The Jewel of True Thought

Tattvacintāmaṇi Chapters 16 Thru End

The Jewel of True Thought

Tattvacintāmaṇi Chapters 16 Thru End

SK
षोडशः प्रकाशः [अन्तर्यागनिरूपणप्रतिज्ञा] अथान्तर्यजनं वक्ष्ये चतुर्वर्गफलप्रदम् || १ || [निर्गुणस्यापि परमात्मनः सृष्टिप्रवृत्तिः] एकमासीत् परं ब्रह्म सूक्ष्मं नित्यमतीन्द्रियम् | जलीयभागे चातीते सिसृक्षा समपद्यत || २ || १ | एवं पञ्चदशभिः प्रकाशैर्न्यासप्रक्रियान्तमभिधाय अवसरसङ्गत्या पूजाक्रमे वक्तव्ये - आत्मस्थां देवतां त्यक्त्वा बहिर्देवं विचिन्वते | करस्थं कौस्तुभं त्यक्त्वा भ्रमते काचतृष्णया || प्रत्यक्षीकृत्य हृदये बहिस्थां पूजयेच्छिवाम् | यस्य यस्य च देवस्य यथा भूषणवाहनम् || तदेव पूजने तस्य चिन्तयेत् परमेश्वरि | इत्यादि-शाक्तानन्दतरङ्गिणीषष्ठोल्लासवचनेन, अन्तर्यागविधिं कृत्वा बहिर्यागं समाचरेत् | बहिर्यागे नाधिकारी अन्तर्यागविवर्जितः || बहिर्यागफलं नास्ति विनाऽन्तर्यजनं कदा | तस्मात् प्रयत्नतो वीरश्चान्तर्यागं समारभेत् || इति कौलावलीनिर्णयतृतीयोल्लासवचनेन च बहिर्यागस्यान्तर्यागपूर्वकत्वश्रवणात् प्रकाशेऽस्मिन्नन्तर्यागक्रममभिधत्ते - अथेत्यादिना | अथेति पूजाङ्गन्यासनिरूपणानन्तरमित्यर्थः | २ | एवमन्तर्यागक्रमनिरूपणं प्रतिज्ञाय - कारणे सर्वभूतानां तत्त्वान्यपि च चिन्तयेत् | बीजभावेन लीनानि व्युत्क्रमात् परमात्मनि || प्. ५४३) [समासतः सृष्टिप्रक्रिया] संहारस्यान्तरं सृष्टं बुद्बुदाकारमुत्तमम् | तदन्तर्भुवनानि स्युस्तदण्डं द्विविधं भवेत् || ३ || एवं विचिन्त्य देवेशि पार्थिवांशं जले गतम् | जलञ्च तेजसो रूपं तेजोरूपं विचिन्तयेत् || इत्यादि-गन्धर्वतन्त्रैकादशपटलोक्तदिशा तत्त्वान्तराणां क्रमेण कारणभूतायां प्रकृतौ प्रकृतेश्च परमात्मनि लये तन्मात्रस्वरूपनिर्भासलक्षणामवस्थामभिधत्ते - एकमासीदित्यादिना | तथाच प्रागुक्तलयक्रममभिधाय महान्तं प्रकृतौ लीनं चिन्तयेत् परमेश्वरि | मुमुक्षुश्चिन्तयेल्लीनां प्रकृतिं परमात्मनि || इत्यन्तेन प्रकृत्यन्तानां परमात्मनि लयमुक्त्वा
SK
नाहो न रात्रिर्न सन्ध्या न सूर्यो नैव चन्द्रमाः | इदं तमोमयं सर्वमासीद् भुवनवर्जितम् | अप्रज्ञातमलक्ष्यञ्च प्रसुप्तमिव सर्वतः | चिन्तयित्वा महेशानि न किञ्चिदपि भावयेत् || एकमासीत् परं ब्रह्म नित्यं सूक्ष्ममतीन्द्रियम् | नित्यानन्दमयं धाम तेजोरूपं सनातनम् | इत्यादिना तात्कालिकी परमात्मनिर्भासमात्रात्मिकाऽवस्था तत्रैवाभिहिता | भगवता मनुनाऽपि - आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् | अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः || इत्यादिना महाप्रलयावस्थाऽनयैव दिशोपवर्णिता | सिसृक्षायां हेतुमाह- जलीयभाग इति | जलमन्तरेण सृष्टेः सृष्टानां जीवानां स्थितेश्चाससम्भवादित्यर्थः | सिसृक्षेयम् आपो जायन्तां क्षितिर्जायतामित्याद्यभिधानमात्रेण, तदैक्षत बहु स्यां प्रजायेये ति छान्दोग्यश्रुतेः | ३-४ | अथ सृष्टिपरिपाटीं दर्शयति - संहारस्येत्यादिना | एतेन प्रथममेव जलसृष्टिरित्युक्तं भवति | गन्धर्वतन्त्रीयैकादशपटलेऽपि - प्. ५४४) ब्रह्माण्डाभ्यन्तरे तोयं तत्रैव भेकमव्ययम् | [निरुक्तभेकपृष्ठे कालाद्यर्चा] यजेत् पृष्ठे तस्य मन्त्री कालाग्निरुद्ररूपकम् || ४ || [आधारशक्त्यादीनां स्वरूपं पूजनोपदेशश्च] आधारशक्तिं तत्रैव मूलप्रकृतिरूपिणीम् | शरच्चन्द्रनिभां देवीं पङ्कजद्वयधारिणीम् || ५ || कूर्माकारशिलारूढां कूर्मञ्च मूर्ध्नि धारिणीम् | नीलाभं पूजयेत् कूर्ममनन्तं कुन्दसन्निभम् || ६ || ऊर्ध्वं ब्रह्म समासीनं पूजयेत् साधकोत्तमः || ७ || तयोर्योगादभूद् वृष्टिः परमामृतरूपिणी | परिपूर्णमिदं देवि समस्तं प्लावयेत्तु या || तत्राम्भसि स्वमात्मानं चिन्तयेत् साधकोत्तमः | बुद्बदं चिन्तयेत्तत्र प्रकृतिं चिन्तयेत् पराम् || इत्यादिनाऽयमेवार्थोऽभिहितः | तदन्तरिति | व्यक्तमाह गन्धर्वतन्त्र एकादशपटले - प्रकृतेर्हि महान्तं वै अहञ्च महतस्तथा | अहङ्कारान्मनश्चैव मनसः खं समुत्थितम् || आकाशाद् वायुमाकृष्य वायोस्तेजः समुत्थितम् | तेजसो जलमासाद्य जलाच्च पृथिवीं स्मरेत् ||
SK
इति | द्विविधमिति भागद्वयेन विभक्तमित्यर्थः, विभागश्च प्रणवेन कर्त्तव्यः | तदुक्तं तत्रैव - प्रणवेन द्विधा कृत्वा जलौघैः परिपूरयेत् | इति | प्. ५४५) तस्य मूर्ध्नि स्थितं देवं श्वेतं वाराहरूपकम् | तमालश्यामलां दन्ते धारयन्तं वसुन्धराम् || ८ || नीलेन्दीवरहस्ताञ्च हारकेयूरभूषिताम् | अभ्यर्चयेद् वसुमतीं स्फुरत्सागरमेखलाम् || ९ || रक्तान्नममृतं दिव्यं शुद्धलाक्षारसोपमम् || १० || हस्ताभ्यां पूजयेदप्सु द्वीपं विद्रुमसन्निभम् | नवरत्नसमाकीर्णमष्टसिद्धिसमन्वितम् || ११ || [पीठचतुष्टयार्चा] शक्तिनाभिकयोर्मध्ये उड्डीयानं प्रपूजयेत् | जालन्धरं तथा वक्त्रे गुदे च कामरूपकम् || १२ || पूर्णगिरिं हृदिमध्ये श्रीहट्टं तालुकोपरि | पूर्णगिरौ स्वर्णगिरिपीठं संपूजयेन्नरः || १३ || [कल्पोद्यानार्चा] कल्पोद्यानं यजेत्तस्य परितो गन्धपुष्पकैः | [कल्पवृक्षस्य स्वरूपमर्चनोपदेशश्च] मध्ये कल्पतरुं मन्त्री सर्वाशा परिपूरकम् || १४ || सर्वभूताश्रयं वृक्षं नित्यं वर्णमयं परम् | पञ्चैव मादनं बीजं बिन्दुनादमहाशिफम् || १५ || १२ | शक्तिनाभिकयोर्मध्य इति | अनाहतमणिपूरयोर्मध्य इत्यर्थः | १४ | सर्वाशापरिपूरकमिति | शाखाप्रशाखाभिः सर्वदिक्परिव्यापकमित्यर्थः | प्. ५४६) पृथिव्यक्षरशाखाभिः सर्वाशासु विजृम्भितम् | सलिलाक्षरपत्रैः स्वैः संछादितजगत्त्रयम् || १६ || वह्निवर्णाङ्कुरैर्दीप्तं प्रबालाङ्कुरसन्निभैः | मरुद्वर्णलसत्पुष्पैर्द्योतयन्तं वपुःश्रियम् || १७ || आकाशार्णफलैर्नम्रं सर्वभूताश्रयं परम् | परामृताख्यमधुभिः सिञ्चन्तं परमेश्वरीम् || १८ || वेदागमादिभिः कॢप्तं समुन्नतमनोहरम् | शिवशक्तिमयं साक्षादाश्रितञ्च जगत्त्रयम् || १९ || [परिजातादिचिन्ता] तन्मध्ये भावयेन्मन्त्री पारिजातं मनोहरम् | कदम्बनागपुन्नागचम्पकादीन् विभावयेत् || २० || कल्पमूले रत्नभूमिं बालुकां काञ्चनप्रभाम् | [चिन्तामणिगृहादेः स्वरूपं तच्चिन्तनोपदेशश्च]
SK
चिन्तामणिगृहं मध्ये ज्योतीरूपमनुत्तमम् || २१ || उद्यदादित्यसङ्काशं व्याप्तब्रह्माण्डमण्डलम् | शतयोजनविस्तीर्णं नानारत्नोपशोभितम् || २२ || चतुर्द्वारसमायुक्तं हेमप्राकार शोभितम् | रत्नसंकॢप्तसंशोभि कवाटाष्टकशोभितम् || २३ || नवरत्नेन संकॢप्तं तुङ्गतोरणशोभितम् | हेमदण्डशिखालम्बिध्वजावलिपरिष्कृतम् || २४ || प्. ५४७) मध्यकोणस्थितस्तम्भ - नवरत्नसमन्वितम् | महामाणिक्यवैदूर्यरत्नचामरभूषितम् || २५ || मुक्तादामवितानाढ्यं स्वर्णस्तम्भैर्विराजितम् | मन्दवायुसमायुक्तं गन्धपुष्पैरलङ्कृतम् || २६ || बहुरत्नशङ्खघण्टा - नानाद्रव्यविभूषितम् | मधुमत्तभ्रमत्तुङ्गभ्रमरध्वनिशोभितम् || २७ || गृहप्राकारसंलग्नफलका(शि?लि)विमण्डितम् | इन्द्रादिभिर्देवगणैर्विनम्रितदिगन्तरम् || २८ || सुवर्णरत्नरचितं छत्रन्तु मण्डलोपरि | परमोज्ज्वलरूपन्तु तन्मध्ये रत्नमण्डलम् || २९ || नन्दनोद्यानमध्यस्थं [रत्नवेदिकादेः स्वरूपं तच्चिन्तनोपदेशश्च] वेदिकां रत्ननिर्मिताम् | तत्रस्थां चिन्तयेद्रक्तां चतुरस्रोपशोभिताम् || ३० || नानारत्नसमायुक्तं सिंहासनं तदन्तरे | तस्य मध्ये महाचक्रं पीयूषपूरपूरितम् || ३१ || तन्मध्ये स्फुरितं ध्यायेत्तिशृङ्गं ज्योतिरात्मकम् | [रक्षणादिपरिपाटी] अस्त्रेण रक्षणं कुर्याद्रक्षेच्च धेनुमुद्रया || ३२ || [योनिमुद्रा] योनिमुद्रां ततो वक्ष्ये बाह्यमभ्यन्तरं तथा | चिन्तयेद् गुदमाकुञ्च्य ब्रह्मसूत्रं तथाऽपरम् || ३३ || प्. ५४८) ज्वलद्दीपशिखाकारां(?) संक्षोभ्यामृतमण्डलम् | सुधाधारामृते भूय आयाति मूलपङ्कजे || ३४ || एवञ्च सप्तधा कुर्याद्देवीसन्निधिहेतवे | [ध्यानक्रमः] मूलेन ध्यानयोगेन स्मृत्वा ब्रह्ममयीं पराम् || ३५ || पूरकेण समापूर्य संगोप्य कुम्भकेन च | सुन्दरीं तां समाराध्य योगिनीगणवेष्टिताम् || ३६ || स्रवदमृतसंयुक्तां देव्यङ्गकमलान्तरे | ब्रह्मविष्णुभवैर्वन्द्यां महात्रिपुरसुन्दरीम् || ३७ || [सशक्तिकद्वारपालध्यानोपदेशः]
SK
ततो ध्यायेद् द्वारपालान् प्रतिद्वारे सशक्तिकान् || ३८ || [सहस्रारे देवीसंस्थापनम्] सहस्रदलमध्ये तु स्थापयेत् सुन्दरीं पराम् | भैरवानन्दलिङ्गन्तु तन्मध्ये योनिसंस्थितम् || ३९ || [तयोरेकत्वचिन्ता] एकीभावं तयोः कृत्वा श्रावयेदमृतं बुधः | जिह्वाननसमायोगात् पिबेत्तदमृतं सदा || ४० || [देवीपूजा, मानसयाग आवाहननिषेधश्च] हृदये तु समानीय सुन्दरीं पूजयेत्ततः | अत्रैवाऽऽवाहनं नास्ति हृदये मानसार्चने || ४१ || ३४ | मूलेति | मूलाधारस्थपङ्कज इत्यर्थः | ४० | एकीभावमिति | तयोः सुन्दरीभैरवानन्दलिङ्गयोः | अमृतं तयोः सामरस्यसम्भूतपरमामृतमित्यर्थः | प्. ६४९) उभाभ्याममृतानन्दैः पूजयेद्रहसंक्रमात् | [पाद्याद्युपचारपात्रसंख्यानिरूपणम्] पाद्यपात्रत्रयं कुर्यादर्घ्यपात्रत्रयं तथा || ४२ || षडाचमनपात्राणि मधुपात्रत्रयं ततः | एकं सुभोगपात्रन्तु कारयेत् षोडशे दले || ४३ || [मानसपूजाक्रमः] सहस्रदलभृङ्गारलम्बिकानाल विच्युताम् | परामृतञ्च पानीयं भावपुष्पं सुवासितम् || ४४ || यथाविधि करे कृत्वा स्वर्णपात्रे प्रपूरयेत् | मानसैरुपचारैस्तु दीयते द्रव्यमुत्तमम् || ४५ || कल्पयामीति मनसा उपचारान् प्रकल्पयेत् || ४६ || [तत्र पाद्याद्यर्पणनियमः] पाद्यं पादाम्बुजे मौलावर्घ्यमाचमनं मुखे | मधुपर्कं त्रिधा वक्त्रं मधु पानीयमुत्सृजेत् || ४७ || पुनराचमनं दत्त्वा गन्धपुष्पादिकं बुधः || ४८ || [उपचारदानमन्त्रे विशेषः] हृद्वह्निवल्लभातोयमन्त्रं पाद्यादिषु क्रमात् | नमो वौषड् गन्धपुष्पे हृदन्तान्यान् निवेदयेत् || ४९ || ४४ | भावेति | भावपुष्पाण्यग्रे वक्ष्यन्ते | ४९ | अथोपचारदानमन्त्रे विशेषमाह - हृदिति | हृत् नमः वह्निवल्लभा स्वाहा | तोयमन्त्रं स्वधा | एवञ्च पाद्यं नमोऽन्तेन अर्घ्यं स्वाहान्तेन, आचमनीयं स्वधान्तेन, गन्धं नमोऽन्तेन, पुष्पं वौषडन्तेन, उपचारान्तराणि तु नमोऽन्तेन मन्त्रेण दद्यादिति फलितार्थः | प्. ५५०) [अत्राऽगमान्तरसम्मतः क्रमभेदः]
SK
कुलोड्डीशमतेनापि प्रकारान्तरमुच्यते || ५० || धूपे दीपे स्वधा स्वाहा नैवेद्याचमने स्वधा | नमः सर्वोपचारेषु प्रथमान्तेषु योजयेत् || ५१ || [अत्रैव कल्पसूत्रकृतां मतम्] उपचारेषु सर्वेषु कल्पसूत्रमते पुनः | कल्पयामि नम इति योजनीयमनुर्मतः || ५२ || [स्वयम्भूकुसुमादयो विशिष्टाः पूजोपचाराः] स्वयम्भूकुसुमैः कुण्डगोलोत्थैरपि साधकः | भावपुष्पैः प्रयत्नेन पूजयेत् परमेश्वरीम् || ५३ || [तत्र पञ्चदश भावपुष्पाणि] अमायमनहङ्कारमरागममदन्तथा | अमोहकमदम्भञ्च अद्वेषं क्षोभवर्जितम् || ५४ || अमात्सर्यमलोभञ्च दशपुष्पं विदुर्बुधाः | अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः || ५५ || दयापुष्पं क्षमापुष्पं ज्ञानपुष्पञ्च पञ्चमम् | इति पञ्चदशोक्तानि भावपुष्पाणि पूजने || ५६ || [अन्ये उपचाराः] सुधाम्बुधिं मांसशैलं मत्स्याराशिं निवेदयेत् | [षडङ्गादिपूजा] षडङ्गान्यथ नित्याश्च गुरुणा रतिमर्चयेत् || ५७ || प्. ५५१) [स्नपनाङ्गमुद्वर्तनम्] स्ववामे मण्डलं कृत्वा तत्र नीत्वा सुरेश्वरीम् | उद्वर्तनं यथान्यायं विधाय सर्पिषा बुधः || ५८ || [देव्याः स्नपनम्] सुगन्धिदिव्यतैलेन देवकन्यासहस्रकैः | सहस्रैः स्वर्णकुम्भैस्तु सुगन्धिजलपूरितः || ५९ || सिञ्चयेद् भक्तिभावेन भवानीं भक्तवत्सलाम् | नानातीर्थोदकैः शुद्धैर्गजराजसहस्रकैः || ६० || नागकन्यासहस्रैस्तु किन्नरैरप्सरोगणैः | पञ्चामृतैः पञ्चगव्यैर्दुग्धैर्दध्ना गवामपि || ६१ || नारिकेलोदकैरिक्षुजलैश्च शिशिरोदकैः | सप्तमृत्तिकया युक्ततोयेन शीतलेन च || ६२ || शीतलोष्णोदकैः शुद्धैस्तथा रत्नान्वितोदकैः | जलैः सर्वौषधीनाञ्च सुवासितजलैरपि || ६३ || सहस्रशीर्षमन्त्रेण पावमान्या समाहितः | भृङ्गाराष्टककुम्भैश्च देव्याः स्नानं समाचरेत् || ६४ || ६३ | जलैः सर्वौषधीनामिति | सर्वौषधिगणमाह दीपिकायां तृतीयाध्याये- सुरा मांसी वचा कुष्ठी शैलेयं रजनीद्वयम् | शठी चम्पक-मुस्तञ्च सर्वौषधिगणः स्मृतः || इति |
SK
६४ | सहस्रेत्यादि | सहस्रशीर्षा पुरुष इत्यादिपुरुषसूक्तमन्त्रेणेत्यर्थः | पावमान्येति | पावमानीः स्वस्तयनी सुदुधा हि घृतच्युत इत्यादि - पावमानी-सूक्ते - नेत्यर्थः | प्. ५५२) [देवीशरीरालङ्करणक्रमः] शरीरं तेजसामृज्य दुकूले परिधापयेत् | कङ्कत्या केशसंस्कारं विधिवद् बन्धनं तथा || ६५ || ललाटे तिलकं दद्यात् सिन्दूरं केशमध्यतः | रक्तवस्त्रं तथा माल्यं रक्तालङ्करणं तथा || ६६ || रक्तानुलेपनं कार्यं गन्धचन्दन-सिह्लकैः | सर्वालङ्करणं दद्याद् यत्र येन विराजते || ६७ || ६५ | विधिवद् बन्धनमिति निरुक्तपरिपाट्या संस्कृतानां केशानामित्यर्थः | ६७ | सिह्लकैरिति स्वार्थेकः | सिह्लको गन्धद्रव्यविशेषः | तुरष्कः पिण्डकः सिह्लो यावनोऽपीत्यमरः | सर्वालङ्करणमिति | व्यक्तमाह कौलावलीनिर्णये तृतीयोल्लासे - नागेन्द्रहाररचितं शङ्खं दद्यान्मनोहरम् | हस्ते केयूरकञ्चैव कङ्कणं कटकं तथा | पादाङ्गुरीयकं दद्यान्नानारत्नोपशोभितम् | पादयोर्नूपुरं दद्यात् कट्याञ्च क्षुद्रघण्टिकाम् | शिरोरत्नं प्रदद्याच्च रत्ननिर्मितम् | ताडङ्ककुण्डलं कर्णभूषणं सुपरिष्कृतम् | नयने कज्जलं दद्यान्नासाग्रे गजमौक्तिकम् | ग्रीवापत्रं कण्ठभूषां मुक्तामणिविभूषितम् | आनन्दहारतृतयमङ्गुरीयकरत्नकम् | इत्यादिना | शाक्तानन्दतरङ्गिणी - गन्धर्वतन्त्रादिष्वपि अलङ्कारभेदाः प्रदर्शिताः | यत्र येन विराजत इति येषु येष्वङ्गेषु यद् यदलङ्करणं शोभाविशेषमावहति तत्तदलङ्करणं तत्र तत्र देयमित्यर्थः | प्. ५५३) [श्रीपादुकान्तोपचारदानानन्तरं नमस्कारोपदेशः] रत्नश्रीपादुके दत्त्वा प्रवालदण्डचिह्निते | यन्त्रमध्ये समानीय नमस्कुर्यात् समाहितः || ६८ || [नमस्कारमन्त्रः] समायातामहं वन्दे श्रीमत्त्रिपुरसुन्दरीम् | सर्वसौभाग्यजननीं सर्वदेवस्वरूपिणीम् || ६९ || [पुनः पूजनोपदेशस्तत्क्रमश्च] पुनः पाद्यादिकं दत्त्वा पूजयेत् परमेश्वरीम् | नासारन्ध्रे तु तत्त्वेन गन्धं देव्यै निवेदयेत् || ७० ||
SK
भावपुष्पैस्तु संपूज्य धूपं दद्यात् समीरणम् | परं तेजः प्रदीपञ्च नैवेद्यानि निवेदयेत् || ७१ || पृथ्वीतत्त्वात्तथा वायोस्तत्त्वेन चामरं शुभम् | रविमण्डलमादर्शं छत्रं पूर्णनिशाकरम् || ७२ || पद्मं समेखलां मालामानन्दहारमुज्ज्वलम् | पुष्पं नानाविधं दिव्यं सप्तद्वीपसमुद्भवम् || ७३ || ७०-७२ | अथ यन्त्रारूढाया देव्याः पुनः पूजनमुपदिशति - पुनरित्यादिना | पाद्यादिकमित्यादिपदेनार्घ्याचमनीये बोध्ये | गन्धाद्युपचारानाह - नासेत्यादिना | तत्त्वेन चतुर्विंशतितत्त्वेन | चतुर्विंशतितत्त्वेन गन्धं दद्याद्विचक्षणः इति कौलावलीतृतीयोल्लासवचनसंवादात् | भावपुष्पैरिति | अष्टादश भावपुष्पाणि अमायमनहङ्कारमित्यादिना प्रागस्मिन्नेव प्रकाशे प्रदर्शितानि | नैवेद्यानीति | पृथ्वीतत्त्वान्नैवेद्यानि निवेदयेदिति सम्बन्धः | ७३ | पुष्पं नानाविधमिति शक्तिपूजायां विहितमिति बोध्यम् | विशिष्याऽह कौलावलीनिर्णये तृतीयोल्लासे - करवीरं जवा द्रोणं चम्पकं नागकेशरम् | प्. ५५४) आ मूलाद् ब्रह्मरन्ध्रान्तं सुषुम्णामृतवायुना | अनाहतध्वनिमयीं घण्टामेतां निवेदयेत् || ७४ || प्रदीपैर्वन्दनं कृत्वा दत्त्वा च प्रतिबोधयेत् || ७५ || [दर्शयितव्यासु मुद्रासु सुन्दरीमुद्रा] आधारादुत्थितं वायुं षोडशान्ते सुषुम्णया | नयने नासिकाग्रस्थे निमेषोन्मेषवर्जिते || ७६ || भ्रुवोर्मध्ये समानीय दन्तैर्दन्तानसंस्पृशन् | नोष्ठैर्नोष्ठं न वा तालुं जिह्वया ज्ञानखड्गकः || ७७ || शक्तौ लक्षं बहिः कुर्यान्निमेषोन्मेषवर्जितम् | एषा सा सुन्दरी मुद्रा भैरवीमोदकारिणी || ७८ || [विस्मयमुद्रा] दक्षिणा मिलिता मुष्टिर्नासिकार्पिततर्जनी | मुद्रा विस्मयसंज्ञा स्याद् विस्मयावेशकारिणी || ७९ || अपराञ्च कदम्बञ्च पारिजातादिकन्तथा | दद्याद्देव्यै प्रयत्नेन माल्यं गन्धसमन्वितम् || इति | ७४ | अथ घण्टादानपरिपाटीमाह - आ मूलादित्यादिना | मूलाधाराद् ब्रह्मरन्ध्रपर्यन्तव्यापिनी सुषुम्णाख्या नाडी वर्त्तते | तदुक्तं गान्धर्वे पञ्चमपटले -
SK
मेरुमध्ये स्थिता या तु मूलादाब्रह्मरन्ध्रगा | सर्वतेजोमयी सा तु सुषुम्णा वह्निरूपिणी || इति | अनयैव सुषुम्णया मूलाधाराद् ब्रह्मरन्ध्रपर्यन्तं वायुः सञ्चरति | तस्यैव वायोराघातेन अनाहताख्ये शब्दब्रह्ममये हृत्पुण्डरीके कश्चन शब्दोऽविरामः प्रवर्त्तते | स एव शब्दोऽत्रानाहतध्वनिपदेनाभिधीयते | तमेव ध्वनिं घण्टावाद्यत्त्वेन निवेदयेत् इति फलितार्थः | ७९ | मिलिता मुष्टिरित्यत्र निविडा मुष्टिरिति तन्त्रसारे पाठः | प्. ५५५) [नादमुद्रा] मुष्टिरुद्धीकृताङ्गुष्ठा दक्षिणा नादमुद्रिका | [बिन्दुमुद्रा] तर्जन्यङ्गुष्ठसंयोगाद् बिन्द्वाख्या सैव कीर्तिता || ८० || [ज्ञानमुद्रा] ज्ञानमुद्रा यदैव स्यान्नाऽऽभिमुख्येन संस्थिता | [योगमुद्रा] हृत्प्रदेशे तु सम्बद्धा योगमुद्रेति कथ्यते || ८१ || [बहिरन्तर्योनिमुद्रे] योनिमुद्रां ततः कुर्यात् सैव चान्तर्भवेदपि | तन्मांसशोणितस्वादप्रमत्ता मुक्तिहेतवे || ८२ || एषा सा परमा मुक्तिः शृङ्गाररसभाविता | तस्याः स्वेच्छा स्वयं भूतं परमानन्दभैरवम् || ८३ || कन्दे स्थिता वायुशक्तिः सुषुम्णाद्वारगामिनी | नीवारशूकवत्तन्वी विषतन्तुतनीयसी || ८४ || विद्युत्कोटिप्रतीकाशा सूर्यकोटिसमप्रभा | अशेषजगदुत्पत्तिस्थितिसंहारकारिणी || ८५ || ८० | मुष्टीति | मुष्ट्या रुद्धीकृतोऽङ्गुष्ठो यस्यास्तथाभूता दक्षिणा नादमुद्रेत्यर्थः | अत्र दक्षिणकरस्याङ्गुष्ठमितरेणाङ्गुलिचतुष्टयेन रुद्धं कुर्यादिति फलितार्थः | ८१ | प्रागुक्ता तर्जन्यङ्गुष्ठसंयोगात्मिका बिन्दुमुद्रैव आभिमुख्येन न संस्थिता चेत् तदा ज्ञानमुद्रेति कथ्यते इत्यर्थः | तथाच कौलावलीनिर्णये सप्तमोल्लासे - ज्ञानाख्यमुद्रया चैव पूजयेत् परमेश्वरीम् | अङ्गुष्ठतर्जनीभ्यान्तु ज्ञानमुद्रेयमीरिता || इति | हृदिति | सैव बिन्दुमुद्रा हृदि संयोजिता योगमुद्रेत्युच्यत इत्यर्थः | ८२ | योनीति | बहिरन्तर्भेदेन योनिमुद्रा द्विविधा भवति | तत्र बहिर्योनिमुद्रा प्रसिद्धा | अन्तर्योनिमुद्रामाह सैवेत्यादिना |
SK
प्. ५५६) हृद्ग्रन्थितालुकाग्रन्थिकपाटास्फोटनाकुलम् | बिन्दुलम्बिकयोर्मध्ये त्रिकोणे शाम्भवे नयेत् || ८६ || प्रविश्य रमते गाढं पुरुषेण सहानिशम् | स्थिरचित्तः सदा ध्यायेद् यथा स्यान्मानसं स्थिरम् || ८७ || [स्वयंप्रज्ञातासंप्रज्ञातभेदेन समाधेर्द्वैविध्यम्] समाधिर्जायते तत्र संज्ञाद्वयविराजितः | स्वयंप्रज्ञातनामैको ह्यसंप्रज्ञातनामधृक् || ८८ || [तत्र स्वयंप्रज्ञातः] स्वयंप्रज्ञातसंज्ञस्तु शिवाधिक्येन जायते | [असंप्रज्ञातः] असंप्रज्ञातनामा तु शिवतत्त्वेन वै भवेत् || ८६ || [स्वयंप्रज्ञातभेदौ] स्वयंप्रज्ञातभेदस्तु तीव्रस्तीव्रतरो भवेत् | [असंप्रज्ञातभेदौ] असंप्रज्ञातभेदस्तु मन्दो मन्दतरस्तथा || ९० || [तत्र प्रथमस्य भेदयोः स्वरूपम्] हास्यरोदनरोमाञ्चकम्पस्वेदादिलक्षणः | तीव्रस्तीव्रतरश्चैव समाधिरुपलक्षितः || ९१ || [द्वितीयस्य भेदयोः स्वरूपम्] निमेषवर्णि(र्जि)ते नेत्रे वपुस्तल्लक्षणं स्थितम् | मन्दो मन्दतरश्चैव समाधिरुपलक्षितः || ९२ || ८८ | समाधिरिति | संप्रज्ञातासंप्रज्ञातभेदेन समाधेर्द्वैविध्यं द्विविधस्य च तस्य तीव्रतीव्रतरत्वादिभेदेन ते ते भेदाः पातञ्जलसूत्रव्यासभाष्ये विशिष्य प्रदर्शिताः | प्. ५५७) शाम्भवेन तु योगेन सुखी भूयान्निरन्तरम् | तयोः संयोगमाहूय परमामृतगोकुलम् || ९३ || पानीयं मनसा दत्त्वा पुनर्जन्म न विद्यते | तदानन्दमयं ज्ञानं प्रीता भवति सुन्दरी || ९४ || [विश्रामार्थ कुसुमशयने देव्याः स्थापनं प्रीतिसंवादनञ्च] पुष्पशय्यां ततः कृत्वा तत्र नीत्वा सुरेश्वरीम् | मनोनर्तकतालैश्च शृङ्गारादिरसोद्भवैः || ९५ || नृत्यैर्गीतैश्च वाद्यैश्च तोषयेत् परमेश्वरीम् | तस्मात् कामेश्वरी माता पि(प्री)ता कामेश्वरश्च सः || ९६ || [मानसयागफलम्] मनसैकां महापूजामन्तरार्चनमुत्तमम् | कृत्वा सिद्धिमवाप्नोति न स बन्धेन बध्यते || ९७ || [ज्ञानहोमनिरूपणोपक्रमः] ज्ञानहोमं प्रवक्ष्यामि येन ब्रह्ममयो भवेत् | [तत्र चतुरस्रकुण्डम्]
SK
ज्ञानेन चतुरस्राख्यं कुण्डं सञ्चिन्त्य मन्त्रवित् || ९८ || ९८ | एवमन्तरार्चनमभिधाय तदङ्गं ज्ञानहोमं वक्तुमुपक्रमते - ज्ञानहोममित्यादिना | ज्ञानहोमो मानसहोम एव | ज्ञानमात्रेणैव वक्ष्यमाणहोमप्रक्रियासम्पादनादस्य ज्ञानहोमत्वम् | अस्य फलमाह- येनेत्यादिना | ज्ञानेनेति | ज्ञानेन केवलं मनोव्यापारेण चिन्तनमात्रेणेत्यर्थः | चतुरस्राख्यमिति | कुण्डमिदं सप्तमप्रकाशोक्तचतुरस्रकुण्डवत् कल्पनीयम् | एतदभिप्रायेणैव ज्ञानार्णवे द्वाविंशपटले - ज्ञानेन चतुरस्राख्यं कुण्डं सञ्चिन्त्य पूर्ववत् | इत्युक्तम् | प्. ५५८) [आत्मनां चातुर्विध्यम्] आत्मानो वेदसंख्या हि ज्ञातव्याः साधकोत्तमैः | [निरुक्तात्मज्ञानफलम्] एषां विज्ञानमात्रेण पुनर्जन्म न विद्यते || ९९ || [आत्मनः स्वरूपम्] साधारणेन पक्षेण वर्त्तते सर्वजन्तुषु | स आत्मा प्राणरूपी तु हृदये परमात्मकः || १०० || [आत्मनश्चराचरशरीरव्यापकत्वम्] शरीरं व्याप्य सकलं चरस्याप्यचरस्य च | हंसस्वरूपी विज्ञेयः श्वासोच्छ्रासविलासवान् || १०१ || [भ्रमवशादस्यैव जीवसंज्ञा] जीवस्तस्यैव नाम स्याद् भ्रान्त्या श्वासोपलक्षितः | श्वासोच्छ्वासौ देहभावौ भ्रान्तिरेव न संशयः || १०२ || ९९ | आत्मान इति | वेदसंख्या आत्मान्तरात्मपरमात्मज्ञानात्मभेदेन चतुःसंख्याका इत्यर्थः | इतः प्रभृति प्रकाशान्तं यावज् ज्ञानार्णवीयद्वाविंशपटलेन प्रायः सर्वमेव संवदति | तत्राऽत्मान इत्यादिपादद्वयात् पूर्वम् - आत्मभिश्चतुरस्रं तद् विज्ञेयं वीरवन्दिते | इति पादद्वयं दृश्यते | अत्राऽत्मभिरित्यादिपादद्वयं लेखकप्रमादात् पतितमिति प्रतिभाति | अन्यथात्मचतुष्टयनिरूपणमसङ्गतिमापद्येत | एवञ्च निरुक्तज्ञानार्णववचनपर्यालोचनया निरुक्तात्मचतुष्केण चतुरस्रकुण्डं विधेयमित्यापतति, वक्ष्यति च स्वयमेव - आत्मान्तरात्मपरमज्ञानात्मानः प्रकीर्तिताः | एतद्रूपं हि चित्कुण्डं चतुरस्रं विभावयेत् || इति |
SK
१००-१०२. आत्मनश्चातुर्विध्यं निरूप्य तस्य सर्वमूर्तसंयोगित्वादिलक्षणं स्वरूपं निरूपयति- साधारणेनेत्यादिना भ्रान्तिरेव न संशय इत्यन्तेन | अनेन जीवात्म - प्. ५५९) कुलालचक्रभेदेन घटाकाशं यथा घटे | घटे भवति भिन्नत्वं नाऽकाशे भिन्नता भवेत् || १०३ || तथा देहगतो जीवो देहनाशे जगत्स्वयम् | व्याप्य तिष्ठति सर्वत्र तस्मादात्मपदं महत् || १०४ || परमात्मनोरभेदः प्रतिपादितः | स सर्वप्राणरूपी चराचराखिलशरीरव्यापकः हंसस्वरूपी प्रकृतिपुरुषोभयात्मकश्च | तत्र श्वासोच्छ्वासाद्यखिलविलासवान् प्रतिदेहं व्यवस्थित आत्मैव भ्रान्तेर्जीवात्मत्वेन व्यपदिश्यते | परमार्थतस्तु परमात्मेतरस्य कस्यचिद् जीवात्मनः सत्ता नास्ति | श्वासप्रश्वासादीनां शरीरधर्मप्रतीतिस्तु भ्रमवशादेव | अत एव गन्धर्वतन्त्रे पञ्चमपटले - नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः | एकः संभिद्यते भ्रान्त्या मायया न स्वरूपतः | तस्माद् द्वैतं न मे चास्ति न प्रपञ्चो न संसृतिः || इत्यादिना नित्यत्वैकत्वव्यापकत्वादिकमात्मनः प्रतिपादितम् |
SK
१०३-१०४ | ननु तत्तद्देहावच्छेदेनाऽत्मनो भेदस्यानुभवसिद्धत्वात् कथं तस्यैकत्वादिकं सिध्यतीत्याशङ्कां दृष्टान्तप्रदर्शनमुखेन परिहरति- कुलालेत्यादिना | यथा आकाशस्यैकत्वेऽपि कुलालचक्रभेदेन समुत्पन्नेषु घटेषु तत्तद्घटावच्छिन्नमाकाशं भिन्नतया प्रतिभाति वस्तुतस्तु घट एव भिन्नत्वं भेदो भवति आकाशे तु भिन्नता न भवेत्; आकाशमेकमेव, उपाधिभेदादेव तस्य भेदव्यवहारः | अत एव विश्वनाथेन एकः सन्नप्युपाधित इत्युक्तम् | एवं दृष्टान्तमुपन्यस्य दार्ष्टान्तिकं प्रदर्शयति - तथेत्यादिना | प्रागुपदर्शितघटाद्यवच्छिन्नाकाशवद् देहगतो देहावच्छिन्नः परमात्मा जीव इत्युच्यते परन्तु देहनाशेऽनुपहितोऽयं स्वयं जगद् व्याप्य सर्वत्र तिष्ठति, सर्वत्र जगत्सु अयं व्याप्य सर्वं वस्तुजातमिति शेषः, इति वा सम्बन्धः | यथा तत्तद्घटनाशे तत्तद्घटावच्छिन्नाकाशो महाकाश एव तथा तत्तद्देहनाशे तत्तद्देहावच्छिन्न आत्मा परमात्मैव, न तु जीवत्वेनाऽत्मनः काचित् स्वतन्त्रा सत्ताऽस्तीति फलितार्थः | एतदभिप्रायेणैव गन्धर्वतन्त्रे पञ्चमपटले - यथाकाशो घटाकाशो महाकाश इतीरितः | तथा भ्रान्तिर्द्विधा प्रोक्ता ह्यात्मा जीवेश्वरात्मना || इति | प्. ५६०) आत्मज्ञानं शिवेनोक्तं शृणुष्व च || १०५ || [अन्तरात्मस्वरूपम्] अन्तःशब्देन सकलं रहस्यं सूक्ष्मरूपकम् | परमात्मस्वरूपेण सर्वं व्याप्य विजृम्भते || १०६ || अन्तरङ्गतया तेन चरं वाऽप्यथवाऽचरम् | व्याप्यते सकलं यस्मादन्तरात्मेति गीयते || १०७ || [परमात्मनः स्वरूपम्] स एव हंस आत्मा हि योगिगम्यो यदा भवेत् | तावच्चञ्चुर्भवेच्चैव निगमागमपक्षवान् || १०८ || शिवशक्तिपदद्वन्द्वो बिन्दुत्रयविलोचनः | यश्च परमहंसस्तु यस्मात् सर्वत्र चैव हि || १०९ || तदा भूतानि जायन्ते क्रमेणैव च तच्छृणु | आकाशः पवनो ह्यग्निर्जलं पृथ्वी क्रमेण तु || ११० || एतेषां पञ्चभूतानां प्रथमं बीजमुच्यते | अविद्याख्यसरोमध्ये मोहपङ्कजपूरिते || १११ ||
SK
प्रपञ्चकमले भूतपद्माक्षपरिजृम्भिते | विहारोऽस्यैव मोहस्य दृष्ट्वा मायामयो भवेत् || ११२ || अयमेव महाकाले निष्प्रपञ्चो यदा भवेत् | संहाररूपी हंसस्तु तदात्मानं प्रदर्शयेत् || ११३ || १०८ | परमात्मस्वरूपमाह - स एवेत्यादिना | तावदित्यादिना रूपपरिग्रहः सूचितः | प्. ५६१) पक्षित्वमस्य नास्त्येव सोऽहमात्मा प्रतिष्ठितः | परमात्मेति जानीहि एवमेतदुदाहृतम् || ११४ || [ज्ञानात्मनः स्वरूपम्] येनेदं ज्ञायते सर्वं समत्वेन च सर्वदा || ११५ || चन्द्रः सूर्यो यथा नित्यं नीरक्षीरेषु दृश्यते | तद्वत् क्षीरस्य समता नीरक्षीरविभेदतः || ११६ || कर्दमे चन्दने भिन्नं न भवेदन्त्यजे द्विजे | साक्षी तु सर्वभूतानां ज्ञानात्मा परिकीर्तितः || ११७ || [आत्मचतुष्टयनिरूपणोपसंहारः] आत्मान्तरात्मपरमज्ञानात्मानः प्रकीर्तिताः | [प्रतिज्ञातचतुरस्रकुण्डस्यैतदात्मचतुष्टयात्मकत्वम्] एतद्रूपं हि चित्कुण्डं चतुरस्रं विभावयेत् || ११८ || [कुण्डस्य स्वरूपम्] आनन्दमेखलारम्यं बिन्दुत्रिवलयान्वितम् | अर्धमात्रायोनिरूपं ब्रह्मानन्दमयं सदा || ११९ || [तत्र कुण्डे होमः] परदेवमये सर्वज्ञानदीपविजृम्भिते | जुहुयात् सन्निभे वह्नौ प्रपञ्चाहुतिमुत्कटम् || १२० || शब्दाख्यमातृकारूपमक्षवर्णविराजितम् | अक्षराणि हुतान्यत्र निःशब्दं ब्रह्म जायते || १२१ || ११५ | येनेदं ज्ञायत इति स ज्ञानात्मा परिकीर्तित इति वक्ष्यमाणेन सम्बन्धः | १२० | सन्निभ इति | सती निभा दीप्तिर्यस्य तस्मिन्, सन्दीपित इत्यर्थः | प्. ५६२) [तत्र हविःकल्पनम्] कृत्याकृत्ये पापपुण्ये सङ्कल्पञ्च विकल्पकम् | धर्माधर्मैः साधकेन्द्रो हविस्तेन प्रकल्पयेत् || १२२ || [तेन हविषा होमस्योपदेशः] जुहुयाच् चित्स्वरूपाग्नौ मनुभिस्तेन याजकः | मूलविद्यां ब्रह्मरूपां ध्यात्वा संविन्मयीं पराम् || १२३ || [तत्र प्रथमो मन्त्रः] धर्माधर्महविर्दीप्त आत्माग्नौ मनसा श्रुचा | सुषुम्णा वर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् | अग्निजायान्वितो मन्त्रो मूलान्ते प्रकटीकृतः || १२४ || [द्वितीयो मन्त्रः]
SK
नाभौ चैतन्यरूपाग्नौ हविषा मनसा श्रुचा | ज्ञानप्रदीपिते नित्यमक्षवृतीर्जुहोम्यहम् | वह्निजायान्वितो मन्त्रो मूलान्ते समुदाहृतः || १२५ || [तृतीयो मन्त्रः] प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीश्रुचा | धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम् | अग्निजायान्वितो मन्त्रो मूलान्ते च महात्मना || १२६ || १२३ | जुहुयादिति | मनुभिः धर्माधर्मेत्यादिवक्ष्यमाणमन्त्रैः | तेन प्राक् प्रकल्पितेन हविषेत्यर्थः | शिष्टं स्पष्टम् | १२४ | ज्ञानहोमस्य प्रथमं मन्त्रमाह - धर्मेति | एवञ्चाऽदौ मूलं ततो धर्माधर्मेत्यादिजुहोम्यहमित्यन्तं ततः स्वाहेत्युक्त्वा प्रथमाहुतिम् आत्मस्वरूपाग्नौ जुहुयादित्यर्थः | अक्षवृत्तीरिन्द्रियवृत्तीः | १२५ | द्वितीयमाह - नाभाविति | अत्रापि पूर्ववन्मूलं ततो नाभावित्यादि जुहोम्यहमित्यन्तं ततः स्वाहेति द्वितीयाहुतिं नाभिस्थे चैतन्यरूपाग्नौ जुहुयादित्यर्थः | १२६ | प्रकाशेति | अत्रापि होमक्रमः पूर्ववत् | प्. ५६३) [चतुर्थो मन्त्रः] अन्तनिरन्तरनिरिन्धनमेधमाने मायान्धकारपरिपन्थिनि संविदग्नौ | कस्मिंश्चिदद्भुतमरीचिविकाशभूमौ विश्वं जुहोमि वसुधादिशिवावसानम् || १२७ || जुहुयान्मूलमन्त्रान्ते ब्रह्मप्राप्त्यै च साधकः || १२८ || [होतुर्ब्रह्मरूपत्वम्] निष्प्रपञ्चो यदा काले जायते ब्रह्मविन्नरः | तदा संविन्मयः साक्षात् केवलं ब्रह्मरूपकः || १२९ || [उपसंहारः] अन्तर्होममनुः प्रोक्तः सर्वपापनिकृन्तनः || १३० || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ षोडशः प्रकाशः || १६ ||
SK
१२७ | अन्तरिति | अन्तर्देहाभ्यन्तरे निरिन्धनं दाह्यमिन्धनमन्तरेण एधमाने प्रज्वलति तथा मायान्धकारपरिपन्थिनि मायारूपतमःप्रतिबन्धके अद्भुतमरीचिविकाशभूमौ अलौकिकरश्मिप्रकरप्रकाशाकरे कस्मिंश्चिदनिर्वाच्यस्वरूपे संविच्चैतन्यं तद्रूपाग्नौ वसुधादिशिवावसानं पृथ्वीतत्त्वादिशिवतत्त्वान्तात्मकं विश्वं जुहोमीत्यर्थः | अत्रेदमवधेयम् - शैवागमे शिवादीनि क्षित्यन्तानि षट्त्रिंशत्तत्त्वानि प्रतिपादितानि | तानि च पञ्चमप्रकाशीय - ११३-११४ - श- श्लोकटीकायां षडध्वनिरूपणप्रसङ्गेन विशिष्य प्रदर्शितानि | तत्र सृष्टिक्रमेण शिवादिक्षित्यन्तषट्त्रिंशत्तत्त्वनिर्णयः कृतः | अत्र तु विश्वविलयार्थं विधेये ज्ञानहोमे लयक्रमेण क्षित्यादिशिवान्तषट्त्रिंशत्तत्त्वोपदेशः | इत्यभिप्रायेणैव वसुधादिशिवावसानमित्युक्तम् | होमक्रमस्तु पूर्ववत् | सप्तदशः प्रकाशः [श्रीचक्रस्वरूपम्, मुद्रास्वरूपम्, यन्त्रनिर्माणोपकरणादिनिर्णयः, रात्रौ यन्त्रनिर्माणनिषेधः, तत्र व्यवस्था, श्रीचक्रोद्धारः, तत्र विशेषः, नवचक्रभेदाः, चक्ररहस्यम्, पीठार्चा] [यन्त्रनिरूपणप्रतिज्ञा] यन्त्रोद्धारं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् || १ || १ | एवं पूर्वप्रकाशेऽन्तर्यागमभिधाय प्रकाशेऽस्मिन् श्रीमत्त्रिपुरसुन्दरीदेव्याः पूजायन्त्रमभिधातुं प्रतिजानीते - यन्त्रोद्धारमित्यादिना | अत्रेदमवधेयम् - श्रीमत्त्रिपुरायास्त्रिविधः सङ्केतो भवति यन्त्रसङ्केतो मन्त्रसङ्केतः पूजासङ्केतश्चेति | तदुक्तं योगिनीहृदये प्रथमपटले - चक्रसङ्केतको मन्त्र - पूजासङ्केतकस्तथा | त्रिविधस्त्रिपुरादेव्याः सङ्केतः परिकीर्तितः || यावदेतन्न जानाति सङ्केतत्रयमुत्तमम् | न तावत् त्रिपुराचक्रे परमाज्ञाधरो भवेत् ||
SK
इति | चक्रयन्त्रशब्दावभिन्नार्थकौ | तत्र च मन्त्रसङ्केतः पूर्वमभिहितः | पूजासङ्केतश्चाष्टादशप्रकाशे वक्ष्यते | यन्त्रसङ्केतस्य निरूपणार्थमेतत्प्रकाशारम्भः | सङ्केतपदार्थश्च व्याख्यातो योगिनीहृदयटीकायाममृतानन्दनाथेन - सङ्केतवत् सङ्केतकः, यथा कृतसमयौ कामिनीकामुकौ यत्र क्वापि वसत एवमस्मिन् शिवाविति | एवञ्च भगवती कामकलात्मिका श्रीमत्त्रिपुरादेवी भगवता कामेश्वरेणात्र चक्रे वसतीति सङ्केतपदादवगम्यते | प्. ५६५) [यन्त्रपदव्युत्पत्तिः] यमयत्यखिलं पापं त्रायते महतो भयात् | साधकं पूजनाद्घ्यानात्तस्माद् यन्त्रः प्रकीर्त्त्यते || २ || अतः शरीरं यन्त्रञ्च मन्त्रं ज्ञानमखण्डितम् || ३ || [शरीरस्य त्रैविध्यम्] शरीरं त्रिविधं प्राहुर्भौतिकञ्च मनोमयम् | परं ज्ञानमयं नित्यं यदनाशि निरन्तरम् || ४ || २ | यन्त्रपदव्युत्पत्तिमाह - यमयतीत्यादिना | एतेन पातकनियन्त्रित्वाद् भयत्राणकर्तृत्वाच्चास्य यन्त्रसंज्ञा | तन्त्रसारे तु - कामक्रोधादिदोषोत्थ - सर्वदुःखनियन्त्रणात् | यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः | तथा - दुःखनियन्त्रणाद् यन्त्रमित्याहुस्तन्त्रवेदिनः || इति यन्त्रपदव्युत्पत्तिः प्रदर्शिता | ३ | यन्त्रस्य देवीशरीररूपत्वमभिधत्ते - अत इत्यादिना | अतः प्रागुक्ताखिलपापनियन्तृत्वादिगुणकत्वाद् यन्त्रं देव्याः शरीरमित्यर्थः | ननु यन्त्रं देव्याः शरीरं चेत् किं तत्र ज्ञानमित्यत आह - मन्त्रं ज्ञानमिति | जन्यज्ञानव्यावर्तनाय अखण्डितमिति, नित्यमित्यर्थः | अत एव गन्धर्वतन्त्रे चतुर्थपटले श्रीचक्रनिर्माणपरिपाटीमभिधाय - एवमेतन्महाचक्रं महाश्रीत्रिपुरामयम् | यन्त्रं शरीरमित्याहुर्मन्त्रं ज्ञानमखण्डितम् || इत्यनेनायमेवार्थो व्यक्तमुक्तः |
SK
४ | देवीशरीरस्य त्रैविध्यं दर्शयति - शरीरमित्यादिना | भौतिकं मनोमयं ज्ञानमयञ्चेति त्रिविधं शरीरमित्यर्थः | तत्र ज्ञानमयशरीरस्य विशेषमाह - परमिति | निरुक्तशरीरेषु ज्ञानमयं शरीरं परं श्रेष्ठमित्यर्थः | श्रेष्ठत्वे हेतुमाह - नित्यमित्यादिना | नित्यम् उत्पत्तिरहितम् अनाशि विनाशरहितञ्च | नित्यमित्यनेनैवोत्पत्तिविनाश - प्. ५६६) [तत्स्वरूपम्] मुद्रा भौतिकमित्याहुर्यन्त्रं विद्धि मनोमयम् | मन्त्रं ज्ञानमयं प्राहुरेवं त्रिधा वपुर्भवेत् || ५ || अत्रापि मानसध्वंसे भौतिकं नास्ति निश्चितम् | विनाशि स्याद्द्वयं तस्मादेकं सत्यमिति स्थितम् || ६ || आद्यन्तमध्यशून्यत्वान्न किञ्चिन्नानुपश्यति | केनापि जायते नैतत् सूतो ज्ञानमयं यतः || ७ || न दृष्टं न श्रुतं कश्चित्ततो भावा भवन्ति हि | दृश्यन्ते तत्र कायानिवेह नाना पृथग्विधाः || ८ || अधोऽधस्ते स्थूलरूपाः सूक्ष्माश्चैवोत्तरोत्तरम् | नानावर्णाकृतिभिदा नानाजातिसमाश्रयाः | प्रतिष्ठितार्थाः सर्वेषां लीयन्ते तत्र सर्वशः || ९ || [पूर्वप्रतिज्ञातमुद्रास्वरूपम्] अथ मुद्राशरीरञ्च वक्ष्यामि परमाद्भुतम् || १० || योनिरूपा महामुद्रा शरीरमिति कीर्त्त्यते | संक्षोभण्या स्त्रिखण्डान्ता नवाङ्गानि प्रकीर्तिताः || ११ || राहित्यार्थावगमसम्भवेऽपि अविनाशीति पुनरुपादानादत्र नित्यपदेनोत्पत्तिरहितत्वमात्रं विवक्षितमिति बोध्यम् | फलितमाह - निरन्तरमिति | कालत्रयावच्छेदेन वर्त्तमानमित्यर्थः | ५ | क्रमेणैतेषां स्वरूपं निर्वक्ति - मुद्रेत्यादिना | तथा च मुद्रा भौतिकं शरीरम्, यन्त्रो मनोमयशरीरम्, मन्त्रं ज्ञानमयशरीरमिति त्रिविधं शरीरमित्यर्थः | १० | पूर्वोद्दिष्टेषु मुद्राशरीरं वक्तुं प्रतिजानीते - अथेत्यादिना | ११ | मुद्राशरीरं निरूपयन् मुद्राणामङ्गाङ्गिभावं दर्शयति - योनिरूपेत्यादिना | प्. ५६७) [मुद्रापदव्युत्पत्तिः] आत्मानं मोदयत्येषा शान्तानन्दमयं द्रवम् | जनयत्येव सा यस्मान्मुद्रा भूतमयं वपुः || १२ || [यन्त्रनिर्माणाधारोपकरणादिनिर्णयः]
SK
गोमयेन च संलिप्ते भूप्रदेशे मनोरमे | सिन्दूररजसा वाऽपि रजोभिः कुङ्कुमस्य वा || १३ || तत्र योनिमुद्रायास्त्रैलोक्योत्पत्तिमातृकारूपतया प्राधान्यादङ्गित्वम् अत एव महामुद्रेत्युक्तम् | शरीरमिति अङ्गीत्यर्थः | अथाङ्गभूता मुद्रा उद्दिशति - संक्षोभण्या इत्यादिना | ताश्च सर्वसंक्षोभणी - सर्वविद्राविणी -सर्वाकर्षिणी - सर्ववश्यकरी � सर्वोन्मादिनी - महाङ्कुशा � खेचरी � बीज -त्रिखण्डाख्या नव | एवञ्चाङ्गाङ्गिभावेनावस्थितं मुद्रादशकमेव मुद्राशरीरमिति वक्तुराशयः | मुद्राणामेतासां स्वरूपाणि तु अष्टादशपटले वक्ष्यन्ते | १२ | आत्मानमिति | यस्मात् आत्मानं मोदयति शान्तानन्दमयं तमात्मानं द्रवं जनयति तस्माद् भूतमयं वपुर्मुद्रेत्युच्यत इति सम्बन्धः | तन्त्रसारे तु - मोदनात् सर्वदेवानां द्रावणात् पापसन्ततेः | तस्मान्मुद्रेति विख्याता मुनिभिस्तन्त्रवेदिभिः || इत्यन्यथा व्युत्पत्तिक्रम उक्तः | १३ | अथ श्रीचक्रनिर्माणाधारोपकरणादिकमभिधत्ते - गोमयेनेत्यादिना यन्त्रराजं समुद्धरेदित्यन्तेन | अन्यच्चाह गन्धर्वतन्त्रे चतुर्थपटले - ततः प्राङ्मुख आसीनश्चक्रोद्धारं समारभेत् | हेमरूपादिताम्राणां पट्टे वाऽतिमनोहरे || चतुरस्रे समे शुद्धे मध्योच्छूनविभूषिते | युग्माङ्गमिलितं देवि पट्टस्येह समीरितम् || अथवा परमेशानि भूमौ चक्रं समालिखेत् | हस्तमात्रमिते शुद्धे गोमयेनोपलेपिते || प्. ५६८) यन्त्रराजं लिखेन्मन्त्री स्वर्णरत्नशलाकया | पुष्पेण विलिखेद् वाऽपि बिल्वस्य कण्टकेन वा || १४ || [तत्र कल्पान्तरम्] अथवा हेमरजतताम्रदर्पणभूर्जके | श्रीखण्डसम्भवे पीठे रक्तचन्दनसम्भवे || १५ || गण्डकीभवपाषाणे पटे वा रुचिपीठके | रोचनाकुङ्कुमाभ्यान्तु चन्दनेन कुलोद्भवैः || १६ || इन्दुकस्तूरिकाभिश्च यन्त्रराजं समुद्धरेत् | चतुरस्रं समारभ्य नवचक्राण्यनुक्रमात् || १७ ||
SK
सिन्दूररजसा तत्र कुङ्कुमेनाथवा प्रिये | आलिखेच्चक्रराजञ्च लेखन्या हैमया तथा || अथवा कुशमूलेन दर्भपाणिः समाहितः | नेत्ररम्यं यथा चक्रं तथा कुर्याद् विचक्षणः || इति | ज्ञानार्णवे दशमपटलेऽपि - श्रीचक्रन्तु वरारोहे श्रीविद्यावर्णसम्भवम् | तत्र प्राङ्मुख आसीनश्चक्रराजं समालिखेत् | भूप्रदेशे समे वर्ये सिन्दूररजसाऽथवा | कुङ्कुमस्य रजोभिस्तु भूमौ चक्रं समालिखेत् | ऋजुरेखं नेत्ररम्यं सन्धिभेदसमम् ऋजु | अथवा हेमरौप्याभ्यां ताम्रेण बहुधातुभिः | पट्टं विरच्य श्रीखण्डरक्तचन्दनसम्भवे | पट्टे संस्थाप्य विलिखेल्लेखन्या हैमया प्रिये | रोचनाकुङ्कुमाभ्यान्तु कस्तुरीचन्दनेन्दुभिः | इति | एवमन्यानि च प्रमाणानि कौलावलीनिर्णयतृतीयपटलादावनुसन्धेयानि | नवचक्राण्यनुक्रमादिति | नवचक्राणि त्रैलोक्यमोहनादीनि सर्वानन्दमयान्तानि | तानि चाग्रे विशिष्य वक्ष्यन्ते | प्. ५६९) [चक्रस्य क्रमेणोन्नतमध्यत्वे फलभेदाः] उन्नतादुन्नतं मध्यं चक्रं स्यान्निर्धनो धनी | त्रित्रिक्रमादुन्नतं तत् पूजयित्वा श्रियं लभेत् || १८ || एकद्वित्रिक्रमाच्चैव श्रियै कीर्त्त्यै च कल्पते | नवानि समरूपाणि सर्वतोऽभीष्टसिद्धये || १९ || [श्रीचक्रनिर्माणस्थापनपूजनप्रशस्तिः] कृत्वा श्रीचक्रनिर्माणं स्थापयेत् पूजयेदपि | लक्ष्मीकान्तियशःपुत्रधनारोग्यादिसिद्धये || २० || सीसकांस्यादिषु कृतं पूर्वोक्त विपरीतकृत् || २१ || [यन्त्रमन्त्रदेवतानामभेदः] यन्त्रं मन्त्रमयं प्रोक्तं मन्त्रात्मा देवतेति च | पुरा भगवता प्रोक्तं तन्त्रे सम्मोहनाख्यके | देहात्मनोर्यथाऽभेदोऽयन्त्रदेवतयोस्तथा || २२ ||
SK
१८-१९ | उन्नतादुन्नतमिति | त्रैलोक्यमोहनचक्रतः सर्वानन्दमयचक्रं यावत् क्रमेण यथोन्नतिः स्यात्तथा चक्रं रचयेदिति फलितार्थः | तत् फलमाह- निर्धन इति | एवं कृते निर्धनोऽपि साधको धनवान् भवेदित्यर्थः | त्रित्रीति | प्रथमात् त्रैलोक्यमोहनचक्राद् द्वितीयं सर्वाशापरिपूरकं चक्रं त्रिगुणोन्नतम्, सर्वसंक्षोभणाख्यं तृतीयं ततस्त्रिगुणोन्नतम्, सर्वसौभाग्यदायकाख्यं चतुर्थं ततस्त्रिगुणोन्नतमित्येवंक्रमेण यदि औन्नत्यं विदधीत तर्हि तच्चक्रं पूजयित्वा श्रियं लभेदित्यर्थः | एकद्वित्रीति | प्रागुक्तक्रमोन्नतिपरिपाट्यां प्रथमस्यैकगुणत्वं द्वितीयस्य पूर्वतो द्विगुणत्वं ततस्तृतीयस्य पूर्वतस्त्रिगुणत्वं एवं क्रमेण चतुर्थादिचक्राणां क्रमेणौन्नत्ये श्रीकीर्तिसाधकत्वं यन्त्रस्येत्यर्थः | नवानीति | नवानां तुल्यौन्नत्येऽभीष्टसम्पादकत्वं चक्रस्येत्यर्थः | २१ | पूर्वेति | पूर्वोक्तविपरीतकृत् लक्ष्मीकान्त्यादिविनाशकृदित्यर्थः | प्. ५७०) [यन्त्रं विना पूजने दोषः] अथ पीठे महायन्त्रं लिखित्वा पूजयेद् बुधः | विना यन्त्रेण चेत् पूजा देवता न प्रसीदति || २३ || [रात्रौ यन्त्रनिर्माणनिषेधः] न रात्रावङ्कयेद् यन्त्रं साधकस्तु कदाचन | प्रमादादङ्किते यन्त्रे शापो भवति तत्क्षणात् || २४ || [तत्र यन्त्रपुष्पे पूजनोपदेशः] भावचूडामणिमते तत्र पुष्पे प्रपूजयेत् | [यन्त्रपुष्पाणि] यत्रापराजितापुष्पं जवापुष्पञ्च भैरव || २५ || २३ | विना यन्त्रेणेति | स्पष्टम् | अत्रैतदवधेयम् - प्रशस्तमपीदं यन्त्रनिर्माणं देवतायाः पुरतो न कर्तव्यम्, देहात्मनोर्यथाऽभेदो यन्त्रदेवतयोस्तथेति पूर्ववचनेन यन्त्रदेवतयोरभेदोक्तेरुभयोरेव तुल्यतया पूज्यत्वेन देवतापूजया यन्त्रपूजायाः सिद्धेरसम्भवात् | एतदभिप्रायेणैव मातृकाभेदतन्त्रे द्वादशपटले - शालग्रामे च पूजायां न लिखेद् यन्त्रमुत्तमम् | प्रतिमायाञ्च पूजायां न लिखेद् यन्त्रमुत्तमम् || इत्युक्तम् | प्रमादतः कृते तु पूजनादिकं द्विगुणमनुष्ठेयम्, तदुक्तं तत्रैव -
SK
महायन्त्रन्तु देवेशि यदि कुर्याच्च साधकः | तत्र मूर्तिं न कुर्याच्च कदाचिदपि मोहतः || यदि मूर्तिं प्रकुर्यात्तु तत्र यन्त्रं न कारयेत् | यदि कुर्यात्तु मोहेन यजेद् वारद्वयं प्रिये || द्विगुणं पूजनं तत्र द्विगुणं बलिदानकम् | द्विगुणं प्रजपेन्मन्त्रं द्विगुणं होमयेत् सुधीः | अन्यथा विफला पूजा विफलं बलिदानकम् | सर्वं हि विफलं यस्मात्तस्माद् यन्त्रं न कारयेत् || इति | प्. ५७१) करवीरे रक्तशुक्ले द्रोणं वा यत्र तिष्ठति | तत्र देवी वसेन्नित्यं तद्यन्त्रे पूजनं मम || २६ || [श्रीचक्रनिर्माणपरिपाटी तत्र त्रिकोणमष्टकोणञ्च] त्रिकोणं विलिखेदादौ तन्मध्याच्च त्रिकोणकम् || २७ || पूर्वशक्त्यग्रभागे तु मानयष्टिवदालिखेत् || २८ || सन्धिभेदक्रमेणैव तयोः शक्त्योस्ततः परम् | रेखे आकृष्य कोणाभ्यां तदग्रे पूर्वगे गुरुः || २९ || एतत्त्रयात्मकेनैव नवकोणं प्रजायते |
SK
२७-३० | अथ श्रीचक्रनिर्माणक्रममुपदिशति - त्रिकोणमित्यादिना चतुर्द्वारं तथैव चेत्यन्तेन | तत्र त्रिकोणान्तर्वर्तिनो बिन्दुचक्रस्य सर्वानन्दमयाख्यस्य निर्माणे विशेषाभावात् तदुपेक्ष्य त्रिकोणादिभूपुरान्तानामष्टानां निर्माणपरिपाटीमभिदधानः प्रथमं त्रिकोणस्य सर्वसिद्धिप्रदचक्रस्य तद्बहिरष्टकोणस्य सर्वरोगहरचक्रस्य च निर्माणं युगपदाह - त्रिकोणमित्यादिना नवकोणं प्रजायते इत्यन्तेन | आदौ प्रतीच्यग्रमेकं त्रिकोणं लिखेत् | तन्मध्यात् निरुक्तत्रिकोणमध्यप्रदेशात् त्रिकोणकं प्रतीच्यग्रमन्यत्त्रिकोणमालिखेत् | एतत्त्रिकोणस्याग्रं पूर्वत्रिकोणस्य मध्यदेशे मूलन्तु तद्बहिरिति ज्ञेयम् | अनन्तरकरणीयमाह - पूर्वशक्त्यग्रभाग इति | शक्तिशब्देन त्रिकोणमुच्यते | ततश्च पूर्वशक्त्यग्रभागे मध्यत्रिकोणाग्रे मानयष्टिवत् दक्षिणोत्तरायतमानदण्डवत् दक्षिणोत्तरायतामेकां सरलरेखामालिखेत् | सन्धीति | ततः परं निरुक्तत्रिकोणद्वयमध्यत्रिकोणाग्रसरलरेखानिर्माणानन्तरं गुरुः तयोः शक्त्योः कोणाभ्यां रेखे रेखाद्वयमाकृष्य तदग्रे तयो रेखयोरग्रे अग्रद्वयं पूर्वगे पूर्वदिग्गामिनी कुर्यादिति शेषः | प्रागुक्तसरलरेखाया दक्षोत्तराभ्याम् अग्राभ्यां तत्सम्बद्धं पूर्वत्रिकोणद्वयसन्धिभेदि पूर्वाग्रं रेखाद्वयं विदधीतेत्यर्थः | एतेन प्रागग्रं त्रिकोणान्तरं प्राप्तम् | एवञ्च पश्चिमाग्रं त्रिकोणद्वयं पूर्वाग्रञ्चैकं त्रिकोणमेतेषाञ्च प्रागुक्तरीत्या विन्यासे मध्ये त्रिकोणमेकं सर्वसिद्धि - प्. ५७२) [अन्तर्दशारम्] पूर्वशक्तीशवह्निभ्यां योनिरूपां लिखेत्ततः || ३० || दक्षिणोत्तरकोणात्तु श्रीकण्ठस्य लिखेद् बुधः | रेखां षट्कोणरूपान्तु पूर्वशक्तीशवह्नितः || ३१ || ऊर्द्ध्वरेखे समाकृष्य श्रीकण्ठाग्रविचुम्बिनी | श्रीकण्ठस्य दक्षवामकोणात् पूर्ववदुद्धरेत् || ३२ || दशकोणं भवेत्तत्र [वहिर्दंशारम्] तथाऽन्यद्दशकं लिखेत् |
SK
प्रदाख्यं तद्बहिरष्टकोणञ्च सर्वरोगहराख्यं भवतः | इत्यभिप्रायेणैव मूले नवकोणं प्रजायत इत्युक्तम् | गन्धर्वतन्त्रे पञ्चमपटलेऽपि - प्रतीच्यग्रं लिखेदेकं त्रिकोणं तदुपर्यथ | पूर्वत्रिकोणमध्याग्रं त्रिकोणान्तरमालिखेत् || अथ सन्धिद्वयं भित्त्वा प्रागग्रं विलिखेत् परम् | त्रिकोणमध्यगं चक्रमष्टकोणं तथा भवेत् || इति वचने अष्टकोणपदस्य त्रिकोणमध्यगमिति विशेषणेन मध्ये त्रिकोणं तद्बहिरष्टकोणमिति स्फुटमवगम्यते | ३०-३३ | अथाष्टकोणाद् बहिर्लेखनीयमन्तर्दशारं सर्वरक्षाकराख्यं चक्रमाह - पूर्वशक्तीत्यादिना दशकोणं भवेत्तत्रेत्यन्तेन | पूर्वशक्त्या मध्यत्रिकोणस्य ईशवह्निभ्यां ईशानाग्निकोणाभ्यां योनिरूपां योन्याकारां पश्चिमाभिमुखीं त्रिकोणरेखां लिखेत् | त्रिकोणान्तरमाह - दक्षिणेति | श्रीकण्ठस्य दक्षिणोत्तरकोणाभ्यामपि पूर्वाग्रां तथैव योन्याकारां त्रिकोणरेखां लिखेत् | इमे च रेखे प्रागुक्तासु तिसृषु दक्षिणोत्तरायतासु सरलरेखासु पूर्वपश्चिमरेखे वर्द्धयित्वा ततः कर्तव्ये इति व्यक्तीकरिष्यामः | एवंकृते षट्कोणरूपा रेखा भवति | ततः करणीयमाह - पूर्वेति | पूर्वशक्तीशवह्नितः पूर्वशक्तेः पूर्वत्रिकोणस्य ईशानाग्निकोणाभ्याम् ऊर्द्ध्व रेखे सन्धिभेदपूर्वकमूर्द्ध्व रेखाद्वय - प्. ५७३) [चतुर्दशारम्] दशारवामदक्षे तु मध्यकोणचतुष्टयम् || ३३ || वर्धयित्वा च षट्कोणं सन्धिभेदेन संलिखेत् | कक्षमध्यगता रेखा वर्धयेत् कोणरूपतः || ३४ || शेषं प्रवर्धेयेन्मन्त्री दशकोणविधानतः | यथा चतुर्दशारन्तु जायते चक्रमुत्तमम् || ३५ ||
SK
माकर्षेत् | श्रीकण्ठाग्रविचुम्बिनीति रेखाविशेषणेन सन्धिभेदपूर्वकं रेखाकर्षणमुक्तम् | विचुम्बिन्याविति वक्तव्ये विचुम्बिनीत्यार्षः प्रयोगः | श्रीकण्ठस्येति पूर्ववत् कोणरेखाकर्षणक्रमेण श्रीकण्ठस्य दक्षवामकोणात् पूर्वोपदर्शितदक्षोत्तरायतपश्चिमसरलरेखां यावत् प्रागुक्तक्रमेण कोणरेखाद्वयं सन्धिभेदपूर्वकमुद्धरेदित्यर्थः | एवं कृते दशकोणं सर्वरक्षाकरचक्रं निष्पद्यते | व्यक्तमाह गन्धर्वतन्त्रे पञ्चमपटले - ततो दशारचक्रस्य निर्माणं शृणु पार्वति | दक्षिणोत्तरगा रेखास्तिस्रो यास्तत्र तास्वपि | मध्यरेखां परित्यज्य रेखे द्वे परिवर्धयेत् | तेन षट्कोणकं कृत्वा सन्धिभेदे चतुष्टयम् | कृत्वा रेखाद्वयं कुर्याद्दशकोण यथा भवत् || इति | अथ बहिर्दशारं सर्वार्थसाधकं चक्रमाह - तथेति | तथा निरूक्तदशारक्रमेणैवेदं बहिर्दशारं कुर्यात् नात्र कश्चिदपि विशेषोऽस्ति | व्यक्तमाह गन्धर्वतन्त्रे पञ्चमपटले - तथान्यदशकोणस्य निर्माणं परिकीर्त्त्यते | दक्षिणोत्तरगास्वेवं रेखाः पञ्च भवन्ति याः || तासां रेखाद्वयं (त्रयं) मध्ये हित्वा पूर्वापरन्ततः | बाह्यरेखाद्वयं देवि पूर्ववत् परिवर्धयेत् || तेन षट्कोणकं कृत्वा सन्धिभेदचतुष्टयम् | कृत्वा रेखाद्वयं कुर्याद्दशकोणं यथा भवेत् || इति | ३३-३५ | अथ चतुर्दशारं सर्वसौभाग्यदायकचक्रमाह - दशारेत्यादिना चक्रमुत्तममित्यन्तेन | प्रागुक्तदशारचक्रस्य वामतो दक्षतश्च मध्यकोणचतुष्टयं वर्धयित्वा, प्. ५७४) [अष्टारादिचक्रत्रयम्] वृत्तमष्टदलं वृत्तं षोडशारं त्रिवृत्तकम् | भूबिम्बत्रितयं कार्यं चतुर्द्वारं तथैव च || ३६ || तन्त्रचूडामणौ देव्या मतमीदृशमीरितम् || ३७ ||
SK
प्रागुक्तसन्धिभेदक्रमेण षट्कोणं संलिखेत् | एतदुक्तं भवति - दशारचक्रस्य पश्चिमतस्त्रिकोणत्रयस्य पूर्वतश्च त्रिकोणत्रयस्य त्यागे दशारस्य दक्षतः कोणद्वयं वामतश्च कोणद्वयमिति कोणचतुष्टयमवशिष्यते | तत् कोणचतुष्टयं कोणघटकसरलरेखा इत्यर्थः, प्रागुक्तक्रमेण वर्धयित्वा ततः प्रागुक्तसन्धिभेदक्रमेण षट्कोणं संलिखेत् | कक्षमध्यगता रेखाः प्रागुक्तषट्कोणवामदक्षकोणघटकरेखाचतुष्टयमित्यर्थः, कोणरूपेण वर्धयेत् | एवं कृते कोणाष्टकं जायते | शेषमिति | अवशिष्टं कोणषट्कं प्रागुक्तदशकोणरीत्या वर्धयेत् | पूर्वपश्चिमान्त -सरलरेखाद्वयं पूर्ववद् वर्द्धयित्वा दशारस्य पश्चिमतः पूर्वतश्चैकैकां दक्षिणोत्तरायतां सरलरेखामाकृष्य दशारक्रमेण षट् कोणान् वर्धयेदित्येवाऽह दशकोणविधानत इत्यनेन | यथेति, तथा प्रवर्धयेद् यथा उत्तमं चतुर्दशारं चक्रं जायत इति सम्बन्धः | व्यक्तमाह गन्धर्वतन्त्रे पञ्चमपटले - चतुर्दशारचक्रस्य निर्माणं कथ्यतेऽधुना | दक्षिणोत्तरगास्वेवं रेखाः सप्त भवन्ति याः || तासां रेखाद्वयं हित्वा बाह्ये पूर्वापरन्ततः | दीर्घं रेखाद्वयं मन्त्री पूर्ववत् परिवर्धयेत् || तेन षट्कोणकं कृत्वा सन्धिभेदचतुष्टयम् | दशारीकृत्य तेनैव सन्धिभेदचतुष्टयात् || रेखाद्वयं बहिः कुर्याद्रेखाः स्युर्नव पञ्च च || कल्पयेदथ तस्याग्रैरन्यकोणचतुष्टयम् || एवं चतुर्दशारं स्याद् विलोचनमनोहरम् || इति ३६-३७ | अथाष्टदलं सर्वसङ्क्षोभणाख्यं षोडशदलं सर्वाशापरिपूरकाख्यं चतुरस्रं त्रैलोक्यमोहनाख्यं चक्रञ्चाऽह - वृत्तमित्यादिना | स्पष्टम् | अत्राष्टदलषोडशदलयोर्मूले वृत्तं सीमार्थमेव | षोडशदलाद् बहिर्वृत्तत्रयमपि न पूजार्थम् - वृत्तत्रयं महेशानि न पूजायां निगद्यते | प्. ५७५) [अत्र विशेषः] कुलोड्डीशमते दिक्षु मूलं पूर्वादितो भवेत् | [बिन्दुचक्रस्य सर्वचक्रमध्यवर्त्तित्वम्] सर्वमध्यत्रिकोणे तु बिन्दुचक्रं लिखेद् बुधः || ३८ ||
SK
इति गन्धर्वतन्त्रपञ्चमपटलवचनात् | चक्रमिदं संक्षिप्याऽह तन्त्रसारधृतयामले - बिन्दुत्रिकोणवसुकोणदशारयुग्म - मन्वस्रनागदलसङ्गतषोडशारम् | वृत्तत्रयञ्च धरणीसदनत्रयञ्च श्रीचक्रराजमुदितं परदेवतायाः || इति | एतद्यन्त्रघटकपद्मे केशरकल्पननिषेधमाह तन्त्रसारधृतभूतभैरवे - योऽस्मिन् यन्त्रे महेशानि केशराणि प्रकल्पयेत् || योगिनीसहितास्तस्य हिंसां कुर्वन्ति भैरवाः || इति | ३८ | एवं तत्रचूडामणिसंवादेन श्रीचक्रनिर्माणपरिपाटीमभिधाय कुलोड्डीशसंवादेन नव चक्राणि विभजते - कुलेत्यादिना | नव चक्राणि तेषां नामानि च योगिनीहृदये प्रथमपटले क्रमेण प्रदर्शितानि यथा - चक्रस्य नवधात्वञ्च कथयामि तव प्रिये | आदिमं भूत्रयेण स्याद् द्वितीयं षोडशारकम् || अन्यदष्टदलं प्रोक्तं मनुकोणमनन्तरम् | पञ्चमं दशकोणं स्यात् षष्ठञ्चापि दशारकम् || सप्तमं वसुकोणं स्यान्मध्यत्र्यस्रमथाष्टमम् | नवमं त्र्यस्रमध्यं स्यात् तेषां नामान्यतः शृणु || त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् | सर्वसंक्षोभणं देवि सर्वसौभाग्यदायकम् | सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् || सर्वरोगहरं देवि सर्वसिद्धिमयं तथा | सर्वानन्दमयञ्चापि नवमं शृणु सुन्दरि || प्. ५७६) [त्रैलोक्यमोहनचक्रम्] त्रैलोक्यमोहनं नाम चतुरस्रं सुखप्रदम् | मुक्ताभं चिन्तयेन्मन्त्री मातृकार्णैर्विमण्डितम् || ३९ || [सर्वाशापरिपूरकचक्रम्] शरदिन्दुप्रतीकाशं षोडशारं मनोरमम् | सर्वाशापूरकं नाम षोडशस्वरसंयुतम् || ४० || इति | एवञ्चात्र नवमं त्र्यस्रमध्यं स्यादित्यनेन यत् सर्वानन्दमयं चक्रमुक्तं तदेव सर्वमध्येत्यादिना मूले समुद्दिष्टम्- अत्र पूज्या महादेवी महात्रिपुरसुन्दरी | इति योगिनीहृदयप्रथमपटलवचनेनास्य प्राधान्यात् प्रथममभिधानम्, विशेषस्त्वग्रे वक्ष्यते | बिन्दुचक्रं शिवात्मकमध्यबिन्दुमित्यर्थः | सर्वानन्दमयं मध्यबिन्दुस्थानं शिवात्मकम् | इति तन्त्रराजपञ्चमपटलवचनात् |
SK
३९ | अथ क्रमेण त्रैलोक्यमोहनादिनवचक्राणि विवृणोति - त्रैलोक्येत्यादिना | चतुरस्रं भूपुरम्, तच्च परितो रेखात्रयात्मकम्; भूबिम्बत्रितयं कार्यमिति प्रागुक्तत्वात्, भूबिम्बत्रयमेतत् पश्यन्त्यादित्रिमातृविश्रान्तिः | इति कामकलाविलासोक्तेश्च | मध्यत्रिकोणादाविर्भूता पश्यन्ती � मध्यमा -वैखरीशक्तयो निरुक्तभूपुरत्रयपर्यन्तं चकासतीत्यर्थः | मुक्ताभं श्वेतवर्णमित्यर्थः | त्रैलोक्यमोहने चक्रे बुद्धञ्च परिपूजयेत् | ब्रह्मविष्णुशिवाख्यास्तास्तिस्रो रेखाश्च तन्निभाः || इति गन्धर्वतन्त्रचतुर्थपटलवचनेन तु रेखाणां क्रमेण तदधिष्ठातृब्रह्मविष्णुशिववर्णत्वमभिहितम् | तेन क्रमादेतासां रक्तकृष्णश्वेतवर्णत्वं निरुक्तगन्धर्ववचनादवगम्यते | मातृकार्णेरिति अकारादिक्षकारान्तमातृकावर्णैरित्यर्थः | तदुक्तं ज्ञानार्णवे दशमपटले - चतुरस्रं मातृकार्णेर्मण्डितं सिद्धिहेतवे | मुक्तामाणिक्यघटितं समस्थलविराजितम् || त्रैलोक्यमोहनं नाम कल्पद्रुमफलप्रदम् | इति | ४० | अथ षोडशदलात्मकं सर्वाशापरिपूरकचक्रमाह - शरदिन्द्वित्यादिना | शरदिन्दुप्रतीकाशं शरत्कालीनचन्द्रसदृशवर्णविशिष्टम् | तदुक्तं ज्ञानार्णवे दशमपटले - प्. ५७७) [सर्वसंक्षोभणचक्रम्] जवाकुसुमसङ्काशमष्टपत्रं सुशोभनम् | सर्वसंक्षोभणं नाम कादिवर्गाष्टकैर्युतम् || ४१ || [निरुक्तत्रितयात्मकं सृष्टिचक्रम्] एतच्चक्रमयं रम्यं सृष्टिकारकमुत्तमम् || ४२ || [सर्वसौभाग्यदायकचक्रम्] चतुर्दशारकोणन्तु नवीनार्कसमप्रभम् | सर्वसौभाग्यदं नाम कादिढान्तैर्विभूषितम् || ४३ || षोडशारं चन्द्रबिम्बरूपन्तु सकलालयम् | सर्वाशापूरकं भद्रे स्रवत्पीयूषवर्षणम् || इति | षोडशारं षोडशदलम् | मनोमयम् | अत्र मनःपदं भूतपञ्चकेन्द्रियदशकमनसां देव्याः षोडशविकाराणामुपलक्षकम् | निरुक्तषोडशविकाराः कामाकर्षिण्यादिषोडशशक्त्याकारेण षोडशदलान्यध्यासत इति तात्पर्यम् | व्यक्तमाह कामकलाविलासे -
SK
भूतानीन्द्रियदशकं मनश्च देव्या विकारषोडशकम् | कामाकर्षिण्यादिस्वरूपतः षोडशारमध्यास्ते || इति | षोडशस्वरसंयुतम् अकारादिषोडशस्वरविशिष्टम् | षोडशपत्रेषु क्रमेण षोडश स्वरा वर्तन्त इत्यर्थः | ४१ | अथाष्टदलात्मकं सर्वसंक्षोभणचक्रमाह - जवेत्यादिना | जवाकुसुमसङ्काशं जवाकुसुमवद्रक्तवर्णम् | अष्टपत्रमष्टदलम् | कादिवर्गाष्टकैर्युतम्, पञ्चदलेषु कादिपञ्चवर्गाः | षष्ठदले यरलवाः | सप्तमदले शषसहाः | अष्टमदले लक्षाविति वर्गाष्टकावस्थितिक्रमः | ४२ | एतत्त्रितयस्य सृष्टिचक्रत्वमाह - एतदित्यादिना | एतच्चक्रमयं निरुक्तत्रैलोक्यमोहन - सर्वाशापरिपूरक -सर्वसंक्षोभणाख्यचक्रत्रयमयमित्यर्थः | ज्ञानार्णवे दशमपटलेऽपि - एतत्त्रयं महेशानि सृष्टिचक्रं सुखप्रदम् | इत्युक्तम् | विशेषस्तु कामकलाविलास - योगिनीहृदयादिषु द्रष्टव्यः | ४३ | एवं सृष्ट्यात्मकचक्रत्रयमुक्त्वा स्थित्यात्मकचक्रत्रये वक्तव्ये क्रमप्राप्तं प्. ५७८) [सर्वार्थसाधकचक्रम्] तप्तकाञ्चनसिन्दूरसदृशं दशकोणकम् | सर्वार्थसाधकं नाम णादिभान्तैर्विभूषितम् || ४४ || [सर्वरक्षाकरचक्रम्] तरुणारुणसङ्काशं द्वितीयं दशकोणकम् | सर्वरक्षाकरं नाम मादिक्षान्ताक्षरैर्युतम् || ४५ || [निरुक्तत्रितयात्मकं स्थितिचक्रम्] स्थितिचक्रं त्रयञ्चैतन्महाज्ञानप्रदायकम् || ४६ || सर्वसौभाग्यदायकं चक्रमाह - चतुर्दशारेत्यादिना | चतुर्दशारकोणमिति स्पष्टम् | नवीनार्कसमप्रभं भास्वररक्तवर्णम् | तदुक्तं ज्ञानार्णवे दशमपटले - चतुर्दशारं देवेशि दाडिमीकुसुमप्रभम् | अनन्तफलदं भद्रे सर्वसौभाग्यसंप्रदम् || इति | कादीति | चतुर्दशकोणेषु ककारादिढकारान्ताश्चतुर्दश वर्णा एकैकशो वर्त्तन्त इत्यर्थः | ४४ | अथ सर्वार्थसाधकचक्रं विवृणोति - तप्तेत्यादिना | तप्तकाञ्चनसिन्दूरसदृशं रक्तवर्णम् | तदुक्तं ज्ञानार्णवे दशमपटले - दशारं तप्तहेमाभं सिन्दूरसदृशं प्रिये | सर्वार्थसाधकं चक्रं मनश्चिन्तितदं सदा ||
SK
इति | दशकोणकं दशकोणविशिष्टम् | णादीति | णकारादिभकारान्ता दश वर्णा दशारेष्वेकैकशो विराजन्त इत्यर्थः | ४५ | द्वितीयदशकोणात्मकं सर्वरक्षाकरचक्रमाह - तरुणेत्यादिना | तरुणारुणसङ्काशं रक्तवर्णम् | मादीति | मकारादिक्षकारान्ता दश वर्णा एकैकशो दशारेषु वर्तन्त इत्यर्थः | ४६ | एतत्त्रितयस्य स्थितिचक्रत्वमाह - स्थितीत्यादिना | एतत्त्रयं सर्वसौभाग्यदायक � सर्वार्थसाधक - सर्वरक्षाकराख्यं महाज्ञानप्रदायकं स्थितिचक्रमिति सम्बन्धः | ज्ञानार्णवे दशमपटलेऽपि निरुक्तचक्रत्रयमभिधाय - प्. ५७९) [सर्वरोगहरचक्रम्] पद्मरागप्रतीकाशमष्टकोणञ्च सिद्धिदम् | सर्वरोगहरं नाम वर्गाष्टकैर्विमण्डितम् || ४७ || [सर्वसिद्धिप्रदचक्रम्] दाडिमीपुष्पसङ्काशं त्रिकोणं सर्वभूतिदम् | सर्वसिद्धिप्रदं चक्रमकथादित्रिरेखगम् || ४८ || [सर्वानन्दमयचक्रम्] ह- क्षवर्णमध्यगतं सर्वेषां सिद्धिकारकम् | सर्वानन्दमयं नाम बिन्दुचक्रं परं पदम् || ४९ || एतत्त्रयं महेशानि स्थितिचक्रं सुखप्रदम् | इत्युक्तम् | ४७ | एवं स्थित्यात्मक - चक्रत्रयमभिधाय संहारात्मकचक्रत्रये वक्तव्ये क्रमप्राप्तं सर्वरोगहरचक्रमाह - पद्मरागेत्यादिना | पद्मरागमणिसवर्णं रक्तवर्णम् | वर्गाष्टकैर्विमण्डितम् | सर्वसंक्षोभणचक्रोक्तरीत्या कादिवर्गाष्टकमष्टारेषु वर्तन्त इत्यर्थः | तदुक्तं ज्ञानार्णवे दशमपटले - अष्टकोणं वरारोहे बालार्ककिरणारुणम् | पद्मरागसमप्रख्यं सर्वरोगहरं सदा || इति | ४८ | सर्वसिद्धिप्रदचक्रमाह - दाडिमीत्यादिना | दाडिमीपुष्पसङ्काशं दाडिमीकुसुमवद्रक्तवर्णम् | सर्वभूतिदम् अखिलविभूतिसम्पादकम् | अ-क-थादित्रिरेखगम् | अकारादयः षोडश स्वराः, कादि - तान्तानि थादि - सान्तानि व्यञ्जनानि च क्रमेणैकैकरेखारूपेण वर्तन्त इत्यर्थः | ज्ञानार्णवे दशमपटले -
SK
उद्यत्सूर्यसहस्राभं बन्धूककुसुमप्रभम् | सर्वसिद्धिप्रदं चक्रं सकलालयमीश्वरि | त्रिकोणं सर्वसंभूतिकारणं भूतिदं सदा || इति | ४९ | अथेदानीं चरमं भगवत्या निवासस्थानं बिन्द्वाख्यं सर्वानन्दमयचक्रमाह - ह-क्षेति | परं पदं कामेश्वराङ्कनिलयाया देशकालाकारादिभिरनवच्छिन्नायाः प्. ५८०) [निरुक्तत्रितयात्मकं संहारचक्रम्] सदाशिवमयञ्चैतत्त्रयं संहारकारकम् || ५० || [निरुक्तचक्रे पुष्पाञ्जलिदानोपदेशः] योगिनीमूलमन्त्रेण तत्र पुष्पाञ्जलिं क्षिपेत् | [चक्रस्याशून्यतासम्पादनोपदेशः] मुक्ता-मणि-प्रवालैर्वा विलोममूलविद्यया || ५१ || अशून्यं सर्वदा कार्यं शून्ये विघ्नं सदा भवेत् | [नवचक्रोपसंहारः] नवचक्रमयं चक्रं बालादेव्या विराजितम् || ५२ || [चक्रेश्वरीणां नामानि] प्रथमा त्रिपुरा देवी द्वितीया त्रिपुरेश्वरी | तृतीया सुन्दरीनाम्नी तुर्या त्रिपुरवासिनी || ५३ || श्रीमत्त्रिपुरसुन्दर्याः परं पदं श्रेष्ठं निवासस्थानमित्यर्थः | अत एव योगिनीहृदये प्रथमपटले सर्वानन्दचक्रमभिधाय - अत्र पूज्या महादेवी महात्रिपुरसुन्दरी | इत्युक्तम् | व्यक्तमाह कामकलाविलासे - आसीना बिन्दुमये चक्रे सा त्रिपुरसुन्दरी देवी | कामेश्वराङ्कनिलया कलया चन्द्रस्य कल्पितोत्तंसा || पाशाङ्कुशेक्षुचाप-प्रसूनशरपञ्चकाञ्चितस्वकरा | बालारुणारुणाङ्गी शशिभानुकृशानुलोचनत्रितया || इति | अत्र बालारुणारुणाङ्गीत्यभिधानाद् बिन्दोरपि रक्तत्वमुक्तं भवति | हक्षवर्णमध्यगतमिति, ह-क्षौ वर्णौ मध्यगतौ यस्येति विग्रहः | ५१-५२ | मुक्तेति | यन्त्रं पूजयित्वा तत्र विलोममूलमन्त्रेण मुक्ताद्यन्यतमं स्थापयेत् कदाऽपि शून्यं न विदधीतेत्यर्थः | उपसंहरति-नवेति | शिष्टं स्पष्टम् | ५३-५४ | एवंत्रैलोक्यमोहनादीनि सर्वानन्दमयान्तानि नव चक्राण्युपदिश्य तेषु प्. ५८१) पञ्चमी त्रिपुराश्रीश्च षष्ठे त्रिपुरमालिनी | सप्तमे त्रिपुरा सिद्धा अष्टमे त्रिपुराम्बिका || ५४ || नवमे श्रीमहादेवी महात्रिपुरभैरवी | [चक्रे स्वस्वस्थानेऽर्चनीया देवताः]
SK
समस्ताः प्रकटा गुप्तास्तथा गुप्ततराश्रयाः || ५५ || सम्प्रदायाः कुलाः कौला निगर्भाश्च रहस्यगाः | परापररहस्याह परमातिरहस्यगाः || ५६ || राजराजेश्वरी पूर्णा महात्रिपुरसुन्दरी | एताश्चक्रस्थिताः सर्वाः स्थानं ज्ञात्वा समर्चयेत् || ५७ || [निरुक्तचक्रसङ्केतज्ञानवैभवम्] नवधा चक्रसङ्केतं यो जानाति स साधकः | नवधा यो न जानाति कथं देवीं प्रपूजयेत् || ५८ || [निरुक्तश्रीचक्रज्ञानप्रशस्तिः] एतच्छ्रीचक्रराजं सकललिपिमयं सर्वदेवस्य वन्द्यं नित्यानन्दस्वरूपं भुवनवशकरं भोगमोक्षैकहेतुम् | क्रमेण पूजनीयानां नवचक्रेश्वरीणां नामानि निरूपयति - प्रथमेत्यादिना | योगिनीहृदये प्रथमपटलेऽपि निरुक्तक्रमेण नामान्यभिधाय - पूजयेच्च क्रमादेता नवचक्रे पुरोदिते | इत्युक्तम् | ५५-५७ | नवम इति | महात्रिपुरभैरवीत्यत्र महात्रिपुरसुन्दरीति योगिनीहृदये | समस्ता इति | आसामावरणशक्तीनां स्वस्वस्थाननामार्चाक्रमादीनि अष्टादशे वक्ष्यन्ते | प्. ५८२) शुद्धो भूत्वा लिखित्वा यदि पशुरहितो धारयेत् पूजयेद् वा सर्वा सिद्धिः करस्था भवति सुकृतिनस्तस्य सिद्धिः पराऽपि || ५९ || सर्वानन्दमयं समस्तजगतामेकाधिपं कामदं सर्वव्याधिनिराकरञ्च शुभदं ज्ञानप्रदं कीर्तिदम् | साक्षात् कल्पतरुं सुरासुरगणैः संवेष्टितं दृश्यते येनेदं स तु सर्वतीर्थगमनस्नानस्य पुण्यं लभेत् || ६० || [श्रीचक्ररहस्यनिरूपणप्रतिज्ञा] रहस्यं चक्रराजस्य कथयामि यथाक्रमम् | [त्रिकोणान्तर्बिन्दुरहस्यम्] मध्ये बिन्दुः शिवो ज्ञेयः सृष्टिसंहारकारकः || ६१ || बिन्दुमध्ये वसेन्नित्यं श्रीमत्त्रिपुरसुन्दरी | महाकामकला तत्र बिन्दुत्रितयरूपिणी || ६२ || [त्रिकोणरहस्यम्] त्रिकोणं त्रिपुरा चैव बाला त्रिपुरसुन्दरी | त्रिकोणरूपी रुद्रः स्यात्त्रिकोणत्वात् परा शिवा || ६३ || त्रिषु पञ्चदशी नित्या समया च चतुर्दशी | षडङ्गयुवती देवी तत्र पूर्वादितः स्थिता || ६४ ||
SK
६१-६२ | अथ श्रीचक्ररहस्यं वक्तुमुपक्रमते - रहस्यमित्यादिना | मध्ये सर्वसिद्धिप्रदाख्य - त्रिकोणमध्ये | बिन्दुः शिवात्मकः श्वेतबिन्दुः | बिन्दुमध्ये शिवात्मकसितबिन्दुमध्ये शोणविन्द्वात्मिका महाकामकला श्रीमत्त्रिपुरसुन्दरी विलसतीत्यर्थः | तां विशिनष्टि - बिन्द्वित्यादिना | बिन्दुत्रितयरूपिणी शिवशक्तिरूपं निरुक्तबिन्दुद्वयम्, तयोः समरसीभूतस्तृतीयो मिश्रबिन्दुः तत्त्रितयरूपिणीत्यर्थः | विशेषस्तु भूमिकायां द्रष्टव्यः | प्. ५८३) [अष्टाररहस्यम्] अष्टकोणेष्वष्टसिद्धिर्भूतयोऽष्टौ भवन्ति हि | जृम्भमोहवशस्तम्भपाशाङ्कुशधनुःशराः || ६५ || निवसन्ति तत्र नित्यं वशिन्याद्यष्टदेवताः || ६६ || [अन्तर्दशार-रहस्यम्] दशेन्द्रियाणि देहेषु संस्थितानि वसन्ति च | सर्वज्ञादिमहादेवाः संस्थिता दश देवताः || ६७ || एवं दिक्कोणसन्ध्यग्रप्राणा दशकला दश || ६८ || [बहिर्दशार-रहस्यम्] अपरं दशकोणन्तु दशदिक्पालदैवतम् | दिग्वातार्कप्रचेतोऽश्वि-वह्नीन्द्रोपेन्द्रमित्र-काः || ६९ || वैकारिकात्तु ते जाता दशसंख्याः प्रकीर्तिताः | सर्वसिद्ध्यादयस्तत्र सदा तिष्ठन्ति पूजिताः || ७० || [चतुर्दशाररहस्यम्] अनन्तरूपचक्रस्य तथा कोणचतुर्दश | चतुर्दशाङ्गशास्त्राणि भुवनानि चतुर्दश || ७१ || चतुर्दशारचक्रेषु संक्षोभण्यादिदेवताः | एको धर्मो गुणान् सूते अधर्मस्तु तथा मतः || ७२ || [अष्टदल-रहस्यम्] अष्टरूपाष्टपत्रेषु धर्मादीनि वसन्ति च | अनङ्गकुसुमादीनि बोध्यानि सततं बुधैः || ७३ || ६९ | मित्रका इति | मित्रस्तृतीयः सूर्यः इति राघवभट्टः | कः प्रजापतिः | कः प्रजापतिरुद्दिष्ट इत्येकाक्षरकोषः | प्. ५८४) [षोडशदल-रहस्यम्] षोडशच्छदचक्रेषु तिथयः षोडश स्मृताः | सर्वसौभाग्यदा नित्यं कामाकर्षणपूर्विकाः || ७४ || त्रिवृत्ते चन्द्रसूर्याग्नित्रिरेखाकारवर्तिनः || ७५ || शिवरेखा पूर्वसन्ध्या ब्रह्माणी ब्रह्मरेखगा | अणिमाद्या ब्रह्मरेखाः क्रमेण परिकीर्तिताः || ७६ ||
SK
चतुःषष्टिस्तथा कोटिः कोटिकोटिविभूतयः | योगिन्यो देवदेव्यश्च चक्रमाश्रित्य संस्थिताः || ७७ || अस्य प्रभेदाः कोणानां दलानान्तु प्रकीर्तिताः | [यन्त्रस्य परिमाणभेदाः] त्रिकोण(?)ञ्चैकतोलं वा चतुरङ्गुलिमानकम् || ७८ || तत्रैव लेखयेच्चक्रं चतुरस्रं सुशोभनम् | नवहस्तं द्विहस्तं वा तथैकहस्तमेव वा || ७९ || ७४-७७ | त्रिवृत्त इत्यादिना चक्रमाश्रित्य संस्थिता इत्यन्तेनोक्ता आवरणशक्तयोऽष्टादशे पूजाक्रमे ग्रन्थकृद्भिर्विशिष्य वक्ष्यन्ते | ७८-८० | अथ यन्त्रस्य मानभेदानाह-त्रिकोण(?)मित्यादिना यामलसम्मतमित्यन्तेन | अत्र त्रिकोणमिति पाठः प्रामादिक इति प्रतिभाति | चतुरस्रमिति वक्ष्यमाणेन विरोधादेकतोलं वेति वाशब्दवैयर्थ्यात् स्वच्छन्दभैरव-तन्त्रराजादिविरोधाच्च | तथाच तन्त्रसारधृत- स्वच्छन्दभैरवे - कुर्याच्च स्थण्डिले यन्त्रं हस्तमात्रं सुसुन्दरम् | रत्नादिषु तु निर्माणे मानमिच्छावशाद् भवेत् | प्. ५८५) लिखेद् यन्त्रं भूप्रदेशे रत्नादौ तु निजेच्छया | मूलमुच्चारयन् स्वस्थ इति यामलसम्मतम् || ८० || [बिन्दुचक्रे महाकामकलाया अवस्थितिः] त्रिकोणचक्रमध्ये तु महाकामकलां लिखेत् | कथितं परमं चक्रं त्रिषु लोकेषु दुर्लभम् || ८१ || प्रार्थयेद् यदि मोक्षन्तु मोक्षद्वारमिदं महत् | श्रीक्रमे परमं वस्तु कीर्तितं परमात्मना || ८२ || [श्रीचक्रोद्धारे दिङ्नियमः] उदङ्मुखो यदा मन्त्री चक्रराजं प्रपूजयेत् | उदीची दिक् तदा चैव पूर्वाशैव निगद्यते | ईशानन्तु तथाग्नेयं भवेदेवं न संशयः || ८३ || एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम् | इतोऽधिकं नरः कृत्वा प्रायश्चित्ती भवेद् ध्रुवम् | रक्तेन रजसापूर्य श्रीचक्रं भुवि पूजयेत् | नश्यन्ति सर्वविघ्नानि प्राप्यते वाञ्छितं फलम् | इति | तन्त्रराजे त्रयस्त्रिंशपटलेऽपि - नवहस्तं त्रिहस्तं वा श्रीचक्रमभिषेचने | कुर्यात् स्थण्डिलपूजायां हस्तमात्रेऽतिसुन्दरम् | रत्नादिषु तु निर्माणे मानमिच्छावशाद् भवेत् | सदा सुविहिते पूजा शुभान्यस्मिंस्तथाऽन्यथा |
SK
इति | एवञ्चैतेषु वचनेषु त्रितोलपरिमाणदर्शनादत्रापि त्रितोलमित्येव साधीयान् पाठ इति मन्तव्यम् | मूलमिति मूलमन्त्रमुच्चारयन् यन्त्रं लिखेदिति सम्बन्धः | ८१ | त्रिकोणचक्रमध्य इति | मध्यत्रिकोणचक्रस्य मध्ये बिन्दावित्यर्थः ८३ | अथेदानीं श्रीचक्रोद्धारे दिङ्नियमः प्रतिपाद्यते | तत्र च - तत्र प्राङ्मुख आसीनश्चक्रराजं समालिखेत् | इति ज्ञानार्णवदशमपटलवचनेन, प्. ५८६) ततः प्राङ्मुख आसीनश्चक्रोद्धारं समारभेत् | इति गन्धर्वतन्त्र-चतुर्थपटलवचनेन च श्रीचक्रनिर्माणे साधकस्य पूर्वदिङ्मुखत्वमुपदिष्टम् | तदिदानीं पूर्वां दिशमेव नियमयति- उदङ्मुख इत्यादिना | साधक उदङ्मुखः सन् चक्रनिर्माणाय प्रवृत्तश्चेत्तर्हि उत्तरदिश एव पूर्वदिक्त्वम्, ईशानस्याग्निकोणत्वम् | अनया रीत्या सर्वत्र दिङ्नियम इत्युत्तरवचनेभ्योऽवगन्तव्यम् | एतानि दिङ्नियमप्रतिपादकवचनानि क्वचिच्छ्रीचक्रोद्धारविषये क्वचन वा श्रीमत्त्रिपुरापूजनविषयेऽभिहितानि दृश्यन्ते | यथा ज्ञानार्णवे दशमपटले - उत्तराशामुखो मन्त्री यदा चक्रं समुद्धरेत् | उत्तराशा तदा देवि पूर्वाशैव निगद्यते || इत्यादि | एवमेव कौलावलीनिर्णयेऽपि | वचनमिदं चक्रोद्धारे दिङ्नियमप्रतिपादकम् | तथा गन्धर्वतन्त्रे सप्तमपटले - उत्तराभिमुखो भूत्वा यदा देवीं प्रपूजयेत् | उत्तराशा तदा देवि पूर्वाशैव न संशयः | ईशानमग्निकोणं स्याद्वायुकोणं तथेशकम् | दक्षिणाशा तदा ज्ञेया पश्चिमाशा महेश्वरि | राक्षसं वायुकोणं स्यादाग्नेयं राक्षसं भवेत् | इत्यादिवचनैः पूजायां दिङ्नियमः प्रतिपादितः | एवञ्च निरुक्तज्ञानार्णव- गन्धर्वतन्त्रादिवचनपर्यालोचनया श्रीचक्रोद्धारपूजनयोरुभयोरपि निरुक्तक्रमेण दिङ्नियमः कर्तव्य इति पर्यवस्यति | परन्तु - तत्र प्राङ्मुख आसीनश्चक्रोद्धारं समारभेत् इति प्रागुपदर्शित-गन्धर्ववचनेन चक्रोद्धारे प्राङ्मुखत्वनियमात् - दिग्विभागेषु कौबेरी दिक् शिवाप्रीतिदायिनी | तस्मात्तन्मुख आसीनः पूजयेत्त्रिपुरां सदा ||
SK
इति गन्धर्वतन्त्रसप्तमपटलवचनेन पूजने उत्तरास्यत्वनियमाच्च चक्रोद्धारे पूर्वदिङ्मुखत्वस्य पूजने चोत्तरास्यत्वस्य प्रशस्ततरत्वमिति बोध्यम् | नच दिग्विभागेष्वित्यादिवचनेन पूजने पूर्वास्यत्वमात्रं कल्प्यतामिति वाच्यम्, यदाशाभिमुखो मन्त्री त्रिपुरां परिपूजयेत् | देवीपश्चात्तदा प्राची प्रतीची त्रिपुरापुरः | इति गुप्तार्णवतन्त्रवचने यदाशाभिमुख इत्यनेन यत्किञ्चिद्दिङ्मात्राभिधानात्, प्. ५८७) पश्चिमाशा यदा मन्त्री चक्रराजं प्रपूजयेत् | प्रतीची दिक् तदा चैव पूर्वाशैव न संशयः | वायुकोणं तदाग्नेयमीशानं राक्षसं भवेत् || ८४ || दक्षिणाशामुखो मन्त्री यदा चक्रं प्रपूजयेत् | पूर्वाशैव तदा सा दिग् रक्षःकोणन्तु वह्निवत् || ८५ || आग्नेयन्तु तदेशानं वायुस्तु निर्-ऋतिर्भवेत् | बृहच्छ्रीक्रमतन्त्रस्य मतमेतत् प्रकीर्तितम् || ८६ || पुरन्दरमुखो मन्त्री पूजयेत्त्रिपुरां यदा | देवीपश्चात्तदा प्राची प्रतीची त्रिपुरापुरः | गुप्तार्णवमतेनापि दिग्विभागः प्रकीर्तितः || ८७ || [श्रीचक्रस्थापनाधारः] अथ सिंहासने मन्त्री श्रीचक्रं पुरतो न्यसेत् || ८८ || [सीसकादिषु चक्रस्थापननिषेधः] सीसके कांस्यपात्रे वा रङ्गे वा साधकोत्तमः | फलकायां पटे भित्तौ सथापयेन्न कदाचन || ८९ || स्थापितं यदि लोभेन मोहादज्ञानतोऽपि वा | कुलं वित्तमपत्यञ्च निर्मूलयति सर्वदा || ९० || उदङ्मुखो यदा मन्त्री चक्रराजं प्रपूजयेत् | इत्यादिमूलोक्तवचनेषु पूजने उत्तरास्यत्वादेर्व्यक्तमभिधानाच्च विरोधापत्तेः | तस्मात् चक्रोद्धारे प्राङ्मुखत्वस्य पूजने चोत्तरास्यत्वस्य प्रशस्ततरत्वं दिशामन्यासां प्रशस्तत्वमिति निष्कर्षः | प्. ५८८) [पीठपूजा] पीठपूजां ततः कुर्यादुपर्युपरिभावतः | मण्डूकं पूजयेदादौ रुद्रं कालाग्निरूपकम् || ९१ || आधारशक्तिं कूर्मञ्च तथाऽनन्तं वराहकम् | पृथ्वीं सुधासमुद्रञ्च रत्नद्वीपमतः परम् || ९२ || स्वर्णशैलं रत्नभूमिं नन्दनोद्यानमेव च | नानावृक्षमहोद्यानं तथैव कल्पवाटिकाम् || ९३ ||
SK
सन्तानवाटिकाञ्चैव हरिचन्दनवाटिकाम् | मन्दारवाटिकां पारिजातवाटीं समर्चयेत् || ९४ || कदम्बवनवाटीञ्च रत्नप्राकारकान् यथा | पुष्परागं पद्मरागं गोमेदं वज्रमप्यथ || ९५ || वैदूर्यमिन्द्रनीलञ्च मुक्तां मरकतं तथा | विद्रुमञ्चेति नवकान् रत्नप्राकारसंयुतान् || ९६ || माणिक्यमण्डपञ्चैव सहस्रस्तम्भमण्डपम् | अमृतवापिकामेवमानन्दवापिकां ततः || ९७ || विमर्षवापिकां बालातपोद्गारमतः परम् | चन्द्रिकोद्गारकं महाशृङ्गारपरिखामपि || ९८ || महापद्माटवीं कल्पवृक्षं संपूजयेन्नरः | ततश्चिन्तामणिगृहं रत्ननिर्मितवेदिकाम् || ९९ || ९१ | पीठपूजामाह - पीठपूजामित्यादिना समर्चयेदिति प्रकाशान्तेन | प्. ५८९) पूर्वाम्नायमयं पूर्वं द्वारं पूर्वे समर्चयेत् | दक्षिणे पश्चिमे सौम्ये तत्तदाम्नायमप्यथ || १०० || रत्नसिंहासनं श्वेतच्छत्रमूर्द्ध्वे प्रपूजयेत् | धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं चाग्नितो यजेत् || १०१ || अ- पूर्वान् पूजयेदेतान् दिक्षु पूर्वादितः क्रमात् | आत्मान्तरात्मपरमज्ञानात्मानः क्रमेण तु || १०२ || चक्रमध्यस्थपद्मञ्च कन्दं वसुदलं ततः | नालमूर्द्ध्वच्छदाधश्च तत्त्वरूपान्तु कर्णिकाम् || १०३ || मण्डलं वह्निसूर्येन्दो रजः सत्त्वं तमोऽपि च | ज्ञानमायाकलाविद्यातत्त्वान्यत्र प्रपूजयेत् || १०४ || गणेशं वटुकं मन्त्री सव्ये दक्षे प्रपूजयेत् | नामादिवर्णबीजानि चतुरस्रान्तरे पुनः || १०५ || ईशाग्न्यन्तञ्च मित्रीशनाथमुड्डीशनाथकम् | जालन्धराह्वयं पीठं पीठं पूर्णगिरिं ततः || १०६ || त्र्यस्रे संपूजयेन्मन्त्री क्रमेणानेन तत्परम् | पूर्वादिक्रमयोगेण फलके आसनस्य तु || १०७ || १०० | पूर्वेति | पूर्वद्वारे पूर्वाम्नायम्, एवं दक्षिणपश्चिमोत्तरेषु दक्षिणपश्चिमोत्तराम्नायान् क्रमेण पूजयेदित्यर्थः | एतेन पूर्वाम्नायमयपूर्वद्वाराय नमः दक्षिणाम्नायमयदक्षिणद्वाराय नम इत्यादिरूपः प्रयोग इत्यापतति | तन्त्रसारे तु पूर्वाम्नायपूर्वद्वाराय नम इत्यादिरूपः प्रयोग उक्तः |
SK
१०२ | अपूर्वानिति | अधर्ममज्ञानमवैराग्यमनैश्वर्यञ्चेत्यर्थः | १०५ | चतुरस्रेति | श्रीचक्रचतुरस्रान्तरे ईशानाद्यग्निकोणान्तं क्रमेण जालन्धरादिपीठचतुष्टयं पूजयेदित्यर्थः | प्. ५९०) पृथिव्याश्च पतिञ्चैव ब्रह्माणममृतेश्वरम् | विष्णुतेजोऽधिपं रुद्रं वार्यधीशं तथेश्वरम् || १०८ || मध्ये प्रासादमुच्चार्य वियत्पदमुदीरयेत् | ततोऽधिपतये प्रोच्य पञ्चवक्त्राय योजयेत् || १०९ || सदाशिवाय च महाप्रेतपद्मासनाय हृत् | यजेदासनमन्त्रेण सर्वासनमथापि वा || ११० || प्रेतबीजं समुच्चार्य सदाशिवमहापदम् | प्रेतपद्मासनायेति हृन्मनुर्मनुरीरितः || १११ || पूर्वोक्तेनैव मन्त्रेण तस्योपरि षडासनम् || ११२ || तस्योपरि यजेन्मन्त्री प्रसूनतुलिकामपि | कामेश्वरं तथा कामेश्वरीमूर्तिं समर्चयेत् || ११३ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ सप्तदशः प्रकाशः || १७ || १०९-११० | प्रासादेति | हौं वियदधिपतये सदाशिवाय महाप्रेतपद्मासनाय नम इति प्रयोगः | १११ | प्रेतेति | प्रेतबीजं हसौरिति | तथा च हसौः सदाशिवमहाप्रेतपद्मासनाय नम इति प्रयोगः | अष्टादशः प्रकाशः [सामान्यार्घ्यस्थापनादिविसर्जनान्तसपर्याक्रमः] [सामान्यार्घ्यस्थापनम् (तत्र मण्डलम्)] विधाय वामभागे तु त्रिकोणवृत्तभूपुरम् | अथवा चतुरस्रन्तु जलेन परिकल्पयेत् || १ || चतुरस्रन्तु तत् कुर्यात्त्रिकोणद्वयसंयुतम् | [शङ्खाधारस्थापनम्] आधारं तत्र संस्थाप्य पूजयेद् वह्निमण्डलम् || २ || आधारेण विना पूजा निष्फला परिकीर्तिता | [आधारभेदाः] आधारं विविधञ्चैव षट्पदं वा चतुष्पदम् || ३ || १ | एवं पूर्वप्रकाशे चक्रसङ्केतमभिधाय पूजासङ्केतमभिदधानः प्रथमं सामान्यार्घ्यस्थापनपरिपाटीमाह-विधायेत्यादिना | त्रिकोणेति | आदौ त्रिकोणं तद्बहिर्वृत्तं तद्बहिर्भपुरं चतुरस्रमित्यर्थः | अत्र त्रिकोणमधोमुखं कार्यं शक्तिविषयत्वात् | तदुक्तं तारारहस्यधृतरुद्रयामले -
SK
यत्र यत्र महाविद्या शक्तिविद्या उपासिता | तत्र तत्र त्रिकोणञ्च अधोमुखमुदीरितम् | देवत्रिकोणे कर्तव्ये ऊर्द्ध्वं तत् परिकीर्तितम् | इति | कल्पान्तरमाह - अथवेति | जलेन चतुरस्रं परिकल्प्य तदन्तस्त्रिकोणद्वयं कुर्यादित्यर्थः | प्. ५९२) अथवा वर्तुलाकारं त्रिकोणं वा समाचरेत् | सुवर्णरूप्यरचितं त्रिपदं वाऽपि पूजयेत् || ४ || [मन्त्रोपदेशः] बीजोक्तौ तदनुक्तौ वा मायाश्रीपूर्वमर्चनम् | मन्त्रानुक्तौ नाममन्त्रं सर्वत्रैवोपयोजयेत् || ५ || [पादुकामन्त्रप्रयोगः] श्रीपादुकाख्यमन्त्रन्तु दद्यादन्ते यथाक्रमम् || ६ || [वह्नेर्दशकलाः] धूम्रा च नीलवर्णा च कपिला विस्फुलिङ्गिनी | ज्वाला हैमवती कव्यवाहिनी हव्यवाहिनी | रौद्री सङ्कर्षिणी वह्नेरेताः कलाः परा यथा || ७ || ५ | त्रिपदं वाऽपि पूजयेदित्युक्तं तत्पूजामन्त्रं निर्दिशति - बीजोक्ताविति | मायाबीजं ह्रीं, श्रीबीजं श्रीं | तथा च ह्रीं श्रीं मं वह्निमण्डलाय दशकलात्मने अर्घ्यपात्राधाराय नम इति प्रयोगः | तन्त्रसारकारस्तु निरुक्तमायाबीजात् पूर्वं वाग्भवबीजस्यापि योजनया त्रितारीप्रयोगमुपदिदेश | त्रिपुरार्चनरहस्ये तु मूलमन्त्रानन्तरं श्रीमहात्रिपुरसुन्दरीसामान्यार्घ्याधारमण्डलाय नम इति मण्डलं संपूज्य ॐ दशकलात्मनेऽग्निमण्डलाय श्रीमहात्रिपुरसुन्दरीसामान्यार्घ्याधाराय नम इत्यर्घ्याधारपूजाक्रम उक्तः, तत्र माया-श्रीबीजयोरुल्लेखो न दृश्यते | मन्त्रानुक्ताविति | नाममन्त्रं तत्तद्देवतानामरूपं मन्त्रमित्यर्थः | अत्र विशिष्यानुक्तावपि नाम्नः प्रणवपूर्वकत्वमवगन्तव्यम् | व्यक्तमाह दुर्गापूजातत्त्वधृतयोगियाज्ञवल्क्य- ब्रह्मपुराणयोः - ध्यात्वा प्रणवपूर्वन्तु दैवतन्तु समाहितः | नमस्कारेण पुष्पादि विन्यसेत्तु पृथक् पृथक् || तथा- ॐकारादिसमायुक्तं नमस्कारान्तकीर्तितम् | स्वनाम सर्वदेवानां मन्त्र इत्यभिधीयते || इति | ६ | श्रीपादुकेति | प्रथमं देवतानाम ततः श्रीपादुकां पूजयामि नम इति पादुकामन्त्रः |
SK
७ | एवमाधारं तत्रेत्यादिना वह्निमण्डलपूजामुपदिश्य तत्रैव वह्निकलार्चामुपदिशति - धूम्रा चेत्यादिना | योगिनीहृदयटीकाधृतस्वच्छन्दसंग्रहेऽपि - प्. ५९३) [तत्र कल्पान्तरम्] धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी | सुश्रीः सुरूपा कपिला हव्यकव्यवहे तथा | आभिर्वा पूजयेद् वह्निं यादिक्षान्तादिभिः क्रमात् || ८ || षट्कोणान्तस्त्रिकोणे तु वह्निबिम्बं कलायुतम् | आवाह्याऽऽधारतो देवि पूजयेन्मन्त्रवित्तमः || इत्युक्तम् | यद्यप्यत्र वचने षट्कोणान्तस्त्रिकोण इत्यनेन विशेषार्घ्यस्थापन एव वह्न्यादिकलानामर्चनमुपदिष्टं न तु सामान्यार्घ्यस्थापनावसरे, त्रिपुरार्चनरहस्य- कौलावलीनिर्णय-तन्त्रसारादिष्वपि तथैव दृश्यते, तथाऽपि मूले तद्वैपरीत्येन सामान्यार्घ्यस्थापन एव वह्न्यादिकलापूजनोपदेशाद् विशेषार्घ्ये तदनभिधानाच्चाऽगमान्तरसम्मतोऽयं क्रमो मूलकृद्भिः परमहंसपादैः परिगृहीत इति प्रतिभाति | धूम्रेति | धूम्रादिसङ्कर्षिण्यन्ता वह्नेर्दश कला इत्यर्थः | ८ | कल्पान्तरमाह-धूम्रार्चिरिति | तथाचैतत्कल्पे धूम्रार्चिराद्याः कव्यवहान्ता दश कला इत्यर्थः | अत्र तन्त्रसारादिषु नाम्नां क्रमभेदः स्वरूपभेदश्च दृश्येते | आभिर्वेति | वाशब्दः कल्पान्तरबोधकः | आभिर्धूम्रादिभिः धूम्रार्चिरादिभिर्वेति सम्बन्धः | आभिरिति विशेषयति-यादिक्षान्तादिभिरिति | यकारादिक्षकारान्तदशवर्णानामेकैकमादौ नियोज्य नमोऽन्तेन पूजयेदित्यर्थः | अत्र यकारादिवर्णाः सबिन्दुका ग्राह्याः | तथा च कौलावलीनिर्णये षष्ठोल्लासे धूम्रार्चिरित्याद्यभिधाय - यादिसेन्दुक्षकारान्ता अब्जाद्याः परिकीर्तिताः | ङे-युता वै नमोऽन्ताश्च कला वह्नेरितीरिताः ||
SK
इत्यनेनानुस्वारयुक्तत्वं यकारादीनामुक्तम्, अब्जाद्या इत्यनेन श्रीबीजपूर्वकत्वमप्युक्तम्, एतेनैतन्मते श्रीं यं धूम्रायै नम इति प्रयोगक्रमः पर्यवस्यति | मूलकृन्मते तु बीजोक्तौ तदनुक्तौ वा मायाश्रीपूर्वमर्चनम् इति प्रागुक्तवचनानुसारेण ह्रीं श्रीं यं धूम्रायै नम इत्यादिरूपः प्रयोग इति प्रतिभाति | तन्त्रसारकृता तु यादीनां पूर्वं त्रितारीप्रयोग उक्तः | योगिनीहृदयटीकाधृतस्वच्छन्दसंग्रहेऽपि - प्. ५९४) [कलानामासां स्वरूपम्] तरुणारुणसङ्काशा वराभयकरा इमाः | [तत्र सकल-वह्निमण्डलार्चाक्रमः] उदरार्ण वाग्भवं वा दत्त्वा तन्मण्डलं यजेत् || ९ || यादिक्षान्तात्मवर्णानि कला वह्नेर्महेश्वरि | एताः कलाः समभ्यर्च्य स्वस्ववर्णैर्यथाविधि || स्वबीजाद्याश्चतुर्थ्यन्ता नाममध्या नमोऽन्तिकाः | प्रोक्ता वह्निकला मन्त्रनामानि शृणु साम्प्रतम् || धूम्रार्चिर्नीलरक्ता च कपिला विस्फुलिङ्गिनी | ज्वालामालिन्यर्चिष्मती तदूर्ध्वं हव्यवाहिनी | अष्टमी कव्यवाहा च रौद्री संवाहिनी तथा || इति वचने स्वबीजाद्या इत्यनेन श्रीबीजाद्यं वा मायाश्रीबीजाद्यं वा वाग्भव- मायाश्रीबीजरूपत्रितारीपूर्वकत्वं वाऽभिप्रेतमिति संक्षेपः | ९ | निरुक्तानां वह्निकलानां स्वरूपमाह - तरुणेति | नवोदितसूर्यसवर्णाः | वराभयकराः एकेन करेण वरमपरेण चाभयं दधत्य इत्यर्थः | पूर्वं पूजयेद् वह्निमण्डलम् इत्युक्तम्, तद्वह्निमण्डलपूजाक्रममुपदिशति-उदरार्णमित्यादिना | उदरार्णं मं वाग्भवं ऐं इति बीजं वा दत्त्वा तन्मण्डलं वह्निमण्डलं यजेदित्यर्थः | एवञ्च निरुक्तयोर्बीजयोरन्यतरदुच्चार्य वह्निमण्डलाय दशकलात्मने अर्घ्यपात्राधाराय नमः इत्यनेन पूजयेदिति बोध्यम् | व्यक्तमाह कौलावलीनिर्णये षष्ठपटले - पूर्ववन्मण्डलं कृत्वा संपूज्य तेन वर्त्मना | आदौ सेन्दुं महाकालं वह्निमण्डलं ङेयुतम् | हृदन्तं मन्त्रमुच्चार्य आधारे पूजयेत्ततः | इति | महाकालं मकारम् | तत्रापि ज्ञानार्णवे चतुर्दशपटले - वह्निं तत्र विचिन्त्याथ पूजयेद् यन्त्रिकामयम् |
SK
इत्यभिधानाद् अर्घ्यपात्राधाराय नम इत्याधारपात्रपदोल्लेखः कार्यः | त्रिपुरार्चनरहस्यादिप्रामाणिकपूजाप्रयोगेष्वपि तथैव दृश्यते | प्. ५९५) [सकल-सूर्यमण्डलार्चा] पात्रं निधाय तत्रैव कलाभिः सूर्यमर्चयेत् | [द्वादश सौरकलाः] तपिनी तापिनी चान्या विबुधा बोधिनी तथा || १० || कलिनी षोडशी चैव वारुण्याकर्षिणी तथा | माया विश्वावती हेम(अ)*प्रभा एताः कला रवेः || ११ || [तत्र प्रकारान्तरम्] तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः | सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा | यजेदाभिः कलाभिर्वा तत्तन्मन्त्रेण साधकः || १२ || १०-११ | अथ सकल-सूर्यमण्डलपूजनमुपदिशति-पात्रमित्यादिना | तत्रैवेति प्रागुक्तषट्पदाद्यन्यतमाधारे इत्यर्थः | व्यक्तमाह कौलावलीनिर्णये षष्ठोल्लासे - एषामन्यतमं पात्रं स्थापयेत्त्रिपदोपरि | इति | अत्रापि पूर्ववन्मण्डलमालिख्य संपूज्य च सूर्यमण्डलमर्चयेदिति ज्ञेयम् | तथाचोक्तं तत्रैव विशेषार्घ्यप्रकरणे - पूर्ववन्मण्डलं कृत्वा पूजयेत् पूर्ववर्त्मना | सूर्यस्य मण्डलं तत्र चिन्तयित्वाऽथ पूजयेत् || इति | द्वादश सूर्यकला निरूपयति-तपिनीत्यादिना | तापिन्याद्याः प्रभान्ता रवेर्द्वादश कलाः | १२ | कल्पान्तरमाह-तपिनीत्यादिना | कल्पेऽस्मिंस्तपिन्याद्याः क्षमान्ता द्वादश प्. ५९६) [कलार्चाक्रमः] कादि-ठान्तान् बिन्दुयुतान् भादि-डान्तान् सबिन्दुकान् | अन्योऽन्यक्रमयोगेण कलादौ योजयेत् क्रमात् || १३ || [कलानां स्वरूपम्] वराभयकराः सर्वा अतसीपुष्पसोदराः | [सौरमण्डलार्चाक्रमः] ललाटं कामबीजं वा संयोज्य मण्डलं रवेः || १४ || सूर्यकलाः | कौलावलीनिर्णये षष्ठप्रकाशेऽयमेव क्रमः परिगृहीतो दृश्यते | यजेदिति तपिन्यादिप्राभान्ताभिः तपिन्यादिक्षमान्ताभिर्वा यजेदित्यर्थः | तत्तन्मन्त्रेणेति पूर्ववन्माया-श्रीबीजादिपूर्वकमन्त्रेणेत्यर्थः |
SK
१३ | तत्राऽदौ वर्णयोजनमाह-कादीत्यादिना | कादि-ठान्तान् ककारादिठकारान्तान् तथा भादि-डान्तान् भकारादि-डकारान्तान् विलोमपरिपठितान् बिन्दुयुक्तान् निरुक्तानां द्वादशकलानामादौ योजयेदित्यर्थः | एवञ्च प्रागुक्तक्रमेण बीजमुच्चार्य कं भं तपिन्यै नमः, खं मं तापिन्यै नम इत्यादिरूपः प्रयोगक्रमः पर्यवस्यति | व्यक्तमाह योगिनीहृदयटीकाधृतस्वच्छन्दसंग्रहे - अस्त्रप्रक्षालितं शङ्खं स्थापयित्वा तथोपरि | हृदयात् सूर्यबिम्बञ्च समावाह्य स्वमन्त्रतः || कादि-ठान्तं भादि-डान्तं वर्णजातं क्रमोत्क्रमात् | द्वयं द्वयं प्रयोक्तव्यं कलाश्च तदनन्तरम् || इति | अत्रापि कौलावलीनिर्णय-योगिनीहृदयादिषु पूर्ववत् कलानां नामभेदः स्वरूपभेदश्च दृश्येते | १४ | कलानामासां स्वरूपमाह-वराभयेति | सर्वा एव एकेन हस्तेन वरमपरेण चाभयं दधत्यः | अतसीपुष्पसोदराः अतसीपुष्पसवर्णाः | पूर्वं कलाभिः सूर्यमर्चयेदित्युक्तम्, तत्क्रममुपदिशति-लालाटमिति | लालाटम् अं, कामबीजं क्लीं | बीजयोरेतयोरन्यतरमादौ संयोज्य रवेर्मण्डलं पूजयेदित्यर्थः | पूजाक्रममाह कौलावलीनिर्णये षष्ठपटले - प्. ५९७) [अर्घ्यपात्रापूरणम्] तीर्थोदकेन शुद्धेन पूरयेन्मूलमुच्चरन् | [सोमकलार्चोपदेशः] प्रणवेन गन्धपुष्पे दत्त्वा सोमकलार्चनम् || १५ || [षोडश सोमकलाः] अमृता मानसी तुष्टिः पुष्टिः प्रीती रतिस्तथा | श्रीश्च ह्रीश्च स्वधा रात्रिर्ज्योत्स्ना हैमवती तथा || १६ || छायाऽन्या पूर्णिमा विद्या अमावास्या च षोडशी | आभिर्वा पूजयेत् सोमं पराभिर्वा यथाक्रमात् || १७ || मण्डलं पूर्ववत् कृत्वा पूजयेत् पूर्ववर्त्मना | सूर्यस्य मण्डलं तत्र चिन्तयित्वाऽथ पूजयेत् | स्वराद्यं बिन्दुसहितमर्कमण्डलं ङेयुतम् | नमोऽन्तं मन्त्रमुच्चार्य पूजयित्वाऽर्घ्यपात्रकम् | कलाः संपूजयेत्तत्र भानोर्द्वादशसंज्ञकाः | इति | एवञ्च ललाटकामबीजयोरन्यतरमुच्चार्य अं अर्कमण्डलाय द्वादशकलात्मने अर्घ्यपात्राय नम इति प्रयोगः |
SK
१५ | अथार्घ्यपात्रस्याऽपूरणादिकमाह-तीर्थेत्यादिना | पूरयेत् अर्घ्यपात्रमिति शेषः | मूलमुच्चरन्नित्यन्तर्भूतण्यर्थः उच्चारयन्नित्यर्थः | ततस्तत्र प्रणवेन गन्धपुष्पादिकं निक्षिप्य सोमकलार्चनं सोममण्डलार्चनं कुर्यादित्यर्थः | तदुक्तं स्वच्छन्दसंग्रहे - एलालवङ्गकक्कोलजातीफलसुसंयुतान् | सुगन्धिकुसुमैर्द्रव्यैः सह तस्मिञ् जले क्षिपेत् | नवयोनिं समालिख्य पूर्ववज्जलमध्यतः | निशुद्धितः समावाह्य चन्द्रमण्डलमर्चयेत् | इति | १६-१७ | अथ षोडश सोमकलास्तत्पूजनञ्चोपदिशति-अमृतेत्यादिना | अमृताद्या अमावास्यान्ताः षोडश कलाः | आभिर्निरुक्ताभिः कलाभिः | कल्पान्तरमवतारयति-पराभिर्वेति, वक्ष्यमाणाभिर्वेत्यर्थः | प्. ५९८) [तत्र प्रकारान्तरम्] अमृता मानदा पूषा तुष्टिः पुष्टी रतिधृतिः | शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा || १८ || पूर्णा पूर्णामृता कामदायिन्यः स्वरगाः कलाः | [सोमकलानां स्वरूपम्] तरुणारुणसङ्काशा वराभयकराः स्मृताः || १९ || [कलार्चाक्रमः] पश्चिमादिक्रमेणापि कलाः सर्वाः प्रपूजयेत् | [सोममण्डलार्चा] शक्त्यर्णं दक्षकर्णं वा नियोज्य मण्डलं विधोः || २० || [आनन्दभैरवयोः पूजनम्] आनन्दभैरवं देवमानन्दभैरवीमपि | १८-२० | ता एवाऽह-अमृतेति | कल्पेऽस्मिन् अमृताद्याः पूर्णामृतान्ताः कामदायिन्यः वाञ्छितार्थप्रदाः षोडश कलाः, एताः पूजयेदित्यर्थः | अयमेव कल्पः समानानुपूर्वीकवचनेन प्रतिपादितः कौलावलीनिर्णये | स्वरगाः अकारादि-षोडश-स्वरगताः कला इत्यर्थः | अत्र स्वरजाः कला इत्युक्तं कौलावलीनिर्णये | एवञ्चाकारादिषोडशस्वराणामेकैकमादौ नियोज्य एकैकमर्चयेदिति बोध्यम् | व्यक्तमाह योगिनीहृदयटीकाधृतस्वच्छन्दसंग्रहे - आदिकाद्यन्तिकाः सौम्याः कलाः षोडश कीर्तिताः |
SK
इति | बीजयोगश्च पूर्ववत् | एवञ्च पूर्ववद् बीजमुच्चार्य अं अमृतायै नमः | आं मानदायै नम इत्यादिरूपः प्रयोगक्रमः पर्यवस्यति | कलानामासां स्वरूपमाह - तरुणेति | स्पष्टम् | पश्चिमादिक्रमेण वृत्ताकारेण पूजयेत् | तन्त्रसारेऽप्येवमेव | अथ चन्द्रमण्डलपूजाक्रममाह-शक्त्यर्णमिति | शक्त्यर्णं सौः इति, दक्षकर्णम् उं | बीजयोगः पूर्ववत् | एवञ्च निरुक्तबीजमुच्चार्य उं सोममण्डलाय षोडशकलात्मने अर्घ्यपात्रामृताय नम इति प्रयोगः | २१-२२ | अथाऽनन्दभैरवानन्दभैरव्योस्तत्र पूजामुपदिशति - आनन्देत्यादिना | प्. ५९९) [आनन्दभैरवमन्त्रः] शिवसोमौ मातृकान्तं कालभूवरुणानलम् || २१ || वामकर्णसमायुक्तं वायुमर्धेन्दुमण्डितम् | आनन्दभैरवायेति शिखामन्त्रं ततो वदेत् || २२ || आनन्दभैरवः सोम(?) आनन्दभैरवीं शृणु | [आनन्दभैरवीमन्त्रः] पूर्ववद् वर्णमालिख्य चन्द्रं हित्वादिमं नयेत् || २३ || कर्णे वामाक्षि संयोज्य सुधादेव्यै मनुं दृशोः | [अर्घ्ये जपक्रमः] अस्योपरि जपेन्मूलं तारं वा सप्तधा बुधः || २४ || आदावानन्दभैरवं तत आनन्दभैरवीं, प्रपूजयेदिति पूर्वेण सम्बन्धः | तत्राऽनन्दभैरवमन्त्रमाह-शिवेत्यादिना | शिवो हकारः, सोम�स्चन्द्रबीजं सकारः, मातृकान्तं क्षकारः, कालो मकारः, भूः पृथ्वीबीजं लकारः, वरुणबीजं वकारः, अनलं वह्निबीजं रकारः, वायुबीजं यकारः, तच्च वायुबीजं वामकर्णेन षष्ठस्वरेण समायुक्तं तथा अर्धेन्दुना अनुस्वारेण मण्डितम् | एवञ्च ह स क्ष म ल व र यूं इति प्राप्तम् | तत आनन्दभैरवायेति | ततश्च शिखामन्त्रं वषट् इति | एवँच ह स क्ष म ल व र यूं आनन्दभैरवाय वषडित्यानन्दभैरवमन्त्रः पर्यवस्यति |
SK
२३-२५ | आनन्दभैरवमन्त्रमुपसंहरति-आनन्देति | अत्र सोम इति प्रामादिकः पाठः, प्रोक्त इत्येव समीचीन इति प्रतिभाति | अथाऽनन्दभैरवीमन्त्रमाह-आनन्दभैरवीमित्यादिना | पूर्ववदानन्दभैरवक्रमेण हकारादिवर्णाष्टकमालिख्येत्यर्थः | चन्द्रं हित्वा द्वितीयवर्णं सकारं उल्लङ्घ्य आदिमं हकारं नयेत् द्वितीयाक्षरात् सकारात् परतः प्रयुञ्जीतेत्यर्थः, अनेन ह स इत्यत्र स ह इति प्राप्तम् | तथा कर्णे निरुक्तमन्त्रस्थ वामकर्णस्थाने वामाक्षि चतुर्थस्वरं संयोज्य | अनेन यूं इत्यत्र यीं इति प्राप्तम् | ततः सुधादेव्यै इति | ततश्च दृशोर्मनुं वौषडिति पदं योजयेदिति शेषः | एवञ्च ह स क्ष म ल व र यीं प्. ६००) [उपसंहारः] सामान्यार्घ्यमिदं प्रोक्तं [विशेषार्घ्यनिरूपणप्रतिज्ञा] विशेषार्घ्यमथोच्यते || २५ || [श्रीपात्रकल्पना] गृहीत्वाज्ञां महादेव्याः श्रीपात्रं परिकल्पयेत् | [मण्डलनिर्माणम्] आत्मश्रीचक्रयोर्मध्ये मण्डलं रचयेद् यथा || २६ || ईकारेणान्वितं त्र्यस्रं षडस्रं वृत्तभूपुरे | त्र्यस्रबाह्येऽथवा वृत्तं तदभ्युक्षेत्तदम्बुना || २७ || सुधादेव्यै वौषडित्यानन्दभैरवीमन्त्रः पर्यवस्यति | अस्येति | अस्य सामान्यार्घ्यस्योपरि मूलमन्त्रं तारं प्रणवं वा सप्तधा जपेदित्यर्थः | सामान्यार्घ्यमुपसंहरति- सामान्येति | एवं सामान्यार्घ्यपरिपाटीमभिधाय विशेषार्घ्यस्थापनप्रक्रियामभिधत्ते - विशेषार्घ्यमित्यादिना | २६-२७ | अथ पात्रस्थापनयोग्यमण्डलनिर्माणस्थानमुपदिशति-आत्मेति | आत्मश्रीचक्रयोर्मध्ये आत्मनः श्रीचक्ररूपाया देवतायाश्च मध्यवर्तिन्यां भूमौ मण्डलं वक्ष्यमाणक्रमेण रचयेदित्यर्थः | तदुक्तं कौलावलीनिर्णये षष्ठपटले - आत्मदेवीद्वयोर्मध्ये भूमौ चक्रं लिखेत्ततः | इति | मण्डलरचनापरिपाटीमाह - ईकारेणेति | ईकारेणान्वितमीकारगर्भं त्रिकोणम् | कौलावलीनिर्णये षष्ठपटलेऽपि - मध्ये मायां समालिख्य प्रोक्षयेत्तदनन्तरम् |
SK
इति | तत्रापि मायापदेन चतुर्थस्वर एव बोध्यः | एवञ्च चतुर्थस्वरगर्भं त्रिकोणं तद्बहिः षट्कोणं तद्बहिर्वृत्तं तद्बहिश्चतुरस्ररूपं भूपुरम् इत्येको मण्डलरचनाकल्पः | कल्पान्तरमाह-त्र्यस्रेति | अथवा प्रागुक्तत्र्यस्रबाह्ये वृत्तं विदधीत | एवञ्चात्र कल्पे आदावीकारगर्भं त्रिकोणं तद्बहिर्वृत्तं तद्बहिःषट्कोणं तद्बहिश्चतुरस्रमिति विशेषः | एवं मण्डलरचनायां कल्पद्वयमन्यत्रापि दृश्यते | यथा कौलावलीनिर्णये षष्ठपटले- प्. ६०१) [तत्र पीठचतुष्टयाद्यर्चा] चतुरस्रे पूर्णशैलमुड्डीयानाभिधं परम् | जालन्धरं कामरूपं षट्कोणेषु षडासनम् || २८ || [षट्कोणार्चायां विकल्पः] षडङ्गं पूजयेद् वाऽपि तत्तन्मन्त्रमुदीरयन् | [त्रिकोणाद्यर्चा] त्रिकोणञ्च त्रिभिः कूटैर्मध्य आधारशक्तिकाम् || २९ || आत्मदेवीद्वयोर्मध्ये भूमौ चक्रं लिखेत्ततः | त्रिकोणञ्चैव षट्कोणं वृत्तं भूगृहसंयुतम् || इति | वचनमिदं पूर्वकल्पप्रतिपादकम् | तथा ज्ञानार्णवे चतुर्दशपटले- त्रिकोणवृत्तषट्कोणं चतुरस्रन्तु मण्डलम् | इति | वचनमिदमुत्तरकल्पप्रतिपादकम् | एवञ्च तन्त्रभेदेन कल्पभेददर्शनात् स्वस्वगुरुसंप्रदायानुसारेणैकतरः पक्षः समाश्रयणीय इति दिक् | तदिति | तन्मण्डलं तदम्बुना सामान्यार्घ्यजलेनाभ्युक्षेदित्यर्थः | व्यक्तमुक्तं कौलावलीनिर्णये षष्ठपटले- मध्ये मायां समालिख्य प्रोक्षयेत्तदनन्तरम् | अस्त्रान्तमूलमन्त्रेण सामान्यार्घ्यजलेन च || इति | २८ | अथ प्रागुक्तमण्डले चतुरस्रादिक्रमेण पूजनमुपदिशति-चतुरस्र इत्यादिना | चतुरस्रे पूर्णशैलादिपीठचतुष्टयमर्चयेत् | पूजनञ्च पूर्वादिक्रमेण, तदुक्तं कौलावलीनिर्णये षष्ठपटले - चतुरस्रे पूर्णशैलमुड्डीयानं जलन्धरम् | पूजयेत् कामरूपञ्च पूर्वादिक्रमयोगतः |
SK
इति | अथ निरुक्तचतुरस्रान्तःषट्कोणे पूजनमाह -षडिति | षट्कोणेषु षडासनं पूजयेदिति परेण सम्बन्धः | षडासनानि च अमृतार्णवासन- पोताम्बुजासनात्मासनचक्रासनसर्वमन्त्रासनसाध्यसिद्धासनानि त्रिपुरार्चनरहस्ये व्यक्तमुक्तानि वेदितव्यानि | प्रयोगस्तु ह्रीं श्रीमिति द्वितारीं ऐं ह्रीं श्रीमिति त्रितारीं वोच्चार्य अमृतार्णवासनाय नमः इत्यादिरूपः | २९ | कल्पान्तरमाह - षडङ्गमिति | व्यक्तमाह ज्ञानार्णवे चतुर्दशपटले - प्. ६०२) त्रिकोणवृत्तषट्कोणमाधारं पूर्वमेव वा | [मण्डलेऽर्घ्याधारस्थापनक्रमः] हृदा प्रोक्षितमाधारं स्थापयेन्मण्डलोपरि || ३० || [आधारार्चा] बालात्रिबीजं त्रिपुरसुन्दर्यर्घ्यासनं वदेत् | साधयामि नमोऽन्तेन मनुनाधारमर्चयेत् || ३१ || प्रपूज्य पूर्ववद् वह्नेः कलान्तमन्त्रमुच्चरन् | स्याद् वह्निमण्डलायेति रूपं दशकलात्मने || ३२ || अर्घ्यपात्रासनायेति हृदाधारे समर्चयेत् | षट्कोणेषु षडङ्गानि व्यस्तैर्मध्ये शिवां मनोः || ३३ || द्विरावृत्त्या षडङ्गानि षट्कोणेषु प्रपूजयेत् | इति | एवञ्चाग्न्यादिक्रमेण प्रथमं वाग्भवकूटं ततः कामराजकूटं ततः शक्तिकूटं पुनरपि निरुक्तवाग्भवादिकूटत्रयमुच्चार्य पूजयेदित्यर्थः | तन्त्रसारकारैरपि अग्न्यादिक्रमेण षट्कोणे मूलविद्यया द्विरावृत्त्या षडङ्गानि पूजयेदित्युक्तम् | त्रिपुरार्चनरहस्येऽप्येवमेव | तत्तन्मन्त्रमुदीरयन्नित्यस्याप्ययमेवाभिप्रायो ज्ञानार्णवतन्त्रसारादिसंवादेनावगम्यते | अन्तस्त्रिकोणपूजनमाह-त्रिकोणेति | त्रिभिः कूटैर्व्यस्तकूटत्रयेणेत्यर्थः | ज्ञानार्णवे चतुर्दशपटलेऽपि - व्यस्तकूटैर्यजेत्तत्र त्रिकोणे परमेश्वरि | इत्युक्तम् | मध्य इति | त्रिकोणमध्ये आधारशक्तिं पूजयेदित्यर्थः | ३० | हृदा नम इत्यनेन | ३१ | अथार्घ्यपात्राधारार्चामन्त्रमाह - बालेति | तथाच ऐं क्लीं सौः त्रिपुरसुन्दर्यर्घ्यासनं साधयामि नम इति मन्त्रः पर्यवस्यति |
SK
३२-३३ | पूर्ववदिति | सामान्यार्घ्योक्तक्रमेण वह्नेर्दशकलाः संपूज्य वह्निमण्डलाय दशकलात्मने अर्घ्यपात्रासनाय नम इत्याधारे समर्चयेदित्यर्थः | प्. ६०३) [अर्घ्यपात्रनिर्णयः] पात्रं काञ्चनकाचरूप्यजनितं मुक्ताकपालोद्भवं विश्वामित्रमयञ्च कामदमिदं हैमं प्रियं स्फाटिकं | ताम्रं प्रीतिदमष्टसिद्धिजनकं श्रीनारिकेलोद्भवं कापालं स्फुटमन्त्रसिद्धिजनकं मुक्तिप्रदं मौक्तिकम् || ३४ || शङ्खम् अलावुपात्रञ्च तथा पुण्यतरूद्भवम् | मृन्मयं ताम्रजं वाऽपि तथा लोहसमुद्भवम् || ३५ || पुरा वै निर्मितं पात्रं विश्वामित्रेण धीमता | विश्वामित्रकपालञ्च सर्वपात्रोत्तमोत्तमम् || ३६ || ब्रह्महत्यादिपापानि तथा विश्वासघातकम् | दृष्ट्वा पात्रं नारिकेलं सर्वपापं प्रणश्यति || ३७ || कल्पकोटिप्रदानानि तथा हेमशतानि च | यो ददाति मुनीन्द्राय राहुग्रस्ते निशाकरे || ३८ || तत्फलात् कोटिगुणितं नारिकेलार्घ्यपात्रतः | अभावे तस्य पात्रस्य पात्रमन्यत् प्रकल्पयेत् || ३९ || दृष्ट्वार्घ्यपात्रं परमं ब्रह्माद्या देवताः सदा | नृत्यन्ति सर्वयोगिन्यः प्रीत्या सिद्धिं ददात्यलम् || ४० || [कामनाभेदेन पात्रभेदाः] वश्याकर्षणकार्ये तु हेमपात्रं प्रशस्यते | शान्तिके पौष्टिके चैव राजतं कारयेद् बुधः || ४१ || ४१ | पात्रभेदेन फलभेदमाह हरतत्त्वदीधितिधृतशिवरहस्ये - हेमपात्राणि सर्वाणि गृहीतानि भवन्तु मे | अर्घ्यं दत्त्वा तु रौप्येण लोके पूज्यसुता/ल्लभेत् || प्. ६०४) लौहपात्रं विजानीयान्मारणोच्चाटने तथा | स्तम्भकार्येषु पाषाणं विद्वेषे लौहमृन्मयम् || ४२ || कुलोत्सादनकार्येषु काचपात्रं प्रशस्यते | काष्ठपात्रं विजानीयान्मन्त्राराधनकर्मणि || ४३ || [सर्वत्र विश्वामित्रपात्रस्य प्राशस्त्यम्] सर्वकार्येषु कर्तव्यं विश्वामित्र मनुत्तमम् | [पात्रभेदेन फलभेदाः] शङ्खं ज्ञानप्रदं प्रोक्तमलावु सर्वसिद्धिदम् || ४४ || उक्तं महाराजतन्त्रमतं परमदुर्लभम् | [अर्घ्यपात्रपरिमाणम्] षोडशाङ्गुलमानं तत् पात्रं सर्वसमृद्धिदम् || ४५ ||
SK
ताम्रपात्रेण सौभाग्यं धर्मं मन्मयसम्भवे | सर्वालाभे तु माहेयं स्वहस्तघटितं यदि || आ(मल ? सन)ञ्चार्घ्यपात्रञ्च भग्नमासादयेन्न तु | सर्वत्र स्वर्णवत्ताम्रमर्घ्यपात्रे ततोऽधिकम् || पात्राणामादरः कार्यः पात्राण्येवोत्तमानि तु | बहिर्होमक्रियायान्तु विना पात्रं न सिध्यति || इति | अधिकारिभेदेन पात्रभेदमाह गन्धर्वतन्त्रे द्वादशपटले - शङ्खशुक्तिरजतस्वर्णैर्दिव्यानां पात्रमिष्यते | महाशङ्खैस्तु वीराणां फलजं वनवासिनाम् || इति | अर्घ्यादौ ताम्रपात्रस्य प्राशस्त्यमाह - पूजार्घ्यपात्रं नैवेद्याद्याधारपानपात्रकम् | सर्वं ताम्रमयं कुर्याद् यत्किञ्चिदिह पूजने || ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः स्थिताः सदा | देवीप्रीतिकरं ताम्रं तस्मात्ताम्रं प्रयोजयेत् || प्. ६०५) द्वादशाङ्गुलमानं वा वस्वङ्गुलमथापि वा | एतन्न्यूनञ्च यत् पात्रं तत् पात्रमधमं स्मृतम् || ४६ || [वर्जनीयपात्रनिरूपणम्] अत्यन्तस्थूलपात्रन्तु सूक्ष्मपात्रन्तु वर्जयेत् | एतेषामाचरेदेकं पाथसा साधकोत्तमः || ४७ || [पात्रस्थापनक्रमः] अस्त्रमन्त्रेण प्रक्षाल्य स्थापयेद् यन्त्रिकोपरि | ४५-४७ | अर्घ्यपात्रस्य परिमाणमाह - षोडशेत्यादिना | विशिष्याऽह कौलावलीनिर्णये षष्ठपटले - उक्तेष्वेतेषु पात्रेषु पात्रमेकं प्रकल्पयेत् | षोडशाङ्गुलविस्तारं षडङ्गुलसमुच्छ्रयम् || अथवाऽपि तदर्धं स्यात्तदर्धं वाऽपि कारयेत् | एकाङ्गुलं तथा सार्धं षट्कञ्चैव प्रमाणतः || अतिसूक्ष्ममतिस्थलं सच्छिद्रं परिवर्जयेत् | न योजयेद् भग्नपात्रं स्वप्नादेशं प्रशस्यते || इति | शिवार्चनचन्द्रिकाधृतशिवरहस्येऽपि - षट्त्रिंशदङ्गुलं पात्रमुत्तमं परिकीर्तितम् | मध्यमन्तु त्रिभागोनं कनिष्ठं द्वादशाङ्गुलम् || वस्वङ्गुलविहीनन्तु न पात्रं कारयेत् क्वचित् || नाभीविवरयुक्तानि पुण्डरीकाकृतीनि च | द्राक्षानीलोत्पलादीनि पात्राणि परिकल्पयेत् || इति | तथा हरतत्त्वदीधितिधृतश्यामार्चनचन्द्रिकायाम् -
SK
भग्नं वस्वङ्गुलिन्यूनं क्षीणं सच्छिद्रमेव च | विजातीयञ्च देवेशि वर्जयेत् सर्वथा प्रिये || इति | प्. ६०६) [पात्रप्रतिष्ठापनमन्त्रः] बालाबीजत्रयस्यान्ते ततस्त्रिपुरसुन्दरी || ४८ || विशेषार्घ्यपदात् पात्रं प्रतिशब्दादनन्तरम् | स्थापयामीति मनुना प्रतिष्ठाप्य कला रवेः || ४९ || [तत्र सूर्यकलामण्डलार्चा] प्रपूज्य विधिवद् विद्वान् स्यात् सूर्यमण्डलाय च | द्वादशेति कलात्मने चार्घ्यपात्राय हृन्मनुः || ५० || [मण्डलविधिः] त्रिकोणं वृत्तषट्कोणं पात्रमध्ये लिखेत्ततः | ४८-५० | आधारेऽर्घ्यपात्रस्थापनमाह- अस्त्रेति | अस्त्रमन्त्रेण फडित्यनेन | प्रक्षाल्य सामान्यार्घ्योदकेनेति शेषः | यन्त्रिकोपरि त्रिपदिकादिप्रागुक्ताधारे | तथाच गन्धर्वतन्त्रे द्वादशपटले - तथैवास्त्रेण युतया सामान्यार्घ्योदकेन तु | प्रक्षाल्य परमेशानि मण्डले स्थापयेत्ततः || इत्यनेन मण्डलेऽर्घ्यपात्राधारस्थापनस्य क्रममुपदिश्य - पूर्ववत् परमेशानि पात्रं प्रक्षाल्य साधकः | इत्यादिना आधारस्थापनक्रमेणैवार्घ्यपात्रस्यापि स्थापनमुक्तम् | अर्घ्यपात्रप्रतिष्ठामन्त्रमाह-बालेति | तथाच ऐं क्लीं सौः त्रिपुरसुन्दरीविशेषार्घ्यपात्रं प्रतिष्ठापयामीति प्रतिष्ठापनमन्त्रः पूर्ववत् | द्वितारीप्रयोगस्त्रितारीप्रयोगो वा सर्वत्र पूर्ववत् | कला रवेरिति | प्रागुक्तसामान्यार्घ्यक्रमेण द्वादश तपिन्यादिसूर्यकलाः प्रपूज्येत्यर्थः | सूर्यमण्डलेति | (अं) सूर्यमण्डलाय द्वादशकलात्मने अर्घ्यपात्राय नम इति मन्त्रेणार्घ्यपात्रं पूजयेदित्यर्थः | प्. ६०७) [मण्डलपूजा] समस्तव्यस्तकूटेन पूजयेत् तु त्रिकोणके || ५१ || [पात्रापूरणक्रमः] बालात्रिबीजं त्रिपुरसुन्दर्यर्घ्यपदोपरि | पात्रं संपूरयामीति सङ्कल्प्य मनुनाऽमुना || ५२ || अनुलोमविलोमाभ्यां मातृकार्णं समुच्चरन् | अमृतामृतबुद्ध्या तु श्रीपात्रं परिपूरयेत् || ५३ || [पात्रापूरणद्रव्याणि] जलाच्छतगुणं प्रोक्तं दुग्धोदकमनुत्तमम् | दुग्धाद्दधि शतगुणं दध्नः शतगुणं घृतम् || ५४ ||
SK
घृताच्छतगुणो हेतु(?) देवीदक्षिणसाधने | ५१ | त्रिकोणमिति | निरुक्तार्घ्यपात्रमध्ये आदौ त्रिकोणं तद्बहिर्वृत्तं तद्बहिः षट्कोणं लिखेदित्यर्थः | अत्र कौलावलीनिर्णये षष्ठपटले - मण्डलं पूर्ववत् कृत्वा पूजयेत् पूर्ववर्त्मना | इत्यभिधानात्, तन्त्रसारेऽपि पूर्ववद् यन्त्रमालिख्येत्युक्तेर्ज्ञानार्णवादावपि तथा दर्शनात् अत्रापि षट्कोणाद् बहिर्भूपुरं लिखेदिति हृदयम् | समस्तेति त्रिकूटात्मकमन्त्रेण; व्यस्तकूटेन पृथक् पृथक् वाग्भव - कामराज - शक्तिकूटेनेत्यर्थः | ५२-५३ | अथ पात्रापूरणक्रममाह - बालेति | तथाच ऐ/ क्ली/ सौ/ ः त्रिपुरसुन्दर्यर्घ्यपात्रं संपूरयामीति मन्त्रेण संकल्प्येत्यर्थः | अनुलोमेति | अकारात् क्षकारान्तं पुनः क्षकारादकारान्तं मातृकावर्णं समुच्चरन् | अमृतामृतबुद्ध्या परमामृतत्वेन विभाव्येत्यर्थः | श्रीपात्रमर्घ्यपात्रम् | ५४ | अथ पात्रापूरणद्रव्याणि द्रव्यभेदेन फलभेदांश्चाऽह - जलादिति | जलाद् दुग्धोदकस्य शतगुणफलजनकत्वं ततो दध्नः शतगुणफलजनकत्वमित्येवं क्रमेणोक्तानां फलजनकत्वमवगन्तव्यमित्यर्थः | दक्षिणसाधन इति | दक्षिणारक्रमेण साधन इत्यर्थः | विशिष्याऽह गन्धर्वतन्त्रे द्वादशपटले - प्. ६०८) [अर्घ्यद्रव्याणि] दूर्वाक्षतं रक्तपुष्पं बिल्वपत्रञ्च चन्दनम् || ५५ || नानासुगन्धिकद्रव्यं नवरत्नाष्टगन्धकम् | [सकलसोममण्डलार्चा] दत्त्वा यजेत् सोमकलाः पूर्ववत् पश्चिमक्रमात् || ५६ || स्यात् सोममण्डलायान्ते षोडशेति कलात्मने | अर्घ्यामृताय नम इत्यघ्य दद्याद् वामक्रमेण तु || ५७ || [गन्धाष्टकम्] चन्दनागुरुकस्तूरीचोरकुङ्कुमरोचनाः | जटामांसी कपियुता शक्तेर्गन्धाष्टकं विदुः || ५८ || मातृकां प्रतिलोमेन मूलमन्त्राभिमन्त्रितैः | आदिमैः पूरयेद् वाऽपि तथा पुष्पासवैरपि || कपिलायास्तथा क्षीरैर्नारिकेलामृतैरपि | इक्षुरसैः सुगन्धैश्च मधुरत्रितयेन वा ||
SK
पूरयेत्तन्माहापात्रं नानाद्रव्यैः कदाचन | अधिकारिप्रभेदेन द्रव्यभेदा भवन्ति हि || स्वयम्भूकुसुमन्तत्र कर्पूरागुरुचन्दनैः | रोचनाकुङ्कुमैर्मिश्रं कस्तूरीपरिभावितम् | निक्षिपेत् परमेशानि शर्करां मधुसंयुताम् || इति | ५५-५६ | अथ तत्रार्घ्यद्रव्यार्पणमाह - दूर्वेति | स्पष्टम् | नवेति | नवरत्नं गन्धाष्टकञ्च दत्त्वा यजेद् वक्ष्यमाणक्रमेणेति शेषः | नवरत्नानि पञ्चमप्रकाशे (५/९३ श्लो.) प्रदर्शितानि | गन्धाष्टकन्तु स्वयमेवाग्रे वक्ष्यति | यजेदिति | पूर्ववत् सामान्यार्घ्यक्रमेण अमृतादिषोडशचन्द्रकला यजेदित्यर्थः | सोमेति | (उं) सोममण्डलाय षोडशकलात्मने अर्घ्यामृताय नम इति प्रयोगः | ५८ | पूर्वमष्टगन्धकमित्युक्तम्, तद् गन्धाष्टकं निरूपयति -चन्दनेत्यादिना | चोरः कृष्णशठी, कपिः गाठियाला इति तन्त्रसारः | शिष्टं स्पष्टम् | प्. ६०९) [अर्घ्यामृते यन्त्रलेखनादिक्रमः] पुष्पेण यन्त्रमालिख्य पूर्वसोमामृतान्तरे | अकथादींस्त्रिरेखासु हं लं क्षं मध्यतो लिखेत् || ५९ || [तत्रार्चावाहने] त्रिकोणं पूजयेन्मन्त्री त्रिकूटेन यथाक्रमात् | हस्ताभ्यां पात्रमाच्छाद्य तीर्थावाहनमाचरेत् || ६० || [पञ्चरत्नार्चाक्रमः] पूर्वादितो दिक्षु मध्ये पञ्चरत्नं प्रपूजयेत् || ६१ || [पञ्चरत्नमन्त्रः] कान्तान्तं सोमतपनं भान्तं धान्तं महीयुतम् | दक्षकर्णेन्दुसंयुक्तं पञ्चरत्नमनुक्रमात् || ६२ || [पञ्चरत्नानि] गगनं स्वर्गपातालं मर्त्त्यं नागमनन्तरम् | पञ्चरत्नमिदं प्रोक्तं देव्यानन्दकरं महत् || ६३ || ५९ | पुष्पेणेति | पूर्वसोमामृतान्तरे सोमकलात्मकार्घ्यस्थामृताभ्यन्तरे | यन्त्रं त्रिकोणवृत्तषट्कोणचतुरस्रात्मकयन्त्रमित्यर्थः | अकथेति | अन्तस्त्रिकोणघटकरेखात्रये क्रमेण अकारादिषोडशस्वरान्, ककारादितकारान्तान् थकारादिसकारान्तांश्च व्यञ्जनवर्णान्, तथा मध्यतो निरुक्तत्रिकोणाभ्यन्तरे हं लं क्षमिति वर्णत्रयं लिखेदिति फलितार्थः | अत्राकारादिककारादिथकारादिवर्णनियामकोऽकथशब्द इति ज्ञेयम् |
SK
६० | त्रिकोणमिति | निरुक्तत्रिकोणं त्रिकूटेन वाग्भव-कामराज-शक्तिकूटैर्व्यस्तैः क्रमेण पूजयेदित्यर्थः | तीर्थावाहनमिति ॐ गङ्गे चेत्यादिनेत्यर्थः | ६१ | पूर्वादित इति | पूर्वादिदिक्चतुष्टये चत्वारि मध्ये चैकमित्येवंक्रमेण पञ्चरत्नं प्रपूजयेदित्यर्थः | ६२-६३ | पञ्चरत्नान्याह-कान्तान्तमित्यादिना | कान्तान्तो गकारः, सोमः सकारः, तपनः पकारः, भान्तो मकारः, धान्तो नकारः, एतद्वर्णपञ्चकं महीयुतं मह्या पृथ्वीबीजेन लकारेण युक्तं तथा दक्षकर्णेन पञ्चमस्वरेण इन्दुनाऽनुस्वारेण च संयुक्तम् | प्. ६१०) [आनन्दभैरवार्चा] आनन्दभैरवं देवं पूर्ववत् परिपूजयेत् | [पञ्चभिर्मन्त्रैरर्चनस्योपदेशः] कुलद्रव्याणि निःक्षिप्य पञ्चमन्त्रैः समर्चयेत् || ६४ || एतेन ग्लुं स्लुं प्लुं म्लुं न्लुं इति बीजपञ्चकं प्राप्तम् | एतत् पञ्चरत्नं क्रमेण गगनादीनां पूर्वं योजयेदित्यर्थः | उपसंहरति-पञ्चरत्नमित्यादिना | एवञ्च ग्लुं गगनरत्नाय नमः, स्लुं स्वर्गरत्नाय नमः, प्लुं पातालरत्नाय नमः, म्लुं मर्त्त्यरत्नाय नमः न्लुं नागरत्नाय नमः इति प्रयोगक्रमः | एवमेव त्रिपुरार्चनरहस्येऽपि | कौलावलीनिर्णये षष्ठपटले तु गगनरत्नेभ्यो नमः इत्यादिबहुवचनान्तः प्रयोगो दृश्यते | यथा - संपूजयेत्ततः पश्चात् पञ्चरत्नं सुसाधकः | पञ्चान्तकं बिन्दुयुतं दक्षकर्णसमन्वितम् || गगनान्ते च रत्नेभ्यो नमोऽन्तमनुमुद्धरेत् | शीतलं शक्रसंयुक्तमग्रबिन्दुविभूषितम् || स्वर्गपदं समुच्चार्य रत्नेभ्यो नम इत्यपि | पञ्चमं देवराजञ्च दक्षश्रोत्रसमन्वितम् || पातालपदरत्नेभ्यो नमोऽन्तश्चापरो मनुः | महाकालं क्षितियुतं दक्षकर्णसमन्वितम् || मर्त्त्यरत्ने ततः पश्चाद् भ्यो नमोऽत्र समुद्धरेत् | वामपादं क्षितियुतं दक्षश्रवणभूषितम् | नागपदं समुच्चार्य रत्नेभ्यो नम इत्यपि ||
SK
इति | अस्माभिस्तु मूले गगनमित्याद्येकवचनान्तपददर्शनाद् ग्रन्थकृद्गुरु- श्रीमद्ब्रह्मानन्दकृतत्रिपुरार्चनरहस्ये गगनरत्नायेत्याद्येकवचनान्तप्रयोगदर्शनाच्चैकवचनान्त एव प्रयोगष्टाकायां प्रदर्शितः | परन्तु तत्र पातालरत्नात् पूर्वं मर्त्त्यरत्नस्य समावेशो दृश्यत इति विशेषः | ६४ | आनन्देति | पूर्ववत् प्राक्प्रदर्शितसामान्यार्घ्योक्तक्रमेण | अत्राऽनन्दभैरव्या अपि पूर्ववत् पूजनं विधेयं त्रिपुरार्चनरहस्य-तन्त्रसारादौ तथा दर्शनात् | प्. ६११) [तत्र प्रथमो मन्त्रः] अखण्डैकरसानन्दकरे परसुधात्मनि | स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि || ६५ || [द्वितीयः] अकुलस्थामृताकारे शुद्धज्ञानकरे परे | अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि || ६६ || [तृतीयः] तद्रूपेणैकवश्यञ्च कृत्वाऽस्यै तत्स्वरूपिणि | भूत्वा परामृताकारं मयि विस्फुरणं कुरु || ६७ || [चतुर्थः] वाग्भवं (प्लु?प्लू)मात्मञ्च झ्रौ/ ह्रू/ सस्ततः पठेत् | अमृतेऽमृतोद्भवे प्रोच्य अथामृतेश्वरीति च || ६८ || अमृतवर्षि(णी ? णि) पदममृतं स्रावयद्वयम् | वह्निजायां समुद्धृत्य मन्त्रमन्यं समुद्धरेत् || ६९ || ६५ | मन्त्रपञ्चकमाह-अखण्डैकेत्यादिना | स्पष्टम् | ६८-६९ | चतुर्थं मन्त्रमाह-वाग्भवमित्यादिना | वाग्भवं ऐ/, ततः प्लं ? (प्लूं) ततः झ्रौ/ ह्रू/ स इति | अधोधृतपाठान्तरानुसारेण तु झ्रौ/ ह्रू/ सः इत्यत्र हसौ हंस इति लभ्यते | कौलावलीनिर्णयषष्ठपटलोक्तक्रमेण तु क्षौ/ जूं सं इति लभ्यते | गन्धर्वतन्त्रद्वादशपटलानुसारेण तु क्लीं सौरिति बीजद्वयम् | एवञ्च बहुधा पाठभेददर्शनात् संशयविषदिग्धहृदयैर्मूलोक्तमेव पाठमनुरुध्य मन्त्रोद्धारः क्रियतेऽस्माभिरिति क्षमतां भूतभावनो भगवान् भवानीपतिः | तथाच निरुक्तप्रमाणानुसारेण, ऐ/ प्लं ? (प्लूं) झ्रौ/ ह्रू/ सः अमृतेऽमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहेति मन्त्रः पर्यवस्यति | कौलावलीनिर्णये षष्ठपटले - प्. ६१२) [पञ्चमः]
SK
वाग्भवं वदवदस्यान्ते वाग्वादिनि च वाग्भवम् | क्लिन्ने-क्लेदिनि-�सब्दात्तु क्लेदयेति समुद्धरेत् || ७० || महाक्षोभं कुरुद्वन्द्वं कामं �सक्तिं समुद्धरेत् | मोक्षं कुरुयुगं प्रोच्य हसौः स्थौस्तु समुद्धरेत् || ७१ || वाग्भवं पञ्चमं क्षौणीं वाम�स्रोत्रसमन्वितम् | क्षौं जूं सं अमृतेऽमृतोद्भवेऽमृते�स्वरि || अमृतवर्षिणि प्रोच्य अमृतं स्रावयद्वयम् | वह्निजायान्तमुच्चार्य चोद्धरेदपरन्ततः || इति | अत्र प्लूमिति षष्ठस्वरसंयोगदर्�सनात् तदपि दर्�सितम् | ७०-७१ | पञ्चमं मन्त्रमाह-वाग्भवमित्यादिना | तथा च ऐं वदवद वाग्वादिनि ए/ क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु क्लीं ह्रीं मोक्षं कुरु कुरु हसौः स्थौः इति मन्त्रः पर्यवस्यति | अत्र कौलावलीनिर्णयगन्धर्वतन्त्रयोस्तु वि�सेषो दृ�स्यते - यथा कौलावल्यां षष्ठपटले - वाग्भवं वदयुग्मञ्च वाग्वादिनि ततः परम् | वा�न्मनःपदमाभाष्य क्लिन्ने क्लेदिनि तत्परम् || क्लेदयद्वितयं महामोक्षं कुरुद्वयं वदेत् | कामबीजं �सक्तिबीजं मोक्षं कुरुद्वयं वदेत् | प्रेतबीजं समुच्चार्य हसौर्नमस्ततः परम् || इति | अत्र वाग्वादिनीत्यतः परं वा�न्मनःपदं क्लेदयेत्यस्य द्विरावृत्तिः, महाक्षोभम् इत्यत्र महामोक्षम्, हसौरित्यतः पूर्वं प्रेतबीजं स्थौरित्यत्र नम इति वि�सेषः | तथा गन्धर्वतन्त्रे द्वाद�सपटले - वाग्भवं वदयुग्मञ्च वाग्वादिनि च वाग्भवम् | कामबीजं क्लिन्नेत्युक्त्वा क्लेदिनि क्लेदयेति च || महाक्षोभं कुरुयुग्मं कामबीजमतः परम् | तार्त्तियं मोक्षमित्युक्त्वा कुरुयुग्मं वदेत्ततः || �सक्तिबीजं पुन�स्चान्ते सन्दीपनमनुः प्रिये | प्. ६१३) [आवाहनादिक्रमः] आवाहयेदर्घ्यमध्ये ध्यात्वा त्रिपुरसुन्दरीम् | तालत्रयं ततो दत्त्वा तथाऽवगुण्ठनं चरेत् || ७२ || धेन्वाख्ययाऽमृतीकृत्य दिग्बन्धनं �सरेण तु | [नवमुद्राप्रदर्�सनम्] मुद्राः सन्दर्�सयेन्मन्त्री सर्वसंक्षोभणादिकाः || ७३ || [त्रिकोणे बीजयोगार्चाप्रक्रिया]
SK
त्रिकोणे हंसमन्त्रञ्च लिखेत् कामकलाक्षरम् | तार्त्तीयं �स्रीगुरोर्बीजं नमोऽन्तं तत्र पूजयेत् || ७४ || [�स�न्खमुद्राप्रदर्�सनोपदे�सः] �स�न्खमुद्रां प्रदर्�स्याथ सकलीकरणं चरेत् | [�स�न्खमुद्रास्वरूपम्] वामा�न्गुष्ठान्तरेऽ�न्गुष्ठं नियोज्य सकला�न्गुलीः || ७५ || दक्षिणस्य करस्यैव वामा�न्गुष्ठेन संस्पृ�सेत् | �स�न्खमुद्रेयमाख्याता मुद्रा�सास्त्रवि�सारदैः || ७६ || इति | अत्र क्लेदयेत्यस्य द्विरावृत्तिर्नास्तीति मूलेन संवदति, क्लिन्ने इत्यतः पूर्वं वाग्भवाच्च परं कामबीजप्रयोग इत्येवमादयो वि�सेषा�स्च दृ�स्यन्ते | तदेवं मन्त्रस्वरूपभेददर्�सनात् स्वस्वगुरुसम्प्रदायानुसारेणैकतमः पक्षः समा�स्रयणीय इति दिक् | ७२ | अवगुण्ठनमिति, अवगुण्ठनमुद्रामिति �सेषः | अवगुण्ठनमुद्रा च पञ्चद�सप्रका�से (६७ �स्लो.) टीकायां प्रदर्�सिता | ७३ | धेन्वाख्येति | धेनुमुद्रयाऽमृतीकृत्य अर्घ्योदकममृतत्वं प्रापय्येत्यर्थः | धेनुमुद्राऽपि पञ्चद�सप्रका�से (६७ �स्लो.) टीकायां प्रदर्�सिता | दिगिति | �सरेण फडित्यस्त्रमन्त्रेण दिग्बन्धनं कृत्वा, छोटिकाभिरिति �सेषः | मुद्रा इति | सर्वसंक्षोभणादिका अस्मिन्नेव प्रका�से वक्ष्यमाणा नव मुद्राः सन्दर्�सयेदिति सम्बन्धः | ७५-७६ | �स�न्खेति | �स�न्खमुद्रां वक्ष्यमाणलक्षणाम् | सकलीकरणमपि वक्ष्यमाणक्रमेण | तत्र �स�न्खमुद्रालक्षणमाह-वामा�नष्ठान्तर इति | सकलेति | प्. ६१४) [सकलीकरणमुद्रा] देवता�न्गे षड�न्गञ्च सकलीकरणन्त्विदम् | [तत्र जपस्य संख्याभेदः] मीनाख्यमुद्रयाच्छाद्य सप्ताष्टद�सधा जपेत् || ७७ || इष्टदेवधियाऽर्घ्यन्तु धूपदीपै�स्च वन्दयेत् | [तर्पणम्] कौलिक्या तर्पयेन्मन्त्री तत्तन्मन्त्रेण वै त्रिधा || ७८ || आनन्दभैरवं मूर्ध्नि गुरूं�स्च हृदि देवताम् | [तत्र कौलिकी मुद्रा] मध्यमा�न्गुष्ठयोगेन मुद्रा तु कौलिकी स्मृता || ७९ || दक्षिणस्य करस्य सकला�न्गुलीः वामा�न्गुष्ठेन संस्पृ�सेदिति सम्बन्धः | �सिष्टं स्पष्टम् | व्यक्तमाह तन्त्रसारे -
SK
वामा�न्गुष्ठन्तु संगृह्य दक्षिणेन तु मुष्टिना | कृत्वोत्तानं ततो मुष्टिम�न्गुष्ठन्तु प्रसारयेत् || वामा�न्गुल्यस्तथा �स्लिष्टाः संयुक्ताः स्युः प्रसारिताः | दक्षिणा�न्गुष्ठसंस्पृष्टा ज्ञेयैषा �स�न्खमुद्रिका || इति | ७७ | सकलीकरणमुद्रामाह - देवता�न्ग इति | स्पष्टम् | तन्त्रसारेऽपि देवता�न्गे षड�न्गानां न्यासः स्यात् सकलीकृतिरित्युक्तम् | गन्धर्वतन्त्रे त्रयोद�सपटले - संपूर्णावस्थितेर्याच्ञा सकलीकरणं प्रिये | इति | सकलीकरणन्तु षड�न्गमन्त्रैर्विधेयम् | तदुक्तं गन्धर्वतन्त्रे द्वाद�सपटले - सकलीकरणं कुर्यात् षड�न्गेन च पूर्ववत् इति | मीनेति | मीनाख्यमुद्रया मत्स्यमुद्रयेत्यर्थः | मत्स्यमुद्रामाह तन्त्रसारे - दक्षपाणिपृष्ठदे�से वामपाणितलं न्यसेत् | अ�न्गुष्ठौ चालयेत् सम्य�न् मुद्रेयं मत्स्यरूपिणी || इति | सप्तेति | सप्तधाऽष्टधा द�सधा वा जपेदित्यर्थः | ७८-७९ | कौलिक्या तदाख्यया मुद्रयेत्यर्थः | आनन्दभैरवम्, गुरून्, हृदि - प्. ६१५) [कौलिकमुद्रया तर्पणस्योपयोगित्वम्] अ�न्गुष्ठे भैरवी देवी मध्यमे चण्डिका स्मृता | अतः प्रयत्नतो मन्त्री तर्पयेदनया सदा || ८० || स्थितां देवताञ्च तत्तन्मन्त्रेण आनन्दभैरवादिमन्त्रेण प्रत्येकं त्रिधा तर्पयेदिति सम्बन्धः | कौलिकीं मुद्रामाह-मध्यमेति | स्पष्टम् | ८० | कौलिक्या तर्पणे युक्तिमाह - अ�न्गुष्ठ इति | अ�न्गुष्ठे भैरवी देवी मध्यमे मध्यमायां चण्डिका स्मृता | अतो भैरवी - चण्डिकासम्बन्धात् तर्पणद्रव्यस्यामृतत्वसम्पादनाय अनया कौलिक्या तर्पयेदिति सम्बन्धः | तर्पणक्रमोऽयं कुलार्णवसम्मत इति स्वयमेव वक्ष्यति | परन्तु कुलार्णवे षष्ठोल्लासे तर्पणप्रकरणे कौलिकी मुद्रा नोपलभ्यते, तत्र तु - अ�न्गुष्ठो भैरवो देवो अनामा चण्डिका प्रिये | अनामा�न्गुष्ठयोगेन .. .. .. .. .. .. .. .. .. .. .. .. .. .. || इति वचनमुपलभ्यते | एतेन तु तत्त्वमुद्रयैव तर्पणमुक्तं भवति | तन्त्रसारधृतस्वतन्त्रतन्त्रेऽपि -
SK
अ�न्गुष्ठानामिकायोगाद् वामहस्तस्य पार्वति | तर्पयेत् सुन्दरीं देवीं समुद्राञ्च सवाहनाम् | तर्पयामि मुखे देव्यास्त्रिवारं मूलविद्यया | अ�न्गुष्ठानामिकायोगान्नखैर्निर्दिष्टमुद्धृतम् | �स्रीपात्रस्योदकं बिन्दुं तर्पयेत् कुलनायिकाम् | अ�न्गुष्ठो भैरवो देवि अनामा चण्डिका प्रिये | सव्येन हस्तयोगेन तर्पयेद् वा कुले�स्वरीम् | इति | अत्रापि अ�न्गुष्ठे भैरवस्यानामायां चण्डिकायाः स्थितिर�न्गुष्ठानामासंयोगरूपतत्त्वमुद्रया तर्पणञ्चोपदिष्टे इति मूलेन विसंवादः | तत् अतः प्रयत्नतो मन्त्री तर्पयेदनया सदा इत्यन्तं मध्यमा�न्गुष्ठसंयोगात्मककौलिकमुद्राकरणकतर्पण-प्रतिपादकवचनं तन्त्रान्तरीयं क्रमान्तरप्रतिपादकञ्च | अनामा�न्गुष्ठयोगेनेत्यादिवचनानि तु कुलार्णवोक्तानि इति सम्भावयामः | एवञ्चाविसंवादः सुतरामुपपद्यते | प्. ६१६) [कामनाभेदेन तर्पणे मुद्राभेदाः] अनामा�न्गुष्ठयोगेन व�स्यकर्मणि तर्पयेत् | अ�न्गुष्ठतर्जनीभ्यान्तु तर्पयेदभिचारके || ८१ || कनिष्ठा�न्गुष्ठयोगेन तर्पयेत् स्तम्भने सुधीः | कुलार्णवाख्यतन्त्रस्य मतं तर्पणमीरितम् || ८२ || [तत्राऽगमान्तरसम्मतः क्रमः] �सुद्धं द्रव्यं समादाय तर्पयेत्तत्त्वमुद्रया | अ�न्गुष्ठानामिका मध्ये �सुद्धिं संगृह्य यत्नतः || ८३ || वामेन दक्षिणेनैव देवीं सन्तर्पयेद् बुधः | एवं सन्तर्पणं प्रोक्तं समयाचारसम्मतम् || ८४ || [आत्मोपकरणादिप्रोक्षणक्रमः] सामान्यार्घ्ये परं बिन्दुं निःक्षिपेत् साधकोत्तमः | प्रोक्षयेत्तेन चाऽत्मानं पूजोपकरणानि च || ८५ || [प्रोक्षणफलम्] एवं प्रोक्षणमात्रेण सर्वं ब्रह्ममयं भवेत् | [देव्य�न्गदेवतातर्पणविधिः] सामान्यार्घ्यस्य तोयेन तर्पयेद�न्गदेवताः || ८६ || ८१-८२ | अथ कामनाभेदेन तर्पणेऽ�न्गुलिनियममाह-अनामेत्यादिना | तन्त्रसारेऽप्येवमेव | कौलावलीनिर्णये सप्तमोल्लासे तु - अ�न्गुष्ठमध्यमाभ्याञ्च व�स्यकर्मणि तर्पयेत् | कनिष्ठा�न्गुष्ठयोगेन स्तम्भने तर्पयेत्ततः | तर्जन्य�न्गुष्ठयोगेन तर्पयेदभिचारके |
SK
इति क्रमभेदो दृ�स्यते | ८६ | एवमिति प्रागुक्तक्रमेण | प्रोक्षणमिदं त्रिधा अर्घ्योदकेनैव कर्तव्यम्, उदकान्तरेण तत्करणे दोष�स्रवणात् | तदुक्तं गन्धर्वतन्त्रे द्वाद�सपटले - प्. ६१७) [वटुकादिपूजोपदे�सः] इदानीं वटुकादीनां बलिदानं समाचरेत् | [क्षेत्रपालादिबलिमदत्त्वा देवतान्तरपूजननिषेधः] अदत्त्वा क्षेत्रनाथेभ्यः कथं क्षेत्रेषु पूजयेत् || ८७ || यावन्न वटुके दद्यात्तावत् पूजा कथं भवेत् | गणे�सयोगिनीभ्यान्तु न दत्त्वा पूजयेत् कथम् || ८८ || प्रोक्षयेत्तेन चाऽत्मानं मूलेन वारुणेन वा | पूजोपकरणञ्चापि त्रिरभ्युक्ष्य तथैव हि | अमृतैः प्रोक्षितं यत्तु सर्वं ब्रह्ममयं भवेत् | यदन्यद्दीयते द्रव्यमल�न्कारादिकञ्च यत् | वरुणस्यैव बीजेन तेषां प्रोक्षणमाचरेत् | इति | तथा - अन्यतोयैस्तु संसृष्टमर्घ्यपात्रस्थितेतरैः | तन्न गृह्णातीष्टदेवी दत्तं विधि�सतैरपि | इति | हरतत्त्वदीधितिधृतकालिकापुराणे - यद्देयमर्घ्यपात्रस्थजलैरेव निवेदयेत् | अन्यतोयैर्यदुत्सृष्टमर्घ्यपात्रस्थितेतरैः || तन्न गृह्णाति वै देवी दत्तं विधि�सतैरपि | अर्घ्यं सामान्यार्घ्यमिति सम्प्रदायविद इति हरतत्त्वदीधितिः | मूलेऽपि सामान्यार्घ्यस्य तोयेनेत्यस्योभयत्र सम्बन्धात् तेन प्रोक्षणम�न्गदेवतातर्पणञ्चेत्युभयमेव प्राप्तमिति निर्विवादमेतत् | प्रोक्षणन्तूत्तानहस्तेन कर्तव्यम् - उत्तानेन तु हस्तेन प्रोक्षणं समुदाहृतम् | इत्येकाद�सीतत्त्वधृतवचनात् | सामान्येति | अत्र तर्पयेदित्यनेना�न्गदेवतानां वक्ष्यमाणानां पूजनमपि अत्रैव कर्तव्यमिति ज्ञेयम् | अत एव तन्त्रसारकारैः सुन्दरीदेवताया अ�न्गदेवतापूजनन्त्वर्घ्यस्थापनानन्तरम् इत्युक्तम् | परिवारपूजनन्त्वर्घ्यस्थापनानन्तरं गृहीत्वाज्ञां महादेव्याः परिवारांस्ततोऽर्चयेदिति तर्पणोपदे�सानन्तरं मूले वक्ष्यमाणत्वात् | प्. ६१८) [बलिदानाकरणे दोष�स्रुतिः] बलिदानं विनाकृत्य त्रिपुरां पूजयेद् यदि | पूजा तु विफला प्रोक्ता विघ्न�स्चैव पदे पदे || ८९ || [उपसंहारः]
SK
इति ज्ञात्वा प्रयत्नेन बलिदानं समाचरेत् | [अत्र प्रमाणिकतन्त्रसम्मतिः] �सक्तियामलतन्त्रे तु �सिवेनेति प्रकीर्तितम् || ९० || [वटुकपूजामकृत्वा सुन्दरीपूजानिषेधः] यावन्न वटुके दद्यात्तावन्नैव कुले�स्वरीम् | सुन्दर्यै प्रथमे दत्ते पूजा तु विफला भवेत् || ९१ || [अत्राऽगमान्तरसम्मतिः] बृहच्छ्रीक्रमतन्त्रे तु �सिवेनेति प्रकीर्तितम् || ९२ || [वटुकादिपूजाक्रमः, तत्राऽदौ मण्डलनिर्माणम्] ई�सानाद् वायुकोणान्तं दिक्षु पूर्वादितोऽथवा | मण्डलं रचयेन्मन्त्री त्रिकोणं वृत्तसंयुतम् || ९३ || भूपुरेण युतं कृत्वा साधको भूमिजानुकः | त्रिकोणञ्चैव षट्कोणं चतुरस्रं स्ववामतः || ९४ || ९३-९४ | अथ वटुकादिपूजाया मण्डलमाह-ई�सानादित्यादिना | ई�सानाद् वायुकोणान्तं पूर्वादिदिक्चतुष्टये वा �स्रीचक्रस्येति �सेषः, वक्ष्यमाणक्रमेण मण्डलचतुष्टयं रचयेदित्यर्थः | व्यक्तमाह ज्ञानार्णवे पञ्चमपटले - ई�साने च तथाग्नेये नैऋत्ये च तथा प्रिये | वायव्ये क्रमतो देवि मण्डलानां चतुष्टयम् || �स्रीचक्रमभितो देवि त्रिकोणं व्योम चाऽलिखेत् | प्. ६१९) [मण्डलार्चामन्त्रः] वाग्भवञ्च माहामायां कवचं मण्डलाय च | हृदन्तोऽयं मनुः प्रोक्तः पूजयेन्मण्डले बुधः || ९५ || [वटुकार्चोपदे�सः] वटुकं पूजयेदादौ ध्यात्वा पाद्यादिभिः सदा || ९६ || [वटुकध्यानम्] पीयूषभाण्डमसिखण्डकपालखण्ड- चण्डातिचण्डभुजदण्डमतिप्रचण्डम् | �स्रीकुण्डलद्वयविमण्डितगण्डमीडे नीलं वटुं वटुकनाथमहीन्द्रहारम् || ९७ || [वटुकबलिमन्त्रः] ध्यात्वैवं पूजयेन्मन्त्री वांकारबीजपूर्वकम् | एह्येहि देवीपुत्रान्ते वटुकान्ते च नाथतः || ९८ || कपिलान्ते जटाभार भासुरान्ते त्रिनेत्रतः | ज्वालामुखेति सर्वान्ते विघ्नान्ना�सय ना�सय || ९९ || इति | मण्डलस्वरूपमाह - त्रिकोणमित्यादिना | आदौ त्रिकोणं तद्बहिर्वृत्तं तद्बहिर्भूपुरमिति मण्डक्रमः | पञ्चमं मण्डलमाह-त्रिकोणमिति | स्ववामभागे आदौ त्रिकोणं तद्बहिः षट्कोणं तद्बहि�स्चतुरस्रं रचयेदिति सम्बन्धः |
SK
९५ | मण्डलपूजामन्त्रमाह-वाग्भवमित्यादिना | वाग्भवं ऐ/, महामाया ह्रीं, कवचं हुं, हृदन्तः नमोऽन्तः | एवञ्च ऐ/ ह्रीं हुं मण्डलाय नम इति मण्डलपूजामन्त्रः पर्यवस्यति | ९८-१०० | ध्यानानन्तरं वटुकस्य पूजनमाह-वामिति | एवञ्च वां वटुकाय नम इति पूजामन्त्रः | तदुक्तं तन्त्रसारे - प्. ६२०) सर्वोपचारसहितं बलिं गृह्ण द्विधा पदम् | वह्निजायान्तमन्त्रेण वटुकस्य बलिं हरेत् || १०० || [वटुकबलिक्रमः] अर्धान्नपूर्णसलिलं रत्नपुष्पादिसंयुतम् | तर्जन्य�न्गुष्ठयोगेन कनिष्ठा�न्गुष्ठतोऽपि वा || १०१ || वामानामा�न्गुष्ठतो वा साधको बलिमुत्सृजेत् | [योगिनीपूजोपदे�सः] तत�स्च योगिनीं ध्यात्वा यजेद्दक्षादिभिः क्रमात् || १०२ || [योगिनीध्यानम्] योगिन्यः कामरूपाः सकलगुणभृतस्तप्तकार्त्तस्वराभा मत्ताः क�न्कालमालाकलितगलतटा रक्तवस्त्रोत्तरीयाः | वामादिवटुकं �नेऽन्तं नमोऽन्तो मनुरीरितः | इति | बलिमन्त्रमाह-एह्येहीत्यादिना बलिं हरेदित्यन्तेन | तथाच एह्येहि देवीपुत्र वटुकनाथ कपिलजटाभारभासुर त्रिनेत्र ज्वालामुख सर्वविघ्नान्ना�सय ना�सय सर्वोपचारसहितं बलिं हृह्ण गृह्ण स्वाहा इति बटुकबलिमन्त्रः पर्यवस्यति | अनेन मन्त्रेण बलिं हरेदित्यर्थः | कौलावलीनिर्णये षष्ठपटले तु - विषं माया रमा देवीपुत्रवटुकनाथतः | पि�न्गलपदतो जटाभास्वर प्रोच्य पि�न्गल | त्रिनेत्र च इमं बलिं पूजां गृह्णयुगं ततः | वह्निजायान्तमुच्चार्य वटुकस्य महात्मनः | अनेन बलिमुत्सृज्य योगिनी�स्चिन्तयेत्ततः | इत्यनेन तेषु तेषु स्थानेषु बलिमन्त्रे भेदो द�सितः | १०१-१०२ | वटुकबलेरुपचारं दानक्रमञ्चाऽह-अर्धेत्यादिना | स्पष्टम् | १०३ | योगिनीनां ध्यानमाह-योगिन्य इति | तप्तकार्तस्वराभाः तप्तसुवर्णरक्तवर्णाः | प्. ६२१) �सूलं पा�सं कपालं �सृणिमपि विधृताः सस्मिताः सुप्रसन्ना भक्तानां साधकानामभिलषितफलं दीयमानाः सुवे�साः || १०३ || [योगिनीपूजामन्त्रः] यांकारं बीजमुच्चार्य योगिनीं पूजयेत्ततः || १०४ ||
SK
[योगिनीबलिः] ऊर्द्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा पाताले वा वने वा सलिलपवनयोर्यत्र कुत्र स्थिता वा | क्षेत्रे पीठोपपीठादिषु च कृतपादा धूपदीपादिकेन प्रीता देव्यः सदा नः �सुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः || १०५ || एतदन्ते वायुबीजं मुखवृत्तेन संयुतम् | योगिनीभ्यः पदं वह्निजायाञ्च सर्वयोगिनीम् || १०६ || कवचास्त्राग्निजायान्ते बलिदानं समाचरेत् | [तत्रा�न्गुलिनियमः] दक्षा�न्गुष्ठानामिकाभ्यां कनिष्ठा�न्गुष्ठतोऽपि वा || १०७ || कपालं नर�सिरोऽस्थि | �सृणिम�न्कु�सम् | विधृता धारयन्त्यः | �सूलं पा�समित्यादिना चतुर्भुजत्वमप्यासामर्थादायाति | दीयमाना ददत्य इत्यर्थः | १०४ | योगिनीपूजामन्त्रमाह-यामिति | अत्र योगिनीमित्येकवचने सत्यपि योगिन्यः कामरूपा इति बहुवचनदर्�सनात्, योगिनीपूजामन्त्रमाह-यामिति | अत्र योगिनीमित्येकवचने सत्यपि योगिन्यः कामरूपा इति बहुवचनदर्�सनात्, एतदन्ते महे�सानि यां बीजं योगिनी ततः | भ्यः स्वाहा सर्ववर्णान्ते योगिनीपदमालिखेत् || इति ज्ञानार्णवपञ्चमपटलवचनदर्�सनाच्च यां योगिनीभ्यो नम इत्येव प्रयोगः | एतेन योगिनीनां युगपद्वाक्याभेदेनार्चोपदिष्टा | १०५-१०७ | योगिनीनां बलिमन्त्रमाह-ऊर्द्ध्वमित्यादिना | स्पष्टम् | एतदन्त प्. ६२२) [क्षेत्रपालार्चा] क्षांकारं बीजमुच्चार्य ध्यात्वा क्षेत्रे समर्चयेत् || १०८ || [क्षेत्रपालध्यानम्] चञ्चत्कपालसुकृपाणकमू(�सू)लदण्ड- मुद्यत् (सदा ?) डमरुमण्डितपाणिदण्डम् | नीलाञ्जनप्रचयपुञ्जमिव प्रसन्नं �स्रीक्षेत्रनायकमहं �सरणं �स्रयामि || १०९ || [क्षेत्रपालबलिदानोपदे�सः] एवं ध्यात्वा तु संपूज्य बलिदानं समाचरेत् || ११० || [बलिदानक्रमः] षड्दीर्घस्वरसंभिन्नं क्षकारं स्थान�सब्दतः || १११ || क्षेत्रपालपदं धूपदीपादिसहितं बलिम् | गृह्ण गृह्ण वह्निजायां समुद्धृत्य बलिं हरेत् || ११२ || [तत्रा�न्गुलीनियमः] वाममुष्टिं विधायाथ तर्जनीं सरलाञ्चरेत् | अ�न्गुष्ठतर्जनीभ्यां वा क्षेत्रपालबलिर्मतः || ११३ ||
SK
इति | आदावूर्द्ध्वमित्यादि वीरेन्द्रवन्द्या इत्यन्तमुक्त्वा तदन्ते यमिति वायुबीजं तच्च मुखवृत्तेन द्वितीयस्वरेण संयुतं वदेदित्यर्थः | एतेन यामिति प्राप्तम् | तथाच ऊर्द्ध्वमित्यादि तत�स्च यां योगिनीभ्यः स्वाहा सर्वयोगिनी हुं फट् स्वाहेति योगिनीबलिमन्त्रः पर्यवस्यति | निरुक्तबलिदानेऽ�न्गुलिनियममाह-दक्षेति | स्पष्टम् | १०८ | अथ क्षेत्रपालपूजनमाह-क्षामित्यादिना | तथा च क्षां क्षेत्रपालाय नम इति पूजामन्त्रः | ११०-११३ | ध्यानमुपदि�स्य बलिदानमाह-एवमित्यादिना | षडिति | प्. ६२३) [गणे�सपूजनोपदे�सः] संपूजयेद् गणे�सञ्च ध्यात्वा पाद्यादिभिः सुधीः || ११४ || [गणे�सध्यानम्] पा�सा�न्कु�सामृतकपालक�सूलहस्तं हस्त्याननं विविधभूषणनीलदेहम् | नित्योत्सवं सकलविघ्नविना�सहेतुं �स्रीमद्गजाननमहं प्रणमामि नित्यम् || ११५ || [गणे�सपूजाक्रमः] गंकारबीजमुच्चार्य गणे�सं पूजयेद् बुधः | [गणे�सबलिमन्त्रः] गंकारत्रयमुच्चार्य दीर्घयुक्तं समुद्धरेत् || ११६ || �नेऽन्तं गणपतिं प्रोच्य वरं वरद�सब्दतः | सर्वजनं समालिख्य मे व�समानयेति च || ११७ || आकारादिविसर्गान्तषड्दीर्घस्वरसंयुक्तं क्षकारम् | एवञ्च क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्थानक्षेत्रपाल धूपदीपादिसहितं बलिं गृह्ण गृह्ण स्वाहेति क्षेत्रपालबलिमन्त्रः | तत्र बलिदानक्रममाह - वाममुष्टिमिति | ज्ञानार्णवे पञ्चमपटले - वाममुष्टिं विधायाऽदौ तर्जनीं सरलां कुरु | अनया मुद्रया देवि क्षेत्रपालबलिर्भवेत् || इत्युक्तम् | ११४ | अथ गणे�सस्य पूजनमुपदि�सति - संपूजयेदिति | ध्यात्वा संपूजयेद् वक्ष्यमाणक्रमेणेति �सेषः | ११६-११८ | गमिति | गं गणे�साय नम इत्यनेन पूजयेदित्यर्थः | बलिमन्त्रमाह - गंकारमिति | दीर्घयुक्तं द्वितीय-चतुर्थ-षष्ठस्वरयुक्तं गंकारत्रयमुच्चार्येत्यर्थः | अत्र प्. ६२४) बलिं गृह्णयुगं प्रोच्य वह्निजायां समुच्चरेत् | अनेन मनुना मन्त्री गणे�सस्य बलिं हरेत् || ११८ || [गजतुण्डामुद्रा]
SK
संकोचिता�न्गुलीः कृत्वा दण्डवत् कारयेद् बुधः | गजतुण्डाख्यमुद्रेयं गणे�सस्य प्रकीर्तिता || ११९ || दीर्घयुक्तमिति वि�सिष्यानुक्तावपि प्रथमप्राप्तपरित्यागे प्रमाणाभावाद् द्वितीय � चतुर्थ - षष्ठस्वराणां ग्रहणमर्थादायातम् | एतेन गां गीं गूं इति प्राप्तम् | व्यक्तमाह ज्ञानार्णवे पञ्चमपटले - गां गीं गूं त्रयमालिख्य �नेऽन्तं गणपतिं ततः | इति | एवञ्च गां गीं गूं गणपतये वरवरद सर्वजनं मे व�समानय बलिं गृह्ण गृह्ण स्वाहेति गणे�सबलिमन्त्रः पर्यवस्यति | ज्ञानार्णवपञ्चमपटले तु - गां गीं गूं त्रयमालिख्य �नेऽन्तं गणपतिं ततः | वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् | मे व�सं चाऽनय प्रोच्य सर्वोप - पदमालिखेत् | चारान्ते सहितं चोक्त्वा बलिं गृह्ण द्विधा पदम् | वह्निजायान्वितो मन्त्रो गाणपत्यबलिं हरेत् | इत्यनेन निरुक्तमन्त्रे व�समानयेत्यनन्तरं सर्वोपचारसहितमिति बलिवि�सेषणमुक्तमिति वि�सेषो दृ�स्यते | ११९ | अथ गणे�सबलिदाने विहितां गजतुण्डामुद्रामाह - संकोचितेति | अ�न्गुलीर्वामहस्तस्य स�न्कोचिताः कृत्वेत्यर्थः | दण्डवदिति मध्यमाम�न्गुलिं दण्डवत् कारयेत् | इयमेव गणे�सप्रिया गजतुण्डामुद्रेत्यर्थः | तथाच ज्ञानार्णवे पञ्चमपटले - वाममुष्टिं विधायाऽदाविति क्षेत्रपालबलिमुद्रामभिधाय - तथा मुष्टेस्तु मध्यस्थाम�न्गुलीं दण्डवत् कुरु | गजतुण्डा महामुद्रा गणपस्य बलिर्भवेत् || इत्यनेन वामहस्ते मुष्टिं बध्वा मध्यमा�न्गुलेर्दीर्घीकरणमेव गजतुण्डामुद्रेति व्यक्तमुक्तम् | प्. ६२५) [मण्डलपूजा] स्ववाममण्डलं मन्त्री साधारं परिपूजयेत् | व्यापकान्ते मण्डलाय ऐ/ परान्ते नमःपदम् || १२० || [सर्वभूतबलिः] बलिं तत्रैव संस्थाप्य त्रिर्मूलेनाभिमन्त्रयेत् | पूजयेत् सर्वभूतञ्च धूपदीपादिना सुधीः || १२१ || [बलिमन्त्रः] तारञ्च भुवने�सानीं सर्वविघ्नपदन्ततः | हृद्भ्य�स्च सर्वभूतेभ्यः �सब्दबीजञ्च ठद्वयम् || १२२ || इमं कलार्णमुच्चार्य त्रितारान्ते बलिं हरेत् | [बलिमुद्रा]
SK
अ�न्गुष्ठानामिकाभ्याञ्च मुद्रया तत्त्वसंज्ञया || १२३ || [निरुक्तबलौ कल्पान्तरम्] एकत्र वा पञ्च बलीन् दद्याद् व्यापकमण्डले | वामभागे स्थिते मन्त्री सर्वविघ्नहरो भवेत् || १२४ || १२० | एवं मण्डलचतुष्टये क्रमेण वटुकादीनां पूजनं बलिञ्चोपदि�स्य प्रागुक्तस्ववामावस्थितमण्डलस्य पूजामाह | ऐ/ परान्ते व्यापकमण्डलाय ततो नमःपदमिति सम्बन्धः | एवञ्च ऐ/ ह्रीं व्यापकमण्डलाय नम इति मण्डलपूजामन्त्रः | १२१ | बलिमिति | तत्रैव प्रागुक्तत्रिकोण-षट्कोण-चतुरस्रमण्डल एव | पूजयेदिति, सर्वभूतेभ्यो नम इत्यनेनेत्यर्थः | ११२-१२३ | बलिमन्त्रमाह-तारमित्यादिना | तारः प्रणवः, भुवने�सानी ह्रीं | एवञ्च ॐ ह्रीं सर्वविघ्नहृद्भ्यः सर्वभूतेभ्यः ऐ/ स्वाहा | इति सर्वभूतबलिमन्त्रः | अ�न्गुष्ठेति | अ�न्गुष्ठानामिकायोगात्मकतत्त्वमुद्रया सर्वभूतेभ्यो बलिं हरेदिति सम्बन्धः | १२४ | पूर्वं �स्रीचक्रस्य चतुर्दिक्षु कृते मण्डलचतुष्टये बलिचतुष्टयं स्ववामभागे कृते मण्डले बलिमेकं दद्यादित्युक्तम् | तत्र कल्पान्तरमाह- एकत्र वेति | मण्डल- प्. ६२६) [पुनः कल्पान्तरम्] अथवा सर्वभूताय बलिमेकं समाचरेत् | [पुनः षड�न्गपूजा] षड�न्गञ्च ततः कुर्यात् पूर्वोक्तेनैव वर्त्मना || १२५ || [हृदये मूर्तिकल्पना] मयाबीजं समुच्चार्य कामबीजं ततः परम् | बलिमात्मकमारोप्य हृदि मूर्तिं प्रकल्पयेत् || १२६ || [ध्याने विहितं मुद्राद्वयम्] त्रिखण्डामुद्रया ध्यायेद् बद्ध्वा वा पाणिकच्छपाम् | यथा ध्यात्वा साधकस्य मनो नान्यत्र सज्जते || १२७ || चतुष्टयमकृत्वा केवलं स्ववामकृतव्यापकमण्डले वटुकादिसर्वभूतान्तबलिपञ्चकं विदधीतेत्यर्थः | व्यक्तमाह ज्ञानार्णवे पञ्चमपटले - अथवा वामभागे तु मण्डलं चैकमालिखेत् | तत्रैव बलिदानन्तु कुर्यात् सर्वार्थसिद्धये || इति | वामभागे विहितस्य बलेः फलमाह - वामेत्यादिना |
SK
१२५ | तत्रापि कल्पान्तरमाह - अथवेति | कल्पेऽस्मिन् अ�सक्तौ पूर्ववद् बलिपञ्चकमकृत्वा केवलेन सर्वभूतबलिनैव बलिफलं लभ्येत | १२७ | अथ त्रिपुराया ध्याने विहितं मुद्राद्वयं निरुक्तमुद्राद्वयेन कृतस्य ध्यानस्य प्र�सस्तिञ्चाऽह - त्रिखण्डेति | तत्र त्रिखण्डामुद्रामाह तन्त्रसारे - परिवर्त्त्य करौ स्पृष्टाव�न्गुष्ठौ कारयेत् समौ | अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती || कनिष्ठिके नियुञ्जीत निजस्थाने महे�स्वरि | त्रिखण्डेयं समाख्याता त्रिपुराध्यानकर्मणि || इति | अनया मुद्रया त्रिपुरां ध्यायेदित्यर्थः | कल्पान्तरमाह - बद्ध्वा वेति | पाणिकच्छपां कूर्ममुद्रां वेत्यर्थः | कूर्ममुद्रालक्षणमाह तन्त्रसारे - वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठिकाम् | तथा दक्षिणतर्जन्यां वामा�न्गुष्ठं नियोजयेत् || प्. ६२७) [ध्यानयोगः] ध्यानयोगं समास्थाय पूरकेणापि कर्मणा | मनो मूले तु संयोज्य कुञ्च्य प्राणानिरूकतः(?) || १२८ || मूलाधारे स्फुरद्दीप�सिखाकारं �सिवां स्मरेत् | संयोज्य परमानन्दे ब्रह्मरन्ध्रान्तरस्थिते || १२९ || सामरस्यं तयोः कृत्वा वि�स्राम्य च पुनः पुनः | �सिवानन्दामृतालोलीभूतां चैतन्यरूपिणीम् | तामात्मस्थानमानीय चिद्रूपां परिचिन्तयेत् || १३० || उन्नतं दक्षिणा�न्गुष्ठं वामस्य मध्यमादिकाः | अ�न्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च || वामस्य पितृतीर्थेन मध्यमानामिके तथा | अधोमुखे च ते कुर्याद्दक्षिणस्य करस्य च || कूर्मपृष्ठसमं कुर्याद्दक्षपाणिञ्च सर्वतः | कूर्ममुद्रेयमाख्याता देवताध्यानकर्मणि || इति | एवमेव गन्धर्वतन्त्रे एकाद�सपटलेऽपि | यथेति-निरुक्तान्यतरमुद्रया ध्यायतः साधकस्य मनः अन्यत्र न सज्जते ध्येयविषय एव समाहितं भवतीत्यर्थः | १२८ | मूल इति | मूलाधारे मनः संयोज्येत्यर्थः | इममेवार्थमाह तन्त्रसारे योगप्रक्रियाप्रकरणे - आदौ पूरकयोगेन स्वाधारे योजयेन्मनः | गुदमेद्रान्तरे �सक्तिं तामाकुञ्च्य प्रबोधयेत् ||
SK
गुदमेद्रान्तरे तां �सक्तिमाकुञ्च्य निरुपमसूक्ष्मताकां सञ्चिन्त्य प्रवर्धयेत् (इति चास्य व्याख्या) | १२९ | मूलाधार इति | निरुक्तलक्षणां �सिवां कुण्डलिनीं मूलाधारचतुर्दलाभ्यन्तरे स्मरेदित्यर्थः | संयोज्येति | ब्रह्मरन्ध्राभ्यन्तरीणे परमानन्दस्वरूपे परम�सिवे तां कुण्डलिनीं संयोज्येत्यर्थः | १३० | सामरस्यमिति | सामरस्यञ्च - स्त्रीपुंयोगे तु यत् सौख्यं सामरस्यं तदुच्यते | इत्युक्तलक्षणम् | तयोः कुण्डलिनीपरम�सिवयोर्निरुक्तसामरस्यं सम्पाद्येत्यर्थः | प्. ६२८) चिन्तयेत् कर्णिकामध्ये रत्नसिंहासनं महत् | सिद्धिषोड�सकोणं तत् सूर्यकोटिसमप्रभम् || १३१ || तन्मध्ये चिन्तयेन्मन्त्री चक्रराजं सु�सोभनम् | चक्रमध्ये ततः �सक्तिं त्रिकोणां परिचिन्तयेत् || १३२ || तन्मध्ये चिन्तयेत्तेजः सुप्रका�सं निरञ्जनम् | प्रलयानलस�न्का�सं सर्वदेवमयं �सिवम् || १३३ || ब्रह्मतेजोमयं नित्यं मुनिसिद्धितपोमयम् | सर्वव्रतफलमयं सर्वयज्ञफलात्मकम् || १३४ || सर्व�सक्तिमयञ्चैव सर्वविद्यात्मकं पुनः | सर्वात्मभावरूपञ्च सर्वानन्दमयं तथा || १३५ || सर्वज्ञानमयञ्चैव सर्वभूतात्मकं पुनः | चिन्तयेच्च महादेवीं तेजः परिणतं हि तत् || १३६ || [देव्या ध्यानम्] ततः पद्मनिभां देवीं बालार्ककिरणारुणाम् | जवाकुसुमस�न्का�सां दाडिमीकुसुमप्रभाम् || १३७ || �सिवेति | परम�सिवसम्भोगस्रुतानन्दामृतचञ्चलीभूतामित्यर्थः आत्मस्थानं हृदयमित्यर्थः | १३१ | चिन्तयेदिति | कर्णिकामध्ये अनाहतपद्मस्येति �सेषः | �सिष्टं स्पष्टम् | १३२-१३६ | तन्मध्ये निरुक्तरत्नसिंहासनमध्यप्रदे�से चक्रराजं �स्रीचक्रम्, तन्मध्ये त्रिकोणरूपां �सक्तिम्, तन्मध्ये च वक्ष्यमाणरूपं तेजः; तत्तेजःपरिणतिरूपां महादेवीं �स्रीमत्त्रिपुरसुन्दरीं वक्ष्यमाणध्यानक्रमेण चिन्तयेदिति फलितार्थः |
SK
१३७ | अथ �स्रीमत्त्रिपुरसुन्दर्या ध्यानद्वयमभिधास्यन् प्रथमं ध्यानमाह - ततः पद्मनिभामित्यादिना परमानन्दनन्दितामित्यन्तेन | स्पष्टार्थमिदमिति न व्याख्यायते | प्. ६२९) पद्मरागप्रतीका�सां कु�न्कुमोदकसन्निभाम् | स्फुरन्मुकुटमाणिक्य - कि�न्किणीजालमण्डिताम् || १३८ || कालालिकुलस�न्का�सकुटिलालकपल्लवाम् | प्रत्यग्रारुणस�न्का�सवदनाम्भोजमण्डलाम् || १३९ || किञ्चिदर्धेन्दुकुटिलललाटमृदुपट्टिकाम् | पिनाकिधनुराकारसुभ्रुवं परमे�स्वरीम् || १४० || आनन्दमुदितोल्लोललीलान्दोलितलोचनाम् | स्फुरन्मयूखस�न्घातविलसद्धेमकुण्डलाम् || १४१ || सुगण्डमण्डलाभोगजितेन्द्वमृतमण्डलाम् | वि�स्वकर्मादिनिर्माणसूत्रविस्पष्टनासिकाम् || १४२ || ताम्रविद्रुमबिम्बाभरक्तोष्ठीममृतोपमाम् | स्मितमाधुर्यविजितमाधुर्यरससागराम् || १४३ || बीजपुरस्फुरद्बीजदन्तप�न्क्तियुगान्विताम् | रत्नद्वीपस्फुरद्रत्नजिह्वाममलभाषिणीम् || १४४ || अनौपम्यगुणोपेतचिबुकोद्दे�स�सोभिताम् | कम्बुग्रीवां महादेवीं मृणालललितैर्भुजैः || १४५ || रक्तोत्पलदलाकारसुकुमारकराम्बुजाम् | कराम्बुजनखज्योतिर्विद्योतितनभस्तलाम् || १४६ || मुक्ताहारलतोपेतसमुन्नतपयोधराम् | त्रिवलीवलयामुक्तमध्यदे�ससु�सोभिताम् || १४७ || प्. ६३०) लावण्यसरिदावर्ताकारनाभिविभूषिताम् | अनर्घरत्नघटितकाञ्चीयुक्तनितम्बिनीम् || १४८ || नितम्बबिम्बद्विरदरोमराजिवरा�न्कु�साम् | कदलीललितस्तम्भसुकुमारोरुमी�स्वरीम् || १४९ || लावण्यकदलीतुल्यज�न्घायुगलमण्डिताम् | गूढगुल्फपदद्वन्द्वप्रपदाजितकच्छपाम् || १५० || ब्रह्मविष्णु�सिरोरत्ननिघृष्टचरणाम्बुजाम् | तनुदीर्घा�न्गुलिस्वच्छनखचन्द्रविभूषिताम् || १५१ || �सीतां�सु�सतस�न्का�सकान्तिसन्तानहासिनीम् | लौहित्यजितसिन्दूरजवादाडिमरागिणीम् || १५२ || रक्तवस्त्रपरीधानां पा�सा�न्कु�सकरोद्यताम् | रक्तपद्मनिविष्टान्तु रक्ताभरणभूषिताम् || १५३ || चतुर्भुजां त्रिनेत्राञ्च पञ्चवाणधनुर्धराम् | कर्पूर�सकलोन्मि�स्रताम्बूलपूरिताननाम् || १५४ ||
SK
महामृगमदोद्दामकु�न्कुमारुणविग्रहाम् | सर्व�सृ�न्गारवे�साढ्यं सर्वाभरणभूषिताम् || १५५ || जगदाह्लादजननीं जगद्रञ्जनकारिणीम् | जगदाकर्षणकरीं जगत्कारणरूपिणीम् || १५६ || प्. ६३१) सर्वमन्त्रमयीं देवीं सर्वसौभाग्यसुन्दरीम् | सर्वलक्ष्मीमयीं नित्यां परमानन्दनन्दिताम् || १५७ || [ध्यानान्तरम्] अथवाऽन्यप्रकारेण ध्यायेद्देवीं सुलक्षणाम् | जवाकुसुमस�न्का�सां दाडिमीकुसुमारुणाम् || १५८ || सिन्दूरपूररुचिरां बालार्ककिरणोपमाम् | तप्तकाञ्चनस�न्का�सां पद्मरागमणिप्रभाम् || १५९ || नानासद्रत्नसंयुक्तकिरीटवरभूषणाम् | अर्द्धेन्दुमस्तकाक्रान्तकुटिलालकपल्लवाम् || १६० || चमरीबालकुटिलनिर्मल�स्यामके�सिनीम् | मल्लिकामालतीमालाकवरीपरिवेष्टिताम् || १६१ || नानासद्रत्नसंयुक्तपट्टगुच्छप्रलम्बिताम् | �सरदर्धेन्दुकुटिलललाटमृदुपट्टिकाम् || १६२ || के�समध्ये महाभास्वत्सिन्दूरलहरीयुताम् | चन्दनागुरुकस्तूरीकु�न्कुमैस्तिलकोज्ज्वलाम् || १६३ || कामकोदण्डसदृ�ससुभ्रुवं पद्मलोचनाम् | आनन्दमुदितोल्लासलोचनत्रितयान्विताम् || १६४ || �सरत्पूर्णेन्दुसदृ�ससूत्रविस्पष्टनासिकाम् | नासाग्रे गजराजोत्थमहामुक्ताविराजिताम् || १६५ || १५८-१९३ | अथ ध्यानान्तरमाह - अथवेत्यादिना साधकोत्तम इत्यन्तेन | प्. ६३२) सुचारुवृत्तगण्डेन विजितामृतमण्डलाम् | �सरत्पूर्णेन्दुसदृ�समुखमण्डलमण्डिताम् || १६६ || ईषत्सहास्यवदनजितमाधुर्यसागराम् | कर्णोपरिस्फुरद्रत्नपत्रिकावरराजिताम् || १६७ || आनन्दरत्नघटितकर्णभूषणभूषिताम् | स्फुरद्रत्नसमूहेन विलसद्धेमकुण्डलाम् || १६८ || कर्णभूषणतेजोभिः कपोलस्थलमञ्जरीम् | बन्धूकारुणसिन्दूरबिम्बोष्ठीममृतोपमाम् || १६९ || बीजपूरस्फुरद्बीजदन्तप�न्क्तियुगान्विताम् | अनौपम्यगुणोपेतचिबुकस्थलराजिताम् || १७० || नानारत्नसमायुक्तग्रीवाभूषणभूषिताम् | मुक्तामणिप्रवालस्य निकरैः कण्ठभूषिताम् || १७१ || प्रवालवल्लीसादृ�स्यबाहुवल्लीचतुष्टयाम् | कु�न्कुमारुणस�न्का�ससुकोमलकराम्बुजाम् || १७२ ||
SK
पाणिपद्मनखज्योत्स्नावितानितनभस्थलाम् | सद्रत्नगणसंयुक्तकेयूरवरभूषिताम् || १७३ || नवरत्नसमायुक्तपट्टसूत्रप्रलम्बिताम् | नागेन्द्रदन्त�स�न्खेन मणिबन्धविराजिताम् || १७४ || अनर्घ्यरत्नघटितक�न्कणैः परिमण्डिताम् | अ�न्गुलीयकरत्नेन विराजितदिगन्तराम् || १७५ || प्. ६३३) सत्त्वरजस्तमोभूतपा�सं वामकरे धृताम् | भृ�न्गप�न्क्तिगुणाक्रान्तमिक्षुचापविधारिणीम् || १७६ || अष्टधातुसमायुक्तम�न्कु�सं दक्षिणे करे | रक्तोत्पलाब्जकुमुदकुन्दाम्रा�न्कुरसम्भवान् || १७७ || तदधः पञ्चबाणां�स्च दधतीं त्रिपुरे�स्वरीम् | आयुधस्य प्रतीका�सैर्नभस्तलविराजिताम् || १७८ || आनन्दहारसन्दोहविराजितपयोधराम् | पृष्ठदे�से स्फुरद्रत्नपट्टगुच्छप्रलम्बिताम् || १७९ || सुवृत्तनिविडोत्तु�न्गपीवरस्तनमण्डलाम् | पयोधरभरानम्रसुचारुक्षीणमध्यमाम् || १८० || नाभिपद्माद्रोमराजिलताकुचसमीपगाम् | गन्धचन्दनकस्तूरीविलेपितकलेवराम् || १८१ || काञ्चनाञ्चितकाञ्चोलीपरिपूरितभूषिताम् | सुचारुत्रिवलीयुक्तमध्यदे�ससु�सोभिताम् || १८२ || क्वणत्काञ्चीसमायुक्तनितम्बबिम्बमण्डलाम् | सुवर्णसूत्ररचितरक्तपट्टपटान्विताम् || १८३ || पटाञ्चलसमायुक्तसद्रत्नवरभूषिताम् | अनेकरत्नरचितचारुमेखलयाऽन्विताम् || १८४ || करीन्द्रकरसादृ�स्यसुकुमारोरुयुग्मकाम् | कदलीललितस्तम्भचारुज�न्घायुगान्विताम् || १८५ || प्. ६३४) तरुणारुणपादाब्जरणन्नूपुरराजिताम् | मुक्तामणिप्रवालै�स्च पादपद्मविभूषिताम् || १८६ || प्रवाला�न्कुरसादृ�स्यपादा�न्गुलिप्रका�सिताम् | पादा�न्गुलिनखज्योतिः�सरदिन्दुतिरस्कृताम् || १८७ || सुकोमललसन्मालापादपद्मप्रलम्बिताम् | ब्रह्मविष्णु�सिरोरत्नैः प्रका�सितपदाञ्चलाम् || १८८ || कामराजा�न्गमारूढां �सिवसिंहासनस्थिताम् | सर्व�सृ�न्गारवे�साढ्यां सर्वाभरणभूषिताम् || १८९ || �सरदिन्दुसहस्रस्य कान्तिसन्तानहारिणीम् | कर्पूरादिसमायुक्तताम्बूलपूरिताननाम् || १९० || मुखप्रसादवचनैर्जितमाधुर्यसागराम् | कर्णचुम्बिस्फुरन्नीललोलाक्षक्षेपसुन्दरीम् || १९१ ||
SK
जगदाह्लादजननीं जगत्कारणरूपिणीम् | सर्वमन्त्रमयीं देवीं जगद्रञ्जनकारिणीम् || १९२ || नानासद्रत्नसंयुक्त�स्वेतच्छत्रविराजिताम् | कोटिकोटिधूपदीपैः परिवेष्टितमण्डलाम् | �सब्दब्रह्ममयीं नित्यां भावयेत् साधकोत्तमः || १९३ || [निरुक्तध्यानप्र�सस्तिः] एवं परिणतां देवीमात्मानं चिन्तयेत् सदा | तदाविष्टः सदा स स्यात्तथावे�सः सदा भवेत् || १९४ || प्. ६३५) तथाभिनय�सील�स्च तथाचारस्तथा �सुचिः | सदा कामे�स्वरो भूत्वा कामभोगान् समाचरेत् || १९५ || एवं हि ध्यानयोगेन भवेन्नान्यमना यदि | तदा तन्मयतामेत्य जीवन्मुक्तो भवेत् सदा || १९६ || निर्विकल्पः सदा ध्यानान्निःसङ्गो जायते सदा | जरामरणमुक्त�स्च महाभोगी महासुखी || १९७ || अव्याहताज्ञः सर्वत्र विचरेद् भुवनत्रयम् | नास्ति पापं नास्ति पुण्यं साक्षाद्देवः �सिवो भवेत् || १९८ || एवं सिद्धो दृढाभ्यासान्नानारूपाणि धारयेत् | स्थूलसूक्ष्मविभेदेन दृ�स्यादृ�स्य�स्च जायते || १९९ || पञ्चभूतात्मकं रूपं सूर्याचन्द्रमसोरपि | ब्रह्मादीनां तथा रूपं देवगन्धर्वरक्षसाम् || २०० || पतत्त्रिणां पन्नगानामिच्छयैव हि जायते | कल्पनादेव न�स्यन्ति सिद्धयो वा जगत्त्रये || २०१ || सर्वभूतानि संवेत्ति सर्वत्राव्याहता गतिः | मारणोच्चाटनं चैव स्तम्भनं मोहनं तथा || २०२ || दृष्ट्वैव कुरुते सर्वं कल्पनादेव साधकः | दासवत्त्रिजगत् सर्वं तस्मै बलिमुपाहरेत् || २०३ || २०३ | बलिं पूजाम् | प्. ६३६) कर्ता हर्ता तथा पाता �सिवतुल्यो भवेत् सदा | [निरुक्तस्वरूपाया देव्या हृदयादावाहनम्] एवं तां हृदयाम्भोजान्मुद्रयावाहयेत्ततः || २०४ || [त्रिखण्डा मुद्रा] परिवर्त्त्यकरौ कृत्वा अ�न्गुष्ठौ कारयेत् समौ | धारयेत्तर्जनीभ्याञ्च कनिष्ठाद्यद्वयं ततः || २०५ || मध्यमायुगलं मध्ये स्थापयित्वा कनिष्ठके | निजस्थाने समायोज्य स्थापयेत् साधकोत्तमः || २०६ || त्रिखण्डेयं समाख्याता त्रिपुराह्वानकर्मणि | [त्रिखण्डया देव्या आवाहनम्]
SK
अनयावाहयेद्देवीं �स्रीमत्त्रिपुरसुन्दरीम् || २०७ || [पुष्पाञ्जलौ समानयनम्] वहन्नासापुटेनैव बहन्तीं परमां कलाम् | पुष्पाञ्जलौ समानीय पूर्वोक्तां भैरवीं जपन् || २०८ || २०५-२०६ | त्रिखण्डामुद्रामाह तन्त्रसारे - परिवर्त्य करौ स्पृष्टाव�न्गुष्ठौ कारयेत् समौ | अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती || कनिष्ठके नियुञ्जीत निजस्थाने महे�स्वरि | त्रिखण्डेयं समाख्याता त्रिपुराध्यानकर्मणि || २०८ | वहन्नासापुटेनेति | नासापुटप्रवाहितवायुना वहन्तीं विनिःसरन्तीम् | एवञ्च हृत्प�न्कजे देवीं ध्यात्वा नासारन्ध्रप्रवाहिवायुना तां विनिःसार्य पुष्पाञ्जलौ समानीय महापद्मेत्यादिना तस्मादञ्जलेर्देवीं महायन्त्रे स्थापयेदिति क्रमः | अञ्जलिवियोजनन्तु स्थापनात् पूर्वं न कर्तव्यम् | स्फुटमाह गन्धर्वतन्त्रे त्रयोद�सपटले - प्राणायामं ततः कृत्वा गृह्णीयात् कुसुमाञ्जलिम् | पुष्पाञ्जलिं विना देवीं नाऽवाहयेत् कदाचन | ततो ध्यायेन्महादेवीं यथोक्तां परमे�स्वरीम् | प्. ६३७) [प्रार्थनामन्त्रः] महापद्मवनान्तःस्थे कारणानन्दविग्रहे | सर्वभूतहिते मातरेह्येहि परमे�स्वरि || २०९ || [यन्त्रे देव्याः स्थापनम्] इत्युच्चार्य महायन्त्रे स्थापयेत् परदेवताम् || २१० || [आवाहनी मुद्रा] ऊर्द्ध्वाञ्जलिमधः कुर्यादियमावाहनी भवेत् | [स्थापनी मुद्रा] इयन्तु विपरीता स्यात्तदा वै स्थापनी भवेत् || २११ || [सन्निधापनी मुद्रा] ऊर्द्ध्वा�न्गुष्ठौ मुष्टियुगं तदेयं सन्निधापनी | [सन्निरोधिनी मुद्रा] अन्तरा�न्गुष्ठमुष्टिभ्यां तदेयं सन्निरोधिनी || २१२ || प्रत्यक्षीकृत्य हृदये जितप्राणोऽथ साधकः | ऐक्यं सञ्चिन्तयेद्देव्या बाह्यान्तर्मूर्तियुग्मयोः | ततस्तु आयुबीजेन वहन्नासापुटेन तु | तच्चैतन्यं विनिःसार्य पुष्पाञ्जलौ निवे�सयेत् | नासिकावायुनिःसारात् पुष्पस्था देवता भवेत् | यावत् संस्थापयेद्देवीं स्वहस्तं न वियोजयेत् | कृते वियोग हस्तस्य पुष्पात्तस्मान्महे�स्वरि | गन्धर्वैः पूज्यते देवी पूजकैर्नाऽप्यते फलम् || इति |
SK
२११ | ऊर्द्धेति | ऊर्द्ध्वे स्थितमञ्जलिमधःकुर्यादवनमयेदित्यर्थः | न तु ऊर्द्ध्वमुखमञ्जलिमधोमुखं कुर्यादित्यर्थः कल्पनीयः, वक्ष्यमाणस्थापनीमुद्रया विरोधात् | हस्ताभ्यामञ्जलिं बद्ध्वाऽनामिकामूलपर्वणोः | अ�न्गुष्ठौ निक्षिपेत् सेयं मुद्रा त्वावाहनी स्मृता || इति तन्त्रसारधृतवचने स्पष्टमभिधानाच्च | इयन्त्विति विपरीता अधोमुखी | तदुक्तं तन्त्रसारे � अधोमुखी त्वियं चेत् स्यात् स्थापनीमुद्रिका स्मृता | इति | प्. ६३८) [आवाहनस्वरूपम्] स्वत एवाभिपूर्णाया देवतायाः प्रपूजने | सादरं संमुखीभाव आवाहनमिहोच्यते || २१३ || [स्थापनस्वरूपम्] विभोर्निवे�सनं यन्त्रे स्थापनं कथितं बुधैः || २१४ || पूजां प्रपूज्यमान्स्तु गृहीत्वाऽनुग्रहादिकम् | [सन्निधापनस्वरूपम्] कर्तुं सन्निध्यमस्यास्तु तत्सान्निध्यं प्रचक्षते || २१५ || [सन्निरोधस्वरूपम्] आकर्मकाण्डपर्यन्तं सान्निध्यं हि विभो�स्च यत् | स सन्निरोध उद्दिष्टो भक्तितो मन्त्रविन्नरैः || २१६ || [अवगुण्ठनम्] आनन्दायतं तत्त्वं सच्चिदानन्दलक्षणम् | तदत्र सकले व्याप्तं ध्येयं स्यादवगुण्ठनम् || २१७ || [सकलीकरणम्] सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकताम् | [अमृतीकरणम्] अ�न्गनाम�न्गला(?)सार्द्धं विदध्यादमृताकृतम् || २१८ || [परमीकरणम्] क्षमा तस्यापराधानां विज्ञेया परमीकृतिः || २१९ || [जीवन्यासः] जीवन्यासं ततः कुर्यात् पूर्वोक्तमन्त्रमुच्चरन् || कु�सस्य विष्टरेणापि लेलिहानेन वा बुधः || २२० || प्. ६३९) [लेलिहामुद्रा] तर्जनीमध्यमानामाः समं कुर्यादधोमुखम्(?) | अनामायां क्षिपेद् वृद्धामृजुं कृत्वा कनिष्ठिकाम् | लेलिहा नाम मुद्रेयं जीवन्यासे प्रकीर्तिता || २२१ || [सकलीकरणस्वरूपम्] वह्न्यादिदिक्षु वा देव्यास्तत्तद�न्गेषु वा सुधीः | षड�न्गं कल्पयेदेतत् सकलीकरणं भवेत् || २२२ || [त्रितालादिपरमीकरणान्तं कर्म] त्रितालं द�सदिग्बन्धमवगुण्ठनमाचरेत् | धेन्वाख्ययाऽमृतीकृत्य परमीकरणञ्चरेत् || २२३ || [परिवारदेवतास्वरूपम्]
SK
एवं कृत्वा तच्छरीरान्मयूखनिकरान् बहिः | विनिःसृत्य स्थिरीभूतं परिवारं विचिन्तयेत् || २२४ || २२२ | वह्न्यादिति | तत्तद�न्गेषु हृदयादिषड�न्गेषु | षड�न्गं कल्पयेदिति षड�न्गमन्त्रैरित्यर्थः | तदुक्तं गन्धर्वतन्त्रे त्रयोद�सपटले - अ�न्गमन्त्रान् न्यसेद्देवि देव्य�न्गे साधकोत्तमः | सकलीकरणं नाम मुद्रेयं व्याप्तिरूपिणी || इति | २२३ | त्रितालादिक्रमः पूर्वमेव वि�सदीकृतः | परमीकरणञ्चरेदिति परमीकरणमुद्रयेत्यर्थः | परमीकरणमुद्रामाह तन्त्रसारे - अन्योन्यग्रथिता�न्गुष्ठा प्रसारितपरा�न्गुली | महामुद्रेयमुदिता परमीकरणे बुधैः || इति | परमीकरणस्वरूपमाह गन्धर्वतन्त्रे त्रयोद�सपटले - सर्वापराधजातानां सहिष्णुत्वप्रका�सकम् | परमीकरणं नाम संप्रार्थनमिहोच्यते || इति | २२४ | एवमिति | देवी �सरीरान्मयस्वरूपेण बहिराविर्भूता देवता एव परिवारा इत्यर्थः | प्. ६४०) [मुद्रानवकदर्�सनोपदे�सः] वक्ष्यमाणोक्तविधिना नव मुद्राः प्रदर्�सयेत् | [तत्र सर्वसंक्षोभणी मुद्रा] मध्यमामध्यमे कृत्वा कनिष्ठेऽ�न्गुष्ठरोधिते || २२५ || तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके | सर्वसंक्षोभणीनाम्नी मुद्रेयं क्षोभयेज्जगत् || २२६ || [सर्वविद्रावणी मुद्रा] एतस्या एव मुद्राया मध्यमे सरले यदा | सर्वविद्रावणीनाम्नी मुद्रेयं द्रावयेत् क्षणात् || २२७ || [सर्वाकर्षिणी मुद्रा] मध्यमा तर्जनी युग्मे वक्रे कुर्याद् यथाविधि | एतस्या एव मुद्रायास्तदाकर्षणकर्मणि || २२८ || २२५-२२६ | अथ त्रिपुरार्चने दर्�सयितव्या नव मुद्राः क्रमेण निरूपयति -वक्ष्यमाणेत्यादिना | तत्र प्रथमां सर्वसंक्षोभणीमुद्रामाह -मध्यमेत्यादिना | अत्र कनिष्टेऽ�न्गुष्ठरोधित इति सन्धिरार्षः | हस्तयोर्मध्यमा�न्गुलेर्मध्यमे पर्वणि स्थापिते कनिष्टे अ�न्गुष्ठाभ्यां रोधिते कृत्वा तर्जनीद्वयं दण्डवत् सरलं कृत्वा अनामिकाद्वयं मध्यमाद्वयोपरि स्थापयेदिति फलितार्थः | सर्वजगत्संक्षोभणकारित्वादस्या मुद्रायाः सर्वसंक्षोभणीति संज्ञा |
SK
तदुक्तं तन्त्रसारे - मध्यमामध्यमे कृत्वा कनिष्टेऽ�न्गुष्ठरोधिते | तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके | एषा च प्रथमा मुद्रा सर्वसंक्षोभकारिणी | इति | २२७ | द्वितीयामाह - एतस्या इति | एतस्याः सर्वसंक्षोभण्या मुद्राया मध्यमा�न्गुल्यौ सरले अवक्रे चेत् सर्वविद्रावणी मुद्रा भवति | तन्त्रसारेऽप्याह - एतस्या एव मुद्राया मध्यमे सरले यदा | क्रियेते परमे�सानि सर्वविद्राविणी तदा || इति | २२८ | तृतीयामाह-मध्यमेति | निरुक्तमुद्रया मध्यमातर्जन्योरुभयोर्वक्रत्वे सर्वाकर्षिणी मुद्रा भवति | मुद्रा चैषा साधकजगदाकर्षण�सक्तिमाविर्भावयति | मध्यमातर्जनीभ्याञ्च कनिष्ठानामिके समे | अ�न्कु�साकाररूपाभ्यां मध्यमे परमे�स्वरि | प्. ६४१) [सर्वव�स्यकरी मुद्रा] परिवर्तनमार्गेण स्वा�न्गुलीः सम्मुखा यजेत् | अ�न्गुष्ठयोर्वक्त्रदे�से तर्जन्याव�न्कु�साकृती | सर्वव�स्यकरीनाम्नी मुद्रेयं व�सकारिणी || २२९ || [सर्वोन्मादिनी मुद्रा] सम्मुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्त्यजे | अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् || २३० || दण्डाकारौ ततोऽ�न्गुष्ठौ मध्यमानखदे�सगौ | मुद्रैषोन्मादिनीनाम्नी क्लेदिनी सर्वयोषिताम् || २३१ || अ�न्गुष्ठन्तु नियुञ्जीत कनिष्ठानामिकोपरि | इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षिणी परा | इति तन्त्रसारधृतवचनानुसारेण तु कनिष्ठानामिकयोरवक्रत्वं कनिष्ठानामिकयोरुपर्य�न्गुष्ठस्थापनञ्चेति वि�सेषो दृ�स्यते |
SK
२२९ | चतुर्थीमाह - परिवर्तनेत्यादिना | अत्र पूर्वतो मध्यमातर्जनीयुग्म इत्याद्यध्याहार्यम् | एवञ्चाऽभिमुख्येन वक्रयोस्तर्जन्योरधो मध्यमे तदधः परिवर्तनक्रमेणानामिके ततस्तेनैव क्रमेण कनिष्ठे अ�न्गुष्ठयोर्वक्त्रदे�से अग्रे निविडं स�न्गताः कुर्यात् इत्येवाऽह- स्वा�न्गुलीः सम्मुखा यजेदित्यनेन | यजेत् परस्परं स�न्गमयेदित्यर्थः | तर्जन्यौ अ�न्कु�साकृती अ�न्कु�सवद् वक्रे कुर्यात् | न तु अ�न्कु�साकृती तर्जन्यौ अ�न्गुष्ठयोर्वक्त्रदे�से निवे�सयेदिति सम्बन्धः, तन्त्रसारे सर्वासाम�न्गुलीनामुपरि अ�न्गुष्ठनिवे�सनस्य व्यक्तमुक्तत्वात् | तथाच तन्त्रसारे - पुटाकारौ करौ कृत्वा तर्जन्याव�न्कु�साकृती | परिवर्तक्रमेणैव मध्यमे तदधोगते | क्रमेण देवि तेनैव कनिष्ठानामिके तथा | संयोज्य निविडाः सर्वा अ�न्गुष्ठावग्रदे�सतः | मुद्रेयं परमे�सानि सर्वव�स्यकरी मता || इति | २३०-२३१ | अथ पञ्चमीमाह - सम्मुखाविति | करौ परस्परं सम्मुखौ कृत्वा अन्त्यजे कनिष्ठिके मध्यमयोर्मध्यगे मध्यपर्वसंस्थे कुर्यात् | अनामिके सरले अवक्रे प्. ६४२) [महा�न्कु�सा मुद्रा] एतस्या एव मुद्राया अनामातर्जनीक्रमात् | अ�न्कु�साकाररूपेण योजयेत् साधकोत्तमः | इयं महा�न्कु�सानाम्नी सर्वकार्यार्थसाधिका || २३२ || [खेचरी मुद्रा] सव्यं दक्षिणहस्ते तु दक्षिणं वामहस्तके | परिवेष्टनमार्गेण कनिष्ठानामिके ततः || २३३ || तर्जनीभ्याञ्च संरुध्य मध्यमे सरले ततः | योन्याकारस्वरूपेण योजयेत् साधकोत्तमः || २३४ || इयन्तु खेचरीनाम्नी मुद्रा सर्वोत्तमोत्तमा || २३५ || कृत्वा तद्बहिस्तर्जनीद्वयं स्थापयेत् | ततो दण्डाकारौ सरलाव�न्गुष्ठौ मध्यमानखदे�सगौ कुर्यात् मध्यमयोर्नखदे�से सरलाव�न्गुष्ठौ योजयेदित्यर्थः | सर्वयोषितां क्लेदिनी आर्द्रतासम्पादिनीयमुन्मादिनी मुद्रा | प्रायः समानुपूर्वीकवचनेनोक्तेयं मुद्रा तन्त्रसारेऽपि -
SK
सम्मुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्त्यजे | अनामिके तु सरले तद्वहिस्तर्जनीद्वयम् || दण्डाकारौ ततोऽ�न्गुष्ठौ मध्यमानखदे�सगौ | मुद्रैषोन्मादिनी नाम्ना कर्षिणी सर्वयोषिताम् || इति | २३२ | षष्ठीमाह - एतस्या इति | एतस्या उन्मादिनीमुद्रायाः क्रमेणानामिकाद्वयं तर्जनीद्वयञ्च अ�न्कु�साकाररूपेण यदि योजयेत् तदा महा�न्कु�साख्या मुद्रा भवति | व्यक्तमाह तन्त्रसारे - अस्यास्त्वनामिकायुग्ममधःकृत्वाऽ�न्कु�साकृती | तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् || इयं महा�न्कु�सा मुद्रा सर्वकार्यार्थसाधिनी | इति | अस्या इति उन्मादिनीमुद्रायाः | २३३-२३५ | अथ सप्तमीमाह - सव्यमित्यादिना | सव्यं वामहस्तं दक्षिणहस्ते प्. ६४३) [खेचरीमुद्राप्र�सस्तिः] प्रयतोऽप्रयतो वाऽपि �सुचिर्वाऽप्यथवाऽ�सुचिः | गच्छंस्तिष्ठन् स्वपन् वाऽपि भुञ्जानो मैथुने रतः || २३६ || मुद्राया मध्यमा�न्गुल्यौ परिवर्तक्रमेण तु | पार्थिवस्थानसंयुक्ताः सद्यः खेचरतां व्रजेत् || २३७ || एतया ज्ञातया चैव योगिनीनां भवेत् प्रियः || २३८ || [बीजमुद्रा] परिवर्त्त्य करौ स्पृष्टावर्धचन्द्राकृती भवेत् | तर्जन्य�न्गुष्ठयुगलं युगपत् कारयेद् बुधः || २३९ || अधः कनिष्ठावष्टब्धे मध्यमे विनियोजयेत् | तथैव कुटिले योज्य सर्वाधस्तादनामिके || २४० || दक्षिणञ्च वामहस्ते योजयेत्, ततः परिवेष्टनमार्गेण कनिष्ठानामिके योजयेत् वामहस्तस्य कनिष्ठया दक्षहस्तस्य अनामिकां दक्षहस्तस्य कनिष्ठया वामहस्तस्यानामिकाञ्च परिवेष्टयेदित्यर्थः | तर्जनीभ्यामिति | तथा सरले अवक्रे मध्यमे प्रागुक्तरीत्या तर्जनीभ्याञ्च संरुध्य योन्याकारेण स्थापयेदिति खेचरी मुद्रा | सव्यं दक्षिणदे�से तु सव्यदे�से तु दक्षिणम् | बाहुं कृत्वा महादेवि हस्तौ संपरिवर्त्य च || कनिष्ठानामिके देवि युक्त्वा तेन क्रमेण तु | तर्जनीभ्यां समाक्रान्ते सर्वोर्द्ध्वमपि मध्यमे || अ�न्गुष्ठौ तु महे�सानि सरलावपि कारयेत् | इयं सा खेचरी नाम्ना पार्थिवस्थानयोजिता ||
SK
इति तन्त्रसारधृतवचने तु अ�न्गुष्ठयोः सारल्येन अवस्थानमिति वि�सेषो दृ�स्यते | २३९-२४१ | अष्टमीमाह - परिवर्त्येति | परिवर्त्य करौ स्पष्टावर्धचन्द्राकृती प्रिये | तर्जन्य�न्गुष्ठयुगलं युगपत् कारयेत् ततः || प्. ६४४) बीजमुद्रेयमाख्याता सर्वसिद्धिप्रवर्तिनी || २४१ || [योनिमुद्रा] मध्यमे कुटिलाकारे तर्जन्युपरिसंस्थिते | अनामिकामध्यगते तथैव च कनिष्ठिके || २४२ || सर्वा एकत्र संयोज्य अ�न्गुष्ठपरिपीडिताः | योनिमुद्रेयमाख्याता त्रैलोक्योत्पत्तिमातृका || २४३ || [निरुक्तमुद्राबीजनिरूपणप्रतिज्ञा] बीजानि क्रमतो वक्ष्ये मुद्राणां तन्त्रवर्त्मना | [मुद्रानवके प्रयोज्यानि बीजानि] पञ्चबाणं समुद्धृत्य �सूलबीजं लिखेत्ततः || २४४ || अधः कनिष्ठावष्टब्धे मध्यमे विनियोजयेत् | तथैव कुटिले योज्ये सर्वाधस्तादनामिके || बीजमुद्रेयमचिरात् सर्वसिद्धिविवर्धिनी | इति तन्त्रसारे | २४२-२४३ | अथ नवमीं योनिमुद्रामाह - मध्यम इति | कुटिलाकारे मध्यमे तर्जन्युपरिसंस्थिते कुर्यात्, तथा कनिष्ठिके अनामिकामध्यगते विदधीत | तत�स्च सर्वा अ�न्गुलीरेकत्र संयोज्य अ�न्गुष्ठाभ्यामवष्टब्धाः कुर्यादिति योनिमुद्राबन्धनक्रमः | त्रैलोक्योत्पत्तिमातृकेति सर्वोत्पत्तिभूमित्वाद् योनेरित्यर्थः | मध्यमे कुटिले कृत्वा तर्जन्युपरिसंस्थिते | अनामिके मध्यगते तथैव हि कनिष्ठिके || सर्वा एकत्र संयोज्य अ�न्गुष्ठपरिपीडिताः | एषा तु परमा मुद्रा योनिमुद्रेयमीरिता || इति तन्त्रसारे | एतासां मुद्राणां पूजाकाले प्रयोगमाह तत्रैव - एता मुद्रा महे�सानि त्रिपुराया मयोदिताः | पूजाकाले प्रयोक्तव्याः सन्ध्यानुक्रमयोगतः || इति | प्. ६४५) �सिवः �सक्तिः कान्तपान्तं भगरेफेन्दुमण्डितम् | सदा�सिवस्य बीजन्तु वाग्भवं नवमं स्मृतम् || २४५ || [तर्पणोपदे�सः] तर्पणञ्च ततः कुर्यात्त्रिवारं तत्त्वमुद्रया | [षोड�सोपचारैः पूजनस्योपदे�सः] उपचारैः षोड�सभिः पूजयेत् परमे�स्वरीम् || २४६ ||
SK
२४४-२४५ | अथ क्रमेण निरुक्तसर्वसंक्षोभण्यादिमुद्रासु प्रयोज्यानि बीजानि निरूपयति - पञ्चबाणमित्यादिना | पञ्चबाणबीजानि तु पञ्चद�से थान्तद्वयमित्यादिना (३४३ �स्लो.) मूले टीकायाञ्च प्रदर्�सितानि | पञ्चबाणं समुद्धृत्य द्रां द्रीं क्लीं ब्लूं सः इति बीजपञ्चकमुद्धृत्येत्यर्थः | एवञ्च सर्वसंक्षोभण्यादिसर्वोन्मादिन्यन्तमुद्रापञ्चके निरुक्तबीजपञ्चकं प्रयुञ्जीतेति बोध्यम् | तत�स्च द्रामित्युक्त्वा सर्वसंक्षोभणीं मुद्रां प्रदर्�सयेत् | एवं द्रीं सर्वविद्रावणीम् | क्लीं सर्वाकर्षिणीम् | ब्लूं सर्वव�स्यकरीम् | सः सर्वोन्मादिनीम् | �सूलबीजं क्र्ॐ | एवञ्च क्रोमित्युक्त्वा महा�न्कु�सां मुद्रां प्रदर्�सयेत् | अथ सप्तम्यां खेचरीमुद्रायां बीजयोजनमुपदि�सति - �सिव इत्यादिना | �सिवो हकारः, �सक्तिः सकारः, कान्तः खकारः, पान्तः फकारः, स च फकारो भगेनैकाद�सस्वरेण रेफेण इन्दुनाऽनुस्वारेण च मण्डितः | एतेन ह स ख फ्रें इत्युक्त्वा खेचरीमुद्रां प्रदर्�सयेदिति बोध्यम् | अष्टम्यां बीजमुद्रायां बीजयोगमाह - सदेति | सदा�सिवस्य बीजं ह्सौरिति | एवञ्च ह्सौरित्युक्त्वा बीजमुद्रां प्रदर्�सयेदित्यर्थः | वाग्भवमिति ऐ/ इति वाग्भवबीजपूर्विकां नवमीं योनिमुद्रां प्रदर्�सयेदित्यर्थः | गन्धर्वतन्त्रे त्रयोद�सपटले - सन्दर्�सयेत् स्वस्वबीजपूर्वं मुद्रास्ततो नव | संक्षोभद्रावणाकर्षव�स्योन्मदमहा�न्कु�साः | खेचरीबीजयोन्याख्या नवमुद्रास्ततः क्रमात् | एता मुद्रा महे�सानि बन्धूककुसुमप्रभाः || स्वस्वमुद्राकराः सर्वाः �स्रीविद्यासम्मुखी स्मरेत् || इति | २४६ | तर्पणञ्चेति | तत्त्वमुद्रालक्षणमाह गन्धर्वतन्त्रे त्रयोद�सपटले - अ�न्गुष्ठानामिकायोगं (ः) तत्त्वमुद्रेयमीरिता | प्. ६४६) त्रितत्त्वैर्वह्निजायान्तैस्त्रिधाऽर्घ्यं परिकल्पयेत् || २४७ || मूलस्य च त्रिषु त्रीणि बीजानि विनियोज्य च | बालामन्त्रेण मन्त्रज्ञ उपचारान्निवेदयेत् || २४८ || [षोड�सोपचाराः] आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् | मधुपर्काचमनस्नानवसनाभरणानि च || २४९ ||
SK
सुगन्धसुमनोदीपधूपनैवेद्यवन्दनाः | प्रयोजयेदर्चनायामुपचारांस्तु षोड�स || २५० || [तत्र कल्पान्तरम्] अथवा कल्पयेन्मन्त्री पाद्यार्घ्याचमनीयकम् | स्नानं वस्त्रं तथा भूषां गन्धप्रसूनधूपकम् || २५१ || प्रदीपकञ्च नैवेद्यमाचान्तार्थं जलं पुनः | ताम्बूलमर्चना स्तोत्रं तर्पणञ्च नमस्क्रिया | प्रयोजयेदर्चनायामुपचारांस्तु षोड�स || २५२ || अ�न्गुष्ठं �सिवमित्याहुरनामा �सक्तिरुच्यते || तर्पणन्तु तयोर्योगादमृतैर्वामपाणिना || इति | उपचारैरिति | उपचारपदव्युत्पत्तिमाह तत्रैव - भक्त्यैवैते कृता देवे साधकं देवसन्निधिम् | चारयन्ति यतस्तस्मादुच्यन्ते चोपचारकाः || समीपे चरणाद् वाऽपि कलाकान्ते तथोदिताः || इति | २४९-२५४ | अथ क्रमेणोपचारान् विभजते - आसनमित्यादिना पञ्चोपचारिका इत्यन्तेन | स्पष्टम् | तत्राऽसने वि�सेषमाह गन्धर्वतन्त्रे चतुर्द�सपटले - सौवर्णं राजतं वास्त्रं तथा रत्नविनिर्मितम् | आसनं प्रथमं दद्यात् पौष्पं दारवमेव वा || प्. ६४७) [द�सोपचाराः] अर्घ्यं पाद्यं निवेद्याथ जलमाचमनीयकम् | मधुपर्कञ्चाऽचमनं गन्धप्रसूनके ततः | धूपदीपौ च नैवेद्यं द�सोपचारकं स्मृतम् || २५३ || [पञ्चोपचाराः] गन्धादयो नैवेद्यान्ताः पूजाः पञ्चोपचारिकाः | [क्रमेणैतेषामुत्तममध्यमाधमत्वम्] उत्तमा मध्यमा चैव बुधैरुक्ताऽधमा क्रमात् || २५४ || [उपचारेषु कस्यचिदलाभे व्यवस्था] उपचारेषु सर्वेषु यत्किञ्चिद्दुर्लभं भवेत् | तत् सर्वं मनसां ध्यात्वा पुष्पक्षेपेण कल्पयेत् || २५५ || न पत्रमासनं दद्यात् कदाचिदिह पूजने | यथोक्तविधिना देव्यै रक्तकम्बलमेव वा || स्वमेरुपादपीठान्ते पद्मकल्पितमासनम् | भोगमोक्षप्रदे मातस्तिष्ठस्व परमे�स्वरि || अनेनैवाऽसनं देव्यै यो दद्याद्विहितं �सिवे | भुक्तिमुक्ती करे तस्य सर्वत्र स्थानवान् भवेत् ||
SK
इति | अन्येषामप्युपचाराणां स्वरूपमत्रैव प्रद�सितं विस्तरभयात् | पञ्चोपचारानाह - गन्धादय इति | व्यक्तमाह निबन्धतन्त्रे पञ्चपञ्चा�सत्तमपटले - गन्धपुष्पधूपदीपनैवेद्यमिति पञ्चकम् | निवेदयेत् सदाऽर्चायां पूजाः पञ्चोपचारिकाः || इति | उत्तमेति | षोड�सोपचारिका उत्तमा, द�सोपचारिका मध्यमा, पञ्चोपचारिका अधमा पूजेत्यर्थः | २५५ | उपचारेष्विति | कस्यचिदुपचारस्याभावे पुष्पमेव तदुपचारत्वेन कल्पयित्वा देव्यै निवेदयेदित्यर्थः | प्. ६४८) [प्रत्युपचारानन्तरं जलदानम्] तत्र तत्र जलं दद्यादुपचारान्तरान्तरा | [देवी�सिरसि पुष्पदानम्] देवतायाः �सिरः कुर्यात् कुसुमोपहितं सदा || २५६ || [देव्या ऊर्ध्वे करभ्रामणनिषेधः] पूजाकाले देवताया नोपरि भ्रामयेत् करम् | [पुष्पाद्यभावे व्यवस्था] पूजयेत् परमे�सानीं पुष्पाभावे तु पत्रकैः || २५७ || पत्राणामप्य भावे तु तृणगुल्मौषधादिभिः | ओषधीनामभावे तु तत्फलैरपि पूजयेत् || २५८ || अक्षतैर्वा जलैर्वाऽपि तदभावे तु सर्षपैः | सितैस्तथाऽप्यलाभे तु मानसीं भक्तिमाचरेत् || २५६ || २५७ | पूजयेदिति पुष्पाभावे पत्रादिभिरर्चयेत्, परं तु कदाऽपि पूजालोपं न विदधीत, निरुक्तानामेकतमस्याप्यलाभे मानसीं पूजां विदधीत; तयैव पूजासिद्धिर्भवतीति भावः | व्यक्तमाह गन्धर्वतन्त्रे चतुर्द�सपटले - पुष्पाभावे यजेत् पत्रैः पत्रालाभे च तत्फलैः | अक्षतैर्वा जलैर्वाऽपि न पूजां व्यतिल�न्घयेत् || एतेषामप्यलाभे तु मानसीं भक्तिमा�स्रयेत् | इति | अत्र पुष्पाभावे यजेत् पत्रैरिति सामान्यतः पत्रविधाने सत्यपि - पत्रेषु बिल्वपत्रञ्च तथा मदनपल्लवम् | दूर्वा�न्कुरं तथा प्रोक्तं नान्यत् पत्रं प्रयोजयेत् || इति गन्धर्वतन्त्रचतुर्द�सपटलवचनसंवादात् न पत्रैरर्चयेच्छिवामित्यनेन सामान्यतः पत्रकरणकार्चानिषेधाच्च पुष्पाभावे निरुक्तबिल्वादिपत्रैरेव पूजनं विधेयं न तु पत्रान्तरैरिति ज्ञेयम् | प्. ६४९) [पुष्पाद्युपचाराणां परत्वापरत्वादि]
SK
परापरोत्तमञ्चैव मध्यमञ्च तथाऽधमम् | सौवर्णं परमं प्रोक्तमपरं चित्रवस्तुजम् || २६० || वृक्षगुल्मोद्भवं पुष्पमुत्तमं परिकीर्तितम् | अधमं पत्रतोयादि मध्यमन्तु फलात्मकम् || २६१ || [पुष्पनिवेदनक्रमः] ज्ञानाख्यमुद्रया मन्त्री चक्रे पुष्पं निवेदयेत् | [ज्ञानमुद्रा] अ�न्गुष्ठतर्जनीभ्यान्तु ज्ञानमुद्रा प्रकीर्तिता || २६२ || [पुष्पादिदाने वि�सेषः] यथोत्पन्नं तथा पुष्पं तथा दद्याच्च पत्रकम् | पुष्पाञ्जलिप्रदाने तु न भवेन्नियमस्त्वयम् || २६३ || नाधोमुखं फलं दद्यादिति �सास्त्रस्य निर्णयः | [तर्पणम्] तर्पयेन्मूलमन्त्रेण त्रिवारं पूर्ववत् सुधीः || २६४ || [देव्या उद्वर्तनाद्यल�न्कारदानान्तं कर्म] स्ववाममण्डले नीत्वा देविमुद्वर्तनादिकम् | मनःपूजाक्रमैः स्नानं वाससा तनुमार्जनम् || २६५ || सर्वाल�न्करणं दत्त्वा मण्डले तां समानयेत् | [पाद्याद्यर्पणम्] पूर्ववद् वन्दनं कृत्वा पाद्यादीनि निवेदयेत् || २६६ || २६५ | मनःपूजाक्रमैरिति | सप्तद�सपटलोक्तमानसार्चनविहितस्नानक्रमैः देव्याः स्नानं निवर्तयेदित्यर्थः | प्. ६५०) [गन्धाद्यर्पणम्] गन्धचन्दनधूपैस्तु दीपैर्नानाफलैरपि | �सर्करामि�स्रपयसा घृतेन मधुना फलैः | दध्ना च परमान्नेन भवानीं परितोषयेत् || २६७ || [नैवेद्यनिवेदनक्रमः] मूलं देव्याः स्वनामान्ते नैवेद्यमिति चोच्चरन् | गृहाण वह्निजायान्ते नैवेद्यमुत्सृजेदिति || २६८ || [बलिदाने वि�सेषः] न राजा मेषमहिषबलिदानं समाचरेत् | सिंहव्याघ्रनरां�स्चैव न दद्याद् ब्राह्मणोत्तमः || २६९ || [व्यजनाद्युपचारैर्देव्याः परितोषविधानम्] व्यजनैः �सुद्धसिन्दूरैर्घण्टाचामरदर्पणैः | वितानच्छत्रताम्बूलैः कस्तूरीकु�न्कुमादिभिः || २७० || रोचनागुरुकर्पूरैस्तथा लाक्षारसेन च | नृत्यैर्गीतै�स्च वाद्यै�स्च तोषयेत् परमे�स्वरीम् || २७१ ||
SK
२६८ | नैवेद्यनिवेदनक्रममाह - मूलमित्यादिना | आदौ मूलं ततो देव्याः स्वनाम ततो नैवेद्यमिति गृहाणेति च पदद्वयं वह्निजाया स्वाहेति | एवञ्च मूलं ततः �स्रीमत्त्रिपुरसुन्दरि नैवेद्यं गृहाण स्वाहेति मन्त्रः पर्यवस्यति | २६९ | बलिदाने वि�सेषमाह - न राजेति | सामान्यतो बलिदाने विहितेष्वपि प�सुषु राजा मेषमहिषबलिं तथा ब्राह्मणोत्तमः सिंहादिबलिं न विदधीतेत्यर्थः | प्. ६५१) [तर्पणम्] दत्त्वा नानाविधं द्रव्यं हेतुभिस्तर्पयेत् पराम् | [परिवारदेवतार्चोपदे�सः] गृहीत्वाज्ञां महादेव्याः परिवारांस्ततोऽर्चयेत् || २७२ || [तत्र षण्णाम�न्गदेवतानां पूजा] यथा सर्वज्ञता तृप्तिरनादिबोधसंज्ञिका | स्वतन्त्रा नित्यतृप्ताऽन्या तथाऽनन्तक्रमादिमाः || २७३ || २७२ | दत्त्वेति | हेतुभिः कारणैः | तत्रापि वि�सेषमाह गन्धर्वतन्त्रे पञ्चद�सपटले - निर्विकल्पस्य देवे�सि सुरैव विहितागमे | अमृतञ्च तदेव स्यान्मद्यञ्चापि तदेव हि || नाऽपद्यपि द्विजो मद्यं दद्याद् देव्यै कदाचन | मोहाद् यदि ददेन्मद्यं ब्राह्मण्यादेव हीयते || ब्रह्मघाती स एव स्यात् तस्मान्मद्यं विवर्जयेत् | .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. निर्विकल्पो यदा मद्यं महादेव्यै निवेदयेत् | अ�स्वमेधसहस्रस्य .. .. .. .. .. .. सविकल्पो यदा देवि पापभा�न् नात्रसं�सयः || इति | अथ परिवारार्चनमवतारयति - गृहीत्वेति | आज्ञाप्रार्थनक्रममाह त्रिपुरार्चनरहस्ये आदौ मूलम्, ततः - संविन्मये परे देवि परामृतरसप्रिये | अनुज्ञां त्रिपुरे देहि परिवारार्चनाय मे || इति | गन्धर्वतन्त्रे षोड�सपटले - र�स्मिवृन्दानि ते देवि पूजयामि विधानतः | आज्ञापय जगन्मातर्यतस्तमेव तानिव (?) || कृताञ्जलिर्महे�सानि देव्याज्ञां साधकोत्तमः | गृहीत्वा पूजयेत् तुष्टः प्रागुक्तक्रमयोगतः || इति | २७३-२७५ | तत्राऽदौ षड�न्गदेवतार्चाक्रममभिधत्ते - यथेत्यादिना | तथाच प्. ६५२) षड�न्गदेवताः पूज्यास्तत्तन्मन्त्रं समुच्चरन् | [तासां ध्यानम्]
SK
तुषारस्फटिक�स्यामनीलकृष्णारुणार्चिषः || २७४ || वरदाभयधारिण्यः प्रधानतनवः स्त्रियः | [पूजास्थानम्] अग्नी�सासुरवायव्ये मध्ये दिक्षु यथाक्रमात् || २७५ || [पुनस्तर्पणं पुष्पाञ्जलिदानञ्च] तर्पणञ्च पुनः कृत्वा मूलमुच्चार्य सर्वतः || २७६ || �सिरोवक्षःपदद्वन्द्वकरद्वन्द्वेषु च क्रमात् | सर्वा�न्गेषु पुनः कुर्यात् पञ्चपञ्चाञ्जलीन् हृदा || २७७ || [परिवारपूजायामादौ बीजयोजनक्रमः] सर्वावरणनामादौ मायां लक्ष्मीं नियोजयेत् | वा�न्मायां कमलां वाऽपि त्रिभिः संपुटितञ्च वा || २७८ || सर्वज्ञता�सक्ति�स्रीमहात्रिपुरसुन्दरीहृदयाय नमः, तृप्ति�सक्ति�स्रीमहात्रिपुरसुन्दरी�सिरसे स्वाहेत्यादिक्रमेण षड�न्गदेवताः पूजयेदित्यापतति | तन्त्रसारकृता तु सर्वज्ञतेत्यत्र सर्वज्ञा �सक्तिरिति बालाबीजस्य द्विरावृत्त्या ऐ/ क्लीं सौरित्याद्येकैकबीजपूर्वकत्वञ्चोक्तम् | एतासाम�न्गदेवतानां क्रमेण स्वरूपमाह - तुषारेति | सर्वज्ञता�सक्तिस्तुषारवर्णा, तृप्ति�सक्तिः स्फटिकवर्णा, अनादिबोध�सक्तिः �स्यामवर्णा, स्वतन्त्रा �सक्तिर्नीलवर्णा, नित्यतृप्ति�सक्तिः कृष्णवर्णा, अनन्त�सक्तिररुणवर्णेत्युक्तं भवति | वरदेत्यादि साधारणम् | क्रमेणैतासां स्थानमाह - अग्नीति, अग्न्यादिक्रमेणैताः पूजयेदित्यर्थः | २७६ | पञ्चपुष्पाञ्जलिदानमाह - मूलेत्यादिना | तथाच आदौ मूलं ततः �सिर - आदिसर्वा�न्गान्तेषु क्रमेण पुष्पाञ्जलिपञ्चकमर्पयेदित्यर्थः | २७८ | अथाऽवरणपूजायामादौ बीजयोजने प्रस्थानत्रयमाह -मायामित्यादिना | तथाच मायां लक्ष्मीं ह्रीं �स्रीमिति मायाबीजं �स्रीबीजञ्च नियोजयेदिति द्वितारीप्रयोग - प्. ६५३) [पादुकामन्त्रः] पादुकां पूजयामीति �स्रीपूर्वं पादुकामनुः | नमोऽन्ते योजयित्वा तु नमोऽन्तं सर्वमर्चयेत् || २७९ || [न्यासेऽपि पादुकामनोः प्रयोज्यत्वम्] न्यासेऽपि योजयेन्मन्त्री पादुका सर्वसिद्धिदा | [अत्र प्रामाणिकागमसम्मतिः] रहस्यं परमं प्रोक्तमिति यामलसम्मतम् || २८० ||
SK
क्रमः | वा�न्मायां कमलामिति ऐ/ ह्री/ �स्रीमिति बीजत्रयं योजयेदिति त्रितारीप्रयोगक्रमः | त्रिभिः संपुटितं वेति तृतीयः कल्पः | त्रिभिः वा�न्मायाकमलाबीजैः संपुटितम् | संपुटलक्षणमाह तन्त्रसारे - मन्त्रमादौ वदेत् सर्वं साध्यसंज्ञामनन्तरम् | विपरीतं पुन�स्चान्ते बीजं तत् संपुटं स्मृतम् || एवञ्चात्र कल्पे प्रथमं ऐं ह्रीं �स्रीं ततः पूज्यदेवतानाम ततः �स्रीं ह्रीं ऐं इति विपरीतमुच्चारयेदिति फलितम् | तन्त्रसारकृताऽपि सर्वत्राऽदौ द्वितार्या त्रितार्या वा प्रयोग इत्युक्तम् | ज्ञानार्णवेऽपि - मायालक्ष्मीमयं बीजयुग्मं पूर्वक्रमेण हि | कथितं योजयेद्देवि त्रयं वा परमे�स्वरि || इति | कल्पसूत्रेऽपि सर्वत्राऽदौ त्रितारीप्रयोग इति तन्त्रसारकारः | त्रितारी च - वा�न्माया कमला चेति त्रितारी समुदाहृता | इति | २७९ | अथ सर्वत्र परिवारार्चने प्रयोज्यं पादुकामन्त्रमाह - पादुकामिति | तथाच ऐं ह्रीं �स्रीं �स्रीमहात्रिपुरसुन्दरी�स्रीपादुकां पूजयामि नम इत्येवंक्रमेण सर्वमर्चयेदित्यर्थः | २८० | न्यासेऽपीति | न्यासकालेऽपि निरुक्तपादुकामन्त्रं प्रयुञ्जीतेत्यर्थः | तत्र पादुकायै नम इति वि�सेषः | अस्मिन्नर्थे प्रमाणभूतमागममुदाहरति - रहस्यमिति | प्. ६५४) [तर्पणसंख्या] तर्पणञ्च त्रिधा कार्यं सकृद्वाऽपि निजेच्छया | [होमादौ वाक्यभेदाः] स्वाहा होमे तर्पणे च तर्पयामीति संस्मरेत् || २८१ || [षोड�सतिथिनित्यार्चायां स्वरविन्यासः] मध्यत्रिकोणरेखासु स्वाग्रे दक्षोत्तरक्रमैः | पञ्च पञ्च क्रमेणापि स्वरान् विभागतो लिखेत् || अःस्वरञ्च लिखेन्मध्ये तिथिनित्यास्तथाऽर्चयेत् || २८२ || [कामे�स्वर्यादिपूजनोपदे�सः] कामे�स्वर्यादिकाः सर्वा ध्यात्वा तत्तन्मनुं चरेत् | प्रतिपदादिपूर्णान्तं वामावर्तक्रमेण तु || २८३ || [कामे�स्वर्या ध्यानम् (१)] कामे�स्वरीं रक्तवर्णां रक्तवस्त्रविभूषिताम् | पा�सा�न्कु�स�सरां�स्चापं धारयन्तीं विचिन्तयेत् || २८४ ||
SK
२८१ | परिवारदेवतानां तर्पणसंख्यामाह - तर्पणञ्चेति | स्पष्टम् | प्रकृते तु तर्पयामीत्यन्तेन तर्पणं कुर्यादिति बोध्यम् | २८२-२८३ | अथ कामे�स्वर्यादिषोड�सतिथिनित्यार्चनमभिधास्यन् प्रथमं �स्रीचक्रमध्यत्रिकोणे अकारादिविसर्गान्तषोड�सस्वरविन्यासमाह-मध्येत्यादिना | स्वाग्रे दक्षोत्तरक्रमैः दक्षादिक्रमेण पञ्च�सः स्वरान् अनुस्वारान्तान् रेखात्रये त्रिकोणमध्ये च विसर्गं लिखेदिति फलितार्थः | तत्र कामे�स्वर्यादिका वक्ष्यमाणास्तिथिनित्या वक्ष्यमाणक्रमेण ध्यात्वा तत्तद्देवतामन्त्रेणार्चयेदित्यर्थः | तत्र क्रममाह - प्रतिपदादीति | २८४ | अथ क्रमेण कामे�स्वर्यादीनां विचित्रान्तानां प्रतिपदादिपञ्चद�स्यन्तेषु पञ्चद�सतिथिषु क्रमेणार्चनीयानां पञ्चद�सतिथिनित्यानां साधारण्येन पञ्चद�सतिथिषु प्. ६५५) [भगमालायाः (२)] भगमालां �सुक्लवर्णां भगमालाविभूषिताम् | पा�सा�न्कु�स(ञ्च) सूत्रञ्च पुस्तकं बिभ्रतीं करैः || २८५ || [नित्यक्लिन्नायाः (३)] नित्यक्लिन्नां �सुक्लवर्णां वराभयकराम्बुजाम् || २८६ || [भेरुण्ढायाः (४)] भेरुण्डां रक्तवर्णाञ्च रक्ताभरणभूषिताम् | मुण्डवेदधरां देवीं द्विभुजां परिचिन्तयेत् || २८७ || [वह्निवासिन्याः (५)] पि�न्गलाभां तथाहस्तां भावयेद् वह्निवासिनीम् | [महानित्ये�स्वर्याः (६)] महानित्ये�स्वरीं खड्गचर्माक्षस्रग्धरां वराम् || २८८ || समर्चनीयायाः �स्रीमत्त्रिपुरसुन्दर्या�स्च ध्यानान्याह-कामे�स्वरीमित्यादिना साधकोत्तम इत्यन्तेन | स्पष्टम् | २८८ | महानित्ये�स्वरीमिति | वज्रे�स्वरीति ज्ञानार्णवे महावज्रे�स्वरीति च तन्त्रराजे पाठः | अत्र महानित्ये�स्वरीध्यानानन्तरम् एवं सुकृष्णां त्वरितामिति त्वरिताया ध्यानमुक्तम् | परन्तु - प्रथमा सुन्दरी नित्या महात्रिपुरसुन्दरी | कामे�स्वरी समाख्याता तथैव भगमालिनी || नित्यक्लिन्ना च भेरुण्डा तथैव वह्निवासिनी | वज्रे�स्वरी च दूती च त्वरिता कुलसुन्दरी || नित्या नीलपताका च विजया सर्वम�न्गला | ज्वालामालाविचित्रान्ताः पञ्चद�स प्रकीर्तिताः ||
SK
इति तन्त्रसारधृतकुलार्णववचने त्वरितायाः पूर्वं �सिवदूत्या निरूपणं दृ�स्यते | एवमेव तन्त्रराजतन्त्रेऽपि | त्रिपुरार्चनरहस्येऽप्येवमेव | मूलेऽपि पञ्चद�सप्रका�से षोड�सनित्यान्यासावसरे सप्तम्यां विन्यसेदेनां �सिवदूतीं स्वयं हृदि इत्यनेन �सिवदूतीन्यास - प्. ६५६) [�सिवदूती (७)] x x x x x x | [त्वरिता-कुलसुन्दर्योः (८, ९)] एवं सुकृष्णां त्वरितां गौरा�न्गीं कुलसुन्दरीम् | [नित्यायाः (१०)] अष्टसिद्धिधरां देवीमष्टकोणान्तरस्थिताम् || २८९ || [नीलपताकायाः (११)] नित्यां नीलपताकाञ्च पा�सा�न्कु�सधरां स्मरेत् | [विजयायाः (१२)] विजयां चण्डरूपाञ्च तथा स्त्रां योगिनीवृताम् || २९० || [सर्वम�न्गलायाः (१३)] पद्मद्वयकरां रक्तां ध्यायेद् वै सर्वम�न्गलाम् | [ज्वालां�सुमालिन्याः (१४)] ज्वालां�सुमालिनीं धूम्रां त्रिनेत्रां �स्वेतरूपिणीम् || २९१ || [विचित्रायाः (१५)] विचित्रां �स्वेतरूपाञ्च �स्वेतपद्मधरां �सुभाम् | चित्रहस्तां महादेवीं सर्वाभरणभूषिताम् || २९२ || [�स्रीमत्त्रिपुरसुन्दर्याः (१६)] ततः �स्रीसुन्दरीं ध्यात्वा पूजयेत् साधकोत्तमः | [प्रतिपदादिष्वेकैकनित्यार्चायाः फलम्] एकैकां पूजयेद् यो हि स सौभाग्यफलं लभेत् || २९३ || मभिधाय अष्टम्यां विन्यसेत् कण्ठे त्वरितां द्वाद�साक्षरीमित्यनेन �सिवदूत्यनन्तरं त्वरिताया निर्दे�सः कृतः | एतेन गणनया नित्यानां षोड�सत्वमप्युपपद्यते, �सिवदूत्या अग्रहणे तु न्यूनतैव स्यात् | तद् यदत्र मूले षोड�सनित्यापूजाप्रकरणे �सिवदूत्या ध्यानं न दृ�स्यते, तल्लेखकप्रमादकृतमिति प्रतिभाति | १९३ | एवं कामे�स्वर्यादीनां विचित्रान्तानां पञ्चद�सनित्यानां ध्यानान्यभिधाय प्. ६५७) [सुन्दर्याः सर्वासु तिथिषु पूज्यत्वम्] अःस्वरे षोड�सीं नित्यां त्रिपञ्चतिथिगामिनीम् | [पक्षभेदेनार्चायां क्रमभेदः] कृष्णपक्षे विचित्राद्याः कामे�स्वर्यन्तिका यजेत् || २९४ || षोड�स्याः �स्रीमत्त्रिपुरसुन्दर्यां ध्यानमुपदि�सति-तत इत्यादिना | ध्यानन्तु पूर्वमेव द�सितम् | एकैकां निरुक्तासु नित्यास्वित्यर्थः |
SK
२९४ | षोड�स्याः सुन्दर्याः पूजास्थानमाह-अःस्वर इति | अःस्वरे अःस्वरञ्च लिखेन्मध्ये इति प्रागुक्त्या मध्यत्रिकोणमध्यलिखिते अः इति षोड�सस्वरे इत्यर्थः | षोड�सीं वि�सिनष्टि - त्रिपञ्चेति | एवञ्च प्रतिपदादिपञ्चद�सतिथिषु एकैकां नित्यां पूजयेत्; षोड�सीन्तु सर्वास्वेव तिथिषु पूजयेदित्युक्तं भवति | यदेतत् कामे�स्वर्यादीनां प्रतिपदादिष्वेकैकं पूजनमुक्तं तच्छुक्लपक्षविषयम् | कृष्णपक्षे वि�सेषमाह - कृष्णेत्यादिना | अत्र प्रतिपदि विचित्रां द्वितीयायां ज्वालां�सुमालिनीमित्येवंक्रमेण कामे�स्वर्यन्ता नित्याः पूजयेदित्यर्थः | व्यक्तमाह ज्ञानार्णवे षोड�सपटले - प्रतिपत्तिथिमारभ्य पौर्णमास्यन्तमद्रिजे | एकैकां पूजयेन्नित्यां महासौभाग्यमाप्नुयात् || कृष्णपक्षे महे�सानि पूजयेत्तिथिमण्डलम् | विचित्राद्या वरारोहे यावत् कामे�स्वरी भवेत् || इति | तन्त्रसारकृताऽपि महात्र्यस्रे वामावर्तेन आकारादिपञ्च ऊकारादिपञ्च एकारादिपञ्च विभाव्य मध्ये विसर्गं तेषु वामावर्तेन �सुक्लपक्षे कामे�स्वर्यादिविचित्रान्तं कृष्णपक्षे विचित्रादिकामे�स्वर्यन्तं पूजयेदिति व्यक्तमुक्तम् | एवमेव त्रिपुरार्चनरहस्येऽपि | यजेदिति, निरुक्तक्रमेण ध्यात्वा पञ्चद�सप्रका�सीयतिथिनित्यान्यासोक्तरीत्या तत्तन्मन्त्रमुच्चार्य �स्रीपादुकां पूजयामि नम इत्यन्तेन पूजयेदित्यर्थः | तदुक्तं तन्त्रसारधृततन्त्रान्तरे - �स्रीपदं पूर्वमुच्चार्य पादुकापदमुच्चरेत् | पूजयामि नमः प�स्चात् पूजयेद�न्गदेवताः || इति | अत्रापि द्वितार्यास्त्रितार्या वा प्रयोगः कर्तव्यः साधारण्येना�न्गदेवतार्चायां विहितत्वात् | तथा च ऐ/ ह्रीं (ऐ/ ह्रीं �स्रीं) अं ऐ/ क्रीं सौः ॐ नमः कामे�स्वरि प्. ६५८) [नित्यानां तर्पणद्रव्यम्] तर्पयेच्च मधुद्रव्यैः परमानन्दचेतसा | [पूजनम्] वर्णानुक्रमयोगेण साधयेत्त्रिपुरे�स्वरीम् || २९५ || स्व�सक्त्या पूजनं कुर्यान्मूलविद्याञ्च पूजयेत् | [देव्यनुज्ञाग्रहणम्] देव्याज्ञां मस्तके कृत्वा करोमि बाह्यपूजनम् || २९६ || [गुरुपूजनोपदे�सः]
SK
त्रिवृत्ते दिव्यसिद्धौघमानवौघान् प्रपूजयेत् | [अस्य प्रामाणिकागमसंवादित्वम्] बृहच्छ्रीक्रमतन्त्रे तु �सिवेनेति प्रकीर्तितम् || २९७ || [तत्र कल्पान्तरम्] तिथिनित्यार्चनाद् बाह्ये त्रिरेखास्वथवा सुधीः | प्रदक्षिणक्रमेणैव त्रिप�न्क्त्या पूजयेद् गुरून् | इच्छाकामफलप्रदे सर्वसत्त्वव�स�न्करि सर्वजगत्क्षोभकरि हुं हुं हुं हुं द्रां द्रीं क्लीं ब्लूं सः सौः क्लीं ऐ/ कामे�स्वरीनित्याकला�स्रीपादुकां पूजयामि नमः इत्यादिरूपः प्रयोगः कर्तव्यः | एवं भगमालिन्यादीनामपि मन्त्रा उन्नेयाः | षोड�स्याः सुन्दर्याः पूजने तु आदौ द्वितारी त्रितारी वा ततः षोड�सस्वरस्ततो मूलं ततः �स्रीमहात्रिपुरसुन्दरी (महा) नित्याकला �स्रीपादुकां पूजयामि नमः इति प्रयोगः | २९५-२९६ | तर्पयेदिति तिथिनित्या इति �सेषः | वर्णानुक्रमयोगेणेति आदितोऽकारादिविसर्गान्तषोड�सस्वरयोगेणेत्यर्थः | मूलविद्यां त्रिपुरसुन्दरीम् | पूजनक्रमस्तु पूर्वमेव प्रदर्�सितः | २९७ | अथ गुरुमण्डलपूजामभिधास्यन् प्रथमं गुर्वर्चनस्थानमाह-त्रिवृत्त इति | त्रिवृत्ते षोड�सारबहिस्त्रिवृत्ते क्रमेण दिव्यौघान् सिद्धौघान् मानवौघां�स्च पूजयेत् | इति बृहच्छ्रीक्रमतन्त्रसिद्धान्तः | २९८ | तत्र कल्पान्तरमाह - तिथीत्यादिना | तिथिनित्यार्चनास्थानं प्रथमं प्. ६५९) [तत्र प्रयोगक्रमः] आनन्दनाथ�सब्दान्तानम्बान्तां मातरं क्रमात् || २९८ || [गुरुक्रमनिरूपणप्रतिज्ञा] अथातः संप्रवक्ष्यामि षोष�सीनां गुरुक्रमम् || २९९ || [तत्र सप्त दिव्यौघाः] परप्रका�सको नाम पर�सिवो द्वितीयकः | तृतीया पर�सक्ति�स्च कौले�स्वरस्ततः परम् || ३०० || �सुक्लादेवी परे�सानः कामे�स्वर्यम्बिका ततः | दिव्यौघा गुरवः प्रोक्ताः पराख्याः सप्तमा इति || ३०१ ||
SK
प्रथमत्रिकोणं सर्वसिद्धिप्रदं नाम तद्बाह्यरेखात्रये प्रादक्षिण्येन त्रिप�न्क्त्या रेखात्रयेणेत्यर्थः, क्रमेण दिव्यौघान् सिद्धौघान् मानवौघां�स्च गुरून् पूजयेदिति फलितार्थः | पूजनक्रममाह - आनन्देति | तथाच अमुकानन्दनाथ�स्रीपादुकां पूजयामि इति पुंगुरुपूजायाम्, अमुकाम्बा�स्रीपादुकां पूजयामीति स्त्रीगुरुपूजायां प्रयोगः | व्यक्तमाह तन्त्रसारे - आनन्दनाथ�सब्दान्ता विज्ञेयाः परमे�स्वरि | अम्बान्ता गुरवः प्रोक्ताः स्त्रीलि�न्गा वीरवन्दिते || इति | �स्रीपादुकादिपदव्यवहारबीजन्तु �स्रीपदं पूर्वमुच्चार्येत्यादिना पूर्वमुपदर्�सितम् | २९९-३०१ | अथ षोड�सीनां गुरुप�न्क्तिमभिधास्यन् प्रथमं कामराजविद्यायास्तद्घटितानां विद्यानाञ्च गुरुक्रममाह -परप्रका�सक इत्यादिना | अनेन १ परप्रका�सः, २ पर�सिवः, ३ पर�सक्तिः, ४ कौले�स्वरः, ५ �सुक्लादेवी, ६ परे�सानः, ७ कामे�स्वर्यम्बिका इति सप्त पराख्या दिव्यौघाः | तदुक्तं ज्ञानार्णवे षोड�सपटले - परप्रका�सो देवे�सि ततः पर�सिवो मतः | परा �सक्तिस्तथा देवि कौले�स्वर इति प्रिये | �सुक्ला देवि(वी) कुले�सानकामे�स्वर्यम्बिकाः क्रमात् | मुनिसंख्यास्तु गुरवः पराख्या दिव्यरूपिणः | इति | अत्र ज्ञानार्णववचने परे�सान इत्यत्र कुले�सान इति वि�सेषः | कौले�स्वर इत्यत्र कौले�स्वरीति च तन्त्रसारे | प्. ६६०) [सिद्धौघाः पञ्च] भोगक्रीडौ च समयः सहजो देवसंज्ञकः | परापराख्याः सिद्धौघाः [मानवौघाः सप्त] मानवौघान् ब्रवीम्यथ || ३०२ || गगनो वि�स्वविमलौ मदनो भुवनस्तथा | नीलमात्मप्रिय�स्चैव सप्तसंख्यास्तु मानवाः | [निगमनम्] कामराजाख्यविद्याया गुरुप�न्क्तिरियं भवेत् || ३०३ || ३०२ | अथ क्रमप्राप्तान् परापराख्यान् सिद्धौघानाह-भोगेत्यादिना | तथाच -१ भोगः, २ क्रीडः, ३ समयः, ४ सहजः, ५ देवः इति पञ्च परापराख्याः सिद्धौघाः | तदुक्तं तत्रैव - भोगक्लिन्नस्तु समयो वेदाख्यः सहजस्तथा | परापराख्यसिद्धौघे मानवौघे �सृणु प्रिये ||
SK
इति | एवञ्च क्रोड इत्यत्र क्लिन्न इति ज्ञानार्णवे वि�सेषः | समयः सहजो वेद इति मूलतः क्रमभेदः, देव इत्यत्र वेद इति पाठभेद�स्च ज्ञानार्णव-तन्त्रसारयोः | निरुक्तभोगेत्यादिज्ञानार्णववचनस्य-समयः सहजो वेदसंख्यकाः इति क्वचित् पाठभेदो दृ�स्यते | तत्र च भोगः क्लिन्नः समयः सहज इति वेदसंख्यका�स्चतुःसंख्यकाः सिद्धौघा इत्यर्थो लभ्यते | त्रिपुरार्चनरहस्येऽपि भोगाद्या�स्चत्वार एव सिद्धौघत्वेन परिगृहीताः | देव इत्यत्र ज्ञानार्णवतन्त्रसारादिषु वेद इति दर्�सनाद् वेद इति पाठस्य समीचीनत्वं सम्भावयताऽपि प्रबलतरप्रमाणाभावान्मूलोक्तपाठो न परिहृतः | ३०३ | अथ क्रमप्राप्तान् सिद्धौघानाह-गगन इत्यादिना | एवञ्च १ गगनः, २ वि�स्वः, ३ विमलः, ४ मदनः, ५ भुवनः, ६ नीलम्, ७ आत्मप्रियः इति सप्तापराख्या मनवौघाः | अत्र ज्ञानार्णवे - गगनो वि�स्वविमलौ मदनो भुवनस्तथा | प्. ६६१) [स्वगुर्वादियागः] मानवौघान्तिके मन्त्री स्वगुरुत्रितयं यजेत् | परमेष्ठी च परमः स्वगुरु�स्च त्रयो भवेत् || ३०४ || [गुरुवं�सप्रकर्षः] स्ववं�सादधिको ज्ञेयो गुरुवं�सो महा�सुभः | [मन्त्रदातुः प्रकर्षः] पितुरप्यधिको ज्ञेयो मन्त्रदः परमो गुरुः || ३०५ || [निरुक्तगुरुनामाज्ञाने कर्तव्यम्] न जानाति गुरोर्नाम तदाऽनेन प्रपूजयेत् | गुरुभ्यो नम उच्चार्य पादुकाभ्यो नमो वदेत् || ३०६ || गुर्वन्ते परमान्ते च गुरुभ्यो नम इत्यपि | एतेषां पादुकास्तद्वदाचार्येभ्यो नमो वदेत् || ३०७ || [निगमनम्] सामान्यगुरु�सिष्याणां गुरुप�न्क्तिरियं भवेत् | [गुरुप�न्क्तिपूजाप्र�सस्तिः] गुरुप�न्क्ति प्रपूज्याथ स्वयं �स्रीत्रिपुरा भवेत् || ३०८ || लीला स्वात्मा प्रियः प�स्चान्नागसंख्यास्तु मानवाः | अपराः परमे�सानि नियता अक्षरा इमे |
SK
इति वचने गुरूणां केषाञ्चिन्नामभेदा अष्टसंख्यत्वञ्च दृ�स्यन्ते | त्रिपुरार्चनरहस्यतन्त्रसारयोरपि निरुक्तक्रमेणाष्टसंख्यत्वमेवोक्तमिति सप्तसंख्यास्तु मानवा इति मूलोक्त्या महान् विरोधः | कामराजेति | निरुक्तो गुरुक्रमः कामराजाख्यविद्यायास्तद्घटितानां विद्यान्तराणाञ्चेति बोध्यमित्यर्थः | ३०४ | मानवेति | मानवौघानां निरुक्तानामन्तिके गुरुं परमगुरुं परापरगुरुं परमेष्ठिगुरुञ्च यजेदित्यर्थः | प्. ६६२) [लोपामुद्राया गुरुक्रमः] लोपामुद्राख्यविद्यायाः प्रवक्ष्यामि गुरुक्रमम् | [तत्र दिव्यौघाः] परमाद्यः �सिवान्त�स्च कामे�स्वर्यम्बिका ततः || ३०९ || दिव्यौघ�स्च महौघ�स्च सर्वानन्दस्ततः परम् | प्रज्ञादेवी प्रका�स�स्च दिव्यौघे सप्तमो भवेत् || ३१० || [सिद्धौघाः] दिव्यचित्र�स्च कैवल्यदेव्यम्बा च महोदयः | सिद्धौघे च चतुष्कः स्यान् - [मानवौघाः] मानवौघमथोच्यते || ३११ || चिद्वि�स्व�सक्ती�स्वरका�स्चतुर्थ(ः) कमलो भवेत् | मनोहरः परः स्वात्मा अलोभ�स्चाष्टमो मतः || ३१२ || ३०९-३१० | एवं कामराजविद्याया गुरुक्रमं निरूप्य लोपामुद्रायास्तद्घटितानां विद्यान्तराणाञ्च गुरुक्रममाह-परमाद्य इत्यादिना | परमाद्यः �सिवः परम�सिवः | एवञ्च १ परम�सिवः, २ कामे�स्वर्यम्बिका, ३ दिव्यौघः, ४ महौघः, ५ सर्वानन्दः, ६ प्रज्ञादेवी, ७ प्रका�स�स्चेति सप्त दिव्यौघा इति पर्यवस्यति | ३११-३१२ | सिद्धौघानाह - दिव्येति | १ दिव्यः, २ चित्रः, ३ कैवल्यदेव्यम्बा, ४ महोदयः, इत्येते चत्वारः सिद्धौघाः | मानवौघानाह - मानवेत्यादिना | तथाच - १ चिद्, २ वि�स्वः, ३ ई�स्वरः, ४ कमलः, ५ मनोहरः, ६ परः, ७ स्वात्मा, ८ अलोभः, इत्यष्टौ मानवौघाः | तन्त्रसारकृता तु चिद्वि�स्व�सक्ती�स्वर - कमलपरमानन्दमनोहरसुखानन्दप्रतिभान् | एते मानवौघा इत्यनेन मनोहरादिचतुष्टये नामभेदाः प्रदर्�सिताः | ज्ञानार्णवे षोड�सपटले लोपामुद्राया गुरुक्रम इत्थमुपदर्�सितः - प्. ६६३) [विद्यान्तराणाम् गुरुक्रमः]
SK
अन्यासां सर्वविद्यानां समाना गुरवः क्रमात् || ३१३ || अथापरः प्रकार�स्च परादिवि�स्व इत्यपि | कामे�स्वरी तृतीया स्याच्चतुर्थी स्यादथाम्बिका || ३१४ || लोपामुद्राख्यविद्याया गुरूञ् �सृणु वरानने | परमाद्य�सिव�स्चाऽद्या कामे�स्वर्यम्बिका तथा || दिव्यौघ�स्च महौघ�स्च सर्वानन्दस्ततः परम् | प्रज्ञादेव्यम्बिका प�स्चात् प्रका�सः सप्तमो भवेत् || दिव्याः पराख्यगुरवो लोपामुद्राप्रभामयाः | दिव्य�स्चित्र�स्च कैवल्यदेव्यम्बा च महोदयः || सिद्धाः परापरा ज्ञेया मानवौघं �सृणु प्रिये | विद्या �सक्ति�स्च वि�स्व�स्च चतुर्थः कोमलो(?)भवेत् || पञ्चमस्तु परानन्दो मनोहर इति प्रिये | स्वात्मानन्दः सप्तमस्तु प्रतिभोऽष्टम उच्यते || अपराख्या इमे देवि गुरवः परिकीर्तिताः | पूर्ववद् योजयेत् प�स्चादष्टानन्तरमेव च || त्रयं वा स्वगुरुं वाऽपि नवान्तं वाऽब्जलोचने | दक्षिणामूर्ति�सिष्याणां गुरुक्रम उदाहृतः || इति | निरुक्तज्ञानार्णववचने कैवल्यदेव्यम्बेति तृतीयगुरुनिर्दे�सात् सिद्धौघे च चतुष्कः स्यादिति मूलोक्तचतुःअस्ंख्याकत्वं सम्यगुपपद्यते | यत्तु तन्त्रसारे दिव्यं चित्रं कैवल्यं दिव्याम्बां महोदयम् एते सिद्धौघाः पञ्च इत्यनेन सिद्धौघानां पञ्चत्वं प्रतिपादितम्, तज् ज्ञानार्णव�स्रीतत्त्वचिन्तामणिविरोधाल्लेखकप्रमादकृतमिति प्रतीमः | मानवौघेष्वपि गुरूणां परस्परं संज्ञाभेदो दृ�स्यते | ३१३ | अन्यासामिति लोपामुद्राघटितानाम् | समानाः मानवौघान्तिके मन्त्रीत्यादिकामराजविद्यागुरुक्रमे प्रदर्�सितैः स्वगुर्वादिभिस्तुल्या इत्यर्थः | एतेन कामराजविद्यागुरुक्रमे ये सामान्या गुरुवस्तत्पादुका�स्च पूज्यतया निर्दिष्टा अत्रापि क्रमेण त एव प्रयोज्या इत्यर्थः | अत एव ज्ञानार्णवे षोड�सपटले - साधारणास्तु गुरवः सर्वभेदेषु वै समाः | इत्युक्तम् | प्. ६६४) मोक्ष�स्चामृतसंज्ञ�स्च प्रका�सो घोर एव च | अथ नाम सद्गुरु�स्च सिद्धौघ�स्चोत्तरः क्रमात् || ३१५ ||
SK
उद्भवः परम�स्चैव सर्वज्ञस्तत्त्व एव च | सिद्धस्तथा च गोविन्दः �स�न्करो मानवो भवेत् || ३१६ || गुरुप�न्क्तिविहीनस्तु पुरुषः प�न्क्तिवर्जितः | सम्प्रदायविहीनस्य न दद्यात् प�न्क्तिमुत्तमाम् || ३१७ || गुरुं विना क्रमं यस्तु कुरुते यदि साधकः | महानिष्टं भवेत्तस्य सत्यं सत्यं न सं�सयः || ३१८ || दक्षिणामूर्तितन्त्रस्य मतमेतदुदीरितम् | [आम्नायदेवतापूजनोपदे�सः] गुरुक्रमं प्रपूज्याथ यजेदाम्नायदेवताः || ३१९ || [तत्र पूर्वाम्नायार्चा] त्रैलोक्यमोहने चक्रे सर्वा�सापरिपूरके | सर्वसंक्षोभणे चक्रे पूर्वाम्नायं समर्चयेत् || ३२० || [दक्षिणाम्नायार्चा] सर्वसौभाग्यदे चक्रे तथा सर्वार्थसाधके | सर्वरक्षाकरे चक्रे दक्षिणाम्नायमर्चयेत् || ३२१ || ३२० | एवं गुरुक्रमार्चामभिधायाऽम्नायदेवतार्चामभिदधानः प्रथमं पूर्वाम्नायसमर्चनक्रममाह - त्रैलोक्येत्यादिना | प्रागुक्ते त्रैलोक्यमोहनादिचक्रत्रये चतुरस्रषोड�सदलाष्टदलात्मके सृष्टिचक्रे पूर्वाम्नायं समर्चयेदित्यर्थः | एवं दक्षिणाम्नायादीनामपि वक्ष्यमाणरीत्या चक्रे यथास्थानमर्चना ज्ञेया | ३२१ | सर्वसौभाग्यदे चतुर्द�सारे, सर्वार्थसाधके वहिर्द�सारे, सर्वरक्षाकरेऽन्तर्द�सारे | एतत्त्रितये दक्षिणाम्नायमर्चयेदित्यर्थः | प्. ६६५) [प�स्चिमाम्नायार्चा] मध्यचक्रे यजेद्देवीं प�स्चिमाम्नायनायिकाम् | [उत्तराम्नायार्चा] अष्टचक्रे यजेद्देवीमुत्तराम्नायनायिकाम् || ३२२ || [अध-आम्नायार्चा] सर्वसिद्धिप्रदे चक्रे अध-आम्नायमर्चयेत् | [ऊर्ध्वाम्नायार्चा] सर्वाम्नायमये चक्र ऊर्ध्वाम्नायं प्रपूजयेत् || ३२३ || [तर्पणम्] पूर्वोक्तमन्त्रयोगेण ततः सन्तर्पयेत् क्रमात् || ३२४ || [पञ्चपञ्चिकाः, तत्र पञ्चलक्ष्म्यः] �स्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च | त्रि�सक्तिः सर्वसाम्राज्यलक्ष्मीः पञ्च प्रकीर्तिताः || ३२५ || ३२२ | मध्यचक्र इति | मध्यचक्रत्रये - मध्यचक्रत्रये देवि प�स्चिमाम्नायमर्चयेत् |
SK
इति ज्ञानार्णवे षोड�सपटले व्यक्तमभिधानात् | मध्यचक्रत्रयञ्च सर्वरोगहरचक्रम् अष्टकोणात्मकम्, सर्वसिद्धिप्रदचक्रं त्रिकोणात्मकम्, सर्वानन्दमयचक्रं मध्यबिन्द्वात्मकम् | अष्टचक्र इति | अत्र - नवचक्रेषु देवे�सि कौबेराम्नायमर्चयेत् | इति ज्ञानार्णवे पाठः | ३२३ | सर्वसिद्धिप्रद इति | निरुक्तमध्यत्रिकोण इत्यर्थः | सर्वेति | सर्वाम्नायमये चक्रे मध्यबिन्द्वात्मकसर्वानन्दमयचक्र इत्यर्थः | तन्त्रसारकारैरपि वैन्दवचक्रे ऊर्ध्वाम्नायार्चाऽभिहिता | ज्ञानार्णवतन्त्रसारयोरध-आम्नायार्चाक्रमो न दृ�स्यते, आम्नायार्चाक्रमस्तु तन्त्रसारादावनुसन्धेयः | ३२५ | अथ पञ्चपञ्चिकार्चामभिधास्यन् प्रथमपञ्चलक्ष्मीर्निरूपयति-�स्रीविद्येति | प्. ६६६) [पञ्च को�साः] �स्रीविद्या च परंज्योतिः परा निष्कल�साम्भवी | अजपा मातृका चेति पञ्च को�साः प्रकीर्तिताः || ३२६ || [पञ्च कल्पलताः] �स्रीविद्या त्वरिता चेति पारिजाते�स्वरी तथा | त्रिपुटा पञ्चकामे�सी पञ्च कल्पलताः स्मृताः || ३२७ || [पञ्च कामदुघाः] �स्रीविद्या मृतपीठे�सी सुधा�स्रीरमृते�स्वरी | अन्नपूर्णेति विख्याताः पञ्च कामदुघाः स्मृताः || ३२८ || [पञ्चरत्नाः] �स्रीविद्या सिद्धलक्ष्मी�स्च मात�न्गी भुवने�स्वरी | वाराहीति च संप्रोक्ताः पञ्चरत्नाः प्रकीर्तिताः || ३२९ || �स्रीविद्या लक्ष्मीर्महालक्ष्मीस्त्रि�सक्तिः सर्वसाम्राज्येति पञ्च लक्ष्म्यः | अत्र ज्ञानार्णवे षोड�सपटले - �स्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च | त्रि�सक्तिः सर्वसाम्राज्या पञ्च लक्ष्म्यः प्रकीर्तिताः || इति पाठः | ३२६ | �स्रीविद्येति | ज्ञानार्णवे तु पञ्चलक्ष्मीनिरूपणात् पूर्वं पञ्चको�सनिरूपणं दृ�स्यते | �सिष्टं स्पष्टम् | ३२८ | कामदुघाः कामधेनवः | तथाच ज्ञानार्णवे षोड�सपटले- �स्रीविद्येत्यादिसमानानुपूर्वीकवचने पञ्च कामदुघाः स्मृता इत्यत्र पञ्चैताः कामधेनव इति पाठो दृ�स्यते | त्रिपुरार्चनरहस्ये तु कामदुघेत्येव पाठो वाक्ये विनियुक्तः | प्. ६६७) [पञ्चपञ्चिकार्चास्थानम्]
SK
�स्रीविद्यापूजनस्थाने चक्रराजे महोदये | महाकोषे�स्वरीवृन्दमण्डितासनसंस्थिता || ३३० || [पञ्चपञ्चिकार्चाक्रमः] सर्वसौभाग्यजननीं पादुकां पूजयामि च | इत्युच्चार्य परंज्योतिःको�साढ्यां(?) परिपूजयेत् || ३३१ || अनेनैव विधानेन पूजयेत् पञ्चपञ्चिकाम् | [निगमनम्] एवं संपूज्य सकलं �स्रीविद्यां परितो यजेत् || ३३२ || [तर्पणम्] तर्पणानि पुनः कुर्यात् त्रिः सकृद्वा यथेच्छया | [अणिमादिप्रकटयोगिनीध्यानम्] अणिमाद्या रक्तवर्णास्त्रिनेत्राः �स�सि�सेखराः || ३३३ || सव्यदक्षिणहस्ताभ्यां विधृताभयपुस्तिकाः | त्रैलोक्यमोहने चक्रे ध्यायेत् प्रकटयोगिनीम्?(ः) || ३३४ || ३३० | �स्रीविद्येति | �स्रीविद्यापूजनस्थाने बैन्दवचक्रे इत्यर्थः, �स्रीविद्यापूजनस्थाने बैन्दवे पञ्चपञ्चिकाः | इति त्रिपुरार्चनरहस्ये व्यक्तमभिधानात् | ३३१ | निरुक्तपञ्चपञ्चिकापूजनक्रममाह - सर्वेति | वि�सेषस्तु ज्ञानार्णवे षोड�सपटलेऽनुसन्धेयः | परंज्योतिःको�साढ्यामिति लक्ष्मीवि�सेषणम्, परज्योतिर्मयीमित्यर्थः | को�साद्यामिति ज्ञानार्णवपाठे तु पञ्चको�सादिपञ्चपञ्चिकामित्यर्थः, तत्र पञ्चको�सानामेव प्रथमं निरूपणम् | ३३३-३३४ | अथाणिमादिप्रकटयोगिनीध्यानमाह - अणिमेत्यादिना | त्रैलोक्यमोहने षोड�सदलाद् बहिर्वृत्तत्रयात्मके चक्रे इत्यर्थः | स्पष्टमिदं प्रकरणम् | प्. ६६८) [अणिमाद्यर्चास्थानम्] अणिमां प�स्चिमद्वारि दक्षभागे प्रपूजयेत् | लघिमामुत्तरद्वारि प�स्चिमे परिपूजयेत् || ३३५ || पूर्वद्वारे च महिमामुत्तरे तु समर्चयेत् | दक्षिणद्वारदे�से च ई�सित्वाख्याञ्च पूर्वतः || ३३६ || व�सित्वाख्याञ्च वायव्ये प्राकाम्यसिद्धिमी�सके | मुक्तिसिद्धिं तथाऽग्नेय्यामिच्छासिद्धिञ्च नैर्-ऋते || ३३७ || अधस्तात् प्राप्तिसिद्धिञ्च सर्वकामं तदूर्ध्वतः | [असिता�न्गाद्यष्टभैरवध्यानोपदे�सः] मध्यद्वारे ततो ध्यायेत् प�स्चिमादिक्रमेण तु || ३३८ || [असिता�न्गाद्यष्टभैरवनिरूपणम्] असिता�न्गं रुरुं चण्डं क्रोधमुन्मत्तभैरवम् | कपालिनं भीषणञ्च संहारञ्चाष्टभैरवम् || ३३९ ||
SK
[भैरवाणां ध्यानम्] एते �स्यामास्त्रिनयना भृकुटीभीषणाननाः | �सूलं दण्डञ्च वेतालं कपालं क्षुद्रघण्टिकाम् | विधृता वेदहस्तेन गजचर्मोत्तरां�सुकाः || ३४० || ३३८ | मध्येति | अत्र प्रकटयोगिनीध्यानावसरेऽसिता�न्गादिभैरवध्यानोपदे�सो भ्राह्म्याद्यष्ट�सक्तिपूजार्थः | वक्ष्यति च - भैरवा�न्कस्थिता एता पूज्या वै भैरवैः सहेति (३४९ �स्लो.) | मध्यद्वारे मध्यचतुरस्रस्य द्वारचतुष्टये प�स्चिमादिक्रमेण ध्यायेदिति सम्बन्धः | प्. ६६९) [अष्ट�सक्तीनां ध्यानम्, तत्र ब्रह्माण्याः] ब्रह्माणी पीतवर्णा च चतुर्भिः �सोभिता मुखैः | वरदाभयहस्ता च कुण्डिकाक्षलसत्कराः || ३४१ || [माहे�स्वर्याः] माहे�स्वरी �स्वेतवर्णा त्रिनेत्रा �सूलधारिणी | कपालमालां पर�सुं दधाना सिद्धिदायिनी || ३४२ || [कौमार्याः] कौमारी पीतवर्णा च �सक्तितोमरधारिणी | वरदाभयहस्ता च ध्यातव्या साधकोत्तमैः || ३४३ || [वैष्णव्याः] वैष्णवी �स्यामलच्छाया �स�न्खचक्रगदाकरा | बिभ्रती करपद्मञ्च दिव्यभूषणभूषिता || ३४४ || [वाराह्याः] वाराही �स्यामलच्छाया वराहवदना �सुभा | हलञ्च मूषलं खड्गं खेटकं दधती भुजैः || ३४५ || [इन्द्राण्याः] इन्द्राणी �स्यामलच्छाया रक्तोत्पललसत्करा || ३४६ || [चामुण्डायाः] चामुण्डा कृष्णवर्णा च �सूलं डमरुमेव च | खड्गं वेतालकञ्चैव विधृता दक्षिणैर्भुजैः | नगखेटकघण्टाञ्च दधानोच्चैः कपालकम् || ३४७ || [महालक्ष्म्याः] महालक्ष्मीस्तु पीताभा पद्मं दर्पणमेव च | मातुलु�न्गफलञ्चैव दधाना परमे�स्वरी || ३४८ || प्. ६७०) [निरुक्ताष्ट�सक्तीनां पूजायां वि�सेषः] भैरवा�न्कस्थिता एताः पूज्या वै भैरवैः सह || ३४९ || [पूजास्थानम्] महेन्द्रादी�सपर्यन्तं पूजयेत् क्रमतोऽथवा | प�स्चिमोत्तरमाहेन्द्रदक्षद्वारे क्रमेण तु || ३५० || वाय्वी�सवह्निरक्षःस्थयुग्मायुग्मस्वरैः सह | [मन्त्रे वि�सेषः] ह्रस्वार्णा भैरवा मन्त्रा मातॄणां दीर्घरूपकाः || ३५१ || [मुद्रार्चा]
SK
अन्तर्द्वारे प्रतीच्याद्याः सर्वसंक्षोभणादिकाः | रक्ताः पा�सा�न्कु�सधरा ध्यात्वा तत्तन्मनुं स्मरन् || ३५२ || ३४९ | अथ निरुक्तानां ब्राह्म्याद्यष्ट�सक्तीनां पूजायां वि�सेषमाह-भैरवेति | भैरवा�न्कस्थिताः प्रागुक्तासिता�न्गाद्यष्टभैरवक्रोडस्थिता एता ब्राह्म्याद्यष्ट�सक्तयः भैरवैरसिता�न्गादिभिः सह पूज्या इत्यर्थः | ३५०-३५१ | अथाष्ट�सक्तीनां पूजास्थानं वि�सिष्य निरूपयति - महेन्द्रादिति | एवञ्च पूर्वतः प्रादक्षिण्येने�सानकोणान्तं क्रमेण पूजयेदित्यर्थः | क्रमान्तरमाह - अथवेति | एवञ्च प�स्चिमादिदक्षिणान्तद्वारचतुष्टये वायव्यादिनैर्-ऋतान्तकोणचतुष्टये च पूजयेदित्यर्थः | युग्मेति | अयुग्मस्वरैः प्रथमतृतीयादिभिः, युग्मस्वरैः द्वितीयचतुर्थादिभि�स्च सह पूजयेदिति सम्बन्धः | इममेव स्वरविभागं वि�सिनष्टि - ह्रस्वार्णा इति | एवञ्च भैरवमन्त्रादौ अकारादिह्रस्वस्वरान् अष्ट�सक्तिमन्त्रादावाकारादिदीर्घस्वरान् योजयेदित्यर्थः | यद्यप्येकाद�सादिस्वरेषु ह्रस्वार्णत्वं व्यभिचरति तथाऽपि ह्रस्वार्णा इत्यस्य द्वयोर्द्वयोः पूर्वपूर्वस्वरोपलक्षकत्वाददोषः | ३५२-३५३ | अन्तर्द्वारे अभ्यन्तरचतुरस्रद्वारचतुष्टये प्रतीच्याद्याः प�स्चिमादि - प्. ६७१) प्रपूजयेत्त्रिखण्डान्तु वाग्भवं बीजमुच्चरन् | [मुद्रार्चायां दि�न्नियमः] प�स्चिमादिक्रमेणैव पूर्ववद्दिग्विदिक्षु च || ३५३ || [तत्र वि�सेषः] ऊर्ध्वाधःक्रमयोगेण खेचरीं योनिमर्चयेत् | [निगमनम्] एताः प्रकटयोगिन्यः पान्तु त्रिचतुरस्रगाः || ३५४ || [चक्रार्चा] त्रैलोक्यमोहनं नाम चक्रं संपूजयेत्ततः | [त्रिपुरायाः स्वरूपं पूजनञ्च] प्रथमावरणे देवीं त्रिपुरां चक्रनायिकाम् || ३५५ || पा�सा�न्कु�सकरां रक्तां त्रिनेत्रां परिचिन्तयेत् | [अणिमासिद्ध्याद्यर्चा] अणिमासिद्धिपुरतः पूजयेत्तन्मनुं स्मरन् | सर्वसंक्षोभिणीं कृत्वा बुद्धञ्च परिपूजयेत् || ३५६ ||
SK
स्थिताः सर्वसंक्षोभणादिकाः प्रागुपदर्�सिता मुद्राः प्रपूजयेत् इत्यर्थः | तत्तन्मनुं स्मरन्निति प्रागुक्तक्रमेण बीजमुच्चार्य सर्वसंक्षोभणीमुद्रा�स्रीपादुकां पूजयामीत्यादिरूपः प्रयोगः कर्तव्य इत्यर्थः | प�स्चिमादीति | पूर्ववत् प्रागुक्ताष्ट�सक्तिपूजनक्रमेणेत्यर्थः | ३५४ | खेचरीयोनिमुद्रयोर्वि�सेषमाह-ऊर्ध्वाध इति | ऊर्ध्वद्वारे खेचरीमुद्रामध�स्च योनिमुद्रामर्चयेदित्यर्थः | त्रिचतुरस्रगा इति प्रागुक्तचतुरस्रत्रयस्थिताः | ३५५-३५६ | त्रैलोक्येति | त्रैलोक्यमोहनचक्राय नम इति पूजयेत् | एवमेव त्रिपुरार्चनरहस्येऽपि | तन्त्रसारे तु त्रैलोक्यमोहनचतुरस्रचक्राय नम इति प्रयोग उक्तः | प्रथमावरण इति | (अं आं सौः) त्रिपुरे�स्वरीचक्रनायिका�स्रीपादुकां पूजयामि नम इति प्रयोगः | अणिमेति | पूर्वं यदणिमासिद्धेः स्थानं दर्�सितं तत्रैव प�स्चिमद्वारे सर्वसंक्षोभिणीमुद्रां पूजयेदित्यर्थः | व्यक्तमाह ज्ञानार्णवे - प्. ६७२) [बौद्धमन्त्रः] प्रणवञ्च ततस्तारे चण्डारे भैरवद्वयम् | वह्निजायानिगदितो बौद्धमन्त्रो मनीषिभिः || ३५७ || [बुद्धतद्दर्�सनयोरर्चा] बुद्धाय बौद्धपूर्वाय दर्�सनाय नमः परम् || ३५८ || [देव्यै पूजार्पणम्] एताः प्रकटयोगिन्य इति त्रैलोक्यमोहने | चक्रे समुद्रा इति च ससिद्धयस्तु सायुधाः || ३५९ || सवाहनाः सवर्णाद्याः परिवाराः सपूर्विकाः | ततः सर्वोपचारै�स्च पूजिताः सन्तु चोच्चरन् || ३६० || [पूजासमर्पणद्रव्यम्] अर्घ्योदकाक्षतैः पुष्पैर्देव्यै पूजां समर्पयेत् | [गुप्तयोगिनीनां स्वरूपमर्चाक्रम�स्च] जवाकुसुमस�न्का�साः कामाकर्षणिकादिकाः || ३६१ || अणिमासिद्धिपुरतः सर्वकार्यार्थसाधिकाम् | सर्वसंक्षोभिणीं मुद्रां दर्�सयेत् कमलानने || इति | तत्रैवाणिमासिद्धि�स्रीपादुकां पूजयामि नम इति प्रयोगः | तथा सर्वसंक्षोभिणीमुद्रा�स्रीपादुकां पूजयामि नम इति प्रयोगः | ३५७ | बुद्धञ्च परिपूजयेदित्युक्तम्, तद्बुद्धमन्त्रमाह-प्रणवञ्चेत्यादिना |
SK
३५९-३६० | अथ देव्यै प्रकटयोगिनीपूजासमर्पणमुपदि�सति - एता इत्यादिना | तथाच एताः प्रकटयोगिन्यस्त्रैलोक्यमोहने चक्रे समुद्राः ससिद्धयः सायुधाः सवाहनाः सपरिवाराः सर्वोपचारैः पूजिताः सन्तु इति प्रयोगः | तत्रसारे तु पूजितास्तर्पिताः सन्तु इति प्रयोगो दृ�स्यते | स तु निरुक्तप्रमाणविरोधितया नात्र प्रदर्�सितः | ३६१-३६२ | अथ षोड�सदले सर्वा�सापरिपूरकचक्रे वक्ष्यमाणानां गुप्तयोगिनीनां प्. ६७३) पा�स�सूलधराः पूज्या वामावर्तेन षोड�स | प�स्चिमादिक्रमेणापि बिन्दुयुक्तैः स्वरैः सह || ३६२ || [कामाकर्षिण्यादिषोड�सगुप्तयोगिन्यः] कामाकर्षणरूपाञ्च बुद्ध्याकर्षणरूपिणीम् | अह�न्काराकर्षणीञ्च �सब्दाकर्षणरूपिणीम् || ३६३ || पूजनमभिधास्यन् तासां स्वरूपमाह - जवेत्यादिना | वामावर्तेनेति | प�स्चिमादिक्रमेण सबिन्दुकैः स्वरैः क्रमेणादित एकैक�सो निवे�सितैः स्वरैः सह पूजयेदिति सम्बन्धः; तदुक्तं ज्ञानार्णवे षोड�सपटले - प�स्चिमादिविलोमेन षोड�सारे स्वरान्विताः | एता नित्याः कलाः पूज्याः स्रवत्पीयूषमण्डलाः || इति | एवञ्च अं कामाकर्षिणीनित्याकला�स्रीपादुकां पूजयामि नमः | आं बुद्ध्याकर्षिणीनित्याकला�स्रीपादुकां पूजयामि नमः इत्यादिरूपः प्रयोगः कर्तव्य इति ज्ञेयः | द्वितार्यादिप्रयोगस्तु पूर्ववदेव | ३६३-३६५ | अथ कामाकर्षिण्यादिषोड�सगुप्तयोगिनीर्निरूपयति - कामाकर्षण - प्. ६७४) स्पर्�साकर्षणरूपाञ्च रूपाकर्षणरूपिणीम् | स्मृत्याकर्षणरूपाञ्च नामाकर्षणरूपिणीम् || ३६४ || बीजाकर्षणरूपाञ्च आत्माकर्षणरूपिणीम् | अमृताकर्षिणीं देवीं �सरीराकर्षिणीं तथा || ३६५ || [तासामर्चास्थानम्] एतास्तु गुप्तयोगिन्यः सर्वा�सापरिपूरके | [चक्रपूजा] सर्वा�सापूरकं नाम चक्रं संपूजयेत्ततः || ३६६ || [चक्रनायिकार्चा] कामाकर्षणरूपायाः पुरतस्त्रिपुरे�स्वरीम् | द्वितीयावरणे मन्त्री त्रिनेत्रां चक्रनायिकाम् || ३६७ ||
SK
रूपाञ्चेत्यादिना | अत्र मूलोक्तः पाठः प्रामादिक इति ज्ञानार्णवतन्त्रानुसारेण गुप्तयोगिनीनां नामानि निर्दि�स्यन्ते | यथा ज्ञानार्णवे षोड�सपटले - कामाकर्षिणिकां देवि बुद्ध्याकर्षिणीकां तथा | अह�न्काराकर्षिणीञ्च �सब्दाकर्षणरूपिणीम् || स्पर्�साकर्षिणी(?)रूपाञ्च रूपाकर्षिणि(?)रूपिणीम् | रसाकर्षकरीञ्चैव गन्धाकर्षणकारिणीम् || चित्ताकर्षिणिकां तद्वद् धैर्याकर्षिणिकां प्रिये | नामाकर्षिणिकाञ्चैव बीजाकर्षिणिकान्तथा || अमृताकर्षिणीञ्चैव स्मृत्याकर्षिणिकां प्रिये | �सरीराकर्षिणीञ्चैव आत्माकर्षणरूपिणीम् || प�स्चिमादिविलोमेन षोड�सारे स्वरान्विताः | एता नित्याः कलाः पूज्याः स्रवत्पीयूषमण्डलाः || इति | अमृतानन्दनाथकृतायां योगिनीहृदयटीकायां तन्त्रसारे च योगिनीनामासां पूजने पौर्वापर्यक्रमभेदो दृ�स्यते | ३६६ | सर्वा�सेति | सर्वा�सापरिपूरकचक्राय नमः इति प्रयोगः | ३६७ | अथ निरुक्तचक्रनायिकार्चामाह - कामेति | कामाकर्षणरूपायाः प्. ६७५) पा�स�सूलधरां देवीं तस्य मन्त्रेण पूजयेत् | [मुद्रादर्�सनम् ब्रह्मणः पूजनञ्च] सर्वविद्रावणीं कृत्वा ब्रह्माणं परिपूजयेत् || ३६८ || [पूजामन्त्रः] पतृतीयं वह्नियुतं �सेषाख्येन्दुसमन्वितम् | [दर्�सनार्चा] ब्रह्मणे वैदिकेत्युक्त्वा दर्�सनाय नमः स्मरन् || ३६९ || [पूजासमर्पणम्] अथैता गुप्तयोगिन्यः सर्वा�सापरिपूरके | चक्रे समुद्रा इत्यादिपूर्ववन्मनुनाऽमुना | समर्प्य मूलदेव्यैतां पूजामर्घ्योदकादिभिः || ३७० || प्रथमयोगिन्याः पुरतस्त्रिपुरे�स्वरीं चक्रनायिकां पूजयेदिति सम्बन्धः | तथाच ज्ञानार्णवे षोड�सपटले - चक्रे�स्वरीं यजेद् देवीं त्रिपुरे�सीं समृद्धिदाम् | कामाकर्षणरूपायाः पुरतः पूजयेत् प्रिये | इति | प्रयोगस्तु द्वितार्याद्यन्यतमानन्तरं त्रिपुरे�स्वरीचक्रनायिका�स्रीपादुकां पूजयामि नमः इति | तन्त्रसारे तु पूर्वतः ऐं क्लीं सौरिति बीजत्रययोग उक्तः |
SK
३६८-३६९ | सर्वविद्रावणीमिति | पूर्वोपदर्�सितां सर्वाविद्रावणीमुद्रां प्रदर्�स्येत्यर्थः | ब्रह्मणो मन्त्रमाह - पतृतीयमिति | पकारस्य तृतीयो वर्णो वकारः स च वह्निना रकारेण युक्तः | �सेषाख्येण द्वितीयस्वरेण इन्दुना बिन्दुना च समन्वितः | एतेन ब्रां इति प्राप्तम् | एवञ्च ब्रां ब्रह्मणे नमः इति ब्रह्माणं परिपूजयेत् इति फलितार्थः | वैदिकेति | वैदिकदर्�सनाय नमः इति प्रयोगः | ३७० | अथ देव्यै पूजासमर्पणमाह - अथैता इत्यादिना | एवञ्च - एता गुप्तयोगिन्यः सर्वा�सापरिपूरके चक्रे समुद्राः ससिद्धयः सायुधाः सवाहनाः सपरिवाराः पूजिताः सन्तु इति प्रयोगः | प्. ६७६) [गुप्ततरयोगिनीनामर्चा स्वरूपञ्च] अष्टपत्रे यजेन्मन्त्री कादिवर्गाष्टकेन च || ३७१ || अन�न्गकुसुमारक्ता रक्तवस्त्रास्त्रिलोचनाः | अक्षस्रक्पुस्तकाभीतिवरदाढ्यकराम्बुजाः || ३७२ || अन�न्गकुसुमां पूर्वे दक्षिणेऽन�न्गमेखलाम् | प�स्चिमेऽन�न्गमदनामुत्तरे मदनातुराम् || ३७३ || अन�न्गरेखाञ्चाऽग्नेय्यां नैर्-ऋतेऽन�न्गवेगिनीम् | अन�न्गा�न्कु�सान्तु वायव्ये �सम्भौ चान�न्गमालिनीम् || ३७४ || [आसां तृतीयावरणवृत्तित्वम्] एता गुप्ततराः सर्वास्तृतीयावरणे स्थिताः | [चक्रार्चा] सर्वसंक्षोभणं चक्रमष्टारञ्च प्रपूजयेत् || ३७५ || ३७१-३७२ | एवं षोड�सदले सर्वा�सापरिपूरकचक्रे कामाकर्षिण्यादीनां पूजनमभिधाय तदन्तरष्टदले सर्वसंक्षोभणचक्रेऽन�न्गकुसुमादीनां गुप्ततरयोगिनीनां पूजनमाह - अष्टपत्र इत्यादिना | कादीति | कादिवर्गाणामेकैकं सबिन्दुकमादौ योजयित्वा पूजयेदित्युत्तरत्र दर्�सयिष्यामः | अन�न्गकुसुमारक्तेति स्पष्टम् | अत्र अन�न्गकुसुमारक्तेत्यादिना प्राथम्यादन�न्गकुसुमायाः स्वरूपं प्रदर्�सितम्, अन्यासामपि स्वरूपमिदमेव बोध्यम् | योगिनीहृदये तृतीयपटले - अन�न्गकुसुमाद्यास्तु रक्तकञ्चुक�सोभिताः | वेणीकृतलसत्के�सा�स्चापबाणधराः �सुभाः || इत्यभिन्नरूपतादर्�सनात् |
SK
३७३-३७४ | पूजास्थानमाह - अन�न्गेत्यादिना | पूर्वे पूर्वपत्रे यजेदिति सम्बन्धः | एवमन्यत्रापि | एवञ्च कं खं गं घं �नं अन�न्गकुसुमादेवी�स्रीपादुकां पूजयामीत्यादिरूपः प्रयोगः | त्रितार्यादिप्रयोगस्तु पूर्ववदेव | कादिवर्गाष्टकपूर्वकत्वं व्यक्तमाह ज्ञानार्णवे षोड�सपटले - प्. ६७७) [चक्रनायिकार्चा] अन�न्गकुसुमाग्रे तु चक्रे�सीं सुन्दरीं यजेत् || ३७६ || [मुद्राप्रदर्�सनम्, �सिवार्चा] तत आकर्षिणीं कृत्वा प्रासादेन �सिवं यजेत् | [दर्�सनार्चा] �सिवाय �सैवरूपाय दर्�सनाय नमः स्मरन् || ३७७ || सर्वसंक्षोभणे चक्रे यजेद् गुप्ततराभिधाः | अन�न्गकुसुमां प्राच्यां क-वर्गेण प्रपूजयेत् || दक्षिणे च च-वर्गेण तथा चान�न्गमेखलाम् | अन�न्गमदनां प�स्चाट्ट-वर्गेण प्रपूजयेत् || त-वर्गेणोत्तरे प�स्चादन�न्गमदनातुराम् | अन�न्गरेखामाग्नेये प-वर्गेण प्रपूजयेत् || राक्षसेऽन�न्गवेगान्तु य-वर्गेण प्रपूजयेत् || वायव्ये तु �स-वर्गेण तथाऽन�न्गा�न्कु�सां यजेत् | ई�सान्ये ल-क्ष-वर्गेण पूज्याऽन�न्गादिमालिनी || इति | अत्रान�न्गादिमालिनी अन�न्गमालिनीत्यर्थः | सर्वेति | तथाच सर्वसंक्षोभणाष्टारचक्राय नम इति प्रयोगः | ३७६ | चक्रे�स्वरीपूजनमाह - अन�न्गेति | अन�न्गकुसुमायाः प्रथमयोगिन्या अग्रे चक्रे�स्वरीं त्रिपुरसुन्दरीं पूजयेदित्यर्थः | तथाच ज्ञानार्णवे षोड�सपटले - चक्रे�स्वरीं यजेद्देवीं ततस्त्रिपुरसुन्दरीम् | अन�न्गकुसुमाग्रे च सर्वसाम्राज्यदायिनीम् || इति | अत्र तन्त्रसारकृता त्रितारीप्रयोगानन्तरम् ऐ/ क्लीं सौः त्रिपुरसुन्दरीचक्रनायिका�स्रिपादुकां पूजयामि नमः इति प्रयोगो दर्�सितः | ३७७ | तत इति | तत�स्चक्रे�स्वरीपूजनानन्तरम् आकर्षिणीं कृत्वा सर्वाकर्षिणीमुद्रां प्रदर्�स्येत्यर्थः सर्वाकर्षणमुद्राञ्च दर्�सयेत् सुरवन्दिते इति ज्ञानार्णवे षोड�सपटले प्. ६७८) [पूजासमर्पणम्] एता गुप्ततरेत्युक्त्वा योगिन्य इति �सब्दतः | सर्वसंक्षोभवर्णान्ते कारके चक्र इत्यपि || ३७८ ||
SK
समुद्रेत्यादिसर्वञ्च पूर्ववत् परिकल्पयेत् | सर्वसिद्धिप्रदं नाम सृष्टिचक्रत्रयात्मकम् || ३७९ || [सत्सम्प्रदाययोगिनीनामर्चा] चतुर्द�सारचक्रे तु पूजयेत् प�स्चिमक्रमात् | वामावर्तेन मन्त्रज्ञः सर्वसंक्षोभणादिकाः || [तासां स्वरूपम्] सूर्यकान्तप्रतीका�सा धनुर्बाणकराम्बुजाः || ३८० || [चतुर्द�स सत्सम्प्रदाययोगिन्यः] सर्वसंक्षोभिणीं �सक्तिं सर्वविद्रावणीं तथा | सर्वाकर्षण�सक्तिञ्च सर्वाह्लादनकारिणीम् || ३८१ || व्यक्तमभिधानात् | अनेन सर्वाकर्षिणीमुद्रायाः प्रदर्�सनमेव प्रतीयते नतु पूजनम् | अत्र तन्त्रसारकृता सर्वाकर्षिणीमुद्रा�स्रीपादुकां पूजयामि नमः इति यत् पूजनमुक्तं तत्रानुकूलं प्रमाणं किमपि नोपलभ्यते | प्रसादेन हौं इति प्रसादबीजेन | हौं �सिवाय नमः | �सैवदर्�सनाय नमः इति | तन्त्रसारे तु जितेन्द्रदर्�सनाय नमः इति दृ�स्यते | ३७८-३७९ | एता इति | तथाच एता गुप्ततरयोगिन्यः सर्वसंक्षोभकारके चक्रे समुद्राः ससिद्धयः सायुधाः सवाहनाः सपरिवाराः सर्वोपचारैः पूजिताः सन्तु इति मूलदेव्यै प्रागुक्तक्रमेण पूजां समर्पयेत् | ३८० | अथ चतुर्द�सारे सर्वसौभाग्यदायकचक्रे सर्वसंक्षोभण्यादि�सक्तीनां सत्सम्प्रदाययोगिनीनां पूजनमाह - चतुर्द�सारेत्यादिना | एतासां ध्यानमाह - सूर्येति | ३८१-३८३ | सर्वसंक्षोभणी�सक्त्यादिचतुर्द�ससत्सम्प्रदाययोगिनीराह � सर्व - प्. ६७९) सर्वसम्मोहनीं �सक्तिः सर्वस्तम्भनरूपिणीम् | सर्वजृम्भण�सक्तिं च सर्वतोव�सकारिणीम् | सर्वरञ्जन�सक्तिञ्च सर्वोन्मादस्वरूपिणीम् || ३८२ || सर्वार्थसाधिनीं �सक्तिं सर्वसम्पत्तिपूरणीम् | सर्वमन्त्रमयीं �सक्तिं सर्वद्वन्द्वक्षय�न्करीम् || ३८३ || [एतासां प्रथमावरणवृत्तित्वम्] सत्सम्प्रदाययोगिन्यः प्रथमावरणे स्थिताः | [अर्चाक्रम�स्चक्रपूजनञ्च] कादिढान्ताक्षरैरिष्ट्वा सर्वसौभाग्यदं यजेत् || ३८४ || [एतच्चक्रनायिकायाः पूजनं स्वरूपञ्च] सर्वसंक्षोभणीं �सक्तिं पुरतः पुरवासिनीम् |
SK
संक्षोभणीमित्यादिना सर्वद्वन्द्वक्षय�न्करीमित्यन्तेन | सर्वत्र पूजयेदिति पूर्वेण सम्बन्धः | ३८४ | पूजने योगिनीनां पुरतो वर्णयोजनमाह - कादीति | ककारादि-ढकारान्तानि चतुर्द�साक्षराणि सबिन्दुकानि क्रमेणैकैक�सः पूर्वतो योजयित्वाऽर्चयेदिति बोध्यम्, तथा च द्वितार्याद्यन्यतमप्रयोगानन्तरं कं सर्वसंक्षोभणी�सक्ति�स्रीपादुकां पूजयामि नमः | खं सर्वविद्रावणी�सक्ति�स्रीपादुकां पूजयामि नमः इत्यादिरूपाः प्रयोगा ज्ञेयाः | पूजनन्तु वामावर्तेन कर्तव्यम्, सर्वसौभाग्यदे चक्रे प�स्चिमादिविलोमतः | वाममार्गेण देवे�सि संपूज्याः सर्वसिद्धिदाः || इति ज्ञानार्णवे षोड�सपटले वि�सिष्याभिधानात् | सर्वेति | तथाच सर्वसौभाग्यदायकचतुर्द�सारचक्राय नम इति प्रयोगः | ३८५ | सर्वसंक्षोभणीमिति | निरुक्तासु चतुर्द�सयोनिनीषु प्रथमायाः सर्वसंक्षोभणी�सक्त्याः पुरतः पुरवासिनीं त्रिपुरवासिनीं पूजयेत् | तथाच त्रिपुरवासिनीचक्रनायिका - प्. ६८०) हिमकुन्देन्दुधवलां �स्रीचक्रनायिकां पराम् | पा�सा�न्कु�सवराभीतिकरां पीनपयोधराम् || ३८५ || [मुद्राप्रदर्�सनं सूर्यपूजनञ्च] व�स्यमुद्रां दर्�सयित्वा सूर्यं तन्मनुना यजेत् | [दर्�सनार्चा] सूर्याय सौरपूर्वाय दर्�सनाय नमः स्मरन् || ३८६ || [पूजासमर्पणम्] एताः सम्प्रदाययोगिन्यः सर्वसौभाग्यदायके | चक्रे समुद्रा इत्यादि पूर्ववत् परिकल्पयेत् || ३८७ || [कुलकौलिकयोगिनीनां स्वरूपं स्थापनञ्च] वराभयकराः �स्वेताः सर्वसिद्धिप्रदायिकाः | सर्वार्थसाधके चक्रे पञ्चमावरणे स्थिताः || ३८८ || �स्रीपादुकां पूजयामि नम इति प्रयोगः | तन्त्रसारे तु पूर्वतः हैं हः क्लीं हसौः इति बीजचतुष्टययोगो दृ�स्यते | ३८६ | व�स्येति | प्रागुपदर्�सितां सर्वव�स्यकरीं मुद्रां प्रदर्�स्येत्यर्थः | सूर्यमिति | सूर्यं संपूज्य सौरदर्�सनाय नम इति पूजयेत् इत्यर्थः | तन्त्रसारे तु अत्र सांख्य- मीमांसान्यायदर्�सनेभ्यो नम इति दृ�स्यते |
SK
३८७ | एता इति | तथाच एताः संप्रदाययोगिन्यः सर्वसौभाग्यदायके चक्रे समुद्राः ससिद्धयः सायुधाः सवाहनाः सपरिवाराः सर्वोपचारैः पूजिताः सन्तु इति पूर्ववन्मूलदेव्यै पूजां समर्पयेत् | ३८८ | अथ बहिर्द�सारे सर्वार्थसाधकचक्रे कुलकौलिकयोगिनीनां पूजनमभिधास्यन् तासां स्वरूपमाह - वरेति | सर्वेति | एवंलक्षणा वक्ष्यमाणाः सर्वसिद्धिप्रदादिकुलकौलिकयोगिन्यः पञ्चमावरणे बहिर्द�सारे स्थिता इत्यर्थः | तदुक्तं ज्ञानार्णवे षोड�सपटले - प्. ६८१) [पूजापरिपाटी] णादिभान्ताक्षरं दत्त्वा प�स्चिमादिक्रमाद् यजेत् || ३८९ || [द�स कुलकौलिकयोगिन्यः] सर्वसिद्धिप्रदां देवीं सर्वसम्पत्प्रदां तथा | सर्वप्रिय�न्करीञ्चैव सर्वम�न्गलकारिणीम् || ३९० || सर्वकामप्रदां देवीं सर्वदुःखप्रमोचिनीम् | सर्वमृत्युप्र�समनीं सर्वविघ्नविना�सिनीम् || ३९१ || सर्वा�न्गसुन्दरीं देवीं सर्वसौभाग्यदायिनीम् | [एतासां पूजनोपदे�सः] कुलकौलिकयोगिन्य एतास्तु परिपूजयेत् || ३९२ || [चक्रार्चा] सर्वार्थसाधकं चक्रं ततः पूर्वोक्तलक्षणम् | [चक्रनायिकार्चा] सर्वसिद्धिप्रदाग्रे तु नायिकां त्रिपुरा�स्रियम् || ३९३ || सर्वार्थसाधके चक्रे द�सारे कुलयोगिनीः | पूजयेत् सर्वकार्यार्थसिद्धिदाः पञ्चमे क्रमात् || इति | ३८९ | अथैतासां पूजापरिपाटीमाह -णादीति | णकारादिभकारान्तद�साक्षराणि सबिन्दुकानि एकैक�सः क्रमेणाऽदौ नियोज्य प�स्चिमतो वामावर्तेन पूजयेत् | प�स्चिमादिविलोमेन द�सारे पूजयेदिमाः | इति ज्ञानार्णवे षोड�सपटले वि�सिष्याभिधानात् | तथाच द्वितार्याद्यन्यतमानन्तरं णं सर्वसिद्धिप्रदादेवी�स्रीपादुकां पूजयामि नमः | तं सर्वसम्पत्प्रदादेवी�स्रीपादुकां पूजयामि नम इत्यादिरूपः प्रयोगः | अथ द�स कुलकौलिकयोगिनीराह - सर्वसिद्धिप्रदामित्यादिना सर्वसौभाग्यदायिनीमित्यन्तेन | सर्वेति सर्वाथसाधकबहिर्द�सारचक्राय नमः इति प्रयोगः |
SK
३९३-३९४ | चक्रे�स्वरीपूजनमाह - सर्वसिद्धीति | सर्वसिद्धिप्रदायाः प्रथमयोगिन्याः पुरत�स्चक्रनायिकां त्रिपुरा�स्रियं पूजयेत् | तथाच त्रिपुरा�स्रीचक्रनायिका - प्. ६८२) [मुद्राप्रदर्�सनादि] सन्दर्�स्योन्मादिनीं मुद्रां नारायणं प्रपूजयेत् | नमो नारायणं �नेऽन्तं प्रणवाद्यमथापि वा | विष्णवे वैष्णवान्ते च दर्�सनाय नतिं स्मरन् || ३९४ || एताः पदं समुद्धृत्य कुलकौलिकपदं ततः | योगिन्य इति सर्वार्थसाधके चक्र इत्यपि | ततः समुद्रा इत्यादिपूर्ववत् परिकल्पयेत् || ३९५ || [निगर्भयोगिनीनां स्वरूपं स्थानञ्च] पुस्ताभयज्ञानमुद्रा अक्षसूत्रकराः सिताः | सर्वरक्षाकरे चक्रे निगर्भयोगिनीगणाः || ३९६ || [पूजापरिपाटी] प�स्चिमादिक्रमादेता मादिक्षान्ताक्षरैर्यजेत् | [द�स निगर्भयोगिन्यः] सर्वज्ञां सर्व�सक्तिञ्च सर्वै�स्वर्यप्रदायिनीम् || ३९७ || �स्रीपादुकां पूजयामि नम इति प्रयोगः | तन्त्रसारे तु त्रितार्यनन्तरम् आदौ हसैं हसक्लीं हसौरिति बीजयोगो दृ�स्यते | सन्दर्�स्येति | उन्मादिनीं सर्वोन्मादिनीं प्रागुक्तलक्षणाम् | नारायणमिति, ॐ नमो नारायणायेत्यष्टाक्षरमन्त्रेण विष्णवे नम इत्यनेन वा पूजयेदित्यर्थः | वैष्णव इति | वैष्णवदर्�सनाय नम इति दर्�सनं पूजयेत् | ३९५ | एता इति | तथाच एताः कुलकौलिकयोगिन्यः सर्वार्थसाधके चक्रे समुद्राः ससिद्धयः सायुधाः सवाहनाः सपरिवाराः सर्वोपचारैः पूजिताः सन्तु इति प्रयोगः | ३९६-३९७ | अथान्तर्द�सारे सर्वरक्षाकरचक्रे सर्वज्ञादीनां निगर्भयोगिनीनां पूजनमभिदधानस्तासां स्वरूपमाह - पुस्तेति | प�स्चिमेति | प�स्चिमतो वामावर्तेनैताः पूजयेत् | प�स्चिमादिविलोमेन पूजयेत् प�न्क्तियोनिके | इति | मादिक्षान्ताक्षरैरिति | पूर्ववन्मकारादिक्षकारान्तद�साक्षराण्येकैक�सः क्रमेण प्. ६८३) सर्वज्ञानमयीं देवीं सर्वव्याधिविना�सिनीम् | सर्वाधारस्वरूपाञ्च सर्वपापहरां तथा || ३९८ || सर्वानन्दमयीं देवीं सर्वरक्षास्वरूपिणीम् | गन्धाद्यैरुपचारैस्तु सर्वेप्सितफलप्रदाम् || ३९९ ||
SK
[चक्रार्चा चक्रनायिकार्चा] सर्वरक्षाकरं चक्रं ध्यायेछ्रीचक्रनायिकाम् | सर्वज्ञापुरतो मन्त्री त्रिपुरामालिनीं पराम् || ४०० || पा�सा�न्कु�सधनुर्बाणधरां �स्वेताम्बुज�स्रियम् | [मुद्राप्रदर्�सनादि] महा�न्कु�साख्यं सन्दर्�स्य जिने�सं विष्णुमर्चयेत् || ४०१ || [पूजासमर्पणम्] एता निगर्भयोगिन्यः सर्वरक्षाकरे पदात् | चक्रे समुद्रा इत्यादि पूर्ववत् परिकल्पयेत् || ४०२ || आदितो नियोज्य यजेदित्यर्थः | तथाच मं सर्वज्ञादेवी�स्रीपादुकां पूजयामि नमः | यं सर्व�सक्तिदेवी�स्रीपादुकां पूजयामि नम इत्यादिरूपः प्रयोगः | सर्वत्र द्वितार्याद्यन्यतमप्रयोगः पूर्ववत् | ३९७-३९९ | अथ द�स निगर्भयोगिनीराह - सर्वज्ञामित्यादिना सर्वेप्सितफलप्रदामित्यन्तेन | गन्धाद्यैरुपचारैर्यजेदिति सर्वत्र सम्बध्यते | ४००-४०१ | सर्वरक्षेति | चक्रं यजेदिति सम्बन्धः | तथाच सर्वरक्षाकरान्तर्द�सारचक्राय नम इति प्रयोगः | ध्यायेदिति | त्रिपुरामालिनीचक्रनायिका�स्रीपादुकां पूजयामि नम इति प्रयोगः | तन्त्रसारे तु त्रितार्यनन्तरमादौ ह्रीं क्लीं ब्लुमिति बीजयोगो दृ�स्यते | महेति | सर्वमहा�न्कु�समुद्रां प्रागुक्तलक्षणाम् | ४०२ | अथ मूलदेव्यै पूजासमर्पणस्य क्रममाह - एता इति | तथाच एता प्. ६८४) [स्थितिचक्रोपसंहारः संहारचक्रनिरूपणप्रतिज्ञा च] स्थितिचक्रं समाख्यातं संहारं कथयाम्यथ || ४०३ || [व�सिन्याद्यष्टरहस्ययोगिन्यः] प�स्चिमाम्नायमार्गेण व�सिन्याद्यष्टदेवताः | [तासां स्वरूपम्] नवीनार्कसमाभासाः सर्वाल�न्कारभूषिताः || ४०४ || धनुर्बाणाक्षमालाञ्च पुस्तकं बिभ्रतीः करैः | [पूजाक्रमः] न्यासोक्तमनुना मन्त्री यजेद् वर्गाष्टकेन तु | [एतासामष्टारवृत्तित्वम्] एता रहस्ययोगिन्यः प्रथमावरणे स्थिताः || ४०५ || निगर्भयोगिन्यः सर्वरक्षाकरे चक्रे समुद्राः ससिद्धयः सायुधाः सवाहनाः सपरिवाराः सर्वोपचारैः पूजिताः सन्तु इति प्रयोगः |
SK
४०३ | स्थितीति | सर्वसौभाग्यदायकं सर्वार्थसाधकं सर्वरक्षाकरञ्चेत्येतत्त्रितयात्मकं स्थितिचक्रमित्यर्थः | वक्ष्यमाणत्रितयात्मकं संहारचक्रं निरूपयितुं प्रतिजानीते - संहारमित्यादिना | ४०४-४०५ | तत्र प्रथममष्टारे सर्वरोगहरे चक्रे व�सिन्यादीनां रहस्ययोगिनीनां पूजनमभिदधानस्तासां स्वरूपमाह - नवीनार्केति | व�सिन्याद्यास्तु व�सिन्याद्यष्टवाग्देवीरेषु स्थानेषु विन्यसेदित्यादिना पञ्चद�से न्यासप्रकरणे समुद्दिष्टास्ता�स्च तट्टीकायां व�सिनी - कामे�स्वरी � मोदिनी - विमलारुणा � जयिनी - सर्वे�स्वरी - कौलिन्याख्या अष्टाविति वि�सिष्य प्रदर्�सिताः | न्यासोक्तेति | पूर्वप्रदर्�सितन्यासोक्तमन्त्रेणैवैताः पूजयेत् | वर्गाष्टकेनेति व�सिन्यादीनामष्टानां पुरतः क्रमेण वर्गाष्टकं प्रयोज्य पूजयेदित्यर्थः; एवञ्च अकारादिषोड�सस्वराण्युच्चर्य वरलूं व�सिनीवाग्देवता�स्रीपादुकां पूजयामि नमः इत्यादिरूपः प्रयोगः, त्रितार्यादिप्रयोगस्तु पूर्ववदेव | प्. ६८५) [चक्रपूजा] सर्वरोगहरं नाम चक्रं संपूजयेत्ततः | [चक्रनायिकार्चा] ध्यायेच्छ्रीत्रिपुरासिद्धां व�सिनीपुरतः सुधीः || ४०६ || [चक्रनायिकायाः स्वरूपम्] जवाकुसुमस�न्का�सां पा�सा�न्कु�सधनुः�सराम् | [मुद्राप्रदर्�सनादि] सन्दर्�स्य खेचरीमुद्रां यजेच्छक्तिञ्च मायया || ४०७ || [पूजासमर्पणम्] एता रहस्ययोगिन्यः सर्वरोगहरे पदात् | चक्रे समुद्रा इत्यादि पूर्ववत् परिकल्पयेत् || ४०८ || [बाणार्चा] अष्टकोणान्तराले च त्रिकोणस्य बहिःस्थितः | प�स्चिमादिचतुर्दिक्षु बाणान् संपूजयेद् बुधः || ४०९ || [बाणानां स्वरूपम्] तरुणारुणस�न्का�सान् रक्तवस्त्रविभूषितान् | रक्तमाल्यवि�सोभाढ्यान् यौवनोन्मत्तविग्रहान् || ४१० || पा�सा�न्कु�सधनुःपञ्चपुष्पबाणविभूषितान् | बाणधनुःपा�स�सृणियुग्मानि च क्रमादनु || ४११ ||
SK
४०६-४०७ | सर्वरोगेति | सर्वरोगहराष्टारचक्राय नमः इति प्रयोगः | ध्यायेदिति | �स्रीत्रिपुरासिद्धाचक्रनायिका�स्रीपादुकां पूजयामि नमः इति प्रयोगः | अत्र मूले चक्रनायिकापदमनुपात्तमपि सर्वत्र चक्रनायिकापदप्रयोगदर्�सनान्निवे�सितम् | प्. ६८६) [बाणानां संज्ञाः पूजाक्रम�स्च] जृम्भणं मोहनञ्चैव व�सं स्तम्भनमेव च | न्यासोक्तक्रमयोगेण पूजयेत् साधकोत्तमः || ४१२ || [अ�न्गदेवतार्चा] अस्त्रत्रिकोणयोर्मध्ये पूजयेद�न्गदेवताः || ४१३ || त्रिकोणमध्यचक्रे तु पूजयेन्मूलविद्यया | अक्षराक्षरभेदेन समस्तव्यस्तया यजेत् || ४१४ || बालाबीजत्रयेणापि भैरव्याः कूटकैस्त्रिभिः | सुन्दर्या�स्च त्रिभिः कूटैस्त्रिकोणं परिपूजयेत् || ४१५ || कामे�स्वरीं रुद्र�सक्तिमग्निचक्रे प्रपूजयेत् | वज्रे�स्वरीं विष्णु�सक्तिं सूर्यचक्रे प्रपूजयेत् || ४१६ || भगमालां ब्रह्म�सक्तिं सोमचक्रे प्रपूजयेत् | बिन्दुचक्रे यजेद्देवीं परंब्रह्मस्वरूपिणीम् || ४१७ || कामे मित्री�सनाथः स्याज्जाले षष्ठी�सनाथकः | पूर्णे चोड्डी�सनाथ�स्च चर्यानाथस्तु ओड्रके || ४१८ || कामे�स्वरीं वाग्भवेन यजेद् ध्यात्वा तु पूर्ववत् | एवं चक्रे�स्वरीं ध्यात्वा कामराजेन पूजयेत् || ४१९ || भगे�सीं �सक्तिकूटेन यजेद् ध्यात्वा तु पूर्ववत् | सर्वसिद्धिप्रदे चक्रे द्वितीयावरणे नयेत् || ४२० || प्. ६८७) रहस्ययोगिनीस्तत्र सर्वसिद्धिप्रदायिकाम् | पा�सा�न्कु�सधनुर्बाणधरां रक्तां सु�सोभनाम् || ४२१ || बीजमुद्राञ्च सन्दर्�स्य परां �सक्तिं प्रपूजयेत् || ४२२ || एता अतिरहस्येति पदाद् योगिन्य इत्यपि | सर्वसिद्धिमये चक्रे समुद्रेत्यादि पूर्ववत् || ४२३ || [बिन्दुचक्रे �स्रीमत्त्रिपुरसुन्दरीसपर्या] सर्वानन्दमये चक्रे बैन्दवे परमे�स्वरीम् | परंब्रह्मस्वरूपाञ्च परमामृतरूपिणीम् || ४२४ || सर्वचक्रे�स्वरीं देवीं सर्वमन्त्रे�स्वरीं तथा | सर्वमुद्रे�स्वरीञ्चापि सर्वविद्ये�स्वरीं तथा || ४२५ || सर्वपीठे�स्वरीञ्चापि सर्ववीरे�स्वरीं पुनः | सर्वयोगे�स्वरीञ्चापि सर्वसिद्धी�स्वरीमपि || ४२६ ||
SK
उत्पत्तिस्थितिसंहारकारिणीं मातृकां पराम् | समुद्रां सायुधाञ्चापि सचक्राञ्च सवाहनाम् || ४२७ || परिवारसमेताञ्च ससिद्धिञ्च सदेवताम् | परापरां महादेवीं भुक्तिमुक्तिप्रदायिनीम् || ४२८ || ४२३ | एता इति | तथाच एता अतिरहस्ययोगिन्यः सर्वसिद्धिमये चक्रे समुद्राः ससिद्धयः सायुधाः सवाहनाः सपरिवाराः सर्वोपचारैः पूजिताः सन्तु इति प्रयोगः | प्. ६८८) ब्रह्मविष्णु�सिवाद्य�स्च मुनीन्द्रैरपि सेविताम् | मनसैवं समालोक्य �स्रीमत्त्रिपुरसुन्दरीम् || ४२९ || परंब्रह्मात्म�सक्ति�स्रीपादुकामर्चयेद् बुधः | [वैन्दवचक्रार्चा] सर्वानन्दमयं चक्रं बैन्दवं परिपूजयेत् || ४३० || [चक्रनायिकार्चा] आवाहनेन मन्त्रेण भैरवीचक्रनायिकाम् | देव्यग्रे पूजयेन्मन्त्री गन्धपुष्पाक्षतादिभिः || ४३१ || [मुद्रादर्�सनादि] योनिमुद्राञ्च सन्दर्�स्य परां �सक्तिं प्रपूजयेत् | �सैवं वा पूजयेत्तत्र तत्त्वविमर्षिणीमते || ४३२ || मध्यत्र्यस्रं सान्तरालं �सैवं दर्�सनमीरितम् | हौ/ ॐ/ नमः �सिवाय हौ/ भूयो नमोऽमुना �सिवम् | पूजयेद् गन्धपुष्पाद्यैः षोढाऽयं दर्�सनक्रमः || ४३३ || [मूलदेव्यै पूजासमर्पणम्] एताः परापरेत्युक्त्वा रहस्येति पदोपरि | योगिन्य इति चोद्धृत्य सर्वानन्दमये पदात् || ४३४ || महाचक्रे बैन्दवे च परब्रह्मस्वरूपिणी | परामृतपदाच्छक्ति सर्वचक्रे�स्वरीपदम् || ४३५ || सर्वमन्त्रे�स्वरी�सब्दात् सर्वविद्ये�स्वरीपदम् | सर्ववीरे�स्वरी सर्वपीठे�स्वरी पदं ततः || ४३६ || ४३४-४३८ | अथ पूजासमर्पणमन्त्रमाह - एता इत्यादिना | तथाच एताः परापररहस्ययोगिन्यः सर्वानन्दमये महाचक्रे बैन्दवे चक्रे परब्रह्मस्वरूपिणी - प्. ६८९) सर्वयोगे�स्वरी�सब्दात् सर्ववागी�स्वरीपदम् | सर्वसिद्धे�स्वरी सर्वजगदुत्पत्तिमातृकाः || ४३७ || सचक्रा च समुद्रा च ससिद्धि सायुधास्तथा | सवाहनाः सपरिवारा�स्च सर्वोपचारकैर्महा | त्रिपुरान्ते सुन्दरीति परयापरयापदात् || ४३८ ||
SK
परापरा तृतीयान्ते सपर्या च तथाविधा | पूजिताः सन्तु इत्युक्त्वा देव्यै पूजां समर्पयेत् || ४३९ || परामृत�सक्ति - सर्वचक्रे�स्वरी - सर्वमन्त्रे�स्वरी - सर्वविद्ये�स्वरी - सर्ववीरे�स्वरी - सर्वपीठे�स्वरी सर्वयोगे�स्वरी - सर्ववागी�स्वरी - सर्वसिद्धे�स्वरी - सर्वजगदुत्पत्तिमातृकाः सचक्राः समुद्राः ससिद्धयः सायुधाः सवाहनाः सपरिवाराः सर्वोपचारकैर्महात्रिपुरसुन्दरीपरया परया परापरया सपर्यया पूजिताः सन्तु इति प्रयोगः | तन्त्रसारे तु - अत्र सर्वानन्दमये बैन्दवचक्रे परब्रह्मस्वरूपिणी - परापर�सक्ति - �स्रीमहात्रिपुरसुन्दरी � समस्तचक्रनायिका - सम्बित्तिरूपचक्रनायिकाधिष्ठिते त्रैलोक्यमोहनसर्वा�सापरिपूरक - सर्वसंक्षोभकारक � सर्वसौभाग्यदायक � सर्वार्थसाधक - सर्वरक्षाकर � सर्वरोगहर � सर्वसिद्धिप्रद - �स्रीचक्रसमुन्मीलितसमस्तप्रकटगुप्तगुप्ततरसम्प्रदायकुल � कौलिनीनिगर्भरहस्यातिरहस्य � परापररहस्य - समस्तयोगिनीपरिवृत - �स्रीत्रिपुरात्रिपुरे�सी � त्रिपुरसुन्दरी � त्रिपुरवासिनी - त्रिपुरा�स्री � त्रिपुरमालिनी � त्रिपुरासिद्धा - त्रिपुराम्बातत्तच्चक्रनायिकावन्दितचरणकमल�स्रीमहात्रिपुर � सुन्दरी � नित्यादेवी - सर्वचक्रे�स्वरी - सर्वमन्त्रे�स्वरी - सर्वविद्ये�स्वरी - सर्वपीठे�स्वरी - सर्वकामे�स्वरी - सर्वतत्त्वे�स्वरी - सर्ववीरे�स्वरी - त्रैकोक्यमोहिनी जगदुत्पत्तिमातृका � सर्वचक्रमयी - तच्चक्रनायिकासहिताः समुद्राः ससिद्धयः सायुधाः सवाहनाः सपरिवाराः सर्वोपचारैः �स्रीमहात्रिपुरसुन्दरी परापरया सपर्यया पूजितास्तर्पिताः सन्तु इति वि�सेषार्घ्योदकाक्षतकुसुमैः प्रधानदेव्या वामहस्ते समर्पयेद् इत्युक्तम् | प्. ६९०) कुण्डगोलोद्भवैर्द्रव्यैः स्वयम्भुकुसुमैर्युतैः | सुन्दरीं पूजयेन्मन्त्री �सतमक्षततण्डुलैः || ४४० || [पुनः सपर्योपदे�सः] पुनः पाद्यादिकं दत्त्वा �स्रीविद्यां पूजयेद् यथा | [पुनरर्घ्यत्रयदानम्] पुनस्त्रितत्त्वमुच्चार्य दद्यादर्घ्यं त्रिधा पुनः || ४४१ ||
SK
[विविधोपचारैः पूजनम्] गन्धचन्दनकस्तूरीरोचनागुरुकु�न्कुमैः | रक्तचन्दनसिन्दूरैर्द्रव्यैर्नानाविधैर्यजेत् || ४४२ || [उपचारदाने प्रार्थनामन्त्राः | तत्र पाद्यस्य प्राथनामन्त्रः] गन्धपुष्पसामायुक्तं सुगन्धिजलसंयुतम् | पाद्यं गृहाण देवे�सि सर्वकामार्थसिद्धये || ४४३ || [अर्घ्यस्य] दूर्वाक्षतसमायुक्तं गन्धचन्दनचर्चितम् | चतुर्वर्गफलावाप्त्यै गृहाणार्घ्यं सुरे�स्वरि || ४४४ || [आचमनीयस्य] सुवासितं जलं �सुद्धं दुकूलैः परि�सोधितम् | गृहाणाऽचमनीयं त्वं �स्रीमत्त्रिपुरसुन्दरि || ४४५ || [मधुपर्कस्य] दध्याज्यमधुसंयुक्तं सुवहं सुमनोहरम् | मधुपर्कं गृहाण त्वं धर्मकामार्थसिद्धये || ४४६ || ४४२ | अथ देवीपूजायां प्र�सस्तानुपचारान् सामान्यत आह - गन्धेति | प्. ६९१) [गन्धस्य] चन्द्रचन्दनकस्तूरीरोचनागुरुकु�न्कुमैः | सम्भृतं सरलैरार्द्रं गन्धमाकल्पयाम्यहम् || ४४७ || [पुष्पस्य] विचित्रममलं रम्यं वासितं गन्धवारिभिः | सुगन्धि विकसत् पुष्पमादरात् कल्पयाम्यहम् || ४४८ || ४४८ | पुष्पदानमाह - विचित्रमिति | वासितमिति गन्धवारिभि�स्चन्दनजलैर्वासितं सुरभीकृतमित्यर्थः | अत्रेदमवधेयम् - गन्धपुष्पधूपादय उपचाराः परकीयत्वघ्रातत्वादिदोषदुष्टाः पूजायां वर्जनीयाः | तदुक्तं गन्धर्वतन्त्रे चतुर्द�सपटले - परकीयांस्तथा घ्रातांस्तेषां कृत्याभिमर्दितान् | पुष्पं धूपञ्च गन्धञ्च नोपचारांस्तथाऽपरान् | घ्रातान्निवेद्य देवे�सि नरो नरकमाप्नुयात् | नैव पर्युसितैः पुष्पैः पत्रै�स्चापि महे�स्वरीम् | पूजयेत् परमे�सानि महात्रिपुरसुन्दरीम् || सर्वं पर्युषितं वर्ज्यं पत्रं पुष्पं फलं तथा | पद्मानि सितरक्तानि कुमुदान्युत्पलानि च || एषां पर्युषिता�स�न्का कार्या पञ्चदिनोर्ध्वतः | अन्येषां कुसुमानाञ्च यावद् गन्धविपर्ययः ||
SK
इति | एवञ्च पद्मकुमुदोत्पलानां दिनपञ्चकं यावत्, इतरेषान्तु यावद् गन्धावस्थिति - स्तावत् पर्युषितत्वं नास्तीत्युक्तं भवति | त्रिपुरार्चायां प्र�सस्तानि पत्रपुष्पाण्याह तत्रैव - वकुलं के�सरं वज्रं माल्यं कुन्दञ्च �साल्मलम् | करवीरञ्चार्कपुष्पं बन्धूककमले तथा || मालती मल्लिका जाती यूथिका माधवी तथा | तगरः कर्णिकार�स्च द्रोण�स्चोत्पलचम्पकौ || प्. ६९२) [षोड�सा�न्गधूपप्रमाणम्] गुग्गुलं सरलं दारु पत्रं मलयसम्भवम् | ह्रीबेरमगुरुं कुष्ठं गुडं सर्जरसं घनम् || ४४९ || अ�सोकः कुमुद�स्चैव �सेफालिका - कदम्बकौ केतकी वनमाला च कुसुम्भकिं�सुकौ तथा || कह्लारवकुले चैव लव�न्ग - नागके�सरौ | सर्वेषु पुष्पजातेषु त्रिपुरायाः सदैव हि || एतान्येव प्रियाणि स्युर्न पत्रैरर्चयेच्छिवाम् | पत्रेषु बिल्वपत्रञ्च तथा मदनपल्लवम् || दूर्वा�न्कुरन्तथा प्रोक्तं नान्यत् पत्रं प्रयोजयेत् | मल्लिका मालती कुन्दो द्रोण�स्चाथ सिताम्बुजः || �सुक्लपक्षे महादेवि त्रिपुरायै निवेदयेत् | सर्वेषां पुष्पजातीनां रक्तपद्मं तथा जवा || देवीप्रीतिकरं प्राज्ञे सर्वकामफलप्रदम् | रत्नपुष्पञ्च देवे�सि तथा स्वर्णादिनिर्मितम् | रक्तपद्मेन वज्रेण तुलां नाऽयाति कर्हिचित् || इति | तथा विहितानामपि पुष्पाणाम् उग्रगन्धत्वा�सुद्धपात्रगतत्वादिदोषदुष्टत्वे तेषामर्पणं निषिद्धम्, यथा तत्रैव - उग्रगन्धमगन्धञ्च क्रिमिके�सादिदूषितम् | अ�सुद्धपात्रपाणिस्थं वासोभिः कुत्सितात्मभिः || आनीतं नार्पयेद्देव्यै प्रमादादपि दोषकृत् | स्नात्वानीतैः पर्युषितैर्याचितैः कृष्णवर्णकैः || स्वयं विक�सितैर्मुक्तैः स्वयञ्च पतितैर्भुवि | नार्चयेत् कलिकाभि�स्च विना चम्पकप�न्कजैः || इत्यादि | एवमन्यान्यपि विहिताविहितपुष्पप्रतिपादकप्रमाणानि मुण्डमालायोगिनीतन्त्र- कौलावलीनिर्णयादिषु ज्ञातव्यानि | प्. ६९३) हरीतकीं नखं लाक्षां जटामांसीञ्च �सैलजम् | षोड�सा�न्गं विदुर्धूपं दैवे पित्र्ये च कर्मणि || ४५० || [अन्यादृ�सधूपप्रमाणम्]
SK
मधुसर्पिः �सर्करा च चन्दनागुरुगुग्गुलुः | उ�सीरः सप्त एवैते धूपोऽयं चण्डिकाप्रियः || ४५१ || ४४९-४५० | षोड�सा�न्गधूपप्रमाणमाह - गुग्गुलमित्यादिना | सरलो वृक्षवि�सेषः | पीतद्रुः सरलः पूतिकाष्ठमित्यमरः | दारु देवदारु, �सक्रपादपः परिभद्रकः | भद्रदारुद्रुकिलिमम्, पीतदारु च दारु च | पूतिकाष्ठञ्च सप्त स्युर्देवदारुणीत्यमरः | अत्र दारु�सब्देन देवदारुरेवोच्यते, हरीतकी मुस्तमथो नखी च मांसी जतुः �सैलज-देवदारुः | कुष्ठं गुडः सर्जरसस्तथैव द�सा�न्गधूपः कथितो मुनीन्द्रैः || इति कौलावलीनिर्णयसप्तमोल्लासीयद�सा�न्गधूपप्रमाणे तथा दर्�सनात् | पत्रं तेजपत्रम् | मलयसम्भवं चन्दनम् | ह्रीबेरं नेत्रवालेति ख्यातो गन्धद्रव्यवि�सेषः | बालं ह्रीबरबर्हिष्ठोदीच्यं के�साम्बुनाम चेत्यमरः | सर्जरसः सालनिर्यासः | यक्षधूपः सर्जरसोऽरालसर्वरसावपीत्यमरः | घनो मुस्ता मुथेति प्रसिद्धा | घनः सान्द्रे दृढे दार्ढ्ये विस्तारे मुद्गरेऽम्बुदे | संघे मुस्ते घनं मध्यनृत्यवाद्यप्रकारयोरिति हैमः | नखं गन्धद्रव्यवि�सेषः, नखं पुनर्गन्धद्रव्ये नखः करजषण्डयोरिति हैमः | �सैलजं �सिलाजतु इति ख्यातो गन्धद्रव्यवि�सेषः | कालानुसार्यवृद्धा�स्मपुष्प�सीत�सिवानि तु �सैलेयमित्यमरः | �सैलेयं गलपर्ण्याञ्च सैन्धवे | �सैलजे ना तु मधुपे �सिलातुल्येऽन्यलि�न्गकम् | इति च मेदिनी | �सिष्टं स्पष्टम् | गन्धर्वतन्त्रे चतुर्द�सपटले - पत्रं मुस्तं नखं कुष्ठं जटामांसीञ्च �सैलजम् | सरलं देवकाष्ठञ्च जतुसर्जसचन्दनम् || कपिलाघृतकर्पूर�सर्करापूरमि�स्रितम् | षोड�सा�न्गो महाधूपः षोड�सीप्रीतिदायकः || इति | ४५१ | मध्विति | उ�सीरो वीरणमूलम् | प्. ६९४) [अन्यादृ�सधूपप्रमाणम्] अथवाऽगुरुकर्पूरचन्दनैः सह गुग्गुलुः | मधुसर्पिर्जटामांसी �सैलेयं कु�न्कुमं तथा | एभिर्विमि�स्रितः कार्यो धूपोऽयं पार्वतीप्रियः || ४५२ || [धूपदानक्रमः]
SK
धूपभाजनमस्त्रेण प्रोक्ष्यार्भ्यर्च्य हृदाऽनुना | जयध्वनि ततो मन्त्रमातः स्वाहेति पूजिताम् | वामेन वादयन् घण्टां धूपदीपौ निवेदयेत् || ४५३ || [धूपस्य प्रार्थनामन्त्रः] वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः | आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् || ४५४ || अथवा धूपयेद्धूपैर्मूलमन्त्रपुरःसरम् | सुरभीघृतसंयोगाद् वह्नेरुत्पन्नमुत्तमम् | ध्वस्तदुर्वासनं दिव्यं धूपमुन्मीलयाम्यहम् || ४५५ || [दीपस्य] सुप्रका�सो महादीपः सर्वतस्तिमिरापहः | सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् || ४५६ || ४५३ धूपेति | अस्त्रेण फट् इत्यनेन | हृदाऽनुना, नम इति हृन्मन्त्रेणेत्यर्थः | तथाच फट् इत्यनेन धूपभाजनमभ्युक्ष्य धूपाय नम इत्यभ्यर्च्येत्यर्थः | धूपेति | धूपदीपौ निवेदयेदित्यनेन वक्ष्यमाणदीपदानेऽपि निरुक्तक्रमेण ॐ जयध्वनिमन्त्रमातः स्वाहेति प्रयोजयेदिति बोध्यम् | प्. ६९५) [तत्र कल्पान्तरम्] अथवाऽन्यप्रकारेण दीपं दद्याद् विचक्षणः || ४५७ || [प्रार्थनामन्त्रान्तरम्] घृतसंयुक्तवर्त्त्यग्रे प्रज्वलन्तं निरन्तरम् | दिव्यदर्�सनदातारं दीपं सन्दर्�सयाम्यहम् || ४५८ || [धूपदाने दि�न्नियमः] धूपन्तु वामतो दद्यात् संमुखे वा विचक्षणः | [भूम्यादौ धूपस्थापननिषेधः] न भूमौ स्थापयेद्धूपमासने वा घटे च वा || ४५९ || [दीपदाने दि�न्नियमः] घृतदीपं दक्षिणे च स्ववामे तैलदीपकम् | अभितो दर्�सयेन्मन्त्री दीपमालां सु�सोभनाम् || ४६० || [सप्तविधाः प्रदीपाः] घृतप्रदीपः प्रथमं तिलतैलसमुद्भवः | सार्षपः फलनिर्यासजातो वा वारिजोद्भवः | दधिज�स्चान्नज�स्चैव दीपाः सप्त प्रकीर्तिताः || ४६१ || [पञ्चविधा वर्तिकाः] पट्टसूत्रभवा दर्भगर्भसूत्रभवाऽथवा | �सालजा बादरी वाऽपि फलकोषोद्भवाऽथवा | वर्तिका दीपकृत्येभ्यः सदा पञ्चविधाः स्मृताः || ४६२ || [प्र�सस्तानि दीपपात्राणि] तैजसं बादरं लौहं मार्तिक्यं नारिकेलजम् | तृणराजोद्भवं वाऽपि दीपपात्रं प्र�सस्यते || ४६३ ||
SK
प्. ६९६) एवं दीपं प्रकुर्वीत नेत्ररञ्जनकारकम् | [दीपदानक्रमः] दीपन्तु पद्मपर्यन्तमधो धूपं प्रका�सयेत् || ४६४ || [माल्यदाने प्रार्थनामन्त्रः] कमलोत्पलकह्लारकरवीरादियोगतः | सुरभीणि सुगन्धीनि माल्यान्यावेदयाम्यहम् || ४६५ || [मधुरद्रव्यदानम्] प्रदद्यान्मधुरं द्रव्यं परमानन्दमानसः || ४६६ || [तर्पणम्] तर्पयेन्मधुरैर्द्रव्यैरमृतैर्मधुमि�स्रितैः | अमृत�स्चामृतद्रव्यैस्तर्पयेत् परदेवताम् || ४६७ || [चरुपाकोपदे�सः] तत�स्च संस्कृते वह्नौ गोक्षीरचरुकं पचेत् | [चरुपाकक्रमः] अस्त्रेण क्षालिते पात्रे नवे ताम्रमयादिके || ४६८ || ४६४-४६५ | दीपन्त्विति | पद्मपर्यन्तमिति दृष्टिपर्यन्तमित्यर्थः | दीपे वि�सेषमाह गन्धर्वतन्त्रे चतुर्द�सपटले - दीपमाला प्रकर्तव्या नैकदीपः कदाचन | त्रयो दीपाः प्रदातव्याः पञ्च वा परमे�स्वरि | इतो न्यूनं न दातव्यं त्रिपुरायै कदाचन | इति | कमलेति | माल्यदानफलमाह गन्धर्वतन्त्रे चतुर्द�सपटले - एतेषां पुष्पजातानां येन केन विनिर्मिताम् | मालां कृत्वा महादेव्यै यत् फलं लभते नरः | अपि वक्तुसहस्रैस्तु वक्तुं नालं ततः प्रभुः | इति अत्रैतेषामित्यनेन पूर्वोपदर्�सितानि विहितपुष्पाण्यभिहितानि | ४६८-४७२ | तत�स्चेति | संस्कृत इति अष्टमप्रका�सोक्तक्रमेणेति �सेषः | प्. ६९७) तण्डुलाञ् �सालिसम्भूतान् मूलमन्त्राभिमन्त्रितान् | प्रसृतीः पञ्चद�सभिर्निक्षिप्यास्त्रमनुं स्मरन् || ४६९ || पिधाय पात्रवदनं प्रक्षाल्य कवचानुना | प्रा�न्मुखो मूलमन्त्रेण साधकेन्द्र�स्चरुं पचेत् || ४७० || �स्रुवेणाऽज्येन संस्विन्ने दद्यात्तत्राभिघारणम् | [चरोरवतारणम्] मूलमन्त्रेण तत् पात्रं कवचेनावतारयेत् || ४७१ || अस्त्रजप्ते कु�सास्तीर्णे मण्डपे विधिवद् गुरुः | [चरुविभागः] तं विभज्यैकभागन्तु देवतायै प्रकल्पयेत् || ४७२ || अन्यदग्नौ प्रजुहुयादपरं बलिमुत्तमम् | एकन्तु चरुकं प्रोक्तमारात्रिकविधावपि || ४७३ || [आरात्रिकम्, तत्राष्टदलपद्मनिर्माणम्]
SK
ततस्तु काञ्चने स्थाने रौप्ये वा कांस्यनिर्मिते | वसुपत्रसमायुक्तं कु�न्कुमेन तु नीरजम् || ४७४ || चरुपाकपरिपाटीमाह-अस्त्रेणेत्यादिना | अस्त्रेण फडित्यनेन | �सालिसम्भूतान् हैमन्तिकधान्यभवान्, पञ्चद�समुष्टिपरिमितान् ताम्रनिर्मितचरुस्थाल्यां निक्षिपेदित्यर्थः | अस्त्रमनुमिति | तथा च फट् इति चरुस्थालीमुखमाच्छाद्य कवचानुना हु/ इति मन्त्रेण प्रक्षाल्य चरुं पचेदिति सम्बन्धः | कवचेनेति, हु/ इत्यवतारयेदित्यर्थः | ४७२-४७३ | एवंक्रमेण चरोः पाकमभिधाय तस्य चतुर्धा विभजनमाह- तमित्यादिना | तं चरुं चतुर्धा विभज्य एकं देवतायै समर्प्य द्वितीयमग्नौ जुहुयात्, अपरेण बलिं दद्यात्, चरुमन्यमारात्रिकविधौ प्रयुञ्जीतेत्यर्थः | प्. ६९८) [तत्रौदनस्य नवभागकल्पनम्] �सुद्धौदनं परिष्कृत्य नवभागं प्रकल्पयेत् | नवकोणकरूपञ्च चक्ररूपं विचिन्तयेत् || ४७५ || [अष्टदलेषु �सुद्धौदनस्थापनम्] �सर्करायवगोधूमचणकैः परिमण्डितम् | तण्डुलाज्यतिलैयुक्तं वसुपत्रे विनिक्षिपेत् || ४७६ || [नवमभागस्य कर्णिकायां स्थापनम्, नवमुद्राप्रदर्�सनञ्च] एकं मध्ये तु संस्थाप्य नव मुद्राः प्रदर्�सयेत् | [पद्मे दीपनवकन्यासः पूजनञ्च] स्थापयेत्तत्र मन्त्रज्ञो नव दीपान् घृतप्लुतान् || ४७७ || पञ्चरत्नं प्रेतबीजं समुच्चार्य प्रपूजयेत् | मूलमन्त्रेण संपूज्य पाणिभ्यां धारयेद् यथा || ४७८ || ४७४-४७५ | अथाऽरात्रिकविधिमाह - ततस्त्वित्यादिना | काञ्चनाद्यन्यतमनिर्मिते स्थाने आधारे कु�न्कुमेनाष्टदलं नीरजं पद्मं विदधीतेत्यर्थः | ततः �सुद्धौदनं नवभागं कुर्यात् | नवेति | अष्टौ दलानि कर्णिकाञ्चाऽदाय नवसंख्याकत्वं बोध्यम् |
SK
४७६-४७७ | निरुक्ताष्टदले प्रागुक्त�सुद्धौदनस्थापनमाह - �सर्करेति | �सर्करादिभिर्युक्तं तत् �सुद्धौदनं वसुपत्रे निरुक्तपद्मस्य पत्राष्टके निवे�सयेत् | एकमिति | भागमेकं मध्ये कर्णिकायां स्थापयेत् | प्रगुक्त�सुद्धौदनस्य नवभागानामष्टौ भागानष्टसु दलेषु, अव�सिष्टं नवमं भागं कर्णिकायां स्थापयेदित्यर्थः | नव मुद्रा इति प्रागुक्ताः सर्वाकर्षिण्यादिकाः | ४७७-४७८ | तत्र दीपस्थापनमाह - स्थापयेदित्यादिना | नव दीपान् �सुद्धौदनक्रमेणाष्टदलेषु कर्णिकायाञ्चेत्यर्थः | अथ सदीपस्य पात्रस्य पूजनमाह - पञ्चरत्नमिति | आदौ पञ्चरत्नं ततो ह्साविति प्रेतबीजम् | पञ्चरत्नं ग्लूं स्लूं म्लूं प्लूं ल्लूं इति बीजपञ्चकम् | बीजानामेतेषामादौ �स्रीं ह्रीमिति बीजद्वयमन्ते च तद्विलोमेन ह्रीं �स्रीमिति बीजद्वयं समष्ट्या नवाक्षरो रत्ने�सीमन्त्रो भवति | अत्र पञ्चरत्नमित्युक्तावपि ज्ञानार्ण - प्. ६९९) [दीपपात्रस्य भ्रामणम्] मस्तकान्तं समानीय नवधा भ्रामयेद् बुधः | मूलमन्त्रान्तमन्त्रेण ततो नीराजनं चरेत् || ४७९ || [आरात्रिकमन्त्रः] समस्तचक्रचक्रे�सीयुते देवि नवात्मिके | आरात्रिकमिमं देवि गृहाण मम सिद्धये || ४८० || वादौ रत्ने�सीमन्त्रेण दीपपात्रार्चोपदे�सदर्�सनादत्रापि तदभिप्रायेणैव पञ्चरत्नमित्युक्तमिति प्रतिभाति | व्यक्तमाह तन्त्रसारधृतज्ञानार्णवे -
SK
आरात्रिकमतः कुर्यात् सर्वकामार्थसिद्धये | सौवर्णे राजते कांस्ये स्थानके परमे�स्वरि || कु�न्कुमेन लिखेद् यन्त्रं नवकोणं मनोहरम् | चन्द्ररूपं चरुं कृत्वा तन्मध्ये मस्तके �सिवे || दीपमेकं विनिक्षिप्य वसुकोणेऽष्टदीपकान् | यवगोधूममुद्गादिरचिताञ् �सर्करायुतान् | चणकाहित�सोभाभिः �सोभितान् घृतपूरितान् || अभिमन्त्र्य महे�सानि रत्ने�स्वर्यास्ततः परम् || �स्रीबीजञ्च पराबीजं संलिख्य वरवर्णिनि | गसौ च मपलाः प�स्चादिन्द्रस्थाः क्रमतः प्रिये | वामकर्णसमायुक्ता नादबिन्दुविभूषिताः | बीजपञ्चकमेतत्तु पञ्चरत्नानि सुन्दरि | पूर्वबीजविलोमेन रत्ने�सीयं नवाक्षरी || इति | एवञ्चाऽदौ �स्रीं ह्रीमिति �स्रीपराबीजयोरन्ते च ह्रीं �स्रीमिति विलोमेन पठितयोस्तयोर्निवे�सेन �स्रीं ह्रीं ग्लूं स्लूं म्लूं प्लूं ल्लूं ह्रीं �स्रीं इति नवाक्षरो रत्ने�सीमन्त्रो भवति | मूलमन्त्रेणेति | पञ्चरत्नेन प्रेतबीजेन मूलेन चाभ्यर्च्येत्यर्थः | अत एव तन्त्रसारकारैरपि रत्ने�सीमन्त्रमभिधाय इति मन्त्रेण मूलेन चार्भ्यर्च्येत्युक्तम् | ४७९ | मस्तकान्तमिति | स्पष्टम् | मूलमन्त्रान्तमन्त्रेण आदौ मूलमुच्चार्य वक्ष्यमाणमन्त्रेणेत्यर्थः | प्. ७००) [मुद्रादर्�सनम्] यथोक्तस्थाने संस्थाप्य चक्रमुद्राञ्च दर्�सयेत् || ४८१ || [चक्रमुद्रा] दक्षिणेतरहस्तस्य वृद्धागर्भकनिष्ठिकाम् | दक्षिणे योजयित्वा तु कनिष्ठागर्भके ततः || ४८२ || वामे च दक्षिणा�न्गुष्ठं साधको विनियोजयेत् | अन्योन्ययोगत�स्चैव चक्रमुद्रा समीरिता || ४८३ || [नैवेद्यार्पणम्] तत आरात्रिकं वीक्ष्य नैवेद्यानि प्रकल्पयेत् || ४८४ || [नैवेद्यपात्राणि] तैजसेषु च पात्रेषु प्रस्तरे वा द्रुपत्रके | यज्ञदारुमये वाऽपि नैवेद्यं कल्पयेद् बुधः || ४८५ || सर्वालाभे तु माहेये स्वहस्तघटिते यदि || ४८६ || [अर्घ्येतरपात्रोयतोयैर्नैवेद्योत्सर्गनिषेधः] अन्यतोयैर्यदुत्सृष्टमर्घ्यपात्रस्थितेतरैः | न गृह्णाति महादेवी दत्तं विधि�सतैरपि || ४८७ || [नैवेद्यम्]
SK
नैवेद्यं सघृतं �सुभ्रं घृतव्यञ्जनसंयुतम् | मत्स्यमांसं मुद्गसूपं मरीचादिसुसंस्कृतम् || ४८८ || ४८१ | चक्रमुद्रामिति | तदुक्तं तन्त्रसारे - आरात्रिके महे�सानि चक्रमुद्रां प्रदर्�सयेत् | इति | ४८५-४८६ | तैजसेष्विति | माहेये मृत्पात्रे | त्रिपुरापूजायां प्र�सस्तानि नैवेद्यपात्रान्तराण्याह गन्धर्वतन्त्रे पञ्चद�सपटले सौवर्णे राजते वाऽपि ताम्रे वा प्रस्तरेऽपि च | पद्मपत्रेऽथवा दद्यान्नैवेद्यं त्रिपुराप्रियम् || इति | प्. ७०१) �सर्करापूपभरितं मधुदुग्धगुडान्वितम् | षड्रसेन समायुक्तं पायसं मधुसंयुतम् || ४८६ || नानाविधानि द्रव्याणि फलानि विविधानि च | मनःप्रियाणि द्रव्याणि कृत्वा साधकसत्तमः || ४९० || [तत्स्थापनार्हं मण्डलम्, तत्राऽधार�सक्त्यर्चनञ्च] दक्षिणे वा पुरोभागे वामे वा मण्डलं लिखेत् | त्रिकोणवृत्तभूबिम्बमाधार�सक्तिमर्चितम् || ४९१ || ४९१ | अत्र नैवेद्यस्थापनमाह - दक्षिण इति | नैवेद्यं दक्षिणे वामे पुरतो वा न पृष्ठतः | इति गन्धर्वतन्त्रचतुर्द�सपटलवचनेन देव्या दक्षिणे वामेऽग्रतो वा नैवेद्यस्थापनोपदे�सात् | अत्र मण्डलनिर्माणमपि तत्र तत्रोक्तम् | एतेन नैवेद्यस्थापनस्थानमप्यर्थादायातम् | न च दक्षिणे वा पुरोभाग इत्यत्र कस्येति वि�सेषानतिदे�साद् आत्मनो दक्षिणादिषु नैवेद्यस्थापनमनेनोपदिष्टमिति वाच्यम् - दीपं दक्षिणतो देव्याः पुरतो वा न वामतः | वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे | निवेदयेत् पुरोभागे गन्धं पुष्पञ्च भूषणम् | इत्यनन्तरं नैवेद्य दक्षिणे वाम इत्यादि प्रागुपदर्�सितगन्धर्ववचनदर्�सनाद् देव्या एव दक्षिणादिषु नैवेद्यस्थापनं न त्वात्मन इति बोध्यम् | अत एव तन्त्रसारकारैरपि वामदक्षिणभागस्तु देवताया एव, न तु साधकस्य - धूपदीपौ सुभोज्यञ्च देवताग्रे निवेदयेत् | इति दर्�सनादित्युक्तम् | तथा - दद्यादयोग्यं पुरतो नैवेद्यं भोजनादिकम् |
SK
इति गन्धर्ववचनदर्�सनाद् द्रव्यप्राचुर्यादिव�सात् स्थानाभावेन वामदक्षिणयोः स्थापयितुमयोग्यमेव नैवेद्यादिकं पुरतः स्थाप्यम् | स्थानसद्भावे तु वामदक्षिणयोरेवेत्युक्तं भवति | पक्वामान्नयोर्वि�सेषमाह तन्त्रसारे - पक्वञ्च देवतावामे आमान्नञ्चैव दक्षिणे | इति | पुरतः स्थापनन्तु नियमविरुद्धम् | प्. ७०२) [नैवेद्यस्थापनं प्रोक्षणादिसंस्कारा�स्च] नैवेद्यं तत्र संस्थाप्य प्रोक्षयेदस्त्रमन्त्रतः | कवचाख्येन संरक्ष्य वायुबीजेन �सोधयेत् || ४९२ || वह्निबीजेन संदह्य वारुणेनामृतं चरेत् | [नैवेद्यार्चना] पुष्पं दत्त्वा तत्र मन्त्रं सप्तधा प्रजपेन्निजम् || ४९३ || पुरतो नियमो नास्ति दीपनैवेद्ययोः क्वचित् | इति तन्त्रसारधृतयामलवचनात् | यत्तु हरतत्त्वदीधितिकारैः - दक्षिणे च सितावर्तिर्वामतो रक्तवर्तिकाम् | पक्वापक्वविभागेन नैवेद्यस्यापि तत्स्थितिः | इति तन्त्रसारधृतयामलवचनेन पक्वान्नस्य दक्षिणत आमान्नस्य वामत�स्च स्थापनं प्रतिपादितम्, तत् पक्वञ्च देवतावाम इति पूर्वोपदर्�सितवचनविरोधात् कुव्याख्यानविजृम्भितम् | पक्वापक्वविभागेनेत्यत्र अपक्वञ्च पक्वञ्चेति द्वन्द्वेऽल्पस्वरत्वात् पक्वपदस्य पूर्वनिपातेन अपक्वस्य दक्षिणतः पक्वस्य वामतः स्थितिरित्यर्थे न विरोध इति सर्वं निर्विवादम् | एवञ्च - दक्षिणन्तु परित्यज्य वामे चैव निधापयेत् | अभोज्यं तद् भवेदन्नं पानीयन्तु सुरोपमम् || इत्यपि न पक्वान्नविषयम् | दक्षिणन्तु परित्यज्येत्यनेन एकनैवेद्यस्थले दक्षिणत्यागपूर्वकं वामतः स्थापनं प्रतिषिध्यते, बहुनैवेद्यस्थले तु दक्षिणतः स्थानालाभे वामतः स्थापनेऽपि न दोषः | न तु दक्षिणन्तु परित्यज्येति वचनस्य पक्वान्नविषयत्वे किमपि मानमस्ति, तन्त्रसारकारैरपि नास्य वचनस्य पक्वान्नविषयत्वमुक्तम् | पुर�स्चरणचन्द्रिकायां वचनमिदं साम्प्रदायिकत्वेन व्याख्यातम् |
SK
४९२-४९३ | नैवेद्यनिवेदनक्रममाह - नैवेद्यमित्यादिना | अस्त्रमन्त्रतः फडिति मन्त्रेण | कवचाख्येन हूं इति मन्त्रेण | वायुबीजेन यमित्यनेन | वह्निबीजेन रमित्यनेन | वारुणेन वमिति वरुणबीजेन | पुष्पं दत्त्वेति | पुष्पेण नैवेद्यमभ्यर्च्येत्यर्थः | मन्त्रं मूलमन्त्रम् | गन्धर्वतन्त्रे तु - प्. ७०३) [निवेदनप्रकारः] हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् | पञ्चधा षड्रसोपेतं गृहाण परमे�स्वरि || ४९४ || सर्वोपकरणादीनि मूलान्तेन निवेदयेत् | [नैवेद्यालाभे व्यवस्था] अ�सक्तौ मनसा दद्यादेतत् कर्म न लोपयेत् || ४९५ || [देव्यै चुल्लुकदानं मुद्राप्रदर्�सनोपदे�स�स्च] चुल्लुकं मनसा दत्त्वा पञ्च मुद्राः प्रदर्�सयेत् || ४९६ || [प्राणादिपञ्चमुद्रामन्त्राः] प्राणापानौ तथा व्यान उदानाख्यः समानकः | चतुर्थ्यन्तोऽग्निजायान्तो मुद्रामन्त्रो ध्रुवादिकः || ४९७ || निराच्छादं समालोक्य भक्ति�स्रद्धासमन्वितः | वायुबीजेन सं�सोध्य सन्दहेद् वह्निना तथा || वारुणेन स्वधावृत्त्या प्लावयेद्धेनुमुद्रया | अस्त्रमन्त्रेण संरक्ष्य मूलेनैवाभिषिच्य तु || मूलदेव्याः स्वनामान्ते नैवेद्यमिति चोच्चरेत् | गृहाण वह्निजायान्तो नैवेद्यमनुरीरितः || अन्नं चतुर्विधं देवि रसैः षड्भिः समन्वितम् | मया निवेदितं भक्त्या तदिदं प्रतिगृह्यताम् || लेह्यचोष्यानुपानादिभक्ष्यभोज्यानि यानि च | मयाहृतानि यत्नेन कृपया देवि भुज्यताम् || इत्येवं नैवेद्यप्रदानक्रम उक्तः | ४९६-५०० | चुल्लुकमित्यादि स्पष्टम् | अत्र वि�सेषमाह गन्धर्वतन्त्रे पञ्चद�सपटले - जातीलव�न्गकक्वोलवासितं स्वर्धुनीजलम् | मुखवासकरं पुण्यं गृहीत्वाचम सुन्दरि || प्. ७०४) [तत्र प्राणमुद्रा] वृद्धानामाकनिष्ठाभिः प्राणमुद्रा समीरिता | [अपानमुद्रा] वृद्धामध्यातर्जनीभिरपानस्य प्रकीर्तिता || ४९८ || [व्यानमुद्रा] वृद्धानामामध्यमाभिर्व्यानमुद्रा समीरिता | [उदानमुद्रा] कनिष्ठावर्जं सर्वाभिरुदानस्य प्रकीर्तिता || ४९९ || [समानमुद्रा] समानमुद्रा सर्वाभिर�न्गुलीभिरुदीरिता | [ग्रासमुद्रा]
SK
वामहस्ते ग्रासमुद्रा विकचोत्पलसन्निभा || ५०० || [पानीयदानम्] सुवासितजलं दद्यात् स्वर्णरौप्यादिभाजने | [पुनर्गण्डूषदानं ताम्बूलदानञ्च] पुन�स्च चुल्लुकं दत्त्वा दद्यात्ताम्बूलमुत्तमम् || ५०१ || [ताम्बूलदाने मन्त्रः] एलालव�न्गकर्पूरजातीफलसमन्वितम् | तमालदलकर्पूरपूगभागतर�न्गितम् | सं�सोधितं सुगन्धञ्च ताम्बूलमनुसंददे || ५०२ || मूलमन्त्रेण देवे�सि हुनेत् पञ्चाऽहुतीः क्रमात् | प्राणापाणौ तथा व्यानमुदानञ्च समानकम् || एतत्स्वरूपं जानीयादाहुतीनाञ्च पञ्चकम् | पञ्चा�न्गुलीभिरेव स्यात् क्रमात् पञ्चाऽहुतीः प्रिये || इति | ५०१-५०२ | पुन�स्चेति | अत्र गन्धर्वतन्त्रोक्तः प्रकारः - पुनराचमनं दत्त्वा मुखवासं निवेदयेत् | प्. ७०५) [माल्यादिदानम्] माल्यं जलञ्च विमलं �सीतलञ्च सुवासितम् | व्यजनं तालवृन्तञ्च स्वर्णदण्डञ्च चामरम् | दर्पणञ्च ततो दद्यात् पुरत�स्चन्द्रवानि�सं (?) || ५०३ || [नृत्यगीतादि] नृत्यं गीतं �सीतलञ्च कुर्याद् विभवपूर्वकम् || ५०४ || [पुष्पाञ्जलिदानं तर्पणञ्च] सुप्रसन्नां ततो ध्यात्वा सर्वाभरणसंयुताम् | पुष्पाञ्जलित्रयं दत्त्वा तर्पयेत् परदेवताम् || ५०५ || [सपर्यात्रैविध्यम्] सपर्या त्रिविधा प्रोक्ता पराख्या अपराभिधा | परापरेति विख्याता ज्ञातव्या साधकोत्तमैः || ५०६ || [परादीनां लक्षणम्] परा तु बिन्दुपूजा स्यादपरा बाह्यतः क्रमात् | परापरा व्यापिका च ज्ञातव्या गुरुवक्त्रतः || ५०७ || ताम्बूलं गन्धसंयुक्तं कर्पूरादिसुवासितम् | संस्कृत्य विविधैर्द्रव्यैर्गन्धवद्भिर्निवेदयेत् || इति | ५०७-५०८ | अत्र पूजायास्त्रैविध्यं परादीनां लक्षणञ्चोक्तं सपर्येत्यादिना �स्लोकद्वयेन | तत्रापि गुरुमुखादेव ज्ञातव्यमित्युक्तम् इति नात्र परादीनां व्याख्यानमाव�स्यकम् | तन्त्रसारे तु पूजायाः पञ्चविधत्वमुक्तम् � गौतमीये -
SK
पूजा च पञ्चधा प्रोक्ता तासां भेदाञ् �सृणुष्व मे | अभिगमनमुपादानं योगः स्वाध्याय एव च | इज्या पञ्चप्रकाराऽर्चा क्रमेण कथयामि ते || तत्राभिगमनं नाम देवतास्थानमार्जनम् | उपलेपननिर्माल्यदूरीकरणमेव च || प्. ७०६) [पुनः प्राणायामः कामकलास्मरणञ्च] प्राणायामं पुनः कृत्वा स्मरेत् कामकलां बुधः | मुखं बिन्दुवदाकारं तदधः कुचयुग्मकम् || ५०८ || तदधः सपरार्धन्तु चिन्तयेत्तदधो मुखम् | मुखबिन्दुर्भवेत् सूर्यो दहनेन्दू स्तनावुभौ || ५०९ || योनिर्हार्दकला ज्ञेया मुखबिन्दोः समुत्थिता | नासाद्य�न्गस्तनद्वन्द्वाद् बाहुयोनेः पदद्वयम् || ५१० || [आत्मनः कामकलाभेदचिन्ता] एवं कामकलारूपमात्मानं चिन्तयेत् सदा || ५११ || मेढ्रस्थाने �सिखाकारमाधारे कनकप्रभम् | नाभिस्थं सूर्यबिम्बाभं तरुणादित्यवर्चसम् || ५१२ || हृदि वह्नि�सिखाकारं तदूर्ध्वे भास्करद्युतिम् | कण्ठे दीप�सिखाकारं घण्टावैदूर्यसन्निभम् || ५१३ || लम्बिके चन्द्र बिम्बाभं भ्रूमध्ये रत्नवद्रुचिः | नवमे वि�स्वतेज�स्च चिन्तयेदेषु साधकः || ५१४ || उपादानं नामगन्धपुष्पादिचयनं तथा | योगो नाम स्वदेवस्य स्वात्मत्वेनैव भावना || स्वाध्यायो नाम मन्त्रार्थसन्धानपूर्वको जपः | सूक्तस्तोत्रादिपाठ�स्च हरेः संकीर्तनं तथा || तत्त्वादि�सास्त्राभ्यास�स्च स्वाध्यायः परिकीर्तितः | इज्या नाम स्वदेवस्य पूजनन्तु यथार्थतः || इति पञ्चप्रकाराऽर्चा कथिता तव सुव्रत | सार्ष्टिसामीप्यसालोक्यसायुज्यसारूप्यदा क्रमात् || इति | प्. ७०७) [�स्रीगुरुपादुकाध्यानम्] ततः पद्मे सहस्रारे ध्यायेच्छ्रीगुरुपादुकाम् | [सैव कुलकुण्डलिनी�सक्तिः] मूलकन्दे तु सा �सक्तिर्भुजाकाररूपिणी | [प्राणस्य स्वरूपम्] तद्भ्रमावर्तवातोऽयं प्राण इत्युच्यते बुधैः || ५१५ || [�सक्ते�स्चेष्टावि�सेषः] झिञ्जीवाव्यक्तमधुरा स्फुरन्ती �सत�सोऽपि वा | गच्छन्ती ब्रह्ममार्गेण प्रवि�सन्ती स्वकेतने || ५१६ || [तत्र मनोलयनम्] यातायातक्रमेणापि तत्र कुर्यान्मनोलयम् | [मन्त्र�सिखोत्पत्तिः]
SK
तेन मन्त्र�सिखा जाता सर्वसिद्धिप्रदीपिका || ५१७ || [�सिखाहीनमन्त्रस्य निष्फलत्वम्] तमःपूर्णगृहे यद्वद् यत्किञ्चिन्न हि भासते | �सिखाहीनास्तथा मन्त्रा न सिध्यन्ति कदाचन || ५१८ || [�सिखाया गुप्तत्वम्] �सिखोपदे�सः सर्वत्र विद्विद्भिः परिगोपितः || ५१९ || [तद्वैपरीत्ये सिद्ध्यभावः] विनाऽनेन न सिद्धिः स्यादर्घ्यकोटि�सतरपि | [स्वापकाले मन्त्रजपस्याऽनर्थक्यम्] स्वापकाले तु मन्त्रस्य जपोऽनर्थफलप्रदः || ५२० || ५१४ | लम्बिके इति | लम्बिके तालर्ध्वसूक्ष्मजिह्वायामित्यर्थः | नवमे नवमचक्रे सहस्रारे इत्यर्थः | नवचक्रविवेकस्तु सौभाग्यलक्ष्म्युपनिषदि द्रष्टव्यः | ५१५-५२० | मूलकन्दे इति मूलाधारे इत्यर्थः | मूलाधारस्थकुलकुण्डलिनी�सक्तेर्भ्रमावर्तवातः प्राण इत्याख्यायते | तत्र मनसो मेलनं कुर्यात्, तत एव प्. ७०८) [स्वापस्य जागरस्य च लक्षणम्] स्वापकालो वामवहो जागरो दक्षिणवहः | [मन्त्रवि�सेषे स्वापजागरयोर्वि�सेषः] आग्नेयस्य मनोः सौम्य मन्त्रस्यैतद्विपर्ययः || ५२१ || [प्रबोधकालः] पबोधकालं जानीयादुभयोरुभयोरपि | [�सिव�सक्तिस�न्गमकालः] प्राणापानसमायोगाच्छिव�सक्त्योस्तु स�न्गमः | प्रबोधकालो विज्ञेयः स्वापकालस्ततोऽथवा || ५२२ || [त्रिपुरागायत्रीप्र�संसायां हरिहरसंवादः] अथ वक्ष्याम्यहं गुह्यं संवादं हरिहरात्मकम् | देवदारुवने पूर्वं ब्राह्मणानतिदुर्धियः || ५२३ || विलोक्य भगवान् विष्णुः �सिवं गत्वाऽभ्यभाषत | देवदेव जगन्नाथ महादेव जगत्पते || ५२४ || इमे दुर्मतयः सर्वे वेदाचारबहिष्कृताः | स्वच्छन्दचरिताः सर्वे देवदारुवने द्विजाः || ५२५ || मन्त्र�सिखा उत्पद्यते | एवञ्च एवंरूपेण प्राणे मनोलयनं विना मन्त्र�सिखानुत्पादः, तदनुत्पादे च न मन्त्रसिद्धिः स्यादिति फलितोऽर्थः |
SK
५२१-५२२ | स्वापकाल इति | यदा वामनासिकया �स्वासो वहति तदा स्वापकालः, यदा तु दक्षिणनासापुटेन �स्वास�स्चलति तदा जागरकालः, इति सर्वसाधारणमन्त्रजपे | एवञ्च जपारम्भकाले दक्षिणनासापुटेन वायोर्वहनमाव�स्यकम्, अन्यथा जपस्य निष्फलत्वमिति | आग्नेयमन्त्रस्य तु वामनासापुटेन यदा �स्वासो वहति तदैव जपारम्भ इति विपर्ययपदेनोपदि�सति ग्रन्थकारः | एवञ्च उभयोराग्नेयमन्त्रेतरदेवताकमन्त्रयोर्वामनासावहो दक्षिणनासावह�स्च �स्वासो यथाक्रमं जागरणकाल इत्या�सयः | प्. ७०९) अन्यस्त्रीमैथुनासक्ताः सुरापानपरायणाः | आत्मज्ञानविहीनानां योगाभ्यासावहेलिनाम् || ५२६ || कथमेषां भवेन्मुक्तिस्तदुपायं वद प्रभो | कथं वा ब्रह्मविद्यायां दीक्षायामधिकारिता || ५२७ || इत्युक्त्वैवाभवत्तूष्णीं ततो निखिलवेदिना | तस्मै उक्ता ब्रह्मभूता गायत्री त्रिपुरामयी || ५२८ || यया विज्ञातया चैव दीक्षितो ब्राह्मणो भवेत् | अपि कृत्वा कदाचारान् पतितो वेदवर्जितः | नारी �सूद्रोऽथवा व्रात्यो ज्ञात्वैव ब्राह्मणो भवेत् || ५२९ || [गायत्रीकथनम्] अथ वक्ष्यामि तां विद्यां गायत्रीं त्रिपुरातनीम् || ५३० || देवीप्रणवमुद्धृत्य ततस्त्रिपुरसुन्दरी | �नेऽन्ताऽथ विद्महे कामे�स्वर्यै धीमहि योजयेत् | तन्नः क्लिन्ने प्रचोदयादेषा जप्या जपादितः || ५३१ || [गायत्रीजपानन्तरमन्यजपस्याधिकारिता] अष्टाविं�सतिसंख्याभिर्जप्तॄणामधिकारिता | ब्रह्मविद्यां जपेत् प�स्चात् सर्वेषामेव नि�स्चितम् || ५३२ || [त्रिपुरागायत्रीजपफलानि] जप्त्वैनामगमन्मुक्तिं देवदारुवने द्विजाः | जीवन्मुक्तो जामदग्न्यः �सिष्यो मे घोरपातकैः || ५३३ || ५३०-५३२ | अथ वक्ष्यामीति | त्रिपुरासुन्दरीगायत्रीकथनम्, सा च गायत्री ह्रीं त्रिपुर - सुन्दर्यै विद्महे, कामे�स्वर्यै धीमहि, तन्नः क्लिन्ने प्रचोदयात् | इति | प्. ७१०) विमुक्तो मातृपुत्रेभ्यो मीननाथस्तथा परः | जैगीषव्य�स्च चन्द्र�स्च वासव�स्च विमोचितः || ५३४ ||
SK
गुरुदाराकर्षणाद्यैस्तथाऽगस्त्यो विमोचितः | अभक्ष्यं भक्षयित्वा तु वातापिञ्च महासुरम् || ५३५ || चाण्डालीगमनाच्चैव व�सिष्ठोऽपि विमोचितः | दत्तात्रेयः सुरापानाज्ज्वलनः सर्वभक्षणात् || ५३६ || कुलोड्डी�साभिधे तन्त्रे �सम्भुनेति प्रकीर्तितम् || ५३७ || [गायत्रीजपस्य नियमः] अथ प्रजप्या गायत्री ध्यायञ् �स्रीत्रिपुरे�स्वरीम् | विलम्बं त्वरितं त्यक्त्वा जपेन्मन्त्रमनन्यधीः || ५३८ || अष्टोत्तरसहस्रं वा गजान्तक�सतञ्च वा | त्रिं�सन्न्यूनं नैव जपेन्नित्यं जप इति स्मृतः || ५३९ || ५३९ | गजान्तक�सतमिति अष्टोत्तर�सतमित्यर्थः | वि�सेषमाह गन्धर्वतन्त्रे सप्तद�सपटले - उत्तमो द�ससाहस्रः सहस्रो मध्यमः स्मृतः | अधमन्तु निजानीयादष्टोत्तर�सतं �सिवे || इतो न्यूनं महे�सानि न �सस्तं जपकर्मणि | यथा�सक्ति जपं कुर्यात् संख्ययैव प्रयत्नतः || असंख्यातञ्च यज्जप्तं तत् सर्वं निष्फलं भवेत् | गृह्णन्ति राक्षसा येन गणयेत् सर्वथा बुधः || नैकवासा जपेन्मन्त्रं बहुवस्त्राकुलोऽपि वा | अप्रावृतकरो वाऽपि �सिरसा प्रावृतोऽपि वा || चिन्ताव्याकुलचित्तो वा क्रुद्धो वाऽपि त्वरान्वितः | निर्बोधः प्रीतिचित्तो न न रुग्णो न क्षुधाऽन्वितः || तथा चान्यमना भूत्वा प्रलपन्न जपेन्मनुम् | अनासीनः �सयानो वा गच्छन् भुञ्जान एव च || इति | प्. ७११) मन्त्रनिर्णयतन्त्रस्य मतमेतदुदीरितम् | [निगदादिना जपः] निगदेनोपां�सुना वा मानसेनापि वा जपेत् || ५४० || [निगदलक्षणम्] जिह्वाधरोष्ठचलनं निगदः परिकीर्तितः | [उपां�सुलक्षणम्] रसनामात्रचलनमुपां�सु परिकीर्तितम् || ५४१ || [मानसलक्षणम्] मनसा मन्त्रवर्णस्य चिन्तनं मानसः स्मृतः | [जपानामधममध्यमोत्तमत्वनिरूपणम्] निगदे लक्षजप्तः स्यादुपां�सु स्मरणोपमः || ५४२ || उपां�सुर्वा लक्षजपः सदृ�सो मानसैककः | अधमो मध्यमः प्रोक्त उत्तमो मन्त्रविन्नरैः || ५४३ || [जपकाले अतिह्रस्वातिदीर्घोच्चारणयोर्निषेधः] अतिह्रस्वो व्याधिहेतुरतिदीर्घस्तपःक्षयः | [जपरीतिः]
SK
अक्षराक्षरसञ्चारं जपेन्मौक्तिकहारवत् || ५४४ || ५४०-५४५ | निगदेनेत्यादि | विषयमिममधिकृत्य स्फुटमुक्तं गन्धर्वतन्त्रे सप्तद�सपटले - निगदेनोपां�सुना वा मानसेनाथवा प्रिये | जपारम्भं सुधीः कुर्याद् देवताभावतत्परः || निः�स�न्कः परमे�सानि स्पष्टवाचा निगद्यते | अव्यक्तः प्रस्फुरद्वक्त्र उपां�सुः परिकीर्तितः || प्. ७१२) [द�सावि�सेषे - स्तवजपयोर्निष्फलता] मनसा यः स्मरेत् स्तोत्रं वचसा च मनुंजपेत् | उभयं निष्फलं तस्य भिन्नभाण्डोदकं यथा || ५४५ || [जपे अ�न्गुलिनियमः] अनामाया द्वयं पर्व परिवर्तेन वै क्रमात् | मध्यमायास्त्रयं पर्व तर्जनीमूलपर्वणि | नित्यजापे समाख्याता न काम्ये करमालिका || ५४६ || धिया यदक्षर�स्रेणीं वर्णस्वरपदात्मिकाम् | उच्चरेदनु संस्मृत्य स उक्तो मानसो जपः || सौषुम्णाध्वन्युच्चरितं ध्वनिमात्रं विभावयेत् | मन्त्राक्षराणि चिच्छक्तौ प्रोतानि च विभावयन् || तामेव परमे व्योम्नि परमामृतबृंहितः | दर्�सयत्यात्मसद्भावं पूजाहोमादिभिर्विना || मनः संहृत्य विषयान्मन्त्रार्थगतमानसः | न द्रुतं न विलम्बञ्च जपेन्मौक्तिकप�न्क्तिवत् || निगदेन तु यज्जप्तं लक्षमात्रं वरानने | उपां�सूच्चारणेनैव तुल्यं भवति �सैलजे || उपां�सु लक्षमात्रं तु यज्जप्तं कमलेक्षणे | मानसोच्चारणात्तुल्यमेकेन वरवर्णिनि || वि�सेषात् त्रिपुरातन्त्रे प्र�सस्तो मानसो जपः | मनसा च स्मरेत् स्तोत्रं वचसा वा जपेन्मनुम् || उभयं निष्फलं तस्य भिन्नभाण्डोदकं यथा | ५४६-५४८ | अनामाया इति | करजपे नियममाह गन्धर्वतन्त्रे सप्तद�सपटले - मालाभावे ततः स्वासु अ�न्गुलीषु जपेद् बुधः | नित्यं जपं करे कुर्यान्न तु काम्यं कदाचन || प्. ७१३) [जपे अ�न्गुलिवियोगनिषेधः] अ�न्गुलीर्न वियुञ्जीत किञ्चित् स�न्कोचयेत् तलम् | अ�न्गुलीनां वियोगे तु च्छिद्रेषु स्रवते जपः || ५४७ || [अ�न्गुल्यग्रे जपस्य निष्फलत्वम्]
SK
अ�न्गुल्यग्रे च यज्जप्तं यज्जप्तं मेरुल�न्घने | पर्वसन्धिषु यज्जप्तं तत् सर्वं निष्फलं भवेत् || ५४८ || आरभ्यानामिकामध्यात् प्रादक्षिण्येन वै क्रमात् | तर्जनीमूलपर्यन्तं जपेन्नवसु पर्वसु || तर्जन्यग्रे तथा मध्ये यो जपेत् तन्त्रवान् नरः | चत्वारि तस्य न�स्यन्ति आयुर्विद्या य�सो बलम् || अनामामध्यपर्वन्तु मेरुं कृत्वा न ल�न्घयेत् | मेरुं प्रदक्षिणं कुर्वन्ननामामूलपर्वतः || अ�न्गुलीपर्वभिर्मन्त्रं जपन् रेखां न संस्पृ�सेत् | अ�न्गुलीर्नापयुञ्जीत किञ्चिदाकुञ्चिते तले | अ�न्गुलीनां वियोगे तु च्छिद्रेण स्रवते जपः || इति | मालया जपे वि�सेषमाह तत्रैव- यथा सिद्धिस्तथा माला मालाऽ�न्गं जपकर्मणि | मालया जपतो नित्यं सिद्धिरेव न सं�सयः || आ�सु सिद्धिकरी माला वर्णमयी समीरिता | अनुलोमविलोमार्णैर्मातृकायाः सबिन्दुकैः || सुमेरुकैः सदा कार्या माला सर्वसमृद्धिदा | अष्टाधिकेऽष्टवर्गैस्तु पुनरेव समापयेत् || वर्णेनान्तरितं मन्त्रं कृत्वा जप्येत साधकः | स्फाटिकादिभिरप्यत्र माला जपसमृद्धिदा || निधाय पुरतो मालां सव्यहस्तगताञ्च वा | जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः ||
SK
प्. ७१४) इष्ट-मन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् | ऐ/ मां माले महामाले सर्व�सक्तिस्वरूपिणि | चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव || चन्द्र-चन्दन-कस्तूरी-रोचनागुरु-कु�न्कुमैः | पूजयित्वा ततो मालां हृह्णीयाद् दक्षपाणिना || बीजं गणपतेः पूर्वमुच्चार्य तदनन्तरम् | अविघ्नं कुरु माले त्वं गृह्णीयादित्यनेन तु || यथा हस्तान्न च्यवते जपतः स्रक् तथाचरेत् | हस्तच्युतायां विघ्नः स्याच्छिन्नायां मरणं भवेत् || यत्नात् संगोपयेदेनां भ्रामयेन्न विधूनयेत् | गुरुं प्रका�सयेन्नैव यन्त्रं मन्त्रं कदाचन || अक्षमालाञ्च मुद्राञ्च गुरवेऽपि न दर्�सयेत् | भूत-राक्षस वेतालाः सिद्ध-गन्धर्व-चारणाः || हरन्ति प्रकटं यस्मात् तस्माद् गुप्तं जपेत् सदा | मालां स्वहृदयासन्नां दक्षिणस्य करस्य च || मध्यमाया मध्यभागे वर्जयित्वा तु तर्जनीम् | अनामिकाकनिष्ठाभ्यां युतया नम्रभागतः || स्थापयित्वा तत्र मालाम�न्गुष्ठग्रेण तद्गतम् | प्रत्येकं बीजमादाय कुर्याद् वामेन न स्पृ�सेत् || प्रतिवारं पठेन्मन्त्रं �सनैरोष्ठं न चालयेत् | तर्जन्या न स्पृ�सेनमालां मुक्तितो गणनाक्रमः || अ�नष्ठपर्वमध्यस्थां परिवर्तं समाचरेत् | अ�न्गुष्ठेन विना कर्म कृतं भवति निष्फलम् || अ�न्गुष्ठं मोक्षदं देवि तर्जनी �सत्रुना�सिनी | मध्यमा धनसिद्धौ स्याच्छान्तिकर्मण्यनामिका || कनिष्ठाकर्षणे ज्ञेया जपकर्मणि सिद्धिदा | मालाबीजन्तु जप्तव्यं स्पृ�सेन्न हि परस्परम् || पूर्वबीजं जपन् यस्तु परबीजन्तु संस्पृ�सेत् | अ�न्गुष्ठेन भवेत्तस्य निष्फलस्तस्य तज्जपः || प्. ७१५) [जपारम्भे विसर्गे च प्राणायामः] प्राणायामं समाचर्य जपं कृत्वा समाहितः | पुनः प्राणान् समायम्य जपञ्चैव समर्पयेत् || ५४९ || [जपसमर्पणम्] अर्घ्यस्य जलपुष्पाभ्यां देव्या दक्षिणहस्ततः || ५५० || [समर्पणमन्त्रः] गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् | सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महे�स्वरि || ५५१ ||
SK
किटि �सब्दान्विता माला छिन्ना भिन्नाऽपि वा भवेत् | वामोरौ दक्षपादञ्च विन्यस्य परमे�स्वरि || बद्धवीरासनो मन्त्री दि�स�स्चानवलोकयन् | गुरु-दैवत-मन्त्राणामैक्यं सम्भावयन् धिया || इति | ५५०-५५१ | अर्ध्यस्येति | अत्र वि�सेषो गन्धर्वतन्त्रे सप्तद�सपटले- यथाविधि जपं कृत्वा मन्त्रेणार्ध्योदकेन च | जपं तञ्च महादेव्या वामहस्ते समर्पयेत् || तेजोरूपं जपफलं �सिवया स्वीकृतं स्मरेत् | �स्रीबीजेनैव पाणिभ्यामवतारार्ण�सीर्षतः | सारस्वतेन बीजेन हस्ताभ्यां स्थापयेत् ततः || जपकर्मणि मालायाः प्रतिपत्तिरियं प्रिये | एवं यः कुरुते मालां जाप्यञ्च साधकः प्रिये | स प्राप्नोतीप्सितं देवि हीनस्याऽऽयुर्विपर्ययः || निःसेतुञ्च यथा तोयं क्षणान्निम्नं प्रसर्पति | मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति मन्त्रिणाम् || तस्मात् सर्वेषु मन्त्रेषु सर्वे वर्णा द्विजातयः | पार्�स्वयोः सेतुमादध्याज्जपकर्मणि साधकः || अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः | वेदत्रयात् समुद्धृत्य प्रणवं निर्ममे पुरा || प्. ७१६) [देव्यै रुधिरदानम्] गृहीत्वा �सिणितं पात्रं स्वकीयहृदयोद्भवम् | तोयसैन्धवसंयुक्तं �सर्करामधुसंयुतम् || ५५२ || अभ्युक्ष्य रुधिरं दद्याद् वाग्भवेन तु साधकः | यथा�सक्ति नरो दद्यान्नाभेरूर्ध्वमधो न च || ५५३ || [स्तवपाठानन्तरं प्रदक्षिणस्य कर्तव्यता] स्तुत्वा प्रदक्षिणं कार्यं त्रि-सप्त-नवधाऽपि वा | [अष्टा�न्गप्रणामस्य कर्तव्यता] अष्टा�न्गं प्रणमेन्मन्त्री भक्तिभावेन साधकः || ५५४ || जपादौ जपकर्मान्ते प्रणवं सेतुरूपकम् | नियोजयेन्महे�सानि सर्वकार्यार्थसिद्धये || इति | ५५४ | स्तवपाठानन्तरं प्रदक्षिणमाह-स्तुत्वेत्यादिना | अत्रोक्तं गन्धर्वतन्त्रे पञ्चद�सपटले- स्तुवन्नानाविधैः स्तोत्रैर्भक्तिभावसमन्वितः | प्रणमेत् परमे�सानि विधिना साधकोत्तमः || स्तवे वि�सेषमाह तत्रैव-
SK
यत् स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्क्रिया | क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः स्मृतः || पौराणिकैर्वैदिकैर्वा तान्त्रिकैः क्रियते नतिः | स मध्यमो नमस्कारो भवेद्वाचनिकः सदा || परेषां गद्यपद्याभ्यां नमस्कारो यदा भवेत् | स वाचिकोऽधमो ज्ञेयो नमस्कारेषु सर्वतः || इति | प्रदक्षिणप्रमाणञ्चोक्तं तत्रैव- प्रदक्षिणप्रमाणञ्च कुर्याद्धर्मार्थसाधनम् | प्रसार्य दक्षिणं हस्तं स्वयं नम्र�सिराः पुनः || दक्षिणं दर्�सयन् पार्�स्वं भक्ति�स्रद्धासमन्वितः | सकृत् प्रदक्षिणं कृत्वा वर्तुलाकृतिसाधकः || प्. ७१७) [अष्टा�न्गप्रणामलक्षणम्] पद्भ्यां कराभ्यां जानुभ्यामुरसा �सिरसा दृ�सा | वचसा मनसा चैव प्रणामोऽष्टा�न्ग ईरितः || ५५५ || [प्रकारान्तरेणाष्टा�न्गप्रणामः] साष्टा�न्गो दण्डवद्भूमौ निपत्य हृदयेन तु | चिवुकेन मुखेनाथ नासया मस्तकेन च | कर्णाभ्यां ब्रह्मरन्ध्रेण भूमिस्पर्�सनमेव वा || ५५६ || स च प्रदक्षिणो ज्ञेयः सर्वदेवौघतुष्टिदः | अष्टोत्तर�सतं यस्तु देव्याः कुर्यात् प्रदक्षिणम् || स सर्वकाममासाद्य प�स्चान्मोक्षमवाप्नुयात् || सप्तधा प्रणामलक्षणमुक्तं तत्रैव-
SK
त्रिकोणमथ षट्कोणमर्धचन्द्रं प्रदक्षिणम् | दण्डमष्टा�न्गमुग्रञ्च सप्तधा नतिलक्षणम् || दक्षिणाद् वायवीं गत्वा दि�सं तस्या�स्च �साम्भवीम् | ततोऽपि दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् || त्रिकोणाख्यो नमस्कारस्त्रिपुराप्रीतिदायकः | दक्षिणाद् वायवीं गत्वा वायव्याः �साम्भवीं तथा || ततोऽपि दक्षिणां गत्वा तां त्यक्त्वाऽग्नौ प्रवि�स्य च | अग्नितो राक्षसीं गत्वा कौबेरीञ्च ततो वि�सेत् || आग्नेयीञ्च ततो गत्वा नमस्कारः प्रकीर्तितः | षट्कोणाख्यो नमस्कारो दुर्गायाः प्रीतिदायकः || दक्षिणाद् वायवीं गत्वा तस्माद्व्यावृत्य दक्षिणम् | गत्वा योऽसौ नमस्कारः सोऽर्धचन्द्रो मम प्रियः || नमस्कारेषु जानीयादासां प्राकृतमद्रिजे | त्यक्त्वा स्वमासनस्थानं प�स्चाद् गत्वा नमस्कृतः || निपत्य दण्डवद् भूमौ दण्ड इत्युच्यते बुधैः | तथैव दण्डवद् भूमौ निपत्य हृदयेन च || चिबुकेन मुखेनाथ नासया हनुकेन च | प्. ७१८) [पुनर्दण्डवत् प्रणामः] कृताञ्जलिपुटो भूत्वा भूमिष्ठः प्रणमेत्ततः | प्रत्येकं प्रणमेन्मन्त्री दण्डवत् प्रणिपातयेत् || ५५७ || [देवाग्रे भ्रमणनिषेधः] देवञ्च मध्यगं कृत्वा योऽग्रे च भ्रमणञ्चरेत् | नमस्कारो वृथा तस्य अपराधो भवेदथ || ५५८ || [अकृताञ्जलेः प्रणामनिषेधः] अकृताञ्जलिना यस्तु नमस्कारं करोति वै | महान्धकारे नरके पच्यते नात्र सं�सयः || ५५९ || [प्रणामे मूर्ध्ना भूमुस्पर्�सस्य कर्तव्यता] पात्रान्तरे च प्रणमेन्मूर्ध्ना न च क्षितिं स्पृ�सेत् | �सपन्ति देवतास्तस्य विफलं तत् प्रकीर्तितम् || ५६० || [दण्डवत्प्रणामफलम्] प्रणामे देवतायास्तु यावन्तो रेणवस्तनौ | तावद्वर्षसहस्राणि ब्रह्मलोके महीयते || ५६१ || चक्षुषा चाथ कर्णाभ्यां ब्रह्मरन्ध्रेण चैव हि | तदष्टा�न्गमिति प्रोक्तं यद् भूमिं स्पृ�सते क्रमात् || ब्रह्मरन्ध्रेण संस्पर्�सः क्षितेर्यस्या नमस्कृतेः | स उग्र इति विज्ञेयो विष्णोस्तुष्टिप्रदायकः || ५६० | पत्रान्तरे इति कुड्यस्तम्भादावित्यर्थः |
SK
५६१ | प्रणामे इति | देवतायाः प्रणामे यावत्यो धूलिकणाः �सरीरलग्ना भवन्ति तत्संख्याकसहस्रवर्षाणि ब्रह्मलोकावाप्तिः फलमिति | गन्धर्वतन्त्रे नमस्कारप्र�संसा- देवमानुषगन्धर्वा यक्षराक्षसपन्नगाः | नमस्कारेण तुष्यन्ति महात्मानः समन्ततः || नमस्कारेण लभते चतुर्वर्गं महोदयम् | सर्वत्र सर्वसिद्ध्यर्थं नतिरेव प्र�सस्यते || प्. ७१९) प्रदक्षिणनमस्कारैः परितोष्य महे�स्वरीम् || ५६२ || [पुनर्दर्पणादिदानम्] दर्पणं चामरं छत्रं भूयो गन्धाद्यमर्पणम् | [पुनर्मुद्राप्रदर्�सनम्] भूयोऽपि मुद्रानवकं महादेव्यै प्रदर्�सयेत् || ५६३ || [नित्यहोमः] नित्यहोमं ततः कुर्यात्त्रिपुराप्रीतिकारकम् | [स्थण्डिलप्रमाणम्] स्वदक्षिणे हस्तमात्रप्रमाणं स्थण्डिलं लिखेत् || ५६४ || नत्वा विजयते लोकान् नत्वा धर्मः प्रवर्तते | नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः || चतुर्वर्गं लभेद् भक्तो नचिरादेव साधकः | नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा || नमस्कुरु महादेवीं प्रदक्षिणञ्च भक्तितः | कायिको वाग्भव�स्चैव मानसस्त्रिविधः स्मृतः || नमस्कार�स्च विज्ञेय उत्तमाधममध्यमः | कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति सर्वतः || नमस्कारेषु सर्वेषु कायिकः प्रथमः स्मृतः | जानुभ्यामवनीं गत्वा संस्पृ�स्य �सिरसा क्षितिम् || क्रियते यो नमस्कारः स एव कायिकः स्मृतः | जानुभ्यां क्षितिमस्पृष्ट्वा �सिरसा स्पृ�स्य मेदिनीम् || क्रियते यो नमस्कारो मध्यमः कायिकस्तु सः | पुटीकृत्य करौ �सीर्षे नमस्कारः प्रदीयते | अस्पृष्ट्वा जानु�सीर्षाभ्यां क्षितिं सोऽधम उच्यते || इति | ५६३ | भूयोऽपीति | मुद्रानवकं सर्वसंक्षोभण्यादिमुद्रानवकमित्यर्थः | (द्र० पृ० ६४०- ६४४) | ५६४-५७० | नित्यहोममित्यादिना नित्यहोममाह | तत्र स्थण्डिले मण्डलमाह- प्. ७२०) [मण्डलकरणम्] त्रिकोणञ्चैव षट्कोणं विलिखेत्तत्र मण्डलम् | [मण्डलषट्कोणे षड�न्गपूजा मध्ये देवीपूजा च] षट्कोणे च षड�न्गानि मध्ये देवीं प्रपूजयेत् || ५६५ ||
SK
त्रिकोणमिति | अत्र होमप्रयोगस्यानुल्लेखात् संक्षेपहोमप्रयोग उच्यते-निरुक्तस्थण्डिले वीक्षणादिभिः संस्कृते, तथाच- वीक्षणं मूलमन्त्रेण �सरेण ताडनं मतम् | तेनैव प्रोक्षणं प्रोक्तं वर्मणाऽभ्युक्षणं मतम् || प्रागग्रा उदगग्रा�स्च तिस्रो रेखाः समालिखेत् || ततो मूलमुच्चार्य कुण्डाय नमः इति संपूज्य प्रागग्रेषु मुकुन्दे�सपुरन्दरान् उदगग्रेषु च ब्रह्मवैवस्वतेन्दून् षट्तारीः प्रयुज्य पूजयेत् यथा ऐ/ ह्री/ �स्री/ ऐ/ क्ली/ सौः मुकुन्दायनमः इत्यादि | ततः कुण्डमध्ये स्थण्डिले वा हू/गर्भं षट्कोणवृतत्रिकोणं तद्बहिरष्टदलपद्मं तद्बहि�स्चतुरस्रं चतुर्द्वारसमेतं लिखित्वा तदुपरि बालाबीजेन (ऐ/ क्ली/ सौः) पुष्पाञ्जलीन् दद्यात् | ततः प्रणवेन सर्वाणि होमद्रव्याण्यभ्युक्ष्य वह्नेर्यागपीठमर्चयेत् | तथा-कर्णिकोपरि आधार�सक्त्यादीन् संपूज्य अग्न्यादिकोणचतुष्केषु ॐ धर्माय, ज्ञानाय, वैराग्याय, ऐ�स्वर्याय, पूर्वादिदिक्षु अधर्माय, अज्ञानाय, अवैराग्याय, अनै�स्वर्याय, मध्ये अनन्ताय, पद्माय, अं अर्कमण्डलाय द्वाद�सकलात्मने, उ/ सोममण्डलाय षोड�सकलात्मने, मं वह्निमण्डलाय द�सकलात्मने, ततः के�सरेषु पूर्वादितो मध्ये च पीतायै, �स्वेतायै, अरुणायै, कृष्णायै, धूम्रायै, तीव्रायै, स्फुलि�न्गिन्यै, रुचिरायै, ज्वालिन्यै रं वह्न्यासनाय | सर्वत्र प्रणवादिनमोऽन्तेन पूजयेत् | ततः कामे�स्वरं कामे�स्वरीं च पूजयेत् | अग्न्याहरणमाह गौतमीये- पाषाणभवमग्निञ्च यदि वाऽरणिसम्भवम् | �स्रोत्रियाणां गेहजञ्च वनस्थं वाऽथवा हरेत् || निरग्निब्राह्मणाल्लब्धो ह्यर्धलाभकरो भवेत् | क्षत्रबन्धो�स्चतुर्था�सं फलं दद्याद्धुता�सनः || वै�स्याच्छूद्राच्च विफलं जायते होमकर्म तत् | तस्मात् सर्वप्रयत्नेन वह्निमुक्तं समाहरेत् || प्. ७२१) [क्रव्यादां�सत्यागो वह्निस्थापनञ्च] क्रव्यादां�सं परित्यज्य वह्निं तत्र नियोजयेत् | [वह्निदेवतयोरैक्यं विभाव्य इष्टपूजा] वह्निदेवतयोरैक्यं ध्यात्वेष्टं तत्र पूजयेत् || ५६६ || तन्त्रान्तरे-
SK
द्विजातिभवनाद् वाऽपि वह्निमानीय साधकः | वौषडन्तेन मूलेन मन्त्रितं तद् विलोकयेत् || अग्निमावाहयेदस्त्रमन्त्रेण तदनन्तरम् | हुं फडन्तेन मूलेन क्रव्यादां�सं परित्यजेत् || ततः ॐ वह्नेर्योगपीठाय नमः, चतुर्दिक्षु ॐ वामायै, ज्येष्ठायै, रौद्र्यै, अम्बिकायै, मूलमुच्चार्यामुकदेवताकुण्डाय नम इति कुण्डं संपूज्य यथोक्तं वह्निमानीय वीक्षणादिभिः संस्कृत्य रमिति तस्माद् वह्निमुद्धत्य मूलमुच्चार्य हु/ फट् क्रव्यादेव्यः स्वाहा इत्यनेन क्रव्यादां�सं परित्यज्य फट् इति वह्निमन्त्रेण संरक्ष्य हु/ इत्यवगुण्ठ्य वमिति धेनुमुद्रयाऽमृतीकृत्य बाहुभ्यां समुद्धृत्य कुण्डोपरि त्रिः परिभ्राम्य जानुस्पृष्टमहीतलः �सिवबीजबुद्ध्या आत्मनोऽभिमुखं देव्या योनावेनं निक्षिपेत् | ततो ह्रीं वह्निमूर्तये नमः इत्यभ्यर्च्य रं वह्निचैतन्याय नम इति चैतन्यं संयोज्य ॐ चित्पि�न्गल हन हन दह दह पच पच सर्वज्ञाऽऽज्ँआपय स्वाहा इति ज्वालयेत् | ॐ अग्निं प्रज्वलितं वन्दे जातवेदं हुता�सनम् | सुवर्णवर्णममलं समिद्धं वि�स्वतोमुखम् || इत्युपतिष्ठेत् | ततोऽग्रे त्वममुकदेवतानामाऽसीति नाम कृत्वा ॐ वै�स्वानर जातवेद लोहिताक्ष इहाऽऽवह सर्वकर्मणि साधय स्वाहा | इत्यनेनार्घ्यादिभिः संपूज्य ॐ अग्नेर्हिरण्यादिसप्तजिह्वाभ्यो नमः, ॐ सहस्रार्चिषे हृदयाय नमः, इत्यादि अग्निषड�न्गेभ्यो नमः, ॐ अग्नये जातवेदसे इत्याद्यष्टमूर्तिभ्यो नमः, ॐ ब्राह्म्याद्यष्ट�सक्तिभ्यौ नमः, तद्बहिः पद्माद्यष्टनिधिभ्यः, तद्बाह्ये इन्द्रादिलोकपालेभ्यः, तद्बाह्ये वज्राद्यस्त्रेभ्यः | ततः प्रादे�समात्रं कु�सपत्रद्वयं घृतमध्ये निक्षिप्य सव्यासव्यमध्यभागेषु इडां पि�न्गलां सुषुम्णां ध्यात्वा होमं कुर्यात् | स्रुवेण दक्षिणभागादाज्यं गृहीत्वा ॐ अग्नये स्वाहेति अग्नेर्दक्षिणनेत्रे, तथा वामभागादाज्यं गृहीत्वा ॐ सोमाय स्वाहेति प्. ७२२) [घृत�सोधनम्] घृतं स्थाल्यां विनिक्षिप्य मूलमन्त्रेण �सोधयेत् | [देव्या व्याहृतिहोमः] देव्या व्याहृतिहोमञ्च कृत्वा साधकसत्तमः |
SK
वामनेत्रे, मध्यभागादाज्यं गृहीत्वा ॐ अग्नीषोमाभ्यां स्वाहेत्यग्नेर्ललाटनेत्रे जुहुयात् | पुनर्दक्षिणतः ॐ नमः इति घृतं गृहीत्वा ॐ अग्नये स्विष्टकृते स्वाहेत्याग्निमुखे जुहुयात् | तत ॐ भूः स्वाहा, ॐ भुवः स्वाहा, ॐ स्वः स्वाहेति महाव्याहृतिहोमः, ॐ वै�स्वानर जातवेद इहाऽऽवह लोहिताक्ष सर्वकर्माणि साधय स्वाहेत्यनेन त्रिवारं जुहुयात् | ततो मूलस्य पीठदेवतां मूलदेवताञ्चाग्नौ संपूज्य तन्मुखे मूलमन्त्रेण पञ्चविं�सतिवारं जुहुयात् | वह्निदेवतयोरात्मना सहैक्यं विभाव्य मूलमन्त्रेणैकाद�साऽऽहुतीर्जुहुयात् | ततो मूलदेवस्या�न्गदेवताभ्यः स्वाहा, आवरणदेवताभ्यः स्वाहेति, �सक्त�स्चेत् प्रत्येकमेकैकाहुतिं जुहुयात् | ततः संकल्पं विधाय स्वकल्पोक्तद्रव्येण होमं कुर्यात् | ततो मूलमन्त्रेण पूर्णाहुतिं दत्त्वा संहारमुद्रया स्वेष्टदेवतां हृदये समानीय क्षमस्वेति विसर्जयेदिति संक्षेपहोमविधिः | गन्धर्वतन्त्रे एकत्रिं�सपटले च- किं�सुकैर्हवनं देव्याः कुसुम्भकुसुमैरपि | नागके�सरपुष्पैर्वा मधूकै रक्तपद्मकैः || करवीरैर्जवापुष्पैर्मधुरत्रयमि�स्रितः | सर्वसिद्धिप्रदं कुण्डं चतुरस्रं वरानने || कुण्डं सुलक्षणं कृत्वा होमयेत् संस्कृतेऽनले | अथवा परमे�सानि स्थोण्डिलं रचयेद् बुधः || नित्यं नैमित्तिकं कुर्यान्न काम्यं स्थण्डिले चरेत् | हस्तमात्रं चतुरस्रं गोमयेनोपलेपितम् || अ�न्गुष्ठपर्वमात्रोच्चं वालुकामण्डलं तथा | तत्रापि लेखनं कृत्वा तत्र होमः फलप्रदः || यवानां तण्डुलैरेवम�न्गुलञ्चाष्टभिर्भवेत् | अदीर्घयोजितैर्हस्त�स्चतुर्विं�सतिर�न्गुलैः || एतत्प्रमाणहस्तैस्तु कुण्डादिकं समाचरेत् | त्रिपुराप्रीतिदो होमः कुण्डे त्रिकोणसंज्ञके || प्. ७२३) [जपद�सां�सहोमः] स्वाहान्तमूलमन्त्रेण द�सां�सं होममाचरेत् || ५६७ || [प्राणाहुत्यादिदानम्] प्राणाहुतिस्तु मूलेन षड�न्गेन षडाहुतीः || ५६८ ||
SK
प�स्चिमात् पूर्वाग्रास्तिस्रो रेखाः प्रादे�सप्रमाणाः | विलिख्य च मुकुन्देन्दुपुरन्दरस्वरूपकाः || दक्षिणास्तिस्रो रेखा वै विलिख्य तदनन्तरम् | रेखाः स्यु�स्च वैवस्वतब्रह्मानन्तस्वरूपकाः || त्रिकोणं मध्यतो देवि कृत्वा वाह्ये ततः परम् | षट्कोणं विधिना चैव कारयेदतिसुन्दरम् || अष्टपत्रञ्च तद्बाह्ये वृत्तेन कर्णिका �सुभा |
SK
चतुरस्रं चतुर्द्वारं मण्डलं विरचय्य मध्ये पुष्पाञ्जलिं निक्षिप्य �स्रुवादिकमासादयेत् | स्रुव-आज्यं-दधि-दूर्वा-समिध-आज्यस्थाली-प्रणीता-प्रोक्षणी चैव वामतः | एवं परिकल्प्याम्भसा प्रोक्षणीमापूर्य वारत्रयमुत्पूय तानि प्रोक्ष्याभिमुखानि कृत्वा बालयाऽभिमन्त्र्य, तथैव दूर्वाभिर्नूलादग्रं पुनरग्रान्मूलं त्रिः परिमृज्य दूर्वाभिः पूर्वाग्रमुत्तराग्रञ्च विस्तरेत् | मूलविद्यां समुच्चरन् स्थण्डिलाय नमः इति संपूज्य त्रिकोणमध्ये कामे�स्वरीकामे�स्वरौ यष्ट्वा तयोर्मिथुनीभावं ध्यात्वा तावभ्यर्च्य तस्या गर्भे वै�स्वानरजातवेद इहाऽऽवह लोहिताक्ष सर्वकर्माणि साधय स्वाहेति मूलोद्गतं संविदग्निं ललाटनेत्रद्वारा निर्गतं वाय्वग्नियुक्तं पातयेत् | ॐ उत्तिष्ठ पुरुष हरिपि�न्गल लोहिताक्ष सर्वकर्माणि देहि मे दापय स्वाहेति वह्निमुत्थाप्य ॐ चित्पि�न्गल हन हन दह दह पच पच सर्वं ज्ञापय स्वाहेति कामे�स्वरीगर्भे धृतं ध्यात्वा मूलमुच्चरन् वौषडिति वह्निं विलोक्य अस्त्रेण संरक्ष्य ज्वलदग्निमादाय स्थण्डिलं दक्षिणावर्तेन त्रिः परिभ्राम्य ज्वलदिन्धनमेकं हुं फडित्यनेन क्रव्यादाग्निं नैरृत्यां त्यजेत् | जानुभ्यामवनीं स्पृष्ट्वा वह्निं मध्ये संस्थाप्य क्लीं महात्रिपुरसुन्दरीवह्निमूर्तये नमः इति देवीं संपूज्य नाभिमण्डलाद् वहन्नासापुटेन तदग्निना बाह्याग्निमेकीकृत्य यजेत् | मूलमुच्चार्य ऐ/ क्ली/ सौः आं सोऽहं वह्निचैतन्याय नमः इति कामे�स्वरीगर्भे वह्निं सञ्चिन्त्य तद्देहे षड�न्गानि ॐ सहस्रार्चिषे हृदयाय नमः, ॐ स्वस्तिपूर्णाय �सिरसे स्वाहा, ॐ उत्तिष्ठ पुरुषाय �सिखायै वषट्, ॐ धूमव्यापिने कवचाय हुं, ॐ सप्तजिह्वायां नेत्रेभ्यो वौषट्, ॐ धनुर्धरायास्त्राय फट् प्. ७२४) [आवरणदेवताहोमः] तत आवृतिदेवतार्थमेकैकामाहुतिं हुनेत् | [मूलेन षडाहुतिहोमः] पुनर्मूलेन मन्त्रेण षडाहुतिं समाचरेत् || ५६९ ||
SK
इति यष्ट्वा तप्तजाम्बूनदप्रभं �सक्तिस्वस्तिकधरं वरदाभय�सोभितकरप�न्कजं दिव्याल�न्कारभूषितविग्रहम् अम्भोजसंस्थं �सुक्लाम्बरधरं त्रिनयनं बद्धमौलिं ध्यात्वा चक्रे सप्तजिह्वा�स्च पूजयेत्-ई�साने यूं लोहिताम्, पूर्वे रू/ रक्ताम्, आग्नेये लूं नीलाम्, नैर्-ऋते वू/ कृष्णाम्, प�स्चिमे �सू/ �सुभ्राम्, दक्षे कां करालीम् उत्तरे बहुरूपाम् इति | ततः कामे�सीगर्भाद्भववह्नेः सर्वभावेभ्यो नमः इति मन्त्रेण अमुकाग्नेरमुककर्म कल्पयामीति वह्नेर्गर्भाधान-पुंसवन-सीमन्तोन्नयन-जातकर्म-नामकरणान्नप्रा�सन- चूडोपनयन-गोदान-विवाहकर्म निर्वर्त्य परिषिच्य, परिस्तीर्य, परिधाय, पुनर्ध्यात्वा अग्निमन्त्रेणाग्निं त्रिकोणे पूजयित्वा सप्तजिह्वासु सप्ताहुतिं हुत्वा वै�स्वानर उत्तिष्ठ चित्पि�न्गल इति मन्त्रत्रयेणाऽऽहुतित्रयं विधाय षड�न्गानि षट्कोणेषु अष्टदलेषु-अग्नये, जातवेदसे, सप्तजिह्वाय, हव्यवाहनाय, अस्रोदराय, वै�स्वानराय, कौमारतेजसे, देवमुखाय नम इति लोकपालां�सभूगृहे पूजयेत् | वह्नेर्दक्षिणतो ब्रह्माणमाराध्य आज्यस्थालीं पुरतो निधाय बहुरूपायां जिह्वायां �स्रीचक्रराजं तदन्तःस्थां चित्कलाम् अ�सेषर�स्मिमण्डितामालोच्य यष्ट्वा नित्यं हुत्वा कुण्डं मण्डपधूपैरापूर्य दीपैरुज्ज्वाल्य समिधं हुत्वा जुहुयादिष्टमेव च | वलीन् प्रदाय ॐ भूरग्नये च, पृथिव्यै च, महते च स्वाहा | ॐ भूयो वायवे चान्तरिक्षाय च दिव्ये च महते च स्वाहा | ॐ स्वरादित्याय दिवे च महते च स्वाहा | ॐ भूर्भुवः स्व�स्चन्द्रमसे च नक्षत्रेभ्य�स्च महते च स्वाहा | इति चतुर्भिर्मन्त्रैर्महाव्याहृतिहोमं कृत्वा ब्रह्मार्पणमतः परम् | समिधं हुत्वा देवीमभ्यर्च्य विसृजेदिति | नित्यहोमो मया प्रोक्तः काम्यहोममतः �सृणु | मल्लिका-मालती-जातिकुसुमैर्मधुमि�स्रितैः || घृतपूर्णैः कुलैर्वाऽपि वागी�सत्वं प्रजायते | जवापुष्पैराज्ययुक्तैः करवीरैस्तथाविधैः || प्. ७२५) [आहुतित्रयम्] प्रणवञ्चाग्नये स्वाहा त्रिधाहुतिमनेन तु | [देव्या विसर्जनम्]
SK
विसर्जयेत्ततो देवीं नित्यहोम इति स्मृतः || ५७० || हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः | चम्पकैः पाटलैर्हुत्वा �स्रियमाप्नोत्यनुत्तमाम् || कमलैर्वरुणैर्होमः सम्यक्सम्पत्तिदायकः | रक्तोत्पलैर्जगद्व�स्यं नीलैर्दुष्टान् व�सं नयेत् | �स्वेतोत्पलैः �स्रियं राज्यं लभते हवनात् प्रिये || कह्लारहवनैर्लक्ष्मीं सर्वसौभाग्यमेव च | बन्धूककुसुमैर्होमैः सर्वसत्त्वान् व�सं नयेत् || क्षीरं दधि मधु त्वाज्यं पृथग् हुत्वा वरानने | आयुर्बलमथाऽऽरोग्यं समृद्धिर्जायते नृणाम् || रुधिराक्तेन छागस्य मांसेन नि�सि होमतः | मधुरत्रययोगेन गुरुणोक्तविधानतः || परराष्ट्रं व�सं नीत्वा कामभोगी भवेन्नरः | द्राक्षाभिर्लक्षहोमेन नारिकेलफलैस्तथा | राजानो व�समायान्ति समृद्धिरतुला तथा || जम्बूफलैः स्त्रियः सर्वा व�स्या भवन्ति नि�स्चितम् | �स्रीफलैरतुलां लक्ष्मीं पत्रै�स्चापि तथा भवेत् || इक्षुखण्डैः सुखावाप्तिस्तद्रसैर्व�सगा नृपाः | तिलाज्यहोमतो देवि सर्वकार्याणि साधयेत् || घृतपायसहोमेन सिताज्यमधुना सह | त्रैलोक्यं व�समायाति धनधान्यमवाप्नुयात् || सोपस्कारै�स्च वटकैरुपसर्गान् विना�सयेत् | कर्पूरस्य च होमेन वाग् व�स्या जायते नृणाम् || कु�न्कुमैर्होमतो देवि सर्वदुःखान् विना�सयेत् || कस्तूरीहोमतो देवा व�सगा नात्र सं�सयः | चन्दनागुरुहोमेन सर्वाल्लोकान् व�सं नयेत् || प्. ७२६) [होमद�सां�सेन तर्पणम्] ततो होमद�सां�सेन तर्पयेज्जातिभेदतः | [दुग्धेन तर्पणोपदे�सः मद्येन तर्पणनिषेध�स्च] दुग्धेन तर्पणं कुर्यान्न तु मद्येन तर्पयेत् || ५७१ || [मद्यस्य त्रैविध्यम्] तर्पणं बहुधा विन्द्यान्मधुपिष्टगुडोद्भवम् || ५७२ || [ब्राह्मणादीनां तर्पणद्रव्याणि] गोक्षीरं ब्राह्मणो दद्याद् गव्यं मद्यञ्च बाहुजः | हवनद्रव्याणां प्रमाणञ्चोक्तं तत्रैव-
SK
�सृणु देवि प्रवक्ष्यामि मानं हवनसिद्धये | पुष्पं समग्रं जुहुयाच्छतसंख्यास्तिलास्तथा || लाजा मुष्टिप्रमाणाः स्युर्घृतं कर्षप्रमाणकम् || चुल्लुकार्धं मधु क्षीरमन्नं ग्रासमितं भवेत् | समग्रै�स्च सखण्डै�स्च फलानाञ्च यथेच्छया || रम्भाफलं चतुःखण्डं लघु चेत् खण्डितं नहि | नारिकेलस्य खण्डस्तु स्थूलं कुर्यान्मनःप्रियम् || पर्वस्थाने चेक्षुदण्डं मनःसन्तोषकारकम् | द्राक्षाफलं समग्रं स्याद् गुञ्जामानं ततो भवेत् || कर्पूरकौषिकादीनं मनःसन्तोषकारकम् || एतदाहुतिमानञ्च कथितं सर्वसिद्धिकृत् | किं�सुकैः पापस�न्घातना�सकैरथवा प्रिये | नानाद्रव्यैः पृथग्भूतैः संगृहीतैर्वरानने || यथा�सक्त्या तु मिलितैर्होमं कुर्याद् विचक्षणः | सर्वविघ्नसमूहं तन्ना�सयेन्नात्र सं�सयः || इति | ५७१-५७३ | ततो होमेति | जातिभेदत इति ब्राह्मण-क्षत्रिय-वै�स्य-�सुद्राः स्वस्वजात्युक्तद्रव्यैर्होमसंख्याद�समां�स-संख्याकैस्तर्पयेदित्यर्थः | तत्रापि ब्राह्मणो दुग्धेन तर्पणं कुर्यात् न तु मद्येन तर्पयेदिति पुनः पुनर्निषेधति निषेधदार्ढ्यार्थम् | तर्पणं बहुधेति, प्. ७२७) वै�स्यस्तु माक्षिकं दद्याच्छूद्रः पुष्परसादिकम् || ५७३ || [देव्यै मद्यदाननिषेधः] न दद्याद् ब्राह्मणो मद्यं महादेव्यै कदाचन | [ब्राह्मणस्य वामाचारिणोऽपि मद्यदाननिषेधः] वामकामो ब्राह्मणोऽपि मद्यं मांसं न भक्षयेत् || ५७४ || अत्र लक्षणया तर्पण�सब्दस्य मद्यार्थकत्वं गृहीत्वा तस्य बहुविधत्वं दर्�सयति- मधुपिष्टगुडोद्भवमिति | सुरायस्त्रैविध्यमुक्तं मनुसंहितायामेकाद�साध्याये- गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा | यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः || इति | ५७४-५७५ | न दद्यादिति वचनमिदमुक्तं �स्रीक्रमे | अत्र संवादिप्रमाणमुक्तं मेरुतन्त्रे प्रथमपटले-
SK
वाममार्गेण तच्चाऽऽद्यवर्णं हित्वा प्र�सस्यते | ब्राह्मणस्तु सुरां पीत्वा रौरवं नरकं व्रजेत् | वाममार्गी ब्राह्मणोऽपि मद्यं मासं न भक्षयेत् || इति | रुद्रयामले च- वेदत्यागान्मद्यपानाच्छूद्रदारनिषेवणात् | तत्क्षणाज्जायते विप्र�स्चाण्डालादपि गर्हितः || इति | कालीकुलामृते चतुर्थपटले च- ब्राह्मणस्तु सुरां दत्त्वा ब्राह्मण्यादेव हीयते | ब्राह्मणः प�सुराख्यातः पा�सवं कल्पमाचरेत् || कालीकुलार्णवे च- सुरा वै मलमन्नानां पुरीषं मलमुच्यते | तस्माद् ब्राह्मणराजन्यौ वै�स्य�स्च न सुरां पिबेत् || सुरादर्�सनमात्रेण कुर्यात् सूर्यावलोकनम् | तत्समाघ्राणमात्रेण प्राणायामत्रयञ्चरेत् || इति | प्. ७२८) [मद्येऽनुकल्पः] यत्रैव विहितं मद्यं तत्र तत्र द्विजोत्तमः | नारिकेलोदकं कांस्ये ताम्रपात्रे सृजेन्मधु || ५७५ || [बृहच्छ्रीक्रमतन्त्रमतेन निरुक्ततर्पणप्रकारः] एवमेव प्रकारेण तर्पयेत्त्रिपुरे�स्वरीम् | बृहच्छ्रीक्रमतन्त्रस्य मतमेतदुदीरितम् | सत्यत्रेताद्वापरेषु क्रमेण परिकीर्तितः || ५७६ || [ज्ञानार्णवमतोल्लेखः] ज्ञानार्णवमतेनापि वर्णानुक्रमभेदतः | कथ्यन्ते द्रव्यभेदास्तु सविकल्पस्य मन्त्रिणः || ५७७ || क्षीराज्यमधुमैरेयद्रव्यभेदा भवन्ति हि || ५७८ || कुब्जिकातन्त्रे च- भुक्त्वा मत्स्यञ्च मांसञ्च स्पृष्टा हेतुञ्च भैरवि | त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन �सुध्यति || इति | वाराहीतन्त्रे नवमपटलेऽपि- मद्यं मांसं तथा मत्स्यं मैथुनं परमे�स्वरि | मानुषेण बलिं पञ्च ब्राह्मणो न स्मरेत् क्वचित् || इत्यादि | यत्रैवेति | मद्ये अनुकल्पविधायकं वचनं कुलचूडामणौ- यत्राऽऽसवमव�स्यन्तु ब्राह्मणस्तु वि�सेषतः | गुडार्द्रकं तदा दद्यात् ताम्रेवा विसृजेन्मधु || इति |
SK
५७७-५७८ | वर्णानुक्रमभेदत इति | ब्राह्मणक्षत्रियवै�स्य�सूद्रभेदेनेत्यर्थः | कथ्यन्ते इति | तथा च सविकल्पानां ब्राह्मणादिसाधकानां यथासंख्यं दुग्ध-घृत-मधु- मैरयैस्तर्पणं भवतीति भावः | मैरेयलक्षणे �सब्दकल्पद्रमधृतं माधवाचार्योक्तं प्रमाणम्- सीधुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् | मैरेयं धातकीपुष्पं गुडधानाम्लसंहितम् || इति | प्. ७२९) [आत्मनः कामकलारूपचिन्तनम्] कामी कामकलारूपमात्मानं चिन्तयेत्ततः | पूर्वोक्तेनैव विधिना चिन्तयेत् सुन्दरीं पराम् || ५७९ || ५७९ | कामीति | आत्मानं कामकलारूपं चिन्तयेदित्यर्थः | कामकलायाः स्वरूपमुक्तं गन्धर्वतन्त्रे त्रिं�सपटले- तत्त्रैविध्यं �सृणु प्राज्ञे सर्वतन्त्रेषु गोपितम् | स्थूलं समं तथा नाम सूक्ष्मं मन्त्रतनूं तथा || नभोबिन्दुमुखी सा च चन्द्र-सूर्य-तमःप्रभा | स्वमेरु-हार्दकलया �सोभमाना मही यदा || पातालतलविन्यस्ता त्रिलोकीयं कलात्मिका | ललितायास्त्रिभिर्बीजैः प्रका�सार्थो य ईर्यते || तेषां विमर्�स ईकारो बिन्दुना यत् त्रिधागतम् | तत् तुरीयस्वरूपार्णबिन्दुत्रयवदीरितम् || ईकारोर्ध्वगतो बिन्दुर्मध्यताञ्च गते रवौ | स्तनौ दहन�सीतां�सू योनिर्हार्दकला भवेत् || तदात्मकस्तु देव्यास्ते साधकस्य च तद् भवेत् | तदुद्भवं �सृणु प्राज्ञे महोदयकरं परम् || ऊर्ध्वबिन्द्वात्मकं वक्त्रमधो बिन्दुद्वयात्मकम् | कुचद्वयन्तु तच्छेषैः �सेषा�न्गाणि विभावयेत् || इति ते गदिता कामकलाया बाह्यभावना | तामेव त्वां पुनर्वक्ष्ये भावनामान्तरात्मिकाम् || मूलादिब्रह्मरन्ध्रान्तं स्फुरद्विद्युल्लताकृतिम् | ध्यायेत् कुण्डलिनीं देवि तद्विद्यास्वरूपिणीम् || षट्चक्रभेदिनीं देवीं बिन्दुत्रयात्मिकां पराम् | ताञ्च हार्दकलारूपां चिन्तयेत् पद्ममध्यगाम् || एवं कामकलारूपा जागर्तिं सचराचरे | सा च त्रयीमयी प्रोक्ता नास्ति किञ्चित् तया विना || प्. ७३०) सृष्टिचक्रे यजेत् पूर्वां मलयां दक्षिणां स्थितौ | प�स्चिमां प्रलये चक्रे ग्रन्थिस्थानेषु चोत्तराम् || ५८० ||
SK
तासां मन्त्रं प्रवक्ष्यामि ज्ञानार्णवानुसारतः | �सिवचन्द्राग्निदीर्घाक्षिबिन्दुनादकलात्मकम् || ५८१ || चन्द्रे�सवह्निवामाक्षिनादबिन्दुकलान्वितम् | �सक्तिं कलाढ्यमन्ते च तुर्यबीजमुदीरितम् || ५८२ || �स्रीबीजं कुरु तार्त्तीयं विद्या वेदाक्षरी भवेत् | एषा पूर्वाम्नायविद्या रुद्र�सक्तिरियं भवेत् || ५८३ || वाक्क्लिन्ने कामबीजञ्च मदद्रवे कुले हसौः | वर्णिता रुद्रवर्णेयं दक्षिणाम्नायदेवता || ५८४ || साम्ना मुखं समाख्यातमृग्यजुर्भ्यां स्तनद्वयम् | अथर्वणा समाख्याता हार्दरूपा परा कला || तुरीयं परमे�सानि साक्षाद् ब्रह्मैव केवलम् | एतत् कामकलाध्यानं गुह्याद् गुह्यतमं परम् || इति | ५८०-५८३ | चतुराम्नायविद्यामाह-सृष्टिचक्रे इत्यादि | तत्र पूर्वाम्नायविद्यामन्त्रोद्धारमाह- �सिवेति | �सिवो हकारः, चन्द्रः सकारः, अग्नी रेफः, दीर्घाक्षिरीकारः, तथाच प्रथमाक्षरः हसरीं, एवं मन्त्रोद्धारेण द्वितीयः सहरीं, तृतीयः �स्रीं, कलाढ्यं �सक्तिबीजमिति चतुर्थः कलह्रीम् इति चतुरक्षरी पूर्वाम्नायरुद्र�सक्तिः | व्यक्तमाह ज्ञानार्णवे द�समपटले- चतुराम्नायविद्याभिर्मान्यं सिंहासनं प्रिये | हस्रीमात्मकमुच्चार्य सह्रीमात्मकमद्रिजे || �सक्तिः कलाभ्यामन्ते च तुर्यं बीजमुदाहृतम् | �स्रीबीजं कुरु तार्तीयं विद्या वेदाक्षरी भवेत् || उन्मनी नाम विद्येयं भोगमोक्षफलप्रदा || पूर्वाम्नाये महाविद्येति | ५८४ | वाक्क्लिन्ने इति | तथाच ऐं क्लिन्ने क्लीं मदद्रवे कुले हसौः इति प्. ७३१) अवधूते�स्वरीनाम्नीं ज्ञात्वा तां साधकोऽर्चयेत् | वाग्भवञ्च महामायां �स्रीबीजं हसखफ्रेमिति || ५८५ || रुद्रे�स्वरेण संभिद्य बिन्दुनादा�न्कितं हसौः | पञ्चप्रणवमुद्दिष्टं सर्वपक्षेषु दुर्लभम् || ५८६ || एतत्संपुटितां विद्यां द्वात्रिं�सार्णां लिखेद् बुधः | नमो भगवति प्रान्ते चतुर्थं प्रणवं लिखेत् || ५८७ || ई�स्वराख्यं क्रमेणैव कुब्जिके च पदन्तथा | ऐमात्मकं परां विद्यां �स्रीमात्मकमतः परम् || ५८८ ||
SK
एकाद�साक्षरी दक्षिणाम्नाय विद्या | एनाम् अवधूते�स्वरीं साधकः पूजयेत् | ज्ञानार्णवे मन्त्रोद्धारस्तु- -दक्षिणाम्नाय उच्यते | वाग्भवं बीजमुच्चार्य क्लिन्ने कामस्य बीजकम् | मदद्रवे कुले हस्रौ विद्येयं भिगिनी प्रिये | दक्षिणाम्नाय विद्येयमिति | ५८५-५९० | वाग्भवमित्यादि | तथाच ऐ/, ह्री/, �स्री/, हसखफ्रे/, हसरौ/, इति एते पञ्च प्रणवाः | एतत्संपुटितां द्वात्रिं�सद्वर्णां विद्यां लिखेत् | सा च-नमो भगवति हसखफ्रे/ हौ/ कुब्जिके ऐ/ ह्री/ �स्री/ अघोरे घोरे अघोरमुखि क्लिं क्लिं किलिकिलि विच्चे | इति द्वात्रिं�सदक्षरी ऋक् | इयं भोगमोक्षप्रदायिनी प�स्चिमाम्नायदेवीति वि�सदोऽर्थः | अत्र यद्यपि ग्रन्थकारेण ज्ञानार्णवमतमुल्लिख्य मन्त्रविन्यासः कृतः, तथाऽपि मुद्रितज्ञानार्णवे मन्त्रोऽयमं�सतो भिन्न इति ग्रन्थपाठः प्रदर्�स्यते- -प�स्चिमाम्नाय उच्यते | वाग्भवञ्च परा �स्री/ च हसखफ्रेमिति प्रिये | हस्रौ मन्तास्ततो देवि पञ्चैते प्रणवाः स्मृताः || भगवत्यम्ब आलिख्य पृथक् पदमथे�स्वरि | चतुर्थं प्रणवञ्चैव खसहफ्रेमिति प्रिये || प्. ७३२) अघोरे चैव घोरे अघोरमुखि च संलिखेत् | क्लिं क्लिं किलियुगं विच्चे कुब्जिका �साम्भवी परा || ५८९ || प�स्चिमाम्नायदेवे�सी भोगमोक्षप्रदायिनी | कफ्रेमात्मकमुच्चार्य महाचण्डपदं लिखेत् || ५९० || योगे�स्वरीपदं प�स्चाद् विद्यैषा कालिका मता | उत्तराम्नायविद्येयं नवार्णा परमे�स्वरी || ५९१ || [ग्रहादीनां पूजा] नवग्रहां�स्च मेषादीन्नक्षत्राणि समर्चयेत् | योगां�स्च करणान्येव तिथिमासानृतूनपि || ५९२ || [कलादीनां डाकिन्यादीनां च पूजा] कलाकाष्ठानि पक्षां�स्च डाकिनीं याकिनीं तथा | लाकिनीं काकिनीञ्चैव साकिनीं ह्लाकिनीमपि || ५९३ || कुब्जिके चैव हस्रां च हस्रीं हस्रौ/ ततः परम् | अघोरे चैव घोरे च त्वघोरमुखि चाऽऽखिलेत् || हस्रां हस्रीं किणिद्वन्द्वं विच्चे द्वात्रिं�सदक्षरी || कुब्जिकेयं महाविद्या प�स्चिमाम्नायदेवता || इति |
SK
५९०-५९१ | खफ्रेमिति | तथाच खफ्रे/ महाचण्डयोगे�स्वरी इति नवाक्षरी कालिकानाम्नी उत्तराम्नायविद्या भवति | मन्त्रस्यास्योद्धारो ज्ञानार्णवतन्त्रे- खफ्रेमात्मकमुच्चार्य महाचण्डपदं लिखेत् | योगे�स्वरीपदं प�स्चाद् विद्येयं कालिका प्रिये || उत्तराम्नायविद्येयं नाम्ना कालीति वि�स्रुता | एताभिः परमे�सानि पूज्यं सिंहासनं सदा || इति | प्. ७३३) [पूजास्थानं फलञ्च] �स्रीचक्रमध्ये संपूज्य साधकः �सिवतां व्रजेत् | [अ�न्गबलिदानम्] अथवाऽ�न्गबलिं दद्यादधुना साधकोत्तमः || ५९४ || [बलिदानमन्त्रः] स्वाहान्तेनाऽऽत्मतत्त्वाद्यैर्मूलबीजपुरःसरैः | [प्रसादस्वीकरणम्] तस्याः प्रसादं स्वीकृत्य चुल्लुकार्घ्योदकेन च || ५९५ || [आत्मसमर्पणम्] आत्मार्पणं ततः कुर्यात् पूर्वोक्तं मन्त्रमुच्चरन् | [ईदृ�सी पूजा पुर�स्चरणेऽपि] पुर�स्चरणकालेऽपि सपर्यैषा प्रकीर्तिता || ५९६ || [परा�न्मुखार्घ्यदानम्] मूलमन्त्रं समुच्चार्य त्रिपुरासुन्दरीति च | परा�न्मुखार्घ्यस्वाहेति परा�न्मुखार्घ्य ईरितः || ५९७ || [देव्य�न्गे सर्वदेवताविलयनम्] �स्रीमत्त्रिपुरसुन्दर्याः �सरीरे सर्वदेवताः | विलीनाः सन्तु मूलेन देव्य�न्गे विहिताः स्मरेत् || ५९८ || [आत्मनः पुनः कामकलारूपचिन्तनम्] पुनः कामकलारूपमात्मानं परिचिन्तयेत् | [विसर्जनम्] ध्यात्वा चक्रेण सहितां �स्रीमत्त्रिपुरसुन्दरीम् || ५९९ || खेचर्या �सक्तिचक्रन्तु क्षमस्वेति विसर्जयेत् | प्. ७३४) [देव्य�न्गे षड�न्गन्यासः] देवीमूर्तौ षड�न्गानि न्यस्य मूलं समुच्चरन् | [यन्त्रस्थपुष्पाघ्राणम्] यन्त्रस्थं पुष्पमाघ्राय बद्ध्वा संहारमुद्रिकाम् || ६०० || [विसर्जनमन्त्रः] गच्छ गच्छ परं स्थानं स्वस्थानं परमे�स्वरि | यत्र ब्रह्मादयो देवा लभेयुः परमं पदम् || ६०१ || [विसर्जनानन्तरकृत्योपदे�सः] विसृज्यानेन तां देवीं ततः पूरकवायुना | ध्यायेत्तु मन्त्रेणानेन देवीं संस्थापयेद् हृदि || ६०२ || [�सेविकासुन्दरीपूजनमन्त्रः]
SK
लेह्यचोष्यान्नपानादि ताम्बूलमनुलेपनम् | निर्माल्यभोजनं तुभ्यं ददामि �स्री�सिवाज्ञया || ६०३ || अनेन मनुना मन्त्री �सेविकां सुन्दरीं यजेत् | [कामकलाध्यानम्] ततः कामकलां ध्यायेद्दुर्वारामिन्दुमालिनीम् | सेन्दुखण्डाञ्च साकारां निराकारेऽथ मेलयेत् || ६०४ || [प्राणायामः षड�न्गन्यास�स्च] प्राणायामं विधायाथ षड�न्गानि न्यसेद् बुधः | [�स्रीपादुकापूजा] तनुत्रयं समुच्चार्य ततः �स्रीपादुकां यजेत् || ६०५ || ६०५ | तनुत्रयमिति मूलबीजत्रयमित्यर्थः | �सिष्टं सुगमम् | प्. ७३५) [मानसकर्मयोगः] अथवा मानसे कर्मयोगे तु परमव्ययम् | मूलोद्गतं �सक्तिचक्रं पुनर्मूलं नयेत् क्रमात् || ६०६ || मूलं चाऽऽत्मनि चिद्रूपे यज्जुष्टं तत् तदेव हि | अस्मिन्नेवाव्यये तत्त्वे विलीनं तद् विचिन्तयेत् || ६०७ || प्रवाहं ना�सयेत् संविदग्नौ संभेदकर्मणि | इदन्तालक्षणं द्रव्यं जुहुयादबहिर्मुखः || ६०८ || पुष्पादिकं ततो घ्रात्वा ह्यन्तर्दे�से विनिक्षिपेत् | कथितः कर्मयोगोऽयं येन तन्निष्ठता भवेत् || ६०९ || [कर्मयोगाभ्यासे सिद्धिः] एतदभ्यासत�स्चैव सिद्धो भवति योगिराट् || ६१० || [निर्माल्यादीनां धारणाद्युपदे�सः] निर्माल्यं �सिरसा धार्यं सर्वा�न्गमनुलेपनम् | नैवेद्यं चोपभुञ्जीत दत्त्वा तद्भक्ति�सालिने || ६११ || ६०६-६०९ | अथवेति | मानसे कर्मयोगे इति ज्ञानयोगे इति भावः | तत्र परममव्ययतत्त्वं मूलाधारे �सक्तिचक्रं विचिन्त्य तत् तत्त्वं चिद्रूपे आत्मनि ब्रह्मरन्ध्रस्थितसहस्रदलकमले मेलयित्वा �सक्तिचक्रेण मिलितं तन्मूलाधारं समानयेत् | पुनः �सक्तिचक्रमिलितमात्मचक्रम् अस्मिन्नेवाव्यये तत्त्वे विलीनं विभावयेत् | अस्मिन् मेलनकर्मणि जाते ज्ञानाग्नौ बाह्यवस्तुप्रवाहं भस्मीकुर्यात्, एवञ्च अन्तर्मुखो घटादिबाह्यवस्तूनि तत्र ना�सयेत् | तथाच ज्ञानमयं नित्यं वस्तु एव प्रका�सितं भवेदात्मनीति संक्षेपः | अनेन कर्मयोगाभ्यासेन आत्मनिष्ठता भवेदिति भावः |
SK
६११ | निर्माल्यधारणादिकमुपदि�सति-निर्माल्यमिति | व्यक्तमुक्तं �सिवार्चनचन्द्रिकाधृतमालिनीतन्त्रे- अर्घ्यतोयेन देवे�सि गन्धं पूजाव�सेषितम् | आलोड्य किञ्चिन्मूलेन मन्त्रेण त्वष्टकं �सिवे || प्. ७३६) [गुरुप्रणामः] तत�स्च गुरवे दद्यान्नमस्कारत्रयं सिधीः || ६१२ || [�स�न्खजलप्र�संसा] देवार्चनाव�सिष्टं यत् सलिलं �स�न्खमध्यगम् | अ�न्गे लग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति || ६१३ || [�स्रीचक्रपादोदकप्र�संसा] ग�न्गापुष्करनर्मदासु यमुनागोदावरीगोमती- ग�न्गाद्वारगयाप्रयागबदरीवाराणसीसिन्धुषु | रेवा�सोणसरस्वतीप्रभृतिषु ब्रह्माण्डभाण्डोदरे तीर्थस्नानसहस्रकोटिफलदं �स्रीचक्रपादोदकम् || ६१४ || [भ�न्ग्या स्वोक्तौ प्रामाण्योपन्यासः] नानातन्त्रमतं ज्ञात्वा �स्रीगुरोर्मतमेव च | पूर्णानन्देन कृतिना सपर्यैषा प्रकीर्तिता || ६१५ || इति �स्रीपूर्णानन्दपरमहंसविरचिते �स्रीतत्त्वचिन्तामणौ सपर्याविवरणं नामाष्टाद�सः प्रका�सः || १८ || प्रोक्षयेत् तेन तोयेन स्वात्मानं मूलमन्त्रतः | निर्माल्यं मस्तके धार्यं मूलमन्त्रेण मन्त्रिणा || प्रा�स्य पादोदकं देवि नवेद्यं विभजेत् प्रिये | तद्भक्तेभ्यः स्वयं भुक्त्वा तन्मयो विहरेत् सुखम् || इति | तत्रापि वि�सेषः पिच्छिलातन्त्रे एकाद�सपटले- जवापुष्पं महे�सानि दद्यान्न धारयेत् क्वचित् || इति | एकोनविं�सः प्रका�सः [त्रिपुरार्णवोक्तं त्रिपुरसुन्दरीस्तोत्रम्] अथ स्तोत्रं प्रवक्ष्यामि त्रिपुरार्णव ईरितम् किं किं द्वन्द्वं दनुजदलिनि क्षीयते न �स्रुतायां का का सिद्धिः कुलकमलिनि प्राप्यते नार्चितायाम् | का का कीर्तिः सुरवरनुते व्याप्यते न स्तुतायां कं कं भोगं त्वयि न चिनुते चित्तमालम्बितायाम् || १ || सकुसं सकु(?)सं रम्भ स्वारिता मोक्षविभ्रमे | चिच्चन्द्रमण्डलान्तःस्थे नमस्ते हरवल्लभे || २ || जगदुद्धारणोद्योग-योगभोगवियोगिनि | स्थितिभावस्थिते देवि नमः स्थाणुप्रियेऽम्बिके || ३ || भावाभावपृथग्भावानुभावे वेदकर्मणि | चैतन्यपञ्चके देवि नमस्तुभ्यं हरा�न्गने || ४ ||
SK
सृष्टिस्थित्युपसंहारप्रत्युर्जितपदद्वये | चिद्वि�स्रान्तिमहासत्तामात्रे मातर्नमोऽस्तु ते || ५ || १ | किं किमिति | पद्यमिदं तन्त्रसारोक्तकि�न्किणीस्तोत्रस्य प्रथम�स्लोकमनुवदति पाठभेदेन | प्. ७३८) वह्ण्यर्क�सीतकिरणब्रह्मचक्रान्तरोदिते | चतुःपीठे�स्वरि �सिवे नमस्ते त्रिपुरे�स्वरि || ६ || चराचरमिदं वि�स्वं प्रका�सयसि तेजसा | मातृकारूपमास्थाय तस्यै मातर्नमोऽस्तु ते || ७ || स्मृता भवभयं हंसि पूजिताऽसि �सुभ�न्करि (री) | स्तुता त्वं वाच्छितं वस्तु ददासि करुणावरे || ८ || भक्तस्य नित्यपूजायां रतस्य मम साम्प्रतम् | वाग्भवादिमहासिद्धिं देहि त्रिपुरसुन्दरि || ९ || परमानन्दसन्दोहप्रमोदभरनिर्भरे | दुःखत्रयपरिम्लानवदनं पाहि मां �सिवे || १० || �सब्दब्रह्ममयि यच्च देवि त्रिपुरसुन्दरि | यथा�सक्ति जपं पूजां गृहाण मदनुग्रहात् || ११ || अज्ञानादल्पबुद्धित्वादालस्याद् दुष्टभावतः | ममापराधं कार्पण्यं क्षमस्व परदेवते || १२ || अज्ञानामसमर्थानामस्वस्थाननिवासिनाम् | अ�सुद्धं बलमस्माकं �सि�सूनां हरवल्लभे || १३ || कृपामयि कृपां भद्रे सकृन्मयि निवे�सय | तावदहं कृतार्थोऽस्मि न ते किञ्चन हीयते || १४ || ८ | स्मृतेति | पद्यमिदमुपलभ्यते कि�न्किणीस्तोत्रेऽपि | प्. ७३९) यन्मया क्रियते कर्म जाग्रत्स्वप्नसुषुप्तिषु | तत् सर्वं तावकी पूजा भूयाद् भूत्यै रमे �सिवे || १५ || द्रव्यहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् | तत् सर्वं कृपया देवि क्षमस्व परदेवते || १६ || यन्मयोक्तं महाज्ञानं तन्महत् स्वल्पमेव वा | तावत् सर्वं जगद्धात्रि क्षन्तव्यमयमञ्जलिः || १७ || �स्रीतत्त्वचिन्तामणिः [�स�न्कराचार्योक्तं स्तोत्रम्] इमं स्तवं प्रवक्ष्यामि �स�न्कराचार्यभाषितम् | रत्नामिताम्बुनिधिमध्यलसत्प्रवाल- द्वीपस्फुरत्परमनन्दनकाननान्तः | �स्रीवृक्षमूलतलप�स्चिमवक्त्ररत्न- गेहान्तराद्भुतमहामणिपीठिकायाम् || १ ||
SK
बिन्दुत्रिकोणबहिरष्टककोणबाह्या- द्दिक्कोणदिक्परचतुर्द�सकोणयुक्तम् | वृत्ताष्टषोड�सदलानतवृत्तलोक- भूपू�स्चतुर्मुखमहं प्रणमामि चक्रम् || २ || पा�सा�न्कु�सामृतकपालसु�सूलहस्तं हस्त्याननं विविधभूषणनीलदेहम् | नित्योत्सवं सकलविघ्नविना�सहेतुं �स्रीमद्गणे�स्वरमहं प्रणमामि नित्यम् || ३ || पीयूषभाण्डमसिदण्डकपालखण्ड- चण्डातिचण्डभुजदण्डमतिप्रचण्डम् | �स्रीकुण्डलद्ब्यविमण्डितगण्डमीडे नीलं वटुं वटुकनाथमहीन्द्रहारम् || ४ || चञ्चत्कपालसुकृपाणस�सूलदण्ड- मुद्यद्डमड्डमरुमण्डितपाणिदण्डम् | प्. ७४१) नीलाञ्जनप्रचयपुञ्जमिव प्रसन्नं �स्रीक्षेत्रपालकममुं �सरणं �स्रयामि || ५ || चक्रातिचक्रपरिदारितदैत्यचक्र- चक्राक्षिकम्बुपरिचुम्बिकरां कुमारीम् | दुर्गां निसर्गमुनिवन्दितदुर्गदुर्ग- सिंहासनोपरिगतां सततं �स्रयामि || ६ || पद्मद्वयाभयवरोद्यतपाणिपद्मां पद्मासनेन समल�न्कृतपादपद्माम् | पद्मां सुपद्मवदनां खलु पद्मनाभ- हृत्पद्ममध्यवसतिं सततं प्रपद्ये || ७ || उद्यत्सुधानिधिसहस्रमरीचिगौरीं वागी�स्वरीं सकलवा�न्मयसागराणाम् | कण्ठे सदा लुठतु मे स्फटिकाक्षमाला �स्रीर्ज्ञानपुस्तकवराभय�सस्तहस्ता || ८ || बन्धूकपुष्पवपुषं मदघूर्णमानं पुष्पेषुचापकुसुमेषुकरं वराक्ष्या | यद्बन्धनात् कनककान्तिसामानकान्त्या स्वालि�न्गितं रतिपतिं सततं स्मरामि || ९ || प्रीत्याव�सं भुवि वसन्तमहं भवन्तं नृत्यन्तमद्भुतमहोत्सवदं वसन्तम् | प्. ७४२) वन्दे सुनन्दनवने �सरबिन्दुकान्तं सन्तानसन्ततिलतासु विका�सयन्तम् || १० || भक्त्या�स्रिताभयवरोद्यतपाणिपद्मौ देवौ समानरचितासनसन्निविष्टौ | द्वारे पुरे परमदैवतदेवतायाः �स्री�स�न्खपद्म च निधी (?) निदधामि मूर्ध्नि || ११ || चिन्तामणिप्रणयदक्षिणपाण्यभीति- दानोल्लसत्कमलकोमलवामपाणीः | रक्तद्युतीः �स�सिधराः प्रकटाणिमाद्या- स्त्रैलोक्यमोहनगताः परिपूजयामि || १२ ||
SK
रक्तोत्पलामृतकपालधराः कराभ्यां वं�सीतमालदलकोमलनीलदेहाः | ब्राह्म्यादिका रुधिरभूषणरक्तवस्त्रा मातर्द्वितीयचतुरस्रगता भजामि || १३ || पा�सा�न्कु�साक्तितयथायथबद्धबद्ध- मुद्राविमुद्रितकरां तरुणारुणाभाम् | �स्रीमत्तृतीयचतुरस्रगसर्वपूर्व- संक्षोभपूर्वदलदैवतमर्चयामि || १४ || �सोणाः सपा�स�सृणिपाणियुगाभिरामाः कामाद्यकर्षणमुखाः सुभगा�स्च नित्याः | प्. ७४३) गुप्ताः कलानिधिकलाः खलु सर्ववाञ्छा- संपूर्णषोड�सदले परिपूजयामि || १५ || �स्रीदेव्यचिन्त्यमहिमा अभिदीप्यमाना रक्ताः सुगुप्ततरनामधरा दयार्दाः | �सक्तीरन�न्गकुसुमादिकयाष्ट सर्व- संक्षोभकेऽष्टदलके परिपूजयामि || १६ || �सोणाः सबाणधनुषः खलु सर्वपूर्व- संक्षोभणादिकचतुर्द�सदेवतास्ताः | सत्सम्प्रदायविधिना परिपूजयामि सौभाग्यदायकचतुर्द�सकोणचक्रे || १७ || �सुभ्रा वराभयकराः खलु सर्वपूर्व- सिद्धिप्रदा द�सदि�सोद्भुत�सक्ति�सक्तीः | सर्वार्थसाधकबहिर्द�सकोणचक्रे संपूजयामि कुलकौलिकयोगिनीस्ताः || १८ || कर्पूरपूररुचिरा�न्गधराक्षमालाः �स्रीतत्त्वपूजकभृतोऽतिनिगर्भदेवी | सर्वार्थरक्षणकरे द�सकोणचक्रे सर्वज्ञिका प्रमथिका द�स पूजयामि || १९ || चापेषुपुस्तकलसत्स्फटिकाक्षमालां बालप्रवालरुचिरां व�सिनीप्रधानाम् | प्. ७४४) सर्वादिरोगहरचक्रवरे त्रिकोणे वाग्देवताष्टकमहं सरहस्यमीडे || २० || रक्ता वराभयकराः �सिरसा दधानाः पा�सा�न्कु�सेषुधनुरायुधभूषणानि | �स्रीमत्त्रिकोणबहिरात्मकदेवतास्ता रक्षन्तु सन्ततमनन्तगुणा�स्चतस्रः || २१ || �स्रीमत्त्रिकोणबहिरात्मकदेवतास्ता देवीः षड�न्गयुवतीः परिपूजयामि | कुन्देन्दुकज्जलकडारपि�स�न्गहव्य- वाह�स्रियोऽभयवरोद्यतपाणिपद्माः || २२ || �स्रीमत्त्रिकोणपरमाद्भुतसर्वपूर्व- सिद्धिप्रदेति परमामृतहव्यदेव्यः | कामे�स्वरी मम ददातु समस्तकामान् वज्रे�स्वरी भगवती भगमालिनी च || २३ ||
SK
�स्रीमत्त्रिकोणपुरविस्फुरितां त्रिनेत्रां बालातपारुणतनुं तरुणेन्दुमौलिम् | पीयूषभाजनधरा�न्कु�सपा�सहस्तां कामे�स्वरीं भगवतीं परिपूजयामि || २४ || पा�सा�न्कु�सामृतकपालकमातुल�न्ग- चापेषुस�न्गतकरामरुणां त्रिनेत्राम् | �स्रीमत्त्रिकोणपरदैवतदक्षिणस्थां वज्रे�स्वरीं भगवतीं परिपूजयामि || २५ || प्. ७४५) चन्द्राननां त्रिनयनां तरुणेन्दुमस्तां पा�सा�न्कु�साक्षगुणपुस्तक�सस्तहस्ताम् | �स्रीमत्त्रिकोणपरदैवतवामभागे �सुभ्रां भजे भगवतीं भगमालिनीञ्च || २६ || चक्रातिगुह्यपरमाद्भुतसर्वपूर्वा- नन्दात्मकेऽतिपरमे नवमेषु पूर्वे | भक्त्या परापरतरातिरहस्यदेवीं सेवे परापरमयीं परमे�स्वरीं ताम् || २७ || प्रत्यग्रजाग्रदरुणाम्बुजवक्त्रबिम्ब- चुम्बालिकालकुटिलालकपल्लवां ताम् | आनन्दसाद्रकरुणामयसुप्रसन्ना(न्न-) लीलानि(ति)लोलनलिनोत्पललोचनालिम् || २८ || सिन्दूरसुन्दर�सरीरविराजमान- राजीवदाडिमजवानवबन्धुजीवाम् | �स्रीमन्महामुकुटकोटिमहार्घ्यरत्न- सब्रह्मचारिपरमामृतचन्द्ररेखाम् || २९ || सुभ्रूतया विजितरूपपिनाकपाणे- र्बाणासनर्द्धिविनिवे�सितबाणलीलाम् | तद्वि�स्वकर्मपरिसूत्रितनासिकाग्रां पद्मासनां त्रिनयनां तरुणेन्दुमस्ताम् || ३० || प्. ७४६) ईषद्विका�सितमनोहरहासदन्त- वासः�स्रिया जितनवोदितचन्द्ररेखाम् | सौन्दर्यदैवतमहामृगनाभिचित्र- पत्रां�सुमिन्दुकमनीयललाटपट्टाम् || ३१ || लावण्यभाण्ड�सुभगण्डयुगाभिरामा- नौपम्यकान्तिचिकुराभिविराजमानाम् | �स्रीकुण्डलद्वयविमण्डितगण्ड�सोभा- पाण्डित्यखण्डितसुधानिधिमण्डलाभाम् || ३२ || कर्पूरपूरपरिपूरितचारुनाग- वल्लीरसार्द्रखपुराढ्यनिभाधरौष्ठीम् | ग्रैवेयचुम्बितमणिद्युतिदीप्यमान- सच्छायया द्विगुण�सोभितकम्बुकण्ठीम् || ३३ || लाक्षारसस्नपितबालमृणालनाल- लीलालयामलरसाञ्चितबाहुवल्लीम् | रक्तोत्पलोज्ज्वलदलामलकोमलाभि- र्बालप्रवालललिता�न्गुलिपाणिलीलाम् || ३४ ||
SK
तद्वि�स्वकर्मपरियत्नविनिर्मित�स्री- रत्ना�न्गुरीयकनखद्युतिदीप्यमानाम् | केनापि कारणव�सेन गृहीतबद्ध- पा�सा�न्कु�सेषुधनुरायुधभूषणानाम्(णां ताम्) || ३५ || प्. ७४७) त्रैलोक्यदुर्लभमहामणिनायक�स्री- संसक्तमौक्तिकफलोज्ज्वलहारलक्ष्मीम् | लावण्यवारिपरिपूर्णसुवर्णकुम्भ- �सोभाभिभाविकुचमण्डलपूर्णकुम्भाम् || ३६ || लोकत्रयेऽप्यतिसुदुर्लभसाम्यसौम्य- �सोभाविभाकरवलित्रय�सोभिमध्याम् | लावण्यनाभिगहनाभिगृहप्रविष्ट- �स्रीमन्महाद्युतिमयीं नवलोमराजीम् || ३७ || चञ्चन्मरीचिनिचयाञ्चितकाञ्चनाञ्चत्- काञ्चीविका�सिरुचिरक्तविचित्रवस्त्राम् | �स्रीकामकाननसमुद्भवरामरम्भा- स्तम्भाभिभाविसुकुमारतरोरुयुग्माम् || ३८ || वृत्तानुपूर्वविधिदुर्घटसन्निवे�स- ज�न्घायुगाभिरमणां मणिगूढगुल्फाम् | वाचस्पतेरपि वचोरचनाभि�सोभि- सौन्दर्यगोचरमनोहरपादपद्माम् || ३९ || �स्रीब्रह्मविष्णु�सिवमौलिलसद्विमान(अ-) मालोक्यमानकरुणारुणपादपद्माम् | �स्रीसाधकाय करुणामयसुप्रसन्न- दृष्टातिदिष्टवरदानमधःप्रसन्नाम् || ४० || प्. ७४८) त्रैलोक्यमोहनमयीं परमे�स्वरीं तां त्रैलोक्यकारणमयीं परमे�स्वरीं ताम् | त्रैलोक्यविस्मयमयीं परमे�स्वरीं तां चक्रे�स्वरीं �सुभकरीं परिपूजयामि || ४१ || त्रैलोक्यमोहनमुखाब्जकचक्रमेतत् स्थानेऽणिमादिप्रकटादिकसिद्धिदेवीम् | �स्रीमद्गुरुक्रमसमस्तसमन्त्रमुद्राः पुष्पैः प्रपूज्य परमे�स्वरि तेऽर्चयामि || ४२ || पद्मादिभूतमणिपञ्चद�सीर्न याव न्नित्या तिथिक्रममयीं खलु केऽपि धन्याः | कामे�स्वरीप्रभृतिपञ्चद�सादिनित्या मन्त्रैः परं परमयीं परिपूजयामि || ४३ || त्वं गीयसे प्रथमतस्त्रिपुरेति मातः प�स्चाद्द्वितीयनवमत्रिपुरे�स्वरीति | तार्तीयके त्रिपुरसुन्दरिकेति तुर्ये मातः परा त्रिपुरवासिनिका त्वमेव || ४४ || त्वं पञ्चमे भगवती त्रिपुरा परा�स्रीः षष्ठे परा त्रिपुरमालिनिका त्वमेव | त्वं सप्तमे भगवती त्रिपुरादिसिद्धा त्वञ्चाष्टमे भगवती त्रिपुरात्मकेति || ४५ ||
SK
प्. ७४९) पूर्णे परापरमये परमेऽतिगुह्ये �स्रीमन्महात्रिपुरसुन्दरिका त्वमेव | �स्रीमन्महात्मकमहाद्भुतचक्रराजे त्वं गीयसे सुकृतिभिः खलु कै�स्च देवी || ४६ || आदौ द�साष्ट द�स षोड�स चाष्ट चासि प�स्चाच्चतुर्द�स द�सासि ततो द�साष्टौ प�स्चाच्चतुष्टयमसि त्रितयञ्च षट्कं सप्तोत्तरा �सतमयी त्वमसि त्वमेका || ४७ || कामे�स्वरीति भगमालिनिकेति नित्य- क्लिन्नेति तैरुपरताऽपि हिरण्डकेति | त्वं वह्निवासनिरतेति महादिभूत- विद्ये�स्वरीति च तथा �सिवदूतिकेति || ४८ || मातः परा त्वरितिका कुलसुन्दरीति नित्यातिनित्यपरनीलपताकिनीति | त्वं सर्वलोकविजयाखिलमालिकेति ज्वालामयीति निगदन्ति विचित्रकेति || ४९ || मातस्तवाक्षरमनक्षररूपिकायं संसाध्य �सुद्धमतयो गणयन्ति नैव | �स्रीब्रह्मविष्णु�सिवतार्क्ष्यरवीन्द्रचन्द्र- यक्षेन्द्रदर्पकगणे�स्वरवह्निमुख्यान् || ५० || प्. ७५०) संपूज्य केऽपि सकलैर्वरणोपचारै- र्ग्रन्थिं विभिद्य परमेष्ठिनमुद्वहन्तीम् | मारात्मिकां मदनधामनि दीपरूपां जिह्वाग्रतः सुकृतिनः परिपालयन्ति || ५१ || आधारवारिरुहमध्यलसत्त्रिकोण- वामा�सिखाग्रजपरां परमा�न्कुराभाम् | ज्ञानक्रियेष्टमयि �सक्तिविना�सना�स- �स्रीब्रह्मविष्णुगुण�सक्तिवरा त्वमेका || ५२ || सृष्टिस्थितिप्रलयकारणकर्तृभूतं वेदान्तवेद्यमजमव्ययमप्रमेयम् | अन्योन्यभेदकलहाकुलमानसास्ते जानन्ति किं जडधियस्तव रूपमम्ब || ५३ || स्तोत्रं त्वमेव परमे�स्वरि गीयसे चेत् स्तोता त्वमेव परमे�स्वरि गीयसे चेत् | स्तुत्यं त्वमेव परमे�स्वरि गीयसे चेत् किं स्तूयसे खलु तदा परमे�स्वरि त्वम् || ५४ || यः कालकल्पतरुमेतदनन्यबुद्धिः �स्रीमत्क्रमस्तवनृपं पठताह नित्यम् | मुक्तिः करे वसति सिद्धिभिरष्टभिर्वा किं तस्य मातरणिमादिभिरल्पिकाभिः || ५५ || प्. ७५१) त्वां पूजयेत् क्रमकुलां सकलार्थसिद्धि- स्तोत्रं पठिष्यति जनस्त्वयि जातभक्तिः | तस्मान्मयाऽपि तव भक्तिरसेन देवि भक्तार्थसिद्धिकररत्नमिदं व्यधायि || ५६ ||
SK
५५-५६ | यः कलेति | स्तवस्यास्य क्रमस्तव इति नामोक्तं स्तवकारेण, तत्र च �स्रीचक्रवर्णनमारभ्य पूजाक्रमेण सर्वासामावरणदेवतानामुल्लेखो वर्णनञ्चात्रेति कारणं सम्भाव्यते, अत एव भ�न्ग्या तमेवार्थमुल्लिखति त्वां पूजयेदित्यादिना ग्रन्थकार | �स्रीतत्त्वचिन्तामणिः [त्रिपुरार्णवोक्तं त्रिपुरसुन्दरीकवचम्] अथ वक्ष्यामि कवचं त्रिपुरार्णवलक्षितम् | समस्तापद्विमुक्त्यर्थं समस्तसम्पदाप्तये || १ || भूतप्रेतपि�साचादिपीडा�सान्त्यै सुखाप्तये | समस्तरोगना�साय समरे विजयाय च || २ || चौरसिंहद्वीपिगजगरलादभयानके | अरण्ये �सैलगहने मार्गे दुर्भिक्षके तथा || ३ || सलिलाग्निमरुत्पीडा ऋक्षौ(?) पीडादिस�न्कटे | प्रजप्य नित्यकवचं सकृत् सर्वं त्यजत्यसौ || ४ || सुखी जीवति निर्द्वन्द्वो निःसपत्नो जितेन्द्रियः | �सृणु तत् कवचं देवि वक्ष्ये भवभवान्तकम् || ५ || येनाहमपि युद्धेषु देवासुरजयी तथा | सर्वतः सर्वदात्मानं ललिता पातु सर्वदा || ६ || कामे�सी पुरतः पातु भगमाला तदन्तरम् | दि�सं पातु तथा दक्षं पार्�स्वं पातु स सर्वदा || ७ || नित्यक्लिन्ना चोत्तरतो दि�सं पातु सदा मम | अथैव प�स्चिमे भागे रक्षेत् सा वह्निवासिनी || ८ || प्. ७५३) महाचक्रे�स्वरी रक्षेदनन्तं विदि�सं सदा | वामपार्�स्वं सदा पायादुड्डी मे त्वरिता ततः || ९ || पालयन्तु दि�स�स्चान्या रक्षेन्मां कुलसुन्दरी | नित्या मा मूर्ध्वतः पातु माधवः पातु सर्वदा || १० || नीला नीलपताकाख्या विजया सर्वत�स्च माम् | करोतु मे म�न्गलानि सर्वदा सर्वम�न्गला || ११ || देहे पातु मनःप्राणान् ज्वालामालिनिविग्रहा | विचित्रा सर्वतो रक्षेत् षोड�सी पातु सुन्दरी || १२ || अपारभवसंसारसिन्धुनिस्तारहेतवे | चत्वारो गुरवः पान्तु ममानिष्टविना�सकाः || १३ || विहितार्थप्रदायिन्य�स्चिन्त्यमानमहौजसः | विघ्नं मम परिघ्नन्तु प्रसिद्धाः सिद्धयो द�स || १४ || वृन्दारक�सिरोवृन्दवन्द्यमानपदाम्बुजा | अष्टौ वाग्देवता भव्यमूर्तयः पालयन्तु माम् || १५ ||
SK
सर्वविघ्नविना�सिन्यो नित्यानित्यकलामयाः | कामाकर्षणकारिण्यो विघ्नं विघ्नन्तु षोड�स || १६ || सर्वा�सापूरके चक्रे त्रिपुरे�सीसमन्विता | वसन्त्यो गुप्तयोगिन्यो मम कुर्वन्तु म�न्गलम् || १७ || जगत्स्तम्भनकारिण्यो जगद्वन्द्यपदाम्बुजाः | साधयन्तु महाभीष्टं मनोज्ञमिष्टदेवताः || १८ || प्. ७५४) युक्तास्त्रिपुरसुन्दर्याः सर्वक्षोभकरे स्थिताः | चक्रे गुप्ततराः पान्तु योगिन्यो मां महौजसः || १९ || दूर्वावतरदुर्मोहतिमिरार्कमरीचयः | मां महा�सक्तियोगिन्यः पालयन्तु चतुर्द�स || २० || सर्वसौभाग्यदे चक्रे त्रिपुरावासिनीयुता | सत्सम्प्रदाययोगिन्यो वर्धयन्तु मम �स्रियम् || २१ || सर्वसिद्धिप्रदायिन्यो वन्दिता द�स देवताः | मदिरानन्दितमुखाः सर्वार्थान् साधयन्तु ताः || २२ || त्रिपुरा�स्रीयुता देव्यः कुलकौलकुलोद्भवाः | सर्वार्थसाधके चक्रे स्थिता एताः पुनन्तु माम् || २३ || सर्वज्ञानेन सम्पन्नाः सर्वनिर्वाणहेतवः | रक्षन्तु मां महादेव्यो द�सरेखोपकारिकाः || २४ || युक्तास्त्रिपुरमालिन्यः सर्वरक्षाकरे स्थिताः | चक्रे निगर्भयोगिन्यः कुर्वन्तु मम म�न्गलम् || २५ || अधिकानल्पस�न्कल्पाः कल्पनाकामबन्धकाः | अष्टौ वाग्देवताः सन्तु सदा सकरुणा मयि || २६ || त्रिपुरासिद्धिसंयुक्ताः सर्वयोगहरे स्थिताः | चक्रे रहस्ययोगिन्यो रोगानपनयन्तु मे || २७ || महोजम्भे महास्तम्भे महामोहे महारणे | हेतवोऽस्मत्प्रिये सन्तु चतस्रो मन्त्रदेवताः || २८ || प्. ७५५) चक्राग्रे दक्षवामे च षट्कोणे विहितास्पदाः | तिस्रो रक्षन्तु मे एताः कामे�स्वर्यादिदेवताः || २९ || सर्वसिद्धिप्रदे चक्र त्रिपुराम्बासमन्विताः | योगिन्योऽतिरहस्या मे वितन्वन्तु समीहितम् || ३० || एतासामपि सर्वासामी�स्वरीमिष्टदेवताम् | दुर्लभामपि देवानां बालात्रिपुरसुन्दरीम् || ३१ || यदादिञ्च यदन्तञ्च यन्मध्यञ्च न जानते | ब्रह्मादयोऽपि पान्तु �स्रीमहात्रिपुरसुन्दरी || ३२ || सर्वानन्दमये चक्रे बैन्दवे विहितानया | परावररहस्याः स्युर्योगिन्यः सन्तु संमुदे || ३३ ||
SK
समयार्चनविद्देवि विद्वेषणपरायणः | दक्षे दक्षिणभागस्थो मां पातु वटुके�स्वरः || ३४ || महाविघ्नविना�सिन्यो वामभागे कृतास्पदाः | जाग्रत्त्रितयवासिन्यो योगिन्यः सन्तु सम्मुदे || ३५ || प्रत्यूहव्यूहविध्वंसकारणं करुणामयः | मम प्रीत्यर्थतो हन्तु क्षेत्रपालः पुरः स्थितः || ३६ || अपस्मारादिदुर्द्धर्षसंहारैकपदक्रमः | पृष्ठस्थाने स्थितो देवो मां पातु च गणे�स्वरः || ३७ || य�स्चेदं पठति स्तोत्रं कदाचन �सृणोति च | अचिरादेव न�स्यन्ति तस्य सर्वेप्युपद्रवाः || ३८ || प्. ७५६) तन्मुखं कवितारूपं तद्गृहं कमलालयम् | स दे�सः सत्त्व�सुद्धः स्याद् यत्रायं पठ्यते स्वतः || ३९ || रोगार्तो मुच्यते रोगैर्बद्धो मुच्येत बन्धनात् | विघ्नवान् मुच्यते विघ्नैः पठन् स्तोत्रादिकं नरः || ४० || ध्येयैषा त्रिपुरा रक्षा पठनीया प्रयत्नतः | अनया कमलासिद्धिरनया पापना�सनम् || ४१ || त्रिपुरार्णवतन्त्रस्य समाप्तं कवचं �सुभम् | अथान्यत् कवचं वक्ष्ये षोड�सीनां सुखावहम् || देव्युवाच- भगवन् देवदेवे�स लोकानुग्रहकारक | त्वत्प्रसादान्महादेव �स्रुता मन्त्रास्त्वनेक�सः || १ || साधनं विविधं देव कीलकोद्धारणन्तथा | �सापादिदूषणोद्धारः �स्रुतस्त्वत्तो मया प्रभो || २ || राजराजे�स्वरीदेव्याः कवचं सूचितं मयि | इदानीं �स्रोतुमिच्छामि कथयस्व मयि प्रभो || ३ || ई�स्वर उवाच- लक्षवारसहस्राणि वारितासि पुनः पुनः | स्त्रीस्वभावात् पुनर्देवि पृच्छसि त्वं मयि प्रिये || ४ || अत्यन्तगुह्यं कवचं सर्वकामफलप्रदम् | प्रीयते देवदेवे�सि कथयामि �सृणुष्व तत् || ५ || अस्य �स्रीराजराजे�स्वरीमहात्रिपुरसुन्दरीषोड�सीविद्याकवचस्य प्. ७५७) महादेव ऋषिः प्रस्तारप�न्क्तिच्छन्दो राजराजे�स्वरी �स्रीमहात्रिपुरसुन्दरी देवता सर्वार्थसाधने विनियोगः | ॐ पूर्वे मां भैरवी पातु बाला मां पातु दक्षिणे | मालिनी प�स्चिमे पातु व�सिनी तूत्तरेऽवतु || ६ ||
SK
ऊर्ध्वं पातु महादेवी महात्रिपुरसुन्दरी | अधस्तात् पातु देवे�सी पातालतलवासिनी || ७ || आधारे वाग्भवः पातु कामराजस्तथा हृदि | डामरः पातु मां नित्यं मस्तके सर्वकामदः || ८ || ब्रह्मरन्ध्रे सर्वगात्रे छिद्रस्थानेषु सर्वदा | महाविद्या भगवती पातु मां परमे�स्वरी || ९ || ऐ/ क्ली/ ललाटे मां पायाद् ह्रीं हंसः पातु नेत्रयोः | नासायां कर्णयो�स्चैव �स्रीं ह्रीं ह्रीं चिबुके तथा || १० || हसौ पातु गले हृदये स्त्रीं च नाभिदे�सके | कलह्रीं क्रीं �स्रीं गुह्यदे�से पातु हू/ ह्री/ च पादयोः || ११ || स्त्री/ मां सर्वतः पातु सक्लो/ पातु च सन्धिषु | जले स्थले तथाका�से दिक्षु राजगृहे तथा || १२ || हुं क्षें मां त्वरिता पातु सह्रीं सक्लीं मनोभवा | हंसः पायान्महादेवी परं निष्कलदेवता || १३ || विजया म�न्गला दूती कल्याणी भगमालिनी | ज्वाला च मालिनी नित्या सर्वदा मां सदाऽवतु || १४ || इत्येवं कवचं देवि देवनामपि दुर्लभम् | प्. ७५८) तव प्रीत्या मयाख्यातं गोपनीयं प्रयत्नतः || १५ || इदं रहस्यं परमं गुह्याद् गुह्यतरं प्रिये | धन्यं य�सस्यमायुष्यं भोगमोक्षफलप्रदम् || १६ || दुःस्वप्नना�संनं पुंसां नरनारीव�स�न्करम् | आकर्षणकरं देवि स्तम्भमोहकरं �सिवे || १७ || इदं कवचमज्ञात्वा राजराजे�स्वरीं �सिवाम् | योर्ऽचयेद् योगिनीवृन्दैः स भक्ष्यो नात्र सं�सयः || १८ || न तस्य मन्त्रसिद्धिः स्यात् कदाचिदपि �स�न्करि | इह लोके च दारिद्र्यं रोग�सोकभयानि च || १९ || परत्र नरकं गत्वा प�सुयोनिमवाप्नुयात् | तस्मादेतत् सदाऽभ्यस्येदधिकारी भवेत्ततः || २० || मद्वक्त्रनिर्गतमिदं कवचं सुपुण्यं पूजाविधौ च पुरतो यदि वा पठेच्च | सौभाग्यभोगललितानि �सुभानि भुक्त्वा देव्याः पदं भजति तत् पुनरन्तकाले || २१ || कुलार्णवस्य तन्त्रस्य समाप्तं कवचं परम् || त्रिपुरासुन्दरी�सतनामस्तोत्रम् समासेन प्रवक्ष्यामि देव्या नाम�सताष्टकम् | तद् गुह्यं परमं जाप्यं महाद्भुतविना�सनम् || १ ||
SK
�स्री(ः) चेतना महामाया महागौरी महे�स्वरी | महाबुद्धिर्महाचण्डी महाकाली महाकला || २ || प्. ७५९) महाक्षुधा महामुद्रा महानिद्रा महोदया | महालक्ष्मीर्महाभोगा महामोहा महोदया || ३ || महाजया महातुष्टिर्महालज्जा महाधृतिः | महाघोरा महादंष्ट्रा महाकान्तिर्महास्मृतिः || ४ || महापद्मा महामेधा महाबोधा महातपा | महास्वधा महास्वाहा महाबाधा महासुरा || ५ || महाबन्धनसंहन्त्री महाभयविना�सिनी | महानेत्रा महावक्त्रा महाजिह्वा महाभुजा || ६ || महामहीरुहा पूर्णा महाछाया महानघा | महा�सक्तिर्महा�स्वासा महापर्वतनन्दिनी || ७ || महाब्रह्ममयी माता महासारा महावरा | महासुरघ्नी महती पार्वती चर्चिका �सिवा || ८ || महाक्षान्तिर्महाभ्रान्तिर्महामाता महीयसी | महाकुला महालोला महामाया महाफला || ९ || महानीला महा�सीला महा�सुभ्रा महाकला | महाचित्रा महासेतुर्महाहेतुर्य�सस्विनी || १० || महाविद्या महासाध्या महासत्या महागतिः | महासुरी महादुर्गा महादुःस्वप्नना�सिनी || ११ || महामोक्षप्रदा मोक्षा महादक्षा महीयसी | महाभद्रा महावाणी महारोगविना�सिनी || १२ || प्. ७६०) महादारुर्महाकारा महामारी महे�स्वरी | महाक्षेम�न्करी क्षेमा महै�स्वर्यप्रदायिनी || १३ || महाविषघ्नी विषदा महादुर्गविना�सिनी | महादुर्गा महातारा महाकैलासवासिनी || १४ || महासुभद्रा सुभगा महार्घ्या च महासती | महाप्रत्य�न्गिरा नित्या महाप्रलयकारिणी || १५ || महा�सक्तिर्महामुक्तिर्महाम�न्गलदायिका | इदं यः कीर्तयेद् भक्त्या विषमस्थो भवेद् यदि || १६ || लौहपञ्जरमध्यस्थस्तस्य न�स्यति बन्धनम् | राजानो दासतां यान्ति भवेत् सर्वजनप्रियः || १७ || उत्तमां भूतिमाप्नोति तस्य न�स्यन्त्युपद्रवाः | संग्रामे विजयेच्छत्रून् गरुडः पन्नगानिव || १८ || न विषं क्रमते तस्य न मृत्युः पावके जले | नाकाले मरणं तस्य कदाचिदपि सम्भवेत् || १९ || यद् यत् कामयते कामी तत्तदाप्नोति नान्यथा | बहुना च किमुक्तेन सर्वेषां मूर्ध्नि वर्त्तते || २० ||
SK
रुद्रयामलतन्त्रोक्तं �सतं नाम समीरितम् || इति पूर्णानन्दपरमहंसविरचिते �स्रीतत्त्वचिन्तामणावूनविं�सतितमः प्रका�सः || १९ || विं�सतितमः प्रका�सः [मन्त्राणां पुर�स्चरणकथनम्] अथ वक्ष्यामि मन्त्राणां पुरश्चरणमुत्तमम् || १ || [पुरश्चरणं विना मन्त्रसिद्ध्यभावः] विना येन न सिद्धः स्यान्मन्त्रो वर्षशतैरपि | तत् पुरश्चरणं नाम मन्त्रसिद्ध्यर्थमात्मनः || २ || जीवहीनो यथा देहः सर्वकर्मसु न क्षमः | पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः || ३ || [आदौ पुरश्चरणस्य कर्त्तव्यता] तस्मादादौ पुरश्चर्या कर्तव्या साधकोत्तमैः | येनानुष्ठितमात्रेण वशमायान्ति देवताः || ४ || [पुरश्चरणेतिकर्त्तव्यता] अथ पूर्वमुपोष्याथ कृतनित्यक्रियः शुचिः | द्विजदेवगुरून् भक्त्या संपूज्य मन्त्रविद्वरः || ५ || १ | अथेति | पुरश्चरणलक्षणमुक्तं हंसमहेश्वरतन्त्रे- जपहोमौ तर्पणञ्च सेको ब्राह्मणभोजनम् | पञ्चाङ्गोपासनं लोके पुरश्चरणमुच्यते || रामार्च्चनचन्द्रिकायामपि � गुरोर्लब्धस्य मन्त्रस्य प्रसन्नेन यथाविधि | पञ्चाङ्गोपासने सिद्धिः पुरश्चैतद् विधीयते | इति | ३ | जीवहीन इति | पद्यमिदं गन्धर्वतन्त्रे संप्तविंशपटलेऽपि, तत्र च देहीति पाठ उपलभ्यते, स च देहार्थक एवेति पुरश्चरणबोधिनी | प्. ७६२) गणेशं साधकांश्चैव पितॄंश्चैव प्रपूजयेत् | सर्वेषामेव मन्त्राणां विद्यानाञ्च तथैव च || ६ || गुरोराज्ञां समादाय शुद्धान्तःकरणो बुधः | यत्नात् पुरस्क्रियां कुर्याद् गुरुं वा कारयेद् बुधः | गुरोरभावे विप्रोऽन्यः सर्वप्राणिहिते रतः || ७ || [पुरश्चरणस्थानानि] पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् | तीर्थप्रदेशः सिन्धूनां सङ्गमः पावनं वनम् || ८ || उद्यानानि विचित्राणि विल्वमूलं तटं गिरेः | तुलसीकाननं गोष्ठं वृषशून्यं सुरालयम् || ९ || अश्वत्थामलकीमूलं गोशालं जलमध्यतः | देवतायतनं कूलं समुद्रस्य निजं गृहम् | एषामन्यतमं स्थानमाश्रित्य जपमाचरेत् || १० ||
SK
रुद्रयामले च � पुरश्चरणसम्पन्नो मन्तो हि फलदायकः | ततः पुरस्क्रियां कुर्यान्मन्त्रवित् सिद्धिकाङ्क्षया || किं होमैः किं जपंश्चैव किं मन्त्रन्यासविस्तरैः | रहस्यानाञ्च मन्त्राणां यदि न स्यात् पुरस्क्रिया || पुरस्क्रिया हि मन्त्राणां प्रधानं जीवमुच्यते || इति | ८-१० | पुण्यक्षेत्रमित्यादि | योगिनीहृदयेऽपि अयमेव पाठः | एषामन्यतममित्यादि पद्यार्द्धन्तु साधने तु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् इत्येव मुपलभ्यते तत्र | स्थाननिर्णयश्च प्रपञ्चसारसंग्रहे- समुद्रतीरेऽप्यथवाऽद्रिशृङ्गे समुद्रगाणां सरिताञ्च पाटे | जपेद् विविक्ते निजवर्यगेहे विष्णोर्गृहे वा पुरुषो मनस्वी || प्. ७६३) [पुरश्चरणे भोजननियमाः] भुञ्जानो वा हविष्यान्नं शाक्तं यावकमेव वा | पयोवा मूलमेवात्र यद्वा यत्नोपलभ्यते || ११ || [पुरश्चरणे वर्ज्याणि] विवर्जयेन्मधु क्षारं लवणं तैलमेव च | ताम्बूलं कांस्यपात्रञ्च दिवाभोजनमेव च || १२ || [मन्त्रजपानन्तरकर्त्तव्यानि] मन्त्रं जप्त्वाऽन्नपानीयैः स्नानाचमनभोजनम् | कुर्याद् यथोक्तविधिना त्रिसन्ध्यं देवतार्च्चनम् || १३ || त्रिसन्ध्यमेकसन्ध्यं वा न मन्त्रं केवलं जपेत् || १४ || शिवगीतायामपि- विल्ववृक्षं समाश्रित्य यो मन्त्रान् विविधान् जपेत् | एकेन दिवसेनैव तत् पुरश्चरणं भवेत् || यस्तु विल्वमये नित्यं कुटीं कृत्वा जपेन्नरः | सर्वे मन्त्राः प्रसिद्ध्यन्ति जपमान्त्रेण केवलम् || इत्यादि | गङ्गामधिकृत्य कुलोड्डीशे- न वेदी नासनञ्चात्र न पूजा न विधिस्तथा | उक्तसंख्यं जपं कृत्वा होमाद्यन्तु समाचरेत् || इति | वायवीयसंहितायाञ्च � सूर्यस्याग्रे गुरोरिन्दोर्दीपस्य च जलस्य च | विप्राणाञ्च गवाश्चैव सन्निधौ शस्यते जपः || इति | निबन्धे षोडशपटले � वीराणान्तु महानद्यास्तीरं देवालयस्तथा | एकलिङ्गं श्मशानन्तु शून्यागारं चतुष्पथम् || प्. ७६४) [गिरुवन्दनम्] एकग्रामे स्थितो नित्यं गत्वा वन्देत वै गुरुम् | गुरुरेव परं ब्रह्म तस्मादादौ तमर्चयेत् || १५ || [नित्यनैमित्तिकादिकर्तव्यता]
SK
नित्यं नैमित्तिकं कुर्यात् संसर्गं साधुभिः सह | स्नायाच्च पञ्चगव्येन केवलामलकेन वा || १६ || [स्नान-तर्पणोपदेशः] शक्तौ त्रिसवनस्नानमन्यथा द्विः सकृच्च वा | अस्नातस्य फलं नास्ति न चातर्पयतः पितॄन् || १७ || [त्याज्यानि] स्त्रीशूद्रपतिव्रात्यनास्तिकोच्छिष्टभाषणम् | असत्यभाषणञ्चैव कौटिल्यं दूरतस्त्यजेत् || १८ || वर्जयेद् गीतवाद्यादिश्रवणं नृत्यदर्शनम् | अभ्यङ्गं गन्धलेपञ्च पुष्पधारणमेव च || १९ || मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् | अस्नानञ्च द्विजान् स्त्रियो नैव स्पृशेत्तदा || २० || त्यजेदुष्णोदके स्नानमनिवेदितभोजनम् | प्राणिहिंसां न कुर्वीत पुरश्चरणकृन्नरः || २१ || [अन्यतो वस्तुग्रहणनिषेधः] विहाय वह्निं नहि वस्तु किञ्चिद् ग्राह्यं परेभ्यः सति सम्भवे च | असम्भवे तीर्थवहिर्विशुद्धात् पर्वातिरिक्ते प्रतिगृह्य जप्यात् || २२ || प्. ७६५) [दशाविशेषं जपनिषेधः] उष्णीषी कञ्चुकी गन्गो मुक्तकेशोऽप्यनावृतः | अपवित्रकरोऽशुद्धः प्रसर्पन्न जपेत् क्वचित् || २३ || अनावृतकरो भूत्वा शिरसा प्रावृतोऽथवा | चिन्ताव्याकुलचित्तो वा क्रुद्धो भ्रान्तस्त्वरान्वितः || २४ || मुक्तकच्छः शयानो वा गच्छन्नुत्थित एव वा | रथ्यायामशिवे स्थाने न जपेत्तिमिरालये || २५ || [जपे विशेषोपदेशः] शनैः शनैः परिस्पष्टं न द्रुतं न विलम्बितम् | न न्यूनं नातिरिक्तञ्च जपं कुर्याद्दिने दिने || २६ || [जपे दिनलङ्घननिषेधः] नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् | दिवसातिक्रमात्त्तेषां सिद्धिहानिः प्रजायते || २७ || [जपे कालकथनम्] अन्यन्यमानसः प्रायो जपेन्मध्यन्दिनावधि | [जपे वस्त्रनियमः] नैकवासा जपेन्मन्त्रं बहुवासाकुलोऽपि वा || २८ || [जपतो जपत्यागकारणानि] पतितानामन्त्यजानां दर्शने भाषणे श्रुते | क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् || २९ || २५ | रथ्यायामिति | निन्दितस्थानमुक्तं निबन्धे षोडशपटलेऽपि-
SK
राजानः सचिवा यत्र पुरुषाः प्रभवो जनाः | चरन्ति येन मार्गेण न वसेत् तत्र साधकः || इति | प्. ७६६) [पुनर्जपे कर्त्तव्यानि शौचादीनि] उत्थायाचम्य तत्प्राप्तौ प्राणायामं षडङ्गकम् | [एवं कृत्वा प्रात्यहिकजपकरणम्] कृत्वा सम्यग् जपेच्छेषं यद्वा सूर्यादिदर्शनम् || ३० || [पुरश्चरणे शय्यानियमः] शयीत कुशशय्यायां शुचिवस्त्रधरः सदा | प्रत्यहं क्षालयेच्छय्यामेकाकी निर्भयः स्वपेत् || ३१ || [देवीपूजाधारकथनम्] लिङ्गस्थां पूजयेद्देवीं पुस्तकस्थां तथव च | स्थण्डिलस्थां महामायां पादुकाप्रतिमासु च || ३२ || चित्रिने त्रिदिनेनाथ जलस्थां वाऽपि पूजयेत् | [खड्गादीनां विशेषः] पञ्चाशदङ्गुलं खड्गं त्रिशिखञ्च त्रिशूलकम् || ३३ || शिलायां पर्वतस्याग्रे तथा पर्वतगह्वरे | देवीं संपूजयेन्नित्यं भक्तिप्रभासमन्वितः || ३४ || [दे�सवि�सेषे देवीपूजाफलम्] वाराणस्यां कृता पूजा सम्पूर्णफलदायिनी | तत�स्चतुर्गुणा प्रोक्ता पुरुषोत्तमसन्निधौ || ३५ || ततोऽपि द्विगुणा पूजा द्वारवत्यां वि�सेषतः | सर्वक्षेत्रेषु पीठेषु पूजा द्वारवतोसमा || ३६ || विन्ध्ये �सतगुणा प्रोक्ता ग�न्गायामपि तत्समा | आर्यावर्ते मध्यदे�से ब्रह्मावर्ते तथैव च || ३७ || प्. ७६७) विन्ध्ये च फलदा पूजा प्रयागे पुष्करे तथा | तत�स्चतुर्गुणा प्रोक्ता करतोयानदीजले || ३८ || तस्माच्चतुर्गुणा प्रोक्ता नन्दिके�स्वरसन्निधौ | ततः सिद्धे�स्वरीयोनौ तस्माद् द्विगुणसिद्धिदा || ३९ || तत�स्चतुर्गुणा प्रोक्ता लौहित्यनदकुण्डके | तत्समा कामरूपेण सर्वत्रैव जले स्थले || ४० || सर्व�स्रेष्ठो यथा विष्णुर्लक्ष्मीः सर्वोत्तमा यथा | देवीपूजा तथा �सस्ता कामरूपे सुरालये || ४१ || देवीक्षेत्रं कामरूपं विद्यते न हि तत्समम् | अन्यत्र विरला देवी कामरूपे गृहे गृहे || ४२ || ततः �सतगुणं प्रोक्तं नीलकूटस्य मण्डलम् | ततोऽपि द्विगुणं प्रोक्तं हैरके �सिवलि�न्गके || ४३ || ततः �सतगुणं प्रोक्तं कामाख्यायोनिमण्डले | कामाख्यायां महामाया-पूजां यः कृतवान् सकृत् || ४४ ||
SK
स चेह लभते कामान् परत्र �सिवरूपताम् | न तस्य सदृ�सोऽप्यस्ति कृति तस्य न विद्यते | वामके�स्वरतन्त्रेषु प्रभुणोक्तमिदं मतम् || ४५ || [पुर�स्चरणविधिः] अथातः संप्रवक्ष्यामि विधानमत्र यद्भवेत् | [भूमिसंस्कारे कीलकस्थापनम्] अष्टौ च कीलकान् कुर्यादभीष्टसहितान् पुनः || ४६ || ४६-४८ | अष्टौ च कीलकानिति | कीलकारोपणमुक्तं पुर�स्चरणबोधिनीधृतनिबन्धे- प्. ७६८) मूलमन्त्रास्त्रमन्त्रेण प्रत्येकं �सतमष्ट च | अभिमन्त्र्य अष्टदिक्षु भूमौ तान् विलिखेत् सुधीः || ४७ || [कीलेषु दिक्पतिपूजनम्] तेषु कीलेषु पूर्वादिक्रमतो दिक्पतीनपि | अष्टौ संपूज्य गन्धाद्यैः कदलीमोदकादिभिः || ४८ || [दिक्पतिभ्यो बलिदानं वास्तुदेवतापूजनञ्च] बलिं तेभ्योऽथवा दत्त्वा पूजयेद् वास्तुदेवताम् | क्षेत्रे च कीलिते मन्त्री न विघ्नैः परिभूयते || ४९ || [क्षेत्रपालादीनां पूजा] क्षेत्रपालं गणे�सञ्च वटुकं योगिनीं तथा | पूजयेद् गन्धपुष्पाद्यैस्ततः क्षेत्रं समा�स्रयेत् || ५० || क्षीरिवृक्षोद्भवान् कीलानस्त्रमन्त्राभिमन्त्रितान् | निखनेद् द�सदिग्भागे तेष्वस्त्रञ्च प्रपूजयेत् || क्षेत्रे च कीलिते मन्त्री न विघ्नैः परिभूयते || कीलकारोपणे निषिद्धस्थानमुक्तं कालीकुलामृते षष्ठपटले- महातीर्थे �सून्यगेहे देवतायतनेऽपि वा | न कीलकान् खनेत् तत्र जपमात्रेण सिध्यति || इति | वि�सेषस्तु निबन्धे- सुदर्�सनास्त्रं संजप्य चाष्टोत्तर�सतं ततः | वेदिकाद�सदिग्भागे तान् कीलान् निखनेत् क्रमात् || ॐ ये चात्र विघ्नकर्तारो भुवि दिव्यन्तरिक्षगाः | विघ्नभूता�स्च ये चान्ये मम मन्त्रस्य सिद्धिषु || ममैतत् कीलितं क्षेत्रं परित्यज्य विदूरतः | अपसर्पन्तु ते सर्वे निर्विघ्नं सिद्धिरस्तु मे || अनेन निखनेत् कीलांस्तेषु लोके�स्वरान् यजेत् | इति | प्. ७६९) [कूर्मचक्रलिखनम्] क्षेत्रमध्यं समा�स्रित्य कुर्मचक्रं लिखेत् सुधीः | दीपस्थां गुटिकां कुर्यात् सितपत्रनिवारिणीम् || ५१ || ५१ | क्षेत्रमध्यमिति | कूर्मचक्रप्रमाणमुक्तं पुर�स्चरणबोधिनीधृतनिबन्धे-
SK
यत्र ग्रामे जपेन्मन्त्री तत्र कूर्मं विचिन्तयेत् | दीपस्थानं समासाद्य कृतं कर्म फलप्रदम् || दीपस्थानं यथा गौतमीये- दीपस्थानं द्विधा प्रोक्तं मुखं पृष्ठञ्च मन्त्रिणः | दीपस्थाने भवेत् सिद्धिर्नान्यथ कोटिजापनैः || निबन्धे- चतुरस्रं भुवं भित्त्वा कोष्ठानं नवकं लिखेत् | कूर्मचक्रनिषेधस्थानमुक्तं गौतमीये- पर्वते सिन्धुतीरे वा पुण्यारण्ये नदीतटे | यदि कुर्यात् पुर�स्चर्यां तत्र कूर्मं न चिन्तयेत् || वै�सम्पायनसंहितायाञ्च- पुण्यक्षेत्रं गृही तीर्थं देवतायतनं �सुभम् | विल्वमूलं समुद्र�स्च वनमुद्यानमेव च || एषु स्थानेषु विप्रेन्द्र कूर्ममुद्रां न चिन्तयेत् || इति | कूर्मचक्रं यथा- पूर्वकोष्ठादि विलिखेत् सप्तवर्गाननुक्रमात् | लक्षमी�से मध्यकोष्ठे स्वरान् युग्मक्रमाल्लिखेत् | दिक्षु पूर्वादितो यत्र ग्रामाद्यक्षरसंस्थितिः || मुखं तत् तस्य जानीयाद्धस्तावुभयतः स्थितौ | कोष्ठे कुक्षी उभे पादौ द्वे �सिष्टं पुच्छमीरितम् | क्रमेणानेन विभजेन्मध्यस्थमपि भागतः || प्. ७७०) मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः | उदासीनः कुक्षिसंस्थः पादस्थो दुःखमाप्नुयात् || पुच्छस्थः पीड्यते मन्त्री बन्धनोच्चाटनादिभिः || कूर्मचक्रमिदं प्रोक्तं मन्त्रिणां सिद्धिदायकम् || पि�न्गलायाम्- कूर्मचक्रमविज्ञाय यः कुर्याद् जपयज्ञकम् | तस्य यज्ञफलं नास्ति सर्वानर्थाय कल्पते || चित्र यद्यपि ग्रन्थकृता पूर्णानन्देन तृतीयप्रका�से कूर्मचक्रमभिहितम्, तथाप्यत्र प्रकारवि�सेषो वर्तते तन्त्रसारे पुर�स्चरणबोधिन्यां चेति टिप्पण्यां पुनरुल्लिख्यते | प्. ७७१) [एवं पूर्वदिने भूमेः संस्कारः] इति भूमेस्तु संस्कारं कुर्यात् पूर्वदिने सुधीः | [आरम्भदिने प्रातःकृत्यादि] अथ प्रातः समुत्थाय कृतनित्यक्रियः �सुचिः || ५२ || रजोभिर्धूपदीपाद्यैः कल्पयेन्मण्डलोज्ज्वलम् | कृत्वा कल्पोक्तविधिना पूजयेत् परमे�स्वरीम् || ५३ || [जपे उपवे�सनादिप्रकारः]
SK
पद्मासनः प्राग्वदनोऽप्रलापी �सुद्धेन्द्रियस्तर्जनिवर्जिताभिः | अक्षस्रजात्मा�न्गुलिभिर्यजेत्तां नातिद्रुतं नातिविलम्बितञ्च || ५४ || [प्रतिदिनजपसंख्या] यावत्संख्यं जपेदह्नि पूर्वस्यां तावदेव तु | दिनान्तरेऽपि प्रजपेदन्यथा सिद्धिरोधकृत् || ५५ || [�सिवप्रतिमादि सन्निधौ जपोपदे�सः] �सिवस्य सन्निधाने वा सूर्याग्न्यो�स्च गुरोरपि | दीपस्य ज्वलितस्यापि जपकर्म समारभेत् || ५६ || [प्रातरारभ्य मध्याह्नपर्यत्तं जपः कर्तव्यः] प्रातरारभ्य मन्त्रज्ञो जपेन्मध्यन्दिनावधि | [जपे आसननिर्णयः] अथासनं प्रवक्ष्यामि येन सिद्धिर्भवेत् किल || ५७ || ५७-५८ | अथासनमित्यादि | आसने वि�सेष उक्तः पुर�स्चरणबोधिन्यां प्. ७७२) कु�सासने ज्ञानसिद्धिः �स्रीकामो व्याघ्रचर्मणि | ऊर्णासने दुःखहानिः कम्बले सर्वसिद्धयः || ५८ || हंसमाहे�स्वरे- कम्बलं कोमलं कौ�सं दारवं कर्मसाधनम् | एतेषामासनं ग्राह्यं चर्मासनं सुरे�स्वरि || लोम्नि चैव यदासीनस्तदा सर्वं विन�स्यति | लोमस्पर्�सनमात्रेण सिद्धिहानिः प्रजायते || तथाच निर्लोमचर्मासनं कार्यमित्यर्थः | काम्यार्थं कम्बलञ्चैव �स्रेष्ठञ्च रक्तकम्बलम् | कृष्णाजिने ज्ञानसिद्धिर्मोक्षं �स्रीव्याघ्रचर्मणि | कु�सासने मन्त्रसिद्धिर्नात्र कार्या विचारणा || धरण्यां दुःखसम्भूतिर्दौर्भाग्यं दारुजासने | वं�सासने दरिद्रः स्यात् पाषाणे व्याधिपीडनम् || तृणासने य�सोहानिः पल्लवे चित्तविभ्रमः | जपध्यानतपोहानिं वस्त्रासनं करोति हि || तत्र वस्त्रासनं केवलमेव निषिद्धं, वस्त्रासनं रोगहरमित्यादिना वि�सिष्टस्य फलजनकत्वाभिधानात्, चेलाजिनकु�सोत्तरमिति भगवद्वचनाच्च | अत्र सर्वाधः कु�सासनं तदुपरि चर्म, तदुपरि वस्त्रम्- ततस्तु साधको नित्यं सर्वाधः कौ�समासनम् | अजिनं स्थापयंस्तत्र कुर्याद् वस्त्रावृतं द्वयम् ||
SK
इति रत्नगर्भधृततन्त्रार्णवात् | एवं दारुजासनं केवलमेव निषिद्धम्, कु�सादिसमभिव्याहारेण तु विहितम्, दारवं कर्मसाधनमित्येकवाक्यत्वादिति बोध्यम् | अथवा काष्ठासननिषेध आम्रादिकाष्ठनिषयः, विधिस्तु गाम्भार्यादिपरः | ताराभक्तिसुधार्णवे च- तृणपल्लवकाष्ठानि पाषाणं मृन्मयं तथा | वं�सासनञ्च वस्त्रञ्च केवलं क्षितिमासनम् || एवमष्टविधं देवि चासनं परिवर्जयेत् || इति | ब्रह्मयामलवचनमपि तत्परं व्याख्येयम् | गौतमीयेऽपि- तथा मृद्वासने मन्त्री पटाजिनकु�सोत्तरे | इति | प्. ७७३) �स्वेतं वा रक्तवसनं स्वासनाय प्रकल्पयेत् | [यतिब्रह्मचारिणोर्वि�सेषः] वि�सेद् यतिर्ब्रह्मचारी कृष्णसाराजिने सदा || ५९ || [आसनपरिमाणम्] एकहस्तं द्विहस्तं वा चतुर�न्गुलमुच्छ्रितम् | स्वस्तिके वाथ पद्मे वा वि�सेत्तत्र निराकुलम् || ६० || [भूम्याद्यासनानां फलवै�सिष्ट्यम्] भूमौ भूपमयं कुलक्षयकरं वं�सासने रोगदम् | काष्ठञ्चैव तथासनं प्रकुरुते �सैलं महादुःखदम् | पत्रं दुःखकरं जलं भयकरं तन्तु�स्च विद्वेषणम् | मेषं क्रै (त्रै) भृमिकमासनादि सकलं मोक्षादिसिद्धिप्रदम् || ६१ || [अभिचारादिकर्मस्वासनवि�सेषः] अभिचारे कृष्णरक्तं व�स्यादिसर्वकर्मणि | �सान्तिके धवलः प्रोक्तः सर्वार्थ�स्चित्रकम्बले || ६२ || योगिनीहृदये- नादीक्षितो वि�सेज्जातु कृष्णसाराजिने गृही | वि�सेद् यतिर्वनस्थ�स्च ब्रह्मचारी च भिक्षुकः || त्रिपुरामहार्णवे- न भूमौ व्यजने पत्रे न वसेदित्यादिः | कौलिकानामासनवि�सेषस्तु ताराभक्तिसुधार्णवधृतमत्स्यसूक्ते- मृदु कम्बलमासीनोऽप्यन्येषु कोमलेषु वा | विष्टरे वा सुखासीनः साधयेत् सिद्धिमुत्तमाम् || इति | प्. ७७४) [मालानिरूपणम्] अथ मालाविधानञ्च प्रवक्ष्यामि समासतः | अकारादिक्षकारान्ता वर्णमाला प्रकीर्तिता || ६३ || [सबिन्दुवर्णोच्चारणानन्तरं मन्त्रजपनिरूपणम्] सबिन्दुवर्णमुच्चार्य प�स्चान्मन्त्रं जपेत् सुधीः | [मालामेरुनिरूपणम्] अनुलोमविलोमेन क्षकारो मेरुरुच्यते || ६४ ||
SK
[मालावि�सेष-फल-निरूपणम्] अथ मुक्ताफलमयी चतुर्वर्गप्रदायिनी | वाक्सिद्धि�स्च तथा माला स्फाटिकेन चरेत् किल || ६५ || रक्ताऽक्षमालिका मोक्षे भवेत् सर्वसमृद्धिदा | प्रबालमाला व�स्ये तु सर्वकामार्थसिद्धिदा | पुत्रजीवकमाला तु लक्ष्मी-विद्याप्रदायिनी || ६६ || क्रमाख्या मालया लक्ष्मीर्जायते सुमहीयसी | रक्तचन्दनमाला तु व�स्या सौभाग्यदा भवेत् || ६७ || सौवर्णरौप्यघटिता माला कामान् प्रयच्छति | निर्मिता �स�न्खमणिभिः कुरुते कीर्तिमव्ययाम् | सर्वैरेभिर्विरचिता माला स्यान्मुक्तये नृणाम् || ६८ || [मालायां संख्यानिरूपणम्] पञ्चविं�सतिभिर्बीजैर्माला मोक्षं प्रकल्पयेत् | सप्तविं�सतिभिः पुष्टौ त्रिं�सद्भिर्मोक्षकर्मणि || ६९ || प्. ७७५) त्रिं�सद्भिः पञ्चपूर्वाभिरभिचारे च कर्मणि | पञ्चा�सद्भि�स्च या माला सर्वकर्मणि सा �सुभा || ७० || चतुराद्या भवेत् सा तु सर्वकर्मफलप्रदा | अष्टोत्तर�सतैः सर्वसिद्धिः स्यादपवर्गदा || ७१ || [का�स्यां सिद्धिदोषकथनम्] का�स्यामेव महादोषा न तु सिध्यन्ति साधकाः | [सूत्रवर्णकथनम्] �सुक्लं रक्तं तथा कृष्णं �सान्तिव�स्याभिचारके || ७२ || [सूत्र-सम्पातनम्] सूत्रं सम्पातयेद् विद्वान् पट्टसूत्रमथापि वा | [सूत्र-तन्तु-वि�सेषेण मालावि�सेषग्रन्थनम्] कार्पासैर्वैष्णवी माला पद्मसूत्रैरथापि वा || ७३ || ऊर्णाभिर्वा फलैर्वापि �सैवी माला प्रकीत्तिता | [कल्पोक्तसंख्यया जपकथनम्] गृहीत्वा संस्कृतां मालां चन्दनेन प्रपूजिताम् || ७४ || समा�स्रित्य जपेद् विद्वान् कल्पमानेन साधकः | [होमसंख्यानियमः] संपूर्णेन प्रजप्त्वा वै जपसंख्याद�सां�सतः || ७५ || ७०-७१ | त्रिं�सद्भिरिति | अभिचारकर्मणि पञ्चत्रिं�सद्भिर्जपः कार्यः चतुःपञ्चा�सत्संख्याका माला सर्वकर्मफलप्रदा भवतीत्यर्थः | ७५-७६ | संपूर्णेनेति | तथाच तत्तत्कल्पोक्तपूर्णसंख्यावधिक-मन्त्रजपानन्तरं तद्द�सां�सं तच्चतुर्थां�स वा स्वाहान्तं मन्त्रमुच्चार्य पूर्वपटलोक्तलक्षणकुण्डे जुहुयात् |
SK
प्. ७७६) यद्वा जपचतुर्थां�सं स्वाहान्तं मन्त्रमुच्चरन् | यथोक्तकुण्डे जुहुयाद् यथाविधि विधानतः || ७६ || [अत्र प्रकारान्तरम्] अथवा पूजयेज्जप्त्वा जुहुयात्तद्द�सां�सतः | [तर्पणकथनम्] ततो होमद�सां�सेन जले संपूज्य देवताम् || ७७ || सायुधपरिवारान्तां देवीं सलिलमध्यगाम् | तर्पयामीति मन्त्रेण तर्पयेद्देवतामुखे || ७८ || [तर्पणे वस्तुनियमः] तर्पयेत् कुसुमैः सर्वैः सर्वापत्-परि�सान्तये | घृतैः पूर्णायुषः सिद्ध्यै क्षौद्रैः सौभाग्यसिद्धये || ७९ || दुग्धैरारोग्यसंसिद्ध्यै त्रिभिरै�स्वर्यसिद्धये | नारिकेलोदकैः प्रीत्यै हिमतोयैर्नृपाप्तये | सर्वार्थसिद्धये तोयैरभिषिञ्चेज्जगन्मयीम् || ८० || �साक्तानन्दतर�न्गिण्याञ्च- स्वकल्पोक्तक्रमेणैव जपं कृत्वा वरानने | होमयेत् तद्द�सां�सेन तद्द�सां�सेन तर्पणम् || इत्याद्युक्तम् | निबन्धे अष्टाद�सपटले च- जपान्ते प्रत्यहं मन्त्री होमयेत् तद्द�सां�सतः | तर्पणञ्चाभिषेकञ्च तत्तद्द�सां�सतः प्रिये | प्रत्यहं भोजयेद् विप्रान् न्यूनाधिकप्र�सान्तये || अथवा सर्वसम्पूर्त्तौ होमादिकमथाचरेत् || पुर�स्चरणचन्द्रिकायाम्- अथवा लक्षसंख्यायाः संपूर्तौ होममाचरेत् | किंवा यस्य जपो यावांस्तत्पूर्तौ होममाचरेत् || इति | प्. ७७७) [अभिषेकनिरूपणम्] तर्पणस्य द�सां�सेन नमोऽन्ते मूलमुच्चरन् | अभिषिञ्चेत् स्वमूर्द्धानं जलैः कुम्भाख्यमुद्रया || ८१ || [ब्राह्मणभोजननिरूपणम्] मार्जनस्य द�सां�सेन कुर्याद् ब्राह्मणभोजनम् || ८२ || [प्रकारान्तरेणा�न्गनिरूपणम्] अथवाऽन्यप्रकारेण मन्त्रजापी सुखं व्रजेत् | पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च | होमो ब्राह्मणभुक्ति�स्च जपा�न्गेयं पुरस्क्रिया || ८३ || [होमाद्य�सक्तौ तत्तत्संख्यादिगुणादिजपः] यद् यद�न्गं विहीयेत तत्संख्याद्विगुणं जपम् | कुर्वीत त्रिचतुःपञ्चसंख्यया जातिभेदतः || ८४ || [मन्त्रदुष्टत्वकथनम्] एकम�न्गं विहीयेत मन्त्रो दुष्टत्वमाप्नुयात् || ८५ || [उत्तमभोजनदाने सर्वस्य सफलता]
SK
अन्नै�स्च विविधै�स्चैव पदार्थैः षड्रसान्वितैः | सुभोजितेषु सर्वेषु सर्वं हि सफलं भवेत् || ८६ || [गुरवे दक्षिणादानम्] गुरवे दक्षिणां दद्याद् यथाविभवपूर्वकम् || ८७ || ८४ | यद् यद�न्गमिति | तथा च ब्राह्मणो होमा�सक्तौ होमसंख्याद्विगुणं जपं कुर्यात्, क्षत्रियस्तु त्रिगुणं, वै�स्य�स्चतुर्गुअणं, �सूद्रः पञ्चगुणमिति | प्. ७७८) [ज्ञाति-द्विजपूजा] ज्ञातीन् द्विजान् परं भक्त्या पूजयेन्मधुमांसकैः | एवं कृते पुर�स्चर्या साधयेदिष्टदेवताम् || ८८ || [कृतस�न्कल्पस्य पुर�स्चरणस्यात्याज्यता] पुर�स्चरणकाले तु यदि स्यान्मृतसूतकम् | तथाऽपि कृतस�न्कल्पी व्रतं नैव परित्यजेत् || ८९ || [अकृतस�न्कल्पिनः कृत्यम्] यदाप्यकृतस�न्कल्पी नित्यनैमित्तिके स्थितः | स्नात्वा नित्यन्तु निर्वर्त्यमानस्य(अ) क्रिययातु वै || ९० || वाह्यपूजाक्रमेणैव ध्यानयोगेन पूजयेत् | [मानसजपे दोषाभावः] न दोषो मानसे जप्ये सर्वदे�सेऽपि सर्वदा || ९१ || [जपस्य �स्रेष्ठत्वम्] जपनिष्ठो द्विज�स्रेष्ठः सर्वयज्ञफलं लभेत् | सर्वेषामेव यज्ञानां जपयज्ञः प्र�सस्यते || ९२ || [पुर�स्चरणान्मन्त्रासिद्धौ उपायान्तरकथनम्] एवमनुष्ठितो मन्त्रो यदि सिद्धो न जायते | उपायास्तत्र कर्तव्याः सन्तु �स�न्करभाषिताः || ९३ || [द्रावणादीनामुद्दे�सः] द्रावणं रोधनं व�स्यं पीडनं पोष-�सोषणे | दहनान्तं पुनः कुर्यात्ततः सिद्धो भवेद् ध्रुवम् || ९४ || प्. ७७९) [द्रावणकथनम्] द्रावणं वारुणे बीजे ग्रथिते क्रमयोगतः | तन्मन्त्रयन्त्रमालिख्य सिह्लकर्पूरकु�न्कुमैः || ९५ || उ�सीरचन्दनाभ्यान्तु मन्त्रं संलिखितं लिखेत् | क्षीराज्यमधुतोयानां मध्ये तल्लिखितं भवेत् || ९६ || पूजनाज्जपनाद्धोमाद् द्रावितः सिद्धिदो भवेत् | [रोधनकथनम्] द्रावितोऽपि न सिद्ध�स्चेद्रोधनं तस्य कारयेत् || ९७ || सारस्वतेन बीजेन संपुटीकृत्य संजपेत् | [व�स्यकथनम्] एवं रुद्धो भवेत् सिद्धो नो चेत्तद्व�स्यमाचरेत् || ९८ ||
SK
अलक्तं चन्दनं कुष्ठं हरिद्रामदसिह्लकम् | एतैः स्वमन्त्रमालिख्य भूर्जपत्रे सु�सोभने | [पीडनकथनम्] धार्य कण्ठे भवेत् सिद्धो न चेत्तत् पीडनं चरेत् || ९९ || अधरोत्तरयोगेण पदानि परिजप्य च | ध्यायेत् स्वदेवतां तद्वदधरोत्तररूपिणीम् || १०० || विद्यामादित्यदुग्धेन लिखित्वा क्रमतः सुधीः | तथाभूतेन मन्त्रेण होमः कार्यो दिने दिने || १०१ || ९५ | द्रावणमिति | वारुणं बीजम् वं इति | सिह्लः, यावनः, तुरुष्कः पिण्डकः सिह्लो यावन इत्यमरः ; लोहवान् इति ख्यातः | ९८ | सारस्वतेनेति | ऐ/ इति बीजं मन्त्रस्यादावन्ते च संयोज्य जपेदित्यर्थः | प्. ७८०) [पोषणकथनम्] पीडितो लज्जयाविष्टः सिद्धः स्यादथ पोषयेत् | बालायास्त्रितयं बीजमाद्यन्ते तस्य योजयेत् || १०२ || गोक्षीरमधुनाऽऽलिख्य विद्यां पाणौ विधारयेत् || १०३ || [�सोषणकथनम्] पोषितोऽयं भवेत् सिद्धो न चेत् कुर्वीत �सोषणम् | विद्याञ्च वायुबीजेन मन्त्री कुर्याद् विदर्भताम् || १०४ || एषा विद्या गले धार्या लिखित्वा वरभस्मना | [दहनकथनम्] �सोषितोऽपि न सिद्ध�स्चेद्दहनीयोऽग्निबीजतः || १०५ || आग्नेयेन तु बीजेन मन्त्रस्यैकैकमक्षरम् | आद्यन्तमध्य ऊर्द्ध्वन्तु योजयेद्दाहकर्मणि || १०६ || ब्रह्मवृक्षस्य तैलेन मन्त्रमालिख्य धारयेत् | कण्ठदे�से ततो मन्त्रः सिद्धः स्याच्छ�न्करोदितः || १०७ || [पुर�स्चरणानन्तरम् गुरुपूजा] पुर�स्चर्यां विधायैवं गुरुं संपूजयेत् सुधीः | [मन्त्रादीनां गोपनम्] गुरुं संपूजयेद्धीमान् मन्त्रं यत्नेन गोपयेत् | अक्षमालाञ्च मुद्राञ्च गुरोरपि न दर्�सयेत् || १०८ || [मन्त्रदेवतागुरुषु भक्तिः कर्तव्या] मन्त्रे तु देवतायान्तु तथा मन्त्रविदे गुरौ | त्रिषु भक्तिः सदा कार्या सा हि प्रथमसाधना || १०९ || प्. ७८१) [मन्त्रदेवतयोरैक्यम्] मन्त्रो हि देवता ज्ञेया देवता मन्त्ररूपिणी | द्वयोर्भेदो न कर्तव्यो यदीच्छेत् परमं पदम् || ११० || [मन्त्रसिद्धौ सर्वसिद्धिः] सम्यक् सिद्ध्यैकमन्त्रस्य नासिद्धमिह भूतले || १११ ||
SK
[एकद्व्यादिलक्षसंख्याभेदेन फलभेदः] अथ लक्षप्रभेदेन जपमाहात्म्यमुच्यते | लक्षमात्रं जपेन्मन्त्री महापापैः प्रमुच्यते || ११२ || लक्षद्वयेन पापानि सप्तजन्मभवान्यपि | महापातकमुख्यानि ना�सयेन्नात्र सं�सयः || ११३ || ततो लक्षत्रयं जप्त्वा मन्त्र-यन्त्रकलेवरः | महापातककोटीस्तु ना�सयेन्नात्र सं�सयः || ११४ || चतुर्लक्षं जपेन्मन्त्री महावागी�स्वरो भवेत् | कुबेर इव रत्नाढ्यः पञ्चलक्षजपान्नरः || ११५ || षल्लक्षजपमात्रेण महाविद्याधरो भवेत् | सप्तलक्षजपान्मन्त्री खेचरीमेलको भवेत् || ११६ || अष्टलक्षजपान्मन्त्री देवपूज्यो भवेद् ध्रुवम् | अणिमाद्यष्टसिद्धीनां नायकः साधको भवेत् | व�सगास्तस्य राजानो योषित�स्च वि�सेषतः || ११७ || नवलक्षप्रमाणेन जपेत्त्रिपुरसुन्दरीम् | रुद्रमूर्तिः स्वयं कर्ता हर्ता साक्षान्न सं�सयः || ११८ || प्. ७८२) [नवलक्षजपे स्थानभेदः] मेढ्रस्थाने �सिखाकारमाधारे कनकप्रभम् | नाभिस्थं सूर्यविम्बाभं हृदि ज्योतिः�सिखामयम् || ११९ || तदूर्द्ध्वे भास्करमयं कण्ठे दीप�सिखामयम् | लम्बिके चन्द्रबिम्बाभं भ्रूमध्ये रत्नवद्रुचिः || १२० || नवमे वि�स्वतेज�स्च नवलक्षाणि यानि च | एभिः स्थानस्थितो योगी नवलक्षं समभ्यसेत् || १२१ ||
SK
११९-१२१ | मेढ्रस्थाने इत्यादि | नवचक्रविवेकानुसारेणोक्तमिदं, तदूर्द्ध्वे आज्ञाचक्रे, लम्बिके तालुचक्रे इत्यर्थः | नवचक्रविवेकस्तु सौभाग्यलक्ष्म्युपनिषदि- अथ हैनं देवा ऊर्चुनवचक्रविवेकमनुब्रूहीति | तथेति स होवाच- आधारे ब्रह्मचक्रं त्रिरावृत्ति भगमण्डलाकारं तत्र मूलकं देव�सक्तिः, पावकाकारं ध्यायेत्, तत्रैव कामरूपपीठं सर्वकामफलप्रदं भवति | इत्याधारचक्रम् | द्वितीयं स्वाधिष्ठानचक्रं षड्दलं, तन्मध्ये प�स्चिमाभिमुखं लि�न्गं प्रबाला�न्कुरसदृ�सं ध्यायेत्, तत्रैवोड्यानपीठं जगदाकर्षणसिद्धिदं भवति | तृतीयं नाभिचक्रं पञ्चावर्तं सर्पकुटिलाकारं तन्मध्ये कुण्डलिनीं बालार्ककोटिप्रभां तनुमध्यां ध्यायेत् | सामर्थ्य�सक्तितः सर्वसिद्धिप्रदा भवति | मणिपूरकचक्रं हृदयचक्रमष्टदलमधोमुखम्, तन्मध्ये ज्योतिर्मयलि�न्गाकारं ध्यायेत् | सैव हंसकला सर्वप्रिया सर्वलोकव�स्यकरी भवति | कण्ठचक्रं चतुर�न्गुलम्, तत्र वामे इडा चन्द्रनाडी, दक्षिणे पि�न्गला सूर्यनाडी, तन्मध्ये सुषुम्णां �स्वेतवर्णां ध्यायेत्, य एवं वेदानाहतसिद्धिदो भवति | तालुचक्रं तत्रामृतधाराप्रवाह, घण्टकालिदिमूलचक्ररन्ध्रे राजदण्डावलम्बिनी विवरं द�समद्वारं तत्र �सून्यं ध्यायेत्, चित्तलयो भवति | सप्तमं भ्रू-चक्रम�न्गुष्ठमात्रं, तत्र ज्ञाननेत्रं दीप�सिखाकारं ध्यायेत्, तदेव पालकदं वाक्सिद्धिदं भवति | आज्ञाचक्रमष्टमं ब्रह्मरन्ध्रनिर्वाणचक्रं तत्र सूचिकागृहेतरं धूम्र�सिखाकारं ध्यायेत् | तत्र जालन्धरपीठं मोक्षप्रदं भवति | परं ब्रह्मचक्रं नवममाका�सचक्रं, तत्र षोड�सदलपद्ममूर्द्ध्वमुखं तन्मध्यकर्णिकां प्. ७८३) [नवचक्रभेदेन नवलक्षजपे सिद्धिः] नवस्थानस्थितं लक्षं नवलक्षं तदुच्यते | नव स्थानानि मन्त्रेण क्रमात् संभिद्य कुण्डलीम् || १२२ ||
SK
विसर्गस्थामृतं पीत्वा पुनराधारमावि�सेत् | स्थानात् स्थानगतं मन्त्रं स्मरेदेवं क्रमेण तु | मन्दभाग्योऽपि नियतं सिध्यते नात्र सं�सयः || १२३ || [प्रकारान्तरेण जपसिद्धिः] अथवाधारपद्मे तु लि�न्गं वा प�स्चिमामुखम् | ज्योतीरूपाञ्च योगिन्यं स्वयम्भूवाचकं परम् || १२४ || हृदि त्रिकोणमध्ये वा बाणलि�न्गं तथाकृतिम् | मूर्ध्नि त्रिकोणमध्ये तु उत्तरं प�स्चिमामुखम् || १२५ || तत्र स्थित्वा जपेल्लक्षं यत्र कुत्र समाहितः | ततो भगवती विद्या त्रैलोक्यव�सकारिणी || १२६ || [मालासंस्कारकथनम्] अथ वक्ष्यामि मालायाः संस्कारं सर्वसिद्धिदम् || १२७ || [अप्रतिष्ठितमालया मन्त्रजपनिन्दा] अप्रतिष्ठितमालाभिर्मन्त्रं जपति यो नरः | सर्वं तन्निष्फलं विद्यात् क्रुद्धा भवति चण्डिका || १२८ || [मालासूत्रनिर्माणम्] कान्तया रचिता सा तु द्रुतं सिद्धिकरी स्मृता | ऊर्द्ध्वन्तु त्रिवृतं कार्यं तन्तुत्रयमधोवृतम् || १२९ || त्रिकुटाकारां तन्मध्ये ऊर्द्ध्व�सक्तिकां प�स्यन् ध्यायेत्, तत्रैव पूर्णगिरिपीठे सर्वेच्छसिद्धिसाधनं भवति | इति यद्यप्यत्र पूर्णानन्दमततः क्वचित् किञ्चिद् वैषम्यं दृ�स्यते तथापि मूलमेकमेवेति काममुपन्यस्तम् | प्. ७८४) पुण्यस्त्रीरचितं सूत्रं कार्पासं पट्टमेव वा | मूलास्त्रञ्च पठन् सूत्रं बीजं प्रक्षालयेत्ततः || १३० || [मालायां ग्रन्थिकरणम्] एकैकमालामादाय ब्रह्मग्रन्थिं प्रकल्पयेत् | ग्रन्थिहीनं न कर्तव्यं स्पृष्टास्पृष्टे न दुष्यति || १३१ || [�सैवादौ ग्रन्थ्यभावे दोषाभावः] �सैवे च वैष्णवे सौरे गाणे�से �स्रीकरेऽपि च | बीजकल्पान् पुनः कुर्यात्तत्र नास्ति विचारणा || १३२ || [ग्रन्थिहीने दोषाभावो देवीवि�सेषे] या देव्यो ग्रन्थिहीनाः स्युर्लिख्यते तद�सेषतः || १३३ || कालिकात्वरिताया�स्च �सक्राद्याः षट्कभेदतः | तेनाचरणवासिन्यो वाराह्या�स्च प्रपूजयेत् || १३४ || [माला�सोधने क्रियावि�सेषः] अनुलोमविलोमाभ्यां मातृकाऽन्तरितं न्यसेत् | [मालायाः पञ्चगव्येन �सोधनम्]
SK
पञ्चगव्ये क्षिपेन्मालां �सिवमन्त्रेण मन्त्रिताम् || १३५ || [मालायां गन्धादिदानम्] सद्योजातेन गन्धाद्यैर्वामदेवेन घर्षयेत् | धूपयेत्तामघोरेण लेपयेत् पुरुषेण तु || १३६ || मन्त्रयेत् पञ्चमेनैव प्रत्येकन्तु �सतं �सतम् | [मन्त्रकथनम्] मेरुञ्च पञ्चमेनैव मत्रेणानेन मन्त्रयेत् || १३७ || प्. ७८५) ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः | भवे भवेऽनादिभवे भवोद्भवाय वै नमः || १३८ || (१) ं वामदेवाय नओ ज्येष्ठाय नमो रुद्राय नमः कालाय नमः कालविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमः (ॐ नमो) (मनो)न्मथनाय नमः || १३९ || (२) ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः | सर्वतः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः || १४० || (३) ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् || १४१ || (४) ॐ ई�सानः सर्वविद्यानामी�स्वरः सर्वभूतानां (ब्रह्माधिपतिर्विद्यानामी�स्वरः सर्वभूतानां (ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा) �सिवो मेऽस्तु सदा�सिवोम् || १४२ || (५) [�सक्तिविषये मन्त्राभावमतनिरासः] इति पञ्च-ऋचा �सुद्धिर्न �सक्तिविषये तथा | तन्न समीहितं मुण्डमालायां संस्मृता यतः || १४३ || [मालास्थापनम्] ततः संजपितां मालां स्थापयेद्धेमपात्रके | पद्माकारेऽ�स्वत्थपत्रनवकेः स्थापयेच्च वा || १४४ || [मालायाः पञ्चामृतादिना स्नापनादि] पञ्चामृतेन सुस्नाप्य �सीतलेन जलेन च | महाप्रेतासनं बीजं न्यसेत्तत्र च साधकः || १४५ || प्. ७८६) तत्र देवीं सुपूज्यैव परिवारगणैः सह | विधिवदग्निमारोप्य घृतेन �सक्तितो हुनेत् || १४६ || होमकर्मण्य�सक्त�स्चेद् द्विगुणं जपमाचरेत् | अष्टोत्तर�सतं जप्त्वा गुरुर्मालां समाचरेत् || १४७ || �सिष्यहस्ते ततः सोऽपि प्रजप्याष्टोत्तरं �सतम् | गुरवे दक्षिणां दद्याद् यथाविभवपूर्वकम् || १४८ || [मालायाः स्वयं संस्कारकालः] गुरोरभावे मालायाः संस्कारं स्वयमाचरेत् | [प्रत्यहं पूजान्ते मालाजपः]
SK
अभ्युक्ष्यादौ जपेन्मालां पूजान्तेऽपि तथैव च || १४९ || [मालापूजायां मन्त्रवि�सेषः] वाग्भवं भुवने�सानी अक्षमालाञ्च �नेयुताम् | हृन्मन्त्रञ्च समुच्चार्य पूजयेत् साधकोत्तमः || १५० || [मालाप्रार्थनमन्त्रः] ॐ माले माले महामाले सर्व�सक्तिस्वरूपिणि | चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव || १५१ || [मालाऽभिमन्त्रणम्] अभिमन्त्र्य ततो मालां गृहीत्वा दक्षिणे करे | मायां सिद्धे�स्वरीं �नेन्तां हृदयान्तो मनुः स्मृतः || १५२ || १५० | वाग्भवमित्यादि | एतेन ऐ/ द्रीं अक्षमालायै नमः इति मन्त्रो भवति | १५२ | अभिमन्त्र्येति | एतेन ह्री/ सिद्धे�स्वर्यै नमः इति मन्त्रः सिध्यति | प्. ७८७) एष पञ्चाक्षरो मन्त्रो ग्रहणे च जपान्तिके | हृत्प्रदे�से समानीय न तु वामेन संस्पृ�सेत् || १५३ || [मालाजपे अ�न्गुलिनियमः] मध्यमाया मध्यभागे स्थापयित्वा समाहितः | तर्जन्या न स्पृ�सेनमालाम�न्गुष्टाग्रेण चालयेत् || १५४ || प्रत्येकं बीजमादाय मेरुञ्चापि न ल�न्घयेत् | अ�न्गुष्ठानामिकाभ्यान्तु जपेदुत्तमकर्मणि | तर्जन्य�न्गुष्ठयोगेन विद्वेषोच्चाटने जपः || १५५ || कनिष्ठा�न्गुष्ठयोगेन जपेन्मारणकर्मणि | [जपान्ते मालास्थापनम्] जपान्ते मस्तके मालां क्षिप्त्वाऽनेन समर्चयेत् || १५६ || त्वं माले सर्वदेवानां प्रीतिदा�सु सदा मम | �सिवं कुरुष्व मे भद्रे य�सो वीर्यञ्च सर्वदा || १५७ || [मालायाः संगोपनम्] जपान्तकाले तां मालां गोपयेत् प्रयतः सुधीः | जपकालेऽपि गोप्तव्या जपमाला सु�सोभना || १५८ || [संख्यां विना जपनिषेधः] गणनाविधिमुल्ल�न्घ्य यो जपेत्तज्जपं पुनः | गृह्णन्ति राक्षास्तेन गणयेत् सर्वथा बुधः || १५९ || १५७ | त्वं माले इति | अयं मन्त्रस्तु तन्त्रान्तरे � त्वं माले सर्वदेवानां सर्वसिद्धिप्रदा मता | तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तु ते || इति | १५९ | गणनेति | गणनस्याव�स्यकत्वमुक्तम् | प्रमाणमिदं तन्त्रसारेऽपि | अन्यच्च तन्त्रसारधृत वि�स्वसारे � प्. ७८८) [मालायाः पुनः सूत्रग्रन्थनकालः]
SK
जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वा �सतं जपेत् | [मालायाः करभ्रं�सादिदोषे कर्तव्योपदे�सः] कराद् भ्रष्टे �सब्दकृते जपेदष्टोत्तरं �सतम् || १६० || निषिद्धस्पर्�सने तद्वज्जपेत् प्रक्षाल्य मन्त्रवित् || १६१ || [प्रकारान्तरेण मन्त्रसिद्धिकथनम्] अथान्यत् संप्रवक्ष्यामि मन्त्रसिद्धिकरं परम् | [मन्त्र-साधकयोरैक्यकथनम्] मन्त्रसाधनयोरैक्यं दुर्लभं भुवि मानवैः || १६२ || उक्तं स�न्कर्षणे तन्त्रे �सिवेनाखिलवेदिना | आनन्दाख्ये पञ्चरात्रे �सुक्राय कवये पुरा || १६३ || [�सिष्यमन्त्रयोरैक्यकथनम्] संस्कृतं पूजितं मन्त्रं दत्त्वा �सिष्याय दे�सिकः | कुर्यादथ तयोरैक्यं �सास्त्रदृष्टेन वर्त्मना || १६४ || [तत्र नियमवि�सेषः] मन्त्रं विदर्भितं कृत्वा नामवर्णैर्यथाक्रमम् | आद्यन्ते सकलं नाम ततः प्रणवमालिखेत् || १६५ || जपसंख्या तु कर्तव्या नासंख्यातं जपेत् सुधीः | असंख्याकारकस्यास्य सर्वं भवति निष्फलम् || तन्त्रे � हृदये हस्तमारोप्य तिर्यक् कृत्वा करा�न्गुलीः | आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत् || जपसंख्याधारणे निषिद्धानिषिद्धान्याह � नाक्षतैर्हस्तपर्वैर्वा न धान्यैर्न च पुष्पकैः | न चन्दनैर्मृत्तिकया जपसंख्यास्तु कारयेत् || लाक्षाकु�सीदसिन्दूरं गोमयञ्च करीषकम् | विलोड्य गुलिकां कृत्वा जपसंख्यास्तु कारयेत् || इति | प्. ७८९) स्वराः पात्रेषु संलेख्या ध्यायेत्तानमृतात्मकान् | भूर्जे रोचनगन्धाद्यैः पद्ममध्ये सु�सोभने || १६६ || मृदा पवित्रयावेष्ट्य तत् पुनः सिक्थकेन तु | निःक्षिपेन्मधुरे तत्तु मृन्मये लघु भाजने || १६७ || क्षीरपूर्णे नवे कुम्भे तत् क्षिपेल्लघुभाजनम् | धारयेद्दे�सिकः कुम्भमग्निकुण्डसमीपतः | मन्त्रसाधकयोरैक्यसिद्ध्यर्थं जुहुयात्ततः || १६८ || मुलमन्त्रेण मन्त्रज्ञः सहस्रं �सतमेव वा | कुम्भे सम्पातयेन्मन्त्री मधुराणां त्रयं �सुभम् || १६९ || निधाय निःक्षिपेत् कुम्भं �सनैस्तं महदम्भसि | मन्त्रसाधकयोरैक्यं भवेदेवंक्रमेण तु || १७० ||
SK
[दे�सिकस्यैतज्ज्ञानाभावे निन्दा] एतद् यो न विजानाति नासौ दे�सिक उच्यते || १७१ || [यत्र कुत्र रहस्यं न वक्तव्यम्] रहस्यं कथितञ्चैव न वदेद् यस्य कस्यचित् | उत्तमाय स्व�सिष्याय प्रियपुत्राय वा वदेत् || १७२ || [त्रिमधुरसंज्ञा] पयो मधु घृतञ्चैव समं त्रिमधुरं स्मृतम् || १७३ || [रहस्यपुर�स्चरणादिकं �स्यामारहस्यतो ज्ञातव्यम्] रहस्यादि पुर�स्चर्या दूतीयागादिकाः क्रियाः | �स्यामारहस्ये विज्ञेयाः संज्ञायां साधकोत्तमैः || १७४ || १७४ | रहस्यादीति | �स्यामारहस्ये पञ्चमपरिच्छेदे रहस्यपुर�स्चरणं ज्ञातव्यम् | दूतीयागविधि�स्च �स्यामारहस्ये, �स्रीक्रमे � प्. ७९०) याममात्रगते रात्रौ कुलगेहगतः पुमान् | ताम्बूलपूरितमुखो धूपामोदसुगन्धिभिः || रक्तचन्दनलिप्ता�न्गो रक्तमाल्यानुलेपितः | रक्तवस्त्रपरीधानो लाक्षारुणगृहे स्थितः | रक्तमाल्येन संवीतो रक्तपुष्पविभूषितः || पञ्चीकरणसंकेतैः पूजयेत् कुलनायिकाम् || कुलनायिकालक्षणमुक्तं तत्रैव � नटी कापालिनी वे�स्या पुक्कसी नापिता�न्गना | रजकी रञ्जकी चैव सैरिन्ध्री च सुभाषिणी || खटिका घटिका चैव तथा गोपालकन्यका | वि�सेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गनाः || गुरुभक्ता देवभक्ता घृणालज्जाविवर्जिताः | स�न्गोपनरताः प्रायस्तरुण्यः सर्वसिद्धिदाः || एवं यथोदितां प्रसूनतूलिकोपरि संस्थाप्य पूजामारभेत् || तदुक्तं तत्रैव � अद्वैताचारसम्पन्नां घृणालज्जाविवर्जिताम् | सदनुष्ठाननिरतां सात्त्विकीं भक्तिसंयुताम् || देवताभावसंयुक्तां गुरुभक्तां दृढव्रताम् | ईर्ष्यालस्येन रहितां सदयां भक्तवत्सलाम् || चातुर्यौदार्यदक्षिण्यकरुणादिगुणान्विताम् | रूपयौवनसम्पन्नां �सीलसौभाग्य�सालिनीम् || सदा परिगृहीतां वा यद्वा स�न्केतमागताम् | अथवा तत्क्षणायातां मदनानलतापिताम् || विलिप्तां रक्तगन्धेन रक्ताम्बरविभूषिताम् | सुगन्धिकुसुमाबद्धां सर्वाभरणभूषिताम् || सुधूपधपितां तन्वीं दूतीकर्मणि योजयेत् | एवम्भूतां यजेत् ताञ्च प्रसूनतूलिकोपरि ||
SK
इत्यादि | नवमपरिच्छेदे �स्यामारहस्ये वि�सेषेणोल्लिखितो वर्तते इति तत्रैवानुसन्धेयः | विस्तरभयान्न साकल्येन लिखितमिति | प्. ७९१) [बलिदानकथनम्] अथातो बलिदानन्तु वक्ष्यामि �स्री-प्रिय�न्करम् | प्रणवं पूर्वमुद्धृत्य पद्मे युग्मं पठेत्ततः || १७५ || महापद्मे पदं ब्रूयात् पद्मावति पदं ततः | वह्निजायावधिः प�स्चाद् बलिं दद्याच्चतुष्पथे || १७६ || प्रणवं भुवने�सानीमेकजटे पदं ततः | महायक्ष्माधिपं ब्रूयात्तारय-पदं समुद्धरेत् || १७७ || ममोपनीतकं ब्रूयाद् बलिं गृह्ण द्विधा पदम् | गृह्णापय युगं मम सर्व�सान्तिं कुरुद्वयम् || १७८ || परविद्यां द्विधाकृत्य त्रुट-द्वन्द्वञ्च छिन्धियुक् | मायाबीजं ततो हुञ्च बलिं दद्यान्महानि�सि || १७९ || बलिमन्त्रद्वयं प्रोक्तं वीराणां सिद्धिकाम्यया || १८० || इति �स्रीपूर्णानन्दपरमहंसविरचिते �स्री-तत्त्वचिन्तामणौ विं�सतितमः प्रका�सः || २० || १७५-७६ | बलिदानमन्त्रस्तु - ॐ पद्मे पद्मे महापद्मे पद्मावति स्वाहा इति | अनेन चतुष्पथे बलिं दद्यात् | १७७-८० | प्रणवमित्यादि | द्वितीयमन्त्रस्तु - ॐ ह्री/ एकजटे महायक्ष्माधिपं तारय, ममोपनीतं बलिं गृह्ण गृह्ण, गृद्णापय, मम सर्व�सान्तिं कुरु कुरु, परविद्यामाकृष्याकृष्य त्रुट त्रुट, छिन्धि छिन्धि ह्री/ हु/ | इति | वीराचारिणां सिद्ध्यर्थं बलिमन्त्रद्वयमत्र कथितमिति | एकविंशतितमः प्रकाशः [ब्रह्महत्यादिप्रायश्चित्तकथनम्] ब्रह्महत्यादिदोषाणां प्रायश्चित्तं वदाम्यथ || १ || [तत्र क्रमः] रक्तपुष्पैर्यजेच्चक्रं समस्तरश्मि संयुतम् | कुलाचारक्रमेणैव कर्पूरक्षोदमण्डितम् || २ || [तत्र कालनियमः] मासत्रयेण नियतं महापातककोटयः | जन्मान्तरकृताः सर्वे क्षणान्नाशं प्रयान्ति च | लक्ष्मीस्तस्य गृहे वश्या सुस्थिरा सर्वकामदा || ३ || [जवापुष्पेन पूजाप्रशंसा] जवापुष्पैश्च मन्त्रज्ञः पूर्ववत् पूजयेच्छिवाम् | ब्रह्महत्यादिपापानि पूर्वजन्मकृतान्यपि | नाशयेन्नात्र सन्देहो धनवान् जायते नरः || ४ ||
SK
[सुगन्धिकुसुमैः पूजाफलम्] शिवां संपूजयेन्नित्यं सुगन्धिकुसुमैरपि | महापातकयुक्तात्मा तत्क्षणात् पापहा भवेत् || ५ || [शम्यादिभिः पूजाफलम्] शमीदूर्वाङ्कुराश्वत्थ-पल्लवैरथ साधकः | मासेन हन्ति कलुषं सप्तजन्मनि यत् कृतम् || ६ || प्. ७९३) [केतकीपत्रैः पूजाफलम्] केतकीतरुणैः पत्रैः पूर्ववत् पूजयेद् यदि | उपपातकसङ्घांश्च नाशयेन्नात्र संशयः | सौभाग्यमतुलं तस्य जायते परमाद्भुतम् || ७ || [शतपत्रैः पूजाफलम्] पूजनाच्छतपत्रैश्च सर्वपापं विनाशयेत् | [श्वेतपद्मैः पूजाफलम्] पूर्वजन्मकृतं पापं श्वेतपद्मैः प्रपूजनात् || ८ || कुलाचारक्रमेणैव भवेत् सौभाग्यवल्लभः | विंशजन्मकृतं पापं श्वेतपद्मैः प्रपूजयेत् | मासमात्रेण सकुलं मोक्षस्तस्य करे स्थितः || ९ || [बन्धूककुसुमैः पूजाफलम्] बन्धूककुसुमैः शुद्धैः सर्ववत् पूजयेद् यदि | त्रैलोक्यं वशगं तस्य सर्वपापं हरेद् ध्रुवम् || १० || [विल्वपत्रैः पद्मैश्च पूजाफलम्] विल्वपत्रैश्च जलजैः सहैव परिपूजनात् | समृद्धिमान् भवेत्तद्वत् सर्वपापहरः स्वयम् || ११ || [मल्लिकादिपुष्पैः पूजाफलम्] मल्लिका-मालती-जाती-कुन्दैश्च शतपत्रकैः | श्वेतोत्पलैश्च संशुद्धैः पूजयेन्मासमात्रकम् || १२ || विंशजन्मकृतं पापं चम्पकैः पूजनादपि | कुलाचारक्रमेणैव पातकं शतजन्मजम् || १३ || प्. ७९४) ब्रह्महत्यादिजनितं नाशयेन्नात्र संशयः | मुक्तिस्तस्य करे नूनं वाचा जीवसमो भुवि || १४ || [अगस्त्यादिपुष्पः पूजनफलम्] अगस्त्य-बाणा-बन्धूक-जवा-रक्तोत्पलैरपि | पातकं नाशयेत्तद्वत् साक्षात् कामसमो भवेत् || १५ || [चम्पकादिपुष्पैः पूजनफलम्] चम्पकैः पाटलैश्चैव वकुलैर्नागकेशरैः | कह्लारैः सिन्धुवारैश्च पूजयेद् यदि साधकः | सौभाग्यमतुलं तस्य मासमात्रेण वै भवेत् || १६ || [रत्नपूजाविधानकथनम्] रत्नपूजाविधानन्तु कथयामि विशेषतः || १७ ||
SK
पुष्पाणि रचयेन्मन्त्री माणिक्यघटितानि च | तैस्तु पूजा प्रकर्तव्या चक्रराजस्य पूर्ववत् | नानापुष्पैः सुगन्धैश्च कर्पूरक्षोदचर्चितैः || १८ || [रत्नपुष्पादिभिः पूजाफलम्] एकविंशतिरात्रेण विंशतिर्धरणीभुजाम् | दासभूता भवत्येव महारोगांश्च नाशयेत् || १९ || सूर्यवत् कान्तिमान् मन्त्री जायते नात्र संशयः || २० || १५-१६ | अगस्त्येति | अगस्त्यं वकपुष्पं, बाणा नीलझिण्टी, नीला झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा || इत्यमरः | बन्धूकः बन्धुजीवकः (दुपहरिया इति ख्यातः) बन्धूको बन्धुजीवकः इत्यमरः | पाटलं पाटलायाः पुष्पम् (गोलाबाख्यं पुष्पमिति केचित्) | प्. ७९५) मुक्तारत्नैरङ्कितानि स्वर्णपुष्पाणि यानि च | तैस्तु पूजा प्रकर्तव्या नानारत्नैस्तु पूर्ववत् || २१ || एकविंशतिरात्रेण राजपत्न्यो वशानुगाः | कलाकान्तियुतो मन्त्री जायते शुभगः क्षितौ || २२ || [प्रबालपुष्पैः स्वर्णपुष्पैश्च पूजाफलम्] प्रबालरचितैः स्वर्णैः पुष्पैश्च बहुभिर्यजेत् | अन्यैर्नानाविधैः पुष्पैः सप्ताहं कुलवर्त्मना || २३ || क्रूरास्तस्य वशाः सर्वे वैरिवर्गान् विनाशयेत् | [मरकतपुष्पैः पूजाफलम्] तथा मरकतक्षिप्तैवरी मित्रं ध्रुवं भवेत् || २४ || [पद्मरागपुष्पैः पूजाफलम्] पद्मरागमहारत्ननिर्मितैः स्वर्णसंयुतैः | कुसुमैः पूजयेच्चक्रं त्रिसप्ताहं क्रमेण तु | सुरास्तस्य वशाः सर्वे बृहस्पतिसमो भवेत् || २५ || [हीरकयुक्तस्वर्णपुष्पैः पूजाफलम्] सुवर्णरचितैः पुष्पैर्वज्र-केतकवासितैः | एकविंशतिरात्रेण मोहयेज्जगतीमिमाम् || २६ || देवा दैत्या वशास्तस्य जायन्ते नात्र संशयः || २७ || [नीलकान्तमणियुक्तस्वर्णपुष्पैः पूजाफलम्] इन्द्रनीलमयैः स्वर्णपुष्पैश्चक्रं प्रपूजयेत् | प्. ७९६) एकविंशतिरात्रैश्च तथा नीलैश्च नीरजैः | वैरिणो नाशमायान्ति शेषा वश्या भवन्ति च || २८ || [गोमेदयुक्तस्वर्णपुष्पैः पूजाफलम्]
SK
गोमेदघटितैः स्वर्णपुष्पैः कुन्दैश्च किंशुकैः | सप्ताहाद् वैरिणी वश्या घातस्तेषु प्रजायते | त्रिसप्ताहान्महापापसञ्चयं नाशयेद् ध्रुवम् || २९ || [नूतनस्वर्णरत्नमयपुष्पैः पूजाफलम्] स्वर्णरत्नमयैः पुष्पैर्नवैश्चापि प्रपूजयेत् | तदाऽश्वमेधदशकं फलं भवति निश्चितम् || ३० || क्रव्यादजीवा वश्या हि भवन्त्येव न संशयः | [वैदूर्ययुक्तस्वर्णपुष्पैः पूजाफलम्] वैदूर्यघटितैः स्वर्णपुष्पैश्चम्पकजातिभिः | चक्रराजं समभ्यर्च्च्य त्रैलोक्यं स्तम्भयेत् क्षणात् || ३१ || एकविंशतिभिर्वारैर्महापापहरो भवेत् || ३२ || [नानारत्नयुक्तस्वर्णपुष्पैः पूजाफलम्] नानारत्नमयैः स्वर्णपुष्पैर्यदि शिवां यजेत् | तदा देवाश्च मुनयः पन्नगा राक्षसादयः || ३३ || सर्वे वश्या भवन्त्येव त्रिसप्ताहान्न संशयः | जन्मकोटिभवं पापं साधकस्य विनाशयेत् || ३४ || [स्वल्पस्वर्णरत्नादियुक्तपुष्पैः पूजाफलम्] स्वर्णरत्नादिपूर्णत्वं यदि न स्यात्तथा पुनः | तैरेव पुष्पैः पूजा हि कर्त्तव्या साधकोत्तमैः || ३५ || प्. ७९७) अलङ्कारस्वरूपेण पूजयेच्चक्रनायिकाम् | केवलं यैस्तु पुष्पैस्तु त्रैलोक्यं स्तम्भयेत् खलु || ३६ || मासमात्रेण पापानि सप्तजन्मभवानि च | नाशयेन्मोहयेत् सर्वं समुद्रवलयां धराम् || ३७ || [पर्युपितपुष्पैः पूजननिषेधः] पुष्पैः पर्युषितैश्चैव नार्च्चयेत् स्वर्णजैरपि | [निर्माल्यादिपुष्पैः पूजननिषेधः] निर्माल्यभूतैः कुसुमैरुच्छिष्टैरपि नार्च्चयेत् || ३८ || [अपामार्गादिदलैः पूजनफलम्] अपामार्गदलैर्भृङ्गैर्विल्वैर्मरकतैरपि | पत्रैरेभिः प्रयत्नेन पूजयेत् परमेश्वरीम् || ३९ || [शाक्तपुष्पकथनम्] अम्भोजोत्पल-बन्धुजीव-विजया-पुन्नाग-नागान्यथोजाती-कुन्द-कुरण्ट-चम्पक-जवा-यूथी-रमा- पाटलैः | विल्वाशोक-हयारि-कुब्ज-मदनैर्मन्दार-दूर्वाङ्कुरैर्द्रोणागस्त्यपराजितानि कुसुमान्युक्तानि शाक्तान्यलम् || ४० || [मल्लिकातगरादिभिः पूजा कर्तव्या]
SK
सर्वकालोद्भवैः पुष्पैर्मल्लिका-तगरादिभिः | सितरक्तैः प्रयत्नेन पूजयेत् परमेश्वरीम् || ४१ || ४० | अम्भोजोत्पलेति | विजया शेफालिका, पुन्नागं केशर-पुष्पम्, नागं नागकेशरपुष्पम्, कुरण्टं रक्तझिण्टीपुष्पम्, हयारि करवीरपुष्पम्, कुब्जम् अपामार्गफलम्, मदनं वकुलपुष्पम्, (मयना इति ख्यातं वा) मन्दारम् अर्कपुष्पम् (आकन्द इति ख्यातम्) | प्. ७९८) [कलिकाभिः पूजानिषेधः] कलिकाभिस्तथा नेष्टं विना चम्पकपङ्कजैः | [जलजचम्पकयोः पर्युषितदोषाभावः] न पर्युषितदोषोऽस्ति जलजे चम्पकेऽपि च || ४२ || [यन्त्रपुष्पकथनम्] यत्रापराजितापुष्पं पुष्पं जवाख्यमुत्तमम् | करवीरे शुक्लरक्ते द्रोणापुष्पञ्च एव हि || ४३ || एषु देवी वसेन्नित्यं तद्यन्त्रे तां प्रपूजयेत् | अतः प्रयत्नतो मन्त्री पुष्पैरेभिः समर्चयेत् || ४४ || योगिनीतन्त्रे त्रिपुराप्रकरणे � [पुष्पविशेषे केचन विधिनिषेधाः] शेफालिकान्तु कह्लारं शरत्कालं विना त्यजेत् || ४५ || बकुलस्य त्वशोकस्य अर्जुनस्य महेश्वरि | पूजयेद् वृन्तवर्जेन सवृन्तेन विवर्जयेत् || ४६ || विष्णुक्रान्ता जवा नागकेशरं नागवल्लभम् | बन्धूकञ्चैव कह्लारं सवृन्तेन समर्च्चयेत् || ४७ || न स्पृशेद् वृन्तवर्जञ्च भूमिष्ठञ्च न संस्पृशेत् | शेफालि वकुलञ्चैव भूगतेन समाचरेत् || ४८ || पुष्पञ्चाक्षतसंयुक्तं तथा रक्तविलेपितम् | सर्वान्ते सुन्दरीं न्यस्य रक्तपुष्पं तथा न्यसेत् || ४९ || प्. ७९९) [विल्वपत्रस्य प्राशस्त्यम्] पत्रेषु विल्वपत्राणि दत्त्वा देव्यै प्रयत्नतः | विल्वपत्रैर्विना पूजा शाक्ते शैवे न दृश्यते || ५० || [अङ्गरङ्गेषु सिन्दूरस्य प्रशस्तता] अङ्गरङ्गेषु सिन्दूरं देव्याः प्रीतिकरं परम् | अतः प्रयत्नतो मन्त्री सिन्दूरं विनिवेदयेत् | [मुखवासेषु ताम्बूलस्य प्रशस्तता] मुखवासेषु ताम्बूलं देव्यानन्दकरं परम् || ५१ || एवमेव विधानेन पूजयेद् यदि पार्वतीम् | अभीष्टं सप्तरात्रेण लभते नात्र संशयः || ५२ || [वारविशेषे पुष्पविशेषप्राशस्त्यम्]
SK
रविवारेऽरुणाम्भोजैः कुमुदैः सोमवासरे | भौमे रक्तोत्पलैः सौम्यवारे तगरसम्भवैः || ५३ || गुरुवारे च कह्लारैः शुक्रवारे सिताम्बुजैः | उत्पलैः शनिवारे च पूजयेदब्दमाद्रात् || ५४ || [वारविशेषे निवेदनीयद्रव्याणि] निवेदयेत् क्रमात्तेषु रविवारादिसप्तसु | पायसं दुग्ध-कदली-नवनीतं सिता-धृतम् || ५५ || [वर्षमात्रदेवीपूजनफलम्] एकमब्दं समाराध्य देवीं गन्धादिभिः क्रमात् | ग्रहपीडां विजित्याशु सुखानि च समश्नुते || ५६ || ५५ | निवेदयेदिति | सिता शर्करा | प्. ८००) [पर्वताग्रे देवीपूजनफलम्] पर्वताग्रे यजेद्देवीं पलाशकुसुमैर्निशि | सिद्धद्रव्यैश्च सप्ताहात् खेचरीमेलनम् भवेत् || ५७ || [अरण्यादिषु पूजाफलम्] अरण्ये वटमूले वा कुञ्जे वा धरणीभृताम् | कदम्बजातिपुष्पाभ्यां सिद्धद्रव्यैः शिवां यजेत् | मासेन सिद्धडाकिन्यः प्रत्यक्षा वाञ्छितप्रदाः || ५८ || [समुद्रतीरे पूजाफलम्] केतकीकुसुमैः सिद्धाश्चेटका वारिधेस्तटे | आज्ञामभीष्टां वनितां काममायां महाद्भुताम् | वसूनि मालां भूषाञ्च दद्युरस्येच्छया भृशम् || ५९ || [अक्षद्रुमपीठोपरि देवीपूजाफलम्] पीठमक्षद्रुमैः कृत्वा तत्र देवीं यजेन्निशि | शाल्मलीकुसुमैः सिद्धद्रव्यैर्मासन्तु निर्भयः || ६० || [श्मशाने पूजनफलम्] पितृभूमौ साधकेन्द्रः सिध्यन्तस्य पिशाचिकाः | [वेतालसिद्धुयपायः] निर्जने विपिने रात्रौ मासमात्रन्तु निर्भयः || ६१ || यजेद्देवीं चक्रगतां सिद्धद्रव्यसमन्विताम् | मालतीजातिपुन्नागकेतकीमधुभिः क्रमात् || ६२ || ६० | पीठमक्षेति | अक्षद्रमैः विभीतकवृक्षैः | प्. ८०१) तेन सिद्ध्यन्ति वेतालानथ वै स्वेच्छया चरेत् | [मध्यरात्रे स्थानविशेषे देवीपूजाफलम्] श्मशाने चण्डिकागेहे निर्जने विपिनेऽथवा || ६३ || मध्यरात्रे यजेद्देवीं कृष्णवस्त्रादिभूषितः | कृष्णचक्रेऽतिकृष्णां तामभिवाद्य प्रपूजयेत् || ६४ || साध्ययोनिं तदग्रे तु बलिं छिन्दन्निवेदयेत् | सिद्धद्रव्यसमोपेतं मासात्तद्भावलोचनात् || ६५ ||
SK
जायन्ते भीषणाः कृष्णास्ताभ्यः साध्यं निवेदयेत् | विश्वसंहारसन्तुष्टां पुनरेत्य निजेच्छया || ६६ || [तिरोधानसिद्धयपायः] देव्या ललाटनेत्रे स्युः प्रार्थनेन तिरोहिता || ६७ || [माहासिद्ध्युपायः] रक्तभूषाम्बरा नोपमालाभूषितविग्रहः | उद्याने निर्जने देवीं चक्रे सञ्चिन्त्य पूजयेत् || ६८ || कह्लारचम्पकाशोकपाटलाशतपत्रकैः | सिद्धद्रव्यसमोपेतैर्मायाः सिध्यन्ति मासतः || ६९ || [कामरूपसिद्ध्युपायः] मासं प्रसादलाभेन कामरूपो भवेन्नरः | याभिर्विश्वं ययौ विश्वचारी विश्वविनोदवान् || ७० || प्. ८०२) [त्रिकालज्ञत्वसिद्ध्युपायः] षडाधारारमध्ये तु चक्रं सञ्चिन्त्य पूजयेत् | चन्द्रचन्दनकस्तूरीमृगनाभिमदोद्भवैः | त्रिकालज्ञो भवेद्देवीं तेषु सम्यग् विचिन्तयेत् || ७१ || [पूगोद्याने देवीपूजाफलम्] पूगोद्याने यजेद्देवीं सिद्धद्रव्यैर्दिवानिशम् | निवसंस्तत्र तत्पुष्पैर्जायते मन्मथोपमः || ७२ || [पूर्णासु कन्यकायां देवीपूजाफलम्] पूर्णासु नियतं देवीं कन्यकायां समर्च्चयेत् | कृत्याः परेरिता मन्त्रा विमुखास्तान् ग्रसन्ति वै || ७३ || [मदनारोपणकथनम्] मदनारोपणं वक्ष्ये साधकानां हिताय च | संवत्सरकृता पूजा येनैव पूर्णता भवेत् || ७४ || शिवस्य मदनः पूर्वं तपोभङ्गनिबन्धनात् | भस्माभवत्तदा पत्नी रतिः प्रीतिश्च दुःखिता || ७५ || तन्नेत्रवारिसम्भूता मदनस्य तदा भवेत् | तत् सौरभञ्च सौभाग्यं महदासीत्तदद्भुतम् || ७६ || तेन सन्तुष्टहृदयाद् वरो दत्तः शिवेन तु | रत्यै प्रीत्यै च तस्मात्तु मदनः प्रकृतीकृतः || ७७ || मदनञ्चैव यो मन्त्री वर्षमध्ये प्रपूजयेत् | तस्य सांवत्सरी पूजा मदनाय भविष्यति || ७८ || ७१ | षडाधारेति | चन्द्रः कर्पूरः | ७३ | पूर्णास्विति | पूर्णासु पूर्णिमासु | प्. ८०३) इति तस्यै वरो दत्तः शङ्करेण महात्मना | [मदनपूजनस्य कर्तव्यत्वम्] तस्मान्मदनपूजा च कर्तव्या साधकोत्तमैः || ७९ || समूलमदनं वापि गुच्छैर्वापि प्रपूजयेत् | मदनं नवधा कुर्यात् पूजयेत्तदनन्तरम् || ८० ||
SK
आनन्देश्वरबीजेन नवधा बिन्दुना सह | नानाप्रकारसंभिन्नं मदनं पूजयेत् क्रमात् || ८१ || अघोराख्येण मन्त्रेण अभिषिञ्चेत्तमेव हि | माया स्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः || ८२ || घोरघोरतरेभ्यस्तु तवरूपपदं लिखेत् | चटद्वयं तदन्तेऽपि प्रकटद्वितयं पुनः || ८३ || कहयुग्मं वशयुग्मं बन्ध बन्ध पदं ततः | घातय द्वितयं वर्म फडन्तो घोरको मनुः || ८४ || शिवचन्द्रौ मादनान्तं पान्तं वह्निसमन्वितम् | शक्तिभिन्नं बिन्दुनादकलाढ्यं वाग्भवं त्विदम् || ८५ || ८१-८४ | आनन्देश्वरेति | आनन्दभैरवमन्त्रस्तु -हसक्ष मलवरयू/ आनन्दभैरवाय वषट् इति प्राणतोषणी | अघोराख्येण अघोरेभ्योऽथ घोरेभ्य इत्यादिना (द्रष्टव्यं पृ० ७८५) | मायेत्यादि | मन्त्रोद्धारस्तु � ह्री/ स्फुर स्फुर प्रस्फुर प्रस्फुर घोर घोरतरेभ्यः तव रूपं चट चट प्रकट प्रकट कह कह वश वश बन्ध बन्ध घातय घातय हुं/ फट् || इति | प्. ८०४) शिवशक्ती मामशक्रौ वह्निवामाक्षिमण्डितम् | बिन्दुनादकलाक्रान्तं कामराजमिदं महत् || ८६ || सदाशिवस्य बीजन्तु दक्षिणा त्वतिभैरवी | अनेन शरमन्त्रेण रक्षणं कवचेन तु || ८७ || बद्ध्वा त्रिशूलमुद्रान्तु भ्रामयेन्मदनोपरि || ८८ || अङ्गुष्ठेन कनिष्ठान्तु बद्ध्वा शिष्टाङ्गुलित्रयम् | प्रसारयेत् त्रिशूलस्य मुद्रेयं परिकीर्त्तिता || ८९ || [मदनारोपणकालः] चैत्रे मासि चतुर्द्दश्यां मदनारोपणं भवेत् | [मदनारोपणक्रमः] उद्धरेदस्त्रमन्त्रेण हृदयेन विलोपयेत् || ९० || ८५ | शिवचन्द्रावित्यादि | शिवो हकारः, चन्द्रः सकारः, मादनः ककारः, पान्तं फकारः, वह्नीरकारः, शक्तिरेकारः, तेन ह स क फ्रे/ इति मन्त्रो भवति | ८६ | शिवशक्ती इत्यादि | शिवो हकारः, शक्तिरेकारः, कामः ककारः, शक्रो लकारः, वह्नीरकारः, वामाक्षिरीकारः, तेन ह ए क ल रीं इति मन्त्रो भवति |
SK
८७ | सदाशिवस्येति | सदाशिवस्य बीजं हौ/ दक्षिणाया बीजं क्री/ भैरवी-बीजं हसरै/, शरमण्डः फट्, कवचः हू/, तेन हौ/ क्री/ हसरै/ फट् हू/ इति मन्त्रोद्धारो भवति | ८८- ८९ | बद्ध्वेति | अङ्गुष्ठेन कनिष्ठां बद्ध्वा तर्जनीं मध्यमामनामाञ्च प्रसारयेदिति त्रिशूल-मुद्रायाः प्रकारः | प्. ८०५) [तत्र मदनाधिवासः] श्रीखण्डघनमूलद्यैरधिवासञ्च कारयेत् | नित्यपूजां विधायैव निशि संस्थाप्य विद्यया || ९१ || प्रथमे दिवसे कुर्यादधिवासनमुत्तमम् | सद्योऽधिवासनं वापि वर्षपूजार्थसिद्धये || ९२ || [मदनपूजाप्रकरणम्] प्रातःकाले चतुर्द्दश्यां नित्यपूजां समाप्य च | नवकोणं विधायाथ सिन्दूरेण महाप्रभम् || ९३ || कलसाननुसंस्थाप्य हेमरत्नादिपूरितान् | एकं वा सकलं रम्यं स्थापयेद्देशिकोत्तमः || ९४ || दक्षिणे मण्डलं कुर्यादङ्कुराद्यैर्विचित्रितम् | अशोकतरुमालिख्य त्रिकोणं मण्डलं लिखेत् || ९५ || [कामस्य ध्यानम्] तन्मध्ये पूजयेत् कामं तरुणप्रभम् | रक्तपुष्पं रक्तवस्त्रं वामदक्षिणयोः क्रमात् || ९६ || रतिप्रीतिविशोभाढ्यं पञ्चबाणधनुर्धरम् | वसन्तसहितं कामं पूजयेत् सिद्धिहेतवे || ९७ || [काममन्त्रः] वाग्भवं भुवनेशानीं श्रियं कामात्मकं तथा | कामाय नम अलिख्य विद्येयन्तु नवाक्षरी || ९८ || ९३ | प्रातःकाले इति | सिन्दूरेण नवकोणं मण्डलं विधायेत्यर्थः | ९८ | वाग्भवमित्यादि | मन्त्रोद्धारस्तु � ऐ/ ह्री/ श्री/ क्ली/ कामाय नमः, इति | प्. ८०६) [रतिमन्त्रः] कामबीजत्रयञ्चोक्त्वा कामयात्मैकमुच्चरेत् | रत्यै नमश्चाष्टवर्णा रतिविद्या प्रकीर्त्तिता || ९९ || [प्रीतिमन्त्रः] प्रीतिं वदेद्रतिस्थाने प्रीतिमन्त्रोऽष्टवर्णकः || १०० || [रतिप्रीत्योर्द्धानम्] गौरश्यामे रतिप्रीति क्रमेण मणिभूषणे | पद्मताम्बूलहस्ते च रक्तवर्णविभूषिते || १०१ || विद्याभरणभूते च पुष्पदामविराजिते | वामदक्षिणयोर्ध्यानं कामदेवस्य कीर्त्तितम् || १०२ || [पश्चाद् वसन्तपूजनम्]
SK
वसन्तं पूजयेत् पश्चात् कदम्बवनमध्यगम् | सौवर्णं वामहस्ते च सुधापूर्णघटान्वितम् || १०३ || दक्षहस्ते च दधतं नानापुष्पसमुच्चयम् | साङ्गं कामं प्रपूज्याथ धूपदीपादि दर्शयेत् || १०४ || [मदनपूजानन्तरं देवीपूजा ततः कुमारीपूजा च] मदने पूजितः कामः सर्वकार्यार्थसाधकः | तञ्च सम्यक् प्रपूज्याथ महात्रिपुरसुन्दरीम् || १०५ || ९९ | कामबीजेति | कामबीजत्रयमुक्त्वा पुनः काममुच्चरेदिति | तेन क्ली/ क्ली/ क्ली/ क्ली/ रत्यै नमः इत्यष्टाक्षरमन्त्रो भवति | १०० | रतिस्थाने प्रीतिं वदेदिति | तेन क्ली/ क्ली/ क्ली/ क्ली/ प्रीत्यै नमः इति प्रीति-मन्त्रः | प्. ८०७) यजेत्तत्कालसम्भूतैः कुसुमैश्चन्द्रचन्दनैः | सौगन्धिकैः सकाश्मीरैर्नानाफलरसैरपि || १०६ || अष्टोत्तरशतं कृत्वा कुमारीं पूजयेत्ततः | [सुवासिनीपूजा योनिपूजा च] सुवासिनीञ्च संपूज्य योनिमण्डलमर्च्चयेत् || १०७ || [महादेवीपूजा पूर्णहोमश्च] पूजयित्वा महादेवीं पूर्णाहुति समाचरेत् | [ब्राह्मणपूजानन्तरं गुरुदक्षिणादानम्] ब्राह्मणानपि संपूज्य प्रदद्याद् गुरुदक्षिणाम् || १०८ || [मदनारोपणफलम्] अनेन विधिना मन्त्री मदनारोपणं यजेत् | तस्य सांवत्सरी पूजा सफला नान्यथा भवेत् || १०९ || [वैशाखपूर्णिमायां विशेषपूजा] वैशाखे मासि पूर्णायां स्वर्णपुष्पैर्यजेत् पराम् | अथवा चन्द्रकस्तूरीचन्दनैः शिशिरोदकैः || ११० || [ज्यैष्ठपूर्णिमायां विशेषपूजा] ज्यैष्ठे मासि च पूर्णायां कदलीपनसाम्रजैः | फलैः प्रपूजयेद्देवीं पूर्ववत् सर्वसिद्धये || १११ || [पवित्रारोपणकथनम्] पवित्रारोपणं वक्ष्ये साधकानां हिताय च || ११२ || १०७ | सुवासिनीमिति | पतिवत्नीमित्यर्थः | योनिपूजाप्रकारश्च प्राणतोषण्यादौ सप्तमकाण्डे चतुर्थपरिच्छेदे द्रष्टव्यः | प्. ८०८) [पवित्रपूजायाः कर्त्तव्यता] वर्षमात्रकृता पूजा सफला भवति ध्रुवम् | तस्मात् पवित्रपूजा हि कर्त्तव्या सिद्धिहेतवे || ११३ || [पिवित्रारोपणकालः]
SK
आरभ्य मिथुनार्केण तुलासंक्रमणान्तरम् | अतिरम्यां महापूजां पवित्राणां विशेषतः || ११४ || पक्षद्वयोः प्रपूज्या स्याच्चतुर्थ्यामष्टमीदिने | नवम्यां वा चतुर्द्दश्यां पवित्रारोपणञ्चरेत् || ११५ || [आषाढपौर्णमास्यां विशेषः] आषाढे पौर्णमास्यां वा पवित्रैः पूजयेच्छिवाम् | सौवर्णरौप्यताम्रैर्वा सूत्रैः पट्टसमुद्भवैः || ११६ || [नवतन्तुनिर्माणम्] यज्ञसूत्रसमुद्भूतैः पद्मनालसमुद्भवैः | त्रसरी-सूत्रसम्भूतैः काषायसूत्रसम्भवैः || ११७ || दर्भमुञ्जशणोद्भूतैर्नवधा गुणितैः शुभैः | कुर्यात् पवित्रशक्तीनां सर्वासां षोडशाङ्गुलैः || ११८ || नवाङ्गुलैर्वा तत्संख्या शरग्रन्थिसमन्वितम् | होमे त्वेकशरग्रन्थिं कृत्वा तैरर्च्चितः क्रमात् || ११९ || [नवतन्तुषु देवपूजा] प्रालेयचन्द्रमा वह्निब्रह्मनागो गुहो हरिः | मदाक्ष-सर्वदेवांश्च नवतन्तुषु पूजयेत् || १२० || १२० | प्रालेयेति | एतान् प्रालेय-चन्द्रमा-वह्नि-ब्रह्म-नाग-गुह-हरि-मदाक्षसर्वदेवान् नवतन्तुषु नवान् पूजयेदित्यर्थः | प्. ८०९) शिरोमन्त्रेणाभिमन्त्र्य हृन्मन्त्रेण शुभैर्जलैः | प्रक्षाल्याभ्युक्षणं कुर्याच्छिवमन्त्रेण देशिकः || १२१ || अवरूध्य च नेत्रेण ग्रथितं कवचेन तु | रोचनाकुङ्कुमाभ्याञ्च रक्तचन्दनचन्दनैः || १२२ || कस्तूरीघुसृणाद्यैश्च कर्पूरैर्विमलैरपि | गैरिकाद्यैर्विचित्रञ्च कारयेत् सुमनोहरम् || १२३ || मूलमन्त्रेण चाभ्युक्ष्य स्थापयेद्दशकोणके | [पवित्रवृन्दस्थापनम्] पवित्रवृन्दसकलं षडङ्गेन प्रपूजितम् || १२४ || [पूर्वदिने घटस्थापनम्] कृत्वा तु पूर्वदिवसे घटस्थापनमेव च | [पवित्रे सूत्रसंख्या] अष्टोतरशतैः सूत्रैर्मन्त्रेण परिकल्पितम् || १२५ || [संख्यातारतम्येनोत्तममध्यमाधमत्वकथनम्] उत्तमं तद् विजानीयात्तदर्द्धं मध्यमं भवेत् | तस्याप्यर्द्धं कनिष्ठं स्यात्त्रिविधं कथितं क्रमात् || १२६ ||
SK
१२१-२४ | शिरोमन्त्रेणेत्यादि | शिरोमन्त्रेण स्वाहा इत्यनेनाभिमन्त्र्य नमः इति हृन्मन्त्रेण शुभैर्जलैः प्रक्षाल्य हौ इति शिवमन्त्रेणाभ्युक्षणं कुर्यात् | वौषट् इति नेत्रमन्त्रेण अवरुध्य हु/ इति कवचमन्त्रेण संग्रथ्य गोरोचना-कुङ्कुमादिभिर्विचित्रं कारयेत् | घुसृणं कुङ्कुमम् | कुङ्कुमं पीतकावेरं घुसृणं कुसुमात्मकम् | इति हारावली | प्. ८१०) पवित्रमूलशक्तीनां षण्णवत्यङ्गुलैर्युतम् | शरग्रन्थ्यादिकं कृत्वा त्रितयन्तु समर्पयेत् || १२७ || [अधिवासे पूजादि] अधिवासनवेलायां यवान् विस्तीर्य साधकः | देवीकुम्भं प्रतिष्ठाप्य पूर्णं चामीकरादिभिः || १२८ || देवीमावाह्य तत्कुम्भे मूलमन्त्रेण पूजयेत् | चन्दनैः कुमुदाद्यैश्च पुष्पैः फलयुतैरपि | एला कक्कोलजातीभिरुपेतैः पूजयेच्छिवाम् || १२९ || [पवित्रार्पणम्] ततः क्रमं समभ्यर्च्च्य पवित्रार्पणमाचरेत् | श्रीविद्यया पवित्राणि गुरोर्नाम्ना समर्पयेत् || १३० || गुरुभ्यस्त्रिविधेभ्यश्च तिथिनित्यागणेषु च | पवित्रारोपणं कुर्यान्नवचक्रेश्वरीमपि || १३१ || रश्मिवृन्दासु सर्वासु प्रत्येकं तारपूर्वकम् | ततश्च कुरुकुल्लायै पवित्रञ्च समर्पयेत् || १३२ || [गुरोः सन्तोषोत्पादः] यथाविभवरूपेण गुरुं सन्तोषयेद् बुधः | स्वर्णालङ्कारवस्त्रैश्च नानारत्नसमुच्चयैः || १३३ || तत्प्रसादं पवित्रञ्च धारयेत् साधकोत्तमः | तदङ्गहोमं निर्वर्त्य पवित्रेण समर्पयेत् || १३४ || १३१ | गुरुभ्य इति | त्रिविधेभ्यः, परम-परापर-परमेष्ठि-भेदात् त्रिविधत्वम् | प्. ८११) [कुमार्यादीनां पूजनम्] कुमारीपूजनं कार्यं ततः सुवासिनीगणम् | योगिन्यो योगिनश्चैव ब्राह्मणा विविधा गणाः | पूज्या हि साधकेन्द्रेण यदीच्छेद्धितमात्मनः || १३५ || [श्रावणपूर्णिमायां कर्तव्यम्] श्रावणे मासि पूर्णायां सर्वापत्परिशान्तये | सिन्दूरकुङ्कुमाद्यैश्च चन्दनैर्विविधैः फलैः | उत्पलैः कुमुदैरेव पूजयेत् परमेश्वरीम् || १३६ || [भाद्रपूर्णिमायां कर्तव्यम्]
SK
अथ भाद्रपदे मासि पूर्णायां केतकोद्भवैः | प्रसूनैरर्च्चयेद्देवीं नानाविभवविस्तरैः || १३७ || [आश्विनपूर्णिमायां कर्त्तव्यम्] आश्वयुज्यां विशेषेण दर्शान्तं प्रतिपत्तिथिम् | आरभ्य पूजयेद्देवीं पौर्णमास्यन्तमेव च || १३८ || जवापराजिताद्रोणैः करवीरैः सुपङ्कजैः | सौगन्धिकैश्च कह्लारैर्वस्त्रभूषणदर्पणैः || १३९ || व्यजनैः शुद्धसिन्दूरैश्चामरैश्चन्दनादिभिः | नानाविधफलैर्द्रव्यैर्नानारसरसायनैः || १४० || पूजयित्वा जपेद् विद्यां हुनेत् प्रतिदिनं शतम् | सहस्रं वापि जुहुयात्त्रिपुराप्रीतिहेतवे || १४१ || तेन विद्या भवेत् सिद्धा नृपतिं कुरुतेऽर्च्चनात् | प्. ८१२) सप्तम्यामथवाष्टम्यां नवम्यां वा प्रपूज्य च | अवश्यमेव जानीयाल्लङ्घने तद्विपर्ययः || १४२ || [कार्त्तिकपूर्णिमायां कर्त्तव्यम्] कार्त्तिके मासि पूर्णायां कुङ्कुमादिभिरर्च्चयेत् | रात्रौ दीपान् निवेद्याथ होमं कुर्याद् घृतेन च || १४३ || देव्यग्रे स्थापयेद्दीपान् विद्यया षोडश क्रमात् | शक्तीनामेकमेकन्तु स्थापयेत्तत्तदग्रतः || १४४ || अथवा भाजने मध्ये एकं तदभितो नव | कृत्वा निवेदयेन्मूलविद्यया सप्रसूनकम् || १४५ || [मार्गशीर्षपूर्णिमायां कर्त्तव्यम्] वृश्चिके मासि पूर्णायां नारिकेलाम्बु चन्द्रयुक् | निवेद्याभ्यर्च्चयेन्मासं पिष्टपूपैर्यथाविधि || १४६ || [पौषपूर्णिमायां कर्त्तव्यम्] पौषे मासि च पूर्णायां शर्कराभिर्गुडेन वा | पूजयेद् भूमिसंसिद्ध्यै गव्यं दुग्धं निवेदयेत् || १४७ || [माघपूर्णिमायां कर्त्तव्यम्] माघे मासि च पूर्णायां तिलैः शुक्लैस्तथेतरैः | पूजयेद् गन्धनैवेद्यैः सितपुष्पादिभिः सह || १४८ || [फाल्गुनपूर्णिमायां कर्त्तव्यम्] फाल्गुने मासि पूर्णायां चम्पकैः स्वर्णराजतैः | चूतसौगन्धिकुसुमैः पूजयेदीप्सिताप्तये || १४९ || प्. ८१३) [चैत्रादिपूर्णिमासु कर्त्तव्यतोपदेशः] विषुवायनदर्शेषु युगादिषु समर्च्चनम् | कुर्याद् वैशेषिकं तेषु आगमोक्तेषु तेष्वपि || १५० || [द्वादशमासीयकृत्यानामवश्यकर्त्तव्यता]
SK
इति द्वादशमासीयकृत्यं कुर्यात् प्रयत्नतः | वर्षे वर्षे च मन्त्रज्ञो ह्यन्यथा पापभाग् भवेत् | योगिनीनां भवेत् भक्ष्यः क्रुद्धा श्रीत्रिपुरा भवेत् || १५१ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्री-तत्त्वचिन्तामणावेकविंशतितमः प्रकाशः || २१ || १५० | विषुवायनेति | महाविषुवपूर्णिमायां , जलविषुवपूर्णिमायां, उत्तरायणपूर्णिमायां, दक्षिणायनपूर्णिमायां, युगाद्या-मन्वन्तरादिषु, दर्शेषु अमावस्यासु चेति सर्वास्वेव विशेषपूजा कर्त्तव्या इति बहुवचनेन सूचितम् | द्वाविंशतितमः प्रकाशः [ज्ञानदूतीकथनम्] ज्ञानदूतीमथो वक्ष्ये यया ब्रह्म सनातनम् | प्रकाशाख्ये यागगेहे प्रविशेद् वरमन्दिरे || १ || इच्छाज्ञानक्रियादूतीरचिते स्वभगान्विते | अनया परया दूत्या तत्र ज्ञानमये शिवे || २ || पर्यङ्के पुरुषार्थैश्च वेदैश्च परिमण्डिते | आत्मान्तरात्मपरमात्मज्ञानात्मपरिभूषिते || ३ || तत्पदार्थः पदार्थस्त्वं तत्त्वं पदसमुच्चयः | पदार्थत्रयमेतत्तु ज्ञानाद् ब्रह्मप्रकाशकम् || ४ || एतत्सूत्रमयैः पट्टैर्गुम्फिते सुमनोहरे | प्रपूजयेत् परां तत्र भवेद् भूतिश्चतुर्विधा || ५ || हस्तिनी शङ्खिनी चान्या चित्रिणी पद्मिनी तथा | सर्वाभरणसम्पन्नाः सुन्दर्यश्चारुलोचनाः || ६ || वैखरी हस्तिनी ज्ञेया स्थूलावस्था परा कला | ययेदं धार्यते सर्वं ब्रह्माण्डपरिमण्डलम् || ७ || वर्गाष्टकेन नियतं सूते दिग्गजसञ्चयम् | तेनैव करिणी प्रोक्ता मध्यमा शङ्खिनी भवेत् || ८ || ७ | वैखरी अकारादिक्षकारपर्यन्तवर्णमाला, विद्येति श्रिधरः | प्. ८१५) शङ्खिनी च महाशुद्धा सर्वपापविवर्जिता | सर्वदेवप्रिया सा हि कान्तिसौरभ्यशोभिता || ९ || तथा वनस्पतिगता मध्यमाशुशुभग्रहा | चित्रिणी वल्लरी देवी सर्वशक्तिस्वरूपिणी || ९ || शिवशक्तिमयी देवी पाति चैव जगत्त्रयम् | तेषु सर्वेषु पश्यन्ती जीवेषु परमाश्रया || १० || एवं ब्रह्मणि संलीना पराराध्या परेश्वरी | तां दूतीं तत्र संपूज्य शमादिकुसुमैः शुचिः || ११ ||
SK
तदङ्गेषु कलाः पूज्याः क्रमेण साधकोत्तमैः | यथा शान्तिकला बोधकला व्याप्तिकला परा || १२ || ज्ञानात्मनः कला ज्ञेया चतुर्थी स्यात्ततः परम् | पद्मिनी चापरा ज्ञेया हंस (ः?) स्वच्छविकाशिता || १३ || हंसः ? द्वन्द्वेन पद्मं हि घल्का ? सङ्कोचमेव तु | विकाशं मात्रि ? सौभाग्यं तथा वर्णविलासतः || १४ || परा प्रकाशमायाति पद्मिनी तु मता भवेत् | तस्य देहे साधकेन्द्रैः कलाः पूज्यास्तु षोडश || १५ || चित्कला सकला शान्तिकला कालाकला परा | आज्ञावास्तु कला ज्ञेया संलीना परवस्तुनि || १६ || भूयः शान्तिकलाद्यास्तु ज्ञानात्मनः प्रकाशिताः | विरागता मोक्षकला परमात्मकला तथा || १७ || प्. ८१६) विद्याकलाचतस्रस्तु विज्ञेयाश्चान्तरात्मनि | विद्यासन्तोषता तृप्तिः परं ब्रह्मप्रकाशिकाः || १८ || परमात्मकला ज्ञेया संलीना परवस्तुनि | एतास्तु षोडश कलाः श्रीविद्यान्तेषु संस्थिताः || १९ || षोडशान्ता ब्रह्मरूपा कला षोडशरूपिणी | आत्मयोगस्वरूपेण त्रैलोक्यं रचयत्यसौ || २० || अन्तरात्मा सत्त्वरूपो रजोरूपश्च विश्रुतः | अत एव सत्त्वरूपो रजोरूपः परः शिवः || २१ || परमात्म(अ) विधिर्ज्ञेयो ज्ञानात्मा तूर्यसाधकः | एताः कलाश्च नियतं परदेहे प्रकाशयेत् || २२ || तत्पदार्थन्तु जानीहि मुखमस्या न संशयः | ततः पदपदार्थाभ्यां कुचयुग्मक्रमेण तु || २३ || नादो मूलं हि योगस्य शास्त्रस्येति विनिर्णयः | नादस्तु सर्वभूतानां भवेद् योनिर्न संशयः || २४ || शक्तिं संपूजयेत्तत्र त्रिकोणे भगमालिकाम् | सर्वानन्दमये मध्ये सुन्दरीं पूजयेत् पराम् || २५ || स्वात्मलिङ्गे ततो मन्त्री शिवञ्च परिपूजयेत् | तारञ्च भुवनेशानीं महात्रिपुरसुन्दरीम् || २६ || नमः शिवाय विद्येयं दशार्णा परिकीर्त्तिता | परस्परस्वभावेन ब्रह्मानन्दरसो भवेत् || २७ || प्. ८१७) तं रसं मनसा मन्त्रा वहन्नासागतं स्मरेत् | अर्घ्यामृतेन संयोज्य ततः श्रीचक्रमर्च्चयेत् || २८ || कुण्डगोलोद्भवं द्रव्यं प्रोक्तं परमदुर्लभम् | ब्रह्मानन्दमये ज्ञाने पापपुण्यविवर्जिते || २९ ||
SK
न ब्राह्मणो ब्राह्मणस्तु न क्षत्त्रः क्षत्त्रियस्तथा | वैश्योऽपि न च वैश्यः स्यान्न शूद्रः शूद्र एव च || ३० || चाण्डालो नैव चाण्डालः पुक्कसो नैव पुक्कसः | सर्वं समं विजानीयात् परमार्थविनिश्चयात् || ३१ || आकाशात् पतितं तोयं बिन्दुमार्गेण गच्छति | ग्राममध्ये स्थितं तोयं विष्ठामूत्रादिपूरितम् || ३२ || मृगगोऽश्वादिमार्जारखरादिरुधिरान्वितम् | समस्तमपि गङ्गायां प्रयाति मिलितं यथा || ३३ || गङ्गामृतं भवेत् सर्वं कालुष्यं नैव निष्ठति | यथा संविन्मये ज्ञाने समता सर्वजन्तुषु || ३४ || सर्वद्रव्येषु नियतं समता नात्र संशयः | यथा सूर्यप्रकाशोऽयं सत्त्वेनैव प्रवर्त्तते || ३५ || ततः स्वस्यापि चान्त्यस्य तमः संहरति क्षणात् | शोषय(न्) दुग्धमूत्रादिचन्दनं नैव कर्द्दमम् || ३६ || अत एव विचारज्ञो मन्त्री सर्वमयो भवेत् | सिद्धिस्तदैव विज्ञेया श्रीगुरोः कृपया परा || ३७ || प्. ८१८) [अद्भुतत्रिकूटसाधनप्रकारकथनम्] तथाद्भुतं प्रवक्ष्यामि त्रिकूटस्यापि साधनम् | शुक्लाम्बरधरो धीरो गन्धकस्तूरीमण्डितः || ३८ || मुक्ताफलस्फुरद्भूषाभूषितः शुक्लमाल्यधृक् | धवलागारमध्ये तु ब्रह्मचर्यव्रतो नरः || ३९ || पूजयेच्छुभ्रकुसुमैर्नैवेद्यञ्च समुज्ज्वलम् | पायसं घृतसंपूर्णं तथाऽमृतफलौदनम् || ४० || दुग्धं मोदकसंयुक्तं नानापूपान्नपूरितम् | नैवेद्यं दर्शयेद्देव्यै वागीश्वर्यै सुसाधकः || ४१ || [तत्र वाग्भवकूटसाधनम्] मनःसङ्कल्पशुभ्रैर्वा साधयेद् वाग्भवाक्षरम् | वाग्भवाख्यां जपेद् विद्यां वागीशीं संस्मरेद् बुधः || ४२ || [वागीशीध्यानम्] कर्पूरधवलां शुभ्रां शुभ्राभरणभूषिताम् | मुक्ताफलामलमणिजपमालालसत्कराम् || ४३ || पुस्तकं वरदानञ्च दधतीमभयप्रदाम् | कुचभारभराक्रान्तां दीपाभां तन्तुरूपिणीम् || ४४ || गच्छन्तीं ब्रह्ममार्गेण लिङ्गभेदक्रमेण तु | [देव्या विशेषचिन्ता] विसर्गस्थामृतं दिव्यं क्षीरधारोपमं ध्रुवम् || ४५ || ४२ | वाग्भवाख्यामिति ऐ/ इति बीजमित्यर्थः |
SK
प्. ८१९) पीत्वा कुलामृतञ्चैव पुनरेव विशेत् कुलम् | पुनरेव कुलं गच्छेद् द्वादशान्ते निवेशयेत् || ४६ || सहस्रारे महापद्मे वाग्भवं पूर्णचन्द्रकम् | ब्रह्मग्रन्थिं ततो भित्त्वा सप्तषष्ठाक्षधारया || ४७ || लम्बिकां ब्रह्ममार्गेण तालुमूले प्रवेशयेत् | जिह्वामापूर्य मन्त्रज्ञो मातृकावर्णरूपिणीम् || ४८ || बहिर्गताश्च वाग्रूपा(ं) जिह्वाग्रेऽमृतरूपिणीम् | आ मूलाद् ब्रह्मरन्ध्रान्तं तस्माज्जिह्वाप्रदेशकम् || ४९ || वाग्भवां बीजरूपान्तां दीपाकारां विचिन्तयेत् | हस्तयोः पादयोर्मन्त्री तथा नाडीत्रयेषु च || ५० || आधारात्तु समुत्थाप्य वाग्भवं द्वादशे नयेत् | द्वादशाधारमानीय तद्ग्रन्थिं परिभेदयेत् || ५१ || तस्माज्जिह्वाग्रमानीय दीपाभां परिभावयेत् | [अस्य लक्षवारजपफलम्] लक्षमेकमिदं जप्त्वा सर्वपापहरः स्वयम् || ५२ || वाक्पतिर्जायते सद्यो मूकोऽपि सुकविर्भवेत् | वादे सदसि सद्वाक्यस्तम्भकः प्रतिवादिनः || ५३ || सत्पण्डितघटाटोपजेता प्रतिहतप्रभः | सत्तर्कप्रतिवाक्यार्थसर्वालङ्कारशास्त्रवित् || ५४ || पदगुम्फैर्महावाक्यकर्त्ता मन्त्री प्रजायते | अव्याहतमतिः शास्त्रे विज्ञेयो वाक्पतिर्भवेत् || ५५ || प्. ८२०) [बालकजिह्वायां मन्त्रलेखनम्] बालकस्य तु जिह्वायां त्रिदिनाभ्यन्तरे लिखेत् | मधुना श्वेतदूर्वाभिः किं वा स्वर्णशलाकया || ५६ || अमृतं वाग्भवं कूटं वागीशत्वप्रदायकम् | स एव पण्डितः श्रीमान् स चामूर्खो भवेत् किल || ५७ || [बालकस्य मूर्ध्नि जपफलम्] एतद् वाग्भवकूटन्तु बालकस्यापि मूर्द्धनि | हस्तं दत्त्वा यदि जपेच्छतमष्टोत्तरं बुधः || ५८ || सोऽपि श्लोकान् सर्वथैव करोति वाक्पतिर्यथा | एतत्तु कथितं सारं वाग्भवस्यापि साधनम् || ५९ || [चुलुकपानम्] अथो देवीं सचक्रान्तचुलुके सलिले स्मरन् | मातृकासहितां विद्यां त्रिरावृत्त्याऽमृतात्मिकाम् || ६० || नाडीं सरस्वतीं जिह्वां दीपाकारां स्मरन् पिबेत् | [चुलुकपानफलम्] अब्दाच्चतुर्विधं तस्य पाण्डित्यं भुवि जायते || ६१ || [प्रातःकाले पानफलम्]
SK
एवं नित्यमुषःकाले यः कुर्याच्छुद्धमानसः | स योगी सत्यविज्ञानी स कविर्भवति ध्रुवम् || ६२ || [कामकूटसाधनफलम्] अथ वक्ष्यामि सौभाग्यं कामकूटस्य साधनम् | [कामकूटसाधनप्रकारः] रक्तालङ्कारसुभगो रक्तमाल्यानुलेपनाम् || ६३ || प्. ८२१) रक्तवस्त्रान्वितां सम्यङ्मध्यकामकलात्मना | रक्तपुष्पैश्च विविधैः कुसुमादिभिरर्चयेत् || ६४ || [कामकलाचिन्ता] ततः कामकलारूपां मदनाङ्कुरमध्यमे | उद्यदादित्यसङ्काशां स्फुरद्दीपशिखाप्रभाम् || ६५ || गच्छन्तीं ब्रह्ममार्गेण ब्रह्मरन्ध्रान्तमेव च | पतद्भिरिन्दुधाराभीरक्तलाक्षारसोपमाम् || ६६ || बन्धूककुसुमाकारां कान्तिभूषणभूषिताम् | इक्षुकोदण्डपुष्पेषुवराभयलसत्कराम् || ६७ || कामराजस्वरूपान्तु बालार्ककिरणारुणाम् | चिन्तयेत् कुलपीठेषु संक्षोभो जायते क्षणात् || ६८ || कामकला(ं) हृदो मध्ये बन्धूकसदृशप्रभाम् | चित्ताकर्षणकारी च नारीणाञ्च विशेषतः || ६६ || मूर्ध्नि भागे कामकला वर्षन्ती रक्तधारया | धारणात् संप्रयोगेण करोति वशगं जगत् || ७० || [कामकूटप्रयोगकथनम्] तोषयन्ती जगत् सर्वं प्रयोगं कथयाम्यथ | विदर्भ्याद्येन कामेन मन्मथान्तकृतं कुरु || ७१ || कन्दर्पसंपुटं कृत्वा कोणगर्भगतं ततः | मकरध्वजसंज्ञन्तु कारयेत् साधकोत्तमः || ७२ || प्. ८२२) मीनकेतुगतं कृत्वा भूर्जपत्रे सुशोभने | रोचनागुरुकस्तूरीकर्पूरकुङ्कुमादिभिः || ७३ || साध्यं प्रतिष्ठितं प्राणं कारयेद्धेममध्यगम् | जपेत् पञ्चसहस्रं वा कामबीजन्तु साधकः || ७४ || मूलं भानुसहस्रन्तु यत्नेन साधयेदपि | अथवा नाभिमध्ये तु हृदये मुखमण्डले || ७५ || पद्मरागप्रतीकाशं कामराजं मनोहरम् | मनसा चिन्तयेद् यस्तु तस्यैश्वर्यं भवेत् किल || ७६ || आधारान्नाभिपर्यन्तं प्रदीपस्य शिखां स्मरेत् | तस्मादुदरपर्यन्तं पद्मरागसमप्रभम् || ७७ || एतेषु वाग्भवं बीजं हृदये कामराजकम् | तस्यैव कर्णिकामध्ये सूर्याभां चिन्तयेदथ || ७८ ||
SK
तस्मात् भ्रूमण्डलं यावत् पद्मरागसमप्रभम् | रक्तवस्त्रपरीधानो लाक्षारसगृहे स्थितः || ७९ || रक्तासनोपविष्टस्तु रक्तमाल्यैर्विभूषितः | परमानन्दहृदयस्त्रिपुरीकृतविग्रहः | एवम्भूतवपुः कान्तं कामराजं विचिन्तयेत् || ८० || [शक्तिकूटसाधनम्] अथातः संप्रवक्ष्यामि शक्तिकूटस्य साधनम् || ८१ || सृष्टिसंहारपर्यन्तं शरीरं चिन्तयेत् पराम् | स्रवत्पीयूषधाराभिर्बलन्तीं विषहारिणीम् || ८२ || प्. ८२३) हेमप्रभाभासमानां विद्युन्निकरसुप्रभाम् | स्फुरच्चन्द्रकलापूर्णकमलां वरदाभयौ || ८३ || ज्ञानमुद्राञ्च दधतीं साक्षादमृतरूपिणीम् | ध्यात्वा विषं हरेन्मन्त्री नानाकारव्यवस्थितम् || ८४ || हृदि शान्तादिनान्नन्तं(?) जगदाह्लादनं परम् | पुरः कण्ठादिताल्वन्तं शक्तिकूटं विचिन्तयेत् || ८५ || आधाराद् ब्रह्मरन्ध्रान्तं तस्मादाधारकावधि | अथ मध्याच्छक्तिकूटं विद्युदग्निसमप्रभम् || ८६ || केवलं पद्मरागन्तु भ्रुवोर्मध्ये विचिन्तयेत् | तस्मादाब्रह्मरन्ध्रान्तं तुरीयं पद्मरागधृक् || ८७ || सहस्रारात्तु मूलान्तं पद्मरागसमप्रभम् | [कुलशक्तिचिन्ता] तस्मादाब्रह्मरन्ध्रान्तं कुलशक्तिं विचिन्तयेत् || ८८ || वैनतेयसमो मन्त्री विषभारसहस्रनुत् | भूतप्रेतपिशाचांश्च नाशयेन्नात्र संशयः || ८९ || चातुर्थकज्वरान् सर्वानपस्मारांश्च नाशयेत् || ९० || [त्रुकूटसम्पन्न-महात्रिपुरसुन्दरीचिन्ताफलम्] अथ त्रिकूटसम्पन्ना महात्रिपुरसुन्दरी | चिन्तिता साधकस्याशु त्रैलोक्यवशकारिणी || ९१ || क्रमेण नाभिहृद्वक्त्रमण्डलस्थाऽरुणप्रभा | पद्मरागमणिस्वच्छचिन्तनात् साधकस्य च || ९२ || प्. ८२४) अणिमादिगुणैश्वर्यं सौभाग्यञ्च प्रजायते | तन्नाम संस्मरन्मन्त्री योगिनीनां भवेत् प्रियः || ९३ || मातृचक्रं तस्य काये तेन सार्द्धं सुखी भवेत् | पत्रवान् धनवान्मन्त्री मन्त्रध्यानान्न संशयः || ९४ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्री-तत्त्वचिन्तामणौ द्वाविंशतितमः प्रकाशः || २२ || त्रयोविंशतितमः प्रकाशः
SK
[त्रिपुरसुन्दरीविद्याया जीवनप्राप्त्युपायकथनम्] महात्रिपुरसुन्दर्या यथा स्याज्जीवनान्विता | भुवि विद्या तथेदानीं वक्ष्यामि च सुदुर्लभाम् || १ || [विद्यायाः स्वरूपविशेषकथनम्] विद्युदा?क्षीं परां नित्यां कालिकां कालभाषिणीम् | खड्गमुण्डविकटास्यां व्याघ्रचर्मविभूषिताम् || २ || रक्तमाल्याम्बरधरां घोररूपां चतुर्भुजाम् | खड्गशूलकपालञ्च वरदां तीक्ष्णनासिकाम् || ३ || सिद्ध्यर्थं जीवयेद्देवीं सर्वविद्यासुजीविना || ४ || [विद्यायाः स्वरूपान्तरम्] रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः | पाशं कोदण्डमिक्षूद्भवकमठमथाप्यङ्कुशं पञ्च बाणान् | विभ्राणासृकपालं त्रिनयनविलसत्पीनवक्षोरुहाढ्या | देवी बालार्कवर्णा भवतु शुभकरी प्राणशक्तिः परा नः || ५ || १ | महेति | महात्रिपुरसुन्दर्या विद्या यथा भुवि जीवनान्विता (दीप्तिमती) स्यात्, तथा इदानीं तां सुदुर्लभां विद्यां वक्ष्यामीत्यन्वयः | प्. ८२६) [दीपनीविद्याकथनम्] श्रीङ्कारं प्रथमञ्चैव द्रींक्लींकारं ततः परम् | हैं हैं कलह्रीं सौः कलह्रीं ततः पठेत् || ६ || क्लीं क्लीं तदधो बीजं द्रींकारं श्रीं ततः परम् | सर्वेषां दीपनीविद्या सर्वचक्रेषु योजिता || ७ || [प्रतिमायां पूजाविशेषकथनम्] प्रतिमायां तथा कार्या बलिं दद्यात् समाहितः | अनङ्गकुसुमादिञ्च चक्रमध्ये प्रपूजयेत् || ८ || स्वयम्भु कुसुमं दत्त्वा कुण्डगोलोद्भवं तथा | पूजयेच्चक्रमध्ये तु वाद्यैर्नानाविधै रसैः || ९ || हुंकारशब्दैः कर्पूरैर्गीतैश्च चन्दनारुणैः | नरादिबलिदानैश्च महिषैर्मेषछागलैः || १० || गृहीत्वा शोणितं पात्रे स्वकीयहृदयोद्भवम् | पूजयेत्त्रिपुरां देवीं जुहुयादग्निसम्मुखे || ११ || [देव्या दक्षिणपार्श्वे जीवनीजपप्रकारः] देव्या दक्षिणपार्श्वे तु जीवनीजपमाचरेत् | बलीनां शोणितं दत्त्वा कालिकां पूजयेत्ततः || १२ || क्रोधीशोत्तरसंयुक्तं नादबिन्दुकलान्वितम् | क्रोधानन्तस्ततः पश्चात् संयुक्तेन पठेत् सुधीः || १३ ||
SK
६-७ | श्रीङ्कारमिति | सर्वचक्रसाधारणीं दीपनीमाह-श्रींकारमित्यादिना | तथा च श्री/ ह्री/ क्ली/ है/ है/ कलह्री/ सौः कलह्री/ क्ली/ क्ली/ हसौः ह्री/ श्री/ इति मन्त्रो भवति | प्. ८२७) पिनाकी च सुसूक्षा च क्रोध्यानन्तस्ततः पठेत् | अनिलो भौतिकश्चैव तदधः प्रणवं लिखेत् || १४ || एषा ज्ञेया महाविद्या महाचक्रसमन्विता | महामेधाप्रदा विद्या महाघोरविनाशिनी || १५ || महाविद्या महाकामा महाप्रेतासनस्थिता | श्वेतरूपा च चन्द्रस्था बाला च भगमालिनी || १६ || अनन्तरूपमाख्याता सा च प्रिपुरसुन्दरी | परमेयं परा शक्तिः प्रथमं पार्श्वसंस्थिता || १७ || द्वितीया क्षितिविख्याता तत्परा पश्चिमोत्तरा | सा च देवी महादेवी महाकालिकसुन्दरी || १८ || यस्या मेरोर्जगद् व्याप्तं सुरासुरनरादिकम् | महापद्मासना देवी महाजीवनकारिणी || १९ || प्रतिमां जीवितां कृत्वा अनया शोणितं क्षिपेत् | सर्वदुष्टनिवाराञ्च ध्यायेद्देवीं सुलोचनाम् || २० || [प्रेतासने जपफलम्] प्रेतासने जपेद् यस्तु सर्वकामफलं लभेत् | क्षितौ च ख्यातिविख्यातोऽसाध्यं साधयेत् पराम् || २१ || [महाध्यानकथनम्] महाध्यानं प्रवक्ष्यामि परां शक्तिस्वरूपिणीम् | नीलपद्मासनां देवीं नीलपद्मसमप्रभाम् || २२ || चतुर्भुजां त्रिनयनां रक्तमाल्यविभूषिताम् | वामे खड्गञ्च शूलञ्च वज्रमङ्कुशदक्षिणे || २३ || प्. ८२८) चन्द्रमण्डलमूर्द्धानं सूर्यमण्डलसंस्थिताम् | रक्तवस्त्रपरीधानां रक्तगन्धानुलेपनाम् || २४ || ब्रह्मविष्णुशिवादीनां शिरसा पादसेविताम् | उन्मत्तयौवनोपेतां प्रेतस्थां लिङ्गपीडिताम् || २५ || एवंरूपां महादेवीं चिन्तयेत् साधकोत्तमः || २६ || [परमेश्वरीपूजानन्तरं चक्रं पूजनम्] अनया विद्यया मन्त्री संपूज्य परमेश्वरीम् | तदा चक्रे पदं कृत्वा प्रतिमां चण्डिकां यजेत् || २७ || संहारमुद्रया देवीं साधकः स्थिरमानसः | [ततो बलिदानम्] बलिदानं ततः कुर्याद् यथाशक्त्या विधानतः | आनन्दरूपवान् भूत्वा सुन्दरीपुत्रवत् क्षितौ || २८ ||
SK
कालीं कामातुरां भीमां प्रचण्डगणवेष्टिताम् | कालखड्गधरां देवीं रुधिरौघञ्च भक्षिताम् || २९ || दुर्लभां परमां देवीं महात्रिपुरसुन्दरीम् | [आकर्षणबीजकथनम्] कथयामि परं बीजमाकर्षणकरं परम् || ३० || विष्णोः पदं वह्निबीजं चतुर्थस्वरभूषितम् | नादबिन्दुकलातीतं शक्तिं विसर्गसंयुताम् || ३१ || अमुकी(ं?) जीवमाकर्ष द्विठान्तं साधकः पठेत् | [त्रिकोणचक्रमध्ये देवकन्यादिलिखनम्] शिवरेफकयोर्मध्ये त्रिकोणचक्रमध्यगे || ३२ || प्. ८२९) शिशुरूपाकर्षकरीं देवकन्यां सुराङ्गनाम् | नागगन्धर्वकन्याञ्च ऋषिकन्याञ्च खेचरीम् || ३३ || विलिख्य साधकः श्रीमानरुणा(ं) चिन्तयेत् सतीम् | हृदि मौलौ वराङ्गे च जवां दत्त्वा च कन्यकाम् || ३४ || रक्तपुष्पं समादाय कुङ्कुमं गन्धवासितम् | चक्रमध्ये शतं दत्त्वा कन्यानाम प्रपूजयेत् | समागच्छति सा नारी मारबाणेन पीडिता || ३५ || [चामुण्डाध्यानकथनम्] महात्रिपुरसुन्दर्या मूलविद्या यथोदिता | चामुण्डा भेदितानाम्नी ध्यानं वक्ष्यामि दुर्लभम् || ३६ || सूर्यकोटिनिभां बालां त्रिनेत्रामरुणाम्बराम् | धनुःपुस्तकबाणाख्यधरां बन्धूकसन्निभाम् || ३७ || चक्रलिङ्गे समाविष्टां काञ्चीयुक्तनितम्बिनीम् | स्तनभारोन्नताकारां सिन्दूरपूरिताननाम् || ३८ || स्फुरन्मुकुटमाणिक्यकिङ्किणीजालमण्डिताम् | मुक्ताहारसमायुक्तां त्रिबलीमध्यभूषिताम् || ३९ || सर्वशृङ्गारवेशाढ्यां कामावेशनकारिणीम् | नित्यानन्दादिभिर्द्देवीं पूजयेत् साधकोत्तमः || ४० || [वक्तव्य-परमदुर्लभविद्या-प्रशंसा] एषा च विद्या कथिता कथयामि सुदुर्लभाम् | प्. ८३०) या देवी जगति ख्याता महापर्वतवासिनी | परमानन्दहृदयः साधयेन्मोहनात्मिकाम् || ४१ || यस्यानन्दाज्जगद् व्याप्तं या देवी परमा कला | महामोहनदात्री च देवासुरनरादिषु || ४२ || रज्यते सकलं नित्यं तदा देव्या चराचरम् | दुष्टवैरी भवेद्दास ईशः सर्वजनस्य च || ४३ || अथातः संप्रवक्ष्यामि विद्यां परमदुर्लभाम् | शिवशक्तिसमायुक्तां तुरीयस्वरभूषिताम् || ४४ ||
SK
नादबिन्दुसमायुक्तां सर्वलोकमनोहरीम् | रेफहकारयोर्मध्ये त्रिकोणे चक्रमध्यगे || ४५ || सम्बोधनपदञ्चैव साध्यं कर्मपदान्वितम् | पाशाङ्कुशपुटा शक्तिर्नादबिन्दुविभूषिता || ४६ || [प्राणमन्त्रकथनम्] याद्याः सप्त सकारान्ता व्योमसर्गेन्दुसंयुता | तद्न्ते हंसमन्त्रः स्यात्ततोऽमुष्यपदं वदेत् || ४७ || प्राणा इति वदेत् पश्चादिह प्राणाः पदं ततः | अमुष्य जीव इहतः स्थितोऽमुष्यपदं वदेत् || ४८ || ४७ | याद्याः सप्तेति | तथाच � यं/ रं/ लं/ वं/ शं/ षं/ सं/ हं/ सः, अमुष्य प्राणा इह प्राणाः, अमुष्य जीव इह स्थितः, अमुष्य सर्वेन्द्रियाणि, अमुष्य वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा इति प्राणमन्त्रो भवति | प्. ८३१) सर्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः | श्रोत्रघ्राणपदात् प्राणा इहागत्य सुखं चिरम् | तिष्ठन्तु वह्निजायान्तः प्राणमन्त्रोऽयमीरितः || ४९ || प्रत्यमुष्यपदस्यादौ पाशादीनि प्रयोजयेत् | अमुष्येतिपदस्थाने साध्यनाम समुच्चरेत् || ५० || प्रयोगेषु समाख्यातः प्राणमन्त्रो मनीषिभिः | साध्यं प्रतिष्ठितप्राणमाकर्षणादि योजयेत् || ५१ || एता विद्यागणाः सर्वाः पूजयेत् साधकोत्तमः | बृहच्छीक्रमतन्त्रस्य मतमेतदुदीरितम् || ५२ || [महायन्त्रधारणकथनम्] अथोच्यते महायन्त्रविशेषधारणं परम् | शुभेऽह्नि स्नानमाचर्य शुभे लग्ने शुभे क्षणे || ५३ || सिद्धियोगे महापर्वे पूजां कृत्वा लिखेदिदम् | [मन्त्रलिखनद्रव्योद्देशः] कुण्डगोलोद्भवं द्रव्यं स्वयम्भु कुसुमं तथा || ५४ || रोचना कुङ्कुमं क्षौद्रं कर्पूरं चन्दनं मदम् | एतद्द्रव्येण विलिखेच्चक्रराजं मनोहरम् || ५५ || [लिखनप्रकारः] त्रिकोणान्तरगतां मायां विलिखेत् साधकोत्तमः | रेफहकारयोर्मध्ये देवानामाभिमुख्यदम् || ५६ || प्. ८३२) साध्यनाम द्वितीयान्तं तस्योर्द्ध्वे विलिखेन्मनुम् | तत्रैव मातृकां सर्वां विलिखेत् क्रमवाह्यतः || ५७ || [यन्त्रशोधनप्रकारः]
SK
पञ्चगव्यामृतेनैव मूलेन परिषेचयेत् | ततः प्रतिष्ठितप्राणां विद्यामष्टोत्तरं शतम् || ५८ || तत् स्पृष्ट्वा प्रजपेन्मन्त्री देवीध्यानपरायणः | [धारणप्रकारः] हेम्नो मध्यगतं कृत्वा रजतस्यापि वा पुनः || ५९ || करे कृत्वा लभेद्वश्यं हृदये स्त्री सुवल्लभे | कण्ठे धनं लभेद् भाले स्तम्भनं जृम्भणं भवेत् || ६० || शिखायां मोक्षमाप्नोति तस्माद् यत्नेन धारयेत् | धारणीयं प्रयत्नेन गोपनीयं पुनः पुनः || ६१ || [मन्त्रदाने पात्रापात्रोल्लेखः] असत्याय न दातव्यं पुत्रशिष्याय चैव हि | भक्तियुक्ताय शिष्याय सुपुत्राय प्रकाशयेत् || ६२ || पशुभ्यो बान्धवेभ्योऽपि न कदाचित् प्रकाशयेत् | [अपात्रे मन्त्रदानफलम्] कृते तु अशुभं तस्य मन्त्रा यान्ति पराङ्मुखाः || ६३ || दुःखञ्च वर्द्धते नित्यं तस्माद् यत्नेन वर्जयेत् | [गोरोचनादिना चक्रलिखनफलम्] गोरोचनादिभिर्मन्त्री चक्रराजं समालिखेत् || ६४ || प्. ८३३) अतीव सुन्दरीं रम्यां तन्मध्ये प्रतिमां वराम् | ज्वलन्तीं सामसहितां कामराजविदर्भिताम् || ६५ || [चिन्ताविशेषे फलविशेषः] चिन्तयेत् साधकेन्द्रोऽपि जनानाञ्च सहस्रशः | अदृष्टपूर्वा युवती श्रुतमाशु सुदुर्लभा || ६६ || राजकन्याऽथ चार्वङ्गी भयलज्जाविवर्जिता | आयाति साधकं सम्यङ्मन्त्रमूढा सती ध्रुवम् || ६७ || चक्रमध्यगतो भूत्वा साधकश्चिन्तयेदथ | उद्यत्सूर्यसहस्राभमात्मानमरुणन्तथा || ६८ || साध्यमप्यरुणीभूतं चिन्तयेत् साधकोत्तमः | अनेन क्रमयोगेन स्वयं कन्दर्परूपवान् || ६९ || सर्वसौन्दर्यसुभगः सर्वलोकवशङ्करः | सर्वैः पूजोपहारैस्तु मुद्रासहितविग्रहः || ७० || [चक्रे नामलिखने फलविशेषः] चक्रं संपूजयेद् यस्तु यस्य नाम विदर्भितम् | स भवेद्दासवदाशु धनाढ्यो वाऽपि भूपतिः || ७१ || चक्रमध्यगतं कुर्यान्नाम यस्यान्तु योजयेत् | अदृष्टामपि मन्त्रज्ञो योनिमुद्रासमन्वितः || ७२ || हठादानयते शीघ्रं यक्षिणीं राजकन्यकाम् | नागकन्यामप्सरसं खेचरीं वा सुराङ्गनाम् || ७३ ||
SK
प्. ८३४) विद्याधरीं दिव्यरूपामृषिकन्यां रिपुस्त्रियम् | मदनोद्भवसन्तापस्फुरज्जघनमण्डलाम् || ७४ || कामबाणप्रभिन्नान्तःकरणां लोलचक्षुषम् | [चक्रे महाकलाध्यानफलम्] महाकामकलाध्यानयोगादेव न संशयः | क्षोभयेत् स्वर्गभूर्लोकपातालतलयोषितः || ७५ || [वशीकारितिलककथनम्] रोचनाभागमेकन्तु भागमेकन्तु कुङ्कुमम् | अथ भागद्वयं मन्त्री चन्दनं मर्दयेत् समम् || ७६ || एकत्र तिलकं कुर्यात्त्रैलोक्यवशकारणम् | अष्टोत्तरशतावृत्त्या मन्त्रयित्वा वशं नयेत् || ७७ || राजानं नगरं ग्रामं येन यद् यत् प्रदृश्यते | मन्त्रिणा साधकेन्द्रेण तत् सर्वं तस्य वश्यगम् || ७८ || [वशीकरणार्थं ताम्बूलाद्यभिमन्त्रणम्] ताम्बूलं धूपमुदकं पत्रं पुष्पं फलं दधि | दुग्धं घृतं दन्तपत्रं वस्त्रं कर्पूरमेव च || ७९ || कस्तूरीं घुसृणञ्चैलां लवङ्गं जातिपत्रकम् | शतमष्टोत्तरं जप्त्वा यस्मै कस्मै प्रयच्छति || ८० || स वश्यो जायते नूनं नात्र कार्या विचारणा | स्त्रियश्च सकला वश्या दासीभूता भवन्ति हि || ८१ || हठाकर्षणमेतत्तु कथितं नान्यथा भवेत् | [योषिदाकर्षणप्रकारः] रहस्यस्थानके मन्त्री लिखेद्रोचनया भुवि || ८२ || प्. ८३५) चारुशृङ्गारवेशाढ्यां सर्वाभरणभूषिताम् | प्रतिमां सुन्दरीं प्रीतां विलिख्य सुमनोहराम् || ८३ || तद्भालगलहृन्नाभिजन्ममण्डलयोजिताम् | जन्मनाममहाविद्यामङ्कुशान्तविदर्भिताम् || ८४ || सर्वसन्धिषु देहस्य मदनाक्षरमालिखेत् | स्फुरद्दाडिमपुष्पाभं चिन्तयेद्देहसन्धिषु || ८५ || तदाशाभिमुखो भूत्वा स्वयं देवीस्वरूपधृक् | मुद्रान्तु क्षोभणीं बद्ध्वा मन्त्रमष्टशतं जपेत् || ८६ || नियोज्य दहनागारे चन्द्रसूर्यकलात्मके | ततो विकलचार्वङ्गीं मारबाणप्रपीडिताम् || ८७ || एवमाकर्षयेन्नारीं योजनानां शतादपि || ८८ || [अवध्यत्वोपायकथनम्] मातृकां विलिखेच्चक्रे बाह्यतः सकलां बुधः | भूर्जपत्रे स्वर्णपत्रे रौप्यपत्रेऽपि ताम्रजे | सोऽवध्यः सर्वजन्तूनां व्याघ्रादीनां विशेषतः || ८९ ||
SK
[राजवल्लभतोपायः] तथैव मारसंयुक्तां ससंज्ञां चक्रमण्डिताम् | कर्पूरकुङ्कुमाद्यैश्च राजवल्लभतां व्रजेत् || ९० || [वशीकरणप्रकारः] अनेन विधिना शुद्धो रोचनागुरुकुङ्कुमैः | विलिखेच्चक्र राजेन साध्यनाम च मन्त्रवित् || ९१ || प्. ८३६) विदर्भितं स्वनाम्ना तु यस्मिन् कस्मिन्नुपस्थितम् | स्थावरं जङ्गमं वापि सकलं जनमण्डलम् || ९२ || वशीकुर्यात् साधकेन्द्रो नूनमेव न संशयः | [त्रैलोक्यवशीकरणोपायः] महात्रिपुरसुन्दर्याः कामकोटिकला स्मृताः || ९३ || एवमेवमवष्टभ्य साध्यनामाक्षराणि तु | धनमप्यर्थने बाणैर्मातृकायाः प्रवेष्टये || ९४ || हेममध्यगतं कुर्याच्छिखायां वामके भुजे | धारयेद् यत्र कुत्रापि त्रैलोक्यवशकारणम् | राजेन्द्रवृन्दसकलं दासभूतां करोति च || ९५ || राजानो वाजिनः सर्पा महादुष्टा महोत्कटाः | व्याघ्राः केशरिणो मत्ता वश्यास्तस्य भवन्ति हि || ९६ || [महाक्षोभकरणम्] पूर्वक्रमेण नगरनामसौन्दर्यमन्त्रवित् | मध्ये चतुष्पथे वापि चतुर्दिक्षु निधापयेत् || ९७ || महाक्षोभो योषिताञ्च जनानां महतामपि | तथैव सर्वजन्तूनां पुरस्थानञ्च जायते || ९८ || [कामतुल्यत्वप्राप्त्युपायः] एतन्मध्यगतां पृथ्वीं सशैलवनकाननाम् | ज्वलन्तीं सर्वराजेन्द्रमण्डितां सागराम्बराम् || ९९ || मासमेकं चिन्तयेयुः साक्षात्कामसमो भवेत् | दृष्ट्याऽकर्षयते मन्त्री त्रैलोक्यं सचराचरम् || १०० || प्. ८३७) [दृष्टिमात्रेण विषादिनाशक्षमताप्राप्तिः] दृष्ट्या विषं नाशयते तत्क्षणान्नात्र संशयः | भूतप्रेतपिशाचांश्च ज्वरांश्चातुर्थिकादिकान् || १०१ || शूलगुल्माक्षिरोगांश्च दृष्ट्या नाशयते क्षणात् | [श्रीसमाकर्षणसामर्थ्यप्राप्तिः] एतत् सिन्दूरसुभगं रात्रौ संपूजयेद् यदि || १०२ || योजनानां शतादेव सम्यगाकर्षयेच्छ्रियम् | [दिग्विदिक्स्थजनवशीकारः] यदा दिक्षु विदिक्ष्वेवं सम्यग् देवीं प्रपूजयेत् || १०३ || तत्र दिक्षु स्थितान् लोकान् विदिक्षुस्थान् जनानपि | वशमानयते शीघ्रं सपुत्रपशुबान्धवान् || १०४ || [त्रैलोक्यवशीकरणम्]
SK
भूर्जपत्रे समालिख्य रोचनाऽगुरुकुङ्कुमैः | तन्मध्ये नगरं देशं मण्डलं खण्डमेव वा || १०५ || नाम्ना विदर्भितं सम्यक् पूजयित्वा यथाविधि | भूमिमध्यगतं कृत्वा त्रैलोक्यं वशमानयेत् || १०६ || [कण्ठादौ धारणे फलविशेषः] अथवा धारयेत् कण्ठे शिखायां बाहुमूलके | यत्र कुत्र स्थितो मन्त्री क्षोभयेन्नगरं महत् || १०७ || [अर्कक्षीरादिभिश्चक्रलिखनफलम्] अर्कक्षीरेण संयुक्तं धुस्तूरकरसं तथा | रोचना कुङ्कुमञ्चैव लाक्षाकस्तूरीरक्तकम् || १०८ || प्. ८३८) एभिर्लिखेच्चक्रमेतद् यस्य नाम्ना च साधकः | तस्य व्याघ्रभयव्याधिरिपुसर्गगजादिकम् || १०९ || चौरग्रहजनाविष्टडाकिनीशाकिनीभवम् | भयं न विद्यते नूनं परमन्त्राभिचारकम् || ११० || [नित्यं चक्रधारणफलम्] नित्यं सन्धारयेन्मन्त्री कालमृत्युं विनाशयेत् | त्रिकोणमध्यगां देवीं त्रिकोणोमयमध्यगाम् || १११ || अधस्तान्नामसंयुक्तां रोचनाकुङ्कुमान्विताम् | निधापयेत् सप्तमाहे दासवत् किङ्करो भवेत् || ११२ || [सर्ववादिस्तम्भनम्] पीतद्रव्यैः समालिख्य पीतद्रव्यैः समर्चयेत् | पूर्वाशाभिमुखो भूत्वा स्तम्भयेत् सर्ववादिनः || ११३ || सहस्रवदनोऽप्येव मूको भवति तत्क्षणात् | नाम्ना यस्य स वाग्मी तु पाषाण इव जायते || ११४ || [शत्रुमारणप्रकारः] चक्रं विलिख्य मन्त्रज्ञो महानीररसेन तु | नाम संयोज्य विधिवद् दक्षिणाभिमुखो बुधः || ११५ || वह्नौ दग्ध्वा तु तच्चक्रं मारयेद् वैरिसङ्कुलम् | [विद्वेषणकरणम्] महिषाश्वपुरीषाभ्यां रसमाकृष्य मन्त्रवित् || ११६ || गोमूत्रेण च संलिख्य नाम सन्दर्भ्य पूर्ववत् | क्षिप्त्वा पलाशमध्यस्थं विद्वेषणकरं भवेत् || ११७ || प्. ८३९) [उच्चाटनकरणम्] कृत्वा रोचनया द्रोणकाकपक्षस्य मध्यगम् | लम्बमानं तथाकाशे शत्रूच्चाटनकारकम् || ११८ || [सर्ववशीकरणम्] महानीलीरोचनाभ्यां दुग्धक्षाररसादिभिः | विलिख्य धारयेन्मन्त्री सर्ववर्णान् वशं नयेत् || ११९ || [प्रकारान्तरेण सर्ववशीकरणम्]
SK
अनेनैव विधानेन स्थापयेद् वारिमध्यगम् | तेनोदकेन सुस्नातः पीतं तत् सर्ववश्यकृत् | सौभाग्यं जायते तेन पानीयेन न संशयः || १२० || [क्षोभणप्रकारः] एतन्मध्यगतां पृथ्वीं नगरं वापि साधकः | सप्ताहात् क्षोभयेत् सर्वं ज्वालामालां विचिन्तयेत् || १२१ || [स्त्रीवशीकरणप्रकारः] दशदण्डगते रात्रौ सरावे दाहवर्जिते | सिन्दूरकुङ्कुमाभ्याञ्च चक्रराजं समालिखेत् || १२२ || साध्यप्रतिकृतिं कन्यां तन्मध्ये विलिखेद् बुधः | तदूर्ध्वे मूलमन्त्रञ्च तद्बाह्ये मातृकां लिखेत् || १२३ || सावरणां स्वेष्टदेवीं तत्रैव परिपूजयेत् | अष्टोत्तरशतं कुन्दं मूलं साध्यसमन्वितम् || १२४ || प्रत्येकक्षेपणाच्चैव हठात् कुण्डमिदं महत् | चलज्जलेन्दुसदृशीं त्रिकोणामरुणारुणाम् || १२५ || प्. ८४०) प्रलयानलसङ्काशां साध्याया योनिमध्यतः | ध्यायन् सहस्रं जप्त्वैव तामानयति निश्चितम् || १२६ || [स्त्रीवशीकरणे प्रकारान्तरम्] उपविश्य च शय्यायां निर्जने शून्यवेश्मनि | यस्य नाम्ना स्वयं भुङ्क्ते ताम्बूलं निशि वा दिवा | अष्टोत्तरशतं जप्त्वा सायात्येव तदन्तिकम् || १२७ || [प्रकारान्तरेण स्त्रीवशीकरणम्] अष्टोत्तरशतं जप्त्वा पानीयं प्राशयेदथ | यस्याः प्राणैः कल्पयित्वा सायाति मदविह्वला || १२८ || [दासीकरणप्रकारः] चन्द्र-चन्दन-कस्तूरी-रक्तसिन्दूरमिश्रितम् | अष्टोत्तरशतं जप्त्वा तिलकं कारयेद् यदि | यं यं पश्यति तच्छीघ्रं स स दासो भवेद् ध्रुवम् || १२९ || [स्त्रीवशीकारे कल्पान्तरम्] मधुसर्पिः समुन्मिश्र्य सिताकल्पितपुत्तलीम् | साध्यप्राणैः कृतप्राणां जप्त्वा अष्टोत्तरं शतम् || १३० || भानुवारं समासाद्य यः खादेत् सप्तरात्रकम् | सा च याति विह्वलाङ्गी साधकस्यान्तिकं ध्रुवम् || १३१ || [सर्ववादिस्तम्भनम्] पूर्वाशाभिमुखो भूत्वा पीतद्रव्यैः समर्चयेत् | पीठस्थाने समालिख्य स्तम्भयेत् सर्ववादिनः || १३२ || प्. ८४१) [प्रकारान्तरेण सर्वलोकवशीकरणम्]
SK
उत्तराभिमुखो भूत्वा सिन्दूररजसा लिखेत् | संपूज्य विधिवद् विद्वान् सर्वलोकं वशं नयेत् || १३३ || [सर्वयोषिन्मनोहरणम्] पश्चिमाभिमुखो भूत्वा चन्दनेन समालिखेत् | संपूज्य विधिवद् विद्यां सर्वयोषिन्मनो हरेत् || १३४ || वल्लभो जायते मन्त्री दासीमिव वशं नयेत् | [महाहानिकरणम्] यमाशाभिमुखो भूत्वा चक्रं कृष्णं समर्च्चयेत् || १३५ || यस्य नाम्नान्वितं तत्र महाहानिः प्रजायते | [स्तम्भविद्वेषणादिप्रकारः] अग्नि-राक्षस-वायव्य-शम्भु-कोणेषु योजितम् || १३६ || पूर्ववत् साधकश्रेष्ठः क्रमेणैव नियोजितम् | स्तम्भविद्वेषणव्याधिशत्रूच्चाटनकं भवेत् || १३७ || [सर्ववशीकरणम्] रोचनाभिर्लिखेच्चक्रं क्षीरमध्ये क्षिपेद् बुधः | सर्ववश्यकरञ्चैव भवत्येव न संशयः || १३८ || [शत्रोरुच्चाटनकरणम्] गोमूत्रमध्यगं सम्यक् शत्रोरुच्चाटनं भवेत् | [विद्वेषणकरणम्] तैलस्थं चक्रराजन्तु विद्वेषणकरं भवेत् || १३९ || [शत्रुनाशकरणम्] ज्वलज्ज्वलनमध्यस्थं शत्रुनाशकरं भवेत् | प्. ८४२) [खेचरत्वसिद्धिः] यदैकान्ते चतुर्मार्गे सिन्दूररजसा लिखेत् || १४० || सर्वबाह्यत आरभ्य यावन्मध्यञ्च साधकः | अकारादिक्षकारान्तां मातृकां तत्र संलिखेत् || १४१ || पूजयेद्रात्रिसमये कुलाचारक्रमेण तु | साधकः खेचरश्चैव जायते नात्र संशयः || १४२ || [अजरामरत्वप्राप्तिः] गिरावेकतरौ तद्वदर्च्चयेत् कुलमार्गतः | अजरामरतां लब्ध्वा सुखी भवति मान्त्रिकः || १४३ || [खड्गादि सर्वसिद्धिलाभः] श्मशाने पूजयेच्चक्रं महाभूतदिने बुधः | यथाविधिविधानेन साधकः स्थिरमानसः || १४४ || खड्गसिद्धिञ्च वेतालसिद्धिञ्च गुटिकाञ्जनम् | पादुकाञ्जनसिद्धिञ्च मनःसिद्धिञ्च धातुजम् || १४५ || महावीरणसिद्धिञ्च यक्षिणीं चटकोद्भवाम् | सर्वं तल्लभते मन्त्री नात्र कार्या विचारणा || १४६ || [सर्वपापनाशप्रकारः] शिवां संपूजयेद्देवीं सगन्धिकुसुमैः सुधीः | महापातकयुक्तात्मा तत्क्षणात् पापहा भवेत् || १४७ ||
SK
शमीदूर्वाङ्कुराश्वत्थपल्लवैरथवाऽम्बुजैः | मासेन हन्ति कलुषं सप्तजन्मकृतं नरः || १४८ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्री-तत्त्वचिन्तामणौ त्रयोविंशतितमः प्रकाशः || २३ || चतुर्विंशतितमः प्रकाशः [देवतास्तवपाठनिर्णयः] अथोच्यते देवतायाः स्तवपाठविनिर्णयः | [पाठस्यावश्यकता] न मानसं भवेत् स्तोत्रं वाचिकन्तु प्रशस्यते || १ || [पाठनियमः] अन्ते च प्रणवं दद्यादित्युवाचादिपूर्वकम् | सर्वत्र पाठे विज्ञेयमन्यथा विफलं भवेत् | शुद्धेनानन्यचित्तेन पठितव्यं प्रयत्नतः || २ || [पुस्तकस्याधारस्थापननियमः] आधारे स्थापयित्वा तु पुस्तकं प्रजपेत् सुधीः | [हस्ते पुस्तकस्थापने दोषः] हस्तसंस्थापनादेव यस्मादल्पफलं भवेत् || ३ || [पुस्तकलेखकनिर्णयः] न स्वयं लिखितं तच्च कृतिना लिखितं पठेत् | अब्राह्मणेन लिखितं तच्चापि विफलं भवेत् || ४ || [कलौ साधारणमनुष्यादिकृतस्तवपाठनिषेधः] न च स्वयंकृतं स्तोत्रमन्येनापि कृतं न च | यस्मात् कलौ न प्रशस्तमृषिभिर्भाषितं पठेत् || ५ || [ऋषिच्छन्द-आदीनां पाठः कर्त्तव्यः] ऋषिच्छन्दादिकं न्यस्य पठेत् स्तोत्रं विचक्षणः || ६ || प्. ८४४) [प्रथमं सहस्रनामपाठः] यस्य यस्य च देवस्य तस्य तस्य सहस्रकम् | पठित्वा प्रथमं मन्त्री तस्य स्तोत्रं ततः पठेत् || ७ || संहिताजपने स्तोत्रं शुभं प्राप्य समापयेत् | [अध्यायमध्ये पाठविरामो न कर्त्तव्यः] अध्यायं प्राप्य विरमेन्न तु मध्ये कदाचन | कृते विरामे मध्ये तु अध्यायादिं पुनर्जपेत् || ८ || [बलिदानविधिकथनम्] अथातो बलिदानस्य विधानमत्र वक्ष्यते | चमरः कृष्णसारश्च मत्स्यो मेषश्च शूकरः || ९ || महिषो वानरः खड्गो बलिर्मेषादितो भवेत् | कृष्णच्छागद्वयं दद्यात् पश्चाद्दद्यान्महाबलिम् || १० || [छागलस्य षड्विधत्वकथनम्] श्वेतः कृष्णो लोहितश्च कपिलश्चित्रपाण्डरौ | षड्विधश्छागलः प्रोक्तो गृहस्थानां परो बलिः || ११ || [बलीनामुत्तममध्यमाधमत्वकथनम्]
SK
उत्तमौ श्वेतकृष्णौ च मध्यमौ चित्रपाण्डरौ | लोहितः कपिलश्चैव कनिष्ठः परिकीर्त्तितः || १२ || त्रिमासात् परतश्चैव यावदेकन्तु वत्सरम् | कृष्णो वा श्वेततरुणः प्रशस्तो बलिरुच्यते || १३ || षण्मासात् परतश्चैव यावद् वर्षद्वयं भवेत् | उत्तमोऽसौ बलिः प्रोक्तस्तस्माद्धीनोऽधमः स्मृतः || १४ || प्. ८४५) [त्याज्यबलिः] कृष्णवर्णो बलिर्यस्तु श्वेतपुच्छो यदा भवेत् | छागलं तादृशं विद्वान् दूरतः परिवर्जयेत् || १५ || एवं सिते कृष्णपुच्छे वर्जयेन्मतिमान् नरः || १६ || आकृष्णवर्णो यश्छागः पृष्ठवंशे सितो यदि | प्रशस्तं तं विजानीयाद् विपरीतन्तु वर्जयेत् || १७ || [खञ्जादीनां बलौ त्याज्यता] खञ्जं काणं तथा कुब्जं सच्छिद्रं व्याधिसंयुतम् | विषाणदन्तरहितं वर्जयेत्तु विचक्षणः || १८ || [उत्तममहिषबलिः] पञ्चाब्दं माहिषं श्वेतं प्रशस्तं परिकीर्त्तितम् | [अधममहिषबलिः] स एव महिषः कृष्णः पाण्डरश्चाधमो बलिः || १९ || [बलिषु पक्षिणां प्रशस्तता] पक्षिणस्तु प्रशस्ताः स्युः सर्वे वर्णाः सुशोभनाः | त्रिपक्षात् परतश्चैव हीने चापि विवर्जयेत् || २० || [बलिविशेषेण देवतातृप्तिकालकथनम्] मनुष्यैः कोटिवर्णाणि तृप्तिं गच्छन्ति देवताः | गण्डैर्वर्षसहस्राणि महिषैः शरदां शतम् || २१ || छगलैर्वत्सरादूर्द्ध्वं द्वादशाब्दं दशाब्दकम् | पूर्णसांवत्सरेरैव त्रिवर्षं कच्छपेन तु || २२ || वराहेण तु पञ्चाशत्तदर्द्धं चामरेण तु | अब्दैकं गोधिकाभिश्च षण्मासं गात्रशोणितम् || २३ || प्. ८४६) पायसेनापि षण्मासं तृप्तिं गच्छन्ति देवताः || २४ || [स्त्रीपशुबलिदाननिषेधः] न दद्यात् स्त्रीपशोर्मांसं हव्यकव्ये विशेषतः | [होमे मांसनिरूपणम्] होमे बुक्काग्रजं मांसं सरोमञ्चार्द्धरात्रके || २५ || सिंहविल्वाकृतिञ्चैव वस्तु च पूगमेव च | बुक्काग्रमांसमानं स्याल्लुलापस्य नरस्य च || २६ || तथा प्रमाणमात्रं स्यादजस्य वदनस्य च | धातकीफलमानन्तु गोधिकाया इतीरितम् || २७ ||
SK
एतदाममयस्यैव भर्जिते मानवर्जितम् | हीनेन्द्रियपशोर्मांसं दूरतः परिवर्जयेत् || २८ || [मांसहोमे कालनियमः] दिवा न जुहुयान्मांसं सन्ध्यायां सावसानके | ब्राह्म्ये मुहूर्ते जुहुयादथवा सन्धिपर्वसु || २९ || एकेन च सहस्रं स्याद् द्विगुणं चार्द्धरात्रके | ब्राह्म्ये मुहूर्त्ते द्विगुणं सन्ध्यायाञ्च चतुर्गुणम् | पर्वसन्धौ शतगुणं तिथिसन्धौ शतोत्तरम् || ३० || काम्ये च जुहुयान्मांसं पुरश्चरणशेषकैः | योन्यावटे शतगुणं स्थण्डिलेऽपि न चाचरेत् || ३१ || [बल्युत्सर्गप्रकारः] अथ संप्रोक्षणं कृत्वा बलिं समुत्सृजेद् बुधः | स्वयं पूर्वमुखो भूत्वा बलिं कुर्यादुदङ्मुखम् || ३२ || प्. ८४७) अथवैतद्व्यत्ययः स्यात् सिन्दूराद्यैरलङ्कृतम् | अर्घ्यपात्रोदकैः शुद्धैर्मूलेन प्रोक्षयेत्त्रिशः || ३३ || [पशुस्नापनमन्त्रः] ॐ वाराही यमुना गङ्गा कारतोया सरस्वती | कावेरी चन्द्रभागा च सिन्धुभैरवसागराः | अजस्नाने महेशानि सान्निध्यमिह कल्पय || ३४ || ॐ पशुपाशविनाशाय हेमकूटस्थिताय च | परापराय परमेष्ठिने हू/ काराय च मूर्त्तये || ३५ || ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् | स भूमिं सर्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् || ३६ || विल्वपत्रोदकैरेभिः प्रोक्षणं कारयेद्पि | त्रिशः संपूजयेत्तञ्च तत्रेष्टं गन्धचन्दनैः || ३७ || ततो निरीक्ष्य तं मन्त्री पठेत् करपुटं स्वयम् || ३८ || [बलिप्रणाममन्त्रः] छाग त्वं बलिरूपेण मम भाग्यादुपस्थितः | प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् || ३९ || चण्डिकाप्रीतिदानेन दातुरापद्विनाशनम् | चामुण्डाबलिरूपाय बले तुभ्यं नमोऽस्तु ते || ४० || यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा | अतस्त्वां घातयिष्यामि तस्माद् यज्ञे वधोऽवधः || ४१ || [बलिमूर्द्ध्नि मन्त्रजपः] वाङ्मायाकमलाबीजैस्तन्मूर्द्ध्नि त्रिर्मनून् जपेत् || ४२ || प्. ८४८) ततो बलिं समुत्सृज्य काम्यं कृत्वा विशालधीः | आनीय खड्गं पुरतो गन्धादिभिः समर्च्चयेत् || ४३ || [खड्गध्यानम्]
SK
कृष्णं पिणाकपाणिञ्च कालरात्रिस्वरूपिणम् | उग्रं रक्तास्यनयनं गन्धानुलेपनम् || ४४ || रक्ताम्बरधरञ्चैव पाशहस्तं कुटुम्बिनम् | पिबमानञ्च रुधिरं भुञ्जानं क्रव्यसंहतिम् || ४५ || [खड्गपूजामन्त्रः] इति ध्यात्वा यजेत् तञ्च मन्त्रेणानेन याजकः | रसना त्वं चण्डिकायाः सुरलोकप्रसादक || ४६ || मायाद्वयं खड्गपदं कालि कालि पदन्ततः | वज्रेश्वरी ततो लौहदण्डायै ङेऽन्तां नमः पदम् || ४७ || कूर्च्चबीजं लिखेत् खड्गे सिन्दूरचन्दनादिना | देव्या बीजं लिखेत्तत्र पूजयित्वा नमश्चरेत् || ४८ || इति ध्यात्वा साधकस्तु नमस्कारं समाचरेत् || ४९ || [खड्गनमस्कारमन्त्रः] असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः | श्रीगर्भो विजयश्चैव धर्मपाल नमोऽस्तुते || ५० || ततः खड्गं गृहीत्वा तु देवतारसनाधिया | अभिमन्त्र्य च मूलेन वक्ष्यमाणेन च स्वयम् || ५१ || प्. ८४९) विषं मायाद्वयं कालियुगं विकटरूपतः | दंष्ट्रे स्फे/ स्फे/ ततो ब्रूयात् फेत्कारिणीति खादय || ५२ || द्वितयं छेदययुगं सर्वान् दुष्टांस्ततः परम् | मारयद्वितयं पश्चादजं खड्गेन छिन्धियुक् || ५३ || कालि कालि किचिद्वन्द्वं पिबयुग्रुधिरं पदम् | स्फ्रौ/ स्फ्रौ/ किलियुगं कालियुग्ममित्यभिमन्त्रणे | [बलिस्कन्धे खड्गनियोजनमन्त्रः] हू/ हू/ फडिति मन्त्रेण स्कन्धे खड्गं नियोजयेत् || ५४ || [खड्गलक्षणकथनम्] अथ वक्ष्यामि खड्गानां लक्षणं तन्त्रवर्त्मना | येन संछेदनेनापि साधकः सिद्धिमालभेत् || ५५ || [चन्द्रहासलक्षणकथनम्] सर्वेषामुत्तमः खड्गश्चन्द्रहासः सुखावहः | पञ्चाशदङ्गुलैः कार्यः किंवा तालत्रयेण तु || ५६ || [खड्गम् करबीरफलाकारादिकथनम्] करबीरफलाकारः किंवा पद्मदलाकृतिः | अथवा कुब्जकड्गेन भेदयेत् खलु साधकः || ५७ ||
SK
५२-५४ | विषमिति | तथाच - ॐ ह्री/ ह्री/ कालि कालि विकटरूपदंष्ट्रे स्फें स्फें फेत्कारिणि खादय खादय छेदय छेदय सर्वान् दुष्टान् मारय मारय अजं खड्गेन छिन्धि छिन्धि कालि कालि किचि किचि पिव पिब रुधिरं स्फ्रौ/ स्फ्रौ/ किलि किलि कालि कालि हू/ हू/ फट् इति मन्त्रेण बलेः स्कन्धे खड्गं स्थापयेत् इत्यर्थः | प्. ८५०) [बलिच्छेदने दात्रादीनां विधिः] महाबलीनां सर्वेषां दात्रमत्र प्रकीर्त्तितम् | [छुरिकादिना छेदननिषेधः] कर्त्तृकया क्षुरेणापि छिन्द्याच्छुरिकया न च || ५८ || कुठारपरशुभ्यां वा भेदयेन्न कदाचन | [तीक्ष्णखड्गेन छेदनकथनम्] छेदयेत्तीक्ष्णखड्गेन अच्छिद्रेण मुखेन च || ५९ || नाकाशे च्छेदयेत्तन्तु समे देशे शुचौ तथा | छेदयेदनिशं शस्तं बलिं पूर्वमुखं शुभम् | उदङ्मुखः स्वयं नेत्रबीजेनैव तु साधकः || ६० || [छागादिपशूनां पूर्वाभिमुखेन च्छेदनम्] छागलादिपशूनाञ्च विपरीतमुखेन तु | [बलिच्छेदककथनम्] प्रहाराणाञ्चाधिकारी तेषामेवं विधीयते || ६१ || स्वयं वा भ्रातृपुत्रो वा भ्राता वा सुहृदेव वा | सपिण्डश्छेदयेद् वापि शुद्धान्तःकरणो यदि || ६२ || [रिपुप्रभृत्यनुपयुक्तानां कथनम्] न रिपुं नाङ्गहीनं वा न काणं नापि कुब्जकम् | न योजयेच्छत्रुपक्षं बलिच्छेदनकर्मणि || ६३ || ६० | नाकाशे इति | शून्यस्थाने बलिं न च्छेदयेत् | नेत्रबीजेन वौषट् इतिमन्त्रेण | प्. ८५१) [दिग्विशेषे बलेर्मस्तकपतने फलविशेषः] यदि वायव्यदिग्भागे नैर्-ऋते दक्षिणेऽपि वा | मस्तकं पतते चैव हानिमत्र विनिर्द्दिशेत् || ६४ || शेषेषु दिक्षु सर्वासु विदिक्षु च फलं शृणु | पूर्वोत्तरविदिग्भागे पतते यदि मस्तकम् | सर्वसम्पत्करं विद्याद् राज्ञां राज्यं विनिर्दिशेत् || ६५ || भ्रमित्वा दक्षिणेनापि यदा पतति वै शिरः | तदा सिद्धिञ्च मासान्ते वामकर्णे विपद् भवेत् || ६६ || राज्ञामग्नौ तथा हानिर्गृहस्थानां शुभं भवेत् || ६७ ||
SK
ऐशान्यमध्ययोश्चैव पतते यदि मस्तकम् | तदा स्वल्पेन कालेन सर्वसिद्धिर्भवेद् ध्रुवा || ६८ || छिन्नं शिरो निपतितं सहास्यं यदि दृश्यते | विभूतिं तस्य जानीयाद्राज्ञां राज्यं विनिर्द्दिशेत् || ६९ || एकवारे भवेत् सिद्धिर्द्विवारे हानिरुच्यते | गृहस्थानां विजानीयाद्राज्ञान्तु विपरीतकम् || ७० || [बलिचक्षुषि अश्रुदर्शनफलम्] यदाश्रु दृश्यते नेत्रे तदा हानिं विनिर्द्दिशेत् | [दन्तानां कटकटाशब्दश्रवणफलम्] यदा कटकटाशब्दो दन्तानां श्रूयते क्वचित् | तदा तु मरणं विद्याद्धानिं वा तत्र निर्द्दिशेत् || ७१ || ६७ | राज्ञामिति | अग्नौ पूर्वदक्षिणकोणे | प्. ८५२) [बलिशिरःस्थापनम्] दद्याद्राक्षसदिग्भागे मन्त्री बलिशिरः स्वयम् | [रक्तपात्रस्थापनम्] तद्दक्षिणे रक्तपात्रं विपरीतं न संददेत् || ७२ || महाबलीनां वायव्ये प्रदद्यात् साधकोत्तमः | बलीनामरिसंज्ञानां शिरांसि पुरतो ददेत् || ७३ || देवस्य सम्मुखं कृत्वा च्छिन्नभागान् प्रकल्पयेत् | तदेव शस्तं जानीयान्मध्यमं विपरीतकम् || ७४ || कीलकान्ते न्यसेच्छिर्षं यथा कम्पो न जायते | [बलिमस्तकोपरि दीपदानम्] शिर्षोपरि ज्वलद्दीपं प्रदद्याच्चन्दनोक्षितम् || ७५ || घृतेन सार्वभौमः स्यात्तैले सिद्धिञ्च विन्दति | सूत्रवर्त्तीन् प्रदद्याद् वा वस्त्रवर्त्त्या प्रदृश्यते || ७६ || [वर्त्तिकाप्रमाणम्] अङ्गुष्ठस्य प्रमाणन्तु दीर्घे चैव षडङ्गुलम् | कार्पाससूत्रैर्वा दद्यादेकविंशतिसूत्रकैः || ७७ || सुगन्धगर्भैस्तत् कुर्यात् कर्पूरागुरुचन्दनैः || ७८ || [ग्राहादीनां शिरसि दीपदाननिषेधः] ग्राहाणां कच्छपानाञ्च गोधायाश्च विशेषतः | मत्स्यानामपि पक्षिणां न दीपं दापयेच्छिरे || ७९ || [दीपस्य दीर्घकालज्वलनफलम्] शीर्षोपरि ज्वलद्दीपो यावत्कालं प्रवर्त्तते | तावत्कालं वसेत् स्वर्गे तस्माद् यत्नेन दापयेत् || ८० || प्. ८५३) लोमदाहोद्भवं गन्धं ध्यात्वा देवी प्रसीदति | तस्मिन् संवर्द्धयेद्देवीं तस्मात् पात्रं विवर्जयेत् || ८१ ||
SK
निर्वाणे मृत्युमाप्नोति नीयमाने प्रदीपके | न क्षीरशोणितं दद्यान्न चाज्यञ्च कदाचन || ८२ || शर्कराक्षतदूर्वादि प्रदद्यात्त्रिर्महाशतम् | सैन्धवं शृङ्गवेरञ्च कदल्याः फलमेव च || ८३ || पातयेन्मधुराणाञ्च शृतमुद्दिश्य साधकः | बलिः प्रदाने तूद्दिष्टो वाराहीसंहिताक्रमात् || ८४ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्री-तत्त्वचिन्तामणौ चतुर्विंशतितमः प्रकाशः || २४ || पञ्चविंशतितमः प्रकाशः [श्रीमहात्रिपुरसुन्दरी-सहस्रनामस्तोत्रम्] अथ श्रीमन्महादेव्याः सहस्रं नाम कथ्यते | कैलासशिखरे रम्ये नानारत्नोपशोभिते || १ || कल्पपादपमध्यस्थे सिद्धगन्धर्वसेविते | मणिमण्डपमध्यस्थे नानापुष्पोपशोभिते || २ || तं कदाचित् समासीनं भगवन्तं जगद्गुरुम् | कपालखट्वाङ्गधरं चन्द्रार्द्धकृतशेखरम् || ३ || त्रिशूलडमरुकरं महावृषभवाहनम् | जटाजूटधरं देवं वासुकिकण्ठभूषणम् || ४ || विभूतिभूषणं देवं नीलकण्ठं त्रिलोचनम् | द्वीपिचर्मपरीधानं शुद्धस्फटिकसन्निभम् || ५ || सहस्रादित्यसङ्काशं गिरिजार्द्धाङ्गभूषणम् | प्रणम्य शिरसा नाथं कारणं विश्वरूपिणम् | कृताञ्जलिपुटो भूत्वा प्राह तं शिखिवाहनः || ६ || कार्त्तिकेय उवाच | देव देव महादेव सृष्टिस्थित्यन्तकारक | त्वं गतिः सर्वदेवानां त्वं गतिः सर्वदेहिनाम् || ७ || त्वं गतिः सर्वभूतानां दीनानाञ्च त्वमेव च | त्वमेव जगदाधारस्त्वमेव विश्वकारकः || ८ || प्. ८५५) त्वमेव पूज्यः सर्वेषां त्वदन्या नास्ति मे गतिः | किं गुह्यं परमं लोके किमेकं सर्वसिद्धिदम् || ९ || किमेकं परमं श्रेष्ठं किं भोगं स्वर्गमोक्षदम् | विना तीर्थेन तपसा विना वेद्यैर्विना मखैः || १० || विना लयेन ध्यानेन केन सिद्धिमवाप्नुयात् | कस्मादुत्पद्यते सृष्टिः कस्मिंश्च प्रलयो भवेत् || ११ || कस्मादुत्तीर्यते देव संसारार्णवसङ्कटात् | तदहं श्रोतुमिच्छामि कथयस्व महेश्वर || १२ || श्रीमहादेव उवाच |
SK
साधु साधु त्वया पृष्टं तत्त्वं पार्वतीनन्दन | इति गुह्यतमं पुत्र कथयिष्याम्यसंशयः || १३ || सत्त्वं रजस्तमश्चैव ब्रह्मविष्णुशिवादयः | ये चान्ये बहवो भूताः सर्वे प्रकृतिसम्भवाः || १४ || सैव देवी परा शक्तिर्महात्रिपुरसुन्दरी | सैव प्रसूयते सर्वं सैव विश्वं प्रपाल्यते || १५ || सैव संहरते विश्वं जगदेतच्चराचरम् | आधारः सर्वभूतानां सा वै रोगार्त्तिहारिणी || १६ || इच्छा क्रिया तथा ज्ञाना ब्रह्मविष्णुशिवात्मिका | त्रिधा शक्तिस्वरूपेण सृष्टिस्थितिविनाशिनी || १७ || सृज्यते ब्रह्मरूपेण विष्णुरूपेण पाल्यते | संहरेद्रुद्ररूपेण जगतीं सचराचराम् || १८ || प्. ८५६) यस्या योनौ जगत् सर्वमद्यापि वर्त्ततेऽखिलम् | यस्यां प्रलीयते चान्त्ये यस्याञ्च जायते पुनः || १९ || यां समाराध्य त्रैलोक्ये संप्राप्तं पदमुत्तमम् | तस्या नामसहस्रं ते कथयामि शृणुष्व तत् || २० || ॐ अस्या श्रीमहात्रिपुरसुन्दर्याः सहस्रनामस्तोत्रस्य दक्षिणा-मूर्त्तिर्भगवान् वामदेव ऋषिर्गायत्त्रीच्छन्दः प्रकटगुह्यतरसंप्र- दायकुलकौलिकगर्भरहस्यातिरहस्यपरापररहस्याचिन्त्यप्रभाववती श्रीमहात्रिपुरसुन्दरी देवता आकाशबीजं माया शक्तिः कामबीजं कीलकं बुद्धिशक्तिरुदानबीजं सुषुम्णा नाडी सरस्वतीशक्तिसिद्ध्यर्थकाममोक्षार्थे विनियोगः || २१ || ह्री/ कल्याणी कमला काली कराली कामरूपिणी | कामाख्या कामदा काम्या कमला कामचारिणी || २२ || कालरात्रिर्महारात्रिः कौलिनी कौल्यरूपिणी | कुमारी करुणा कीर्त्तिः कल्माषनाशिनीति च || २३ || कात्यायनी कलाधारा कौमुदी कमलाप्रिया | कीर्त्तिदा मुक्तिदा मेधा नीतिज्ञा नीतिवत्सला || २४ || माहेश्वरी महामाया महातेजा महेश्वरी | महालोला महाजिह्वा महादंष्ट्रा महाभुजा || २५ || महामोहान्धकारघ्नी महामोक्षप्रकाशिनी | महादारिद्र्यशमनी महाशत्रुविनाशिनी || २६ || महाशक्तिर्महाशूरमहिषासुरमर्द्दिनी | महामाया महावीर्या महापातकनाशिनी || २७ ||
SK
प्. ८५७) महाकामा महाकाल्या महापातकहारिणी | महामन्त्रा मन्त्रमयी मणिपूरकवासिनी || २८ || मानसी मानदा मान्या मनश्चक्षुरगोचरा | गणनीता च गायत्त्री गणगन्धर्वसेविता || २९ || गिरिजा गिरिशा साध्वी गिरिस्था गिरिसम्भवा | चण्डेश्वरी चण्डरूपा प्रचण्डा चण्डमालिनी || ३० || चर्च्चिता चर्च्चितकला चण्डिका चण्डरूपिणी | यज्ञेश्वरी यज्ञरूपा जपयज्ञपरायणा || ३१ || यज्ञमाता यज्ञभोक्त्त्री यज्ञेशी यज्ञसम्भवा | सिद्धा यज्ञप्रिया सिद्धिर्यज्ञाङ्गी यज्ञबन्धिका || ३२ || यज्ञप्रिया यज्ञरूपा याज्ञी यज्ञकृतालया | जालन्धरा जगन्माता जातवेदा जगत्प्रिया || ३३ || जितेन्द्रिया जितक्रोधा जननी जन्मदायिनी | गङ्गा गोदावरी गौरी गोमती च शतद्रुका || ३४ || घर्घरा वेदगर्भा च देविकाकरसम्भवा | सिन्धुर्मन्दाकिनी विप्रा यमुना च सरस्वती || ३५ || चन्द्रभागा विपाशा च गण्डकी विन्ध्यवासिनी | नर्मदा कद्रुकावेरी वेत्रवती च कौषिकी || ३६ || महेन्द्रतनया चैव अहल्या चम्पकावती | अयोध्या मथुरा माया काशी काञ्ची अवन्तिका || ३७ || द्वारावती च शिखिनी महाकिल्विषनाशिनी | पद्मिनी पद्महस्ता च पद्मकिञ्जल्कवासिनी || ३८ || प्. ८५८) पद्मवक्त्रा च पद्माक्षी पद्मस्था पद्मसम्भवा | द्री/कारी कुण्डली रात्रिर्हृत्पद्मस्था सुलोचना || ३९ || ऐ/कारी भूषणा लक्ष्मीः क्ली/कारी क्लेशनाशिनी | हरिप्रिया हरेर्माता हरिनेत्रकृताश्रया || ४० || हरिवक्त्रोद्भवा शान्ता हरेर्वक्षःस्थलस्थिता | वैष्णवी विष्णुरूपा च विष्णुमायास्वरूपिणी || ४१ || विष्णुमाया विशालाक्षी विशालनयनोज्ज्वला | विश्वेश्वरी च विश्वात्मा विश्वेशी विश्वरूपिणी || ४२ || विश्वात्मिका विश्वविद्या विश्वपाशविदारिणी | विश्वासकारिणी विश्वा विधिशक्तिर्विचक्षणा || ४३ || शिवेश्वरी शिवाराध्या शिवनाथा शिवप्रिया | शिवमाता शिवाख्या च शिवदा शिवरूपिणी || ४४ || भवेश्वरी भवाराध्या भवानी भवनायिका | भवमाता भावगम्या भवकण्टकनाशिनी || ४५ ||
SK
भवप्रिया भवानन्दा भवकण्टकहारिणी | गतिर्वरेण्या सावित्री ब्रह्माणी ब्रह्मरूपिणी || ४६ || ब्रह्मेशी ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मवादिनी | दुर्गस्था दुर्गरूपा च दुर्गा दुर्गार्त्तिनाशिनी || ४७ || सुगमा दुर्गमा दाता दया गौरी दुरापहा | दुरितघ्नी दुरध्यक्षा दूरदुष्कृतनाशिनी || ४८ || पञ्चम्या पञ्चमी पूर्णा पूर्णपीठनिवासिनी | सत्त्वस्था सत्त्वरूपा च कल्पस्था कल्परूपिणी || ४९ || प्. ८५९) नानारत्नविचित्राङ्गी नानाभरणभूषिता | विश्वाम्बिका विश्वमाता विश्वपाशविदारिणी || ५० || विशालकारिणी विश्वा विश्वशक्तिर्विलक्षणा | जवाकुसुमसङ्काशा दाडिमीकुसुमारुणा || ५१ || चतुरङ्गी चतुर्वाहा चतुर्द्वारव्यहासिनी | सर्वेशी सर्वदा सर्वा सर्वज्ञा सर्वदायिनी || ५२ || विश्वेश्वरी च सर्वाद्या सर्वाणी सर्वमङ्गला | नलिनी नन्दिनी नन्दा आनन्दानन्दवर्त्तिनी || ५३ || व्यापिनी सर्वभूतेषु भवभारविनाशिनी | कुलीना कुलमध्यस्था कुलधर्मोपदेशिनी || ५४ || सर्वशृङ्गारवेशाढ्या पाशाङ्कुशकरोद्यता | सूर्या सूर्यसहस्राभा चन्द्रकोटिनिभानना || ५५ || गणेशकोटिलावण्या सिंहकोटिविमर्द्दिनी | दावाग्निकोटिज्वलिनी कद्रुकोटिस्वरूपिणी || ५६ || समुद्रकोटिगम्भीरा वायुकोटिमहाबला | आकाशकोटिविस्तारा यमकोटिभयङ्करा || ५७ || मेरुकोटिसमुच्छ्राया गरुत्कोटिसमृद्धिदा | निष्कलङ्का निराधारा निर्गुणा गुणवर्जिता || ५८ || विशिष्टा विश्वजननी विश्वाख्या विश्ववर्द्धिनी | चित्रा विचित्रा चित्राङ्गी हेतुगर्भा रणेश्वरी || ५९ || इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिः शुचिस्मिता | श्रुतिः श्रुतिमयी सत्या श्रुतिरूपा श्रुतिप्रिया || ६० || प्. ८६०) श्रुतिप्राज्ञा महातत्त्वा पञ्चतत्त्वोपरिस्थिता | पार्वती हिमवत्पुत्री पारस्था पाररूपिणी || ६१ || जयन्ती भद्रकाली च अहल्या कुलनायिका | भूतधात्री च भूतेशी भूतस्था भूतभाविनी || ६२ || महाकुलमयी शक्तिर्महाविभववर्द्धिनी | हंसाख्या हंसरूपा च हंसस्था हंसरूपिणी || ६३ || सोमसूर्याग्निमध्यस्था मूलाधारनिवासिनी | द्वादशारसरोजस्था सूर्यमण्डलवासिनी || ६४ ||
SK
द्विपत्रदलमध्यस्था ललाटतलवासिनी | डाकिनी राकिणी चैव लाकिनी काकिनी तथा || ६५ || शाकिनी हाकिनी चैव षट्चक्रविनिवासिनी | सृष्टिस्थितिविनाशा च सृष्टिस्थित्यन्तकारिणी || ६६ || श्रीकण्ठप्रिया श्रीकण्ठा नादाख्या बिन्दुमालिनी | चतुःषष्टिकलाधारा देहदण्डकलाश्रया || ६७ || माया काली द्युतिर्मेधा स्वधा पुष्टिर्महाधृतिः | हिङ्गुला मङ्गला सीता सुषुम्णामध्यगामिनी || ६८ || परा घोरा करालाक्षी विजया जयशालिनी | हृत्पद्मनिलया चैव भीमा भैरवनादिनी || ६९ || मेनकागर्भसम्भूता तप्तकाञ्चनसन्निभा | अन्तकूटबीजस्था च त्रिकूटवनवासिनी || ७० || वर्णाक्षी वर्णरहिता पञ्चाशद्वर्णरूपिणी | विद्याधरी लोकधात्री अमरा अप्सरःप्रिया || ७१ || प्. ८६१) दाक्षा प्रजावती धन्या धनधान्यसमृद्धिदा | ईशानी भुवनेशानी भुवना भुवनेश्वरी || ७२ || अनन्ताऽनन्तमहिमा जगत्सारा जगद्भवा | अचिन्त्यशक्तिचित्तात्मा चिन्ता चित्तस्वरूपिणी || ७३ || ज्ञानगम्या ज्ञानमूर्त्तिर्ज्ञानिनी ज्ञानशालिनी | असिता घोररूपा च सुधाधारा सुधावहा || ७४ || भास्करा भास्वती भीतिर्भास्वद्धृष्टानुसापिनी | अनुद्यमा क्षमानन्दा दुर्लभा भवनात्मिका || ७५ || विश्ववन्द्या विश्ववीरा विश्वघ्नी विश्वसंस्थिता | शीलस्था शीलरूपा च शीला शीलप्रदायिनी || ७६ || बोधिनी बोधकुशला बोधना बोधिनी सदा | विद्योतिनी विचित्रात्मा विद्युत्पाटलसन्निभा || ७७ || विश्वयोनिर्महायोनिः कर्मयोनिः प्रियंवदा | रोहिणी रोगशमनी महारोगापहारिणी || ७७ || वसुदा रुद्ररूपा च रौद्री रौद्रार्त्तिनाशिनी | प्रजा दाक्षायणी दक्षा दक्षयज्ञविनाशिनी || ७८ || यशश्विनी यशःपूर्णा यशोदागर्भसम्भवा | देवकी देवमाता च राधिका कृष्णवल्लभा || ७९ || अरुन्धती शचीन्द्राणी गान्धारी गन्धमालिनी | ध्यानातीता ध्यानगम्या ध्यानाख्या ध्यानधारिणी || ८० || लम्बोदरी च लम्बोष्ठी जाम्बवत्या जलोदरी | महोदरी मुक्तकेशी मुक्तिकामार्थसिद्धिदा || ८१ ||
SK
प्. ८६२) तपस्विनी रागहना गुह्यरत्ननिरञ्जना | अशरीरा शरीरस्था संसारार्णवतारिणी || ८२ || अमृता निष्कला भद्रा सकला कृष्णपिङ्गला | चक्रेश्वरी चक्रहस्ता परचक्रविदारिणी || ८३ || पद्मरागप्रतीकाशा निर्मलाकाशसन्निभा | रसज्ञा रसमध्यस्था गन्धस्था गन्धरूपिणी || ८४ || परंब्रह्मस्वरूपा च परंब्रह्मस्वरूपिणी | शब्दब्रह्मस्वरूपा च शब्दाख्या शब्दवर्जिता || ८५ || ऋद्धिवृद्धिः परा सिद्धिः सत्कीर्त्तिर्दीप्तसंस्थिता | आपूज्या शाम्भवी शक्तिः सुन्दराङ्गी तत्त्वरूपिणी || ८६ || शाश्वती भूतमाता च महाभूताधिपप्रिया | श्रुतिप्राज्ञा धर्मसिद्धिर्दक्षकन्याऽपराजिता || ८७ || कामसन्दीपनी कामा सदा कामकुतूहला | भोगापचारकुशला अमरा कमलानना || ८८ || भक्तानुकम्पिनी मैत्री शरणागतवत्सला | क्षोभणी मोहनी चैव स्तम्भनी जृम्भणी तथा || ८९ || रथिनी ध्वजिनी सेना सर्वमन्त्रमयी त्रयी | ज्ञानमुद्रा महामुद्रा जगन्मुद्रा महोत्सवा || ९० || सहस्रभुजा चिच्छक्तिः सहस्राक्षी सनातनी | सिद्धलक्ष्मीर्महालक्ष्मी राजलक्ष्मीः सुलक्षणा || ९१ || यज्ञसारा तपःसारा धर्मसारा जनेश्वरी | विश्वोदरी विश्वपूज्या विश्वाख्या विश्वतोमुखी || ९२ || प्. ८६३) विश्वास्या श्रवणा घ्राणा विश्वप्राणा पदात्मिका | तरुणादित्यसङ्काशा किरणानेकसङ्कुला || ९३ || जटाजूटधरा मुख्या शुष्कमांसातिभीषणा | द्वीपिचर्मपरीधाना चीरवल्कलधारिणी || ९४ || त्रिशूलडमरुकरा नरमालाविभूषणा | अत्युग्ररूपिणी चोग्रा कल्पान्तदहनोपमा || ९५ || त्रैलोक्यधारिणी साध्या सिद्धिः साधकवत्सला | सवविद्यामयी सारा वैरिवर्गविनाशिनी || ९६ || सुभगा सुमुखी रम्या मुखरा सोमभूषणा | शुद्धस्फटिकसङ्काशा महावृषभवाहिनी || ९७ || महिषी महिषारूढा महिषासुरमर्द्दिनी | दमिनी दामिनी दान्ता दया दोग्ध्री दुरापगा || ९८ || अग्निजिह्वा महाघोरा घोरघोरतरानना | नारायणी नारसिंही नृसिंहहृदयस्थिता || ९९ ||
SK
योगेश्वरी योगरूपा योगमाता च योगिनी | खेचरी भूचरी खेला निर्वाणपदसंश्रया || १०० || नागिनी नागकन्या च सुवना नागनायिका | विषज्वालावती तीक्ष्णा फणाशतविभूषणा || १०१ || भीमवक्त्रा महावक्त्रा वक्त्राणां कोटिधारिणी | महावक्त्रा च धर्माख्या धर्मादिसुखदायिनी || १०२ || कृष्णमूर्द्धा महामूर्द्धा घोरमूर्द्धा वरानना | सर्वेन्द्रिया सर्वसंस्था सर्वेन्द्रियमनोमयी || १०३ || प्. ८६४) सर्वसंग्रामजयदा सर्वप्रहरणोद्यता | सर्वपीडोपशमनी सर्वाभीष्टप्रदायिनी || १०४ || सर्वैश्वर्यसमुत्पत्तिः सर्वग्रहविनाशिनी | भीतिघ्नी भक्तिगम्या च भक्तापमृत्युनाशिनी || १०५ || मातङ्गी मत्तमातङ्गी मतङ्गकुलमण्डिता | गण्डमण्डितसङ्काशा गुञ्जाहारविभूषणा || १०३ || सङ्गीतरङ्गरचना वीणावाद्यकुतूहला | अमृतोदधिमध्यस्था प्रबालरसनोज्ज्वला || १०७ || मणिमण्डपमध्यस्था रत्नसिंहासनस्थिता | परमानन्दमुदिता ईषत्प्रहसितानना || १०८ || कुमुदा ललिता लोला लाक्षाललितलोचना | दिग्वस्त्रा देवदूती च देवदेवाधिदेवता || १०९ || सिंहोपरिसमारूढा महाचलनिवासिनी | अट्टट्टहासिनी घोरा घोरदन्तविनाशिनी || ११० || अत्युग्रा रक्तवर्णा च नागकेयूरमण्डिता | मुक्ताहारलतोपेततुङ्गपीनपयोधरा || १११ || रक्तोत्पलदलाकारमदमूर्च्छितलोचना | समस्तदेवतामूर्त्तिरसुरक्षयकारिणी || ११२ || खड्गिनी शूलहस्ता च चक्रिणी चाक्षमालिनी | शङ्खिनी चापिनी वाणी वज्रिणी रक्तदन्तिका || ११३ || आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता | नानाभरणदीप्ताङ्गी नानामणिविभूषिता || ११४ || प्. ८६५) जगदानन्दसंभूतिचिन्तामणिगुणाकरा | त्रैलोक्यनमिता पूज्या चिन्मयानन्दरूपिणी || ११५ || त्रैलोक्यवर्द्धिनी देवी दुःखदुःस्वप्ननाशिनी | घोराग्निदाहशमनी बीजदैवादिमालिनी || ११६ || महापराधराशिघ्नी महाचौरभयापहा | रागादिरोगरहिता जरामरणवर्जिता || ११७ || चन्द्रमण्डलसङ्काशा पीयुषार्णवसम्भवा | सर्वदेवैः स्तुता देवी सर्वसिद्धैर्नमस्कृता || ११८ ||
SK
अचिन्त्यशक्तिरूपा च मणिमन्त्रमहौषधी | स्वस्ति स्वस्तिमती बाला मलयाचलवासिनी || ११९ || धात्री विधात्री सम्भावा रतिज्ञा रतिदायिनी | रुद्राणी रुद्ररूपा च रौद्री रौद्रार्त्तिनाशिनी || १२० || सर्वज्ञा चैव धर्मज्ञा रसज्ञा दीनवत्सला | अनाहता त्रिनयना निर्भवा निर्वृतिः परा || १२१ || परा घोरा करालाक्षी सुमतिः प्रियभाषिणी | महाम्बिका मन्त्रमस्या मन्त्रमाता सुपुत्रिणी || १२२ || शुद्धानन्दा महाभद्रा निर्गता निर्गुणात्मिका | धरिणी धारिणी पृथ्वी धरा धात्री वसुन्धरा || १२३ || मेरुमन्दरमध्यस्था स्थिरा शङ्करवल्लभा | श्रीमती श्रीमतां श्रेष्ठा श्रीकरी श्रीविभाविनी || १२४ || श्रीदात्री श्रीविधात्री च श्रीमती श्रीमतां गतिः | उमाशा शार्ङ्गिणी कृष्णा कुटिला कुटिलालका || १२५ || प्. ८६६) त्रिलोचना त्रिलोकस्था पुण्यस्था पुण्यकीर्त्तिदा | अमृता सत्यसङ्कल्पा प्रेत्या सा प्रस्थितोदनी || १२६ || परेशी परमाराधा परा विद्या परापरा | सुन्दराङ्गी सुवर्णाभा सुरासुरनमस्कृता || १२७ || रुद्राणी पुष्टिदा देवी मानदा मानसप्रिया | कृष्णाङ्गवाहिनी चैव कृष्णा कृष्णमहोदरा || १२८ || शाम्भवी शम्भुरूपा च शम्भुस्था शम्भुसम्भवा | बिम्बो(श्वो)दरी योगमुद्रा योगरूपा च योगिनी || १२९ || योगमुद्रा योगनिद्रा योगिनीकोटिसेविता | कुटिला नन्दिकन्या च शृङ्गारपीठवासिनी || १३० || क्षेमङ्करी सर्वरूपा दिव्यरूपा दिवीश्वरा | धूम्रवक्त्रा धूम्रकेशी धूम्रवक्तावधूसरा || १३१ || पिनाकी रुद्रवेताली महावेतालरूपिणी | भगिनी भागिनी दक्षा विष्णुविद्या अनाश्रिता || १३२ || मन्थरा जठरा तीव्रा अग्निजिह्वा भयापहा | पशुघ्नी पशुरूपा च पशुहा पशुवाहिनी || १३३ || पिता सन्तोषिता धाता पशुपासविनाशिनी | चन्द्रप्रभा चन्द्ररेखा चन्द्रकान्तिविभूषणा || १३४ || कुङ्कुमाङ्कितसर्वाङ्गी सुधाबुद्बुदलोचना | निष्ठुरा क्रूरहृदया अक्रूरामृतभाषिणी || १३५ || आकाशलिङ्गसम्भूता भुवनध्यानवाहिनी | निरुपाक्षी सहस्राक्षी शताक्षी बहुलोचना || १३६ ||
SK
प्. ८६७) दण्डावतारिणी तारा तरुणी ताररूपिणी | सुधाधारा च धर्मज्ञा धर्मशास्त्रोपदेशिनी || १३७ || भवेश्वरी भवाराध्या भगिनी भगनायिका | भगविद्या भगक्लिन्ना भगयोनिर्भगप्रदा || १३८ || भगेशी भगरूपा च भगगुह्या भगावहा | भगोदरा भगानन्दा भगाद्या भगमालिनी || १३९ || मालिनी माधवी साध्वी मधुरूपा महोत्कटा | चन्द्रिका चन्द्रिमा ज्योत्स्ना विश्वचक्षुस्तमोऽपहा || १४० || सुप्रसन्ना महादूती यमदूती भयङ्करी | उन्मादिनी महारूपा दिव्यरूपा सुरार्चिता || १४१ || त्रैलोक्यफलिनी नित्या नित्यानन्दमदोद्धता | मदिरानन्दकैवल्या मदिराक्षी मदालसा || १४२ || सिद्धेश्वरी सिद्धविद्या सिद्धाद्या सिद्धवन्दिता | सिद्धार्चिता सिद्धमाता सिद्धिः सर्वार्थसिद्धिदा || १४३ || मायामयी गुणातीता परं ज्योतिःस्वरूपिणी | परेशी परगा पारा परा सिद्धिः परा गतिः || १४४ || विमला मोहिनी आद्या मधुपानपरायणा | वेदवेदाङ्गजननी सर्वशास्त्रविशारदा || १४५ || सर्वदेवमयी नित्या सर्वशास्त्रमयी तथा | सर्वयज्ञमयी देवी सर्वधर्ममयीश्वरी || १४६ || सर्वयज्ञा महायज्ञा सर्वमन्त्राधिकारिणी | सर्वसम्पत्त्यधिष्ठात्री सर्वविद्यावली तथा || १४७ || प्. ८६८) सर्वसंक्षोभणी देवी सर्वमङ्गलकारिणी | त्रैलोक्याकर्षिणी देवी सर्वाह्लादनकारिणी || १४८ || सर्वसम्मोहिनी देवी सर्वस्तम्भनकारिणी | त्रैलोक्यजृम्भिणी देवी तथा सर्ववशङ्करी || १४९ || त्रैलोक्यरञ्जिनी देवी सर्वान्मादस्वरूपिणी | सर्वार्थसाधनी देवी सर्वदुःखविमोचनी || १५० || सर्वमृत्युप्रशमनी सर्वदुःखविनाशिनी | सर्वाङ्गसुन्दरी माता सर्वसौभाग्यदायिनी || १५१ || सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा | सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी || १५२ || सर्वाधारस्वरूपा च सर्वपापविनाशिनी | सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी || १५३ || सर्वलक्ष्मीमयी नित्या सर्वेप्सितफलप्रदा | सर्वदुष्टप्रशमनी परमानन्ददायिनी || १५४ ||
SK
त्रैलोक्यनिलया त्रिस्था त्रिमाता त्रितलस्थिता | त्रिविद्या च त्रयी माया त्रैलोक्या त्रिपुराक्षरा || १५६ || त्रियादवस्था त्रिविधा त्रिपुरा त्रिपुरास्थिता | त्रिधाम्नी त्रिदशाध्यक्षा त्रिघ्नी त्रिपुरवासिनी || १५६ || त्रिवर्गा त्रिगुदी स्त्रिस्था त्रिमूर्त्तिस्त्रिपुरेश्वरी | त्रिविधा त्रिदिवेशानी त्रिभिस्त्रिपुरसुन्दरी || १५७ || त्रिपुरा श्रीस्त्रिजननी त्रिभुक् त्रिपुरभैरवी | ॐ || १५८ || प्. ८६९) इति श्रीपुरसुन्दर्या मन्त्रं नामसहस्रकम् | गुह्याद् गुह्यतरं पुत्र तव प्रीत्या प्रकीर्त्तितम् || १५९ || गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः | नातः परतरं स्तोत्रं नातः परतरं जपः || १६० || नातः परतरं पुण्यं नातः परतरा गतिः | स्तोत्रं नामसहस्राख्यं मम वक्त्रविनिर्गतम् || १६१ || यः पठेत् परया भक्त्या शृणुयाद् वा समाहितः | मोक्षार्थी लभते मोक्षं स्वर्गार्थी स्वर्गमाप्नुयात् || १६२ || कामानवाप्नुयात् कामी धनार्थी लभते धनम् | विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः || १६३ || कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् | गुर्विणी जनयेत् पुत्रं कन्या विन्दति सत्पतिम् || १६४ || मूर्खोऽपि लभते शास्त्रं चौरोऽभिलभते गतिम् || १६५ || संक्रान्त्याञ्च चतुर्द्दश्यामष्टम्याञ्च विशेषतः | पौर्णमास्याममावास्यां नवम्यां भौमभार्गवे || १६६ || पठेद् वा पाठयेद् वापि शृणुयाद् वा समाहितः | गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः || १६७ || स मुक्तः सर्वपापेभ्यः कामेश्वरसमो भवेत् | लक्ष्मीवान् पुत्रवाञ् श्रीमान् वल्लभः सर्वयोषिताम् || १६८ || तस्य वश्यं भवेदाशु त्रैलोक्यं सचराचरम् | रुद्रं दृष्ट्वा यथा देवा विष्णुं दृष्ट्वा यथामराः || १६९ || पन्नगा गरुडं दृष्ट्वा सिंहं दृष्ट्वा यथा गजाः | मण्डूका भोगिनं दृष्टा मार्ज्जारं मूषिका यथा || १७० || प्. ८७०) शत्रवस्तु पालयन्ते तस्य वक्त्रावलोकनात् | अग्निचौरभयं तस्य दर्शनान्नैव सम्भवेत् || १७१ ||
SK
पातका बहवः सन्ति मेरुमन्दरसन्निभाः | भस्मसात् कुरुते श्रीघ्रं तृणं वह्निहुतं यथा || १७२ || एकधा पठनादेव सर्वपापक्षयो भवेत् | नश्यन्ति बहवो रोगा दशधावर्त्तनेन च || १७३ || शतधावर्त्तनादेव वाचां सिद्धिमवाप्नुयात् | सहस्रं पठते यस्तु खेचरो जायते नरः || १७४ || सहस्रदशकं यस्तु पठेद् वै भक्तिमान् नरः | सा तस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम् || १७५ || लक्षवारन्तु संपूर्णं स्तोत्रराजं पठेत् सुधीः | भवपाशाद् विनिर्मुक्तो मम तुल्यो न संशयः || १७६ || सर्वतीर्थेषु यत् पुण्यं सर्वयज्ञेषु यत् फलम् | सर्ववेदेषु यद्धर्मः सर्वदानेषु यत् फलम् || १७७ || सर्वशास्त्रेषु प्रोक्तेषु यत् फलं परिकीर्त्तितम् | तत् फलं कोटिगुणितं सकृत् पाठाल्लभेन्नरः || १७८ || श्रुत्वा महातिबलवान् पुत्रवान् धनसम्पदः || १७९ || देहान्ते परमं स्थानं यत् सुरैरपि दुर्लभम् | स यास्यति न सन्देहः स्तवराजस्य कीर्त्तनात् || १८० || इति श्रीपूर्णानन्दपरमहंसविरचिते श्री-तत्त्वचिन्तामणौ पञ्चविंशतितमः प्रकाशः || २५ || षड्विंशतितमः प्रकाशः [महायन्त्रसंस्कारकथनम्] अथोच्यते महायन्त्रसंस्कारः सर्वभूतिदः || १ || शुभेऽह्नि स्नानमाचर्य शुभे लग्ने शुभे क्षणे | कृतनित्यक्रियो मन्त्री प्राङ्मुखो वाप्युदङ्मुखः || २ || भूतशुद्ध्यादिकं कृत्वा कल्पोक्तन्यासमाचरेत् | ततः सङ्कल्प्य शुद्धात्मा शिवमन्त्रविशोधितम् || ३ || पञ्चगव्यं समानीय तत्र यन्त्रं समाहितः | सुवर्णादिमणौ कॢप्तं क्षिपेत् प्रणवमुच्चरन् || ४ || तदुद्धृत्य सुवर्णादौ पात्रं संस्थाप्य मन्त्रवित् | पञ्चामृतेन तीर्थेन जलेन शीतलेन च || ५ || सहस्रशीर्षमन्त्रेण मूलमन्त्रपुरःसरम् | सुस्नाप्य च विशुद्धेन जलमुत्तोल्य तैजसे || ६ || सिंहासनादावारोप्य कुङ्कुमाद्यैर्विलेपयेत् | पीठपूजां ततः कुर्यात् स्वकल्पोक्तविधानतः || ७ || कुशैः स्पृशन् मन्त्रराजं शतमष्टोत्तरं जपेत् || ८ || [यन्त्र-गायत्त्री]
SK
प्रणवं मन्त्रराजाय विद्महे पदमुद्धरेत् | महामन्त्राय धीरूपं लिखेत्ततो महीति च || ९ || प्. ८७२) तन्नो यन्त्रः प्रचोरूपं दयादेषा प्रकीर्त्तिता | इमां यन्त्रस्य गायत्त्रीं जप्त्वा देवत्वमालभेत् || १० || [इष्टदेवतापूजनोपदेशः] यथेष्टदेवतां ध्यात्वा मुद्रयावाहयेत् क्रमात् | जीवन्यासं ततः कृत्वा पूजयेदिष्टदेवताम् || ११ || उपचारैः षोडशभिर्नानाविभवविस्तरैः | नृत्यगीतैश्च वाद्यैश्च पञ्चघोषपुरःसरम् || १२ || ततो जपेदिष्टमन्त्रमष्टोत्तरसहस्रकम् | ततः कल्पोक्तमासाद्यहविषा संस्कृतेऽनले || १३ || अष्टोत्तरशतं हुत्वा गुरुं विभवपूर्वकम् | तोषयेत् स्वर्णरत्नाद्यैः प्रदद्याद्दक्षिणामपि || १४ || [उपचारमुद्रोपदेशः] षोडशोपचारमुद्राया उच्यन्ते लक्षणान्यथ | प्रसारयेदुभौ हस्तौ हृद्देशे विनियोजयेत् || १५ || अङ्गुल्यो विस्तृताः कार्या मध्येऽङ्गुष्ठौ तु विन्यसेत् | देवतासनविन्यासपञ्चमुद्रां प्रदर्शयेत् || १६ || ईषन्नम्राङ्गुलिर्ज्ञेया संवृताङ्गुष्ठकन्दरम् | नम्रे कनिष्ठतर्जन्यौ करयोरग्रसङ्गते || १७ || मध्यमानामिका कुर्यादियमासनमुद्रिका | इषन्नम्राङ्गुलिर्दक्षा संवेष्ट्याङ्गुष्ठकं परम् || १८ || स्वागते स्वस्तिका मुद्रा मध्यमूलगताङ्गुली | उपचारे स्वागते तु प्रयोक्तव्या विपश्चिता || १९ || प्. ८७३) तौ च प्रसारितौ हस्तौ पाद्यमुद्रा प्रकीर्त्तिता | संयुक्तानामिकाङ्गुष्ठौ तिस्रोऽन्याः संप्रसारिताः || २० || मधुपर्कस्य सा मुद्रा गदिता तन्त्रवेदिभिः | मुष्टियुक्तं तथा नेत्रमङ्गुष्ठाग्रमधोमुखम् || २१ || मध्यमाङ्गुष्ठकौ लग्नौ तिस्रोऽन्याः सुप्रसारिताः | वस्त्रमुद्रा समाख्याता वस्त्रमुद्राप्रवर्द्धिनी || २२ || कनिष्ठाङ्गुलिकौ लग्नौ त्रिस्रो मध्याः प्रसारिताः | यज्ञोपवीतमुद्रेयं कथिता मन्त्रपारगैः || २३ || मधुपर्कं समुत्ताना मुद्रा लग्नाङ्गुली मता | युक्ताऽनामिकयाऽङ्गुष्ठा गन्धमुद्रेति कीर्त्तिता || २४ || उत्थिताऽधोमुखी मध्या बद्धाङ्गुष्ठा यदीतरा | पुष्पमुद्रा समाख्याता पुष्पदानविवर्द्धिनी || २५ ||
SK
अङ्गुष्ठं तर्ज्जनीलग्नं तिस्रः सङ्कुचिताः पराः | मुद्रा धूपप्रदाने स्याद्देवानां तुष्टिकारिणी || २६ || उत्ताना पौष्पिकी मुद्रा दीपमुद्रेति कथ्यते | पञ्चाङ्गुल्यग्रसंलग्नप्रोत्थिताऽधोमुखी यदि || २७ || त्रिधा निबद्धा मुद्रेयं नैवेद्यस्य प्रकीर्त्तिता | द्वौ करौ पृष्ठसंलग्नौ भ्रामयेद् ग्रथिताङ्गुली | स्फोटिकेति समाख्याता प्रणामे तां प्रदर्शयेत् || २८ || प्. ८७४) [गन्धादिमुद्राणां प्रकारभेदः] अथवा दर्शयेन्मुद्रा इमा गन्धादिभिः क्रमात् | कनिष्ठाऽङ्गुष्ठसंसक्ता गन्धमुद्रा प्रकीर्तिता || २९ || अङ्गुष्ठस्य च पृष्ठस्य युक्ता धूपस्य तर्ज्जनी | दीपस्य मध्यमानामा नैवेद्यस्य प्रकीर्त्तिता || ३० || इतराङ्गुलिसंयोगात् पञ्च मुद्राः प्रकीर्त्तिताः || ३१ || गन्धादिष्वपि दत्तेषु मुद्राश्चैताः प्रदर्शयेत् | [मुद्रामाहात्म्यम्] मुद्रया यत् कृतं कर्म तदनन्तफलं भवेत् || ३२ || [देवतायाः प्रतिष्ठाविधिः] अथ वक्ष्ये देवतायाः प्रतिष्ठानविधिक्रमम् | पुण्यक्षेत्रे पुण्यकाले शल्यादिरहिते स्थले || ३३ || मन्त्रकल्पावसाने च पूर्वेद्युरधिवासयेत् | सायं सङ्कल्प्य विधिवद् घटस्थापनपूर्वकम् || ३४ || गणेशादीन् समभ्यर्च्य दिक्पालान् परिपूजयेत् | यथाशक्त्युपचाराद्यैः पूजयेन्मूलदैवतम् || ३५ || सुगन्धितैलगन्धाद्यैर्दिव्यान्तमधिवासयेत् | चन्द्रेणेत्यादिमन्त्रेण जयघोषपुरःसरम् || ३६ || इत्यधिवासनं कृत्वा संयतो विजितेन्द्रियः | प्रातर्निर्वर्त्त्य नित्यन्तु कॢप्तयागस्थले विशेत् || ३७ || पताकाध्वजसंकीर्णे दिव्यमण्डपमण्डिते | वितानचामरच्छत्रपुष्पमालाविभूषिते || ३८ || प्. ७७५) मङ्गलाङ्कुरपात्राद्यैः सकलैः परिपूरिते | मण्डलं सर्वतोभद्रं वेद्या उपरि संलिखेत् || ३९ || प्राङ्मुखो वाग्यतो भूत्वा सङ्कल्प्याभीष्टसिद्धये || पञ्चशुद्धिं समाचर्य कुम्भमक्षतसंयुतम् || ४० || संस्थाप्य मण्डले तत्र यजेताधारशक्तिकाम् | पीठमन्वन्तिमास्तत्र स्थापयेत् सकलं बुधः || ४१ ||
SK
दीक्षा क्रमोक्तविधिनाऽभिषेककलसं तथा | पञ्चगव्यं ततः कृत्वा शिवमन्त्रविशोधितम् || ४२ || तेन सुस्नापयेन्मन्त्री प्रतिमां प्रणवं जपन् | पञ्चामृतेन हविषा दध्ना च पयसा क्रमात् || ४३ || तत उद्वर्त्तनं कृत्वा जलेन स्नापयेदपि | वाससा जलमुत्तोल्य दुकूले परिधापयेत् || ४४ || नयेत् स्थापितकुम्भस्य समीपे देवतां बुधः | ततो ध्यात्वा यथोक्तां तां मुद्रयावाहयेत् क्रमात् || ४५ || लेलिहामुद्रया हस्तं विन्यस्य देवताहृदि | प्राणप्रतिष्ठामन्त्रन्तु दशधा प्रजपेत्ततः | तत्तद्दैवतगायत्त्रीं शतमष्टोत्तरामपि || ४६ || ततः कल्पोक्तविधिना परिवारसमन्विताम् | पूजयेद्देवतां पश्चात् स्ववामे स्थानमण्डपे || ४७ || अष्टपत्रसमायुक्ते पीठोपरि निधाय ताम् | सुगन्धिदिव्यतैलेन दद्यादभ्यङ्गमेव हि || ४८ || प्. ८७६) मूलेन पावमानेन सहस्रशीर्षया बुधः | स्नापयेद् भक्तिभावेन अभिषेकघटामृतैः || ४९ || कर्पूरागुरुकस्तूरी प्रसूनचन्दनोदकैः | नानातीर्थोदकेनापि स्वर्णरत्नान्वितैर्जलैः | सर्वौषधिजलैर्गन्धजलैर्मूलेन सेचयेत् || ५० || ततः शुद्धदुकूलेन जलमुत्तोल्य साधकः || ५१ || परिधाप्य दुकूले द्वे स्वर्णनिर्मितदोलया | मण्डले तां समानीय नृत्यैर्गीतैर्जयस्वनैः || ५२ || षोडशैरुपचारैस्तु पूजयेत् कल्पमानतः | [होमोपदेशः] कुण्डे वा स्थण्डिले मन्त्री हविषा संस्कृतेऽनले || ५३ || अष्टोत्तरशतं हुत्वा श्रपयित्वा चरुं ततः | यथाविधिविधानेन स्रुचा होमं समाचरेत् || ५४ || ग्रासप्रमाणं चरुकं मूले नाहुतिमन्त्रवित् | घृतस्रुवं तत्र दत्त्वा जुहुयादग्निसंमुखे || ५५ || पञ्चविंशतिवारं हि देवतोद्दिश्य यत्नतः | चरुणा दिक्पतिभ्यश्च दद्यात् पूर्वादितो बलिम् || ५६ || तत आवृतिदेवेभ्यो घृतेनाहुतिमाचरेत् | अथवा चरुणा तद्वत्ततो देवसमीपगे || ५७ || गत्वा पुष्पाञ्जलीन् पञ्च प्रद्द्याच्छत्रचामरे | अष्टोत्तरशतं मन्त्रं जप्त्वा मूलं समाहितः || ५८ ||
SK
अभिषिञ्चेत्ततो देवं पूजाकुम्भस्थपल्लवैः | मातृका मूलमन्त्रञ्च जपन् जयजयस्वनैः || ५९ || प्. ८७७) गत्वा होमसमीपन्तु दद्यात् पूर्णाहुतिं ततः | दक्षिणां गुरवे दद्यात् स्वर्णं कर्षप्रमाणतः || ६० || अर्द्धार्द्धांशं चतुर्थांशं यथाविभवपूवकम् | ततः सन्तोषयेद् विद्वान् गृहीत्वा आशिषो द्विजान् || ६१ || इति देवप्रतिष्ठानमुक्तं सर्वसमृद्धिदम् | [प्रतिष्ठाफलकीर्त्तनम्] यः करोति प्रतिष्ठानं दैवतस्य महात्मनः || ६२ || वसेद्द्वित्रिसहस्राणि स्वर्गे देवप्रमाणतः | ततो लक्षसहस्राणि ब्रह्मलोके महीयते || ६३ || अथवा कोटिकल्पान्तं मोहयेदच्युते पदे || ६४ || [मठोत्सर्गविधिः] अथ वक्ष्ये गृहोत्सर्गं वास्तुयागपुरःसरम् | शरत्काले महापुण्ये पुण्यक्षेत्रे शुभेऽहनि || ६५ || दुर्गायै मन्दिरं दत्त्वा स्व-स्व-मन्त्रानुसारतः | पूर्वोक्तं सर्वमाचर्य वृद्धिश्राद्धपुरःसरम् || ६६ || ततः सङ्कल्प्य विधिवन्मन्दिरे सुपरिष्कृते | पताकाध्वजसङ्कीर्णे तुङ्गतोरणशोभिते || ६७ || छत्रचामरमालाद्यैर्वितानैरुपशोभिते | विलिख्य सर्वतोभद्रं स्थापयेद् कलसन्तथा || ६८ || पूजयेदिष्टदेवन्तु षोडशैरुपचारकैः | अङ्गदेवान् समभ्यर्च्य तत्तद्देवगणान् यजेत् || ६९ || प्. ८७८) वक्ष्यमाणेन मनुना शतमष्टोत्तरं हुनेत् | दशाक्षरेण दुर्गायै दद्यान्मन्दिरमुत्तमम् || ७० || भुवनेशीमहाबीजं दुर्गेयुगमुदाहृतम् | रक्षिणित्र्यक्षरं प्रोच्य वह्निजायावधिर्मनुः || ७१ || [मठदानफलम्] मन्त्रेणानेन यो दद्यान्मन्दिरं सुप्रतिष्ठितम् | सर्वैश्वर्यमवाप्नोति वसेत् कल्पायुतं दिवि || ७२ || [साधनोपदेशः] इह पीठवरे दिव्ये साधयेत् सिद्धिमुत्तमाम् | सप्तम्यां संयतो भूत्वा महाष्टम्यां जयेच्छिवाम् || ७३ || महास्नानं महापूजां दद्यात् सन्धौ बलिं ततः | प्रदीपं मस्तके दत्त्वा तद्रक्तैः पूजयेच्छिवाम् || ७४ || कृत्वासनं छागदेहं प्रजपेन्मनसा धिया | ताञ्च ध्यायन् विभीतश्चेत् साधको विजितेन्द्रियः | इह लोके भवेद्राजा परलोके शिवोपमः || ७५ ||
SK
[साधने फलविशेषोपदेशः] यः सदा भावयेद्देवीं स्वात्मानं तन्मयं नरः | तस्य वश्यं जगत् सर्वं यक्षराक्षसमानुषम् || ७६ || भावेन तन्मयो भूत्वा यं यं पश्यति चक्षुषा | स स दासो भवेत् सार्द्धं सा सा याति कुलाङ्गना || ७७ || ७१ | भुवनेशीति | एतेन ह्रीं दुर्गे दुर्गे रक्षिणि स्वाहा इति मन्त्रो भवति | प्. ८७९) भावेन तन्मयो भूत्वा यं पश्यति रुषान्वितः | हतश्रीर्जायते सद्यः सहसा दुःखितो भवेत् || ७८ || भावेन तन्मयो भूत्वा प्रसन्नो यं प्रपश्यति | स मुक्तः सर्वपापेभ्यो दासवज्जायते ध्रुवम् || ७९ || भावेन तन्मयो भूत्वा यं यं भावयते मृतम् | आशु नश्यति निश्रीकः सभृत्यबलवाहनः || ८० || भावेन तन्मयो भूत्वा यं यं विद्वेष्टि साधकः | सर्वलोके स विद्विष्टो जायते नात्र संशयः || ८१ || [होमप्रशंसा] एकतः सर्वकर्माणि एकतो जपभावना | सर्वाधिकं होमकर्म होमात् किं वा न सिध्यति || ८२ || [होमाकरणनिन्दा] अनया दीक्षितो मन्त्री यदि होमविवर्ज्जितः | दुःखं प्राप्नोति मनसा कायेन च न संशयः || ८३ || अकुर्वतामग्निहोत्रमग्निर्भूत्वा महेश्वरी | धनानि शीघ्रं ग्रसति गृहक्षेत्रपशूनपि || ८४ || बहुदुःखेनार्ज्जितानि सञ्चितानि चिरेण यत् | आत्मप्राणाधिकान्याशु भूत्वाग्निर्ग्रसतीश्वरी || ८५ || [अग्निहोत्रप्रशंसा] अग्निहोत्रं विना नैव सम्पदां भाजनं भवेत् | अग्निहोत्रपरस्येह चाग्निर्भवति शीतलः || ८६ || गृहक्षेत्रादिवीत्तेषु प्रयुक्तोऽपि दहेन्न तत् | अग्नौ वसति देवेशी तस्मादग्नौ हुनेत् सदा || ८७ || प्. ८८०) गुरुमभ्यर्च्चयेन्नित्यं धनैस्त्रिभिः सुशोभनैः || ८८ || मिलित्वा साधकैः सर्वैर्नित्यं समयमाविशेत् | अदीक्षितान् द्विजांश्चापि त्यक्त्वा कर्म समाचरेत् || ८९ || [चक्रप्रशंसा] चक्रे प्रवृत्ते तत्रस्थाः सर्वे वर्णा द्विजातयः | निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् || ९० || देवीपुत्रेषु तिष्ठत्सु नैकः समयमाविशेत् | अशुभं जायते तस्य सिद्धिहानिश्च जायते || ९१ || [वित्तशाठ्यनिषेधः]
SK
वित्तशाठ्यं परित्यज्य सर्वकर्माणि साधयेत् | वित्तशाठ्यं निहन्त्याशु पुत्रमायुर्यशो धनम् || ९२ || [गुरुदेववञ्चननिषेधः] गुरुं देवं वञ्चयित्वा यः कुर्याद्धनसञ्चयम् | राजभिर्नीयते चैव तस्करैर्नीयतेऽथवा || ९३ || अधितिष्ठन्ति यक्षाश्च वह्निर्दहति वा चिरात् | त्यक्त्वा निखातं म्रियते सत्यं तेन न भुज्यते || ९४ || [वह्नौ होमस्य गुरवे दानस्य च प्रशंसा] हुतमेकगुणं वह्नौ दत्तमेकगुणं गुरौ | लभ्यते कोटिगुणितं विश्वसेन्न परामृशेत् || ९५ || यस्य नास्ति क्व विश्वासः कुरुते धनसञ्चयम् | राजभिर्नीयते चैव तस्करैर्नीयतेऽथवा || ९६ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्री-तत्त्वचिन्तामणौ षड्विंशतितमः प्रकाशः || २६ || श्रीतत्त्वचिन्तामणिः समाप्तः ||

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. tattvacintāmaṇi chapters 16 thru end [M00088].

Source