Short Praise

Laghustava

Short Praise

Laghustava

SK
पञ्चस्तवी माला : १ लघुस्तवचर्चास्तवौ हरभट्टीव्याख्योपेतौ यक्षोपाह्वेण पण्डितदीनानाथशास्त्रिणा सम्पादितौ जम्मू-कश्मीर-राजकीय- शोध-प्रकाश-विभागेन प्रकाशितौ प्. इ) ॐ नमस्त्रिपुरसुन्दर्यै जगद्रत्नैः पूर्णे परशिवसुधाब्धौ सुगहने परानन्दोद्रेकोच्छलितवपुरत्यर्थममितेः | परामर्शौन्मुख्याद्बहिरिव विहर्तुं समुदिता परा काचिद्रस्या स्फुरतु मम सौभाग्यलहरी || १ || शिवः पूर्णः स्वात्मारमणरसशीलोऽपि न विना क्षणं यामप्यास्ते निरवधिनिजानन्दवपुषम् | परा सौभाग्यश्रीः परशिवरहोनर्मसुखभूः शिवं सा नः पूर्णप्रथनमयमन्तर्वितनुताम् || २ || भावौधान् या क्रमपरिगतान् दर्पणे स्वात्मसंवि- द्रूपे त्रेधा तिसृभिरपराख्यादिभिः स्फारयन्ती | पञ्चस्तव्यां नवनवविधोल्लेखिनी प्रातिभाख्या वाच्यार्थान् सा प्रकटयतु मे शारदा व्याचिकीर्षोः || ३ || धर्माचार्यचमत्कृतिर्जगति या विद्वन्मनोरञ्जिनी सद्वाच्यार्थरसोज्ज्वला परमहामन्त्रानुभूनिर्भरा | बाले व्योम्नि घटेऽपि निर्विलसते सचारचातुर्यभाक् तस्या व्याकरणोद्यमोऽयमुदितः सच्चोदनातोऽपि मे || ४ || प्. १) पञ्चस्तव्यां लघुस्तवटीका स्वस्वातन्त्र्यात् प्रथममुदिताप्राणनाद्यस्फुरत्ता- भूमिं श्रित्वा षडयनमहावाच्यशब्दौघगर्भाम् | विस्फार्यानुत्तररसमहानादभूमिं क्रमेण या वाग्विश्वं रसयति परां तां श्रये मन्त्रभूमिम् || ॐ नमस्त्रिपुरसुन्दर्यै | इह खलु पारमेशषडर्धशासनेषु प्रष्टृप्रतिवक्तृत्वसम्बन्धोद्भावनक्रमेण परम्परयानुग्राह्यानुजिघृक्षारससरसहृदयेन श्रीसादाशिवभट्टारकेण स्वयं गुरुशिष्यभूमिकाग्रहणपूर्वं- गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः | पूर्वोत्तरपदैर्वाक्यैस्तन्त्रमाधारभेदतः ||
SK
इत्युक्तनीत्या परादिसम्बन्धषट्कक्रमतोऽवतारितेषु प्रकाशानन्दैकघनमेकमेव परसंवित्तत्त्वमशेषसंविद्विश्रान्तिसतत्त्वं प्रकाशमानतान्यथानुपपत्त्या विश्वानुगतत्वेन परिस्फुरत्तया प्रकाशमानमाम्नायते | (तदेवानुत्तरप्रक्रियासु कुलादिशब्दव्यपदेश्यत्वेन गीयते|) यदुद्भविष्यत् शिवादिक्षित्यन्तषडध्वस्फारात्मविसृष्टौ प्रसरच्छिवशक्त्यादिनियतव्यपदेशासहिष्णुतयानाख्याद्यभिधैरुपचर्यते | यदुक्तम्- प्. २) यत्रोदितमिदं चित्रं विश्वं यत्रास्तमेति च | तत्कुलं विद्धि सर्वज्ञ ! शिवशक्तिविवर्जितम् || इति | तदेव स्वस्वातन्त्र्यात्सदा पञ्चविधकृत्यकारिस्वभावतया- स्वामिनश्चात्मसंस्थस्य भावजातस्य बासनम् | अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते || इत्युक्तस्थित्या मयूराण्डरसवत्स्वान्तस्तादात्म्येन संस्थितस्य विश्वस्यावविभासयिषया मुकुरप्रतिबिम्बवद्भेदाभेदाद्यात्मतया प्रस्फुरत् तथा तथा प्रकाशते | प्रकाशमानमपि विश्वं स्वस्मिन्नुपसंहरते चेति विश्वोदयविलयास्पदत्वात् सदेव सोम्येदमग्र आसीत् छां० उ० (६.२.१) एकमेवाद्वितीयं ब्रह्म (त्रि० म० ता० ३.३) यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुतेः | एवंभूतं च तत्पूर्णाहंभावपरामर्शसारमहामन्त्रात्मकतया स्वात्मसात्कृताशेषवाच्यवाचकावमर्शसतत्त्वं स्वतन्त्रप्रकाशैकघनं परं ब्रह्मेति पराशक्तिर् इति प्रकाशविमर्शांशविभागकलनया दिव्यदम्पतीयुगलत्वेन प्रस्फुरति- स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः | प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् || इति (ई० प्र० १.१.४७) प्रत्यभिज्ञोक्तनीत्यानुत्तरैकरूपमपि विभागेनाभासितम् | तथा च श्रुति- आत्मैवेदमग्र आसीत् पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहंनामाभवत् तस्मादप्येतर्हि आमन्त्रितोऽहमयमित्येवाग्रे उक्त्वाथान्यन्नाम ब्रूते इत्यादि | (बृह० १.४.१.१७) तथा-
SK
स वै न रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत्सहैतावानास यथा स्त्रीपुमांसौ संपरिष्वक्तौ स इममेवात्मानं द्वेधापातयत्ततः पतिश्च प्. ३) पत्नी चाभवताम् इति | (बृह० १.४.३) वस्तुतस्त्वेकमेव यामलस्वरूपम् | यदुक्तम्- न शिवेन विना देवी न च देव्या विना शिवः | नानयोरन्तरं किञ्चिच्चन्द्रचन्द्रिकयोरिव || इति | तथा- न शिवः शक्तिरहितो न शक्तिः शिववर्जिता | यामलं प्रसरं सर्वम् इत्यादि || एतदभिप्रायेण सकलस्वरूपभावनायामपि स्त्रीरूपं वास्म रेद् देवि ! पुंरूपं वा विचिन्तयेत् इत्युक्त्या यथेच्छयाविकल्पेन स्वाभिन्नपरदेवता भावना विधेयेत्युक्तम् | श्रुतिश्च- नैव स्त्री न पुमानेष न चैवायं नपुंसकः | यद्यच्छरीरमादत्ते तेन तेन स रक्ष्यते || इति (श्वेताश्व० ५-१०) श्रीभागवतेऽपि- स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्डो न पुमान्नजन्तुः इति एतेन निष्कलं परं तत्त्वम् ति द्योतितम् | एवं ब्रह्म वा इदमग्र आसीत् तदात्मानमेव वेदाहं ब्रह्मास्मीति अ इति ब्रह्म तत्रागतमहं इति (मैत्रा० ६-१७) श्रुतेरन्तःस्वीकृतानुत्तरानन्दादिस्पन्दमयाकृत्रिमविमर्शमयी सैव पराभट्टारिका आदिक्षान्तमातृकामयाशेषमन्त्रादिरूपतामवभासयन्ती तयैव मननत्राणात्मिकया मन्त्रशक्त्यानुग्राह्याननुगृह्यभोगमोक्षैकभाजनतया तत्तद्भुवनैश्वर्यादिभोगवितरणपूर्वं मुक्त्या परसंवित्तत्वलक्षणपरब्रह्मैकात्म्यत्मना संयोजयति | इति- तत्तदवसरे प्रदर्शयिष्यते | मन्त्रस्फुरत्ताक्रमश्च यथा- पराभगवती शक्तिर्हि स्वस्वातन्त्र्याद्विश्वमवबिभासयिषुः प्रथमं प्राक्संवित्प्राणे परिणता इत्युक्त्या प्राणाद्यस्फुरत्तामयीं प्राणनभूमिकामवलम्ब्य वाच्यवाचकात्मषडध्वात्मकशब्दार्थप्रपञ्चगर्भमहानादभट्टारकस् फारण-क्रमेण पश्यन्ती मध्यमा प्. ४)
SK
वैखरीवाग्रूपतया स्वात्मचमत्कारमयी विजृम्भते | तत्र पश्यन्त्यामस्फुटविभागत्वाद्वाच्यवाचकयोः क्रमानुल्लास एव तस्या द्रष्ट्रेकस्वभावत्वात् | मध्यमायां पुनस्तयोः स्फुटास्फुटत्वेन क्रमोदयः | वैखर्यां तु स्थानकरणप्रयत्नाश्रयव्यक्ततत्तद्वर्णक्रमोपग्रहः स्फुट इति सर्वत्रैव महामन्त्रपरामर्शचमत्कारकारित्वेन विश्वभेदावभासप्रपञ्चकवलनस्वभावा वैखरीभूमावपि त्र्यक्षर्यात्मकुलसुन्दरी प्रधानमन्त्रात्मना स्वाभिन्नकरणेन स्वेच्छासंकोचावभासितमितप्रमातृभावभावमपसार्याशेषविश्वभाव खचित-पूर्णविश्वाहम्भावधाराधिरूढिं स्वोपासकजनान्नयतीत्याशयतः स्तुतिकृत् स्वयं कृतकृत्यतया लब्धपरदेवतात्मभावतद्विभूतिमहाहर्षमहोल्लाससरसनिर्भरतया स्वयं कृतार्थतामाश्रयमाणः परोपकारप्रावण्येनैव श्रीपरदेवतास्तुतिमाशीर्वादात्मानुग्रहस्फारपुरःसरां मन्त्रतद्देवतास्वरूपोपक्षेपिणीमुपक्रमते | तत्र श्रीमहात्रिपुरसुन्दर्या विद्याधिष्ठातृदेवतास्तदुपासनस्थानफलानि च सामान्यतः स्तुत्यपदेशेनोपदिशति- ऐन्द्रस्येव शरासनस्य दधती मध्येललाटं प्रभां शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः | एषासौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहःस्थिता छिन्धाद्वः सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी || १ || एषासौ भातभासमानानुसन्धानैक्यैन प्रत्यभिज्ञायमाना त्रिपुरा तिस्र इच्छादयः परापरादिरूपाः शक्तयः पुरः शरीराणि यस्याः सा तद्रूपा | तदुक्तं श्रीमालिनीविजये- या सा शक्तिर्जगद्धातुः कथिता समवायिनी | इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते || एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् | ज्ञापयन्ती झगित्यन्तर्ज्ञानशक्तिर्निगद्यते [जगत्यत्र (का०)] || (३अ० ५.६.७) प्. ५) एवं भूतमिदं वस्तु भवत्विति यदा पुनः | (७.१४) जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते || (८.१५) इति |
SK
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च- इति श्रुतेः (श्वेता० ६.८) | अत्र बलमिच्छेति ज्ञेयम् | यद्वा त्रिभ्यो वेदितृवित्तिवेद्यरूपेभ्यः पूर्यतेऽग्रे गम्यते ज्ञायते तदाधारस्वरूपत्वेनेति त्रिपुरा शान्तात्मिका | तदुक्तम्- त्रिपुटीमयं समस्तं तदपि ज्ञेये ज्ञातरि च समम् | दृढग्रन्थिर्ज्ञानकला कलयति त्रैलोक्यमेककलम् || इत्येवमिच्छादिशक्तिसमष्टिशान्ताशक्तिरूपा ब्रह्माभिन्नाद्या शक्तिः श्रीत्रिपुराशब्दनिर्वचनीया सैव सिसृक्षादिस्वरूपोद्भावनोत्तरं तत्तच्छक्त्याविष्टशक्तिमद्रपावलम्बनेन विश्वसर्जनादिकृत्यसम्पादनं विदधती यावत्प्रत्यक्षग्राह्यसंकुचितप्रमातृभावपदमपि व्यश्नुवाना तथा तथा व्यपदेशभाक् समस्तैर्जनैरनुभूयते इत्याशयेनैषेत्यपरोक्षनिर्देशवाचिनैतदा परामृष्टा | सैव पुनः प्रोल्लासितत्रिपुटीरूपविविधविश्वप्रपञ्चोदयविश्रान्तिस्थानत्वेन समाधिसुषुप्त्यादौ सच्चिदानन्दघनस्वरूपपरिशेषवास्तवैकीभावा प्रत्यभिज्ञायमाना स्वेच्छाकल्पितदेशकालावभासव्यवहितेव तत्पदवाच्यभावानुगुण्येनादसा परामृष्टा इत्यनेन सामानाधिकरण्येन तत्त्वतोऽभेदान्वयपर्यवसायिनीयं स्तुतिरिति स्तोत्रकार आद्यश्लोक एक स्वसंविन्मयपरदेवतास्वरूपपरामर्शनस्य परमोत्कृष्टफलं भङ्ग्या सूचितवान् | एवं विश्वोदयस्थितिविलयदशासु काचित्तुरीया स्वसविद्रूपा विनष्टत्वभावा देवी समस्त्येव इत्येवविधाशयेनैव श्रीवामकेश्वरे- त्रिपुरा परमा शक्तिराद्या ज्ञानादितः [जातादितः (का०)] प्रिये इत्युपक्रम्य- एषा सा परमा शक्तिरेकैव परमेश्वरी | प्. ६) त्रिपुरा त्रिविधा देवी ब्रह्मविष्ण्वीशरूपिणी || ज्ञानशक्तिः क्रियाशक्तिरिच्छाशक्त्यात्मिका प्रिये | त्रैलोक्यं संसृजत्येषा त्रिपुरा परिकीर्त्यते || इति | मध्येऽभ्यस्य- रमते स्वयमव्यक्ता त्रिपुराख्यातिमागता (४ प ४-१६) इत्यन्तं त्रिपुरापदनिरुक्तिप्रकारमर्थतत्त्वं परमेश्वरो निरवोचत् | वाराहीयेऽपि- ब्रह्मविष्णुमहेशाद्यैस्त्रिदशैरर्चिता पुरा | त्रिपुरेति तदा नाम कथितं दैवतैस्तव || इति |
SK
यद्यपि त्रिपुराशब्दस्यागमेषु त्रिभ्यो गुणबीजपीठलोकादिभ्यः पुरा भूतत्वात् इत्यादिबहुधात्वेन व्याख्यातं तथापि तथा तथा व्याख्यानानामेकत्रैव प्रदर्शनेनादित एव ग्रन्थविस्तरः स्यात् | तस्माद्विनेय जनहृदयोद्वेगदायित्वात्ततो विरम्यते यथाप्रदेशमग्रे व्याख्यान्तराणि प्रदर्शयिष्यन्ते | त्रिपुरार्णवे तु- नाडित्रयं तु त्रिपुरा सुषुम्ना पिङ्गला इडा | मनो बुद्धिस्तथा चित्तं पुरत्रयमुदाहृतम् | तत्र तत्र वसत्येषा तस्मात्तु त्रिपुरा मता || इति | वः स्वविद्याजपादिपराणां भक्तानां युष्माकमघ पापमाणवमायीयकार्ममलस्वरूपं भवबन्धनिबन्धनत्वात्सदा सर्वदा सहसाविलम्बमतर्कितोपनततीव्रतमशक्तिपातवशादनुपसेव्यमानोपायजालनि यन्त्रण-तन्त्रबन्धनं यथा स्यात्तथा छिन्द्यादुपसंहरेत् | दुष्कृतनिकरोच्छेदेनानुग्रहाभिमुखी भूयादित्याशंसायां लिङः | एतेनानुपायाख्यक्रमसोपानपदबन्धात्मा परमार्थनीयकाष्टाशंसाविष्कृता भवति | तत्र ज्ञानं बन्धः | (१.२) (३.२) योनिवर्गः कलाशरीरमिति (१.३) इति श्रीशिवसूत्रोक्तनीत्या परिपूर्णप्रकाशानन्दघनसतत्त्वसंवित्तत्त्वस्यान्यतमांशा- p. 7) tata eva vibhinnavedyajātāvabhāsanaṃ māyīyākhyaṃ śubhāśubhakarmavāsanātmakaṃ kārmamiti tridhāgameṣu lakṣitam | taduktamācāryotpaladevapādaiḥ- svātantryahānirbodhasya svātantryasyāpyabodhatā | dvidhāṇavaṃ malamidaṃ svasvarūpāpahānitaḥ || bhinnavedyaprathātraiva māyākhyaṃ janmabhogadam | kartaryabodhe kārmaṃ na māyāśaktyaiva tat trayam || iti | (ī0 pra0 3. a0 20 ā0 4.5) evaṃ malavidhūnanasvabhāvatvameva paramārthatatvasyāmnāyaprasiddhaṃ nirmalaṃ svaṃ cinmayasvabhāvaṃ dhvanayatīti bhāvārtho'trāvagamyaḥ | yathā iṣīkātūlamagnau protaṃ pradūyetaivamevāsya pāpmānaḥ pradūyante iti śruteḥ | tathā- vidyātapobhyāṃ saṃyuktaṃ brāhmaṇaṃ japanaityakam | sadāpi pāpakarmāṇameno na pratiyujyate ||
SK
जापिनां होमिनां चैव घ्यायिनां तीर्थवासिनाम् | न संवसन्ति पापानि ये च स्नाताः शिरोव्रतैः || इति वसिष्ठस्मृतेः | तथा पाद्मे पुष्करखण्डे- मेरुपर्वतमात्रोऽपि राशिः पापस्य कर्मणः | कात्यायनीं समासाद्य नश्यति क्षणमात्रतः || दुर्गार्चनरतो नित्यं महापातकसम्भवैः | दोषैर्न लिप्यते वीरः पद्मपत्रमिवाम्भसा || इति | देवीभागवतेऽपि- छित्त्वा भित्त्वा च भूतानि हत्वा सर्वमिदं जगत् | प्रणम्य शिरसा देवीं न स पापैर्विलिप्यते || सर्वावस्थांगतो वापि युक्तो वा सर्वपातकैः | दुर्गां दृष्ट्वा नरः पूतः प्रयाति परमं पदम् || इत्यादि प्. ८) ब्रह्माण्डपुराणे- वर्णाश्रमविहीनानां पापिष्ठानां नृणामपि | यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते || इति | अत्र स्वात्मविषयाशंसां परिहृत्य वः इत्युक्तिभङ्ग्या परानुग्रहैकविषयकप्रयोजनप्रवणतां (शेषवृत्तिरूपां) श्रीमांस्तोत्रकारो धर्माचार्यः स्वस्मिन्नाविष्कुर्वन् समधिगताशेषकामतयापि कृतकृत्यत्वाद्विगलितसमस्तलौकिकालौकिकविकल्पकलङ्कविब्रमतां सूचयति | यदुक्तमभिनव गुप्तपादैः- समस्तयन्त्रणातन्त्रत्रोटनाटङ्कधर्मिणः | नानुग्रहात्परं किञ्चिच्छेषवृत्तौ प्रयोजनम् || स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्ना- न्नो पारार्थ्यं प्रति घटयते कांचन स्वात्मवृत्तिम् | यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् || इति | स्मृतं च- यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः | आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते || (भ० गी० ३.१७) इति | न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन | नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि || (भ० गी० ३.२२) इति च अघं छिन्द्यात् इत्यनेन पापाभाव एव धर्माभिवृद्धिरित्यघच्छेदोपलक्षितानां धर्मादिचतुर्वर्गाणामपि साधनत्वं श्रीत्रिपुराविद्यायाः सूच्यते | तदुक्तं प्रपञ्चसारे-
SK
वागैश्वर्यातिशयदतया वाग्भवं बीजमुक्तं त्रैलोक्यक्षोभणादिपुनरपिवशताकृष्टिदं [क्षोभणसवशताकृष्टिदम् (आर्थरएवेलानसम्पादिते)] कामराजम् | प्. ९) शाक्तं क्ष्वेडापहरणकविताकारकं [क्ष्वेला (तत्रैव)] बीजमेतत्- प्रोक्तं धर्मद्रविणसुखमोक्षप्रदं साधकानाम् || (९ प० ४) इति | कीदृशी त्रिभिः पदैः समनन्तरोक्तपादत्रयपरामृश्यमानैर्ललाटादिस्थानैरुपलक्ष्यमाणा तेषु तेषु स्थानेषु सदुपासकजनैरुपलक्षणभूतेषु विभाव्यमानेत्यर्थः | इत्थंभूतलक्षणा तृतीया | अतस्त्रीणि पुराणि हृदादीनि स्वप्रकाशसंविद्धनस्वरूपोपलक्षणानि यस्या सा इत्यपि त्रिपुरापदनिरुक्तिप्रकारमभ्यधात् | एतेन- हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः | अनन्यचेताः सुभगे ! परं सौभाग्यमाप्नुयात् || इति हृदये चित्तसंघट्टाद् दृश्यस्वापप्रदर्शनम् | इत्याद्युक्तोपायवर्गमप्यनुजग्राहेति बोध्यम् | अथ च त्रिभिःपदैरुक्तनिबन्धसन्दर्भोपक्षिप्यमाणविद्याकूताक्षरात्मकैर्वोपलक्षित् आ श्रीर्विद्यारूपेत्यर्थः | तेन त्रिभ्यो ब्रह्माद्यधिष्ठितज्ञानादिशक्त्यात्मकवाक्कामशक्तिबीजेभ्यः पुराभूतत्वात् त्रिपुरा तत्समष्टिस्वरूपेत्यपि निर्वचनान्तरं स्वाभिमतचित्रमुपक्षिपति | ननु एवंविधायाः श्रीत्रिपुराभिधायाः परदेवतायाः किं स्वरूपमित्याशंकायां तस्या असाधारणस्वरूपलक्षणमाह ज्योतिर्मयी इत्यादि परिमितार्कादिप्रकाशादिवैलक्षण्येन तज्जीवितायमानत्वादशेषावभासना स्तमितपरतेजोरूपा तमेव भान्तमनुभाति सर्वं तस्य बासा सर्वमिदंविभाति | एतस्मिन् खलु रे गार्गि ! सूर्याचन्द्रमसौ विधृतौ तिष्ठतः | इति च श्रुतेः प्. १०) न तद्भासयते सूर्यो न शशांको न पावकः | इत्यादिस्मृतेश्च | एतदर्थं चाचार्याभिनवगुप्तपादा व्यवृण्वन् यथा- यत्र सूर्यो न वा सोमो नाग्निर्भासयतेऽपिच न चार्कसोमवह्नीनां तत्प्रकाशाद्विना महः | किमप्यस्ति निज किन्तु संविदित्थं प्रकाशते |
SK
इति | एतेन स्वप्रकाशत्वेन तत्र प्रत्यक्षादिप्रमाणानां व्यापाराभावे ज्ञापकादिसिद्ध्यनुपयोग इति प्रादर्शि | न च मयटो विकारावयवार्थयोर्विधीयमानत्वादत्र च परिणामाद्यापत्तिः स्यादिति वाच्यम् | नित्यं वृद्धशरावादिभ्यः इत्यत्र नित्य इति योगविभागात्ताद्रूप्ये मयटो विहितत्वादिति समाधेयम् | तस्य परतेजसो विश्वनिर्भरत्वेनापेक्षणीयपूर्णाहम्परामशैरेव स्वभावत्वमकृत्रिममस्त्येव | अन्यथा विमर्शवैधुर्ये स्फटिकाकारप्रकाशमात्रवाग्भवबीजेनोपास्येति | तदुक्तं सौभाग्यहृदये- योनौ कनकपुञ्जाभं हृदि विद्यच्छटोपमम् | आज्ञायां चन्द्रसंकाशं महस्तव महेश्वरि || एवमेकैकमग्निसूर्यचन्द्रकुण्डलिन्याख्यया श्रीत्रिपुरा ज्ञेया तत्तेजः समष्टिरूपत्वात् | एवमुक्तक्रमेण विद्याबीजस्थानान्यवगम्यानि | न तु प्रोक्तपादैरुपक्षिप्यमाणबीजानां प्रातिस्विकप्रतिपदोक्तस्थानसादृश्येनेति | अग्रेऽपि द्वितीयस्तवे वक्ष्यते मूर्ध्नि स्फुरत्तुहिनदीधितिरित्यत्र | एवं सन्दर्भरचनासूचितानामेषां वाग्भवकामराजशक्तिबीजानां धर्मकाममोक्षफलप्रदत्वं श्रीत्रिपुरया सहाभेदत्वं चागमप्रसिद्धम् | तदुक्तं श्रीवामकेश्वरीमते- वागीश्वरी ज्ञानशक्तिर्वाग्भवे मोक्षरूपिणी | कामराजे कामकला कामरूपाक्रियात्मिका || प्. ११) शक्तिबीजे पराशक्तिरिच्छैव शिवरूपिणी | एवं देवी त्र्यक्षरी तु महात्रिपुरसुन्दरी || (४ प १७.१८) इति | तत्राद्यंबीजं त्रय्याद्याक्षरनिष्पन्नत्वात् त्रयीमयतां नोज्झति | यथा सामऋग्वेदाद्यभूतयोर्विश्लिष्यस्थापितयोर्वर्णयोः परतःस्थापितेन यजुराद्यवर्णेन क्रमेण गुणवृद्धिसन्धौ विधीयमाने कुलसुन्दरीविद्याद्यबीजंनिष्पद्यते | तदुक्तं कादिमते- त्रयीमयत्वं विद्यायास्तथा व्यञ्जनसङ्गमात् | वाच्यवाचकरूपस्य प्रपञ्चस्यामितात्मनः || कारणत्वं परात्मत्वममेयत्वञ्च वै क्रमात् | कथयामि शृणु प्राज्ञे ! विचित्रा मन्त्रवैभवाः ||
SK
इत्युपक्रम्य इत्युत्पन्नं शुचेर्वपुः इत्यन्तम् | एतत् तृतीये स्तवे स्पष्टं निरूपयिष्यते | द्वितीयन्तु- विशिष्तसन्दर्भरूपेण त्रयीमयतामत्यजदशेषशब्दार्थरूपप्रपञ्चव्याप्तिमावेदयति यथा विद्याया द्वितीयबीजगतककारलकारयोर्मध्ये ककारस्य व्यञ्जनात्ममातृकादिभूतत्वात् लकारस्य च पञ्चभूतादिभूतपृथिव्यक्षरात्मकत्वात् वाच्यवाचकात्मप्रपञ्चोपलक्षणत्वेन तयोर्बिन्दुविसर्जनीयैक्यरूपशिवशक्तिसामरस्यात्मकतुरीयस्वरविश्रान्त्या विश्वाभेदव्याप्तिर्निरूप्यते | तदुक्तं तत्रैव- मध्यमार्णगतप्राणा व्यञ्जनादेस्तुमातृका | प्राग्वत् कारणकार्यत्वयोगाद्वाचकरूपकम् || तदर्णकरसायोगा भूतादित्वेनवाच्यता | इति वाचकवाच्यत्वरूपा विश्वात्मतोदिता || इति | तृतीयबीजे तु व्यञ्जनस्य ज्ञेयरूपत्वादचो ज्ञानरूपत्वाद् विसर्जनीयस्य ज्ञातृस्वरूपत्वाच्च ज्ञातृज्ञानज्ञेयरूपत्रिकात्मकविश्वमयत्वव्याप्तिःसुव्यक्तं प्रतिपादितः | तदुक्तं तत्रैव- प्. १२) परारूपं तृतीयेन त्रिंशिकोक्तं त्रिधात्मकम् | एवमेषा विश्वमयी | इति | अस्य तृतीयस्य हृदयबीजस्यत्रिकागमोक्तप्रक्रिययाऽर्थोऽग्रेयथावसरं व्याख्यास्यते | एवमस्याविद्यायास्त्रिभिर्वाग्भवादिखण्डैस्त्रिधाशेषविश्वात्मकत्वात् साधकस्य नासाध्यं किञ्चिदस्तीति इति न्यरूपि | मन्त्रोद्धारज्ञानप्रकारस्तु श्रीमहात्रिपुरसुन्दर्युपासनाशेषभूतत्वादस्मादाद्यपद्याद् ग्रन्थकृता नैपुण्येन समुन्मील्यमानः प्रदर्श्यते- तत्र प्रथमपादे आद्यार्णतया द्वितीयपादे द्वितीयार्णतया तृतीयपादे तृतीयार्णतयेति- अनुक्रमशः श्रीबालासुन्दरीविद्याबीजानि समुद्धृतानि | सर्वतः इत्यत्र समुद्धृतस्य विसर्गस्यानुकर्षणात् तृतीयं बीजं सम्पूर्यम् इतीमं मन्त्रोद्धारसूचनाक्रमं स्वयमेव ग्रन्थकृत् स्पष्टं परसम्प्रतिपत्त्यै उपसंहारश्लोके सन्दर्भिष्यति यत्राद्यवृत्ते स्फुटम् | एकद्वित्रिपदक्रमेण इत्यादिना | तदुक्तं ज्ञानार्णवे- त्रिपुरा त्रिविधा देवि ! बालां तु प्रथमां शृणु | यया विज्ञातया देवि ! साक्षात् सुरगुरुप्रभः [गुरुर्भवेत् (मु० सं०)] |
SK
सूर्य स्वरंसमुच्चार्य बिन्दुनादकलात्मकम् | स्वरान्तं पृथिवीस्थंतु [पृथिवीयुक्तं (मु० सं०)] || तुर्यस्वरसमन्वितम् || बिन्दुनादकलाक्रान्तं सर्गवान् भृगुरव्ययः | शक्रस्वरसमोपेतो विद्येयं त्र्यक्षरीमता || गङ्गातरङ्गकल्लोलवाग् [वाक्पटुत्वप्र० (मु० सं०)] गुम्फपददायिनी | महासौभाग्यजननी महासारस्वतप्रदा || (प० २ ३ ४ ५ ६) इति | विशेषसहित इति वक्ष्यमाणतया तद्विशेषाच्च तदन्तर्भावेनोद्धताःसन्तीति बोध्यम् | प्. १३) तथाहि- समस्तत्रैपुरविद्याराशिकन्दभूतायाः परमरहस्यसंकेतबूतायाः बिन्दुविसर्गसाहित्यासाहित्याभ्यां विशेषाश्च सूच्यन्ते | ऐ ई औ | ऐं ई औ | ऐं ईं औ | ऐं ईं औः | इति | तदुक्तं कादिमते- शुचिराद्या वाक्स्वरूपा द्वितीया वह्निरीरिता | बिन्दुसर्गात्मनोरैक्यरूपा सात्वावयोर्वपुः || तेन बीजेन विश्वात्मरूपा सा सम्यगीरिता | वनं तृतीयमाख्यातं मायया स्वेन वा युतम् || एषा त्रिपुरकन्दा [त्रैपुर (मु० सं०)] स्यात् संकेतेति निगद्यते | ज्ञातृज्ञानज्ञेयदोषगुणतेजस्त्रयात्मिका || (प० १५. ४२-४४) इति | सर्वतोऽहस्थिता इत्यनेन सर्वेषु बीजेषु हकारे स्थिता इति त्रिपुरवासिनीविद्योद्धारः सूच्यते हैं हक्लीं ह सौः इति तदुक्तं ज्ञानार्णवे- त्रिपुरेशी महेशानि ! त्रिबीजाहस्थिता यदा | चक्रासनगता [देवि ! विद्धि त्रिपुरवासिनीम् (मु० सं०)] विद्धि देवि! त्रिपुरवासिनी || (१०. प० २०) इति | तथा सहसा इत्यनेन हकारसकाराभ्यां सह वर्तमाना इति त्रिपुरा श्रीविद्योद्धारोपक्षेपः- हसैं हसक्लीं हसौः | तदुक्तं तत्रैव- त्रिपुरेश्या [त्रिपुरेशी (मु० सं०)] महेशानि ! वाग्भवे कामराजके | शिवचन्द्रसमायुक्ता तार्तीये शिवरूपिणी || सर्वमन्त्रासनगता त्रिपुरा श्रीरियं प्रिये | (१०. प० २१.२२) इति | अत्रैव मध्यबीजे हकारमन्त्रयोजनायामुत्तरसिंहासनगतडामरभैरवीविद्योद्धारः हसैं हक्लीं हसौः | तदुक्तं श्रीविद्यार्णवे- प्. १४) उत्तरास्येन देवेशि ! मयाद्यापि प्रजप्यते | महासिंहासनगता भैरवी डामरीश्वरी ||
SK
पूर्वोक्तभैरवीदेव्याः कामरूपे परां शिवाम् | हित्वोच्चरेत्तदा विद्याम् * * * * * * * * ? || इति | तथा सहसा सदाहस्थिता इत्यनेन सदाहो दाहशक्तिमानग्नीरेफस्तत्र स्थितेति त्रिपुराविद्योद्धारः | हसरैं हसकलरीं हसरौं | तदुक्तं तत्रैव- यथा श्रीत्रिपुराबाला तथा त्रिपुरभैरवी | सम्पत्प्रदा नाम तस्याः शृणु निर्मलमानसे || शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् | कामराजं तथा देवि ! शिवचन्द्रान्वितं तथा || पृथ्वीबीजान्तवह्न्याढ्यं तार्तीयं शृणु सुन्दरि [वल्लभे (मु० सं०)] ! | कुमार्यास्त्रिपुरेशान्या [महेशानि ! (मु० सं०)] हित्वा [भित्त्वा (मु० सं०)] सर्गं तु बैन्दवम् || त्रिपुरा भैरवी देवी महासम्पत्प्रदा प्रिये | (६ प० २ ३ ४ ५) इति | तथा सहयोः स्यति पर्यवस्यति- इति कृत्वा सहसा- इत्यनेन प्रोक्तविद्याबीजेष्टाद्याक्षरयोर्विपर्यासन्यासात्कौलेशभैरवीविद्योद्धारः संपद्यते ह्स्रैं ह्सकलरीं हसरौं- इति | तदुक्तं ज्ञानार्णवे- सम्पत्प्रदा भैरवीवत् [संपत्प्रदा भैरवी च विद्धि कौलेश भैरवी | हसराद्या भैरवी सा त्रिषु बीजेषु पार्वति ! || इयं तु सहराद्या स्यात्पूजाध्यानादिकं तथा | (मु० सं०)] विद्धि कौलेश ! भैरवीम् | हसाद्या सैव देवेशि ! त्रिषु बीजेषु पार्वति ! || प्. १५) इयं तु सहराद्या स्यात् ध्यानपूजादिकं तथा | (९ प० ५४ ५५) इति | तथा सहसा इत्यनेन सह सकारेण द्वयोः कूटयोर्वर्तमाना सदाहस्थिता इत्यंशस्य मथ्यमानत्वोदितिकृत्वा दक्षिणसिंहासनाधिदेवतारक्तनेत्रा भैरवीविद्योद्ध्रियते सैं सकलरीं सौः | तदुक्तं तत्रैव- चन्द्रवाग्भव संयुक्तं बीजं प्रथममीरितम् | सकला वह्निमायाभ्यां द्वितीयं बीजमीरितम् || बालायाश्चैव तार्तीयं तृतीयं बीजमीरितम् |
SK
इति | तथा सर्वतः सहसा सदाहस्थिता क्लीं कान्तिमातन्वती इत्यनेन हससमुदायरेफयोर्मध्ये ककारलकाररूपिणीं कान्तिं शोभां सर्वत्र क्रोडीकुर्वाणायां पूर्वप्रदर्शितसंकेतविद्यायां विद्यान्तरोपक्षेपः हसकलरैं हसकलरीं हसकलरौः इति | अत्रैव अनुष्णगोरिव शिरसि इत्यनेन अनुष्णगोरिन्दोष्ठकारस्य शिरस्युपरिस्थे डकारे तन्निमितत्वात् सर्वतः कान्तिं दीप्तिमातन्वाना चेति कृत्वा दक्षिणसिंहासनस्थषट्कूटाभैरवीविद्योद्धारः सूचितः हसकलरडैं हसकलरडीं हसकलरडौः इति | तदुक्तं तत्रैव- शिवचन्द्रौ मादनञ्च भूमिर्वह्निस्तु डामरम् | वाक्शान्तिमनुभिर्युक्तं बीजत्रयमुदाहृतम् || इति | तत्रैव- डाकिनी राकिणीबीजे लाकिनी काकिनीयुगम् [बीजे आहृत्य देवेशि ! योजयेच्चन्द्रसूर्ययोः | (मु० सं०] | साकिनी हाकिनीबीजे आकृष्य सुरसुन्दरि ! || प्. १६) आद्यमैकारसंयुक्तमन्यदीकारसंयुतम् | शक्रस्वरान्वितं [शक्रस्वर समायुक्तं (मु० सं०] देवि ! तार्तीयं बीजमालिखेत् | बिन्दुनादकलाक्रान्तं द्वितीयं [तृतीयं (मु० सं०)] शैलसम्भवे | इति | तृतीयं तु सविसर्गमिति तन्त्रान्तरोक्तम् | तद्यथा- डरौ क्ष्मामादनं वान्तं शिवमत्र त्रिधा लिखेत् | अर्केण मायासक्राभ्यां क्रमात्तन्मण्डितं कुरु || बिन्दुनादान्वितं चाद्ययुग्ममन्त्यं विसर्गवत् | इति | इयं षट्कूटा- एतस्या एव विद्यायाः षड् वर्णान् क्रमतः स्थितान् | विपरीतान् वदेत् प्रौढे ! विद्येयं भोगमोक्षदा || नित्याख्या भैरवी देवी * * * * * * * * ? | इति | तथा सहसा इत्यनेनैव सहसेन सकारेण वर्तमानेति कृत्वा सादयश्च विद्याःकाश्चिन्निष्पद्यन्ते सहैं सहक्लीं सहौः इति | सह्रैं सहकलरीं सह्रौः इति | सहकलरैं सहकलरीं सहकलरौः इति | सहकलरडैं इत्यादिच |
SK
तथा सदा अहस्थिता शिरस्यनुष्णगोः सर्वतः कान्तिं दधती इत्यनेन आकारहकारयोरुपरि बिन्दुमात्रनिमित्ततया सर्वत्र अनुत्तरविमर्शमयशिवशक्तिभ्यां ताभ्यां प्रत्याहारन्यायेन समुपसंहृतस्याशेष वाच्यवाचकात्मकषडध्वस्फारमयस्य अकुलस्वरूपाद् व्योमकलापर्यन्तस्य विश्वस्याविभागवेदनात्मकबिन्दुविश्रान्त्या अकृतकविमर्शमयाहन्तासारानिखिलमन्त्रोदयविलयस्थानं महामन्त्रवीर्यभूमिरुपक्षिप्ता भवति | यया सर्वे मन्त्रा विद्याश्च गृहीतवीर्याः साधकजनैर्यथाकामं प्रयोज्यमानाः अर्थक्रियां निष्पादयितुं प्रभवेयुः | तदुक्तं श्रीशिवसूत्रेषु- प्. १७) महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः इति | (प्र० १ उ० २२) श्रीस्पन्देऽपि तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः प्रवतर्न्तेऽधिकाराय करणानीव देहिनः | इत्यादि | तथा- मूलविद्यान्त्यबीजे षट्त्रिंशतां तत्वानां व्याप्तिसम्भवात्तदन्तर्भावोऽपि यथा स्यादिति प्रतीतेरनुगतत्वेन पृथिव्यादिमायापर्यन्तानामेकत्रिंशत्तत्त्वानामनुत्तरत्रिकागमोक्तप्रक्रियय् आ सकारेण शुद्धविद्यादिशक्त्यन्तानां शूलार्णेन तदतीतस्य विसर्गेण व्याप्तिर्निरूपिता | शिवादिशुद्धविद्यान्ततत्त्वपञ्चकस्य चिदानन्देच्छाज्ञानक्रियाशक्तिसारत्वात् पञ्चशक्तिरूपत्वञ्चेति एतत्सर्वं तत्रैव परस्यां भूमौ विलीयते तत एव चोदेति इति प्रदर्शितं भवति | तदुक्तं श्रीपरात्रीशिकायाम्- सार्णेनाण्डत्रयं [मुद्रित परात्रीशिकायां पद्यमिदं नोपलभ्यते; मालिनीविजयोत्तरतन्त्रस्य चतुर्थाधिकारे तु २५ श्लोकस्यायं पाठभेदः- सार्णेन त्रितयं व्याप्तं त्रिशूलेन चतुर्थकम् | सर्वातीतं विसर्गेण परा व्याप्तिरुदाहृता ||] व्याप्तं त्रिशूलेन चतुर्थकम् | सर्वातीतं विसर्गेण पराया व्याप्तिरिष्यते || तथा- यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः | तथा हृदयबीजस्थं विश्वमेतच्चराचरम् [जगदेतच्चराचरम्- इत्यपि] || (२४) इति |
SK
न विद्या मातृकापरा इत्युक्तेर्मातृकाया अप्यस्यां विद्यायामन्तर्भावः | तथाहि प्रथमान्त्यबीजयोः सर्वेऽचो गृह्यन्ते तत्राकारेकारोकाराणां प्. १८) क्रमेण गुणवृद्धिसन्धौ दशस्वराः सबिन्दुविसर्गा अन्तर्भवन्ति | चत्वारः षण्ठस्वरा लकारस्यैव रूपभेदाः | विलोमोच्चारक्रमे विसर्गो हकारो मध्यबीजे लकारश्च ताभ्यां प्रत्याहारन्यायेन संगृहीताः पाणिनीयपरिभाषिता हलोऽन्तर्भवन्ति | सकारककाराभ्यां क्षकारश्चेति मातृकोद्धारः | तदाश्रया लौकिकालौकिकाशेषवाङ्मयभाषागीतिस्तुतिभदाश्च तदन्तर्भूताः सूच्यन्ते | केचिदन्त्यबीजे सप्तविभक्तयोऽप्यन्तर्भवन्तीत्याहुः | तथा च तत्र सु औ जस् इति प्रथमाविभक्तिरूपमुपलभ्यते सा च प्रातिपदिकमात्रनिष्ठेति द्वितीयादीनां विभक्तीनां तदन्तर्भावात् कर्मादिकारकविशेषतयापि तस्या एवावस्थितत्वात् | एवमुक्तकुलसुन्दरीभेदाः श्रीतन्त्रराजे पञ्चदशे पटले संज्ञान्तरैर्निरूपिताः- विद्यायाः कुलसुन्दर्या हंसयोगात् त्रिषु क्रमात् | विजयाख्या महाविद्या विश्वसंत्राणतत्परा || हृत्समायोगतस्तेषु जीवाख्या विश्वचिन्मयी | द्वयोर्नियोजनात्तेषु जायते आवयोर्वपुः || हृदादिस्त्वन्मयी विद्या हंसादिर्मन्मयो मनुः | तेषु दाहसमायोगाद्विश्वाख्या विश्वविग्रहा || प्रत्येकं शक्तिपुटिता विद्या विश्वविमोहिनी | (५०.५१.५२.५३) इत्यादि तथा सूचितसंकेतविद्यायास्त्रिषु खण्डेषु द्वितीयतृतीयविधुरं प्रथमे वा प्रथमतृतीयविकलं द्वितीये वा प्रथमद्वितीयहीनं तृतीये वा तेष्वन्यतमविधुरमितरयोर्वा समस्तेषु कादिक्षान्तवर्णानां पञ्चत्रिंशत्संख्याकानां व्यञ्जनानां क्रमव्युत्क्रमापक्रमे एकद्व्यादिक्रमेण समायोगान्निष्पद्यमानानां विद्यानामसंख्यातरूपत्वं संजायते तदुक्तं तत्र- एकद्व्यादिसमायोगाद्व्यञ्जनानां तथा त्रिषु | ज्ञातुं न शक्यते संख्या विद्यानां परमेश्वरि || एवं सानन्तविभवा तां निःशेषं वदेत्कथम् [तान्यशेषं ब्रुवे कथमिति मुद्रित संस्करणम्] | (१५. प० ४७. ४८) प्. १९) इत्यलं प्रसक्तानुप्रसङ्गेन || १ ||
SK
अथ विशेषोपासनोपदिदिक्षया नादबिन्दुमयानच्ककलात्मना समुपास्यमानस्याद्यबीजांशस्य मोक्षफलत्वमाह- या मात्रा त्रपुसीलतातनुलसत्तन्तूत्थितिस्पर्धिनी वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् | शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमा ज्ञात्वेथं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः || २ || वरदे ! इत्युत्तरश्लोकादिह प्रत्यनुवर्तनीयमन्यथा तवेत्याभिमुख्यनिर्देशवाचिना व्याहारप्रकारस्याघटनात् | तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः इत्युक्त्या यमनियमाद्यनुष्ठानपूर्वं व्रियन्ते इति वरास्तान् स्वोपासकेभ्यो विष्णुविरिञ्च्यादिभ्यो दत्ते इति वरदा | तदाह पद्मे नारदः- यच्चाहमुक्तवानस्या उत्तानकरतां सदा | उत्तानो वरदः पाणिरेष देव्याः सदैव हि || सुरासुरमुनिव्रातवरदेयं भविष्यति || इत्येतेनात्र दानक्रियायाः प्रायेण हस्तकरणकत्वाद्वरद पाणिरित्यर्थो ज्ञेयः | वस्तुतोऽत्र सुरासुराद्यभीप्सितकामनासंपूरणमात्रे तात्पर्यात् | वरमुद्राधारणार्थपरत्वस्य तु सुयोग्यत्वानुपपत्तेः | भगवदाचार्याणाम्- त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः | त्वमेका नैवासि प्रकटितवराभीत्यभिनया || इत्युक्तेः | वरं वरणीयं परमशिवधाम स्वोपासनया मुमुक्षुभ्यो दत्ते इति वा शक्तेः शिवाभेदात्मतया तदुपासनयैव शक्तिमत्स्वरूपाधिगमः | तदक्तुम्- न वह्नेर्दाहिकाशक्तिर्व्यतिरिक्ता विभाव्यते | प्. २०) केवलं ज्ञानसत्तायां प्रारम्भोऽयं प्रवेशने || यथा लोकेन दीपस्य किरणैर्भास्करस्य वा | ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवप्रिये || (वि० भै० २१) इति | तथा- शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना | तदसौ शिवरूपी स्याच्छैवीमुखमिहोच्यते || (वि० भै० ५१) इत्येतदग्रे यथावसरं निर्णेष्यते | तव वाङ्मयत्वेन त्वत्सम्बन्धिनि प्रथमे वाग्बीजे श्रीकुलसुन्दरीविद्याद्याक्षरस्वरूपे वाग्भवाख्ये कूटे मूलाधारे वाग्भवाख्यं कूटं संचिन्तयेद्बुधः | इत्युक्तनीत्या-
SK
आधारपंकजं पीतं चतुष्पत्रं सुकेसरम् | अधोमुखं च तन्मध्ये कुण्डलीपरमेश्वरी || इति स्वच्छन्दसंग्रहोक्त्या च चतुष्पत्राधारपद्मकर्णिकोपास्यस्थानकत्वात् तदब्जयोन्यात्मशृङ्गाटाकृतिमिति स्थिता या मात्रा नादबिन्द्वात्मानच्ककला कुण्डलिनीशक्तिरिति जीवशक्तिरूपा गर्भीकृताशेषवाच्यवाचकात्मविश्वरूपत्वेन प्रसुप्तभुजगवत्कुण्डलाकारा नादामर्शतां निमज्ज्य प्राणात्मकं रूपमाविश्यास्थिता | तथा च पारमेशी बोधाख्या शक्तिर्विश्वं गर्भीकृत्य पराकुण्डलिका सती विमर्शरूपतया नादात्मवर्णकुण्डलिकात्मना स्फुरित्वान्तर्निमज्जितैतत्स्वरूपा प्राणकुण्डलिकात्मतयाभातीत्याम्नायः | तदुक्तं कादिमतेऽपि- मूलाधारस्थवह्न्यात्मतेजोमध्ये व्यवस्थिता | जीवशक्तिः कुण्डलाख्या प्राणाकाराथ [प्राणाकारेण तेन सा (मु० सं०)] तैजसी | प्रसुप्तभुजगाकारा त्रिरावर्ता महाद्युतिः | मायाशीर्षा नदन्तीं तामुच्चरत्यनिशं खगे || प्. २१) सुषुम्नामध्यदेशेकर्ण या दसाद्वयस्य तु | पिधाय न शृणोत्येनं [शृणोत्यस्या (मु० सं०)] ध्वनिं तस्य तदा मृतिः || इत्यादि- कीदृशी कुण्डलिनी त्रपुसीलता कर्कटीवल्ली तस्यास्तनुः सूक्ष्मश्चासौ लसन्नधिरोहन्नङ्कुरतयोद्गच्छन् यस्तन्तुर्गुणस्तस्योत्थितिमुदयं स्पर्धते अनुकरोतीति स्पर्धिनी तद्वत्तनीयसीत्यर्थः | तदुक्तं ब्रह्माण्डे- महाशक्तिः कुण्डलिनी बिसतन्तुतनीयसी | इति | श्रुतिरपि- नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा | इति | विज्ञानभैरवे- आमूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकाम् | चिन्तयेत्तां द्विषट्कान्ते शाम्यन्तीं भैरवोदयः || (श्लो० २८) इति तनुरित्यनेन तस्या योगिमनोऽवधानमात्रविषयत्वेन न बहिर्मुखवृत्तिगोचरत्वमित्युपक्षिप्यते | तदुक्तं ज्ञानगर्भे- तवाम्ब ! परमाक्षरी भवति रूपमेतद् बहिर्विशत्प्रणवरूपतां समुपयाति हृत्कोटरे | अवेद्यमकृतात्मभिर्जननि ! बिन्दुतादात्म यत्विदन्ति तदहेलया त्वदनुस्मृतेर्योगिनः ||
SK
इति | सैव मूलाधाराब्जेऽध्युष्टवलयाकारतया प्रसुप्ता योगकलया प्रबोध्य षडब्जानि तद्ग्रन्थिंश्च भिन्दानोपरियात्वा सहस्रारकमलकर्णिकाचन्द्रबिम्बादमृतं स्रावयति | तदुक्तं वामकेश्वरे- भुजङ्गाकाररूपेण [मु० पु० इमेश्लोका नोपलभ्यन्ते] मूलाधारं समाश्रिता | शक्तिः कुण्डलिनी नाम बिसतन्तुनिभा शुभा || प्. २२) मूलकन्दं फणाग्रेण दंष्ट्राकमलकन्दवत् | मुखेन पुच्छं संगृह्य ब्रह्मरन्ध्रं समन्विता || पद्मासनगता स्वच्छा गुदमाकुञ्च्य साधकः | वायुमूर्ध्वगतं कुर्वन् कुम्भकाविष्टमानसः || वाय्वाधारवशादग्निः स्वाधिष्ठानगतो ज्वलन् | ज्वलनाघातपवनाघतैरुन्निद्रितोऽहिराट् || ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः | रुद्रग्रन्थिं विभिद्यैव कमलानि भिनत्ति षट् || सहस्रकमले शक्तिः शिवेन सह मोदते | सा चावस्था परा ज्ञेया सैव निर्वृत्तिकारणम् || इति | एवंविधां तां प्रतिजन्तु अप्राणाद्यस्फुरत्तारूपिणीं सदा सर्वदेत्यनेनास्याः स्वात्मन्यकालकलितत्वमित्यासूत्र्यते | विश्वस्य प्रमाणप्रमेयादिरूपस्य एषणीयभावजातस्य वाच्यवाचकात्मनः षडध्वस्फारस्य वा जननव्यापारे पशन्त्यादिस्फारणक्रमेणोत्पादक्रियायां बद्ध उद्यमो यया तां बद्धोद्यमां स्वारस्येन गृहीतसंरम्भाम् | संविदो हि क्षोभकत्वात्स्वात्मोच्छलनेनाशेषज्ञेयकार्यवस्तुनो बहीरूपत्वावभासनसामर्थ्यं स्वभावसिद्धमेवेत्यनेनाभिधीयते | तदुक्तं श्रीमदभिनवगुप्तपादैः- क्षोभकं संविदो रूपं क्षुभ्यति क्षोभयत्यपि | क्षोभः स्याज्ञेयधर्मत्वं क्षोभणा तद्बहिष्कृतिः || अन्तःस्थ विश्वाभिन्नैकबीजांशविसिसृक्षुता | क्षोभोऽतदिच्छे तत्त्वेच्छाभासनं क्षोभणां विदुः || यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् | क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः || (तं० ३ | ८२-
SK
इति | षडध्वात्मनां विवरणमग्रे वितनिष्यते | येयं चानुत्तरानन्दघनस्वभावकामेश्वरस्वभावाविभिन्ना परावागात्मा विश्वप्रस्फारणाहेतुः सैव बहिरुल्लिलयिषाभ्युपगमरूपत्वादिच्छाशक्तिरूपा पश्यन्ती संज्ञा | प्. २३) ज्ञानशक्तिप्राधान्याद्धीवृत्तिमात्रे प्रसार्यमाणत्वेन मध्यमेत्यध्यवसीयते | क्रियाशक्तिप्राधान्यात् पुनस्ताल्वादिकरणव्यापारजन्यस्फुरत्वे लौकिकालौकिकविचित्रशब्दात्मा वैखरीवाक् इत्यसौ वाग्विलासः सामस्त्येनेच्छादिशक्तिविकासात्मैव | तदुक्तं श्रीमदभिनवगुप्तपादैः- प्राक् पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः | परा परापरादेवी चरमा त्वपरात्मिका || इच्छादिशक्तित्रितयमिदमेव निगद्यते | एतत्प्राणित एवायं व्यवहारः प्रतायते || (तं० १ | २७१-२७२) इति | तथोत्तरचतुः शत्याम्- इच्छाशक्तिस्तथा सेयं पश्यन्ती वपुषा स्थिता | ज्ञानशक्तिस्तथा प्रोक्ता मध्यमा वागुदीरिता || क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा | इति | इत्थमुक्तप्रकारेणाशेषजीवनशक्तिरूपत्वात् विश्वाहंभावस्फुरत्तासारां परमाकाशब्रह्मचिच्छक्तिं तां ज्ञात्वा स्वाभेदेन प्रत्यभिज्ञाय नरा ये केचन पारमेश्वरशक्तिपातपवित्रिता जनाः पुनर्भूयो जननीगर्भे मातृकुक्षिमध्येऽर्भकत्वं शिशुत्वं न स्पृशन्ति न जायन्ते इत्यर्थः | नातः परं वेदितव्यं हि किंचित् इति | (श्वेता० १.१२) तमेव [तṁ विदित्वा मृत्युमत्येति (मु० सं०)] विदित्वातिमृत्युमेति इति श्रुतेः | (हंसो० ४) ज्ञात्वा देवं सर्वपाशापहानिः इति च | (श्वेता० १.११) तेषां तादृगुत्तमाधिकारिप्राप्यतथाविधोत्कृष्टपूर्णसपर्यारहस्याभिज्ञत्वात्# जन्मेति भावः | श्रुतिश्च- तस्य तावदेव चिरं यावद्विमोक्ष्येऽथ संपत्स्यै इति | (छा० उ० ६.१.४.२) प्. २४) न स पुनरावर्तते इति | (निरा० ३३) स्मृतिश्च- यद्गत्वा न निवर्तन्ते तद्धाम परमं मम इति | (भ० गी० १५-६) अपुनरावृत्तिमुपबृंहयतः इति |
SK
एवमुक्तसनादबिन्दूपास्तेर्मुख्यं मुक्तिरूपं फलमुक्तम् | ते वयं तथाविधविमर्शानुसन्धानविश्वस्तहृदया मन्महेऽवबुध्यामहे प्रतिजानीमहे इत्यर्थः | स्पृशन्तीत्यनेन जननीगर्भस्पर्शमात्रनिषेधात्तद्वासो नितरां दूरापास्त इत्युक्तंभवति | त इत्यनेन भातभासमानानुसन्धानानुप्राणितेन प्रत्यभिज्ञाव्यापारेण ये पूर्वं समभ्यस्तसपर्याविभवजन्यत्वत्समावेशानन्द- prasādapātratāmāvirbhāvayatīti || 2 || evamādyabījaikadeśopāstiphalamuktvāvaśeṣabījāṃśākṣaraphalaṃ vākprasarasiddhirūpaṃ kīrtayan kaimutikanyāyena sampūrṇabījajapopāsanāmāhātmyamupakṣipati- dṛṣṭvā sambhramakāri vastu sahasā ai ai iti vyāhṛtaṃ yenākūtavaśādapīha varade ! binduṃ vināpyakṣaram | tasyāpi dhruvameva devi ! tarasā jāte tavānugrahe vācaḥ sūktisudhārasadravamuco niryānti vaktrāmbujāt || 3 || he varade ! iti samanantaraśloke vyākhyātam | yena puṃsā sāmānyena kenacidityuktyādhikāravibhāganiyamābhāvaḥ śrīvidyopāsanāyāmabhihitaḥ | tarasātarkitamevaṃ trāsādyāviṣṭeneha loke ākasmikopanatahiṃsraprāyavyāghrādijanturūpaṃ sambhramakāri bhītyādyāvegajanakaṃ vastu kimapi dravyaṃ dṛṣṭvākūtavaśādapi bhayādinivṛttyabhiprāyahetorapi ai ai iti binduṃ vināpyakṣaraṃ prasaṃgena skhalitoccaritatvādanusvāravihīnaṃ vidyādyavarṇabījātmakamasaṃpūrṇabhāvena vyāhṛtaṃ bhāśitaṃ syāt | p. 25)
SK
हे देवि ! दीव्यति क्रीडतीति देवी इयमेव क्रीडा यद्धेयोपादेयप्रयोजननिरपेक्षमेवानन्दघनतोत्कर्षेण स्वातन्त्र्यात्स्वात्माकाशे शिवादिमहीपर्यन्ताशेषजगदात्मनोल्लसनमिति | तथा दीव्यति विजिगीषते इति देवी | इयमेव विजिगीषा यत्स्वेच्छावभासिताद्विश्वस्मादुत्कर्षेण वर्तनेच्छा तथा दीव्यति व्यवहरतीति देवी व्यवहारश्चापारमार्थिकभेदप्रथास्वभावं प्रमेयादिकं विस्फार्याहमिदं जानामीत्येवंरूपत्वेनाभिन्ने स्वात्मनि सञ्जल्पनम् | तथा देवनं द्योतनं तच्च प्रमातृप्रमेयात्मनो विश्वस्यावभासनम् तथा मन्त्रमहेश्वरादिप्रमातृवर्गस्य तत्प्रमेयजातस्यापि स्वरूपलाभवितरणात्प्रभृति तत्परतन्त्रवृत्तिभिस्तैः प्रह्वत्वाद् दीव्यते स्तूयते इति देवी | तथा पूर्णज्ञानक्रियाशक्तिसतत्त्वतया निर्विशेषं सर्वत्र ज्ञानात्प्रसरणाच्च गतिस्तेन देव्यति जानाति प्रसरति चेति देवी | इत्यनेकधागमेषु देवीशब्दनिरुक्तिः | एतच्चाग्रे प्रतनिष्यते | हे निःशेषविश्वरक्षणादिलीलाशीले तस्यापि अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः इति न्यायेन तवानुग्रहे परशक्तिपातप्रसादलक्षणे जाते समुत्पन्ने आपतिते सति तत्पवित्रितहृदयत्वात्तरसा झगिति शक्तिपातसमनन्तरमेव नान्तरा कालविलम्बप्रत्यवायः | सुक्तयो मधुरमनोहरसुभाषितोक्तय एव सुधारसद्रव अमृतरसास्वादधारास्तान् मुञ्चन्ति स्यन्दन्तीत्येवंविधा वाचो गिरो वक्त्त्राम्बुजान्मुखकमलान्निर्यान्ति निःसरन्तीति ध्रुवमेव निश्चितमेवैतत् | यद्वा ध्रुवमित्युत्प्रेक्षार्थकं तेनोत्प्रेक्षामहे इत्यर्थः | मन्ये शंके ध्रुवं प्रायो नूनमित्येवमादिभिः | उत्प्रेक्षाः व्यज्यते शब्दैरिवशब्दोऽपि तादृशः || इत्यभियुक्तोक्तेः येनेत्यनेन विद्वदविदुषोर्विषये शक्तिपातलक्षणानुग्रहस्य निर्विशेषत्वमिति ध्वन्यते | तरसेत्यनेन विद्यासिद्धिसाधनस्य फलप्रासौ निरपेक्षत्वमित्यभिहितम् | अपिशब्देन नियतकालजपाद्यनपेक्षणाद्विस्मयो द्योत्यते | P. २६)
SK
यद्येतद्बिन्दुहीनतायामसम्पूर्णोच्चारेऽपि सारस्वतफललाभायालं किमुत सबिन्दुकमिति | सम्भ्रमकारित्वेनात्र वीप्सा | तदुक्तं चतुःशत्याम् | ए ओ मध्यगतं बीजं वाग्विधानाय केवलम् | रुद्रयामलतन्त्रे तु निर्दिष्टं परमाक्षरम् || इति | तथा देवीभागवते तृतीयस्कन्धे नवमेऽध्याये जनमेजयं प्रति द्वैपायनेन- अस्पष्टमपि यन्नाम प्रसंगेनापि भाषितम् | ददाति वाञ्छितानर्थान् दुर्लभानपि सर्वथा || ऐ ऐ इति भयार्तेन दृष्ट्वा व्याघ्रादिकं वने | बिन्दुहीनमपि प्रोक्तं वाञ्छितं प्रददाति वै || तत्र सत्यव्रतस्यैव दृष्टान्तो नृपसत्तम | प्रत्यक्ष एव चास्माकं मुनीनां भावितात्मनाम् || ब्राह्मणानां समाजेषु तस्योदाहरणं बुधैः | कथ्यमानं मया राजन् श्रुतं सर्व सविस्तरम् || अनक्षरो महामूर्खो नाम्ना सत्यव्रतो द्विजः | श्रुत्वाक्षरं कोलमुखात्समुच्चार्य स्वयं ततः || बिन्दुहीनं प्रसङ्गेन जातोऽसौ विबुधोत्तमः | ऐकारोच्चारणादेव तुष्टा भगवती तदा || चकार कविराजं तं दयार्द्रा परमेश्वरी | त्रैलोक्ये विश्रुतश्चासीत्कविः सत्यव्रतो द्विजः || इत्यादि | इत्थं विद्याद्यबीजीयमाहात्म्यं द्विधा मुक्तिसूक्तिप्रसरफलाभ्यां प्रदर्शितं भवति | अयमत्र भावः- देवतान्तराणां विधिवदाराधनासिद्धौ फलसिद्धिर्जायते | अस्यास्त्वस्पष्टाशुद्धनामोच्चारणे प्रसङ्गतोऽपि कृते धर्मादिपुरुषार्थचतुष्टयी सिद्ध्यतीति | कथं नेयं सर्वैराराध्या इति वक्ष्यमाणेन सत्यतपस आख्यानोदाहरणेन संवादयिष्यते || ३ || P. २७) एवं द्वितीयस्य कामराजबीजस्योपासनाफलं न केवलं राजादिवश्यत्वमेव किन्तु तदेकदेशस्य प्रोक्तवाग्भवबीजवत्सरस्वतीप्रसादकारित्वमपीत्याख्यानोदाहृति- yannitye ! tava kāmarājamaparaṃ mantrākṣaraṃ niṣkalaṃ tatsārasvatamityavaiti viralaḥ kaścid budhaścedbhuvi | ākhyānaṃ pratiparva satyatapaso yatkīrtayanto dvijāḥ prārambhe praṇavāspadapraṇayinīṃ [praṇayitāmiti pāṭhāntaram] nītvoccaranti sphuṭam || 4 ||
SK
नित्यं नाम कालक्रमरहितं तथा च परा संविद्धि मातृमेयादिरूपेण प्रस्फुरन्त्यपि सकृद्विभातोऽयमात्मा इत्युक्तस्थित्यावभासनक्रियाविच्छेदाभावात् कालानवच्छेदादनस्तमितस्वभावत्वमाश्रयते | न चास्याः क्रियान्तरवत् सक्रमत्वात्कालावच्छेदः संभाव्योऽलौकिकत्वात् | तदाहुः- सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः | घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव || इति | अन्यत्रापि- उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् | उदितैव सती पूर्णा मातृमेयादिरूपिणी || इति | तेन हे नित्ये ! अकालकलितत्वादनस्तमितपरसंवित्स्वरूपे ! वस्तुतस्तु नित्यानित्यविकल्पाविषयैव चिदित्याशयेन श्रीमदुत्पलदेवपादा अपि मुक्तकेष्वाहुः- न तदा न सदा न चैकदेत्यपि सा यत्र न कालधीर्भवेत् | तदिदं भवदीयदर्शनं न च नित्यं न च कथ्यतेऽन्यथा || (उ० स्तो० १२- yadvā kāmeśvaryādicitrāntāsu pañcadaśasu tithinityāsūpacaritanityatvadharmāsu P. 28) madhye tadvilayodayadhāmatvādanastamitānupacaritanityatvadharmā ṣoḍaśī śrīmahātripurasundarīsaṃjñā nityā | yaduktam- eka eva prakāśākhyaḥ paraḥ ko'pi maheśvaraḥ | yasya śaktirvimarśākhyā sā nityā gīyate budhaiḥ ||
SK
इति | हे नित्ये ! अकालकलितपरसंवित्स्वरूपे ! तव त्वदीयश्रीइविद्यास्थं यत्कामराजं कामेषु काम्यमानेष्वर्थेषु सार्वभौमो राजेव दातुं स्वतन्त्रमनन्यापेक्षित्वात् कामराजाभिधमपरं द्वितीयं मन्त्राक्षरं श्रीविद्यापरार्णरूपं तन्निष्कलं निष्क्रान्तौ ककारलकारौ यस्मात्तन्निष्कलं तुर्यस्वरमात्रं सारस्वतं सरस्वतीप्रसादजन्यकवित्वादिसिद्धिजनकमिति चेद्यदि विरलो न सर्वो मनुष्याणां सहस्रेषु कश्चिदायाततीव्रशक्तिपातश्लाध्यो भूमाववैति विजानीयात् | प्रायः सर्वेषां सामान्येन राज्यप्रदत्ववशीकारत्वादिज्ञानवत्त्वात् | स बुधश्चतुर्दशविद्यासु वैदुष्यप्रभावप्रख्यातकीर्तिः कविः स्यात् | विरल इत्युक्तेरेतज्ज्ञानित्वस्य दुर्लभत्वम् | यद्वा यो जानाति स बुधस्तदेव तस्य ज्ञानित्वमिति | अन्यथा तदतिरिक्तज्ञानस्य लाभेऽपि असारप्रायत्वमिति सूच्यते | एतेन कामराजैकदेशस्यापि वाग्भवबीजसमानार्थकत्वमित्युक्तम् | एवं पूर्वार्धेन कामकलाया अपि सारस्वतत्वं प्रदर्श्य सत्यतपोमुनेराख्यानोपन्यासपूर्वकं तस्या वाक्प्रसादजननोपवृंहणाय हेतुद्वारेणापरार्धमाह आख्यानमिति | यद्यस्मात्कारणात्प्रतिपर्व प्रतिपर्वसु विषुवदाद्युत्सवाहेषु दर्शादिसन्धिकालेषु वा सत्यतपसः सत्यव्रतपर्यायस्यर्षेराख्यानमाख्यायिका व्युपलब्धसत्यार्थभूतकथा तामाख्यायिकां कीर्तयन्तः संश्रावयन्तो द्विजा इत्यनेन शुद्धविद्यापदोद्भवात्मकद्वितीयजन्मयोगित्वाद् गर्भाधानादिभिश्चत्वारिंशतासंस्कारैः संस्कृता रुद्रांशरूपा ब्राह्मणा इत्यधिकारयोग्यता सूचिता | प्रणवास्पदप्रणयिनि प्रणव ॐकार एवास्पदं प्रतिष्ठाधिष्ठानं तस्मिन् प्रणयः परिचयोऽस्यास्तीति प्रणयिनि प्रारभ्यमाणस्य प्रणवोच्चारपूर्वकतया तत्सापेक्षत्त्वमतः प्रारम्भे तदाख्यानकीर्तनोपक्रमे ईमित्येतावन्मात्रसतत्त्वं प्रागुक्तापरबीजैकदेशस्वरूपं सारस्वतबोधफलकं प्रणवेन सह P. २९)
SK
समानार्थप्रयोजनकत्वात् तत्स्थानीयं स्फुटं यथा भवति तथा नीत्वा प्रापय्योच्चरन्त्युच्चैर्गायन्ति | उपक्रमे उच्चार्यत्वेन प्रणवस्य विधानात्तत्स्थानीयं तद्बीजं कृत्वा संभूय पठन्तीत्यर्थः | तदुक्तं कालिकापुराणे- स्रवत्यन्ॐकृतं पूर्वं परस्ताच्च विशीर्यते | इति | दालभ्यपरिशिष्टेऽपि- ब्रह्मयज्ञो जपो होमो देवर्षिपितृकर्म च | अन्ॐकृत्य कृतं सर्वं न भवेत्सिद्धिकारकम् || शाट्यायनः- दानयज्ञतपः स्वाध्यायजपध्यानसन्ध्योपासनाप्राणायाम होम दैव पितृमन्त्रोच्चारणब्रह्मारम्भादीनि प्रणवमुच्चार्य प्रवर्तयेदिति | श्रुतिरपि- ॐकारेण सर्वा वाक् संतृण्णा | (छान्दो० २.२३.३) इति | संतृण्णा सम्पुटितेत्यर्थः | आख्यानं यथा- कोसलेषु द्विजः कश्चिद्देवदत्तेति विश्रुतः | अनपत्यश्चकारेष्टिं पुत्राय विधिपूर्वकम् || तस्य चोद्गातृशापानुग्रहयोः समभाविनोः | मूर्खो भूत्वा सुतः पश्चाद्विपश्चित्कालतोऽभवत् || बाल्ये पितृभ्यां च जनैर्मुग्धः स निन्दितो भृशं || निर्वेदात्कानने वन्यवृत्त्याहान्यतिवाहयन् | सत्यं ब्रूते स्थितस्तत्र नानृतं वरदे पुनः || जनैः सत्यतपा नाम कृतमस्य द्विजस्य वै | दैवेनाहं कृतो मूर्खो नान्योऽत्र कारणं मम || प्राप्य चैवोत्तमं जन्म वृथा जातं ममाधुना | इत्यादि चिन्तयंस्तत्र विरक्तः कालयापनः || P. ३०) नाराधनादि विविदे न ध्यानं न च सज्जपम् | केवलं सत्यवादीति विश्रुतः सकले जने || तत्रैकदा किरातेन विद्धे कोले मुनेः पुरः | विद्रुते कृपयाक्रान्तो बीजं सारस्वतं तदा || अज्ञातश्रुतपूर्वं चोच्चार्य शोके ममज्ज सः | प्रससाद ततो ब्रह्मविद्यां तस्मै ददौ शिवा || बीजोच्चारणतो देव्या विद्या प्रस्फुरिताखिला | वाल्मीकेश्च यथा पूर्वं तथा स ह्यभवत्कविः || क्व गतः कोल इति तं पृच्छन्तं मृगयुं द्विजः | धार्मिकः सत्यकामस्तु श्लोकमिममुवाच सः || या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति | अहो ब्याध स्वकार्यार्थिन् ! किं पृच्छसि पुनः पुनः ||
SK
इत्युक्तस्तेन स व्याधो निराशः सूकरे तदा | पूज्योऽयं नातिप्रश्नार्ह इति मत्वा ययौ गृहम् || सारस्वतं सत्यव्रतो जप्त्वा लोकेऽभवच्छ्रुतः | पित्रा संमानितो नीतः स्वालयं वाक्पतिरिव || मुनयः किल गायन्ति चाख्यानं प्रतिपर्वसु | यदीयमतिविस्तीर्णं यशोऽपि तदुपक्रमे || इति | एवं स मुनिर्निष्कलमप्यपरं सारस्वतं जजापेति ग्रन्थकृत्सन्दर्भरचनोपन्यासरीत्या समुपक्षिप्तम् यत्तु केचित् ऋक्सामयोर्यजुषि सन्धिवशादुदीर्णं बीजं सरस्वति सकृत्तव ये जपन्ति | ते सत्यवाक्यमुनिवद्विदितत्रयीका आथर्वणादिकमवाप्य सुखीभवन्ति | इत्युक्तपुरावृत्तमाद्यवाग्भवबीजमात्रपरमेवेत्याचक्षते ते तस्यागाधहृदयसिन्धोर्गूढाशयानवगाहिनः | या पश्यतीत्यस्यायमर्थः- यदुक्तं त्वया- वराहः केन पथागात् | इत्ययं प्रश्नो दर्शनवदनयोरेककर्तृकत्वे सत्येवोपपद्यते | न च तथा तयोर्भिन्नकर्तृकत्वात् | तथाहि- P. ३१) अनश्नन्नन्यो अभिचाकशीति (मुण्ड० ३ १ १) इति श्रुतिप्रतिपाद्या या सर्वसाक्षिणी चित्सा पश्यति | तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति (कठो० ५ १५) इति श्रुत्या सर्वप्रकाशकत्वस्य चिच्छक्तेरेव प्रतिपादनादिति न सा ब्रूते | वदनकर्तृत्वं तु बुद्धेरेव न चितिशक्तेरिति सांख्यादिमर्यादया बुद्धिर्या वदति सा न जडत्वाद्विषयं पश्यति प्रकाशयेत् |
SK
ननु तयोश्चितिजडशक्त्योस्तादात्म्याध्यासवशाद्य एव पश्यति स एव ब्रूते इति लौकिकप्रसिद्धव्यवहारदर्शनाद्भवतोऽपि कुतो नैवं व्यवहारः इति चेन्न | अध्यासहेत्वविद्यायामपि प्रक्षीणत्वात् सतीत्थंभावे अहो व्याध ! स्वकार्यार्थिन् ! पौनःपुन्येन किं पृच्छसि ? नैतत्प्रष्टुं युज्यते | इति | सत्यवचसि वराहवधपातकादन्यथासत्यवदनपापाच्च भीतिः स सरस्वतीप्रसादजन्यवाक् कौशलेन व्याधमुपरमयांचक्रे | अत्र निष्कलमित्यनेन रक्तशुक्लमिश्रबिन्दुमयदिव्याक्षरात्मिका श्रीमहाकामकला स्वान्तः क्रोडीकृतानन्तवर्णराशिमहामन्त्रवीर्यस्फारा महात्रिपुरसुन्दरीत्यतिरहस्यमुपक्षिप्तम् | यदुक्तं कामकलाविलासे- सितशोणबिन्दुयुगलं विविक्तशिवशक्तिसंकुचत्प्रसरम् | वागर्थसृष्टिहेतुः परस्परानुप्रविष्टविस्पष्टम् || बिन्दुरहंकारात्मा रविरेतन्मिथुनसमरसाकाअरः | कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दू || इति कामकलाविद्या देवीचक्रक्रमात्मिका सेयम् | विदिता येन स मुक्तो भवति महात्रिपुरसुन्दरीरूपः || (६ ७ ८) इति | श्रुतावपि- यस्तित्याश सचिविदं सखायं न तस्य वाच्यपि भागोऽस्ति | (तै० आ० १ ३ १) यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् | इत्येतदग्रे प्रकटीभविष्यति | प्रणवास्पदप्रणयितामिति पाठे तु यदित्युक्तबीजं सत्यतपोमुनेरुपाख्यानारम्भे प्रणवस्थानप्रतिष्ठत्वं नीत्वेत्यर्थः | P. ३२) एतेनास्य प्रणवसमानैकप्रयोजनत्वान्मोक्षैकफलत्वं मुख्यमवधार्यम् | श्रुतिश्च- ओमित्येव ध्यायथात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुरिति (मुण्डको० २ २ ६) || ४ || एवं प्रथमद्वितीयबीजैकदेशोपासनाफलं प्रदर्श्य विद्यातृतीयबीज तदेकदेशयोरपि सारस्वतफलकत्वं दर्शयति-
SK
यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधै- स्तार्तीयीकमहं [तार्तीयं तदहं इति पाठान्तरम्] नमामि मनसा त्वद्बीजमिन्दुप्रभम् | अस्त्वौर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये गौः शब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः || ५ || हे नित्ये इति सम्बोधनं पूर्वस्मादनुवर्तनीयम् | यद्बीजं सद्यः सपदि अचिरायेत्यर्थः | वचसां सालङ्कारगुणोपेतसरससूक्तिपदगुम्फानां प्रवृत्तिकरणे निरर्गलप्रसरद्गद्यपद्यमयमनोहरवाक्यप्रबन्धनिर्माणक्रियायां बुधैर्विद्वद्भिर्दृष्टोऽनुभूतः प्रभावो वाग्जननसामर्थ्यं यस्य तत् एतेन महाकाव्यकृतां बुधानां वैदुष्यमेतत्प्रसादमात्रोद्भवमेव | अतस्तत्र विकल्पादिशङ्कातङ्काभाव इत्यभिहितम् | बुधैरिति संपन्नवाक्प्रसरविलासत्वात् ससंवादमित्युक्तम् | तृतीयमेव तार्तीयीकं तीयादीकक् त्वद्बीजं तव विद्यागतं सौरिति शक्तिबीजमिन्दुप्रभं चन्द्रमरीचिगौरं तदहं मनसा नमामि ध्यायामि इति मानसार्चाया अपि अवकाशो दर्शितः एवमग्रेऽपि ज्ञेयमत्र निखिलस्य प्रातीतिकेन चिदात्मत्वेन ब्रह्मार्पणदृष्टेर्झटित्युन्मज्जनात् इत्यवश्यकर्तव्यत्वं द्योतितम् | यत्तदोर्नित्यसम्बन्धत्वात्तदोऽध्याहारः तार्तीयं तदिति पाठे तु नाध्याहारापेक्षित्वम् | इन्दुप्रभमिति शुक्लवर्णध्यानं वागुत्पत्तिफलानुगुणम् | यदुक्तं श्रीदुर्वाससा- P. ३३) चिन्तयतां सितवर्णां वाचो निर्यान्त्ययत्नतो वदनात् || इति शक्तिबीजस्यापि सारस्वतफलकत्वमिति प्रदर्शितम्- बीजमधोद्विजस्थं च वाचयापि समन्वितम् | एतत् सरस्वतीबीजं सद्यो वचनकारकम् || इति | तथा- मूर्ध्नोऽथ द्वादशान्तोदितशशिधरबिम्ब(स्थ)योनौ स्फुरन्तं संवीतं व्यापकार्णौधवलरुचिमकारस्थितं बीजमन्त्यम् | ध्यात्वा सारस्वताच्छामृतजललुलितं दिव्यकाव्यादिकर्ता नित्यं क्ष्वेलापमृत्युग्रहदुरितविकारान्निहन्त्याशु मन्त्री ||
SK
इति | अहमविद्यमानहकारमिति केचित् | तत् ह् सौः इति बीजाभिप्रायापेक्षम् | नाप्येवंफलकत्वं सम्पूर्णबीजस्यैवापितु तदेकदेशस्यापीत्युत्तरार्धेनाह अस्तु इति | व इति युष्मच्छब्देन देव्या ग्रहणं सरस्वती शब्देन विद्यायाः वो युष्मत्सम्बन्धिनीं सरस्वतीमनुगतो विद्यातृतीयबीजगतो वाग्देवतार्थवाचको वा सौरित्यत्र स्थितः स औरितिशब्दोऽपि जाड्याम्बुनो जाड्यं मतिमान्द्यं तदेवाम्बु जलं तस्य विच्छित्तये व्युपसंहरणायास्तु | न इति शेषः | कीदृश इत्यावृत्त्या विश्लिष्य विशेषणतया स् इतिपदं व्याख्येयम् | असविद्यमानः सकारो यस्य स बीजैकदेशमात्रसतत्त्व इत्यर्थः | स एवाग्निः सलिले संनिविष्ट इति श्रुत्युक्तेः (श्वेताश्व० ६-१५) | और्वो वाडवाग्निरपि सरस्वतीमनुगतः सरस्वत्याख्याया नद्याः समुद्रान्तःप्रविष्टायाः समीपे समुद्र एव क्षिप्तोऽम्बु शोषयति इत्युपमाश्लेषध्वनिः | एवमुक्तबीजाक्षरसादृश्येन सरस्वत्यर्थविषयकेतरपदवर्णवृत्तिकोऽप्यसौ सारस्वतफलकत्वं नातिक्रामतीत्यत आह- गौरिति | तथा गौरिति शब्दो गिरि सरस्वत्यां नियतं वर्तते सरस्वतीदेवतार्थवृत्तिविषयकत्वान्निश्चयेन तद्वाचकः | सोऽपि योगं ध्यानाद्युपायविधिं विना सिद्धिदः सरस्वतीप्रसादात्मकसिद्धिजनको भवति | योऽगं गकारं विनेति वा स इति प्रसिद्धः | यद्वा औरिति शब्दः सरस्वत्यर्थवाचकः P. ३४) कीदृशः स इति विशेषणभावेनागिति पदं विश्लिष्यावृत्त्या योज्यम् | अग् अविद्यमानो गकारो यस्य सोऽसंयुक्तत्वात्स्वरूपमात्र इत्यर्थः | न चास्य प्रोक्तैतावन्मात्रफलजनकत्वं पृथक् प्रातिस्विकार्थक्रियासामर्थ्यस्याप्याम्नातत्वात् तत्र केचिन्मन्त्रा नियतार्थवितरणप्रवणाः केचित्सामान्येन सर्वार्थदाः | तदुक्तमाचार्यैः- sandhyakṣarāḥ syuścatvāro mantrāḥ sarvārthasādhakāḥ | iti | sakāraviyuktatve'pi naiyatyenāsya vāgvilāsaprabhavatvaṃ tatsaṃyuktatve tu kimu punarityapiśabdena dyotyate | itthaṃ aiṃ īṃ auriti śuddhā ca pṛthagupadiṣṭeti || 5 ||
SK
एवं श्रीविद्यास्थबीजानां न केवलमुक्तसारस्वततत्त्वबोधफलोत्पादनसामर्थ्यमेव यावत्फलान्तराण्यपीति सामान्येन फलोत्पादशक्तित्वं प्रतिपादयति- एकैकं तव देवि ! बीजमनघं सव्यञ्जनाव्यञ्जनं कूटस्थं यदि वा पृथक्क्रमगतं यद्वा स्थितं व्युत्क्रमात् | यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं जप्तं वा सफलीकरोति तरसा तं तं समस्तं नृणाम् || ६ || हे देवीति प्राग् व्याख्यातम् | तव सम्बन्धि एकैकं प्रत्येकं बीजमनघं व्यञ्जनाक्षरासंयुक्तत्वेन शुद्धप्रायं बीजमजात्मकं चेत्यावृत्त्या व्याख्येयम् | तदेव स्पष्टयति- सव्यञ्जनाव्यञ्जनमिति | व्यञ्जनानि स्पर्शान्तः स्थोष्मसंज्ञकानि तदन्यतमयुक्तं सव्यञ्जनं | यथाहस्थितेत्युक्तरीत्या हैं हीं हौरित्यादि | तद्भिन्नमव्यञ्जनमज्मात्रतया सकेतविद्यास्वरूपमित्यर्थः | यदि वा सव्यञ्जनत्वेऽपि द्व्यादिहल्संसर्गानुपूर्व्या कूटस्थमक्षरपिण्डात्मकं सहसेत्युक्तरीत्या ह्सैं ह्स् क्लीं ह्सौरित्यादि | षड्व्यञ्जनाधिष्ठितं वा यथा- ह् स् क् ल् र् डैं हसकलरडीं हसकलरडौरित्याद्यात्मकम् | तथा प्रथगकूटस्थितस्वरूपेण विश्लिष्टवर्णक्रमतया संयुक्ताक्षरात्मतां P. ३५) विहाय पंक्तिशः कृतसंनिवेशकं तत्र पृथक्त्वेऽपि क्रमगतं वाग्भवादिक्रमस्थं एतद्विवृतपूर्वम् | यद्वा व्युत्क्रमात्क्रमवैपरीत्याच्छक्त्यादिक्रमेण कामराजादिक्रमेण वा स्थितं इत्यनेन शृष्टिस्थितिसंहारक्रमोऽपि ब्रह्मचर्याद्याश्रमिकोपासनापेक्षक इति सूचितवान् | तथा च सृष्टौ क्रमजपः स्थितिसंहारयोरक्रमजपः | तत्र त्रयाणां युगपत्प्रयोगारम्भे क्रमव्युत्क्रमविचारः पृथक्पृथक्साधनप्रयोगादौ तु क्रमादिविचाराभावस्तत्र कामनाभेदेन तेषां परस्परमनपेक्षणात् तदुक्तं रुद्रायामले- वाग्भवं प्रथमं देवि ! कामराजं द्वितीयकम् | तृतीयं शक्तिबीजं तु शिवयुक्तं सदा भवेत् || एषा बाला समाख्याता सर्वदोषविवर्जिता | आद्यबीजं भवेन्मध्ये मध्यं चादौ नियोजयेत् ||
SK
एवं यो जपते मन्त्रं त्रैलोक्यैश्वर्यभाग्भवेत् | आद्यमन्तेऽन्तिमं मध्ये मध्यं चादौ नियोजयेत् || एवं कृत्वा जपेन्मन्त्रं सर्वसिद्धिमवाप्नुयात् | इति | यं यमिति सुलभं दुर्लभं वा कामं काम्यमानं धर्मादिचतुर्वर्गं तदन्यतमं वापेक्ष्य समुद्दिश्य येन केनापि वा विधिना विधानेन सर्ष्याद्यङ्गन्यासक्रमेण वा श्रीगुरुपादुकामात्रस्मरणक्रमेण वा यद्वा येन केनापीत्यागमाद्युक्तप्रकारेण यदृच्छागतेन वा चिन्तितं स्ववाच्य देवता तादात्म्येन भावितं | यदुक्तम्- देवता गुरुमन्त्राणां भावयन्नैक्यमात्मना इति | सकलत्वेन निष्कलत्वेन तदुभयात्मकत्वेन वा देवतातादात्म्येन भावितम् | यदुक्तम्- देवतागुरुमन्त्राणां भावयन्नैक्यमात्मना इति सकलत्वेन निष्कलत्वेन तदुभयात्मकत्वेन वा ध्यातं तथागमोक्तनियतलक्षसंख्यया पूर्वसेवात्मिकयोपांश्वादिभेदेन च जप्तं वेति विकल्पेन ध्यानजपयोः समुच्चयाभावेऽप्यभीष्टार्थसिद्धिरिति द्योतितम् | P. ३६) नृणां मनुष्याणामिति सामान्योक्तेरधिकारिनियमाभावात् स्त्रीशूद्रादयोऽप्येतदाराधनादावधिकृता इति बोध्यते | ब्राह्मणपरिव्राजकादयो ह्यधिकृता एव तदुद्देशेनैवाशेषागमप्रवृत्तिदर्शनात् | अत्रापि विप्राः क्षोणिभुजो विशस्तदितरे इत्याद्यग्रे वक्ष्यते | तं तं काममभीप्सितमर्थं समस्तं निखिलं तरसाचिरायेहैव जन्मनि न तु ज्योतिष्टोमादिवदपूर्वात्मना स्थित्वा लोकान्तरे सफलीकरोति फलं जनयतीत्यर्थः | तदुक्तं ब्रह्माण्डे- तस्मादशेषलोकानां त्रिपुराराधनं विना | न स्तो भोगापवर्गौ तु यौगपद्येन कुत्रचित् || तन्मनास्तद्गतप्राणस्तद्याजी तद्गतेहकः | तदात्मैक्येन कर्माणि कुर्वन्मुक्तिमवाप्स्यति | एतद्रहस्यमाख्यातं सर्वेषां हितकाम्यया || इति | मूलभेदाः शुद्धास्तावच्चत्वारस्तेषामेकद्व्यादिप्रोक्तव्यञ्जनसाचिव्येनानेकधा भेदाः भवन्ति | विधयस्तु पद्धतिष्वाचार्यप्रदर्शितास्तत्तन्मतानुसारिणः प्रसिद्धाः इति तत्प्रदर्शनप्रयासेनालम् | जपादिलक्षणं कुलार्णवे-
SK
उच्चैर्जपोऽधमः प्रोक्त उपांशुर्मध्यमः स्मृतः | उत्तमो मानसो देवि ! त्रिविधः कथितो जपः || अतिह्रस्वो [अतिह्रस्वो व्यादिहेतुरतिदीर्घस्तपः क्षयः | अक्षराक्षरसंयुक्तो यो मन्त्रः स न सिध्यति || ख) अक्षराक्षरसंयुक्तं जपेन्मौक्तिकहारवत् | ग) अक्षराक्षरसंयुक्त्या जपेन्मौक्तिकपंक्तिवत् | (मु० सं०)] व्याधिहेतुरतिशीघ्रे तपःक्षयः | अक्षराक्षरसंयुक्त्या जपेन्मौक्तिकपंक्तिवत् || मनसा यः स्मरेत्स्तोत्रं वचसा वा मनुं जपेत् | उभयं निष्फलं देवि ! भिन्नभाण्डोदकं यथा || P. ३७) जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् | सूतकद्वयसंयुक्तो यो मन्त्रः [यो यन्त्रः (मु० सं०)] स न सिद्ध्यति || मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः | शतकोटिजपेनापि तस्य सिद्धिर्न जायते || गुप्तबीर्याश्च [सुप्तबीजाश्च (मु० सं०)] ये मन्त्रा न दास्यन्ति फलं प्रिये | मन्त्राश्चैतन्यसहिताः सर्वसिद्धिकराः स्मृताः || चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् | फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि || (१५ उ० ५४-६१ श्लो०) इति | एकैकबीजजपक्रमश्च यथा- अच्छाभः स्वच्छभूषो धरणिमयगृहे वाग्भवं लक्षमेकं यो जप्यात्तद्दशांशं विहितहुतविधिर्मन्त्रजप्ताञ्जनाभिः | काव्यैर्नानार्थवृत्तैर्भुवनमखिलमापूरयेच्च स्वकीयै- र्मारार्त्या विह्वलाभिः पुनरयमनिशं सेव्यते सुन्दरीभिः || रक्ताकल्पोरुणतरदुकूलार्तवालेपहृद्यो मौनी भूसद्मनि सुखनिविष्टो जपेल्लक्षमेकम् | बीजं मन्त्री रतिपतिमयं प्रोक्तहोमावसानम् योऽसौ लोके ससुरमनुजैः सेव्यते पूज्यते च || धरापवरके तथा जपतु लक्षमन्त्यं मनुं सुशुक्लकुसुमांशुकाभरणलेपनाद्यो वशी | अमुष्य वदनादनारततयोच्चरेद् भारती विचित्रपदपद्धतिर्भवति चास्य लोको वशे इति || ६ ||
SK
यच्च श्रीपरदेवतायाः स्वरूपमागमेषु निष्कलादिभेदेन त्रिधोक्तं तत्र निष्कलस्वरूपं ज्योतिर्मयी वाङ्मयी इत्यनेन ग्रन्थकृदुपदिष्टवान् सकलनिष्कलोभयात्मकस्यैन्द्रस्येवेत्यनेन निर्देशः कृतोऽधुनावशिष्यमाणं P. ३८) सकलध्यानस्वरूपं पञ्चभिः श्लोकैः प्रोक्तशुद्धबीजत्रयसाधारणध्येयतयोपदिशति- वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् | उज्जृम्भाम्बुजपत्रकान्तनयनस्निग्धप्रभालोकिनीं ये त्वामम्ब ! न शीलयन्ति मनसा तेषां कवित्वं कुतः || ७ || अम्ब ते पारिपूर्ण्येन स्वात्मस्फुरत्तया विश्वं परामृशतीत्यम्बा यदुक्तम्- आत्मनः स्फुरणं पश्येद्यदा सा परमाकला | अम्बिका रूपमापन्ना परा वाक् समुद्रीरिता || इति | हे अम्ब ! विश्वजननि ! त्वां ये जनाः कवित्वाभीप्सवो मनसान्तर्मुखाविकल्पकवृत्तिना चेतसा न शीलयन्ति न समादधते अनन्यमनस्कतया न ध्यायन्तीत्यर्थः | एतज्जपस्याप्युपलक्षणं | चिन्तितं जप्तं वेति पूर्वमुत्क्रान्तत्वात् तेन ध्यानपुरःसरं त्वद्विद्यामपि न जपन्ति तेषां कवित्वं काव्यसन्दर्भनिर्माणप्रतिभाशालित्वं कुतो न व्यतिरिक्तात्कुतश्चित्कारणात्तत्संभवः स्यात् अथ च कवित्वं क्रान्तदर्शित्वं त्रिकालज्ञत्वम् | यद्वा नेति कुत इत्यनेन संबध्यायमर्थः ये त्वां शीलयन्ति तेषां कवित्वं कुतो न अनुत्पत्तिहेत्वभावात्स्यादेवेत्यर्थः | वस्तुतो ध्यानपूर्वक नियतजपादिप्राधान्यादेव प्रोक्तफलसंपत्तेर्दर्शनात् इत्यन्वयव्यतिरेकाभ्यां वाक्ययोजना कार्या | कीदृशीं वामे वामकरद्वये उर्ध्वाधः क्रमेण पुस्तकधारिणीमभयदाञ्चाशेषलौकिकालौकिकवाङ्मयाधारभूतत्वेन पञ्चाशद्वर्णमयमातृकालिप्यात्मकं पुस्तकमभयमुद्रां च धारयन्तीं तथा दक्षिणे दक्षिणकरद्वये उर्ध्वाधोभावेन साक्षस्रजमक्षमालाधारिणीं सा चागमेषु कल्पिताकल्पितत्वेन द्विधोक्ता | तदुक्तं कुलार्णवे- अक्षमाला द्विधा प्रोक्ता कल्पिताकल्पितेति च | P. ३९)
SK
कल्पिता मणिभिः कॢप्ता मातृका स्यादकल्पिता || आदिक्षान्ताक्षरात्मत्वादक्षमालेति कीर्तिता || (१५ उ० ४८-४९) इति | तथा सम्प्रदानीयेभ्यो भक्तेभ्य आराधकेभ्यो वरदानेऽभिमतार्थवितरणे पेशलो दक्ष उद्युक्तत्वात्करः पाणिर्यस्यास्तां वरमुद्राधारिणीमिति चतुर्भुजत्वादायुधध्यानमुक्तम् अत्र सिद्धिदानाशेषभयोन्मूलनज्ञानक्रियात्मकस्य परदेवतास्वरूपस्योन्मेषकत्वाभिव्यक्तये वराभयदत्ववहत्वम् | तथा कर्पूरो घनसारः कुन्दं माध्यं पुष्पविशेषश्च तद्वदुज्ज्वलां शोभमानां शुक्लवर्णामित्यर्थः | अनेन श्वैत्यसौरभ्यसौकुमार्यादिगुणवत्त्वमभिहितम् | शुक्लविलेपमाल्याम्बरां शीतांशुखण्डमौलिं चेत्यपि द्रष्टव्यम् | तथा उद्गता जृम्भा विजृम्भणं विकासो यस्य तदुज्जृम्भमुन्निद्रं यदम्बुजं पद्मं तस्य यानि सरसान्तर्दलानि तद्वत्कान्तानि मनोहराणि नयनानि नेत्राणि तेषां या स्निग्धप्रभा मसृणकान्तिस्तया युक्त आलोक आलोकनमस्त्यस्यास्तामुज्जृम्बाम्बुजपत्रकान्तनयनस्निग्धप्रभालोकिनीम् | तदुक्तं वाग्भवबीजसाधनमुपक्रम्य ज्ञानार्णवे- वाग्भवाख्यां जपेद्विद्यां वागीशीं संस्मरन् बुधः | कर्पूरधवलां शुभ्रपुष्पाभरणभूषिताम् || अत्यन्तशुभ्रवसनां वज्रमौक्तिकभूषणाम् | मुक्ताफलामलमणिजपमालालसत्कराम् || पुस्तकं वरदानं च दधतीमभयप्रदाम् | एवं ध्यायेन्महेशानि सर्वविद्याधिपो भवेत् || इति | अस्य ध्यानस्य चिन्तनं साधकमूलाधाराधिकरणकम् | तदुक्तं पञ्चदशीमधिकृत्य श्रीविद्यार्णवे- मूलाधारे वाग्भवाख्यं कूटं संचिन्तयेद्बुधः | वाग्भवाख्यस्य कूटस्य ऋषिर्ब्रह्मा समीरितः || छन्दो गायत्रमाख्यातं देवता वागधीश्वरी | आद्यवर्णं तु बीजं स्यादन्त्यं शक्तिः समीरिता || मध्यत्रयं कीलकं स्याद् वाक्सिद्ध्यै विनियोगकम् || P. ४०) इति | ध्यानमपि- शुक्लां स्वच्छ विलेपमाल्यवसनां शीतांशुखण्डोज्ज्वलां | व्याख्यामक्षगुणं सुधाढ्यकलशमित्यादि ||
SK
अथ चात्रायुधमात्रवर्णनसाम्यात्संपत्प्रदा भैरव्या अपि ग्रहणं बोध्यं बालावदेवास्याः पूजादिकं ध्यानं तु यथा ज्ञानार्णवे- आताम्रार्कसहस्राभां स्फुरच्चन्द्रकलाजटाम् किरीटरत्नविलसच्चित्रचित्रितमौक्तिकाम् | स्रवद्रुधिरपंकाढ्यमुण्डमालाविराजिताम् नयनत्रयशोभाढ्यां पूर्णेन्दुवदनान्विताम् || मुक्ताहारलताराजपत्नीनोन्नतघटस्तनीम् रक्ताम्बरपरीधानां यौवनोन्मत्तरूपिणीम् | पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् वरदानरतां नित्यां महासंपत्प्रदां स्मरेत् || इत्येतस्या मन्त्रोद्धारस्तु प्राक् प्रपञ्चितः || ७ || इदानीं समनन्तरोक्तध्येयस्वरूपस्य स्थानविशेषोपासनाप्रदर्शनपूर्वकं वाग्विभूतिविलासफलमनुवदति- ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां सिञ्चन्तीममृतद्रवैरिव शिरोध्यायन्ति मूर्ध्नि स्थिताम् | अश्रान्तं विकटस्फुटाक्षरपदा [विकच इति पाठान्तरम् | (गणपति शास्त्री त्रिवेन्द्रम्)] निर्याति वक्त्राम्बुजात्तेषां भारति ! भारती सुरसरित्कल्लोललोलोर्मिवत् || ८ || हे भारति ! वचोऽधिष्ठातृदेवते सरस्वति ! ये धार्मिकत्वाद्वाक्सिद्धिकामास्त्वां मूर्ध्नि स्थितां द्वादशान्तस्थाने ध्येयत्वेन कृतावस्थानां ध्यायन्ति संचिन्तयन्ति | कीदृशीं पाण्डुराणाममलिनानां पुण्डरीकाणां प्. ४१) सिताम्भोजानां पटलं समूहस्तद्वत्स्पष्टात्युज्ज्वलत्वाद्व्यक्ताभिरामा द्रष्टृमनोहारित्वात् मनोज्ञा च प्रभा देहकान्तिर्यस्यास्ताम् अत्र पुण्डरीकाणां पाण्डुगुणवत्त्वेऽपि विशेषणेन शुक्लत्वाधिक्याभिधानान्न विशेषणानर्थक्यम् | तथा शिरो मस्तकं ध्यातृसम्बन्धि मूर्धस्थितत्वादेवामृतद्रवैः स्वाङ्गगलितपीयूषरसवृष्टिभिः सिञ्चन्तीं प्रवर्षन्तीं | इव शब्दो वाक्यालङ्कारे | यदुक्तम्- मूर्ध्नि पुस्ताक्षमालाभीवरदोज्ज्वलविग्रहाम् | शिवशक्त्यात्मिकां ध्यायेत्कुन्देन्दुधवलप्रभाम् ||
SK
इति | तेषां ध्यानसमापन्नतद्भावनापरिपाकलब्धसारस्वतप्रसादानां वक्त्रोदरान्मुखकमलान्तरालाद् विकटस्फुटाक्षरपदा विकटानि समासबहुलत्वादोजोगुणोपेतानि विस्तीर्णानि | विकचेति पाठे शब्दार्थालङ्कारान्वितप्रसादगाम्भीर्यादिगुणोज्ज्वलानि स्फुटाक्षराणि तत्तदर्थाभिव्यञ्जनक्षमाणि श्रुतिकटुत्वादिदोषविहीनानि च पदानि सुप्तिङन्तानि यस्यां सा तथाविधा भारती गद्यपद्यादिमयी वाणी अश्रान्तं श्रमरहितमविरतं निर्याति निःसरति | कथं सुरसरित्कल्लोललोलोर्मिवत् सुरसरितो भागीरथ्या ये कल्लोला महान्तो वीचयस्तेषां ये लोलाश्चञ्चला ऊर्मयो विच्छित्तयस्तद्वन्निःसरदविच्छन्नसूक्तिप्रवाहेत्यर्थः | ऊर्मिः पीडाजवोत्कंठाभंगप्राकाश्यवीचिषु | वस्त्रसंकोचलेखायामिति हैमः || एतच्च वाग्भवसाधनमुद्दिश्य वर्णितं वामकेश्वरे- सत्तर्कपदवाक्यार्थशब्दालंकारसारवित् [षट्तर्क (का०)] | वाताहतसमुद्रोर्मिमालातुल्यैरुपन्यसेत् [वातोद्धूत] || प्. ४२) सुकुमारतरस्फारवृत्तालङ्कारपूर्वकम् [पूर्वकैः (का०)] | पदगुम्फैर्महाकाव्यकर्ता देवेशि ! जायते || ८ || (४ प० २७-२८) एवं तावद्वाक्स्फुरत्तादिधर्मार्थिनामुपास्यं ध्येयस्वरूपं निरूप्य द्वितीयबीजस्य ध्यानप्रदर्शनपूर्वकं कामिनीवश्यात्मफलमाह- ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमामुर्वीं चापि विलीनयावकरसप्रस्तारमग्नामिव | पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वरक्लान्तास्त्रस्तकुरङ्गशावकदृशो वश्याः भवन्ति स्फुटम् || ९ ||
SK
अत्र भारतीति सम्बोधनमनुषज्ज्यते | हे भारति ! वागधिदेवते ! ये कामार्थित्वात् कामिन्यादिवशीकारेच्छवः साधकास्त्वत्तेजसा तव कामानुगुणविभाव्यमानारुणवर्णायास्तेजसाश्रीमूर्त्युक्तलाक्षारुण- sindūradhūlirāśibhiruparaṃjitāmivorvīmapi bhuvaṃ ca vilīnayāvakarasaprastāramagnāmiva vilīno vidrutaścāsau yāvakaraso'laktakarasaḥ vilīnasya nirmalīkṛtatvenātyāraktavarṇatvam tasya prastāre pravāhe magnāṃ bruḍitāmiva | raktavarṇe nimagnasya raktimopajanadarśanāt | tena bhavatyāstejaḥ puñjasādbhāvyena dyāvāpṛthivyau tvadraśmicayā bhedasvarūpā iti gamyate | evamagre'pi bodhyam | taduktaṃ brahmāṇḍe- nijāruṇaprabhāpūramajjadbrahmāṇḍamaṇḍalā | iti | svaśaktipracayo'sya viśvam (śi0 sū0 3-30) iti | śaktayo'sya jagat kṛtsnamiti ca | ivaśabdastantreṇobhayatra saṃyojyaḥ | kṣaṇamapyananyamanasa avidyamānamanyatra viṣaye manaśceto yeṣāṃ te'nanyamanasaḥ ekatānavṛttayo bhūtveti pratyāhāro darśitaḥ | p. 43) tena prāṇāyāmādipūrvakadoṣānupasaṃhṛtyendriyāṇi śabdādisvasvaviṣayebhyo manasā saha pratyāhṛtavantaḥ ityarthaḥ | kṣaṇamapītyukterayamabhiprāyaḥ- ya eva mantrasiddhāsteṣāmeva kṣaṇamātradhyānavyāpāreṇoddiṣṭaphalalābho bhavet | anyeṣāṃ tu puraścaryātmaka pūrvasevāyattatvāttatsiddherityevamagre'pi boddhavyam | nanu atha yo'nyāṃ devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda yathā paśuḥ iti śrutyā (bṛha0 1 4 10) ujjhitvātmasamādhānaṃ ye dhyāyantyanyadevatāḥ | bhikṣante bhūrivittāste bhikṣitvāpi bubhukṣitāḥ ||
SK
इत्यादिस्मृत्या च जुगुप्साश्रवणात् कथं वा स्वस्माद्भिन्नध्येयगततदीय विभवादिपरामर्शनेन ध्यातुरपि तद्विभवामोदचमत्कारप्राप्तिर्येनात्र प्राकरणिकं वश्यत्वादि स्यात् न ह्यन्यभोजनादिनाऽन्यस्य तुष्टिपुष्टी स्यातामित्यनुपपत्त्या च भेददर्शिनामुपासना निष्फला स्यादित्याशंकायामन्यथा व्याख्येयम् अनन्यमनस इति स्वाभिन्नविमर्शवन्तः स्वात्मानमेव तथाविधत्वद्रूपतादात्म्येन परामृशन्तः स्वात्मतादात्म्येनोक्तविधस्वरूपां त्वामुपासीना इत्यर्थः | पदुक्तं- देवी भूत्वा यजेद्देवीम् इति | एवं रोधसी पश्यन्ति ध्येयैक्यभावेन समाप्तिपर्यन्तं भावयन्तीति भावः | ननु किं फलं पुनस्तैः प्राप्यमित्यत आह तेषामिति | तेषामुक्तप्रकारेण ध्यानपरामर्शं निभालयमानानामनङ्गज्वरेण दृष्ट्यादिसमुत्पन्नमदनजन्यसन्तापेन क्लान्ता विवशीभूततनुलतास्तथा त्रस्तो भीतो यः कुरङ्गशावको हरिणबालकस्तस्य दृग् दृष्टिरिव यासां ताः सर्वाङ्गसौन्दर्यविभ्रमवत्यः कामिन्योऽपि ध्रुवं निश्चितं वश्या आयत्ता भवन्ति | अपिर्भिन्नक्रमोऽपि | तेन न केवलं स्त्रीणामेव वशगत्वं राजानोऽपि वश्याः स्युरिति | तदुक्तं ज्ञानार्णवे- तदीय कान्तिसिन्दूरभरितं भुवनत्रयम् | चिन्तयेत्परमेशानि ! त्रैलोक्यं मोहयेत्क्षणात् || प्. ४४) राजानो वशमायान्ति पन्नगाः राक्षसाः सुराः | कन्दर्प इव देवेशि ! योषितां मानहारकः || मनसा चिन्तयेद् योषिद्दासीव वशगा भवेत् | इति | अत्राप्यागमोक्तनियतजपादिसंख्यया प्राग्वत्फलसंपत्तिर्बोध्या | अत्र समनन्तरश्लोके स्थानविशेषस्योक्तत्वात् ये त्वां चेतसि इत्युत्तरस्मिन्नपि वक्ष्यमाणत्वादिह स्थानविशेषो नोद्दिष्टः तच्चाचार्योक्तिप्रामाण्यादाधाराख्यमुक्तध्यानविषयकमिति गम्यते | तदुक्तम्- आधाराब्जे धनुर्बाणवरदाभयलक्षिताम् | ध्यायेद्बन्धूकपुष्पाभां कामराजस्वरूपिणीम् || तथा- गुह्यस्थितं वा मदनस्य बीजं जपारुणं रक्तसुधास्रवन्तम् | विचिन्त्य तस्मिन्विनिवेश्य साध्यां वशीकरोत्येव विदग्धलोकः || इति | दुर्वाससापि-
SK
अभिनवसिन्दूरभामम्ब ! त्वां चिन्तयन्ति ये हृदये | उपरि निपतन्ति तेषामुत्पलनयनाकटाक्षकल्लोलाः || ९ || इति | एवं कामार्थिनां कामावाप्तिसाधनद्वितीयबीजस्य ध्यानं तत्फलं चोपदिश्याधुनार्थार्थिनां ध्येयस्वरूपोपदेशपूर्वं तत्संपत्सिद्धिफलमाह- चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीस्रजम् ये त्वां चेतसि तद्गते क्षणमपि ध्यायन्ति कृत्वा स्थितिम् | तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरं माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्यं भजन्ते श्रियः || १० || अत्रापि भारतीत्यनुषज्जनीयम् | हे भारति ! वागधीश्वरि ! येऽर्थार्थित्वाद्गवाश्वादिपशुहिरण्यरत्नवसुधादिसम्पदेषिणः साधकास्तद्गते चेतसि तच्छब्देन ध्यानं ग्राह्यं तेन ध्यानगते ध्यानैकताने मनसि प्. ४५) स्थितिं कृत्वा देशबन्धरूपां धारणामास्थाय स्थिरामिति पाठे हृदयकमले स्थिरां कृत्वा निश्चलीकृत्य क्षणमपि क्षणमात्रकालमिति सिद्धमन्त्रोपासकविषयकमिति प्राग्वदेव | त्वां ध्यायन्ति स्वात्मैक्यभावनयोपासते न त्वन्यथा मन्त्रिमन्त्रदेवतयोराराध्याराधकभावेन भेदभावनायां हि फलसिद्धिविलम्बस्योक्तत्वात् | तदुक्तं श्रीश्रीकण्ठसंहितायाम्- पृथङ्मन्त्रः पृथङ्मन्त्री न सिध्यति कदाचन | ज्ञानमूलमिदं सर्वमन्यथा नैव सिध्यति || इति | श्रीस्पन्देऽपि- अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि | तदात्मतासमापत्तिरिच्छतः साधकस्य या || (नि० २ श्लो० ६) इति | त्वां कीदृशीं चञ्चत्काञ्चनकुण्डलाङ्गदधरां कुण्डले चाङ्गदानि च कुण्डलाङ्गदानि चञ्चन्ति देदीप्यमानानि काञ्चनानि सुवर्णमयानि च तानि कुण्डलाङ्गदानि कर्णदोर्भूषाः | धरतीति धरां | धृञ् धारणे पचाद्यच् कर्णयोर्हेमकुण्डले दोर्लतासु हैमाङ्गदानि बिभ्रतीमित्यर्थः | तथा आबद्धकाञ्चीस्रजम् आबद्धा संधृता काञ्ची स्रग् रशना दाम यया तां स्त्रीकटिभूषणविशेषो वस्त्रबंधनः काञ्चीत्युच्यते | एतद्रत्नमौलिहार मञ्जीराद्युपलक्षणम् | तदुक्तम्-
SK
ताटङ्कयुगलीभूततपनोडुपमण्डला | कनकाङ्गदकेयूरकमनीयभुजान्विता | रत्नकिंकिणिकारम्यरशनादामभूषिता | इत्यादि | तेषां वेश्मसु प्रासादेषु माद्यत्कुञ्जरकर्णतालतरला माद्यतामुद्भिन्नकटभित्तिकत्वेन क्षरन्मदसलिलानां मत्तकुञ्जराणां गन्धगजानां कर्णतालवत्कर्णास्फालवत्तरलाश्चञ्चला अस्थिरस्वभावा अपि श्रियः संपदो गजतुरगवाहनद्रव्यरत्नादिसमृद्धिरूपाश्चिरं स्थैर्यं स्थिरतां भजन्ते सेवन्ते निरन्तरतया तिष्ठन्तीत्यर्थः | अनेन निसर्गतोऽस्थिरस्य प्.४६) स्थैर्यापादनेन स्वभाववैपरीत्यकरणात्मकातिदुर्घटकार्यकारित्वलक्षण- vā līlayā gajāśvādyanekarūpāvirbhāvanaṃ vāśritya aharaharanudinaṃ sphārībhavantya upacayamupagacchantyo vardhamānā na tvapacīyamānā iti bhāvaḥ | taduktam- hṛtpadmasthitabhānubimbavilasadyonyantarāloditaṃ madhyāhnārkasamaprabhaṃ parivṛtaṃ varṇaiḥ kaphādyantakaiḥ | dhyāyenmanmatharājabījamakhilaṃ brahmāṇḍavikṣobhakaṃ rājyaiśvaryavivardhinīmapi ramāṃ dattvā jagadrañjayet || śrīdurvāsasāpi- kanakaśalākāgaurīṃ karṇavyālolakuṇḍaladvitayām | prahasitamukhīṃ ca bhavatīṃ dhyāyanto ye ta eva bhūdhanadāḥ || 10 || iti | idānīṃ dvitīyabījagataniṣkalākṣarasya sārasvatatattvasākṣātkaraṇe'ntaraṅgasādhanabhūtatvena tadadhidevatādhyānaṃ mokṣārthisevyaṃ saphalamupadiśati- ārbhaṭyā śaśikhaṇḍamaṇḍitajaṭājūṭāṃ nṛmuṇḍasrajaṃ bandhūkaprasavāruṇāmbaradharāṃ pretāsanādhyāsinīm | tvāṃ dhyāyanti caturbhujāṃ trinayanāmāpīnatuṅgastanīṃ madhye nimnavalitrayāṅkitatanuṃ tvadrūpasaṃvittaye || 11 ||
SK
इहापि पूर्ववत्सम्बोधनपदानुषङ्गः | केचिदिति चाध्याहार्यम् | हे भारति ! केचित्त्वत्सारूप्यलक्षणमुक्त्यभीप्सवस्त्वां त्वद्रूपसंवित्तये तव रूपस्य परामृश्यमानध्यानविशेषस्य संवित्तये सम्यग् लाभाय त्वद्रूपं सम्प्राप्तुमित्यर्थः | तुमर्थाच्च भाववचनादिति संप्रदानत्वम् | ध्यायन्त्यभेदबुद्ध्या चिन्तयन्ति | कीदृशीं आर्भट्येति आर्भट्यात्यादरेणेत्यर्थः यद्वा आर्भटीनामासनविशेषः | तदुक्तम्- प्. ४७) उरुद्वयं निधायोर्वोः स्थितिरार्भटिकासनमिति | एवमुक्तलक्षणार्भट्यासनेन प्रेतासनाध्यासिनीं प्रकर्षेणेतः संमिलितः स्फुटेदन्तां निमज्ज्याहन्ताप्रधानां स्थितिमुन्मग्नामनुप्रविष्टः प्रकर्षेण चेतं गतं सम्बद्धं विश्वमीश्वरादिभूम्यन्तं यस्येति व्युत्पत्या प्रेत इहापरया व्याप्त्या सदाशिवः स्थूलः परयानाश्रितशिवरूपः परापरया तु नादरूप इति बोध्यम् | तत्पर्यन्तमधस्तनतत्त्वजालस्यासनपक्षीकृतत्वात् एषा भगवती सर्वतत्त्वान्याश्रित्य तिष्ठति इति देवीभागवतात् तल्लक्षणमासनमध्यास्ते ताच्छील्येनेति तदध्यारूढामित्यर्थः | अथ च प्रेता ब्रह्मविष्ण्वाद्याः पञ्च तेषां वामादिस्वस्वशक्तिवियोगे सति धर्म्यंशेन सर्गादिकार्याक्षमत्वात्तैः कल्पित आसनेऽध्यासिनीमुपर्यासीनाम् | तदुक्तं ज्ञानार्णवे- पञ्च प्रेतान्महेशान ! ब्रूहि तेषां तु कारणम् | निर्जीवा अविनाशास्ते नित्यरुपाः कथं वद || इत्यादिना देव्याः पृष्टे ईश्वरोक्तिः- साधु पृष्टं त्वया भद्रे ! पञ्चप्रेतासनं कथम् ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | पञ्चप्रेताः वरारोहे ! निश्चला एव ते सदा ब्रह्मणः परमेशानि ! कर्तृत्वं सृष्टिरूपकम् | वामा शक्तिस्तु सा ज्ञेया ब्रह्मा प्रेतो न संशयः शिवस्य करणं नास्ति शक्तेस्तु करणं यतः | इत्यारभ्य सदाशिवो महाप्रेतः केवलो निश्चलः प्रिये ! | शक्त्या विनाकृतो देवि ! कथञ्चिदपि न क्षमः || इत्यन्तम् | तथा शशिखण्डेन चन्द्रकलया मण्डितो भूषितो जटाजूटः केशकलापो यस्यास्ताम् | यद्वा जटाजूटशब्देन मुकुटमुपलक्ष्यते | प्.४८)
SK
तेन शशिखण्डैश्चन्द्रकान्तमणिभिर्मण्डितं खचितं मुकुटं यस्यास्ताम् | नृमुण्डस्रजं नृमुण्डवदतिस्थूलशुभ्रमुक्ताफलोपेता स्रग् मुक्तादाम यस्यास्तां | केचित्तु मल्लिकामालावतीं चम्पकस्रग्विणीं वेत्याहुः | बन्धूकप्रसवारुणाम्बरधरां बन्धूकप्रसववद्बन्धुजीवकपुष्पवदरुणानि रक्तानि अम्बराणि वस्त्राणि धारयतीति तां मसृणरक्तकौशेयवस्त्रवतीम् | तथा चतुर्भुजां चतुर्भाहुं शान्त्यतीता भिन्नायाः देव्याः शान्तादिशक्तिस्फारणातिशयात् चतुर्भुजत्वम् त्रिनयनां त्रीणि नयनानि नेत्राणि यस्यास्तां स्वमहिमावभासितेच्छादिशक्तित्रययोगात् तथा पीनौ पीवरौ तुङ्गावुन्नतौ च स्तनौ पयोधरौ यस्यास्तामापीनतुङ्गस्तनीम् | अतस्तद्भाराक्रान्तत्वादिव मध्येऽवलग्नप्रदेशे समुद्भूतेन निम्नेनावगाढेन च वलित्रयेण वलिस्त्वक् संकोचस्तत् त्रयेणाङ्किता लाञ्छिता तनुस्तनूर्यस्यास्ताम् यद्वा निम्नावनता त्रिभङ्ग्यङ्किता च तनुर्यस्यास्तां सर्वाङ्गसुन्दरीमित्यर्थः | तदुक्तं ब्रह्माण्डपुराणे- स्तनभारदलन्मध्यपट्टबन्धवलित्रया | इति || ११ || अधुना समनन्तरोक्तध्यानैकतमप्रकारेण देवीमुपासीनानां सर्वैश्वर्यसर्वज्ञतादयः सिद्धयः सुलभा इतीतिहासनिदर्शनपूर्वमुपक्षिपति- जातोप्यल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले निःशेषावनिचक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नतः | यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभवद् देवि ! त्वच्चरणाम्बुजप्रणतिजः सोऽयं प्रसादोदयः || १२ || हे देवि ! जगत्सर्जनादिक्रीडाशीले श्रीवत्सराजो नामोदयनापराभिधः किल कौशाम्बीनगरे राजा क्षितिभुजां भूपालानां सामान्यमात्रे मात्रशब्दोऽवधारणे सामान्य एवानत्युच्चे कुले वंशे न तु मूर्धाभिषिक्तानां क्षत्रियाणां तस्य माण्डलिकत्वात् | कीदृशे कुलेऽल्पपरिच्छदे अल्पे स्तोकाः परिच्छदा गजाश्वपशुधनधान्यक्षेत्रादयो यस्मिंस्तादृशे जातो प्. ४९)
SK
लब्धजन्मापि निःशेषायाश्चतुःसागरपर्यन्ताया अवनेः पृथिव्याश्चक्रवर्ती चक्रे भूमण्डले राजमण्डले वा वर्तितुं शीलमस्य यद्वा चक्रं सैन्यं वर्तयितुं सर्वभूमौ चालयितुं शीलमस्येति चक्रवर्ती सर्वपृथिवीपतित्वात् सार्वभौमो राजा तस्य पदवीमुच्चपदं लब्ध्वा प्राप्य प्रतापोन्नतः प्रतापः कोषदण्डादिजन्यं तेजस्तेनोन्नतः प्रांशुः प्रवृद्ध इत्यर्थः | यदभवत् तथा विद्याधरवृन्दवन्दितपदो विद्याश्चतुःषष्टिकलात्मिकाः षडङ्गवेदमीमांसादयोऽष्टादश वा ता धारयन्ति अध्ययनाध्यापनतदर्थानुष्ठानादिनाभ्यस्यन्ति ते विद्याधरा विपश्चितः | यदुक्तम्- अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश | (ना० पू० ५ ९) आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति तत्त्-त्रयम् | अर्थशास्त्रं चतुर्थं च विद्या ह्यष्टादश स्मृताः || इति | तेषां विद्याधराणां वृन्देन व्यूहेन वन्दितौ पूजितौ पादौ चरणौ यस्येति यच्चाभवद् एवं तासु तासु विद्यास्वभिज्ञत्वेन विद्वत्समूहपूज्यतया राज्ञामाज्ञया शासकत्वाच्च सर्वज्ञः सम्राट् चेति यत्सोऽयं त्वच्चरणाम्बुजप्रणतिजस्तव चरणावम्बुजे इव सौकुमार्यारुणिमादिगुणवत्त्वात्तयोश्चरणाम्बुजयोः पादकमलयोः प्रणतेः पूजाराधनादिभक्तिलक्षणात्प्रणामान्निमित्ताज्जायते इति तज्जस्तत्प्रकृतिकः प्रसादोदयोऽनुग्रहाविर्भावः एतत्तस्य तवैव सेवाफलमिति यावत् | अत्र केचिद्विद्याधरेति शब्दे श्रीत्रिपुराविद्याभिज्ञा इत्याचक्षते तन्नोपपद्यते | तथात्वे हि तद्वन्द्यत्वेन स्वयं तस्य परदेवतायां भक्तिराहित्यं व्यज्येत | अपरे तु देवयोनिषु केचन गीतनृत्तादिकुशला वैमानिकाः इत्येवं तेषां दिव्ये विद्याधरपदे दीव्यतां भूमिस्थराजसेवकत्वासंभवान्न न्याय्यम् | तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मनुष्यगन्धर्वाणामानन्दः इति श्रुतेः || १२ || अथ देवीचरणाराधनादिहीनानामुक्तसाम्राज्यादिफलं दुर्लभमिति व्यतिरेकोक्तिरीत्या विवृणोति- प्.५०)
SK
चण्डि ! त्वच्चरणाम्बुजार्चनविधौ बिल्वीदलोल्लुण्ठनत्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः | ते दण्डाङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितैर्जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः || १३ || हे चण्डि ! निजाराधनपराङ्मुखेषु कोपनशीले ! तेषां विप्रियकरणात् बीषास्माद्वातः पवते भीषोदेति सूर्यः | बीषादग्निश्च वायुश्च मृत्युर्धावति पञ्चमः || इति श्रुतेः (नृ० पू० २-१०) भयप्रदत्वलिङ्गादेव हि कम्पनाधिकरणे महद्भयं वज्रमुद्यतमिति श्रुतौ वज्रपदं ब्रह्मपरमित्युक्तम् | येषां प्राणिनां कराः पाणयस्त्वच्चरणाम्बुजार्चनविधौ तव चरणावम्बुजे इव लौहित्यसौकुमार्यादिगुणवत्त्वात्तयोश्चरणाम्बुजयोः पादकमलयोरर्चनविधौ पञ्चोपचारादिपूजाविधाननिमित्तं निमित्तार्थलक्षणे सप्तमी | अर्चनकृते इति पाठे तु अर्चनार्थमित्यर्थः | बिल्वीदलोल्लुण्ठनत्रुट्यत्कण्टककोटिभिः अल्पो बिल्ववृक्षो बिल्वी तद् दलानां बिल्वपत्राणामुल्लुण्ठने प्रत्यहमुच्छेदने त्रुट्यतां छेदंकुर्वाणानां इति अन्तर्भावितण्यर्थतया त्रुटेः सकर्मकत्वव्यवस्थायां बोध्यम् नान्यथा | तेन पत्रोच्चयकारिकरान् विदारयतां कण्टकानां तीक्ष्णाग्रद्रुमाङ्गानां कोटिभिरग्रैः परिचयं संसर्गाभ्यासं न जग्मुः प्रापुः | निसर्गतो हि बिल्वतरवः कण्टकाक्रान्ताः अतो बिल्वपत्राण्युच्चिन्वन्तस्तच्छूकविलिखितकरा ये नाभूवन्नित्यर्थः | अत्र केचित् त्रुट्यतां छिद्यमानानामिति व्याचक्षुस्तन्नोपपन्नम् | कण्टकानामुच्छेदने तात्पर्याभावात् | अतिकाठिन्यस्वभावत्वेन स्वयमपि छिदेरसम्भवात् | यद्वा बिल्वोदलोल्लुण्टनेन सह त्रुट्यतां छिद्यमानानां तत्संसर्गित्वात् कण्टकानामिति विग्रहीतव्यम् | तथा त्रुट्यन्तीभिः कण्टककोटिभिरिति वा बिल्वपत्राणामागमेषु पुष्पगणनया विधानात् | तदुक्तम्- प्. ५१) पत्रेषु बिल्वपत्रं स्यान्नान्यत्पत्रं विशिष्यते हयमारसरोजानामीषद्विकसितं भवेत् |
SK
इति | ते दण्डांकुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितैर्दण्डो गदा अंकुशः सृणिश्चक्रं वलयाकारादि वा त्रिकोणादि चापो धनुः कुलिशो वज्रं श्रीवत्सश्चिह्नविशेषो मत्स्यो मकरस्तत्तद्रेखाकृतिभिरङ्कितैश्चिह्नितैरम्भोजप्रभैर्लौहित्यादिगुणेन पद्मकान्तिभिः पाणिभिः करैरुपलक्षिताः पृथिवीभुजो भूपालाः कथमिव जायन्ते न कथञ्चिदित्यर्थः | इव शब्दो वाक्यालङ्कारे | य एव कण्टकादिक्षतकरास्त एव क्षतस्थानीयचक्राकुंशादिलाञ्छिता नृपतिकुलेषु महीं भोक्तुं जन्म लभन्ते इति भावः | तदुक्तं सामुद्रिके- शक्तिस्तोमरबाणाश्च करमध्ये सुदृश्यते | रथचक्रध्वजाकारः स राज्यं लभते नरः || अंकुशं कुण्डलं चक्रं यस्य पाणितले भवेत् | तस्य राज्यं महाश्रेष्ठं सामुद्रवचनं यथा || इत्यादि | पाणीत्युपलक्षणं पादतलेऽपि प्रोक्तचिह्नानां विद्यमानत्वेन राजत्वलक्षणस्योक्तत्वादिति || १३ || इदानीं देवीपादार्चनविधौ प्रस्तुतायां यथाधिकारं विहितद्रव्यसाधनैश्चक्रराजतर्पणे भक्तानां निष्प्रत्यूहं फलसिद्धिरित्याह- विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैस्त्वां देवि ! त्रिपुरे ! परापरमयीं सन्तर्प्य पूजाविधौ | यां यां प्रार्थयते मनः स्थिरधियां तेषां त एव ध्रुवं तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविग्नी [निघ्नीकृताः पाठान्तरम्] कृताः || १४ || श्रुतिस्मृत्यादिविद्यासंपन्नाः ब्राह्मणा विप्राः | तदुक्तं ब्रह्मवैवर्ते- p.52) janmanā brāhmaṇo jñeyaḥ saṃskārairdvija ucyate | vidyayā yāti vipratvaṃ tribhiḥ śrotriya ucyate || iti | vedādivittvādevāśeṣadevatāśrayatayā prādhānyena viprāṇāmeva devyarcanādāvadhikāraḥ | yāvatīrvai devatāstāḥ sarvā vedavidi brāhmaṇe vasantīti śruteḥ | (sahavai0 19) saṃmānādinā brāhmaṇāḥ kṣīyamāṇabrahmavarcasā bhavanti teṣāṃ ca paradevatāyā vidyājapādinā punarāpyāyanaṃ bhavatīti abhiprāyātsarvānandamayabinducakrasantarpaṇasyāvaśyakartavyatvāt | taduktamāpastambasmṛtau-
SK
अपमानात्तपोवृद्धिः संमानात्तपसःक्षयः | अर्चितः पूजितो विप्रो दुग्धा गौरिव सीदति || आप्यायते यथाहःसु तृणैरमृतसम्भवैः | एवं जपैश्च होमैश्च पुनराप्यायते द्विजः || इति | क्षोणिभुजः पृथिवीपालाः विशो वैश्यास्तेभ्य इतरे तदितरे स्त्रीशूद्रादयः एतेन वेदानां त्रैवर्णिकोपास्यत्वमागमानां तु चातुर्वर्ण्योपास्यत्वमित्यधिकारिविशेषो ध्वन्यते | तथा च रुद्रयामले- यद्वेदैर्गम्यते स्थानं तत्तन्त्रैरपि गम्यते | ब्रह्मक्षत्रियविट्शूद्रास्तेन सर्वेऽधिकारिणः || इति | एवम् ये चत्वारो वर्णाः सन्ति हे देवि त्रिपुरे ! इति च प्राग्वत् | क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदकान्तिगतयोऽत्राशेषा दीव्यतेरर्थाः | विना स्वप्नं देवतानामस्वप्नत्वात् तेन दीव्यति क्रीडते विजिगीषते व्यवहरति द्योतते स्तूयते इत्यादि स्थित्या देवीति नामनिर्वचनं प्राक् निर्णीतं निर्णेष्यते च | त्वां परापरमयीं सकलनिष्कलोभयप्रकृतस्वरूपां शिवशक्तिसामरस्यमयीं बिन्दुतर्पणसन्तोषणीयां यद्वा त्वां कीदृशीं परापरमयीं पर आद्योऽनुत्तरात्मापरोऽन्त्यो विसर्गात्मा तदुभयस्वभावत्वात् पराहंपरामर्शात्मकमन्त्रवीर्यस्वरूपां यद्वशान्मन्त्राणां प्.५३) शक्त्याधाने प्राप्तसामर्थ्यानां प्रतिनियतस्वस्वकार्यसंपादनचातुर्यं संजायते | अन्यथा निर्जीवतया नैष्फल्यम् यदुक्तं तन्त्रसद्भावे- मन्त्राणां जीवभूता तु या स्मृता शक्तिरव्यया | तया हीना वरारोहे ! निष्फला शरदभ्रवत् || इति | स्पन्देऽपि- तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः | प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम || (२ नि० १० का०) इत्यादि | श्रीतन्त्रालोकेऽपि- एतद्रूपपरामर्शमकृत्रिममनाविलम् | अहमित्याहुरेषैव प्रकाशस्य प्रकाशता || एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् | विनानेन जडास्ते स्युर्जीवा इव विना हृदा || इति | अथ च
SK
परापरे इच्छा क्रियाशक्ती तदुभयमेलनात् एवमेतदिदं [एवमेतदितिज्ञेयं मु० पुस्तकेऽयंपाठः | (का०)] वस्तु नान्यथेति सुनिश्चितम् | ज्ञापयन्ती जगत्यत्र ज्ञान शक्तिर्निगद्यते || (श्लो० ६ ७) इति | मालिनी विजयोक्तनीत्यान्तरासूत्रितेच्छाक्रियात्मकतया परापराशब्दव्यपदेश्यां ज्ञानशक्तिस्वभावामित्यर्थः | यत्परामृष्टमभिनवगुप्तपादैः- दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् | स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम् || इति | परमपरं चेति द्विधा सामान्यं तदुभयात्मकं तृतीयं परापराख्यं | ब्रह्मापि द्विविधं केवलशबलभेदात्परमपरमित्युच्यते | एतद्वै सत्यकाम परमपरं चेति श्रुतेः | प्.५४) (मैत्रा० ६-५) द्वे ब्रह्मणी वेदितव्ये परं चापरमेव चेति स्मृतेः | विद्या च द्विविधा परा चैवापरा चेति मुण्डकोपनिषत् | लिङ्गपुराणेऽपि- द्वे ब्रह्मणी वेदितव्ये परा चैवापरा तथा | अपरा तत्र ऋग्वेदो यजुर्वेदो द्विजोत्तमाः || सामवेदस्तथाथर्ववेदः सर्वार्थसाधकः | शिक्षा कल्पो व्यारणं निरुक्तं छन्द एव च || ज्योतिषं चापराविद्या पराक्षरमिति स्थितम् | तददृश्यं तदग्राह्यमगोत्रं तदवर्णकम् || इत्यादि | परोऽपरश्च द्विधा प्रणवः | यदुक्तं स्कान्दे- परापरविभागेन प्रणवो द्विविधो मतः | परः परतरं ब्रह्म प्रज्ञानन्दादिलक्षणम् || प्रकर्षेण नवं यस्मात्परं ब्रह्म स्वभावतः | अपरः प्रणवः साक्षाच्छब्दरूपः सुनिर्मलः || प्रकर्षेण नवत्वस्य हेतुत्वात्प्रणवः स्मृतः | परमप्रणवप्राप्ति हेतुत्वात्प्रणवोऽथवा || इति | वेदार्थोऽपि द्विधा परोऽपरश्चेति | तदुक्तं तत्रैव- परापरविभागेन वेदार्थोऽपि द्विधा स्मृतः | वेदार्थस्तु परः साक्षात्परात्परतरं परम् || अपरो धर्मसंज्ञः स्यात्तत्परप्राप्तिसाधनम् | इति | परमपरं परापरं चेति त्रिथा ज्ञानम् तदुक्तं योगशास्त्रे- ज्ञानं तत् त्रिविधं ज्ञेयं परापरविभेदतः | तत्राद्यं परमं ज्ञानं पशुपाशात्मदर्शनम् ||
SK
द्वितीयमपरज्ञानं केवलं पाशदर्शनम् | यथा दृष्ट्यन्तरं रात्रौ नरमार्जारनेत्रयोः || प्.५५) तथा विलक्षणं ज्ञानं परापरमुदीरितम् || इति | मन्त्रपारायणान्तर्गतो मन्त्रविशेषोऽपि परापराख्य इत्यग्रे निरूपयिष्यते | देव्यपि परापराख्या | तदुक्तं वराहपुराणे- तत्र सृष्टिः परा प्रोक्ता श्वेतवर्णस्वरूपिणी | या वैष्णवी विशालाक्षी रक्तवर्णस्वरूपिणी || अपरा सा समाख्याता रौद्री चैव परापरा | इति एवं परापरादिलक्षणा पूजा तथा वागवस्थाहोमादयोऽन्येप्यर्थाः यथालाभं योज्याः | एवमुक्तलक्षणा पूजाविधौ परापरमयार्चनेति कर्तव्यतात्मक्रमे क्षीराज्यमध्वासवैर्वर्णानुक्रमविहितैर्दुग्धादिभिः सन्तर्प्य तत्संस्कृतगन्धाक्षतपुष्पोपेतविशेषार्ध्यबिन्दुसमर्पणेन संप्रीय (तत्र क्रमो ब्राह्मणः क्षीरेण क्षत्रिय आज्येन वैश्यो मधुना शूद्र आसवेन सन्तर्पयेदिति) | तेषां विप्रादीनां स्थिरा त्वद्भजने निश्चला धीर्बुद्धिर्येषामनन्यमनस्कानां मनश्चेतो यां यां भोगमोक्षतदुभयात्मिकामैहिकीमामुष्मिकीं वा सिद्धि फलनिष्पत्तिमिति यावत् प्रार्थयते समुपयाचते तां तां सिद्धिं तरसा जवेनाचिराय ध्रुवमेवाप्नुवन्ति आसादयन्ति | एवो भिन्नक्रमः तदुक्तं पाद्मे- चण्डिकां स्नपयेद्यस्तु ऐक्षवेण रसेन च | सौपर्णेन सयानेन विष्णुना सह मोदते || इत्युक्तेः लोकान्तरविहरणादिकमप्येतत्पूजादिना सिद्ध्यति | अन्यत्रापि- यत्रास्ति भोगो न च तत्र मोक्षो यत्रास्ति मोक्षो न च तत्र भोगः श्रीशङ्करीतर्पणतत्पराणां भोगश्च मोक्षश्च करस्थ एव || इति | चतुर्वर्गप्राप्तयेऽपि देव्यर्चनस्य विहितत्वात्तत्पूजा चतुर्वर्गफलप्रदायिनी | प्. ५६) यदुक्तं पाद्मे पुष्करखण्डे आह्निकप्रकरणे- अतः परं च देवानामर्चनं कारयेद्बुधः | गणेशं पूजयेद्यस्तु विघ्नस्तस्य न बाधते || आरोग्यार्थेऽर्चयेत्सूर्यं धर्ममोक्षाय माधवम् | शिवं धर्मार्थमोक्षाय चतुर्वर्गाय चण्डिकाम् || इति | यद्वा सिद्धिं चक्रेश्वरत्वादिरूपामिति | तदुक्तं शिवसूत्रेषु-
SK
शुद्धविद्योदयाच्चक्रेशत्वसिद्धिरिति | (१-२१) वार्तिकेऽपि- यदा परिमितां सिद्धिमनिच्छन्पुनरिच्छति | विश्वात्मवत्प्रथारूपां परां सिद्धिं तदाऽस्य तु || शुद्धविद्योदयाच्चक्रराजत्वं सिद्धिमृच्छति | वैश्वात्म्यप्रथनाकांक्षी सन्धत्ते शक्तिमात्मनः || यदा योगी तदा तस्य सदाशिवपदस्पृशः | ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः || सामानाधिकरण्यं च सद्विद्याहमिदंधियोः | इति नीत्या जगत्सर्वमहमेवेति या मतिः || सा शुद्धा निर्मला विद्या तदीयादुदयात् स्फुटात् | उन्मज्जनात्मविच्छक्तिमात्मनो नित्यमामृशेत् || यदा योगी तदा तस्य चक्रेशत्वमनुत्तरम् | माहेश्वर्याः सामवेशोत्कर्षात् सिद्ध्यति योगिनः || इति ते कीदृशा विघ्नैरविग्नीकृताः विघ्नन्ति कार्यसिद्धिं विलुम्पन्तीति विघ्ना आध्यात्मिकादयस्त्रिविधोपयातास्तदधिष्ठातृदेवताविशेषाश्च तैरविग्नीकृता अनुद्वेजिताः | अथ च सप्तकोटिसंख्यहेरम्बसेनाधीश्वरैरामोदप्रमोदादिभिः षड्भिर्विघ्न- etadāśayenaiva jāyantīyanimi saṃvādepyuktam- p. 57) tvāṃ sevatāṃ surakṛtā bahavo'ntarāyāḥ svauko vilaṅghya paramaṃ vrajatāṃ pade te | nānyasya barhiṣi balīndadataḥ svabhāgān dhatte padaṃ tvamavitā yadi vighnamūrdhni || (11-4-10) [kuta uddhṛtamiti nopalabhyate |] tathānyatra- tathā na te mādhava ! tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddhasauhṛdaḥ | tvayābhiguptā vicaranti nirbhayā vināyakānīkapamūrdhasu prabho ! || (10 pū0 2-33) [kuta uddhṛtamiti nopalabhyate |] atra śrīparadevatārcanāyāmuktadravyāṇāṃ kṣīrādīnāṃ varṇānukrameṇoktiṃ kṛtayugakramocitāmevācāryo nirdiṣṭavān | yugāntareṣvanukalpavidhīnāṃ sarvavarṇasādhāraṇatayā rudrayāmalādiśāstre'bhihitatvāditi bodhyam | taduktaṃ tatra- satyakrame caturvarṇaiḥ kṣīrājyamadhupiṣṭakaiḥ | tretāyāṃ pūjayeddevīṃ ghṛtena sarvajātibhiḥ || madhubhiḥ sarvavarṇaiśca pūjayed dvāpare yuge | pūjanīyā kalau devī kevalairāsavaiśca taiḥ ||
SK
इत्येतेन कलावासवस्य सत्यक्रमोक्तचतुर्थवर्णविहितप्रधानकल्पत्वेऽपि सर्ववर्णैरनुकल्पविध्यन्तर्भाव एवाश्रयणीयः | तत्रापि ब्राह्मणविषये निषिद्धत्वात्तद्यथा- गुडार्द्रकरसेनैव सुरा न ब्राह्मणस्य च | गौडी तु या क्षत्रियेण माध्वी वैश्येन तत्र वै || कदलीमधुसंमिश्रशालित्वक् केवलैः सुरा | सर्वा शूद्रस्य संप्रोक्ता यत्र वा तद्धविर्भवेत् || प्. ५८) अत्र गौडी माध्वीति विशेषोक्तिः कामनापरत्वेन | तथा- नारिकेलोदकं कांस्ये ताम्रे दद्यात्तथा मधु | दधिदुग्धं तथा ताम्रे गुडमिश्रं तथा दधि || गुडार्द्रकमथो वापि पूजनार्थं प्रकल्पयेत् || इत्याद्यनुकल्पवचनानि | तथा द्रव्याणमपि तत्तत्पात्रादिसंयोगेन तादवस्थ्यसद्भावे प्रधानतुल्यत्वेन विप्रेषु निषेधदर्शनाद्- ब्राह्मणो न सुरां पिबेन्न मांसमश्नीयादिति | नित्यं मद्यं ब्राह्मणोवर्जयेदित्यादि श्रुतेः | नित्यपदं कामतोऽकामतोऽपि प्राप्तौ निषेधं बोधयति | स्मृतिश्च- ब्राह्मणस्य रुजः कृत्या घ्रातिरघ्रेयमद्ययोः | जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् || इति | भैरवीतन्त्रे- ब्रह्मणो मदिरां दत्त्वा ब्राह्मण्यादेव हीयते | स्वगात्ररुधिरं दत्त्वा स्वात्महत्यामवाप्नुयात् || क्रमसंहितायामपि- आवाभ्यां पिशितं रक्तं सुरां वापि सुरेश्वरि | वर्णाश्रमोचितं धर्ममविचार्यार्पयन्ति ये || भूतप्रेतपिशाचास्ते भवन्ति ब्रह्मराक्षसाः | इति अपि च - द्रव्येण सात्त्विकेनैव ब्राह्मणः पूजयेच्छिवाम् | इति | सात्त्विकेनैव भावेन ब्राह्मणस्तर्पयेच्छिवाम् || इति च | एवं दद्यात्क्षत्रियोऽपि पैष्टिकीं न कदाचन | नारिकेलोदकं कांस्ये ताम्रे दद्यात्तथा मधु || प्. ५९) राजन्यवैश्ययोर्दानं न द्विजस्य कदाचन | एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् || इति | आवश्यके काम्यादौ कर्मण्यपि ब्राह्मणेनानुकल्पविधिरेव ग्राह्यः | यथोक्तं भैरवीतन्त्रे- यत्रावश्यं विनिर्दिष्टं मदिरादानपूजनम् | ब्राह्मणस्ताम्रपात्रे तु मधुमद्यं प्रकल्पयेत् ||
SK
इति | कौलागमोक्तवस्तुविचारस्तु यथा- कुलागमक्रमेणैव पूजयेत्परमेश्वरीमिति सर्वतन्त्रस्वारस्येन कुलद्रव्यैरेव विधीयमानायां कुलदेवीपूजायां सौत्रामण्यादिक्रतुष्विव संस्कृतकुलद्रव्योपयोगस्य विहितत्वान्नाधर्मसाधनत्वं प्रतीयते वक्ष्यमाणागमस्मृत्यनुमितवेदमूलकत्वाच्च | उक्तश्रुतिवाक्यानां त्वदीक्षितविषयपरतया समाधेयं न ब्राह्मणमात्रं तद्विषयः | अत एव सौत्रामणीप्रकरणश्रुतिः- ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारमिति | तस्मात्तदुपयोगोऽप्यधिकार्यनधिकारिभेदेनागमेषु विधीयमानो निषिध्यमानश्च क्वचित्प्रतिप्रसवास्पदतां च भजते | तदुक्तं कुलार्णवेः- śaive ca [vā] vaiṣṇave śākte saure sugatadarśane | bauddhe pāśupate sāṃkhye māntre [vrate] kālāmukhe [kulamukhe] tathā || dakṣiṇe [sadakṣa] vāmasiddhānte vaidikādiṣu pārvati | vinālipiśitābhyāṃ ca [bhyāntu kūla] pūjanaṃ niṣphalaṃ bhavet || kuladravyairvinā kuryājjapaṃ [japayajñatapovratam] pūjāṃ vrataṃ tapaḥ | niṣphalaṃ tadbhaveddevi ! bhasmanyeva [bhasmanīva] yathā hutam || yathā kratuṣu viprāṇāṃ somapānamadūṣitam [vidhīyate] | alipānaṃ [madyapānaṃ tathā kāryyaṃ samaye bhogamokṣadam (ārthara evalān)] tathā devi ! somavadbhogamokṣadam || (u0 5 ślo0 67- प्. ६०) इति तथा- निशङ्को निर्भयो वीरो निर्लज्जो निष्कुतूहलः | निर्णीतवेदशास्त्रार्थो वरदां वारुणीं पिबेत् || तत्कर्म कुर्वतां पुंसां कर्मलोपो भवेद्यदि | तत्कथं तत्प्रकुर्वन्ति सप्तकोटिमुनीश्वराः || इत्यादिशास्त्रवचनैर्दीक्षादिसंस्कारसंस्कृतेष्वधिकारिषु द्रव्योपयोगविधानात् | तथाचर्ग्वेदीयसांख्यायनशखायां श्रीसुन्दरीवरिवस्याद्वारा बिन्दुतर्पणेन साम्राज्यप्राप्तिः श्रूयते | इमां [इमां विज्ञाय सुधिया मदन्ती परिस्त्रुता तर्पयतः स्वपीठम् | इति (उ० वा० को०)] विज्ञाय सुरया मदन्ति परिस्रुता तर्पयन्तः स्वपीठम् | नाकस्य पृष्टे महतो वसन्ति परं धाम त्रैपुरं चाविशन्ति || (त्रिपुरा० ७)
SK
इति | दीक्षा संस्कारसमयाचारादिवर्जितानां निन्द्यमानत्वेन तु शतशो वचनानि निषेधपराण्याम्नायन्ते | तदुक्तं तत्रैवः- आवृतीर्गुरुपंक्तिञ्च [आवृतिं] वटुकादीन्प्रपूज्य च | वीरोप्यत्र वृथा पानाद्देवताशापमाप्नुयात् [पानी] || अयष्ट्वा भैरवं देवमकृत्वा मन्त्रतर्पणम् | पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत् || अज्ञात्वा कौलिकाचारमयष्ट्वा गुरुपादुकाम् | योऽस्मिञ् शास्त्रे प्रवर्तेत तं त्वं पीडयसे [पीडयसि] ध्रुवम् || कौलज्ञाने त्वसिद्धो [ह्यसिद्धो] यस्तद् द्रव्यं भोक्तुमिच्छति | स महापातकी देवि [ज्ञेयः] ! सर्वधर्मबहिष्कृतः || प्. ६१) समयाचारहीनस्य स्वैरवृत्तेर्दुरात्मनः | न सिद्धयः कुलभ्रंशस्तत्सर्वं [तत्संसर्गं न कारयेत्] नरकाय च || यः शास्त्रविधिमुत्सृज्य वर्तते कामचारतः [कामकारतः] || न [स सिद्धिमिह नाप्नोति न सुखं न परांगतिम्] स सिद्धिमवाप्नोति न सुखं न परां गतिम् | स्वेच्छया वर्तमानो [रममाणो] यो दीक्षासंस्कारवर्जितः || न तस्य सद्गतिः क्वापि तपस्तीर्थव्रतादिषु [दिभिः] | असंस्कृतं पिबन्मद्यं [पिवेद्द्रव्यं] बलात्कारेण मैथुनम् || स्वप्रीत्यै [स्वप्रियेण] आहृतं [हतमिति पाठान्तराणि (आर्थर एवलान)] मांसं रौरवं नरकं व्रजेत् || (कुलार्णव उ० ५ श्लो० ९२-९९) इत्यादिनानधिकारिणां तदुपयोगनिषेधात् | कुत्रचित्तु संस्कृतपूजाविशेषद्रव्यपरतया प्रतिप्रसवेऽपि श्रूयते | तदुक्तम्- क्वचिद्यदृच्छया प्राप्तमलिद्रव्यं तु भक्तितः | गृहीत्वा मूलमन्त्रेण गुरुं स्मृत्वा च पादुकाम् || तत्त्वत्रयेण संयुक्तं गृह्णीयान्मूलमुच्चरन् | इत्यादि | यद्वा कलिक्रमानुसारेणापि प्रोक्तानुकल्पद्रव्याणां सुरासाम्याद् ब्राह्मणविषये निषिद्धत्वात्काम्यादिकर्मण्यपि बिन्दुचक्रतर्पणं क्षीरेण कल्प्यमिति निष्कर्षाशयं प्रमाणोपोद्वलितं गृहीत्वाचार्य इमं क्रमं निबबन्ध | तदुक्तम्- ब्राह्मणस्य सदाऽपेयेति | अत्राकारप्रश्लेषेणापेयत्वं सार्वदिकमवगमयति | महाकालसंहितायामपि-
SK
क्षीरेण ब्राह्मणैस्तर्प्या घृतेन नृपवंशजैः | माक्षिकैर्वैश्यवर्णैस्तु आसवैः शूद्रजातिभिः || प्. ६२) इत्यत्रापि ब्राह्मणैरित्युक्त्या कृतेऽपि जात्युद्धारसंस्कारे अत्यक्तप्राग्जात्याग्रहैरित्यभिधीयते | ये तु दुस्तरं जात्यभिनिवेशसागरमुत्तीर्णास्तेषां कौलाचारपारदृश्वनामनुत्तराचारसोपान एव पदक्रमबन्धः सर्वाचारोत्तीर्णतया विलसन् स्वेच्छां नातिक्रामतीत्यलमतिपल्लवितेन | तदत्रापि साधकानां रुचिबुद्धिशक्तिसम्भवानतिक्रम्यैव द्रव्यग्रहणं रम्यतरमिति || १४ || इदानीं परापरमय्या देव्याः पश्यन्त्यादिवाक्प्रसरक्रमेण शब्दसृष्टिप्रकारं निरूपयंस्तदविनाभावेनार्थसृष्टेरप्युदयविलयास्पदत्वनिर्वचनेन तस्याः परावाक्शक्तिरूपत्वमाह- शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति स्फुटम् | लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिःपरा गीयसे || १५ || हे देवीति सम्बोधनमनुवर्तनीयम् | देवी पदार्थस्तु प्राग्वदेव | यतस्त्वं शब्दानां लौकिकालौकिकात्मनानन्तवैचित्र्यभेदितानां वर्णपदमन्त्रात्मवाचकानां जननी परावाङ्मूलभूमिकातःक्रमेण विस्फारयन्ती ज्येष्ठारौद्र्यम्बाख्यशक्तिप्रसरसंभेदवैचित्र्यतो मायीयामायीयाद्यक्षान्तपञ्चाशद्वर्णपरामर्शात्मनोल्लास्यवर्ण- vācyātmano'rthaprapañcasyāpi prasaropapatteḥ parāmātṛkātmetyarthaḥ | taddhedaṃ tarhyāvyākṛtamāsīt tannāmarūpābhyāṃ vyākriyata iti śruteḥ (bṛha0 1-4-7) | nāmarūpātmakasya vācyavācakātmano jagata āvirbhāvaḥ śrūyate | uktaṃ ca- na vidyā mātṛkā parā iti | śrītantrasadbhāve'pi- sarve varṇātmakā mantrāste ca śaktyātmakāḥ priye | p. 63) śaktistu mātṛkā jñeyā sā ca jñeyā śivātmikā || yā sā tu mātṛkā devi ! paratejaḥ samanvitā | tayā vyāptamidaṃ viśvaṃ sabrahmabhuvanātmakam ||
SK
तत्रस्थं च यदा देवि ! व्यापितं च सुरार्चिते | अवर्णस्थो यथावर्णः स्थितः सर्वगतः प्रिये || तथाहं कथयिष्यामि निर्णयार्थं स्फुटं तव | इत्यारभ्य- या सा शक्तिः परासूक्ष्मा निराचारेति कीर्तिता | हृद्बिन्दुं वेष्टयित्वा तु सुषुप्तभुजगाकृतिः || तत्र सुप्ता महाभागे न किञ्चिन्मन्यते उमे ! | चन्द्राग्निरविनक्षत्रैर्भुवनानि चतुर्दश || क्षिप्त्वोदरे तु या देवी विषमूढेव सा गता | प्रबुद्धा सा निनादेन परेण ज्ञानरूपिणा || मथिता चोदरस्थेन बिन्दुना वरवर्णिनि | तावद्वै भ्रमवेगेन मथनं शक्तिविग्रहे || भेदात्तु प्रथमोत्पन्ना बिन्दवस्तेऽतिवर्चसः | उत्थिता तु यदा तेन कलासूक्ष्मा तु कुण्डली || चतुष्कलमयो बिन्दुः शक्तेरुदरगः प्रभुः | मथ्यमन्थनयोगेन ऋजुत्वं जायते प्रिये || ज्येष्ठाशक्तिः स्मृता सा तु बिन्दुद्वयसुमध्यगा | बिन्दुना क्षोभमायाता रेखैवामृतकुण्डली || रेखिणीनाम सा ज्ञेया उभौ बिन्दू यदन्तगौ | त्रिपथा सा समाख्याता रौद्री नाम्ना तु गीयते || रोधिनी वा समुद्दिष्टा मोक्षमार्गनिरोधनात् | शशाङ्कशकलाकारा अम्बिका चार्धचन्द्रिका || एकैवेत्थं पराशक्तिस्त्रिधा सा तु प्रजायते | आभ्यो युक्तवियुक्ताभ्यः सञ्जातो नववर्गकः || नवधा तु स्मृता सा तु नववर्गोपलक्षिता | प्.६४) पञ्चमन्त्रगता देवि ! सद्य आदिरनुक्रमात् || तेन पञ्चविधा प्रोक्ता ज्ञातव्या सुरनायिके | स्वरद्वादशगा देवि ! द्वादशस्था उदाहृता || अकारादिक्षकारान्ता स्थिता पञ्चाशता भिदा | हृत्स्था एकार्णवा प्रोक्ता कण्ठे प्रोक्ता द्वितीयका || त्रिरार्णवा तु ज्ञातव्या जिह्वामूले सदा स्थिता | जिह्वाग्रे वर्णनिष्पत्तिर्भवत्यत्र न संशयः || एवं शब्दस्य निष्पत्तिः शब्दव्याप्तं चराचरम् | इति | कामकलाविसासेऽपि- सितशोणबिन्दुयुगलं विविक्तशिवशक्तिसंकुचत्प्रसरम् | वागर्थसृष्टिहेतुः परस्परानुप्रविष्टविस्पष्टम् || (६)
SK
इति | एवं पराशक्तिरूपा मातृका वाच्यवाचकात्मषडध्वस्फारमयविश्वजननी | अतोऽत्र भुवने त्रिविष्टपे भुवनाध्वाख्ये भवादिरूपा वा वाग्वादिनीति त्वं गीयसे स्तूयसे | वाचः पश्यन्ती मध्यमा वैखरीरूपा वदितुं वादयितुं वा शीलमस्या इति वाग्वादिनी | सर्वेषां च स्वभक्तानां वादरूपेण सर्वदा | स्थितत्वाद्वाचो विख्याता लोके वाग्वादिनी सा || इति | त्रिपुरासिद्धान्तोक्तेः परवागारवस्यैवोर्ध्वोर्ध्वस्थानाश्रयेण पश्यन्त्याद्यभिधाप्रसिद्धिः | यथा नित्यातन्त्रे- मूलाधारैः समुत्पन्नः पराख्यो नादसम्भवः | स एवोर्ध्वतया नीतः स्वाधिष्ठाने विजृम्भितः || पश्यन्त्याख्यामवाप्नोति तथैवोर्ध्वं शनैः शनैः | अनाहते बुद्धितत्त्वसमेतो मध्यमाभिधः || तथा तयोर्ध्वनुन्नः सन्विशुद्धौ कण्ठदेशतः | वैखर्याख्य * * * * * * * * * * प्. ६५) इति | एतत्प्रागपि वाङ्मयत्वनिरूपणावसरे वितानितम् | एवं शब्दविवर्तत्वादर्थानामपि त्रिविधवाच्यात्मनां समुत्पादिका | यदाहुः- अनादिनिधनं ब्रह्म शब्द तत्त्वं यदक्षरम् | विवर्ततेऽर्थबावेन प्रक्रिया जगतो यतः || (वा० प० १-१) इति | एतेन नामरूपात्मकस्य जगतो ब्रह्मपरिणामकत्वं तान्त्रिका अभ्युपागमन्नित्युपक्षिप्तम् | तेषां मते प्रपञ्चस्य सत्यत्वमेव | ब्रह्मप्रपञ्चयोर्दृग्घटयोरिवात्यन्ताभेदप्रतीत्या ब्रह्मणः सत्यत्वे प्रपञ्चस्यापि सत्यत्वावश्यम्भावसद्भावात् केवलं भेदाभ्यासं मिथ्यात्वाभ्युपगमान्निरसितुं नेह नानास्ति किञ्चन इति | मायामात्रमिदं द्वैतमद्वैतं परमार्थतः | इति | सर्वं खल्विदमेवाहं नान्यदस्ति सनातनम् | इति | यत्र त्रिसर्गो मृषा इत्यादीनां श्रुतिस्मृत्युक्तानामखिलानामद्वैतवाक्यानां निर्वाहः | तावन्मात्रेणैवाविरोधे प्रपञ्चमिथ्यात्वकल्पनस्य तु वेदान्तिनामनर्थकत्वादिति शाम्भवानन्दकल्पलतायां विस्तरेण प्रपञ्चितम् | अथ च वाग्वादिनी इति मन्त्रविशेषः स चाग्रे मन्त्रपारायणविवरणे वक्ष्यते |
SK
यद्वा प्रतीकमात्रग्रहणोपलक्षितत्वाद्वागीश्वरीनामकः सरस्वतीमन्त्रविशेषस्तद्रूपा सोऽपि सिद्धमन्त्रिणो गिरा वाचस्पतिसाम्यमुत्पादयति | उद्धारो यथा- तारो हृल्लोहितः सत्यो वैकुण्ठानन्तसंयुतः | भृगुर्ने शब्दरूपे वाङ्मायाकामो वदद्वयम् || वाग्वादिन्यग्निकान्तान्तो मन्त्रो वेदाक्षिवर्णवान् | अनेन मनुना पूर्वपत्रे वागीश्वरीं यजेत् || स्पष्टम्- ॐ नमः पद्मासने शब्दरूपे ऐं ह्रीं क्लीं वद वद वाग्वादिनि स्वाहा प्. ६६) इति | एवमचिद्राशिविषयसृष्टिकारित्वमुक्त्वा चिद्राशिमध्येऽधरप्रपञ्चोत्पादनादिकारणभूतब्रह्मादिविषयसृष्टि- iti | te'pyamī jagatsṛṣṭṛtvādināgamaprasiddhāḥ | pratyakṣānavagamādviprakarṣavyapadeśārhā ityadasā nirdeśaḥ | brahmādiḥ prathamo yeṣāṃ te keśavavāsavaprabhṛtayo'pi keśavo viṣṇuḥ vasuragnirlalāṭanetratvenāstyasya sa vāsavo rudraḥ | jyotsnāditvādaṇ | vāsava indrastadupalakṣitā daśa dikpālā vā indraṃ yā devī subhagā jajāneti śruteḥ | prabhṛtigrahaṇeneśvarasadāśivau gṛhyete tena brahmaviṣṇurudreśvarasadāśivāḥ pañcabrahmābhidhāḥ sphuṭaṃ vyaktaṃ tvattaḥ pañcasrotaḥ prasaramūlabhūtāyāḥ sakāśād bījādaṅkurā iva śāktyāṃ mahāsṛṣtāvapyāvirbhavanti samutpadyante iti saṃbhāvyate | apiḥ sambhāvanāyām | taduktaṃ mārkaṇḍeye- ye'rthā nityā ye vinaśyanti cānye ye'rthāḥ sthūlā ye ca sūkṣmācca sūkṣmāḥ | yaccāmūrtaṃ yacca mūrtaṃ samastaṃ yadyadbhūteṣvekamekaṃ ca kiñcit || ye'rthā bhūmau ye'ntarikṣe'nyato vā teṣāṃ devi ! tvatta evopalabdhiḥ || iti vismayārthe vā | taduktaṃ devīpurāṇe- brahmādyāḥ sthāvarāntāśca eva samudgatāḥ | mahadādiviśeṣāntaṃ jagadyasyāḥ samudgatam || iti | tathā kalpavirame svasvāyuṣkālaparimāṇaviratau yatra tvayi mūlakāraṇe khalu līyante mṛdīva ghaṭādayo līnā bhavanti | bījavattadānīmapi sūkṣmātmanā sarvamidamastyeva tadeva punaḥ sṛṣṭikāle visṛjyate taduktam- kavalīkṛtaniḥśeṣatattvagrāmasvarūpiṇī | p. 67) iti | tathā-
SK
यथान्यग्रोध बीजस्थः शक्तिरूपो महाद्रुमः | तथा हृदयबीजस्थं विश्वमेतच्चराचरम् || (प० त्री० २४) इति | कल्पशब्देनात्र महाप्रलय उच्यते नावान्तरः | तत्र क्रमशः स्वस्वोर्ध्वकारणलये तद्दिवसारम्भे तदधरवर्तिकारणानां पुनः सहस्रशः प्रलयोल्लाससम्भवादव्यवधानेन शक्तौ लयाभावः | अतः कल्पविरमे सदाशिवायुष्कालनिवृत्तावित्यर्थः | खलुर्वाक्यालङ्कारे | एतेन ब्रह्मादीनाममरत्वप्रथाप्यौपचारिकी मनुष्यायुष्कालपरिमित्यपेक्षया जीवितत्वस्य दैर्ध्याभासादिति ध्वन्यते | जगज्जन्मादिकृत्यकारिणोऽपि ब्रह्मादयः स्वविलयोदययोरस्वतन्त्रत्वात् स्वतन्त्रशक्त्येकशरणतां तस्या अचिन्त्यैश्वर्यनिर्भरतां च ख्यापयन्तीत्यपिना द्योत्यते | तदुक्तम् शक्तिसूत्रेषु- चितिः स्वतन्त्रा विश्वसिद्धिहेतुः | (प्र० हृ० १) इति | स्वातन्त्र्यादेवास्या अनन्यमुखप्रेक्षित्वलक्षणं परत्वमस्ति अस्वतन्त्रस्य तदभावात्कार्यसम्पादनानुपपत्तेरुपादानादिकारणापेक्षणात् | तदपेक्षायां स्वातन्त्र्यविघातः प्रसज्येत सा च शक्तिः विश्वकारणत्वेन सर्वागमेषु गीयते | क्षित्यादेः प्रपञ्चस्य कार्यत्वेनाभिमतस्य कारणमन्तरेण तदनुत्पादानात् | क्षित्यादेः सकर्तृत्वं कार्यतयैवानुमीयते इति हि नायविदः | औपनिषदानामप्ययमेव पन्थाः | यदाहुः- निस्तत्त्वा कर्यगम्यास्य शक्तिर्मायाग्निशक्तिवत् | नहि शक्तिं क्वचित्कश्चिद् बुध्यते कार्यतः पुरा || इति | एवमर्थप्रतिपादनाशयेनाह- सा त्वमिति उक्तविशेषणलक्षिता काचिदिति मनो वागगोचरा यतो वाचो निवर्तन्ते इति श्रुतेः | परानपेक्षित्वेन नियतदेशकालाकारावच्छेदविरहात् तत्तद्वैचित्र्योल्लासकत्वाच्च नियताकृत्यादिनानिर्वाच्या | तथाखिलशक्त्यन्तरक्रोडीकारेण प्. ६८) पूर्णतया मुख्या पारमेश्वरी परा शक्तिः स्वातन्त्र्याख्येतिसद्भिः श्रीकण्ठादिभिर्गीयसे | तदुक्तम्- तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसोविधिः | इति | एतेन नित्या विभुर्विश्वाकारा इत्याद्याक्षिप्तं भवति | यद्वा तिसृभ्यः पश्यन्त्यादिभ्यः परत्वात्परा
SK
श्री परानन्दनाथस्य प्रसन्नत्वात्परेति सा | परानन्दाभिधे तन्त्रे प्रसिद्धत्वाच्च सा परा || प्रासादरूपिणी चेति परा सा शाम्भवी परा | इति | निरुक्त्यन्तरोक्ता वा | तदुक्तम्- अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः | नियतानेति स विभुर्नित्यो विश्वाकृतिः शिवः || विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः | विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः || इति | श्रुतिरपि- न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते | परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च || इति | कीदृशी अचिन्त्यरूपमहिमा | अचिन्त्यो रूपस्य चिदानन्दघनस्वभावस्य महिमा महत्वं यस्याः सा महत्तरा महिमा देवतानामिति श्रुतेः मानुष्यानन्दाद्यपेक्षया च ब्रह्मानन्दस्यानवच्छिन्नतया श्रुतौ प्रसिद्धत्वात् | अन्यत्रापि- आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते | परापरात्परं तत्त्वं सैषा देवी निगद्यते || तत्सारं तच्च हृदयं स विसर्गः परः प्रभुः | प्. ६९) इति | अथचेना विष्णुना चिन्त्यः स्मार्यो रूपस्य सगुणस्य ललितानाम्नो महिमा वैभवं देवकार्यार्थं भण्डासुर-तत्परिच्छदवधादि यस्याः तद्वधाय स्वात्मनोऽनेकशक्तिव्यूहनिर्माणं वा | पराशक्तेः स्वरूपं तु शिवसामरस्यात्मकं | तदुक्तं वायुसंहितायाम्- शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता | ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव || इति | सौरसंहितायामपि- ब्रह्मणोऽभिन्नशक्तिस्तु ब्रह्मैव खलु नापरा | तथा सति वृथा प्रोक्तं शक्तिरित्यविवेकिभिः || शक्तिशक्तिमतोर्विद्वन् भेदाभेदस्तु दुर्घटः | इति | वासिष्टेऽपि- यथैकं पवनस्पन्दावेकमौष्ण्यानलौ यथा | चिन्मात्रं स्पन्दशक्तिश्च तथैवैकात्म सर्वदा || इति | जगदाविर्भावक्रमस्तु शैवागमे श्रीतन्त्रालोक-तत्सारादौ द्रष्टव्यः | इह विस्तरभयान्नोन्मील्यते | तद्वैपरीत्येन लयक्रमः | वस्तुतः शिवतत्वादिक्षित्यन्तं चिदब्धेरयमूर्मिनिकरोल्लासः | तदुक्तम्-
SK
भूतानि तन्मात्रगणेन्द्रियाणि मूलं पुमान् कञ्चुकयुक् सुशुद्धम् | विद्यादिशक्त्यन्तमियान्स्वसंवित्सिन्धोस्तरङ्गप्रसरप्रकारः | इति || १५ || एवं परतांशनिरूपणं विधाय परदेवताया अपरावस्थोद्भावनौचित्येनासाधारणस्य त्रिपुरेति नाम्नो निरुक्तिमाह- देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा- स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्त्रयः | प्. ७०) यत्किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गात्मकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः || १६ || हे भगवति ! भूतानां विलयोदयादिकं या वेत्ति सा भगवती तत्संबुद्धिः | तदुक्तम् देवीभागवते- उत्पत्तिं प्रलयं चैव भूतानां गतिमागतिम् | अविद्याविद्ययोस्तत्त्वं वेत्तीति भगवत्यसौ || इति | भगशब्दवाच्या ऐश्वर्यादयोऽर्थाः कार्त्स्न्येनसन्त्यस्यमिति कृत्वा वा भगवती | तदुक्तम् कालिकापुराणे- ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः | ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणा || इति | कोशेऽपि- भगमैश्वर्यमाहात्म्यज्ञानवैराग्ययोनिषु | यशो वीर्यप्रयत्नेच्छाधर्मश्रीरविमुक्तिषु ||
SK
इति | जगति षट्त्रिंशत्तत्त्वलक्षणे विश्वस्मिन् भवाभवादिसंज्ञके यत्किञ्चिद् वस्तु पदार्थस्वरूपं त्रिधा त्रिभिः प्रकारैर्नियमितं नियन्त्रितं कल्पितं नियतिशक्त्या संजातनियमं वा तथा त्रिवर्गात्मकं समैस्त्रिभिरुपलक्षितसमूहात्मकं स्वतस्तस्य त्रिरूपत्वात् तत्सर्वमशेषं ते तव त्रिपुरेति नामाख्यां तत्त्वतस्तस्य भावस्तत्त्वं तस्मान्नामगतत्रित्वार्थसामान्यादन्वेत्यनुयाति तेन सम्बध्नाति | त्रिवर्गादिकमिति पाठे त्वादिनानुल्लिखितानामप्यर्थानां ग्रहणं बोध्यम् | अत एवागमेषु त्रिभ्यः पुराभूतत्वादित्याद्यनेकधा निरुक्तय उक्ताः | यथा- त्रयाणां मातृमानमेयानां पुरं नगरं तदात्मिका त्रीणि पुराणि जाग्रदाद्यवस्थारूपाणि यस्या इति त्रीणि पुराणि ब्रह्मविष्णुरुद्रशरीराणि यस्या त्रिभ्यः सूर्यादितेजोभ्यः भूरादित्रिलोकेभ्यः प्राणादित्रिवायुभ्यः हृदयादित्रिस्थानेभ्यः सत्त्वादित्रिगुणेभ्यः उडडीशनाथादित्रिसिद्धेभ्यः दिव्यौघादित्रिगुरुभ्यः प्. ७१) आत्मादित्रितत्त्वेभ्यः कामराजादित्रिपीठेभ्यः देवमार्गादित्रियानेभ्यः कुलाकुलकौलाख्यत्रिविभागेभ्यः मन्त्रमुद्रानिरीहाख्यत्रिरहस्येभ्यः मूर्तिप्रकाशानन्दाख्यत्रिचक्रेभ्यः शुक्लरक्तमिश्रत्रिबिन्दुभ्यो वा तथा तिसृभ्य इच्छाशक्तिभ्यः वामाज्येष्ठादिशक्तिभ्यः कामेश्वर्यादिपीठशक्तिभ्यः व्याहृतिभ्यः इडादिनाडीभ्यः स्थूलसूक्ष्मपरावस्थाभ्यः सृष्टिस्थितिसंहृतिभ्यः वा पुराबूतत्वात् प्रोक्तत्रिकात्मकस्य पूरकत्त्वात्तानि पुराणि यस्या इति वा कृत्वाशेषस्य त्रित्वविशिष्टस्य स्वसंविदात्मनि क्रोडीकारात् त्रिपुरेति निरुच्यते | तदुक्तमाचार्यपादैः प्रपञ्चसारे- त्रिमूर्तिसर्गाच्च पुरोभवत्वात् त्रयीमयत्वाच्च पुरैव देव्याः | लये त्रिलोक्या अपि पूरकत्वात् [पूरणत्वात्] प्रायोऽम्बिकायास्त्रिपुरेति नाम || (९ प० श्लो० २) त्रिपुरार्णवे तु- नाडीत्रयं तु त्रिपुरा सुषुम्ना पिङ्गला इडा | मनोबुद्धिस्तथा चित्तं पुरत्रयमुदाहृतम् || तत्र वसत्येषा तस्मात्तु त्रिपुरा मता | इति | कालिकापुराणेऽपि-
SK
त्रिकोणं मण्डलं चास्याः इत्याद्युपक्रम्य सर्वं त्रयं त्रयं यस्मात्तस्मात्तु त्रिपुरा मता | इति | वामकेश्वरेऽपि- त्रिपुरा त्रिविधा देवि [देवी] ब्रह्मविष्ण्वीशरूपिणी | ज्ञानशक्तिः क्रियाशक्तिरिच्छाशक्त्यात्मिका प्रिये || त्रैलोक्यं संसृजत्येषा [अस्मात्] त्रिपुरा परिकोर्त्यते [परिकीर्तिता (का० सं० ग्र०)] | (४ प० श्लो० ११-१२) प्. ७२) इति | वाराहेऽपि- ब्रह्मविष्णुमहेशाद्यैस्त्रिदशैरर्चिता पुरा | त्रिपुरेति तदा नाम कथितं देवतैस्तव || इत्यादि | एवमागमोक्तं विस्तरतस्त्रिकार्थमिहाचार्यस्त्रिपुरेतिपदनिरुक्तिप्रदर्शनाय प्रतीकमात्रेणाह देवानामित्यादि देवाः प्रत्यक्षतस्तावदग्निवायुसूर्या इति नैरुक्ताः वसुरुद्रादित्या भूरादिलोकाधिपाः तथा सर्गस्थितिसंहारकारिणो ब्रह्मविष्णुरुद्रा इति पौराणिकाः | दीव्यन्ति द्योतयन्ति सबाह्याभ्यन्तरं विश्वमिति देवाः मनोबुद्ध्यहंकृतयस्तेषां त्रितयम् | तथा हुतभुजोऽग्नयस्ते च दक्षिणाग्निगार्हपत्याहवनीया इति तेषां त्रयी त्रेतासंज्ञका | अथ चावृत्त्या त्रयी त्रयो वेदाः स्त्रियामृग्सामयजुषी इति वेदास्त्रयस्त्रयी (अ० को० १-६-३) इति कोशात् | कौर्मेऽपि- ममैवान्या पराशक्तिर्वेदसंज्ञा पुरातनी | ऋग्यजुः सामरूपेण सर्गादौ संप्रवर्तते || इति | देवीपुराणेऽपि- ऋग्यजुः सामभागेन साङ्गवेदगता यतः | त्रयीति पठ्यते लोके दृष्टादृष्टप्रसाधनी || इति | पाद्मेऽपि- आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च कथ्यसे इति | किं च त्रयी त्रयीमयी विद्या | तदुक्तं नित्यातन्त्रे- अकारादिसामवेद ॠग्वेदश्च तदादिकः | यजुर्वेद इकारादिस्तेषां संयोगतः शुचिः || तन्निष्पत्तिं श्रुणु प्राज्ञे ! प्रोक्ताः पूर्वापरक्रमात् | विलिख्य योजयेत्पूर्वं शब्दशास्त्रानुसारतः || गुणसंध्या ऋग्यजुषां ततस्तेनापरं तथा | प्. ७३) वृद्धिसंध्या समायुञ्ज्यादित्युत्पन्नं शुचेर्वपुः || तेन त्रयीमयी विद्या कार्यकारणयोगतः |
SK
इति | त्रयोऽवयवा यस्य संहतेः सा त्रयीति व्युत्पत्त्या त्रयीशब्दस्य बहवोऽर्था यथामति समूह्याः | तदेतेन त्रयीपदेनापि सर्वं त्रित्त्वविशिष्टं वस्तु स्वान्तः क्रोडीकृत्य स्थापितम् | यदुक्तं मार्कण्डेये- त्रयो लोकास्त्रयो वेदास्त्रैविध्यं पावकत्रयम् | त्रीणि ज्योतीषि वर्गाश्च त्रयो धर्मादयस्तथा || त्रयो गुणास्त्रयः शब्दास्त्रयो दोषास्तथाश्रमाः | त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः || मात्रात्रयं च ते रूपं त्रिस्थे ! देवि ! सरस्वति | इति | एवं त्रीतिपदोपक्षिप्यमाणाः कतिपयेऽर्था निर्दिष्टाः | तथा- शक्तित्रयं तिस्रः शक्तयो भारतीपृथ्वीरुद्राण्यः तदभिन्ना इच्छाज्ञानक्रियाः परापरा तदुभयात्मानो वा | त्रिस्वराःउदात्तानुदात्तस्वरिता ह्रस्वदीर्घप्लुता वा | त्रैलोक्यं त्रयोलोकाः भूर्भुवःस्वराख्याः लोक्यते इति लोकः लोक्यतेऽनेनेति लोकः लोकयतीति च कृत्वा प्रमातृप्रमेयप्रमाणसंज्ञका वा | त्रिपदी सर्ववेदसारं गायत्रीछन्दः गायत्री छन्दसामहमिति स्मृतेः | सावित्र्याः पदत्रयं वा विष्णोः क्रमत्रयं वा इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् (ऋ० मं० १- tripuṣkaraṃ trīṇi tīrthāni bhāgīrathyādini | trayāṇāṃ devarṣipitṝṇāṃ puṣaṃ puṣṭiṃ tṛptiṃ karotīti tripuṣkaramupavītam | upavītinaiva hi devādayastarpyante anupavītino'dhikārābhāvāditi kecit | trīṇi puṣkarāṇyabjānyanāhatājñāsahasrārākhyāni vā | atho'nantaraṃ tribrahma trīṇi brahmāṇi tattvāni ātmāntarātmaparamātmasaṃjñakāni trirūpaṃ brahma praṇavo vā | prāguktāvṛttipakṣānāśrayaṇe tu trayo vedā ityarthāntaraṃ vedastattvaṃ tapo brahmeti kośāt | guṇabhedena traidhamāpannā vā prakṛtistribrahmapadenāmnātā | tathā trayo varṇāḥ kulasundarīvidyāgatāḥ p. 74) praṇavagatā vā anuttarecchonmeṣātmāno vā | taduktaṃ siddhātantre- sātra kuṇḍalinībījajīvabhūtācidātmikā | tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ ||
SK
इति | वर्णाः स्वरव्यञ्जनव्यापकात्मानो वा शुक्ललोहितकृष्णा विप्रक्षत्रियविशो वेति | तदेतावच्छ्लोकद्वयेन परदेवतायास्त्रिपुरसुन्दर्या वाच्यवाचकात्मकविश्वमयमपरं तत्कारणत्वेन तदुभयातिक्रान्तं विश्वोत्तीर्णं परं च स्वरूपं स्वच्छस्वतन्त्रसदोदितमहामन्त्रवीर्यसार- atheyatā prāguktagranthena śrīvidyābījataddevatāsevāphalādi nirūpyedānīṃ devyā vibhūtiviśeṣarūpāṇāṃ phalānurūpanāmāni tattatkāryārthibhiḥ smartavyānyabhīṣṭasiddhijanakabhajanakālaṃ ca nirdiśati- lakṣmīṃ rājakule jayāṃ raṇabhuvi kṣemaṅkarīmadhvani kravyādadvipasarpabhāji śavarīṃ kāntāradurge girau | bhūtapretapiśācajambhakabhaye smṛtvā mahābhairavīṃ vyāmohe tripurāṃ taranti vipadastārāṃ ca toyaplave || 17 || he bhagavatītyāmantraṇamanuṣañjanīyam | siddhalakṣmyādayo bahavo vibhūtirūpāḥ santi | atra tu lakṣmīśabdena rājyalakṣmīreva grāhyā rājakuletiprakaraṇāt | tena rājakule rājabhavanapraveśanādau tvāṃ rājyalakṣmīṃ smṛtvā tannāmādinā dhyātvā vipadastaranti rājaprasādāsāditadhanādisampattau dāridryānmucyante | atha ca tatra pīḍyamānāstadduḥkhānmuktā bhavanti | dhyānasya tu vidyājapasāhityapuraḥsaramuktatvāttadvidyoddhāro yathā kādimate (34 paṭale) mātaṅginyā dvitīyaṃ ca tṛtīyaṃ tadanantaram | p. 75) rasācarasvairambu syādvātāgnī tadanantaram || rājyade rājyalakṣmīti hṛnmāyāvyutkramāttrayam | vidyāsau rājyalakṣmyāstu ṣoḍaśārṇā samīritā || (ślo0 66-67) spaṣṭam- hrīṃ śrīṃ bleṃ a i rājyade rājyalakṣmi saḥ bleṃ śrīṃ hrīṃ iti | dhyātvā tāṃ vijayāṃ vidyāṃ japennityaṃ ca pūjayet | rājyaṃ prayacchati prītā sādhakāyāvilambitam || iti | atra tāṃ vijayāmiti vijayāsamānasvarūpāmityarthaḥ | tad dhyānaṃ tatraiva (15 paṭale)- pañcavaktrāṃ daśabhujāṃ prativaktraṃ trilocanām | bhāsvanmukuṭavinyastacandrarekhāvirājitām || sarvābharaṇasaṃyuktāṃ pītāmbarasamujjvalām | udyadbhāsvadbimbatulyadehakāntiṃ śucismitām ||
SK
शंखं पाशं खेटचापौ कल्हारं वामबाहुभिः | चक्रं तथाङ्कुशं खड्गं सायकं मातुलुङ्गकम् || दधानां दक्षिणैर्हस्तैरिति | रणभुवि समरक्षेत्रे प्रस्थिता रिपुसैन्यैरायोध्यमानत्वात्प्रबाध्यमाना जयां जयदुर्गाख्यां देवीं त्वां तन्नामादिना स्मृत्वा विपदः स्वपक्षविघातपराजयादिरूपास्तरन्ति रिपूञ्जयन्तीत्यर्थः | ॐ दुर्गे दुर्गे रक्षिणि स्वाहेति जयदुर्गाविद्या | ध्यानं यथा- कीलालाभां कटाक्षैररिकुलभयदां मौलिबद्धेण्दुखण्डां प्. ७६) शंखं चक्रं कृपाणं त्रिशिखमपिकरैरुद्वहन्तीं त्रिनेत्राम् | सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः || इति | यद्वैतद्भिन्नैव जयाख्या देवी | अस्या मन्त्रो मायासप्ताक्षरीमध्यगतैतन्नामात्मकः | ध्यानं तु प्रागुक्तविजयाध्यानसदृशं तदावरणशक्तिमध्यावस्थितत्वात् | आवरणशक्तौनामपि मूलदेव्या समानाकारत्वादिकमाम्नातम् | तदुक्तं तत्रैव- शक्तयश्चापि पूजायां सुखासनसमन्विताः | सर्वा देव्या समाकारमुखपाण्यायुधान्यपि ||
SK
इति | क्रव्यादद्विपसर्पभाज्यध्वनि क्रव्यादा आममांसभक्षिणो वृकव्याघ्रादयो द्विपा गजाः सर्पा भुजगास्तान् भजते इति तद्भाजि व्याघ्राद्युपप्लुतेऽरण्यादिमार्गे क्षेमङ्करीं तदाख्यां देवीं स्मृत्वा विपदस्तरन्ति सम्भाव्यमानतत्तदुपद्रवेभ्यो विमुच्यन्ते | अस्या अपि जयावन्मन्त्रध्याने बोद्धव्ये | कान्तारदुर्गे कान्तारं चौराद्युपद्रवोपेतमार्गस्तेन दुर्गे दुर्गेमे गिरौ हिमालयकैलासादौ यात्राप्रस्तायिनः शवरीं शवरीरूपिणीं तद्भयनिवारकत्त्वात्वां स्मृत्वा विपदस्तरन्ति पार्वतीयदुर्जन्तुविप्लवेभ्यो मुच्यन्ते | अस्या ध्यानादि स्वयमाचार्योऽग्रे चतुर्थे स्तवे वक्ष्यति वर्हावतंसेति | भूतप्रेतपिशाचजम्भकभये भूता शून्यकूपैकवृक्षचत्वरादिस्थानस्थाः देवयोनिविशेषा रुद्रपार्श्वदाः प्रेताः प्राणिविशेषाः पिशाचा श्मशानादिवासिन उल्कामुखाः जम्भो नाम दानवः स एव जम्भकः इवेप्रतिकृताविति कः | तेन जम्भका रक्षांसि पशुशोणिताद्याकर्षिणः शाकिन्यादिगणाश्च तेभ्यो भये त्रासे समुत्पद्यमाने तन्निमित्तं महाभैरवीं त्वां तद्रूपिणीं स्मृत्वा विपदो भूतादिमहाभीतीस्तरन्ति | आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति श्रुतेः (तैत्ति० २-४) | तदुक्तं वायुपुराणे- अरण्ये प्रान्तरे वापि जले वापि स्थलेऽपि वा | व्याघ्रकुम्भीरचौरेभ्यो भयस्थाने विशेषतः || प्. ७७) आधिष्वपि च सर्वेषु देवीनामानि कीर्तयेत् | इति | अस्या मन्त्रोद्धारो विद्यार्णवे ७ मे श्वासे- शिवचन्द्रौ वह्निसंस्थौ वाग्भवेन समन्वितौ | नादबिन्दुसुसंयुक्तं प्रथमं बीजमुद्धृतम् || लोपाया वाग्भवं कूटं द्वितीयं बीजमुद्धृतम् | शिवचन्द्रौ वह्निसंस्थौ मनुस्वरसमन्वितौ || तृतीयं बीजमाख्यातं बिन्दुनादकलान्वितम् || (१-२-३) स्पष्टम्- हस्रैं हसकलह्रीं हस्रौं इति | ध्यानम्- आताम्रार्कसहस्राभां लसच्चन्द्रजटास्फुरत् | किरीटरत्नविलसच्चित्रचित्रितमौक्तिकाम् || स्फुरद्रुधिरपङ्काढ्यमुण्डमालाविराजिताम् | नयनत्रयशोभाढ्यां पूर्णेन्दुवदनान्विताम् ||
SK
मुक्ताहारलताराजत्पीनोन्नतघटस्तनीम् | रक्ताम्बरपरीधानां यौवनोन्मत्तरूपिणीम् || पुस्तकं चाभयं वामे हक्षिणे चाक्षमालिकाम् | वरदानरतां नित्यां महाप्रेतासनस्थिताम् || इति | व्यामुह्यतेऽनेनेति व्यामोहो मायाशक्तिस्तस्या विमोहनस्वभावत्वात् तेन तत्कार्ये पूर्णचित्स्वभावाख्यात्यात्मावरणाभिभवेऽविद्यात्मनि | यद्वा व्यामोहनं व्यामोहः संकुचितप्रमातृगताख्यात्यात्मा मोहः | न खल्वयं कश्चिद्विवर्तवादिनामिवानिर्वाच्याकारोऽविद्यात्मा तस्या वस्तुत्वेनेयद्विश्ववैचित्र्यं प्रथयितुं शक्त्यसम्भवात् तत्सम्भवे वा पूर्णमेव वस्तुत्वं स्यान्नानिर्वाच्यत्वम् | नापि सांख्यानामिव रजस्तमोवृत्तिर्व्यामोहः जडत्वेन तस्य प्रवृत्तिवैचित्र्यानुपपत्तेः | तस्माद् दुर्घटघटनासंपादनरूपमीश्वरस्वातन्त्र्यमेतत् | प्. ७८) तस्मिन् व्यामोहेऽखण्डसंविन्मयपूर्णस्वरूपाख्यातौ मुमुक्षवस्त्रिपुरां बालात्रिपुरसुन्दरीं त्वां महासारस्वततत्त्वप्रकाशिनीं स्मृत्वा विपदो जन्मजरामरणाद्यावृत्तिपरम्परास्तरन्ति ताभ्यो विमुच्यन्ते | अपुनरावृत्तिं यान्तीत्यर्थः | न स पुनरावर्तते इति श्रुतेः (निरा० ३३) | यद्गत्वा न निवर्तन्ते ईति स्मृतेश्च (भ० गी० १५-६) | तन्मन्त्रादिकं तु ज्ञानार्णवे यथा- त्रिपुरा त्रिविधा देवि ! बालां तु प्रथमां श्रुणु | यया विज्ञातया देवि ! साक्षात्सुरगुरुप्रभः || सूर्यस्वरं समुच्चार्य बिन्दुनादकलात्मकम् | स्वरान्तं पृथिवीस्थं तु तुर्यस्वरसमन्वितम् || बिन्दुनादकलाक्रान्तं सर्गवान् भृगुरव्ययः | शक्रस्वरसमोपेतो विद्येयं त्र्यक्षरी मता || गङ्गातरङ्गकल्लोलवाग्गुम्फपददायिनी | महासौभाग्यजननी महासारस्वतप्रदा | इति | तथा- ध्यायेद्देवीं महेशानि ! कदम्बवनमध्यगाम् | रत्नमण्डपमध्ये तु महाकल्पवनान्तरे || मुक्तातपत्रच्छायायां रत्नसिंहासने स्थिताम् | पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् || वरदानरतां दिव्यां महासारस्वतप्रदाम् | इति | वामकेश्वरे तु- त्रिपुरा परमा शक्ति रित्यारभ्य (४-४) त्रिपुरा ख्यातिमागता ( ४-१६)
SK
इत्यन्तं परचिच्छक्तिस्वरूपायास्त्रिपुराभिधाया देव्याः सूक्ष्मध्यानमुक्तम् | तथा सिन्धुयात्रागामिनः तोयप्लवे तोये सलिले प्लवः प्लवनं निमज्जनं तत्र प्राप्ते यद्वा तोयस्थे प्लवे नौकायां वर्तमाना इत्येवं प्. ७९) सर्वत्र वा विशेषणतया योज्यम् | तारां ताराख्यां देवीं त्वां तथैव स्मृत्वा सिन्धुपारगामिनो विपदो वारिब्रुडनादिरूपास्तरन्ति पारगा भवन्तीत्यर्थः | तन्मन्त्रोद्धारो यथा मत्स्यसूक्ते- मायाबीजं समुद्धृत्य तकारं वह्निसंयुतम् | मायाबिन्दुस्वरयुतं द्वितीयं बीजमुद्धृतम् | कूर्चबीजं तृतीयं च फट्कारं तदनन्तरम् | सम्पूर्णं सिद्धमन्त्रं तु रश्मिपञ्चकसंयुतम् || इति | ध्यानं तु- ध्यायेत्कोटिदिवाकरद्युतिनिभां बालेन्दुयुक्शेखरां रक्ताङ्गीं रशनासुरक्तवसनां पूर्णेन्दुबिम्बाननाम् | पाशं कर्तृमहाङ्कुशादिदधतीं दोर्भिश्चतुर्भिर्युताम् नानाभूषणभूषितां भगवतीं तारां जगत्तारिणीम् || इति | एवं सप्तधा विपन्मोचनाय सप्तविभूतिरूपाणां देव्यन्तराणामुपास्त्योपासकानामसाधारणं फलमुक्तम् | वक्ष्यमाणमन्त्रपारायणक्रमवदेतासामपि जपप्रकारो बोद्धव्य इति | एवं साधकाशयभेदवैचित्र्यात् स्वस्वातन्त्र्येणाभासितानुग्राहिचित्राकृतिमत्त्वं परदेवतायाः कारुण्यादिति बोध्यम् | यदाहुः- येन येन हि रूपेण साधकः संस्मरेत् सदा | तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः || इति || १७ || अथ परदेवताया मन्त्रपारायणजपप्रकारगर्भितैर्विशिष्तनामभिः स्तुति कुर्वन्नाह- माया कुण्डलिनी क्रिया मधुमती काली कलामालिनी मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी | प्. ८०) शक्तिः शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी ह्रींकारी त्रिपुरा परापरमयी माता कुमारीत्यसि || १८ ||
SK
हे भगवतीति सम्बुध्यनुषङ्गः प्राग्वदस्य व्याख्या ज्ञेया | माया नाम चिद्रूपस्य भगवतः ब्रह्मणः शक्तिः | सा जडाजडात्मना द्विविधा | तत्राद्या विश्वस्य परिणाम्युपादानं विवर्तोपादानत्वं तु ब्रह्मणः | अतो मायाकार्यस्य विश्वस्य मायिकत्वाज्जडत्वमिथ्यात्वे स्तः | तदुक्तं भक्तिसूत्रेषु तच्छक्तिर्माया जडसामान्यादिति | अद्वैतश्रुतीनां तु पारमार्थिकतत्त्वैकत्वे तात्पर्यात् | सर्वं खल्विदं ब्रह्म (त्रि० म० ना० १-३) इत्यादिस्तु बाधासामानाधिकरण्यपरत्वात् | द्वितीया तु परब्रह्मणि नित्यसमवेता चिच्छक्तिरपरिच्छिन्नरूपत्वान्मायेत्युच्यते | परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेति (श्वेता० ६-८) | माया चाविद्य च स्वयमेव भवति (नृसिहो० ९-३) इत्यादि श्रुतेः | तदुक्तं श्रीतन्त्रालोके- माया च नाम देवस्य शक्तिरव्यतिरेकिणी | भेदावभासस्वातन्त्र्यं तथा हि स तया कृतः || आद्यो भेदावभासो यो विभागमनुपेयिवान् | गर्भीकृतानन्तभाविविभागा सा परा निशा || इति | कौर्मेऽपि- इयं सा परमा शक्तिर्मन्मयी ब्रह्मरूपिणी | माया मम प्रियानन्ता ययेदं मोहितं जगत् || अनयैतज्जगत्सर्वं सदेवासुरमानुषम् | मोहयामि द्विजश्रेष्ठाः सृजामि विसृजामि च || इति शिवोक्तेः | एवं विश्वस्य चिद्विलासत्वं सत्यतायां पर्यवस्यति | सर्वं ब्रह्म (महो० ५-११३) इत्यादि श्रुतीनां सामानाधिकरण्यस्यात्यन्ताभेद एव स्वारस्यात् | प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तो प्. ८१)
SK
विकल्प्यश्चेति तथा एकमेवाद्वितीयं ब्रह्म (त्रि० म० ता० ३-३) नेह नानास्ति किञ्चन (कठो० ४-११) इत्यादेर्भेदप्रथास्पदत्वौचित्यप्रत्याख्याने पर्यवसितत्वात् | आत्मकृतेः परिणमात् तदन्यत्वमारम्भणशब्दादिभ्यः इत्यादिवैयासिकसूत्राणामप्यस्मिन्नेवार्थे विश्रान्तेरित्ययं तान्त्रिकसंमतः पक्षः | माया नाम प्रधानं तच्च स्वतन्त्रमिति सांख्याः प्राहुः | वेदान्तिनस्तु शिवस्य सा शक्तिरेवेति | शक्तिरित्यनेन तु पारतन्त्र्यमुच्यते | एवमुक्तविधा माया त्वमसि | तथा कुण्डलिनी पुर्यष्टकप्राणितकल्पत्वात् पिण्डाण्डातर्वर्तिनी जीवनाख्या शक्तिः | तदुक्तं वासिष्ठे चूडालोपाख्याने- puryaṣṭakāparākhyasya manaso jīvanātmikām | viddhi kuṇḍalinīmantarāmodasyeva mañjarīm || iti | brahmāṇḍe'pi- mahāśaktiḥ kuṇḍalinī bisatantutanīyasīti | tatsvarūpādivivaraṇaṃ tu śrītantrarāje- mūlādhārasthavahnyātmatejomadhye vyavasthitā | jīvaśaktiḥ kuṇḍalākhyā prāṇākārātha [prāṇākāreṇa tena sā] taijasī || prasuptabhujagākārā trirāvartā mahādyutiḥ | māyāśīrṣā nadantīṃ tāmuccaratyaniśaṃ khage [svage iti pāṭhāntarāṇi (ārthara evalāna sampādite)] || suṣumnāmadhyadeśe sā yadā karṇadvayasya tu | pidhāya na śṛṇotyenaṃ dhvaniṃ tasya tadā mṛtiḥ || (pa0 30 ślo0 64- इत्यादि | एतत्प्राग्विस्तरेण प्रपञ्चितम् | कुण्डले कर्णाभरणे अर्केन्दुमण्डलात्मके विद्येते अस्या इति वा कुण्डलिनी | प्. ८२) तदुक्तं ब्रह्माण्डे- ताटङ्कयुगलीभूततपनोडुपमण्डला | इति | तथान्यत्र- सूर्यचन्द्रौ स्तनौ देव्यास्तावेव नयने स्मृतौ | उभौ ताटङ्कयुगलमित्येषा वैदिकी श्रुतिः || इति | तथा क्रिया चित्स्वभावस्य परमेश्वरस्य स्पन्दतत्त्वात्मिका पराभट्टारिकाख्या शक्तिरेव विश्ववैचित्र्यावभासनकारित्वेन क्रियाशक्तिरित्युच्यते | सर्वाकारयोगित्वं क्रियाशक्तिरिति ह्याचार्याः या परिमितप्रमातृणां तथात्वेन प्रत्यभिज्ञानाप्रत्यभिज्ञानाभ्यां बन्धमुक्ती विदधाति | तदुक्तं स्पन्दे-
SK
सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका || (४ नि० २८ का०) इति | मालिनीवार्तिकेऽपि- क्रिया हि नाम नास्माकमन्या शक्तिस्त्वसौ यतः | शक्तिश्च फलभित् कॢप्त्या भावात्मैव विभेदतः || सा च शक्तिर्विभोरेव स च विश्वात्मविग्रहः | फलकारकभेदेन न भिन्नः परमार्थतः || स्वात्मन्यभिन्नेऽपि विभोरेवं भेदावभासनात् | क्रिया शक्तिरिति प्रोक्ता यया कर्ता महेश्वरः || (प्र० का० ३०५ ३०६ ३०७ ३०८) इति | अथ च- हस्तमुत्क्षिपत्यपक्षिपतीति पूर्वोत्तरीभूतसक्रमव्यापारक्षणलक्षणा क्रिया तस्याः केचित्प्रत्यक्षग्राह्यतामिच्छन्ति काणादवत् | यदाहुः- यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते | आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते || प्. ८३) इति | तथा- गुणभूतैरवयवैः समूहः क्रमजन्मनाम् | बुध्या प्रकल्पिताभेदः क्रियेत्यभिधीयते || इति | अन्ये तु हस्तगतोत्क्षेपणादिति व्यपदिश्यते रूपभेदसंपादनात्संयोगविभागनिमित्तभूतातीन्द्रिया शक्तिरूपा क्रियेति प्रतिपन्नास्तस्या अनुमेयतामिच्छन्ति इत्युक्तरूपायाः क्रियाया लौकिक्या वेद्यभागे कालावच्छिन्नत्वात्सक्रमत्वम् | या तु पारमेश्वरी तदव्यतिरिक्ता स्पन्दात्मा लौकिकीक्रियाशक्तिस्तस्याः कालकृतविच्छेदाभासासंभवात् सक्रमत्वं नोपपद्यते | तदुक्तम्- सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः | घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव || इति | वस्तुतस्त्वान्तरी स्पन्दशक्तिरेव बाह्यपर्यन्तं स्फुरित्वा क्रियेत्युच्यते | तत्पल्लवभूतत्वादशेषबाह्यस्पन्दानामिति | तदुक्तं मालिनीविजये- एवंभूतमिदं वस्तु भवत्विति यदा पुनः | ज्ञात्वा [जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रियोच्यते (मु० पु० पाठः)] तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते || (७ ८ श्लो०)
SK
इत्येवं क्रमाक्रमवत्त्वेन द्विधा क्रिया तद्रपा त्वमसि | तथा मधु मद्यं पुष्परसः क्षौद्रं वा यागार्चनादिसमये निवेद्यं विद्यतेऽस्या इति मधुमती | महत्यै वा एतद्देवतायै रूपं यन्मधु इति श्रुतेः यन्मधुनाजुहोति महतीमेव तद्देवतां प्रीणातीति च श्रुतेः प्रीणयतीत्यर्थः एतेन मधुपानानन्दिता काकिन्यम्बास्वरूपेत्युक्तं भवति | तदुक्तम्- स्वाधिष्ठानाख्यपद्मे रसदललसिते वेदवक्त्रां त्रिनेत्रां हस्ताभ्यां धारयन्तीं त्रिशिखगुणकपालाभयान्यात्तगर्वाम् | प्. ८४) मेदोधातुप्रतिष्ठामलिमदमुदितां बन्धिनीमुख्ययुक्तां पीतां दध्योदनेष्टामभिमतफलदां काकिनीं भावयामः || इति | ब्रह्माण्डेऽपि- मेदोनिष्ठा मधुप्रीता इत्यादि काकिनीरूपधारिणी इत्यन्तम् | यद्वा मधु समस्तानन्दरसविशेषणां सामरस्यानन्दरसात्मकमस्या अस्तीति मधुमती जगदानन्दभूमिकात्मा रसो वै सः रसमेव हि लब्ध्वानन्दी भवतीति श्रुतेः (तैत्ति० २-७) एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेश्च (बृह० ४-३-३२) | यद्वा आदित्यो वै देवमधु इत्यादिश्रुतौ विहिता मधुमत्याख्यविद्याविशेषरूपा अथ च चतुर्धा योगिषु चतुर्थस्य सप्तभूमिका अतिक्रमणीया योगशास्त्रे प्रसिद्धाः | तासु सप्तमी भूमिका मधुमतीत्युच्यते | यदाहुः तत्र मधुमती नाम अभ्यासवैराग्यादिवशादपास्ततमोलेशसुखप्रकाशमयसत्त्व- samādhisiddhiḥ | taduktam- ṛtaṃbharā tatra prajñā iti tasyāṃ bhūmikāyāṃ hi yajjñānamutpadyate tadeva tārakaṃ tataḥ saṃsāratārikā iti yāvat | tantraprasiddhā madhumatīvidyā vā | taduddhāro yathā śrīvidyārṇave- mādanaṃ śivabījaṃ ca vāyubījaṃ tataḥ param | indrabījaṃ tataḥ paścānmahāmāyāṃ samuddharet ||
SK
इयं मधुमती विद्येति मधुमती नदीविशेषा काश्मीरेषु शारदापीठे (क्षेत्रे) प्रसिद्धा वा तपेत्यद्रूर्थः | कालीतिपरास्वातन्त्र्यशक्तिरूपा संविद्देव्येव असंख्येयविश्वशक्तीनां तत्तद्रूपतया कलनात् सृष्ट्यादिदेवीनां वा पञ्चधा कलनां विदधाना कालीशब्दव्यपदेश्या | तदुक्तं क्रमनयसाम्राज्यशालिभिः श्रीमदभिनवगुप्तपादैः- क्षेपो ज्ञानं च संख्यानं गतिर्नाद इति क्रमात् | स्वात्मनो भेदनं क्षेपः इत्यारभ्य प्. ८५) इति पञ्चविधामेनां कलनां कुर्वती परा | देवी काली तथा कालकर्षिनी चेति कथ्यते || इति | तद्गुरुभिरपि श्रीभूतिराजैः- क्षेपाज्ज्ञानाच्च काली कलनवशतया इति | अथ च मृत्युमपि या कलयति सा काली | मृत्युर्यस्योपसेचनमिति श्रुतेः | यदाह कालिदासः- एतदम्ब सदिदं तु नेति नः शङ्कया हृदि विकल्पलक्षणः | यो यमः स खलु काल्यते त्वया भूतसंयमनकेलिकोविदः || इति | आगमेऽपि- सैव काली महादेवी गीयते लोकवेदयोः | इतिहासेषु तन्त्रेषु सिद्धान्तेषु कुलेषु च || इति | दारुकासुरवधार्थं शिवेन निर्मिता काली तद्रूपा वा या दारुकं निहत्य शान्तेन क्रोधाग्निना त्रैलोक्यं क्षोभयामास | तत्क्रोधनिरासाय शिवो बालो भूत्वारोदीत् | तं बालं सा स्वस्तनावपाययत् | स तस्याः पयोद्वारा कोपाग्निमपि पपौ ततः सा शान्ताऽभूदिति लैङ्गे प्रसिद्धम् | तथा कलेति हकारार्धार्धरूपामाख्या सप्तदशी कला या पुरुषे षोडशकले तामाहुरमृतां कलामि त्याद्युक्तेः षोडशानामन्तः करणप्रभृतीनामपि कलानामाप्यायनकारिणी अनस्तमितरूपा | तदुक्तम्- कला सप्तदशी तस्मादमृताकाररूपिणी | परापरस्वस्वरूपबिन्दुगत्या विसर्पिता || इति | अथ च बैन्दवी कला | तदुक्तम्- ऊर्ध्वे तु संस्थिता सृष्टिः परमानन्ददायिनी | पीयूषवृष्टिं वर्षन्ती बैन्दवी परमा कला || प्. ८६) बृहत्पाराशरस्मृतौ तु- दशपञ्चांगुलव्याप्तं नासिकाया बहिः स्थितम् | जीवो यत्र विशुद्ध्येत सा कला षोडशी स्मृता ||
SK
आत्मैवास्य षोडशी कलेति बृहदारण्यकोक्तेश्च | एतदग्रेऽपि विस्तृत्य निरूपयिष्यते | व्योमस्था शान्त्यतीताख्या कला वा मोक्षसुखानुभवजनकत्वात् तदुक्तं शैवागमे- शान्त्यतीताकलाद्वैतनिर्वाणानन्दबोधदा इति | तथ मालिनी बीजयोनिसंघट्टात्मकनादिफान्तमन्त्रविशेषाभिमानिनी देवता | अथ च रुद्रशक्तिमालास्त्यस्या इति मालिनी मुख्यं शाक्तं स्वरूपम् | बीजयोनिसमापत्तिविसर्गोदयसुन्दरा | मालिनी हि पराशक्तिर्निर्णीता विश्वरूपिणी || इति तथा- यत्सारमस्य जगतः सा शक्तिर्मालिनी परा इत्युक्त्या परविमर्शशक्तिरूपेत्यर्थः | असौ सर्वसिद्धिवितरणक्षमा चेति | तदुक्तं श्रीतन्त्रालोके- अन्योन्यबीजयोनीनां क्षोभाद्वैसर्गिकोदयात् | कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत् || इति | यद्वा देव्याः सखी मालिनी तद्रूपा वा | यदुक्तं वामनपुराणे पार्वतीविवाहप्रकरणे सप्तपदीक्रमणं प्रकृत्य- ततो हराङ्घ्रिमालिन्या गृहीतो दायकारणात् | किं याचसे ददाम्येष मुञ्चस्वेति हरोऽब्रवीत् || मालिनी शंकरं प्राह मत्सख्यै देहि शंकर | सौभाग्यं निजगोत्रीयं ततो मोक्षमवाप्स्यसि || अथोवाच महादेवो दत्तं मालिनि मुञ्च माम् | प्. ८७) इति | मालिनी मन्दाकिनीरूपा वा | मन्दाकिन्यां च मालिनीति विश्वः | यद्वा मालिन्यन्तर्दशारचक्राभिमानिनी देवता त्रिपुरमालिनीत्यर्थः | तथा मातङ्गी मातङ्गीशक्तिरूपा सर्वज्ञस्य मतङ्गमुनेरपत्यतामाप्ता महादेव्यवतारस्वरूपा यां प्रियां त्रिपुराञ्जेतुकामो भगवाञ्छम्भुर्यागार्थं वव्रे इति श्रूयते किल | तदुक्तं ब्रह्मयामले- asmin sarvajñakalpo'sau mataṅgo munipuṃgavaḥ | varṣāṇāmayutaṃ vatsa ! tapa ugraṃ cacāra ha || tena prītā mahādevī devānāṃ hitakāriṇī | varaṃ vṛṇīṣva bhagavan dāsyāmi tava vāñchitam || tacchrutvā dvijavaryastāṃ yayāce dharmasādhanam | he devi ! jagatāṃ mātaḥ ! prītā cedyadi sāmpratam || apatyatāṃ samāsādya matkulālambanaṃ kuru | ityabhyarthya muniśreṣṭho janayāmāsa tāṃ sutām ||
SK
श्यामलां चारुवदनां वीणाशुकसमन्विताम् | शारिकां ज्ञानसम्पन्नां जपमालां कराम्बुजैः || धारयन्तीं विशालाक्षीं शंखताटङ्कशोभिनीम् | सा बभूव महादेवी मतङ्गकुलनन्दिनी || मातङ्गीति सदा देवी विख्याता वरदायिनी | इत्यादि | यस्या मन्त्रजपादिसेवनात् काव्यादिसंगीतकलासु नैपुण्यमुत्पद्यते | यदुक्तम्- समस्तेष्वपि शास्त्रेषु पाण्डित्यमधिकं भवेत् | विशिष्टशिष्टगम्भीरपदविन्यासकोमले || ललिते च कवित्वेऽसौ प्रगल्भः सुतरां भवेत् | संगीते सर्वविद्यासु चात्यन्तं निपुणो भवेत् || इति | तथा विजयेति महादेवी यदा पद्मनामकं दैत्यानां राजानं विजिग्ये तदा विजयेत्याख्यया ख्यातिं जगाम | तदुक्तं देवीपुराणे- प्. ८८) विजित्य पद्मनामानं दैत्यराजं महाबलम् | त्रिषु लोकेषु विख्याता विजया चापराजिता || इति | यद्वा विशिष्टो जयो ब्रह्मादिकारणमालापेक्षया यस्याः सा | अथ च विशिष्टो जय इन्द्रियवृत्तिनिरोधाख्यो यया सा संविद्रूपा | यद्वा विशिष्टजयदायित्वाद्विजयाख्यमुहूर्तकालस्वरूपा | तदुक्तं चिन्तामणौ- आश्विनस्य सिते पक्षे दशम्यां तारकोदये | स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धिदः || इति | रत्नकोशे तु- ईषत्सन्ध्यामतिक्रान्तः किञ्चिदुन्निद्रतारकः | विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः || एकादशो मुहूर्तो यो विजयः परिकीर्तितः | तस्मिन् यात्रा विधातव्या सर्वैर्विजयकांक्षिभिः ||
SK
इति | किं च नित्याविद्यासु त्रयोदशी विजया नित्याविद्यास्वरूपा वा तद्ध्यानार्चनयन्त्रादिविनियोगाः श्रीतन्त्रराजे (१८ पटले) दृष्टव्याः | तथा जया कर्माकर्मतत्परिणामादिषु जयोऽस्त्यस्या इत्यर्शाद्यचि टाप् तद्विनिर्मुक्तेत्यर्थः | एष नित्यो महिमा ब्रह्मणस्य न कर्मणा वर्धते नो कनीयान् इति काठकश्रुतेः | स न साधुना कर्मणा भूयान् नो वासाधुना कनीयानिति वाजसनेयश्रुतेश्च (बृह० ४-४-२२) | न मां कर्माणि लिम्पन्तीति स्मृतेश्च (भ० गी० ४-१४) | अर्थान्तराणि प्राग्व्याख्यातानि | भगवती देवीत्येतदपि व्याख्यातचरम् | तथा शिवं सुखं पूर्णानन्दात्मकमस्त्यस्या इति शिवा एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः (बृह० ४-३-३२) | तुरीयसंविद्रूपा वा प्रमाणादित्रयस्य शाक्तस्फारानुसंधानेन चमत्करणात् | शिवं चतुर्थमद्वैतं मन्यन्ते स आत्मेति श्रुतेः त्रितयभोक्ता वीरेशः इति शिवसूत्रोक्तेश्च (१-११) | तदुक्तम्- प्. ८९) त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः | वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते || इति च | यद्वोपायोपेययोरभेदोपचारात्कामेश्वराख्य- spandena labhyate vāyurvahnirauṣṇyena labhyate | cinmātramamalaṃ śāntaṃ śiva ityuditaṃ tu yat || yatspandamayaśaktyaiva lakṣyate nānyathā kila | iti | vijñānabhairave'pi- śaivī mukhamihocyate | (20 ślo0) yathālokena dīpasya kiraṇairbhāskarasya vā | jñāyate digvibhāgādi tadvacchaktyā śivaḥ priye || (21 ślo0) iti | śivādavyatiriktasvabhāvā vā śivā | taduktam- cinmātrāśrayamāyāyāḥ śaktyākāre dvijottamāḥ | anupraviṣṭā yā saṃvinnirvikalpā svayamprabhā || sadākārā parānandā saṃsārocchedakariṇī | sā śivā paramādevī śivābhinnā śivaṅkarī || ityagre'pi vistaraśo nirūpayiṣyate etat | tathā śambhoriyaṃ śāmbhavī śivāvasthā sā hi samastabhedātmakamāyīyakṣobhaprasarapraśāntyā cidātmakaparānandocchalattārūpā khecarī daśā | taduktaṃ śivasūtreṣu- vidyāsamutthāne svābhāvike khecarī śivāvasthā | (2-5)
SK
इति | तन्त्रसद्भावेऽपि- परां गतिमेत्यर्थभावेन कुलमार्गेण नित्यशः | चरते सर्वजन्तूनां खेचरी नाम सा स्मृता || इति | अन्यत्रापि- उद्यन्तृताबलेन तु विकासवृत्त्या स्वरूपगस्तिष्ठेत् | स्वयमुपसृतेन्द्रियार्थानश्नन्नानन्दभूमिगो योगी || प्. ९०) एषोच्छृंखलरूपा विकस्वरतरा प्रभुद्धबुद्धीनाम् | सिद्धाः स्थिताः सदास्यां ह्यानन्दरताः पराच मुद्रैषा || इति | अपरा तु व्यापिन्यादिसंस्थानविशेषानुसरणेनानुभूयमानामितयोगिगम्या | तदुक्तम्- बद्धपद्मासनो योगी नाभावक्षेश्वरं न्यसेत् | दण्डाकारं तु तावत्तन्नयेद्यावत् कखत्रयम् || निगृह्य तत्र तत्तूर्णं प्रेरयेत् ख त्रयेण तु | एतां बद्ध्वा महायोगी खे गतिं प्रतिपद्यते || इति | अथ च शम्भोः स्वात्माभिन्नानुत्तरसंवित्प्रकाशात्मन इयं तत्परिज्ञानोपायात्मिका शक्तिः शाम्भवी श्रीपादुकाभिधा | यदुक्तमभियुक्तैः- परापरात्मनः स्वात्मनः परानन्दमयी स्वव्यतिरेककवलनोद्युक्ता पराशक्तिः पादुकेति गीयते | यद्वा ज्ञानादिशक्तीनां तुलापुटन्यायेनात्यन्तं वैषम्यवैधुर्यशालिनी यावस्था सा सांख्यादिसिद्धान्तिदुर्गम्या प्रकृतितत्त्वाख्या शाम्भवी शक्तिः | तदुक्तम्- jñānakriyāmāyānāṃ guṇānāṃ sattvarajastamaḥ svabhāvānām | avibhāgāvasthāyāṃ tattvaṃ prakṛtiriti śāmbhavī śaktiḥ || śāmbhavānāmiyaṃ mātā vā śāmbhavīmudrāviśeṣarūpā | tallakṣaṇaṃ tu- antarlakṣyaṃ bahirdṛṣṭirnimeṣonmeṣavarjitā | eṣāsau śāmbhavīmudrā sarvatantreṣu gopitā || iti | dīkṣāviśeṣarūpā vā | etasyā arthāntarāṇi vitaniṣyante'gre | tathā śaktiḥ kāmeśvaryābhikhyā svātantryākhyā vā upādānādikārakapāratantrya- पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे | प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम् || प्. ९१)
SK
इति चिदादिपञ्चशक्तीनां समष्टिरूपा वा | यद्वा परादीनां शक्तीनां तिसृणां स्वान्तः क्रोडीकृत्यानुसन्धानात्मना या ग्रसते सा श्रीपरैव काचिच्छक्तिः श्रीमातृसद्भावकालकर्षिण्यादिशब्दान्तरव्यपदेश्या | ताश्च तिस्रो यथा | यदाहुराचार्यामिनवगुप्तपादाः- ८८०८९३२२१६ ययेदं शिवादिधरण्यन्तमविकल्पसंविन्मात्ररूपतया बिभर्ति च पश्यति च भासयति च परमेश्वरः सास्य श्रीपराशक्तिः | यया च दर्पणहस्त्यादिवद्भेदाभेदाभ्यां सास्य श्री परापरशक्तिः | यया परस्परवैविक्त्येन सास्य श्रीमदपराशक्तिरिति | अथ च शक्तिर्देवीपरिनिष्ठिता महिमाशक्तिर्ययेदं ब्रह्माण्डानां चक्रं सृष्टिस्थित्यादिरूपैरविश्रान्तं परिभ्राम्यते | तथा हि श्रुतिः- स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः | देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् || (श्वेताश्व० ६-१) इति | स्मृतिश्च- भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया (भ० गी० १८-६१) इति तथा शङ्करवल्लभेति करोतीति करः पचाद्यच् कृञो हेतुः इति वा टः शं सुखं तस्य करः | शमभयात्मकं करे यस्येति वा शमित्यानन्दः हस्तः शक्तिः प्रकीर्तितः इति शैवसमयोक्तेः | करे विसिसृक्षात्मन्यानन्दशक्तौ यस्येति वा | यदुक्तम्- आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते | इति | शंकरः कामेश्वरस्तस्य वल्लभा प्रेयसी | एतेन प्रकाशैकात्मनः परमशिवस्य विमर्शप्राणितत्वेन शक्त्यधीनात्मलाभकत्वाद् धर्मिण एव धर्माधीनत्वं नेयं गुणभूतेति ज्ञेयम् | अत एव तस्यां पराहन्तात्मासाधारणधर्मत्वेन धर्मत्वमात्रं कल्पितं न तु सा कल्पिता तस्मात्सा ब्रह्मकोटिरिति गीयते | तदुक्तम्- प्. ९२) नित्यं वसति तत्रापि पार्वत्या सह नर्मकृत् | मध्ये देवीगृहं तत्र तदधीनस्तु शंकरः || इति | अथ च शंकरो वल्लभः पतिर्यस्याः सा स्वाराज्यसिद्धौ कृताभिषेकत्वात्तन्महिषीत्यर्थः | तदुक्तं ब्रह्माण्डे- महाकामेशमहिषी महात्रिपुरसुन्दरी
SK
इति | एवमप्युभयथावृत्त्या च परस्पराधीनवृत्तित्वं तयोरैकात्म्ये पर्यवसितमित्यर्थः | तदुक्तं तत्रैव- ईशान्यां नाटके शैले शङ्करस्य सदाश्रयम् | नित्यं वसति तत्रेशस्तदधीना तु पार्वती || यद्वा शंकरो विद्यते स्वामित्वेन येषां ते शंकरवन्तो माहेश्वरास्तैर्लभ्यते इति लभा कर्मणि घः | तैः प्राप्या एतेन शंकरभक्तिमद्भिरेव ज्ञेयेति | तथाहि स्मृतिः- भक्त्या त्वनन्यया शक्योऽहमेवंविधोऽर्जुन ! | ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप || भ० गी० ११-५४) इति | श्रुतिश्च- ब्रह्मसंस्थोऽमृतत्वमेतीति | (छां० २-२३-१) | तथा त्रिनयनेति त्रीणि नयनानि मूर्तिप्रकाशानन्दचक्राणि परमोपासनाप्रकारसाधनानि यस्याः सा | तदुक्तं महाप्रकाशान्तेवासिभिः- श्रीपीठपञ्चवाहनेत्रत्रयवृन्दचक्राणि स्मरत | स्मरत च गुरूणां पंक्तिं पञ्च च शक्तीः सृष्टिप्रमुखाः || इति | असौ त्रिविधोपास्तिक्रमः परशक्तिपातानुविद्धहृदयैः सद्गुरुसपर्ययैव लभ्य इति रहस्यत्वान्नास्माभिरुन्मील्यते | त्रीण्यग्न्यर्केन्दुरूपाणि प्. ९३) नयनानि नेत्राणि यस्या वा | अथ च त्रीन्समावेशोपायाञ्छाम्भवादीञ्छक्तिपातवैचित्र्येणानुग्राह्यान्नयतीति वा | तदुक्तमभिनवगुप्तपादैः- तदेवं तत्त्वरूपेऽस्मिन्विचित्रे प्रविविक्षताम् | उपायभेदात्त्रैविध्यं समावेशेषु वर्णितम् || औन्पायः शाम्भवोऽसौ चिदुपायस्ततः परम् | जडोपायस्त्वाणवः स्यात्स चापि बहुधामतः || इति | यद्वा नयति प्रापयति प्रमामिति व्युत्पत्तेर्नयनशब्दस्य प्रमाणपरत्वात् त्रीणि प्रमाणानि शब्दलिङ्गाध्यक्षात्मकानि यस्यां सा | तद्विषयिकप्रमाजनने त्रिधा प्रमाणोपयोगसम्भवात् | तत्रागमजन्यं ज्ञानं शाब्दं तस्य श्रवणात्मकत्वात् | लिङ्गजन्यं यौक्तिकं त्वानुमानिकं तस्य मननात्मकत्वात् | स्वानुभवजन्यमध्यक्षं तस्य निदिध्यासनात्मकत्वात् | एतेषां त्रयाणां स्वात्मदर्शनसाधनत्वमाम्नायते | आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इति श्रुतेः | (बृह० २ ४ ५) |
SK
तथा च योगसूत्रम्- प्रत्यक्षानुमानागमाः प्रमाणानीति | सांख्यसूत्रमपि- त्रिविधं प्रमाणमिति | अथ च तिस्रः इच्छादिशक्तयः परापरादिशक्तयो वा वामादयो वा भारत्यादयो वा प्रमाणानि विश्वव्यवहारसंपादनसाधनानि यस्या इति वा | त्रीन् मार्गान्दक्षिणोत्तरब्रह्माभिधान् नयत्यधिकारिणः प्रापयतीति वा | तदुक्तं देवीपुराणे- दक्षिणं चोत्तरं लोकं तथा ब्रह्मायणं परम् | नयं सन्मार्गवर्गं च नेत्री त्रिनयना मता || इति | उत्तरत्रापीमे मार्गा निरूपयिष्यन्ते | वौषडिति मन्त्रस्य त्रिनयनेति संज्ञा तद्रूपा वा | एतदत्रैव मन्त्रपरायणार्थविवरणे दर्शयिष्यते | तथा वाचं सरस्वतीं तदुपलक्षितां कवित्वशक्तिं वदति निर्मिणोति सृजतीति | वदन्तीमन्तर्यामिभावेन प्रेरयतीति वा वाग्वादिनी | प्. ९४) वाचि रहस्यागमरूपायामुपनिषदि वा वदते भासते इति वा तद्विषयकाध्यात्मज्ञानज्ञेयेत्यर्थः | अत्राभासनार्थवृत्तिना वदतिनात्मनेपदान्तविग्रहवाक्यमेवमर्थगमकमिति ज्ञेयम् | तथा च ब्रह्मसूत्रम्- शास्त्रयोनित्वादिति | सर्वे वेदा यत्पदमामनन्तीति श्रुतेः (कठो० २- yadvā vāco vedādyātmikā vadatīti vā | tadetanmahatobhūtasya niḥśvasitaṃ yadṛgvedo yajurvedaḥ sāmaveda ityādiśruteḥ | yasya niśvasitaṃ vedā iti ca | taduktaṃ brahmāṇḍe- niḥśvāsa mārutairvedānṛcaṃ sāmayajustathā | ātharvaṇamahāmantrānabhimānena cāsṛjat || kāvyanāṭyādyalaṅkārānasṛjanmadhuroktibhiḥ |
SK
इत्यादि | अर्थान्तराणि पूर्वं व्याख्यातानि | तथा भैरवा वटुकादयोभीरूणां समूहो वा | तेषामियमाराध्येति सामान्यसम्बन्धमात्रवाचिन्यणि भैरवी | भ्रियात्सर्वं रवयति सर्वदो व्यापकोऽखिले | इति भैरवीशब्दस्य सन्ततोच्चारणाच्छिवः | इति विज्ञानभैरवोक्तनीत्या भरणरवणवमनकारित्वात् सृष्ट्यादिकृत्यकारी परमशिवस्तस्येयमिति विभूतिसम्बन्धिनीस्त्री वा | त्रिपुराम्बाचक्रेश्वरीविद्यायां मध्यकूटे रेफनिष्कासे तस्या भैरवीति संज्ञा तद्विद्यात्मिका वा | द्वादशाब्दा तु भैरवीति धौम्योक्तेर्द्वादशवर्षकन्यारूपा वा | अथ च उद्यमो भैरवः (१-५) | इच्छाशक्तिरुमा कुमारी (१-१३) | इति शिवसूत्रोक्तनीत्या परप्रतिभोन्मज्जनात्मकोद्यन्तृतास्वभावत्वेनाखिलशक्तिसामरस्याद्- tadvārtike- yo'yaṃ vimarśarūpāyāḥ prasarantyāḥ svasaṃvidaḥ | jhaṭityucchalanākārapratibhonmajjanātmakaḥ || udyamo'ntaḥ parispandaḥ pūrṇāhaṃbhāvanātmakaḥ | sa eva sarvaśaktīnāṃ sāmarasyādaśeṣataḥ || p. 95) viśvato bharitatvena vikalpānāṃ vibhedinām | alaṃ kavalanenāpītyanvarthādeva bhairavaḥ || ya'yamuktaḥ svasaṃvitterudyogo bhairavātmakaḥ | asyāsti mahatī śaktiratikrāntakramākramā || ityādi | tathā- īdṛgvismayavadyogabhūmikārūḍhacetasaḥ | parabhairavatāṃ yuktyābhyasamānasya śāśvatī || tasyaiva yogino yecchā śaktiḥ saiva bhavatyumā | parā bhaṭṭārikā saiva || ityādi | tathā- tattve tattve svecchayā devadevaḥ sarvāṃ sarvāṃ bhūmimālambamānaḥ | pūrṇaikātmā pūrṇasaṃvitsvarūpaḥ śrīmān śāstre bhairavo'sau niruktaḥ || ityādi | arthāntaranirvacanānyagre yathāvasaraṃ vivariṣyante | ekatraiva teṣāṃ samuccayād granthavistaro virasāvahaḥ prasajyeta | evamatra bhairavīśabdena mahatī śāktabhūmiḥ parāmṛṣṭeti sahṛdayā vicinvīyuḥ | hrīṃkārīti svarāderākṛtigaṇatvād hrīmityasyāvyayatvam | asyārthastu kādimate bhagavatātirahasyatvād vyākulākṣaraślokena prakāśitaḥ | yathā-
SK
त्वं कामाम्ना न प्रशव्यो नानमसग्निमात्वग्ररोम ईयो कार्विर्शतनंतफान्मुलनान्निवि इति | अत्राद्येन व्योमाक्षरेण परप्रकाशात्मनः परशिवस्येतरप्रकाशनैरपेक्ष्येण प्रस्फुरद्रूपत्वं | द्वितीयेनाग्न्यक्षरेण स्वस्वातन्त्र्यान्मुकुरप्रतिबिम्बवत्स्वान्तरवभासितस्य विश्वस्य स्वात्मसात्कारित्वम् तुर्यस्वरेण प्. ९६) शिवशक्तिसंमेलनात्मकसंघट्टीभावपरामर्शनं बिन्दुनाविभागप्रकाशात्मना तयोरैक्यप्रतीतिः पारमार्थ्यनिर्णीतिश्चाविधीयते इत्येवमर्थपरत्वेन सृष्टिस्थितिसंहारेषु स्वातन्त्र्यं पर्यवस्यति | तान्करोतीति ह्रींकारी | कर्मण्यण् | अणन्तात् ङीप् | यद्वा ह्रीं लज्जां करोतीति वा अथवा ह्रीमिति हृल्लेखाबीजं वर्णात्कारप्रत्ययः | गौरादेराकृतिगणत्वात् ङीप् | भुवनेश्वरीबीजस्वरूपेत्यर्थः | त्रिपुरेति त्रयाणां मातृमानमेयानामात्मादितत्त्वानां वा पुरं नगरी तदात्मिका | यद्वा त्रीणि विद्याकूटानि पुरं यस्यास्त्रिकूटात्मविद्याश्रयेत्यर्थः | अथवा त्रीन् प्रत्यक्षानुमानागमान् प्रमाणाभिधान् पुरत्यग्रतो गच्छति तदविषयत्वादिति वा तौदादिकस्य पुरधातो रूपम् | मूलविभुजादेराकृतिगणत्वात्क प्रत्ययः | तदुक्तम्- स्वपदा स्वशिरच्छायां यद्वल्लङ्घितुमीहते | पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला ||
SK
इति | विज्ञातारमरे केन विजानीयादिति श्रुतिः (बृ० उ० २-४-१४) | परापरमयीति विप्राः क्षोणिभुजो इति श्लोके व्याख्यातम् | अथ च परापरं स्वातन्त्र्यमनन्यमुखप्रेक्षित्वात्मकम् | तद्धि सदाशिवादिभूमौ पश्यन्तीदशायामिदन्ताप्रत्यवमर्शस्य ध्यामलाध्यामलत्वेनोद्बोधमात्रत्वेऽपि अहंभावविश्रान्तिकं तन्मयीत्यर्थः | यद्वा परमेश्वरस्य पराद्यास्तिस्रः शक्तयो यः सकलादिप्रमातृसप्तकभावस्फुरणदशायां त्रिधा मातृमानमेयभावमाश्रयन्ते तत्र परांशस्य प्रमेयत्वं व्यवस्थापितम् | तेषु यत्परापरसंज्ञकं प्रमाणं तत्सप्तविधेषु प्रमातृषु स्वस्वौचित्येन ज्ञानक्रिययोः साधकतमं करणं शक्तिरित्युच्यते | तयैव सर्वप्रमातृणां ज्ञत्वकर्तृत्वसयोजवियोजनानुसंधानादिस्वातन्त्र्यलाभः | तद्रूपा त्वमसि | तदुक्तं श्रीतन्त्रालोके- तथाहि तिस्रो देवस्य शक्तयो वर्णिताः पुरा | ता एव मातृमामेय त्रैरूप्येण व्यवस्थिताः || परांशो मातृरूपोऽत्र प्रमाणांशः परापरः | मेयोऽपरः शक्तिमांश्च शक्तिः स्वं रूपमित्यदः || (तं० १० ७- p. 97) iti | tadvivaraṇaṃ yathā tatraiva- sakalasya pramāṇāṃśau yo'sau vidyākalātmakaḥ | sāmānyātmā sa śaktitve gaṇito na tu tadbhidaḥ || layākalasya mānāṃśaḥ sa eva paramasphuṭaḥ | jñānākalasya bhānaṃ tu galadvidyākalāvṛti || aśuddhavidyākalanādhvaṃsasaṃskārasaṃgatā | prabubhutsuḥ śuddhavidyāmantrāṇāṃ karaṇaṃ bhavet || prabuddhā śuddhavidyā tu tatsaṃskāreṇa saṃgatā | mānaṃ mantreśvarāṇāṃ syāttatsaṃskāravivarjitā || mānaṃ mantramaheśānāṃ karaṇaṃ śaktirucyate | svātantryamātrasadbhāvā yā tvicchāśaktiraiśvarī || śivasya saiva karaṇaṃ tayā vetti karoti ca | (taṃ0 10-12-17) iti mālinīvārtike- svaprakāśātmikā yeyaṃ saṃvittiḥ pāramārthikī | tatsvasaṃvedanaṃ proktaṃ yato viśvavyavasthiti || sā caiṣā na vimarśātmasvarūpamativartate | vimarśo'syā paro bhāgaḥ [bhogaḥ mu0 pu0 pāṭhaḥ |] pūrṇaḥ paśyantyudāhṛtaḥ [paśyantyudāhṛtā mu0 pu0 pāṭhaḥ |] ||
SK
परापरा सैव देवी मानमित्यवधार्यताम् | यत्रापरांशगं मेयं तादात्म्याद् व्यवतिष्ठते || नहि भिन्नेन मानेन मेयस्य स्याद् व्यवस्थितिः | नहि हंसस्य शुक्लत्वे काकः स्वेतत्वमर्हति || एतदेव तथा चाह गुरुः शंकरनन्दनः | न मानत्वात्ततोऽन्यत्वान्न बाधादस्थितेः स्थितिः || प्रकाशेनाविनाभूतैः सत्तायां नियतात्मभिः | धर्मैर्भावो बहिर्भावान्न भावः सिद्धिमृच्छति || प्. ९८) तेन संवित् त्रिकात्मैव [त्तिकात्मैव मु० पु० पाठः |] मातृमानप्रमेयताम् [प्रमेयता मु० पु० पाठः |] | गृह्णती स्वप्रकाशत्वस्वभावादेव भासते || सा चान्तः स्थितमन्त्रात्मशब्दनामर्शसुन्दरा | अनपेक्षान्यविरहात्प्रमाणं स्वत एव हि || (प्र० का० ४२७-४३४) इति | तत्रैवान्यत्रापि- इत्थं प्रमाणताभागि यत्तत्वं हि न्यरूप्यत | परापरा भगवती सेयं भाति तथा तथा || इति | अथ च परापरो हि विज्ञानकलादिसंज्ञकः प्रमाता तद्रूपा | यदाह वार्तिके- परापरस्तु यो माता समुद्रिक्तपरापरः | स विज्ञानकलः प्रोक्तः प्रबुद्धपरभावकः || अपरोद्रेकयोगेन स एव प्रलयाकलः | (प्र० का० ९५७-९५८) यद्वा परापराः शिवशक्तयो घोराख्या या अहन्ताच्छादितेदन्तोन्मज्जनेनानाश्रितसदाशिवेश्वरादिरूपभेदाभेदात्म- miśrakarmaphalāsaktiṃ pūrvavajjanayanti yāḥ | muktimārganirodhinyastāḥ syurghorāḥ parāparāḥ || (32 ślo0) iti | evaṃ parāparo visargo bhedābhedāvasthitirvidyātattvaṃ cetyādyarthavyavasthitirbahuśo gurumukhagamyeti | asahyaduḥkhadaśādiṣu prāyaśo ca loke janakāpekṣayā jananyā evāśaṅkitaṃnāmodīryate iti prasiddham | tatra parivartamānānekajanmānubhūtamātṛṇāṃ trividhatāpāpaharaṇāsambhavādvartamānānāmapi tadakṣamatvādataḥ prādhānyena mātṛtvasya devyāmeva nirūḍheḥ p. 99)
SK
स्वस्मिंस्तस्या दयालुतासंपादनाय तच्छब्दस्तोतव्यतामुद्दिश्याह मातेति | दुरन्तदुःखविनाशिनी ब्रह्मादिस्तम्बपर्यन्तचतुर्दशविधजन्तुवर्गजनयित्री वेत्यर्थः | कदाचित्पित्रापि ताडितस्य बालस्य मात्रैवोपलालना क्रियते इति हि प्रसिद्धिः | तदुक्तम्- पित्रा निर्भत्सितो बालो मात्रैवाश्वास्यते किल इति यद्वा न विद्या मातृकापरा इत्याम्नायोक्त्या स्वान्तः क्रोडीकृताशेषवाच्यवाचकत्वादखिलविद्याविसर्गारणिभूता मातृकारूपा | तदुक्तम्- मन्त्राणां मातृभूता तु मातृका परमेश्वरी | इति तद्विवरणं श्रीपरात्रिंशकादिशास्त्रेषु प्रकाशितम् | शिवसूत्रेष्वपि मातृका चक्रसम्बोधः (२-७) इत्यत्र क्षेमराजपादैर्विवृतम् | अथ च दशमीतिथिर्नित्यामन्त्रस्य मातेति संज्ञा तद्रूपा कुलसुन्दरीत्यर्थः | सा च बालैव एतच्च दर्शयिष्यते | यद्वा देशाद्यवच्छिन्नक्रमयौगपद्यादिविचित्रभावजातोपरक्तत्वेऽपि तदनवच्छिन्नाक्रमचिदानन्दनिर्भरसंविन्मात्रमूर्तिः स्वतन्त्रपरमातृरूपा मातेत्यर्थः | तदुक्तम्- या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता | अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः || इति | तथा कुः पृथिवीतत्त्वं म्रियते लीयते यस्मिंस्तत्कुमारं कुलकुण्डमाधारसंज्ञकं तत्सम्बन्धिनी कुमारी कुलकुण्डलिनी तद्रूपा यत्कुमारी मन्द्रयते यद्योषिद्यत्पतिव्रतेति श्रुतेः | अथ च कुंभेदप्रथोन्मेषिणीं मायाभूमिं मारयति अनुद्भिन्नप्रसरां करोति तच्छीला | यद्वा कुमारयति विश्वसर्गादिक्रीडां रचयतीति पारमेश्वरी पराभट्टारिकोमा नाम शक्तिरन्यानुपभोग्या कामेश्वरैकात्म्येन परिस्फुरन्ती च | तथा च शिवसूत्रम्- इच्छाशक्तिरुमा कुमारीति (१-१३) | प्. १००) तद्वार्तिकं च- तस्यैव योगिनो येच्छा शक्तिः सैव बवत्युमा | पराभट्टारिका सैव कुमारीति प्रकीर्तिता || सदाशिवादिक्षित्यन्तविश्वसर्गादिलीलया | कुमारी कुं महामायाभूमिं मारयतीत्यपि || कुमारी चोपभोग्यास्य योगिनो भैरवात्मनः | कुमारी नान्यभोग्या स्याद्भोक्त्रैकात्म्येन तिष्ठति ||
SK
उमा कुमारी संत्यक्तसर्वसङ्गा महेशितुः | आराधनपरा तद्वदिच्छाशक्तिस्तु योगिनः || (शि० सू० वा० ६७-७१) इति | स्वच्छन्देऽपि- सा देवी सर्वदेवीनां नामरूपैश्च तिष्ठति | योगमाया प्रतिच्छन्ना कुमारी लोकभाविनी || इति | कुमारी द्वीपरूपा वा बालारूपा वा इत्येवंस्वरूपा त्वमसि | अथ मन्त्रपारायणक्रमविवरणम्- माया ह्रीं कुण्डलिनी ऐं क्रिया क्लीं मूलविद्यानन्तरमेतैः प्रत्येकं क्रमेण योजिता पृथक् पृथक् | मधुमती चतुर्विधा मातृका शुद्धा बिन्दुयुक्ता विसर्गयुक्ता बिन्दुविसर्गयुक्ता चेति | कालीत्यादीनि दशविद्यानामानि तैर्मधुमत्यनन्तरं क्रमशो योजिता तदनु शक्तीत्यादि दशविद्याः क्रमशः संयोज्य मन्त्रपारायणविद्याः सम्पद्यन्ते | तत्र (१) शक्तिः श्रीबालातृतीयबीजं सौः इति | (२) शङ्करवल्लभा रुद्रशक्तिः हस्रीं श्रीमिति | (३) त्रिनयनेति नेत्रस्थानोपलक्षितत्वात् वौषडिति | (४) वाग्वादिनी आहेति विद्या | (५) भैरवी हसरैं हसक्लरीं हस्रौं | (६) ह्रींकारीति स्वरूपं भुवनेश्वरीबीजम् | (७) त्रिपुरा श्रीसौभाग्यविद्या (ह ५ ह ६ स ४) | (८) परापरमयी शिवशक्तिमयी विद्या हस्रौं सह्रौमिति | (९) माता षट्कूटाविद्या हसकलरडैं हसकलरडीं हसकलरडौं इति | (१०) कुमारी बालाविद्या सा चाद्यश्लोकोद्धृतत्वात्प्रसिद्धैव | प्. १०१)
SK
एवमेतेषामुक्तानां दशमन्त्राणामन्योन्यविमिश्रणया पारायणक्रमः साधकानां जपोपयोगी यथा प्रदर्श्यते तत्र प्रातरुत्थायाह्निकक्रियां विधाय विविक्तप्रदेशे स्वासने समुपविश्य गुरुगणपतिपरदेवताः प्रणम्य मूलविद्यया ऋष्यादिस्मरणपूर्वकं करषडङ्गन्यासौ कुर्यात् | ततः स्वेष्टदेवीं द्यायन्मानसोपचारैः संपूज्य देवतात्मको भूत्वा मन्त्रपारायणजपं दशभिर्दिनपर्यायैः समापयेत् | तत्राद्यदिने मूलं ह्रीं अकाली सौः | एवं मूलं ह्रीं अकाली सौः | इत्यादिक्रमेण शुद्धमातृका योजनायामेकपञ्चाशत् (५१) जपसंख्या | पुनरेवं सबिन्दुमातृकायोजनायां संख्या (५१) | पुनरेवं सविसर्गमातृकायोजनायां जपसंख्या (५१) | पुनः सविसर्गबिन्दुमातृकामिश्रणायां संख्या (५१) | एवं मायाबीजेन सह चतुरधिकं द्विशतं मन्त्राः (२०४) | मायाबीजस्थाने कुण्डलिनी बीजं वाग्भवाख्यं संयोज्य तेन सह चतुर्विधमातृकाक्षरैः पूर्ववन्मन्त्रसंख्याः (२०४) | पुनरादौ क्रियाबीजं कामराजाख्यं संयोज्य प्राग्वन्मन्त्रसंख्या (२०४) | एवं संकलय्य मन्त्रा (६१२) द्वादशाधिकं षट्शतम् | पुनः कालीनामस्थानीयं कलानाम विधायावशिष्टं सर्वं प्राग्वदिति कृत्वा सैव (६१२) संख्या | इत्थं प्रतिनामेति (६१२०) विंशत्यधिकशतोत्तरषट्सहस्राणि मन्त्रभेदाः | एवमेकदिनपर्यायः | द्वितीयादिपर्यायेषु प्रदर्शितक्रमस्यान्त्ये केवलं शक्तिस्थाने शङ्करवल्लभादिविद्यासु संयोजितासु मन्त्रा द्विशताधिकान्येकषष्टिसहस्राणि स्युः | उक्तरीत्या लक्ष्मीजयादिनाम्नां समनन्तरश्लोकोक्तानामपि कालीत्यादिस्थाने संयोजनाच्चतुरशीत्यधिकद्विचत्वारिंशन्मनवोऽधिका भवन्ति | तथा चैकदिनपर्याये (६५४८४) संख्याः यदि दशभिर्दिनैः कर्तुमशक्तस्तदैकाहजपं पञ्चधा विभज्य पञ्चाशताहोभिर्जपं कुर्यात् | तदशक्तावपि एकैकनाम्ना शताहेन समापनीय इति सत्सम्प्रदायः | अस्य जपस्य नामपारायणोक्तफलसाम्ये पृथक् फलानुक्तिः | तदुक्तम्-
SK
एवं यः कुरुते नित्यं नामपारायणं बुधः | भुक्त्वेह भोगानखिलानन्ते देवीपदं व्रजेत् इति || १८ || प्. १०२) अथेदानीं कालनित्याविद्याक्रमं सूचयन् नामपारायणजपपरिपाटीं च प्रणतिनिभेनाह- आ-ईपल्लवितः परस्परयुतैर्द्विद्विक्रमाद्यक्षरैः काद्यैः क्षान्तगतैः स्वरादिभिथो क्षान्तैश्च तैस्सस्वरैः | नामानि त्रिपुरे ! भवन्ति खलु यान्यत्यन्तगुह्यानि ते तेभ्यो भैरवपत्नि ! विंशतिसहस्रेभ्यः परेभ्यो नमः || १९ || हे त्रिपुरे ! भैरवपत्नि इति सम्बोधनं वक्ष्यमाणत्र्यक्षरात्मकत्रैपुरविद्याधिष्ठातृदेवतार्थाभिप्रायेण तेन हे त्रिपुरभैरवि ! यथोक्तं श्रीत्रिपुरार्णवे- अक्षरान्तर्गताशेषनामरूपां क्रियां पराम् | शक्तिं विश्वेश्वरीं वन्दे देवीं त्रिपुरभैरवीम् || इत्यादि | अस्यापि शब्दस्यावयवशोऽर्थः प्राङ्निर्णीतोऽग्रेऽपि निर्णेष्यते | अथ च भैरवोऽद्वैतात्मकविश्वासकवलनस्वभावः परप्रकाशस्तस्य स्वभावभूता समवायसंयुक्तत्वाद्धदयाख्या परास्वातन्त्र्यशक्तिस्तद्विधेयकृत्यसंपूरयित्री | तदुक्तं भर्गशिखायाम्- mṛtyuṃ ca kālaṃ ca kalākalāpaṃ vikārajālaṃ pratipattisātmyam | aikātmyanānātmyavikalpajātaṃ tadā sa sarvaṃ kavalīkaroti || iti | vīrāvalyāmapi- yatra sarve layaṃ yānti dahyante tattvasaṃcayāḥ | tāṃ citiṃ paśya kāyasthāṃ kālānalasamatviṣam || iti | evambhūtā bhairavasaṃviditi patnīśabdena satatasaṃyogāvicchedaṃ lakṣayatābhidhīyate | śivasūtreṣvapi- p. 103) śakticakrasaṃdhāne viśvasaṃhāraḥ (1-6) iti | arthāntarāṇyagre vyākhyāsyante | atra pradarśayiṣyamāṇāsu tripurāvidyāsu prativarṇaṃ pūrṇamaṇḍalavarṇāḥ ṣaṭsaptatyadhikapañcaśatasaṃkhyākāsteṣu vidyānāṃ prathame ṣaṭtriṃśattattvavarṇā vāgbhavabījatvena sthitāḥ | dvitīyā varṇāḥ kāmarājabījātmakāste ca ā ī ityākāreṇa kṛtasandhikāḥ | tṛtīyāstu śaktibījātmakāḥ | evaṃ tā vidyāḥ ṣaṭtriṃśadadhikasaptaśatottaraṃ viṃśatisahasrāṇi (20736) sambhavantīti | taduktaṃ kādimate-
SK
पूर्णमण्डलवर्णाः स्युः प्रथमे त्वादितः क्रमात् | षट्त्रिंशत्तत्त्ववर्णास्तद् द्वितीया मरुता क्रमात् || तृतीयाः सर्वतो वह्निरेवं विद्यास्तु त्र्यक्षराः | त्रिपुराः सर्वसिद्धानामाकराः कथिताः क्रमात् || (प० २५ १७-१८) इति | तासां विनियोगः फलं च तत्रैव- एताः पुस्तकमारोप्य पीठे संस्थाप्य पूजयेत् | यत्र तत्र गदालक्ष्मीग्रहदुर्भिक्षशात्रवाः || भूतापमृत्युकृत्याद्या न भवन्ति पुरादिके | अभीप्सितानि सिद्ध्यन्ति तस्य योऽर्चति नित्यशः || षट्त्रिंशत्तत्सप्तशतं सहस्राणि च विंशतिः | तासां संख्या समाख्याता तदावृत्तिस्तदाप्तिकृत् || (१७-२१) इत्येतदखिलमाशयं गर्भीकृत्योक्तविद्यासम्पादननिर्णयो यथा- काद्यैः क्षान्तगतैः ककारादिभिः क्षकारपर्यन्तैः पञ्चत्रिंशत्संख्याकैरक्षरैः | कीदृशैः स्वरादिभिः स्वरशब्देनात्र प्रथमस्वर एव गृह्यते | तेन स्वरोऽकार आदिः प्रथमो येषां तैः षट्त्रिंशद्व्यञ्जनैः षटत्रिंशत्तत्त्वसतत्त्वैरित्यर्थः | महानित्यायाः शिवशक्त्यात्मकत्वेनोभयात्मकत्वात् तदात्मकस्य प्रथमस्वरस्यापि स्वरव्यञ्जनात्मकत्वेनोभयात्मकत्वमस्तीति तान्त्रिकोपह्वरः | तदुक्तं तत्रैव- प्. १०४) अथ षोडशनित्यानां षट्त्रिंशत्तत्त्वविग्रहैः | वर्णैस्तज्जनितैर्मन्त्रैर्यन्त्रैः कालात्मतां क्रमात् || कथयामि प्रयोगांश्च नानाभीष्टाप्तिकारणान् | यज्ज्ञानोपास्तिभेदाभ्यां मन्त्राः सिद्ध्यन्ति वर्णिनः || स्वराः षोडश नित्याः स्युः कादिक्षान्ताः स्वरान्विताः | तेषु तत्त्वानि षट्त्रिंशद्वर्गानाथा [षट्विंशद्वर्गा] नवात्मकाः [नाथ नवात्मिकाः आर्थर-अवलानसम्मुद्रिते] || (२५ प० १-
SK
इति | तथा आ ई पल्लवितैः आ-ई इति शब्दशिरस्कैर्द्विद्विक्रमात् द्वि द्वि वर्णक्रममाश्रित्य परस्परयुतैरन्योन्यं कृतसन्धिकैः कामराजसंज्ञकस्य द्वितीयवर्णस्याकारेण सह प्रतिविद्यं विहितसंहितैरित्यर्थः | तथा स्वरादिभिरित्यावृत्त्य स्वराः षोडशादौ येषामिति कृत्वा अ आ-ई अका-ई इत्यादि अक्षा-ई इत्यन्तम् | एवं आ आ-ई आका- tāvannāmnāṃ saṃkhyā (576) ṣaṭsaptatyuttarapañcaśatāni | atha taiḥ kādyaiḥ kṣāntaiḥ punaḥ pañcatriṃśadvyañjanaiḥ sasvaraiḥ ṣoḍaśasvarasaṃyojitaḥ kakākikītyādikramarūpairvidyādyavarṇasthānīyaiḥ pūrvavanmadhyasaṃhitāpuraḥsaraṃ ka-ā-ī kakā-ī kakhā-ī ityādi kakṣā-ī ityantam evaṃ kā-ā-ī kākā-ī kākhā-ī ityādi kākṣā-ī ityantam | evaṃ kṣaḥ ā-ī ityādi kṣaḥ kṣā-ī ityantaṃ tāvannāmnāṃ saṃkhyā (20160) ṣaṣṭyadhikaśatottaraviṃśatisahasrāṇi | evaṃ pūrṇamaṇḍalavarṇairutpadyamānāni te tava yānyatyantaguhyāni rahasyātirahasyāni khalu nāmāni traipuravidyārūpāṇi bhavanti saṃkhyayā viṃśatisahasrebhyaḥ parebhyo'tiriktebhyastebhyo namastā vidyāḥ praṇamyā ityarthaḥ | evaṃ samucitā tatsaṃkhyā (20736) etatprāk saṃvāditam | etajjpavidhiḥ śrīmadārādhyamukhādevāvagantavyaḥ | śrīdevīrahasye tu- ā-īvibhūṣitāṃ kṛtvā mātṛkāṃ haṃsabhūṣitām | mūlavidyāṃ japenmantrī śivaśaktimayīṃ śive || p. 105)
SK
इति | तदत्रायं क्रमः- आदौ मूलविद्यां तदनु कालविद्यां हंसान्तामुच्चरेदिति | दिननित्याविद्यायाः परिज्ञानं ज्योतिःशास्त्रोक्तनीत्या कल्यहर्गणं विधाय कालविद्यासंख्यया प्रोक्तया भागे हृते लब्धान् गतपर्यायान् परित्यज्यावशिष्टदिनसंख्यां पूर्णमण्डलसंख्यया विभज्य लब्धेन सैकेन गणनात् तद्दिननित्याया आद्यक्षरं संजायते | शेषे षट्त्रिंशता विभक्ते लब्धं सैकं कृत्वा तत्परिमितस्वरोपेतमाद्यक्षरं कुर्यात् | अवशिष्टसंख्यापरिमितं द्वितीयाक्षरमाईयुक्तं विधाय तद्दिननित्या भवति | एवं संजातायास्तद्दिननित्याविद्यायाः प्रथमाक्षरं यत्स्वरयुक्तं स्यात् तत्स्वरादितः पुनस्तत्स्वरपर्यन्तं प्रागुक्तप्रकारेण जपो विधेयः | एता एव तत्त्वनित्या इति ज्ञेयम् | पर्यायनित्याक्रमस्तु दीक्षादिनमारभ्याहर्गणगणनया प्राग्वद्बोध्यः | एवं वर्तमाने कलियुगे आदित आरभ्यैकैकस्य दिवसस्यैकैका विद्या यथाक्रमं भवति | तत्र पूर्णमन्त्रपारायणपरिवृत्तितस्तद्युगान्ते केषुचिदवशिष्यमाणेष्वहःसु प्रत्यहं द्वे द्वे विद्ये पूरणीये भवतः | तदुक्तं श्रीतन्त्रराजे- कृतादीनां युगानां तु दिनेष्वेकैकशः क्रमात् | ता विद्यास्तत्त्वरूपिण्यः शेषास्त्वन्ते द्विशः स्मृताः || (प० २५- iti | etatsarvaṃ taṭṭīkāyāṃ manoramākārairvistareṇa pradarśitamityalaṃ vistareṇa || 19 || evamācāryaḥ stutimupasaṃharan satāṃ tadavadheyatāyāṃ hetuviśeṣaṃ nirdiśati- boddhavyā nipuṇaṃ budhaiḥ stutiriyaṃ kṛtvā manastadgataṃ bhāratyāstripuretyananyamanaso [manasā iti pāṭhāntaram] yatrādyavṛtte sphuṭam | ekadvitripadakrameṇa kathitaistvatpādasaṃkhyākṣarairmantroddhāravidhirviśeṣasahitaḥ satsampradāyānvitaḥ || 20 || p. 106)
SK
त्रिपुरेति पूर्वपदसाहित्येन प्रसिद्धाया भारत्यास्त्रिपुरभारत्याः | अस्यां विद्यायां हि प्रायशस्त्रिष्वपि कूटेषु बीजांशाक्षराणामुपास्तावपि वाक्सूक्तिप्रसरस्फुरणात्मकस्य फलस्य प्राधान्येनान्वितत्वादिति | अत्र भारतीयपदप्रयोगः साभिप्रायः | इयं समनन्तरोक्ता स्तुतिर्बुधैर्भारतीप्रसादासादनीयनिरर्गलप्रसरत्सूक्तिपदगुम्फैरत एव तत्प्रसादाभीप्सुभिः सद्भिस्तद्गतं त्रिपुरभारतीलग्नं मनः कृत्वा निपुणं यथा स्यात्तथा बोद्धव्या लोचनीया | बुधैरित्यनेन तेषामेव झटिति मन्त्रोद्धारज्ञानक्षमत्वं न मन्दमतीनामिति ध्वनितम् | ननु किमेतदवगताववधाननैपुण्येनेत्याशंक्याद्यश्लोकरचनायां स्वस्यविच्छित्तिवैदग्ध्यं सूचयन् विशिष्टहेतुकत्वेन विशेषणमाह- अनन्येतियत्र स्तुतावनन्यमनस अविद्यमानमन्यत्र मनो यस्य तस्य मद्विरचितायामस्यां स्तुतावेवावहितचेतसः साधकस्य पुंसस्तं प्रतीत्यर्थः | यद्वानन्यमनसो देव्यैकात्मचेतसो ममेयं स्तुतिरिति अस्मत्पदाध्याहारेणान्वेयम् | आद्यवृत्ते प्रथमश्लोके स्फुटमित्यभिधाशक्त्या नत्वाक्षेपादिना एकद्वित्रिपदक्रमेण प्रथमद्वितीयतृतीयपादानुपूर्व्या अत्र द्वित्रिशब्दयोः पूरणप्रत्ययान्तार्थत्वं बोध्यम् | तत्पादसंख्याक्षरैस्तस्य वृत्तस्य पादसंख्यायास्तुल्यसंख्याक्षरै अर्थादाद्यपद्ये ऐमित्याद्यक्षरात्मकत्वेन द्वितीयपादे क्लीमिति द्वितीयाक्षरात्मकत्वेन तृतीयपादे सौरिति तृतीयाक्षरात्मकत्वेन | अत्र हस्थितेति विशेषणात् ह इति विसर्गस्तत्र स्थितेति कृत्वा सविसर्गत्वं लभ्यते | मन्त्रोद्धारविधिः प्रोक्तविद्योद्धारविधानं कथितो निर्दिष्टः |
SK
नन्वयं मन्त्रोद्धारो बहुष्वागमेषु दर्शितस्ततोऽस्य को भेदः इत्यपेक्षायामाह विशेषेति | विशेषैस्त्रिपुराविद्याविशेषैः सहितस्ते च विशेषास्तत्रोद्धृताः | न चैतत्स्वोपज्ञमित्याह सत्सम्प्रदायेति | सन् निर्दोषत्वेन प्रशस्तश्चासौ सम्प्रदाय उपदेशपारम्पर्यं तेनान्वितो गुरुमुखाल्लब्ध-इत्यर्थः | एवं सत्सम्प्रदायप्राप्तानामेव मन्त्राणामुद्धारो मयात्र कृत इत्यप्रामाण्यशंका निरस्ता | तेन परमशिवात्प्रभृति स्वगुरुपारम्पर्येण प्. १०७) विज्ञातस्य मन्त्रादेः साफल्यमन्यथानर्थपरम्परापातः इति सूचितम् | तदुक्तं वामकेश्वरे- पारम्पर्यविहीना ये ज्ञानमात्रेण गर्विताः | तेषां समयलोपेन विकुर्वन्ति मरीचयः || इति | अन्यत्रापि- स्वयं गृहीतमन्त्राश्च क्लिश्यन्ते चाल्पबुद्धयः || इति | अथ च यथा महाकविनिबद्धनाटकादिशास्त्ररचनात्मिकायाः सरस्वत्याः प्रस्तावनायां सन्दृब्धाभिनेयवस्तुसूचनालक्षणा स्तुतिरपि सहृदयैः सद्भिरेवानन्यमनस्कतया बोध्यते | यत्र मुख्यनायकचरितमुद्दिश्यैकद्व्यादिभूमिकाग्रहणलक्षणपदानुक्रमेण नाटकीयाङ्कसंख्यापरिसमाप्त्युपलक्षितोऽभिनेतव्यमन्तव्यार्थ- syādityartho'pi samāsoktyā gamyate || 20 || ślādhyāślādhyatvasambhāvanāmupekṣyaiva mamāsyāṃ kṛtau tvadbhaktijanopayogopakārādeva madīyā sūktiḥ saphalatāmiyāttatrāpi madīyatvādhyāso'pi vastuto'dhyāsajanito bhaktirasavaivaśyenaiva madvākprasarasya sambhavādato bhaktireva kartrī ityāśayenātmagauravaṃ nirasyannāha- sāvadyaṃ niravadyamastu yadi vā kiṃ vānayā cintayā nūnaṃ stotramidaṃ paṭhiṣyati jano yasyāsti bhaktistvayi | saṃcityāpi laghutvamātmani dṛḍhaṃ saṃjāyamānaṃ haṭhāttvadbhaktyā mukharīkṛtena racitaṃ yasmānmayāpi dhruvam || 21 ||
SK
भैरवपत्नीति पूर्वतमस्मात्पद्यादनुषञ्जनीयम् | इदं स्तोत्रं सावद्यं सरसत्वालङ्कारवत्वाभावात्सदोषमस्तु यदि वा निरवद्यमवद्येभ्य अनर्थकत्वश्रुतिकटुत्वादिभ्यः पदवाक्यार्थाश्रयेभ्यो दोषेभ्यो निष्क्रान्तत्वात्सरसालङ्कारोपेतत्वेन च निर्दोषमस्तु | प्. १०८) सम्भावनायां लोट् | अनया चिन्तया विचारणया वा किं निष्प्रयोजनतया न किञ्चिदित्यर्थः वेत्यप्यर्थे | कारकपरिणामेनोभयत्र वाक्ययोः स्तोत्रमिति योज्यम् | तत्र हेतुमाह- यस्य जनस्य त्वयि निरतिशयप्रेमलक्षणा भक्तिरस्ति | नूनं निश्चयेन स जनः स्तोत्रमिदं पठिष्यति पठिष्यत्येव | नात्र विपर्ययाशंका | जननादित्रासभीरुत्वात्तस्येति जनशब्दद्योत्यम् इत्येतावतैव मत्कृतिसाफल्यं स्यात् | एवं भक्तिमद्भिरवश्यग्राह्यमेतत् न खलु महाकविनिर्माणवदत्र सदोषनिर्दोषत्वपर्यालोचनापुरःसरं हानसमादानबुद्धिकलना काचित् | ननु निरवद्यकवित्वनिर्माणादिना कर्तुः कर्तृतागौरवातिशयः स्यादित्यत आह संचित्येति | यस्मात्त्वद्भक्त्या त्वद्विषयिण्या भक्त्या हठात्सहसा विवेकमकृत्वैव मुखरीकृतेन वाचालतां नीतेन मयापि मन्दमतित्वात् स्तोतुमनर्हेणापि स्तोत्रमिदं रचितं सम्पादितमिति संचिन्त्याप्यतो हेतोरात्मनि मयि दृढं निर्भरं लघुत्वं प्रयोज्यकर्तृत्वेन कर्तृत्वोपचारलक्षणं लाघवं ध्रुवमसंशयमिति कृत्वा संजायमानमस्त्युत्पद्यते इत्यर्थः | भक्तिरेव प्रयोजकीभूय मां स्वविवशं विधायैतद्विरचनाय प्रयोजितवतीत्यतः स्तुतिकर्तृत्वगौरवस्य निरस्तत्वात् रथो गच्छति इतिवन्मयि गौणकर्तृत्वं लज्जाभरावहमिति यावत् |
SK
यद्वा ननु कथं न निर्दोषत्वादिविचारः शक्यक्रियः स्यादित्यत आह यतो हेतोस्त्वद्भक्त्या हठान्मुखरीकृतेन वैयात्यं नीतेन सता मयापि स्वात्मनि बुद्धौ दृढमत्यर्थं संजायमानमुत्पद्यमानं लघुत्वं स्तुतिविरचनंचातुर्यचपलत्वं संचित्यापि पर्यालोच्यापि रचितं कृतमिदमतो निरवद्यतादिकलनायां मम प्रधानोद्देश्यत्वाभाव इति | अस्मिन् ग्रन्थे तत्त्वतः पर्यालोचनायां क्रियमाणायां स एष रसानां रसतमः इति (छांदो० १-१-३) श्रुतौ श्रूयमाणे मुख्यरससतत्त्वः पूर्णाहन्ताचमत्कारनिर्भरप्रकाशानन्दघनसंवित्- sahṛdayaistatsamāveśaśālibhirvibhraṣṭuṃ śakyaḥ | tataścātra mukhyatayā devatāviṣayaratyutkarṣatāyāṃ bhāvalakṣaṇo bhaktiraso vyajyate | p. 109) tadaṅgatvena rasāntarāṇi śāntakaruṇādbhutādīni śabdārthālaṅkārāśca tajjñairyathāsambhavamūhyāni | tadyathā- dṛṣṭvā sambhrameti yatsadyo vacasāmiti ekaikaṃ taveti ye tvāṃ pāṇḍureti devānāmiti eteṣvadbhutarasābhivyakteḥ | yannitye iti viprāḥ kṣoṇīti etayoḥ kāruṇyarasopalabdheḥ vāme iti śāntarasānubhavasya ye sindūra iti vipralambhaśṛṅgārasya cañcakāñcaneti śṛṅgārādbhutayoḥ ārbhaṭyeti sambhogaśṛṅgāraśāntayoḥ jātopītyadbhutavīrayoḥ caṇḍīti lakṣmīṃ rājakule ityetayorbhayānakasya śabdānāmityadbhutabhayānakayoḥ anyatra bhāvātmanaḥ saṃbhavāt | ādyantayorbhaktirasenaivopakramopasaṃhārābhyāmantarālavartināṃ tatraiva tātparyapratītiriti jñeyam | evamupamādayo'rthālaṅkārā anuprāsādayaḥ śabdālaṅkārāśca bodhyāḥ | stutikṛtā cātra svātmani laghutvasyāviṣkriyamāṇatvāllaghuśabdasya prayujyamānatvādvā śīghratākaraṇādvāsyāḥ stuteḥ loke laghustava iti prasiddhiriti śivam || 21 || iti śrīdharmācāryaviracitāyāṃ pañcastavyāṃ laghustave śrīmahāmāheśvarapaṇḍitaharabhaṭṭaśāstrikṛtā ṭīkā sampūrṇā ||
SK
यत्र त्रैपुरकन्दसंज्ञकमनुं मूलं व्यवष्टब्धवान् अत्यर्थं कुलसुन्दरीमनुतरुः शाखोपशाखाततेः | उत्फुल्लो विविधै रसोद्भरफलैः संपूरयन् स्वाश्रितांस्तस्मिन् प्राथमिके स्तवे विवरणं पूर्णं परानुग्रहात् || १ ||

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. laghustava [M00306].

Source
Laghustava — Reader · Sutraya