Five Stages
Pañcakrama
Pअञ्चक्रम
SK[१] वज्रजापक्रमः प्रथमः
SKसर्वबुद्धात्मकं नाथं नत्वा श्रीमन्महासुखम् | वज्रजापक्रमं वक्ष्ये योगतन्त्रानुसारतः || Pक्_१.१ ||
SKउत्पत्तिक्रमसंस्थानां निष्पन्नक्रमकाङ्क्षिणाम् | उपायश्चैष संबुद्धैः सोपानमिव निर्मितः || Pक्_१.२ ||
SKप्राणभूतश्च सत्त्वानां वाय्वाख्यः सर्वकर्मकृत् | विज्ञानवाहनश्चैष पञ्चात्मा दशधा पुनः || Pक्_१.३ ||
SKवायुतत्त्वानुपूर्वेण मन्त्रतत्त्वं समाविशेत् | मन्त्रनिध्यप्तिमागम्य वज्रजापः सुशिक्ष्यते || Pक्_१.४ ||
SKवज्रजापस्थितो मन्त्री चित्तनिध्यप्तिमाप्नुयात् | मयोपमसमाधिस्थो भूतकोट्यां समाविशेत् || Pक्_१.५ ||
SKभूतकोटेः समुत्तिष्ठन्नद्वयज्ञानमाप्नुयात् | युगनद्वसमाधिस्थो न किञ्चिच्छक्षते पुनः || Pक्_१.६ ||
SKअयं निष्पन्नयोगाख्यो महावज्रधरश्च सः | सर्वाकारवरोपेतः सर्वज्ञो जायते ततः || Pक्_१.७ ||
SKअनागतमतीतं च वर्तमानं भवत्रयम् | तत्क्षणात् निखिलं पश्येत् प्रभास्वरविशुद्धितः || Pक्_१.८ ||
SKएतत्तत्त्वं स्थितं तन्त्रे श्रीसमाजे सुमुद्रितम् | व्याख्यातन्त्रानुसारेण बोद्धव्यं गुरुवक्त्रतः || Pक्_१.९ ||
SKतत्र प्रथमतरं वायुतत्त्वोद्देशपदं मूलसूत्रादेवावतार्यते-
SKनासाग्रे सर्षपं चिन्तेत् सर्षपे सचराचरम् | भावयेज्ज्ञानपदं रम्यं रहस्यं ज्ञानकल्पितम् || Pक्_१.१० ||
SKपञ्चवर्णं महारत्नं सर्षपस्थूलमात्रकम् | नासिकाग्रे प्रयत्नेन भावयेद् योगतः सदा || Pक्_१.११ ||
SKइति सन्धाभाषेयमस्य वज्रपदस्य निर्देशमाह चतुर्देवीव्याख्यातन्त्रे-
SKतद् देवि सम्प्रवक्ष्यामि सारात् सारतरं परम् | रहस्यं सर्वबुद्धानां यत् तत् सर्वात्मनि स्थितम् || Pक्_१.१२ ||
SKपश्चज्ञानमयं तत्त्वं सर्षपस्थूलमात्रकम् | तस्य मध्ये स्थितो देवो ह्यव्यक्तो व्यक्तरूपवान् || इति | Pक्_१.१३ ||
SKसमाजोत्तरे ऽप्यमुमर्थं द्योतयन्नाहः |
SKपञ्चज्ञानमयं श्वासं पञ्चभूतस्वभावकम् | निश्चार्य पद्मनासाग्रे पिण्डरूपेण कल्पयेत् || Pक्_१.१४ ||
SKपञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम् | स्वमन्त्रं हृदये ध्यात्वा चित्तं बिन्दुगतं न्यसेत् || Pक्_१.१५ |
SKइत्यस्यापि प्रतिनिर्देशमाह वज्रमालानाम्नि व्याख्यातन्त्रे-
SKनासाग्रे सर्षपं नाम प्राणायामस्य कल्पना | प्राणायामस्थिताः पञ्च रश्मयो बुद्धभावतः || Pक्_१.१६ ||
SKऊर्ध्वं घ्राणाद् विनिष्क्रान्तो वामदक्षिणद्वन्द्वतः | स्तब्धश्चेति चतुर्धास्माद् वेला आध्यात्मिका स्मृता || Pक्_१.१७ ||
SKकण्ठहृन्नाभिगुह्याब्जे गत्यागती विनिर्दिशेत् | विहरेद् अर्धयामिकां वेलां परिपाट्या यथाक्रमम् || Pक्_१.१८ ||
SKदक्षिणाद् विनिर्गतो रश्मिर्हुतभुङ्मण्डलं च तत् | रक्तवर्णमिदं व्यक्तं पद्मनाथो ऽत्र देवता || Pक्_१.१९ ||
SKवामाद् विनिर्गतो रश्मिर्वायुमण्डलसंज्ञितः | हरितश्यामसङ्काशः कर्मनाथो ऽत्र देवता || Pक्_१.२० ||
SKद्वाभ्यां विनिर्गतो रश्मिः पीतवर्णो महाद्युतिः | माहेन्द्रमण्डलं चैतद् रत्ननाथो ऽत्र देवता || Pक्_१.२१ ||
SKस्तब्धो मन्द्रप्रचारस्तु सितकुन्देन्दुसन्निभः | मण्डलं वारुणं चैतद् वज्रनाथो ऽत्र देवता || Pक्_१.२२ ||
SKसर्वदेहानुगो वायुः सर्वचेष्टाप्रवर्तकः | वैरोचनस्वभावो ऽसौ मृतकायाद् विनिश्चरेत् || Pक्_१.२३ ||
SKवायुतत्त्वमिदं व्यक्तं पञ्चज्ञानस्वभावकम् | तार्किका न प्रजानन्ति अगम्यं बालयोगिनाम् || Pक्_१.२४ ||
SKइत्येवं वायुत्तत्वं प्रतिपाद्येदानीं मन्त्रतत्त्वस्योद्देशपदं मूलसूत्रादवतार्यते-
SKसर्वतथागतकायवाक्चित्तरहस्यं सर्वतन्त्रहृदयसञ्चोदनं नाम परमगुह्यं स्वकायवाक्चित्तवज्रेभ्यो वाक्पथनिरुक्त्या मन्त्रसमुच्चयमुदाजहार ॐ आः हूं |
SKअर्थानुमजापेन निःस्वभावेन चारुणा | विचारणा त्र्यध्वबुद्धेभ्यो वज्रजापः स उच्यते || Pक्_१.२५ ||
SKभिक्षाशिना न जप्तव्यं न च भैक्षरतो भवेत् | जपेन्मन्त्रमभिन्नाङ्गं सर्वकामोपभोगकृत् || Pक्_१.२६ ||
SKइत्युद्देशपदम् अस्य निर्देशमाह सन्ध्याव्याकरणव्याख्यातन्त्रे तदवतार्यते-
SKप्रत्युवाच ततः श्रीमान् महावैरोचनं विभुम् | विश्वरूपमिदं चित्तं सर्वसत्त्वोपपत्तितः || Pक्_१.२७ ||
SKजातं सन् निःस्वभावो ऽपि भावाख्यं तु प्रतीत्यतः | कृत्वा चानुभवं सम्यग् बोधिचित्तं खतुल्यकम् || Pक्_१.२८ ||
SKजगदर्थं विधातुं च तद्देशयोत्तमे जने | साधनोपायितामात्रं ज्ञात्वा तन्त्रे विपञ्चितम् || Pक्_१.२९ ||
SKआचार्या वयमित्येवं वदन्त्यागामिका विभो | यद् वाक्यं ममेत्येवमुक्त्वा क्षिपन्ति बालिशाः | सन्ध्याय बोधिचित्तं ते न विदन्ति यथार्थतः || इति | Pक्_१.३० ||
SKयथेदं भगवान् स्वामी महावैरोचनो विभुः | त्रिष्कृत्वा साधुवचनं वज्रपाणिं वदेदिदम् || Pक्_१.३१ ||
SKकथयमामि प्रभेदेन निर्विकल्पार्थतत्त्वतः | प्रव्याहारोपलम्भाख्यं साङ्केतं पारमार्थिकम् || Pक्_१.३२ ||
SKप्रव्याहारो हि सामान्यं बुद्धरूपोपलम्भकम् | साङ्केतं मन्त्रतत्त्वाख्यं तथता पारमार्थिकम् || Pक्_१.३३ ||
SKएकादिर्नवमध्ये तु दशभिर्यो न बध्यते | तमबद्धं विजानीयात् स वेत्ति परसम्पदम् || Pक्_१.३४ ||
SKस्वरव्यञ्चनवर्णाश्च नवसंख्यानुवर्तिनः | ऽ अबद्धान्योन्यसंयोओगाद् यो वेत्ति स जगद्गुरुः || Pक्_१.३५ ||
SKभूतान्तेन समायुक्तं कलादिषोडशे स्थितम् | पञ्चपञ्चकसंयुक्तं चतुस्त्रयनियोजितम् || Pक्_१.३६ ||
SKसानुस्वारं सदीर्घं न गुणसंयोलोपवत् | ह्रस्वं समस्तवाक्यं स्यान्न चानेकं न चैककम् || Pक्_१.३७ ||
SKये वर्णाः पृष्ठतः प्रोक्ता अभिमुखाश्च ये पुनः | स्त्री-पुं-नपुंसकास्ते च धात्वादिपरिकल्पिताः || Pक्_१.३८ ||
SKअध-ऊर्ध्वसमायुक्तं ज्ञात्वा बुद्ध्या नियोजयेत् | प्रव्याहारमिदं मन्त्रं निःस्वभावस्वभावजम् || Pक्_१.३९ ||
SKततः परिणतं रूपं यद्देवतोपलम्भिकम् | साङ्केतिकं त्रितत्त्वस्थं प्रकृतिजापलपक्षणम् || Pक्_१.४० ||
SKअकारोद्देशकं ज्ञानं बुद्धस्य हृदयं भवेत् | ॐकारः संसृजेत् सत्त्वान् बुद्धरूपाग्रकल्पितान् || Pक्_१.४१ ||
SKहूंकारःसंहरेत् सत्त्वान् आःकारः स्थापको भवेत् | प्रवेशश्व स्थितिश्चैव व्युत्थानं च क्रमेण च || Pक्_१.४२ ||
SKजपेन् मन्त्रमभिन्नाङ्गं प्रज्ञोपायपदे स्थितः | पाण्डरादिजपः प्रक्तः पञ्चविंशच्छतद्वयम् || Pक्_१.४३ ||
SKचतुर्भिर्गुणितं सम्यक् चतुर्योगशतं नव | नवशतं तु यद् दृष्टं चतुर्विंशत्परिक्रमैः | प्रत्युत्पादाद् भवेत् तत्र द्व्ययुतं शतषोडशम् || Pक्_१.४४ ||
SKइदमेवाध्यात्मिकवेलायां द्योतयन्नाह समाजोत्तरे-
SKविद्यानयविधानेन चतुःसन्ध्याप्रयोगतः | जपेन्मन्त्रमभिन्नाङ्गं लक्षमक्षरसंख्यया || Pक्_१.४५ ||
SKबाह्यजापं त्यजेद् योगी भावनायान्तरायिकम् | मन्त्रार्थो भगवान् वज्री वज्रात्मात्र कथं जपेत् || Pक्_१.४६ ||
SKहस्तिनं लभते सद्यो मृगयेद्धस्तिनः पदम् | मन्त्रमूर्तिः स्वयं साक्षात् किमन्यत्तु गवेषते || Pक्_१.४७ ||
SKअपि च वज्रधृक् कश्चित् त्रिसंयोगान्वितो नरः | आवाहनविसर्जनं स्यात् तथा स्थापनमेव च || Pक्_१.४८ ||
SKआवाहनं प्रवेशेन त्वरितेन विसर्जनम् | वाष्पेण स्थापनं तत् स्याद् विश्वस्तात् सिद्धिरुत्तमा || Pक्_१.४९ ||
SKत्वरिते निबन्धके वाष्पे मन्त्रनियोजना कथिता | कर्णमूले तु शिष्यायाचार्येण सुप्रयत्नतः || Pक्_१.५० ||
SKअथ योगेश्वराणां तु दिव्योपायः प्रदर्शितः | गुह्याक्षरं प्रवक्ष्यामि योगसिद्धिफलप्रदम् || Pक्_१.५१ ||
SKयेन चिन्तितमात्रेण योगिनः स्युर्वरप्रदाः | आद्यक्षरप्रयोगेण उच्छवासं कुरुते सदा || Pक्_१.५२ ||
SKअष्टान्तेन समायुक्तमुकारेण सबिन्दुकम् | निश्वासं कुरुते योगी रुचिजाप्तमिहोच्यते || Pक्_१.५३ ||
SKअयुतद्वयं सहस्रं च षट् शतानि तथैव च | अहोरात्रेण योगीन्द्रो जपसंख्यां करोति च || Pक्_१.५४ ||
SKतदेवं गुह्यसन्ध्यायां सूक्ष्मयोगः प्रकाशितः | ध्यानाध्ययनवीतं तु तथापि जाप उच्यते || Pक्_१.५५ ||
SKअनेन वज्रजापेन सेवां कृत्वा यथाविधि | साधयेत् सर्वकार्याणि मायोपमसमाधिना || Pक्_१.५६ ||
SKअत्राह अद्वयसमतामहायोगतन्त्रे-
SKजपित्वा मन्त्रमतुलं साधयेत् साधनात्मकः | सिध्यते तस्य त्रैलोक्यं मासैकेन न संशयः || Pक्_१.५७ ||
SKषड् लक्षाणि जपित्वा तु मन्त्रं ज्ञानसमुद्भवम् | वज्रसत्त्वं नमस्कृत्य पूर्णमास्यां स सिध्यति || Pक्_१.५८ ||
SKन तस्य व्रतमाख्यातं नाक्षसूत्रं न मन्त्रकम् | धारणा होमकर्माणि वर्ज्यन्ते च परापरम् || Pक्_१.५९ ||
SKयकारार्थेन यत् किञ्चित् सिद्धिमिच्छता | रेफादित्रितयेनैव जतत्कार्यं प्रवर्तते || Pक्_१.६० ||
SKअग्निवायव्यमाहेन्द्रवारुणे प्रतिमण्डले | अर्धयामिकवेलायां द्वौ द्वौ कर्मणि तिष्ठतः || Pक्_१.६१ ||
SKपूजाप्रायो भवेत् पूज्यो जापप्रायो विशुध्यति | अग्निहोत्रपरो भूतिं मोक्षं ध्यानपरो लभेत् || Pक्_१.६२ ||
SKज्ञात्वा इत्थं ततो मन्त्री जगद्बालवदाचरेत् | ततः सिध्यन्ति मन्त्राश्च निर्विकल्पैकधर्मतः || Pक्_१.६३ ||
SKमन्त्रतत्त्वमिदं व्यक्तं वाग्वज्रस्य प्रसाधनम् | ज्ञानत्रयप्रभेदेन चित्तमात्रे नियोजयेद् || इति || Pक्_१. ६४ ||
SKगुरोरवज्ञासुशठो ऽप्रसन्नो मन्त्रोद्धतः पुस्तकदृष्टिगर्वः | अश्रद्दधानस्त्वभिषेकहीनो वार्ता क्रमस्यापि च तस्य नोक्ता || Pक्_१.६५ ||
SKयः श्रद्दधानो गुरुभक्तिरक्तः शुश्रूषणायां च सदाभियुक्तः | ग्राह्यः श्रुतिं नैव धनं निरीक्ष्यं गुरुप्रधानो ऽय गुरुप्रसादः || Pक्_१.६६ ||
SKगिरीन्द्रमूर्ध्नः प्रपतेत् तु कश्चित् नेच्छेच्च्युतिं तु च्यवते तथापि | गुरुप्रसादाप्तहितोपदेश इच्छेन्न मोक्तं स तथापि मुक्तंः || Pक्_१.६७ ||
SK|| वज्रजापक्रमः समाप्तः ||
SKकृतिरियं श्रीनागार्जुनपादानामिति | ग्रन्थप्रमाणमस्य षदधिकसप्ततिः ||
SK[२] अनुत्तरसन्धिरित्यपरनामा सर्वशुद्धिविशुद्धिक्रमः द्वितीयः
SKनमस्ते ऽस्तु नमस्ते ऽस्तु नमस्ते ऽस्तु नमो नमः | एवं स्तुते नमस्ते ऽस्तु कः स्तोता कश्च संस्तुतः || Pक्_२.१ ||
SKयथा जलं जले न्यस्तं घृतं चैव यथा घृते | स्वकीयं च स्वयं पश्येज् ज्ञानं यत्रेह वन्दना || Pक्_२.२ ||
SKकिन्तु सर्वज्ञगतिभिर्विना तन्नोपलभ्यते | तमःपटलसञ्छन्नं प्रसादाद् द्वीपमाप्नुयात् || Pक्_२.३ ||
SKशून्यं च अतिशून्यं च महाशुन्यं तृतीयकम् | चतुर्थं सर्वशून्यं च फलहेतुप्रभेदतः || Pक्_२.४ ||
SKप्रज्ञोपायसमायोगान्निष्पन्नमुपलब्धकम् | उपलब्धाच्च निष्पन्नात् सर्वशून्यं प्रभास्वरम् || Pक्_२.५ ||
SKहेतुक्रमविशुद्धं तु विज्ञानत्रययोगतः | शून्यत्रयसमायोगाल्लभ्यते ऽनुत्तरं पदम् || Pक्_२.६ ||
SKआलोकश्शून्यं प्रज्ञा च चित्तं च परतन्त्रकम् | तस्येदानीं प्रवक्ष्यामि प्रकृतिस्फरणं स्फुटम् || Pक्_२.७ ||
SKविरागो मध्यमश्चैव अधिमात्रस्तथैव च | मनोगतागतं चैव शोकादितृतीयं तथा || Pक्_२.८ ||
SKसौम्यं विकम्पो भीतश्च मध्यभीतो ऽतिभीतकः | तृष्णा मध्यतृष्णा चातितृओस्णोओपादानकं तथा || Pक्_२.९ ||
SKनिःशुभं क्षुत्तृषा चैव वेदना समवेदना | अतिवेदना क्षणश्चैव वेत्तिविद्धारणापदम् || Pक्_२.१० ||
SKप्रत्यवेक्षणं लज्जा च कारुण्यं स्नेहतस्त्रयम् | चकितं संशयश्चैव मात्सर्यं चेति कीर्तिताः || Pक्_२.११ ||
SKत्रयस्त्रिंशत् प्रकृतयः स्वसंवेद्याः शरीरिणाम् | संवृतिस्फुटरुपेण निशासंज्ञा प्रदर्शिताः || Pक्_२.१२ ||
SKस्त्रीसंज्ञा तथा प्रोक्ता मन्दाकारा तथैव च | वामसंज्ञा पुनश्चैव चन्द्रमण्डलपङ्कजम् || Pक्_२.१३ ||
SKदृढीकरणहेतुत्वात् सबिन्दुः प्रथमः स्वरः | निशाकरांशुसङ्काश आलोकज्ञानसम्भवः || Pक्_२.१४ ||
SKआलोकाभासमित्युत्कम् अतिशून्यमुपायकम् | परिकल्पितं तथा प्रोक्तं प्रोक्तं चैतसिकं तथा || Pक्_२.१५ ||
SKरागो रक्तं तथा तुष्टं मध्यतुष्टातितुष्टकम् | हर्षणं चैव प्रामोद्यं विस्मयो हसितं तथा || Pक्_२.१६ ||
SKह्लादनालिङ्गनं चैव तथा चुम्बनचूषणम् | धैर्यं वीर्यं च मानश्च कर्तृहर्तृबलानि च || Pक्_२.१७ ||
SKउत्साहः साहसं चैव तथा चोत्तमसाहसम् | मध्यमं साहसं राद्रं विलासो वैरमेव च || Pक्_२.१८ ||
SKशुभं च वाक् स्फुटा सत्यमसत्यं निश्चयस्तथा | निरुपादानदातृत्वे चोदनं शूरता तथा | अलज्जा धूर्तदुष्टश्च हठः कुटिल एव च | चत्वारिंशत् प्रकृतयः क्षणिकाश्चातिशून्यज्जाः || Pक्_२.२० ||
SKदिवापुरुषसंज्ञा च खराकारश्च दक्षिणः | सूर्यमण्डलसंज्ञा च वज्रसंज्ञा तथैव च || Pक्_२.२१ ||
SKकला सैव तु विज्ञेया बिन्दुद्वयविभूषिता | दिवाकरांशुइसङ्काशा आलोकाभासयोगजा || Pक्_२.२२ ||
SKआलोकस्योपलब्धिश्च उपलब्धं तथैव च | परिनिष्पन्नकं चैव अविद्या चैव नामतः || Pक्_२.२३ ||
SKमहाशून्यपदस्यैते पर्यायाः कथिता जिनैः | मध्यरागक्षणश्चैव विस्मृतिर्भ्रान्तिरेव च || Pक्_२.२४ ||
SKतूष्णींभावश्च खेदश्च आलस्यं दन्धता तथा | अविद्यायाः क्षणाः सप्त विज्ञेयाः सुक्ष्मयोगिभिः || Pक्_२.२५ ||
SKन बीजं विन्दुसंयुक्तं न वायुर्द्वारनिर्गतः | यदालोकोपलब्धं तु तत् परिनिष्पन्नलक्षणम् || Pक्_२.२६ ||
SKएताः प्रकृतयः सूक्ष्माः शतं षष्ट्युत्तरं दिवा | रात्रौ चापि प्रवर्तन्ते वायुवाहनहेतुना || Pक्_२.२७ ||
SKक्षणे लवे मुहूर्त्ते च निमेषे मात्रके तथा | क्षण इत्यच्छटावस्था लवः सर्षपवर्तनम् || Pक्_२.२८ ||
SKआश्वासस्तु मुहूर्त्तं स्यान्निमेषो ऽक्षिनिमेषणम् | मात्रा तु हस्ततालं स्यात् क्षणादीनां तु लक्षणम् || Pक्_२.२९ ||
SKसंवित्तिमात्रकं ज्ञानमाकाशवदलक्षणम् | किन्तु तस्य प्रभेदो ऽस्ति सन्ध्यारात्रिदिवात्मना || Pक्_२.३० ||
SKआलोकालोकाभासौ च तथालोकोपलब्धकम् | चित्तं त्रिविधमित्युक्तम् आधारस्तस्य कथ्यते || Pक्_२.३१ ||
SKवायुना सूक्ष्मरूपेण ज्ञानं संमिश्रतां गतम् | निःसृत्येन्द्रियमार्गेम्यो विषयानवलम्बते || Pक्_२.३२ ||
SKआभासेन यदा युक्तो वायुर्वाहनतां गतः | तदा तत्प्रकृतीः सर्वा अस्तव्यस्ताः प्रवर्तयेत् || Pक्_२.३३ ||
SKयत्र यत्र स्थितो वायुस्तां तां प्रकृतिमुद्वहेत् | यावत् समीरणोत्पादो नाभासो निश्चलो भवेत् || Pक्_२.३४ ||
SKआभासद्वयहेतुः स्यादात्मभावविकल्पना | उभयांशिकमेव स्याद् यदालोकोपलब्धकम् || Pक्_२.३५ ||
SKसर्वासामेव मायानां स्त्रीमायैव विशिष्यते | ज्ञानत्रयप्रभेदो ऽयं स्फुटमत्रैव लक्ष्यते || Pक्_२.३६ ||
SKरागश्चैव विरागश्च द्वरोरन्तरिति त्रयम् | द्वीन्द्रियस्य समापत्त्या वज्रपद्मसमागमात् || Pक्_२.३७ ||
SKज्ञानद्वयसमायोगः समापत्तिः प्रकीर्तीता | ज्ञानद्वयसमापत्त्या यथोक्तकरणेन तु || Pक्_२.३८ ||
SKयज्ज्ञानं प्राप्यते यत्नात् तदालोकोपलब्धकम् | यस्य वज्राब्जसंयोगः संवृत्या तु न विद्यते || Pक्_२.३९ ||
SKसिध्यते योगसामर्थ्यात् सकृदप्यनुभूतवान् | यथा प्रभेदं विज्ञाय ज्ञानवृत्तिं स्वभावतः || Pक्_२.४० ||
SKलक्षयेत् सततं योगी तामेव प्रकृतिं पुनः | पयोधरा यथा नैके नानासंस्थानवर्णकाः || Pक्_२.४१ ||
SKउद्भूता गगनाभोगाल्लयं गच्छन्ति तत्र वै | एवं प्रकृतयः सर्वा आभासत्रयहेतुकाः || Pक्_२.४२ ||
SKनिर्विश्य विषयान् कृत्स्नान् प्रविशन्ति प्रभास्वरम् | एषां स्वभावाबिज्ञानदज्ञानपटलावृताः || Pक्_२.४३ ||
SKकृत्वा शुभाशुभं कर्म भ्रमन्ति गतिपञ्चके | आनन्तर्यादिकं कृत्वा नरकेषु विपच्यते || Pक्_२.४४ ||
SKशुभं दानादिकं कृत्वा स्वर्गादिषु महीयते | अनन्तजन्मसाहस्रं प्राप्य चैवं पुनः पुनः || Pक्_२.४५ ||
SKपूर्वकर्मविपाको ऽयमिति शोचति मोहतः | प्रकृत्याभासयोगेन येन क्लिश्यन्ति जन्तवः || Pक्_२.४६ ||
SKज्ञात्वा तमेव मुच्यन्ते ज्ञानिनो भवपञ्जरात् | प्रज्ञास्वभाव एवायं चन्द्रमण्डलकल्पना || Pक्_२.४७ ||
SKचित्तमेव स्वयं पश्येत् स्वमेव शशिबिम्बवत् | अथ चन्द्रं समालम्ब्य वज्रचिन्हं प्रकल्पयेत् || Pक्_२.४८ ||
SKउपायसूचकं ह्येतद् वज्राद्युत्पत्तियोगिनाम् | चन्द्रवज्रादिसंयोगश्चित्तचैतससङ्गमः || Pक्_२.४९ ||
SKप्रज्ञोपायसमायोगाज्जायते देवताकृतिः | चतुर्मुद्राभिरामुद्र्य देवतागर्वमुद्वहन् || Pक्_२.५० ||
SKविचरेत् तु सदा मन्त्री उत्पत्तिक्रमयोगवान् | यथोक्तं श्रीसमाजादौ तत्र तत्र सुविस्तरम् || Pक्_२.५१ ||
SKयावत् स्याद् भावनायोगस्तावत् स्यादादिकर्मिकः | परिनिष्पन्नयोगस्य सूचन क्रियते ऽधुना || Pक्_२.५२ ||
SKशून्यत्रयविशुद्धिर्या प्रभास्वरमिहोच्यते | सर्वशून्यपदं तच्च ज्ञानत्रयविशुद्धितः || Pक्_२.५३ ||
SKज्ञानशुद्धिपदं तत्त्वं सर्वज्ञत्वमनुत्तरम् | निर्विकारं निराभासं निर्द्वन्द्वं परमं शिवम् || Pक्_२.५४ ||
SKअस्तीति न च नास्तीति न च वाक्यगोचरम् | अतः प्रभास्वराच्चूद्धाज्ज्ञानत्रयसमुद्भवः || Pक्_२.५५ ||
SKद्वात्रिंशल्लक्षणधरो ह्यशीतिव्यञ्चनान्वितः | सर्वाकारवरोपेतः सर्वज्ञो जायते ततः || Pक्_२.५६ ||
SKतथा चोक्तं महायानसूत्रे ललितविस्तरे | अभिसम्बोधिकामो ऽयं शाक्यसिंहस्तथागतः || Pक्_२.५७ ||
SKमहाशून्येन बुद्धत्वं प्राप्स्यामीत्यभिमानतः | नैरञ्चनानदीतीरे निस्पाद्यास्फानकं गतः || Pक्_२.५८ ||
SKतिलबिम्बीव सम्पूर्णाः खमध्यस्था जिनास्तदा | एकस्वरेण तं प्राहुरच्छटेन जिनौरसम् || Pक्_२.५९ ||
SKअविशुद्धमिदं ध्यानं न चैतदिष्टकावहम् | प्रभास्वरं आतु आलम्ब्यमाकाशतलवत् परम् || Pक्_२.६० ||
SKप्रभास्वरपदे प्राप्ते स्वेच्छारूपस्तु जायसे | सवैश्वर्यं तथा प्राप्य वज्रकाये प्रमोदसे || Pक्_२.६१ ||
SKएवं श्रुत्वा तु तं श्ब्दं विसर्ज्यास्फानकं ततः | निशार्धसमये तत्त्वमालम्ब्यैव जिनौरसः || Pक्_२.६२ ||
SKऋजुकेनैव कायेन वाचाय ऋजुरेव च | साशनो नाशनो नैव न मौनी नाप्यमौनवान् || Pक्_२.६३ ||
SKनोन्मीलितसुनेत्रस्तु न च मीलितलोचनः | स्वच्छं व्यक्तं महाज्ञानं सर्वशून्यं महाद्भुतम् || Pक्_२.६४ ||
SKअथ पश्यति तद्वयक्तं गुरुपादप्रसादतः | अनागतमतीतं च वर्तमानं भवत्रयम् || Pक्_२.६५ ||
SKतत्क्षणान्निखिलं पश्येत् प्रभास्वरविशुद्धधृक् | जलचन्द्रमरीच्यादिमायागुणविभूषितः || Pक्_२.६६ ||
SKअरुणोद्गमकाले तु वज्रोपमसमाधिना | निषद्य बोधिमूले तु सो ऽकरोन्मारभञ्चनम् || Pक्_२.६७ ||
SKसम्प्राप्य शाक्यनाथेन तत्त्वज्ञानमनुत्तरम् | जगत्त्रयहितार्थाय तदेवेह प्रदर्शितम् || Pक्_२.६८ ||
SKतत्त्वज्ञानमिति प्रोक्तमभिसम्बोधिदर्शनम् | पञ्चानन्तर्यकर्मा च मन्दपुण्यो ऽपि यो नरः || Pक्_२.६९ ||
SKगुरुप्रसादादाप्नोति चिन्तामणिरिवापरम् | यथेष्टं कुरुते चर्यां संबुद्धो ऽयमनागतः || Pक्_२.७० ||
SKन रागो न विरागश्च मध्यमा नोपलभ्यते | न शून्यं नापि चाशून्यं मध्यमा नोपलभ्यते || Pक्_२.७१ ||
SKसर्वबुद्धसमायोग इदमेव प्रदर्शितम् | त्रिज्ञानाद् व्यतिरिक्तं यत् तत्त्वं सन्ध्याय भाषया || Pक्_२.७२ ||
SKअभावेत्यादिगाथाभिः पटले बोधिचित्तके | श्रीसमाजे ऽपि तत् प्रोक्तमभिसम्बोधिलक्षणम् || Pक्_२.७३ ||
SKरागादीनां विशुद्धिर्या परमाद्ये प्रदर्शिता | सर्वशून्यं समुद्दिश्य सापि प्रोक्ता तथागतैः || Pक्_२.७४ ||
SKनानासूत्रेषु तन्त्रेषु यत् तत्त्वमुपदर्शितम् | सर्वशून्यपदं ह्येतन्नान्यत् तत्राभिधीयते || Pक्_२.७५ ||
SKचतुरशीतिसाहस्रे धर्मस्कन्धे महामुनेः | सारात् सारतरं प्रोक्तम् अभिसम्बोधिलक्षणम् || Pक्_२.७६ ||
SKजटी नग्नश्च मुण्डी वा शिखिनिःसङ्गवृत्तयः | तैस्तैश्च विविधैर्लिङ्गैरभिसम्बोधिकामिनः || Pक्_२.७७ ||
SKतेषां तत्त्वविहीनानां व्रतचर्यादिकः क्रमः | तत्त्वज्ञानविहीनत्वात् तेन मुक्तिर्न लभ्यते || Pक्_२.७८ ||
SKआदिकर्मिकयोगेन चाष्टमीं भूमिमाप्नुयात् | आलोकत्रयदर्शी च दशभूम्यां प्रतिष्ठितः || Pक्_२.७९ ||
SKसम्प्राप्य ह्यभिसम्बोधिं शुद्धावासमुपागतः | बुद्धक्षेत्रेस्ववैवर्ती सर्वज्ञ इह जन्मनि || Pक्_२.८० ||
SKधर्मोदयाभिसम्बोधिः क्रीडारागादिविस्तरैः | धर्मधात्वाभिसमबोधिर्यथालाभविचेष्टितैः || Pक्_२.८१ ||
SKअनुतराभिसम्बोधिरभिसम्बोधियोगतः | प्रपञ्चाकारादिचर्याभिरभ्यस्यन्तीह योगिनः || Pक्_२.८२ ||
SKआः किमभ्यासयोगेन आदिशुद्धिः स्वभाविका | प्रकृत्यैव हि सा सिद्धा तथता न विकल्पजा || Pक्_२.८३ ||
SKय एवं कल्पयन्तीह ज्ञानक्रममपास्य वै | तत्प्रभेदमजानानाः पुनः शैक्षा भवन्ति ते || Pक्_२.८४ ||
SKप्रकृत्याभासभेदज्ञा चतुर्थं तत्त्वमाश्रिताः | त्रिधा नाभ्यस्यते यस्तु न शीघ्रमाप्नुयात् फलम् || Pक्_२.८५ ||
SKयथाग्निर्दारुगर्भस्थो नोत्तिष्ठेन्मथनाद् विना | तथाभ्यासाद् बिना बोधिर्जायते नेह जन्मनि || Pक्_२.८६ ||
SKयः शाठ्यबुद्धिरलसो गुरुनिन्दकश्च प्राप्ताभिषेक इति गर्वितमानसः स्यात् | सर्वज्ञता न सुलभेति विहीनचित्तो दोषान् स पश्यति गुरोर्न गुणान् वराकः || Pक्_२.८७ ||
SKसूश्रूषया विरहितो लघु तत्त्वमिच्छेन् नेति प्रश्स्तवचनं चलयेत् सरोषः | दृष्ट्वा सभासु गुरुमस्य पराङ्मुखस्तु कुर्यात् प्रणाममथ तस्य रहोगतस्य || Pक्_२.८८ ||
SKएवं च दौरात्म्यगतं कुशिष्यम् स्वपुत्रमप्यौरसमार्यगर्ह्यम् | वैश्यं तथा पार्थिवमग्रबोधिं कुर्यात् समीपे न हि जातु धीरः || Pक्_२.८९ ||
SKशुभगुणसुसमेतो ज्ञानवान् वीर्ययुक्तो गुरुजनमथ भक्त्या वीक्षते बुद्धतुल्यम् | अधिगतजिनधर्मः शासनेषु प्रसन्नः स इह भवति पात्रं तस्य कुर्यात् प्रसादम् || Pक्_२.९० ||
SKश्रुतबहुतरतन्त्रो ऽउयागमेषु प्रवीणो गुरुजनपरिचर्याहान्यलब्धोपदेशः | स्वहितमपि स कर्तुं न प्रभुः शास्त्रचञ्चुर्भवति तदपि शास्त्रं केवलं खेदहेतुः || Pक्_२.९१ ||
SKअथ भवति सभाग्यः प्राप्ततत्त्वोपदेशो जडमतिरसमर्थो मीलने ऽर्थस्य यस्तु | परहितकृतबुद्धिर्देशनायां प्रवृत्तो वचनगुणविहीनः सो ऽप्यवज्ञामुपैति || Pक्_२.९२ ||
SKश्रुतबहुतरतन्त्रो ज्ञानवान् षट्पदज्ञः स्मृतिमतिधृतिमेधावीर्यसम्पत्समेतः | गुरुचणसपर्याप्राप्ततत्त्वोपदेशः प्रभवति स हि वक्तुं तन्त्रराजोपदेशम् || Pक्_२.९३ ||
SKश्रुतबहुतरतन्त्रेणायवज्रिप्रसादात् स्फुटविरचितवाचा बोधिमार्गं विभज्य | कुशलमुपचित्तं यच्छाक्यमित्रेण तेन प्रकटपटुविपाकाद् बोधिभाजो भवन्तु || इति | Pक्_२.९४ ||
SKअनुत्तरसन्धिरित्यपरनामा
SK|| सर्वशुद्धिविशुद्धिक्रमः समाप्तः ||
SKकृतिरियं शाक्यमित्रपादानाम् | ग्रन्थप्रमाणमस्य शतमेकम् |
SK[३] स्वाधिष्ठानक्रमः तृतीयः
SKप्रणिपत्य वरं वज्रं वज्रसत्त्वादिनायकम् | स्वाधिष्ठानक्रमश्चैव वक्ष्यते कृपया मया || Pक्_३.१ ||
SKप्रथमतरं तावद् उत्पत्तिक्रमानुसारेण प्राप्ताभिषेकश्चतुर्विधतन्त्राभिप्रायज्ञः प्राप्तकायवाक्चित्तविवेकः श्रुतिधरः सत्यद्वयाधिमोक्षो वज्रगुरुं सम्यग् आराध्य, ततः प्रसन्नाय गुरवे महतीं गणपूजां कृत्वा षोडशाब्दिकां मुद्रां महावज्रगुरवे दत्वा, तदनन्तरं गुरुवक्त्राद् आप्तस्वाधिष्ठानक्रमोपदेशः, ततो मालोदकसम्बुद्धवज्रघण्टादानदर्पणनामाचार्यानुज्ञा इत्येभिः सह गुह्याभिषेकं लब्ध्वा एभिः शास्तारं गुरुं स्तूयात्ः |
SKशौषीर्यं नास्ति ते काये मांसास्थिरुधिरं न च | इन्द्रायुधमिवाकाशे कायं दर्शितवानसि || Pक्_३.२ ||
SKनामया नाशुचिः काये क्षुत्तृष्णासम्भवो न च | त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया || Pक्_३.३ ||
SKदकचन्द्रवदग्राह्य सर्वधर्मेष्वनिश्रित | अनहङ्कार निर्मोह निरालम्ब नमो ऽस्तु ते || Pक्_३.४ ||
SKसदा समाहितश्चासि गच्छंस्तिष्ठन् स्वपंस्तथा | ईर्ष्यापथेषु सर्वेषु निरालम्ब नमो ऽस्तु ते || Pक्_३.५ ||
SKविकुर्वसि महाऋद्ध्या मायोपमसमाधिना | निर्नानात्वं समापन्न निरालम्ब नमोस्तु ते || Pक्_३.६ ||
SKएवं वज्रगुरं सद्भूतगुणेन संस्तुत्य श्रवणार्थम् अध्येषयेद् अनया गाथया-
SKसर्वज्ञ ज्ञानसन्दोह भवचक्रविशोधक | अद्य व्याख्यानरत्नेन प्रसादं कुरु मे विभो || Pक्_३.७ ||
SKत्वत्पादपङ्कजं मुक्त्वा नास्त्यन्यच्छरणं विभो | तस्मात् प्रसीद बुद्धाग्र जगद्वीर महामुने || Pक्_३.८ ||
SKएवं श्रुत्वा तु तद् वाक्यम् अध्येषणविशारदम् | शिष्यकारुण्यमुत्पाद्य स्वाधिष्ठानमथारभेत् || Pक्_३.९ ||
SKस्वाधिष्ठानक्रमो नाम संवृतेः सत्यदर्शनम् | गुरुपादप्रसादेन लभ्यते तच्च नान्यथा || Pक्_३.१० ||
SKस्वाधिष्ठानक्रमो येन साधकेन न लभ्यते | सूत्रान्ततन्त्रकल्पेषु वृथा तस्य परिश्रमः || Pक्_३.११ ||
SKस्वाधिष्ठानक्रमं लब्ध्वा सर्वबुद्धामयः प्रभुः | जन्मनीहैव बुद्धत्वं निःसन्देहं प्रपद्यते || Pक्_३.१२ ||
SKस्वाधिष्ठानसमाधिश्च प्रभास्वरपदं तथा | सत्यद्वयमिति ख्यातं फलहेतुविशेषतः || Pक्_३.१३ ||
SKस्वाधिष्ठानानुपूर्वेण प्राप्यते हि प्रभास्वरम् | तस्माद् वज्रगुरुः पूर्वं स्वाधिष्ठानं प्रदर्शयेत् || Pक्_३.१४ ||
SKअस्वतन्त्रं जगत् सर्वं स्वतन्त्रं नैव जायते | हेतुः प्रभास्वरं तस्य सर्वशून्यं प्रभास्वरम् || Pक्_३.१५ ||
SKयेन चित्तेन बालाश्च संसारे बन्धनं गताः | योगिनस्तेन चित्तेन सुगतानां गतिं गताः || Pक्_३.१६ ||
SKन चात्रोत्पद्यते कश्चिन् मरणं नापि कस्यचित् | संसार एव ज्ञातव्यश्चित्तरूपाकृतिष्ठितः || Pक्_३.१७ ||
SKवायुयोगाद् विना चित्तस्वरूपं नैव गृह्यते | चित्तात् प्रकृतिहेतुत्वात् कर्मजन्मसमुद्भवः || Pक्_३.१८ ||
SKतदेव वायुसंयुक्तं विज्ञानत्रितयं पुनः | जायते योगिनां मूर्त्तिर्मायादेहस्तदुच्यते || Pक्_३.१९ ||
SKतस्मादेव जगत् सर्वं मायोपम इहोच्यते | मायोपमसमाधिष्ठः सर्वं पश्यति तादृशम् || Pक्_३.२० ||
SKरूपं च वेदना चैव संज्ञा संस्कार एव च | विज्ञानं पञ्चमं चैव चत्वारो धातवस्तथा || Pक्_३.२१ ||
SKअक्षाणि विषयाश्चैव ज्ञानपञ्चकमेव च | अध्यात्मबाह्यतो भिन्नं सर्वं मायैव नान्यथा || Pक्_३.२२ ||
SKदर्पणप्रतिबिम्बेन मायादेहं च लक्षयेत् | वर्णान् इन्द्रायुधेनेव व्यापित्वमुदकेन्दुना || Pक्_३.२३ ||
SKदर्पणे विमले व्यक्तं दृश्यते प्रतिबिम्बवत् | भावाभावाविनिर्मुक्तो वज्रसत्त्वः सुचित्रितः || Pक्_३.२४ ||
SKसर्वाकारवरोपेतो असेचनकविग्रहः | दर्शयेत् तं सुशिष्याय स्वाधिष्ठानं तदुच्यते || Pक्_३.२५ ||
SKइयमेव हि संलक्ष्या माया निर्दोषलक्षणा | मायैव संवृतेः सत्यं कायः साम्भोगिकश्च सः || Pक्_३.२६ ||
SKसैव गन्धर्वसत्त्वः स्याद् वज्रकायः स एव हि | वज्रसत्त्वः स्वयं तस्मात् स्वस्य पूजां प्रवर्तयेत् || Pक्_३.२७ ||
SKआत्मा वै सर्वबुद्धत्वं सर्वसौरित्वमेव च | तस्मात् सर्वप्रयत्नेन ह्यात्मानं पूजयेत् सदा || Pक्_३.२८ ||
SKमन्त्रमुद्राप्रयोगं च मण्डलादिविकल्पनम् | बलिहोमक्रिर्यां सर्वां कुर्यान् मायोपमां सदा || Pक्_३.२९ ||
SKशान्तिकं पौष्टिकं चापि तथा वश्याभिचारिकम् | आकर्षणादि यत् सर्वं कुर्याद् इन्द्रायुधोपमम् || Pक्_३.३० ||
SKशृङ्गाराद्युपभोगं च गीतवाद्यादिसेवनम् | कलासु च प्रवृत्तिं च कुर्याद् उदकचन्द्रवत् || Pक्_३.३१ ||
SKरूपे शब्दे तथा गन्धे रसे स्प्रष्टव्य एव च | चक्षुरादिप्रवृत्तिं च मायावद् उपलक्षयेत् || Pक्_३.३२ ||
SKबहुनात्र किमुक्तेन वज्रयाने तु तत्त्वतः | यद् यद् आलम्बयेद् योगी तद् तद् मायैव कल्पयेत् || Pक्_३.३३ ||
SKदर्पणे प्रतिबिम्बं च स्वप्नं मायां च बुद्बुदम् | इन्द्रजालं च सादृश्यं यः पश्येद् स प्रभुः स्मृतः || Pक्_३.३४ ||
SKदृश्यते स्पृश्यते चैव यथा माया जगत् सदा | न चोपलम्भः संवृत्या मायावत् परिकीर्तितः || इति || Pक्_३.३५ ||
SKयद् यद् इन्द्रियमार्गत्वं माया तत्तत् स्वभावतः | असमाहितयोगेन सर्वं बुद्धमयं वहेत् || Pक्_३.३६ ||
SKसर्वत्र सर्वतः सर्वं सर्वथा सर्वदा स्वयम् | सर्वबुद्धमयं सिद्धं स्वमात्मानं स पश्यति || Pक्_३.३७ ||
SKगच्छंस्तिष्ठन् महासत्त्वः सर्वसौखमयः प्रभुः | विहाराहारपानादीनाकाशाल्लभते क्षणात् || Pक्_३.३८ ||
SKभवेयुर्भवच्छेत्तारः शास्तारः प्रवरे जने | पूज्यन्ते ससुरैः सर्वैः प्रणिपत्य मुहुर्मुहुः || Pक्_३.३९ ||
SKयथा शास्तरि सम्बद्धे लोकयात्राहितैषिणि | एवमेव महायोगी विश्वज्ञानार्थसङ्ग्रहाद् || Pक्_३.४० ||
SKनास्ति किञ्चिद् असाध्यं वै वज्रसत्त्वेन लक्षितम् | स्वयं प्रत्युसिध्यन्ति सर्वमुद्रा महासुखाः || Pक्_३.४१ ||
SKक्लेशाः कर्मपथा देहः कर्तारश्च फलं च वै | मरीचिस्वप्नसङ्काशा गन्धर्वनगरोपमाः || Pक्_३.४२ ||
SKइमं समाधिमज्ञात्वा संवृतावुपलम्भतः | जायन्ते विविधा रोगास्तेषां माया भिषग्जितम् || Pक्_३.४३ ||
SKस्वाधिष्ठानोपदेशस्तु येन नासाद्यते गुरोः | शाश्वतोच्छेदमालम्ब्य स वैवर्ती भवेत् पुनः || Pक्_३.४४ ||
SKसर्वपूजां परित्यज्य गुरुपूजां समारभेत् | तेन तुष्टेन तल्लभ्यं सर्वज्ञज्ञानमुत्तमम् || Pक्_३.४५ ||
SKकिं तेन न कृतं पुण्यं किं वा नोपासितं तपः | अनुत्तरकृदाचार्यवज्रसत्त्वप्रपूजनात् || Pक्_३.४६ ||
SKयद् यदिष्टतरं किञ्चिद् विशिष्टतरमेव च | तत् तद्धि गुरवे देयं तदेवाक्षयमिच्छता || Pक्_३.४७ ||
SKआचार्यो हरते पापम् आचार्यो हरते भयम् | आचार्यस्तारयेत् पारं दुःखार्णवमहाभयात् || Pक्_३.४८ ||
SKयो ऽहङ्कार[म]लालिप्तः सद्भूतक्रमधर्षकः | सावज्ञस्तत्त्वधर्मेषु तस्य तत्त्वं न दर्शयेत् || Pक्_३.४९ ||
SKसत्यवाग्गुरुभक्तश्च विविक्तश्चैकसन्धिओकः | समयाचाररक्षी च क्रमं तस्य प्रदर्शयेत् || Pक्_३.५० ||
SK|| स्वाधिष्ठानक्रमस्तृतीयः समाप्तः ||
SKकृतिरियमाचार्यनागार्जुनपादानाम् | ग्रन्थप्रमाणमस्य षट्पञ्चाशत् |
SK[४] अभिसम्बोधिक्रमः चतुर्थः
SKनमः श्रीवज्रसत्त्वाय
SKवज्रसत्त्वं नमस्कृत्य सर्वशून्योपदेशकम् | चतुर्थो ह्याभिसम्बोधिक्रमो ऽयं वक्ष्यते मया || Pक्_४.१ ||
SKअसौ स्वयम्भूर्भगवान् एक एवाधिदैवतः | उपदेशप्रदानात् तु वज्राचार्यो ऽधिकस्ततः || Pक्_४.२ ||
SKतत्समाराधनं कृत्वा वर्षं मासमथापि वा | तस्मै तुष्टाय गुरवे पूजां कुर्यात् तु शक्तितः || Pक्_४.३ ||
SKयथास्वभावतो मुद्रां निवेद्यास्मै सुशिक्षिताम् | गणमण्डलमध्ये तु कुर्यात् पूजां यथाविधि || Pक्_४.४ ||
SKततस्तुष्टो महायोगी पञ्चकामोपभोगतः | आलोकस्योदयं कुर्यात् समापत्तिविधानतः || Pक्_४.५ ||
SKकलशादौ सुसंस्थाप्य बोधिचित्तं प्रयत्नतः | अर्धरात्रे चाभिसिञ्चेत् सुशिष्यं कृपया गुरुः || Pक्_४.६ ||
SKअभिषेकं तु सम्प्राप्य प्रत्यूषमये पुनः | सम्पूज्याराधयेत् स्तोत्रैर्गुरुं शिष्यं कृताञ्जलिः || Pक्_४.७ ||
SKत्रैधातुकविनिर्मुक्त आकाशसमतां गतः | नोपरिष्यसि कामेषु निरालम्ब नमो ऽस्तु ते || Pक्_४.८ ||
SKअनिःश्रितो ऽसि स्कन्धेषु धातुष्वायतनेषु च | विपर्यासविनिर्मुक्त निरालम्ब नमो ऽस्तु ते || Pक्_४.९ ||
SKअविकल्पितसङ्कल्प अप्रतिष्ठितमानस | अचिन्त्यमनसिकार निरालम्ब नमो ऽस्तु ते || Pक्_४.१० ||
SKअनालयं यथाकाशं निष्प्रपञ्चं निरञ्चनम् | आकाशसमचित्तो ऽसि निरालम्ब नमो ऽस्तु ते || Pक्_४.११ ||
SKद्रष्टुकामो ऽभिसम्बोधिं सर्वशून्यस्वभाविकाम् | स्तुत्वा कृताञ्जलिः शिष्यो गुरं सञ्चोदयेत् पुनः || Pक्_४.१२ ||
SKप्रयच्छ मे महानाथ अभिसम्बोधिदर्शनम् | कर्मजन्मविनिर्मुक्तम् आभासत्रयवर्जितम् || Pक्_४.१३ ||
SKप्रयच्छ मे महाचार्य वज्रज्ञानमनुत्तरम् | सर्वबुद्धमहाज्ञानं सर्वताथागतालयम् || Pक्_४.१४ ||
SKप्रयच्छ मे महावज्र कायवाक्चित्तशोधनम् | अनादिनिधनं शान्तं सर्वक्लेशविशोधनम् || Pक्_४.१५ ||
SKएवमाराधितो योगी सद्भूतगुणकीर्तनैः | शिष्ये कारुण्यमुत्पाद्य क्रममेवमथारभेत् || Pक्_४.१६ ||
SKआलोको रात्रिभागः स्फुटरविकिरणः स्याद् दिवालोकभासः | सन्ध्यालोकोपलब्धः प्रकृतिभिरसकृद् युज्यते स्वाभिरेतत् | नो रात्रिर्नापि सन्ध्या न च भवति दिवा यः प्रकृत्या विमुक्तः स स्याद् बोधिक्षणो ऽयं वरगुरुकथितो योगिनामेव गम्यः || Pक्_४.१७ ||
SKनैशं ध्वान्तं विनष्टं व्यपगतमखिलं सान्ध्यतेजस्तु यस्मिन् भास्वान्नोदेति यावत् क्षण इह विमले दर्शयेद् भूतकोटिम् |
SKशिष्यायाचार्यमुख्यो विनिहततिमिरो बाह्यसम्बोधिदृष्ट्या | प्राप्नोत्यध्यात्मसौख्यं व्यपगतकलुषं बुद्धबोधिं क्षणेन || Pक्_४.१८ ||
SKअनादिभूतं त्वथवादिभूतं अमध्यभूतं त्वथ मध्यभूतम् | अनन्तभूतं त्वथवान्तभूतं तत् सर्वशून्यं प्रवदन्ति सन्तः || Pक्_४.१९ ||
SKगमनागमनं च यत्र नास्ति क्षयवृद्धी न चाप्यभावभावौ | अतिविस्मयरूपम् अरूप्यविस्मयं स्थितिमन्नापि न चापि गत्वरम् || Pक्_४.२० ||
SKयदस्ति-नास्तिव्यवहारमुक्तं न पुण्यरूपं न च पापरूपम् | न पुण्यपापात्मकमग्रभूतं तत् सर्वशून्यं प्रवदन्ति बुद्धाः || Pक्_४.२१ ||
SKएवंविधं तत्त्वमवाप्य योगी चराचरात्मा जगदेकबन्धुः | यः पर्यटेज्ज्ञानमयो नृसिंहः कृत्स्नं जगत् सो ऽव्ययकायलाभी || Pक्_४.२२ ||
SKस जिह्यकायो ऽप्यविजिह्यकायः सो ऽनासनो ऽप्यासनबन्धधीरः | समीलिताक्षो ऽपि विबुद्धनेत्रः समाहितः सन्न समाहितौऽसौ || Pक्_४.२३ ||
SKस वाग्युतो वागसमन्वितो ऽपि भोगान्वितः सो ऽपि विरुपवृत्तिः | स लोकनाथः परभृत्यभूतो यस्तत्त्ववित् क्षीणसमस्तदोषः || Pक्_४.२४ ||
SKप्राप्तोपदेशकः शिष्यो द्विधा योगमथाभ्यसेत् | पिण्डग्राहक्रमेणैव तथा चैवानुभेदतः || Pक्_४.२५ ||
SKशिरसः पादतो चापि यावद्धृदयमागतः | भूतकोटिं विशेद् योगी पिण्डग्राह इति स्मृतः || Pक्_४.२६ ||
SKस्थावरं जङ्गमं चैव पूर्वं कृत्वा प्रभास्वरम् | पश्चात् कुर्यात् तथात्मानम् अनुभेदक्रमो ह्ययम् || Pक्_४.२७ ||
SKश्वासवातो यथादर्शे लयं गच्छति सर्वतः | भूतकोटिं तथा योगी प्रविशोच्च मुहुर्मुहुः || Pक्_४.२८ ||
SKगच्छंस्तिष्ठन् स्वपन् भुञ्जन्नुन्मिषन् निमिषन् हसन् | अनेन ध्यानयोगेन सदा तिष्ठति तत्त्ववित् || Pक्_४.२९ ||
SKसत्त्वार्थो ऽपि कदाचित् स्यात् तत्तत्सारूप्यरश्मिना | वायुविज्ञानयुक्तेन स्वाधिष्ठानक्रमेण तु || Pक्_४.३० ||
SKयथा नदीजलात् स्वच्छान्मीनमुत्तिष्ठते द्रुतम् | सर्वशून्यात् तथा स्वच्छान्मायाजालमुदीर्यते || Pक्_४.३१ ||
SKपञ्चबुद्धकुलायत्ता महामुद्रादिकल्पना | पञ्चरश्मिसमुच्छ्रेया गगने शक्रचापवत् || Pक्_४.३२ ||
SKमुद्राबन्धं प्रकुर्याद् वा मन्त्रं चापि जपेद् यदि | सर्वमन्यत् प्रकुर्याच्च सर्वशून्यपदे स्थितः || Pक्_४.३३ ||
SKसर्वभुक् सर्वपश्चैव सर्ववन्दी च सर्वगः | सर्वकृत् सर्वलिङ्गी च सर्वशून्येन सिध्यति || Pक्_४.३४ ||
SKप्राप्तोपदेशः सुभगः सुशिष्यो बौधौ हि चित्तं परमार्थनाम | गुरोः सकाशात् पुनराददीत कृताञ्जलिर्धारितपुष्पहस्तः || Pक्_४.३५ ||
SKसर्वभावविगतं स्कन्धधात्वायतनग्राह्यग्राहकवर्जितं धर्मनैरात्म्यसमतया स्वचित्तम् आद्यनुत्पन्नं शून्यतास्वभावमिति |
SKततस्तु गुरवे दद्याद् दक्षिणां त्वनुरूपतः | रत्नं गृहं वा हस्त्यश्वं ग्रामं वा शयनासनम् || Pक्_४.३६ ||
SKदासं दासीं प्रियां भार्यां पुत्रीं चाप्यतिवर्णभाम् | आत्मानं चापि यद्दद्यात् किमन्यदवशिष्यते || Pक्_४.३७ ||
SKप्राप्ताचार्यप्रसादो विमलदृढमतिः सर्वभावस्वभावः स्वच्छं शुद्धं सुसूक्ष्मं परमशिवमयं बुद्धनिर्वाणधातुम् | निर्द्वन्द्वं निर्विकल्पं सततसुखमयं भावयेत् तत्त्वयोगी पुण्यापुण्याद् विमुक्तः स्वयमिह भगवान् जायते वज्रसत्त्वः || Pक्_४.३८ ||
SK| परमरहस्यसुखाभिसम्बोधिक्रमश्चतुर्थः समाप्तः ||
SKकृतिरियम् आचार्यनागार्जुनपादानाम् | ग्रन्थप्रमाणमस्य श्लोकाश्चत्वारिंशत् |
SK[५] युगनद्धक्रमः पञ्चमः
SKफलहेत्वात्मकं नाथं सर्वद्वन्द्वविवर्जितम् | प्रणम्य लिख्यते सम्यग् युगनद्धक्रमोत्तमः || Pक्_५.१ ||
SKसंसारो निर्वृतिश्चेति कल्पनाद्वयवर्जनात् | एकीभावो भवेद् यत्र युगनद्धं तदुच्यते || Pक्_५.२ ||
SKसङ्क्लेशं व्यवदानं च ज्ञात्वा तु परमार्थतः | एकीभावं तु यो वेत्तिं स वेत्ति युगनद्धकम् || Pक्_५.३ ||
SKसाकारभावसङ्कल्पं निराकारत्वकल्पनाम् | एकीकृत्य चेरद् योगी स वेत्ति युगनद्धकम् || Pक्_५.४ ||
SKग्राह्यं च ग्राहकं चैव द्विधा बुद्धिर्न विद्यते | अभिन्नता भवेद् यत्र तदाह युगनद्धकम् || Pक्_५.५ ||
SKशाश्वतोच्छेदबुद्धी तु यः प्रहाय प्रवर्तते | युगनद्धक्रमाख्यं वै तत्त्वं वेत्ति स पण्डितः || Pक्_५.६ ||
SKप्रज्ञाकरुणयोरैक्यं ज्ञात्वा यत्र प्रवर्तते | युगनद्ध इति ख्यातः क्रमो ऽयं बुद्धगोचरः || Pक्_५.७ ||
SKप्रज्ञोपायसमापत्त्या ज्ञात्वा सर्वं समासतः | यत्र स्थितो महायोगी तद् भवेद् युगनद्धकम् || Pक्_५.८ ||
SKयत्र सोपधिशेषं च तथानुपधिशेषकम् | इत्येवं कल्पना नास्ति तत् तद्धि युगनद्धकम् || Pक्_५.९ ||
SKयत्र पुद्गलनैरात्म्यं धर्मनैरात्म्यमित्यपि | कल्पनाया विविक्तत्वं युगनद्धस्य लक्षणम् || Pक्_५.१० ||
SKज्ञात्वा क्रमेण तत्त्वज्ञः स्वाधिष्ठानप्रभास्वरम् | तयोरेव समाजं यद् युगनद्धक्रमो ह्ययम् || Pक्_५.११ ||
SKपिण्डग्राहनुभेदाभ्यां प्रवेशस्तथतालये | उत्थानं च ततो यत्र समन्ताद् युगनद्धकम् || Pक्_५.१२ ||
SKसंवृतिं परमार्थं च पृथग् ज्ञात्वा विभागतः | संमीलनं भवेद् यत्र युगनद्धं तदुच्यते || Pक्_५.१३ ||
SKतथातलम्बनं नैव व्युत्थानं यत्र नैव हि | युगनद्धं भवेत् तच्च योगिनां पदमव्ययम् || Pक्_५.१४ ||
SKसुप्तः प्रबुद्ध इत्येतदवस्थाद्वयवर्जितम् | युगनद्धं वदेच्छास्ता स्वापबोधविवर्जितम् || Pक्_५.१५ ||
SKसमाधानासमाधानं यस्य नास्त्येव सर्वथा | युगनद्धे स्थितो योगी भावाभावविवर्जितः || Pक्_५.१६ ||
SKअस्मृतिस्मृतिनिर्मुक्तः सततोदयलक्षणः | विचरेदिच्छया योगी युगनद्धक्रमे स्थितः || Pक्_५.१७ ||
SKरागारागविनिर्मुक्तः परमानन्दमूर्तिमान् | आसंसारं स्थितिं कुर्याद् युगनद्धविभावकः || Pक्_५.१८ ||
SKकार्यं च कारणं चैव कृत्वाभिन्नंस्वभावतः | या स्थितिर्योगिनां बुद्धा युगनद्धं वदन्ति तत् || Pक्_५.१९ ||
SKउत्पत्तिक्रम एको ऽयम् उत्पन्नक्रम इत्यपि | एकत्वं तु द्वयोर्यत्र युगनद्धस्तदुच्यते || Pक्_५.२० ||
SKदेवता परिशुद्धेयम् अशुद्धेयं भवेदिति | इति या कल्पनाभिन्ना यत्र तद् युगनद्धकम् || Pक्_५.२१ ||
SKरूपीति चाप्यरूपीति कल्पनाद्वयवर्जनात् | यःशान्तिं वेत्ति योगीन्द्रः स प्राप्तो युगनद्धकम् || Pक्_५.२२ ||
SKएवं वै यः स्थितो योगी युगनद्धक्रमे स्थितः | उच्यते स हि सर्वज्ञः तत्त्वदर्शी च विश्वधृक् || Pक्_५.२३ ||
SKमायाजालाभिसम्बुद्धः संसारार्णवपारगः | कृतकृत्यो महायोगी सत्यद्वयनये स्थितः || Pक्_५.२४ ||
SKएतदेवाद्वयं ज्ञानम् अप्रतिष्ठितनिर्वृतिः | बुद्धत्वं वज्रसत्त्वत्वं सर्वैश्वर्यं तथैव च || Pक्_५.२५ | वज्रोपमसमाधिस्तु निष्पन्नक्रम एव च | वज्रोपमसमाधिश्चाप्यद्वयं तच्च कथ्यते || Pक्_५.२६ ||
SKअनुत्पादादयः शब्दा अद्वयज्ञानसूचकाः | अस्यैव वाचकाः सर्वे नान्यत् तत्राभिधीयते || Pक्_५.२७ ||
SKमहामुद्रात्मिकां सिद्धिं सदसत्पक्षवर्जिताम् | अनेनैव गता बुद्धा गङ्गायाः सिकतोपमाः || Pक्_५.२८ ||
SKघटमानो महायोगी युगनद्धपदे स्थितः | भावयेद् युगनद्धं तु चर्यां चापि तदन्वयाम् || Pक्_५.२९ ||
SKयथात्मनि तथा शत्रौ यथा भार्या तथात्मजा | यथा माता तथा वैश्या यथा डोम्बी तथा द्विजा || Pक्_५.३० ||
SKयथा वस्त्रं तथा चर्म यथा रत्नं तथा तुषम् | यथा मूत्रं तथा मद्यं यथा भक्तं तथा शकृत् || Pक्_५.३१ ||
SKयथा सुगन्धि कर्पूरं तथा गन्धममेध्यजम् | यथा स्तुतिकरं वाक्यं तथा वाक्यं जुगुप्सितम् || Pक्_५.३२ ||
SKयथा रुद्रस्तथा वज्री यथा रात्रीस्तथा दिवा | यथा स्वप्नं तथा दृष्टं यथा नष्टं तथा स्थितम् || Pक्_५.३३ ||
SKयथा सौख्यं तथा दुःखं यथा दुष्टस्तथा सुतः | यथावीचिस्तथा स्वर्गस्तथा पुण्यं तु पापकम् || Pक्_५.३४ ||
SKएवं ज्ञात्वा चरेद् ज्ञानी निर्विशङ्कस्तु सर्वकृत् | प्रच्छन्नव्रतमासाद्य सिध्यन्ते सर्वसम्पदः || Pक्_५.३५ ||
SKप्रकाश्य पुण्यं यत् प्राप्तं पञ्चक्रममनुत्तरम् | अनेन क्रीडतां लोको युगनद्धसमाधिना || इति || Pक्_५.३६ ||
SKयुगनद्धक्रमः पञ्चमः समाप्तः ||
SKकृतिरियम् आचार्यनागार्जुनपादानाम् | ग्रन्थप्रमाणमस्य श्लोकाः पञ्चत्रिंशत् |
SK|| पञ्चक्रमः समाप्तः ||
SKप्रज्ञाकरुणयोरैक्यं ज्ञात्वा यत्र प्रवर्तते | युगनद्ध इति ख्यातः क्रमो ऽयं बुद्धगोचरः ||
SKअत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर- क्षुब्धधीरधिवीचिसञ्चयगतप्रालेयपादोपमः | श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः ||
SK(सुभाषितरत्नकोशे विद्याकरः)
SKन सत्या नासत्या न च तदुभयी नाप्यनुभयी निरुल्लेखा सर्वाकृतिवरमयी मध्यमकधीः | जिनः शास्ता सैव स्थिर-चलजगत्तत्त्वमपि सा स्वसंवित्तिर्देवी जयति सुखवज्रप्रणयिनी ||
SK(अमृतकणिकाभिधायां नामसंगीतिटिकायाम्, रविश्रीः)
SKये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत् | तेषां च यो निरोध एवंवादी महाश्रमणः ||