SK
अथ श्रीवामकेश्वरीमतम् श्रीमद्राजानकजयरथविरचितविवरणोपेतम् | प्रथमः पटलः | स्वस्वामिभावपरिजृम्भणसारचक्र- चक्रेश्वरीमयतया नवधा स्वरूपम् | आभासयन्त्यधनुदे त्रिपुरास्तु सर्व- सर्वात्मकत्वकलनेन निजाक्षराणाम् || १ || जयन्ति परमाद्वैतविज्ञानामृतनिर्भराः | पूर्वे श्रीदीपिकाचार्यप्रमुखा गुरवो मम || २ || परकृतकुकल्पनामयतिमिरान्ध्यापोहनाय मनाक् | श्रीवामकेश्वरीमतमुद्द्योतयितुं ममोद्यमोऽद्यायम् || ३ || इह खलु कञ्चन परानुजिघृक्षापरतया अवतितारयिषितरहस्यैतच्छास्त्रगर्भीकारेण भक्तितारतम्यात् पौनः पुन्येन समुचितनमस्कार्यनमस्कारं करोति तन्त्रावतारको गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् | देवीं मन्त्रमयीं नौमि मातृकां पीठरूपिणीम् || १ || इह - - - - - न विद्या मातृकापरा | (स्व० ११|१९९) इति पशुभिरज्ञातस्वरूपां भगवतीं मातृकामन्यत्र या सा शक्तिर्जगद्धातुः कथिता समवायिनी | (मा० वि० ३|५) इत्यादिना उक्ताम्, इहापि प्. २) त्रिपुरा परमा शक्तिराद्या जातादितः प्रिये | स्थूलसूक्ष्मविभागेन त्रैलोक्योत्पत्तिमातृका || (४|४) इत्यादिनां वक्ष्यमाणस्वरूपाम्, गुरुभिरपि चितिः प्रत्यवमर्शात्मा परा वाक् स्वरसोदिता | स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः || सा स्फुरत्ता महासत्ता देशकालाविशेषिणी | सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः || (ई० प्र० १|५|१०) इत्यादिना निरूपितां परहंपरामर्शसारां परां परमेश्वरीं वाच्यवाचकात्मनो विश्वस्य जननीं स्वातन्त्र्यात्मिकां शक्तिम्, - - - - - - - - - - - - एकाकी न रमाम्यहम् | इतिवचनात् आस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः | महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्घटादिवत् (त० ३|१००) इत्याद्युक्तयुक्त्या च बहिरुल्लिलासयिषया उन्मिषन्तीं श्रीमन्नरवाहनदत्तसूत्रितया अकचटतपयशगणेशग्रहाधीशनक्षत्रराशीश्वरी-योगिनीवाच्यगर्भा इत्यादिभङ्ग्या गणा अष्टौ वर्गाः,