The Toḍala Tantra

Toḍalatantra · तोडलतन्त्रम्

The Toḍala Tantra

Toḍalatantra

तोडलतन्त्रम्

SK
ब्रूहि मे जगतां नाथ सर्वविद्यामय प्रभो महाविद्यासु सर्वासु पूज्यासु भुवनत्रये //
SK
एतासां दक्षिणे भागे नानारूपं पिनाकधृक् पृथक् पृथक् महादेव कथयस्व मयि प्रभो //
SK
शृणु चार्वङ्गि सुभगे कालिकायाश्च भैरवम् महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् //
SK
महाकालेन वै सार्धं दक्षिणा रमते सदा ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत् //
SK
समुद्रमथने देवि कालकूटं समुत्थितम् सर्वे देवाः सदाराश्च महाक्षोभम् अवाप्नुयुः //
SK
क्षोभादिरहितं यस्मात् पीतं हालाहलं विषम् अत एव महेशानि अक्षोभ्यः परिकीर्तितः //
SK
तेन सार्धं महामाया तारिणी रमते सदा महात्रिपुरसुन्दर्या दक्षिणे पूजयेच्छिवम् //
SK
पञ्चवक्त्रं त्रिनेत्रं च प्रतिवक्त्रे सुरेश्वरि तेन सार्धं महादेवी सदा कामकुतूहला //
SK
अत एव महेशानि पञ्चमीति प्रकीर्तिता श्रीमद्भुवनसुन्दर्या दक्षिणे त्र्यम्बकं यजेत् //
SK
स्वर्गे मर्त्ये च पाताले या चाद्या भुवनेश्वरी एतासु रमते येन त्र्यम्बकस्तेन कथ्यते //
SK
सशक्तिश्च समाख्यातः सर्वतन्त्रप्रपूजितः भैरव्या दक्षिणे भागे दक्षिणामूर्तिसंज्ञकम् //
SK
पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि छिन्नमस्तादक्षिणांशे कबन्धं पूजयेच्छिवम् //
SK
कबन्धपूजनाद्देवि सर्वसिद्धीश्वरो भवेत् धूमावती महाविद्या विधवारूपधारिणी //
SK
वगलाया दक्षभागे एकवक्त्रं प्रपूजयेत् महारुद्रेति विख्यातं जगत्संहारकारकम् //
SK
मातंगीदक्षिणांशे च मतंगं पूजयेच्छिवम् तमेव दक्षिणामूर्तिं जगदानन्दरूपकम् //
SK
कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् पूजयेत् परमेशानि स सिद्धो नात्र संशयः //
SK
पूजयेदन्नपूर्णाया दक्षिणे ब्रह्मरूपकम् महामोक्षप्रदं देवं दशवक्त्रं महेश्वरम् //
SK
दुर्गाया दक्षिणे देशे नारदं परिपूजयेत् नाकारः सृष्टिकर्ता च दकारः पालकः सदा //
SK
रेफः संहाररूपत्वान् नारदः परिकीर्तितः अन्यासु सर्वविद्यासु ऋषिर् यः परिकीर्तितः //
SK
स एव तस्या भर्ता च दक्षभागे प्रपूजयेत् श्रीदेवी उवाच या चाद्या परमा विद्या द्वितीया भैरवी परा त्रैलोक्यजननी नित्या सा कथं शववाहना //
SK
या चाद्या परमेशानि स्वयं कालस्वरूपिणी श्रीशिवस्य हृदम्भोजे स्थिता संहाररूपिणी //
SK
अत एव महाकालो जगत्संहारकारकः संहाररूपिणी काली यदा व्यक्तस्वरूपिणी //
SK
तदैव सहसा देवि शवरूपः सदाशिवः तत्क्षणाच् चञ्चलापाङ्गि सा देवी शववाहना //
SK
शवरूपो महादेव मृतदेहः सदाशिवः मृतदेहं महादेव सलिलं वा कथं नहि //
SK
यस्मिन् व्यक्ता महाकाली शक्तिहीनः सदाशिवः शक्त्या युक्तो यदा देवि तदैव शिवरूपकः शक्तिहीनः शवः साक्षात् पुरुषत्वं न मुञ्चति //
SK
शृणु देवि प्रवक्ष्यामि योगसारं समासतः ऊर्ध्वमूलम् अधःशाखं वृक्षाकारं कलेवरम् //
SK
ब्रह्माण्डे यानि तीर्थानि तानि सन्ति कलेवरे बृहद्ब्रह्माण्डं यद्रूपं तद्रूपं क्षुद्ररूपकम् //
SK
ब्रह्माण्डे वर्तते तीर्थं सार्धकोटित्रयात्मकम् द्विसप्ततिसहस्राणि प्रकाशं वीरवन्दिते //
SK
चतुर्दशं तु तन्मध्ये तन्मध्ये त्रितयं शुभम् तन्मध्ये परमेशानि महाधीरा च मुक्तिदा //
SK
वासुकी या महामाया भुजगाकाररूपिणी सार्धत्रिवलयाकारा पातालतलवासिनी //
SK
सप्तस्वर्गं परेशानि क्रमेण शृणु सादरम् भूर्लोकं च भुवर्लोकं स्वर्लोकं महसं तथा //
SK
जनलोकं तपश्चैव सत्यलोकं वरानने सप्तस्वर्गमिदं भद्रे पातालं शृणु यत्नतः //
SK
अतलं वितलं चैव सुतलं च तलातलम् महातलं च पातालं रसातलमतः परम् //
SK
रसातलाच्च सत्यान्तं महाधीरा प्रतिष्ठिता मेरुमध्यस्थिता नाडी महाधीरा च मुक्तिदा //
SK
सत्यलोके महाविष्णुं शिवं ब्रह्माण्डसंज्ञकम् तस्य संदर्शनार्थाय वासुकी व्याकुला सदा //
SK
स्वर्गषट्कं भेदयित्वा उत्थिता वासुकी यदा सर्वाः समुद्रगामिन्य ऊर्ध्वस्रोता भवन्ति हि //
SK
एवं क्रमेण देवेशि शरीरे नाडयः स्थिताः इडा च पिङ्गला चैव सुषुम्णा मध्यवर्तिनी //
SK
नाडीद्वयेन देवेशि समीरं पूरयेद् यदि ततस्तु प्राणमन्त्रेण कुण्डली च क्रमं चरेत् //
SK
सहस्रारे महापद्मे नित्ये चाव्ययपङ्कजे त्रासयुक्ता कुण्डलिनी प्रविशेन्नित्यमन्दिरम् //
SK
सर्वाः पातालगामिन्य ऊर्ध्वस्रोता भवन्ति हि एतस्मिन् समये देवि वर्णमालां विचिन्तयेत् //
SK
अष्टोत्तरशतं मूलमन्त्रं ज्ञानेन संजपेत् आनयेत्तेन मार्गेण मूलाधारे पुनः सुधीः //
SK
षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया अथान्यत् सम्प्रवक्ष्यामि योनिमुद्रासनं प्रिये //
SK
उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः जानुद्वयं कराभ्यां च प्रकुर्याद् दृढबन्धनम् //
SK
ऋजुकायेन देवेशि आजानु नासिकां नयेत् प्राणमन्त्रेण देवेशि समीरं बहुयत्नतः //
SK
पूरयेत् परमेशानि किंचिद् वायुं न रेचयेत् ऋजुकायं परेशानि विपरीतं प्रयत्नतः //
SK
पूर्वोक्तेनैव विधिना अष्टोत्तरशतं जपेत् षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया //
SK
आनयेत्तेन मार्गेण मूलाधारे वरानने अशेषरोगशमनं योनिमुद्रासनं प्रिये //
SK
बहु किं कथ्यते देवि महाव्याधिविनाशनम् बहु किं कथ्यते देवि मन्त्रचैतन्यकारणम् //
SK
आत्मसाक्षात्करी मुद्रा महामोक्षप्रदायिनी शतवक्त्रं यदि भवेत् तदा वक्तुं न शक्यते //
SK
पञ्चवक्त्रेण देवेशि किं मया कथ्यतेऽधुना कुष्ठरोगविशिष्टोऽपि स भवेत् कामरूपकः //
SK
देवदेव महादेव संसारार्णवतारक बद्धयोनिं महामुद्रां कथयस्व दयानिधे //
SK
शृणु देवि प्रवक्ष्यामि बद्धयोनिं समासतः उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः //
SK
गुदच्छिद्रे महेशानि स्वलिङ्गाग्रं निवेशयेत् श्रोत्रे चैव तथा नेत्रे नासायां च ततो मुखे //
SK
अङ्गुष्ठादि महेशानि क्रमेण योजयेत् सुधीः नासिकायां मुखे चैव समीरं बहुयत्नतः //
SK
पूरयेत् परमेशानि किंचिद् अपि न रेचयेत् शब्दप्रत्यक्षतां कृत्वा वर्णमालां विचिन्तयेत् //
SK
अष्टोत्तरशतं मूलमन्त्रं तु प्रजपेत् सुधीः सो ऽहंमन्त्रेण देवेशि आनयेत्तेन वर्त्मना //
SK
षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया कृते फलं महेशानि कथयिष्यामि ते ऽनघे //
SK
वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर मन्त्रमार्गेण देवेश कालिकायाः सुदुर्लभम् //
SK
शृणु देवि सदानन्दे कालिकामन्त्रमुत्तमम् यस्याः प्रसङ्गमात्रेण जीवन्मुक्तो भवेन्नरः //
SK
शिवाद्यं बिन्दुनादाढ्यं वामनेत्राग्निसंयुतम् सिद्धविद्या त्व् इयं भद्रे विद्याराज्ञी सुदुर्लभा //
SK
इदं बीजत्रयं चाद्यं गगनं बिन्दुभूषितम् वामश्रवणसंयुक्तं द्वंद्वं चापरकं शृणु //
SK
ईशानं वह्निसंयुक्तं वामनेत्रेन्दुसंयुतम् द्वितीयं परमेशानि सम्बोधनपदं ततः //
SK
पुनर् बीजत्रयं कूर्चं मायाद्वंद्वं च ठद्वयम् द्वाविंशत्यक्षरं मन्त्रं विद्याराज्ञी सुदुर्लभा //
SK
वाग्भवाद्या महाविद्या श्रीकाली देवता स्मृता प्रणवाद्या महाविद्या देवता सिद्धिकालिका //
SK
निजबीजद्वयं कूर्चं बीजैकं परमेश्वरि त्र्यक्षरी परमा विद्या चामुण्डा कालिका स्मृता //
SK
एतस्याः सदृशी विद्या सिद्धिदा नास्ति सुन्दरि यथा षडक्षरी विद्या तथा विद्या च त्र्यक्षरी //
SK
निजबीजत्रयं भद्रे श्मशानकालिका ततः पुनर् बीजत्रयं भद्रे वह्निकान्तां समुच्चरेत् //
SK
चतुर्दशाक्षरी विद्या त्रिषु लोकेषु पूजिता दक्षिणाकालिका सिद्धकालिका गुह्यकालिका //
SK
श्रीकालिका भद्रकाली चामुण्डाकालिका परा श्मशानकालिका देवि महाकालीति चाष्टधा //
SK
निजबीजं महेशानि सम्बोधनपदं ततः पुनश्च कालिकाबीजं ततो वह्निवधूं न्यसेत् //
SK
इति चाष्टविधं मन्त्रं सर्वतन्त्रेषु गोपितम् श्रीदेवी उवाच श्रुतं महाकालिकाया मन्त्रं परमगोपनम् //
SK
ताराया मन्त्रराजं तु श्रोतुमिच्छामि साम्प्रतम् यस्याः प्रसङ्गमात्रेण भवाब्धौ न निमज्जति //
SK
तन्मन्त्रं वद ईशान यदि स्नेहोऽस्ति मां प्रति श्रीशिव उवाच चन्द्रबीजं समुच्चार्य आद्यं वह्निसमागतम् //
SK
वामनेत्रेन्दुसंयुक्तं मन्त्रराजमिमं प्रिये एकाक्षरी महाविद्या त्रिषु लोकेषु पूजिता //
SK
ईशानबिन्दुसंयुक्तं वामकर्णविभूषितम् एकाक्षरी महाविद्या मन्त्रराजद्वितीयकम् //
SK
शिरं बिन्दुसमारूढं वामनेत्रेन्दुसंयुतम् आद्यबीजं द्वितीयं च अस्त्रमन्त्रं समुच्चरेत् //
SK
प्रणवाद्या यदा विद्या सोग्रतारा प्रकीर्तिता विद्या चैकजटा प्रोक्ता महामोक्षप्रदायिनी //
SK
तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती वाग्भवाद्या यदा विद्या वागीशत्वप्रदायिनी //
SK
श्रीबीजाद्या महाविद्या सदा लक्ष्मीप्रदायिनी मायाद्या परमा विद्या सदा सिद्धिप्रदायिनी //
SK
कूर्चबीजादिका चैषा शब्दराशिप्रकाशिनी गगनाद्या महाविद्या निर्वाणमोक्षदायिनी //
SK
प्रासादाद्या महाविद्या शिवसायुज्यदायिनी प्राणबीजादिका चैषा वाञ्छासिद्धिप्रदायिनी //
SK
कालिकाद्या महाविद्या मुक्तिदा सिद्धिदा सदा कालिकायाश्च ताराया आराधनम् इहोच्यते //
SK
प्रातरुत्थाय मन्त्रज्ञः सहस्रारे गुरुं यजेत् षट्चक्रं भेदयित्वा तु चाष्टोत्तरशतं जपेत् //
SK
ततः प्रणम्य विधिवत् स्नानकर्म समारभेत् अद्येत्यादि समुच्चार्य सौरमासं समुच्चरेत् //
SK
देवताप्रीतये पश्चात् स्नापयेच्छुद्धवारिणा ॐकारं च समुच्चार्य गङ्गे चेति समुच्चरेत् //
SK
यमुनेति ततः पश्चाद् गोदावरि सरस्वति नर्मदेति समुच्चार्य सिन्धुकावेरिसंयुतम् //
SK
अस्मिन् जले च संनिधिं कुरु शब्दमथो वदेत् आनयेदङ्कुशाख्येन रविसंयुक्तमण्डलात् //
SK
मुद्राचतुष्टयं देवि दर्शयेद् बहुयत्नतः रुद्रसंख्यं जपेन्मन्त्रम् आच्छाद्य मीनमुद्रया //
SK
सूर्यायाभिमुखं तोयं निःक्षिप्य रविसंख्यया मूलमन्त्रं समुच्चार्य क्षालयेच्चरणद्वयम् //
SK
चरणान्निःसृते तोये त्रिर् निमज्य जपेन्मनुम् मूलमन्त्रं त्रिर् जप्त्वा तु मुद्रया कुम्भसंज्ञया //
SK
जलादुत्थाय देवेशि तिलकं कुलवर्त्मतः आत्मविद्याशिवैस् तत्त्वैर् आचामेत् पयसा ततः //
SK
वह्निजायान्विता मन्त्रा विज्ञेयाः प्रणवादिकाः गङ्गे चेत्यादिना देवि तीर्थमावाहनं चरेत् //
SK
मूलेन दर्भया भूमौ त्रिवारं निक्षिपेत् सुधीः तज्जलेन सप्तवारम् आत्माभिषेकमाचरेत् //
SK
अङ्गन्यासं ततः कृत्वा वामहस्ते सुरेश्वरि गगनं वायुबीजं च वरुणं भूमिबीजकम् //
SK
वह्निबीजं बिन्दुयुक्तं त्रिवारं जपमाचरेत् अनेन मनुना देवि तज्जलं चाभिमन्त्रितम् //
SK
मूलमन्त्रं समुच्चार्य सप्तधा तत्त्वमुद्रया अभिषेचनमात्रेण मुच्यते सर्वपातकैः //
SK
शेषं जलं महेशानि दक्षहस्ते समानयेत् इडया पूरयेत्तोयं क्षालयेद् देहमध्यगम् //
SK
ततः पिङ्गलया देवि तत्तोयं तु विरेचयेत् कृष्णवर्णं तदुदकं पापरूपं विचिन्तयेत् //
SK
पुरतो वज्रपाषाणे फट्कारेण विनिक्षिपेत् हस्तं प्रक्षाल्य चाचम्य प्राणायामपुरःसरम् //
SK
तर्पयेत् कुलदेवं च सूर्यायार्घ्यं निवेदयेत् देवतार्घ्यं ततः पश्चाद् गायत्रीं परमाक्षरीम् //
SK
प्रणवं च समुद्धृत्य कालिकायै ततो वदेत् विद्महे इति संलिख्य श्मशानं च समुद्धरेत् //
SK
वासिनीं ङेयुतां देवि धीमहीति ततो वदेत् तन्नो घोरे महेशानि प्रजपेत्तु प्रचोदयात् //
SK
गायत्रीं प्रपठेद् धीमान् त्रिवारं जलमुत्क्षिपेत् ततो जपेन्महामन्त्रं गायत्रीं परमाक्षरीम् //
SK
अङ्गन्यासं ततः कृत्वा आचम्य परमेश्वरि इष्टदेवीं महेशानि ध्यात्वा तु परिमण्डले //
SK
ॐ तारायै विद्महे इति महोग्रायै ततो वदेत् धीमहीति ततः पश्चात् ततो देवि प्रचोदयात् //
SK
प्राणायामं ततः कृत्वा चाष्टोत्तरशतं जपेत् सूत्राकारेण देवेशि पूजाविधिरिहोच्यते //
SK
स्वस्तिवाचनसंकल्पं घटं संस्थाप्य यत्नतः मन्त्रेणाचमनं कार्यं सामान्यार्घ्यं ततो न्यसेत् //
SK
तज्जलैर् द्वारम् अभ्युक्ष्य द्वारपूजां समाचरेत् त्रिविधं विघ्नम् उत्सार्य भूतापसरणं ततः //
SK
आसनं च समभ्यर्च्य गुरुदेवं नमेत् सुधीः करशुद्धिं च तालं च त्रयं दिग्बन्धनं ततः //
SK
वह्निना वेष्टनं कार्यं भूतशुद्धिम् अथाचरेत् मातृकायाः षडङ्गं च कुर्याद् आन्तरमातृकाम् //
SK
मातृकाध्यानम् उच्चार्य बाह्ये तु मातृकां न्यसेत् पीठन्यासं ततः कृत्वा प्राणायामं समाचरेत् //
SK
ऋष्यादिकं कराङ्गं च वर्णन्यासं समाचरेत् षोढान्यासं ततो देवि व्यापकं तदनन्तरम् //
SK
एवं समाहितमनास् तत्त्वन्यासं समाचरेत् बीजन्यासं ततो देवि व्यापकं विन्यसेत् सुधीः //
SK
मूलेन सप्तधा ध्यानं मानसैः पूजनं चरेत् विशेषार्घ्यं पीठपूजां पुनर्ध्यानं सनेत्रकम् //
SK
मुद्रादिदर्शनं कार्यम् आवाहनषडङ्गकम् धेन्वादिकं ततः प्राणप्रतिष्ठां मूलपूजनम् //
SK
आज्ञाप्रार्थनमङ्गानि काल्यादीन् परिपूजयेत् ब्राह्म्यादीनसिताङ्गादीन् महाकालं प्रपूजयेत् //
SK
खड्गादीन् गुरुपङ्क्तिं च पुनर्देवीं प्रपूजयेत् बलिदानं ततो होमं प्राणायामं ततो जपम् //
SK
जपं समर्पयेद्धीमान् प्राणायामं ततश्चरेत् एतस्मिन् समये देवि कारणादीन् समाहरेत् //
SK
अर्घ्यं दत्त्वा महेशानि चात्मानं च समर्पयेत् स्तुतिं च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत् सुधीः //
SK
शिवोऽहम् इति संचिन्त्य संहारेण विसर्जयेत् ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विकाम् //
SK
अर्घ्यं संधार्य शिरसि चन्दनं तु ललाटके नैवेद्यं किंचित् स्वीकृत्य विहरेच्च निजेच्छया //
SK
संक्षेपपूजामथवा कुर्यान्मन्त्री समाहितः आदौ ऋष्यादिकं न्यासं करशुद्धिस्ततः परम् //
SK
अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् //
SK
ध्यानं मानसयागं च अर्घ्यस्थापनमेव च पीठपूजां पुनर्ध्यानं ततश्चावाहनं चरेत् //
SK
जीवन्यासं ततः कृत्वा पूजयेत् परदेवताम् अङ्गपूजां च काल्यादीन् ब्राह्म्यादींश्चाष्टभैरवान् //
SK
महाकालं पूजयित्वा गुरुपङ्क्तिं यजेत्ततः खड्गादीन् पूजयित्वा तु पुनर्देवीं प्रपूजयेत् //
SK
प्राणायामं ततः कृत्वा पूजयेत् साधकाग्रणीः देव्या हस्ते जपफलं समर्पणमथाचरेत् //
SK
प्राणायामं ततः कृत्वा चाष्टाङ्गं प्रणमेत् सुधीः स्तुतिं च कवचं स्मृत्वा विशेषार्घ्यं प्रदापयेत् //
SK
आत्मसमर्पणं कृत्वा संहारेण विसर्जयेत् ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विकाम् नैवेद्यं किंचित् स्वीकृत्य विहरेच्च निजेच्छया //
SK
श्रुता पूजा कालिकायास् ताराया वद साम्प्रतम् यस्याः प्रसङ्गमात्रेण वाचश् चित्तायते नृणाम् //
SK
शृणु चार्वङ्गि सुभगे तारायाः पूजनं महत् मन्त्रेणाचमनं कृत्वा गुरुदेवं नमेत्ततः //
SK
जलं संशोध्य हस्तौ च पादौ च क्षालयेत्ततः मन्त्रेणाचमनं कृत्वा ततः पीठं विचिन्तयेत् //
SK
शिखां बद्ध्वा ततो देवि त्रिविधं विघ्ननाशनम् भूम्यासनं च संशोध्य वस्त्रे ग्रन्थिं विधाय च //
SK
कायवाक्शोधनं कृत्वा ततः पुष्पविशोधनम् यन्त्रं कृत्वा साधकेन्द्रः सामान्यार्घ्यं च विन्यसेत् //
SK
द्वारपालांश्च संपूज्य पीठपूजां समारभेत् पीठशक्तीश्च लक्ष्म्याद्यास् ततः पीठमनुं जपेत् //
SK
भूतशुद्धिं प्रवक्ष्यामि विशेषमिह यद्भवेत् कूर्चयुक्तेन हंसेन पूरकेण सुरेश्वरि //
SK
कुण्डल्या सह चात्मानं चतुर्विंशतिबीजकम् तत्र लीनानि देवेशि परमात्मनि साधकः //
SK
मायया संदहेत् पापं पुरुषं कज्जलप्रभम् कुम्भकेन वरारोहे भस्म कुर्याद् विचक्षणः //
SK
वधूबीजेन देवेशि भस्मना सह रेचयेत् पूरकेण तु कूर्चेन ललाटेऽमृतसंचयम् //
SK
चिन्तयेत् परमेशानि कुम्भकेनामृताम्बुधिम् आं ह्रीं क्र्ॐ वह्निबीजान्तं हृदि चैकादशं जपेत् //
SK
ततस्तु चिन्तयेद् धीमान् ॐकाराद् रक्तपङ्कजम् तस्योपरि पुनर्ध्यायेत् हुंकारं नीलसंनिभम् //
SK
तस्योपरि पुनर् ध्यायेद् बीजभूषितकर्तृकाम् तस्योपरि परं बिन्दुं शिवरूपं च अव्ययम् //
SK
वालुकायाः सहस्रैकभागं बिन्दुं सुदुर्लभम् बिन्दुमध्ये मणिद्वीपं शतयोजनविस्तृतम् //
SK
बिन्दुमध्ये परं ज्योतिर् बुद्बुदाकारमण्डलम् यथैव बुद्बुदे देवि प्रतिबिम्बं प्रपश्यति //
SK
तथा निरीक्षणं कार्यं प्रकुर्याज्ज्ञानचक्षुषा मणिद्वीपं तु तन्मध्ये सुवर्णवालुकामयम् //
SK
परितो भावयेन्मन्त्री परिखातो मनोहरम् मध्ये कल्पद्रुमं ध्यायेद् आत्मानं तारिणीमयम् //
SK
उद्यदादित्यसंकाशं ज्योतिर्मण्डलमुत्तमम् चतुर्द्वारसमायुक्तं हेमप्राकारभूषितम् //
SK
बहुचामरघण्टादिदेवकन्यासुशोभितम् मन्दवायुसमायुक्तं गन्धधूपैर् अलंकृतम् //
SK
तन्मध्ये वेदिकां ध्यायेन् नानारत्नोपशोभिताम् सुवर्णसूत्ररचितं चिन्तयेच्छत्त्रम् उत्तमम् //
SK
तदधश्चिन्तयेन्मन्त्री रत्नसिंहासनं प्रिये तत्र देवीं चिन्तयेच्च यथोक्तध्यानयोगतः //
SK
योगसारे यथोक्तैस्तु उपचारैः प्रपूजयेत् प्राणायामं ततः कृत्वा ऋष्यादिन्यासमाचरेत् //
SK
वर्णन्यासं ततः कृत्वा कराङ्गन्यासमाचरेत् तालत्रयं छोटिकाभिर् दशदिग्बन्धनं चरेत् //
SK
षोढान्यासं ततः कृत्वा व्यापकं तदनन्तरम् विशेषार्घ्यं च संस्थाप्य पञ्चतत्त्वं विशोधयेत् //
SK
सुधादेवीं समानीय पञ्चीकरणमाचरेत् कुम्भे पुष्पं समादाय त्रिकोणे त्रिः प्रपूजयेत् //
SK
वामदेहं त्रिधा चोक्त्वा खेचरीं दशधा जपेत् तथा चानन्दगायत्रीम् ऋचं च त्रिर् जपेत् सुधीः //
SK
ब्रह्मशापं शुक्रशापं कृष्णशापं सुरेश्वरि दिग्जपान्नाशयेद्धीमान् ततो मन्त्रत्रयं जपेत् //
SK
छुरिकां चामृतं चैव प्रीतिसंरक्षणीं तथा पावमानं च त्रिर् जप्त्वा शोषणादीन् समाचरेत् //
SK
वारुणं त्रिर् जपेद्देवि चामृतं सप्तधा जपेत् विद्यातत्त्वे धेनुमुद्रां प्रदर्श्य मूलमष्टधा //
SK
कुण्डलिनीं समुत्थाप्य शिवोऽहं भावयेत्ततः मांसं मीनं शोधयित्वा मुद्राशोधनमाचरेत् //
SK
शक्तिं च कुलपुष्पं च शोधयेत् साधकोत्तमः देवान् पितॄन् ऋषींश्चैव तर्पयेदिष्टदेवताम् //
SK
शोधितं द्रव्यमादाय विशेषार्घ्ये विनिक्षिपेत् ततो ब्रह्ममयं ध्यात्वा पूजाध्यानं समाचरेत् //
SK
नासारन्ध्रात् समानीय पीठे पुष्पं निधाय च ततश्चावाहनं कृत्वा पञ्चमुद्राः प्रदर्शयेत् //
SK
षडङ्गेन च सम्पूज्य पुनर्मुद्रां प्रदर्शयेत् जीवन्यासं ततः कृत्वा उपचारैः प्रपूजयेत् //
SK
षडङ्गानि च सम्पूज्य अक्षोभ्यं पूजयेदधः गुरुपङ्क्तिं पूजयित्वा दशमूलेषु पूजयेत् //
SK
महापूर्वांश् च काल्यादीन् यजेद्वैरोचनादिकान् पुनर्देवीं प्रपूज्याथ बलिं दद्याद्विचक्षणः //
SK
प्राणायामं ततः कृत्वा मन्त्रध्यानं समाचरेत् जपं कृत्वा महेशानि देव्या हस्ते समर्पयेत् //
SK
प्राणायामं पुनः कृत्वा तत्त्वस्वीकारमाचरेत् तस्मै दत्त्वा स्वयं नीत्वा प्रजपेत् साधकाग्रणीः //
SK
पीत्वा पीत्वा जपित्वा च मुक्तः कोटिजनैः सह प्रतिपात्रे जपेन्मन्त्रम् अष्टोत्तरशतं सुधीः //
SK
स्तुतिं च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत् सुधीः विशेषार्घ्यं प्रदातव्यम् आत्मानं च समर्पयेत् //
SK
रुद्ररूपी स्वयं भूत्वा संहारेण विसर्जयेत् योनिमुद्रां ततो बद्ध्वा क्षमस्वेति विसर्जयेत् //
SK
अङ्गन्यासं महेशानि प्राणायामं ततः परम् ऐशान्यां मण्डलं कृत्वा निर्माल्येन प्रपूजयेत् //
SK
निर्माल्यवासिनीं ङेऽन्तां चण्डेश्वर्यै नमो नमः निर्माल्यं धारयेत् शीर्षे चन्दनं च ललाटके //
SK
गुरुस्थाने लिखेद् यन्त्रं विचरेद् भैरवो यथा संक्षेपपूजनं देवि मानसं तत्त्ववर्जितम् //
SK
अत्रोक्तमाचरेदत्र नान्यत् संचारयेत् सुधीः अन्यत्संचारणाद्देवि क्रुद्धा भवति तारिणी //
SK
तत्त्वज्ञानं च मानं च शक्तिमात्रे हि पार्वति इत्येतत् कथितं देवि किमन्यत् श्रोतुमिच्छसि //
SK
त्वत्प्रसादान्महादेव पवित्राहं न चान्यथा शम्भुनाथार्चनं देव श्रोतुम् इच्छामि साम्प्रतम् //
SK
शृणु पार्वति वक्ष्यामि यन्मां त्वं परिपृच्छसि नकुलीशं समुद्धृत्य मनुस्वरविभूषितम् //
SK
बिन्दुनादकलायुक्तं प्रासादाख्यं महामनुम् अस्य मन्त्रस्य माहात्म्यम् ऊर्ध्वाम्नाये मयोदितम् //
SK
नमस्कारं समुद्धृत्य वान्तं नेत्रविभूषितम् वारुणं मुखवृत्तं च वायुं ललाटसंयुतम् //
SK
अयं पञ्चाक्षरो मन्त्रः पञ्चाम्नायफलप्रदः प्रणवादि यदा देवि तदा मन्त्रं षडक्षरम् //
SK
प्रासादाख्यं समुद्धृत्य अर्धनारीश्वराय च पुनः प्रासादमुद्धृत्य मन्त्रं परमगोपनम् //
SK
एवं बहुविधाकारं विग्रहं मे नगात्मजे कण्ठे तु गरलं देवि न कलौ भावयेत् क्वचित् //
SK
यदीच्छेदात्मनो मृत्युं यदि उन्मत्तम् इच्छति तदैव सहसा देवि नीलकण्ठम् उपासते //
SK
दुरदृष्टवशाद् देवि नीलकण्ठस्तवादिकम् करोति कारयेद्वापि मम हत्यां करोति सः //
SK
अत एव महेशानि स पापिष्ठो न चान्यथा निषिद्धाचरणं पापं करोति यदि पामरः //
SK
पुत्रदाराधनं तस्य नाशमेति न संशयः कण्ठे तु गरलं देवि यदि पूजापरो भवेत् //
SK
इहलोके दरिद्रः स्यान् मृते शूकरतां व्रजेत् नीलकण्ठस्य यन्मन्त्रं यदि कुर्यात् पुरस्क्रियाम् //
SK
पक्षान्तरे महेशानि तस्य मृत्युर्न चान्यथा शृणु देवि प्रवक्ष्यामि पार्थिवं शिवपूजनम् //
SK
तत्रादौ परमेशानि गुरुदेवं नमेत् सुधीः ॐ हराय नमस्कारं मृत्तिकामाहरेत् सुधीः //
SK
महेश्वराय नमस्कारं लिङ्गं निर्माय यत्नतः शूलपाणे इहोच्चार्य सुसंप्रतिष्ठितो भव //
SK
अनेन मनुना देवि जीवन्यासो विधीयते शकारं बिन्दुसंयुक्तं दीर्घमुक्तं षडङ्गकम् //
SK
तस्य ध्यानं प्रवक्ष्यामि शृणुष्व सुसमाहिता ॐ ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् पद्मासीनं समन्तात् स्तुतम् अमरगणैर् व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् //
SK
पुष्पं शिरसि संधार्य मानसैः पूजनं चरेत् पुनर्ध्यात्वा महेशानि शिवे पुष्पं निधाय च //
SK
पिनाकधृगिति चोच्चार्य इहागच्छ द्वयं वदेत् इह तिष्ठ ततो द्वंद्वं संनिधेहि द्वयम् इह //
SK
इह सन्नि ततो रुद्धस्वशब्दं च ततो वदेत् यावत् पूजां समुच्चार्य ततश्चैवं करोम्यहम् //
SK
स्नानीयं च पशुपतिं ङेयुक्तं च नमश्चरेत् वेदाद्यं योजयेद्देवि ब्राह्मणः साधकोत्तमः //
SK
एतत् पाद्यं महेशानि षडक्षरमनुं ततः नमस्कारं समुच्चार्य सर्वं दद्याद् विचक्षणः //
SK
पूजयित्वा महेशानि चाष्टमूर्तिं प्रपूजयेत् शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः //
SK
महादेवं च ईशानं ङेयुतं कुरु यत्नतः क्षितिं जलं तथा चाग्निं वायुं चाकाशमेव च //
SK
यजमानं तथा सोमं सूर्यं च मूर्तिना सह सर्वत्र ङेयुतं कृत्वा पूजयेत् साधकोत्तमः //
SK
प्रणवादिनमोऽन्तेन वामावर्तेन पूजयेत् मूर्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयोगतः //
SK
आग्नेय्यान्ताः प्रपूज्याथ विद्यां लिङ्गिशिवं यजेत् अष्टोत्तरसहस्रं वा शतं वा प्रजपेत्ततः //
SK
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् सिद्धिर्भवतु मे देव त्वत्प्रसादान्महेश्वर //
SK
ततस्तोयं समादाय जपं चैव समर्पयेत् मुखवाद्यं ततः कृत्वा चाष्टाङ्गं प्रणमेत् सुधीः //
SK
संहारेण महादेव क्षमस्वेति विसर्जयेत् एवं पूजा प्रकर्तव्या शक्तिमन्त्रान् यजेद् यदि //
SK
प्रासादादीन् महामन्त्रान् यदि दीक्षापरो भवेत् शक्तिदीक्षा न कर्तव्या कदाचिदपि मोहतः //
SK
स शैव इति विख्यातः सर्वतन्त्रेश्वरो भवेत् अथातः सम्प्रवक्ष्यामि सूत्रं परमगोपनम् //
SK
हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् पशुपतिः शिवश्चैव महादेव इति क्रमात् //
SK
अष्टमूर्तिस् ततो देवि पूजयेत् साधकोत्तमः ततो जपेन्महेशानि मुखवाद्यं ततः परम् //
SK
एतदन्यन्न कर्तव्यं शक्तिदीक्षापरो यदि निषिद्धाचरणाद्देवि पापभाग् जायते नरः //
SK
न्यूनाधिकं महादेवि यदि पूजादिकं चरेत् स गुरुं चापि शिष्यं च शिवहत्यां प्रयच्छति //
SK
न्यूनाधिकं महेशानि यदि चैकाक्षरं भवेत् वर्णसंख्या महेशानि ब्रह्महत्या भविष्यति //
SK
अत एव स पापिष्ठः सत्यं सत्यं सुरेश्वरि एवं पूजां विधायादौ ततश्चान्यं प्रपूजयेत् //
SK
आदौ शिवं पूजयित्वा शक्तिपूजा ततः परम् यत् किंचिद् उपचारं हि तस्य किंचिन्निवेदयेत् //
SK
अन्यथा मूत्रवत् सर्वं गङ्गातोयं भवेद् यदि अत एव महेशानि आदौ लिङ्गं प्रपूजयेत् //
SK
शिवस्नानोदकं देवि मूर्ध्नि संधारयेद् यदि सत्यं सत्यं महेशानि शिवतुल्यो न संशयः //
SK
शिवरूपी स्वयं भूत्वा देवीपूजां समाचरेत् शैववैष्णवदौर्गार्कगाणपत्यैन्द्रदीक्षितः //
SK
आदौ लिङ्गं पूजयित्वा यदि चान्यत् प्रपूजयेत् तत्फलं कोटिगुणितं सत्यं सत्यं न संशयः //
SK
अन्यदेवं पूजयित्वा शिवं पश्चाद् यजेद् यदि तस्य पूजाफलं चैव भुज्यते यक्षराक्षसैः //
SK
इति ते कथितं कान्ते तन्त्राणां सारमुत्तमम् बहु किं कथ्यते देवि भूयः किं श्रोतुमिच्छसि //
SK
श्रुतं महाकालिकाया मन्त्रं परमगोपनम् संक्षेपं कथितं नाथ वासनां वद मां प्रति //
SK
शृणु देवि महामन्त्रवासनां सर्वसिद्धिदाम् यस्याः श्रवणमात्रेण मन्त्राः सिद्धा भवन्ति हि //
SK
ककारस्योर्ध्वकोणेषु प्राणो वायुः प्रतिष्ठितः अपानो वायुकोणे च समानो मध्यदेशतः //
SK
उदानो ऽङ्कुशकोणे च मात्रायां व्यान एव च बीजं तु कालिकारूपं प्रकारं शृणु पार्वति //
SK
कलाभागे जटाजूटं केशं च परमेश्वरि बिन्दुमस्तकभालं तु नासा नेत्रं च पार्वति //
SK
श्रोत्रयुग्मं तथा वक्त्रं स्कन्दनाद् अव्यवस्थितम् चतुर्बाहुं तथा देहं स्तनद्वंद्वं कटिद्वयम् //
SK
हृदयं जठरं पादं तथा सर्वाङ्गुलिः शिवे ब्रह्मरूपं ककारं च सर्वाङ्गं तनुसंशयः //
SK
शकारं कामरूपं च योनिरूपं न चान्यथा चन्द्रसूर्याग्निरूपं च रेफं परमदुर्लभम् //
SK
सर्वाङ्गद्योतनं तेजो जगदानन्दरूपकम् बिन्दुनिर्वाणदं नादं महामोक्षप्रदं सदा //
SK
सर्वविघ्नहरं देवि ककारं तोयरूपकम् सर्वपापहरं रेफं तस्माद् वह्निर्न चान्यथा //
SK
ईकारं परमेशानि शक्तिं चाव्ययरूपिणीम् महामोक्षप्रदा देवी तस्मान्माया प्रकीर्तिता //
SK
ककारं ब्रह्मरूपं च मकारं विष्णुरूपकम् रेफः संहाररूपत्वाच् छिवरूपो न चान्यथा //
SK
ब्रह्मविष्णुशिवः साक्षात् ककारं परमेश्वरि अनुच्चार्यं तदेव स्याद् विना मायायुतं शिवे //
SK
मायायुक्तं यदा देवि तदा मुक्तिप्रदं महत् अत एव महेशानि मायाशक्तिर्निगद्यते //
SK
ककारं धर्मदं देवि ईकारश्चार्थदायकम् रकारं कामदं कान्ते मकारं मोक्षदायकम् //
SK
एकत्रोच्चारणाद्देवि निर्वाणमोक्षदायिनी माहात्म्यं देवदेवेशि किं वक्तुं शक्यते मया //
SK
जिह्वाकोटिसहस्रेण वक्त्रकोटिशतेन च जन्मान्तरसहस्रेण वर्णितुं नैव शक्यते //
SK
विधिवल्लक्षजापेन पुरश्चरणम् उच्यते एतद्रूपं महामायां कूर्चबीजं तु सुन्दरि //
SK
वाग्भवं प्रणवं देवि एतद्रूपं न संशयः अग्निजाया महाविद्या एतद्रूपं न संशयः //
SK
द्रुतसिद्धिप्रदा विद्या वह्निजाया परा मनुः सम्बोधनपदेनैव सदा संनिधिकारिणी //
SK
अथ वक्ष्ये महाविद्यापुरश्चरणम् उत्तमम् कथितं मन्त्रराजस्य त्रिपुरश्चरणं शृणु //
SK
दिवा लक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः दिव्यवीरमते देवि रात्रौ लक्षं जपेत् सुधीः //
SK
अथ षडक्षरस्यास्य शृणु देवि पुरस्क्रियाम् दिव्यवीरमतेनैव विंशत्येकेन पार्वति //
SK
तथा च त्र्यक्षरं मन्त्रं प्रजपेत् साधकाग्रणीः ध्यानपूजादिकं सर्वं समानं वीरवन्दिते //
SK
एतस्याः सदृशी विद्या फलदा नास्ति योगिनि सर्वमन्त्रस्य चैतन्यं शृणु पार्वति सादरम् //
SK
सहस्रारे महापद्मे बिन्दुरूपं परं शिवम् कुण्डलिनीं समुत्थाप्य हंसेन मनुना सुधीः //
SK
नासाग्रे या स्थिरा दृष्टिर् जायते परमेश्वरि तदैव मन्त्रचैतन्यं कुण्डलीचक्रगं भवेत् //
SK
सहस्रारे महापद्मे कुण्डल्या सहितं गुरुम् भावयेत् सर्वमन्त्राणां चैतन्यं जायते प्रिये //
SK
तदैव प्रजपेन्मन्त्रं सिद्धिदं नात्र संशयः श्रीदेवी उवाच इदानीं तारिणीमन्त्रवासनां वद शंकर कालिका मोक्षदा नित्या तारिणी भववारिधौ //
SK
कलाकेशं महेशानि बिन्दुमस्तकमीरितम् नादं च वक्त्रं भालं च नासां नेत्रं च पार्वति //
SK
भुजचतुष्टयं देहं स्तनद्वंद्वं च वक्षसम् मकारेण तु देवेशि पृष्ठं चैव कटिद्वयम् //
SK
तकारेण योनिदेशं गुदं पादद्वयं तथा सर्वाङ्गुलीर् नखं चैव भावयेत् साधकोत्तमः //
SK
चन्द्रसूर्यात्मकं रेफं वह्निबीजं न चान्यथा सर्वा नाड्यस्तथा ज्योती रोमं च भूषणादिकम् //
SK
शकारं च महामाया शक्तिरूपप्रकाशिनी मूर्धादिपादपर्यन्तं शक्तिबीजं सुदुर्लभम् //
SK
अस्य मन्त्रस्य माहात्म्यं किं मया कथ्यतेऽधुना अश्वमेधसहस्राणि वाजपेयशतानि च //
SK
काश्यादितीर्थं देवेशि सार्धकोटिभुवात्मकम् पूर्णां शस्येन देवेशि सप्तद्वीपां वसुंधराम् //
SK
मेरुतुल्यसुवर्णं तु ब्राह्मणे वेदपारगे सदक्षिणं व्रतं सर्वं चतुर्वेदसुविस्तरम् //
SK
गां चैव भूमिसंस्थं च हस्त्यश्वं च तथैव च बलिदानं महेशानि पितृयज्ञं तथैव च //
SK
विहितं च महापुण्यं यदुक्तं शास्त्रवेदिभिः सकृज्जपान्महेशानि कलां नार्हन्ति षोडशीम् //
SK
एकोच्चारेण देवेशि किं पुनर्ब्रह्म केवलम् सृष्टिस्थितिलयादीनां कर्तारो नात्र संशयः //
SK
सगुणं निर्गुणं साक्षात् निराकारं च मूर्तिमत् वैखरीयं महाविद्या वर्णाश्रिता सुनिश्चला //
SK
यतो निरक्षरं वस्तु अतस्तारा प्रकीर्तिता ब्रह्मविद्यास्वरूपेयं भोगमोक्षफलप्रदा //
SK
जन्मकोटिसहस्रेण वर्णितुं नैव शक्यते पञ्चवक्त्रेण देवेशि किं मया कथ्यतेऽधुना //
SK
एकाक्षरी महाविद्या त्रिषु लोकेषु पूजिता एकाक्षरीविहीनो यो मन्त्रं गृह्णाति पार्वति //
SK
कल्पकोटिसहस्रेण तस्य सिद्धिर्न जायते सकारो विष्णुरूपश्च तकारश्च प्रजापतिः //
SK
रेफः संहाररूपत्वाच् छिवः साक्षान्न संशयः या चाद्या परमा विद्या सा माया परमा कला //
SK
निराकारं परं ज्योतिर् बिन्दुं चाव्ययसंज्ञकम् बिन्दुशब्देन शून्यं स्यात् तथा च गुणसूचकम् //
SK
बिन्दुचक्रामृता देवि प्लवन्ती चार्धमात्रया अर्धमात्राकृतिर्नादो व्यापको विश्वपालकः //
SK
यथेयं वैखरी विद्या कूर्चविद्या तथैव च माहात्म्यं चैव पूजायां भेदो नास्ति सुरेश्वरि //
SK
सतारं च तथा बिन्दुं माया पञ्चाक्षरी परा विभक्ते चाक्षरे चैव क्रियते मूर्तिकल्पना //
SK
सार्धपञ्चाक्षरी विद्या तारिणी मूर्तिमत् स्वयम् तद्रूपं पक्षिरूपं हि वाग्भवश्च हरिप्रियाम् //
SK
प्रणवं कामबीजं तु गगनश् च शिवं शिवे अस्त्रबीजं तदेव स्याद् वह्निजायां सुरेश्वरि //
SK
सम्बोधनपदेनैव सदा संनिधिकारिणी पञ्चाक्षरेण देवेशि तारिणी कामरूपिणी //
SK
तथा पञ्चाक्षरं पश्य ब्रह्मविष्णुशिवात्मकम् शक्तिरूपं निराकारं तथा पञ्चाक्षरेण तु //
SK
यथा पञ्चाक्षरी विद्या तथा विद्या षडक्षरी तथैव षोडशी विद्या तथा विद्या च व्यक्षरी //
SK
तथैवाष्टाक्षरी विद्या तथा नवाक्षरी परा माहात्म्यं ध्यानपूजायां भेदो नास्ति सुरेश्वरि //
SK
अतिस्नेहेन देवेशि किं मया न प्रकाशितम् प्राणान्तेऽपि पशोरग्रे वैखरीं न प्रकाशयेत् //
SK
महायोगमयी देवी खेचरी परमा कला योगज्ञानं विना सिद्धिर् नास्ति सत्यं सुरेश्वर //
SK
ब्रूहि मे देवदेवेश क्षुद्रब्रह्माण्डमध्यतः किमाधारे स्थिता नाथ सप्तद्वीपा वसुंधरा //
SK
समुद्रसप्तकं नाथ किमाकारं प्रतिष्ठति मूलाधारे महीचक्रे संस्थिता मानवादयः //
SK
क्षुद्ररूपा जनाः सर्वे किमाकारेण संस्थिताः स्वकीयाङ्गुलिमानेन मारुतं कथय प्रभो //
SK
मूलाधारे स्थिता देवि सप्तद्वीपा वसुंधरा वलयाकाररूपेण समुद्राः सप्त संस्थिताः //
SK
जम्बुद्वीपं मध्यदेशे तद्बाह्ये लवणाम्बुधिः शाकद्वीपं महेशानि तद्बाह्ये दधिसागरः //
SK
तद्बाह्ये शाल्मलीद्वीपं सागरो दुग्धतद्बहिः तद्बाह्ये पाटलाद्वीपं तद्बाह्ये तु जलान्तकः //
SK
पृथिव्यां वर्तते देवि यद्रूपा मानवादयः तेन रूपेण देवेशि मूलाधारे तु जन्तवः //
SK
षण्णवत्यङ्गुलं देवि मारुतं परिकीर्तितम् मार्तण्डस्थितिमानं तु अधिकं परिकीर्तितम् //
SK
कियद् भुवं तु ब्रह्माण्डं वद भूतलवासिनः अङ्गुल्येकेन किं मानं कथयस्व दयानिधे //
SK
अङ्गुल्येकेन देवेशि सहस्राब्दं प्रजायते षण्णवतिसहस्राब्दं भवेद् भूतलवासिनः //
SK
पादाङ्गुष्ठादिगुल्फान्तं प्रिये रन्ध्रसहस्रकम् रन्ध्रं चन्द्रसहस्राब्दं गुल्फादिजानुसंधिषु //
SK
जान्वादिगुदपर्यन्तं मानं विंशसहस्रकम् मूलाधारादिलिङ्गान्तं चतुर्वर्षसहस्रकम् //
SK
लिङ्गादिनाभिपर्यन्तं भवेदृषिसहस्रकम् नाभ्यादिहृदयान्तं च ग्रहसंख्यसहस्रकम् //
SK
हृदादिकण्ठपर्यन्तम् ऋषिसंख्यसहस्रकम् विशुद्धादिकमाज्ञान्तं मानं रुद्रसहस्रकम् //
SK
आज्ञाचक्राच्छिवान्तं वै दिक्सहस्रं सुरेश्वरि सूर्यसंख्यासहस्रं तु समीरश्चाधिकः स्मृतः //
SK
शरीरसहकारेण हासो वृद्धिश्च जायते षड्गुणो रतिकाले च त्रिगुणो भोजनाद्बहिः //
SK
धमने चाष्टधा प्रोक्तः समीरो वृद्धितां गतः सद्गुरोर् उपदेशेन मन्त्रमार्गेण पार्वति //
SK
यदि चैकाङ्गुलं ह्रस्वं सहस्राब्दं स जीवति एवं क्रमेण देवेशि समता यदि वा भवेत् //
SK
जित्वा मृत्युं महेशानि शम्भुवद् विहरेत् क्षितौ अत एव महेशानि योनिमुद्रा मयोदिता //
SK
प्राणायामेन देवेशि तथैव योनिमुद्रया तथैवाभ्यासयोगेन यदि वायुः समो भवेत् //
SK
जित्वा मृत्युं महेशानि खेचरो जायतेऽचिरात् प्रमाणं कथितं सर्वं मनुष्यस्य प्रियंवदे //
SK
श्वासोच्छ्वासविकासेन कुण्डली गगनं चरेत् श्रीदेवी उवाच इदानीं पृथिवीमानं वद मे परमेश्वर //
SK
सप्तस्वर्गस्थितो यो यो या या शक्तिः स्थिता सदा तत्सर्वं श्रोतुमिच्छामि यदि स्नेहोऽस्ति मां प्रति //
SK
मूलाधारे महीचक्रे संस्थिता मानवादयः तेषां मानेन देवेशि चार्धं चैव द्विसप्ततिः //
SK
द्विगुणः परमेशानि तद्बाह्ये लवणाम्बुधिः एवं क्रमेण देवेशि द्विगुणं परिकीर्तितम् //
SK
डाकिनीसहितो ब्रह्मा मूलाधारे तु सुन्दरि राकिणीसहितो विष्णुः स्वाधिष्ठाने व्यवस्थितः //
SK
लाकिनीसहितो रुद्रो मणिपूरे सुरेश्वरि अनाहते महापद्मे काकिनीसहितो हरः //
SK
विशुद्धाख्ये वसेन्नित्या साकिनी च सदाशिवः हाकिनी परशिवो देवश् चाज्ञाचक्रे सुरेश्वरि //
SK
सहस्रारे महापद्मे विश्वरूपः परः शिवः महाकुण्डलिनी तत्र स्थिता नित्या सुरेश्वरि //
SK
कुत्र मूले महापीठे वर्तते परमेश्वर मूलाधारादधोभागे पातालं कीदृशं प्रभो //
SK
मूलाधारे कामरूपं हृदि जालंधरं प्रिये पूर्णगिरिम् अधोभागे उड्डीयानं तदूर्ध्वके //
SK
वाराणसी भ्रुवोर्मध्ये ज्वलन्ती लोचनत्रये मायावती मुखवृत्ते कण्ठे चाष्टपुरी तथा //
SK
नाभिमूले महेशानि अयोध्यापुरी संस्थिता काञ्चीपीठं कटीदेशे श्रीहृट्टं पृष्ठदेशके //
SK
मूलाधारात् शतं चैव अतलं परिकीर्तितम् सुतलं च वर्षशतं तलातलशतं प्रिये //
SK
ऋषिबाणेन्दुवर्षान्तं संस्थितं च महातलम् शतद्वयान्तं पातालं द्विशतं वै रसातलम् //
SK
मूलाधाराच्च देवेशि द्वेऽङ्गुली चान्तिके स्थिते तयोर्मध्ये च पातालास् तिष्ठन्ति परमेश्वरि //
SK
इति ते कथितं कान्ते योगसारं समासतः न वक्तव्यं पशोर् अग्रे प्राणान्तेऽपि कदाचन //
SK
सार्धत्रिकोटिनाडीनाम् आलयं च कलेवरम् क्रमेण श्रोतुम् इच्छामि तद् वदस्व मयि प्रभो //
SK
लोम्नि कूपे सपादार्धकोटयश्चैव सुन्दरि हस्तास्ये च तदा पादे ऽग्निलक्षनाडयः स्थिताः //
SK
उदरे च तथा पायौ पञ्चलक्षाः प्रकीर्तिताः हृदादिसर्वगात्रेषु नवलक्षाः प्रकीर्तिताः //
SK
अथ पार्श्वे तथा चर्मे तथैव सर्वसंधिषु रुद्रान्न्यूनं स्थितं लक्षं शरीरे नाडयः प्रिये //
SK
इडा च पिङ्गला चैव सुषुम्ना चित्रिणी तथा ब्रह्मनाडी च तन्मध्ये पञ्चनाड्यः प्रकीर्तिताः //
SK
कुहूश् च शङ्खिनी चैव गान्धारी हस्तिजिह्विका नर्दिनी च तथा निद्रा रुद्रसंख्या व्यवस्थिता //
SK
एता नाड्यः परेशानि सुषुम्नायाः प्रजायते श्रीदेवी उवाच वेदाक्षिवसुरन्ध्रास्तु बाणसंख्यजलान्तकाः किमाधारे पद्ममध्ये संस्थिताः परमेश्वर //
SK
योगपद्मस्य माहात्म्यं मया वक्तुं न शक्यते मूलाधारे पद्ममध्ये लंबीजं चातिशोभनम् //
SK
लंबीजस्य बिन्दुमध्ये पृथ्वीचक्रं मनोहरम् वलयाकाररूपेण समुद्राः सप्तकाः स्थिताः //
SK
बिन्दुमानं महादेव कथयस्व मयि प्रभो क्रमेण योगपद्मस्य प्रमाणं वद शंकर //
SK
परमाणुत्रिभागैकभागं बिन्दुं सुविस्तरम् तन्मध्ये सागराः सर्वे सप्तद्वीपा वसुंधरा //
SK
अव्ययं परमं सूक्ष्मं बिन्दुरूपं परं शिवम् प्रमाणं चास्य देवस्य किं वक्तुं शक्यते मया //
SK
ब्रह्मलोकं परेशानि नादोपरि विचिन्तयेत् डाकिनीसहितो ब्रह्मा तथैव निवसेत् सदा //
SK
लकारं पार्थिवं बीजं शक्तिरूपं सुरेश्वरि पृथ्वीचक्रस्य मध्ये तु स्वयम्भूलिङ्गम् अद्भुतम् //
SK
सार्धत्रिवलयाकारकुण्डल्या वेष्टितं सदा लिङ्गच्छिद्रं स्ववक्त्रेण कुण्डल्याच्छाद्य संस्थिता //
SK
तेनैव वर्तते वायुर् इडापिङ्गलयोः सदा सहस्रारदर्शनाय सदा जाग्रत्स्वरूपिणी //
SK
यदैव ब्रह्ममार्गेण सहस्रारे समुत्थिता तदैव परमेशानि श्वासोच्छ्वासविकाशनम् //
SK
केसरस्य तु मध्ये च चतुःपत्त्रे सुरेश्वरि अनन्तरूपिणी दुर्गा शम्भुश् चानन्तरूपधृक् //
SK
नानासुखविलासेन सदा कामेन वर्तते श्रीदेवी उवाच लिङ्गच्छिद्रं समाकृष्य संस्थिता कुण्डली कथम् //
SK
कथयस्व सदानन्द सर्वज्ञस्त्वं सुरेश्वर श्रीशिव उवाच लिङ्गमध्ये महत्तेजो वह्निरूपं च सुन्दरि //
SK
यत् किंचिद् वायुयोगेन ब्रह्माण्डो दह्यते यतः अतः सा कुण्डली देवी मुखेनाच्छाद्य संस्थिता //
SK
तेनैव पार्थिवे लिङ्गे बिन्दुशक्तिं नियोजयेत् बिन्दुशक्तिं समुत्थाप्य लिङ्गपूजा प्रकीर्तिता //
SK
त्रिपुराया महामन्त्रं नित्यातन्त्रे श्रुतं मया इदानीं श्रोतुम् इच्छामि नवार्णस्य च वासनाम् //
SK
भूमिश् चन्द्रः शिवो माया शक्तिः कृशानुसादनौ अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते //
SK
भूमिबीजजपादेव भूपतिर् जायते ऽचिरात् चन्द्रबीजजपादेव महासौन्दर्यमाप्नुयात् //
SK
शिवबीजजपाद् एव शिववद्विहरेत् क्षितौ एकत्रोच्चारणात् सत्यं चतुर्वर्गफलप्रदम् //
SK
यत्त्वया कथितं नाथ योगज्ञानादिकं लयम् यावत् कामादि संदीप्यो भावयोगो न लभ्यते //
SK
ऊर्ध्वरेता महायोगी तदधः शक्तियोगतः ब्रूहि मे जगतांनाथ कथं दीर्घायुषं भवेत् //
SK
शृणु देवि प्रवक्ष्यामि येन दीर्घायुषं भवेत् श्रुत्वा गोपय यत्नेन न प्रकाश्यं कदाचन //
SK
पूजयेत् कालिकां देवीं तारिणीं वाथ सुन्दरीम् षोडशेनोपचारेण पञ्चतत्त्वेन पार्वति //
SK
दिनत्रयं पूजयित्वा षट्चक्रं चिन्तयेदथ ततस्तु परमेशानि मालामन्त्रं समभ्यसेत् //
SK
षोडशी वा महापूर्वा पत्त्रे चाभ्यासमाचरेत् चतुष्पत्त्रे चाष्टवारं षट्पत्त्रे द्वादशं जपेत् //
SK
दशपत्त्रे विंशतिं च द्वादशे वेदनेत्रकम् षोडशे दशसंख्यं तु चतुर्वारं श्रुवोऽष्टकम् //
SK
कुम्भकेन जपेन्मन्त्रं मालाषट्के सुरेश्वरि एवं क्रमेण देवेशि स्थिरमायुर्यदा भवेत् //
SK
प्रजपेदक्षमालायां येन मृत्युंजयो भवेत् श्रीदेवी उवाच मूलचक्राच्छिरोऽन्ता च सुषुम्ना परिकीर्तिता तद्गर्भस्था च या शक्तिः सा देवी कुण्डरूपिका //
SK
सदा कुण्डलिनी देवी पञ्चाशद्वर्णभूषिता मालारूपा कथं देव इति मे संशयो हृदि //
SK
सहस्रारे महापद्मे बीजकोशे शिवालये हंसेन वायुयोगेन पूरकेण समानयेत् //
SK
सहस्रारं तु सम्प्राप्य शिवं दृष्ट्वा तु कामिनी मालाकारेण तल्लिङ्गं संवेष्ट्य कुण्डली सदा //
SK
अकारादिलकारान्ता क्षकारं वक्त्रसंयुतम् चरमार्णं सरन्ध्रं च निजपुच्छेन कामिनी //
SK
भेदयित्वा स्वपुच्छेन नागपाशं तदूर्ध्वके एतत्कारणं संव्याप्य संस्थिता कुण्डली यदा //
SK
तदैव प्रजपेन्मन्त्रम् अमरत्वं स विन्दति रेचनात् कामिनी देवी प्रविशन्ती स्वकेतनम् //
SK
न तत्र प्रजपेन्मन्त्रं जपान्मृत्युमवाप्नुयात् रेचके छिन्नमालायां सत्यं हि सुरवन्दिते //
SK
छिन्ने सूत्रे भवेन्मृत्युः पुरैव कथितं मया इति ते कथितं कान्ते यतो मृत्युंजयो भवेत् //
SK
अथवा निजनासाग्रे दृष्टिमारोप्य यत्नतः वायुं संधार्य यत्नेन एकोच्चारेण चोच्चरेत् //
SK
मालामन्त्रं षोडशीं वा तथा चाष्टादशाक्षरीम् सहस्रं प्रजपेन्मन्त्रं प्रत्यहं यदि पार्वति //
SK
जित्वा मृत्युं जरां रोगं दीर्घकालं स जीवति एतदन्यं महायोगं भोगार्थी नहि लभ्यते //
SK
अथवा परमेशानि डामरोक्तविधानतः यजेत् कात्यायनीं देवीं भूतपूर्वां प्रयत्नतः //
SK
तदा पञ्चसहस्राब्दं निश्चितं तु स जीवति इति ते कथितं सर्वं देहरक्षणकारणम् //
SK
न भोगी भोगमाप्नोति योगी योगो न लभ्यते एतत्तत्त्वेन देवेशि भोगो योगायते ध्रुवम् //
SK
यन्मालायां जपेनैव किं फलं लभते नरः पृथक् पृथङ् महादेव पत्त्रमालाफलं वद //
SK
भूमिकामी जपेन् मन्त्रं मूलाधारे चतुष्टये स्वाधिष्ठाने जपादेव महेन्द्रो जायतेऽचिरात् //
SK
मणिपूरे जपादेव भवेत् स्वर्गस्य भाजनम् अनाहते महापद्मे जपाद् ब्रह्मपुरं व्रजेत् //
SK
विशुद्धाख्ये जपादेव विष्णुलोके वसेद् ध्रुवम् आज्ञाचक्रे च जप्तव्ये श्वेतद्वीपे वसेत् सदा //
SK
यन्माला परमेशानि बाह्यमाला प्रकीर्तिता अन्तर्माला महामाला पञ्चाशद्वर्णरूपिणी //
SK
माहात्म्यं तस्य देवेशि किं वक्तुं शक्यते मया सहस्रारे स्थिरीभूय यदि चाष्टशतं जपेत् //
SK
तत्फलात् कोटिभागैकं भागं चान्येन विद्यते पृथिव्यामव्ययो देहो भवत्येव न संशयः //
SK
यन्मालायां जपेन्मन्त्रम् अभ्यासार्थं हि पार्वति इति ते कथितं देवि चिरजीवी यथा भवेत् //
SK
इदानीं परमेशानि भूतकात्यायनीं शृणु वेदाद्यं शब्दबीजं च महामायां ततः परम् //
SK
अस्त्रयुग्मं वह्निजाया मनुः सप्ताक्षरः परः श्रीशिवोऽस्य ऋषिः प्रोक्तो विराट् छन्द उदाहृतम् //
SK
भूतकात्यायनी देवी धर्मार्थकामदा सदा प्रणवेन षडङ्गं च प्राणायामं च सुन्दरि //
SK
ध्यानमस्याः प्रवक्ष्यामि शृणु सुन्दरि सादरम् गौरवर्णां मुक्तकेशीं सर्वाभरणभूषिताम् //
SK
पट्टवस्त्रपरीधानां सदा घूर्णितलोचनाम् वामपाणौ रक्तपूर्णखर्परं दक्षिणे करे //
SK
मद्यपूर्णस्वर्णपात्रां ग्रीवायां हारभूषिताम् शरच्चन्द्रसमाभासां पादाङ्गुलिविराजिताम् //
SK
एवं तां वरदां नित्यां भावयेत् सिद्धिहेतवे सामान्यार्घ्यं ततो देवि स्ववामे विन्यसेत्ततः //
SK
जीवन्यासादिकं कृत्वा पूजयेत् परमेश्वरीम् षोडशेनोपचारेण पञ्चतत्त्वेन सुन्दरि //
SK
यजेत्तां बहुयत्नेन गृहमध्ये दिनत्रयम् ततो जपेन्महामन्त्रं गजान्तकसहस्रकम् //
SK
ततश्च पूजयेद् देवीं शून्यागारे दिनत्रयम् प्रत्यहं प्रजपेन्मन्त्रं गजान्तकसहस्रकम् //
SK
एव कृते महेशानि यदि सिद्धिर्न जायते ततश्च प्रजपेन्मन्त्रं पितृभूमौ दिनत्रयम् //
SK
ततः सिद्धिर्भवेद् देवि सत्यं सत्यं हि सुप्रिये तद्वाक्यं प्रार्थनावाक्यं डामराख्ये मयोदितम् //
SK
काकीचञ्चुं महामुद्रां कथयस्व दयानिधे येन रूपेण देवेश देहासनपरो भवेत् //
SK
अनाकुलेन देवेशि जिह्वां परमयत्नतः तालुमूले न्यसेत् पश्चात् ततो वायुं पिबेत् शनैः //
SK
दन्तैर्दन्तान् समापीड्य काकीचञ्चुं समभ्यसेत् बहुयोन्युक्तविधिना सर्वकर्माणि साधयेत् //
SK
अथातः सम्प्रवक्ष्यामि स्वल्पयोनिं शृणु प्रिये गुदछिद्रे दक्षगुल्फं संधौ लिङ्गं विनिक्षिपेत् //
SK
नाभिरन्ध्रेऽथवा गुल्फं धारयेद् वामहस्तके बहुयोन्युक्तविधिना चान्यत् सर्वं समापयेत् //
SK
मुद्रा चैतन्यतन्त्रे च माहात्म्यं कथितं मया यथा हेमगिरिर्देवि यथा वेगवती नदी //
SK
चन्द्रादिकं यथा देवि चिरजीवी तथा भवेत् श्रीदेवी उवाच दशावतारं देवेश ब्रूहि मे जगतां गुरो //
SK
इदानीं श्रोतुमिच्छामि कथयस्व सुविस्तरात् का वा देवी कथंभूता वद मे परमेश्वर //
SK
तारा देवी नीलरूपा वगला कूर्ममूर्तिका धूमावती वराहं स्यात् छिन्नमस्ता नृसिंहिका //
SK
भुवनेश्वरी वामनः स्यान्मातंगी राममूर्तिका त्रिपुरा जामदग्न्यः स्याद् बलभद्रस्तु भैरवी //
SK
महालक्ष्मीर् भवेत् बुद्धो दुर्गा स्यात् कल्किरूपिणी स्वयं भगवती काली कृष्णमूर्तिः समुद्भवा //
SK
इति ते कथितं देव्य् अवतारं दशममेव हि एतासां पूजनाद् देवि महादेवसमो भवेत् आसां ध्यानादिकं सर्वं कथितं मे पुरा तव //

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Toḍalatantra: GRETIL corpustei HTML transform of the Toḍalatantra.

Source