1 SK I [लक्षणसमुच्चयो नाम प्रथमः समुच्चयः]
3 SK किमर्थमिदं शास्त्रमारब्धम् / स्कन्धादीनारभ्य कति कस्मादित्येवमादिषु चिन्तास्थानेषु कौशल्यकरणार्थम् / तथाह्यनेन कौशल्येन द्विविधो ऽनुशंसो लभ्यते - मनस्कारानुशंसंः सांकथ्यविनिश्चयानुशंसश्च / तत्र मनस्कारानुशंसः शमथानुकूल्याद्विपश्यनावृद्धयानुकूल्याच्च वेदितव्यः / शमथानुकूल्यं पुनरेषु स्थानेषु कृतकौशलस्य निःसंदेहतया यथेष्टमालंबने ऐकाग्रययोगेन सुखं चित्तसमाधानतः / विपश्यनावृद्धयानु कूल्यं बहुभिः प्रकारैः ज्ञेयपरीक्षया प्रज्ञाप्रकर्षगमनतः / सांकथ्यविनिश्चयानुशंस एषु स्थानेषु कुशलस्य सर्वप्रश्नव्याकरणशक्तियोगाद्वैशारद्यप्रतिलंभतो द्रष्टव्यः //
4 SK पञ्चाकारात्मवस्तूद्भावनतामुपादायेत्यत्रचतुराकारमात्मनो वस्त्वित्यात्मवस्तु / पञ्चमं त्वात्मलक्षणमेव वस्त्वित्यात्मवस्त्विति वेदितव्यम् / सपरिग्रहदेहग्रहणेन बाह्यस्याध्यात्मिकस्य च रूपस्कन्धस्य ग्रहणं वेदितव्यम् / वेदनादीनामुपभोगादित्वं तल्लक्षणनिर्देशे ज्ञापयिष्यते / तदाश्रयात्मस्ववस्तु विज्ञानम्, तेषां सपरिग्रहदेहादीनामाश्रयमात्मलक्षणं वस्त्वित्यर्थः / तथाहि लोके प्रायेण विज्ञाने आत्मग्राहः, शेषेष्वात्मीयग्राह इति //
5 SK देहपरिग्रहाभ्यामिति चक्षु[रादी] न्द्रियषट्केन रूपादिविषयषट्केन च / षडाकारो ऽतीतो वर्तमानश्चोपभोगो विज्ञानषट्कम्, तस्य धारणमाश्रयालंबन भावतः / इत्येवं तद्धा रणत्वेन द्वादशानामिन्द्रियविषयाणां धातुत्वम् / (Aभिध्-स्-भ् २) विज्ञानानां पुनरुपभोगलक्षण धारणत्वेन धातुत्वं वेदितव्यम् / यथातीतप्रत्युत्पन्नाः चक्षुरादय उपभोगलक्षणधारका नैवमनागताः - २ //
6 SK आयद्वारमात्रत्वादिन्द्रियार्थमात्रग्रहणेन द्वादशैवायतनानि व्यवस्था पितानि, न तूपभोगलक्षणं विज्ञानषट्कमिति //
7 SK उपादानं छन्दो रागश्च / तत्र छन्दो ऽभिलाषः, रागो ऽध्यवसानम् / छन्देनानागतमात्मभावमभिलाषमुखेनोपादत्ते, येनानागतान् स्कन्धानभिनिर्वर्त्तयति / रागेन वर्तमानमात्मभावमध्यवसानमुखेनोपादत्ते, येन वर्तमानान् स्कन्धान्न परित्यजति / तस्मादेतदेव द्वयमुपादानमित्युच्यते / तत्र स्कन्धवन्निर्देश इति / उपादानेन युक्तास्तस्मात्सोपादानधर्मा इति वेदितव्यम् //
8 SK स्पर्शेन रूपाणामन्यथीभावो वेदितव्यः / या देशे इत्यभि मुखप्रदेशे / इदं चेदं चेत्यस्थिशंकलादिकं ज्ञेयवस्तुसभागं प्रतिबिम्बम् / एवं चैवं चेति वर्णसंस्थानभेदैः चित्रीकारतेति तथासंज्ञा / शुभानां कर्मणां सुखो ऽनुभवः फलविपाकः / अशुभानां दुःखः / उभयेषामदुःखासुखः / तथाहि शुभानामशुभानां वा विपाक आलयविज्ञानं नित्यमुपेक्षयैव संप्रयुक्तं भवति / सैव चात्रोपेक्षा विपाकः / सुखदुःखयोस्तु विपाकजत्वाद्विपाकोपचारः / दृष्टश्रुततमविज्ञातानर्थानिति दृष्टं यच्च क्षुषानुभूतम्, श्रुतं यच्छ्रोत्रेणानुभूतम्, मतं यत्स्वयमभ्यूहितमेवं चैवं च भवितव्यमिति, विज्ञातं यत्प्रत्यात्ममनुभूतमिति / व्यवहरतीत्यभिलापैः प्राप[य]तीत्यर्थः // नानावस्थासु चेति सुखदुःखाद्यासु //
9 SK येन चक्षुषा रूपाणि दृष्टवानित्यतीतविज्ञानोपभोगधारकत्वेन धातुत्व दर्शयति / पश्यतीति वर्तमानविज्ञानोपभोगधारकत्वेन / यच्च तस्य चक्षुषो बीजमुपचितमालयविज्ञानं यत आयत्यां चक्षुनिर्वर्तिष्यते, वैपाक्यं च यतो निर्वृत्तम्, तदपि द्विविधं बीजं चक्षुर्धातुरित्युच्यते, चक्षुषो हेतुत्वात् / यच्चक्षुर्धातोः रूपे आधिपत्यमिति रूपीन्द्रियाधिपत्येन बाह्यविषयनिर्वर्तनात् /
10 SK तद्धातुवद्द्रष्टव्यं तच्च यथायोगमिति येन चक्षुषा रूपाणि द्रक्ष्यति यच्च तद्बीजमित्येवमादि योजयितव्यम् //
11 SK चत्वारि च महाभूतान्युपादायेति / कथमुपादायरूपम् / चत्वारि महाभूतान्युपादाय जननसंनिश्रयप्रतिष्ठोपस्तंभोपबृंहणहेतुत्वेन / जननादि हेतुत्वं पुनर्भूतानामुपादायरूपे पञ्चविधं हेतुत्वमधिकृत्य / उत्पत्तिहेतुत्वं तैर्विना तदनुत्पत्तेः / वृत्तिहेतुत्वं भूतानि प्रत्याख्यायोपादायरूपस्य पृथग्देशावष्टम्भसामर्थ्याभावात् / अनुवृत्तिहेतुत्वं भूतविकारेण तत्प्रतिष्ठितोपादायरूपविक्रियागमनात् / स्थितिहेतुत्वं सदृशोत्पत्तिकाले भूतैरुपादायरूपसंतानस्यानुपच्छेदयोगेन संधारणात् / उपचयहेतुत्वं वृत्तिकाले भूतैरूपादायरूपाप्यायनादिति /
12 SK नीलादीनां पञ्चविंशतीनां रूपाणां व्यवस्थानं षड्भिराकारैर्वेदितव्यम् / लक्षणतः संनिवेशतो ऽनुग्रहोपघाततः क्रियासंनिश्रयतः क्रियालक्षणतः मण्डनतश्च चतुर्णा दशानामष्टानामेकैकस्य च यथाक्रमम् / तत्राभ्यवकाशस्तदन्यप्रतिवारकस्प्रष्टव्यरहितो यो देशः / नभो यदुपरिष्टान्नीलं दृश्यते //
13 SK शब्दव्यवस्थानं लक्षणतो ऽनुग्रहोपघाततः हेतुप्रभेदतो देशनाप्रभेदतो व्यवहारप्रभेदतश्च / लक्षणतः श्रोत्रेन्द्रियग्राह्यो यो ऽर्थ इति / देशनाप्रभेदतो लोकप्रसिद्धादयस्त्रयः / शेषं यथायोगं वेदितव्यम् / तत्रोपात्तमहाभूतहेतुकस्तद्यथा वाक्छब्दः / अनुपात्तमहाभूतहेतुकस्तद्यथा वृक्षशब्दः / तदुभयस्तद्यथा हस्तमृदङ्गशब्दः / लोकप्रसिद्धो लौकिकभाषासंगृहीतः / सिद्धोपनीत आर्येर्देशितः / परिकल्पितस्तीर्थ्येर्देशितः / आर्यानार्यव्यावहारिकौ तुदृष्टादीनष्टौ व्यवहारानधिकृत्य वेदितव्यौ //
14 SK गन्धव्यवस्थानं स्वलक्षणतो ऽनुग्रहोपघाततः प्रभेदतश्च // रसव्यवस्थानमप्येवमेव वेदितव्यम् // तत्र सहजो गन्धश्चन्दनादोनाम्, सांयोगिको धूपयुक्त्यदीनाम्, पारिणामिकः पक्वफलादीनामिति /
15 SK स्प्रष्टव्यैकदेशव्यवस्थानमामर्शनत आतुलनतः स्पर्शनत आपीडनतः संसर्गतो धातुवैषम्यसाम्यतश्च / अब्वायुसंसर्गाच्छीतम् / (Aभिध्-स्-भ् ४) अप्पृथवीसंसर्गात्पिच्छलम् / विश्रामो बलमूर्जा च धातुसाम्यात् / ऊर्जा पुनर्वैशारद्यं वेदितव्यम् / तृप्तिरुभयथा / शेषा जिघत्सादयो धातुवैषम्याद्वेदितव्याः //
16 SK आभिसांक्षेपिकं परमाणुरूपम् / आभ्यवकाशिकं तदेव यथोक्तं तदन्यप्रतिवारकस्प्रष्टव्यरहितम् / सामादानिकमविज्ञप्तिरूपम् / परिकल्पितं प्रतिबिम्बरूपम् / वैभूत्विकं विमोक्षध्यायिगोचरं यद्रूपम् /
17 SK वेदनास्कन्धव्यवस्थानमाश्रयतः स्वभावत आश्रयसंकलनतः संक्लेशव्यवदानतश्च / तत्र रूपाश्रयसंकलनतः कायिकीवेदनाव्यवस्थानम् / अरूप्याश्रयसंकलनतश्चैतसिकीवेदनाव्यवस्थानम् / संक्लेशतः सामिषादीनाम्, व्यवदानतो निरामिषादीनां व्यवस्थानं वेदितव्यम् / तत्तृष्णावियुक्तेति विसंयुक्ता विसंयोग्यानुकूला च वेदितव्या //
18 SK अव्यवहारकुशलस्याशिक्षितभाषतया रूपे संज्ञा भवति न तु रूपमिति / तस्मादनिमित्तसंज्ञेत्युच्यते / अनिमित्तधातुसमापन्नस्य रूपादिसर्वनिमित्तापगते ऽनिमित्ते निर्वाणे संज्ञानिमित्तसंज्ञा / भवाग्रसमापन्नस्यापटुत्वेनालंबनानिमित्तीकरणादनिमित्तसंज्ञा / परीत्तः कामधातुः निकृष्ट त्वात् / महद्गतो रूपधातुस्तत उत्कृष्टत्वात् / अप्रमाणे आकाश विज्ञानानन्त्यायतने ऽपर्यन्तत्वात् / तस्मात्तदालंबनाः संज्ञाः परीत्तादिसंज्ञा वेदितव्याः /
19 SK वेदनासंज्ञावर्ज्यानां सर्वेषां चैतसिकानां चित्तविप्रयुक्तानां च संस्कारस्कन्धलक्षणत्वे चेतनामात्रस्यैव तन्निदशे ग्रहणं तत्पूर्वकत्वादितरेषामिति कारणज्ञापनार्थमाह - यया कुशलत्वाय चेतयत इत्येवमादि / तत्र कुशला वक्ष्यमाणाः श्रद्धादयः / संक्लेशा रागादयः क्लेशोपक्लेशाः / अवस्थाभेदतः चेतनाप्रेरितसंस्कारावस्यासु प्रज्ञप्ताः चित्तविप्रयुक्ताः संस्काराः //
20 SK चेतनादीनां चैतसिकानां लक्षणतः कर्मतश्च निर्देशो वेदितव्यः / तत्र चेतनायाः चित्ताभिसंस्कारो मनस्कर्मेति लक्षणनिर्देशः / कुशलाकुशलाव्याकृतेषु चित्तप्रेरणकर्मिकेति कर्मनिर्देशः / तथाहि (Aभिध्-स्-भ् ५) यथाभिसंस्कारं कुशलादिषु धर्मेषु चित्तस्य प्रवृत्तिर्भवतीति / आलंबने चित्तधारणं तत्रैव पुनः पुनरावर्जनं वेदितव्यम् / अत एव समाधिलाभी मन(ः) संस्कारलाभीत्युच्यते / विज्ञानोत्पत्ताविन्द्रियस्य सुखादिवेदनोत्पत्त्यनुकूलो यो विकारस्तदाकारः स्पर्शो वेदितव्यः / तत्तदुपसंहिता कर्तुकामतेति दर्शनश्रवणादिसर्वक्रियेच्छासंग्रहार्थम् / यथानिश्चयं धारणा एवमेतन्नान्यथेत्यधिमुक्तिः / अत एव तत्प्रधानो ऽन्यैः संहर्तु न शक्यते संस्तुतं वस्तु पूर्वानुभूतं वेदितव्यम् / अविक्षेपकर्मिकत्वं पुनः स्मृतेरालंबनाभिलपने सति चित्ताविक्षेपतामुपादाय / चित्तस्यैकाग्रताविक्षेपः / ज्ञानसंनिश्रयदानं समाहितचित्तस्य यथाभूतज्ञानात् / संशयव्यावर्तनं प्रज्ञया धर्मान् प्रविचिन्वतो निश्चयलाभात् / अस्तित्वे ऽभिसंप्रत्ययाकारा श्रद्धा / गुणत्वे प्रसादाकारा / शक्यत्वे ऽभिलाषाकारा, शक्यं मया प्राप्तुं निष्पादयितुं वेति / ह्र्यादयः सुगमत्वान्न विभज्यन्ते / उपपत्तिप्रातिलम्भिकं श्रुतचिन्तामयं भावनामयं च यथाक्रमं विपाकागमाधिगमरूपं वेदितव्यम् / प्रतिसंख्याप्रज्ञा धैर्यसहिता / स्थामवान्वीर्यवानुत्साही दृढपराक्रमो ऽनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्येवमादिसूत्रपदानि यथाक्रमं संनाहादिष्वभ्युत्साहवस्तुषु योजयितव्यानि / परिपूरणं यथा मौलं प्रवेशः / निष्पादनं तस्यैव सुपरिकर्मकृतत्वम् / सर्वावरणनिष्कर्षणं तद्वशेनाश्रयपरिवृत्तितो द्रष्टव्यम् / सर्वकुशलभावनाया वीर्यादिपूर्वकत्वात्तेष्वप्रमादप्रज्ञप्ति / सास्रवा धर्मा आस्रवा आस्रवस्थानीयाश्च विषया इह वेदितव्याः / चित्तसमतादिभिरुपेक्षाया आदिमध्यावसानावस्था व्याख्याताः / तथाह्युपेक्षया युक्तं चित्तं लयादिवेषम्याभावादादितः समम् / ततो ऽनभिसंस्कारेण वहनात्प्रशठम् / ततः संक्लेशाशङ्काभावादनाभोगावस्थितमिति / अ विहिंसा प्यद्वेषाव्यतिरेकात् प्रज्ञप्तिसती वेदितव्या / दुःखसंजननकर्मक इति तृष्णावशेन पञ्चोपादानस्कन्ध निर्वर्तनात् / अस्पर्शविहार आघातचित्तस्य दुःखविहारात् / अगौरवं गुरुषु गुणवत्सु च स्तब्धता / दुःखोत्पत्तिः (Aभिध्-स्-भ् ६) पुनर्भवोत्पत्तिर्वेदि तव्या / मिथ्यानिश्चयैर्विपरीतं ज्ञानम् / विचिकित्सा संशयः / संक्लेशोत्पत्तिः रागादिक्लेशसमुदाचारः / तत्संनिश्रयदानं मूढस्य सर्वक्लेशप्रवृत्तेरिति / रत्नेषु विमतिर्मार्गसत्ये निरोधसत्ये च यथायोगम् / तया कुशलपक्षे ऽप्रवृत्तिरलब्धनिश्चयस्यानारम्भात् //
21 SK मध्यमा प्रतिपच्छाश्वतोच्छेदग्राहवर्जितं प्रतीत्यसमुत्पादज्ञानम् / शीलव्रतं कुदृष्टिपूर्वकं वेदितव्यम / श्रमवैफल्यं तेनानिर्याणात् / नास्ति दत्तं नास्तीष्टं नास्ति कृतं नास्ति सुचरितं नास्ति दुश्चरितमित्ययं हेत्वपवादः / नास्ति दुश्चरितसुचरितानां कर्मणां फलविपाक इति फलापवादः / नास्त्ययं लोको नास्ति परलोको नास्ति माता नास्ति पिता नास्ति सत्त्व उपपादुक इति क्रियापवादः, लोकान्तरगमनागमनक्रियाया बीजाधानक्रियायाः प्रतिसंधिबन्धक्रियायाश्चापवादात् / न सन्ति लोके ऽर्हन्त इत्येवमादि सद्वस्तुनाशनम् / तदन्यद्यत् किंचिद्विपरीतदर्शनं तन्मिथ्यापरिकल्पनं वेदितव्यम् / कुशलमूलसमुच्छेदो विशिष्टाया एव मिथ्यादृष्टेर्न सर्वस्याः /
22 SK पञ्चस्कन्धात्मके ज्ञेये आत्मात्मीयस्वभावसमारोपिका सत्कायदृष्टिः / आत्मनित्यानित्यविशेषसमारोपिकान्तग्राहदृष्टिः / कुदृष्टावग्रता समारोपको दृष्टिपरामर्शः / तत्रैव शुद्धिसमारोपकः शीलव्रतपरामर्शः / एका यद्भूयसेति मिथ्याविकल्पिका या नावश्यमपवादिकत्वात् / लक्षणतो द्वाभ्यामन्तग्राहमिथ्यादृष्टिभ्याम्, सपरिवारतः सर्वाभ्यः /
23 SK रूपादयो नात्मा, तद्विलक्षणत्वात् न हि ते आत्मलक्षणा इति / न तेष्वात्मा, अनित्यतादोषात् / न ह्याश्रयाभावे आश्रितं भवतीति / न रूपवानात्मा, अस्वातन्त्र्यदोषप्रसङ्गात् / न तेभ्यो ऽन्यत्रात्मा, निर्देहतादोषात् / न हि विना देहेना त्मपरिकल्प उपलभ्यत इति / अस्वातन्त्र्यतादोषः तेष्ववशवर्तनात् / अथैवंविधमात्मानं (Aभिध्-स्-भ् ७) कश्चित्परिकल्पयेत् तथापि नोपपद्यते ऽरूपादिक आत्मा, अयत्नतो मोक्षदोषात् / देहादिबन्धनाभावे हि स्वरसेनैव मोक्षः स्यादिति //
24 SK रूपामात्मेति समनुपश्यति वेदनां संज्ञां संस्कारान् विज्ञानमात्मेति समनुपश्यतीत्येताः पञ्चात्मदृष्टयः / शेषाः पञ्चदशात्मीयदृष्टयः //
25 SK रूपवान् यावद्विज्ञानवानिति संबन्धेनात्मीयता, सा हि तत्संवन्धात्तद्वान् भवतीति / आत्मीयं रूपं यावद्विज्ञानमिति वशवर्त्त्यात्मीयतामुपादाय, यस्य हि यद्वशेन वर्तते दाने विनियोगे वा तस्य तदात्मीयमित्युच्यते / रूपे यावद्विज्ञाने आत्मेत्यविनिर्भागवृत्त्यात्मीयता, अयमात्माएष्वनुसृतो विस्तृतः प्रक्षिप्तो ऽङ्गाङ्गानुसारिगत इति परिकल्पनात् //
26 SK अनिरूपितवस्तुकत्वं पुना रूपमित्येवमादिलक्षणं निरूपयत आत्मदृष्टेरनवकाशात् / तद्यथा रज्जुं सर्पतो गृह्णाति कश्चित् सहसा, न पुना रज्जुरिति निरूपयंस्तां सर्पतो गृह्णीयादिति //
27 SK क्रोधादयः प्रज्ञप्तिसन्तो वेदितव्याः, प्रतिघातादिव्यतिरेकेणाभावात् // तदूर्ध्वमिति क्रोधादूर्ध्वम् / अक्षान्तिरपकारामर्षणम् / धर्मतैषा यदवद्यं प्रतिच्छादयतः कौकृत्यम्, अतश्चास्पर्शविहार इति / उच्चप्रगाढपारुष्यवचनं परमर्मघट्टनयोगेन प्रत्यक्षरवादिता / असंलेखो मात्सर्येणानुपयुज्यमानानामप्युपकरणानां संनिचयाद्वेदितव्यः / भूतदोषविमालना अन्येनान्यस्य प्रतिसरणं वेदितव्यम् / सम्यगववादलाभपरिपन्थकर्मकत्वं यथाभूतमात्मानमनाविष्कृत्याववादायोग्यत्वात् / दीर्घायुष्कलक्षणग्रहणं तद्विकल्पनादमरवितर्कपूर्वकं जीवितमदोत्पत्तेः / अन्यतमान्यतमा सास्रवा संपत्तिः कुलवलरूपमेधाबुद्धिभोगैश्वर्यादिका वेदितव्या / रागांशिकं नान्दीसौमनस्यं संक्लिष्टो हर्षविशेषः / शुभनिमित्तमनुसरतो रागानुकूलं पूर्वहसितरमितक्रीडितानुस्मरणात् चित्तस्यानुपशमो वेदितव्यः कौसीद्यसंनिश्रयदानकर्मकत्वमश्रद्दधानस्य (Aभिध्-स्-भ् ८) प्रयोगच्छन्दाभावात् / असंविदिता कायवाक्चित्तचर्याभिक्रमप्रतिक्रमादिषु सम्यगप्रत्यवेक्षिततया वेदितव्या / एवं ह्यस्य करणीयाकरणीयाज्ञाना दापत्तयो भवन्तीति //
28 SK स्वभावविक्षेपः पञ्चविज्ञानकायाः, प्रकृत्यैवाध्यात्मं समाधातुमशक्यत्वात् / बहिर्धाविक्षेपः श्रुतादिकुशले प्रयुक्तस्य तदालंबनाद्बहिः कामगुणेषु चित्तगमनं वेदितव्यम् / अध्यात्मविक्षेपः समाधिप्रयुक्तस्यैव तच्च्युतिकरौ लयौद्धत्यमास्वादना च / निमित्तविक्षेपः परे मां गुणवत्तया संभावयिष्यन्तीत्येतन्निमित्तमेतदर्थ कुशलप्रयुक्तस्य शनैः तत्परिहाणितो वेदितव्यः / दौष्ठुल्य विक्षेपो ऽहंकारादिदौष्ठुल्यवशादुत्पन्नोत्पन्नेषु सुखादिषु वेदितेष्वहं मम अस्मीति वा करणात् कुशलपक्षापरिशुद्धितो वेदितव्यः / आदितस्तथोद्ग्रहणमुद्ग्रहः / व्यवकिरणा तदूर्ध्वं तेन चित्तसंतानस्य मिश्रीभावः / निमित्तीकारः तस्यैव वेदितस्य पुनः पुनश्चित्रीकारो वेदितव्यः / मनस्कारविक्षेपः समापत्त्यन्तरं वा समापद्यमानस्य ध्यानान्तरं वा संश्रयतः पूर्वस्माद्ध्युत्थानतो वेदितव्यः / वैराग्यपरिपन्थकर्मक इत्युपक्लेशात्मकं विक्षेपमधिकृत्य //
29 SK मिद्धनिमित्तं तद्यथा दौर्बल्यम्, श्रमः, कायगौरवः, अन्धकारनिमित्तस्य मनसिकरणम्, सर्वारम्भाणामध्युपेक्षणम् पुनः पुनस्तत्कालनिद्राभ्यासः, मन्त्रबलेन परैनिद्रोपसंहारस्तथा संवाहनादिभिर्वेति / मोहांशिक इति समाधितो विशेषणार्थम् / कुशला(दि)भाववचनं न त्ववश्यं मोहात्मक इति कृत्वा / काल इति रात्र्या मध्यमे यामे / अकालस्ततो ऽन्यः / युक्तं काले यथानुज्ञम्, अकाले ऽपि ग्लानस्य कर्मण्यतार्थ वा / अयुक्तस्ततो ऽन्यः / कृत्यातिपत्तिसंनिश्रयदानमुपक्लेशात्मकस्य मिद्धस्य वेदितव्यः / अनभिप्रेतं करणमभिप्रेतपूर्विका सुचरितदुश्चरितक्रिया, अनभिप्रेतं करणं परैर्बलादवष्टभ्य कार्यमाणस्य क्लेशाभिभवाद्वा यथायोगं वेदितव्यम् / मोहांशिक इत्युपक्लेशसंगृहीतः / काले यावन्न प्रतिविरमति, अकाले तदूर्ध्वम् / युक्तं स्थाने, अयुक्तमस्थाने / चेतनां वा निश्रित्य प्रज्ञां वेत्यनभ्यूहाभ्यूहावस्थायां यथाक्रमम् / (Aभिध्-स्-भ् ९) पर्येषणाकारा मनसो ऽभिजल्पना वितर्कः प्रत्यवेक्षणाकारा मनसो ऽभिजल्पनानुविचार इति // तावेव वितर्कविचारौ संवध्येते, औदारिकसूक्ष्मव्यवस्थानादनयोः //
30 SK तद्यथालोभस्य लोभप्रहाणम्, श्रद्धाया आश्रद्धयप्रहाणम् / रागप्रतिपक्षो वैराग्यम्, तस्य परिपन्थकरणम्, तस्य तेन तदुत्पत्तावन्तरायकरणात् / एवं क्रोधादीनामप्युपक्लेशानां मैत्र्याद्यात्मीयरतिपक्षान्तरायकरणं वेदितव्यम् //
31 SK चित्तविप्रयुक्तानां संस्काराणामधिष्ठानतः स्वभावतः प्रज्ञप्तितश्च निर्देशो वेदितव्यः / असंज्ञिसमापत्तिनिरोधसमापत्ती भूमितो ऽपि निःसरणविहारसंज्ञापूर्वकाभ्यां मनस्काराभ्यामपि निर्दिष्टे / आसंज्ञिकं मनस्कारवर्ज्यैरेभिरेव / शेषा अधिष्ठानादिभिस्त्रिभिरेव /
32 SK तत्र कुशलाकुशलानां धर्माणामित्यधिष्ठाननिर्देशः / आचयापचय इति स्वभावनिर्देशः / तथाह्याचये ऽधिमात्रैः श्रद्धादिभिः समन्वागत इत्युच्यते / अपचये सति मृदुभिरिति / प्राप्तिः प्रतिलम्भः समागम इति प्रज्ञप्तिरिति प्रज्ञप्तिनिर्देशः / एवमन्येष्वपि यथायोगं योजयितव्यम् //
33 SK शुभकृत्स्नवीतरागस्येति तृतीयध्यानवीतरागस्य / उपर्यवीतरागस्येति चतुर्थध्यानावीतरागस्य / निःसरणसंज्ञापूर्वकेणेति मोक्षसंज्ञापूर्वकेण / अस्थावराणामिति प्रवृत्तिविज्ञानसङ्गृहीतानाम् / निरोध इति समापत्तिचित्तकृतः कालान्तरमस्थावरचित्तचैत्तसमुदाचारनिरोधो आश्रयस्यावस्थाविशेषो निरुध्यते ऽनेनेति कृत्वा / निरोधसमापत्तावुपर्यवीतरागस्येत्यवचनै भवाग्रवीत रागस्यार्हतो ऽपि तत्संभवात् / तदेकत्यानां च स्थावराणामिति क्लिष्टमनःसंगृहीतानाम् / एते च समापत्ती भूमितः मनस्कारतो ऽधिष्ठानतः स्वभावतः प्रज्ञप्तितश्च निर्देष्टे आसंज्ञिकं मनस्कारवर्जैरेभिरेव / शेषा अधिष्ठानादिभिस्त्रिभिरेव //
34 SK निकायसभाग एकजन्मिकः स्कन्धसंतानः / स्थितिकालनियम इयन्तं कालमनेनास्मिन् निकायसभागे ऽवस्थातव्यं वर्षशतं वर्षसहस्रं वेति कर्मकृतः सामर्थ्यविशेषः /
35 SK तस्मिस्तस्मिन् सत्त्वनिकाय इति देवमनुष्यादिषु सत्त्वजातिषु / आत्मभावसदृशतायामित्येकजातीयतायाम् /
36 SK बाह्यस्यापि रूपस्य जातिमत्त्वे निकायसभागमात्रग्रहणं सत्त्वसंताने लक्षणप्रज्ञप्तिज्ञापनार्थम् / बाह्यं हि रूपं संवर्त्तविवर्त्तप्रभावितमा ध्यात्मिकास्तु जातिजरादिप्रभाविता इति / प्रबन्धविनाशो मरणं वेदितव्यम् / एते च जात्यादयो न प्रतिक्षणं वेदितव्याः किंतर्हि प्रबन्धावस्थास्विति /
37 SK स्वभावाधिवचनं चक्षुः श्रोत्रं देवो मनुष्य इत्येवमादि / विशेषाधिवचनं सर्वसंस्कारा अनित्याः सर्वसत्त्वा मरिष्यन्तीत्येवमादि / तदुभयाश्रयेष्वि ति स्वभावविशेषाधिवचनाश्रयेष्वक्षरेषु अ इ उ इत्येवमादिषु / एतावच्च सर्वं यदुत स्वभावो विशेषस्तदुभयव्यवहारश्च, तत्सर्वमेभिरनुव्यवह्रियत इति / अत एते नामपदव्यञ्जनकाया व्यवस्थापिताः / पर्यायाक्षरणतामुपादायेति यथा चक्षुश्चक्षुरित्येतस्मात्पर्यायादन्येष्वपि नेत्राक्षिनयनलोचनादिषु पर्यायान्तरेषु क्षरति, तैरपि तत्संज्ञानात् / नैवं अ इत्येतदक्षरं अ इत्येतं पर्यायं मुक्त्त्वा पर्यायान्तरेण शक्यते ज्ञापयितुम्, अतः पर्यायाक्षरणादक्षराअणि / क्षरणं पुनर्गमनं वेदितव्यम् //
38 SK प्रबन्धानुपच्छेदे प्रवृत्तिव्यवस्थानमेकस्मिन् क्षणे व्यवच्छिन्ने वा तदुपचाराभावात् हेतुफलनानात्वमिष्टस्य फलस्य सुचरितमनिष्टस्य दुश्चरितमित्येवमादि / फलानां पृथक् पृथगन्योन्यहेतुकत्वम् / हेतुफलसारूप्यमन्यत्वे ऽपि यद्यस्य फलं युज्यते / तद्यथा दानस्य भोगसंपदित्येवमादि / एकैकस्यैव प्रवृत्तिरयुगपत्प्रवृत्तिर्वेदितव्या / हेतुफलस्य प्रबन्धेन प्रवृत्तौ सत्यां यत्तत्र हेतुफलमुत्पन्ननिरुद्धं सो ऽतीतः काल इति प्रज्ञप्यते, यदनुत्पन्नं सो ऽनागतः कालः, यदुत्पन्नानिरुद्धं स प्रत्युत्पन्नः काल इति / हेतुफलस्य दिग्व्याप्तौ देशोपचारः / रूपसंगृहीतं चात्र हेतुफलं वेदितव्यमरूपिणां दिग्व्यापनसामर्थ्याभावात् / प्रत्येकशो भेदे संख्येत्यभिन्नैकात्मकत्वे द्वित्रिसंख्याद्यनुपपत्तेः / हेतुफलप्रत्ययानां (Aभिध्-स्-भ् ११) समवधानं तद्यथा विज्ञानाख्यस्य हि हेतुफलस्येन्द्रियापरिभेदो विपयाभासगमनं तज्ज्ञानं मनस्कारप्रत्युपस्थानं चेति / एवमन्यत्रापि योजितव्यम् //
39 SK इत्येवमेते चित्तविप्रयुक्ताः संस्काराणां धर्माणामवस्थासु प्रज्ञपनात्सर्वे प्रज्ञप्तिसन्तो वेदितव्याः / तत्र कुशलाकुशलाद्याचयापचयावस्थायामेकः / चित्तचैतसिकाप्रवृत्त्यवस्थायां त्रयः / स्थित्यवस्थायामेकः / सादृश्यावस्थायामेकः / लक्षणावस्थायां चत्वारः / व्यवहारावस्थायां त्रयः / अलाभावस्थायामेकः / हेतुफलावस्थायां शेषा इति / हेतुफलं पुनरत्र सर्व संस्कृतं वेदितव्यम् / ततो ऽन्यस्योत्पादाद्धेतुः / अन्यतस्तदुत्पादात् फलमिति //
40 SK स्कन्धादीनां समुदाचारे तद्बीजपरिपुष्टिर्वासनेत्युच्यते / सर्वबीजकं तेषामेव स्कन्धादीनामुत्पत्तिबीजैर्युक्तत्वात् / आलीयन्ते तस्मिन् धर्मा बीजतः, सत्त्वा वात्मग्राहेणेत्यालयविज्ञानम् / पूर्वकर्मनिर्मितत्वात् विपाकविज्ञानम् / पुनः पुनः प्रतिसंधिबन्धे आत्मभावोपादाना दादानविज्ञानम् / तत्पुनरेतच्चित्तमित्युच्यते, सर्वधर्मवासनाचित्तत्वात् //
41 SK तदेतदालयविज्ञानमस्तीति कथं विज्ञायते / यस्मात्तेन विना
42 SK उपात्तमादि स्पष्टत्वं बीजं कर्म न युज्यते / कायिको ऽनुभवो ऽचित्ते समापत्ती च्युतिस्तथा //
43 SK एतस्याश्चोद्दानगाथाया विभागस्तद्यथा विनिश्चयसंग्रहण्याम ष्टाभिराकारैरालयविज्ञानस्यास्तिता प्रत्येतव्या / तद्यथान्तरेणालयविज्ञानं आश्रयोपादानासंभवतः आदिप्रवृत्यसंभवतः स्पष्टप्रवृत्त्यसंभवतो बीजत्वासंभवतः कर्मासंभवतः कायिकानुभवासंभवताचित्तकसमापत्त्यसंभवतो विज्ञानच्युत्यसंभवतश्च //
44 SK केन कारणेनाश्रयोपादानं न युज्यते / आह पञ्चभिः कारणैः / तथाहि आलयविज्ञानं पूर्वसंस्कारहेतुकम् / चक्षुरादिप्रवृत्तिविज्ञानं पुनर्वर्तमानप्रत्ययहेतुकम् / यथोक्तम् इन्द्रियविषयमनस्कारवशाद्विज्ञानानां प्रवृत्तिर्भवतीति विस्तरेण / इदं प्रथमं कारणम् / अपि च कुशलाकुशलाः षड्विज्ञानकाया उपलभ्यन्ते / इदं द्वितीयं कारणम् / अपि च षण्णां विज्ञानकायानां सा जातिर्नोपलभ्यते याव्याकृतविपाकसंगृहीता स्यात् / इदं तृतीयं कारणम् / अपि च प्रतिनियताश्रयाः षड्विज्ञानकायाः प्रवर्तन्ते, तत्र येन येनाश्रयेण यद्विज्ञानं प्रवर्तते तदेव तेनोपात्तं स्यादवशिष्टस्यानुपात्ततेति न युज्यते, उपात्ततापि न युज्यते विज्ञानविरहिततया / इदं चतुर्थ कारणम् / अपि च पुनः पुनराश्रयस्योपादान दोषः प्रसज्यते / तथाहि चक्षुर्विज्ञानमेकदा प्रवर्तते एकदा न प्रवर्त्तते एवमवशिष्टानि / इदं पञ्चमं कारणम् / इति पूर्वकर्मप्रवर्त्तमानप्रत्यहेतुतो ऽपि कुशलाकुशलतो ऽपि तज्जात्यनुपलंभतो ऽपि प्रतिनियताश्रयतो ऽपि पुनः पुनरुपादानदोषतो ऽपि न युज्यते //
45 SK केन कारणेनादिप्रवृत्तिसंभवो न युज्यते / स चेत्कश्चिद्वदेद्यद्यालय विज्ञानमस्ति तेन द्वयोः विज्ञानयोः युगपत्प्रवृत्तिर्भविष्यति / स इदं स्याद्वचनीयः - अदोष एव भवान्दोषसंज्ञी / तथाहि भवत्येव द्वयोर्विज्ञानयोर्युगपत्प्रवृत्तिः / तत्कस्य हेतोः / तथाह्येकत्यस्य युगपद्रद्ष्टुकामस्य यावद्विज्ञातुकामस्यादित इतरेतरविज्ञानप्रवृत्तिर्न युज्यते / तथाहि तत्र मनस्कारो ऽपि निर्विशिष्ट इन्द्रियमपि विषयो ऽपि //
46 SK केन कारणेनासत्यां युगपद्विज्ञानप्रवृत्तौ मनोविज्ञानस्य चक्षुरादिविज्ञानसहानुचरस्य स्पष्टत्वं न संभवति / तथाहि यस्मिन् समये ऽतीतमनुभूतं विषयं समनुस्मरति तस्मिन् समये ऽविस्पष्टो मनोविज्ञानप्रचारो भवति न तु तथा वर्तमानविषयो मनःप्रचारो ऽविस्पष्टो भवति / अतो ऽपि युगपत्प्रवृत्तिर्वा युज्यते ऽविस्पष्टत्वं वा मनोविज्ञानस्य //
47 SK केन कारणेन बीजत्वं न संभवति षण्णां विज्ञानकायानामन्योन्यम् / तथाहि कुशलानन्तरमकुशलमुत्पद्यते, अकुशलानन्तरं कुशलम्, तदुभयानन्तरमव्याकृतम्, हीनधातुकानन्तरं मध्यधातुकम्, मध्यधातुकानन्तरं प्रणीतधातुकम्, एवं प्रणीतधातुकानन्तरं यावद्धीनधातुकम्, सास्रवानन्तरमनास्रवम्, अनास्रवानन्तरं (Aभिध्-स्-भ् १३) सास्रवम्, लौकिकानन्तरं लोकोत्तरम्, लोकोत्तरानन्तरं लौकिकम् / न च तेषां तथा बीजत्वं युज्यते / दीर्घकालसमुच्छिन्नापि च संततिश्चिरेण कालेन प्रवर्तते, तस्मादपि न युज्यते //
48 SK केन कारणेनासत्यां युगपद्विज्ञानप्रवृत्तौ कर्म न संभवति / तथाहि समासतश्चतुर्विधं कर्म - भाजनविज्ञप्तिराश्रयविज्ञप्तिरहमिति विज्ञप्तिर्विषयविज्ञप्तिश्चेति / एता विज्ञप्तयः क्षणे क्षणे युगपत्प्रवर्तमाना उपलभ्यन्ते / न चैकस्य विज्ञानस्यैकस्मिन् क्षणे इदमेवंरूपं व्यतिभिन्नं कर्म युज्यते //
49 SK केन कारणेनासत्यालयविज्ञाने कायिको ऽनुभवो न युज्यते / तथाह्येकत्यस्य योनिशो वायोनिशो वा चिन्तयतो वानुवितर्कयतो वा समाहितचेतसो वासमाहितचेतसो वा ये काये कायानुभवा उत्पद्यन्ते ऽनेकविधा बहुनानाप्रकारास्ते न भवेयुरुपलभ्यन्ते च / तस्मादप्यस्त्यालयविज्ञानम् //
50 SK केन कारणे नासत्यालयविज्ञाने ऽचित्ता समापत्तिर्न संभवति / तथाह्य संज्ञिसमापन्नस्य वा निरोधसमापन्नस्य वा विज्ञानमेव कायादपक्रान्तं स्यात् / नानपक्रान्तं ततः कालक्रियैव भवेत् / यथोक्तम् भगवता - ᳚विज्ञानं चास्य कायादनपक्रान्तं भवती᳚ति //
51 SK केन कारणेनासत्यालयविज्ञाने च्युतिरपि न युज्यते / तथाहि च्यवमानस्य विज्ञान मूर्ध्वदेहं वा शोतिकुर्वन् विजहाति, अधोदेहं वा / न च मनोविज्ञानं कदाचिन्न प्रवर्तते / अतो ऽप्यालयविज्ञानस्यैव देहोपादान कस्य विगमाद्देहशीतता उप[ल]भ्यते देहाप्रतिसंवेदना च / न तु मनोविज्ञानस्य / अतो ऽपि न युज्यते //
52 SK मनो निर्वचनत आलंबनतः संप्रयोगतः प्रवृत्तिकालतश्च निर्दिष्टं वेदितव्यम् / मार्गसंमुखीभावे तदभावः, परमार्थज्ञानस्यात्मदृष्टिसमुदाचारेणात्यन्तविरोधात् / तदूर्ध्वमालयविज्ञानात्प्रवृत्तिः, शैक्षस्याप्रहीणत्वात् / असंज्ञिसमापत्तितो (Aभिध्-स्-भ् १४) निरोधसमापत्तेः शान्ततरत्वं तदसमुदाचारादेव वेदितव्यम् / समनन्तरनिरुद्धं मनो ऽनुमतमिति कृत्वानन्तरं मतमित्यर्थः //
53 SK विज्ञानस्याश्रयत आलंबनतः स्वभावतश्च व्यवस्थानं वेदितव्यम् //
54 SK धात्वायतनानां नास्ति पृथग्लक्षणव्यवस्थानम्, स्कन्धनिर्देश एव चक्षुरादीनामुक्तलक्षणत्वात् / तस्मात्स्कन्धेभ्य एव निष्कृष्य धातवो व्यवस्थाप्यन्ते, धातुभ्य आयतनानि //
55 SK यत्तु स्कन्धैरसंगृहीतमसंस्कृतं तदष्टधाव्यवस्थाप्य इति / तथतायास्त्रैविध्यमाश्रयप्रकारभेदान्न स्वभावभेदादिति वेदितव्यम् / अनन्यथीम वता सदैव भावनां निरात्मतया द्रष्टव्या / संक्लेशाप्रचारतामुपादायेति तेनालबनेन संक्लेशवस्तुनः संक्लेशशून्यीकरणात् / यदापि संक्लिष्टेत्युच्यते तदाप्यागन्तुकस्तत्रोपक्लेशो वेदितव्यः / कतमः पुनरागन्तुकस्तत्रोपक्लेशः / अनपोद्धृतग्राह्यग्राहकबीजस्य परतन्त्रचित्तस्य द्वयाकारा प्रवृत्तिः / न धर्मता चित्तस्य / प्रकृतिप्रभास्वरा हि सर्वधर्माणां धर्मतेति / निमित्तानि रूपं वेदना यावद्बोधिरिति प्रपञ्चितानि, तेषां तत्रोपशमादनिमित्तम् / भूतं यदविपरीतम्, तस्य कोटिः पर्यन्तः, नैरात्म्यात्परेण तत्त्वापर्येपणात् / आकाशं रूपाभाव इति रूपस्यव विपर्ययेणाभावलक्षणो यो धर्मो मनोविज्ञानविषयस्तदाकाशम् / मनोविज्ञानविषयत्व पुनः धर्मधात्वधिकारत्वेन वेदितव्यम् / रूपस्यैवेत्यवधारणाद्वेदनादिसाधारणास्तथताप्रतिसंख्याप्रतिसंख्यानि[रो]धानित्यताः पर्युदास्यन्ते / शशविपाणादीनामत्यन्तमभावो न तेषां विपर्ययेण विज्ञायते / यस्मात्त एवात्यन्तं न संभवन्तीति / ते ऽपि शशविषाणादयो नास्यैव विद्यमानस्य रूपस्य विपर्ययेण, (Aभिध्-स्-भ् १५) वेदनादिसाधारणत्वात् / तस्माद्रूपस्यैव विपर्ययेणेत्युच्यते / अभावलक्षणवचनेन वेदनादोनामरूपिणां पर्युदासः / न हि ते ऽभावलक्षणा इति / यो निरोधो न च विसंयोग इत्यनुशयासमुद्धातात् / विपर्ययाद्विसंयोगः //
56 SK द्वयमिदं प्रहातव्यम् - क्लेशाश्च तदाश्रयभूतं च वस्तु वेदितम् / तत्पुनर्वेदितं द्विविधम् - वैकारिकमवैकारिकं च, सुखदुःखमदुःखासुखं च यथाक्रमम् / तत्र क्लेशप्रहाणात् प्रतिसंख्यानिरोधव्यवस्थानम् / द्विविधवेदितप्रहाणाद्यथाक्रममानिञ्ज्यस्य संज्ञावेदयितनिरोधस्य च व्यवस्थानम् / तत्र क्लेशप्रहाणं तत्पक्षदौष्ठुल्यापगमादाश्रयपरिवृत्तिः, वेदितप्रहाणं तत्प्रतिपक्षभूतायाः समापत्तेरावरणापगमादाश्रयपरिवृत्तिः / अत एव द्वितीये ध्याने दुःखनिरोधस्यासंस्कृता[व्य]वस्थानम्, वैकारिकस्य वेदितस्याशेषमप्रहाणात् //
57 SK रूपस्कन्धेन दशरूपिणो धातवः संगृहीताः, धर्मधातुना स एव, मन आयतनेन सप्त विज्ञानधातव इत्येवं सर्वधर्मास्त्रयो भवन्ति //
58 SK एवं व्यवस्थापितेषु स्कन्धधात्वायतनेष्वानुषंगिकमेतद्वयुत्पाद्यते //
59 SK चक्षुःश्रोत्रघ्राणानां प्रत्येकं द्वित्वे सति कथं धातूनां नैकविंशतित्वम् / यद्यपि चैषां द्वित्वं न तु धात्वन्तरत्वम्, लक्षणसाधर्म्येणोभयोश्चक्षुर्लक्षणत्वात्, कृत्यसाधर्म्येणोभयोश्चक्षुर्विज्ञानकृत्यत्वात् / एवं श्रोत्रघ्राणयोर्योज्यम् / द्वयोर्द्वयोस्तु निर्वृत्तिराश्रयशोभार्थम् / एवं सुविभक्तसमोभयपार्श्व आश्रयः शोभनो नान्यथा //
60 SK किमेकैकमेव चक्षुर्निश्रित्य चक्षुर्विज्ञानमुत्पद्यते नित्यमाहोस्विद्द्व अपि / द्वे अपीत्युच्यते, स्पष्टग्रहणात् / यथा द्वयोश्चक्षुषोरुन्मिषितयोः रूपग्रहणं स्पष्टं भवति न तथैकस्मिन्नेवेति / तद्यथा एकस्मिन्नपवरके द्वयोः प्रदीपयोरेकं प्रभाप्रतानं स्पष्टतरं द्वौ प्रदीपौ निश्रित्य वर्त्तते / तद्वदत्रापि नयो द्रष्टव्यः //
61 SK एकैकेनेन्द्रियद्वारेण विचित्रविषयप्रत्युपस्थाने तत्प्रकारेषु किं क्रमेण विज्ञानान्युत्पद्यन्ते आहोस्यिद्युगपदेकम् / युगपदेकमेव विचित्राकारं विज्ञानं वेदितव्यम् / जिह्वासंप्राप्ते कवडे जिह्वाकायविज्ञानयोर्नित्यं युगपदुत्पत्तिर्वेदितव्या //
62 SK शब्दस्योच्छेदित्वान्न देशान्तरेष्वपरापरोत्पत्तिसंतानेन देशान्तरगमनमस्ति किंतर्हि सकृत् / यथा स्वप्रदे शमवष्टभ्य प्रदीपप्रतानवत् शब्दप्रतानस्योत्पादो द्रष्टव्यः / यत्त्वासन्नतिरस्कृतस्य शब्दस्यास्पष्टं श्रवणं भवति तच्छब्दस्य प्रतिघातित्वादावरणसौषिर्यस्वल्पोक्तितो वेदितव्यम् //
63 SK षण्णां विज्ञानानां कति विज्ञानानि सविकल्पकानि कत्यविकल्पकानि / त्रिभिस्तावद्विकल्पैः मनोविज्ञानमेकं सविकल्पकम् / त्रयो विकल्पाःस्वभावविकल्पो ऽनुस्मरणविकल्पो ऽभिनिरूपणाविकल्पश्च / तत्र स्वभावविकल्पः प्रत्युत्पन्नेषु संस्कारेष्वनुभूयमानेषु यः स्वलक्षणाकारो विकल्पः / अनुस्मरणविकल्पो यो ऽनुभूतपूर्वसंस्काराकारः / अभिनिरूपणाविकल्पो यो ऽतीतानाग तप्रत्युत्पन्नेषु विपरोक्षेष्वभ्यूहनाकारो विकल्पः // अपि खलु सप्त विकल्पाः आलंबने स्वरसवाहो विकल्पः सनिमित्तो ऽनिमित्तः पर्येषकः प्रत्यवेक्षकः क्लिष्टो ऽक्लिष्टश्च विकल्पः / तत्र आद्यो विकल्पः पञ्च विज्ञानकायाः, अचित्रयित्वालंबनं यथास्वं विषयेषु स्वरसेनैव वहनात् / सनिमित्तः स्वभावानुस्मरणविकल्पो वर्तमानातीतविषयचित्रीकरणात् / अनिमित्तो ऽनागतविषयो मनोरथाकारो विकल्पः शेषा अभिनिरूपणाविकल्पस्वभावा वेदितव्याः / तथाह्येकदाभ्यूहमानः पर्येषते, एकदा प्रत्यवेक्षते, एकदा क्लिष्टो भवति, एकदाक्लिष्ट इति //
64 SK यदा रूपादिप्रतिविज्ञप्तिकं विज्ञानं तत्केन कारणेन चक्षुरादिविज्ञानमित्युच्यते न रूपादिभिज्ञानमिति / पञ्चविधविग्रहोपपत्तेः रूपादिवचनानुपपत्तिः / कथमिति / चक्षुषि विज्ञानं चक्षुर्विज्ञानम्, आश्रयदेशे विज्ञानोत्पत्तितः, सति च तस्मिस्तद्भावात् / तथाहि सति चक्षुषि चक्षुर्विज्ञानमवश्यमुत्पद्यते अनन्धानामनन्धतो ऽन्धकारस्यापि दर्शनात् / न रूपे सत्यवश्यम्, अन्धानामदर्शनादिति / चक्षुषा विज्ञानं चक्षुविज्ञानम्, तद्वशेनाविकृते ऽपि रूपे विज्ञानस्य विक्रियागमनत्वात् / तद्यथा कामलव्याध्युपहतेन (Aभिध्-स्-भ् १७) चक्षुषा नीलादिरूपेष्वपि पीतदर्शनमेव भवतीति / चक्षुषो विज्ञानं चक्षुर्विज्ञानम्, विज्ञानबीजानुबन्धाच्चक्षुषस्तन्निर्वृत्तेः / चक्षुषे विज्ञानम्, तस्मै हिताहि[त]त्वात् / तथाहि विज्ञानसंप्रयुक्तेनानुभवेनेन्द्रियस्यानुग्रह उपघातो वा भवति, न विषयस्येति / चक्षुर्विज्ञानं चक्षुर्विज्ञानम्, उभयोः सत्त्वसंख्यातत्वात् न त्ववश्यं रूपस्येति //
65 SK किं तावच्चक्षू रूपाणि पश्यतीति वेदितव्यमथ विज्ञानम् / नैकं नापरं पश्यतीति वेदितव्यम्, निर्व्यापारत्वात् धर्माणाम् / सामग्रयां तु सत्यां दर्शनप्रज्ञप्तिः / अपि खलु षड्भिराकारैः चक्षुषो रूपदर्शने प्राधान्यं वेदितव्यं न विज्ञानस्य / कतमैः षड्भिः / उत्पत्तिकारण (त)ः, चक्षुषस्तदुत्पत्तेः / तत्पदस्थानतः, दर्शनस्य चक्षुराश्रयणात् / अचलवृत्तितः, चक्षुषो नित्यमेकजातीयत्वात् / स्वतन्त्रवृत्तितः, प्रतिक्षणमुत्पत्तिप्रत्ययसामग्र्यनपेक्षत्वात् / शोभावृत्तितः, तेनाश्रयशोभनात् / आगमतः, ᳚चक्षुषा रूपाणि दृष्ट्वे᳚ ति वचनात् / एतच्च यथोक्तं सर्व विज्ञानस्य न संभवतीति / चलवृत्तित्वं त्वस्य बहुप्रकारोत्पत्तितो वेदितव्यम् //
66 SK यथा धातुष्वायतनेषु चासंस्कृतं व्यवस्थापितमेवं कस्मान्न स्कन्धेष्वपि व्यवस्थापितम् / स्कन्धार्थासंभवात् / रूपादीनामतीतादिप्रकाराभिसंक्षेपेण राश्यर्थः स्कन्धार्थो निर्दिष्टः / स च नित्यस्य न संभवतीति न स्कन्धेष्वसंस्कृतव्यवस्थानम् //
67 SK केन कारणेन त एव धर्मा स्कन्धधात्वायतनमुखैः पृथग्देशिताः / विनेयानां समासव्यासनिर्देशकौशल्योत्पादनार्थम् / तथाहि स्कन्धनिर्देशे ये रूपविज्ञाने समासेन निर्दिष्टे ते धात्वायतनेष्वेकादशधा / सप्तधा च भित्त्वा व्यासेन (Aभिध्-स्-भ् १८) निर्दिष्टे यथायोगम् / ये तु तत्र वेदनादयो व्यस्ताः ते धात्वायतनेषु धर्मधात्वायतनत्वेन समस्ता इति / अपि खलु लक्षणमात्रव्यवस्थानतः स्कन्धनिर्देशः, ग्राह्यग्राहकग्रहणव्यवस्थानतो धातुनिर्देशः, ग्रहणाय द्वारभूतस्य ग्राह्यग्राहकमात्रस्य व्यवस्थानत आयतननिर्देशो वेदितव्यः / समाप्तमानुषंगिकम् //
68 SK अतः परं मूलग्रन्थस्यैवार्थनिर्देशो द्रष्टव्यः / अर्हतश्चरमं चक्षुः परिनिर्वाणकाले पश्चिमम् / तत्र धातुः, चक्षुरन्तरस्याहेतुत्वात् / आरूप्योपपन्नस्य पृथग्जनस्य चक्षुर्हेतुरिति ततः प्रच्युत्य रूपिणि धातावुपपद्यमानस्य यस्मादालयविज्ञानसंनिविष्टाच्चक्षुर्बीजाच्च क्षुर्निर्वर्तिष्यते, न त्वार्यस्य पुनरनागमनादिति // कायधातुर्न काय आरूप्योपपन्नस्य पृथग्जनस्य यः कायधातुरित्येतदत्र वक्तव्यम्, अण्डगतादीनां कायसंभवात् प्रनष्टकायस्य चाजीवि[त]स्वादिति // स्यान्मनोधातुर्न मन इत्यत्रासंज्ञिसमापन्न स्याग्रहणम्, क्लिष्टमनःसद्भावात् //
69 SK जातो भूतः निर्वृत्ति वृद्धि चाधिकृत्य यथाक्रमम् // आरूप्यावचरेण मनसारूप्यावचरान् स्वभूमिकाननास्रवांश्च धर्मान् विजानातीत्यार्यश्रावकमधिकृत्य / बाह्यकः पृथग्जनः स्वभूमिकानेव विजानातीति / इह धार्मिकस्तु कश्चित्पूर्वश्रुतपरिभावनावशादूर्ध्वभूमिकानप्यालंबते तदुत्पादनार्थम् //
70 SK यथा रूपं तथानुभव इति सुखादिवेदनीयादिन्द्रियार्थद्वयात्सुखादिवेदनोत्पत्तेः / यथा वेदयते तथा संजानीत इति यथानुभवं निमित्तोद्ग्रहणात् / यथा संजानीते तथा चेतयति यथासंज्ञं कर्माभिसंस्करणात् / यथा चेतयते तथा विज्ञानं तत्र तत्रोपगं भवतीति यथाभिसंस्कारं विषयेषु गत्यन्तरेषु च विज्ञानपरिणामात् //
71 SK यत्र संक्लिश्यते व्यवदायते चेति सेन्द्रिये काये / येनानुभवेनेति सामिषनिरामिषाद्येन यथाक्रमम् / येन निमित्तग्रहणाभिसंस्कारेणेत्ययोनिशो योनिशश्च प्रवृत्तेन / यत्संक्लिश्यते व्यवदायते चेति चित्तदौष्ठुल्यादौष्ठुल्योपपत्तितः //
72 SK एकादशविधात्तृष्णाप्रकाराद्रूपादीनामतीतादिप्रकारव्यवस्थान वेदितव्यम् / सा पुनः अपेक्षातृष्णा अभिनन्दनातृष्णा अध्यवसानतृष्णा आमतृष्णा विषयतृष्णा कामतृष्णा समापत्तितृष्णा दुश्चरितदुःखतृष्णा सुचरितसुखतृष्णा विप्रकृष्टतृष्णा सनिकृष्टतृष्णा च / अस्याः तृष्णाया आलंबनत्वेन यथाक्रममतीतादयः प्रकारा योजितव्याः / अपरः पर्यायः / उत्पन्नानुत्पन्नभेदतो ग्राहकग्राह्यभेदतो बहिर्मुखान्तर्मुखभेदतः क्लिष्टाक्लिष्टभेदतो विप्रकृष्टसंनिकृष्टभेदतश्वातीतादीनि यथायोगं वेदितव्यानि / तत्रोत्पन्नमतीतं प्रत्युत्पन्नं च / अनुत्पन्नमनागतम् / वहिर्मुखमसमाहितभूमिकम् / अन्तर्मुखं समाहितभूमिकम् / शिष्टः सुगमत्वान्न विभक्तः / दुःखवैपुल्यलक्षणतामुपादायेति रूपादिसंनिश्रयेण जात्थादिदुःखप्रतानात् / संक्लेशभारोद्वहनं रूपाद्याश्रितत्वात् क्लेशादिसंक्लेशस्य / तद्यथा लोके येन शरीरप्रदेशेन भार उह्यते तत्र स्कन्धोपचारो दृष्टः, स्कन्धेन भारमुद्धहतीति //
73 SK सर्वधर्मबीजार्थ इति हेत्वर्थमधिकृत्यालयविज्ञाने / कार्यकारणभावधारणमष्टादशसु धातुषु षण्णां विज्ञानधातूनामिन्द्रियार्थधातूनां, च यथाक्रमम् / सर्वप्रकारधर्मसंग्रहणेन सूत्रान्तरनिर्दिष्टानां पृथिवीधात्वादीनामन्येषामपि धातूनामेष्वेवाष्टादशसु यथायोगं संग्रहणाद्वेदितव्यम् //
74 SK बीजार्थः सर्वप्रकारधर्मसंग्रहार्थश्चायतनार्थो ऽपि वेदितव्यः //
75 SK रूपादानां फेनपिण्डो पमत्वमसतो रिक्ततः तुच्छतो ऽसारतश्च (Aभिध्-स्-भ् २०) ख्यानाद्वेदितव्यम् / एतेषां पुनः सूत्रपदानामर्थ आत्मशुचिसुखनित्यविपर्यासप्रतिपक्षेण यथाक्रममनात्मतामुपादायेत्येवमादिभिः पदर्वेदितव्यः //
76 SK कथं कति किमर्थिभिरिति प्रश्नत्रयव्यवस्थापनं लक्षणवस्तुसंमोहयोः समारोपस्य च प्रहाणार्थम् /
77 SK तत्र कथं द्रव्यसदिति द्रव्यसतो लक्षणनिर्देशेन तत्संमोहः प्रहीयते / सर्वाणि द्रव्यसन्तीत्यनेन वस्तुसंमोहः प्रहीयते आत्मद्रव्याभिनिवेशत्याजनार्थमित्यनेन समारोपः प्रहीयते / एवमन्यत्रापि योज्यम् / अभिलापनिरपेक्ष इन्द्रियगोचरस्तद्यथा रूपं वेदनेत्येवमादिकं नाम्नाचित्रयित्वा यस्यार्थस्य ग्रहणं भवति / तदन्यनिरपेक्षस्तद्यथार्थान्तरमनपेक्ष्य यत्र तद्बुद्धिर्भवति / न यथा घटादिषु रूपादीनपेक्ष्य घटादिबुद्धिरिति //
78 SK संक्लेशालंबनं संवृतिसत् संक्लेशवृत्त्यर्थेन / आत्मा संक्लेशस्य निमित्तमित्यभिनिवेशत्याजनार्थम् //
79 SK विशुद्धये आलंबनं परमार्थसत् परमज्ञानगोचरार्थेन / सर्वाणि षरमार्थसन्तीतिति तथताव्यतिरेकात्सर्वधर्माणाम् //
80 SK येन संक्लिश्यते व्यवदायते चेति रागादिभिश्चेतसिकैः श्रद्धादिभिश्चेति वेदितव्यम् / या च तत्रावस्थेति रूपचित्तचेतसिकावस्थासु प्रज्ञप्ताश्चित्तविप्रयुक्ताः संस्काराः / यच्च व्यवदानमित्यसंस्कृतं व्यवदानं वेदितव्यम् / तच्च यथायोगम् / पुनस्त्रयोदशविधस्य विज्ञानस्य यो विषयः तज्ज्ञेयमनेन प्रदर्शितम् / तत्पुनः श्रुतमयं ज्ञानं चिन्तामयं ज्ञानं लौकिकभावनामयं ज्ञानं परमार्थज्ञानं परचित्तज्ञानं धर्मज्ञानम् अन्वयज्ञानं दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं क्षयानुत्पादज्ञानं महायानज्ञानं च / एते ऽन्ये च यथाक्रममधिमुक्तिज्ञानादीनि वेदितव्यानि / तत्र परचित्तज्ञानं परात्म ज्ञानम्, परात्मचित्तविषयात् / धर्मज्ञानमधरज्ञानम्, सत्येष्वादित (Aभिध्-स्-भ् २१) उत्पादात् / अन्वयज्ञानमूर्ध्वज्ञानम्, धर्मज्ञानादूर्ध्वमुत्पादात् / विदूषणायासमुत्थापनायानुत्पादे ज्ञाने निष्ठायां महार्थेषु ज्ञानं तद्विदूषणज्ञानं यावन्महार्थज्ञानमिति योजयितव्यम् / महार्थत्वं पुनः स्वपरार्थत्वात् //
81 SK तत्र अविकल्पनतः पञ्चभिर्विज्ञानकायैः / विकल्पनतः मनोविज्ञानेन / हेतुत आलयविज्ञानम् / प्रवृत्तितस्तदन्यद्विज्ञानम् निमित्तत इन्द्रियार्थाः / नैमित्तिकतो विज्ञानानि / विपक्षप्रतिपक्षतः सरागं विगतरागं सद्वेषं विगतद्वेषमित्येवमादि / सूक्ष्मप्रभेदतः सप्तविधदुर्विज्ञानविज्ञप्तिभेदात् / सप्तविधादुर्विज्ञाना विज्ञाप्तिस्तद्यथा असंविदितविज्ञप्तिः भाजनविज्ञप्तिः, सर्वकालमपरिच्छिन्नाकारत्वात् चित्राकारविज्ञप्तिरेकस्यानेक आकारो विचित्रश्चेति दुर्व्यवस्थापनादस्याः सूक्ष्मत्वम् / सहभावविज्ञप्तिरेककालोत्पन्नाति विज्ञानानि कथं पृथग्यथास्वं विषयं परिच्छिन्दन्तीति दुर्व्यवस्थापनात्सूक्ष्मत्वम् / सूक्ष्मत्वमिति सर्वत्राधिकृतं वेदितव्यम् / विपक्षप्रतिपक्षलघुपरिवृत्तिविज्ञप्तिः कथं रागादिसमस्तबन्धनं चित्तं तन्मुहुरेव सकृद्वीतरागादिकं भवतीति / वासनाविज्ञप्तिः कथं कर्मभिः समुदाचरद्भिः चित्तं वास्यते, न च तस्मादन्या सा वासना, नापि तन्मात्रमेव, फलदानं च प्रति क्रमेण वृत्तिलाभ इति / प्रतिसंधिविज्ञप्तिः कथमनेकप्रकारात्मभावनिर्वर्तककर्मपरिभावितं सद्विज्ञानं तथाप्यपरिस्फुटायां मरणावस्थायां सहसा प्रबुद्धयान्यतरकर्मवासनामन्यतरस्यां गतौ प्रतिसंधि वध्नानीति / मुक्तविज्ञप्तिः कथमर्हतश्चित्तं परमं निष्प्रपञ्चं धर्मताप्राप्तं संसारोचितसर्वप्रकारसाश्रवचर्या समतिक्रान्तमनेनाकारेण वर्तत इति दुर्व्यवस्थापनादस्याः सूक्ष्मत्वं वेदितव्यम् / द्रष्टादिग्रहणेन द्रष्टा श्रोता घ्राता स्वादयिता स्प्रष्टा विज्ञाता चेत्येषां ग्रहणं वेदितव्यम् //
82 SK अभिज्ञेयं षण्णामभिज्ञानां विषय / गमनविशेषप्रभावितत्वादृद्धयभिज्ञायास्तद्विषयस्य संक्रान्तितो ऽभिज्ञेयत्वम् / (Aभिध्-स्-भ् २२) सरागादिनिमित्तज्ञानाच्चरितप्रवेशात् / अतीतजन्मपरंपरागमनज्ञानादागतितः / अनागतोत्पत्तिगमनज्ञानात् गतितः / त्रैधातुकनिर्मोक्षोपायज्ञानान्निसरणतः / सर्वाण्यभिज्ञेयान्यन्त्यानां तिसृणां सवंविषयत्वात् /
83 SK तत्र रूपीति रूपं तस्य धर्मस्यात्मस्वभावस्तस्मादसौ रूपी, न तु रूपान्तरेण युक्तत्वात् / यावदुक्तं स्याद्रूपस्वभाव इति / भूताश्रयतो ऽपीति रूपान्तरयोगादपि रूपित्वमिति दर्शयति, उपादायरूपस्य भूतरूपेण योगाद्भतरूपाणां च परस्परमिति / नान्दीसमुदय इति नान्द्येव यस्य समुदयस्तद्रूपि, न तु यथा वेदनादीनां पूर्विका च नान्दो समुदयः, प्रत्युत्पन्नश्च स्पर्शादिरिति / सप्रदेशतः सावयवत्वात् / देशव्याप्तितो दिक्षु प्रत्यास्परणात् / देशोपदेशतो ऽमुष्यां दिशीति व्यवदेष्टुं शक्यत्वात् देशगोचरतः कस्मिश्चित्प्रदेशे स्थितस्यालंबनीभावात् / द्वयसमगोचरतः सत्त्वद्वयस्य कस्मिश्चित्प्रदेशे स्थितस्यालं वनोभावात् / द्वयसमगोचरतः सत्त्वद्वयस्य सममालं वनीभावान्न त्वेवमरूपिणो यथात्मानुभवं परैः परिग्रहीतुमशक्यत्वादिति / संबन्धतश्चक्षुर्विज्ञाना दीनामपि पर्यायेण रूपित्वम्, रूपीन्द्रियसंबन्धात् / अनुबन्धत आरूप्याणां पृथग्जनानां रूपबीजानुबन्धात् / प्ररूपणतो वितर्कविचाराणामालंबनप्ररूपणात् / व्याबाधनतः पञ्चानां स्कन्धानां पाण्यादिसंस्पर्शैः शोकादिभिश्च यथायोगं रूपणात् बाधनादित्यर्थः / संप्रापणतो देशनाया अर्थनिरूपणात् / संचयव्यवस्थानतः परमाणोरूर्ध्वरूपस्य सावयवव्यवस्थानात् / बहिर्मुखतः कामावचरस्य रूपस्य कामगुणतृष्णासंभूतत्वात् / अन्तर्मुखतो रूपावचरस्य रूपस्य समापत्तिचित्ततृष्णासंभूतत्वादत एवास्य मनोमयत्वं वेदितव्यम् / आयततः पृथग्जनस्य पूर्वान्तापरान्तयोः पर्यन्तव्यवस्थानाभावात् / परिच्छिन्नतः शैक्षस्य रूपस्य पर्यन्तीकृतसंसारत्वात् / तत्कालतो ऽशैक्षरूपस्य प्रत्युतत्पन्नभवमात्रावशेषात् / (Aभिध्-स्-भ् २३) निदर्शनतो बुद्धादिरूपस्य संदर्शनमात्रत्वादनिष्पन्नतामुपादाय // तत्र सर्वाणि रूपीणि व्यावाधनरूपित्वेन / यथायोगं शेषैर्वेदितव्यम् / बहिर्मुखतादयस्तु षड् रूपिभेदा वेदनादिसाधारणा वेदितव्याः /
84 SK शिष्टस्य रूपिवत् प्रभेद इति / इति कथम् / यथा रूवितदात्मतो ऽपीति विस्तरेण रूपीत्युक्तं तथा सनिदर्शनतदात्मतो ऽपि सनिदर्शनं विस्तरेण योजयितव्यम् / तत्र सर्वाणि सनिदर्शनानि सर्वनिदर्शनसंबन्धादिनारूपिणामपि सनिदर्शनत्वात् //
85 SK आवृणोत्याव्रि यत इति गमनप्रतिबन्धार्थेन / आवृणोतीत्येतावति वक्तव्ये आव्रियते चेति वचनं प्रभादिरूपस्य सप्रतिघत्वव्यवस्थापनार्थम् / तद्ध्याव्रियत एव नावृणोतीत्येषा तस्य जातिरेष स्वभाव इत्यर्थः / परमाणोरूर्ध्वमित्येकस्य परमाणोरप्रतिघत्वात् / यन्न समाधिवशवर्ति रूपमिति समाधिवशेन वर्तमानस्याप्रतिघत्वात् समचित्तकदेवतावत / प्रकोपपदस्थानं यत्राश्रय आलंबने वा द्वेष उत्पद्यते / अनेन च सप्रतिघार्थेन सर्वाणिसप्रतिघानि / यथायोगं वेति शेषैः //
86 SK आस्रवतदात्मत आस्रवाणां सास्रवत्वमास्रवस्वभावेन युक्तत्वात् / आस्रवसंबन्धतस्तत्सहभुवां चितचैत्तानां चक्षुरादीनां चास्रवसंप्रयुक्तत्वादास्रव [श्रय]त्वाच्च यथाक्रमम् / आस्रवबन्धतः कुशलसास्रवाणां तद्वशेन पुनर्भवनिर्वर्तनात् / आस्रवानुबन्धतो ऽन्यभूमिकानामप्यन्यभूमिकास्रवदौष्ठुल्याश्रयत्वात् / आस्रवानुकूल्यत इति क्लेशदौष्ठुल्यानुगतत्वे ऽपि निर्वेद्यभागीयानामनास्रवत्वव्यवस्थापनार्थम्, सर्वभववैमुख्येन (Aभिध्-स्-भ् २४) तत्प्रतिपक्षत्वात् / आस्रवान्वयतो ऽर्हतां स्कन्धानां पौर्वजान्मिकक्लेशसंभूतत्वात् // पञ्चस्कन्धाः सास्रवाः / पञ्चदश घातवो ऽन्त्यांस्त्रीन् हित्वा / दशायतनान्यन्त्ये द्वे हित्वाः / त्रयाणां धातूनां द्वयोश्चायतनयोः प्रदेशः सपरिवारमार्यमार्गमसंस्कृतं च हित्वा //
87 SK शस्त्रादानादिरणहेतवो रागादयो रणाः / यावन्ति सास्रवाणि तावन्ति सरणाणीत्येवमादि तदानुबंध्यार्थेन वेदितव्यम् //
88 SK पुनर्भवाध्यवसानहेतवो रागादय आमिषम् / कथं द्वेषस्य - पुनर्भवाध्यवसानहेतुत्वम् / व्यावदानिकधर्मद्वेषेण पुनर्भवाध्यवसानात् //
89 SK कामगुणाध्यवसानहेतवो रागादयो ग्रेधः / कीदृशेन द्वेषेण तदध्यवसानम् / नैष्क्रम्यद्वेषेण //
90 SK कामकारेण संमुखीभावो विमुखीभावश्च नासंस्कृतस्य संभवति नित्यत्वात् / नैवसंस्कृतनासंस्कृतस्य द्वयाव्यतिरेकाद्यदुक्तम् - द्वयमिदं संस्कृतं चासंस्कृतं चेति / तत्कथं द्वयमेवमेव भवतीति / कामकारसंमुखीभावार्थेन संस्कृतमेवेति वक्तव्यम् / कर्मक्लेशानभिसंस्कृततार्थेनासंस्कृतमेवेति / न द्वयाद्वयतिरिच्यते //
91 SK तत्प्रतिभासमिति त्रैधातुकपर्यापन्नाकारम्, तथतादिप्रतिभासस्यैकान्तेनानुचितत्वेन लोकोत्तरत्वात् / स्कन्धानामेकदेशं सम्यग्ज्ञानसंगृहीतं लोकोत्तरप्रतिभासांश्च पृष्ठलब्धान् स्थापयित्वा / तच्चासंस्कृतं च स्थापयित्वा त्रयाणां धातूनां द्वयोश्चायतनयोः प्रदेशो द्रष्टव्यः //
92 SK त्रैधातुकप्रतिपक्ष आर्यमार्गः / स पुनः श्रावकप्रत्येकबुद्धानां नित्यादिचतुर्विधविपर्यासप्रतिपक्षत्वादविपर्यासनिर्विकल्पतया निर्विकल्पः / बोधिसत्त्वानां रूपादिसर्वधर्मप्रपञ्चप्रतिपक्षत्वान्निष्प्रपञ्चनिर्विकल्पतया निर्विकल्पः / असंस्कृतं तु सर्वविकल्पापस्थानान्निर्विकल्पः /
93 SK आद्युत्पन्नं प्रतिसंधिकाले / प्रबन्धोत्पन्नं तत ऊर्ध्वम् / उपचयोत्पन्नं चतुर्विधेनोपचयेन स्वप्नाहारब्रह्मचर्यसमापत्तिहेतुकेन / आश्रयत्वोत्पन्नमध्यात्मकमिन्द्रियम् / विकारोत्पन्नं सुखा दिवेदनोत्पत्तौ तदनुकूल इन्द्रियपरिणामः / परिपाकोत्पन्नं जीर्णावस्थम् / हान्युत्पन्नं सुगतेश्च्युत्वादुर्गतावुत्पद्यमानस्य / विशेषोत्पन्नं विपर्ययात् / प्रभास्वरोत्पन्नं क्रीडाप्रमोषकाणां मनःप्रदूषकाणां निर्माणरतीनां परनिर्मितवशवर्तिनां रूपारूप्यावचराणां च देवानां प्रमोदबाहुल्याद्भोगेषु विहारे च स्ववशवर्त्तनाद्यथायोगम् / अप्रभास्वरोत्पन्नं तदन्यत् / संक्रान्त्युत्पन्नं गमनावस्थायाम् / सबीजोत्पन्नमर्हतश्चरमान् स्कन्धान् वर्जयित्वा / अबीजोत्पन्नं चरमाः स्कन्धाः / प्रतिबिम्बविभुत्वनिदर्शनोत्पन्नं ज्ञेयं वस्तु सभागं वैमोक्षिकं ताथागतं च रूपं यथाक्रमम् / परंपरोत्पन्नं जन्मप्रबन्धे / क्षणभङ्गोत्पन्नं प्रतिक्षणं संस्काराणां लक्षणम् / संयोगवियोगोत्पन्नं प्रियाप्रियसंयोगवियोगावस्थायां चित्तस्य च सरागविगतरागाद्यवस्थायाम् / अवस्थान्तरोत्पन्नं कललाद्यवस्थासु व्याध्याद्यवस्थासु च / च्युतोपपादोत्पन्नं सत्त्वलोकः / संवर्तविवर्तोत्पन्नं भाजनलोकः / पूर्वकालोत्पन्नं पूर्वकालभवः / मरणकालोत्पन्नं मरणकालभवः / अन्तरोत्पनमन्तराभवः / प्रतिसंधिकालोत्पन्नमुपपत्तिभवः //
94 SK रूपसंस्कारस्कन्धैकदेश इतीन्द्रियलक्षणः संप्रयुक्तलक्षणश्च यथाक्रमम् / धर्मधात्वायतनैकदेशः संप्रयुक्तस्वभावः / भोक्तात्मा इष्टानिष्टानां विषयाणामुपलंभार्थेन वेदितव्यः / अप्राप्तग्राहकं चक्षुः श्रोत्रं मनश्च / प्राप्तग्राहकं तदन्यदिन्द्रियम् / स्वलक्षणस्य वर्तमानस्य प्रत्येकं प्रतिनियतस्य विषयस्य ग्राहकं पञ्चेन्द्रियजम् / स्वसामान्यलक्षणस्य (Aभिध्-स्-भ् २६) सर्वकालस्य सर्वस्य विषयस्य ग्राहकं षष्ठेन्द्रियजम् // प्रत्ययसामग्रया विज्ञानस्योत्पत्तिमधिकृत्य प्रज्ञप्त्यां ग्राहकोपचारो वेदितव्यः, न तु भूतार्थेन व्यापारत्वाद् धर्माणामिति /
95 SK यत्तावद्ग्राहकं ग्राह्यमपि तत् चक्षुरादीनामपि मनोविज्ञानेन ग्राह्यत्वात् / ग्राहकगोचर एवेत्यवधारणं चैतसिकव्युदासार्थम् //
96 SK श्रुतचिन्तामयतदनुधर्मप्रतिपत्तिसंगृहीतस्याबहिर्मुखत्वम्, निष्यन्दधर्महेतुकत्वात्, तद्वशेन निर्वाणाद्यालंबनतो द्रष्टव्यम् / निष्यन्दधर्मः पुनर्बुद्धादीनामधिगमान्वया देशना वेदितव्या / चत्वारो धातवो घ्राणविज्ञानधातुर्गन्धधातुर्जिह्वाविज्ञानधातुः रसधातुश्च / द्वे आयतने गन्धरसायतने तदन्येषामेकदेशः कामधातुसंगृहीतः //
97 SK दशानां धातूनामिति सप्तानां विज्ञानधातूनां रूपशब्दधर्मधातूनां च / चतुर्णामायतनानामिति रूपशब्दमनोधर्मायतनानाम् //
98 SK हेतुफलोपयोगत इत्युत्पन्नत्वान्निरुद्धत्वाच्च यथाक्रमम् / संक्लेशव्यवदानकारित्रसमतिक्रान्तत इति प्रत्युत्पन्नरागादिश्रद्धादिवच्चित्तसंक्लेशव्यवदानसामर्थ्याभावात् / हेतुपरिग्रहविनाशतो वासनां स्थापयित्वा विनष्टत्वात् / फलस्वलक्षणभावाभावतो वर्तमाने काले तदाहितवासनासद्भावात्तदाधायकद्रव्याभावाच्च / स्मरसंकल्पादीनां निमित्तत्वमालंबनमात्र भावादवेदितव्यम् / सर्वेषामेकदेशो ऽनागतप्रत्युत्पन्नासंस्कृतवर्जः //
99 SK हेतौ सत्यनुत्पन्नत इत्यसंस्कृताद्विशेषणार्थम्, तद्धयनुत्पन्नमपि सन्न हेतुमदिति / लब्धस्वलक्षणतो ऽनिर्वृत्तस्वभावत्वात् / हेतुफलानुपयोगतस्तद्बीजस्याकृतकृत्यत्वात् तस्य चानुत्पन्नत्वात् //
100 SK हेतुफलोपयोगानुपयोगतः पुनरनिवर्त्यत्वादस्थितत्वाच्च / अतीतानागतप्रभावननिमित्ततः प्रत्युत्पन्नमधिष्ठायातीतानागतप्रज्ञप्तेः / यत्तामवस्थां (Aभिध्-स्-भ् २७) प्राप्स्यति तदनागतम् / यत्प्राप्तं तदतीतमिति / कारित्रप्रत्युपस्थानतश्चक्षुरादीनां विज्ञानाश्रयादिभावात् //
101 SK अतीतनिर्देशाधिकारेणेदमपि ज्ञाप्यते - किमर्थ भगवतातीतादीन्येव त्रीणि कथावस्तूनि व्यवस्थापितानि न निर्वाणमिति / निर्वाणस्य प्रत्यात्मवेदनीयतया निरभिलाप्यतामुपादाय कथयितुमशक्यत्वादित्यर्थः, दृष्टश्रुतमतविज्ञातव्यवहाराणां भूतभव्यवर्तमानाधिष्ठानत्वात् /
102 SK दशानां धातूनां विज्ञानधातूनां रूपशब्दधर्मधातूनां च / चतुर्णामायतनानां रूपशब्दमनोधर्मायतनानाम् / तेष्वेवेति श्रद्धादिषु / प्रकृत्याप्रतिसंख्यायेति स्वरसेन, विना कल्याणमित्रादिबलेनेत्यर्थः / रुचिः संतिष्ठत इति न केवलं रुचिरेवोपपत्तिप्रातिलम्भिका किं तर्हि सह तैः श्रद्धादिभिरिति / कुशलस्य भावना सर्वे श्रुतमयादयः कुशला धर्मावेदितव्याः / स्वर्गाढ्यकुलोपपत्तिपरिग्रहाभ्यामभ्युदयहेतुं दर्श्यति / व्यवदानानुकल्यपरिग्रहेण प्राप्तिहेतुमिति / विदूषणाप्रतिपक्षादयः परस्तान्निर्देक्ष्यन्ते /
103 SK तदन्यः क्लेशोपक्लेशो दुश्चरितसमुत्थापक इति स पुनर्यः कामा[व]चरो ऽनैःसर्गिकः, नैःसर्गिकस्तु यो दुश्चरितसमुत्थापकः सो ऽकु[श]लः / तदन्यो निवृताव्याकृतो वेदितव्यः / हिंसापूर्वकं चैत्यं प्रतिष्ठापयति यत्रोरभ्रमहिषादयो हन्यन्ते / कुदृष्टिपूर्वकं यत्रानशनादिभिः पुण्यार्थिनो वरार्थिनश्च क्लिश्यन्त इति / आक्षेपकं वा परिपूरकं वेति दुर्गतिमधिकृत्य / सुगतौ तु परिपूरकमेव, येनात्रोपपन्नो दारिद्रयादिकं व्यसनं प्रत्यनुभवति / कुशलान्तरायिका धर्मा अभीक्ष्णं गणसंनिपातादयः //
104 SK अष्टौ धातवश्चक्षुः श्रोत्रघ्राणाजिह्वाकायगन्धरसस्प्रष्टव्यधातवः / अष्टावायतनानि तान्येव / अदुष्टाप्रसन्नचितस्येति कुशलाकुशलविपर्ययं दर्श[य]ति / तैरेव परिगृहीता इति तदाकारत्वेन मनोजल्पसुखवृत्तत्वात् / तेषामेवाभिलापवासनेति नाम कायादिभिश्चितवासनायत्यामभिलापप्रवृत्तये / तत्परिगृहीतेश्चित्तचैतसिकैर्धर्मैर्यत्समुत्थापितमित्यप्रदुष्टाप्रसन्नचित्तस्य नामाद्यभिलापाकारै[ः] / अक्लिष्टाकुशलचेतसो यद्यस्य (Aभिध्-स्-भ् २८) न क्लिष्टं नापि कुशलं चेतो भवति, तत ऐर्यापथिकाद्यव्याकृतं भवत्यन्यथा कुशलाकुशलं यथायोगमिति / यथापि तदप्रतिसंख्यायेति कुशलत्वाद्विशेपयति, अक्लिष्टचित्त इत्यकुशलत्वात् / प्रतिसंख्याय भैषज्यं निषेवते सर्वव्याधिप्रतिपक्षेणारोग्यार्थम् / अधिगमनिष्यन्दतो ऽव्याकृतं निर्माणचित्तं सहजामिति यैश्चित्तचैतसिकैः विक्रीडनार्थं निर्माणं निर्मेमीयते / सत्त्वहितार्थ तु कुशलं वेदितव्यमिति // निदर्शनतः कुशलादिकं यद्बुद्धादयो विनेयार्थवशात्संदर्शयन्ति / अकु[श]लस्य कथं संदर्शनम् / चोरादि निर्माय तदन्यसत्त्वभीषणार्थ करचरणशिरश्छेदादिसंदर्शनात् //
105 SK अवीतरागस्येति प्रदेशवैराग्येणाप्ययुक्तस्यासमाधिलाभिन इत्यर्थः / इतरथा ह्यनागम्यं कामप्रतिसंयुक्तं प्राप्नुयात् / सह समाधिलाभात् प्रहाणाभिरतिविपक्षभूतस्य दौष्ठु[ल्य]स्य प्रहाणात् प्रदेशवैराग्यमस्तीति वेदितव्यम् / बाह्यं त्विह रूपादिकमवीतरागकर्माधिपत्यनिर्वृत्तत्वात् कामप्रतिसंयुक्तम् / सर्वसत्त्वसाधारणकर्माधिपत्यसंभूतवचनमवीतरागकर्मणा रूपारूप्यावचरेष्वपि वीजिनो ऽस्तित्वात् / चत्वारो धातवो गन्धरसघ्राणजिह्वाविज्ञानधातवः / द्वे आयतने गन्धरसायतने / तदन्येषामेकदेशः रूपारूप्यावचरानास्रववर्जः /
106 SK चतुरो धातून् द्वे चायतने स्थापयित्वानन्तरोक्तानि / तदन्येषां स्कन्धधात्वायतनानामेकदेशः कामरूप्यावचरानास्रववर्ज्यः /
107 SK चतुर्णा स्कन्धानां वेदनादीनाम् / त्रयाणां धातूनां मनोधर्ममनोविज्ञानधातूनाम् / द्वयोरायतनयोर्मनोधर्मायतनयोः / प्रदेशः कामरूपावचरानास्रववर्ज्यः /
108 SK एकदेशवैराग्यं भूमिमधिकृत्य यावदष्टमस्य क्लेशप्रकारस्य प्रहाणात् / सकलवैराग्यं नव [म]स्य प्रहाणात् / सत्कायवैराग्यं वा पुनरधिकृत्य शैक्षस्यैकदेशवैराग्यमशैक्षस्य सकलवैराग्यं वेदितव्यम् / प्रतिवेधवैराग्यं दर्शनमार्गेण / उपघातवैराग्यं लौकिकेन मार्गेण / समुद्धातवैराग्यं लोकोत्तरेणेति वेदितव्यम् / दशवैराग्याणीत्यत्र प्रातिकूल्यार्थो वैराग्यार्थो वेदितव्यो नावश्यं प्रहाणार्थः / उच्चतरं स्थानं प्राप्तवतो निहीनेस्थाने इत्युच्चतरं नगरश्रैष्ठयादिस्थानं प्राप्तवतो ग्राममहत्तरादिस्थाने निहीने / बालानां निर्वाण इति तस्य शान्तत्वाज्ञानात् सत्कायाभिष्वङ्गाच्च / प्रतिलब्धदर्शनमार्गस्य त्रैधातुक इति संस्कारदुःखतां परिज्ञातवतः सर्वसास्रव[व]स्तुनिर्वेदात् / प्रकृत्या वैराग्यं प्रकृतिवैराग्यं यावत्प्रहाणेन वैराग्यं प्रहाणवैराग्यमिति पदविग्रहजातिर्वेदितव्या //
109 SK मोक्षप्रयुक्तस्य कुशलं शैक्षमिति संभृतसंभारावस्थायाः प्रभृतिमोक्षार्थ प्रयुक्तस्य वेदितव्यम् / संभृतसंभारावस्था पुनराधिगामिकमोक्षभागीयावस्था वेदितव्या / दशानां धातूनां विज्ञानरूपशब्दधर्मधातूनाम् / चतुर्णामायतनानां रूपशब्दमनोधर्मायतनानाम् /
110 SK शिक्षायां निष्ठागतस्येत्यधिशीलमधिचित्तमधिप्रज्ञं च शिक्षायां निष्ठागतस्यार्हत इत्यर्थः //
111 SK पृथग्जनस्य कुशलादिकमिति मोक्षप्रयुक्तवर्जस्य / स हि शिक्षाया[म]भिशिक्षणाच्छैक्ष उच्यत इति / शैक्षस्य क्लिष्टाव्याकृतमित्यत्र क्लिष्टमकुशलं निवृताव्याकृतं च यथासंभवम् / अव्याकृतं पुनरनिवृताव्याकृतं वेदितव्यम् //
112 SK परिकल्पिता क्लिष्टा दृष्टिरसद्धर्मश्रवणपूर्विका पञ्च दष्टयः / परिकल्पितग्रहणं सहजसत्कायान्तग्राहदृष्टिव्युदासार्थम् / अन्तग्राहदृष्टिः कीदृशी सहजा / उच्छेददृष्टिर्यतो ऽभिसमयप्रयुक्तस्योत्त्रासो भवत्यथ कस्तर्हि मे आत्मेति / दृष्टिस्थानं दृष्टिसहभुवो धर्मास्तद्वीजं च तथैव विचिकित्सास्थानमपि वेदितव्यम् / ये च दृष्टौ विप्रतिपन्नाः क्लेशोपक्लेशा इति ये दृष्टिमुखेन प्रवृत्ता तदालंबनाश्च रागादयः / सर्वेषामेकदेशो भावनाप्रहातव्यानास्रववर्जः //
113 SK दर्शनप्रहातव्याविपर्ययेण सास्रवा इति परिकल्पितक्लिष्टदृष्टयादिकादन्ये सास्रवा इत्यर्थः / अत्र पुनः सास्रवग्रहणेन निर्वेधभागीयानामपि ग्रहणं वेदितव्यं दौष्ठुल्यानुबन्धार्थेन / सर्वेषामेकदेशः दर्शनप्रहातव्यानास्रववर्जः //
114 SK स्कन्धानामेकदेशो ऽप्रहातव्यः, लोकोत्तरो मार्गस्तत्पृष्टलब्धश्च / दशानां [धातूनां चतुर्णा चायतनानाम् (एकदेश) इति] स चा संस्कृतं च / कीदृशो रूपशब्दधातू न प्रहातव्यौ / अशैक्षस्य कुशल कायवाक्कर्मस्वभावौ /
115 SK अविद्याप्रत्ययाः संस्कारा इत्येवमादि / तत्र अस्मिन् सतीदं भवति निरीहप्रत्ययोत्पत्तितामुपादाय / सति केवलं प्रत्यये फलं भवति, न तु फलोत्पादनं प्रति प्रत्ययस्य काचिदीहेत्यर्थः / अस्योत्पादादिदमुत्पद्यते अनित्यप्रत्ययोत्पत्तितामुपादाय, न ह्यनुत्पादिकारणात् किंचिदुत्पद्यमानं कार्य सिद्धमिति कृत्वा / अविद्याप्रत्ययाः संस्कारा इत्येवमादि समर्थप्रत्ययोत्पत्तितामुपादाय निरीहकत्वानित्यत्वे ऽपि सति न यतः कुतश्चित् प्रत्ययात् सर्वमेव फलमुत्पद्यते, किंतर्हि समर्थात् / तद्यथाविद्यातः संस्कारा यावज्जातितो जरामरणमिति //
116 SK यान्यविद्यादीनि द्वादशाङ्गानि विभक्तानि तान्येव पुनः समस्य चत्वार्यङ्गानि भवन्त्याक्षेपा ङ्गादीनि / एतावच्च प्रवृत्तिनिर्देशे निर्देष्टव्यम् यदुत हेतुकाले येनाक्षिप्यते यच्चाक्षिप्यते फलकाले येनाभिनिर्वर्त्यते यच्चाभिनिर्वत्यते तदेतत्सर्वमेभिरङ्गैनिर्दिष्टं वेदितव्यम् / तत्र आक्षेपकाङ्गमविद्यासंस्कारा विज्ञानं च, अनागतजन्माभिनिर्वृत्तये सत्येष्वज्ञानपूर्वकेण कर्मणा चित्तवासनार्थेन / आक्षिप्ताङ्गं नामरूपं षडायतनं स्पर्शो वेदना च, तया चित्तवासनया नामरूपादीना मायत्यां पूर्वोतरसंनिश्रयक्रमेणाभिनिर्वृतये बीजपुष्टितः / अभिनिर्वर्तकाङ्गं तृष्णा उपादानं भवश्च, अप्रहीणकामादि तृष्णादिवसेन कामादिषु सुचरितदुश्चरितप्रकाररतिपूर्वकेण छन्दरागेण सोपादाने विज्ञाने सति मरणावस्थायां फलदानं प्रति छन्दरागानुरूप्यान्तरकर्मवासनाभिमुखीभावात् / अभिनिर्वृत्त्यङ्गं जातिर्जरामणं च, तेन प्रकारेण कर्मान्तरवासनाभिमुख्ये सत्यन्यतरस्मिन् गतियोन्यादिभेदभिन्ने निकायसभागे यथाक्षिप्ते नामरूपादिनिर्वृत्तेः / जातिजरामरणवचनं संस्कृतलक्षणत्रयाधिकारेणोद्वेजनार्थम् / (Aभिध्-स्-भ् ३२) जरामरणस्यैकाङ्गकरणं विनापि जरां मरणसंभवात् / न त्वेवं जरायुजायां योनौ विना नामरूपादिभिः षडायतनादीनां संभव इत्येषां पृथगङ्गीकरणं वेदितव्यम् //
117 SK अङ्गप्रत्य[यत्वव्य]वस्थानं चतुरः प्रत्ययानधिकृत्य / तत्र तावदविद्या संस्काराणां पूर्वोत्पन्नावासनतो हेतुप्रत्ययः, तत्परिभावितसंतानोत्पन्नानां कर्मणां पुनर्भवाभिसंस्करणसामर्थ्यात् तत्कालसमुदाचारिणी / आवेधतः समनन्तरप्रत्ययः, तदाक्षेपकविशेषेण संस्कारस्रोतानुप्रवृत्तेः / मनस्कारत आलंबनप्रत्ययः, मूढावस्थाया अग्रतादिभिरयोनिशोमनस्कारालंबनीभावात् / सहभावतो ऽधिपतिप्रत्ययः, तदाधिपत्येन तत्संप्रयुक्तायाश्चेतनाया विपरीतालंबनाभिसंस्करणात् /
118 SK अविद्या भवे सत्त्वान् संमोहयति, तदावृत्तेः पूर्वान्तापरान्तमध्यान्तानां यथाभूतापरिज्ञानात् / यत एवं विचिकित्सति - किं न्वहमभूवमति[ते] ऽध्वन्याहोस्विन्नाभूवमित्येवमादि / प्रत्ययश्च भवति संस्काराणाम् तद्वशेन पुनर्भविककर्मोपचयात् / संस्कारा गतिषु सत्त्वान विभजन्ति, कर्मवशेन सत्त्वानां गत्यन्तरगमनवैचित्र्यात् / प्रत्ययाश्च भवन्ति विज्ञानस्य वासनायाः, आयत्या नामरूपाभिनिर्वृत्तये बीजपोषणात् / विज्ञानं कर्मबन्धं धारयति, सस्कारा हितवासनासहोत्पत्तेः / प्रत्ययश्च भवति नामरूपस्य, मातुः कुक्षौ विज्ञानावक्रान्त्या नामरूपविवृद्धिगमनात् / नामरूपमात्मभावं सत्त्वान् ग्राहयति तन्निवृत्त्या सत्त्वानां निकायसभागान्तरभ जनात् / नामरूपादीनां षडायतनादिप्रत्ययभावः पूर्वाङ्गसंनिश्रयेणोत्तराङ्गनिर्वृत्तितो द्रष्टव्यः / षडायतनमात्मभावपरिपूरिं (Aभिध्-स्-भ् ३३) च सत्त्वान् ग्राहयति, तन्निवृत्ताविन्द्रियान्तरावैकल्यात् / प्रत्ययश्च भवति स्पर्शस्य / स्पर्शो विषयोपभोगे सत्त्वान् प्रवर्तयति, तन्मुखेन सुखवेदनीयादित्रिविधविषयोपभोगात् / प्रत्ययश्च भवति वेदनायाः / वेदना जन्मोपभोगे च सत्त्वान् प्रवर्तयति, तदधिष्ठानेनेष्टादिकर्मविपाकोपभोगात् / प्रत्ययश्च भवति तृष्णायाः, तत्संप्रयोगाद्यभिलाषमुखेन तृष्णोत्पत्तेः / तृष्णा जन्मनि सत्त्वानाकर्षति, तद्वशेन जन्मान्तरस्रोतो ऽनुपच्छेदात् / प्रत्ययश्च भवत्युपादानस्य, आस्वादप्रार्थनामुखेन कामादिषु छन्दरागप्रवृत्तेः / उपादानं पुनर्भवादानाय सोपादानं च सत्त्वानां विज्ञानं करोति, नरकादिगतिविशिष्टपुनर्भवप्रतिसंधये कर्मवासनानियमात् / प्रत्ययश्च भवति भवस्य, तद्वशेन संस्कारवासनयोवृत्तिलाभात् / भवः पुनर्भवे सत्त्वानभिमुखीकरोति, अनन्तरगत्यन्तरावाहनात् प्रत्ययश्च भवति जातेः, ततो निकायसभागान्तरनिर्वृत्तेः / जातिर्नामरूपाद्यानुपूर्व्या सत्त्वानभिनिर्वर्तयति, उत्तरोत्तरावस्थान्तरावाहनात् / प्रत्ययश्च भवति जरामरणस्य, जातौ सत्यां तत्प्रबन्धस्यान्यथात्वविनाशसंभवात् / जरामरणं पुनःपुनर्वयः परिणामेन जीवितपरिणामेन च सत्त्वान् योजयति, यौवनायुषोविनाशेन योजनात् //
119 SK विज्ञानस्य कर्म[सं]क्लेशसंग्रहणं संस्कारवासनाप्रभावितत्वाद्विज्ञानाङ्गस्यः
120 SK निष्कर्तृकार्थ ईश्वरादिकर्तृरहितत्वात् / सहेतुकार्थो ऽविद्यादिहेतुकत्वात् / निःसत्वार्थः स्वयमनात्मत्वात् / परतन्त्रार्थः प्रत्ययाधीनत्वात् / निरीहकार्थः प्रत्ययानां निर्व्यापारत्वात् / अनित्यार्थो ऽशाश्वतत्वात् / क्षणिकार्थ उत्पत्तिकालात् परेणानवस्थानात् / हेतुफलप्रबन्धानुपच्छेदार्थः कारणक्षण निरोधसमकालं कार्यक्षणोत्पादात् / (Aभिध्-स्-भ् ३४) अनुरूपहेतुफलपरिग्रहार्थः सर्वतः सर्वस्यासंभवात् / विचित्रहेतुफलार्थो ऽनेकैकजातीयात्कारणादेकानेकजातीयकार्योत्पत्तेः / प्रतिनियतहेतुफलार्थः संतानान्तराफलनात् //
121 SK पुनरेभिरेवार्थः प्रतीत्यसमुत्पादस्य पञ्चविधं गाम्भीर्य वेदितव्यम् / हेतुगाम्भीर्य विषमहेत्वहेतुवादप्रतिपक्षेन द्वाभ्यामर्थाभ्याम् / लक्षणगाम्भीर्य निरात्मकतयैकार्थेन / उत्पत्तिगाम्भीर्य प्रत्ययेभ्यः फलोत्पत्तावप्यतत्कृततया द्वाभ्यामर्थाभ्याम् / स्थितिगाम्भीर्यमव्यवस्थितानां स्थित्याभासनाद्द्वाभ्यामर्थाभ्याम् / प्रवृत्तिगाम्भीर्यं हेतुफलप्रवृत्तिदुर्विज्ञानत्वाच्चतुर्भिरर्थैरिति //
122 SK अन्तरेण एव कर्तारं कर्म क्रिया चास्ति तत्फलोपभोगश्चेत्ययमत्र कर्मफलाविप्रणाशो वेदितव्यः //
123 SK न स्वयंकृतो धर्मो ऽनुत्पन्नस्याभावाद्येनासौ क्रियेत / न परकृतः प्रत्ययानामकर्तृकत्वात् / नोभयकृत एतेनैव कारणद्वयेन / नास्वयंकाराप[र]कारहेतुसमुत्पन्नः हेतुप्रत्ययानां फलोत्पत्तौ सामर्थ्यात् // अपरः पर्यायः / न स्वयंकृतः प्रत्ययापेक्षणात् / न परकृतः सत्स्वपि प्रत्ययेषु निर्वीजस्यानुत्पादात् / नोभयकृतस्तदुभयोनिरीहकत्वात् / नाहेतुसमुत्पन्नो बीजप्रत्ययानां शक्तिसद्भा[वा]दिति / भवति ह्यपि-
124 SK स्वबीजत्वान्न परतः न स्वयं तदपेक्षणात् / निश्चेष्टत्वान्न च द्वाभ्यां तच्छक्तेर्नाप्यहेतुतः // इति /
125 SK न स्वयं न परतो द्विविधकोटिप्रतिक्षेपे ऽपि गम्भीरः प्रतीत्यसमुत्पादः स्यात् प्रागेव यत्र चतस्रो ऽपि कोटयः प्रतिक्षिप्यन्ते, तस्मादेतस्य परमगाम्भीर्य वेदितव्यम् //
126 SK विज्ञानोत्पत्तिप्रभेदतश्चक्षुःप्रतीत्यरूपाणि चोत्पद्यते चक्षुर्विज्ञानमित्येवमादि / व्युत्पत्तिप्रभेदतः सत्वलोकमधिकृत्य, अविद्याप्रत्ययाः संस्कारा इत्येवमादि / बाह्यवस्योत्पत्तिप्रभेदतो बीजं प्रतीत्याङ्कुरः, अङ्कुरं प्रतीत्य काण्डः / तथा नापत्रपुष्पफलानि योज्यानि / संवर्तविवर्तप्रभेदतः सर्वसत्त्वसाधारणकर्माधिपत्यं प्रतीत्य महापृथिव्यादीनामुत्पादात् / आहारोपस्तम्भप्रभेदतश्चतुर आहारान् प्रतीत्य त्रैधातुके सत्वानामवस्थानात् / इष्टानिष्टगतिविभागप्रभेदतः सुचरितदुश्चरिते प्रतीत्य सुगतिदुर्गतिगमनात् / विशुद्धिप्रभेदतो मोक्षभागीयानि प्रतीत्य निर्वेधभागीयोत्पत्तितो यावद्दर्शनभावनामार्गानुपूर्व्यार्हत्त्वप्राप्तितः, परतो वा घोषं प्रतीत्याध्यात्मं च योनिशो मनस्कारं सम्यग्दृष्टिस्ततो यावत्सर्वास्रवक्षय इति / प्रभावप्रभेदतो ऽधिगमं प्रतीत्याभिज्ञादयो वैशेषिका गुणा इति / एभिः प्रभेदैविस्तरेण संस्काराणां प्रतीत्यसमुत्पादो ऽनुसर्तव्यः //
127 SK [सं]क्लेशानुलोमप्रतिलोम इति प्रवृत्यानुपूर्वीमधिकृत्य, अविद्याप्रत्ययाः संस्कारा इत्येवमाद्यनुलोमनिर्देशः / जरामरणंजरामर[ण]समुदयो [जरामरणनिरोधो] जरामरणनिरोधगामिनी प्रतिपदिति सत्यव्यवस्थानमधिकृत्य प्रतिलोमनिर्देशो वेदितव्यः /
128 SK [व्यवदानानुलोमप्रतिलोमत इति] तद्यथाविद्यानिरोधात् संस्कारनिरोध इत्येवमादि व्यवदानानुलोमनिर्देशः / कस्मिन्नसति न जरामरणं भवति कस्य निरोधाज्जरामरणनिरोध इति प्रतिलोमनिर्देशतः //
129 SK हेतुप्रत्यय आलयविज्ञानं कुशलवासना च सास्रवानास्रवाणां च संस्काराणां यथाक्रमम् / आलयविज्ञानं पुनर्द्विविधम् - वैपाकिकमाभिसंस्कारिकं च / तत्र वैपाकिकमुपपत्तिप्रातिलम्भिकानां हेतुप्रत्ययः / आभिसंस्कारिकं प्रायोगिकानामायत्यां चालयविज्ञानान्तरस्य हेतुप्रत्ययो द्रष्टव्यः / आभिसंस्कारिकं पुनरालयविज्ञानं तज्जान्मिकप्रवृत्तिविज्ञानसमुदाचारवासितं वेदितव्यम् / कुशलवासना मोक्षभागीयानां वासना (Aभिध्-स्-भ् ३६) द्रष्टव्या / तेषां लोकोत्तराभ्युपगमनिष्यन्दधर्मनैमित्तिकतस्तद्वासनाया लोकोत्तरधर्महेतुत्वं वेदितव्यम् //
130 SK अपि खलु स्वभावतो ऽपीत्येवमादिना षड्ढेतवो हेतुप्रत्यय इति दर्शयति / तत्र स्वभावतः प्रभेदतश्च कारणहेतोर्व्यवस्थानम् / शेषैः पदैः यथाक्रमं सहभूसंप्रयुक्तसभागसर्वत्रगविपाकहेतूनां व्यवस्थानं वेदितव्यम् /
131 SK हेतुस्वभावमधिकृत्य कारणहेतुव्यवस्थानात्सर्वहेतवः कारणहेतावन्तर्भूता वेदितव्याः / सहायादिविशेषप्रभावनार्थ तु पृथग्व्यवस्थानम् /
132 SK कारणहेतुप्रभेदे विज्ञानसामग्रयादिकं यन्निर्दिष्टमुदाहरणमात्रं तद्द्रष्टव्यम्, तया दिशान्यस्यापि तज्जातीयस्याभ्यूहनार्थम् / तत्र उत्पत्तिकारणं ततः कार्यस्याभूत्वा प्रादुर्भावात् / स्थितिकारणमुत्पन्नस्य प्रबन्धानुपच्छेदात् / धृतिकारणं पातप्रतिबन्धात् / प्रकाशनकारणमावृतस्याभिव्यञ्जनात् / विकारकारणं तत्संतानस्यान्यथात्वापादनात् / वियोगकारणं संबन्धस्य द्वैधीकरणात् / परिणतिकारणं तदवयवानां देशान्तरसंचरणात् / संप्रत्ययकारणं तेन विपरोक्षानुमानात् / संप्रत्यायनकारणं तेन सम्यङ्निश्चयात् / प्रापणकारणं तेनाधिगमात् / व्यवहारकारणं यथानामधेयं निमित्तोद्ग्रहणेनाभिनिविश्यानुव्यवहरणात् / अपेक्षाकारणमन्यत्रेच्छोत्पत्तिनिमित्तत्वात् / आक्षेपकारणं तदन्वयावस्थान्तरपरापरभाविन आवेधकत्वात् / आभिनिर्वृत्तिकारणमनन्तरभाविनो जनकत्वात् / परिग्रहकारणं स्वबीजोत्पादिन उपोद्वलत्वात् / आवाहनकारणं तदानुकूल्येनाकर्षणात् / प्रतिनियमकारणं भिन्नस्वभावतयान्योन्यफलत्वात् / सहकारिकारणं स्वकार्यनिर्वर्तने (Aभिध्-स्-भ् ३७) कारणान्तरापेक्षणात् / विरोधिकारणं विध्नकरणात् / अविरोधिकारणं तद्विपर्ययेण वेदितव्यम् //
133 SK तद्यथा भूतानि भौतिकं चेति यथासंभवं न त्ववश्यं सर्वत्र संघाते चत्वारि महाभूतानि भवन्ति रूपादिकं वा भौतिकम् / इत्यतो यद्यत्रास्ति तत्तेन सहोत्पद्यते नान्योन्यं विनेति //
134 SK सहायनैयम्येन सहभूहेतुर्व्यवस्थापितः / भूतानि भौतिकं चेत्युदाहरणमात्रमेतद्वेदितव्यम्, चित्तचैतसिकानामन्योन्यमविनाभावनियमात् / यद्येवं संप्रयुक्तहेतोः पृथग्व्यवस्थानं न प्राप्नोति, चित्तचैतसिकानां सहभूहेतावन्तर्भावात् / यद्यप्येतदेवं तथाप्यन्येनार्थेन / ये धर्माः सहभावेनालंबनं प्रतिपद्यन्ते नान्यतम वैकल्येन ते संप्रतिपत्तितः संप्रयुक्तकहेतुर्व्यवस्थाप्यते, न सहभावमात्रेण, तद्यथा चित्तै चैतसिकाश्च //
135 SK पूर्वभावितानामिति पूर्वाभ्यस्तानां पूर्वं समुदाचरितानामित्यर्थः / या अपरान्ते उत्तरोत्तरा पुष्टतरतमा प्रवृत्तिरिति तैः परिपोषितबीजानां तदन्वयानामनागते काले विशिष्टोत्पत्तितो द्रष्टव्या / एवमयं सभागहेतुः सदृशानां पुष्टिनिमित्तत्वेन व्यवस्थापितः //
136 SK सर्वत्रगहेतुर्न केवलं सदृशस्यैव पुष्टये किं तर्हि यस्य कस्यचिद्रागादेः क्लेशस्याभ्यासेन सर्वेषां द्वेषादीनां प्रबन्धपुष्टया दृढीकारो भवत्यतो वन्धनगाढीकरणान्मोक्षप्राप्तिपरिपन्थार्थेनास्य व्यवस्थानं वेदितव्यम् //
137 SK विपाकहेतुः पुनरायत्यामेकान्तविसदृशस्यैवानिवृत्ताव्याकृतस्यात्मभावसंग्र हीतव्यविपाकस्याक्षेपकत्वात् परिग्रहार्थेन व्यवस्थापितः / कुशलसास्रवग्रहणमनास्रवाणां जन्मविरोधित्वेनानाक्षेपकत्वात् //
138 SK नैरन्तर्यसमनन्तरतो ऽपीति नावश्यं क्षणनैरन्तर्य किंतर्हि चित्तान्तरनैरन्तर्यमप्यत्र नैरन्तर्य द्रष्टव्यम् / इतरथा ह्यचित्तिकसमापत्तौ व्युत्थानचित्तस्य समापत्तिचित्तं न समनन्तरप्रत्ययः स्यात् / भवति च / तस्मादेकस्मिन् संताने पश्चिमस्य चित्तस्य पूर्वकं चित्तं चित्तान्तरेणानन्तरितं (Aभिध्-स्-भ् ३८) समनन्तरप्रत्ययः / यथा चित्तमेवं चैतसिका अपि वेदितव्याः / सभागविसभागचित्तचैत्तोत्पत्तिसम[न]न्तरतो ऽपीति कुशलाः चित्तचेत्ताः कुशलानां सभागानामकुशलाव्याकृतानां च विसभागानामनन्तरोत्पन्नानां समनन्तरप्रत्ययः / एवं कुशलाव्याकृताः स्वान्यप्रकाराणां योजयितव्याः / तद्यथा कामावचरा कामावचराणां रूपारूप्यावचरानास्रवाणां चानन्तरोत्पन्नानां समनन्तरप्रत्ययः / एवं रूपावचरादयो ऽपि पृथग्पृथग्रूपावचरादोनां कामावचरादीनां चा[न]न्तरोत्पन्नानामिति योजयितव्यम् //
139 SK किं खलु सर्वस्य चिन्तस्यानन्तरं सर्व चित्तमुत्पद्यते, अहोस्विदस्ति प्रतिनियमः / अस्तीत्युच्यते / अवैतस्य चित्तस्यानन्तरमिदं चेदं च चित्तमुत्पद्यत इत्युच्यमाने बहुवक्तव्यं जायते / तस्मात्सामान्येन चित्तोत्पत्तौ लक्षणमात्रं व्यवस्थाप्यते / तद्यथा दशभिर्बलैश्चित्तस्योत्पादो वेदितव्यः - परिचयबलेन छन्दबलेन प्रयोगबलेन समापत्तिबलेन ऽऽवेधबलेन हेतुबलेन विषयबलेन स्मृतिबलेन मनस्कारबलेन प्रतिसंधिबलेन च / परिचयबलं पुनस्त्रिविधम् - मृदु मध्यमधिमात्रं च / समापत्तिस्थितिव्युत्थाननिमित्तानामनुपलक्षितत्वान्मृदु / उपलक्षितानां स्वपरिचित्त त्वान्मध्यम् / सुपरिचिततोपलक्षितत्वादधिमात्रम् / तत्र मृदुना परिचयबलेन ध्यानारूप्याणाम[नु]पूर्व्यसमापत्तिर्वेदितव्या / मध्येन व्युत्क्रान्तकसमापत्तिरेकान्तरिकयोगेन / अधिमात्रेण यथेष्टं सर्वाणि वा व्युत्क्राम्यानुलोमं प्रतिलोमं च समापत्तिर्वेदितव्या / छन्दबलेन द्वितीयध्यानलाभी प्रथमं ध्यानं समापन्नो यद्याकांक्षति द्वितीयध्यानभूमिकं व्युत्थानचित्तमामुखीकरोत्यथ ना कांक्षति कामावचरं कुशलमनिवृताव्याकृतं वा / एवमन्यत्रापि विस्तरेण योज्यम् / प्रयोगबलेन कामावचरस्य कुशलस्यवानन्तरं तत्प्रथमतो रूपावचरं चित्तमुत्पद्यते / अनागम्यस्य कुशलस्यानन्तरं मौलम् / मौलस्य कुशलस्यानन्तरं द्वितीयध्यानसमापन्नकमित्येवमादि विस्तरेण यावद्भवाग्रात् वेदितव्यम् / समापत्तिबलेन शुद्धकं समापन्नस्य कदाचिच्छुद्धकमेवोत्पद्यते (Aभिध्-स्-भ् ३९) कदाचित्क्लिष्टम् / आवेधवलेन समाधेर्व्युत्थाय चरतस्तावत्समाहितभूमिकं चित्तम्[अ]समाहितक्षणानन्तरव्यतिभिन्नमनुवर्तते यावत्तद्विरोधिक्लेशसमुदाचारात्परिहीण इति / तद्विरोधि क्लेशसंप्रयुक्तस्य पुनश्चित्तस्य हेत्वादिभिश्च तुर्भिर्बलैः समुदाचारो वेदितव्यः - तत्र तावद्धेतुबलेन यद्यवश्यं भूमिपरिहाणिसंवर्तनीयमावरणं पूर्वमुपचितं भवति, विषयबलेन यदि रागाद्युत्पत्यनुकूलः शुभादिनिमित्तः प्रभावोत्कटविषय आभाससमागतो भवति, स्मृतिवलेन यदि स्मरणसंकल्पैरतीतान्विषयान् प्रपञ्चयति, मनस्कारबलेन यदि मीमांसामनस्कारेणान्यतरान्यतरच्छुभनिमित्तं मनसिकरोतीति / प्रतिसंधिबलेन नव मरणचित्तान्यात्मभावतृष्णासंप्रयुक्तानि त्रिषु धातुषुप्रत्येकं कामरूपारूप्यावचराणि / तत्र कामधातोश्च्युत्वा कामधातावेव प्रतिसंधि वध्नतः कामावचरमात्मभावतृष्णासंप्रयुक्तं मरणचित्तं वेदितव्यम् / रूपारूप्यधात्वोः प्रतिसंधि बध्नतो रूपारूप्यावचरम् / तथा रूपारूप्यधातुभ्यां च्युत्वा तत्र वान्यत्र वोत्पद्यमानस्य षट्चित्तानि योजयितव्यानि / सा पुनरात्मभावतृष्णा सहजानिरूपितालंबनानिवृताव्याकृता च / आत्मभावजातिश्चास्याः प्रकारापरिच्छेदेनालंबनं वेदितव्यम् / तद्वशेना[न]न्तरं पृथग्जनानामन्तराभवप्रतिसंधिः / आर्याणामप्यवीतरागाणां मरणकाले यावदस्पष्टसंज्ञावस्थां न गच्छति तावदसौ तृष्णा समुदाचरति / ते त्वेनां परिच्छिद्य प्रतिपक्षेणाभिनिगृह्णन्ति / वीतरागाणां त्वार्याणां प्रतिपक्षस्य वलीयस्त्वान्नैवासौ समुदाचरत्यप्रहीणापि सती / तदनुशयवशेन तु तेषां प्रतिसंधिः / अन्तराभवप्रतिसंधिक्षणः पुनर्नित्यमनिवृताव्याकृत एव विपाकत्वात् / तत ऊर्ध्व कुशलो ऽप्यकुशलो (Aभिध्-स्-भ् ४०) ऽप्यव्याकृतो ऽपि यथासंभवम्, च्युतिचित्तं स्थापयित्वा / अन्तराभवच्युतिचित्तं तु नित्यं क्लिष्टं मरणभववत् / उपपत्तिप्रतिसंधिः पुनर्नित्यमनिवृताव्याकृत एवेति वेदितव्यम् / बोधिसत्त्वानां तु प्रणिधानबलेनोपपद्यमानानां मरणचित्तादिकमेकान्तेन सर्व कुशलं वेदितव्यम् / समाप्तः समनन्तर प्रत्ययप्रसङ्गः //
140 SK परिच्छिन्नविषयालंबनतः पञ्चानां विज्ञानकायानामालंबनम्, प्रतिनियतविषयत्वात् पञ्चानां विज्ञानकायानाम् / अपरिच्छिन्नविषयालंबनतः मनोविज्ञानस्यालंबनम्, सर्वधर्मविषयत्वान्मनोविज्ञानस्य / अचित्रीकारविषयालंबनतो ऽव्युत्पन्नसंज्ञानां मनोविज्ञानस्यालंबनम्, नामतो ऽक्षरीकर्तुमशक्यत्वात् / चित्रीकारविषयालंबनतस्तद्विपर्य[या]द्वेदितव्यम् / सवस्तुकविषयालंबनतो दृष्टिमस्मिमानं तत्संप्रयुक्तांश्च धर्मान् स्थापयित्वा तदन्येषामालंबनम् / अवस्तुकविषयालंबनतः स्थापितानामालंबनम्, आत्माधिष्ठानत्वात् / वस्त्वालंबनतो ऽनास्रवालंबनान् विसभागधातुभूमिसर्वत्रगाननिवारितवस्तुकांश्चातीतानागतालंबनान् स्थापयित्वा तदन्येषामालंबनम् / परिकल्पालंबनतः स्थापितानामालंबनम्, स्वपरिकल्पमात्रालंबनात् / विपर्यस्तालंबनं नित्याद्याकाराणाम् / अविपर्यस्तालंबनमनित्याद्याकाराणाम् / सव्याघातालंबनमप्रहीणज्ञेयावरणानाम् / अव्याघातालंबनं प्रहीणज्ञेयावरणानामिति //
141 SK आलंबनप्रत्यये विनिश्चयः - लक्षणतो ऽपि प्रभेदतो ऽपि स्थितितो ऽपि परिज्ञानतो ऽपि प्रहाणतो ऽप्यालवनव्यवस्थानं वेदितव्यम् //
142 SK कथं लक्षणतः / यो ऽर्थस्तत्प्रतिभासानां चित्तचैतसिकानां धर्माणामुत्पत्तिनिमित्तम, ते चोत्पन्नास्तदर्थाभिनिवेशव्यवहारप्रत्यात्मावगमाय भवन्ति तदालंबनलक्षणम् //
143 SK कथं प्रभेदतः / असदालंबनं तद्यथा विपर्यस्तानां चित्तचैतसिकानामतीतानागतस्वप्नप्रतिर्बिबमायाद्यालंबनं च / सदालंबनं तदन्येषाम् / अनालंबनमालंबनं रूपं चित्तविप्रयुक्ता असंस्कृतं च / सालंबनमालंबनं चित्तचैतसिका धर्माः / सम्यक्त्वालंबनं तद्यथा कुशलम् / (Aभिध्-स्-भ् ४१) मिथ्यात्वालंबनं तद्यथा क्लिष्टम् / नैवसम्यक्रत्वनमिथ्यात्वालंबनं तद्यथानिवृताव्याकृतम् / योनिश आलंबनं तद्यथा कुशलानां चित्तचैतसिकानाम् / अयोनिश आलंबनं तद्यथा क्लिष्टानाम् / नैवयोनिशोनायोनिशस्तद्विनिर्मुक्तानाम् / सभागमालंबनं तद्यथा कुशलादीनां कुशलादीनि स्वभूमिकानां च स्वभूमिकं सास्रवाणां च सास्रवमनास्रवाणां चानास्रवम् / विसभागमालंबनं तद्यथा कुशलादीनामकुशलादीन्यन्यभूमिकानां चान्यभूमिकं सास्रवानास्रवयोश्चानास्रवसास्रवम् / नानात्वमालंबनं तद्यथा सवितर्कविचाराणां चित्तचैतसिकानाम् / एकत्वमालंबनं तद्यथावितर्काविचाराणाम् / विभूत्यालंबनं तद्यथासंज्ञिकप्रायोगिकानां चित्तचैतसिकानामाकाशविज्ञानानन्त्यायतनिकानां च / अभिसंक्षिप्तं सूक्ष्ममालंबनं तद्यथाकिंचन्यायतनिकानाम् / पर्यन्तिकं सूक्ष्ममालंबनं तद्यथा नैवसंज्ञानासंज्ञायतनिकानाम् / क्लेश आलंबनं तेनालंब्यत इति कृत्वा / धर्म आलंबनं तद्यथार्याणां नामकायपदकायव्यञ्जनकायाः / अर्थ आलंबनं तदाश्रितो ऽर्थः / परीत्तमालंबनं तद्यथा श्रावकयानम् / विपुलमालंबनं तद्यथा महायानम् / निमित्तमालवनं तद्यथा शमथप्रग्रहोपेक्षानिमित्तानि / अनिमित्तमालंबनं तद्यथा निर्वाणं भवाग्रयं च / तत्त्वमालंबनं तद्यथा तथता षोडशानां चाकाराणां सत्यानि / वैहारिकमालंबनं तद्यथा निरोधसमापत्तिः / वशवर्त्यालंबनं तद्यथा विमोक्षादीनां सर्वाकारज्ञतावसानानां गुणानाम् / क्षणिकमालंबनं तद्यथाशैक्षाणां तज्जन्मिकमेव / अनुवर्त्यालंबनं तद्यथा बुद्धबोधिसत्त्वानाम् //
144 SK कथं स्थितितः / आलंबनस्यापरिनिष्पत्तितस्तथा व्यवस्थापनात् / चतुर्भिश्च कारणैरपरिनिष्पन्नमालंबनं वेदितव्यम् - विरुद्धविज्ञाननिमित्ततया, (Aभिध्-स्-भ् ४२) अ[न्]आलंबनविज्ञानोपलब्ध्या, यत्नमन्तरेणाविपर्यासप्रसङ्गतया, त्रिविधज्ञानानुवर्तनतया च / ततश्च ग्राहकस्याप्यपरिनिष्पत्तिः / त्रिविधं ज्ञानं वशिताज्ञानं विपश्यनाज्ञान निर्विकल्पज्ञानं च / तत्र चतुर्णा कारणानामुदाहरणानि /
v1 SK प्रेततिर्यग्मनुष्याणां देवानां च यथार्ह तः / तुल्यवस्तुमनोभेदादर्थानिष्पत्तिरिष्यते //
v2 SK अतीतादौ तथा स्वप्ने प्रतिबिंबद्वये ऽपि च / असन्नालंबनत्वाच्च तदालंबनयोगतः //
v3 SK अर्थस्यार्थत्वनिष्पत्तौ ज्ञानं न स्यादकल्पकम् / तदभावाच्च बुद्धत्वप्राप्तिर्नैवोपपद्यते //
v4 SK बोधिसत्त्वे वशिप्राप्ते ऽधिमुक्तिवशाद्यतः / तथाभावः पृथिव्यादौ ध्यायिनां चोपलभ्यते //
v5 SK निष्पन्नविचयस्येह धीमतः समाधिलाभिनः / सर्वधर्ममनस्कारे तथार्थख्यानतो ऽपि च //
v6 SK ज्ञानचारे ऽविकल्पे हि सर्वार्थाख्यानतो ऽपि च / अर्थाभावोपगन्तव्यो विज्ञप्तेस्तदभावतः //
151 SK कथं परिज्ञानतः / लक्षणप्रभेदस्थितीनां यथाभूतज्ञानतः //
152 SK कथं प्रहाणतः / श्रावकयानमहायानाभ्यामाश्रयपरिवृत्तितः / श्रावकयानाश्रयपरिवृत्त्या स्कन्धधात्वायतनालंबनेभ्यो विमोक्षो न तु तेषु विभुत्वलाभः / महायानाश्रयपरिवृत्त्या तूभयमिति / समाप्त आलंबनप्रत्यये यथाग्रन्थं विनिश्चयः /
153 SK प्रतिष्ठाधिपतितः वायुमण्डलादीन्यम्मण्डलादीनाम्, भाजनलोकः सत्त्वलोकस्य, भूतानि भौतिकानाम्, इन्द्रियाणि विज्ञानानामित्येवमादि / आवेधाधिपतितः सर्वसत्त्वसाधारणं कर्म भाजनलोकस्य, पौराणं सास्रवकर्म विपाकस्येत्येवमादि सहभावाधिपतितः चित्तं चैतसानाम्, मनस्कारः चित्तस्य, स्पर्शी वेदनाया इत्येवमादि / अतः परं द्वाविशति मिन्द्रियाण्यधिकृत्याधिपतिव्यवस्थानं वेदितव्यम् / तत्र विषयाधिपतितः चक्षुःश्रोत्रघ्राणजिह्वाकायमनैन्द्रियानाम्, तदाधिपत्येन रूपाद्यभिनिर्वृत्तेः / (Aभिध्-स्-भ् ४३) प्रसवाधिपतितः स्त्रीपुरुषेन्द्रिययोः, तदाधिपत्येन गर्भावक्रमणात् / स्थानाधिपतितो जीवितेन्द्रियस्य, तद्वशेन निकायसभागस्थानात् / फलोपभोगाधिपतितः सुखदुःखसौमनस्योपेक्षेन्द्रियाणाम्, तदधिष्ठानेनेष्टानिष्टविपाकप्रतिसंवेदनात् / लौकिकविशुध्यधिपतितः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाणाम्, तैः क्लेशविष्कम्भणात् / लोकोत्तरविशुध्यधिपतितो ऽनाज्ञातमाज्ञास्यामीन्द्रियस्याज्ञेन्द्रियस्याज्ञातावीन्द्रियस्य च व्यवस्थानं वेदितव्यम्, तैरनुशयसमुद्घातादिति //
154 SK विज्ञानाविरहिततत्सादृश्येन्द्रियविषयप्रबन्धोत्पत्तितः सभागं वेदितव्यम्, विज्ञानसहितस्य विज्ञानसादृश्येनेन्द्रियस्य विषयेषु प्रबन्धेनोत्पत्तेः विज्ञानवृत्तिसादृश्यार्थेन तदिन्द्रियं सभागमित्युच्यते / विज्ञानविरहितस्वसादृश्यप्रबन्धोत्पत्तितस्तत्सभागम्, विज्ञानेन विप्रयुक्तस्येन्द्रियस्य स्वात्मसादृश्येन प्रबन्धोत्पत्तिरिन्द्रियलक्षणसादृश्यार्थेन तत्सभागं वेदितव्यम् / रूपस्कन्धैकदेशश्चक्षुरादिपञ्चेन्द्रियलक्षणः / पञ्च रूपीणि धात्वायतनानि चक्षुरादीनीत्येव /
155 SK वेदनोत्पत्त्याश्रयरूपत इति यद्रूपमाश्रित्य वेदनोत्पद्यते तदुपात्तमित्युच्यते / रूपस्कन्धैकदेशः साधिष्ठानेन्द्रियसंगहीतः / पञ्च रूपीणि धात्वायतनानि चक्षुरादीनि / चतुर्णां चैकदेशः रूपगन्धरसस्प्रष्टव्यानामिन्द्रियाविनिर्भागी //
156 SK विषयग्रहणाधिपतितश्चक्षुरादीनां षण्णाम्, तदाधिपत्येन रूपाद्यालंबने चित्तचैतप्रवृतेः / कुलप्रबन्धाधिपतितः स्त्रीपुरुषेन्द्रिययोः, ततः पुत्रपौत्राद्यन्वयप्रवृत्तेः / शेषं यथाधिपतिप्रत्यये निर्दिष्टं तथानुगन्तव्यम् / रूपस्कन्धैकदेशश्चक्षुः श्रोत्रघ्राणजिह्वाकायस्त्रीपुरुषेन्द्रियलक्षणः / संस्कारस्कन्धैकदेशो जीवितश्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियलक्षणः / द्वादश धातव इन्द्रियविज्ञानधातवः / षडायतनान्याध्यात्मिकानि / धर्मधात्वायतनैकदेशश्च जीवितेन्द्रियं सुखादीनि श्रद्धादानि पञ्च //
157 SK दुःखा वेदना दुःखात्मिका सती स्वेनैव लक्षणेन दुःखदुःखताः / तदुत्पत्तिनिमित्तभूतास्त्विन्द्रियार्थास्तत्संप्रयुक्ताश्च दुःखवेदनीयत्वाद्दुःखदुःखता द्रष्टव्या //
158 SK सुखाया वेदनायास्तद्वेदनीयानां च धर्माणां विपरिणामेन दौर्मनस्योत्पादात् तद्विपरिणतिर्विपरिणामदुःखता / तत्र चानुनयेन चित्तस्य विपरिणमनं विपरिणामदुःखता वेदितव्या / यथोक्तमवदीर्णो विपरिणतेन चित्तेनेति //
159 SK अदुःखासुखा वेदनालयविज्ञानसंप्रयुक्ता तद्वेदनीयाश्च संस्कारा दुःखविपरिणामदुःखतयोदौष्ठुल्येनानुगतत्वात्तेन दुःखताद्वयेनाविनिर्मुक्तत्वादेकदा दुःखावस्थां भजन्ते एकदा सुखावस्थां, न नित्यकालमदुःखासुखावस्था एव भवन्ति / तस्मादनित्यतानुबन्धार्थेनायोगक्षेमत्वात्संस्कारदुःखता वेदितव्या / स्कन्धानाम् / त्रयाणां धातूनां मनोधर्ममनोविज्ञानधातूनाम् / द्वयोश्चायतनयोर्मनोधर्मायतनयोः / एकदेशं स्थापयित्वानास्रवलक्षणम्, तदन्यानि सर्वाणीति //
160 SK अकुशलस्य कुशलसास्रवस्य चायत्या ससंप्रयोगमालयविज्ञानं विपाकः / अतस्तेन विपाकेन तदुभयं सविपाकमित्युच्यते / स्कन्धानाम् / दशानां धातूनां विज्ञानरूपशब्दधर्म धातूनाम् / चतुर्णा चायतनानां रूपशब्दमनोधर्मायतनानाम् / एकदेशो ऽव्याकृतानास्रववर्जः / आलयविज्ञानात्तदन्यत्तु चक्षुरादिकं च सुखदुःखादिकं च तद्विपाक्रजमित्याख्यां लभते ततो जातमिति कृत्वा /
161 SK परिणतितः पारिणामिकः कवडीकार आहारः, परिणामकाले इन्द्रियमहाभूतपोषणात् / विषयतो वैषयिकः स्पर्शाहारः, इष्टविषया धिष्ठानेन स्पर्शेनाश्रयानुग्रहणात् / आशात आशिकः मनः संचेतनाहारः, अभिप्रेतवस्तुप्रतिवद्धाशावशेनाश्रयानुग्रहणात् / उपादानत औपादानिकः विज्ञानमाहारः, आलयविज्ञानोपादानवशेनात्मभा वोपस्थानात् / तथाहि तद्वियुक्त आश्रयः पूतीभवतीति /
162 SK पुनश्चत्वारो ऽप्याहाराः समस्य चतुर्भिः प्रभेदैर्व्यवस्थाप्यन्ते / तद्यथा अशुद्धाश्रयस्थितिकः कामावचराणां पृथग्जनानाम्, सकलबन्धनत्वात् / शुद्धाशुद्धाश्रयस्थितिकः शैक्षाणां रूपारूप्यावचराणां च पृथग्जनानाम्, सावशेषवन्धनत्वात् / शुद्धाश्रयस्थितिको ऽर्हताम्, सर्वबन्धनविनिर्मुक्तत्वात् / स्थितिसांदर्शिको बुद्धानां बोधिसत्त्वानां च महाप्रभावप्राप्तानाम्, आहारवशेन स्थितिरिति संदर्शनमात्रत्वात् //
163 SK असंस्कृतैकदेशः निष्पन्नस्वभावः सोत्तरमिति निर्वाणं मुक्त्वा, तस्य सर्वधर्माग्रत्वादिशुद्धायाश्च तथतायास्तल्लक्षणत्वात् //
164 SK समासतः प्रभेदस्त्रिविधः, त्रिविधं स्वभावमधिकृत्य पुद्गलनैरात्म्यनयेन वेदितव्यः / तत्र परिकल्पितः स्वभावः स्कन्धादीन्यधिष्ठायाविद्यमान आत्मादिस्वभावो यः परिकल्पितः / परतन्त्रः स्वभावस्तान्येव स्कन्धादीनि यत्रासावात्मद्यभूतविकल्पः प्रवृत्तः / परिनिष्पन्नः स्वभावो भावाभाववियुक्तलक्षणा हि तथता, स्कन्धादिष्वात्माद्यभावनैरात्म्यास्तितालक्षणत्वात् //
165 SK लक्षणप्रभेदो धर्माणां स्वभावमधिकृत्य, रूपं वेदनेत्येवमादि / प्रकार[प्र]भेदो विशेषमधिकृत्य, द्रव्यसन्तः प्रज्ञप्तिसन्त इत्येवमादि / आश्रयप्रभेदः प्रत्यात्मभावं स्कन्धादीनां नानात्वमधिकृत्य /
166 SK संततिप्रभेद एकस्मिनप्यात्मभावे स्कन्धादीनां प्रतिलक्षणमन्यथात्वमधिकृत्य //
167 SK बहिर्मुखप्रभेदो यद्भूयसा कामावचर इति भूयोग्रहणं निष्पन्दधर्महेतुकश्रुतचिन्तामयव्युदासार्थम् // समाप्तः प्रभेदः //
168 SK लक्षणसंग्रहेण रूपस्कन्धो रूपस्कन्धेनैव संगृहीतो विस्तरेण यावद्धर्मायतनं धर्मायत[ने]नैव / धातुसंग्रहेण सर्वाणि स्कन्धधात्वायतनान्यालयविज्ञानेन संगृहीतानि, सर्वेषां तत्र बीजतो ऽस्तित्वात् / जातिसंग्रहेण स्कन्धैः राश्याद्यर्थयुक्ता रूपादयः सर्वे संगृहीता विलक्षणा अप्यन्योन्यं स्वलक्षणेनैकजातीयत्वात् / एवं धातुभिश्चायतनैश्चोपभोगधारणार्थयुक्ता आयद्वारार्थयुक्ताश्चक्षुरादयः संगृहीता वेदितव्याः / अवस्थासंग्रहेण स्कन्धा एकजातीया अपि सुखाद्यवस्थां नियमय्य सुखावस्थाः सुखावस्थैरेव संगृहीता न दुःखाद्यवस्थैः / एवं दुःखावस्थादुःखासुखावस्थाश्च तदवस्थै[रे]व संगृहीताः / यथा स्कन्धा एवं धातव आयतनानि च / सहायसंग्रहेण रूपस्कन्धः सह तदाश्रितैर्वेदनादिभिः सहायैर्गृह्यमाणः पञ्चभिः स्कन्धैः संगृहीतः / एवं वेदनादयापि प्रत्येकं सपरिवारा गृह्यमाणाः पञ्चभिः स्कन्धैः संगृहीता भवन्ति / तथा धातव आयतनानि च सपरिवाराणि प्रत्येकं सर्वर्धातुभिरायतनेश्च संगृहीतानि वेदितव्यानि / एकदेशसंग्रहेण शीलस्कन्धो रूपस्कन्धैकदेशेन संगृहीतः / समाधिप्रज्ञास्कन्धौ संस्कारस्कन्धैकदेशेन / कामव्यापादहिंसाधातवो धर्मधात्वेकदेशेन संगृहीताः / आकाशानन्त्यायतनादीनि मनोधर्मायतनैकदेशेन संगृहीतानि / एवं कृत्वा यावन्तो धर्माः स्कन्धधात्वायतनैः संगृहीताः सूत्रान्तरेषु तेषामन्यतमसंग्रह एकदेशसंग्रहो वेदितव्यः / सकलसंग्रहेण दुःखस्कन्धः पञ्चभिरुपादानस्कन्धैः संगृहीतः, कामधातुरष्टादशभिर्धातुभिः, असंज्ञि सत्त्वायतनं दशभिरायतनंगन्धरसायतनवर्जैः संगृहीतम् / एवं कृत्वा यावन्तो धर्माः स्कन्धधात्वायतनंः संगृहीताः सूत्रान्तरेषु तेषामशेषतः संग्रहः सकलसंग्रहो वेदितव्यः / इतरेतरसंग्रहेण स्कन्धाः प्रत्येकं धातुभिरायतनैश्च संगृहीताः, यथायोगमेवं धातवः स्कन्धायतनरायतनानि स्कन्धधातुभिः संगृहीतानि [इति] विस्तरेणावगन्तव्यम् //
169 SK संग्रहलक्षणं पुनर्लोकप्रसिद्धसंग्रहानुसारेण षडिद्वधं द्रष्टव्यम् / तत्पुनः कतमत् / पदस्थानसंग्रहो यथा जम्बूद्वीपसंगृहीता मनुष्याः, अरण्यसंगृहीता मृगा इति लोके उच्यते तथेहापि चक्षुरादिभिः चक्षुर्विज्ञानादीनां संग्रहो वेदितव्यः / निबन्धसंग्रहो यथा रज्ज्वादिना काष्ठभारादिकस्य तथा कायेन चक्षुरादोनामिन्द्रियाणाम् / तुल्यार्थसंग्रहो यथा समानसर्वप्रयोजनानां विस्रम्भिणां मनुष्याणां परस्परं तर्थकालंबनप्रवृत्तानां संप्रयुक्तानामान्योन्यम् / उपादानसंग्रहो यथा स्वामिना आत्मीयतः परिग्रहीतादीना दासादीनां तथालयविज्ञानेनात्मभावस्य / अविसारसंग्रहो यथा घटेनोदकस्य तथा समाधिना तदन्येषां चित्तचैतसिकानाम् / अभिसंक्षेप[सं]ग्रहो यथा समुद्रेण नदीनां तथा रूपस्कन्धेन चक्षुरादोनामिति / तदत्राभिसक्षपसंग्रहमधिकृत्यकादशविधः संग्रहो वेदितव्यः //
170 SK परमाणुदेशे सर्वेषां देशिनामित्येकपरमाणुपर्यापन्नानां रूपादीनामविनिर्भागः समानदेशत्वेन वेदितव्यः / परमाणोरूर्ध्व सर्वेषां देशिनां मिश्रीभावः तद्यथा कलुषे पानीये अप्पृथिवीपरमाणूनां परम्परम् / देशिनामेव समुदायिनामन्योन्यं समवधानं तद्यथा भित्तौ मृत्पिण्डेन मृत्पिण्डान्तरस्य / सहभावसं[प्र]योग एकात्मभावे क्षणिकानां स्कन्धादीनाम् / कृत्यानुष्ठानसंप्रयोग एकस्मिन् प्रयोजने प्रयुक्तानामन्योन्यम् / संप्रतिपत्तिसंप्रयोगः परभावेन न स्वभावेन तद्यथा चित्तं चित्तान्तरेण न संप्रयुज्यते, वेदना वेदनान्तरेणेत्यवमादि / न विरुद्धयोस्तद्यथा रागद्वेषयोः कुशलाकुशलयोर्वेत्येवमादि / न विसदृशकालयोस्तद्यथा वर्तमानानागतयोरतीतवर्तमानयोर्वा / न विसभागधातुभूमिकयोस्तद्यथा कामावचररूपावचरयोः प्रथमद्वितीयध्यानभूमिकयोर्वेत्येवमादि / सर्वत्रगः संप्रतिपत्तिसंप्रयोग वेदनादीनां षण्णां सर्वास्ववस्थास्वेषां विनान्योन्यमभावात् / उचितस्तदेकत्यानां च शैक्षाशैक्षाणामित्येकान्तलौकिकानां कुशलानामकुशलाव्याकृतानां च यथासंभवम् / आद्यतदुत्तराणामित्यपूर्वजातीयत्वेन प्रथमक्षणोत्पन्नानां द्वितीयादिक्षणोत्पन्नानां च लोकोत्तराणामनुचितत्वज्ञापनार्थम् //
171 SK समन्वागमो लक्षणतः पूर्ववत्तद्यथा कुशलादीनां धर्माणामाचयापचये प्राप्तिः प्रतिलम्भः समन्वागम इति प्रज्ञप्तिः / बीजसमन्वागम इति कामधातौ जातौ भूतस्त्रैधातुकैः क्लेशोपक्लेशैः समन्वागत इत्यवीतरागं पृथग्जनमधिकृत्यैतद्वैदितव्यम् / वीतरागस्तु तत्रोर्ध्वं वा जातो यतो भूमेर्वीतरागस्तद्भूमिकैरसमन्वागतः समन्वागतश्च, प्रतिपक्षेणोपहतत्वादसमुद्धातितत्वाच्चानुशयतो यथाक्रमम् / उपपत्तिप्रातिलम्भिकंश्च कुशलरिति यत्र जातस्तद्भूमिकैरेव / त्रैधातुकप्रतिपक्षलाभीति लोकोत्तरमार्गलाभी / यस्य यस्य प्रकारस्य प्रतिपक्ष उत्पन्न इति भावनाप्रहातव्यस्याधिमात्रादेः क्लेशस्य / तस्य तस्य बीजसमन्वागमेनासमन्वागतो ऽनुशयतः समुद्धातितत्वात् / वशितासमन्वागमः प्रायोगिकानां कुशलानामिति श्रुतमयादीनां सत्यपि बीजे तदभ्यासकृतां तज्जन्मिकीं बीजपुष्टिमन्तरेण संमुखीकर्तुमशक्यत्वात् / तदेकत्यानां चाव्याकृतानां शंल्पस्थानिकनैर्माणिकचित्तप्रभृतीनाम् //
172 SK मोक्षहेतुवैकल्यादात्यन्तिक एषां हेत्वसमन्वागम इति / मोक्षप्राप्तिहेत्वसमन्वागम इत्यर्थः / कः पुनर्मोक्षप्राप्तिहेतुः / यस्यैवं तथतायां क्लेशदौष्ठुल्यं संनिविष्टं भवति तत्सति प्रतिपक्षानुकूलप्रत्ययलाभे शक्यते समुद्धातयितुम्, स भव्यता र्थेन हेतुरित्युच्यते / विपर्ययाद्धेतुवैकल्यं वेदितव्यम् //
173 SK II सत्यविनिश्चयो नाम द्वितीयः समुच्चयः
174 SK तत्सत्त्वजन्मतो जन्माधिष्ठानतश्चेति यश्च जायते सत्त्वलोकः, यत्र च जायते भाजनलोके, तदुभयं दुःख मित्युक्तं भवति / यश्च सत्त्वलोको यश्च भाजनलोकः कर्मक्लेशजनितः कर्मक्लेशाधिपतेय इत्याभ्यां तयोः सत्त्वभाजनलोकयोर्दुःखत्वकारणं ज्ञापयति //
175 SK अपि खलु जातिर्दुःखमित्येवमादि पूर्वं समस्य दुःखसत्यलक्षणं व्युत्पाद्याधुना दुःखसत्यमारभ्य सूत्रोक्तस्य निर्देशस्यार्थ विभक्तुमारभते //
176 SK जातिर्दुःखं संवाददुःखतां तदन्यदुखस्वाश्रयतां चोपादायेति मातुः कुक्षावामपक्वाशययोरन्तराले आसीनस्य निष्क्रामतो वा कुक्षेर्विविधाशुचिद्रव्यासंपीडाङ्गसंमर्ददुःखानुभवनार्थेन, जातौ सत्यां जरादिदुःखाभ्यनुषङ्गार्थेन च यथाक्रमम् //
177 SK षट् समानान्यष्टौ भवन्ति विपरिणतिदुखं त्रिधा कृत्वा //
178 SK जात्यादिभिर्दुःखदुःखतापरिदीपनवचनं दुःखवेदनीयधर्मस्वलक्षणार्थेन / प्रियविनामावादिना विपरिणामदुःखतापरिदीपनवचनं प्राप्ताप्राप्तसुखवेदनीयधर्मविपरिणतिस्वलक्षणार्थेन / पञ्चोपादानस्कन्धा दुःखमित्यनेन (Aभिध्-स्-भ् ५०) संस्कारदुःखतापरिदीपनवचनं द्वयाविनिर्मोक्षानित्येता नुबन्धयोगक्षेमार्थेन //
179 SK जातिर्दुखमित्येवमादि संवृतिसत्येन दुखम्, लौकिकज्ञानविषयत्वात् / पञ्चोपादानस्कन्धा दुःखमिति परमार्थसत्येन दुखम्, संनिवेशतथतामुखेन लोकोत्तरज्ञानविषयत्वात् //
180 SK दुःखसामान्यलक्षणे यैराकारैर्योगिने दुःखसत्यं व्यवचारयन्ति, तद्यथानित्यतो दुःखतः शून्यतो ऽनात्मतश्च //
181 SK तत्र द्वादशविधेन लक्षणेनानित्यं दुःखसत्यं वेदितव्यम् / तत्पुन रसल्लक्षणं यथा नास्ति सर्वदा दुःखसत्यमा[त्मा]त्मोयस्वभावमिति यो ऽर्थः सो ऽर्थो ऽनित्यं दुःखसत्यमिति / अकारस्य प्रतिषेधार्थत्वात् नित्यशब्दस्य च सर्वकालार्थत्वादिति / विनाशलक्षणं संस्काराणां भूत्वाभावः / विपरिणतिलक्षणं प्रबन्धासादृश्येन प्रवृत्तिः / वियोगलक्षणं तदवस्थेष्वेव वस्तुषु स्वभाववशित्वभ्रंशः क्वचित्परैः स्वीकरणमपि वेदितव्यम् / संनिहितलक्षणं यत्तदानीमेवानुभूयमानानित्यता / धर्मतालक्षणं यामवश्यमनुभविष्यति / क्षणलक्षणमात्मलाभानन्तरमवश्यविनाशिता / प्रबन्धलक्षणमनादिमति संसारे आजवंजवीभावेन वृत्तिः / व्याधिजरामरणलक्षणं धातुवैषम्यं खलित्यादिकं स्थितिकालावेधोपयोगश्च / चित्तचित्ताकारवृत्तिलक्षणं विपक्षप्रतिपक्षावस्थानावस्थितत्वम् / भोगसंपत्तिलक्षणं सर्वलौकिकसमृद्धो नामनात्यन्तिकतया दुरन्तत्वम् / भाजनसंवर्तविवर्तलक्षणं महापृथिव्यादिनामग्न्यादिभिः पुनः पुनर्विनाश[त] उत्पादतश्च, अग्न्यम्बुवायुसंवर्तनीभिर्दहनक्लेदनशोषणात्मिकाभिर्यथाक्रमम् / प्रथमद्वितीयतृतीयध्यानस्थानावसाने लोकसंनिवेशे संवृत्ते तदूर्ध्वं यान्यवशिष्यन्ते द्वितीयतृतीयचतुर्थध्यानस्यानान्तराणि तानि तासां शीर्षाणि वेदितव्यानि / चतुर्थध्यानभूमिकानां तर्हि विमानानां केन संवर्तविवर्तः / न केन चिद्बाह्येन, तैरेव तु सर्वैर्जायमानैः सह तानि विमानानि निर्वर्तन्ते च्यवमानैः सह (Aभिध्-स्-भ् ५१) तानि निरुध्यन्त इति / स एव तेषां संवर्तविवर्तो वेदितव्यः / यैः कल्पस्य निर्याणं भवतीति परिसमाप्तिर्भवतीत्यर्थः / एको ऽन्तरकल्पो ऽपकर्षः विवर्तकाले एकान्नविंशति[त]मः / अष्टादश उत्कर्षापकर्षाः / तत ऊर्ध्वमेक उत्कर्षः पश्चिमः / आयुक्षयान्मरणं कालच्युतिमधिकृत्य यावदाक्षेपमायुषः परिसमाप्तत्वात् / पुण्यक्षयादकालच्युति[मधिकृत्य] समापत्त्यास्वादनतया तदायुराक्षेपककर्मभावनोपधातात् / कर्मक्षयात्प्रबन्धच्युतिमधिकृत्य, तस्मिन्नायतने उपपद्यापरपर्यायवेदनीयकर्मण उपयुक्तत्वादभावाद्वा तत्र भूयो ऽनुत्पत्तितो वेदितव्यम् //
182 SK अष्टाकारं वा दुःखमिति संबाधदुःखतादि / उत्पादांशिकी अनित्यता अभूत्वा भावः, स च दुःखपक्ष्याणां संस्काराणां बाधनात्मकः / इति तामनित्यतां प्रतीत्य दुःखदुःखता प्रज्ञायते / व्ययांशिकी भूत्वाभावः, स च सुखपक्ष्याणां संस्काराणामनभिप्रेतः / इति तां प्रतीत्य विपरिणामदुःखता प्रज्ञायते / सदौष्ठुल्यानां संस्काराणां प्रबन्धेनोदयो ऽप्यनभिप्रेतः, व्ययो ऽपीति तदुभयांशिकीमनित्यतां प्रतीत्य संस्कारदुःखता प्रज्ञायते / संस्कारानित्यतां संस्कारविपरिणामतां च संधायोक्तम् - मया यत्किंचिद्वेदितमिदमत्र दुःखस्येत्ययमदुःखासुखस्य सुखस्य च वेदितस्य दुःख वचने ऽभिसंधिर्वेदितव्यः / दुःखस्य तु वेदितस्य दुःखत्वेन प्रसिद्धत्वाल्लोके न तत्र पुनरभिसंधिरुच्यत इति / येषु चानित्येषु संस्कारेषु जात्यादिकं प्रज्ञायते [तेषाम्] अनित्यत्वात् दुःखमित्यभिसंधिर्वेदितव्यः / अन्यथा मार्गो ऽप्यनित्यत्वाद्दुःखं स्यादिति //
183 SK शून्यतालक्षणं नित्यादिलक्षणस्यात्मनः संस्कारेभ्यो ऽर्थान्तरभूतस्य तेष्वभावः / तेषां च संस्काराणां नित्यकालं तद्रहितप्रकृतिकलक्षणस्य (Aभिध्-स्-भ् ५२) नैरात्म्यस्य भावस्तदुभयं शून्यतेत्युच्यते / स्वभावशून्यता परिकल्पितं स्वभावमु[पा]दाय, तस्य स्वलक्षणेनैवाभावात् / तथाभावशून्यता परतन्त्रं स्वभावमुपादाय, तस्य येन येन प्रकारेण परिकल्प्यते तेन तेन प्रकारेणाभावात् / प्रकृतिशून्यता परिनिष्पन्नं स्वभावमुपादाय तस्य शून्यताप्रकृतिकत्वात् //
184 SK अनात्मलक्षणं पुनस्तेषामेव संस्काराणामात्मवादिभिः परिकल्पितेनात्मलक्षणेनानात्मलक्षणता //
185 SK विनाशादिलक्षणानित्यता प्रसिद्धा, क्षणिकलक्षणा तु न प्रसिद्धा सर्वसंस्काराणामतः सा प्रसाधयितव्या / तत्र चित्तचैतसिकानां क्षणिकत्वं लोके प्रसिद्धमतः तेनाप्रसिद्धं रूपस्य क्षणिकत्वं प्रसाध्यते / कथमिति / चित्तोपात्ततामुपादाय, क्षणिकेन हि चित्तेन काय उपात्त / केनार्थेन / चित्तैकयोगक्षेमतामुपादाय, तथाहि कायः सविज्ञानक एव समुदागच्छति विज्ञानापक्रान्त्या च पूतीभवति / तस्माच्चित्तेनैकयोगक्षेमत्वात्तदिवास्य क्षणिकत्वं वेदितव्यम् / किं च चित्ताश्रयतामुपादाय, चित्तस्य हि [वि]कारेण कायस्य विकारो दृश्यते सुखदुःखरागद्वेषाद्यवस्थासु / अतः प्रतिक्षणं विकारिणश्चेतसो ऽनुविधानात् कायस्य क्षणिकत्वं सिद्धम् / चित्ताधिपत्यसंभूततामुपादाय, चित्तस्य हि सेन्द्रियः काय आश्रयः प्रसिद्धः, यस्य च य उत्पत्याश्रयो नासौ स्वविनाशमन्तरेण तस्याश्रयीभवन्दृष्टः / तद्यथाग्न्यंकुरादीनामिन्धनबीजादिकः / तस्मात्प्रतिक्षणं चित्तस्याश्रयभावात्प्रतिक्षणमेव विनश्यतीति सिद्धम् / चित्तस्याधिपत्यसंभूततामुपादाय, सर्वं ह्याध्यात्मिकबाह्यं रूपं चित्तस्याधिपत्येन संभवति / अतः कारणस्य क्षणिकत्वात्कार्यस्य क्षणिकत्वं वेदितव्यम्, ये हेतवो ये प्रत्ययाः रूपस्यात्पादाय ते ऽप्यनित्याः, अनित्यान् खलु हेतुप्रत्ययान् प्रतीत्योत्पन्नं रूपं कुतो नित्यं भविष्यतीति सूत्रपदानुसारेण / चित्तवशवर्त्तितां चोपादाय, प्रभावविशिष्टस्य च चित्तस्य (Aभिध्-स्-भ् ५३) रूपं वशे वर्तते, तेन यथेष्टं परिणामात् / अतः प्रतिक्षणमन्यथाधिमोक्षे सत्यन्यथोत्पादात्क्षणिकत्वसिद्धिः / अपि खलु अन्ते विकारोपलब्धितामुपादाय, न हि प्रतिक्षणप्रकृतिविकारितामन्तरेणाकस्मिको रूपस्यान्ते विकारो युक्तः, स चोपलभ्यते / तस्मात्स्वासांतानिकप्रतिक्षणविकाराभिवृद्धिहेतुकत्वादन्त्यस्य रूपविकारस्य क्षणिकं रूपमिति सिद्धम् / उत्पन्नस्य चानपेक्ष्य प्रत्ययं स्वरसविनाशितामुपादाय, सर्वस्योत्पन्नस्य विनाशः प्रत्ययमनपेक्ष्य स्वरसेनैव भवति / अतः प्रत्ययान्तरनिरपेक्षो ऽवश्यंभावी विनाश उत्पन्नमात्रस्यैव भावस्य न भवति पश्चाद्भतीति [न] किंचिद्विशेषणमस्ति / तस्मात्सर्वेण विनाशिनोत्पन्नमात्रेण विनष्टमिति सिद्धं क्षणिकत्वम् //
186 SK एकप्रदेशाश्रयिभावार्थ उपादायार्थः, भूतदेशनिरपेक्षस्य पृथक् स्वतन्त्रवृत्तितासामार्थ्याभावात् / अस्ति समुदाय एकभौतिकस्तद्यथा शुष्को मृत्पिण्डः / अस्ति द्विभूतिकः स एवार्द्रः / अस्ति त्रिभूतिकः स एवोष्णः / अस्ति सर्वभूतिकः स एवार्द्र उष्णश्च मृत्पिण्डो गमनावस्थायामिति / अस्ति समुदाय एकोपादायरूपिकस्तद्यथा प्रभा / द्व्युपादायरूपिकस्तद्यथा शब्दगन्धो वायुः / त्र्युपादायरूपिकस्तद्यथा धूमः, तस्य रूपगन्धस्प्रष्टव्यविशेषप्रभावितत्वात् / स्प्रष्टव्यविशेषः पुनरत्र लघुत्वं वेदितव्यम् / चतुरुपादायरूपिकस्तद्यथा गुडपिण्डः / पञ्चोपादायरूपिकस्तद्यथा स एव सशब्दः / इत्य[न्य]त्रापि यद्यत्रोपलभ्यते भूतं भौतिकं वा तत्र तदस्तीति वेदितव्यं नान्यत्र /
187 SK निःशरीरः परमाणुरिति निःस्वभावो व्यवस्थानमात्रमित्यर्थः, अपकर्षमर्यादाभावात् / बुद्ध्या पर्यन्तभेदतस्तु परमाणुव्यवस्थानं बुद्ध्या यावानवयपापकर्षपर्यन्तः शक्यते प्रभेत्तुं तावता परमाणुव्यवस्थानं क्रियते / किं पुनः कारणं यदेवं निःशरीरो ऽपि परमाणुर्व्यवस्थाप्यते / पिण्डसंज्ञाविभा[व]नतामुपादाय, अवयवशो हि बुद्ध्या भिद्यमाने रूपे सर्वमेतदेकं रूपमिति पिण्डसंज्ञा विगच्छति, यतः पुद्गलनैरात्म्यप्रवेशस्यानुकूल्यं भवतीति / (Aभिध्-स्-भ् ५४) रूपद्रव्यापरिनिष्पत्तिप्रवेशतां चोपादाय, एवं हि बुद्ध्या भिद्यमानं रूपं न किंचिद्भवतीति मत्वा रूपद्रव्यस्यापरिनिष्पत्तिं प्रविशति, यतो विज्ञप्तिमात्रावतारेण धर्मनैरात्म्यप्रवेशस्यानुकूल्यं भवतीति //
188 SK विपुलदुःखमसंलिखितं कामावचरमनुपचितकुशलमूलानाम्, सर्वदुःखतागतियोनिप्रभावितत्वात् कामधातोरनुपचित्तकुशलमूलत्वेनानावृतं सर्वगतिगमनत्वाच्च यथाक्रमं तद्विपुलमसंलिखितं च वेदितव्यम् संलिखितं तदेवोत्पन्नमोक्षभागीयानाम्, अवश्यं परिनिर्वाणनियमात् / संलिखितासंलिखितं तदेव कामावचरं दुःखं लौकिकवैराग्यावरोपितकुशलमूलानाम्, दुःखदुःखतादिसमतिक्रमनियमितत्वादनात्यन्तिकत्वाच्च यथाक्रमम् / एवं मध्यासंलिखितादीनि यथायोगं योजयितव्यानि / महासंलेखप्रत्युपस्थानमनेकसत्त्वसंतानिकदुःखापनयनप्रत्युपस्थानात् //
189 SK कुशलादिचित्तस्य मरणमित्यात्मस्नेहसंप्रयुक्ताच्च्युतिचित्तापवर्गावस्थामधिकृत्य वेदितव्यम् / मनोमय उपपादुकत्वेन, चित्तमात्रहेतुकत्वात् / गन्धर्वो गन्धेनार्वणात् गन्धानुसारेणो पपत्तिदेश[ग]मनादित्यर्थः / परं सप्ताहं तिष्ठत्यन्तरेण च च्यवते यद्युपपत्तिप्रत्ययान् लभते / अथ न लभते सप्ताहात्परेण च्युत्वा पुनरन्तराभव एव निवर्तते / एवं याव[त्] सप्तकृत्वः ततः परेण एकदा च व्यावर्तते यदि तदवस्था स्याद्यत्रोपपत्तिप्रत्य[य] / बलवन्त आमुखीभूता भवन्ति चतुर्थध्यानलाभिनो ऽर्हत्त्वाभिमानिनो भिक्षोस्तद्भूमिकान्तराभवाभिनिर्वृत्तौ मोक्षापवादि कमिथ्यादृष्टिप्रतिलम्भान्नारकान्तराभवाभिनिर्वृत्तिवत् / तत्रस्थश्च कर्मोपचिनोति, पूर्वावेधवशेन कुशलादिचेतनासमुदाचारात् / सभागांश्च सत्त्वान्पश्यति यैः सह पूर्व तत्कुशलमकुशलं वा चरितं भवति तैः सह वर्तमानमात्मानं स्वप्न इव संजानीते / यत्र चासावुपपन्नो तत्पूर्वकालभवाकृतिर्निर्वर्तते / तत ऊर्ध्वमिन्द्रियाभिनिर्वृत्तिर्यथा प्रतीत्यसमुत्पाद इति नामरूपाद्यानुपूर्व्या / यथोक्तम् -
190 SK कललं प्रथमं भवति कललाज्जायते ऽर्बुदम् / अर्बुदाज्जायते पेशी पेशीतो जायते धनम् //
191 SK घनात्प्रशाखा जायन्ते केशलोमनखादयः / इन्द्रियाणि च रूपीणि व्यञ्जनाद्यनुपूर्वशः //
192 SK समुदयसत्यं यतो दुःखं समुदेति / तत्पुनः कतमत् / क्लेशाः क्लेशाधिपतेयं च कर्म इति सास्रवमित्यर्थः / यद्येवं किमर्थ भगवता तृष्णैव समुदयनिर्देशे निर्दिष्टा / सर्वत्रगत्वेन प्राधान्यात् / तृष्णा वस्तुसर्वत्रगा प्राप्ताप्राप्तसर्वात्मभावविषयवस्तुव्यापनात् / प्राप्ते आत्मभावे तृष्णा, अप्राप्ते पौनर्भविकी / प्राप्तेषु विषयेषु [नन्दीरागसहगता / अप्राप्तेषु विषयेषु] तत्रतत्राभिनन्दिनी वेदितव्या / अवस्थासर्वत्रगा दुःखदुःखतादित्र्यवस्थेषु संस्कारेष्वनुग[त]त्वात् / तत्र दुःखदुःखतावस्थेषु प्राप्तेषु वियोगतृष्णा, अप्राप्तेष्वसंयोगतृष्णा / विपरिणामदुःखतावस्थेषु अवियोगतृष्णा संयोगतृष्णा च, प्राप्ताप्राप्तभेदात् / संस्कारदुःखतावस्थेषु संमोहतृष्णा, क्लेशदौष्ठुल्यप्रभावितत्वाददुःखासुखवेदनाप्रभावितत्वाच्च / आलयविज्ञानं विशेषेण संस्कारदुःखतावस्थं तत्र चात्मसंमोहसुखेन तृष्णा प्रवृत्ता वेदितव्या / अध्वसर्वत्रगा त्रिष्वप्यध्वस्वनुगतत्वात् / अतीते तावदध्वन्यपेक्षाकारेणानुगता, अनागते अभिनन्दनाकारेण, प्रत्युत्पन्ने अध्यवसानाकारेण / धातुसर्वत्रिका त्रैधातुकस्फरणात्कामरूपारूप्यतृष्णाभिः / एषणासर्वत्रिका तया कामभवमिथ्याब्रह्मचर्यैषणात् / कामैषणया कामधातोरपरिमुच्यमानस्तत्रैव दुःखं निर्वर्तयति / तथा भवैषणया रूपारूप्यधात्वोः दुखं निर्वर्तयति / मिथ्याब्रह्मचर्यैषणया संसारादपरिमुच्यमानस्तत्र संसरतीति / प्रकारसर्वत्रिका शाश्वतोच्छेदप्रकारानुगतत्वाद्भवविभव तृष्णाभ्याम् //
193 SK दृष्टेः प्रञ्चाकारो भेदः - सत्कायदृष्टिरन्तग्राहदृष्टिमिथ्यादृष्टिः दृष्टिपरामर्शः शीलव्रतपरामर्श इति //
194 SK अप्रशान्तलक्षणता क्लेशानां सामान्यलक्षणं वेदितव्यम् / सा पुनः षडाकारा तद्यथा विक्षेपाप्रशान्तता विपर्यासाप्रशान्तता औद्धत्याप्रशान्तता स्त्यानमिद्धाप्रशान्तता प्रमादाप्रशान्ततालज्जाप्रशान्तता च //
195 SK क्लेशानुशयश्चाप्रहीणो भवतीति तत्पक्षस्य दौष्ठुल्यस्यासमुद्घाति तत्वात् / क्लेशस्थानीयश्च धर्म आभासगतो भवति रंजनीयादिः / तत्र चायो निशोमनस्कारः प्रत्यवस्थितो भवतीति तस्मिन्विषये शुभनिमित्ताद्युद्ग्राहको रागाद्युत्पत्त्यनुकूलः //
196 SK अविद्या दृष्टिविचिकित्सा ऊर्ध्वभूम्यालंबना अपि सन्ति न पुनरासां सा भूमिः साक्षादालंबनं वेदितव्यं यथा स्वभूमिः, तत्परिकल्पमुखप्रवृत्तत्वात् तु तदालंबनव्यवस्थानं वेदितव्यम् / तत्राविद्या ऊर्ध्वभूम्यालंबना या दृष्टिसंप्रयुक्ता / दृष्टिः सत्कायदृष्टि स्थापयित्वा, न हि परभूमिकान् संस्कारानहमित्यभिनिविशमानो दृष्ट इति / ऊर्ध्वभूमिकस्य तु क्लेशस्याधोभूमिरालंबनं न भवति, ततो वीतरागत्वात् / निरोधमार्गालंबनस्य तौ नालंबनम्, लोकोत्तरेण ज्ञानेन तत्पृष्ठलब्धेन वा प्रत्यात्मवेदनीयत्वात् / तत् परिकल्पितं त्वस्यालंबनमिति वक्तव्ये तत्परिकल्पस्त्वस्यालंबनमिति वचनम्, तदव्यतिरेकात्परिकल्पितस्य //
197 SK रागः प्रतिधेन न सं[प्र]युज्यते, एकान्तविरुद्धयोरेकत्र वृत्त्ययोगात् / विचिकित्सयापि न सं[प्र]युज्यते, न हि विचिकित्साव्यवस्थितबुद्धिरध्यवस्यतीति / शिष्टैस्त्वस्य मानादिभिरविरुद्धत्वात्संप्रयोगो वेदितव्यः / प्रतिघो मानेन दृष्ट्या च न संप्रयुज्यते, न हि यो यत्र वस्तुनि प्रतिहतस्तेन स उन्नतिं गच्छति तद्वा संतीरयितुं शक्नोतीति, एवमन्यदपि योजयितव्यम् // क्रोधादय अन्योन्यं न संप्रयुज्यन्त इति विरुद्धा विरुद्धैर्न सं[प्र]युज्यन्ते / तद्यथा रागांशिकाः प्रतिघांसिकैः / अविरुद्धास्तु क्लेशवदेव संप्रयुज्यन्त इति (Aभिध्-स्-भ् ५७) वेदितव्यम् / आह्रीक्यानपत्राप्यं सर्वत्राकुशले संप्रयुज्यते, स्वपरनिरपेक्षतामन्तरेणाकुशलसत्समुदाचारा संभवात् / एवं स्त्यानादयः सर्वत्र क्लिष्टे योजयितव्याः, अकर्मण्यादिकमन्तरेण क्लिष्टत्वा संभवादिति //
198 SK यद्येन प्रकारेण यस्मिन् वस्तुनि संप्रयोजयति तन्निर्देशेन संयोजननिर्देशो वेदितव्यः / किं संयोजयति / अनुनयसंयोजनं तावत्त्रैधातुकरागस्वभावं संयोजयति / केन प्रकारेण संयोजयति / तद्वतः त्रैधातुकानुद्वेगे सत्यकुशलसमुदाचरतः कुशलासमुदाचरतश्च / कस्मिन् संयोजयति / आयत्यां दुःखाभिनिर्वृत्तौ / एवं प्रतिघसंयोजनादिषु योजयितव्यः / अविद्यासंयोजनेन संप्रयुक्तो दुःखधर्मान् समुदयधर्मान्नाध्यवस्यति, फलहेतुभूतान्सास्रवान्संस्कारास्तदादीनवापरिज्ञानात् / दृष्टिसंयोजनेन संप्रयुक्तो मिथ्यानि सरणं पर्येषत इत्यह मोक्षो मम मोक्षो मुक्तश्च नित्यो भविष्यास्युच्छेत्स्यामि वेति, न च बौद्धानामस्ति मोक्ष इति / परामर्शसंयोजनेन सं[प्र]युक्तो मिथ्यानिःसरणोपायं कल्पयत्यभिनिविशते, आर्याष्टाङ्गं मार्गं हित्वा सत्कायदृष्टया तत्पूर्वकेण च शीलव्रतेन शुद्धिप्रत्ययनात् //
199 SK रागादिबन्धनैविपरिणामदुःखतादिबन्धनवचनं सुखादिवेदनानुशयितत्वात् / बाह्येन हि बन्धनेन बद्धो द्वयं न लभते - गन्तुं च न लभते, आसीनो ऽपि यथेष्टमभिप्रेतचेष्टायां कामकारं न लभते / तत्साधर्म्येणाध्यात्मिकं रागादिबन्धनं वेदितव्यम् //
200 SK कामैषणाया अविरतस्य कामरागप्रतिघानुशयावनुशया ते, तन्मुखेन तयोः पुष्टिगमनात् / मिथ्या मोक्षं मोक्षोपायं च सन्तीरयन्तीति यथाक्रमं तिसृभिर्दृष्टिभिर्द्वाभ्यां च परामर्शाभ्यां यथा संयोजनेषूक्तमिति //
201 SK षड् रागादीन् क्लेशान् स्थापयित्वा तदन्यः क्लिष्टश्चैतसिकः संस्कारस्कन्धः क्रोधादिको वेदितव्यः /
202 SK कुशलपक्षान्तरायाय योगिनां पुनःपुनरुद्वेगेन चित्तं पर्यवनह्यन्तीति पर्यवस्थानानि / कुशलपक्षः पुनर्यथाकालं शमथप्रग्रहोपेक्षानिमित्तभावना तत्संनिश्रयश्च ब्रह्मचर्यादिशुद्धिसंगृहीतं शीलम् / तत्र शमथकाले स्त्यानमिद्धमन्तरायं करोति, आध्यात्मं संक्षेपावाहनात् / प्रग्रहकाले औद्धत्यकौकृत्यम्, बहिर्धा विक्षेपावाहनात् / उपेक्षाकाले ईर्ष्यामात्सर्यम्, तद्वतः परात्मसंपत्त्यमर्शग्रहमुखेन मुहुर्मुहुश्चित्तकंपनात् / शीलविशुद्धिकाले आह्वीक्यानपत्राप्यम्, तदुभयवतः सर्वथापत्तिस्थानेष्वलज्जनादिति //
203 SK संक्लेशव्यवदानगुणवैगुण्यार्थेन यथाक्रममोघयोगव्यवस्थानं वेदितव्यम् / आश्रिताश्रयसंबन्धयोगेनेति दृष्टयौघ आश्रितः, अविद्यौघ आश्रयः, संमोहे सति मोक्षतदुपायविपरीतं संतीरणात् //
204 SK दृष्टिशीलव्रतोपादानाभ्यां तीर्थ्या अन्योन्यं विवदन्ति, तत्रानेकमत्यात् / आत्मवादोपादाने[न] त्वन्योन्यं न विवदन्ति, आत्मनो ऽस्तित्वं प्रति सर्वेषां मतसाम्यात् / आत्मवादोपादानेन तीर्थ्याइहधार्मिकैः सार्द्धं विवदन्ति, एषां नैरात्म्यवादित्वात् //
205 SK अभिध्यादयः कायग्रन्था इति न रूपकायस्यैते ग्रन्था वेदितव्याः किंतर्हि समाहितचित्तस्वभावस्य कायस्य परिग्रन्थार्थेन ग्रन्थाः / पृथग्दृष्टिसंनिश्रयेणेदमेव सत्यं मोघमन्यदित्यभिनिविश्य ज्ञेयं संतीरयतामयोनिशो ज्ञेयसंतीरणहेतोः चित्तं विक्षिप्यते / कुतो विक्षिप्यते / समाहितचित्तस्य यथाभूतज्ञानदर्शनतः //
206 SK कुशलपक्षस्यासंप्रख्यानाय चित्तं निवृण्वन्तीति निवरणानि कुशलप्रवृत्तेरन्तरायं कुर्वन्तीत्यर्थः / कामच्छन्दं प्रव्रज्याभिरतेरन्तरायं करोति, विषयोपभोगाभिलाषमुखेन तत्र तत्राभिरमणात् / व्यापादश्चोदनायां सम्यक्प्रतिपत्तेः, सब्रह्मचारिभिः शिक्षास्थानेषु चोद्यमानस्य (Aभिध्-स्-भ् ५९) व्यापन्नचित्ततयासम्यक्शैक्षणात् / स्त्यानमिद्धमोद्धत्यकौकृत्यं च शमथप्रग्रहयोः, पूर्ववत्संक्षेपविक्षेपावाहनादिभिः / विचिकित्सा उपेक्षायाम्, निश्चय मन्तरेणाभ्युपेक्षितुमशक्यत्वात् //
207 SK प्रतिपक्षलांगर्लैदुर्भेदार्थेन खिलव्यवस्थानं वेदितव्यम्, जन्मान्तराभ्यासेन खिलीभूतत्वात् //
208 SK दौःशील्याशुचिसंभावनानिमित्तत्वान्मलाः //
209 SK पुनः पुनः संसारे जातिजरामरणयोगेन निध्नन्तीति निघाः //
210 SK भवभोगेषु रत्नेषु च तृष्णाविचिकत्सामुखेनानुप्रविश्य तोदनाच्छल्याः //
211 SK बहूपकरणपरिग्रहेण सकिंचनं कृत्वा भयादिभिर्योजनात् किंचनाः //
212 SK प्राणातिपाताद्यकुशलचर्यावाहनाद्दुश्चरितानि / लोभद्वेषमोहानामेवाकुशलमूलत्वेन व्यवस्थानम्, एभिर्मुखैः सत्त्वानां दुश्चरितचरणात् / तत्रामिषकिंचित्कहेतोः भोगार्थिनो लोभेन दुश्चरितं चरन्ति / अपकारनिमित्तपरिकल्पहेतोः परापराधामर्षिणो द्वेषेण, मिथ्याधर्माभिनिवेशहेतोः विपरीतदर्शिनो मोहेन दुश्चरितं चरन्ति याज्ञिकादय इति //
213 SK चित्तविसारं स्रुतं कुर्वन्तीत्यास्रवाः //
214 SK कायिकचैतसिकविघातकरत्वाद्विघाताः //
215 SK अयोनिशोनिमित्तमनुव्यञ्जनं च ग्राहयित्वा कायं चित्तं च परिदहन्तीति परिदाहाः //
216 SK रूपादिके वस्तुनि रत्यध्यवसानं कारयित्वा तद्विपरिणामे शोकादिभिः सत्त्वानायासन्तीत्यु पायासाः //
217 SK रणयन्ति शस्त्रादानादिभिरिति रणाः //
218 SK अधर्मरागादिमहापरिदाहकरत्वात् ज्वरा इव ज्वरा वेदितव्याः // तत्राधर्मरागः यो ऽकुशलेषु कर्मपथेणानुरागः / विषमलोभो ऽन्यायेनाधर्मेण विषयपर्यष्टिः / मिथ्याधर्मो दुराख्यातो धर्मविनयो वेदितव्यः //
219 SK जातिमूलक संस्कारतरुवनं संजानयन्तीति वनसाः //
220 SK कायसापेक्षादितया कुशलप्रयोगविबन्धनाद्विबन्धाः / कायसापेक्षतादीनि पुनः पञ्च चेतोविनिबन्धानधिकृत्य //
221 SK रागो विषये दृष्टौ च विप्रतिपन्न इति भावनाप्रहातव्यो दर्शनप्रहातव्यश्च यथाक्रमम् / शुभतामात्रालंबनत्वाद्रागस्य यो ऽपि सत्त्वेषु रागः सो ऽपि विषयमुखेनैव विप्रतिपन्नो वेदितव्यः / एवं प्रतिकूलमात्रालंबनत्वात् प्रतिघस्य सत्त्वेष्वपि प्रवर्तमानो विषयमुखेनैव विप्रतिपन्नो वेदितव्यः // मानः सत्त्वेषु दृष्टौ च [वि]प्रतिपन्नः हीनादस्मि श्रेयानित्येवमाद्याकारप्रवृत्तत्वात्सत्वेषु विप्रतिपन्नो वेदितव्यः / सत्कायान्तग्राहमिथ्यादृष्टयो ज्ञेये विप्रतिपन्नाः समारोपापवादमुखेन यथायोगम् / शीलव्रतपरामर्शादिः दृष्टौ विप्रतिपन्नः दृष्टिदोषेणैव शीलव्रतस्य शुद्धितः परामर्शनात् / विचिकित्सा प्रतिपक्षे विप्रतिपन्ना सत्येषु बुद्धिर्द्वघापादनात् / ते दुःखसमुदययोर्दशापि क्लेशा निदानं भवन्ति / तौ च तेषां पदस्थानम् / अतस्ते तन्निदानपदस्थानतो विप्रतिपन्ना इत्युच्यन्ते / निरोधे मार्गे चोत्त्राससंजननतो विप्रतिपन्नाः क्लेशवशात्संसारे ऽभिरतस्य व्यवदानतः प्रपातसंज्ञात्रासात् / विपरीतकल्पनतश्च निरोधे मार्गे च विप्रतिपन्ना द्रष्टव्याः, तीर्थ्यैरन्यथा परिकल्प्य तत्र [वि]प्रतिपत्तेः //
222 SK कामावचरो रागः पञ्चविज्ञानकायिकः सुखेन संप्रयुज्यते / मनोविज्ञानकायिकः सौमनस्येन / सर्व उपेक्षयाप्रबन्धोपरतिकाले / दुःखदौर्मनस्याभ्यां तु न संप्रयुज्यते, हर्षाकारप्रवृत्तत्वात् //
223 SK प्रतिघो दुःखेन संप्रयुज्यते पञ्चविज्ञानकायिकः, षष्ठो दौर्मनस्येन, सर्व उपेक्षया पूर्ववत् सुखसौमनस्याभ्यां न संप्रयुज्यते, दैन्याकारप्रवृत्तत्वात् //
224 SK मानः कामधतौ सुखेन न संप्रयुज्यते, पञ्चविज्ञानकायिकाभावात् / प्रथमद्वितीययोस्तर्हि ध्यानयोः कथं सुखेन संप्रयुज्यते / मनोभूमिकेन सुखेन / (Aभिध्-स्-भ् ६१) कथं तत्र मनोभूमिकं सुखम् / यत्तदुच्यते प्रीतिसुखमिति, यथोक्तम् - ᳚प्रीतिः कतमा / या परिवृत्ताश्रयस्य परिवृत्तिविज्ञानाश्रिता चित्ततुष्टिः चित्तौद्विल्यं चित्तहर्षः चित्तकल्पता सातं वेदितं वेदनागतम् / सुखं कतमत् / यत्परिवृत्ताश्रयस्यालयविज्ञानाश्रित आश्रयानुग्रहत आश्रयह्लादः सातं वेदितं वेदनागतमिति /᳚ तदेतदुक्तं भवति / सुखा वेदना प्रथमद्वितीययोर्ध्यानयोरुत्पद्यमाना येन चित्तचैतकलापेन संप्रयुज्यते तं च हर्षाकारेण प्रीणयति, आश्रयं चालयविज्ञानस्वभावं प्रस्रब्धिसुखेन ह्लादयति / अतस्तदुभयकृत्यकरत्वादुभयथैवास्या व्यवस्थानं वेदितव्यं प्रीतिः सुखं चेति / तस्मात्तया संप्रयुज्यमानो मानः सुखेन सौमनस्येन च संप्रयुज्यत इत्युच्यते /
225 SK मिथ्यादृष्टिः कामधातौ दौर्मनस्येन सौमनस्येन च संप्रयुज्यते, सुकृतदुष्कृतकारिणां तद्वैफल्यदर्शनेनाधृतिहर्षोत्पादात् / सुखदुःखाभ्यां न संप्रयुज्यते, मनोभूमिकत्वात् सर्वस्या दृष्टेः //
226 SK विचिकित्सा कामधातौ सौमनस्येन न संप्रयुज्यते, अनिश्चितचित्तस्य नैर्वृत्त्यमन्तरेण सौमनस्याभावात् / रूपधातौ विचिकित्सोत्तरध्यायिनामपि प्रीतिसुखं समाधिवलाधानेनानुवर्तत एवेति तत्र सुखसौमनस्याभ्यामपि संप्रयुज्यते //
227 SK आवेणिकाया अप्यविद्याया एष एव नयो द्रष्टव्यः सुखसौमनस्याभ्यां संप्रयोगासंप्रयोगमारभ्य //
228 SK सर्वक्लेशा उपेक्षया संप्रयुज्यन्ते औदासीन्यमागम्यास्तगमनतामुपादायेति क्लेशप्रवन्धस्य मन्दतरतमतागमनेनोपरतवेगस्योपरमणादन्ते ऽवश्यमौदासीन्यमुखेनोपेक्षायाः संप्रयोगो वेदितव्यः //
229 SK रूपधातौ चतुर्विज्ञानकायिकस्तत्र घ्राणजिह्वाविज्ञानाभावात् / मानादयो मनोविज्ञानकायिका एव, परितुलनतामुखप्रवृत्तित्वात् / मानस्यैकदेशप्रवृत्तित्वं केनचिदेवांशेनोन्नतिगमनात् //
230 SK कामधतौ दश दुखदर्शनप्रहातव्या इति ये तत्र तन्निदानपदस्थानतो विप्रतिपन्नाः / एवं समुदयादिषु यथायोगं विप्रतिपन्नास्तद्दर्शनप्रहातव्या इति वेदितव्याः / किं खलु ये यदालंबनास्ते तत्र (Aभिध्-स्-भ् ६२) विप्रतिपन्ना इति वेदितव्याः / नावश्यम्, अनास्रवालंबनानां सास्रवे वस्तुन्यनुशयादिति / रूपधातौ प्रतिधाभावान्नव एव दुःखादिदर्शनप्रहातव्या वेदितव्याः / एवमारूप्यधातौ / सहजा सत्कायदृष्टिः का भावनाप्रहातव्या / यामधिष्ठायोत्पन्नदर्शनमार्गस्याप्यार्यश्रावकस्यास्मिमानः समुदाचरति / यथोक्तम् - ᳚नाहमायुष्मन्दासकेमान् पञ्चोपादानस्कन्धानात्मत [आ]त्मीयतो वा समनुपश्याम्यपि त्वस्ति मे एषु पञ्चसूपादानस्कन्धेष्वस्मीति मानो ऽस्मीति छन्दो ऽस्मीत्यनुशयो ऽप्रहीणो ऽपरिज्ञातो ऽनिरोधितो ऽवान्तीकृत इति /᳚ यथा क्लिष्टस्य धात्रीचैलस्योषादिभिः सुधौतस्य निर्मलस्यापि सतस्तदधिवासनाकृतं गन्धमात्रमनुवर्तते यत्तत्सुगन्धद्रव्यपरिभावनया भूयो ऽप्यपनेतव्यं भवत्येवमेव दर्शनमार्गेण प्रहीणपरिकल्पितसत्कायदृष्टिमलस्याप्यार्यश्रावकस्य पूर्वाभिनिवेशाभ्यासकृतमपरिच्छिन्नवस्तुकमात्मदर्शनमनुवर्तते यत्तत्पुनर्मार्गभावनया प्रहातव्यं भवतीति / अन्तग्राहदृष्टिः सहजोच्छेददृष्टिसंगृहीता वेदितव्या, यया निर्वाणात् प्रत्युदावर्तते मानसं परित्रसनमुपादायाथ कस्तर्हि मे आत्मेति / रागादयो भावनाप्रहातव्या दृष्टिपक्षान् मुक्त्वा //
231 SK तन्निदानवस्तुपरिज्ञानं क्लेशानुशयश्चाप्रहीणो भवत्येवमादि पूर्ववत् / स्वभावपरिज्ञानं क्लेश एष उत्पन्नः चित्तसंक्लेशात्मक इति / आदीनवपरिज्ञानमात्माव्यावाधाय संवर्तते परव्याबाधायोभयव्या[बा]धाय, दृष्टधामिकमवद्यं प्रसवति सांपरायिकं दृष्टधर्मसांपरायिकमवद्यं प्रसवति तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयत इत्येवं त्रिभिः प्रकारैः परिज्ञायोत्पन्नः क्लेशो ऽनधिवासनयोगेन परिवर्ज्यते / अनुत्पन्नस्य त्वनुत्पादाय मार्गो भाव्यते //
232 SK असंभिन्नालंबनेन मनस्कारेणेति मिश्रालंबनेन सर्वधर्मसामान्य लक्षणाकारेणेत्यर्थः / यदि सर्वधर्मा अनात्मन इति नैरात्म्यज्ञानेनैव क्लेशप्रहाणं भवत्यनित्याद्याकाराः किमर्थमुपदिश्यन्ते / न ते क्लेशप्रहाणार्थं किंतर्ह्यनात्माकारपरिकर्मार्थम् / अनित्याकारं हि निःसृत्यानात्माकारः / यथोक्तम् - ᳚यदनित्यं तद्दुखं यद्दुखं तदनात्मेति᳚ / अत एवानात्माकारस्यानुत्तर्यव्यवस्थानम् / आनुत्तर्याण्यारभ्य त्रीण्यानुत्तर्याणि - ज्ञानानुत्तर्यं (Aभिध्-स्-भ् ६३) प्रतिपदानुत्तर्यं विमुक्त्यानुत्तर्यं च / तत्र ज्ञानानुत्तर्यं नैरात्म्यज्ञानम्, ततः परेण ज्ञानान्तरापर्येषणा[त्] / प्रतिपदानुत्तर्य सुखा क्षिप्राभिज्ञा, तस्याः सर्वप्रतिपदग्रत्वात् / विमुक्त्यानुत्तर्य मशैक्षाकोप्या च विमुक्तिः, सर्वविमुक्तिप्रतिविशिष्टत्वात् / एतानि च त्रीण्यानुत्तर्याणि यथाक्रमं दर्शनभावनानिष्ठामार्गानधिकृत्य वेदितव्यानि //
233 SK उपलब्धिकर्म चक्षुरादीनां रूपदर्शनादि / कारित्रकर्म पृथिव्यादीनां धारणादि यद्वा यस्य स्वलक्षणकृत्यम् / तद्यथा रूपणा रूपस्येत्येवमादि / व्यवसायकर्माभिसंधिपूर्वकं कायादिकर्म / परिणतिकर्म सुवर्णकारादीनामलंकारादि / प्राप्तिकर्मार्यमार्गादीनां निर्वाणाधिगमादि // अस्मिंस्त्वर्थे यद्भूयस्या व्यवसा कर्माभिप्रेतमिति प्राप्तिकारित्रकर्मणोरपि संभवात् //
234 SK कायादिकर्म कर्मपथा इति सूत्रानुसारेण यथाप्रधानं निर्देशो वेदितव्यः, तत्प्रयोगादीनापि कायादिकर्मान्तर्भावात् / त्रयश्चत्वारस्त्रयश्च कर्मपथा यथाक्रमं कायवाङ्मनःकर्मलक्षणा वेदितव्याः // प्राणातिपातादीनां वस्तु सत्त्वसंख्यातमसत्त्वसंख्यातं वा यथायोगं यदधिष्ठाय प्राणातिपातादयः प्रवर्तन्ते / आशयस्तत्र वस्तुनि तत्संज्ञाशयस्तत्कर्मपथक्रियेच्छाशयश्च / प्रयोगस्तत्क्रियायै स्वयं परैर्वा कायवाङ्मनोभिरारम्भः / क्लेशः लोभद्वेषमोहा यथायोगं समस्तव्यस्ताः / निष्ठागमनं तेन तेन प्रयोगेण तस्य तस्य कर्मणः परिपूरणं तत्कालमूर्ध्वकालं वा // तत्र प्राणातिपातस्य वस्तु सत्त्वः / आशयस्तत्र तत्संज्ञिनो वधाभिप्रायः / प्रयोगो वधो यत्प्रहरणादिभिः / क्लेशो लोभादिकः / निष्ठागमनं तस्य प्राणिनस्तेन प्रयोगेणानन्तरं प्रश्चाद्वा मरणम् // अदत्तादानादोनां वस्तु च निष्ठागमनं च निर्धेक्ष्यामः / शेषं यथायोगं योजयितव्यम् / अदत्तादानस्य वस्तु परपरिगृहीतं सत्त्वसंख्यातमसत्त्वसंख्यातं वा / निष्ठागमनं तत्स्वीकरणम् / काममिथ्याचारस्य वस्त्वगम्या स्त्री गम्या वानङ्गादेशाकाले वमात्रायुक्ताभ्यां च सर्वश्च पुमान्नपुंसकं च / निष्ठागमनं द्वयद्वयसमापत्तिः / मृषावादस्य वस्तु दृष्टं श्रुतं मतं विज्ञातमदृष्टमश्रुतममतमविज्ञातं च / (Aभिध्-स्-भ् ६४) आशयो ऽन्यथावत्कुकामता / निष्ठागमनं पर्षत्प्रतिवादिविज्ञापनम् / पैशुन्यस्य वस्तु समग्रव्यग्राः सत्त्वाः / आशयस्तेषामेव भेदाप्रतिसंधानाभिप्रायः / निष्ठागमनं भेद्यविज्ञापनम् / पारुष्यस्य वस्त्वाघातनिमित्तभूताः सत्त्वाः / निष्ठागमनं पारूषाणाम् / संभिन्नप्रलापस्य वस्त्वनर्थोपसंगृहीतार्थः / निष्ठागमनं तस्य भाषणम् / अभिध्याया वस्तु परकीयं वित्तोपकरणम् / आशयस्तत्र तत्संज्ञिनस्तथारुचिः / प्रयोगस्तत्स्वीकरणसंप्रधारणम् / निष्ठागमनं तत्स्वीकरणनिश्चयः / व्यापादस्य वस्त्वाघातनिमित्तभूताः सत्त्वाः / निष्ठागमनं प्रहनननिश्चयः / मिथ्यादृष्टेर्वस्तु सन्नर्थः / आशयः सत्यतत्संज्ञिनस्तथारुचिः / निष्ठागमनमपवादनिश्चयः //
235 SK पराज्ञप्तिसंचेतनीयता यथा कश्चिदनिच्छन्नपि परैर्बलादाज्ञाप्यमनो ऽभिसंघायाकुशलमाचरति / परसंज्ञप्तिसंचेतनीयता यथा कश्चिदनिच्छन्निव परैः संज्ञाप्यमानः समादाप्यमानो हितमेतदिति ग्राह्यमाणो ऽभिसंघाया कुशलमाचरति / अविज्ञाय संचेतनीयता यथा कश्चिद्गुणदोषानभिज्ञो ऽनभिनिविष्टः यदृच्छयाभिसंधायाकुशलमाचरति / मूलाभिनिवेशसंचेत नीयता यथा कश्चिद्कुशलमूलैः लोभादिभिरभिभूत आविष्टचित्तस्तीव्रेणाभिनिवेशेनाभिसंघायाकुशलमाचरति / विपर्याससंचेतनीयता यथा कश्चिद्धर्मकामो विषमहेतुदृष्टिरायत्यामिष्टफलार्थमभिसंधायाकुशलमाचरति / तत्र पूर्विकाभिस्तिसृभिः संचेतनीयताभिः कृतमपि कर्म नैवोपचीयते यतो ऽस्य नावश्यं विपाकः प्रतिसंवेदनीयः / पश्चिमाभ्यां तु संचेतनीयाभ्यां यदि कृतं भवत्युपचितं चावश्यमेवास्य विपाकः प्रतिसंवेद्यते / उपचयो वासनावृद्धिरित्यालयविज्ञाने विपाकबीज परिपोषणं वेदितव्यम् //
236 SK कर्मक्रियानियमः पूर्वकर्मभिरेव नियम्य विपाकसंततिराविद्धा भवति / यदस्मिन् जन्मन्यनेनेदं कर्म करणीयमिति स तमवधिमलंघयित्वा तत्कर्म करोति, यस्याकरणाय प्रतिबन्धं बुद्धा अपि भगवन्तो न समर्थाः कर्तुम् यथाहेतुनियमनं फलसंतानपरिणामादिति / विपाकप्रतिसंवेदनानियमः संचेतनीयस्य कर्मणः पूर्ववत् / अवस्थानियमे दृष्टधर्मवेदनीयादिभिरवस्थापि नियमिता भवतीति / यथानेन विपाकेन दृष्टे धर्मे भवितव्यमनेनोपपद्यानेनापरस्मिन् पर्याय इति //
237 SK अकुशलानां कर्मपथानां मृदुमध्याधि मात्राणां विपाकफलं तिर्यक्प्रेतनरकेषु वेदितव्यम् / निष्यन्दफलमपायेभ्यश्च्युत्वा मनुष्येषूपपन्नानं प्रत्येकं प्राणातिपातादत्तादानाद्यानुरूप्येणात्मभावपरिग्रहयोर्विपत्तिः / तद्यथाल्पायुष्कता दारिद्रयमित्येवमादि यथायोगम् / अधिपतिफलं प्रत्येकं तदानुरूप्येणैव बाह्यानां भावानां [स]स्यादीनां विपत्तिः / तद्यथा प्राणातिपातस्याधिपत्येनाल्पौजसो भवन्त्येवमादि //
238 SK यथासूत्रम् - ᳚सर्वैर्दशभिरकुशलैः कर्मपथैरासेवितैर्भावितैर्बहुलीकृतैर्नरकेषूपपद्यते / तदेषां विपाकफलम् / स चेदिच्छत्वमागच्छति मनुष्याणां सभागताम्, प्राणातिपातेनाल्पायुर्भवति अदत्तादानेन भोगव्यसनी भवति / काममिथ्याचारेण ससपत्नदारः / मृषावादेनाभ्याख्यानबहुलः / पैशून्येन मित्रभेदो ऽस्य भवति / पारुष्येणामनोज्ञशब्दश्रवणं भवति / संभिन्नप्रलापेनानादेयवाक्यः / अभिध्यया तीव्ररागः / व्यापादेन तीव्रद्वेषः / मिथ्यादृष्ट्या तीव्रमोहः, तस्या मोहभूयस्त्वात् / इदमेषां निष्यन्दफलम् / प्राणातिपातेनात्यासेवितेन बाह्याभावा अल्पौजसो भवन्ति / अदत्तादानेनाशनिरजोबहुलाः / काममिथ्याचारेण रजो ऽवकीर्णाः / मृषावादेन दुगन्धाः / पशून्येनोत्कूलनिकूलाः / पारूष्येणोषरजङ्गलाः प्रतिक्रुस्टाः पापभूमयः / संभिन्नप्रलापेन विषमर्तुपरिणामाः / अभिध्यया सूक्ष्मफलाः / व्यापादेन कटुकफलाः / मिथ्यादृष्टयाल्पफला अफला वा / इदमेषामधिपतिफलम् //᳚
239 SK दशानां कुशलानां कर्मपथानां विपाकफलं देवमनुष्येषु / निष्यन्दफलं तेष्वेव प्रत्येकमानुरूप्येणात्मभावपरिग्रहसंपत्तिः /
240 SK यथाकुशलानां कर्मपथानां विपाकफलादि त्रिफला वस्थानं कृतम्, एवं कुशलादीनां कर्मपथानां सास्रवाणां देवमनुष्येषु त्रीणि फलानि यथायोगं योजयितव्यानि //
241 SK एकेन कर्मणा एकमात्मभावमाक्षिपति, एकेन कर्म[क्ष]णेनैकजन्मिकस्यैव विपाकस्य बीजपोषणात् / एकेनानेकमाक्षिपति, तेनैवानेकजन्मिकविपाकबीजपोषणात् / अनेकेनैकमाक्षिपति, बहुभिः कर्मक्षणैः तस्यैवैकस्य पुनः पुनः बीजपोषणात् / अनेकेनानेकमाक्षिपति, बहुभिरन्योन्यापेक्षया जन्मपरंपराबीजपोषणादिति //
242 SK केन कारणेन रूपारूप्यप्रतिसंयुक्तं कुशलमानिज्यमित्युच्यते / यथा कामावचरमन्यगतिकमपि परिपूरकं कुशलमूलमन्यत्र विपाकं प्रयच्छति, नैवं रूप्यारूप्यावचरम्, भूमिनैयम्येन फलदानात् / अतो विपाकदानं प्रत्यकम्पनार्थेनानिज्यमुक्तं समाहितभूमिकत्वाच्चाकम्पनार्थे[ने]ति //
243 SK फलविपाकसंमूढस्यापुण्याः संस्काराः संभवन्ति, तेषामेकान्तक्लिष्टत्वेनाविद्यासांनिध्ये सति फलविपाकाभिसंप्रत्ययाकारायाः सम्यग्दृष्टेरनवकाशात् / तत्त्वार्थसंमूढस्य पुण्यानिंज्यास्तत्त्वार्थ उच्यते चत्वार्यार्यसत्यानि / तत्र संमोहः कुशलचित्तानामप्यदृष्टसत्यानामनुशयतो ऽनुबुद्धो भवति यद्वशेन ते दुःखतस्त्रैधातुकस्य यथाभूतमपरिज्ञानात् पुनर्भवहेतुभूतान् पुण्यानिज्यसंस्कारानुत्थापयन्ति / न त्वेवं दृष्टसत्यास्तत्त्वार्थसंमोहाभावात् / अतस्ते तद्धेतुका इत्युच्यन्ते //
244 SK प्राणातिपातस्य लोभेन प्रयोगो मांसिकादीनाम् / द्वेषेणैव वैरनिर्यातनकामानाम् / मोहेन याज्ञिकादीनाम् / द्वेषेणैव निष्ठा निर्घृणतामन्तरेण परसत्त्वविपादनासंभवात् / एवं पारुष्यादीनां यथायोगं योजयितव्यम् / (Aभिध्-स्-भ् ६७) अभिध्यादीनां कथं लोभादिभिः प्रयोगः / तत्राभिध्याकर्मपथः परवित्तोपकरणस्वीकरणनिश्चय इत्युक्तम् / तद्यदि तेनैव वित्तोपकरणेनार्थी भव[ति] तत्स्वीकरणायाभिसंस्करोत्यतो ऽस्य लोभेन प्रयोगो व्यवस्थाप्यते / अथ मैवास्य भूदित्येवं द्वेषेण / अथ परस्वीकरणे न कश्चिद्दोष इति मोहेन प्रयोगो वेदितव्यः / एवमन्यदपि योजयितव्यम् //
245 SK अन्योन्याधिपतेयमपि कर्म साधारणं वेदितव्यं यद्वशात्सत्त्वा अन्योन्यं चितचैत्तपरिणामनिमित्तं भवन्तीति //
246 SK वैपक्षिकात् कर्मणः प्रातिपक्षिकै कर्म बल[व]द्द्रष्टव्यम्, प्रतिपक्षबलेनाक्षिप्तस्यापि विपक्षफलस्यान्यथात्वापादनात् / सर्वं च कुशलं कर्म संचेतनीयं प्रतिपक्षबलिकस्याकुशलाद् बलवद्द्रष्टव्यम् / प्रतिपक्षबलदुर्बलस्य त्वकुशलं कुशलाद्बलवत् / सर्वं चाविशेषेण कुशलाकुशलं नियतविपाकमार्य मार्गेणाप्रहीणं बलवदित्युच्यते / कामप्रतिसंयुक्तमकुशलं प्रकृत्या बलवत्, क्लेशोपक्लेशादिबहुपरिवारत्वात् / यद्यपि पूर्वाभ्यस्तं तदपि बलवत्, संततेस्तेन भावितत्वात् / यदपि पदस्थं परिपूर्णवयसाम्, तीव्राभिनिवेशप्रसादकरणात् / यदप्यसाध्यमपरिनिर्वाणधर्मकाणाम्, प्रतिपक्षेणानुद्धार्यत्वात् / क्षेत्रतो ऽपि मातृबधादिकम् / चित्ताभिसंस्कारतो ऽपि महाबोधिप्रणिधानादिकं बलवत्कर्म वेदितव्यम् / पुनर्नवभिराकारैर्बलवत्कर्म वेदितव्यम् / तद्यथा क्षेत्रतो यदि गुणवद्दक्षिणीयं क्षेत्रं भवति / वस्तुनो यदि प्रणीतं प्रभूतं देयवस्तु भवति / स्वभावतो दानाच्छीलं शीलाद्भावनेत्येवमादिः / आश्रयतः पुण्यानां कर्ता यदि वीतरागो भवति / मनस्कारतो यदि तीव्रप्रसादसहगतो मनस्कारो भवति / आशयतो यदि निर्वाणाशयो भवति / सहायतो यदि तदन्यपुण्यक्रियावस्तुपरिगृहीतं भवति / बहुलीकारतः यदि पौनः पुन्येन कृतं भवत्यनुवितर्कितं वा / बाहुजन्यतो यदि स्वयं च कृतं भवत्यन्यैश्च कारितमिति //
247 SK य एवं वदेत् - यथा यथायं पुरुषपुद्गलः कर्म करोत्युपचिनोति तथा तथा विपाकं प्रतिसंवेदयत इत्येवं सति ब्रह्मचर्यवासो न भवत्यवकाशश्च (Aभिध्-स्-भ् ६८) न प्रज्ञायते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै / कथं कृत्वा ब्रह्मचर्यवासो न भवति / तीव्रक्लेशस्य प्रतिसंख्याय सहदुःखेन सहदौर्मनस्येन शीलपरिपालनात् / यदि तद्विपाकस्तथैव सहदुःखेन सहदौर्मनस्येनानुभूयेत वृथा तत्परिपालनं स्यात् / पारदारिकप्रभृतीनां च सहसुखेन सहसौमनस्येन दौःशील्यकरणाद्यदि तद्विपाकस्तथैवानुभूयेत वृथा तद्विरतिः स्यादित्येवं कृत्वा ब्रह्मचर्यवासो न भवति // कथमवकाशश्च न प्रज्ञायते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै / अत एव तदुपनिषद्भतस्य ब्रह्मचर्यवासस्य दुःखविपाकत्वादिति / एवं च कृत्वा सुखसहगतस्य कर्मणः सुखसहगत एव विपाको दुःखसहगतस्य दुःखसहगतो ऽदुःखासुखसहगतस्य तत्सहगत एवेति नियमः प्रतिषिद्धः // अत्र यस्त्वेवं यथावेदनीयं यथावेदनीयमित्येवमादिना सुखसहगतस्य कुशलाकुशलस्य यथायोगमायत्यां सुखदुःखादुःखासुखवेदनीयस्य सुखादिको विपाको ऽनुज्ञातः / एवं दुःखादुःखासुखसहगतस्य सुखादिवेदनीयस्य सुखादिको विपाको ऽनुज्ञायत इति //
248 SK प्रव्रजितस्य संवरः पञ्चविधो भिक्षुसंवरो यावच्छामणेरीसंवर इति / स दुश्चरितविवेकचरितं कामविवेकचरितं च पुद्गलमधिकृत्य व्यवस्थापितः / तथाहि स तादृशः शक्नोति यावज्जीवं प्राणातिपाताद ब्रह्मचर्याच्च विरन्तुमिति / उपासकोपासिकासंवरो दुश्चरितविवेक चरितमधिकृत्य नो तु कामविवेकचरितम् / अतः एवास्य यावज्जीवं काममिथ्या चारविरतिर्व्यवस्थाप्यते नाब्रह्मचर्यविरतिरिति / उपवाससंवरो नैव दुश्चरितविवेकचरितं न कामविवेकचरितम् / अत एवास्याहोरात्रिक उपवाससंवरः प्रज्ञप्तः, शनैस्तदुभयाभ्यसनार्थमिति / यथा पण्डपण्डकानां भिक्षुभिक्षुणी पक्षोपासनायोग्यत्वादुपासकत्वप्रतिषेधः, एवमुभयव्यञ्जनानामपि स्त्रीपुरुषक्लेशसमुदाचारेणोभयपक्षोपासनायोग्यतेति न ते पृथगुक्ताः / ध्यानसंवरो दौःशील्यसमुत्थापकानां लोभादीनां कामावचराणां क्लेशोपक्लेशानां विष्कम्भणप्रतिपक्षेण बीजोपघाते सति प्रदेशवैराग्येणापि कामेभ्यो वीतरागस्य या तस्मादौःशील्याद्विरतिः / यावत्तृतीयध्यानवीतरागस्य दूरीभावप्रतिपक्षेण तेषामेव दौःशील्यसमुत्थापकानां सुतरां बीजोपघातो वेदितव्यः / चतुर्थध्यानवीतरागस्य त्वारूप्येषु रूपाभावाच्छोलसंवराव्यवस्थानं वेदितव्यम् //
249 SK औरभ्रिका ये पशून् हत्वा तद्विक्रयेण जीविकां कल्पयन्ति / एवं कौक्कुटिकादयो यथासंभवं योजयितव्याः / नागबन्धका अरण्यात् हस्तिनो वद्ध्वा द[म]यन्ति / नागमण्डलिका ये सर्पानादाय तत्क्रीडनैर्जीवन्ति / मूत्रका ये परान् पैशुन्येनोपहत्व जीवन्ति / अभिजन्मतो वा तत्कर्मसमादानतो वेति तत्कुलीनस्यान्यकुलीनस्य च यथाक्रमम् / कायवाक्प्रयोगपूर्वकः तत्कर्माध्याचारनिश्चयो ऽसंवर इत्युच्यते /
250 SK यथोक्तसंवरासंवरविनिर्मुक्तस्य दानप्रियवचनादिकं खटचपेटादिकं च कर्म नवसंवरोनासंवर इत्युच्यते //
251 SK दृष्टधर्मवेदनीयं कर्म यत्र जन्मनि कृतं तत्रैव यद्विपच्यते / उपपद्यवेदनीयं यदनन्तरे जन्मनि, तद्यथा पञ्चानन्तर्याणि कर्माणि / यस्य तावदेकमेवानन्तर्य तस्य तद्विपाको ऽनन्तरं युक्तः, यस्येदानीं संबहुलानि तस्य कथं तद्विपाकप्रतिसंवेदना / सर्वेषां युगपद्विपाकः प्रतिसंविद्यते, तथाह्यनेकानन्तर्यकारिण आश्रयः सुकुमारतरो निर्वर्तते, कारणाश्च बहुतीव्रविचित्रा यद्वशाद्भूयसीं वेदनां प्रत्यनुभवति //
252 SK आरम्भं च प्रत्येतानि दृष्टधर्मवेदनीयादीनि व्यवस्थाप्यन्ते, न तन्मात्रवेदनीयतामधिकृत्य / यस्य तत्रैव जन्मनि विपाको विपक्तुमारभते तद्दृष्टधर्मवेदनीयम् / यस्यानन्तरे जन्मन्यारभते तदुपपद्यवेदनीयम् / यस्यानन्तरं जन्म लघयित्वारभते तदपरपर्यायवेदनीयमित्येवं च कृत्वा हाचित्तावदाने - ᳚आनन्तर्यस्य कर्मणो नरके पुनःपुनश्च्युत्युपपादेन विपाकप्रतिसंवेदनम्᳚ - अनुलोमितं भवतीति //
253 SK कृष्णं कृष्णविपाकं कर्माकुशलम्, क्लिष्टत्वादनिष्टविपाकत्वाच्च //
254 SK विपर्ययाच्छुक्लं शुक्लविपाकं त्रैधातुकं कुशलम् //
255 SK कृष्णशुक्लं कृष्णशुक्लविपाकं यत्कामप्रतिसंयुक्तं विपाकं व्यामिश्रं कुशलाकुशलमित्यर्थः / कथमेकं कुशलं भवत्यकुशलं च / नात्र (Aभिध्-स्-भ् ७०) प्रवृत्तिक्षणनैयम्येनोच्यते तदेवोभयमित्यपि तु सहाशयप्रयोगेणैकं कर्मेत्ययमत्राभि संधिर्वेदिव्यः / तयोश्च कृष्णशुक्लतां प्रत्यन्योन्यासादृश्ये सत्येकं कर्म कृष्णशुक्लं व्यवस्थाप्यते / तत्राशयतः कृष्णं प्रयोगतः शुक्लं यथापि कश्चित्परान् वञ्चयितुकामस्तेषां संप्रत्ययननिमित्तं भावेन दानानि ददाति यावत्प्रव्रजत्यपि / प्रयोगतः कृष्णमाशयतः शुक्लं यथापि कश्चित्पुत्रं वा शिष्यं वाहितान्निवारयितुकामो हिते च नियोजयितुकामो ऽनुकम्पाचित्तः कायेन वाचा वा परुषया तस्मिन्काले संक्लिश्यते //
256 SK अकृष्णशुक्लाविपाकं कर्म कर्मक्षयाय संवर्तते प्रयोगानन्तर्यमार्गेष्वनास्रवं कर्मप्रयोगमार्गानन्तर्यमार्गाणां प्रहाणप्रतिपक्षत्वात् / तत्राकृष्णं क्लेशमलाभावात् / शुक्लमेकान्तव्यवदानत्वात् / अविपाकं संसारविरोधित्वात् / कर्मक्षयाय संवर्तते ऽस्यैव कृष्णादिकस्य त्रिविधस्य सास्रवस्य कर्मणस्तेनानास्रवेण कर्मणा विपाकदानवासनासमुद्घातात् //
257 SK अविशेषेण च सर्वस्यानास्रवस्य कर्मणः परिपन्थमानुकूल्यं स्वभावमधिकृत्य वंकदोषकषायाणां शौचेयानां मौनेयानां च यथाक्रमं व्यवस्थानं वेदितव्यम् //
258 SK तत्र वंकमृजुकमार्गस्याष्टाङ्गस्योत्पत्त्यावरणभूतं कायवाङ्मनःकर्म / दोषो येन कायादिकर्मणा दूषिते संताने तत्तादृशमावरणभूतं कर्मोत्पद्यते / कषायाः तीर्थिकदृष्टिसंनिश्रितं कायादि कर्म, बुद्धशासनप्रसादविपक्षेणाश्रद्ध्यकालुष्यपरिगृहीतत्वात् / अपरः पर्यायः - शाश्वतोच्छेदानुपतितं मध्यमाप्रतिपद्विरोधार्थेन वंकम् / अपवाददृष्टिपरिगृहीतं व्यवदानव्यवस्थानप्रद्वेषार्थेन दोषः / सत्कायदृष्टिपरिगृहीतं नैरात्म्यतत्त्वदर्शनप्रतिवद्धार्थेन कषाय इति //
259 SK शौचेयानि सुविशुद्धशीलसंगृहीतमृजुदृष्टिसंगृहीतं च यत्कायवाङ्मनःकर्म, शीलदृष्टिविपत्तिमलवर्जितत्वात् / मौनेयानि शैक्षाशैक्षाणां यदनास्रवं कायवाङ्मनःकर्म मुनीनां तत्कर्मेति कृत्वा / दानसंपदमधिकृत्य दानं दाता भविष्यतीत्यनेनाभीक्ष्णदानतां दर्शयति, तच्छीलतया पुनः पुनर्दानात् / श्रमणेभ्यो ब्राह्मणेभ्य इत्येवमादिनापक्षपातदानताम्, अविशेषेण सर्वार्थिभ्यो दानात / (Aभिध्-स्-भ् ७१) अन्नपानमित्येवमादिनेच्छापरिपूरणदानताम्, यथाभिप्रायं सर्वोपकरणवस्तुपरित्यागात् / मुक्तत्यागः प्रततपाणिर्व्यवसर्गरतो यायजूकस्त्यागसंपन्नो दानसंविभागरत इत्येभिः पदैर्यथाक्रममनिश्रितदानतादयो वेदितव्याः / अनिश्रितदानता पुनर्भवभोगापरिणामितत्वेन वेदितव्या // देयसंपदमधिकृत्योत्थानवीर्याधिगतैरित्यनेनानभिद्रुग्धदेयवस्तुतां दर्शयति / अभिद्रुग्धं ह्यनुत्थानबीर्याधिगतं भवति, स्वस्थाने स्थित्वा परनिक्षेपा[प]लपनेन प्रतिलब्धत्वात् / बाहुबलोपार्जितैरित्यनेनापरापहृतदेयवस्तुताम् / परेभ्यो ह्यपहृतं न बाहुबलोपार्जितं भवति, तैः कृच्छ्रेण विविधैरूपायैरर्जितस्यापहरणात् / स्वेदमलापक्षिप्तैरित्यनेनाकुथितविमलदेयवस्तुताम्, स्वेदमलाभ्यामपक्षिप्तत्वादुज्झितत्वादित्यर्थः / धार्मिकैरित्यनेन कल्पिकदेयवस्तुताम्, शस्त्रविषमद्याद्यकल्पिकवस्तुविवर्जितत्वात् / धर्मलब्धैरित्यनेन धर्मार्जितदेयवस्तुतां दर्शयति, तुलाकूलादिमिथ्याजीव परिवर्जनेनोपार्जितत्वात् //
260 SK शीलं समादायाखण्डनेन तद्योगाच्छीलवान् भवति / मोक्षं प्रति यः संवरः स प्रातिमोक्षसंवरः / स हि संसारान्निर्याणाय भवति / आचारसंपन्नः सद्भिरगर्हितेर्यापथादित्वात् / गोचरसंपन्नः पञ्चागोचरपरिवर्जनात् / पञ्च भिक्षोरगोचराः - घोषो वेशः पानागारं राजकुलं चण्डालकठिनमेव पञ्चमम् / प्रज्ञप्तिसावद्येष्वपि प्रकृतिसावद्येष्विव तीव्रेण गौरवेण शिक्षणादणुमात्रेष्ववद्येषु भयदर्शी भवति / समन्तात् परिपूर्ण शिक्षामादाय शिक्षते शिक्षापदेष्वित्युच्यते //
261 SK अतः परं शीलमारभ्य यद्भगवता सूत्रान्तरेषु निर्दिष्टं कायेन संवृतो भवतीत्येवमादि तस्यार्थ उच्यते / तत्र कायेन वाचा संवृतो भवति संप्रजन्यपरिगृहीततया यथनुज्ञातमभिक्रमप्रतिक्रमादिषु बुद्धिपूर्वं सम्यग्वर्तनात् / (Aभिध्-स्-भ् ७२) कायवाक्संपत्त्या संपन्नः आपत्त्यनध्यापन्नतया शीलाविपादनात् / परिशुद्धकायवाकसमुदाचारः समाधिसंनिश्रयतया समाधिबलेन दौःशील्यमलदूरीकरणात् / कुशल[काय]वाक्समुदाचारः क्लिष्टवितर्काव्यवकीर्णतयैकान्तशुभत्वात् / अनवद्यकायवाक्समुदाचारो भवभोगापरिणामितत्वेन सद्भिः प्रशस्तत्वात् / अव्याबध्यकायवाक्समुदाचार आत्मोत्कर्षणादिभिः परेषामवज्ञादुःखसंवासेनाघट्टनात् / आनुलोमिककायवाक्समुदाचारो निर्वाणानुप्राप्त्यनुकूलतयार्यमार्गावाहनात् / अनुच्छविककायवाक्समुदाचारः स्वदोषगुणाविष्कम्भणछादनार्थम् / औपयिककायवाक्समुदाचारः सब्रह्मचार्युपग्रहणशीलतयोपगमनार्हत्वात् / प्रतिरूपकायवाक्समुदाचारो गुरुषु गुरुस्थानीयेषु च निहितमानतया यथार्हमुपचरणात् / प्रदक्षिणकायवाक्समुदाचारो ऽववादे प्रदक्षिणग्राहितयास्वयंदृष्टिपरामर्शत्वात् / अतप्तकायवाक्समुदाचारः कष्टतपोलूहाधिमुक्तिविवर्जिततयानात्मतपत्वात् / अननुताप्यकायवाक्समुदाचारः समुत्सृष्टान् भोगान् कर्मान्तांश्चारभ्याविप्रतिसारितया पश्चात्तापाभावात् / अविप्रतिसारकायवाक्समुदाचारः कुशलपक्षमारभ्याल्पमात्रेणासंतुष्टस्या विप्रतिसारितया यावच्छक्यं संपादनात् //
262 SK कर्म स्वकमेषां त इमे कर्मस्वकाः / कथं पुनस्तेषां कर्म स्वकं भवति / स्वयंकृतकर्मविपाकप्रतिसंवेदनतामुपादाय, तद्धि नाम स्वकमित्युच्यते यत्परैरसाधारणमिति / कर्माणि दायाय एषां त इमे कर्मदायादाः / कथं कर्मणां दायादत्वम् / तस्यां स्वयंकृतविपाकप्रतिसंवेदनायां कुशलाकुशलानां कर्मणामन्योन्यदायादतामुपादाय यथास्वमिष्टानिष्टफलसंविभजनात् / ते पुनः स्वकृतकर्मेष्टानिष्टविपाकप्रतिसंवेदिनः सत्त्वाः कुत आदितः संभूताः किमहेतुका आहोस्वित् प्रकृतीश्वरादिहेतुका इत्याह कर्मयोनीयाः / कर्मेवेषामहेतुविषमहेतुवर्जितो योनिः सत्त्वानां संभवायेत्यर्थः / एवं तावत्प्रवृत्तिमारभ्य निवृत्तिमप्यारभ्य कर्मप्रतिसरणाः, सास्रवकर्मप्रहाणायानास्रवकर्मसंश्रयणात् कर्मैवैषां प्रतिसरणं भवतीति //
263 SK यदुक्तमचिन्त्यः सत्त्वानां कर्मविपाक इति न सर्वैः प्रकारैः [अ] सावचिन्त्यो वेदितव्यः / कथं तर्हि चिन्त्यः कथमचिन्त्यः / (Aभिध्-स्-भ् ७३) कुशलाकुशलस्येष्टानिष्टो विपाकः सुगतिदुर्गत्योरिति चिन्त्यः, शक्यत्वात् सम्यग्दृष्ट्यादिगुणावाहनाच्च / अनेन कर्मणा सत्त्वानामात्मभावस्य वर्णसंस्थानादिप्रकारभेदवैचित्र्यमित्यचिन्त्यः, अशक्यत्वात् सर्वज्ञादन्यस्योन्मादादिदोषाबाहनाच्च / तदेव कर्मस्थानादिभिरचिन्त्यम् / [तत्र स्थानं] यत्र प्रदेशे स्थित्वा यत्कर्म कृत्वा ग्रामे वा नगरे वेत्यादि / वस्तु यदधिष्ठानं सत्त्वसंख्यातमसत्त्वसंख्यातं वा / हेतुः कुशलाकुशलादेः कुशलाकुशलमूलानियथायोगम् / विपाकस्तदेवात्मभाववैचित्र्यम् / बाह्यभाववैचित्र्याभिनिर्वर्तकं कर्माचिन्त्यम्, कीदृशेन खलु कर्मणा कण्टकादीनां तैक्ष्णादिकं कृतमिति लोकचिन्ता नन्तर्भूतत्वात् / मणिमन्त्रौषधिमुष्टियोगप्रतिसंयुक्तं कर्माचिन्त्यम् / तत्र मणि[प्रति]संयुक्तं चन्द्रकान्तादीनामुदकक्षरणादि / मन्त्रप्रतिसंयुक्तं तदभिमन्त्रितानामदाहादि / औषधिप्रतिसंयुक्तं तया गृहीतयान्तुर्धातादि / मुष्टियोगप्रतिसंयुक्तं तेन तेन मुष्टियोगेन ज्वरापगमादि / सर्व च योगिनां प्रभावकर्माचिन्त्यम् / कथम् / ते चित्तप्रभावेन महापृथिवी कम्पयन्त्याकाशेन वोत्पतन्तीत्येवमादि / बोधिसत्त्वानां वशिताभिर्यत् क्रियते कर्म तदचिन्त्यम् / तद्यथा आयुर्वशितया बोधिसत्त्वा आयुःसंस्कारानधिष्ठा य यावदिच्छन्ति तिष्ठन्ति / चित्तवशितया यथेच्छं समाधीन् समापद्यन्ते परिष्कारवशितयाप्रमेयमनर्धेयमुपकरणवर्ष सत्त्वानां वर्षन्ति / कर्मवशितयान्यधातु भूमिगतियोन्यवस्थावेदनीयानि कर्माण्यन्यथा परिणामयन्ति / उपपत्तिवशितया ध्यानैरपि विहृत्यापरिहीणा एव कामधातावुपपद्यन्ते / अधिमुक्तिवशितया पृथव्यादीनवादित्वेनाधिमुच्यन्ते / प्रणिधानवशितया यथेष्टं स्वपरार्थसंपत्तिकराण्यसंख्येयानि महाप्रणिधानान्यभिनिर्ह[र]न्ति / ऋद्धिवशितया सत्त्वानामावज नार्थमप्रमेयमृद्धिप्रतिहार्य संदर्श[य]न्ति / ज्ञानवशितया धर्मार्थनिरुक्तिप्रतिभानानां प्रकर्षपर्यन्तं गच्छन्ति / धर्मवशितया यथार्हं यावत् सर्वसत्वानामन्यान्यैर्नामपदव्यंजनकार्यः सूत्रादीन् धर्मान् व्यवस्थाप्य युगपच्चित्तपरितोषणे समर्था भवन्तीति //
264 SK बुद्धानां बुद्धकृत्यानुष्ठानकर्माचिन्त्यम् / कथम् / अनाभोगप्रतिगता धर्मधात्वेकरसताप्राप्ता सर्वे बुद्धा भगवन्तः सत्त्वानां यथा यदा यावत्कृत्यमनुष्ठातव्यं तत्सर्वमनुतिष्ठन्ति एवं बुद्धानां बुद्धविषयो ऽचिन्त्यः //
265 SK पुनर्भवस्य वासनाया आहारकं कारणमिति हेतुः / उपचितवासनानां सत्त्वनां देवादिसत्वनिकाये तदाकृतिप्रकृतिसादृश्येन समस्योदयस्य कारणमिति समुदयम् / प्रत्यात्मंसंताननैयभ्येन गतियोन्यादिसर्वप्रकारैः प्रकर्षेण यावद्भवाग्रगतस्योद्भवस्य कारणमिति प्रभवः / अपूर्वस्यान्यस्यात्मभावस्य प्राप्तौ पूर्वात्मभावात्ययेन कारणमिति प्रत्ययः //
266 SK संस्काराणामुपरमात्स निरोधो ऽन्यः स्यात्तदसंवध्यमानो ऽर्थान्तरभूतः स्यात् / अथानन्यः स्यात्संक्लेशलक्षणः स्यात् / अत एव नोभयो नानुभयश्च / प्रपञ्चः पुनरस्मिन्नर्थे ऽयोनिशश्चिन्त्येत्यमार्गेणान्यायेनानयेन चिन्त्येत्यर्थः, अन्यथा चिन्तयितव्ये ऽन्यथाचिन्तना[त्] / कथं पुनश्चिन्त्यः / शान्तः प्रणीत इत्येवमादिभिः प्रकारैः //
267 SK निरलंकारः प्रज्ञाविक्तानां विद्यादिवैशेषिकगुणालंकाराभावात् //
268 SK पर्यायतो ऽशेषप्रहाणमित्युद्देशः, शेषो निर्देशः / अत एव तत्परिशिष्टानि पदान्युपादायेत्युच्यते, तैस्तस्य निर्देशात् / कथं कृत्वाशेष प्रहाणम् / पर्यवस्थानानुशयप्रहाणात् / तत्र प्रतिनिःसर्गः पर्यवस्थानप्रहाणमधिकृत्य, उत्पन्नस्य परिवर्जनात् / व्यन्तीभावो ऽनुशयप्रहाणम्, मूलाभावे ऽत्यन्तमनुत्पादात् / तत्पुनर्दर्शनभावनामार्गप्रतिपक्षभेदाद्द्विधा व्यवस्थाप्यते - क्षयो विराग इति / तत्र दर्शनमार्गेण विरागतामधिकृत्य क्षयः, अल्पमात्रावशिष्टत्वात् क्लेशराशेः / भावनामार्गेण विरागः, तस्य भूमिवैराग्यगमनप्रविभावितत्वात् / तदुभयविसंयोगे पुनः सत्यायत्यां च दुःखं निरुध्यते, अनुत्पत्तिधर्मतापादनात् / दृष्टे च धर्मे दौर्मनस्यं व्युपशाम्यति, असमुदाचारात् / अतस्तत्फलभूतस्य दुःखस्य प्रहाणमधिकृत्याह - निरोधो व्युपशम इति / पूर्वकर्म क्लेशसमुदागतानां तु सत्त्वानां स्वरसेनैवोपरम[म]धिकृत्याह - अस्तंगम इति / एवं कृत्वाशेषप्रहाणं निर्दिष्टं वेदितव्यम् //
269 SK असंस्कृतमुत्पादव्ययस्थित्यन्यथात्वाभावात्संस्कृतविपर्ययेण / दुर्दृशमार्यस्यैवैकस्य प्रज्ञा चक्षुषो गोचरत्वात् / अचलं नरकादिगत्यसंचारेण स्थिरत्वात् / अनतं कामरूपारूप्यतृष्णाभावेन भवेष्वनमनात् / अमृतं मरणाश्रयस्कन्धाभावात् / अनास्रवमास्रवाभावात् / लयनं विमुक्ति प्रीतिसुखसंनिश्रयत्वात् / द्वीपं संसारमहार्णवे स्थलभूतत्वात् / त्राणं तत्प्राप्तौ जात्यादिसर्वोपद्रवापगमनात् / शरणं तत्कृताशयप्रयोगयोरवन्धत्वस्य पदस्थानतयाश्रयणी[य]त्वात् / परायणं परमस्यार्यत्वस्यागमनाय पदस्थानत्वादार्हत्यत्वप्राप्त्युपायालंबनत्वादित्यर्थः / अच्युतम्[अ]जातत्वेन भ्रंसासंभवात् / निर्ज्वरं सर्वेच्छाविघातसंतापाभावात् / निष्परिदाहं शोकादिसर्वपरिदाहप्रतिप्रस्रब्ध्या शीतलत्वात् / क्षेमं व्याधिजरामरणभयरहितार्य विहाराश्रयत्वात् / शिवं सर्वकुशलधर्माश्रयत्वात् / सौवर्णकं लोकोत्तरसुखवस्तुत्वा[त्] / स्वस्त्ययनं सुखेन प्रयोगेण तत्प्प्राप्तये आलंबनभवात् / आरोग्यं क्लेशाद्यावरणरोगरहितत्वात् / आनिञ्ज्यं सर्वविषयप्रपञ्चविक्षेपरहितत्वात् / निर्वाणं रूपादिसंज्ञापग[म]स्य शान्तसुखविहारस्यालंबनत्वात् //
270 SK पुनर्निरोधसत्यमारभ्याजातादयः पर्यायाः दुःखलक्षणविपर्ययार्थेन वेदितव्याः / दुखं हि तत्र तत्र सत्त्वनिकाये प्रतिसंधिबन्धेन जायते / तत उत्तरकालमात्मभावपरिपूर्या वर्धते / तच्च दुःखं पूर्वकर्मक्लेशावेधेन कृतम् / तच्च वर्तमानं दुःखं कर्मक्लेशानां चान्यभवसंस्करणे पदस्थानं भवति / ततो ऽव्युच्छेदयोगेन पुनर्भवस्य संतत्युत्पादो भवति / अतस्तद्विपर्ययेण दुःखनिरोध आर्यसत्यं यथाक्रममजातमभूतमकृतमसमुत्पन्नं वेदितव्यम् /
271 SK अपि खलु निरोधसत्यमधिकृत्य / शान्तलक्षणं (Aभिध्-स्-भ् ७६) संस्कारदुःखतयाप्रशान्तलक्षणानामुपादानस्कन्धानां विसंयोगमधिकृत्य / प्रणीतलक्षणं क्लेशदुःखविसंयोगात् स्वयं शुचिसुखस्वभावतामधिकृत्य / निःसरणलक्षणं नित्यहितस्वभावतामधिकृत्य, अपुनरावर्तनात् क्षेमत्वाच्च यथाक्रमं हितं कुशलमिति शक्यत्वात् //
272 SK मार्गसत्यं येन दुखं परिजानीत इत्येवमादि, सत्येष्वस्य कृत्याधिकारेण लक्षणनिर्देशो वेदितव्यः / पञ्चविधो मार्ग इति प्रभेदाधिकारेण / पञ्चप्रभेदः सपरिवारमार्गसत्याधिकाराद्वेदितव्यम् //
273 SK तत्र संभारमार्गः शीलादिको यस्य परिपूर्णत्वादुष्मगताद्यानुपूर्व्या सत्यदर्शनाय तदावरणप्रहाणाय च संतानस्य योग्यतां प्रतिलभत इति / यद्वा पुनरन्यदौपनिषदं कुशलमित्यविप्रतिसारादिकं वेदितव्यम् //
274 SK उष्मगतं प्रत्यात्मं सत्येष्वालोकलब्धः समाधिः प्रज्ञा ससंयोग इति समाहितेन चित्तेन सत्याधिपतेयस्य सूत्रादिकस्य धर्मस्य मनोजल्पस्य मुखैरर्थसंप्रख्याने सति शमथश्च विपश्यना चोष्मगतमिति वेदितव्यम् // तद्वृद्धिर्मूर्धानस्तदुपरि व्यवस्थापनार्थेन / क्षान्तिरेकदेशप्रविष्टानुसृतः समाधिरिति / कथमेकदेशप्रविष्टो भवति / एकान्तेन ग्राह्यभावलक्षणात् / कथमेकदेशानुमृतः ग्राहकाभावप्रतिवेधानुकूल्यावस्थानात् / लौकिको ऽग्रधर्मो यदन्तरमादितो लोकोत्तरो मार्गः //
275 SK दर्शनमार्गो लौकिकाग्रधर्मानन्तरं निर्विकल्पशमथविपश्यनालक्षणो वेदितव्यः / समसमालंब्यालंबनज्ञानमपि तदिति तेन ग्राह्य ग्राहकाभावतथताप्रतिवेघात् / प्रत्यात्ममपनीत सत्त्वसंकेतधर्मसंकेत सर्वतो ऽपनीतोभयसंकेतालंबनधर्मज्ञानमपि तदिति / कथं प्रत्यात्ममपनीतसत्त्वसंकेतालंबनधर्मज्ञानम् / तेन स्व[स]न्ताने आत्मनिमित्ताविकल्पनात् / कथं प्रत्यात्ममपनीतधर्मसंकेतालंबनधर्मज्ञानम् / तेन स्वसंतान एव रूपादिधर्मनिमित्ताविकल्पनात् / कथं सर्वतो ऽपनीतोभयसंकेतालंबनधर्मज्ञानम् / सर्वत्राविशेषेणात्म धर्मनिमित्ताविकल्प[ना]दिति //
276 SK प्रभेदशः पुनर्दर्शनमार्गः सत्येषु षोडशधर्मान्वयक्षान्तिज्ञानानि / तत्र दुःखे धर्मज्ञानक्षान्तिः प्रयोगमार्गे दुःखसत्याधिकारिकसूत्रादिधर्मविचारणाज्ञानं योनिशो मनस्कारसंगृहीतमधिपति कृत्वा स्वसंतानिकदुःखसत्ये तत्तथताप्रत्यक्षानुभाविनो लोकोत्तरा प्रज्ञा सम्यग्दृष्टिस्वभावोत्पद्यते यया दुःखदर्शनप्रहातव्यांस्त्रैधातुकानष्टाविंशतिमनुशयान् प्रजहाति / तस्मादुच्यते दुःखे धर्मज्ञानक्षान्तिरिति / तया क्षान्त्या दुःखदर्शनप्रहातव्यक्लेशप्रहाणात् परिवर्तित आश्रये तदनन्तरं येन ज्ञानेन तामाश्रयपरिवृत्ति प्रत्यनुभवति तद्दुःखे धर्मज्ञानमित्युच्यते / एतच्चोभयमाद्यं क्षान्तिज्ञानमन्वयः सर्वेषां शैक्षाशैक्षाणामार्यधर्माणाम्, ततस्तेषां समुदागमात् / अतस्तदालंब्यान्वय एष आर्यधर्माणामिति प्रत्यात्मं प्रत्यक्षानुभाविन्यनास्रवा प्रज्ञा दुःखे अन्वयज्ञानक्षान्ति / तामन्वयज्ञानक्षान्तिं येन ज्ञानेन प्रत्यनुभवति तदन्वयज्ञानमित्युच्यते / लोकोत्तरस्य हि मार्गस्य द्वयं विषयः - तथता सम्यग्ज्ञानं च / तत्र धर्मज्ञानपक्षस्य मार्गस्य तथता विषयः / अन्वयज्ञानपक्षस्य सम्यग्ज्ञानम् / अत इदमुच्यते - धर्मज्ञानक्षान्तिज्ञानैर्ग्राह्यावबोधः, अन्वयक्षान्तिज्ञानैर्ग्राहकावबोध इति / यो भगवता षष्ठो ऽ[नि]मित्तविहारी पुद्गल आख्यातः स एतेषु क्षान्तिज्ञानेषु वर्तमानो वेदितव्यः, सर्वनिमित्तानुपलंभात् / त एते क्षान्ति[ज्ञान]संगृहीताः षोडश चित्तक्षणा दर्शनमार्गः, तैरदृष्टपूर्वाणामार्यस त्यानां प्रत्येकं चतुर्भिर्दर्शनात् / न चात्र भावस्याभत्वा प्रादुर्भावमात्रं चित्तक्षणो वेदितव्यः / किं तर्हि यावता ज्ञेये ज्ञानात्पत्तेः परिसमाप्तिर्भवति / तद्यथा दुःखं परिज्ञेयमित्येकश्चित्तलक्षणः / एवं समुदयः प्रहातव्य इत्येवमादिः / यच्चैतद्दर्शनमार्गमारभ्य विस्तरेण विपंचित्तं व्यवस्थानमात्रं तत्सर्वं वेदितव्यम्, प्रत्यात्ममेव वेदनीयत्वात् लोकोत्तराया अवस्थायाः //
277 SK सर्वं हि मार्गसत्यं चतुर्भिः प्रकारैरनुगन्तव्यम् - व्यवस्थानतो विकल्पनतो ऽनुभवतः परिपूरितश्च / तत्र व्यवस्थानत, यथास्वमधिगमनिष्ठाप्राप्ता श्रावकादयस्तत्पृष्ठलब्धेन ज्ञानेन परेषां प्रापणनिमित्तं नामपदव्यञ्जनकायैः मार्गसत्यं व्यवस्थापयन्ति, इत्यपि सत्येषु क्षान्तयो ज्ञानानी त्येवमादि / विकल्पनतः, अभिसमयप्रयुक्ता लौकिकेन यथाव्यवस्थानं विकल्पयतो यदभ्यस्य न्ति / अनुभवतः, तथाभ्यस्यन्तो यामादितो (Aभिध्-स्-भ् ७८) दर्शनमार्गाख्यां लोकोत्तरां निष्प्रपञ्चावस्थां प्रत्यात्ममनुभवन्ति परिपूरितः तदूर्ध्व यामाश्रयपरिवृत्तिं परिपूर्य [या]वदधिगमनिष्ठां प्राप्नुवन्ति / ते पुनरधिगमनिष्ठाप्राप्तास्तत्पृष्ठलब्धेन ज्ञानेन मार्गसत्यं व्यवस्थापयन्ति / इत्येवमादि तच्च[तु]राकारं मार्गचक्रं पुनः पुनरन्योन्याश्रयेण प्रवर्तत इति वेदितव्यम् //
278 SK यदुक्तं विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पद्यत इति तद्दर्शनमार्गमधिकृत्योक्तम्, तत्प्रथमतः सत्येष्वार्यप्रज्ञाचक्षुःस्वभावत्वात् / तत्र धर्मक्षान्तिभिर्विरजः, ताभिः क्लेशरजःप्रहाणात् / धर्मज्ञानैर्विगतमलम्, तेषां प्रहाणतदावरणमलाश्रयोत्पादात् / पुनरनयोरेव क्षान्तिज्ञानावस्थयोर्यथाक्रमं परिज्ञया प्रहाणेन च मार्गस्य विशुद्धतामधिकृत्य विरजो विगतमलं वेदितव्यम् //
279 SK दृष्टेत्येवमाद्यापि दर्शनमार्गमेवाधिकृत्य वेदितव्यम्, विनेयानां सत्याभिसमयानन्तरं वचनात् / तत्र धर्मक्षान्तिभिर्दृष्टधर्माः, ताभिस्तत्त्वप्रतिवेधात् / धर्मज्ञानैः प्राप्तधर्माः, तैराश्रयपरिवृत्तिसाक्षात्करणात् / अन्वयक्षान्तिभिर्विदितधर्माः, ताभिरार्यधर्मान्वय एष इति तदुभयसंवेदनात् / अन्वयज्ञानैः पर्यवगाढधर्माः, तैर्यावज्ज्ञेयं परिसमापनात् / सर्वैस्तीर्णकांक्षः सर्वैः क्षान्तिज्ञानैः, लोकोत्तरेण मार्गेण फलाधिगमे सति दीर्घरात्रमभिकांक्षिते स्वाधिगमे ऽसंदेहात् / तीर्णविचिकित्सः परिधिगमे सर्वैरिति वर्तते, पराधिगमे तदवस्थस्यान्येषामपि विशेषाधिगमं प्रति विमत्यभावात् / अपरप्रत्ययो मार्गभावनायां परोपदेशमन्तरेणापि स्वयंकुशलत्वात् / अनन्यनेयो ऽवेत्य प्रसादप्रतिलभेन शास्तुः शासने ऽन्यतीर्थ्यैर्जन्मान्तरे ऽप्यहार्यत्वात् / धर्मेषु वैशारद्यप्राप्तो ऽधिगममारभ्य परिप्रश्नधर्मेषु पापेच्छाभिमानिकवदवलीनचित्तताभावात् //
280 SK भावनामार्गो लौकिको मार्गः / तत्र लौकिको मार्गो ध्याना[न्या]रूप्याश्च / (Aभिध्-स्-भ् ७९) ते पुनर्ध्यानारूप्याः संक्लेशतो व्यवदानतो व्यवस्थानतो विशुद्धितश्च वेदितव्याः //
281 SK कथं संक्लेशतः / चत्वार्यव्याकृतमूलानि तृष्णा दृष्टिर्मानो ऽविद्या च, तैः संक्लिष्टचित्तानां क्लिष्टध्यानमुखेन रूपारूप्यावचरसर्वनिवृताव्याकृतक्लेशोपक्लेशावर्तनात् / तत्र तृष्णयास्वादसंक्लेशेन संक्लिश्यते, प्रस्रब्धिसुखास्वादात् / दृष्ट्या दृष्ट्युत्तरध्यायितया संक्लिश्यते, ध्यानं निश्चित्य पूर्वान्तकल्पादिदृष्टिसमुत्थापनात् / मानेन मानोत्तर ध्यायितया संक्लिश्यते, तेन विशेषाधिगमेनोन्नतिगमनात् / अविद्यया विचिकित्सोत्तरध्यायितया संक्लिश्यते, तत्त्वा प्रतिवेधेन मोक्षकामस्य तस्मिन्विशेषाधिगमे मोक्षो न मोक्ष इति विचिकित्सोत्पादनात् //
282 SK कथं व्यवदानतः / शुद्धका ध्यानारूप्या लौकिका अपि कुशलत्वात्पर्यवस्थानमलापगतत्वेन व्यवदाता इत्युच्यन्ते //
283 SK कथं व्यवस्थानतः / ध्यानानां तावच्चतुर्धा व्यवस्थानम्, अङ्गसमापत्तिमात्रासंज्ञाकरणभेदात् / आरूप्याणां त्रिधाङ्गवर्जैः //
284 SK किं पुनरधिकृत्य ध्यानेषु / वितर्कादय एवाङ्गत्वेन व्यवस्थापिताः सत्स्वन्येषु धर्मेषु / तावद्भिः प्रतिपक्षानुशंसतदुभयाश्रयाङ्गपरिसमाप्तेः / प्रथमे तावद्ध्याने वितर्को विचारश्च प्रतिपक्षाङ्गम्, ताभ्यां कामव्यापादविहिंसावितर्कादिप्रहाणात् / प्रीतिः सुखं चानुशंसाङ्गम्, वितर्कविचाराभ्यां प्रतिपक्षिते विपक्षे तद्विवेकजप्रीतिसुखलाभात् / चित्तैकाग्रता तदुभयनिश्रयाङ्गम्, समाधिसंनिश्रयबलेन वितर्कादिप्रवृत्तेरिति / तथा द्वितीये ध्याने ऽध्यात्मसंप्रसादः प्रतिपक्षाङ्गम्, तेन वितर्कविचारप्रतिपक्षणात् / प्रीतिसुखे चित्तैकाग्रता च शेषे अङ्गे पूर्ववत् / तृतीये ध्याने उपेक्षा स्मृतिः संप्रजन्यश्च प्रतिपक्षाङ्गम्, तैः प्रीतिप्रतिपक्षणात् / सुखं चित्तैकाग्रता च शेषे अङ्गे (Aभिध्-स्-भ् ८०) यथाक्रमम् / चतुर्थे ध्याने उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिश्च प्रतिपक्षाङ्गम्, ताभ्यां सुखप्रतिपक्षणात् / अदुःखासुखा वेदनानुशंसाङ्गम् / चित्तैकाग्रता तदुभयाङ्गमिति //
285 SK कथं पुनः प्रथमं ध्यानं समापद्यमानस्य सप्त मनस्कारा भवन्ति / येन समाहितभूमिकेन मनस्कारेण कमेष्वादीनवादिदर्शनेनौदारिकलक्षणं प्रतिसवेदयते / तदभावाच्च प्रथमध्याने शान्तलक्षणम् / अयमुच्यते लक्षणप्रतिसंवेदनीय मनस्कारः, स च श्रुतचिन्ताव्यवकीर्णो वेदितव्यः / तदूर्ध्व श्रुतं चिन्तां चातिक्रम्यैकान्तेन भावनाकारेण तदौदारिकशान्तलक्षणनिमित्तालंबनां शमथविपश्यनां भावयन् पुनः पुनर्यथापर्येषितामौदारिकशान्ततामधिमुच्यते इत्ययमधिमोक्षिकः / तदभ्यासात्तत्प्रथमतः प्रहाणमार्गसहगतो मनस्कारः प्राविवेक्यः, तेनाधिमात्रक्लेशप्रकारप्रहाणात्तत्पक्षदौष्ठुल्यापगमाच्च / स योगी तदूर्ध्व प्रहाणारामो भवति प्रहाणे ऽनुशंसदर्शी परीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण संप्रहर्षयति यावदेव स्त्यानमिद्धौद्धत्योपशमाय / अयं रतिसंग्राहकः / तस्यैवं सम्यक्प्रयुक्तस्य कुशलपक्षप्रयोगोपस्तब्धत्वात् कामावचरक्लेशपर्यवस्थानासमुदाचारे सति तत्प्रहीणाप्रहीणतावगमार्थ तदुत्पत्त्यनुकूलशुभनिमित्तमनस्कारेण प्रत्यवेक्षणं मीमांसामनस्कारः / तस्यैवं मीमांसाप्रतिपक्षं भावयतः तावत्कालिकयोगेन सर्वकामावचरक्लेशविसंयोगाय प्रथमध्यानप्रयोगपर्यवसानगतः प्रतिपक्षमनस्कारः प्रयोगनिष्ठः / तदनन्तरं मौलप्रथमध्यानसहगतः प्रयोगनिष्ठाफल इति / तत्र लक्षणप्रतिसवेदिना प्रहातव्यं प्राप्तव्यं च सम्यक्परिज्ञाय प्रहाणाय प्राप्तये च चित्तं प्रणिघत्ते / आधिमोक्षिकेन तदर्थ सम्यक्प्रयोगमारभते / प्राविवेक्येनाधिमात्रान् क्लेशान् जहाति / रतिसंग्राहकेण मध्यं क्लेशप्रकारं जहाति / मीमांसकेन प्राप्तिनिरभिमानतायां चित्तमवस्थापयति / प्रयोगनिष्ठेन मृदुं क्लेशप्रकारं जहाति / प्रयोगनिष्ठाफलेन एषां मनस्काराणां सुभावितानां भावनाफलं प्रत्यनुभवति / यथा प्रथमध्यानसमापत्तये सप्त मनस्कारा एवं यावन्नैवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं योजयितव्याः / औदारिकलक्षणं पुनः सर्वास्वधोभूमिषु यावदाकिंचन्यायतनात् समासेन द्विविधं वेदितव्यम् - दुःखतरविहारिताप्रशान्तविहारितया, अल्पायुस्कतरता च तद्विपर्ययेणोर्ध्वभूमेः शान्तलक्षणं वेदितव्यम् //
286 SK मात्राव्यवस्थानं ध्यानानां तावन्मृदुमध्याधिमात्रपरिभावितत्वात् / प्रत्येकं त्रिधा ध्यानोपपत्तिः फलं भवति / तद्यथा ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणं इत्येवमादि यथापूर्वमुक्तम् / आरूप्येषु तु विमानस्थानान्तरसंनिवेशासंभवादेवमुपपत्ति भेदो न व्यवस्थाप्यते / अपि तु तेषामप्यस्ति मृद्वादिपरिभावितानामुपपत्तावुच्चनीचता आयुरादिविशेषेण, हीनप्रणीतता च क्लिष्टाक्लिष्टताबाहुल्यविशेषेणेति //
287 SK संज्ञाकरणव्यवस्थानं चतुर्थध्यानप्रभेदानां समाधीनामसंख्येयान्यचिन्त्यानि च नामानि / तथाहि यावतः प्रथमध्यानसंगृहीतान् समाधीन् बुद्धा भगवन्तो बोधिसत्त्वाश्च महाप्रभावप्राप्ताः समापद्यन्ते, तेषां समाधीनां श्रावकाः प्रत्येकबुद्धाश्च नामान्यपि न जानन्ति / कुतश्चैषां संख्यां ज्ञास्यन्ति समापत्स्यन्ते वा / यथा निर्दिष्टं प्रज्ञापारमितायाम् - ᳚साधितं समाधिशतम्᳚ / एवमन्येष्वपि तेषु तेषु महायानसूत्रेष्विति //
288 SK कथं विशुद्धितः / प्रान्तकोटिका ध्यानारूप्या विशुद्धिरित्युच्यते, वैशेषिकगुणाभिनिर्हाराय निकामला[भा]दिभिः कर्मण्यताप्रकर्षनयनात् //
289 SK लोकोत्तरमार्गो भावनामार्गे ऽष्टौ दुःखा[दिधर्मा]न्वयज्ञानानि यथा दर्शनमार्गे निर्दिष्टानि / तत्संप्रयुक्तश्च समाधिरनागम्यसंगृहीतः प्रथमं ध्यानं यावदाकिंचन्यायतनम् / नैवसंज्ञानासंज्ञायतनमपरिस्फुटं संज्ञाप्रचारतया परमपटुप्रचारस्यार्यमार्गस्यासंनिःश्रयत्वादेकान्तेन लौकिकं वेदितव्यम् / अत एव च तत्संज्ञामान्द्यादालम्बनानिमित्तीकरणार्थेनानिमित्तमित्युच्यते / कुतः पुनरेतत् ज्ञायते नैवसंज्ञानासंज्ञायतने आर्यमार्गो नास्तीति / यस्मादुक्तं भगवता ᳚यावदेव संज्ञासमापत्तिस्तावदाज्ञाप्रतिवेध᳚ इति / निरोधसमापत्तिर्लोकोत्तरा, आर्यमार्गपृष्ठलभ्यत्वात् / मनुष्येष्वभि[नि]र्ह्रियते उत्पाद्यत आदित इत्यर्थः, पूर्वोत्पादितायाः पश्चात्संमुखोभावो मनुष्येषु वा तस्मिन्नेव जन्मनि रूपधातौ वा उपपद्य / कथमारूप्यलाभिनो रूपधातुवीतरागस्यार्यश्रावकस्य रूपधातावुपपतिः / नावश्यं रूपधातुवीतराग एवारूप्यं समापद्यते / अत एवात्र चतुष्कोटिकं भवति - यो रूपवीतरागः सर्वः स आरूप्यशान्तविमोक्षसमापत्ता, यो (Aभिध्-स्-भ् ८२) वा आरूप्यशान्तविमोक्षसमापत्ता सर्वः स रूपवीतराग इति / प्रथमा कोटिः - अनागम्यं निश्रित्य रूपवीतरागः / द्वितीया कोटिः - चतुर्थध्यानलाभी आर्य आर्योपपत्त्यानर्थी प्रहाणमार्गं निराकृत्य विशेषमार्गं निश्रित्यारूप्यशान्तविमोक्षसमापत्ता / तृतीया कोटिः - स एव वैराग्यार्थी प्रहाणमार्गं निश्रित्यारूप्यशान्तविमोक्षसमापत्ता / चतुर्थी - एतानाकारान् स्थापयित्वा / आरूप्ये षूपपन्नानां कस्मान्न संमुखीभवति / शान्तेन विहारेण विहर्तुकामा आर्या मनुष्येष्वेनामभिनिर्हृत्य संमुखीकुर्वन्ति / आरूप्येषु तूपपन्नास्ते ऽप्रयत्नेनैव वैपाकिकैः परमशान्तैः विमोक्षविहारैर्विहरन्तीत्यतस्तत्संमुखीकरणार्थं न पुनः प्रयत्नमारभन्त इति //
290 SK मृदुमध्याधिमात्रो मार्गः प्रत्येकं पुनः मृद्वादिभिस्त्रिभिः प्रकारैर्भित्त्वा नवप्रकारो व्यवस्थाप्यते, भावना हेयानां क्रमेण प्रहाणज्ञापनार्थम् / किं पुनः कारणं मृदुमृदुना मार्गेणाधिमात्रः क्लेशः प्रहीयते / स ह्यत्यर्थः विपन्नह्रीव्यपन्नाप्यालज्जिनः संताने समुदाचरति सूपलक्षश्चासौ सुपरिच्छेदस्तस्मादसौ स्थूलमलवदल्पेनापि प्रतिपक्षेणापनीयते / यस्त्वयं दुष्परिच्छेदसमुदाचारः सूक्ष्मलीनः संताने मृदुमृदुक्लेशः सूक्ष्ममलवन्महता प्रतिपक्षबलेनापनीयत इत्यदो विपक्षप्रकारविपर्ययेण प्रतिपक्षप्रकारव्यवस्थानं वेदितव्यम् //
291 SK प्रयोगमार्गो येन मार्गेण भाव्यमानेन प्रत्येकमधिमात्राधिमात्रादिक्लेशप्रकारादिजातिपक्षस्य दौष्ठुल्याङ्गस्यापगमात्क्रमेणाश्रयः परिवर्तते स भावनामार्गे प्रयोगमार्गे इत्युच्यते //
292 SK यस्य त्वनन्तरं तत्प्रकारक्लेशजातितत्पक्षदौष्ठुल्यावशेषापगमात्तेन दौष्ठुल्येन निर्दौठुल्य आश्रयः परिवर्तते स आनन्तर्यमार्गः //
293 SK विमुक्तिमार्गो येन नामाश्रयपरिवृत्ति प्रत्यात्म[म]नुभवति /
294 SK विशेषमार्गस्तदूर्ध्वावशेषक्लेशप्रहाणं कुर्वतो ये प्रयोगानन्तर्यविमुक्तिमार्गाः / अपरः पर्याय ऽविशेषमार्गस्तस्य क्लेशप्रहाणप्रयोगमध्युपेक्ष्य सूत्रादीन् धर्माश्चिन्तयतः, पूर्वचिन्तिताधिगतधर्मप्रत्यवेक्षणाविहारेण वा विहरतः समापत्त्यन्तरं वा समापद्यमानस्य यो मार्गः / पुनरभिज्ञादीन् वैशेषिकान् गुणानभिनिर्हरतस्तैर्वा विहरतो यो मार्गः //
295 SK इत्येवं भावनामार्ग विस्तरेण निर्दिश्य तदनुषंगेण मार्गभावना वर्ण्यते /
296 SK चतुर्विधा मार्गभावना सम्यक् प्रहाणानधिकृत्य यथायोगम् / तत्र प्रतिलम्भाय भावना प्रतिलम्भभावना, तयालब्धकुशलधर्मप्रतिलम्भात् / निषेवणमेव भावना निषेवणभावना, लब्धकुशलधर्माभ्यसनात् / निर्धावनाय भावना निर्धावनभावना, समुदाचारावस्थाकुशलधर्मनिर्वासनात् / प्रतिपक्षस्य भावना प्रतिपक्षभावना, अनागताकुशलधर्मानुत्पत्तिधर्मतापादनात् //
297 SK अपरः पर्यायः - मार्ग उत्पद्यमानः स्वां वासनां स्थापयति[सा]धासना प्रतिलम्भभावना, ततस्तदन्वयानामुत्तप्ततरापत्तेः / अस्यैव मार्गस्य संमुखीभावो ऽभिनिषेवणभावना / तेन स्वविपक्षदौष्ठुल्यनिरोधनान्निर्धावनभावना / आश्रयस्य परिवृत्तत्वादायत्यामनुत्पत्तिधर्मतायामवस्थापनं प्रतिपक्षभावना / पुनः प्रतिपक्षस्य विदूषणादिकः चतुर्विधः प्रभेदो वेदितव्यः / तत्र विदूषणाप्रतिपक्षः सास्रवेषु संस्कारेष्वादीनवदर्शनम्, तेन रोगगण्डादिभिराकारैरुपादानस्कन्धदूषणात् / प्रहाणप्रतिपक्षः प्रयोगानन्तर्यमार्गाः, तैः क्लेशप्रहाणात् / आधारप्रतिपक्षो विमुक्तिमार्गाः, तैः प्रहाणप्राप्तिसंधारणात् / दूरीभावप्रतिपक्षस्तदुपरिमो मार्गः, तेन पूर्वप्रहीणक्लेशदूरीकरणात् //
298 SK पुनर्बोधिपक्ष्यादिभेदेनैकादशविधो मार्गो व्यवस्थाप्यते / तद्यथा वस्तुपरीक्षामार्गः स्मृत्युपस्थानानि, आदितस्तेनाशुभादिभिराकारैः कायवेदनाचित्तधर्मवस्तुपरीक्षणात् / (Aभिध्-स्-भ् ८४) व्यावसायिको मार्गः सम्यक्प्रहाणानि, तथा सर्वाणि वस्तूनि परीक्ष्यानेनावरणप्रहाणाय वीर्यारम्भात् / समाधिपरिकर्ममार्ग ऋद्धिपादाः, तथापरिशोधितावरणस्यानेन छन्दवीर्यचित्तमीमांसामुखैः समाधेः कर्मण्यतापादनात् / अभिसमयप्रयोगिको मार्ग इन्द्रियाणि, तथाकृतसमाधिपरिकर्मणो ऽनेनार्यमार्गसमुदागमायाधिपतिभूतोष्मगतोर्ध्वप्रयोगात् / अभिसमयश्लिष्टो मार्गो बलानि, तथाधिपत्यप्राप्तस्यानेना[न]न्तरं सत्यप्रतिवेधायाश्रद्धादिविपक्षानभिभूतक्षान्त्यग्रधर्मप्रयोगात् / अभिसमयमार्गो बोध्यङ्गानि, तेनादितः प्रत्यात्मं तत्त्वाभिसंबोधात् / विशुद्धिनैर्याणिको मार्ग आर्याष्टाङ्गो मार्गः, तदूर्ध्वं तेन भावनाप्रहातव्यक्लेशप्रहाणाय विशुद्धये निर्याणादिति / अत एवैषां बोधिपक्षाणामेवानुपूर्वी वेदितव्या / निश्रयेन्द्रियभिन्नो मार्गः चतस्रः प्रतिपदः / तत्र दुःखा प्रतिपदनागम्यारूप्यनिश्रिता यथाक्रमं शमथविपश्यनामान्द्यात् / सुखा ध्याननिश्रिता युगनद्धवाहित्वात् / धन्धाभिज्ञा द्वयोरप्यनयोर्दुःखसुखनिश्रययोर्मृद्विन्द्रियाणाम् / क्षिप्राभिज्ञा तयोरेव तीक्ष्णेन्द्रियाणामिति / शिक्षा त्रयपरिशोधनो मार्गः चत्वारि धर्मपदानि / तत्रानभिध्याव्यापादमधिशीलं शिक्षायाः परिशोधनम्, अननुनयाप्रतिघमुखेन शिक्षापदाखण्डनात् / सम्यक्स्मृत्याधिचित्तं शिक्षायाः परिशोधनम्, आलंबनासंमोषे सति चित्तसमाधानात् / सम्यक्समाधिनाधिप्रज्ञं शिक्षायाः परिशोधनम्, समाहितचित्तस्य यथाभूतज्ञानादिति // सर्वगुणाभिनिर्हारको यो मार्गः शमथविपश्यना, ततः सर्वलौकिकलोकोत्तरगुणाभिनिष्पत्तेः / मार्गसंग्रहमार्गस्त्रीणीन्द्रियाणी, तत्रानाज्ञातमाज्ञास्यामीन्द्रियेण प्रयोगदर्शनमार्गयोः संग्रहः, आज्ञेन्द्रियेण भावनामार्गस्य, आज्ञातावीन्द्रियेण निष्ठामार्गस्येति //
299 SK पुनर्बोधिपक्ष्याणां धर्माणां पञ्चभिः प्रकारैः व्यवस्थानं वेदितव्यम् - आलम्बनतः स्वभावतः सहायतो भावनातो भावनाफलतश्च //
300 SK तत्र स्मृत्युपस्थानानामालंबनं यथाक्रमं कायो वेदना चित्तं धर्माः / किमर्थ पुनरेतदेवमालंबनं व्यवस्थाप्यते / यस्माद्विपर्यस्तबुद्धयो (Aभिध्-स्-भ् ८५) बालाः प्रायेण सेन्द्रियं कायमाश्रित्य सुखादिमुपभुञ्जाना उपलब्धलक्षणा आत्मरागादिभिः श्रद्धादिभिश्च संक्लिश्यन्ते व्यवदायन्ते चेति विकल्पयन्त्यत आदितः सम्यक्तद्वस्तुलक्षणपरीक्षार्थमेवं चतुर्धालम्बनव्यवस्थानं वेदितव्यम् //
301 SK स्वभावतः प्रज्ञा स्मृतिश्च, कायाद्यनुपश्यनावचनात् स्मृत्युपस्थानवचनाच्च यथाक्रमम् //
302 SK सहायतस्ताभ्यां संप्रयुक्ताश्चितचैतसिकाः //
303 SK भावनाध्यात्मं बहिर्धाध्यात्मबहिर्धा च कायादिषु कायाद्यनुपश्यना //
304 SK तत्राध्यात्मं कायश्चक्षुश्रोत्रघ्राणजिह्वाकायेन्द्रियाणि, आध्यात्मिकायतनसंगृहीतत्वात्सत्त्वसंख्यातत्वाच्च / बहिर्धा कायो बहिर्धारूपशब्दगन्धरसस्प्रष्टव्यानि, बाह्यायतनसंगृहीतत्वादसत्त्वसंख्यातत्वाच्च / अध्यात्मबहिर्धा कायश्चक्षुराद्यायतनसंबद्धानि रूपादीन्यायतनानीन्द्रियाधिष्ठानभूतानि, सत्त्वसंख्यातत्वाद्वाह्यायतनसंगृहीतत्वाच्च / पारसंतानिकानि चाध्यात्मिकानि रूपीण्यायतनान्यध्यात्मबहिर्धा कायः, आयतनव्यवस्थां संतानव्यवस्थां च प्रमाणयित्वा //
305 SK काये कायस्य सादृश्येन पश्यना काये कायानुपश्यना, विकल्पप्रतिबिम्बकायदर्शनानुसारेण प्रकृतिबिम्बकायावधारणात् //
306 SK अध्यात्मं वेदनादयो ऽध्यात्मं कायमुपादायोत्पन्नाः चक्षुराद्यालंबनतया स्वाश्रयोत्पन्ननतया वा / बहिर्धा वेदनादयो बहिर्धा कायमुपादायोत्पन्नाः, रूपाद्यालम्बनतया पराश्रयोत्पन्नतया वा / अध्यात्मबहिर्धा वेदनादयो ध्यात्मबहिर्धाकायमुपादायोत्पन्नाः, स्वसन्तानिकबाह्या[यतना]लम्बनतया पारसंतानिकाध्यात्मिकायतनालंबनतया वा //
307 SK चेतसो लीनत्वं विशेषाधिगमप्रत्यात्मपरिभवमुखैः विषादः / परिस्रवपरिखेदो दंशमशकाद्युपद्रवोत्पीडनासहनम् / अल्पमात्रसंतुष्टिः अलं मे तावता कुशलपक्षेणेति प्रतिवारणम् / आपत्तिविप्रतिसारो (Aभिध्-स्-भ् ८६) ऽभिक्रमप्रतिक्रमादिष्वसंप्रज्ञानचारिणः शिक्षाव्यतिक्रमपूर्वः पश्चात्तापः / निक्षिप्तधुरता प्रमाददोषेण यथारम्भं कुशलपक्षप्रयोगान्तानिर्वाह इति //
308 SK फलं यथाक्रमं स्मृत्युपस्थानानां शुचिसुखनित्यात्मविपर्यासप्रहरणम्, अशु[भ]भावना[तः], यत्किंचित् वेदितमिदमत्र दुःखस्येति ज्ञानात्, आश्रयालंबनादिभेदैः प्रतिक्षणं विज्ञानस्यान्यथावगमात्, निर्व्यापारसंक्लेशब्यवदानधर्ममात्रपरीक्षणाच्चेति //
309 SK पुनरेषां यथाक्रमं चतुःसत्यावतारः फलम् / कायस्मृत्युपस्थानेन दुःखसत्यमवतरति, संस्कारदुःखतालक्षणेन दौष्ठुल्येन प्रभावितत्वात् कायस्य / तथाहि तत्प्रतिपक्षभूता प्रस्रब्धिः काय एव विशेषेणोत्पद्यत इति / वेदनास्मृत्युपस्थानेन समुदयसत्यमवतरति, सुखादिवेदनाधिष्ठानत्वात् संयोगादितृष्णायाः / चित्तस्मृत्युपस्थानेन निरोधसत्यमवतरति, निरात्मकं विज्ञानमात्रं न भविष्यतीति पश्यत आत्मोच्छेदाशङ्कामुखेन निर्वाणोत्त्रासाभावात् / धर्मस्मृत्युपस्थानेन मार्गसत्यमवतरति, विपक्षधर्मप्रहाणाय प्रतिपक्षधर्मभावनादिति / पुनरेषां कायवेदनाचित्तधर्मविसंयोगः फलं यथाक्रमं वेदितव्यम्, तद्भावनया कायादिपक्षदौष्ठुल्यापगमादिति //
310 SK सम्यक्प्रहाणानां प्रथमस्यानुत्पन्नो विपक्ष आलंबनम्, तेनानुत्पन्नपापकाकुशलधर्मानुत्पादाय छन्दजननात् / द्वितीयस्योत्पन्नो विपक्षः / तृतीयस्यानुत्पन्नः प्रतिपक्षः / चतुर्थस्योत्पन्न आलंबनमिति यथासूत्रं योजयितव्यम् /
311 SK छन्दं जनयतीत्येवमादिभिः साश्रया वीर्यभावना परिदीपिता / अत्राश्रयश्छन्दः, तत्पूर्वकत्वादुद्योगस्य / यदा शमथादिनिमित्तमनस्कारेण निरपेक्षालंबनं केवलं प्रतिपक्षं भावयति तदा व्यायच्च्झत इत्युच्यते / यदा तुलयोपक्लेशे उत्पन्ने तदपकर्षणार्थ प्रसदनीयादिमनस्कारैः चित्तमुन्नामयति, (Aभिध्-स्-भ् ८७) औद्धत्योपक्लेशे चोत्पन्ने प्रत्यासंक्षेपमुखेन चित्तं धारयति तदा वीर्यमारभत इत्युच्यते / अत एव लयौद्धत्यापकर्षणोपायसंदर्शनार्थमनन्तरमाह चित्तं प्रगृह्णाति प्रदधातीति /
312 SK फलं प्रथमद्वितीययोः सम्यक्प्रहाणयोरशेषविपक्षहानिः, ताभ्यां यथायोगमुत्पन्नानुत्पन्नपापकाकुशलधर्मप्रहाणात् / तृतीयस्य प्रतिपक्षप्रतिलम्भः, तेनानुत्पन्नकुशलधर्मोत्पादनात् / चतुर्थस्य प्रतिपक्षवृद्धिः, तेनोत्पन्नकुशलधर्मविपुलतापादनादिति //
313 SK ऋद्धिपादालंबनं निष्पन्नेन समाधिना यत्करणीयमृद्धयादिकं कृत्यम् //
314 SK छन्दसमाधिर्यत् सत्कृत्यप्रयोगमागम्य स्पृशति चित्तस्यैकाग्रतां तीव्रेण छन्देन तीव्रेणादरेण प्रयोगः सत्कृत्यप्रयोग इति कृत्वा / वीर्यसमाधिर्यत्सातत्यप्रयोगमागम्य स्पृशति चित्तस्यैकाग्रताम् / तद्वीर्यमित्युच्यते यन्नित्यं प्रयुज्यत एव न कदाचिन्न प्रयुज्यते / चित्तसमाधिर्यत्पूर्वजन्मान्तरे समाधिभावनामागम्यतत्परिपुष्टबीजत्वाच्चित्तस्य स्वरसेन समाध्यनुकूलपरिणामे सति स्पृशति चित्तस्यैकाग्रताम् / अपि खलु ऋद्धिपादाभिनिर्हारयोर्निदर्शनार्थमेव सम्यक्प्रहाणभावनायां छन्दं जनयतीत्येवमादिनिर्देशो वेदितव्यः / चित्तं प्रदधाति प्रगृह्णातीत्येषा चात्र पाठानुपूर्वी वेदितव्या / तत्र चित्तसमाधिर्यच्चितं प्रदधत् स्पृशतीति प्रत्यात्मं चित्तमेव चित्तं धारयन् शमयन्नभिसंक्षिपन्नधिगच्छतीत्यर्थः / मीमांसासमाधिर्यच्चितं प्रगृह्णन्निति धर्मविपश्यनामुखेन चित्तमुत्तापयतीत्यर्थः //
315 SK भावना छन्दादीनामष्टानां प्रहाणसंस्काराणामभ्यासः / ते पुनरष्टौ प्रहाणसंस्काराश्चतुर्धा क्रियन्ते / तद्यथा व्यावसायिकश्छन्दव्यायामश्रद्धाः // तत्र छन्दो व्यायामस्याश्रयः / छन्दस्य पुनः श्रद्धा निमित्तम् / तथाहि यो येनार्थी भवति तत्प्राप्त्यर्थ व्यायच्छते / अर्थित्वं च नान्तरेण तदस्ति त्वाद्यभिसंप्रत्यमिति / अनुग्राहिकः प्रस्रब्धिः, तया कायचित्तानुग्रहकरणात् / औपनिबन्धिकः स्मृतिसंप्रजन्ये, आलंबनासंप्रमोषेण चित्तस्यैकाग्रावस्थानात्, तत्प्रमादे च सति परिच्छेदात् यथाक्रमम् / प्रातिपक्षिकश्चेतनोपेक्षे, चित्तप्रग्रहप्रधानाभिसंस्काराभ्यामुत्पन्नलयौद्धत्यपरिवर्जनान्निरुपक्लेशशमथादिनिमित्तानुकरणाच्चेति // (Aभिध्-स्-भ् ८८)
316 SK संक्षेपनिदानं विपश्यनारहितस्य कौसीद्यमुखेन लयः / विक्षेपनिदानमशुभसंज्ञारहितस्यौद्धत्यमुखेन संप्रग्रहः / संक्षेपः स्त्याननिमित्तमुखे नान्तःसंकोचः / विक्षेपः शुभनिमित्तानुसारमुखेन विषयेषु विसारः / आलीनत्वानुकूला भावना प्रत्यवेक्षणानिमित्तं निश्रित्य धर्मविपश्यना / अविक्षेपानुकूलाशुभतः केशादिद्रव्यप्रत्यवेक्षा / तदुभयानुकूलालोकसंज्ञा / एतच्च यथा क्रममधिकृत्योक्तं भगवता - नच मे छन्दो ऽतिलीनो भविष्यति, नातिप्रगृहीतः, नाध्यात्मं संक्षिप्तः न बहिर्धा विक्षिप्तः, पश्चात्पूर्वसंज्ञी भविष्यति ऊर्ध्वमधःसंज्ञी च, विवृतेन चेतसापर्यवनद्धेन सप्रभाससहगतं चित्तं भावयिष्यामि न च मे ऽन्धकारायत्तत्वं भविष्यति चेतस इति /
317 SK फलं यथेष्टमृद्धयादिगुणनिष्पादनात् //
318 SK इन्द्रियाणां चत्वार्यार्यसत्यान्यालंबनम्, सत्याभिसमयप्रयोगसंगृहीतत्वेन तदाकारत्वात् // फलं तदाधिपत्यादचिरेण कालेन दर्शनमार्गस्योत्पादः तस्मिन्नेव च काले निर्वेधभागीयभजनं च संतानस्य //
319 SK बलानामालंबनादिकमिन्द्रियैः समानम् // फले तु विशेषः / तथाह्येषां तच्च यथोक्तम् - आश्रद्व्यादिविपक्षनिर्लेखश्चाधिक इत्यत एवैषां तुल्यानामालंबनस्वभावादिकानामप्यनवमृद्यतार्थविशेषेण बोधिपक्षान्तरत्वम् //
320 SK बोध्यङ्गानामालंबनं चतुर्णामार्यसत्यानां यथाभूततेति परमार्थो विशुद्धयालंबनमित्यर्थः / स्वभावः स्मृत्यादयः सप्त धर्माः / तत्र स्मृतिः (Aभिध्-स्-भ् ८९) संनिश्रयाङ्गम्, उपस्थितस्मृतेः सर्वकुशलधर्माभिलपनात् / धर्मविचयः स्वभावाङ्गम्, संबोधिलक्षणत्वात् / वीर्यं निर्याणाङ्गम्, तेन यावद्गम्यं गमनात् / प्रीतिरनुशंसाङ्गम्, तया संतानप्रीणनात् / प्रस्रब्धिः समाधिरुपेक्षा चासंक्लेशाङ्गम् / तत्र प्रस्रब्ध्या न संक्लिश्यते, तया दौष्ठुल्यस्रावणात् / समाधौ न संक्लिश्यते, तत्र स्थितस्याश्रयपरिवर्तनात् / उपेक्षासंक्लेशः, अभिध्यादौर्मनस्यापगताक्लिष्टावस्थास्वभावत्वात् / भावना स्मृतिसंबोध्यङ्गं भावयति विवेकनिश्रितमित्येवमादिरेभिः चतुर्भिः पदैर्यथाक्रमं चतुःसत्यालंबना बोध्यङ्गभावना परिदीपिता / तथाहि दुःखं दुःखत आलंबमानस्य तद्विवेकान्वेषणाद्दुःखालंबनं विवेकनिश्रितमित्युच्यते / तृष्णालक्षणं दुःखसमुदयं दुःखसमुदयत आलंबमानस्य तद्विरागान्वेषणात्तदालंबनं विरागनिश्रितम् / दुःखनिरोधं दुःखनिरोधत आलंबमानस्य तत्साक्षात्करणान्वेषणात्तदालंबनं निरोधनिश्रितम् / दुःखनिरोधगामिनी प्रतिपद् व्यवसर्ग इत्युच्यते, तया दुःखविसर्जनात् / तां तथालंबमानस्य तद्भावनान्वेषणात्तदालंबनं व्यवसर्गपरिणतमित्युच्यते / फलं दर्शनहेयानां क्लेशानां प्रहाणम्, बोध्यङ्गानां दर्शनमार्गस्वभावत्वात् //
321 SK मार्गाङ्गानामालंबनं दर्शनमार्गादुत्तरकालं सैव यथादृष्टानां सत्यानां यथाभूतता / स्वभावः सम्यग्दृष्टयादयो ऽष्टौ धर्माः / तत्र सम्यग्दृष्टिः परिच्छेदाङ्गम्, तया यथानुभवं तत्त्वावधारणात् / सम्यक्संकल्पः परसंप्रापणाङ्गम्, तेन यथाधिगमं व्यवस्थाप्य वाक्समुत्थापनात् / सम्यग्वाक्कर्मान्ताजीवाः परसंप्रत्ययाङ्गम्, तैर्यथाक्रममधिगन्तुः परैदृष्टयादिविशुद्धिनिश्चयनात् / तत्र सम्यग्वाचाधिगमानुरूपप्रश्नव्याकरणसांकथ्यविनिश्चयेनास्य दर्शनविशुद्धिर्विज्ञायते / सम्यक्कर्मान्तेनाभिक्रमप्रतिक्रमादिषु संपन्नचारित्रतया शीलविशुद्धिः सम्यगाजीवेन यथानुज्ञं धर्मेण चीवरादिपर्येषणादाजीवविशुद्धिरिति / सम्यग्व्यायामः क्लेशावरणविशोधनाङ्गम्, तेनाशेष संयोजनप्रहाणात् / सम्यक्स्मृतिरुपक्लेशावरणविशोधनाङ्गम्, (Aभिध्-स्-भ् ९०) तया सम्यक्शमथादिनिमित्तासंप्रमोषेण लयाद्युपक्लेशानवकाशात् / सम्यक्समाधिर्वैशेषिकगुणावरणविशोधनाङ्गम्, तेनाभिज्ञादिगुणाभिनिर्हरणात् / भावना बोध्यङ्गवत्, तद्यथा सम्यग्दृष्टिं भावयति विवेकनिश्रितामिति विस्तरः / तेषां च पदानामर्थः यथानिर्दिष्टं पुरस्तात्तथानुगन्तव्यः //
322 SK प्रतिपदां धर्मपदानां च पूर्ववदर्थनिर्देशो वेदितव्यः दुखा प्रतिपदनागम्यारूप्यनिश्रिता यथाक्रमं शमथविपश्यनामान्धात् / सुखा ध्याननिश्रिता युगनद्धवाहित्वात् धन्धाभिज्ञा द्वयोरप्यनयोर्दुःखसुखनिश्रययोर्मृद्विन्द्रियाणाम् / क्षिप्राभिज्ञा तयोरेव तीक्ष्णेन्द्रियाणामिति //
323 SK शमथः नवकारचित्तस्थितिः / तत्र बाह्यालंबनेभ्यः प्रतिसंहृत्या ध्यात्ममविक्षेपापादितश्चित्तस्योपनिबन्धः स्थापना / तस्य चित्तस्यैवमादित उपनिबद्धस्य चलस्यौदारिकस्य तस्मिन्नेवालंबने संततियोगेन सूक्ष्मीकरणेन चाभिसंक्षेपः संस्थापना / तस्य स्मृतिसंप्रमोषाद्वहिर्धा विक्षिप्तस्य पुनः प्रतिसंहरणमवस्थापना / आदित एव तस्य चित्तस्य बहिरविसारायोपस्थितस्मृतितोपस्थापना / पूर्वमेव विक्षेपनिमित्तेषु रूपादिष्वादीनवसंज्ञामधिपति कृत्वा चित्तस्य प्रसरादानं दमनम् / चेतःसंक्षोभकरेषु वितर्कोपक्लेशेष्वादीनवदर्शनेन प्रसरादानं शमनम् / स्मृतिसंप्रमोषाद्वितर्कादिसमुदाचारे सति तदनधिवासना व्युपशमनम् / अभिसंस्कारेण निश्छिद्रनिरन्तरसमाधिप्रवाहावस्थापना एकोतीकरणम् / स्वभ्यस्तत्वादनभिसंस्कारेणानाभोगेन चित्तसमाधिप्रवाहस्याविक्षेपेण प्रवृत्तिः समाधानमिति //
324 SK विपश्यना यथापि तद्धर्मान्विचिनोतीत्येवमादिः / तत्र चरितविशोधनमालंबनं कौशल्यालंबनं वा क्लेशविशोधनं वा यावद्भाविकतया (Aभिध्-स्-भ् ९१) विचिनोति, यथावद्भाविकतया प्रविचिनोति, सविकल्पेनमनस्कारेण प्रज्ञासहगतेन निमित्तीकुर्वन् परिवितर्कयति, संन्तीरयन् परिमीमांसामापद्यत इति //
325 SK अपि खलु [शमथ]विपश्यनामागम्य चत्वारो मार्गा इति चत्वारो मार्गोपदेशनामधिकृत्य / तत्र प्रथमः शमथस्य लाभित्वादभिनिषीदन्नेव चित्तं स्थापयति यावत्समाधत्ते, विपश्यानाया अलाभित्वात्तु समाधिं निश्रित्य पश्चात्तथानिषण्णस्तान् धर्मान्विचिनोति यावत्परिमीमांसामापद्यते / द्वितीयो विपर्ययेण वेदितव्यः / तृतीया उभयस्यालाभ्युभयत्र योगं करोति / कथं कृत्वा, श्रुतोद्ग्रहणमुखेन विवश्यनायां योगं करोति तत्पूर्वकं च शमथे / चतुर्थ उभयस्य लाभात् //
326 SK अज्ञातमाज्ञास्यामीन्द्रियं प्रयोगमार्गे निर्वेधभागीयसंगृहीते पञ्चदशसु च दर्शनमार्गचित्तक्षणेषु यदिन्द्रियम्, तद्यथा मनैन्द्रियम्, पञ्च श्रद्धादीनि, अनागम्यादिनिश्रयभेदेन यथासंभवं सुखसौमनस्य दौर्मनस्योपेक्षेन्द्रियाणां चान्यतमम् / दौर्मनस्येन्द्रियं पुनः प्रयोगकाले निर्वेधभागीयपृष्ठेनोत्तरविमोक्षस्पृहासंगृहीतं वेदितव्यम् / तदेतत्संभवतो दशविधमिन्द्रियमनाज्ञातपूर्वस्य तत्त्वस्याज्ञायै प्रवृत्तत्वादनाज्ञातमाज्ञास्यामीन्द्रियमित्युच्यते / एतदेव दशविधमिन्द्रियं षोडशाद्दर्शनमार्गचित्तक्षणाद्यावद्वज्रोपमः समाधिरित्येतस्मिन्शैक्षमार्गे आज्ञेन्द्रियमित्युच्यते, अपूर्वज्ञेयाभावात् / एतदेव पुनर्नवविधमिन्द्रियं दौर्मनस्येन्द्रियवर्जमशैक्षमार्गे आज्ञातावीन्द्रियमित्युच्यते, आज्ञाताविनो ऽर्हत् इन्द्रियमिति कृत्वा //
327 SK भावना मार्गाधिकारेणेदमपि वक्ष्यते / ऊर्ध्वभूमिके मार्गे संमुखीभावेन भाव्यमाने ऽसंमुखीभूतान्यप्यधोभूमिकानि कुशलमूलकानि (Aभिध्-स्-भ् ९२) भावनां गच्छन्ति, तेषु विभुत्वलाभात् / विभुत्वं पुनरुत्तप्तसंमुखीभावेन तशिता वेदितव्या //
328 SK निष्ठामार्गः सर्वदौष्ठुल्यानां प्रतिप्रस्रब्धेरिति विस्तरः //
329 SK तत्र सर्वदौष्ठुल्यानि चतुर्वितिर्भवन्ति / तद्यथा सर्वत्रगमभिलापदौष्ठुल्यं या चक्षुरादिसर्वधर्मनामाभिनिवेशवासनालयविज्ञाने संनिविष्टानादिकालानुसृता, यासावुच्यते प्रपञ्चवासनेति, यतश्चक्षुरादयो धर्माः सनामाभिनिवेशाः पुनः पुनः प्रवर्तन्त इति / वेदितदौष्ठुल्यं सास्रवाणां वेदनानां वासना / क्लेशदौष्ठुल्यं क्लेशानामनुशयः / कर्मदौष्ठुल्यं सास्रवाणां कर्मणां वासना / विपाकदौष्ठुल्यं विपाकस्या कर्मण्यता / क्लेशावरणदौष्ठुल्यं तीव्रायतक्लेशता / कर्मावरणदौष्ठल्यं मार्गान्तरायिकानन्तर्यादिककर्मावृतता / विपाकावरणदौष्ठुल्यं सत्याभिसमयविधुरनारकाद्यात्म भावप्रतिलम्भः / निवरणदौष्ठुल्यं कुशलपक्षप्रयोगान्तरायिककामछन्दाद्यभिभूतता / वितर्कदौष्ठुल्यं प्रव्रज्याभिरति विबन्धकामवितर्काद्यभिभूतता / आहारदौष्ठुल्यमत्यल्पबहुभोजननेन प्रयोगायोग्यता / मैथुनदौष्ठुल्यं द्वयद्वयसमापत्तिकृता कायचित्तव्यथा / स्वप्नदौष्ठुल्यं मिद्धकृतमाश्रयजाड्यम् / व्याधिदौष्ठुल्यं धातुवैषम्यकृतास्वस्थता / जरादौष्ठुल्यं भूतविपरिणामकृताविधेयता / मरणदौष्ठुल्यं म्रियमाणस्य सर्वेन्द्रियाकुलता / परिश्रमदौष्ठुल्यमतिगमनादिकृतो ऽङ्गमर्दः / दृढदौष्ठुल्यं यथासंभवमेत देवाभिलापदौष्ठुल्यादिकमपरिनिर्वाणवताम् / औदारिकमध्यसूक्ष्मदौष्ठुल्यानि (Aभिध्-स्-भ् ९३) यथाक्रमं कामरूपारूप्यावचराणि वेदितव्यानि / क्लेशावरणदौष्ठुल्यं श्रावकप्रत्येकबुद्धबोधि[वि]पक्षः / समापत्त्यावरणदौष्ठुल्यं नवा[नु]पूर्वसमापत्त्यभिनिर्हार[वि]पक्षः / ज्ञेयावरणदौष्ठुल्यं सर्वज्ञताविपक्षः / इत्येवमेषां यथायोगं सर्वदौष्ठुल्यानां प्रतिप्रस्रव्धेनिष्ठामार्गः / यथोक्तं - ᳚तस्य चेतोविमुक्तेः पारिपूर्या प्रज्ञाविमुक्तेः पारिपूर्या कायदौष्ठुल्यानां प्रतिप्रस्रब्धेः / स्मृत्या समन्वागमहेतोरेवमस्य प्रथमं द्वारं सुदान्तं भवति सुगुप्तं सुरक्षितं सुसंवृतं सुभाषितम्, यदुत चक्षुर्विज्ञेयेषु रूपेष्वेवं यावन्मनो विज्ञेयेषु धर्मेष्वि᳚ति //
330 SK वज्रोपमः समाधिर्भावनामार्गस्यान्त्या प्रहाणमार्गावस्था वेदितव्या / स च समाधिर्निरन्तरस्तत्प्रवाहरय लौकिकेन मार्गे णान्तराखण्डनात् / दृढः सर्वावरणैरच्छिद्रणात् सर्वावरणभेदितया च सारत्वात् / एकरस इति निर्विकल्पैकरसत्वात् / व्यापी सर्वज्ञेयसामान्यतथतालंबनत्वात् / एतदर्थप्रतिबिम्बनार्थ भगवतोक्तम् - तद्यथा महाशैलः पर्वतो ऽखण्डो ऽच्छिद्रो ऽशुषिर एकधनः सुसंवृत इति //
331 SK निरन्तराश्रयपरिवृत्तिविधार्शक्षमार्गलाभिनः / चित्ताश्रयपरिवृत्तिर्धर्मता, चित्तस्य प्रकृतिप्रभास्वरस्याशेषागन्तुकोपक्लेशापगमाद्या परिवृत्तिः, तथतापरिवृत्तिरित्यर्थः / मार्गाश्रयपरिवृतिः पूर्वं लौकिको मार्गो ऽभिसमयकाले लोकोत्तरत्वेन परिवृतः शैक्षश्चोच्यते सावशेषकरणीयत्वात् / यदा तु निर्हताशेषविपक्षो भवति त्रैधातुकवैराग्यात्तदास्य मार्गस्वभावस्याश्रयस्य परिपूर्णा परिवृत्तिर्व्यवस्थाप्यते / दौष्ठुल्याश्रयपरिवृत्तिरालयविज्ञानस्य सर्वक्लेशानुशयापगमेन परिवृत्तिर्वेदितव्या //
332 SK क्षये सति, विषये वा तस्मिन् यज्ज्ञानं क्षयज्ञानमेतदुक्तं भवति / निरवशेषं प्रक्षीणे समुदये यज्ज्ञानं तदवस्थस्य हेतुनिरोधालंबनं वा क्षयज्ञानमिति //
333 SK तथानुत्पादे सति विषये वा तस्मिन् यज्ज्ञानमनुत्पादज्ञानम् आयत्यां सर्वस्य दुःखस्यात्यन्तमनुत्पत्तिधर्मतायां सत्यां यज्ज्ञानमन्यसत्यालंबनमिति / यद्वा दुःखसत्यानुत्पादालंबनं तदनुत्पादज्ञानमित्यर्थः //
334 SK दशाशैक्षा धर्मा अशैक्षाञ्छीलादीन् पञ्च स्कन्धानधिकृत्य / तत्र अशैक्षा सम्यग्वाक्कर्मान्ताजीवा अशैक्षशीलस्कन्धः / (Aभिध्-स्-भ् ९४) सम्यक्स्मृतिसमाधिः समाधिस्कन्धः / सम्यग्दृष्टिसंकल्पव्यायामाः प्रज्ञास्कन्धः / सम्यग्विमुक्तिर्विमुक्तिस्कन्धः / सम्यग्ज्ञानं विमुक्तिर्ज्ञानदर्शनस्कन्ध इति //
335 SK पुनर्मार्गसत्यस्य चत्वार आकाराश्चत्वारि लक्षणानि / तत्र तत्त्वार्थ मार्गयत्यनेति मार्गः / अय[था]भूतानां क्लेशानां प्रतिपक्षत्वात् न्यायः / तत्त्वानवबोधदोषेणानित्यादिविपर्यासैर्विपर्यस्तस्य चित्तस्याविपर्यासे तत्त्वावबोधे प्रतिपादनात्प्रतिपत् / नित्य आत्यन्तिके निःसरणपदे यानान्नैर्याणिक इति //
336 SK दुःखादिसत्येष्वनित्यादयः षोडशाकारा लौकिका लोकोत्तराश्च सन्ति / तत्र लौकिका ज्ञेये ऽप्रविष्टाः सावरणाः सविकल्पाश्च, तथताया अप्रतिवेधात् क्लेशानुशयित्वादभिलापमुखेन प्रपञ्चनाच्च यथाक्रमम् / विपर्ययेण लोकोत्तराः सुप्रविष्टा निरावरणाश्च सन्तो निर्विकल्पतया लौकिकेभ्यो विशिष्यन्ते / कथं पुनरेते ऽविकल्पयन्तो ज्ञेयेषु प्रविष्टा भवन्ति / यस्मादेतेषु वर्तमानो ऽनित्यार्थ पश्यति साक्षादनुभवति, न त्वनित्यमिति पश्यत्यभिलापप्रपञ्चमुखेनेति / एवं दुःखादिष्वाकारेषु योजयितव्यम् //
337 SK धर्मविनिश्चये धर्मो द्वादशाङ्गं वचोगतम् //
338 SK तत्र सूत्रं यदभिप्रेतार्थसूचनाकारेण गद्यभाषितम् / किं पुनः कारणं तथागतस्तमभिप्रेतमर्थ विवृत्यैव न देशयतीत्याह दशानुशंसान् संपश्यंस्तथागतः सूचनाकारेण धर्मं देशयति / सुखं व्यवस्थापयति, दैशिकैर्हि, बहुधा व्यवस्थाप्य प्रापणीयस्यार्थस्य, संक्षिप्याकृच्छ्रेण व्यवस्थापनात् / सुखं देशयति, अल्पेन महतो ऽर्थविस्तरस्य प्रत्यायनात्, तद्यथा स्थापयति संस्थापयतीत्येवमादि / श्रोतापि सुखमुद्गृह्णाति / धर्मगौरवतया क्षिप्रं संभारान् परिपूरयति, भावगम्यो ऽयं धर्म इत्यवगम्य जातास्थस्य तस्मिन् धर्मे आदरमुखेन श्रद्धादिसंभारपरिपूरणात् / आशु धर्मतां प्रतिविध्यति, तथादरप्रयोगिणः प्रज्ञायाः तैक्ष्णीभावात् / रत्नेष्ववेत्य प्रसादं प्रतिलभते, देशनायाः सुव्यवस्थितभावगमेन दैशिकादिष्वभिप्रसादोत्पादात् / परमदृष्टधर्मसुखविहारं स्पृशति, अभिप्रायार्थ तीव्रेण योगेन चिन्तयित्वा लब्धवतः प्रामोद्यविशेषाधिगमात् / सांकथ्यविनिश्चयेन सतां चित्तमाराधयति, गूढार्थविवरणात्, अत एव पण्डितः पण्डित इति संख्यां गच्छति, यशो ऽस्य समन्तान्निश्चरतीत्यर्थः / उभयं चैतत्पश्चिमसभिसमयैको ऽनुशंसो द्रष्टव्यः //
339 SK नीतार्थ सूत्रं व्याकरणम् तेन विवृत्याभिसंधिव्याकरणात् //
340 SK उदानं यदात्तमनस्केनोदाहृतम् तद्यथा यदा इमे प्रादुर्भवन्ति धर्मा इत्येवमादि //
341 SK निदानं यत्किंचिदेव पुद्गलमुद्दिश्य भाषितं सोत्पत्तिकशिक्षा प्रज्ञप्तिकभाषितं वा, तद्यथास्मिन्निदाने ऽस्मिन् प्रकरण इति विस्तरः //
342 SK अवदानं सदृष्टान्तकं भाषितम्, तेनार्थव्यवदानादभिव्यञ्जनादित्यर्थः //
343 SK वैपुल्यं वैदल्यं वैतुल्यमित्येते महायानस्य पर्यायाः, तदेतत्सप्तविधमहत्त्वयोगान्महत्त्वयानमित्युच्यते / सप्तविधं महत्वम् - आलंबनमहत्त्वं शतसाहस्रिकादिसूत्रापरिमितदेशनाधर्मा लंबनाद्बोधिसत्त्वमार्गस्य / प्रतिपत्तिमहत्त्वं सकलस्वपरार्थप्रतिपत्तेः / ज्ञानमहत्वं पुद्गलधर्मनैरात्म्यज्ञानात् / वीर्यमहत्त्वं त्रिषु महाकल्पासंख्येयेष्वनेकदुष्करशतसहस्रप्रयोगात् / उपायकौशल्यमहत्त्वं संसारनिर्वाणाप्रतिष्ठानात् / प्राप्तिमहत्त्वं वलवैशारद्यावेणिकबुद्धधर्माद्यप्रमेयासंख्येयगुणाधिगमात् / कर्ममहत्त्वं यावत्संसारबोध्यादिसन्दर्शनेन बुद्धकार्यानुष्ठानादिति //
344 SK उपदेशो यत्राविपरीतेन धर्मलक्षणेन सूत्रादीनामर्थनिर्देशः /
345 SK निदानं सोत्पत्तिकशिक्षाप्रज्ञप्तिभाषितसंगृहीतं विनयपिटकम्, अवदानादिकं तस्य परिवारो वेदितव्यः / अद्भुतधर्माणां बोधिसत्त्वसूत्रपिटके संग्रहणम्, तेषां विशेषेणाचिन्त्योदारप्रभावविशेषयोगात् / उपदेश उभयत्र श्रावकयाने महायाने चाभिधर्मपिटकम् //
346 SK सूत्रपिटकव्यवस्थानं विचिकित्सोपक्लेशप्रतिपक्षेण विनेयानामुत्पन्नानुत्पन्नसंशयच्छेदाधिकारेण सूत्रगेयादि देशनात् / विनयपिटकव्यवस्थानमन्तद्वयानुयोगोपक्लेशप्रतिपक्षेण, संनिधिकारपरिभोगादिप्रतिक्षेपात् शतसाहस्रकवस्त्रानुज्ञानाच्च / अन्तद्वयं पुनः कामसुखल्लिकान्त आत्मक्लेमथान्तश्च / अभिधर्मव्यवस्थानं स्वयंदृष्टिपरामर्शोपक्लेशप्रतिपक्षेण, तत्र विस्तरेण धर्मलक्षणस्थापनात् //
347 SK पुनः सूत्रपिटकं निश्रित्य विनेयाः शिक्षात्रये व्युत्पद्यन्ते, तत्र तस्य विस्तरेणोद्भावितत्वात् / विनयं निश्रित्याधिशीलमधिचित्तं शिक्षां निष्पादयन्ति, तत्र प्रातिमोक्षसंवरशिक्षामार्गोपदेशनिश्रयेण शीलपरिशोधनात्तत्परिशुद्धिकृताविप्रतिसाराद्यानुपूर्व्या च चित्तसमाधानात् / अभिधर्मनिश्रित्याधिप्रज्ञं शिक्षां निष्पादयन्ति, तत्र विस्तरेण धर्मप्रविचयोपायोपदेशादिति अतो ऽपि पिटकत्रयव्यवस्थानम् //
348 SK पुनः सूत्रपिटकं निश्रित्य ग्रन्थार्थव्युत्पत्तिः / विनयं निश्रित्य तदुभयसाक्षात्क्रिया, शिक्षाप्रतिपत्तिप्रभावि[त]त्वाद्विनयस्य / ततो धर्मार्थयोः साक्षात्क्रियायाः पदस्थानमित्युच्यते आश्रयार्थेन / अभिधर्मं निश्रित्य परस्परं सांकथ्यविनिश्चयकृतेन धर्मसंभोगेन स्पर्शविहारो भवति, तत्र बहुप्रकारं धर्माणां स्वलक्षणादिधर्मताया व्युत्पादनात् //
349 SK एतान्येव त्रीणि पिटकानि चतुरशीतिधर्मस्कन्धसहस्राणि भवन्ति, श्रावकयानाधिकारेण यानि स्थविरानन्देनोद्गृहीतानि // किं पुनरेकस्य धर्मस्कन्ध[स्य] परिमाणम् / दशशतसंख्यो धर्मस्कन्धः सहस्रसंख्य इत्यर्थः / यद्येवं सहस्रसंख्य इत्येवं कि नोच्यते / साहस्रिकैकस्कन्धव्यवस्थाने प्रयोजनज्ञापनार्थम् / तथाह्येकादिवृद्धया दशसंख्या शतसंख्या सहस्रादिसंख्याः / तद्दशशतसंख्या उपनिषदो द्रष्टव्याः / तद्यथा दश शतानि सहस्रम्, शतं सहस्राणां शतसहस्रम्, शतं शतसहस्राणां कोटिरित्येवं सर्वासूत्तरासु संख्यास्ववश्यमनयोः दशशतसंख्ययोरन्यतरोपनिषद्भवति / अत एते एव समस्य दशशतान्येको धर्मस्कन्धो व्यवस्थाप्यते / अनया च गणनया चतुरशीतिधर्मस्कन्धसहस्राण्यष्टौ कोट्यः चत्वारिशच्च लक्षा भवन्ति //
350 SK स एष पिटकत्रयसंगृहीतो धर्मः कस्य गोचरः / श्रुतमयादीनां चित्तचैतसिकानां गोचर आलंबनमित्यर्थः /
351 SK एतत्प्रसंगेन सालंबनादिलक्षणानां चित्तचैतसिकानां धर्ममारभ्यालंबनादिकं व्यवस्थाप्यते / तत्र धर्मे तेषां किमालंबनम् / सूत्रादि नामपदव्यञ्जनकायसंगृहीता (Aभिध्-स्-भ् ९८) सूत्रादिदेशनेत्यर्थः / आकारः, यान् स्कन्धादीनर्थ प्रकारानारभ्य सा देशना, तदाकारास्ते चित्तचैतसिका वेदितव्याः / आश्रयः परविज्ञप्तिस्मृतिर्वासना च / तत्र देशनाकाले परविज्ञप्तिराश्रयो यो ऽसावुच्यते परतो घोषत इति तत उत्तरकालं स्मृतिराश्रयो यथाश्रुतमनुस्मृत्याभ्यसनात् / तत उत्तरकालं वासनाश्रयस्तदनुस्मृतिमन्तरेणापि पश्चादभ्यासभावनाबलेन प्रतिभासनादिति / संप्रयोगः चित्तचैतसिकानामन्योन्यसहायभावेन सूत्राद्यालंबने स्कन्धादिप्रतिसंयुक्तार्थाकारैः संप्रतिपत्तिः //
352 SK qहर्मे आलंबन प्रभेदो व्याप्यालंबनादिकश्चतुर्विधः /
353 SK व्याप्यालंबनं पुनः सविकल्पप्रतिबिम्बादिभेदेन चतुर्बिधम् / तत्र अधिमुक्तिमनस्कार एकान्तलौकिको यो मनस्कारः / तत्त्वमनस्कारो लोकोत्तरस्तत्पृष्ठलब्धश्च / यावद्भाविकतया धर्माणामेतावन्ति सर्वधर्मवस्तुनि यज्ज्ञेयव्यवस्थानम् तद्यथा स्कन्धधात्वायतनानि / यथावद्भाविकतया एभिः प्रकारैः सुज्ञेयमिति / तद्यथा सत्यमुखेन तान्येव स्कन्धधात्वायतनानि यथासंभवं दुःखतोज्ञेयानि यावन्मार्गतः / आकारमुखेनैकैकं सत्यं चतुर्भिराकारैर्ज्ञेयम्, अविशेषतश्च सर्वाणि तथताकारेण / धर्मोद्दानाधिकारेण वानित्यतः सर्वसंस्कारा ज्ञेया यावच्छान्ततो निर्वाणम् / विमोक्षाधिकारेण वा शून्यतो यावदनिमित्त[त] इति // कार्यपरिनिष्पत्तिराश्रयपरिनिष्पत्तिः, परिनिवृत्ताश्रयस्याविपरीतालंबनसंप्रख्यानात् / यथावद्भाविकताया निर्दशे षोडशप्रकारा उक्तास्त्रयश्च विमोक्षाकाराः तेषां चान्योन्यसंग्रहः / कथ कृत्वा / षोडशानामाकाराणां द्वौ शून्यताकारौ - शून्याकारानात्माकारश्च / षडप्रणिहिताकाराः - अनित्याकारा दुःखाकारो हेतुसमुदयप्रभवप्रत्ययाकाराश्च, तैस्त्रैधातुके ऽप्रणिधानात् / अष्टाविनिमित्ताकाराः शेषाः निरोधमार्गयोर्निमित्तीकर्तुमशक्यत्वात् //
354 SK चरितविशोधनमालंबनं रागचरितादीनामशुभादि, तेनोत्सदरागाद्युपशमनात् //
355 SK अविद्यादयो धर्माः संस्कारादीन्धर्मानभिष्यन्दयन्ति, न ह्येषां निर्हेतुक उत्पादो नापीश्वरादिविषमहेतुक इति यज्ज्ञानमिदं प्रतीत्यसमुत्पादकौशल्यम् / (Aभिध्-स्-भ् ९९) धर्ममात्रहेतुकत्वे ऽपि सत्यनुरूपाद्धेतोरनुरूपस्यैव फलस्योत्पत्तिः, तद्यथा सुचरितस्येष्टो विपाको दुश्चरितस्यानिष्ट इत्येवमादि यज्ज्ञानमिदं स्थानास्थानकौशल्यं वेदितव्यम् //
356 SK क्लेशविशोधनमालंबनं लौकिकमार्गाधिकारेणाधऊर्ध्वभूमीनामौदारिकशान्तता, तेन पर्यवस्थानविष्कम्भणात् / लोकोत्तरमार्गाधिकारेण समासतस्तथता, व्यासेन चत्वार्यार्यसत्यानि, तेनानुशयसमुद्घातात् //
357 SK सूत्रादिधर्मविचाराणां संब्नधेन चतस्रो युक्तयो वर्ण्यन्ते, ताभिस्तद्विचारणात् // तत्र अपेक्षायुक्तिर्या संस्काराणामुत्पत्तौ प्रत्ययापेक्षा, तद्यथाङ्कुरस्योत्पत्तौ बीजोदकक्षेत्राण्यपेक्ष्यन्ते, विज्ञानस्येन्द्रियार्थमनस्कारा इत्येवमादि / कार्यकारणयुक्तिस्तद्यथा चक्षुरादीनां चक्षुर्विज्ञानाद्याश्रयभावः रूपादीनामालंबनभावः, चक्षुर्विज्ञानादीनां रूपादिप्रतिविज्ञापनम्, सुवर्णकारादीनां च शिल्पिनां सुवर्णादिघटनमित्येवमादि / उपपत्तिसाधनयुक्तिस्वभावविशेषसंगृहीतस्य साध्यस्यार्थस्य प्रत्यक्षादिप्रमाणाविरुद्धः प्रतिज्ञाद्युपदेशः / धर्मतायुक्तिस्तद्यथाग्निना दाहः, उदकेन क्लेद इत्येवमादिका प्रसिद्धा धर्माणां धर्मता / यथोक्तं चक्षुः समृद्धं शून्यं नित्येन यावदात्मीयेन / तत्कस्य हेतोः / प्रकृतिरस्यैषेति //
358 SK नामपर्येषणा नामकायादीनां प्रज्ञप्तिसत्त्वादपरिनिष्पन्नमेषां स्वलक्षणमिति या विचारणा / वस्तुपर्येषणा स्कन्धादीनां तथापरिनिष्पत्तिर्यथा नामकायादिभिरभिलप्यन्त इति या संतीरणा परीक्षणेत्यर्थः / स्वभावप्रज्ञप्तिपर्येषणा याभिधानाभिधेयसंबन्धे स्वभावप्रज्ञप्तिमात्रस्य व्यवहारनिमित्तत्वेन संतीरणा / अभिधानाभिधेयसंबन्धः / पुनरन्योन्यसंप्रत्ययनिमित्तत्वम् / तथाहि व्युत्पन्नव्यवहारस्याभिधानमात्रं श्रुत्वा तदभिधेये संप्रत्यय उत्पद्यते स्मृतिमुखेन, अभिधेयं वा पुनरुपलभ्य तदभिधाने / इत्येवंविधे संबन्धे प्रसिद्धे चक्षुरित्येवमादिस्वलक्षणप्रज्ञप्तिमात्रं तदाख्यामासपिण्डादिव्यवहारस्य निमित्तं भवतीति या परीक्षेयमुच्यते स्वभावप्रज्ञप्तिपर्येषणा / विशेषप्रज्ञप्तिपर्येषणा या तथैवाभिधानाभिधेयसंबन्धे (Aभिध्-स्-भ् १००) नित्यानित्योत्तरानुत्तररूप्यसनिदर्शनानिदर्शनतादिविशेषलक्षणप्रज्ञप्तिमात्रस्य व्यवहारनिमित्तता संतीरणा //
359 SK चत्वारि यथाभूतपरिज्ञानानि यथापर्येषितानि नामाद्यनुपलब्धिज्ञानानि //
360 SK समाधिप्रयुक्तस्य योगभूमिः पञ्चाकाराधारादिः / तत्र आधारो यादृशं बाहुश्रुत्यं शमथविपश्यनयोः प्रतिष्ठा भवत्यालंबनयोगेन तदाधार इत्युच्यते / तत्पुनः संभृतसंभारस्य सत्याभिसमयमधिकृत्योद्गृहीतं यत्सूत्रादिकं श्रुतम् / आधानं तदालंबनो योनिशोमनस्कारः, तेन तस्मिन् बाहुश्रुत्ये ऽविपरीतार्थचित्ताकारेण चित्ताकरणात् / आदर्शस्तद्बाहुश्रुत्यालंबनः सहनिमित्तेन समाधिः, ज्ञेयवस्तुसभागप्रतिबिम्बाकार इत्यर्थः / आदर्शत्वं पुनरस्य तेन ज्ञेयबिम्बपरीक्षणाद्वेदितव्यम् / आलोको ग्राह्यग्राहकानुपलब्धिज्ञानं दर्शनमार्गसंगृहीतं प्रत्यक्षवृत्तित्वादिति / कथं च पुनः बोधिसत्त्व एकस्यां यौगभूमौ प्रयुक्तो नोपलम्भं स्पृशति संभृतपुण्यज्ञान संभारो बोधिसत्त्वः कल्पासंख्येयनिर्यातस्तथाप्रतिवेधानुकूलं श्रुतं योनिशोमनसिकुर्वन् समाधिं निष्पादयति / स एवं समाहिते चित्ते यज्ज्ञेयप्रतिबिम्बं, निश्रित्य ध्यायति तत्तस्मात्समाहिताच्चित्तादनन्यदिति संपश्यंस्तस्मिन् प्रतिबिम्बे विषयसंज्ञां व्यावर्त्य तदाकारं स्वसंज्ञामात्रमवधारयति / तदा चासौ स्वचित्तमात्रावस्थानादध्यात्म स्थितचित्तो भवन् सर्वथा ग्राह्यभावं प्रतिवेदयते / ततश्च ग्राह्याभावाद्ग्राहकमपि न परिनिष्पन्नमिति तस्याप्यभावं परिवेदयते / ततः प्रत्यात्मं तदुभयस्वभावोपलम्भापगतमनुपलम्भमधिगच्छति / एतदेव चाधिकृत्योक्तं भगवता प्रतिबिम्बं मनः पश्यन्निति विस्तरः / आश्रयः आश्रयपरिवृत्तिः, दौष्ठुल्यापगमात्परिशुद्ध आश्रय इत्यर्थः / सा चेयं योगभूमिर्हेतुतः फलतश्च निर्दिष्टा वेदितव्या / तत्राधारादिभिश्चतुर्भिर्हेतुनिर्देशः पश्चिमेनैकेन फलनिर्देश इति //
361 SK यदुक्तं स्थविरानन्देन - पञ्चभिरायुष्मञ्छारिपुत्रधर्मैः समन्वागतो भिक्षुर्लघु च गृह्णातीत्यत्र सूत्रे तैरेव पञ्चभिर्धर्मैर्लघुग्रहणादीनि चत्वारि यथायोगं वेदितव्यानि / चत्वारि कथं कृत्वा / धर्मकुशलो लघु गृह्णाति बाहुश्रुत्यात्प्रायेण भिन्नपदव्यञ्जनतया / अर्थकुशलो बहु गृह्णाति, अभिधर्मादिलक्षणज्ञत्वात्, स्कन्धधात्वादिकथावस्त्वधिकारेण प्रभूतग्रन्थसंकलनतः / व्यञ्जनकुशलो निरुक्तिकुलश्च सूद्गृहीतं गृह्णाति, सुनिरुक्तव्यञ्जनज्ञत्वादात्मात्मेति जनपदनिरुक्तिमनभिनिविश्यानुव्यवहारज्ञत्वाच्च ग्रन्थार्थयोरविपरोतग्रहणतः / पूर्वान्तापरान्तानुसंधिकुशल उद्गृहीतं न नाशयति, पूर्वमुद्गहीतान्धर्मान्निश्रित्य पश्चान्निःसर्तव्यमिति बुद्धाभिसंधिज्ञत्वादधिगमेन तत्सारादानतः //
362 SK धर्मविहारी भिक्षुर्धर्मविहारि भिक्षुरिति भदन्तोच्यत इत्यत्र सूत्रे भगवता समस्तेन श्रुतचिन्ताभावनाविहारेण धर्मविहारो भवति, नान्यतरप्रयोगमात्रेणेति संदर्शितम् / तत्र पर्याप्तिस्वाध्यायदेशनाबहुला वितर्कणा बहुलाश्चेत्यनेन केवलं श्रुतचिन्ताप्रयुक्ता न भावनाप्रयुक्ता योगादिरिञ्चनादतो [न] धर्मविहारिणो व्यवस्थाप्यन्ते / यो ऽपि कश्चिच्छ्रुतचिन्तामनागम्य केवलं भावनाप्रयुक्तः स्यात्सो ऽपि न धर्मविहारी व्यवस्थाप्यते / तत एव तावद्धर्मविहारिणं भिक्षुमारभ्य इह तु भिक्षुर्द्धर्मं पर्याप्नोति सूत्रं गेयमिति विस्तरेणोक्त्वा पश्चादाह न रिञ्चति योगमित्येवमादि, यथा विज्ञायेत श्रुतं चिन्तां भावनां चागम्य तदुभयविहारेण धर्मविहारीति / न रिञ्चति योगमित्येवमादिना समाधिप्रयोगासंतुष्टिभ्यां भावनामयं संदर्शितम् / समाधिप्रयोगः (Aभिध्-स्-भ् १०२) पुनर्द्विविधः संदर्शितः सातत्यसत्कृत्यप्रयोगसंगृहीतश्च न रिञ्चति योगमित्यनेन, अविपरीत[प्र]योगसंगृहीतश्च न रिञ्चति मनस्कारमित्यनेन / असंतुष्टिर्न रिञ्चत्यध्यात्मचेतः शमथमित्यनेन संदर्शिता, तदनास्वादनादुत्तरशमथप्रयोगाच्चास्यारिञ्चनं वेदितव्यम् //
363 SK केन कारणेन वैपुल्यं सूत्रान्तरे बोधिसत्त्वपारमितापिटकमित्युच्यते / तत्र पारमितानां संख्यानिर्देशाद्यावदन्योन्यविनिश्चयनाच्च //
364 SK तत्र संख्या द्विविधा, गणनासंख्या तन्मात्रसंख्या च / षट्पारमिता इति गणनासंख्या / सर्वाकारयोर्वोधिसत्त्वाभ्युदयनिःश्रेयसमार्गयोस्तिसृभिस्तिसृभिश्च संग्रहात् षडेवपारमिता न भूयस्यो नाल्पोयस्य इतीयं तन्मात्रसंख्या //
365 SK त्रिविधो ऽभ्युदयो महाभोगता महात्मता महापक्षता च / तत्र दानपारमिताया महाभोगता फलम् / शीलपारमिताया महात्मता फलम्, शीलेन सुगतात्मभावसंपत्तिप्रतिलम्भात् / क्षान्तिपारमिताया महापक्षता फलम्, क्षान्त्या सर्वजनाभिगमनोयताप्रतिलम्भादिति //
366 SK त्रिविधो निःश्रेयसमार्गः - क्लेशमभिभूय कुशलपक्षप्रयोगोपायः, सत्त्वपरिपाचनोपायः, बुद्धधर्मसमुदानयनोपायश्च, एषामन्यतरेणापि विना बोधिसत्त्वस्य निःश्रेयसानुपपत्तेः / तत्र सत्त्वपरिपाचनोपायो ध्यानपारमिता, तत्संनिश्रयेणाभिज्ञाभिः सत्त्वपरिपाचनात् //
367 SK पुनरप्रतिष्ठितनिर्वाणोपायतः षडेव पारमिताः / बोधिसत्त्वेन हि निर्वाणप्रतिष्ठाविपर्ययेण संसारे ऽभ्युदयः परिग्रहीतव्यः / संसारप्रतिष्ठाविपर्ययेण तस्मिन्नसंक्लेष्टव्यम् / अतस्तिस्रो ऽभ्युदयलाभोपायास्तिस्रस्तदसंक्लेशोपाया यथायोगं पूर्वानुसारेणैव वेदितव्याः / असंक्लेशोपाये तु वीर्येण प्रतिपक्षभावना, ध्यानेन क्लेशविष्कम्भणम्, प्रज्ञया क्लेशानुशयसमुद्घात इति //
368 SK सर्वानुग्रहतां क्लेशप्रतिपक्षतां चोपा[दा]येत्यपरः पर्यायः / तत्र दानेन बोधिसत्त्वः सत्त्वानुपकरणोपसंहारानुग्रहेणानुगृह्णाति / शीलेन विघातोत्पीडाविहेठाकरणेनानुगृह्णाति, यथाक्रमं भोगकायचित्तोपघातानुपसंहारात् / क्षान्त्या विघातोत्पीडाविहेठामर्षणेनानुगृह्णाति, परेभ्य आत्मनो भोगाद्युपघातसहनात् / आभिस्तिसृभिरनुगृह्णाति // वीर्येणाविष्कम्भितक्लेशो ऽपि कुशलपक्षे (Aभिध्-स्-भ् १०३) प्रयुज्यते / ध्यानेन क्लेशं विष्कम्भयति / प्रज्ञयानुशयं समुद्घातयति / इमास्तिस्रः क्लेशप्रतिपक्षा वेदितव्या //
369 SK तत्र पारमितालक्षणम् / बोधिसत्त्वस्य दानपारमिता कतमा / यद्बोधिसत्त्वस्य बोधिसत्त्वधर्मतायां व्यवस्थितस्य बोधिचित्तं निश्रित्य करुणापुरःसरेण चेतसा सर्वास्तिपरित्यागे कायवाङ्मनस्कर्म / एवं च कृत्वा दानपारमितायाः लक्षणं गोत्रतः प्रणिधानत आशयतो वस्तुतः स्वभावतश्च निर्दिष्टं वेदितव्यम् / तद्यथा बोधिसत्त्वधर्मता गोत्रम्, बोधिचित्तं प्रणिधानम्, करुणापुरःसरं चेत आशयः, सर्वास्तिपरित्यागो वस्तु, कायवाङ्मनस्कर्मस्वभाव इत्येवं यावत् प्रज्ञापारमिता विस्तरेण वेदितव्याः / अयं तु विशेषः / शीलक्षान्तिवीर्यपारमितासु यथाक्रमं सर्वसंवरसमादानानुरक्षायां सर्वापकारदुःखमर्षणाधिवासनायां सर्वकुशलधर्मसमुदानयनतायां यत्कायवाङ्मनस्कर्मेति वेदितव्यम् / ध्यानपारमितायां सर्वाकारकायवाङ्मनस्कर्मविभुत्वे सर्वाकारा चेतसः स्थितिरिति / प्रज्ञापारमिता[यां] सर्वाकारकायवाङ्मनस्कर्मविभुत्वे यः सर्वाकारो धर्मप्रविचय इति वक्तव्यम् / शेषं दानवदेव सर्वं वेदितव्यम् //
370 SK पुनर्यद्दानं सर्वज्ञतामारभ्य सर्वज्ञतायै संवर्तते सर्वज्ञतां परिगृह्णाति सर्वज्ञताकृत्यं च करोति तद्दानपारिमितेत्युच्यते / एतानि पुनश्चत्वारि पदानि यथाक्रममारम्भतो वासनातः कायतो निस्यन्दतश्च वेदितव्यानि / तत्रारम्भतः सर्वज्ञतामारभ्योत्पन्नोत्पन्नस्य तत्र परिणामनात् / तदेव पुनर्दानं संतति वासयते, यत आयत्यां सर्वज्ञतायै संवर्तते / तदेव यदा परिपूर्णं भवति तदा धर्मकायपरिनिष्पादनयोगेन सर्वज्ञतां परिगृह्णाति / तत उत्तरकालं सांभोगिकर्नर्माणिककायनिस्यन्दमुखेन सर्वज्ञताकृत्यं करोति / एवं यावत्प्रज्ञापारमिता वेदितव्याः //
371 SK अनुक्रमः / उत्तरोत्तरसंनिश्रयतामुपादाय दानपारमितयाध्यात्मिकबाह्यसर्ववस्तुपरित्यागाभ्यासात्कायजीवितनिरपेक्षो बोधिसत्त्वो महान्तमपि भोगस्कन्धं प्रहाय शीलसमादानं करोति / शीलानुरक्षी - आक्रुष्टेन मया न प्रत्याक्रोष्टव्यम् - इत्येवमादिभिः प्रकारैः क्षमो भवति / क्षमः शीतादीनाम्, तन्निदानं प्रयोगास्रसनादारब्धवीर्या भवति / (Aभिध्-स्-भ् १०४) आरब्धवीर्यः प्रयोगनिष्ठाफलाधिगमादध्यानं संपादयति / संपन्नध्यानश्च समाहितचित्तो यथाभूतज्ञानाल्लोकोत्तरां प्रज्ञां प्रतिलभत इति //
372 SK पुनरुत्तरोत्तराधारतः, शीलं दानस्याधार एवं यावत्प्रज्ञा ध्यानस्य / तथाहि शीलवतो दानं विशुद्धं भवति, दानेनानुगृहीतस्य शीलेन पघाताकरणतः / एवमस्य प्रतिग्राहकस्य बोधिसत्त्वेन विहेठाविरहितोपकरणसुखोपसंहाराच्छीलबलेन दानपारमिता विशुद्धिर्वेदितव्या / एवं क्षमिणः शीलविशुद्धिः, परापकारैः शिक्षापदाखण्डनात् / आरब्धवीर्यस्य क्षान्तिविशुद्धिः, उत्साहबलेनोत्पत्य संसारमभ्युपगतवतो ऽकृच्छ्रेण सत्त्वविप्रतिपत्तिदुःखस[ह]नात् / ध्यायिनी वीर्यविशुद्धिः, सह सुखेन सौमनस्येन सर्वकुशलधर्मप्रयोगात् / प्रज्ञावतो ध्यानविशुद्धिः, बहुप्रकारान्धर्मान्विपश्यत्यध्यात्मं शमथतः समाध्यभिवृद्धेः, नास्ति ध्यानमप्रज्ञस्येति गाथायां वचनादिति //
373 SK यथौदारिकश्चापरो ऽनुक्रमो वेदितव्यः / सर्वौदारिकं हि दानमतः प्रथमतो व्यवस्थाप्यते / तदनन्तरं क्षान्त्यादिभ्यः शीलमौदारिकमेवं यावत्प्रज्ञाया ध्यानमौदारिकम् / सर्वसूक्ष्मा तु प्रज्ञा, अतः सर्वपश्चाद्व्यवस्थाप्यत इति //
374 SK निर्वचनम् / केन कारणेन दानं दानपारमितेत्युच्यते / महद्दानं निर्दोषं निर्मलं दानपारमितेत्युच्यते / तत्र महद्दानं सर्वप्रकाराध्यात्मिकबाह्यवस्तु दानतो दीर्घकालदानतश्च / निर्दोषं विषमपर्येष्टयादिविवर्जितत्वात् निर्मलं मात्सर्यविपक्षप्रहाणात् / यथोक्तं दानपारमितामारभ्यार्याक्षयमतिनिर्देशसूत्रे निर्मलं सवासनविपक्षप्रहाणात् / तदनया त्रिविधया परमतया दानपारमितेत्यभिद्योतितं भवति / त्रिविधा परमता - स्वभावपरमता सहपरिचयेन, उपायपरमता, फलपरमता च / परिचयः पुनर्दीर्घकालदानतो वेदितव्यः / एवं यावत्प्रज्ञापारमिता वेदितव्या / शीलादीनां पुनर्निर्दोषत्वमा त्मसमारोपवर्जितत्वादिभिर्यथायोगम्, तदक्षयमतिसूत्रेषु द्रष्टव्यम् //
375 SK पुनर्द्वादशविधेन परमत्वेन योगात्पारमितेत्युच्यते / द्वादशविधं पुनः परमत्वम् - औदार्यपरमत्वं सर्वलोकसम्पत्त्यनर्थित्वादुत्कृ[ष्ट]त्वाच्च / आयतत्वपरमत्वं त्रिकल्पासंख्येयपरिभावनात् / अधिकारपरमत्वं सर्वसत्त्वार्थक्रियाधिकारप्रवृत्तत्वात् / अक्षयत्वपरमत्वं महाबोधिपरिणामनयात्यन्तमपर्यादानात् / नैरन्तर्यपरमत्वमात्मपरसमताधिमोक्षात्सर्वसत्त्वदानादिभिः (Aभिध्-स्-भ् १०५) पारमितापरिपूरणात् / अकृच्छ्रत्वपरमत्वमनुमोदनामात्रेण परदानादीनां पारमितापरिपूरणात् / विभुत्वपरमत्वं गगनगञ्जसमाध्यादिभिर्दानादिपरिपूरणात् / परिग्रहपरमत्वं निर्विकल्पज्ञातपरिगृहीतत्वात् / आरम्भपरमत्वमधिमुक्तिचर्याभूमावधिमात्रायां क्षान्तौ / प्रतिलम्भपरमत्वं प्रथमायां भूमौ / निस्यन्दपरमत्वं तदन्यास्वष्टासु / निष्पत्तिपरमत्वं दशम्यां भूमौ ताथागत्यां च बोधिसत्त्वपरिनिष्पत्त्या बुद्धपरिनिष्पत्त्या चेति //
376 SK पुनः परमैरीहिता इताश्चेति पारमिताः, बुद्धबोधिसत्त्वैश्चेष्टिता गताश्चेत्यर्थः //
377 SK पुनर्ज्ञेयपारंगताः पारमिताः, बुद्धत्वे प्रतिष्ठिता इत्यर्थः /
378 SK पुनः परानात्मानं च परमामीति तारयन्तोति पारमिताः, परानात्मानं च दुःखार्णवमतिक्रामन्तीत्यर्थः // इदं तावत्साधारणं निर्वचनम् //
379 SK प्रत्येकं पुनर्दायकदारिद्रयापनयताद्दानम्, दाहापनयनाद्वा प्रतिग्राहकानाम् // शान्तेन्द्रियालम्भनाच्छुभगतिलीयनाच्छैत्यालयाच्च शीलं यथाक्रममिन्द्रियेषु गुप्तद्वारतावाहनात् सुगतिगमनहेतुभावनादविप्रतिसाराद्यानुपूर्व्या यावन्निर्वाणाश्रयत्वादिति / क्रोधक्षारतिरस्करणात् क्षतिचित्तागतितिरस्करणात् क्षेमाविष्करणाच्च क्षतिनां क्षान्तिः / क्षतिचित्तं पुनर्येनाप कारिणां प्रत्यपकारः क्रियते तस्यागतस्यानया विलोपनं तिरस्करणं वेदितव्यम् / क्षतमेषां वैरं विद्यत इति क्षतिनस्तेषामभयप्रकाशनं क्षेमस्याविष्करणं वेदितव्यम् / वधवृद्धोहायोगाद्वोर्यम् / तत्र वधायेहाकुशलधर्मविगमाय द्वाभ्यां सम्यक्प्रहाणाभ्याम्, वृद्धये ईहा कुशलधर्मसमुदागमाय द्वाभ्यां सम्यक्प्रहाणाभ्यां च / धारणयमनसंयमनविनयननयनाद्ध्यानम् / तत्र धारणामालंबने चित्तस्य, यमनं विक्षेपतः, संयमनं चित्तस्य, विनयनं पर्यवस्थानानां विष्कम्भणम्, नयनं विभुत्वस्य प्रापणं वेदितव्यम् / परप्रणीतज्ञानात् (Aभिध्-स्-भ् १०६) प्रत्यात्मज्ञानात् प्रकारज्ञानात् शमप्राप्तिगुणप्रकर्षज्ञानाच्च प्रज्ञा / तत्र परप्रणीतज्ञानं परतो घोषान्वया योनिशोमनस्कारसंप्रयुक्ता प्रज्ञा, प्रत्यात्मज्ञानं लोकोत्तरा, प्रकारज्ञानं लोकोत्तरपृष्ठलब्धा, शमप्राप्तये ज्ञानं भावनामार्गे क्लेशप्रतिपक्षभूता, गुणप्रकर्षाय ज्ञानं वैशेषिकगुणाभिनिर्हाराय प्रज्ञा वेदितव्या //
380 SK भावना पञ्चविधा, उपधिसंनिश्रिता यावद्विभुत्वसंनिश्रिता //
381 SK तत्रोपधिसंनिश्रिता चतुराकारा / हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः विपाकसंनिश्रिता य आत्मभावसंपत्तिबलेन / प्राणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन / प्रतिसंख्यानबलसंनिश्रिता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः //
382 SK मनस्कारसंनिश्रिता पारमिताभावना चतुराकारा / अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्त सूत्रान्तमधिमुच्यमानस्य / आस्वादनामनस्कारेण लब्धाः पारमिताः, आस्वादयतो गुणदर्शनयोगेन / अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्त्वानां दानादिकमनुमोदमानस्य / अभिनन्दनामनस्कारेणात्मनः सत्त्वानां चानागतं पारमिताविशेषमभिनन्दमानस्य //
383 SK आशयसंनिश्रिता पारमिताभावना षडाकारा - अतृप्ताशयेन वैपुल्याशयेन मुदिताशयेनोपकराशयेन निर्लेपाशयेन कल्याणाशयेन च / तत्र बोधिसत्त्वस्य दाने ऽतृप्ताशयो यद्बोधिसत्त्वस्यैकक्षणे गङ्गानदीवालिकासमान्लोकधातून् सप्तरत्नपरिपूर्णान् प्रतिपादयतो गङ्गानदीवालिकासमांश्चात्मभावनेवं प्रतिक्षणं गङ्गानदीवालिकासमान् कल्पान् प्रतिपादयतः / यथा चैकसत्त्वस्यैवं यावान् सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचितव्यः / तमनेन पर्यायेण प्रतिपादयेदतृप्त एव बोधिसत्त्वस्य दानाशय इति / य एवंरूपं आशयो ऽयं बोधिसत्त्वस्य दाने ऽतृप्ताशयः / न च बोधिसत्त्व एवंरूपां दानपरंपरां क्षणमात्रमपि हापयति विच्छिनत्त्याबोधिमण्डनिषदनादिति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने विपुलाशयः / मुदिततरश्च बोधिसत्त्वो (Aभिध्-स्-भ् १०७) भवति तान्सत्त्वांस्तथा दानेनानुगृह्णन्, न च ते सत्त्वास्तेन दानेनानुगृह्यमाणा इति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने मुदिताशयः / उपकरतरांश्च बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति येषां तथा दानेनोपकरोति नात्मानम्, तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुषा[दा]य इति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने उपकराशयः / न च बोधिसत्त्वः सत्त्वेषु तथा विपुलमपि दानमयं पुण्यमभिसंस्कृत्य प्रतिकारेण वार्थी भवति विपाकेन वेति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां निर्लेपाशयः / यद्बोधिसत्त्वस्तथा विपुलस्यापि दानस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः, सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां कल्याणाशयः /
384 SK तत्र बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः, यद्बोधिसत्त्वो गङ्गानदीवालिकासमेष्वात्मभावेषु गङ्गानदीवालिकासमकल्पायुःप्रमाणेषु सर्वोपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रे लोकधातावाग्निपरिपूर्णे चतुर्विधमीर्यापथं कल्पयन्नेकं शीलपारमिताक्षणं यावत्प्रज्ञापारमिताक्षणं भावयेत्, एतेन पर्यायेण यावच्छीलस्कन्धो यावत्प्रज्ञास्कन्धो येनानुत्तरां सम्यक्संबोधिमभिसंबुध्यते, शीलस्कन्धं यावत्प्रज्ञास्कन्धं भावयेत्, अतृप्त एवं बोधिसत्त्वस्य शीलपारमिताभावनायामाशयो यावत्प्रज्ञापारमिताभावना[या]माशय इति / य एवंरूप आशयो ऽयं बोधिसत्त्व[स्य] शीलपारमिताभावनायामतृप्ताशयो यावत्प्रज्ञापारमितायां भावनायाम् / यद्बोधिसत्त्वस्तां शीलपारमिताभावनापरंपरां यावत्प्रज्ञापारमिताभावनापरंपरमा बोधिमण्डनिषदनान्न भ्रंशयति न विच्छिनत्तीति / य एवंरूप आशायो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां विपुलाशयः / मुदिततरश्च बोधिसत्त्वो भवति तया शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया सत्त्वाननुगृह्णन्, न त्वेव ते सत्त्वा अनुगृह्यमाणा इति / य एवंरूपआशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां मुदिताशयः / उपकरतरांश्च स बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति येषां तथा शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया उपकराति नात्मानम्, तेषामनुत्तरां सम्यक्संबोध्युपस्तम्भतासु पादायेति / य एवरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामुपकराशयः / न च बोधिसत्त्वस्तथा विपुलमपि शीलपारमितामयं यावत्प्रज्ञापारमितामयं पुण्यमभिसंस्कृत्य तस्य प्रतिकारेण (Aभिध्-स्-भ् १०८) वार्थी भवति विपाकेन वेति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमितायां यावत्प्रज्ञापारमितायां निर्लेपाशयः / तत्र यद्बोधिसत्त्व एवं शीलपारमिताभावनामयस्य यावत्प्रज्ञापारमिताभावनामयस्य पुण्यस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः, सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीति / य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमितायां भावनायां यावत्प्रज्ञापारमिताभावनायां कल्याणाशयः //
385 SK उपायसंनिश्रिता पारमिताभावना त्रयाकारा निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणतामुपादाय / तथाहि स [उ]पायः सर्वमनस्काराणामभिनिष्पत्तये //
386 SK विभुत्वसंनिश्रिता पारमिताभावना त्रयाकारा कायविभुत्वतः, चर्याविभुत्वतः देशनाविभुत्वश्च / तत्र कायविभुत्वं ताथागतौ द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश्च / तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यो येन सर्वाकारां सर्वसत्त्वानां सहधार्मिकचर्यां दर्शयति / देशना विभुत्वं षट्पारमितासर्वाकारदेशनायामव्याघाततः //
387 SK प्रभेदतो ऽष्टादशभिरुपस्तम्भैः षण्णां पारमितानां प्रभेदो वेदितव्यः / अष्टादशोपस्तम्भाः - कायोपस्तम्भः, चित्तोपस्तम्भः, कुशलोपस्तम्भः, सुगत्युपस्तम्भः, बोध्युपस्तम्भः, करुणोपस्तम्भः, सत्त्वापरित्यागोपस्तम्भः, हीनचित्तपरित्यागोपस्तम्भः / अनुत्पत्तिकधर्मक्षान्त्युपस्तम्भः कुशलमूलप्रयोगोपस्तम्भः, कुशलमूलसमुदागमोपस्तम्भः, कुशलमूलाक्षयतोपस्तम्भः, अपरिखेदोपस्तम्भः, सर्वचिन्तितार्थसमृद्धयुपस्तम्भः, गणपरिकर्षणोपस्तम्भः, भूमिप्रवेशोपस्तम्भः, बुद्धधर्मसमुदानयनोपस्तम्भः, बुद्धकृत्यानुष्ठानोपस्तम्भश्च //
388 SK प्रत्येकं दानादीनां त्रैविघ्यात् त्रिभिस्त्रिभिरुपस्तम्भैर्यथाक्रमं संग्रहो वेदितव्यः / तत्र त्रिविधं दानम् - अभयदानं धर्मदानमामिषदानं च / त्रिविधं शीलम् - संवरशीलं कुशलधर्मसंग्राहकं शीलं सत्त्वार्थक्रियाशीलं च / त्रिविधा (Aभिध्-स्-भ् १०९) क्षान्तिः - अपकारमर्षणक्षान्तिर्दुःखाधिवासनाक्षान्तिर्धर्मनिध्यानक्षान्तिश्च / त्रिविधं वीर्यम् - संनाहवीर्यं प्रयोगवीर्यं सत्त्वार्थक्रियावीर्यं च / त्रिविधं ध्यानम् - दृष्टधर्मसुखाविहाराय ध्यानमभिज्ञानिर्हाराय ध्यानं सत्त्वार्थक्रियायै च ध्यानम् / त्रिविधा प्रज्ञा - संवृत्यालंबना परमार्थालंबना सत्त्वार्थालम्बना च //
389 SK तत्रामिषदानं कायोपस्तम्भः, अन्नपानाद्युपकरणैः प्रतिग्राहकाश्रयानुग्रहणात् / अभयदानं चित्तोपस्तम्भः दौर्मनस्यविशेषा[प]गमाय चेतस आश्वासाय संहारात् / इत्येवमन्यदपि योज्यम् //
390 SK हीनचित्तं पुनर्बोधिसत्त्वस्य संसारदुःखपरिखेदितया श्रावकप्रत्येकबुद्धचित्तम्, तत्परित्यागोपस्तम्भो दुःखाधिवासनक्षान्तिर्वेदितव्या //
391 SK कुशलमूलाक्षयता सर्वसत्त्वेषु क्रियार्थाधिकारितया यावत्सारं निरुपधिशेषे ऽपि निर्वाणधातावपरित्यागः, तदुपस्तम्भः सत्त्वार्थक्रियायं वीर्यं वेदितव्यम् //
392 SK गणपरिकर्षणं कर्मं अधिगमं निश्रित्य विनेयानामसमाहितस्य चित्तस्य समाधानाय समाहितस्य वा चित्तस्य विमोक्षायाववादानुशासनोप्रदानम्, तदुपस्तम्भः सत्त्वार्थक्रियायै ध्यानम् //
393 SK भूमिप्रवेशो यया देशनया धर्माधिमुक्तिपूर्विकयासंभारपरिपूर्याप्रमुदितां भूमिं प्रविशति, तदुपस्तम्भः संवृतिसत्यालंबना प्रज्ञा //
394 SK शेषं सुयोज्यत्वान्न योजितम् //
395 SK पुनः प्रभेदः सप्त दानामि - मूलदानं गोत्रावस्थस्य बोधिसत्त्वस्य दानपारमिता, गोत्रमात्रं निश्रित्य दानात् / आधानदानं चित्तोत्पादावस्थस्य, प्रणिधानसमादानं निश्रित्य दानात् / अनुग्रहदानं स्वपरार्थप्रत्यवस्थस्य / अनवग्रहदानं तत्त्वार्थपरीक्षावस्थस्य, दायकादिविकल्पाभिनिवेशावग्राहाभावात् / निष्परिग्रहदानं प्रभावावस्थस्य, विना वाह्येनोपकरणपरिग्रहेण गगनगञ्जादिसमाधिभिराकाशे पाणिं संचार्य यथेष्टं रत्नादिवर्षणात् / प्रत्यर्हदानं परिपाकावस्थस्य, यथाविनेयानुरूपं दानात् / महादानं परमबोध्यवस्थस्य, निरुत्तरत्वात् / एवं यावत्प्रज्ञा यथायोगं वेदितव्यम् //
396 SK संग्रहः दानादभिर्बोधिसत्त्वभूमिसंग्रहार्थेन, तत्रेदमुदाहरणमात्रं पारमितादिभिः / गोत्रसंग्रहो दानपारमितादिगोत्रं लिङ्गतो ऽनुगन्तव्यम् / चित्तोत्पादसंग्रहो विशिष्टचित्तोत्पादसं[ग्र]हणात् / द्विविधो हि चित्तोत्पादः - अविशिष्टो विशिष्टश्च / तत्राविशिष्टो ऽहो वताहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयेति / विशिष्ट एवं दानपारमितां परिपूरयेयं यावत्प्रज्ञापारमितामिति / तदनेन विशिष्टेन चित्तोत्पादेन पारमितानां संग्रहो वेदितव्यः, तासां कारणभावात् / स्वपरार्थसंग्रहो यद्दानेनैश्वर्य परिगृहणात्ययं स्वार्थः, यत्पुनः परानुपकरणोपसंहारेणानुगृह्णात्ययं स्वार्थः एवमवशिष्टाभिः संग्रहो वेदितव्यः / परमार्थसंग्रहः - धर्मधातुमारभ्य, तथताया दानादिसामान्यलक्ष[ण]त्वात् / ज्ञानसंभारमारभ्य, सर्वज्ञताभाजनतापादनात् / ज्ञानपरिग्रहमारभ्य सर्वज्ञतापरिनिष्पादनात् / ज्ञानानुपरिवर्ततामारभ्य, पञ्चानां प्रज्ञापारमितानुपरिवर्तनात् / ज्ञानलक्षणमारभ्य, प्रज्ञापारमिताः सम्यग्ज्ञानस्वभावत्वात् / इत्येवं तथतासम्यज्ज्ञानस्वभावतः परमार्थो दानादिभिः संगृहीतो वेदितव्यः / एतेनोदाहरणमात्रेण शेषः संग्रहो वेदितव्यः //
397 SK विपक्षो दानादीनां यथाक्रमं मात्सर्यदौःशील्ये क्रोधकौशीद्ये विक्षेपदौःप्रज्ञे / अपि खलु यावन्तः कुशला धर्माः पारमिताभिः संगृहीतास्तेषां यो विपक्षो ज्ञेयावरणं च स तासां विपक्षो वेदितव्यः //
398 SK अनुशंसः पञ्चविधफलाधिकारेणाप्रमेयो वेदितव्यः / तद्यथा यथास्वमासां विपक्षप्रहाणं विसंयोगफलम् / दृष्टे धर्मे स्वपरानुग्रहणं पुरुषकारफलम् / आयत्यामुत्तरात्तरविशिष्टत्तरतमोत्पत्तिर्निष्यन्दफलम् / महाबोधिरधिपतिफलम् / महाभोगता सुगतिगमनमवराभेदसुखसौमनस्य बहुलता सत्त्वाधिपपत्यमव्याबाध्यात्मभावता महेशाख्यता च यथाक्रमं दानादीनां विपाकफलं वेदितव्यम् //
399 SK अन्योन्यविनिश्चयस्त्रिविधः - प्रायोगिकः, प्राभेदिकः, प्रभिद्यसांदर्शिकश्च //
400 SK तत्र प्रायोगिकः दानप्रयोगे सर्वासां वृत्तिरूपलभ्यते / तद्यथाध्यात्मिकं बाह्यं वस्तुपरित्यजनतः दानप्रयोगः / तत्र यः परित्यागः स दानपारमिता / तत्रैव या मैत्रचित्तस्य परत्रविघातोत्पीडाविहेठसंवरणता सा शीलपारमिता / तत्रैव योपरोधविघातखेदमर्षणता सा क्षान्तिपारमिता / तत्रैव या भूयो भूयश्चित्तस्योत्सहनता सा वीर्यपारमिता / तत्रैव या चित्तस्यैकाग्रता कुशलाद्बहिरविसरणता सा ध्यानपारमिता / तत्रैव या यथावद्धेतु फलसुगृहीतता दृष्ट्यपरामर्षणता सा प्रज्ञापारमिता / एवं यावत्प्रज्ञापारमितायां यथायोगं योजयितव्यमुभयदानं सर्वज्ञज्ञानमिति कृत्वा //
401 SK तत्र प्राभेदिकः स्वभावप्रभेदेन, अनुकारप्रभेदेन च / तत्र दानादीनां स्वभावो यथाक्रमं विसर्गः संवरो मर्षणाभ्युत्साहश्चितस्थितिः प्रविचयश्च / तत्र दानादिप्रयोगेषु तदन्यपारमितानामनुवृत्तिः पूर्ववत् / तत्र दानादीनामुपयोगः समादापना वर्णवादिता सुमनोज्ञता च / तत्र दानादीनां रोपणा या परसंताने प्रतिष्ठापना / तदत्र दानपारमितामिषदानम्, तदन्याः पञ्चाभयदानम्, सर्वाः सद्धर्मदानं परसंताने रोपणात् //
402 SK तत्र प्रभिद्यसांदर्शिक एकावचारकादिभिः / तद्यथा या दानपारमिता शीलपारमितापि सा, या वा शीलपारमिता दानपारमितापि सा, पश्चात्पादकः - या यावच्छीलपारमिता दानपारमितापि सा, स्याद्दानपारमिता न शीलपारमिता शीलपारमितयासंगृहीता या दानपारमिता / एवं यावत्यज्ञापारमितयासंगृहीता दानपारमिता पश्चात्पादकैर्योजयितव्या / यद्दानं सर्वा सा पारमिता, या दानपारमिता सर्वं तद्दानमिति चतुष्कोटिकम् / स्याद्दानं न पारमिता यन्न महोबोधिपरिणामितम् / स्यात् पारमिता न दानं शीलादयो महाबोधिपरिणामिताः / स्याद्दानं च पारमिता च (Aभिध्-स्-भ् ११२) बोधिपरिणामितानि दानादीनि / स्यान्न दानं न पारमिता उक्तविनिर्मुक्ता धर्माः / एवं यावत्प्रज्ञापारमितामारभ्य चतुष्कोटिकं प्रत्येकं योजयितव्यम् / यो दानं समाचरति सर्वो ऽसौ दानपारमितान्वयं पुण्यं प्रसवतीति चतुष्कोटिकम् / प्रथमा कोटिः - महाबोध्यपरिणामितं दानं समाचरति / द्वितीया कोटिः - दानपारमितां यां समादापनवर्णभाषणसुमनोज्ञताभिः / तृतीया कोटिः - महाबोधिपरिणामितेन दानेन / चतुर्थी कोटिः - एतानाकारान् स्थापयित्वा / एवं यावत्प्रज्ञापारमितामारभ्य प्रत्येकं चतुष्कोटिकं योजयितव्यम् //
403 SK विशेषतो वैपुल्ये औदार्यगाम्भीर्यदेशना तत्फलस्य सर्वज्ञत्वस्य परमोदारगम्भीरत्वात्फलानुरूप्येण हेतुनिर्देशो द्रष्टव्यः //
404 SK एकत्यानां तदनधिमोक्षे त्रासः बोधिसत्त्वगोत्रवैकल्यं प्रकृत्या हीनचित्ततया गाम्भीर्यौदार्यदेशनां नाधिमोक्तुं शक्नुवन्ति / सत्यपि तद्गोत्रत्वे महाबोधिमारभ्य प्रणिधानादीनां कुशलमूलादीनामनवरोपणात्, सत्यपि तदवरोपणे महायानप्रतिक्षेपकसत्त्वपरिगृहीतत्वादिति / अधिमुच्यमानानामप्येकत्यानामनिर्याणं नीतार्थ सूत्रम[न]न्विष्य स्वयं दृष्टिपरामर्षस्थायितया यथारुतमर्थाभिनिवेशात / तद्यथा सर्वधर्मनिःस्वभावतावचनात् सर्वलक्षणेन सर्वभावापवादिनः / एवमन्ये ऽपि यथारुतार्थाभिनिवेशिनो महायाने न निर्यान्तोतिवेदितव्यं नानाभिप्रायभाषितत्वात् महायानस्येति / इदं च संधायोक्तं भगवता महाधर्मादर्शे धर्मपर्याये - बोधिसत्त्वस्य यथारुतमयोनिशो धर्मान् विचिन्वतो ऽष्टाविंशतिरसद्दृष्टय उत्पद्यन्ते //
405 SK अष्टाविंशतिरसद्दृष्टयः कतमाः / निमित्तदृष्टिर्यावदभिमानदृष्टिश्च / तत्र निस्वभावाः सर्वधर्मा अनुत्पन्ना इत्येवमादिकं महायाने रुतमुपलभ्य तदभिसंध्यकुशलाः यथारुतमेवास्यार्थमधिमुच्यमाना अभाव एवायं भगवता देशितः सर्वधर्माणामनुत्पाद एवेत्यभावादिनिमित्तमभिनिविशन्ते सैषां भवति निमित्तदृष्टिः / त एवमभावादिनिमित्तमभिनिविशमानास्त्रीन्स्वभावानवदन्ते परिकल्पितं स्वभावं परतन्त्रं परिनिष्पन्नं च / तत्रायं परिकल्पितः स्वभावो यद्रूपमिति वा यावन्निर्वाणामिति वाभिलापप्रज्ञप्तिमात्रभभूतो निःशरीरार्थो यद्बाला रूपादिलक्षणं समारोपत्तः परिकल्पयन्ति / तत्रायं परतन्त्रः स्वभावा यत्तदेवाभूतपरिकल्पमात्रम् / तत्रायं परिनिष्पन्नः स्वभावो यत्सर्वधर्माणां तत्त्वं (Aभिध्-स्-भ् ११३) तथता / तदपवादाकारास्तिस्रो दृष्टयो भवन्ति - प्रज्ञप्त्यपवाददृष्टिः परिकल्पापवाददृष्टिस्तत्त्वापवाददृष्टिश्च / त एवं सर्वथा सर्वधर्मानपवदमानास्तस्या अपवाददृष्टेः प्रतिष्ठापनार्थं कांचिदेव युक्तिं परिगृह्णन्ति, ये ऽपि नीतार्थाः सूत्रान्ता निरभिलापधर्मताद्योतकास्तानपि सर्वान् स्वदृष्टयानुलोम्येन परिणामयन्ति / ते एव द्वे दृष्टो भवतः परिग्रहदृष्टिः परिणतिदृष्टिश्च / ते पुनरेवंदृष्टयो भवन्ति - य एतामीदृशीं दृष्टिं निश्रित्य कुशलमकुशलं वा समाचरति स निरवद्य एव भवति निर्दोषः सर्वमेवास्य तत्कल्याणतां याति, पूर्वोपचिताच्चावरणात्स निःसरतोत्येवमेषां द्वे दृष्टी अनवद्यतादृष्टिर्निःसरणदृष्टिश्च / ते चैवं स्वदृष्टावभिनिविष्टास्तद् दृष्टिविपर्ययेण स्कन्धादिधर्मव्यवस्थापकं श्रावकपिटकमवजानन्ति, ये च तामपवाददृष्टिमनधिमुक्ताः श्रावकयानीयास्तान् प्रद्विषन्ति / ते एते द्वे दृष्टी भवतो ऽवज्ञादृष्टिः प्रकोपदृष्टिश्च / स्वदृष्ट्यनुसारेण चैते यथावच्छून्यतानिमित्ताप्रणिहितानि व्यवस्थापयमाना अतल्लक्षणे तल्लक्षणसंज्ञिनो विपरीतमेषां लक्षणं व्यवस्थापयन्ति, एवंचित्ताश्च भवन्ति - यस्यामीदृश्यां धर्मतायामवतरन्त्यवतारयन्ति वा सर्वे ते ऽप्रमेयं पुण्यं प्रसवन्तीत्येवमेते दृष्टी विपरीतदृष्टिः प्रसवदृष्टिश्च / यदा पुनस्ते तां दृष्टिमारभ्य परंरनुयुज्यन्ते तदा न किंचित्स्वयमिच्छन्त्यभ्युपगन्तुम्, छलजातिभ्यां च पराननुयुञ्जन्ते / ते एते अनभ्युपगमदृष्टिः कुसृतिदृष्टिश्च / ते चैवमभिमानिनो भवन्ति - य एवं प्रतिपद्यन्ते [ते] सम्यग्बुद्धान् भगवतः पूजयन्ति सत्कुर्वन्तीत्येषां सत्कारदृष्टिः / अविपरीतधर्मताकुशलैश्च तता दृष्टेर्विवेच्यमानाः सूपपन्नया प्रसिद्धया युक्तया प्रत्यायमाना अपि तां दृष्टिं न कथंचित् परित्यजन्ति, एतदेव तथ्यं मिथ्यान्यदित्येषा दृढमूढतादृष्टिः / एतासां च यथानिर्दिष्टानां दृष्टीनां यद्वासनादौष्ठुल्यं सा मूलदृष्टिः / एत एव च सप्तदशदृष्टयो दोषोद्भावनामुखेनावशिष्टाभिः दृष्टिभिः पुनर्निदिश्यन्ते / तद्यथा दृष्टावदृष्टदृष्टि निमित्तदृष्टिरित्युच्यते, अभावादिनिमित्ताभिनिवेशिन एव सतः सर्वनिमित्तानभिनिवेशसज्ञित्वात् / प्रज्ञप्त्यपवाददृष्टिः परिकल्पापवाददृष्टिस्तत्त्वापवाददृष्टिश्च प्रयोगनिराकरणदृष्टिः, सर्वापवादिनो व्यायामनिः सामर्थ्यसंज्ञित्वात् / परिग्रहदृष्टिः परिणतिदृष्टिश्चानैर्याणिकदृष्टिः, (Aभिध्-स्-भ् ११४) अनुपायप्रयुक्तस्य तत्फलानवाप्तेः / अनवद्यतादृष्टिनिःसरणदृष्टिश्चावरणोपचयदृष्टिः, मिथ्याप्रतिपद्यमानस्यावरणक्षयासंभवात् / अवज्ञादृष्टिः प्रकोपदृष्टिश्चापुण्यप्रसवदृष्टिः, सद्धर्मसब्रह्मचारिविप्रतिपत्तिमुखेन महाक्षतिसमासादनात् / विपरीतदृष्टिः प्रसवदृष्टिश्च वैफल्यदृष्टिः, [अ]सम्यग्धर्मताव्यवस्थापनग्रहणग्राहणैर्विशेषा नधिगमात्, अनभ्युपगमदृष्टिः कुसृतिदृष्टिश्च निग्राह्यदृष्टिः, [अ]न्यायेन वादं कुर्वतो जयासंभवात् / सत्कारदृष्टिरभ्याख्यानदृष्टिः, अतदाख्यायिनि तत्समारापणात् / दृढमूढतादृष्टिरकथ्यदृष्टिः, मिथ्याभिनिवेशिना सह सां कथ्यप्रतिषेधान्निरथकतामुपादाय / मूलदृष्टिर्महादृष्टिः, तत आयत्यां पुष्टतरसर्वदृष्टिगतप्रतापनात् / सर्वा एताः सप्तविंशतिदृष्टयो ऽभिमानदृष्टिः, अभूताभिमानसमुत्थितत्वात् / अत एवानन्तरं तत्रैव सूत्र उक्तमितीमाः सप्तदश समानाः दश भवन्ति, दश समानाः सप्तदश भवन्ति, सप्तविंशतिः समाना एका भवति, एका समाना सप्तविंशतिर्भवन्तीति //
406 SK निःस्वभावाः सर्वधर्माः यस्मात्स्वयमेषां भावो नास्ति, प्रत्ययांस्त्वपेक्ष्य भावो न प्रतिषिध्यते / येन वा स्वभावेनैते पूर्वमभूवन्न तेन स्वेन भावेन भूयः शक्यमेभिर्भवितुमिति निःस्वभावाः / प्राप्ताभ्रष्टलक्षणानामपि प्रत्युत्पन्नानां स्वे भावे ऽवस्थानाभावान्निःस्वभावाः / यादृशो वादृष्टसत्यैर्धर्माणां स्वभावो लक्षणमभिलापप्रपञ्चवासनामुखेन गृह्यते तेन बालग्राहानुरूपेण स्वभावेन वि[र]हितत्वान्निः स्वभावाः //
407 SK अपि खलु सर्वधर्मा उच्यन्ते त्रयः स्वभावाः / तत्र परिकल्पितस्य स्वलक्षणमेव नास्त्यतः स्वलक्षणनिःस्वभावतया निःस्वभावः / परतन्त्रस्य स्वयमुत्पत्तिर्नास्ति प्रत्ययापेक्षणादतो नास्य स्वेन भावेन भाव इत्युत्पत्तिनिः स्वभावतया निःस्वभावः / परिनिष्पन्नो विशुद्ध्यालंबनत्वात् परतन्त्रपरिकल्पितलक्षणाभावस्वभावत्वाच्च परमार्थश्चैष निःस्वभावताप्रभावितश्चेति परमार्थनिःस्वभावतया निःस्वभावः / इत्येवं च कृत्वा निःस्वभावाः सर्वधर्मा द्रष्टव्याः, न तु सर्वथालक्षणाभावमधिकृत्येति //
408 SK अपि खलु महायाने तथागतस्य सर्वे ऽभिप्रायाः संक्षेपेण चत्वारो भवन्ति / तद्यथा समताभिप्रायो यदाह - अहमेव तस्मिन् समये विपश्यी (Aभिध्-स्-भ् ११५) सम्यक्संबुद्धो ऽभूवमिति, अवशिष्टधर्मकायत्वात् / कालान्तराभिप्रायोयदाह - ये सुखावत्यां लोकधातौ प्रणिधानं करिष्यन्ति ते तत्रोप पत्स्यन्त इति, विमलचन्द्रप्रभवस्य च नामधेयग्रहणमात्रेण नियतो भवत्यनुत्तरायां सम्यक्संबोधाविति, कालान्तरेणेत्यभिप्रायः / अर्थान्तराभिप्रायो यदाह - निःस्वभावाः सर्वधर्मा अनुत्पन्ना इत्येवमादि, अयथारुतार्थत्वात् / पुद्गलाशयाभिप्रायो यत्तदेव कुशलमूलं कस्यचित्प्रशंसन्ति कस्यचिद्विगर्ह ते ऽल्पमात्रसंतुष्टस्य / तथा रागचरितस्य बुद्धक्षेत्रविभूति दर्शयति, मानचरितस्य केषांचिदेव बुद्धानामधिकां संपत्तिं वर्णयन्ति / कौकृत्येनावृतस्य ये बुद्धबोधिसत्त्वेष्वपकारमपि करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीत्याह / अनियतगोत्रस्य महाश्रावका[न्] बुद्धत्वे व्याकरोति, एकं च यानं न द्वितीयमस्तीति देशयति श्रावकत्वाशयत्याजनार्थम् //
409 SK पुनः सर्वे ऽभिसंघयो ऽभिसमस्य चत्वारो भवन्त्य वतारणाभिसंध्यादयः / तत्र अवतारणाभिसंधिः श्रावकेषु द्रष्टव्यः, शासना वतारणार्थमनुत्रासाय रूपाद्यस्तित्वदेशनात् / लक्षणाभिसंधिस्त्रिषु परिकल्पितादिस्वभावेषु द्रष्टव्यः, निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् / प्रतिपक्षाभिसंधिः दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षताग्रयानसंभाषा / अष्टावरणानि बुद्धधर्मावज्ञेति विस्तरः / तदुदाहरणानि च यथायोगं चतुरभिप्रार्यानिर्देशानि द्रष्टव्यानि / परिणामनाभिसंधिरभिधानगाम्भीर्ये द्रष्टव्यः, यदाह -
410 SK असारे सारम[त]यो विपर्यासे च सुस्थिताः / क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुत्तमाम् // इति /
411 SK अत्रायमभिसंधिः - अविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिः, विक्षेपो हि विसारश्चेतसः विपर्यासे च सुस्थिताः इति नित्यसुखशुच्यात्मविपर्ययेणानित्यादिके विपर्यासे च सुस्थिता अपरिहाणितः क्लेशेन च सुसंक्लिष्टाः इति दीर्घदुष्कर व्यायामश्रमेणात्यर्थ परिक्लिष्टाः //
412 SK वैपुल्ये धर्मसमाधिकुशलबोधिसत्त्वनिर्देशः शमथानुशंसं विपश्यनानुशंसं तदुभयानुशंसं चाधिकृत्य वेदितव्यः / तत्र शमथानुशंसो द्विविधः / क्षणे क्षणे प्रकर्षगामिन्या प्रस्रब्ध्या निरन्तरमाश्रयस्फरणात् प्रतिक्षणं सर्वदौष्ठुल्याश्रय द्रावणम्, अविशेषेण सर्वदेशनाधर्मे करसताधिमोक्षसमाधानाद्विविधस्कन्धाद्यर्थाकारसंज्ञाविगतायाः सूत्रादिधर्मारामरतेः (Aभिध्-स्-भ् ११६) प्रतिलम्भश्च / विपश्यनानुशंसो ऽपि द्विविधः / यथाप्रविचित्तधर्मनिरन्तरासंप्रमोषात्प्रतिस्मृतिमात्रमुखेनापरिच्छिन्नाकारो ऽप्रमाणः सूत्रादिधर्मेषु प्रज्ञावभासः, आश्रयपरिवृत्तिपूर्वरूपभूतानां चाविकल्पितानामनभिसंस्कृतानां निमित्तानां समुदाचारश्च / तदुभयानुशंसो धर्मकायस्य ज्ञेयावरण प्रहाणाश्रयपरिवृत्तिसंगृहीतस्य परिपूरये दशम्यां भूमौ परिनिष्पत्तये वा ताथागत्यां भूमावुत्तरादुत्तरतर निष्यन्दवासनाधानयोगेन हेतुपरिग्रह इति //
413 SK तदेतत्पञ्चविधाया भावनायाः फलं पञ्चविधं निर्वर्तत इति संदर्शितम् / पञ्चविधा भावना कतमा / प्रस्रब्धिनिमित्तभावनासंभिन्नभावनानिमित्तभावनानाभोगभावना परिनिर्वृतिनिमित्तभावना च //
414 SK केन कारणेन तुल्ये धर्मकायनिष्यन्दत्वे वैपुल्यधर्मो धूपमाल्यादिभिः पूज्यो न तथा श्रावकयानधर्मः / वैपुल्यधर्मस्य सर्वसत्त्वहितसुखाधिष्ठानतामुपादाय महार्थतया निरुत्तराप्रमेयपुण्यप्रसवायतनत्वात् //
415 SK प्राप्तिविनिश्चयो ऽधिगन्तृपुद्गलव्यवस्थानतो ऽधिगमव्यवस्थानतश्च द्रष्टव्यः //
416 SK असत्यपि पुद्गलद्रव्ये पुद्गलव्यवस्थानं चतुर्भिः कारणैः / तद्यथा सुखसंव्यवहारार्थम्, रूपादीनां बहूनां बहुधाभिन्नलक्षणसंज्ञानामेकया सामुदायिक्या सत्त्वप्रज्ञप्त्याकृच्छ्रेण एहि याहि इत्येवमादिसंव्यवहरणात् / लोकानुवृत्त्यर्थम्, न हि लोके धर्ममात्रसंज्ञाभिः सर्वः संव्यवहारो निरूढः किंतर्हि प्रायेण सत्त्वसंज्ञया / तस्माल्लोकेन सह संव्यवहरद्भिरार्यैरवश्यं सो ऽनुवर्तितव्य इति / अनुत्रासार्थम्, प्रतीत्यसमुत्पादधर्मतायाम कोविदाः सहसादितः सर्वथा सत्त्वाभावं श्रुत्वोत्त्रस्येयुरिति / आत्मनः परेषां च दोषवत्त्वगुणवत्त्वोद्भावनार्थं च, इतरथा हि सत्त्वप्रज्ञप्तिमन्तरेण संक्लेशव्यवदानलक्षणमात्रदेशनायां सत्याममुष्मिन् संताने ऽमी दोषाः प्रहीणा अमी वा गुणा उत्पन्ना इति न शक्यते विज्ञातुमिति //
417 SK पुद्गलव्यवस्थानं पुनश्चरितादिप्रभेदेन सप्तविधम् //
418 SK तत्र रागादिचरितस्तीव्रायतरागः, हीने ऽपि रञ्जनीये वस्तुन्यधिमात्ररागोत्पादादुत्पन्नस्य च चिरमनुबन्धात् / इत्येवं यावद्वितर्कचरितो यथास्वं वस्तुनि योजयितव्यः / समभागचरितःप्रकृति[स्थ]ः संक्लेशः औत्कटयमान्द्यविवर्जितसमावस्थे क्लेश इत्यर्थः, यथावस्त्वनुरूपं क्लेशसमुदाचारात् / मन्दरजस्कः प्रकृतिस्थः तनुतरक्लेशः, प्रकृतिस्थेभ्य उक्तलक्षणेभ्यस्तनुतराः क्लेशा अस्य, सो ऽयं प्रकृतिस्थः, उत्कटे ऽपि वस्तुनि पूर्वप्रतिपक्षाभ्यासवशेन प्रकृत्या मृदुक्लेशसमुदाचारादिति //
419 SK श्रावकयानिको गोत्रेन्द्रियप्रणिधानाशयालंबनप्रतिपत्तिफलप्रभेदैर्निदिष्टो वेदितव्यः / प्रकृत्या मृद्विन्द्रियत्वं पुनरस्य प्रत्येकबुद्धबोधिसत्त्वेन्द्रिया पेक्षया, इतरथा हि धर्मानुसार्यादयस्तीक्ष्णेन्द्रिया इत्येतद्विरुध्येत / (Aभिध्-स्-भ् ११८) तत्रानुत्पादितपूर्वनिर्वेधभागीयो ऽप्राप्तपूर्वकफलश्च खड्गविषाणकल्पो भवत्येक विहारी, तदन्यः प्रत्येकजिनो वर्गचारी द्रष्टव्यः / व्याकरणं च प्रत्यलभत इत्यष्टाभ्यां भूमावनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभत इत्यर्थः //
420 SK असंभृतसंभारादयो मोक्षभागीयानां च मृदुमध्याधि मात्रतया निर्वेधभागीयोत्पादनं सत्याभिसमयं च प्रतिनियतानियततज्जन्मकालिकत्वाद्यथाक्रमं वेदितव्याः / तत्र सत्याधिपतेये धर्मे ऽधिमुक्तिप्रसादलक्षणानि मोक्षभागीयानि, तत्रैव धर्मनिध्यानक्षान्तिलक्षणानि निर्वेधभागीयानि, श्रद्धाप्रधानत्वात्प्रज्ञाप्रधानत्वाच्च यथाक्रमम् / लौकिका ग्रधर्मप्रकृत्यैव क्षणिक इत्यप्रावन्धिक इत्यर्थः / नो तु वासनापरिहाणित इति निर्वाणाधिकारिकस्य कुशलमूलस्योत्पादितपूर्वस्यापुनरुत्पाद्यत्वात् //
421 SK मृदु मोक्षभागी यमधिकृत्योक्तं भगवता -
422 SK सम्यग्दृष्टिरधिमात्रं लौकिकी यस्य विद्यते / अपि जातिसहस्राणि नासौ गच्छति दुर्गतिम् // इति //
423 SK अपि खलु चतुर्विधं मोक्षभागीयम् - आधिकारिकमाधिमोक्षिकमाधिकामिकमाभिगामिकं च / कुशलधर्मच्छन्दमुपादाय यावन्मोक्षार्थं क्रियते तदाधिकारिकम् / तत्प्रतिसंयुक्तदेशनाधिमोक्षसहगतं यत्तदाधिमोक्षिकम् / प्रीतिप्रसादसहगतमोक्षालंबनमनस्कारबहुलं यत्तदाधिकामिकम् / निर्वेधभायीयोत्पाद नियतं तत्रैव जन्मनि यत्तदाभिगामिकम् //
424 SK निर्वेधमागीयं षड्विधम् - आनुलोमिकं प्राकर्षिकं प्रातिवेधिकमन्यपारिणामिकमैकजन्मिकमेकासनिकं च / तत्र यत्सत्यालम्बनकारमादितो मृदुकं कुशलमूलमुत्पद्यते तदानुलोमिकम् / यन्मध्यं तत्प्राकर्षिकम्, ततः तत्प्रकृष्टतरत्वात् / यदधिमात्रं सत्यप्रतिवेधाय तत्रैव जन्मनि संवर्तते तत्प्रातिवेधिकम् / तत्पुनर्यदनियतगोत्राणां बोधिविशेषाय (Aभिध्-स्-भ् ११९) परिणाम्यते तच्च प्रत्येकबुद्धानामनाचार्यकाभिसंबोधाय जन्मान्तरे परिणमति तदन्यपारिणामिकम् / यत्तत्रैव जन्मनि सत्यप्रतिवेधाय संवर्तते तदैकजन्मिकम् / यत्तत्रैवासने तदेकासनिकमिति //
425 SK कायसाक्षी विमोक्षलाभ्यनागामी, अष्टौ विमोक्षान् कायेन साक्षात्कृत्वोपसंपद्य विहरणात् / अष्टौ विमोक्षा रूपी रूपाणि पश्यतीत्येवमादयः पश्चान्निर्देक्ष्यन्ते / प्रज्ञाविमुक्तः प्रज्ञाविपक्षक्लेशावरणमात्राशेषप्रहाणात् / उभयतो भागविमुक्तः सर्वक्लेशसमापत्त्यावरणाभ्यां यो विमुक्तः / स्रोतापत्तिफलप्रतिपन्नक एकासनिकं निर्वेधभागीयमारभ्य यावदाद्यं फलं न प्राप्नोति //
426 SK कः पुनर्दर्शनमार्गावसाने आद्यं फलं प्राप्नोति / यः प्रदेशवैराग्येणापि कामेभ्यो ऽवीतरागः सम्यक्त्वं नियाममवक्रामति / यस्तु पूर्वं लौकिकेन मार्गेण कामावचरान् भावनाप्रहातव्यान् षट्प्रकारान् प्रहाय यत्र यो वीतरागो भवन् पश्चात्सम्यक्त्वं नियाममवक्रामति स षोडशे चित्तक्षणे सकृदागाम्येव भवति / नवापि प्रकारान् प्रहाय कामवीतरागो भवन् यो नियाममवक्रामति सो ऽनागाम्येव भवति //
427 SK सर्वदर्शनप्रहातव्यप्रहाणे ऽपि त्रयाणामेव संयोजनानां प्रहाणात् स्रोतापन्नवचनम्, एषां मोक्षप्राप्तिबिबन्धनत्वेन प्राधान्यात् / तथाहि सत्कायदृष्टया पञ्चोपादानस्कन्धानात्मत आत्मीयतश्चाभिनिवेश्यालयारामतया दुःखान्नोच्चलति / उच्चलितो ऽपि कथंचिन्मोक्षं प्रति शीलव्रतपरामर्शेन विचिकित्सया चासन्मार्गाभिनिवेशात्सन्मार्गसंशयनाच्च मिथ्या निर्याति सम्यक्त्वमनिर्याति // पुनः सत्कायदृष्टया ज्ञेये विप्रतिपद्यते, दुःखमात्र [आ]त्मात्मीयलक्षण समारोपणात् / शीलव्रतपरामर्शेन दृष्टौ, तया शुद्धिप्रत्ययनात् / विचिकित्सया प्रतिपक्षे, रत्नत्रयानिश्चयनादिति //
428 SK सकृदा[गा]मिफलप्रतिपन्नकः दर्शनमार्गादूर्ध्वं कामावचरस्य यावन्मध्यमध्यस्य क्लेशप्रकारस्य प्रहाणमार्गे यः पुद्गलः / सकृदागामी मध्यमृदोः क्लेशप्रकारस्य प्रहाण मार्ग परिसमाप्तौ यः पुद्गलः / अनागामिफलप्रतिपन्नकः सकृदागामिफलादूर्ध्वं कामावचराणां मृद्वधिमात्रमृदुमध्ययोः (Aभिध्-स्-भ् १२०) क्लेशप्रकारयोः प्रहाणमार्गे यः पुद्गलः / अनागामी नवमस्य मृदुमृदोः क्लेशप्रकारस्य प्रहाणाय मार्गपरिसमाप्तौ यः पुद्गलः //
429 SK सर्वकामावचरभावनाप्रहातव्यप्रहाणे ऽपि पञ्चानामवरभागीयानां संयोजनानां प्रहाणादनागामिवचनं सूत्रे एषां गतिधात्ववरकारणत्वेन प्राधान्यात् / गत्यवरं पुनः नरकतिर्यक्प्रेतगतयः / धात्ववरं कामधातुः / तत्र सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्साभिः गत्य वरासमतिक्रान्तत्वात्कारणत्वम् / कामच्छन्दव्यापादाभ्यां धात्ववरासमतिक्रमादिति //
430 SK त्रैधातुकसर्वक्लेशप्रहाणे ऽपि पञ्चानामूर्ध्वभागीयानां प्रहाणादर्हद्वचनम्, ऊर्ध्वोपादानापरित्यागकारणत्वेन प्राधान्यम् / तत्र रूपारूप्यरागाभ्यां कामधातौ ऊर्ध्वोपादानं रूपारूप्यधातूपपत्तिरित्यर्थः / औद्धत्यमानाविद्याभिरुर्ध्वापरित्यागः, तृष्णामानविचिकित्सोत्तरध्यायित्वेन सत्र संक्लेशादिति //
431 SK कुलं कुलः कुलः स्रोतापन्न एव सकृदागामिफलप्रतिपन्नको देवेषु वा मनुष्येषु वा नियमेन द्वौ भवौ संसृत्य परिनिर्वाति / एकवीचिकः सकृदागाम्येवानागामिफलप्रतिपन्नको देवेष्वेवैकं भवं संसृत्यं परिनिर्वाति / एका वीचिरन्तरं जन्मावकाशो ऽस्य सो ऽयमेकवीचिकः / अन्तरापरिनिर्वायी येन क्लेशावेधेनोपपत्तिदेशं गत्वा प्रतिसन्दध्यात्तत्परिक्षये सति येनानुशयमात्रेण मरणादूर्ध्व स्कन्धानभिनिर्वर्तयन् तदवशेषे सत्यन्तराभवमभिनिर्वर्त्य पूर्वाभ्यस्तमार्गसंमुखीभावादेव स विशिष्टानुशयप्रहाणे परिनिर्वाति / स पुनरुपपत्तिदेशं प्रत्यनुच्चलितोच्चलितमात्रदूरगभावस्थतया त्रिविधो वेदितव्यः सत्पुरुषगतिसूत्रानुसारेण / अनभिसंस्कारेण यो मार्गं संमुखीकृत्येति पूर्वं स्वभ्यस्तत्वात्स्वरसवाहितयाप्रयत्ने[ने]त्यर्थः / विपर्ययादभिसंस्कारपरिनिर्वायी / ऊर्ध्वस्रोता द्विविधः - अकनिष्ठगो भवाग्रगश्च / तत्र अकनिष्ठग आस्वादनाबहुलतयोत्पन्नोत्पन्नमृद्वादिध्यानप्रकारास्वादनात् ब्रह्मकायिकानारभ्य निरन्तरं (Aभिध्-स्-भ् १२१) सर्वेषु स्थानान्तरेषु सकृत्सकृदुपपद्यमानो यावदकनिष्ठान्प्रविश्य परिनिर्वाति / भवाग्रगश्चतुर्थस्य ध्यानस्याव्यवकीर्णभावित्वात् केवलं शुद्धावासान् परिहृत्य तथैव यावद्भवाग्रं गत्वा परिनिर्वाति / व्यवकीर्णभावितस्य चतुर्थस्य ध्यानस्य मृद्वादिपञ्चप्रकारभावितत्वाद्यथाक्रमं पञ्चसु शुद्धावासेषूपपत्तिर्वेदितव्या / चेतयित्वाचेतयित्वेति स्वयमात्मानमुपक्रममाणो ऽनु[प]क्रममाणो वेत्यर्थः / दृष्टधर्मसुखविहारात्परिहाणमेति लौकिकेभ्यो ध्यानेभ्य इत्यर्थः / इन्द्रियोत्तापनं पुनरधिमात्रतानयनं तीक्ष्णकरणमित्यर्थः / अत एवाकोप्यधर्मा भव्यश्चेन्द्रियाण्युत्तापयितुमिति नोक्तम्, प्रकृत्या तीक्ष्णेन्द्रियत्वात् //
432 SK कामावचररूपावचर एव बोधिसत्त्वो नारूप्यावचरः, प्रभावप्राप्तस्य सत्त्वपरिपाचनानायतनतामुपादाय तत्रानुपपत्तितः / आरूप्यधातुव्यवकर्षितेन ध्यानेनेति पर्युदस्तारूप्योपपत्तिकेन समाधिनेत्यर्थः / ध्यानसुखविहरत्यपरिहीण एव ध्यानेभ्यः, ध्यानव्यावर्तनकुशलत्वात् / सत्त्वपरिपाचनार्थं कामधातावपि बोधिसत्त्व उपपद्यत इति वेदितव्यम् //
433 SK सर्वां बोधिसत्त्वचर्यामिति तुषितभवनवासमुपादाय यावन्मारपराजयम् / बुद्धचर्यां च दर्शयतीत्यभिसंबोधिमुपादाय यावन्महापरिनिर्वाणम् //
434 SK अधिमुक्तिचारी बोधिसत्त्वगोत्रे व्यवस्थित आदितो महाबोधिप्रस्थानमुपादाय यावत्प्रमुदितां भूमिं न प्रविशति, प्रत्यात्मं लोकोत्तराभिगमाभावात् / अध्याशयचारो दशसु भूमिषु, लोकोत्तरेणाधिगमेन विशुद्धाशयत्वात् / निमित्तचारी षट्सु भूमिषु, अनिच्छतो ऽपि निमित्तव्यवकिरणात् / अनिमित्तचारी सप्तम्याम्, यत्नं कुर्वतो यावदिच्छं निमित्तासमुदाचारात् / अनभिसंस्कारचारी शेषासु भूमिषु, वैपाकिकनिर्विकल्पज्ञानप्रतिलम्भादिति //
435 SK सकृन्नैर्याणिकः सकृत्त्रैधातुकावचरान्क्लेशान् प्रजहाति / प्रकारश इत्यधिमात्राधिमात्रान्कामरूपारूप्यावचरान्भावनाप्रहातव्याननुशयान् प्रजहाति, एवं यावन् मृदुमृदून् दर्शनप्रहातव्यान् न तु लौकिकमार्गवद्भूमिप्रकारभेदेन पृथक्पृथगित्यर्थः / तत्रेदं ज्ञापकं यथोक्तमंगुल्यग्रसूत्रे - ᳚यत्किंचिद्रूपं यावद्विज्ञानमतीतानागतप्रत्युत्पन्नमिति विस्तरेण यावद्दूरे यद्वान्तिके तत्सर्वमेकध्यमसंक्षिप्यैकं (Aभिध्-स्-भ् १२२) भागं करोत्येकं पिण्डमेकं पुञ्जमेकं राशिं करोत्येकं कृत्वातः प्रतिसंशिक्षते सर्वमेतदनित्यं सर्वं दुःखमिति विस्तरः / द्वयोरेवाद्यन्तयोः फलयोः प्रज्ञाप्यते / तयोस्त्रैधातुकसर्वदर्शनभावनाप्रहातव्याशेषप्रहाणप्रभावितत्वाद्यथाक्रमम् / मध्ययोस्तु न प्रज्ञाप्यते, तयोर्दृष्टसत्यस्य कामवचराणामेव भावनाप्रहातव्यानां सावशेषनिरवशेषप्रहाणप्रभावितत्वात् / सकृन्नैर्याणिकं चाधिकृत्य विभङ्गसूत्रे स्रोतापन्नानन्तरमर्हद्व्यवस्थानं वेदितव्यम् / स दृष्टे धर्मे यद्याज्ञां तारागयति सर्वतो निःशेषमवीतरागत्वात्प्रणिधानवशेन कामधातावुपपद्यते क्षिप्रपरिनिर्वाणार्थम् //
436 SK अभिसमयव्यवस्थानं दशविधम् / तत्र धर्माभिसमयः सत्याधिपतेयेषु सूत्रादिषु धर्मेषु परतोघोषमधिपतिं कृत्वा धिमात्रस्याधिमुक्तिप्रसादस्य पश्चिममोक्षभागीयसंगृहीतस्य प्रतिलम्भः / तथाहि तदधिमुक्तिप्रसादप्रतिलम्भात्तानि सत्यानि धर्माभिसमयेनाभिसमितानीत्युच्यन्ते / अर्थाभिसमयस्तेष्वेव धर्मेषु योनिशोमनस्कारमधिपतिकृत्वाधिमात्रायाः सत्येषु धर्मनिध्यानक्षान्ते[:] पश्चिमनिर्वेधभागीय संगृही[ता]याः प्रतिलम्भः / सा पुनर्धर्मनिध्यानक्षान्तिस्त्रिविधेन योनिशोमनस्कारेण प्रभाविता अधिमात्रमृदुना तज्जन्मकालेषूष्मगतेषु, अधिमात्रमध्येन मूर्ध्वसु क्षान्तिषु च, अधिमात्राधिमात्रेण लौकिकेष्वग्रधर्मेष्विति / तत्त्वाभिसमयो दर्शनमार्गः / तत्र पुनः सत्यव्यवस्थापनान्यभिसमयान्तिकानि संवृतिज्ञानानि प्रतिलम्भतो लोकोत्तरज्ञानाधिपत्येन तदबीजपोषणान्न तु सम्मुखीकरोति षोडशानां दर्शनमार्गचित्तक्षणानां निरन्तरत्वेन लौकिकचित्तानवकाशात् / पृष्ठाभिसमयो दर्शनमार्गादूर्ध्वसर्वभावनामार्गो लौकिको लोकोत्तरो वा / रत्नाभिसमयः सम्यक्संबुद्धो वत भगवान्, स्वाख्यातो ऽस्य धर्मविनयः, सुप्रतिपन्नः श्रावकसंघ इत्येवमवेत्य निश्चित्यार्यश्रावकस्य बुद्धादिषु प्रसादः / असमुदाचाराभिसमयो यस्याकरणसंवरस्यायंकान्तशील संगृहीतस्य लाभात्तद्विपक्षनरकाद्यसमुदाचारं प्रत्येवं निश्चयः प्रवर्त्तते क्षोणा मे नरकाः इत्येवमादिः सो ऽसमुदाचाराभिसमयः / निष्ठाभिसमयः सर्वदौष्ठुल्यानां प्रतिप्रस्रब्धिरित्येवमादिर्यथा मार्गसत्ये निष्ठामार्गो निर्दिष्टः / एत एव सप्ताभिसमयाः श्रावकाणां परतोघोषमागम्य प्रतिलम्भतः श्रावकाभिसमय इत्युच्यते / परतोघोषमनागम्य प्रतिलम्भतः प्रत्येक[बुद्ध]भिसमय इति / बोधिसत्त्वाभिसमय एषु सप्तस्वभिसमयेषु बोधिसत्त्वस्य या समुदागमक्षान्तिः श्रावकप्रत्येकबुद्धविनयोपायकौशल्यार्थं (Aभिध्-स्-भ् १२३) नो तु साक्षात्क्रिया सत्त्वापेक्षया हीनयानानिर्याणात् / अपि खलु तत्प्रथमतो बोधिसत्त्वस्य भूमिप्रवेशाभिसमय इत्युच्यते //
437 SK एतं चाभिसमय निश्रित्योच्यते - श्रावकाभिसमयाद्बोधिसत्त्वाभिसमस्य कः प्रतिविशेषः आलंबनविशेषतो वैपुल्यालंबनत्वात् / उपस्तम्भविशेषतः परिपूर्णमहाकल्पासख्येयमहापुण्यज्ञानसंभारपरिपूरणात् / प्रतिवेधविशेषतः पुद्गलधर्मनैरात्म्याधिपतेयधर्मप्रयोगवेधतो लोकोत्तरेण ज्ञानेन तदुभयप्रतिवेधात् अभ्युपगमविशेषतः स्वात्मसमतया सर्वसत्त्वाभ्युपगमात् / निर्याणविशेषतो दशभिर्भूमिभिर्निर्याणात् / परिग्रहविशेषतो ऽप्रतिष्ठितनिर्वाणपरिग्रहणात् / प्रतिष्ठापरिवारविशेषतो बुद्धक्षत्रपरिशीधनाद्विनेयजनोपग्रहणाच्च / अभिजन्मविशेषतः पितृवंशसंधारकौरसपुत्रलक्षणत्वात् / जन्मविशेषतः परिषन्मण्डलेषूपपन्नः / फलविशेषश्च पुनः [आश्रय]परिवृत्तिविशेषतः क्लिष्टाक्लिष्टसर्वप्रकारदौष्ठुल्यप्रहाणात्सर्वनिरुत्तरगुणाश्रयत्वेनाश्रयपरिवर्तनात् / गुणसमृद्धिविशेषतो बलवंशारद्यावेणिकबुद्धधर्माद्यपरिमितगुणनिष्पत्तेः / पञ्चाकारविशेषतो विशुद्ध्यादिविशेषात् / तत्र विशुद्धिविशेषः सवासनक्लेशप्रहाणात् / परिशुद्धिविशेषो बुद्धक्षेत्रपरिशोधनात् / कायविशेषो धर्मकायपरिनिष्पादनात् / भोगविशेषः सदा बोधिसत्त्वेः सह पर्षन्मण्डलेषु विचित्रधर्मसंभोगात् / कमविशेषो यथार्हं निर्माणेः समन्तादनन्तापर्यन्तेषु लोकधातुषु बुद्धकृत्यानुष्ठानादिति / कायत्रयविशेषतः स्वभाविकसाम्भागिकनैर्माणिकायपरिनिष्पत्तिलाभात् / निर्वाणविशेषतो निरुपधिशेषे निर्वाणधातौ सर्वसत्त्वहिताय सर्वगुणासमुच्छेदात् / मिश्रोपमिश्रज्ञानशक्तिलाभविशेषतः सुविशुद्धधर्मधात्वेकरसतया तदाश्रितासु सर्वाकारवरज्ञतासु प्रत्येकं सर्वबुद्धानां सामर्थ्यात् / आवरणविशुद्धिविशेषतः सर्वक्लेशज्ञेयावरणप्रहाणात् / मिश्रोपमिश्रकर्मक्रियाविशेषत एकैकसत्त्वविनयनं प्रति सर्वबुद्धाधिपत्यात् / अभिसंबोधिनिर्वाणसंदर्शनोपायविशेषतो दशसु दिक्षु यथायोगं सर्वलोकधातुषु यावदपरान्तं पुनःपुनर्बुद्धोत्पादादि संदर्शनेन सर्वविनेयजनपरिपाचनविमोचनात् / पञ्चाकारपरित्राणविशेषतश्च (Aभिध्-स्-भ् १२४) वेदितव्य उपद्रवादिपरित्राणात् / तत्र उपद्रवपरित्राणं नगरप्रवेशादिभि रन्धादीनां चक्षुरादिप्रतिलम्भात् / अनुपायपरित्राणं लौकिक सम्यग्दृष्टिप्रतिलम्भेन सर्वकुदृष्टिविवेचनात् / अपायपरित्राणं दर्शनमार्गोत्पादनेन दुर्गतिसमतिक्रमणात् सत्कायपरित्राणमर्हत्त्वसाक्षात्करणेन त्रैधातुकवि मोक्षाणात् / यानपरित्राणं बोधिसत्त्वानां हीनयानविच्छन्दनादिति //
438 SK वैशंषिकगुणा आर्यश्रावकैर्भावनामार्गे वाभिनिर्ह्रियन्ते ऽशैक्षमार्गे वेत्यत एषां पृष्ठनिष्ठाभिसमयाभ्यां संग्रहो वेदितव्यः / ते पुनर्मैत्र्यादयो यथासूत्रान्तरेषु निर्दिष्टाः श्रावकयाने महायाने च तथैव वेदितव्याः / तेषां चाय समासेन पञ्चभिराकारैर्यथायोगं लक्षणनिर्देशो वेदितव्यः - निश्रयत आलंबनत आकारतः स्वभावतः सहायतश्च //
439 SK तत्र तावत् मैत्र्या ध्यानं निश्रयः, सत्त्वा आलंबनम्, सुखेन संप्रयुज्येरन्नित्याकारः, समाधिः प्रज्ञा च स्वभावः शमथविपश्यनासंगृहीतत्वात्सर्वगुणानाम्, चित्तचैतसिकाः सहाया इत्येवं करुणादिषु यथायोगं योजयितव्यम् / उपेक्षया सुखादिषु सत्त्वेष्वनुनयाद्यभ्युपेक्षणमहो वत संक्लेशाद्विमुच्येरन्नित्ययमाकारो वेदितव्यः / स च हिताशयविहार इत्युच्यते //
440 SK अष्टौ विमोक्षाः / रूपी रूपाणि पश्यत्ययं प्रथमो विमोक्ष इति विस्तरः / तत्र कथं रूपीत्युच्यते / स्वात्मन्या रूप्यसमापत्तिसंनिश्रयेण रूपसंज्ञाया अभिभावनाद्रूपसंज्ञासंनिवेशनाद्वा द्रष्टव्यानि रूपसंज्ञासंमुखी करणादित्यर्थः / कथं रूपाणि पश्यतीत्युच्यते / सुवर्णदुर्वर्णादीनि रूपाण्यधिमुच्यदर्शनात् / कथं विमोक्ष इत्युच्यते / विमुच्यते ऽनेन निर्माणावरणादिति कृत्वा / अध्यात्ममरूपसंज्ञारूप्यसमापत्तिसंनिश्रयेण द्रष्टरि स्वात्मनि रूपसंज्ञाविभावनादरूपसंज्ञासंनिवेशनाद्वाद्रष्टरि नामसंज्ञासंमुखीकरणादित्यर्थः / शेषं पूर्ववत् / शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरत, शुभाशुभेषु रूपेष्वन्योन्यापेक्षासंज्ञामन्योन्यानुगमसंज्ञां च निश्रित्या[न्यो]न्यैकरससंज्ञालाभात् / (Aभिध्-स्-भ् १२५) तथाहि शुभानि रूपाण्यपेक्ष्य तदन्येष्वशुभानीति भवत्यशुभानि वापेक्ष्य शुभानीति नानपेक्ष्यैकजातीयानामेव दर्शने शुभाशुभताबुद्ध्यभावात् / तथाहि शुभेष्वप्यशूभतानुगताशुभेष्वपि शुभता, शुभसंमतस्यापि त्वङ्मात्रस्य केशादिषट्त्रिशदशुचिद्रव्यान्तरभावादित्येवमन्योन्यं सर्वरूपाणि मिश्रयित्वा शुभतैकरसाकारया संज्ञया विमुच्यते / तस्यैवं रूपादिविमोक्षविभुत्वलाभिनः शुभाशुभनिर्माणावरणं च प्रहीयते तत्र च संक्लेशोत्पत्त्यावरणम् / कः पुनर्निर्माणे संक्लेशः / शुभरूपनिर्माणे आभोगः, अशुभरूपनिर्माणे प्रातिकूल्यमिति / आकाशानन्त्यायतनादीनि चत्वार्यार्यश्रावकस्य यान्यनाश्रवानुकूलानि शुद्धानि तानि विमोक्षकाख्यां लभन्ते, तदास्वादनविमोक्षणात् / ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारूप्यास्तेष्वसक्तिः परिशुद्धिः / तस्या आवरणमारूप्यास्वादनमिति / संज्ञावेदयितनिरोधस्य निश्रयो नैवसंज्ञानासंज्ञायतनम्, आलंबनाकारसहाया न सन्ति चित्तचैतसिकानामभावात् / स्वभावस्तस्य चित्तचैतसिकानां निरोधः / स च मोक्षानुसदृशो विहारः, लोकोत्तरेण मार्गेण परिवृत्याश्रयस्यार्यश्रावकस्य पुनश्चितचैतसिकानामप्यप्रवृत्त्यवस्थायाः परमशान्तत्वात् क्लिष्टमनो ऽसमुदाचाराच्च / एते चाष्टौ विमोक्षा विहारा इत्युच्यन्ते, एभिरार्याणां विहरणात् / तत्रापि बहुलमाभ्यां विमोक्षाभ्यां विहरन्ति, तृतीयेनाष्टमेन च प्रधानत्वात् / अत एव चानयोः कायेन साक्षात्कृत्योपसंपद्य विहरतीति वचनं नान्येषु रूप्यरूपिविमोक्षावरणाशेषप्रहाणाद्यथाक्रमम् / तयोः संपूर्णाश्रयपरिवृत्तिसाक्षात्करणमुपादायेत्यपरः पर्यायः //
441 SK अष्टावभिभ्वायतनानि तत्र अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि हीनप्रणी तानि, तानि खलु (Aभिध्-स्-भ् १२६) रूपाण्यभिभूय जानात्यभिभूय पश्यति तथा च संज्ञी भवति / इदं प्रथममभिभ्वायतनम् / अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणि सुवर्णदुर्वर्णानि विस्तरेण यावत्तया च संज्ञी भवति / इदं द्वितीयमभिभ्वायतनम् / इत्येते द्वे अभिभ्वायतने रूपी रूपाणि पश्यतीत्येतस्माद्विमोक्षादभिनिर्ह्रियेते / अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि विस्तरेण यावत्तथासंज्ञी च भवति / इदं तृतीयमभिभ्वायतनम् / अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणि यथा तथासंज्ञी च भवति / इदं चतुर्थमभिभ्वायतनम् / इत्येते द्वे अभिभ्वायतने अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यतीत्येत स्माद्विमोक्षादभिनिर्ह्रियेते / एवं कृत्वा द्वाभ्यां विमोक्षाभ्यां चत्वार्यभिभ्वायतनानि वेदितव्यानि / अध्यात्म[म]रूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि / तद्यथा उमकापुष्पं संपन्नं वा वाराणसीयकं वस्त्रं नीलं नीलवर्ण नीलनिदर्शनं नीलनिर्भासमेवमेवाध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि यावन्नीलनिर्भासानि तानि खलु रूपाण्यभिभूय जानात्याभिभूय पश्यति तथासंज्ञी च भवति / इदं पञ्चममभिभ्वायतनम् / अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति पीतानि यावत्पीतनिर्भासानि / तद्यथा कर्णिकारपुष्पं संपन्नं वा वाराणसीयकं वस्त्रं पीतं पीतवर्णमिति विस्तरः / इदं षष्ठमभिभ्वायतनम् / अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति लोहितानि यावल्लोहितनिर्भासानि / तद्यथा बन्धुजीवकपुष्पं संपन्नं वा वाराणसीयं वस्त्रं लोहितं लोहित[वर्ण]मिति विस्तरः / इदं सप्तममभिभ्वायतनम् / अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्यवदातान्यवदातवर्णान्यवदातनिदर्शनान्यवदातनिर्भासानि / तद्यथा उषसि तारकाया वर्णं संपन्नं वा वाराणसीयकं वस्त्रमवदातमवदातवर्णमवदातनिदर्शनमवदातनिर्भासमेवमेवाध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्य वदातान्यवदातवर्णान्यवदातनिदर्शनान्यवदातनिर्भासानि तानि खलु रूपाण्यभिभूय जानात्यभिभूय पश्यति तथासंज्ञी च भवति / इदमष्टममभिभ्वायतनम् / एतानि चत्वारि शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीत्येतस्माद्विमोक्षादभिनिर्ह्रियते //
442 SK तत्र विमोक्षैरालंबनमधिमुच्यते परीत्तादिकम्, अभिभ्वायतनैस्त्वभिभवति, तदन्तर्धानाद्यथेष्टं वा करणाद्वशवर्तमानतामुपादाय / तत्र परीत्तानि रूपाणि सत्त्वसंख्यातान्यल्पप्रमाणत्वात् / अधिमात्राण्यसत्त्वसंख्यातानि गृहविमानपर्वतादीनि (Aभिध्-स्-भ् १२७) महाप्रमाणत्वात् / सुवर्णदुर्वर्णानि शुभाशुभवर्णसंगृहीतानि / हीनप्रणीतानि मानुष्यकदिव्यानि यथाक्रमम् / तानि खलु रूपाण्यभिभूयेति वशे वर्तयित्वा / जानातीति शमथमार्गेण / पश्यतीति विपश्यनामार्गेण / तथासंज्ञी च भवतीत्यभिभूते नाभिभूते वा तन्निरभिमानसंज्ञितामुपादाय / नीलानीत्युद्देशपदम् / नीलवर्णानि सहजां नीलतामुपादाय / नीलनिदर्शनानि संयोगनीलतामुपादाय / नीलनिर्भासानि तदुभयोः प्रभानिर्मोक्षभास्वरतामुपादाय / यथा नीलान्येवं पीतलोहितावदातानि विस्तरेण वेदितव्यानि / दृष्टान्तद्वयं चैकैकस्मिन् सहजसांयोगिकवर्णोद्भावनतामुपादाय / अपरः पर्यायस्तद्यथा नीलमिति पुष्पवस्त्रयोः समानमुद्देशपदम् / नीलवर्णमिति पुष्पमेवाधिकृत्य, तस्य सांयोगिकनीलत्वसंभवात् / नीलनिर्भासमित्युच्यते पुष्पवस्त्रे अधिकृत्य, द्वयोरपि भास्वरत्वसंभवात् / इत्येवं कृत्वा दृष्टान्ते ऽपि तद्यथोमकापुष्पं संपन्नं वा वाराणसीयकं वस्त्रं नीलं नीलवर्णमित्येवमादिनिर्देश उपपन्नो भवति / एवं पीतादिकं योजयितव्यम् / शिष्टं यथाधिमोक्षेषु / किं शिष्टम् / अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यतीत्येवमादि / तत्पुनर्यथा रूपी रूपाणि पश्यतीत्येवमादि निर्देशानुसारेण द्रष्टव्यम् //
443 SK एवमभिभ्वायतनैरालंबनं वशे वर्तयित्वा कृत्स्नायतनैः कृत्स्नं स्फरति समन्तानन्ता पर्यन्तं विस्तारयतीत्यर्थः / तानि पुनः कृत्स्नायतनानि दश भवन्ति / तद्यथा पृथिवीकृत्स्नमप्कृत्स्नं तेजःकृत्स्नं वायुकृत्स्नं पीतकृत्स्नं लोहितकृत्स्नमवदातकृत्स्नमाकाशानन्त्यायतनकृत्स्नं विज्ञानानन्त्यायतनकृत्स्नं च / कृत्स्नायतनेषु पृथिव्यादीनि यदि न व्यवस्थाप्येरन् तेनाश्रयमहाभूतैर्विना तदुपादायरूपं नीलादिअकं स्फरितुं न शक्येत / तस्याश्रयस्य रूपस्य स्फरणसमृद्धिमुपादायैषां कृत्स्नेषु व्यवस्थानं वेदितव्यम् / शेषं यथासंभवं विमोक्षवदाकाशानन्त्यायतनकृत्स्नादि //
444 SK तत्र विमोक्षैरारम्भः, अभिभ्वायतनेः प्रयोगः, कृत्स्नायतनैः परिनिष्पत्तिर्विमोक्षाणां वेदितव्याः //
445 SK अरणा विहारी येषां सत्त्वानामाभासं गन्तुकामो भवति तेषामात्मनि (Aभिध्-स्-भ् १२८) क्लेशसमुदाचारमधिकृत्यानागतवृत्तान्तं विहारगत एव प्रणिधिज्ञान बलेनावलोक्य तथा तत्समीपमुपसंक्रामति न वा यथा ते तत्रानुनयप्रतिधेर्ष्यामात्सर्यादिकं क्लेशोपक्लेशसरणं नोत्पादयन्ति / अत इदमुच्यते ऽरणा ध्यानं निश्रित्य क्लेशोत्पत्त्यनुरक्षाविहारसमृद्धाविति विस्तरः /
446 SK प्रणिधिज्ञानं तल्लाभी यद्यदेव त्रैयध्विकादिकज्ञेयवृत्तान्तं ज्ञातुकामोभवति, तत्र तत्र मानसं प्रणिधायेदं जानीयामिति ध्यानं समापद्यते, ततो व्युत्थितस्य तत्प्रणिधानं समृध्यति, तज्ज्ञेयं जानातीत्यर्थः //
447 SK धर्मप्रतिसंवित् पर्यायेषु, तद्यथाविद्यादीनारभ्याज्ञानमदर्शनमनभिसमय इत्येवमादिष्वव्याघातसमृद्धौ यः समाधिरिति विस्तरः / अर्थप्रतिसंवित्स्वसामान्यलक्षणे धर्माणाम्, अर्थान्तराद्यभिप्राये चाव्याघातसमृद्धाविति विस्तरः / निरुक्तिप्रतिसंविज्जनपदभाषायामिति प्रतिविषयं यथास्वमन्योन्यसंज्ञान्तरानुव्यवहारे, धर्मनिर्वचने चेति तद्यथा लुज्यते प्रलुज्यते तस्माल्लोकः, रूप्यते तस्माद्रूप इत्येवमादिके / प्रतिभानप्रतिसंविद्धर्मप्रभेदेष्विति द्रव्यसन्तः प्रज्ञप्तिसन्तः संवृतिसन्तः परमार्थसन्त इत्येवमादिषु //
448 SK ऋद्धयभिज्ञा विचित्रद्धिविकुवितसमृद्धाविति तद्यथा एको भूत्वा बहुधा भवतीत्येवमादौ / विचित्राणां शब्दानामनुश्रवसमृद्धाविति दिव्यमानुष्यकादीनाम् / परसत्त्वेषु चित्तचरितप्रवेशसमृद्धाविति सरागादिचित्तप्रचारयथाभूतज्ञानसमृद्धावित्यर्थः / पूर्वान्तचर्याया अनुस्मरणसमृद्धावित्यतीतं जन्मपरंपरामारभ्य नामजातिगोत्रादिप्रकारवृत्ताया इत्यर्थः / च्युत्युत्पादाभिज्ञा दिव्येन चक्षुषा सत्त्वानां च्यवमानानामुपपद्यमानानां सुवर्णानां दुर्वर्णानां सुगतिमपि गच्छतां दुर्गतिमप्यपरान्तमारभ्य च्युत्युपपादसंदर्शनसमृद्धौ समाध्यादयः / आस्रवक्षयज्ञान समृद्धाविति येनोपायेनास्रवाः परिक्षोयन्ते, यश्चैषां परिक्षयस्तज्ज्ञाननिष्पत्तिनिमित्तमित्यर्थः //
449 SK लक्षणानुव्यञ्जनानि यत्समाधिप्रज्ञाधिपत्येन बुद्धा भगवन्तो द्वात्रिंशता लक्षणैरशीत्यानुव्यञ्जनैः विभ्राजमानं रूपकायं संदर्शयन्ति विनेयानाम् / (Aभिध्-स्-भ् १२९) तत्स्वभावानि तानि तेषां वेदितव्यानि, धर्मकायप्रभावितत्वाद्बुद्धानां भगवतामिति / बोधिसत्त्वानां तु तथासंदर्शनसमर्थानां समाधिप्रज्ञास्वभावानि / तदन्येषां पर्षन्मण्डलेषूपपन्नानां तत्समुत्थितविपाकस्वभावानि वेदितव्यानि //
450 SK चतस्रः सर्वकाराः परिशुद्धयो बुद्धानां भगवतां महाभिज्ञाप्राप्तानां च बोधिसत्त्वानाम् / तत्र यथाकाममाश्रयस्योपादानस्थानपरित्यागानां समृद्धाविति यत्रेच्छति तत्रोपपत्तिग्रहणतः, तस्यां चोपपत्तावायुःसंस्कारानधिष्ठाय यावदिच्छमवस्थानतः, यदेच्छति तदायुःसंस्कारोत्सर्जनतश्च यथाक्रमम् / यथाकाममालंबनमधिकृत्य निर्माणपरिणामनज्ञानानां समृद्धावित्यपूर्वरूपादिनिर्माणतः, पूर्वोत्पन्नानां रूपादीनां सुवर्णादित्वेन परिणामतः, सर्वप्रकारावगमनतश्च यथाक्रमम् / यथाकामं समाधिमुखवशवर्तिसमृद्धाविति प्रतिक्षणं यथेष्टमपरिमितसमाध्यन्तरसमापत्तये / यथाकामं धारणीमुखसंधारणसमृद्धाविति द्वाचत्वारिंशतो ऽक्षराणामन्यतमाक्षरमनसिकारे तदादिसर्वधर्मपर्यायाभिलपनसामर्थ्यप्रतिलम्भायेत्यर्थः //
451 SK दश बलानि - स्थानास्थानज्ञानबलं कर्मस्वकज्ञानबलं ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलमिन्द्रियपरापरज्ञानबलं नानाधिमुक्तिज्ञानबलं नानाधातुज्ञानबलं सर्वत्रगामिनीप्रतिपज्ज्ञानबलं पूर्वनिवासानुस्मृतिज्ञानबलं च्युत्युपपादज्ञानबलमास्रवक्षयज्ञानबलं च / तत्र स्थानास्थानज्ञानबलं ध्यानं निश्रित्य सर्वप्रकारहेत्वहेतुज्ञानासंगाप्रतिहतसंमुखीभावे समाध्यादयः / एवं कर्मस्वकज्ञानबलादिषु सर्वाकारकर्मस्वकताज्ञानासंगाप्रतिहतसंमुखीभाव इति योजयितव्यम् //
452 SK चत्वारि वैशारद्यानि - सम्यक्संबुद्धस्य वत मे सत इमे ते धर्मा अनभिसंबुद्धा इत्यत्र मां कश्चिच्छ्रमणो वा देवो वा मारो वा ब्रह्मा वा सहधर्मेण चोदयेद्वा स्मारयेद्वा निमित्तमपि न समनुपश्याम्येतच्च निमित्त[म]समनुपश्यन् क्षेमप्राप्तश्च वैशारद्यप्राप्तश्चोदारमार्षभं स्थानं प्रजानामि, ब्रह्मचर्यं प्रवर्तयामि, परिषदि सम्यक् सिंहनादं नदामि / क्षीणास्रवस्य वत मे सत इमे आस्रवा अपरिक्षीणा इति / ये वा पुनर्मे श्रावका[णा]मन्तरायिका धर्मा आख्याताः तान् प्रतिषेवमानस्य नालमन्तरायातेति (Aभिध्-स्-भ् १३०) यो वा पुनर्मे श्रावकाणां निर्याणाय मार्ग आख्यात आर्योनैर्याणिको नैर्वेधिकः स वत न सम्यङ्निर्याति तत्करस्य सम्यग्दुः[ख]क्षयाय दुःखस्यान्तक्रियायै इत्यत्र मां कश्चित् श्रमणो वा ब्राह्मणो वा यावत्सिंहनादं नदामीति विस्तरेणैकैकस्मिन् वक्तव्यम् / तान्येतानि वैशारद्यानि स्वार्थं परार्थं चारभ्य वेदितव्यानि / तत्र द्विविधः स्वार्थः - ज्ञानविशेषः प्रहाणविशेषश्च / द्विविधः परार्थः - विपक्षधर्मविवर्जनं प्रतिपक्षधर्मनिषेवणं च / तत्राभिसंबोधिवैशारद्यं ज्ञानात्मकं स्वार्थमेवारभ्य सर्वाकारं मया सप्रभेदपर्यन्तं ज्ञेयमभिसंबुद्धमित्येतस्याः प्रतिज्ञायाः सम्यङ्निरनुयोज्यत्वेन सर्वस्मिन् लोके प्रतिष्ठापनसमृद्धौ यः समाधिरिति पूर्ववत् / एवं शेषाण्यपि वैशारद्यानि योजयितव्यानि / सर्वाकाराः पुनरास्रवाः सवासनाः क्लेशा द्रष्टव्याः / सर्वाकारा अन्तरायिका धर्माः सर्वे सांक्लेशिकाः विपक्षधर्मा द्रष्टव्याः / सर्वाकारो नैर्याणिको मार्गः प्रयोगमार्गमारभ्य यावन्निष्ठामार्गो द्रष्टव्यः //
453 SK त्रीण्यावेणिकानि स्मृत्युपस्थानानि / इह शास्ता श्रावकाणां धर्मं देशयत्यनुकम्पकः कारुणिको ऽर्थकामो हितैषी करुणायमानः - इदं वो भिक्षवो हिताय इदं सुखाय इदं हितसुखायेति / तस्य ते श्रावकाः शुश्रूषन्ते श्रोत्रमवदधत्याज्ञाचित्तमुपस्थापयन्ति प्रतिपद्यन्ते धर्मस्यानुधर्मम् / तत्र तथागतस्य न नान्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वमुपेक्षकस्तत्र तथागतो विहरति स्मृतः संप्रजानन् / इदं प्रथमावेणिकं स्मृत्युपस्थानम् / यदार्यः सेवते यदार्यः सेवमानो ऽर्हति गणमनुशासितुम् / पुनरपरं शास्ता श्रावकाणां धर्मं देशयति यावदिदं हितसुखाय / तस्य ते श्रावका न शुश्रूषन्ते यावन्न प्रतिपद्यन्ते धर्मस्यानुधर्मम् / तत्र तथागतस्य नाघातो भवति नाक्षान्तिर्नाप्रत्ययो न चेतसो ऽनभिराद्धिरुपेक्षकस्तत्रेति विस्तरः / इदं द्वितीयम् / तृतीये ऽयं विशेषः - अस्यैके श्रावकाः शुश्रूषन्ते यावत्प्रतिपद्यन्ते धर्मस्यानुधर्ममेके न शुश्रूषन्ते यावन्न प्रतिपद्यन्ते धर्मस्यानुधर्मम् / तत्र तथागतस्य न नान्दो भवति यावच्चेतसो नाभिराद्धिरिति / एता[नि] त्रीणि स्मृत्युपस्थानानि (Aभिध्-स्-भ् १३१) शास्तुर्गणपरिकर्षणे यथाक्रमं सर्वाकारानुनयप्रतिघतदुभयसंक्लेशवासनाया असमुदाचारसमृद्धौ समाध्यादयः //
454 SK त्रीण्यरक्षाणि / परिशुद्धकायसमुदाचारस्तथागतः / नास्ति तथागतस्यापरिशुद्धकायसमुदाचारता यां तथागतः प्रतिच्छादयितव्यां मन्येत कच्चिन्मे परे वि[जा]नीयुरिति / एवं वाङ्मनःसमुदाचारते वेदितव्ये / एभिर्निर्वक्तव्यतया निराशङ्कत्वात्स्वयं शास्तुविनेयजनपरिकर्षणमारभ्य यथेष्टं निगृह्य प्रसज्याववादानुशासनीप्रयोगः समृद्धयतीति वेदितव्यम् //
455 SK असंमोषधर्मता सर्वविनेयकार्यमारभ्य यथावत्कृतस्य भाषितस्य चाभिलपनसमृद्धौ समाध्यादयः //
456 SK वासनासमुद्घातः सर्वज्ञस्य सतः क्लेशज्ञेयावरणशेषसूचकानां कायवाक्चेष्टितानामसमुदाचारसमृद्धौ समाध्यादयः //
457 SK महाकरुणा त्रैधातुकावचरेषु सर्वसत्त्वेषु निरन्तरसर्वप्रकारदुःखालंबन करुणाविहारसमृद्धौ समाध्यादयः //
458 SK अष्टादशावेणिका बुद्धधर्मास्तद्यथा नास्ति तथागतस्य स्खलितम्, नास्ति रवितम्, नास्ति मुषिता स्मृतिः, नास्त्यसमाहितं चित्तम्, नास्ति नानात्वसंज्ञा, नास्त्य प्रतिसंख्यायोपेक्षा, नास्ति छन्दपरिहाणिः, नास्ति वीर्यपरिहाणिः, नास्ति स्मृतिपरिहाणिः, नास्ति समाधिपरिहाणिः, नास्ति प्रज्ञारिहाणिः, नास्ति विमुक्तिपरिहाणिः, सर्वं तथागतस्य कायकर्म ज्ञानपूर्वगमं ज्ञानानुपरिवर्ति, सर्वं वाक्कर्म ज्ञानपूर्वगमं ज्ञानानुपरिवर्ति, सर्वं मनस्कर्म ज्ञानपूर्वगमं ज्ञानानुपरिवर्ति, अतीते ऽध्वन्यसङ्गमप्रतिहतं ज्ञानम्, अनागते ऽध्वन्यसङ्गमप्रतिहतं ज्ञानम्, प्रत्युत्पन्ने ऽध्वन्यसङ्गमप्रतिहतं ज्ञानमिति //
459 SK एषां पुनर्व्यवस्थानम्, तद्यथा अर्हन् भिक्षुः क्षीणास्रवः ग्रामं पिण्डाय चरन्नेकदा चण्डेन हस्तिना सार्घ समागच्छति / यथा चण्डेन हस्तिनेवं चण्डनाश्वेन, (Aभिध्-स्-भ् १३२) चण्डया गवा, चण्डेन कुक्कुरेण / गहनं वा कण्टकबाटं वा मृद्नाति / अलगर्दं वा पदाभ्यां समाक्रामति / तद्रूपं वागारं प्रविशति यत्रैनं मातृग्रामो ऽयोगविहितेनोपनिमन्त्रयति / अरण्ये वा पुनमार्गं हित्वा कुमार्गेण गच्छति / चोरैर्वा तस्करैर्वा सार्धं समागच्छति सिंहैर्व्याघ्रैर्वापरवृकैर्वा इत्येवंभागीयं स्खलितमर्हतस्तथागतस्य सर्वेण सर्व नास्ति / पुनरयमर्हन्नेकदारण्ये प्रवणे ऽन्वाहिण्डन्मार्गादपनश्य शून्यागारं प्रविश्य शब्दमुदीरयति, घोषमनुश्रावयति, महारुतं रवति / वासनादोषं वागम्य क्लिष्टं महाहासं हसति, दन्तविदर्शकं संचग्धितमुपदर्शयति / इत्येवंभागीयमर्हतो रवितं तथागतस्य सर्वेण सर्वं नास्ति / नास्ति तथागतस्य मुषिता स्मृतिरक्लिष्टचिरकृतचिरभाषितानुस्मरणतामुषादाय / पुनरपरमर्हन् समापन्नः समाहितो भवति व्युत्थितो ऽसमाहितः / तथागतस्य तु सर्वावस्थं नास्त्यसमाहितं चित्तम् / पुनरपरमर्हन्नेकान्तेनोपधा च प्रतिक्रमणसंज्ञी भवति निरुपधिके च निर्वाणे शान्तसंज्ञी / तथागतस्य उपधौ निर्वाणे च नानात्वसंज्ञा नास्ति, परमोपेक्षाविहारितामुपादाय / पुनरपरमर्हन्नप्रतिसंख्याय सत्त्वार्थक्रियामध्युपेक्षते / तथागतस्य त्वियमेवंभागीयाप्रतिसंख्यायोपेक्षा नास्ति / पुनरपरमर्हन् ज्ञेयावरणविशुद्धिमारभ्याप्राप्तपरिहाण्या छन्देनापि परिहीयते वीर्ये णापिस्मृत्या समाधिना प्रज्ञया विमुक्त्या विमुक्तिज्ञानदर्शनेनापि परिहीयते / इतीयं सप्ताकारा परिहाणिस्तथागतस्य नास्ति / पुनरपरमर्हन्नेकदा कुशले कायकर्मणि प्रवर्तते, एकदाव्याकृते / यथा कायकर्मण्येवं वाक्कर्मणि मनस्कर्मणि च / तथागतस्य त्रयाणामपि कर्मणां ज्ञानपूर्वगमत्वाज्ज्ञानानुपरिवर्तित्वाच्च नास्त्यव्याकृतं कर्म तत्र ज्ञानसमुत्थापनतामुपादाय ज्ञानपूर्वगमम् / ज्ञानसहचरतामुपादाय ज्ञानानुपरिवर्ति / पुनरपरमर्हन् त्रैयध्विकं ज्ञेयवस्तु न चाभोगमात्रात्प्रतिपद्यते येनास्य सक्तं ज्ञानदर्शनं भवति / न च सर्वं प्रतिपद्यते येनास्य प्रतिहतं ज्ञानदर्शनं भवति / तथागतस्त्रैयध्विकमाभोगमात्रात् सर्वं वस्तु प्रतिपद्यते / तस्मादेते अष्टादशावेणिका बुद्धधर्मा इत्युच्यन्ते / तत्रैषामाद्याः षट् असाधारणकायवाङ्मनस्कर्मपरिशुद्धिसमृद्धौ समाध्यादयः / (Aभिध्-स्-भ् १३३) तत्र नास्ति स्खलितमित्ययं कायकर्मपरिशुद्धिमारभ्य / नास्ति रवितमित्ययं वाक्कर्मपरशुद्धिमारभ्य / तत्र नास्ति मुषितस्मृतिः नास्त्यसमानितं चित्तं नास्ति नानात्वसंज्ञा नास्त्यप्रतिसंख्यायोपेक्षेत्येतच्चतुष्टयं मनस्कर्मपरिशुद्धिमधिकृत्य वेदितव्यम् / नास्ति छन्दपरिहाणिर्यावन्नास्ति विमुक्तिज्ञानदर्शनपरिहाणिरिति साश्रयाणां सफलानां तथागतेन्द्रियाणामप्राप्त्यपरिहाणिसमृद्धौ समाध्यादयः / तत्राश्रयश्छन्दः / फलं विमुक्तिर्विमुक्तिज्ञानदर्शनं च / इन्द्रियाणि वीर्यादीनि वेदितव्यानि / सर्वं कायकर्म वाक्कर्म मनस्कर्म ज्ञानपूर्वगमं ज्ञानानुवर्तीत्येते त्रयो ऽसाधारणकर्मचारसमृद्धौ समाध्यादयः / अतीते ऽध्वन्यसङ्गमप्रतिहतं ज्ञानं यावत्प्रत्युत्पन्ने ऽध्वनीत्येते त्रयो ऽसाधारणज्ञानविहारसमृद्धौ समाध्यादयः //
460 SK स्कन्धधात्वायतनेषु सर्वाकारज्ञतासमृद्धाविति स्कन्धादीनां स्वभावविशेषलक्षणप्रभेदपर्यन्तज्ञाननिष्पत्तावित्यर्थः //
461 SK तेषां पुनरभिनिर्हारो निश्रयतो ऽभिनिर्हारकपुद्गलतो ऽभिनिर्हारोपायतश्च परिदीपितः / अभिनिर्हारोपायः पुनर्यथाव्यवस्थानं मनस्कारबहुलीकारता यथादेशनं समाहितस्य चित्तस्य पुनःपुनस्तत्र धारणमित्यर्थः / तद्यथाप्रमाणान्यभिनिर्हर्तुकामो मंत्रीसहगतेन चित्तेनावैरेणासपत्नेनेत्येवमादिकां देशनां ध्यानसंनिश्रयेण भावयन् मनसिकुर्वन् बहुलीकरोति, एवमभिज्ञादीनभि निर्हर्तुकाम एको भूत्वा बहुधा भवतीत्येवमादिकं व्यवस्थानं मनसिकुर्वन् बहुलीकरोतीति योजयितव्यम् //
462 SK त एते ऽप्रमाणादयो गुणा द्विप्रकाराः / स्वकारित्रप्रत्युपस्थानाश्च यैरार्यो यथायोगं विपक्षप्रहाणादिकं कर्म करोति, वैहारिकाश्च यैः परमप्रशान्तनिर्विकल्पज्ञानसंगृहीतैरनालंबनाप्रमाणादिभिर्दृष्टे धर्मे सुखं विहरति //
463 SK तत्राप्रमाणैविपक्षं प्रजहातीति यथाक्रमं व्यापादं विहिंसामरतिमनुनयप्रतिघौ च / एतानि च चत्वार्यप्रमाणान्यनुकम्पेत्युच्यते, एभिः सत्त्वार्थं प्रत्यनुगुणं प्रवर्तनात् / अतस्तैर्विहरमाणः सर्वसत्त्वेष्वनुकम्पाविहारितया पुण्यसंभारं परिपूरयति / अत एव सत्त्वपरिपाके च न परिखिद्यते, सर्वसत्त्वानुकम्पित्वेन स्वात्मनिरपेक्षत्वात् //
464 SK विमोक्षेषु द्वाभ्यां विमोक्षाभ्यां निर्माणकर्माभिनिर्हरति / तृतीयेन शुभे निर्माणे न संक्लिश्यते / चतुभिरार्यविमोक्षैः शान्तेषु मोक्षेषु न सज्जते / प्रश्चिमेन परमप्रशान्तेनार्यविहारेण विहरति / तथा तथाधिमोक्षार्थश्च विमोक्षो वेदितव्यः //
465 SK अभिभ्वायतनादीनां कर्म पूर्ववत् तन्निर्देशानुसारेणैव योजयितव्यम् //
466 SK अरणाया आदेयवचनो भवति, परचित्तानुरक्षणप्रधानतया यथानुरूपं वचनात् //
467 SK प्रणिधिज्ञानेन बहुमतश्च भवति लोकस्य, सर्वं जानातीति गौरवितत्वात् //
468 SK प्रतिसंविद्भिर्देशनया सत्त्वचित्तानि संतोषयति, बहुविचित्रैः प्रकारैः संशयच्छेदनात् //
469 SK ऋद्धिदिव्यश्रोत्रपरचित्तज्ञानपूर्वेनिवासच्युत्युपपादास्रवक्षयाभिज्ञाभिर्यथाक्रमं कायकर्मादिना शासने आवर्जयति / दिव्यश्रोत्राभिज्ञया सर्वरुतप्रकाराभ्युपपत्तितो वाक्कर्मणावर्जनं वेदितव्यम् //
470 SK आश्रयपरिशुद्धया यथाकाममाश्रयस्योपादानस्थानपरित्यागानधिकृत्य संचिन्त्य भवोपपत्तिपरिग्रहणादीनि त्रीणि वेदितव्यानि / आलंबनपरिशुद्धया धर्मवशवर्ती भवति, चित्तपरिशुद्धया समाधिवशवर्ती, ज्ञानपरिशुद्ध्या सद्धर्मं धारयति //
471 SK बलेषु द्वाभ्यां बलाभ्यामभ्युदयमार्ग देशयति शेषैर्निःश्रेयसमार्गमे तावच्च बुद्धानां भगवतां करणीयम् / तत्र स्थानास्थानज्ञानबलेन भगवन्निर्हेतुको ऽभ्युदयः प्रकृतीश्वरादिहेतुको वेत्येवमहेतुविषमहेतुवादं प्रतिक्षिपति / कर्मस्वकताज्ञानबलेन स्वयमकृतमपि कर्मागच्छतीत्येवमकृताभ्यागमवादं प्रतिक्षिपति, यतः सम्यगविपरीतं सुगतिमार्ग देशयति / ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन सत्त्वानां चित्तचरितानि चेतः प्रचराननुप्रविशति / इन्द्रियपरापरज्ञानबलेन देशनाभाजनतां श्रद्धादीन्द्रियपरिपाकमनुप्रविशति / नानाधिमुक्तिज्ञानबलेनाशयं हीनप्रणीताधिमुक्तिकतामनुप्रविशति / नानाधातुज्ञानबलेनानुशयसमुद्घातनशक्यक्लेशतामनुप्रविशति / सर्वत्रगामिनीप्रतिपज्ज्ञानबलेनालंबनं श्रावकयानं महायानं वा देशनाधर्मसंगृहीतधर्ममनुप्रविशति / (Aभिध्-स्-भ् १३५) पूर्वेनिवासानुस्मृतिज्ञानबलेन संभारं पूर्वजन्मसमुदायगतमार्यमार्गहेतुमनुप्रविशति // च्युत्युपपादज्ञानबलेन भव्यता मायत्यामनुप्रविशति / आस्रवक्षयज्ञानबलेन निःसरणं च सर्वस्मात्त्रैधातुकादनुप्रविशति यतो यथावन्मोक्षमार्ग देशयति //
472 SK बलत्वं पुनरेषामेभिः स्कन्धक्लेशदेवपुत्रमरणमारनिग्रहणविशेषात् / विशेषः पुनर्ज्ञेयावरणप्रहाणे ऽप्यनन्तरायकृतत्वात्, स्थानास्थाने यावदास्रवक्षय इति सर्वत्र प्रश्नं पृष्टस्य प्रश्नव्याकरणव्याघाताच्च //
473 SK वैशारद्यैः परिषदि सम्यगात्मनः शास्तृत्वमात्मपरहितप्रतिपन्नत्वं व्यवस्थापयति / चोदकांश्चाभिसंबोधौ यावन्मार्गे तीर्थ्यान् सहधर्मेण निगृह्णाति //
474 SK स्मृत्युपस्थानैरसंक्लिष्टो गणं परिकर्षति, शूश्रूषमाणादिष्वनुनयादिसंक्लेशाभावात् //
475 SK अरक्ष्यैर्निरन्तरं गणमववदति समनुशास्ति, स्वदोषाविर्भावना शंकयानुरक्ष्याभावात् //
476 SK असंमोषधर्मतया बुद्धकृत्यं न हापयति, उपस्थिते सत्त्वार्थकृत्ये प्रमादेन क्षणमप्यलंघनात् //
477 SK वासनासमुद्घातेन निःक्लेशः क्लेशप्रतिरूपां चेष्टां न दर्शयति यथार्हन् भिक्षुः स्खलितादिकं दर्शयति //
478 SK महाकरुणया षट्कृत्वा रात्रिंदिवसेन लोकं व्यवलोकयति, को हीयते कः परिहीयत इत्येवमादिभिः प्रकारैः प्रत्यवेक्षणात् //
479 SK आवेणिकानां बुद्धधर्माणां कर्मासाधारणकायवाङ्मनस्कर्मपरिशुद्धिसमृद्धावित्येवमादिलक्षणनिर्देशाधिकारेणयोजयितव्यम् //
480 SK सर्वकारज्ञतया सर्वसत्त्वानां सर्वसंशयान् छिनत्ति, सर्वत्राव्याहतज्ञानत्वात् / धर्मनेत्रीं च दीर्घकालमवस्थापयति, तत्र तत्र विनेयसंशयच्छेदनार्थ देशितानां धर्मपर्यायाणां संगीतिकारैरनुक्रमेण संज्ञापनात् / (Aभिध्-स्-भ् १३६) धर्मनेत्रीं निस्रित्यापरिपक्वाः सत्त्वाः परिपच्यन्ते परिपक्वाश्च विमुच्यन्ते //
481 SK विशिष्टमार्गलाभे हीनमार्गविहानिस्तद्यथा फलसंगृहीतमार्गलाभे प्रतिपन्नकमार्गो विहीन इत्युच्यते, पुनरसंमुखीकरणात् / सकलप्रहाणं च साक्षात्करोति फलप्राप्तिकाले तु तद्विपक्षजातीयक्लेशप्रतिपक्षदौष्ठुल्याशेषप्रहाणादाश्रयपरिवृत्तिविशेषलाभतः समवसर्गविहान्या विजहाती[त्य]त्यन्तासमुदाचारं विजहा[ती]त्यर्थः / नो तु बोधिसत्त्वस्तथा विजहाति, सर्वसत्त्वपरिनिर्वाणाभिप्रायपूर्वकत्वात्तन्मार्गस्य / अत एव बोधिसत्त्वा अक्षयकुशलमूला अक्षयगुणा इत्युच्यन्ते तद्यथाक्षमिति [सूत्रे] ऽक्षयतानिर्दिष्टेति //
482 SK शाश्वतो लोक अशाश्वत इत्येवमादिषु प्रश्नेष्वव्याकृतवस्तुव्यवस्थानमनर्थोपसंहितत्वेनायोनिशत्वात् / तेषां तेषां प्रश्नानां कीदृशः पुनः प्रश्नो ऽर्थोपसंहितः / तद्यथा चत्वार्यार्यसत्यान्यारभ्य यः प्रश्नः / तथाहि सहेतुफलसंक्लेशव्यवदानचिन्तान्तर्भूत इति //
483 SK बोधिसत्त्वस्य न्यामावक्रान्तावपि श्रोतापन्नत्वाव्यवस्थानम्, अप्रतिष्ठितमार्गप्रतिलम्भात् प्रतिश्रोतः प्रतिपत्त्यपरिनिष्पन्नतामुपादाय //
484 SK ज्ञेयं षड्विधं - भ्रान्तिर्यावदभ्रान्तिनिष्यन्दश्च / तत्र भ्रान्तिर्ग्राह्यग्राहकाभिनिवेशः / भ्रान्त्याश्रयो यस्मिन्नार्यज्ञा नगोचरे संस्कारनिमित्तमात्रे ऽभूतपरिकल्पात्मके सति बालानां सो ऽभिनिवेशः प्रवर्तते / अभ्रान्त्याश्रयस्तथता, निर्विकल्पस्य ज्ञानस्य तदधिष्ठानत्वात् / भ्रान्त्यभ्रान्तिलोकोत्तरज्ञानानुकूलाः श्रुतमय्यादयः कुशला धर्माः, ज्ञेयविकल्पनान्निर्विकल्पज्ञानानुकूल्याच्च / अभ्रान्तिर्निर्विकल्पज्ञानम् / अभ्रान्तिनिष्यन्द आर्यमार्गपृष्ठलब्धाः कुशला धर्माः //
485 SK उपायकौशल्यं पुनश्चतुर्विधम् / सत्त्वपरिपाककौशल्यं चत्वारि संग्रहवस्तूनि, तैः संगृह्य कुशलेषु धर्मेषु नियोजनात् / (Aभिध्-स्-भ् १३७) बुद्धधर्मपरिपूरणकौशल्यं प्रज्ञापारमिता, दानपारमितां यावत् सर्वाकारवरज्ञतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेनास्यामेव प्रज्ञापारमितायां शिक्षितव्यमिति वचनात् / क्षिप्राभिज्ञताकौशल्यं षट्कृत्वा रात्रिदिवसं पापप्रतिदेशना पुण्यानुमोदना बुद्धाध्येषणा कुशलमूलपरिणामना च यथाक्र[म]मार्यमैत्रेयपरिपृच्छायाम् / धर्मानुपच्छेदकौशल्यं चाप्रतिष्ठितनिर्वाणतया पुनःपनरनुपरतमत्यन्तं च समन्ताल्लोकधातुषु यथाविनेयं बुद्धबोधिसत्त्वचर्यासंदर्शनादिति //
486 SK अभूतपरिकल्पो दशविधः / तत्र मूलविकल्प आलयविज्ञानम्, सर्वविकल्पानां बीजभूतत्वात् / निमित्तविकल्पो देहप्रतिष्ठाभोगप्रतिभासा विज्ञप्तयः, ग्राह्यनिमित्तभूतत्वात् / ताः पुनर्यथाक्रमं रूपीन्द्रिय भाजनलोकरूपादिविषयलक्षणा द्रष्टव्याः / निमित्तप्रतिभासस्य विकल्पः षड्विज्ञानकायाः मनश्च, यथोक्तग्राह्यनिमित्ताकारत्वात् / निमित्तविकारविकल्पो यथोक्तदेहादिनिमित्तस्यान्यथात्वेनोत्पादः / निमित्तप्रतिभासविकार विकल्पो यथोक्तस्य चक्षर्विज्ञानादिनिमित्तप्रतिभासस्य सुखाद्यवस्थान्तरेणोत्पादः / परोपनीतो विकल्पो देशनासंगृहीतनामपदव्यञ्जनकायलक्षणः / स पुनर्द्विविधः - दुराख्यातधर्मविनयात्मकः स्वाख्याधर्मविनयात्मकश्च / अतस्तदधिपतेयमनस्कारसंगृहीतौ यथाक्रमं योनिशोविकल्पो ऽयोनिशोविकल्पश्च वेदितव्यः / अभिनिवेशविकल्पो ऽयोनिशोविकल्पाद्वाषष्टिदृष्टिगतसंगृहीतो यो विकल्पः / विक्षेपविकल्पः योनिशो विकल्पादभावादिग्राहलक्षणो यो विकल्पः //
487 SK स पुनर्दशविधः - अभावविकल्पः यावद्यथार्थनामविकल्पश्च / स एष दशविधो विकल्पः प्रज्ञापारमितादिनिर्देशमधिकृत्य वेदितव्यः / यथोक्तम् इह शारिपुत्र बोधिसत्त्वो बोधिसत्त्व एव सन् बोधिसत्त्वं न समनुपश्यति / (Aभिध्-स्-भ् १३८) बोधिसत्त्वनाम न समनुपश्यति / प्रज्ञापारमितां न समनुपश्यति / बोधिं न समनुपश्यति / चरतीति न समनुपश्यति / न चरतीति न समनुपश्यति / तथाहि नाम स्वभावेन शून्यं न शून्यतया, रूपं स्वभावेन शून्यं न शून्यतया यावद्विज्ञानं स्वभावेन शून्यं न शून्यतया / तत्कस्य हेतोः / या रूपस्य शून्यता न तद्रूपम्, नाप्यन्यत्र, रूपाच्छन्यता, रूपमेव शून्यताः, शून्यतैव रूपम्, एवं यावद्विज्ञानम् / तत्कस्य हेतोः / नाममात्रमिदं यदुत बोधिसत्त्वनामेति बोधिसत्त्व इति प्रज्ञापारमितेति बोधिरिति रूपमिति यावद्विज्ञानमिति / स्वभावस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् / प्रज्ञापारमितायां चरन् बोधिसत्त्व उत्पादमपि न समनुपश्यति यावद्वयवदानमपि न समनुपश्यति / तत्कस्य हेतोः / कृत्रिमं नाम प्रति प्रति ते धर्माः कल्पिता आगन्तुकेन नाम्नानुव्यवह्रियन्ते / [यथा यथानुव्यवह्रियन्ते] तथा तथाभिनिविशन्ति / तानि बोधिसत्त्वः सर्वनामानि न समनुपश्यति, असमनुपश्यन्नाभिनिविशते / तत्र अभावविकल्पप्रतिपक्षेणाह - बोधिसत्त्वो बोधिसत्त्व एव सन्नित्येवमादि, सच्छब्दस्य भावार्थत्वात् / भावविकल्पप्रतिपक्षेणाह - बोधिसत्त्वं न समनुपश्यति यावद्वयवदानमपि न समनुपश्यति यावन्न चरतीति न समनुपश्यति पुद्गलधर्मभावप्रतिषेधात् / समारोपविकल्पप्रतिपक्षेणाह - तथाहि नाम स्वभावेन शून्यमिति, अभूतपरिकल्पस्य स्वभावप्रतिषेधात् / अपवादविकल्पप्रतिपक्षेणाह - न शून्यतयेति, तस्मिन्नाम्नि तेन परिकल्पितेन परिकल्पित स्वभावेन विरहिततायाः सर्वदास्तित्वात् / एकत्वविकल्पप्रति पक्षैणाह - या रूपस्य शून्यता न तद्रूपं यावद्विज्ञानमिति, भावान्तरत्वात् / रूपादयो हि परिकल्पितः स्वभावः शून्यता परिनिष्पन्न इति / पृथकत्वविकल्पप्रतिपक्षेणाह - नाप्यन्यत्र रूपाच्छून्यताया रूपम्, यावच्छन्यतैव विज्ञानमिति, परिकल्पितस्वभावस्या लक्षणत्वात्तद्व्यतिरेकेण तद्भा वासंभवतः / स्वभावविकल्पप्रतिपक्षेणाह - नाममात्रमिदं यदुत रूपमिति यावद्विज्ञानमिति, अभिलापव्यतिरेकेणाभिलाप्यस्वभावाभावात् / विशेषविकल्पप्रतिपक्षेणाह - स्वभावस्य नोत्पादो यावद्वयवदानमपि न समनुपश्यतीति, उत्पादादिविशेषलक्षणप्रतिषेधात् / यथानामार्थविकल्पप्रतिपक्षेणाह - कृत्रिमं (Aभिध्-स्-भ् १३९) नाम प्रति प्रति ते धर्माः कल्पिता आगन्तुकेन नाम्ना व्यवह्रियन्ते इत्येवमादि / यथार्थनामविकल्पप्रतिपक्षेणाह - तानि बोधिसत्त्वः सर्वनामानि न समनु पश्यन्नाभिनिविशत इति, यथार्थं नाम्नामदर्शना[न]भिनिवेशात् //
488 SK निर्विकल्पनात् त्रिधा संतुष्टिनिर्विकल्पनादिभिः / तत्र पृथग्जना यदि [अ]नित्यतादिकां कांचिदेवधर्मतामारभ्य चित्तपर्यवसानं नीत्वा लब्धपरितोषा भवन्त्येवमेतदिति निश्चिन्वन्तः सा तेषां संतुष्टिनिर्विकल्पतेत्युच्यते, तत्र सर्वतर्काख्यविकल्पोपरतेः / श्रावकाः स्कन्धेषु नित्यादिविपर्यासप्रतिपक्षेण यथावद्रूपादिकं धर्मधातुं परीक्षमाणा लोकोत्तरेण ज्ञानेन नैरात्म्यं प्रतिविध्यन्त्यतः सा तेषामविपर्यासनिर्विकल्पतेत्युच्यते / बोधिसत्त्वास्तदपि रूपादिधर्ममात्रं प्रपञ्च इति विदित्वा सर्वधर्मनिमित्तानि विभावयन्तः परमशान्तेन लोकोत्तरेण ज्ञानेन सर्वत्रगां तथतां प्रतिविध्यन्त्यतः सा तेषां निष्प्रपञ्चनिर्विकल्पतेत्युच्यते / कथं पुनरसौ निष्प्रपञ्चनिर्विकल्पतेत्युच्यते / यद्यमनस्कारतस्तेन सुप्तमत्तादीनां निर्विकल्पताप्रसङ्गः, तेषां धर्मनिमित्तामनस्कारात् / अथ समतिक्रमतस्तेन द्वितीयध्यानात् प्रभृति सर्वत्र निर्विकल्पता प्राप्नोति, [वि]तर्कविचारविकल्पानां समतिक्रमात्, ततश्च विकल्पस्य शरीरं हि चित्तचैत्ताः त्रैधातुका इत्यस्य विरोधः / अथ व्युपशमतस्तेन संज्ञावेदितनिरोधसमापत्तिर्निविकल्पता प्राप्नोति, तत्र चित्तचैतविकल्पव्युपशमात्, ततश्च ज्ञानाभावः प्रसज्यते / अथ स्वभावतस्तेन रूपं निर्विकल्पता प्राप्नोति, तस्याविकल्पस्वभावत्वात् / अथालंबने ऽभिसंस्कारस्तेन सविकल्पतैव निर्विकल्पता प्राप्नोति, निर्विकल्पमेतदित्येतस्याभिसंस्कारस्य निमित्तविकल्पलक्षणत्वात् / तस्मान्नैभिः प्रकारैः निर्विकल्पता द्रष्टव्या / अपि त्वालंबने ऽनभिसंस्कारताद्रष्टव्या / कथं कृत्वा / यदा ह्यस्य बोधिसत्त्वस्यानुलोमिकमववादमागम्य प्रकृत्या सर्वधर्मनिमित्तान्यपरिनिष्पन्नानीति विचारयतस्तद्विचारणाभ्यासबलाधानात् प्रत्यात्ममनभिसंस्कारेणैव यथावन्निष्प्रपञ्चधातौ सर्वधर्मतथतायां चित्तं समाधीयते सासावुच्यते निष्प्रपञ्चनिर्विकल्पतेति //
489 SK प्रकृत्या तीक्ष्णेन्द्रियो बोधिसत्त्व इत्युक्तं प्राक्कथं तेन कालेन कालमिन्द्रियाण्युतापयितव्यानीत्युच्यते / स्वजातीयानां मृद्वादित्रैविध्यादुत्तरोत्तराभिनिर्हारतस्तदुत्तापनं वेदितव्यम् / अन्यथा तीक्ष्णेन्द्रियगोत्राणामिन्द्रियाणामैकविध्ये सति बोधिसत्त्वानामिन्द्रियकृतो विशेषो नैवोपलभ्यते / स चोपलभ्यत इति //
490 SK सांकथ्यविनिश्चयो नाम पञ्चमः समुच्चयः
491 SK सप्तविधसांकथ्यविनिश्चये ऽर्थविनिश्चयः स्वभावार्थादीन् षडर्थानारभ्य वेदितव्यः / तत्र -
492 SK स्वभावस्त्रयः स्वभावाः परिकल्पितः परतन्त्रः परिनिष्पन्नश्च //
493 SK हेत्वर्थस्त्रयो हेतवः / उत्पत्तिहेतुस्तथा हेतुसमनन्तरालंबनाधिपतिप्रत्ययाः, ततः सर्वसंस्कृतनिर्वर्तनात् / प्रवृत्तिहेतुस्तद्यथाविद्याप्रत्ययाः संस्कारा यावत्समुदयो निरोधश्च भवतीत्येतयानुपूर्व्या संक्लेशव्यवदानप्रवृत्तेः / सिद्धिहेतुः प्रत्यक्षोपलम्भानुपलम्भसमाख्यानसंगृहीतः, तेन साध्यस्याप्रतीतस्यार्थस्य साधनात् //
494 SK फलार्थः पञ्च फलानि / विपाकफलं तद्यथालयविज्ञानम् / निष्पन्दफलं तद्यथा पूर्वोत्पन्नानां कुशलादीनां धर्माणां तत्सान्तानिका उत्तर कुशलादयो धर्माः / अधिपतिफलं तद्यथा सर्वसत्त्वसाधारणं कर्माधिपत्येन भाजनलोकः / पुरुषकारफलं तद्यथा सस्यादयः विसंयोगफलं तद्यथार्यमार्गेणानुशयसमुद्घातः //
495 SK कर्मार्थः पूर्ववद्द्रष्टव्यस्तद्यथा कर्मसंक्लेशनिर्देशे //
496 SK योगार्थः पञ्च योगाः सामूहिको योगस्तद्यथा गृहकाष्ठेष्टकादीनाम् / आनुबन्धिको योगस्तद्यथा[नु]शयादिहेतुः, तथाहि तस्मिन् सत्यसमुदाचरद्भिरपि क्लेशादिभिर्युक्त इत्युच्यते / साम्बन्धिको योगस्तद्यथा स्वजन्मनां परस्परम् / आवस्थिको योगस्तद्यथानुग्रहाद्याः संतानव्यवस्थाः, तथाहि तासु वर्तमानः सुखेन युक्तो यावद्दुःखासुखेन युक्त इत्युच्यते / वैकारिको योग आगन्तुकोपक्लेशादिक संमुखीभावः, तथाहि तस्मिन् सति रागादिभिः श्रद्धादिभिश्च युक्त इत्युच्यते //
497 SK वृत्त्यर्थः पञ्च वृत्तयः / लक्षणवृत्तिः संस्कृतस्य त्रीणि लक्षणान्युत्पादादीनि, तैः प्रकारैर्वर्तनात् / अवस्थानवृत्तिराधेयस्याधारे (Aभिध्-स्-भ् १४२) व्यवस्थानम् / विपर्यासवृत्तिः सांक्लेशिकानां धर्माणामयथाभूतं वर्तनात् / अविपर्यासवृत्तिर्व्यावदानिकानां धर्माणाम् / प्रभेदवृत्तिः सर्वसंस्काराणामतीतानागतप्रत्युत्पन्नाध्यात्मिकबाह्यादिप्रकारैर्वर्तनात् //
498 SK व्याख्याविनिश्चयो येन सूत्रान्तानामर्थं निर्दिशति / स पुनः परिज्ञेयवस्त्वादीनां षष्णामर्थानां प्रतिसूत्रं यथासंभवं प्रतिपादनात् / तत्र परिज्ञेयं वस्तु स्कन्धादि / परिज्ञेयो ऽर्थो ऽनित्यतादि / परिज्ञोपनिषच्छीलेन्द्रियगुप्तद्वारतादि / परिज्ञा बोधिपक्ष्या धर्माः / परिज्ञाफलं विमुक्तिः / तत्प्रवेदना विमुक्तिज्ञानदर्शनमिति //
499 SK अपि खलु चतुर्दश मुखानि व्याख्यायाः //
500 SK व्याख्यासंग्रहमुखं यत्र सूत्रस्योत्पत्तिप्रयोजनं पदार्थो ऽनुसन्धिरभिप्रायश्चोद्यपरिहारश्च वर्ण्यते //
501 SK वस्तुसंग्रहमुखं यत्र सूत्रमुखं शिक्षार्यसत्यवस्त्वादिषु प्रतिपाद्यते / तद्यथा सर्वपापस्याकरणमिति गाथा तिस्रः शिक्षा[म]धिकृत्येत्येवमादि //
502 SK अङ्गोपाङ्गमुखं यत्रैकेन पदेनोद्देशः शेषैर्निर्देश इति प्रदर्श्यते / तद्यथा द्वादशक्षरणसंनिपातदेशनायामात्मसम्पत्परसम्पदित्यनयोर्द्वयोर्यथाक्रमं पञ्चभिः पञ्चभिरुत्तरैः पदैर्निदेश इति //
503 SK उत्तरोत्तरनिर्हारमुखं यत्रोत्तरस्योत्तरस्याभिनिर्हरणाश्रयत्वादेत्ते धर्मा एवं देशिता इति प्रदर्श्यते / तद्यथा पञ्चेन्द्रियाणि / तथाहि श्रद्दधानो वीर्यमारभते, आरब्धवीर्यस्य स्मृतिरुपतिष्ठते, उपस्थितस्मृतेश्चितं समाधीयते, समाहितचित्तो यथाभूतं प्रजानातीति //
504 SK प्रतिक्षेपमुखं यत्रेदमारभ्येदं प्रतिक्षिप्यत इति प्रदर्श्यते / तद्यथा वास्यौपम्यसूत्रे आस्रवक्षयमारभ्य चत्वारः पुद्गलाः प्रतिक्षिप्यन्ते / इतो बाह्यक इहधार्मिकः श्रुतचिन्तामात्रसंतुष्टः भावनायां परितस्यमानो ऽपरिपूर्णसंभारश्च / जानतश्चाहं भिक्षवः पश्यतश्चास्रवाणां क्षयं वदामीत्येवमादिना सूत्रखण्डेनाद्यः पुद्गलः प्रतिक्षिप्तः / भावनायोगमनुयुक्तस्येत्येवमादिना द्वितीयः / वास्यौपम्यदृष्टान्तेन तृतीयः / नौदृष्टान्तेन चतुर्थ इति //
505 SK अक्षरपणिममुखं यत्रान्यस्मिन्नर्थे प्रसिद्धान्यक्षराण्यन्यस्मिन् परिणाम्यन्ते / तद्यथाश्रद्धश्चाकृतज्ञश्चेति गाथायाम् /
506 SK नाशानाशमुखं तत्र प्रणाहो ऽप्रणाशस्तदुभयोपायस्तदुभयप्रभेदश्च प्रदर्श्यते / तद्यथा सुजातसूत्रे प्रणाशो बाह्याध्यात्मिकोपध्यवसानम् / तत्र बाह्य उपधिर्गृहकलत्रादिलक्षणः, आध्यात्मिकः पञ्चोपादानस्कन्धलक्षणः / अप्रणाशस्तदुभयाध्यवसानविगमः / प्रणाशोपायो ऽप्रव्रजनं प्रव्रजितस्य चास्रवक्षयं प्रति प्रमादः / विपर्ययादप्रणाशोपायो द्रष्टव्यः / तत्रोभयतो वतायं सुजातः कुलपुत्रः शोभते यच्च केशश्मश्रूण्यवहार्य यावत् प्रव्रजितो यच्चास्रवाणां क्षयाद्यावत्प्रजानामीत्यनेनाप्रणाशतदुपायापदेशेन तद्विपरीतलक्षणप्रणाशतदुपायौ सूचितौ भवतः / अप्रणाशप्रभेदो गाथानुगीतेन दर्शितः - ᳚शोभते वत भिक्षुरयमुपशान्तो निराश्रव᳚ इति / तदेवं प्रव्रजनमास्रवक्षयश्च परिदीपितः / स पुनरास्रवक्षयः -
507 SK वीतरागो विसंयुक्तो ह्यनुपादाय निर्वृतः / धारयत्यन्ति मं देहं जित्वा मारस्य वाहिनीम् //
508 SK इत्यनेन लौकिकमार्गवैराग्यतः, लोकोत्तरेण मार्गेणावरभागीयसंयोजनप्रहाणतः, ऊर्ध्वभागीयसंयोजनप्रहाणतः, आध्यात्मिकोपधिप्रहाणतश्च परिदीपितः / हेतुफलक्षयाधिकाराच्चायं निर्देशो द्रष्टव्यः / एतद्विपर्ययेण प्रणाशप्रभेदः सूचितो द्रष्टव्यः इति //
509 SK पुद्गलव्यवस्थानमुखं यत्रेयतः पुद्गलानधिकृत्येदं भाषितमिति प्रदर्श्यते / तद्यथा औदकोपमे सूत्रे द्विविधौ पुद्गलौ त्रिचतुःप्रभेदानधिकृत्य भाषितम् - पृथग्जनं दृष्टसत्यं च / पृथग्जनस्त्रिभेदः - अशुक्लो ऽल्पशुक्लः बहुशुक्लश्च / दृष्टसत्यश्चतुःप्रभेदः - चत्वारः प्रतिपन्नकाः, चत्वारः फलस्थाः, त्रयः शेक्षाः, एको ऽशैक्षः //
510 SK प्रभेदव्यवस्थानमुखं यत्र चतुष्कोटिकदिभिः प्रश्नैरर्थो वर्ण्यते / तद्यथानित्यसूत्रे - यः सदिदं समनुपश्यति सर्वो ऽसौ रूपं समनुपश्यति, यो वा रूपं समनुपश्यति सर्वः स सदिदं समनुपश्यतीति चतुष्कोटिकः / प्रथमा कोटिर्वेदनार्दीश्चतुरः स्कन्धान्नित्यशुचिसुखात्मविपर्यासैरसमारोप्य परिज्ञेयप्रहातव्यांश्च समनुपश्यतः / द्वितीया कोटी रूपं नित्यशुचिसुखात्मविपर्यासैः समारोप्यापरिज्ञेयाप्रहातव्यं च समनुपश्यतः / तृतीया कोटी रूपं नित्यशुचिसुखात्मविपर्यासैरसमारोप्य परिज्ञेयप्रहातव्यांश्च समनुपश्यतः चतुर्थीकोटिर्वेदनादींश्चतुरः स्कन्धान्नित्यशुचिसुखात्मविपर्यासैः समारोप्यापरिज्ञेयाप्रहातव्यं च समनुपश्यतः / यथा रूपे चतुष्कोटिक एवं वेदनादौ सर्वत्र विस्तरेण द्रष्टव्यम् / यावद्यस्य कृतं करणीयं सर्वः स नापरमस्माद्भवं प्रजानाति, यावन्नापरमस्माद्भवं प्रजानाति सर्वस्य तस्य कृतं करणीयम् / आह चतुष्कोटिकम् / प्रथमा कोटिर्यावज्जीवं सुचरितचारिणः पृथग्जनस्य / द्वितीयोच्छेददृष्टयादीनाम् / तृतीया अशैक्षस्य / चतुर्थी तानाकारान् स्थापयित्वा //
511 SK नयमुखं यत्र षड्भिर्नयैरर्थो वर्ण्यते - तत्त्वार्थनयेन प्राप्तिनयेन देशनानयेनान्तद्वयविवर्जनानयेनाचिन्त्यनयेनाभिप्रायनयेन च / एषां च षण्णां नयानां पूर्वकास्त्रयो नया उत्तरैस्त्रिभिर्नयैर्यथाक्रममनुगन्तव्याः / तद्यथास्वादनसूत्रे - अस्ति भिक्षवः रूपे आस्वाद इत्येवमादिनापवादान्तं समारोपान्तं च वर्जयित्वा तत्त्वार्थनयो ऽभिद्योतितः / अस्त्यास्वाद आदीनवो निःसरणमित्यनेनापवादान्तो वर्जितः, रूपे यावद्विज्ञान इत्यनेन समारोपान्तः, स्कन्धमात्रे संक्लेशो व्यवदानं चानात्मनीति प्रदर्शयता यावच्चाहं भिक्षवः यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽस्मीत्यध्यज्ञासिषमित्यनेन प्राप्तिनयो ऽचिन्त्यनयेन परिदीपितः, प्रत्यात्मवेदनीयाधिगमसूचनात् / सर्वमेवेदं सूत्रं देशनानयः / स चाभिप्रायेणानुगन्तव्यः / स परिज्ञेयं वस्तु, परिज्ञेयमर्थम्, परिज्ञाम्, परिज्ञाफलम्, तत्प्रवेदनां चाभिप्रेत्येदं सूत्रं भाषितमिति / तत्र परिज्ञेयं वस्तु रूपादिकम् / परिज्ञेयो ऽर्थ आस्वादादिकः, तेन प्रकारेण तस्य रूपादिकस्य वस्तुनः परिज्ञानात् / परिज्ञैषां पञ्चानामुपादानस्कन्धानामेवं त्रिपरिवर्तेन यथाभूतपरिज्ञानम् / परिज्ञाफलमस्मात् सदेवकाल्लोकाद्यावत् सदेवमानुषायाः प्रज्ञाया विमुक्तिर्यावद्विप्रमुक्तिः / तत्प्रवेदनानुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽस्मीत्यध्यज्ञासिषमिति //
512 SK परिज्ञादिमुखं यत्र तत्त्वलक्षणमारम्य परिज्ञालक्षणेन, प्रहाणलक्षणेन, साक्षात्क्रियालक्षणेन, एषामेव तत्त्वलक्षणादीनां प्रकारभेदलक्षणेन, आश्रयाश्रितसंवन्धलक्षणेन, परिज्ञादीनामान्तरायिकधर्मलक्षणेन, आमुलोमिकधर्मलक्षणेन, अपरिज्ञादिषु चादीनवानुशंसालक्षणेन चार्थो निर्दिश्यते / तद्यथात्रैवास्वादनसूत्रे / तत्र तत्त्वलक्षणमुपादानस्कन्धसंगृहीतदुःखसत्यम् / परिज्ञालक्षणं तस्यैवास्वादादिना यथाभूतं, परिज्ञानम् / प्रहाणलक्षणं साक्षात्क्रियालक्षणं च सर्वस्माल्लोकाद्विमुक्तिः, आवरणप्रहाणे नाश्रयपरिवृत्तिसाक्षात्करणात् भावनालक्षणं विपर्यासापगतेन चेतसा बहुलविहारः / प्रकारभेदलक्षणम् - तत्त्वलक्षणस्य पञ्चधा भेदो रूपं यावद्विज्ञानमिति / परिज्ञालक्षणस्य त्रिधा भेद आस्वादं चास्वादयतो यावन्निःसरणं च निःसरतो यथाभूतं प्रजानाति / प्रहाणलक्षणस्य साक्षात्क्रियालक्षणस्य द्विधा भेदः क्लेशविमुक्तिर्दुःखविमुक्तिश्च / तत्र सदेवकाल्लोकाद्यावत्सदेवमानुषायाः प्रजाया विमुक्तिः क्लेशेभ्यो विमोक्षादत एव तद्विशेषणार्थमाह निःसृत इति / तद्यथा ह्यन्यत्र सूत्रे - निःसरणं कतमद्भयः / छन्दरागविनयः छन्दरागप्रहाणं छन्दरागसमतिक्रम इत्युक्तम् / एवमनागतदुःखाभिनिर्वर्तक क्लेशविसंयोगे सति दुःखादपि विप्रमुक्तो भवतीति विशेषणार्थमाह - विसंयुक्तो विप्रमुक्त इति / भावनालक्षणस्य द्विधा भेदो दर्शनमार्गो भावनामार्गश्च / तत्र विपर्यासापगतेन चेतसेति दर्शनमार्गं दर्शयति, बहुलं व्यहार्षमित्यनेन भावनामार्गम् / आश्रयाश्रितसंबन्धलक्षणं तत्वलक्षणादीनामुत्तरोत्तराणामाश्रयत्वसूचनात् / परिज्ञादीनामान्तरायिकलक्षणमेवं त्रिपरिवर्तेन यथाभूतमपरिज्ञानम् / अनुलोमिकलक्षणं यथाव्यवस्थानमेषामेव रूपादीनामास्वादादितो विचारणा / अपरिज्ञानादीनवलक्षणमविमुक्तिर्यावदनुत्तरायाः सम्यक्संबोधेरसंबोधः / विपर्ययादनुशंसलक्षणं वेदितव्यमिति //
513 SK बलाबलमुखं यत्रैकेन पदेनानुच्यमानेनायमर्थो न गमितः स्यादिति प्रत्येकं सर्वेषां पदानां सामर्थ्य प्रदर्श्यते / तद्यथा प्रतीत्योत्पादसूत्रे ऽस्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते, यदुताविद्याप्रत्ययाः संस्कारा इत्येवमादि, एषां च पदानां प्रत्येकं सामर्थ्य पूर्ववद्वेदितव्य यथा प्रतीत्यसमुत्पादस्य लक्षणनिर्देशे //
514 SK प्रत्याहारमुखं यत्र सूत्रस्यैकं पदं गृहीत्वा विस्तरेणार्थः प्रतिनिर्दिश्यते / तद्यथा षड्भिर्धर्मैः समन्वागतो भिक्षुर्हिमवन्तमपि पर्वतराजं मुखवायुना चालयेत्, कः पुनर्वादः सवासनाया अविद्या[या]ः / कतमैः षड्भिः / इह भिक्षवो भिक्षुश्चित्तस्योत्पादकुशलो भवति इह भिक्षुर्विविक्तं कामैर्यावच्चतुर्थध्यानमुपसंपद्य विहरति / एवं हि भिक्षुश्चित्तस्योत्पादकुशलो भवति / कथं च भिक्षुश्चित्तस्य स्थितिकुशलो भवति / इह भिक्षुरासेवनान्वयाद्यद्धानभागीयं ध्यानं तत् स्थितिभागीयं करोति / एवं भिक्षुः स्थितिकुशलो भवति / कथं च भिक्षुर्व्युत्थानकुशलो भवति / इह भिक्षुरासेवनान्वयाद्यत्स्थितिभागीयं ध्यानं तद्विशेषभागीयं करोति / एवं हि भिक्षुर्व्युत्थानकुशलो भवति / कथं च भिक्षुरायकुशलो भवति / इह भिक्षुरनुत्पन्नानां कुशलानां धर्माणामिति विस्तरेण द्वे सम्यक्प्रहाणे / एवं हि भिक्षुरायकुशलो भवति / कथं च भिक्षुरपायकुशलो भवति / इह हि भिक्षुरुत्पन्नानां पापका नामकुशलानामिति विस्तरेण द्वे सम्यक्प्रहाणे / एवं हि भिक्षुरपायकुशलो भवति / कथं हि भिक्षुरुपायकुशलो भवति / इह हि भिक्षुश्छन्दसमाधिप्रधानसंस्कारसमन्वागतमृद्धिपादं भावयतीति विस्तरेण चत्वार ऋद्धिपादाः / एवं हि भिक्षुरुपायकुशलो भवतीति //
515 SK अभिनिर्हारमुखं यत्र प्रतिपदं चतुष्कादिभिर्निर्दिश्यते / तेष्वपि चतुष्कादिष्वेकैकं पदमपरैश्चतुष्कादिभिरपर्यन्तो हि निर्हारो वेदितव्यः / तद्यथा बुद्धाक्षेपसूत्रे - चत्वार इमे बोधिसत्त्वानां बोधिपरिशोधका धर्माः - शून्यताभावना, सर्वसत्त्वेष्वप्रतिहतचित्तता, बोधिसत्त्वानां नित्यं हितोपसंहरणता, निरामिषेण चित्तेन धर्मदानसंप्रकाशनता चेति / चतुष्कः स्वार्थ परमार्थ चारभ्य बोधिपरिशोधनाय चतुर्विपक्षप्रतिपक्षेण वेदितव्यः / चत्वारो विपक्षाः - समापत्त्यास्वादना, व्यापादः, मानः, तृष्णा च लाभसत्कारे //
516 SK अपरः पर्यायः - प्रथमेन धर्मेण क्लेशप्रहाणप्रतिपक्षः / शेषैर्हीनयानपरिवर्जना परिदीपितास्त्रिभिः कारणैः बोधिचित्तेन सर्वसत्त्वोपादानतः, अवतीर्णपरिपाचनतः, अनवतीर्णावतारणतश्च //
517 SK अपरः पर्यायः - प्रथमेन ज्ञानसंभारस्त्रिभिः पुण्यसंभारः परिदीपितः, उपादानपरिपाचनावतारणैः, प्रत्येकं पुण्यविशेषप्रसवनतः //
518 SK पुनर्द्वाभ्यां कारणाभ्यामाशयतश्च मैत्रचित्ततया, प्रतिपत्तितश्चाधिगमागमोपदेशाभ्याम् /
519 SK चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वाः शून्यतां भावयन्ति - अध्यात्मं चित्ताविकंपनतयाधिमुक्तिप्रविचयबलाधानतया, सर्वधर्माणां यथात्म्यप्रतिवेधतः, सर्वावरणविमोक्षतश्च / यदाश्रित्य यथा च भावयन्ति तदेतेन परिदीपितम् / किमाश्रित्य / ध्यानपारमिताम् / कथं भावयन्ति / पृथग्जनमार्गेण श्रुतचिन्ताबलाधानतः शैक्षमार्गेणाशैक्षमार्गेण च //
520 SK चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वाः सर्वसत्त्वेष्वप्रतिहतचित्ता भवन्ति मैत्रीभावनया, प्रतिपत्यविकोपनतया, निमित्ताविकल्पनतया, खेदसहिष्णुतया च / अत्रापि यदाश्रित्य यथा चाप्रतिहतचित्ता भवन्ति तत्परिदीपितं भवति / किमाश्रित्य / पौर्वजन्मिकीं मैत्रीभावनाम् / कथमप्रतिहतचित्ता भवन्ति / मिथ्याप्रतिपत्तिस्थितेषु स्वचिताविकोपनतः, अपकारिष्वपकारनिमित्ताविकल्पनतः, परहितार्थं व्यायामापरिखेदतश्च //
521 SK चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा बोधिसत्त्वानां नित्यं हितमुपसंहरन्ति - आत्मनः परितुलनतया, सम्यगववादप्रवर्तनतया, सौरभ्यसुखसंवासनतया, पूजालाभसत्कारपरिचर्योपसंहरणतया च / अत्रापि यदाश्रित्य यथा चोपसंहरति तत्परिदीपितम् / किमाश्रित्य / निहतमानताम् / कथमुपसंहरति / यथोक्तं त्रिभिः प्रकारैर्हीनसमशिष्टानां बोधिसत्त्वानां यथाक्रमम् //
522 SK चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा निरामिषेण चित्तेन धर्मदानं संप्रकाशयन्ति - अन्तरायसुखप्रतिवेधतया, मोहलयापनयनकौशल्यतया, नाथकरधर्मारामतया च / अत्रापि यदाश्रित्य / यथा च संप्रकाशयन्ति तत्परिदीपितम् / किमाश्रित्य / लाभसत्कारस्यान्तरायकरत्वप्रतिवेघताम् / कथं संप्रकाशयन्ति / संदर्शनतो मूढानाम्, समादापनतः समुत्तेजनतश्च प्रमादसङ्गानात्मपरिभवेन वा लीनानाम्, संप्रहर्षणतः सम्यक्प्रतिपन्नानाम्, प्रकृत्यैव च धर्मारामतया / प्रथमस्यान्यचतुष्कः पदप्रभेदादिभिर्निर्हारो वेदितव्यः //
523 SK प्रभिद्यसंदर्शन[वि]निश्चयो यथानिर्दिष्टेषु स्कन्धादिषु धर्मेषु यथायोगमेकावचारकादीनि / तत्र -
524 SK एकावचारको नाम प्रश्नो येनैकं धर्मं परिशिष्टैः सह प्रत्येकं प्रश्नयित्वा तमपहाय द्वितीयं तेनान्यैश्च सह प्रश्नयत्येवमेकैकस्यैव सर्वान् प्रश्नयति / तद्यथा यश्चक्षुरायतनेन समन्वागतो रूपायतनेनापि सः, यो वा रूपायतनेन चक्षुरायतनेनापि स इति पूर्वपादकः / यश्चक्षुरायतनेन समन्वागतः श्रोत्रायतनेनापि स इत्यत्र चतुष्कोटिकम् / एवं यावन्मनआयतनेनापि स इत्यत्र यथायोगं योजयितव्यम् / धर्मायतनेनापि स इत्यत्र पूर्वपादकः / यो रूपायतनेन समन्वागतश्चक्षुरायतनेनापि सः, यो वा चक्षुरायतनेन रूपायतनेनापि स इति पश्चात्पादकः / यो रूपायतनेन समन्वागतः श्रोत्रायतनेनापि स इत्यत्र चापि पश्चात्पादकः / एवं यावद्धर्मायतनेन यथायोगं योजयितव्यम् / यः श्रोत्रायतनेन समन्वागतश्चक्षुरायतनेनापि स इत्यत्र चतुष्कोटिकम् / एवं यावद्धर्मायतनेना[पि] योज्यम् / एवमेकंकामर्षेणानुक्रमशः सर्वाण्यायतनानि परस्परं योजयितव्यानि /
525 SK पूर्वपादकं द्वयोर्धर्मयोः कथंचिदेव धर्ममारभ्य परस्परं पृष्टयोः पूर्वधर्ममधिष्ठाय यद्वयाक्रियते / तद्यथा यज्ज्ञानं ज्ञेयमपि तद्यद्वा ज्ञेयं ज्ञानमपि तदिति / पूर्वपादकम् - यत्तावज्ज्ञानं ज्ञेयमपि तदिति / स्याज्ज्ञेयं न ज्ञानम्, तदन्ये धर्मा इति //
526 SK पश्चात्पादकं तथैव द्वयोर्धर्मयोः परस्परं पृष्टयोर्यत्पश्चिममधिष्ठाय व्याक्रियते / तद्यथा यद्ग्राह्यं ग्राहकमपि तद्यद्वा ग्राहकं ग्राह्यमपि तदिति / पश्चात्पादकम् - यत्तावद्ग्राहकं ग्राह्यमपि तत् / स्याद्ग्राह्यं न ग्राहकम्, रूपादयः पञ्च विषया धर्मायतनं च संप्रयुक्तकवर्ज्यम् //
527 SK द्विकोटिकं यत्र द्वे कोटी व्याक्रियेते तदन्यासंभवात् तद्यथा स्कन्धस्य व्यवस्थानं धातुव्यवस्थानं च निगमय्योच्यते - या स्कन्धसंख्या धातुसंख्यापि सा, या वा धातुसंख्या स्कन्धसंख्यापि सेति / द्विकोटिकम् - स्यात् स्कन्धसंख्या न धातुसंख्या, रूपस्कन्धो विज्ञानस्कन्धश्चः / तथाहि नैको धातुरस्ति यः सकलरूपस्कन्धलक्षणो वा स्यात् सकलविज्ञानस्कन्धलक्षणो वा / धातुसंख्या न स्कन्धसंख्याः, धर्मधातुरिति //
528 SK त्रिकोटिकं यत्र तिस्र एव कोटयो व्याक्रियन्ते / तद्यथा या स्कन्धसंख्यायतनसंख्यापि सा, या वायतनसंख्या स्कन्धसंख्यापि सेति / त्रिकोटिकम् - स्यात् स्कन्धसंख्या नायतनसंख्या, रूपस्कन्धः / स्यादायतनसंख्या न स्कन्धसंख्या, धर्मायतनम् / स्यात् स्कन्धसंख्यायतनसंख्या च विज्ञानस्कन्धो मनआयतनं च / अनुभयसंख्यायाः स्कन्धायतनेष्वसंभव एवेति //
529 SK चतुष्कोटिकं यत्र चतस्रो ऽपि कोटयो व्याक्रियन्ते / तद्यथा यश्चक्षुरिन्द्रियेण समन्वागतः श्रोत्रेन्द्रियेणापि सः, यो वा श्रोत्रेन्द्रियेण समन्वागतश्चक्षुरिन्द्रियेणापि स इति / चतुष्कोटिकम् - प्रथमा कोटिरुत्पन्नाविहीनचक्षुर्बधिरः / द्वितीयोत्पन्नाविहीनश्रोत्रो ऽन्धः / तृतीयोत्पन्नाविहीनचक्षुःश्रोत्रः / चतुर्थी तानाकारान् स्थापयित्वा //
530 SK ॐकारितं यत्र प्रश्ने व्याकरणमोमिति क्रियते एवमेतदित्यभ्युपगम्यत इत्यर्थः / तद्यथा ये ऽनित्याः सर्वे ते संस्काराः, ये वा संस्काराः सर्वे ते ऽनित्या इति पृष्टेन ओमिति व्याकर्तव्यम् //
531 SK प्रातिक्षेपिकं यत्र नेति प्रतिक्षिप्यते / तद्यथा स्कन्धविनिर्मुक्ताः संस्काराः कतिभिः सत्यैः संगृहीता इति / प्रातिक्षेपिकम् - न सन्ति स्कन्धविनिर्मुक्ताः संस्कारा इति //
532 SK संप्रश्नविनिश्चयः - अष्टाकारः कापदेशस्तद्यथा को नोपलभते / प्रज्ञापारमितालाभी बोधिसत्त्वः / किं नोपलभते / ग्राह्यलक्षणं ग्राहकलक्षणं च / केन नोपलभते / प्रज्ञापारमितया / कस्मै नोपलभते / सर्वसत्त्वपरित्राणार्थमनुत्तरायै सम्यक्संबोधये / कुतो नोपलभते / बुद्धोत्पादारागणतः सद्धर्मश्रवणतो योनिशोमनस्कारतो धर्मानुधर्मप्रतिपत्तितश्च / कस्य नोपलभते / सर्वधर्माणाम् / कुत्र नोपलभते / अधिमुक्तिचर्याभूमौ यावद्दशम्यां बोधिसत्त्वभूमौ / कतिविघश्चानुपलम्भः / एकादशविधः - उत्पन्नविरुद्धः, अनुत्पन्नः, संमुखीभूतः, हेतुवलोत्पन्नः, मित्रबलोत्पन्नः, सर्वधर्मानुपलम्भः, शून्यतानुपलम्भः, सास्मिमानः, निरस्मिमानः, असंभृतसंभारस्य, [संभृतसंभारस्य] च / एते चानुपलम्भा यत् किंचिदतीतानागतप्रत्युत्पन्नं यावद्यद्वा दूरे यद्वान्तिक इत्येतदनुक्रमानुसारेण द्रष्टव्याः //
533 SK यथा कापदेश एवं यापदेशः / यो नोपलभते यद्येन यस्मै यतो यस्य यत्र नोपलभते यावद्विविधश्चानुपलम्भ इति //
534 SK अपि खलु चत्वारो विनिश्चयमार्गा दूषकादयः / तत्र दूषकः दुराख्यातस्य परपक्षस्यासाधुरयमिति प्रतिषेधकः / साधकः स्वाख्यातस्य स्वपक्षस्य साधुरयमिति प्रतिष्ठापकः / छेदकः परेषामुत्पन्नोत्पन्नेषु संशयेषु निश्चयदायकः / बोधकस्तेष्वर्थेषु समूढानां तदर्थव्युत्पादकः //
535 SK कृत्यानुष्ठानविनिश्चयो लौकिकानामन्योन्यं जीविकोपायादिसमर्थनप्रयोजनम् / अवतारविनिश्चयस्त्रयाणां यानानां कतमस्मिन्याने ऽवतरेयमवतारयेयं चेति विचारणा / अधिमुक्तिविनिश्चयः श्रुतमय्या प्रज्ञया यथादेशनं संप्रत्ययः / युक्तिविनिश्चयः चिन्तामय्या प्रज्ञया पौर्वापर्येणाभिप्रायपरितुलनम् / सांकथ्यविनिश्चयो यथाश्रुतचिन्तितानां प्रश्नप्रतिप्रश्नक्रियायोगेनान्योन्यं धर्मसंभोगः / प्रतिवेधविनिश्चयो दर्शनमार्गस्तेन सत्यप्रतिवेधात् / विशुद्धिविनिश्चयो भावनामार्गस्तेनावशेष क्लेश विशोघनात् / अभिनिर्हारविनिश्चयो विशेषमार्गस्तेन वैशेषिकगुणाभिनिर्हारात् / पदप्रभेदविनिश्चयो द्विकत्रिकचतुष्कादिप्रकाराभिनिर्हारमुखेनापर्यन्ता धर्मदेशना / अनाभोगाभोगमात्रसर्वार्थसिद्धिविनिश्चयस्तथागतं ज्ञानम्, विना पूर्वाभोगेन सर्वेष्वर्थेष्वाभोगसहकालमसंगाप्रतिहतज्ञानदर्शनप्रवृत्तेः //
536 SK वादविनिश्चयो वादवादाधिकरणादिषु कौशल्यम् //
537 SK तत्र सर्वं वचनं वादः / प्रकारशो लोके वादः प्रवादः / विरुद्धयोर्वादो विवादः / अपवादो गर्हितो वादः / अनुकूलो वादो ऽनुवादः सांकथ्यविनिश्चयः / अवगमाय वादो ऽववादः //
538 SK [वादाधिकरणम्] अत्र वादः क्रियत इति कृत्वा / राजकुलं यत्र राजा स्वयं संनिहितः युक्तकुलं यत्र राज्ञाधियुक्ताः सभा वणिक् सभादि / प्रामाणिकाः सहायकाः येषां वचनं वादिप्रतिवादिनौ न संशयतः / धर्मार्थकुशलाश्च श्रमणब्राह्मणा ये तेषु शास्त्रेषु ग्रन्थतश्चार्थतश्च व्युत्पन्नबुद्धयः //
539 SK वादाधिष्ठानं यदधिष्ठाय वादः क्रियते तद्यथा साध्यं साधनं च //
540 SK तत्र स्वभावः साध्य आत्मस्वभावो धर्मस्वभावश्च नास्तीति वास्तीति वा //
541 SK विशेषः साध्य आत्मविशेषो धर्मविशेषश्च सर्वगतो न सर्वगतो नित्यानित्यो रूप्यरूपीत्येवमादिभिः प्रकारैः //
542 SK प्रतिज्ञा साध्यस्य स्वरुचितार्थस्य परसंप्रापणविज्ञापना / साध्यग्रहणं यदि न क्रियेत सिद्धस्यापि स्वपक्षस्य परेषां देशना प्रतिज्ञा प्रसज्येत / स्वरुचितार्थग्रहणं न क्रियेत परपक्षस्यापि साध्यस्य वचनं प्रतिज्ञा प्रसज्येत / परग्रहणं न क्रियेत एकाकिनो ऽपि तद्वचनं प्रतिज्ञा प्रसज्येत / संप्रापणग्रहणं न क्रियेत कायेनापि तदर्थाभिनयनं प्रतिज्ञा प्रसज्येत / विज्ञापनाग्रहणं न क्रियेताविज्ञाते ऽपि तदर्थे श्रोतृभिः प्रतिज्ञा प्रसज्येत / यथोक्ते तु व्यवस्थाने सर्व एते दोषा न भवन्ति, तस्मादेवमस्या व्यवस्थानं वेदितव्यम् /
543 SK हेतुस्तस्मिन्नेव साध्ये ऽप्रतीतस्यार्थस्य संप्रत्ययनिमित्तं प्रत्यक्षोपलंभानुपलंभसमाख्यानम / संप्रत्ययनिमित्तार्थ इह हेत्वर्थ इति दर्शयति / तथाहि प्रत्यक्षानुपलंभादुपलंभाद्वेत्यनेन समाख्यानेन तस्मिन् साध्ये ऽप्रतीतस्यार्थस्य संप्रत्यय उत्पद्यते / तेन तत्समाख्यातं तन्निमित्तत्वाद्धेतुरित्युच्यते / प्रत्यक्षोपलंभानुपलंभौ पुनः स्वभावं लिङ्गं चाधिकृत्य वेदितव्यौ //
544 SK दृष्टान्तो दृष्टेनान्तेनादृष्टस्यान्तस्य समीकरणसमाख्यानम्, प्रतीतेन भागेनाप्रतीतस्य भागस्य प्रत्यायनाय समाख्यानमित्यर्थः //
545 SK उपनयः शिष्टतज्जातीयतद्धर्मोपगमाय नयत्वसमाख्यानम् / यथा साध्यो ऽर्थस्त्रिभिरवयवैः साधितस्तथा शिष्टानामपि तज्जातीयानां साध्यानां साधितार्थधर्मोपगमाय नयत्वेन समाख्यानं युक्त्यातिदेश उपनयः //
546 SK निगमनं निष्ठागमनसमाख्यानम् / यस्मादेवं युक्त्या सूपपन्नं तस्मादित्थमेवेदमित्येतन्निगमनं वेदितव्यम् //
547 SK एषां प्रतिज्ञादीनामिदमुदाहरणमात्रं प्रदर्श्यते // तद्यथा
548 SK नैरात्म्यवादिनस्तद्रूपे ऽधिकरणे सप्रतिवादिके नास्त्यात्मेति वचनं प्रतिज्ञा //
549 SK स्कन्धविज्ञप्तौ चतुर्विधदोषोपलंभादिति हेतुः / स ह्यात्मा प्रज्ञप्यमानः स्कन्धलक्षणो वा प्रज्ञप्येत, स्कन्धेषु वा, अन्यत्र वा स्कन्धेभ्यः, अस्कन्धको वा / तद्यदि स्कन्धलक्षणस्तेनास्वतन्त्राः स्कन्धाः प्रतीत्यसमुत्पन्ना उदगव्ययधर्माणस्तल्लक्षण आत्मानोपपद्यत इति दोषः / अथ स्कन्धेषु तेनानित्यस्कन्धाश्रित आत्मानित्यः प्राप्नोतीति दोषः / अथान्यत्र स्कन्धेभ्यस्तेन निर्देहक आत्मा निष्प्रयोजन इति दोषः / अथास्कन्धकस्तेन प्रकृत्यैव मुक्तस्य केवलिनो मोक्षार्थप्रयत्नवैयर्थ्यमिति दोषः //
550 SK वर्तमाने ऽतीतप्रज्ञप्तिवदिति दृष्टान्तः / तद्धयतीतं विद्यमानलक्षणत्वेन प्रज्ञप्यमानं वर्तमानलक्षणं वा प्रज्ञप्येत, वर्तमाने वा अन्यत्र वा वर्तमानात् वर्तमाननिरपेक्षं वा / तद्यदि वर्तमानलक्षणं तेन वर्तमानमुत्पन्नानिरुद्धतल्लक्षणमतीतमुत्पन्ना निरुद्धात्मकमिति दोषः / अथ वर्तमाने तेनानिरुद्धे निरुद्धात्मकस्य संबन्धो न युज्यत इति दोषः / अथान्यत्र वर्तमानात्तेन वर्तमानं हित्वा न किंचित्तद्वस्तूपलभ्यते यत्र तत्प्रज्ञप्यत इति दोषः / अथ वर्तमाननिरपेक्षं तेनासंस्कृतमप्यतीतं प्राप्नोतीति दोषः / तच्चातीतं भ्रष्टलक्षणत्वाल्लक्षणतो नास्तीति सिद्धम् / अतो ऽनेन वर्तमानप्रज्ञप्तौ चतुर्दोषेण सिद्धेनासिद्ध आत्मा नास्तीति स्कन्धप्रज्ञप्तौ चतुर्विधदोषोपलंभात् प्रसाध्यते नास्तीति //
551 SK एवमात्मविपर्यासं प्रतिषिध्यैतयैव युक्त्या नित्यादयो ऽपि न सन्तीत्यतिदेश उपनयः //
552 SK यस्मादेतदेवं तस्मादनित्याः पञ्च स्कन्धाः यावदनात्मान इति निगमनमिति //
553 SK प्रत्यक्षं स्वसत्प्रकाशाभ्रान्तो ऽर्थः / तत्र स्वो ऽर्थस्तद्यथा चक्षुषो रूपम् / सद्ग्रहणं घटादिद्रव्याणां लोके प्रत्यक्षसंमतानां प्रत्यक्षत्वव्युदासार्थ प्रज्ञप्तिमात्रत्वात् / प्रकाशग्रहणमावृतत्वादिभिरनुपलब्धिकारणैरनाभासगतविषयव्युदासार्थम् / अभ्रान्तग्रहणमलातचक्रमायामरीचिकादिव्युदासार्थमिति //
554 SK अनुमानं प्रत्यक्षशिष्टसंप्रत्ययः / प्रत्यक्षाद्यदन्यच्छिष्टमप्रत्यक्षं नियमेन तत्सहवर्ति प्रसिद्धं द्रष्टुः पूर्वं तस्य तत्प्रत्यक्षमीक्षमाणस्य तदन्यस्मिन् शिष्टसंप्रत्यय उत्पद्यते तेनाप्यत्र भवितव्यमेतत् सहवर्तिनेति तत्प्रत्यक्षपूर्वकमनुमानम् / तद्यथा धूमं पश्यतो ऽग्नाविति //
555 SK आप्तागमस्तदुभयाविरुद्धोपदेशः / यत्रोपदेशे तत्प्रत्यक्षमनुमानं च सर्वथा न विरुध्येते न व्यभिचरतः स आप्तागमः संप्रत्ययित्वात् //
556 SK वादालंकारो येन युक्तो वादी वादं कुर्वाणो ऽत्यर्थं शोभते / स पुनः स्वपरसमयज्ञतादिः / तत्र स्वपरसमयज्ञता स्वसिद्धान्तं परसिद्धान्तं चारभ्य ग्रन्थतश्चार्थतश्च पौर्वापर्येण निरन्तरं व्युत्पत्तिपरिपाकः / वाक्करणसंपत् शब्दवादिनो वक्ष्यमाणकथादोषविपर्ययेणानाकुलादिवादिता / वैशारद्यमनेकोदाहाराभिनिविष्टविद्वज्जनसमावर्ते ऽपि ब्रुवतो निरास्थता गतव्यथता / स्थैर्यं प्रतिवादिनो वचनावसानमागमय्यात्वरमाणभाषिता / दाक्षिण्यं प्रकृतिभद्रता प्राश्निकप्रतिवादिचित्तानुवर्तिता //
557 SK वादनिग्रहो येन वादी निगृहीत इत्युच्यते / स पुनः कथात्यागादिभिः / तत्र कथात्यागो ऽसाधु मम साधु तवेत्येवमादिभिः प्रकारैः स्वपरवाददोषगुणाभ्युपगमः / कथासादो ऽन्येनान्यप्रतिसरणादिभिः विक्षेप इत्यर्थः / यथोक्तं सूत्रे - आयुष्मांश्चुन्दिकस्तीर्थिकैः सह वादं कुर्वन्नवजानित्वा प्रतिजानाति प्रतिजानित्वावजानातीति / कथादोष आकुला दिवचनम् / तत्र आकुलं यदधिकारमुत्सृज्य विचित्रकथाप्रताननम् / संरब्धं यत्कोपोद्धवं द्रवोद्धवम् / अगमकं यद्धर्मतो ऽर्थतश्च पर्षद्वादिभ्यामगृहीतम् / अमितं यदधिकं पुनरुक्तार्थं ज्ञातार्थं च / अनर्थमनर्थयुक्तम्, तत्पञ्चाकारं द्रष्टव्यम् / निरर्थकम्, अपार्थकम्, युक्तिभिन्नम्, साध्यसमम्, जातिच्छलोपसंहितम्, अर्थानुपलब्धितो ऽसंबद्धार्थतो ऽनैकान्ति[क]तः साधनस्यापि साध्यतो ऽयोनिशो ऽसभ्यसर्ववादानुगमतश्च / अकालयुक्तवचनं यत्पूर्वकं वक्तव्यंपश्चादभिहितम्, पश्चाद्वक्तव्यं पूर्वमभिहितम् / (Aभिध्-स्-भ् १५४) अस्थिरं यत्प्रतिज्ञायावज्ञातमवज्ञाय प्रतिज्ञातमतित्वरमाणया वाचा हि तूर्णपरामृष्टः / [अ]प्रदीप्तवचनं यच्छन्दलक्षणसमतिक्रान्तमप्रत्यनुभाष्योत्तरविहित्तम्, संस्कृतेनारभ्य प्राकृतेनावसितम्, प्राकृतेनारभ्य संस्कृतेन पर्यवसितं च / अप्रबद्धं यदन्तराधिष्ठितविच्छिन्नं वाक्प्रतिभानमिति //
558 SK वादनिःसरणं येन वादान्निःसरति, अकरणेन वा गुणदोषौ विचार्य वादस्य निग्रहस्थानानासादनात्, करणेन वा निर्वहनादिति / तत्र प्रतिवादिन्यभाजनताकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुमशक्यता / पर्षदो वैगुण्यमसभ्याभिनिविष्टपक्षपातितादिना / आत्मनो ऽकौशल्यं वादे यावद्वादालङ्कारे ऽव्युत्पत्तिः विपर्ययात्प्रतिवादिभाजनतादीनि वेदितव्यानि //
559 SK वादे बहुकरा धर्मा ये वादे ऽवश्यमुपयुज्यन्ते / तद्यथा स्वपरसमयज्ञता वादे बहुकरो धर्मो येन सर्वत्र कथावस्तुनि वादं करोति / शेषं सुगमम् //
560 SK कुशलपक्षप्रयुक्तेनेत्युक्त्वा प्रतिपत्तिसारकेणेति वचनमाशयविशुद्धिज्ञापनार्थं न लाभसत्कारादिनिमित्तं श्रुतादिकुशलपक्षे प्रयुक्तेनेत्यर्थः / सत्त्वसंग्राहकेणेति श्रावकादिविशेषणार्थं परहितप्रतिपत्तिप्रधानेनेत्यर्थः / एवं च स्वहितपरहितप्रतिपन्नः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यत इत्ययमेषां पदानामनुसंधिर्वेदितव्यः / अविगृह्यापि तावद्वादे क्रियमाणे प्रकृतिगम्भीरत्वान्महायानधर्मस्य दुर्लभाज्ञा प्रागेव विगृह्य / यैश्च सह विगृह्य वादः क्रियते ते ऽपि प्रतिपत्तारो नाज्ञाभिप्रायाः प्रतिब्रुवन्ति किंतर्ह्युपालम्भाभिप्रायाः / येष्वपि प्राश्निकेषु स वादः क्रियते ते वासभ्या अव्युत्पन्ना वा भवन्त्यभिनिविष्टा वा / सर्वो ऽपि च वादा प्रायेण षड्भिर्दोषैर्युक्तो भवति / तथाहि वादं कुर्वाणः कदाचिदतिरभसेनासत्पक्षमपि परिगृह्याभिनिवेशेन छलजातिनिग्रहस्थानान्यपि प्रयुक्ते / वचनपर्यवसानमनिगमय्याप्यकालेन वक्तुमारभते / सम्यगप्युक्तां प्रतिवादिनः कथामपपातयति पंसयतीत्यर्थः / परुषमपि ब्रुवते, येन प्रतिवाद्यादयः चित्तं प्रदूषयन्ति / स्वयं च तेषु चित्तं प्रदूषयतीत्येभिः षड्भिर्दोषैर्युक्तो भवति //
561 SK उपशान्तस्य च दुर्लभो वादः / सति चानुपशमे दुर्लभं परचित्तानुरक्षणं स्वचित्तानुरक्षणं च येन परे प्रसादं लभेरन् विमुक्त्यायतनयोगेन स्वचित्तं समाधीयते / प्रायेण वादे कथमहं जयेयं परे पराजीयेरन्नित्येवं चित्तं समुदाचरति / सति च तस्मिन् परिदाहदुःखसंक्लेशः / तस्मिन्सत्यस्पर्शविहारः / ततो निरन्तरकुशलपक्षप्रयोगासामर्थ्यात्ततो विशेषाधिगमं प्रत्यप्राप्तिपरिहाणिरिति //
562 SK मातरं पितरं हत्वा इत्यस्यां गाथायां लोके यदत्यर्थमवद्यं पातकं तदभिधायीन्यक्षराण्येतानि विशुद्धौ परिणामितानि / किं च लोके ऽत्यर्थमवद्यं संमतम् / गुरुजनघातो महाजनघातश्च / स पुनर्गुरुजनो द्विविधः प्रतिनियतो लोक[साधारणश्च] / लोकसाधारणो ऽपि पुनर्द्विविधः - परिपालको दक्षिणीयश्च / तत्र प्रतिनियतो गुरुजनो माता पिता च, पालको राजा, दक्षिणीयः श्रोत्रियब्राह्मणाः, तेषां शुद्धतरसमतत्वात् / तदेषां सर्वेषां घातो गुरुजनघात इत्युच्यते / महाजनघातो राष्ट्रस्य सानुचरस्य घातः / अनुचराः पुनः गवाश्वमहिषोष्ट्रादयो वेदितव्याः //
563 SK कथं पुनरेतान्यक्षराणि विशुद्धौ परिणाम्यन्ते / मात्रादिघातवचनस्य तृष्णादिप्रहाणपरिणामनाद्यथाक्रमं तृष्णाम्, कर्मभवम्, सोपादानं विज्ञानम्, दृष्टिशीलव्रतपरामर्शद्वयम्, षडायतनं च सगोचरमधिकृत्य मात्रादयो द्रष्टव्याः, तत्साधर्म्यात् / तत्र तृष्णा निर्वृत्तिहेतुः / कर्मभव उत्पत्तिहेतुः / स च भावनाबीजाघानयोगेन पितृभूतो द्रष्टव्यः / आभ्यां हेतुभ्यां सोपादानं विज्ञानं प्रवर्तते / तस्यैवं प्रवर्तमानस्य सत्यपि मोक्षाभिलाषे मोक्षप्राप्तिविघ्नकरावनुपायाग्रशुद्धिप्रत्यायकौ परामर्शौ / श्रोत्रियसाधर्म्यमनयोरेतदेव वेदितव्यं यदुताग्रशुद्धयभिनिवेशः / तस्यैव पुनर्विज्ञानस्याश्रयालंबनभावेन षडायतनं सगोचरं वेदितव्यमिति //
564 SK अश्राद्धश्चाकृतज्ञश्चेत्यस्यां गाथायां हीनार्थाभिधायीन्यक्षराण्युत्तमार्थे परिदीपितानि / हीनो लोके चतुर्विधः - मनस्कर्महीनः कायकर्महीनो वाक्कर्महीन उपभोगहीनश्च / मनस्कर्महीनः पुनर्द्विविधः कुशलप्रवृत्तिवैलोम्येन चाश्राद्धः, परलोकाद्यसंप्रत्ययेन दानादिष्वप्रयोगात् / अकुशलप्रवृत्त्यानुकूल्येन चाकृतज्ञः, यत्रोपकारानपेक्षित्वेन मातृवधादिदुश्चरिते निर्मर्यादत्वात् / कायकर्महीनश्चौरः संधिच्छेदकः अत्यर्थं गर्हितजीवितत्वात् / वाक्कर्महीनो मृषावादादिप्रधानः, तद्रूपस्य सभादिषु प्रवेशाभावात् / उपभोगही नः श्वा का कः प्रेतो वेत्येवमादिकः, छर्दितभक्षणादिति //
565 SK कथं पुनरेतान्यक्षराण्युत्तमार्थे परिणाम्यन्ते / अश्राद्धादिवचनानामर्हति परिणामनात् / तत्राश्राद्धो विमुक्तिज्ञानदर्शनयोगेन स्वप्रत्ययत्वात् / अकृतज्ञो ऽसंस्कृतनिर्माणज्ञानात् / संधिच्छेत्ता पुनर्भवप्रतिसंधिहेतुक्लेशप्रहाणात् / हतावकाश आयत्यां सर्वगतिषु दुःखानभिनिर्वर्तनात् / वान्ताशो दृष्टे धर्मे उपकरणबलेन कायं संधा रयतो ऽपि भोगजीविताशाभावादिति //
566 SK यथा चोक्तम् - असारे सारमतय इति / अस्या गाथायाः पूर्ववदर्थनिर्देशो द्रष्टव्यः / शरीरं पुनरस्याः समाधिं निश्रित्य बोधिसत्त्वा दर्शनभावनामार्गाभ्यां महाबोधिं स्पृशन्तीति //
567 SK मात्सर्यधर्मतामनुवृंहयतीति सवासनमात्सर्यानुशयप्रहाणेन तत्तथताश्रयपरिवृत्तिसाक्षात्करणात् / दानेन च परिखिद्यते, दीर्घकालं दाननिमित्तं परमदुष्करश्रमाभ्युपगमात् / याचनकं च द्वेष्टि, स्वयं ग्राहाभिरुचिततया याचनकप्रातिकूल्यात् / न किंचित् कदाचिद्ददाति, सर्वस्य वस्तुनः सर्वदा दानात् / दूरे च भवति दानस्य, आसाद्यदानादिपरिवर्जनात् //
568 SK तत्र परमेण ब्रह्मचर्येण समन्वागत इति लोकोत्तरेण मार्गेणेत्यर्थः / नान्यत्र मैथुनान्मैथुनस्य निःसरणं पर्येषत इति तस्यैव यथाभूत परिज्ञानेन तत्प्रहाणात् / यथाभूतपरिज्ञानं पुनरस्य तथताप्रतिबेधाद्वेदितव्यम् / मैथुनप्रहाणेनोपेक्षको भवति, अब्रह्मचर्यप्रहाणोपेक्षणात् / उत्पन्नं च मैथुनरागमधिवासयति, कामरागस्याध्यात्ममुत्पन्नस्य बहिःप्रवासनात् / मैथुनप्रतिपक्षेण च धर्मेणोत्त्रस्यति तत्प्रतिपक्षेण मार्गेण सर्वसत्त्वोत्तरणाय व्यवस्यतीति कृत्वा / अभीक्ष्णं च द्वयद्वयं समापद्यते संक्लेशव्यवद नद्वयेन फलहेतुभेदेन चतुःसत्यात्मकेन [शमथविपश्यनाद्वयेन] पुनःपुनर्लौकिकलोकोत्तरमार्गद्वयं समापद्यत इति कृत्वा //
569 SK किमुपादायेदं शास्त्रमभिधर्मसमुच्चय इति नाम लभते / निरुक्तिन्यायेन / समेत्योच्चयतामुपादाय तत्त्वमभिसमेत्याधिगम्य बोधिसत्त्वंः संकलनादित्यर्थः / समन्तादुच्चयतामुपादायाभिधर्मसूत्रतः सर्वचिन्तास्थानसंग्रहादित्यर्थः / सम्यगुच्चयत्वायायतनतां चोपादायेत्यविपरीतेनोपायेन यावद्बुद्धत्वप्रापणादित्यर्थः //
570 SK इत्यभिधर्मसमुच्चये भाष्यतः सांकथ्यविनिश्चयो नाम पञ्चमः समुच्चयः समाप्तः //
571 SK लिखापितमिदं पण्डितवैद्यश्री अमरचन्द्रेण जगद्बुद्धत्वसंपद इति //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Abhidharmasamuccayabhāṣya (sa_abhidharmasamuccayabhASya.htm).
Source