रयोजना जातिस्मराः खल्व् एता इति परिविचिन्त्य सुचिरं तूष्णीं बभूव ||
SK
निर्बन्धम् इति विज्ञाय तासां स नरपुङ्गवः | गच्छतेत्य् अपरिव्यक्तं कथं चिद् अनुजज्ञिवान् || GओSक्_३६ ||
SK
अथ ता दारिका व्यपनीतस्रगनुलेपनाभरणाः विनयनिभृतवपुषः सितसूक्ष्मप्रलम्बाम्बरधराः पवनबलचलितसलिलफेनावलीमालिन्य इव सरितः सान्द्रचन्द्रचन्द्रिकापटावगुण्ठिता इव शरन्निशाः स्वकिरणजालोत्तरीया इव सप्तर्षितारकाः क्रमेण विरचितचिताग्निमध्यविन्यस्तसिमिसिमायमानोच्छूनशवामगन्धबीभत्सं निशितगृध्रतुण्डखण्डितशिरोघटीविवरविनिर्गतविगलितमस्तिष्करसविलिप्तवदननरकरङ्काक्रान्तपर्यन्तभीषणं जीर्णशीर्णविवर्णास्थिकङ्कालशकलनिकरखरभूमिभागदुःसंचरं मूर्तिमन्तम् इव निर्वेदकर्मान्तम् इवान्तकस्यारतिशोकदैन्योपायासास्पदभूतं श्मशानम् अनुप्राप्ताः || भवति चात्र ||
SK
संप्राप्तास् ताः श्मशानं नररुधिरवसाविस्रगन्धान्धगृध्रं व्यालुप्तान्त्रोदरार्द्रैर् अरतिभयकरैः संनिरुद्धं शवाङ्गैः | कुन्दापीतावदातैर् हसद् इव सततं जर्जराङ्गैः कपालैर् जीर्णन्यग्रोधरन्ध्रव्यवहितविविधोलूकहूङ्कारभीमम् || GओSक्_३७ ||
SK
सवह्निकवलोद्धतस्फुटशिवारुताभीषणं क्व चित् सितकरङ्कजालपरिणद्धदुःसंचरम् | स्फुरत्कृमिकुलाकुलप्रचलनीलनासादरी- निलीनबहुमक्षिकाशतशवाकुलोपत्यकम् || GओSक्_३८ ||
SK
सितास्थिशकलारुणप्रबलमारुताभ्याहत- स्फुरत्स्फुटचिताग्निशुष्कतरुमूललीनोरगम् | क्व चिन् निशितशूलभिन्ननरविग्रहोग्राश्रयं महानसम् इवान्तकस्य सततप्रवृत्तोत्सवम् || GओSक्_३९ ||
SK
क्व चिन् नरशिरोघटीविवरनिर्गतासृग्धरा- वसासवविकारघस्मरपिशाचिपूगाकुलम् | क्व चित् सिमिसिमायमानचितिकानलालिङ्गित- स्फुरन्नरकलेवरोदरविनिर्गतान्त्रोरगम् || GओSक्_४० ||
SK
संवेगानद्धहृदया विचेरुस् तत्र ताः स्त्रियः | स्वभावं जीवलोकस्य चिन्तयन्त्यश् चलाचलम् || GओSक्_४१ ||
SK
विवृतविकृतपूतिगुह्यदेशं धरणिरजोऽरुणरूक्षकेशपाशम् | खगनखमुखखण्डिताक्षिकोशं ददृशुर् अथोज्झितम् अङ्गनायाः || GओSक्_४२ ||
SK
मुहुर् उपागतसाध्वसचञ्चलैः कुवलयावयवैर् इव लोचनैः | तम् अभिवीक्ष्य कलेवरपञ्जरं बहुविधानि वचांसि बभाषिरे || GओSक्_४३ ||
SK
इयम् असौ स्फुटचन्द्रकराङ्कुरच्छुरितसौधविमाननिवासिनी | प्रियतमाङ्कपरिष्वजनोचिता स्वपिति या वसुधातलमण्डले || GओSक्_४४ ||
SK
प्रियभुजान्तरपञ्जरशायिका जलधरस्तनितेष्व् अपि कातरा | सदहनाद् अशिवाच् च शिवारुतात् कथम् इयं न बिभेति तपस्विनी || GओSक्_४५ ||
SK
गुरुनितम्बभरालसगामिनी ललितहासविलासविलोकिनी | इयम् असौ स्वगृहाङ्गनचन्द्रिका गतघृणैर् विहगैर् अवलुप्यते || GओSक्_४६ ||
SK
नरकरङ्कशताकुलचत्वरे पितृवने भगिनि त्वम् इहोज्झिता | अकरुणेन कथं दयितेन हे धिग् अनवस्थितहार्दम् इदं जगत् || GओSक्_४७ ||
SK
स्वजनबन्धुसुहृत्कमलाकरभ्रमरिका दयिताङ्कविवर्तिनी | कथम् इयं क्षणदाचरभैरवे पितृवने रमते ऽद्य वराकिका || GओSक्_४८ ||
SK
संरागारुणतारकान्तमुकुलक्षीबेण या चक्षुषा कान्तं स्निग्धविदग्धमुग्धमधुरेणोदीक्षमाणा पुरा | चक्रे मन्मथवागुराहरिणकं सैवाद्य संरागिणां संत्रासं विहगापनीतनयना कष्टं करोत्य् अङ्गना || GओSक्_४९ ||
SK
अन्तर्निगूढविविधाशुचिगात्रयष्ट्या रागान्धबुद्धिनयनाश् छलिता मयेति | संरागिणो ऽपहसतीव खगावलुप्तदन्तच्छदेन वदनेन वराङ्गनेयम् || GओSक्_५० ||
SK
वीणावेणुध्वनिकलरवैः काकलीगीतकैर् या निद्रां भेजे प्रियतमपरिष्वङ्गविश्रब्धगर्भाम् | सैवाद्येह स्वपिति वनिता भूरजोरूक्षिताङ्गी गोमायूनां ध्वनितमुखरारावरौद्रे श्मशाने || GओSक्_५१ ||
SK
वालाग्रमात्रम् अपि यत्र विचार्यमाणे नेक्षामहे शुचि निजाशुचिगर्भरन्ध्रे | तस्मिन् रतिं कथम् अमी प्रखला लभन्ते कायाधमे निधनधर्मिणि रोगनीडे || GओSक्_५२ ||
SK
एवंविधं जगद् इदं सकलं भगिन्यः स्वप्नेन्द्रजालजलचन्द्रचलस्वभावम् | मत्वा विरागम् उपगच्छत यावद् एतत् प्राणावशेषम् उपयाति न वो विनाशम् || GओSक्_५३ ||
SK
प्राणान्तिकव्यसनकण्टकभिन्नमर्मा कुर्वीत किं नु कुशलं जलविप्लुताक्षः | दष्टः कृतान्तमकरेण जरामुखेन मूर्ध्ना च शुक्लपलितोत्करदन्तुरेण || GओSक्_५४ ||
SK
घोरान्धकारपरलोकमहाप्रपातसंपातचूर्णिततनोः कुशलाभिलाषम् | आशीविषास्यपुटसंकटसंनिरुद्धमण्डूकवासितसमं प्रवदन्ति सन्तः || GओSक्_५५ ||
SK
लोकं वाक्यैः कृतकमधुरैर् वञ्चयित्वाद्य मौनं धत्से कस्मात् परुषपिशुनाबद्धवादप्रगल्भैः | इत्य् आक्रोशन्न् इव सरभसं राजदन्ताग्रदष्टां जिह्वापेशीं हरति विहगस् तुण्डसंदंशकेन || GओSक्_५६ ||
SK
रागान्धानां वितथविषयाभ्यासजिह्माशयानां यद् बालानां नयनविषयं प्राप्य धैर्यं बिभेद | तस्मिन्न् अद्य व्यपगतभयाश् चारुबिम्बे नितम्बे नार्या गृध्रा नखमुखपदन्यासपङ्क्तिं लिखन्ति || GओSक्_५७ ||
SK
याभ्यां याता प्रियकरतलन्यस्तहस्तारविन्दा भित्तौ साचीपरिणतमुखी चित्रम् उद्वीक्षमाणा | मन्दं मन्दं स्वभवनतले मुक्तपुष्पोत्तरीये ताव् एवाद्य ग्रसति चरणौ जम्बुको ऽयं युवत्याः || GओSक्_५८ ||
SK
इत्थंभूते सहजविविधामेध्यजम्बालपङ्के कष्टं कष्टं मदनमदिराः क्षीबचित्ताः पतन्ति | कायस्येमां प्रकृतिम् अशिवां वीक्षमाणास् तु यूयं निर्विद्यध्वं प्रचलिततडिद्भङ्गुराज् जीवलोकात् || GओSक्_५९ ||
SK
यः सत्त्वानाम् अविरतरसक्लेशनाडीव्रणान्तः- संतप्तानाम् अधिगतयथाभूतधर्माधिराजः | ह्लादं चक्रे प्रकृतिशिशिरैर् धर्मवागम्बुकुम्भैः शास्त्रे तस्मै परमभिषजे सर्वकाले नमो ऽस्तु || GओSक्_६० ||
SK
दुर्विज्ञेयं कपटम् अशिवं क्लेशकर्मप्रयुक्तं सर्वाकारं विवृतम् अखिलं येन जन्माभिधानम् | यस्मिन् मूढो रथचरणवद् बम्भ्रमीत्य् अस्वतन्त्रो लोकस् तीव्रव्यसनकुलिशाघातनिष्पिष्टमूर्तिः || GओSक्_६१ ||
SK
माता बाल्ये प्रतिसरवतीं वेणिकां यत्र चक्रे यस्मिन् कान्तो मणिमकरिकां यौवनाग्रे बबन्ध | विप्रैः सिक्तं सुकुसुमलवैर् यच् च शान्त्यम्बुलेशैः कष्टं धृष्टः स्पृशति बलिभुक् तच् छिरो ऽद्याङ्गनायाः || GओSक्_६२ ||
SK
ये वासिताः सुकुसुमेन विवाहकाले मातुः करेण कृतकौतुकमङ्गलेन | ते ऽद्य प्रचण्डपवनैर् अवधूयमानाः केशाः श्मशानतरुचामरतां प्रयाताः || GओSक्_६३ ||
SK
प्रकृतिचतुरा दृष्टिः क्वासाव् अपाङ्गविलोकिनी सललितपदन्यासा क्वासौ गतिर् मदविह्वला | क्व नु खलु गता हासास् ते ऽस्या रदच्छदलासकाः सुरचितम् अहो चित्रं मायारहस्यम् इदं कलेः || GओSक्_६४ ||
SK
हासायासविलोलकुण्डलमणिच्छायोपरागारुणे यस्मिन् प्राणसमश् चकार मुदितः पत्त्राङ्कुरं यत्नतः | बालाम्भोरुहपत्त्रकोमलदले तत्रैव गण्डस्थले वक्त्रं रक्तकलङ्कितं निकषति स्थित्वा ललाटे ऽण्डजः || GओSक्_६५ ||
SK
मुक्ताहारमरीचिफेनसलिले रोमावलीशैवले विस्तीर्णस्तनचक्रवाकयुगले वक्षस्तडागोदरे | सव्याजस्खलितांशुके व्यसनिनां यत्रैव नेत्रालयः पेतुस् तत्र विपूयके ऽद्य निपतन्त्य् आशातिका मक्षिकाः || GओSक्_६६ ||
SK
पूर्वं चन्दनवारिशीकरमुचैर् या तालवृन्तानिलैः प्रेष्याभिर् वलयध्वनिव्यतिकरैः संवीजिता सुन्दरी | हर्म्ये चन्द्रकरोपहारधवले बिम्बोपधानाश्रिता ताम् एवाद्य तु वीजयन्ति परुषैः पक्षानिलैर् वायसाः || GओSक्_६७ ||
SK
येनायं कम्पितः पूर्वं शाखान्तरविचारिणा | क्वेमं कायद्रुमं त्यक्त्वा स गतश् चित्तमर्कटः || GओSक्_६८ ||
SK
येन निष्क्रियम् अप्य् एतत् क्रियावद् इव लक्ष्यते | कलेवरम् अनात्मीयं क्व स चित्तविदूषकः || GओSक्_६९ ||
SK
अन्तरात्मानम् इच्छन्ति यम् अविद्यान्धबुद्धयः | विज्ञानधूर्तकः क्वासौ गतस् तीर्थविमोहकः || GओSक्_७० ||
SK
चिरं व्यामोहितं येन न तत्त्वेषु प्रतिष्ठितम् | जगत् क्व नु प्रयातो ऽस्माच् चित्तचित्रेन्द्रजालिकः || GओSक्_७१ ||
SK
न जानन्ति गतिं यस्य कपिलाद्यास् तपोधनाः | चित्तविद्याधरः क्वासौ विषयाम्बरगोचरः || GओSक्_७२ ||
SK
चचार यो ऽस्मिन्न् अशुचौ नवद्वारे चलाचले | शरीरपञ्जरे सो ऽद्य क्व नु चित्तविहङ्गमः || GओSक्_७३ ||
SK
येनाविष्टा भवजलनिधौ क्लेशसंसर्पिसर्पे तीव्रच्छिद्रव्यसननिवहक्षारवारिप्रपूर्णे | मज्जन्त्य् अज्ञा मरणमकरक्षोभचञ्चत्तरङ्गे यातस् त्यक्त्वा क्व नु तनुम् इमां चित्तनक्तंचरो ऽसौ || GओSक्_७४ ||
SK
अदान्तत्वाद् यो ऽसौ क्षिपति नरके व्यार्तम् अवशम् स्फुरद्वह्निज्वालावलयकपिलद्वारविवरे | यमोपायं यस्य व्यपगतमदो वेत्ति भगवान् क्व यातो ऽसाव् अस्मात् प्रकृतिचपलश् चित्ततुरगः || GओSक्_७५ ||
SK
अथ कुलिशमरीचिश्यामपीनप्रकोष्ठः सविनयम् उपगम्य प्रीतिविस्पन्दिताक्षः | अनुनयरमणीयं साधु साध्व् इत्य् उवाच प्रकृतिसुभगवाचा वासवः कन्यकास् ताः || GओSक्_७६ ||
SK
नववयसि भगिन्यो मन्मथावासभूते नृपतिकुलविभूतिश्रीसुखं पर्युदस्य | ऋषिभिर् अपि पुराणैर् दुष्करं संप्रपन्ना व्रतम् इदम् इति तुष्टो ऽस्म्य् अद्य वः किं वृणीध्वम् || GओSक्_७७ ||
SK
करतल इव मन्ये कामधात्वीश्वरत्वं त्रिदशपतिसुखं वा निश्चयस्यास्य वो ऽद्य | लघु वदत भगिन्यः किं करोम्य् एष वश्यः स्फुरति मनसि यद् वो देवराजो ऽस्मि शक्रः || GओSक्_७८ ||
SK
अथ विषयसुखेभ्यो निःस्पृहास् ताः कुमार्यः प्रकृतिरुचिरभावास् तिर्यग् आलोक्य शक्रम् | जगुर् इदम् अनवद्यं सुष्ठु चित्रार्थवाचः स्वकुशलपरिपाकाङ्गारधीरस्वभावः || GओSक्_७९ ||
SK
न वयम् अमरबन्धो जन्मदुःखातुरत्वाद् भवसुखलवलोलात् तन्तुसंताननेयाः | (?) व्रतम् इदम् अनुबद्धाः शोकबाष्पाम्बुलेशैः कलुषवदनशोभान् बान्धवान् अप्य् अपास्य || GओSक्_८० ||
SK
अपि तु जगद् अशेषं दुर्नयाविद्धतीव्र- व्यसनशतसहस्राघातनिर्भिद्यमानम् | कृपणम् अभिसमीक्ष्य क्षीणदोषानुजातं पदम् अभयम् अशोकं प्राप्तुम् अभ्युद्यताः स्मः || GओSक्_८१ ||
SK
प्रभवसि शतमन्यो त्वं वरं संप्रदातुं यदि जगदनुकम्पापेशलाध्याशयत्वात् | पदम् अजरम् अहार्यं ब्रह्मशान्तं तदार्यं भवभयपरितप्ताः प्रापयास्मान् विमोक्षम् || GओSक्_८२ ||
SK
कायावस्करनिर्झरस्रुतमलक्लेदोपदिग्धाश्रयो निर्याणास्थिकटाहकार्पितशिरा मूर्च्छातुरो निष्पतन् | गर्भान् मातुर् अमेध्यपङ्कगहनाद् याम् अप्रहायाश्नुते दुःखं दुःखपरंपरां च परतस् तां छिन्द्धि जातिं हि नः || GओSक्_८३ ||
SK
जगन् निर्मर्यादा दशति शिरसि व्यावृतमुखी जरा रक्षोयोषित् पलितसितदंष्ट्राङ्कुरवती | नृणां यासौ वीर्यस्मृतिधृतिमतिश्रीप्रमथिनी ततस् त्रायस्वास्मान् प्रभवसि यदि त्वं सुरपते || GओSक्_८४ ||
SK
श्वासोत्क्षेपचलत्कठोरजठरो व्यापाण्डुरूक्षच्छविः संप्राप्तान् अपि भोक्तुम् अप्रतिबलो भोगान् विचित्रोज्ज्वलान् | येनादष्टवपुः सुरेश्वर ततो रोगाभिधानाद् भयात् त्राता नो भव मृत्युदूतपुरुषाद् दित्सुर् वरं चेद् भवान् || GओSक्_८५ ||
SK
प्रत्यावृत्तस्तिमितनयनो मर्मविच्छेददुःख- क्षोभायासप्रतिहततनुः शीतविष्टब्धगात्रः | पश्यन् बन्धून् नयनसलिलस्नातगण्डाधरान्तान् येनाघ्रातो व्रजति विलयं पाहि मृत्योस् ततो ऽस्मान् || GओSक्_८६ ||
SK
येनालिङ्गितमानसः पशुर् इव व्याप्नोति शोच्यां दशां कार्याकार्यविभागपेलवमतिर् निन्दास्पदं जायते | ह्लादं नैति तमालशीकरमुचाप्य् आलिङ्गितो वायुना तन् नो रागहुताशनं वरद हे निर्वापयापायिकम् || GओSक्_८७ ||
SK
यस्यावेशात् स्फुरितनयना दष्टदन्तच्छदान्ताः पापाः पापं नरकम् अशिवं कुर्वते तत्क्षणेन | नैवोत्खातो मुनिभिर् अपि यः शीर्णपर्णाम्बुभक्षैस् तन् नः शक्र व्यपनय मनःकोटरात् क्रोधसर्पम् || GओSक्_८८ ||
SK
येनावारितलोचनः कुमतयस् त्यक्त्वा शिवां वर्त्मनीं मिथ्यादृष्टिविषोपदिग्धमनसो मार्गान्तरं संश्रिताः | हेतुं यत् प्रवदन्ति भिन्नतिमिराः सर्वास्रवोत्पत्तये तन् नश् छिन्धि मनोगृहान्तरचरं मोहान्धकारं हरे || GओSक्_८९ ||
SK
वरम् एवंविधं शक्र भवन्तं प्रार्थयामहे | प्रतिज्ञातार्थविधुरं चेष्टन्ते न हि साधवः || GओSक्_९० ||
SK
अथ शक्रस् तेन तासां विषयप्रार्थनाकार्पण्यानपेक्षास्वच्छशोभिना वचसा प्रविजृम्भमाणविस्मयः प्रसादसंहृषिततनूरुहः प्राह |
SK
अशक्यम् अर्थं खलु याच्यमानो विघातदीनत्वम् उपैति लोकः | वरं वृणीध्वं नरदेवकन्या यद् एव शक्येत मया प्रदातुम् || GओSक्_९१ ||
SK
अथ ता दारिकास् तेन तस्यान्तर्निगूढशाठ्यविकल्पितेन वचसा समुपजातसंवेगामर्षाः शक्रम् ऊचुः |
SK
उपलापयसे किमर्थम् अस्मान् उपगम्याद्य सहस्रलोचनैवम् | सुखमात्रकदुर्विदग्धबुद्धे प्रखलास् तेन वयं न चापि गम्याः || GओSक्_९२ ||
SK
विदितो भवतो न राजवंशः किम् असौ दिक्षु विकीर्णकीर्तिपुञ्जः | धनदो ऽप्य् अयथार्थनामधेयो धनसारं समवेक्ष्य यस्य नूनम् || GओSक्_९३ ||
SK
यम् अपास्य वयं जरार्तिमृत्युव्यसनायासविघातदैन्यभीताः | सुरनाथ दशाम् इमां प्रपन्ना न भयान् नापि च बालचापलेन || GओSक्_९४ ||
SK
कृतपुण्य विहेठिताभिर् अर्थस् तव को ऽस्माभिर् अतीव दुःखिताभिः | उपजीव सबन्धुमित्रभृत्यो विभवन् नन्द च शक्र दीर्घरात्रम् || GओSक्_९५ ||
SK
सुकृतोज्ज्वलभागधेययोगाद् यदि देवाधिपतिर् भवांस् ततः किम् | न हि संपदम् आप्नुवन्ति सन्तः परहेठाकरणाय देवराज || GओSक्_९६ ||
SK
अथ महेन्द्रस् तासां स्फुटविचित्रमहार्थसारसूचकैर् वचोभिर् आप्यायितविस्मयः प्रसादाभिव्यज्यमानवदनशोभः पुनर् अपि भावजिज्ञासुर् अर्थान्तरातिशयशुश्रूषया वाचात्युवाच | मा तावद् भगिन्यः
SK
नाथन्ते दर्शनस्यापि मम लोके तपोधनाः | किमर्थम् एवं वरदे मयि यूयं तु निष्ठुराः || GओSक्_९७ ||
SK
अथ ताः कुमार्यः पुनर् अभ्यधिकतरजनितमन्युकोपाः सामर्षं रूक्षाक्षरं त्रिदशपतिम् ऊचुः |
SK
अन्यथैव सितापाङ्गमुखस्मितविलोकितम् | दृश्यते वदनं शच्या दीयते वरम् अन्यथा || GओSक्_९८ ||
SK
वरप्रदाने यद्य् अस्ति शक्तिस् तव पुरन्दर | जहीहि प्रखलां तावद् विषयाशापिशाचिकाम् || GओSक्_९९ ||
SK
अथवा दुस्त्यजाः कामा मिथ्यासंकल्पलोलुपैः | त एव सन्तु ते नित्याः प्रभावो ऽस्ति यदीदृशः || GओSक्_१०० ||
SK
अध्रुवेषु सहस्राक्ष कामेष्व् आसक्तमानसः | वरं वद कथं नाम त्वम् अन्यस्मै प्रदास्यसि || GओSक्_१०१ ||
SK
उह्यमानः कथं नाम सरिता भीमवेगया | उत्तारयिष्यस्य् अपरान् परिक्षामजडाश्रयः || GओSक्_१०२ ||
SK
पांशुकूलाम्बरधरा व्यपनीतशिरोरुहाः | अरण्याद् ग्रामम् एष्यामः कदा नस् तद् भविष्यति || GओSक्_१०३ ||
SK
युगमात्रविलोकिन्यो मृत्पात्रव्यग्रपाणयः | सावधानं कदा भिक्षां चरिष्यामः कुलात् कुलम् || GओSक्_१०४ ||
SK
असक्ता लाभसत्कारपङ्के संक्लेशसंकटे | कदा विशोधयिष्यामो देयधर्मानुरागिणः || GओSक्_१०५ ||
SK
पलालपुञ्जाद् उत्थाय नीहारगुरुचीवराः | यथेच्छम् अन्नपानार्थे यास्यामो निःस्पृहाः कदा || GओSक्_१०६ ||
SK
तरोर् मूले शुकश्यामे मृदुशाद्वलकञ्चुके | कदा निषद्य प्राप्स्यामो दृष्टधर्मसुखोत्सवम् || GओSक्_१०७ ||
SK
कायजीवितयोस् त्यक्त्वा जरत्तृणलवेष्व् इव | अपेक्षां सुचिराभ्यस्ताः कदा लप्स्यामहे सुखम् || GओSक्_१०८ ||
SK
कदा सरिन्निकुञ्जस्थास् तरङ्गैर् उदयव्ययम् | उज्झामो जीवलोकस्य भिद्यमानैर् मुहुर् मुहुः || GओSक्_१०९ ||
SK
सत्कायदृष्टिम् उत्पाट्य सर्वात्मदृष्टिमात्रिकाम् | निःस्पृहा भवभोगेभ्यो भविष्यामः कदा वयम् || GओSक्_११० ||
SK
अवभोत्स्यामहे लोकं कदा नु सचराचरम् | स्वप्नमायामरीच्यभ्रगन्धर्वनगरोपमम् || GओSक्_१११ ||
SK
इति यासां प्रिया त्रातः स्पृहा हृदि विजृम्भते वरेण तासां को न्व् अर्थः सामिषेण चलेन च || GओSक्_११२ ||
SK
अपि च सुरेशान वरप्रदानचित्तक |
SK
मिथ्याविकल्पक्षणमात्ररम्याः स्वभाववामाः सुरनाथ कामाः | विवर्जिताः सद्भिर् उदारचित्तैर् महाप्रपाता इव सान्धकाराः || GओSक्_११३ ||
SK
सर्वानयोपद्रवहेतुभूताः कामाः खलीकारकरा नराणाम् | जुगुप्सिताश् चैव भयावहाश् च पुरीषदिग्धा इव कृष्णसर्पाः || GओSक्_११४ ||
SK
यान् सेवमाना निधनं प्रयाताः प्रयान्ति यास्यन्ति च सत्त्वकायाः | तान् वध्यघातप्रतिमान् भजेत को नाम कामान् अघहेतुभूतान् || GओSक्_११५ ||
SK
शक्रे च ये पांशुपिशाचके च सुरेन्द्र तुल्यं दधति स्वभावम् | असद्विकल्पप्रणयोद्भवत्वात् सेवेद् धि कामान् मनसापि कस् तान् || GओSक्_११६ ||
SK
वैडूर्यनीलहरितोद्गतशाद्वलानि त्यक्त्वा वनानि कुसुमोन्मिषितद्रुमाणि | तीक्ष्णाङ्कुशोल्लिखितजर्जरकुम्भदेशा भारान् वहन्ति विषयैश् छलिता गजेन्द्राः || GओSक्_११७ ||
SK
शूलान्तलग्नवपुषः परिवीज्यमानाः पक्षानिलैर् नगरवायसमण्डलानाम् | व्याजेन मित्रनयनैर् अभिवीक्ष्यमाणा नाशं व्रजन्ति पुरुषा विषयाहिदष्टाः || GओSक्_११८ ||
SK
प्रज्वाल्य कामदहनं स्वयम् एव बाला मिथ्याविकल्पपवनैः स्वमनोगृहेषु | आत्मानम् एव हि दहन्ति शरच्छतानि संघर्षजेन दहनेन यथैव वंशाः || GओSक्_११९ ||
SK
अपि च कुलिशपाणे वैजयन्ते विहृत्य स्फुरितमणिमरीचिश्रीसमुन्मेषरम्ये | ज्वलदनलकरालां यान्ति भूयो ऽप्य् अवीचिं यदि विषयविषक्ताः स्वस्ति तस्मै सुखाय || GओSक्_१२० ||
SK
भवतु कुगतिर् अन्ते स्वर्गवासस्य सा वा च्यवनपतनदुःखक्लीबलोलेक्षणस् तु | यद् अनुभवति दुःखं देवलोकाभिनन्दी ननु सुखम् अनुभूतं तेन पूर्वानुभूतम् || GओSक्_१२१ ||
SK
विकचकनकपद्मच्छत्त्रसंसुप्तहंस्यां यदि सुरपुरवाप्यां रत्ननौभिर् विगाह्य | पतति पुनर् अकामः कर्मभिर् वैतरण्यां क्वथितनरकरङ्कव्याकुलान्तर्जलायाम् || GओSक्_१२२ ||
SK
परिणतिविरसेभ्यः स्वप्नमायोपमेभ्यः सुरभवनसुखेभ्यः का स्पृहा शक्र तेभ्यः | कुपितभुजगजिह्वाचञ्चलं जीवलोकं सकलम् इति विदित्वा मोक्षकामाः स्थिताः स्मः || GओSक्_१२३ ||
SK
सुखम् इदम् इति मिथ्याकल्पनामात्रम् एतद् भवगतिगहनान्तर्वर्तिनां बालिशानाम् | भवम् अवितथवादी दुःखम् इत्य् आह बुद्धः सकलम् अपि यतो ऽस्मान् सर्वदुःखप्रसूतिः || GओSक्_१२४ ||
SK
प्रकृतिबहुलदुःखोपप्लुते जीवलोके भवति यद् अपि सौख्यं काकतालीयम् अस्मिन् | व्रजति तद् अपि नाशं दुःखजालाभिभूतं सलिलम् इव नदीनां प्राप्य सामुद्रम् अम्भः || GओSक्_१२५ ||
SK
यस्मात् स्त्रीणां करकिसलयैः पद्मपत्त्रोपमानैः किंचित्स्थानं कलितवलयैश् चन्दनाश्लेषशीतैः | स्पृष्टः स्नेहश्लथमुकुलिताताम्रवृत्ताङ्गुलीयैर् निद्रां प्राप्य व्यजनपवनव्यस्तमालोपहारः || GओSक्_१२६ ||
SK
भूयः शेते क्लमगुरुतनुर् दर्भसूचीकराले मार्गे भस्मव्यतिकरखरैर् वीज्यमानो मरुद्भिः | तस्मान् मत्वा क्षणसुखलवं चञ्चलं जीवलोकं त्यक्त्वा कामान् व्यसनफलदान् ब्रह्मशान्तं भजेत || GओSक्_१२७ | दशशतनयनो ऽथ कन्यकानां हृषिततनूरुहकञ्चुको वचोभिः | व्यवसितम् अभिनन्द्य चैव तासां त्रिदशपुराभिमुखो ययौ क्षणेन || GओSक्_१२८ ||
SK
प्रव्रज्याम् अथ समुपेत्य ताः कुमार्यस् तत्त्वार्थप्रविचयशुद्धबुद्धिनेत्राः | उत्तेरुर् मदविरसं चलत्तरङ्गं संसारव्यसनमहार्णवं दुरन्तम् || GओSक्_१२९ ||
SK
सर्वार्थप्रकृतिविभागनिश्चितात्मा सर्वेभ्यो मुनिर् इतिवृत्तकं जगाद | मोहान्धे जगति समन्तचक्षुर् एकं सत्त्वेभ्यो भवभयकण्टकक्षतेभ्यः || GओSक्_१३० ||
SK
|| इति श्रीसप्तकुमारिकावदानं समाप्तम् ||
SK
|| कृतिर् आचार्यभदन्तगोपदत्तस्य ||
SK
१३. Sआर्थवाह
SK
जरत्तृणानीव शरीरकाण्य् अपि त्यजन्ति सन्तो न च लीनमानसाः | कृपाजलक्षालितदेहमत्सरा जगद्विपत्तिज्वलनोपशान्तये || GओSव्_१ ||
SK
तद्यथानुश्रूयते |
SK
बोधिसत्त्वभूतः किल भगवान् संतोषाभ्यासाद् अपगतभवोपभोगविशेषाभिलाषः सुपरिज्ञातसंस्कारस्वभावत्वात् स्वदेहे ऽप्य् अस्तमितस्नेहानुबन्धस् तृष्णादोषप्रत्यक्षज्ञानतया तदभिधेयमानसो जन्मान्तराभ्यस्तविविधलाभकुशलत्वाद् उपायान्तरेणापि धनार्जनसमर्थः समुपचितपुण्यसम्भारतया चाभिप्रायमात्रेणापि द्रविणविभूत्याकर्षणप्रभुः प्रभूतवित्तोपकरणो ऽपि सन् केवलम् उदधिगतजगद्व्यसनोपरित्राणायविअ संकेतप्रचारसांयात्रिकपरिवृतो महासमुद्रम् उपजगाम |
SK
अथावगाढाः पयसां निधानं गम्भीरभीमायतपङ्क्तिरन्ध्रम् | वेलाचलोपघ्नविशीर्णफेनसितान्तलेखं वणिजः क्रमेण || GओSव्_२ ||
SK
तत्कर्मभिर् वा परिणामरौद्रैः स्वभावतो वाम्बुनिधिः क्षणेन | पर्याददानो हृदयानि तेषां संवर्तकालाधिकदारुणो ऽभूत् || GओSव्_३ ||
SK
खरमकरकराग्रच्छिन्नबालप्रवालद्रुमरसपरिभोगापाटलावर्तचक्रम् | वियद् इव नवसंध्यारञ्जिताम्भोदजालं सलिलनिधिम् उदीक्ष्य त्रासमूकास् त आसन् || GओSव्_४ ||
SK
वनम् इव कुमुदानां धौतम् इन्दोर् मयूखैर् विषमितसितफेनच्छेदविन्यासचित्रम् | लवणसलिलराशिं वीक्षमाणाः समन्तान् न रतिम् उपययुस् ते प्राणसंदेहकाले || GओSव्_५ ||
SK
विवृतदशनशङ्खध्वानवित्रस्तमीनो भुजगभुवनशृङ्गप्रान्तभिन्नोर्मिजालः | हृदयम् उदधिर् अल्पस्थाम तेषां बिभेद स्फुरितविकृतनक्राक्रान्तविस्तीर्णकुक्षिः || GओSव्_६ ||
SK
अनिलबलविभक्तैः शैलतुङ्गैस् तरङ्गैर् नभ इव निगिरन्तं सार्कनक्षत्रचन्द्रम् | तम् उदधिम् अवलोक्य प्राणसंदेहदोलां कृपणकमनसस् ते सर्व एवाधिरूढाः || GओSव्_७ ||
SK
भुजगम् इव विषाग्निच्छेदमालाकरालं श्वसनविकचभोगं क्रुद्धम् उद्वीक्षमाणाः | लवणजलनिकेतं तं दुरालोकपारं मरणभयविषण्णास् ते परं मोहम् ईयुः || GओSव्_८ ||
SK
निचयम् इव घनानां वारिभारालसानां तिमिरम् इव वमन्तं वीचिचूर्णप्रवेगैः | जलनिधिम् अवगाढास् ते निराक्रन्दभीमं मुषितवदनशोभा बोधिसत्त्वं प्रणेमुः || GओSव्_९ ||
SK
अदृष्टपूर्वैर् अथ तन्निमित्तैर् भयंकरैर् आकुलिता विचित्रैः | इत्य् ऊचुर् आगद्गददीनकण्ठास् तं बोधिसत्त्वं समुदीक्षमाणाः || GओSव्_१० ||
SK
अयं जनस् त्वत्प्रतिबद्धसर्वप्रयोजनाशाविनिवृत्तचेष्टः | यद् अत्र कृत्यं क्रियतां तद् आशु प्राणात्ययः संप्रति वर्तते नः || GओSव्_११ ||
SK
निरीक्षमाणस्य पुरो जनस् ते निरुद्यमो मज्जति तोयराशौ | कालातिपातो ऽत्र न युक्तरूपः पराक्रमस्व स्वबलेन तस्मात् || GओSव्_१२ ||
SK
त्वत्पादमूलानुचरो न कश् चित् संस्पृष्टपूर्वो व्यसनैः कदा चित् | त्रायस्व तस्माद् विपदां मुखेषु भ्रमन्तम् एनं नरवीर लोकम् || GओSव्_१३ ||
SK
पितेव पुत्रान् अनुकम्पमानस् तन् नो भयान् मृत्युकरोदरस्थान् | विमोचयास्मान् परमार्यसत्त्व त्वं नः परित्राणम् उपद्रवेभ्यः || GओSव्_१४ ||
SK
न देवतानाम् अपि भूमयस् तास् तव प्रभावा न चरन्ति यासु | तद् एष कालः कृपणान् अनाथान् अस्मान् परित्रातुम् अवन्ध्यशक्ते || GओSव्_१५ ||
SK
मन्यामहे त्वं समनुस्मृतो ऽपि त्राणं परं सर्वजगद्भयेभ्यः | प्राग् एव साक्षाद् अभिवीक्ष्यमाणस् तत् पौरुषं दर्शय लोकबन्धो || GओSव्_१६ ||
SK
अमी दंष्ट्राचक्रक्रकचकलिलव्यात्तवदना जिघांसन्ति क्रूराः पृथुविवरविस्तीर्णजठराः | पुरास्मान् अत्राणांस् तिमिमकरचक्रा भयमयाः परित्रायस्वेमं निकटविनिपातं जनम् अतः || GओSव्_१७ ||
SK
स्वपुच्छविच्छिन्नतरङ्गसंकला निशातदन्तान्तविलग्नशुक्तयः | अभिद्रवन्त्य् आर्य पुरा तिमिङ्गिला जनान् इमांस् त्वच्चरणाश्रितान् अपि || GओSव्_१८ ||
SK
विलम्बितुं नाथ न युज्यते ऽधुना विशीर्यते नौर् इयम् अम्बुताडिता | स्फुरन्त्य् अमी वीर समन्ततो झषाः प्रमृष्टगुञ्जाफलरक्तलोचनाः || GओSव्_१९ ||
SK
अथ स महात्मा तेन दुर्विषहेण परव्यसनेनोपतप्तमानसः स्वप्राणात्ययम् अविगणय्य निष्प्रतिकारदारुणां तां महाजनव्यापत्तिम् अवेत्य कृपापरिगतात्मा प्रकृतिधीरतया तदवस्थो ऽप्य् असंभ्रान्तचेतास् तत्कालातिशयध्यायिना वचसा तान् सहायान् आश्वासयन्न् अब्रवीत् |
SK
मृतेन सार्धं न वसन्ति सागराः प्रसिद्धिर् एषाम् इयम् एव शाश्वती | अतो ममाश्रित्य मृतं कडेवरं तरन्तु सन्तो ऽम्बुनिधिं सुदुस्तरम् || GओSव्_२० ||
SK
संयुक्तसंयोगम् उपेत्य सर्वे निराकुलाः प्रोज्झ्य विषाददैन्यम् | आत्मानम् उत्तारयितुं यतध्वं महार्णवान् मां च परार्तिपङ्कात् || GओSव्_२१ ||
SK
आपद्गतानां सुहृदां प्रियाणां चिरानुबद्धप्रणयाशयानाम् | को ऽन्यो ऽस्त्य् उपायो रमणीयरूपस् तत् कार्ष्ट मा स्नेहमयं विषादम् || GओSव्_२२ ||
SK
शत्रोर् अपि व्यापदम् आपतन्तीं स्वप्राणमूल्येन निवारयेयम् | प्राग् एव युष्माकम् अनल्पकालसंवर्धितस्नेहपरिग्रहाणाम् || GओSव्_२३ ||
SK
ममात्मभावैर् अपवृत्तसौख्यैः स्याच् चेत् सुखी कुन्तपिपीलिको ऽपि | जरत्तृणानीव तथापि जह्याम् अहं शरीराणि निरस्तखेदः || GओSव्_२४ ||
SK
त्राणाशयायां समुपाश्रितानां गुणैः पवित्रीकृतमानसानाम् | हिताय देहं त्यजतो ममैकं दयापरीतं किम् इवात्र चित्रम् || GओSव्_२५ ||
SK
परार्थचर्याविगुणं शरीरं वृथा गुरुं भारम् इवोद्वहन्तः | व्रजन्ति खेदं परिशुद्धसत्त्वाः कृपाकलत्रीकृतजीवलोकाः || GओSव्_२६ ||
SK
एवंविधे यदि न कायम् इमं प्रयोक्ष्ये पुण्यागमे निरुपमानसुखानुबन्धे | को ऽर्थो ऽमुना परिहृतेन कडेवरेण वाताहताम्बुनिधिबुद्बुददुर्बलेन || GओSव्_२७ ||
SK
त्यक्ष्यामि नेमं यदि पूतिकायं भवद्धिताधानविधानकाले | संत्याजयिष्यत्य् अबलं बलात्मा जगद्विनाशावहितः कृतान्तः || GओSव्_२८ ||
SK
त्यजामि युष्मान् किम् उदीक्षमाणो यशो ऽथ वा मानगतं च धर्मम् | देहं कलीनां पदबन्धभूतं उतावशो मृत्युकराभिमृष्टम् || GओSव्_२९ ||
SK
तद् अत्र शोकाय मतिर् न देया भवद्भिर् आसन्नपराभवाय | मम क्रमेणैव समागतो ऽयं महोत्सवः पुण्यविशेषरम्यः || GओSव्_३० ||
SK
बहुसुखलवनानातन्तुसंताननेयास् तृणम् इव गतशङ्का देहम् उज्झन्त्य् असन्तः | अतिसृजति परार्थं कायम् आसन्ननाशं यदि सुचरितपूर्वं दुष्करं किं नु तत्र || GओSव्_३१ ||
SK
अथ ते पुरुषास् तेन तस्याद्भुतेनाभिप्रसारितमानसाः सुतरां तद्वियोगशङ्काव्यथितहृदया विषाददैन्यविधेयाश् चिन्ताविषयातीतगोचरम् अविषह्यम् अतिविस्मयनीयं च तत्कर्म तं महासत्त्वम् अविरताश्रुधाराप्रक्षालितनयनदीनवदनाः पादयोः संपरिष्वज्य प्रणम्य च सर्वाङ्गैर् इत्य् अवदन् |
SK
कामम् अत्रैव निधनं सर्व एव महोदधौ | यास्यामो न तु शक्यामः कर्तुम् एतद् अनार्यकम् || GओSव्_३२ ||
SK
एवंविधस्य व्यसनानि दृष्ट्वा सुहृद्विशेषस्य सुदुर्लभस्य | प्राणैर् धनैर् वा किम् इहास्ति कृत्यं तत् साहसाद् वारय धीरचेतः || GओSव्_३३ ||
SK
उत्तीर्णान् अपि तोयौघाद् अस्मान् अस्माद् दुरुत्तरात् | मग्नान् दुश्चरितावर्ते कः समुत्तारयिष्यति || GओSव्_३४ ||
SK
नूनं कर्मण एवायं विपाकः प्रत्युपस्थितः | येनापद् इयम् आयाता निष्प्रतीकारदारुणा || GओSव्_३५ ||
SK
अध्युपेक्ष्य सुहृत्पीडाम् एतां पापानुबन्धिनीम् | दुःखान्तम् उपयास्यामः कैर् उपायैः पुनर् वयम् || GओSव्_३६ ||
SK
दयामृदुकसंतानं कुर्याद् अन्तावसायिनम् | इदं कर्मावदानं ते प्राग् एवार्य सुहृज्जनम् || GओSव्_३७ ||
SK
अथ बोधिसत्त्वः सुतरांस् तैस् तेषां सौजन्यसूचकैर् वचोभिः प्रविजृम्भमाणतीव्रप्रसादप्रेमगौरवकारुण्यस् समनुनेष्यंस् तान् सहायकान् अनुकम्पामृतवारिभिः सिञ्चन्न् इव तृप्तिविसर्गैर् इत्य् अब्रवीत् |
SK
भवद्भिर् अनधीष्टो ऽहं स्वभूत्यै देहसंज्ञकम् | त्यजाम्य् अनर्थं तत्र स्याद् युष्माकं किम् अनार्यकम् || GओSव्_३८ ||
SK
अकाले कौमुदी ह्य् एषा नैवैतद् व्यसनं मम | प्रतीकारो मया लब्धो विपदाम् एष शाश्वतः || GओSव्_३९ ||
SK
सौहार्दविश्रम्भनिरत्यया वो यद्य् अस्ति का चिन् मयि चित्तवृत्तिः | न कर्तुम् अर्हन्ति ततो भवन्तो धर्मस्य कीर्त्याभरणस्य विघ्नम् || GओSव्_४० ||
SK
चित्तं बलाद् अपि हिते विनियोजनीयम् आर्यैर् अनार्यम् अहिताच् च विवेचनीयम् | तस्मात् प्रवृत्तिम् इह कर्मणि साधुजुष्टे नार्हन्ति विघ्नयितुम् अश्रुमुखा भवन्तः || GओSव्_४१ ||
SK
अनुपादानम् एवास्य परार्थं चापरिग्रहः | मां संप्रतीक्षते कायकले रन्ध्रप्रहारिणः || GओSव्_४२ ||
SK
उपात्तो ऽप्य् अयम् अस्माभिर् अनादेयो न नीयते | यदि सत्त्वार्थसाचिव्यं को ऽनेनार्थः प्रणाशिना || GओSव्_४३ ||
SK
यदि नाभ्युद्धरिष्यामि युष्मान् अस्माद् दुरुत्तरात् | कथम् उत्तारयिष्यामि लोकं संसारसागरात् || GओSव्_४४ ||
SK
एतानि चान्यानि च बोधिसत्त्वाः कुर्वन्ति कर्माण्य् अविपन्नसत्त्वाः | परार्थचर्याविषये चरन्तः कृपानुभूताः स्वसुखानुरागाः || GओSव्_४५ ||
SK
अनावृतद्वारम् इदं निकेतनं दुरावहाणां भवदुःखपत्त्रिणां | चिरात् प्रमोदायतनी करिष्यते मया शरीरं सुहृदां हितागमे || GओSव्_४६ ||
SK
भवत्परित्राणमये सुखोदये नियोज्य कायं नियतं मयाप्स्यते | अभेद्यम् अच्छेद्यम् अहार्यम् अव्ययं निरुत्तरं धर्मशरीरम् अव्रणम् || GओSव्_४७ ||
SK
अमित्रभूतं यदि मित्रसाद् इमं कलिं करिष्यामि न कायसंज्ञकम् | विधक्ष्यते विप्रतिसारवह्निना मनो विनिश्वासशिखेन मे चिरम् || GओSव्_४८ ||
SK
गतविक्लवा भवन्तो मदीयम् उद्गतप्राणं शरीरं प्लवम् इवालम्ब्यान्योन्यसंसक्तिकया वारिवेगवशेन येन वातेन वा दिग्भागेन स्थलम् उपगम्य पर्णमूलफलजलादिभिर् यापयन्तः परस्परम् अविपन्नसौहृदाः कर्मस्वकतावलम्बिनो लोकस्वभावम् अवेक्षमाणा विनीतविवादशोकदैन्याः कार्यावसानम् आगमयत | सुखम् अनुभूय दुःखम् अप्य् अनुभूयते | संपत्तिम् अप्य् उपास्य विपत्तिर् उपास्यते | संसारचारकावचराणां हि एतद् एव पर्याप्तं व्यसनम् अतः प्रतिकष्टतराण्य् अप्य् अत्र कृच्छ्राण्य् आसाद्यन्ते श्रुतिमनोविदाहिनी | न ह्य् एनम् अनुपतन् कश् चित् सुखी नाम | प्रबलानिलाकुलानलज्वालाकलापमध्यगतस्यानुक्तसिद्धं दाहदुःखम् | तृष्णाविधेयमनसां चाभिमुखः पराभव उत्सङ्गगतानि सर्वदैन्यान्य् आसन्नवर्ती परिभवो भयम् उपरि व्यवस्थितम् अभितो विप्रलम्भवैकृतानि | संक्षेपतः सर्वम् अशिवजालम् उपगृह्य तृष्णा नरम् उपबध्नाति | स च मद्वियोगदैन्यावकाशो न हृदि करणीयः | ईदृशो हि लोकस्वभावो वियोगदुःखानुगता एव हि प्रियजनसंयोगाः |
SK
दीर्घकालपरिचयाद् दृढस्नेहनिबद्धान्य् अपि सौहृदानि क्षणेन विश्लिष्यन्ति | प्राणिनां विपर्यासश् चैष चेतसः प्रियो ऽयं ममेति | दृश्यन्ते कारणान्तरविपर्ययात् परिवर्तमानानि प्रियाप्रियाणि जीवलोके | तस्मान् न परतन्त्रेष्व् अपरिनिष्पन्नस्वभावेषु प्रकृतिभेदवर्तिषु विप्रलम्भपदस्थानेषु क्षणविपरिणामलोलशीलेषु शोकायासमयेषु प्रियसमागमेष्व् अभिनिविश्यात्मा खेदयितव्यः | तत्र सुखं धैर्यम् एव परुषाणाम् आपत्स्व् अवलम्बो भवति विषादम् अवधीरयति शोकम् उपरुणद्धि विघ्नयति आपदम् आपतन्तीं प्रज्ञानसहितं च तद् एवाभिमतम् अर्थम् आनयति |
SK
शोकानिवृत्तिस् तु निष्प्रयोजनम् आश्रयं संतापयति कृत्यम् अन्तरयति कान्तिम् आच्छिनत्ति प्रतिभानम् आयासयत्य् आसन्नस्नेहदुःखं सुहृज्जनं .... धर्मार्थयशःसुखानि चोपहन्ति | मत्कृतम् अनुपश्यद्भिस् तु भवद्भिः पुण्येष्व् आदरः करणीयः | पुण्यम् एव हि प्राणिनाम् इहामुत्र च निरत्ययो बन्धुर् आपत्सु विषादी सहायः पाथेयम् अयत्नवाह्यं प्रदीपस् तमसि प्रपातेषु संक्रमं भयस्थानेष्व् आरक्षा मङ्गलम् अद्वैधसिद्धम् अत्यन्तिकं सिद्धं सूपचरः स्वामी परायणम् आपद्गतानाम् आयतनम् अविपरिणामिनां सुखानां क्षेत्रं दिशाविदिशान्तव्यापिनां यशसां आकरः प्रशंसानाम् अनभिभूतं वैशारद्यम् | पुण्यावष्ठम्भाद् एव च पुरुषो दुरवगाहे ऽपि सुखम् अवगाहते | परलोककान्तारे विषादपदस्थाने ऽपि नाम मरणसमये न विषीदन्ति पुण्यकर्माणः | कण्टकप्रचयकर्कशान्य् अपि जन्मदुर्गाणि प्रायेणाक्षताः संचरन्ति पुण्यबलिनः | पुण्यैर् एव चाखिलजगद्धितसुखाध्याशयप्रवृत्तिविस्तीर्णाम् आकर्षयन्ति सकलभुवनाधिपत्याभिषेकमहतीं सर्वलोकसाधारणां ताथागतीं गुणसमृद्धिं प्राग् एव प्रतनुसुखानवकाशादीनवां प्रचुरजनमनोविकारिणीम् अनन्तदुःखबाणसंनिपातदूषिताम् आयासिनीम् इह परत्र च बालिशानां प्रतिक्षणव्ययानुबन्धादूषिताम् अनेकरूपवैरकृतानुषङ्गदारुणां भवभोगमयीम् अशिवाम् अखिलां विपरीतसुखाभिनिवेशखलां संपत्तिसंज्ञान्तरितां विपत्तिम् अकारणभ्रंशमनोविदाहिनीम् इत्य् अलम् इति प्रसङ्गेनातिपतति | कार्यकालश् चरमसंदेशो ऽयं भद्रमुखा इत्य् उक्त्वा बोधिसत्त्वो मुहूर्तम् एकाग्रमनो बभूव |
SK
निवार्यमाणो ऽपि शतैः सुहृद्भिर् बाष्पाम्बुविस्यन्दिविलोचनान्तैः | साधुः स्वदेहाश्रयणीम् अपेक्षां तत्याज लोकव्यसनोपतप्तः || GओSव्_४९ ||
SK
आर्तस्वरैर् अविरतैर् अविभक्तवर्णैस् तेषां विषादपरिलुप्तमनःस्थितीनाम् | आपूर्यमाणसलिलप्रदरान्तरालः संचुक्षुभे भृशतरं लवणाम्बुराशिः || GओSव्_५० ||
SK
बोधिसत्त्वो ऽपि महासत्त्व इति प्रणिधिम् उपबृम्हयाम् आस शान्तये सर्वसत्त्वानाम् |
SK
दिव्या तावत् प्रकृतिचपला सोपसर्गा विभूतिः प्राग् एवान्या परिमितसुखप्रत्ययप्रत्यपाया | तस्मान् नार्थो मम ⏑ ⏑ सुखैः स्वप्नमायोपमानैः पुण्याद् अस्मान् न च शमसुखं प्रार्थये प्रोज्झ्य लोकान् || GओSव्_५१ ||
SK
मोहावर्ते मरणमकरे मानपाषाणगर्भे तृष्णातोये मदनकलुषे क्रोधसंसर्पिसर्पे | मग्नं लोकं भवजलनिधौ शोकवातावधूते पुण्याद् अस्माद् अहम् अशरणं कृत्स्नम् उत्तारयेयम् || GओSव्_५२ ||
SK
एवं कृत्वा प्रणिधिम् अचलं साद्रिसारस्थिरात्मा त्यक्तापेक्षः सुचरितशतोपार्जिते ऽपि स्वदेहे | निस्त्रिंशेन प्रमुदितमनाः पाटयाम् आस कुक्षिं स्वां शोकार्तिव्यथितहृदयः प्राणिनां तारणाय || GओSव्_५३ ||
SK
अथ शुश्रुविरे गिरः शुभाः सुरविद्याधरयक्षरक्षसाम् | इति चित्रमनोहराश्रयाः पतितास् तस्य गुणोपसंहिताः || GओSव्_५४ ||
SK
सत्त्वार्थप्रतिपत्तिकौशलम् अहो ही धीरता चेतसः पुण्याभ्यासविशेषपुण्यमहताम् आश्चर्यरूपस्थितिः | साधूनां स्वसुखानुरागविगमस्वच्छा बत प्रक्रिया – – – ⏑ ⏑ – ⏑ – बत कृपा नापेक्षते स्वाश्रयम् || GओSव्_५५ ||
SK
लोको ऽयं विनिमीलितो ऽपि विदुषा प्रोन्मीलितः सर्वतः कीर्त्या चन्द्रमयूखधौतकुमुदच्छाया ⏑ – – ⏑ – | एतेनैव निमज्जतापि भुवनं मग्नं समभ्युद्धृतं जन्मावस्करकर्दमे स्फुरदुरुक्लेशक्रिमिव्याकुले || GओSव्_५६ ||
SK
तिर्यग् विक्षिप्यमानं नवजलशिशिरैर् मन्दमन्दैर् मरुद्भिर् दिव्योद्यानद्रुमेभ्यः कुसुमम् अविरतं तच्छरीरे पपात | अभ्युद्गम्याम्बुराशेः स्फुटमणिकिरणश्रीकरालैः शिरोभिर् व्याभुग्नोपान्तमध्यैः कुवलयमृदुभिस् तं भुजङ्गाः प्रणेमुः || GओSव्_५७ ||
SK
लक्ष्म्या समालब्धम् इव प्रकामं प्रमृष्टचामीकरचारुवर्णम् | समुद्गतप्राणम् अपि प्रसन्नं रराज तत् तस्य विभोः शरीरम् || GओSव्_५८ ||
SK
आलम्ब्य प्लवम् इव ते ऽथ तच्छरीरं बाष्पाम्बुव्यतिकरपाटलान्तनेत्राः | उत्तेरुर् मकरकरक्षतोर्मिचक्रं तस्यैव प्रणिधिबलाश्रयात् समुद्रम् || GओSव्_५९ ||
SK
तद् एवम् अतिदुष्कराणि भगवान् असौ भूतये चकार जगतां कृपापरिगतामलाध्याशयः | प्रसादयत तत्र मानसम् अतो जगद्बान्धवे समग्रभुवनोपकारकरणैकवीरे जिने || GओSव्_६० ||
SK
प्रसाद्य च मनो मुनौ सुचरितैकरत्नाकरे वचो ऽवितथवादिनः श्रुतिरसायनं श्रूयताम् | तदश्रवणवञ्चितं जगद् इदं भ्रमत्य् आतुरं भवाध्वनि निराश्रये व्यसनकण्टकान्धाचिते || GओSव्_६१ ||
SK
इति श्रीसार्थवाहजातकं समाप्तम् ||
SK
१४. Sअर्वंदद
SK
परदुःखदुःखिताः स्वजीवितम् अपि नापेक्षन्ते साधवः |
SK
तद्यथानुश्रूयते |
SK
बोधिसत्त्वो ऽन्यतमं स्वकुलक्रमागतं महीमण्डलं समनुशशास | तस्यार्थिजनमनोहरैर् अविषमप्रवृत्तिमधुरतरैर् अनतिक्रान्तकालाभिलषितैः फलाशाकार्पण्योपशमस्वच्छशोभैर् विभवविसर्गैर् लोकान् संतर्पयतः सर्वंदद इत्य् एवं यथार्थं नाम प्रथितम् आसीत् |
SK
जगद्धिताधानसमुत्सुकत्वात् स राज्यभारं बिभरां बभूव | क्षितीश्वरः पूर्वकृतानवद्यपुण्यप्रभावोपनतं क्रमेण || GओSद्_१ ||
SK
न तस्य किंपाकफलोपमाश् चला मनो मनोविभ्रममात्रभद्रिकाः | स्वभागधेयोपनता विभूतयो बबन्धुर् आर्यप्रकृतेर् महात्मनः || GओSद्_२ ||
SK
परिश्रमस् तस्य बभूव यौतको महाकृपाधीनमतेर् महीपतेः | प्रभुत्वम् आसीज् जगतां त्व् अबाधिथं विभूतिसंभोगसुखेषु भूरिषु || GओSद्_३ ||
SK
न तस्य मात्सर्यतमोऽवगुण्ठनं बभूव गात्रेष्व् अपि मानसं यदा | तदा कथैवोपरतासुखागते तृणोपमे शोकनिबन्धने धने || GओSद्_४ ||
SK
तं किल महात्मानम् अन्यतमः पार्थिवो ऽतृप्तः स्वराज्यश्रिया परित्यक्तधर्मयशाः सुखसाधनोपायदारुणः स्वराज्याद् उच्चालयितुम् उपचक्रमे |
SK
संप्राप्य भोगान् महतो ऽप्य् अनार्याः पन्थानम् आर्याचरितं विलङ्घ्य | तृष्णापरीताः करुणात्मकेषु साधुष्व् अपि क्रोधविषं वमन्ति || GओSद्_५ ||
SK
भैषज्यवृक्षा इव ये कदा चित् क्व चित् कथं चिज् जगतो हिताय | भवन्ति तान् अप्य् उपतप्तचित्ताः क्रोधाग्निना कापुरुषा दहन्ति || GओSद्_६ ||
SK
कुर्वीत को नाम मनुष्य आर्यः सचेतनस् तेषु मनःप्रदोषम् | येषां यशोभिः कुमुदावदातैर् उद्भासितानीव दिगन्तराणि || GओSद्_७ ||
SK
अथ धरणिरजोभिः शारिकाकण्ठधूम्रैस् तुरगखुरनिपातप्रोद्गतैश् छादयन् खम् | स नृपतिर् उपतस्थे मत्तमातङ्गसैन्यैर् उपवनतरुपूगान् आरुजन् मेघनीलान् || GओSद्_८ ||
SK
उदधिर् इव युगान्ते प्लावयंल् लोकम् अन्तर्लुलितमकरपुच्छच्छिन्नचञ्चत्तरङ्गः | स नृपबलसमूहो नग्ननिस्त्रिंशपत्त्रस्फुरितरविमयूखस् तत्पुरं संरुरोध || GओSद्_९ ||
SK
उपनतम् अपि पुण्यैर् विप्रलम्भावसानं धिग् अनुपशमकारि श्रीसुखं पार्थिवानाम् | पिशितम् इव विपूति क्रव्यभुग्मण्डलानां यद् इह भवति पुंसां वैरवैरस्य मूलम् || GओSद्_१० ||
SK
अथ बोधिसत्त्वः प्राग् एव विदितविषयदोषवैरवैरः संरम्भविप्रलभाद्यनर्थभूयिष्ठं राज्यम् अतिमन्यमानः स्वसुखसंभोगाभिष्वङ्गदैन्यानुपक्लिष्टमानसश् चिन्तयां बभूव |
SK
धिग् अस्त्व् अनार्यं विषयाश्रयं सुखं समीरणोद्धूतलतान्तचञ्चलम् | उपासते यत्र निबद्धमानसा नरा दशां बन्धुजनोपतापिनीम् || GओSद्_११ ||
SK
वातोद्धूततरङ्गितध्वजशिखाप्रत्याहताम्भोधरं दानप्रस्रुतिसिक्तदन्तमुसलक्रूरद्विपेन्द्राकुलम् | शक्तो ऽरातिबलं विहन्तुम् अखिलं बाहुद्वितीयो ऽप्य् अहं रक्षेद् अक्षतचारिणी यदि कृपा मातेव मां नापदि || GओSद्_१२ ||
SK
या वा श्रीर् अधिगम्यते परवधव्यासङ्गदग्धात्मना तां वाञ्छेद् भ्रमरोपगीतकुसुमां को वध्यमालाम् इव | यो ऽपि स्वार्हनिबन्धनप्रणयिना संप्रस्थितो वर्त्मना प्राग् एव व्यसनातुरस्य जगतो यो ऽहं हितायोद्यतः || GओSद्_१३ ||
SK
अपि च
SK
राज्ये ऽपरो यदि मम प्रणयं करोति पूज्यो मया ननु विशेषत एव राजा | राज्याश्रयं खलु परार्थम् अहं बिभर्मि संक्लेशभारम् इमम् आयतदुःखहेतुम् || GओSद्_१४ ||
SK
अतिथिर् इव यतो ऽयं माननीयो नरेन्द्रो मदुपहितविभूतिप्रार्थनाकृष्टचेताः | उपचितकुशलत्वाच् चानुकम्पाविशेषात् सुत इव विनयार्थं को ऽत्र कोपावकाशः || GओSद्_१५ ||
SK
उन्मोचयत्य् एव बलाच् च यो मां राज्याभिधानाद् व्यसनप्रतानात् | यद्य् अत्र कुर्यां मनसः प्रकोपं पापो ऽपरः को ऽथ मया समः स्यात् || GओSद्_१६ ||
SK
राज्यस्य दोषावयवे निवेशं प्रख्यापयन् हन्ति यशःसुखानि | माम् अर्थतः शिक्षयते नरेन्द्रो राज्याभिधाने तमसि भ्रमन्तम् || GओSद्_१७ ||
SK
त्यक्तव्यम् एतेन च कारणेन क्षितीश्वरश्रीसुखम् आत्मकामैः | यद् अत्र सक्तस्य जनस्य वैरभयप्रसङ्गाः शिरसि स्फुरन्ति || GओSद्_१८ ||
SK
यो वाहम् उत्सृज्य तपोवनानि निरन्तरायाण्य् अभितः शिवानि | गृहाभिधानं भयम् आवसामि नार्हामि नाहं व्यसनान्य् अमूनि || GओSद्_१९ ||
SK
तत् स्वस्तिराज्यद्युतिविस्तरेभ्यो नैकव्यलीकाश्रयदारुणेभ्यः | यास्यामि शान्तानि वनान्य् अतो ऽहं विवेकजप्रीतिनिबन्धनानि || GओSद्_२० ||
SK
कल्याणमित्रं यत एव राजा ममाद्य नैष्क्रम्यसुखोदयाय | कल्याणम् एवास्त्व् अनयो ऽप्य् अतो ऽस्य सबन्धुमित्रस्य शरच्छतानि || GओSद्_२१ ||
SK
मा गा गर्वं महिम्नः क्षितिपतिर् अहम् इत्य् उज्झ्यतां विप्रलम्भः प्रत्यासन्नोपतापाम् अनुवहसि वृथा भङ्गिनीं किं नयाज्ञाम् | राज्यं त्यक्तव्यम् एव व्यसनपरिगतं नात्यजस् त्वं किमर्थं शङ्के दौर्जन्यम् इत्थं मम नृपतिर् अयं क्षापयिष्यत्य् अयत्नः || GओSद्_२२ ||
SK
कदा त्यक्त्वा गेहं कुकृतशतसंबाधविरसं वने वत्स्यामीति प्रशमसुखसंभोगसुभगे | वितर्का ये भूताः सुचिरम् अनुबद्धा मम मतेः प्रसिद्धास् ते दिष्ट्या क्षितिपतिम् इमं प्राप्य न चिरात् || GओSद्_२३ ||
SK
इति विनिश्चित्य बोधिसत्त्वो जन्मान्तराभ्यस्तनैष्क्रम्यसुखाभ्युदयपरिचयो मृग इव वागुरावरोधनिर्गमोपलम्भोद्भूतप्रमोदः समपनीतराज्यश्रीसूचकालंकारविभ्रमकायभारलघुविविक्तविग्रहः परैर् अपरिज्ञाततपोवनगमनप्रयोजनः संरूढप्रणयविश्रम्भस्नेहबहुमाननिरत्ययं च बन्धुवर्गं स्वपुण्यबलावष्टम्भोपनतसुखोपभोग्यां च राजलक्ष्मीं पर्युषितोपभोगमलिनम्लानकुसुमबन्धनाम् इव स्रजं परित्यज्यान्य्तमद् विविक्तम् आश्रमपदम् अलंचकार |
SK
आहूयमान इव पल्लविनां द्रुमाणां शाखाकरैः स्वकुसुमाभरणाभिरामैः | शान्तं वनान्तम् उपगम्य स बोधिसत्त्वः प्राप्तो ऽमृतं नृपसुखैर् अनवाप्तपूर्वम् || GओSद्_२४ ||
SK
यान्य् एव शोकपरिदेवमुखानि लोके कामात्मनाम् अनुचितोपशमोत्सवानाम् | तान्य् एव नाम दधति प्रशमप्रियाणां प्रीतिं निरामिषसुखप्रणयानवद्याम् || GओSद्_२५ ||
SK
पुष्पाधिवासशुचिभिः स वनान्तवातैः संवीजितः प्रतिविनोद्य शरीरखेदम् | ध्यात्वा प्रमादमलिनां मनुजेन्द्रलक्ष्मीं संवेगम् एव मनसि क्षितिपः पुपोष || GओSद्_२६ ||
SK
कृत्वा नमः स भुवनत्रयशङ्करेभ्यः सर्वात्मना दशसु दिक्षु तथागतेभ्यः | अम्लानशाद्वलकुथापरिभोगरम्ये मूले तरोः क्षितिपतिर् निषसाद मध्ये || GओSद्_२७ ||
SK
स खेदितो ऽन्तःपुरसुन्दरीणां संक्लेशपक्षानुगुणैर् विलासैः | विविक्तसंभोगसुखान्य् अरण्यान्य् आलोक्य विश्रान्त इव क्षितीशः || GओSद्_२८ ||
SK
परिस्रवन्निर्झरवारिधाराप्रक्षालितश्यामशिलातलानि | सानूनि पश्यन् स महीधराणाम् अयत्नरम्याणि मुदं जगाम || GओSद्_२९ ||
SK
आलिङ्गितान् पुष्पभरालसाभिः स्नेहाद् इव प्राणसमांल् लताभिः | महीरुहान् भूरिपलाशनीलान् आलोक्य रेमे स महीमहेन्द्रः || GओSद्_३० ||
SK
अकर्कशश्यामकशेरुकाणि भ्रमद्द्विरेफाहतपुष्कराणि | निरीक्षमाणः स नृपो ऽभिरेमे सरांसि पाठीनकुलाकुलानि || GओSद्_३१ ||
SK
विवेकजप्रीतिसुखानुकूलां निसर्गरम्यां स वनान्तभूमिम् | निरीक्षमाणः क्षितिपः प्रहर्षं जगाम संशान्तमनोविकारः || GओSद्_३२ ||
SK
उदीक्ष्य संसक्तशिखण्डिकेकामनोऽभिरामाणि स काननानि | अनेकसंक्लेशविषोपदग्धां नृपश्रियं भूमिपतिर् जगर्हे || GओSद्_३३ ||
SK
क्वासौ विपर्याससुखाभिमानप्रसङ्गजिह्मा क्षितिपाललक्ष्मीः | क्व चैव चेतोविनिबन्धनानि शान्तान्य् अरण्याश्रयिणां सुखानि || GओSद्_३४ ||
SK
अनर्थरागाश्रयदूषिताय नमो ऽस्तु तस्मै क्षयिणे सुखाय | विषज्य यस्मिन् मनसः प्रवृत्तिं कृपास्पदत्वं विदुषां व्रजन्ति || GओSद्_३५ ||
SK
अवनतशिखैर् वानीराणां द्रुमैस् तटरोहिभिः कृतपरिकरश्रीसंभोगाः प्रशान्तरयोद्धवाः | हरितपुलिनाः शष्पोद्भेदैर् झरैः सरितः शिवाः क्षितितलपतिः पश्यंल् लेभे रतिं स निरामिषाम् || GओSद्_३६ ||
SK
वितथविषयक्रोधाभ्यासप्रयोगमलीमसं हृदयम् असतां शान्ते ऽरण्ये रतिं कथम् एष्यति | स तु नरपतिर् गोत्रोत्कर्षप्रभावपरिग्रहाद् विषयविमुखः प्रीतिं भेजे परां विजने वने || GओSद्_३७ ||
SK
प्रकृतिचपला नैकापाया निरन्तरदारुणा न खलु हृदयं नो ज्ञानार्थं हरन्ति विभूतयः | अपगतमनःसंक्षोभाणां वनान्तम् उपेयुषां भवति तु सतां पूर्वाभ्यासान् मतिः प्रगुणा शुभे || GओSद्_३८ ||
SK
हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः कुसुमशबलैर् विश्वाखातैस् तरङ्गितपादपाः | मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता मनसि न मुदं कस्यादध्युः शिवा वनराजयः || GओSद्_३९ ||
SK
प्रशमविधुरे नित्योद्वेगप्रदे गृहचारके विषयमरुता व्याधूतानां हतोपनिषत्सुखम् | उपरतजनक्षोभायासप्रकामसुखे वने व्रजति तु मनः सद्यः शान्तिं कुकार्यसमाकुलम् || GओSद्_४० ||
SK
अथान्यतमो ब्राह्मणो दारिद्र्यदुःखाभ्याहतस् तत्प्रतीकारचिकीर्षया मन्दोत्साहो ऽपि बोधिसत्त्वम् एकम् आर्तायनम् अवगम्य तद्विषयान्तम् उपगच्छन् मार्गपरिभ्रंशपर्याकुलात्मा ततस् ततः परिभ्रमन् क्षुद्दुःखोपग्लपिततनुर् अध्वक्लमविक्लवाविधेयगुरुतरचरणविग्रहस् तद् आश्रमपदम् आससाद | दृष्ट्वा चैनं बोधिसत्त्वश् चिराभ्यागतस्निग्धबान्धवस्नेहातिरिक्तवात्सल्यपेशलया पिबन्न् इव दृष्ट्या प्रत्युद्गम्याभिवाद्य च कृतप्रतिसंमोदनम् आगमनप्रयोजनं पर्यपृच्छत् | ब्राह्मणो ऽब्रवीत् |
SK
यः सर्वदो नाम भुवि प्रसिद्धो यथार्थनामा नरलोकपालः | कीर्त्या समाहूत इवास्मि तस्य प्राप्तस् तम् आर्तायनम् ईक्षमाणः || GओSद्_४१ ||
SK
त्राता स एव व्यसनातुराणां वनीपकानां स च बन्धुर् एकः | तम् एव चैकं व्यपदिश्य साधुम् अन्यत्र मौनव्रतम् एति वाणी || GओSद्_४२ ||
SK
तत् तस्य वचनं श्रुत्वा स कृपापेशलाशयः | आचकम्पे महासत्त्वस् तद्दुःखपवनाहतः || GओSद्_४३ ||
SK
अथ स महात्मा दीर्घम् उष्णं च निश्वस्य तं ब्राह्मणं प्रोवाच |
SK
उपायश् चिन्त्यताम् अन्यो द्विज दुःखोपशान्तये | भ्रष्टैश्वर्यः स भूपालस् तपसे वनम् आश्रितः || GओSद्_४४ ||
SK
अथ स ब्राह्मणः समीहितार्थप्रत्याशाप्रणयभङ्गदैन्याक्रान्तमानसः सहसा पृथिव्यां निपपात परं च संमोहम् उपजगाम |
SK
आशापर्यस्तधैर्याणि हृदयानि प्रसङ्गिनाम् | देहिनां मोहम् आयान्ति हेतुना येन केन चित् || GओSद्_४५ ||
SK
अथ बोधिसत्त्वस् तं ब्राह्मणं शीताभिर् अद्भिः परिषिञ्च्य प्रतिलब्धसंज्ञं समाश्वासयन्न् अब्रवीत् |
SK
अस्त्य् अन्यो ऽपि प्रतीकारो भवदाशासमृद्धये | अहं सर्वंददो राजा मा शुचस् त्वम् इह द्विज || GओSद्_४६ ||
SK
सर्वंददो नाम कथं कदा वा यस्य स्वदेहे ऽपि मनःप्रसङ्गः | यथार्थनामा त्व् अधुना भविष्याम्य् अहं त्वदभ्यागमनोत्सवेन || GओSद्_४७ ||
SK
मद्राज्यप्रणयी राजा मां समन्वेषते किल | बद्ध्वा मां देह्य् अतस् तस्मै स त्वां सम्तोषयिष्यति || GओSद्_४८ ||
SK
अनेकदुःखोपनिपातकातरश् चिरस्य तावद् भवदाश्रयाद् अयम् | ममोपयोगं गुणपक्षसिद्धये शरीरसंज्ञः कलिर् अद्य यास्यति || GओSद्_४९ ||
SK
जरारुजामृत्युखलूरिकाम् इमां तनुं समाश्रित्य स हन्त यो ऽद्य मे | मनोरथो ब्राह्मणमुख्य पूर्यतां तव प्रभावाद् अभिवाञ्छितश् चिरम् || GओSद्_५० ||
SK
प्रीतिर् नृपस्य तव चार्थविशेषसिद्धिः संपत्स्यते मम च पारमिताप्रकर्षः | एकं शरीरम् अतिसृज्य विपत्परीतं पश्योत्सवातिशयम् आपतितं क्रमेण || GओSद्_५१ ||
SK
एवंविधे ऽतिथिजनप्रणयाभिधाने प्रीत्यागमे च मम कार्यसमृद्धिहेतौ | देहे कृतान्तमकरास्यपुटातिथौ च नैकोपसर्गविहिते विधिर् अस्ति को ऽन्यः || GओSद्_५२ ||
SK
कायाद् असाराद् अहम् अद्य सारं भवन्तम् आसाद्य समुज्जिहीर्षुः | मनोरथं तत् सफलं कुरुष्व त्वम् अद्य मे विप्र चिरानुबद्धम् || GओSद्_५३ ||
SK
एवम् अस्त्व् इति पापात्मा प्रतिशुश्राव स द्विजः | अतिक्रम्यार्यमर्यादां लोभोपहतमानसः || GओSद्_५४ ||
SK
कोटरान्तर्गतव्यालविषाद् अप्य् अतिदारुणैः | विषयैर् उपतप्तानां पापं किं नाम दुष्करम् || GओSद्_५५ ||
SK
एकः परार्थं प्रददौ स्वदेहं समाददे ऽन्यः परम् आत्महेतोः | अहो विकृष्टं चरितं नराणां गुणेषु दोषेषु च सादराणाम् || GओSद्_५६ ||
SK
तं बोधिसत्त्वं विनिबध्य गाढं पश्चाद्भुजं चौरम् इव द्विजातिः | समाचकर्ष प्रकृतिप्रगल्भो निवार्यमाणो वनदेवताभिः || GओSद्_५७ ||
SK
साक्षाद् अयं धर्म इवावतीर्णः प्रशान्तवाक्कायमनोविकारः | द्विजाधमेनाविनयावलेपक्रूरेण कष्टं ह्रियते महर्षिः || GओSद्_५८ ||
SK
अमी रुदन्तीव विलोलपल्लवाः प्रशस्तपुष्पाश्रुमुखा महीरुहाः | चलद्द्विरेफध्वनिदीननिस्वना वियुज्यमाना मुनिना सुमेधसा || GओSद्_५९ ||
SK
सुदुर्लभम् दर्शनम् अस्य सर्वथा विलोचनप्रीतिकरस्य देहिनाम् | विलेपुर् इत्य् उद्गतशोककातराः प्रगाढशोका मुनयो वनौकसः || GओSद्_६० ||
SK
आदाय विप्रो ऽथ तम् आर्यसत्त्वं निःसाध्वसानाकुलधीरचेष्टम् | प्रवेशयाम् आस पुरं स यस्मिन् महीपतिस् त्ष्ठति तत्सपत्नः || GओSद्_६१ ||
SK
यम् अद्राक्षुर् नेत्रैः पुरयुवतयः स्नेहविकचैर् गजस्कन्धारूढं पतिम् इव सुराणां नरपतिम् | तम् एवापश्यंस् ताः परवशगतं वल्कलधरं मुखैः शोकायासस्तिमितगुरुपक्ष्मान्तनयनैः || GओSद्_६२ ||
SK
तं मत्तवारणगतिं कनकावदातं प्रांशुं सुमेरुम् इव लक्षणरत्नचित्रम् | चीराम्बरं वृजिनदीर्घजटाकलापं दृष्ट्वा नृपो रिपुर् अधीरतया चकम्पे || GओSद्_६३ ||
SK
तथाभूतं चैनम् अवेक्ष्य साध्वसाकुलितमतिश् चिन्तयाम् आस |
SK
को न्व् एष काञ्चनशिलातलचारुवक्षाः क्षामोदरो भुजगभोगविलम्बिबाहुः | प्रत्यादिशन्न् इव कुकार्यसमाकुलं मां प्राप्तो युवापि विनयप्रतिपत्तिधीरः || GओSद्_६४ ||
SK
धर्मो ऽवतीर्ण इव विग्रहवान् कुतो ऽयम् आलम्बवल्कलधरो नयनाभिरामः | बद्धश् च नाम च न दैन्यविषादवश्यस् तेजोनिधिः प्रशमम् उद्गिरतीव चायम् || GओSद्_६५ ||
SK
अथ स ब्राह्मणाधमस् तं राजानम् अब्रवीत् | जयतु जयतु महाराजो दिष्ट्या वर्धसे | यो ऽसौ तव प्रत्यनीको राजा केनापि प्रयोजनेनारण्यम् अनुप्रविश्य तापसनेपथ्यावच्छादितो दौरात्म्यं किम् अप्य् आरेभे | स एष मया बलात्कारं त्वत्प्रियचिकीर्षया बद्ध्वा मीन इव स्फुरन्न् आनीतस् तद् अत्र देवः प्रमाणम् इति | अथ स राजा तत् तस्य पापकर्मणः कर्मासंभावयन्न् अवोचद् एनम् | मा तावद् भोः |
SK
जेतुं सागरमेखलां वसुमतीं बाहुद्वितीयो ऽप्य् अयं शक्तः शक्तिमतां वरः करिकरव्यालम्बिबाहुद्रुमः | त्वं शक्तो ऽस्य पराभवं कथम् अरे कर्तुं बृहद्वक्षसः तत् त्वं ब्रूहि पराभवन्ति न मृगाः सिंहं स्फुरत्केसरम् || GओSद्_६६ ||
SK
स तस्मै राज्ञे यथाभूतम् आविश्चकार | धिक् त्वाम् इति च निर्भर्त्सितः कोपकलुषया दृष्ट्या तेन राज्ञा परां व्रीडाम् आपन्नः | स्वयम् एव विमुच्य बन्धनानि क्षितिपः सो ऽथ यथासुखं नृपर्षिम् उपवेश्य तम् आसने महार्हे बहुमानानतविग्रहो जगाद |
SK
गुणभक्तितयातिमानुषं ते नृप कर्मातिशयावदानम् एतत् | प्रथयन्ति सुरासुरप्रधाना बहुमानश्लथम् आनतैः शिरोभिः || GओSद्_६७ ||
SK
यदि रञ्जयितुं प्रजाः समर्थो नृप राजेत्य् अभिधानसंनिवेशः | गुणरत्ननिधे त्वम् एव राजा विगुणो रञ्जयितुं जगन् न शक्तः || GओSद्_६८ ||
SK
अनुशाधि यथा पुरा पुरं स्वं वयम् आज्ञाप्रवणा भवद्विधानाम् | विनयाद् व्यसनं च नः क्षमेथाः स्खलति प्रोषितलोचनः समे ऽपि || GओSद्_६९ ||
SK
जातप्रसादम् अथ तं नृपतिं विदित्वा पात्रीकृतं सुचरितस्य स बोधिसत्त्वः | शिष्यं विनीतम् इव गौरवभारनम्रं प्रोवाच नीलजलदस्तनयित्नुघोषः || GओSद्_७० ||
SK
आयुर् नृणाम् अचिरकालविनाशि तावत् तप्तोपलोदरनिषिक्त इवाम्बुबिन्दुः | सङ्गाः प्रियैः सह सदैव वियोगतिक्ताः संपत्तयो विपरिणामविषाविषह्याः || GओSद्_७१ ||
SK
कामा मुहूर्तवितथाभिनिवेशरामाः किंपाकपादपफलप्रतिमोपभोगाः | नैकान्तरायविरसं सभयं सवैरं राज्यं प्रमादवधबन्धनिमित्तभूतम् || GओSद्_७२ ||
SK
तस्माद् विपाकमधुराणि कुरुष्व नित्यं कर्माणि सज्जनमनोविनिबन्धनानि | शोकाश्रुकातरमुखास् तु विपाककाले येषां भवन्ति पुरुषाः प्रजहीहि तानि || GओSद्_७३ ||
SK
नार्थो राज्यसुखैः पुनर् मम चलै रिक्तैर् अनाश्वासिकैर् वैरायासविषाददैन्यकलहद्वारैः परप्रत्ययैः | उत्कण्ठां जनयन्ति मे क्षितिधराः संसक्तधाराधराः पुष्पालम्बकदम्बपादपवनश्यामोपकण्ठाः शिवाः || GओSद्_७४ ||
SK
हरिणकुलविलुप्तस्निग्धशष्पोत्तरीया निपतितसितपुष्पा द्यौर् इवालक्ष्यतारा | अपहरति बलान् मे मानसं काननान्तक्षितिर् उपरतराज्यप्रार्थनाविप्रलम्भम् || GओSद्_७५ ||
SK
स्थिरवनगमनाशयं विदित्वा नृपतिर् असाव् अथ तं विशुद्धसत्त्वम् | अपहृतहृदयो गुणैस् तदियैर् वनगमनाभिमुखः किलावतस्थे || GओSद्_७६ ||
SK
अवगमितमनाश् च बोधिसत्त्वः क्षितिपतिना विनयानतेन तेन | उपरतविषयस्पृहो ऽपि चेतो वनगमनाद् विनिवर्तयां बभूव || GओSद्_७७ ||
SK
वन इव भवने ऽपि बोधिसत्त्वा विषयसुखव्यसनापरीतसत्त्वाः | मुनय इव वनान्तवासनिम्नाः प्रशमरसैकविहारिणो भवन्ति || GओSद्_७८ ||
SK
भवन इव वने ऽपि साधवस् ते जगदुदयैकनिबन्धनप्रयोगाः | स्वतनुम् अपि परार्थम् उत्सृजन्ति प्रणयिजनप्रणयं न खण्डयन्ति || GओSद्_७९ ||
SK
अत इह भवनं वनं च तुल्यं जगदुपजीव्यविभूतिविस्तराणाम् | अविकलभुवनोपकारपारप्रणयकृतव्यवसायमानसानाम् || GओSद्_८० ||
SK
तेन दत्तं समादाय स्वराज्यं लोकसारथिः | धनं राजा स विप्राय वाञ्छितात्यधिकं ददौ || GओSद्_८१ ||
SK
तस्याश्चर्यम् उदारधर्मसुरतिं चाकर्ण्य विप्रोदितं त्यक्त्वा वैरविकारदुःसहतरं क्रोधाभिधानं विषम् | धृत्वा मौलिम् इवोन्नते ⏑ ⏑ ⏑ – – – ⏑ राजा स्वयं चक्रे तच्चरणाम्बुजप्रणयिनीम् उष्णीषमालां क्षणात् || GओSद्_८२ ||
SK
तस्मिन् गते निजपुरं विनयप्रपन्ने संप्राप्य राज्यम् अरिहीनम् उदारपुण्यः | धर्मेण कीर्तिधवलाम्बुधिफेनमालावेलादुकूलललितां पृथिवीं शशास || GओSद्_८३ ||
SK
चरितम् अतिगतोपमानशोभं न हि विभवो ऽस्त्य् अनुगन्तुम् ईश्वराणाम् | मम कृपणमतेस् तथापि चैतत् कृतम् अतिसाहसम् आत्मनो हिताय || GओSद्_८४ ||
SK
कुशलम् उपचितं कृपात्मकानां चरितम् इदं विनिबध्य यन् मयाद्य | भवतु भुवनशान्तये तद् आशु ज्वलतु तथागतशासनं ततश् च || GओSद्_८५ ||
SK
इति सर्वंददजातकम् ||
SK
Śवन् = GओŚव्
SK
Eद्. Mइछएल् Hअह्न्. Cf. Mइछएल् Hअह्न्. Dएर् ग्रोस्से Lएगेन्देन्क्रन्z Mअहज्जातकमाला. Wइएस्बदेन् १९५ (Aसिअतिस्छे Fओर्स्छुन्गेन्, ८८). Nओ. ८: Sओमजातकावदान
SK
१६. Śवन्
SK
(२४७ब्६) परदुःखकातरा देवराज्यम् अप्य् अवधीरयन्ति साधवः ||
SK
तद्यथानुश्रूयते
SK
बोधिसत्त्वभूतः (२४८अ) किल भगवान् स्वपुण्यपरिपाकविशेषोपनतम् अमरपुराधिपत्यम् कारयाम् आस | नपरिद्यूतहृदयेन सर्वलोकातिशयिनापि महिम्ना केवलं पुण्यानाम् अवन्ध्यफलम् आविष्कुर्वन्न् अमरपुरनिवासिनां चानुग्रहाय ||
SK
जगद् दृष्ट्वानन्तव्यसनकुलिशापातविहतं न स स्वर्गे रेमे प्रकृतिरमणीये ऽपि भगवान् | तदा ह्य् एनं सा धीर् हृदि तुदति निःसङ्गम् अनिशं परार्थप्राग्भारा परमविधुरा स्वादुविधुरा || GओŚव्_१ ||
SK
अकृतकुशलव्यापारानां स्वभूतिनिबन्धनं कृपणमनसां – – यद् वा मनो बहु मन्यते | स्वचरितपरिप्राप्तैश्वर्यं जगद्धितकारिणा न विषयसुखेष्व् आस्थं चेतो महत्य् अपि रक्ष्यते || GओŚव्_२ ||
SK
स कदा चिज् जम्बूद्वीपम् अवलोकयन् ददर्श [!] एवं लोकम् अशक्यप्रतीकारव्याधिदुःखोपप्लुतं विषमविरसकृतवैद्यसामर्थ्यं समरणम् आवर्ज्ज(?)व्यवसायविक्लवं रोमन्थमानम् इव पिशिताशनैर् इहैव नरकदुःखान्य् अनुभवन्तं विस्मृतस्नेहबन्धुमित्रसुहृच्छौचाचारप्रयोजनम् ||
SK
कृतान्तकर्मान्त इव प्रवृत्तस् तदा स रोगान्तरकल्पतुल्यः | अशक्यरूपप्रतिकारभीमो महात्ययो व्याधिकृतो विकारः || GओŚव्_३ ||
SK
क्षुत्तृष्णाचेतनपरिगताः सानुबन्धं स्तनन्तो विक्षिप्ताङ्गाः क्षितितलरजोगुण्ठितोद्धस्तकेशाः | स्मारं स्मारं जलकणमुचां मल्लिकामालुतानां – – – – मधुकरगणैर् मार्ग आसन्नपाताः || GओŚव्_४ ||
SK
श्वासाध्मातबृहत्कठोरजठरव्याभिन्ननासापुटाः सृक्कान्तप्रतिबद्धशुष्कविरसश्लेष्मानना भीषणाः | रूक्षस्थूलशिराप्रतानजटिलत्वक्स्नायुशेषाश्रयाः के चित् पूर्वकृतं निनिन्दुर् अशुभं कर्माभिसंधिस्थिरम् || GओŚव्_५ ||
SK
क्वथितपिशितरन्ध्रप्रोद्वमत्पूयधारा मलिनविकृतदेहाः के चिद् अप्रेक्षणीयाः | क्रिमिकुलपरिलुप्तप्रायबाहूदरोरुश्रवणनयननासाः प्रार्थयन्ते स्म कालम् || GओŚव्_६ ||
SK
संशुष्काधरकण्ठतालुविवरास् तृष्णाग्निना दाहिना रूक्षक्षामविदारिताननपुटाः प्रेता इवायासिनः | आमत्तालिकुलोद्धतोत्पलवनच्छन्नाम्बुविष्यन्दिनां वीक्षन्तः सरसां पयांसि विविशुः के चित् कृतान्तालयम् || GओŚव्_७ ||
SK
दूषीकापटलनिरुद्धलोचनान्ता दुर्गन्धा बहलमलोपलिप्तगात्राः | अन्ये तु क्लमशिथिलाश्रया रुजानाम् आजग्मुर् निलयनतां प्रबन्धिनीनाम् || GओŚव्_८ ||
SK
के चिल् लालासलिलविसरक्लिन्नसंसक्तदीर्घ- श्मश्रुव्राताः पथिषु कृपणाः क्लान्तकायाः शयानाः | क्रूरारावैः पुरबलिभुजां मण्डलैः संपतद्भिर् व्यावृत्तास्या विपदम् अवशाः प्रत्यपद्यन्त तीव्राम् || GओŚव्_९ ||
SK
तस्य तद् अतिदारुणम् आलोक्य लोकव्यसनं महत् कारुण्यम् उदपादि | अथ स महासत्त्वस् तेन सत्त्वोपद्रवेण व्यथितमनाः सुतराम् अभिवर्धितानुकम्पाकम्पितः पितेवैकपुत्रव्यसनम् असहमानश् चिन्ताम् अपेदे ||
SK
इत्थं गतानां क इवाभ्युपायः स्याद् आमयोच्छित्तिसुखः प्रजानाम् | अपीह लोकत्रयबान्धवानां तथागतानाम् अनृणो भवेयम् || GओŚव्_१० ||
SK
अपि नाम भवेन् मम प्रतिज्ञा सकला लोकहितप्रयोगसिद्ध्यै | अपि मानुषजन्मदुःखभाजो व्यसनेभ्यः परिमोक्षम् अश्नुवीरन् || GओŚव्_११ ||
SK
अपि नाम न बोधिसत्त्वनामव्यपदेशं वितथं समुद्वहेयम् | अपि सर्वविदाम् अगर्हणीयां दधद् आज्ञाम् अनिमित्तवत्सलानाम् || GओŚव्_१२ ||
SK
भवदुःखशिलीमुखक्षतानाम् अपि मतेव पितेव च प्रजानाम् | अहम् एव परायणं परं स्यां भवदुःखाम्बुरयप्रतीरभूतः || GओŚव्_१३ ||
SK
यावद् दुःखाभिभूतः प्रविशति न जनो रोगदंष्ट्राकरालं कालाहेर् आस्यकोशं सकलजगदनुग्राससंभोगभीमम् | तावद् द्वन्द्वानुरागं त्रिदशपुरपतिश्रीसुखं प्रोज्झ्य रम्यं प्राणत्यागानुरागं प्रणयसुखकरं भूतभृत्यै करोमि || GओŚव्_१४ ||
SK
व्यवसायम् इति ज्ञात्वा तस्यात्यद्भुतकर्मणः | तद्वियोगाभिशङ्कार्ता विचुक्रुशुर् अथामराः || GओŚव्_१५ ||
SK
कृपालो दुःखितान् अस्मान् परित्यज्य क्व यास्यसि | विषमस्थान् इव पिता वत्सलो बालपुत्रकान् || GओŚव्_१६ ||
SK
सद्धर्मसलिलोत्सेकैर् वर्धयन् पादपान् इव | अस्मान् अनागसस् त्यक्त्वा मा यासीः प्रियदर्शन || GओŚव्_१७ ||
SK
विषयास्वादचपलैर् हृतान् इन्द्रियवाजिभीः | स्वामिन् मास्मान् परित्याक्षीः प्रपातान्तानुचारिणः || GओŚव्_१८ ||
SK
प्रणामलोलानतमौलिबन्धनान् प्रगाढशोकोपनिपातकातरान् | अथामरान् अश्रुपरिप्लुतेक्षणान् स सान्त्वयन्न् इत्य् अवदन् मरुत्पतिः || GओŚव्_१९ ||
SK
न मे न युष्मास्व् अनुरागपेशलं मनो न चायं स्वहितोदयादरः | विकासिनीनां विपदां मुखे स्थितं जगत् परित्रातुम् अयं तु निश्चयः || GओŚव्_२० ||
SK
तद् अप्रमादः क्रियतां स एव वो ध्रुवं समार्तायनताम् उपेष्यति | विसंवदन्त्य् एव समागमाः प्रियैर् निपातरम्याः परिणामदारुणाः || GओŚव्_२१ ||
SK
स्थित्वापि कालम् अतुलं विविधोपभोगसंभोगविस्तरसुखैस् त्रिदशाधिवासे | कर्मक्षयाद् विनिपतन्ति सुराः स्मरन्तः संवर्तकानिलहता इव कल्पवृक्षाः || GओŚव्_२२ ||
SK
मन्दाकिनीम् अपि विगाह्य सहाप्सरोभिर् उन्निद्रहेमकमलोच्छुरितोपकण्ठाम् | क्षारोदकां ज्वलनदर्भकुकूलकूलां निघ्नाः पुनर् यदि च वैतरणीं भजन्ते || GओŚव्_२३ ||
SK
को नाम तेषु मतिमान् स्वमनो निदध्याद् उत्क्षेपणीयकुसुमावयवोपमेषु | स्वर्गोपभोगजनितेषु सुखेषु येषाम् अन्तेष्व् अपायवडवामुखसंनिवेशः || GओŚव्_२४ ||
SK
कल्पद्रुमोपवनभूमिषु नैकरत्नप्रोद्भास्यमानतततल्पशिलातलासु | साकं प्रियाभिर् अनुभूय सुखानि भूयस् तीक्ष्णासिपत्त्रवनमध्यगता भवन्ति || GओŚव्_२५ ||
SK
संभ्रान्तबालहरिणेक्षणचञ्चलानि विभ्रान्तकालपरिणामकराणि बुद्धेः | यद् धीन्द्रियार्थपरिभोगसुखानि तस्माद् यत्नं सुराः कुरुत पुण्यपरिग्रहाय || GओŚव्_२६ ||
SK
एधोभिर् अग्नय इव प्रशमं व्रजन्ति कामाग्नयो न विषयैर् विषपानकल्पैः | तस्माद् उपाद्ध्वम् अनवद्यसुखाभिरामां ताथागतीं प्रतिपदं व्यसनोपशान्त्यै || GओŚव्_२७ ||
SK
अनाथानां दैन्यग्लपितमनसां दुःखाशीविष- गणोपघ्रातानां परशुभिर् इवोत्कृत्तवपुषाम् | प्रशान्त्यै भूतानां वयम् अपि तिरश्चाम् अनुकृतिं करिष्यामो मुक्त्वा सुरभवनसंभोगवसिताम् || GओŚव्_२८ ||
SK
अविचलप्रतिबन्धो दीर्घकालानुषङ्गी मम जगदुपकारप्रार्थनासंनिवेशः | सुचरितपरिपाकस्येति दृष्ट्वा प्रसिद्धिं न खलु कुशलविघ्नं कर्तुम् अर्हन्ति सन्तः || GओŚव्_२९ ||
SK
अतिमानुषम् अप्य् अपास्य चित्रं महिमानं कृपया विकृष्यमाणः | स तु दुःखकरो गतौ तिरश्चां परमार्यः प्रतिसंदधे महात्मा || GओŚव्_३० ||
SK
करुणामृतपेशलाशयानां स्वसुखासङ्गविविक्तमानसानाम् | प्रभवा इव कल्पपादपानाम् उदया लोकहिताय सज्जनानाम् || GओŚव्_३१ ||
SK
विनयानतरत्नमौलिरश्मिच्छुरितास् तं न मरुद्गणप्रणामाः | मनुजातिसुखं समापतन्तं स्थिरसत्त्वं विनिवर्तयां बभूवुः || GओŚव्_३२ ||
SK
विरहव्यसनोपतापदीनैर् नयनैर् बाष्पतरङ्गधूसरान्तैः | दयिताः करुणं तम् ईक्षमाणाः शुचिसत्त्वं न निवर्तयां बभूवुः || GओŚव्_३३ ||
SK
स्वजनेषु न तस्य सानुकम्पं न मनो दक्षिण एव स प्रकृत्या | अवगम्य गरीयसीं तथापि प्रकृतिं श्वा स तथा चकार साधुः || GओŚव्_३४ ||
SK
स हितावहिता रुजातुराणां हिमवन्मेरुगुरुर् गुरुः प्रजानाम् | पुरुषातिशयो गुणप्रकर्षान् नियतं दूरतरं समुत्पपात || GओŚव्_३५ ||
SK
तपोभिर् यां दीर्घैर् यमनियमसंस्कारगुरुभिर् व्यवस्यन्ति प्राप्तुं सलिलफलमूलानिलभुजः | विभूतिं ताम् ऐन्द्रीं तृणम् इव परित्यज्य कृपया तिरश्चां साभाग्यं स जगदुपकारार्थम् अगमत् || GओŚव्_३६ ||
SK
शुभाभ्यासाद् एव क्षपितकुकृतप्रत्ययतया तथागतेन प्राप्ता भवगतिसमाक्षेपवशिता | यथेच्छं यत्रेच्छं परहितसमाधानविदुषस् तथा ह्य् अभूत् जन्मव्यसनशमनायैव जगताम् || GओŚव्_३७ ||
SK
स्वकामकारानुविधायिनीम् श्रियम् पटान्तलग्नाम् हुतभुक्शिखाम् इव | न मर्षयन्ति व्यसनातुरान् जनान् दृष्ट्वा महान्तः करुणानिबन्धनाः || GओŚव्_३८ ||
SK
तस्योपपत्तिसमकालम् अथोच्चचार लोकं स्फुरन् ध्वनिर् इति श्रवणोपकारी | यः पाप्य् अयं कुरु पुरो भजनं च तस्य मांसासृजौ समुपयुज्य शिवं भजध्वम् || GओŚव्_३९ ||
SK
श्रुत्वाथ ध्वनिम् अतिमानुषं मनुष्याः सांहत्यस्वरितम् उपेत्य तं प्रदेशम् | आलोक्य क्षितिधरपीवरात्मभावं तं साधुं क्षमिणम् अभीयुर् उद्विषाणाः || GओŚव्_४० ||
SK
आघूर्णस्फुटितखड्गनिशातपाणीन् दृष्ट्वा तान् अभिपततो जवेन गत्वा | हाहेति स्फुटविरसं विलेपुर् उच्चैः प्रत्यस्तप्रशिथिलमौलयः सुरौघाः || GओŚव्_४१ ||
SK
मां दृष्ट्वा घनविपुलायतात्मभावं श्रुत्वा वा सुरपुरवासिनां प्रलापान् | न कश् चित् प्रतिहतमानसो वसासृग्मोको ऽयं क्षणम् इति सो ऽभवद् विकारी || GओŚव्_४२ ||
SK
तान् पौरान् सुहृद इवावलोक्य तस्य प्रीतिर् या मनसि मनस्विनो जृम्भते | ताम् एव क्षितिधरसारधीः स मेने पर्याप्तं फलम् अतिदुष्करस्य तस्य || GओŚव्_४३ ||
SK
लोकानाम् अभिलषितोपकारम्यं मत्वासाव् उपचितमांसम् आत्मभवम् | एकान्तव्यसननिपातलक्ष्यभूते संसारे ऽप्य् अभिरतिम् आबबन्ध साधुः || GओŚव्_४४ ||
SK
ये ध्वस्ताः परहितसंविधानशून्यास् तद्देहाः क्षणभिदुरा भवप्रबन्धे | तान् मन्ये स परिगणय्य शैलतुङ्गान् च्छुद्ध्यैव स्वतनुम् उपादधे महात्मा || GओŚव्_४५ ||
SK
तं मत्वा विततविकारम् एव धैर्यात् ते तीक्ष्णैस् तरुम् इव चिच्छिदुः कुठारैः | निःशङ्का गलितकृपाशिवैर् मनोभिः सो ऽप्य् आसीत् तरुर् इव चापनीतमन्युः || GओŚव्_४६ ||
SK
तद्रक्तव्यतिरेकपाटलाग्रहस्तास् तम् खड्गैर् अरय इवापरे विचक्रुः | सो ऽप्य् आसीद् अभिमतकार्यसंप्रसिद्ध्या प्रीत्यैव स्फुटहृदयो विशुद्धकर्मा || GओŚव्_४७ ||
SK
सुस्राव क्षतजम् अथास्य खड्गधाराच् छेदेभ्यः स्फुटकरधीरपुष्पताम्रम् | संप्राप्तघनसमये विचित्रसानोर् विन्ध्याद्रेर् जलम् इव धातुनिर्झरेभ्यः || GओŚव्_४८ ||
SK
चक्षार व्रणमुखकन्दरेभ्यो यत् तस्य क्षतजम् इव क्षताशयस्य | तेनोहुर् घनपरिणाहफेनपुञ्जा विष्टब्धा विपुलसितवीचयः स्रवन्त्यः || GओŚव्_४९ ||
SK
तत् तस्य प्रणिधिबलावलम्बिनीनाम् आशानां कथम् अपि पूरणात् सुचेतः | संप्राप्ते ऽप्य् अम्रपुरे शरीरभेदात् प्रामोद्यं निरतिशयोपमं बभार || GओŚव्_५० ||
SK
दध्वान प्रपतदसृक्कदेहरन्ध्रे विच्छिन्ने परशुतीक्ष्णधारयास्य | प्रत्यन्तज्वलनशिखावलीढसानोः कुञ्जेषु द्रुतम् इव कान्चनं सुमेरोः || GओŚव्_५१ ||
SK
तस्योग्रैर् युगपद् इतस् ततश् च शस्त्रैर् निःशङ्कं शकलितकोमलाश्रयाङ्गे | विच्छिन्ने सहननिविष्टशुद्धबुद्धेः प्रीत्यार्द्रे मनसि तिरोदधे विषादः || GओŚव्_५२ ||
SK
परिचयकृतमार्गास् तस्य रक्तप्रणाल्यो गगणपरिखभूते च्छिद्यमाने शरीरे | क्षितिधरसरिदोघा विस्तराणि प्रचक्रुर् न च मनसि विषादो नापि खेदो बभूव || GओŚव्_५३ ||
SK
अपचिततरमांसासृग्वसाकर्दमासु व्यपगतभयशङ्कास् तस्य विस्तारिणीषु | तनुविवरतरेषु व्याडसंघा विचेरुर् न च मनसि विषादो न च खेदो बभूव || GओŚव्_५४ ||
SK
यद् अपहृतम् अनार्यैस् तस्य मांसं शरीराद् यदि तद् अपरिशेषं पिण्डितं स्यात् कथं चित् | गिरिम् अपि स सुमेरुं लङ्घयेन् मांसराशिर् न च मनसि विषदो न च खेदो बभूव || GओŚव्_५५ ||
SK
क्षयम् उपययुर् अङ्गेष्व् एव शस्त्राणि तस्य प्रकृतिमृदुषु साधोर् अक्षताध्याशयस्य | अभिरुचितपरार्थप्रीतिसंभोगशान्ते न च मनसि विषादो न च खेदो बभूव || GओŚव्_५६ ||
SK
ये चास्य रक्तैर् विलिलेपुर् अङ्गा ते रेजिरे रोगविषादमुक्ताः | ये चापि रक्तानि पपुः सरोगास् ते सर्वलोकाः पुपुषुर् विरोगाः || GओŚव्_५७ ||
SK
जनम् अपगतरोगं वीक्षमाणस्य हर्षो मनसि भुवनबन्धोर् लब्धगाधो बभूव | पिशितम् अनुपयोगं वीक्षमाणस्य भूयो ऽप्य् अभवद् अरतिदोलं चञ्चलं तस्य चेतः || GओŚव्_५८ ||
SK
उत्कृत्तचर्मपटलस्फुटताम्रमांसो रन्ध्रोद्वमद्रुधिरशेषविशेषताम्रः | कायः स तस्य विकृतः कृतनिश्चयस्य रेजे जवाकुसुमराशिर् इवाभ्रचुम्बी || GओŚव्_५९ ||
SK
विच्छिद्यमानः सुनिशातशस्त्रैस् तद् दुःखम् एकाश्रयम् ईक्षमाणः | सुखेन दुःखं स निराचकार लब्ध्वा परत्रात्मनि चैकमत्यम् || GओŚव्_६० ||
SK
परिणामखरा बताधमाया गतिर् आत्माभिनिवेशवासनायाः | उपदिग्धधियो यया मनुष्याः पितृभूतेष्व् अपि साधुषु स्खलन्ति || GओŚव्_६१ ||
SK
एतस्य मांसं बुभुजे कृपालोर् यो यः स स व्याधिम् अपाचकार | क्रमेण कृच्छ्रं जगद् उत्ततार विपत्समुद्रं तद् अनेन कृत्स्नम् || GओŚव्_६२ ||
SK
अथ सर्व एव लोको विगतनिखिलरोगोपसर्गस् तस्मिन् महासत्त्वे समुपजातप्रेमगौरवबहुमानः प्रणम्य श्वानं बोधिसत्त्वम् अब्रवीत् ||
SK
अहो कृपाभ्यासविशेषभद्रता गुणेष्व् अहो भक्तिर् अपेतकल्मषा | अहो परार्थप्रतिपत्तिपेशलं तवार्य कर्मेदम् अतीतमानुषम् || GओŚव्_६३ ||
SK
अहो जगच्छ्रेष्ठमहादयार्द्रता अहो स्वसौख्यव्यवसायनिःस्पृहा | शुभेष्व् अहो निश्चयनिश्चलं मनो मनस्विनां बोधिपथानुपातिनाम् || GओŚव्_६४ ||
SK
अहो बताचिन्त्यम् उपायकौशलम् अहो परार्थे ऽभिरतेर् उदात्तता | अचिन्त्यचर्यातिशयाय साधवे नमो ऽस्तु तुभ्यं जगदेकबन्धवे || GओŚव्_६५ ||
SK
त्वं नः पिता यदि पिता त्वम् इवार्थकामः शास्ता त्वम् एव यदि धर्मगुरुस् त्वम् एव | त्वम् दैवतं यदि न तज् जनवादमात्रम् आर्तायनं तु जगतः परमं त्वम् एव || GओŚव्_६६ ||
SK
तस्माद् आज्ञाभिषेकेण पवित्रयितुम् अर्हसि | उपदिग्धम् इमं लोकं युष्मदायासचेतसा || GओŚव्_६७ ||
SK
अथ बोधिसत्त्वः समुपजातप्रसादमानसम् अवगम्य तम् एनम् अब्रवीत् ||
SK
पीडा ममेयम् इति नैवम् इदं प्रधार्यं सत्त्वार्थम् एव गतिचक्रचलस्य नित्यम् | पीडा ममाभवद् उदीक्ष्य विपत्परीतान् युष्मान् निरामयसुखं त्व् अधुना मनो मे || GओŚव्_६८ ||
SK
कृत्यं न मे परहिताद् अपरं गरीयः संसारचारकनिबन्धनम् एतद् एव | तस्मात् कुकार्यमलिनाम् अतिलङ्घ्य चर्यां मत्प्रीतये सततम् आत्महितं कुरुध्वम् || GओŚव्_६९ ||
SK
लोकान् इमान् स्वकृतकर्मभुजो विदित्वा मृत्योर् अपर्वपरुषस्य करोदरस्थान् | पापान्य् असह्यपरितापफलोदयानि प्राणात्यये ऽपि परिवर्जयितुं यतध्वम् || GओŚव्_७० ||
SK
स्वन्तान्य् अनाशरमणीयफलप्रदानि जन्माटवीगहनपथ्यदनोपमानि | पुण्यानि संचिनुत मत्प्रतिकारबुद्ध्या कल्याणमित्रवचनं हि न लङ्घनीयम् || GओŚव्_७१ ||
SK
इति समनुशिष्य प्राणिनस् तान् महात्मा निशितपरशुधाराजर्जरक्लान्तदेहः | अवसितकरणीयः पर्युदस्यात्मभावं तम् अतिविकृतरूपं स्वर्गम् एवारुरोह || GओŚव्_७२ ||
SK
इति जगदुपजीव्या उत्तमश्रीसमुद्रा विपदशनिनिपातव्याहता व्युष्टियोगात् | विगतजलदपङ्कव्योमपर्यन्तदीर्घाः शशिन इव मयूखा लोकम् उत्तारयन्ति || GओŚव्_७३ ||
SK
|| इति श्रीजातकमालायां श्वजातकं त्रिचत्वारिंशत्तमं समाप्तम् ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Gopadatta: Jātakamālā (sa_gopadatta-jAtakamAlA.htm).

Source