The Sutra on the Perfection of Wisdom of the Kauśika

Kauśikaprajñāpāramitāsūtra · Kऔशिकप्रज्ञापारमितासूत्र

The Sutra on the Perfection of Wisdom of the Kauśika

Kauśikaprajñāpāramitāsūtra

Kऔशिकप्रज्ञापारमितासूत्र

SK
Kऔशिकप्रज्ञापारमितासूत्रम् |
SK
नमो सर्वबुद्धबोधिसत्त्वेभ्यः ||
SK
एवं मया श्रुतम् | एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धमनेकैश्च बोधिसत्त्वशतसहस्रैः सर्वैः कुमारभूतैः | तत्र खलु भगवान् शक्रं देवानामिन्द्रमामन्त्रयते स्म ||
SK
अयं कौशिक प्रज्ञापारमितायाः अर्थः - प्रज्ञापारमिता न द्वयेन द्रष्टव्या न अद्वयेन | न निमित्ततो न अनिमित्ततः | न आयूहतो न निरायूहतः | नोत्क्षेपतो न प्रक्षेपतः | न संक्लेशतो न असंक्लेशतः | न व्यवदानतो न अव्यवदानतः | नोत्सर्गतो न अनुत्सर्गतः | न स्थानतो न अस्थानतः | न योगतो न अयोगतः | न संबन्धतो न असंबन्धतः | न प्रत्ययतो न अप्रत्ययतः | न धर्मतो न अधर्मतः | न तथत(या) न अतथत(या) न भूतकोट्या न अभूतकोट्या(वेदि)तव्या ||
SK
एवमेवायं स कौशिक प्रज्ञापारमितायाः अर्थः | तद्यथा सर्वधर्मसमत्वात् प्रज्ञापारमिता समा | सर्वधर्मविविक्तत्वात् प्रज्ञापारमिता विविक्ता | सर्वधर्माचलत्वात् प्रज्ञापारमिता अचला | सर्वधर्मामन्यत्वात् प्रज्ञापारमिता अमन्यता | सर्वधर्माभीरुत्वात् प्रज्ञापारमिता अभीरु | सर्वधर्माच्छम्भिततया प्रज्ञापारमिता अच्छम्भी | सर्वधर्मैकरसत्वात् प्रज्ञापारमिता एकरसा | सर्वधर्मानुत्पादत्वात् प्रज्ञापारमिता अनुत्पादा | सर्वधर्मानिरोधत्वात् प्रज्ञापारमिता अनिरोधा | गगनकल्पत्वात् सर्वधर्माणां प्रज्ञापारमिता गगनकल्पा | रूपापर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता | एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता | पृथिवीधात्वपर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता | एवमब्धातु - तेजोधातु - वायुधातु - आकाशधातु - विज्ञानधात्वपर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता | सुमेर्वपर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता | समुद्रापर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता | वज्रसमत्वात् प्रज्ञापारमिता समा | सर्वधर्माभेदत्वात् प्रज्ञापारमिता अभेदा | सर्वधर्म(स्वभावा)नुपलब्धित्वात् प्रज्ञापारमिता अनुपलब्धिः | सर्वधर्मविभाव(ना) - समत्वात् प्रज्ञापारमिता(अ)विभाव(ना) - समा | सर्वधर्मनिश्चेष्टत्वात् प्रज्ञापारमिता निश्चेष्टा | सर्वधर्माचिन्त्यत्वात् प्रज्ञापारमिता अचिन्त्येति ||
SK
एवं दानपारमिता - शीलपारमिता - क्षान्तिपारमिता - वीर्यपारमिता - ध्यानपारमिता - प्रज्ञापारमितात्रिमण्डलपरिशुद्ध्यपर्यन्तत्वात् प्रज्ञापारमिता अपर्यन्ता इति ||
SK
प्रज्ञापारमिता उच्यते यदुत अष्टादशशून्यता | तद्यथा - आध्यात्मशून्यता बहिर्धाशून्यता आध्यात्माबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमा(र्थ)शून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनाद्यग्रशून्यता (अन)पकारशून्यता प्रकृतिशून्यता स्वलक्षणशून्यता सर्वधर्मशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता इति | अयमुच्यते संक्षिप्तेन प्रज्ञापारमितेति ||
SK
(Kऔश्, Vऐद्य ९६) तारका तिमिरं दीपो मायावश्याय बुद्धुदम् | सुपिनं विद्युदभ्रं च एवं द्रष्टव्य संस्कृतमिति ||
SK
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् | अनेकार्थमनानार्थमनागममनिर्गमम् ||
SK
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् | देशयामास संबुद्धस्तं वन्दे वदतां वरम् ||
SK
नमो दशसु दिक्षु सर्वेषामतीतानागतप्रत्युत्पन्नानां त्रयाणां रत्नानाम् | नमो भगवत्यै प्रज्ञापारमितायै सर्वतथागतसुनिभायै सर्वतथागतानुज्ञातविज्ञातायै |(ॐ) प्रज्ञे महाप्रज्ञे प्रज्ञावभासे प्रज्ञालोककारि अज्ञानविधमने सिद्धे सुसिद्धे सिद्ध्यमने(भ)गवते सर्वाङ्गसुन्दरि(भ)क्तिवत्सले प्रसारहस्ते समाश्वासकरे सिध्य सिध्य, बुध्य बुध्य, कम्प कम्प, चल चल, राव राव, आगच्छ भगवते मा विलम्ब स्वाहा ||
SK
नमो धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य महाकारुणकस्य ||
SK
नमो प्रज्ञापारमितायै | तद्यथा - मुनिधर्मे संग्रहधर्मे अनुग्रहधर्मे विमोक्षधर्मे सत्त्वानुग्रहधर्मे वैश्रमणधर्मे समन्तनुपरिवर्तनधर्मे गुणिग्रहसंग्रहधर्मे सर्वत्रानुगतधर्मे सर्वकालपरिपूर्णधर्मे स्वाहा ||
SK
नमो प्रज्ञापारमितायै | तद्यथा - अखने निखने मुखन नेखने(अवरवन्दने) पटने पटने पटरे स्वाहा ||
SK
नमो प्रज्ञापारमितायै | तद्यथा - गङ्गा गङ्गा न तीरावभास गङ्गा स्वाहा ||
SK
नमो प्रज्ञापारमितायै | तद्यथा श्रीये श्रीये मुनि श्रीये श्रीयसे स्वाहा ||
SK
नमो प्रज्ञापारमितायै | तद्यथा - ॐ वज्रबले स्वाहा ||
SK
नमो प्रज्ञापारमितायै | तद्यथा - ॐ ह्री श्री धी श्रुति स्मृति मति गति विजये स्वाहा ||
SK
नमो प्रज्ञापारमितायै | तद्यथा - बम्बरि बम्बरि महाबम्बरि बूरु बूरु महाबूरु स्वाहा ||
SK
नमः प्रज्ञापारमितायै | तद्यथा - हूते हूते हूविताशने सर्व - कर्मावरणने स्वाहा
SK
|| नमः प्रज्ञापारमितायै | तद्यथा - ॐ ओरोलिक् स्वाहा ||
SK
नमो प्रज्ञापारमितायै | तद्यथा - ॐ सर्ववित् स्वाहा ||
SK
नमः प्रज्ञापारमितायै | तद्यथा - गते गते पारगते पारसंगते बोधि स्वाहा ||
SK
इदमवोचद्भगवान् | आत्तमना आयुष्मान् सारिपुत्रः शक्रो देवानामिन्द्रस्ते च बोधिसत्त्वा महासत्त्वाः सा च सर्वावती पर्षद् सदेवगन्धर्वमानुषासुरश्च लोको भगवतो भाषितमभ्यनन्दन् ||
SK
कौशिकनाम प्रज्ञापारमिता समाप्ता ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kauśikaprajñāpāramitāsūtra (sa_kauzikaprajJApAramitAsUtra.htm).

Source