Essence of Sāṃkhya Sāṃkhyasāra
Sआंख्यसार
1 SK साङ्ख्यसारः / पूर्वभागः / प्रथमः परिच्छेदः /
2 SK महदाख्यः स्वयम्भूर्यो जगदङ्कुर ईश्वरः / सर्वात्मने नमस्तस्मै विष्णवे सर्वजिष्णवे // VइSस्_१,१.१ //
3 SK साङ्ख्यकारिकया लेशादात्मतत्त्वं विवेचितम् / साङ्ख्यसारविवेको ऽतो विज्ञानेन प्रपञ्च्यते // VइSस्_१,१.२ //
4 SK प्रायः सङ्कलिता साङ्ख्यप्रक्रिया कारिकागणे / सा ऽतो ऽत्र वर्ण्यते लेशात् तदनुक्तांशमात्रतः // VइSस्_१,१.३ //
5 SK साङ्ख्यभाष्ये प्रकृत्यादेः स्वरूपं विस्तरान् मया / प्रोक्तं तस्मात् तदप्यत्र सङ्क्षेपादेव वक्ष्यते // VइSस्_१,१.४ //
6 SK आत्मानात्मविवेकसाक्षात्कारात् कर्तृत्वाद्यखिलाभिमाननिवृत्त्या तत्कार्यरागद्वेषधर्माधर्माद्यनुत्पादात् पूर्वोत्पन्नकर्मणां चाविद्यारागादिसहकार्युच्छेदरूपदानेन विपाकानारम्भकत्वात् प्रारब्धसमाप्त्यनन्तरं पुनर्जन्माभावेन त्रिविधदुःखात्यन्तनिवृत्तिरूपो मोक्षो भवतीति श्रुतिस्मृतिडिण्डिमः / तत्र श्रुतयः / अथाकामयमानो यो ऽकामो निष्कामो न तस्य प्राणा उत्क्रामन्तीहैव समवलीयन्ते / आत्मानं चेद्विजानीयादयमस्तीति पूरुषः / किमिच्छन् कस्य कामाय शरीरमनुसञ्चरेत् //
7 SK यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः / अथ मर्त्यो ऽमृतो भवत्यत्र ब्रह्म समश्नुते //
8 SK कामान् यः कामयते मन्यमानः स कर्मभिर्जायते तत्र तत्र / पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः //
9 SK इत्याद्याः / स्मृतयश्च कौर्माद्याः / यथा कौर्मे / रागद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः / कार्यो ह्यस्य भवेद्दोषः पुण्यापुण्यमिति श्रुतिः //
10 SK तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः / इति / मोक्षधर्मे च / इन्द्रियाणीन्द्रियार्थाश्च नोपसर्पन्त्यतर्षुलम् / हीनश्च करणैर्देही न देहं पुनरर्हति //
11 SK तस्मात् तर्षात्मकाद् रागाद् बीजाज्जायन्ति जन्तवः / इति / ननु रागाभावे ऽपि केवलकर्मवशान्नरकादिप्राप्तेः कथं रागस्य कर्मसहकारित्वं विपाकारम्भ उपपन्नम् / नरकादौ विशेषतो रागाभावे ऽपि सामान्यतो रागसत्त्वात् / निषिद्धस्त्र्यादिगामिनां स्त्र्यादिरागादेव तप्तलोहमयनारीसमालिङ्गनादिरूपनरकोत्पत्तेः / यद्यप्यविद्यास्मितारागद्वेषभयाख्यं क्लेशपञ्चकमेव जन्मादिविपाकारम्भे कर्मणां सहकारि भवति / तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषिक्तमस्य / इति श्रुतावभिमानरागद्वेषादिजन्यस्य विषयवासनाख्यसङ्गसामान्यस्यैव जन्मादिविपाकारम्भे कर्मसहकारित्वसिद्धेः / यत्र यत्र मनो देही धारयेत् सकलं धिया / स्नेहाद्द्वेषाद्भयाद्वा ऽपि याति तत्तत्सरूपताम् //
12 SK इत्यादिस्मृतेश्च / तथा च क्लेशमूलः कर्माशयः / सति मूले तद्विपाको जात्यायुर्भोगा इति योगसूत्राभ्यामप्यदृष्टे तद्विपाकारम्भे च क्लेशानां हेतुत्ववचनाच्च / तथा ऽप्यविद्यास्मितासत्त्वे रागस्यावश्यकत्वाद्द्वेषभययोश्च रागमूलकत्वाद्राग एव मुख्यतो जन्मादिहेतुतया यथोक्तवाक्यैर्निर्दिश्यत इति / ननु / क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे / इत्यादिश्रुतेर्ज्ञानस्य प्राचीनकर्मनाशकत्वमेवोचितं दाहकत्वं कथमिष्यत इति चेन्न / ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः / इत्यादिवाक्यैर्दाहस्यापि श्रवणेन लाघवाद्दाहपरत्वस्यैव नाशादिवाक्येष्वपि कल्पनौचित्यात् / कर्मणां दाहश्च क्लेशाख्यसहकार्युच्छेदेन नैष्फल्यम् / कर्मणां नाशस्तु प्रारब्धभोगान्ते चित्तनाशादेव भविष्यति / अतो लोकसिद्धेनाविद्यानाशेनैव द्वारेण कर्मफलानुत्पत्तिसम्भवान्न ज्ञानस्य कर्मनाशकत्वं गौरवादित्यादिकं योगवार्त्तिके प्रप्रञ्चितमस्माभिरिति दिक् / तस्माद्विवेकसाक्षात्कारादविद्यास्मितारागादिक्लेशनिवृत्तौ त्रिविधदुःखात्यन्तनिवृत्तिरूपपरमपुरुषार्थः सिद्ध्यतीत्युपपन्नम् / तथा च योगसूत्रद्वयम् / हेयं दुःखमनागतम् / विवेक्ख्यातिरविप्लवा हानोपाय इति /
13 SK इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे ऽभ्यर्हितत्त्वादादौ विवेकख्यातिफलस्य परमपुरुषार्थस्य परिच्छेदः // * //
14 SK अथ द्वितीयः परिच्छेदः
15 SK अथात्मानात्मविवेकज्ञानस्य किं स्वरूपं तदुच्यते / आत्मा तावत् सुखदुःखाद्यनुभवितेति सामान्यतो लोकप्रसिद्धिः अनात्मा च प्रकृत्यादिर्जडवर्गः तयोरन्योन्यवैधर्म्येण परिणामित्वापरिणामित्वादिरूपेण दोषगुणात्मकेन हेयोपादेयतया पृथक्त्वेन ज्ञानं विवेकज्ञानम् / तथा च श्रुतिः / स एष नेति नेत्यात्मा ऽगृह्यो न हि गृह्यते ऽशीर्यो न हि शीर्यते ऽसङ्गो न हि सज्यते ऽसितो न व्यथते न रिष्यतीत्यादि / स्मृतिश्च / सो ऽथ प्रतिनिवृत्ताक्षो गुरुदर्पणबोधितः / स्वतो ऽन्यां विक्रियां मौढ्यादास्थितामञ्जसैक्षत //
16 SK अथासौ प्रकृतिर्नाहमियं हि कलुषात्मिका / शुद्धबुद्धस्वभावो ऽहमिति त्यजति तां विदन् //
17 SK एवं देहेन्द्रियादिभ्यः शुद्धत्वेनात्मनि स्मृते / निखिला सविकारेयं त्यक्तप्राया ऽहिचर्मवत् //
18 SK इति / सूत्रं च / एवं तत्त्वाभ्यासान्नेति नेतीति त्यागाद्विवेकसिद्धिरिति / तत्त्वज्ञानस्य लक्षणं च मात्स्ये कृतम् / अव्यक्ताद्ये विशेषान्ते विकारे ऽस्मिंश्च वर्णिते / चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते //
19 SK इति / यद्यप्यन्योन्यभेदज्ञानमेव विवेकज्ञानं तथाप्यात्मविशेष्यकमेव तन्मोक्षकारणं भवति / आत्मा वा ऽरे द्रष्टव्य इत्यादि श्रुतिस्मृतिभ्यः / नन्वनात्मन्यात्मबुद्धिरूपा या ऽविद्या पातञ्जलादिषूक्ता तस्याः कथमात्मविशेष्यकविवेकज्ञाननाश्यत्वं प्रकारादिभेदादिति चेन्न / तादृशाविद्याया अनात्मविशेष्यकविवेकज्ञानद्वारेणात्मविशेष्यकविवेकज्ञाननाश्यत्वादिति / यच्च योगेन निर्विकल्पकमात्मज्ञानं जायते तद्विवेकज्ञानद्वारैव मोक्षकारणं भवति न तु साक्षादविद्यानिवर्तकत्वाभावात् / अहं गौरः कर्ता सुखी दुःखीत्यादि ज्ञानमेव ह्यविद्या संसारानर्थहेतुतया श्रुतिस्मृतिन्यायसिद्धा तस्याश्च निवर्तिका नाहं गौर इत्यादिरूपा विवेकख्यातिरेव भवति / समाने विषये ग्राह्याभावत्वप्रकारकग्राह्याभावज्ञानत्वेनैव विरोधात् / अन्यथा शुक्तनिर्विकल्पकस्यापि इदं रजतमिति ज्ञानविरोधित्वापत्तेः / किञ्च यतोक्ताभावज्ञाने ग्राह्यज्ञानविरोधित्वस्यावश्यकतया निर्विकल्पकज्ञानस्य भ्रमनिवर्तकत्वं न पृथक् कल्प्यते गौरवात् / अपि चाथा ऽत आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्तीत्यादिश्रुत्या विवेकोपदेशापेक्षयोत्तमोपदेशो नास्तीत्युच्यते / क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा / भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् //
20 SK इति गीतादिवाक्यैश्च विवेकज्ञानस्यैव मोक्षहेतुत्वमुच्यते / अतो विवेकज्ञानमेव साक्षादविद्यानिवृत्त्या मोक्षहेतुः / योगेन केवलात्मसाक्षात्कारस्तु योग्यानुपलब्धिविधयोपाध्यादिगतधर्माभावमुपाध्यादिभेदं च ग्राहयति ततो ऽविद्यानिवृत्तिरिति / एतेन सर्वभूतेषु समताज्ञानमात्मनः सर्वात्मकत्वादिज्ञानं च श्रुतिस्मृत्योर्गीयमानं विवेकज्ञानस्यैव शेषभूतं सर्वदर्शनेषु मन्तव्यम् / ज्ञानान्तराणां साक्षादभिमानानिवर्तकत्वात् / ब्रह्ममीमांसायां त्वयं विशेषो यत् परमात्मविवेकशेषत्वम् / साङ्ख्यशास्त्रे तु सामान्यात्मविवेकशेषत्वमिति दिक् / ननु यथोक्तविवेकख्यातितो ऽप्यत्यन्तमविद्योच्छेदो न घटते / विवेकख्यातेरविद्याप्रतिबन्धकत्वमात्रत्वेन विवेकख्यातिनाशोत्तरं पुनरभिमानसम्भवात् / शुक्तिरजतविवेकदर्शिनो ऽपि कालान्तरे शुक्तौ रजतभ्रमवदिति / मैवम् / दृष्टान्तवैषम्यात् / शुक्त्यादिषु जाते ऽपि साक्षात्कारे दूरत्वादिरूपविषयदोषाणां पटलादिरूपकरणदोषाणां चोत्पत्तिसम्भवेन पुनर्भ्रमो युक्तः / अनात्मन्यात्माभिमाने त्वनादिवासनैव दोषः सर्वास्तिकसम्मतः जातमात्रस्याभिमाने दोषान्तरानुपलब्धेः / सा मिथ्याज्ञानवासना यदा विवेकख्यातिपरम्पराजन्यदृढवासनोन्मूलिता तदैव विवेकसाक्षात्कारनिष्ठोच्यते / तत्पूर्वमवश्यं वासनालेशतो मिथ्यांशस्य कस्याप्यात्मनि भावात् तस्यां च विवेकख्यातिनिष्ठायां जातायां न पुनरभिमानः सम्भवति वासनाख्यदोषाभावादिति तु महद्वैषम्यम् / यदि तु बुद्धिपुरुषयोरन्योन्यप्रतिबिम्बनादिकमविवेककारणं दोष इष्यते तदा तु तद्दोषं बाधित्वैव विवेकसाक्षात्कार उदित इति न तस्य पुनर्भ्रमहेतुत्वं फलबलेन योगजधर्मासहकृतस्यैव तस्य दोषत्वकल्पनासम्भवादिति / विवेकख्यातिनिष्ठा च गीतादिषु लक्षिता / प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव / न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति //
21 SK उदासीनवदासीनो गुणैर्यो न विचाल्यते / सर्वारम्भपरित्यागी गुणातीतः स उच्यते //
22 SK इति / गुणातीतो निवृत्तगुणाभिमानः / अधिकं तु ज्ञानिलक्षणमग्रे वक्ष्यामः / नन्वेवमपि विवेकप्रतियोगिपदार्थानामानन्त्येन प्रातिस्विकरूपैः सर्वपदार्थेभ्यो विवेकग्रहासम्भवात् कथं विवेकख्यातेर्मोक्षहेतुत्वमिति चेन्न / दृश्यत्वपरिणामित्वादिसामान्यरूपैर्विवेकग्रहसम्भवात् / तथा हि / द्रष्टा स्वसाक्षात्प्रकाशेभ्यो भिन्नः प्रकाशकत्वाद्यो यस्य प्रकाशकः स तस्माद्भिन्नः यथा घटादालोको वृत्तिप्रकाश्याच्च वृत्तिरित्यनुमानेनादावन्तर्दृश्येभ्यो बुद्धिवृत्तितदारूढार्थेभ्यो विवेकतो बुद्धीसाक्षी सिध्यति / कर्मकर्तृविरोधश्चानुकूलस्तर्कः / अत्र आत्मनि व्यभिचारवारणाय साक्षात्पदम् / वृत्तिद्वारैवात्मनः स्वविषयत्वात् / नन्वत्रानुमाने बुद्धिवृत्तिमात्राद्विवेकः सिध्यतु / तस्या एव साक्षदात्मदृश्यत्वात् न प्रकृत्यादिभ्य इति चेन्न / वृत्तीनामज्ञातसत्त्वाभावेन ह्यत्रानुमाने लाघवाद्वक्ष्यमाणतर्कगणाच्चाखिलवृत्तीनां द्रष्टा विभुकूटस्थनित्यैकज्ञानस्वरूपतयैव सिध्यति / यथा नैयायिकानां क्षितिः सकर्तृका कार्यत्वादित्यनुमाने लाघवात् कर्तुरेकत्वनित्यत्वादिकं तद्वत् / तत्र विभुत्वं परिच्छिन्नभिन्नत्वं कूटस्थत्वादिकत्वं च परिणामिभिन्नत्वादिकमतो बुद्ध्यात्मनोर्दृग्दृश्यरूपतो विवेकग्रहे सति तदुत्तरानुमानेन परिणामित्वापरिणामित्वादिरूपैः सामान्यतो ऽप्यात्मानात्मविवेकग्रहो घटत इति / अतएव पातञ्जले सत्त्वपुरुषान्यताख्यातिरेव मोक्षहेतुतया स्थले स्थले व्यासभाष्ये प्रोक्ता / सत्त्वपुरुषान्यताख्यातिरूपदृग्दृश्यविवेकग्रहोत्तरं यथोक्तरीत्या प्रकृत्यादिविवेकग्रहात् / तत्र च सत्त्वशब्दे बुद्धिस्थत्वेन बुद्धिसत्त्वमुक्तमिति / एवं च प्रकृत्यादिपदार्थानां विशिष्यज्ञानाभावे ऽपि तद्विवेकज्ञानं घटते / एतेन दृग्दृश्यविवेकादविद्यानिवृत्तिरिति प्राचां प्रवादो ऽप्युपपादितः / किञ्चात्मा प्रकृतितत्कार्येभ्यो भिन्नो ऽपरिणामित्वादित्याद्यनुमानैरपि सामान्यतो दृश्यविवेको द्रष्टरि सम्भवतीति / यत्त्वाधुनिका वेदान्तिब्रुवा दृश्यत्वेनैव प्रकृत्यादीनां द्रष्टृत्वेन च प्रकृत्याद्यखिलजडेभ्य आत्मविवेकं मन्यन्ते / घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा / देहद्रष्टा तथा देहो नाहमित्यादिरूपतः //
23 SK तन्न / आत्मा वा ऽरे द्रष्टव्य इत्यादिश्रुतिभिरात्मनो ऽपि दृश्यत्वात् साक्षाद्दृश्यत्वविवक्षया च प्रकृत्यादेरसङ्ग्रहात् करणद्वारैव तद्दर्शनात् / अथैवं कल्पनीयं आत्मनो वृत्तिव्याप्यत्वमेव दृश्यत्वं श्रुत्यादिभिर्विधीयते न तु प्रकाश्यत्वरूपफलव्याप्यत्वम् / स्वयम्प्रकाशस्वरूपस्य प्रकाशापेक्षाविरहात् / अतो ऽत्र दृश्यत्वं प्रकाश्यत्वं तच्चात्मनि नास्तीति तदपि तुच्छम् / यथा ह्यहमित्यनुभूयमानो ऽप्यात्मा चैतन्याख्यफलव्याप्यो न भवतीति भवद्भिरुच्यते तथैव बौद्धैरपीष्यते सुखदुःखादिमत्त्वेनापि बुद्धिः स्वप्रकाशतया चैतन्यव्याप्या न भवतीति / तथा चात्मनीव बुद्धावपि दृश्यत्वासिद्ध्या दृश्यत्वेन रूपेण बुद्धिविवेको ऽत्यन्तापेक्षितो ऽपि न सिध्यतीति भाष्यादिषु चान्यान्यत्र दूषणान्युक्तानीति दिक् / ननु सम्भवत्येवं सामान्यरूपेण विवेकग्रहः / तथापि सामान्यान्येव बहूनि सन्ति परिणामित्वसंहत्यकारित्वसुखदुःखमोहात्मकत्वचतुर्विंशतितत्त्वत्वादीन्यतस्तैस्तै रूपैर्विवेकग्रहाणां मोक्षहेतुत्वे ऽननुगमदोष इति चेन्न / अभिमानप्रतिबन्धकज्ञानत्वेनैवानुगमादिति / अथैवं सामान्यरूपेण विवेकस्यैव सर्वाभिमाननिवर्तकतया नाहं देहो नेन्द्रियाणित्यादिप्रत्येकरूपैर्विवेकग्रहाणां मोक्षहेतुत्वं श्रुतिस्मृत्योरुच्यमानं कथं घटेतेति चेन्न / अवान्तरविवेकानां सामान्यविवेकप्रपञ्चमात्रत्वादिति //
24 SK इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे मोक्षहेतुविवेकज्ञानस्य स्वरूपस्य परिच्छेदः // * //
25 SK अथ तृतीयः परिच्छेदः /
26 SK अथ के ते प्रकृत्यादयो येभ्यः पुरुषो विवेचनीय इत्युच्यते / प्रकृतिर्बुद्ध्यहङ्कारौ तन्मात्रैकादशेन्द्रियम् / भूतानि चेति सामान्याच्चतुर्विंशतिरेव ते //
27 SK एतेष्वेव धर्मधर्म्यभेदेन गुणकर्मसामान्यानामन्तर्भावः / तत्र प्रकृतित्वं साक्षात् परम्परया ऽखिलविकारोपादानत्वं प्रकृष्टाकृतिः परिणामरूपा ऽस्या इति व्युत्पत्तेः / प्रकृतिः शक्तिरजा प्रधानमव्यक्तं तमो माया ऽविद्येत्यादयः प्रकृतेः पर्यायाः / ब्राह्मीति विद्या ऽविद्येति मायेति च तथा परे / प्रकृतिश्च परा चेति वदन्ति परमर्षयः //
28 SK इति स्मृतेः / सा च साम्यावस्थयोपलक्षितं सत्त्वादिद्रव्यत्रयम् / कार्यसत्त्वादिवारणायोपलक्षितान्तम् / साम्यावस्था च न्यूनाधिकभावेनासंहननावस्था अकार्यावस्थेति यावत् / महदादिकं तु कार्यसत्त्वादिकं न कदा ऽप्यकार्यावस्थं भवतीति तद्व्यावृत्तिः / वैषम्यावस्थायामपि प्रकृतित्वसिद्धय उपलक्षितमित्युक्तम् / अकार्यमिति तूपलक्षितान्तस्य निष्कृष्टार्थः / सत्त्वादिगुणवती सत्त्वाद्यतिरिक्ता प्रकृतिरिति न शङ्कनीयम् / सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति साङ्ख्यसूत्रेण सत्त्वादीनां प्रकृतिस्वरूपहेतुना प्रकृतिधर्मत्वप्रतिषेधात् / योगसूत्रतद्भाष्याभ्यामपि गुणानामेव प्रकृतित्ववचनाच्च / गुणेभ्य एव कार्योत्पत्तौ तदन्यप्रकृतिकल्पनावैयर्थ्याच्च / प्रकृतेर्गुणा इत्यादिवाक्यं तु वनस्य वृक्षा इतिवद् बोध्यम् / सत्त्वं रजस्तम इति प्रकृतेरभवन् गुणाः / इति सत्त्वादीनां प्रकृतिकार्यत्ववचनं तु गुणनित्यतावाक्यविरोधेन महत्तत्त्वकारणीभूतकार्यसत्त्वादिपरमेव / महदादिसृष्टिर्हि गुणवैषम्यात् श्रूयते / तच्च वैषम्यं सजातीयसवलनेन गुणान्तरव्यावृत्तप्रकाशादिफलोपहितः सत्त्वादिव्यवहारयोग्यः परिणाम इति / एतेनाष्टाविंशतितत्त्वपक्षो ऽप्युपपादितो मन्तव्यः / वैषम्य एव सत्त्वादिव्यवहारश्च श्रुतौ दृश्यते / यथा तम एवेदमग्र आस तत्परेणेरितं विषमत्वं प्रयात्येतद् वै रजसो रूपं खल्वीरितं विषमत्वं प्रयात्येतद् वै सत्त्वस्य रूपमिति / सत्त्वादित्रयं च सुखप्रकाशलाघवप्रसादादिगुणवत्तया / संयोगविभागादिमत्तया ऽनाश्रितत्वोपादानत्वादिना च द्रष्टव्ये ऽपि पुरुषोपकरणत्वात् पुरुषबन्धकत्वाच्च गुणशब्देनोच्यते / इन्द्रियादिवत् / गुणानां सुखदुःखमोहात्मकत्वप्रवादस्तु धर्मधर्म्यभेदात् / मनसः सङ्कल्पात्मकत्ववत् / तत्र सत्त्वं सुखप्रसादप्रकाशाद्यनेकधर्मकं प्राधान्यतस्तु सुखात्मकमुच्यते / एवं रजो ऽपि दुःखकालुष्यप्रवृत्त्याद्यनेकधर्मकं प्राधान्यतस्तु दुःखात्मकमुच्यते / तथा तमो ऽपि मोहावरणस्तम्भनाद्यनेकधर्मकं प्राधान्यतस्तु मोहात्मकमुच्यते / त एव धर्मास्तेषां लक्षणानि भवन्ति / सत्त्वादिसञ्ज्ञा चान्वर्था / सतो भावः सत्त्वमुत्तमत्वमिति व्युत्पत्त्या हि धर्मप्राधान्येनोत्तमं पुरुषोपकरणं सत्त्वशब्दार्थः / मध्यमं च रजःशब्दार्थो रागयोगात् / अधमं च तमःशब्दार्थः / अधर्मावरणयोगात् / तानि च सत्त्वादीनि प्रत्येकमसङ्ख्यव्यक्तयः / लघुत्वादिधर्मैरन्योन्यसाधर्म्यं वैधर्म्यं च गुणानामिति साङ्ख्यसूत्रात् / अत्र हि सूत्रे लघुत्वादिना बहूनां सत्त्वानां साधर्म्यं तेनैव रजस्तमोभ्यां वैधर्म्यम् / एवं चलत्वादिना गुरुत्वादिना च बहूनां रजसां बहूनां च तमसां तदुभयमुक्तमिति / किञ्च यदि सत्त्वादित्रयमेकैकव्यक्तिरेव स्यात् तत् त्रयं विभ्वेव वक्तव्यम् / एकदा ऽनेकब्रह्माण्डादिसृष्टिश्रवणात् / तथा च कार्याणामनन्तवैचित्र्यं न घटते / न च संयोगवैचित्र्याद्वैचित्र्यं स्यादिति वाच्यम् / विभूनां त्रयाणां गुणानां स्वतः संयोगवैचित्र्यासम्भवात् / द्रव्यान्तरस्य चावच्छेदकीभूतस्याभावादिति / तस्मात् सत्त्वादीन्यसङ्ख्यव्यक्तिकान्येव द्रव्याणि / तेषु त्रित्ववचनं तु सत्त्वत्वादिविभाजकोपाधित्रयेण वैशेषिकाणां नवद्रव्यवचनवदिति सिद्धम् / तानि च सत्त्वादीनि यथायोग्यमणुविभुपरिमाणकानि / अन्यथा रजसश्चलस्वभावत्ववचनविरोधात् / आकाशकारणत्वस्य च विभुत्वौचित्यात् / सर्वेषां कारणद्रव्याणां विभुत्वे कार्याणां परिच्छिन्नत्वानुपपत्तेश्च / नन्वेवं वैशेषिकोक्तान्येव पार्थिवाण्वादीनि प्रकृतिरित्यायायमिति चेन्न / गन्धादिगुणशून्यत्वेन कारणद्रव्येषु पृथिवीत्वाद्यभावतो ऽस्माकं विशेषात् / तदुक्तं विष्णुपुराणादिषु //
29 SK अव्यक्तं कारणं यत् तत् प्रधानमृषिसत्तमैः / प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम् //
30 SK शब्दस्पर्शविहीनं तद्रूपादिभिरसंयुतम् / त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् //
31 SK इत्यादिना / वैशेषिकाणां कारणद्रव्येषु गन्धाद्यनुमानं तु भाष्ये ऽस्माभिर्निराकृतम् / अथैवमपि प्रकृतेरणुविभुसाधारणसत्त्वाद्यनेकव्यक्तिरुपत्वे ऽपरिच्छिन्नत्वैकत्वाक्रियत्वसिद्धान्तक्षतिरिति मैवम् / कारणद्रव्यत्वरूपप्रकृतित्वेनैवापरिच्छिन्नत्ववचनात् / गन्धत्वेन गन्धानां पृथिवीव्यापकतावत् / आकाशादिप्रकृतीनां विभुत्वेनैव प्रकृतिविभुत्वसिद्धान्तोपपत्तेश्च / तथा पुरुषभेदेन सर्गभेदेन च भेदाभावस्यैवैकशब्दार्थत्वात् / अजामेकामिति श्रुतितस्तथा ऽवगमात् / अथाध्यवसायाभिमानादिक्रियाराहित्यस्यैवाक्रियशब्दार्थत्वात् / अन्यथा श्रुतिस्मृतिषूक्तस्य प्रकृतिक्षोभस्यानुपपत्तेरिति / प्रकृतिगताश्चापरे विशेषा भाष्ये द्रष्टव्याः / प्रकृत्यनुमानं चेदम् / सुखदुःखमोहात्मकं महदादिकार्यं सुखदुःखमोहात्मकद्रव्यकार्यं सुखदुःखमोहात्मकत्वात् वस्त्रादिकार्यशय्यादिवदिति / श्रुतिस्मृती चात्रानुग्राहकस्तर्कः / एवं सामान्यतो ऽनुमितायाः प्रकृतेर्विशेषाः शास्त्राद्योगाच्चावगन्तव्याः / अनुमानस्य सामान्यमात्रविषयकत्वात् / नन्वन्तरेव सुखादिकमुपलभ्यते बाह्यवस्तुषु सुखादौ किं प्रमाणं येन दृष्टान्तता स्यादिति / उच्यते / अन्तःकरणस्य सुखादिहेतुतया विषयेषु सुखादिकं सिध्यति / न च रूपादिगतोत्तमत्वादिकमेव सुखाद्युत्पादने नियामकम् / उत्तमत्वादेर्जातिरूपत्वे नीलत्वपीतत्वादिना जातिसाङ्कर्यापत्तेः / कालादिभेदैरेकस्या एव रूपव्यक्तेः सुखदुःखोत्पादकत्वाच्च / अतः सुखादिमत्त्वमेवोत्तमत्वादिकम् / किञ्च घटरूपमिति प्रत्ययवत् स्त्रीसुखं चन्दनसुखमित्यादिप्रत्ययादपि विषये सुखाद्युचितम् / अधिकं तु भाष्ये द्रष्टव्यम् / तदेवं प्रकृतिर्निरूपिता / महत्तत्त्वं निरूप्यते / प्रकृतेः सकाशाद्बुद्ध्याख्यं महत्तत्त्वं जायते / तस्य धर्मादिरूपप्रकृष्टगुणयोगान् महत्सञ्ज्ञा तदेव च लक्षणम् / महान् बुद्धिः प्रज्ञेत्यादयश्च तस्य पर्यायाः / तथा चोक्तमनुगीतायाम् / महानात्मा मतिर्विष्णुर्जिष्णुः शम्भुश्च वीर्यवान् / बुद्धिः प्रज्ञोपलब्धिश्च तथा ब्रह्मा धृतिः स्मृतिः //
32 SK पर्यायवाचकैरेतैर्महानात्मा निगद्यते / सर्वतः पाणिपादश्च सर्वतो ऽक्षिशिरोमुखः //
33 SK सर्वतः श्रुतिमांल्लोके सर्वं व्याप्य स तिष्ठति / अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः //
34 SK ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः / विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत / विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः //
35 SK इति / अत्र सत्त्वाद्यंशत्रयेण महतो देवतात्रयोपाधित्वात् तदविवेकेन ब्रह्मविष्णुशिवत्ववचनम् / तदुक्तं विष्णौ / सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् / इति / मात्स्ये च / सविकारात् प्रधानात् तु महत्तत्त्वमजायत / महानिति यतः ख्यातिर्लोकानां जायते सदा //
36 SK गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो देवा विजज्ञिरे / एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः //
37 SK इति / अणिमेत्यादिभावनिर्देशो धर्मधर्म्यभेदात् / ब्रह्मशङ्करापेक्षया ऽप्यादौ विष्णुरूपेणैव महानाविर्भवतीति विष्णुरेवेत्यर्धेनोक्तम् / एकमेव महत्तत्त्वमंशतो रजस्तमःसम्भेदेन परिणतं सद् व्यष्टिजीवानामुपाधिरधर्मादियुक्तं क्षुद्रमपि भवति / महदुपरागाद्विपरीतमिति साङ्ख्यसूत्रात् / महत्तत्त्वस्य प्राधान्येनासाधारण्येन चाध्यवसायो वृत्तिः / महदहङ्कारमनस्त्रितयात्मकस्यान्तःकरणस्य महत्तत्त्वं बीजावस्थेति / अत्र प्रकृतेर्महान् महतो ऽहङ्कार इत्यादिसृष्टिक्रमे शास्त्रमेव प्रमाणम् / अनुमानेन सामान्यतः कार्याणां सकारणकत्वमात्रसिद्धेः न तु सृष्टौ भूतादिक्रमो वा ऽन्तःकरणादिक्रमो वेत्येकतरवधारकमनुमानं सम्भवति / स्पष्टलिङ्गाभावात् / श्रुतिस्मृत्यनुगृहीतं यथाकथञ्चिल्लिङ्गं तु महदादिक्रमे ऽस्तीति भाष्ये ऽस्माभिः प्रदर्शितम् / महत्तत्त्वं निरूपितम् / अहङ्कारो निरूप्यते / महत्तत्त्वादहङ्कार उत्पद्यते / अङ्कुरात् शाखावत् / तस्य चाभिमानवृत्तिकत्वादहङ्कारसञ्ज्ञा / कुम्भकारसञ्ज्ञावत् / तदेव लक्षणम् / तस्य च पर्यायाः कौर्मे प्रोक्ताः / अहङ्कारो ऽभिमानञ्च कर्ता मन्ता च संस्मृतः / आत्मा च प्रकुलो जीवो यतः सर्वाः प्रवृत्तयः //
38 SK इति / स चाहङ्कारस्त्रिविधतया त्रिविधकार्यहेतुः / तदुक्तं कौर्मे / वैकारिकस्तैजसश्च भूतादिश्चैव तामसः / त्रिविधो ऽयमहङ्कारो महतः सम्बभूव ह //
39 SK तैजसादिन्द्रियाणि स्युर्देवा वैकारिकाद्दश / एकादशं मनश्चात्र स्वगुणेनोभयात्मकम् //
40 SK भूततन्मात्रसर्गस्तु भूतादेरभवन् प्रजाः / इति / वैकारिकः सात्त्विकः / तैजसो राजसः / स्वगुणेनिन्द्रियवृत्तिषु साहाय्यरूपेणोत्कर्षेण / उभयात्मकं ज्ञानकर्मोभयेन्द्रियात्मकम् / अन्यत्रमना अभूवं ना ऽश्रौषमित्यादिश्रुत्या मनसो ज्ञानकर्मोभयेन्द्रियसहकारित्वसिद्धेरिति / एकादशेन्द्रियदेवाश्च / दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः / चन्द्रश्च इति / अहङ्कारो निरूपितः / इन्द्रियादीनि निरूप्यन्ते / अहङ्कारादादौ मन उत्पद्यते / शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः / रूपरागात् तथा चक्षुर्घ्राणं गन्धजिघृक्षया //
41 SK इत्यादिना मोक्षधर्मादाविन्द्रियादीनां मनोवृत्तिरागादिकार्यत्वश्रवणात् / ततश्चाहङ्कारात् सङ्कल्पपूर्वकं दशेन्द्रियाणि पञ्चतन्मात्रानि चोत्पद्यन्ते / इन्द्रियतन्मात्रयोश्च कार्यकारणभावस्याभावात् क्रमनियमो नास्ति / तत्रेन्द्रियेषु नास्त्यवान्तरकार्यकारणभावः प्रमाणाभावात् / तन्मात्रेषु त्वस्ति / स यथा / शब्दतन्मात्राद्वक्ष्यमाणक्रमेण स्पर्शतन्मात्रं शब्दस्पर्शोभयगुणकमेवं क्रमेणैकैकगुणवृद्ध्या परतन्मात्रत्रयं पूर्वपूर्वतन्मात्रेभ्य उत्पद्यते पातञ्जलभाष्ये तन्मात्रेषु क्रमेणैकैकगुणवृद्धिवचनात् / ततश्च पञ्चतन्मात्रेभ्यः पञ्चभूतानि जायन्ते / तत्राहङ्कारात् पञ्चतन्मात्राणां तद्द्वारा भूतानां चोत्पत्तौ क्रमः कूर्मविष्ण्वादिपुराणेषूक्तः / यथा कूर्मे / भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह / आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम् //
42 SK आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह / वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणो मतः //
43 SK इत्यादिक्रमेणेति / नन्वेवमाकाशादिभूतचतुष्टयस्यापि तत्त्वान्तरारम्भकत्वेन प्रकृतित्वापत्त्या केवलविकृतित्वसिद्धान्तक्षतिरिति चेन्न / आकाशादीनां स्पर्शादितन्मात्रेष्वहङ्कारोपष्टम्भमात्रेण कारणत्वस्य पुराणेषूक्तत्वादिति / तदेवं त्रयोविंशतितत्त्वानामुत्पत्तिरुक्ता / तत्र पञ्चभूतानि वर्जयित्वा ऽहङ्कारं च बुद्धौ प्रवेश्य सप्तदशकं लिङ्गशरीरसञ्ज्ञं भवति वह्नेरिन्धनवदात्मनो ऽभिव्यक्तिस्थानत्वात् / तच्च सर्वपुरुषाणां सर्गादावुत्पद्य प्राकृतप्रलयपर्यन्तं तिष्ठति / तेनैव चेहलोकपरलोकयोः संसरणं जीवानां भवति / प्राणश्च बुद्धेरेव वृत्तिभेद इत्यतो न लिङ्गशरीरात् पृथङ् निर्दिश्यते / तस्य लिङ्गशरीरस्य सूक्ष्माणि पञ्चभूतान्याश्रयश्चित्रादिवदाश्रयं विना परमसूक्ष्मस्य लोकान्तरगमनासम्भवात् / इदं च लिङ्गशरीरमादौ स्वयम्भुव उपाधिभूतमेकमेव जायते / तस्यैव विराडाख्यवक्ष्यमाणस्थूलशरीरवत् / ततश्च व्यष्टिजीवानामुपाधिभूतानि व्यष्टिलिङ्गशरीराणि तदंशभूतानि ततो विभज्यन्ते / पितुर्लिङ्गशरीरात् पुत्रलिङ्गशरीरवत् / तदुक्तं सूत्रकारेण / व्यक्तिभेदः कर्मविशेषादिति / मनुना ऽप्युक्तम् / तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् / सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे //
44 SK इति / षण्णामिति षडिन्द्रियं समस्तलिङ्गशरीरोपलक्षकम् / तथा च स्वयम्भूः स्वलिङ्गशरीरावयवान् सूक्ष्मान् अल्पान् आत्ममात्रासु स्वांशचेतनेषु संयोज्य सर्वप्राणिनः ससर्जेत्यर्थः / लिङ्गशरीरं निरूपितम् / स्थूलशरीरोत्पत्तिरुच्यते / दशगुणितमहत्तत्त्वमध्ये ऽहङ्कारो ऽहङ्कारस्यापि दशगुणितस्य मध्ये व्योम व्योम्नो ऽपि दशगुणितस्य मध्ये वायुर्वायोरपि दशगुणितस्य मध्ये तेजः तेजसो ऽपि दशगुणितस्य मध्ये जलं जलस्यापि दशगुणितस्य मध्ये पृथिवी समुत्पद्यते / सैव स्थूलशरीरस्य बीजम् / तदेव च पृथिवीरूपं बीजमण्डरूपेण परिणमते / तस्यापि दशगुणितस्याण्डरूपस्य पृथिव्यावरणस्य मध्ये चतुर्दशभुवनात्मकं स्वयम्भुवं स्थूलशरीरं तत्सङ्कल्पादेवोत्पद्यते / तेनैव शरीरेण स्वयम्भूर्नारायण इत्युच्यते / तदुक्तं मनुना स्वयम्भुवं प्रकृत्य / सो ऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः / अप एव ससर्जादौ तासु बीजमवासृजत् //
45 SK तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् / तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः //
46 SK स वै शरीरी प्रथमः स वै पुरुष उच्यते / आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत //
47 SK आपे नारा इति प्रोक्ता आपो वै नरसूनवः / ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः //
48 SK इत्यादिनेति / तत एव चादिपुरुषात् व्यष्टिपुरुषाणां विभागादन्ते च तत्रैव लयात् स एव चैक आत्मेति श्रुतिस्मृत्योर्व्यवह्रियते / अतो न व्यवहारपरतया नारायण एव सर्वभूतानामात्मेति श्रुतिस्मृतिविरोध इति / ततश्च स नारायणो विराट् शरीरी स्वनाभिकमलकर्णिकास्थानीयस्य सुमेरोरुपरि चतुर्मुखाख्यस्वयम्भुवं सृष्ट्वा तद्द्वारा ऽन्यानपि व्यष्टिशरीरिणः स्थावरान्तान् ससर्ज / तथा च स्मर्यते / तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह / क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः //
49 SK इति / यत्तु शेषशायिनो नारायणस्य नाभिकमलश्रोत्रचक्षुरादिभ्यश्चतुर्मुखस्याविर्भावः श्रूयते तद्दैनन्दिनसर्गेष्वेव कल्पभेदेन मन्तव्यम् / दैनन्दिनप्रलयेष्वेव हि नारायणशरीरे प्रविश्यैकीभूय सुप्तानां देवानां चतुर्मुखादिक्रमेणाविर्भावः शेषशायिनः सकाशाद्घटते न त्वादिसर्गेषु / दैनन्दिनप्रलय एव लीलाविग्रहेण शयनादिति / तदेवं सङ्क्षेपतश्चतुर्विंशतितत्त्वानि तेषां सृष्टिरूपं प्रयोजनं चोक्तम् / तत्र यद्यस्माज्जायते तस्य तदापूरणेनैव स्थितिः ततस्तस्य संहारो ऽपि तत्रैव भवति / यद्यस्माज्जायते तत्त्वं तत्तत्र प्रविलीयते / लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् //
50 SK इति भारतादिभ्य इति / एते च सृष्टिस्थितिसंहाररूपाः स्थूला एव परिणामाश्चतुर्विंशतितत्त्वानां कूटस्थपुरुषविवेकाय प्रदर्शिताः / सूक्ष्मा अप्यन्ये प्रतिक्षणपरिणामा एतेषां स्मर्यन्ते / तथा / नित्यदा ह्यङ्गभूतानि भवन्ति न भवन्ति च / कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते //
51 SK इति / अतश्च सर्वं जडवस्तु परमार्थतः सर्वदैवासदुच्यते / ततश्च तस्माद्विरज्यात्मैव परमार्थसत्यो दुःखभीरुभिर्द्रष्टव्यः / तदुक्तमनुगीतायाम् / अव्यक्तबीजप्रभवो बुधिस्कन्धमयो महान् / महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः //
52 SK महाभूतप्रशाखश्च विशेषप्रतिशाखवान् / सदापर्णः सदापुष्पः शुभाशुभफलोदयः //
53 SK आजीवः सर्वभूतानां ब्रह्मवृत्तः सनातनः / एतज्ज्ञात्वा च तत्त्वेन ज्ञानेन परमासिना //
54 SK छित्त्वा चाक्षरतां प्राप्य जहाति मृत्युजन्मनी /
55 SK इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे विवेकप्रतियोगिनां प्रकृत्यादीनां स्वरूपपरिच्छेदः // * //
56 SK इति साङ्ख्यसारस्य पूर्वभागः //
59 SK अथ शिष्यैः सुखेनैव ग्रहीतुं पद्यमालया / विवेकस्यानुयोग्यात्मा पुरुषाख्यो निरूप्यते // VइSस्_२,१.१ //
60 SK तत्र सामान्यतः सिद्धो जाने ऽहमिति धीबलात् / द्रष्टा ऽतो नित्यविभ्वादिधर्मैरेव स साध्यते // VइSस्_२,१.२ //
61 SK भोक्ता नित्यस्तदर्थत्वात् तत्कर्मोत्पादितत्वतः / महदादिविकाराणां सर्वेषामविशेषतः // VइSस्_२,१.३ //
62 SK अपि चादृष्टसंस्काराधारत्वाद्बीजरूपतः / धीरनादिरतो ऽस्याश्च सिद्धा भोक्तुरनादिता // VइSस्_२,१.४ //
63 SK स्वस्वामिभावानादित्वमृते भोक्तृव्यवस्थितेः / स्वभक्तवृत्तिसंस्कारवत्त्वं स्वत्वं तु बुद्धिषु // VइSस्_२,१.५ //
64 SK स्वाम्यं स्वनिष्ठसंस्कारहेतुवृत्तेश्च भोक्तरि / अतश्च घटते स्वत्वनाशे कैवल्यमात्मनः // VइSस्_२,१.६ //
65 SK भोक्तुश्चानादिभावस्य विनाशे हेत्वसम्भवात् / न नाशो भोक्तुरस्तीति भोक्ता नित्यो हि सिध्यति // VइSस्_२,१.७ //
66 SK जन्यो ज्ञानप्रकाशो ऽस्य नित्यत्वे तु न युज्यते / न ह्यप्रकाशे कुत्रापि प्रकाशोत्पत्तिरीक्ष्यते // VइSस्_२,१.८ //
67 SK कार्ये प्रकाशाख्यगुणे ऽवयवानां हि तद्गुणः / कारणं तेन नानित्यः प्रकाशो नित्यवस्तुनि // VइSस्_२,१.९ //
68 SK प्रकाशाश्रयसंयोगात् प्रकाशभूम इन्धने / आदर्शे चावृतेर्भङ्गात् प्रकाशोत्पत्तिविभ्रमः // VइSस्_२,१.१० //
69 SK तस्मान्नित्यात्मनो ज्ञानं नित्यं वाच्यं तथा सति / लाघवाज्ज्ञानमेवात्मा निराधारः प्रकल्प्यते // VइSस्_२,१.११ //
70 SK अनाश्रिततया द्रव्यं संयोगादेश्च तन्मतम् / अतो ज्ञाने ऽहमित्यादिबुद्धिरप्युपपद्यते // VइSस्_२,१.१२ //
71 SK पिण्डे ऽहन्धीर्हि मूढानां ध्रुवैवानादिदोषतः / संयोगात्तत्र पिण्डे तु ज्ञानवत्त्वमतिः प्रमा // VइSस्_२,१.१३ //
72 SK सन्तु वा ऽ; ऽधेयता ऽल्पत्वजन्मनाशादिबुद्धयः / श्रोत्रस्य नभसीवार्थज्ञानस्य ज्ञानमात्रके // VइSस्_२,१.१४ //
73 SK तस्माल्लाघवतर्केण बाधकाभावतस्तथा / श्रुत्यादिभिश्च नित्यात्मा चिद्रूपेणैव सिध्यति // VइSस्_२,१.१५ //
74 SK तज्ज्ञानं विभु नित्यत्वाद्देहव्यापितया ऽपि च / मध्यत्वे नाशिता हि स्यादणुत्वे वा ऽल्पदेशता // VइSस्_२,१.१६ //
75 SK विभुत्वे ऽपि स्वधीवृत्तेरेव साक्षान्निरीक्षणात् / न सर्वत्र सदा सर्वभानं ज्ञाने प्रसज्यते // VइSस्_२,१.१७ //
76 SK अर्थभानं चितावर्थप्रतिबिम्बो मतो बुधैः / वृत्तेरेव चित्तौ साक्षात्प्रतिबिम्बनयोग्यता // VइSस्_२,१.१८ //
77 SK अतो ऽसङ्गे ऽपि कूटस्थचैतन्ये विभुनि ध्रुवे / वृत्तिद्वारकमेवान्यभानं फलबलान् मतम् // VइSस्_२,१.१९ //
78 SK अन्वयव्यतिरेकाभ्यां वृत्तिजन्यतया ऽखिलः / वृत्यैकाधिकरण्येन कामादिर्धीषु नात्मसु // VइSस्_२,१.२० //
79 SK अतो ऽन्तःस्वविकाराणां स्वस्वबुद्धिष्ववस्थितेः / कूटास्थ एव सर्वो ऽपि चिदाकाशगणः समः // VइSस्_२,१.२१ //
80 SK नित्यशुद्धो नित्यबुद्धो नित्यमुक्तो निरञ्जनः / स्वप्रकाशो निराधारः प्रदीपः सर्ववस्तुषु // VइSस्_२,१.२२ //
81 SK नन्वेवमेकतैवास्तु लाघवादात्मनां स्ववत् / धीष्वेव सुखदुःखादिवैधर्म्यादिति चेन्न तत् // VइSस्_२,१.२३ //
82 SK भोगाभोगादिवैधर्म्येणैकरूपे ऽपि चिद्गणे / श्रुतिस्मृतिभ्यामुक्तेन भेदसिद्धेः परस्परम् // VइSस्_२,१.२४ //
83 SK सुखादिप्रतिबिम्भात्मा भोगो ऽप्यस्य न वस्तुतः / तथा ऽप्यस्य चितौ भावाभावौ स्यातां हि भेदकौ // VइSस्_२,१.२५ //
84 SK औपाधिकौ यथा श्यामरागौ स्फटिकभेदकौ / स्वदृष्टान्तश्च विषमो वैधर्म्यासिद्धितो ऽम्बरे // VइSस्_२,१.२६ //
85 SK इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे पुरुषस्वरूपपरिच्छेदः // * //
86 SK अथ द्वितीयः परिच्छेदः //
87 SK अथात्मानात्मवैधर्म्ये गुणदोषात्मके तयोः / वक्ष्ये विस्तारतो येन विवेको ऽतिस्फुटो भवेत् // VइSस्_२,२.१ //
88 SK सामान्यात्मघनाकाशे सान्निध्येरितशक्तिभिः / जायते लीयते भूत्वा भूयो ऽयं जगदम्बुदः // VइSस्_२,२.२ //
89 SK त्रिगुणात्मकशक्तीनां परिणामैरतश्चितिः / आधारविधया विश्वोपादानमविकारतः // VइSस्_२,२.३ //
90 SK यथा ऽ; ऽधरतया तोयं धरोपादानमिष्यते / स्वस्थपार्थिवतन्मात्रद्वारेणैवं चितिर्मता // VइSस्_२,२.४ //
91 SK अतो जगदुपादानमपि ब्रह्माविकारतः / कूटस्थनित्यपर्यायपरमार्थसदुच्यते // VइSस्_२,२.५ //
92 SK स्वार्थत्वात् स्वानुभूत्या च सिद्धत्वात् परमार्थसत् / स्वतः स्थित्या स्वतः सिद्ध्या लोकैः सन्निति हीर्यते // VइSस्_२,२.६ //
93 SK प्रतिक्षणविकारेण तैस्तै रूपैरपायतः / प्रकृत्यादिरसत् सर्वो जडार्थो ऽब्धौ तरङ्गवत् // VइSस्_२,२.७ //
94 SK यत्तु कालान्तरेणापि नान्यसञ्ज्ञामुपैति वै / परिणामादिसम्भूतां तद्वस्त्वित्यादिकस्मृतेः // VइSस्_२,२.८ //
95 SK परार्थाधीनसत्त्वाच्च परदृष्ट्या च सिद्धितः / परतः सन्नसन्नेव तत्परापेक्षया मतः // VइSस्_२,२.९ //
96 SK सतो ऽस्तित्वं तु नासत्ता नास्तित्वे सत्यता कुतः / इति गारुडतश्चैवं सदसत्त्वव्यवस्थितेः // VइSस्_२,२.१० //
97 SK अतो न सन्नासदिदं जगत् सदसदात्मकम् / असद्विषयकत्वाच्च तस्य धीस्तात्त्विको भ्रमः // VइSस्_२,२.११ //
98 SK जगद्वृक्षस्य चैतन्यं सारो ऽसारस्तथेतरत् / प्रपञ्चस्य स्थिरांशो हि चितिरेवाविकारतः // VइSस्_२,२.१२ //
99 SK तदन्यदखिलं तुच्छमसारत्वादुदीर्यते / तथा ऽनृतमसच्चापि तदपेक्षास्थिरत्वतः // VइSस्_२,२.१३ //
100 SK एवंविधैवात्मसत्ता अन्यासत्ता च दर्शिता / वासिष्ठादौ विस्तरतो यथा लेशात्तदुच्यते // VइSस्_२,२.१४ //
101 SK स्वप्नो जाग्रत्यसद्रूपः स्वप्ने जाग्रदसद्वपुः / मृतिर्जन्मन्यसद्रूपा मृतौ जन्माप्यसन्मयम् // VइSस्_२,२.१५ //
102 SK जगन्मयी भ्रान्तिरिति न कदापि न विद्यते / विद्यते न कदाचिच्च जलबुद्बुदवत् स्थितम् // VइSस्_२,२.१६ //
103 SK आत्मैवास्ति परं सत्यं नान्याः संसारदृष्टयः / शुक्तिकारजतं यद्वद्यथा मरुमरीचिका // VइSस्_२,२.१७ //
104 SK अस्ति सर्वगतं शान्तं परमात्मघनं शुचि / अचिन्त्यचिन्मात्रवपुः परमाकाशमाततम् // VइSस्_२,२.१८ //
105 SK तत्सर्वगं सर्वशक्ति सर्वं सर्वात्मकं स्वयम् / यत्र यत्र यथोदेति यथा ऽ; ऽस्ते तत्र तत्र वै // VइSस्_२,२.१९ //
106 SK आविर्भावतिरोभावमयास्त्रिभुवनोर्मयः / स्फुरन्त्यतितते यस्मिन् मराविव मरीचयः // VइSस्_२,२.२० //
107 SK असतेव सती तोयनद्येव लहरी चला / मनसेवेन्द्रजालश्रीर्जागती प्रवितन्यते // VइSस्_२,२.२१ //
108 SK ब्रह्मणा तन्यते विश्वं मनसैव स्वयम्भुवा / मनोमयमतो विश्वं यन्नाम परिदृश्यते // VइSस्_२,२.२२ //
109 SK यो ह्यशुद्धमतिर्मूढो रूढो न वितते पदे / वज्रसारमिदं तस्य जगदस्त्यसदेव सत् // VइSस्_२,२.२३ //
110 SK अव्युत्पन्नस्य कनके कानके कटके यथा / कटकज्ञप्तिरेवास्ति न मनागपि हेमधीः // VइSस्_२,२.२४ //
111 SK तथा ऽज्ञस्य पुरागारनगनागेन्द्रभासुरा / इयं दृश्यदृगेवास्ति न त्वन्या परमार्थदृक् // VइSस्_२,२.२५ //
112 SK इत्यादिवाक्यैर्वासिष्ठे नात्यन्तासत्यतोदिता / जगतो ऽपरवाक्यैर्हि सत्कार्यं प्राकृतं मतम् // VइSस्_२,२.२६ //
113 SK नामरूपविनिर्मुक्तं यस्मिन् सन्तिष्ठते जगत् / तमाहुं प्रकृतिं केचिन् मायामेके ऽपरे त्वणून् // VइSस्_२,२.२७ //
114 SK सुषुप्तावस्थया चक्रपद्मरेखाशिलोदरे / यथा स्थिता चितेरन्तस्तथेयं जगदावली // VइSस्_२,२.२८ //
115 SK प्रकृतिव्रततिर्व्योम्नि जाता ब्रह्माण्डसत्फला / इत्यादिवाक्यैः साङ्ख्यीयसत्कार्याद्युपवर्णनात् // VइSस्_२,२.२९ //
116 SK इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मानात्मनोः सत्यत्वासत्यत्ववैधर्म्यपरिच्छेदः // * //
117 SK अथ तृतीयः परिच्छेदः //
118 SK तदेवात्मनः सत्ता दर्शिता ऽन्यविलक्षणा / अथ चिद्रूपतां वक्ष्ये बुद्धिवृत्तिविलक्षणाम् // VइSस्_२,३.१ //
119 SK अनुभूतिश्चितिर्बोधो वेदनं चोच्यते पुमान् / वेद्यं जडं तमो ऽज्ञानं प्रधानादिकमुच्यते // VइSस्_२,३.२ //
120 SK वेदनं वेद्यसम्बन्धादेव वेत्त्रभिधीयते / यथा प्रकाश्यसम्बन्धात् प्रकाशो ऽपि प्रकाशकः // VइSस्_२,३.३ //
121 SK यथा वा ऽर्थोपरागेण भानमर्थस्य भासकम् / एवं वेद्योपरक्तस्यास्वांशस्याधारतां ऽशिनि // VइSस्_२,३.४ //
122 SK असङ्गायां चितौ वेद्योपरागो ऽयं न धीष्विव / किन्तु साक्षाद्द्वारतो वा चिति तत्प्रतिबिम्बनम् // VइSस्_२,३.५ //
123 SK बाह्यं वृत्त्याख्यकरणाभावादनुपरागतः / चितिर्नैवेक्षते चेत्यं विभुत्वे ऽपि च सर्वतः // VइSस्_२,३.६ //
124 SK तथा चिदपि वृत्त्याख्यकरणाभावतो ऽर्थवत् / स्वगोचरां वृत्तिमृते तिष्ठत्यज्ञातसत्तया // VइSस्_२,३.७ //
125 SK तदेवं चिन्निराकारा प्रकाशाकाशरूपिणी / तिष्ठत्यव्यक्तरूपा च मोक्षादौ वृत्त्यभावतः // VइSस्_२,३.८ //
126 SK बुद्धिवृत्तिस्तु साकारा परिच्छिन्ना च दीपवत् / व्यक्ता च सर्वदा तद्वदसङ्ख्या क्षणभङ्गुरा // VइSस्_२,३.९ //
127 SK जडा च परदृश्यत्वाद्घटदीपादिवन् मता / वृत्तेः प्रकाशता त्वर्थाकारत्वादक्षतैव हि // VइSस्_२,३.१० //
128 SK यथा ऽस्याकारतार्हत्वादादर्शस्तत्प्रकाशकः / सर्वाकारत्वयोग्यत्वात् सैवं सर्वप्रकाशिका // VइSस्_२,३.११ //
129 SK न पुनर्वृत्तिद्रष्टृत्वं चितस्तद्भिन्नद्रष्टृता / वृत्तेर्यतो गौरवं स्याद्द्वयोर्ज्ञातृत्वकल्पने // VइSस्_२,३.१२ //
130 SK बुद्ध्यारूढं त्वन्यवस्तु तद्द्वारा प्रतिबिम्बितम् / पश्यत्यनुभवो नान्यो द्रष्टा बुद्ध्यादिको ऽखिलः // VइSस्_२,३.१३ //
131 SK इत्येवं बुद्धिवृत्तिभ्यो वैलक्षण्यं चितीरितम् / चिदचित्त्वाख्यवैधर्म्यं देहादिभ्यः स्फुटन्त्विदम् // VइSस्_२,३.१४ //
132 SK अन्योन्यप्रतिबिम्बेन सारूप्याद्वृतिबोधयोः / बोधव्यवहृतिर्वृत्तौ लोहे ऽग्निव्यवहारवत् // VइSस्_२,३.१५ //
133 SK नैवाल्पबुद्ध्याशक्यो ऽयं विवेको वृत्तिबोधयोः / तार्किका यत्र सम्मूढाः साङ्ख्यानां श्रेष्ठता यतः // VइSस्_२,३.१६ //
134 SK विज्ञानवादिनो बौद्धा वृत्तिबोधाविवेकतः / ज्ञातात्मत्वश्रुतौ मूढा मेनिरे क्षणिकां चितिम् // VइSस्_२,३.१७ //
135 SK सत्त्वपुंसो विवेको ऽयं वृत्तितद्बोधरूपयोः / नाशक्यः सुधियां यद्वद्धंसानां क्षीरनीरयोः // VइSस्_२,३.१८ //
136 SK एतदन्तश्च संसारो मोक्षास्तत्रैव संस्थितः / यद्वृत्तिभ्यो विवेकेन तद्बोधस्यावधारणम् // VइSस्_२,३.१९ //
137 SK सर्वो ऽप्यनुभवं वेद न कश्चिदपि वेदताम् / विवेकमात्रमस्मिन् हि भासमाने ऽप्यपेक्षते // VइSस्_२,३.२० //
138 SK आत्मा विवेक्तुं बाह्यार्थे न शक्यो वृतिमिश्रणात् / अतो वृत्तौ विवेक्तव्यो वृत्तिबोधतयैव सः // VइSस्_२,३.२१ //
139 SK यथा बुद्ध्या विवेकार्हो नाग्निरङ्गारमिश्रणात् / सो ऽङ्गारे तु विवेकार्हो काष्ठदग्धृतया स्फुटम् // VइSस्_२,३.२२ //
140 SK अतएव श्रुतौ स्वप्ने दृश्यवृत्तिविवेकतः / स्वयंज्योतिःस्वरूपेण तस्या द्रष्टा प्रदर्शितः // VइSस्_२,३.२३ //
141 SK साक्षात् प्रकाशो यो यस्य स तद्भिन्नो मतो बुधैः / घटादिभ्यो यथा ऽ; ऽलोक आलोकाच्चापि वृत्तयः // VइSस्_२,३.२४ //
142 SK वृत्तेः साक्षात् प्रकाशत्वादतो ऽनुभवरूपकः / वृत्तिभ्यो भिन्न आत्मेति शीघ्रो मार्गः स्वदर्शने // VइSस्_२,३.२५ //
143 SK एवमादिप्रकारेण बुद्धिसत्त्वप्रकाशतः / विलक्षणतया सिद्धश्चित्प्रकाशो ऽस्य भासकः // VइSस्_२,३.२६ //
144 SK स्वप्नदेहादिदृष्टान्तैस्तस्माच्छ्रुत्यादिदर्शितैः / जाग्रद्देहेन्द्रियार्थेभ्यश्चितिर्भिन्नतया मता // VइSस्_२,३.२७ //
145 SK स्वप्ने देहादिकं सर्वं चिद्भिन्नं चिति भासते / जाग्रत्येवं विशेषस्तु यद्बाह्यमपि भासते // VइSस्_२,३.२८ //
146 SK स्वप्ने मनोमयत्वाच्च साक्षाच्चिद्विषयो ऽखिलम् / करणद्वारतो बाह्यं चितो जाग्रति गोचरः // VइSस्_२,३.२९ //
147 SK सर्वं देहादिकं स्वप्नजाग्रतोरेकरूपतः / भाति चिद्व्योम्नि नात्रार्थबाह्यान्तर्भेदतो भिदा // VइSस्_२,३.३० //
148 SK चिद्व्योम्नि वासनातो धीः प्रमाणाद्वा ऽर्थरूपिणी / ततश्चितो ऽर्थभानं यत् तत् समं स्वप्नजाग्रतोः // VइSस्_२,३.३१ //
149 SK तदिदं स्वानुभूत्यैव प्रोच्यते न परोक्षतः / स्वप्नदृष्टान्तसदृशो नोपायो ऽस्त्यात्मदर्शने // VइSस्_२,३.३२ //
150 SK सुषुप्तौ हि यथा स्वप्ने स्वात्मन्येवेक्षते ऽखिलम् / आत्मानं चैकदेशस्थं मन्यते जागरे तथा // VइSस्_२,३.३३ //
151 SK सुषुप्तिरात्मनस्तत्त्वं स्वरूपावस्थितेस्तदा / जाग्रत्स्वप्नौ मायिकौ तु मृषासारूप्यतो धिया // VइSस्_२,३.३४ //
152 SK बुद्धेः सुषुप्तिस्तमसा ऽ; ऽवरणं तद्विलक्षणा / चितेः सुषुप्तिर्वृत्त्याख्यदृश्यावरणशून्यता // VइSस्_२,३.३५ //
153 SK पूर्णः कूटस्थनित्यश्च स्वस्वधीमात्रवृत्तिदृक् / वृत्त्याख्यदृश्यविरहात् सर्वदा नेक्षते पुमान् // VइSस्_२,३.३६ //
154 SK वृत्तिदेशे यथा बोधस्तथा सर्वत्र सर्वदा / वृथैव तप्यते मूढैर्व्ययनाशादिना ऽ; ऽत्मनः // VइSस्_२,३.३७ //
155 SK दुःखभोगमहारोगनिदानं देहगेहिनी / बुद्धिर्न त्यज्यते मूढैर्महानिद्रासुखं यतः // VइSस्_२,३.३८ //
156 SK अनादिबुद्धिगार्हस्थ्यं विवेकस्त्यज्यते न चेत् / न मोक्षो बाह्यसन्न्यासादिहामुत्रासुखं परम् // VइSस्_२,३.३९ //
157 SK समचिन्मात्ररूपेषु स्वपरात्मसु सर्वदा / बुद्धिमात्रविवेकेन स्वपरादिभिदा मृषा // VइSस्_२,३.४० //
158 SK चिन्मात्रे निर्गुणे स्वामिन्यारोप्यैवात्मकर्तृताम् / स्वाम्यवज्ञापराधेन वध्यते धीः स्वकर्मभिः // VइSस्_२,३.४१ //
159 SK साध्वी तु धीः पतिं दृष्ट्वा याथातथ्येन तत्परा / इहानन्दमयी चान्ते पतिदेहे लयं व्रजेत् // VइSस्_२,३.४२ //
160 SK नाहं कर्ता सुखी दुःखी चिन्मात्राकाशरूपकः / एवं नाथं चिन्तयन्ती न पत्युर्दुःखभोगदा // VइSस्_२,३.४३ //
161 SK इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मानात्मनोश्चिदचित्त्ववैधर्म्यपरिच्छेदः // * //
162 SK अथ चतुर्थः परिच्छेदः //
163 SK इत्येवमात्मनः प्रोक्तो बुद्ध्यादिभ्यो विलक्षणः /
164 SK चित्प्रकाशो ऽधुना ऽ; ऽनन्दरूपता वक्ष्यते तथा // VइSस्_२,४.१ //
165 SK दुःखं कामसुखापेक्षा सुखं दुःखसुखात्ययः / इति स्मृतेः सुखात्मत्वं नित्यनिर्दुःखता ऽ; ऽत्मनः // VइSस्_२,४.२ //
166 SK परिभाषाबलाद्रूढिबाधः सर्वत्र सम्मतः / अन्यथा परिभाषेयं मोक्षशास्त्रे भवेद्वृथा // VइSस्_२,४.३ //
167 SK यद्वा परोक्षवादेन परमप्रियताप्तये / रूपिका सुखगीः पुंसि विभुत्वाप्त्यै स्वशब्दवत् // VइSस्_२,४.४ //
168 SK नानन्दं न निरानन्दमित्यादिश्रुतिभिः स्फुटम् / आत्मन्यानन्दरूपत्वनिषेधाद्युक्तिसंयुतात् // VइSस्_२,४.५ //
169 SK उपासाद्यर्थशून्यत्वान्नेति नेति श्रुतेस्तथा / निषेधवाक्यं बलवद्विधिवाक्यादिति स्थितिः // VइSस्_२,४.६ //
170 SK निर्निरानन्दमिति च स्वोपाध्यानन्दभोक्तृताम् / स्वामित्वरूपिणीं वक्ति न निर्धन इतीव हि // VइSस्_२,४.७ //
171 SK प्रेयो ऽन्यस्माच्च सर्वस्मादिति श्रुत्या सुखादपि / उक्त आत्मा प्रियस्तस्य सुखत्वोक्तिश्च नोचिता // VइSस्_२,४.८ //
172 SK आनन्दाद्याः प्रधानस्य इति वेदान्तसूत्रतः / वेदान्ते ऽपि न सिद्धान्त आत्मनः सुखरूपता // VइSस्_२,४.९ //
173 SK विस्ताराद्ब्रह्ममीमांसाभाष्ये ऽस्माभिः परीक्षितम् / चितेरसुखरूपत्वं प्रेमा व्याख्यायते ऽधुना // VइSस्_२,४.१० //
174 SK मा न भूवमहं शश्वद्भूयासमिति रूपकः / निर्निमित्तो ऽनुरागो यः स प्रेमा परमश्चिति // VइSस्_२,४.११ //
175 SK अन्याशेषतया बुद्धेः स्नेहो ऽयं न सुखेष्वपि / अतः प्रियतमः स्वात्मा नान्यो ऽतो ह्यधिकः प्रियः // VइSस्_२,४.१२ //
176 SK आत्मत्वेनात्मनि प्रेमा न सुखत्वाद्यपेक्षते / अहं स्यामिति चेद्यस्मात् सुखं स्यामिति नेष्यते // VइSस्_२,४.१३ //
177 SK तथा च सुखतादुःखाभावते वा ऽ; ऽत्मता ऽपि च / प्रेम्णि प्रयोजिका सिद्धा स्वतःप्रेमात्मतैव तु // VइSस्_२,४.१४ //
178 SK तस्माद्वस्तुत आत्मैव प्रियो नैपाधिकत्वतः / औपाधिकीतरप्रीतिरस्थिरत्वान्न तात्त्विकी // VइSस्_२,४.१५ //
179 SK प्रीतिरन्यत्र चानित्याविवेकाद्यैः सुखादिषु / आत्मप्रीतिस्तु नित्या ऽतो नित्यानन्दः पुमान् मतः // VइSस्_२,४.१६ //
180 SK आत्मनः प्रियतां बुद्धिर्यदि पश्येत् समाहिता / सर्वातिशायिनीं तर्हि सुखाब्धौ किं न मज्जति // VइSस्_२,४.१७ //
181 SK प्रियदर्शनतो बुद्धेः सुखं लोकेषु दृश्यते / अतो ऽनुमेयं परमप्रियदृष्ट्या परं सुखम् // VइSस्_२,४.१८ //
182 SK आत्मार्थत्वेन सर्वत्र प्रीतिरात्मा स्वतः प्रियः / इति शश्वच्छ्रुतिः प्राह आत्मदृष्टिविधित्सया // VइSस्_२,४.१९ //
183 SK ततो ऽप्यनुपमं ज्ञेयं प्रियात्मेक्षणतः सुखम् / भुञ्जते तत् सुखं धीरा जीवन्मुक्ता महाधियः // VइSस्_२,४.२० //
184 SK अन्तरात्मसुखं सत्यमविसंवादि योगिनम् / अपश्यन् कृपणो बाह्यसुखार्थी वञ्चितो जनः // VइSस्_२,४.२१ //
185 SK सुखाशया बहिः पश्यन् देही हीन्द्रियरन्ध्रकैः / वातायनैर्गृहीत्वा ऽन्तः सुखं वेत्ति न बाह्यदृक् // VइSस्_२,४.२२ //
186 SK दुखलभ्यान् दुःखमयान् परिणामे ऽतिदुःखदान् / विषयोत्थान् सुखाभासान् धिक् स्वात्मसुखरोधकान् // VइSस्_२,४.२३ //
187 SK इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मानात्मनोः प्रियाप्रियत्ववैधर्म्यपरिच्छेदः // * //
188 SK अथ पञ्चमः परिच्छेदः /
189 SK परिच्छेदत्रयेणोक्तं सच्चिदानन्दरूपकम् / गीयमानं श्रुतिस्मृत्योरात्मनो लक्षणत्रयम् // VइSस्_२,५.१ //
190 SK तद्वैपरीत्यमन्येषां लक्षणं चेरितं स्फुटम् / आभ्यां तु गुणदोषाभ्यां विवेको दोषहृत् परः // VइSस्_२,५.२ //
191 SK नैर्गुण्यसगुणत्वादिवैधर्म्याण्यपराण्यपि / बहूनि वक्ष्ये सङ्क्षेपात् पुम्प्रकृत्योरतः परम् // VइSस्_२,५.३ //
192 SK धियो ऽर्थाकारया वृत्त्या जनितत्वात् सुखादयः / सामानाधिकरण्येन कल्प्यन्ते लाघवाद् धियाम् // VइSस्_२,५.४ //
193 SK महदादेर्जडत्वेन तद्धेतुश्च जडो मतः / कार्यकारणसाजात्यं दृष्टं लोके हि सर्वतः // VइSस्_२,५.५ //
194 SK अत आत्मा बोधमात्रतया सिध्यति लाघवात् / गुणाः सर्वे प्रकृत्यादेर्विकाराश्चेतरे ऽखिलाः // VइSस्_२,५.६ //
195 SK आत्मा तु निर्गुणस्तद्वत् कूटस्थश्च मतो बुधैः / चितेः कूटस्थसञ्ज्ञा तु स्थिरत्वाद् गिरिकूटवत् // VइSस्_२,५.७ //
196 SK लेपश्चेतरसम्बन्धे तद्रूपैरुपरक्तता / यथा विषयसम्बन्धाद्बुद्धौ भवति वासना // VइSस्_२,५.८ //
197 SK भाण्डादौ द्रव्ययोगाच्च तत्तद्द्रव्यस्य वासना / लेपहेतुश्च सम्बन्धः सङ्गः सम्बन्धि चाञ्जनम् // VइSस्_२,५.९ //
198 SK अतो निरञ्जनो ऽसङ्गो निर्लेपश्चोच्यते पुमान् / नभःपुष्करपत्रादिदृष्टान्तैः परमर्षिभिः // VइSस्_२,५.१० //
199 SK चिन्मात्रानन्तशक्त्यब्धौ पुमर्थपवनेरिताः / सत्त्वादिशक्तयो यान्ति विश्वबुद्बुदरूपताम् // VइSस्_२,५.११ //
200 SK अत ईशश्चिदात्मैव जगतः सन्निधानतः / मणिवत् प्रेरकत्वेन जडानामयसामिव // VइSस्_२,५.१२ //
201 SK पुमानेव जगत्कर्ता जगद्भर्ता ऽखिलेश्वरः / स्वाम्यर्थे मृत्यवद्यस्माज्जडवर्गः प्रवर्तते // VइSस्_२,५.१३ //
202 SK करणानि च देहेषु राजार्थमधिकारिवत् / भोग्यजातं मनोमन्त्रिण्यर्पयन्ति स्वभावतः // VइSस्_२,५.१४ //
203 SK तैर्भोग्यैर्युक्तमात्मानमावेदयति धीश्चिति / ईक्षामात्रेण तद्भुङ्क्ते राजेवात्मा ऽखिलेश्वरः // VइSस्_२,५.१५ //
204 SK धनादेरीश्वरो देहो देहस्येन्द्रियमीश्वरम् / इन्द्रियस्येश्वरी बुद्धिर्बुद्धेरात्मेश्वरः परः // VइSस्_२,५.१६ //
205 SK कूटस्थस्येश्वरस्यान्यो नास्ति प्रेरक इत्यतः / ईश्वरस्यावधित्वेन द्रष्टा वै परमेश्वरः // VइSस्_२,५.१७ //
206 SK अन्यस्यागन्तुकैश्वर्यं बहुव्यापारसङ्कुलम् / निर्व्यापारस्य निर्दोषमनाद्यैश्वर्यमात्मनः // VइSस्_२,५.१८ //
207 SK सर्वशक्तिमयो ह्यात्मा शक्तिमण्डलताण्डवः / संसारं तन्निवृत्तिं च मायया ऽ; ऽप्नोति हेलया // VइSस्_२,५.१९ //
208 SK सर्वातिशायि निर्दोषमैश्वर्यमिदमात्मनः / पश्यतो योगिनो ब्राह्ममप्यैश्वर्यं तृणायते // VइSस्_२,५.२० //
209 SK बाह्यस्यात्मोच्यते देहो देहस्यात्मेन्द्रियाणि च / बुद्धिरात्मेन्द्रियान्तस्य बुद्धेरात्मा तु चिन्नभः // VइSस्_२,५.२१ //
210 SK अत आत्मावधित्वेन परमात्मोच्यते चितिः / तथा ऽन्तःकरणैर्योगाज्जीव इत्युच्यते चितिः // VइSस्_२,५.२२ //
211 SK अविद्याकार्यरहितः परमात्मनि च स्मृतिः / यस्य यद्व्यापकं तस्य तद्ब्रह्मा ऽतो धरादिकम् // VइSस्_२,५.२३ //
212 SK प्रकृत्यन्तं भवेद्ब्रह्म स्वस्वकार्याद्यपेक्षया / सेश्वरे साङ्ख्यवादे ऽपि चितेरेवानुमन्यते // VइSस्_२,५.२४ //
213 SK परे वा परमात्मत्वादिकं तु न जडे क्वचित् / अध्यक्षव्यापकत्वाभ्यां परं ब्रह्म तु चेतनः // VइSस्_२,५.२५ //
214 SK तस्याध्यक्षं व्यापकं च न हेतुविधया ऽस्ति हि / असङ्ख्यात्मा नभोराशिरविभक्तैकरूपकः // VइSस्_२,५.२६ //
215 SK सो ऽतश्चिद्घनविज्ञानघनात्मघनसंज्ञकः / प्रकाशस्यानपेक्षत्वात् स्वस्य द्रष्टृतया ऽपि च // VइSस्_२,५.२७ //
216 SK स्वप्रकाशः पुमानुक्त इतरे तद्विलक्षणाः / भोगो ऽभ्यवहृतिः सा च कूटस्थे नास्ति धीष्विव // VइSस्_२,५.२८ //
217 SK धीवृत्तिप्रतिबिम्बाख्यगौणभोगा तु भोक्तृता / साक्षाद्धीवृतिद्रष्टृत्वाद् बुद्धिसाक्ष्युच्यते पुमान् // VइSस्_२,५.२९ //
218 SK विना विकारं द्रष्टृत्वात् साक्षी तूक्तो ऽखिलस्य सः / चैत्योपरागरूपत्वात् साक्षिता ऽप्यध्रुवा चितः // VइSस्_२,५.३० //
219 SK उपलक्षणमेवेदमपि व्यावृत्तये जडात् / अतः पुमाननिर्देश्यो ऽणुश्च सूक्ष्मश्च कथ्यते // VइSस्_२,५.३१ //
220 SK विना दृश्यमदृश्यत्वादव्यक्तश्चोच्यते सतः / अदृश्यो दृश्यते राहुर्गृहीतेन यथेन्दुना // VइSस्_२,५.३२ //
221 SK अदृश्यं चास्यमादर्शे चित् तथा स्वस्वबुद्धिषु / चिति विश्वस्य सङ्गश्चेद् विश्वं भासेत सर्वदा // VइSस्_२,५.३३ //
222 SK विश्वाधारो ऽप्यतः शून्यमिति चिद्गीयते खवत् / दृश्यदोषान् मृषाबुद्धिर्दृष्ट्यारोप्य निर्मले // VइSस्_२,५.३४ //
223 SK आदर्शे मलवद्व्योम्नि दोषदृष्ट्या तु तप्यते / वस्तुतश्चिति नास्त्येव मलो दृश्याश्रितः सदा // VइSस्_२,५.३५ //
224 SK अतश्च निर्मलः स्वस्थो निर्दोषश्चोच्यते पुमान् / सजातीयेषु वैधर्म्यलक्षणा नास्ति यद्भिदा // VइSस्_२,५.३६ //
225 SK अत आत्मा समः प्रोक्त ऐकरूप्याच्च सर्वदा / देहाध्यक्षतया देही पुर्यभिव्यक्तितः पुमान् // VइSस्_२,५.३७ //
226 SK एकाकिएवादद्वितीयः केवलश्चोच्यते तु सः / चिच्छक्त्यप्रतिबन्धेन प्रोच्यते ऽनावृतः पुमान् // VइSस्_२,५.३८ //
227 SK सर्वस्वामितया चात्मा क्षेत्रज्ञः क्षेत्रवेदनात् / हृत्सरोवरधीपद्मदलवृत्तिषु लीलया // VइSस्_२,५.३९ //
228 SK चरन्निवानन्दमीनान् भुञ्जानो हंस उच्यते / हकारेण बहिर्याति सकारेण विशन् पुनः // VइSस्_२,५.४० //
229 SK प्रानवृत्त्या ऽनय चापि प्राण्यात्मा हंस उच्यते / शरीरागरिहृद्द्यामगुहायां बुद्धिभार्यया // VइSस्_२,५.४१ //
230 SK व्यज्यमानस्तया सार्धं स्वपन्निव गुहाशयः / त्रिगुणात्मकमायां स्वां सान्निध्यात् परिणामयन् // VइSस्_२,५.४२ //
231 SK मायीति कथ्यते चात्मा तत्कृतानृतवेषधृक् / स्वान्येकादश भूतानि पञ्चैतानि तु षोडश // VइSस्_२,५.४३ //
232 SK पुंसः कलास्तत्त्वतस्तु निरंशत्वात् स निष्कलः / अहंशब्दः स्वामिवाची स्वामी साक्षी तु चेतसः // VइSस्_२,५.४४ //
233 SK अतो ऽहमिति शब्देन चिन्मात्रं प्रोच्यते बुधैः / सर्वेश्वरः सर्ववेत्ता सर्वकर्ता ऽद्वयः पुमान् // VइSस्_२,५.४५ //
234 SK सामान्यादुच्यते यद्वद् राजा सर्वनराधिपः / आत्माद्वैतस्य सूत्रेण जातिमात्रेण वर्णनात् // VइSस्_२,५.४६ //
235 SK प्रलये हि विजातीयद्वैतशून्यत्वमात्मनाम् / असङ्गत्वान्नित्यशुद्धो नित्यबुद्धश्च चित्त्वतः // VइSस्_२,५.४७ //
236 SK नित्यमुक्तस्तथा नित्यनिर्दुःखत्वात् पुमान् मतः / इत्यादुगुरुशास्त्रोक्तदिशा स्वानुभवेन च // VइSस्_२,५.४८ //
237 SK वैधर्म्यादात्मनो ऽनात्मविवेकः क्रियतां बुधैः / परिच्छेदचतुष्केण पुम्प्रकृत्योः सुविस्तरात् / वैधर्म्यगण उक्तो ऽयं ध्यायिनामाशु मुक्तिदः // VइSस्_२,५.४९ //
238 SK इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मवैधर्म्यगणपरिच्छेदः // * //
239 SK अथ षष्ठः परिच्छेदः /
240 SK विवेकमेव सद्युक्त्या मत्वा तदनुभूयते / राजयोगं यथा कुर्यात् समासेन तदुच्यते // VइSस्_२,६.१ //
241 SK अशक्तो राजयोगस्य हठयोगे ऽधिकारवान् / वासिष्ठे च वसिष्ठाय भुसुण्डेनैवमीरितम् // VइSस्_२,६.२ //
242 SK ज्ञानावृत्ती राजयोगे प्राणायमासने हठे / मुख्ये ते ऽङ्गतया ऽन्योन्यं सेव्ये शक्त्यनुसारतः // VइSस्_२,६.३ //
243 SK विषये ऽनन्तदोषा ये श्रुतिस्मृतिसमीरिताः / त आदौ परिद्रष्टव्याश्चित्तस्थैर्याय योगिभिः // VइSस्_२,६.४ //
244 SK कामबीजान्यनन्तानि सम्प्ररोहन्ति यद्धृदि / तत्राटवीनिभे ज्ञानपुण्यसस्यं न वर्धते // VइSस्_२,६.५ //
245 SK दोषदृष्ट्यग्निसन्दग्धे कामबीजे तु चेतसि / गुरुशास्त्रहलैः कृष्टे सुक्षेत्रे तद्विवर्धते // VइSस्_२,६.६ //
246 SK सत्येष्वसत्तां प्रचुरां तथा रम्येष्वरम्यताम् / सुखेषु प्रचुरं दुःखं पश्यन् धीरो विरज्यते // VइSस्_२,६.७ //
247 SK ब्रह्मलोको ऽपि नरको विनाशामेध्यपूरितः / युक्तश्च स्वाधिकैरन्यैस्त्रैगुण्यादपि दुःखयुक् // VइSस्_२,६.८ //
248 SK तत्रत्यैरपि मुक्त्यर्थं यत्यते जन्मभीरुभिः / अतो ज्ञेयः समासेन लोकः सर्वो ऽपि दुःखयुक्त् // VइSस्_२,६.९ //
249 SK इदं मे स्यादिदं मा स्यादितीच्छाव्यथितं मनः / स्वभावात् तेन विज्ञेयं दुःखं चित्तेन सङ्गतिः // VइSस्_२,६.१० //
250 SK सुखं सुषुप्तिः परमा दुःखं विषयवेदनम् / सुखदुःखसमासो ऽयं किमन्यैर्बहुभाषितैः // VइSस्_२,६.११ //
251 SK तस्मादनर्थानर्थाभान् परीक्ष्य विषयान् सुधीः / उत्सृजेत् परमार्थार्थी बालरम्यानहीनिव // VइSस्_२,६.१२ //
252 SK इत्यादिकानन्तदोषदृष्ट्या रागस्य तानवे / मायाविवेकतः शुद्धमात्मानं चिन्तयेत् सदा // VइSस्_२,६.१३ //
253 SK इदं तदिति निर्देष्टुं गुरुणा ऽपि न शक्यते / उदासीनस्यात्मतत्त्वं स्वयमेव प्रकाशते // VइSस्_२,६.१४ //
254 SK बुद्धिबोधात्मको बुद्धिसाक्षी बुद्धेः परो विभुः / कूटस्थो ऽहं चिदादित्य इत्येकाग्रो ऽनुचिन्तयेत् // VइSस्_२,६.१५ //
255 SK वृत्तिबोधो घटच्छिद्रमिव नाश्यल्प ईक्ष्यते / वस्तुतो वृत्तिबोधो ऽहं पूर्णो व्योमवदक्षयः // VइSस्_२,६.१६ //
256 SK अन्तर्यद् दृश्यते सर्वं तद्बुद्धेर्वृत्तिरुच्यते / तेभ्यो दुःखात्मकेभ्यो ऽहं साक्षात् तद्वीक्षिता पृथक् // VइSस्_२,६.१७ //
257 SK कर्मकर्तृविरोधो हि वृत्त्या वृत्तिप्रकाशने / वृत्तिधाराकल्पने च गौरवादिति निश्चितम् // VइSस्_२,६.१८ //
258 SK हर्षशोकभयक्रोधलोभमोहमदैस्तथा / द्वेषाभिमानकार्पण्यनिद्रालस्यस्मरादिभिः // VइSस्_२,६.१९ //
259 SK धर्माधर्मैश्च सम्पूर्णा बुद्धिर्दुःखमयी तु मे / आत्मानं दर्शयत्येव भास्करायेव रोगिणः // VइSस्_२,६.२० //
260 SK अहं सर्वगतं शान्तं परमात्मघनं शुचि / अचिन्त्यचिन्मात्रनभो विश्वदर्पणमक्षयम् // VइSस्_२,६.२१ //
261 SK निरञ्जनं निराधारं निर्गुणं निरुपद्रवम् / निर्विशेषं सजातीयात् समस्तार्थावभासकम् // VइSस्_२,६.२२ //
262 SK ब्रह्मविष्णुमहेशाद्याः स्थावरान्ताश्च चेतनाः / अवैधर्म्यात्मकाभेदादहमित्यनुचिन्तयेत् // VइSस्_२,६.२३ //
263 SK अहमन्ये च पुरुषाः समचिद्व्योमरूपिणः / अत आत्मैक एवा ऽहमिति श्रुतिषु गीयते // VइSस्_२,६.२४ //
264 SK इति पश्यन् स्वभोगैश्च योगी विश्वं प्रपूजयेत् / आत्मयोगो ऽप्ययं प्रोक्तः श्रुत्युक्तः साङ्ख्ययोगिनाम् // VइSस्_२,६.२५ //
265 SK सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि / समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति // VइSस्_२,६.२६ //
266 SK इत्येवं मनुना ऽप्यात्मयागो ज्ञानाङ्गमीरितः / तस्मादभयदानेन स्वभोगाद्यर्चनेन च // VइSस्_२,६.२७ //
267 SK सम्मानयन् भूतजातमात्मानमनुचिन्तयेत् / ब्रह्मविष्णुशिवादीनां भोगे रागश्च हीयते // VइSस्_२,६.२८ //
268 SK तेषां स्वसाम्यदृष्ट्या ऽतः साम्यं योगी विचिन्तयेत् / उत्पत्तौ प्रलये चैव सर्वावस्थासु सर्वदा // VइSस्_२,६.२९ //
269 SK सर्वेषामेकरूपत्वं द्रष्टू रागादिकं कुतः / विष्ण्वादयो महैश्वर्यं भुञ्ज ना अपि नाधिका // VइSस्_२,६.३० //
270 SK मत्तो ऽतो ऽलं तदैश्वर्यैरविवेकिजनप्रियैः / गुणकर्मादिभिः किञ्चिन्निरीक्ष्याधिकमात्मनः // VइSस्_२,६.३१ //
271 SK तदर्थं यतते लोको नाहं पश्यामि मे ऽधिकम् / तथा न्यूनं न पश्यामि यदतिक्रमशङ्कया // VइSस्_२,६.३२ //
272 SK देवा दैत्यजयायेव यतिष्ये तज्जयाशया / अहं यथा तथैवान्ये आब्रह्मा नारका जनाः // VइSस्_२,६.३३ //
273 SK दृश्यन्ते स्वात्मवत् प्रेम्णा पितृभ्रातृसुतादिवत् / क ईश ईशितव्यो वा कः श्रेष्ठः को ऽधमो ऽपि वा // VइSस्_२,६.३४ //
274 SK अभिन्ने भेददृष्ट्या स्यान्मृत्योर्भयमिति श्रुतिः / चिद्व्योमस्वेकरूपेषु ईशानीशादिरूपकः // VइSस्_२,६.३५ //
275 SK रूपभेदो ह्यसन् सर्वः स्फटिके रूपभेदवत् / धियां रूपैः पुमानेको बहुरूप इवेयते // VइSस्_२,६.३६ //
276 SK वृकचर्मादिरूपाद्यैर्मायीव बहुरूपधृक् / मामालिङ्ग्य निराकारं विविधाकारधारिणी // VइSस्_२,६.३७ //
277 SK मायैवैका हि नृत्यन्ती मोहयत्यखिला धियः / पुंसां भेदो बुद्धिभेदादम्बुभेदाद्यथा रवेः // VइSस्_२,६.३८ //
278 SK व्योम्नश्च छिद्ररूपेण भेदः कुम्भादिभेदतः / अतः शुद्धो बुद्धमुक्तः सर्वदा सर्वगो ऽव्ययः // VइSस्_२,६.३९ //
279 SK अहमन्ये च तत्रा ऽहो शत्रुमित्रादिधीर्मृषा / ब्रह्मणीशे हराविन्द्रे सर्वभूतगणे तथा // VइSस्_२,६.४० //
280 SK उत्तमाधममध्यत्वविभागो मायया मृषा / त्रिगुणात्मकमायायास्त्रैविध्यादात्मनो ऽपि हि // VइSस्_२,६.४१ //
281 SK उत्तमाधममध्यत्वत्रैविध्यं नैव हि स्वतः / यथा देहे तथा ऽन्यत्र चित्प्रकाशो ऽयमव्ययः // VइSस्_२,६.४२ //
282 SK व्यक्तताव्यक्ततामात्रभेदो ह्यन्तरबाह्ययोः / एवमन्ये ऽपि पुरुषा बद्धमुक्ताविशेषतः // VइSस्_२,६.४३ //
283 SK ईशानीशाविशेषाच्च पुरुषार्थो न मे ऽस्त्यतः / महानिद्रैव मे साध्वी दुःखभोगहरा प्रिया // VइSस्_२,६.४४ //
284 SK अप्रिया मूढचित्तानामसाध्वी धीहतात्मनाम् / चिदादर्शे मयि धियो यद्यपि प्रतिबिम्बनम् // VइSस्_२,६.४५ //
285 SK तत्त्वतो नैव दोषाय तथा ऽपि त्याज्यमेव तत् / स्वभावादस्य हेयत्वं स्वानुभूत्या हि सिध्यति // VइSस्_२,६.४६ //
286 SK यथा को ऽपि परस्यापि वैरूप्यं न दिदृक्षति / स्वामिन्यारोप्यात्मदोषान् साध्वीयमनुतप्यते // VइSस्_२,६.४७ //
287 SK निर्दोषं स्वामिनं दृष्ट्वा निर्दोषा स्यात् पतिव्रता / एवमस्या रूपभेदे ऽप्येकरूपो ऽस्मि सर्वदा // VइSस्_२,६.४८ //
288 SK भुञ्जानो वा ऽप्यभुञ्जानस्तां मदर्थामनन्यगाम् / यथैकरूपतोपाधियोगायोगदशास्वहो // VइSस्_२,६.४९ //
289 SK आदर्शस्यामलस्यैव चिन्नभोदर्पणस्य मे / दृश्यबुद्धिगता दोषाः साक्षात्तद्द्रष्टरि प्रभौ // VइSस्_२,६.५० //
290 SK न सन्ति मयि मोहाद्या भास्करे भास्यदोषवत् / दुःखैर्बद्धा स्वमात्मानं त्यक्त्वा मद्भावमागता // VइSस्_२,६.५१ //
291 SK मुच्यते दुःखबन्धाद्धीर्न मे मोक्षो न बन्धनम् / कूटस्थासङ्गचिद्व्योम्नि धीदुःखप्रतिबिम्बनम् // VइSस्_२,६.५२ //
292 SK यो ऽन्यो बन्धो भोगरूपः सो ऽपि चिद्दर्पणे मृषा / जाग्रदादित्रयावस्थासाक्षी ताभिर्विवर्जितः // VइSस्_२,६.५३ //
293 SK अहं पूर्णश्चिदादित्य उदयास्तविवर्जितः / दर्पणे मुखवद्विश्वं मयि बोधे न तात्त्विकम् // VइSस्_२,६.५४ //
294 SK विभुत्वे च बाह्यान्तः सुषुप्त्यादावदर्शनात् / मयि वा ऽन्यत्र वा पुंसि केवलानुभवे विभौ // VइSस्_२,६.५५ //
295 SK भाति यत्तद्विवर्त्तो धीप्रतिबिम्बात्मकत्वतः / शुक्तौ रजतवद् विश्वमतो मयि न दोषकृत् // VइSस्_२,६.५६ //
296 SK मरीचौ तोयवत् तद्वद्व्योमादौ नगरादिवत् / कालत्रये ऽपि नास्त्येव मयि विश्वं सनातने // VइSस्_२,६.५७ //
297 SK अन्यत्रास्त्वथवा मा ऽस्तु बुद्ध्यादौ मम तेन किम् / मयि सर्वं यथा व्योम्नि सर्वत्राहं यथा नभः // VइSस्_२,६.५८ //
298 SK न सर्वं मयि सर्वत्र नाहं चालेपतः खवत् / अत एवाविभागाख्याभेदेन क्षीरनीरवत् // VइSस्_२,६.५९ //
299 SK ज्ञानात्मकमिदं विश्वं गायन्ति परमर्षयः / जगन्मम मदर्थत्वान्मच्छरीरसुखादिवत् // VइSस्_२,६.६० //
300 SK यथ मम तथा ऽन्येषां ममैवेति धियो भ्रमः / वस्तुतस्तु न कस्यापि किमपि व्यभिचारतः // VइSस्_२,६.६१ //
301 SK स्वामित्वस्याध्रुवत्वेन पान्थस्यावासगेहवत् / एकं चिन्मात्रमस्तीह शुद्धं शून्यं निरञ्जनम् // VइSस्_२,६.६२ //
302 SK सूक्ष्मात् सूक्ष्मतरं तत्र न जगन्न जगत्क्रिया / दृश्यते सर्वदृश्याढ्या स्वस्वबुद्धिपरम्परा // VइSस्_२,६.६३ //
303 SK चिन्मण्डलमहादर्शे प्रतिबिम्बमुपागता / क्वचिद्व्यक्तं क्वचित् सूक्ष्मं नभः सर्वत्र तिष्ठति // VइSस्_२,६.६४ //
304 SK यथा तथा चिदाकाशं धीदेशे ऽन्यत्र च स्थितम् / चिदाकाशमयं विश्वं यतो ऽतो धीरितस्ततः // VइSस्_२,६.६५ //
305 SK भ्रमन्ती तत्र तत्रैव भासते ऽर्के घटादिवत् / धर्माधर्मौ जन्ममृत्यू सुखदुःखादि चाखिलम् // VइSस्_२,६.६६ //
306 SK जाग्रत्यपि मृषा स्वप्न इव जन्मादिकं मम / दृश्ययोगवियोगाभ्यां चितो जन्मविनाशधीः // VइSस्_२,६.६७ //
307 SK अभिव्यक्त्यनभिव्यक्तिदोषाभ्यां शशिनो यथा / महासुषुप्तौ भवजन्ममृत्यु- दुःस्वप्नधाराः क्षणभङ्गुरा धियः / पश्याम्यहं ताभिरलिप्तरूपो घनैरूर्तैर्विगतै रवेः किम् // VइSस्_२,६.६८ //
308 SK इत्येवं सततं ध्यायन्नेकाग्रमनसा सुधीः / साक्षात्करोत्यात्मतत्त्वं वागगोचररूपतः // VइSस्_२,६.६९ //
309 SK स्वरूपं निर्मलं शान्तं मनस्त्यजति चेत् क्षणम् / तदैव दृश्यसंस्कारशेषात् सङ्क्षुभ्यतीन्द्रियम् // VइSस्_२,६.७० //
310 SK उत्थितनुत्थितांस्तत्र इन्द्रियारीन् पुनः पुनः / विवेकेनैव वज्रेण हन्यादिन्द्रो गिरीनिव // VइSस्_२,६.७१ //
311 SK इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे राजयोगप्रकारपरिच्छेदः // * //
312 SK अथ सप्तमः परिच्छेदः /
313 SK एवमात्मानुभविनो जीवन्मुक्तस्य लक्षणम् / स्पष्टं वक्ष्ये भवेद्येन ज्ञानाज्ञानपरीक्षणम् // VइSस्_२,७.१ //
314 SK श्रवणान् मननाद्वा ऽपि अन्यथा ऽ; ऽत्मज्ञताभ्रमात् / कुर्याद्गुरुमविद्वांसं स्याच्चाज्ञो ज्ञाभिमान्यपि // VइSस्_२,७.२ //
315 SK नैश्वर्यानागतज्ञत्वादिकं ज्ञानस्य लक्षणम् / तदृते ऽपि हि कैवल्यं योगभाष्यकृतेरितम् // VइSस्_२,७.३ //
316 SK श्रौतस्मार्तानि वाक्यानि ज्ञानिनो मोक्षभागिनः / लक्षकाण्येव लिख्यन्ते विश्वासातिशयाय वै // VइSस्_२,७.४ //
317 SK यत्र सर्वाणि भूतानि आत्मैवाभूद् विजानतः / तत्र को मोहः कः शोक एकत्वमनुपश्यतः // VइSस्_२,७.५ //
318 SK यः सर्वत्रानभिस्नेहस्तत् तत् प्राप्य शुभाशुभम् / नाभिनन्दन्ति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता // VइSस्_२,७.६ //
319 SK न विस्मरति सर्वत्र यथा सततगो गतिम् / न विस्मरति निश्चेत्यं चिन्मात्रं प्राज्ञधीस्तथा // VइSस्_२,७.७ //
320 SK नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा / यथापूर्वस्थितिर्यस्य स जीवन्मुक्त उच्यते // VइSस्_२,७.८ //
321 SK यो जागर्त्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यते / यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते // VइSस्_२,७.९ //
322 SK रागद्वेषभयादीनामनुरूपं चरन्नपि / यो ऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते // VइSस्_२,७.१० //
323 SK यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते / कुर्वतो ऽकुर्वतो वा ऽपि स जीवन्मुक्त उच्यते // VइSस्_२,७.११ //
324 SK अपि शीतरुचावर्के अत्युष्णे ऽपीन्दुमण्डले / अप्यधःप्रसवत्यग्नौ जीवन्मुतो न चान्यधीः // VइSस्_२,७.१२ //
325 SK चिदात्मन इमा नित्यम्प्रस्फुरन्तीह शक्तयः / इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम् // VइSस्_२,७.१३ //
326 SK परव्यसनिनी नारी व्यग्रा ऽपि गृहकर्मणि / तदेवास्वादयत्यन्तर्नरसङ्गरसायनम् // VइSस्_२,७.१४ //
327 SK एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः / तदेवास्वादयत्यन्तर्बहिर्व्यवहरन्नपि // VइSस्_२,७.१५ //
328 SK यो नित्यमध्यात्ममयो नित्यमन्तर्मुखः सुखी / गम्भीरश्च प्रसन्नश्च गिराविव महाहृदः // VइSस्_२,७.१६ //
329 SK परानन्दरसाक्षुब्धो रमते स्वात्मना ऽ; ऽत्मनि / सर्वकर्मपरित्यागी नित्यहृष्टो निरामयः // VइSस्_२,७.१७ //
330 SK न पुण्येन न पापेन नेतरेणापि लिप्यते / येन केन चिदाच्छन्नो येन केन चिदाशितः // VइSस्_२,७.१८ //
331 SK यत्र क्वचन शायी च स सम्राडिव राजते / वर्णधर्माश्रमाचारशास्त्रमन्त्रनयेप्सितः // VइSस्_२,७.१९ //
332 SK निर्गच्छति जगज्जालात् पञ्जरादिव केसरी / वाचामतीतविषमो विषयाशादृशेक्षितः // VइSस्_२,७.२० //
333 SK कामप्युपगतः शोभां शरदीव नभस्तलम् / निःस्तोत्रो निर्नमस्कारः पूज्यपूजाविवर्जितः // VइSस्_२,७.२१ //
334 SK संयुक्तो वा वियुक्तो वा सदाचारनयक्रमैः / एतावदेव खलु लिङ्गमलिङ्गमूर्त्तेः संशान्तसंसृतिचिरभ्रमनिर्वृत्तस्य / तद्यस्य यन्मदनकोपविषादलोभ- मोहापदामनुदिनं निपुणं तनुत्वम् // VइSस्_२,७.२२ //
335 SK तुर्यविश्रान्तियुक्तस्य प्रतितीपस्य भवार्णवात् / न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः // VइSस्_२,७.२३ //
336 SK तनुं तयजतु वा तीर्थे श्वपचस्य गृहे ऽथवा / ज्ञानसम्प्राप्तिसमये मुक्त एवामलाशयः // VइSस्_२,७.२४ //
337 SK न मोक्षो नभसः पृष्ठे न पाताले न भूतले / सर्वाशासङ्क्षये चेतःक्षयो मोक्ष इति श्रुतेः // VइSस्_२,७.२५ //
338 SK जीवन्मुक्तपदं त्यक्ता स्वदेहे कालसात्कृते / विशत्यदेहमुक्तत्वं पवनो ऽस्पन्दतामिव // VइSस्_२,७.२६ //
339 SK अनाप्ताखिलशैलादिप्रतिबिम्बे हि यादृशी / स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी // VइSस्_२,७.२७ //
340 SK अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे / स्यात् तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे // VइSस्_२,७.२८ //
341 SK चिन्मात्रं चेत्यरहितमनन्तमजरं शिवम् / अनादिमध्यनिलयं यदनाधि निरामयम् // VइSस्_२,७.२९ //
342 SK न शून्यं नापि चाकारं न दृश्यं न च दर्शनम् / अनाख्यमनभिव्यक्तं तत् किञ्चिदवशिष्यते // VइSस्_२,७.३० //
343 SK इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे जीवन्मुक्तिपरममुक्त्योः परिच्छेदः // * //
344 SK इति साङ्ख्यसारस्योत्तरभागः /
345 SK साङ्ख्यसाराख्यं प्रकरणं समाप्तम् /
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Vijñānabhikṣu: Sāṃkhyasāra (sa_vijJAnabhikSu-sAMkhyasAra.htm).
Source