SK
(प्. १) श्रीगणेशाय नमः | श्रीसरस्वत्यै नमः | श्रीगुरुभ्यो नमः | श्रीनाथाय नमः | ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंश ऋषिभ्यो नमो गुरुभ्यः | आगजानन पद्मार्कं गजाननमहर्निशम् | अनेकदन्तं भक्तानामेकदन्तमुपास्महे || गुरुं गणपतिं वाणीं साम्बं क्षेत्राधिपं परम् | प्रणम्य संविन्मार्गस्थान वक्ष्ये स्वच्छन्दपद्धतिम् || अमृतानन्दयोगीन्द्र बोधाद् विगत कल्मषः | ब्रह्मानन्दाख्ययोगीन्दश्चचार पृथिवीमिमाम् || विचार्य स्वमताभिज्ञं विमलानन्दसंज्ञकम् | स्वशिष्यमकरोत् तस्मात् चिदानन्दो वभूव ह? || चिदानन्दबोधादखण्डावबोधः स्वरूपं विदित्वा चराम्पद्वयोहम् | तथा शाधिमां नाथ युष्मद् गुरुणां कृपा त्वय्यखण्डा भवत् तेन शीघ्रम् || (प्. २) सदानन्द सुधाराशि कुलालाख्यायणम्? | चिदानन्दगुरुं वन्दे त्त्वदाज्ञां शिरसा वहन् || कुलधर्मस्य शास्त्राणि विचार्य परया धिया | साधकानां हितार्थाय वक्ष्ये स्वच्छन्दपद्धतिम् || तत्र श्रीमान् साधकेन्द्रः प्रातः सन्ध्यापूर्वदं उद्वयात्मिके रविस्तुरीययामे ब्राह्मे मुहूर्ते चोत्थाय शुद्धः सन् स्वशिरसि श्वेतसहस्रदलकमलकर्णिकायां निजगुरुन् ध्यायेत् | श्रीमद्बोधघनामृतान्वितमहाचित्तेन तद्विग्रहं ध्यात्वा नित्यमहं सहस्रदलकेचिच्चन्द्रबिम्बप्रभम् | नीत्वा तद्गुरुमेव षोडशदले मन्त्रात्मकं भावयन् ध्यायन् हृत्कमलोदरे तु तदहं त्वेवं स्मरे च्छ्रीगुरुम् | ततो मृगीमुद्रया पादुकामन्त्रेण स्वगुरुं त्रिवारं सम्पूज्य स्वनाम मूलाधारे सकृत् सम्पूज्य गुरुं पञ्चोपचारैः पूजयेत् | तद्यथा लं पृथिव्यात्मकं गन्धं समर्पयामि, हं आकाशात्मकं पुष्पं समर्पयामि, यं वायव्यात्मकं धूपं समर्पयामि, रं अग्न्यात्मकं दीपं समर्पयामि तं अमृतात्मकं नैवेद्यं समर्पयामि यं सर्वात्मकं ताम्बुलं समर्पयामि, इति संपूज्य | (प्. ३) अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया | चक्षून्मीलितं येन तस्मै श्रीगुरवे नमः ||