1 SK प्. १अ) ॐ श्रीमहागणपतये नमः | श्रीरामचंद्राय नमः | श्रीकृष्णाय नमः | सरस्वत्यै नमः | श्रीदक्षिणमूर्तिगुरवे नमः | ॐ वेदवेद्यमुमाकांतं क्रमाराभ्यामलंकृतं | नंदीश प्रमुखैस्सेव्यं प्रणमामीष्टसिद्धये || १ || शंकरं शंकराचार्यं व्यासं नारायणात्मकं | सरस्वतीं च ब्रह्माणं प्रणमामि पुनः पुनः || २ || गोविन्देति समाक्रंद्य रक्षां प्राप भयातुरः | यं गजः करुणामूर्तिं तं गोविंदभजेन्वहं || ३ || आपन्नायं समाश्रित्य रक्षां प्राप सुदुर्लभां | कृष्णाकृष्णस्य महिषी तं कृष्णं संश्रयेन्वहं || ४ || प्रकाशित ब्रह्मतत्वं प्रकृष्टगुणशालिनं | प्रणवस्योपदेष्टारं प्रणमाम्यनिशं गुरुं || ५ || यो मे विश्वेश्वर क्षेत्रं विश्वेश्वर समो गुरुः | समध्यास्ते स्वयं ज्योतिर्वाणी संज्ञो भजामि तं || यस्य शिष्य प्रशिष्याद्यैर्व्याप्ते यं सांप्रतं महीइ | सर्वज्ञस्य गुरोस्तस्य चरणौ संश्रये सदा || गुरोरपि गरीयान्मेयः कलाभिरलंकृतः | अद्वैतानंदवाण्याख्यस्तं वंदे शर्मवारिधिं || ओतप्रोतमिदे सर्वं यस्मिन् सच्चित्सुखात्मके | प्. १ब्) पर्यवस्यंति वेदांता यत्र चाहं तदक्षरं || श्रीकृष्णचरण द्वंद्वं प्रणिपत्य निबंधनं | व्याकुर्वे शास्त्रसिद्धांतलेशसंग्रह संज्ञितं || आचार्यचरणद्वंद्व स्मृतिर्लेखक रूपिणं | मां कृत्वा कुरुते व्याख्यां नाहमत्र प्रभुर्यतः ||
2 SK कुमाराभ्यां विघ्नेश्वर सुब्राह्मण्याभ्यां शंकरं शंकरस्य शिवस्यावताररूपं शंकराचार्यं भगवत्पादं | तथा च शिवपुराणवचनं व्याकुर्वन् व्याससूत्रार्थं श्रुतेरर्थं यथोचिवान् | श्रुतेर्न्याप्यस्स एवार्थश्शंकरस्सवितानन इत्यादि | व्यासं सूत्रकृतं वादरायणं नारायणात्मकं नारायणस्यावताररूपं तथा च वचनं द्वापुरे द्वापरे विष्णुर्व्यासरूपी महामुनिरिति न ह्यन्यः पुंडरीकाक्षान्महाभारत कृद्भवेदित्यादि च ब्रह्माणं सरस्वती भर्तारं हिरण्यगर्भं आपन्ना सभायां वस्त्रापहारनिमित्तामापदं प्राप्ता रक्षां वस्त्रकोटिलाभ निमित्तां कृष्णा द्रौपदी कृष्णस्य अर्जुनस्य प्रकाशितं शिष्यशतेभ्य उपदिष्टं ब्रह्मतत्वं येन गुरुणासु तथोक्तस्तं प्. २अ) स्वयं ज्योतिर्वाणी संज्ञः | स्वयं प्रकाश सरस्वती संज्ञः | गरीयान् गुरुः | इदं सर्वं यस्मिन् सच्चित्सुखात्मके अक्षरे ब्रह्मणि | ओत प्रोत मध्यस्तं वेदांताश्च यत्राक्षरे विषये पर्यवस्यंति तात्पर्येण बोधहेतवो भवंति तदह || ॐ स्वस्ति श्रीगणेशाय नमः | अधिगतभिदा पूर्वाचार्यानुपेत्य सहस्रधासरिदिव मही भेदात् संप्राप्यशौरिपदोहुता | जयति भगवत्पाद श्रीमन्मुखांबुजनिर्गता जननहरणी सूक्तिर्ब्रह्माद्वयैक परायणा || १ || ॐ स्वस्ति श्रीगणेशाय नमः | मितिसंबंधः | अक्षरे सर्वस्य ओतप्रोत त्वोक्त्या ब्रह्मणस्सर्वाधिष्टानत्व रूपं तटस्थलक्षणमुक्तं | सच्चित्सुखात्मक इत्यनेन सत्य ज्ञानानंद स्वरूपात्मकं स्वरूपलक्षणमुक्तं | तत्र वेदांतानां पर्यवसानोक्त्योक्त रूपे ब्रह्मण्यक्षरे वेदांता एव प्रमाणमित्युक्तं नाहमत्रप्रभर्यत इत्यत्र व्याख्याने प्रभुः समर्थ इत्यर्थः | चिकीर्षितस्य ग्रंथस्य निर्विघ्न परिसमाप्ति प्रचय गमनयोस्सिद्धये भगवत्पादीय भाष्य स्तुति मुखेन भाष्य प्रतिपाद्य ब्रह्मतत्वानुसंधान लक्षणं मंगलानुचरणं करोति | अधिगतभिदेति | दृष्टांतमुखेन श्रीमूर्तिचरणारविंद गंगयोरनु-
3 SK प्. २ब्) संधानलक्षणमपि मंगलं करोति | शौरीति | शौरी पदोद्गता सरित्मही भेदान् संप्राप्य यथा सहस्रधा अधिगतभिदा तथा भगवत्पाद श्रीमन्मुखांबुजनिर्गता ब्रह्मा द्वयैक परायणाजनन हरणी सुक्तिः | पूर्वाचार्यान् व्याख्या हृन्व्याख्येयत्वेनोपेत्यार्थतस्सहस्रधा अधिगतभिदासती जयतीति संबंधः | अत्र सूक्तिस्सहस्रधाधिगत भिदेति सूक्ति विशेषणेन स्वग्रंथे प्रदर्शयिष्यमाण सिद्धांतभेदानां सर्वेषां भगवत्पाद श्रीमन्मुखांबुजनिर्गता सूक्तिरेव मूलमिति सूचितं अधिगतभिदा प्राप्तभेदा सरिद्गंगा मही भेदान् भूप्रदेशान् शौरेः श्रीमहाविष्णोः पदोद्गता पादांबुज निर्गता जयति सर्वोत्कर्षेण वर्तत इति स्तुतिः | भगवत्पादस्य श्रीमन्मुखमेवांबुजं कमलं तस्मान्निर्गता मुखे अंबुजत्वारोपे कांतिमत्वरूपं श्रीमत्वं निमित्तमिति सूचनार्थं | श्रीमदिति विशेषणं जननहरणी जननं संसारस्तत्स्वजन्य ब्रह्मज्ञानद्वाराहरतीति जननहरणीइ | सूक्तिः ग्रंथतोर्थतश्च निरवद्यं भाष्यं | ब्रह्माद्वयैक परायणा ब्रह्म च तदद्वयं च ब्रह्माद्वयं | ब्रह्माद्वयं च तदेकं च ब्रह्माद्वयैकं परायणं परमतात्पर्य विषयो यस्यास्सूक्तेस्सा ब्रह्मा द्वयैक परायणा | अनेन विशेषणेन द्वितीय प्रपंच शून्यमेकरूपं सत्यज्ञानानंदलक्षणं ब्रह्मसूक्तिपदसंगृहीतस्य भाष्यात्मक शास्त्रस्य विषय इत्युक्तं भवति | जनन हरणीति विशेषणेन शास्त्रस्य मूक्तिः प्रयोजनमित्युक्तं | अर्थात् प्. ३अ) मुक्तिकामः शास्त्रस्याधिकारी मुक्तेरधिकारीणश्च प्राप्य प्राप्तृभावलक्षणस्संबंधश्च सूचितः || १ || प्राचीनैर्व्यवहार सिद्धविषयेष्वात्मैक्यसिद्धौ परं संनह्यद्भिरनादरात्सरणयो नानाविधा दर्शिताः | तन्मूलानिहसंग्रहेण कतिचित् सिद्धांत भेदान् धियः | सुद्धौ संकलयामितात चरण व्याख्या वचः ख्यापितान् || २ ||
4 SK एवं श्रुत्यर्थाभ्यां साक्षाष्ट श्लोकेन भाष्यात्मक वेदांत शास्त्रस्य विषयादिकं कथयता ग्रंथकारेण स्वकीय ग्रंथस्य वेदांतशास्त्रप्रकरणत्वा तस्यापि तदेव विषयादीति सूचितं भवति | इदानीं चिकीर्षितं प्रतिजानीते | प्रोचीनैरिति | प्राचीनैराचार्यैरात्मैक्य सिद्धौ परमत्यंतं सन्नद्यद्भिस्तात्पर्यवद्भिरात्मैक्य सिद्ध्युपायतया व्यवहार सिद्ध विषयेषु भ्रांति मात्र सिद्धपदार्थेषु जीवेश्वर जगदूपेष्वनादरात्सरणयः प्रकारामानाविधां परस्पर विरुद्धाः दर्शिताः | अनादरादित्यनेन परस्पर विरुद्धेषु जीवैकत्व नानात्व तत्प्रतिबिंबत्वादि रूपप्रकारेष्वभिनिवेशवतामाचार्याणां भेदवादिनामिवानात्मत्वं स्यादिति शंका निराकृता भवति | विवक्षित वस्तु प्रतिपत्युपायतया विरुद्ध नानाप्रकार प्रदर्शनमाचार्याणां न दोषाय भवति | किंत्वलंकारायैव भवति प्. ३ब्) प्रतिपतृणां प्रज्ञा वैचित्र्येण कस्यचित्प्रतिपत्तुः | केनचित् प्रकारेण मुक्तिसाधन ब्रह्मात्मैक्य ज्ञान लाभात् | तदुक्तं सुरेश्वराचार्यैः | यया यया भवेत् पुंसां व्युत्पतिः प्रत्यगात्मनि | सा सैव प्रक्रियेह स्यात् साध्वी सा चानवस्थितेति || व्युत्पतिःर्बोधः प्रत्यक् चासावात्मा च प्रत्यगात्मा सर्वांतरश्चिदात्मा तस्मिन् विषये प्रक्रिया प्रकारः इह वेदांत शास्त्रे साध्वी निरवघा गुणभूता चानवस्थिता नानाविधा परिमले दीक्षितैरप्येतदुक्तमकल्पितवस्तु प्रतिपत्युपायतया कल्प्यमानेषु पदार्थेषु विरोधो न दोषावहः | यथा तात्विका रुंधती प्रतिपत्युपायतया नानापुरुषैः कल्प्यमानासु तत्प्राच्योदीच्यादि नक्षत्ररूपासुस्थूलां रुंधतीषु विरोधो न दोषावह इति तन्मूलात् प्राचित प्रदर्शित नानाविध सरणी मूलात् | इह स्वग्रंथे धियः शुद्धौ स्वबुद्धिपरिष्काराय वस्तुतस्तु लोकानुग्रह एव प्रयोजनमिति बोध्यं | तात चरणानां पितृचरणानां व्याख्यारूपैर्वचोभिः ख्यापितान् ज्ञापितान् अनेन स्वस्य ब्रह्मविद्यामाचार्या देवलब्ध्वां दर्शयति स्वग्रंथेस्योपादेयत्व सिद्धये
5 SK तेषूपपादनापेक्षान्यक्षान्प्रायो यथामति युक्त्योपपादयन्नेव लिखाम्यनति विस्तरान् | इ | तत्र तावत् आत्मा वा अरे द्रष्टव्यः श्रोतव्य इत्यधीत सांग स्वाध्यायस्य वेदांतैरापाततः प्. ४अ) प्रतिपन्ने ब्रह्मात्मनि समुदित जिज्ञासस्य तज्ज्ञानाय वेदांत श्रवणे विधिः प्रतीयमानः किं विध इति चिंत्यते | तिस्रः खलु विधेर्विधाः अपूर्वविधिर्नियमविधिः परिसंख्याविधिश्चेति | तत्र कालत्रयेपि कथमप्यप्राप्तस्य प्राप्ति फलको विधिराद्यः | यथा ब्रीहीन् प्रोक्षतीति | नात्र ब्रीहीणां प्रोक्षणस्य संस्कार कर्मणो विना नियोगं मानांतरेण कथमपि प्राप्तिरस्ति | पक्षप्राप्तस्या प्राप्तांश परिपूरणो विधिर्द्वितीयः | यथा ब्रीहीन वहंतीति || इह संग्रहेण सिद्धांत भेदान् संकलयामीत्युक्तमेव विवृण्वत् | ननु प्राचीनग्रंथ सिद्धांतानामेव स्वग्रंथे संग्रह इत्युक्तमयुक्तं प्राचीनग्रंथेष्वविद्यमानस्यापि युक्तिभिरुपपादनस्य स्वकीय संग्रहग्रंथे तत्र तत्रोपलंभादिति शंकांतिराकरोति | तेष्विति स्वग्रंथे प्रथमं श्रवणविधिर्विचार्यत इत्याह | तत्र तावदिति | श्रवणविधावधिकारिणं निर्दिशति | अधीतेति | वेदांतैर्जनितापातप्रतिपति विसये ब्रह्माभिन्नात्मति सस्यक् दार्घ्येनोदिता उत्पन्ना जिज्ञासा निर्णय रूपज्ञानेछा यस्येत्यर्थः | अधीत वेदस्यापि शिक्षाकल्प व्याकरणादीनां वेदांगानामध्ययनाभावे सति व्युत्पतेरभावाज्जिज्ञासा प्. ४ब्) हेतु भूतापातप्रतिपतिरपि न संभवेदित्यभिप्रेत्याधीत सांगस्वाध्यायस्येत्युक्तं न च निर्दोष वेदांतजन्यायाः ब्रह्मात्मप्रतिपत्तेः कथमापातत्वमिति वाच्यं | नाहं ब्रह्मेति प्रत्यक्षविरोधादि शंकया प्रमारूपायामपि ब्रह्मात्म प्रतिपतावप्रामाण्यशंकास्पदत्वरूपस्यायातत्वस्य संभवादिति भावः | वेदांत श्रवणे श्रोतव्य इति विधिः प्रतीयमान इति संबंधः | तद्ज्ञानायेति |
6 SK अप्रामाण्यशंकानास्पद ब्रह्मात्मज्ञानायेत्यर्थः | खलु शब्देनापूर्वविधित्वादि प्रकार त्रयस्य पूर्वतंत्रे प्रसिद्धिर्द्योत्पते | कालत्रयेपीति | कथमपि दृष्टार्थत्वेनादृष्टार्थत्वेन वा केनापि प्रकारेण कालत्रयेपि कदापि विधिं विना प्राप्तिरहितस्य प्रोक्षणादेः प्राप्तिफलको विधिराद्यः | अपूर्वविधिरित्यर्थः | ब्रीहीतिति द्वितीया श्रुत्या ब्रीहीणां संस्कार्यत्वावगमात् | प्रोक्षणस्य संस्कार कर्मत्वमुक्तमिति मंतव्यं | नियोगमिति विधायकशब्दमिर्त्यः || अत्र विध्यभावेपि पुरोडाशप्रकृतिद्रव्याणां तंडुलनिष्पत्याक्षेपादेवावहन न प्राप्तिर्भविष्यतीति न तत्प्राप्त्यर्थोय विधिः | किंत्वाक्षेपादवहन न प्राप्तौ तद्वदेव लोकावगतकारणत्वाविशेषान्नखविदलनादिरपि पक्षे प्राप्नुयादिति | अवहननाप्राप्तांश संभवात्तदंश प्. ५अ) परिपूरणफलः | द्वयोः शेषिणोरेकस्य शेषस्य वा एकस्मिन् शेषिणि द्वयोः शेषयोर्वा नित्य प्राप्तौ शेष्यंतरस्य शेषांतरस्य वा निवृतिफलकोविधि स्मृतीयः | यथाग्नि च यने इमामगृभ्णन् रशनामृतस्येत् पश्चाभिधानीमादत्त इति | यथा वा चातुर्मास्यांतर्गतैष्टि विशेषे गृहमेधीय आज्यभागौ यजतीति अग्नि च यनेऽश्वरशनाग्रहणं गर्दभरशनाग्रहणं चेति द्वयमनुष्ठेयं | तत्राश्वरशनाग्रहणे इमामगृभ्णत्रिति मंत्रोलिंगादेवरशनाग्रहण प्रकाशन सामर्थ्यरूपान्नित्यं प्राप्नोति | न तत्प्राप्त्यर्थस्तदप्राप्तांश परिपूरणार्थो वा विधिः | किंतु लिंगाविशेषाद्गर्दभरशना ग्रहणेपि मंत्रः प्राप्नुयादिति तन्निवृत्यर्थः | तथा गृहमेधी यस्य दर्शपूर्णमासप्रकृति कत्वादति देशादेवाज्यभागौ नित्यं प्राप्नुत इति न तत्र विधिस्तत्प्राप्त्यर्थस्तन्नियमार्थो वा किंत्वति देशात्प्रयाजादिकमपि प्राप्नुयादिति तन्निवृत्यर्थः ||
7 SK प्. ५ब्) पुरोडाशेति | दर्शपूर्णमासयोराग्नेयादि पुरोडाशादि द्रव्यं विहितं | व्रीहयस्तूत्पन्ने यागे यागानुवादेन विहितास्तथा च व्रीहीणामुत्पन्नशिष्टानामुत्पति शिष्ट पुरोडाशावरुद्धे यागे साक्षात्साधनत्वा योगात् | पुरोडाशप्रकृतिद्रव्यत्वेन यागसाधनत्वं पर्यवस्यति | पुरोडाश प्रकृतित्वं च व्रीहीणां तंडुल निष्पति द्वारकं तंडुलनिष्पतिश्च स्वकारणसाक्षिपति तंडुलनिष्पतौ च कारणमन्वयव्यतिरेकाभ्यामवहनन्निश्चितमिति विधि विनापि विधित्सितावहन न प्राप्तिरस्तीत्यर्थः | नन्वहननस्य लोकतः प्राप्तौ तस्य लोकत एव नित्य प्राप्तिरपि स्यादित्यत आह | किंत्वित्यादिना | आक्षेपादिति तंडुलनिष्पत्याक्षेपादित्यर्थः | किंत्ववहनना प्राप्तांश सद्भावा तदंश परिपूरण फल इति संबंधः द्वयोरिति | द्वयोः शेषिणोरेकस्य शेषस्य नित्यप्राप्तौ शेष्यंतरस्य निवृति फलकः एकस्मिन् शेषिणि द्वयोः शेषयोर्नित्य प्राप्तौ शेषांतरस्य निवृति फलको वा विधिस्तृतीय इति योजना न तदिति | प्राप्तत्वान्नतत्प्राप्त्यर्थः नित्यप्राप्तत्वान्नतदप्राप्तांशपूरणार्थो वेत्यर्थः | अति देशादेवेति | प्रकृतिवद्विकृतिः कर्तव्येवं रूपादित्यर्थः | न तत्र विधिरिति आज्यभागौ यजतीति विधिराज्यभागयोः | प्राप्त्यर्थो न भवति विधिं विना प्राप्तत्वात् तयोरप्राप्तांशपरिपूरणार्थो वा न भवति नित्यप्राप्तत्वात् किंतु तन्निवृत्यर्थ इति योजना ||
8 SK प्. ६अ) गृहमेधीयाधिकरणे पूर्वपक्षरीत्या इदमुदाहरणं | यत्र क्वचिदुदाहर्तव्यमित्युदाहृतं | न च नियम विधावपि पक्षप्राप्तावहनस्याप्राप्तांश परिपूरणे कृते | तदवरुद्धत्वात्पाक्षिक साधनांतरस्य नखविदलनादेर्न्निवृतिरपि लभ्यत | इति निवृति फलकत्वा विशेषान्नियम परिसंख्ययोः फलतो विवेकोन युक्त इति शंक्यं | विधितोवहन न नियमं विनाक्षेप लभ्यस्य नखविदलनादेर्निवर्तयितुमशक्य तयाऽप्राप्ताशं परिपूरणरूपस्य नियमस्य प्राथम्याद्विधेयावहन न गतत्वेन प्रत्यासन्नत्वाच्च तस्यैव नियमविधि फलत्वोपगमात् | तदनुनिष्पादिन्या अविधेपगतत्वेन विप्रकृष्टाया इतरनिवृतेः संनिकृष्टफलसंभवे फलत्वानौचित्यात् | एवं विविक्तासु तिसृषु विधेर्विधासु किं विधः श्रवणविधिरा श्रीपते तत्र प्रकटार्थकारादयः केचिदाहुः अपूर्वविधिरयमप्राप्तत्वात् | ननु आज्यभागौ यजतीति विधेरति देशप्रप्तेतरांगकलापपरिसंख्यापकत्वं प्. ६ब्) न सिद्धांत इत्यत आह | ग्रहमेधीयाधि करणेति | नियमविधावपीति परिसंख्याविधाविव नियमविधावपीत्यर्थः | तदवरुद्धत्वादिति | अवहननेनैवावरुद्धत्वात्तंडुलनिष्पत्याक्षेपस्य शांतत्वादित्यर्थः | फलत इति नियमविधेः पक्षे प्राप्तावहननादि क्रियाविधायकत्वात् परिसंख्याविधेः च नित्यप्राप्तक्रियादि विधायकत्वान्नियमपरिसंख्याविध्योः स्वरूपतो विवेकलाभेपि फलतो भेदो न युक्त इत्यर्थः | नियमस्य नियमविधिफलत्वोपगमे हेतु द्वयमाह | प्राथम्यादित्यादिना |
9 SK प्रत्यासन्नत्वादिति विधिं प्रतिप्रत्यासन्नत्वादित्यर्थः | विधेय क्रियागतत्वे प्रत्यासन्नत्वे हेतुः इतरनिवृत्यपेक्षया प्रथमोपस्थितत्वरूपे प्राथम्ये हेतुमाह | विधित इत्यादिना अशक्य तयेत्यंतेन इतरनिवृतेर्नियमविधिफलत्वानुपगमे हेतुन्द्वयमाह | तदनुनिष्पादिन्या इत्यादिना | अप्राप्तांशपरिपूरणोपस्थित्यनंतरमुपस्थिताया इत्यर्थः | अनेन विलंवितोपस्थिति कत्वमेको हेतुरुक्त इति मंतव्यं | द्वितीय हेतौ विप्रकृष्टत्वे हेतुमाह | अविधेपेति | व्यावृतिर्नामाननुष्टेयता अनंगता वा सा चानिधेपनखविदलनादि गतेत्यर्थः | इदानीं प्रकृतं श्रवणविधिविचारमारभते | एवमिति | अप्राप्तत्वादिति ब्रह्मसाक्षात्कारं प्रतिवेदांत श्रवणस्य साधनतायामानांतरादनधिगतत्वेनाप्राप्त्यर्थत्वादित्यर्ह्तः || प्. ७अ) न हि वेदांत श्रवणं ब्रह्मसाक्षात्कारे हेतुरित्यत्रान्वयव्यतिरेकप्रमाणमस्तिलोके कृत श्रवणस्यापि वहुशस्तदनुत्पत्तेः | अकृतश्रवणस्यापि गर्भगतस्य वामदेवस्य तदुत्पतेरुभयतो व्यभिचारात् | न वा श्रवणमात्रं श्रोतव्यार्थ साक्षात्कार हेतुरिति शास्त्रांतरे गृहीतः सामान्य नियमोस्ति | येनात्र विशिष्य हेतुत्व ग्राहका भावेपि सामान्यमुखेनैव हेतुत्वं प्राप्यत इति शंक्येत | गांधर्वादि शास्त्रश्रवणस्य षड्गादि स्वर साक्षात्कार हेतुत्वाभ्युपगमेपि कर्मकांडादि श्रवणान्तदर्थ धर्मादि साक्षात्कारादर्शनेन व्यभिचारात् | तस्मादपूर्वविधिरेवायं || ननु मानांतरादनधिगतत्वमसिद्धमन्वयव्यतिरेकाभ्यांतदवगति संभवात् तथाहि वेदांतश्रवणे सति ब्रह्मसाक्षात्कारो दृश्यते | असति च तस्मिन्न दृश्यते इति तत्राह | नहीति | तदनुत्पतेरिति साक्षात्कारानुपतेरित्यर्थः | वामदेवस्य इति | तथा च श्रुतिर्गर्भ एवैतच्छ्रयानो वामदेव एव मुवाचेति | एवं पूर्वोक्तप्रकारेण | एतद्ब्रह्मज्ञानजन्मना स्वकीयां मुक्तिमुवाचेत्यर्थः | ननु गांधर्व शास्त्रश्रवणे षड्गादिस्वरसाक्षात्कारस्तद भावे तदभाव
10 SK प्. ७ब्) इति दृष्टं तत्र श्रोतव्यार्थ विशेषस्वरसाक्षात्कारं प्रतिगांधर्व शास्त्रविचारात्मकस्य श्रवणविशेषस्य कारणत्व ग्रहकाले लाघवात् | श्रोतव्यार्थ साक्षात्कारत्वावछिन्नं प्रतिश्रवणमात्रस्य कारणत्वं गृह्यते | तथा च ब्रह्मसाक्षात्कार वेदांतश्रवणयोर्विशिष्यकार्यकारणभाव ग्रहाभावेपि ब्रह्मसाक्षात्कारस्यापि श्रोतव्यार्थ साक्षात्कारत्वात् | वेदांतश्रवणस्यापि श्रवणत्वादुक्त सामान्यरूपेण श्रवणस्य ब्रह्मसाक्षात्कार हेतुत्वं प्राप्तमेवेतिनापूर्वविधिरिति नेत्याह | न वा श्रवणमात्रमिति | धर्मश्रवणस्थले अदृष्टरूपस्यालौकिकश्रेयसाधनता विशिष्टयागादि रूपस्य वा | धर्मस्य साक्षात्कारा योग्यतया साक्षात्कारादर्शनेन उक्त सामान्य कार्यकारणभावस्य व्यभिचारान्जलाघवावतार इति गांधर्वशास्त्रश्रवणस्यान्वयादिनास्वरसाक्षात्कार हेतुत्व ग्रहेपि वेदांतश्रवणस्य न ब्रह्मसाक्षात्कार हेतुत्व प्राप्तिरित्याह | गांधर्वादीति | कर्मेति | अत्रादिपदेन हिरण्यगर्भादि देवताप्रतिपादकवाक्यजातं गृह्यते धर्मादीत्यादि पदेन हिरण्यगर्भादि देवता गृह्यते | तस्मादिति | प्राप्त्यभावादित्यर्थः || भाष्येपि सहकार्यंतरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवदित्यधिकरणे विद्यासहकरिणो मौनस्य वाल्यपांडित्यवद्विधिरेवाश्रयितव्य अपूर्वत्वादिति पांडित्य शब्दिते श्रवणे प्. ८अ) पूर्वविधिरेवांगीकृत इति ||
11 SK अत्रार्थे सम्मतिमाह | भाष्येपीति | भाष्येष्य पूर्वविधिरेवांगीकृत इति संबंधः | अयमर्थः वृहदारण्यके श्रूयते तस्माद्ब्राह्मणः पांडित्यं निर्विद्य वाल्येन तिष्ठासेद्वाल्यं च पांडित्यं च निर्विद्याथ मुनिरिति यस्मादनिक्रांता ब्राह्मणा श्रवणादि साधनैरात्मानं विदित्वा जीवन्मुक्ति व्यंजकं सकलविक्षेपरहितं परमहंसाश्रमं प्राप्तास्तस्मादिदानीं तनोपि ब्राह्मणो ब्रह्मसाक्षात्कारार्थी पांडित्यं निर्विद्य वाल्येनस्था तु मिच्छेत् | विचारप्रयोजकापातरूपा बुद्धिः पंडासास्य संजातेति पंडितस्तस्य कृत्यं पांडित्यं श्रवणमित्यर्थः | वाल्यं नामवालस्य शिशोः कृत्यं दंभ दर्पादि राहित्यं न तु वाले प्रसिद्ध यथेष्ट चेष्टा रूपं तस्य वहिर्मुखत्वापादकत्वेन विद्याविरोधित्वाद्दंभादिराहित्यरूपभावशुद्धिवाचः केन वाल्य पदेन भावशुद्धिसाध्यं मनन लक्ष्यते | श्रवणानंतर भावित्वात् तस्य वाल्यं च पांडित्यं च निर्विद्य निश्चयेन लब्ध्वा तदुभयं सम्यगनुष्टायेति यावत् | अथानंतरं मुनिस्सम्यग्मननशीलो भवेदिति विधिः ध्यानमत्रमननं ध्याननिष्टे व्यासादौ मुनिशब्दप्रयोगदर्शनात् | ध्यानं विना विचारं मात्रविश्रांते तद प्रयोगाच्च तथा चापूर्वत्वाद्यथा श्रवणे विधिरेवं मौनस्य विद्यासहकारिणो विद्योत्पन्नौ साधनस्य विधिरेवाश्रयितव्यः | अपूर्वत्वा देवेति भाष्यार्थः | सूत्रार्थस्तु | तद्धतः श्रवणमननजतिन
12 SK प्. ८ब्) तत्वनिर्णयरूपविद्यावतस्तत्व साक्षात्कारार्थिनः संन्यासिनः पांडित्य बाल्या पेक्षया तृतीयं सौनमथ मुनिरिति वाक्येन विधीयते | ननु पांडित्य बाल्याभ्यां निर्णीततत्व साक्षात्कारार्थी ध्याने स्वयमेव प्रवर्तते रत्नं तत्वसाक्षात्कारार्थीवरत्नतत्वगोचर प्रत्ययसंततौ | न च तत्वसाक्षात्कारार्थिनस्तत्साधन श्रवणादावपि स्वयमेव प्रवृतिस्स्यादिति तत्रापि विधिवैयर्थ्यशंका तुल्येति वाच्यं विधिं विना वेदांत श्रवणे प्रवृत्यसंभवस्य साधितत्वा तथा च मौनविधिर्व्यर्थ इत्यत्राह | पक्षेणेति | मौनस्य सहकार्य्यंतरस्य विधिरंगी कर्तव्यः पक्षेणाप्राप्ति सत्वात्साक्षात्कारार्थं ध्याने || वेदांतश्रवणस्य नित्यापरोक्षब्रह्मसाक्षात्कार हेतुत्वं नाप्राप्तं | अपरोक्ष वस्तु विषय प्रमाणत्वावच्छेदेन साक्षात्कार हेतुत्व प्राप्तेः | शाब्दापरोक्ष वा देव्यवस्थापनात् तदर्थमेव हि तत्प्रस्तावः || स्वयमेव प्रवर्तमानस्यापि विषयदर्शनप्रावल्यात् ध्यानस्य कदाचिदप्राप्तिः संभवति | तथा च मौनविधेरपूर्वविधित्वाभावेपि नियमविधित्वं सिंध्यत्येव सति च नियमविधौ तदति क्रमे नियमा दृष्टालाभेन साक्षात्कारानुदय भीत्या स्वभाव प्राप्तमपि विषयदर्शनं
13 SK प्. ९अ) यत्नेन निवार्य ध्यान एव प्रवर्तत इति पक्षेणेति सूत्रभागाभिप्रायः | ननु ब्रह्मविद्याप्रधाने प्रकरणे कथं ध्यानादि विधिर्वाक्यभेद प्रसंगादिति नेत्याह | विध्यादि वदिति | अंगविधिवदित्यर्थः | यथा प्रधानविधिपरे प्रकरणे अवांतर वाक्यभेदेन प्रयाजाद्यंराविधिस्तथा ब्रह्मविद्यांग ध्यानादि विधिरित्यर्थः | उक्तरीत्या मौनविधेर्नियमविधित्वे स्थिते भाष्यकृतामपूर्वत्ववचनं मौनविध्यंशे पाक्षिका प्राप्त्यभिप्रायं द्रष्टव्यं | यथा सूत्रं पक्षेण प्राप्त्यभावादित्येव वक्तव्ये | भाष्ये अपूर्वत्वादिति वचनं श्रवणविधिरपूर्वविधिरेवेति ज्ञापनार्थमप्राप्तिमात्रे च दृष्टांत दार्ष्टांतिक भावो विवक्षित इति प्रकटार्थकारादीतामाशयः | अपूर्वविधित्व पक्षं दूषयति | वेदांतश्रवणस्येति | विचारविशिष्टवेदांतरूपस्य श्रवणस्य ब्रह्मसाक्षात्कार हेतुत्वं विधिं विनापि प्राप्तमित्यर्थः | ननु वाक्यस्य कथं साक्षात्कार हेतुत्वं इंद्रियजन्य ज्ञानस्यैव साक्षात्कारत्वादत आह | अपरोक्षवस्त्विति अपरोक्षवस्तुविषयकत्वं ज्ञानस्यापरोक्षत्वं न त्विंद्रियजन्यत्वं वस्त्वापरोक्ष्यं च वस्तु व्यवहारानुकूल चैतन्याभिन्नत्वमिति | शाब्दापरोक्षवादे वक्ष्यते | तथा च नित्यापरोक्षत्वेन श्रुति सिद्धब्रह्मरूप वस्तुविषयकत्वाद्वेदांतजन्यज्ञानस्य साक्षात्कारत्व सिद्धिरित्यर्थः | नत्वस्मिन् शास्त्रे शाब्दापरोक्षवादस्य का संगतिरत आह | तदर्थमेवहीति | वेदांतानां ब्रह्मापरोक्षप्रमितिजनकत्व सिध्यर्थमेव तद्वादसंगतिर्नान्यार्थमित्येतत्प्रसिद्धमित्यर्थः ||
14 SK प्. ९ब्) न च तावताब्रह्मप्रमाणत्वेनापातदर्शन साधारण ब्रह्मसाक्षात्कार हेतुत्व प्राप्तावप्यविद्यानिवृत्यर्थमिष्यमाण सतानिश्चय रूपतत्साक्षात्कार हेतुत्वं श्रवणस्य न प्राप्तमिति वाच्यं | विचारमात्रस्य विचार्यमात्रनिर्णय हेतुत्वस्य ब्रह्मप्रमाणस्य तत्साक्षात्कारहेतुत्वस्य च प्राप्तौ विचारित वेदांतशब्दज्ञानरूपस्य श्रवणस्य तद्धेतुत्वप्राप्तेः | न चोक्त उभयतो व्यभिचारः सहकारि वैकल्पेनान्वय व्यभिचारस्यादोषत्वात् | जातिस्मरस्य जन्मांतरश्रवणात्फलसंभवेन व्यतिरेक व्यभिचाराभावात् नन्वपरोक्षवस्तु विषयकं प्रमाणं स्वविषये साक्षात्कार हेतुरिति शाब्दापरोक्षवादे प्रसाधनेन वेदांतानामपि स्वविषये नित्यापरोक्षे ब्रह्मणि | अपरोक्षज्ञानसामान्य हेतुत्वमेव प्राप्तं न तु सता निश्चयरूप तत्साक्षात्कारहेतुत्वं तच्च विचारविशिष्टवेदांतरूप श्रवणस्यैव युक्तमन्यथाविचारात्प्रागपि सता निश्चय प्रसंगात् | न च वाक्यजन्यसाक्षात्कारमात्रादेवाविद्यानिवृति लक्षणफलसंभवात् | सता निश्चयरूपत्वं साक्षात्कारस्य नात्वेषणीयमिति वाच्यं | तत्र तत्र ब्रह्मोपदेशप्रदेशेषु यावत् संशय निवृति पुनः पुनः प्रश्न प्रतिवचनलिंगेन प्. १०अ) वेदांतविज्ञान सुनिश्चितार्था इत्यादि श्रुत्या श्रुत ब्रह्मणोपि यथापूर्वं संसारानुवृत्यनुमिता विद्यायानिवृत्यभावरूपलिंगेन च श्रवण मननध्यानशमदमभक्तिवैराग्यादीनां ज्ञानपरिपाकहेतूनां विधिदर्शनलिंगेन च सतानिश्चयरूप ब्रह्मसाक्षात्कारस्यैवाविद्या निवृत्यर्थमिष्यमाणत्वात्तथा च वेदांतश्रवणस्योक्तरूपसाक्षात्कार हेतुत्वमप्राप्तमेवेति शंकते | न च तावतेति | वेदांतानामिति शेषः |
15 SK अपरोक्षवस्तुविषयकं प्रमाणं स्वविषये साक्षात्कारहेतुरिति प्रसाधनमात्रेणेत्यर्थः | अपरोक्षवस्तुविषयकं प्रमाणमपरोक्षज्ञानहेतुरिति स्थिते विचारो विचार्य निर्णय हेतुरिति च स्थिते कार्यकारणभावद्वयमेलनेन प्रकृते विचारविशिष्टवेदांतज्ञानरूपं श्रवनं सतानिश्चयरूप ब्रह्मसाक्षात्कारहेतुरिति सिध्यतीत्याह | विचारमात्रस्येति | सहकारीति | चितैकाग्र्यरूपसहकारि वैकल्पेनेत्यर्थः | उक्त कार्यकारणभाव द्वयरूपप्रमाणवलेन श्रवणस्य ब्रह्मसाक्षात्कारहेतुत्वे सिद्धे वामदेवस्य जन्मांतरीयं श्रवणादिकं कल्पते यथा जातमात्रे जंतौ दृश्यमानभोगस्य कारणं तत् प्राग्भवीयकर्मकल्पते तद्वदतो न व्यतिरेकव्यभिचार इत्याह | जातिस्मरस्येति | पूर्वस्यति स्मरतो वामदेवस्येत्यर्थः || प्. १०ब्) अन्यथा व्यभिचारेण हेतुत्ववाधे श्रुत्यापि तत्साधनताज्ञानासंभवात् | घटसाक्षात्कारे चक्षुरतिरेकेणत्वगिंद्रियमिव ब्रह्मसाक्षात्कारे श्रवणातिरेकेणोपाय्ॐतरमस्तीति शंकायां व्यतिरेकव्यभिचारस्याप्यदोषत्वाच्च | तथा च प्राप्तत्वान्नापूर्वविधिः | अत एवावृतिरसकृदुपदेशादित्यधिकरणभाष्ये दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भवंति | यथा वघातादीनि तंडुलनिष्पत्यवसानानीति श्रवणस्य ब्रह्मदर्शनार्थस्य दृष्टार्थ तया दर्शपूर्णमासिकावघात न्याय प्राप्ता वा वृत्युपदेशः | अपूर्वविधित्वे तु सनयुज्यते सर्वौषधावघातवत् | अग्नि च यने सर्वौषधस्य पूरयित्वा वहंत्यथैतदुपदधातीत्युपधेयोलूखल संस्कारार्थ त्वेन विहितस्यावघातस्य दृष्टार्थत्वाभावान्नावृतिरिति तंत्रलक्षणे स्थितं | अतो नियम विधिरेवायं || अन्यथेति | उक्तरीत्याद्विविध व्यभिचारपरिहारानुपगम इत्यर्थः | व्यभिचार निश्चयेन हेतुत्वा भावरूपवाध
16 SK प्. ११अ) निश्चयाच्छ्रवणविधेरवोधकतापत्यातवाप्यपूर्वविधिर्न स्यादित्यर्थः | ब्रह्मसाक्षात्कारे श्रवणमिव तपो विशेषादिकमुत्कृष्ट जन्मप्राप्तिरूपं वा कारणांतरमस्तीति शंकाकाले वामदेवस्य कारणांतरात् | ज्ञानमुत्पन्नमिति | शंका संभवेन श्रवणस्य वामदेवे व्यतिरेक व्यभिचार ज्ञानं श्रवणस्य साक्षात्कार हेतुत्व ग्रहप्रतिबंधकं न भवति | न चैकस्य पदार्थस्य ज्ञाने परस्परनिरपेक्षकारण द्वया संभवेन ब्रह्मसाक्षात्कारे कारणांतर सत्व शंकैव न जायजायत इति वाच्यं | लोके तथा दृष्टत्वादित्याह घटेति | वेदांतश्रवणस्य ब्रह्मसाक्षात्कारहेतुत्वे विधिं विनैव प्राप्ते फलितमाह | तथाचेति | श्रवणादि विधेर्नियमविधित्वे सत्ये वा वृत्यधिकरणं संगच्छत इत्याह | अत एवेति | अपूर्वविधित्वा भावादेवेत्यर्थः | अत एवावृत्युपदेश इति संबंधः | दर्शनपर्यवसानानीत्यारभ्यतंडुलनिष्पत्यवसानानीत्यं तस्य भाष्यस्येयं योजनादृष्टार्थानि श्रवणादीन्यावर्त्यमानानि संति दर्शनपर्यवसानानि भवंति | यथावघातादीन्यावर्त्यमानानि तंडुलनिष्पत्यवसानानि भवंतीति दृष्टार्थानीत्यत्र दृष्टं फलमात्मदर्शनमेवायं भावः | आत्मा वा अरेद्द्रष्टव्यः श्रोतव्य इत्यादिना आत्मदर्शनोद्देशेन श्रवणादीनिविधीयंते तत्र किं || तदभावे हि यथावस्तु किंचिच्चक्षुषावीक्ष्यमाणस्तत्र स्वागृहीते सूक्ष्मे विशेषांतरे केनचित् कथिते तदवगमाय तस्यैव चक्षुषः पुनरपि प्. ११ब्) प्रणिधानं व्यापारे प्रवर्तते एवं मनसाहमिति गृह्यमाणे जीवे वेदांतैरध्ययन गृहीतैरुपदिष्टं निर्विशेष ब्रह्मचैतन्यरूपत्वमाकर्ण्य तदवगमाय तत्र सावधानं मनस एव निधाने कदाचित् पुरुषः प्रवर्तेतेति वेदांत श्रवणे प्रवृतिः पाक्षिकी स्यात् ||
17 SK मेतानि सकृदनुष्टेयानि किं वा यावदात्मदर्शनमावर्त्यानीति संशये सकृदेवानुष्टेयानि तावता विधेश्चारितार्थ्यात् | यथा अग्नि च यने सर्वौषधस्य पूरयित्वा अवहंतीति वाक्यविहितं सर्वौषधीनामवहननमुपधेयोलूखलसंस्काररूपं सकृदेवानुष्ठीयते तद्वत् तथा च सकृदनुष्ठित श्रवणादि जन्यमदृष्टं जन्मांतरे ब्रह्मदर्शन हेतुरित्य पूर्वविधित्वं श्रवणादि विधीनामिति प्राप्ते सिद्धंतः श्रवणाद्यावृतिः कर्तव्याकुतः असकृदुपदेशा तथा हि भृगुवल्यां भृगुं प्रतिपिता असकृतपसा ब्रह्मविजिज्ञासस्वेत्युपदिशति तप आलोचनं ब्रह्मविचारस्तथा छांदोग्य षष्टाध्याये श्वेतकेतुं पुत्रं प्रतिपिताविचारपूर्वकमसकृत्तत्वमसीत्युपदिशति | किं च श्रवणादिभिरात्मदर्शनफले जननीये श्रवणाद्यावृत्तिरूपदृष्टद्वार संभवे अदृष्टद्वारकल्पनायोगा तत्वं पदार्थयोः श्रवणाद्या वृतिं विनादुर्बोधत्वाच्च तंडुलनिष्पत्तिफलकावघातवदावृतिरेव नत्वग्नि च यनांतर्गतावघात वदनावृतिस्तदंतर्गतावघातस्यादृष्टार्थत्वेन वैषम्यादिति व्युत्पादितमावृत्यधिकरणे
18 SK प्.१२अ) तदपूर्वविधिवादिनां न संगच्छत इति तंत्रलक्षणमेकादशाध्यायः | अत एव इति प्राप्तत्वादित्यर्थः | अस्य हेतोरेवकारार्थेऽपूर्वविधित्वाभावेन्वयः नियमविधित्वे हेतुमाह | तदभावे हीति | तदभावे मनस एव सावधानं तत्र निधाने कदाचित् पुरुषः प्रवर्तेतेति संबंधः मनसाऽगृह्यमाणात्मगत विशेषगृहणायमनोव्यापार एव यत्नेन प्रवृतौ दृष्टांतमाह | यथेति किंचिदिति | रत्नादीत्यर्थः | तत्रेति रत्नादावित्यर्थः | तस्यैवेति | न तु व्यापारांतर इत्येवकारार्थः | पुनरपि चक्षुषो व्यापारे प्रवर्तत इति संबंधः | प्रणिधानं यथा भवति तथा प्रवर्तत इति प्रवृति क्रियाविशेषणं प्रणिधानं तच्च रत्नादि वस्त्वभिमुखतया चक्षुषः स्थापनमनंतरमुन्मीलनव्यापारानुकूल यत्नः प्रवृतिरिति प्रणिधान प्रवृत्योर्भेदः वेदांतैरिति नेह नानास्ति किंचन प्रज्ञानं ब्रह्माहं ब्रह्मास्मीत्यादिभिरित्यर्थः | इह ब्रह्मणि नानाज्ञातृज्ञानज्ञेयरूपेण भिन्नं विशेषजातं किंचिदपि नास्ति प्रकृष्टं ज्ञानं प्रज्ञानं नित्यस्वप्रकाश जीवचैतन्यं ब्रह्माहं बुध्यादि साक्षिभूतचिदात्मा ब्रह्मास्मि भवामीति श्रुतीनामर्थः | अध्ययन पदं सांगाध्ययनपरं | आकर्ण्य परोक्षतया ज्ञात्वा श्रुतौ श्रद्दधानस्तदधिगमायेत्यर्थः | तत्रेति | अहमिति गृह्यमाणात्मनीत्यर्थः | सावधानमैकाग्र्यं यथा भवति तथा || अप्राप्य मनसा सहेति श्रुतिस्तु | मनसैवानुदृष्टव्यं प्. १२ब्) दृश्यते त्वग्र्यया बुद्धोत्यपि श्रवणेनानवहित मनोविषयेति शंका संभवात् ||
19 SK नन्वहमिति गृह्यमाणजीवे विशेषाकर्णनानंतरं वेदांत श्रवण इव कदाचिन्मनोव्यापारे वेदांतविचारनिरपेक्षेपि प्रवृत्तिः स्यादित्ययुक्तं श्रुत्या ब्रह्मणी मनो विषयत्व निषेधात्सोगाध्ययनवतस्तन्निषेधावगति संभवादिति नेत्याह | अप्राप्येति श्रुतिरनवहित मनोविषयेति संबंधः | वाचः सत्यज्ञानादिशब्दाः अप्राप्यशक्त्या ब्रह्मा प्रतिपाद्यमनसा सह निवर्तंते लक्षणामाश्रयंत इत्यर्थः | सनसासहेत्यनेन मनसोपि ब्रह्मणि प्राप्तिर्निषिध्यत | इति भावः | ब्रह्मणि मनोविषयत्व निषेधवत्तद्विषयत्वमपि श्रुत्या उच्यते | तथा च श्रुत्योर्विरोधे सति मनः शब्दित बुद्धिगम्यत्व प्रतिपादक श्रुतौ बुद्धेरग्र्यत्व विशेषणवलाद्विषयत्व निषेध श्रुतेरनवहित मनोविषयत्व निषेधार्थकत्व प्रतीतेस्तथा च सांगाध्ययनवत उक्त व्यवस्था प्रतीति संभवात् मनस एव व्यापारे प्रवृतिर्दुर्वारेत्याह | मनसैवेति | अनवहितत्वमेकाग्रता शून्यत्वं शंका संभवादिति | अग्र्यत्वविशेषण सामर्थ्येन यथोक्त व्यवस्था निश्चय संभवादिति वक्तव्ये शंका संभवादित्युक्तेरयमाशयः | निर्गुणब्रह्मसाक्षात्कारे मनसः करणत्वं नास्ति औपनिषदत्व श्रुति विरोधात्सोपाधिकात्मसाक्षात्कारेपि न तस्य करणत्वं तत्साक्षात्कारस्य नित्यसाक्षिरूपत्वात्मनसैवानुद्रष्टव्यमित्यादौ तृतीया प्. १३अ) वाक्योत्थवृतिसाक्षात्कारं प्रतिसाधनत्वाभिप्रायेत्यादिकं सर्वं शाब्दा परोक्षवादे वक्ष्यते | तथा च वस्तुतो मनसः करणत्वा भावात् | मनस एव व्यापारे पुरुषः कदाचित् प्रवर्तेतेत्युत्प्रेक्षितं नियम विधि व्यावर्त्यमसंगतमेवेति | अथवा जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इत्यादि श्रवणाद्भिन्नात्मज्ञानान्मुक्तिरिति भ्रमसंभवेन मुक्तिसाधन ज्ञानाय भिन्नात्मविचाररूपशास्त्रांतर श्रवणेपि पक्षे प्रवृतिः स्यादित्य द्वितीयात्म पर वेदांतश्रवणनियमविधिरस्तु
20 SK अत एव व्यावर्त्यांतरमाह | अथवेति | अधीतसांगस्वाध्यायस्य हितरति शोकमात्मविदित्यादि श्रुत्या आत्मज्ञानं मुक्तिसाधनमिति ज्ञानं भवति न च सांगाध्ययनवतोपि लोके विचारमंतरेणात्मतत्वज्ञान जन्मास्ति | आत्मप्रतिपादक वेदांतेषु नानाविधयोजनासंभावनया तात्पर्य संशयादेरनुभवसिद्धत्वात्ततश्च मुक्तिसाधन ज्ञानार्थी तल्ज्ञानप्रतिबंधक तात्पर्यभ्रमसंशयादि निरासाय वेदांत विचारे प्रवर्तमानो यथा ब्रह्ममीमांसा शास्त्रे प्रवर्तते तथैव न्यायसांख्यादि शास्त्रविचारेपि कदाचित् प्रवर्तेत तत्रापि तदभिमतयोजनया वेदांतविचारसत्वात् | न च सांख्यादि तर्कशास्त्रगतात्मविचारस्या प्. १३ब्) द्वितीयात्मविचाररूपत्वाभावेन तादृशात्मनि वेदांतानां तात्पर्य भ्रमसंशयाद्य निवर्तक त्वाद्विशिष्य स्वयमेव तत्र तात्पर्य भ्रमादि हेतुत्वाच्च न तत्रात्म ज्ञानार्थिनः प्रवृतिः संभवतीति वाच्यं | जीवभिन्न परमात्मज्ञानं मुक्तिसाधनमिति | भ्रुमेण तत्रापि प्रवृति संभवात् | न च सांगाध्ययनवतो भिन्नात्मज्ञानं मुक्तिसाधनमिति भ्रमो न संभवति | अहं ब्रह्मास्मि ब्रह्मविदाप्नोति परंमित्यादि वेदांतेषु जीवाभिन्नपरमात्मज्ञानस्य मुक्तिसाधनत्व प्रतीतंरिति वाच्यं | जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इति श्रुति गतान्यशब्देन भ्रमसंभवात् यदा ईशं सन्निधिमात्रेण बुध्यादि प्रवर्तकं अन्यं वस्तु गत्या बुध्यादिभ्यो भिन्नं भ्रांत्या बुध्याद्य भिन्नत्वेन चिदात्मनो गृहीतत्वात् | भिन्नत्वोपदेशः सफलं न तु जीवभिन्नमित्यर्थः | जीवब्रह्मभेदस्य प्रत्यक्षसिद्धतया उपदेशान पेक्षत्वात् जुष्टं ऋषिसंघैस्सेवितं ऋषिसंघजुष्टमिति श्रुत्यंतरात्पश्यति ईशोहमिति साक्षात्करोति तदा अस्य ईशस्य महिमानं महत्वोपलक्षितं स्वरूपं इति एति प्राप्तोति वीत शोकश्च भवतीति श्रुतेर्वास्तवार्थः || इहात्मशब्दस्येदं सर्वं यदयमात्मेत्यादि प्रकरणपर्यालोचनया द्वितीयात्म परत्वात् | न हि वस्तुतस्तत्साधनांतरप्राप्तावेवनियम
21 SK प्. १४अ) विधिरिति कुलधर्मः | येन वेदांतश्रवणनियमार्थवत्वायनियमादृष्टजन्य स्वप्रतिवंधक कल्मष निवृतिद्वारासतानिश्चयरूप ब्रह्मसाक्षात्कारस्य वेदांतश्रवणैक साध्यत्वस्याभ्युपगंतव्य त्वेन तत्र वस्तुतः साधनांतराभान्ननियमविधिर्युज्यते इति आशंक्येत किंतु यत्र साधनांतर तया संभावनया पक्षे प्राप्त्याविधित्सित साधनस्य पाक्षिक्य प्राप्तिर्निवारयितुं न शक्यते तत्र नियमविधिः || ननु श्रोतव्यवाक्ये आत्मविचारमात्रं प्रतीयते न त्वद्वैतात्मविचारः ततश्च कथमनेन विधिना भिन्नात्मविचारव्यावृत्तिलाभ इत्यत आह | इहेति | अत्रादि पदेन आत्मनि दृष्टे सर्वं विदितं भवतीति प्रतिज्ञा वाक्यं गृह्यत आत्मनस्सर्वाधिष्टान तया सर्वात्मकत्वे हि सति आत्मनि विदिते तद्व्यतिरिक्तं सर्वं तत्वतो विदितं भवति सर्वमात्मैवेति सामानाधिकरण्यं च सिध्यति नान्यथा तथा च श्रोतव्य वाक्यस्थमात्मपदमद्वितीयात्मपरमेवेति तद्विचारविधिना भिन्नात्मविचार व्यावृतिर्लभ्यत इति भावः | ननु तंडुल निष्पताववहननस्येवनखविदलनादेरपि वस्तुतस्साधनत्वातन्निवृतिफलको नियमविधिर्युक्तः | इहत्व द्वितीय ब्रह्मसाक्षात्कारे
22 SK प्. १४ब्) भिन्नात्मविचारस्य न वस्तुतस्साधनत्वमस्तीत्यतस्तन्निवृति फलको नियमविधिर्न युज्यते | न च मा भूद्भिन्नात्मविचारस्य व्यावर्त्यत्वं नैतावता नियमविध्यनुपपतिः प्रकृतेस्ति गुरुनिरपेक्ष विचारभाषा प्रबंधेतिहासपुराणादीनामुदाहरिष्यमाणानां सता निश्चयरूपब्रह्मसाक्षात्कारहेतुत्व सत्वेन व्यावर्त्यसंभवादिति वाच्यं | तेषामप्यनंतरमेव वक्ष्यमाणरीत्या अविद्या निवर्तक सतानिश्च रूपसाक्षात्कारप्रतिबंधक कल्मष निवृति द्वारागुर्वधीन वेदांतविचारवत् साक्षात्काराहेतुत्वेन वस्तुतस्साधनत्वा भावा तथा च नियमविधिस्संभवतीत्याशंक्याह | नहीति | कुलधर्म इति कुलक्रमागत धर्मस्य यथा आवश्यकता तथा वस्तुतस्तत्साधनांतरप्राप्तेरावश्यकत्वं नहीत्यर्थः | येनेति | आवश्यकत्वेनेत्यर्थः | नियमार्थवत्वायेति | विधित्सित गुर्वधीन वेदात श्रवणेनेव गुरुनिरपेक्ष विचारादिनापि सता निश्चयरूपसाक्षात्कारस्वरूपोत्पति संभवे सति गुर्वधीमवेदांतश्रवणनियमस्य दृष्टप्रयोजनाभावान्नियमादृष्टमुपेयं तस्य कल्मषनिवृति द्वाराविद्यासाधानत्वं च कल्पनीयमेवेत्यर्थः | अदृष्टजन्यत्वं कल्मषनिवृतेर्विशेषणं स्वपदं साक्षात्कार परं येनाशंक्येतेति संबंधः तावतैवाप्राप्तांश परिपूरणस्य तत्फलस्य सिद्धेः | अथवा गुरुमुखाधीनाध्ययनादिव प्. १५अ, १५/१६) निपुणस्य स्वप्रयत्नमात्रसाध्यादपि वेदांत विचारात् संभवति | सता निश्चयरूपं ब्रह्मापरोक्षज्ञानं | किंतु गुरुमुखाधीन वेदातवाक्यस्रवणनियमादृष्टमविद्यानिवृतिं | प्रतिकल्मष निरासेनोपयुज्यत इति | तदभावेन प्रतिवद्धमविद्यामनिवर्तयत् | परोक्षकल्पमवतिष्ठते | न च ज्ञानोदयेऽज्ञानानिवृत्यनुपपत्तिः | प्रतिवंधकाभावस्य सर्वत्रापेक्षितत्वेन सत्यपि प्रत्यक्षविशेषदर्शने उपाधिना प्रतिबंधात् | प्रतिबिंबरूपभ्रमानिवृतिवत्तदनिवृत्युपपतेः ||
23 SK यत्र विधित्सितसाधनस्याप्राप्तिः पाक्षिकी निवारयितुं न शक्यते तत्र नियमविधिरित्यत्र हेतुमाह | तावतैवेति अप्राप्तांशलाभमात्रेणैवेत्यर्थः | विधित्सित साधनस्य पाक्षिक्यामप्राप्तौ हेतुमाह | साधनांतरतयेति | सता निश्चयरूप ब्रह्मसाक्षात्कारस्य दृष्टफलतया तत्स्वरूपे वेदांतविचारवद्भाषा प्रवंधादेरप्यन्वय व्यतिरेकाभ्यामेवसाधनत्व बुद्धिः संभाव्यते पूर्वोक्तरीत्या वस्तुतस्साधनत्वाभावात्संभावनयेत्युक्तं व्यावर्त्यांतरमाह | अथवेति मात्रपदेन प्. १५ब्, १५/१६) गुरुर्व्यवछिद्यते तर्ह्युक्त ब्रह्मा परोक्षज्ञानेनैवाविद्या निवृति लक्षणफलसिद्धेः | किं गुर्वधीन श्रवणविधिनेति श᳚न्कते | किन्त्विति | श्रवणनियमविद्ध्यर्थवत्वायनियमादृष्टस्य ब्रह्मापरोक्षज्ञानेन स्वफलसिध्यर्थमपेक्षणीयत्वकल्पनान्नोक्ता परोक्षज्ञानादविद्यानिवृति सिद्धिरिति परिहरति गुरुमुखेति | निरासेनेति निरासद्धारेत्यर्थः | इतीत्यनंतरं कल्पनीयत्वेनेति शेषः | तदभावेनेति | कल्मष निरासाभावेन कल्मषेणेत्यर्थः | कल्पमिति तुल्यमित्यर्थः | न च नियमार्थवत्वायेत्यादि पूर्वं ग्रंथे नियमादृष्टस्य कल्मष निवृति द्वाराज्ञानोत्पत्तौ हेतुत्व मुक्तं अत्र चोत्पन्नेन ज्ञानेनाविद्यानिवृत्यै जननीयायां तत्र प्रतिबंधक कल्मषनिरासद्वारा श्रवणनियमादृष्टस्य साधनत्वोक्तौ पूर्वापरविरोध इति वाच्यं मतभेदेन विरोधाभावात् | नन्वेवमप्युत्पन्ना ब्रह्मविद्या स्वकार्या विद्यानिवृत्तये नियमादृष्टसाध्यां कल्मषनिवृतिमपेक्षत इत्ययुक्तं प्रमात्वाच्छ्रुक्त्यादि प्रमावदिति मत्वाशंकते | न च ज्ञानोदय इति | अनिवृत्यनुपपतिरिति | अज्ञाननिवृतिरेवस्यादित्यर्थः | शुक्तिप्रमास्थले अन्यायेक्षा भावेपि प्रतिबिंब भ्रमस्थले विशेष दर्शनस्य प्रतिबंधकाभावापेक्षादर्शनेन ब्रह्मविद्याया अपि तदपेक्षोपपतेरिति परिहरति || एवं च लिखितपाठादिनापि स्वाध्याय ग्रहण
24 SK प्. १७अ) प्रसक्तौ गुरुमुखाधीनाध्ययन नियमविधिवत्स्वप्रयत्नमात्रपूर्वकस्यापि वेदांतविचारस्य सता निश्चयरूपब्रह्मसाक्षात्कारार्थत्वेन पक्षे प्राप्तौ गुरुमुखायीन श्रवणनियमविधिरयमस्तु न च तद्विज्ञानार्थं स गुरुमेवाभि गच्छेदिति गुरूपसदनविधिनैव गुरुरहितविचारव्यावृति सिद्धेर्विफलो नियमविधिरिति शंक्यं || प्रतिबंधकाभावस्येति | यद्यपि प्रतिबंधकाभावस्य सिद्धांतेन कुत्रापि हेतुत्वं तथापि अप्रतिवद्धा सामग्री कार्य हेतुरित्युपगमादस्त्येवावच्छेदक तथा प्रतिबंधकाभावापेक्षेति भावः | तदनिवृत्युपपतेरिति | गुरुरहितविचारसाध्यविद्यया अविद्यानिवृत्यभावोपपतेरित्यर्थः | श्रवणनियमविधिं सदृष्टांतमुपपादयति | एवं चेति | गुरुरहितविचारस्य व्यावर्त्यस्य लाभे सतीत्यर्थः | लिखितेति अभ्युदय निःश्रेयस कामस्य वेदार्थानुष्टानं विनानाभ्युदयादि सिद्धिः | तदनुष्ठानं च वेदार्थज्ञानं विना न संभवति तदर्थज्ञानं च स्वाध्याय पदवाच्य वेदावाप्तिं विना न संभवति | वेदावाप्तिं प्रति च गुरुमुखोच्चारणानूचारणालक्षणमध्ययनं लिखित पाठादिश्च साधनत्वेन लोके प्रसिद्धं | तथा चाध्ययनविधि वाक्येन वेदाध्ययनं नियम्यते
25 SK प्. १७ब्) अध्ययनेनैव अक्षरावाप्तिं संपादयेदिति तेन च लिखितपाठादि व्यावृतिर्लभ्यते यथा तथा प्रकृतेपीत्यर्थः | ननु ब्रह्मविज्ञानार्थं गुर्वभिरामनं श्रूयते न च तस्य श्रुतिजन्ये ब्रह्मज्ञाने साक्षात्साधनत्वमस्ति अतस्तेन ज्ञाने जनर्नायेद्वारापेक्षायां गुर्वधीनविचार एव योग्यतया द्वारत्वेन कल्प्यतेनत्वदृष्टं दृष्टद्वार संभवे अदृष्टकल्पनायोगात् | गुर्वभिगमनस्य गुर्वधीनविचारद्वाराज्ञानसाधनत्वे अभिगमनविधिनासिद्धे तेनैव गुरुरहितविचारव्यावृतिसिद्धेर्निष्फलः श्रोतव्यवाक्ये श्रवणनियमविधिरिति शंकते | नचेति | ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेनेति पूर्ववाक्ये निर्दिष्टो ब्राह्मणस्स इति परामृश्यते निर्वेदं वैराग्यं आयात् प्राप्नुयादिति यावत् | केन प्रकारेणेत्यत आह श्रुतिरकृतो नित्यो मोक्षः कृतेन कर्मणा नास्तीति | अतो मोक्षं ब्रह्मज्ञानसाध्यं ज्ञात्वा तद्ज्ञानार्थं गुरुमभिगच्छेदित्यर्थः | श्रोतव्य वाक्येन गुर्वधीन विचारे नियमिते सति तदंगतया गुर्वभिगमनं विधीयते श्रवणविध्यभावेतूप || गुरूपसदनस्य श्रवणांग तया श्रवणविध्यभावे तद्विधिरेव नास्तीति तेन तस्य वैफल्याप्रसक्तेः | अन्यथाध्ययनांगभूतोपगमन विधिनैव लिखित पाठादि व्यावृतिरित्यध्ययन नियमोपि विफलः स्यात् प्. १८अ) अथवाऽद्वैतात्मपरभाषाप्रबंध श्रवणस्य पक्षे प्राप्त्या वेदांतश्रवणनियमविधिरस्तु | न च न म्लेच्छित वा इत्यादि निषेधादेव तदप्राप्तिः शास्त्रव्युत्पतिमांद्याद्वेदांतश्रवणमशक्यमिति पुरुषार्थनिषेधमुल्लंघ्यापि भाषाप्रवंधेनाद्वैतं जिज्ञास मानस्य तत्रापि प्रवृति संभवेन नियम विधेरर्थवत्वोपपतेः || गमनविधेरात्मलाभा भावान्नश्रवणविधिवैफल्यापादकतेति परिहरति | गुरूपसदनस्येति | अंगविधिना प्रधानविधिवैफल्यापादने अतिप्रसंगमाह | अन्यथेति |
26 SK विधिनैवेति गुरूपगमनस्याक्षरावाप्तिं प्रति अध्ययनरूपदृष्टद्वारसंभवे तत्यागायोगादिति भावः | व्यावर्त्यांतरमाह | अथवेति नियमविधिरस्त्विति | अद्वैतं जिज्ञासमानेन वेदांता एव विचारणीया न भाषा प्रवंधा इति विचारविषयनियमविधिरस्त्वित्यर्थः | ननु म्लेच्छशब्दितस्य भाषा प्रबंधरूपा व्यक्तशब्दस्योच्चारणं पुरुषेणाकर्तव्यं | अन्यथा पुरुषः प्रत्यवायी भवेदिति निषेधवलादेवश्रवणाधिकारिणो भाषाप्रबंधव्यावृतिसिद्धेः किं विधिनेति शंकते | न च नेति | यदि भाषानिषेधस्य ज्ञानांगत्वंस्यात् तदा तन्निषेधमुल्लंघ्य तत्र प्रवृतौज्ञाअनानुत्पतिभयेन तत्र न प्रवर्तेतनत्वे तदस्ति पुरुषार्थत्वातन्निषेधस्य तथा प्. १८ब्) च तन्निषेधमुलंघ्यापि कदाचिद्भाषादिश्रवणे प्रवृतिस्संभवतीति हरति | शास्त्रव्युत्पतीति | उल्लंघने हेतुमाह अशक्यमिति | अशक्यत्वे हेतुर्व्युत्पतिमांद्यं | ननु यस्याधिकारिणो व्युत्पतिमांद्याद्वेदांतश्रवणमशक्यंतं प्रतिवेदांतविचारनियमविधिः कथमशक्यार्थे विध्यनुपपतेरिति चेन्न मंदस्य भाष्यादि विचारासंभवेपि वेदांतप्रकरणविचारस्य मंदाधिकारिणोपि संभवात् | तदुक्तं | पंचदश्यां मंदप्रज्ञं तु जिज्ञासुमात्मानंदेन बोधयेत् | बोधयामास मैत्रेयीं याज्ञवल्क्यो निजां प्रियामिति आत्मानंदनामकप्रकरणेनेत्यर्थः || अभ्युपगम्यते हि कर्त्रधिकरणे व्युत्पादितं पुरुषार्थेऽनृतवदननिषेधे सत्यपि दर्शपूर्णमासमध्ये कुतश्चिद्धेतोरंगीकृत तन्निषेधो लंघनस्या विकलांक्रतु सिद्धिं कामयमानस्यानृतवदने प्रवृतिः स्यादिति पुनः क्रत्वर्थ तया पूर्णमासप्रकरणेनानृतं वदेदिति निषेध इति क्रत्वर्थ तया निषेधस्यार्थवत्वं | यद्वा यथा मंत्रैरेव मंत्रार्थ स्मृतिः साध्येति नियमस्तन्मूल कल्पसूत्रात्मीय ग्रहणक वाक्यादीनामपि पक्षे प्राप्तेस्तथा वेदांतमूलेतिहासपुराणपौरुषेय प्रबंधानामपि पक्षे प्राप्ति प्. १९अ) संभवान्नियमोयमस्तु ||
27 SK पुरुषार्थनिषेधमुलंघ्यापि महाफलसिध्यर्थं निषिद्धे प्रवृतिस्तन्निषेधेन विधेरर्थवता च मीमांसकैरपि स्वीकृतेत्याह | अभ्युपगम्यतेहीति | अंगीकृतं निषेधोलंघनं येन स तथोक्तः | कुतश्चिदित्यनेन सूचितं हेतुमाह | अविकलामिति | अर्थवत्वमिति | व्युत्पादितमिति पूर्वेणान्वयः व्यावर्त्यांतरमाह | यद्वेति | मंत्रैरेवेति | अग्निर्मूर्द्धेत्यादयो मंत्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः किमुचारणमात्रेणादृष्टं कुर्वंतः क्रतावुपकारं कुर्वंति उत दृष्टेनैवार्थ स्मरणेनेति संदेहे कल्पसूत्रादि नापि अनुष्ठेयार्थ स्मृति संभवाददृष्टाथां मेत्रा इति प्राप्तेराद्धांतः मंत्राणामर्थप्रकाशन द्वाराक्रतूपकारकत्वं दृष्टद्वारसंभवे दृष्टकल्पनानुपपतेस्तथा च फल वदनुष्टानापेक्षितक्रिया तत्साधनस्मरणद्वारा मंत्राणां कर्मांगत्वं न च क्रिया तत्साधनस्मरणस्य मंत्रैरिवकल्पसूत्रादिभिरपि संभवान्न तस्य द्वारत्वमिति वाच्यं | मंत्रैरेव मंत्रार्थः स्मर्तव्य इति नियमविधि संभवात् | नियमस्तु दृष्टार्थो भविष्यति | तदुक्तं | यत्र दृष्टन्न लभ्यतेऽतःस्या तत्रा दृष्टकल्पनेति तथा च यथा मंत्रनियमविधिना मंत्रमूलक कल्पसूत्रादि व्यावृतिः क्रियते तथा अधीत सांगस्वाध्यायेन ब्रमजिज्ञासुना वेदांता एव विचार्या इति वेदांत नियमे कृते तन्मूलेतिहासादीनां व्यावृतिर्लभ्यत इति दृष्टांतदार्ष्टांतिक ग्रंथयोरर्थः | याज्ञिकैः प्रणीतमनुष्टान समवेत पदार्थ संग्राहक वाक्यं प्. १९ब्) ग्रहणकवाक्यं इतिहासौ महाभारतं पौरुषेय प्रबंधः प्रबोधचंद्रोदयादिः उदाहृतानिव्या ||
28 SK सर्वथानियमविधिरेवायं सहकार्यंतरविधिरित्यधिकरणभाष्ये अपूर्वविधित्वोक्तिस्तु नियमविधित्वेपि पाक्षिक्य प्राप्ति सद्भावा तदभिप्रायेति | तत्रैव पक्षेणेति पाक्षिक्य प्राप्ति कथनपरसूत्रपदयोजनेन स्पष्टीकृतमिति | विवरणानुसारिणः | कृतश्रवणस्य प्रथमं शब्दात् | निर्विचिकित्संपरोक्षज्ञानमेवात्पद्यते | शब्दस्य परोक्षज्ञान जननस्वाभाव्येन कॢप्त सामर्थ्यानति लंघनात् || वर्त्यान्युपलक्षणमन्येषामपि व्यावर्त्यानां संभवात् | तथा हि तत्कारणं सांख्ययोगाभिपन्नमिति श्रुतौ ब्रह्मप्रतिपति द्वारा तत्प्राप्तिं प्रति उपायद्वयं निर्दिष्टं श्रवणमनन ध्यानात्मकस्सांख्यशब्दार्थ एकः तृतीय परिच्छेदे वक्ष्यमाणो योगपदोदितः उपासनामार्गस्त्वपरः | तत्प्रकृतं कारणं जगत्कारणत्वेनोपलक्षितं ब्रह्मसांख्ययोगाभ्यां क्षानद्वाराभिपन्नं आभिमुख्येन प्रत्यक् त्वेन प्राप्तमिति श्रुत्यर्थः | तथा सगुणब्रह्मोपासनमुपासकस्य ब्रह्मलोकं प्. २०अ) गतस्य तत्वसाक्षात्कार द्वाराब्रह्मप्राप्ति हेतुरिति ब्रह्ममीमांसायां प्रसिद्धं तथा तपो विशेषादिकं साक्षातत्वज्ञानसाधनत्वेन पुराणादि प्रसिद्धमुदाहर्तव्यं तथा च गुरुवेदांतेषु श्रद्धावतः कुशलस्य श्रवणाधिकारिणस्तत्वज्ञानार्थमुक्तेषु योगमार्ग सगुणोपासनतपो विशेषादिष्वपि वेदांतश्रवण इव कदाचित् प्रवृतिः स्यादिति तन्निवृतिफलको नियमविधिः संभवति नियमविधिपक्षमुपसंहरति | सर्वथेति | ननु नियमविधित्वपक्षे सहकार्यंतरविधिरित्यधिकरणभाष्य विरोध इत्यत आह | सहकार्यंतरेति | अपूर्वविधित्वस्य निराकृतत्वादिति भावः | तत्रैवेति |
29 SK तदधिकरणभाष्य एवेत्यर्थः | श्रोतव्यवाक्येन निर्विचिकित्स परोक्ष शाब्दज्ञानो देशेनैव श्रवणं विधीयते न तु शाब्दसाक्षात्कारोद्देशेन शब्दस्य स्वतः परोक्षज्ञानजनन स्वाभाव्यात् | विचारसहकृतस्यापि शब्दस्य क्वापि साक्षात्कार हेतुत्वादर्शनाच्च परोक्षज्ञानफलकोप्ययंनापूर्वविधिः विधिं विनापि शब्दे शाब्दज्ञान हेतुत्वस्य विचारे विचार्यनिर्णय हेतुत्वस्य च प्राप्तौ तदुभयवलेन विचारविशिष्टवेदांतरूपश्रवणस्य निर्वि * कित्स शाब्दज्ञान हेतुत्व प्राप्तेस्साधितत्वात् | किंतु पूर्वोक्तान्येव व्यावर्त्यान्यादायनियमविधिरेवेति मतमाह | कृतश्रवणस्य प्रथममिति || पश्चात्तु कृतमनननिदिध्यासनस्य सहकारि विशेष संपन्ना तत एवापरोक्षज्ञानं जायते प्. २०ब्) तत्तांशगोचरज्ञानासमर्थस्यापींद्रियस्य तत्सामर्थ्य संस्कारसाहित्यात्प्रत्यभिज्ञा न जनकत्ववत्स्वतोऽपरोक्षज्ञानजनना समर्थस्यापि शब्दस्य विधुरपरिभावित कामिनी साक्षात्कारस्थले तत्समर्थत्वेन कॢप्त भावना प्रचयसाहित्यादपरोक्षज्ञानजनकत्वं युक्तं ततश्च शब्दस्य स्वतः स्वविषये परोक्षज्ञानजनकत्वस्य भावना प्रचय सहकृतज्ञानकरणत्वावच्छेदेन विधुरांतः | करणवद परोक्षज्ञान जनकत्वस्य च प्राप्तत्वात्पूर्ववन्नियमविधिरिति तदेक देशिनः || ननु मनननिदिध्यासने किं निर्विचिकत्स शाब्दपरोक्षज्ञानोद्देशे नैव विधीयेते किं वा शाब्दा परोक्षं प्रतिनाद्यः मननाद्यनुष्टानात्प्राक् श्रवणमात्रादेव तत्सिद्धेर्न द्वितीयः | शब्दस्य परोक्षज्ञानजनन एव सामर्थ्यस्य त्वदभिमतत्वादित्या शंकां द्वितीयपक्ष परिग्रहेण परिहरति पश्चादिति | शाब्दनिर्विचिकत्स परोक्षज्ञानानंतरमित्यर्थः | कृते मनननिदिध्यासने येन सः तथोक्तः | तत एवेति शब्दादेवेत्यर्थः | सहकारिवैचित्र्यात्कार्य वैचित्र्यदर्शनादिति भावः | तदेवोदाहरणेन दर्शयति | ततांशेति तत्सामर्थ्येति | तत्रांशगोचरज्ञानजननसामर्थ्यमित्यर्थः |
30 SK प्. २१अ) शब्दस्येति शब्दस्यापरोक्षज्ञानजननकत्वं युक्तमित्युतरत्रसंबंधः | ननु तत्रा संस्कारस्य इंद्रिय सहकारित्वेन कॢप्तावपि भावना प्रचयस्य ज्ञानकरण सहकारित्वेन साक्षात्कारजननसामर्थ्यं न क्वापि कॢप्तमित्याशंक्याह | विधुरेति | तत्समर्थेत्यत्र साक्षात्कारजननं तच्छब्दार्थः नन्वेवमपि शब्दसहकारित्वेन मननध्यानात्मक भावना प्रचयस्य मानांतरेण शाब्दसाक्षात्कारं प्रतिहेतुत्वा प्राप्तेर्मननादि विधेरपूर्वविधित्वप्रसंग इति नेत्याह | ततश्चेति | परोक्षज्ञानजनकत्वस्यापरोक्षज्ञानजनकत्वस्य च प्राप्तत्वादिति संबंधः | परोक्षज्ञान हेतुत्वस्य प्रात्थमिधानं श्रवणविधेर्नियम विधित्वार्थमिति द्रष्टव्यं विपुरेति भावना सह कृतस्य || वेदांतश्रवणेन न ब्रह्मसाक्षात्कारः किं तु मनसैव मनसैवानुद्रष्टव्यमिति श्रुतेः | शाश्त्राचार्योपदेश शमादिसंस्कृतमन आत्मदर्शने करणमिति गीताभाष्यवचनाच्च | श्रवणं तु निर्विचिकित्स परोक्षज्ञानार्थमिति तादर्थ्येनैव नियमविधिरिति केचित् || विदुरांतःकरणस्य कामिनी साक्षात्कारहेतुत्व दर्शनस्थले वहिरस्वतंत्रमप्यंतःकरणं बाह्यवस्तु भावना सहकृतं सतत्साक्षात्कार हेतुरिति विशिष्य कार्यकारण भावे प्. २१ब्) गृहीतव्ये लाघवात् | बाधका भावाच्च भावना प्रचय सहकृतं ज्ञानकरणत्वावच्छिन्नमपरोक्षज्ञानं प्रतिहेतुरिति कार्यकारणभावोग्र ह्यत इति भावः | अत्र शब्दस्य परोक्षज्ञानजननस्वाभाव्यमेवासिद्धं ज्ञानगत परोक्षत्वादेः करविशेष प्रयुक्तत्वस्य निराकरिष्यमाणत्वादतः शाब्दापरोक्षं प्रतिमननादेरिव श्रवणस्यापि विधिर्नानुपन्न इत्यस्वरसंसूचयति | तदेकदेशिन इति विवरणैक देशिन इत्यर्थः | मतांतरमाह | वेदांतश्रवणेन न ब्रह्मसाक्षात्का * इति |
31 SK शब्दस्य परोक्षज्ञानजनन स्वाभाव्येन कॢप्त सामर्थ्यानति लंघनादिति हेतुरत्रापि मते दृष्टव्यः | किं तर्हि ब्रह्मसाक्षात्कारे करणमिति पृच्छति किं त्विति | मन एव करणमिति मत्वा तत्र मानमाह | मनसैवेति | क्वचित् किंत्वित्यनंतरं पृथक् मनसैवेति पाठोस्ति तदानानुपपतिः | तत्रैव भाष्य संमतिमाह | शास्त्रेति | शास्त्रं तत्वमस्यादि वाक्यमाचार्योपदेश आचार्य कर्तृक वाक्यार्थ विवरणरूप आदि पदंद मतितिक्षादि संग्रहार्थं | तथा चात्र ब्रह्मसाक्षात्कारस्य मानसत्व प्रतिपादनेन तत्कारणमनस्सहकारितयैव मनननिदिध्यासनयोर्विधिर्न्न तु पूर्वमत इव शाब्दसाक्षात्कारकारणशब्द सहकारितयेति पूर्वमतादस्य मतस्य विशेषः सूचितो भवति | श्रवणे तु पूर्वमतादविशेषमाह | श्रवणंत्विति | तादर्थ्येनैवेति निर्विचिकित्स शाब्दपरोक्षज्ञानार्थत्वेनैवेत्यर्थः || प्. २२अ) अपरोक्षज्ञानार्थत्वेनैव श्रवणे नियमविधिः द्रष्टव्य इति फलकीर्तनात् | तादर्थ्यं च तस्य करणभूतमनः सहकारितयैव न साक्षात् | शब्दादपरोक्षज्ञानानंगीकारात् | न च तस्य तेन रूपेणतादर्थ्यं न प्राप्तमित्यपूर्वविधित्व प्रसंगः | श्रावणेषु षड्भादिषु समारोपित परस्पराविवेकनिवृत्यर्थं गांधर्वशास्त्रस्य श्रवण सहकृत श्रोत्रेण परस्परा संकीर्णतया तद्याथार्थ्या परोक्षदर्शनेन प्रकाशमाने वस्तुन्यारोपिताविवेकनिवृत्यर्थं शास्त्रसद्भावे तच्छ्रवणं तत्साक्षात्कारजनकेंद्रिय सहकारि भावेनोपयुज्यत इत्यस्य कॢप्तत्वादित्येके || मतांतरमाह | अपरोक्षज्ञानेति | ननु तर्करूपविचारात्मकस्य श्रवणस्य स्वतः साक्षात्कार फलत्वा योगातदनुग्राह्यं प्रमाणं वक्तव्यं तच्च किमित्यपेक्षायामाह | तादर्थ्यं चेति | साक्षात्कारार्थत्वं चेत्यर्थः | तस्येति | वेदांतश्रवणस्येत्यर्थः |
32 SK करणभूतेति ब्रह्मसाक्षात्कारकरणभूतेत्यर्थः | न तु ब्रह्मसाक्षात्कारकरणशब्द सहकारितयेत्येव कारार्थः | न साक्षादिति वेदांत श्रवणस्य साक्षात्स्वातंत्र्येण साक्षात्कारजनकत्वं नास्ति तस्य तर्करूपतया स्वतः प्रमाणत्वा प्. २२ब्) भावादिति भावः | मनः सहकारितयैवेत्येव कारार्थे हेतुमाह | शब्दादिति | तस्येति वेदांतश्रवणस्येत्यर्थः | तेन रूपेणेति साक्षात्कारकरणमनस्सहकारिंत्वेन रूपेणेत्यर्थः | साक्षात्कारकरणमनस्सहकारित्वेन प्राप्त्यभावेपि तत्करणेंद्रिय सहकारित्वेन प्राप्तिरस्तीत्याह | श्रावणेष्विति | श्रोत्रजन्य प्रत्यक्षविषयेष्वित्यर्थः | षड्गादिष्विति | षड्गादयो ध्वनिवेशेषास्तेषु गांधर्वशास्त्रश्रवण रहितस्य परस्परमविवेकस्समारोपितो वर्तते परस्परमविवेको नाम परस्परं तादात्म्यरूपः परस्परधर्मवतारूपश्चेति बोध्यं गांधर्वशास्त्रविचारवतश्च तद्विचार सहकृत श्रोत्रेंद्रियेणैव षड्गादयः परस्परं विविक्ततयानुभूयंते एवं मनसांतरिंद्रियेणानुभूयमानेषु चिदात्मप्राण शरीरादिषु परस्परं तादात्म्यादि रूपाविवेकः प्राणिनामनुभव || वेदांतवाक्यानामद्वितिये ब्रह्मणि तात्पर्य निर्णयानुकूल न्यायविचारात्मक चेतो वृतिविशेषरूपस्य श्रवणस्य न ब्रह्मणि परोक्षमपरोक्षं वा ज्ञानं फलं तस्य शब्दादि प्रमाणफलत्वात् | न चोक्त रूपविचारावधारित तात्पर्य विशिष्टशब्दज्ञानमेव श्रवणमस्तु | तस्य ब्रह्मज्ञानं फलं युज्यते इति | प्. २३अ) वाच्यं | ज्ञाने विध्यनुपपतेः | श्रवणविधेर्विचार कर्तव्यता विधायक जिज्ञासा सूत्रमूलत्वोपगमाच्चोहापोहात्मक मानस क्रियारूपविचारस्यैव श्रवणत्वौवित्यात् || सिद्धोत्रापि यद्यारोप निवर्तकं शास्त्रमस्ति तदा तत्सहकृतमंतरिंद्रियमेव बुध्यादि विविक्तमात्मानं ब्रह्मस्वरूपतया वेदांतैः प्रतीयमानं साक्षात्कारयेदिति विचारवात्पुरुषः षड्गादि स्वरसाक्षात्कार स्थले कार्यकारणभावं कल्पयतीत्याह | प्रकाशमान इति |
33 SK तच्छ्रवणं शास्त्रश्रवणं | तत्साक्षात्कारेति प्रकाशमान वस्तुसाक्षात्कारेत्यर्थः | उपयुज्यते विविक्ततया वस्तुसाक्षात्कार हेतुर्भवतीत्यर्थः | इत्यस्येति | इति उक्त प्रकारेणास्य साक्षात्कारकरणभूतेंद्रिय सहकारित्वस्य वेदांतश्रवणे विधिं विनैव प्राप्तवान्नापूर्वविधित्वप्रसंग इत्यर्थः | उक्तेषु पक्षेषु शाब्दाद्य परोक्षोद्देशेन वा शाब्दपरोक्षोद्देशेन वा श्रवणविधिरिति स्थितं | इदानीं प्रतिबंधनिरासोद्देशेनैव तद्विधिरिति मतांतरमाह | वेदांतवाक्यानामिति | प्रमेयासंभावनानिवृत्यनुकूलन्याय विचारात्मक मननव्यावृतये तात्पर्य निर्णयानुकूलेत्युक्तं | तन्निर्णयानुकूलन्यायाश्रोपक्रमादय इति बोध्यं चितोवृति विशेषपदेन यत्नसाध्यक्रियारूपावृतिर्विवक्षिता न तु तदसाध्याज्ञानरूपावृतिर्विवक्षिता प्. २३ब्) ज्ञानस्य विध्ययोग्यताया वक्ष्यमाणत्वात् | ब्रह्मणीति विषयसप्तमी | तस्येति ज्ञानस्येत्यर्थः | आदिपदं प्रत्यक्षादि संग्रहार्थं ज्ञानोद्देशेन श्रवणं विधीयत इति मताभिमतं श्रवणशब्दार्थमनूद्यनिरा करोति | न चोक्त रूपेति | ब्रह्मजिज्ञासा सूत्रस्य साधन चतुष्टय संपन्नेन ब्रह्मज्ञानाय वेदांतविचारः कर्तव्य इत्यर्थः | सौत्रजिज्ञासा पदस्य विचारलक्षकत्वा | तस्य च सूत्रस्य श्रोतव्यवाक्यं मूलं ततश्च श्रोतव्य वाक्ये यदि श्रवणं ज्ञानरूपं तदा श्रोतव्य इत्यस्य श्रवणरूपज्ञान कर्तव्यता अर्थःस्या तथा च जिज्ञासा सूत्रश्रोतव्य वाक्ययोर्मूलमूलिभावो न स्यादेकार्थत्वा भावादित्याह | श्रवणविधेरिति | ऊहः न्यायाभासेभ्यो निष्कृष्य न्यायानामुपादानं न्यायाभासनिराकरणमपोहः | न च विचारस्यैव तात्पर्य निर्णय द्वारातज्जन्य तात्पर्य भ्रमादि पुरुषापराधरूप प्रतिबंध विगमद्वारा वा ब्रह्मज्ञानं फलमस्त्विति वाच्यं तात्पर्य ज्ञानस्य शाब्दज्ञाने कारणत्वानुपगमात् | कार्ये क्वचिदपि प्रतिबंधकाभावस्य कारणत्वानुपगमाच्च तयोर्द्वारत्वानुपपतेः | ब्रह्मज्ञानस्य विचाररूपातिरिक्तकारणजन्यत्वे तत्प्रामाण्यस्य परतस्त्वापतेश्च ||
34 SK प्. २४अ) ननु सदेव सोम्येत्यादि तत्सत्यं स आत्मातत्वमसीत्ये तदंतं वाक्यजातमद्वितीय वस्तु परम द्वितीय वस्तु प्रतिपादकोपक्रमोपसंहारवत्वादित्येवमात्मकस्य विचारस्यानुमितिरूपं तात्पर्य निद्धांरणं साक्षात्फलं तत् द्वारा तात्पर्यमुमादि रूपप्रतिबंधकनिवृतिर्विचारस्य फलं तन्निवृतौ च वाक्यमप्रतिबद्धं सदद्वितीय ब्रह्मबोधं जनयति | एव श्रुत्यंतरेष्वपीति वस्तुगतिः | तथा च श्रवणस्य साक्षाद्ब्रह्मज्ञान फलकत्वाभावेपि परंपरया तत्फलकत्वं स्यादिति शंकते | न च विचारस्यैवेति | अप्यर्थ एव कारस्तथा च | यथा ज्ञानं शब्दप्रमाणस्य फलं तथा तद्विचारस्यापि फलमस्तु शब्दप्रमाणफले ज्ञाने विचारस्यापि तात्पर्य निर्णयद्वारातदधीन प्रतिबंध निरासद्वारा वा हेतुत्व संभवादित्यर्थः | तज्जन्यत्वं विगमविशेषणं भ्रमादिरेव पुरुषापराधः तात्पर्यज्ञानस्य द्वारत्वाभावे हेतुमाह | तात्पर्यज्ञानस्येति | प्रतिबंध निरासोपजननेनान्यथा सिद्धत्वादिति भावः | तार्यज्ञानस्य शाब्दबोधं प्रति हेतुत्वाभावे विचारस्य तात्पर्य निर्णयसाध्य प्रतिबंध निवृतिद्वारा शाब्दबोध हेतुत्वं दूरायास्तमिति मत्वा प्रतिबंधकाभावस्याहेतुत्वे हेतुमाह | कार्ये क्वचिदपीति | सत्यामपि सामग्र्यां प्रतिबंधवशात्कार्यं न जातमिति लोकव्यवहारविरोधात् | प्रतिबंधकाभावस्य सामग्र्यामंतर्भावोनांगी क्रियते | किं त्व प्रतिवद्धसामग्री कार्यहेतुरिति स्वीकृत्य सामग्र्यामवच्छेदकतया दंडत्वादि वदन्यथा सिद्धिरेव स्वीक्रियत इति भावः तात्पर्यानु ||
35 SK प्. २४ब्) तस्मातात्पर्यनिर्णय द्वारापुरुषापराध निरासार्थत्वेनैव विचाररूपे श्रवणे नियमविधिः | द्रष्टव्य इति तु दर्शनार्हत्वेन स्तुतिमात्रं न श्रवणफल कीर्तनमिति संक्षेपशारीरकानुसारिणः ब्रह्मज्ञानार्थं वेदांतश्रवणे प्रवृतस्य चिकित्साज्ञानार्थं चरकसुश्रुतादि ग्रंथश्रवणे प्रवृतस्येव मध्ये व्यापारांतरेपि प्रवृतिः प्रसज्यत इति तन्निवृति फलकः श्रोतव्य इति परिसंख्याविधिः || मितिहेतु विचारात्मकानुमानस्य शाब्दप्रमिति हेतुत्वे दूषणमाह | ब्रह्मज्ञानस्येति | अतिरिक्तेति शब्दप्रमाणाति रिक्तेत्यर्थः | परतस्त्वापतेरिति | प्रामाण्याश्रयज्ञानस्यातिरिक्त कारणजन्यत्वरूपं प्रामाण्यस्योत्पतौ परतस्त्वं स्यादित्यर्थः | ततश्चाप सिद्धांत इति भावः | यदि श्रवणस्य न ब्रह्मज्ञानं फलं तर्हि किमुद्देशेन तद्विधिरत आह | तस्मादिति | ब्रह्मज्ञान फलकत्वा संभवादित्यर्थः | ननु तर्हि कथं द्रष्टव्य इति श्रवणफल कीर्तनं तत्राह | द्रष्टव्य इति त्विति | स्तुतिमात्रमिति | आत्मन इति शेषः स्तुतिश्च तच्छ्रवणादौ प्रवृत्यथैति भावः | परिसंख्याविधि पक्षमाह | ब्रह्मज्ञानार्थमिति | ननु वाचस्पति मते वक्ष्यमाणरीत्या वेदांतश्रवणस्य नित्यप्राप्तिं सिद्धां कृत्वा परिसंख्याविधि प्. २५अ) पक्षप्रवृतिर्वाच्या | तथा च सति ज्ञानमुद्दिश्य श्रवणाव्वनुतिष्ठतः कथं व्यापारांतरं प्रसज्येत यतस्तन्निवृति फलकः परिसंख्याविधिः संभवेदित्याशंक्य ब्रह्मज्ञानसाधनत्वेन व्यापारांतरा प्रसक्तावपि भेदवासनावशाद्व्यापारांतरं संभवतीति सदृष्टांतमाह | चिकित्सेति | चिकित्सा औषधं तद्ज्ञानस्य वैद्यकग्रंथैक साध्येन तद्ज्ञानाय चरकसुश्रुतादि संज्ञकग्रंथश्रवणे प्रवृतस्य तादर्थ्येन व्यापारांतरा प्रसक्तावपि यथा विषयवासनावशादेव तत्प्रसक्तिस्तद्वदित्यर्थः ||
36 SK ब्रह्मसंस्थोऽमृतत्वमेतीति छांदोग्येनन्यव्यापारत्वस्य मुक्तपायत्वावधारणात् | संपूर्वस्य तिष्ठतेः समाप्ति वाचि तया ब्रह्मसंस्था शब्दिताया ब्रह्मणि समाप्तेरनन्यव्यापारत्वरूपत्वात् | तमेवैकं जानथ आत्मानमन्यावाचो विमुंचथेत्यार्थर्वणे कंठत एव व्यापारांतरप्रतिषेधाच्च | आसुप्तेरामृतेः कालं नयेद्वेदांतचितयेत्यादि स्मृतेश्च | न च ब्रह्मज्ञानानुपयोगिनो व्यापारांतरस्य श्रवणेन सहैकस्मिन् साध्ये समुच्चित्यप्राप्त्यभावान्न तन्निवृत्यर्थः परिसंख्याविधिर्युज्यत इति वाच्यं ||
37 SK प्. २५ब्) ननु सुश्रुतादि ग्रंथश्रवणे प्रवृत्तस्य व्यापारांतर सत्वेपि यथा चिकित्सा ज्ञानं निष्प्रत्यूहमुत्पद्यते | तथा प्रत्यहं वेदांतश्रवणमनुतिष्ठतो मध्ये मध्ये लौकिक वैदिक व्यापार सत्वेपि ब्रह्मज्ञानोदय संभवान्निष्फलः | परिसंख्याविधिरित्याशंक्य श्रवणविध्यर्थवत्वायनिन्तरमनुष्वितश्रवणस्यैव ज्ञानसाधनत्वं न कादाचित्कस्यातो न नैष्फल्यमिति | परिहारमभिप्रेत्य यथोक्तार्थे श्रुतिस्मृतिवाक्यान्युदा हरति | ब्रह्मसंस्थ इति न विद्यते अन्यो व्यापारो यस्य पुरुषस्य स तथा तस्य भावस्तत्वं तस्येत्यर्थः | ब्रह्मविषयक श्रवणादि व्यापाराच्छमदमाद्युपबृंहितादन्य व्यापारशून्यत्वस्येति यावत् | तथा च संन्यासाधिकरणभाष्यं शमदमाद्युपवृंहितं ब्रह्मनिष्ठत्वं तस्य स्वधर्मस्तदति क्रमे च तस्य प्रत्यवाय इति | अवधारणं निश्चयः ब्रह्मसंस्थपदेनायमर्थः कथं लभ्यत इत्यत आह | संपूर्वस्येति | न च ब्रह्मणि समाप्तिर्नामविदेहकैल्यरूपोलय एवास्त्विति वाच्यं | तथा सति पुनरमृतत्वमेतीति भागवैयर्थ्यापतेरतोमृतत्वप्राप्तिं प्रति ब्रह्मसंस्थता उपायत्वेन विधीयत इति वक्तव्यमतो ब्रह्मणि समाप्तेरनन्य व्यापारत्वे पर्यवसानं भाष्ये कृतं | तथा चानन्य व्यापारत्वस्य मुक्त्युपायत्वबोधक वाक्येनार्थान्मुमुक्षोर्व्यापारांतरनिवृतिः क्रियत इति भावः | साक्षान्निवृति बोधकवाक्यमुदाहरति | तमेवैकमिति | यस्मिन्नाधारेद्या वा पृथिव्यादि समस्तं जगदध्यस्ततमेवाधारमेकरूपमात्मानं जानथ ||
38 SK प्. २६अ) सहकार्यांतरविधिरित्यादि सूत्रे यस्मात् पक्षे भेददर्शन प्रावल्यान्न प्राप्नोति तस्मान्नियम विधिरिति तद्भाष्ये च कृत श्रवणस्य शाब्दज्ञानमात्रात्कृतकृत्यतां मन्वानस्याविद्यानि च | तर्क साक्षात्कारोपयोगिनिदिध्यासने प्रवृतिर्नस्यादिति अतत् साधनस्य पक्षप्राप्तिमात्रेण निदिध्यासने नियमविधेरभ्युपगत तयातन्न्यायेनासाधनस्य समुच्चित्याप्राप्तावपि तन्निवृतिफलकस्य परिसंख्याविधेः संभवादिति नियमः परिसंख्या वा विध्यर्थोत्र भवेद्यतः | अनात्मादर्शनेनैव परात्मानमुपास्मह इति वार्तिक वचनानुसारिणः केचिदाहुः | आत्मा श्रोतव्य इति मननादिवदात्मविषयकत्वेन निवध्यमानं श्रवणमागमाचार्योपदेशजमात्मज्ञानमेव न तु तात्पर्यविचाररूपं न तत्र कोपि विधिः || हे मुमुक्षुवः ज्ञानसाधनत्वेन चानात्मप्रतिपादकशब्दोच्चारणादि त्यागः कर्तव्य इत्याह | श्रुतिरन्यावाचो विमुंचथेति | नियमविधिवादी शंकते | न च ब्रह्मज्ञानानुपयोगिन इति प्रतिवंद्यासमाधते | सहकार्य्यंतरेति | न प्राप्नोति मौनमिति प्. २६ब्) शेषः उदाहृत सूत्रभाष्ययोर्नियमविधिवादि सम्मतं तात्पर्यं परिसंख्याविधिवादी दर्शयति | कृत श्रवणस्येति | मन्वानस्येत्यनंतरं व्यापारांतरेपि प्रवर्तमानस्येति शेषः सूत्रे भाष्ये च तत्साधनपक्षप्राप्ति मात्रेण नियमविधेरभ्युपगततयेति संबंधः | वार्तिके अत्रेत्यस्य श्रोतव्यवाक्य इत्यर्थः | अत्र नियमो विध्यर्थो भवेदित्येकः संबंधः | यदि नित्य प्राप्तत्वान्नियमविधिर्न्न संभवति तदा परिसंख्या वा विध्यर्थो भवेदिति संबंधः | परिसंख्याया विध्यर्थत्वे हेतुर्यत इत्यादिः | परमात्मोपासने अन्य व्यापाररहिते वयं मुमुक्षवो यतः प्रवृत्ता इत्यर्थः | श्रवणादीनां विधेयत्व पक्षं मतभेदेन दर्शयित्वा तेषां विध्यभावपक्षमाह | आत्मा श्रोतव्य इत्यादिना | निवध्यमानमिति |
39 SK यथा आत्मविषयकत्वेनोच्यमानम्मननं निदिध्यासनं च ज्ञानरूपं तथा श्रवणमपि ज्ञानरूपमेवेत्यर्थः | न त्वितिविचारस्यानुष्ठेय क्रियारूपस्य साक्षादात्मविषयकत्वानुपपतेरिति भावः || ननु मननादि वदिति दृष्टांतोनुपपन्नः मनननिदिध्यासनयोर्ज्ञानत्वा भावात् मननं हि युक्त्यालोचनरूपो व्यापारः ध्यैचिंतायामित्यनुशासनानुरोधेन निदिध्यासनं ध्यानक्रिया न ज्ञानमतः कथं मननादि वदिति मनन निदिध्यासनयोर्ज्ञानत्वं सिद्धतयानिर्दिश्यते इति चेदुच्यते | आत्माब्रह्मस्वभावः चिद्रूपत्वात् प्. २७अ) ब्रह्मवद्बुध्यादिः कल्पितः दृश्य त्वात् | शुक्तिरजतादि वदित्याद्यनुमितेरेवमननत्वोपगमात् | तदुक्तं चतुर्थमैत्रेयी ब्राह्मण वार्तिके | आगमार्थ विनिश्चित्यैमंतव्य इति भण्यते वेदशब्दानुरोध्यत्र तर्कोपि विनियुज्यते | पदार्थविषयस्तर्कः | तथैवानुमितिर्भवेदिति श्रुतार्थदार्ढ्याय तर्करूपं मननं विधीयते सोपि तर्कः श्रुत्यविरुद्ध एव मननत्वेन विधीयते तच्च मननं तत्वं पदार्थविषयकमेव न तु वाक्यार्थविषयकं तस्य वाक्यैकमेयत्वात् | तथा शब्दः समुच्चयार्थः | यथा मननात्मक तर्कस्य वेदाविरोधित्वं तथानुमिति रूपत्वं चेत्यर्थः | अत एवन्यायतंत्रेपि | मननस्यानुमिति रूपत्वमिष्यते निदिध्यासनमपि वार्तिक कारमते ज्ञानमेव तथा हि | बृहदारण्यके चतुर्थाध्याय षष्ठाध्यायगतयोर्मैत्रेयी ब्राह्मणयोराम्नायते | आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्य इति | अनंतरं चतुर्थे मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेति | षष्ठे तु मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इति
40 SK प्. २७ब्) इति तत्रोभयत्राक्षेपवार्तिकं | अनुवादे यथोक्तानां प्रक्रांते दर्शनादिषु विज्ञानेनेत्यथ कथं निदिध्यासनमुच्यत इति | अथ आत्माद्रष्टव्य इत्यादिना उक्तानामनुवादे प्रक्रांते सति दर्शनादिषु मध्ये श्रुतं निदिध्यासनं विज्ञानेनेति पदेन कथमुच्यते नूद्यते दर्शनादीनां समानपदैरेवानुवाद दर्शनेन निदिध्यासनस्यापि तद्वन्निदिध्यासनेनेत्यनुवादः स्यात् | न तु विज्ञान पदेनेत्यर्थः | तस्य समाधान वार्तिकं | ध्यानाशंकानिवृत्यर्थं विज्ञानेनेति भण्यते निदिध्यासन शब्देन ध्यानमाशंक्यते | यत इति | निदिध्यासनशब्दस्य ध्यान वाचि त्वात् श्रवणमननानंतरमनुभवां गत्वेन ध्यानं निदिध्यासितव्य इत्यनेन विधीयत इति यतः पूर्ववादिभिराशंक्यते | अतस्तदा शंका निवृत्यर्थमनुवादावसरे स्थित्वा पूर्ववाक्ये निदिध्यासनरूपं ज्ञानं विवक्षितं नतु ध्यानं अतो नात्रध्यानविधि शंकावकाश इत्याशयवती श्रुतिर्विज्ञानपदेन निदिध्यासनमनुवदतीति प्. २८अ) वार्तिकार्थः | ध्यानस्यानुभवांगत्वे को दोषः यतस्तदाशंका श्रुत्यानिरस्यत इत्यत आह तदनंतरं वार्तिकार्द्धं | विज्ञानोत्पति हेतुत्वं ध्यानादेः प्रागवादिषमिति ध्यानस्य तन्नीयोगस्य वा विज्ञानोत्पति हेतुत्वं प्रतियद्दूषणं वक्तव्यं तत्प्रागेव संबंधादावुक्त वानस्मीत्यर्थः | तत्र ह्युक्त तत्वं पदार्थ गोचर श्रवणमननाभ्यास सकृदभ्यस्ताभ्यां तत्वं पदलक्ष्यार्थ निर्णये सति वाक्यार्थज्ञानस्यैवावसरप्राप्तत्वेन ध्यानविधेरनवकाशात् | न च ताभ्यां प्रमाणप्रमेया संभावनानिवृत्तावपि विपरीत प्रत्ययेन प्रतिबंधान्न वाक्यार्थ बोधोत्पतिरिति वाच्यं | श्रवणमननयोरेवासकृदभ्यास महिम्ना विपरीत प्रत्ययस्यापि निवृति संभवात् वाक्यार्थ बोधनिवर्त्यस्य विपरीतप्रत्ययस्य तदप्रतिबंधकत्वाच्च लोके विपर्ययस्य स्वविरोधिदर्शनोत्पति प्रतिबंधकत्वा दर्शनादिति | ननु यदि निदिध्यासनं न ध्यानं | किं तर्हि तदित्यत आह | वार्तिकं | अथ रायत बोधो-
41 SK प्. २८ब्) त्रनिदिध्यासनमुच्यते | धानस्येव पुरुष यत्नान पेक्षत्वमपरायतत्वं | यावद्यथोक्त विज्ञानमाविर्भवति भास्वरं श्रवणादि क्रिया तावत् कर्तव्येह प्रयत्नतः मननमादि पदार्थः | श्रुत्वामत्वाथ तं साक्षादात्मानं प्रतिपद्यते | अथ श्रवणमननपरिपाकजनित तत्वं पदलक्ष्यार्थनिर्णयानंतरमेव वाक्येन ब्रह्मात्मज्ञानं साक्षादपरोक्षतया प्रतिपद्यते अनुभवतीत्यर्थः | वाक्यार्थ ज्ञानवतः कृतकृत्यतामाह | अनन्या यत्न विज्ञाने श्रवणादेरुपाद्यतः | जातेनापेक्ष्यते किंचित्प्रतीचोनुभवात्परमिति वृतिज्ञा || अत एव समन्वय सूत्रे आत्मज्ञानविधिनिराकरणानंतरं भाष्यं किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्य इत्यादीनि वचनानि | विधि छायानि स्वाभाविक प्रवृति विषयखीकरणार्थानीति ब्रूम इत्यादि || ने जाते सति तेन प्रतीचो ब्रह्मत्व स्फुरणादनंतरं न किंचिदपेक्ष्यत इत्यर्थः | एवं वार्तिककारमते निदिध्यासनस्य ज्ञाअनत्वाभ्युपगमात् न मननादि वदिति दृष्टांता सिद्धिः | प्. २९अ) न च वार्तिककारमते निदिध्यासितव्य इत्यस्य द्रष्टव्य इत्यनेन पौनरुक्त्यं स्यादिति वाच्यं | दर्शनोद्देशेन श्रवणमनन विधानानंतरं पुनः फलकीर्तनस्य तदुपसंहारपरत्वोपपतेरथवा द्रष्टव्य इति विचारप्रयोजकापातदर्शनानुवादः निदिध्यासितव्य इति तु विचारफल साक्षात्कारानुवाद इति पौनरुक्त्यपरिहार संभवात् | श्रवणादौ विध्यभावे भाष्य सम्मतिमाह | अत एवेति | श्रवणमनननिदिध्यासनानां दर्शनवत् ज्ञानरूपत्वेन क्रियारूपत्वेपि वक्ष्यमाणविधया नित्य प्राप्तत्वे न च विध्ययोग्यत्वा देवेत्यर्थः | किमर्थानीति | व्यर्थानि स्युरिति यावत् | आदि पदं श्रोतव्य इत्यादेस्संग्रहार्थः | विधिछायानीति |
42 SK अध्येतव्य इति प्रसिद्ध विधितुल्यानीत्यर्थः | अत्र तव्य प्रत्ययैर्दर्शन श्रवणादि गता प्रशंसा लक्ष्यते तथा च | यो हि मुमुक्षुरात्मदर्शन श्रवणादीन्येव मुक्तिसाधनानीति ज्ञात्वापि संन्यास ब्रह्मचर्यादि सहित श्रवणाद्यनुष्ठानक्लेशमनुसंचिंत्य न तत्र सर्वोत्साहे न प्रवर्तते किं तु यथा प्राप्तान्येव वर्णाश्रमानुरूपाणि कर्माण्युपासनानि वानुतिष्ठेत् तत्रापि निर्वृतिं न लभते तैरात्यंतिक पुरुषार्थालाभानुसंधानेन तं प्रत्यात्मदर्शन श्रवणादि प्रशंसार्थं प्रवर्तते | आत्मा वा इत्यादि वाक्यं तस्य सर्वोत्साहे न श्रवणादावेव प्रवृतिर्भवत्वित्याशयेन अतो न विधि प्रत्ययानां वैय्यर्थ्यमिति भाष्यकारः परिहरति | स्वाभाविकेति | आदिपदेन यो हि बहिर्मुखः प्रवर्तते पुरुषः इष्टं मे भूयादनिष्टं प्. २९ब्) मे मा भूदिति न च तत्रात्यंतिकं पुरुषार्थं लभते तमात्यंतिक पुरुषार्थ वांच्छिनं || स्वाभाविकात्कार्यकारणसंघात प्रवृति गोचराद्विमुखी कृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयंत्यात्मा वा अरे द्रष्टव्य इत्यादीनीत्यं तं भाष्यं संगृह्यते | स्वाभाविकत्वं विषयविशेषणं संग्रहभष्यं विवृणोति | योहीति प्रवर्तत इति | नानाविधकर्मोपासनान्यनुतिष्ठतीत्यर्थः | इष्टं मे भूयादनिष्टं मे माभूदित्यनेन दुःखसामान्या स्पृष्टसुखकामना ब्रह्मानंदरूपात्यंतिक पुरुषार्थगोचरा इह विवक्षतिता अत एवाह | न च तत्रात्यंतिकं | पुरुषार्थं लभत इति | बाह्यसाधनं तत्र शब्दार्थः स्वाभाविकादिति स्वभावो अविद्या तत्कार्य भूतादित्यर्थः | संघातस्य प्रवृतिः कर्मोपासनयोरनुष्ठानं तद्गोचरात् | यष्टव्य देवतामंत्रादि रूपादित्यर्थः | प्रत्यगात्मनि विषये स्रोतः चित्तप्रावण्यं यस्य स प्रत्यगात्मस्रोतास्तस्य भावस्ततातयेत्यर्थः | तं बाह्य साधनात्
43 SK प्. ३०अ) विमुखी कृत्य श्रवणादिष्वेव प्रवर्तयंतीत्यर्थः | यदि च वेदांत तात्पर्य विचाररूपं श्रवणं तदा तस्य तात्पर्य निर्णयद्वारा वेदांत तात्पर्य भ्रमसंशय रूपप्रतिबंधकनिरास एव फलं || एवं श्रवणादेर्ज्ञानरूपत्वात् न तत्र कोपि विधिरित्युक्तं | इदानीं श्रवणादेः क्रियारूपत्वमुपेत्यापि न तत्र कोपि विधिरित्याह | यदि चेति | तस्य क्रियारूपत्वं च वार्तिक कारैरेवोक्तं | श्रवणादि क्रिया तावत् फर्तव्येह प्रयत्नत इति आदि पदेन मननस्य संग्रहो न ध्यानस्य वार्तिककार मते श्रवणमननानतरं ध्यानानुष्टाना भावस्योक्तत्वात् | न च ध्यानस्याननुष्ठेयत्वे ओमित्येवं ध्यायथ आत्मानं विद्यामेतां योगविधिं च कृत्स्नमित्यादि बहुवाक्यविरोध इति वाच्यं | तेषां सांख्ययोगाभि यत्नमिति श्रुति गतयोग पदोदितमार्गांतर प्रतिपादकतायास्तृतीय परिछेदे ध्यानदीपोक्त प्रकारेण वक्ष्यमाणत्वात् | न च तत्कारणमिति श्रुतिगत सांख्यपदोदित विचारमार्गेपि ध्यानांतर्भावः | पूर्वमुक्त इति वाच्यं | निदिध्यासन पदस्य ध्यानार्थकत्वमताभिप्रयेण तदंतर्भावस्योक्तत्वात् | ध्यानस्य सांख्यमार्गाद्बहिर्भाव एव भाष्युकाराणामपि संमतस्तथा चैतेन योगः | प्रत्युक्तं इत्यधिकरणभाष्यं तत्कारणं सांख्ययोगाभिपन्नमित्यत्र वैदिकमेव ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्येते इति ज्ञानपदं ज्ञानाभ्यास परं वैदिकं वेदोक्तं |
44 SK प्. ३०ब्) एतेन वेदविरोधादिना योगशास्त्रें निराकृतमिति सूत्रार्थः | सांख्यमार्गे ध्यानाभावमभिप्रेत्यैव सर्वज्ञात्ममुनिभिरपि नि हि ध्यानपदस्य ज्ञानार्थकत्वमुक्तं | श्रवणमनन बुध्योर्जातयोर्यत्फलं तन्निपुणमतिभिरुच्चैरुच्यते दर्शनाय | अनुभव न विहीनायैवमेवेति बुद्धिः श्रुतमननसमाप्तौ तन्निदिध्यासनं हीति | अस्य श्लोकस्याश्रम श्रीचरणानां व्याख्यानमिदं निदिध्यासने पक्षांतरमाह | श्रवणेति | श्रवणमननबुध्योर्जातयोर्यत्फलं तद्दर्शनाय निपुणमतिभिरुच्चैरुच्यत इति संबंधः | एतदेव विशदयति | अनुभव न विहीनेति | श्रुतं श्रवणं दीर्घकालादरनैरंतर्यानुष्टानेन श्रवणमननपरिपाके सतीत्यर्थः | अनुभव न विहीना साक्षात्काररहिता अविद्यानिवर्तक वृति साक्षात्कारभिन्नेति यावत् | या एवमेवेति बुद्धिः अहं चिदात्माब्रह्मस्वभाव एव ब्रह्म च चिदेक रसप्रत्यगात्म स्वभावमेवेति तत्वं पदलक्ष्यनिर्णयात्मिका बुद्धिस्तदेवनिदिध्यासनं नाम न ध्यानमस्मिन् पक्षे श्रवणमननयोरेवानुष्ठेयत्वं निदिध्यासनं तु नानुष्ठेयं दीर्घकालमनुष्ठित श्रवणमननफलरूपा बुद्धिर्यदा भवति तदैव साक्षात्कारोत्पतेः || न प्रतिबंधकांतरनिरासो ब्रह्मावगमो वा | तत्फलकत्वं च तस्य लोकत एव प्राप्तं साधनातरं च किंचिद्विकल्प्य समुच्चित्यवान प्राप्तमिति न तत्र विधित्रयस्याप्यवकाशः ||
45 SK प्. ३१अ) पूर्वपक्षे तु निदिध्यासनमपि पृथगनुष्ठेयमिति भेद इति | सांख्यमार्गे ध्यानाभावमभिप्रेत्यैव यावद्भानोदयं विचारस्यैव कर्तव्यत्वं ध्यानदीपे विद्यारण्य गुरुभिरप्युक्तं | विचार्य्याप्यापरोक्षेण ब्रह्मात्मानं न वेति चेत् | आपरोक्ष्यावसानत्वाद्भूयो विचारयेत् | विचारयत्नामरणं नैवात्मानं लभेत चेत् | जन्मांतरे लभेतैव प्रतिबंधक्षये सतीति | एवमानंदपंचकेपि आत्मानंदावसाने सांख्यमार्गस्य ध्यानरहितस्यापि ध्यानं न सर्वांशेपि तुल्यफलत्वं बहुधा प्रपंचितमिति संक्षेपः | एवकार व्यवच्छेद्यमाहनेति वाकारोनजनुकर्षणार्थः | विचारस्य प्रतिबंध निरासद्वारा ब्रह्मावगमोपयोगसंभवेपि न साक्षातत्फलकत्वं ज्ञानस्य प्रमाण फलत्वादित्युक्तत्वादिति भावः | ननूक्त प्रतिबंध निरासद्वाराविचारस्या विद्यानिवर्तक साक्षात्कारोपयोगित्व प्राप्तावपि तादृश साक्षात्कार प्रतिबंधक पापनिवृतिद्वारा साक्षात्कारसाधनत्वस्य मानांतराद प्राप्तत्वा छ्रोतव्य इत्यत्र श्रवणस्य पापनिवृतिद्वारा विद्यासाधनत्वमुपदिश्यते | न च विद्याप्रतिबंधक पापनिवृतेर्यज्ञादि नैव सिद्धत्वाद्विधि वैयर्थ्यमिति वाच्यं | प्रतिबंधक पापानामानंत्येन केषांचिद्यज्ञानुष्ठानेन केषांचिच्छ्रवणानुष्टानेन निवृतिरिति विभागकल्पनोपपतेः | तथा च प्राप्तं पुनरपूर्वविधित्वमेवं च सहकार्यंतरविधिरित्यधिकरण भाष्ये पांडित्य शब्दित श्रवणे अपूर्वत्वोक्तिश्च संगछत इति शंकावारयति | न प्रतिबंधकांतरनिरास इति | तात्पर्य भ्रमसंशयरूपप्रतिबंधका पेक्षया अन्यत्पापरूपं प्रतिबंधकं
46 SK प्. ३१ब्) प्रतिबंधकांतरं तन्निरासां न श्रवणफलमतो न तद्दाराज्ञानाय श्रवणं विधेयमित्यर्थः | अयं भावः | श्रोतव्य इत्यस्यापूर्वविधित्वमयुक्तं तस्यावृत्यधिकरणे निरसितत्वात् विवरणाद्युक्तरीत्या वेदांतश्रवणस्यान्वय व्यतिरेक प्रमाणसिद्धं तात्पर्य भ्रमादि लक्षण प्रतिबंधनिवृति रूपदृष्टफलकत्वमुपजीव्य श्रवणेनैवज्ञानं प्रतिबंधनिवृतिं च संपादयेदिति नियमविधित्व संभवे स्वाभाविक प्रवृति विषयविमुखी करणार्थानीति ब्रूम इत्यादि भाष्यानुसारेण ब्रह्मप्रतिपति साधनश्रवणादि स्तुतिद्वारा तत्र प्रवृतिविशेषकारणत्वमात्रेण ब्रह्मप्रकरण निवेश संभवे वा अपूर्वविधित्वा योगात् भाष्यकारीया पूर्वत्वोक्तेः पाक्षिकाशम्यभिप्रायकत्व संभवाच्चेति | तत्फलकत्वं चेति भ्रमादिरूप प्रतिबंध निरासफलकत्वं चेत्यर्थः | ननु प्राप्तत्वेपि नियमविधित्वादि संभवात् कथं विधित्रयाभाव इत्यत आह | साधनांतंरं चेति || विचारविध्यभावेपि विज्ञानार्थ तया विधीयमानं गुरूपसदनं दृष्टद्वारकत्वसंभवे दृष्टकल्पनाऽयोगाद्गुरुमुखाधीन वेदांतविचार द्वारैव विज्ञानार्थं पर्यवस्यतीति | अत एव स्वप्रयत्न साध्यविचारव्यावृतिः | अध्ययन विध्यभावेतूपगमनं विधीयमानमक्षरावाप्त्यर्थत्वेनाविधीयमानत्वान्न तदर्थं गुरु- प्. ३२अ) मुखोच्चारणानूच्चारणमध्ययनंद्धारी करोतीति लिखितपाठादि व्यावृत्यसिद्धेः सफलोध्ययननियमविधिः | न च तात्पर्यादि भ्रमनिरासाय वेदांतविचारार्थिनः कदाचिद्वैतशास्त्रेपि प्रवृत्तिः स्यात् | तत्रापि तदभिमत योजनया वेदांतविचारसत्वादित्यद्वैतात्मपरवेदांतविचार नियमविधिरर्थवानिति वाच्यं | स्वयमेव तात्पर्य भ्रमहेतोस्तस्य तन्निरासकत्वा भावेन साधनांतरप्रात्थभावात् || ननु गुर्वधीनविचारेण सगुरुरहितविचारस्य विकल्पेन प्राप्तिरस्तीत्यत आह | विचारविध्यभावेपीति |
47 SK अत एवेति उपगमनविधित एवेत्यर्थः | व्यावृतिरित्यनंतरं लभ्यत इति श्रोतव्य वाक्ये गुर्वधीनविचारनियमविधिरनर्थक इति शेषः | न चोपगमनविधेर्विचार विध्यंगतया तदभावे उपगमनविधेरात्मलाभ एव नास्तीत्युक्तमिति वाच्यं | गुरूपसदनस्य ब्रह्मज्ञानं प्रतिद्वारापेक्षायां लोकसिद्धस्यैव गुर्वधीन विचारस्य द्वारत्वेन स्वीकारौपपतौ श्रोतव्य विध्यपेक्षाभावेन तछेषत्वा सिद्धेर्विचारवदुपगमनस्यापि विद्यांगत्वोपपतेश्चेति भावः | पूर्वोक्ताति प्रसंगं परिहरति | अध्ययन विध्यभावेत्विति | अध्ययनविध्यभावे तु लिखितपाठादि व्यावृत्यसिद्धेस्सफलोध्ययननियमविधिरिति संबंधः | तदर्थमिति | प्. ३२ब्) अक्षरावाप्त्यर्थमित्यर्थः | अध्ययनांगोपगमनस्य विद्यार्थोपगमनापेक्षया विशेषार्थकस्तु शब्दः तमेवाह | उपगमनमित्यादिना | अध्ययनस्याक्षरा वाप्ति फलकत्वं विवरणादौ साधितमिति भावः व्यावर्त्यांतरं दूषयति | न च तात्पर्यादीति नुनु वस्ततस्तन्निरासकत्वाभावेपि भिन्नात्मज्ञानं मुक्तिसाधनमिति भ्रमद्वारातद्भ्रमात् तत्र प्रवृतिस्संभवतीत्युक्तमिति नेत्याहः || तेन्निरासकत्वम्रमेण तत्रापि कस्यचित् प्रवृतिः स्यादित्ये तावता श्रोतव्य इति नियमविधेरभ्युपगम इत्यपि न ईश्वरानुग्रहफलाद्वैत श्रद्धारहितस्य श्रोतव्य वाक्येपि पराभिमत योजनया सद्वितीयात्मविचारविधि परत्वभ्रमसंभवेन भ्रमप्रवृताया अन्यत्रप्रवृतेर्विधिशतेनाप्यपरिहार्यत्वात् || तन्निरासकत्व भ्रमेणेति | इह जन्मनिजन्मांतरे वा यज्ञाद्यनुष्ठानजनित दृढविविदिषावतस्साधन चतुष्टय संपन्नस्य श्रवणविध्यधिकार इत्यविवादं यज्ञादि जनिता दृष्टं च निष्प्रपंचाद्वितीय ब्रह्मसाक्षात्कारस्य सांगाध्ययन लब्धैर्वेदांतैर्मुक्तिसाधनत्व निश्चयं संपाद्यता दृश ब्रह्मसाक्षात्कारे दृढेच्छां च विविदिषा शब्दितामुत्पाद्यतद्वारा अद्वितीयात्मसाक्षात्कारसाधन
48 SK प्. ३३अ) भूताद्वितीयात्मश्रवणादावेव मुमुक्षुं प्रवर्तयति | न तु जीवपित्रात्मज्ञानस्य मुक्तिसाधनत्व भ्रमापादन द्वारा भिन्नात्म ज्ञान तत्साधनविचारादाविच्छाप्रवृत्यादिकमप्युत्पादयति | तदिच्छादेर्भिन्नात्मविचारद्वारा यज्ञादि फलभूतनिष्प्रपंच ब्रह्मसाक्षात्कार हेतुत्वाभावा तथा च स्मृतिरीश्वरानुग्रहादेव पुंसामद्वैत वासनेति | यज्ञादि संपादितादीश्वरानुग्रहादेव पुंसामद्वैत ब्रह्मज्ञानेच्छारूपात्तद्वासना भवतीति तदर्थः | तथा च यथोक्त भ्रमवतो अद्वैतब्रह्मतत्व साक्षात्कारादाविच्छा श्रद्धादि शून्यस्य श्रवणविधावनधिकारन्न तं प्रतिनियमविधिरर्थ वा नित्याह | ईश्वरानुग्रहेति पराभिमतेति श्रुतावात्मशब्दस्तावज्जिवपर एव न परमात्मपरः | आत्मनस्तु कामाय सर्वं प्रियं भवतीति | पूर्ववाक्ये जीवस्य प्रकृतत्वान्न च इदं सर्वं पदपमात्मेति वाक्यशेषे सर्वात्मकस्य परमात्मनः प्रतिं पादनाछ्रोतव्यवाक्यस्थमात्मपदमद्वितीयात्मपरमिति वाच्यं | तत्रापि तत्प्रतिपादना सिद्धेर्न हि प्रपंच परमात्मनोरभेदः संभवति चेतना चेतनयोरैक्यस्य विरुद्धत्वात् | श्रुतेरभेद ध्यानविधिपरत्वोपपतेश्चेत्यादि योजनापराभिमता द्रष्टव्या | अन्यत्रेति भिन्नात्मविचारन् त्यर्थः || न च व्यापारांतरनिवृत्यर्थापरिसंख्येति युक्तं | असंन्यासिनो व्यापारांतरनिवृतेरशक्य
49 SK प्. ३३ब्) त्वात् संन्यासिनस्तन्निवृतेर्ब्रह्मसंस्थया सहसंन्यास विधायकेन ब्रह्मसंस्थोमृतत्वमेतीति श्रुत्यंतरेण सिद्धतया संन्यास विधायक श्रुत्यंतरमपेक्ष्य श्रोतव्य वाक्येन तस्य व्यापारांतरनिवृत्युपदेशस्य व्यर्थत्वात् | न च विचारविध्य संभवेपि विचारविषय वेदांतनियमविधिः संभवति भाषाप्रबंधादि व्यावर्त्य सत्वादिति शंक्यं | सन्निधानादेव वेदांतनियमस्य लब्धत्वेन विधिविषयत्वायोगात् | स्वायोध्येतव्य इत्यर्थावबोधनार्थ नियमविधिवलादेवाध्ययनविधि गृहीत वेदांत वेदोत्पादितं वेदार्थज्ञानं फलपर्यवसायिन कारणांतरोत्पादितमित्यस्यार्थस्य लब्धत्वेन वेदार्थे ब्रह्मणि मोक्षाय ज्ञातव्ये भाषाप्रबंधा प्रबंधादीनाम प्राप्तेः || परिसंख्याविधिं दूषयति | न चेति | श्रवणविधिना किं ग्रहस्थादेर्व्यापारांतर निवृतिरूपदिश्यते किं वा संन्यासविधिसिद्धस्य संन्यासिन इति विकल्पं मनसि निधाय क्रमेण दूषयति | असंन्यासिन इति अशक्यत्वादिति विध्यंतरविरोधापतिरशक्यत्वे हेतुः | तन्निवृतेः सिद्धतया उपदेशस्य व्यर्थत्वादिति संबंधः | ब्रह्मसंस्थो मृतत्वमेतीति प्. ३४अ) श्रुत्यंतरस्य ब्रह्मसंस्थता धर्मक संन्यासाश्रमविधायकत्वं | परामर्शं जैमितिरित्यधिकरण भाष्ये स्फुटमिति भावः | विचारविषयत्वेन वेदां तु नियमविधिरिति पक्षं दूषयति | न च विचारेति | सन्निधानादेवेति | अधीत सांगस्वाध्यायस्य वेदांतैरापात प्रतिपत्र ब्रह्मात्मविजिज्ञासोर्जिज्ञासा निवर्तक निर्णयाय कर्तव्यत्वेन विचारे प्राप्ते सति विचारविषयमन्वेषसाणस्य वेदांदानां बुद्धिस्थ त्वात् वेदांता एव मया विचारणीया इति बुद्धिरुत्पद्यते तथा च विधिं विनैव वेदांतनियमस्य लब्धत्वेन विधिनातन्नियमनं व्यर्थमित्यर्थः | विधिं विनैव वेदांतनियमलाभे हेत्वंतरमाह | स्वाध्याय इति | अर्थावबोधेति मिमांसकमतमाशृत्योक्तमक्षरावाप्ति फलकोध्ययन विधिरिति सिद्धांते ||
50 SK न च सहकार्यंतरविधिरित्यधिकरणे वाल्यपांडित्य मौनशब्दितेषु श्रवणमनननिदिध्यासनेषु विधिरभ्युपगत इति वाच्यं | विचारे विचार्य तात्पर्यनिर्णय हेतुत्वस्य | वस्तुसिध्यनुकूलयुक्त्यनुसंधानरूपे मननतत्प्रयाभ्यासरूपे निदिध्यासने च वस्तुवगमवैशद्य हेतुस्य च लोकसिद्धत्वेन तेषु विध्य न पेक्षणात् | विधिच्छायार्थवादस्येव प्रशंसाद्वारा प्रवृत्यतिशयकरत्वमात्रेण प्. ३४ब्) तत्र विधित्व व्यवहारात् | एवं च श्रवणविध्य भावात् | कर्मकांडविचारवद्ब्रह्मकांडविचारोप्यध्ययनविधिमूल इत्याचार्य वाचस्पति पक्षानुसारिणः | विचार्यस्य च ब्रह्मणो जगज्जन्मस्थितिलयकारणत्यंवलक्षणमुक्त | यतो वा इमानि भूतानि जायन्त इत्यादि श्रुत्या अत्र जगज्जन्मस्थितिलयेष्वेकैककारणत्वमप्यनन्यगामित्वालक्षणं भवितुमर्हतीति चेत् || पियेषां वाक्यानामध्ययना वामानामर्थ ज्ञानद्वारा पुरुषार्थोपयोगस्संभवति | तेषां वाक्यानामर्थज्ञानमध्ययन लब्धैर्वाक्यैरेवोत्पादितं फलपर्यवसायिन तदतिरिक्त भाषाप्रबंधादि जनितमितिरीत्या अध्ययनविधि फलाक्षरा वाप्ते पुरुषार्थ पर्यवसानकल्पनान्नभाषाप्रबंधादि प्रसक्तिरित्यर्थः | इतिहासपुराणमादि पदार्थः श्रवणादीनांमविधेयत्वे सूत्रभाष्यविरोधं शंकते | न चेति अभ्युपगत इति सूत्रभाष्यकाराभ्यामिति शेषः | विरोधं परिहर्तुं प्रथमं श्रवणादीनां विधियोग्यक्रियारूपत्वेपि नित्याप्राप्तत्वान्न विधेयत्वमित्याह | विचार इति | तत्प्रत्ययेत्यत्र तत्पदं वस्तुपरं अवगमस्य वैशवैशद्यं प्रतिबंधराहित्यं सूत्रभाष्ययोर्विधित्व व्यवहारो गौणः मुख्या संभवस्य दर्शितत्वादिति विरोधं परिहरति | विधिच्छायार्थवादस्येवेति | प्. ३५अ) विष्णुरुपांशुयष्टव्य इत्यादेरिवेत्यर्थः | तथा हि उपांशुयाजमंतरायजतीत्याम्नाय पुनराम्नायते | विष्णुरुपांशुयष्टव्यः प्रजापतिरुपांशुयष्टव्यः | अग्नीषोमावुपांशुयष्टव्याविति |
51 SK अत्रांतरावाक्यमाग्नेयाग्नीषोमीय पुरोडाशयोरंतरालकालविशिष्टयागविधायकं विष्ण्वादि वाक्य त्रयं तु मंत्रवर्णप्राप्त वैकल्पिक देवतानुवादेनांतरा वाक्य विहित यागस्तावकमर्थवादमात्रमिति व्यवस्थापितं पूर्वतंत्रे तदत्र दृष्टांतत्वेन उदाहृतमिति द्रष्टव्यं | यन्तु तत्कारणं सांख्ययोगाभिपन्नमिति | श्रुतौ योगपदोपातस्य व्यावर्त्यस्य संभवाद्विचारसमर्थाधिकारिणं प्रतितद्व्यावृतिफलको नियमविधिस्संभवतीति | नन्न विचारसमर्थस्याधिकारिणः कालांतरे स्वोद्भावितानुपपति वशेनान्योद्भावितानुपपति वशेन वा पुनस्तत्व संशये सति अवधारणात्मकं वेदोतार्थज्ञानं न संभवतीति योग्यता वशेन तं प्रतिविधिं विनाविचारस्यैव नित्यतया प्राप्तत्वात् | यत्तु सगुण ब्रह्मोपासनं व्यावर्त्यमुक्तं तत्र श्रवणविध्यधिकारिणः सर्वतो निस्पृहस्य ब्रह्मलोकप्राप्तिद्वारा मुक्तिसाधन सगुणोपासने पक्षेपि प्रवृतेरसंभवेन तस्य व्यावर्त्यत्वा संभवात् सुगणोपासनस्यापि श्रवणादि द्वारैव विद्यासाधनत्वेन नखविदलनादेरवचात तुल्यकक्ष्यत्व वत्स गुणोपासनस्य श्रवणादिना सहविकल्पैन प्राप्त्यभवाच्च न तद्व्यावृति फलको नियमविधिस्संभवति | न च सगुणोपासनया श्रवणादिकं विनैव
52 SK प्. ३५ब्) सगुण साक्षात्कारवविर्गुणसाक्षात्कारोदयस्संभवतीति वाच्यं | प्रमाणप्रमेया संभावनादि प्रतिबंधनिवृतिद्वारा श्रवणादेस्सतानिश्चयरूप ब्रह्मज्ञानोपायत्वग्राहकतया पूर्वोक्तप्रमाणानुरोधेन श्रवणादेर्नित्यवदनुवादलिंगेन च सगुणोपासनया क्रमेण परममुक्ति प्रतिपादकशास्त्रस्यापि श्रवणादि द्वारकज्ञानोत्पत्यविरोधित्वकस्त्यनात् | श्रवणादिकं विनासगुणोपासन महिम्नैव तत्वज्ञानोदयाभ्युपगमे देवताधिकरण विरोधाच्च तदधिकरणे हि देवादीनां शरीराद्य भावात् सगुणब्रह्मोपासनेषु निर्गुणब्रह्मविद्यासाधन श्रवणादिषु च नास्ति सामर्थ्यमतो न तेष्वधिकार इति पूर्वपक्षयित्वा मंत्रार्थ वादेतिहासपुराण प्रामाण्यात् तेषामपि शरीरादि सद्भावादस्त्यधिकार इति सिद्धांतितं | तत्रेदं पूर्वपक्षप्रयोजनमुक्तं देवानां श्रवणाद्यधिकाराभावे क्रममुक्तिफलक ब्रह्मोपासनया प्राप्तदेव भावस्यापि श्रवणाद्य संभवेन विद्योदयासंभवात् | पुनरावृत्यापतौक्रममुक्तिकामस्य सुगुणोपासनेषु प्रवृत्यभाव इति सिद्धांते तु देवानां श्रवणाद्यधिकार सत्वादुक्तप्रवृति सिद्धिरिति प्रयोजनं दर्शितं | इदं च प्रयोजनं देवताधिकरणावसानभाष्ये संग्रहेण दर्शितं | तथा च भाष्यं | ततश्चार्थित्वादि संभवादुपपन्नो देवादीनामपि ब्रह्मविद्यायामधिकारः क्रममुक्तिदर्शनान्यपि एवमेवोपपद्यंत इति एवमेवेत्यस्य देवादीनां श्रवणाद्यधिकारे सत्येवेत्यर्थः |
53 SK प्. ३६अ) तेषां श्रवणाद्यधिकारे यानि श्रौतलिंगानि पूर्वमुपन्यस्तानि | तद्यो यो देवानां प्रत्यबुद्ध्यत स एव तदभवत् | तथर्षीणां एकाशतं हवैवर्षाणिमघवान् प्रजापतौ ब्रह्मचर्यमुवासेत्येवमादीनि यथा उपपद्यंते तथेत्यपि शब्दार्थः | ननु सगुण ब्रह्मोपासकानामपि सर्वेषां श्रवणादि नैव ज्ञानोदय इति नियमो नास्ति सगुणोपासकस्यापि हिरण्यगर्भस्य वृहदारण्य भाष्ये पुरुष विध ब्राह्मण व्याख्यानावसरे श्रवणादीनां प्रणिपातादीनां चाभावेपि ज्ञानजन्म प्रतिपादनादिति चेन्न | हिरण्यगर्भस्यापि वामदेववत् | जन्मांतरीय श्रवणादि नैव ज्ञानजन्मसंभवात् | तत्रैव भाष्ये | श्रवणमनननिदिध्यासनानां साक्षाज्ञेय विषयत्वादिति वाक्ये साक्षात्पदेन श्रवणादेर्ज्ञेय ब्रह्मव्यंजकस्य प्रणिपाताद्यपेक्षया आवश्यकत्व सूचनेन जन्मांतरीय श्रवणादि कल्पनस्य तद्भाष्य वाक्याभिप्रेतत्वे अवगम्यमाने सति तत्पूर्वभाष्ये श्रवणादिकं विनाकार्य कारण शुध्यादि मात्रेण ज्ञानजन्मप्रतिपादनस्याभ्युपगम वादत्वोपपतेर्हिरण्यगर्भस्य वामदेवस्येव जन्मांतरीये ज्ञानसाधने कल्पनीये सति कॢप्तश्रवणादि कल्पनस्यैव न्याय्यत्वाच्च | न च हिरण्यगर्भस्य पूर्वजन्मनि सगुणोपासननिष्ठत्वेन निर्गुणविचारः संभवतीति वाच्यं | हिरण्यगर्भस्य पूर्वकल्पे जन्मभेदेन सगुणनिर्गुणोपासनयोस्संभवोन्नह्येकस्मिन् जन्मनिकृतात् सगुणोपासनामात्रादेव हिरण्यगर्भपदप्राप्तिरस्ति तथा सति सगुणोपासकानां सर्वेषामेव
54 SK प्. ३६ब्) साक्षाद्धिरण्यगर्भत्व प्रसंगात् किं तु हिरण्यगर्भस्य ब्रह्मलोक स्वामित्वं सरस्वती भर्तृत्वं जन्मप्रभृति तत्वसाक्षात्कार संपन्नत्वं सर्वज्ञत्वं सकलभौतिकजगत्सृष्ट्यादि सामर्थ्यं भक्तानां त्रैलोक्यैश्वर्य प्रदान सामर्थ्यं कार्यविशेषेषु शिव विश्वादि प्रवर्तकत्वं ललाटान्रुद्र प्रादुर्भाव हेतुत्वं सहाविष्णुनाभिकमलजातत्वाद्यैश्वर्यं च श्रुत्यादिभ्यो निश्चित्यागामिकल्पे यथोक्त हिरण्यगर्भत्वाय तत्साधनानि सगुणनिगुणापासनानि तपो विशेषरूपाणि च वहुषु जन्मसु ध्रुवप्रह्लादविश्वामित्रागस्त्यभृग्वादि वदनुष्टितवतो महापुरुषस्य कस्यचिदेव निरतिशयेश्वर प्रसादाद्धिरण्यगर्भत्वं संपद्यत इति हिरण्यगर्भस्यापि जन्मांतरीय श्रवणादि कल्पने वामदेवस्येव नानुपपन्नं हिरण्यगर्भस्य पूर्वजन्मन्यनुष्टित श्रवणादेर्हिरण्यगर्भपदप्राप्तिकामनया प्रतिबद्धत्वेन तदा तत्वसाक्षात्कारानुत्पादकत्वोपपतेस्तदुक्तं वृद्धैर्ब्रह्मलोकाभिवांछायां सम्यक् सत्यां निरुध्यतां | विचारयेद्य आत्मानं न तु साक्षात्करोत्पयमिति | न च ज्ञानोत्पति स्थले सर्वत्र श्रवणादि नियमो नास्ति योगे मार्गे प्रवृत्तस्य श्रवणाद्य भावेपि तत्वसाक्षात्कारोदय स्वीकारादिति वाच्यं | ओमित्यात्मानं युंजीत ओमित्येवं ध्यायथ आत्मानमित्यादि ध्यानविधिवलेन तत्कारणं साख्ययोगाभिपन्नं विद्यामेतां योगविधिं च कृत्स्नमित्यादि श्रौतलिंग सहकृतेन विचारासमर्थस्य योगमार्गेधिका इति तृतीय प्ररिच्छेदे वक्ष्यमाणतया
55 SK प्. ३७अ) विचारसमर्थस्य विचारं विना ज्ञानोत्पत्यनभ्युपगमात् | एवं यद्यत्साधनमदृष्टद्वारा तत्वज्ञानसाधनत्वेन शास्त्रसिद्धं तत्सर्वं सगुणोपासनवदृष्टसामग्री भूतसांख्यमार्गेणातदशक्तौ योगमार्गेण वा तत्वज्ञानसाधनमिति कल्प्यते | तत्वदृष्टमात्रात् ज्ञानलाभः कल्पयितुं युक्तः | अन्यथा जीवनादृष्टमात्रादेवस्तनपानादि प्रवृतिकल्पनायत्या तत्रापीष्टसाधनता स्मरणं जन्मांतरीयं संस्कार हेतुकं सर्वसंप्रतिपन्नं कल्पनीयं न स्यात् कॢप्तदृष्टकारणं विना कार्योत्पत्ययोगस्योभयत्र तुल्यत्वादत एव पंचदश्यां तत्वज्ञानं प्रतिमार्ग द्वयनियम उक्तः सांख्ययोगौ प्रकृत्य इति मार्गौ विचार्याथ जगाद परमेश्वर इति संग्रहकर्तापि तृतीयपरिछेदे सांख्ययोगशब्दित मार्गद्वयमेव विद्यावात्थुपायत्वेन वक्ष्यति | एवं श्रवणमननादि साधनानुष्ठान प्रवणस्य विद्यावाप्तिरित्यस्मिन्नर्थे सर्वसंप्रतिपन्ने स्थिते भारती तीर्थाः ध्यान दीपे विद्यावाप्नौ उपायांतरमप्याहुरिति ग्रंथेन तदयं निष्कर्षः | विद्याधिकारिणो विचारसमर्थस्य प्रतिषेधाभावे वेदांतश्रवणमनुष्ठेयं सति तु प्रतिषेध इतिहासपुराणभाषाप्रबंधादि श्रवणमनुष्ठेयं विद्याधिकारिणो विचारासमर्थस्य तु त्रैवर्णिकस्य योगशब्दित निर्गुणोपासनमनुष्ठेयं मार्गद्वया संभवे च तत्संभवयोग्यजन्मप्राप्त्या तदन्यतरानुष्ठानद्वारा ज्ञान लाभ इति | तथा च श्रवणाधिकारिणः श्रवणस्य नित्यप्राप्तत्वात् | त तुल्यकक्षतया साधनांतरस्य कस्य चिद्विकल्प्य
56 SK प्. ३७ब्) समुच्चित्य वा प्राप्त्यभावान्न तत्र विध्यवकाश इति सिद्धं | एवं ब्रह्मसाक्षात्कारं प्रतिश्रवणादर्नित्यप्राप्तत्वात् | विधिं विनैव श्रवणाद्यनुष्ठानं सिध्यतीति प्रतिपादितं इदानीं विचारानुष्ठायक विध्यपेक्षायामपि यथा कर्मकांडश्रवणं कर्मवाक्यविचारः कर्तव्य इति पृथक् विध्यभावेपि अध्ययनविधिवलादेव सिध्यति | एवं वेदांतश्रवणमपि तद्वलादेव सिध्यतीति न श्रोतेव्य वाक्ये पृथक् विचारविध्यपेक्षास्तीत्याशयेनोपसंहरति | एवं चेति | लोकत एव श्रवणादेः प्राप्तत्वे सति श्रवणविध्यपेक्षाभावादित्यक्षरार्थः | श्रोतव्यवाक्यार्थविचारेण प्रथमसूत्रार्थस्संगृहीतः | क्रमप्राप्तं द्वितीयसूत्रार्थं संगृह्णाति | विचार्यस्य चेति | चकारोवधारणार्थस्स च श्रुत्येत्यनेन संबध्यते श्रुत्यैव लक्षणमुक्तं न तु व्याप्त्यादि लक्षणवत् पुरुषोत्प्रेक्षितमित्यर्थः | येन जातानि जीवंति यत्प्रयंत्यभिसंविशंतितद्विजिज्ञासस्वतद्ब्रह्मेति वाक्यशेष आदिपदार्थः | श्रुतौ यत इति यच्छब्देन ब्रह्मवल्यांनिरूपितं सत्यज्ञानानंदानंतात्मकं ब्रह्मपरिगृह्यते सर्वनाम्नः प्रकृतप्रधानपरामर्शित्व स्वाभाव्यात् | ततश्च यच्छ्रुति सामर्थ्या देवब्रह्मणः सच्चिदानंदस्वरूपात्मकं स्वरूपलक्षणं लभ्यते पंचमी च प्रकृतित्वं हेतुत्व सामान्यं वा वक्रीति हेतुत्व सात्यान्पंचप्रकृतिकर्त्रु भयसाधारणं भूतपदं पृथिव्यादि महाभूतेषु प्रीणिषु च रूढः | प्रकृतेव विनिग्वमनाविरहेण रूढेरनुन्मेषात् भवंतीति व्युत्पत्या
57 SK प्. ३८अ) कार्यमात्रं भूतशब्देनोच्यते | जीवंति स्थितिं लभंते प्रयंतिलीयमानानि संति यदभिसंविशंति येन तादात्म्यं गछंतीति यावत् तत्कारणं ब्रह्म तद्विजिज्ञास स्वविशेषेण सच्चिदानंदैक रसपूर्णप्रत्यग्रूपेण ज्ञातुं साक्षात्कर्तुमिच्छस्व-इच्छामात्रेणोक्त साक्षात्कारालाभात् | सन् प्रत्ययेन विचारो लक्ष्यते उक्तलक्षणमुखेन ब्रह्मविचारयेत्यर्थः | अत्र यतो भूतानि जायंते तद्ब्रह्म येन जीवंति तद्ब्रह्म यदभिसंविशंति तद्ब्रह्मेति श्रुतिपाठे सति जगज्जन्मकारणत्वं तत्स्थितिकारणत्वं तल्लयकारणत्वं च प्रत्येकमेव श्रुत्या ब्रह्मलक्षणमुक्तं स्यान्नतु त || सत्यें लक्षणत्रयमेवेदं परस्परनिरपेक्षं | अत एवाता चराचर ग्रहणादित्याद्यधिकरणेषु सर्वसंहर्तृत्वादिकं प्रत्येकं ब्रह्मलिंगतयोपन्यस्तमिति कौमुदिकारः || प्या पाठोस्त्यतो जन्मादिति तयकारणत्वं श्रुत्यालक्षणमुक्तमिति प्रतिभाति | तदाक्षिपति | जगज्जन्मस्थिति लयेष्विति | निर्द्धारणार्था सप्तमी यतो भूतानिजायंत इत्युपक्रम्य तद्ब्रह्मेति श्रुत्यालक्ष्ये ब्रह्मणिकारणत्वस्य सत्वप्रतिपादनान्नासंभवः तद्ब्रह्मेत्येकवचनेन लक्ष्य ब्रह्मव्यक्तेरेकत्वावगमान्नाव्याप्त्यवकाश इति दोषद्वयाभावं सिद्धं कृत्वा अतिव्याप्तिरपि नास्तीत्याह | अनन्यगामित्वादिति |
58 SK प्. ३८ब्) ब्रह्मान्यगामित्वा भावादित्यर्थः | ननु प्रधानेति व्याप्तिस्तस्य सांख्यैरुपादानत्वाभ्युपगमेन उपादानतया जगज्जन्महेतुत्वस्याधारतया स्थितिहेतुत्वस्य लयाधारतयालय हेतुत्वस्य च तत्रापि सत्वादिति चेन्नत कर्तृत्वस्यापि लक्षणे विशेषणत्वेन विवक्षित तया जडे प्रधाने तदयोगात् | न च तत्कर्तृत्वमेव प्रत्येकं लक्षणमस्तु किं तदुपादानत्व रूपविशेष्येणेति वाच्यमदृष्टद्वाराजगज्जन्मादि कर्त्तरिजीवे अतिव्याप्तिवारकत्वात् | परिच्छिन्नजीवस्य च तदुपादानत्वा योगात् | न च साक्षाज्जगज्जन्म कर्तृत्वं नियंतृतया जगत्स्थिति हेतुत्वं संजिहीर्षया जगत्संहर्तृत्वं च लक्षणमिति विवक्षायां जीवेति व्याप्तभावादुपादानत्व रूपं विशेष्यं व्यर्थमेवेति वाच्यं | तर्हि उपादानत्वमपि पृथगेव लक्षणमस्तु मायायाः ब्रह्मोपादानता मात्रघटकत्वेन पृथगुपादानत्वा लाभात् प्रधानादि कारणांतरस्य चाप्रामाणिकत्वेनाति व्याप्तेरभावादिति भावः | प्रत्येकं लक्षणत्व संभवमंगीकरोति | सत्यमिति | तर्हि श्रुत्यात्रितयकारणत्वं कथं लक्षणमुक्तमित्याशंक्य श्रुतेरपि प्रत्येकलक्षण एव तात्पर्यं मेलनस्य प्रयोजनाभावादित्याशयेनाह | लक्षणत्रयमेवेदमिति | इदं जगत्कारणत्वं जन्मादीनां मध्ये एकैक निरूपितं परस्पर निरपेक्षं स लक्षणत्रयमेव श्रुत्यभिमतं न तत्रितयनिरूपित कारणत्वरूपमेकं लक्षणमित्यर्थः | त्रयपदमनेक परं न तु त्रित्वनियमपरं ततोप्याधिक्यस्य शकावसरेदशितत्वादिति बोध्यं | जगत्संहर्तृत्वादेः प्रत्येकं ब्रह्मलक्षणत्वे सूत्रकारादि संमतिमाह | अत एवेति | अत्रादि पदेन
59 SK प्. ३९अ) अंतर्याम्यधिकरणजगद्वाचित्वाधिकरणयोस्संग्रहः | अयमर्थः कठवल्यां पठ्यते यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनं मृत्युर्यस्योपसेचनंक इत्थावेदयत्र स इति अत्र ब्रह्मक्षत्रयोः प्रयुक्त ओदनशब्दस्तावन्नमुख्यः किंतु गौणः लोके ओदनशब्दमुख्यार्थस्पादनीयत्व प्रसिद्धेरदनीयत्वेन गुणेन तयो रोदनशब्दः प्रवर्तते तथा च यस्य ब्रह्मक्षत्रे ओदनवददनीये इत्युक्तौ यछब्दार्थस्यातृत्वं प्रतीयते | अनेनैवाभिप्रायेणोक्तं सूत्रे | अतेति | ओदनपद वाच्यार्थस्पादनीयत्वं द्विविधमस्तिभुजि क्रियाकर्मत्वात्मक भोज्यत्वरूपमेकं विनाश्यत्वरूपमपरम् परंतु भोज्यत्व गुणः प्रसिद्धः न तु विनाश्यत्वगुणः गौणप्रयोगे च प्रसिद्धगुण एव गृह्यते | यथा अग्निर्माणवक इत्यत्राग्नि गत शुचित्वादि गुण एवोपादीयतै प्रसिद्धत्वान्न तु तद्गतोपि विनाश्यत्वादि गुणः | एवं प्रकृतेपि लोकप्रसिद्धि वलाद्भोज्यत्व गुण एवोदन शब्दात्प्रतीयते अस्ति च ब्रह्मक्षत्रयोरपि स्त्रीपिंडरूपयोर्भोज्यत्वं पुमांसं प्रतिब्रह्मक्षत्रयोश्च भोज्यत्व प्रतीतौ सत्यां तत्प्रतिसंबंधिनियच्छब्दार्थे पूर्वं प्रतीतमतृत्वं भोक्तत्वरूपं जीवलिंगंपपर्यवस्पति यदात्वोदन पदस्य मृत्यूपसेचन पद सन्निधानात् | ब्रह्मक्षत्रयोर्विनाश्यत्व गुणः स्वीक्रियते न तु भोज्यत्वगुणः स्त्रीपिंडरूपब्रह्मक्षत्रियकर्मकभुजि क्रियायां मृत्योरुपसेचनत्वा संभवेन मृत्युर्यस्योपसेचनमित्यंशस्यानन्वय प्रसंगाअत् | ब्रह्मक्षत्रयोर्विनाशने तु मृत्योस्सहायत्वमस्तीति न तदनत्वय प्रसक्तिः तदा तत्प्रतिसंषंधिनिपच्छब्दार्थे पूर्वं प्रतीतमतृत्वं
60 SK प्. ३९ब्) संहर्तृत्व रूपं पर्यवस्यति विनाश्यत्व गुणग्रहण यक्षेत्वयं विशेषो लभ्यते | लोके हि दध्यादिरूपमुपसेचनं स्वमिश्रितान्नादिनाशे साधनं दृष्टमिति मृत्यावुपसेचनपद प्रयोगवलात्समृत्युकस्य चराचरात्मकस्य जगतो विनाशनं प्रतीयते तदनुसारात् | ब्रह्मक्षत्रियपदयोरजहल्लक्षणया कृत्स्नजगत्परत्वं च प्रतीयते तत्प्रतिसंबंधिन्यपि यच्छब्दार्थे कृत्स्न जगत्संहर्तृत्वरूपं ब्रह्मलिंगं भाति | एवं स्थिते प्रथममदनीयत्वगुणयोगात् | प्रतीतोऽता किं जीवः उतपरमात्मेति संशयः तत्र पूर्वपक्षः || जीव एवेति लोकप्रसिध्यनुसारेणातृत्वस्य भोक्तृत्वरूपता प्रतीतेर्न परमात्मा अनश्रविति वचनेन तस्य भोच्छृत्वनिषेधादिति सिद्धांतस्तु अता परमात्मा कुतः चराचरग्रहणात् | मृत्यूपसेचनपदानुरोधेन पूर्वोक्तरीत्या अतृत्वस्य चराचरात्मक सकलजगत्संहर्तृत्वरूपत्व प्रतीतेर्न च परमात्मनो न्यस्य जगत्संहर्तृत्वं संभवति न च लोकप्रसिद्धि वलादतृत्वं भोक्तृत्वं रूपं भातीत्युक्तमिति वाच्यं तत्प्रसिध्यपेक्षया वाक्यशेषाधीन विनाश्यगुणप्रसिद्धेः शीघ्रतरत्वेन वलवत्वादतोतापरंपवेति निर्णयः स संहर्तापरमेश्वरो यत्र निर्विशेषे
61 SK प्. ४०अ) भेदकल्पनया वर्तते | तं निर्विशेषं परमात्मानमित्था इत्थं को वेदन कोपीति तस्य दुर्विज्ञेयत्वमुदाहृत मंत्रचतुर्थपादेन विवक्षितमिति बोध्यं | अंतर्याम्यधि दैवादिषु तद्धर्म व्यपदेशात् | य इमं च लोकं परं च लोकं सर्वाणि च भूतानि य्ॐतरोयमयतीत्युपक्रम्ययः पृथिव्यां तिष्टनित्यादिना कांश्चित्पर्यायानुत्कास्त्यधिदैवतमित्युपसंहृत्य पुनः यः सर्वेषु भूतेषु तिष्ठन यः सर्वेषु लोकेषु यः सर्वेषु देवेषु यः सर्वेषु यज्ञेष्वित्पादयः | केचन पर्यायाः काण्वमाध्यंदिन पाठभैदेनाम्नाताः | तत्राधिदैवादिषु देवभूतलोकवेदयज्ञदिषु श्रुत्ॐतर्यामीपरमात्मा कुतः तद्धर्मव्यपदेशात् | तद्धर्मस्य परमात्मधर्मस्य विशेषेण सर्वस्थिति कर्तृत्वरूप सर्वनियंतृत्वस्य येन जातानि जीवंतीति श्रुतिसिद्धस्य वाक्योपक्रमेय इमं च लोकमित्यादिना व्यपदेशान्न जीवादिरंतर्यामीतस्योक्त धर्मासंभवादिति सूत्रार्थः जगद्वाचित्वात् | कौषीतकी ब्राह्मणे वालाक्य जातशत्रुसंवादेवालाकि प्. ४०ब्) ब्राह्मणं प्रति अजानशत्रोर्वचनं श्रूयते | यो वै वालाक एतेषां पुरुषाणां कर्तायस्य चैतत्कर्मसवैवेदितव्यः | पुरुष इति |
62 SK अत्र वेदितव्यत्वेन श्रुतः पुरुषजीवः परोवेति संशये जीव इति पूर्वपक्षः पुरुषपदस्पर्जावैरूढत्वात् पुण्यो वै पुण्येन कर्मणा भवति कर्महैवतदूचतुरित्यादौ वेदे लोके च पुण्यकर्मायं यतः सुखीवर्तत इत्यादौ कर्मपदस्य धर्मादौ प्रयोगदर्शनेन तत्र रूढत्वाच्च ऊचतुः | आर्तभाग याज्ञवल्क्यावित्यर्थः | कर्मसंबंधी पुरुषो जीव एव न परमात्मा तस्य धर्माद्यभावान्न चैतेषां पुरुषाणां कर्तेति वाक्येन वेदितव्य पुरुषस्य प्रकृतादित्य चंद्रादि पुरुष कर्तृत्वमुच्यमानं जीवे कथं संभवतीति वाच्यं | भोगोपकरणभूतात् | आदित्यादि पुरुषान् | प्रतिभोक्तुर्जीवस्यादृष्टद्वाराकर्तृत्वोपपतेरत एव यस्य चैतत्कर्मेति वाक्यं सफलमदृष्टद्वारा प्रकृतपुरुष कर्तृत्वोपपादकत्वादित्येवं प्राप्ते सिद्धांतः कर्मशब्दस्य न धर्मादौ रूढिश्चलनात्मकं कर्मेति प्रसिध्यनुरोधेन प्. ४१अ) परिस्पंदे तस्य रूढत्वात् | कथं तर्हि ध्र्मादौ तत्प्रयोगनिर्वाहः विहित प्रतिषिद्ध रूपदेहादि परिस्पंदजन्ये धर्मादौ लक्षणया प्रयोगोपपतेः | न च देवता ध्यानादि रूपमनोमात्र व्यापारजन्ये धमादौ परिस्पंदजन्यत्वाभावेन लक्षणया प्रयोगे सति परिस्पंद इव धर्मादावपि रूढिरपरिहार्येति वाच्यं | तर्हि प्रकृते विनिगमनाविरहेण रूढेरनुन्मेषे सति क्रियते इति कर्मेति व्युत्यत्याकर्मपदं कार्यमात्रमाह | एतत्पदमपि प्रत्यक्षाद्युपस्थित वस्तुमात्रमाह | प्रकृतस्य तत्परामर्श योग्यस्य कस्यचिदभावात् | तथा च | एतत्कृत्स्नं जगद्यस्य कर्मकार्यमित्यर्थलाभेन वेदितव्य पुरुषस्याशेषजगदुत्पति कर्तृत्वं सिध्यति तच्च ब्रह्मलिंग आदित्यादि पुरुषकर्तृत्वमपि न मुख्यं जीवस्य संभवति | एतेषां पुरुषाणां कर्तेत्यत्र मुख्यकर्तृ ग्रहणसंभवे गौणकर्तृ ग्रहणायोगात् | न चाशेषजगत्कर्तृत्वोक्तौ तत एव आदित्यादि कर्तृत्वस्यापि लाभात् | पृथक् तदुक्तिर्व्यर्थेति वाच्यं | मंत्रार्थवादादिषु आदित्य चंद्रादि
63 SK ४१ब्) पुरुषाणां महामहिम संकीर्तनेन तेषु संजात परब्रह्मत्व भ्रांति निवर्तकत्वेन पृथगुक्ति साफल्यात् | पुरुषपदस्यापि न जीवे रूढिः | पूरणात् पुरुष इति कॢप्तयोगेनैव कृत्स्नजगद्व्यापिनि ब्रह्मणीवकृत्स्न शरीरव्यापिनि जीवेपि प्रयोगोपपत्या तत्र रूढेरकल्पना तत्कल्पनेपि योगवत् रूढेरपि जीवब्रह्मसाधारणे चेतनमात्रे कल्पनोपपतेश्च न पुरुषश्रुतिर्जीवपक्षयातिनी | श्रुतिपाठे क्वचित् पुरुषपदाश्रवणाच्च | तथा चायं सूत्रार्थः | वेदितव्यः पुरुषः परमात्मा कृत्स्न जगत्कर्तृत्वान्न च हेत्वसिद्धिः कर्मपदस्य जगद्वाचित्वातस्माद्वेदितव्यः पुरुषः परमात्मेति सिद्धमेवं च सर्वसंहर्तृत्वादिकमित्यत्र आदिपदेनांतर्याम्यधिकरणोक्त सर्वनियंतृत्वरूप सर्वस्थिति कर्तृत्वं जगद्वाचित्वाधिकरणोक्तं सर्वजगदुत्पति कर्तृत्वं च गृह्यते || अन्ये तु जन्मकारणत्वस्य स्थिति कारणत्वस्य च निमित्तकारण साधारण्यादुपादानत्व प्रत्यायनाय प्रपंचस्य ब्रमणिलयो दर्शितः | अस्तु ब्रह्मजगदुपादानं | प्. ४२अ) तज्जन्मनि चट जन्मनि कुलालवत् | तत्स्थितौराज्यस्थेम्निराजवच्चोपादानादन्यदेवनिमित्तं भविष्यतीति शंकाव्यवच्छेदाय तस्यैव जगज्जन्मजीवन नियामकत्व मुक्तं || ननु यत इत्यादि श्रुत्या जीवव्यावृतेश्वरस्य तत्पदवाच्यस्य ब्रह्मणो लक्षणमुक्तमिति तात्पर्य वर्णनमयुक्तं | तद्विजिज्ञास स्वतद्ब्रह्मेति वाक्यशेषानुसारेण श्रुतेर्वाक्यार्थभूताद्वितीय जिज्ञास्य ब्रह्मलक्षण प्रतिपादाकत्वस्यैवावगमादित्याशंक्य श्रुतेस्तथा भूतब्रह्मलक्षणपरत्वमुपगच्छतांमतमाह | अन्ये त्विति |
64 SK चेतनाचेतनात्मक कृत्स्नभूतोपादानत्व प्रतिपतिर्हि ब्रह्मणो अद्वितीयत्व बोधहेतुः | न च चेतनानां नित्यत्वात् | कथं तदुपादानत्वं ब्रह्मण इति वाच्यं | तेषां स्वरूपेण नित्यत्वेपि शरीरद्वयविशिष्टतया कार्यत्वोपगमात् न चैवमपि ब्रह्मापेक्षया द्वितीयस्य तत्कार्यस्य विद्यमानत्वात् कथं तदुपादानत्वमद्वितीयत्व प्रत्यायकमिति वाच्यं कार्यस्य हि उपादानमेव वास्तवं स्वरूपं न तु तदतिरिक्तं वास्तवं स्वरूपमस्तिनामरूपात्मक जगद्रूपं तु मिथ्याभूतमित्यारंभणाद्यधिकरणेषु व्यवस्थापितत्वात् | अतस्सर्वोपादनत्वं सर्वस्य वास्तवं स्वरूपं ब्रह्मैवेति बोधनद्वारा ब्रह्मणोवास्तवा द्वितीयत्वबोधहेतुर्भवति | अद्वितीय ब्रह्मबोधश्च मुक्तिहेतुरिति मुक्ति प्रयोजनक ब्रह्मा द्वितीयत्व बोधहेतु भूतोपादानत्व प्रत्यायनार्थं यत्प्रयंत्यभिसंविशंतीति श्रुति भागेन ब्रह्मणि सर्वभूतलयो दर्शित इत्याह | उपादानत्वेति | प्. ४२ब्) ननु घटाद्युपादाने मृदादौ घटादिलयाधारत्ववजन्मादिकारणत्वस्यापि सत्वेन तद्बलादप्युपादानत्व प्रत्ययः स्यादिति नेत्याह | जन्मकारणत्वस्येति | निमित्तं कुलालदंडचक्रादि | तर्हि श्रुतौ जन्मादिकारणत्व प्रतिपादनं व्यर्थं लयमात्र प्रतिपादनादेवेष्टसिद्धेरिति नेत्याह | अस्त्विति घटजन्मन्युपादानमृदतिरिक्तकुलाल इव जगज्जन्मन्यपि उपादान ब्रह्मापेक्षया अन्यत्कर्तृरूपं निमितं भविष्यतीति भ्रमव्यवच्छेदाय तस्यैव ब्रह्मणः श्रुतौ जगज्जनन कर्तृत्वमुक्तं तथा राज्यस्थेम्निपालनरूपे पालनीय प्रजाद्युपादानाति रिक्त राजवज्जगतः स्थितौ जगदुपादान ब्रह्मापेक्षया अन्यन्निमितं नियंतृतया स्थिति हेतुभूतं भविष्यतीति शंका व्यवछेदाय तस्यैव ब्रह्मणो जगज्जिवननियामकत्वं श्रुत्या उक्तमित्यर्थः ||
65 SK तथा चैकमेवेदं लक्षणमभिन्ननिमितोपादानतयाऽद्वितीयं ब्रह्मोपलक्षयतीत्याहुः ब्रह्मणश्चोपादानत्वमद्वितीय कूटस्थ चैतन्यरूपस्य न परमाणूनामिवारंभकत्वरूपं न वा प्रकृतेरिव परिणामित्वरूपं किंतु अविद्यया वियदादि प्रपंचरूपेण विवर्तमानत्वलक्षणं || प्. ४३अ) तथा चेति जगज्जननजीवननियामकत्वाभ्यां जगदुपादान ब्रह्मण एवतन्निमितत्वप्रतीतौ सिद्धायामित्यर्थः इदं श्रुत्युक्तं लक्षणमेकं स देवाभिन्ननिमितोपादानत्वे पर्यवस्पदद्वितीयं ब्रह्मलक्षयति ब्रह्मव्यतिरिक्तवस्त्वस्तित्वशंका निराकरणद्वारेण ज्ञापयति न तु प्रत्येक लक्षणं सदित्यर्थः | निमित्तं च तदुपादानं चेति निमितोपादानं अभिन्नं च तन्निमितोपादानं चेति पुनः कर्मधारयः आद्यकर्मधारया देवनिमितोपादानयोरभेदे सिद्धेपि पुनरभिन्नपदं कर्मधारयावगताभेद ऐक्यलक्षण एव न नीलोत्पलादौ गुणगुणिनोरिव तादात्म्यरूप इति ज्ञापनार्थमिति बोध्यं | ननु यत इति पंचमी श्रुत्या सर्वभूतलयाधारत्व लिंगे न च निश्चितं ब्रह्मण उपादानत्वं प्रधानस्येव परिणामित्वरूपं वा परमाणूनामिवारंभकत्वरूपं वा रज्वादेरारोपित सर्पाद्युपादानस्येव जगद्रूपविवर्ताधिष्ठानत्वरूपं वा वाच्यं | तत्र नाद्यः ब्रह्मणः कूटस्थ त्वात् परिणाम वा देहि परिणामपरिणामिनोर्वास्तवा भेदस्वीकारेण ब्रह्मणः परिणामित्वे परिणामजन्मादयोपि ब्रह्मणि प्रसज्येरन् | तथा च जन्ममरणादि विकारशून्यत्वलक्षणं श्रुति सिद्ध कूटस्थत्वं तस्य भज्ये ततश्च कूटस्थ त्वात् तस्य परिणामित्वं न संभवति | न द्वितीयः अद्वितीयत्वात् ब्रह्मणः ब्रह्मणः स द्वितीयत्वे हि परमाणु द्वयसंयोगवदसमवापि कारणलाभसंभवादारंभकत्वं भवेदित्याशयेनाह | ब्रह्मणश्चेति | तृतीय प्रकारः परिशिष्यत इत्याह | किंत्वित्यादिना ||
66 SK प्. ४३ब्) वस्तुनस्तत्समसताकोन्यथाभावः परिणामः | तदसमसता को विवर्त इति वा कारण स लक्षणोन्यथा भावः परिणामः | तद्विलक्षणो विवर्त इति वा कारणाभिन्नं कार्यं परिणामः | तदभेदं विनैव तद्व्यतिरेकेण दुर्वचं कार्यं विवर्त इति वा विवर्तपरिणामयोर्विवेकः | अथ शुद्धं ब्रह्मोपादानमिष्यते | ईश्वररूपं जीवरूपं वा | अत्र संक्षेप शारीरकानुसारिणः केचिदाहुः शुद्धमेवोपादानं जन्मादि सूत्र तद्भाष्ययोरुपादानत्वस्य ज्ञेय ब्रह्मलक्षणत्वोक्तेः | तथा चात्मनः आकाशः संभूत इत्यादिकारण वाक्येषु शवलवाचिनामात्मादि शब्दानां शुद्धे लक्षणैवेति || ननु ब्रह्म तद्विवर्तप्रचंयोरभेदस्सिद्धांते उपेयते आरंभवादे तु आरभ्यं आरंभकादत्यंतभिन्नमुपेयते इति आरभ्य विवर्तयोर्भेदः स्पष्टः सिद्धांत इव परिणाम वादेपि सांख्याद्यभिमते परिणामपरिणामिनोरभेदाभ्युपगमात विवर्तपरिणाअमयोर्भेदः कथमवगंतव्य इत्याशेक्यलक्षणभेदादित्याह | वस्तु न इति | वस्तु न उपादानत्वाभि यतस्य | अन्यथा पूर्वरूपा पेक्षयारूपांतरेण भावः भवनं अवस्थानं | अन्यथा भावः | अवस्थाविशेष इति यावत् | प्. ४४अ) तत्समसत्ता कः तेन वस्तुना समासत्ता यस्य अन्यथा भावस्य स तथा | तथा च उपादानत्वाभिमत वस्तुसत्ता समानसत्ता कत्वे सति | तदवस्थाविशेषरूपत्वं तत्परिणामत्वमिति परिणामलक्षणं पर्यवस्यति | तत्र विवर्तवारणाय सत्यं तं | घटस्य तं तु परिणामत्व वारणाय विशेष्यं विवर्तलक्षणमाह | तदिति वस्तुनस्तदसमसता कोन्यथा भावो विवर्त इति संबंधः | उपादानत्वाभिमत वस्तुसत्ता विषमसता कत्वे सति तदवस्थाविशेषरूपत्वं तद्विवर्तत्वमिति विवर्तलक्षणं | उपादानत्वाभिमत मृद्वस्तु सताविषमसत्ताकत्वं चैतन्यस्याप्यस्तीति तस्य मृद्वस्तुविवर्तत्ववारणाय विशेष्यं | परिमाणवारणाय सत्यं तं ब्रह्मचैतन्यस्य पारमार्थिकी सत्ता घटादि प्रपंचस्य व्यावहारिकी सत्ताशु ||
67 SK कैवसता न तदतिरिक्तेति मत्तसाधारण्येन लक्षणांतरमाह | कारण स लक्षण इति | उपादानत्वाभिमत वस्तु सलक्षणत्वे सति तदवस्थाविशेषत्वमिति | परिणामलक्षणं अत्र स लक्षणं जडरूपं बोध्यं परिणामपरिणामिनोर्जडत्व नियमात् | न काप्य व्याप्ति शंका मृद्वस्तुनो घटपरिणामत्ववारणाय विशेष्यं प्रपंचस्य संवित्यपरिणामत्ववारणाय सत्यं तं विवर्तलक्षणमाह | तदिति | उपादानत्वाभिमत प्. ४४ब्) वस्तुविलक्षणत्वे सति तदवस्थाविशेषत्वं तद्विवर्तत्वमिति विवर्तलक्ष्णमत्र चित्व जडत्वरूप वैलक्षण्यं विवक्षितं वियदादि प्रपंचवत् शुक्तिरजतादेरपि ततदवछिन्नचैतन्य एवाध्यासांगीकाराज्जडमात्रे चैतन्यविवर्ते तद्विलक्षणत्वमस्तीति लक्षणसंगतिः | उपादानत्वाभिमत जडविलक्षणे चैतन्ये जडविवर्तत्ववारणाय विशेष्यं मृत्परिणामे घटादौ मृद्विवर्तत्व वारणाय सत्यं तं | प्रकारांतरेण विवर्तपरिणामयोर्लक्षणमाह | कारणाभिन्नमिति | कारणत्वाभिमत वस्त्वभिंत्तत्वे सति तत्कार्यत्वं तत्परिणामत्वं वियदादौ ब्रह्मकार्यत्वमस्ति तत्परिणामत्वं तु नास्तीति तद्वारणाय सत्यं तं ब्रह्मप्रपंचयोरारोपिता भेदसत्वेपि लक्षणे विवक्षितस्य धर्मि द्वय समान स्वभाव भेदस्याभावान्नाति व्याप्तिः | परिणामवादे मृदोपि घटाभिन्नत्वमस्तीति तस्याः घटादि परिणामत्व वारणाय विशेष्यं | तदभेदमिति वस्तुतस्तद भेदं विनैवेत्यर्थः | व्यतिरेकोभेदः अस्मिन् | लक्षणे कार्यत्वमविवक्षितं | अनाद्य
68 SK प्. ४५अ) विद्यादेरपि विवर्तत्वांगीकारात् | यद्वा कार्यरूपस्यैव विवर्तस्येदं लक्षणं | तथा च उपादानत्वाभिमत वस्तुतः सकाशाद्वस्तुतो भेदाभेदाभ्यां दुर्निरूपत्वे सति कार्यं कार्यरूपविवर्तलक्षणमत्रा विद्यां प्रति उपादानत्वाभिमत चैतन्याद्वस्तुतो भेदाभेदाभ्यां निरूपयितुमशक्यायामविद्याया प्रतिव्याप्ति वारणाय विशेष्यं | आरंभवादे उपादानादभेदेन दुर्मिरूपकार्ये अतिव्याप्ति वारणाय भेदेत्युक्ते परिणामवादे उपादानात् | भेदेन दुर्निरूपकार्ये अतिव्याप्ति वारणायाभेदेत्युक्तं | सिद्धांते कार्यकाकारणयो भेदोपगमादसंभववारणाय वस्तुत इत्युक्तं | ननु कार्यकारणयोर्वस्तुतो भेदाभेदौ कथं दुर्निरूपाविति उच्यते | तत्र तयोर्भेदस्तावत् दुर्निरूपः | निम्नोन्नतादि युक्तमृद्वस्तु व्यतिरेकेण घटा || क्ति रजतादेः प्रातिभासिकी सतेति सता त्रैविध्यांगीकारमते लक्षणभेद उक्तः ब्रह्मणि घटादौ शुक्तिरजतादौ च सर्वत्र ब्रह्मस्वरूपभूता ए || प्. ४५अ) द्यनुपलंभात् | संयोगविशेषयुक्ततंत्वतिरेकेण पदानुपलंभाच्च मृद्घटः तंतवः पटः सुवर्णं कुंडलमित्यादिना सामानाधिकरण्याच्च | न हि वस्तुतोभिन्नयोस्सामानाधिकरण्य प्रत्ययः संभवति | किं च कारकव्यापारात् पूर्वं मृदादौ घटादेरऽसत्वेशशशृंगादिवदुत्पत्यनुपपत्तेः | उत्पति क्षणात् पूर्वसंसतः कार्यस्य उत्पति क्रियां प्रतिकर्तृत्वानुपपतेश्च | पूर्वसिद्धस्यैव कर्तृत्व दर्शनात् | उत्पति क्षणे उपादानेन सहकार्यस्य संबंधानुपपतेश्च पूर्वक्षणे कार्यस्यासत्वात्पूर्वसिद्धयोरेव हि पश्चात्संबंध संभवः | अन्यथा शशशृंगादेरपि कारणसंबंधस्य दुर्वारत्वात् कारकव्यापारात्पूर्वं कार्यस्य तुछवैलक्षण्यानंगीकारे तद्वदेव पश्चादात्मलाभा संभवस्य दुर्वारत्वाच्च सिद्धे च प्राक् कार्यस्य सत्वे प्राक्काले कार्यकारणयोर्भेदे मानाभावादभेदे सिद्धौ पश्चादपि तयोरभेद एव स्वीकर्तव्य इति कार्यकारणामेदवादिनः | सांख्यादयः तद्भेदवादिनस्तार्किकादयस्तु वदंति |
69 SK प्. ४६अ) कार्यकारणयोरभेदो न संभवति तद्भाव विरोधात् | न हि तस्यैव तत्कार्यत्वं तत्कारणत्वं च संभवति | अर्थक्रियाभेदाभावप्रसंगाच्च न हि जलाहरणाद्यर्थ क्रियामृद्वस्तुनस्संभवति घटोत्पतेः | प्रागपि तत्प्रसंगात् | नापि मृदोर्थ क्रिया घटस्य संभवति मृद्धद्घटस्यापि घटोत्पादकत्व प्रसंगात् | कार्यस्य कारणव्यापारात्पूर्वं सत्वे च कारकव्यापार वैयर्थ्य प्रसंगात् | तदा मृद्वदेवोपलंभ प्रसंगाच्च | तदुक्तं पंचदश्यां | स घटो न मृदो भिन्नो वियोगे सत्यनी क्षणात् | नाप्यभिन्नः पुरापिंडदशायाम न वेक्षणात् | इति | वियोगे सति मृदः सकाशात् | बुध्याविवेचने क्रियमाणे इत्यर्थः | एवं कार्यकारणयोर्मेदवादिभिरभेदवादिभिश्च दर्शितः परस्परं प्रतिक्षेप्तुमशक्यैर्न्यायैः कार्यस्य कारणाद्भेदाभेदाभ्यां प्रागुत्पतेः | सत्वासत्वाभ्यां च दुर्निरूपत्वात् | तस्यानृतत्वं सिद्धं कारणं तु कार्योत्पतेः पूर्वकाले कार्यकाले कार्यनाशकाले चानुवर्तमानं कार्यात् भेदेन सत्वेन च निरूपयितुं
70 SK प्. ४६ब्) शक्यत्वात् सत्यमेव कार्यापेक्षया एवं मृदादेरवांतरकारणस्य तत्तत्कार्यापेक्षया सत्यत्वे सिद्धेपि परमार्थ सत्यत्वं नोपेयते श्रुत्या ब्रह्मव्यतिरिक्तस्य सर्वस्यैव वाधितत्वात् | ब्रह्मणस्तु परमार्थ सत्यत्वं सदात्मनो वाधशून्यत्वात् | अभ्युपगम्यते | अत एव जगत्कारणस्य सत्यत्वे मृदादि सत्यत्वं | जगतो मिथ्यात्वे च मृदादि कार्यस्य घटादेरनृतत्वं च दृष्टांत्तत्वेन श्रुत्या उपादीयते तदुक्तं पंचदश्यां | एवं मायामयत्वेन विकारस्यानृतात्मतां विकाराधारमृद्वस्तु सत्यत्वं चाब्रवीच्छ्रुतिरिति श्लोके विकारानृतत्वादौ पूर्वाक्त न्यायकलाप | एवं शब्दार्थः दृष्टांतत्वेनेति शेषः | उक्तं च भामतीति बंधने | तदनेन प्रमाणेन विकारजातस्यानिर्वाच्यतया सिद्धमनृतत्वं कारणस्य निर्वाच्य तया सिद्धं सत्यत्वं च मृतिकेत्येव स्त्यमित्यादिना प्रबंधेन दृष्टांततयानुवदति श्रुतिरिति वाचारंभणं विकारो नामधेयं मृतिकेत्येव सत्यमिति श्रुतिरित्यर्थः | विकारो घटादिर्वाचा घटशरावादिरस्तीत्यादि
71 SK प्. ४७अ) शब्देनारभ्यते व्यवह्रियत इत्यारंभणं वाचा व्यवह्रियत एव न वस्तुतोस्ति विकारस्तस्य दुर्निरूपत्वादिति भावः | कथं तर्हि मृद्वस्तुनस्सकाशात् घटादिजीत इति कार्यकारणयोर्भेदव्यवहार इत्यत आह | नामधेयं भेदव्यवहारो नाममात्रं अर्थशून्यः | यथाराहोः शिरः पुरुषस्य चैतन्यमिति व्यवहारः विकारवत् भेदोप्यनिर्वचनीय इति भावः | किं तर्हि सत्यं तत्राह | मृतिकेति अनेन मृतिकात्वेन रूपेण घटशरावादि विकारेषु प्रतीयमानं कारणरूपं वस्तुसत्यं विकारसत्यत्वमेव कारेण व्यवछिद्यते तत्सिद्धं दुर्वचत्वं कारणाद्भेदाभेदाभेदाभ्यां कार्यस्येति | पृच्छति अथेति | ननु वाक्यार्थ भूतशुद्ध ब्रह्मण एव श्रुतौ लक्षणमुक्तं तद्विजिज्ञासस्वेति वाक्यशेष लक्षणीयस्य ब्रह्मणो जिज्ञास्यत्वाभिधानात् | तथा च निश्चितार्थे प्रश्नानुपपतिरिति चेन्न | यथा शुद्धस्य जिज्ञास्य त्वं | एवं तत्वं पदार्थभूतयोर्जीवेश्वरयोरपि शुद्ध ब्रह्मप्रतिपति हेतुत्वेन जिज्ञास्य त्वमस्ति तथा
72 SK प्. ४७ब्) तयोरपि वक्ष्यमाणरीत्याभिन्न निमितो पादानत्वं च संभवतीति | जिज्ञास्य त्वकारणत्वयोः साधारणत्वेन प्रश्नोपपतेरिति भावः | जीव ईशो विशुद्धाचित् तथा जीवेशयोर्भिदा | अविद्या तच्चित्तोर्योगष्षडस्माकमनादय इति संप्रदायविद्वचने चैतन्यत्रैविध्यस्यैव प्रसिद्धत्वातदनुसारेण त्रेधः प्रश्नः | सामान्यज्ञनस्य विशेषवुभुत्सा हेतुत्वात् ब्रह्मणः सामान्यरूपेणोपादानत्वज्ञानानंतर्यमथ शब्दार्थः प्रश्नो वा तदर्थः | ईश्वररूपं जीवरूपं वा ब्रह्मनोपादानमिति एव कारार्थः | जन्माद्यस्य यत इति सूत्रं जन्म आदिरस्येति बहुब्रीहिः जन्मस्थितिभंगं अन्यपदार्थः | जन्मादीति नपुंसकैक वचनेन | अन्यपदार्थे समाहार द्वंद्व सूचनादन्य पदार्थ भूतजन्मस्थिति भंगेष्वितरेतरयोगद्वंद्वाश्रयणे तु जन्मादय इति सूत्रापतेः | जन्म न आदित्वं च जायमान पदार्थेषु स्थितिभंगावपेक्ष्य दृष्टमिति सूत्रे जन्मनः प्राथम्यरूपादित्व निर्दशः | अस्येति सर्वनाम्ना सूत्रकर्तुर्बुद्धिस्थ सकलप्रपंचनिदेशः षष्ट्या च जगतो प्. ४८अ) जन्मादेश्च संबंधनिर्देशः | यत इति कारणनिर्देशः सूत्रे तत्पदाध्याहारः पूर्वसूत्रात् ब्रह्मपदानुषंगः | तथा च यतः कारणादस्य जगतोजन्मांदि तद्ब्रह्मेति सूत्रार्थः | ज्ञेय ब्रह्मेति वाक्यार्थ भूतशुद्ध ब्रह्मण एव प्राधान्येन लक्षणीय त्वात् | तस्यैव जन्मादि सूत्रे लक्षणमुच्यते | अथातो ब्रह्मजिज्ञासेति पूर्वसूत्रे शास्त्रविषय समर्पकेण ब्रह्मपदेन शुद्धब्रह्मण एवोपात्तत्वेन तस्यैव लक्षणाकांक्षणाच्चेति भावः | नत्वात्मन आकाशः संभूतः सोकामयतयस्सर्वज्ञः सर्वविदित्यादिकारण वा कोषु ईश्वररूप ब्रह्मणकारणत्वमुच्यते न शुद्धस्य तस्य कामयितृत्व सर्वज्ञानकर्तृ ||
73 SK विवरणानुसारिणस्तु यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः तस्मादेतद्ब्रह्मनामरूपमन्नं च जायत | इत्यादि श्रुतेः | सर्वज्ञत्वादि विशिष्टं मायाशवलमीश्वर रूपमेव ब्रह्मोपादानं | अत एव भाष्यें तस्तद्धर्मोपदेशात् सर्वत्र प्रसिद्धोपदेशादित्याद्यधिकरणेषु सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद् ब्रह्म सर्वकर्मा सर्वकामः सर्वगंधः प्. ४८ब्) सर्वरस इत्यादिश्रुत्युक्तं सर्वोपादानत्वप्रयुक्तं सर्वात्मकत्वं जीवव्यावृतमीश्वरलिंगमित्युपवर्णितं || त्वाद्यनुपपतेरतस्तद्वाक्यगतात्मपद तत्पद सर्वज्ञादि पदानां शबलवाचित्वात् | न कारण वाक्येभ्यः शुद्धस्योपादानत्व सिद्धिरितिरेनेत्याह | तथा चेति | जन्मादि सूत्र तद्भाष्ययोः स्वारस्येन शुद्धस्योपादानत्वावगमे सतीत्यर्थः | लक्षणैव स्वीक्रियते अतः कारणवाक्येभ्यः शुद्धस्य कारणत्वावगतिर्युक्तेति भावः | अथ शुद्धं ब्रह्मोपादानमित्यादि प्रश्ने द्वितीयपक्षमादाय प्रतिवचनमुत्थापयति विवरणेति | यस्य प्रकृतस्य भूतयोनेः पूर्वमंत्रोपातं तपः ज्ञानमयं स्वरूपज्ञानविकारः मायावृति प्रतिबिंबरूपमिति यावत् | तस्मात् सर्वज्ञाद्भूतयोनेस्सकाशादे तत्सन्निहितं | अपरकालीनं कार्यरूपमिति यावत् ब्रह्महिरण्यगर्भाख्यं जायत इति श्रुतेरीश्वररूपमेव ब्रह्म उपादानमिति संबंधः | न शुद्धं जीवरूपं वेत्येवकारार्थः सर्वज्ञत्वादीत्यादि पदेन सर्ववित्वकाम पितृत्व सर्वेश्वरत्वादीनि गृह्यंते मायोपाधिनिरूपितर्विवत्वविशिष्टे सर्वज्ञत्वादि गुणयुक्तं च यदीश्वररूपं ब्रह्मचैतन्यं तदेवोपादानमित्यर्थः | अथ शुद्धं ब्रह्मोपादानमिष्यत इति प्रश्नस्य प्रतिवचनावसरे ईश्वररूपमेव ब्रह्मोपादानमित्ये तावति वक्तव्ये तस्य मायाशबलत्व विशेषणमीश्वरोपि शुद्धचैतन्यमेवेति भ्रांति निरासार्थं तस्य सर्वज्ञत्वाद्यनेक
74 SK प्. ४९अ) विशेषणोपादानं चेश्वररूप ब्रह्मण उपादानत्वे यस्सर्वज्ञ इत्यादिकारणवाक्यानां सर्वेषामैक कंठ्यप्रदर्शनार्थमिति मंतव्यं जीवशुद्ध ब्रह्मव्यावृतेश्वररूप ब्रह्मण || जीवेश्वरानुस्यूत चैतन्यमात्रस्य सर्वोपादानत्वे तु न तज्जीव व्यावृतमीश्वर लिंगं स्यात् | संक्षेप शारीरकेशवलोपादानत्व निराकरणमपि मायाविशिष्टोपादानत्व निराकरणाभिप्रायं न तु निष्कृष्टेश्वररूप चैतन्योपादानत्व निराकरण परं | तत्रैव प्रथमाध्यायांते जगदुपादानत्वस्य तत्पदार्थवृत्तित्वोक्तेः || उपादानत्वे भाष्यसंमतिमाह | अत एवेति | ईश्वररूप ब्रह्मण एवोपादानत्वाभ्युपगमा देवेत्यर्थः | इत्यादि श्रुत्युक्तं सर्वोपादानत्व प्रयुक्तं सर्वात्मकत्वमीश्वरलिंगमित्युपवर्णितं भाष्ये इति संबंधः यस्य सर्वोपादानत्वं तस्य सर्वात्मकत्वमुपादानोपादेययोस्तादात्म्यान्नान्यस्येत्यविवादं | यदि प्रतिबिंबत्वविशिष्टचैतन्यरूपे जीवे विंवत्व विशिष्टचैतन्यरूप ईश्वरे च विशेष्यतया अनुस्यूत शुद्धचैतन्यरूप ब्रह्मणः सर्वोपादानत्वमिष्यते | तदा तस्यैव सर्वात्मकत्वस्यान्नेश्वरस्येति सार्वात्म्यस्य भाष्ये जीवव्यावृतेश्वर लिंगत्वोपन्यासो न स्यात् | न च विशेष्य भूतशुद्ध ब्रह्मगतं सर्वात्मकत्वं विवत्वविशिष्ट चैतन्यरूपेश्वर लिंगतया भाष्ये
75 SK प्. ४९ब्) वर्णितमिति वाच्यं | तथा सति तस्य जीवव्यावृतत्वं न स्यात् विशेष्य धर्मस्य सर्वात्मकत्वस्य ईश्वरधर्मत्ववज्जीवधर्मत्वस्यापि सत्वादित्याशयेनाह | जीवेश्वरानुस्यूतेति छांदोग्ये श्रूयते | य ए * तरादित्ये हिरण्मयः पुरुषोद्वश्यते हिरण्यण्मशुर्हिरण्यकेशः | आप्रणखात् सर्व एव सुवर्ण इत्युपक्रम्य तस्य ऋक् सामर्थगेष्णावित्युक्ता? उतरत्रय एष्ॐतरक्षिणि पुरुषो दृश्यते सैव ऋक्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्मेति चोक्ता तद्य इमे वीणायां गायंति एनं ते गायांतीति | अस्यार्थः आदित्ये अंतर्यः पुरुषः शास्त्रतो दृश्यते एष हिरण्मयः ज्योतिर्मयः स्वतः प्रकाशचैतन्य स्वरूप इत्यर्थः | तस्योपासनार्थं शरीरमाह | हिरण्यश्मश्रुरित्यादिना | हिरण्यसुवर्णशब्दौ ज्योतिः परौ | प्रणखानखाग्नं आडुः अभिव्याप्तौ तस्य हिरण्मय पुरुषस्य ऋक् सामनीगेष्णौ परिमलौक्तरित्या स्तुति धनीभूते इत्य || गात् तस्यैव पुरुषस्यादित्य स्थानवदुपासनार्थं स्थानांतरमाह | य एष्ॐतरक्षिणीति | सैव ऋगित्यादौ विधेया पेक्षयालिंगव्यत्यासः | स एव ऋक् पुरुषः समासामसः उक्थं सः यजुः सः ब्रह्मवेदः ब्रह्मपदं ऋगाद्यति रिक्त वेदपरं | तथा च गेष्णवाक्येन सर्वदेवात्मकत्वमुक्तं सैव ऋगिति वाक्येन सर्ववेदात्मकत्व
76 SK प्. ५०अ) मुक्तं | तथा ये इमे प्रसिद्धागापकाः वीणायां लौकिक पुरुषं गायंति तेपि एनं पुरुषं गायंतीत्युक्त्या इंद्राद्यात्मकत्ववत् लौकिकपुरुषात्मकत्वमपि सिध्यति | तथा च सर्वदेवात्मकत्व सर्ववेदात्मकत्व सर्वलौकिक पुरुषात्मकत्वानिमिलित्वा सर्वात्मकत्वे पर्यवस्यंति | तिर्यगात्मत्वस्याप्युक्त प्रायत्वात् | एवं स्थिते संशयः आदित्ये अक्षिणि चांतः श्रूयमाणो हिरण्मयः पुरुषः मंडलाभिमानि देवताविशेषो वा नित्यसिद्धः परमेश्वरोवेति | तत्र देवता विशेष एव हिरण्मयः पुरुषस्तस्य संसारित्वेन हिरण्यश्म श्रुत्वादि रूपसत्वोपपतेस्सर्वात्मकत्वस्याप्युपासनार्थं तत्रारोपोपपतेश्च न परमेश्वरः तस्य शरीरा संभवादिति प्राप्तं एवं प्राप्ते ब्रूमः | अंतस्तद्धर्मोपदेशात् सर्वत्र प्रसिद्धोपदेशादिति आदित्यादावंतरवस्थितो हिरण्मयपुरुषो नित्यसिद्ध परमेश्वर इव कुतः तद्धर्मस्य सर्वात्मकत्वस्य सैव ऋक् तत्सामेत्यादावुपदेशात्सर्वात्मकत्वं हि ईश्वरस्यैव धर्मः | तस्य सर्वोपादानत्वेन सर्वात्मकत्वो प्. ५०ब्) पपतेर्न च मुख्य संभवे सत्यारोप कल्पनान्याय्या परमेश्वरस्यापि साधकानुग्राहार्थमिछावशान्मायागत शुद्धसत्वांश परिणामरूपशरीरसंभवादुमासहायं परमेश्वरं प्रभुमित्यादि श्रुतिषु जन्मकर्म च मे दिव्यमित्यादि स्मृतिषु च प्रसिद्धत्वाच्चेति निर्णयः | सर्वं खल्विदं ब्रह्मेति प्रकृत्यसक्रतुं कुवीतेति वाक्येन क्रतु शब्दवाच्यमुपासनं विधाय उपास्याकांक्षायां पठ्यते | मनोमयः प्राणशरीरः भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः | सर्वगंधस्सर्व रसस्सर्वमिदमभ्यातो वाक्यनादर एषम आत्मांतर्हृदय इति | अयमर्थः | मनोमयः || र्थः इदं ऋक्सामगेष्णत्वं समस्त ऋक् सामस्तुत्यत्वरूपं हिरण्मय पुरुषविशेषणं तस्य वेदे ऋक्सामस्तुत्यतया प्रसिद्धेंद्राद्यात्मकत्वमादाय पर्यवस्यति | हिरण्मयपुरुषस्येंद्रादिभ्यस्साकाशाद्भिन्नत्वे तु तद्विशेषणं न सिध्यति अन्यस्तु ते रन्यविषयकत्वायो ||
77 SK मनः प्रधानः प्राणः शरीरमस्येति प्राणशरीरः | भाश्चैतन्यं रूपमस्येति भारूपः सत्याः प्. ५१अ) अप्रतिहताः संकल्पाः सृष्ट्यादि गोचरा अस्य आकाश वदात्माव्यापकत्व सूक्ष्मत्वादि युक्तं स्वरूपमस्य सर्वाणि कर्माणि क्रियंत इति व्युत्पत्या कार्याण्यस्य यद्वा भूतगुणगंधरसादि सन्निधानात्कर्मपदं परिस्पंद परं सर्वं परिस्यंदा अस्येत्यर्थः | सर्वे कामा इछारूपा अस्य सुखविशेषरूपा वा सर्वे गंधाः पुण्यरूपाः अस्य पुण्यो गंधः पृथिव्यां चेति स्मृतेः सर्वे रसाः अस्य इदं दृश्यं सर्वं अभि आभिमुख्येन तादात्म्येनातः व्यामः वागेव वाकः वाको अस्यास्तीति वा की न वाकी अवाकी वागिंद्रिय शून्य इति यावत् | वाक् ग्रहणं कर्मेंद्रियाणां मुख्य प्राणस्य च उपलक्षणं | क्रियाशक्तिमत्वाविशेषात् | आदरः कामः सोस्य नास्तीत्यनादरः | आदरनिषेधेन तत्परिणामि मनोनिषिध्वं भवति मनो निषेधेन च ज्ञानेंद्रियाणां निषेधस्सिद्धो भवति | ज्ञानशक्तिमत्वाविशेषात् | अत्र परिस्पंदेछा गंधरसवत्वं तदा श्रयैर्वायुमतः पृथिवीजलैर्भूतविशेषैस्तादात्म्यं विना न संभवतीति सर्वकर्मत्वादि वचनेन अविशेषेण सर्वतादात्म्य
78 SK प्. ५१ब्) प्रतिपादक सर्वमिदमभ्यात इति वचनेन च मनोमयत्वादि गुणकस्य सर्वात्मत्वं प्रतीयते | तच्च ब्रह्मण एवोपपद्यते | तस्य सर्वोपादानत्वेन सर्वात्मकत्वोपपतेः | न जीवो मनोमयत्वादि गुणकस्तस्य सार्वात्म्या संभवात् | न च मनोमयत्व प्राणशरीरत्वयोर्जीवधर्मयोर्ब्रह्मण्य संभव इति वाच्यं भूततादात्म्येन गंधादि मत्ववज्जीव तादात्म्येन मनोमयत्वाद्युपपतेरिति | सूत्रार्थस्तु मनोमयत्वादि गुणकं ब्रह्मैव उपास्य त्वेनेह निर्दिश्यते कुतः सर्वत्र वेदांतेषु प्रसिद्धस्य | ब्रह्मणः सर्वं खल्विदं ब्रह्मेति पूर्ववाक्ये स्वशब्देनैवोपदेशादस्मिन्नपि वाक्ये प्राणः शरीरमस्येत्यादि विग्रहवाक्येषु पकृतब्रह्माकर्षक सर्वनामश्रुतीनां सत्वाच्च ब्रह्मैव सगुणमुपास्यमत्रेति सिद्धं | सर्वोपादानत्वे त्विति शुद्धब्रह्मवज्जीवस्य सर्वोपादानत्वोपगमेपि सर्वात्मकत्वं जीवव्यावृतमीश्वरलिंगं न स्यादिति | तु शब्दार्थः | ननु संक्षेपशारिरके मायाशवलस्य उपादानत्वं निरस्तमिति तद्विरोध इत्यत प्. ५२अ) आह | संक्षेपशारीरक इति |
79 SK मायाया अपि बिंबभूतेश्वर विशेषणतयानुपादानत्वाश्रयकोटौ निवेश एव तत्र दूषितः | न तु बिंबत्वविशिष्ट चैतन्यरूपेश्वरस्य तन्निरस्तमिति न तद्विरोध इत्यर्थः | ननु शबलस्योपादानत्वं निराकृत्यजगदुपादातत्वस्य ज्ञेय ब्रह्मलक्षणत्व समर्थन परस्य संक्षेपशारीरक ग्रंथस्य कथमेवमभिप्रायः कल्पयितुं शक्यते स्वरसतस्तस्य बिंब प्रतिबिंबानुगतशुच ब्रह्मोपादानत्व प्रतिपादनपरत्वावगमादिति नेत्याह | तत्रैवेति | संक्षेपशारीरक एवेत्यर्थः | न च तत्पदार्थ वृतित्वं तत्पदलक्ष्यार्थ वृतित्वं विवक्षितं लक्ष्यार्थश्च शुद्धं ब्रह्मेति न संक्षेपशारीरक ग्रंथस्य पूर्वापरविरोधः | न वाते न बिंब भूतेश्वरस्योपादानत्व लाभ इति वाच्यं | लक्ष्यार्थ त्वस्य वाक्यार्थ साधारणतया तत्पदार्थवृत्तित्व विशेषणवैयर्थ्यापतेस्तत्पदार्थवृत्तित्वं तत्पदवाच्यार्थवृत्तित्वमेव वक्तव्यमिति तदविरोधाय सर्वज्ञत्वादि गुणकेश्वरस्य जगत्कारणत्व प्रतिपादक प्. ५२ब्) वहुश्रुत्यविरोधाय च शबलोपादानत्व निराकरणं मायाविशिष्टोपादानत्व निराकरणरूपमेव वक्तव्यमिति न संक्षेपशारीरक विरोध इति भावः | तर्हि जन्मादि सूत्र तद्भाष्ययोर्ज्ञेय ब्रह्मलक्षणत्वोक्ति विरोध इति नेत्याह | एवं चेति | अभिन्ननिमितोपादानत्वरूपलक्षणस्यां तस्तद्धर्माधिकरणभाष्यपर्यालोचनया बिंबभूते एवावगत्वे सिद्धे सतीत्यर्थः | अपि शब्दः | एवं चेश्वरगतमपि कारणत्वं तदनुगतमखंडचैतन्यं शाखा चंद्रमसमिव तटस्थ तयोपलक्षयितुं शक्नोतीति तस्य ज्ञेय ब्रह्मलक्षणत्वोक्तिरिति मन्यंते | विपदादि प्रपंच ईश्वराश्रित माया परिणाम इति तत्रेश्वर उपादानं ||
80 SK चैतन्यमित्यनेन संबध्यते कारणत्वमित्यनंतरमीश्वरमितरव्यावृततया बोधयत्सदिति शेषः | तदनुगतमिति | बिंबत्वविशिष्टचैतन्यरूपेश्वरानुगतमित्यर्थः | अखंडचैतन्यमिति | विशेष्य भूतशुद्धचैतन्यमित्यर्थः | तटस्थत्वं च लक्ष्य स्वरूप बहिर्भूतत्वं वा लक्ष्यावृतित्वं वा उपलक्षणत्वं वा बोध्यं | क्व चंद्र इति | प्रष्णे शाखायामित्युतरं भवति | तत्र यथा शाखादिगंतरगतं नक्षत्रव्यावृत्तं चंद्रमुपलक्षयति प्. ५३अ) तथा ईश्वर गतं कारणत्वमीश्वरमितरव्यावृततया बोधयत् स तटस्थ तयेश्वरानुगतमखंडचैत्यन्यमपीतरव्यावृत्तत उपा-उपलक्षयितुं शक्नोत्येवेत्यर्थः | ईश्वरगतेनाभिन्ननिमितोपादानत्वेन बिंबत्व विशिष्ट चैतन्य रूपेश्वरस्य जगदुपादानत्व संभव शून्याज्जीवात् | तत्कर्तृत्व संभव रहितात्प्रधानादेश्च सकाशाद्व्यावृतौ गम्यमानायां सत्यां विशेष्य भूत ज्ञेय ब्रह्मणोपि प्रधानादिव्यावृतिर्गम्यत इत्यभिप्रेत्य तस्य ज्ञेय ब्रह्मलक्षणत्वं जन्मादि सूत्र तद्भाष्ययोस्संक्षेपशारीरके चोक्तमिति भावः | एवं तटस्थ लक्षणेन प्रधानादिव्यावृतत्वेनावगतं ब्रह्मकीदृक् स्वरूपं तदिति विशेषजिज्ञासायां सत्यांसत्यज्ञानानंदात्मकं ब्रह्मेति स्वरूपलक्षणं प्रवर्तते | अनेनैवाभिप्रायेण भाष्यकारैरुक्तं | तस्य च निर्णय वाक्यमानंदाद्ध्येव खल्विमानि भूतानि जायंत इति यतो वेत्यादि वाक्येन यस्मात् कारणात् | इमानि भूतानि जायंत इत्युक्तं | तद्वस्तुतस्सत्यज्ञानानंत स्वरूपादानंदादेवनान्यस्मात्कारणादित्ये तत् हि प्रसिद्धं पूर्ववल्यामिति श्रुत्यर्थः | अनेन स्वरूपलक्षणेन बिंबभूतेश्वरानुगतं तत्पदलक्ष्यं वस्तुतो वाक्यार्थ भूतं ज्ञेयं ब्रह्मविशेषतो निर्धारितं भवति | इयं च स्वरूपलक्षणविवक्षामूले अ || खंडपदेन सूचिता जगत्प्रकृतिभूत मायाप्रतिबिंब ईश्वरः | माया चेश्वराश्रिता | न च प्रतिबिंबत्वस्य माया कलितत्वात् | तद्विशिष्ट
81 SK प्. ५३ब्) चैतन्याश्रितत्वं मायाया न संभवति प्रतिबिंबत्व कल्पनात्प्रागेव तस्याश्चैतन्याश्रितत्वस्य वक्तव्यत्वादिति वाच्यं | मायावत्प्रतिबिंबत्व स्याप्यनादित्वे न तस्यास्तद्विशिष्ट चतन्याश्रितत्वोपपतेः | वस्तुतो निर्विशेष चैतन्ये अनादिकालमारभ्य कल्पित प्रतिबिंबत्व स्थितेरनिर्वचनिय मायाधीनत्व मात्रेण प्रतिबिंबत्वस्य तत्क चैतन्ये अनादिकालमारभ्य कल्पित प्रतिबिंबत्व स्थितेरनिर्वचनीय मायाधीन मात्रेण प्रतिबिंबत्वस्य तत्कल्पितत्वं न तु प्रतिबिंबत्वस्य वियदादेरिव मायापरिणामत्वमुपेयते तथा सति प्रतिबिंब भूतेश्वरस्य सादित्व प्रसंगात् | न च माया | अनादिकालमारभ्य चैतन्ये प्रतिबिंबत्वस्य तत्कल्पितत्वं घटयति तद्विशिष्टमेव चैतन्यमाश्रयत इति कथं संभावयितुं शक्यमिति वाच्यं | मायाया अघटित घटनापटीयस्त्वात् | न च शुद्ध चैतन्याश्रितैव माया तत्र प्रतिबिंबभावं घटयतीति कुतो नाश्रीयत इति वाच्यं | मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति श्रुति
82 SK प्. ५४अ) विरोधात् | मायिनमिति पदेन मायाया ईश्वराश्रितत्व प्रतीतेः | जीवास्त्वविद्याप्रतिबिंबाः | जीवेशावाभासेन करोतीति श्रुतेः | प्रकृता मूलप्रकृतिः जीवेशौ प्रतिनिंबरूपौ करोतीत्यर्थः | नह्युपाधिभेदं विना प्रतिबिंब भेदस्संभवति | न चैकस्मिन्नपि दर्पणे अनेक प्रतिबिंब दर्शनात् | प्रतिबिंब भेद उपाधिभेदव्याप्यो न भवतीति वाच्यं | एकस्मिन् दर्पणे बिंबभेदेन प्रतिबिंबभेदेपि सूर्यादि बिंबैक्य स्थले उपाधिभेदे विना प्रतिबिंबभेदा दर्शनात् | बिंबभूत चैतन्यस्य चैकत्वात् | तस्मात् ईश्वरोपाधि मायापेक्षया भिन्ना एवजीवोपाधिभूता अविद्या स्वीकर्तव्या | न च मूलप्रकृतिं प्रकृत्य प्रवृतायां जीवेशावाभासेन करोति | माया चाविद्या च स्वयमेव भवतीति श्रुतौ जीवेश रूपप्रतिबिंबाधारयोर्मायाविद्ययोः स्वयमेवेत्यनेन प्रकृतमूलप्रकृत्यात्मकत्व प्रतिपादनम्मायाविद्ययोर्भेद पक्षे विरुध्यत इति वाच्यं | मायायावियदादि प्रकृतित्ववत् | अविद्याया अपि लिंग प्. ५४ब्) शरीरादि प्रकृतित्वस्य वक्ष्यमाणत्वेन मायाविद्ये प्रकृतित्वेनैकीकृत्य स्वयमेवेत्येक प्रकृत्यात्मकत्व प्रतिपादनस्याविरोधादविद्या चेत्येक वचनस्यापि जात्यभिप्रायत्वोपपतेर्न तन्नानात्वविरोधोपि बिंबैक्य स्थले उपाधि भेदं विना प्रतिबिंबभेदासंभवस्य दर्शितत्वात् प्रतिबिंब जीवानां च नाना त्वात् | अदृश्यत्वाधिकरणभाष्येप्यव्याकृतमीश्वराश्रयं तस्यैवोपाधि भूतमिति मायाया ईश्वरोपाधित्व तदाश्रयत्वयोरुक्तत्वात् | तथा आनुमानिकाधिकरण प्राष्ये मुक्तानां च न पुनरुत्पतिः | तस्या अविद्या बीज शक्तर्विद्ययादाहादित्यत्र जीवनानात्वस्य तदुपाधिभूताविद्या नानात्वस्य च स्पष्टमभिहित त्वात् | भामती निबंधने तद्भाष्यस्य जीवोपाधिभूता विद्यैक निराकरण तयैव व्याख्या तत्वाच्च आभास एव चेति | सूत्र तद्भाष्ययोर्जीवानां प्रतिबिंबतायाः स्पष्टमभिहितत्वाच्च | तथा च मायाविद्याभेदः श्रुत्यादि संसत इति ये मन्यंते तेषां मतमुपन्यस्यति | विपदादि प्रपंच इत्यादिना |
83 SK प्. ५५अ) पूर्वमते ईश्वररूपं ब्रह्मोपादानमित्युक्तं तत्सत्यमेव परं तु क्वचिज्जगति जीवस्याप्युपादानत्वमभ्युपगंतव्यमित्यभिप्रायेणास्य मतस्य प्रवृतिर्बोध्या | ईश्वराश्रित माया परिणाम इति मायां तु प्रकृतिं विद्यादिति श्रुतेरिति भावः | तत्रेति वियदादावीश्वर एव उपादानमित्यर्थः | अंतःकरणादौ तु शब्दसूचितं विशेषं दर्शयति ईश्वरेति | भूतैरूपष्टंभलक्षणैस्संसृष्टत्वं भूतोपसृष्टत्वं तच्च जीवा वा विद्याकृतानां भूतसूक्ष्माणां विशेषेणं | भूतानां सूक्ष्मत्वं परिछिन्नत्वं | अत एवेति | अंतःकरणादौ जीवाविद्यापरिणाम सूक्ष्मभूतानां तदुपष्टंभकतया माया परिणाम महाभूतानां च उपादानतया प्रविष्टत्वादे | अंतःकरणादिकंत्वीश्वराश्रित माया परिणाःममहाभूतोपसृष्टजीवाविद्याकृत भूतसूक्ष्म कार्यमिति तत्रोभयोरुपादानत्वं | अत एव एवमेवास्य परिद्रष्टुरिमाषोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं यांतीति श्रुतौ कलाशब्दवाच्यानां प्राणमनः प्. ५५ब्) प्रभृतीनां विदुषो विदेह कैवल्य समये अविद्यानिवृत्या अविद्या कार्यांशाभिप्रायेण विद्ययो छेदो दर्शितः गताः कला पंचदश प्रतिष्ठा इति श्रुत्यंतरे | तदनिवर्त्यमायाकार्य महाभूत परिणामरूपोपष्टंभकांशाभिप्रायेण तेषां स्व स्व प्रकृतिषु लयो दर्शित इति मायाविद्याभेद वादिनः ||
84 SK वेत्यर्थः | यथा गंगाद्यानद्यस्समुद्रं प्राप्यास्तं गच्छंति | एवमेवास्य विदुषः परितः सर्वत्रात्मानं पूर्णं पश्यतः कलाः लिंग शरीरैक देशभूताः पुरुषायणाः पुरुष श्रिदात्मा अयनमधिष्ठामं या सांताः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छंति पुरुषे लीयंत इत्यर्थः | दर्शित इति पुरुष इति शेषः | प्रतिष्ठा इति द्वितीया बहुवचनं | माया परिणामात्मक महाभूतानीति द्वितीया बहुवचनार्थः | पंचदशकलाः प्रतिष्ठाः प्रतिगताः तासूलीना इति यावत् | तदनिवर्त्येति | ईश्वरोपाधिभूत माया या जीवगत विद्यानिवर्त्यत्वा भावादिति भावः | यदि कलानां जीवा विद्या मात्र परिणामत्वं तदा तासामशेषतः पुरुष एव लयः स्या तथा च तासां भूतेषु लयप्रतिपादके वचनं निर्विषयं स्यादतो माया कार्य महाभूतानामपि लिंगशरीरोपादानत्वं वाच्यमिति | तत्र उभयोरुपादानत्वे श्रुति द्वय व्यवस्था सिद्धिरेव फलमित्यर्थः | न च मायायाः प्. ५६अ) तत्वज्ञान निवर्त्यत्वाभावे मिथ्यात्व सिद्धिर्न स्यादिति वाच्यं ब्रह्मणि सर्व दृश्य निषेध श्रुति बलाद्दृश्यत्वादि लिंगैश्च तन्मिथ्यात्व सिद्धेः | न च मायायाः विद्यया निवृत्यभावे निवर्तकांतराभावात् | सर्वमुक्तावपि तदनुवृति | प्रसंग इति वाच्यं | महाप्रलयकाले सर्वप्राणिभोगप्रद कर्मणां युगपदुपरमे सति ईश्वर संकल्पमात्रादेव सर्वप्रपंच लयवत् सर्वमुक्ति || यथा वियदादि प्रपंच ईश्वराश्रित माया परिणाम इति तत्रेश्वर उपादानं तथांतःकरणादिर्जीवाश्रिताविद्यामात्रपरिणाम इति तत्र जीव एवोपादानं | न चांतःकरणादौ मायाकार्य महाभूतानामप्य ननु प्रवेशे उदाहृतं श्रुतिद्वय व्यवस्थानुपपतिः | कलानां विद्ययोच्छेद श्रुतिस्तत्ववित् दृष्टिविषया गताः कला इति श्रुतिस्तम्रियमाणे तत्वविदि समीपवर्तिनः पुरुषा नश्यत् | घटवत् तदीय शरीरादीनामपि भूम्यादिषु लयं मन्यंत इति तटस्थ पुरुषप्रतीति विषयेति व्यवस्थायाः कलालयाधिकरणभाष्ये स्पष्टत्वात् | इति मायाविद्याभेदवादिष्वेक देशिनः ||
85 SK प्. ५६ब्) काले इतःपरं स कार्याया मायायाः प्रयोजनं नास्तीति | अनुसंधानवत ईश्वरस्य सत्य संकल्पस्य मायास्वकार्यैः सहमयि वस्तुतश्चिदेकरसे निःशेषं लयं यात्वित्येवं रूपादेव मायापरिणामलक्षण संकल्पातल्लयोपपतेः | श्रुतिस्मृति पुराणादिषु तत्वज्ञानात् मायानिवृति प्रतिपादकग्रंथजातमविद्यानिवृत्यभिप्रायं | यद्वा तत्वज्ञानमात्रमविद्याया इव मायाया निवर्तन योग्यमपि नानाप्राणि कर्मप्रतिबंधान्नस्या निवर्तकं चरममुच्यमानस्यैव तु तत्वज्ञानं प्रतिबंधकाभावातन्निवर्तकमित्यादि कल्पनीयमिति संक्षेपः अंतःकरणादौ उभयोरुपादानत्वमसिद्धं श्रुतिद्वय व्यवस्थाया भाष्यकारैरेवान्यथा प्रतिपादितत्वादिति मत्वांतरं दर्शयति | यथा वियदादीति | तत्वविदो दृष्टिस्तत्वसाक्षात्कारः | अत्र दृष्टिपदेन तत्फलभूतः कलाक्षयो विवक्षितः | तद्विषया पुरुषे कलाप्रलय श्रुतिरित्यर्थः | भूतेषु कलाप्रलयवचनं तु कलानामपि मायापरिणाम महाभूतकार्यत्व भ्रमवतां भ्रांति सिद्धार्थानुवादकमिति भावः चूर्णीभाव पर्यंतो घटनाशो यथा भूमौ दृश्यते | तद्वत् मन्यंत इत्यक्षरार्थः | प्रतीति विषयेति | प्रतीतिरत्र भ्रांतिरूपातद्विषया तदविषयिकेत्यर्थः | स्पष्टत्वादिति | तानि परे तथाह्याहेति तदधिकरणसूत्रं | तानि मनः आदीनि परे पुरुषे निरवशेषं लीयंते | तथा हि श्रुतिराह | एवमेवास्येत्याद्या श्रुतिर्निरवेशेषं लयमाहहीति सूत्रार्थः | अंतःकरणादीनां मायाकार्यत्वाभावे ईश्वरस्यांतःकरणाद्युपादानत्व प्रतिपादक श्रुति विरोध इति दोषं सूचयति प्. ५७अ) एकदेशि न इति ||
86 SK तदभेदवादिष्वपि केचिद्यद्यपि वियदादि प्रपंचस्येश्वर उपादानं | तथाप्यंतःकरणादीनां जीवतादात्म्यप्रतीतेर्जीव एवोपादानं | अत एवाध्यासभाष्येंतःकरणादीनां जीव एवाध्यासोदर्शितः | विवरणे च प्रतिकर्म व्यवस्थायां ब्रह्मचैतन्यस्योपादानतया घटादि संगित्वं जीवस्य तद संगित्वेप्यंतःकरणादि संगित्वं च वर्णितमित्याहुः | एतस्माज्जायते प्राणोमनः सर्वेंद्रियाणि च खं वायुज्य्ॐतिरापश्च पृथिवी विश्वस्य धारिणीत्यादि श्रुतेः कृत्स्नस्य व्यावहारिक प्रपंचस्य ब्रह्मैवोपादानं || मायैवा विद्या साचेश्वरस्यैवोपाधिर्जीवानां तु प्रतिबिंबरूपाणामंतःकरणान्येवोपाधय इति मायाविद्ययोरभेदवादिनोपि केचिदंतःकरणादौ जीवस्यैवोपादानत्वं तद्भेदवादिन इव वदंतीत्याह | तदभेद वादिष्वपीति | अपि शब्दः क्वचिदंशे पूर्वमत साम्यार्थकः | तच्च साम्यं तथापीत्यादिना स्पष्टं भविष्यति | ननु वियदादि प्रपंचेपि जीव एवोपादानं किं न स्यादित्यत आह | यद्यपीति | ईश्वराश्रित मायापरिणाम त्वात् | ईश्वर एव वियदादौ उपादानं न जीव इत्यर्थः | ननु माया विद्ययोरभेदोपगमे अविद्यापरिणामांतःकरणादीनामपि | प्. ५७ब्) ईश्वराश्रित माया परिणामत्वाविशेषादीश्वर एवांतःकरणादावपि उपादानमिति वक्तुमुचितमिति नेत्याह | तथापीत्यादिना | जीवेति | अहंकर्ता अहंप्राणिमि अहंकाणः अहं स्थूल इत्यादि प्रकारेणांतःकरणादीनां शरीरांतानां जीव तादात्म्यं प्रतीयते तच्च तेषां जीवे ध्यस्तत्वं विना न संभवतीति जीवस्यैव तदधिष्ठानत्वरूपमुपादानत्वं न चेश्वरस्येत्यर्थः | प्रतिकर्मव्यवस्थेति |
87 SK ब्रह्मणः स्वरूप चैतन्ये न सर्वदा सर्वभासकत्वरूपे सर्वज्ञत्वे उक्ते तर्हि जीवस्यापि स्वरूप चैतन्ये नैव सर्वदा सर्वद्रष्टृत्वमिति दोषप्रसक्तौ जीवं प्रतिविषय व्यवस्था प्रतिपादकग्रंथ इत्यर्थः | ब्रह्मेति बिंब चैतन्यरूपब्रह्मणः सर्वोपादानतया घटादि तादात्म्यरूपः संसर्गः कॢप्त इत्यर्थः | अविद्याया व्यापकत्वेन तत्प्रतिबिंब रूपजीवस्य व्यापकत्वेपि न घटादिभिस्तस्य तादात्म्यमुपादानत्वाभादादंतःकरणादिभिस्तुती || जीवस्तु प्रातिभासिकस्य स्वप्नप्रपंचस्य च कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपोवेत्यधिकरणे ब्रह्मणो जगदुपादानत्वे तस्य कार्त्स्न्येन जगदाकारेण परिणामे विकारातिरेकेण ब्रह्माभावो वा एकदेशेन परिणामे निरवयवत्व श्रुति विरोधो वा प्रसज्यत इति | पूर्वपक्षे | आत्मनि चैवं विचित्राश्च हीति सूत्रेण प्. ५८अ) विवर्तवादाभिप्रायेण स्वप्न दृशिज्जीवात्मनि स्वरूपानुपमर्दनेनानेकाकार स्वप्न प्रपंच सृष्टिवत् | ब्रह्मणि वियदादि सृष्टिरुपपद्यत इति सिद्धांति तत्वादित्यन्ये ||
88 SK वस्य तादात्म्यलक्षणः संसर्गोस्तीति प्रतिपादितं विवरण इत्यर्थः | अनेन जीवस्यांतःकरणादा उपादानत्वमुक्तं भवति | अन्यथा घटातिभिरिवातःकरणादिभिरप्युक्त संगित्वं जीवस्य न स्यादुपादानत्वाभावाविशेषादिति भावः | अत्रांतःकरणादि परिणाम्युपादानभूताया अविद्याया ईश्वराश्रित मायया सहाभेदांगीकारे ईश्वरस्यैवांतःकरणादावुपादानत्वं वक्तुमुचितं | यदि जीव तादात्म्य प्रतिपत्यादिभिरुक्त हेतुभिः | जीवस्यैवांतःकरणादावुपादानत्वं वक्तव्यं तदांतःकरणादि परिणामि भूताविद्यायाः जीवाश्रितत्वमीश्वराश्रित मायायाः सकाशाद्भिन्नत्वं च वक्तव्यं कार्यात्मना परिणम्यमान प्रकृत्याश्रयत्वातिरिक्तस्य चैतन्यगतोपादानत्वस्याभावादतो मायाविद्ययोरभेदांगीकारो जीवस्यैवांतःकरणादावुपादानत्वांगीकारश्च परस्पर विरुद्ध इत्य स्वरसस्तदभेदवादीष्वपीत्यपि शब्देन सूचितः | ईश्वरस्यांतःकरणादावप्युपादानत्वमुपेत्यापि तस्य कार्यमात्रे उपादानत्वन्नास्तीति विशेषं वक्तुमतांतरमवतारयति | एतस्मादिति प्रकृतादीश्वरादित्यर्थः | प्रकृतित्वं षंचम्यर्थः | तु शब्दोवधारणार्थः | प्. ५८ब्) स्वप्नप्रपंचस्येत्यनंतरमुपादानमित्यनुषंगः किं कृत्स्नं ब्रह्मजगदाकारेण परिणमते एकदेशेन वा नाद्य इत्याह | तस्येति | यथा दध्याकारेण परिणतस्य क्षीरस्य पूर्वरूपात्प्रच्युतिः | एवं ब्रह्मणोपि स्वरूपात्प्रच्युतिः स्यादित्यर्थः | ब्रह्मण एकदेशः परिणमत इति द्वितीयकल्पं दूषयति | एकदेशेनेति | पूर्व || जीव एव स्वप्नद्रष्टृवत्स्वस्मिन्नीश्वरादि खर्व कल्पकत्वेन सर्वकारणमित्यपि केचित् | अथ मायां तु प्रकृतिं विंद्यादित्यादि श्रुतेर्माया जाड्यस्य घटादिष्वनुगमाच्च मायाजगदुपादानं प्रतीयते कथं ब्रह्मोपादानं | अत्राहुः पदार्थ तत्वनिर्णयकाराः ब्रह्ममाया चेत्युभयमुपादानमित्युभय श्रुत्युपपतिः | सता जाड्यरूपोभयधर्मानुगत्युपपतिश्च तत्र ब्रह्मविवर्तमानतयोपादानमविद्यापरिणममानतया ||
89 SK पक्ष इति | उभयथापि ब्रह्मण उपादानत्वं न संभवतीति पूर्वपक्षे प्राप्ते सतीत्यर्थः | यदि ब्रह्मण उपादानत्वं क्षीरपृथिव्यादिवत्परिणामित्वरूपमभ्युपगम्येत तदा कृत्स्न प्रसक्तादि दोषः प्रसज्येत न तु तथाभ्युपगम्यते किं तु रज्ज्वादेः सर्पाद्युपादानत्ववत् विवर्तोपादानत्वं ब्रह्मण प्. ५९अ) उपेयते अतो नोक्तदोषावकाश इति सिद्धांत एति | आत्मनि चेति | एकश्चकारो यथा शब्दसमानार्थः | द्वितीयोवधारणार्थः हि शब्दो हेत्वर्थस्ततश्च यथा आत्मनि जीवे स्वप्न द्रष्टरि विचित्राः रथादि सृष्टयो जीवचैतन्य स्वरूपोयमर्दे विनैव भवंति स्वप्नावस्थानिवृत्यनंतरमपि बुध्यादि साक्षितया जीवचैतन्यस्य यथा पूर्वमवस्थानात् | एवं ब्रह्मणि तत्स्वरूप प्रच्युतिं विनैव विचित्राः वियदादि सृष्टयः संभवंति | सृष्टिस्थितिसंहारेषु सच्चिदानंदस्वरूपेण ब्रह्मानुवृतेः श्रुतिसिद्धत्वादिति सूत्रादिति सूत्रार्थः | अथ शुद्धं ब्रह्मोपादानमित्यादि प्रश्ने तृतीयं पक्षमादाय प्रतिवचनमवतारयति | जीव इति | परिपूर्णश्चिदात्मा अविद्यया अवच्छेद प्रतिबिंब भावौ विनापि प्राप्त जीवभावः सन् | आत्मानमेव सर्वेश्वरं कल्पयति प्राप्तेश्वर भावात् | स्वस्मादेवगगनादि सृष्टिं कल्पयति स्वस्य कल्पितादीश्वराद्भेदं तन्नियमत्वं च कल्पयति | तथा क्रमेण मनुष्यादि भावं कल्पयति | यथा वियदादि प्रपंचो व्यावहारिक सत्यः स्वप्नप्रपंचः प्रातिभासिक इति पक्षे स्वप्नद्रष्टा जीव एव देवतिर्य᳚न्मनुष्यादि भावेन तन्नियंतृ परमेश्वर रूपेण ततो भिन्नत्वादि रूपेण चात्मानं कल्पयति तद्वत्तथा च स्वस्मिन्नेव सर्वप्रपंच कल्पकत्वाज्जीवभावापन्नं ब्रह्म सर्वोपादानमिति दृष्टि सृष्टि वादिन आहुरित्यर्थः | जीवभावापन्न ब्रह्मणः सर्वोपादानत्वमित्यस्मिन्पक्षे जीवादधिकस्येश्वरस्याभावादी || श्वरस्य सर्वजीवनियंतृत्व प्रतिपादक प्. ५९ब्) श्रुतिस्मृति न्यायसूत्र भाष्यादि विरोधो बंध मोक्षव्यवस्थानुपपतिश्चेति दोषं सूचयति | इत्यपि केचिदिति |
90 SK तथा च जीवेति व्याप्तभावादीश्वररूपमेव ब्रह्मसर्वोपादानमिति स्थितमिदानीं ब्रह्मलक्षणस्योपादानत्वस्या संभवमाशंकते | अथेति | श्रुतौ तु शब्दो मायायाः प्रकृतित्वमवधारयति | यथा मृदादि गतश्लक्ष्णत्वादेर्घटादावनुगमात् | घटादौ मृदादेरुपादानत्वं | तथा मायागत जाड्यस्य जगत्यनुगमातस्यास्तदुपादानत्वमिति युक्तिमप्याह | माया जाड्यस्येति | कथमिति | ननु ब्रह्मण उपादानत्वं बहुश्रुत्युदाहरणेन पूर्वं दर्शितं सत्यं दर्शितं | ततु न संभवति निरवयवस्य तस्य मृदादेरिव परिणाम्युपादानत्वा संभवान्न च विवर्तोपादानत्वं निरवयवस्यापि संभवति गगनादौ नैल्याद्यारोपदर्शनादिति वाच्यं | परिणामिष्विव विवर्ताधिष्टानेषु लोके उपादानत्व प्रसिध्यभावेन तत्रोपादानत्वाभ्युपगमस्य परिभाषामात्रत्वादित्याक्षेपाभिप्रायः उपादानत्व घटित ब्रह्मलक्षणस्यासंभवं प्. ६०अ) निराचष्टे | अत्राहुरित्यादिना | सतेति | न च वाधायोग्य स्वरूपभूतायास्तस्याः ब्रह्मस्वरूपत्वात्सतायास्तद्धर्मत्वोक्तिरयुक्तेति वाच्यं | राहोः शिर इति वत् भेदकल्पनयातद्धर्मत्व व्यवहारोपपतेरिति भावः | ननु उपादान द्वयंर्थमिति नेत्याह | तत्रेति | यद्वा निरवयवस्य ब्रह्मण उपादानत्वमनुपपन्नमिति नेत्याह | तत्रेति | माया ब्रह्मणोर्मध्य इत्यर्थः | आक्षेपाभिप्रायमनूद्यनिराचष्टे | न चेति | मृदादिषु प्रसिद्धस्योपादान लक्षणस्य विवर्ताधिष्ठानेष्वपि सत्वात् | तेषूपादानत्वाभ्युपगमस्य परिभाषा मात्रत्वन्नास्तीत्यर्थः | स्वात्मनीति | अत्र स्वशब्द उपादानत्वाभिमत वस्तु परः तथा च कार्या धारत्वे सति कार्यजनि हेतुत्वमुपादानत्वं निमितकारणवारणाय सत्यं तं भूतलादेरपि कार्या धारत्वेन तद्वारणाय विशेष्यं तत्रापीति | विवर्ताधिष्ठानेपीत्यर्थः | उक्तामेवेति | प्रपंचे उभयोरपि माया ब्रह्मणोरुपादानत्वं तत्र च न च विवर्ताधिष्टाने पारिभाषिकमुपादानत्वं स्वात्मनि कार्यजनि हेतुत्वस्योपादानलक्षणस्य ||
91 SK प्. ६०ब्) तत्राप्यविशेषादिति केचित् | उक्तामेव प्रक्रियामभ्युपगम्य विवर्त परिणामोपादान द्वय साधारणमन्यलक्षणमाहुः | स्वाभिन्नकार्यजनकत्वमुपादानत्वं अस्ति च प्रपंचस्य सद्रूपेण ब्रह्मणा विवर्तमानेन जडेनाज्ञानेन परिणामिना चाभेदः | सत् घटः जडो घट इति सामानाधिकरण्यानुभवात् || परिणामितया मायाया उपादानत्वं | अधिष्ठान तया च ब्रह्मण उपादानत्वं उभयोरुपादानत्वे श्रुति न्याययोरुपपत्तिश्चेत्यर्थः | स्वाभिन्नेति | स्वशब्देन घटाद्युपादान मृदादि जगत्परिणाम्युपादान भूतमज्ञानं जगत् | विवर्तोपादान भूतं ब्रह्म च गृहयते | तत्र घटादर्मृदादेस्सकाशादभेदः स्फुटः मृदेव घट इत्यनुभवात् | अज्ञाने ब्रह्मणि च कार्या भेदमनुभवेन दर्शयति | अस्ति चेति | ननु मृद्घट इतिवत् ब्रह्मघटः ब्रह्मपटः | इत्यनुभवो नास्ति तथा अज्ञानं घट इत्याद्यनुभवोपि नास्ति अतः प्रपंचस्याज्ञानेन ब्रह्मणा च कथम भेदोस्तीति शंकानिरासायब्रह्मणः | सद्रूपत्वं विशेषणं दत्तं अज्ञानस्य जडत्वं | तथा च ब्रह्माज्ञानाभ्यां सह ब्रह्मत्वाज्ञानत्वा कारेणाभेदानुभवाभवेपि सत्व जडत्व रूपेण ताभ्यां सह प्रपंचस्याभेदानुभवोस्तीत्याह | सन् घट इत्यादिना | ननु घटोत्पतेः पूर्वं तत्कारण द्रव्यस्य मृत्वानुभवात् मृत्वस्य कारणधर्मत्वे सिद्धे सति
92 SK प्. ६१अ) मृद्घट इति प्रत्यक्षानुभवः कार्यकारणद्रव्ययोरभेदावगाहीति युक्तं | सत्व जडत्वयोस्तु कारण धर्मत्वे किं मानं येन सन् घटः जडो घट इत्यनुभव बलेन सद्रूप जडरूपाभ्यां ब्रह्मा ज्ञानाभ्यां प्रपंचस्याभेदः सिद्धेदिति चेदुच्यते | ब्रह्मणः सद्रूपत्वं स देवेत्यादि श्रुति सिद्धं तदेतज्जडमोहात्मकमिति | श्रुत्या अज्ञानस्य जडत्वं सिद्धं | तथा च घटादौ मृद्द्रव्या भेदात् मृत्वानुभववत् | सद्वस्त्वादि रूपकारणद्रव्याभेदा देव प्रपंचे सत्व जडत्वानुभवोपपतौ पृथक् सत्वादि धर्मो नोपेयते | तथा च सन् घटो जडो घट इत्याद्यनुभवोपि कार्यकारणद्रव्या भेदावगाहीति || न च तदनन्यत्वमारंभणशब्दादिभ्य इति सूत्रे अनन्यत्वं व्यतिरेकेणाभावः न खलु अनन्यत्वमित्य भेदं ब्रूमः | किं तु भेदं व्यासेधाम इति भाष्यभामतीनिबंधाभ्यां प्रपंचस्य ब्रह्माभेद निषेधादभेदाभ्युपगमेपसिद्धांत इति वाच्यं | तयोर्ब्रह्मरूपधर्मि समानसताका भेदनिषेधे तात्पर्येणेदंरजतयोरिव प्रातीति का भेदाभ्युपगमेपि विरोधाभावादिति || भावः न च जडरूपाज्ञानस्य प्रपंचाभेद सिद्धावपि मायायाः किमायातमिति वाच्यं | तयोरभेदाभ्युपगमादिति
93 SK प्. ६१ब्) भावः कार्यकारणयोरभेदाभ्युपगमे अय सिद्धांतं शंकते न चेति | तयोः कार्यकारणयोरनन्यत्वमुपगंतव्यं कुतः आरंभण शब्दादिभ्यः वाचारंभण श्रुतिरारंभण शब्दार्थः | आत्मैवेदं सर्वमित्यादि सार्वात्म्य प्रतिपादक श्रुतिर्नेहनानास्ति किंचनेत्यादि | निषेध श्रुतिश्चादि शब्दार्थः वाचारंभण श्रुतिर्विवर्तलक्षण कथनावसरे व्याख्याता कार्यस्य कारणातत्वांतरत्वे जगत्कारणस्य ब्रह्मणः सर्वात्मकत्व श्रुतिरनुपपन्ना स्यात् | तथा ब्रह्मोपादानकस्य जगतः सत्यत्वे ब्रह्मणि जगन्निषेधो न स्यादतः कारणीभूत ब्रह्मानन्यत्वं प्रपंचस्याभ्युपगंतव्यमिति भावः | ननु सौत्रानन्यत्वपदेन कार्यकारणयोरेक्यं प्रतीयते | तदनुपपन्नं कार्यकारणभावविरोधाच्चिज्जडयोर्ब्रह्मप्रपंचयोरैक्यायोगाच्चेति शंकां निराकर्तुं सौत्रानन्यत्व पदं व्याचष्टे भाष्यकारः | अनन्यत्वं व्यतिरेकेणाभाव इति | न च कारण व्यतिरेकेण कार्यस्याभावे कथं कार्यकारणभाव इति वाच्यं | कारण सत्व व्यतिरेकेण कार्यसत्वाभावस्य विवक्षित तया कार्यस्वरूपापलापशंकानवकाशात् | सौत्रानन्यत्व पद तात्पर्य प्रदर्शकं भामतीनिबंधन वाक्यमुदाहरति | न खल्विति | अनन्यत्वमिति पदेन कार्यकारणयोरभेदं न ब्रूमः चेतनाचेतनयोरभेदानुपपतिस्तन्निषेध हेतुः खलु शब्देनद्योत्पते | तर्हि कारण ब्रह्मविज्ञानात्सर्वविज्ञानं श्रुति सिद्धं न भवेत् | अभेदानभ्युपगमादिति शंकतेः किंत्विति | परिहरति | भेदमिति | कार्यकारणयोः सत्व प्. ६२अ) भेदंव्यासेधाम इत्यर्थः | तथा च कारण ब्रह्मस्वरूपभूतं सत्वमेव कार्यस्य वास्तवं स्वरूपमिति | तस्मिन् विदिते तदऽव्यतिरिक्तं सर्वं तत्वतो विदितं भव ||
94 SK तीति नैकविज्ञानेन सर्वविज्ञान प्रतिज्ञा विरोधः | न च ब्रह्मस्वरूपज्ञानेन सर्व प्रपंचस्य वास्तव स्वरूपे विदितेपि तत्तदसाधारणरूपज्ञाना संभवात् प्रतिज्ञाविरोधस्तदवस्थ एवेति वाच्यं | आत्मनि विदिते सर्वं विदितं भवतीत्यादि प्रतिज्ञा वाक्येषु सर्वपदस्य सर्वतत्व परत्वेन तदसाधारणरूपेण सर्वज्ञानस्याविवक्षितत्वात् | न च तथा कल्पनायां किं विनिगमकमिति वाच्यं | सर्वप्रपंच तत्वज्ञानमात्रेणाद्वितीय ब्रह्मज्ञानस्य मुक्तिसाधनस्य लाभेन तत्तदसाधारणरूपज्ञाननैष्फल्यस्यैव विनिमकत्वात् कारणे ब्रह्मणि विदितेपि सर्वप्रपंच गततत्तद साधारणरूपज्ञानस्यासंभवेन सर्वविज्ञानश्रुतेस्तत्परत्वे प्रामाण्याभाव प्रसंगाच्च भेददर्शनस्यानर्थ हेतुतया श्रुतिषु तत्र तत्र निंदितत्वाच्च प्रतिज्ञा श्रुतेर्न नानारूपज्ञाने तात्पर्यं | प्. ६२ब्) तदुक्तं पंचदश्यां | अद्वैतेभिमुखी कर्तुमेवात्रैकस्य बोधतः सर्वबोधः श्रुतो नैव नानात्वस्य विवक्षयेति | अस्यार्थः | अत्र वेदांतेषु एकस्य ब्रह्मणो बोधेन सर्वस्य प्रपंचस्य बोधः अद्वैते ब्रह्मणि मुमुक्षुमभिमुखी कर्तुमेव मुमुक्षोरद्वितीय ब्रह्मबोधार्थमेव श्रुत इत्यर्थः | अद्वितीय ब्रह्मबोधश्च सर्वस्य ब्रह्मैव वास्तवं स्वरूपमिति ज्ञानमात्रात् सिध्यतीति भावः | ननु ब्रह्मणि विदिति सर्वं विदितं भवतीति श्रुतौ स्वरसतः प्रतीयमानं तत्तदसाधारणरूपेण सर्वज्ञानमेव श्रुत्यर्थः | किन्न स्यादिति नेत्याह | नैवेति | नानात्वबोध विवक्षया सर्व बोधोनैव श्रुत इति योजना प्रयोजनाभावात् | वाधितत्वान्निदि तत्वाच्चेति तयोरिति भाष्यभामतीनिबंधयोरित्यर्थः | न च प्रपंच ब्रह्मणोर्वास्तवाभेद निषेधे सति वास्तवभेदः स्यादिति वाच्यं | भेदस्य वास्तवत्वं हि धर्मि प्रतियोगिनो वास्तवत्वापेक्षं | तत्र ब्रह्मणो वास्तवत्वेपि प्रपंचस्य आरभण शब्दादिभ्यो मिथ्यात्वावगमेन तयोर्भेदस्य
95 SK प्. ६३अ) सत्यत्वायोगादिति भावः प्रातीतिकेति यथा इदं रजतमिति भ्रांति सिद्धं रजतेदमर्थयोरभिन्नत्वं | तथा सन् | घट इत्यादि भ्रांतिसिद्धाभेदोपगमे सिद्धांतविरोधाभावादिति भावः | मायां तु प्रकृतिं विद्यादिति श्रुत्या अवधारणार्थक तु शब्दवत्यामायाया एवोपादानत्वावगसंक्षेपशारीरककृतस्तु ब्रह्मैवोपादानं | कूटस्थस्य स्वतः कारणत्वानुपपत्तेर्मायाद्वारकारणं | अकारणमपि कार्येनुगच्छति मृद इव तद्गत श्लक्ष्णत्वादेरपि घटेनुगमदर्शनादित्याहुः || मेन ब्रह्मण उपादानत्वाभावादुपादानत्व घटित ब्रह्मलक्षणस्यासंभव शंकायां सत्यां माया ब्रह्मणो रुभयोरपि प्रकृतित्वमस्ति श्रुतियुक्त्योरविशेषान्मायांत्विति श्रुतौ तु शब्दोनावधारणार्थः | किं तु सद्रूप ब्रह्मापेक्षया मायाया वैलक्षण्यद्योतनार्थः | तच्च वैलक्षण्यं परिणामित्वरूपं प्रकृतित्वं मायाया इत्याशयवतां पदार्थ तत्वनिर्णयकारादीनां मतभेदेन लक्षणासंभवशकापरिहृता | इदानीं ब्रह्मैवोपादानं न माया अतो न लक्षणासंभवशंकावकाश इति मन्यमानानां मतद्वयमाह | संक्षेपशारीरक कृतस्त्वित्यादिना | तर्हि व्यर्था मायेति नेत्याह | कूटस्थस्येति |
96 SK प्. ६३ब्) यदि मायां विनैव ब्रह्मोपादानं स्यात् तदा ब्रह्मणः स्वतः परिणामित्वमेव स्यात् | तथा च परिणामवादिभिः | परिणाम परिणामिनोर्वास्तवाभेदाभ्युपगमात् | परिणामस्य जन्मादि विकारैर्ब्रह्मापि विकारवदेवस्यान्न चेष्टापतिरत्र वक्तुं शक्यते न जायत इत्यादि बहु श्रुतिषु ब्रह्मणो जन्मादि विकारराहित्यरूपकूटस्थत्व प्रतिपादन विरोधादतो मायाद्वारा ब्रह्मणः कारणत्वं वक्तव्यमिति न व्यर्थामायेत्यर्थः | यथा मृद्वस्तु न उपादानत्वेपि तद्गत श्लक्ष्णत्वादि संस्कारो द्वारकारणं नह्यसंस्कृतस्य मृद्वस्तुनः घटाद्युपादानत्वं घटते | तथा कूटस्थ चैतन्यरूपे ब्रह्मणि समारोपिता माया तत्र जगत्प्रकृतित्वं घटयंती सहकारिकारणमुपेयत इति भावः | न च मायाया उपादानत्वाभावे मायां तु प्रकृतिं विद्यादिति श्रुति विरोध इति वाच्यं | ब्रह्मगतप्रकृतित्व निर्वाहकता मात्रेण तस्यां प्रकृतित्व श्रुत्युपपतेर्मायायां प्रकृतित्वं निर्वाहकत्वमात्रं न स्वतः प्रकृतित्वमस्तीत्याशयेनैव तस्यां शक्तित्व व्यवहारः श्रुतौ दृश्यते | परास्य शक्तिर्विविधैव श्रूयत इति न हि मृदादि पदार्थगतशक्तेः किंचित्कार्यं प्रत्युपादानत्वं || वाचस्पति मिश्रास्तु जीवाश्रित माया विषयीकृतं ब्रह्मस्वत एव नाड्याश्रय प्रपंचाकारेण विवर्तमानतयोपादानमिति माया सहकारिमात्रं न कार्यानुगतं द्वारकारणमित्याहुः ||
97 SK प्. ६४अ) प्रसिद्धं लोके अत एव विनिगमकाभावान्माया ब्रह्मणोरुभयोरप्युपादानत्वमिति निरस्तं मायायाः ब्रह्मशक्तित्वेन स्वत उपादानत्वा संभवान्न च तस्याः प्रकृतित्वानुपगमे जगतः परिणाम्युपादानं न स्यात् ब्रह्मणः परिणामितायाः कूटस्थत्वविरोधेनासकृत्प्रत्युक्तत्वादिति वाच्यं वाचस्पति मत इव प्रपंचस्य चिदध्यस्तमाया विषयीकृत ब्रह्मविवर्तत्वमात्रांगीकारोपपतेः | न च संक्षेपशारीरक ग्रंथे तत्र तत्र मायायाः परिणामित्व व्यवहारविरोध इति वाच्यं | तथा व्यवहारस्य मतांतराभिप्रायत्वोपपतेः | ननु जडभूतमायाप्रकृतिकत्वाभावे प्रपंचस्य जाड्यं न स्यादिति नेत्याह | अकारणमपीति अनुपादानमपीत्यर्थः | जगत्यनुगतं जाड्यं न कारणगुणः किं तु जगत एव स्वाभाविकमतस्तत्सिद्धये मायाया उपादानत्वं कार्यानुगतद्वारकारणत्वं वा न कल्पनीयमित्याशयेनाह | वाचस्पति मिश्रास्त्विति | जीवाश्रीतेति | नन्वक्षरब्राह्मणे आकाशशब्दिताया मायायाः तनित्य चैतन्याश्रितत्वस्य प्रतिपादितत्वात् | कथं तस्याजीवाश्रीतत्वमुपेयते | मायिनं तु महेश्वरमिति श्रुति विरोधाच्च अत्र मायिनमि | अक्षरशब्दित्यनेन महेश्वर शब्दित ब्रह्माश्रितत्व प्रतिपादनात् | किं च जीवस्य मायाश्रयत्वे तस्यैव जगदुपादानत्वं स्यात्प्रपंचस्य मायापरिणामत्वात् | प्रपंच परिणामि मायाश्रयत्वं हि ब्रह्मणः प्रपंचोपादानत्वं जीवस्य मायाश्रयत्वे तु तस्यैव जागदुपादानत्वं स्यान्न ब्रह्मणः किं च जीवाश्रित मायाविषयी कृतं ब्रह्मेति
98 SK प्. ६४ब्) मते ब्रह्मण उपाध्यनंगीकारेण नियंतृत्व जगत्कर्तृत्वादेरभाव प्रसंगश्चेति चेत् | उच्यते जीवाश्रितेति पदेन जीवत्व विशिष्ट चैतन्याश्रीतत्वं विवक्षितं न भवति | किंत्वक्षर ब्राह्मणानुरोधेन चैतन्याश्रितत्वमेव जीवत्वं तु मायापद वेदनीया विद्यायाश्चैतन्ये वृतौ अवच्छेदकमिति जीवाश्रितमायेत्युच्यते | न च जीवत्वस्यापि चैतन्ये वृतौ मायैवावच्छेदका वाच्येति परस्पराश्रय प्रसंग इति वाच्यं | द्रव्यत्वगुणाश्रयत्वयोरिव परस्पर स्थिति प्रयोजकतया परस्परापेक्षत्व लक्षणपरस्पराश्रयत्वस्या दोषत्वात् | परस्पराश्रयो ह्युत्पतौ ज्ञप्तौ वा दोषो भवेत् | स च प्रकृते नास्ति अविद्या जीवत्वयोरनादित्वान्नित्यसाक्षिभास्यत्वाच्च | न च जीवत्वस्या विद्यास्थितिं प्रति तु नियामकत्व कल्पनं व्यर्थमिति वाच्यं | ब्रह्मणि तस्याः स्थिति निवारकत्वान्निरवद्यं निरंजनमिति श्रुत्या ब्रह्मणो निर्दोषत्वावगमेन तस्याविद्यारूपदोषा श्रयत्वानुपपतेः | न च वस्तुतो निर्दोषत्व पराश्रुतिरिति वाच्यं | तथा संकोचे मानाभावादीश्वररूपब्रह्मवज्जीवस्यापि वस्तुतो निर्दोषत्वाच्च | न च मायिनं तु महेश्वरमिति श्रुतिविरोधः | गृहीधनी देवदत्त
99 SK प्. ६५अ) इत्यादौ देवदत्तस्य ग्रहाद्याश्रयत्वाभावेपि प्रत्ययस्य स्वस्वामिभावलक्षणसंबंधांतारबोधकत्ववत् | महेश्वरशब्दित ब्रह्मणो मायाश्रयत्वाभावेपि माया ब्रह्मणोर्विषयविषयिभाव लक्षणसंबंधांतर बोधकतयामायिनमिति श्रुत्युपपत्तेः | प्रपंचस्य च जीवाश्रित मायाविषयीकृत ब्रह्मविवर्तत्व मात्राभ्युपगमान्न जीवस्य जगदुपादानत्व प्रसंगः ब्रह्मण उपाध्यभावेपि सर्वनियंतृत्व सर्वज्ञत्वादि प्रतिपादक शास्त्रस्य कसत्वाच्च | तस्मात् सिद्धं जीवाश्रितमायाविषयीकृतं ब्रह्मप्रपंचाकारेण विवर्तमानतया उपादानमिति | उक्तं वाचारंभणाधिकरणभाष्ये मूलकारणमेवांत्यत्कार्या तेन कार्या कारेण नटवत्सर्व व्यवहारास्पदत्वं प्रतिपद्यत इति | अंत्यात्कार्यादिति | अंत्यकार्यपर्यंतमित्यर्थः | नटो हि द्रष्टृभिरविज्ञात निजरूप एव ततदभिनेया सत्यरूपतां प्रतिपद्यते | एवं जीवैरविज्ञात तत्वं सद्ब्रह्मा सत्यविपदादि प्रपंचाकारतां तट्टाराव्यवहारविषयतां च प्रतिपाद्यत प्. ६५ब्) इति भाष्यार्थः | अत्र नटदृष्टांतोक्त्या वाचस्पति मतं भाष्याभिमतं निश्रीयते | तदुक्तं कल्पतरौ | अज्ञात नटवत् ब्रह्मकारणं शंकरो ब्रवीत् | जीवाज्ञातं जगद्बीजं जगौ वाचस्पतिस्तथेति | सिद्धांतमुक्तावली कृतस्तु मायाशक्तिरेवोपादानं न ब्रह्मतदेत ब्रह्मापूर्वमनपरं अबाह्यं न तस्य कार्यं करणं च विद्यते इत्यादि श्रुतेः | जगदुपादान मायाधिष्टानत्वेन तूपचारादुपादानं | तादृशमेवोपादानत्वं लक्षणे विवक्षितमित्याहुः | अथक ईश्वरः को वा जीवः अत्रोक्तं प्रकटार्थकारविवरणे अनादिरनिर्वाच्याभूत प्रकृतिश्चिन्मात्रसंबंधिनी माया तस्यांचित्प्रतिबिंब ईश्वरः तस्या एव परिछिन्नानंत प्रदेशेष्वावरणविक्षेप शक्तिमदविद्याभिधानेषु चित्प्रतिविंवो जीव इति ||
100 SK इदानीं मायाया एव मायां तु प्रकृतिं विद्यादिति श्रुति स्वारस्यानुरोधेन मुख्यमुपादानत्वमिति स्वीकृत्यापि ब्रह्मलक्षणासंभवं परिहरति | सिद्धांतमुक्तावलीकृतस्त्विति | तत्प्रकृतं | एतद्बुध्यादि साक्षिरूपं पूर्वं कारणं न विद्यते यस्य तदपूर्वं अपरं कार्यं न विद्यते यस्य तदनपरं तस्य ब्रह्मणः कार्यं प्. ६६अ) करणं च जगत्सृष्टिसाधनं चेत्यर्थः | इत्यादि श्रुतेर्न ब्रह्मोपादानमित्यर्थः | तर्हि ब्रह्मणो जगदुपादानत्व प्रतिपादक श्रुतिसूत्रभाष्यादि विरोध इत्यत आह | जगदिति | तु शब्दोवधारणे | तु शब्दोवधारणे | तादृशमेवेति | जगदुपादान मायाधिष्टानत्वमित्यर्थः | पूर्वत्र ईश्वरस्य जगदुपादानत्व मुक्तं | जीवाश्रित मायेत्यादौ जीवोपि व्यवहृत | इदानीं तयोः स्वरूपं निरूपयितुं प्रश्नुमवतारयति | अथेति | मायां तु प्रकृतिमिति श्रुतौ या भूत प्रकृतित्वेन माया प्रसिद्धा तस्यां चैतन्य प्रतिबिंब ईश्वरः | ननु मायिनं तुं महेश्वरमिति वाक्यशेषे मायाया ईश्वराश्रितत्व प्रतिपादनादीश्वरस्य माया प्रतिबिंबत्वं न संभवति उपाधेः प्रतिबिंबाश्रितत्वादर्शनादिति शंकां निराचष्टे | चिन्मात्राश्रितेत्यर्थः | मात्रपदेन बिंबत्वादेर्व्यवच्छेदः | वाक्यशेषेपि महेश्वर पदं चिन्मात्रलक्षकमिति भावः | सांख्याभिमत प्रकृतेरिव मायायाः सत्यत्वं वारयति | अनिर्वाच्येति | माया तावद्ब्रह्मचैतन्यान्न वस्तुतोभिन्ना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्व प्रतिपादक श्रुतिविरोधेन वस्तुतः | तस्यास्ततो भेदासंभवात् | नाप्यभिन्ना चैतन्य जडयोरैक्या योगात् | नापि चैतन्याद्भिन्नाभिन्ना एकन्न भिन्नत्वाभिन्नत्वयोर्विरोधेना संभवात् | एवं न तावन्मा || या सती अद्वैत श्रुतिविरोधादेवनाप्यसतीभूतप्रकृतित्वानुपपतेः | नापि सदसती सत्वा सत्वयोरेकत्र विरोधादेव न तावन्माया
101 SK प्. ६६ब्) सावयवा तस्यास्सादित्व प्रसंगेन तत्प्रतिबिंबभूतेश्वरस्यापि सादित्व प्रसंगात् मायायाः सादित्वे तत्प्रकृतित्वेन मायांतरा पेक्षया अनवस्था प्रसंगाच्च | नापि निरवयवा प्रकृतित्वा भावप्रसंगात्सावयवपदार्थानामेव लोके प्रकृतित्व दर्शनात् | नाप्युभयरूपासावयवत्व निरवयवत्वयोरेकत्र विरोधात् | तस्मात् सर्वप्रकारेण निर्वक्तुमशक्य तया माया अनिर्वाच्येत्यर्थः | तस्याः परिच्छिन्नानंत प्रदेशेषु चैतन्य प्रतिबिंबो जीवः | न साक्षातस्यामेव चित्प्रतिबिंबो जीव इत्येव कारार्थः | प्रदेशानां परिच्छिन्नत्व विशेषणं तत्प्रतिबिंबरूपजीवानां परिच्छिन्नत्वलाभार्थं | तथा च भाष्ये तत्र तत्र जीवानां परिच्छिन्नत्व निरूपणं संगच्छते | तथाहि | सर्वत्र प्रसिद्धोपदेशादित्यधिकरणे सौत्रशारीरपदव्याख्यानरूपं भाष्यं शारीर इति शरीरे भव इत्यर्थः | नन्वीश्वरोपि शरीरे भवति सत्यं शरीरे भवति न तु शरीर एव भवति | आकाशवत्सर्वगतश्च नित्य इति व्यापित्व श्रवणात् | जीवस्तु शरीरे एव भवति तस्य प्. ६७अ) भोगाधिष्ठानाच्छरीरादन्यत्र वृत्यभावादिति तथाद्युभाद्यधिकरणगतं भाष्यं न चोपाधिपरिछिन्नस्याविभोः प्राणभृतोद्युभ्वाद्यायतनत्वं सम्यक् संभवतीति प्राणभृतो जीवस्य द्युभ्वादि शब्दित जगदायतनत्वं मुख्यं न संभवति | अविभुत्वादिति भाष्यार्थः | पटस्यारंभकतं तव इव मायाया न प्रदेशाः संति तस्या अनादि त्वात् | किं तु मायायां विक्षेपावरण शक्तीनामानंत्याद्विक्षेपावरणशक्तिमद्भागा एव प्रदेशा विवक्षिता इत्याशयेनाह | आवरणविक्षेप शक्तिमदिति |
102 SK ब्रह्मचैतन्यावरणानुकूलाशक्तिरावरणशक्तिः | आवरणं च ब्रह्म नास्ति न प्रकाशत इति व्यवहारयोग्यत्वं | विक्षेप पदेन ततज्जीवसाधरणदुःखादिकं विवक्षितं तदनुकूलशक्तिर्वेक्षेपशक्तिरित्यर्थः | ननु माया प्रदेशानां जीवोपाधित्ववर्णनमनुपपन्नं | आनुमानिकाधिकरणभाष्यादौ अविद्याया जीवोपाधित्व व्यवहारविरोध प्रसंगादत आह | अविद्याभिधानेष्विति || प्. ६७ब्) माया प्रदेशानामेव भाष्यगता विद्यापदाभिलुप्यत्वान्न तद्विरोध इति भावः | तत्वविवेके तु त्रिगुणात्मिकाया मूलप्रकृतेर्जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुतिसिद्धौ द्वौ रूपभेदौ रजस्तमो नभिभूतशुद्धसत्वप्रधाना माया तदभिभूतमलिन सत्वात्व विद्व्येति मायाविद्याभेदं परिकल्प्य माया प्रतिबिंब ईश्वरो विद्याप्रतिबिंबो जीव इत्युक्तं | एकैव मूल प्रकृतिर्विक्षेप प्राधान्येन मायाशब्दितेश्वरोपाधिः | आवरणप्राधान्येनाविद्याज्ञानशब्दिता जीवोपाधिः | अत एव तस्या जीवेश्वर साधारण चिन्मात्र संबंधित्वेपि जीवस्यैवाज्ञोष्णीत्यज्ञानसंबंधानुभवो | नेश्वरस्येति | जीवेश्वर विभागः क्वचिदुपपादितः || एकस्यामेव मूलप्रकृतौ प्रदेश प्रदेशि भावेनानिर्वचनीयं भेदं कल्पयित्वा जीवेश्वरयोः प्रतिबिंबरूपत्वमुक्तं | इदनींतस्यामेव प्रकारांतरेण रूपभेदं कल्पयित्वा तदुपपादयति | तत्वविवेकेत्विति | भेदकल्पना वैलक्षण्य द्योतनार्थस्तु शब्दः रूपभेदावितिस्त इति शेषः | रजस्तमोनभिभूतत्वमेव सत्वस्य शुद्धत्वं | शुद्धसत्व प्रधानाप्रकृतिर्माया | मलिनसत्व
103 SK प्. ६८अ) प्रधानाप्रकृतिरविद्येत्यर्थः | रजस्तमोभिभूतत्वमेव सत्वस्य मलिनत्वं | सत्व शुद्ध्यशुद्धिभ्यां मायात्वाविद्यात्वाख्यौ श्रुत्युक्त रूपभेदौ निरूप्यविक्षेपावरणशक्तिभेदेन श्रुत्युक्तरूपभेदावेव निरूपयति | एकैवेति | अत एवेति | जीवस्यावरण शक्तिमदुपाधिमत्वादेवेत्यर्थः | तस्या इति जीवेश्वरोपाधिभूताया प्रकृतेः प्रतिबिंबरूपजीवेश्वर साधारणबिंब चैतन्याश्रितत्वेपीत्यर्थः | नेश्वरस्येति | अत्रापि अत एवेत्यस्यानुषंगः | आवरणशक्तरीश्वरोपाधिकोटावननुप्रवेशादेवेति तदर्थः | तथा च जीवेश्वरौ प्रति प्रकृतेः साधारणत्वादेकस्य सर्वज्ञत्वमपरस्याज्ञत्वमिति यद्वैलक्षण्यं श्रुत्यनुभवसिद्धं तत्कथं संभवतीति शंकाया अनवकाश इति भावः | मतांतरमाह | संक्षेपेति | श्रुतौ कारणपदमविद्यापरं कार्यपदमंतःकरणपरमिति मत्वा प्राह | अविद्यायामित्यादिना | ननु जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुति विरोधः तस्यां श्रुतौ जीवस्य कारणोपाधिकत्व प्रतीतेरिति चेदुच्यते | जीवेशावाभासेन करोतीति | पूर्वभागेन हि जीवेश्वरयोरुभयोपि प्रति संक्षेप शारिरके तु कार्य्यौपाधिरयं जीवः कारणोपाधिरीश्वर इति श्रुति मनुसृत्याविद्यायां चित्प्रतिबिंब ईश्वरः अंतःकरणे चित्प्रतिबिंबो जीवः | न चांतःकरणरूपेण द्रव्येण घटेनाकाशस्येव चैतन्यस्यावछेदसंभवातदवछिन्नमेवे प्. ६८ब्) चैतन्यं जीवोस्त्विति वाच्यं | इह परत्र च जीव भावेनावछेद्य चैतन्य प्रदेशस्य भेदेन कृतहानाकृताभ्यागम प्रसंगात् | प्रतिबिंबस्तूपाधेर्गतागतयोरवछेदकगतागतयोरवछेद्यवन्न- भिद्यत इति प्रतिबिंब पक्षेनायं दोष इत्युक्तं ||
104 SK बिंबभावः प्रतीयते | न च बिंबैक्यस्थले उपाधिभेदं विना प्रतिबिंबभेदः संभवति सूर्यादि प्रतिबिंबस्थले उपाधिभेदं विना प्रतिबिंबभेदादर्शना | तथा चोदाहृत श्रुतौ प्रतिबिंबरूपयोर्जीवेशयोर्यथाक्रमं मायाविद्यापदाभ्यामुपाधीसमर्थो ते मायापदं चात्र मायाकार्यांतःकरणपरं | न चैवं मूलाप्रकृतिं प्रकृत्यप्रवृतायां जीवेशाविति श्रुतौ माया चाविद्या च स्वयमेव भवतीति वाक्येन मायाविद्ययोरुभयोरपि मूलप्रकृत्यभेदोपपादनविरोध इति वाच्यं | मूलप्रकृत्यविद्ययोरिव मायाशब्दितांतःकरण मूलप्रकृत्योर्मुख्याभेदाभावेपि प्रकृतिविकारभावप्रयुक्ता भेदसत्वेन तावता माया चाविद्या च स्वयमेव भवतीति वाक्यशेषोपपतेरिति भावः | न चाविद्यावछिन्न चैतन्नमेवेश्वरोस्तु तथांतःकरणावछिन्न चैतन्यमेव जीवोस्तु | अविद्यांतःकरणाधिष्ठान चैतन्ययोः तदवछिन्नत्वस्य कॢप्तत्वान्तदतिरिक्त प्रतिबिंबकल्पनायां गौरवाच्चेत्याशयेन शंकते | न चेति | न तु प्रतिबिंबचैतन्यमित्येव प्. ६९अ) कारार्थः | जीवग्रहणमीश्वरस्याप्युपलक्षणं | जीवेश्वरयोः प्रतिबिंबतायाः श्रुतिसिद्धत्वान्न कल्पनागौरवदोषोस्तीत्यभिप्रेत्यजीवस्यावच्छिन्नत्व पक्षे दोषमाह | इहेति अस्मिन् लोके ब्राह्मणादि शरीरगतांतःकरणावच्छिन्नचैतन्य प्रदेशस्य कर्मकर्तृत्वात् | लोकांतरे देवादि शरीरगतांतःकरणावच्छिन्न चैतन्य प्रदेशस्य चाकर्तुर्भोक्तृत्वात् | कृत् हानादि प्रसंगः | येन कर्मकृतं न तस्य भोगः येन कर्म न कृतं तस्याकृत कर्मफलाभ्यागम इत्यर्थः | न च ब्राह्मणादि शरीरगतस्यैवांतःकरणस्य लोकांतरे गमनाभ्युपगमातदवच्छिन्न चैतन्य प्रदेशस्यैव तत्रापि गमनमस्त्विति वाच्यं | घटस्य देशांतरगमनेपि तदवच्छिन्नाकाशप्रदेशस्य गमनादर्शनादिति भावः | प्रतिबिंबस्यावच्छेद्यचैतन्यापेक्षया वैलक्षण्य द्योतनार्थस्तु शब्दः | गतागतयोरिति |
105 SK गमनागमनयोः सतोरपि अवच्छेद्य प्रदेशवन्नभिद्यत इत्यर्थः | सूर्यादि प्रतिबिंबवति जलपूर्ण घटादौ देशांतरे नीयमानेपि प्रतिबिंब भेदादर्शनादिति भावः || एवमुक्तेष्वेतेषु जीवेश्वरयोः प्रतिबिंबविशेषत्व पक्षेषु यत् बिंबस्थानीयं ब्रह्म तन्मुक्त प्राप्यंशुद्धचैतन्यं चित्रदीपे जीव ईशोविशुद्धाचिदिति त्रैविध्य प्रक्रियां विहाय | यथा घटावच्छिन्नाकाशो घटाकाशस्तदाश्रिते जले प्. ६९ब्) प्रतिबिंबितः साभ्रनक्षत्रोजलाकाशः | अनवच्छिन्नो महाकाशः | महाकाशमध्यवर्तिनिमेघमंडले वृष्टिलक्षणकार्यानुमेयेषु जलरूपतदवयवेषु तुषाराकारेषु प्रतिबिंबितो मेघाकाश इति वस्तुत एकस्याकाशस्य चातुर्विध्यं || ननु चंद्रादि प्रतिबिंबवतां जलपात्राणां मध्ये एकस्य नाशे तद्गत तया प्रतीतस्य प्रतिबिंबस्य बिंबैनैकीभावः प्रत्यक्षेणानुभूयलेन तथा प्रतिबिंबांतरेण एवं प्रतिबिंबरूपजीवस्यापि विदेह कैवल्य समये बिंबभूतशुद्धब्रह्मभाव एवस्यान्न तु प्रतिबिंबेश्वर भावापतिर्दृष्टविरोधादित्याशंकामिष्टापत्यापरिहरति | एवमुक्तेष्विति | बिंबस्थानीयमिति | लोकप्रसिद्धचंद्रादि रूपबिंबस्थानीयमित्यर्थः | ननु बिंबत्वविशिष्टचैतन्यं कथं शुद्धमिति चेन्न शुद्धपदेन सर्वज्ञत्व सर्वकर्तृत्वादि धर्मराहित्यस्य विवक्षितत्वादिति चित्रदीपे च त्रैविध्य प्रक्रियां विहाय चैतन्यस्य चातुर्विध्यं परिकल्प्य जीवेश्वर विभागो दर्शित इति संबंधः | तथा च चित्रदीपवचनं | कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधा घटाकाश महाकाशौ | जलाकाशाभ्रखे यथेति | एतत् श्लोके पात दृष्टांत भागं संगृह्णाति | यथेत्यादिना | मदाश्रित इति | घटांतःस्थाकाशाश्रित इत्यर्थः अभ्रनक्षत्र साहित्य विशेषणं | आकाशस्य जले प्रतिबिंबाभावे शंका निरासार्थं |
106 SK प्. ७०अ) इत्थं च तन्निरासप्रकारो विवक्षितः | यदा जलेभ्रनक्षत्राणां प्रतिबिंबोनुभूयते | तदातैस्सहाकाश प्रतिबिंबोप्यनुभूयत एवेति नाकाश प्रतिबिंबाभावशंकावकाश इति | अनवच्छिन्न इति | घटानवच्छिन्न इत्यर्थः | मेघमंडले ये जलरूपास्तदवयवास्तेषु प्रतिबिंबित इति संबंधः तछब्दो मेघमंडलपरः मेघमंडले जलानि संति चेत्कुतो नोपलभ्येत इत्याशंका न कार्या तेषां तुषारवत् सूक्ष्मरूपत्वादित्याशयेनाह | तुषारेति तत्र जल सत्वे मानमाह | वृष्टिलक्षणेति | श्लोको पातदार्ष्टांतिकभागं संगृह्णाति | तथेति | सूक्ष्मेति घ्राणरस न चक्षुश्रोत्रत्व || तथा स्थूलसूक्ष्म देहद्वयस्याधिष्ठानतया विवर्तमानं तदवछिन्नं चैतन्यं कूटवन्निर्विकारत्वेन स्थितं कूटस्थं | तत्र कल्पितेंतष्करणे प्रतिबिंबितं चैतन्यं संसारयोगी जीवः | अनवछिन्नं चैतन्यं ब्रह्म तदाश्रित मायातमसि स्थितासु सर्वप्राणिनांधीवासनासु प्रतिबिंबितं चैतन्यमीश्वर इति चैतन्यस्य चातुर्विध्यं परिकल्प्यांतःकरणधीवासनोपरक्ता ज्ञानोपाधिभेदेन जीवेश्वरविभागो दर्शितः | अयं चापरस्तदभिहितो विशेषः ||
107 SK प्. ७०ब्) गाख्यानि पंचज्ञानेंद्रियाणि वाक्पाणिपादपायूपस्थाख्यानि पंचकर्मेंद्रियाणि प्राणापानादयः पंचवायवः मनोबुद्धिश्चेत्यंतःकरणं द्विविधमाहृत्य सप्तदशकं लिंगशरीरं दार्ष्टांतिके घटस्थानीय सूक्ष्मदेह शब्दार्थः देह द्वयावच्छिन्न चैतन्यं घटाकाशस्थानीयं कूटस्थ शब्दाअर्थः चैतन्यस्य देहद्वयावच्छिन्नत्वे हेतुरधिष्ठानतया वर्तमानत्वं काष्टविशेषलग्नायः पिंडविशेषः कूटशब्दार्थः तद्वदचलतया तिष्ठतीति कूटस्थः | तत्र कूटस्थे कल्पितं घटगतजलस्थानीयं यदतःकरणं तस्मि व्यतिबिंबित्यर्थः | कूटस्थ चैतन्यातिरिक्त चिदाभासकल्पनायाः प्रयोजनमाह | संसारेति | कूटस्थ चैतन्यस्य न संसाराश्रयत्वं तस्य जन्ममरणादिलक्षणसंसाराश्रयत्वे कूटस्थत्वव्याघातादिति भावः | महाकाशस्थानीय ब्रह्माश्रिते मेघमंडलस्थानीये मायाख्य तमसि स्थितायाधीवासनास्तासु प्रतिबिंबितमित्यर्थः | जाग्रत्स्वप्नावस्थाद्वयगतानि स्थूलांतःकरणानिधि यः तासां सुषुप्त्यवस्थागताः सूक्ष्मावस्थाः वासना विवक्षिताः | अंतःकरणेति अंतःकरण च धीचासनोपरक्ता ज्ञानं च ते एवोपाधीतयोर्भेदेनेत्यर्थः | धीवासनानामानंत्यातासु प्रतिबिंबचैतन्यरूपेश्वरस्य नानात्वशंकाव्यावृत्यर्थं वासनोपरक्ता ज्ञानोपाधिकत्वमुक्तं | पूर्वमतेषु बिंबप्रतिबिंबयोर्भेदमात्रं कल्पितं स्वतस्तयोरभेद एवेतीममर्थं सिद्धं कृत्वा अस्मिन्मते ततो विशेषमाह | अयं चेति | अस्मिन्मते पूर्वं चिच्चातुर्विध्यलक्षणं एकोविशेषः उक्तः | तदपेक्षया अपरः अन्यः प्. ७१अ) प्रतिबिंबमिथ्यात्वरूपो विशेषस्तदभिहितः तत्र चित्रदीपे अभिहित इत्यर्थः ||
108 SK चतुर्विधेष्वेषु चैतन्येषु जीवोहमिति प्रकाशमानः कूटस्थे विद्या तिरोहिता संगानंदरूपविशेषांशे | शुक्तौरूप्यवदध्यस्तः अत एवेदंत्व रजतत्वयोरिवाधिष्ठान सामान्यांशाध्यस्त विशेषांशरूपयोः | स्वयं त्वाहं त्वयोः सह प्रकाशः स्वयमहंकरोमीत्याहौ | अहं त्वं ह्यध्यस्त विशेषांशरूपं पुरुषांतरस्य पुरुषांतरे व्यवहाराभावेन व्यावृतत्वात् | स्वयं त्वं चान्यत्व प्रतियोग्यधिष्ठान सामान्यांशरूपं स्वयं देवदत्तो गच्छतीति पुरुषांतरेपि व्यवहारेणानुवृतत्वात् || अपरं विशेषमेव दर्शयति | चतुर्विधेष्विति | अहमिति प्रकाशमानो जीवः शुक्तौ रूप्यवदध्यस्त इति संबंधः | नन्विदंत्वेन सामान्यरूपेण ज्ञाते शुक्तित्वादि विशेषरूपेणाज्ञाते शुक्त्यादौ रूप्याद्यध्यासो दृष्टः इह तु तथा सामान्यरूपेण ज्ञातं विशेषरूपेण चाज्ञातं किंचिदधिष्ठानं च नोपलभ्यत इत्याशंक्याह | कूटस्थ इति | नन्वविद्यया कूटस्थस्यासंगत्वानंदत्व पूर्णत्वादि विशेषांशस्यावृततया शुक्तित्वादि वद प्रतीतावपि शुक्तेरिदंत्वेनेव प्. ७१ब्) कूटस्थस्य केनचित् सामान्येन रूपेण प्रकाशो न दृश्यते | किं च इदं रजतमित्यत्राधिष्टान सामान्यांशस्यारोप्यविशेषस्य च सह प्रकाशो दृश्यते | प्रकृते तु अहमर्थरूपो विशेष एवाहमिति | प्रकाशते न तु सामान्यांशः कश्चिदतोहमर्थस्य रूप्यवदध्यस्तत्वकल्पनं न युक्तमित्याशंक्याह | अत एवेति | अहमर्थस्य कूटस्थे ध्यस्तत्व कल्पनादेवेत्यर्थः | स्वयं त्वाहं त्वयोरिति |
109 SK कूटस्थस्य हि स्वयं त्वं सामान्यरूपं न कूटस्थ त्वं तस्य शास्त्रैक गम्यत्वात् | स्वयं त्वं च कूटस्थस्याहमर्थारोपकाले तेन सह प्रकाशते तत्पूर्वकालेपि स्वयं त्वस्य भानमविरुद्धं तस्य नित्यचैतन्यात्मक कूटस्थ स्वरूपत्वाभ्युपगमात् स्वयं त्वकूटस्थ चैतन्ययोः राहोः शिरः पुरुषस्य चैतन्यमिति वद्भेदकल्पनयाधर्मधार्मीभावोपपतेश्चातः कूटस्थस्य स्वयं त्वेन सामान्यरूपेण सदा प्रकाशसत्वादहमर्थरूपचिदाभासाध्यासाधिष्टानत्वमविरुद्धमिति भावः | अहमर्थस्य रूप्यवद्विशेषरूपत्वं दर्शयति | अहं त्वंहीति | अहमर्थ इत्यर्थः | अध्यविशेषांशारूपमिति | शुक्त्यादावध्यस्तो यो विशेषांशो रूप्यादिस्तद्रूपं तत्सदृशमित्यर्थः | सादृश्यं च व्यावृत्तत्वं व्यावृतत्वादिति व्यावृतत्वावगमादित्यर्थः | तेन न हेतु साध्ययोरभेदः व्यावृतत्वावगमे हेतुर्व्यवहाराभावः | स्वयं त्वस्य इदं त्ववत्सामान्यरूउपत्वं दर्शयति | स्वयं त्वं चेति | स्वयमन्य इति लोकव्यवहारे स्वयं त्वमन्यत्व प्रतिद्धंद्धितया प्रसिद्धमिति दर्शयितुमन्यप्रतियोगीति स्वयं त्वस्य विशेषणमिति | तदुक्तं | चित्रदीपे देवदतः स्वयं गच्छेत्वं वीक्षस्व प्. ७२अ) स्वयं तथा | अहं स्वयं न शक्नोमीत्येवं लोके प्रयुज्यत इति || एवं परस्पराध्यासादेव कूटस्थ जीवयोरविवेको लौकिकानां विवेकस्तु तयोर्वृहदारण्यके प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थायतान्येवानुविनश्यतीति जीवाभिप्रायेण मायोपाधिविनाशानुविनाश प्रतिपादनेनाविनाशी वा अरेयमात्मेति कूटस्थाभिप्रायेणाविनाशप्रतिपादनेन च स्पष्टः अहमर्थस्य जीवस्य विनाशित्वे कथमविनाशि ब्रह्मा भेदः ||
110 SK ननु स्वयमहमिति प्रकाशमानयोः कूटस्थ जीवयोः शुक्ति रजतयोरिव भेदस्वत्वे सर्वेषां कुतो भेदोनोपलभ्यते तत्राह | एवमिति अहमर्थ जीवस्य शुक्तौ रूप्यवत् कूटस्थाध्यस्तत्वे सतीत्यर्थः | परस्परेति | तयोरभेदाध्यासादेवाविवेकः विवेकाभावोभेदानुभवा भाव इत्यर्थः | ननु इदं रजतमिति भ्रमस्थले शुक्तिरियंमिति विशेष दर्शनेन इदं रजतमिति प्रतीतयोः सामान्यविशेषपदार्थयोः शुक्तित्व रजतत्व रूपविरुद्धधर्मवत्व निश्चया तयोर्भेद उपेयते | इह तु जीव कूठस्थयोः कथं भेदोवगंतव्यः | तदभावे हि स्वयमहमिति सामान्यविशेषभावेन प्रकाशमानयोस्सत्यरजतस्थले रजतेदमर्थयोरिववस्तुत ऐक्यापत्या
111 SK प्. ७२ब्) अहमर्थरूपजीवस्य स्वयं शब्दार्थभूतकूटस्थे कल्पितत्वासिद्धेरित्याशंक्य श्रुत्यातयोर्भेर्ददर्शयति | विवेकस्त्विति तु शब्दः शंका व्यावृत्यर्थः | विवेकोभेदानुभवः एतेभ्यः सन्निहितेभ्यः देहादि संघातरूपेण तेभ्यः उपाधिरूपेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय उपाधिरूप बुद्ध्याद्युत्पत्या उत्पतिं प्राप्येत्यर्थः | तान्युपापि भूतानि बुध्यादीनि तत्वज्ञानेन विनश्यंति तदा तान्यनुविनश्यतीति श्रुत्या औपाधिकस्यात्मनो विनाशित्वं प्रतिपाद्यते तच्चांतःकरण प्रतिबिंबरूपस्य उपाध्याय तस्य जीवस्य मिथ्यात्वे सति संभवति औपाधिक जीवस्य सत्यत्वे तु तस्य विनाशित्व प्रतिपादक वचनं न संगच्छेत तथा अयं प्रज्ञान घन आत्मा अरे मैत्रेपि अविनाशी वा अविनाश्येव न तु उपाधिनाशान्नश्यतीति कूटस्थ चैतन्यस्य श्रुत्यानाशाभावः प्रतिपाद्यते | एतदुक्तं भवति अयमात्मा प्रज्ञान घन एवेतेभ्यो भूतेभ्यस्समुत्थायेत्यादि शुत्याचिदेक रस आत्मैव उपाध्युत्पति मनूत्पद्यते | तन्नाशमनु नश्यतीत्युपाध्युत्पति विनाशव्यतिरेकेण उत्पति विनाशौ न चिदात्मनः प्रतिपाद्ये ते अनुविनश्यतीत्यनुशब्दप्रयोगात् | न च तस्य स्वतो विनाशादिमत्वं संभवति अविनाशी वा अरे यमात्मेति वाक्येन विज्ञान घनात्मनो विनाशाभावप्रतिपादनविरोधातश्चिदात्मन उत्पति विनाशवता प्रतिबिंबचैतन्यरूपजीवेन तादात्म्यमादाय विनाशादि वचनमुपपादनीयं ततश्च भ्रमस्थलीयरजतेदमर्थयोरिवात्रापि विनाशित्वा विनाशित्व प्. ७३अ) रूपविरुद्धधर्मवत्व निश्चयादेव जीवकूटस्थयोर्भेदः स्पष्टं भासत इत्यतः कूटस्थ चैतजीवरूपाहमर्थस्याध्यास सिद्धिरिति उदाहृत श्रुत्या प्रतिबिंबजीवस्य विनाशित्वोपगमे श्रुत्यंतरविरोधमाशंकते | अहमर्थेति | अभेद इत्यनंतरमहं ब्रह्मास्मीति वाक्येन प्रतिपायत इति शेषः | विनाश्य विनाशिनोरभेदा योगादिति भावः ||
112 SK नेदमभेदे सामानाधिकरण्यं किं तु बाधायां यथायः स्थाणुरेष पुमानिति पुरुषत्व बोधेन स्थाणुत्व बुद्धिर्निवर्त्यते | एवमहं ब्रह्मास्मीति कूटस्थ ब्रह्मरूपत्व बोधेनाध्यस्ताहमर्थरूपत्वं निवर्त्यते | योयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिवब्रह्मास्मीति धियाशेषा ह्यहं बुद्धिर्निवर्त्यत इति नैष्कर्म्य सिद्धिवचनात् परिहरति | नेदमिति | सोयमित्यादि सामानाधिकरण वाक्यस्य यथा अभेदो वाक्यार्थो दृश्यते तथा यः स्थाणुस्सपुरुष इत्यादि समानाधिकरण वाक्यस्य बाधारूपो वार्क्योर्थो दृश्यते | यस्थाणुस्सपुरुष इत्यत्र हि पुरुषे आरोषितस्य प्रातिभासिकस्य स्थाणोर्व्यावहारिक पुरुषेण सहाभेदो न वाक्यार्थः वाधितत्वात् | किं तु स्थाण्वारोपाधिष्ठान भूते पुरुषे वस्तुतः स्थाणु तादात्म्याभावरूपावाधावाक्यार्थः | तथा
113 SK प्. ७३ब्) च यस्थाणुस्सपुरुष इति वाक्येन वस्तुतः स्थाणु तादात्म्याभाववानयं पुरुष इति बोधो जायते तेन च बोधेन पुरुषे स्थाण्वारोपस्सविषयो निवर्त्यते | एवमहं ब्रह्मास्मीति वाक्येनाहमर्थ भूतजीव तादात्म्य शून्यं ब्रह्मैवास्मीति ज्ञानं जायते तेन ज्ञानेनाहे ज्ञाताकर्ता सुखीदुःखीत्याद्यारोपः कर्तृत्वादि धर्मविशिष्टाहमर्थेन स्वविषयेण सहनिःशेषं निवर्त्यते | आरोपिताहमर्थ निवृतौ च सत्यां जीवस्य पद्वास्तुवंरूपं कूटस्थ चैतुन्यात्मकं | तत्पूर्णब्रह्मरूपेणावतिष्ठते इति न श्रुत्यंतरविरोध इति भावः | अक्षरार्थस्तु | इदं ब्रह्माहं पदयोस्समान विभक्तिमत्वरूपं सामानाधिकरण्यमभेदरूपेर्थेनाभ्युपगम्यते | येनाभेदासंभवो दोषः स्यात् | ननु यद्यभेदो न वाक्यार्थः कस्तर्हि स इति शंकते | किंत्विति | बाधान्न वाक्यार्थो विवक्षित इत्याह | बाधायामिति पुरुषत्व पदेन कल्पितस्थाणु तादात्म्याभाववत्वं विवक्षितं | बाधायां वाक्यार्थत्वस्वीकारात् | अहं ब्रह्मीत्यत्रेति पदानंतरं वाक्य जन्येनेति शेषः | अत्र वाक्यार्थ ज्ञानस्याहं ब्रह्मास्मीत्याकारत्वाभावात् | कूटस्थ ब्रह्मरूपत्व पदेनापि वस्तुतोहमर्थ तादात्म्याभाववत् कूटस्थ ब्रह्मरूपत्वं विवक्षितं बाधाया एव || यदि च विवरणाद्युक्तरित्येदमभेदे सामानाधिकरण्यं तदा जीववाचिनोहं शब्दस्य लक्षणया कूटस्थ परत्वमस्तु तस्याबाध्यस्य ब्रह्माभेद योग्यत्वात् || प्. ७४अ) वाक्यार्थ बोधविषयत्वाभ्युपगमात् | दृष्टांत दार्ष्टांतिकयोरधिष्ठानस्यारोपितार्था भाववत्वमारोपितात्यंता भावस्याधिष्टानातिरिक्तत्वमिति मतमाश्रित्यास्माधिरुक्तमिति ध्येयम् | अध्यस्ताहमर्थरूपत्वमिति |
114 SK अध्यस्तो यो अहमर्थस्तद्रूपत्वं तादात्म्यं निवर्तत इति बोधफलमुक्तं | महावाक्यस्य बाधार्थकत्वं न स्वकपोलकल्पितं | किं तु सुरेश्वराचार्यैरुक्तमित्याह | योयमिति | मंदांधकारे यः स्थाणुर्गृहीतः | एषोयं पुमानित्याप्तवाक्यजन्यया पुंधिया वस्तुतो नायं स्थाणुः किं तु पुमानितिधिया | स्थाणुरयमिति धीरारोपितस्थाणु तादात्म्येन सह यथा निवर्त्यते | एवमहं ब्रह्मास्मीति वाक्यजन्ययाधिया अहमर्थ भूतजीव तादात्म्य शून्यं ब्रह्मैवास्मीत्याकारयाहं बुद्धिरहं कारोमि भुंज इत्यादि बुद्धिरशेषा आरोपिताहमर्थ सहिता निवर्त्यते महावाक्यार्थ ज्ञानादशेषानर्थ निवृतिर्विदुषोनुभव सिद्धेति द्योतनार्थो हि शब्दः | ननु समानाधिकरण वाक्येषु अभेदरूपवाक्यार्थस्य मुख्यतया बाधारूपवाक्यार्थस्य औत्सर्गिकत्वाद्विवरणाद्विषु प्रकृते अभेदरूप वाक्यार्थस्यैव स्वीकाराच्च | भगवत्पादैरपि वाक्यवृतौ तादात्म्यमत्रवाक्यार्थस्तयोरेव पदार्थयोरिति श्लोकेन महावाक्येषु तत्वं पदार्थयोस्तादात्म्य शब्दिता भेदस्यैव वाक्यार्थतया स्वीकाराच्च | वार्तिककार वचनस्य बाधाया अपि प्रकृते वाक्यार्थता वक्तुं शक्यत इति प्रौढिमाश्रित्य प्रवृत्युपपतेश्च तस्मादहं ब्रह्मास्मीत्यत्रा भेदो वाक्यार्थ इति स्थिते विनाशि जीवस्याविनाशि ब्रह्माभेदोनुसंभवतीति प्. ७४ब्) चोद्यं तदवस्थमेवेति अस्वरसादाह यदि चेति || यस्तु मेघाकाशक तुल्योधीवासनाप्रतिबिंब ईश्वर उक्तः सोयं सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानंदमयो ह्यानंदभुगिति मांडुक्य श्रुति सिद्धः सौषुप्तानंदमयस्तत्रैव तदनंतरमेष सर्वेश्वर एष सर्वज्ञ एष्ॐतर्यामी एष योनिः सर्वस्य ||
115 SK कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधेति श्लोक संगृहीइतानां कूटस्थ ब्रह्मजीवेश्वराणां चतुर्णाम्मध्ये ब्रह्मचैतन्यं तावत् सत्यज्ञानदिवाक्येषु प्रसिद्धमिति तत्र वाक्यं प्रमाणत्वेन नोदाहृतं कूटस्थ चैतन्ये अविनाशी वा इति वाक्यं प्रमाणत्वेन दर्शितं | उपाध्युत्पति विनाशानुविधाप्युत्पति विनाशवचनमंतःकरण गत चैतन्यप्रतिबिंबरूपे जीवे प्रमाणमुक्तं परिशेषात्पूर्वोक्तेश्वरे प्रमाणं वक्तव्यं तदाह | यस्त्विति | त शब्दोवधारणे य ईश्वर उक्तः सोयं श्रुत्युक्तानंदमय एव नान्य इत्यर्थः | सुषुप्तं स्थानमस्येति सुषुप्तस्थानः जागरणे हि विज्ञानशब्दितांतःकरणे तादात्म्याध्यासाद्विज्ञान मयत्वमनोमयत्वकर्तृत्वाग्दीनिरूपाणि संति | तथा देहे स्थूलोहमित्याद्यभेदाध्यासात् स्थूलत्व कृशत्व ब्राह्मणत्वादीति रूपाणि संति | तथा चक्षुरादिषु काणोहं मूकोहमित्यादि रूपादध्यासा प्. ७५अ) त्काणत्वादीनिरूपाणि संति | एवमाकाशादिषु पदार्थेषु ध्यास सिद्धानि आकाश मयो वायुमप इत्यादि श्रुति संगृहितान्यनंतरूपाणि जीवस्य संति | सुषुप्ते तु बुध्याद्युपाधि लयेन सर्वप्रकार भ्रांतिलयाद्भ्रांति सिद्धानि सर्वाण्यपि रूपाणि लीयंत इत्यभिप्रेत्य एकीभूतः इत्युक्तं | तदुक्तं | विज्ञानमय मुख्यैर्योरूपैर्युक्तः पुराधुना | स लये नैकतां प्राप्तो बहुतंडुलपिष्टवदिति | पुरासुप्तात्पूर्वकाले | लयेन रूपाणां लयेनेत्यर्थः | प्रज्ञानं चैतन्यं तच्च जाग्रदादौ वृतिभेदेन भेदरूपं शैथिल्यं प्राप्य स्थितं सुषुप्ते वृतीनां विलयात्पुनरेकत्वं प्राप्तमित्यभिप्रेत्यप्रज्ञान घनत्वमुक्तं | आनंदोत्र बिंबभूतो ब्रह्मानंदो विवक्षितः | तस्य प्रतिबिंबभूतो जीव आनंदमयः स च स्वरूपभूतमानंदं सुषुप्तिकाले अविघावृतिभिर्भुंक्त इत्यानंद भुगिति श्रुत्यर्थः | ननु जाग्रत्स्वप्नयोः स्थूलावस्थांतःकरण प्रतिबिंबरूपो जीवो विज्ञानमयः | स्थूलांतःकरणस्य विज्ञानशब्दवाच्य त्वात् | स एव विज्ञानमयो जीवः स्वापकाले सूक्ष्मरूपेण विलीनावस्थांतः ||
116 SK प्रभवाप्ययौ हि भूतानामिति श्रुतेः सर्ववस्तु विषय सकलप्राणिधीवासनोपाधिकस्य तस्य सर्वज्ञत्वं तत एव सर्व कर्तृत्वोपपतेश्च | न चास्मद्बुद्धिवासनोपहितस्य कस्यचित्सार्वज्ञ्यं नानुभूयते इति वाच्यं | वासनानां प्. ७५ब्) परोक्षत्वेन तदुपहितस्यापि परोक्ष्मत्वादिति || करणोपाधिकस्सन् आनंदमय इत्युच्यते तथा चानंदमयस्य जीवत्वादीश्वरत्वमसिद्धमित्याशंक्यसौषुप्तानंदमयस्यैवेश्वरत्वं वाक्यशेषो दर्शयतीत्याह | तत्रैवेति मांडूक्य श्रुतावेवेत्यर्थः | सर्वेश्वरत्वं सर्वजगदुत्पति कर्तृत्वं योनिरुपादानं | आनंदमयस्य सर्वोपादानत्वे हेतुमाह | प्रभवेति | हि यस्माद्भूतानां प्रभवाप्ययौ जन्मलयौ सौषुमानंद मयात् | भवतः तस्माद्वेष सर्वस्य योनिरित्यर्थः | आनंदमयस्य श्रुत्युक्त सर्वज्ञत्वे युक्तिमप्याह | सर्ववस्त्विति | एकैकाधीः किंचित्किचिद्विषयी करोतीति सर्वाभिर्मिलित्वा सर्वं जगद्विषर्या क्रियते एवं च सर्वबुद्धीनां सर्वविषयकत्वे सिद्धे सति सर्वबुद्धिसूक्ष्मावस्थारूपाणां सर्वबुद्धिवासनानामपि सर्वविषयकत्वं सिध्यति | तथा च सर्वप्राणि बुद्धिवासनोपाधिकस्यानंदमयस्य सर्वज्ञत्व सिद्धिरित्यर्थः | ननुधीवासनोपरक्ताज्ञानोपाधिक ईश्वर इति | यदुक्तं | तत्र किं प्रतिबिंबेश्वरस्याज्ञानमेवापाधिः किं वासनोपरक्ताज्ञानं अथवा सर्वाःधीवासनाः उत्तप्रत्येकं वासनानाद्यःधीवासनासु प्रतिबिंबितं चैतन्यमीश्वर इत्युक्ति विरोधात् | अज्ञान मात्रस्य ईश्वरोपाधित्वेधीवासनानुसरण वैफल्याच्च | न चाज्ञानोपाधिकस्यैवेश्वरस्य सर्वज्ञत्व लाभार्थं सर्वविषयकधीवासनानुसरणमिति वाच्यमज्ञानगत सत्वांश परिणामरूपाभिस्सर्वविषयक वृतिभिरेव सर्वज्ञत्वोपपादन
117 SK प्. ७६अ) संभवेन तदर्थं धीवासनानामनपेक्षणादनत एव द्वितीयः अज्ञानमात्रस्य तदुपाधित्व संभवात् | युगपत् सर्वप्राणिनां सुषुप्त्यसंभवेन सर्वबुद्धिवासनानां यौगपद्यासंभवाच्च | न तासामज्ञानविशेषणतया ईश्वरोपाधित्व संभवः तासां यौगपद्यासंभवादेव न तृतीयोपि कल्पः संगच्छते सर्वासुधीवासनासु व्यासक्ततया एकस्य ईश्वररूप प्रतिबिंबस्यासंभवाच्च | लोके व्यासज्यवृति प्रतिबिंबा दर्शनात् | तस्मात् चतुर्थः कल्पः परिशिष्यते तत्रानुभव विरोधमाशंकते | न चास्मदिति | अस्माकं प्राणिनामेकैक बुद्धिवासनोपहितस्यानंदमयस्य कस्यापि स्वापकालेहं सर्वज्ञ इत्यनुभवो नास्तीत्यर्थः | वासनानामिति | जाग्रदादौ स्थूलावस्थांतःकरणानामिव सुषुप्तौ वासनात्मकांतःकरणानां साक्षिप्रत्यक्षयोग्यत्वाभावेन तदुपाधिकानंदमयानामपिनाहमनुभव योग्यत्वमित्यर्थः || ब्रह्मानंदे तु सुषुप्ति संयोगान्मांडूक्योक्त आनंदमयो जीव इत्युक्तं | तथा हि जाग्रदादिषु भोगप्रदस्य कर्मणः क्षये निद्रा रूपेण विलीनमंतःकरणं पुनर्भोगप्रदकर्मवशात्प्रबोधे घनी भवति तदुपाधिको जीवो विज्ञानमय इत्युच्यते | स एव पूर्वं सुषुप्ति समये विलीनावस्थोपाधिकः सन्नानंदमय प्. ७६ब्) इत्युच्यते | सदावमांडूक्ये सुषुप्तिस्थान एकीभूत इत्यादिना दर्शित इति | एवं सति तस्य सर्वेश्वरत्वादि वचनं कथं संगच्छतां | इत्थं संत्यधिदैवत मध्यात्मं च परमात्मनः स विशेषाणि त्रीणि रूपाणि | तत्राधिदैवतं त्रीणि शुद्धचैतन्यं चेति चत्वारि रूपाणि चित्रपटदृष्टांतेन चित्रदीपे समर्थतानि ||
118 SK मांदूक्य श्रुत्युक्तानंदमयस्य सकलधीवासनोपाधिकस्य उक्तरित्या एकस्यासंभवात् | प्रत्येकमेवधीवासनोपाधिक आनंदमयो वाच्यस्स च जीव एवेत्याह | ब्रह्मानंदे त्विति | चित्रदीपे श्रीविद्यारण्यगुरुभिरीश्वर त्वेनोक्तानंदमयस्य तैरेव ब्रह्मानंदाख्य ग्रंथे जीवत्वमुक्तम् | जीवत्वोक्ति रूपविशेषार्थकस्तु शब्दः | सुषुप्तिसंयोगादित्युपलक्षणं वासनोपाधिकस्येश्वरत्वे जाग्रदादावीश्वराभावप्रसंगादेकैकवासनोपाधिकस्य नानात्वेनेश्वर नानात्व प्रसंगात्सकलवासनोपाधिकस्य कस्यचिदसंभवाच्चेत्यपि द्रष्टव्यं | तत्रोक्त प्रकारं दर्शयति | तथा हीति | जाग्रदादिषु भोगप्रदं यत्कर्म तस्य क्षये सतीत्यर्थः | आदिपदं स्वप्न परं बहुवचनं तु जाग्रत्स्वप्न व्यक्तिभेदापेक्षं | निद्रारूपेणेति | सुषुप्तिरूपेणेत्यर्थः | तदुक्तं पंचीकरणे | बुद्धेः कारणात्मनावस्थानं सुषुप्तिरिति | आनंदमयस्य जीवत्वे तस्येश्वरत्व प्रतिपादक वाक्यशेष विरोधं शंकते | एवं सतीति | प्. ७७अ) सौषुप्तजीवरूपानंदमयस्य वस्तुत ईश्वरत्वाभावेपि ईश्वराभेद विवक्षया तस्येश्वरत्व वचनं संगच्छत इति परिहरति | इत्थमित्यादिना | मांडूक्य श्रुतौ जीवश्वरयोरभेद विवक्षां दर्शयितुं पीठिकां करोति | संतीति | परमात्मन अधिदैवतं सविशेषाणि त्रीणि रूपाणि संति तथा परमात्मनोध्यात्मं च सविशेषाणि रूपाणि संतीति संबंधः परमात्मन इत्यस्य निर्विशेष चैतन्यस्येत्यर्थः | अधिदैवतमित्यस्य देवतात्मकानीत्यर्थः | अध्यात्ममित्यस्य च जीवात्मकानीत्यर्थः | अधिदैवतमध्यात्ममिति च पदद्वयमव्ययं | उक्तं प्रपंचयति | तत्रेति | अध्यात्माधिदैवतरूपाणां मध्य इत्यर्थः | जीवस्य त्रीणि सविशेषरूपाणि तुर्यपादात्मकं निर्विशेषरूपं च मांदूक्य श्रुतौ कंठतो दर्शितानि | ईश्वरस्य तु निर्विशेष सविशेष रूपाणि तच्छ्रुत्यभिप्रेतगन्यपि श्रुत्या कंटतो नोक्तानितानि तु श्रुति तात्पर्याभिज्ञैः श्रीविद्यारण्य गुरुभिश्चित्रदीपे सदृष्टांतं ||
119 SK यथा स्वतः शुभ्रः पटो धौतः अत्र लिप्तो घटित इति मष्यादि विकारयुक्तो लांछितो वर्णपूरितोरंजित इत्यवस्था चतुष्टयमेकस्यैव चित्रपटस्य तथा परमात्मामाया तत्कार्योपाधिरहितः शुद्धः मायोपहित ईश्वरः अपंचीकृत भूकार्य समष्टि सूक्ष्मशरीरोपहितो हिरण्यगर्भः | प्. ७७ब्) पंचीकृतभूतकार्य समष्टि स्थूलशरीरोपहितो विराट् पुरुष इत्यवस्था चतुष्टयमेकस्यैव परमात्मनः || निरूपितानीत्याह | चित्र पदेति | तत्रायं दृष्टांत संग्राहकः श्लोकः स्वतः शुभ्रोत्र धौतः स्यात् घटितोन्नविलेपनात् | मष्याकारैर्लांछितः स्याद्रंजितो वर्णपूरणादिति | एतच्छ्लोक संगृहीतं दृष्टांतं विवृणोति | यथेति | स्वतश्चिदंतर्यामी तु मायावी सूक्ष्मसृष्टितः | सूत्रात्मा स्थूलसृष्ट्यैष विराडित्युच्यते पर इति श्लोक संगृहीतं दार्ष्टांतिकं दर्शयति | तथेति | श्लोके परः स्वतश्चिदिति संबंधः अमुमंशं विवृणोति | परमात्मेति | श्लोके तु शब्दोवधारणे | तथा च पर एव मायावी सन् अंतर्यामीत्युच्यते इति संबंधः अमुमंशमाह | मायोपहित ईश्वर इति | श्लोके पर एव सूक्ष्मसृष्टितस्सूत्रात्मेति संबंधः | अमुमंशं व्याचष्टे अयं पंचीकृतेति | अपंची कृतानां भूतानां यत्कार्यं व्यापकं सूक्ष्मशरीरं तदुपहित इत्यर्थः | न च सूत्रात्मनो हिरण्यगर्भ शब्दितस्य श्रुतिस्मृत्योर्जीवत्व प्रसिद्धेः कथं तस्येश्वररूपत्वमिति वाच्यं जीवरूपहिरण्यगर्भस्य समष्टि सूक्ष्मशरीराभिमानविशिष्टस्य सत्यलोकस्वामिनः ईश्वरान्यत्वाभ्युपगमात् | ईश्वरस्य तु समष्टि सूक्ष्मशरीराभिमानाभावेपि समष्टि सूक्ष्मशरीर नियंहृतयातदुपाधिकस्य समष्टिसूक्ष्मोपाध्युपहितत्वगुणयोगेन
120 SK प्. ७८अ) हिरण्यगर्भसूत्रात्मपदाभ्यां निर्देशस्येह विवक्षितत्वा तथा च गौणमीश्वरस्य हिरण्यगर्भत्वमिति भावः | अत एव चित्रदीपे ईश्वररूप हिरण्यगर्भापेक्षया सत्यलोकाधिपतेर्ब्रह्मणस्ततद्वाद्यभिमतेश्वर परिगणनावसरे पृथगुपादानं कृतमिति मंतव्यं | श्लोके एष एव परः स्थूलसृष्ट्याविराडित्युच्यत इति संबंधः | अमुमंशंव्याकुर्वन् संगृह्णाति | पंचीकृतेति | अयमीश्वररूपो विराट् पुरुषः पुरुषसूक्त वैश्वानरविद्यावाक्यादि रूपश्रुति सिद्धो द्रष्टव्यः सत्यलोकाधिपतेर्हिरण्यगर्भस्य पुत्ररूपो विवाटपुरुषस्समष्टि स्थूलाभिमानी जीवो बृहदारण्यक श्रुति सिद्धोन्य एवेत्यपि द्रष्टव्यं | इत्यवस्येति | उक्त प्रकारेण वस्तुत एकस्यैव रूपचतुष्टयं द्रष्टव्यमित्यर्थः || अस्मिंश्च चित्रपटस्थानीये परमात्मनि चित्रस्थानीयः स्थावरजंगमात्मको निखिलः प्रपंचः | यथा चित्रगतमनुष्याणां चित्राधारवसुसदृशावस्त्राभासालिख्यंते तथा परमात्माध्यस्त देहिनामपिष्टान चैतन्य सदृशाश्चिदाभासाः कल्प्यंते ते च जीवनामानः संवरंतीति | अध्यात्मं तु विश्वतैजस प्राज्ञभेदेन त्रीणि रूपाणि | तत्र सुषुप्तौ विस्तीनेंतः करणे ज्ञानमात्र साक्षीप्राज्ञः | योयमिहानंदमय प्. ७८ब्) उक्तः स्वप्ने व्यष्टि सूक्ष्मशरीराभिमानी तैजसः जागरे व्यष्टिस्थूल शरीराभिमानी विश्वः ||
121 SK एवं प्रकृतोपयुक्तं रूप चतुष्टयं दर्शयित्वा प्रसंगादाह | अस्मिन्निति | ननु कृत्स्नस्य जगतश्रित्रस्थानीयत्वे तद्वदेव सर्वमचेतनं स्यातथा च चेतनाचेतनविभागो न स्यादिति शंकां दृष्टांतेन परिहरति | यथेति | वस्त्राभासा इति वर्णविशेषात्मक वस्त्राणां चित्राधारेण वस्त्रेणाकृति साम्येपि शीतवानादि निवर्तकत्वा भावादाभासत्वं | देहिनामिति स्थूलदेहवतामहंकारणामित्यर्थः अंतःकरणात्मकाहंकारेषु चैतन्यस्य प्रतिबिंब कल्पनस्य प्रयोजनमाह | ते चेति तथा च विदाभासयुक्ताः कार्यकारणसंघाताश्चेतनाः अन्ये गिरि समुद्रादयो चेतना इति विभाग सिद्धिरिति भावः | एवमीश्वरस्य रूपाणि दर्शितानि जीवस्य श्रुत्युक्तानि सविशेष निर्विशेषरूपाणि दर्शयति | अध्यात्मं त्विति | तु शब्द ईश्वरस्य स विशेषरूपाण्यपेक्ष्यजीवस्य स विशेषरूपाणां वैलक्ष्यण्य सूचनार्थः | तदेव वैलक्षण्यं दर्शयति | विश्वेति | रूपाणीति | सविशेषाणीति शेषः | तत्रेति | रूपत्रयमध्ये इत्यर्थः | विलीन इति अंतःकरणे विलीने सति सूक्ष्मरूपेण विलीनांतःकरणोपाधिकः संपद्यत इति भावः स्थूलांतःकरणादि साक्षित्व व्यवच्छेदार्थं मात्रग्रहणं ननु पूर्वं सौषुप्तजीव आनंदमय इत्युक्तमिदानीं कथं स एव प्राज्ञ इत्युच्यते | तत्राह | योयमिति इहेति मांडूक्य श्रुतावित्यर्थः | प्. ७९अ) तत्रैवानंद भुगित्यनंतरं चेतोमुखः प्राज्ञस्तृतीयः पाद इति वाक्यशेष दर्शनादिति भावः | चेतांसि चित्प्रतिबिंबोपेतान्यविद्यावृतिरूपाणि मुखानि स्वापकालीनानंदानुभव साधनानि यस्य स चेतो मुखः | ननु सौषुप्तजीवस्यानंद भुक्तं चेतो मुखत्वं च श्रुतमपि कथमुपपन्नमिति
122 SK तत्र मांडूक्य श्रुतिरहमनुभवे प्रकाशमानस्यात्मनो विश्वतैजस प्राज्ञतुरीयावस्थाभेदरूपं पादचतुष्टयं सोयमात्मा चतुष्पादित्युपक्रम्य पूर्वपूर्वपादविप्रलापनेन निःप्रपञ्च ब्रह्मात्मक तुरीय पादप्रतिपतिसौ कार्याय स्थूलसूक्ष्म सूक्ष्मतरोपाधिसाम्याद्विराडादीन्विश्वादिष्वंतर्भाव्यजागरित स्थानो बहिः प्राज्ञः इत्यादिना विश्वादि पादान्न्यरूपयत् | अतः प्राज्ञ शब्दिते आनंदमये व्याकृतस्येश्वरस्यांतर्भाव विवक्षित्वाक्ष तत्र सर्वेश्वरत्वादि तद्धर्मवचनमिति || चेदुच्यते | सुषुप्तादुत्थितस्य हि सुखमहमखाप्समिति | स्वापकालविशिष्ट सुखस्मरणं दृश्यते | तच्च तदा सुखानुभवमंतरेण संभवति अननुभूतस्य सुखस्य स्मरणायोगात् | न च सुषुप्तावात्मरूपसुखस्यांतःकरणवृतिभिरेवानुभवः
123 SK प्. ७९ब्) संभवतीति वाच्यं | तदा विलीनस्यांतःकरणस्य वृत्युत्पादन योग्यत्वाभावान्न च मुक्तिकाल इव स्वापकालेपि स्वरूप चैतन्ये नैव सुखानुभव संभवात् किमविद्यावृत्ति प्रतिबिंबरूप चेतः कल्पनयेति वाच्यं | जाग्रत्स्वप्नयोश्चैतन्य प्रतिबिंबोपेतवृतिभिरानंदानुभव दर्शनेन सुषुप्तावपि तथा संभवे परित्यागा योगात् | मुक्तिकाले चोपाधिमात्र विलयाभ्युपगमात् | वृत्यसंभव इति वैषम्य सत्वात् | सौषुप्त सुखानुभवस्य केवल नित्यसाक्षिरूपत्वे अनुभवनाशरूपसंस्काराभाव प्रसंगेन सुखमखाप्संमित्यनुसंधानाभावापतेश्च तस्माद्यथोक्तार्था श्रुतिरुपपन्नैव व्यष्टीति परिछिन्नेत्यर्थः | एते पादास्साक्षाच्छ्रुत्युक्ता इत्याह | तत्रेति | उक्तरीत्या पादकल्पनोपपतौ सत्यामित्यर्थः | श्रुतिः | पादचतुष्टयमुपक्रम्य विश्वादिपादान्न्यरूपयदिति संबंधः | पद्यते गम्यतेवगम्यते ब्रह्मात्मैक्यमेभिरिति पादाविश्वादयः | इमां व्युत्पतिमभिप्रेत्य श्रौतपादकल्पनायाः | प्रयोजनमाह | पूर्वपूर्वेति अयमर्थः | सोयमात्मा चतुष्पादिति वाक्येन जीवस्य पादचतुष्टयवत्वमुषक्रम्य जागरितस्थानो वैश्वानरः प्रथमः पादः इत्युक्तं | अत्र जीवपादानामेव वक्तुमुपक्रांतत्वाद्विश्वः प्रथमः पाद इति वक्तव्ये वैश्वानर शब्दितस्य विराट्पुरुषरूपे || श्वरस्य प्रथपादत्वोक्तिर्विश्वे वैश्वानरेश्वरस्यांतर्भावं
124 SK प्. ८०अ) सूचयति | न च हिरण्यगर्भेश्वरौ विहाय वैश्वानरेश्वरस्यैव विश्वांतर्भावे किं नियामकं श्रुत्यभिमतमिति वाच्यं | तयोः स्थूलोपाधिकत्वरूपसाम्यस्य ईश्वरहिरण्यगर्भ व्यावृतस्य नियामकतया विवक्षितत्वा तथा द्वितीयपाद प्रतिपादक वाक्ये स्वप्नस्थानस्तैजसो द्वितीयः पाद इत्युक्तं अत्र सूक्ष्मोपाधिकत्व साम्येन हिरण्यगर्भस्य तैजसे अंतर्भावो विवक्षितः वैश्वानरः प्रथमः पाद इत्युपक्रमानुसारा तथा तृतीय पाद प्रतिपादकं सुषुप्तस्थान एकीभूत इत्यादि वाक्यं प्रागेवोदाहृतं | अत्रापि तृतीयपादत्वेनोक्ते प्राज्ञ शब्दितानंदमये सूक्ष्मतरोपाधिकत्व सामान्येन ईश्वरस्यांतर्भावोविवक्षितः | तथा च वाक्यशेषस्य एष सर्वेश्वर इत्यादेरानंदमयेश्वरयोरभेदस्य विवक्षिततया प्रवृतत्वान्नानुपपतिः | तथा तुरीयपाद प्रतिपादकमिदं वाक्यं | अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिंत्यम- व्यपदेश्यमैकात्म्यात्पयसारं प्रपंचोपशमं शिवमद्वैतं चतुर्थं मन्यंत इति |
125 SK प्. ८०ब्) अदृश्यं चक्षुराद्यविषयं | अव्यवहार्यं प्रवृति निवृति लक्षणव्यवहारागोचरं | अग्राह्यं कर्मेंद्रियागोचरं अलक्षणमसाधारण धर्मं शून्यं अचिंत्यं शुष्कतर्कागोचरं | अव्यपदेश्यं शब्दशक्त्यगोचरं | एकात्मप्रत्ययसारं | एकादि पद चतुष्टयस्य कर्मधारयः स्वगत भेदशून्यत्वमेकत्वं सर्वदेहेषु पूर्णत्वमात्मत्वं प्रत्ययत्वं चिद्रूपत्वं सारत्वमानंदत्वं सार आनंद इत्यर्थः | इत्यानंदमयाधिकरणभाष्यात्प्रपंचोपशमं प्रपंचाभावरूपं कल्पितपदार्थाभावस्याधिष्ठानानतिरेकात् यद्वा प्रपंचध्वंसरूपं ज्ञानसाध्यायास्सकारणद्वैत निवृतेरधिष्ठानात्मकताया वक्ष्यमाणत्वात् शिवं शुद्धं सर्वदोषरहितमद्वैतंद्वैतरहितं चतुर्थं विश्वतैजस प्राज्ञ रूपपादत्रयापेक्षया चतुःसंख्यापूरकं पादं चिंतयंतीति श्रुत्यर्थः | अत्र विश्वतैजस प्राज्ञलक्षण पादेषु वैश्वानरहिरण्यगर्भेश्वराणामंतर्भाव च नंतैरेषामेकत्व चिंतनपरं तथा विश्वादि पादानाम्ॐकारावयवभूतमात्राणां चैकत्व
126 SK प्. ८१अ) चिंतनमत्र विवक्षितं | तथा च श्रुतिः पादामात्रा मात्राश्च पादा इति | तथा गौडपादीय वचनमपि | ॐकारं पादशो विद्यात्पादामात्रा न संशय इति संशय इत्यस्यायमभिप्रायः | विश्वादि पादानाम्मात्राणां च यावत्संशयनिवृतिं एकत्वं चिंतनीयमिति मात्रा स्वरूपं च श्रुत्यैव दर्शितमकार उकारो मकार इतीति | एवं विश्वादि पादानां वैश्वानरादीनां मात्राणां चैकत्व चिंतनं सर्वेषामेतेषां निष्प्रपंच ब्रह्मात्मकतुर्यपादे चिन्मात्रे प्रविलापनार्थं | तत्र चायं क्रमः विश्ववैश्वानराकाराणामेकत्वं प्रथमं विचिंत्य पश्चातैजस हिरण्यगर्भो कारणामेकत्वं चितयेत् | तत ईश्वरप्राज्ञमकाराणामप्येकत्वं चिंतयेत् | तथा चिंताक्रमेणैव प्रविलापयेत् | अकारादि त्रयमुकारे उकारादि त्रयं मकारे मकारादि त्रयं चिन्मात्रे तुर्यपादे प्रविलापयेत् | चिन्मात्रे प्रविलाप्य च चितं तत्रैव स्थापयेत् | उकारादौ प्रविलापनं नामाकारादि त्रयमुकार व्यतिरेकेण नास्ती ||
127 SK प्. ८१ब्) त्याहार्य निश्चय एवं प्रत्यहमुक्तप्रकारेण समाधिं कुर्वतो ब्रह्मसाक्षात्कारो भवति | ततश्च ब्रह्मप्राप्त्याकृतकृत्यतेति मांडूक्य श्रुत्यभिप्रायः | इदं सर्वं मांडूक्यश्रुतेरिदं संग्रहेण तात्पर्य कथन परस्य भाष्यकृद्भिः कृतपंचीकरणस्य व्याख्यानरूपे वार्तिके सुरेश्वराचार्यैरमिहितं अकारमात्रं विश्वः स्यादुकारस्तैजसः स्मृतः प्राज्ञोमकार इत्येकं परिपश्येत् क्रमेण तु | अत्र विश्वादिषु वैश्वानरादीनामंतरभावं सिद्धं कृत्वा न पृगुपादानं कृतमिति मंतव्यं | समाधिकालात् | प्रागेवं विचिंत्याति प्रयत्नतः स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् | अकारं पुरुषं विश्वमुकारं प्रविलापयेत् | पुरुषोत्र वैश्वानरः | उकारं तैजसं सूक्ष्मं मकारे प्रविलापयेत् | अत्र समष्टिसूक्ष्मशरीरनियंतृतया तदुपहितः परमेश्वरः सूक्ष्मशब्दार्थः | मकारंकारणं प्राज्ञं चिदात्मनि विलापयेत् | अत्रांतर्यामीमायामात्रोपाधिकः कारणशब्दार्थः | चिदात्माहं नित्यशुद्ध बुद्ध मुक्तसदद्वयः परमानंदसंदोह वासुदेवोहमोमिति |
128 SK प्. ८२अ) यतोहं चिदात्मावशेषितः | अतोहं नित्य शुद्धबुधादि रूपो वासुदेव इत्यर्थे अंगीकारात्मक ॐकार इत्यर्थः | इति शब्दश्चोतरश्लोकान्वयी ज्ञात्वा विवेचकं चितं तत्साक्षिणिलापयेत् | इति उक्त प्रकारेण केवल चिदात्मानमवशिष्टं ज्ञात्वा विवेचकं विलापकं तच्चित्तं साक्षिणि यथोक्ते वासुदेवे विलापयेत् स्थापयेदित्यर्थः | चिदात्मनि विलीनं च तच्चितं नैव चालयेत् | पूर्ण बोधात्मनासीनं पूर्णाचल समुद्रवत् | चिरकालं समाधिं कुर्यादिति वार्तिकार्थः | एवं समाहितो योगी श्रद्धाभक्ति समन्वितः | जितेन्द्रियोजित क्रोधः पश्येदात्मानमद्वयं आदिमध्यावसानेषु दुःखं सर्वमिदं यतः तस्मात्सर्वं परित्यज्य तत्वनिष्ठो भवेत् सदा यत्प * * त्वनिष्टाव्यतिरिक्तं पुरुषार्थ साधनत्वेन लोकशास्त्रसिद्धं सर्वं कालत्रयेपि दुःखाविना भूतं तस्मात्सर्वं विधिनासंन्यस्य उक्तरीत्यातत्वनिष्टां समाधि लक्षणां कुर्यादित्यर्थः | तदेवाह | इमां विद्यां प्रयत्नेन योगीसंध्यासु सर्वदा | समभ्यसेदिहामुत्रभोगानास || प्. ८२ब्) क्तधीस्सुधीरिति | इमां समाधिलक्षणां विद्यां सुधीरास्तिकतमो विरक्तो भूत्वा संध्यासूपक्रम्य सदाभ्यसेदित्यर्थः | यः पश्येत् सर्वगं शांतसनंतात्मानमद्वयं | न तेन किंचिदाप्तव्यं ज्ञातव्यं वावशिष्यते || कृतकृत्यो भवेद् विद्वान् जीवन्मुक्तो भवेत् सदा | अविद्या तिमिरातीतं सर्वाभासविवर्जितं || आनंदममलं शुद्धं मनोवाचामगोचरं | वाच्यवाचकनिर्मुक्तं हेयोपादेय वर्जितं || प्रज्ञानघनमानंदं वैष्णवं पदमश्रुत | इति || आभासपदं चिदाभासपरं वाच्याः विश्वादयः वाचकाः आकारादयः प्रकृतत्वात् हेयं दुःखं उपादेयं विषयसुखमित्यर्थः | तथा मांडूक्य श्रुतौ समाधिनिष्टा विवक्षामभिप्रेत्यगौडपादीयेप्युक्तं | युंजीत प्रणवे चेतः प्रणवो ब्रह्मनिर्भयं | प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् || इति संक्षेपः |
129 SK ननु श्रवणादि रूपसांख्यमार्गेणैव तत्वप्रतिपति संभवात् किं मुमुक्षोर्योग विधिनेत्यत आह | प्रतिपतिसौ कार्यापेति | यस्य मुमुक्षोस्सन्यासिनः | बुद्धिमांद्याद्वाकौशलसत्वेपि प्. ८३अ) न्याय व्युत्पादन कुशलाचार्याद्यभावाद्वासांख्यमार्गो न संभवतीति तस्यानायासेन ब्रह्मतत्व प्रतिपत्ति साधनतया बुधिपूर्वक प्रविलापन क्रमेण समाधि विधानं मांडूक्यादौ उक्तं मांडूक्यतापनीय पंचीकरणादौ विहित ब्रह्मोपासनं प्रकृत्यध्यानदीपे || इत्थमेव भगवत्पादैर्गौडपादीय विवरणे व्याख्यातं दृक् दृश्य विवेके तु चित्रदीय व्युत्पादितं कूटस्थं जीवकोटावंतरभाव्य चित्त्रैविध्य प्रक्रियैवालंबितेति विशेषः | तत्र ह्युक्तं जलाशय तरंग बुद्बुद न्यायेनोपर्युपरिकल्पनाज्जीवस्त्रिविधः | पारमार्थिको व्यावहारिकः प्रातिभासिकश्चेति | तत्रावछिन्नः पारमार्थिको जीवः || श्रीविद्यारण्य गुरुभिरधिकारी दर्शितः | अत्यंत बुद्धिमांद्याद्वासामग्र्यावाप्यसंभवात् | यो विचारत्न लभते | ब्रह्मोपासीतसोनिशमिति | अव्याकृतस्येति | अनभिव्यक्त जगद्वा विना अव्याकृतपदेन लक्षणया परमेश्वरस्तत्र तत्र व्यवहृत इति कृत्वा तेन तन्निर्देशः कृतः मांडूक्य श्रुत्युक्तानंदमयस्य ईश्वरत्ववचनं तदभेद विवक्षयेत्येतत् मांडूक्य श्रुतिव्याख्यान रूपस्य गौडपादीयस्य विवरणरूपे भाष्ये भाष्यकारैरेवोक्तमित्याह | इत्यमेवेति |
130 SK प्. ८३ब्) श्रीविद्यारण गुरुभिश्चित्र दीपे स्वोक्तं चिच्चातुर्विध्यं विहाय ग्रंथांतरे जीव ईशो विशुद्धा चिदिति वृद्धवचनसिद्धं त्रैविध्यमेवावलंव्य जीवस्य त्रैविध्याख्यो विशेष उक्त इत्याह | दृक् दृश्य विवेकेत्विति | तु शब्द उक्त विशेषार्थकः कूटस्थस्य जीवकूंटावंतर्भावमेव दर्शयति | तत्रेति | दृक् दृश्य विवेकाख्य ग्रंथ इत्यर्थः | हि शब्दः प्रसिद्धि द्योतकः जलाशय तरंगेति | यथा समुद्रादि जलाशये तरंगा उपरिभावेन तिष्ठंति तेषु चोपरिभावेन बुद्बुदास्तिष्टंति इदं प्रसिद्धमिति हि शब्दार्थः न्यायो दृष्टांतः | एवं कूटस्थस्योपरिव्यावहारिकांतःकरणप्रतिबिंबरूपो यावद्व्यावहारमनुवर्तमानो व्यावहारिक जीवः कल्प्यते | तस्य चोपरिभावेन स्वप्नकाले वासनामय प्रातिभासिक रथादि वद्वासनामयांतःकरणप्रतिबिंबरूपः प्रातिभासिक जीवः कल्प्यत इत्यर्थः | तत्रेति त्रिविधजीवमध्य इत्यर्थः | अवछिन्न इति | देहद्वयावछिन्नकूटस्थ चैतन्यरूप आत्मा पारमार्थिक जीव इत्यर्थः | अहं ब्रह्मास्मीति महावाक्येषु | जीवब्रह्मणोरभेदः | प्रतिपाद्यते स च पारमार्थिक जीवकल्पने सति निर्वहति | अन्यथा व्यावहारिक प्रातिभासिक जीवयोश्शु || तस्मिन्नवच्छेदकस्य कल्पितत्वेपि अवछेद्यस्य तस्याकल्पितत्वेन ब्रह्मणा भिन्नत्वात् | तमावृत्यस्थितायां मायायां कल्पितेंतःकरणे प्. ८४अ) चिदाभास्येंतःकरण तादात्म्यापत्याहमित्यभिमन्यमानो व्यावहारिकः | तस्य मायिकत्वेपि यावद्व्यवहारमनुवृतेः | स्वप्ने तमप्यावृत्यस्थितया मायावस्थाभेदरूपया निद्रया कल्पिते स्वाप्न देहादावमभिमानीप्रातिभासिकः ||
131 SK क्तिरूप्यादिवत्स्वरूपतो मिथ्यात्वेन सत्यब्रह्माभेदायोगात् देहद्वयावछिन्नकूटस्थ रूपपारमार्थिक जीवस्यत्ववच्छेदकीभूत देह द्वयस्य कल्पितत्वेपि स्वतः सत्यत्वात् | संभवति ब्रह्माभेद इति पारमार्थिक जीवकल्पनायाः प्रयोजनं दर्शयति | तस्मिन्निति | अवछिन्न जीव इत्यर्थः | व्यावहारिक जीवं निरूपयति | तमिति | कूटस्थमात्मानमावृत्याविघायां स्थितायां सत्यां कूटस्थात्मनि कल्पितं यदंतःकरणं तत्र यश्चिदाभासः व्यावहारिक जीव इत्यर्थः | तदुक्तं कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिबिंबक इति | अहमित्यभिमन्यमान इति | अहमित्योवकारकाभिमानकर्तेत्यर्थः | नन्वहमाकारवृतिरूपेण परिणममानेंतःकरण एवाहमभिमानवत्वं युक्तं न तु चित्प्रतिबिंबस्यात आह | अंतःकरणेति | तस्य व्यावहारिकत्वे युक्तिमाह | तस्येति | न च व्यावहारिक जीवेमानाभाव इति वाच्यं | अहंकर्ता भोक्तेत्यादि रूपाहमनुभवस्य तत्र मानत्वात्कर्तृत्व भोक्तृत्वाद्यात्मसंसाराश्रयत्वस्यान्यत्रायोगाच्च | न चांतःकरणे तत्संभवः तस्य चिदाभास शून्यस्य चैतन्य धर्मत्वेन प्रसिद्धकर्तृत्वाद्या प्. ८४ब्) श्रयत्वायोगात् | चिदाभासस्य तु चेतनात्मप्रतिबिंबतया मिथ्याभूतस्यापि चेतनत्व व्यवहारयोग्यत्वेन तद्धर्माणां चेतन धर्मत्व प्रसिद्धि विरोधाभावात् | पारमार्थिक जीवस्य च संसारा श्रयत्वं न संभवति तस्य कूटस्थत्वादिति भावः | तमपीति | व्यावहारिकजीवमपीत्यर्थः | व्यावहारिक जीवो हि जाग्रद्दशायामात्मानं ब्राह्मणं देवदेत्तं यज्ञदत्त पुत्रं विष्णुभक्तस्मन्यते स्वाप्न जीवस्तु स्वप्नावस्थायामात्मानं क्षत्रियं विष्णुशर्मनामानं नारायण पुत्रं महादेव भक्तं मन्यते | अतो जाग्रज्जीवस्यावरणं सिद्धं प्रातिभासिक जीवेक ||
132 SK स्वप्रपंचेन सह तत् द्रष्टुर्जीवस्यापि प्रबोधे निवृतेरिति | एवमेते प्रतिबिंबेश्वर वादिनां पक्षे भेदादर्शिताः | विवरणानुसारिणस्त्वाहुः विभेदजनके ज्ञानेनाशमात्यंतिकं गते | आत्मनो ब्रह्मणो भेदमसंतंकःरिष्यति इति स्मृत्या एकस्यैवाज्ञानस्य जीवेश्वर विभागोपाधित्व प्रतिपादनाद्बिंब प्रतिबिंबभावेन जीवेन जीवेश्वरयोर्विभागः नोभयोरपि प्रतिबिंबभावेनोपाधिद्वयमंतरेणोभयोः प्रतिबिंबत्वा योगात् || ल्पकमाह | निद्रयेति | ननु मायायास्सर्वकल्पकत्वाभ्युप प्. ८५अ) वामात्कथं निद्रायाः कल्पकत्वमपसिद्धांतापतेरित्याशंक्य निद्रायास्तदवस्थारूपत्वाभ्युपगमान्नोक्त दोष इत्याशयेनाह | मायेति | न च निद्राया माया लक्षणाभावात् कथं तदवस्था विशेषरूपत्वमिति वाच्यं | आवरणविक्षेप शक्तिमत्वं हि माया लक्षणं तस्य लक्षणस्य जाग्रज्जिवावरिकायां स्वाप्नजगदात्मक विक्षेपकारिण्यां च निद्रायामक्ष तत्वादिति भावः | प्रातिभासिक जीवकल्पनायाः प्रयोजनमाह | स्वाप्नदेहादाविति | व्यावहारिक जीवस्याब्द तत्वेन स्वप्नकाले अहमभिमाअनकर्तृत्वासंभवादिति भावः | तस्य प्रातिभासिकत्वे हेतुमाह | स्वप्नप्रपंचेनेति प्रबोधकाले ब्राह्मणोहं न क्षत्रिय इत्यादि रूपेण बोधेन स्वप्न दृष्टुः क्षत्रियादि रूपस्य बाधानुभवादिति भावः ईश्वरविषये उक्त वक्ष्यमाण प्रकारभेद ज्ञानार्थमुपसंहरति | एवमिति | बिंबचैतन्यमेवेश्वरो न प्रतिबिंबविशेष इति वक्ष्यमाणविशेषार्थकस्तु शब्दः विभेदजनकत्वं जीवेश्वरभेदस्थितिप्रयोजकत्वं विवक्षितं न तु यथाश्रुतं तद्भेदस्यानादित्वाभ्युपगमात् | आत्यंतिकमिति स्वाय प्रलयादौ अज्ञानकार्यनाशेन तत्कारणाज्ञानस्यापि नाशोस्ति परिणामपरिणामिनोरभेदात् स चाज्ञाननाशो नात्यंतिकः | पुनरुत्थानात् | मुक्तौ तु तत्वज्ञानेन स्वरूपेणापि नाशोस्ति स चात्यंतिकः | पुनरुत्थानाभावादिति मत्वा अज्ञाननाशस्यात्यंतिकं विशेषणं दत्तं | यद्वा जीवन्मुक्तिकाले अज्ञानस्यावरणांशेन नाशेपि विक्षेपांशनाशा भावादनात्यंतिकस्सनाशः
133 SK प्. ८५ब्) विदेह मुक्तौ तु आत्यंतिको ज्ञाननाश इति तदभिप्रायं तद्विशेषणमिति भावः प्रतिबिंबत्वायोगादिति | न च जीवैशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुत्या उभयोः प्रतिबिंबत्व प्रतिपादनविरोध इति वाच्यं | प्रतिबिंबत्ववद्बिंबत्वस्यापि कल्पिततया श्रुतिगताभासपदेन प्रतिबिंबद्बिंबस्यापि ग्रहणोपपतेः || तत्रापि प्रतिबिंबो जीवः बिंबस्थानीय ईश्वरः तथा सत्येव लौकिक बिंबप्रतिबिंब दृष्टांतेन स्वातंत्र्यमीश्वरस्य तत्पारतंत्र्यं जीवस्य च युज्यते || ननु लोके प्रतिबिंबत्व विशिष्टमुखे मुखाभासत्व व्यवहारात् | बिंबत्व विशिष्टमुखे तथा व्यवहाराभावादाभासपदं मुख्यवृत्या बिंबचैन्तन्यं प्रतिपादयितुं न शक्नोतीति खलु प्रतिबिंबवद्बिंबस्यापि विशिष्टरूपेण कल्पिततया कल्पितत्वगुणयोगेन बिंबपरमाभास पदं वक्तव्यं | तच्च न संभवति सकृदुच्चरितस्याभास पदस्य मुख्यवृत्या प्रतिबिंब परत्वं गुणवृत्या बिंबपरत्वमिति कल्पनस्य च्युत्पति विरुद्धत्वात् | न चाजहल्लक्षणया आभास पदस्य बिंबप्रतिबिंबोभय परत्वाभ्युपगमेनायं विरोध इति वाच्यं | उभयोरपि प्रतिबिंबरूपतामादायाभास पदस्य मुख्यार्थ परत्व संभवे सति लक्षणाकल्पनाया एवनिर्मूलत्वादिति चेदुच्यते | यथा श्रुतं
134 SK प्. ८६अ) जीवेशयोरुभयोरपि प्रतिबिंबरूपत्वं न संभवति | बिंबभूतचैतन्यस्य सूर्यवदेकत्वेन उपाधिभेदं विना प्रतिबिंब द्वया संभवात् | न च माया चाविद्या च स्वयमेव भवतीति वाक्यशेषेणमाया विद्यारूपोपाधिद्वय प्रतिपादनात्न प्रतिबिंबद्वयानुपपतिरिति वाच्यं तेन स्वयं शब्दोपातायाः प्रकृतमूल प्रकृतेर्मायात्वा विद्यात्वलक्षणरूपभेद प्रतिपादनेपि प्रतिबिंबद्वयापेक्षितोपाधि द्वया प्रतिपादनान्मायाविद्ययोः स्वरूपतो भेदस्य सिद्धांत विरुद्धत्वाच्च | तस्माद्यथा श्रुतासंभवादेकस्यैवाज्ञानस्य जीवेश विभागप्रयोजकत्व प्रतिपादक स्मृत्यनुरोधाच्च जीवेशावाभासेन करोतीति श्रुतावाभासपदमजहल्लक्षणया बिंबप्रतिबिंबोभयपरमिति विवरणानुसारिणामाशय इति | तत्रापीति | बिंबप्रतिबिंबयोरुभयोर्मध्येपीत्यर्थः | तत्र युक्तिमाह | तथा सत्येवेति | बिंब चैतन्यस्यैवेश्वरत्वाभ्युपगमे सतीत्यर्थः | स्वातंत्र्यमिति | एष सर्वेश्वर एष भूताधिपतिरित्यादि श्रुति सिद्धमिति शेषः | तत्पारतंत्र्यमिति एष ह्येव साधुकर्मकारयति | य आत्मानमंतरोयमयति ईश्वरप्रेरितो गच्छेत्स्वर्गं वाश्वभ्रमेव वेत्यादि श्रुतिस्मृति सिद्धमिति शेषः || प्रतिबिंबगताः पश्यनृजुवक्रादि विक्रियाः पुमान् क्रीडेद्यथा ब्रह्मतथा जीवस्थ विक्रिया इति कल्पतरूक्तरीत्यालोकवतुलीला प्. ८६ब्) कैवल्यमिति सूत्रमपि संगच्छते | अज्ञानप्रतिबिंबितस्य जीवस्यांतःकरणरूपो ज्ञान परिणामभेदोविशेषाभिव्यक्ति स्थानं सर्वतः प्रसृतस्य सवितृप्रकाशस्य दर्पण इव ||
135 SK लौकिक दृष्टांतमेव कल्पतरुश्लोकोदाहरणेन दर्शयति | प्रतिबिंबगता इति | यथालोके कश्चित्पुरुषः स्वप्रतिबिंबगताः ऋजुवक्रादि विक्रियाः बिंबभूत स्वप्रयुक्ताः पश्यन् क्रीडति तथा ब्रह्मापि जीवस्थ विक्रियाः प्राणिकर्मानुसारेण स्वप्रयुक्ताः पश्यन् क्रीडतीति योजनाकल्पतरूक्तरीत्या ईश्वरस्य स्वातंत्र्य प्रतिपत्युपयोगिन्येश्वरस्य स्वातंत्र्य प्रतिपादकं सूत्रमपि संगच्छत इत्यर्थः | सूत्रार्थस्तु ईश्वरस्याप्त कामत्वेन प्रयोजनोद्देशाभावात् | सृष्ट्यादि व्यापारेषु प्रवृतिर्न संभवतीति पूर्वपक्षव्यावृत्यर्थकस्तु शब्दः ईश्वरस्य सृष्ट्यादि प्रवृतिलक्षणक्रिया केवलं प्रयोजनोद्देशं विनैव लीलालोकवत् | यथा लोके सार्वभौमादेस्सर्वैर्मानुषैः भौगैस्संपन्नतमस्य प्रयोजनाभिसंधिं विनैव क्रीडा दृश्यते तद्वत् | किं च ईश्वरस्य प्रयोजनोद्देशाभावेपि स्वभावादेवसृष्ट्यादि प्रवृतिरुपपद्यते | दृश्यते हि सुखोद्रेकानुभव प्रयुक्ताहासगानादि रूपाप्रयोजनोद्देशरहिता लीलाप्राणिनां स्वाभाविकी प्. ८७अ) न हि तत्र प्रयोजनमपि संभावयितुं शक्यते | दुःखोद्रेकेरोदन वत्सुखोद्रेकेहासगानादेः प्रयोजनरहितस्य सर्वानुभव सिद्धत्वात् | अत एव हसित रुद्रितादिषु कारणमेव पृच्छति न प्रयोजनं | उक्तं च मांडूक्य श्रुतौ | देवस्यैष स्वभावोयमाप्तकामस्य कास्पृहेति | एषः सृष्ट्यादि व्यवहार इत्यर्थः | किं च स्वप्न सृष्टिवन्मायामयी प्रपंच सृष्टिरस्माभिरुपेयते | न च तत्र प्रयोजन प्रष्णोन्याय्यस्वप्नसृष्टौ प्रयोजन प्रष्णादर्शनादिति भावः | ननु यद्यज्ञानं जीवस्योपाधिस्तर्हि व्यर्थमंतःकरणस्य जीवोपाधित्ववर्णनं सूत्रभाष्यादिषु तत्राह अज्ञानेति | विशेषाभिव्यक्ति स्थानमिति | अविद्या प्रतिबिंब चैतन्यरूपस्य सुषुप्ति साधारणस्य प्रमातृत्व कर्तृत्व भोक्तृत्वादि विशेषरूपेणया अभिव्यक्तिरुपलब्धिस्तस्याः स्थानमुपाधिरित्यर्थः ||
136 SK प्. ८७ब्) अतस्तस्य तदुपाधिकत्व व्यवहारोपि नैतावताः ज्ञानोपाधिपरित्यागः अंतःकरणोपाधिपरिछिन्नस्यैव चैतन्यस्य जीवत्वे योगिनः कायव्यूहाधिष्ठानत्वानुपपतेः || एतदुक्तं भवति | कर्तृत्वादि धर्माणां केवलाज्ञानपरिणामत्वा भावेन तदुपाधिमात्रान्नजीवस्य कर्तृत्वादि धर्मरूपविशेषलाभः किं तु कर्तृत्वादि विशेष वदंतःकरण तादात्म्याध्यासादेवतल्लाभ इति न तदुपाधिनिरूपणं व्यर्थमिति | अत इति | अंतःकरणस्य विशेषाभिव्यक्ति स्थानत्वाभ्युपगमादित्यर्थः | व्यवहारोपीति | कार्योपाधिरयं जीव इति श्रुतौ सूत्रभाष्यादिषु चेति शेषः | विभेदजनके ज्ञानेनाशमात्यंतिकं गते | आत्मनो ब्रह्मणोभेदमसंतंकः करिष्यतीति विष्णुपुराणवचने जीवस्याज्ञानोपाधिकत्व व्यवहारवदित्ययेरर्थः | ननु कार्योपाधिरयं जीव इति श्रुति वलादज्ञानोपाधि परित्याग उचितः कार्योपाधिकत्वविशेषणस्य कारणोपाधिकत्व व्यावर्तकत्वादित्याशंक्य स्मृतिविरोधान्न तस्य कारणोपाधिव्यावर्तकत्वमये यत इत्याशयेनाह | नैतावतेति | श्रुतौ कार्योपाधिकत्वविशेषणमात्रेणेत्यर्थः | ननु श्रुति विरोधे स्मृतेरेवान्यथा नयनमुचितं | तत् नयनप्रकार श्रेत्थं
137 SK प्. ८८अ) स्मृतावज्ञानपदं तत्कार्यांतःकरणपरं जीवोपाध्यंतःकरणस्य नातात्वेप्यज्ञान इत्येक वचनं जात्यभिप्रायं तथा चांतःकरणावछिन्न आत्माजीवस्तदनवछिन्न आत्मा ईश्वर इति जीवब्रह्मविभागप्रयोजकमंतःकरणमिति स्मृत्यर्थो भविष्यतीति इमामाशंकां निवर्तयितुं कार्योपाधिमात्रस्य जीवतोपाधित्वं निराकरोति | अंतःकरणोपाधि परिछिन्नस्यैवेति नाज्ञानोपाधिकस्यैत्येव कारार्थः | अनुपपतेरिति कायव्यूहाधिष्ठानं हि युगपदनेकशरीर नियंतृत्वं तच्च योगिनो योगप्रभावान्निर्मितेषु सर्वशरीरेषु युगपदवथितस्य वक्तव्यं | नचांतःकरणावछिन्नरूपस्य योगिनस्तत्संभवति तस्य परिछिन्नतादक्षानस्य जीवोपाधित्वे तु तत्संभवति तस्य व्यापकत्वेन तदुपाधिकस्य योगिजीवस्य युगपत्सर्वशरीरेषु सन्निधानोपपतेस्तथा च श्रुत्यपेक्षयास्मृतेर्दुर्वलत्वेपि कायव्यूहाधिष्टान्वानुपपति सहितस्मृतेर्बलवत्वात् तदनुरोधेन कार्यापाधिरयं जीव इति श्रुतौ कार्योपाधिपदं स्वरूपकथनमात्र परं न कारणोपाधि व्यावर्तक विशेषण परमिति भावः || न च योगप्रभावात् | योगिन्ॐतःकरणं काय प्. ८८ब्) व्यूहाभिव्यक्ति योग्यं वैपुल्यं प्राप्नोतीति तदवछिन्नस्य काय व्यूहाधिष्ठानत्वं युज्यत इति वाच्यं | प्रदीपवदावेशस्तथा हि दर्शयतीति शास्त्रोपांत्याधिकरणभाष्यादिषु कायव्यूहे प्रतिदेहमंतःकरणस्य चक्षुरादि वद्भिन्नस्यैव योगप्रभावात् सृष्टेरुपवर्णनात् ||
138 SK वैपुल्यमिति व्यापकत्वमित्यर्थः | अधिष्ठानत्वमिति प्रेरकत्वमित्यर्थः | प्रदीपवदिति | यथा एकस्य प्रदीपस्यानेक वर्तिकावेशः तथा योगिनो योग प्रभवादनेकेष्वेकदा आवेशः यद्युपि प्रदीपस्य वर्त्याविष्टदीपानां च भेदोस्ति योगिनस्तु सर्वदेहेष्वैक्यमिति दृष्टांतदार्ष्टांतिकयोर्वैषम्यमस्ति | तथापि दीपत्वजात्यभेदं व्यक्तिश्चारोप्यतयोः संगतिरवगंतव्या तथाहि दर्शयति श्रुतिरेकस्य योगिनोनेकधाभावं स एकधा भवंति त्रिधा भवति पंचधा सप्तधेत्यादिका न च योगिनो युगपदनेक शरीरेष्ववस्थानमंतरेण श्रुतिसिद्धानेकधा भाव उपपद्यत इति सूत्रार्थः | सृष्टेरुपवर्णनादिति | तथा एकस्यैवांतः करणस्य कायव्यूहाभिव्यक्तियोग्यवैपुल्याभ्युपगमे भाष्यादि विरोध इति भावः | अत्र प्. ८९अ) यद्यपि योगिनो निजसिद्धांतःकरणमेव योगप्रभावाद्वैपुल्यं प्राप्यस्वावछिन्नचैतन्यरूपस्य योगिनः काय व्यूहाधिष्ठान भोगादिकं घटयतीत्येव भाष्यादीनां तात्पर्यं वक्तुमुचितं न तु यथा श्रुतं नानांतःकरणसर्गे आगंतुकानेकांतःकरणसृष्ट्युपगमे असत्कार्यवादापातात् कल्पनागौरवाच्च हिरण्यगर्भादीनां योगप्रभावादेवांडव्यापि समष्ट्यांतःकरणाभ्युपगमाच्च | न हि हिरण्यगर्भादीनां पूर्वजन्मनियजमानावस्थायां तदीयांतःकरणानां व्यापित्वे प्रमाणमस्ति | तथा सत्यस्मदाद्यंतःकरणानामपि व्यापित्वापतेः भाष्यादिषु अंतःकरणसृष्टिवर्णनस्यमतांतराभिप्रायत्वोपपतेश्च एषैव च योगशास्त्रेषु योगिनामनेक शरीरयोगप्रक्रियेति भाष्ये एवमतांतरोपदर्शनात् | योगशास्त्रेष्वेव च एष्य प्रक्रियेति | एव करान्वयोपपतेस्तथापि | शास्त्रोपांत्याधिकरण यथा श्रुतभाष्याद्यभिप्रायेणेदं दूषणमिति मंतव्यं || प्रतिबिंबे बिंबाद्भेदमात्रस्याध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वात् | न प्रतिबिंबरूप जीवस्य मुक्तान्वया संभव इति | न तदतिरेकेण
139 SK प्. ८९ब्) मुक्तान्वयावछिन्नरूपजीवांतरं वा प्रतिबिंबजीवातिरिक्तं जीवेश्वर विलक्षणं कूटस्थ शब्दितं चैतन्यांतरं वा कल्पनीयं अविनाशीवारेऽयमात्मेति श्रवणं जीवस्य तदुपाधिनिवृतौ प्रतिबिंबभावापगमेपि स्वरूपं न विनश्यतीत्ये तत्परं न तदतिरिक्त कूटस्थ नाम चैतन्यांतरपरं || वस्तुतस्तु अंतःकरणावछिन्न चैतन्यं जीवस्तदनवछिन्नमीश्वर इति पक्षे अंडांतर्गत चैतन्यस्य सर्वात्सना तदवछेदादनवछिव चैतन्यरूपेश्वरस्थांडाद्वद्बहिरेव सत्वं स्यादि वक्ष्यमाणदूषणे तात्पर्यं | यदि वा नवछिन्न चैतन्मीश्वर इत्यनेन निरुपाधिकं चैतन्यमीश्वर इति विवक्षितं तदा तस्य सर्वत्र सत्वेनांडाद्भिरेव सत्वापति दोषाभावेपि कारणोपाधिरीश्वर इति श्रुति विरोधं दोषो दुर्वारस्तस्मात्कारणोपाधिकत्वमीश्वरवज्जिवस्याप्युपगंतव्यं स्मृत्यनुसारादिति स्थितं यत्तु चित्रदीपे प्रतिबिंबचैतन्यरूप जीवस्य स्वरूपतो मिथ्यात्वा तस्य मुक्त्यन्वयायोग इति तदन्वययोग्यं कूटस्थ नामकं जीवेश्वरविलक्षणं किंचिच्चैतन्य परिकल्प्य
140 SK प्. ९०अ) चिच्चातुर्विध्यं दर्शितं | यदपि च दृक् दृश्य विवेके प्रतिबिंब मिथ्यात्वमेवाश्रित्य मुक्त्यन्वया यावछिन्न चैतन्यस्य पारमार्थिक जीवत्वं कल्पितं तदुभयमप्ययुक्तं | बिंबप्रतिबिंबयोर्भेदमात्रस्य कल्पिततया स्वतस्तयोर्भेदे मानाभावादित्याशयेनाह | प्रतिबिंबे बिंबादिति | स्वरूपस्य कल्पितत्व व्यवछेदो मात्र शब्दार्थः | न तदतिरेकेणेति | प्रतिबिंबजीवातिरेकेण जीवांतरं वा कूटस्थ शब्दित चैतन्यांतरं वा न कल्पनीयमिति संबंधः | एवं व्यावहारिक जीवातिरेकेण प्रातिभासिक जीवोपि न कल्पनीयः प्रमाणाभावान्नवव्यावहारिक जीवस्य स्वप्नकाले आवृतत्वेन तस्य तदा व्यवहर्तृत्वानुपपतिस्तत्कल्पने प्रमाणमिति वाच्यं | जीवचैतन्य आवरणाभावस्य साक्षिनिरूपणावसरे वक्ष्यमाणत्वेन जाग्रज्जिवस्य स्वप्नेपि व्यवहारकर्तृत्वोपपतेः योहं स्वप्ने श्रीकृष्णमद्राक्षंस एवेदानीं जाग्रत्पुनः तं स्मरामीति जाग्रत्स्वप्नदृष्टोरभेदप्रत्यभिज्ञानात् संस्कारोद्बोधाभावादि कारणवशादेव कदाचिद्ब्राह्मणत्वाद्यप्रतीत्युपपतेश्च न च स्वप्रपंचेन सह तदृष्टुर्वाध दर्शनं प्रातिभासिक जीवकल्पने प्रमाणमिति वाच्यं | प्रबोधकालेनाहं क्षत्रिय इत्यादि रूपवाध || प्. ९०ब्) जीवोपाधिनांतःकरणादिनावछिन्नं चैतन्यं बिंबभूत ईश्वर एवयोविज्ञानेतिष्वन्नित्यादि श्रुत्या ईश्वरस्यैव जीवसन्निधानेन दंतर्यामि भावेन विकारांतरवस्थान श्रवणादिति ||
141 SK क प्रत्ययस्यात्मन्यारोपित क्षत्रियत्वादि मात्रबाधकत्वेन स्वप्नद्रष्ट्रर्वाधत्वा भावादन्यथा पूर्वोदाहृत द्रष्ट्रैक्य प्रत्यभिज्ञा न विरोधातस्मात्प्रातिभासिक जीवकल्पनमपि प्रामाणिकं न भवतीति बोध्यं | यदपि चिच्चातुर्विध्यवादिभिरुक्तं तान्येवानुविनश्यति अविनाशी वा अरेयमात्मेति वाक्याभ्यां प्रकृते प्रज्ञान घनात्मनि विनाशित्वाविनाशित्वरूपविरुद्धधर्मद्वयप्रतिपादनातदुपपतये विनाशि प्रतिबिंब व्यतिरेकेण विनाशरहित कूटस्थ चैतन्यं सिध्यतीति तदपि मंदं | अविद्याप्रतिबिंबचैतन्यरूपे जीव एव प्रतिबिंबत्वरूपविशेषणांशताशाभिप्रायेण विनाशवचनस्य विशेष्य चैतन्यांशाभिप्रायेण विनाशाभाव प्रतिपादकवचनस्य चोपपतौ धर्मिभेद कल्पनस्य गौरवुपराहतत्वादित्याशयेनाह | अविनाशीवेति | न्वन्वविद्याप्रतिबिंबो जीवस्तत्बिंब ईश्वरः बिंबप्रतिबिंबानुगतचैतन्यं शुद्धचैतन्यमिति विवरणपक्षे देह
142 SK प्. ९१अ) द्वयोपादानतया तदछिन्नस्य पारमार्थिक जीवनामकतया कूटस्थ नामकतया च चिच्चातुर्विध्यवादिभिरंगीकृतस्य चैतन्यस्य कुत्रांतर्भाव उपेयनेन तावज्जिवे शुद्धचैतन्येवांतभीवः संभवति तयोरुपादानत्वाभावेन देहद्वयोपादानकूटस्थस्य तयोरंतर्भावायोगान्नापि बिंबभूतेश्वरे तस्यांतर्भावः संभवति ईश्वरस्य जीव तदुपाध्यंतःकरणादि सन्निहिततया देहादि विकारेष्ववस्थाने प्रमाणाभावात् | कूटस्थनामक चैतन्यस्य च कूटस्थवादिभिस्तथा त्वांगीकारादित्यत आह | जीवोपाधिनेति | अविद्याप्रतिबिंबरूपजीवस्य विशेषाभिव्यक्ति प्रयोजकौपाधिनेत्यर्थः | प्राणचक्षुरादिकमादि पदार्थः | ईश्वर एवति | न शुद्धं ब्रह्मनापि प्रतिबिंबरूपजीव इत्येव कारार्थः | चेतनाचेतनात्मक निखिलप्रपंचोपादानत्व प्रतिपादक श्रुतिस्मृति सहस्रस्य बिंबभूतेश्वरस्य देहाद्युपादानतया देहादि विकारेष्वंतरवस्थाने प्रमाणत्वात् | कूटस्थस्य च ततो भेदे मानाभावादिति भावः न केवलमुपादानत्वप्रतिपादकशास्त्रमेव तत्र प्रमाणं किं तु चेतनाचेतनात्मक सकलजगन्नियंतृत्व प्रतिपादकमंतर्यामि ब्राह्मणमपि बिंबभूतेश्वरस्य प्. ९१ब्) विकारेष्वंतरवस्थने प्रमणमित्याह | यो विज्ञाने तिष्ठन्नित्या || अन्ये तु रूपानुपहित प्रतिबिंबो न युक्तः सुतरां च नीरूपे गगनप्रतिबिंबोदाहरणमय्ययुक्तं || दिश्रुत्येति | विज्ञानादंतरोयं विज्ञानं न वेदयस्य विज्ञानं शरीरं यो विज्ञानमंतरोयमयतीत्यादि वाक्यमादि पदेन गृह्यते | अत्र विज्ञानपदं जीवपरं बृहदारण्यके | माध्यंदिमपाठेय आत्मनि तिष्ठन्निति पर्याय स्थाने काण्वपाठे यो विज्ञाने तिष्ठन्निति पर्यायाम्ना न दर्शनेन काण्वपाठे विज्ञानपदस्य आत्मपद समानार्थकत्वावगमादात्मपदं चात्र जीवपरं तस्य तत्र रूढत्वादात्मपदस्य जीवेश्वर साधारणत्वेपि नियम्यत्वलिंगेन प्रकृते जीवपरत्वावश्यं भावादिति भावः | जीवसन्निधानेनेति |
143 SK ईश्वरस्य जीवादि नियंतृत्वं हि व्यवहित राजादेः प्रजानियंतृत्ववत्र भवति | किं तु नियम्य जीवादि सन्निधानेनैव य आत्मनि तिष्ठन्निति सन्निधानप्रतीतेरित्यर्थः | अंतर्यामि ब्राह्मणवाक्यग्रहणं स्मृतेरप्युपलक्षणं | तथा च भगवद्गीता स्मृतिः ईश्वरस्सर्वभूतानाहृद्देशेर्ज्जनतिष्वति | भ्रामयन् सर्वभूतानियंत्रारूढानि प्. ९२अ) माययेति | भूतानि प्राणिनः यंत्रं शरीरं तदारूढत्वं तत्राहं ममाभिमान नवत्वं भ्रामयन्निति कर्मानुसारेण प्रवर्तयन्निवर्तयत्यर्थः | ईश्वरस्य नियंतृत्वं मायोपाधिकमेव न वास्तवमित्याशयेन माययेत्युक्तं | एवं चैतन्यस्य प्रतिबिंबत्वमुपगच्छताम्मतभेदेन जीवेश्वर विभागो दर्शितः | इदानीं तदमनभ्युपगंतॄणां मतेन जीवादि स्वरूपं दर्शयितुं चैतन्यस्य प्रतिबिंबं निराकरोति | अन्येतिति | रूपानुपहितेति | लोके रूपवत एव चंद्रादेः प्रतिबिंबो दृश्यतेन रूपरहितस्य वाय्वादेरिति व्याप्ति दर्शनान्नीरूप चैतन्यस्य प्रतिबिंबत्वासंभव इत्यर्थः | इतश्च चैतन्यस्य न प्रतिबिंबत्व संभव इत्याह | सुतरां नीरूप इति अविद्यांतःकरणादाविति शेषः | रूपवत् एव द्रव्यस्य प्रतिबिंब इति नियमस्य वक्ष्यमाणरीत्यागगने व्यभिचार सत्वेपि रूपवत्येवोपाधौ प्रतिबिंब इति नियमस्य न क्वचिदपि व्यभिचार इति मत्वासुतरामित्युक्तं | ननु नीरूपगगनस्य कूपजलतटाकादौ प्रतिबिंबानुभवान्निरूप द्रव्यस्य प्रतिबिंबाभाव इति नियमो नास्तीत्याशंक्याह | गगनेति | कूपजलादौ तावदा लोकप्रतिबिंबस्संप्रतिपन्नस्तस्मिन् गगनप्रतिबिंबत्वभ्रमो लोकानामिति कल्प्यतेन तु वस्तुतः तत्र गगन प्रतिबिंबोस्ति उक्त प्. ९२ब्) नियम विरोधात् ||
144 SK गगनाभोगव्यापिनि सवितृकरमंडले सलिले प्रतिबिंबिते गगनप्रतिबिंबत्व व्यवहारस्य भ्रममात्रमूलकत्वात् | ध्वनौवर्णप्रतिबिंबत्ववादोप्युक्तः व्यंजकतया सन्निधानमात्रेण ध्वनि धर्माणामुदात्तत्वादनां वर्णेष्वारोपोपतेर्ध्वनेर्वर्ण प्रतिबिंबोपाधिकत्व कल्पनायानिःप्रमाणकत्वात् || भ्रमप्रयोजकं दोषमाह | गगनाभोगव्यापिनीति आभोगो विस्तारः गगनो परिभागे व्याप्यवर्तमानस्य सवितृकिरणमंडलादेर्जले प्रतिबिंबदशनातदनुगगनस्य जले प्रतिबिंब भ्रम इत्यर्थः | ननु यथा वहिर्नीलं नभः विशालं नभ इत्यादि रूपेण गगनमनुभूयते | एवं कूपतटाकादि जलेपि नीलं नभो विशालं नभ इत्यादिरूपोनुभवस्सर्व संप्रतिपन्नः | न च कूपजलादौ प्रतीयमानवैशाल्यादि युक्तां नभो वस्तुतोस्मि | अतः प्रतिबिंबरूपमेव | तत्र दृश्यमानं नभो भवतीति वक्तव्यं | ततश्च कथं गगन प्रतिबिंबापलापः क्रियते | न च नीरूपस्य
145 SK प्. ९३अ) प्रतिबिंबासंभवादिति वाच्यं | रूपसंख्या परिमाणादेर्नीरूपस्यापि प्रतिबिंब दर्शनान्न च द्रव्यत्वमपि विशेषणं विवक्षितमिति वाच्यं | सिद्धांते द्रव्यगुणादि परिभाषाया अनुभ्युपगमातदभ्युपगमपि गगनप्रतिबिंबानुरोधेन न रूपोपहित द्रव्यस्य प्रतिबिंबः तदुपहितत्वं च वस्तुतः स्वगतरूपेण स्वस्मिन्नारोपित रूपेण वेति नियमकल्पनोपपतेश्च | तथा च बहिरारोपित नैल्यादि विशिष्टगगनस्य जलादौ प्रतिबिंबाभ्युपगमेन किंचिद्बाधकं न च जलादौ संप्रतिपन्नालोकप्रतिबिंबातिरिक्त गगनप्रतिबिंबाभ्युपगमे गौरवमेव बाधकमिति वाच्यं | आलोकप्रतिबिंबे गगनप्रतिबिंबत्व भ्रमाभ्युपगमेपि तद्भ्रमविषयस्य आलोकप्रतिबिंबाधिकरणकस्य शुक्तिरूप्यादि वदनिर्वचनीयस्य गगनप्रतिबिंबत्वस्याभ्युपगंतव्यत्वेन गौरवस्य तुल्यत्वादनुभवानुसारि गौरवस्यादोषत्वाच्च तस्मादूपवत एव द्रव्यस्य प्रतिबिंब इति नियमस्य गगनप्रतिबिंबस्थले व्यभिचारो दुर्वार इति चेत्सत्यं | तथापि चैतन्यस्य प्रतिबिंबो न संभवति नीरूपांतःकरणादेः प्रतिबिंबोपाधित्वासंभवादित्यत्रैव तात्पर्यं | ननु नीरूपेपि ध्वनौ नीरूपद्रव्यात्मक वर्णानां प्रतिबिंबोस्तीति वक्तव्यं | तथा सत्येव दर्पणश्यामतायाः दर्पणगत प्रतिबिंबे प्. ९३ब्) मुख इवध्वनिगतानांतारत्वादीनां ध्वनिगतवर्ण प्रतिबिंबद्वारावर्णेष्वारोपस्संभवति नान्यथा | एवं नीरूपांतःकरणादौ नीरूपात्मनः प्रतिबिंबसंभव इत्याशंक्य दृष्टांतं विघटयति | ध्वनाविति प्रतिध्वनिरपि न पूर्वशब्दप्रतिबिंबः पंचीकरणप्रक्रियया पटहययोनिधिप्रभृति शब्दानां क्षिति सलिलादि शब्दत्वेन प्रतिध्वनेरेवाकाशशब्दत्वेन तस्यान्यशब्दप्रतिबिंबत्वायोगात् | वर्णरूपप्रतिशब्दोपि न पूर्ववर्ण प्रतिबिंबः वर्णाभिव्यंजकध्वनि निमित्तक प्रतिध्वनेर्मूलध्वनि वदेव वर्णाभिव्यंजकत्वेनोपपतेः | तस्मात् घटाकाशवदंतःकरणावछिन्नं चैतन्यं जीवः तदनवछिन्नं चैतन्यमीश्वरः ||
146 SK ननु पटहाख्य वाद्यविशेषादि शब्दोत्पति काले पाषाणविशेषादि सन्निहिताकाश प्रदेशेषु प्रतिध्वनि श्रूयते सः पूर्वशब्दप्रतिबिंब एव नमख्य ध्वनिस्तदुत्पत्तौ कारणाभावा तथा च यथा नीरूपाकाशप्रदेशेषुनीरूपध्वनेः प्रतिध्वनिनिरूपः प्रतिबिंबः प्. ९४अ) तथा प्रकृते किं न स्यादिति नेत्याह | प्रतिध्वनिरपीति | न च प्रतिध्वनेरुत्पादकाभावश्शंकनीयः आकाशस्यैवोपादानस्य सत्वात्पूर्वशब्दस्य निमितकारणस्य सत्वाच्च | न च प्रतिध्वनेः प्रतिबिंबत्वेप्याकाशगुणत्वं किं न स्यादिति वाच्यं | बिंबप्रतिबिंबयोर्भेदपक्षे प्रतिध्वनिरूप प्रतिबिंबस्य प्रातिभासिकत्वेन व्यावहारिक गुणत्वानुपपतैस्तदभेदपक्षे बिंबभूत पृथिव्यादिशब्द पेक्षया प्रतिधवनिरूप प्रतिबिंबस्य भेदाभावेन तस्याकाशगुणत्वानुपपतेरिति भावः | ननु वर्णरूप प्रतिशब्दस्य वर्णप्रतिबिंबत्वमवश्यं वाच्यं | न तु साक्षाद्वर्णरूपत्वं प्रतिवर्णाभिव्यक्ति स्थले वर्णव्यंजक कंठताल्वादेरभावा तथा च यथा तत्र पर्वत गुहादि सन्निहितेषु नीरूपेष्वाकाश प्रदेशषुनीरूपाणां वर्णानां प्रतिबिंबस्तथा प्रकृते किं न स्यादिति नेत्याह | वर्णरूपप्रतिशब्दोपीति | प्रतिध्वनिवदित्यपि शब्दार्थः कंठताल्वादि स्थलेपि न कंठादेर्वर्णव्यंजकत्वं किं तु कंठताल्वाद्यभिघातजन्यध्वनेस्तथा च यथा मूलध्वनिवर्णव्यंजकः | एवं प्रतिवर्णाभिव्यक्तिस्थले उत्पन्नः प्रतिध्वनिरेव तत्र वर्णानां व्यंजकः संभवतीति | न प्रतिवर्णानां प्रतिबिंबरूपत्वमभ्युपगंतव्यमित्यर्थः चैतन्यप्रतिबिंबनिराकरणमुपहरति | तस्मादिति | चैतन्य प्. ९४ब्) प्रतिबिंबा संभवादित्यर्थः ||
147 SK न चैव मंडांतर्वर्तिनश्चैतन्यस्य ततदंतःकरणोपाधिभिः सर्वात्मनाजीवभावेनावछेदा ततदवछेदरहित चैतन्यरूपस्यैश्वरस्यांडाद्बहिरेव सत्वं स्यदिति यो विज्ञाने तिष्ठन्नित्यादावंतर्यामि भावेन विकारांतरवस्थान श्रवणं विरुध्यते | प्रतिबिंबपक्षेत जलगतस्वाभाविकाशे सत्येव प्रतिबिंबाकाश दर्शनादेकत्र द्विगुणीकृत्य वृतिरुपपद्यते इति वाच्यं | यतः प्रतिबिंबपक्षेपि उपाधावनंतर्गतस्यैव चैतन्यस्य तत्र प्रतिबिंबाच्यः | न तु जल चंद्रन्यायेन कृत्स्न प्रतिबिंबः तदंतर्गत भागस्य तत्र प्रतिबिंबासंभवात् | न हि मेघावछिन्नस्याकाशस्यालोकस्य वा जले प्रतिबिंबवत् जलांतर्गतस्यापि तत्र प्रतिबिंबो दृश्यते न वा मुखादीनां बहिस्थिति प्. ९५अ) समये इव जलांतर्निमज्जनेपि प्रतिबिंबोस्ति || अंतःकरणानवछि चैतन्यस्येश्वरत्वे अंतःकरणादिषु सर्वविकारेषु परमेश्वरस्यांतर्यामि भावेनावस्थान प्रतिपादक श्रुति विरोधं शंकते | न चैवमिति | विरुध्यत इति | तथा च श्रुति विशेधपरिहाराय प्रतिबिंबपक्ष एव स्वीकर्तव्य इति भावः प्रतिबिंबपक्षाश्रयणेपि श्रुति विरोधमाशंक्याहं | प्रतिबिंबपक्षेत्विति | तु शब्दसूचितं विशेषमेव दर्शयति | जलगतेति द्विगुणीकृत्येति | प्रतिबिंबरूपजीवभावेन तदुपाध्यंतर्यामि भावेन चेत्यर्थः | प्रतिबिंबपक्षेपि अंतर्यामि ब्राह्मणविरोधो दुष्परिहर इत्याह | यत इति | यत ईश्वरे अंतर्यामि ब्राह्मणां तस्याभावस्तुल्योतो न च वाच्यंमिति संबंधः | तत्रेति | अंतःकरणादावित्यर्थः | ननु यथा जले कृत्स्नस्य चंद्रमंडलस्य प्रतिबिंबस्तथा कृत्स्नस्यैव चैतन्यस्यांतःकरणादौ प्रतिबिंबोस्तनतूपाध्यनंतर्गत चैतन्यभागस्यांडाद्बहिर्भूतस्य तथा च बिंबभूतेश्वरस्यांडातरेपि सत्वान्नांतर्यामि ब्राह्मणविरोधतौल्यमिति नेत्याह | न त्विति | असंभवमेव दर्शयति | न हीति | आलोकस्य वेति बहिस्थितस्येति शेषः जलांतर्गतस्यापीत्या
148 SK प्. ९५ब्) काशादेरित्यनुषंगः तत्रेति जलादावित्यर्थः उदाहरणांतरमाह | नवेति || अतो जलप्रतिबिंबं प्रतिमेघाकाशादेरिवांतःकरणाद्युपाधि प्रतिबिंबं प्रतितदनंतर्गतस्यैव बिंबत्वं स्यादिति बिंबभूतस्य विकारांतरवस्थानायोगादीश्वरेंतर्यामि ब्राह्मणांजस्याभावस्तुल्यः ततः किं तत्राह | अत इति | उपाध्यंतर्गतभागस्य तत्र प्रतिबिंबा संभवादित्यर्थः | तदनंतर्गतस्यैवेति चैतन्यस्येति शेषः | दृष्टानुरोधित्वात्कल्पनाया इति भावः विकारांतरिति | अंटांतर्गत चैतन्यभागस्य उपाध्यांतर्गतत्वातद्बहिस्थितस्यिव चैतन्यस्य बिंत्वं वाच्यंमिति बिंबभूतेश्वरोप्यंडात् बहिरेव स्यादित्यर्थः | यदि च प्रतिबिंबपक्षे ईश्वरस्य सर्वांतर्यामित्वप्रतिपादक श्रुत्याद्यनुसारेण लोकदृष्टिमनादृत्यकृत्स्न चैतन्यप्रतिबिंबमुपेत्यांतर्यामि ब्राह्मणांजस्यमुपपाद्यते | तदा नवछिन्नचैतन्यमीश्वर इति पक्षेप्यंतःकरणाभावावछिन्नचैतन्यमीश्वर इति विवक्षितमंतःकरणस्य कल्पितत्वैन चैतन्येतःकरणाद्यवछेदेनाप्यंतःकरणाभावस्य वास्तवस्य मत्वेन
149 SK प्. ९६अ) तदवछिन्नचैतन्यरूपेश्वरस्य सर्वविकारांतरवस्था न संभवा तत्प्रतिपादक ब्राह्मणांजस्य तुल्यमिति | समाधानं बोध्यं | अभावस्यापीश्वरोपाधित्वमुक्तं | तृप्तिदीपे | अंतःकरणसाहित्यराहित्याभ्यां विशिष्यते | उपाधिं जीवभावस्य ब्रह्मतायाश्च नान्यथा | यथा विधिरुपाधिः स्यात् | प्रतिषेधस्तथा न किं सुवर्णलोहभेदेन शृंखलात्वं न भिद्यते अतद्व्यावृतिरूपेण साक्षाद्विधि मुखेन च वेदांतानां प्रवृतिः स्यात् द्विधेत्याचार्य भाषितमिति | श्लोकानामयमर्थः | जीवत्व ब्रह्मत्वयोरुपाधिरंतःकरणसाहित्यराहित्याभ्यां विशिष्यते भिद्यते तत्साहित्यं जीवत्वोपाधिः | तद्राहित्यं ब्रह्मताया उपाधिरिति जीवेश्वरोपाधिभेद इत्यर्थः | नान्यथा न प्रकारांतरेण जीवभावाद्युपाधिरित्यर्थः | ननु भावस्यैवोपाधित्वं नाभावस्येत्याशंक्य विनिगमनाविरहमाह | यथेति | भाववदभावस्य व्यावर्तकोपाधित्वे विशेषो नास्तीत्यत्र दृष्टांतमाह | सुवर्णेति | शृखलात्वं नामयथेष्टसंचारव्यावर्तकत्वं | ननु भावरूपांतःकरणादेर्द्रष्ट्रत्वादिरूपेण जीवोपलब्धि साधनत्वा तस्य जीवोपाधित्वं युक्तमित्याशंक्यतर्ह्यंतःकरणनिषेधस्यापि ब्रह्मोपलब्धि साधनं त्वात् तस्य ब्रह्मोपाधित्वं युक्तमित्यभिप्रेत्यत तदुपाधि प्. ९६ब्) निषेधस्य ब्रह्मोपलब्धि साधनत्वं भाष्यकारैरुक्तमित्याह | अतद्व्यावृतीति | अत्र तत् शब्देन ब्रह्मोच्यते तत्र भवतीत्यतदंतःकरणादि रूपमुपाधिजातं तस्या ततो व्यावृतिर्निषेधः तत् रूपेण तद्बोधनद्वारेणेत्यर्थः | साक्षाद्विधिमुखेन च बुद्धेस्साक्षीमनसस्साक्षी सर्वस्य साक्षी पश्यन् शृण्वन्मन्वान इत्यादि प्रकारेण च प्रवृतिर्बोधकतया ब्रह्मणि तेषां प्रा
150 SK एतेनावछिन्नस्य जीवत्वे कर्तृभोक्तृसमययोस्तत्र तत्रांतःकरणावछेद्य चैतन्यप्रदेशस्य भिन्नत्वात्कृतहानाकृताभ्यागमप्रसंग इति निरस्तं प्रतिबिंबपक्षेपि स्वानंतर्गतस्य स्वसन्निहितस्य चैतन्यप्रदेशस्यांतःकरणे प्रतिबिंबस्य वक्तव्यतया तत्र तत्रांतःकरणस्य गमने बिंबभेदा तत्प्रतिबिंबस्यापि भेदावश्यं भावेन दौषतौल्यात् | न चांतःकरणप्रतिबिंबो जीव इति पक्षे दोषतौल्येप्यविद्याप्रतिबिंबो जीवः तस्य च तत्र तत्र गत्वरमंतःकरणं जलाशय व्यापिनो महामेघमंडल प्रतिबिंबस्य तदुपरिवि- प्. ९७अ) सृत्वरस्फीतालोक इव तत्र विशेषाभिव्यक्तिहेतुरिति पक्षेनायं दोषः | अंतःकरणवदविद्याया गत्यभावेन प्रतिबिंबभेदानापतेरिति वाच्यं || माण्यमिति | तथा च उक्तरित्याप्रतिबिंबावछेदपक्षयोरुभयोरपि अंतर्यामि ब्राह्मणांजस्याभावांजस्ययोस्तुल्यत्वे सति सुतरां नीरूप इत्यादिना चैतन्यप्रतिबिंबा संभवस्य दर्शितत्वात्प्रतिबिंबपक्षंत्यक्ता अवछेद पक्ष एवादरणीय इति भावः | एवमवछेदपक्षे दोषांतरमपि वक्ष्यमाणदोषतौल्यादि नैव निरस्तमित्याह | एतेनेति | स्वानंतर्गतस्येति | प्रागुक्तयुक्तिरत्रानुसंधेया स्वसन्निहितस्येति विशेषणस्या यमभिप्रायः यदि सर्वेष्वंतःकरणेषु तदनंतर्गतस्यांडाद्रबहिर्विद्यमानस्यैव चैतन्यभागस्यैकस्य प्रतिबिंबस्संभवेत् | तदा बिंबचैतन्य प्रदेशभेदाभावात् | प्रत्यंतःकरणं बिंबचैतन्य प्रदेश भेदेन प्रतिबिंबभेदापादनेन संभवेत् | न च तथा संभवति व्यवहितस्य प्रतिबिंबायोगात् किं तु तत्र तत्रांतःकरणे सन्निहितस्यैव चैतन्य प्रदेशस्य बिंबत्वं वाच्यं | ततश्चेह परत्र च प्रतिबिंबभेदापादनं युक्तमिति | दोषतौल्यादिति | कृतहानाकृताभ्यागमप्रसंगदोषतौल्यादित्यर्थः | अविद्यायां
151 SK प्. ९७ब्) चित्प्रतिबिंब ईश्वरः अंतःकरणे चित्प्रतिबिंबो जीव इति पूर्वप्रदर्शिते संक्षेप शारीरकपक्षै दोष तौल्येपि विवरणादि पक्षे उक्त दोषाप्रसक्तेस्तस्योपादेयत्वं स्यादिति शंकते | न चेति | गत्वरंगमनशीलं तदुपरीति जलाशयोपरीत्यर्थः | विसृत्वरेति | यथा तत्र तत्र जल प्रदेशेषु विसृत्वरोगमनशीलो मेघछिद्रेभ्यो निसृतः स्फीतालोकखंडो महामेघमंडल प्रतिबिंबस्य जलाशय व्यापकस्य विशेषेण स्फुरणहेतुस्तथा तत्र तत्रेह परत्र च कर्तृत्वभोक्तृत्वादि विशेषाभिव्यक्ति हेतुरंतःकरणमिति पक्ष इत्यर्थः | कृतहानादि दोषाभावे हेतुमाह | अंतःकरणवदिति || तथैवावछेदपक्षेप्यविद्यावछिन्नो जीव इत्यभ्युपगमसंभवात् | तत्राप्येकस्य जीवस्य क्वचित्प्रदेशे कर्तृत्वं प्रदेशांतरे भोक्तत्वमित्येवं कृतहानाकृताभ्यागमदोषापनुतये वस्तुतो जीवैक्यस्य शरणीकरणीयत्वेन तन्न्यायादंतःकरणोपाधिपक्षेपि वस्तुतश्चैतन्यैकस्य तदवछेदकोपाध्यैकस्य च तत्राभ्युपगमेन दोषनिराकरणसंभवाच्च || प्. ९८अ) यदि प्रतिबिंबवादिनांतःकरणप्रतिबिंबो जीव इति पक्षमुक्तदोषतौल्येन परित्यज्याविद्याप्रबिंबो जीव इति पक्षः स्वीक्रियते | तदा अवछेद वादिनापि | अंतःकरणावछिन्नो जीव इति पक्षं कृतहानादि दोषयुक्तं त्यक्ता उक्तदोषरहितमविद्यावछिन्नो जीव इति मतमुपादीयत इत्याह | तथैवेति | जीव इति | उपलक्षण चैतत् अविद्यायाः कल्पितत्वेन वास्तव तदभावावछिन्नश्चिदात्मा ईश्वर इत्युपगमसंभवाच्चेत्यपि द्रष्टव्यं एवमविद्याप्रतिबिंबो जीव इति पक्षे कृतहानादिदोषाभावमुपेत्यतत्साम्यमविद्यावछिन्नस्य जीवत्वपक्षे दर्शितमिदानीमंतःकरणावछेदपक्षे कृतहानादिदोषाभावं समर्थयितुमविद्या प्रतिबिंबो जीव इति पक्षेपि कृतहानादिदोषमाशंक्यपरिहरति | तत्रापीति | अविद्याप्रतिबिंबो जीव इति पक्षेपीत्यर्थः | क्वचित् प्रदेश इति | ब्राह्मणादि शरीरगतांतःकरणावछिन्नप्रदेश इत्यर्थः | प्रदेशांतर इति |
152 SK देवादि शरीर गतांतःकरणावछिन्नप्रदेश इत्यर्थः | वस्तुत इति | प्रदेशभेदे सत्यपि इह परत्र च अविद्याप्रतिबिंबरूपजीवैक्यमात्रेण कृतहानादि दोषः परिहर्तव्यः | प्रतिबिंब वादिनागत्यंतराभावादित्यर्थः | सोयं परिहारप्रकार्ॐतष्करणावछेदपक्षेपि समान इत्याह | प्. ९८ब्) तच्छा?यादिति | वस्तुत इति | इह परत्र चांतष्करणावछेद्यचैतन्यप्रदेशभेदेपि चैतन्यस्य वस्तुत एकत्वात् | न कृतहानादि दोष इत्यर्थः | ननु वास्तव चैतन्यैक्यमात्रस्य जीवांतरसाधारणत्वादन्यकृत कर्मणोन्यस्य भोगप्रसंग इत्यत आह | तदवछेदकेति | तत्पदं चैतन्यपरं | तथा चैकांतष्करणावछिन्न चैतन्यमेको जीवः अंतःकरणांतरावछिन्नचैतन्यमन्यो जीव इति स्वीकारात्रोक्ताति प्रसंग इति भावः | अस्मिन्नवछेदपक्षे प्रायुक्तरीत्या वास्तवांतष्करणाभावावछिन्न चैतन्यमीश्वरः | कारणोपाधिरीश्वर इति | श्रुत्यनुरोधेनाविद्यावछिन्नचैतन्यं वा ईश्वर इति बोध्यं || न चावछेदपक्षे यथा ह्ययंज्योतिरात्माविवस्वानयो भिन्नाबहुधैकोनुगछन् उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोयमात्मा | अत एव चोपमासूर्यकादि वदिति श्रुतिसूत्राभ्यां विरोधः | अंबुवदग्रहणात्नुन तथात्वमित्युदाहृत सूत्रानंतरसूत्रेण || अस्य पक्षस्य श्रुति सूत्राभ्यां विरोधं शंकते | न चावछेदपक्ष इति | यथा एको विवस्वान् पात्रभेदेन भिन्ना अपो अन
153 SK प्. ९९अ) गछन् वहुजलपात्रेषु प्रतिबिंबितस्सन्निति यावद्बहुधाभेदरूपः क्रियते औपाधिकं नानात्वं प्रतिपद्यते एवं देवः स्वप्रकाश आत्मास्वत एकस्सन् क्षेत्रेषूपाधिषु प्रतिबिंबितो भेदरूपः क्रियते नानात्वं लभ्यत इति यावत् | यथा एकस्य सूर्यस्य बहुषूपाधिषु प्रतिबिंबितत्वप्रयुक्तो भेद एवमात्मनोपि क्षेत्रेषु प्रतिबिंबित्वत प्रयुक्तमेव नानात्वमिह विवक्षैतमिति वक्तव्यमन्यथा दृष्टांत दार्ष्टांतिकयोरतुल्यत्वापत्यातयोरसामंजस्य प्रसंगा तथा चावछेदपक्षः श्रुतिविरुद्ध इत्यर्थः | एवमेक एव तु भूतात्माभूते भूते व्यवस्थितः | एकधा बहुधा चैव दृश्यते जल चंद्रवत् रूपं रूपं प्रतिरूपोवभूव जीवेशावाभासेन करोतीत्यादि श्रुतयोपि चैतन्यस्य प्रतिबिंबावगमकत्वेन द्रष्टव्याः भूतानां ब्रह्मादिस्तंवपर्यंतानामात्मास्वरूपभूतः परः भूते भूत इति वीप्सया ये सर्वे प्रतिबिंबोपाधयो गृह्यंते तेषु प्रतिबिंबित तया व्यवस्थितस्सन् बहुधा दृश्यते | स्वतस्तशास्त्रादेकधा दृश्यते | रूपशब्द उपाधिपरः | अत्रापि विशासर्वोपाधिसंग्रहार्था प्रतिरूपः प्रतिबिंबः पुरुषप्रतिबिंबे पुरुषप्रतिरूपोयमिति प्रयोगदर्शनात् | त्रितीयाध्यायगतसूत्रमुदाहररति | अत एवेति | यतश्चिदात्मनः स्वाभाविकमेकत्वं नानात्वं चौपाधिकं श्रुतिषु विवक्षितमत एव तस्यौपाधिक प्. ९९ब्) नानात्वे जलादिषु प्रतिबिंबित सूर्यादिर्दृष्टांतत्वेन श्रुतिषूपादीयत इति सूत्रार्थः | रूपं रूपमिति | श्रुतौ प्रतिरूपशब्दो न प्रतिबिंबवाचकः वायुर्यथैकोभवनं प्रविष्टो रूपं रूपप्रतिरूपोवभूवेत्यादौ व्यभिचारादतः सूर्यादि प्रतिबिंबदृष्टांत स्वारस्यादेव चैतन्यप्रतिबिंबो वक्तव्यस्तं प्रतिबिंबं स्वयमेव सूत्रकृदाक्षिपति अंबुवदिति ||
154 SK यथा सूर्यस्य रूपवतः प्रतिबिंबोदय योग्यं ततो विप्रकृष्टदेशं रूपवज्जलं गृह्यते नैवं सर्वगतस्यात्मनः प्रतिबिंबोदययोग्यं | किंचिदस्ति ततो विप्रकृष्टमिति प्रतिबिंबासंभवमुक्त्वा वृद्धिह्रासभाक्त्वमंतर्भावादुभयसामंजस्यादेवमिति | तदनंतरसूत्रेण यथा जलप्रतिबिंबितः सूर्यौजलवृद्धौ वर्धते इव जलह्रासे ह्रसतीवजलचलने चलतीवेति तस्याध्यासिकं जलानुरोधिवृद्धिह्रासादि भाक्तं तथात्मन्ॐतष्करणादिनावछेदेनोपाध्यंतर्भावादाध्यासिकं तदनुरोधि वृद्धिह्रादि भाक्तमित्येवं दृष्टांतदार्ष्टांतिकयोः प्. १००अ) सामंजस्यादविरोधः इति स्वयं सूत्रकृतैवावछेदपक्षे तयोस्तात्पर्य कथनात् || सूत्रे दृष्टांतभागस्यार्थमाह | यथेति | प्रतिबिंबोदय योग्यत्वं स्वछत्वं | उपाध्यंतर्गतस्य न तत्र प्रतिबिंब इत्याशयेनाह | तत इति | बिंबभूतसूर्यापेक्षयेत्यर्थः | दार्ष्टांतिकभागं व्याचष्टे | नैवमिति | न तथात्वं चिदात्मनः प्रतिबिंबित सूर्यादि तुल्यत्वं नास्ति कुतः | अग्रहणात् अंतःकरणादेरात्मप्रतिबिंबोदय योग्यत्वेनाग्रहणात् | नह्यंतःकरणमात्मापेक्षया विप्रकृष्टदेशवत्सर्वगतत्वादात्मनः नापि तदुद्भूतरूपवदनंगीकारात् | चिदात्मनोपि सूर्यादिवद्बिंबत्व योग्यत्वेनाग्रहणाच्च | तस्य नीरूपद्रव्यत्वातस्मात्प्रतिबिंबित सूर्य चिदात्मनोर्दृष्ट्यांतदार्ष्टांतिकभावानुपपतिरिति | तु शब्दार्थः | दृष्टांतदार्ष्टांतिकयोः प्रतिबिंबितत्वांशेन साम्याभावेपि न तद्भावविरोधोस्तीति विवक्षितांशेन साम्यस्या तत्रापि संभवात् | न हि तयोस्सर्वसाम्यं क्वचिदपि संभवति | तथा सति दृष्टांतदार्ष्टांतिक भावोछेदप्रसंगादित्यभिप्रेत्यविवक्षितांशसाम्यं सूत्रकृद्दर्शयति | वृद्धिह्रासेति | तदनंतरेत्यत्र तत्पदमंबुवदिति सूत्रपरं सूत्रं व्याचष्टे यथेति आध्यात्मिकमिति भ्रांतिसिद्धमित्यर्थः | तथेति | चिदात्मनो बुद्ध्याद्यवछिन्नतया बुद्ध्याद्युपाधावंतर्भावात् | गजादि
155 SK प्. १००ब्) शरीरेंतष्करणवृद्धौ चिदात्मा वर्द्धते इवमशकादि शरीरेंतष्करणह्रासे ह्रसत इव तच्चलने चलत इव तद्भेदे भिन्न इव च भाति | तथा च श्रुतिः ध्यायती वलेलायति वेति | बुद्धौ ध्यायंत्यामात्माध्यायतीवतस्यांचलंत्यामात्मा चलतीव न तु वस्तुतो ध्यांयति चलति वेत्यर्थः | एवमध्यास सिद्धमंतष्करणानुरोधिवृद्ध्यादि मत्वमात्मनोत्र विवक्षितं साम्यमित्यर्थः | तयोरिति | चैतन्यस्य प्रतिबिंबितत्व गमक श्रुति तन्मूलकसूत्रयोः पूर्वमुदाहृतयोरित्यर्थः || घट संवृतमाकाशंनीयमाने यथा घटे घटोनीयेतनाकाशं तद्वज्जीवो नभोपमः अवछेदपक्षे न केवलं श्रुतिसूत्रविरोधाभाव एव किंतु श्रुति सूत्रानुग्रहोप्यस्तीत्याह | घटसंवृतमिति | घटसंवृतं घटावछिन्नमाकाशं प्रसिद्धमस्ति तच्च घटे नीयमानेपि न नीयते यथा यं दृष्टांतः | तद्वज्जीवो नभोपमः नभसः तुल्यः एतदुक्तं भवति | जीवस्य नभो यमशब्देन घटसंवृताकाशतुल्यत्वमभिदधता अवछिन्न चैतन्यरूपत्वमक्तमिति | एवं प्रवेश श्रुतिरपि चिदात्मनो बुध्याद्यवछेदकतमेव दृष्टत्वादि धर्मलाभं दर्शयति | न प्रतिबिंबभावकृतं | तथाहि | स एष इह प्रविष्ट आनखाग्रेभ्य इत्युपक्रम्य
156 SK प्. १०१अ) प्राणन्नेव प्राण्ॐ नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मन इति पुरुष विध ब्राह्मणे श्रूयते अयमर्थः सूः सर्ववेदांतेषु प्रसिद्धः एषः नामरूपव्याकृर्तृत्वेन सन्निहितः इह कार्यकारण संघाते नखाग्रमवधीकृत्य प्रविष्टः | ननु यथा देवदतस्य ग्रहे | सर्पस्य वा विले प्रवेशः प्रसिद्धः न तथा आत्मनः प्रवेशः कल्पयितुं शक्यते | तस्य सर्वगतत्वान्नापि जलामत्रेषु सूयादिरिव प्रतिबिंबभावलक्षणः प्रवेशः संभवति | तस्य तैतिरीयकादौ प्रवेशवाक्यविचारावसरे भाष्यकारे रेवनिरस्तत्वादतः कीदृशः प्रवेशः प्रविष्टपदेन विवक्षित इति जिज्ञासायां यथा जले प्रतिबिंबभावेन प्रविष्टस्य सूर्यादेस्तद्धर्मवतया उपलभ्यमानत्वमस्ति | एवमात्मनः संघाते अधिष्ठानतया प्राक् सिद्धस्यैव प्राणाबुध्यादि धर्मवतया उपलभ्यमानत्वमेव प्रकृते प्रविष्टपदेन विवक्षितं न तु मुख्यः प्रवेश इति मन्वानाश्रुतिः स्वयमेव प्रविष्टपदं व्याचष्टे | प्राणन्नेवेत्यादिना | प्राणम् प्राणचेष्टां प्राणोपाधि द्वारा कुर्वन् प्राणस्य प्राणमित्यादि श्रुतौ द्वितीय प्राणपदवाच्यो भवति | वदन् वागिन्द्रिय व्यापारं कुर्वन् वाचो हि वाचमित्यादि श्रुतौ द्वितीय वाक् शब्दवाच्यो भवति | रूपं पश्यन् रूपगोचर चाक्षुषवृतमंतष्करणतादात्म्यापत्याकुर्वन् चक्षुषा चक्षुरित्यादि श्रुतौ द्वितीय चक्षुश्शब्दवाच्यो भवति शृणन् शब्दगोचरां श्रोत्रकरणिकां प्. १०१ब्) वृत्तिमंतेष्करण तादात्म्यापत्यैव कुर्वन् श्रोत्रस्य श्रोत्रमित्यादि श्रुत्वौ द्वितीय श्रोत्रशब्दवाच्यो भवति मन्वानो मननरूपां चक्षुरादि निरपेक्षां वृतिं कुर्वन् मनसो मन इत्यादि श्रुतौ द्वितीय मनः शब्दवाच्यो भवति चक्षुरादि व्यापार ग्रहणं कार्यकारणसंघात व्यापारमात्रस्योप्रलक्षणं || अंशो नानाव्यपदेशादिति श्रुति सुत्राभ्यामवछेद पक्षस्यैव परिग्रहाच्च ||
157 SK संघात धर्माणां सर्वेषामात्मन्युपलभ्यमानत्वान्नन्वेवमप्यवछेद पक्षस्य द्वितीयाध्याय गतेन आभास एव चेति सूत्रेण तद्भाष्येण च विरोधो दुर्वारस्तयोश्चैतन्य प्रतिबिंबस्य स्वयमुक्तत्वात् | सूत्रार्थस्तु | आभास एव जीवः परमात्मनः प्रतिबिंब एव न निरुपाधिकः परमात्मैव जीवः | नापि न्यायमत इव परमात्मनस्सकाशादत्यंतभिन्नः तत्वमस्याद्यभेद श्रुतिविरोधात् | प्रतिबिंबस्य वस्तुतो बिंबाभिन्नत्वेन नाभासत्व पक्षे उक्त श्रुतिविरोध इति च शब्दार्थ इति | चेनु | उदाहृत सूत्रतद्भाष्ययोरुक्त प्रतिबिंबपक्षस्य भोक्तापतेरविभागश्चेत्स्यालोकवदिति सूत्रोक्त सिद्धंतवन्मतांतरत्वोपपतेर्न च तथा कल्पने किं विनिगमकमिति वाच्यं तृतीयाध्याये स्वयं सूत्रकृतैव न्याय पूर्वकं कृतस्य चैतन्य प्रतिबिंब निरासस्य नियामकत्वादाभाससूत्रे च जीवस्य
158 SK प्. १०२अ) प्रतिबिंबत्वे उपपत्यादेरनुपन्यासाच्च भोक्तापति सूत्रस्यायमर्थः | सर्वखल्विदं ब्रह्मेति श्रुत्याप्रपंचस्य ब्रह्माभेदः प्रतिपाद्यते | अहं ब्रह्मास्मीति श्रुत्या अहंशब्दार्थभूतभोक्तृवर्गस्य च ब्रह्माभेदः | प्रतिपाद्यते | तथा च श्रुति द्वयानुसारेण भोक्तृभोग्य प्रपंचयोरेक ब्रह्माभेदस्वीकारे भोग्य प्रपंचस्य भोक्तापतेर्भोक्तभेदापतेरेवं भोक्तुरपि भोग्याभेदापतेरेक ब्रह्माभिन्नयोस्तयोः परस्परमप्यभेदावश्यं भावान्नचेष्टापतिस्तथा सत्य विभागः प्रसज्येत भोक्तृभोग्ययोर्विभागबोधकप्रत्यक्षादि विरोधः प्रसज्येतेति चेदुच्यते | श्रुति सिद्धं भोक्तृभोग्ययोरेक ब्रह्माभिन्नत्वं तयोः प्रत्यक्षादि सिद्धं परस्परं विभक्तत्वं चेत्युभयं लोकवत्स्यादुपपद्यते | यथालोके | एकसमुद्रविकाराणां फेनबुद्बुदतरंगाणामेक समुद्राभिन्नत्वं परिणामानां परिणाम्यभेदस्यानुभव सिद्धत्वात् | तेषामेव फेनादीनां परस्परं भिन्नत्वं चास्ति भेदस्यानुभवसिद्धत्वादेवमेकब्रह्मपरिणामयोर्भोक्तृभोग्ययोरेक- ब्रह्माभिन्नत्वं परस्परं भिन्नत्वं चोपपद्यत इति न अद्वैत श्रुतीनां प्रत्यक्षादि विरोध प्रसक्तिरित्ययं च विरोधपरिहारो न सिद्धांत संमतः कूटस्थ नित्यस्य ब्रह्मणः परिणामित्वानुपगमात् | किं तु मतांतराभिप्रायेणेति भाष्यादिषु घंटाघोषः तथा प्रकृतेपीति संक्षेपः | अंश इति | जीव ईश्वरस्यांशः कुतः नानाव्यपदेशात् | प्. १०२ब्) य आत्मानमंतरोयमयतीत्यादि श्रुतिषु | नियम्यनियामकभावादीनां जीवेश्वरयोर्नानात्वस्य भेदस्य व्यपदेशादिति सूत्रभागस्याक्षरार्थः अत्रांशत्वं जीवचैतन्यस्य घटाकाशवदंतःकरणावछिन्नत्व रूपं विवक्षितं न तु मुख्यामंशत्वं | निरवयवस्य ब्रह्मणो मुख्यांशा संभवादिति तदधिकरणभाष्ये स्फुटमिति भावः ||
159 SK तस्मात्सर्वगतस्य चैतन्यस्यांतष्करणादिनावच्छेदोवश्यं- भावीत्यावश्यकत्वादवछेदो जीव इति पक्षं रोचयंते | अपरे तु न प्रतिबिंबोनाप्यवछेदो जीवः किं तु कौंतेयस्यैवराधेयत्ववदविकृतस्य ब्रह्मण एवाविद्ययाजीवभावः || अवछेद पक्षसमर्थनमुपसंहरति | तस्मादिति | प्रतिबिंबा संभवात् | अवछेदपक्षे विरोधाभावात्साधक सत्वाच्चेत्यर्थः | अवछेदा चैतन्यस्य प्रतिबिंबपक्षेपि सम्मततया उभयसंप्रतिपन्नस्य तस्यैव जीवत्वादि कल्पनं युक्तं लाघवादित्याशयेनाह | अवछेदोवश्यंभावीति | अवछेद इति | अंतःकरणावछिन्नो जीवः जीवग्रहणमुपलक्षणं | अविद्यावछिन्न ईश्वरः कार्योपाधिरयं जीवः कारणोपाधिरीश्वर इति श्रुतेर्जीवेशावाभासेन करोति माया च विद्या च स्वयमेव भवतीति श्रुतौ च आभास
160 SK प्. १०३अ) पदमवछिन्नपरं प्रतिबिंबासे भवस्योक्तत्वात् | माया पदं च प्रथमोपातजीवोपाधिभूतांतःकरणपरं कार्योपाधिरयं जीव इति श्रुतेरेव | मायापदोपातांतष्करणस्य च मूल प्रकृत्यात्मकत्वं प्रकृतिविकार भावप्रयुक्तं | पूर्वमनवछिन्नस्येश्वरत्वोक्तिस्तृप्ति दीपवचनानुसारेणाभावावछिन्नस्येश्वरत्वोक्तिश्च संभवमात्रेण न तु तात्पर्य तष्कारणोपाधिरीश्वर इति श्रुति विरोधात् | अनवछिन्नस्य ईश्वरत्वपक्षे तु तस्योपाध्यभावेन सर्वज्ञानकर्तृत्वादेरसंभवाच्चाभावस्य ईश्वरोपाधित्वपक्षपि समानोयं दोषः माया विद्या व्याकृता शक्त्यक्षराकाशादि शब्दित भावरूपोपाधेरिव तस्य सर्वज्ञत्वादि प्रयोजकत्वा योगात् | अत एव वाक्यवृतौ भगवत्पादैस्सर्वज्ञत्वादि प्रयोजकोपाधित्वमविद्याया दर्शितम्मायोपाधिर्जगद्योनिस्सर्वज्ञत्वादि लक्षण इतीति भावः | अथ क ईश्वरः कश्च जीव इति प्रश्ने प्रतिवचनत्वेन मतांतरमुत्थापयति | अपरे त्विति | कस्तर्हि जीव इति पृछति | किंत्विति | दृष्टांत पूर्वकं ब्रह्मैव जीव इत्युतरमाह | कौंतेयस्यैवेति | कुंतीकुमारस्यैव न तु तत्प्रतिबिंबादेरित्येवंकारार्थः | राधाया अपत्ये राधेयस्तस्य भावस्तत्वं तद्वदित्यर्थः | किंत्वविकृतस्यैवेति संबंधः | अवछेदप्रतिबिंबभावरहितस्येत्यर्थः | तत्र भाष्य वार्तिक सम्मतिं हेतुत्वेन दर्शयति | व्याधेत्यादिना | यथाराजकुले जातः कर्णो जन्मप्रभृति व्याधाकुल एव संवर्धितस्तज्जातीयैस्सहवासादि जनिक्षभ्रांतिलक्षणाविद्यया स्वात्मानं राधेयं मन्यते न तु स्वतस्सिद्धमपि प्. १०३ब्) कौंतेयत्वमनुभवति ततश्च ||
161 SK व्याधकुलसंवर्धितराजकुमार दृष्टांतेन ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया विमुच्यत इति बृहदारण्यकभाष्ये प्रतिपादनात् | राजसूनोः स्मृति प्राप्तौ व्याधभावो निवर्तते | यथैवमात्मनोज्ञस्य तत्वमस्यादि वाक्यत इति वार्तिकोक्तेश्च एवं च स्वाविद्यया जीवभावापन्नस्यैव ब्रह्मणः सर्वप्रपंच काल्यत्वादीश्वरोपि सहसर्वज्ञत्वादि धर्मैः स्वमोपलब्ध देवतावज्जीव कल्पित इत्याचक्षते || कौंतेयत्व प्रयुक्ताच्छ्रेयसस्सकाशात्प्रच्युतः सर्वत्र नानाविधशापावमानादि लक्षणं बहुविधदुःखं प्राप्तवान् | स च कदाचिद्भगवता विवस्वताकर्णकौंतेयोसित्वं नराधेय इत्युपदेशं कुर्वतास्मारित निजरूपस्सन् | तया स्मृत्याव्याधत्वराधेयत्वादेरविद्या क्व तस्य निवृतौ सत्यां व्याधेयत्वराधेयत्वकृतं नानाविधदुःख त्यक्ता कौंतेयत्व स्मृति प्रयुक्त श्रेयः प्राप्तवान् | तथा ब्रह्माप्यनादि सिद्धया स्वाविद्यया आवृतनिजरूपं सज्जीवभावं प्राप्यस्वतः सिद्धान्नित्यनिरतिशयानंद स्वरूपात्प्रच्युतं भवति |
162 SK प्. १०४अ) ततश्च संसरति एवं संसरद्ब्रह्म कदाचित् स्वप्नदशायामिव स्वाविद्याकल्पितेन गुरुणाशास्त्रेण चोत्पादितया सुगोचर विद्यया जीवभावादि प्रयोजका विद्यानिवृतौ मुच्यतेतित्य सिद्ध निरतिशयानंदमनुभवति स्वरूप चैतन्येनैवेति भाष्यार्थः | अज्ञस्येति | अज्ञानावृतनिजस्वरूपस्येत्यर्थः | तत्वमस्यादीति गुरुपदिष्टतत्वमस्यादि वाक्यजन्यज्ञानेनाज्ञाननिवृतौ जीवभाव आत्मनो निवर्तत इत्यर्थः | एवं जीवं निरूप्य ईश्वरं निरूपयति | एवं चेति | भाष्यवार्तिक पर्यालोचनया प्रतिबिंबभावादि रहितस्य पूर्णब्रह्मण एव जीवत्वे सिद्धे सतीत्यर्थः | ईश्वरोपि सर्वज्ञत्वादि धर्मैस्सहजीव कल्पित इति संबंधः | यथोक्त जीवस्यैवेश्व्र कल्पकत्वे हेतुमाह | स्वाविद्ययेत्यादिना | अन्यस्य कल्पकस्याभावादिति तात्पर्यकमवधारणं जीवस्येश्वर कल्पकत्वे दृष्टांतमाह | स्वप्नेति यथा स्वप्ने स्वप्नद्रष्टा जीव एव परां देवतां सर्वज्ञत्वादि धर्मैस्सहितां कल्पयति कल्पयित्वा च तामहर्न्निशमुपास्ते | तदुपासनया चाभ्युदय निश्रेय सलक्षणं फलं लभते | एवं जागरणेपीति दृष्टांतादेरभिप्रायः || अथायं जीव एकर?तानेकः अनुपदोक्त पक्षावलंबिनः केचिदाहुः | एकोजीवस्तेन चैकमेव शरीरं सजीवमन्यानि स्वप्नदृष्ट शरीराणीव निर्जीवानि तदज्ञान प्. १०४ब्) कल्पितं सर्वं जगत् | तस्य स्वप्नदर्शनवद्यावदविद्यं सर्वोव्यव्यहारः | बद्धमुक्तव्यवस्थापि नास्ति जीवस्यैक त्वात् | शुकमुक्त्यादिकमपि स्वाप्नपुरुषांतरमुक्त्यादिकमिव कल्पितं ||
163 SK जीवेश्वरनिरूपण प्रसंगेन विचारांतरमारभते | अनुपदोक्तेति | ब्रह्मैव स्वाविद्यया संसरति स्वविद्ययामुच्यत इत्यादि ग्रंथोक्तेत्यर्थः | एक इति ब्रह्मण एकत्वा तत्र च अवछेद प्रतिबिंबभावयोरनंगीकाराच्चेत्यर्थः | ननु जीवैक्ये तेनैकमेव शरीरं सजीवं स्यान्न सर्वशरीराणीत्याशंकामिष्ट्यापत्यापरिहरति | तेन चेति | ननु यथा एकशरीरे हितप्रामिपरिहारार्थस्पंदनरूपा चेष्टा दृश्यते | तथा सर्वशरीरेषु दृश्यते | तथा च कथमेकमेव शरीरं सजीवं तत्राह | अन्यानीति | यथा स्वप्न दशायां स्वप्न दृष्ट्रश्शरीरमेकमेव सजीवं स्वप्नद्रष्ट्रा दृष्टान्यन्यानि शरीराणी चेष्टाविशेषवतया दृश्यमानान्यपि शजीवानि न भवंति तथा जगरणेपीति द्रष्टव्यं | ननु स्वाप्नस्य जगतः कल्पिका तावन्निद्रा अन्वय व्यतिरेक सिद्धा यथा वर्ततेन तथा जाग्रत् प्रपंचस्य कल्पकमन्सयव्यतिरेक सिद्धं | किंचिदस्तीति | जगत्सत्यमेवस्यान्नेत्याह | तदज्ञातेति | जीवाज्ञानेत्यर्थः | अज्ञानस्य जगत्कुल्यकत्वं शास्त्रसिद्धमिति भावः | प्. १०५अ) ननु सर्वव्यवहारस्य स्वप्नव्यवहारवत्कल्पितत्वे तद्वदेव सहसा व्यवहारलोपः | प्रसज्ज्येन तथा च विद्यानर्थक्यमिति नेत्याह | तस्येति | जीवस्येत्यर्थः | यावन्निद्राक्षयं स्वप्नव्यवहारानुवृतिवत् | विद्यया यावदविद्यानिवृति सर्वव्यवहारानुवृतिर्युज्यत इति न विद्यावैफल्य स विद्यानिवृत्यर्थमयेक्षि तत्वादिति भावः | ननु जीइवैकामते एको जीवो बद्धः अन्योजीवो मुक्त इति व्यवस्था शुकादि शुक्ति प्रतिपादक शास्त्रसिद्धा न स्यादित्याशंक्य इष्टापतिरित्याह वद्धेइत् | यथा स्वप्नादुत्थितः स्वप्न भ्रांति सिद्धां पुरुषांतर मुक्तिं परं प्रतिबोधयति | तथा जीवभ्रांति सिद्धांशुकादि मुक्तितं प्रत्येव बोधयति श्रवणादि प्रवृत्युपयोगितयेति भावः ||
164 SK अत्र च संभावित सकलशंकाथंकक्षालनं स्वप्नदृष्टांत सलिल धारयैव कर्तव्यमिति | अन्येत्वस्मिन्नेक शरीरैक जीववादे मनः प्रत्ययमलभमाना अधिकं तु भेदनिर्देशात् लोकवतु लीलाकैवल्यमित्यादि सूत्रैर्जीवाधिक ईश्वर एव जगतः सृष्टा न जीवस्तस्याप्तकामत्वेन प्रयोजनाभावेपि केवलं | लीलयैव जगतः सृष्टिरित्यादि प्. १०५ब्) प्रतिपादयद्भिर्विरोधं च मन्यमानाहिरण्यगर्भ एको || ननु जीवैक्यमते विद्योपदेष्टुरन्यस्याभावाद्विद्योदयो न स्याज्जीवेश्वर विभागाभावेन जीवस्येश्वरोपासनादि व्यवहारश्च नस्यादित्याशंक्याह | अत्र चेति | यथा स्वप्नदशायां स्वप्न दृष्क?कंचिद्गुरुमीश्वरं च कल्पयित्वा तावुपास्ते ताभ्यां च विद्यादिकं लभते तद्वदिति भावः एकजीववाद एवमतांतरमाह | अन्येत्विति | एकशरीरेति | एकमेव शरीरं सजीवं यस्मिन्नैक जीववादे स तथोक्तः | मनः प्रत्ययमिति | मनसो विश्वासंप्रामाणिकत्व निश्चयमित्यर्थः | एकमेव शरीरं सजीवं शरीरांतराणि निर्जीवानीत्यत्र विनिगमकाभावान्न च जीवैक्यं विनिगमकमिति वाच्यं | एकोपि जीवः कस्मिन् शरीरे वर्तत इत्यत्र विनिगमकस्य वक्तुमशक्यत्वादिति भावः | अधिकं त्विति जीवाभिन्न ईश्वरे वेदांतानां प्रथमाध्याये निरूपितः समन्वयो न घटते | तथा सतीश्वर गतजगत्स्रष्टृत्वादेर्जीवधर्मत्वप्रसंगा | तथा चानुभवविरोध इति पूर्वपक्ष निरासार्थस्तु शब्दः | अधिकं जीवादुपाधितोभिन्नं ब्रह्मजगत्स्रष्टृत्व सर्वज्ञत्वादि गुणकमभ्युपगम्यते | अतो न ब्रह्मधर्माणां जीवे प्रसक्तिरौपाधिकभेदस्यापि धर्मव्यवस्थापकतया लोकसिद्धत्वात् | कल्पित भेदांगीकारे
165 SK प्. १०६अ) हेतुमाह | भेदनिर्देशादिति | य आत्मनि तिष्टत्रात्मानमंतरोयमयतीत्यादौ नियम्यनियामक भावादीनां भेदनिर्देशादिति सूत्रार्थः | लोकवदिति | सूत्रं पूर्वमेव व्याख्यातं | अत्रादि पदेन अनुपपतेस्तु न शारीर इत्यादि | सूत्रं गृह्यते मनो मयत्वादि गुणको न शारीरस्तस्मिन् सर्वकर्मत्वादीनामनुपपतेरेवेति सूत्रार्थः विरोधं चेति | जीवातिरिक्तेश्वराभाववादेस्मिन् जगत्सृष्ट्यादि समर्थस्य व्यावहारिक भेदवत ईश्वर || ब्रह्मप्रतिबिंबोमुख्यो जीवः अन्ये तु तत्प्रतिबिंब भूताश्चित्र लिखितमनुष्यदेहार्पित पटाभासकल्पा जीवाभासाः संसारादि भाज इति सविशेषानेक शरीरैक जीववादमातिष्ठंते | अपरे तु हिरण्यगर्भस्य प्रतिकल्पं भेदेन कस्य हिरण्यगर्भस्य मुख्यं जीवत्वमित्यत्र नियामकं नास्तीति मन्यमाना | एक एव जीवो विशेषेण सर्वं शरीरमधितिष्ठति | न चैवं शरीरावयवभेद इव शरीरभेदेपि परस्पर सुखाद्यनुसंधानप्रसंगः || स्यास्तित्वजगत्स्रष्टृत्व सर्वात्मकत्वादि गुणप्रतिपादकैः
166 SK प्. १०६ब्) सूत्रैर्विरोधमित्यर्थः | ब्रह्मप्रतिबिंब इति | अनेन बिंबभूतं ब्रह्मजीवादधिकमीश्वररूपमस्मिन्मतेस्ति अतोनोदाहृत सूत्रविरोध इति सूचितं | तदिति | ब्रह्मप्रतिबिंबभूत हिरण्यगर्भस्य भौतिक जगत्स्रष्टृतयाकारणोपाधिकतया च मुख्य जीवस्य प्रतिबिंबभूता अन्ये जीवाजीवाभासाः तद्वत्सृष्ट्यादि सामर्थ्याभावादित्यर्थः | कल्पा इति तुल्या इत्यर्थः | संसारादि भाज इति | अनेन यथा हिरण्यगर्भशरीरं मुख्यजीवेन सजीवं तथा इनराण्यपि शरीराणिजीवाभासैस्सजीवानीति पूर्वमतात् | विशेषः सूचितः अत्रादि पदं मुक्ति संग्रहार्थं जीभासानां मुक्तिश्च स्वबिंबभूत हिरण्यगर्भप्राप्तिः क्रमेण च शुद्धब्रह्मप्राप्तिरिति मंतव्यं | स विशेषेति | स विशेषाणि स जीवानि अनेकशरीराणि यस्मिन्नेकजीववादे स तथा आतिष्ठंते | अंगीकुर्वंतीत्यर्थः | अत्राप्यस्वरसंवदन्नेकजीववादमेवाह | अपरेत्विति | एक एवेति | अविद्यायां ब्रह्मप्रतिबिंबरूपो जीवस्तावदेक अविद्याया एकत्वात् स एव च सर्वं शरीरं स्वभोगाद्यर्थमधितिष्ठति नत्व विद्यायां ब्रह्मप्रतिबिम्बो हिरण्यगर्भ शरीरसधितिष्ठति अन्यानि तु शरीराणि तत्प्रतिबिंबाभासा अधितिष्ठंति | कुतः इतर जीवानां प्. १०७अ) तत्प्रतिबिंबत्वे मानाभावादित्येव कारार्थः | अविशेषेणेति | मुख्यामुख्यविभागं विनेत्यर्थः | जीवभेदे हि सति कश्चिन्मुख्यो जीवः कश्चिच्चामुख्यो जीवाभास इति विभागः संभवेत् | नत्वे तदस्ति | तस्यैकत्वाभ्युपगमादिति भावः | ननु देवदत्तस्य शिरः पाणिपादानधितिष्ठित एकस्य यथाशिरसि मे वेदना पादे मे सुखमित्याद्यनुसंधानं दृश्यते | एवमेकस्यैव जीवस्य सर्वशरीराधिष्टातृत्वे मम देवदत्तशरीरे मुखं यज्ञदतनामक शरीरे दुःखमित्यादि रूपेण सर्वस्य सर्वत्रानुसंधान प्रसंग इति शंकते | न चेवमिति ||
167 SK जन्मांतरीय सुखाद्यनुसंधानादर्शनेन शरीरभेदस्य तदननुसंधान प्रयोजकत्व कॢप्तेः योगिनस्तकाय व्यूह सुखाद्यनुसंधानं व्यवहितार्थ ग्रहणवद्योगप्रभावनिवधेनमिति न तदुदाहरणमित्यविशेषानेकशरीरैकजीववादं रोचयंते | इतरेत्वत्रापि वद्धमुक्तव्यवस्थाभावस्य तुल्यत्वेन तद्योयो देवानां प्रत्यबुध्यत स एव तदभवदित्यादि श्रुतेः प्रतिषेधादिति चेत् || प्. १०७ब्) शरीरभेदस्याननुसंधान प्रयोजकत्वाभ्युपगमान्नोक्ताति प्रसंगः | न च तत्र मानाभावश्शंकनीयः जीवस्यातीत शरीरेषु वर्तमान शरीरे चैकत्वेपि जन्मांतरीय सस्वाद्यनुसंधानादर्शनेन तद्भेदस्य तत्प्रयोजकतायाः संप्रतिपन्नत्वादिति परिहरति जन्मांतरीयेति | ननु योगिनो देहभेदे सत्यप्यनुसंधानदर्शनात् | व्यभिचार इत्यत आह | योगिनस्त्विति | अस्मदादि वै लक्ष्यार्थकस्तु शब्दस्तद्दर्शयति | कायेति | न ह्यस्मदादीनां व्यवहितार्थ साक्षात्कारोस्ति तत्प्रयोजका दृष्टविशेषाभावा तथा च शरीरभेदमात्रं न तत्प्रयोजकं | किं तु अदृष्टविशेषा सह कृत शरीरभेदो ननु संधान प्रयोजक इति न योग्यनुसंधानस्थले व्यभिचार इति भावः | योगदं योगजा दृष्टपरं | अविशेषेणाधिष्ठितान्यनेक शरीराणि यस्मिन्नेकजीव वादे सः तथेत्यर्थः | अनेक जीववादमुत्थापयति | इतरेतिति | अत्रापीति | अव्यवहितमतेपीत्यर्थः | यद्येक जीववादे व्यवस्थान सिध्यति ततः को दोष इत्याशंक्य श्रुति स्मृति भाष्याणामनांजस्यं दोष इत्याह | तद्योय इति | देवानाम्मध्येयो यो देवः तद्ब्रह्मप्रत्यबुध्यतसाक्षात्कृतवान् स एव तद्ब्रह्माभवत् | नान्योब्रह्मबोध रहितः विदुषो मुक्तत्वमविदुषो वद्धत्वं च प्रतिपादयंत्याश्रुत्याबंध
168 SK प्. १०८अ) मुक्ति व्यवस्था दर्शिता | आदिपदेन अजामेकामिति श्रुतिर्बंधमुक्ति व्यवस्था प्रतिपादकत्वेन भाष्यकारादिभिरंगीकृता गृह्यते श्रुतिग्रहणं यद्गत्वा न निवर्तंते तद्धामपरमं ममेत्यादि स्पृतीनासुपलक्षणं | प्रतिषेधादिति | इदं पूर्वपक्षसूत्रं | बृहदारण्यके काण्वशाखायां न तस्य प्राणा उत्क्रामंतीति वाक्येन | परब्रह्मतत्वविदः | प्राणोत्क्रांति प्रतिषेधा तस्य गत्युकांतीनस्तः | उत्क्रांति पूर्वकत्वात् गतेरिति चेदिति सिद्धांति शंकाभागार्थः || न शारीरादित्यधिकरणे बद्धमुक्तत्वप्रतिपादक भाष्यस्य घनांजस्यमित्यपरितुष्यंत्ॐतष्करणादीनां जीवोपाधित्वात्युपगमेनानेकजीववादमाश्रित्य बद्धमुक्तव्यवस्थां प्रतिपद्यंते | तिषु केचिदेवमाहुः || पूर्वपक्षीतां दूषयति | न शारीरादिति | बृहदारण्यक एव माध्यंदिन शाख्यायां समानप्रकरणे ब्रह्मविदं शारीरं प्रकृत्य न तस्मात् प्राणा उत्क्रामंतीति वाक्यं पव्यते | अत्र तच्छब्देन प्रकृतः शारीरो गृह्यतेन शरीरं | तस्य शरीरापेक्षया प्रधानत्वा तथा च न तस्मादिति वाक्येन शारीराज्जीवात् प्राणानासुत्कुमणं
169 SK प्. १०८ब्) निषिध्यते | न शरीरादतश्शरीरादुत्क्रमणं विदुषोप्यस्तीति तस्यापि गत्युत्क्रांतिस्त एव न तस्य प्राणा इति काण्ववाक्यस्यापि | तस्य विदुषः प्राणाश्शारीरात्रोत्क्रामंति किं तु तेन सहैव ब्रह्मलोकं गछंतीत्यर्थो बोध्यः | नांतस्यमिति | आंतस्याभावः उपपन्नत्वाभाव इत्यर्थः | अंतष्करणादीनामिति | न च नानाजीववादेपि ब्रह्मैव स्वाविद्यया संसरति स्वविद्ययामुच्यत इत्यर्थे | न बृहदारण्यक भाष्ये प्रतिपादितेन विरोधस्तुल्य इति वाच्यं | तद्भाष्य प्रतिपादनस्य ब्रह्मैव स्वाविद्ययानानांतष्करणरूपेण परिणतया नानाजीव भावं प्राप्यसंसरति | स्वविद्यया क्रमेण मुच्यत इत्यभिप्रायकत्वोपपतेः | श्रुतिस्मृत्युपोद्वलित शुकादि मुक्ति प्रतिपादकभाष्यस्य ब्रह्मैव स्वाविद्यया संसरतीति भाष्यमात्रस्वारस्य मनुसृत्या न्यत्थ्यानयनायोगात् | न चोदाहृत श्रुतिस्मृति भाष्याणां ब्रह्मात्मैकत्व परत्वेन ननाजीव वादे | तात्पर्था भावात् | तेभ्यो जीवनानात्वं न सिध्यतीति वाच्यं | एकजीववादेपि तात्पर्याभावस्य तुल्यत्वान्न च जीवत्वोपाधिभूताया अविद्याया एकत्वाज्जीवैक्यसिधिरिति वाच्यं | उदाहृत श्रुति भाष्यानुरोधेनाविद्यानानात्वाभ्युपगम संभवात् | तदेकत्व श्रुत्यादीनां जात्यमिप्रायकत्वोपपतेः | अविद्यायाः एकं त्वपि कार्योपाधिरयं जीव इति श्रुत्यनुसारेणांतष्करणानामेव प्. १०९अ) जीवत्वोपाधित्वोपगमसंभवाच्चेति भावः | नानाजीववादे मतभेदेन बंधमुक्तिव्यवस्थामुपपादयितुमारभते | तेष्विति | नानाजीववादिषु मध्य इत्यर्थः केचिदिति || यद्यपि शुद्धब्रह्माश्रयविषयमेकमेवाज्ञानं तत्राश एव च मोक्षस्तथापि जीवन्मुक्तावज्ञानलेशातु वृत्यभ्युपगमेनाज्ञानस्य सांशत्वा तदेव क्वचिदुपाधौ ब्रह्मावगमोत्पत्तावंशेनं निवर्तते उपाध्यंतरेषु यथा पूर्वमंशांतरेरनुवर्तत इति अन्ये तु ||
170 SK ननु नानाजीववादेपि जीवस्यांतष्करणोपाधिकत्वपक्षे मूलाज्ञानस्य एकत्वेन शुकादि तत्वज्ञानेनैव तस्य निवृतत्वादिदानी संसारानुपलब्धि प्रसंग इत्याशयेन शंकते | यथपीति | शुद्धब्रह्मा श्रयेति | जीवेश्वरयोर्विशिष्टरूपयोरज्ञानाश्रयत्वं न संभवति | तयोः कल्पितत्वा तथा च शुद्धस्यैवावृतत्वरूपं विषयत्वं नत्वीश्वरस्यापि तस्य जीवांतरवदौपाधिक भेदादेवानुपलब्धि सिद्धौ जीवान् प्रतीश्वरस्याज्ञानावृतत्वरूपविषयत्व कल्पनस्य व्यर्थत्वादिति भावः | एकमेवेति | अजामेकांमायां प्. १०९ब्) तु प्रकृतिं विद्यात् | विभेदजनके ज्ञान इति श्रुतिस्मृतिषु एकवचन श्रवणेन स्मृतिलाघवेन च तस्यैकत्वावगमादिति भावः | तन्नाश एव चेति | भूयश्चांते विश्वमाया निवृतिः अज्ञानेनाशमात्यंतिकं गत इत्यादि श्रुतिस्मृतिषु सर्वानर्थमूलाज्ञान निवृतेर्मोक्षत्वावगमादिति भावः | एकस्य तत्वज्ञानेन कृत्स्नाज्ञाननाशोनांगी क्रियते | येन व्यवस्था न स्यात् किंतु तस्य ज्ञानेन ततदंतष्करणादि परिणामिनो मूलाज्ञानांशस्यैव नाश उपेयते | न च तस्य सांशत्वे मानाभाव इति वाच्यं | जीवन्मुक्तौ आवरणशक्तिमदज्ञानांशस्य नाशेपि विक्षेपशक्तिमदज्ञानांशस्य ज्ञानादनिवृतस्य यावद्विदेहकैवल्यमनुवृत्युपगमेन तस्य सांशत्वावगमात् | तथा चाज्ञानस्यानिर्वचनीयस्यानिर्वचनीयानामेव भागरूपांशानामनंतानां संभवात् | नानादाय बंधमुक्ति व्यवस्थासूपयादेति परिहरति | तथापीत्यादिना | अज्ञानसत्वं बंधस्तन्नाशो मोक्षं इति मतं मुक्तं | इदानिं चैतन्यस्याज्ञानसंबंधो बंधस्तदसंबंधो मोक्षः | न तु तन्निवृतिरसंबंधमात्रेणैव बंधनिवृति सिद्धेः ज्ञानादज्ञाननिवृति प्रतिपादकशास्त्रस्यापि तदसंबंध एव तात्पर्योपपतेरन्यथा मूलाज्ञानस्य विरोधिज्ञानोदये सति तूलपिंदस्य विरोध्यग्नि संसर्ग इवावशेषा प्. ११०अ) संभवेन बंधमुक्ति व्यवस्था शास्त्रस्य जीवन्मुक्ति शास्त्रस्य च निरालंबनत्व प्रसंगादिति मन्यमानानाम्मतमाह अन्येत्विति ||
171 SK यथान्यायैक देशिमते भूतले घटात्यंताभावस्य वृतौ घटसंयोगाभावो नियामक इत्यनेकेषु प्रदेशेषु तद्वत्सुसे सृज्यवर्तमानो घटात्यंताभावः क्वचित् प्रदेश घटसंयोमोत्यत्यातुदभावनिवृतौ न संसृज्यते | एवमज्ञानस्य चैतन्ये वृतौ मनो नियामकमिति तदुपाधिनाचैतन्यप्रदेशेषु संसृज्यवर्तमानमज्ञानं क्वचिद्ब्रह्मदर्शनोत्यत्याभिद्यते | हृदयग्रंथिविति श्रुत्युक्तरीत्यामनसो निवृतौ न संसृज्यते | अन्यत्र यथा पूर्वमवतिष्ठते ज्ञानसंसर्गासंसर्गावेव च बंधमोक्षावित्याहुः | अपरे तु नाज्ञानं शुद्धचैतन्याश्रयं || प्रथमं प्रकृतोपयोगि दृष्टांतमाह | यथेति | भूतले | घटोनेत्यनुभव सिद्धो घटाभावस्त्रैकालिकत्वाभ्युपगमात् | घटानानंतरे तदधिकरणेपि भूतले वर्तत एव | तथावघटवत्यपि भूतले घटो नास्तीति
172 SK प्. ११०ब्) प्रमास्यादिति दोष प्रसक्तौ तत्परिहाराय नैयायिकाः कल्पयंति घटाधिकरणे तदत्यंता भावस्य संबंधा भावेन तत्र तत्प्रतीतेर्भांतित्वोपपते | न च घटसंयोगोत्पतेः पूर्वं भूतले संबंधवतस्तस्य घटसंयोगकाले कथं वृतिरूपसंवेधाभाव इति वाच्यं | प्रतीत्यनुसारेण भूतलादौ घटात्यंताभाववृतौ घटसंयोगस्य प्रागभाव प्रध्वंसाभावयोरन्यतराभावो नियामक इति कल्पनेन घटसंयोगाधिकरण भूतले घटाभावस्यासंबंधोपपतेरिति तदेतन्मतं दृष्टांती करोति | न्यायैक देशि मत इति | तद्वत्स्विति | घटसंयोगाभाववत्स्वित्यर्थः | तदुपाधिनेति | मन एवोपाधिस्तेनेत्यर्थः | क्वचिदिति | चैतन्य प्रदेश इत्यर्थः | ब्रह्मदर्शनोत्पत्यामनसो निवृताविति संबंधः | ब्रह्मदर्शनं मनसो निवर्तकमित्यत्रमानमाह भिद्यत इति | हृदयग्रंथिरित्यत्र हृदयमित्यंतष्करणपरं तच्चांतष्करणं चिदात्मन्यध्यस्ततया ततादात्म्यापन्नं सद्ग्रंथिरिव ग्रंथिः | स च ब्रह्मदर्शने जाते ब्रह्मण्येव विलीयत इति श्रुत्यर्थः | अन्यत्रेति | चैतन्यप्रदेशांतरैष्वित्यर्थः | नाज्ञानमिति | शुद्धचैतन्यस्य वेदांतशास्त्रप्रतिपाद्यस्य नाज्ञानाश्रयत्वं | तस्य वेदांत वेद्य वस्तु न जानामीत्यज्ञानविषयत्वेनैवानुभवादिति भावः || किं तु जीवाश्रयं ब्रह्मविषयं तच्चांतष्करण प्. १११अ) प्रतिबिंबरूपेषु सर्वेषु जीवेषु व्यक्तिषु जातिवत्प्रत्येक पर्यवसायितया वर्तमानमुत्पन्न विद्यं कंचित्यजति नष्टां व्यक्तिमिव जातिः स एव मोक्षः | अन्यं यथापूर्वमाश्रयतीति व्यवस्थेत्याहः ||
173 SK जीवा अयमिति | न जानामीत्यज्ञानाश्रयत्वेन जीवस्यैवानुभवान्न चाज्ञानस्य स्वकार्यांतष्करणविशिष्टचैतन्यरूपजीवाश्रितत्वमनुपपन्नमिति वाच्यं | अंतष्करणे यत्प्रतिबिंबभूतं चैतन्यं तस्यैव जीवत्वाभ्युपगमेन विशिष्टस्य जीवत्वानुपगमात् | वचांतष्करणस्य सादितया तद्गत प्रतिबिंबस्यापि सादित्वात् | कथं तस्यानाद्यज्ञानाश्रयत्वमिति वाच्यं | अंतष्करणस्य स्वापादौलय श्रवणेन जाग्रदादौ जन्मश्रवणेन च सादित्वावगमेपि तस्य स्थूलसूक्ष्मरूपेणानादितायाः पुहुस्त्वादिवत्वस्य सतोभिव्यक्ति योगादिति सूत्रे व्यवस्थापि तत्वाद्यथा पुंस्त्वस्त्रीत्वादेः श्रुक्रश्रोणितस्तनादि रूपस्य वाल्यादावनभिव्यक्तस्य यौवने प्रादुर्भावने प्रादुर्भावः तथा अस्यांतष्करणस्य स्वापादावनभिव्यक्ततया सत एव स्थूलावस्थाप्राप्तिरूपाया अभिव्यक्तेर्युक्तत्वात् असतः शशशृंगादेरुत्पत्यदर्शनादिति | सूत्रार्थः | अविद्यायाः
174 SK प्. १११ब्) अनादि चैतन्यप्रतिबिंबाश्रितत्वस्य मायाविद्याभेदवादनिरूपणावसरे समर्थितत्वात् | प्रत्येकेति द्वित्व बहुत्वादिवदज्ञानस्य सर्वजीवव्यक्तिपुव्यासज्यवृतित्वे सर्वेषां प्रत्येकमहमज्ञ इति प्रत्यक्षं न स्यात् | व्यासज्यवृतिधर्म प्रत्यक्षस्य यावदाश्रय प्रत्यक्षसापेक्षत्वेन एकैकस्य जीवस्य सर्वजीव प्रत्यक्षाभावादित्यर्थः | वस्तुतस्तु अज्ञानस्य व्यासज्यवृतित्वेपि तत्प्रक्षस्य नित्यसाक्षिरूपतया यावदाश्रयप्रत्यक्षानपेक्षणात् उक्त नियमस्य जन्यप्रत्यक्षविषयत्वादिति मंतव्यं | कंचिदिति उत्पन्नया विद्ययामनसो निवृतौ तन्निरूपित प्रतिबिंबभावस्यापि निवृततया तद्विशिष्ट चैतन्यरूपव्यक्तिनाशादिति भावः | तथा च श्रुतिर्जहात्येनां भुक्तभोगामजोन्य इति एनामजाशब्दितामविद्यां जीवेन भुक्ताभोगा यस्याः साभुक्तभोभुज्यत इति व्युत्पत्याभोगशब्दितानां विषयाणामविद्यापरिणामत्वादिति भावः | अजो जन्मरहितः अन्यः उत्पन्नविद्योजीव इति श्रुत्यर्थः | स एवेतित्याग एवेत्यर्थः | अन्यमिति | अज्ञमिति भावः | तथा च श्रुतिः अजो ह्येको जुषमाणौनुशेत इति एकः पुनरजो विवेकरहितः कार्यकारणसघातरूपेणपरिणतामविद्यांजषमाणः सेवमानः तत्राहं ममाभिमानवान् अनुशेतेतामनुसृत्यशेते वर्तते प्. ११२अ) न जहातीति यावत् || इतरे तु प्रतिजीवमविद्याभेदमभ्युपगम्यैवतदनुवृतिनिवृतिभ्यां वद्धमुक्तवस्थां समर्थयंते | अस्मिन् पक्षे कस्याविद्यया प्रपंचः कृतोस्त्वित्विचेत् | विनिगमकाभावात् सर्वाविद्याकृतोऽनेकं तत्वारब्धपटतुल्यः एकस्य मुक्तौ तदविद्यानाशे एकतंतुनाशे पटस्येव तत्साधारण प्रपंचस्य नाशः तदैव विद्यमानतंत्वंतरैः पटांतरस्येवेतराविद्याभिः सकलेतरसाधारण प्रपंचांतरस्योत्पादनमित्येके ||
175 SK अत्राज्ञानकंचिज्जहाति अन्यमाश्रित्यैव तिष्ठतीत्युक्त्यापि अज्ञानसंबन्धा चेव बंधमोक्षावित्युक्तं भवति | तदुक्तेरर्थांतरासंभवात् | अज्ञानसंबन्धासंबंधौ बंधमोक्षाविति मतद्वयमपि तस्य ज्ञाननाश्यत्वं प्रतिपादक श्रुतिस्मृति भाष्यादि स्वारस्य विरुद्धं मत्वा तदविरुद्धम्मतमाह | इतरेत्विति | अभ्युपगम्यैवेति | अविद्योभेदानुपगमे तत्सत्वत प्. ११२ब्) न्नाशरूपयोर्बंधमोक्षयोरुपपादयितुमशक्यत्वान्न च तस्या एकत्वेपि अंशवत्वकल्पनयातन्नाशरूपो मोक्षः प्रागुपपादित इति वाच्यं विरोधि विद्योदये तदवस्थानायोगस्याप्युक्तत्वान्न जीवन्मुक्तौ तल्लेशानुवृत्युपगमविरोध इति वाच्यं | अविद्यानाशेपि तत्संस्कारस्य यावत् प्रारब्ध क्षयमनुवर्तमानस्याविद्यालेशत्वेन विवक्षिततायास्सदृष्टांतं वक्ष्यमाणत्वादिति भावः | एवं नानाजीववादे बंधमोक्ष व्यवस्थां बहुप्रकारांमुपपाद्यतदुपपादनोपयोगितया प्रसक्तमविद्यानानात्वमुपजीव्याक्षेपमवतारयति | अस्मिन्पक्ष इति | अविद्यानानात्वपक्ष इत्यर्थः | कस्येति | किमेकस्य जीवस्याविद्यया प्रपंचारंभः उतसर्वेषामविद्याभिर्न्नाद्यः विनिगमनाविरहात् | तद्वितीयः एकाविद्यानाशे सर्वप्रपंचनाशापत्यामुक्ते नरजीवानां प्रपंचानुपलब्धि प्रसंगादित्याक्षेपाभिप्रायः | द्वितीयपक्षे परिगृह्य तत्रोक्तानुपपतिं | परिहरति | विनिगमकाभावादित्यादिना सर्वाविद्याकृत इति सर्वेषां जीवानां सर्वाविद्यापरिणाम इत्यर्थः | यद्वा सर्वाविद्याविषयीकृत ब्रह्मविवर्तः | प्रपंच इत्यर्थः | प्रथम व्याख्याने दृष्टांतमाह | अनेकं तत्वारब्धेति | सकलेतरेति | सकलाः समस्तामुक्तजीवापेक्षयाये इतरे तेषां साधारण प्रपंचांतरस्येत्यर्थः || प्. ११३अ) तत्तदज्ञानकृतप्रातिभासिकरजतवन्न्यायमते तत्तदपेक्षाबुद्धिजन्यद्वित्ववच्च तत्तदविद्याकृतो वियदादि प्रपंचः प्रतिपुरुषं भिन्नः | शुक्तिरजते त्वया यद्दृष्टं रजतं तदेवमपापीति वदैक्य भ्रममात्रमित्यन्ये जीवाश्रितादविद्यानिवहाद्भिन्नामायैवेश्वराश्रिता प्रपंचकारणं
176 SK प्रपंचस्य सर्वाविद्याकार्यत्वेपि तद्भेदात्प्रपंचस्यापि प्रतिपुरुषं भेद एवेति मतं सदृष्टांतमाह | तत्तदिति | ननु यत्र एकदा बहुनां शुक्तौ रजतभ्रमो भवति | तत्र प्रतिपुरुषमज्ञानभेदेन तत्कृतरजतभेदोत्र दृष्टांतत्वेन वक्तव्यः स च न संभवति | तत्रापि तावत् पुरुषाणामज्ञानैरेकस्यैरजतस्योत्पति संभवादिति चेन्न तत्र दैवयोगादेकस्य पुरुषस्य प्रथमं शुक्तित्वविशेषदर्शने सति नेदरजतमिति बाधकप्रत्येक्षेण सोपादानस्य रजतस्य नाशेपि तदितरेषां रजतभ्रमानुवृत्यारजतभेदस्यावश्यक तया दृष्टांत सिद्धेरिति भावः | न्यायमत इति | सिद्धांते तु एकत्व वद्वित्वादिकमपि यावदृव्यभाव्येव न तु तत्रदपेक्षाबुद्धिजन्यं | अनंत द्वित्वादैस्तदुत्पत्यादीनां च कल्पने गौरवाद प्. ११३ब्) पेक्षाबुद्धेस्तद्व्यंजकत्वाभ्युपगमात् | न सदा तत् प्रत्यक्षापतिरिति स्वीकारादिति भावः | ननु तर्हि यथा ततद्रजतं तस्य तस्यैव प्रत्यक्षं नान्यस्य तथा तत्तदविद्याकल्पितः प्रपंचोपि तस्य तस्यैव प्रत्यक्षः स्यान्नान्यस्य तथा च यः प्रपंचस्त्वयानुभूयते | स एव मयाप्यनुभूयत इति प्रत्यभिज्ञान प्रत्यक्षं न स्यादिति शंकां दृष्टांतेन परिहरति | शुक्ति रजत इति उपलक्षणमेतुत् | यौ द्वौ रामकृष्णौ त्वया दृष्टौ तावेव मयापि दृष्टाविति प्रत्यभिज्ञानं न्यायमते द्वित्व भेदेपि दृश्यते तद्वदिति बोध्यवियदादि प्रपंचो न जीवाविद्या परिणामः | किं तु जीवाश्रिताविद्या संघाद्भिन्ना माया सर्वजीवान् प्रतिसाधारणवियदादि प्रपंच परिणाम्युपादानमुपेयते | अतो वियदादि प्रपंचस्यैक त्वात् | तदेकत्व प्रतीतिर्न्नम्रममात्रमिति मंतदर्शयति | जीवाश्रितेति | मायाया अविद्याभ्यो भिन्नत्वे ईश्वराश्रितत्वे च प्रमाणादिकं प्रागेव दर्शितमिति नात्र तदुच्यते || जीवानामविद्यास्त्वावरणमात्रे प्रातिभासिक शुक्तिरजतादि विक्षेपेपि चोपयुज्यंत इत्यपरे | अवसितमुपादानत्वं प्. ११४अ) तत्प्रसक्तानुप्रसक्तं च ||
177 SK अविद्यानां प्रपंचोपादानत्वाभावे वैयर्थ्यमाशंक्याह | जीवानामिति | उक्त शंका निवृत्यर्थस्तशब्दः यत्किंचित्कार्यं प्रत्यप्युपादानत्वाभावो मात्रशब्दार्थः | न च नाहं प्रकाशः सर्वस्य योगमाया समावृत इति भगवद्वचने अहं परमात्मासर्वस्य प्राणिज्जातस्य प्रकाशः पूर्णानंदादिरूपेण स्फुरद्रूपो न भवामि मम सर्वज्ञत्व सर्वेश्वरत्व सर्वात्मकत्वादि धर्मजातं घटयंत्यामायया आवृतत्वादित्यर्थके ईश्वराश्रितमायाया एव ब्रह्मावरकत्व प्रतिपादनात् | तद्विरोध इति वाच्यं | ब्रह्मतत्वतो न जानामीत्यावरकस्य जीवाश्रितत्वानुभवानुसारेण जीवाश्रिताविद्याया एव तदावरकत्वे वक्तव्ये सति भगवद्वचनगतमायापदस्य जीव चैतन्ये संसार घटकाविद्यालक्षकत्वोपपतेरिति भावः | अविद्याया आवरण इव प्रातिभासिक विक्षेपेपि | परिणाम्युपादनत्वस्वीकारान्न वैयर्थ्यशंकावकाश इत्याशयेनाह | प्रातिभासिकेति | ननु जीवाश्रिताविद्यानां जीवचैतन्याध्यस्त प्रातिभासिक स्वप्नप्रपंचोपादान तया तत्रोपयोग संभवेपि शुक्तिरजताद्यु उपादानत्वं न संभवति | शुक्त्याद्यवछिन्नचैतन्ये रजताद्यधिष्ठाने प्. ११४ब्) तासामभावादिति चेत् | सत्यमादि पदगृहीत स्वप्नयवात्र विवक्षित इत्यदोषः | यद्वा वाचस्पति मत इव शुक्तिरजतादेरपि जीवाविद्याविषयीकृत शुक्त्यवछिन्न चैतन्यविवर्तत्वमभिप्रेत्यजीवाविद्यानां प्रातिभासिक रजतादावुपयोग कथनोपपतेर्न दोषः | पूर्वमुक्ते अभिन्ननिमितोपादानत्वरूपे ब्रह्मलक्षणे उपादानत्वं विवर्ताधिष्ठानत्वरूपमिति साधिं तत्प्रसंगात् जीवेश्वर निरूपणं प्राप्तं तदनुजीवैकत्व नानात्वं बंधमोक्ष प्रपंचैकत्वनानात्वनिरूपणं प्रसक्तं | तदेतत् सर्वं निरूपितमिति निरूपयिष्यमाणार्थ प्रतिपत्युपयोगितया उपसंहरति | अवसितमिति | समाप्तमित्यर्थः | उपादानत्वमिति | निरूपणमित्यर्थः ||
178 SK अथ कीदृशं कर्तृत्वं केचिदाहुः | तदैक्षत सोकामयत तदात्मानं स्वयमकुरुतेति श्रवणान्प्रायमत इव कार्यानुकूलज्ञानचिकीर्षाकृतिमत्वरूपमिति | अन्ये तु चिकीषाकृतिर्तृत्वनिर्वाहाय चिकीर्षाकृत्यंतरापेक्षायामनवस्था प्रसंगात् कार्यानुकूलज्ञानवत्वमेव प्. ११५अ) ब्रह्मणः कर्तृत्वं न च ज्ञानेप्येष प्रसंगः तस्य ब्रह्मस्वरूपत्वेनाकार्यत्वात् || लक्षणांतर्गतं कर्तृत्वं निरूपयितुमाक्षिपति | अर्थेति | उदासीनस्य ब्रह्मणः कर्तृत्व धर्मासंभवादित्यर्थः | स्वतस्तदसंभवेप्यौपाधिकं तत् संभवतीति परिहरति | केचिदाहुरित्यादिना | यद्वा जगदुपादानस्य ब्रह्मणो न तत्कर्तृत्वं संभवति | घटाद्युपादानस्य मृदादेस्तत्कर्तृत्वा दर्शनादित्याक्षिपति | अथेति | घटेश्वर संयोगादावुपादानसैवेश्वरस्य कर्तृत्व दर्शनात् | ब्रह्मण एव कर्तृत्व प्रतिपादक श्रुति वलाच्च तस्य तत्संभवतीति परिहरति | केचिदाहुरित्यादिना | अथ वा ब्रह्मणः कर्तृत्वं कीदृशमिहलक्षणे विवक्षितं किं ज्ञानचिकीर्षाकृतिमत्वरूपं किं वा कार्यानुकूलज्ञानवत्वरूपं कार्यानुकूलस्रष्टव्यालोचनात्मक ज्ञानवत्वं रूपं वा नाद्यः ब्रह्मणस्तादृश कर्तृत्वे माना भावात् | न द्वितीय तृतीयौ कार्यानुकूलज्ञानस्य कार्यत्वे तत्कर्तत्वनिर्वाहाय ज्ञानांतरापेक्षायामनवस्था प्रसंगात् | तस्याकार्यत्वे च नित्य ज्ञान स्वरूपस्य ब्रह्मणस्तादृशज्ञानवत्वरूपकर्तृत्वायोगादिति भावः | तत्र प्रथमपक्षं स प्रमाणं दर्शयति |
179 SK प्. ११५ब्) केचिदाहुरिति श्रुतिषु तच्छब्दाः ब्रह्मपराः स्वयमित्यस्यान्यानपिष्टतमित्यर्थः | आत्मानं जगदात्मना अकुरुतकृतवदित्यर्थः | एताभिः श्रुतिभिस्सृष्ट्यनुकूलाः ज्ञानेछा कृतयः प्रतिपाद्यंत इति भावः | न च ज्ञानादीनामपि कार्यत्का तत्कर्तृत्वाय ज्ञानाद्यंतरापेक्षाया मनवस्थास्यादिति वाच्यं | ज्ञानादि त्रितयाति रिक्त कार्ये उक्त रूपकर्तृत्वस्य विवक्षितत्वान्नानवस्था प्रसंगः | ज्ञानादि त्रयं प्रतित्वन्यदेवकर्तृत्वं भविष्यतीत्यभिप्रायः प्रथपक्षं दूषयन् | द्वितीयपक्षं साधयति | अन्येत्विति | अनवस्थाप्रसंगादिति | कर्तृत्वलक्षणाननुगमनपरिहाराय कार्यमात्रे प्रतिज्ञानादि त्रितयवत्वरूपे कर्तृत्वे वक्तव्ये सत्यनवस्थाप्रसंगो भवत्येवेति भावः | ज्ञानवत्वमेवेति | इछाकृत्योरेवकारेण व्यवछेदः क्रियते तयोः | कर्तृत्वलक्षणप्रवेशे च गौरवादिति भावः न चैव मुदाहृत श्रुत्योरिछाकृति प्रतिपादनं व्यर्थं स्यादिति वाच्यं || एवं च विवरणे जीवस्य सुखादि कर्तृत्वोक्तिः वीक्षणमात्र साध्यत्वाद्वियदादि वीक्षितं हिरण्यगर्भद्वारावीक्षणाधिक प्. ११६अ) प्रयत्नसाध्यत्वात् | भौतिकं स्मितमिति | कल्पतरूक्तिश्च संगछत इति वदति
180 SK ताभ्यां श्रुतिभ्यां तयोः सृष्टिहेतुत्वलाभेपि कर्तृत्वनिर्वाहकतयातयोः प्रतिपादनमित्यत्रमानाभावादिति भावः | अकार्य त्वादिति नित्यज्ञानस्वरूपस्य ब्रह्मणस्तादृश ज्ञानवत्वमौपाधिक भेदमादाय द्रष्टव्यं | न चैवमपि सृष्टिकारणज्ञानस्य तदैक्षतेति श्रुत्याकादाचित्कत्वप्रतिपादनविरोध इति वाच्यं | ब्रह्मस्वरूपं तयानित्यस्यापि ज्ञानस्य प्राण्यदृष्टपरिपाकलक्षणो यः कादाचित्कस्सहायस्तद्विशिष्टतयाकादाचित्कत्वमभिप्रेत्य तच्छ्रुत्युपतेरिति भावः | कार्यानुकूलज्ञानवत्वमात्रं कर्तृत्वमित्यत्रगमकमाह | एवं चेति | इछाकृत्योः कर्तृत्व लक्षणाननुप्रवेशे विवक्षिते सतीत्यर्थः जीवस्येति | तस्य सुखदुःखाद्युत्यत्यनुकूलज्ञानं साक्षिरूपं यथा विद्यते | तथा तदनुकूलेछादि कं नास्त्यननुभवादनभ्युपगमाच्च | न चेदमनुपपन्नं सुखेछया तत्साधनानुष्ठान द्वारासुखोत्पतेरनुभव सिद्धत्वादिति वाच्यं | सुख्याद्युपादानांतष्करणगोचरचिकीर्षा कृत्योरभावस्यात्र विवक्षितत्वा तथा च कार्यानुकूल ज्ञानवत्वमात्रं कर्तृत्व
181 SK प्. ११६ब्) मित्यंगीकारे सत्येव विवरणोक्तिः संगछते नान्यथेत्यर्थः | निश्वसितमस्य वेदाः वीक्षितमस्य पंचभूतानि स्मितस्य चराचरमस्य सुप्तिर्महाप्रलय इति वाचस्पति श्लोके महाभूर्तोनां ब्रह्मवीक्षितत्वमुक्तं तथा भौतिकस्य चराचर प्रपंचस्य ब्रह्मस्मितत्वं मुक्ते तदुभय तात्पर्य कथनपरे कल्पतरु ग्रंथे ब्रह्मवीक्षणमात्रसाध्यत्वं महाभूतेषु तद्धिक्षितत्वनिर्देशस्यालंबनं दर्शितं | तच्च ब्रह्मणो महाभूत सृष्ट्यनुकूलज्ञानवतदनुकूलचिकीर्षाकृत्योरप्युपगमेन संगच्छते वीक्षणाति रिक्त चिकीर्षादि व्यावर्तकमात्रपदविरोधात् | लोके हि मंदहासरूपं स्मितं ज्ञानाधिक प्रयत्न साध्यं प्रसिद्धं | तथा च ब्रह्मणो भौतिक सृष्टिं प्रतियथावीक्षणमपेक्षितं तथा हिरण्यगर्भोत्पति लक्षणव्यापारोप्यधिकोपेक्षितः चराचर सृष्टौ परब्रह्मण इव हिरण्यगर्भस्यापि कर्तृतायाः श्रुतिस्मृति सिद्धत्वा तथा च परब्रह्मणोनौतिक सृष्ट्यनुकूलं यद्वीक्षणं तदधिक व्यापारापोक्षितत्वं चराचरस्य ब्रह्मस्मि तत्वनिर्देशालंबनं दर्शितं तदपि यज्व महाभूतसृष्टावेव वीक्षिणांधिक प्रयत्नापेक्षायां न संभवति | हिरण्यगर्भद्वारेत्यस्य वाक्यस्य हिरण्यगर्भोत्पतिमपेक्ष्येत्यर्थः | न तु हिरण्यगर्भः | प्. ११७अ) साक्षात्कर्ता ब्रह्म च प्रयोजक कर्त्रिति यथा श्रुतार्थो ग्राह्यः द्वितीयाध्यायांतिमाधिकरणे परमेश्वरस्य भौतिक सृष्टावपि साक्षात्कर्तृतायास्साधितत्वादिति भावः | वाचस्पति श्लोकश्च ब्रह्मस्तुति परः ब्रह्म ह्यति प्रशस्तं | तथा हि यस्य ब्रह्मणः पुरुषनिश्वासवत् प्रयत्नं विनैव वेदा सर्वे कार्यभूताः यस्य च वीक्षणादेव माहाभूतानि भवंति यस्य च हिरण्यगर्भेण सह चराचरात्मकं विश्वं मंदहासमात्रं यस्य च महाप्रलयोपि सुषुप्ति प्रायः तत्प्राशस्त्येको विस्मय इति भावः ||
182 SK अपरे तु कार्यानुकूल सृष्टव्यालोचनरूपज्ञानवत्वं कर्तृत्वं | न कार्यानुकूलज्ञानवत्वमात्रं शुक्तिरजतस्वाप्नभ्रमादिषु अध्यासानुकूलाधिष्ठान ज्ञानवत्वेन जीवस्य कर्तृत्व प्रसंगात् | न चेष्टापतिः अथ रथान् रथयोगान्यथाः सृजते स हि कर्तेत्यादि श्रुत्यैव जीवस्य स्वप्न प्रपंच कर्तृत्वोक्तेरिति वाच्यं | भाष्यकारैर्लांगलंगवादीमुद्वहतीति वत्कर्तृत्वोपचारमात्रं रथादि प्रतिभान निमित्तत्वेनेति व्याख्यातत्वादित्याहुः प्. ११७ब्) अनेनैव निखिलप्रपंचरचना कर्तृभावेनार्थ सिद्धं सर्वज्ञत्वं ब्रह्मणः द्वितीयपक्षेपि दोषं वदन् तृतीयपक्षं समर्थते | अपरेत्विति | स्रष्टव्यालोचनेति | मयेदं स्रष्टव्यमित्याकारकमित्यर्थः | अध्यासेति अध्यासस्याध्यस्य मानरजतादेरनुकूलं यदधिष्ठन ज्ञानं तद्वत्वेनेत्यर्थः | न चेष्टापतिरिति | न चेत्यस्य वाच्यमित्यनेन संबंधः | अथेत्यस्य स्वप्नकाल इत्यर्थः | जीवस्य रथादि सृष्टृत्वे हेत्वमाह | स हि कर्तेति | हि यस्मात् स्वाप्न रथादि हेतु कर्मकर्ता जीवस्तस्मादित्यर्थः | भाष्यकारैरिति | लांगलंगवादीनुद्वहतीति प्रयोगे लांगलस्य गवादि स्थिति कर्तृत्वरूपं गवाद्युद्बोद्वृत्वं मुख्यं नास्ति किं तु लांगले सति कृषिद्वारागवादि स्थिति हेतु पलालादि तृणलाभोस्तीति कृत्वा उपचारादुच्यते | गवादीनुद्वहतीति | तद्वत्स्वाप्नरथादि पदार्थोपलब्धि हेतु धर्मादि कर्तृत्वेन रथादि प्रतिभाननिमितत्वरूपेण हेतुना तस्य कर्तृत्वमुपचर्यते | स हि कर्तेति श्रुताविति भाष्यकारैः कर्तृत्वस्य औपचारक कर्तृत्वरूपतया उक्तत्वादित्यर्थः | एतेन विवरणे सुखादि कर्तृत्वोक्तिरप्युपचारमात्रपराव्याख्यातामयेदं सुखदुःखादि सृष्ट्यव्यमित्यालोचनरूपज्ञानाभावेपि सुखादि
183 SK प्. ११८अ) दर्शनेन मुख्यकर्तृत्वा संभवात् | वीक्षणमात्र साध्यत्वादिति कल्पतरौ स्रष्टव्यालोचन रूपवीक्षणं विवक्षितमिति न तद्विरोध इति द्रष्टव्यं | जन्मादि सूत्रेण निखिलजगत्कर्तृत्वे सति तदुपादानत्वे ब्रह्मणो लक्षणत्वेन प्रतिपादिते सति तस्य सर्वज्ञत्वमर्थात्सिध्यतितिखिलजगत्सृष्टिस्थितिसंहारकर्तृत्वस्य सर्वज्ञत्वं विनासंभवादित्याह | अनेनैवति || शास्त्रयोनित्वादित्यधिकरणे वेदकर्तृत्वेनापि समर्थितं | अथ कथं ब्रह्मणः सर्वज्ञत्वं संगच्छे ते जीववदंतष्करणाभावेन ज्ञातृत्वस्यैवायोगात् | अत्र सर्ववस्तु विषय सकल प्राणिधीवासनोपरक्ताज्ञानोपाधिक ईश्वरः | अतस्तस्य सर्वविषयवासनासाक्षितया सर्वज्ञत्वमिति भारतीतौर्थादि पक्षः प्रागेव दर्शितः सर्वज्ञत्वसिद्धौ हेतुंतरमाह | शास्त्रयोनित्वादिति | अस्य सूत्रस्यार्थमाह | वेदकर्तृत्वेनापीति | ननु यथा वेदकर्तृत्वं भाष्यादिषूक्तप्रकारेण सर्वज्ञत्वं साधयति | तथा जन्मादि सूत्रोपातं सर्वकर्तृत्वमपि तत्साधयति | तथा च पूर्वसूत्रे अर्थसिद्धं इह तु साध्यत
184 SK प्. ११८ब्) इत्युक्तौ को हेतुरिति | उच्यते | पूर्वसूत्रं लक्षणपरं न तु सर्वज्ञत्व साधनं परं इदं तु तत्साधनपरमिति तात्पर्यसत्वाभ्यां तथा व्यवहारः | ततश्च ब्रह्मसर्वज्ञं शास्त्रकर्तृत्वादिति सूत्रयोजना ननु ब्रह्मणः सर्वज्ञत्वं यः सर्वज्ञस्सर्वविद्गुणी सर्वविद्य इत्यादि श्रुत्याकंठत एव प्रतिपाद्यते | कात्र साधनापेक्षेति चेत्सत्यं श्रुत्युक्ते सर्वज्ञत्वे प्रतिपतिदाढ्यीयतथोपपति समर्पणात् | एवं श्रुत्युपपति सिद्धं सर्वज्ञं निरूपयितुमाक्षेपमवतारयति | अथेति | जीवस्य हि स्वोपाध्यंतःकरणवृतिज्ञानाश्रयत्वरूपं ज्ञातृत्वं प्रमाणसिद्धं ब्रह्मणश्चांतष्करणाभावात् ज्ञातृत्वं न संभवति | न च ब्रह्मणोप्यंतःकरणमस्त्विति वाच्यं | कार्योपाधिरयं जीव इति | श्रुत्या तस्य जीवोपाधित्वेन नियमितत्वात् | ज्ञातृत्वं च सर्वज्ञत्व व्यापकं ज्ञातृत्व विशेषरूपत्वात् | सर्वज्ञत्वस्य तथा च ब्रह्मणः ज्ञातृत्वस्य व्यापकस्य निवृत्या व्याप्य सर्वज्ञब्रनिवृतिरित्यर्थः | ज्ञातृत्वाभावे सर्वज्ञत्वं दूरापास्तमित्येवकारार्थः | अंतष्करणानां जीवोपाधित्वेपि तद्वासनानामीश्वरोपाधित्वात्संभवति कथंचित् सर्वज्ञत्वमिति परिहरति | अत्र सर्ववस्त्विति | अत्रेत्यस्यास्मिन्नाक्षेप इत्यर्थः | सर्वविषयवासना साक्षितयेति | स्वोपाधिभूतवासना प्. ११९अ) विषय सर्ववस्त्ववभासकतयेत्यर्थः ||
185 SK प्रकृटार्थकारास्त्वाहुः | यथाजीवस्य स्वोपाध्यंतःकरणपरिणामाश्चैतन्यप्रतिबिंबग्राहिण इति तद्योगाज्ज्ञातृत्वं | एवं ब्रह्मणः स्वोपाधिमायापरिणामाश्रित्प्रतिबिंबग्राहिणः संतीति तत्प्रतिबिंबितैः स्फुरणैः कालत्रयवर्तिनोपि प्रपंस्या परोक्षेणावकलनात् सर्वज्ञत्वमिति | तत्वशुद्धिकारास्तूक्तरीत्याब्रह्मणो विद्यमाननिखिलप्रपंच साक्षात्कार संभवात् | तज्जनित संकारवतया च स्मरणोपपतेरतीत सकलवस्त्ववन्नाससिद्धिः सृष्टेः प्रा᳚न्मायायाः सृज्यमाननिखिल पदार्थस्फुरणरूपेणजीवादृष्टानुरोधेन विवर्तमानत्वात् | तत्साक्षितया तदुपाधिकस्य ब्रह्मणोपि तत्साधकत्वसिद्धे || अस्मिन् समाधाने प्रागुक्तमस्वरसंमनसिनिधाय प्. ११९ब्) समाधानांतरमाह | प्रकटार्थकारास्त्विति | यथांतष्करणं ज्ञातृत्वोपाधिस्तथा मायापि ज्ञातृत्वोपाधिर्भवत्ये च तथा च ब्रह्मणि मायोपाधिके सर्वज्ञत्व व्यापकस्य ज्ञात्वस्य निवृत्यभावात् न सर्वज्ञत्वनिवृति शंकेत्यर्थः | स्वोपाधिमायेति मापिनमिति श्रुतेर्मायोपाधिर्जगद्योनिस्सर्वज्ञत्वादि लक्षण इति वाक्यवृति वचनाच्च मायाया ईश्वरोपाधित्वं सिद्धमिति भावः | सर्वज्ञत्व सर्वनियंतृत्व सर्वात्मकत्वानिलक्षणान्यसाधारण धर्माः यस्य सः सर्वज्ञत्वादिलक्षण इत्यर्थः | अवकलनादिति | विषयीकरणादित्यर्थः | तत्वशुद्धिकारास्त्विति | प्रकटार्थकाराणां मते अतीतानागत प्रपंचविषयेपि ईश्वरीयं मायावृतिप्रतिर्विरूपं ज्ञानमपरोक्षं | तत्वशुद्धिकाराणां मते अतीतादि विषये जीवानामिवेश्वर ज्ञानमपि परोक्षमेवेति विशेषार्थकस्तु शब्दः | विद्यमानेति लोके प्रत्यक्षज्ञानस्य वर्तमानवस्तुमात्रविषयकत्व स्वामाव्यदर्शनेन तस्य कॢप्तस्वभावाति लंघने कारणानावात् | सर्वज्ञत्व प्रतिपादक शास्त्रस्य ईश्वरीय ज्ञानगत परोक्षत्वापरोक्षत्वयोरुदासीनत्वादिति भावः | तज्जनितोति | विद्यमानवस्तु साक्षात्कारजनितेत्यर्थः | अनागत वस्तु ज्ञानमुपपादयति |
186 SK प्. १२०अ) सृष्टेः प्रागिति | स्फुरणपदं वृतिपरं विवर्तमानत्वं परिणममानत्वं | तदुपाधिकस्येति | मायोपाधिकस्येत्यर्थः कथं तु || रनागत वस्तुविषयविज्ञानोपपतिरिति सर्वज्ञत्वं समर्थयंते | कौमुदीकृतस्तवदंति स्वरूपज्ञाने नैव ब्रह्मणः स्वसंसृष्ट सर्वावभासकत्वात्सर्वज्ञत्वं | अतीतानागतयोरप्यविद्यायां चित्रभितौ विमृष्टानुन्मीलित चित्रवत्संस्कारात्मनासत्वेन तत्संसर्गस्याप्युपपतेः | ननु वृतिज्ञानैस्तस्य सर्वज्ञत्वं | तमेव भांतमनुभाति सर्वमिति सावधारण श्रुति विरोधात् | सृष्टेः प्रागेकमेवाद्वितीयमित्यवधारणानुरोधेन महामूतानामिववृत्तिज्ञानानामपि प्रलयस्य वक्तव्य तया ब्रह्मणस्तदा सर्वज्ञत्वाभावापत्या || दुपाधिकत्वमत आह | तत्साक्षितयेति | तस्यां मायायां प्रतिबिंबित तयेत्यर्थः | सृष्टेःति पूर्वकालेयायायास्तथा | परिणामेकारणमाह | जीवादृष्टेति |
187 SK प्. १२०ब्) तत्साधकत्वसिद्धेरिति | मायावृति कर्तृत्वसिद्धैरित्यर्थः | अनागतेति | अनागत वस्तुविषयकस्य ज्ञानस्य वृतिप्रतिबिंबरूपस्य ब्रह्मण्युपपतिरित्यर्थः | जीववद्ब्रह्मणोपि चैतन्य प्रतिबिंबोपेतैर्वृतिज्ञानैस्सर्वज्ञत्वं निरूपितं मतद्वयेन | इदानीं स्वरूपज्ञानेनैव तन्निरूपयति | कौमुदीकृतस्त्विति | ननु अतीतानागत प्रपंचयोः प्रलयकाले सृष्टिपूर्वकाले च सत्वे माना भावात् | तदाब्रह्मणस्सर्वज्ञत्वं न सिध्यति | असतोस्तयोश्चैतन्य संसृष्टत्वासंभवादिति नेत्याह | अतीतानागतयोरपीति | अतीत प्रपंचस्य प्रलयकाले संकारात्मनासत्वस्य देवताधिकरणे सूत्रभाष्यकारादि भिस्माधि तत्वात् तथा नागतस्यापि सृष्टिपूर्वकाले संस्कारात्मनैव सत्वस्यारंभणाधिकरणादिषु च साधितत्वादतीतादि वस्तुसंसृष्टब्रह्मचैतन्यस्य तदापि सर्वज्ञत्वसिद्धिरि भावः | चित्रस्यानुन्मीलितत्वं अनभिव्यक्तत्वं | तत्र हेतुर्विसृष्टत्वमविद्यैव चित्रमितिरिति | रूपकमत्र दृष्टव्य | सुत्रेदंचित्यं | स्थूलप्रपंचस्थितिकाले संस्कारात्मक सूक्ष्मप्रपंचो नास्ति प्रलयकालादौ च स्थूलप्रपंचो नास्ति तथा च ब्रह्मचैतन्यस्य सदासर्वप्रपंच संसृष्टत्वाभावात् सदा तस्यासंकुचित सर्वज्ञत्वं न संभवतीति | स्वरूपज्ञानेनैवेत्यत्रत्यस्यावधारणस्य व्यवचेद्यमाह | प्. १२१अ) न तु वृतिज्ञानैरिति | श्रुतिमनस्यावधारणस्य स्वप्रकाशात्माति रिक्ता नवभास्यमाऽदित्यादि जगदित्यर्थः | अत्रेदं चित्यं | ब्रह्मचैतन्यस्य जगदवभासनार्थं मायावृत्यपेक्षायां यदि श्रौतमवधारणं विरुध्यते | तदा जीवचैतन्यस्य घटाद्यवभासनार्थमंतःकरणवृत्यपेक्षायामपि तद्विरुध्यत एव यदि चांतष्करणवृतीनां जडत्वात् | तदपेक्षायामपि सर्वं जडवस्तुचैतन्यमात्रावभाष्यमिति सावधारण श्रुत्यर्थस्य न बाधस्तदामायावृत्यपेक्षायामपि तुल्यं समाधानमिति ||
188 SK प्राथमिक मायाविवर्तरूपे ईक्षणे तत्पूर्वक महाभूतादौ च स्रष्टृत्वाभाव प्रसंगाच्च | एवं सति ब्रह्मणः सर्वविषयज्ञानात्मकत्वमेवस्यान्न तु सर्वज्ञातृत्वरूपं सर्वज्ञत्वमिति चेत्सत्यं | सर्वविषयज्ञानात्मकमेव ब्रह्म न तु सर्वज्ञान कर्तृत्वरूपं ज्ञातृत्वमस्ति || प्रलयकाले सर्वज्ञत्वाभावे को दोषस्तत्राह | प्राथमिकेति | तदासर्वज्ञत्वाभावे सति सर्गादौ तदैक्षेति श्रुत्युक्तं भूतसृष्ट्यनुकूलमीक्षणं प्रतिकर्तृत्वाभावेन प्. १२१ब्) ईक्षणपूर्वकभूतादि सर्गं प्रत्यधि ब्रह्मणः कर्तृत्वाभावप्रसंगादित्यर्थः | अत्रापीदं चित्यं | एवमपि सृष्टिपूर्वकाले ब्रह्मचैतन्यव्यतिरिक्तस्य माया तत्संबंधादेस्सत्वात् | अद्वितीयत्वावधारणं मुख्यं न संभवति | यदि च मायादेरनादित्व प्रतिपादक श्रुत्यादि वलाद्व्याकृतकार्यात्मक द्वितीयाभावावधारणपरं तद्वचनमित्युच्येते | तदा सर्वदा सर्वविषयक ज्ञानकर्तृत्वरूप सर्वज्ञत्व प्रतिपादक श्रुत्यादि बलात् सर्वज्ञत्व घटक मायावृति संतत्यति रिक्त कार्याभावावधारणपरसद्वितीयत्व वचनमित्यपि कल्पनं तुल्यं | मायावृतिभिस्सर्वज्ञत्व समर्थनमेव भाष्यसंमतं | तथा चेक्षत्यधिकरणभाष्यं | अपि चाविद्यादि मतस्संसारिणश्शरीराद्यपेक्षाज्ञानोत्पतिः स्यान्नज्ञानप्रतिबंधकारणे रहितस्येश्वरस्येति सृष्टेः पूर्वकाले ब्रह्मण स्मृष्टव्यालोचनमीक्षरूपणं न संभवति | वृतिज्ञानरूपेक्षणस्य शरीरादिकारकसाध्यताया लोकसिद्धत्वेन ब्रह्मणस्तदाशरीराद्यभावादिति सांख्यशंकामिरासार्थमिदं | भाष्यं जीवस्यैव वृतिज्ञानोत्पतिश्शरीरादि साध्या ईश्वरस्य तु मायावृतिरूपज्ञानोत्पतिश्शरीराद्यनपेक्षा तथा च सृष्टेः पूर्वं प्रलयकालेपि तस्य मायावृतिरूपमीक्षणं सदासर्वज्ञत्वं च संभवतीति समाधान भाष्याभिप्रायः |
189 SK प्. १२२अ) इदं भाष्यमित्थमेव व्याख्यातृभिर्नीतं भाष्ये ज्ञानप्रतिबंधकारणमविद्यादीति मंतव्यं | ततश्च मायावृतिभिस्सर्वज्ञत्व समर्थन पक्षदूषणमसंगतमिति मंतव्यं | शंकते | एवं सतीति स्वरूपज्ञानेनैव सर्वज्ञत्व समर्थने सतीत्यर्थः | नत्विति | स्वरूपज्ञानस्य नित्यत्वादिति भावः | न तु सर्वज्ञानकर्तृत्वरूपमिति | ब्रह्मण इति शेषः | अत्र यद्यपि ज्ञातृत्वं सामान्यरूपं सर्वज्ञानकर्तृत्वं तु वि शेषरूपमिति न तयोरभेदस्संभवति | तथापि ब्रह्मणो ज्ञातृत्वं नास्तीत्यत्रैव तात्पर्यं न तु तयोरभेदोक्तावपीत्यविरोधः || अत एव वाक्यान्वयादित्यधिकरणे विज्ञातृत्वं जीवलिंगमित्युक्तं भाष्यकारैः यः सर्वज्ञ इत्यादि श्रुतिरपि ज्ञानरूपत्वाभिप्रायेणैव योजनीयेति | यद्यपि ब्रह्मस्वरूपचैतन्येनैव स्वसंसृष्ट सर्वावभासकं || अत एवेति | ब्रह्मणो ज्ञातृत्वाभावादेवेत्यर्थः | इत्युक्तमिति | बृहदारण्यके मैत्रेयी ब्राह्मणे पठ्यते | आत्मनस्तकामाय सर्वं प्रियं भवतीत्यात्मा वा अरे द्रष्टव्य इत्यादि | अत्र किं जीवो द्रष्टत्वेनोपरिश्यते | उत
190 SK प्. १२२ब्) प्रत्यगभिन्नः परमात्मानिष्प्रपंच स्वभावः इति संशयस्तत्र पूर्वपक्षः पूर्ववावाक्ये भोक्तुर्जीवस्य प्रकृतत्वादुपसंहारेपि विज्ञातारमरेकेन विज्ञानीयादिति विज्ञातृत्वस्य जीवधर्मस्य कीर्तनाच्च जीव एवात्र द्रष्टव्य उपदिश्यत इति | सिद्धांतस्तु प्रत्यगभिन्नपरमात्मैव द्रष्टव्यतयोपदिशयते | कुतः वाक्यान्वयात् | तथाहि | अत्र आत्मवेदनेन सर्वं विदितं भवतीति प्रतिपाद्यते | तच्च सर्वाधिष्ठान ब्रह्मपरिग्रहं घटतेन जीवपरिग्रहे तथा इदं सर्वमात्मेत्यादि वाक्यान्यपि सर्वात्मके ब्रह्मण्येव तात्पर्येण प्रतिपादकतया अन्वितानि लक्ष्यंते | आत्मनस्तु कामाय सर्वं प्रियं भवतीति पूर्ववाक्ये जीवपरामर्शस्तु लोकसिद्धं भोक्तारं मनूद्य तस्य शुद्धब्रह्मरूपेण द्रष्टव्यत्वोपदेशार्थः विज्ञातारमिति वाक्यं तु जीवस्य विज्ञातृत्वरूपधर्मपरं न भवति तस्य वाक्यस्य मुक्तजीवपरत्वात् | मुक्तजीवे चतिरूपाधिके तस्यासंभवात् | किं तु भूतपूर्वगत्याविज्ञातृत्वानुवादमात्रं स्वातंत्र्येण न कस्य साधकं | तस्मात् | मैत्रेयी ब्राह्मणं प्रत्यगभिन्ने निर्विशेषे द्रष्टव्ये समन्वितमिति सिद्धमिति | अत्र ज्ञातृत्वं ब्रह्मसाधारणं चेज्जीवलिंगतया भाष्यकारैर्नोपन्यस्येत उपन्यस्तं च तस्मात् ज्ञातृत्वं ब्रह्मणो नास्तीति गम्यत इति भावः | ईश्वरस्य सर्वविषयकज्ञानकर्तृत्वानभ्युपगमे श्रुतिविरोधमाशंक्याह | यस्सर्वज्ञ
191 SK प्. १२३अ) इति | ननु नित्यचैतन्यमात्रस्य सर्वत्रलक्ष्यतयाज्ञाधातुवाच्यत्वा योगात् | विशि चैतन्यस्य प्रकृत्यर्थत्वं वाच्यं | तथा च विशिष्टस्य कार्यत्व संभवात् | प्रत्यय श्रुत्यर्थकर्तृत्वस्य न विरोधः ब्रह्मणः सर्वज्ञानकर्तृत्व प्रतिपादक श्रुतिविरोधेन ज्ञातृत्वस्य जीवलिंगत्वोक्तेरभ्युच्चेयमात्रत्वोपपतेः | तदधिकरणसिद्धांताभिमत निर्विशेष ब्रह्मव्यावृतत्वमात्रेण विज्ञातृत्वस्य पूर्वपक्षलिंगत्वोपत्वोपन्यासोपपतेश्च भाष्यकारैरेव मुख्यस्य सर्वविषयक ज्ञानकर्तृत्वस्य ईक्षितृत्वस्य ईक्षत्यधिकरणे प्रतिपादितत्वाच्च प्रत्यय श्रुतेः स्वांर्थपरत्वसंभवेतत्यागायोगाच्चेत्यस्वरसादाह यद्यपीत्यादिना चैतन्येनैवेति | न मायावृतिभिरित्येव कारार्थः तथापि तस्य स्वरूपेणाकार्यत्वेपि दृश्यावछिन्नरूपेण तु ब्रह्मकार्यत्वाद्यः सर्वज्ञ इति ज्ञानजनन कर्तृत्व श्रुतेरपि न कश्चिद्विरोध इत्याचार्य वाचस्पति मिश्राः नन्वीश्वरज्जीवोपि वृतिमनपेक्ष्यस्वरूपचैतन्येनैव किमिति विषयान्नावभासयति | अत्रोक्तं विवरणे ब्रह्मचैतन्यं प्. १२३ब्) सर्वोपादानतया सर्वतादात्म्यापन्नं स्वसंसृष्टं सर्वमवभासयति | न जीवचैतन्यं तस्याविद्योपाधिकतया सर्वगतत्वेप्यनुपादानत्वेनासंगित्वात् | यथा सर्वगतंगोत्व सामान्यं स्वभावादश्चादि व्यक्ति संगित्वाभावेपि सास्तावद्व्यक्तौ | संसृज्यते | एवं विषयासंग्यपि जीवः स्वभावादंतष्करणे संसृज्यते | तथा च यदांतष्करणपरिणामो वृतिरूपो नयनादि द्वारेण निर्गत्यविषयपर्यंतं चक्षूरश्मि वक्तुटिति दीर्घप्रभाकारेण परिणम्यविषयं व्याप्नोति | तदातमुपारुह्यतं विषयं गोचरयति तर्हि प्रत्ययार्थ बाधः | नेत्याह | तथापीति | तस्य स्वरूपचैतन्यस्यैत्यर्थः | दृश्यावछिन्नेति | न चानादि मायादि रूपदृश्यावछिन्नचैतन्यस्य कथमुक्तप्रकारेणाधिकार्यत्वं सिद्धेदिति वाच्यं | मायादेरपि ततत्कार्यतादाअत्म्यापत्याकार्यत्वसिद्धौ मायाद्यवछिन्नस्यापि कार्यत्वस्य सुसंपादत्वादिति भावः | आक्षिपति | नन्विति |
192 SK प्. १२४अ) नावभासयतीति | न चात्रेष्टापतिवक्तुं शक्यते | तथा सत्य विद्या प्रतिबिंबचैतन्यरूपजीवस्य व्यापकतया स्वसंसृष्टसकलजगदवभासकत्वापत्या सर्वज्ञत्वप्रसंगात्स्वरूपचैतन्यस्य कारका न पेक्षतया चक्षुरादि वैयर्थ्य प्रसंगाचेति भावः | अत्रोक्तमिति अस्मिन्नाक्षेपे समाधानमुक्तमित्यर्थः | न जीवचैतन्यमिति | यथा जगद्ब्रह्मसंसृष्टं तथा जीवसंसृष्टं न भवति | अतो न तस्य सर्वज्ञत्व प्रसक्तिरित्यर्थः | ननु यथा जीवस्य घटादि विषयैस्संबंधाभावः तथांतष्करणादिनापि संबंधाभावस्तुल्य उपादानत्वाभावादेव तथा चांतष्करणादेर्वृतिं विनैवजीवचैतन्यरूपसाक्षिभास्यत्वं न स्यादित्याशंक्य उपादानत्वाभावेपि जीवचैतन्यस्यांतष्करणादिना तादात्म्य संबंधे दृष्टांतमाह | यथा सर्वगतमिति | संसृज्यत इति | अतो नांतष्करणादेस्साक्षिभास्यत्व विरोध इति भावः चक्षुरादि वैयर्थ्य प्रसंगं परिहरति | तथा चेत्यादिना | तथा चेत्यस्य जीवस्य स्वतो विषय संबंधाभावे सतीत्यर्थः | अंतष्करणपरिणामस्य सहसाविषयव्याप्तौ दृष्टांतः चक्षूरश्मि वदिति | तमिति परिणाममित्यर्थः | गोचरयतीति | जीवचैतन्यमिति शेषः केवलाग्निनाऽ अदाह्यस्यापि तृणादेरयः प्. १२४ब्) पिंडसमारूढाग्निदाह्यत्ववत्केवलजीवचैतन्याप्रकाश्यस्यापि घटादेरंतष्करणवृत्युपारूढ तत्प्रकाश्यत्वं युक्तं यद्वांतष्करणोपाधिकत्वेन जीवः परिछिन्नः अतः संसर्गाभावान्न घटादिमवभासयति वृतिद्वारा तत्संसृष्टविषयावछिन्न ब्रह्मचैतन्याभेदाभिव्यक्तौ तं विषयं प्रकाशयति | अथवा जीवः सर्वगतोप्यविद्यावृतत्वात् ||
193 SK विषयदेशे सतोपि जीवचैतन्यस्य स्वतो विषयावभासकत्वं नास्ति तस्यैव तु वृत्त्यारूढस्य तदस्तीत्यत्र दृष्टांतमाह | केवलाग्नीति तत्प्रकाश्यत्वमित्यत्र तत्पदं | जीवचैतन्य परं ननु जीवचैतन्यस्य विषयदेशे सतोपि विषयैस्संसर्गाभावात् | न तत्प्रकाशकत्वं वृत्यातयोः संसर्गलाभे च तत्प्रकाशकत्वं स्वीकृत्यसर्वज्ञत्व प्रसंगः किंमिति परिहर्यते जीवचैतन्यस्य सर्वगतत्वेन सत्यपि विषयसंसर्गे बिंबभूतब्रह्मचैतन्यवत्तस्यावृतत्वादेव न विषयप्रकाशकत्वमिति प्रतिपादनेनापि जीवस्य सर्वज्ञत्व प्रसंगादेः प्. १२५अ) परिहारसंभवादिति भावः जीवचैतन्यस्यांतष्करणोपाधिकतयापरिछिन्नत्वपक्षे सर्वज्ञत्वापतिशंकैव नास्ति | तस्य विषयैः सह स्वतः संबंधाभावेन वृतिं विना तत्प्रकाशात्मकत्वासंभवादिति परिहारांतरमाह | यद्वेति | अत इति परिछिन्नत्वादित्यर्थः | तत्संसृष्टेति वृतिद्वारावृतिमदेतःकरण संसृष्टं यत् विषयावछिन्न ब्रह्मचैतन्यं तस्यांतष्करणोपाधिक जीवचैतन्येन सहाभेदाभिव्यक्तौ सत्यां स जीवस्तं विषयं प्रकाशयतीत्यर्थः | अविद्याप्रतिबिंबो जीव इति प्रथमपक्षमेवाश्रित्यजीवस्योपादानत्वाभावेपि घटादि विषयैस्सहसंसर्गमभ्युपेत्यपरिहारांतरमाह | अथवेति सर्वगतौपीति | उपलक्षणं चैतत् | विषयसंसृष्टोपीत्यपि द्रष्टव्यं इतरथा विषयसंसर्गाभावादेव जीवस्य विषयप्रकाशकत्वाभावोपपतौ तस्यावृतत्वकल्पना वैयर्थ्य प्रसंगादिति बोध्यं | न च मां न जानामीत्यनुभवाभावात्कथं तस्यावृतत्वं सिध्येदिति वाच्यं | अंतष्करणोपहित जीवचैतन्यस्यैवमामित्युनुभवविषयतया व्यापकजीवचैतन्ये अंतःकरणावछेदेन तदभावेपि विषयदेशे तस्यावृतत्वकल्पने बाधकाभावात् | सर्वगतत्वेन रूपेण मां न जानामीत्यनुभवसत्वाच्चेति भावः ||
194 SK प्. १२५ब्) स्वयमप्यप्रकाशमानतयाविषयानऽनवभासयन् विषयविशेषेवृत्युपरागादावावरणतिरोधानेन तत्रैवाभिव्यक्तस्तमेव विषयं प्रकाशयति | एवं चिद्रुपरागार्थत्वेन विषयचैतन्याभेदाभिव्यक्त्यर्थत्वेनावरणाभिभवार्थत्वेन वा वृतिनिर्गममपेक्ष्य तत्संसृष्टविषयमात्रावभासकत्वाज्जीवस्य किंचित् जत्वमप्युपपद्यत इति | अत्र प्रथमपक्षे सर्वगतस्य जीवस्य वृत्यधीनः को विषयोपरागः वृत्यापि हि पूर्वसिद्धयोः निष्क्रिययोर्विषयजीवचैतन्ययोस्तादात्म्यस्य संयोगस्य वा न संभवत्याधानं || स्वयमपीति | विषयास्तावज्जडत्वात्स्वतो न प्रकाशंते जीवस्तु स्वप्रकाशमानोप्यावृतत्वादप्रकाशमान इति वक्तुमपि शब्दः यद्वा अपिशब्दो अवधारणार्थः तथा चावृतत्वात् स्वयमेवाप्रकाशमानतयेत्यर्थः | वृत्युपरागादाविति | विषय विशेषे वृत्युपरागे सति विषयदेशस्य जीवचैतन्यस्यापि वृत्युपरागो भवति |
195 SK प्. १२६अ) तेन च जीवचैतन्यगतस्यावरणस्य तिरोधानं भवति तथा च जीवचैतन्यैं यो वृत्युपरागस्स आदिपदार्थः | तत्रैवेति | विषयविशेष एवेत्यर्थः | तमेवेति | नान्यं विषयमतो न सर्वज्ञत्वप्रसंग इति भावः इममेव भावं प्रकटयति | एवं चेति | जीवचैतन्यस्य वृतिं विनाविषयानवभासकत्वे सिद्धे सतीत्यर्थः | तत्संसृष्टेति | वृतिसंसृष्टेत्यर्थः | किंचिद्गत्वमपीति | अनुभवसिद्धं किचिद्गत्वं अनुभव सिद्धासर्वज्ञत्वारिति भावः | तत्सिद्धं चक्षुराद्यनुविधानं चेत्यपि शब्दार्थः | आक्षिपति | अत्रेति | उक्तपक्षेषु मध्य इत्यर्थः क इति स्वरूलक्षणो वा तादात्म्यलक्षणो वा संयोगलक्षणोवेति किं शब्दार्थः तत्र न तावदाद्योवृत्यधीनः जीवचैतन्यस्य सर्वगतत्वेन विषयदेशसन्निहित | जीवचैतन्यविषययोः स्वरूपात्मक संबंधस्य वृतिं विनापि सिद्धत्वादित्याशयेन सर्वगतस्येत्युक्तं | द्वितीयतृतीयौ क्रमेण दूषयति | वृत्यापीति | लोकेययोः पदार्थयोस्तादात्म्यमनुभूयते | तयोरादित आरभ्यानुभूयते न तु मध्ये आगंतुकमित्याशयेनाह पूर्वसिद्धयोरिति | संयोगस्यान्यतर कर्मजत्वमुभय कर्मजत्वं वा वक्तव्यं तदुभयं प्रकृतेन संभवतीत्याह | निष्क्रिययोरिति | न च सुवर्णादौ द्विविधकर्माभावेपि तेजः पार्थिवभगयोस्संयोगो दृष्ट इति वाच्यं | तथा विषयजीवचैतन्ययोरादित आरभ्य संयोगाभ्युपगमे तस्य वृत्यधीनत्व प्रतिपादनविरोधादिति भावः वृत्याप्याधानं न संभवतीति संबंधः प्. १२६ब्) जीवचैतन्यस्यानुपादानतया निरवयवतया च विषय जीवचैतन्ययोस्तादात्म्यसंयोगौ स्वतोनस्त एवं वृत्यापि तयोराधानं न संभवतीत्यपि शब्दार्थः आधानमुत्पादनमिति बोध्यं ||
196 SK अत्र केचिदाहुः | विषयविषयिभावसंबंध एवेति | अन्ये तु विषयविधिभावमात्रे नियामकावृतिश्चेदनिर्गताया अप्यैंद्रियक वृतेस्तन्नियामकत्वं नाति प्रसंगावहमिति तन्निर्गमाभ्युपगम वैयर्थ्यापतेः | स नाभिसंहितः किं तु विषयसन्निहित जीवचैतन्य तादात्म्यापन्नायावृते विषयसंयोगे तस्यापि तत् द्वारकः परंपरासंबंधो लभ्यत इति स एव चिदुपरागोभिसंहित इत्याहुः | अपरे तु साक्षादपरोक्ष चैतन्य संसर्गिण एव सुखादेरापरोक्ष्यदर्शनादपरोक्षविषये साक्षात्संसर्ग एष्टव्यः || विषयदेशे सन्निहितस्य जीवचैतन्यस्य वृत्युत्पतेः पूर्वं विषयविषयिभावलक्षणसंबंधो नाभूत् तदुत्पनं तं *? स जायते तस्याति रिक्तस्यानिर्वचनीयस्य संभवादित्याशयेनाह
197 SK प्. १२७अ) अत्र केचिदाहुंरिति | न तु स्वरूपसंबंधस्य वा तादात्म्यस्य वा संयोगस्य वा वृत्यधीनत्वमुपेयते येनोक्त दोषः स्यादित्येव कारार्थः | परोक्षस्थले अनुमित्यादिवत्युपहित जीवचैतन्यस्यानुमेयादि विषयैस्सहविषयविषयिभावलक्षणसंबंधस्य वृतिनिर्गमनं विना सिद्धांते | स्वीकाराद्वृतिनिर्गमनमुपगछतां विवरणकाराणामयं संबंधो नाभिप्रेत इत्याह | विषयविषयिभावमात्र इति | परोक्षस्थल साधारणविषयविषयि भाव इत्यर्थः | तन्नियामकत्वमिति | विषयविषयिभाव संबंधस्तच्छब्दार्थः वृतिनिर्गमनाभावेपि यद्विषयावृतिर्जीवस्य स ए प्रकाश्योनान्य इति नियमसिद्धेर्विषयांतरप्रकाशकत्वापत्तिरूपाति प्रसंगो नास्तीत्यर्थः संयोगादेरपि निरस्तत्वात् कस्संबंधस्तदधि मत इति पृछति | किंत्विति अभिमतं संबंधमाह | विषयसन्निहितेति विषय व्यापितया उत्पन्नां वृतिं प्रतिविषयसन्निहित जीवचैतन्यस्याधिष्ठानतया वृतेस्तत्तादात्म्यं बोध्यं तस्यापीति विषय सन्निहित जीवचैतन्यस्यापि विषयावभासकत्वेनाभि मतस्य विषयेण सह वृतिविषयसंयोगद्वारकः परंपरासंबंधः विषय संयुक्तवृतितादात्म्यलक्षणो लभ्यत इत्यर्थः | उक्त संबंधस्य वृति निर्गमनं विना संभवातन्निर्गमनं विवरणाचार्येरुक्तमिति भावः | सुखादेरोतर पदार्थस्यापरोक्षत्वेन तत्प्रकाशक जीवचैतन्येन सह तस्यऽ ग?ता प्. १२७ब्) त्संबंधः प्रयोजकत्वेन कॢप्तः | एवं बाह्यघटादीनामापरोक्ष्येपि | साक्षात्संबंधः विषयापरोक्ष्ये क्वचित्साक्षात्संबंधः | क्वचिच्च परंपरासंबंधः प्रयोजक इति वैरूप्यापतेस्संभवति | साक्षात्संबंधे परंपरासंबंध कल्पनायोगाच्च | तस्मान्नायमप्याचार्याभिमतस्संबंधः इत्याह अपरेतिति ||
198 SK तस्माद्वृतेर्विषयसंयोगे वृत्तिरूपावछेदकलाभातदवछेदेन त्वदुपादानस्य जीवस्यापि संयोगजसंयोगः संभवतिकारणाकारणसंयोगात् कार्यसंयोगवत् | कार्याकार्यसंयोगात्करणाकारणसंयोगस्यापि | युक्तितौल्येनाभ्युपगंतुं युक्तत्वादित्याहुः | एकदेशिनस्त्वं तष्करणोपहितस्य विषयावभासक चैतन्यस्य विषयतादात्म्यापन्न ब्रह्मचैतन्याभेदाभिव्यक्तिद्वाराविषय तादात्म्यसंपादनमेव चिदुपरागोभिसंहितः || तस्मादिति | परंपरासंबंधस्यानभिमतत्वादित्यर्थः | वृतेरिति | वृतेर्विषयेण संयोगे सति वृत्युपादानजीवचैतन्यस्यापि विषयेण सहसंयोगजसंयोगस्संभवति | एतदुक्तं भवति | जीवचैतन्यस्य वृतिः कार्यं अकार्यं विषयः
199 SK प्. १२८अ) वृतेर्जीवचैतन्यमुपादानकारणं तस्यावृतेर्विषयोनोपादानकारणं | तथा च वृतिविषययोर्जीवचैतन्यं प्रतिकार्याकार्ययोस्संयोगा जीवचैतन्यविषययोर्वृतिं प्रतिकारणाकारणायोः संयोगोत्र संयोगज संयोगो विवक्षित इति | ननु कायं प्रतिकारणभूतरुस्तस्य तं प्रत्येवाकारणभूततरुणासंयोगात् हस्तकार्यकायस्य हस्ताकार्य तरुणा सहसंयोगः उपेयते हस्ततरुसंयोगदशायां तरौ हस्तावछेदेन तरुः कायसंयुक्त इत्यनुभवादित्याशंक्यप्रकृतेपि घटादौ विषये वृति संयोगदशायां घटे वृत्यवछेदेन घटस्फुरतीति जीवचैतन्य संसृष्टत्वान भवादित्याशयेनाह कारणाकारणेति | युक्तितौल्येनेति | उभयत्र कल्पनानुभवरूपाया युक्तेस्तल्पत्वेनेत्यर्थः | ननु विषयदेशे सन्निहितस्यापि जीवचैतन्यस्य वृत्युपादानत्वं विवरणाचार्याणामभिमतं न भवति | जीवस्यांतःकरणाद्युपादानत्वाभावेपि सास्नादि मद्यक्तौ गोत्व सामान्यस्येव स्वभावादेव जीवस्यांतःकरणादौ संबंध इत्यस्यार्थस्य एवं विषयासंग्यपि जीवः स्वभावादंतष्करणेन संसृज्यत इत्यत्र प्राविवरणमतत्वेन प्रतिपादितत्वात् | ततश्च जीवचैतन्यस्य वृतिं प्रत्युषादानकारणत्वाभावे सत्युक्त संबंधो न सिध्यतीति संयोगजसंयोगोपि नाचायं संमत इत्यस्वरसादाह | एकदेशिनस्त्विति | घटादि विषयाभासकजीवचैतन्यस्य घटादिनाविषयेण सह तादात्म्य
200 SK प्. १२८ब्) संबंधसंपादनमेव चिदुपरागत्वेनाभिमतमित्यर्थः | ननु वृत्यापि पूर्वसिद्धयोर्विषयचैतन्ययोस्तादात्म्यस्य न संभवत्याधानमिति प्रागुक्तत्वात्कथं तत्संपादनमत आह | विषय तादात्म्यापन्नेति | बिंबभूत ब्रह्मचैतन्यस्य घटादि विषयोपादानतया ब्रह्मविषययोस्तादात्म्यं प्रागेव सिद्धं तथा च विषयतादात्म्यापन्न ब्रह्मचैतन्येन सहविषयादनासक जीवचैतन्यस्य वृति कृता भेदाभिव्यक्तौ सत्यां जीवचैतन्यस्य विषयतादात्म्यं वृत्यधीनतयालभ्यते | अभेदाभिव्यक्तिप्रकारश्च वक्ष्यते अतो न तादात्म्य संपादनानुपपतिरिति भावः || सर्वगततया सर्वविषयसंनिहितस्यापि जीवस्यतेवरूपेणविषयावभासकत्वे तस्य साधारणतया पुरुषविशेषापरोक्ष्य व्यवस्थित्य योगेन तस्यांतष्करणोपहितत्वरूपेणैव विषयावभासकत्वात् | एवं च विषयापरोक्ष्ये अध्यासिकसंबंधो नियामक इति सिद्धांतोपि संगछतेन चैवं द्वितीय यक्षसाकर्यं जीवस्य सर्वगतत्वे प्रथमः पक्षः परिछिन्नत्वे द्विती प्. १२९अ) इत्येव तयोर्भदादित्याहुः || विषयावन्नासकजीवचैतन्यस्यांतष्करणोपहितस्येति यद्विशेषणंदतं तस्य प्रयोजनमाह | सर्वगतयेति | ते त्वेति सर्वगतत्वेनेत्यर्थः तस्येति | जीवस्येत्यर्थः | साधारणतयेति | सर्वपुरुषसाधारणतयेत्यर्थः | पुरुषपदं प्रमातृ परमविद्या प्रतिबिंबो जीव इति पक्षे जीवभेदाभावात् | अयोगेन तस्येति | जीवस्येत्यर्थः | तथा च सर्वगतमपि जीवचैतन्यं यस्य पुरुषस्यांतष्करणोपहितं स यमर्थमवभासयति सोर्थस्तस्यैवापरोक्षो नान्यस्येति व्यवस्थिति सिद्धये अंतष्करणोपहितत्वविशेषणं वाच्यमित्यर्थः | एकदेशमते लाभमाह एवं चेति विषयावभासकजीवचैतन्यस्य वृत्याविषयतादात्म्य संपादनोपगमे सतीत्यर्थः | अध्यासिकेति | अध्याससिद्धतादात्म्य संबंध इत्यर्थः | न चैवमिति |
201 SK संबंधार्थावृतिरिति प्रथमपक्षेपि वृत्याभेदाभिव्यक्त्युपगम इत्युपगम इत्यर्थः | सांकर्यं पहिहरति | जीवस्येति जीवस्य सर्वगतत्वमते संबंधार्थावृतिरिति | प्रथमपक्षः जीवस्यांतःकरणोपाधिकतया परिछिन्नत्वमते अभेदाभिव्यक्त्यर्थावृतिरिति द्वितीयपक्ष इत्यथः | अयं भावः प्रथमद्वितीय पक्षयोरुभयोर्वृतिकृताभेदाभिव्यक्ति साम्येपि प्रथमपक्षे वृतिरभेदाभिव्यक्ति प्. १२९ब्) द्वाराविषयावभासक जीवचैतस्यस्य विषयेण महतादात्म्यसंबंध संपादनार्थाद्वितीयपक्षे तु वृतिर्विषयावभाब्रह्मसकजीवचैतन्यस्य विषयावछिन्नचैतन्येनाभेदाभिव्यक्त्यर्थैवेति न पक्षयोस्सांकर्यामिति | यद्वा प्रथमपक्षे जीवस्य व्यापकतया विषयदेशे सदासन्निहितस्यैव विषयावन्नासक जीवचैतन्यस्य विषयतादात्म्यापन्न ब्रह्मचैतन्याभेदाभिव्यक्त्यर्थावृतिः द्वितीय पक्षे तु जीवस्य परिछिन्नतया वृतिस्तस्य विषय सन्निधिं संपाद्याधिष्ठान ब्रह्मचैतन्याभेदाभिव्यक्तिमपि संपादयतीति तयोः पक्षयोरसांकर्पमयं परिहारो मूले सर्वगतत्वपरिछिन्नत्व पदाभ्यां सूचितः पूर्वपरिहारस्तु प्रथमपक्ष द्वितीयपक्ष पदाभ्यां सूचितः संबंधार्थावृतिरिति प्रथपक्षे संबंधस्योद्देश्यत्वातगमादभेदाभिव्यक्त्यर्थावृतिरिति द्वितीय पक्षे अभेदाभिव्यक्तेरेवोद्देश्यत्वावगमादिति | अत्र मते विवछित विवेकेन वृतेरभेदाभिव्यक्तिरेव प्रयोजनं प्रथमद्वितीयपक्षयोः पर्यवस्यतीति तयोस्सांकर्यं दुर्वारमित्यभिप्रेत्यादावेव एकदेशिन इत्युक्तमिति मंतव्यं || अथ द्वितीयपक्षे केयमाभेदाभिव्यक्तिः केचिदाहुः कुल्याद्वारातटाककेदारसलिलयोरिव प्. १३०अ) विषयांतष्करणावछिन्नचैतन्ययोर्वृत्तीद्वारा एकीभावोऽभेदाभिव्यक्तिः | एवं च यद्यपि विषयावछिन्नं ब्रह्मचैतन्यमेव विषयप्रकाशकं ||
202 SK वस्तुतस्तसंबंधार्थावृतिरिति वदतामाचार्याणामयमभिप्रायः विषयावभासकत्वेनाभिमतस्य जीवचैतन्यस्य विषयेण घटादिना सहव्यंग्यव्यंजकता लक्षणसंबंधस्ततद्विषयसंसृष्टवृत्यधीनोत्र विवक्षितः | तथाहि अंतःकरणं स्वछद्रव्यत्वात्स्वत एव चैतन्याभिव्यंजनसमर्थं घटादिकं तु तथा न भवति अस्वछद्रव्यत्वात् | घटादि विषयव्याप्त्या तु वृत्या तत्र विद्यमानमस्वछत्वमभिभूय चैतन्याभिव्यंजनयोग्यता आधीयते | तदुक्तं | विवरणाचार्यैरेवांतष्करणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्याभिव्यक्ति योग्यंतामायादयतीति | दृष्टं चास्वछस्यापि स्वछद्रव्य संसर्गात् | प्रतिबिंबग्राहित्वयोग्यत्वं | यथा कुड्यादेर्जलसंयोगकाले प्रतिबिंबग्राहित्वं घटादेः स्वसन्निहित जीवचैतन्यव्यंजकत्वं च तत्प्रतिबिंबग्राहितं | चैतन्यस्यापि व्यंग्यत्वं | तत्र प्रतिबिंबितत्वमेव | एवं विधव्यंग्यव्यंजकतालक्षणसंबंधार्थमेव वृतेर्निर्गमनमुक्तं विवरणे | तथा च वृत्यावहिर्निर्गतया विषयचैतन्ययोर्यथोक्त संबंधे संपादिते सति घटादौ प्रतिबिंबितं
203 SK प्. १३०ब्) तत्रत्यं जीवचैतन्यं तमवभासयतीति | द्वितीयपक्षमाक्षिपति | अथेति | केयमिति | अभेदाभिव्यक्त्यरर्थावृतिरिति द्वितीयपक्षो हि जीवस्य परिछिन्नत्व मत इत्युक्तं | अस्मिन्मते अंतष्करणोपाधिकस्य जीवस्य विषयावछिन्न बिंबभूतब्रह्मचैतन्यस्य च वृत्याभेदाभिव्यक्तिर्न संभवति | अखंडाकारवृतेरिव घटादि गोचरवृतेरुपाधिनिवर्तकत्वाभावेन भेदकोपाध्योरंतष्करणविषययोस्सतोर्जीव ब्रह्माभेदाभिव्यक्तेरयोगादित्यर्थः | व्यावर्तकोपाध्योस्सत्वेपि तयोरेकदेशस्यात्व संपतौ तद्बलादभेदाभिव्यक्तिस्संभवति लोके तथा दर्शनादिति परिहरति | केचिदाहुरिति | केदारः सस्यनिष्पति स्थानं | तथा च तडाकस्थ सलिलस्य कुल्याद्वाराकेदारस्थ सलिलस्य चाभेदाभिव्यक्तिर्यथालोके प्रसिद्धा तथांतष्करणावछिन्नचैतन्यरूपजीवस्य विषयावछिन्न ब्रह्मचैतन्यस्य च वृतिद्वाराभेदाभिव्यक्तिर्भवति वृत्तेर्विषयदेशस्थत्वे सति वृतिवृतिमतोरभेदेन जीवोपाध्यंतष्करणस्यापि विषयदेशस्थत्वसिद्धेरित्यर्थः || तथापि तस्य वृतिद्वारैकी भावेन जीवत्वं संपन्नमिति जीवस्य विषयप्रकाशेपपतिरिति | अन्ये त्वाहुः बिंबस्थानीयस्य प्. १३१अ) विषयावछिन्नस्य ब्रह्मणः प्रतिबिंबभूतेन जीवेनैकीभावोनाभेदाभिव्यक्तिः व्यावर्तकोपाधौ दर्पण इव जाग्रति तयोरेकीभावायोगात् | वृतिकृताभेदाभिव्यक्त्याविषयावछिन्नस्य ब्रह्मणो जीवत्व प्राप्तौ ब्रह्मणस्तदा तद्विषयसंसर्गा भावेन तत् द्रष्टृत्वा संभवे सति तस्य सर्वज्ञत्वाभावापतैश्च ||
204 SK एवं चेति | अभेदाभिव्यक्तेः संभावितायामित्यर्थः | ननु जीवचैतन्यस्य विषयावन्नासकत्वं न संभवति | तस्य विषयं प्रत्युपादानत्वाभावेन तादात्म्यसंबंधाभावात् | न च ब्रह्मचैतन्यमेव विषयावभासकमस्तु तस्योपादानतया साक्षादेवतादात्म्य संबंधलाभादिति वाच्यं | तथा सत्यालोकेन घटः प्रकाशित इति वन्मया घटोवगत इति जीवचैतन्यस्यैव घटप्रकाशकत्वावगमविरोधादिति मत्वा पुनः शंकते | अभेदाभिव्यक्तिप्रयोजनं वक्तुं | यद्यपीति | विषयप्रकाशकमिति | इति वक्तव्यं तादात्म्यसंबंध लाभादिति शेषः | न जीवचैतन्यमित्येवकारार्थः तथा च मयायमवगतो घट इत्यनुभवविरोध इति भावः परिहरति | तथापीति | तस्येति तादात्म्यसंबंधेन विषयावभासक ब्रह्मचैतन्यस्य वृति द्वारांतःकरणोपहितत्व प्राप्तौ जीवे प्. १३१ब्) नैकीभावाज्जीवत्वं संपन्नमिति ब्रह्मचैतन्यस्य यद्विषयावभासकत्वं तज्जीवस्यैवेति प्राप्त्योनानुभवविरोध इत्यर्थः | दर्पण इवेति |
205 SK यथा दर्पणे प्रतिबिंबदशायां बिंबप्रतिबिंबयोरभैदाभिव्यक्तिर्न्नास्ति तयोस्तदा भेदानुभवा तथा प्रकृतेपि विषयादि रूपभेदकौपाधौ सति साम संभवतीत्यर्थः | ननु तत्वसाक्षात्कारेणाशेषोपाधि निवृतौ यादृश्यभेदाभिव्यक्तिस्तादृशी न तत्र विवक्षिता | किं तु क्षीइरनीरयोरेक पात्रस्थयोरिव वृतिद्वारा अंतष्करणविषययोरेकदेशस्थत्वप्राप्तौ तन्मात्रप्रयुक्ता तदवछिन्नचैतन्ययोरौपचारिक्यभेदाभिव्यक्तिर्विवक्षिता अस्यां चाभेदाभिव्यक्तौ न व्यावर्तकोपाधि सत्व प्रयुक्तो विरोधोस्ति दर्पणे मुखप्रतिबिंबदशायामपि मम मुखमेव दर्पणे भातीति बिंबप्रतिबिंबयोरभेदाभिव्यक्ति दर्शनात् | अस्मिन्मतेपीत्थमेव निर्वाहः कर्तव्यः न ह्यंतःकरण तद्वृति प्रतिबिंबयोरभेदाभिव्यक्तिर्मुख्या संभवति वृति वृतिमतोः कार्यकारणभावा एन्नयोरैक्यायोगेन तत्प्रतिबिंबयोरैक्यायोगात् | ऐक्येवा एवं चेत्यादिना प्रमात्रादीनामस्मिन्मते साकर्याभावोपपादनविरोधादित्य स्वरसादाह | वृतिकृताभेदाभिव्यत्मेति | तदा तद्विषयेति | विषयावछिन्न ब्रह्मणो जीवत्व प्राप्तौ तस्येश्वरत्व निवृतिरवश्यं वाच्याचैतन्ये एकावछेदेन प्. १३२अ) जीवत्वेश्वरत्वयोरसंभवा | तथा च तदा जीवत्व दशायां ब्रह्मणस्तद्विषयसंसर्गाभावेन तद्दृष्टृत्वं न संभवतीत्यर्थः | तस्येत्यनंतरं तदेत्यनुषंगः || किं तु विषयावछिन्नं ब्रह्मचैतन्यं विषयसंसृष्टायावृतेरग्रभागे विषयप्रकाशकं प्रतिबिंबं समर्पयतीति तस्याप्रतिबिंबस्य जीवेनैकीभावः | एवं चांतःकरण तद्वति विषयावछिन्नचैतन्यानां प्रमातृ प्रमाणप्रमेय भावेनासंकरोप्युपपद्यते | न च वृत्युपहित चैतन्यस्य विषय प्रमाणत्वे तस्य विषयाधिष्ठान चैतन्यस्येव विषयेणाध्यासिक संबंधाभावाद्विषयापरोक्ष्ये आध्यासिक संबंधस्तंत्रं न स्यादिति वाच्यं | विषयाधिष्ठान चैतन्यस्यैव विषयेणावछिन्नस्य वृतौ प्रतिबिंबितया तदभेदेन तत्संबंध सत्वादिति
206 SK ननु विषयाधिष्ठान चैतन्यस्य वृति संसर्ग दशायामंतष्करणोपहितत्वप्रयुक्त जीवत्ववदविद्योपहितत्व प्रयुक्तमीश्वरत्वमप्यविरुच्चं तथा च बिंबभूतेश्वरस्य तदापि सर्वज्ञत्वमक्षतं | अन्यथांतष्करणाद्यधिष्ठान चैतन्यस्य तदुपाधिकत्व प्रयुक्तजीवत्वे सदा स्थिते प्. १३२ब्) सति बिंबभूतब्रह्मणस्सदांतःकरणादि संसर्गाभावेन तद्दृष्ट्वत्वासंभवे सति सदा सर्वज्ञत्वाभाव प्रसंगदोष इहापि मते तुल्य इत्यस्वरसंमनसिति धाय कीदृशी तर्हित्वदभिमताभेदाभिव्यक्तिरिति पृछति | किं त्वितिति | तामाह | विषयावछिन्नमिति | अग्रभाग इति वृतिर्हि हृदयस्थांतःकरणमारभ्यविषयपर्यंतमविछिन्ना कौस्तुभमण्यादि प्रभावद्दीर्घीभावमापन्ना तिष्ठति तस्यावृतेर्विषय संसृष्टो भागोग्रभाग उच्यते | तत्र यो ब्रह्मणः प्रतिबिंबः तस्य विषयप्रकाशकस्य जीवं नैकीभावः इहाभेदाभिव्यक्तिर्विवक्षितावृतिवृति मतोस्तादात्म्यरूपाभेद सत्वेन तत्प्रतिबिंबयोरभेदाभिव्यक्ति संभवादित्यर्थः | एवं चेति | वृति प्रतिबिंबस्यांतष्करणप्रतिबिंबाद्वस्तुतोभिन्नस्यैव स तस्तदभेदेनाभिव्यक्तस्य विषयावभासकत्वे स्वीकृते सतीत्यर्थः | असंकरोपीति | वृति वृतिमतोस्तादात्म्यात् तत्प्रतिबिंबयोरभेदाभिव्यक्ति वंदसंकरोप्युपपद्यत इत्यपि शब्दार्थः मुखं दर्पणोपाधिनेवांतःकरणेनोपाधिना अवछिन्नं तत्प्रतिबिंबचैतन्यं प्रमाता वृति प्रतिबिंबचैतन्यं तयैवावछिन्नं प्रमाणं विषयावछिन्नं ब्रह्मचैतन्यं प्रमेयमिति | तेषामसांकार्यमुपपद्यते व्यावर्तकोपाधि सद्भावादित्यर्थः | अस्मिन्मते असांकर्यसुपपद्यत इत्युक्त्या पूर्वमते विषयावछिन्न
207 SK प्. १३३अ) ब्रह्मचैतन्यस्य जीवत्व प्राप्ति स्वीकारात् प्रमातृ प्रमेय चैतन्ययोरसांकर्यं नोपपद्यत इति सूचितं वस्तुतस्तु पूर्वमतेपि न सांकर्यं जीवब्रह्मभेदकोपाधि सद्भावस्य तत्प्रयुक्ततया सर्वज्ञत्वादि व्यवस्थायाश्च प्राक् दर्शितत्वादिति मंतव्यं | शंकते | न चेति | तस्येति | तस्य विषयेणाध्यासिकसंबंधान्नावादिति संबंधः प्रमारूपस्य वृति प्रतिबिंबस्य विषयोपादानत्वाभावेन तयोस्तादात्म्यासंभवा तथा च विषयापरोक्ष्ये आध्यासिक तादात्म्य संबंधोनिया || अपरे त्वाहुः बिंबभूतविषयाधिष्ठानचैतन्यमेव साक्षादाध्यासिकसंबंध लाभाद्विषयप्रकाशकमिति तस्यैव बिंबत्वविशिष्टरूपेण भेदसद्भावेपि तदुपलक्षितचैतन्यात्मनैकी भावोभेदाभिव्यक्तिः | न चैवं सति जीवब्रह्मसांकर्यं न वा ब्रह्मणः सर्वज्ञत्व विरोधः बिंबात्मना तस्य यथा पूर्वमवस्थानादिति | अथ तृतीये पक्षे को नामावरणाभिभवः | अज्ञाननाशश्चेत् घटज्ञानेनैवाज्ञानमूलः प्रपंचो निवर्तेतेति चेत् | अत्र केचिदाकेहुः | चैतन्य प्. १३३ब्) मात्रावरकस्याज्ञानस्य विषयावछिन्न प्रदेशे खद्योतादि प्रकाशेन महांधकारस्येव ज्ञानेनैक देशेन नाशो वा कटवत्संवेष्टनं वा भीतभटवदपसरणं वाभिभाव इति अन्ये त्व ज्ञानस्यैक देशेन नाशे उपादानाभावात् ||
208 SK मक इति सिद्धांतविरोध इति शंकाभिप्रायः बिंबप्रतिबिंबयोरभेदान्युपगमात् बिंबचैतन्यस्य विषयेण सहयस्तादात्म्य संबंधः स एव प्रमारूप प्रतिबिंबस्यापीति नापसिद्धांत इति परिहरति | विषयाधिष्ठानेति | तदभेदेनेति | प्रतिबिंब चैतन्यस्य बिंबाभेदेनेत्यर्थः | बिंबप्रतिबिंबयोरभेदे सत्यपि कल्पितभेदसत्वात् बिंबसंबंधस्य प्रतिबिंबसंबंधत्वं नास्तीत्यस्वरसंसाक्षात्पदेन सूचयन् | अभेदाभिव्यक्तिं प्रकारांतरेणाह | अपरेत्वाहुरिति | भेदसद्भावेपीति | प्रतिबिंबत्व विशिष्टचैतन्य स्वरूप जीवेन सहेति शेषः तदिति बिंबत्व प्रतिबिंबत्वाभ्यामुपलक्षक्षितं शुद्धचैतन्यं तदात्मनेत्यर्थः | न चैवं सतीति | उपलक्षितचैतन्यात्मना अभेदाभिव्यक्त्यांगीकारे पूर्वोक्तं दोषद्वयं नास्तीत्यर्थः | अत्रेदंचित्यं | उपलक्षितचैतन्यात्मना एकीभावो न वास्तवाभेदः तस्य वृत्यु न पेक्षत्वात् | नापि व्यवहारिकाभेदः बिंबप्रतिबिंब प्. १३४अ) भेदस्य व्यावहारिकत्वेन तत्संमसताका भेदासंभवात् | नापि प्रातिभासिकाभेदः उपाध्योरेकदेशस्थत्वमात्रेण बिंबप्रतिबिंब चैतन्ययोः प्रातिभासिकाभेदसंभवेन तदर्थं चैतन्यमात्रोपलक्षण वैयर्थ्यादिति | तृतीयपक्षमाक्षिपति | अथेति | निवर्तेतेति अज्ञानस्यैकत्वादिति भावः | न तु निवर्तते अतो नाज्ञाननाशः आवरणाभिभवः | न चान्यः प्रकारस्संभवति अनुपलंभादिति भावः | अज्ञानैक्यमेवालंव्यपरिहरति | अत्र केचिदाहुरिति चैतन्यमात्रेति | मात्रषदंसाक्षि व्यतिरिक्त कृत्स्नचैतन्यपरं साक्षिण्यावरण्य भावस्य वक्ष्यमाणत्वादिति भावः | एकदेशेन नाशोवेति | तथा तन्मूलप्रपंचस्य न निवृत्यापतिरिति भावः प्रकारांतरानुपलंभो सिद्ध इत्याशयेनाह | कटवदित्यादिना | निरुक्तमावरणाभि भवं दूषयन् तं प्रकारांतरेण निर्वक्ति | अन्येति तादिना ||
209 SK पुनस्तत्र कंदलनायोगेन सकृदपगते समयांतरेप्यावरणाभावप्रसंगान्निष्क्रियस्यापसरण सवेष्टनयोरसंभवाच्च न यथोक्त रूपोभिभवः संभवति | अतश्चैतन्यमात्रावरकस्याप्यज्ञानस्य ततदाकारवृति संसृष्टावस्थविषयावछिन्न चेतन्यावरकत्व प्. १३४ब्) स्वाभाव्यमेवाभिभवः | न च विषयावजूंटन पटवद्विषयचैतन्यमाश्रित्यस्थितस्याज्ञानस्य कथं तदनावरकत्वं युज्यत इति शंक्यं | अहमज्ञ इति प्रतीत्याहमनुभवे प्रकाशमानचैतन्यमाश्रयत एव तस्य तदनावरकत्व प्रतिपतेरित्याहुः | अपरे तु घटं न जानामीति घटज्ञानविरोधित्वेन घटज्ञाने सति घटाज्ञानं निवृतमिति तन्निवर्त्यत्वेन चानुभूयमानं न मूलाज्ञानं शुद्धचैतन्यविषयस्य तहान निवर्त्यस्य च तस्य तथा त्वायोगात् किं तु घटावछिन्नचैतन्यविषयं मूलाज्ञानस्यावस्थाभेदरूपमज्ञानांतरमिति तन्नाश एवाभिभवः | न चैवमेकेन ज्ञानेन तन्नाशे तत्समानविषयाणां ज्ञानांतराणामावरणाभिभावकत्वानापतिः यावंति ज्ञानानि तावंत्यज्ञानानीत्यभ्युपगमादित्याहुः || पुनस्तत्रेति | विषयावछिन्नचैतन्ये आवरणोत्यज्ययोगेनेत्यर्थः | ततदिति | तत्तद्विषयाकारवृतिसंसृष्टावस्थं
210 SK प्. १३५अ) यत् विषयावछिन्नचैतन्यं तदनावरकत्वमित्यर्थः | ननु यथा घटं व्याप्यमानः पटस्तमावृणोत्येव एवं विषयावछिन्न ब्रह्मचैतन्यं व्याप्यवर्तमानमज्ञानमपि चैतन्यमावृणोत्येवेति तदनावरकत्व कल्पनमयुक्तमिति | शंकते | न चेति | अज्ञाने पट वैलक्षण्यस्यानुभवसिद्धत्वान्नैतच्चोद्यमवतरतीत्याह | अहमिति | तस्येति | अज्ञानस्येत्यर्थः | जीवचैतन्याश्रितमप्यज्ञानं न तदावृणोति तस्यावृतत्वे सर्वव्यवहारलोप प्रसंगादिति दहराधिकरणभाष्ये साधितत्वात् | साक्षि चैतन्यस्यानावृतताया वक्ष्यमाणत्वाच्चेति भावः प्रपंचोपादानमूलाज्ञानापेक्षयान्यदेवविषयावछिन्न चैतन्यावरकमज्ञानमिति घटादिज्ञानेन तन्निवृतावपि न प्रपंच निवृति प्रसंगः तेन प्रपंचमूलाज्ञानानिवृतेरिति मतं दर्शयति | अपरेत्विति | अज्ञानभेदे मानमाह | घटमिति | विरोधित्वेनेति | न जानांमीत्यज्ञानानुभवाभिलापक शब्देनत्रो विरोध्यर्थकत्वादभिलप्यानुभवोपि ज्ञानविरोधि विषक एव न च न जानामीत्यनुभवो ज्ञानप्रागभावविषक एव न तु भावरूपाज्ञानविषक इति वाच्यं | प्रागभावस्यैवासंप्रतिपतेरिति भावः | तथात्वायोगादिति | घटावछिन्नचैतन्यविषयकत्वतहान निवर्त्यत्वयोरयोगादित्यर्थः | किं त्वज्ञानांतरमिति संबंधः अवस्थाभेदरूपमिति | अस्य विशेषणस्य प्रयोजनं वक्ष्यते | न प्. १३५ब्) चैवमेकेनेत्यादि ग्रंथः स्पष्टार्थः || इमानि चावस्थारूपाण्यज्ञानानिमूलाज्ञानवदज्ञानत्वादनादीनीति केचित् व्यावहारिकौ जगज्जीवावावृत्य स्वाप्नौ जगज्जीवौ विक्षिपंती निद्रा तावदावरण विक्षेपशक्तियोगादज्ञानावस्थान्नेदरूपा तथा सुषुप्त्यवस्थाप्यंतःकरणादौ विलीने सुखप्तहमस्वाप्सं न किंचिदवेदिषमिति परामर्श दर्शनान्मूलाज्ञानवत्सुषुप्तिकालेनुभूयमानाज्ञानावस्था भेदरूपैव ||
211 SK नन्ववस्थाज्ञानानि किमनादीनि | किं वा आदिमंति | नाद्यः सानाभावान्न द्वितीयः अज्ञानमनादीनि सिद्धांतविरोधादिति चेदन्न केचिदाद्यं पक्षं साधयंतीत्याह | इमानि चेति | अवस्था ज्ञानानि अनादीनि अज्ञानत्वान्मूलाज्ञानवन्न च दृष्टांता सिद्धिः देवताधिकरणे मूलाज्ञानानादितस्य श्रुतिन्यायाभ्यां साधितत्वादिति भावः | न चाज्ञानगतानादित्वे मूलाज्ञानत्वं प्रयोजकं नत्वज्ञानत्वमात्रंमिति | वाच्यं | लाघवेन तन्मात्रस्यैव प्रयोजकत्वादिति प्. १३६अ) भावः अवस्थाज्ञानान्यादिमंतीति द्वितीयपक्षमन्ये साधयंतित्याह | व्यावहारिकावित्यादिना | न च सिद्धांत विरोधः अज्ञानानादित्वाभ्युपगमस्य मूलाज्ञानविषयत्वादिति भावः विमतान्यवस्था ज्ञानानि आदिमंति अवस्थाऽज्ञानत्वात् निद्रावत् सुषुप्तिवच्च मूलाज्ञाने व्यभिचारवारणार्थं | आवृत्येति | जाग्रत्कालीनौ जगत् | जीवौ यादृशौ प्रसिद्धौ न तादृशावेव स्वप्नकाले उपलभ्येते अतस्तयोर्यथा वदनुपलंभादावरणं वक्तव्यमिति भावः | विक्षिपंतीति सृजंतीत्यर्थः | अज्ञानावस्थाभेदरूपेति | अज्ञानस्य हि आवरणविक्षेपशक्तिमत्वं लक्षणं तस्य स्वप्नकारणी भूतनिद्रायां सत्वादज्ञानत्वं तावत् सिद्धं निद्रायाः वक्ष्यमाणरीत्यासादित्वेन साक्षान्मूलाज्ञानत्वायोगातदवस्था विशेषरूउपत्वं सिद्धमिति प्रथमदृष्टांतेन साधनवैकल्पमिति भावः | तथा सुषुप्तिकाले मूलाज्ञान वदनुभूयमाना सुषुप्त्यवस्थाप्यज्ञानावस्थाभैदरूपैवेति संबंधः | ननु सुषुप्ति काले मूलाज्ञानसुषुप्त्योरनुत्रवोऽसिद्धस्तदा अहमज्ञ अहं स्वपीमीत्यनुभवा दर्शनादिति नेत्याह | सुखमहमिति | परामर्शस्मरणं | तथा च उत्थितस्य दृश्यमान परामर्शान्यथानुपपत्या तदा सुषुप्तिमूलाज्ञानयोरनुभवः साक्षिरूपः कल्प्यते | अहमुल्लेखे
212 SK प्. १३६ब्) हि आत्मन्यंतःकरण संसर्गः प्रयोजकः तत्काले तस्य लीनत्वान्नाहमुल्लेख इत्याशयेनाह | अंतष्करणादौ विलीन इति | चक्षुरादिकमादि पदार्थः सुषुप्तिस्वरूप साधनार्थः परामर्शकल्प्यसुषुप्त्यनुभवोपन्यासः सुषुप्तिकाले मूलाज्ञानाभावे सुषुप्तेस्तदवस्थारूपत्वं न सिद्ध्येदतस्तनुभवोपन्यासः तदामूलाज्ञानसत्व साधनार्थः सुषुप्तेस्तदवस्थारूपत्वं परिशेषादवगंतव्यं | सुषुप्तिकाले मूलाज्ञानातिरिक्तादप्तंतष्करणादीनां विलीनत्वेनस्तस्यास्तदवस्थारूपत्वासंभवादिति सूचनार्थं चांतःकरणादि विलयोपन्यासः | तथा च सुषुप्ति दृष्टांतेपि न साधमवैकल्पमिति भावः || तयोश्च जाग्रद्भोगप्रद कर्मो परमे सत्येवोद्भवात्सादित्वमिति | तद्वदन्यदन्यदप्यज्ञानमवस्थारूपं सादीत्यन्ये नन्वनादित्व पक्षे घटे प्रथममुत्पन्नेनैव ज्ञानेन सर्वतदज्ञाननाशो भवेत् | विनिगमनाविरहातदवछिन्नचैतन्यावरक सर्वाज्ञानानाशे विषयप्रकाशायोगागाच्च अतः पाश्चात्यज्ञानानामावरणानभिभावकत्वं | प्. १३७अ) तदवस्थमेवेति चेत् | अत्र केचिदाहुः | यथा ज्ञानप्रागभावानामनेकेषां सत्वेप्येक ज्ञानोदये एक एव प्रागभावो निवर्तते | संशयादि जननशक्ततया तदावरणरूपेषु प्रागभावांतरेषु सत्स्वपि विषयावभासस्तथैक ज्ञानोदये एकमेवाज्ञानं निवर्तते | अज्ञानांतरेषु सत्स्वपि विषयावभास इति ||
213 SK दृष्टांत द्वयेपि साध्यवैकल्पं परिहरति | तयोश्चेति निद्रासुषुप्त्योरित्यर्थः | अन्यदषीति | घटादिविषयावछिन्नचैतन्यावरकाज्ञानमपीत्यर्थः | अवस्थाज्ञानानां सादित्वपक्षे प्रथममुत्पन्नेन घटज्ञानेन तदुत्पतेः पूर्वं घटावरकत्वेन स्थिता ज्ञानस्य नाशे सति पश्चादुत्पन्नमवस्थाज्ञानं पुनस्तमावृणोतीति व्यवस्था सिध्यति | तेषा मनादित्व पक्षे तु सानसिध्येदिति शंकते | नन्विति | प्राथमिक घटज्ञानेन तदज्ञानानां सर्वेषां नाशोस्ति | न वा द्वितीय कल्पं दूषयति | घट इति | प्राथमिक ज्ञानेन एकमेवाज्ञानं नश्यति नेतराणीत्यत्र विनिगमका भावात् | सर्वाज्ञाननाशो वक्तव्यस्तथा च द्वितीयकल्पानुपपतिरित्यर्थः | द्वितीयकल्प एव निविगमकाभाववद्दोषांतरमाह | तदवछिन्नेति | प्. १३७ब्) प्रथमज्ञानेन सर्वाज्ञाननाशादित्यर्थः | तदवस्थमेवेति | पाश्चात्यज्ञानानामावरणाभिभावकत्व सिद्ध्यये हि यावंति ज्ञानानि तावंति तन्निवर्त्याज्ञानानीत्युपगम्यते | तदभ्युपगमेपि प्रथमज्ञानेनैव सर्वाज्ञाननाशे स दोषस्तदवस्थ एवेत्यर्थः | यथान्यायमते यावंति घटज्ञानानि तावंतो घटज्ञानप्रागभावास्संति | तत्र प्रथमेन ज्ञानेन एक एव ज्ञानप्रागभावो निवर्तते | अन्ये यथापूर्वं संत्येव तेषां सत्वेपि विषयप्रकाशश्चोपेयते तैरेवमत्रापि योजनीयमिति परिहारति | अत्र केचिदाहुरिति | ननु दृष्टांतो विषमः ज्ञानप्रागभावस्यानावरकत्वात् | भावरूपाज्ञानस्य च विषयावरकत्वात् | आवरणसत्वे च न विषयप्रकाशोपपतिरिति नेत्याह | संशयादीति | विपर्यय आदि पदार्थः सिद्धांते भावरूपाज्ञानस्यावरकत्वं ह्यज्ञानवत्वाभिमते वस्तुनि संशयादि जननसमर्थत्वं तच्च परमते ज्ञानप्रागभावरूपाज्ञानस्यापि समानं ततो न दृष्टांत वैषम्यमिति भावः एकमेवेति | फलवलादिति भावः || अन्ये त्वावृतस्यापरोक्षे विरुद्धमेकज्ञानोदये च प्रागभावांतर सत्वेपि यावद्विशेष
214 SK प्. १३८अ) दर्शनाभावकूटरूपमावरणं विशेषदर्शनान्नास्तीति मन्यमानावदंति | यदा यदज्ञाअनमावृणोति तदा तेन ज्ञानेन तस्यैव नाशः सर्वं च सर्वदानावृणोति वैयर्थ्यात् किंत्वावरकाज्ञाने वृत्यानाशिते तद्वृत्युपरमेऽज्ञानांतरमावृणोति | न चैवं सति ब्रह्मावगमोत्पति कालेऽनावरकत्वेन स्थितानामज्ञानानां ततोप्यनिवृति प्रसंगः तेषां साक्षात् तद्विरोधित्वाभावेपि तन्निवर्त्यमूलाज्ञान परतंत्रतयाऽज्ञानसंबंधादिवतन्निवृत्यैवनिवृत्युपपतेः || नन्वनादित्वपक्षे इत्यादि ग्रंथेन कृताक्षेपे प्रकारांतरेण समाधानमाह | अन्येत्विति | अस्य वदंतीत्यनेन संबंधः पूर्वपरिहारे अन्येषामभिप्रेतमस्वरसंस्वयं दर्शयति | आवृतस्येति | आवृतस्यापि पर्वतीय दहनादेः सिद्धांते परोक्षज्ञानांगीकारादपरोक्षज्ञानमित्युक्तं | यावदिति | स्थाण्वादौ संशयादि विरोधि दर्शन प्रागभावमात्र न संशयादि जननसमर्थं स्थाणुरयमिति | निश्चयदशायामपि तत्समानविषयक निश्चयांतर प्रागभावसत्वेन तदा पुरुषत्व स्मृति मतः पुनरपि संशय प्रसंगात् | केंतु संशयादि समानविषयक निश्चयानां
215 SK प्. १३८ब्) यावंतः अभावाः तावतां समुदायः संशयादि जननसमर्थतया परमेतविषयावरणत्वेन वाच्यः | एक निश्चयकाले च यावद्विशेष दर्शनाभाव कूटरूपस्य परमते आवरणत्वेन संमतस्य विशेषाऽदर्शनस्याऽभावात् | न पुनः संशयादि प्रसंगः न वा प्रथम घटादि ज्ञाने काले परमते विषयप्रकाशानुपपतिः आवरणत्वाभिमत प्रागभावकूटाभावात् | तस्मादावृतस्यापि विषयस्य प्रथमज्ञानसमये प्रकाशः संभवतीत्यत्रनायं दृष्टांतः संभातीत्यर्थः | न चैवं सतीति | सर्वदा सर्वेषामवस्थाऽज्ञानानामावरकत्वाभावे सतीत्यर्थः | ततोपीति | ब्रह्मावगमादपीत्यर्थः | निवृत्यभावप्रसंगे हेतुरनावरकत्वेन स्थितिः | यदि ब्रह्मावगमोत्पति काले मूलाज्ञानवदवस्थाज्ञानान्यपि ब्रह्मचैतन्यं विषयप्रदेशेष्वावृत्यतिष्ठेयुस्तदा ब्रह्मावगमेने तत्समानविषयकमूलाज्ञानस्येव चैतन्यावरकत्वेन स्थितानामवस्थाऽज्ञानानामपि निवृतिः स्यात्समानविषयकत्वाविशेषात् | तेषां तदनांवरकत्वेन स्थितौ तु निवृतिर्न संभवति तत्समानविषयकत्वा भावादित्यर्थः | ततश्च विदेह कैवल्ये तेषासनुवृति प्रसंग इति भावः | एवं सत्यनिवृति प्रसंग इति न चेति संबंधः | तत्र हेतुमाह तेषामिति | अत्र द्वितीय तृतीय तच्छब्दौ ब्रह्मावगमपरौ चतुर्थ तच्छब्दो मूलाज्ञानपरः यथा प्. १३९अ) ज्ञाननिवृतौ चैतन्याज्ञानयोस्संबंधो निवर्तते तस्य संबंध्य ज्ञानपरतंत्रत्वात् | तद्वदित्यर्थः ||
216 SK एतदर्थमेव तेषां तदवस्था भेदरूपतया तत्पारतंत्र्यमिष्यत इति | अपरे त्वज्ञानस्य स विषय स्वभावत्वादुत्सर्गतः सर्वं सर्वदावृणोत्येव | न च विषयोत्पतेः प्रागावरणियाभावेनावरकत्वं न युज्यत इति वाच्यं | तदापि सूक्ष्मरूपेण तत्सत्वादिति मन्यमानाः कल्पयंति | यथा बहुजनसमाकुले प्रदेशे कस्यचिच्छिरसिपतन्नःशनिरितरानप्यपसारयति | यथा वा सन्निपातहरमौषधमेकं दोषं निवर्तयद्दोषांतरंदूरि करोति | एवमेकमज्ञानं नाशयत् ज्ञानमज्ञानांतराण्यपि तिररष्कराति | तिरस्कारश्च यावज्ज्ञानस्थिति तदावरणशक्तिप्रतिबंध इति | नन्वेवं सतिधारावाहिकस्यले द्वितीयादि वृतीनामावरणानभिभावकत्वे वैफल्यं स्यात् | प्रथमज्ञाने नैव निवर्तन तिरस्काराभ्यामावरणमात्रस्याभि भवादिति ||
217 SK प्. १३९ब्) नन्ववस्थाज्ञानानां मूलाज्ञान परतंत्रत्वमसिद्धमित्याशंक्याह | एतदर्थमेवेति | यथा संसारस्याज्ञाननिवृत्यानिवृति सिद्धये तन्मूलकतया संसारस्य तत्पारतंत्र्यं कल्प्यते | तद्वत् प्रकृतेपीति भावः | यदुक्तं | मवस्थाभेदरूपमिति विशेषणस्य प्रयोजनं वक्ष्यत इति तदत्र दर्शितमिति मंतव्यं | नन्वनादित्व पक्ष इत्यादिनाकृताक्षेप एव समाधानं प्रकारांतरेण दर्शयति | अपरेत्विति | कल्पयंतीति संबंधः तेषामाशयं दर्शयति | अज्ञानस्येति | ननु सर्वमज्ञानं स्वस्थितिकाले सर्वदाविषयमावृणीतीति नियमो नास्ति एकज्ञानकाले | एकस्याज्ञानस्य नाशः इतरेषां तदा सत्वेप्यावरणशक्तिप्रतिबंधरूप तिरस्कारस्य वक्ष्यमाणत्वेन एकज्ञानकाले तेषामावरकत्वाभावादित्यत आह | उत्सर्गतः इति | ननु सर्वदा आवृणोतीत्युक्ते घटादिविषयोत्पतेः | पूर्वकालेपि घटाद्यवछिन्न चैतन्यावरकत्वमवस्थाज्ञानानां प्रतीयते | तदनुपपन्नं | तदानीमवछेदक विषयाभावेन तदवेछिन्न चैतन्यस्यावस्थाज्ञानैरावरणीयस्याभावादिति शंकामपनुदति | न चेत्यादिना तदापीति | कार्यमात्रस्य उत्पतेः पूर्वकाले नाशोतरकाले चानभिव्यक्तरूउपेणावस्थानस्य श्रुतिस्मृति न्यायैः तत्र तत्र पूर्वाचार्यैः साधितत्वादिति भावः | एवमिति | ज्ञानं कर्तृ यावात् ज्ञान प्. १४०अ) स्थितीति | सर्वं सर्वदा आवृणोतीत्युत्सर्गस्य ज्ञानस्थितिरयवादहैतुरिति भावः | ज्ञानमात्रमज्ञाननिवर्तकमिति नियममाक्षिपति | नन्वेवं सतीति | एकेन ज्ञानेन एकाज्ञानस्य नाशः इतरेषां तिरस्कार इत्युपगमे सतीत्यर्थः | वैफल्यं स्यादिति | अज्ञाननाशादि प्रयोजनवत्वं न स्यादित्यर्थः तत्प्रयोजनस्य प्रथमज्ञानेनैव सिद्धत्वादित्याह | प्रथमेति ||
218 SK अत्राहुः वृति तिरस्कृतमप्यज्ञानं तदुपरमे पुनरावृणोति प्रदीप तिरस्कृतं तम इव दीपो परमे वृत्युपरमसमये वृत्यंतरोदये तु तिरस्कृतमज्ञानं तथैवावतिष्ठते प्रदीपो परमसमये प्रदीपांतरोदये तम इव तथा च यस्मिन् सत्यग्निमक्षणे यस्य सत्वं यद्व्यतिरेके चासत्वं तत्तज्जन्यमिति प्रागभाव परिपालनसाधारण लक्षणानुरोधे नानावरणस्य द्वितीयादि वृतिकार्यत्व स्यापि लाभान्न तद्वैफल्यमिति | न्याय चंद्रिका कृतस्त्वाहुः केनचिद्ज्ञानेन कस्यचिदज्ञानस्य नाश एव तत्वावरकाणामप्यज्ञानांतराणां तिरस्कारः ||
219 SK प्. १४०ब्) प्रथमज्ञानसिद्धस्यापि आवरण तिरस्कारस्य द्वितीयादि ज्ञान साध्यत्वं साध्यलक्षणविशेषानुरोधेन संभवति | अतो न द्वितीयादि ज्ञानवैफल अज्ञाननाशरूपप्रयोजनाभावेपि त तिरस्करण लक्षणफलस्य सत्वादिति परिहरति | अत्राहुरिति | प्रथमं धारावहनस्थले सिद्धमर्थं सदृष्टांतं दर्शयति | वृतितिरस्कृतमिति | घटोयमिति | प्रत्यक्षज्ञानं त्वेकमज्ञानं नाशयदितरदज्ञानं सर्वं तिरस्करोति | तच्च तिरस्कृतमज्ञानं घटज्ञानोपरमसमये पुनस्तमावृणोति | यदि वुभुत्सादिवशात् | प्रथममुत्पन्न घटज्ञाननाशक्षणे घटप्रत्यक्षांतरमुदेति | तदा तिरस्कृतमज्ञानं | तथैवावतिष्ठते इत्यर्थः | यस्मिन् सत्यग्निमक्षणे यस्य सत्वं यस्मिन् न सति यस्यासत्वं ततज्जन्यमिति साध्यलक्षणं | इदं च साद्यनादि साधारणं | तथाहि | यस्मिन् दंडादौ सति उत्तरक्षणे घटादिकार्य सत्वं दंडादावसति च घटादि कार्यासत्वं | ततो घटादिकं दंडादि जन्यं | तथा प्रायश्चिते सति उत्तरक्षणे दुःखप्रागभावस्य सत्वं प्रायश्चिते चाऽसति दुःखस्यैवोदयात् दुःखप्रागभावस्यासत्वमितिरीत्या अनादेरपि दुःख प्रागभावस्य प्रायश्चित परिपाल्यतयाप्रायश्चित साध्यत्वमुपेयते | एवं प्रकृतेपि साध्यत्वं दर्शयति | तथा चेति | द्वितीय वृत्युदये सति प्रथमज्ञानसिद्धस्यावरण तिरस्कारस्य उत्तरक्षणे सत्वं प्रथमज्ञाननाशक्षणे द्वितीयवृत्युदय व्यतिरेके च उक्त तिरस्कारस्यासत्वमिति |
220 SK प्. १४१अ) प्रथमज्ञानकाल एव सिद्धस्योपि तस्यं द्वितीयवृतिजन्यतया तत्फलत्वमेवं तृतीयादि वृतीनामपि आवरण तिरस्कारफलकत्वं योजनीयमित्यर्थः | अनावरणस्येति | आवरण तिरस्कारस्येत्यर्थः | ज्ञानमात्रमज्ञानविवर्तकं न भवति धरावाहिक द्वितीयादि ज्ञाने व्यभिचारादित्यत्र प्रकारांतरेण परिहारं ब्रूते न्यायचंद्रिकाकृतस्त्विति | नत्विति | न चाज्ञानांतराणां तिरस्काराभावे एकज्ञानकालेपि तैरतिरस्कृतैर्विषयस्यावृतत्वाद्विषयानुभवा भावप्रसंग इति वाच्यं | प्रथमज्ञानोदये एकमेवाज्ञानं विषयावरकं इतरेषां तदा विषयावरकत्वमेव नोपेयते अतो न त तिरस्करणापेक्षेति भावः || तथा च धारावाहिक द्वितीयादि वृतीनामप्येकैकाज्ञाननाशकत्वेन साफल्यं न चैवं ज्ञानोदयेप्यावरण संभवाद्विषया नवभास प्रसंगः अवस्थारूपाण्यज्ञानानि ततत्कालकलोपलक्षितस्वरूपावरकाणि ज्ञानानि च यावत् स्वकालोपलक्षित विषयावरकाज्ञाननाशकानि तथा च किंचिज्ज्ञानोदये तत्कालीन विषयावरकाज्ञानस्य नाशाद्विद्यमानानामज्ञानांतराणामन्यकाली न विषयावरक प्. १४१ब्) त्वाच्च न तत्कालीनविषयावभासे काचिदनुपपतिः कारीरीफले वृष्टावासन्नसमयस्येवा ज्ञानविषये घटाटौ तत्कालस्योपलक्षणतया विषयकोटावननुप्रवेशेन सूक्ष्मतत्तत्कालभेदाविषयैर्धारावाहिकद्वितीयादि ज्ञानैरज्ञानानां निवृतावपि न काचिदनुपपतिरिति ||
221 SK ततः किं तत्राहु | तथा चेति आशयमविदुषश्शंकामनूद्यनिराकरोति | न चैवमित्यादिना | एवं शब्दस्य प्रथमज्ञानेन आवरकाज्ञानांतराणामतिरस्करणे सतीत्यर्थः | तत्तत्कालेति | अवस्थाज्ञानानां सर्वेषां मूलाज्ञानस्येव सर्वदाविषय चैतन्यावरकत्वं नास्ति वैयर्थ्यात् | किं तु किंचिदज्ञानं कंचित्कालं विषय चैतन्यमावृणोति | किंचिच्च कालांतरे तदावृणोतीत्यनेन प्रकारेण कालविशेषैरुपलक्षित विषयचैतन्यावरकत्वं ज्ञानानामपि स्वस्वोदयकाले स्वस्वविषयावरकत्वेन प्रसक्ताज्ञाननिवर्तकत्वमित्यर्थः | एवमाशयमुद्वाव्य इदानीं विषयानवभासप्रसंगं परिहरति | तथा चेति | एकज्ञानकाले अज्ञानांतराणामनावरकत्वे सिद्धे सतीत्यर्थः | तत्कालीनेति | किंचिद्ज्ञानोदय कालीनविषयस्यावरकत्वेन प्रसक्ताज्ञानस्येत्यर्थः | न तदिति | किंचिद्ज्ञानकालीनेत्यर्थः | ननु तैस्तैः कालविशेषैर्विशिष्टस्यैव प्. १४२अ) विषे यस्य ततदज्ञानावरणि यत्वमित्येवं कालविशेषाणां विशेषणतया आवरणीय कोट्यवनुप्रवेशं विहाय तेषां किमित्युपलक्षिणत्वं स्वीक्रियत इत्याशंक्य तथा सतिधारास्थले आवरकत्वेन प्रसक्ताज्ञान निवर्तक द्वितीयादि वृतीनामपि ततत्कालविशेषविशिष्टविषयकत्वं वाच्यं | समानविषयकत्वं विना तन्निवर्तकत्वानुपपतेस्तच्च न संभवति क्षणभेदानामप्रत्यक्षत्वात् | अतस्तेषामुपलक्षणत्वमाश्रितमिति समाधानमभिप्रेत्यसमयविशेषस्योपलक्षणत्वे दृष्टांतमाह | कारीरीफले वृष्टाविति | कारीरीनामकेष्टिफलभूता वृष्टिरिष्टि समाप्त्यतरक्षण एव वक्तव्या न तु कालांतरे तदानीं शुप्यतस्सस्यस्य संजीवने कालांतरीय वृष्टेरनुपयोगा तथा चासन्न समयस्य वृष्टि विशेषणतया फलकोटि प्रवेशोनोपपद्यत इष्टिं विनापि समयविशेष संभवात् किं तु समयातरव्यावर्तकतया उपलक्षणत्वमेवाश्रितमित्यर्थः ||
222 SK केचित्तु प्रथमज्ञाननिवर्त्यमेवाज्ञानं स्वरूपावरकं द्वितीयादि ज्ञाननिवर्त्यानि तु देशकालविशेषणांतरविशिष्टविषयाणि अत एव सतानिश्चयरूपेऽज्ञाननिवर्तके चैत्रदर्शने सकृते चैत्रं न जानामीति स्वरूपावरणं नानुभूयते किंत्विदानीं स कुत्रेति प्. १४२ब्) न जानामीत्यादिरूपेण विशिष्टावरणमेव विस्मरणशालिनः क्वचित्सकृत् दृष्टेपि न जानामीति स्वरूपावरणं दृश्यते चेतत्र तथास्तु अन्यत्र सकृद्दृष्टे विषयाण्येवाज्ञानानि ज्ञानानि च न चैवं सति धारावाहिक द्वितीयादि ज्ञानानामज्ञान निवर्तकत्वं न स्यात् स्थूलकालविशिष्टाज्ञानस्य प्रथमज्ञानेनैव निवृतेः पूर्वापरज्ञानव्यावृतसूक्ष्मकालविशिष्टाज्ञानस्य तदविषयैर्द्वितीयादि ज्ञानैर्निवृती योगादिति वाच्यं || धारावहनस्थले द्वितीयादि वृतीनामावरणाभिभावकत्वं न स्यादित्याक्षेप एव परिहारं त्रेधादर्शयति | केचित्विति | प्रथमं वस्तुगतिमाह | प्रथमज्ञानेति | उक्तव्यवस्थायां प्रमाणत्वेनानुभवं दर्शयति | अत एवेति | उक्त विभागान्युपगमादेवेत्यर्थः | ननूक्तविभागो न सिध्यति क्वचित्सकृद्दृष्टेपि वस्तुति पूर्ववत्स्वरूपावरणानुभवादित्याशंक्याह | विस्मरणशालिन इति | तत्र तथास्त्विति पुनः स्वरूपावरणानुभवस्थले द्वितीयादि ज्ञाननिवर्त्यमप्यज्ञानं स्वरूपावरकमस्त्वित्यर्थः | तथा च उक्त विभाग औत्सर्गिक इति भावः | अन्यत्रेति
223 SK प्. १४३अ) विस्मरणाभावस्थल इत्यर्थः | नन्वज्ञानानां विशिष्टविषयकत्वे तेषामनिवृति प्रसंगः सकृद्दृष्टे वस्तुनि द्वितीयादि ज्ञानानामपि प्रथमज्ञानवत्स्वरूपमात्र विषयकत्वेन तत्समानविषयकत्वरहितानां तन्निवर्तकत्वानुपपतेरिति नेत्याह | ज्ञानानि चेति | सकृद्दृष्टे विषये ज्ञानान्यपि चैत्र इदानीमत्रास्त इत्याकाराणि संति विशिष्टविषयाण्येवेति स्वीकारान्नोक्त दोष इति भावः ननु ज्ञानानां विशिष्टविषयकत्वं धारास्थले द्वितीयादि वृतिषु व्यभिचारपरिहारार्थं हि कल्प्यते | तथा च तत्र ज्ञानानां किं घटिकार्ध घटिकाद्यात्मकस्थूलकालविशिष्टघटादि विषयकत्वं विवक्षितं किं वा क्षणात्मक सूक्ष्मकालविशिष्टघटादि विषयकत्वं विवक्षितमिति विकल्पं मनसि निधाय उभयथापि धारास्थले द्वितीयादि वृतिषु व्यभिचारतादवस्थ्यमिति शंकते | न चैवं सतीति | द्वितीयादि ज्ञानानां तन्निवर्त्याज्ञानानां च उत्सर्गतो विशिष्टविषयकत्वे सतीत्यर्थः | प्रथमज्ञानेनैवेति | स्थूलकालविशिष्टविषयकेणेति शेषः पूर्वापरेति | धारास्थले हि ज्ञानानि क्षणस्थितिकानि ततश्च पूर्वापरज्ञानकालेभ्यो व्यावृताये सूक्ष्मकालाः क्षणात्मकास्तैर्विशिष्टस्य विषयस्थावरकं यदज्ञानं तस्येत्यर्थः | तदविषयैरिति सूक्ष्मकालविशिष्टाविषयकैरित्यर्थः | धारावहनस्थले प्रथमोत्पन्नाया एव वृतेस्तावत्कालावस्थायित्व संभवेन वृतिभेदानभ्युपगमात्तदभ्युपगमेपि प्. १४३ब्) स्थूलकालावस्थापि पंचषट्वृतिरूपत्वं संभवेन परस्परव्यावृतस्थूलकालादि विशेषणभेदविषयत्वोपपतेः | प्रतिक्षणोद्यदनेकवृतिसंतानरूपत्वाभ्युपगमेपि द्वितीयादि वृतीनामधिगतार्थमात्रविषयतया प्रामाण्याभावेनावरणानिवर्तकत्वेप्यहानेश्च | न हि विषयावाधमात्रं प्रामाण्यं प्रागवगतानधिगतयोः पर्वततद्वृतिपावकयोरनुमिति विषययोरबाधस्याविशेषेणोभयत्राप्यनुमितेः प्रामाण्यप्रसंगात् | न चेष्टापतिः वह्नावनुमितिः प्रमाणमिति वत्यर्वतेप्यनुमितिः प्रमाणमिति व्यवहारादर्शनात् ||
224 SK यत्र एकस्मिन्नेव श्रीमूर्त्यादौ दीर्घकालनैरंतर्येण स्फुरणमस्ति तत्र श्रीमूर्त्यादि गोचरवृतिरैकैव तद्भेदे मानाभावात् | सिद्धांते वृतेः क्षणस्थितिकत्वानभ्युपगमात् | तथा च न तत्र व्यभिचारशंकेत्याह | धारावहनस्थल इति | ननु तत्र वृतेरेकत्वे धारावहनत्व प्रसिद्धि विरोधः एकस्यांतदसंभवात् | ध्यानसमाध्योरपि उक्तरीत्या प्. १४४अ) एकवृतिरूपत्वापतौतयोः प्रत्ययसंतति रूपत्वप्रतिपादक भाष्यादि विरोध प्रसंगाच्चेत्याशंक्यधारायाः अनेकवृतिरूपत्वमंगीकृत्यव्यभिचारं परिहरति | तदभ्युपगमेपीति | संभवेनेति | धाराया इति शेषः | उपपतैरिति | द्वितीयादि वृतीनामज्ञानानिवर्तकत्व दोषो नास्तीति शेषः धारावाहकवृतीनां न्यायमत इव क्षणस्थितिकत्वमुपेत्यापि व्यभिचारं परिहरति | प्रतिक्षणोद्यदिति प्रतिक्षणमुद्यंतः अनैकाश्च यावृतयः तत्संतानेत्वर्थः | अभ्युपगमेपीति | धाराया इति शेषः अहानेश्चेति | ज्ञानमज्ञान निवर्तकमिति नियमभंगरूपायाः हानेरभावादित्यर्थः | हान्याभावे हेतुमाह | प्रासाण्याभावेनेति | तत्र हेतुमाह | अधिगतार्थमात्रेति | अनधिगतार्थ विषयकत्वाभावो मात्रपदार्थः | तथा च द्वितायादि वृतीनां प्रमात्वं नास्ति स्मृति वदधिगतार्थ मात्रविषयकत्वादित्यर्थः | नन्वनधिगतावाधितार्थानुभवत्वं प्रमात्वं न भवति | अवाधितानुभव पदव्यावृत्ययोर्भुमस्मृत्योरिवानधिगतपदव्यावर्त्या भावा तथा चावाधित्वार्थानुभवत्व मात्रं प्रमात्वं तच्च द्वितीयादि वृतिष्वक्षतमिति तत्र नियमभंगरूपाहानिः स्यादैवेति नेत्याह | नहीति | प्रामाण्यमित्यनंतरं तथा सतीति शेषः नैयायिकश्शंकते | न चेष्टापतिरिति | इष्टापतिरिति | न चेति संबंधः व्यवहारादर्शनादिति | तथा च प्रामाण्याप्रामाण्यव्यवस्थायाः व्यवहारानुसारित्वादनुमितेः पर्वतांशे प्रमात्वाभावेनालक्ष्यत्वे सिद्धे पर्वतांशानुमितौ प्रमात्व लक्षणस्याति व्याप्ति परिहारायानधिगतत्वविशेषणं
225 SK प्. १४४ब्) तल्लक्षणेदेयमेव | ततश्च धारा द्वितीयादि वृतीनां न प्रामाण्यमिति भावः || विवरणे साक्षिसिद्धस्याज्ञानस्याभाव व्यावृति प्रत्यायनार्थानुमानादि विषयत्वेपि प्रमाणावेद्यत्वोक्तेश्च तस्मा द्वितीयादि वृतीनां प्रामाण्याभावादुपासनादि वृतीनामिवाज्ञानानिवर्तकत्वेपि न हानिः प्रामाणवृतीनामेव तन्निवर्तकत्वाभ्युपगमात् || अज्ञातत्वस्य प्रमालक्षणे प्रवेशोस्तीत्यत्र हेत्वंतरमाह | विवरण इति | विवरणे अज्ञानस्य प्रमाणावेद्यत्वोक्तेश्चेति संबंधः | अत्रानुमानपदमनुमिति परं प्रमाणपदमपि प्रसिति परं प्रमालक्षणस्य प्रकृत्वत्वादिति बोध्यं नन्वज्ञानस्यानुमिति शाब्दार्थापतिरूपवृतिविषयत्वे कथं तस्य प्रमाणावेद्यत्वमत आह | साक्षिसिद्धस्येति | अज्ञोहमित्यनुभवरूपेणसाक्षिणाऽज्ञानस्वरूपस्य ज्ञातत्वादज्ञानानुमित्यादेरज्ञानस्वरूपे विषये अज्ञातत्व घटितप्रमात्वं नास्तीति मत्वाप्रमाणावेद्यत्वं तस्योक्तं | न च साक्षिण एव प्रमाणत्वात्कथं सामान्यतः प्रमाणावेद्यत्वमुक्तमिति वाच्यं | साक्ष्यतिरिक्त प्रमाणावेद्यत्वस्यैव विवक्षितत्वात् | साक्षिणोतित्यत्वेन प्रमाकरणा जन्मतया पराभिमतेश्वर ज्ञानवत्साक्षिणः
226 SK प्. १४५अ) प्रमाप्रमाबहिर्भूतत्वेन प्रमाणत्वाभावाद्वा तदवेद्यत्व वचनमिति भावः | ननु साक्षिप्रत्यक्षसिद्धं चेदज्ञानं किमर्थं तर्हि तत्रानुमानाद्युपन्यस्यते तत्राह | अभाव व्यावृतीति | अज्ञानस्य पराभिमताज्ञानादभावरूपात् या व्यावृतिस्तत्प्रत्यायनमर्थः प्रयोजनं येषामनुमानादीनांतानि तथेत्यर्थः | एतदुक्तं भवति | अहमज्ञ उभ्यनुभवसिद्धमज्ञानं भावरूपमिति सिद्धांतिनः | तदा न प्रागभावरूपमिति वैशेषिकादयः ततश्चानुमानादिभिरज्ञानस्याभाव प्रतियोगिक भेदस्साध्यत इति न तेषां वैयर्थ्यं | न च तस्य भावरूपत्व साधनेना किं लभ्यत इति वाच्यं | मायां तु प्रकृतिं विद्यादित्यादि शास्त्रसिद्धस्य प्रपंचपरिणाम्मुपादानत्वस्य सिद्धेस्तत्साधनफलत्वात् | तस्मादिति | अनधिगतत्व घटित प्रमालक्षणा भावादित्यर्थः | उपासनादि वृतीनामिवेति | उपासनारूपावृतिर्नज्ञानं कॢप्त तत्कारणाजन्यत्वात् | मनसो ज्ञानकरणत्वस्य निरस्तत्वान्निरशिष्यमाणत्वाच्च किं तु गमनादिवत्क्रियारूपा पुरुष कृति साध्यत्वा तस्मान्नोपास्य स्वरूपाज्ञाननिवर्तिकामवमिछाद्वेषादि वृतयोपि न स्वविषयाज्ञाननिवीर्तकाः ज्ञानरूपत्वाभावात् | द्वितीयादि वृतीनां तु स्मृतिवद्ज्ञाअनरूपत्वेपि नाज्ञान निवर्तकत्वमुपेयते प्रमात्वाभावादित्यर्थः | ननु कथं न हानिस्तासां प्रमात्वाभावेपि ज्ञानत्वाभ्युपगमेन ज्ञानमात्रमज्ञान निवर्तकमितिति यमस्य व्यभिचाररूपहानेरावश्यकत्वादित्याशंक्याह | प्रमाणवृतीनामेवेति प्. १४५ब्) नत्वधिगतार्थमात्रगोचरवृतीनामपीत्येव कारार्थः | तथा च ज्ञानमात्रमज्ञाननिवर्तकमिति नियमानांगी क्रियते येनोक्तदोशः स्यादिति भावः अभ्युपगमादित्यनंतरं इत्याहुरिति शेषः केचित्वित्युपक्रमात् ||
227 SK ननु नायमपि नियमः परोक्षवृतेर्नियमेनाज्ञानानिवर्तकत्वादिति चेत् | अत्र केचिदाहुः द्विविधं विषयावरकमज्ञानं | एकं विषयाश्रितं रज्वादिविक्षेपोपादानभूतं कार्यकल्प्यं पुरुषाश्रितमन्यत् | विषयमहं न जानामीत्यानुभविकं पुरुषाश्रितस्य विषयसंभिन्नविक्षेपोपादानत्वासंभवेन विषयाश्रितस्य विषयमहं न जानामीति साक्षिरूपप्रकाशसंसर्गायोगेन द्विविधस्याप्यावश्यकत्वात् | एवं च परोक्षस्थले वृतेर्निर्गमनाभावात् | दूरस्थवृक्षे आप्तवाक्यात् परिमाणविषावगमेपि तद्विपरित परिमाणविक्षेपदर्शनाच्च विषयगताज्ञानानि वृतावपि पुरुषगताज्ञाननिवृतिरस्त्येव
228 SK प्. १४६अ) प्रमामात्रमज्ञाननिवर्तकमिति नियमस्यापि व्यभिचारं शंकते | नन्विति | परोक्षज्ञानस्यापि तन्निवर्तकत्व सत्वान्न व्यभिचार इति वक्तुमज्ञानस्य द्वैविध्यमाह | द्विविधमित्यादिना | रज्वादीति रज्वादेर्यो विक्षेपः सर्पादिरूपो विवर्तः | तदुपादानभूतमित्यर्थः | कार्यकल्प्यमिति | विक्षेपाख्यकार्यानुपपति कल्प्यं न त्वनुभव सिद्धमित्यर्थः | ननु रज्वादि गताज्ञानस्य रजुं न जानामीत्यनुभवसिद्धत्वात् | कथं तस्य कार्यैक कल्प्यत्वमित्याशंक्यानुभवस्य विषयगताज्ञानं न विषय इत्याह | अन्यदिति | अत्र विषयावरणमज्ञानं द्विविधं | एकं विषयाश्रितमन्यत्पुरुषाश्रितमिति संबंधः तथा च विषयाश्रितं स प्रमाणं प्रदर्श्य पुरुषाश्रितं स प्रमाणं दर्शयतीति वा अन्यदित्यस्यावतरणं बोध्यं | नन्वेकेनैवाज्ञानेन सर्पादि विक्षेपस्य न जानामीत्यनुभवस्य च सिद्धेः | किंमज्ञानद्वैविध्येन अत आह | पुरुषाश्रितस्येति विषयोरज्वादिरधिष्ठानं तत्संभिन्नो विषयतादात्म्यापन्नो यो विक्षेपस्तदुपाधानत्वासंभवेनेत्यर्थः | न ज्ञानामीत्याकारकोपस्साक्षीरूपः प्रकाशस्तत्संसर्गायोगेनेत्यर्थः | इदानीं व्यभिचारं परिहरति | एवं चेति | अज्ञानद्वैविध्ये सतीत्यर्थः | एवं च परोक्षस्थले विषयगताज्ञानानिवृतावपि पुरुषगताज्ञाननिवृतिरस्त्येवेति संबंधः | तथा च न व्यभिचार इति भावः | परोज्ञानस्य विषयगताज्ञाननिवर्तकत्वाभावे हेतुद्वयमाह | वृतेरित्यादिना | निर्गमना भावादिति |
229 SK प्. १४६ब्) विषयचैतन्यसंसृष्टाया एवतेतेर्विषयचैतन्यगताज्ञान निवर्तकत्वस्य वक्षामाणतया निर्गमनाभावे वृतिविषय चैतन्य संसर्गो न सिध्यतीति भावः | तद्विपरीतेति | दूरे दृश्यमानो वृक्षः सन्निहितवृक्ष इव महानित्याप्तवाक्यजन्य परोक्षज्ञानविषयभूताद्रदूरस्थवृक्षगता तस्मात्परिमाणविशेषाद्विपरीतो यः परिमाणरूपविक्षेप विशेषः तस्य दर्शनादित्यर्थः | यदि परोक्ष ज्ञानं रिषयगता ज्ञाननिवर्तकं स्या तदाप्तवाक्यजन्यावगमेन परिमाणविशेषाज्ञाननिवृत्यापत्याविपरीत परिमाणात्मक विक्षेपोत्यन्निर्मस्यात् | उपादानाभावादिति भावः || शास्त्रार्थं न जानामीत्यनुभूताज्ञानस्य तदुपदेशानंतरं निवृत्यनुभवात् | अत एवानुमेयादौ सुषुप्ति व्यावृतिरिति विवरणस्य तद्विषयाज्ञाननिवृतिरर्थ इत्युक्तं तत्वदीपने इति | अन्ये तु नयनपटलं वत्पुरुषाश्रितमेवाज्ञानं विषयावरणं न तदतिरेकेण विषयगताज्ञाने प्रमाणमस्ति | न च पुरुषाश्रितस्य विषयं गतविक्षेप परिणामित्वं न संभवति तत्संभवे वा दूरस्थवृक्षपरिमाणे परोक्ष प्. १४७अ) ज्ञानादज्ञाननिवृतौ विपरीतपरिमाण विक्षेपो न संभवतीति वाच्यं ||
230 SK परोक्षज्ञानेन पुरुषगता ज्ञाननिवृतौ हेतुमाह | शास्त्रार्थमिति | शास्त्रार्थं न जानामित्यनेन प्रकारेण यच्छास्त्रार्थाज्ञानमनुभूतं तस्य शास्त्रार्थोपदेशानंनतरं शास्त्रार्थाज्ञानमिदानीं निवृतमिति निवृतिरनुभूयते | तत्र शास्त्रार्थो द्विविधः धर्मरूपो ब्रह्मरूपश्च धर्मरूपशास्त्रार्थे उपदेश जन्यज्ञानं परोक्षमेव न तु कदाचिदध्य परोक्षं तस्य साक्षात्कारायोग्यत्वा तथा च तत्र विषयगताज्ञाननिवृति प्रसक्तिरेव नास्तीति पुरुषगता ज्ञानमेव निवर्तते इति वक्तव्यं | इतरथा तन्निवृत्यनुभवविरोधात् ब्रह्मरूपे च शास्त्रार्थे | उपदेश जन्यज्ञानं परोक्षं तावन्मात्रान्नविषयावरकं मूलाज्ञानं विषयगतं निवर्तते मननादि विधिवैयर्थ्य प्रसंगात् | अतः पुरुषगताज्ञानमेव निवर्तत इति वक्तव्यमन्यथा तत्रापि तन्निवृत्यनुभवविराधादेवेतिभावः | परोक्षज्ञानस्याज्ञाननिवर्तकत्वे विवरणादि संमति आह | अत एवेति | उक्तानुभव बलादेवेत्यर्थः | तद्विषयेत्यत्र तत्पदमनुमेयादि परं सुषुप्तिपदमज्ञान परं व्यावृति पदं निवृति परमिति व्याख्यातं तत्वदीपने | तथा च अनुमेयादौ विषयगता ज्ञाननिवृत्यभावस्य वक्ष्यमाणतया तत्र पुरुषगताज्ञाननिवृतिरनुमित्यादि परोक्षज्ञानेन जायत
231 SK प्. १४७ब्) इत्ययमर्थस्तत्र विवक्षित इति प्रतीयते इत्यर्थः | अज्ञानद्वैविध्याभावेपि प्रमामात्रमज्ञाननिवर्तकमिति नियमस्य न व्यभिचार इति मतं दर्शयति | अन्येत्विति | पुरुषगताज्ञानापेक्षव्या अन्यद्विषयगतमज्ञानं किं विषयावरणार्थमुपेयते | किं वा शुक्तिरजतादि विक्षेपोत्यत्यर्थं नाद्य इत्याह | नयनपटलवदिति | नयनगतकाचादिवदित्यर्थः | न द्वितीय इत्याह | न तदतिरेकेणेति | विषयगताज्ञानाभावेपि वक्ष्यमाण विधया विक्षेपोत्पति संभवादिति भावः | प्रमाणाभवोऽ असिद्ध इति शंकते | न चेति | न संभवतीति | पुरुषगताज्ञानस्य शुक्त्याद्यवछिन्नचैतन्यगतसत्वा भावादिति भावः | पुरुषगतस्यैवाज्ञानस्य विषयगतविक्षेपोपादानत्वे दोषमाह | तत् संभवेवेति | पुरुषगताज्ञानस्य विषयगतविक्षेप परिणामित्वं तच्छब्दार्थः | न संभवतीति | विषयगताज्ञानस्या नभ्युपगमात्पुरुषगताज्ञानस्य च आप्नोपदेशजन्य परोक्षज्ञानेन निवृतत्वाच्चेति भावः || वाचस्पतिमते सर्वस्य प्रपंचस्य जीवाश्रिताज्ञानविषयीकृत ब्रह्मविवर्तत्वेन तद्वच्छुक्तिरजतादेः पुरुषाश्रिताज्ञानविषयीकृत ब्रह्मविवर्तत्वोपपतेः | परोक्षवृत्यैकावस्थानिवृतावप्यवस्थांतरेण प्. १४८अ) विपरीत परिमाणविक्षेपोपपतेश्चेत्याहुः | अपरे तु शुक्तिरजतादि परिणामोपपत्यांजस्याद्विषयावगुंठन पटवद्विषयगतमेवाज्ञानं तदावरणं ||
232 SK आद्यं दोषं परिहरति | वाचस्पतिमत इति | शुक्तिरजतादि विक्षेपस्याज्ञान परिणामत्वपक्षे अज्ञानस्य विषयचैतन्यगतत्वं वक्तव्यं तस्याज्ञानपरिणामत्वानंगीकार पक्षे तु तस्य विषय चैतन्यगतत्वं नापेक्षितमिति भावः | दार्ष्टांतिके ब्रह्मपदं शुक्त्याद्यवछिन्न चैतन्यरूप ब्रह्मपरं न तु पूर्णब्रह्मपरं अवछिन्नचैतन्यस्यैव शुक्तिरजताद्यधिष्ठानत्वोपगमादिति भावः विपरीतपरीमाणरूपो विक्षेपो न संभवतीत्विद्वितीयं दोषं परिहरति | परोक्ष वृत्येति | परोक्षज्ञानादज्ञाननिवृतिर्यथा अनुभूयते | तथा उदाहृतस्थले सत्यपि परोक्षज्ञाने विपरीत परिमाणोत्पतिरनुभूयते तथा चानुभवद्वयानुरोधेन पुरुषाश्रितस्यैव वा ज्ञानस्य विषयावरकस्य एकदेशमपरोक्षज्ञानेन विवर्तत एकदेशांतरमनुवर्तत इति कल्प्यते न त्वज्ञानहैविध्यमुपगम्यने गौरवादिति भावः | अवस्थांतरेणेत्यनंतरं पुरुषाश्रिताज्ञानस्यैवेति शेषः वस्तु तस्तु परोक्षज्ञाननिवर्तकत्वमतेपि प्रतिवेधरहित मेघ परोक्षज्ञानमज्ञाननिवर्तकं
233 SK प्. १४८ब्) प्रकृत च भ्रमानुरोधेन दूरत्वादि देश प्रतिवद्धत्वादाप्तवाक्यजन्यमपि ज्ञानं पुरुषगताज्ञाननिवर्तकं न भवति | अतो न विपरीत परिमाणोन्यनुपपति शंकावकाशः न चतुथ सत्याप्तोपदेशानंतरं दूरस्थ वृक्षगत परिमाणविशेषननानामित्यनुभवापतिरिति वाच्यं | सतानिश्चयरूपपरोक्ष ज्ञानस्य सत्यप्यज्ञाने तदनुभवप्रतिबंधकत्वोपपतेर्न च प्रमामात्रमज्ञाननिवर्तकमिति नियमस्य प्रतिवदध परोक्षप्रमायां व्यभिचार इति वाच्यं | अप्रतिवद्धस्य प्रमाविशेषणत्वोपपतेरिति बोध्यं | एवमप्रतिवद्ध प्रमामात्रमज्ञाननिवर्तकमिति नियममनुसृत्य तदव्यभिचाराय परोक्षज्ञानस्याज्ञाननिवर्तकत्वमुपयादितमिदानिं तथा नियमो नास्ति किंतु प्रतिवद्धापरोक्षज्ञानमेवाज्ञाननिवर्तकमतो न परोक्षज्ञान व्यभिचार शंकेति मतमवतारयति | अपरेत्विति | लोके घटादेर्मृदादि | परिणांमत्वस्य प्रसिद्धत्वा तद्वत् शुक्तिरजतादेरपि परिणामत्वं सिध्यति तत्परिणामि चान्वयव्यतिरेकाभ्यां परिशेष सहकृतान्यामज्ञानमेव सिध्यति शुक्त्यादेः | प्रातिभासिक रजतादि परिणामित्वा संभवादज्ञानस्य च विषयचैतन्यगतस्य यथा रजता || न च तथा सत्यज्ञानस्यांतःकरणोपहित साक्ष्यसंसर्गेण ततः प्रकाशानुपपतिः प्. १४९अ) परोक्षवृतिनिवर्त्यत्वासंभवश्च दोष इति वाच्यं | अवस्थारूपाज्ञानस्य साक्ष्यं संसर्गेपि तत्संसृष्टमूलाज्ञानस्यैव शुक्तिमहं न जानामीति प्रकाशोपपतेः | शुक्त्यादेरपि मूलाज्ञानविषयचैतन्याभिन्नतया तद्विषयत्वानुभवाविरोधात् | विवरणादिषु मूलाज्ञानसाधन प्रसंग एव इदमहं न जानामीति प्रत्यक्ष प्रमाणोपदर्शनाच्च ||
234 SK दि विक्षेपपरिणामित्वमांजस्येनोपपद्यते न तथा पुरुषाश्रितस्योपपद्यते अतस्तदुपपत्यांजस्यनुरोधेन विषयगतमेवावस्थारूपमज्ञानमास्थेयं न तु पुरुषगतमप्यवस्थारूपमज्ञानांतरी वैयर्थ्यात् | मानाभावाच्चेति भावः | यद्यपि पुरुषाश्रितस्याप्यज्ञानस्य पुरुषमपरित्यज्यैव दीर्घप्रभान्यायेन वृतिद्वाराबहिर्निगत्यविषयचैतन्यमाश्रितस्य रजतादि परिणामित्वमुपपद्यते तथापि सा उपपतिर्नाजसी मूलाज्ञानवदवस्थाज्ञानस्यापि निष्क्रियत्वेन प्रभान्यायानवतारादित्यभिप्रेत्परिणामोपपत्यांजस्यादित्युक्तं | तथा सतीति | विषयावरकाज्ञानस्य विषयगतत्वे सत्वे सतीत्यर्थः | तत इति | पंचमी साक्षिण प्. १४९ब्) इत्यर्थः | असंभवश्चेति | परोक्षवृतेर्विषयदेशे निर्गमनाभावादिति भावः आद्यदोषं परिहरति अवस्थारूपाज्ञानस्येति | शुक्तिं न जानामीत्याद्यनुभवस्य नावस्थाज्ञानं विषयगतं विषयः किं तु मूलाज्ञानं तस्यैव साक्षिसंसृष्टत्वादित्यर्थः | ननु मूलाज्ञानस्य ब्रह्मविषयकत्वात् कथं तस्य शुक्तिविषयकत्वानुभवः संभवति | अवस्थाऽज्ञानस्य वा कथं शुक्तिविषयकत्वानुभवस्संभवति | तस्यापि शुक्त्यवछिन्नचैतन्यमात्रविषयकत्वात् | शुक्तेरवस्थाऽज्ञानविषयचैतन्य तादात्म्येन शुक्तिविषयकत्वानुभवो न विरुध्यत इति चेतुल्यमुतरमित्यभिप्रेत्याह | शुक्त्यादेरपीति | अभिन्नतयेति | जडमात्रस्य मूलाज्ञानविषयचैतन्येध्यस्ततया शुक्त्यादेरपि ततादात्म्यरूपं तदभिन्नत्वमस्तीति भावः | शुक्तिं न जानामीत्याद्यनुभवस्य मूलाज्ञनविषयकत्वे विवरणादि संमतिमाह | विवरणादिष्विति | ननु मूलाज्ञानसाधनप्रकरणेऽ अहमज्ञ इत्याकरो योनुभवः प्रदर्शितस्स एव मूलाज्ञान साधक | इदमहं न जानामीत्यनुभवस्तु अवस्थाज्ञान विषयक एव न च प्रकरणविरोधश्शंकनीयः शुक्तिरजतादि लक्षणपरिणामोपपते ये अवस्थाज्ञानस्यापि साधनीयत्वेन मूलाज्ञानसाधनप्रकरणेपि प्रसंगा तत्साधनोपपतेः | यथाद्रदं न जानामीत्यनुभवस्ततद्विषयावछिन्न-
235 SK प्. १५०अ) चैतन्याऽज्ञानगोचरः एव महमज्ञस्तत्वं न जानामीत्यनुभवो मूलाज्ञानगोचर इति दृष्टांतविध || अहमज्ञ इति सामान्यतोऽज्ञानानुभव एव मूलाज्ञानविषयः शुक्तिमहं न जानामीत्यादि विषयविशेषालिंगिता ज्ञानानुभवस्त्ववस्थाज्ञानविषय इति विशेषाभ्युपगमेपि अवस्था अवस्थावतोरभेदेन मूलाज्ञानस्य साक्षिसंसर्गाद्वा साक्षिविषयचैतन्ययोर्वास्तवैक्याद्वा विषयगतस्याप्यवस्थाज्ञानस्य साक्षिविषयत्वोपपतेः परोक्षज्ञानस्याज्ञानानिवर्तकत्वेपि ततस्तन्निवृत्यनुभवस्य सतानिश्चयरूपपक्षवृतिप्रतिबंधक प्रयुक्ता ननुभवनिबंधनभ्रांतित्वोपपतेरपररोक्षज्ञानस्यैवा- ज्ञाननिवर्तकत्व नियमाभ्युपगमादित्याहुः | ननु नायमपि नियमः अविद्याहंकार सुखदुःखादि तद्धर्म प्रत्यक्षस्याज्ञान निवर्तकत्वानभ्युपगमादिति चेत् प्. १५०ब्) न अविद्यादि प्रत्यक्षस्य साक्षिरूपत्वेन वृतिरूपापरोक्षज्ञानस्यावरणं निवर्तकत्वनियमानपायात् ||
236 SK या मूलाज्ञानसाधनप्रस्तावेपि विषयविशेषालिंगिताज्ञानानुभव प्रदर्शनोपपतेश्च तस्मादिदं न जानामीत्याद्यनुभवानां मूलाज्ञानविषयकत्वे प्रमाणाभावदवस्थाज्ञानविषयकत्वस्यैव तत्साधनार्थतया वक्तव्यत्वाच्च तस्य विषयगतत्वे सिद्धे साक्षिसंसर्गाभावान्न तदनुभवस्संभवतीत्याशयवती शंकामनुवदति | अहमज्ञ इतिति | विषयगताज्ञानस्य साक्षिणा सहसाक्षात्संबंधाभावेपि परंपरासंबंध संभवान्नतदनुभवानुपपतिरिति परिहरति | अवस्थावस्थावतोरिति | अभेदेनेति | तादात्म्यमभेदः | तथा च साक्षिसंसृष्टमूलाज्ञानावस्थात्वाद्विषयगता ज्ञानस्य मूलाज्ञानद्वारा साक्षि संसर्ग इत्यर्थः | साक्षीति | साक्षि चैतन्यस्यावस्थाज्ञानाश्रयविषयचैतन्यस्य च वस्तुत एकत्वाद्धस्ततस्साक्ष्यभिन्नचैतन्याश्रित तं साक्षिणा सह विषयगताज्ञानस्य संसर्ग इत्यर्थः | यदुक्तं परोक्षववृतौ व्यभिचारादिति | तन्नाऽपरोक्षज्ञानस्याज्ञाननिवर्तकत्वाभ्युपगमेन तथा नियमानभ्युपगमा तथा नियमे ह्यभ्युपगमे परौक्षवृतौ व्यभिचारदोषो भवेत् | ननु तर्हि शास्त्रार्थं प्. १५१अ) न जानामीत्यनुभूताज्ञानस्य तदुपदेशानंतरं तन्निवृत्यनुभवविरोध इति नेत्याह | परोक्षज्ञानस्येति | तत इति | परोक्षज्ञानादित्यर्थः भ्रांतित्वोपपतेरिति | न चात्र बाधकाभावात् कथं भ्रांतित्व कल्पनमिति वाच्यं | विषयगताज्ञानापेक्षया पुरुषगतानंतावस्थाज्ञानांतरकल्पना गौरवस्य बाधकस्य सत्वादिति भावः | कथं तर्हि प्रमाणवृतीनां तन्निवर्तकत्वाभ्युपगमस्तत्राह | अपरोक्षज्ञानस्यैवेति | न तु परोक्षज्ञानसाधारणप्रमाणज्ञानमात्रस्यातो न परोक्षज्ञाने व्यभिचार इत्येव काराभिप्रायः | तद्धर्मेति | तच्छब्दोहंकारपरः अनभ्युपगमादिति | अविद्याहंकारादीनां स्वसताकालेभन नियमेन तेषामावरणानंगीकारादित्यर्थः | नियमस्य संकोचं वदन् परिहरति नेति ||
237 SK अथ कोयं साक्षी जीवातिरेकेण व्यवह्रियते | अत्रोक्तं कूटस्थ दीपे | देहद्वयाधिष्टानभूतं कूटस्थचैतन्यं स्वावछेदकस्य देहद्वयस्य साक्षादीक्षणान्निर्विकारत्वाच्च साक्षीत्युच्यते लौकेपि ह्यौदासीन्यबोधाभ्यामेव साक्षित्वं प्रसिद्धं यद्यपि जीवस्य वृतयः संति देहद्वयनासिकास्तथापि || प्. १५१ब्) सुखादि धर्मिणोहंकारस्य साक्षिप्रत्यक्षविषयत्वोक्त्या अहमर्थजीवापेक्षयाभिन्नस्तत्साक्षीनिर्दिष्टः सुखादि धर्मिणोहंकारस्यैव लोके जीवत्व प्रसिद्धेस्तथा च योर्यजीवभिन्न साक्षी व्यवह्रियते स नास्ति मानाभावादित्याक्षिपति | अथेति | यस्साक्षीजीवातिरेकेण व्यवह्रियते | अयं क इति संबंधः किं शब्दो आक्षेपार्थः | निर्विकारत्वाच्चेति ननु द्रष्टृत्वं दृष्टिक्रियाकर्तृत्वं निर्विकारत्वं च कर्तृत्वादि विकारराहित्यं तथा च तयोः परस्परविरोध इति चेन्न दृष्टिस्वरूप एव कूटस्थे तत्कर्तृत्वस्य साक्षाद्द्रष्टरि संज्ञायामिति सूत्रानुसारेण साक्षिशब्दात्प्रतीतस्य सवितरि प्रकाशात्मके प्रकाशत इति प्रकाश कर्तृत्ववदुपचारमात्रत्वात्साक्षात्पदाद्द्रष्टयार्थे इतिः प्रत्ययो भवति साक्षिपदस्य संज्ञात्व इति सूत्रार्थः | ननु साक्षिपदात् साक्षिलक्षणं बोद्धत्वमात्रं प्रतीयते न तु निर्विकारश्यमौदासीन्यमपि तत्कथं साक्षिलक्षणे निर्विकारत्वमपि प्रक्षिप्यते | तत्राह | लोकेपि हीति | अपिशब्दव्याख्यानमवधारणं तच्च औदासीन्य बोद्धत्वयोः प्रत्येकं लक्षणत्व शंका व्यवछेदार्थं हि शब्दव्याख्यानं प्रसिद्धपदं लोके हि
238 SK प्. १५२अ) द्वयोर्विवदमानयोस्सतोस्ताभ्यामन्यस्तयोर्विवादस्यापरोक्षतया वोद्धा उदासीनश्च यो भवतिऽसस्साक्षीत्युच्यते | अतः उदासीनत्वविशेषणमावश्यकं औदासीन्यमात्रमुक्त विवादस्थले स्तंभादेरप्यस्तीति तद्धारणाय बोद्धत्व विशेषणमिति मंतव्यं स्थूलसूक्ष्मात्मक देहद्वयावछिन्नं स्वावछेदकहद्वय भासकचैतन्यं साक्षीति यदुक्तं | न तत्संभवति | तथा भूतचैतन्ये मानाभावात् | न च तदभाव देह द्वयावभासा सिद्धिरिति वाच्यं | प्रकाशात्मकांतःकरणवृतिभिरेव तत्सिद्धेरिति मत्वाशंकते | यद्यपीति | जीवपदमहंकारात्मकांतःकरणपरंतित्य चैतन्यस्यानंगीकारपक्षे जडाहंकारातिरिक्त जीवाभावात् | वृतीनामंतःकरणपरिणामतायाः कामः संकल्प इत्यादि श्रुति सिद्धत्वाच्चेति बोध्यं वृतीनां दीपादिवत्प्रकाशात्मकत्वेपि तासां जडत्वाद्देहद्वयाभासकत्वं न संभवति स्वप्रकाशनित्यचैतन्याभ्युपगमे तु तत्प्रतिबिंबयुक्तानां तासां देहद्वयानुभवरूपत्वं संभवति अतस्तादृश चैतन्यमुपेयमित्यभिप्रायेणाह तथापीति || सर्वतः प्रसृतेन स्वावछिन्नेन कूटस्थ चैतन्येनेषत्सदाभास्यमेवदेत्वद्वयं जीवचैतन्य प्. १५२ब्) रूप प्रतिबिंब गर्भांतःकरणाद्धिछिद्य विछिद्योद्गछद्भिर्वृतिर्ज्ञानैर्भास्यते | अंतरालकाले तु सहवृत्यभावैः कूटस्थ चैतन्येनैवभास्यते | अत एवाहंकारादीनां सर्वदाप्रकाश संसर्गात्संशयाद्यगोचरत्वं ||
239 SK किं च वृतीनामंतरालदशासुदेहद्वयस्यास्पष्टं भानं देहद्वयगोचर वृतीनां सद्भावकालेत्वहंकर्तास्थूलोहमित्यादि रूपेणस्पष्टं भानतित्यनुभवसिद्धंत तन्नास्पष्टभानोपपतये वृत्तिज्ञानातिरिक्तं नित्यसाक्षिचैतन्यमुपेयमित्याशयेनाह | सर्वतः प्रसृतेनेति | व्याप्तेनेत्यर्थः देहद्वयं कूटस्थ चैतन्येन ईषत्सदाभास्य मानमेव वृतिज्ञानैः स्फुटमवभाष्यत इति संबंधः जीव चैतन्यरूपो यः प्रतिबिंबस्तद्गर्भा तद्युक्तादित्यर्थः | अनेनांतःकरणप्रतिबिंबो जीवः बिंबचैतन्यरूपः कूटस्थः साक्षीति जीवसाक्षिणोर्भेदो दर्शितः यथाग्नितप्तायः पिंडादुद्गछंतो विस्फुलिंगाः साग्नय एवोद्गछंति | एवं चैतन्य प्रतिबिंबोपेतादंतष्करणादुत्पद्यमानऽवृतयोपि तत्प्रतिबिंबगर्भा एवोत्पद्यंते अतस्तासां देहाद्यनुभव रूपत्वं संभवतीति सूचयितुमंतष्करणस्य
240 SK प्. १५३अ) प्रतिबिंबगर्भत्वमुक्तं जाग्रदवस्थायां देहद्वयस्य साक्षि चैतेन्यमात्रादस्पष्टतयाभानावसरं दर्शयितुं विछिद्यविछिद्येत्युक्तं | तमेवावसरं स्पष्टमाह | अंतरालकाले त्विति तु शब्दस्य व्याख्यानमेवकारः देहद्वयंवृत्यभावैः सहाऽवभास्यत इति संबंधः वृत्यभावैरित्यस्य वृतीनां ध्वंसैरित्यर्थः | उपलक्षणं चैतत् वृतीनामुत्पतिभिः वृतिभेदैश्च सहेत्यर्थः | अयं भावः नित्यचैतन्यानभ्युपगमे वृत्युत्पति विनाश तद्भेदादेरपरोक्षतया भानं न स्यात् स्वोत्पति विनाशयोः स्वग्राह्यत्वासंभवात् वृतिगोचरापरोक्षवृतीनां निरशिष्यमाणतया तयोर्तृत्यंतरग्राह्यत्वासंभवाच्च | तस्माद्वृतिनाशादि साक्षितयापि नित्यचैतन्यमुपेयमिति | अत्रैवोपपत्यंतरं दर्शयति | अत एवेति | नित्यचैतन्यरूपसाक्षिसद्भावादेवेत्यर्थः | अहंकारप्राणशरीरादीनां योग्यतद्धर्म सुखदुःखादीनां च सदाहंकारादि सताकाले संशयादिनिवृतिलक्षणफलभाक्तं तावदनुभवसिद्धं न हि कदाचिदपि अहमासं न वा अहं वर्तेन वा अहं प्राणिमिनवाहहं ब्राह्मणो न वेत्यादि प्रकारेणाहंकारा हि सतासशयः | कस्यचिदप्यस्ति तच्च तेषां सदाप्रकाशसंसर्गविना न संभवति | घटादीनां प्रकाशसंसर्गदशायामेव संशयाद्यगोचरत्व दर्शनात् सदाप्रकाश संसर्गित्वं त्वऽहंकारादीनां जन्यज्ञानपक्षे न संभवति | तेषामुत्पति विनाशवत्वात् प्. १५३ब्) प्रायेण बाह्यविषयगोचरत्वाच्च तस्मादहंकारादीनां सदासंशयाद्यगोचरत्व निर्वाहाय तेषां सदास्वांक्षि चैतन्यरूपप्रकाशसंसर्गो वाच्य इति भावः || अन्य ज्ञानधाराकालीनाहंकारस्यैतावंतं कालमिदमहं पश्यन्नेवासमित्यनुसंधानं च न च कूटस्थ प्रकाशिते कथं जीवस्य व्यवहार स्मृत्यादिकमिति शंक्यं | अन्योन्याध्यासेन जीवैकत्वापत्याकूटस्थस्य जीवांतरंगत्वात् | न च जीवचैतन्यमेव साक्षी भवतु किं कूटस्थेनेति वाच्यं ||
241 SK साक्षिसद्भावे उपपत्यंतरमाह | अन्यज्ञानेति | अहंकारग्रहणं धारांतर्गतवृतीनामप्युपलक्षणं नित्यानुभवरूपसाक्ष्यनंगीकारे दिव्यमंगल श्रीकृष्णमूर्तिगोचरवृति संतति | कालीनाहमर्थस्य तत्कालीन वृत्तीनां च तत्काले जन्यानुभवासंभवै न संस्कारा संभवादुतरत्रानुसंधानं न स्यान्न हि धाराकाले | अहंकारगोचरो वा प्रत्येकं वृत्ति गोचरो वा जन्यानुभवस्संभवति धाराविछेद प्रसंगाद्वृति संततेरिछा घटित सामग्रीकत्वेन तद्विछेदासंभवाच्च तस्मादन्यज्ञानधारा कालीनाहमर्थादि साक्षितया प्. १५४अ) नित्यानुभवो वाच्य इति भावः | अनुसंधानं चेति संगछत इति शेषः | ननु साक्षि चैतन्येनानुभूताहमर्थ तद्वृतीनां कथमहं पश्यन्नेवासुमिति स्सरणं जीवस्य संभवति | अहमर्थ भूतप्रतिबिंब जीवापेक्षया बिंबभूतस्य कूटस्थचैतन्यात्मक साक्षिण्ये भिन्नत्वादन्यानुभूते अर्थे अन्यस्य स्मरणा योगादिति शंकते | न च कूटस्थेति | स्वेनस्वतादात्म्याषन्नैन वा अनुभूतार्थे स्वस्य स्मरणं भवतीत्यंगीकारान्नाति प्रसंगः न हि देवदत्त यज्ञदत्त जीवयोः परस्परं तादात्म्यमस्ति | येन देवदतानुभूतेर्थे यज्ञदत्तस्य स्मरणप्रसंग इति दोषो भवेदित्याशयेन परिहरति | अन्योन्याध्यासेनेति | तादात्म्याध्यासेनेत्यर्थः | जीवस्य कूटस्थे कल्पितत्वस्य प्रागेव निरूपे तत्वादिति भावः न चैवमपि सर्वदेहेषु साक्षिण एकत्वाद्देवदत साक्षिणानुभूतदेवदताहंकारादिषु यज्ञदत्वादेरप्यनुसंधानप्रसंगः यज्ञदतादेरपि देवदतसाक्षिण्ये बाध्यस्ततया तदैकत्वापतेस्सत्वादिति वाच्यं | देहद्वयरूपावछेदक भेदेन ततज्जीवतादात्म्यापन्न साक्षिणोभेदाभ्युपगमात् | एवमवछेदकभेदेन साक्षिभेदं ज्ञापयितुमेव स्वावछेदकस्येति विशेषणं पूर्वमवदतमिति बोध्यं | नन्वस्तु जीवकूटस्थ नामक चैतन्यद्वयं तथापि जीव एव साक्षी किं न स्यादिति
242 SK प्. १५४ब्) शंकते | न चेति | किं कूटस्थेनेति किं कूटस्थस्य साक्षित्वेनेत्यर्थः | न तु कूटस्थस्यैवाक्षेपः तस्य साधितत्वात् || लौकिक वैदिक व्यवहारकर्तुस्तस्योदासीन द्रष्टत्वासंभवेन साक्षीचेताकेवलो निर्गुणश्चेति श्रुत्युक्त साक्षित्वायोगात् तयोरन्यः पिप्पलं स्वाद्धत्यनश्नन्यो अबिचाकशीतीति कर्मफल भोक्तुर्जीवादुदासीन प्रकाशरूपसाक्षिणः पृथगाम्नानाच्चेति | नाटकदीपेपि नृत्यशालास्थ दीपदृष्टांतेन साक्षीजीवा द्विविच्य दर्शितः | तथाहिः | नृत्यशालास्थितो दीपः प्रभुं सभ्यांश्च नर्तकीं | दीपयेदविशेषेण तदभावेपि दीप्यते | तथा चिदाभासविशिष्टाहंकाररूपं जीवं विषयभोगसाकल्पवैकल्पाभिमानप्रयुक्तहर्षविषादवत्वान्नृत्याभि मानि प्रभुतुल्यं || उदासीनास्यैव लोके साक्षित्वस्य प्रसिद्धत्वात् तदनुरोधेन
243 SK प्. १५५अ) श्रुत्यनुरोधेन च कूषस्थस्यैव साक्षित्वं न जीवस्येति परिहरति | लौकिकेति | साक्षिणो लक्षणमाह श्रुतिः चेताकेवल इति | चेतावोद्वा केवलः अकर्ता उदासिन इति यावत् ज्ञानादि गुणक आत्मेति वैशेषिकादि मतं श्रुतिः स्वयमेव निराकरोति | निर्गुणश्चेति | मध्यमपरिमाणस्सक्रिय आत्मेति दिगंबरमत निरासार्थश्चकारः निष्क्रियश्चेत्यर्थः साक्षिणो जीवाद्भिन्नत्वे श्रुतिमप्याह तयोरन्या इति जीवकूटस्थयोर्मध्ये कूटस्थादन्यो जीवः पिप्पलं कर्मफलं स्वादुयथा भवति तथा अतिभु᳚न्क्ते शरीरस्याश्वत्थवृक्षत्वेन निरूपितत्वात्कर्मफलस्य पिप्पल्लत्वेन निरूपणमिति द्रष्टव्यं स्वाद्धिति विशेषणं पुण्यफलाभिप्रायं जीवादन्यः कूटस्थः अनश्रन् अशनं कर्मफलभोगमकुर्वन्नभिचाकशीति अभि आभिमुख्येनापरोक्षतया चाकशीति बुध्यादि साक्षितया प्रकाशत इति यावत् | अत्रानश्रन्नित्यनेन भोकृत्वे निषिद्धे सति कर्तृत्वमपि निषद्धं भवति | तथा चान श्रन्नभिचाकशीतीति पदाभ्यामुदासीनत्वे सति बोद्धत्वरूपं साक्षित्वं प्रदर्शितमित्यर्थः | कूटस्थ दीपे निरूपितस्साक्षी अन्यत्रापि दृष्टांत विशेष पूर्वकं सुषुप्ति साधारणो निरूपित इत्याह | नाटकदीपेपीति | दृष्टांत प्रतिपादकं तत्रत्यश्लोकं पठति | नृत्यशालास्थित इति | प्रभुं नृत्याभिमानिनं संभ्यांस्तत्परिसरवर्तिनः अविशेषेणेति | दीपोहि
244 SK प्. १५५ब्) वृद्धिं प्राप्य प्रभुं प्रकाशयति | मध्यमावस्थां प्राप्यसभ्यान् | ततो निकृष्टावस्थां प्राप्यनर्तकीमिति प्रकाशतारतम्यानुसारेण वृध्यादिविकारं प्राप्य न दीपप्येत् | किं तु एकरूपेणैव स्थितस्सन् प्रकाशयेदित्यर्थः | इदं च विशेषणं दार्ष्टांतिके निर्विकारस्य कूटस्थस्य साक्षित्वज्ञापनार्थमिति मंतव्यं | तदभावेपीति | प्रभुसभ्याद्यभावेपीत्यर्थः | अहंकारः प्रभुः सभ्याविषया नर्तकीमतिः तालादिधारीण्यक्षाणि दीपस्साक्ष्यवभासक इति दार्ष्टांतिक संग्राहकं श्लोकं मनसि निधायाह | तथेति जीवस्य नृत्याभिमानि प्रभुतुल्यत्वकल्पनाप्रयोजकं साम्यमाह | विषयेति तत्परिसरवर्तित्वेपि तद्राहित्यात्सभ्यपुरुषतुल्यान्विषयान्नानाविध विकारवर्तित्वान्नर्तकी तुल्यांधिपंचदीपयन्सुषुप्त्यादावहंकाराद्यभावेपि दीप्यमानश्चिदाभासविशिष्टाहंकाररूपजीवभ्रमाधिष्ठान कूटस्थचैतन्यात्मासाक्षी एवं जीवाद्विवैचितोयं साक्षीन ब्रह्मकोटिरपि किं त्वस्मृष्टजीवेश्वर विभागं चैतन्यमित्युक्तं कूटस्थदीपे ||
245 SK प्. १५६अ) नृत्यसाकल्पवैकल्पप्रयुक्त हर्षादिमत्वं प्रभोरभिमानपदेन सूचितं | यथा सभ्याः प्रभुपरिसरवर्तिनः तथा रूपादयो विषयाः जीवपरिसरवर्तिनस्तथा च विषयाणां सभ्यसाम्यात् सभ्यत्व कल्पनं युक्तमित्याशयेनाह | तत्परिसरवर्तित्वेपीति | तत्पदं जीवपरं ननु जीवपरिसरवर्तिनामपि विषयाणां जीववत् प्रभुतुल्यत्वमेव कुतो न कल्प्यत इत्याशंक्य तत्प्रयोजकाभावादित्याशयेनाह | तद्राहित्यादिति | प्रभुतुल्यत्वकल्पकहर्षविषादादेरभावादित्यर्थः | यद्वा विषयाणां सभ्यपुरुषसाम्यमाह | तद्राहित्यादिति | बुद्धेर्नर्तकी साम्यमाह | नानाविधेति | यथा तालादिधारिणः पुरुषाः नर्तकी मनुवर्तंते एवमिंद्रियाण्यपि धियमनुवर्तंत इत्यनेन साम्येन इंद्रियाणां तालादिधारिपुरुषसाम्यंश्लोकोपातं धियं चेत्यत्रवशब्दार्थः जीवादीनामवभासक साक्षीदीपतुल्य इति चरमपादार्थः तं संगृह्णाति दीपयन्नित्यादिना | प्रकाशयन्नित्यर्थः | दीपयन्नित्यतः प्राकजाग्रदादावितिशेषः नाटकदीपे निरूपितः साक्षीकूटस्थ दीपोक्तकूटस्थ एव नान्य इत्याशयेनाह | चिदाभासविशिष्टेति | कूटस्थ दीपे हि जिवभ्रमाधिष्टनभूतकूटस्थ चैतन्यं जीवादेरवभासकमित्युक्तं | नाटकटीपे च | चिदाभासविशिष्टाहंकारं जीवं कल्पयित्वातदवभासक
246 SK प्. १५६ब्) चैतन्यं साक्षीत्युक्तं ततश्च तत्रोक्त कूटस्थ एवान्न साक्षीत्ववगम्यते | अंतष्करणप्रतिबिंबरूप जीवाधिष्ठानत्वतदवभासकत्वादि निशसाम्या तथा च नाटकदीपंपि नृत्यशालास्थ दीपदृष्टांतेन साक्षी जीवाद्दिविच्यदर्शित इति पूर्वग्रंथे कूटस्थदीपे यस्माक्षीजीवाद्भेदेन दर्शितस्स एव नाटकदीपेपि ततो भेदेन दर्शित इति विवक्षितार्थस्सिद्ध इति भावः साक्षी यथा जीवकोटिर्न भवति | जीवस्य उदासीनत्वाभावा तथा ईश्वरकोटिरपि न भवति जगत्सृष्टिनियमनादि व्यापार कर्तुस्तस्य उदासीनत्वा भावादीश्वरस्य परोक्षतया | जीवं प्रतिबुध्यादि साक्षितयानित्यापरोक्ष साक्षिरूपत्वासंभवाच्चेत्याशयेनाह | एवं जीवादिति | ब्रह्मपदमाश्वरपरं नत् दीसीन चैतन्यपरं | कस्तर्हि साक्षीति पृछति | किंत्विति | उत्तरमस्पृष्टेति | उक्तमिति | इति शैवपुराणेषु कूटस्थः प्रविवेचितः जीवेशत्वादि रहितः केवलः स्वप्रभः शिव इति श्लोकेनेतिशेषः जगद्रूपत्वमादिपदार्थः | केवल उदासीनः शिवः शुद्धः परमात्मेत्यर्थः || तत्वप्रदीपिकायामपि शवलिते सगुणे परमेश्वरे केवलो निर्गुण इति | विशेषणानुपपतेः सर्वप्रत्यग् भूतं विशुद्धं प्. १५७अ) ब्रह्मजीवाभेदेन साक्षीति प्रतिपद्यत इति निवदितं | कौमुद्यां त्वेको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतांतरात्माकर्माध्यक्षः सर्वभूताधिवासः साक्षिचेताकेवलो निर्गुणश्चेति देवत्वादि श्रुतः परमेश्वरस्यैव रूपभेदः कश्चिज्जीव प्रवृतिनिवृत्योरनुमंता स्वयमुदीसीनः साक्षीनाम ||
247 SK ईश्वरत्वादि धर्मरहितश्चिदात्मैवान्यत्रापि साक्षित्वेनोक्त इति संवादार्थमाह | तत्वप्रदीपिकायामपीति | सर्वेषां जीवानामंतःकरणगत चित्प्रतिबिंबात्मकानां प्रत्यग्भूतमधिष्ठानतया आंतरं स्वरूपभूतं विशुद्धं जीवत्वेश्वरत्व जगदूपत्वरहितं ब्रह्मजीवाभेदेन ततज्ज्जिवाधिष्ठानत्वादेव ततज्जीवतादात्म्यापत्याप्रतिशरीरं प्राप्तभेदं सत्साक्षीति प्रतिपद्यते | इति शब्दः प्रकारवाघीसत्साक्षित्वमाह तथा च साक्षित्वं प्रतिपद्यते | परमेश्वरस्यैव कश्चिद्रूपभेदः साक्षीनामकुतः देवत्वादि श्रुतेर्नत्वीश्वर विलक्षणः साक्षीदेवत्वादि श्रुतिविरोधादित्येवकारार्थः देवत्वादीत्यादि पदेन सर्वभूतांतरात्मत्वादि धर्मागृह्यंते | एतदुक्तं भवति | देवत्वादयो धर्माः श्रुतिस्मृत्यादिषु परमेश्वर धर्मत्वेन प्रसिद्धा इति नान्यस्य
248 SK प्. १५७ब्) साक्षित्वं देवत्वादि श्रवणविरोधात् | यद्यपि देवत्वं हिरण्यगर्भेद्रादि जीव साधारणं तथापीतरधर्माणामीश्वरासाधारणत्वाद्देवत्वमपीश्वर गतमेव ग्राह्यमिति भावः | परमेश्वरस्य शिवविश्वात्मना प्राप्तं भेदं निराचष्टे | एक इति | बिंबभूतस्य परमेश्वरेस्य मूर्तिभेदेन शिवविष्णु संज्ञानत्वीश्वरभेदोस्तीत्यर्थः | तथा च श्रुत्यंतरं शास्वतं शिवमच्युतमिति | अच्युत पदस्य विष्णौरूढत्वात् आवयोरंतरं नास्ति शब्दैरर्थैजगत्यत इत्यादि स्मृतयोप्यत्र शतशो द्रष्टव्याः श्रुतौ सर्वभूतेष्वित्यनंतरं वर्तत इति शेषः | तथा च स्मृतिः ईश्वरः सर्वभूतानां हृद्देशेर्ज्जनतिष्ठतीति | तर्हि किमिति सर्वेषां नोपलभ्यते | तत्राह गूढ इति | तथा स्मृतिर्ताहं प्रकाशः सर्वस्य योगमाया समावृत इति | श्रीकृष्णोत्राहं शब्दार्थः प्रकाशः प्रकाशमान इत्यर्थः | परमात्मनो भूतेषु अवस्थानाभ्युपगमेधिकरण भेदा तस्यापि भिन्नत्व शंकास्यातांवारयति | व्यापीति | व्यापित्वेपि नभो वद्वस्तुतो जीवभिन्नत्वं वारयति | सर्वभूतांतरात्मेति | सर्वभूतानां ब्रह्मादिस्तंवपर्यंत संघातानामंतरवस्थित आत्मासर्वजीवस्वरूप इति | यावत् | परमेश्वरस्य कर्मकर्तृजीवाभिन्नत्वे तस्यापि तत्कर्तृत्वस्यादिति नेत्याह | कर्माध्यक्ष इति | जीवकर्तृकर्मणां साक्षीनस्वय तत्कर्तेत्यर्थः जीवपरमात्मनोरौपाधिक- प्. १५८अ) भेदेन धर्मव्यवस्था संभवतीति भावः | सर्वभूतेष्वित्यादिना परमात्मापेक्षयाभेदेन भूतानां निर्दे || स च कारणत्वादि धर्मानास्पदत्वादपरोक्षो जीवगतमज्ञानाद्यवभासयंश्च जीवस्यांतरंगः सुषुप्त्यादौ च कार्यकारणो परमे जीवगता ज्ञानमात्रव्यंजकः प्राज्ञ शब्दितः ||
249 SK शातस्य सद्वितीयत्वमाशंक्याह | सर्वभूताधिवास इति | अधि उपरिवसंत्यस्मिन् भूतानीत्यधिवासोऽ अधिष्ठानं सर्वेषां भूतानामधिवासस्सर्वभूताधिवासः न चाधिष्ठानातिरेकेणरोपितानां पृथक् सत्वमस्तीतिनाद्वितीयत्व विरोध इति भावः | न केवलं जीवगतकर्मणामेव साक्षी किं तु जीवानामपीत्याशयेनाह | साक्षीति | अवशिष्टा श्रुतिः प्रागेव व्याख्याता अनुमंतानैरंतर्येण बोद्धास्वयमिति | जीवे व्यापारवत्यपि स्वयं तद्रहितः रूपविशेषसाक्षिलक्षणमुक्ता साक्षिपदं तत्र वर्तयति | साक्षी नामेति | नामपदं श्रुतिप्रसिद्धि द्योतकं | ननु साक्षीजीवस्यापरोक्षः तस्याज्ञानांतष्करणाद्यनुभवरूपत्वांगीकारात् | ईश्वरस्तु नित्यं परोक्षः कारणत्वसर्वज्ञत्व सर्वनियंतृत्वादेर्जीवं प्रत्ययोग्यत्वेन तद्विशिष्ट बिंबचैतन्यरूपेश्वरस्यायोग्यत्वादिति चेन्न |
250 SK प्. १५८ब्) तस्य रूपविशेषत्वांगीकारेणापरोक्षत्वोपपतेरित्याशयेनाह | स चेति न चेश्वरस्यैतादृशरूपभेदेमानानावः शंकनीयः एकोदेव इति मंत्रस्य अनश्रनन्यो अभिचाकशीति मंत्रभागस्य च उदासीने परमेश्वररूपभेदे मानत्वात् | कारणत्वादि धर्मास्पदे चेश्वरे सृष्टिवाक्यानां सर्वेषामेवमानत्वादिति भावः | स च जीवस्यापरोक्ष्ॐ अंतरंगश्चेति संबंधः उभयत्र हेतुमाह | जीवगतमज्ञानाद्यवभासयन्निति | अंतःकरण तद्धर्म सुखदुःखादि संग्रहार्थमादिपदं साक्षिचैतन्यमज्ञानाद्यवभासनुद्वारा अहमज्ञः अहं सुखीदुःखीत्यादि व्यवहारनिर्वाहकं भवति | अतः साक्षी जीवऽस्यांतरंगः लोके राजादि व्यवहार निर्वाहकपुरुषे राजांतरंगत्वस्य प्रसिद्धत्वादिति भावः | ननु सुषुप्त्यादौ साक्ष्यस्यांतःकरणतदवृत्यादेरुपरतत्वा तदा चिदात्मनस्साक्षित्वं न स्या तथा च तेभ्यो विलक्षणस्साक्षी चिन्मात्रोहं सदाशिव इत्यादौ सुषुप्त्यादावपि तस्य साक्षित्व व्यवहार विरोध इत्यत आह | सुषुप्त्यादौ चेति | तेभ्यो इति | भोक्त्रादिभ्य इत्यर्थः | तदापि मूलाज्ञानस्य साक्ष्यस्य सत्वान्न विरोध इति भावः परमेश्वरस्यैव रूपविशेषात्मके साक्षिणि सुषुप्त्यक्रांतिविषयकवाक्यद्वयमपि प्रमाणमित्याशयेनाह | प्राज्ञशब्दित इति प्. १५९अ) सुषुप्तिविषयकवाक्ये उत्क्रांतिविषयकवाक्ये च प्राज्ञशब्देन यथोक्त साक्षिण एव प्रतिपादितत्वादितिभावः ||
251 SK तद्यथा प्रिययास्त्रियासंपरिष्वक्तो न बाह्यं किंचन वेदनांतरमेवमेवायं पुरुषः प्राज्ञनात्मनासंपरिष्वक्तोत बाह्यं किंचन वेदनांतरं प्राज्ञेनात्मनान्वारूढ उत्सर्जन् यातीति श्रुति वाक्याभ्यां सुषुप्त्यक्त्रांत्यवस्थयोर्जीवभेदेन प्रतिपादितः परमेश्वर इति सुषुप्त्युत्क्रांत्यधिकरणनिर्णयोपि साक्षिपर इत्युपवर्णितं तत्वशुद्धावपि यथेदं रजतमिति भ्रमस्थले वस्तुतः शुक्ति कोट्यंतर्गतोपीदमंशः प्रतिभासतो रजतकोटिः तथा ब्रह्मकोटिरेव साक्षीप्रतिभासतो जीवकोटिरिति | जीवस्य सुखादि व्यवहारे तस्योपयोग इत्युक्त्वायमेव पक्षः समर्थितः || ननु सुषुप्त्युत्क्रांत्योर्भेदेनेत्यधिकरणे सुषुप्त्यादि विषयक श्रुतिगतप्राज्ञशब्दस्य सर्वेश्वरत्व भूताधिपतित्वादि प्. १५९ब्) विशिष्टपरमात्मप्रतिपादकत्वाया उक्तत्वात्कथं प्राज्ञशब्दस्य उदासीनेश्वर परत्वमत आह | तद्यथेति | दृष्टांत वाक्ये बाह्यं रथादि वृतांतमातरं ग्राहक्यं? पुरुषो जीवः प्राज्ञः परमात्मा तेन संपरिष्वक्तः सुषुप्त्यादावुपाधिलयादेकी भावं प्राप्तः बाह्यं जाग्रत्प्रपंचं किंचन किंचिदपि उत्क्रांति वाक्यमुदाहरति | प्राज्ञेनात्मनान्वारूढ इति अन्वारूढो अधिष्ठितः उत्सर्जत्वेदनावशाच्छब्दं कुर्वन् | याति शरीराद्बहिर्निर्गछति | उत्क्रामतीत्यर्थः | अवस्थयोरिति | सप्तमी प्रतिपादित इत्यनंतरं प्राज्ञ इति शेषः तथा च वाक्याभ्यां जीवभेदेन प्रतिपादितः प्राज्ञः परमेश्वर इति निर्णयोपि साक्षि पर इत्युपवर्णितं कौमुद्यामिति संबंधः बृहदारण्यक षष्टाध्यायो जीवानुवादमात्ररूपः न तदतिरिक्तेश्वर पर इति पूर्वपक्षे प्राप्ते सिद्धांतः तद्यथा प्रिययेत्यादि वाक्ययोः सुषुप्त्यवस्थायामुत्क्रांत्यवस्थायां च पुरुषशब्दित जीवापेक्षयाभेदेन परमेश्वरस्य तृतीयांत प्राज्ञशब्देन व्यपदेशान्न षष्टाध्यायो जीवानुवादमात्ररूपः किं तु तदति रिक्तेश्वर प्रतिपादनपरः तत्प्रतिपादनं च लोकसिद्धजीवानुवादेन तस्येश्वराभेद प्रतिपादनार्थं
252 SK प्. १६०अ) तथा च वाक्यशेषो दृश्यते | स वा एष महानत आत्मायोयं विज्ञानमय इति यो विज्ञानमयो जीवस्म एष महानात्मापूर्णः परमात्मेत्यर्थः इति तदधिकरणनिर्णयः | नन्वस्य निर्णयस्य उदासीनेश्वर रूपसाक्षि परत्वाप्यनुपपन्नं स वा एष महानत आत्मेत्येतदनंतरं एष सर्वेश्वर एष भूताधिपतिरित्यादिना तस्य सर्वेश्वरत्वादि गुणजात प्रतिपादनादिति चेन्न ज्ञेय ब्रह्मप्रकरणगतसर्वेश्वरत्वादि वचनस्य स्तुति मात्रपरत्वादिति भावः | कौमुदीकार मतस्य संवादार्थं मतांतरमुपन्यस्यति तत्वशुद्धावपीति | इदं रजतमिति भ्रमस्थले रजताभेदेन प्रतिभासमानोपीरमंशः रजतांतरर्भूतो न भवति रजतवत तस्य बाधाभावात् | नापि शुक्ताववांतर्भवति तस्य शुक्त्यंशवदज्ञातत्व प्रसंगात् | अतो यथा इदमंशस्य वस्तुतः शुक्तिरूपत्वं प्रतिभासतो रज || केचित्वविद्योपाधिको जीव एव साक्षाद्द्रष्ट्वत्वात्साक्षीलोकेपि ह्यकर्तृत्वे सति द्रष्टृत्वं साक्षित्वं प्रसिद्धं तच्चासंगोदासीन प्रकाशरूपे जीव एव साक्षात्संभवति | जीवस्यातःकरणतादात्म्यापत्या कर्तृ प्. १६०ब्) द्यारोपभात्केपि स्वयमुदासीन त्वात् | एकोदेव इति मंत्रस्तु ब्रह्मणो जीवभावामि प्रायेण साक्षित्व प्रतिपादकः द्वासुपर्णेति मंत्रो गुहाधिकरणन्यायेन जीवेश्वरौभयपरः ||
253 SK नाभिन्नात्वमेवं साक्षिणोपि वस्तुगत्या ईश्वर रूपाभेदत्वं कल्पित तल्लजीवाधिष्ठानरूपस्य साक्षिणस्सुखाद्यनुभवितुः | अहं सुखमनुभवामीत्यादि प्रतिभासतस्त तज्जीवाभिन्नत्वं | अतो जीवस्य सुखादि व्यवहारे तस्य सुखाद्यनुभवितुः | जीवैकत्वमापन्नस्योपयोग इत्यर्थः | अयमेवेति साक्षिणो वस्तुतोपि जीवांतर्भावे तस्य ब्रह्मकोटित्वोक्ति विरोधात् | तस्येश्वररूपाभेदत्वं तत्वशुद्धिकाराभिमतमिति गम्यत इति भावः | जीवसाक्षिणोर्भेदपक्षानुपन्यस्य तयोरभेदपक्षानुपन्यस्यति केचिदित्यादिना जीव एव साक्षीति संबंधः | नत्वोश्वरस्य रूपभेदस्साक्षी तत्र मानाभावादित्येवकाराभिप्रायः जीवस्य साक्षीत्वाभ्युपगमे हेतुमाह | साक्षाद्द्रष्टृत्वादिति | तस्यौदासीन्यं सूचयति अविद्योपाधिक इति एतदेव प्रपंचयितुं इदमेव साक्षिलक्षणं नान्यदिति पूर्वोक्तं स्मारयति | लोकेपि हीति | पूर्वं संग्रहेणोक्ते जीवस्यैव साक्षित्वं प्रपंचयति | तच्चेति | साक्षादिति | अविद्या प्रतिबिंब रूपजीवस्य
254 SK प्. १६१अ) स्वतः संभवतीत्यर्थः | अनेन कॢप्तस्य जीवस्यैव साक्षित्व संभवे तदतिरिक्त साक्षीन कल्पनीयः गौरवादिति सूचितं | ननु लौकिक वैदिक व्यवहार कर्तुं रौदासीन्यमसिद्धमित्युक्तमित्याशंक्यबुद्धितादात्म्ययुक्तमेव कर्तृत्वादिकं स्वतस्तु उदासिनत्वमित्युपगमातस्य साक्षित्वं संभवतीत्याह | जीवस्यांतःकरणेति | नन्वीश्वरस्य साक्षीत्वाउपगमे मंत्रविरोध इत्यत आह | एकोदेव इति | मंत्रस्त्विति साक्षी तावज्जीवस्यापरोक्ष इत्युक्तं ईश्वरस्य तूदासीनस्यार्प्यपरोक्षत्वं न संभवति बिंबभूतेश्वरस्य जीवादौपाधिकभेदसत्वेन जीवं प्रतिजीवांतर चैतन्यस्येवापरोक्षत्वायोगादतो जीवभावापन्न ब्रह्माभिप्रायो मंत्रगतसाक्षि प्रतिपादकभाग इति भावः ईश्वररूपभेदस्यापरोक्षत्वानुपपति रूपहेतुः मंत्रस्त्विति तु शब्देनोक्त इति ध्येयं | ननु गुहाधिकरणे यथा गुहां प्रविष्टा इति मंत्रो जीवेश्वरो भयपरः तथा द्वासुपर्णेति मंत्रोपि जीवेश्वरो भयपर इत्युक्तं भाष्ये तथा च द्वासुपर्णेति मंत्रे तयोरन्यः पिप्पलं स्वाद्वतीति वाक्यं जीविषयमनश्रन्नन्योभिचाकशीतीति वाक्यं परमेश्वरविषयमिति पर्यवस्यति ततश्च जीवस्य साक्षित्व पक्षे ईश्वरस्य साक्षित्व प्रतिपादके नानश्रन्नन्य इति मंत्रभागेन विरोध इत्याशंक्याह | द्वासुपर्णेति मंत्र इति | यदा मंत्रः जीवपरोभयपरस्तदापि न प्. १६१ब्) विरोधः कश्चित् एकोदेव इति मंत्रवत् द्वासुपर्णेति मंत्रस्यापि जीवभावापन्नपरमात्मपरत्वाद्युपगमादित्यर्थः || गुहाधिकरणभाष्योदाहृतपैंगीरहस्य ब्राह्मण व्याख्या तेन प्रकारेण जीवांतःकरणोभय परोवेति न कश्चिद्विरोध इत्याहुः | अन्ये तु सत्ये जीव एव साक्षीनत्वसर्वगतेनाविद्योपहितेन रूपेण पुरुषांतरांतष्करणादीनामपि पुरुषांतरं प्रति स्वांतःकरणभासक साक्षिसंससर्गाविशेषण प्रत्यक्षत्वाततेः
255 SK ननु ग्रहाधिकरण भाष्येपैंगिरहस्य ब्राह्मणमुदाहृतं | तच्चेदं ब्राह्मणं तयोरन्यः पिप्पलं स्वाद्धतीति सत्वं | अनश्रन्नन्यो अभिचाकशीति | अनश्रन्नन्योधि पश्यतिज्ञः त्वावेतौ सत्वक्षेत्रज्ञाविति | अनेन ब्राह्मणेनादनवाक्यमंतष्करणविषयं अनथन् वाच्यं क्षेज्ञविसयमिति व्याख्यातं न च ब्राह्मणेनैव सत्वक्षेत्रज्ञपरत्वेन मंत्रे व्याख्यायमाने कथं भाष्यकारैरस्य जीवेश्वर परत्वमुक्तमिति वाच्यं | तदुक्तेः कृत्वा चिंतामात्रत्वेन विरोधानावा तथा चांतष्करणप्रतिबिंबरूपोपदिपैंगि प्. १६२अ) ब्राह्मणाभिमतः क्षेत्रज्ञः स्यातदा तस्यैवा न श्रन्नितिवाक्योक्तं साक्षित्वं स्यान्नाविद्याप्रतिबिंबस्य तथा चाविद्याप्रतिबिंबरूपस्य ब्रह्मस्वभावस्य जीवस्य साक्षित्वपक्षः पैंगिब्राह्मणनिर्णितार्थकद्वासुपर्णेति मंत्रभागविरुद्धः प्रसज्येतेत्याशंक्याह गुहाधिकरणभाष्योदाहृतेति | न कश्चिद्विरोध इति पैंगि ब्राह्मणाभिप्रेतः क्षेत्रज्ञोनां तष्करणगतचैतन्य प्रतिबिंबरूपजीवस्तस्य कर्तृत्वं भोक्तत्व स्वभावत्वेनानश्रन्निति वाक्योक्त साक्षित्वासंभवात् | किं त्वसंगोदासीन प्रकाशरूपाविद्याप्रतिबिंबरूपजीव एव ब्राह्मणाभिप्रेतः क्षेत्रज्ञस्तस्यानश्यन् वाक्योक्त साक्षित्व संभवस्योपपादितत्वादतोऽविद्याप्रतिबिंबजीवस्यैव साक्षित्व पक्षेन पैंपीरहस्य ब्राह्मणानुरोधिमंत्रविरोध इत्यर्थः | अविद्यायां चैतन्यप्रतिबिंबरूपजीवस्यैव साक्षित्वमुपेत्यत्र किंचिद्विशेषं वक्तुं मतांतरमवतारयति | अन्ये त्विति नत्वविद्यायां चिद्बिंबभूतेश्वर साक्षीतस्यापरोक्षत्वानुपपतेरित्येव काराभिप्रायः रूपेणेति साक्षीत्यनुषंगः सर्वशरीरसाधारणाविद्योपाधिकस्य साधारणरूपेण साक्षित्वाभावे हेतुमाह | पुरुषांतरेति | यज्ञदतांतष्करणं तद्वृतीनामित्यर्थः पुरुषांतरं प्रतीति | देवदतं प्रतीत्यर्थः स्वेति स्वस्य देवदतस्यांतःकरणभासकोपस्साक्षी तेन साक्षिणा सह देवदतां तष्करणस्येव यज्ञदतां तष्करणादीनामपि
256 SK प्. १६२ब्) संसर्गाविशेषाद्देवदतस्य यथा स्वांतष्करणं प्रत्यक्षं तथा यज्ञ दतांतष्करण तद्वृतयोपि देवदतस्य प्रत्यक्षाः स्युरित्यर्थः | अत्र पुरुषांतरं प्रतिपुरुषांतरांतष्करणादीनामपि प्रत्यक्षत्वापतेरिति संबंधः | तत्र हेतुः स्वांतष्करणेत्यादिरिति विभागः | सर्वशरीरेषु साक्षिण एकत्वेपि प्रतिशरीरं प्रमातृभेदान्नोक्तदोष इत्याशंकते | न चेति | देवदतं प्रति तदंनंतष्करणादेः प्रत्यक्षत्वे हि देवदत साक्षिसंस न चांतष्करणभेदेन प्रमातृभेदात् तदनापतिः साक्षिभास्येंतष्करणांदौ सर्वत्र साक्ष्यभेदे सति प्रमातृभेदस्याप्रयोजकत्वात् तस्मादंतष्करणोपधानेन जीवः साक्षी तथा च प्रतिपुरुषं साक्षिभेदात्पुरुषांतष्करणादेः पुरुषांतरसाक्ष्य संसर्गाद्वांतदयोग्यत्वाद्वाऽप्रकाशः उपपद्यते | सुषुप्तावपि सूक्ष्मरूपेणांतःकरणसद्भावात्तदुपहितः साक्षी तदाप्यस्त्येव न चांतःकरणोपहितस्य प्रमातृत्वेन न तस्य साक्षित्वं सुषुप्तौ प्रमात्रः भावेपि साक्षि सत्वेन तयोर्भेदश्चावश्यं प्. १६३अ) वक्तव्य इति वाच्यं ||
257 SK र्गः प्रयोजकः तथा च यज्ञदतांतष्करणादीनामपि देवदतं प्रत्यपरोक्षत्व प्रयोजकस्य देवदत साक्षि संसर्गस्याविशेषेण तं प्रत्यपरोक्षत्वापादनात्मको दोषः प्रत्यक्षत्व प्रयोजकं साक्षि संसर्गभेदेनैव परिहर्तव्योनाप्रयोजक प्रमातृभेदेनेति दूषयति | साक्षिभास्य इति साक्ष्यभेद इति साक्षिण एकत्वे सतीत्यर्थः | अप्रयोजकत्वादिति | देवदतं प्रतितदीयांतष्करणादिकमेव प्रत्यक्षं नान्यदीपांतष्करणादिकमिति व्यवस्थायामिति शेषः तस्मादिति | अविद्योपाधिकजीवस्य साधारणरूपेण साक्षित्वासंभवादित्यर्थः | तथा चेति | साक्षि भेद प्रयोजकोपाधिभेद विवक्षायां सत्यामित्यर्थः | तदयोग्यत्वाद्वेति पुरुषांतरं प्रत्ययोग्यत्वकल्पनाद्वा प्रत्यक्षत्वाभाव उपपद्यत इत्यर्थः | ननु अविद्याप्रतिबिंबरूपजीवस्याविद्योपाधिकत्वेनैव रूपेण साक्षित्वे सति तस्य सुषुप्ति साधारण्यं संभवति प्रतिशरीरं साक्षिभेदसिध्यर्थं तस्यांतष्करणोपहितत्वेन रूपेण साक्षित्वे तु सुषुप्ति साधारण्यं तस्य न संभवति | सुषुप्तावंतःकरणलय श्रवणादित्याशंक्याह | सुषुप्तींवपीति शंकते | न चांतःकरणोपहितस्येति अविद्याप्रतिबिंबस्य जीवस्येतिशेषः | ततस्येति | अंतःकरणोपहित जीवस्य साक्षित्वं न संभवति तस्य प्रमातृत्वादन्यथा प्रमातुरेव
258 SK प्. १३६ब्) साक्षित्वापत्यासाक्षिप्रमात्रोर्भेदो न स्यादिति भावः | इष्टापतिमाशंक्याह | सुषुप्ताविति | अभावेपीति | अथास्मिन् प्राण एकधा भवतीति श्रुतौ सुषुप्तिकाले प्राणशब्दिते परमात्मनि एकीभावलक्षणस्य प्रमातृ लयस्य श्रवणादिति भावः साक्षि सत्वेनेति | सुषुप्तिकाले साक्षिणस्सत्वमवश्यं वाच्यं तत्काले तत्सत्वस्य त्रिषु धामस्वित्यादि बहुश्रुति सिद्धत्वात् | धामसु अवस्थास्वित्यर्थः | तत्काले साक्षिणानुभूतानामज्ञानसुखसुषुप्तीनामुत्थितस्य न किंचिदवेदिषं सुखमस्वाप्समिति स्मरण दर्शनाच्च | न चाहमस्वाप्समिति स्वाणदिवदहमर्थस्य प्रमातुरपि सुषुप्तिकालीनत्वेन स्मरण दर्शनात् | तस्यापि तदासत्वं वाच्यमेवेति वाच्यं सुषुप्तौ प्रसातृ लय प्रतिपादकबहुश्रुति विरोधेन श्रहमस्वाप्समित्यादि स्मरणस्याहमर्थांशे अनुभवरूपत्व कल्पनान्न प्रमातुस्तदा सत्वमावश्यक तथा च सुषुप्तिकाले सदसतोस्साक्षिप्रमात्रोरनेदायोगात् प्रमातुस्सकाशात् साक्षीभिन्न एव वाच्य इत्यर्थः | प्रमातृ साक्षिणोरभेदपक्षे प्रमातुरुदासीनत्वाभावेन साक्षित्वा संभवरूपदोष संग्रहार्थश्चकार इति बोध्यं || विशेषणोपाध्योर्भेदस्य सिद्धांत संमतत्वेनांतष्करणविशिष्टः प्रमाता तदुपहितः साक्षीतिभेदोपपतेरित्याहुः ||
259 SK प्. १६४अ) न च वाचमित्यत्र हेतुमाह अंतष्करणविशिष्ट इति अंतष्करणस्याविद्योपाधिके जीवे विशेषणत्वेन प्रमातृत्व प्रयोजकत्वमुपाधित्वेन साक्षित्वप्रयोजकत्वं तथा च विशिष्टोपहितयोः प्रमातृसाक्षिणोर्भेदः विशिष्टस्य प्रमातुः कर्तृभोक्तस्वभावत्वेपि उपहितस्योदासीनत्वात्साक्षित्वं च संभवतित्यर्थः | ननु विशेषणत्वस्य उपाधित्वस्य च भेदे सति एकस्याप्यंतष्करणस्य विशेषणत्वादिरूपेणभेदं कल्पयित्वा तद्विशिष्टस्य प्रमातृत्वं तदुपहितस्य साक्षित्वमिति व्यवस्था सिध्यति | तयोर्भेद एकथमित्यत आह | विशेषणोपाध्योरिति कार्यान्वपित्वे सति व्यावर्तकत्वं विशेषणत्वं यथा नीलोत्पलमानयेत्यादौ नैल्यस्यणातस्य रक्तोत्पलादि व्यावर्तकत्वादुत्पलद्वारा आनयनरूपकार्यान्वयित्वाच्च | लक्षणे कार्यपदं विधेयपरं तथा च यत्काकवत् तद्देवदत ग्रहमित्यादौ विधेयस्य देवदतगृहत्वस्य कार्यस्य उपलक्षणेकाकेनास्त्यन्वयः गृहांतरव्यावर्तकत्वं त्वस्तीति तत्राति व्याप्तिवारणाय सत्यं तं कार्यान्वयिनि विशेष उत्पलादावति व्याप्तिवारणाय विशेष्यदलंकायानन्वयित्वे सति व्यावर्तकत्वे सति कार्यान्वयकालविद्यमानत्वमुपाधित्वं यथालोहितस्फटिकमानयेत्पादौस्फटिक सन्निहितस्य जपाकुसुमस्य
260 SK प्. १६४ब्) उपाधित्वं तस्यानयनलक्षणकार्यान्वयाभावात् स्फटिकांतरव्यावर्तकत्वादानयनान्वयकाले विद्यमानत्वाच्च | तत्र प्रथमं सत्यं तं विशेषणैनैल्पादावतिव्याप्ति वारणाय न च विशेषणत्वेनाभिमतं नैल्पादिकमप्यत्र लक्ष्यमेवेति वाच्यं | जपाकुसुमादावुपाधित्व व्यवहारवन्नैल्पादौ तथा व्यवहाराभावात् | जपाकुसुमादौ स्फटिकादि विशेषणत्वस्य व्यवहाराभावाच्च | तथा च विशेषणोपाध्योर्भेदावश्यं भावे सति विशेषणत्वाभिमत नैल्पादेरलक्ष्यत्वा तत्राति व्याप्तिवारणं युक्तमेव काकवद्ग्रहं प्रविशेत्यत्र प्रवेशरूपकार्यान्वयकाले यदि दैवयोगादुपलक्षणभूतकाकस्यान्यत्र गमनं काकांतरस्य तद्गहे आगमनं तदा तत्रागतकाकस्य पूर्वस्थित काकवद्व्यावर्तकत्वं नास्ति तथा च तत्रागत काके प्रवेशानन्वपि निविद्यमीने उपाधित्वरहिते अतिव्याप्तिवारणाय द्वितीय सत्यं तं उक्तस्थल एव उपलक्षणीभूत काके अति व्याप्तिवारणाय विशेष्यदलं न च यत्र उपलक्षणी भूतकाकस्यैव कार्य कालेपि दैवाद्विद्यमानत्वं तंत्रोपलक्षणकाके कृत्स्नं लक्षणमस्तीत्यति व्याप्तिरिति वाच्यं | कार्यकाले नियमेन विद्यमानत्वस्य विवक्षितत्वात् नन्वेवमपि लोहित स्फुटिकमानयेत्यत्र क्वचिद्धामश्रवणकाले सत एव जपाकुसुमस्य प्. १६५अ) स्फटिकानयनकाले दैवादविद्यमानत्व संभवात् जपाकुसुमस्यापि कार्यकाले विद्यमानत्वनियमो नास्तीति चेतर्हीदं लक्षणं श्रोत्रत्वोपाधिकर्णशष्कुल्यामंतष्करणादौ च विवक्षितमस्तु जपाकुसुमस्यान्यस्य वाततुल्यस्वनिष्टध || ननूक्तरूपस्य साक्षिणश्चैतन्यमात्रावरकेणाज्ञानेनावरणमवर्जनीयमिति कथमावृतेनाविद्याहंकारादिभानमिति चेत् | राहुवदविद्यास्वावृत प्रकाश प्रकाशेति केचित् | वस्तुतो विद्यांतष्करणतद्धर्मावभासकं साक्षि चैतन्यं विहायै वाज्ञानचैतन्यमावृणोत्यनुभवानुसारेण कल्पनान्न कश्चिद्दोषः ||
261 SK र्मा संजकत्वरूपं प्रसिद्धमेवोपाधित्वमस्तु | न चाननुगमः स्वनिष्ठत्यादिलक्षणोपाधित्वस्य प्रसिद्धोपाधौ कर्णवलये बिंबप्रतिबिंबपक्षे दर्पणादौ स्वोपहित बिंबसुखादो स्वधर्मानासंजके च वाधित्वेन तत्संग्राहकलक्षणांतरकणस्यावश्यकतया तस्यादोषत्वादनुगतलक्षणसंभवे हि तस्य दोषत्वं प्रसिद्धं | तथा च | प्रकृतेंतष्करणस्य उभयविधोपाधित्वसंभवात् प्. १६५ब्) कार्यानन्वपित्वे सतीत्यादिलक्षणानुरोधेनांतुष्करणोपहितो जीवस्साक्षीत्युपगमे साक्षित्वं जीवचैतन्यमात्रनिष्टं पर्यवस्यति जीवचैतन्यमात्रं तूदासीनमेवेति नोपहितस्य साक्षित्वानुपपतिर्न्न वा प्रमातृसाक्षिणोस्सांकर्यमिति संक्षेपः | अविद्याहंकारादीनां पूर्वोक्तं साक्षि भास्यत्वमाक्षिपतिमन्विति चैतन्यमात्रेति कृत्स्न चैतन्यावरकेणेत्यर्थः | कथमिति | न च साक्षि गोचरापरोक्षवृत्यातदावरण निवृतौ निवृतावरणेन साक्षिणा अविद्यादिभानं संभवतीति वाच्यं | तेषां केवल साक्षिभास्यत्व सिद्धांतविरोधप्रसंगाः सनसः करणत्वस्य निरसिष्यमाणतया साक्षि चैतन्यगोचरापरोक्षवृत्यसंभवाच्चाहंकारादीनां स्वसताकाले तत्सताप्रकारकसंशयाद्य भावै न सदा तेषां संशयादि निवृति प्रयोजकतया सदा प्रकाशसंसर्गे वक्तव्ये सति कादाचित्कवृत्या तेषां सदाभानासंभवाच्च | साक्षि गोचरवृतिसंतत्युपगमे युगपद्वृति द्वयानभ्युपगमेन बाह्य घटादि प्रतीत्युछेद प्रसंगाच्च तस्मात् साक्षिमात्रभास्यत्वमविद्याहंकारादीनां वक्तव्यं | तच्च न संभवति तस्यावृतत्वान्न च साक्षि चैतन्यं विहायान्पदेवचैतन्यमावृतमिति वाच्यं अज्ञानस्य चैतन्यमात्रावरकत्वादन्यथा साक्षिचैतन्यादन्यचैतन्येप्यावरणाभावप्रसंगादित्याक्षेपाभिप्रायः आवृतस्यापि साक्षिणोऽविद्याप्रकाशकत्वं दृष्टांतेन दर्शयन् परिहरति राहुवदिति राहुणा सर्वात्मनावृतस्य चंद्रमंडलादेः
262 SK प्. १६६अ) स्वावरकराहुमात्र प्रकाशकत्वेपि तदतिरिक्त प्रकाशकत्वादर्शनादत्राप्यावृतस्य साक्षिणः कथंचिदविद्यामात्रावभासकत्वं स्यान्नाहंकारादि भासकत्वमित्यस्वरसादाह | वस्तुत इति | अनुभवानुसारेणंति | अहंकारादिषूक्तरीत्याकादाचित्कवृत्या सदा ज्ञानासंभवेनपि सदा प्रकाशसंसर्ग फलस्य संशयनिवृत्यादेस्सत्वानुसारेणेत्यर्थः || अत एव सर्वदा तेषामनावृत प्रकाशसंसर्गादज्ञानविपरीत ज्ञानसंशयागोचरत्वं साक्षि चैतन्यस्यानावृतत्वे तत्सरूपभूतस्यानंदस्यापि प्रकाशापतिरिति चेन्न | इष्टापतेः आनंदरूपप्रकाश प्रयुक्तस्यात्मनि निरुपाधिकप्रेमणो दर्शनात् | भासत एव परमप्रेमास्पदत्वलक्षणं सुखमिति विवरणाच्च | स्यादेतदिदानीमप्यानंद प्रकाशे मुक्ति संसारयोरविशेषप्रसंगः अनुभवफलमेवोपदर्शयति | अत एवेति | अज्ञानस्य साक्षि चैतन्यं विहायैवावरकत्व स्वभावकल्पनादेवेत्यर्थः | अगोचरत्वमिति | नन्वविद्यायाभावरूपत्वादौ अहंकारस्यानात्मत्वादौ सुखदुःखवृतीनां अनात्मधर्मत्वादावज्ञानविपरीत
263 SK प्. १६६ब्) ज्ञानसंशयानां सत्वेन तेषां सदासंशयाद्यगोचरत्वमसिद्धमिति चेन्न अविद्यादि सत्वकाले कदाचिदप्यविद्यादिसत्वप्रकारकाज्ञानाद्यभावस्य विवक्षितत्वं तथा च तद्गतविशेषगोचराज्ञानविपरीतज्ञानादेरभ्युपगमैपि न दोष इति भावः | शंकते | साक्षि चैतन्यस्येति | नन्विष्टापतेरिति वक्तुं न शक्यते संसारदशायां स्वरूपानंदप्रकाशप्रयुक्तकार्यादर्शनादित्यत आह | आनंदरूपेति लोके हि तस्य तस्यानुभूयमाने आनंदे प्रीतिरनुभवसिद्धा तथा च प्रीतेः प्रकाशमानानंदविषयकत्वे सिद्धे प्राणिमात्रस्य स्वस्वात्मनि दुःखदशायामपि प्रीति दर्शनादात्मगोचर प्रीतेरपि प्रकाशमानात्मानंदविषयकत्वं सिध्यति | पुत्रादि गोचरप्रीतिः तावदौपाधिकी उपाधिश्च आत्मसुखाभिव्यक्ति साधनत्वमुपाधित्वव्यतिरेकदशायां तेषु प्रीतेरदर्शनादात्मनि तु प्रीतिर्निरुपाधिकी पुत्रादिष्विवात्मनि प्रीतेरन्यार्थत्वाभावा | तथा च श्रुतिरात्मनस्तु कामाय सर्वं प्रियं भवति | तथा तदेतत्प्रेयः पुत्रात्प्रेयो वितात्प्रेयोन्यस्मात्सर्वस्मादंतरतरमिति | अंतरतरमित्यनेन सर्वांतरमुच्यते | तथा च यत्सर्वांतरमात्मचैतन्यं तत् एतत् अपरोक्षं प्रीतिविषयत्वेन संभाषितात्पुत्रादेस्सर्वस्सादतिशयेन प्रियमिति द्वितीय श्रुत्यर्थः तथा च आत्मानंदोयदिनप्रकाशेत तदा आत्मनि प्. १६७अ) श्रुत्यनुभवसिद्धानिरुपाधिकप्रीतिर्न स्यात् प्रीतेः प्रकाशमानानंद विषयकत्वनियमादतः साक्ष्यानंदप्रकाशापादने इष्टापत्यभिधानं युक्तमेव उक्तार्थे वृद्ध संमतिमप्याह | भासत एवेति परमप्रेमविषयत्वं परमप्रेमास्पदत्वं तल्लक्षणं यस्य सुखस्य ततथा सुखं भासत एव परमप्रेमास्पदत्वादन्यथा तत्र स्यादित्येव काराभिप्रायः | तच्च सुखं साक्षि चैतन्याभिन्नमिति स्वरूपानंदप्रकाशे सम्मतिर्भवत्येव संसारदशायां स्वरूपानंदस्फुरणाभ्युपगमे बाधकमाशंकते | स्यादेतदित्यादिना | तस्मात्साक्ष्यां नदस्यानावृतत्वकल्पनमयुक्तमित्यंतेन
264 SK ननु कल्पितभेदस्य साक्ष्यानंदस्य प्रकाशेप्यनवछिन्नस्य ब्रह्मानंदस्यावृतस्य संसारदशायामप्रकाशेन विशेषोस्तीति चेत् | न आनंदेऽनवछेदांशस्यापुरुर्षार्थत्वात् | आनंदापरोक्षमात्रस्य चेदानीमपि सत्वात् | नन्ववछिन्नः साक्ष्यानंदः सातिशयः सुषुप्तिसाधारणादनुति स्पष्टा ततौ वैषपिकानंदेष्वतिशयानुभवात् | अनवछिन्नो ब्रह्मानंदस्तुनिरतिशयः || प्. १६७ब्) सिद्धांती विशेषं शंकते | नन्विति | अविद्यायामानंद प्रतिबिंबस्साक्ष्यानंदः तस्य बिंबभूतानंदाद्भेदः कल्पितस्तथा च संसारदशायामनावृतसाक्ष्यभिन्न प्रतिबिंबानंद प्रकाशेपि बिंबभूतब्रह्मानंदो न प्रकाशते | तथा प्रकाशमानोपि साक्ष्यानंदः प्रतिशरीरं भिन्न एव प्रकाशते न त्वनवछिन्न इति विशेषोस्तीत्यर्थः | बिंबभूतब्रह्मानंदाप्रकाशे हेतुः | आवृतस्येति | अत्र यद्यपि मूलाज्ञानं शुद्ध चिन्मात्राश्रयं तद्विषयकंचन तु बिंबभूतेश्वरविषयकं तस्यानावृतत्वेपि जीवापेक्षया कल्पित भेदवत्वात् | तस्य जीवं प्रत्यप्रकाशमानत्वं संभवति | तथा मुक्तौ बिंबभूत ब्रह्मानंदस्फुरणमप्यसिद्धं मूलाज्ञाननिवृतौ तत्प्रयुक्तप्रतिबिंबभावस्येव बिंबभावस्यापि निवृत्यवश्यंभावा तथापि पूर्वपक्षिमुखपिधानमात्रे सिद्धांतिनस्तात्पर्यमिति बोध्यं | किमनवछिन्नानंदस्फुरणं मोक्षे विशेषः आनंदस्फुरणमात्रं वा उभयथापि विशेषो वक्तुं न शक्य इत्याह पूर्ववादीनेति | अवछेदो हि भेदस्स च आत्मनि कल्पितस्तथा चावछेदाभावोयद्यानंदादति रिक्तस्तदा दोषमाह | अनवछेदांशस्येति | यद्यानंद एव
265 SK प्. १६८अ) कल्पिताभावस्याधिष्ठानात्मकत्वा तदा तस्य द्वितीय प्रकार एवांतर्भाव इति मत्वातं प्रकारं दूषयति | आनंदापरोक्ष्य मात्रस्य चेति | तथा च न मुक्ति संसारयोर्विशेष इति भावः | सिद्धांतीप्रकारांतरेण विशेषमाशंकते नन्वछिन्न इति | प्रतिशरीरमवछिन्नत्वेन प्रकाशमानस्साक्ष्यानंदस्सातिशयः उत्कर्षापकर्ष रूपातिशय वा नित्यर्थः साक्ष्यानंदस्यातिशयत्वे हेतुमाह | सुषुप्ति साधारणादिति | स्पष्टता उत्कर्षः अति स्पष्टता अत्युत्कर्षः सुषुप्तिकाले प्रकाशमान साक्ष्यानंदः स्पष्ट एव इतरथा तस्य सुखमस्वाप्समिति परामर्शनीयत्वाभावप्रसंगात् | लोके हि यः आनंदः स्पष्टमनुभूतः स एव पुनः परामर्शयोग्योनानुभूतानंदमात्रमिति प्रसिद्धं | तथा च ततः साक्ष्यानंदान् सुषुप्त्यावति स्पष्टतारहित्वात् | सक्चंदनादि विषयप्रयुक्तानंदेषूत्कर्षविशेषानुभवादित्यर्थः | अनवछिन्न इति | कल्पितावछेदाभावात्मा ब्रह्मानंदो मुक्तिकाले प्रकाशमानोतिशय सामान्यरहित एवेत्यक्षरार्थः मुक्तौ ब्रह्मानंद एकरूपेण पूर्णतया च प्रकाशते | इदानी तादृश ब्रह्मानंदप्रकाशो नास्ति किंतूत्कर्षपि कर्षोपेतानंदप्रकाश एवास्मि अतः स्वरूपानंदस्फुरणेपिततदुत्कृष्टां नंदाभिलाषारूपपिशाचीग्रस्ततयाकस्यापि निर्वृतिर्नास्तीति संसारमोक्षयोर्विशेष इति भावः || प्. १६८ब्) आनंदवल्ल्यां मानुषानंदाद्युतरोतरशतगुणोत्कर्षोपवर्णस्य ब्रह्मानंदे समापनादिति चेत् | न सिद्धांते साक्ष्यानंदविषयानंद ब्रह्मानंदानां वस्तुत एकत्वेनोत्कर्षा संभवात् | मानुषानंदादीनामुतरोतरमुत्कर्षं श्रुतिर्वदतीति चेत् | को वा ब्रूते श्रुतिर्न वदतीति | किं त्वद्वैतवादे तदुपपादनमशक्यमित्युच्यते | नन्वेकस्यैव सौरालोकस्य करतलस्फटिकदर्पणाद्यभिव्यंजकविशेषोपधानेनाभिव्यक्ति- तारतम्यदर्शनादेकत्वेप्यानंदस्याभिव्यंजकसुखवृतिभेदो- पधानेनाभिव्यक्ति तारतम्यरूपमुत्कर्षापकर्षवत्वं युक्तमिति चेत् ||
266 SK अविद्याप्रतिबिंबरूपसाक्ष्यानंदस्य लोके विषयानंदत्वेन गृहीतस्य सातिशयत्वे ब्रह्मानंदस्यैक रूपत्वै च श्रुतिं प्रमाणयति | आनंदवल्ल्यामिति | मानुषानंदस्सार्वभौमानंदस्स च शतगुणितस्सन् मनुष्यगंधर्वानंदो भवति | सोपि शतगुणितस्सन् देवगंधर्वानंदो भवति | एवमेवपित्रानंदादिषु स प्. १६९अ) एको ब्रह्मण आनंद इत्युक्त हिरण्यगर्भानंदां तेषूत्कर्षापकर्षयोरुपवर्णनं योजनीयं समापनादिति स यश्चायं पुरुषे पश्चा सावादित्ये स एक इति वाक्येनेति शेषः पुरुषो मनुष्यः आद्य चकारस्त्विर्यगादि संग्रहार्थः | आदित्यपदं मंडलाभिमानि देवतापरं द्वितीयचकारस्तदितरसकलदेवता संग्रहार्थः | तथा च देव मनुष्य तिर्यक्षु सर्वत्रविद्यमानो ब्रह्मानंदः एकः एकरूप एव न तु साक्ष्यानंदवत् सातिशय इति श्रुत्यर्थः | साक्षानंदविषयानंद ब्रह्मानंदानां सति भेदे उक्तरीत्यामुक्ति संसारयोर्विशेषो वक्तुं शक्यते | स एवतवा सिद्ध इति पूर्ववादी दूषति | नेति असंभवादिति | उत्कर्षापकर्षयोर्जातिविशेषरूपयोरेकस्यां व्यक्तावसंभवादित्यर्थः | नन्वानंदव्यक्तेर्वस्तुगत्या एकत्वेपि कल्पितभेदवत्यां तस्यामुत्कर्षादिस्संभवतीत्यभिसंधिमान | सिद्धांती शंकते | मानुषानंदादीनामिति | अनुभवानुसारि श्रुतिसिद्धानंदोत्कर्षादेरपलापकरणमयुक्तं पूर्ववादि न इत्यर्थः | अभिसंधिमविद्वानिवपूर्ववादी दूषयति | कोवेति | कात्वर्हानुपपतिरिति सिद्धांती शंकते | किं त्विति तामाह | अद्वैतवाद इति | आनंदैकत्वमत इत्यर्थः | अशक्यमिति | औपाधिकभेदेमपि | तदुपपादनमशक्यमनुरूपदृष्टांताभावादिति पूर्ववादिनोप्यभिसंधिः | एकस्यामप्यानंदव्यक्तां औपाधिभेदेन श्रुत्यनुभवसिद्धानंदोत्कर्षादेरुपपादनं कर्तु
267 SK प्. १६९ब्) शक्यमिति स्वाभिसंधिमुद्घाटयन् | सिंद्धांती शंकते | नन्वेकस्यैवेति | आलोकस्य करतलादि संबंधरहितस्य या हि अभिव्यक्तिस्तदपेक्षयाकरतले ईषदधिकाभिव्यक्ति तदपेक्षया स्फटिके अधिकाभिव्यक्तिस्तदपेक्षयाप्यधिकादर्पणादावभिव्यक्तिरनुभवसिद्धा तद्वत्प्रकृतेपि स्वरूपानंदव्यंजकवृतितारतम्येन तत्तद्वृत्युपहित साक्ष्यानंदेवुत्कर्षादिकमुपपद्यत इत्यर्थः न दृष्टांता संप्रतिपतेः सर्वतः प्रसृमरस्य सौरालोकस्य गगने विना करतलादि संबंधमस्पष्टं प्रकाशमानस्य निम्नतले प्रसृमरस्य जलस्येव करतलसंबंधेन गति प्रतिहतौ वहलीभावादधिक प्रकाशः भास्वरदर्पणादि संबंधेन गतिप्रतिहतौ बहलीभावा तदीय दीप्ति संबलनाच्च ततोप्यधिक प्रकाश इति | तत्राभिव्यंजकोपाधिकाभिव्यक्ति तारतम्यानभ्युपगमात् | दृष्टांतसंप्रतिपतौ च गगनप्रसृत सौरालोकवदनुवछिन्नानंदस्यास्पष्टता प्. १७०अ) करतलाव्यवछिन्न सौरालोकवत्सुखवृत्यवछिन्नानंदस्याधिकाभिव्यक्तिरिति | मुक्तितः संसारस्यैवाभ्यर्हि तत्वापतेश्च | एतेन संसारदशायां प्रकामानोप्यानंदो मिथ्याज्ञान तत्संष्कार विक्षिप्ततया तीव्रवायुविक्षिप्तदीपप्रभावन्न स्पष्टं प्रकाशते मुक्तौ तदभावात् | यथा वदवभासत इत्यपिति रस्तं
268 SK पयालोक एकव्यक्तिरेक रूपश्च स्वतो भवेत् तदा तथाविध स्वरूपानंदस्य दृष्टांतो भवेन्नत्वालोकस्यैक व्यक्तित्वमस्ति तस्य नानाकिरणसमूह रूपत्वान्नाप्येक रूपत्वं तस्यास्ति तत्र तत्र सौरकिरणानामल्पत्व बाहुल्यरूप नानारूपत्वावगमादिति पूर्ववादी स्वाभिसंधिमुद्घाटयन् दूषयति | असंप्रतिपतेरिति | ममासम्मतत्वादित्यर्थः | प्रसृमरस्येति | गमनशीलस्येत्यर्थः | गति प्रतिहताविति सूर्यकिरणानां गतिप्रतिबंधे सतीत्यर्थः | अत एव यत्र भूभागे करतलादि कृतप्रतिबंधवशात् | सूर्यकिरणा न प्रसरंति तत्र तमोरूपाछाया दृश्यते | आलोकस्य गतिप्रतिहत्यावहलीभावे दृष्टांतमाह | निम्नतल इति | यथानिम्नतले प्रसृमरस्य जलस्य करतल संबंधेन गति प्रति
269 SK प्. १७०ब्) हतौ जलस्य बहलीभावस्तथेत्यर्थः | अधिकेति | करतलादि संबंधरहित गगनेय आलोकस्य स्फुटमप्रकाशस्तदपेक्षया अधिकेत्यर्थः | तदीप दीप्ति संबलनादिति | दर्पणादेर्यादीप्तिः प्रभातयामि अणादित्यर्थः | ततोपीति | करतलगतप्रकाशादपीत्यर्थः | तत्रेति | एकरूपस्यालोकस्य उपाधिगत तारतम्यकृताभिव्यक्ति तारतम्यासंप्रतिपतेर्न्न तस्य दृष्टांतत्वं संभवतीत्यर्थः | उक्त दृष्टांतांगीकारे सिद्धांतितिनोबाधकमप्याह | दृष्टांत संप्रतिपतौ चेति मुक्तित इति | तथा च सिद्धांते मुक्तिमुद्दिश्य तत्साधनेषु कस्यापि प्रवृतिर्न स्यादिति भावः | मुक्तिसंसारयो विशेषप्रसंग चोद्ये समाधान प्रकारविशेषोपि वक्ष्यमाणहेतुना निरस्त इत्याह | पूर्ववादी | एतेनेति | अनात्मनि देहावात्मत्वज्ञानं वस्तुत आत्मसंबंधशून्ये देहावात्मीयत्व ज्ञानं त्वं च मिथ्याज्ञानं | तच्च जाग्रदादि काले स्वरूपानंदस्य प्रकाशमानस्यापि विक्षेपकमस्पष्टतापादकं मिथ्याज्ञानजन्य संस्कारश्च सुषुप्तौ प्रकाशमानस्याप्यानंदस्य विक्षेपकः पुरुषार्थत्वविघटकः पुनर्भागप्रदकर्मविशेषोद्बोधित मिथ्याज्ञानसंस्कारवशादेव हि सर्वोजंतुस्सौषुप्तमानंदानुभवपरित्यजति ततश्च सौषुप्तानंदप्रकाशस्याध्रुवस्यमुमुल्वभिलषितत्वाभावादपुरुषार्थ- त्वमितिभावः ||
270 SK प्. १७१अ) निर्विशेष स्वरूपानंदे प्रकशमाने तत्र विक्षेपदोषादप्रकाशमानस्य मुक्त्यन्वपि नोति पायस्यासंभवात् | तस्मात्साक्ष्यानंदस्यानावृतत्व कल्पनमयुक्तं | अत्राहुरद्वैतविद्याचार्याः यथात्युत्कृष्टस्यैकस्यैव धवलरूपस्य मालिन्य तारतम्य युक्तैष्वनेकेषु दर्पणेषु प्रतिबिंबे सत्युपाधिमालिन्य तारतम्या तत्र तत्र तत्र प्रतिबिंबेधावल्यापकर्षस्तारतम्येनाध्यस्यते | एवं वस्तुतो निरतिशयस्यैव स्वरूपानंदस्यांतष्करण प्रतिबिंबिततया साक्ष्यानंदभावे प्राकृतन सुकृत संपत्यधीन विषयविशेष संपर्क प्रयुक्तसत्वोत्कर्षापकर्षरूपशुद्धितारतम्ययुक्त सुखरूपांतःकरणवृतिबिंबिततयाविषयानंदभावे च || दृष्टांते प्रभायास्सावयवत्वातीव्रवायुनाकेष्यं चिदवयवानां नाशरूपाद्वाप्रभारूपगतभास्वरत्वस्य तेन प्रतिबंधरूपाद्वाविक्षेपात्प्रकाशमानायामपि दीपप्रभायामस्पष्टप्रकाशता उपपद्यते |
271 SK प्. १७१ब्) अवयवगुणादिविशेषरहितस्य ब्रह्मानंदस्य तु न तथा विशेष उपपद्यत इत्याह निर्विशेषेति प्रकाशमान इति | सति सप्तमी | तत्रेत्यधिकरणसप्तमी मुक्त्यन्वपि न इति | मुक्ति दशायां प्रकाशमानस्येत्यर्थः | अतिशयस्येति | दृष्टांत इवावयवरूपस्य जातिविशेषरूपस्य वेत्यर्थः | तस्मादिति | मुक्ति संसारयोरविशेषप्रसंगादित्यर्थः | स्यादेतदित्यादिना प्राप्तं पूर्वपक्षं निराकरोति | अत्राहुरित्यादिना | एकरूपस्य स्वरूपानंदस्याभिव्यक्ति तारतस्यानुरूपं दृष्टांतं वदन् स्वरूपानंदे श्रुत्यनुभवसिद्धं तारतम्यशब्दोक्तंमुत्कर्षापकर्षवत्वमुपपादयति | यथेति | अत्युत्कृष्टस्येति | धवलरूपाणां मध्ये सर्वोतमस्येत्यर्थः | एकस्येति अनेन वक्ष्यमाणौ उत्कर्षापकर्षौ तत्र स्वतोनस्त इति सूचितं | तत्र तत्र प्रतिबिंब इत्येतानि पदानि सामानाधिकरण्यति | धावल्यापकर्ष इति | ईषन्मलिन दर्पण प्रतिबिंबे अपकर्षोध्यस्यते | मध्यमविधमलिनदर्पणप्रतिबिंबे च तदपेक्षया अधिकोपकर्षोध्यस्यते | अत्यंतमलिनदर्पणप्रतिबिंबे चात्यंतापकर्षोध्यस्यते | ततश्च तादृश दर्पणेषु प्रतिबिंबित धवलरूपं तारतम्येनाभिव्यज्यते | वस्तुत एकरूपमपि स्वरूपेण प्रकाशमानमपीत्यर्थः | अंतष्करणेति | सुषुप्तावप्यंतःकरणं सूक्ष्मरूपेण तिष्ठतीति साक्ष्यानंदस्य सुषुप्ति साधारण्यं बोध्यं मतांतरेषु त्वविद्यायां प्रतिबिंबिततया साक्ष्यानंदभावो द्रष्टव्यः आनंदभाव इति प्राप्ते सतीति शेषः
272 SK प्. १७२अ) संपतिः परिपाकः फलजननौन्मुख्यमिति यावत् | प्राकृत न सुकृतसंपत्यधीनो यो विषयविशेषसंपर्कः तत्प्रयुक्तौयौ सत्वस्योत्कर्षापकर्षौतद्रपं यच्छुद्धि तारतम्यं तद्युक्तोसु सुखरूपासंतःकरणवृतिषु प्रतिबिंबिततया विषयानंदभवे च प्राप्ते सतीत्यर्थः | वृतीनां स्वरूपसुखव्यंजकतया सुखरूपत्वमुक्तं | एतदुक्तं भवति | पूर्वजन्मसुसंपादित पुण्यकर्मपरिपाकवशादंतःकरणस्य स्रकचंदनादि रूपविषविशेषगोचरवृतिद्वाराविषयविशेषैस्सहसंबंधे सति तद्गत सत्वगुणस्य उत्कृष्टविषयसंबंधादुत्कर्षो भवति निकृष्टविषयसंबंधान्निकर्षो भवति | ततश्चांतष्करणगतसत्वांशपरिणामरूपाः वृतयाः स्वरूपानंदगोचरा जायंते जायमानाश्चता अप्युत्कर्षापकर्षोपेता एव जायंतेतास्वानंदप्रतिबिंबो विषयानंद उच्यत इति || तमोगुणरूपोपाधिमालिन्य तारतस्यदोषादपकर्षस्तारतम्येनाध्यस्त इति संसारदशायां प्रकाशमानेप्यानंदेध्यस्तापकर्ष तारतम्येन सातिशायित्वादतृप्तिः विद्योदये निखिलापकर्षाध्यास निवृतेरारोपितसातिशयत्वापायात् | कृतकृत्येतेति विशेषोपपतेर्निरुपाधिकप्रेमगोचरतया प्. १७२ब्) प्रकाशमानः साक्ष्यानंदोनावृत एवेति ||
273 SK ननु स्वरूपानंदगोचरसत्ववृतिगतापकर्षवशात् प्रतिबिंबरूपे विषयानंदे अपकर्षाध्यासो वक्तव्यः मलिनद्रव्यकृतदर्पणोपाधिनिष्टापकर्षवशात् तत्प्रतिबिंबे अपकर्षाध्यास दर्शनात् | तथा च स्वरूपानंदगोचरा सुवृतिषु सत्वगुणपरिणामभूतासु अपकर्षप्रयोजकं मलिनद्रव्यं किंचिदवश्यं वक्तव्यं साक्षाद्दर्पणसंयुक्तस्यैव मलिनद्रव्यस्य दर्पणेपकर्षाधायकत्वदर्शनादित्यत आह | तमोगुणरूपेति अंतःकरणस्य सत्वरजस्तमोगुणात्मकत्वात्तद्वृतिष्वपि तमोगुणरूपोपाधिरनुवर्तते | तत्कृतो यो मालिन्यतारतम्य दोषः | अपकर्ष तारतम्यात्मको वृतिगतदोष इति यावत् | तस्मादोषादपकर्षस्सत्ववृति प्रतिबिंबरूपे विषयानंदेध्यस्यत इत्यर्थः | पूर्वं विषयसंपर्कः सुखरूपवृति कारणत्वेन निर्दिष्टः तत्र विषयविशेषेति विशेषपदं विषयगतोत्कर्ष तारतम्यपरं तत्तारतम्यं च सुखरूपवृतिगतोत्कर्ष तारतम्यप्रयोजकत्वेन निर्दिष्टं | इह तु सुखरूप वृतिष्टे वापकर्ष प्रयोजकतया अपकर्ष तारतम्य प्रयोजकतया च तारतम्योपेतं तमोगुणात्मकं मलिनद्रव्यं निर्दिष्टमिति विभागो बोध्यः | ततः किं तत्राह | इति संसारदशायामिति | प्रकाशमानेप्यानंदे पदध्यस्तमपकर्षतारतम्यं तेन सातिशयत्वात् | विषयानंदस्येत्यर्थः |
274 SK प्. १७३अ) तथा च निकृष्टमानंदमनुभवतः उत्कृष्टानंद तृष्णाभिभूतस्य तत्संपादनाय प्रयतमानस्य तत्साधनत्वभ्रांत्या कदाचित् दुःखसाधेनेष्वपि प्रवर्तमानस्य देवमनुष्यतिर्यगादि योन्यापतिलक्षणो भवत्यनर्थ इति नास्ति निर्वृतिरित्यर्थः | निवृतेरिति | मूलाज्ञान निवृतौ तत्कार्योपाधिनिवृत्या तत्कृतापकर्षाद्यध्यासनिवृतेरित्यर्थः | कृतकृत्यतेति | कृत्ये कर्तव्यजातं कृतं येन सः कृतकृत्यः तस्य भावस्ततापुरुषस्य हि विद्योदयात् | पूर्वे दुःखनिवृतये सुखावाप्तये च बहुकर्तव्यजात मासीद्विद्योदये तु दुःखमात्रस्य निवृतत्वादत्युत्कृष्टं धवलरूपस्य निर्मलदर्पण इव निरशय स्वरूपानंदाविर्भावाच्च तन्निवृतये तत्प्राप्तये वा न किंचित् कर्तव्यमस्तीति कृतकृत्यतेतिभावः | तदाह भगवान् श्रीकृष्णः एतद्बुध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारतेति | एतन्निरतिशयानंदरूपब्रह्मापरोक्षतया बुध्वा बुद्धिमन भवति | पंडितो भवति कृतकृत्यंश्च भवति | हे भारत अर्जुन यतस्तत्वज्ञानं विनाप्पंडित्यादिकं न लभ्यते | तस्मातदेवसंपादयान्यत्सर्वं परित्यजेति भावः | विशेषोपपतेरिति | मुक्तिसंसारयोरितिशेषः | ननु ब्रह्मानंदवत्साक्ष्यानंदोपि आवृतोस्तु तथा च मुक्तिसंसारयोर्विशेषस्साव च इति नेत्याह | निरुपाधिकेति | एवं भूतः प्रेमास्वरूपानंदावरणसत्वेन संभवति लोके प्रकाशमान सुख एव प्रीतेरनुभव सिद्धत्वादितिभावः || प्. १७३ब्) अन्ये तु प्रकाशमानोप्यानंदो नास्ति न प्रकाशत इत्यावरणानुभवादावृत एव एकस्मिन्नपि साक्षिण्य विद्याकल्पित रूपभेदसंभवेन चैतन्यरूपेणस्यानंदरूपेणावरणस्य चाविरोधात् | स्वरूप प्रकाशस्यावरणा निवर्तकतया प्रकाशमाने आवरणस्याविरोधा च ||
275 SK साक्षि चैतन्यस्यानावृतत्वे तदभिन्नस्यानंदस्याप्यमावृतत्वापत्या मुक्तिसंसारयोरविशेषप्रसंग इति पूर्वपक्षे प्राप्ते स्वरूपानंदस्यानावृतत्वेपि तयोर्विशेषस्संभवतीति सिद्धांतो दशितः | इदानीं तस्यावृतत्वमुपेत्यैव विशेषं मुक्तिसंसारयोर्वदन् सिद्धांतं दर्शयति | अन्ये त्विति विदांत प्रतिपाद्य स्वरूपानंदो मे नास्ति न प्रकाशते | इति व्यवहारदर्शनातद्धेतुभूतमावरणं तावदस्त्येव संसारदशायाम्मुक्तौ तु तदावरणनाशात्स्वरूपानंदस्फुरणमस्तीति न तयोरविशेषप्रसंग इत्यर्थः | अत्र प्रकाशमानोप्यानंद आवृत एवेति संबंधः नत्वनावृतः तस्यानावृत्वे उक्त व्यवहारविरोधप्रसंगादित्येवकाराभिप्रायः | नन्वेवमात्मनि सदानिरुपाधिक प्रेमानस्यादनावृतस्वरूपानंदस्फुरणस्याभावात् वृतिकृतानंदस्फुरणस्य च कादाचित्कत्वादिति चेन्न फलबलेन आवृतस्यापि स्वरूपानंदप्रकाशस्य
276 SK प्. १७४अ) निरुपाधिक प्रेम हेतुत्वकल्पनात् भासत एव परमप्रेमास्पदत्व लक्षणं सुखमिति विवरणस्याप्यत्रेव तात्पर्योपपतेश्च | अनेनैवाधिप्रायेण प्रकाशमानोपीत्युक्तमन्यथा प्रकाशमानत्वविशेषणस्यावृतत्वकल्पने उपयोगाभावेन वैयर्थ्यप्रसंगादिति बोध्यं साक्षि चैतन्याभिन्नस्य साक्ष्यानंदस्यावृतत्वे साक्षि चैतन्यमप्यावृतं स्यादेकत्र आवृतत्वानावृतत्वयोर्युगपद्विरोधादित्यत आह | एकस्मिन्नपीति यथा वस्तुत एकस्मिन्नेव चैतन्ये जीवेश्वरत्वाख्यौ रूपभेदौ कल्पे तेनाहमीश्वरः किं तु संसारीति व्यवहारबलात् | तथा अहंसुखी ज्ञानमानंदो न भवतीत्यादिरूपेणाहंकाराद्यवनासक ज्ञानस्यानंदात् भेदव्यवहार दर्शनात् | तदनुरोधेन चित्वानंदत्वाख्यौ रूपभेदावनादि सिद्धौ कल्प्येते | यथा च एकस्मिन्नेवं चैतन्ये जीवत्वावछेदेनाज्ञत्वादिकमीश्वरत्वावछेदेन तदभावश्च कल्प्यते | तथैवानंदत्वावछेदेनावृतत्वं चित्वावछेदेनाहंकाराद्यवभासक चैतन्ये तदभावश्च कल्प्यते फलवलादिति न विरोधः जीवत्वादिरूपभेदस्याप्यविद्याकल्पितत्वाभ्युपगमान्नाद्वैत विरोधश्चेत्यर्थः | नन्वेकस्मित् साक्षिणि रूपभेदेनावृतत्वदभावयोर्विरोधाभावेप्यानंदः प्रकाशमानोप्यावृत इति विरुद्धे प्रकाशस्यावरणविरोधित्वादिति नेत्याह | स्वरूपप्रकाशस्येति | आगंतुकवृति रूप प्. १७४ब्) प्रकाशस्यावरणविरोधित्वकल्पनान्नस्वरूपप्रकाशस्तद्विरोधी तस्यावरण साधकत्वादित्यर्थः | नन्वेवं प्रकाशमानोप्यानंद आवृत इति ग्रंथे प्रकाशमानत्वविशेषणं स्वरूपप्रकाशस्यावरणाविरोधित्वज्ञापनार्थमिति तत्प्रयोजनसंभवात् तद्विशेषणं आत्मनि निरुपाधिकप्रेमसंभव ज्ञापनप्रयोजनकमिति यदुक्तं तत्र संभवतीति चेतर्हि विनिगमकाभावेन तद्विशेषणस्योभयप्रयोजनकत्वमस्तु स्वरूपप्रकाशे आवरणाविरोधित्वस्येव आनंदावरणपक्षे आनंदरूपे आत्मनि निरुपाधिकप्रेमसंभवस्याप्यवश्यं ज्ञापनीयत्वात् ||
277 SK त्वदुक्तमर्थं न जानामीति प्रकाशमान एवावरण दर्शनात् | न च तत्रानावृत सामान्याकारावछेदेन विशेषावरणमेवानुभूयत इति वाच्यं | अन्यावरणस्यान्यावछेदेन भानेऽतिप्रसंगात् | न च सामान्यविशेषभावोनियामक इति नाति प्रसंग इति वाच्यं | व्याप्यव्यापकभावाति रिक्तसामान्यविशेषभावाभावेन वह्नि न जानामीति धूमावरकाज्ञानानुभवप्रसंगात् तस्माद्यदवछिन्नमज्ञानं प्रकाशते तदावृतमिति प्रकाशमानेप्यज्ञानं युज्यते प्. १७५अ) अज्ञानं च यथा साक्ष्यं शंविहाय चैतन्यमावृणोति | एवमानदमपि तत्तत्सुखतिततत्सुखरूपकृतिकवली || स्वरूपप्रकाशस्यावरणाविरोधित्वे हेत्वंतरमाह | त्वदुक्तमिति | एवकारानंतरमाप्रोक्तार्थ इति शेषः | श्रीकृष्ण एव वेदांतवेद्यः परमात्मा दुर्विज्ञेयोयमकृतात्मभिरित्याप्तोपदेशानंतरं मंदस्य वाक्यार्थबोधो न भवति स च मंदस्त्वदुक्तमर्थं न जामीत्यज्ञानमनुभवतीति प्रसिद्धं लोके तत्र त्वद्वाक्यस्यास्ति कश्चिदर्थ इति ज्ञानामि | आप्तवाक्यत्वाद्विशेषं तु न जानामीति व्यवहारदर्शनादवगतो यस्त्वद्वाक्यार्थ त्वलक्षणस्सामान्याकारस्स एव व् इशेषावरकाज्ञानस्य विषयतया प्रकाशते | तथा च त्वदुक्तमर्थं न जानामीत्यनुभवे अज्ञानविशेषणतया प्रकाशमान सामान्याकारस्यावरणविषयत्वाभावादावरणविषयस्य विशेषस्य प्रकाशमानत्वाभावात् | प्रकाशमानस्यावृतत्वेनायमनभवाः | शंककारस्यावरणविषयत्वाभावादावरणविषयस्य विशेषस्य प्रकाशमानत्वाभावात् | प्रमाणमिति शंकते | न च तत्रेति | अन्यावारकाज्ञानस्यान्यावछेदेन प्रकाशाभ्युपगमे चैत्रं न जानामीत्यनुभूयमाना ज्ञानस्य विष्णुमित्रविष्यकत्व प्रसंग इति दूषयति | अन्यावरणस्येति | ननु त्वद्वाक्यार्थ
278 SK प्. १७५ब्) त्वलक्षण आकारस्तावत्सामान्यरूपः आप्तौपदिष्टे श्रीकृष्ण इवत्वदुपदिष्टेषु श्रीकृष्ण प्रतिपत्युपायेष्वपि त्वद्वाक्यार्थत्वस्य सत्वात् | वेदांतवेद्यत्वादि लक्षणाकारस्तु विशेषरूपः तस्य श्रीकृष्णस्वरूपमात्र वृतित्वा तथा च विशेषावरकाज्ञानं सामान्याकारोवछेदेन प्रकाशत इत्युपगमेनाति प्रसंगः | चैत्रत्व विष्णुमित्र त्वयोस्सामन्यविशेषभावाभावादिति शंकते | न च सामान्येति | किं सामान्यै विशेषभावाः श्रीकृष्णमूर्तित्वविष्णुमूर्तित्वयोरिव व्याप्यव्यापकभावः | तदतिरिक्तो वा न द्वितीयस्तस्यानिरूपणादित्याशयेनाह | व्याप्येति | आद्ये दोषमाह | वह्निमिति | तस्मादज्ञानानुभवे अज्ञानविशेषणतया यद्वप्रकाशते तदेवावरणविषय इति वक्तव्यं नवत्वदुक्त न जानामीति | ज्ञानस्यत्वदुक्तार्थ प्रकारकत्वे सत्यज्ञानविशेष्यकत्वेन त्वदुक्तार्थोविशेषणरूप एवेत्युपगमे तद्ज्ञानस्य विशेषणज्ञानरूपकारणस्याभावातद्विशिष्टाज्ञात्वानुभवो न स्यादिति वाच्यमज्ञानुभवस्य नित्यसाक्षिरूपत्वोपगमेन तत्र विशेषण ज्ञानानपेक्षणान्न च प्रकाशमानत्वमावृतत्वं च विरुद्धं प्रकाशस्यावरणविरोधित्वादिति वाच्य | विरोधस्य प्रागेव परिहृतत्वादित्याशयेनोपसंहरति | तस्मादिति अन्यावरकाज्ञानस्यान्यावछिन्नतयाभाना संभवादित्यर्थः | यदवछिन्नमिति | येन वस्तुनाविशेषितमित्यर्थः प्. १७६अ) नन्वानंदस्यावृतत्वे विषयसंपर्कदशायां विशिष्यानंद प्रकाशीनस्यादित्यत आह | अज्ञानं चेति | कवलीकृतं विहायै वा वृणोति ||
279 SK स एष वैषयिकानंदस्यावरणाभिभवः स चावरणाभिभवः प्रत्यूषसमये बाह्यावरणाभिभववत् कारणविशेष प्रयुक्तवृतिविशेषवशातरतमभावेन भवति | अतः स्वरूपानंदविषयानंदयोर्विशयानंदानां च परस्परं भेदसिद्धिरिति वदंति | सर्वथ्यापि साक्षिचैतन्यस्यानावृतत्वादावरणाभिभवार्थं वृतिमनपेक्ष्यैव तेनाहंकारादि प्रकाशनमिति तुल्यमेव | नन्वेवं कथमहंकारादीनामनुसंधानं ज्ञानसूक्ष्मावस्थारूपस्य संस्कारस्य ज्ञाने सत्ययोगेन नित्येन साक्षिणा तदाधानासंभवात् || ननु वृतेरावरणाभिभावकत्वोपगमादज्ञानस्य सुस्ववृतिविषयीकृतानंदानावरकत्वमिति कथमुच्यते तत्राह | स एष इति | सुखवृतिविषयत्वप्रयुक्तानावरकत्वस्वभाव एव वृतिकृतावरणाभिभव इत्यर्थः | ननु सुखरूप वृतेरेकरूपत्वात् | तत्कृता वरणाभिभवोप्येकरूप एव स्या तथा च विषयसंबंधदशायामानंदोप्येकरूपतयैव
280 SK प्. १७६ब्) प्रकाशेतनतूत्कृष्टापकृष्टरूपेणेत्विनेत्याह | स चेति | यथा प्रत्यूषसमये आलोकतारतम्येन बाह्यतमस्तारतस्ययुक्ताभिबवो भवति ततश्च तत्तत्तमसावृतानां पदार्थानां तारतम्ययुक्तं प्रकाशनं भवति | एवं विषयविशेषरूपकारणविशेषप्रयुक्तोयो वृतिषुविशेषः उत्कर्षतारतम्यरूपस्तद्वशातारतम्यभावप्रयुक्त एव आवरणाभिभवोभवति | ततश्चानंदोपि तरतमभावयुक्त एव प्रकाशत इत्यर्थः | एवमप्यानंदस्यैकत्वाभ्युपगमा तद्भेदप्रथाकथं सिद्ध्यति तत्राह | अत इति वस्तुत एकस्मिन्नप्यानंदे उपाधिप्रयुक्त भेदाभ्युपगमादित्यर्थः | तथा च विद्यया आवरण निवृतौ सत्यां प्रकाशमानानंदः स्वरूपानंदस्तदनिवृतिदशायां वृतिसंबंधात् प्रकाशमानानंदो विषयानंद इति स्वरूपानंदविषयानंदयोर्भेदो ज्ञातव्यस्तथा वृतिभेदेनानंद भेदाभ्युपगमाद्विषयानंदानां परस्परं भेद प्रसिद्धिश्चावकल्प्यत इत्यर्थः | अहंकारादीनां केवल साक्षिभास्यत्वं परमप्रकृतं सिद्धमित्याशयेनाह | सर्वथापीति | स्वरूपानंदस्यानावृतत्वपक्षे तस्यावृतत्वपक्षे चेत्यर्थः | तेनेति | साक्षि चैतन्येनेत्यर्थः | ननु सिद्धांते संस्कारस्यानुभवताशरूपत्वोपगमेन संस्कारार्थं साक्षि चैतन्यस्याहंकारादि गोचरवृत्यपेक्षास्त्येवेति शंकते | नन्वेवमिति | प्. १७७अ) अहंकारादि साक्षिणो वृत्यनेपेक्षत्वे सतीत्यर्थः | अनुसंधानं स्मृतिः तदाधानेति संस्कारोत्पादनेत्यर्थः | तदाधानासंभवे हेतुमाह | ज्ञानसूक्ष्मावस्थारूपस्येत्यादिना | ननु यदि साक्षि चैतन्यस्थिति दशायां तत्यूक्ष्मावस्यारूपसंस्कारोन्यन्ययोगस्तर्हि तत्राशदशायां तदुत्पतिरस्तुनेत्याह | नित्येनेति | तथा चाहंकाराद्यवछिन्नसाक्षिचैतन्यस्यानावृतत्वेन तदभिभवार्थं वृत्यनपेक्षणेपि संस्कारार्थं तदपेक्षा सत्वात्केवलसाक्षिभास्यत्वमहंकारादीनामिति सिद्धांतव्याकोप इति भावः ||
281 SK अत्र केचिदाहुः स्वसंसृष्टेन साक्षिणासदाभास्यमानोहंकारस्तततदघटादिविषयवृत्याकारपरिणतु स्वावछिन्नेनापि साक्षिणाभास्यत इति | तस्यानित्य त्वात् संभवति संस्काराधानं घटादौ विषय इव न हि स्वाकारवृत्यवछिन्न साक्षिणैव स्वगोचरसंस्काराधानमिति नियमोस्ति | तथा सति वृतिगोचरसंस्कारासंभवेन वृतेरस्मरस्मरण प्रंसंगात् | अनवस्थापत्यावृतिगोचरवृत्यंतरस्यानुव्यवसायनिरासेन निरस्तत्वात् | किं तु यद्वृत्यवछिन्नचैतन्ये प्. १७७ब्) यत्प्रकाशते तद्वृत्यातद्गोचरसंस्काराधानमित्येव नियमः || अहंकारादि गोचरवृतिं विनैव संस्कारोपपतेर्न सिद्धांतविरोध इति समाधत्ते | अत्र केचिदाहुरिति | स्वयदद्वयमहंकार परंस्वसंसृष्टेनेत्यादिनाभास्यत इत्यंतेन ग्रंथेन अहंकारस्य यथाहंकारावछिन्न साक्षिभास्यत्वं तथा घटपटादिविषय गोचरवृत्यवछिन्नसाक्षिभास्यत्वमप्यस्तीति दर्शितं भवति | ततः किं तत्राह | तस्येति | घदादिगोचरवृत्यवछिन्नसाक्षिचैतन्यस्यानित्यत्वात् | तेन यथा घटादौ विषये सस्काराधानं संभवति | तथा तेनैव वृत्यवछिन्न साक्षिचैतन्येनाहंकारादावपि संस्काराधानं संभवतीति नाहंकारगोचरवृत्यपेक्षेतिभावः | नन्वहंकारव्यतिरिक्तेषु घटादिषु सर्वत्रस्वाकारवृत्यवछिन्नचैतन्येनैव घटादिगोचरसंस्काराधान दर्शनात्स्वगोचरवृत्यैव स्वगोचरसंस्काराधानमिति नियमोवसीयते | तथा चाहंकारमात्र एव कथमन्यगोचरवृत्यातदाधानमित्याशंक्याह | नहीति | तथा नियमे मानाभावादप्रयोजकत्वाच्चेतिभावः | नियमाभ्युपगमे बाधकमाह | तथा सतीति | ननु ज्ञानरूपवृतेः संस्कारादि लाभाय वृतिगोचरवृत्यंतरमप्यस्तु नेत्याह | अनवस्थापत्येति | घटादि गोचरवृतिस्मरणसिध्यर्थ तद्गोचरवृत्यंतरोपगमे द्वितीयवृतिस्मरणाय तृतीयापि
282 SK प्. १७८अ) तद्गोचरावृतिर्व्यक्तव्यास्यादेवं ततद्वृतिगोचर वृत्यभ्युपगमापत्यावृत्यनवस्था प्रसज्येत | न च द्वितीयत्रितीयादि वृतीनां मध्ये कासांचिदज्ञातानामेव नाशाभ्युपगमसंभवन्नानवस्थाप्रसक्तिरितिवाच्यं | उत्पन्नायाः वृतेरवश्यज्ञातव्यत्वादन्यथा सत्यामेव घटाद्याकारवृतौ कदाचिन्मयेदं ज्ञायते न वा घटादि वृतिनाशानंतरं मयेदं ज्ञातं न वेति वा संशय प्रसंगातस्माद्वृतेरवश्यज्ञातव्यत्वं वृतेर्वृत्यावेद्यत्वपक्षे प्रापये देवानवस्थामनेनैव न्यायेन निबंधनेषुनुव्यवसायो निरस्तरं ततश्च स्वगोचरवृत्यैव स्वगोचरसंस्काराधान नियमो नास्ति वृतिष्वसंभवादित्यर्थः | नन्वन्यगोचरवृत्यान्यगोचरसंस्काराधानोपगमे घटगोचरवृत्यापटादावपि तदाधानप्रसंग इति शंकते | किंत्विति | अति प्रसंगपरिहाराय प्रयोजकमाह | यद्वृत्येति | यद्वस्तु गोचरवृत्यवछिन्न चैतन्ये यावंतः पदार्थाः प्रकाशंते तद्वस्तु गोचरवृत्या तावत्सुपदार्थेषु संस्काराधानमिति नियमे घटगोचरवृत्यवछिन्नचैतन्ये च पटादेरप्रकाशनान्नाति प्रसंगः | ननु स्वगोचरवृत्यैव स्वगोचरसंस्काराधानमिति नियम इत्येव कारार्थः || एवं च ज्ञानसुखादयोप्यंतष्करणवृतयस्तप्तायः पिंडाद्व्युच्चरंतो विस्फुलिंगा इव स्वावछिन्नेन प्. १७८ब्) वह्निनेव स्वस्वावछिन्नेनानित्येन साक्षिणाभास्यंत इति युक्तं तेष्वपि संस्काराधानं यस्तु घटैकाकारधीस्था चिद्घटमेवावभासयेत् | घटस्य ज्ञातता ब्रह्मचैतन्येनावभास्यत इति कूटस्थ दीयोक्तो विषयविशेषणस्य ज्ञानस्य विषयावछिन्न ब्रह्मचैतन्यावभास्यत्वपक्षः यश्च तत्व प्रदीपिकोक्तो ज्ञानेछादीनामनवछिन्न शुद्धचैतन्यरूपनित्यसाक्षिभास्यत्वपक्षः ||
283 SK ननु घटादिवृत्यवछिन्नचैतन्ये घटादि प्रकाशनं निर्विवादं तत्र चैतन्येहंकारस्यापि प्रकाशनं घटादिविषयवृत्याकार परिणत स्वावछिन्नेनापि साक्षिणाभास्यत इति पूर्वग्रंथे दर्शितं | तथा च घटादि वृत्याहंकारेपि संस्काराधानमस्तु तथापि घटादि ज्ञानरूपायावृतेः स्वावछिन्नचैतन्ये प्रकाशनस्यासिद्धत्वा तस्याः स्वगोचरसंस्कारजनकत्वं न स्यात् तथा सुखदुःखेछद्वेषादीमामहंकारधर्माणां घटादि वृत्यवछिन्न चैतन्ये प्रकाशन प्रसत्म भावातयातेषु संस्काराधानं न स्यान्न च सुखादिरूपवृतिषु घटादि वृत्यासंस्कारानाधानेपि सुख
284 SK प्. १७९अ) दुःखादिगोचरांतःकरणवृतिभिरेव तासु तदाधानमस्तज्ञानरूपासु घटादि वृतिषु तधानार्थं वृत्यंतरोपगम इवानवस्था प्रसक्त्यभावादिति वाच्यं | सुखदुःखादिगोचरावृतिरभ्युपगम्यमाना किं ज्ञानरूपा किं वा इछादिवृतिवत्क्रियारूपा नाद्यस्तदुत्पादककरणाभावात्मनः करणतायानिरशिष्यमाणत्वान्न द्वितीयस्तस्या अपि वृतेस्संस्काराधानाय तद्गोचर वृत्यंतरोपगमे सैवानवस्था प्राप्नोति तस्माद्ज्ञानरूपासुघटादि वृतिषु ज्ञानभिन्नासुखदुःखादि रूपवृतिषु च कथं संस्काराधानमित्याशंक्याह | एवं चेति | उक्त नियमे सतीत्यर्थः | अंतष्करणेयायावृतयः उत्पद्यंते ज्ञानरूपावातुद्भिन्नावातास्सर्वा अपि स्वस्वावछिन्नानित्यचैतन्यभास्या एव तथा च चैतन्यस्य नित्यतेपि तद्भास्यतया तदवछेदकतया चोत्पद्यमानानामहंकारधर्माणामनित्यतया ततद्धर्मविशिष्टस्य ततदवभासकस्य चैतन्यस्य नाशरूपस्तद्धर्मगोचरस्संस्कारः संभवतीति न ज्ञानसुखादिषु संस्कारानुपपतिरितिभावः | दृष्टांते स्वपदं विस्फुलिंग परं घटस्यैकस्याकार इवाकारोपस्यास्साघटैकारा सा चासौधीश्च तस्यां स्थिता चित् चिदाभासः घटाकारवृति प्रतिबिंबरूपं घटज्ञानमिति यावत् | घटमेव न घटस्य ज्ञाततामपीत्येव कारार्थः | ज्ञाततानामज्ञानविषयत्वं विषयता संबंधेन विषयनिष्टं ज्ञानमित्यर्थः | तच्च ज्ञानं विषयस्य विशेषणं ज्ञातो घट इत्यनुभवादितिभावः | नन्वनयोः पक्षयोज्ञांनेछादि प्. १७९ब्) भासकचैतन्यस्य नित्यत्वात् कथं ज्ञानेछादिषु संस्कारः न च पूर्वोक्तरोत्याज्ञानेछादि वृतीनां स्वस्वावछिन्नसाक्षिचैतन्य प्रकाश्यत्वमादापानयोरपि पक्षयोः संस्काराधानमिति वाच्यं | घटादि गोचरवृति प्रतिबिंबरूपज्ञानस्य ज्ञातता शब्दितस्यातद्वृत्यनवछिन्न ||
285 SK तयोरपि चैतन्यस्य स्वसंसृष्टापरोक्षरूपत्वाद्वृतिसंसर्गोवश्यं वाच्य इति तत्संसृष्टानित्यरूपसद्भावान्न तेषु संस्काराधानेकाचिदनुपपतिरिति | अन्ये तु सुषुप्तावविद्याद्यनुसंधानसिद्धये कल्पितामविद्यावृतिमहमाकारामंगीकृत्याहमर्थे संस्कारमुपपादयंति || विषयाधिष्ठान ब्रह्मचैतन्यभास्यत्वोक्ति विरोधा तथा द्वितीयपक्षे ज्ञानेछादि वृतीनाम नवछिन्न साक्षिभास्यत्वोक्ति विरोधप्रसंगादतः कथं तयोः पक्षयोस्तदाधानमत आह | तयोरपीति | विषयावछिन्न ब्रह्मचैतन्यस्य ज्ञातताभासकत्वमते तद्ब्रह्मचैतन्यं ज्ञातताया अपरोक्षज्ञानरूपमेवोपैयते ज्ञातोयं घट इति ज्ञातताया अपरोक्षत्वानुभवात् | अनवछिन्न शुद्धचैतन्यमपीछाज्ञानादीनामपरोक्षज्ञानरूपमेवोपेयते | इछादि वृतिनामप्यपरोक्षत्वानुभवात्
286 SK प्. १८०अ) तथा चापरोक्षज्ञानरूउप द्विविधचैतन्यस्य स्वविषयभूतैर्ज्ञानेच्छादिभिस्संसर्गोवश्यंभावी अपरोक्षज्ञानस्य स्वतादात्म्यापन्नविषयानुभवरूपत्वनियमा ततश्च स्वविषयभूतज्ञानेछादि नाशसमये ज्ञानादि विशिष्टरूपेण द्विविधचैतन्यस्यापि नाशलक्षणसंस्कारोपपतिरित्यर्थः | तयोरपीति सप्तमी चैतन्यस्येति द्विविधस्येति शेषः | तत्पदं ज्ञानेछादि रूपवृतिपरं यदि च स्वगोचरवृत्यैव स्वसंस्काराधानमवश्यं वाच्यं तदापि नानुपपतिरविद्यावृतिभिरहंकार तद्धर्मगोचराभिरहंकारादिषु संस्काराधानसंभवान्न च वृत्तिगोचरवृत्युपगमे प्रागुक्तानवस्था प्रसक्तिरिति वाच्यमविद्यावृतिनामनुभवायोग्यत्वेन तासु ज्ञानाय संस्काराय वा ज्ञानेछाद्यनुभवकालेऽविद्यावृत्यंतरानुपगमात् | न चाविद्यावृतीनामकॢप्त संस्कारजनकल्पने गौरवमिति वाच्यं | सुषुप्तौ तासाअं तद्ज्ञानकत्वस्य कॢप्तत्वादित्याशयेन मतांतरमाह | अन्ये त्विति उत्थितस्याविद्यांद्यनुसंधानसिद्धये सुप्तौ कल्पितामविद्यादि गोचरामविद्यादि वृतिमिवाहमाकारामविद्यावृतिमंगीकृत्येति वाक्यं योजनीयं यथा श्रुते सुषुप्तौ यदविद्याद्यनुसंधानं तत्सिद्धय इति भ्रांतिः स्यात् | सन्निधाना तथा सुषुप्तौ कल्पिताया एवाविद्यावृतेरहमाकारत्वमंगीकृत्येति भ्रांतिः स्यादिति बोध्यं अविद्यादीत्यादि पदं सुखसुप्त्यौस्संग्रहार्थ सुखमहम
287 SK प्. १८०ब्) स्वाप्सं न किंचिदवेदिषमिति सुषुप्तिकालीनानां सुखसुषुप्त्यविद्यादीनामुत्थानानंतरमनुसंधान दर्शना तत्कालीना विद्याद्यनुभवस्य नित्यसाक्षिरूपतया तस्याविद्यावृतिरूपावछेदकाकल्पने संस्कारासंभवेनोक्तानुसंधानाभावप्रसंगात् | नन्वज्ञानाहंकारादि गोचराविद्यावृत्युपगमे तेषां केवलसाक्षि वेद्यत्वसिद्धांतव्या कोप इति चेन्नाविद्यावृतीनां कॢप्तज्ञानकारण जन्यत्वा भावेन ज्ञानात्मकवृतित्वाभावात् | ज्ञानात्मक वृत्यनुपहित साक्षिण एवकेवल साक्षिशब्दार्थत्वांगीकारादितिभावः | अहमर्थ ग्रहणं तद्धर्माणामप्युपलक्षणं तुल्यन्यायतया बाधकाभावेन च तद्धर्मेष्वपि अविद्यावृतिभिस्संस्कारस्योपपादितत्वादिति ध्येयं || न चास्मिन् पक्षे एतावंतं कालमिदमहं पश्यन्नेवा समित्यन्यज्ञानधाराकालिनाहमर्थानुसंधानानुपपतिः | अवछेदकभेदेन सुखदुःखयौगपद्यवद्वृतिद्वय यौगपद्यस्याप्यविरोधेनान्यज्ञानधाराकालेप्यहमाकारा विद्यावृति संतानसंभवादिति | अपरे तु अहमाकारावृतिरंतष्करणवृतिरेव किं तूपासनादि वृतिवन्न प्. १८१अ) ज्ञानं कॢप्त तत्कारणा जन्यत्वात् | न हि तत्र चक्षुरादि प्रत्यक्षलक्षणं संभवति | न वा लिंगादिकं लिंगादि प्रतिसंधानशून्यस्याप्यहंकारानुसंधान दर्शनात् | नापि मनः करणं तस्योपादान भूतस्य क्वचिदपि करणत्वाकॢप्तेः | तर्ह्यहमर्थ प्रत्यभिज्ञापि ज्ञानं न स्यादिति चेन्न तस्या अहमंशे ज्ञानत्वाभावेपि ततांशे स्मृतिकरणत्वेन कॢप्तसंस्कारजन्यतयाज्ञानत्वात् | अंशभेदेन ज्ञाने परोक्षत्वापरोक्षत्ववत् | प्रमात्वाप्रमात्ववच्च ज्ञानत्वाज्ञानत्वयोरप्य अविरोधादित्याहुः ||
288 SK नन्वस्मिन् पक्षेन्यज्ञानधाराकालीनाहमर्थादिषु अहमर्थादि गोचराविद्यावृत्यसंभवेन संस्काराधानं न स्यात् धाराकाले अविद्यावृत्यंपिकारे युगपत् वृतिद्वय प्रसंगादिति शंकामनूद्यदृष्टांतेन परिहरति | न चास्मिन् पक्ष इति | अविद्यावृतिभिस्संस्काराधानपक्ष इत्यर्हः | अवछेदकभेदेनेति | शिरसि मे वेदनापादे मे सुखमित्यनुभव दर्शनादिति भावः | वृतिद्वयेति अन्यज्ञानधारा कालेपि अन्य वस्तुगोचरांतष्करणवृतिरहमर्थगोचरा विद्यावृतिश्च युगपत्प्रमातर्यवछेदकभेदेन न विरुध्यत इत्यर्थः | संतानेति | नन्वन्य प्. १८१ब्) ज्ञानधाराकाले एकैवाविद्यावृतिरिति वक्तुं शक्यते तर्दतन्नानात्वे मानाभावाल्लाघवाच्चेति चेत् | सत्यं तथाप्यंतःकरणवृतिसंतति रूपत्वाद्वारायास्तत्कालीनाविद्यावृतेरपि संतति रूपत्वं संभवतीति संभावनामात्रेण तथोक्तमत एवाह | संतानसंभवादिति | अहमर्थांशे अंतःकरणवृत्यैव संकाराधानं संभवतीति न तदंशेप्यविद्यावृतिः कल्पनीयांतःकरणवृतिसंभवे तत्कल्पनायोगात् | न चान्यज्ञानधाराकाले अहमर्थ गोचरांतःकरणवृतिर्न संभवति | सुखदुःख यौगपद्यवत् ज्ञानद्वययौगपद्यायोगादिति वाच्यं | संस्कारार्थाहं वृतेर्ज्ञानरूपत्वानुपगमादिति मतमाह | अपरे त्विति | तर्ह्यसौ वृतिर्घटादि वृतिवत् ज्ञानरूपापि स्या तथा च ज्ञानात्मक वृत्युपहित साक्षि वेद्यत्वापत्या अहमर्थस्य केवल साक्षि भास्यत्वसिद्धांत हानिरित्याशयेन शंकते | किंत्विति | परिहरति | उपासनादीति | इछादि संग्रेहार्थमादि पदं | अनुसंधानमनुभवः क्वचिदपीति वृतिज्ञानं प्रत्युपादानभूतस्यांतष्करणस्याहमाकारवृतेस्सकाशादन्यत्र क्वचिदपि वृतौ तस्य करणत्वाकॢप्तेरित्यर्थः | तर्हीति | योहं स्वप्ने साक्षाद्भगवंतं श्रीकृष्णमन्वभूवं सोहमिदानीं तं स्मरामीति प्रत्यभिज्ञा अहमर्थांशे ज्ञानं न स्यात् ज्ञानकारणा जन्यत्वादित्यर्थः | इष्टापत्यापरिहरति | नेति तर्हि प्रत्यभिज्ञानंततांशेपि ज्ञानं न स्यादेकस्यां प्रत्यभिज्ञायां
289 SK प्. १८२अ) ज्ञानत्व तदभावत्वयोर्विरोधेनायोगादित्यत आह | तस्या इति | प्रत्यभिज्ञाया इत्यर्थः | अंशभेदेनेति | विषयैक देशोत्रांशः स च प्रागेव दर्शितः | अहमंश इति | ततांश इति च | परोक्षत्वेति | पर्वतो वह्निमा नित्यनुमितेः सिद्धांते वह्न्यंशे परोक्षत्वं सन्निकृष्टपर्वतांशे त्वपरोक्षत्वमुपेयते | मत द्वय सम्मत दृष्टांतमाह | प्रमा त्वेति || इतरे त्वहमाकारापि वृतिर्ज्ञानमेव मासहंजानामित्यनुभवात् | न च करणासंभवः अनुभवानुसारेण मनस एवांतरिंद्रियस्य करणत्वस्यापि कल्पनादित्याह | एवं सति बाह्यविषयापरोक्षवृतीनामेवावरणाभिभावकत्वनियमः पर्यवसन्नः | ननु नापमपि नियमः | शुक्तिरजतस्थले इदमाकारवृतेरज्ञानानभिभावकत्वात् | अन्यथोपादानाभावे न रजतोत्पत्ययोगादिति चेत् अत्राहुः इदमाकारवृत्येदमंशाज्ञाननिवृतावपि || पूर्वोपदर्शित प्रत्यभिज्ञाया अहमर्थांशेपि ज्ञानत्वमुपेय मन्यथा हि प्रत्यभिज्ञा प्रामाण्येनांतष्करणोपहित चैतन्यरूपस्य जीवस्याहमुर्थस्य स्थापित्वसाधनं | सूत्रभाष्ययोर्दृश्यमानं विरुध्येत तथा च सूत्र
290 SK प्. १८२ब्) मनुस्मृतेश्चेति | अनुस्मृतिः प्रत्यभिज्ञा तथा च तत्सूत्रस्थं भाष्यंय एवाहं पूर्वेद्युरद्राक्षं स एवाहमद्यस्मरामीति | तथा च प्रत्यभिज्ञाया अहमंशे ज्ञानत्वाभावाभिधानमयुक्तमिति मन्यमानानां मतमाह | इतरे त्वितिति | अनुभवादिति | अहमर्थगोचरावृतौ ज्ञानत्वानुभवादित्यर्थः | मनस इति | अत एव वियत्यादे भाष्यं बुद्धेः कारणत्वाभ्युपगमादिति | अत एव च अहंकार धर्माणां ज्ञानसुखादीनां केवलसाक्षीभास्यत्वेप्यहमर्थरूपस्य मनः प्रत्यसाधारणविषयस्य सत्वान्तस्येंदियत्वं प्राणपादे चक्षुरादरिवभाष्यकारैरेव व्यवस्थापितमिति मंतव्यं | केवलसाक्षिभास्यत्वसिद्धांतोप्यंत एवाहमर्थ व्यतिरिक्ताज्ञानसुखादिमात्रविषय इत्यपि मंतव्यं ननु मनस ईद्रियत्वपक्षे रूपादौ चक्षुरादेरिव तस्याहमर्थे प्रमाणत्वं वाच्यं | तच्च न संभवति | अहमर्थस्यानावृत साक्षि चैतन्ये ध्यस्तस्या ज्ञातत्वाभावेन मनस अज्ञातज्ञापकत्वा भावादिति चेन्न | तद्वृति तत्प्रकारानुभवत्वमवाधितानुभवत्वं वा प्रमात्वमिति | मतानुरोधेनाहमाकारज्ञानस्य प्रमात्वोपपतौ तत्कारणस्य मनसोपि चक्षुरादेरिव प्रमाणत्व संभवात् इति भावः | ननु तर्ह्य परोक्षवृतीनामावरणाभिभावकत्व नियमस्याहमाकारापरोक्षवृतौ व्यभिचार इत्याशंक्यनियमस्य संकोचं दर्शयति | एवं सतीति | अहमाकारापरोक्षवृत्युपगमे सतीत्यर्थः |
291 SK प्. १८३अ) उक्तनियममप्याक्षिपति | नन्विति | इदं रजतमिति | भ्रमस्थले प्रथममिदमाकारापरोक्षवृतिरुदेति | पश्चादिदं रजतमिति भ्रमो भवति | तत्रेदमाकारायाः प्रथमोत्यत्रवृतेरज्ञाननिवर्तकत्वं | किं नास्ति | अस्ति वा आद्ये नियमस्य व्यभिचारमाह | नायमपीति यथाश्च परोक्षवृतिमात्रमज्ञाननिवर्तकमिति नियमो नास्ति अक्लमाकारवृतौ व्यभिचारात् | तथा बाह्यगोचरापरोक्षवृतिमात्रमज्ञाननिवर्तकमिति नियमोपि नास्ति | इदमांकारवृतौ व्यभिचारादित्यर्थः | द्वितीये बाधकमाह | अन्यथेति | इदमाकारवृतेरज्ञानाभिभावकत्व इत्यर्थः | इदनाकारवृतिनिवर्त्याज्ञानमन्यद्रजतोपादान भूताज्ञानमन्य तथा च न व्यभिचारः | न वा रजतोत्पत्ययोग इति परिहति अत्राहुरिति || शुक्तित्वादिविशेषांशाज्ञानानिवृतेस्तदेवरजतो पादानं शुक्तित्वाद्यज्ञानेरजताध्यासस्य तद्ज्ञानेतभावस्यानुभूयमानत्वात् अध्यासभाष्यटीकाविवरणेनुभूयमानान्वयव्यतिरेकस्यैवा- ज्ञानस्य रजताद्यध्यासौपादानत्वोक्तेः | अत एव शुक्त्यंशोधिष्टानं | इदमंश आधारः सविलासाज्ञानविषयोधिष्ठानं | अतदूपोपि तदूपेणारोप्य बुद्धौस्फुरन्नाधार इति संक्षेप शारीरके विषेचनादिति | प्. १८३ब्) अपरे त्विदं रजतमितीदमंशसंभिन्नत्वेन प्रतीयमानस्य रजतस्येदमंशाज्ञानमेवौपादानं तस्य चेदमाकारवृत्यावरणशक्तिमात्रनिवृतावपि विक्षेप शक्त्या सह तदनुवृतेर्नोपादानत्वासंभवः
292 SK शुक्तित्वादिविशेषांशावरकाज्ञानमेव रजतोपादानमित्यत्रमानमाह | शुक्तित्वाद्यज्ञान इति | नीलपृष्टत्वादिकमादिपदार्थः | रजतमेवाध्यस्यत इति | अध्यास इत्यर्थः | प्रथम तत्पदं विशोषांशपरं द्वितीय तत्पदमध्यासपरं | तत्र सम्मतिमाह अध्यासेति टीका पंचपादिका अनुभूयेमानावन्वयव्यतिरेकौ यस्येति विग्रहः | ननु पुरोवर्ति द्रव्यस्य शुक्तित्वादि विशेषरूप विशिष्टस्यैवरज्ञतकारणाज्ञा चावृतत्वाभ्युपगमे तस्यैवाधिष्ठानत्वं स्यात् | नत्विदं त्वरूपविशिष्टस्येदमंशस्य स विलासाज्ञानविषयस्यैवाधिष्ठानत्वा तथा चाधिष्ठानारोप्ययोरेक ज्ञानविषयत्वनियमाच्छुक्तिरजतमिति भ्रमाकारः स्यात् | न स्याच्चेदं रजतमिति प्रतीत्याकारः इदमंशस्याधिष्ठामत्वा भावादित्यत आह | अत एवेति | अध्यासोपादानाज्ञानविषयत्वा देवेत्यर्थः शुक्त्यंश इति | शुक्तित्व विशेषरूपेण पुरोवर्त्यवछिन्नचैतन्यमित्यर्थः | इदमंशस्याधिष्ठानत्वाभाव इष्ट इत्याशयेनाह | इदमंश इति | ननु तस्याधारत्वे आगतमेवाधिष्ठानत्वं तयोर्भेदाभावादिति
293 SK प्. १८४अ) नेत्याह | स विलासेति | विलासो रजतादि विक्षेपः विषयेत्वमावृतत्वं | अतद्रूपीपीति | तत्पदमध्यस्त रजतादि परं तथा चाध्यस्तरजताद्य भेदरहितोपि तदभिन्नत्वेन स्फुरन्नित्यर्थः | अधिष्ठानस्यैवारोपित रजततादात्म्याद्वस्तुगत्या इदमंशस्यातद्रूपत्वमिति बोध्यमस्मिन्मते | अधिष्ठानारोप्ययोरेकज्ञानविषयत्वं नास्ति | किं तु आधारारोप्येरेव तदिति न भ्रमस्य शुक्त्यंशोल्लेखापतिरितिभावः | नन्वधिष्ठानारोप्ययोरारोपे प्रकाशमानत्वस्य संभावना भाष्यटीकाविवरणादिषु समर्थितत्वा तद्विरोधत्वमाशंक्यमतांतरं तदविरुद्धमाह | अपरे त्विति | संभिन्नत्वं तादात्म्यमिति यावत् | अज्ञानमेवेति | न तु विशेषांशाज्ञानमित्येवकारार्थः | विशेषांशस्यारोपे स्फुरणाभावेन तस्याधिष्ठानत्वासंभवादिति भावः | शुक्तित्वादिरूपविशेष दर्शनस्याध्यास प्रतिबंधकत्वा तदभावविषयौ पूर्वोक्तान्वय व्यतिरेकावितिभावः | नन्विदमाकारवृत्या इदमंशाज्ञानस्य निवृतत्वात्कथं इदमंशस्याधिष्ठानत्वमत आह | तस्य चेति | इदमंशाज्ञानस्येत्यर्थः | जलप्रतिबिंबितवृक्षाधोग्रुत्वाध्यासे जीवन्मुक्तानुवृतप्रपंचाध्यासे च सर्वात्मनाधिष्ठान साक्षात्कारानंतरभाविन्यावरणनिवृतावपि विक्षेपक्तिसहिता ज्ञानमानस्योपादानत्वसंप्रतिपतेरित्याहुः | कवितार्किक प्. १८४ब्) चक्रवर्तिनृसिंहभट्टोपाध्यायास्त्विदं रजतमिति भ्रमरूपवृति व्यतिरेकेण रजतोत्पतेः | प्रागिदमाकारावृतिरेव नास्तीति तस्या अज्ञाननिवर्तकत्व सद्भावविचारं निरालंबनं मन्यंते | तथा द्विनतावद्भ्रमरूपवृतिच्यतिरेकेणेदमाकारावृतिरनुभवसिद्धा- ज्ञानद्वित्वा ननु भवात् | नाप्यधिष्ठानसामान्यज्ञानमध्यासकारणमिति कार्यकल्प्या तस्य तत्कारणत्वे मानाभावात् ||
294 SK ननु ज्ञानस्यावरणांशमात्रनिवृतिर्विक्षेपशक्त्यासहा अनुवृतिश्च क्वापि न दृष्टात आह | जलप्रतिबिंबितेति | प्रपंचेति | जीवन्मुक्तस्याप्यंतष्करणादि प्रपंच प्रतीतेस्सत्वादितिभावः | सर्वात्मनेति | रजतादिभ्रमस्थले हि सर्वात्मनाधिष्ठानसाक्षात्कारो नास्ति शुक्तित्वादि विशेषरूपेण शुक्ति साक्षात्काराभावादतस्तत्र इदमंशाज्ञाननिवृतावपि विशेषांशाज्ञाननिवृत्यभावा तस्याध्यासो पादो नत्वप्रसक्तिरस्ति प्रतिबिंबभ्रमस्थ तु जले वृक्षो नास्त्येव ऊर्ध्वाग्र एवायं वृक्ष इति सर्वात्मनाविशेषदर्शनस्य सत्वात्सामान्यांशाज्ञानं निवृतं विशेषांशाज्ञानमनिवृतमिति प्. १८५अ) विभागासंभवेन विशेषां ज्ञानमुपादानमिति वक्तुमशक्यं तस्मादत्र वृक्षाधोग्रत्वाद्यध्यासानुरोधेन एकस्यैवाज्ञानस्यावरणांश निवृतावपि विक्षेपशक्तिमदज्ञानांशानुवृतिरुपया तथा जीवन्मुक्त्यवस्थायामपि ब्रह्मतत्वसाक्षात्कारादावरणमात्र निवृतिर्विक्षेपशक्तिमदज्ञानांशानुवृतिश्च वाच्या तथा रजताध्यासस्थलेपि इदमंशाज्ञानस्य उपादानत्वं संभवतीतिभावः | एवं बाह्यगोचरापरोक्षवृतीनां सर्वासामेवावरणाभिभावकत्व नियमस्य भ्रमस्थलीयेदमाकारवृतौ या व्यभिचारशंकासा तत्रापि इदमंशाज्ञाननिवर्तकत्वस्य इदमंशावरणमात्रनिवर्तकत्वस्य वासत्वादित्युपपादनेन निरस्ता इदानीं प्रथममिदमाकारवृतिरेव भ्रमस्थले नास्ति तत्र न व्यभिचारशंका तत्समाधानं तु दूरत एव निरस्तं इत्याह | कवितार्किकेति | भ्रमरूपवृतीति | पूर्वमतद्वये इदमाकारवृतिसत्वातदभिव्यक्त चैतन्यरूपमेव शुक्तिरजतादि ज्ञानं न तु वृतिरूपमस्मिन्मते तदभावाद्वृतिरूपमेव तद्ज्ञानमिति मंतव्यं | एतच्चाग्रे स्फुटं भविष्यति | धर्मिज्ञानरूपामिदमाकारवृतिं निराकरोति | तथाहीत्यादिना | सा किमनुभवसिद्धा उतकार्यं कल्प्या अथवा सामग्री कल्प्यानाद्य इत्याह | न तावदिति ज्ञानद्वित्वेति | इदमित्येकं ज्ञानमिति ज्ञानमपरमित्यनुभवादित्यर्थः | द्वितीयं निराकरोति | नाप्यधिष्ठानेति |
295 SK प्. १८५ब्) अध्यासरूपं कार्यं स्वकारणमधिष्ठानगोचर सामान्यज्ञानमंतरेणानुपपद्यमानं सत् | तत्कल्पयति | ततश्चाधिष्ठानसामान्यज्ञानरूपा इदमाकारावृतिः सिध्यतीत्यपि न मंतव्यमधिष्ठान सामान्यज्ञानस्याध्यासकारणत्वे माना भावादित्यर्थः || न चाधिष्ठान संप्रयोगाभावे रजताद्यनुत्पतिस्तत्रमानं | ततो दुष्टेंद्रिय संप्रयोगस्यैवाध्यासकारणत्वप्राप्तेः | न च संप्रयोगो न सर्वत्र भ्रमव्यापी अधिष्ठानस्फुरणं तु स्वतः प्रकाशमाने प्रत्यगात्मन्यहंकाराद्यध्यासमपि व्याप्नोतीति वाच्यं तस्यापि घटाद्यध्यासाव्यापि त्वात् घटादि प्रत्यक्षात्प्राक्तदधिष्ठानभूतनीरूप ब्रह्ममात्रगोचर चाक्षुषवृत्यसंभवात् | स्वरूपप्रकाशस्यावृतत्वात् | आवृतानावृत साधारण्येनाधिष्ठान प्रकाशमात्रस्याध्यासकारणत्वे शुक्तीदमंश संयोगात्प्रागपि तदवछिन्न चैतन्यस्वरूपप्रकाशस्यावृतस्य सद्भावेन तदाप्यध्यासापतेः | मानाभावो सिध इति शंकते | न चेति | इदमर्थस्य चक्षुस्संप्रयोगे सति
296 SK प्. १८६अ) रजतादिरूपस्याध्यासस्योत्पतिर्नान्यथेत्यनुभवसिद्धं | तथा च उक्तान्वय व्यतिरेकाभ्यामधिष्ठान सामान्यज्ञानस्य रजतादिव्यध्यासं प्रतिकारणत्वं सिध्यति | न च उक्तान्वयादिनासंप्रयोगस्यैवाध्यासकारणत्वं सिध्यति न धर्मिज्ञानस्येति वाच्यं | तथा सति | अहंकाराद्यध्यासे संप्रयोगासंभवेन व्यभिचारापतेरतस्संप्रयोगस्याध्यासं प्रतिकारणत्वग्राहकाभ्यामेवान्वयव्यतिरेकाभ्यां शुक्तिरजताद्यध्यासस्थले धर्मिज्ञानस्यैव संप्रयोग साध्यस्य कारणत्वं कल्पते तथा चाधिष्ठान सामान्यज्ञानस्याध्यासकारणत्वे उक्तान्वय व्यतिरेकौ प्रमाणं भवत एवेति गूढाभिसंधिः | अभिसंधिमज्ञात्वा दूषयति | तत इति | उक्तान्वयादित इत्यर्थः | संप्रयोगमात्रस्य प्रमास्थलसाधारणत्वादृष्टेत्युक्तं | धर्मि ज्ञानकारणवादीस्वाभिसंधिमाविष्करोति | न च संप्रयोग इति | अधिष्ठान सामान्यज्ञानस्य संप्रयोगस्येव न व्यभिचार इत्याह | अधिष्ठान स्फुरणं त्विति | संप्रयोग वैलक्षण्यार्थस्तु शब्दः | अधिष्ठान स्फुरणं कर्तृ शुक्तिरजताद्यध्यासमिवाहंकाराद्यध्यासमपि व्याप्नोतीत्यर्थः | स्वत इति बाह्य चैतन्यस्यावृतत्वाद्वृति कृतं तत्राधिष्ठान स्फुरणं साक्षि चैतन्यस्यानावृतत्वादहंकाराद्यध्यासे स्वप्न प्रपंचाद्यध्यासे च तत्स्वतस्सिद्धमित्यर्थः | अधिष्ठान सामान्यज्ञानस्यापि व्यभिचारमाह
297 SK प्. १८६ब्) तस्यापीति | उक्तज्ञानं तच्छब्दार्थः घटाद्यध्यासव्यापित्वा भावादित्यर्थः | तथा च धर्मिज्ञानं नाध्यास कारणमितिभावः | अव्यापित्व शब्दितं व्यभिचारमुपपादयति | घटादीत्यादिना | घटाद्यध्यासस्थले शुक्तिरजताद्यध्यासस्थल इव किं वृतिकृतमधिष्ठान स्फुरणमहंकाराद्यध्यासस्थल इव स्वतस्सिद्धं वा नाद्य इत्याह | घटादि प्रत्यक्षादिति | तत्पदं घटादि परं न द्वितीय इत्याह | स्वरूपेति | नन्वधिष्ठान प्रःकाशमात्रं अध्यासे कारणं लाचदान्नत्वभिव्यक्ताधिष्ठान प्रकाशस्तथा च सन् घटस्सन् | पट इत्यादि रूपेष्वध्यासेषु घटाद्यधिष्ठानस्य सद्रूपस्य ब्रह्मणस्स्वप्रकाशत्वादधिष्ठान प्रकाशमात्रं तत्राप्यस्तीति न व्यतिचार इत्याशंक्याह | आवृतानावृतेति | तदापीति | संप्रयोगात्प्राक्कालेपीत्यर्थः || नवाध्यास सामान्येधिष्ठान प्रकाशसामान्यं हेतुः | प्रातिभासिकाध्यासेभिव्यक्ताधिष्ठानप्रकाश इति नाति प्रसंप्रसंगः सामान्ये सामान्यस्य विशेषे विशेषस्य हेतुत्वौ चित्यादिति वाच्यं | एवमपि प्रातिभासिक शंखपीतिमकूपजलनैल्पाद्यध्यासा व्यपनात् | रूपानुपहित चाक्षुष प्रत्यया प्. १८७अ) योगेन तदानी शंखादिगतशौक्ल्योपालंभाभावेन चाध्यासात्प्राक् शंखादिनीरूपाधिष्ठानगोचरवृत्यसंभवात् ||
298 SK धर्मिज्ञानकारणवादीशंकते | न चाध्यास सामान्य इति | प्रातिभासिकेति | अभिव्यक्ताधिष्ठान स्फुरणं प्रातिभासिकाध्यासेष्वेवकारणमाचार्याणामभिप्रेतं तेष्वेव दोषसंप्रयोगसंस्काररूपकारणत्रय जन्यताया अध्यासटीकाविवरणादिषु व्यवस्थापितत्वेन संप्रयोगकारणताग्राहक प्रमाणलभ्याधिष्ठानापदोक्षस्य तेष्वेव कारणत्व सिद्धेरित्यर्थः | प्रकाशपदानंतरं हेतुपदमनुषंजनीयं नाति प्रसंग इति | न संप्रयोगात्प्राक् रजताद्यध्यासप्रसंग इत्यर्थः | रजताद्यध्यासस्य प्रातिभासिक त्वेन तदधिष्ठानापरोक्षाय संप्रयोगाधीनवृतेरपेक्षितत्वादिति भावेः औचित्यादिति | तथा च धर्मिज्ञानस्याध्यासकारणत्वे संप्रयोगकारणता ग्राहकान्वयादेः प्रमाणस्य सत्वात बाधकाभावाच्च तस्याध्यासकारणत्वसिद्धाविदमाकारावृतिस्सिद्धेतिभावः | अभिव्यक्ताधिष्ठान प्रकाशस्य प्रातिभासिकाध्यासेष्वपि सर्वत्रव्याप्तिनीस्तीति कविता किं कमतानुवंती दूषयति | एवमपीति | अधिष्ठानापरोक्षस्य प्रातिभासिकाध्यासमात्र हेतुत्वे स्वीकृतेपीत्यर्थः | धर्मिज्ञानकारण वा देहि प्रथममिदमित्येवमाकारावृतिरुदेति
299 SK प्. १८७ब्) तया च वृत्या अभिव्यक्ते शंखजलाद्यवछिन्नचैतन्येपित नीलरूपादेरध्यास इति प्रक्रिया तथा च तत्रेदमाकारावृतिः किं शंखादिद्रव्यमात्रं विषयी करोति किं वा रूपविशिष्टं द्रव्यं नाद्य इत्याह | रूपानुपहितेति | रूपाविषयक द्रव्य चाक्षुषवृतिर्न संभवति इतरथा वाग्वादेरपि चाक्षुषत्वापतेरिति भावः | द्वितीयेपि किं शुक्लरूपविशिष्टं द्रव्यं विषयी करोति किं वा आरोप्यरूपविशिष्टं | न द्वितीयः आरोप्यरूपविशिष्टशंखादि वृतेरेवभ्रांतित्वेन तस्याः धर्मिज्ञानत्वा भावात् | नाद्य इत्याह | तदानीमिति | अध्यासात्पूर्वकाले इत्यर्थः | तदानीं शौक्ल्योपलंभे चाध्यासाभाव प्रसंगादिति भावः असंभवादिति | तथा चाभिव्यक्ताधिष्ठान स्फुरणस्य तत्रासंभवाद्व्यभिचारेण धर्मिज्ञानं नाध्यासकारणमितिभावः | नन्वध्यासात्पूर्वं द्रव्यमात्ररूपेण शंखादिगोचर चाक्षुषवृतिरुदेत्येव द्रव्यगोचरचाक्षुषवृतौ रूपविषयकत्वनियमस्या प्रयोजकत्वान्न चैवं वाप्वादेरपि चाक्षुषत्वप्रसंगः द्रव्यचाक्षषे द्रव्यगतोद्भूतरूपस्यतियामकत्वादध्यासात्पूर्वकाले द्रव्यग्रहणेपि शुक्तित्वादेरिव दोषबलात्सन्निकृष्टस्यापि शुक्लरूपमात्रस्याग्रहणोपपतेश्च | तदुक्तं भामत्यां || प्. १८८अ) न च प्रातिभासिकेष्वपि रजताध्यासमात्रे निरुक्तो विशेषहेतुरास्तामिति वाच्यं | तथा सति संप्रयोगात्प्राक्पीत शंखाद्यध्यासाप्रसंगायतदध्यासे दुष्टेंद्रिय संप्रयोगः कारणमित्यवश्यं वक्तव्यतया तस्यैव सामान्यतः प्रातिभासिकाध्यासमात्रे लाघवान् कारणत्वसिद्धौ तत एव रजताध्यासकादाचित्कत्वस्यापि निर्वाहादधिष्ठान प्रकाशस्य सामान्यतो विशेषतौ वा ध्यासकारणत्वस्यासिद्धेः ||
300 SK शंखं च दोषाछादित शुक्लिमानं द्रव्यमात्रस्वरूपं गृहीत्वेति शुक्लिमाशुक्लरूपमित्यर्थः | अस्तु वा तत्र शुक्लरूपविशिष्टशंखादि ग्रहणे तथापि नाध्यासानुपपतिः दोषबलेन रूपगत शुक्लतर्ज्जातिग्रहणप्रतिवद्धं मात्रेणापि तदुपपतेस्तथा च प्रातिभासिकाध्यासेषु अभिव्यक्ताधिष्टान स्फुरणस्य व्यभिचाराभावाद्धर्मिज्ञानरूपा इदमाकारावृतिस्सिद्धा भवति | तत्सिद्धौ च तस्यामावरणनिवर्तकत्व सदसद्भाव चिंतासालंबनैवाचार्याणां न निरालंबनेति चेत्सत्यमस्मिन्मते अयमेवास्वरसः उपाध्यायामन्यंतै इत्यनेन सूचिते | पीतशंखादिभ्रमस्थले वस्तुतो व्यभिचारा भावेपि प्. १८८ब्) तमभ्युपगम्यधर्मिज्ञानकारणवादी शंकते | न च प्रातिभासिकैष्वपीति | निरुक्त इति व्यक्ताधिष्ठान प्रकाश इत्यर्थः | तथा सतीति | पीतशंखाद्यध्यासेषु अभिव्यक्ताधिष्ठानप्रकाशस्य हेतुत्वानुपगम इत्यर्थः | अधिष्ठानापरोक्ष्यवत्संप्रयोगस्यापि पीतसंखाद्यध्यासेषु कारणत्वानुपगमे संप्रयोगात्प्रागपि पीतशंखाद्यध्यासप्रसंगः अतस्तत्परिहाराय तत्र संप्रयोगस्य कारणत्वमवश्यं वाच्यंमित्यर्थः | ततः किं तत्राह | तस्यैवेति | दुष्टेंद्रिय सप्रयोगस्यैवेत्यर्थः | सामान्यत इत्युक्तं सामान्यमेव दर्शयति | प्रातिभासिकाध्यासमात्र इति | प्रातिभासिकाध्यासत्वमेव दुष्टेंद्रिय संप्रयोगकार्यतावछेदकं लाघवान्नतु पीतशंखाद्यध्यासत्वं गौरवादित्यर्थः | ततोपि किं तत्राह | तत एवेति संप्रयोगात् | प्राक्पीतशंखाद्यध्यासप्रसंगपरिहाराय तत्र सामान्यत सूकॢप्तात् दुष्टेंद्रिय संप्रयोगादेवेत्यर्थः | कादाचित्कत्वस्यापीति | सदा रजताद्यध्यासपरिहारायाभिव्यक्ताधिष्ठान प्रकाशस्य रजताद्यध्यासकारणत्वं वाच्यं | तथा सति शुक्त्यवछिन्नचैतन्यरूपस्याधिष्ठान प्रकाशस्यावृततया सदा तदभिव्यक्तेरभावेन सदारजताद्यध्यासप्रसंगपरिहारोपपतेरिति हि धर्मिज्ञानकारणवादिनस्तवाभिप्रायः स चाति प्रसंगपरिहारः पीतशंखाद्यध्यासस्थले
301 SK प्. १८९अ) कॢप्तात्संप्रयोगादेव लभ्यत इत्यर्थः | सामान्यत इति | अधिष्ठान प्रकाशमात्र मध्यासमात्रे कारणमभिव्यक्ताधिष्ठान प्रकाशः | प्रातिभासिकाध्यासैकारणमिति | पूर्वोक्तकार्यकारणभावद्वयमपि न सिध्यतीत्यर्थः | ननु तस्यैव सामान्यतः प्रातिभासिकाध्यासमात्रे लाघवात्कारणत्व सिद्धावित्ययुक्तमहंकाराद्यध्यासे साक्षि चैतन्ये स्वप्नाध्यासे च संप्रयोगासंभवेन व्यभिचारान्न चाहंकाराद्य || ननु च सादृश्यनिरपेक्षे ध्यासांतरेऽकारणत्वेपि तत्सापेक्षे रजताद्यध्यासे रजतादि सादृश्यभूतरूपविशेषादि विशिष्टधर्मिज्ञानरूपमधिष्ठान सामान्यज्ञानं कारणमवश्यं वाच्यं दुष्टेंद्रिय संप्रयोगमात्रस्य कारणत्वे शुक्तिवदिंगालेपि रजताध्यासप्रसंगात् | न च सादृश्यमपि विषयदोषत्वेन कारणमिति वाच्यं | विसदृशेपि सादृश्यभ्रमे सत्यध्यास सद्भावात् | जलधि सलिलपूरे दूरे नीलशिलारोप दर्शनात् || भ्यासस्य व्यावहारिकत्वमते तत्र व्यभिचारो न दोष इति वाच्यं | तथापि तत्प्रातिभासिकत्वमते दोष
302 SK प्. १८९ब्) परिहारा संभवात् | साक्षिणि स्वप्नाध्यासे प्रातिभासिकत्वस्य संप्रतिपन्नतया तत्रोक्त व्यभिचारस्य दृढत्वाच्च | न च स्वप्नाध्यासेभिव्यक्ताधिष्ठान स्फुरणं कारणमन्यथा स्वप्नप्रपंचस्यापरोक्ष्याभावप्रसंगात् | बाह्यप्रातिभासिकाध्यासेषु तु दुष्टेंदिर्य संप्रयोगः कारणमिति न तस्य व्यभिचार इति वाच्यं | प्रातिभासिकाध्यासमात्रेत्वदुक्त लाघवेनाभिव्यक्ताधिष्ठान प्रकाशस्य कारणत्वौचित्यात् | बाह्याध्यासेषु संप्रयोगस्याधिष्ठन चैतन्याभिव्यंजक वृत्युत्पादकतया चारित्यार्थ्य संभवाच्च पीतशंखाद्यभ्यासस्थलेपि अधिष्ठान चैतन्याभिव्यंजकवृति संभवस्य दर्शितत्वाच्चेति चेत्सत्यं सूक्ष्मदृष्ट्याविचार्यमाणो एवमेव स्थूलदृष्ट्या तु संप्रयोगस्य लाघवात्प्रातिभासिकाध्यासमात्रे कारणत्वमुक्तमिति मंतव्यं शुक्तिरजताद्यभ्यासात्प्रागिदमाक्यरवृतिसिद्धय प्रकारांतरेण धर्मिज्ञानस्य कारणत्वं शंकते | ननु च सादृश्येति अध्यासांतर इति पीतशंखाद्यध्यास इत्यर्थः | शंखादेः पीतरूपादेश्च सादृश्या भावादिति भावः | तत्पदं सादृश्यपरं रजतादिना सह शुक्त्यादेः सादृश्यभूतो यो रूपविशेषादिस्तद्विशिष्टधर्मीत्यर्थः | स्थाण्वादौ पुरुषाद्यध्यासापेक्षितमूर्धत्वादिकमादि शब्दार्थः | संप्रयोगमात्रस्येति | सादृश्यानपेक्षायामिति मात्र शब्दार्थः | अग्निदग्धं नील
303 SK प्. १९०अ) रूपवत्कापृमिंगाल शब्दार्थः | नन्वपेक्षितमपि सादृश्यं स्वरूपसदेवाध्यासकारणं तावता उक्ताति प्रसंगनिरासान्न ज्ञातं स तत्कारणं तथा च न धर्मिज्ञानस्य कारणत्वसिद्धिरिति मत्वाशंकते | न च सादृश्यमिति | स्वरूप स तत्कारणत्वे सादृश्यभ्रमादध्यासो न स्यात् | सादृश्यभ्रमस्थले सरूप स तस्सादृश्यस्याभावात् | अतस्सादृश्यज्ञानं भ्रमप्रमासाधारणमध्यासकारणं वाच्यमिति तद्विशिष्टधर्मिज्ञनसिद्धिरिति धर्मिज्ञानकारणवादीपरिहरति | विसदृशेपीति | तत्रोदाहरणमाह | जलधि सलिलपूर इति प्रवाहः पूरशब्दार्थः जलस्य वस्तुतः शुक्लरूपत्वान्नीलशिलातल सादृश्यं नास्ति | अतस्सादृश्य भ्रमान्नीलशिलातलत्वारोप इति भावः || न च तद्धेत्वोरेवेति न्यायात् सादृश्य ज्ञानसामग्र्ये वाध्यासकारणमस्त्विति युक्तं | ज्ञानसामग्र्या अर्थकारणत्वस्य क्वचिदप्यदृष्टेः ततः सादृश्य ज्ञानत्वस्यैव न लघुत्वाच्च न च स्वतः शुभ्रेपि शुभ्रकलधौत भृंगारगतेपि स्वच्छे जलेंपवनैल्याध्यासः | न मुक्ताफल इति व्यवस्थावद्धस्तु स्वभावादेवशुक्तौ रजताध्यासोनेंगालादोविति व्यवस्था न तु सादृश्य ज्ञानपेक्षणादिति वाच्यं | स्वतः प्. १९०ब्) पटखंडेपुंडरीक मुकुलुत्वानध्यासेपि तत्रैव कर्तनादि घटित तदाकारे तदध्यासदर्शनेन तदध्यासस्यनुस्तु स्वभावमननुरुध्य सादृश्यज्ञानभावाभावानरोधित्व निश्चयात् | अन्यथान्यदापि तत्र तदध्यास प्रसंगात्
304 SK ननु धर्मिज्ञानकारणतापक्षेपि तत्सामग्रीत्वेन दुष्टेंद्रिय संप्रयोगो वश्यं वाच्यः | तथा च आवश्यकत्वादध्यासविशेषकारणतावछेदकं सादृश्यज्ञानसामग्रीत्वमेव न तु सादृश्यज्ञानत्वं | ततश्च न धर्मिज्ञानसिद्धिरित्याशयेन इंगाले रजताध्यासप्रसंगं विस्मृत्यशंकते | न च तद्वेल्लोरेवेति | तद्वेतोरेवास्तु तद्धेतुत्वं मध्ये किं तेनेति न्यायादित्यर्थः | धर्मिज्ञान वादिओतिराकरोति | ज्ञानसामग्र्या इति धर्मे ज्ञानकारणता मते हि धर्मिज्ञानं रजतादिरूपार्थोत्यतौकारणमिष्यते | तथा च तद्वेतोरेवेति न्यायेन धर्मिज्ञानसामग्रीभूतसंप्रयोगस्य कारणत्वमुच्यमानं रजताद्यर्थोत्यतावेव भवे तच्च न संभवति सन्निकर्षस्य ज्ञान इव विषयोत्पतौकारणतायाः क्वचिदप्य कॢप्तत्वादित्यर्थः | तत इति | सादृश्यज्ञानसामग्रीत्वापेक्षया सादृश्यज्ञानत्वस्यैवकारणतावछेदकत्वे लाघवादित्यर्थः | तथा च धर्मिज्ञानसिद्धिरितिभावः | सादृश्यज्ञानस्याध्यासविशेषे कारणत्वाभावेपि व्यवस्थासंभवाअन्न धर्मिज्ञानसिद्धिरिति मत्वा पुनः शंकते | न च स्वत इति | जलस्य मुक्ताफलस्य च नैलोन
305 SK प्. १९१अ) सादृश्याभावे समानेपि | जल एव नैल्याध्यसो दृश्यते न मुक्ताफल इति व्यवस्थायां जलदिवस्तु स्वभाव एव हेतुर्नान्य इत्यर्थः | ननु पत्रगतनैल्यसन्निधानं जले तदध्यासे नियामकं न स्वभाव इत्यत आह | शुभ्रकलधौतेति | निर्मलसौवर्णपात्रविशेषगतेपीत्यर्थः | नन्वेवमपि जलगतनीलरूपवत् द्रव्यसंसगीत् त्वत्रैवतदध्यास इति नेत्याह | स्वतः शुभ्रेपीति जलविशेषणं स्वतः शुभ्रपदव्याख्यानं स्वछ इति पदं | एवं क्वचित्स्वभावस्यैवाध्यासप्रयोजकत्वे कॢप्ते फलितमाह | वस्तुस्वभावादेवेति | उक्तपीतशंखाध्यास इव भृंगारादि गतजलेनैल्याध्यासे सादृश्य ज्ञाना न पेक्षत्वेपि पुंडरीकमुकुलत्वाध्यासे तदपेक्षाया अन्वयव्यतिरेक सिद्धत्वेन | तद्वच्छुक्तिरजताध्यासेपि सादृश्यभानभावाभावाभ्यासेवव्यवस्था न तु वस्तु स्वभावादगतिकगतित्वाद्वस्तु स्वभावाश्रयणस्य | तथा च धर्मिज्ञानकारणतासिद्धिरप्रत्यूहेति मत्वादूषयति | स्वतः पटखंड इति | पुंडरीकस्य कमलस्य यामुकलत्वावस्था तस्याः अनध्यासेपीत्यर्थः | अत्रैव पटखंड एव कर्तनादिनाघटितः संपादितः तदाकारः पुंडरीकमुकमलत्वाकारौ यस्य पटखंडस्य स तथा तस्मिन्नित्यर्थः | तदध्यासेति पुंडरीकमुकुलत्वाध्यासेत्यर्थः | तदध्यासस्यानुरोधित्वनिश्चयादिति संबंध | अन्यथेति | वस्तु स्वभावस्यैव तदध्यासकारणत्व इत्यर्थः | अन्यदापीति कर्तनादिना तदाकार संपादनात् प्रागपीत्यर्थः ||
306 SK प्. १९१ब्) उच्यते | सादृश्यज्ञानस्याध्यासकारणत्व वादेपि विशेषदर्शनप्रतिबध्येषु रजताद्यध्यासेष्वेव तस्य कारणत्वं वाच्यं | न तु तदप्रतिबध्येषु पीतशंखाद्यध्यासेषु श्रसंभवात् विशेषदर्शनप्रतिबध्येषु च प्रतिबंधकज्ञानसामग्र्याः प्रतिबंधकत्वनियमेन विशेषदर्शनसामग्र्यवश्यं प्रतिबंधिका वाच्येति | तत एव सर्वव्यवस्थोपपतेः | किं सादृश्यज्ञानस्य कारणत्वकल्पनया | तथाहि | इंगालादौ चक्षुस्संप्रयुक्ते तदीयनैल्यादिरूपविशेषदर्शनसामग्री सत्वान्न रजताध्यासः शुक्त्यादावपि नालभागादिव्यापि चक्षुः संप्रयोगे तत्सत्वान्न तदध्यासः सदृशभागमात्रसंप्रयोगे तदभावादध्यासः || ननु सादृश्य निरपेक्षे ध्यासांतरे अकारणत्वेपीत्यादिना प्राप्तं सादृश्यज्ञाग्नस्याध्यासविशेषेकरणता प्रसाधनद्वाराधर्मिज्ञानस्य कारणत्वमावश्यकमिति पूर्वपक्षं कचितार्किकमतानुवर्ती निराकरोति उच्यते इत्यादिना | नत्विति पीतत्वा भावव्याप्यशंखत्ववानयं नैल्याभावव्याप्यजलत्ववदिदमित्यादिरूपविशेषदर्शना- प्रतिबध्येष्वित्यर्थः | उक्तविशेषदर्शने सत्यपि पीतः शंखः नीलं जलमित्यध्यासदर्शनादितिभावः |
307 SK प्. १९२अ) असंभवादिति | वस्तु तस्मादृश्यस्य तत्रासंभवात् | पुंडरीकमुकुलत्वभ्रमवत्सादृश्यज्ञानाननुरोधित्वाच्चेत्यर्थः | ततः किं तत्राह | विशेषदर्शनप्रतिबध्येषु चेति | प्रतिबंधकसामग्र्याः प्रतिबंधकत्वे दाहप्रतिबंधकमेकत्वोक्तौ धर्मिज्ञानसामग्री भूतसंप्रयोगस्याध्यास प्रतिबंधकत्वपंगः | तद्वारणाय प्रतिबंधकेति ज्ञानविशेषणं धर्मिज्ञनस्य चाध्यासानुगुणत्वेन प्रतिबंधकरण्यादि सामग्र्याः दाहप्रतिबंधकत्व प्रसंगः तद्धारणाय ज्ञानपदं मण्यादेः प्रतिबंधकज्ञानत्वाभावान्नाति प्रसंगः ज्ञानसामग्र्याः प्रतिबंध त्रुटज्ञानत्वाभावान्नोक्ताति प्रसंगः तथा च पक्षे साध्याभाववताज्ञानं ग्राह्याभावावगाहित्वादनुमिति प्रतिसाक्षात्प्रतिबंधकं तत्र साध्याभावव्याप्यवताज्ञानं प्रतिबंधकज्ञानस्य सामग्रीत्वे नानुमिति प्रतिबंधकमिति व्यवस्था प्रसिद्धेत्यर्थः | तत एवेति | प्रबंधकज्ञानसामग्र्याः प्रतिबंधकत्वस्वीकारादेवेत्यर्थः | किमिति | तथा च धर्मिज्ञानरूपा इदमाकारावृतिर्न सिध्यतीतिभावः | सादृश्यज्ञानस्याकारणत्वे पूर्वोक्तप्रसंगं परिहरति | इंगालादाविति | इंगालगतं नैल्यादिर्विशेषः | तद्दर्शनसामग्री च चक्षुः संयुक्तेंगालतादात्म्यरूपा तस्याः सत्वान्नास्तीति बोध्यं | नीलभागादीति | त्रिकोणभागसंग्रहार्थमादिपदं | तत्सत्वादिति | विशेषदर्शनसामग्री सत्वादित्यर्थः | नतदिति | तत्पदं रजतादिपरं | ननु यदि शुक्तिसंप्रयोगकाले रजताध्यासाभावस्तर्हि संप्रयोगोप्यध्यासकारणं न प्. १९२ब्) स्यादिति नेत्याह | सदृशभागमात्रेति | तदभावादिति नैल्यादिदर्शनसामग्र्यभावादित्यर्थः ||
308 SK तदापि शुक्तित्वरूपविशेषदर्शनसामग्रीसत्वादनध्यासप्रसंग इति | चेन्न | अध्याससमये शुक्तित्वदर्शनाभावेन तत्पूर्वं तत्सामग्र्यभावस्य त्वयापि वाच्य त्वात् | मम सादृश्यज्ञानरूपाध्यासकारणदोषेण प्रतिबंधात् तदाशुक्तित्वदर्शनसामग्र्यभावाभ्युपगमः तव तथा भ्युपगमे तु घट्टकुट्टीप्रभातवृतांत्व इति चेत् न समीपोपसर्पणानंतरं रजतसादृश्यरूपे चाकचिक्ये दृश्यमान एवं शुक्तित्वोपलंभेन तस्य तत्सामग्री प्रतिबंधकत्वासिद्धौ दूरत्वादि दोषेणप्रतिबंधाद्वा शंकते | तदापीति | सदृशभागमात्रसंप्रयोगकालेपीत्यर्थः | अनध्यासप्रसंग इति | तथा चाध्यासाभावप्रसंगपरिहाराय सादृश्यज्ञानं दोषत्वेनाध्यासकारणं बाध्यं | ततश्च उक्तदोष इय प्रतिबंधक सत्वादप्रतिबद्धाशुक्तित्वदर्शनसामग्री नास्ति अतो रजताध्यास उपपचत इति धर्मिज्ञानकारणवादिनोभिसंधिः अनध्यासप्रसंगं परिहर्तुमुभयसंमतमर्थे धर्मिज्ञानापलापीदर्शयति | नेत्यादिना | त्वयापीति सादृश्यज्ञानकारणतावादिनापीत्यर्थः | वाच्यत्वादिति | सदृशभागमात्र संप्रयोगकाले शुक्तित्वदर्शन सामग्र्यां
309 SK प्. १९३अ) चक्षुस्संयुक्त तादात्म्यलक्षणायां सत्यामप्यध्यासदर्शनेन तदनुरोधाच्छुक्तित्व रूपविशेषदर्शनसामग्र्याः प्रतिबंधको दोषो वश्यं वाच्य इति तावत् सत्यं स च दोषो न सादृश्य ज्ञानं किं तु दूरत्वादिरेवातो दोषत्वेनापि न सादृश्यज्ञानमध्यासकारणमिति | न धर्मिज्ञानसिद्धिरिति तदपलापिनोप्यभिसंधिः धर्मिज्ञानवादीस्वाभिसंधिमुद्घाटयन् आशंकते | ममेति तवेति | धर्मिज्ञानापलापे प्रवृतस्य कवितार्किकमतानुवर्तिन इत्यर्थः | सादृश्यज्ञानस्याध्यासकारणत्वं त्वदनिष्टं दूरं गतस्यापि तव प्रसज्येतेतिभावः | धर्मिज्ञानापलापवाद्यपि स्वाभिसंधिमुद्घाटयन् अनध्यासप्रसंगं परिहरति | तेत्यादिना तस्येति सादृश्य दर्शनस्येत्यर्थः | तत्सामग्रीति | शुक्तित्वदर्शनसामग्रीत्यर्थः | रजतरागादीदीषसंग्रहार्थमादिपदं | ननु दूरस्थस्यापि पुंसः कदाचिच्छुक्तौ शुक्तिप्रमायाः दर्शनेन दूरत्वस्यापि | सादृश्य ज्ञानस्येव व्यभिचारस्तुल्यः तथा रजते रागवतोपि समीपोपसर्पणानंतरं शुक्तिदर्शनेन तस्यापि व्यभिचारस्तुल्यः तथा च दूरत्वादेरपि दोषत्वं न स्यात् | यदि च क्वचिदध्यासे कदाचित् कश्चित् दोष इतिरित्यादूरत्वादेर्दोषत्वेनाध्यासकारणत्वं समर्थ्यते | तदा ज्वालादौ सादृश्य ज्ञानरूपेणैव दोषेण सेय दीपज्वालेत्यादिभ्रमस्य सर्वानुभवसिद्धतया तस्यापि कदाचिद्रजताध्यासादौ दोषत्वेन कारणत्वं दुर्वारं सादृश्य ज्ञानस्य दोषत्व भाष्यसंमतं च तथा च देवताधिकरणे भाष्यं सादृश्यात् प्रत्यभिज्ञानं प्. १९३ब्) केशादिष्विवेति | तथा बौद्धाधिकरणेपि सादृश्यनिमितं प्रतिसंधानमिति | प्रतिसंधानं प्रत्यभिज्ञानं तथा च सादृश्यज्ञानस्य दोषत्वेनाध्यासकारणत्वमत निराकरणमयुक्तमिति चेत्सत्यं तथापि स्थूलबुद्धिमाश्रित्येदमिति ध्येयं ||
310 SK व्यजकनीलपृष्टत्वादि ग्राहकासमवधानाद्वा तत्सामग्र्यभावस्य वक्तव्यत्वात् | एवं जलधिजले नियतनीलरूपाध्यास प्रयोजक दोषेण दूरे नीलत्वव्यंजकतरंगादि ग्राहकासमवधानेन च शौक्ल्य जलराशित्वादि विशेषदर्शनसामग्र्यभावाच्छिलातलत्वाद्यिध्यासः | विस्तृते पटे परिणाहरूपविशेषदर्शनसामग्रीसत्वान्नपुंडरिक- मुकुलत्वाध्यासः कर्तनादि घटित तदाकारे तदभावात् तदध्यास इति || सहकार्यभावात्सामग्र्यभावमाह | व्यंजकेति | शुक्तित्व व्यंजकेत्यर्थः ग्राहकपदं नीलभागव्यापि चक्षुस्संप्रयोगपरं | तत्सामग्रीति | शुक्तित्वविशेषदर्शनसामग्र्याभावस्योभाभ्यां वक्तव्यत्वादित्यर्थः | शुक्ति रजतभ्रमस्थलोक्त न्यायमन्यत्रापि योजयति | एवमिति सादृश्यज्ञानरूपदोषं दिनं जलराशित्वादि रूपविशेषदर्शनं च प्रतिबंधक ततः शुक्लरूपादि दर्शनसामग्र्यपि तत्र प्रतिबंधका तथा च प्रतिबंधक
311 SK प्. १९४अ) ज्ञानसामग्र्यभावादेव तत्र नीलशिलातलत्वारोपः न तु प्रथमं जले नैल्याध्यासेन सादृश्यज्ञानसंपतौ सत्यांतद्दोषान्नीलशिलातलत्वाध्यास इत्यर्थः | ननु जलधि सलिपूरे शुक्लरूपात्मकविशेषदर्शनसामग्र्यं भावो सिद्धः नीलशिलातलत्वारोपात्पूर्वकाले चक्षुः संप्रयुक्ते जले शुक्लरूपस्य तादात्म्याभ्युपगमेन चक्षुः संयुक्त तादात्म्यरूपसन्निकवस्य आलोकादेश्च सत्वा तथा जलराशित्वादि रूपविशेषदर्शनसामग्र्यभावोप्यसिद्धः | जलराशित्वव्यंजकतरंगादि प्रत्यक्षस्यापि तत्र सत्वादित्यत आह | नियतेति | जलधि सलिलं दूरे नैल्याध्यासवत्समीपोपसर्पणानंतरमपि तदध्यासो दृश्यते | अतस्तस्य नियतत्वं | एतदुक्तं भवति | शुक्लरूपात्म विना रजताध्यासवत् | नीलशिलातलत्वाद्यध्यासः संभवतीत्यर्थः | जले नीलशिलातलत्वाध्यासे हि शुक्लरूपात्मकविशेषदर्श ५९ त्रुटत्कविशेषदर्शनसामग्रीनियत नीलशिलारूपाध्यास प्रयोजकदोषेणप्रतिबद्धा अतस्सा अप्रतिवद्धा नास्ति दूरत्वदोषाज्जलराशित्व व्यंजकतरंगादेग्नीहकसमवधानं नास्ति तेन जलराशित्व रूपविशेषदर्शनसामग्री च नास्ति | तथा च द्विविध प्रतिबंधकज्ञानसामग्र्यभावाज्जलधि सलिले नीलशिलातलत्वाद्यध्यास उपपद्यत इति | अत्रेदं बोध्य जलिधि सलिलपूरे नीलशिलातलत्वारोपे उक्तविधयाविशेषदर्शनसामग्र्यभावस्यापेक्षितत्वेपि
312 SK प्. १९४ब्) न तावन्मात्रात् | तदध्यासः | किं तु जले नीलरूपाध्यासेन नीलशिलातलसादृश्य संपत्यनंतरमेव तदध्यासस्तथा च दूरे नीलशिलातलत्वाध्यासवत्वां जलधि सलिलपूरसमीपोपसर्पणानंतरं व्यवहारः अस्मिनजलधिसलिलपूरे मम दूरे नैल्यनैश्चल्यादि साम्येन नीलशिलातलत्वभ्रम आसीत् | इद्धांनी सभुमो निवृत इति | एवं तत्र तत्र सादृश्य दोषान्मम पूर्वमन्यथा भ्रम आसीत् इदानीं सनिवृत इति लोकव्यवहार एव सादृश्य ज्ञानस्य दोषत्वेनाध्यास विशेषकारणत्वसाधको द्रष्टव्य इति सादृश्य ज्ञातस्याध्यासकारणता ग्राहकान्वय व्यतिरेको दाहरणांतरमप्यन्यथयति | विस्तृत इति परिणाहो विस्तारस्तद्दर्शनं पुंडरीकमुकुलत्वाध्यासप्रतिबंधकं तत्सामग्रीसत्वादित्यर्थः || नन्वेवं करस्पृष्टे लोहशकले तदीयनीलरूपविशेषदर्शनसामग्र्यभावाद्रजताध्यासः | किं न भवेत् सादृश्य ज्ञाना न पेक्षणादिति चेत् | भवत्येव किं तु ताम्रादि व्यावर्तकविशेषदर्शनसामग्र्या अप्यभावातदध्यासेनापि भाव्यमिति क्वचिदनेकाध्यासे संशयगोचरो भवति | क्वचितुरजतप्राये कोशग्रहादौरजताध्यास एव भवति | प्. १९५अ) क्वचित् सत्यपि सादृश्य ज्ञाने शुक्तिकादौ कदाचित्करणदोषाद्यभावेनाध्यासानुदयवदध्यासानुदयेपि न हानिः तस्मान्न कार्यकल्प्येदमाकारवृतिर्नाप्यप्रतिबद्वेदमर्थ संप्रयोगकारणकल्प्या ||
313 SK सादृश्यज्ञानकारणमते हि चक्षुस्संप्रयोगस्थले चाक्षुषं सादृश्य ज्ञानं धर्मि ज्ञानत्वेन दोषत्वेन च रजताद्यध्यासोत्पतौ कारणं त्वगिंद्रिय संप्रयोगस्थेले च स्यार्शनं सादृश्यज्ञानमुक्तविधया रजताद्यध्यासोत्पतावेकारणं कवितार्किकमते तु धर्मिज्ञानप्रसंगभीत्यासादृश्यज्ञानं कुत्राप्यध्यासे कारणं नाभ्युपेयते इति व्यवस्था तथा च त्वगिंद्रियेदमर्थ संप्रयोगस्थले त्वदभिमताध्यासकारण सत्वात् स कि न स्यादिति शंकते | नन्वेवमिति | सादृश्यज्ञानं विनापि अध्यास प्रतिबंधकविशेषदर्शनसामग्र्यभावमात्रेणाध्यासोपगम इत्यर्थः | किं तत्र रजताध्यास आपाद्यते | किं वा रजताध्यास एव आपाद्यते आद्ये इष्टापतिरित्याह | भवत्येवेति | द्वितीयं शंकते | किं त्विति | तत्र विशेषदर्शनसामग्र्यभावस्य ताम्राद्यध्यास साधारणत्वाद्रजताद्यध्यास एवस्यादित्यत्रापादकं नास्तीति मत्वा परिहरति | ताम्रादीति | रंगसुवर्णशकलादि संग्रहार्थमादि पदं क्वचिदिति | करतलस्पृष्टलोह शकलस्थलेपि क्वचिदित्यर्थः | गोचर इति | लोहशकलरूपेदमर्थः |
314 SK प्. १९५ब्) किमिदं रजतं किं वा ताम्रं किं वा सुवर्णादीति संशयविषयो भवतीत्यर्थः | ताम्रादि व्यावर्तकविशेषदर्शनस्थले तु रजताध्यास एवषी भवतीत्याह | क्वचित्विति | यस्मिन् कोशग्रहादौ प्रायेण रजतशकलानामेवावस्थानं तत्र प्रविष्टस्य दैवादयः शकले करतलस्पृष्टे सति तत्र रजताध्यास एव भवति | रजतकोशग्रहमिति बुद्धेस्तस्य सत्वादित्यर्थः | ननु क्वचित्करतलस्पृष्टलोहशकले रजताध्यासाभावोपि दृश्यते | स च तवमते न संभवति | विशेषदर्शनसामग्र्यभावस्य तत्रापि सत्वेन रजताध्यासापतेरावश्यकत्वान् मम तु सादृश्यज्ञानरूपकारणाभावात् | स न भवतीति वक्तुं शक्य इत्यत आह | क्वचित्सत्यपीति | समीपोपसर्पणानंतरं सत्यपि सादृश्य ज्ञाने यथा रजताध्यासाभावः | तवमते उपेयते | तथा मम मतेपि क्वचिदध्यासाभावो न दोषावह इत्यर्थः | तस्मादिति | कथमपि धमिधर्मिज्ञानस्याध्यासकारणत्वासिद्धेरित्यर्थः | इदमाकार वृतिरनुभवसिद्धावाकार्यकल्प्यावाकारणकल्प्यावेति विकल्प त्रये प्रथमद्वितीयौ निरस्य तृतीयं निराकरोति | नाप्यप्रतिबद्धेति | इदमर्थस्य चक्षुस्संप्रयोगकाले अन्यत्र व्यासंगे सति इदमर्थगोचरज्ञानानुदयादप्रतिबद्धेति विशेषणं || प्. १९६अ) ततो भवंत्या एवेवं वृतेर्दुष्टेंद्रिय संप्रयोगक्षुभिताविद्यापरिणाम स्वसमानकाल रजतविषयत्वस्याप्यस्माभिरुच्यमानत्वात् | तत्र च ज्ञानसमानकालोत्पतिके प्रतिभासमात्र विपरिवतिनिरजतेः | तत्प्राचीन संप्रयोगाभावेपि | तत्तादात्म्याश्रयेदमर्थ संप्रयोगादेव तस्मापि चक्षुग्नी ह्यत्वोपपतेश्चक्षुषा रजतं पश्यामीति प्रातिभासिकरजतस्य स्वसंप्रयोगाभावेपि चाक्षुषत्वानुभवात् | न च स्वसप्रयोगाभावादेववाधकान्न तच्चाक्षुषं नापि दुष्टेंद्रिय संप्रयोगजन्यमिदं वृतिसमकालं | ज्ञानकारणस्येंद्रिय संप्रयोगस्यार्थकारणत्वाकॢप्तेः ||
315 SK यथोक्त संप्रयोगवशाजायमानावृतिर्भ्रांति रूपैव जायते न तु भ्रांतेः प्राचीना इदमर्थमात्रगोचरा प्रमारूपा तत्र मानाभावादित्याशयेनाह | तत इति इदमर्थावछिन्न चैतन्ये विद्यमाना रजतपरिणामिन्य विद्या दुष्टेंद्रिय संप्रयोगरूपादध्यासनिमितकारणभूतात् क्षोभं कार्याभिमुख्यं प्राप्नोति | उतरक्षणे च रजतरूपेण परिणमते दुष्टेंद्रिय संप्रयोगाद्वृतिरपि तदैव जायते | तथा प्रतिबद्धात् दुष्ट्ॐद्रिय संप्रयोगाद्भवंतीदमर्थगोचरवृतिः स्वकालोत्पन्नरजत प्. १९६ब्) विशिष्टेदमर्थं विषयी करोतीत्यर्थः | स्वपदं वृत्तिपरं धर्मिज्ञानपक्षे इदमाकारवृतिरविद्याक्षोभिका तदभावपक्षे धर्मिज्ञानहेतु संप्रयोगो विद्याक्षोभक इति विभाग इति स्थिते | तत्रांतिमपक्षो नषुक्तः | इदमर्थ संप्रयोगस्य इदमाकारवृताविवरजतगोचरवृतावहेतु त्वात् ज्ञानसमकालोत्यत्र रजतस्य ज्ञानात्पूर्वं चक्षुस्सन्निकर्षाभावाच्च | तथा च रजतगोचरवृतौ सामग्र्यभाव एव इदं वृतेर्धर्मिमात्रगोचरतां व्यवस्थापयतीत्याशंक्याह | तत्र चेति भ्रमस्थले इत्यर्थः प्रतिभासकालमात्रे विपरिवर्तिनी सता यस्य तत्प्रतिभासमात्रविपरिवर्तितस्मिन् प्रतीति व्याप्यमुताक इति यावत् | इदमर्थ संप्रयोगस्य रजतगोचरवृत्युत्पतावपि हेतुत्वं संभवति | न चान्यसंप्रयोगादन्यगोचरवृत्युपगमे घटेंद्रियसंयोगात् | पटगोचरवृत्यापतिरिति वाच्यं | स्वगोचरवृतौ स्वस्य स्वतादात्म्याश्रयस्य वा इंद्रियेण सहसंप्रयोगः कारणमिति कल्पना तावत्या उक्ताति प्रसंगपरिहारोपपतेरित्याशयेनाह | तत्प्राचीनेति | रजतप्रतिभासान्पाचीनेत्यर्थः | ततादात्म्येति | रजतस्येदमर्थे कल्पितत्वाद्रजततादात्म्याश्रयत्वमिदमर्थस्य पटतादात्म्याश्रयत्वं तु घटस्ति पटस्य तत्रा न ध्यस्तत्वादितिभावः | चक्षुः संप्रयोगानाश्रयस्यापि रजतस्य चाक्षुषवृतिविषयत्वकल्पने हेतुमाह |
316 SK प्. १९७अ) चक्षुषेति | धर्मिज्ञानवादी चाक्षुषत्वानुभवस्यान्यथा सिद्धिं वदन् | धर्मींद्रियसंप्रयोगजन्यावृतिर्धर्मिमात्रगोचरेत्याशयेन शंकते | न चेति | तद्रजतमिदं वृतिसमकालं स त दुष्टेंद्रिय संप्रयागजन्येमपि न भवतीत्यत्र हेतुमाह | ज्ञानकारणस्येति | तथा च प्रातिभासिकरजतस्य ऐंद्रियकत्वपक्षे अन्यसंप्रयोगस्यान्यगोचरवृतिजनकत्वमेकं कल्पनीयं तथा ज्ञानकारणस्य सन्निकर्षस्य रजताद्यर्थोत्पतौकारणत्वमपरं कल्पनीयमिति गौरवमिति भावः || किं त्विदं वृत्यनंतरभावितज्जन्यं | तदभिव्यक्त साक्षिण्य ध्यासात् | तद्भास्यं चाक्षुषत्वानुभवस्तु स्वभासकचैतन्याभिव्यंजकेदं वृतिजनकत्वेन परंपरया चक्षुरपेक्षामात्रेणेति | तथा सतिपीतशंखभ्रमे चक्षुरनपेक्षाप्रसंगात् | न हि तत्र शंखग्रहणे चक्षुरपेक्षा रूपं विना केवल शंखस्य चक्षुर्ग्राह्यत्वायोगात् | नापि पीतिमग्रहणे आरोप्ये ऐंद्रियकत्वानभ्युपगमात् | न च पीतिमास्वरूपतो नाध्यस्यते किं तु नयनगतपितपीतिम्नोनुभूषमानस्य शंखे संसर्गमात्रमध्यस्यत इति पीति सानुभवार्थमेव चक्षुरपेक्षेति वाच्यं ||
317 SK प्. १९७ब्) परिसंप्रयोगो न रजताद्यर्थे कारणं तर्हि किं तत्र कारणमविद्यामात्रस्य सदा सत्वेन रजताद्यध्यासस्य कादाचित्कत्वप्रतीतस्य प्रयोजकत्वानुपपतेरिति शंक्यते | किं त्विति | उतरमाह | इदं वृत्यनंतरभावीति | इंद्रियसंप्रयोगादिदमर्थमात्रगोचरवृतिरुदेति | तयाचाध्यासंप्रतिनिमित्वकारणभूतयाक्षुब्धासती | अविद्यारजताकारेण परिणमते | रजतस्य च इदमाकारवृत्यभिव्यक्तमिदमर्थावछिन्न चैतन्यमधिष्टानं | तथा च रजतं स्वगोचरवृतिं विनैव चैतन्यभास्यमहंकारादि वदित्यर्थः | तज्जन्यमित्यत्र तदभिव्यक्त इत्यत्र च तत्पदमिदं वृतिपरं तद्वृतेश्च कादाचित् कत्वात् | रजताद्यध्यासस्य कादाचित्कत्वमितिभावः | तद्भास्यमिति साक्षिभास्यमित्यर्थः | न च बाह्यचैतन्यावभास्य शुक्तिरूप्यादेरहंकारादिवत् कथं साक्षिभास्यत्वमिति वाच्यं | स्वगोचरज्ञानरूपवृत्यनुपहित चैतन्यभास्यस्यैव साक्षिभास्य शब्दार्थत्वात् | तथा च यथा अविद्याहंकार तद्धर्माणामवभासकचैतन्यमविद्यादिगोचरया ज्ञानात्मकवृत्या उपहितं न भवति | एवं शुक्ति रजतादि भासकचैतन्यमपि शुक्तिरजतादि गोचरज्ञानात्मकवृत्युपहितं न भवतीति तस्य साक्षिभास्यत्वमुक्तमिति मंतव्यं | ननु शुक्ति रजतस्य साक्षिभास्यत्वे चाक्षुषत्वानुभवविरोध इति नेत्याह | चाक्षुषत्वानुभवस्त्विति
318 SK प्. १९८अ) स्वंशुक्ति रजतं तद्भासकस्य इदमंशावछिन्नस्याभिव्यंजकामिदं वृतिस्तत्र चक्षुषो जनकत्वेन शुक्तिरजतस्य चक्षुरपेक्षावर्तते | साचापेक्षापरंपरयैव स्वाधिष्ठानगोचरवृत्यर्थमपेक्षितत्वान्नतु साक्षात्स्वगोचरवृत्यर्थमनपेक्षितत्वात् | यथा कथंचिच्चक्षुरपेक्षामात्रेण तत्र चाक्षुषत्वानुभव उपपद्यते इत्यक्षरार्थः | ननु चक्षुषारजतं पश्यामीत्यनुभवो हि रजतगतं चाक्षुषवृतिविषयत्वमवगाहतेन तु शुक्तिरजतगतं चाक्षुषवृत्यभिव्यक्तचैतन्यविषयत्वमिति वस्तुगतिः तथा च परंपरया चक्षुरपेक्षामात्रेणेति ग्रंथेन चाक्षुषत्वानुभवस्य चाक्षुषवृत्यभिव्यक्तचैतन्यविषयत्वं रजतयतं विषय इति तदनुभवस्य गतिः कल्पितेति प्रतिभाति | तदयुक्तं | शब्दवदनुभवस्य व्याख्यानानहंत्वादिति चेत् | न वस्तुत इदमर्थ गतस्येदं त्वस्य तत्रानुभूयमानस्य यथा शुक्तिरजते संसर्गारोपस्तथा इदमर्थगतस्य तत्रानुभूयमानस्य चाक्षुषत्वस्य शुक्तिरजतै संसर्गारोप इत्यस्यर्थस्य प्रकृते विवक्षितत्वात् | तथा च स्वस्मिन्नारोपणियं यच्चाक्षुषवृतिविषयत्वमिदमर्थगतं तल्लाभाय शुक्तिरजतस्य चक्षुरपेक्षा वर्तते इत्ययमर्थः परंपरया चक्षुरपेक्षामात्रेणेति ग्रंथस्य द्रष्टव्य इति न कश्चिद्दोषः | तथा सतिशंख तत्संसर्गयोरप्रत्यक्षत्व प्रसंगात् | नयनप्रदेशगतपितपीति माकारवृत्यभिव्यक्तसाक्ष्यसंसर्गेण तयोस्तद्भास्यत्वाभावात् | प्. १९८ब्) पीतिससंसृष्ट शंखगौचरैक वृत्यनभ्युपगमाच्च | न च नयनप्रदेशस्थस्य पितपीतिम्नोदोषाच्छंखे संसर्गाध्यासोनोपेयते किं तु नयनरश्मिभिः सहनिर्गतस्य विषयव्याअपिनस्तस्य तत्र संसर्गाध्यासः कुसंभारुणित इव कौसुंभ इति | संभवति | तदाकारवृत्यभिव्यक्तसाक्षिसंसर्ग इति वाच्यं ||
319 SK प्रातिभासिकरजतादेस्साक्षिभास्यत्वमेव न त्वैंद्रियकत्वमिति मतं दूषयति | तथा सतीति अधिष्ठानस्यैंद्रियकत्व लाभायैवेंद्रियापेक्षा नत्वारोप्यस्य | तदर्थमिंद्रियापेक्षेत्युपगमे सतीत्यर्थः | न हीति | इदं चापाततः पीतशंखभ्रमादि स्थलेप्यध्यास प्राचीनधर्मिगोचरचाक्षुषवृतेः प्रागुपपादि नत्वादिति मंतव्यं | नापिपीतिमग्रहण इति | चक्षुरपेक्षेत्यनुसंगः रूपं विना केवलशंखस्य चक्षुः ग्राह्यत्वायोगमुपेत्यारोपितस्य साक्षिभास्यत्ववादीशंकते | न च प्रीतिमेति | पीतरूपमित्यर्थः | यथा शुक्तौरजतं स्वरूपेणाध्यस्यते तथा शंखे पीतरूपं नाध्यस्यत इत्यर्थः | नयनगतं यत्पितं पीतरूपयुक्तद्रव्यविशेषस्तस्य यः पीतिमातस्य पितद्रव्य एवानुभूयमानस्य शंखे संसर्ग एवाध्यस्यते | यथा कुसुमादावनुभूयमानस्य लौहित्यस्य स्फटिकमण्यादौ संसर्गाध्यासस्तद्वत् |
320 SK प्. १९९अ) न चान्यगतस्यान्यत्रारोपाभ्युपगममे अन्यथाख्याति प्रसंग इति वाच्यं | अध्यस्य मानसंसर्गस्यानिर्वचनीयस्योत्पत्युपगमेनान्यथा खाति वैलक्षण्य सत्वादितिभावः | पीति मानुभवार्थमेवेति | शंखे पीतरूपसंसर्गाध्यासात्प्राचीनो यः पितद्रव्ये पीतरूपानुभवस्तदर्थमित्यर्थः | तत्र किं नयनप्रदेशगत एव पितद्रव्येपीति मानुभवः | किं वा शंखदेशं प्राप्य तत्रस्थेपितद्रव्येपीतिमानुभवः आद्यं दूषयति | तथा सतीति | नयनगत एव पितद्रव्ये पीतरूपानुभवांगीकार इत्यर्थः | शंख तत्संसर्गयोरिति | शंखस्य शंखपीतरूपयोस्संसर्गस्य चेत्यर्थः | शंख तत्संसर्गयोर्भानं किं पितिमगोचरवृत्यभिव्यक्ते न साक्षिणा किं वापीति ससंसृष्टशंखगोचरवृत्यभिव्यक्तेन साक्षिणानाद्य इत्याह | नयनप्रदेश इति | नयनप्रदेशगतपितपीतिमाकारवृत्या तत्प्रदेशस्थपीतिमावछिन्नचैतन्यमभिव्यज्यते तेन चाभिव्यक्तचैतन्यलक्षणसाक्षिणा सह शंखस्य शंखे समारोपित पीतरूपसंसर्गस्य चासंबंधाच्छंख तत्संसर्गयोरापरोक्ष्यं न स्यादित्यर्थः | न द्वितीय इत्याह | पीतिमसंसृष्टेति | अनभ्युपगमाच्चेति | साक्षिभास्यत्ववादिनेतिशेषः | शंखदेशं प्राप्तेपितद्रव्ये पीतिमानुभव इति द्वितीयं शंकते | न चेति विषयव्यापिनस्तस्येति | शंखरूपमधिष्ठानं व्याप्तस्य पितद्रव्यस्येत्यर्थः | तथा च पितपीतिमाकारवृत्याशंखदेशस्थस्यैव चैतन्यस्याभिव्यक्त्याशंख तत्सं प्. १९९ब्) सर्गयोरापरोक्ष्यं संभवतीतिभावः कुसुंभस्तु द्रव्यविशेषः तद्याप्ते पटे यथा कुंसुभे अनुभूयमानस्य रक्तरूपस्य संसर्गारोपस्तथेत्यर्थः ||
321 SK तथा सति सुवर्णलिप्त इवपितोपहतनयतेन वीक्ष्यमाणे शंखे तदितरेषां पीतिमधीप्रसंगात् | न च सपीति मासमीपे गृहीत एव दूरे गृहीतुं शक्ये विहायस्युपर्युत्यतन् विहंगम इव इतरेषां च समीपेन ग्रहणमिति वाच्यं | इतरेषामपि तच्चक्षुर्निकटन्यस्त चक्षुषांपीतिमसामीप्यसत्वेन तद्ग्रहणस्य दुर्वारत्वात् | एवमप्यति यवलसिकतामषतलं प्रवहदछनदीजल नैल्याध्यासे गगननैल्याध्यासे च रक्तवस्त्रेषु निशि चंद्रिकायां नैल्याध्यासे चानुभूयमानारोपस्य वक्तुमशक्यत्वेन तत्र नैल्यसंसृष्टाधिष्ठानगोचर चाक्षुष वृत्यनभ्युपगमे चक्षुरनुपयोगस्य दुःपरिहरत्वाच्च अनास्वादिततिक्तरसस्य वालस्य मधुरे तिक्ततावभासो जन्मांतरानुभवसंस्कारहेतुक इति प्रतिपादयतां पचपादिकाग्रंथेन स्वरूपतोध्यस्य सान प्. २००अ) स्यैवतिक्तरसस्येंद्रियकत्व स्फुटीकरणाच्च ||
322 SK नयनगपितद्रव्यस्य नयने सर्वैरनुभूयमानस्य नयनरीश्मद्वारानिर्गत्यशंखव्यापित्वोपगमे बाधकमाह | तथा सतीति | पितोपहतनयनः पुरुषः यदा शंखं पश्यति तदा तदितरेषामपिपीतः शंख इत्यनुभवप्रसंगादित्यर्थः | ननु पितद्रव्यस्य नयनप्रदेशाद्विषयदेशं प्रतिगमनावसरे पथापितोपहत नयने नयनदेशमारभ्यविषयव्याप्तिपर्यंतं पीतिमागृह्यते तथान्यैरपि नयनसमीपे मध्ये च पीति मागहीतश्चेच्छंखदेशेपि गृहितुं शक्यते नान्यथेत्यत्र दृष्टांतमाह | विहायसीति | यथा विहंगमः पक्षीगने उत्पतन् उत्पतनावसरे भूप्रदेशमारभ्य येन पुंसागृह्यते तेनैव गगनोपरिभागे दूरंगतोपि गृह्यते नान्यैस्तथा प्रकृतेपीत्यर्थः | दृष्टांत वैषम्यमाह | इतरेषमपीति | दृष्टांते हि गगनोपरिभागे दूरे विहंगमं पश्यन् कश्चिदन्यं प्रत्युपदिशति | मम चक्षुर्निकटेत्वच्चक्षुर्न्यस्तं चेत् | त्वयापि स विहंगमो द्रष्टं शक्यत इति स चान्यस्तथा कृत्वा तं पश्यति न तथा प्रकृते संभवतीत्यर्थः | अस्तु वा अनुभूयमानरोपस्थले कथंचिच्चक्षुरपेक्षास्सर्यमाणनैल्याद्यध्यासस्थले तु तदपेक्षा सर्वात्मना वक्तुमशक्येत्याह | एवमपीति | जलाधारभून्नागे वा जलमिश्रितद्रव्यविशेषे वा यदि नीलरूपमस्ति | तदा तत्रैवानुभूयमान नैल्यस्य जले ध्यास इति शंकाभवे तन्निवर्तये सिकता प्. २००ब्) मयतलस्याति धवलत्वं नदीजलस्य चाछत्वं विशेषणमुपातं | अछत्वं निर्मलत्वं निशिरात्रौ चंद्रिकायामित्यस्यापि पूर्वोक्तमेव प्रयोजनं द्रष्टव्यं | दुष्परिहरत्वाच्चेति | अत्र पीतशंखजलनैल्याद्यध्यासेषु आरोप्यपीतिमनैल्यादि संसृष्टाधिष्टानगोचरचाक्षुषवृत्यनुपगमेपि चक्षुरनुपयोगो न दुष्परिहरः शंखादिधर्मिमात्रगोचर चाक्षुषवृतिसंभवस्य प्राग्दर्शितत्वादिति मंतव्यं | आरोप्यस्येंद्रियजन्यवृतिविषयत्वे सस्समतिमाह | अनास्वादितेति ||
323 SK अन्यथा तत्र रसनव्यापारापेक्षानुपपतेः तस्मादुदाहृत नैल्याध्यासस्थलेषुधिष्ठानसंप्रयोगादेव || अस्मिन् जन्मनि अनास्वादितः रसनेंद्रियेणाननुभूतस्तिक्तरसो येन वालेन स तथा तस्येत्यर्थः | मधुरेस्तनयानादौ तिक्ततावभासस्तिक्तता साक्षात्कारः स च जन्मांतरीयतिक्त रसानुभवजन्यसंस्कारजन्यः आरोपे आरोप्य सजातीय पूर्वानुभवजन्मसंस्कारस्य कारणत्वादित्यक्षरार्थः | अत्र ग्रंथे तिक्तत्वावभासस्य सस्कारसहकृतरसनेंद्रियजन्यत्वं भाति | तस्य संस्कारमात्रजन्यत्वे स्मृतित्व प्रसंगात् | तथा च तिक्तताध्यासाधिष्ठानस्य मधुरद्रव्यस्य रसनेंद्रियायोग्यतया
324 SK प्. २०१अ) परिशेषात् स्वरूपतोध्यस्य मानस्य तिक्तरसस्यैव रसनेंद्रियजन्यवृतिविषयत्वं स्पष्टीकृतमिति भवति | समारोप्यस्यैंद्रियकत्वे संमतिरयं ग्रंथ इति भावः | अन्यथेतिः आरोप्य तिक्तरसस्येंद्रियकत्वानुपगमे तत्र बालस्य तिक्ततावभासस्थले रसनेंद्रियव्यापारो न स्यान् मधुरद्रव्यस्या तदयोग्यत्वादित्यर्थः | वस्तुतस्तु तिक्ततावभास इत्यत्रतिक्ततापदावभासपदयौः कर्मधारयः अवभासपदं चावभास्यत इति व्युत्पत्याध्यस्य मानतिक्त रसपरं पंचपादिकायामेवावभासपदस्यावभासमानतापदेन तथा व्याख्यातत्वात् | जन्मांतरीय संस्कारोपि अध्यस्य मानतिक्त रसोत्पतौ हेतुः | प्रातिभासिकाध्यासस्थलेषु दोषसंस्काराधिष्ठान सामान्यज्ञानरूपकारणत्रयस्याध्यस्य मानपदार्थोत्पतावेवकारणतायाः टीकाविवरणादिष्वेव स्पष्टत्वा तथा च कथमनेन ग्रंथेन स्वरूपतोध्यस्य मानस्यैव तिक्तरसस्यैंद्रियकत्वस्य स्पष्टीकरणं न च तिक्तरसयैंद्रियकत्वाभावे रसनव्यापारापेक्षानुपपतिरिति वाच्यं | वालस्यान्येषां वातिरसाध्यासकाले रसनेंद्रियव्यापारसत्वे माना भावात् | न च तथा सतितिक्ततानवभासप्रसंग इति वाच्यं | त्वगिंद्रियजन्यमधुरद्रव्यगोचरवृत्या अभिव्यक्ते मधुरद्रव्यावछिन्नचैतन्ये तिक्तताध्यासांगीकारेण तिक्ततायाः स्वगोचरवृतिं विनैव स्वाधिष्ठान चैतन्यभास्यत्व संभवात् | अस्तु वा तिक्रताध्यासस्थले रसनेंद्रियापेक्षा | तथापिताध्यस्यमानतिक्तरसस्येंद्रियकत्व
325 SK प्. २०१ब्) सिद्धिरध्यस्य मानतिक्ततां प्रतिमधुरद्रव्यनिष्ट मधुररसस्याधिष्ठानत्वसंभवेन तदधिष्ठान भूतमधुररसग्रहणे तदपेक्षोपपतेः | पंचपादिकागतमधुरपदस्य मधुररससाधारणत्वेन तद्विरोधाभावाच्च | न च मधुररग्रहणे तिक्तताध्यासानुपपतिरिवाच्यं | रसग्रहणेपि दोषविशेषेण मधुररसत्वजातिसाक्षात्कारप्रतिबंधे सति तिक्ताध्यासोपपतेस्तस्मादारोप्यस्य साक्षिमात्रभास्यत्वं पूर्वांर्याणां सार्वत्रिकव्यवहारसिद्धन्निरपवादमिति मंतव्यमितः परंकविता किं कमतानुसारेण यत्पंचपादिका ग्रंथव्याख्यानं कृतं तदेवानुवर्त्यते | तस्मादिति | अध्यस्यमानपदार्थस्य साक्षिभास्यत्वमते पीतशंखाद्यध्यासेषु चक्षुरनुपयोगस्य दुष्परिहरत्वादित्यर्थः || तद्गोचर चाक्षुषवृतिसमकालोदयोध्यासस्तस्यावृतेर्विषय इति तस्य चाक्षुषत्व मध्युपगंतव्यं रूपं विना केवलाधिष्ठानगोचरवृत्यभावे च विषयचैतन्याभिव्यक्ता भावेन जल तदध्यस्त नैल्यादीनां तद्भास्यत्वायोगात् | तिक्तरसाध्यासस्थले त्वधिष्ठानाध्यासयोरेकेंद्रियग्राह्यत्वाभावात् त्वगिंद्रियजन्याधिष्ठानगोचरवृत्या तद प्. २०२अ) वछिन्नचैतन्याभिव्यक्तौ पितोपहतरसनसंप्रयोगादेव | तत्र तिक्तरसाध्यासस्तन्मात्रविषयरासवृतिश्च समकालमुदेती तिक्तरसस्य रासनत्वमप्यभ्युपगंतव्यं त्वगिंद्रियजन्याधिष्ठानगोचरवृत्यभिव्यक्तचैतन्यभास्ये तिक्तरसे परंपरयापि रसनोपयोगाभावेन तत्र कथमपि प्रकारांतरेण रासनत्वानुभवसमर्थनासंभवात् | तथैव रजतस्यापि चाक्षुषत्वोपपतेः पश्यामीत्युनुभवो न वाधनीयः ||
326 SK तद्गोचरेति | अधिष्ठानगोचरेत्यर्थः | वृतिसमकालमुदयो यस्याध्यासस्य पीतरूपादेस्स तथेत्यर्थः | अधिष्ठानसंप्रयोगजन्यावृतेरारोपित रूपादिविशिष्टशंखादिविषयत्वावंगीकारे आरोपितरूपादेरनवभासप्रसंग इत्यर्थः | रूपं विना केवलाधिष्ठानगोचरवृत्यभावे चेति | आरोप्यपीति मनैल्यादि संसृष्टशंखादिगोचरवृत्यनभ्युगमे चेति च कारार्थः | तत्पदं चैतन्यपरं पंचपादिकाग्रंथोक्तं तिक्तरसस्याध्यस्य मानस्यैंद्रियकत्वं चाक्षुषाध्यासस्थले इवा अधिष्ठानारोप्ययोरेकवृतिविषयत्वेन भवति | किं तु तिक्तरसमात्रगोचररासनवृत्येत्युपपादयति | तिक्तरसाध्यासस्याले त्विति | तदवछिन्नेति | मधुरादि द्रव्यरूपाधिष्ठानावछिन्न प्. २०२ब्) इत्यर्थः | पिताख्यदोषेण उपहतं यद्रसनं तेन सह मधुरद्रव्यरूपाधिष्ठानस्य संप्रयोगात् तत्राधिष्ठानावछिन्नचैतन्ये तिक्तरसाध्यास उदेति तदैवाध्यस्यमानतिक्तरसमात्रगोचररासनवृतिश्च उदेतीत्यर्थः | ननु तिक्तरसाध्यासाधिष्ठानस्य भानंरासनं तिक्तरसभानं तु केवलसाक्षिरूपमिति मतमेव कुतोनाद्रियते तत्राह | त्वगिंद्रियेति | चैतन्यभास्ये तिक्तरस इति | अभ्युपगम्यमान इति शेषः परंपरयापीति | रजताद्यध्यासस्थले इव धर्मिमात्रगोचरवृत्युत्पादनद्वारापीत्यर्थः | धर्मिणो मधुरद्रव्यादेः रसनेंद्रिया योग्यत्वादितिभावः | तत्र तिक्ततारूपे अध्यासे कथमपीत्यस्य व्याख्या प्रकारांतरेणेति | यद्यपि स्वप्नकाले केवलसाक्षिभास्येषु रसरूपादिषुरासनत्वचाक्षुषत्वाद्यनुभवस्यारोपरूपताया वक्ष्यमाणत्वेन प्रकृतेपि तथा समर्थनं संभवति स्वप्नपदार्थानामिव प्रातिभासिक तिक्तरसादेरपींद्रियासन्निकृष्टत्वेन सामग्र्यभावस्य तुल्यत्वा तथापि तं प्रकारमजानता तत्र कथमपीत्याद्युक्तमिति ध्येयं | तथैवेति | यथा रासनवृतिविषयत्वमादाय रासनत्वानुभवस्समर्थितस्तथा चाक्षुषवृतिविषयत्वमादायैव चाक्षुषत्वानुभवसंभवे तदनुभवस्यारोपरूपत्वकल्पनमयुक्तमित्यर्थः ||
327 SK न चासंप्रयुक्तस्य रजतस्य चाक्षुषत्वे प्रत्यक्ष प्. २०३अ) मात्रे विषयेंद्रिय सन्निकर्षः कारणं द्रव्यप्रत्यक्षे तत्संयोगः कारणं रजतप्रत्यक्षे रजतसंयोगः कारणमिति गृहीतानेककार्यकारणनियमभंगः स्यादिति वाच्यं | सन्निकर्षत्वस्य संयोगाद्यनुगतस्यैकस्याभावेनाद्यनियमासिद्धेः | द्वितीयनियमस्य नैयापिकरीत्यातमसीव संयोगायोग्ये क्वचिदद्रव्येपि द्रव्यत्वाध्याससंभवाद्व्यवहारदृष्ट्या यद्द्रव्यत्वाधिकरणं तद्विषयत्वेन प्रातिभासिक रजते द्रव्यत्वस्याधिष्ठान गतस्यैवेदत्व वदध्यासात् प्रतीत्यभ्युपगमेन च द्वितीयनियमाविरोधात् | द्वितीयनियमरूपसामान्यकार्यकारणभावव्यतिरेकेण विशिष्यापि कार्यकारणभावकल्पनायोगौरवपराहतत्वेन तृतीयनियमासिद्धेः || न बाधनीय इत्ययुक्तं बाधके सति तद्बाधस्यावश्यकत्वादिति मत्वाशंकते | न चेति | शंकितं बाधकं परिहरति | सन्निकर्षत्वस्येत्यादिना | आद्यनियमासिद्धेरिति जन्यप्रत्यक्षमात्रे इंद्रिय सन्निकर्षः कारणमिति नियमासिद्धेरित्यर्थः | जन्यपदं नित्यसाक्षिरूपे प्रत्यक्षे व्यभिचारवारणार्थः | शाब्दापरोक्षमते शाब्दभिन्नत्वमपि प्रत्यक्षविषणं द्रष्टव्यं | अत्रेदं बोध्यं | संयोगाद्यन्यतमत्व
328 SK प्. २०३ब्) मनुगतमस्ति न्यायमते अभावत्वादि वदखंडोपाधिरूपं वा सन्निकर्षत्वं संभवतीत्याद्यनियमविरोधोदुर्वार इति | आद्यतियमस्यासिद्धत्वमुक्ताजन्यद्रव्यप्रत्यक्षे इंद्रियसंयोगः कारणमिति द्वितीयमुपेत्यप्रकृतेनस्याविरोधमाह | द्वितीय नियमस्येति | द्वितीय निमस्य व्यवहारदृष्ट्यायद्द्रव्यत्वाधिकरण तद्विषयत्वेन द्वितीयनियमाविरोधादिति संबंधः नियमस्य व्यावहारिकद्रव्यविषयत्वकल्पनायां नियामकमाह | संयोगायोग्ये क्वचिदिति | एकत्वद्वित्वादावित्यर्थः | एकत्वमेकमित्यादिप्रकारेण तत्रापि संख्याश्रयत्वभ्रमेण द्रव्यत्वाध्याससंभवादित्यर्थस्तथा च द्रव्यप्रत्यक्षमात्रे इंद्रियसंयोगस्य कारणत्व नियमस्य एकत्वादौ द्रव्यत्वाध्यासकाले तत्प्रत्यक्षे व्यभिचार इत्यर्थः | अद्रव्ये द्रव्यत्वारोपे दृष्टांतमाह | तमसीवेति | सिद्धांते तस्य द्रव्यत्वाभ्युपगमादाह | नैय्यापिकरीत्येति | प्रौढालोकाभावस्तम इति नैयायिकैरुक्तरीत्येत्यर्थः | गुणाश्रयत्वं द्रव्यलक्षणमिति जानतां तमसिरूपवत्व भ्रमेण द्रव्यत्व भ्रमस्संभवतीत्यर्थः | ननु शुक्तिरजतादौ घटादाविव स्वभावत एव द्रव्यत्वमस्ति अन्यथारजतत्वादि जातिरपि तत्र न स्यान्न चेष्टापतिरुतरत्ररजतंत्वादि जातेस्साधपिष्यमाणत्वात् | ततश्च शुक्तिरजतादिकमपि व्यवहारदृष्ट्याद्रव्यत्वाधिकरणं भवति | व्यवहारदर्शांयां शुक्तौ रजतवाधवच्छुक्तिरजते द्रव्यत्वरजतत्वादि जातिवाधादर्शना तथा च शुक्तिरजतादेरिंद्रियासंयुक्तस्य ऐंद्रियकवृतिविषयत्वोपगमे द्वितीय प्. २०४अ) नियमविरोधोपि दुर्वार इति चेत्सत्यं शुक्तिरजतादौ रजतत्व द्रव्यत्वादि जातिर्नास्तीति मतमनुसृत्य तत्र द्रव्यत्वप्रतीतिं घटयति | प्रातिभासिकरजत इति | इदमर्थगतेदं त्वस्येव तद्गतद्रव्यत्वस्यापि तत्र संसर्गारोप इत्यर्थः | तथा च शुक्तिरजतं व्यवहारदृष्ट्याद्रव्यत्वाधिकरणं न भवतीतिभावः |
329 SK यत्सामान्ये यत्सामान्यं हेतुस्तद्विशेषे तद्विशेषो हेतुरिति न्यायस्यापि यत्र वीजांकुरादौ सामान्यकार्यकारणभावाभ्युपगमे वीजांतरादंकुरांतरोत्यत्यादिप्रसंगः | तद्विषयत्वेन ततो जागलस्तनायमान विशेषकार्यकारणभावासिद्धेः न वात्रापि द्रव्यप्रत्यक्षे द्रव्यसंयोगः कारणमिति सामान्यनियमोपगमेऽन्यसंयोगादन्यद्रव्यप्रत्यक्षापतिरिति प्रसंगोस्तीति वाच्यं | तद्द्रव्यप्रक्षे तत् द्रव्यसंयोगः कारणमिति नियमाभ्युपगमात् | अन्यथा तृतीयनियमेप्यति प्रसंगस्य दुर्वारत्वात् | तस्मान्नास्तिकॢप्तनियममंगः किं चात्र कॢप्तनियमभंगेपि न दोष इदं रजतं पश्यामि नीलं जलं पश्यामीत्यादेरनन्यथा सिद्धस्यानुभवस्य प्रथमगृहीतानामपि प्रत्यक्षमात्रे विषयसन्निकर्षः कारणमित्यादि प्. २०४ब्) नियमानां व्यावहारिकविषये संकोच कल्पनमंतरेणोपपादनासंभवात् ||
330 SK ननु द्रव्यप्रत्यक्षे इंद्रियसंयोगः कारणमित्युपगमे रजतचाक्षुषे रजत चक्षुः संप्रयोगः कारणमिति तृतीयनियमोपि दुर्वारः रजतस्य द्रव्यविशेषत्वात् | रजतचक्षुः संयोगस्य चेंद्रियसंयोगविशेषत्वाद्द्रव्यविशेषप्रत्यक्षे इंद्रियसंयोगविशेषः कारणमित्यस्यार्थस्य यत्सामान्यन्यायससिद्धत्वादिति शंकां परिहरति | यत्सामान्य इति | सामान्यकार्यकारणभावौ | यत्राति प्रसंगावहस्तत्रैवायं न्यायोनान्यत्रेत्यर्थः | न्यायस्य तद्विषयत्वेनेति संबंधः | तत् इति न्यायादित्यर्थः | ननु बीजसामान्यस्यांकुर सामान्यस्य च कार्यकारणभावोपगमे बीजांतरादंकुरांतरोत्पति प्रसंगवदिहाप्यति प्रसंगसत्वादुक्तन्यायप्रवृतिरस्त्येवेति शंकते | न चात्रापीति | उक्ताति प्रसंगपरिहराय तत्तदंकुरव्यक्तिं प्रति ततद्बीजव्यक्तेरुक्तन्यायेन हेतुत्वकल्पनावत्प्रकृतेपि ततद्द्रव्यप्रत्यक्षं प्रति तत्तद्द्रव्यसंयोगस्यैव तेन न्यायेन कारणत्वं सिध्यति | न तु तेन न्यायेन तृतीयकार्यकारणभावस्सिध्यतीत्याशयेनाह | तत् द्रव्येति | ननु तेन न्यायेनाति प्रसंगपरिहाराय तृतीयनियम एव कुतो न कल्प्यते | तत्राह अन्यथेति | तृतीयनियमकल्पन इत्यर्थः | अति प्रसंगस्येति अन्यरजतचक्षुस्संयोगात् | अन्यरजतचाक्षूषा
331 SK प्. २०५अ) पतिरित्येवं रूपस्येत्यर्थः | न च व्यक्तिनियमवत् तृतीयनियमोप्यस्त्विति वाच्यं | अतिप्रसंगपरिहारानुपयुक्तस्य तस्याजागलस्तनायमानस्याकल्पनीयताया उक्तत्वादिति भावः | तस्मादिति | प्रथमतृतीयनियमयोरसिद्धत्वात् द्वितीयनियमस्य चाविरुद्धत्वादित्यर्थः | ननु प्रथमद्वितीयनियमविरोधस्य दुर्वारतायाः प्रागुक्तत्वातदंतःपातिव्यक्तिनियमविरोधस्यापि दुर्वारत्वाच्च नास्ति कॢप्तनियमभंग इत्ययुक्तमत आह | किं चात्रेति | शुक्तिरजतादिस्थाल इत्यर्थः | अनन्यथा सिधस्येति | स्वप्नकाले केवलसाक्षिभास्येषु रजतादिषु चाक्षुषत्वाद्यनुभवस्येवात्रापि आरोपरूपत्व कल्पनासंभवात् | अनन्यथा सिद्धत्व सिद्धः कॢप्तमामग्र्यभावस्य स्वप्न इवात्रापि तल्पत्वादन्यथा स्वप्नेपींद्रिय व्यापारकल्पनाप्रसंगादनुभवविरोधे सति तत्काले तदुपरमश्रवणस्यान्यथा नयनोपपतेरित्यादिकमत्रानुसंधेयं | अनुभवस्योपपादनासंभवादिति संबंधः || न चैवं सतिप्रमायां सन्निकर्षः कारणं न भ्रम इत्यपि संकोच कल्पनासंभवादसंनिकृष्टस्यैव देशांतरस्थस्यैव रजतस्ये हारोपापतिरित्यन्यथाख्यातिः पादप्रसारिका अभिव्यक्तचैतन्यावषुंटन शून्यस्य देशांतरस्थ रजतस्यापरोक्ष्यानुपपतेः ख्यातिबाधानुपपत्यादिभिर्भ्रमविषयस्यानिर्वचनीयत्व सिद्धेश्च प्. २०५ब्) न चाधिष्ठानसंप्रयोगमात्रात्प्रातिमासिकस्यैंद्रियकत्वोपगमे शुक्तिरजताध्याससमये तत्रैव कालांतरे ध्यसनीयस्य रंगस्यापि चाक्षुषत्वं कुतो न स्यादिति वाच्यं ||
332 SK कॢप्तनियमानां संकोच कल्पने सति शुक्तिरजतादेरनिर्वचनीयत्वासिद्धिं शंकते | न चैवं सतीति देशांतरस्थं रजतादिकं भ्रमविषयमिति न्यायमतं तत्रासंनिकृष्टस्य कथं प्रत्यक्षत्वमित्यनिर्वचनीयख्यातिवादिभिः शंकायां कृतायां सन्निकर्षः प्रत्यक्षे कारणमित्यादिति यमस्य भवतां मते व्यावहारिक पदार्थप्रत्यक्षविषयत्वेन संकोचवन्मममतेपि तस्य प्रत्यक्षप्रमायां सन्निकर्षः कारणमिति प्रत्यक्षप्रमाविषयत्वेन संकोचकल्पनोपपतेरन्यथाख्याति वादस्य न किचिद्बाधकमिति परिहारस्सु वचः परेषामित्यर्थः | भ्रमरूपे प्रत्यक्षे सन्निकर्षस्या हेतुत्वेपि नान्यथाख्याति वादप्रसक्तिरिति परिहरति अभिव्यक्तेति अर्थस्यापरोक्षत इंद्रियसन्निकृष्टत्वं न प्रयोजकं किं त्वभिव्यक्तचैतन्याभिन्नत्वमिति वक्ष्यते | तथा च भ्रमविषयस्य रजतादेर्देशांतरस्थत्वे आपरोक्ष्यं न संभवतीति | शुक्ति तादात्म्यांपन्नं रजतं सिध्यतीत्यर्थः | अवज्जंटनं तादात्म्यं नन्वेवमपि शुक्तिरजतं शुक्तिवत्सत्यमेवस्यान्नानिर्वचनीयं मानाभावादित्यत आह
333 SK प्. २०६अ) ख्यातीति ख्यातिरपरोक्षप्रतीतिस्तथा च भ्रमविषयस्य देशांतरस्थत्वमसत्वं च निरस्तं भवति | असतस्संवित् | तादात्म्याभावेन प्रत्यक्षायोगात् | शुक्तौ कालत्रयेपि रजतनास्तीत्य बाधितबाधकप्रत्यक्षबलाद्रजनस्थिति समयेपि शुक्तौरजताभावः सिध्यति शुक्तौ यदि रजतं न स्यातदाख्यात्यनुपपतिर्यदि तत्र तत्सत्यं स्या तदा शुक्तौ शुक्तित्वमिव न बाध्येतातः ख्याति बाधानुपपत्या तस्यानिर्वचनीयत्वं सिध्यति | शुक्तिरजतस्य उत्पति विनाशवत्वादनिर्वचनीयत्वसिद्धिरेतच्च विवर्तलक्षणनिरूपणावसरे प्रपंचितमिति नात्र प्रपंच्यते | उत्पतिमत्वादि युक्तिरादिशब्दार्थः | शुक्तिरजतादेस्साक्षिभास्यत्व वादीशुक्तिरजतस्य स्वतादात्म्याश्रयेदमर्थ संप्रयोगादेव चाक्षुषवृतिविषयत्वेति स प्रसंग इति शंकते न चेति तत्रैवेति | शुक्तावेव कालांतरे यदध्यसनीयं तस्येत्यर्थः | कुत इति | यावृतिः शुक्तिरजतं विषयी करोति सैववृतिः शुक्तौकालांतरे ध्यसतीयं रंगमपि कुतो न विषयी करोति तस्यावृतेः रजत तादात्म्याश्रयेदमर्थ संप्रयोगजन्यत्वस्यैवकालांतरीयरंगतादात्म्याश्रयेदमर्थ- संप्रयोगजन्यत्वस्याप्यविशेषादित्यर्थः | तथा च संप्रयोगो न रजतगोचरवृतिहेतुः | किं तु सादृश्यं विशिष्टधर्मिज्ञान एव हेतुः सादृश्यज्ञानं च दोषत्वेन धर्मिज्ञानत्वेन च रजताद्यध्यासे कारणं रजतादिकं च स्वगोचरवृतिं विनैव चैतन्यभास्यमिति मतमुपेयमितिभावः ||
334 SK प्. २०६ब्) रजताध्याससमये रंगरजतसाधारणचाकचिक्यदर्शनाविशेषेपि | यतो रागादिरूपपुरुषदोषाभावादितस्तत्र तदानरंगाध्यासस्तत एवमयापि तद्विषयवृत्यनुदयस्याप्युपगमात् | तस्मादिदमंश संभिन्नरजतगोचरा एकैववृतिरिंद्रियजन्या न ततः प्रागिदमाकारावृतिरिति | नात्रैवेयमज्ञाननिवर्तकत्व सदसद्भाव चिंताकार्य्येति अन्येत्वधिष्ठानज्ञानमध्यासकारणमितीदमाकारां वृतिमुपेत्यतदभिव्यक्तेनैवसाक्षिणा तदध्यस्तरजतस्यावभाससंभवातद्भासकसाक्ष्यभिव्यंजकया तयैवेदं वृत्यारजतविषयसंस्काराधानोपपतेश्च रजताकारावृतिर्व्यर्थेति मन्यते | ज्ञानद्वयपक्षे इदमित्येकावृतिरध्यासकारणीभूता | इदं रजतमिति द्वितीयां वृतिरध्यस्तरजतविषयानत्विदमंशं विनाध्यस्तमात्रगोचरासा || तवमतेपि शुक्तौक्यालांतरे अध्यसनीयस्य रंगस्य रजताध्याससमय एवाध्यासः किं न स्यादधिष्ठानस्य सादृश्यज्ञानस्य च रजतंरमाध्यास साधारणत्वादिति दोषतौल्यं सूचयति | रजताध्याससमय इति
335 SK प्. २०७अ) यदि च दृश्यमानसादृश्यरूपविषयदोषाविशेषेपि रजताध्याससमये रंरागोचररागात्मकपुरुषदोषस्याभावाद्रजतरागस्य सत्वाच्च न रंगाध्यास इति परिहार इष्यते | तदा ममापि तुल्यमुतरमित्याशयेनाह | यत इति | रागादिरूपायेः पुरुषदोषस्तदभावादेस्सकाशादित्यर्थः | रागादीत्यादि पदेन रंगस्य बुद्धौविपरिवर्तनं गृह्यते दोषाभावादीत्यादि पदेन रजतरागो गृह्यते | तत एवेति | रंगगोचररागादरभावाद्रजतरागसत्वादन्यस्याद्वाकारणात् | रजतस्यैव तत्रौत्पतिस्तत्काले रजतविशिष्टधर्मि गोचरवृतेरुदयश्चोपेयत इत्यर्थः | कवितार्तिकमतसुय संहरति | तस्मारिति | धर्मिज्ञानस्य कारणत्वे मानाभावादित्यर्थः | नात्रेत् | इदमाकारवृतावित्यर्थः | धर्मिज्ञानस्य कारणत्वे मानाभाववचनमाया तत इत्युपपादितं तत्र तत्र तदेतदभिसंध्ययतस्य तत्कारणत्वमतमेवाह | अन्ये त्वधिष्ठानज्ञानमिति | इदमाकारवृतिपक्षेपि रजतगोचरवृतिरंगीकर्तव्येति केचितं मतं दूषयति | इदमाकारामिति | अन्ये त्विदमाकारां वृतिमुपेत्यरजताकारावृतिर्व्यर्थेति संबंधः | इदमाकारवृत्युपगमे हेतुरधिष्ठानज्ञानमध्यासकारणमितीति | इति शब्दो हेत्वर्थः | धमज्ञानस्याध्यासकारणत्वादित्यर्थः | इदमाकारवृति व्यतिरिक्तारजताकारवृतिः किं रजतभानार्था किं वा तत्संस्कारार्थामाद्य इत्याह | तदभिव्यक्ते नैवेति | इदमाकारवृत्यभिव्यक्तेनैवेत्यर्थः | द्वितीयं दूषयति | तद्भासकेति | न चान्यगोचरवृत्या कथमन्यगोचरसंस्काराधानमिति
336 SK प्. २०७ब्) वाच्यं | यद्धृत्यवछिन्नचैतन्येयावंतः | पदार्थाः प्रकाशंते तयैव वृत्या तावत्सु पदार्थेषु संस्काराधानमिति | प्रागुक्तत्वादिति भावः | ये तु स्वगोचरवृत्यैव स्वगोचरसंस्काराधानमिति मन्यंते | तेषां मते अध्यस्त रजतगोचरवृतिरप्यस्ति | तत्र किं द्वितीयावृतिरध्यस्तरजतविशिष्टधर्मिगोचरा किं वा रजतमात्रगोचरेति संशये मत द्वयेन निर्णयं दर्शयति | ज्ञानद्वयपक्ष इत्यादिना | द्वितीयवृतिरिदं रजतमित्येवमाकारासती अध्यस्तरजतविषयेति संबंधः | आकारविशेषोपादानफलमाह | नन्विति || इदं रजतं जानामीति तस्या इदमर्थ तादात्म्यापन्नरजतविषयत्वानुभवादिति केचित् | अन्ये तु यथेदमंशावछिन्न चैतन्यस्थाः विद्यारजताकारेण विवर्तते | एवमिदमंश विषयवृतिज्ञानावछिन्न चैतन्यस्थाविद्यारजतज्ञानाभासाकारेण विवर्ततेन त्विदमंशवृतिवदनध्यस्तं रजतज्ञानमस्ति | तथा च रजतस्याधिष्ठानगतेदं त्वसंसर्गभानवत्वत् | ज्ञानस्याप्यधिष्ठानगतेदं विषयत्वसंसर्गभानोपपतेर्न तस्यापि प्. २०८अ) तद्विषयत्वं वक्तव्यमिति वाच्यं | स्वतादात्म्याश्रयस्येदं त्वविषयत्वादेव तस्य तत्संसर्गविषयत्वेति प्रसंगाभावात् | न चाधिष्ठानाध्यासयोरेकस्मिन् ज्ञाने प्रकाशनियमस्य संभावना भाष्यविवरणे प्रतिपादनात् | एकवृतिविषयत्वं वक्तव्यमिति वाच्यं वृतिभेदेपीदमाकारवृत्यभिव्यक्ते एकस्मिन् साक्षिणि तयोः प्रकाशोपममादित्याहुः ||
337 SK द्वितीयवृतेर्विशिष्टविषयकत्वे अनुभवं प्रमाणयति | इदं रजतं जानामीति | द्वितीयवृतेरध्यस्तमात्रविषयकत्वमिति मतमाह | अन्ये त्विति | ज्ञानद्वयपक्षे द्वितीयवृतिरविद्यावृतिरिति प्रतिपादयति यथोत्पादिना | विवर्तते परिणमत इत्यर्थः | एवमिति | इदमंशविषयं यद्वृतिज्ञानं तदवछिन्नेत्यर्थः | इदमाकारवृत्यवछिन्नचैतन्यगता विद्या अध्यस्तरजतमात्रगोचरवृतिरूपेण परिणमते सा च वृतिर्ज्ञानाभासः कॢप्तज्ञानकारणाजन्यत्वादित्यर्थः | अनभ्यस्तमिति | ज्ञानाभासरूपं रजतज्ञानं रजतवप्रातिभासिकमेव न त्विदमाकारवृतिवद्व्यावहारिकं | ज्ञानाभासस्यापि शुक्तिरजतवदेवशुक्त्यज्ञाननिवर्तक प्रत्यक्ष बाध्यत्वादित्यर्थः | ज्ञानाभासस्य रजतमात्रविषयकत्वे तस्य इदं रजतमित्याकारो न स्यादित्याशंक्याज्ञानाभासस्य इदमंशविषयकत्वाभावेपि
338 SK प्. २०८ब्) तस्य तदाकारस्संभवतीत्याशयेनाह | तथा चेति | ज्ञानाभासंप्रति इदं विषयकवृत्यवछिन्न चैतन्यस्याधिष्ठानत्वे सतीत्यर्थः | इदमंशज्ञाने ज्ञानाभासं प्रत्यधिष्ठानभूते विद्यमानं यदिदं त्व विषयकत्वं तत्संसर्गो रजतगोचरज्ञानो भासते तत्र दृष्टांतमाह | रजतस्येति | रजताधिष्ठानगतस्येदं त्वस्य संसर्गो यथा रजते भासते तथेत्यर्थः | ननु ज्ञानाभासेन रजते गृह्यमाणे इदं त्वसंसर्गो गृह्यते चेदिदं त्वमपि तेनावश्यं ग्रासं इदं त्वग्रहणं विना तत्संसर्गग्रहणायोगात् | तथा च ज्ञानाभासस्य रजत विशिष्टेदमंशविषयकत्व सिद्धिरिति शंकते | न चेति | संसर्गांशस्य रजतज्ञानाभासगोचरत्वे हेतुर्गर्भविशेषणमध्यस्तस्येति | वक्तव्यमिति | अन्यथा घटत्वादि निरूपित संसर्गप्रत्यक्षस्य घटत्वादि विषयकत्वं न स्यादित्यति प्रसंगायतेरितिभावः | ज्ञानाभासस्य इदं त्वरूप प्रतियोगिविषयकत्वाभावेपि ज्ञानाभासं प्रत्यधिष्ठानतया ज्ञानाभासतादात्म्यापन्नस्य इदमंशज्ञानस्य प्रतियोगिविषयक त्वात् | ज्ञानाभासस्य संसर्गविषयकत्वात् | ज्ञानाभासस्य संसर्गविषयकत्वं संभवति | तावतैव उक्ताति प्रसंगपरिहारोपपतेरिति परिहरति | स्वतादात्म्याश्रयस्येति स्वषदं ज्ञानाभासपरंवृतिभेदेपीति | अध्यस्तमात्रगोचराविद्यावृतेर्विवरणाकारैरेवाभ्युपगमा तदुक्त नियमे ज्ञानपदं साक्षि परमे वनवृति परमिति विवरणाकाराणामाशयो लक्ष्यत इति भावः ||
339 SK प्. २०९अ) ननु सर्वपदार्थानां साक्षि प्रसादादेव प्रकाशोपपतेः | किं वृत्याघटादिविषयसंस्काराधानाद्युपपते ये तदपेक्षणेपि तन्निर्गमाभ्युपगमोव्यर्थः | परोक्षस्थल इवानिर्गतवृत्यवछिन्न साक्षिणैव घटादैरपि प्रकाशोपपतेः | न च तथा सति परोक्षापरोक्ष वैलक्षिण्यानुपपतिः | शाब्दानुमित्योरिवकरणविशेषप्रयुक्तवृतिवैजात्यादेव तदुपपतेः | अत्र केचिदाहुः | प्रत्यक्षस्थले विषयाधिष्ठानतया तदवछिन्नमेव चैतन्यं विषयप्रकाशः साक्षातादात्म्यरूपसंबंध संभवे स्वरूपसंबंधस्यान्यस्य वा कल्पना योगादिति तदभिव्यक्त्यर्थं युक्तो वृति निर्गभाभ्युपगमः परोक्षस्थले || एवं बाह्यगोचरापरोक्षवृतीनामेवावरणाभिभावकत्वमिति नियमस्य भ्रमस्थलीयेदमाकारवृतौ व्यभिचारशंकायां सत्यां तद्वृत्यभ्युगमानभ्युपगमाभ्यांतापरिहृत्यप्रसंगात् ज्ञानद्वयपक्षे किचिद्विचार्य पूर्वोक्तवृतितिर्गममाक्षिपति | नन्विति | किं वृत्येति | वृतिरेवमास्तु तन्निर्गमो दूरापास्त एवेत्याशयः | ननु केवलसाक्षिण एव विषयानुभवरूपत्वे कालांतरे विषयानुसंधानं
340 SK प्. २०९ब्) न स्यादनुभवनाशलक्षणसंस्काराभावा तथा आगंतुक वृत्यनंगीकारे चक्षुराद्यनुविधानं न स्यान्नित्यसाक्षिणि चक्षुरादेरनुपयोगादतो वृतिरादर्तव्येत्याशंक्यतामंगी करोति | घटादीति | ननु विषयप्रकाश एव तन्निर्गमफलमिति नेत्याह | परोक्षस्थल इवेति | ननु प्रत्यक्षपरोक्षज्ञानयोर्वैलक्षिण्यमनुभवसिद्धं | तच्च प्रत्यक्षस्थले वृतिनिर्गमाभ्युपगमे निर्वहतिः | वहिर्निर्गतवृत्यवछिन्नचैतन्यमऽपरोक्षजतानमनिर्गत वृत्यवछिन्नचैतन्यं परोक्षज्ञानमिति नेत्याह | न च तथा सतीत्यादिना | वृत्यनिर्गमनेऽसतीत्यर्थः | इंद्रियजन्यज्ञानं प्रत्यक्षं तदन्यं ज्ञानं परोक्षमिति वैलक्षण्योपपतेरित्यर्थः | यथाशाब्दज्ञाने शब्दरूपकरणविशेषप्रयुक्तं शाब्दत्वरूपं वै जात्यं यथा वा अनुभितावनुमितावनुमिति त्वं तथेत्यर्थः | करणविशेषः इंद्रियमनुमानादि च | तत्प्रयुक्तं वृतिषु वै जात्यं प्रत्यक्षत्वादितरूपमुपाधिरूपमुपाधिरूपं वा तस्मादेवेत्यर्थः | वृतिनिर्गमं साधयति | अत्र केचिदाहुरिति | विषयाधिष्ठानतया विषयावछिन्नं यच्चैतन्यं तदेवविषयप्रकाशः न जीवचैतन्यं तस्य विषयं प्रत्युपादानत्वाभावेन साक्षात् तादात्म्य संबंधाभावादित्यर्थः | अन्यस्यवेति | परंपरासंबंधस्य वेत्यर्थः | तादात्म्यरूपसंबंधसंभवे स्वरूपसंबंधकल्पना योगात् | साक्षात्संबंधसंभवे अन्यस्य संबंधस्य कल्पना योगादिति विभागः | ततः किं तत्राह | इति तदभिव्यक्त्यर्थमिति | प्. २१०अ) विषयावछिन्न ब्रह्मचैतन्यस्यैव विषयप्रकाशकत्वा तस्य च आवृतत्वादावरणाभिभवरूपाभिव्यक्ति सिद्ध्यर्थमित्यर्थः | ननूक्त युक्त्यापरोक्षस्थलेपि विषयावछिन्न ब्रह्मचैतन्यमेव विषयावभासकस्या ततश्च तत्रापि तन्निर्गमः प्रसज्येतेति नेत्याह | परोक्षस्थल इति ||
341 SK व्यवहिते वह्न्यादौ वृतिसंसर्गायोगादिंद्रियवदन्वयव्यतिरेक शालिनो वृतिनिर्गमद्वारस्यानुपलंभाच्चानिर्गतवृत्यवछिन्नचैतन्यमेव स्वरूपसंबंधेन विषयगोचरमगत्याभ्युपगम्यत इति | अन्ये त्वहंकार सुखदुःखादिष्वापरोक्ष्यं साक्षाच्चैतन्यसंसर्गिषु कॢप्तग्निति घटादावपि विषयसंसृष्टमेव चैतन्यमापरोक्ष्य हेतुरिति तदभिव्यक्तये वृतिनिर्गमं समर्थयंते | इतरे तु शब्दानुभानावगतेभ्यः प्रत्यक्षावगते स्पष्टतानावदनुभूयते | न हि रसालपरिपलादिविशेषे शतवारमाप्तोपदिष्टेपि प्रत्यक्षावगत इव स्पष्टतीस्ति तदनंतरमपि कथं तदिति जिज्ञासानुवृतेः न च शब्दान्माधुर्यादिमात्रावगमेपि रसालमाधुर्यादिवृत्यवांतर जातिविशेषवाचि शब्दाभावा तत्सत्वेपिश्चोत्रात्तस्यागृहीत संगति कत्वाच्छब्दादसाधारणाजाति विशेषावछिन्नप्ताधुर्यावगमो नास्तीति प्. २१०ब्) जिज्ञासानुवृतिर्युक्तेति शंक्यं | रसाले सर्वातिशायी माधुर्य विशेषोस्तीत्यस्माच्छब्दात् ||
342 SK वृतिनिर्गमन हेतु सन्निकर्षाभावादित्याशयेनाह | व्यवहित इति | वृतिनिर्गमने उपपत्यंतरमाह | अन्ये त्विति | संसर्गिषु कॢप्तमितीति | संसर्गस्तादात्म्यं विषयापरोक्षे क्वचित् कॢप्तप्रयोजकस्य संसर्गस्यैवान्यत्रापि संभवे तत्त्यागायोगादितिभावः | विषयसंसृष्टमेवेति न तु तदसंसृष्टं जीवचैतन्यमित्येवकारार्थः | तदिति | विषयावछिन्न ब्रह्मचैतन्याभिव्यक्तय इत्यर्थः | प्रत्यक्षे वस्तुन्यावरणाभिभवस्यावश्यकता प्रतिपादनपूर्वकं तदभिभवार्थं | वृतिनिर्गमनमिति प्रतिपादयति | इतरे त्विति | ननु शब्दाद्यवगतेप्यर्थे स्पष्टता किं न स्यादिति | नेत्याह नहीति | परिमलं सुगंध आदिपदं रसालगत रससंग्रहार्थमाम्रफले मधुररसादिरस्तीत्येवं रूपादाप्त वाक्याच्छतवारमुक्तादपि मधुरत्वादि सामान्यविशिष्टतयैवरसादि ज्ञानं भवति न तु मधुरत्वव्याप्य जाति विशेषविशिष्टरसादि ज्ञानं तथा च रसादिगत जातिविशेषज्ञानाभावादेव जातिविशेषजिज्ञासा उपपद्यते न तु शब्दादवगतेपि स्पष्टत्वाभावादित्याशयेन शंकते | न च शब्दादिति | माधुर्यं मधुररसं माधुर्यादिमात्रावगमेपि शब्दादसाधारण्यजातिविशेषावछिन्न प्. २११अ) माधुर्यावगमो नास्तीति संबंधः आसाधारणो यो जातिविशेषस्तदवछिन्नतया माधुर्यावर्गमो नास्तीत्यर्थः जातिविशेषावगमाभावे उपायाभावं हेतुमाह | रसालेत्यादिना रसालस्य यन्माधुर्यादि तद्वृतिर्यो अवांतरजातिविशेषस्तद्वावकशब्दाभावादित्यर्थः तद्बोधकशब्दमंगीकृत्यापि शक्तिग्रहाभावा तदवगमो न संभवतीत्याह | तत्सत्वेपीति | तस्यैति | अवांतरजातिविशेषवाचकशब्दस्येत्यर्थः | न च शंक्यमिति संबंधः तद्वाचकपदाभावेपि तद्बोधको वाक्यरूपशब्दोस्ति तेन च जातिविशेषावगमोप्यस्ति तथा चावगते जातिविशेषे स्पष्टत्वाभावादेव जिज्ञासेत्याशयेवाह | रसास्त इत्यादिना
343 SK तद्गतावांतरजातिविशेषस्याप्यवगमात् न ह्ययं विशेषशब्दस्तद्गतं विशेषे विहायान्यगतं विशेषं तत्र बोधयति अप्रामाण्यापतेः | न च तद्गतमेव विशेषं विशेषत्वेन सामान्येन रूपेण बोधयति न विशिष्येति जिज्ञासेति वाच्यं | प्रत्यक्षेणापि मधुररसविशेषस्य जातिविशेषस्य स्वरूपत एव विषयीकरणेन जातिविशेषगतविशेषांतराविषयीकरणाज्जिज्ञासानुवृतिप्रसंगात् | तस्मात् प्रत्यक्षग्राह्येभिव्यक्तापरोक्षैकर स चैतन्यावगुंठनात् प्. २११ब्) स्पष्टता जिज्ञासा निवर्तन क्षमाशब्दादिगम्ये तदभावादस्पष्टतेति व्यवस्थाभ्युपगंतव्या | अत एव साक्षि वेद्यस्य सुखादैः स्पष्टता || अयंशब्दः किं तद्गतजातिविशेषं बोधयति किं वान्यगतें | आद्यमंगी करोति | तद्गतावांतरेति | द्वितीयं दूषयति | नह्यद्यमिति | तत्रेति रसालामाधुर्यादावित्यर्थः | तात्पर्थ्य विषय एव शब्दस्य प्रामाण्याभ्युपगमादिति भावः | न चाप्रामाण्ये इष्टापतिरिति वाच्यं | आप्तवाक्यस्य तदंगीकारा योगादितिभावः | माधुर्यगतजातिविशेषभावमंगीकृत्यशंकते | न च तद्गतमेवेति | सामान्येनेति | विशेषत्वं रसालमाधुर्यगते जातिविशेष इव फलांतरमाधुर्यगतेषु जातिविशेष्वपि सत्वात् सामान्यरूपमितिभावः | न विशेष्येति | जातिविशेषगतविशेषविशिष्टतया जातिविशेषन्न बोधयति | तथा च रसालमाधुर्यगत जातिविशेषस्य स्वरूपेण शब्दादवगतत्वेपि स्वमतासाधारणविशेषविशिष्टतयानवगतत्वादेवजिज्ञास्यत्वमितिभावः | जातिविशेषगतो साधारणविशेषः किं जातिरूपः | किं वा जातिविशेषाश्रयेतरावृतित्वे सति जातिविशेषाश्रयवृतित्वरूपोपाधिर्वा नाद्यः जातौतंदनंगीकारात् | न द्वितीयः रसालमाधुर्यगतजातिविशेषे प्रत्यक्षेणापि
344 SK प्. २१२अ) तदग्रहणेन प्रत्यक्षावगतेपि जातिविशेषजिज्ञासानुवृति प्रसंगात् | तस्मात् प्रत्यक्षेणापि स जाति विशेषः स्वरूपेणैव गूह्यते | इति वक्तव्यं | स्वरूपेण तदवगमश्चोक्त शब्दादप्यस्त्येवेति शब्दावगतस्यापि स्पष्टत्वे तत्र जिज्ञासानुवृतिर्न स्यादित्याशयेनाह | प्रत्यक्षेणापीति | तस्मादिति | प्रत्यक्षावगत इव शब्दादि गम्येर्थे स्पष्टत्वाभावादित्यर्थः | अनुभवसिद्धायाः स्पष्टतायाः प्रयोजकमाह | अभिव्यक्तेति | अपरोक्षत्वं स्वप्रकाशत्वमेकरसमेक रूपत्वं | अभिव्यक्तं यदपरोक्षैकर स चैतन्यंततादात्म्यात् प्रत्यक्षग्राह्ये स्पष्टताविषयताविशेषरूपेत्यर्थः | अनेन विषयगतस्पष्टता प्रयोजकी भूताविषयचैतन्यं तताक्ति सवरणनिवृतिरूपा तस्यास्सिद्धये वृतिनिर्गमनमपेक्षितमिति सूचितं | आवरणनिवृतेः स्पष्टताप्रयोजकत्वे अन्वयव्यतिरेकौ दर्शयति | अत एवेत्यादिना | अभिव्यक्तचैतन्यसंसर्गादेवेत्यर्थः || शाब्दवृतिवेद्यस्यापि ब्रह्मणो मननादेः प्रागज्ञानानिवृतावस्पष्टता तदनंतर तन्निवृतौ स्पष्टतेति वृतिनिर्गममुपपादयंति | नन्वेतावतापि विषयावरकाज्ञाननिवृत्यर्थं वृतिनिर्गम इत्युक्तं | तदयुक्तम् | विषयावछिन्नचैतन्यगतस्य तदावरकाज्ञानस्यानिर्गतवृत्यानिवृत्युपगमेप्यनति प्रसंगात् | न च तथा सति देवदतीय घटज्ञानेन यज्ञदतीय प्. २१२ब्) घटाज्ञानस्यापि निवृतिप्रसंगः समानविषयत्वस्य सत्वात् | अहमर्थविषयचैतन्यनिष्ठयोर्ज्ञानाज्ञानयोर्भिन्नाश्रयत्वेन तर्योर्विरोधे समानाश्रयत्वस्यात्वंत्रत्वादिति वाच्यं समानाश्रयविषयत्वं ज्ञानाज्ञानयोर्विरोधप्रयोजकमंगीकृत्यवृतिनिर्गमाभ्युपगमेपि देवदतीय घटवृतेर्यज्ञदतीय घटाज्ञानस्य च घटावछिन्नचैतन्यैकाश्रयत्वविषयत्व प्राप्त्यातिप्रसंगतादवस्थेन ||
345 SK शाब्दवृतीति | शब्दजन्यावृतिर्मननाद्यनुष्ठानात् प्रागसंभावना विपरीतभावनाभ्यां प्रतिबद्धत्वादज्ञानानिवर्तिका तदनुष्ठानातंतरमप्रतिबद्धत्वावज्ञाननिवर्तिकेति भावः | नन्वेतावतापीति | अत्र केचिदाहुरित्यादिनामतत्रयोपन्यासात्मक ग्रंथेनापीत्यर्थः | विषयावरकाज्ञानस्य पुरुषगतत्वमते | अनिर्गतवृत्यानिवृतिसंभवेपि तस्य विषयावछिन्नचैतन्यगतत्वपक्षे तन्निर्गमापेक्षास्यादित्याशंक्यानिर्गतवृत्यैवविषयगताज्ञानस्यापि निवृतौ नास्ति बाधकमित्याशयेनाऽज्ञानं विशिनष्टिविषयावछिन्नचैतन्यगतस्येति | ननु ज्ञानाज्ञानयोर्निवर्त्यनिवर्तकभावलक्षणे विरोधे समानाश्रयत्वे सति समानविषयकत्वं | तंत्रं समानाश्रयत्वं च वृतिनिर्गमने सति संभवति | अज्ञानाश्रये
346 SK प्. २१३अ) विषयचैतन्ये वृतिरूपज्ञानस्थापि स्थितिलाभात् तन्निर्गमाभावे तु तयोस्समानाश्रयत्वासंभवात् | समानविषयकत्वमात्रं विरोधप्रयोगजं पर्यवस्यति | तथा चाति प्रसंग इति शंकते | न च तथा सतीति | वृतिनिर्गमानुपगमे सतीत्यर्थः | सत्वादिति | देवदतीय घटज्ञानयज्ञदतीय घटाज्ञानयोरिति शेषः | अहमर्थेति | वृतिनिर्गमाभावे सति ज्ञानमहमर्थनिष्टमेव न विषयचैतन्यनिष्टं विषयावरकाज्ञानं च विषयचैतन्यनिष्ठमेव नत्वहमर्थनिष्ठं | तथा च समानाश्रयत्वं वापि तत्वान्नप्रयोजककोटिप्रविष्टमित्यर्थः | समानाश्रयविषयत्वमिति ज्ञानाज्ञानयोर्विरोधे समानाश्रयत्वे सति समानविषयकत्वं प्रयोजकं परिकल्प्य तन्निर्वाहायवृतिनिर्गमे स्वीकृतेप्युक्तदोषतादवस्थो न तयोर्विरोधे उक्त प्रयोजकादन्यदेवप्रयोजकं कल्पनीयं तच्च वृतिनिर्गमं विनैव सिध्यति | अतो विरोधप्रयोजकोपपादकतयापि वृतिनिर्गमो न सिध्यतीति समुदायार्थः | देवदतीयेति | यज्ञदतीय घटाज्ञानाश्रये घटावछिन्नचैतन्ये देवदतीय घटज्ञानरूपवृतेर्निर्गमनद्वारासंबंधे सति देवदतीय घटज्ञानयज्ञदतीय घटाज्ञानयोस्समानयोस्समानाश्रयत्वे सति समानविषयकत्वं लभ्यते न च देवदतीय घटवृत्यायज्ञदतीय घटाज्ञाननिवृतिरस्तीत्युक्तदोषतादवस्थ्यमित्यर्थः ||
347 SK प्. २१३ब्) यदज्ञानं यं पुरुषं प्रति यद्विषयावरकं ततदीय तद्विषयकज्ञाननिवर्त्यमिति पृथगेव विरोधप्रयोजकस्य वक्तव्यतया सामानाश्रयत्वस्यानपेक्षणात् | अत्राहुः वृतिनिर्गमानुपगमे ज्ञानाज्ञानयोर्विरोधप्रयोजकमेवदुर्नीरूप्यं यदज्ञानं यं पुरुषं प्रतीत्याद्युक्तमिति चेन्न परोक्षज्ञानेनापि विषयगताज्ञाननिवृतिप्रसंगात् अपरोक्षत्वमपि निवर्तकज्ञानं विशेषणमिति चेत् | किं तदपरोक्षत्वं न तावज्जातिः दंड्ययमासीदिति संस्कारोपनीत दंडविषिष्टपुरुषविषयस्य चाक्षुषज्ञानस्य दंडांशेपि तत्सत्वे तत्रापि विषयगताज्ञाननिवृत्यापातात् | दंडंसाक्षात्करोमीति तदंशेप्यापरोक्ष्यानुभवापतेश्च | अननुभवेपि संस्कारं सन्निकर्षं परिकल्प्येंद्रिय सन्निकर्षजन्यतया तत्र काल्पनिकापरोक्ष्योपगमेनुमित्यादावपि लिंगज्ञानादिकं सन्निकर्षं परिकल्प्यतदंगीकारापतेः | दंडाशे आपरोक्षा सत्वे तु तस्य जातित्वायोगाज्जातेर्व्याप्यवृतित्वनियमात् ||
348 SK प्. २१४अ) यदीदं प्रयोजकं न भवति | किं तर्हि तत्प्रयोजकं वृतिनिर्गमननिरपेक्षं पूर्ववादिनस्तवाभिप्रेतं | तत्राह | यदज्ञानमिति | तदिति | तदज्ञानं तत्पुरुषीय तद्विषयकज्ञाननिवर्त्यमित्यर्थः | तथा च प्रयोजक शरीरे यं पुरुषं प्रतीत्यनेन तदीयेत्यनेन च यज्ञदतं प्रतिविषयावरकाज्ञानस्य यज्ञदतीय ज्ञानेनैव निवृतिर्न देवदत ज्ञानेनेति नियमलाभान्नोक्ताति प्रसंग इति सूचितं | वृतिनिर्गमं साधयितुमुपक्रमेते | अत्राहुरित्यादिना किं तदिति | अपरोक्षत्वं जातिरुपाधिर्वेति किं शब्दार्थः आद्यं दूषयति | न तावदिति | पूर्वं दंडविशिष्टतया गृहीते विष्णुमित्रे वर्तमानकाले दंडवियुक्ते प्रत्यक्षप्रत्यभिज्ञानं संस्काररूपोपनायकसहितादिंद्रियाज्जायते | अयं विष्णुमित्रोदंड्यासीदिति | तत्र दंडांशे प्रत्यक्षत्वमस्ति न वा आद्ये दोषमाह | देडांशेपीति | निवृत्यापातादिति | न चात्रेष्टापतिर्वक्तुं शक्यासदंड इदानीं कीदृश इति जिज्ञासानुदयप्रसंगादितिभावः | नन्वज्ञाननिवृत्यनुभवयोरभावेपि दंडांशे प्रत्यक्षं त्वं कल्प्यते कल्पकं च इंद्रिय सन्निकर्ष जन्यत्वं सन्निकर्षश्च स विषयप्रत्यासतिरिति मतमनुस्वत्यसंस्कारः कल्प्यते इत्याशंक्य अतिप्रसंगमाह | अननुभवेपीत्यादिना प्. २१४ब्) अनुमितौ लिंगज्ञानं सन्निकर्षः उपमितौ सादृश्यज्ञानं सन्निकर्षः शाब्दे पदार्थोपस्थितिस्सन्निकर्षः | अर्थापतावनुपपद्यमानपदार्थज्ञानं सन्निकर्षः अभावज्ञाने प्रतियोगिज्ञानं सन्निकर्ष इति कल्पनया प्रत्यक्षप्रमाणपरिशेषापतेरितिभावः | तदंगीकारेति अपरोक्षत्वांगीकारापतेरित्यर्थः | दंडांशेपि प्रत्यक्षत्वं नास्तीति | द्वितीय कल्पं दूषयति | दंडांश इति व्याप्यवृतित्वनियमादिति | अन्यथा एकस्यामेव प्रत्यभिज्ञायां ततांशे संस्कारजतया स्मृतित्वापतौ जातिसंकरापतेरितिभावः ||
349 SK तदनियमेप्यवछेदकोपाधिभेदानिरूपणेन तस्याव्याप्यवृतिज्ञातित्वायोगाच्च | नाप्युपाधिस्तदनिर्वचनात् | इंद्रियजन्यत्वमिति चेन्न | साक्षि प्रत्यक्षा व्यापनात् | अनुमिति शाब्दज्ञानोपनीत गुरुत्वादिविशिष्टघटप्रत्यक्षे विशेषणांशातिव्यापनाच्च | कारणांतराभावेन तदंशे परोक्षेप्युपनय सहकारिसामर्थ्याद्रिंद्रियस्यैव जनकत्वादनुगतजन्यतावछेदका ग्रहेणानेकेष्विंद्रियजन्यत्वस्य दुर्ग्रहताच्च | तत् ग्रेहे च तस्यैव प्रथमप्रतीतस्यापरोक्षरूपत्वोपपतौ प्रत्यक्षानुभवा प्. २१५अ) योग्यस्येंद्रियजन्यत्वस्य तद्योग्यापरोक्षरूपत्व कल्पनायोगात् || तदनियमेपीति | जातेर्व्याप्यवृतित्वनियमाभावेपि प्रकृते प्रत्यभिज्ञायाः विष्णुमित्रांशे प्रत्यक्षत्वं दंडांशेत प्रत्यक्षत्वं दंडांशे तदभावश्चास्तीति वक्तव्यं | ततश्चावछेदकभेदं विना प्रतियोगि तदभावयोरेकत्र वृत्ययोगादुपाधिभेदो वाच्यस्स च दुर्निरूपस्तस्मादपरोक्षत्वजातेः स्वसमानाधिकरणात्यंताभाव प्रतियोगित्वरूपाव्याप्यवृतित्वायोगाद्व्याप्यवृतिजातित्वमेव वाच्यं | तत्र च दूषणमुक्तमितिभावः | ननु प्रकृते उपाधिभेदानिरूपणमसिद्धं लौकिकसन्निकर्षजन्यत्वतःदभावयोर्वासंस्काराजन्य ज्ञानत्व तदभावयोर्वा विष्णुमित्रविषयकत्व तदभावयोर्वापरोपरोक्षत्व तदभावौ प्रत्युपाधित्व संभवादिति चेत् न | उक्तोपाधो नामपि भावाभावरूपतया तदर्थमुपाध्यंतरापेक्षायामनवस्था प्रसंगादिति भावः | अपरोक्षत्वमुपाधिरिति पक्षं दूषयति | नापीति | अनिर्वचनमसिद्धमिति चेत्तन्न व्यूक्तव्यं किमिद्रियजन्यत्वमपरोक्षत्वं किं वा तत्सन्निकर्षजन्यत्वं सिद्धांत्यभिमतं वा तत्राद्यमनूद्यदूषयति | इंद्रियेति | सुखादि प्रत्यक्षरूपे नित्यसाक्षिण्यव्याप्तिमुक्ताति व्याप्तिमप्याह | अनुमितीति | यस्मिन् घटे अनुमानेन वा शब्देन वा गुरुत्वमनुभूतं तस्मिन् इंद्रियसन्निकर्षे सति घटोयं
350 SK प्. २१५ब्) गुरुरिति प्रत्यक्षं भवति | तत्र विशेषणीभूतगुरुत्वांशेति व्याप्तिरित्यर्थः | ननु गुरुत्वस्य इंद्रियायोग्यतयापरोक्षे तदंशज्ञाने तज्जन्यत्वमसिद्धमित्यत आह | कारणांतरेति | यथा रुचिदतमते अनुमितौ मनसः करणत्वं तथेति भावः | न चेंद्रियत्वेनेंद्रियजन्यत्वमपरोक्षत्वं गुरुत्वांशज्ञाने च न तथा तज्जन्यत्वमिति नाति व्याप्तिरिति वाच्यं | तथापि साक्षिप्रत्यक्षा व्याप्त्यनिरासादितिभावः | अनेकेषुरूपादि साक्षात्कारेषु तज्जन्यत्वं दुर्ग्रहमनुगत जन्यतावछेदकाभावे न तद्ज्ञानं विना जन्यत्वज्ञानासंभवादित्याह | अनुगतेति | ननु साक्षात्करोमि इत्यनुभवसिद्धः कश्चिदखंडोपाधिरेव जन्यतावछेदकोस्तित्याशंक्य तर्हि | स एवापरोक्षत्वं भवेन्नान्यदित्याह | तद्ग्रहे चेति अवछेद्य जन्यत्वग्रहात्पूर्वमेवावछेदक ग्रहस्यावश्यकत्वात्साक्षात्करोमीत्यनुभवयोग्यस्यापरोक्षत्वस्य तदयोग्य धर्मरूपत्वायोगोच्चेत्यर्थः || एतेनेंद्रिय सन्निकर्षजन्यत्वमापरोक्ष्यमुपनयसहकृतेंद्रिजन्यपरोक्षांशे च न सन्निकर्षजन्यत्वमनुमितावप्युपनीतभानसत्वेन प्रमाणांतरसाधारणस्योपनयस्यासन्निकर्षत्वादित्यपि शंकानिरस्ता प्. २१६अ) संयोगादि सन्निकर्षाणामननुगमेनानुनुगमाच्च | यत्तवाभिमतमापरोक्ष्यं तदेव ममाप्यस्त्विति चेन्न तस्य शब्दापरोक्षनिरूपणप्रस्तावे प्रतिपादनीयस्य तत्रैव दर्शनीययारित्या ||
351 SK अस्त तर्हि उक्तावछेदकोपाधिरेवापरोक्षनं स किं व्याप्यवृतिरव्याप्यवृतिर्वानाद्यः दंड्यऽयमासीदिति प्रत्यक्षे दंडाशातिव्याप्तेर्न द्वितीयः अवछेदकभेदानिरूपणात् | न च विष्णुमित्रविषयकत्वावछेदेन तत्रापरोक्षत्वरूपोपाधिरस्ति दंडविषयकत्वावछेदेन तत्रैव तदभावोप्यस्तीति वाच्यं | तथा सति दंडांशे विष्णुमित्रविषयकत्वाभावस्य वक्तव्यतया तत्र प्रत्यक्षे विष्णुमित्रविषयकत्व तदभावयोरविरोधायावछेदकांतरापेक्षायां पूर्वोक्तानवस्थाप्रसंगादखंडोपाधिस्वीकारे जातिमात्रविलयप्रसंगाच्च नोक्तोपाधिपक्षः संभवतीति भावः | उपाधिपक्षे द्वितीयविकल्पं निराचष्टे | एतेनेति | अव्याप्त्यादिदोषप्रसंगेनेत्यर्थः | इंद्रियजन्यत्वमपरोक्षत्वमिति पक्षे या अतिव्याप्तिरुक्ता सा तत्सन्निकर्षजन्यत्वं तदिति पक्षे नास्तीत्याह शंकिकः उपनयेति | कारणांतरा भावेन इंद्रियजन्यत्व सत्वेपि तत्सन्निकर्षजन्यत्वं नास्ति | उपनयस्य सन्निकर्षत्वाभावात् | सन्निकर्षातराभावाच्चेति भावः | दूषणांतरमाह | संयोगादीति | संयोगसंयुक्त ससमवादि
352 SK प्. २१६ब्) सन्निकर्षाणामननुगमेन संयोगादिष्वनुगतसन्निकर्षत्वस्याभावेनेति यावत् | अननुगमाच्चेति | इंद्रिय सन्निकर्ष जन्यत्वस्येति शेषः | तथा च घट तद्रूपरूपत्व शब्दशब्दत्वसुखादिगोचरसाक्षात्कारेषु साक्षत्करोमीत्यनुगत प्रत्यक्षं न स्यादितिभावः | उपाधिपक्षे तृतीयमुपाधिमाशंकते | यतवाभिमतमिति | तवसिद्धांतिनो यद्ज्ञानगतमपरोक्षत्वं संमतं तदेव मम मतेप्यस्त तथा चापरोक्षत्वस्याज्ञाननिवर्तक ज्ञानविशेषणत्वं संभवान्न परोक्षज्ञानेन तन्निवृतिप्रसंग इति भावः | मदभिमतापरोक्षत्वस्य ज्ञाने तन्निवृतिप्रयोजकत्वं न संभवतीति सिद्धांती दूषयति | न तस्येति | मडभिमतापरोक्षत्वस्येत्यर्थः | प्रस्तावः प्रकरणं तच्च तृतीय परिछेदोवसाने द्रष्टव्यं | तत्रैव दर्शनीययेति | ज्ञानस्यापरोक्षत्वं हि न करणविशेषप्रयुक्तं किं त्वपरोक्षार्था भिन्नत्वमिदं चापरोक्षत्वं विषयावभासकचैतन्यरूपज्ञाननिष्ठमतो न साक्षिप्रत्यक्षा व्याप्तिः अर्थापरोक्ष्यं च स्वव्यवहारानुकूलचैतन्याभि || अज्ञाननिवृति प्रयोज्यत्वेन तन्निवृतिप्रयोजकविशेषणभावायोगात् | तस्मातरति शोकमात्मविदिति श्रुतस्य ब्रह्मज्ञानस्य प्. २१७अ) मूलाज्ञानाश्चय भूतसर्वोपादान ब्रह्मसंसर्गनियतस्य मूलाज्ञाननिवर्तकत्वादैंद्रियकवृतयः ||
353 SK न्नत्वं स्वपदमर्थपरं तद्व्यवहारानुकुलं च चैतन्यं निवृतावरणं ततदधिष्ठानचैतन्यमेव तथा घटाद्यर्थस्य स्वव्यवहारानुकूलेन स्वाधिष्ठानचैतन्येन स्वगोचरवृत्यभिव्यक्तेन तादात्म्यलक्षणाभेद स त्वात् | स्वव्यवहारानुकूलचैतन्याभिन्नत्वरूपमऽपरोक्षत्वमुपपन्नं तथा अहंकारादिषु तदधिष्ठानभूतस्य केवलसाक्षिरूप तत्प्रत्यक्ष ज्ञानस्य बाह्यघटादिषु तत्तदाकारवृयुपहितस्यऽघटादि प्रत्यक्षज्ञानरूपस्य घटाद्यधिष्ठानचैतन्यस्य च तेन तेन विषयेण तादात्मः सत्वादपरोक्षार्थाभिन्नरूपमपरोक्षत्वमुपपन्नंमिति हि तत्र दर्शनीयारीतिः | प्रयोज्य त्वेनेति | विषयचैतन्यगताज्ञाननिवृत्तौ सत्यां विषयस्य घटादेः स्वव्यवहारानुकूलचैतन्याभिन्नत्वरूपमपरोक्षत्वं लभ्यते | विषयस्य तल्लाभे सति तद्ज्ञानस्यापरोक्षार्थो भिन्नत्वरूपमपरोक्षत्वं लभ्यते | तथा च विषयचैतन्यगता ज्ञाननिवृतेः पूर्वं ज्ञानस्यापरोक्षत्वालाभेन सिद्धांत्यभिमतस्य ज्ञानगतापरोक्षत्वस्य विषयचैतन्यगताज्ञाननिवृति प्रयोज्यस्याज्ञाननिवृतिं प्रतिप्रयोजकत्वासंभवादित्यर्थः | तन्निवृतिर्प्रतिप्रयोजकतया निवर्तक
354 SK प्. २१७ब्) ज्ञानविशेषणत्वायोगादित्यक्षरार्थः | तस्मादिति | यदज्ञानं यं पुरुषं प्रतीत्यादिरूपे निरुक्ते विरोधप्रयोजके अपरोक्षत्वस्य निवर्तक ज्ञान विशेषणत्वासंभवादित्यर्थः | तस्मादज्ञानाश्रयचैतन्यसंसर्गनियतत्वं निवर्तकज्ञानविशेषणं वाच्यमिति संबंधः परोक्षज्ञानस्याज्ञाननिवर्तकत्व प्रसंगवारणायेति शेषः | ननु विषयसंसृष्टस्य वृतिज्ञानस्य विषयगतो ज्ञाननिवर्तकत्वं क्वचिदप्यकॢप्तमित्याशंक्य ब्रह्मगोचरवृति ज्ञाने कॢप्तमित्याशयेनाह | ब्रह्मज्ञानस्येति | मूलाज्ञानाश्रय भूतसर्वोपादाने ब्रह्मणि संसर्गनियतस्येत्यर्थः | यदा ब्रह्मगोचरवृतिज्ञानमुदेति तदा नियमेन ब्रह्मसंसृष्टमेवोदेत्वीत्यत्र हेतुत्वेन सर्वोपादानत्वमुपातं कार्यमात्रस्य जन्मप्रभृत्युपादानभूतब्रह्मणा सहसंसर्गनियमे सति ब्रह्मगोचवृतिज्ञानस्यापि स्वनिवर्त्यमूलाज्ञानाश्रयभूते ब्रह्मणि संसर्गनियमोप्यर्थ सिद्ध इति भावः | ब्रह्मज्ञानस्याज्ञाननिवर्तकत्वे मानमाह | तरति शोकमिति | शोकपदमिज्ञानपरम्मत्मपदं प्रत्यगभिन्न ब्रह्मपरं श्रुतस्येति पदात्पूर्वमज्ञाननिवर्तकत्वेनेति शेषः || प्. २१८अ) ततदिंद्रिय सन्निकर्ष सामर्थ्यात्तत्तद्विषयावछिन्नचैतन्यसंसृष्टा एवोत्पद्यंत इति नियममुपेत्याज्ञानाश्रयचैतन्य संसर्गनियतत्वं निवर्तकज्ञानविशेषणं वाच्यं | तथा च पदज्ञानं यं पुरुषं प्रतियद्विषयाबरकं तत्तदीतद्विषय तदज्ञानाश्रयचैतन्यसंसर्गनियतात्मलाभज्ञाननिवर्त्यमिति ज्ञानाज्ञानयोर्विरोधप्रयोजकं निरूपितं भवति | न चैवं सति नाडीहृदयस्वरूपगोचरशाब्दज्ञानस्याप्यज्ञाननिवर्तकत्व प्रसंगः ||
355 SK परोक्षवृतीनां विषयचैतन्यसंसर्गाभावादैंद्रियकवृतीनां तत्संसर्गे को हेतुस्तत्राह | ततद्रिंद्रियसान्निकर्षसामर्थ्यादिति | अनेनपरोक्षवृतीनामज्ञानाश्रयविषयचैतन्यसंसर्गनियतत्व रूपविशेषणाभावाद्यदज्ञानं यं प्रतीत्याद्यंश सत्वेपि न तत्राति प्रसंग इति सूचितं | पर्यवसितं प्रयोजकं दर्शयति | तथा चेति | उक्तविशेषणे सतीत्यर्थः | घटावछिन्नचैतन्ये तदावरकाज्ञानानि बहूनि संति | तेषां मध्ये कानिचिद्रदेवदतंप्रति तदावरकाणिकानि चिच्चयज्ञदताद्दिकं प्रतितदावरकाणि एवं प्रतिविषयं पुरुषभेदेनानेको ज्ञाननिसंति | तथा च विषयावरकाज्ञानानां
356 SK प्. २१७ब्) मध्ये यदज्ञानं यं पुरुषं देवदतं प्रति यद्विषयावरकं यस्य विषयस्य घटस्यावरकं तदज्ञानं तदीपेन देवदतीयेन तद्विषयेण तद्वटविषयकेण तदज्ञानाश्रयचैतन्यसंसर्गनियतात्मलाभज्ञानेन निवर्त्यमित्यर्थः | तदज्ञानेति यद्देचदतं प्रतिघटावरकाज्ञानमभिधीयते | तदज्ञानाश्रयचैतन्यं घटावछिन्नचैतन्यं | तत्र यः संसर्गः तन्नियतः तद्व्याप्य आत्मलाभो यस्य घटगोचरवृतिज्ञानस्य तद्ज्ञानं तदज्ञानाश्रयचैतन्य संसर्गनियतात्मलाभं | तच्च तद्ज्ञानं चेति विग्रहः आत्मलाभः उत्पतिः नियमश्च यदा यदा घटगोचरवृतिज्ञानस्य घटेंद्रिय सन्निकर्षजन्यस्यात्मलाभस्तदा तदा घटावछिन्नचैतन्ये तस्य घटगोचरवृतिज्ञानस्य संसर्ग इत्येवमात्मकः तदुक्तं प्रागैंद्रियकवृतयस्ततद्विषयावछिन्नचैतन्यसंसृष्टा एवोत्पद्यंत इति नियममुपेत्येति | अत्र यदा यदा ऐंद्रियकवृतीनां मुत्पतिस्तदा तदा विषयचैतन्ये तासां संसर्ग इति हि नियमः स्पष्टं भासते | एवं विषयांतरेषु पुरुषांतरेष्वज्ञानांतरेषु च इदं प्रयोजकं विशिष्यविशिष्य योजनीयं | ननु परोक्षवृतीनां विषयचैतन्यसंसर्गाभावेनोक्त प्रयोजकानाक्रांतत्वादज्ञाननिवर्तकत्व प्रसंगो नास्तीत्युक्तमयुक्तं | कदाचित् परोक्षवृतेरपि विषयसंसर्ग स त्वात् | तथा हि | हृदयपुंडरीके नाड्यः संतीति प्. २१९अ) वाक्याजायमानायावृतेः | कदाचिदंतःकरणे हृदयपुंडरीकस्थे नाडीहृदयान्यतरवस्त्ववछेदेन जनने सति तस्यावृतस्तदन्यतरवस्त्ववछिन्नचैतन्ये संसर्गसत्वा तदावरणनिवर्तकत्व प्र ||
357 SK तस्य कदाचिदर्थसंपन्ननाडीहृदयान्यतरवस्तसंसर्ग संभवेपि विषयसंसर्गं विनापि शाब्दज्ञानसंभवेन तत्संसर्गनियतात्मलाभत्वालाभात् | तस्मादज्ञान ज्ञानविरोधनिर्वाहायवृतिनिर्गमो वक्तव्य इति | अन्ये तु विषयगताज्ञानस्य लाघवात् | समानाधिकरणज्ञाननिवर्त्यत्व सिद्धौ वृतिनिर्गमः फलतीत्याहुः | अपरे तु बाह्यप्रकाशस्य बाह्यतमो निवर्तकत्वं सामानाधिकरण्ये सत्येव दृष्टमिति दृष्टानुरोधात् | वृतिनिर्गमः सिद्ध्यतीत्याहुः | संगः न चेष्टापतिस्तदा तदन्यतरवस्तनिन्निज्ञासानुदयप्रसंगादिति शंकानियतपदेन निरस्तेत्याह | न चैवं सतीति विरोधप्रयोजकस्य नियतगर्भत्वे सति शाब्दज्ञानस्याप्यज्ञाननिवर्तकत्वप्रसंगो न चेति संबंधः | यदा यदा हृदयादि प्. २१९ब्) गोचरशाब्दवृतिरुदयस्तदा तदा तस्यावृतेर्हृदयाद्यन्यतरवस्त्ववछिन्नचैतन्ये संसर्ग इति नियमो नास्तीति हेतुमाह | तस्येति | तादृशशाब्दज्ञानस्येत्यर्थः | ऐंद्रियकवृतीनां हि ततदिंद्रियगोलकावछिन्नांतःकरणप्रदेशेषूत्पति नियमस्संभाव्यते | इंद्रियनिरपेक्षवृतीनां त्वं तष्करणे जायमानानां प्रदेशनियमे कारणाभावाद्धृदयादिगोचरशाब्दवृतिः कदाचिद्दैवयोगाद्धृदयाद्यवछेदेनांतष्करणे जायते कदाचितु हृदयादि प्रदेशं विहाय प्रदेशांतरावछेदेन सा तत्र जायत इति निरुक्तनियमो नास्तीत्यर्थः | अत्र तस्येति षष्ट्याः सप्तम्यापंचम्या च संबंधः | तस्मादिति वृतिज्ञानस्याज्ञानाश्रयविषयचैतन्य संसर्गं विना तन्निवर्तकत्वासंभवादित्यर्थः | एवं ज्ञानाज्ञानयोर्विरोधप्रयोजकनिर्वाहकत्वेन वृतिनिर्गमनं प्रसाध्यतेत्रैव हेत्वंतराणि मतभेदेनाह | अन्ये त्वित्यादिना | लाघवादिति विषयगताज्ञानस्यान्वयव्यतिरेकाभ्यां ज्ञाननिवर्त्यत्वग्रहदशायां लाघवात् समानाधिकरणज्ञाननिवर्त्यत्वं गृह्यतेन तु व्यधिकरणज्ञाननिवर्त्यत्वमित्यर्थः | एतदुक्तं भवति | अज्ञानस्य विषयचैतन्यगतत्वातन्निवृतिलक्षणं ज्ञानकार्यमपि तद्गतमेव तथा चाज्ञाननिवृतिरूपकार्यस्य
358 SK प्. २२०अ) स्वकारणभूतज्ञानेन सहेंद्रिय सन्निकर्ष सामर्थ्यात् | सामानाधिकरण्य लक्षणसंबंध संभवेत त्यागायोगात् | कार्यकारणयोस्सामानाधिकरण्यस्यौत्सर्गिकादिति | बाह्यतम इति | अंधकारेत्यर्थः | सत्येवेति | अन्यत्र विद्यमानादालोकादन्यत्रतमोनाशो न दृष्ट इत्येवकारार्थः | अज्ञानस्यापि विषयावरकत्वैन बाह्यतमस्सदृशत्वाद्धृतिरूपस्य वृत्यारूढे चेतन्यरूपस्य वा प्रकाशस्यावरणनिवर्तकत्वेनालोक सदृश त्वात् ज्ञानाज्ञानयोरप्यंधकारालोकयोरिव सामानाधिकरणयोरेव निवर्त्यनिवर्तक भावः | कल्प्यते तच्च सामानाधिकाण्यमज्ञानाश्रयविषयचैतन्ये वृतिज्ञानस्य संसर्गरूपं स च संसर्गो वृतिनिर्गमाधीन इति भावः | केचित्वावरणाभिभवार्थं वृतिनिर्गमानपेक्षायामपि चिदुपरागार्थं | प्रमातृचैतन्यस्य विषयप्रकाशब्रह्मचैतन्याभेदाभिव्यक्त्यर्थं वा तदपेक्षेत्याहुः | अथ किं प्रमाणको यं जीवब्रह्मणोरभेदः | यो वृत्याभिव्यज्येत वेदांत प्रमाणक इति घंटा घोषः | सर्वेपि वेदांता उपक्रमोपसंहारैकरूप्यादि तात्पर्य लिंगैर्विमृश्यमानाः | प्रत्यमिन्ने प्. २२०ब्) ब्रह्मण्य द्वितीये समन्वयंति | यथा चायमर्थस्तथा शास्त्राथा समन्वयाध्याये प्रपंचितं विस्तुरभयान्नेह प्रदर्श्यते || इति श्रीशास्त्रसिद्धांतलेशसंग्रहे अप्यैदीक्षितविरचिते प्रथमः परिछेदः || शुभंमस्तुः ||
359 SK एवं विषयचैतन्यगताज्ञाननिवृतिरनिर्गतवृत्यापि संभवत्यतो वृतिनिर्गमनाभ्युपगमो व्यर्थदत्याक्षेपे तन्निर्गमं विना तन्निवृतिर्न संभवतीति तदभ्युपगमस्सफल इति | समाधानं दर्शितमिदानीं विषयचैतन्यगताज्ञाननिवृत्यर्थं वृतिनिर्गमनं नापेक्षितमिति पूर्वपक्ष्युक्तमंगीकृत्यापि वृतिनिर्गमनं साधयति | केचित्विति | इदं च प्रकारद्वयं प्रागेव प्रपंचितुमिति नेह प्रपंच्यत इति बोध्यं | प्रमात्रचैतन्यशब्दित जीवस्य ब्रह्माभेदे नास्ति प्रमाणामिति शंकते | अथेति | अयमभेदः किं वेदांतप्रमाणकः किम् वा तदन्यप्रमाणकस्तत्र न तावदाद्यः कल्पः संभवति वेदांतानामुपासनादिपरत्वप्रतीतेर्न द्वितीयः जीवब्रह्माभैदस्यौपनिषदत्व श्रुतिविरोधादिति भावः | तत्राद्यं कल्पं परिगृह्यसमाधते | वेदांतेति | तेषामुपासनादि | प्. २२१अ) परत्वं दूषयति | सर्वेपीति | वेदांतानां क्व तात्पर्यमिति विमृश्यमाने सर्वेपि वेदांता अद्वये जीवाभिन्ने ब्रह्मणि समन्वयंति समन्वयं तात्पर्यं लभंते | तात्पर्यज्ञापकानि लिंगानि कथयति | उपक्रमेति आदिपदमभ्यासादिसंग्रहार्थं के ते वेदांताः | कथं वा तेषूक्तलिंगानां सत्वं को वा तैर्लिंगैस्तात्पर्यावगम प्रकार इत्याकाक्षायामाह | यथा चेति | सर्वेषां वेदांतानामयमेव परमतात्पर्यविषयीभूतोर्थः | न तूपासनादिरिति प्रपंचित इत्यर्थः | अत्रापि कुतो न प्रपंचते तत्राह | विस्तरेति | ग्रंथविस्तारभयादित्यर्थः | इति श्रीमत्परमहंसपरिव्राजकावार्य श्रीमत्स्वयंप्रकाशकानंदसरस्वती चरणारबिंदसंलग्नरजो भूतस्य अच्युतकृष्णानंदतीर्थस्य कृतौ शास्त्रसिद्धांतलेशसंग्रहव्याख्यायां श्रीबालमुकुंदानंदतीर्थपादपूज्यशिष्यश्रीविश्वनाथतीर्थस्य पुस्तकोद्धारणः प्रथमः परिछेदस्समाप्तः || ॐ श्रीगणेशाय नमः ||
360 SK अथ कथमद्वितीये ब्रह्मणी वेदांतांनां समन्वयः | प्रत्यक्षादि विरोधादिति चेन्न | आरंभणाधिकरणोदाहृत श्रुति युक्तिभिः | प्रत्यक्षाधिगम्यस्य प्रपंचस्य ब्रह्मविवर्तरूपतया मिथ्या त्वावगमात् | ननु न श्रुतियुक्तिभिः प्रपंचस्य मिथ्यात्वं प्रत्याययितुं शक्यते | घटः सन्नित्यादि घटादि सत्वग्राहि प्रत्यक्षादि विरोधात् | अत्रारूस्तत्वशुद्धिकाराः | न प्रत्यक्षं घटपटादि तत्सत्वं वा गृह्णाति | किं त्वधिष्ठानत्वेन घटाद्यनुगतं सन्मात्रं तथा च प्रत्यक्षमपि सद्रूपब्रह्माद्वैत सिद्धानुकूलमेव ॐ श्रीमहागणपतये नमः || ॐ यो मे विश्वेश्वर क्षेत्रं विश्वेश्वर समो गुरुः समध्यास्ते स्वयं ज्योतिर्वाणी संज्ञो भजामितं | स्वयं प्रकाश सरस्वती संज्ञ इत्यर्थः | आचार्यचरणद्वंद्वस्मृतिर्लेखकरूपिणं मां कृत्वा कुरुते व्याख्यां नाहमत्र प्रभुर्यतः | अत्र व्याख्याने प्रभुः समर्थ इत्यर्थः | प्रथमपरिछेदे ब्रह्मलक्षणविचारावसरेस्तक्षणस्य मतभेदेन ज्ञेय ब्रह्मनिष्ठत्वनिरूपणेन प्. १अ) ईश्वररूउपब्रह्मनिष्ठत्वनिरूपणेन च तत्पदलक्ष्यार्थ वाच्यार्थौ निरूपितौ तथा तदनंतरं जीव तत्साक्षिणोर्निरूपणेन त्वं पदवाच्यार्थलक्ष्यार्थौ निरूपितौ तथा चार्थाद्वाक्यार्थरूपाभेदोपि निरूपितो भवति | वाक्यार्थस्य तत्वं पदलक्ष्यार्थानतिरेकात् | तथा च जीवाभिन्ने निर्विशेषे ब्रह्मणि वेदांतसमन्वयरूपः प्रथमाध्यायार्थः | तात्पर्यतः पूर्वपरिछेदे निरूपितो भवति | इदानीं द्वितीयाध्यायार्थरूपं वेदांत समन्वयस्य मानांतराविरोधं निरूपयितुं परिछेदांतरमारभते | अथ कथमिति | समन्वयस्तात्पर्यं | प्रत्यक्षेति | ब्रह्मापेक्षया द्वितीयस्य प्रपंचस्य प्रत्यक्षसिद्धत्वादद्वितीयत्वं तस्य बाधितं तथा च बाधितेर्थे कथं श्रुतेस्तात्पर्थमप्रामाण्यप्रसंगादिति भावः | प्रपंचस्य रजु सर्पादिवत् ब्रह्मणि कल्पितत्वाद्वास्तवमद्वितीयत्वमवाधितमिति समाधते | नेति |
361 SK श्रुति युक्तिभिरिति | एताः श्रुति युक्तयो विवर्तलक्षनिरूपणावसरेऽस्माभिर्दर्शिता इति नात्र पदर्श्यंते | प्रत्यक्षविरोधे श्रुतियुक्तीनामेव बाधो न्याय्य इति मन्यमान आक्षिपति ननु नेति ऽघटः संन्नित्यादिना घटादि सत्वग्राहि प्रत्यक्षेण प्. १ब्) सहप्रपंचमिथ्यात्व प्रत्यायक श्रुति युक्तीनां विरोधत्वादित्यर्थः | श्रुत्यादिभिर्गम्यमिथ्यात्व विरुद्धं सत्वं प्रत्यक्षग्राह्यमेव न भवति | अतस्तद्विरोधशंकैव निरालंबनेति पंचभिर्मतैः | प्रतिपादयति | अत्राहुरित्यादिना | प्रत्यक्षं घटादि न गृह्णाति घटादेः सत्वं वा न गृह्णाति चेतर्हि निर्विषयं तत्प्रसज्येतेति शंकते | किं त्विति | उत्तरं | अधिष्ठानेति | सन्मात्रमिति | सद्रूपब्रह्मैव प्रत्यक्षप्रमेयमित्यर्थः | एवं स्थितेन केवलं प्रत्यक्षं विरोधा भावः | किं तु लाभोप्यस्तीत्याह | तथा चेति || तथा सति सत्सदित्येव प्रत्यक्षं स्यान्न तु घटः सन्नित्यादि प्रत्यक्षमिंद्रियान्वयव्यतिरेकानुविधायीति चेन्न | यथा भ्रमेष्विदमंशस्याधिष्ठानस्य प्रत्यक्षेण ग्रहणं | इंद्रियान्वय व्यतिरेकयोस्तत्रैवोपक्षयः रजतांशस्यारोपितस्य भ्रांत्याप्रतिभासस्तथा सर्वत्र सन्मात्रस्य प्रत्यक्षेण गृहणं | तत्रैवेंद्रिय व्यापारः घटादिभेदवस्तु प्रतिभासो भ्रांत्येत्युपगमात् | न तु तद्वदिह बाधादर्शनात् तथा भ्युपगम एव प्. २अ) निर्मूल इति चेन्न बाधा दर्शनेपि देशकालव्यवहित वस्तवत् घटादिभेदवस्तुनः प्रत्यक्षायोग्यत्वस्यैव तत्र मूलत्वात् | तथाहि | इंद्रियव्यापारानंतरं प्रतीयमानी घटादिः सर्वतो भिन्न एव प्रतीयते | तदा तत्र घटादिभेदे संशय विपर्या दर्शनात् | यत्रापि स्थाण्वादै पुरुषत्वादि संशयस्तत्रापि तद्व्यतिरिक्तेभ्यो भेदोऽसंदिग्धाविपर्यस्तत्वात्प्रकाशत एव ||
362 SK घटाद्रियकत्ववादी शंकते | तथा सतीति | तस्य सन्मात्रविषयकत्वे सतीत्यर्थः | इंद्रियेति | न च सन्मात्र प्रत्यक्ष एव इंद्रियान्वयाद्यनुविधानोपपते | प्रत्यक्षस्य घटादि विषयकत्वाभावे तैदनविधानं न स्यादित्ये तदभिप्रायकं विशेषैणमयुक्तमिति वाच्यं | स्वप्रकाशस्य सन्मात्रस्य प्रकाशनाय इंद्रियापेक्षानुपपतेरिति भावः | अत्राक्षेप्ता किं सिद्धांत्येक देशी किं वा भेदवादी आद्ये तत्संमत दृष्टंति न सन्मात्रस्य प्रत्यक्षप्रमेयत्वमाह | यथेति | तत्रैवेति | अधिष्ठानग्रहण एवेत्यर्थः | भ्रांत्येति साक्षिरूपयेत्यर्थः | सन्मात्रस्येति | तस्य स्वप्रकाशत्वेप्यावृतत्वादावरणनिवर्तकवृत्युत्पतये इंद्रियापेक्षिति भावः | घटादीति | घटादेस्तद्भेदरूपस्य च वस्तुनः प्रतिभासौ भ्रांत्या ऐंद्रियकवृत्यभिव्यक्त सन्मात्ररूपसाक्षिचैतन्यलक्षणयेत्यभ्युपगमादित्यर्थः | एतेन सत्सदित्येव प्रत्यक्षं स्यादित्याक्षेप्ता
363 SK प्. २ब्) भेद वाचपि निरस्तः | सिद्धांतिना घटादौ तत्सत्वे च प्रत्यक्षस्य प्रामाण्यानंगीकारेपि घटादेः | प्रत्यक्षज्ञाने साक्षिरूपेभानांगीकारात् | भेदवादीशंकते | नन्विति शुक्तिरजतादेर्बाधदर्शनाद्युक्तं तस्य भ्रांत्याप्रतिभासांगीकरणं | तथा घटादि द्वैतस्य बाधादर्शना तस्य भ्रांतिमात्रसिद्धत्वमनुपपन्नमित्यर्थः | किं श्रौत बाधादर्शनं विवक्षितं किं वा प्रत्यक्षबाधादर्शनं यौक्लिकबाधादर्शनं वा आद्यमसिद्धं | दृश्यमात्रस्य ब्रह्मणि नेह नानास्तीत्यादि श्रुत्याबाधदर्शनादित्याशयेनाह | नेति द्वितीयमंगीकरोति | बाधादर्शनेपीति | तृतीयमसिध्यादूषयति | देशकालेति | घटादीति | घटादेस्तद्धर्मिकभेदरूपस्य च वस्तुन इत्यर्थः | प्रत्यक्षायोग्यत्वमेव दर्शयितुं प्रथमं संमतमर्थं दर्शयति | इंद्रियेति | तत्रेति | पदव्याख्या घटादिभेद इति घटादि धर्मिभेद इत्यर्थः | सर्वतोभिन्न एव प्रतीयत इत्ययुक्तं | इंद्रिय सन्निकृष्टे स्थाण्वादौ क्वचित्युरुषीदि प्रतियोगिकभेदस्याप्रतीतेः | प्रतीतौ वा संशयाभावापतेरत आह | यत्रापीति || भेदस्य च प्रतियोगि सहोपलंभनियमवतो न प्रत्यक्षेण ग्रहणं संभवति | देशकालव्यवधानेनासन्निकृष्टानामपि प्रतियोगिनां संभवात् | भेदज्ञानं प्रतियोग्यंशे संस्कारापेक्षणात् स्मृतिरूपमस्तु
364 SK प्. ३अ) प्रत्यभिज्ञानमिवततां(श इति चेन्न | तथापि भे)दगत प्रतियोगि वैशिष्ट्यांशे तदभावात् | न च कनका च लोभेदप्रतियोगीवस्तुत्वादिति भेदप्रतिवैशिष्ट्यगोचरानुमित्या तत्संस्कारसंभवः | भेदज्ञानं विनाऽनुमित्यभावेनात्माश्रयापतेः | पक्षसाध्य हेतुपक्षताद्यभेदभ्रमे सति सिद्ध साधनादिनानुमाना प्रवृत्या तदभेदज्ञानविघटनीयस्पतेद्भेदज्ञानस्यापेक्षित्वात् | अस्तु तर्हि भेदांश इव प्रतियोगि वैशिष्ट्यांशेपि प्रत्यक्षत्वमिति चेन्न प्रतियोगिनोऽप्रत्यक्षत्वे तद्वैशिष्ट्य प्रत्यक्षायोगात् | संबंधि द्वय प्रत्यक्षं विना संबंध प्रत्यक्षं विना संबंध प्रत्यक्षा संभवात् | तस्मात् प्रत्यक्षायोग्यस्य प्रतियोगिनो भ्रांतिरूप एव प्रतिभास इति तदेकविति वेद्यत्व नियतस्य भेदस्य भेदैकविति वेद्यत्वनियमघटादेश्च भ्रमैकविषयत्वात्प्रत्यक्षं निर्विशेषसन्मात्रग्राह्यद्वैत सिद्ध्यनुकूलमिति || ततः किं तत्राह | भेदस्य चेति | प्रतियोगि सहोपालंभनियमवत
365 SK प्. ३ब्) इति | ससंबंधिक पदार्थप्रत्यक्षे यावत् संबंधिविविषयकत्वस्य यावत् संबंधि प्रत्यक्षजन्यतायाश्च संयोगादि प्रत्यक्षे कॢप्तत्वाद्भेद पत्यक्षेपि यावत् प्रतियोगिविषकत्वं यावत् प्रतियोगिप्रत्यक्षजन्यत्वं च वाच्यं भेदप्रत्यक्षस्यापि ससंबंधिक पदार्थप्रत्यक्षत्वा तथा च यावंतः प्रतियोगिनस्तावतां प्रतियोगिनां प्रत्यक्षासंभवेन कॢप्त सामग्र्यभावान्रभेदः प्रत्यक्षप्रमायोग्य इति तस्य भ्रांतिमात्र सिद्धत्वं युक्तं | सिद्धांते तु भेदप्रत्यक्षस्य नित्यसाक्षिरूपत्वान्नाकारणापेक्षेतिभावः | सहोपलंभति यममात्रस्य भेदसत्यत्वमते कथंचिदुद्धारं शंकते | भेदज्ञानमिति | संस्कारापेक्षणादिति | तज्जन्यत्व संभवादित्यर्थः | भेदज्ञाने हि प्रतियोगिनां प्रतियोगितावछेदकरूपेणैवभानंपरैरुपेयते तेन रूपेण सकलप्रतियोगिगोचरपूर्वानुभवासंभवेन संस्काराभावादसंनिकृष्टप्रतियोग्यंशे स्मृतिरूपत्वमपि न संभवति | तदभ्युपगम्याप्याह सिद्धांती | न तथापीति | कनकाचलादिपदार्थानां सन्निकृष्टघटनिष्टभेदप्रतियागित्वेन पूर्वमननुभूतत्वादितिभावः | वैशिष्ट्यांशे पूर्वानुभवं शंकते | कनकाचल इति | एवमितरपदार्थेष्वप्यनुमानं द्रष्टव्यमितिभावः | आत्माश्रयापतेरिति | भेदज्ञानस्य भेदज्ञानाधीनत्वेन न किंचिद्भेदज्ञानं सिध्येदितिभावः | अप्रवृत्येति | तथा च पक्षाद्यभेदज्ञानस्यनुमिति
366 SK प्. ४अ) प्रतिबंधकतया तद्विघटकं पक्षादिभेदज्ञानमावश्यकमितिभावः | तर्हीति | प्रतियोगि वैशिष्ट्यांशज्ञानस्य स्मृतिरूपत्वासंभवे सतीत्यर्थः | तदेकेति तत्पदं प्रतियोगि परं नियमेन प्रतियोगि ज्ञानविषयस्येत्यर्थः | वितिपदं प्रत्यक्षपरं भेदपदजन्यभेदज्ञानस्य प्रतियोगिविषयत्वादर्शनादिति बोध्यं | भ्रमैकविषयत्वादिति | अधिष्ठानस्यापि भ्रमविषयत्वात्कल्पितत्वप्रसंगवारणाय एकपदमधिष्ठानस्य च सम्यग्दर्शनं प्रत्यपि विषयत्वात् | भ्रांत्यैकविषयत्वमसिदं | तथा च प्रत्यक्षं सद्वस्तुन्येव प्रमाणं सच्छ्रुत्यनुकूलमित्यर्थः || न्यायसुधाकृतस्त्वाहुः | घटादैरैंद्रियकत्वेपि सन् घट इत्यादिरधिष्ठान सत्वानुवेध इति न विरोधः | एवं नीलो घट इत्यादिरधिष्ठाननैल्याद्यनुभवेधः | किं न स्यादिति चेन्न | श्रुत्या सद्रूपस्य वस्तुनो जगदुपादानत्वमुक्तमविरोधात् | सर्व संमतमिति तदनुवेधेनैव सन् घट इत्यादि प्रतिभासोपपतौ घटादावपि सत्ता कल्पने गौरवं | तस्य रूपादि हीनत्वान्नैल्यादिकं घटादावेव कल्पनीयमिति वैषम्यादिति संक्षेप शारीरकाचार्यास्त्वाहुः | प्रत्यक्षस्य घटादि प्. ४ब्) सत्वग्राहित्वेपि पराग्विषयस्य प्रत्यक्षादेः तत्वावेदकत्वलक्षणप्रामाण्याभावान्न तद्विरोधेनाद्वैत श्रुत्यादि बाधशंका अक्षात बोधकं हि प्रमाणं न च प्रत्यक्षादि विषयस्य घटादिरज्ञातत्वमस्ति जडे आवरणकृत्याभावेनाज्ञानविषयत्वानुपगमात् | स्वप्रकाशतया प्रसक्तप्रकाशं ब्रह्मैवाज्ञानविषय इति तद्बोधकमेव तत्वावेदकं प्रमाणं तदेव प्रमिति विषयः ||
367 SK अस्तु वा घटादेश्चाक्षुषत्वाद्यनुभवानुरोधेन चक्षुरादि गम्यत्वं | तथापि प्रपंचमिथ्यात्वसाधक श्रुतियुक्तीनां न प्रत्यक्षविरोधः | प्रत्यक्षस्यापि घटादौ पृथक् सत्वग्राहित्वाभावादित्याह | न्यायसुधाकृतस्त्वाहुरिति | सन् घट इत्यादिर्घटादेः सत्यप्रतिभासोधिष्ठां न सत्वासंबंधविषयक एव अतो न विरोध न इत्यर्थः | घटादौ प्रतीयमानसत्वस्याधिष्ठानगतत्वस्वीकारेति प्रसंगं शंकते | एवमिति | नीलो घट इत्यादिर्घटादौ नैल्यप्रतिभासोप्यधिष्ठान नैल्यसंबंधगोचरः | किं न स्यादित्यर्थः | तथा च ब्रह्मरूपवत् स्यादितिभावः | नैल्यादैः सतां वैषम्येण परिहरति नेति | श्रुत्येति | सदेवेत्यादि श्रुत्येत्यर्थः | सर्वसंमतमिति | सर्वैरेव स्वीकर्तव्यमित्यर्थः | न तु यथा श्रुतं वैशेषिकादिभिरनंगीकारादविरोधादिति प्. ५अ) रज्वादेः सर्पाद्युपादानत्ववत्कूटस्थ ब्रह्मणोप्युपादानत्वाविरोधादित्यर्थः | तदन्विति | तत्पदं अधिष्ठान सतापरं | तस्येति | जगदधिष्ठान भूतब्रह्मण इत्यर्थः | घटादावेवेति | न ब्रह्मणि तत्कल्पयितुं शक्यं श्रुतिविरोधादितिभावः | प्रत्यक्षस्य घटादौ पृथक्सत्व ग्राहित्वेपि तस्य प्रमाणाभासत्वान्न तेन श्रुतेर्बाधशंकाश इत्याह | संक्षेपशीरीरकाचार्यास्त्विति | परागविषयस्येति | जडमात्रविषयकस्येत्यर्थः | तत्वेति | अनधिगतत्वे सत्यबाधितं तत्वं तदा वेदकं तद्बोधकं प्रमाणलक्षणमिति बहुवादिसंमतं | तच्च प्रत्यक्षस्य नास्तीति प्रमाणाभासरूपं प्रत्यक्षमितिभावः | घटादेरिति | तस्याबाधितत्वे सत्यपि अज्ञातत्वं नास्तित्यभिप्रायः | अन्यथा तदभावादपि प्रत्यक्षघटादेक्षस्य प्रमाणाभासत्वप्रतिपादन संभवे अज्ञातत्वाभावमात्र प्रतिपादनायोगादतो बाधिता चासंभवमुपेत्य तस्याभासत्व प्रतिपादनमिह विवक्षितमिति बोध्यं कृत्यं कार्यं फलमिति यावत् ||
368 SK अत एव श्रुतिरप्यात्मावारे द्रष्टव्य इत्यात्मन एव प्रमेयत्वमिति निपछति | न हि द्रष्टव्य इत्यनेन दर्शनं विधीयते | प्रमाणपरतंत्रस्य तस्य विध्यगोचरत्वात् | किं त्वात्मादर्शनाहं इति अज्ञातत्वादात्मन एव प्रमेयत्वमुचितं नान्यस्येति प्. ५ब्) नियम्यत इति केचित् तु घटादि सत्वग्राहिणः प्रत्यक्षस्य प्रामाण्ये ब्रह्मप्रमाणाऽन्यूनतावगमेपि तद्ग्राह्यं सत्वमनुगतप्रत्ययात् सता जातिरूपं वा इहेदानीं घटोस्तीति देशकालसंबंधप्रतीतेस्तत्तद्देशकालसंबंधरूपं चा नास्ति घट इति स्वरूपनिषेध प्रतीतिर्घटादि स्वरूपं वा पर्यवस्यति | तच्च मिथ्यात्वैन न विरुध्यते | न हि मिथ्यात्ववादिनापि घटादेः स्वरूपं वा तस्य देशकालसंबंधो वा तत्र जात्यादिकं वा नाभ्युपगम्यते | किं तु तेषामबाध्यत्वं न चाबाध्यत्वमेव सत्यत्वं प्रत्यक्षग्राह्यमस्त्विति वाच्यं कालत्रयेपि नास्य बाध इति वर्तमान मात्र ग्राहिणाप्रत्यक्षेण गृहीतुमशक्यत्वादित्याहुः | स्वप्रकाशात्मन एव प्रमेयत्वे श्रुतिमपि प्रमाणयति | अत एवेति | अज्ञातत्वादेवेत्यर्थः | ननु द्रष्टव्य इति श्रुतिरात्मदर्शनं विधत्ते नेत्याह | नहीति | अगोचरत्वादिति | पुरुषयत्नसाध्यक्रियाया एव विधियोग्यत्वादितिभावः | विधिप्रत्ययस्य गतिं पृछति | किं त्विति | अर्हार्थस्तव्यप्रत्यय इत्याह | आत्मेति | प्रत्यक्षविषय जडस्याज्ञातत्वमुपेत्य जडबोधक प्रत्यक्षस्य श्रुतितुल्यप्रमाणत्व स्वीकारेपि प्रत्यक्षग्राह्यघटादि सत्वस्य मिथ्यात्वाविरुद्ध
369 SK प्. ६अ) त्वा च मिथ्यात्वबोधक श्रुत्यादीनां प्रत्यक्षविरोधशंकेत्याह | केचित्विति | प्रत्यक्षग्राह्यं सत्वं सता जातिरूपं वा ततद्देशकालसंबंधरूपं वा घटादि स्वरूपं वा पर्यवस्यतीति संबंधः | जातिरूपत्वेमानमाह | अनुगतेति | सन् घटः सन् पद इत्यादिरूपादित्यर्थः | द्वितीये मानमाह | इहेति | इहेदानीं घट इति प्रतीतिर्घटे प्रेतीयमानदेशकालसंबंधमेव सत्तारूपतया विषयी करोतीति भावः | तृतीये मानमाह | नास्ति घट इतीति | घटो नास्तीति घटास्तिता निषेधत्वेन रूपेण घटस्वरूपनिषेधस्यैवानुभवात् घटास्तित्वं घटस्वरूपं पर्यवस्यतीत्यर्थः | ततः किं तत्राह | तच्चेति नहीति | तुछविलक्षणप्रपंच स्वरूपांगीकारादितिभावः | घटादेः स्वरूपं वा नाभ्युपगम्यत इति नहीति संबंधः | तथा तस्य देशकालसंबंधो वा नाभ्युपगम्यत इति नहीति संबंधः | तत्र जात्यादिकं वा नाभ्युपगम्यत इति नहीति संबंधः | एतत्सर्वं जगन्मिथ्यात्ववादिनाभ्युपगम्यत एव विरोधाभावादितिभावः | तर्हि कीदृशं सत्वं मिथ्यात्वविरोधियत्वत्वयानाभ्युपेयते जगतीति पृछति | किं त्विति | उत्तरं तेषामिति | घटादीनामित्यर्थः | किं तु तेषामुबाध्यत्वं वा भ्युपगम्यत इति संबंधः मिथ्यात्वस्य बाध्यरूपत्वा तद्विरुद्धसत्वमबाध्यरूपमेव चेतर्हीदमेव सत्यप्रत्यक्षविषयोस्तु तथा च प्रत्यक्षविरोधशंकास्यादेवेत्याशयवतीं शंकामुद्भाव्यनिराचष्टे | न चेत्यादिना | नास्येति जगत इत्यर्थः || प्. ६ब्) अन्ये तु अबाध्यत्वरूपसत्यत्वस्य प्रत्यक्षग्राह्यत्वेपि प्राणा वै सत्यं तेषां एष सत्यमिति श्रुत्याप्रधानभूतप्राणग्रहणोपलक्षितस्य कृत्स्न प्रपंचस्य ब्रह्मणश्च सत्यत्वोत्कर्षापकर्षप्रतीतेः | सत्यत्वे चाबाध्यत्वरूपे सर्वदैवाबाध्यत्वं किंचित्कालमबाध्यत्वमित्येवं विधोत्कर्षापकर्षं विना राजराजोमन्मथमन्मथ इत्यादिशब्दतात्पर्यगोचरनियंतृत्वसौदर्यादीनामिवभूयो विषयत्वाल्पविषयत्वादिरूपोत्कर्षापकर्षासंभवात्
370 SK अबाध्यत्वरूपमेव सत्वं प्रत्यक्षविषय इत्युपेत्यापि प्रत्यक्षविरोधाभावमाह | अन्ये त्विति | अबाध्यत्वरूपसत्वस्य प्रत्यक्षग्राह्यत्वेपि न मिथ्यात्व श्रुतिविरोध इति संबंधः | कालत्रया बाध्यत्वरूपं सत्वं मिथ्यात्वविरोधि तच्च ब्रह्मण एव प्रपंचस्य तु यावतत्वज्ञानमबाध्यत्वरूपं सत्वमेतच्च न मिथ्यात्वविरोधीति न प्रत्यक्षविरोध इति वक्तुं प्रपंच ब्रह्मणोः | सत्व वैलक्षण्ये प्रमाणंमाह | प्राणा इति प्राणग्रहणं कृत्स्नप्रपंचोपलक्षणार्थं एषः परमात्मा तेषां सत्यंतानन पक्ष्यसत्य इत्यर्थः | तथा च श्रुतौ प्रपंचस्य सत्यत्वं निकृष्टं ब्रह्मणः सत्यत्वमुत्कृष्टमित्युक्तं भवति | तत्र प्राणपदेन प्रपंचोपलक्षणे नियामकमाह | प्रधानभूतति सूत्रात्मरूपस्य प्राणस्य जगद्विधारकत्वात्प्राधान्यं द्रष्टव्यं | न चोपलक्षणमोनान्नावः शंकनीयः |
371 SK प्. ७अ) ब्रह्मस्वरूपप्रतिपादनपरे वाक्ये प्रपंचैक देशभूतप्राणग्रहणे प्रयोजनाभात्कृत्स्नोपलक्षणे तु सत्यत्वेन प्रसिद्धप्रपंचाधिष्ठानतया ब्रह्मैव परमार्थ सत्यं न तु प्रपंचस्तस्य श्रुतिबाधित्वेन परमार्थ सत्यत्वायोगादिति ब्रह्मप्रमिति रूपप्रयोजनसत्वादितिभावः | किं तत्राह | सत्यत्वे चेति | राजेति राजत्वं पालकत्वरूपं नियंतृत्वं तच्च पाल्यदेशसापेक्ष्यं तथा च विष्णुशर्मा राजराज इति प्रयोगे विष्णुशर्मण इतरराजापेक्षया उत्कर्षः प्रतीयत इतिरेषां च विकर्षः तौच पालनस्य भूयो देशविषयकत्वाल्पदेशविषकत्वरूपौ मन्मथस्तावन्नारायणपुत्रः सुंदर इति प्रसिद्धिः | पुराणेषु तथा चाति सुंदरोयमिति तात्पर्थेणमन्मथमन्मथ श्रीराम इति प्रयोगो दृश्यते | तत्र सौंदर्यं नाम उत्कृष्टरूपादिमत्वमति सौंदर्य्यं | ततोप्युत्कृष्टरूपादिमत्वमिति बोध्यं | असंभवादिति | नियंतृत्व सौंदर्यादि विलक्षणे बाधाभावरूपेपत्वे भूयो विषयत्वाल्पविषयत्वरूपोत्कर्षापकर्षयोर्जातिविशेषरूपयोश्चा- संभवादित्यर्थः | नन्व बाधितत्वरूपेपि सत्वे प्रकारांतरेणोत्कर्षो संभवत तथाहि प्रपंच ब्रह्मणोः कालत्रया बाध्यत्वरूपे सत्वे समानेपि ब्रह्मगतं सत्वं श्रुतिगम्यत्वादुत्कृष्टं इतरतु लौकिकप्रमाणगम्यत्वान्निकृष्टमितिमिति श्रुत्यर्थो || विधांतरेण तत्संभवेपि प्रपंचस्य ब्रह्मज्ञानबाध्यत्व
372 SK प्. ७ब्) श्रुत्यंतरैकार्थ्यादुक्तोत्कर्षापकर्ष एव पर्यवसानाच्च प्रत्यक्ष ग्राह्यं घटाटि सत्यत्वं यावत् ब्रह्मज्ञनमबाध्यत्वरूपमिति न मिथ्यात्व श्रुतिविरोध इत्याहुः | अपरे तु प्रपंचस्य सत्थत्वमित्थ्यात्वग्राहिणोः | श्रुतिप्रत्यक्षयोर्विरोधेपि दोषशंका कलंकितात् | प्रथमप्रवृतात्प्रत्यक्षान्निर्दोषत्वादयछेदन्यायेन परत्वाच्च श्रुतिरेव बलीयसी | प्रावल्यमागमस्यैव जात्या तेषु त्रियुस्मृतमिति स्मरणाच्च | न च वेदैकगम्यार्थविषयकमिदं स्मरणं | तत्र प्रत्यक्षविरोधशंकाभावेन शंकित प्रत्यक्षविरोध एव वेदार्थे वेदस्य प्रावल्योक्त्यौ चित्यात् || पपादनसंभवा तथा च मिथ्यात्वविरुद्धसत्वग्राहि लौकिकप्रमाणविरोधशंकास्यादेवेति नेत्याह | विधांतरेणेति | प्राणा वै सत्यमिति श्रुतौ सत्यशब्दः प्रपंचस्य यदि कालत्रया बाध्यत्वरूपं सत्यत्वं प्रतिपादये तदा निखिलप्रपंचस्य ब्रह्मज्ञानबाध्यत्वप्रतिपादक श्रुत्यंतरेण सहप्राणा वै सत्यमिति श्रुतेर्विरोधः | स्यान्न चाविरोधेन श्रुतिद्वयप्रामाण्यसंभवे विरोधेन प्रामाण्यं हातव्यं तस्माच्छ्रुत्युक्त सत्वोत्कर्षार्योः कालत्रया बाधत्वादावेवपर्यवसानं वाच्यं
373 SK प्. ८अ) नान्यत्रेत्यर्थः | एवमत्राहुरित्यादिना प्रपंचमिथ्यात्व साधकश्रुतियुक्तीनां प्रत्यक्षं विरोधि न भवतीति प्रतिपादितमिदानीं प्रत्यक्षस्य कालत्रयाबाध्यत्वरूपसत्वग्राहित्वेन श्रुतिविरोधित्वेपि न मिथ्यात्वसिद्ध्यनुपपतिः | श्रुत्या प्रत्यक्षस्य बाधोपपतेरित्याह | अपरे त्विति | श्रुतिरेव प्रत्यक्षाद्वलीयसीति संबंधः श्रुतेः प्रावल्ये हेतुद्वयमाह | निर्दोषत्वादिति | अपछैदन्यायो वक्ष्यते प्रत्यक्षस्यापि निर्दोषत्वादिकं तुल्यमिति शंकांचारयति | दोषेति | एतच्चाग्रे स्पष्टं भविष्यति | श्रुतेः प्रावल्ये मनुवचनमपि नियामकमित्याह | प्रावल्यमिति | जात्या आगमत्वेनैव तेषु प्रकृतेषु प्रत्यक्षानुमानागमेषु स्मृतं वैदिकेषु प्रसिद्धमित्यर्थः | ननु वेदैक गम्ये स्वर्गसाधनत्वादौ वेदस्य प्रावल्यप्रतिपादकं तद्वचनं मिथ्यात्वं तु न वैदैक गम्यं | तस्यानुमानादि नापि सिद्ध्युपगमादतस्तत्र श्रुतेः | प्रावल्ये तद्वचनं न प्रमाणमिति मत्वाशंकते | न चेति | निराकरोति | त्रतेति | वेदैकगम्यार्थ इत्यर्थः | तथा च वचनस्य तद्विषयत्वे वैद्यर्थ्यं स्यादिति भावः | वचनस्य मिथ्यात्वप्रतिपादकश्रुतिप्रावल्यपरत्वे तु सार्थक्यमित्याह | शंकितेति | शंकितः प्रत्यक्षेण सह विरोधोपस्य मिथ्यात्वरूपस्य वेदार्थस्य स तथा | एतदुक्तं भवति | यस्मिन्नर्थे वेद तदितर प्रमाणयोर्विरोधः प्. ८ब्) प्रसक्तस्तस्मिन्नर्थे द्वयोः प्रामाण्यायोगादन्यतर बाधे कर्तव्ये सति तत्र प्रवलेन दुर्बलस्य वाध इति च स्थिते कस्य प्रावल्यमिति भवत्यपेक्षा तथा च वचनस्यापेक्षितार्थ समर्पकत्वात्सार्थक्यमिति |
374 SK तलवदृश्यते व्योमस्वद्योतो हव्यवाडिव न तलं विद्यते व्योम्नि न खद्योतो हताशनः | तत्स्मात्प्रत्यक्षदृष्टेपि युक्तमर्थे परिक्षितुं परीक्ष्यज्ञापयन्नर्थान्न धर्मात्परिहीयत इति नारद स्मृतौ साक्षि प्रकरणे प्रत्यक्षदृष्टस्यापि प्रत्यक्षमविश्वस्य प्रमाणोपदेशादिभिः परीक्षिणीयत्वप्रतिपादनाच्च | न हि नभो नैल्यप्रत्यक्षं नभसः शब्दादिषु पंचसु शब्दैकगुणत्वप्रतिपादकागमोपदेशमंतरेण प्रत्यक्षादिनाशक्यमपवदितुं | न च नभसि समीपे नैल्यानुपलंभात् || ननु प्रत्यक्षस्य क्वचिदप्रामाणो दृष्टे सति प्रपंच सत्वग्राहि प्रत्यक्षेपि मिथ्यात्वविरोधि कोट्यनुसंधानवतांस्यादप्रापाण्यरूपदोषशंका ततश्च शंकित दोष प्रत्यक्षं मिथ्यात्वश्रुत्यानिर्दोषत्वेन प्रवलया बाध्यत इति वक्तव्यं | तच्च न संभवति क्वचिदपि प्रत्यक्षाप्रामाण्यादर्शनादिति सत् व्यातिवादिनः | शंकां नारदवचनोदाहरणेन
375 SK प्. ९अ) निराकरोति | तलवदिति | तलमिंद्रनीलमणिमयकटाहाकारत्वं | तस्मादिति | सर्वजनप्रसिद्धस्यापि व्योमादौ तलादि प्रत्यक्षस्याप्रामाण्य दर्शनादित्यर्थः | अर्थ इति | प्रत्यक्षदृष्टेप्यर्थ इत्यर्थः | ज्ञापयन्निति | आचार्यः शिष्यान्प्रति शास्त्रार्थान् बोधधयन् धर्मात् श्रेयः साधनभूतात् न प्रच्यवत इत्यर्थः | आत्मनः श्रुत्युक्तं साक्षित्वमनुपपन्नं | तस्य बोद्धृत्वेपि कर्तृत्वेनोदासीनत्वा भावादिति पूर्वपक्षे प्राप्तै अहंकरोमीति प्रत्यक्षमात्रेणात्मनि कर्तृत्वं वास्तवमिति सहसा विश्वासो न कर्तव्यः लोके प्रत्यक्ष दृष्टस्यापि बाधदर्शनादतः प्रत्यक्षदृष्टसपि आत्मनि कर्तृत्वं किं चैतन्यवद्वास्तवं किं वा कल्पितमिति सम्यग्विचार्य श्रुति न्यायाभ्यां कल्पितमेव तदतो न साक्षित्वस्यानुपपतिरिति शिष्यान्प्रतिबोधयन्नाचार्यो धर्मान्न परिहीयत इत्येतद्विषयकं नारदवचन द्वयमिति सूचयति | साक्षिप्रकरण इति | एवं प्रत्यक्षदृष्टमपि प्रपंच सत्वं किं तस्य वास्तवं किं वा काल्पनिकमिति परीक्षायुक्तेत्याशयेन नारदवचनस्य प्रकृतसाधारणं तात्पर्यं कथयति | प्रत्यक्षदृष्टस्यापीति | प्रमाणपदमागमपरमनुमानार्थापत्त्यादय आदिपदग्राह्याः प्रतिपादनाच्च प्रत्यक्षापेक्षया श्रुतिर्वलीयसीति संबंधः | प्रत्यक्षस्य दोषशंका कलंकितत्वं प्रदर्श्य तस्यागमेन बाधं प्रकृतोपयोगितया प्. ९ब्) प्रतिपादयति | नहीत्यादिना | नभोनैल्यप्रत्यक्षं प्रत्यक्षादिना न हि शक्यमपवदितुमिति संबंधः | आगमं विनापि नीलं नभ इति प्रत्यक्षस्य बाधकमस्तीति शंकते | न चेति | समीपे गगने रूपानुपलंभेन समीपे रूपाभावनिश्चये सति दूरेपि तत्र रूपं नास्तीति निश्रीयते रूपस्य व्याप्यवृतित्वनियमेन तदेकदेशवृतित्वायोगादित्यर्थः ||
376 SK दूरे तद्धीर्दूरत्वदोषजन्येति निश्चयेन तुद्बाधदूरे नैल्यदर्शनात् समीपे तदनुपलंभः तुंहिनावकुठनानुपलंभवत्समीपत्व दोषजन्म इत्यपि संभवात् | अनुभवबलान्नभो नैल्यमव्याप्यवृतीत्युपपतेश्च | नापि दूरस्थस्य पुंसो यत्र भूसंनिहिते नभः प्रदेशे नैल्यधीस्तत्रैव समिप गतस्य तस्य नैल्य बुद्धेरभावात्प्रत्यक्षेण बाधः | उपरिस्थितस्यैव नैल्यस्याभ्रनक्षत्रादेरिवदूरत्व दोषाद्भूसंनिधानावभास इत्युपपतेः | पृथिव्यादिषु संकीर्णतया प्रतीयमानांनां गंधादीनांमुपलभ्याप्सु वायौ च चेद्गंधं केचिद्भूपुरनैपुणाः | पृथिव्यामेव तं विद्यादयो वायुं च संश्रितमित्यादिभिरागमैरेव व्यवस्थाया प्. १०अ) वक्तव्यत्वेन प्रत्यक्षादागमप्रावल्यस्य निर्विशंकत्वाच्च || कथं तर्ह्यति दूरे नीलं नभ इति धीस्तत्राह | दूरे तद्धीरिति | तद्बाध इति | तस्य नभो नैल्यप्रत्यक्षस्य इति निश्चयेन बाधो | न चेत्यत्र हेतुमाह | दूरे नैल्यदर्शनादिति | तुहिनावकुंठनं हिमरूपमावरणं तद्विसमीपे सदपि न दृश्यते | दूरे तु वृक्षाद्यावरणरूपत्वेन दृश्यते तद्वत् | सर्वत्र गगने विद्यमानमपि रूपं समीपेन दृश्यत इत्यर्थः | दोषजन्य इति | दोषाधीन स्थितिक इत्यर्थः | यथा च श्चतेऽनुपलंभस्य उपलंभप्रागभावरूपस्याऽजन्यरूपस्य जन्यत्वाभावादसंगतं स्यात्सामीप्यदोषेण तदुपलंभे निरुद्धे तत्प्रागभावस्य नाशाभावाद्दोषाधीनस्थितिकत्वमस्तीति नासंगतिरिति मंतव्यं | रूपस्य व्याप्यवृतित्वनियममुपेत्यसमीपे तदनुपलंभस्य गतिरुक्ता इदानीं व्याप्यवृतित्वनियमस्यासिद्धिमाह | अनुभवबलादिति | नभो नैल्य प्रत्यक्षस्य यौक्तिक निश्चय बाध्यत्वं निरस्य प्रत्यक्षबाध्यत्वमाशंक्यनिराकरोति | नापीत्यादिना | भूसंनिहित गगनभागे कुत्रापि नैल्यं नास्त्येव तत्र तत्प्रतीतिस्तु दूरत्वदोषात्संभवतीत्याह | उपरिस्थितस्येति तथा च गगननैल्यप्रत्यक्षमागमैक बाध्यमिति
377 SK प्. १०ब्) स्थितं | प्रत्यक्षस्यागमेन बाधे उदाहरणांतरमाह | पृथिव्यादिष्विति | अप्सुवायौ च पृथिव्यामिव गंधमुपलभ्य केचिदनैपुणाब्रूयुः | तयोरपि गंधः स्वाभाविक इति तत्र तथा ग्राह्यं किं त्वपो वायुं च संश्रितं गंधं तदंतर्गत पृथिव्यामेव स्थितं विद्यादिति वचनार्थः | इत्यादिभिरिति | आदिपदेनरसोजलमात्रगुणः रूपं तेजोमात्रगुणः स्पर्शो वायुमात्रगुणः शब्द आकाशमात्रगुणः पृथिव्यादिषु रसाद्युपलब्धिरपि | पृथिव्याद्यंतर्गत जलाद्याश्रितरसादिविषयेति व्यवस्थाप्रतिपादक पुराणवचनानि ग्राह्याणि || नह्याजानसिद्धजलोपष्टंभादिगतं गंधादि पृथिवी गुण एव न जलादि गुण इत्यादि रूपेणास्मदादिभिः | प्रत्यक्षेण शक्यं विवेचयितुं | पृथिव्यादीनां प्रायः परस्परसंसृष्ट तथान्यगुणस्यान्यत्राप्यवभासः संभवतीति शंकितदोषप्रत्यक्षं तत्रागमेन शिक्ष्यत इति चेत् | तहीहापि ब्रह्मप्रपंचयोरुपादानोपादेय भावेन परस्परसंसृष्टतयाऽन्यधर्मस्यान्यत्रावभासः | संभाव्यत इति शंकितदोषं प्रत्यक्षमस्तिभाति प्रियं रूपं नामचेत्यंश पंचकं प्. ११अ) आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयमिति | वृद्धोक्त प्रकारेणागमेन व्यवस्थाप्यतामिति तुल्यं न चैव मुपजीव्यविरोधः ||
378 SK ननु जले पुष्पादिरूपपार्थिवांश संसर्गे सति गंधोपलब्धिरस्तितान्यथेत्यन्वयव्यतिरेकाभ्यामेव गंधस्य पृथिवीमात्रगुणत्व निर्णय संभवात् | किमागमेनेति चेत् नेत्याह | नहीति | आजानसिद्धो यो जलोपष्टंभः पार्थिवद्रव्यविशेषस्तदादिगतमित्यर्थः | जल एव गंधः क्वचित् स्वाभाविकः क्वचिदौपाधिक इति कल्पनोपपत्तेश्चेतिभावः | ननु जलादौ गंधादि प्रत्यक्षमप्रामाण्यरूपदोषशंका | कलंकितत्वादागमेन शिक्ष्यत इति युक्तं प्रपंच सत्वग्राहि प्रत्यक्षं तु तच्छंका शून्यमिति कथं तस्यागमेन बाध इत्याशयेन शंकते | पृथिव्यादीनामिति | तस्य तच्छंकाशून्यत्वमसिद्धमिति तस्यागमबाध्यत्वं युक्तमित्याह | तहींति | संसृष्टतयेति | संसर्गस्तादात्म्यं | अन्य धर्मस्येति | जगदुपादानत्वेन श्रुतिसिद्धस्य सद्वस्तुनो धर्मः सता तस्या एव प्रपंचे प्रतीतिः संभाव्यते | अतः प्रपंच सत्वग्राहि प्रत्यक्षमन्यसताविषयकत्वेन भ्रांतिरूपं वा प्रपंचस्य स्वाभाविकासताविषयकत्वेन प्रमारूपं वेति | शंका कलंकितमित्यर्थः | प्रत्यक्ष बाधप्रकारं वृद्धवचनेन दर्शयति | अस्तीति | अस्ति घटो भाति घटः | प्रियो घट इति घटे सत्वचैतन्यानंदास्तावदनुभूयंतै प्रियशब्दस्यानंदे
379 SK प्. ११ब्) मुख्य त्वात् घटस्यानंद तादात्म्य प्रतीतिरूपपद्यत | एवं पदादिष्वपि द्रष्टव्यं | नामघटशब्दादि कंबुग्रीवाद्यात्मकं वस्तुरूपमंशपंचकमंशपंचकमंशाः पंचयस्य जगतः तदंशपंचकमनुभूयते | न च कृत्स्नेपि जगति पंचात्मकत्वानुभवो नास्ति दुःखं प्रियमित्यनुभवादर्शनादितिवाव्यं | केषांचित् परकीये दुःखे तदनुभवस्यापि सत्वा तथा च सर्वत्रानुगतं सच्चिदानंदरूपं वस्तुब्रह्मैव ब्रह्मणस्तद्रूपतायाः श्रुतिसिद्धत्वान्नामरूपात्मकरूपमत्रतायाः सर्वाणि रूपाणि विचिंत्य धीर इत्यादि श्रुतिसिद्धत्वादित्यनेन प्रकारेण प्रपंच सत्वग्राहि प्रत्यक्षं जगतः स्वाभाविकसताविषयकं न भवति | किं त्वधिष्ठानतया जगत्यनुगतब्रह्मसताविषयकमेवेति व्यवस्थाप्यते श्रुत्येत्यर्थः | एवं प्रत्यक्षस्यागमापेक्षयास्वतः प्रावल्यं निरस्य उपजीव्यत्वप्रयुक्तं निरस्यति | न चैवमिति | प्रत्यक्षस्यागमेन बाधांगिकार इत्यर्थः | वर्णपदवाक्यात्मकशब्दप्रत्यक्षं हि श्रुतिजन्यमिथ्यात्वबोधं प्रत्युपजीव्यं शब्दज्ञानं विनाशाब्दबोधानुदया तथा च शुत्याप्रत्यक्षमात्रबाधे शब्दप्रत्यक्षस्यापिबाधः प्रसज्येत तथा चोपजीव्यबाधः स्यादित्यर्थः || अगमप्रमाणेन वर्णपदवाक्यादि स्वरूपांश प्रत्यक्ष्यमुपजीव्यानुपत्रीव्यतत्सत्वांशोपमर्दनादित्याहः | नन्वागमस्य प्रत्यक्षात् वलीयस्त्वे यजमानः
380 SK प्. १२अ) प्रस्तर इत्यत्र प्रत्यक्षाविरोधाय यजमानशब्दस्य प्रस्तरे गौणीष्टतिर्न कल्पनीया | तथा सोमेन यजेतेत्यत्र वैय्यधिकरण्येनान्वये यागे इष्टसाधनत्वं सोमलतायां यागसाधनत्वं च बोधनीयमिति व्यापारभेदेन वाक्यभेदापतेः सामाधिकरण्येनान्वये वक्तव्ये प्रत्यक्षाविरोधाय सोमवतायागेनेति मत्वर्थलक्षणा न कल्पनीया | उभयत्रापि सत्पक्षविरोधे तदनादृत्यागमेन वलियसा प्रस्तरे यजमानाभेदस्य यागे सोमाभेदस्य च सिद्धिसंभवादिति चेत् | अत्रोक्तं भामतीतिबंधे | तात्पर्यवती श्रुतिः प्रत्यक्षाद्वलवती न श्रुतिमात्रं मंत्रथिवादानां स्तुति द्वारभूतेर्थे वाक्यार्थद्वारभूते पदार्थे इव न तात्पर्यं || श्रोत्रेंद्रियेण जायमानं प्रत्यक्षं शब्दस्वरूउपं तस्य सत्वं च विषयी करोति श्रुत्या च सत्वांशय प्रत्यक्षमेव बाध्यते तच्च न श्रुते रूपजीव्यं कल्पितशब्दस्यापि बोधकत्व संभवेन शाब्दबोधार्थं तत्सत्वस्यानपेक्षितत्वाद्यच्च शब्दस्वरूपांश प्रत्यक्षमुपजीव्यं तन्न बाध्यते विरोधाभावादतो नोपजीव्यविरोध इति परिहरति | आगमप्रमाणेनेति | आगममात्रस्य प्रत्यक्षात्प्रावल्यमुक्तमाक्षिपक्षिपत्वि नन्वागमस्येति | गौणिति क्रतु निर्वर्तकं
381 SK प्. १२ब्) गुणस्तथेति सिद्धांते इष्टसाधनत्वं विध्यर्थः | ततश्च सोमयजिपदयोर्वैप्यधिकरण्येनान्वये स्वीक्रियमाणे याग इष्टसाधनं सोमो यागरूपेष्टस्य साधनमिति सकृत् छ्रुतस्य विधि प्रत्ययस्य व्यापारभेदापत्या तद्घटितवाक्यस्यापि व्यापारभेदापतेस्तत्परिहारायतयोः सामानाधिकरण्येनान्वयो वक्तव्य इति सिद्धांते स्थिते सतीत्यर्थः | प्रत्यक्षाविरोधायैति | सामानाधिकरण्यपक्षे सोमयागयोरभेदो वक्तव्यः | सोयमित्यादि स्थले समानाधिकरणपदद्वयस्य पदार्थद्वयाभेदार्थकतायाः कॢप्तत्वात्स च प्रत्यक्षविरुद्ध इति तत्परिहारायेत्यर्थः | सोमवतैति सोमपदस्य मत्वर्थे लक्षणा तथा च सोमवतायागे नेष्टं भावयेदिति मीमांसकरीत्यावाक्यार्थः | सिद्धांतरीत्या तु सोमवदभिन्नो याग इष्टसाधनमिति वाक्यार्थो द्रष्टव्यः | सोमस्य यागेन सहमत्वर्थ संबंधश्च वस्तुगत्या क्रियाकारकभावलक्षण इति ज्ञापनार्था सोमेनेति तृतीया भामतीति | भासती संज्ञक ग्रंथे वाचस्पति मिश्रैरुक्तमित्यर्थः | न श्रुतिमात्रमिति | तथा च सोमेन यजेतेत्यत्र सोमयागसंबंधे श्रुतेस्तात्पर्या भावाच्छ्रुत्यपेक्षया प्रत्यक्ष मे वलवदिति तदविरोधापलक्षणा कल्पनमुचितं | तथा यजमानः | प्रस्तर इत्याद्यर्थ वादानामपि स्वार्थे तात्पर्या भावात् | प्रत्यक्षप्रावल्यमिति तत्रापि तदविरोधाय गौण्यादिकल्पनं युक्तं प्रपंचमिथ्यात्व बोधक श्रुतीनां तु तात्पर्य सत्वात् | प्रत्यक्षापेक्षया प्. १३अ) प्रावल्यमिति तासां तद्बाधकतुं निष्ट्यत्यूहमिति समाधान ग्रंथार्थः | ननु मंत्रार्थवादानामपि स्वार्थे तात्पर्यं किं न स्या तत्राह | मंत्रेति | तेषां स्वार्थै फलाभावाद्गौरवाच्च तात्पर्यं न कल्पत इति भावः | देवस्य त्वेत्यादिभिर्मंत्रैर्यजमानः प्रस्तर इत्याद्यर्थ वादैश्च विधेय यागस्तुतिर्लक्षणीया तत् श्च मंत्रादि वाक्यार्थस्य ||
382 SK तात्पर्याभावे मानांतराविकद्वंदेवताविग्रहादि कथं तेभ्यः सिद्ध्येत् | तात्पर्यवत्येव शब्दस्य प्रामाण्यनियमादिति चेन्न ऐत् स्यैवरेवतीषु वारवंतीयमग्निष्टोमसामकृत्वा पशुकामो ह्येतेन यजेतेति विशिष्टविधेस्तात्पर्यागोचरे विशेषण स्वरूपे प्रामाण्यदर्शनेनोक्तनियमासिद्धेः | अत्र हि रेवती ऋगाधारं वारवंतीयं सामविशेषणं न चैतत्सोमादिविशेषणेवत् लोकसिद्धं येन तद्विशिष्टयागविधिमात्रे प्रामाण्यं वाक्यस्य स्यात् द्रव्यदेवतादिरूपस्य लक्षणीययास्तत्यासहसंबंधो वाच्यः इतरथामंत्रादीनां स्वज्ञाप्यसंबंधाभावेन स्तुतिलक्षकत्वान्वययजेरतस्तुतौ लक्षणीयायां मंत्रादिवाक्यार्थो द्वारभूतः
383 SK प्. १३ब्) पथागंगापदेन तीरे लक्षणीये प्रवाहः | अतोपि न तत्र तेषां तात्पर्यं लक्षणास्थले द्वारभतार्थे तात्पर्यादर्शनादित्याशयेनाह | स्तुतिद्वारभूत इति | तत्र स्वयं दृष्टांतमाह | वाक्यार्थद्वारभूत इति वाक्यार्थ तात्पर्येण प्रयुक्तानां पदानां वाक्यार्थप्रतिपतिद्वारभूतेषु स्मारितपदार्थेषु यथा तात्पर्यं नास्ति तथेत्यर्थः | विधिपरमंत्रार्थवादानां स्वार्थे तात्पर्या भावे देवताविग्रहादि प्रतिपादिकानां वज्रहस्तः पुरंदर इत्यादीनामपि देवताविग्रहादौ स्वार्थे तात्पर्याभावापत्या तेषां देवताविग्रहादि प्रमिति जनकत्वं न स्याद्वेद तात्पर्यविषयत्वस्य वेदजन्य प्रमिति विषयत्वं प्रतिव्यापकत्वाद्व्यापकनिवृत्यातन्निवृतेरावश्यकत्वा तदाहुः | यत्परः शब्दः सशब्दार्थ इति तथा च देवताधिकरणविरोधः तत्रान्यपरेभ्योपि मंत्रादिन्यो देवता विग्रहादि सिद्धिप्रतिपादनादित्याशयेन शंकते तात्पर्याभाव इति मानांतराविरुद्धत्वविशेषणं यजमानः | प्रस्तर इत्यादिवारणाय | इदमुपलक्षणं मानांतराप्राप्तस्यापि यतच्च विशेषणमग्निर्हिमस्य भेषजमित्यादि वारणाय | अद्येर्हिमभेषजत्वस्य प्रत्यक्षत्यक्ष सिद्धत्वेन तस्यर्थवादतः सिद्ध्य न पेक्षणा तथा च मानांतरेण विरोधप्राप्त्योरभावे सत्यन्यपरेभ्योपि मंत्रादिभ्योवगम्यमानोर्थः | सिद्ध्यत्येव देवताविग्रहादिश्च तथाविध इति तत्सिद्धिरप्रत्यूहेति प्रतिपादितं देवताधिकरण इति भावः | परिहरति | नेति
384 SK प्. १४अ) एतस्यैवैति इदमेतद्व्यत्येव देवताविग्रहादिश्च तथाविध इति तत्सिद्धिरप्रत्यूहेति प्रतिपादितं देवताधिकरण इति भावः | परिहरति त्पदप्रकृताग्निष्टद्धर्माति देशकं तथा चरेवत्योयारकवारवंतीयाख्यं सामाग्निष्टोमसामकृत्वा प्रकृताग्निष्टद्धर्मकेणानेतयागेन पशून् भावयेत् इति श्रुत्यर्थः | विशिष्टविधेरितिरेवत्याधारकवारवंतीपसामादि विशेषण विशिष्ट क्रतु भावनाविधेरित्यर्ह्तः | उक्तेति | शब्दतात्पर्यविषयत्वस्य शाब्दप्रमितिविषयत्वं प्रतिव्यापकत्वरूपनियमासिद्धेरित्यर्थः | उक्तमर्थं विवृणोति | अत्र हीति | न चैतदिति | यदि वारचंतीयं सामरेवतीषु ऋत्त्वध्ययनसिद्धं भवे तदा तस्य विशेषणस्य दध्यादिवल्लोकन एवावगतत्वाद्वाक्यस्य तद्व्यतिरेकार्थ एव प्रमितिजनकत्वरूपं प्रामाण्यं भवेन्नत्वे तदस्ति | वारवंतीय साम्न ऋगंतरेष्वेवाध्ययनमिद्वत्वादतो वाक्यादेवरेवत्याधारकवारवंतीयाख्यविशेषणस्य प्रमितिर्वक्तव्येत्यर्थः || नापि विशिष्टविधिनाविशेषणाक्षेपः | आक्षेपाद्विशेषण प्रतिपतौ विशिष्टगोचरो विधिस्तस्मिंश्च सति तेन विशेषणाक्षेप इति परस्पराश्रयापतेः | अतो विशिष्टविधिपरस्यैव वाक्यस्य विशेषणस्वरूपेपि प्रामाण्यं वक्तव्यं प्. १४ब्) अथ च तत्र न तात्पर्यमुभयत्र तात्पर्ये वाक्यभेदायतेः | एवमर्थवादानामपि विधेय स्तुति पराणां स्तुति द्वारभूतैर्थेन तात्पर्यमिति तेभ्यः प्रत्यक्षस्यैव चलवत्वात् तदविरोधायतेषु वृत्यंतरकल्पनं सोमेन यजेतेत्यत्र विशिष्टविधिपरे वाक्ये सोमद्रव्याभिन्नतया यागरूपं विशिष्टं विधेयमित्युपगमे तस्य विधेयस्य दध्नाजुहीतीत्यादौ विधेयस्य दध्यादेरिव लोकसिद्धत्वाभावेन विशिष्टविधिपराद्वाक्यादेवरेवत्याधारवारवंतीयादि विशेषणस्येव | विना तात्पर्यं सिद्धिरष्टव्यानष तात्पर्यरहितादागमाद्याग सोमलताभेदग्राहि प्रत्यक्षविरुद्धार्थः सिद्ध्यतीति हेतोः | तत्रापि तदविरोधायमत्वर्थलक्षणाश्रयणं ||
385 SK ननु विशिष्टविषयको विधिरप्रसिद्धविशेषणस्वरूपप्रमिति जनकं रेवतीषुवारवंतीयं सामकुर्यादित्येवमात्मकं विशेषणविधिमाक्षिपति तथा च तस्य विशेषणस्य नैतद्वाक्यप्रमेयत्वमिति नेत्याह | नापीति | विशेषणगोचरविधिकल्पनात् | पूर्वं विशिष्टविधिनाविशेषणस्वरूपं प्रमितं वा न आद्ये तत्कल्पनं व्यर्थं द्वितीये विध्याक्षेपो न सिध्यति प्रमितस्यैवद्दव्यदेवतासंबंधस्य प्. १५अ) यागविध्याक्षेपकत्वदर्शना तथा च विशिष्टविधिनानिशेषणविधिराक्षिप्यत् इति वदता आक्षेपात् प्राग्विशेषणस्य प्रमितत्वं वाच्यं तत्प्रमापकश्च कस्त्यितविधिरिति | वक्तव्यं ततश्चाक्षिप्तविधिनाविशेषण स्वरूपे प्रमिते सति प्रकृतविधिर्विशिष्टगोचरः सिध्यति | तस्मिंश्च प्रकृतविधौविशिष्टगोचरे सति तेन विष्टविधिनाविशेषणविध्याक्षेप इति | परस्पराश्रयापत्याविशेषणविध्याक्षेपासिद्धेरित्यर्थः | अत इति रेवत्याधारकवारवतीय सामाख्यविशेषणस्य प्रकृतवाक्यादन्यतः प्रमित्यभावादित्यर्थः | तर्हि तत्रापि तात्प्र्यमस्तु नेत्याह | अथ चेति गौरव्यदिति भावः | न च यत्परः शब्दः सशब्दार्थ इति न्यायविरोधः | शंकनीयः | तस्यौत्सर्गिकत्वोपपत्तेः प्रकृते च गौरवलक्षण बाधकसत्वान्न तस्येह प्रसक्तिः | एवमिति विशिष्टविधेर्विशेषणरूप इवेत्यर्थः | न तात्पर्यमिति | तथा च तात्पर्याविषयेपि रेवतीवारवंतीय विशेषणस्वरूपे श्रुतेः | प्रमिति जनकत्ववदन्यपसणामपि मंत्रादीनां देवताविग्रहादि प्रमिति जनकत्वं संभवतीति न देवताधिकरणविरोध इति भावः | प्रकृतमाह | तेभ्य इति | मंत्रार्थ वादेभ्यस्तोत्पर्यरहित श्रुतिवाक्येभ्य इति यावत् | सोमेन यजेतेत्यत्रसामानाधिकरण्ये नान्वय इति सिद्धांते कथं प्रत्यक्षविरोधः कथं वा तदविरोधावलक्षणा प्. १५ब्) कल्पनमित्याकांक्षायामाह सोमेनेति | तत्रापीति | यजमानः यस्तर इत्यत्रैवेत्ययि शब्दार्थः | प्रत्यक्षाविरोधाय वृत्यंतरकल्पनमात्रैदृष्टांतः न तु मत्वर्थलक्षणांशेपीति बोध्यं ||
386 SK अद्वैतश्रुतिस्तूपक्रमोपसंहारैकरूप्यादि षद्भिधिर्लिगावगमिता- द्वैत तापर्याप्रत्यक्षाद्वलवतीति ततः प्रत्यक्षस्यैव वाधः | न तदविरोधाय श्रुतेरन्यथा नयनमिति | विवरणवार्तिके तु प्रतिपादितं न तात्पर्यवत्वेन श्रुतेः प्रत्यक्षात्प्रावल्यं कृष्णलं श्रययेर्दिति विधेः श्रपणस्य कृष्णलार्थत्व प्रतिपादने तात्पर्येपि कृष्णले रूपरसपरावृतिप्रादुर्भावपर्यंत सुख्यश्रषणसंबंधः प्रत्यक्षविरुद्ध इति तदविरोधाय श्रयणशब्दस्योष्णीकरणमात्रे लक्षणाभ्युपगमात् | तत्वमसीति वाक्यस्य जीवब्रह्माभेदप्रतिपादने तात्पर्येपि त्वं पदवाच्यस्य तत्पदवाच्याभेदः प्रत्यक्षविरुद्ध इति | तदविरोधाय निष्कृष्टचैतन्यलक्षणाभ्युपगमाच्च ननु द्वैतस्य मिथ्यात्वबोधकाद्वैतश्रुतेरपि न स्वार्थे मिथ्यात्वे तात्पर्यं मानाभावा तथा च द्वैतसत्वग्राहि प्रत्यक्ष
387 SK प्. १६अ) विरोधपरिहारायाद्वैतश्रुतेरप्यन्यथानयनमेव न्याय्यमिति | नेत्याह | अद्वैत श्रुतिस्त्विति | तात्पर्यलिंग्यानि च शास्त्रे व्यक्तानि तत इत्यद्वैतश्रतेः सकाशादित्यर्थः | वाचस्यत्युक्तं तात्पर्यस्य प्रावल्यप्रयोजकत्वं दूषयति | विवरणवार्तिके त्विति | कृष्णलाः सुवर्णविकारानूतामाषाः कृष्णल शेषत्वेन श्रयणं विधीयत इति श्रुतेस्तत्र तात्पर्यं सिद्धमिति भावः | रूपरसपरावृति प्राद्वर्भावोनामपूर्वरूपरसादिनाशपूर्वकं रूपरसाद्यंतरोत्पतिः तत्पर्यंतो योधि श्रयणादि व्यापारः स एव श्रयणशब्दस्य मुख्योर्थः तत्संबंध इत्यर्थः | कृष्णलानामधिश्रयणज्वालादिसंपादनरूपे पाके कृतेपि रूपरसादिपरावृति प्रादुर्भावो नास्तीति प्रत्यक्षसिद्धमितिभावः | नन्वत्र श्रयणं विधीयते | तच्च न प्रत्यक्ष बाधितं ज्वालाधिश्रयणादि क्रियारूपपाकस्यैव श्रयणशब्दार्थत्वेन तस्य तत्रापि संभवात् | रूपरसादि परावृत्ति प्रादुर्भावस्तु न धात्वर्थः | तस्य पाकफलस्य कर्मत्वरूपस्य द्वितीयार्थत्वात् | फलसाविध्य योग्यत्वेन विधेय श्रपणरूपत्वायोगाच्च | तथा च विधेय श्रपणस्य दृष्टप्रयोजनाभावाददृष्टार्थविधिः पर्यवस्यतीतिश्चति तात्पर्यविषयश्रपणस्य प्रत्यक्षबाधाभावादुष्णीकरणमात्रे श्रयणपदस्य लक्षणा न संपन्नेत्यस्वरसोदाह | तत्वमसीति वाक्यस्येति | निष्कृष्टेति निःकृष्टं विशिष्टरूपाद्वाव्यार्थात् | पृथकृंतविशेष्यमात्रं यच्चैतन्ये तत्रेत्यर्थः | अत्रेदं बोध्यं महावाक्यानाम प्. १६ब्) खंडैकरसचैतन्यरूपवस्तुमात्रबोधने तात्पर्यं | कुतः तमेवैकं जानथ आत्मानं तमेव विदित्वाति मृत्युमेति | एकधैवानुदूष्टव्यमित्यादि श्रुतिसहस्रेण मुक्तिसाधनीभूतमहावाक्यार्थ ज्ञानं प्रतितादृशवस्तुमात्रस्यैव विषयत्वे न नियमनात् | श्रुतीनामेषोर्थः | यस्मिन् कृत्स्नं जगदध्यस्तंतमात्मानं जानथ हे मुमुक्षवः अत्राधेयस्य कृत्स्नस्य जगतः ज्ञे ||
388 SK अर्थवादानामपि प्रयाजाद्यंगविधिवाक्यानामिव स्वार्थप्रमितावनन्यार्थतया प्रमितानामेवार्थानां प्रयोजनवशादन्यार्थतेति प्रयाजादिवाक्यवतेषामप्यवांतरसंसर्गे तात्पर्यमस्त्येव वाक्यैक वाक्य त्वात् || यत्वनिषेधार्थमवधारणमेकपदं च एकरसत्व प्रतिपादनपरं मुमुक्षुज्ञेयस्यात्मनो नानारसत्वे एकपदमनर्थकं स्यादेकत्व संख्यायोग्यस्यात्मन एकवचनादेवसिद्धत्वादस्याः श्रुतेरिदं तात्पर्यद्युभ्वाद्यधिकरणभाष्ये स्फुटं दार्शितं तमेव प्रकृतं परमात्मानमेव न तु तद्व्यतिरिक्तमण्वपीत्येव कारार्थः | विदित्वा साक्षात्कृत्य मृत्युशब्दितं संसारमुत्येति एकधैव एकरूपेणैव शास्त्राचार्योपदेशमनुद्रष्टव्यमिति | तच्चाखंडैकरसवस्तुमात्रे बोधने तात्पर्यं महावाक्येषु तत्वमादिपदानां लक्षणां विना नतिर्वहतीति तेषु तात्पर्यानुसारेणैव
389 SK प्. १७अ) लक्षणाभ्युपगमः न तु प्रत्यक्षविरोधपरिहाराय परं तु तत्वं पदयोश्चैतन्यमात्रे लक्षणां स्वीकृत्यवाक्यार्थबोधाभ्युपगमे प्रत्यक्षविरोधोपि परिहृतो भवतीत्ये तावन्मात्रेण प्रत्यक्षविरोधपरिहाराय महावाक्येषु लक्षणेति निबंधनेषु व्यवहारः | तथा च सत्यपि तात्पर्ये तदनादृत्य प्रत्यक्षविरोधपरिहारायैव महावाक्येषु लक्षणाभ्युपगमा तात्पर्यस्य प्रावल्यप्रयोजकत्वं नास्तिति प्रतिपादनं मंदमिति | यतु मंत्रार्थ वादानां स्तुति द्वारभूते स्वार्थे तात्पर्यं नास्तीत्युक्तं तदूषयति | अर्थवादानामपीति अनन्यार्थता स्वार्थपरतेत्यर्थः | तर्ह्यर्थ वादानां विधिशेषत्वं न स्यादित्याशंक्याह | प्रमितानामेवेति मानांतरसंवादविसंवादरहितार्थवादादिभिरितिशेषः | तेषां स्वार्थप्रमितिमात्रेण फलाभावाद्विधेयस्तावकत्वेन विध्येकवाक्यं त्वं कल्प्यत इत्यर्थः | यथा प्रयाज्वादिकर्मणां प्रयोजनाकांक्षावशे प्रयाजादिवाक्यानां फलवद्दर्शपूर्णमासविधिवाक्यैरेकवाक्यत्वं तथेति भावः | अवांतरसंसर्ग इति | अर्थवावानामपि विध्यन्वयात्प्राक् स्वरसतः प्रतीयमाने देवताया विग्रहादि संसर्गे अवांतरतात्पर्यमस्तीत्यर्थः | प्रयाजादिवाक्यानामर्थवादादि वाक्यानां च स्वार्थप्रमितौ तात्पर्ये हेतुमाह | वाक्यैक वाक्यत्वादिति | वाक्यानां सतामेवतैषां विधिवाक्यैरेकवाक्यत्वाभ्युपगमात् | प्. १७ब्) वाक्यानां च वाक्यार्थे तात्पर्यस्य सामान्यतः सिद्धत्वादित्यर्थः ||
390 SK परैकवाक्यतायामेव परमवांतरतात्पर्यानभ्युपगमादिति विवरणाचार्यैर्न्यायनिर्णये व्यवस्थापनेन | यजमानः प्रस्तर इत्यादिनामपि मुख्यार्थ तात्पर्य प्रसक्तौ प्रत्यक्षाविरोधायैवलक्षणाभ्युपगमाच्च | कथं तर्हि श्रुतैः प्रावल्यमुच्यते | निर्दोषतात् परत्वाच्च श्रुतिमात्रं प्रत्यक्षात्प्रवलमित्युत्सर्गः | किं तु श्रुतिबाधितमपि प्रत्यक्षं कथं चित्स्वोचितीवंषयोपहारेण संभावनीयं निर्विषयज्ञानायोगात् | अत एवाद्वैत श्रुतिविरोधेन तत्वावेदनात्प्रच्यावितं प्रत्यक्षमर्थक्रियासमर्थव्यावहारिकविषयसमर्पणेनोपपाद्यते || यत्तु वाक्यार्थद्वारभूते पदार्थ इवेति स्तुति द्वारभूतेर्थे तात्पर्याभावे दृष्टांतप्रदर्शनं तद्विघटयति | पदैकवाक्यतायामेवेति | पदानां सतामेकवाक्यार्थबोधनेनैकवाक्यत्वमित्यर्थः | तत्र पदार्थानां वाक्यार्थस्येवापूर्वत्वाभावान्न तेष्टवांतरत्वापिर्यमपीति स्वीक्रियत इत्यर्थः | एतेन रेवत्याधारकवारवंतीयस्ममाख्यविशेषणेपि तात्पर्यं व्याख्यातं | वाक्यस्य वाक्यार्थे तात्पर्यस्योत्सर्गतः
391 SK प्. १८अ) सिद्धताद्विशिष्टविधेर्विशिष्टभावनायां तात्पर्यवत्वान्नु तस्य विशेषणेषु तात्पर्यं सिध्यति विशिष्टविधितात्पर्यविषयत्वस्य विशेष्यमात्रवृतित्वेत तात्पर्यस्य विशिष्टविषयकत्वानुपपतेः सीमांसकानां विशिष्टविधिर्विशेषणेषु तात्पर्याभावव्यवहारस्य विशेषणेषु प्रत्येकं तात्पर्याभावपरत्वा तस्मात् तात्पर्यविषय एवेवेदस्य प्रमिति जनकत्वमिति नियमस्य न्यायनियमस्य न्यायनिर्णयविवर्णांचार्यैर्व्यवस्थापितत्वेनेत्यर्थः | ततः किं तत्राह यजमानः प्रस्तरं इत्यादीनामिति | उक्तरीत्यातुषामपि यजमानप्रस्तराभेदादौ तात्पर्ये स्यादेव तच्च प्रत्यक्षेण बाध्यत इति वक्तव्यसतस्तात्पर्यवत्वं श्रुतेः | प्रावल्यप्रयोजकं न भवतीत्यर्थः | अत्र मंत्रार्थवादानामपि प्रयाजादिवाक्यानामिव स्तुतिद्धारभूतेर्थे यद्यवांतरतात्पर्यमवश्यकल्पनीयं तर्ह्यस्तुत तात्पर्यस्य न प्रावल्ये प्रयोजकत्वक्षतिः | महातात्पर्यस्य तत्प्रयोजकत्व संभवादद्वैतश्चतीनां प्रपंच मिथ्यात्वे महातात्पर्याभ्युपगमेन तत्र प्रपंच सत्वग्राहिप्रत्यक्षस्य मिथ्यात्व श्रुत्याबाधोपपतेरित्यादिकमालोचनीयं | तहीति | तात्पर्यस्य प्रावल्यप्रयोजकत्वाभावे सतीत्यर्थः | ननु श्रुति मात्रस्य प्रावल्ये सिद्धे तस्यौत्सर्गिकत्वं वक्तव्यं स्यातदेव कुत इति चेन्न प्रावल्ये अन्यदपि हेतुद्वयं दर्शयतिति द्वोषत्वात्परत्वाच्चेति | उत्सर्ग इति | श्रुति तदितरप्रमाणयोर्विरोधे सति
392 SK प्. १८ब्) श्रुतिरेवबाधिका भवति | यत्र च श्रुतिबाधितं प्रत्यक्षादि निरवकाशं भवति | त्वन्न निरवकाशेन तेन श्रुतिरेव बाध्यते | सावकाश निरवकाशयो निरवकाशं वलवदिति न्यायादित्यर्थः | ननु श्रुतिबाधितस्य प्रत्यक्षादेर्निरवकाशत्व स्थले तेन श्रुतेर्बाधः | किमर्थमुपेयते तत्राहै किं त्वित्यादिना | संभावनीयमुपपादनीयमित्यर्थः | अतदवेति | निर्विषयप्रत्यक्षायोमादेवेत्यर्थः | प्रच्यावितमिति श्रुति बाधितस्य द्वैतस्य तत्वरूपत्वा योगादद्वैतबाधकप्रत्यक्षस्य तत्वावेदकत्वरूपात् | प्रामाण्यात् प्रच्यावितत्वं बोध्यं उपपाद्यते भाष्यादिष्वितिशेषः || किं बहुनानेदं रजतमिति सर्वसिद्धप्रत्यक्षबाधितमपि शुक्तिरजतप्रत्यक्षमनुभवानुरोधात्युरोदेशे शुक्तिसंभिन्नरजणेपगमेनैन समर्थ्यतेन तु तद्विरोधेन व्यवहितमांतरमसदेववारजतं विषय इति कल्प्यते | एवं च प्रस्तरे यजमानभेदग्राहिणो यावत् ब्रह्मज्ञानमर्थक्रियासंवादेनानुवर्तमानस्य प्रत्यक्षस्य प्रातिभासिकविषयत्वाभ्यपगमैनोपपादनायोगाद्यजमानः प्रस्तर इति श्रुति बाध्यत्वे सर्वथा निर्विषयत्वं स्यादिति तत्परिहारायोत्सर्गमपौद्य श्रुतिरेव ||
393 SK प्. १९अ) श्रुतिबाधितप्रत्यक्षादीनां सिद्धांते व्यावहारिक प्रामाण्योयगमेन प्रत्यक्षज्ञानस्य निर्विषयत्वरूपं निरवकाशत्वं सिद्धांत संसतं न भवतीत्युपपाद्यतत्रकैमुतिक न्यायमाह | किं बहुनेति | अद्वैत श्रुति बाधित घटादि प्रत्यक्षस्य निर्विषयत्वोपगमे सर्वव्यवहारो छेदप्रसंगलक्षणं बाधकं यथा विद्यते न तथा शुक्तिरजतांदि प्रत्यक्षस्य निर्विषयत्वोपगमे बाधकमस्तिकैश्रिदसतोपि रजतादेर्भानोपगमा तथापि तस्य तत्कालोत्यत्र रजतादि विषयकत्वं सिद्धांते स्वीक्रियते अनुभवस्य निर्विषयत्वा योगातस्माच्छति बाधितस्य प्रत्यक्षस्य निरवकाशत्वं यत्र प्रसज्जते | तत्र तेन श्रुति वायो युक्तः सिद्धांतसंमतश्चेति श्रुतेः | प्रावल्यमौत्सर्गिकमित्ये तत्सिद्धमितिभावः | शुक्तिसंभिन्नेति | शुक्ति तादात्म्यापन्नेत्यर्थः | व्यवहितमिति | बाह्यदेशांतरस्थामित्यर्थः | आंतरमिति ज्ञानाकाररूपमित्यर्थः | न कल्प्यत इत्य च हेः तद्विरोधेनेति | रजतस्येदमर्थ्या भिन्नत्वानुभवविरोधेनेत्यर्थः | व्यवहितरजतादीनामिदमर्थ तादात्म्यासंभवादितिभावः | एवं चेति विरोधस्थले निरवकाशमानांतरेण श्रुतिबाधे न्याय्ये सतीत्यर्थः | ननु प्रस्तर यजमानयोरभेदश्रुतिबाधितस्य तयोर्भेद प्रत्यक्षस्य शुक्तिरजतप्रत्यक्षवत् प्रातिभासिकविषयसंभवान्न तत्रैतेन श्रुतिबाधः कल्पनीय इति नेत्याह | प्रातिभासिकविषयत्वाभ्युपगमेनेति | प्रत्यक्षविषयस्य प्रस्तरे यजमानभेदस्य
394 SK प्. १९ब्) प्रातिभासिकत्वासंभवे युक्ति सूचयति | यावदिति | यथा शुक्तिरजतस्य ब्रह्मज्ञानात्यागेवमेदं रजतमिति प्रत्यक्षेण निवृतिः स्वोचितार्थ क्रियाऽभावश्च | तस्य प्रातिभासिकत्व हतुरस्तित तथा प्रस्तरयजमानमेदस्य प्राकृब्रह्मज्ञानाद्बाध अर्थक्रियासामर्थ्याभावश्च प्रातिभासिकत्वहेतुरस्तीत्यर्थः | यावद्ब्रह्मज्ञानमनुवर्तमानस्येत्यस्य ब्रह्मज्ञानात्प्राक् बाधरहितस्येत्यर्थः | अर्थक्रियासंवादेनेत्यस्यार्थ क्रियासमर्थभेदविषयकत्वेनेत्यर्थः | बाध्यत्व इति प्रस्तरे यजमान भेद ग्राहिणः प्रत्यक्षस्येत्यनुषंगः सर्वथेति अयमर्थः | प्रातिभासिकभेदविषयकत्वं तस्य प्रत्यक्षस्य न संभवतीत्युक्तं तथा व्यावहारिकभेदविषयत्वं तस्य न संभवतीत्यनुपदमेव वक्ष्यते | पारमार्थिक भेदश्चाद्वैत श्रुतिविरोधादेवनाभ्युपगंतुं शक्यते | तथा च तस्य निर्विषयत्वरूपं निरवकाशत्वं स्यादेवेति श्रुतिरेवान्यथा नीयत इति संबंधः || तत्सिद्ध्यधिकरणादि प्रतिपादितप्रकारेणान्यथा नीयते न चाद्वैतश्रुति प्रत्यक्षयोरिवेह श्रुति प्रत्यक्षयोस्तात्विकव्यावहारिकविषयोपगमेन प्रत्यक्षोपपादनं कर्तुं शक्यं ब्रह्मातिरिक्तसकलमिथ्यात्वप्रतिपादक षद्विध तात्पर्यलिंगोयपन्नानेक श्रुतिविरुद्धेनैकेनार्थवादेन प्रस्तरे यजमान तादात्म्यस्य तात्विकस्य प्रतिपादनासंभवात् ||
395 SK प्. २०अ) अन्यथा नयनप्रकारमाह | तत्सिद्धीति | मुख्यार्थस्याभेदस्य प्रत्यक्षविरोधेनासंभवात् | प्रस्तरे यजमान शब्दस्य गौणवृतौ कल्पनीयायां को गुण इत्याकांक्षायां सूत्रकारेण गुणो दर्शितः | तत्सिद्धीति | तस्य क्रतोः सिद्धिरुपकारो यजमान प्रस्तरसाध्यो गुणः तयोः क्रतु निर्वर्तकत्वरूपं सादृश्य गुण इति यावत् | एवमन्येवामप्यर्थवादानां प्रत्यक्षविरोधपरिहाराय यथा संभवमालंबमानि जैमिनिना भगवता अधिकरणांतरेषु कल्पितानीत्यर्थः | नन्वद्वैत श्रुति प्रत्यक्षयोर्विरोधस्थले पारमार्थिकमद्वैतं श्रुति विषयः व्यावहारिक द्वैतं प्रत्यक्ष विषय इति व्यवस्था यथा कल्प्यते | तथा प्रकृतेपि यजमानप्रस्तरयोर्वास्तवाभेदः श्रुतिविषयः कल्पित भेदः प्रत्यक्षविषय इति व्यवस्थाकल्प्यतामिति नेत्याह | नदेति | इहेति | यजमाः न प्रस्तर इत्यत्रेत्यर्थः | यजमानः प्रस्तर इत्यर्थवादेन तयोस्तात्विक तादात्म्यं प्रतिपादयितुं न शक्यं ब्रह्माद्वेत श्रुतिभिर्विरोधान्न चाद्वैत श्रुतीनामपि विधिरूपत्वाभावेनार्थवादत्वा विशेषाद्विनिगमनाचिरह इति वाच्यं | तथापि तासां बहुत्वेन विनिगमनाविरहानवतारादित्याशयेनाह | अनैकेति | किं च यजमान प्रस्तरानेदे तस्यार्थ वादस्य तात्पर्थ नास्ति तद्ग्राहकलिंगाभावादद्वैत श्रुतीनां च स्वार्थे तात्पर्यग्राहकलिंगानिषद्विधान्यपि संति |
396 SK प्. २०ब्) तथाहि छांदोगे षष्टध्याये सेदेवसौम्येदमग्र आसीदेकमेवाद्वितीयमित्युपक्रम्य ऐतदात्म्यमिदं सर्वमिति सर्वात्मकमद्वितीयं वस्तूपसंहरति श्रुतिरत उपक्रमोपसंहारयोरैकरूप्यलक्षणेन लिंगेन तस्याध्यायस्या द्वितीये वस्तुनि तात्पर्यं निश्चीयते | हे सोम्य इदं परिदृश्यमानं जगत्सृष्टेः प्रागद्वितीयमेकरूपं ब्रह्मैवासीदितिश्चेकै तुं पुत्रं प्रति उद्दालकवचनमिदं सर्वमैतदात्म्य मे तदात्मकं प्रकृतसद्वस्त्वात्मकमित्यर्थः | भावप्रत्ययो अविवक्षित इत्यर्थः | ऐतदात्म्यमिदं सर्वंमिति वाक्यस्या सकृत्यावादभ्यास सिद्धिरद्वितीयवस्तुनो मानांतरायोग्यत्वादपूर्वत्वसिद्धिः आचार्यवान् पुरुषो वेदेति वाक्येन प्रकृताद्वैत सद्वस्तुज्ञानं प्रकृत्यसंपति वाक्येन तस्य मुक्तिलक्षणफल श्रवणात् | फलमपि तत्र तात्पर्यग्राहकमस्ति पितृपुत्राख्यापिकादि रूपार्थवादश्च ततात्मर्यग्राहकस्तत्रास्तिमृदादि दृष्टांतैः प्रपंचस्य ब्रह्मकार्यत्वप्रतिपादनपूर्वकं ब्रह्मानन्यत्व प्रतिपादनमुपयतिस्तत्रास्ति तथा च षद्विधैस्तात्पर्यलिंगैरद्वितीयवस्तु परत्वं तस्याध्यायस्य सिद्ध एवमध्यायां || एवं तत्वमसिवाक्येन त्वं पदवाच्यस्य सर्वज्ञत्वा भोक्तृत्वादि विशिष्टब्रह्मरूपत्व बोधने तत्रासर्वज्ञत्वभोक्तृत्वादि प्रत्यक्षमत्यंत निरालंबनं प्. २१अ) स्यादिति तत्परिहारायाहंकारशंबलितस्य भोक्तृत्वादि ततो निष्कृष्टस्य शुद्धस्योदासीन ब्रह्मरूपत्वमिति व्यवस्थामाथित्यभागत्यागलक्षणा श्रीयते | एवं कृष्णलं श्रययेदित्यादावपि प्रत्यक्षस्यात्यंत निर्विषयत्वप्रसक्तौ तत्परिहाराय श्रुतौ लक्षणा ||
397 SK तरेषु श्रुत्यंतरेषु च तात्पर्यलिंगानि द्रष्टव्यानि | तथा च उक्त तात्पर्यलिंगैरुपे तत्वादद्वैतश्रुतीनां प्रावल्यमित्वाशयेनाह | षद्विधेति | ननु तर्हि व्यावहारिको यजमान प्रस्तरयोरभेदः | श्रुत्यर्थोस्तु ततश्च व्यावहारिक तदमेद प्रतिपादकश्रुतिबाधितं तयोर्भेदप्रत्यक्षमपि व्यावहारिकभेदविषयकमस्तु | तथा च प्रत्यक्षस्य निरवकाशत्वा भावान्न श्रुतिबाधकत्वमिति चेन्न समान सताकयोर्भेदाभेदयोरेकत्रासंभवेन | तथा कल्पनायोगादस्तु तर्हि प्रातिभासिकस्तयोरभेदः | श्रुत्यर्थ न शुक्तो रजताभेदस्यैव प्रस्तरे यजमानाभेदस्य प्रत्यक्षप्रतिभास्य भावादितिभावः | श्रुते प्रत्यक्षात्प्रावल्यमित्युत्सर्गस्य यजमानः प्रस्तर इत्यत्रापवादस्थलं दर्शंयित्वा अपवादस्थलांतरमाह | एवं तत्वमसीति | तत्वमसीति वाक्येन हि स्वरसतः किं चिह्नत्वं कर्तृत्वभोक्तृत्वादिविशिष्टचैतन्यरूप जीवस्य तद्विपरीतेन सर्वज्ञत्वा भोक्तृत्वा भोक्तृत्वा कर्तृत्वादिविशिष्ट
398 SK प्. २१ब्) चैतन्यरूपेण ब्रह्मणा सहाभेदः सार्वकालिकः प्रतिपाद्यते | तदनुरोधेन जीवे सदासर्वज्ञत्वादि धर्मांगीकारें जीवे तद्विरुद्धा सर्वज्ञत्व कर्तृत्वादिरूपसंसारोवगाहि प्रत्यक्षं निरालंबनं स्यादतो निरवकाशसंसारप्रत्यक्षेण श्रुतेर्बाधः स्वीकर्तव्यः स च बाधो विशेष्यचैतन्यांशमात्राभेदप्रतिपादकत्वेन श्रुतेः | संकोचरूप एव न तु यजमानः प्रस्तुर इत्यत्रेव कार्त्स्येन मुख्यार्थं त्यक्त्वागौणार्थकल्पनरूप इति विशेष इत्यर्थः | अहंकारशबलि तस्येति | अंतःकरणविशिष्टचैतन्यस्येत्यर्थः | भागत्यागेति | त्वं पदवाच्यस्य द्वौभागौस्तः विशेषणभागो विशेष्यभागश्चेति तत्र विशेषणरूपस्य भागस्य त्यागपूर्वकं त्वं पदस्य विशेष्यभागे चैतन्यमात्रे लक्षणा स्वीक्रियते | एवं तत्पदार्थेपि द्रष्टव्यं अपवादस्थलांतरमाह | एवं कृष्णलमिति | प्रसक्ताविति | श्रुतिवलात्कृष्णलेषु रूपरसपरावृतिप्रादुर्भावपर्यंतयाकरूपसाश्रपणस्यांगीकारे तेषु प्रपणाभावप्रत्यक्षस्य विषयो न लभ्यते | अद्वैत श्रुतिविरोधेन तेष्वपारमार्थिकस्य श्रपणाभावस्यासंभवात् | श्रुत्यक्त श्रपणस्य तेषु व्यावहारिकस्यैव वक्तव्यतया तेषु तदभावस्यापि व्यावहारिकस्यासंभवात् | व्यावहारकाले बाधरहितस्य श्रपणाभावस्य प्रातिभासिकत्वासंभवाच्च तस्मात् प्रर्क्षनिर्विषयं स्यादित्यर्थः | एवं सौमें न यजेतेत्यत्रापि सोमेन यागेनेष्वं प्. २२अ) भावयैदिति वाक्यार्थे स्थिते श्रुतिवलात्सोमयागयोरभेदांगीकारे तयोर्भेदग्राहि प्रत्यक्षं निरवकाशं स्यादिति तद्विरोधपरिहाराय सोमपदस्य मत्वर्थलक्षणा स्वीक्रियत इति दृष्टव्यं ||
399 SK नेह नानास्ति किंचनेत्यत्र कथंचिद्विषयोपपादनसंभवे तु न प्रवलायाः | श्रुतेरन्यथा नयनमिति न कश्चिदप्यव्यवस्था प्रसंगः | अथ वा कृष्णलं श्रययेत्सोमेन यजेतेत्यादौ न प्रत्यक्षानुरोधेनलक्षणाश्रयणं किं त्वनुष्टानाशक्त्या न हि कृष्णले उष्णीकरणमात्रमिव मुख्यः पाकोनुष्टातुं शक्यते न वा सोमद्रव्यकरणयो याग इव तदभिन्नो यागः केन चिदनुष्टातुं शक्यते | न चानुष्टेयत्वाभिमतस्य प्रत्यक्षविरोधयवानुष्टानाशक्तिरिति शब्दांतरेण व्यवह्रियत इति वाच्यं | शशिमंडलं कांतिमत्कुर्यादिति विधावनुष्टेयत्वाभिमतस्य शशिमंडले कांतिमत्वस्य प्रत्यक्षाविरोधेप्यनुष्ठानाशक्तिदर्शनेन तस्यास्ततोभिन्नत्वात् | तथा च तत एव तत्र लक्षणाश्रयणं | तस्मादपछेदन्यायादि सिद्धस्य श्रुति च लीयस्त्वस्य न कश्चिद्धाध इति | अथ कथमत्रापछेदन्यायप्रवृतिः उच्यते ||
400 SK प्. २२ब्) एवं निरवकाश प्रत्यक्षेण श्रुतिबाधमुत्सर्गस्यापवादरूपं दर्शयित्वा श्रौसर्गिकं श्रुति प्रावल्यं प्रकृताभिप्रायेण दर्शयति | कथंचिदिति | द्वैतमिथ्यात्व श्रुतीनां तत्सत्यग्राहिप्रत्यक्षस्य च विरोध स्थले प्रत्यक्षस्य श्रुतिबाधितस्यापि न निरवकाशतं | कल्पित द्वैत तद्गत सता जात्यादिविषयकत्वेन सावकाशत्वादतोत्र श्रुत्याप्रत्यक्षस्यैव बाध इति भावः | कथंचिदित्यस्य कल्पित द्वैतादि समर्पणेन वेत्यर्थः | कथंचिच्छब्दात् पूर्वं प्रत्यक्षस्येति शेषः | न कश्चिदपीति | तात्पर्यस्य प्रावल्यप्रयोजकत्वपक्षे यथा तात्पर्यविषयस्यापि श्रयणादेर्बाध दर्शनरूपा अव्यवस्था प्रसक्ता न तथा श्रुति प्रावल्यौत्सर्गिकत्व पक्षे साप्रसज्यते अनुपलंभादित्यर्थः | ननु प्रत्यक्षेण श्रुतिबाधे बह्नन्युदाहरणानि दर्शितानि श्रुत्या प्रत्यक्षबाधोदाहरणं त्वेकमेव दर्शितं तथा च प्रत्यक्षस्य श्रुत्यपेक्षया प्रावल्यमत्सर्ग इति वक्तव्य न तु वैपरीत्यमित्यस्वरसादाह | अथवेति | तदभिन्न इति | सोमाभिन्न इत्यर्थः | तस्या इति | अनुष्टानाशक्तेरित्यर्थः | तत इति प्रत्यक्षविरोधादित्यर्थः | तत एवेति | अनुष्टानाशक्तेरेव न तु प्रत्यक्षविरोधादतो न प्रत्यक्षप्रावल्यस्यौत्सर्गिकत्वं आगमबाध्यानां गगननैल्य प्रत्यक्षादीनां भूयसां प्राग्दर्शितत्वादित्यर्थः | तस्मादिति | आगप्रावल्यस्यौत्सर्गिकत्व संभवादित्यर्थः | न कश्चिद्बाध इति | आगमस्य प्रत्यक्षात्प्रावल्ये यजमानः प्रस्तर इत्यादावपि यजमान प्रस्तराभेदादि सिद्धिप्रसंग इति यो बाध आशंकितः प्. २३अ) पूर्वं स नास्ति तस्य बहुभिः प्रकारैः परिहृतत्वादित्यर्थः अपछेदन्यायं प्रकृते योजयितुमाक्षिपति | अथ कथमिति | कथं शब्दसूचितस्याक्षेपस्य विवरणं तन्निराकरणं च यत्वित्यादिना भविष्यति प्रथमं तं न्यायं प्रकृते यौजयति | उच्यत इति ||
401 SK यथा ज्योतिष्टोमेवहिष्यवमानं सर्षतामद्ज्ञातुरपछेदे सति यद्युद्ज्ञातापछिद्येतादक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेतेति श्रुतिनिरीक्षणेन जातोद्रात्रऽपछेदनिमित प्रायश्चित्त कर्तव्यताबुद्धिः पश्चात् प्रतिहर्त्रऽपछेदे सति यदि प्रतिहर्तापछिद्येत सर्ववेदसंदद्यादिति श्रुति निरीक्षणेन जातया तद्विरुद्धप्रतिहर्त्रऽपछेद निमित प्रायश्चित्त कर्तव्यता बुद्ध्या बाध्यते | एवं घटादि सत्यत्व प्रत्यक्षं परया तन्मिथ्यात्व श्रुतिजन्य बुद्ध्या बाध्यते | न चोदाहृतस्थुले | पूर्वनैमितककर्तव्यता बुद्धेः परनैमितिक कर्तव्यता बुद्ध्या बाधेपि पूर्वनैमित्तक कर्तव्यताबुद्धिजनकं शास्त्रं यत्रोद्ज्ञातृमात्रापछेद उभयोरपि युगपदपछेदो वा उद्गात्रऽपछेदस्य परत्वं वा तत्र सावकाशं | प्रत्यक्षं त्वद्वैत श्रुत्यावाधे विषयांतराभावान्निरालंबनं स्यादिति वैषस्यं शंकनीयं ||
402 SK प्. २३ब्) बहिष्यवमानं स्तोत्रमुद्दिश्यान्वारब्धतयागछता मृत्विजां मध्ये उद्गातुरपछेदे सति आरब्धं क्रतुमदक्षिणतया समाप्य पुनः स एव क्रतुरनुष्टेय इति तदपछेदनिमितकमारच्ये क्रतोरदक्षिणतया समापनं प्रायश्चिततयाविहितं | तथा प्रतिहर्त्रःपछेदनिमितकं सर्वस्वदानरूपदक्षिणादानविशिष्टतया आरब्धस्यैव क्रतोः समापनरूपं प्रायश्चितं विहितं | तथा च एकस्मिन् प्रयोगे दैवात् क्रमेणोभयोरपछेदे सति विरुद्धयोरुक्ते प्रायश्चितयोरनुष्टातुमशक्यत्वादन्यतरस्यानुष्टेयत्वे स्थिते सति किं पूर्वनिमितक प्रायश्चितमनुष्टेयं किं वा उत्तरनिमितकमिति विषये निणैयमाह | उद्गातुरपछेद इत्यादिना | यत्र प्रयोगे प्रथममुद्गातुरपछेदो भवति तत्प्रयोगाभिप्रायोयं ग्रंथः | श्रुतिनिरीक्षणेनेति | निमितोहुयजननानंतरमेव नैमितकशास्त्रस्य बुद्धिस्थत्वादिति भावः | अपछेदनिमितकर्तव्यताबुद्धिरिति | उद्गात्रऽपछेदो निमितं यस्य प्रायश्चितस्य तदुद्गात्रऽपछेदनिमितं तस्य कर्तव्यता बुद्धिरित्यर्थः | तद्विरुद्धेति उद्गात्रयछेदनिमित कर्तव्यता तच्छब्दार्थः तद्विरुद्धत्वं च कर्तव्यताविशेषणमेवमिति | एकस्मिन् प्रयोगे अदक्षिणत्व सर्वस्वदक्षणाकत्वयोरिव एकत्रघटादि प्रपंच सत्यत्वमिथ्यात्वयोरपि विरुद्धत्वातद्बुद्ध्योर्बाध्य बाधकत्व इति भावः | न चोदाहृत
403 SK प्. २४अ) स्थल इति | यत्र प्रथममुद्गात्रऽपछेदस्तत्रेत्यर्थः | शास्त्रमिति | यद्युद्गातापछिद्येतेति शास्त्रमित्यर्थः | युगपदिति | उद्गाता प्रतिहर्त्रः पछेदयोर्यौगपद्यस्थले उद्गात्रःपछेदनिमितकमेव प्रायश्चितमनुष्टेयमित्याथस्तं वाचार्यैरुक्तत्वादितिभावः | प्रत्यक्षं त्विति द्वैत सत्यत्व प्रत्यक्षमित्यर्थः | अद्वैत श्रुत्येति | द्वैतमिथ्यात्व श्रुत्येत्यर्थः | विषयांतराभावादिति | द्वैत प्रपंचे प्रतीयमान सत्वस्य श्रुत्वाबाधे सति तत्र सत्वांतरा भावात् सत्व प्रक्षं निर्विषयं स्यान्न चैतद्युज्यते प्रत्यक्ष ज्ञानस्य निर्विषयत्वादर्शना तदनुपगमाच्चेति भावः || यत्र घटादौ श्रुतिबाध्यं प्रत्यक्षं प्रवर्तते तत्रैव व्यावहारिकं विषयं लब्धा कृतार्थस्य तस्य परापछेदस्वलेमर्वथा बाधितस्य पूर्वापछेदशास्त्रस्येव विषयांतरान्वेषणाभावदिहापि सर्वप्रत्ययवेद्य ब्रह्मसतायां सावकाशं प्रत्यक्षमिति वक्तुं शक्यत्वाच्च यत्वेकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां क्रतौ ततत् नैमितिक कर्तव्यतयोः वदरफलेश्यामरक्तरूपवोरिव क्रमेणोत्पादादूपद्वज्ञानवत्कर्तव्यताज्ञानद्वयमपि प्रमाणमेवेति न परेण पूर्वज्ञानबाधेःपछेदत्याय उदाहरणं | अत एवापछेदाधिकरणेनै प्. २४ब्) मिकशास्त्रस्य ह्ययमर्थः | निमितो यजननान्प्रागन्यथा कर्तव्योपि क्रतुर्निमिते सत्यन्यथा कर्तव्य इति शास्त्रदीपिकावचनमिति |
404 SK द्वैत प्रपंचे पारमार्थिकस्य सत्वस्य श्रुत्या अपहृतत्वेपि व्यावहारिकस्य तत्सत्वस्य तयानुयहृतत्वात् | सत्व प्रत्यक्षस्य न निरवकाशत्वमिति परिहरति | यत्रेति | विषयमिति सत्वरूपमितिशेषः | ननु ब्रह्मणि सत्वं पारमार्थिकं घटादि प्रपंचे सत्वं व्यावहारिकं शुक्तिरजतादौ सत्वं प्रातिभासिकमिति सत्तात्रैविध्यपक्षे घटादि सत्वप्रक्षस्य विषयांतरं नान्वेषणियं व्यावहारिक सत्वस्य घटादौ विद्यमानस्यैव तद्विषयस्य विविरुद्धापछदस्थले सर्वथा बाधितस्य पूर्वापछेदनिमितक प्रापश्रितशास्त्रस्यैत्याशंक्याह | इहापीति द्वैतसत्वप्रत्यक्षं घटादि द्वैते सतामलभमानेमपि न निरचकाशं पूर्वापछेदनिमितक प्रायश्चितशास्त्रस्य प्रयोगांतरे सावकाशत्ववदिहापि घटादि द्वैतादन्यत्र तदधिष्ठानभूतब्रह्मसतायां सावकाशत्व संभवादित्यर्थः ब्रह्मस्वरूपसतायाः प्रत्यक्षविषयत्वेकैयुतिक न्यायमभिप्रेत्याह | सर्वेति | सर्वप्रत्ययवेद्यत्वं सता विशेषणं लोके हि यद्यद्वस्तुमनसिस्कुलाभादेकैव सर्वत्र सतेति पक्षे व्यावहारिक सत्व प्रातिभासिक सत्वयोरभावात् सत्वप्रत्यक्षस्य विषयांतरमन्वेषणियमेव यथा उतरभार रति तत्सर्वं सदित्येव प्रतीयते | अतः सर्वस्य जगतः सता
405 SK प्. २५अ) सर्वप्रत्ययवेद्यासा च सर्वाधिष्ठान ब्रह्मसतैव न तु तदतिरिक्ताकल्पनागौरवादितिभावः | पूर्वं कथं शब्दसूचितमाक्षेपमिदानीमुद्भावयति | यत्विति | वदरफल इति | यथा तत्र पूर्वं श्यामरूपमुत्पद्यते तत्रैव प्रश्चात् पूर्वरूपनाशपूर्वकं रक्तरूपमुत्पद्यते तथा पूर्वनिमितेन जातमात्रे पूर्वनैमितिक कर्तव्यता जायते याश्चात्ये न च निमितेन पूर्वकर्तव्यतानाशपूर्वकमुत्तरनैमितककर्तव्यतोत्पाद्यत इत्यर्थः | ततः किं तत्राह | रूपद्वयज्ञानवदिति | तथा चोतरभावि विरुद्धापछेदवत्यपि क्रतौ पूर्वनैमितिक शास्त्रस्य नाप्रामाण्यमिति तत्प्रामाण्य संरक्षणमेव तथा कल्पकमिति भावः | उतरनिमितो यजननात्प्राक पूर्वनैमितिक कर्तव्यता वस्तु तत्रासीदित्यत्र संमतिमाह | अत ऐवति पूर्वं वस्तुतस्तदभ्युपगमादेवेत्यर्थः | उतरभाविप्रतिहर्त्रःपछेदजननात्प्रागन्यथा अदक्षिणतया वस्तुतः कर्तव्योपि क्रतुः पश्चात् प्रतिहर्त्रऽपछेदरूपे निमिते सत्यत्थथा सर्ववे दक्षिणतया कर्तव्य इति शंककाभिप्रायानुसारेणवनार्थः || तत्र अंगस्य सतः कर्तव्यत्वं न च पश्चाद्भावि प्रतिहर्त्रऽपछेदवति क्रतौ पूर्वप्रवृतोद्गात्रःपछेदनैमितकस्य प्रायश्चितस्यांगत्वमस्ति | आहवनीपशास्त्रस्य पद होमातिरिक्त होमविषयत्ववद्युद्गातेति शास्त्रस्य पश्चाद्भवि प्रतिहर्त्रःपछेदरहित प्. २५ब्) क्रतु विषय त्वात् | उक्तं हि न्यायरत्नमालायां | साधारणस्य शास्त्रस्य विशेषविषयादिना संकोचः कॢप्तरूपस्य प्राप्तवाधो विधीयत इत्युक्त लक्षण प्राप्तवाध विवेचने | तत्रैवं सति शास्त्रार्थो भवति पश्चाद्भाव्युद्गात्रऽपछेदविधुर प्रतिहर्त्रःपछेदयतः क्रतोः सर्ववेद सदानमंगमेव मुद्गात्रऽपछेदेपि द्रष्टव्यमिति | यतु शास्त्रदीपीकावचनमुदाहृतं | तदपि तेनोत्पन्नमपि पूर्वप्रायश्चित ज्ञानं मिथ्या भवति बाधितत्वात् | उत्तरस्य तु न किंचिद्बाधकमस्तीति पूर्वकर्तव्यता बाध्यत्व प्रतिपादक ग्रंथोपसंहारपठिततात् ||
406 SK क्रमेण विरुद्धापछेद द्वयवति क्रतौ पूर्वनैमितिकस्य कर्तव्यतानि व्यातौमानं नास्तीति तत्र पूर्व प्रायश्चितस्यानंगत्वादनंगत्वं च द्बोधकमानाभावातन्न च पूर्वनैमितिकशास्त्रं ततृमानं | तस्य प्रयोगांतरेषु सावकाशत्वेन तत्राप्यंगबोधकत्वा भावादित्याशयेन दूषयति | तत्रेति | आहवनीयेति | आहवनीय जुहोतीति होममात्रे आहवनीयं विधातुं प्रवृतस्य सामान्यशास्त्रस्य होमविशेषे पदरूपाधिकरण विधायकविशेषशास्त्रवशेन पदहोमातिरिक्त होमेष्वाहवनीय विधायकत्ववदित्यर्थः | क्रतु विषयत्वादिति | तादृश क्रतावेव उद्गात्रऽपछेदनिमितक प्. २६अ) प्रायश्चितस्यागत्व बोधकत्वादित्यर्थः | उक्तार्थे संमतिमाह | उक्तहीति | कॢप्तरूपस्य प्रत्यक्षसिद्धस्य साधारणस्य होममात्रे प्राप्तस्याहवनीये जुहोतीति शास्त्रस्य विशेषशास्त्रेण यः संकोचः सः प्राप्तबाधोभिधीयते | यथा सामान्यशास्त्रयोरेव क्वचिद्विषये विरोधे सति पूर्वप्राप्तस्य पश्चात् प्राप्तं परत्वाहाधकं भवति यथा विरुधापछेदनिमितक शास्त्रयोस्तथा च विशेषविषयादि नेत्यादि पर्दे परत्वादि संग्रहार्थमिति श्लोकार्थः | तत्रैवं सुतीति | अपछेद स्थले उतरज्ञानेन पूर्वज्ञानबाधे सतीत्यर्थः | द्रष्टव्यमिति | पश्चाद्भावि प्रतिहर्त्रज्यछेदविधुरस्य उद्गात्रऽपछेदवतः | क्रतोरदक्षिणतया क्रतु समापनमंगमिति ज्ञातव्यमित्यर्थः | शास्त्रदीपिकावचनमपि न त्वदभिमतार्थ परं तत्पूर्वग्रंथविरोधात् पूर्वग्रंथार्थनिगमनरूपस्य त्वद्वराहृतवचनस्य पूर्वग्रंथानुसारेणैव नेतव्यत्वाच्चेत्याह तदपीति | तदपि कृत्वा चिंतामात्र परमिति संबंधः | कृत्वा चिंता परत्वे हेतुमाह | तेनेत्यादिना | तेनेत्यस्य कॢप्त पूर्वप्रवृति नैमितिक शास्त्रेणेत्यर्थः || निमितो यजननात्प्रा᳚न्निमितोपजननं विना निमितोपजननाभावे सत्यन्यथा कर्तव्योपीति कृत्वा चिंतामात्रपरं न तूतरनिमितोपजननात्प्राक् पूर्वनैमितिक कर्तव्यता वस्तुतः आसीदित्येवं
407 SK प्. २६ब्) परं | पूर्वग्रंथसंदर्भविरोधापतेः | आस्तांमीमांसकमर्य्यादा श्यामरक्तरूपे न्यायेन क्रमिक कर्तव्यता द्वयोत्यत्युपगमे को विरौधः | उच्यते किं तत्कर्तव्यत्वं यत्परनैमितिक कर्तव्यतोत्पत्यानिवर्तते | न तावत् पूर्वनैमितिकस्य कृति साध्यत्वयोग्यत्वं | तस्य पश्चादप्यनपायात् | नापि कलमुखं कृति साध्यत्वं | तस्य पूर्वमप्यजननात् | नापि यदननुष्टाने क्रतोर्वैकल्पं तत्त्वमंगत्वं वा || परोदाहृतवचनस्य शास्त्रदीपिकागतपूर्वग्रंथानुसारिणमर्थमाह | निमितोपजननं विनेति | क्रमेणविरुधापछेदद्वद्वयवति क्रतौ यदि द्वितीयमितोपजननं न स्या तदा पूर्वतिमितवशादन्यथा कर्तव्यो भवेदप्ययं क्रतुर्न त्वेतदस्तीत्ये तदर्थ परोयं ग्रंथ इत्यर्थः | पराभिमतं तद्वचनार्थं निषेधति | नन्विति | तिष्ठं तु मीमांसकाः दर्शित दर्शिनः कुशलैरस्माभिः कल्पितस्य श्रुत्यर्थस्य कानुपपतिरिति शंकते | आस्तामिति | उतरनैमितिक कर्तव्यतोत्पत्त्यानाश्यत्वेन पराधिमतं पूर्वनिमितिकस्य कर्तव्यत्व मे विवतावद्दर्निरूपं तथा हि तत्किं कृतिसाध्यत्वयोग्यत्वं किं वा फलमुखं कृति साध्यत्वं क्रतु वैकल्पप्रयोजकाननुष्ठानप्रतियोग्यनुष्ठान शालित्वं
408 SK प्. २७अ) वा अंगत्वं वा अन्यद्वा किंचिदिति विकल्पं मनसिति धायाद्यं दूषयति | न तावदिति | अनुपायादिति | तथा चोत्तरनैमितिक कर्तव्यता कालेप्यनुवर्तमानायाः पूर्वकर्तव्यतायाः तन्नाश्यत्वाव्यारोनवदरफलगतश्यामुतारक्तरयोरिवतयोः क्रमिकत्वाभ्युपगमविरोध इति भावः | द्वितीयं दूषयति | नापि फलेति अजननादिति | तथा च पूर्वनैमितिक कर्तव्यताज्ञानस्य मीमांसकमर्य्यादासिद्धं भ्रांतित्वमेवायातितनत्वदभिमतं श्यामताज्ञानस्येव प्रामत्वमितिभावः | तृतीयचतुर्थावनुदति | नापि यदिति | यस्यानुष्ठानाभावे क्रतोर्वैकल्पं भवति तत्क्रतुकैकल्पप्रयोजकाननुष्ठान प्रतियोग्यनुष्ठानशालित्वं पर्यवस्यति तत्वमित्यर्थः | यत्र प्रथममुद्गात्रःपछेदः पश्चात्प्रतिहर्त्रऽपछेदः तत्र उद्गात्रऽपछेदप्रायश्चिताननुष्ठानं क्रतु वैकस्त्यप्रयोजकं तत्प्रायश्चितं तस्य क्रतोरंगमिति च वदता वक्तव्यं | पूर्वप्रायश्चिताननुष्ठानस्य क्रतु वैकल्पप्रयोजकत्वं किं वैकल्पोत्पादकत्वं किं वा तद्व्यापकत्वं तद्व्याप्यत्वं वा नाद्यः | अभावरूपस्याननुष्ठानस्य उत्पादकत्वासंभवात् | क्रतु वैकल्पस्यापि क्रतूपकारप्रागभावरूपतया तदुत्पाद्यत्वायोगाच्च न द्वितीयः | यत्रोद्गातृमात्रापछेदवति क्रतौ तत्प्रायश्चितं कृतं कारणांतराद्वैकल्पं च तत्र क्रतु वैकल्प सत्वेपि उद्गात्रऽपछेदप्रायश्चिताननुष्ठानाभावेन व्यभिचारा तस्मात् तृतीयः परिशिष्यत इत्याशयेनाह ||
409 SK प्. २७ब्) अननुष्ठाने क्रतु वैकल्पप्रयोजकत्वस्य नियमविशेषरूपत्वेन कर्मांगत्वस्य फलोपकारितयासन्निपतितया वा कारणत्वविशेषरूपत्वेन च त्वयोः कादाचित्कत्वायोगेन स्वाभाविकत्वनिर्वाहाय पश्चाद्भाविविरुद्धापछेदाभाववतः क्रतोः पूर्वापछेदनैमितिकं मंगं तत्रैव तदनुष्ठानं क्रतु वैकल्पप्रयोजकं इति विशेषणीयतपापाश्चात्पापछेदवति क्रतौ पूर्वापछेदनैमितिके क्रत्वं गत्वस्य तदननुष्ठाने क्रतु वैकल्पप्रयोजकत्वस्य वा पाश्चात्पापछेदोत्पतेः पूर्वमसंभवात् | जहि वस्तु किंचित्कालं व्याप्यं पश्चान्नेति वा किंचित्कालंकारणं पश्चान्नेति वा क्वचिदृष्टं युक्तं वा नापि कर्तव्यत्वं नामधर्मांतरमेवागमापाययोग्यं कल्पनीयं मानाभावात् || नियमविशेषरूपत्वेनेति | व्याप्यत्वरूपत्वेनेत्यर्थः | फलोपकारित्वं परमापूर्वरूपफलं प्रत्यदृष्टद्वाराकारणत्वं यथा प्रयाजादीनां सन्निपत्योपकारकत्वं च यागस्वरूपोत्पादकत्वं यथा द्रव्यदेवत्वादेरस्तुतयो रुक्तरूपत्वमिति चेतत्र वक्तव्यं | क्रमिकविरुद्धापछेदद्वयवति क्रतौ पूर्वपापश्चिताननुष्ठानगतं
410 SK प्. २८अ) क्रतु वैकल्पव्याप्यत्वरूपं तु वैकल्पप्रयोजकत्वं पूर्वप्रायश्चित गतमंगत्वं च द्वितीय निमित जननानंतरमप्यनुवर्ततेनवेति | आद्ये क्रतु वैकल्पप्रयोजकाननुष्ठान प्रतियोग्यनुष्ठानशालित्वरूपाः पूर्वप्रायश्चित कर्तव्यतायाः तत्प्रायश्चितगतांगत्वरूपकर्तव्यतायाश्च उतरनैमित कर्तव्यतानाश्यत्वाभ्युपगमभंगापतेः | द्वितीय कल्पे च पूर्वप्राथश्चिताननुष्ठानस्य क्रतु वैकल्पाव्याप्यत्वं द्वितीय निमित जननात् प्रागेवास्ति तज्जननानंतरं तु नास्तीति पर्यवस्यति | तथा पूर्वप्रायश्चित गतागत्वरूपा कर्तव्यता पूर्वप्रायश्चितस्य द्वितीय निमितजननात्प्रागेवास्ति पश्चात् तु नास्तीति पर्यवस्यति | तथा च व्याप्यत्वकारणात्वयोः स्वाश्रये कादाचित्कत्वमभ्युपगंतव्यं स्या तच्च न संभवतीत्यनुपदमेव वक्ष्यति | न हीत्यादिना | तस्मातयोर्यावदाश्रय भावित्वरूपस्वाभाविकत्वनिर्वाहायक्रमिकविरुद्धापछेदवक्त्र तु व्यावर्तकविशेषणमुभयत्रापि देषमित्याह | पश्चाद्भावीति | असंभवादिति | तथा च क्रमिकविरुद्धापछेदवति क्रतौ पूर्वनैमितिक कर्तव्यताज्ञानं भ्रांतिरेवेति भावः | तयोः कादाचित्कत्वायोगे हेतुमाह | न हीति | धूमादौ वह्न्यादि व्याप्यतापाः वह्न्यादौ धूमादिकारणतायाश्च कादाचित्कत्वादर्शनादित्यर्थः | नन्वदृष्टसपि युक्तं चेत्संग्राह्यमेव नेत्याह युक्तं वेति | वाकारो न जनुकर्षणार्थः | तयोः कादाचित्कत्वपक्षे धूमादौ कदाचिद्वह्न्यादेः व्याप्यत्वाभावापत्या तदभावप्रयोजकोपाधिमत्वप्रसंगः स्याद्वह्न्यादेः प्. २८ब्) कदाचिद्रूमादिकारणत्वाभापत्याधूमादिकार्यार्थिनो वह्न्याद्युपादाने तत्कारणकत्वाभावशंकयानिष्कंपप्रवृतिश्च न स्यादतस्तयोः कादाचित्कत्वमयुक्तमित्यर्थः | पंचमं निराकरोति | नापीति | प्रथमनिमितजननानंतरमेवा मम योग्यं द्वितीयनिमितजननानंतरमेवापाययोग्यं चेत्यर्थः ||
411 SK विरुद्धापछेदशास्त्रयोः पदाहवनीय शास्त्रवद्व्यवस्थोपपतेः | तस्मान्निरालंबनं क्रमिक कर्तव्यता द्वयोत्पति वचः | ननु चोपक्रमाधिकरणन्यायेनासंजातविरोधित्वात्प्रत्यक्षमेवा- गमाद्वलीयः किं न स्यात् | उच्यते | यत्रैक वाक्यता प्रतीयते तत्रैकस्मिन्नर्थे पर्यवसानेन भाव्यं अर्थभेदे प्रतितैकवाक्यताभंगप्रसंगात् | अतस्तत्र प्रथमसंसंजात प्रतिपक्षेण प्रजापतिर्वरुणा अमनयदित्याद्युपक्रमेणपरकृतिसरूपार्थ वादेन दातुरिष्टौ बुद्धिमधिरोपितायां तद्विरुद्धं यावतोश्चात्प्रतिगृह्णीया तावती वारुणांश्चतुः कपालान्निर्वपेदित्युपयं ह्यंहारगतं पदजातसुपसंजात प्रतिपक्षत्वाद्यथा श्रुतार्थसमर्पणेन तदेक वाक्यतामप्रतिपद्यमानसेकवाक्यतानिर्वाहायणिजर्थ- मंतर्भाव्य प्. २९अ) तदानुगुण्येनैवात्मानं लभत इत्युपक्रमस्य प्रावल्यं यत्र तु परस्परमेकवाक्यता न प्रतीयते तत्रैव पूर्ववृत्तमविगणप्यलब्धात्मकं विरुद्धार्थकं वाक्यं स्वार्थं बोधयत्ये वेति न तः त्वपूर्ववृतस्य प्रावल्यं | अत एव षोडशि ग्रहवाक्यं पूर्ववृतमविगणय्य तद ग्रहवाक्यस्यापि स्वार्थबाधकत्वमुपैयते || पूर्वनैमितिकशास्त्रग्रावहनीयादि शास्त्रवदन्यत्र सावकाशतायाः | उक्त त्वेन तस्यै तादृश धर्मे मानत्वायोगादित्वाशयेनाह | विरुद्धेति | क्रमिकविरुद्धापछेदवति क्रतौ पूर्वनिमितिककर्तव्यत्वज्ञानस्य प्रमात्वासंभवात् सति विरोधे उतरज्ञानेन पूर्वज्ञानबाधे अपछेदन्याय उदाहरणं भवत्येवेत्याशयेनोपसंहरति | तस्मादिति | नन्वपछेद न्यायेन श्रुतेः प्रत्यक्षापेक्षया प्रावल्यावगति वदुपक्रमाधिकरणन्यायेन प्रत्यक्षस्यापि श्रुत्यपेक्षया प्रावल्यावगमाजयोर्बाध्य बाधकभावे विनिगमनाविरह इत्याशयेन शंकते | ननुवति | अज्ञंजातिति | यथा उपक्रमवाक्यार्थ ज्ञानकाले उपसंहारवाक्यार्थ ज्ञानाभावेन विरोधस्फुरणाभावादुपक्रमस्यासंजातविरोधित्वं तथा द्वत सत्वप्रवृतिकाले द्वैत मिथ्यात्वबोधक श्रुत्यर्थानुभवा भावेन
412 SK प्. २९ब्) विरोधस्फूर्त्यभावात् | प्रत्यःक्षस्यासजातविरोधित्व मित्यर्थः | दृष्टांत वैषम्येण परिहरति | उच्यत इति | अथ मनय यदिति | अश्चंदतवान् इत्यर्थः परस्य प्रजापतेः कृतिरनुष्ठानं परकृतिः परकृतिपदं तत्प्रतिपादकवाक्यपरं तत्सदृशार्थवादेनेत्यर्थः | प्रजापतेः कर्माधिकाराभावेन वस्तु तस्तुत्प्रतिपादकत्वान्नावादिति स रूपेत्युक्तं | दातुरिति | स एतं वारुणं चतुष्कपालमपश्यत्तन्निरवपदित्युपक्रमे श्रवणादिति भावः | स इत्यनेन प्रकृतः प्रजापतिः परामृश्यते उपक्रमोपसंहारयोर्वरुणेष्टिरूपैकार्थस्पर्शित्वातयोरत्रैक वाक्यत्वमवगतं तत्संरक्षणायानयोरेकार्थपर्यवसानं वक्तव्यं | उपक्रमोदातुरिर्ष्टं विधे उपसंहारः प्रतिगृहीतुरिति यथा श्रुतवाक्यार्थाभ्युपगमे प्रतितैकवाक्यत्वं न स्यादित्यर्थः | णिजर्थमिति प्रतिगृह्णीयादित्यस्य प्रतिग्राहायेदित्यर्थः | एकवाक्य तु प्रतीति स्थल एवोतरस्य पूर्वापेक्षेत्युक्त्वार्थ दार्ढ्याय एकवाक्यत्वप्रतीत्यभावस्थले उतरेण पूर्वं नादर्त्तव्यमित्याशयेनाह | यत्र त्विति || किंतूभयोर्विषयांतराभावादगत्या तत्रैव विकल्पानुष्ठानमिष्यते | एवं चाद्वैतागमस्य प्रत्यक्षेणैकवाक्यताशंक्यभावात्पूर्ववृतमपि तदविगणय्य स्वार्थबोधकत्वमप्रतिहतं | तदर्थ बोधजनने च पूर्वं परमजातत्वादबाधित्वैव जायते | परस्यानन्यथोत्पादान्नाऽद्याऽबाधैन संभव इत्यप
413 SK प्. ३०अ) छेदन्यायस्यैव प्रवृतिर्नोपक्रमन्यायस्य | अत एव लोकेपि | प्रथमप्रवृतं शुक्तिरूप्यप्रत्यक्षमाप्तोपदेशेन बाध्यत इति | ननु तथाप्युपजीव्यत्वेन प्रत्यक्षस्यैवल्यं दुर्वारमपछेदशास्त्रयोर्हि न पूर्वं परस्योपजीव्यमिति युक्तः परेण पूर्वस्य बाध इह तु वर्णपदादि स्वरूपग्राहकतया मिथ्यात्वबोधकमागमं प्रतिप्रत्यक्षस्योपजीव्यत्वादागमस्यैव तद्विरुद्धमिथ्यात्वाः बोधकत्वरूपो बाधो युज्यते | न च मिथ्यात्व श्रुत्यावर्णपदादि सत्यत्वांशोपमर्द्देप्युपजीव्यस्वरूपांशोपमर्द्दाभावान्नोप- जीव्यविरोध इति वाच्यं | नेह नानास्ति किंचनेत्यादि श्रुतिभिः स्वरूपेणैव प्रपंचाभावबोधनात् || नत्वेकस्मिन्नति रात्र क्रतौ षोडशि ग्रह तदभावयोर्विरुद्धत्वाद्वाक्यद्वयं कथं प्रमाणं स्यादिति शंकते | किं त्विति | प्रयोगभेदेन विरोधसमाधानमाह | उभयोरिति | ननु ग्रहणवाक्यं तन्निषेधवाक्यं वक्रतु भेदेन व्यवस्थापितं किं न स्यादित्यत आह | विषयांतराभावादिति तयोर्वाक्ययारैकप्रकरणगतत्वादित्यर्थः | अगत्येति | समुच्चयस्याप्यसंभवेनेत्यर्थः | तत्रैवेति | अतिरात्र एवेत्यर्थः | एवं चेति | उपक्रम न्यायस्यैक वाक्यताक ग्रंथविषयत्वे सतीत्यर्थः | शंकाभावादिति | तथा च त्वप्रत्यक्षस्य श्रुत्युपेक्षया प्रावल्यशंकेति भावः
414 SK प्. ३०ब्) अपछेदन्यायप्रवृतिं शंकासमाधानाभ्यां निरूप्यनिगमयति | तदर्थेति | पूर्वमिति | क्रमिकविरुद्धापछेदवति क्रतौ प्रथमापछेदनिमितकप्रायश्चित कर्तव्यता ज्ञानं पूर्वशब्दार्थः | उत्तरनैमितिक कर्तव्यताज्ञानं परशब्दार्थः पूर्वेण परस्य बाधाभावे हेतुमाह | अजातत्वादिति परस्यानन्यथा पूर्वज्ञान बाधमंतरेण उत्पत्ययोग्यत्वादाद्यस्याबाधेन परस्य संभवो नास्तीति श्लोकार्थः | पूर्वप्रवृतस्य प्रत्यक्षस्यापि परेणशब्देन बाधे उदाहरणमाह | अत एवेति | परत्वादेवेत्यर्थः | नन्विति | यद्यपीयं शंका न चैवमुपजीव्य प्रत्यक्षविरोध इत्यादिना निराकृतापूर्वमेव | तथापि तक्रोक्तं परिहारमाक्षेप्तुं तच्छंकापरिहारी पुनर्लिखितौ | तथापीति | आगमवत्प्रत्यक्षस्य स्वतः प्रावल्यो भावेपि इत्यर्थः | नन्वपछेद न्यायेन श्रुतेरपि प्रावल्यं दुर्वारं तथा च बाधकभावे विनिगमनाविरह एवेति शंक कस्य नेष्ट सिद्धिः प्रत्यक्षेण श्रुति बाधस्य तदिष्टत्वादित्याशंक्यापछेदन्यायानवतारं शंककः | प्रकृते दर्शयति | अपछेदशास्त्रयोर्हीति | उपजीव्यविरोधशंकायां पूर्वोक्तं परिहारं स्मारयति | न च मिथ्यात्व श्रुत्येति | श्रुत्या प्रपंच सत्यत्व मात्रप्रतिषेधे सति तथा परिहारो युज्यते सा तु प्रपंच स्वरूपमेव निषेधति | तथा च वर्णपदादि स्वरूपस्यैवाभावादुपजीव्यविरोधो दुर्वार इत्याह | नेहेति | इह ब्रह्मणि नानाभिन्नं वस्तु किंचिदपि नास्ति इत्यर्थः || अत्र केचिदाहुः | वृषमानयेत्यादि वाक्यं श्रवण
415 SK प्. ३१अ) दोषाद्वृषभमानयेत्यादिरूपेण श्रुतवतोपि शाब्दप्रमिति दर्शनेन शाब्दप्रमितौ वर्णपदादि प्रत्यक्षं प्रमा भ्रमसाधारणमेवापेक्षितमित्यद्वैतागमेन वर्णपदादि प्रत्यक्षमात्रमपजीव्यस्वरूपोपमर्द्देपि नोपजीव्यविरोध इति | अन्ये त्वाहुः | शाब्दप्रमितौ वर्णपदादि स्वरूपसिद्ध्यनपेक्षायामपि अयोग्यशब्दात्प्रमित्यनुदयाद्योग्यतास्वरूपसिद्ध्यपेक्षास्ति | तदपेक्षायामपि नोपजीव्यविरोधः | नेह नानास्तीति श्रुत्यानानात्वनिषेधेपि यावद् ब्रह्मज्ञानमनुवर्तमानस्यार्थ क्रियासंवादिनोऽसद्विलक्षणप्रपंचस्वरूपस्यांगीकारात् | अन्यथा प्रत्यक्षादीनां व्यावहारिकप्रमाणानां निर्विषयत्व प्रसंगात् | न च स्वरूपेण निषेधे कथं प्रपंच स्वरूपस्यात्मलाभः निषेधस्य प्रतियोगि प्रतिक्षेपरूपत्वे व्याघातादिति वाच्यं || स्वरूपो मर्दमुपेत्यैवोपजीव्यविरोधं परिहरति | अत्र केचिदाहुरिति | प्रपंच सत्यत्वपक्षेपि वृषमानयेत्युदाहरणानुरोधेन भ्रमप्रमासाधारणमेव शब्दप्रत्यक्षं शाब्दबोधोपजीव्यमिति वक्तव्यमस्माकं तु मिषेध श्रुति प्रामाण्यात् | सर्वत्र भ्रमरूपमेव
416 SK प्. ३१ब्) प्रत्यक्षशाब्दबोधे व्यवहोरांतरेषु च कारणमिति विशेष इति नोपजीव्यविरोधः शब्दस्वरूपस्यानुपजीव्यत्वादित्यर्थः | उपजीव्यविरोधं प्रकारांतरेण परिहरति | अन्ये त्वाहरिति | प्रथमं पूर्वमते अस्वरसंदर्शयति | शाब्दप्रमितिविति | अनपेक्षायामयीति | अत्रापि शब्देन | वस्तुतो न पेक्षानास्तीति सूचितं | तथा हि पूर्वमते प्रत्यक्षज्ञानमात्रसुपजीर्व्यविषयोवर्णपदादिलक्षणो नोपजीव्य इत्युक्त तदयुक्तं निर्विषय प्रत्यक्षज्ञानायोगादतो वर्णपदादि स्वरूपमपि स्वीकर्तव्यमेव तथा च उपजीव्यविरोधे पूर्वसमाधानं न साधिति भावः | अस्तीति | तथा च योग्यताया उपजीव्यत्वमवर्ज्जनीयमिति तद्विरोधः पूर्वमते आवश्यक इति भावः | न चैत्वावता पूर्ववाद्यभिमतस्य कृत्स्नप्रपंचस्य रूपं न सिध्यतीति वाच्यं | शाब्दप्रमिति लक्षणकार्यानुरोधेन ब्रह्मातिरिक्तयोग्यता स्वरूअपसिद्धौतद्वदेवजलाहरणादि कार्यानुरोधेन घटादि स्वरूपमपि सिध्यत्येवेत्याशयात् | ननु यदि चैतन्य व्यतिरिक्तं कृत्स्नं जगदुपेयते तर्हि तद्ग्राहि प्रत्यक्षादेः सविषयस्योपजीव्यत्वा तद्विरोध इत्यत आह | तदपेक्षायामपीति निषेध श्रुत्यर्था विरुद्धस्य प्रपंचस्वरूपस्यास्माभिरप्यंगीकारान्नास्माकं मते उपजीव्यविरोध इति भावः | असद्विलक्षणस्वरूपानंगीकारे बाधकं पूर्वमतानुवर्तिनं प्रत्याह अन्यथेति | प्रपंचसत्यत्ववादी शंकते | न चेति | ननु ब्रह्मणि प्रपंचस्तन्निषेधश्च युपदास्तां को दोष इत्याशंक्याह | निषेधस्येति | भूतलादौ घटाद्यभावस्य प्रतियोगि स्थिति प्. ३२अ) विरोधित्वदर्शनादितिभवः | व्याघातादिति निषेधत्वव्याघातादित्यर्थः ||
417 SK शुक्ता च पीदं रजतं नेदं रजतमिति प्रतीति द्वयानुरोधेनाधिष्ठान गताध्यस्ताभावस्य बाधपर्यंतानुवृतिका सद्विलक्षणप्रतियोगिस्वरूपसहिष्णुत्वाभ्युपगमात् | एतेन प्रपंचस्य स्वरूपेण निषेधे शशशृंगवदसत्वमेव स्यादिति निरस्तं | ब्रह्मज्ञाननिवर्त्यस्वरूपांगीकारेण वैय्यम्यात् | न चास्याध्यस्तस्याधिष्ठाने स्वरूपेण निषेधेऽन्यत्र तस्य स्वरूपैणनिषेधः स्वतः सिध इति तस्य सर्वदेशकालसंबंधि निषेधप्रतियोगित्वापत्याऽसत्वं दुर्वारं सर्वदेशकालसंबंधिनिषेध प्रतियोगित्वमसत्वमित्येवासत्वनिर्वचनात् | विधांतरेण तन्निवंचनायोगादिति वाच्यं | असतः सर्वदेशकालसंबंधिनिषेधप्रतियोगित्वमुपगछता तस्य तथात्वे प्रत्यक्षस्य सर्वदेशकालयोः प्रत्यक्षीकरणायोगेन आगमस्य तादृशागमानुपलंभेन च प्रमाणयितुमशक्यतया अनुमानमेव प्रमाणयितव्यमिति | तदनुमाने यत्सद्व्यावृतं प्. ३२ब्) लिंगं वाच्यं | तस्यैव प्रथमप्रतीतस्यासत्वनिर्वचनोपपतेरित्याहुः ||
418 SK कल्पितपदार्थप्रतियोगिकाभावस्याधिष्ठानादन्यत्र सदाप्रतियोगिविरोधित्वेष्वधिष्ठाने कंचित्कालं प्रतियोगि स्थिति सहिष्णुत्वं स्वभावः कल्प्यते | न च तथा कल्पकाभावः | द्वैतग्राहिप्रत्यक्षादे निषेध श्रुतेश्च मानत्वाद्यथापरमते घटात्यंताभावस्य स्वाधिकरणमात्रे प्रतियोगि प्रतिक्षेपकत्वेपि संयोगाद्यत्यंताभावस्य क्वचित्स्वाधिकरणे प्रतियोग्यप्रतिक्षेपकता प्रतीति बलात् स्वीक्रियते | तद्वदिति | समाधानाभिप्रायं मनसि निधाय स्वमतसिद्धं दृष्टांतं सोपपतिकमाह | शुक्ताविति | एतच्छब्दार्थमाह | ब्रह्मज्ञानेति | वैषम्यादिति | शशशृंगादि वैषम्यादित्यर्थः | अन्यत्रेति | अधिष्ठानादन्यत्रदेशे काले वेत्यर्थः | ननु प्रकारांतरेणासत्वनिर्वचनमस्तु तथा च प्रपंचे तदभावान्न तस्या सत्व प्रसक्तिरिति नेत्याह | विधांतरेणेति | प्रसिद्धाऽसतः शशशृंगादेरुक्तलक्षणे सिद्धे सति प्रपंचेपि तल्लक्षण सत्वा तस्याप्यसत्वापत्यातद्विलक्षणत्वाभ्युपगमपूर्वकवैषम्योक्तिरयुक्तेति शंकितुं शक्यंतदेवां सिद्धं मानाभावात् | कथं मानाभावः | इति चेत् तत्र वक्तव्यं किमसतः | उक्तलक्षणयोगे प्रत्यक्षं प्रमाणं किं वा आगमः | अथवानुमानमिति विकल्पं मनसि निधायाद्यद्वितीययोर्निराकरण पूर्वकं तृतीयं परिशेषयति | असत इत्यादिना | प्रत्यक्षस्यागमस्य च प्रमाणयितुमशक्यतयेति संबंधः | तादृशेति शशशृंगादिकं प्. ३३अ) सर्वदेशकालसंबंधि निषेध प्रतियोगीत्येवमाकारकागमानुपलंभेन चेत्यर्थः | अस्तु तर्हि परिशिष्टमनुमानमेव तत्र मानमिति नेत्याह | तदनुमान इति | यदिति | निःस्वरूपत्वमित्यर्थः | वाच्यमिति | त्वयेति शेषः विनिगमना विरहं परिहरति | प्रथम प्रतीतस्येति | उपपतेरिति | तथा च प्रपंचस्य ज्ञाननिवर्त्य स्वरूपांगीकारात् | निःस्वरूपत्वलक्षणाऽसत्वं नास्तीति तस्य शशशृंगादि वैषम्योक्तिर्मुक्तेतिभावः ||
419 SK अपरे तु नेह नानास्तीत्यादि श्रुतेः सत्वत्वेन प्रपंच निषेधे एव तात्पर्यं न स्वरूपेण निषेधस्य स्वरूपा प्रतिक्षेपकत्वे तस्य तन्निषेधत्वायोगात् | तत्प्रतिक्षेपकत्वे प्रत्यक्ष विरोधात् | न च सत्यत्वस्यापि सन् घट इत्यादि प्रत्यक्षसिद्धत्वान्न तेनापि स्वरूपेण निषेधो युक्त इति वाच्यं | प्रत्यक्षस्य श्रुत्यविरोधाय सत्यत्वाभासरूप व्यावहारिक सत्यत्वविषयत्वोपपत्तेः | न चैवं सति पारमार्थिक सत्य त्वस्य ब्रह्मगतस्य प्रपंचे प्रसक्त्याभावा तेन रूपेण प्रपंचनिषेधानुपपतिः | यथा शुक्तौ रजताभासप्रतीतिरेव सत्य रजतप्रसक्तिरिति तन्निषेधः | अत एव नेदं रजतं किंतु तत् नेयंमदीयागौः | किंतु सैव नात्र वर्तमानश्चैत्रः किंत्वपवरक प्. ३३ब्) इति निषिध्यमानस्यान्यत्र सत्वमवगम्यते | एवं सत्यत्वाभासप्रतीतिरेवसत्यत्व प्रसक्तिरिति तन्निषेधोपपतेः | अतो वर्णपदयोग्यतादि स्वरूपोपमर्द्दशंकाभावान्नोपजीव्यविरोध इत्याहुः ||
420 SK उपजीव्यविरोधं प्रकारांतरेण परिहरति | अपरे त्विति | अयोगादिति | तथा चात्रावाधिकरणमात्रे प्रतियोगि स्थित्ययोगात् | प्रपंचाधिकरणे ब्रह्मणि तदभावो न निषेध श्रुतिगम्य इति भावः | ननु सत्यत्वेन ब्रह्मणि प्रपंच निषेध इति मतेपि किं सत्यत्वविशिष्टप्रपंचाभावो ब्रह्मणि विवक्षितः किं वा सत्यत्व धर्मावछिन्नाप्रतियोगिना कः प्रपंचमात्र प्रतियोगिको निषेधो ब्रह्मणि विवक्षितः | नोभयथापि संभवति प्रतियोग्यधिकरणे तदभावानंगीकारात् प्रपंचे सत्यत्वस्यानंगीकारेण तस्य प्रतियोगि कोटिप्रवेशप्रतियोगितावछेदकत्वयोरसंभवाच्चेति चेदुच्यते | प्रपंचे धर्मणि सत्यत्व निषेधे श्रुतेस्तात्पर्यमित्ये तत्मताभिप्रायः | न तु यथा श्रुतार्थे तात्पर्यमस्य मतस्यात एव वक्ष्यति सत्यत्वाभासप्रतीतिरेव सत्यत्वप्रसक्तिरिति तन्निषेधोपपतेरिति | अत्र हि वाक्ये प्रपंच एव सत्यत्व निषेधः स्पष्टं प्रतीयते अतो नास्मिन्मते प्रतियोगि तदभावयोरेकाधिकरणत्वशंकावकाशः | ननु ब्रह्मणि प्रपंच स्वरूपं यथा प्रत्यक्षादि सिद्धमस्ति तथा प्रपंचे सत्यत्वमपि प्रत्यक्षादि सिद्धमस्त्येवेति
421 SK प्. ३४अ) तन्निषेधेपि श्रुतेस्तात्पर्यं कल्पयितुं न शक्यमिति शंकते | न चेति | प्रत्यक्षादि ग्राह्यं प्रपंच सत्यत्वं ब्रह्मसत्यत्ववत् | पारमार्थं न भवति | तथा सति उपक्रमाद्यवगत स्वार्थतात्पर्यवतीनां भूयसीनां निषेध श्रुतीनां निर्विषयत्वप्रसंगात् किंतु व्यावहारिक सत्यत्वादिरूपं तत्कल्प्यते ततो न सत्यत्वनिषेधानुपपतिरिति परिहरति प्रत्यक्षस्येति | न चैवं सतीति | प्रपंच सत्यत्वस्य व्यावहारिकत्वांगीकार इत्यर्थः | दृष्टांतपूर्वकं प्रसाक्तिमाह | यथाप्युक्ताविति | नेदं रजतमिति निषेध प्रत्यक्षस्य सत्यरजतनिषेधविषयकत्वं वक्तव्यं प्रातिभासिकरजताधिकरणे शुक्ति शकले कल्पितरजताभावस्यास्मिन्मते नंगीकारेण बाधप्रत्यक्षस्य तद्विषयत्वायोगादितिभावः | शुक्त्यादौ निषिध्यमानस्य देशांतरस्थत्वे नियामकमाह | अत एवेति || अन्ये तु ब्रह्मणि पारमार्थिक सत्यत्वं प्रपंचे व्यावहारिक सत्यत्वं सत्यत्वान्नाभासरूपं | शुक्तिरजतादौ प्रातिभासिक सत्यत्वं ततोपि निकृष्टमिति सता त्रैविध्यं नोपेयते | अधिष्ठान ब्रह्मगतपारमार्थिकसतानुवेधादेवघटात्पदा- सत्यत्वाभिमानोपपत्यासत्यत्वाभासकल्पनस्य निःप्रमाणकत्वात् | एवं च प्रपंचे सत्यत्वः प्. ३४ब्) प्रतीत्यभावाततादात्म्यापन्ने ब्रह्मणि तत्प्रतीतेरेवाऽविवेकेन प्रपंचे तत्प्रसक्त्युपपतेश्च सत्यत्वेन प्रपंचनिषेधेनोपजीव्यविरोधो न वा प्रसक्तनिषेधता न च ब्रह्मगतपारमार्थिक सतातिरेकेण प्रपंचे सत्वाभासानुपगमे व्यवहित सत्यरजतातिरेकेण शुक्तौ रजताभासोत्पतिः किमर्थमुपेयते इति वाच्यं व्यवहितस्यासन्निकृष्टस्यापरोक्ष्यासंभवातन्निर्वाहाय तदुपगमात् | नन्ववं प्रतिबिंबभ्रमस्थलेपि ग्रीवास्थमुखातिरेकण दर्पणे मुखाभासोत्पतिरुपेया स्यात् | स्वकीये ग्रीवास्थे मुखेनासाद्यवछिन्नप्रदेशापरोक्ष्यसंभवैपि नयनगोलकललाटादि प्रदेशापरोक्ष्यायोगात् | प्रतिबिंब भ्रमे नयनमोलकादि प्रदेशापरोक्ष्यदर्शनाच्च ||
422 SK प्रपंचे पारमार्थिक सत्यत्वस्य प्रसक्त्यभावान्निषेधानुपपतिरिति शंकायां सत्वत्रैविध्यमतमालंव्य परिहारो दर्शितः | इदानीं सर्वत्र सतैक्यपक्षे प्रसक्त्यभावशंकां परिहरति | अन्ये त्विति | प्रथसंसता त्रैविध्यपक्षं दूषयति | ब्रह्मणीत्यादिना | ब्रह्म गतेति | पारमार्थिक सतायाः ब्रह्मरूपत्वेपि भेदकल्पनया तद्गत त्वोक्तिः | अनुवेधा देवेति
423 SK प्. ३५अ) प्रतीतेरेवेत्यर्थः | एवं चेति सन् | घट इत्यादि प्रतीतेर्घटादि तादात्म्यापन्ने सन्निति प्रतियमाने सद्वस्त्वंशरूपे ब्रह्मण्येव सता विषयकत्वं मृद्वट इति प्रतीतेरिव सृदंशे मृत्वविषयकत्वं ब्रह्मणि सताप्रतीति वशादेव घटादौ सत्व व्यवहार इति स्थिते सतीत्यर्थः | यत्तु भेदवादिभिरुच्यते प्रपंचे श्रुत्यासत्यत्वनिषेधो न संभवति प्रपंचे सत्यत्व गोचरप्रत्यक्षप्रतीति विरोधादिति | तत्र हेत्वसिद्धेरित्याह | प्रपंच इति यच्चोक्तत्त?ह्याप्रसक्तप्रतिषेध इति तत्राह | ततादात्म्येति | तत्पदं घटादि परं प्रपंचब्रह्मणोर्भेदाग्रहेण ब्रह्मणि या सता प्रतीतिः सैव प्रपंचे संत्व प्रसक्तिर्भवति | नन्मूलश्च तत्र व्यवहार इत्यर्थः | नोपजीव्यविरोध इति | श्रौत मिथ्यात्वबोधं प्रत्युपजीव्यस्य वर्णपदादि प्रत्यक्षस्य सालंबनत्वाभ्युपगमातदबाधाच्चेति भावः | ननु यदि घटादि प्रपंचे ब्रह्मसतयैव सत्व व्यवहार सिद्धौ पृथक् सत्वं न कल्प्यते तत्कल्पने मानाभावाल्लाघवाच्च तर्ह्यति प्रसंग इति शंकते | न चेति | किमर्थमिति तत्कल्पने गौरवा तथा चानिर्वचनीयरजताद्यसिद्धिरिति शंकाभिप्रायः | गौरवं प्रामाणिकत्वान्न दोषायेत्याशयेन परिहरति | व्यवहितस्येति असन्निकृष्टस्येति | अभिव्यक्तचैतन्यतादात्म्य शून्यस्येति यावत् | नन्वेवमिति | आपरोक्ष्यापरजताभासोत्पत्यभ्युपगम इत्यर्थः | प्रतिबिंबस्य बिंबाभिन्नत्वेपि प्रतिबिंबापरोक्ष्यं संभवतीति न सा स्वीकार्येत्यत आह | स्वकीय इति मुख इति बिंबत्वेनोपेत इति शेषः | नासादीति तदंशे सन्निकर्ष संभवादित्यर्थः ||
424 SK ३५ब्) न च बिंबातिरिक्तप्रतिबिंबाभ्युपगमे | इष्टापतिः | ब्रह्मप्रतिबिंब जीवस्यापि ततो भेदेन मिथ्यात्वापते | अत्र विचरणानुसारिणः प्राहुः | ग्रीवास्थ एव मुखे दर्पणोपाधि सन्निधानदोषाद्दर्पणस्थत्व प्रत्य᳚नमुखत्वबिंबभेदानामध्याससंभवान्न दर्पणे मुखाध्यासः कल्पनीयो मौरवोत् | दर्पगिं मुखं नास्तीति संसर्गमात्र बाधात् मिथ्यावस्त्वंतरत्वे चेदं मुखमिति स्वरूपबाधापतेः | दर्पणे मम मुखं भातीति स्वमुखाभेदप्रत्यभिज्ञानाच्च | न च ग्रीवास्थमुखस्याधिष्ठानस्यापरोक्ष्यासंभवः || यदि बिंबप्रतिबिंबयोरभेदे प्रतिबिंबापरोक्ष्यं स्वमुखप्रतिबिंब स्थलेन संभवति | तर्हि प्रतिबिंबो बिंबात् | भिन्नः मिथ्याभूत एवास्तुकाहातिरद्वैत वादिन इति शंकते | न चेति | तस्य हानिं पूर्ववादी दर्शयति | ब्रह्मप्रतिबिंबेति | जीवो ब्रह्मणः सकाशात् | स्वरूपतोभि च ते ब्रह्मप्रतिबिंबत्वात् | सामान्य व्याप्तौ मुखप्रतिबिंबवततश्च जीवो मिथ्या ब्रह्मभिन्नत्वात् | घटादिवदित्यर्थः | बिंबप्रतिबिंबयोर्लोके भेदाभावान्नोक्तदोष इति परिहरति | अत्र विवरणेति | ननु दर्पणे मुखस्याप्यध्यासो न कल्पनीयः गौरवादित्ययुक्तं प्रतिबिंबमुखे दर्पणे मुखमिति दर्पणस्थत्वा यौगा तथा प्रतिबिंबमुखस्य ग्रीवास्थमुखं प्रतिश्राभिमुख्यानुभवात् | मुखप्रतिमुखयोरभेदपक्षे
425 SK प्. ३६अ) तस्यैव तदाभिमुख्यायोगात् | तयोर्भेदस्यैव स्फुटमुनुभवाच्च | तस्मादनुभवत्रयानुगेधेनोपाधावनिर्वचनीय प्रतिबिंबाध्यास उपेयः | गौरवं च प्रामाणिकत्वान्नदोषावहमित्याशंक्य तदनुभवत्रयस्यान्यथा सिद्धिमाह | ग्रीवास्थ एवेति | धर्मिकल्पनापेक्षया वहधर्मकल्पनयपिस्तत्वितिभावेः | ननु प्रतिबिंबस्य बाधदर्शनान्मिथ्यात्वमित्याशंका हेतु सिद्धिमाह | दर्पण इति | मात्र पदं प्रतिबिंबस्वरूपबाधाभावार्थकं बाधादित्यनंतरं दर्पणस्थत्वरूपसंसर्गस्य मिथ्यात्वं प्रतिबिंबस्य सत्यत्वं चेति शेषः | विपक्षे दोषमाह | मिथ्यावस्त्वंतरत्व इति | नन्वेवं भूतले घटो नास्तित्यत्रापि घटसंसर्गाभाव एव प्रतीयेतेति चेन्न इष्टापते | ननु तर्हि भूतले घटाभावो न सिद्ध्येदिति | चन्न घटाभाववद्भूतलमिति प्रतीत्या तत्संभवादितिभावः | बिंबप्रतिबिंबयोर्भेदमात्रकल्पनायां स्वरूपाभेदप्रत्यभिज्ञानमप्यनुकूलयति | दर्पणे ममेति | लाघवसमुच्चयार्थश्चकारः | यद्वा प्रतिबिंबस्य सत्यत्वेति बिंबाभिन्नत्वं हेतुमभिप्रेत्य तत्र मानमाह | दर्षणे ममेति | चकारो बाधान्नाबसमुच्चयार्थः | तथा च न प्रतिबिंबस्य मिथ्यात्वं बाधाभावात् | बिंबाभिन्नत्वाच्चेत्यर्थः | एवं लोके प्रतिबिंबस्य बिंबाभिन्नत्व सत्य त्वयोः | प्रसाधनेन ब्रह्मप्रतिबिंबस्य जीवस्य ब्रह्मभिन्नत्व मिथ्यात्वप्रसंगो निरस्तः | यतु तयोरभेदपक्षे ग्रीवास्थ सुखस्य नयनगोलकादि प्रदेशेषु स्वचक्षः सन्निकर्षाभावेन प्रतिबिंबस्य साकल्पेन प्रत्यक्षत्वं | न संभवतीत्युक्तं तदनूद्य निराकरोति | न चेत्या प्. ३६ब्) ना अधिष्ठानस्येति | प्रतिबिंबत्व प्रत्य᳚न्मुखत्वदर्पणस्थत्व प्रतिबिंबभेदानां कल्पनाधिष्ठानस्येत्यर्थः ||
426 SK उपाधि प्रतिहत नयनरश्मीनां परावृत्यबिंबग्राहकत्व नियमाभ्युपगमाल्लतादिवत् | तन्नियमानभ्युपगमे परमाणोः कुड्यादि व्यवहितस्थूलस्यापि चाक्षुष प्रतिबिंबभ्रमप्रसंगात् | न चाव्यवहितस्थूलोद्भूतरूपवत् एव चाक्षुषप्रतिबिंबो भ्रमो नान्यस्येति नियम इति वाच्यं बिंबस्थौल्योद्भूतरूपयो कॢप्तेन चाक्षुष ज्ञानजननेनोपयोगसंभवेपि | विधांतरेणोपयोगकल्पनानुपपतेः || असंभवो न चेत्यत्र हेतुमाह | उपाधि प्रतिहतेति | नयन रश्मयः चक्षुर्गोलकाद्वहिर्न्निर्गत्य दर्पणाद्युपाधिं प्राप्यते न प्रतिहताः पुनरावृत्यग्रीवास्थमुख तदवयवैः संसृज्यंते ततश्चाभिमुख पुरुषांतरमुखसाक्षात्कारत् साकल्पेन स्वग्रीवास्थमुखसाक्षात्कारः संभवति | न च परावृत्तनयनरश्मीनां गोलकद्वारां तत्प्रवेशस्यैवान्यत्रकॢप्तत्वादत्र तथा कल्पनं गौरवग्रस्तमिति वाच्यं | प्रतिबिंबोत्पति वादिनापि चक्षुः सन्निकृष्टस्यैव बिंबताया वक्तव्यत्वेन उक्तनियमस्य तेनापि स्वीकार्यत्वादतः संप्रतिपन्नत्वात् गौरवं न दोषायेतिभावः |
427 SK प्. ३७अ) ननु प्रतिबिंबाध्यासवादिना सन्निकृस्यैव बिंबत्वं नांगीक्रियते | अतो ग्रीवास्थमुखस्य बिंबत्वनिर्वाहाय स्वचक्षुः सन्निकर्षा पेक्षाभावान्नायं नियमस्तेनादर्तव्य इत्यत आह तन्नियमानभ्युपगम इति | बिंबसन्निकर्षस्य चाक्षुष प्रतिबिंबाध्यासा हेतुत्वे व्यवहितस्यापि चाक्षुष प्रतिबिंबप्रसंगः | विनानेन विशेषणेन यस्य कस्यापि प्रतिबिंबापत्या परमाणोर्वायोश्च तत्प्रसंगादित्यर्थः | प्रतिबिंबाध्यासे बिंबसन्निकर्षस्य हेतुत्वं विनैव उक्ताति प्रसंगं परिहरति प्रतिबिंबाध्यासवादी न चाव्यवहितेति | तथा च कुड्यादि व्यवहितमुखादेः परमाणोर्वायोश्च न चाक्षुष प्रतिबिंबापतिरिति नावः | द्रव्यचाक्षुषं प्रतिद्रव्यगतमहत्वोद्भूतरूपयोः कारणत्वं कॢप्तं तथा कुड्यादेः सन्निकर्ष विघटन द्वाराबाह्यवस्तु गोचर प्रत्यक्ष प्रतिबंधकत्वं कॢप्तं तथा च बिंबप्रतिबंबयोरभेदपक्षे बिंबचाक्षुषस्यैव प्रतिबिंबचाक्षुषत्वात् | बिंबभूतमुखादि गतयो स्थूलत्वोद्भूतरूपयोः कॢप्तचाक्षुष प्रत्यक्षादन्यत्रकारणत्वं न कल्पनीयमिति लाघवं शुक्तिरजतादिवता साक्षिभास्य प्रतिबिंबाध्योसोत्पति पक्षे तु बिंबसन्निकर्षस्य प्रतिबिंबाध्यास हेतुत्वानुपगमेन वायुपरमाण्वोश्चाक्षुष प्रतिबिंबवारणाय बिंबभूतद्रव्यगतयोर्महत्वोद्भूतरूपयोः स्वाश्रयगोचरचाक्षुष इव स्वाश्रयद्रव्यरूप बिंब हेतुक प्रतिबिंबाध्यासोत्पत्तावपि हेतुत्वं कल्पनीयमिति गौरवं | तथा बिंबप्रति
428 SK प्. ३७ब्) बिंबाभेष्टपक्षे नयनरश्मीनां परावृत्यबिंबसंबंधाभ्युपगमेन प्रतिबिंबभ्रमस्थलेपि बिंबसन्निकर्षस्य हेतुत्व सत्वात् | घटादि चाक्षुष इव प्रतिबिंब चाक्षुषेपि कुड्यादेः सन्निकर्ष विघटन द्वारैव प्रतिबंधकत्वं कल्पनीयमिति लाघवं प्रतिबंबाध्यास पक्षे तु बिंबसन्निकर्षस्य हेतुत्वानुपगमेन कुड्यादेः सन्निकर्षविघटकत्वस्य कॢप्तस्य प्रतिबिंबभ्रमस्थले वक्तुमशक्यतया प्रतिबिंबाध्यासंप्रति साक्षादेव प्रतिबंधकत्वं व्यवहितस्य प्रतिबिंबवारणाय कल्पनीयमिति गौरवमित्याशयेन दूषयति | बिंबस्थौल्य्येति | विधांतरेणेति | स्वाश्रयभूतद्रव्यद्वाराप्रतिबिंबाध्यासोत्पतावुपयोगकल्पनानु- पपत्तेरित्यर्थः || कुड्यादि व्यवधानस्य प्रतिहत नयनरश्मिसंबंध विघटनं विनैवेह प्रतिबंधकत्वे तथैव घटप्रत्यक्षादि स्थलेपि तस्य प्रतिबंधकत्वसंभवेन चक्षुः सन्निकर्षमात्रस्य कारणत्वलोपप्रसंगाच्च दर्पणे मिथ्यामुखाध्यासवादिनापि कारणत्रयांतर्गत संस्कारसिद्ध्यर्थं नयनरश्मीनां कदाचित् परावृत्य स्वमुखग्राहकत्व कल्पनयैव पूर्वानुभवस्य समर्थनीय त्वाच्च | न च नासादि प्रदेशावछिन्न पूर्वानुभवा प्. ३८अ) देवसंस्कारोपपतिः | तावतानयनगोलकादि प्रतिबिंबाध्यासानुपपतेः | तटाक सलिले तदविचपि समारूढादृष्टचरपुरुषप्रतिबिंबाध्यासस्थले कथमपि पूर्वानुभवस्य दुर्वचत्वात् | एवं चोपाधिप्रतिहत नयनरश्मीनां बिंबं प्राप्यतद्ग्राहकत्वे वश्य वक्तव्ये | फलवलादर्पणाद्यभिहतानोमवबिंबं प्राप्यतद्ग्राहकत्वं | न शिलादिप्रतिहता नामनति स्वछताम्रादि प्रतिहतानां मलिनोपाधिसंबंधदोषान्मुखसंस्थानविशेषाग्राहकत्वं | साक्षात् सूर्यं प्रेप्सूनामिवोपाधिं प्राप्यनिवृतानां न तथा सौरतेजसा प्रतिहतिति बिंबसूर्यावलोकने साक्षातदवलोकन इव नाशक्यत्वं ||
429 SK इहेति प्रतिबिंबभ्रमस्थल इत्यर्थः | न केवलमकॢप्तकल्पनागौरवदोषः दोषांतरमपि प्रसज्यत इत्याह | तथैवैति | सन्निकर्षविघटनं विनैवेत्यर्थः | तथा चोक्त गौरवादि दोषपरिहाराय परावृत्येति नियम उपेयः बिंबसन्निकर्षायेति भावः | चाक्षुषप्रतिबिंबभ्रमस्थले बिंबसन्निकर्षस्य त्वयापि वाच्य त्वात् | परावृत्येति नियमोनाप्रयोजक इत्याह | दर्पणे मिथ्येति | कारणत्रयेति | दोषसंप्रयोग प्. ३८ब्) संस्काररूपकारणत्रयेत्यर्थः | स्वमुखस्य स्वचक्षुः सन्निकर्षानुपगमे दर्पणादावारोप्य प्रतिमुखसजातीइय स्वमुखसाक्षात्कारस्य कदाप्यसंभवेनाध्यासकारणभूतस्यारोप्य साजातीय गोचर पूर्वानुभवजन्य संस्कारस्यालाभात् | प्रतिबिंबरूपाद्यध्यासस्योत्पतिर्न स्यादतः स्वमुखस्य स्वचक्षुः सन्निकर्षलाभाय उक्तनियम आदर्तव्य इति भावः | तावतेति | नासदिप्रदेशावछिन्नपूर्वानुभवमात्रेणेत्यर्थः | इदमपि क्वचिद्दुर्ल्लभमित्याह | तटाकेति | अदृष्ट चरेति कदाप्यदृष्टेत्यर्थः | एवं चेति उक्तप्रकारेणेत्यर्थः | उक्त नियमस्याति प्रसंगं परिहरति | फलवलादिति | दर्पणादौ प्रतिबिंबभ्रमदर्शनलक्षणफलाक्षुरोधादित्यर्थः | एवकार व्यवछेद्यमाह | न शिलादीति | शिलादौ प्रतिबिंबादर्शनादितिभावः | नन्व स्वछताम्रादेः प्रतिबिंबग्राहित्वेन शिलादि वैलक्ष्यण्य सत्वा तत्प्रतिहंतानां दर्पणादि प्रतिहतानामिव नयनरश्मीनां साकल्पेन मुखादि ग्राहकत्वं स्यादत आह | मलिनोपाधीति | संस्थानविशेषः नयनगोलकादिः फलवलानुसारिपदार्थ स्वभावकल्पनेन दोषांतराण्यपि निरस्तानीत्याह | साक्षादित्यादिना | साक्षा तदिति | साक्षात्सूर्यावलोकन इत्यर्थः | ननु प्रतिबिंबोपाधिभूतजलेन प्रतिहतानां नयनरश्मीनां बिंबदेशप्राप्त्युपगमेज ||
430 SK प्. ३९अ) जलाद्युपाधिसन्निकर्षे केषांचिदुपाधिप्रतिहतानां बिंबप्राप्तावपि केषांचितदंतर्गतसिकतादि ग्रहणमित्यादि कल्पनान्न कश्चिद्दोष इति | अद्वैत विद्या कृतस्तु प्रतिबिंबस्य मिथ्यात्वमभ्युपगछतां त्रिविधजीववादिनां विद्यारण्य गुरुप्रभृतीनामेवमभिप्रायमाहुः | चैत्रमुखाद्भेदेन तत्सदृशत्वेन पार्श्व स्थितैः स्पष्टं निरीक्ष्यमाणं दर्पणे तत्प्रतिबिंबततोभिन्नं स्वरूपतो मिथ्यैव स्वकरगतादिवरजताच्छ्रुक्तिरजतं | न च दर्पणे मम मुखं भातीति बिंबाभेदज्ञानविरोधः स्पष्टभेद द्वित्व प्रत्य᳚न्मुखत्वादिज्ञानविरोधेनाऽभेदासंभवात् | दर्पणे मम मुखमिति व्यपदेशस्य स्वछाया मुखे स्वमुखव्यपदेशवत् | गौणत्वाच्च | न चाभेदज्ञानविरोधाद्भेदव्यपदेश एवगौः किं न स्यादिति शंक्यं लांतर्गत सिकतादि प्रत्यक्षं न स्यात् | सन्निकर्षाभावादिति दूषणमपि निरस्तमित्याह | जलाद्युपाधाति | ननूपाधि प्रतिहतानां बिंबदेशप्राप्त्यपगमे पृष्टभाग व्यवहित पदार्थस्यापि प्रतिबिंबप्रसंग इति चेत् | नायं दोषः फलवलेन शरीरावयवानानां सन्निकर्षत्वकल्पनादित्यभिप्रेत्याह
431 SK प्. ३९ब्) इत्योदि कल्पनादिति | नयनरश्मीनापरावृत्य बिंबग्राहित्वं सुरेश्वराचार्यैरुक्तं | दर्षणाभिहतादृष्टिः परावृत्यस्वमाननं व्याप्नुवत्याभिमुखेन व्यत्यस्तं दर्शयेन्मुखमिति | बिंबप्रतिबिंबयोर्भेदपक्षनिराकरणपूर्वकं तदभेदपक्षो निरूपितः | इदानीं तदभेदनिराकरण पूर्वकं भेदपक्षनिरूपयति | अद्वैतविद्याकृतस्त्विति | त्रिविधेति | पारमार्थिक व्यावहारिक प्रातिभासिक भेदेन जीवस्त्रिविध इति पक्षः | प्रथम परिछेदे निरूपित इति बोध्यं | एवमिति वक्ष्यमाणप्रकारेणोत्यर्थः | चैत्रेति | चैत्रो यदा दर्पणे स्वमुखं पश्यति तदा पार्थस्थैश्चैत्रग्रीवायां बिंबभूतं मुखं दर्पणे चैत्रमुखप्रतिबिंबं च परस्परं भिन्नत्वेन परस्परं सदृशत्वेन चासंदिग्धा विपर्ययस्तमनुभूयत इत्यर्थः | स्वेति स्वहस्तगतात् सत्यरजताद्भिन्नत्वेन तत्सदृशेत्वेन चानुभूयमानं शुक्तिरजतं यथा तद्भिन्नं मिथ्या च तद्वदित्यर्थः | अभेदज्ञानमसिद्धमित्याह | स्पष्टेति उदाहृतरजतयोरभेदज्ञानादर्शनादितिभावः | आदिपदं प्रा᳚न्मुखत्व ग्रीवास्थत्वदर्पणस्थत्व स्वातंत्र्यपारतंत्र्यादित्र ह्यर्थे | तर्हि सर्वानुभवसिद्धस्याभेदव्यपदेशस्य का गतिः | ज्ञानपूर्वकत्वाद्यपदेशस्येत्याशंक्यनायमभेदव्यपदेश इत्याह | दर्पणे ममेति | स्फुटभेदज्ञाने सति अभेद व्यपदेशायोगादिति भावः | ननु दर्पणे मम मुखं भाति मम मुखं मलिनं भाति मम मुखं दीर्घं भाति मुखं ग्रावास्थमेव न दर्पणादाविति | अभेदानुभवानामपि स्फुटानां भूयसां सत्वादभेदव्यपदेशो मुख्यः अभेदानुभवविरोधेन भेदानुभवस्यैवासंभवात् | भेदव्यपदेशमात्रमविशिष्यते तच्च बिंबप्रतिबिंबयोर्वस्तु गत्याभेदा प्. ४०अ) भावेपि कल्पित भेदसत्वादुपपद्यत इति वैपरीत्यमाशंक्य निषेधति | न चेत्यादिना ||
432 SK बालानां प्रतिबिंबे पुरुषांतरभ्रमस्य हानोपादित् साद्यर्थ क्रियापर्यंतस्यापलयितुमशक्यत्वात् न च प्रेक्षावतामपि स्वमुखविशेषपरिज्ञानायदर्पणाद्युपादान दर्शनादभेदज्ञानमप्यर्थ क्रियापर्यंतमिति वाच्यं | भेदेपि प्रतिबिंबस्य बिंबसमानाकारत्व नियमविशेषपरिज्ञानादेव तदुपादानोपपतेः || प्रतिबिंबगोचर प्रवृत्यादिदर्शनं तस्य बिंबाद्भेदं विना न सिध्यतीति विनिगमकमाह | वालावामिति | वालाजलाशयादौ भयंकरं प्रतिबिंबं दृष्ट्वा तं विहाय पलायंते सोम्यं प्रीतिकरं प्रतिबिंबं दृष्ट्वातमुपादातुमिछंति प्रतिबिंबदेशं गछंति चेति सर्वानुभवसिद्धं | तदुक्तं कर्णामृताचार्यैः | रत्नस्थले जानुचरः कुमारः संक्रांतमात्मीय मुखारबिंदं | आदातु कामस्तदलाभ खेदाद्विलोक्यधात्री वदनं रुरोद इति | हुमारः श्रीकृष्णरूपः शिशुः निर्मलरत्नमयवेदिकायां जानुभ्यां संचरन् तत्र संक्रांतं प्रतिबिंबितं विविंधैः | कुंडलादि भूषणैर्भूषितं निःसीमसौंदर्यौपेतं गोपीजन मनोहरं ब्रह्मादिभिरपि सदा स्पृहणीयं स्वकीयमुखारविंदमुपलभ्य लोकसिद्धां वाल चेष्ट्यमनुवर्तमानः | तदा दानेछया चिरकालं हस्तव्यापारं कृत्वापि | यदा तन्न लब्धवान् | तदा तदल्पभखेदेन धात्र्या मुखं दृष्ट्वा त्वया इदं गृहीत्वामह्यं देयमिति |
433 SK प्. ४०ब्) अभिसंधिमान् | मुक्तकंथतयारोदनं कृतवानित्यर्थः | अभेदज्ञानस्याप्यर्थ क्रियापर्यंत त्वं समानमित्याशंक्यनिषेधति | न चेत्यादिना | यदि बिंबप्रतिबिंबयोर्वस्तुतो भेद एव तदा परिक्षकाणां तद्वेदनिर्णय आवश्यक इति तेषां स्वमुखगतविशेषनिर्णयाय दर्पणाद्यादानं नस्या तेषांमपि तद्दर्शनादभेदनिश्चयस्तेषां वाच्य इत्यर्थः | तेषां प्रवृतेरन्यथा सिद्धिमाह | भेदेपीति बिंबप्रतिबिंबयोः स्वरूपतो भेदे सत्यपीत्यर्थः | परीक्षकत्वादेव तेषामुक्तोपपतिभिः | भेद निश्चयवत्वं नियमविशेषज्ञानवत्वं च संभवतीति भावः | ननु बालानां प्रतिबिंबगोचरहानादि क्रियापि बिंबस्य उपाधिस्थत्व भ्रमादेव संभवतीत्यन्यथा सिद्धिः | तत्रापि तुल्या तथा च बिंबप्रतिबिंबयोर्भेदाभेदानुभवानां भेदाभेद प्रयुक्तार्थ क्रियाणां च तुल्यत्वे सत्यभेदस्य स्वाभाविकत्व कल्पनमेव युक्तं लाघवाद्बिंबप्रतिबिंबभावापन्नतया श्रुति सिद्ध जीवब्रह्माभेद प्रतिपत्युपयोगितया लौकिक बिंबप्रतिबिंबाभेदकल्पनस्याभेदश्रुत्युपोद्बलितत्वाच्च प्रतिबिंब जीवस्यैव ब्रह्माभेदसंभवे तदतिरिक्त पारमार्थिकावछिन्नजीवकल्पनायाः गौरवग्रस्तत्वाच्च | यथा ह्ययं ज्योतिरात्माविवस्वानित्यादि मंत्रस्य तयोरभेदपक्ष एव स्वारस्याच्च तत्र हि यथा विवस्वदादेर्वहुषूपाधिषु प्रतिबिंबितत्वप्रयुक्तं नानात्वं स्वत एकत्वं तथा चैतन्यस्य बहुषुपाधिषु प्रतिबिंबितत्वप्रयुक्तं नानात्वं स्वत एकत्वमिति प्रतिपाद्यते तच्च बिंबप्रतिबिंबयोर्भेदपक्षेन प्. ४१अ) संभवति तत्पक्षे हि बिंबचैतन्यस्यैकत्वं प्रतिबिंबानां नानात्वमिति पर्यवसानेनैकस्यैवोपाधिक नानात्व पर्यवसाना सभवा तस्माच्चैतन्य प्रतिबिंबांगीकारपक्षे लोके चैत्र प्रति ||
434 SK यत्तु नात्रमुखमिति दर्पणे मुखसंसर्गमात्रस्य बाधो न मुखस्येति | तत्र नेदं रजतमित्यत्रापि इदमर्थे रजततादात्म्यमात्रस्य बाधो न रजतस्येत्यापतेः | यदि चेदमंशे रजतस्य तादात्म्येनाड्यासान्नेदं रजतमिति तादात्म्येन रजतस्यैव बाधो न च तादात्म्य मात्रस्य तदा दर्पणे मुखस्य संसर्गितयाध्यासान्नात्र मुखमिति संसर्गितया मुखस्यैव बाधो न संसर्गमात्रस्येति तुल्यं | यत्तु धर्मिणोप्यध्यासकल्पनैगौरवमिति तद्रजताभासकल्पना गौरव च त्प्रामाणिक त्वान्न दोषः स्वनेत्र गोलकादि प्रतिबिंबभ्रमस्य लेपि बिंबापरोक्ष्य कल्पनीया या भावात् | नयनरश्मीनानामुपाधिप्रतिहतानां बिंबप्राप्ति कल्पने हि दृष्टि विरुद्धं वह्वा पद्येते | कथं हि जलसन्निकर्षे केषु केषु चिन्नयनरश्मिष्वप्रतिहतमंतर्गछत्स्वन्ये जलसंबंधेनापि प्रतिहन्यमाना नितांतं मृदवः सकलनयनरश्मिप्रतिघातिनं प्. ४१ब्) किरणसमूहविजित्यतन्मध्यगतं पूर्यमंडलं प्रविशेयुः ||
435 SK बिंबस्थले च बिंबप्रतिबिंबयोरभेदपक्ष एव विवरणाद्यभिमतः श्रेयानिति चेत् सत्यं सूक्ष्मदृष्ट्या एवमेव अत एव भामती निबंधनादिषु जीवब्रह्मणोरभेदेपि लौकिक बिंबप्रतिबिंबयोरिव कल्पित भेद सत्वाद्धर्म व्यवस्थेति सार्वत्रिको व्यवहारः | श्रीविद्यारण्य गुरुप्रभृतिभिस्तु मंदाधिकारिणां तत्वे बुध्यारोहाय प्रतिबिंबोत्पति प्रक्रिया उपपादिता मंदाधिकारिणां हि यथा कर्तृत्व भोक्तृत्वादि संसाराश्रयश्चिदाभासो मिथ्याभूतः स चात्मान भवति | आत्मा त्वसंगचैतन्यरूपः न संसाराश्रय इति प्रक्रियया तत्वं बुद्धां वा रोहति | न तथात्मनो ब्रह्मप्रतिबिंबस्य स्वतः सिद्धं ब्रह्मत्वमंतःकरण तादात्म्यात् संसाराश्रयत्वमिति | प्रक्रिययात्व त्वं बुद्धा वा रोहति | लोके विरुद्धधर्मा सांकर्यस्य धर्मिभेदस्थल इव धर्म्यभेदस्थले स्फुटत्वाभावादयं च तेषांमभिप्रायः | कूटस्थ दीपे यया यया भवेत्युंसामिति वार्तिकवचनोदाहरणेन स्पष्टः | तच्च वचनमादावेवोदाहृत्यव्याख्यानमिति संक्षेपः | प्रतिबिंबस्थले दर्पणस्थत्वादिरूपसंसर्गमात्रचाधमुक्तमनूद्य प्रतिवंद्या प्रतिबिंब स्वरूप बाधं साधयति | यत्वित्यादिना | आपतेरिति | तथा च शुक्तिरजतस्यानिर्वचनीयत्वं सिद्धांताभिमतं न स्यादिति भावः | अत्र यद्यपि तादात्म्य मात्रस्य बाध्यत्वेपि रजतस्यानिर्वचनीयस्योत्पतिरनिवार्व्यादेशांतरस्थरजतादेः
436 SK प्. ४२अ) संविदभिन्नत्वाभावेन पुरोवर्त्यभिन्नतया प्रत्यक्षानुपपतित्युक्तत्वा तथापि शुक्तिरजतस्य बाधोप्युपपादयितुं शक्यत इति मत्वादि प्रतिबिंबाभेदवादी शंकते | यदि चेति संसर्गितुयेति | आधेय तयेत्यर्थः प्रामाणिकत्वादिति | बाधक प्रमाणस्य शुक्तिरजत इव प्रतिबिंबे संत्वेनाध्यासकल्पना गौरवस्य तन्मूलकत्वाविशेषादित्यर्थः | अभेदपक्षे स्वमुखगत नयनगोलकादि प्रतिबिंबस्यापरोक्षासंभवाच्च तदध्यासकल्पना गौरवं प्रामाणिकमित्याह | स्वनेत्रेति पूर्वोक्तो यायमनूद्यनिराकरोति | नयन रश्मीनामिति | किरणसमूहमिति | सूर्यकिरणसमूहमित्यर्थः || कथं च चंद्रालोकन इव तत्प्रतिबिंबालोकनेपि अमतशीतलतद्बिंबसन्निकर्षाविशेषे लोचनयोः शैत्याभिव्यक्ता आप्यायनं न स्यात् | कथं च जलसंबंधेनापि प्रतिहन्यमानाऽशिलादिसंबंधेन न प्रतिहन्येरन् | तत्प्रतिहन्य परावृतौ वा नयनगोलकादिभिर्न संसृज्येरन् तत्संसर्गे वा संसृष्टं किं न साक्षात्कारयेयुः दोषेणापि हि विशेषांशग्रहणमात्रं प्रतिबध्यमानं दृश्यते न तु सन्निकृष्टधर्मिस्वरूपग्रहणमपि | प्रतिमुखाध्यासपक्षे तु न किंचिद् दृष्टविरुद्धं प्. ४२ब्) कल्पनीयं तथा ह्यव्यवहित स्थूलोद्भूतरूपस्यैव चाक्षुषाध्यासदर्शनाद्बिंबगतस्थौल्योद्भूतरूपयोः स्वाश्रयसाक्षात्कारकारण त्वेन कॢप्तयोः स्वाश्रय प्रतिबिंबाध्यासेपि कारणत्वं ||
437 SK नन्वत्र जलस्य प्रतिघातकत्वं न कल्प्यते | किंतु जलांतर्गत सिकतादीनामतो न नितांतमृदुत्वं यथा सूर्यादिकिरणा तां स्वतस्तृणादि दाहकत्वा भावेपि सूर्यकांतमणि प्रतिहतानां तद्दाहकत्वं तथा नयनकिरणानास्वतः | सूर्यकिरणप्रतिघातकत्वा भावेपि प्रतिबिंबोपाधिप्रतिहतानां तद्विजये सामर्थ्यातिशय कल्पनोपपद्यते | तथा च नोक्तदोष इत्यस्वरसादाह | कथं चेति | कथं चाप्यायनं न स्यादिति संबंधः | अमृतमिवशीतलं यतस्य चंद्रस्य बिंबं तत्सन्निकर्षाविशेष इत्यर्थः | आप्यायनं औष्ण्यशांतिः | यदा पुमानधो मुखः सन् जलाशयादौ चंद्रमंडस्तप्रतिबिंबं नैरंतर्येण पश्यति तदा लोचनयोः शैत्याभिव्यक्त्यादिकं स्यात् | बिंबप्रतिबिंबयोरभेदेन प्रतिबिंबसन्निकर्षस्यैव बिंबसन्निकर्षत्वादित्यर्थः | ननु लोचनयोः शेत्याभिव्यक्तिश्चंद्रसन्निकर्षादिकता न भवति | किंतु तयोश्चंद्रकिरणसंसर्गसंतति कृता तथा चाधो सुखस्य लोचनयोस्तदभावाच्चंद्रसन्निकर्षद्दर्शनसत्वेपि न शैत्याभिव्यक्त्यादि प्रसक्तिरित्यस्वरसादाह
438 SK प्. ४३अ) कथं च जलेति | कथं च न प्रतिहन्येरन्निति संबंधः प्रतिहन्येरन्नेवेत्यर्थः | ततः किं तत्राह | तत्प्रतिहत्येति | नयन गोलकादिभिः कथं न संसृज्येरन्निति संबंधः | ततोपि किं तत्राह | तत्संसर्गेवेति शिलादिदर्शनकाले शिलादिना प्रतिहर्ताः नयनरश्मयः स्वमुखगतनयनगोलकादिभिः संसृष्टाश्चेत् | संसृष्टं नयनगोलकादिकं कथं न साक्षात्कारयेयुः साक्षात्कारयेयुरेवेत्यर्थः | ननु दोषबलात्संसृष्टमपि न साक्षात्कारयेयुः | अतो नोक्तदोष इत्यत आह | दोषेणापि हीति दृश्यते इति | शुक्तिरजतादि भ्रमस्थलेष्वपीति शेषः | तथा च शिलादि सन्निकर्षकाले मुखत्वादि सामान्यरूपेण वा स्वमुख साक्षत्कार प्रसंग इति भावः | वस्तु तस्तु अनन्यथा सिद्धफलवन्यत् स्वछद्रव्यस्य तत्संसृष्टस्य वा प्रतिबिंबोदय योग्यस्यैव प्रतिघातकत्वमुपेयते | अतो नोक्तदोष इति बोध्यं | एवं बिंबप्रतिबिंबभेदपक्षे दृष्टविरोधबाहुल्यमापाततो दर्शयित्वा प्रतिबिंबाध्यासोत्पति पक्षमुपपादयति प्रतिमुखाध्यासपक्षे त्विति | कारणत्वं प्रतिबंधकत्वं च कल्पनीयमिति संबंधः स्वाश्रयेति | महत्वोद्भूतरूपाश्रय द्रव्यगोचरचाक्षुषत्वावछिन्नं प्रतिघटादि चाक्षुषे कॢप्ते योरित्यर्थः | द्वितीयः स्वपदमपि स्थौल्योद्भूतरूपपरं | अध्यासेपीति बिंबभूतमुखादि चाक्षुष इव स्वाश्रयमुखादेर्यः प्रतिबिंबरूपोध्यासः तदुत्पतावर्पात्यर्थः | कुड्याद्यावरणद्रव्यस्यत्वगिंद्रिय न्यायेन प्राप्य
439 SK प्. ४३ब्) कारितयावगतनयनसन्निकर्षविघटनद्वाराव्यवहित वस्तु साक्षात्कारप्रतिबंधकत्वेन कॢप्तस्य व्यवहित प्रतिबिंबाध्यासेपि विनैव द्वारांतरं प्रतिबंधकत्वं च कल्पनीयं | तत्र को विरोधः क्वचित्कारणत्वादिना कॢप्तस्य फलवलादन्यत्रापि कारणत्वादि कल्पने | एतेनोपाधिप्रतिहतनयनरश्मीनां बिंबप्राप्त्यनुपगमे व्यवहितस्योद्भूतरूपादिरहितस्य च चाक्षुषप्रतिबिंबतमप्रसंम इति निरस्तं | किं च तदभ्युपगम एवोक्त दूषणप्रसंगः कथं साक्षात्सूर्यावलोकन इव विना चक्षुर्विक्षेपमवनतमोलिनानिरीक्ष्यमाणे सलिले ततः प्रतिहतानां नयनरश्मीनां ऊर्द्धमुत्यबिंबसूर्यग्राहकत्ववतिर्यक चक्षुर्विक्षेपं विना ऋजुचक्षुषादर्पणे विलोक्यमाने तत्प्रतिहतानां पार्श्वस्थमुखग्राहकत्व वच्च वदनसाचीकरणाभावेप्युपाधिप्रतिहतानां पृष्ठभाग व्यवहित ग्राहकत्वं तावत् दुर्वारं उपाधिप्रतिहतनयनरश्मीनां प्रतिनिवृतिनियमं विहाय यत्र बिंबं तत्रैव गमनोपगमात् ||
440 SK प्. ४४अ) यदुक्तं प्रतिबिंबाध्यासं प्रतिकुड्यादेः साक्षात्प्रतिबंधकत्वसीकारे अन्यत्रापि तथात्वापत्या सन्निकर्षमात्रविलोपप्रसंग इति तन्न सन्निकर्षहेतुत्व ग्राहंक प्रमाणानुरोधेन सन्निकर्षविघटन द्वारैव तस्य प्रत्यक्षप्रतिबंधकत्वाभ्युपगमादित्याशयेन सन्निकर्षस्य हेतुत्व ग्राहक प्रमाणं सूचयति | त्वगिंद्रियेति | त्वगिंद्रियस्य विषयं प्राप्तस्यैव विषयप्रत्यक्ष कारित्व दर्शनातदृष्टांतेन नयनादेरपि प्राप्यकारित्वमवगतमित्यर्थः | व्यवहितेति छेदः व्यवहित प्रतिबिंबेति | कुड्यादि व्यवहितस्य मुखादेः प्रतिबिंबाध्यासे साक्षात्प्रतिबंधकत्वं कल्पनीयं | अन्यथा प्रतिबिंबोत्पति पक्षे बिंबसन्निकर्षस्य हेतुत्वानुपगमेन व्यवहितस्यापि प्रतिबिंब प्रसंगस्य प्राग्दर्शिततत्वादित्यर्थः | तत्र कल्पने को विरोध इति संबंधः तस्मिन् कल्पने इत्यर्थः | अव्यवहितत्व स्थूलत्वोद्भूतरूपाणां मुखादि प्रतिबिंबाध्यासोपयोगकल्पन प्रयोजनमाह | एतेनेति | आदिपदं स्थूल्यसंग्रहार्थं | उक्तेति व्यवहितादि बिंबप्रसंग इत्यर्थः | प्रसंग प्रकारानभिज्ञः पृछति | कथमिति तमाह साक्षादिति | गगनस्थसूर्यावलोकने चक्षुर्विक्षेपः कॢप्तः तं विनेत्यर्थः | अवनतमौलिना अधोमुखेन तिर्यगिति | स्वाभिमुखे दर्पणे स्वप्रतिबिंबग्रहणकाले स्वपार्श्व स्थित पुरुष प्रतिबिंब ग्रहणमप्यस्ति प्रतिबिंबाभावकाले स्वपार्श्वस्थितपुरुषग्रहणाय स्वचक्षुषस्तिर्यग्विक्षेपोस्ति ऋजु चक्षुषा स्वाभिमुखपुरुषस्येव स्वपार्श्वास्थितपुरुषस्य ग्रहणा दर्शना तथा च स्वाभिमुखे दर्पणे प्. ४४ब्) स्वपार्श्व च स्थित पुरुषप्रतिबिंबग्रहणाय चक्षुषस्तिर्यखिक्षेपं विना दर्पण प्रतिहतानां स्वपाश्वं स्थित पुरुषग्राहकात्ववदित्यर्थः | वदनेति | वदनुसाचीकरणं नामचक्षुषा स्वपृष्ठभागव्यवहित पदार्थग्रहणानुकूलोवदनव्यापारः | प्रतिनिवृतिनियममिति | नयनगोलकाभिमुखविषयप्रतिहतानां पुनर्गोलकद्वारा शरीरांतः प्रवेशनियममित्यर्थः ||
441 SK तथा मलिनदर्पणे श्यामतयागौरमुखप्रतिबिंबस्थले विद्यमानस्यापि बिंबगतगौररूपस्य चाक्षुषज्ञानेऽनुपयोगितयापीतशंखभ्रमन्यायेनारोप्यरूप- वैशिष्ट्ये नैव बिंबमुखस्य चाक्षुषत्वं निर्वाह्यमिति तथैव निरूपस्यापि दर्पणोपाधि श्यामत्व वैशिष्ट्येन चाक्षुष प्रतिबिंबभ्रमविषयत्वमपि दुर्वारं स्वतोनीरूपस्यापि नभसोऽध्यस्तनैल्यवैशिष्ट्येन चाक्षुषत्व संप्रतिपतेः | तस्मात् स्वरूपतः प्रतिमुखाध्यासपक्ष एव श्रेयान् || ननु प्रतिनिवृतिनियमाभावपक्षेपि बिंबसन्निकर्षविघटक व्यवधानाभावोपेक्षास्ति अवनत मौलि नयनरश्मीनां सूर्यशप्तिस्थले ऋजुचक्षुषादर्पणे विलोक्यमाने दर्पण प्रतिहतानां पार्श्वस्थपुरुषप्राप्तिस्थले च सन्निकर्षविघटकाभावात् | तत्प्राप्तिः संभवति प्रकृते च शरीर
442 SK प्. ४५अ) तदवयवानां व्यवधायकानां सत्वाद्दर्पण प्रतिहतानां न पृष्ठभागव्यवहितवस्तुप्राप्तिरित्यस्वरसादाह | तथेति | उपाधि प्रतिहत नयनरश्मीनां प्रतिनिवृतिनिवृतिनियमाभावपक्षेष्वष्टभागव्यवहितस्य प्रतिबिंबापतिवन्नीरूपवाम्नादेरपि | चाक्षुष प्रतिबिंबापतिरिति दूषणांतर ससुच्चयार्थस्तथा शब्दः | ननु नीरुपस्यापि वाग्वादेर्दर्पणद्युपाधिगतरूपोपादानेन चाक्षुषप्रतिबिंबभ्रमविषयत्वं दुर्वारमित्यनुपपन्नं द्रव्यस्य चाक्षुष प्रतिबिंबभ्रमे बिंबरातस्य महत्वेवदुद्भूतरूपस्यापि कारणत्वादित्याशंक्यद्रव्यगोचरचाक्षुष प्रतिबिंबभ्रमे बिंबिंवगतरूपस्यानुपयोगान्नेवमित्याह | मलिंनेति | मलिन दर्पणे गौरमुखस्य प्रतिबिंबे सति प्रतिबिंबं श्यामतया गृहतेन गौरतया | तथा च तत्र गौरमुखे आरोप्येणैव श्यामरूपेणोपहितस्य गौरमुखस्य चाक्षुषत्वं निर्वाह्यमित्यर्थः | आरोप्यरूपेणैवा क्वचिद्द्रव्यस्य चाक्षुषत्वे दृष्टांतमाह | पीतशंखेति | कविता किंकमतोपपादनावसरे शंखस्यारोप्यपीतरूपविशिष्टतयैव भ्रमस्थले चाक्षुषत्वं नान्यथेत्युक्तमिति भावः | वस्तु तस्तु द्रव्यचाक्षुषे द्रव्यगतमेवोद्भूतरूपं कारणमिति न नीरूपद्रव्यस्य चाक्षुषप्रतिबिंबभ्रमविषयत्वं प्रसज्यते मलिन दर्पणे गौरमुखप्रतिबिंबस्थले पीतशंखादि भ्रमस्थले च श्यामं मुखं पीतः शंख इत्यादि भ्रमप्राचीन धर्मिज्ञाने अध्यासकारणभूतै गौरशुक्लादिरूपस्य कारणतया उपयोगाभावासिद्धेः द्रव्यचाक्षुषे रूपविषयकनियमाभावस्यकवितार्किक ग्रंथव्याख्यानावसरे
443 SK प्. ४५ब्) दर्शितत्वेन पीतशंखभ्रमसंभवाच्चेति बोध्यं | आरोप्यरूपविशिष्टतयैव चाक्षुषत्वे उदाहरणांतरमाह | स्वत इति | संप्रतिपतेरित्यापाततः गगनस्य चाक्षुष वृति विषयत्वं कवितार्किकमात्रसंमतं न तु पूर्वाचार्यैः पूर्वाचार्याणां मते तु गगनव्यापि सौरालोकादिगोचरचाक्षुषवृत्या आलोकाद्यवछिन्न चैतन्याभिव्यक्तिकाले आलोकानुगत गगनावछिन्नचैतन्यस्याप्यभिव्यक्तिं स्वीकृत्याभिव्यक्ते गगनावछिन्ने साक्षिणि नैल्याध्यासाभ्युपगमेन नैल्यादिविशिष्टगगनस्य साक्षिमात्रभास्यत्वादिति ध्येयं | तस्मादिति दृष्टविरोधरूपबाधकाभावात् स्यधकत्वाच्चैतिभावः | श्रेयानिति मंदाधिकारिणः प्रतीति वस्तु गतिः || न च तत्रापि पूर्वानुभवसंस्कार दौर्घट्यं | पुरुषसामान्यानुभवसंस्कारमात्रेण स्वप्नेप्यवृष्टचरपुरुषाध्यासवन्मुख सामान्यानुभव संस्कारमात्रेण दर्पणे मुखविशेषाध्यासोपपतेः | इयांस्तु भेदः स्वप्नेषु शुभाशुभहेतु दृष्टानुरोधेन पुरुषाकृतिविशेषाध्यासः | इह तु बिंबसन्निधानानुरोधेन मुखाकृतिविशेषाध्यास इति | न च प्रतिबिंबस्य स्वरूपतो मिथ्यात्वे ब्रह्मप्रतिबिंबस्य जीवस्यापि मिथ्यात्वापतिर्दोषः
444 SK प्. ४६अ) प्रतिबिंबजीवस्य तथात्वेप्यवछिन्न जीवस्य सत्यतया मुक्तिभाक्त्वोपपतेरिति | यतु प्रतिबिंबं दर्पणादिषु मुखछायाविशेषरूपतयासत्यमेवेति | कस्यचिन्मतं तन्न छाया हि नाम शरीरादिस्ततदवयवैरालोकेकिसित यद्देशे व्यापिनि निरुद्धे तत्तद्देशे लघ्वात्मकं तम एव न च मौक्तिकमाणिक्यादि प्रतिबिंबस्य तमो विरुद्धसितलोहितादिरूपवतस्तमोरूपछायात्वं युक्तै न वा तमोरूपछायारहितनयनादि प्रतिबिंबस्य तथात्वमुपपन्नं ननु तर्हि प्रतिबिंबरूपछायायास्तमौ रूपत्वासंभवे द्रव्यांतरत्वमस्त्वकॢप्तद्रव्यानंतर्भावेन तमो वट् द्रव्यांतरकल्पनोपपतेरिति चेत् | किं तत् द्रव्यांतरं प्रतीयमानरूपपरिमाणसंस्था न विशेष प्रत्य᳚नमुखत्वादि वद्रधर्मयुक्तं तद्रहितं वा स्यात् | अतेन तेन द्रव्यांतरेण रूपविशेषादि घटिते प्रतिबिंबोपलंभ निर्वाह इति व्यर्थ तत्कल्पंनं || उपाधिप्रतिहतानां बिंबप्राप्त्यनुपगमे अध्यस्यमानमुख सजातीय गोचरपूर्वानुभवानुभवासंभवादध्यासु
445 SK प्. ४६ब्) कारणसंस्कारानुपपतिरित्युक्तमनूद्यनिराकरोति | न च तत्रापीति | प्रतिबिंबाध्यासपक्षे स्वसंस्कार दौर्घट्यमपि न चेत्यर्थः | अदृष्ट चरेति | कदाप्य ननु भूतेत्यर्थः | ननु मुखसामान्यानुभवजन्यसंस्कारस्य प्रतिमुख्यध्यासहेतुत्वे चैत्र मुखदर्पणयोः सन्निधे सति यस्य कस्यापि मुखस्याध्यासप्रसंगः | स्वप्नवदेव न तु नियमे नाभिमुखमुखाध्यास इत्याशंक्य व्यवस्थामाह | इयांस्तु भेद इति | स्वप्न प्रतिबिंबाध्यासयोरिति शेषः | आदौ त्रिविध जीववादिनामिति विशेषणेन सूचितं परिहारमाविष्करोति | प्रतिबिंब जीवस्यैति | मुक्तिभाक् तं ब्रह्माभेदः प्रतिबिंबस्य मिथ्यात्व दार्ढ्याय तत्सत्यत्वमतं दूषयितु मनुभाषते | यत्विति | ननु वृक्षादिछायोयाः नैल्य दर्शनात् | प्रतिबिंबेषु प्रायेण नैल्यादर्शनेन छाया वैलक्षण्य सत्वात् प्रतिबिंबस्य छायारूपत्वमनुपपन्नमिति शंकानिराकरणार्थं विशेष पदं तथा च बिंबभिन्नोपि मुखाद्याभासः | शुक्तिरजतादिवत् प्रातिभासिको न भवति | किंतु बिंबवत् सत्यः छाया विशेषरूपत्वाभ्युपगमातस्येत्यर्थः | छायायानीलरूपवत्वनियमा तद्विशेषरूपत्वं प्रतिबिंबस्य न्वसंभवतीति छाया स्वरूप कथन पूर्वकं दूषयति तन्नेति शरीरादेः छायानामतम एव नान्यदिति प्रसिद्धमित्यर्थः | किं यद्देशव्यापिन्या लोके शरीर तदवयवैनिरुद्धे सतीति संबंधः | न चेति मौक्तिक स्फुटिकादि प्रतिबिंबस्य सितरूपवतः तद्विरुद्धतमोरूपछायात्वं न युक्तं प्. ४७अ) तथा माणिक्य कनकादि प्रतिबिंबस्य लोहितपीतरूपादि मतस्तद्विरुद्धछायात्वं न युक्तमिति विभज्य योजनीयं नयनादे छायैव नास्तिति तत्प्रतिबिंबस्य छायारूपत्वमनुपपन्नमेवेत्यर्थः | तमो वदिति यथा तमसो द्रव्यस्य कॢप्त द्रव्यानंतर्भावे सिद्धांते दशम द्रव्यत्वं कल्पितं तद्वदित्यर्थः ||
446 SK प्रथमे कथमेकस्मिन्नल्यपरिमाणे दर्पणे युगपदसंकीर्णतया प्रतीयमानानां महापरिमाणानामनेक मुखप्रतिबिंबानां सत्यता निर्वाहः | कथं च निविडा वयवानुस्यूते दर्पणे तथैवावतिष्ठमाने तदंतहिनुनासिकाद्यनेक निम्नोन्नत प्रदेशवतो द्रव्यांतरस्योत्पतिः | किं च सितरक्तपीताद्यनेक वणीदिमतः प्रतिबिंबस्योत्पतौ दर्पणमध्ये स्थितं तान्सन्निहितं न तादृशं कारणमस्ति | यद्युच्येतोपाधिमध्यविश्रांति योग्यपरिमाणा नामेव | प्रतिबिंबानां मेहापरिमाणज्ञानं तादृशनिम्नोन्नतादि ज्ञानं च भ्रम एव यथा पूर्वं दर्पण तदवयीवावस्थानाविरोधेन तादृक् प्रतिबिंबोत्पादन समर्थ च किंचित् कारणं परिकल्प्यमिति तर्हि प्. ४७ब्) शुक्तिरजतमपि सत्यमस्तु | तत्रापि शुक्तौ यथापूर्वं स्थितायामेवततादात्म्यापन्नरजतोत्पादनसमर्थं | किंचित्कारणं परिकल्प्य तस्य रजतस्य दोषत्वाभिमतकारणसहकृतेंद्रिय ग्राह्यत्वनियम वर्णनोपपतेः ||
447 SK प्रथमे कथं सत्यता निर्वाह इति संबंधः | यद्येकमपि दर्पणं विशालं स्यातदानेक प्रतिबिंबानामसंकीर्णतया तत्रावस्वानं संभवेदिति शंकावारणायाह | अल्पेति | अल्पपरिमाणानामपि दर्पणानामनेकत्वे सत्येकैकस्मिन् दर्पणे एकैकं प्रतिबिंबमसंकीर्णतया च तिष्ठे तदपि नास्तीत्याह एकस्मिन्निति | एकस्मिन्नल्यपरिमाणेपि दर्पणे क्रमेणानेक प्रतिबिंबानाम संकीर्णता स्या तदपि नास्तीत्याह | युगपदिति | प्रतिबिंबस्य मिथ्यात्व तु नायं दोषो भवति स्वप्न दशायां स्वल्पेपि शरीरस्यांतराकाशे रथगजादि पदार्थानां तदुचित वैशाल्यस्य चाध्यासवदल्पपरिमाणेपि दर्पणे परस्परमसंकीर्णतया अनेक प्रतिबिंबानां तदुचित वैशाल्यस्य चाध्याससंभवादितिभावः | कथं च द्रव्यांतरस्योत्पतिरिति संबंधः सत्यस्येति शेषः | सामग्र्य भावाच्च न तस्योत्पतिः | संभवतीत्याह | किं चेति | दर्पणस्य यो वर्णः स एव प्रतिबिंबस्यापीति नियमसुत्वे तद्वर्णयुक्तं किंचित्कारणे दर्पणे संभाव्ये तापि नत्वे तदस्ति दर्पणरूपविलक्षण नानारूपवतां प्रतिबिंबा
448 SK प्. ४८अ) नामनुभवादित्याह | अनेकेति | सितपीतरक्ताद्यनेकवर्णयुक्तानां बिंबानामेवकारणत्वमस्तु नेत्याह | दर्पणमध्ये स्थितमिति | तेषां निमितत्वेप्युपादानत्वं न संभवति प्रतिबिंबोत्पति देशे तेषामभावादित्यर्थः | तादृशमिति | सितपीतरक्ताद्यनेकवर्णयुक्तं कारणं प्रतिबिंबोदयकाले नियमेन नास्त्यनुपलंभादित्यर्थः | प्रतिबिंबं हि दर्पणस्यांतः दर्पणस्य पृष्ठभागे दर्पणसन्निहितमनुभूयते न तु दर्पणगतरूपपरिमाणादिवद्दर्पणस्यो परिभागे ततस्तत्कारणेनापि तत्रैव भवितव्य्मिति मत्वा दर्पणमध्ये स्थितं तत्सन्निहितमित्युक्तं मध्यशब्द्ॐतरर्थकः प्रतिबिंबस्वरूपमात्रं सत्यं तत्र प्रतीयमानधर्मास्तु कल्पिता एवेति तत्सत्यत्वेभिनिवेशमानः शंकते | यद्युच्येतेति | वस्तु गत्या उपाधि मध्ये विश्रांति योग्यान्येव प्रतिबिंबान्युत्पद्यंते तेषु महापरिमाणादिकं भ्रांत्याभासत इत्यर्थः | कल्प्यमिति | नीवारावयवेषुर्ब्राह्मवयवा यथा मीमांसकैः कल्प्यं तं तद्वद्दर्पणावयवसंसृष्टाः प्रतिबिंबावयवाः कल्प्या इत्यर्थः | प्रतिबंदीमाह तहीति पूर्वोक्त दृष्टांतमनसि निधाय शुक्तिरजतस्यापि कारणं कल्पयति तत्रापीति | शुक्तिरजतस्थलेपीत्यर्थः | ननु शुक्तिरजतं सत्यमिति स्वीकारे तस्य शुक्तौ सदा सत्वाच्छुक्ति प्रत्यक्षकाले नियमेन तदपि गृह्येत न च गृह्यते अतो न तस्य सत्यत्वं संभवतीत्याशंकां परिहरति | तस्येति ||
449 SK प्. ४८ब्) किं शुक्तिरजतमसत्यं प्रतिबिंबः सत्य इत्यर्ध्वजरतीय न्यायेन न च तथा सति रजतमिति दृश्यमानायाः शुक्तेरग्नौ प्रक्षेपे रजतो चितद्रवीभावापतिः | अनलकस्तूरिकादि प्रतिबिंबस्थौल्यसौरभादिराहित्यवच्छुक्ति रजतस्य द्रवीभावयोग्यतानृराहित्योपपतेः | अथोच्येत नेदं रजतं मिथ्यैव रजतमभादिति सर्वसंप्रतिपन्नबाधान्न शुक्तिरजतं सत्यमिति | तर्हि दर्पणे मुखं नास्ति मिथ्यैवात्र दर्पणे मुखमन्नादित्यादि सर्वसिद्धबाधात्प्रतिबिंबमपि न सत्यमिति युक्तं | तस्मादसंगतः प्रतिबिंबसत्यत्ववादः | ननु मिथ्यात्ववादोप्ययुक्तः | शुक्तिरजत इव कस्यचिदन्वयव्यतिरेक शालिनः कारणस्याज्ञानस्य तन्निवर्तकस्य ज्ञानस्य चानिरूपणात् | अत्र केचित् || ततः किं तत्राह | किमिति | अर्धजरतीय न्यायेनेति | जरतीद्ब्रद्धातस्या(?) अर्धं मुखमात्रं कामयते नाधः कायमित्ये तद्यथोपपति श्रन्यमेवमिदमपीत्यर्थः | ननु प्रसिद्धरजतमग्नौ प्रक्षिप्तं द्रवी भवति शुक्तिरजतं तु न तथेति | तस्य मिथ्यात्वमेवेति मत्वा शंकते | न च तथो सतीति तस्य सत्यत्वे सतीत्यर्थः | प्रतिबंदीं समर्थयते | अनलेति ||
450 SK प्. ४९अ) यद्यप्यन्नेष्टापतिरेव प्रतिबिंबसत्यत्ववादिमते शुक्तिरजतादेरपि सत्यत्वसंभवा तथापि प्रतिबंदी व्याजेन शुक्तिरजतादेः अपि मिथ्यात्व निरूपणे तात्पर्यं बोध्यं प्रतिबंद्याः परिहारं शंकते प्रतिबिंबसत्यतवादी अश्वोच्येतेति | परिहारसाम्यमाह | तर्हीति मिथ्यैवात्रेति | बिंबप्रतिबिंबाभेदपक्षे प्रतिबिंबमिथ्यात्वानुभवः प्रतिबिंबत्व विशिष्टवेषेण प्रतिबिंबगौचरो न स्वरूपेणेति बोध्यं | ननु तर्हि शुक्तिरजतमिथ्यात्वानुभवोपीदर्मर्थ तादात्म्यापन्नतयैव रजतयो चरः न स्वरूपेणेति वक्तं शक्यतयारजतेदमर्थयोस्तादात्म्यमात्रकल्पितं त्व कल्पितमिति प्रसज्येतेति चेन्न रजतस्य शुक्तावनुत्पतौ तस्य संविदभिन्नत्वाभावेन प्रत्यक्षानुपपतेस्तस्य तत्रोत्पतिरपरिहार्यातदुत्पतौ चान्वयव्यतिरेकाभ्यामनिर्वचनीयाज्ञानमेव कारणं नान्यदिति | प्राक्प्रतिपादितत्वेन तस्य मिथ्यात्वोपयतेः | पूर्वोक्तरीत्या बिंबप्रतिबिंबा भेदसाधकप्रमाणसत्ववच्छुक्ति रजतत्यत्व साधका नन्यथा सिद्धप्रमाणो भावेन शुक्तिरजतमिथ्यात्वानुभवस्य रजत स्वरूपगोचरत्वोपपतेश्च तस्य मिथ्यात्वमिति भावः | तस्मादिति बिंबभिन्नस्य प्रतिबिंबस्य सत्यत्वे मानाभावादित्यर्थः | नन्विति | प्रतिबिंबाध्यासपक्षे हि तस्योपादानमज्ञानं वाच्यं तच्च न संभवति | सर्वात्मनादर्पणादिरूपाधिष्ठानगोचरसाक्षात्कारेण दर्पणाद्यवछिन्न चैतन्यनिष्ठाज्ञानस्यति वृतत्वाता
451 SK प्. ४९ब्) दृशसाक्षात्कारे सत्ये वानुवर्तमानस्य प्रतिबिंबाध्यासस्य तन्निवर्त्यत्वायोगात् | तन्निवर्तक ज्ञानांतरानुपलंभाच्च ज्ञानैकनिवर्त्यत्वं विना तस्य मिथ्यानुपपतेः तस्मातन्मिथ्यात्व वादोप्यसंगत इत्याक्षेपाभिप्रायः यथा शुक्तिरजते शुक्त्यज्ञनस्य तत्कारणस्यान्वयव्यतिरेक सिद्धस्य पूर्वे निरूपणं कृतं तथा प्रतिबिंबाध्यासे दर्पणाद्यज्ञाने सति प्रतिबिंबाध्यासः | तदभावे तदभावः | इत्यत्वयव्यतिरेक शालिनस्तत्कारणस्याज्ञानस्य कस्यचिदनिरूपणातन्निवर्तक ज्ञानस्य चानिरूपणादित्यक्षरार्थः | परिहरति | अत्र केचिदिति || यद्यपि सर्वात्मनाधिष्ठान ज्ञानानंतरमपि जायमाने प्रतिंबिंबाध्यासेनाधिष्ठानावरणमज्ञानमुपादानं नखाधिष्ठानविशेष्यंशज्ञानं निवर्तकं | तथाप्यधिष्ठानाज्ञानस्यावरणशक्त्यंशेन निवृतावपि विक्षेपशक्त्यंशेनानुवृति संभवातदेवोपादानं | बिंबोपाधिसन्निधिनिवृति सचिवंचाधिष्ठानज्ञानं सोपादानस्य तस्य निवर्तकमिति | अन्ये तु ज्ञानस्य विक्षेप शक्त्यंशं विहायावरणशक्त्यंशमात्रनिवर्तकत्वं न स्वाभाविकं ब्रह्मज्ञानेन मूलाज्ञानस्य शुक्त्यादि ज्ञानेनावस्था ज्ञानस्य चावर प्. ५०अ) रणशक्त्यंशमात्र निवृतौ तस्य विक्षेप शक्त्या सर्वदानुवृति प्रसंगात् | न च तद्बिंबोपाधि संनिधिरूपं विक्षेपशक्त्यंश निवृति प्रतिबंधकप्रयुक्तां बिंबोपाधि सन्निधातात्प्रागेव बिंबे चैत्रमुखे दर्पणसंसर्गाद्यभावे दर्पणे चैत्रमुखाभावे वा प्रत्यक्षतोवगम्यमाने विक्षेपशक्त्यंशस्यापि निंवृत्यवश्यं भावेन तत्कालं तयोः सन्निधाने सत्युपादानाभावेन प्रतिबिंबभ्रमाभावप्रसंगात् ||
452 SK आक्षेयाभिप्रायमनुवदति | यद्यपीति | सर्वात्मानेति शुक्तिरजताध्यासात्पूर्वमिदं त्वात्मना साक्षात्कार सत्वेपि शुक्तित्वादि विशेषात्मना साक्षात्कारो नास्तीति तत्राधिष्ठानविशेषांशावरणमज्ञानमुपादानं लभ्यते प्रकृते तु चक्षुः संनिकृष्टे दर्पणे प्रतिबिंबाध्यासात्पूर्वमिदं त्वात्मनेव दर्पणत्वादि विशेषात्मनापि साक्षात्कार सत्वेन सर्वात्मनाधिष्ठान साक्षात्कारोस्ति तथा च तेनाधिष्ठान विशेषावरणस्याज्ञानस्य निवृतत्वान्न तदुपादानं संभवतीत्ये तद्युक्तमेवेत्यर्थः | अपिरवधारणे निवेर्तकमिति | प्रतिबिंबाध्यासस्येति शेषः | कथं तर्ह्युपादानादि लाभः तत्राह | तथापीति | तदेवेति | अधिष्ठाना ज्ञानमेवेत्यर्थः | सर्वात्मनाधिष्ठान साक्षात्कारेणाप्यज्ञानैक देशस्यैव निवृतिर्न तु कार्त्स्न्येनेति
453 SK प्. ५०ब्) फलवलात्कल्प्यत इति भावः | निवर्तक ज्ञानं च निरूपयति बिंबेति | बिंबोपाध्योः सन्निधिनिवृति सहकृते दर्पणे मुखं नास्तीति ज्ञानमेव प्रतिबिंबाध्यासस्य निवर्तकमित्यर्थः | दर्पणाद्युपादानभूतं मूलाज्ञानमेकमस्ति दर्पणादि ज्ञाननिवर्त्यमवस्म्यारूपाज्ञानमप्यपरमस्ति तत्र मूला ज्ञानस्यैव दर्पणाद्युपादानत्ववत् प्रतिबिंबाध्यासोपादानत्वमपीति परिहारांतरमाह | अन्येत्विति | ननु पूर्वोक्तमतरीत्याशुक्तिरजतादिरिव प्रतिबिंबाध्यासस्याप्यवस्थाज्ञानपरिणामत्वसंभवे | किं मूलाज्ञानस्य तत्कल्पनयेति नेत्याह | ज्ञानस्येत्यादिनेति | ज्ञानस्यावरणमात्रनिवर्तकत्वं किं स्वाभाविकं किं वा विक्षेपशक्त्यंश निवृति प्रतिबंधक सत्व प्रयुक्तं नाद्य इत्यत्र हेतुमाह | ब्रह्मज्ञानेनेति | तस्येति | द्विधस्याप्यज्ञानस्य निवर्तकाभावेन विक्षेप शक्ति सहकृतस्य विदेह कैवल्येप्यनुवृति प्रसंगादित्यर्थः | द्वितीयमनुवदति | न चेति | तदिति | आवरणमात्रनिवर्तकत्वमित्यर्थः | विक्षेपशक्तिमदज्ञानांश निवृति प्रतिबंधक प्रारब्ध नाशे सति ब्रह्मज्ञानसंस्कारविशिष्टचैतन्यमात्रादेवविक्षेपांश निवृति संभवान्न पूर्वोक्तदोष इति मत्वादोषमाह | बिंबोपाधिसन्निधानात्प्रागिति | बिंबोपाध्योराभिमुख्यलक्ष्णसन्निधानात्पूर्वक्षण एवेत्यर्थः | प्. ५१अ) बिंबप्रतिबिंबाभेदपक्षे प्रतिबिंबोत्पत्यभावेपि चैत्रस्य मुखे बिंबभूते बिंब तु प्रतिबिंबत्वदर्पणस्थत्वादेरे निर्वचनीयस्योत्पत्युपगमेन तस्य चैत्रमुखावछिन्नचैतन्यनिष्ठावस्थाज्ञानमेवकारणं वाच्यं तच्च चैत्र मुखे दर्पणाभिमुख्यात् प्राक् विष्णुमित्रेण निरीक्ष्यमाणे सति तदा प्रतिबंधकाभावाच्चैत्रमुखगोचरेण विष्णुमि ||
454 SK अतो मूलाज्ञानमेव प्रतिबिंबाध्यासोपादानं न चात्राप्युक्तदोषतोल्यं | पराग्विषयवृतिपरिणामानां स्वस्वविषयावछिन्नचैतन्यप्रदेशे मूलाज्ञानावरणशक्त्यंशाभिभावकत्वेपि तदीय विक्षेप शक्त्यंशा निवर्तक त्वात् | अन्यथा तत्प्रदेश स्थित व्यावहारिक विक्षेपाणामपि विलयापतेः | न च प्रतिबिंबस्य मूलाक्ष्यान कार्यत्वे व्यावहारिकत्वापतिः | अविद्याति रिक्तदोषाजन्य त्वस्य व्यावहारिकत्वे प्रयोजकत्वात् | प्रकृते च तदतिरिक्तबिंबोपाधि सन्निधानदोषसद्भावेन प्रातिभासिकत्वोपपतेः | न चैवं सति बिंबोपाधिसन्निधिनिवृति सह कृतस्याप्यधिष्ठान ज्ञानस्य प्रतिबिंबाध्यासाऽनिवर्तकत्व प्रसंगस्तन्मूलाज्ञान प्. ५१ब्) निर्वतकत्वाभावादिति वाच्यं ||
455 SK त्रीय साक्षात्कारेण विक्षेप शक्त्या सह निवर्तते | उतरक्षण एव चैत्र मुखस्य दर्पणाभिमुखे सति विष्णुमित्रस्य दर्पणे चैत्रस्य मुखमिति प्रतिबिंब भ्रमो भवति | तत्र चैत्रमुखे दर्पणस्थत्वादेरुत्पतिर्न स्यादुपादानाभावादित्याहे | बिंब इति | दर्पण संसर्गो दर्पणस्थत्वमादिपदं प्रत्य᳚न्मुखत्वादिसंग्रहार्थं | तथा च संसर्गाद्यभावे प्रत्यक्षतोवगम्यमान इति संबंधः | चैत्रमुखैदर्पणस्थत्वादिकं नास्तीत्यवगति प्रकारो बोध्यः | दपणे प्रतिबिंबाध्यासोत्पति पक्षे अवगति प्रकारमाह दर्पण इति | प्रतिबिंबाध्यासपक्षे संसर्गितया प्रतिमुखस्यैवाध्यासोपगमाद्दर्पणे चैत्रमुखं नास्तीत्यनेन प्रकारेण दर्पणे चैत्रमुखाभावे प्रत्यक्षतोवगम्यमान इत्यर्थः | एवं मतभेदेनाधिष्ठान भेदे तत्साक्षात्कार भेदयोः प्रदर्शनार्थमेव चैत्रमुखे दर्पणे च पृथक् सप्तमी निर्द्वेशः कृतः सतभेदज्ञापनार्थश्च वाकारः तत्कालमिति | अधिष्ठान भूतचैत्रमुखे दर्पणे च विक्षेप शक्त्यासहा ज्ञाननिवर्तक साक्षात्कारोत्पतेर्द्वितीयक्षण इत्यर्थः | तयोरिति | चैत्रमुखदर्पणयोः सन्निधाने सत्यधिष्ठान साक्षात्कारवतो विष्णुमित्रस्य दर्पणे चैत्र मुखमिति यः प्रतिबिंबभुमो भवति तस्याभावप्रसंगादित्यत्र हेतुमाह उपादानाभावेनेति | तत्र हेतुमाह विक्षेप शक्त्यंशस्यापि
456 SK प्. ५२अ) निवृत्यवश्यंभावेनेति | अत इति अवस्थाज्ञानस्य प्रतिबिंबाध्यासे कारणत्वायोगादित्यर्थः | नन्वस्मिन् पक्षेपि बिंबोपाधिसन्निधानात् पूर्वक्षणोत्पन्नचैत्रमुखसाक्षात्कारेण चैत्रमुखाद्यवछिन्नचैतन्यावरकमूलाज्ञानस्यापि निवृतेतोदुपादानाभाव दोषस्तुल्यः तेन तदनिवृतौ च चैत्र मुखायनवभासप्रसंगः | यत्किंचिदावरणस्य सत्वादित्याशंक्याह | न चात्रापीति | ब्रह्मज्ञानस्यैव मूलाज्ञाननिवर्तकत्वं जडविषयकवृतिरूपाणामंतःकरणपरिणामानां तु स्वस्वविषयचैतन्यस्थमूलाज्ञानस्य योयमावरणांशः तदभिभावकत्वमात्रं यावद्विषयस्फुरणमंगीक्रियतेनत्ववस्थाज्ञानविक्षेपांशं निवर्तकत्ववन्मूलाज्ञानविक्षेपांशनिवर्तकत्वमपीत्यर्थः | अन्यथेति | विषयचैतन्यस्थस्य मूलाज्ञानस्य विषयज्ञानेन निवृतौ दर्पणादीनां यावहारिकाणां विक्षेपशब्दितकार्याणां नाशप्रसंगः उपादाननाशादित्यर्थः | प्रातिभासिकविक्षेपाणामिवेत्यपि शब्दार्थः | ननु मूलाज्ञानकार्यस्य दर्पणादेर्व्यावहारिकत्व दर्शनात् | प्रतिबिंबाध्यासस्यापि तत्कार्यत्वे तदापतिरित्याशंक्यनिरोति | न चेत्यादिनामूलाज्ञानकार्यत्वं व्यावहारकत्वप्रयोजकं न भवति अनाद्यविद्यादौ तदभावेपि व्यावहरिकत्व सत्वात् | किं त्वन्यदेव तत्प्रयोजकमित्याह | अविद्यातिरिक्तेति | अनाद्यविद्यादावविद्याजन्यत्वाभावेपि तदतिरिक्तदोष्यजनात्वस्य सत्वात्र्यव्याप्तिरितिभावः | प्रतिबिंबाध्यासस्य मूलाज्ञानकार्यस्यापि न व्यावहारिकत्वं तत्प्रयोजकाभावादित्याह | प्रकृते चेति | प्रतिबिंबाध्यास प्. ५२ब्) इत्यर्थः | न चैवं सतीति प्रतिबिंबाध्यासस्य मूलाज्ञानकार्यत्वे सतीत्यर्थः | तन्मूलेति शुक्तिरनतादि मूलाविद्यानिवर्तक शुक्त्यादि साक्षात्कारस्यैव रजताद्य ध्यासनिवर्तकत्व दर्शनादिति भावः ||
457 SK विरोधाभावात् | ब्रह्माज्ञानानिवर्तकत्वेपि तदुपादानक प्रतिबिंबाध्यासविरोधिविषयकतयाधिष्ठानयाथात्म्यज्ञानस्य प्रतिबंधकविरह सचिवस्य तन्निवर्तकत्वोपपतेः | अवस्थाज्ञानोपादानत्वपक्षेपि तस्य प्राचीनाधिष्ठानज्ञानविवर्तिलावरणशक्ति कस्य समानविषयत्वमंगेन प्रतिबंधकाभावकालीनाधिष्ठानज्ञानेन निवर्तयितुमशक्यतया प्रतिबिंबाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वात् | अथवा स्वोपादानाज्ञाननिवर्तक ब्रह्मज्ञाननिवर्त्य एवाय मध्यासोस्तु व्यावहारिकत्वापतिस्त विद्यातिरिक्तदोषजन्यं त्वेन प्रत्युक्तैनत्याहुः | एवं स्वप्नाध्यासस्याप्यनवछिन्नचैतन्येहंकारोपहित चैतन्येवावस्थारूपाज्ञानशून्येध्यासात् || विरोधाभावादिति | मूलाज्ञानं ब्रह्मविषयकं प्रतिबिंबाध्यासाधिष्ट्वान भूतदर्पणादिज्ञानं तु दर्पणाद्यवछिन्न
458 SK प्. ५३अ) चैतन्यविषयकमिति तयोः समानविषयकत्वस्य विरोधप्रयोजकस्याभावेन विरोधाभावादधिष्ठानयाथात्म्यज्ञानस्य ब्रह्माज्ञानानिवर्तकत्वेपीत्यर्थः | तत्पदं ब्रह्माज्ञानपरं विरोधिविषयकतयेति | दर्पणे मुखं नास्तीत्यादि रूपस्याधिष्ठानयाथात्म्यज्ञानस्य प्रतिबिंबाध्यासा भावविषयकतयेत्यर्थः | ननु प्रतिबिंबाध्यासस्यावस्थाज्ञानोपादानकत्वपक्षे बिंबोपाधिसन्निधिनिवृतिसहकृताधिष्ठान ज्ञानस्य तदुपादाना ज्ञाननिवर्तकत्वं लभ्यते | तथा च ज्ञानमज्ञानस्यैव निवर्तकमज्ञानकार्यस्य तु उपादानाज्ञाननिवृत्या निवृतिरिति पंचपादिकाकारोक्तं संगच्छत इत्याशंक्याह | अवस्थाज्ञानेति | तस्येति | अवस्थाज्ञानस्येत्यर्थः | प्राचीनेति बिंबाध्यासात् प्राचीनेनाधिष्ठानज्ञानेन दर्पणे मुखं नास्तीत्याद्याकारेण निवर्तिता आवरणशक्तिर्यस्यावस्थाज्ञानस्यत तथा तस्येत्यर्थः | अज्ञानविषयत्वमज्ञानावृतत्वमावरणनाशे च दर्पणाद्यवछिन्न चैतन्यस्यावस्थाज्ञानविषयत्वाभावादधिष्ठान ज्ञानस्यावस्थाज्ञानगमा न विषयकत्वं विरोधे प्रयोजकं भग्नमित्यर्थः | प्रतिबंधकपदं बिंबौपाध्योः सन्निधिपरं तस्य निवर्तयितुमशक्यतयेति संबंधः तन्निवत्येति | तत्पदमधिष्ठानज्ञानपरं अवस्थाज्ञानोपादानत्वपक्षेपि प्रतिबिंबाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वादिति संबंधः | तथा च पंचपादिकाविरोधः प्रतिबिंबाध्यासस्थावस्थाज्ञानोपादानत्वपक्षेपि तुल्य इति भावः तदविरुद्धप्रकारमाह | अथवेति | स्वपदं प्रतिबिंबाध्यासपरं | निवर्त्य एवेति | बिंबोपाध्योः सन्निधिविगमकाले प्रतिबिंबाध्यासस्य सूक्ष्मावस्था
459 SK प्. ५३ब्) लक्षणनाशे सत्यपि व्यावहारिकत्वापतिरिति नेत्याह | व्यावहारिकत्वापतिस्त्विति तु शब्दोवधारणैप्रत्युक्तैवेति संबंधः | बिंबोपाधिसंन्निधिः दोषः | उक्त न्यायमन्यत्राप्यति दिशति | एवमिति | एवं स्वप्नाध्यासस्यापि मूलाज्ञानकार्यतया अविद्यातिरिक्तनिद्रादि दोषजन्य तयैव प्रातिभासिकत्वमिति संबंधः | नत्ववस्था ज्ञानकार्यतया प्रातिभासिक तमित्येव कारार्थः | अवस्था ज्ञानस्य स्वप्नो पादानत्वाभावै हेतुमाह | अवस्थारूपाज्ञानशून्ये ध्यासादिति | मतभेदेन स्वप्नाध्यासाधिष्ठान भेदमाहपि बाधरूपानिवृतिस्तथा नास्ति सा तु ब्रह्मज्ञानाधीनैव तस्यैव तदुपादानमूलाज्ञाननिवर्तकत्वादिति भावः | ननु ब्रह्मज्ञान बाध्यस्य घटादेरिव तद्बाध्यस्या अनवछिन्नेति अहंकारानवछिन्न ब्रह्मचैतन्यस्य मूलाज्ञानमात्राश्रयत्वादवस्था ज्ञानशून्यत्वमहंकारोपहितस्य साक्षि चैतन्यस्य सुखाद्यधिष्ठानस्यावरणानंगीकारादऽवस्थाऽज्ञानशून्यत्वमिति भावः || सुषुप्त्याख्यं तमोऽज्ञानं यद्बीजं स्वप्नबोधयोरित्याचार्याणां स्वप्नजाग्रत्प्रपंचयोरेका ज्ञानकार्यत्वोक्तेश्च मूलाज्ञानकार्यतया स्वोपादान निवर्तक ब्रह्मज्ञानैक बाध्यस्याविद्यातिरिक्त निद्रादि दोषजन्य तयैव प्रातिभासिकत्वमिति केचित् | अन्येत बाध्यंते चैते रथादयः स्वप्नदृष्टाः प्रबोध इति भाष्योक्तेरवि चात्मक बंध प्. ५४अ) प्रत्यनीकत्वाज्जाग्रद्बोधवदिति विवरण दर्शनादुत्थितस्य स्वप्नमिथ्यात्वानुभवाच्च जाग्रद्बोधः स्वप्नाध्यास निवर्तक इति | ब्रह्मज्ञानेतरज्ञानबाध्यते यैव तस्य प्रातिभासिकत्वं | न चाधिष्ठानयाथात्म्यागोचरं स्वोपादानाज्ञानानिवर्तकं | ज्ञानं कथमध्यासनिवर्तकं स्यादिति वाच्यं रजुसर्षाध्यासस्य स्वोपादाना अज्ञाननिवर्तकाधिष्ठानयाथात्म्यज्ञानेनेव तत्रैव स्वानंतरोत्पन्न दंडभ्रमेणापि निवृति दर्शनादित्याहुः ||
460 SK अत्राज्ञानकार्यस्य स्वप्नाध्यासस्यावस्था ज्ञानशून्यचैतन्ये अध्यासोक्त्यार्थान्मूलाज्ञानकार्यत्वमुक्तं | तत्र हेत्वंतरमाह | सषुप्त्याख्यमिति | सुषुप्तेरज्ञानावस्थारूपत्व विवक्षयासुषुप्त्याख्यत्वमज्ञानस्योक्तं बीजमुपादानं बोधो जाग्रत् प्रपंचः | तस्य शुक्तिरजतादि व्यतिरिक्तस्य मूलाज्ञानकार्यत्वं संप्रतिपन्नमितिभावः | आचार्याणामुक्तेश्चेति संबंधः स्वपदस्वप्नाध्यासपरंब्रह्मज्ञानैकेति | प्रबोधकाले स्वप्नप्रपंचस्य सूक्ष्मावस्थापति रूपनाशे सत्यपि बाधरूपानिवृतिर्ब्रह्मज्ञानैक साध्येति बोध्यं | अविद्यातिरिक्तदोषजन्यत्वं प्रातिभासिकत्वप्रयोजकमिति मतेन स्वप्नाध्यासस्य निद्रादिदोषजन्यस्य प्रातिभासिकत्वमुपपादितं व्यवहारकाले बाध्यमानत्वं प्रातिभासिकत्व प्रयोजकमिति मतेन तस्य
461 SK प्. ५४ब्) तदुपपादयति | अन्ये त्विति | भाष्यगतं प्रबोध पदं सप्तम्यंतं बंधस्याविद्याकार्यत्वादविद्यात्मकत्वं प्रत्यनीकत्वं निवर्तकत्वं पंचम्यनंतरं ब्रह्मज्ञानस्येति शेषः यथा जाग्रत्कालीनो घटादिबोधः स्वप्नबंधनिवर्तकस्तद्वदित्यर्थः | उत्थितस्येति | मिथ्यैव मया स्वप्ने महाजनसमागमो दृष्टः नह्यस्ति महाजनसमागम इति तस्य मिथ्यात्वानुभवादित्यर्थः | यदि स्वप्नप्रपंचस्य ब्रह्मज्ञानबाध्यत्व प्रयुक्तं मिथ्यात्वं तदा स्वप्नादुत्थितस्य तत् मिथ्यात्वानुभवो न स्यात् | ब्रह्मज्ञानात् पूर्वं तद्बाध्ये घटादौ मिथ्यात्वानुभवादर्शनात् | अतो ब्रह्मज्ञानादितरेण जाग्रत् प्रबोधेनैव बाधः स्वप्नप्रपंचस्य वक्तव्य इति शुक्तिरजतादिवत् व्यवहार कालीन बाधवशादेव तस्य प्रातिभासिकत्वं व्यवहारकालश्च ब्रह्मतत्वज्ञानात् | पूर्वकाल इति भावः | ज्ञानमिति ब्रह्मज्ञानेतर ज्ञानमित्यर्थः | तस्य स्वप्नाध्यासनिवर्तकत्वाभावे हेतुं सूचयति | स्वेति | स्वस्य स्वप्नाध्यासस्य उपादानं मूलाज्ञानं तदनिवर्तकमित्यर्थः | तदनिवर्तकत्वे हेतुं सूचयति | अधिष्ठानेति | स्वप्नाधिष्ठानस्य पूर्वोक्तस्य यद्याथात्म्यमनवछिन्न ब्रह्मचैतन्यादि तदविषकमित्यर्थः | अधिष्ठानयाथात्म्यज्ञानस्यैवाज्ञाननिवृतिद्वाराध्यास निवर्तकत्वनियमादिति भावः | उक्तनियमासिध्या दूषयति | रजु सर्पेति | स्वपदं सर्पाध्यासपरं ज्ञानेनेवेति नायं सर्पः रजुरेषेति ज्ञानेनेवेत्यर्थः | तत्रैवेति सर्पाध्यासाधिष्ट्वान रजावेवेत्यर्थः प्. ५५अ) स्वेति सर्पभ्रमानंतरोत्पन्नेन नायं सर्पः दंडोयमिति भ्रमेणेत्यर्थः | निवृतिदर्शनादिति बाधदर्शनादित्यर्थः ||
462 SK अपरे तु जाग्रद्भोगप्रदकर्मोपरमे जाग्रत्प्रपंच द्रष्टारं प्रतिबिंबरूपं व्यावहारिकं जीवंत दृष्टं जाग्रत्प्रपंचमप्यावृत्यजायमानो निद्रारूपो मूलाज्ज्ञानस्यावस्था भेदः स्वाप्नप्रपंचाध्यासस्योपादानं न मूलाज्ञानं न च निद्राया अवस्थाज्ञानरूपत्वे मानाभावः मूलाज्ञानानेनावृतस्य जाग्रत्प्रपंचद्रष्टर्व्यावहारिक जीवस्य मनुष्योहं ब्राह्मणोहं देवदतपुत्रोहमित्यादिनां स्वात्मानमसंदिग्धाविपर्य्यस्तमभिमन्यमानस्य तदीय चिरपरिचयेन तं प्रति सर्वदानावृतैकरूपस्य स्वपितामहात्ययादि जाग्रत्प्रपंचवृतांतस्य च स्वप्नकाले केनचिदावरणाभावे जाग्रत् दशायामिव स्वप्नेपि व्याघ्रोहं शूद्रोहं प्रज्ञदत्तपुत्रोहमित्यादि भ्रमस्य स्वपितामह जीवद्दशादिभ्रमस्य चाभावप्रसंगेन निद्राया एव तत्कालोत्पन्न व्यावहारिक जगज्जिवावरकाज्ञानावस्थाभेदरूपत्व सिद्धेः | न चैवं जीवस्याप्यावृतत्वात् स्वप्नप्रपंच दृष्टृत्वाभाव प्रसंगः ||
463 SK प्. ५५ब्) अधिष्ठान याथात्म्यज्ञानस्यैवाध्यासनिवर्तकत्व नियमेपि प्रकृतेनानुपपतिरिति मत्वा तदनुगुणं मतांतरमाह | अपरे त्विति | अस्मिन् मते व्यावहारिक जीवः स्वप्नप्रपंच द्रष्टः प्रातिभासिक जीवस्याधिष्ठानं स्वप्नप्रपंचस्य च जाग्रत्पपंच एवाधिष्ठानं नत्व नवछिन्नचैतन्यादिकं द्विविधाधिष्ठानावरणद्वारा च निद्रारूपमवस्थाज्ञानं दृष्ट्वदृश्यात्मक द्विविध स्वप्नप्रपंचोपादोनं न तु मूलाज्ञानं तस्या ब्रह्मचैतन्यमात्रावरकत्वेन व्यावहारिक जीवाद्यावरकत्वाभावात् | ततश्च व्यावहारिक जीव जगद्गोचरस्य प्रबोधस्याधिष्ठान याथात्म्यज्ञानरूपत्वा ते नैव स्वप्नाध्यासबाधः संभवतीति तात्पर्यार्थः कर्मो परमे सति जायमान इति संबंधः आवृत्येत्यनेन उपादानमित्यनेन च निद्राया आवरणविक्षेपशक्तिमत्वरूपमज्ञानलक्षणमुक्तमेवमज्ञानत्वे तस्यासिद्धे सत्युत्पतिमत्वात् | तदवस्थारूपत्वं सिध्यति | अस्मिन्मते सर्वेषामेवावस्थाज्ञानानामादिमत्वस्य प्रथमपरिछेदे उक्तत्वादिति भावः | संग्रहंणोक्तं मर्थमाशंकापूर्वकं प्रपंचयति | न च निद्राया इत्यादिना | मूलाज्ञाने नानावृतस्य व्यावहारिक जीवस्य जाग्रत्प्रपंचवृतांतस्य च स्वप्नकाले केनचिदावरणाभावे यज्ञदतपुत्र्ॐहमित्यादि भ्रमस्य स्वपितामह जीवदशानुभवस्य चाभावे प्रसंगेन निद्राया एवभेदरूउपत्वसिद्धेरिति संबंधः | जाग्रत्काले ब्राह्मणत्वादिरूपसत्वे संशविपर्ययोरभावमाह | असंदिग्धेति | असंदिग्धाविपर्यस्तं यथा भवति तथा अभिमन्यमानस्येति संदेहविपर्यास-
464 SK प्. ५६अ) भिन्नत्वमभिमानक्रियाविशेषणं स्वपितामहात्ययादेर्जाग्रत्प्रपंचवृतांतस्य तं देवदत्तपुत्रं प्रतिसर्वदानावृतत्वेनैकरूपतयावस्थाने हेतुमाह | तदीयेति देवदतपुत्रो हि स्वपितामहादिमरणं प्रथममनुभूय पश्चात् प्रतिमासंवत्सरं च श्राद्धतर्पणादिकं करोति | ततश्च तन्मरणादिगोचरानुभवस्मरणाभ्यासः चिरपरिचयस्तेन स्वपितामहान्यपादौ संशयादिनिवृतिभात्कलक्षणमनावृतत्वं सदा एकरूपेण वर्तत इत्यर्थः | जागरणे यथा देवदत्तपुत्रस्य व्याघ्रादि भ्रमाभावः स्वपितामह जीवदशानुभवा भावश्च तथा स्वप्नेप्यभावप्रसंगेनेत्यर्थः | तत्कालेति | निराकाले उत्पन्नो यो व्यावहारिक जगज्जीवयोरावरको ज्ञानावस्थाभेदः तद्रूपत्वं निद्राया एव सिध्यति नान्यस्यावरणविक्षेपशक्तिमत्वेन तस्या उपस्थितत्वादन्यस्यानुपस्थितत्वादित्यर्थः न चैवमिति | निद्राया व्यावहारिक | जीवाद्यावरकाज्ञानावस्थाविशेषरूपत्वसिद्धौ सत्यामित्यर्थः || स्वाप्नप्रपंचेन सहद्रष्ट्रर्जीवस्यापि प्रातिभासिकाध्यासात् | एवं च पुनर्जाग्रद्भोगप्रदकर्मोद्भूते बोधे व्यावहारिक जीवस्वरूपज्ञानात्स्वोपादाननिद्रारूपाज्ञाननिवर्तकादेव स्वाप्नप्रपंचबाधः | न चैवं तत् द्रष्टः प्रातिभासिक जीवस्यापि ततो बाधे स्वप्ने करिणमन्वभूवमित्यनुसंधानं न स्यादिति वाच्यं व्यावहारिक प्. ५६ब्) जीवे प्रातिभासिक जीवस्याध्यस्ततया तदनुभवाद्व्यावहारिक जीवस्यानुसंधानोपगमेप्यति प्रसंगादिति | नन्वनवछिन्नचैतन्येऽहंकारावछिन्नचैतन्येवास्वाप्न- प्रपंचाध्यास इति प्रागुक्तं पक्षद्वयमप्ययुक्तं | आद्ये स्वाप्नगजादेरहंकारोपहितसाक्षिणो विछिन्न देशत्वेन सखादिवदंतःकरणवृतिसंसर्गमनपेक्ष्यतेन प्रकाशनस्य चक्षुरादिनामुपरततयावृत्युदयासंभवेन तत्संसर्गमपेक्ष्यतैन प्रकाशनस्य चायोगात् | द्वितीये इदं रजतमिति वदहं गज इति वा अहं सुखीति वदहं गजवानिति वाध्यासप्रसंगात् ||
465 SK प्रातिभासिकांतःकरणे चित्प्रतिबिंबरूपस्य जीवांतरस्याभ्युपगमान्नैतच्चोचावकाश इत्याशयेनाह | स्वाप्नप्रपंचेन सहेति | एवं चेति व्यावहारिक जीवजगतोरेव स्वाप्नजीवजगदधिष्ठानत्वे सिद्धे सतीत्यर्थः | कर्माद्भूते बोध इति | कर्मजन्ये जागरण इत्यर्थः | जीवस्वरूपज्ञानादिति मनुष्योहं ब्राह्मणोहं देवदतपुत्रोहमित्यादिरूपादित्यर्थः | उपलक्षणचैतत् स्वपितामहात्ययादि ज्ञानाच्चेत्यपि द्रष्टव्यं स्वपदं स्वप्नप्रपंचपरं न चैमिति एवं शब्दार्थमेवाह | तदृष्टरिति | तस्य स्वप्रपंचस्य द्रष्ट्रः व्याघ्रोहं शूद्रोहमित्यादिरूपेण स्वात्मानं मन्यमानस्येत्यर्थः |
466 SK प्. ५७अ) तत इति व्यावहारिक जीवस्वरूपज्ञानावित्यर्थः | न स्यादिति अन्यानुभूतेर्थे अन्यस्य स्मरणायोगादितिभावेः | अध्यस्तयेति | तथा च व्यावहारिक प्रातिभासिक जीवयोरधिष्ठानारोप्ययोः | तादात्म्य स त्वात् प्रातिभासिक जीवकर्तृकानुभवाद्व्यावहारिक जीवस्य स्वप्नपदार्थानुसंधानं संभवतीत्यर्थः | अति प्रसंगेति | यज्ञदतानुभूतार्थे विष्णुमित्रस्याप्यनुसंधानप्रसंगरूपाति प्रसंगाभावादित्यर्थः | तयोस्तादात्म्याभावादिति भावः | ननु जीवत्रैविध्यपक्षे द्रष्टृ दृश्यत्मक स्वप्नाध्यासाधिष्ठानत्वेनोपगतस्य व्यावहारिक जीवादेर्मिथ्यात्वेन जडतया स्वप्नप्रपंचावभासकत्वं न संभवति | न च चैतन्यमेव तदवभासकमिति वाच्यं तथा सति तस्यैवाधिष्ठानतया तत्सतास्पूर्तिरूपत्वसंभवे जडस्याधिष्ठानत्वाभ्युपगमायोगात् | तर्हि तदेवाधिष्ठानमस्त्विति चेन्न तत्राप्यनुपपतिसत्वादित्याह | नन्वित्यादिना | अनवछिन्नचैतन्यस्वाधिष्टानत्वपक्षे स्वाप्नगजादेर्देहात् | बाह्य देहस्थत्वं वक्तव्यं तथा च तस्य किं साक्षि भास्यत्व मैंद्रियकत्वं वा नाद्य इत्याह | अहंकारेति | साक्षिण इति पंचमी विछेदोक्त्या साक्षिणः स्वप्नगजदिनासहस्वतः संसर्गाभावो दर्शितः | अंतःकरणवृतिसंसर्गमनपेक्ष्यस्वाप्नगजादेस्तेन प्रकाशस्य तत्संसर्गमपेक्ष्यतेन प्रकाशस्य चायोगादिति संबंधः तेनेति पदद्वयं साक्षि परं यथा सुखादेः सुखादि गोचरांतःकरणवृति संसर्गमनपेक्ष्यतेन प्रकाशः तथा तेन स्वाप्नगजादेः प्रकाशायोगादित्यर्थः | द्वितीयं निरस्यति | चक्षुरादीनामिति | द्वितीय इति अहमनुभवगोचराहंकारोपहितचैतन्यस्य स्वप्नाध्यासाधिष्ठानत्व प्. ५७ब्) पक्ष इत्यर्थः | किं गजादेस्तादात्म्येन तत्राध्यासः किं वा अधारोधेय भावसंसर्गेण आद्यं दूवयति इदं रजतमिति वदिति द्वितीयं निराकरोति | अहंसुखीति | वदिति | द्वितीये अहंगज इत्यहं गजवानिति बाध्यास प्रसंगादिति योजना ||
467 SK अत्र केचिदाद्यपक्षं समर्थयंते | अहंकारानवछिन्नं चैतन्यं न देहाद्बहिः स्वाप्नप्रपंचस्याधिष्ठानमुपेयते किंतु तदंतरेव | अत एव दृश्यमान परिमाणोचित देशसंपत्यभावान्स्वाप्नगजादीनां मायामयत्वमुच्यते | एवं चांतःकरणस्य देहाद्बहिरस्वातेत्र्या जागरणे बाह्यशुक्तीदमंशादि गोचरवृत्युत्पादाय चक्षुराद्यपेक्षायामपिंदहांतरं तष्करणस्य स्वतंत्रस्य स्वयमेववृतिसंभवाद्देहांतरं तष्करणवृत्यभिव्यक्तस्यानवछिन्नचैतन्यस्याधिष्ठानत्वेन काचिदनुपयतिः | अत एव यथा जागरणं संप्रयोगजन्यवृत्यभिव्यक्त शुक्तीदमंशावछिन्नचैतन्यस्थिता विद्यारूप्याकारेण विवर्तते तथा स्वप्नेपि देहस्यांतरंतःकरणवृतो निद्रादिदोषोपेतायामभिव्यक्त चैतन्यस्थाऽविद्याऽदृष्टोद्बोधित नानाविषयसंस्कार सहिता प्रपंचाकारेणविवर्ततामिति विवरणोयन्यासे प्. ५८अ) भारतीतीर्थवचनमिति | अन्ये त्वनवछिन्नचैतन्यं न वृत्यभिव्यक्तं सत्स्वाप्नप्रपंचस्याधिष्ठानं | अशब्दमूलकानवछिन्नचैतन्यगोचरवृत्युदयास भवात् | मूल
468 SK टीका | अहंकारानवाछिन्नेति | अविद्यायां बिंबभूतमीश्वरचैतन्यमिहानछिन्नचैतन्यं विवक्षितमीश्वरचैतन्यस्यैव सर्वाधिष्ठानत्वान्नाविद्याप्रतिबिंबरूपं जीवचैतन्यं तस्यानुपादानत्वादिति बोध्य व्यांतरचैतन्यस्यैवाधिष्ठानत्वे नियामकमाह | व्यत एवेति | आंतरं चैतन्यस्याधिष्ठानत्वोपगमादेवेत्यर्थः | स्वप्नकाले दृश्यमानपरिमाणवतां गजादीनां शरीरस्यांतरुचित देश संपत्यभावात् | प्रातिभासिकत्वमुच्यते सूत्रकारादिभिः शरीराद्बाह्यचैतन्यस्याधिष्ठानत्वे तु जाग्रद्गजादीनामिव स्वाप्नगजादीनामपि योग्यदेशलाभाद्व्यावहारिकत्वमेव स्यात् | तथा च सूत्रादि विरोध इत्यर्थः | एवं चेति | आंतरस्यैव चैतन्यस्य स्वप्नाध्यासाधिष्ठानते प्रमाणसिद्धे सतीत्यर्थः | ननु शरीरांतगंतस्यापि ब्रह्मचैतन्यस्यावतत्वात् | तत्राध्यस्तानां स्वाप्नगजादीनामनवभासप्रसंगः | न चांतःकरणवृत्यावरणनाशे सति तेषामवभासः संभवतीति वाच्यै स्वप्ने चक्षुरादीनामुपरतत्वेन वृत्यसंभवान्न च स्वयमैवांतःकरणवृतिस्तदा संभवतीति वाच्यं | जागरणेपि तथा प्रसंगेन तदापि चक्षुराद्यपेक्षाभावप्रसंगादित्यत आह | अंतःकरणस्येति स्वयमेवेति | चक्षुरादिके मनपेक्ष्येवेत्यर्थः | न काचिदिति अभिव्यक्तचैतन्यस्येवांतरस्यैवाधिष्ठानत्वोपगमेन स्वप्नप्रपंचस्यावभासानुपपतिर्वा प्रातिभासिकत्वानुपपतिर्वा नास्तीत्यर्थः | अंतःकरणवृत्यभिव्यक्तचैतन्य
469 SK प्. ५८ब्) स्याधिष्ठानते संमतिमाह | अत एवेति | अंतःकरणवृत्यभिव्यक्तै चैतन्यै सदासुलभे सदास्वप्नाध्यास प्रसंग इत्यत आह | निद्रादीति | पीतोद्रेकादिरादिपदार्थः | दोषोपप्लुतायां वृतावभिव्यक्तं यच्चैतन्यं तत्र विद्यमानाविद्येत्यर्थः | स्वप्नप्रपंचवैविचित्र्यप्रयोजकमाह | नानाविषयेति | जागरणे नानाविधविषयानुभवजनिताः संस्काराः अंतःकरणे तिष्ठंति तैरदृष्टोद्बोधितैः सहिता विद्याविचित्रप्रपंचाकारेण परिणमत इत्यर्थः | इदानीमविद्यायां प्रतिबिंबभूतमनवछिन्न जीवचैतन्यमेवाधिष्ठानमिति मतांतरमाह | अन्ये त्विति | पूर्वमते अनुपपतिमाह | अनवछिन्नचैतन्यमिति | बिंबभूतमितिशेषः अशब्दमूलकेति | शुद्धब्रह्मण इव ईश्वरचैतस्यापि शास्त्रैकराम्यत्वादितिभावः || अहंकाराद्यवछिन्नचैतन्य एवाहमाकारवृत्युदय दर्शना तस्मात् स्वतो परोक्षमहंकाराद्यनवछिन्नं चैतन्यं तदधिष्ठानं | अत एव संक्षेप शारीरके | अपरोक्षरूपविषयभ्रमधीरपरोक्षमास्पदमपेक्ष्य भवेत् | मनसा स्वतो नयनतो यदि वा स्वप्नभ्रमादिषु तथा प्रथितेः | इति श्लोकेनापरोक्षाध्यासापेक्षितमधिष्ठानापरोक्ष्यं क्वचिन्मानसवृत्या क्वचिद्बहिरिंद्रियवृत्येत्यभिधाय स्वतो परोक्षाविति | रत्रविभ्रमेस्तथापि रूपाकृतिरत्र जायते | मनो निमित्रं स्वपने मुहुर्मुहुर्विनापि चक्षुर्विषयं स्वमास्पदम् | मनोवगम्येप्यपरोक्षताबलात्तथाम्वटे प्. ५९अ) रूपमुपोलिखन्भ्रमः सितादिभेदैर्वहुधा समीक्ष्यते तथाक्षिगम्ये इजतादि विभ्रम इत्याद्यनंतरश्लोकेन स्वप्नाप्यासे स्वतोधिष्ठानापरोक्ष्यमुदाहृते न चाहकारानवछिन्नचैतन्यमात्रमावृतमिति वृतिमतरेण न तदेभिव्यक्तिरिति वाच्यं ब्रह्मचैतन्यमेवावृतमविद्याप्रतिबिंबजीवचैतन्यमहंकारा- नवछिन्नमप्यनावृतमित्यभ्युपगमात् ||
470 SK नन्वऽनवछिन्नेप्यविद्या प्रतिबिंबरूपजीवचैतन्ये शब्दनिरपेक्षाहमाकारवृत्युदयदर्शनात् | ब्रह्मचैतन्येपि तथा किं न स्यादिति नेत्याह | अहंकाराद्यवछिन्नचैतन्य इति | इयं विषय सप्तमी आदिपदं शरीरादि संग्रहार्थं न त्वहंकाराद्यनवछिन्न जीवचैतन्य इत्येव कारार्थः | जीवचैतन्यस्यापि व्यापकत्वं त्वं पदार्थशोधक श्रुति तदनुकूलन्यायगम्य मेवेति दृष्टोता सिद्धिरिति भावः | तस्मादिति बिंबभूतानवछिन्नब्रह्मचैतन्यस्याभिष्ठानत्वासंभवादित्यर्थः | स्वत इति वृतिमंतरेणैवाभिव्यक्तमित्यर्थः | चैतन्यमिति | पूर्वमत इव आंतरमेवेतिशेषः | अत एवेति | स्वतोपरोक्षचैतन्यस्यैव स्वप्नाध्यासाधिष्ठानत्वेन स्वीकारादेवेत्यर्थः | अपरोक्षरूपाविषयस्य शुक्तिरजतादेर्याभ्रमरूपाधीः सा अपरोक्षाधिष्ठानमपेक्ष्य भवति | यद्वा अपरोक्षरूपस्य विषयस्य शुक्तिरजतादिर्या भ्रमरूपाधीः सेत्यर्थः | तच्चाधिष्ठानापरोक्ष्यं केन भवतीत्यत आह | मनसेत्यादिना मनसा स्वतो
471 SK प्. ५९ब्) वा यदि वा नयनत इति योजना | तत्र प्रमाणमाह | स्वप्नभ्रमादिषु तथा प्रथितेरिति | अन्वयादिना तथा प्रतीतेरित्यर्थः | तथाहि शुक्तीदमंशस्य नयनसंनिकर्षे सति तस्य रजताध्यासापेक्षितमापरोक्ष्यं भवति नान्यथेत्यन्वयव्यतिरेकाभ्यां क्वचिदधिष्ठानापरोक्ष्यं नयनत इति प्रथितेः | तथा गगननैल्याष्वध्यासापेक्षितं गगनावछिन्नचैतन्यरूपाधिष्ठानापरोक्ष्यं मनसा संभवतीति गम्यते | मत्रसेत्यनेन गगनावछिन्नचैतन्यव्यंतिकादि गोचरचाक्षुष वृतिर्विवक्षितानीरूपगगनगोचरचाक्षुष वृतेरसंभवाच्चक्षुरुन्मीलनानंतरमेव नीलं नभ इत्यादि प्रत्यक्षं नान्यथेत्यन्वयव्यतिरेकाभ्यां गगनचैतन्याभिव्यक्तौ चाक्षुषवृतेरुपयोगावगमाच्च तथा च फलबलादन्याकारवृत्याप्यन्यावछिन्नचैतन्याभिव्यक्तिरिष्यत इदं चाद्वैत दीपिकादौ प्रपंचितमिति बोध्यं उदाहृत श्लोकस्य तात्पर्यमाह | इति श्लोकेनेति | अत्रेति | प्रकृते विभ्रमे स्वप्नाध्यासरूपे स्वतोपरोक्ष चैतन्यमधिष्ठानमित्यर्थः | अत एव संक्षेपशारीरके स्वप्नाध्यासे स्वतोधिष्ठानापरोक्ष्यमुदाहृतमिति संबंधः स्वप्नाध्यासाधिष्ठानचैतन्यापरोक्षस्य स्वतः सिद्धत्वमाक्षेप समाध्यनाभ्यां दर्शयति | न चाहंकारानवछिन्नेति | मात्रपदं कार्त्स्नार्थकं तथा च शरीरांतर्गतमपि चैतन्यमावृतमेवेति भावः वृतिमिति वृतिरप्यनवछिन्नगोचराशब्दमतरेण न संभवतीति प्रागुक्तमिति ध्येयं | अनावृतमिति | तदेव स्वप्नाध्यासाधिष्ठानमितिभावः | ननु सर्वगतस्य जीवचैतन्यस्यांनावृतत्वे तस्य घटादिविषयदेशे सदा सत्वेन प्. ६०अ) चाक्षुषादिवृतिमनुपेक्ष्य सदासर्वविषयावभासप्रसंग इति चेन्न सर्वत्र विद्यमानस्यापि तस्यानुपदानतया घटादि विषयैः सह संवेधा भावेन संबंधाभवेन संबंधार्थतया वृत्यपेक्षायाः प्रतिकर्मव्यवस्थाया मुक्तत्वात् ||
472 SK एवं चाहंकारानवछिन्नचैतन्येध्यस्यमाने स्वाप्न गजादौ तत्समनियताधिष्ठानगोचरांतःकरणादि वृति कृता भेदाभिव्यक्त्याप्रमातृचैतन्यस्यापीदं पश्यामीति व्यवहार इत्याहः | अपरे तु द्वितीयं पक्षं समर्थयंते | अहंकारावछिन्न चेतन्यमधिष्ठानमित्यहंकारस्य विशेषणभावेनाधिष्ठान कोटिप्रवेशोनोपेयते | किं त्वहंकारोपहितं तत्प्रतिबिंबरूपचेतन्यमात्रमधिष्ठानमित्यतोनाहं गज इत्याद्यनुभवप्रसंग इति एवं शुक्तिरजतमपि शुक्तीदमंशावछिन्न चैदन्यप्रतिबिंबवृतिमदंतःकरणगतेध्यस्यते शुक्तीदसंशावछिन्न बिंबचैतन्ये सर्वसाधारणे तस्याध्यासे सुखादि वदनन्यवेधत्वाभावप्रसंगादिति केचित् || ननु विद्याप्रतिबिंबरूपजीवचैतन्ये शरीरांतर्गते विशेषणत्वेनोपाधित्वेन वा अहंकारनिरपेक्षे अनवछिन्नशब्दिते स्वप्नाध्यासोपगमे सति तस्यैव स्वप्नकाले द्रष्टृत्वं स्यात्
473 SK प्. ६०ब्) न तु प्रमातुः तस्याहंकार तादात्म्यापत्या तदवछिन्नस्य ततोभिन्न त्वात् न चेष्टापतिः स्वप्नकाले अहं श्रीकृष्णं पश्यामीति प्रमातुः स्वप्नपदार्थद्रष्ट्रत्वानुभवविरोधापतेरित्यत आह | एवं चेति | स्वतो परोक्षजीवचैतन्यस्याधिष्ठानत्वै सतीत्यर्थः | तत्समनियतेति | यदा गजादिरध्यस्यते तदैव तदधिष्ठान गोचरांतःकरणवृतिरविद्यावृतिर्वा जायते तथा च स्वाप्नगजाद्यधिष्ठान चैतन्यस्य वृतिद्वारावृतिमदंतःकरणसंबंधेन प्रमातृत्व प्राप्तौ सत्यां प्रमातुस्तद्द्रष्टृत्वं संभवतीत्यर्थः | अभेदाभिव्यक्त्येति | उक्त प्रकारेण प्रमातृविषयचैतन्ययोरभेदाभिव्यक्त्येत्यर्थः | द्वितीयमिति | अवछिन्नचैतन्यस्वप्नाध्यासाधिष्ठानमिति पक्षमिति पक्षमित्यर्थः | अयं गज इति प्रत्यय स्थाने अहं गज इत्यादि प्रत्ययप्रसंगवारणायाहंकारांशस्याधिष्ठानतं नांगीक्रियते चेतर्हि अनवछिन्नस्याधिष्ठानत्वमागतमिति पूर्वमताभेदे प्रसक्तिरिति शंकते | किं त्विति | अंतःकरणे चैतन्यप्रतिबिंबभूतं यज्जीवचैतन्यं तन्मात्रमधिष्ठानमुपेयते तच्च परिछिन्नमेव उपाधेः परिछिन्नत्वादिति परिहरति | अहंकारोपहितमिति | अत इति अहमुल्ले स्वप्रयोजकस्य अहंकारात्मकांतःकरणस्याधिष्ठानकोटावननुप्रवेशादित्यर्थः | अविद्यायां बिंबभूतब्रह्मचैतन्यस्य तस्यां प्रतिबिंबभूत जीवचैतन्यस्य वा स्वप्नप्रपंचाध्यासाधिष्ठानत्वमते तयोः सर्वप्रमातृसाधारणत्वात् | स्वप्नप्रपंचस्यापि साधारण्यं स्यात् | अंतःकरणप्रतिबिंबचैतन्यस्य तदधिष्ठानत्वे
474 SK प्. ६१अ) तु साधारण्य प्रसंगदोषो नास्तीत्याशयेनास्य द्वितीय पक्षस्य प्रवृतिरिति बोध्यं | नन्वेवं | शुक्तिरजतादेरसाधारण्यं न स्यात् | तदधिष्ठान चैतन्यस्य साधारणोत्वादित्याशंक्यहेत्वसिद्धिमाह | एवमिति | वृतिमदंतःकरण इति | शुक्तिदमंश संसृष्टायां वृतौ शुक्तीदमंशावछिन्नब्रह्मचैतन्यस्य यः प्रतिबिंबः तस्मिन् न ध्यस्यते स च प्रतिबिंबो वृतिगत ऐव तस्य वृतिवृतिमतोरभेदोपचारात् | वृतिमदंतःकरणगतत्वोक्तिरनन्य वेद्यत्वस्फुटीकरणायेति बोध्यं | वृतिगतस्य ब्रह्मप्रतिबिंबस्य शुक्तिरजताधिष्ठानत्वानुपगमे साधारण्यप्रसंगतादवस्थामभिप्रेत्याह | शुक्तीदमंशावछिन्नेति | सुखादेरिव शुक्तिरजतादेर्यदनन्यवेद्यत्वं तस्याभावप्रसंगादित्यर्थः | देवदत्त सुखदुःखरागद्वेषादिक देवदत्तादन्यस्य वेद्यं प्रत्यक्षं न भवतीत्यनन्य वेद्यंतदित्यर्थः || केचित् तु बिंबचैतन्य एव तदध्यासमुपेत्य यदीयाज्ञानोपादानकं यत तस्यैव प्रत्यक्षं न जीवांतरस्येत्यनन्य वेद्यत्वमुपपादयंति | ननु शुक्तिरजताथासे चाक्षुषत्वानुभवः साक्षाद्वाधिष्ठान ज्ञानद्वारा तदपेक्षणाद्वासमर्थ्यते स्वाप्नगजादि चाक्षुषत्वानुभवः कथं समर्थनीयः | उच्यते न तावतत्समर्थनाय स्वाप्नदेहवद्विसयवच्चेंद्रियाणामपि प्रातिभासिको विवर्तः प्. ६१ब्) शक्यते वक्तुं प्रातिभासिकस्याज्ञातसत्वाभावात् इंद्रियाणां चातींद्रियाणां सत्वे अज्ञात सत्वस्य वश्य वाच्यत्वात् | नापि व्यावहारिकाणामेवेंद्रियाणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाप्नदेहमाश्रित्य स्वस्वविषयग्राहकत्वं वक्तुं शक्यते | स्वप्नसमये तेषां व्यापारराहित्यरूपोपरति श्रवणात् ||
475 SK अधिष्ठान चैतन्यस्य साधारणत्वेपि शुक्तिरजताद्युपादानाज्ञानस्यासाधारण्याच्छक्तिरजतादेर साधारण्यमित्याह | केचित्विति बिंबचैतन्य एवेति वृतिगत प्रतिबिंबं प्रतिबिंबचैतन्य इत्यर्थः | यद्वा अविद्याप्रतिबिंब | प्रतिबिंबभूते ब्रह्मचैतन्ये शुक्तीदमंशावछिन्न इत्यर्थः | न त्वसाधारणे वृति प्रतिबिंब इत्येव कारार्थः | यदीयेति यद्रजतं यत्पुरुर्षाया ज्ञानोपादानकं त व्रजतं तस्यैव पुरुषस्यै प्रत्यक्षं नान्यस्येति कल्पनोपपतेः | न शुक्तिरजतादेः साधारण्य प्रसंग इत्यर्थः | एव स्वप्नप्रपंचाध्यासस्याधिष्ठानं निरूप्य स्वाप्न पदार्थानुभवः किमैंद्रियकः किं वा साक्षिरूप इति संशये निर्णयाषाक्षेपमवतारयति | नन्विति साक्षाद्वेति | इदं च शुक्तिरजतादिरैंद्रियकत्वमिति कविता किंकमतानुसारेणेति बोध्य शुक्तिरजतादेः साक्षिभाष्यत्वमतानुसारेणाह | अधिष्ठानज्ञानद्वारेति धर्मिज्ञानद्वाराचक्षुर
476 SK प्. ६२अ) पेक्षत्वाच्छुक्तिरजतादेरित्यर्थः | कथमिति स्वाप्नगजादि चाक्षुषत्वानुभवो हि वासना मयैरिंद्रियैर्वा व्यावहारिकेंद्रियैर्वा सूक्ष्मेंद्रियैर्वा आरोपरूपतया वा समर्थनीयतया संभाव्यते तथा च स केन प्रकारेण समर्थनीय इति प्रश्नार्थः | चतुर्थप्रकारेण तत्समर्थनं प्रतिजानीते | उच्यत इति | आद्यं प्रकारत्रयं निराकरोति न तावदित्यादिना | वासना मयैः प्रातिभासिकैः इंद्रयैः चाक्षषत्वानुभवसमर्थनप्रकारं प्रथमं दूषयति स्वाप्नदेहवदिति | स्वाप्नाश्च विषयाः प्रातिभासिकाश्चैतन्यविवर्तरूपा यथाभ्युपगम्यं तेन तथेंद्रियाणां स्वरूपभूतश्चैतन्यविवर्तः प्रातिभासिकोभ्युपगंतुं शक्यते इत्यर्थः | वाच्यत्वादिति | तेषामज्ञात सत्वनियमस्य दर्शनाद् दृष्टानुसारित्वाच्च कल्पनाया इति भावः | द्वितीयं प्रकारं निराकरोति | नापीति | ननु व्यावहारिकैरिंद्रियैः स्वाप्नगजादीनां चाक्षुषत्वानुभवसमर्थन प्रकारस्य उत्थितिरेव नास्ति तेषां जाग्रद्देहस्थत्वेन सुप्तदेहस्थत्वाभावादित्याशंक्याह | स्वस्वेति श्रवणादिति | यपषसुप्तेषु जाग्रतीत्यादि श्रुतिष्विशेषः श्रुतौ सुप्तेष्वित्यनंतरं करणेष्वितिशेषः करणानां स्वायो नाम उपरतिः सा च स्वप्नसमये व्यापार राहित्यरूपैव न तु तेषां स्वरूपोपरतिस्तस्याः सुषुप्तावेव श्रवणादिति बोध्यं || व्यावहारिकस्य स्पर्शनेंद्रियस्य स्वोचित व्यावहारिक देशसंपति विधुरेतः शरीरे स्वाधिकपरिमाणकृत्स्न स्वाप्नशरीरव्यापित्वा योगाच्च
477 SK प्. ६२ब्) तदेक देशाश्रयत्वे च तस्य स्वाप्नजलावगाह न जन्य सर्वागीनशीतस्पर्शानिर्वाहात् | अत एव स्वप्ने जाग्रदिंद्रियाणामुपरतावपि तैजसव्यवहारोपयुक्तानि सूक्ष्मशरीरावयवभूतानि सूक्ष्मेंद्रियाणि संतीतितैः स्वाप्नपदार्थानामैंद्रियकत्वमित्युपपादन शंकापि निरस्ता जाग्रदिंद्रिय व्यतिरिक्त सूक्ष्मेंद्रिया प्रसिद्धेः | किं चात्रायं पुरुषः स्वयं ज्योतिरिति जागरे आदित्यादि ज्योतिर्व्यतिकराच्चक्षुरादि वृतिसंचाराच्च दुर्विवेकमात्मनः स्वयं ज्योतिष्ट्टमिति स्वप्नावस्थामधिकृत्य तत्रात्मनः स्वयं ज्योतिष्ट्टं प्रतिपादयति || त्वगिंद्रियमात्रे दोषांतरमाह | व्यावहारिकस्येति | स्वस्य स्पर्शनेंद्रियस्य उचितो यो व्यावहारिक देशः तत्संपति विधुरे शरीरस्यांतः प्रदेशे स्थितं व्यावहारिकत्वगिंद्रियपरिमाणापेक्षया कदाचिदधिकपरिमाणवत्स्वाप्नदेहं कृत्स्नं न व्याप्नुयात् | त्वगिंद्रियमित्यर्थः | व्यावहारिक स्पर्शनेंद्रियस्योचित देशकालसंपति वैधुर्यविशेषणेन तस्य स्वप्न देहप्रवेशायांतः शरीरे गमनमेव न संभवतीति सूचितं |
478 SK प्. ६३अ) यदि व्यावहारिकस्पर्शनेंद्रियस्य कृत्स्नस्वाप्नदेहव्यापित्वा योगस्तहि स्वाप्नदहैकदेशाश्रयत्वमेवास्त को दोषस्तत्राह | तदेक देशेति | तस्येति | स्पर्शनेंद्रियस्येत्यर्थः | तृतीयं प्रकारं निराकरोति | अत एवेति | व्यावहारिकस्पर्शनैंद्रियस्यैव स्वाधिकपरिमाण कृत्स्न स्वप्नशरीरव्यापित्वायोगे सति तदवयवभूतसूक्ष्मस्पर्शनेंद्रियस्य सुतरां स्वप्नदेहव्यापित्वायोगादेवेत्यर्थः | तैजसः स्वप्नावस्था गतो जीवः सूक्ष्मशरीरशब्देन व्यावहारिकाण्येकादशेंद्रियाण्युच्यंते | स्पर्शनेंद्रियमात्रे दोषमति देशेन दर्शयित्वा साधारणदोषमाह जाग्रदिंद्रियेति | नन्व प्रसिद्धान्यपि स्वप्नकाले पदार्थानां चाक्षुषत्वाद्यनुभवानुरोधेन कल्प्यंत इत्याशंक्यश्रुतिविरोधान्नैवमित्याह | किं चात्रेति | श्रुतावत्रेति पदेन स्वप्नावस्थाग्रहणस्य तात्पर्यमाह | जागर इति | जागरे कार्यकारणसंघातानामासनममनागमनादिलक्षणव्यवहार साधनत्वेनादित्यादि ज्योतींपि व्यवहिषमाणपदार्थैः सहसंकीर्णानिविष्टंति तथा व्यवहारसाधनत्वेनैव चक्षुरादि जन्यावृतयो विषयदेशं प्रतिगछंतीत्यर्थः | व्यतिकरः स्वंपर्कः संसर्ग इति यावत् | जागरे दुर्विवेकमिति संबंधः | दुःखेन षिवेको निर्णयो यस्य तदुर्विवेकमनायासेन निर्णेतुमशक्यमिति यावत् | आत्मनः स्वयं ज्योतिष्टां नाम अन्यानवभास्यत्वे सति स्वव्यतिरिक्त सकलावभासकत्व योग्यत्वं तच्च जागरे गृहीतुमशक्यंतेथा ह्यात्मव्यतिरिक्तस्य सर्वस्यात्ममात्रावभास्यत्वं न वक्तं शक्यते | आदित्यादि ज्योतिषां चक्षुरादि जन्यवृतिज्ञानानां च लोके जगदवभासकत्वेन प्रसिद्धानां
479 SK प्. ६३ब्) सत्वादात्मनोप्यहमिति ज्ञानप्रकाशत्वेन तस्यान्यानवभास्य त्वस्य वक्तुमशक्यत्वाच्चेति शंकायाः | जागरे परिहर्तुमशक्यत्वे जागरे स्वयं ज्योतिष्टनिर्णयायोगात् | स्वप्नावस्थायां तु जागरणे प्रसिद्धानामादित्यादि ज्योतिषां चक्षुरादिजन्य ज्ञानानां चाभावादात्मचैतन्यमात्रावभास्यं स्वाप्नजगदिति निर्णयः संभवति | तथाहमिति ज्ञानं वृतिरूपमात्मनः प्रकाशकं न भवतीति वक्ष्यते | तथा च अन्यानवभास्यत्वे सति सकलजगदवभासकत्वयोग्यत्व रूपं स्वयं ज्येतिष्ट्वमात्मनः स्वप्नावस्था साक्षित्वेन निर्णेतुं शक्यमित्यर्थः | ननु स्वप्नदशायामेव तस्य स्वयं ज्योतिष्ट्वं न त्ववस्थांतर इति यथा श्रुतार्थ एव श्रुतेस्ता || अन्यथा तस्य सर्वदा स्वयं ज्योतिष्ट्टंःत्रेति वैयर्थ्यात् | तत्र यदि स्वप्नेपि चक्षुरादि वृतिसंचारः कल्प्येत तदा तत्रापि जागर इव तस्य स्वयं ज्योतिष्टं दुर्विववेचं स्यादित्युदाहृता श्रुतिः पीड्येत | ननु स्वप्ने चक्षुरायुपरमकल्पनेर्प्यतः | करणमनुपरतमास्त इति परिशेषा सिद्धेर्न स्वयं ज्योतिष्ट्व विवेकः मैवं कर्ता शास्त्रार्थवत्वादित्यधिकरणे न्यायनिर्णयोक्तरीत्यांतःकरणस्य चक्षुरादिकरणांतर निरपेक्षस्य ज्ञानासाधनत्वाद्वा तत्वप्रदीपकोक्तरीत्या प्. ६४अ) स्वप्ने तस्यैव गजाद्याकारेण परिणामेन ज्ञानकर्मतयावस्थित त्वेन तदानीं ज्ञानसाधनत्वायोगात् वा परिशेषोपपतेः | न च स्वर्मेतःकरणवृत्यभावे उत्थितस्य स्वमदृष्टगजाद्यनुसंधानानुपपतिः सुषुप्ति कॢप्तया विद्यावृत्या तदुपपतेः | सुषुप्तौ तदवस्थोपहितमेव स्वरूपचैतन्यमज्ञानसुखादि प्रकाशः उत्थितस्यानुसंधानमुपाधिभूतावस्थाविनाशजन्यसंस्कारेणेति वेदांत कौमुद्यभिमते सुषुप्तावविद्यावृत्यभावपक्षे इहापि स्वाप्नगजादिभासिक चैतन्योपाधिभूत स्वप्नावस्था विनाशजन्य संस्कारादनुसंधानोपपतेश्च ||
480 SK त्यर्यं किं न स्यादिति नेत्याह | अन्यथेति | श्रुतेः स्वप्नावस्थामाश्रित्य तत्साक्षित्वेन स्वयंज्योतिष्ट्वमात्मनः | स विवेकमिति तात्पर्याकल्पन इत्यर्थः | सर्वदेति तमेव भातमनुभाति सर्वमित्यादि श्रुति पर्यालोचनया तस्य सर्वदा स्वयंज्योतिष्ट निश्चयादिति भावः | अत्रेतीति | अत्रेति विशेषणस्य व्यावर्तकत्वा संभवेन व्यर्थत्वं स्यादतो न यथा श्रुतार्थे तात्पर्यं किं तूक्तार्थे तात्पर्थेमिति भावः | एवं श्रुति तात्पर्यं निरूप्य स्वप्नकाले चक्षुरादि व्यापार कल्पनं
481 SK प्. ६४ब्) तद्बाधितमित्याह | तत्रेति | स्वयं ज्योतिष्टं स्वप्नावस्था साक्षित्वेन सुगममित्यत्र श्रुति तात्पर्यं सिद्धे सतीत्यर्थः | ननु स्वप्नजगतोवभासकांतराभावादात्ममात्रभास्यत्वमित्युक्तमयुक्तमिति शंकते | नन्विति | अनुपरतमास्त इतीति तथा च मनस एव स्वाप्नजगदवभासकत्व संभवादवभासकांतराभावरूपपरिशेषा सिद्धिरित्यर्थः | स्वप्नावस्थायां स नमोज्ञोनकरणत्वमसिद्धमतस्तस्य स्वाप्नजगदवभासकत्वासंभवात् परिशेषसिद्धिरिति परिहरति | मैवमिति | आत्मा कर्ता भवतु मर्हति तथा सति कर्ता विज्ञानात्मापुरुष इत्यादि शास्त्रस्यार्थवत्वोपपतेरिति सूत्रार्थः | उक्तरीत्येति | मनस उपादानत्वेन स्वतो ज्ञानकरणत्वं नास्तीत्युक्तरीत्येत्यर्थः | तत्वप्रदीपकोक्तरीत्येति स्वप्ने मनस एव विविध सस्कारविशिष्टस्य स्वप्नप्रपंचाकारेण परिणामित्वं | न त्वविद्यायास्तस्याः संस्काराश्रयत्वाभावेन विचित्रपदार्थपरिणामित्वायोगादित्युक्तरीत्येत्यर्थः | कर्मतयेति | विषयत्वेनैवोपक्षीणस्य विषयित्व रूपप्रकाशकत्वाभावादित्यर्थः | तदानीमित्यनेन अस्त वा जागरणे ज्ञानकारणत्वं तथापि स्वप्ने तन्नोपेयते तस्य विषयत्वेनैवावस्थितत्वादिति सूचित अनुपपतिरिति संस्काराभावादितिभावः | ननु सुषुप्तावपि अविद्यावृतिर्न कल्पनीया सुषुप्त्यादि साक्षि चैतन्यस्यतित्यत्वेपि साक्षि भास्यायाः सुषुप्त्यवस्थायाः विनाशित्वेन विषयभूतसुषुप्त्यवस्थाविशिष्टवेषेण तत्साक्षिणो नाशलक्षणसंस्कारसंभवात् सुषुप्तिसुखादीनामनुसंधानोपपतिरिति चेतर्हि स्वप्न प्. ६५अ) साक्षिणोपि प्रातिभासिकविषयविशिष्टवेषेण नाशलक्षणसंस्कार संभवात् | स्वप्नदृष्टगजाद्यनुसंधानोपपतिरित्याह | सुषुप्ताविति | तत्पदं सुषुप्तिपरं अज्ञानसुखादि प्रकाश इति | अज्ञानाद्यनुभव इत्यर्थः | इहापीति | स्वप्नावस्थायामपि इत्यर्थः | उपाधि भूतेति विषयतया उपाधिभूतेत्यर्थः ||
482 SK अथवा तदेतत्सत्वं येन स्वप्नं पश्यतीत्यादि श्रुतेरस्तु स्वप्नेपि कल्पतरूक्तरीत्या स्वाप्नगजादिगोचरांतःकरणवृतिः | न च तावता परिशेषासिद्धिः अंतःकरणस्याहमिति गृह्यमणस्य सर्वात्मना जीवैक्येनाध्यस्ततयालोक दृष्ट्या तस्य तद्यतिरेकाप्रसिद्धेः | परिशेषार्थ चक्षुरादि व्यापाराभावमात्रस्यैवापेक्षितत्वात् | प्रसिद्धदृश्यमात्रं दृगवभासयोग्यमिति निश्चय सत्वेन परिशेषार्थमन्यानपेक्षणात् | तस्मात् स्वप्ने सर्वथापि चक्षुरादि व्यापारासंभवात् स्वाप्न गजादौ चाक्षुषत्वाद्यनुभवो भ्रम एव ननु स्वप्नेपि चक्षुरुन्मीलने गजाद्यनुभवस्तन्निमीलनेनेति जागर इव गजाद्यनुभवस्य चक्षुरुन्मीलिनाद्यनुविधान प्रतीयते इति चेत् चक्षुषारजतं पश्यामीत्यनुभववदयमपि कश्चित् स्वाप्न भ्रमो भविष्यति यत्केवलसाक्षिरूपे प्. ६५ब्) स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधान तदनुविधाधिनीवृतिर्बाध्यस्यते किमिव हि दुर्घटमपि भ्रमं माया न करोति विशेषतो निद्रारूपेण परिणता यस्या माहात्म्यात् स्वप्ने रथः प्रतीतः क्षणेन मनुष्यः प्रतीयते स च क्षणेन मार्जारः स्वप्नद्रष्टश्च न पूर्वापरविरोधानुसंधानं
483 SK जागर इव स्वप्नेपि गजादिगोचरांतःकरणवृतिरेवोपेयते | अतो न संस्काराभावशंकावकाशः | न च तदंतःकरणवृतिसत्वे परिशेषा सिद्धिरिति वाच्यं परिशेषस्यापि लोकदृष्ट्या उपपतेरिति मतांतरमाह | अथवेति सत्व शब्दितांतःकरणस्य तृतीया श्रुत्यास्वाप्नगजादिगोचरज्ञानकरणत्वं भाति तथा च श्रुतिं प्रामाण्यात् स्वप्ने चक्षुरादिजन्य वृत्यभावेपि मानसवृतिरस्ति | अतो न संस्कारानुपपतिरिति कल्पतरूक्तरीत्येत्यर्थः | तावता इत्यस्य अंतःकरणवृति सद्भावमात्रेणेत्यर्थः | अंतःकरणस्य सर्वात्मना जीवचैतन्यैकेनाध्यस्ततया अहं पश्यामीत्यादिरूपेण द्रष्टतया गृह्यमाणस्य तस्यांतःकरणस्याज्ञ दृष्ट्या तस्माच्चिदात्मनः सकाशाद्भेदा प्रसिद्ध्यापरिशेषार्थं लोकप्रसिद्ध द्रष्ट्टव्यतिरिक्तं करणादि व्यांपाराभावस्यैवापेक्षितत्वा तावता परिशेषा सिद्धिर्न चेत्यर्थः | एतदुक्ते भवति अंतःकरणवृतिलक्षणो व्यापारो वस्तुतःकरण व्यापारोपि प्रतीतितो द्रष्टव्यापारो भवति | अंतःकरणस्य द्रष्टत्वेन गृहीतत्वाल्लोकैरिति स्वयं ज्योतिष्ट्वनिर्णयप्रकारं दर्शयति |
484 SK प्. ६६अ) प्रसिद्धेति | पूर्वमुच्यत इत्यनेन सूचितां स्वाप्न पदार्थेषु चाक्षुषत्वाद्यनुभवस्य गतिमिदानीं प्रपंचयति तस्मादिति पंचमीं व्याचष्टे | सर्वथति | पूर्वोक्त सर्वप्रकारैरपीत्यर्थः | स्वप्नानुभवस्य साक्षिरूपत्वे चक्षुराद्यनुविधानविरोधमाशंक्य दृष्टांतेन समाधते | स्वप्नेत्यादिना | तदनुविधायिनीति | जागरे चक्षुराद्यनुविधायिनीया प्रसिद्धावृतिः सा स्वप्नसाक्षिण्यध्यस्यत इति यथा श्रुतार्थो न ग्राह्यः अन्यथा ख्याति प्रसंगात् | किंतु तदेतत्सत्वं येन स्वप्नं पश्यतीति श्रुत्यनुसारेण कल्पतरुकारैयां गजादिगोचरमानसवृतिरुपेता तस्यां तदनुविधायित्वं वाप्यस्यत इत्यर्थः | तथा च केवलसाक्षिरूपे स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधायिनी वृतिर्वा तत्राध्यस्यत इति यतच्च भ्रममात्रमित्यर्थः | नन्वै तावान्भमो दुर्घट इत्याशंक्याह | किंमिवहाति दुर्घटमपि भ्रमं माया किमिव न करोतीति संबंधः | किमिव केन दृष्टांतेन न करोति दुर्घटाकरणे मायाया दृष्टांतो नास्तीत्यर्थः | प्रत्युत तस्यास्तत्कारित्वमैंद्रिजालिक मायादौ प्रसिद्धमिति हि शब्दार्थः | वियदादि प्रद्यं च भ्रमहेतुभूता माया दुर्घटमपि प्रपंच भ्रमं व्यवस्थितरूपं घटयति निद्रारूपेण परिणता तु सा ततो विलक्षणमेव भ्रमं कारयतीति मत्वाविशेषत इत्युक्तं | यस्या इति निद्रारूपेण परिणताया इत्यर्थः || तस्मादन्वयाद्यनुविधानप्रतीति तौल्येपि जाग्रद्गजाद्यनुभव एव चक्षुरादि जन्यो न स्वाप्न गजाद्यनुभवः दृष्टि सृष्टि वादिनस्तु कल्पितस्याज्ञातसत्वमनुपपन्नमिति कृत्स्नस्य जाग्रत्प्रपंचस्य
485 SK प्. ६६ब्) दृष्टि समसमयां सृष्टिमुपेत्य घटादि दृष्टेश्चक्षुः सन्निकर्षानुवियान प्रतीतिं दृष्टेः पूर्वे घटाद्यभावेनासंगछमानां स्वप्नवदेवसमर्थयमानाजाग्रद्गजाद्यनुभवोपि न चाक्षुष इत्याहुः | ननु दृष्टि सृष्टिमवलंव्यकृत्स्नस्य जाग्रत्प्रपंचस्य कल्पितत्वोपगमेकस्कल्पको निरुपाधिरात्मावा विद्योपहितो वा नाद्यः | मोक्षेपि साधनांतर निरपेक्षस्य कल्पकस्य सत्वेन प्रपंचानुवृत्या संसाराविशेषप्रसंगात् | न द्वितीयः अविद्याया अपि कल्पनीयत्वेन तत्कल्पनात् प्रागेव कल्पकसिद्धेर्वक्तव्यत्वात् | अत्र केचिदाहुः पूर्व पूर्वकल्पिताविद्योपहित उतरोतराविद्याकल्पकः | अनिंदं प्रथमत्वाच्च कल्पककल्पनाप्रवाहस्य नानवस्थादोषः | न चाविद्याया अनादित्वोपगमाच्छुक्तिरजतवत कल्पितत्वं न युज्यते || स्वप्ने चाक्षुषत्वाद्यनुभवस्य गतिनिरूपणमुपसंहरति | तस्मादिति | स्वप्ने चक्षुरादि व्यापारासंभवादित्यर्थः | ये त्वधिकारिणो बहुविधज्ञानकर्मानुष्ठानासादितनिरतिशय परमेश्वरप्रसादमहिम्नानितांत निर्मलीकृतांतःकरणाः
486 SK प्. ६७अ) संतः जागरेपि स्वप्नाद्विशेषं न पश्यंतिता न ब्रह्मविद्याकामानधिकृत्य प्रवृतां कृत्स्नस्य जगतः प्रबोधस्वापावस्थायोः प्रभव प्रलय प्रतिपदिकां श्रुति मनुसृत्य दृष्टि सृष्टिवादाः पूर्वाचार्यै निरूपितः तं स्वप्न विचारेण बुद्धिमागतं दर्शयति | दृष्टि सृष्टि वादिनस्त्विति दृष्ट्या सह समः समयो यस्याः सा तादृष्टिं कृत्स्नस्या जाग्रत्प्रपंचस्योपेत्येत्यत्र पूर्ववाक्येन हेतुमाह | कल्पितस्येति | स्वाप्नप्रपंचस्येवेत्यर्थः | घटादिदृष्टेर्या अनुविधानप्रतीतिः तामसंगछमानां स्वप्नवदे भ्रममात्ररूपा समर्थयमाना इति संबंधः | असंगछमानत्वे हेतुर्दृष्टेः | पूर्वं घटाद्यभावेनेति | तत्र हेतु दृष्टिसमसमयासृष्टिः न चाक्षुष इति किं तु स्वप्नानुभववदेव केवलसाक्षिरूप इत्यर्थः | कल्पितत्वोपगम इति प्रातिभासिकत्वोपगम इत्यर्थः | कं शब्दसूचितं विकल्पं दर्शयति निरुपाधिरिति निरपेक्षश्चिदात्मैव संसारकल्पक इति प्रथमकल्पं दूषयति | मोक्षेपीति अनुवृत्येति | अनुवृत्यापत्येत्यर्थः | अविद्याया अपीति | तस्या अपि कादाचित्कत्वाभ्युपगमे अ अविद्यासृष्टेः पूर्वमेवाविद्योपहितस्य चिदात्मनो विद्यादिकल्पकस्य वक्तयत्वातदभावादविधादि सृष्टिं न संभवति | तथा च सदासंसारानुपलंभ प्रसंग इति भावः | नन्वेवमपि प्रथमाविद्यायाः कः कल्पकः तत्राह अनिदमिति | इदं प्रथमत्वाभावात् प्रथमाविद्यैव काचिन्नास्ति अतो न चोद्या च काश इति भावः | तर्ह्य नवस्थेत्योशंक्यसान दोषाया विद्योपहितात्मनः प्रपंच कल्पकत्वेनश्चति प्. ६७ब्) सिद्धस्य पूर्वपूर्व अविद्यां विना तत्कल्पकत्वनिर्वाहाभावादित्याशयेवाह | नानवस्थादोष इति | ननु जीव ईशो विशुद्धावित् तथा जीवेशयोर्भिदा अविद्यातच्चितोर्योगः षडस्माकमनादय इति सिद्धांतविरुद्धमविद्यायाः प्रवाहानादित्व कल्पनं तस्याः स्वरूपानादित्वस्यैव सिद्धांतसंग्रहश्लोके चैतन्यवत् प्रतीतेरिति शंकते | न चेति ||
487 SK अन्यथा साषनादि विभागानुपपतेरिति वाच्यं | यथा स्वप्ने कल्पमानं गोपुरादि किंचित् पूर्वसिधत्वेन कल्पते | किं वितदामीमुत्पाद्यत्वेन एवं जागरेपि किंचित्कल्प्यमानं सादित्वेन कल्पते | किंचिदन्यथेत्येतावता साद्यनादि विभागोपपतेः | एतेन कारणविभागोपि व्याख्यात इति अन्ये तु वस्तुतो नाद्येवा विद्यादि तत्र दृष्टिसृष्टिर्नोपेयते | किंतु ततोन्यत्र प्रपंचमात्र इत्याहु | नन्वेवमपि श्रुतिमात्र प्रतीतस्य वियदादि सर्गतत् क्रमादेः कः कल्पकः न कोपि किमालंवना तर्ह्यात्मन आकाशः संभूत इत्यादि श्रुतिः निष्प्रपंच ब्रह्मात्मैक्यावलंवनेत्यवे हि || सिद्धांतमुल्लंघ्यप्रवृतावपि दोषमाह | अन्यथेति | अविद्यादीनां
488 SK प्. ६८अ) स्वरूपानादित्वानुपगम इत्यर्थः | अनुपपतेरिति | उक्तविभागस्य लोकशास्त्रसिद्धत्वादिति भावः | श्रुत्यैकसमधिगम्य विशुद्ध चैतन्य व्यतिरिक्तमात्रे दृष्टिसृष्टिमुपेत्यैव साद्यनादि विभागबोधक लौकिक वैदिक प्रमाणां सिद्धांत प्रवादस्य चावलंबनत्वेन भ्रमविशेषं सदृष्टांतमाह | यथोत्पादिना | किंचिदन्यथेति | किंचिद विद्यादिकमन्यथा नादित्वेन कल्पाते पूर्वपूर्वाविद्योपहितेनात्मनेत्यर्थः | एतावता कल्पनामात्रेणेत्यर्थः | ननु प्रत्यक्षे विषयस्य कारणतया घटादि दृष्टेः पूर्वमज्ञातो घटादिर्वाच्यः | अन्यथा कार्यकारणविभागोमस्या तथा अविद्योपहितस्य चिदात्मन एकस्यैव स्वस्मिन् संसारकल्पकत्वे संसारवतो जीवस्यैकत्वेन गुरुशिष्यविभागो देव तिर्य᳚न्मनुष्यादि विभागश्च न स्यादित्यत आह | एतेनेति | साद्यनादिविभागोपपति कथनेनेत्यर्थः | व्याख्यात इति वस्तुतः प्रत्यक्षे विषयस्याकारणत्वेपि सः तत्कारणत्वेन कल्पते | तथा अन्यदपि स्वप्न वदेव सर्वमूह्यमित्यर्थः | कल्पकस्याविद्योपहितस्यानंत्य परिहाराय साद्यनादिविभागांजस्याव च दृष्टिसृष्टेः संकोचमाह | अन्ये त्विति | वस्तुत इति स्वरूपत इत्यर्थः | तर्हि दृष्टिसृष्टिः कुत्रापि नोपेयामानाभावादिति शंकते किं त्विति स्वापप्रबोधयोः कार्यप्रपंच मात्रस्य प्रलयप्रभव प्रतिपादक बहुश्रुतिसिद्धत्वान्नैवमिति परिहरति | ततोन्यत्रेति | अविद्यादेः सकाशादितिशेषः मात्रपदं कृत्स्नार्थकं | ननु दृष्टिसमय एव प्रपंच सृष्टिरिति मतेपि
489 SK प्. ६८ब्) दृष्टिशब्देन प्रत्यक्षप्रतीतिरेव विवक्षिता न परोक्ष प्रतीतिः | अपरोक्ष प्रतीतिरेव विषया विना भूतत्वेन प्रातिभासिक विषय साधकत्वात् | परोक्ष प्रतितेश्चा तथा त्वात् तथा स्थिते सति बाधकमाशंकते | नन्वेवमपीति | अविद्योपहितस्यात्मनः प्रत्यक्षवस्तुकल्पकत्वेपीत्यर्थः | यदि वियदादिसर्गः श्रुत्याप्रत्यक्षेण च प्रतीतो भवे तदा प्रत्यक्ष वलाद्घटादेरिव तस्यापि प्रातिभासिकत्वस्य सिद्धिः संभवेन्नत्वे तदस्तीत्याशयेन मात्रं पदं दतं वायादिसंग्रहार्थं प्रथममादिपदं वियदादि प्रलय तत्क्रमसंग्राहार्थं द्वितीयादपदंक इति | कल्पको न संभवत्येवेत्यर्थः | कल्पकाभावे इष्टापतिमाह दृष्टिसृष्टि वादीन कोपीति | तर्हि सृष्ट्यादि श्रुतिप्रतिपाद्यस्य वियदादि सृष्टि तत्क्रमादेः शशशृंगायमानतया श्रुतेरालंबनाभावादप्रामाण्यां स्यादिति शंकते | किमिति | तात्पर्यविषयीभूतार्थस्य सत्वान्नाप्रामाण्यापतिरिति परिहरति निश्चयं चेति || अध्यारोपापवादाभ्यां निष्प्रपंचब्रह्मप्रतिपतिर्भवतीति तत्प्रतिपत्युपायतया श्रुतिषु सृष्टिप्रलयोपन्यासो न तात्पर्येणेति भाष्याद्युद्घोषः व्यर्थस्तर्हि तात्पर्याभावे वियत्प्राणपादयोर्वियदादि सर्ग तत्क्रमादि विषयश्रुतीनां परस्परविरोधपरिहाराय यत्नः न व्यर्थः न्यायव्युत्पत्यर्थमभ्युपेत्यतात्पर्यं प्. ६९अ) तत्प्रवृतेः | उक्तं हि शास्त्रदर्पणे श्रुतीनां सृष्टि तात्पर्यं स्वीकृत्येदमिहेरितं ब्रह्मात्मैक्य परत्वात्ततासां तत्रैव विद्यत इति | ज्योतिष्टोमादिश्रुतिं बोधितानुष्ठानात्फलसिद्धिः ||
490 SK ननु सृष्ट्यादिवाक्यानां शुतार्थपरित्यामेनाश्रुतार्थे तात्पर्यकल्पनमयुक्तं किंतु श्रुत्यनुसारेण विपदादि सर्गस्य तत्कल्पकस्य च कल्पनमेव युक्तमित्यत आह | अध्यारोपेति | यथालोके गगनतत्वबोधनापप्रवृतः कश्चित् प्रथमं नैल्यवैशाल्याद्यध्यारोपौपेतं गगनं ग्राहयित्वा पश्चात् नेदं वस्तुतो नैल्यादि युक्तमिति तदपे वादेन नीरूपं व्यापकमुदासीनं गगनतत्वमिति बोधयति | तथा वेदांता अपि प्रथमं पद्विपदादि सर्गप्रलयादिकारणं सृष्ट्यादि वाक्यैः प्रतीयते तद्ब्रह्मेत्यच्यारोपितसर्गादि युक्ततया ब्रह्मग्राहियित्वा पश्चात् | निषेधवाक्यैरध्यारोपित सर्गाद्यपवादेन निश्रपंच ब्रह्मात्मैक्यं प्रतिपादयंति | तथा च सृष्ट्यादि वाक्यानां निषेधवाक्यापेक्षितनिषेध्य समर्प्यकतया तदेक वाक्यतापन्नानां निश्रपंच ब्रह्मप्रतिप्रयोजनकत्वमेव न तु स्वार्थ सृष्ट्यादि प्रतिपादनमात्रेणचारितार्थ्यमर्थवादादीनामिव तेषां स्वार्थप्रतिपादने फलाभावान्निष्फलेर्थे वेद तात्पर्या योगादतो युक्तमेव स्वार्थत्यागेन निष्प्रपंच ब्रह्मात्मैक्ये तात्पर्य कल्पनं तहानस्य मुक्तिफलकतायाः श्रुतिसिद्धत्वादेवं च प्रथममध्यारोपेण स प्रपंच
491 SK प्. ६९ब्) ब्रह्मप्रतिपतिर्भवति पश्चात्प्रपंचापवादेन तस्यैव ब्रह्मणो निष्प्रपंचत्व प्रतिपतिर्भवति पूर्वप्रतिपतिश्चोतरप्रतिपतेः शेष एव न स्वतंत्रेति निष्कर्षः प्रपंचस्तु भाष्यादिष्वेव द्रव्य इत्यर्थः | शंकते | व्यर्थ इति | तर्हीत्यस्य व्याख्या तात्पर्याभाव इति वियदादि सर्ग तत्क्रमादावितिशेषः | यत्नोव्यर्थः सूत्रकारभाष्यकारयोरितिशेषः तात्पर्याविषये विद्यमानस्यापि श्रुतिविरोधस्या किंचितेत्करत्वादिति भावः | परिहरति | न व्यर्थ इति | न्यायेति | वियत्प्राणपादद्वयगताधिकरणेषु निरूपिताये सिद्धांत न्यायाः तेषां बोधार्थमित्यर्थः | तेषां न्यायानां सृष्ट्यादि वाक्यार्थाविरोधनिर्णयायानपेक्षितानामपि श्रुति तात्पर्य विषये क्वचिदेवं विरोध प्रसक्तौ तत्समाधानाय उपयोगस्तेषां भविष्यतीत्याशयेन प्रवृतः सूत्रकारादि यत्नोर्थ वा नित्यर्थः | तत्प्रवृतेरिति | वियत्प्राण पादयोः प्रवृतेरित्यर्थः | सृष्ट्यादि श्रुतीनां स्वार्थे तात्पर्यमभ्युपेत्यैव वियत्पादादि प्रवृतिरित्यत्रकल्पतरुकारसंमतिमाह | उक्तं हीति इदमिति | विरोधसमाधानमित्यर्थः | इहेति | वियत्प्राणपादयोरित्यर्थः | तु शब्दोवधारणे तासां सृष्ट्यादि श्रुतीनां ब्रह्मात्मैक्य परत्वादेव तत् तात्पर्यं नास्त्येव तासां स्वार्थेपि तात्पर्ये वाक्य भेदप्रसंगात् | स्वार्थे फलाभावाच्चेत्यर्थः | एवं दृष्टि सृष्टि वादे सृष्ट्यादि श्रुतीनां निरालंबनत्वं परिहृत्य कर्मोपासनावाक्यानामपि निरालंबनत्वं परिहरति | ज्योतिष्टोमेत्यादिना ज्योतिष्टोमादि श्रुत्या प्. ७०अ) स्वर्गादिसाधनत्वेन बोधितस्य यागादेरनुष्ठानात् स्वर्गादिफलसिद्धिरित्यर्थः ||
492 SK स्वाप्नश्रुतिबोधितानुष्ठानप्रयुक्तफलसंवादतुल्या ज्योतिष्टोमादि श्रुतीनां च सत्व शुद्धिद्वाराब्रह्मणि तात्पर्यान्नाप्रामाण्यमित्यादि दृष्टिसृष्टिव्युत्पादनप्रक्रिया प्रपंचस्त्वाकरे एव द्रष्टव्यः अयमेको दृष्टिसमसमयाविश्वसृष्टिरिति दृष्टिसृष्टि वादः अन्यस्तदृष्टिरेव विश्वसृष्टिः दृश्यस्य दृष्टिभेदे प्रमाणभावात् | ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः अर्थस्वरूपं ध्वाम्यंतः पश्यंत्यन्ये कुदृष्टय इति स्मृतेश्चेति सिद्धांतमुक्तावल्यदि दर्शितो दृष्टिसृष्टिवादः द्विविधेपि दृष्टिसृष्टिवादे मनः प्रत्ययमलभमानाः केचिदाचार्याः सृष्टिदृष्टिवादं रोचपंते || स्वामेति स्व मे हि कश्चित् कदाचिज्ज्योतिष्टोमादिश्रुतिं कल्पयित्वा ततः साधनविशेषमुपलभ्यतदनुष्ठानात्फलं लभते | तत्तुल्यं जागरणेपि स्वर्गादिफललभनमित्यर्थः | वस्तुतस्तु श्रुतिमात्रप्रतीतवियदादिसर्गतत्क्रमादेरिव श्रुतिमात्रप्रतीतस्वर्गादिफलस्याप्यसत्वमैवाभिप्रेतं
493 SK प्. ७०ब्) कल्पकाभावस्य तुल्यत्वादिति बोध्यं | तर्हि तासामप्रमाण्यं स्यादिति नेत्याह | ज्योतिष्टोमादि श्रुतिनां चेति | कर्मवाक्यैरुपासनावाक्यैश्च विहितानि कर्मोपासनान्यनुतिष्ठतः | सत्वशुद्धिर्भवति शुद्धसत्वस्य चाधिकारिणो वेदांतशास्त्रं ब्रह्मप्रमिति जनयति तथा च कर्मोपासनाकांडयोरधिकारिसंपादनद्वारा ब्रह्मप्रसिति शेषत्वातयोस्तत्रैव तात्पर्यं न स्वार्थं स्वर्गसाधनत्वादावितिना प्रामाण्यप्रसंग इति भावः | न च वेदांतानां अशेषतो ब्रह्मप्रतिपतिपरत्वे नास्ति मानमिति वाच्यं | सर्वे वैक्ष्य यत्पदमामनंतितमेतं वेदानुवचनेन ब्राह्मणाविविदिषंतीत्यादिश्रुति सहस्रस्य तत्र मानत्वादित्यादिकमभिप्रेत्याह | इत्यादि दृष्टिसृष्टिव्युत्पादनप्रक्रियाप्रपंचस्त्विति अयमेको दृष्टिसृष्टित्वाद इति संबंदः अन्यस्तु सिद्धां तु मुक्तावल्यादि दर्शितः दृष्टिसृष्टिवाद इति संबंधः द्वितीयं नीरूपयति दृष्टेरेवेति | दृष्टिर्दर्शनं स्वप्रकाशज्ञानस्वरूपमित्यर्थः | एतदुक्तं भवति | दृश्यप्रपंच तादात्म्यापन्नं ज्ञानस्वरूपमेव प्रपंचस्याद्यक्षणावछिन्नं स तस्य सृष्टिरित्युच्यत इति | ननु दृग्दृश्ययोर्भिन्नयोरभिन्नसताकत्वरूपं तादात्म्यमसिद्धमित्याशंक्याह | दृश्यस्येति | दृष्टिर्ज्ञानं तस्माद्भेदे भिन्नसत्वाकत्वे इत्यर्थः | अन्यथा सन् घट इत्यादि रूपेण सद्रूपस्य ज्ञानस्य घटादेश्च
494 SK प्. ७१अ) सामानाधिकरण्य प्रत्ययो न स्यादितिभावः | स्मृतावे तदिति प्रत्यक्षसिद्धसित्यर्थः | अर्थ स्वरूपमिति | अर्थपदं स्वतंत्रपरं कुदृष्टय इति | कुतर्क दूषित ज्ञाना इत्यर्थः | तथा चैतज्जगदन्ये कुदृष्टयो भ्रांताः ज्ञानस्वरूपसता पेक्षयाभिन्नसनाकं पश्यंतीत्युतरार्धेन भेददृष्ट्यपवादाच्च तयोरभेदसताकत्वसिद्धेरित्यर्थः | स्मृतेश्चेति | चकाराच्छ्रुतेश्चेत्यर्थः चिद्वीदं सर्वमित्यादि श्रुतिरुदाहर्तव्यामनः प्रत्ययो मानसो विश्वासः प्रामाणिकत्व निश्चयः तमलभमाना इत्यर्थः | तदलाभे च हेतुः | जाग्रत्प्रपंचस्यापि प्रातिभासिकत्वाभ्युपगमो वियदादि सर्गाद्यपलापः कर्मोपासनाकांडार्थानुष्ठानाधीन स्वर्गलोकब्रह्मलोकाद्यपलायो जाग्रति चक्षुराद्यनुविधान प्रतीतेर्भ्रमत्वं इत्यादिरिति द्रष्टव्यं || श्रुति दर्शितेन क्रमेण परमेश्वर सृष्टमज्ञातसतायुक्तमेव विश्वं ततद्विषयप्रमाणावतरणे तस्य तस्य दृष्टि सिद्धिरिति | न चैवं प्रपंचस्य कल्पितत्वाभावे श्रुत्यादि प्रतिपन्न सृष्टिप्रलयादिमतः प्रत्यक्षादि प्रतिपन्नार्थक्रियाकारिणश्च तस्य सत्यत्वमेवाभ्युपगतं स्यादिति वाच्यं शुक्तिरजतादिवत्संप्रयोगसंस्कारदोषरूपेणाधिष्ठान ज्ञानसंस्कारदोषरूपेण प्. ७१ब्) वा कारणत्रयेणाजन्यतया कल्पना समसमयत्वाभावेपि ज्ञानेक निवर्त्यत्वरूपस्य सदसद्विलक्षणत्वरूपस्य प्रतिपन्नोपाधिगत त्रैकालिकप्रतिषेध प्रतियोगित्वरूपस्य वा मिथ्यात्वस्याभ्युपगमात् | सत्यत्वपक्षे प्रपंचे उक्तरूपमिथ्यात्वाभावेन ततो भेदात् |
495 SK सृष्टिदृष्टि पदं व्याचष्टे | श्रुति दर्शिते नेत्यादिना | अय सिद्धांतं शंकते | न चैवमिति | उक्तरीत्याप्रामाणिकत्वे प्रपंचस्य स्वीकृते सतीत्यर्थः | कल्पितत्वाभावे सत्वमेवाभ्युपगतं स्यादिति संबंधः | प्रपंचः सत्यः श्रुतिसिद्धत्वात् | ब्रह्मवत् | न च तस्य प्रत्यक्ष सिद्धस्य श्रुति सिद्धत्वमसिद्धमिति वाच्यं | तस्य स्वरूपेण प्रत्यक्ष सिधत्वे सृष्टिप्रलयादिविशिष्टतया श्रुतिस्मृत्यादि सिद्धत्वात् | तथा प्रपंचः सत्यः अर्थक्रियाकारित्वात् | सृष्ट्याद्यर्थ क्रियाकारिब्रह्मवत् | न च हैत्वसिद्धिः पृथिवीजलादौ तस्य प्रत्यक्षादि सिद्धत्वादितिभावः | प्रपंचस्य ब्रह्मवत्परमार्थसत्यत्वे हेतुद्वयमप्रयोजकमतोनापसिद्धांतापतिरित्याशयेन परिहरति शुक्ति रजतादि वदिति | वियदादि प्रपंचे शुक्तिरजतादाविवकल्पनासमसमयत्वस्य दृष्टिसृष्टिवाद्यभिमतस्याभावेपि पारमार्थिक सत्यत्वविरुद्धस्य मिथ्यात्वस्याभ्युपगमादिति संबंधः वियदादि
496 SK प्. ७२अ) प्रपंचे कल्पना समसमयत्वाभावे कारणत्रयाजन्यत्वं हेतुः संप्रयोगस्य स्वप्नभमव्यापित्वाभावात् | संप्रयोगस्थाने अधिष्ठानसामान्यज्ञानं निक्षिपति | अधिष्ठान ज्ञानेति | मिथ्यात्वनिर्वचनं त्रेधा दर्शयति | क्षानैकेत्यादिना | अधिष्ठान तत्वज्ञानमात्रनिवर्त्यत्व रूपस्येत्यर्थः | सद्विलक्षणत्वमात्रं असत्पति व्याप्तं | असद्विलक्षणत्वमात्रं सति ब्रह्मण्यति व्याप्तं अत उभयो पादानं प्रपंचस्य तूभयविलक्षणत्वं प्रमाणसिद्धमितिभावः | प्रतिपन्नेति | ब्रह्मणि प्रतिपन्नस्य प्रतीतस्य आरोपितस्यैति यावत् | ब्रह्मोपाधिरधिष्ठानं तत्र ब्रह्मणि तस्य त्रैकालिको निषेधः श्रुतिगम्योत्यंताभावोस्ति तत्प्रतिशेगित्वं तस्याक्षतमितिभावः | तत्राद्यस्तक्षणेपि घटादिकं नाशयामीत्यादि ज्ञाननिवर्त्यत्व सत्वादेक पदं दतं ज्ञानमात्रनिवर्त्यस्य च सत्यत्व वादिभिरनंगीकारात् | न सत्यत्व पक्षाविशेषः | तथा प्रपंचे परैः सद्रूपत्वांगीकारेण सद्विलक्षणत्वानंगीकारात् | द्वितीयलक्षणेपि न सत्यत्वपक्षाविशेषः | प्रपंचस्य तदुपादाने ब्रह्मणि सिद्धांत इव घटाद्युपादान वस्तुनि घटादेस्त्रैकालिक निषेधस्य परैरनंगीकारात् | न तृतीये लक्षणेपि परमताविशेष इत्याशयेनाह | सत्यत्वपक्ष इति | नन्वेवमहंकार तद्धर्माणामप्युक्तरूपमिथ्यात्वं वियदादिवत्कल्पितत्वाभावेपि सिध्यतीति
497 SK प्. ७२ब्) भाष्यटीकाविवरणेषु तदध्यासे कारणत्रितय संपादनादिश्रयो व्यर्थ इति चेत् | अहंकारादीनामपि केवलसाक्षिवेद्यतया शुक्तिरजतवत् प्रातिभासिकत्वमभिमतमिति चित्सुखाचार्याः अभ्युपेत्यवादमात्रे तदद्वितीयाधिष्ठान ब्रह्मात्मप्रमाणस्य चैतन्यस्येत्यादि तत्रत्यकारणत्रितयसंपादनग्रंथस्य चैतन्यस्य प्रमाकरणत्वे वेदांतकरणत्वादिकल्पनार्भगप्रसंगेन प्रौढिवादत्वस्य स्फुटत्वादिति रामाद्वयाचार्य्याः | ननु दृष्टिसृष्टिवादे सृष्टिदृष्टिवादे च मिथ्यात्व संप्रतिपतेः | कथं मिथ्याभूतस्यार्थक्रियाकारित्वं स्वप्नवदिति ब्रूमः | ननु स्वाप्नजलादि साध्यावगाहनादि रूपार्थक्रिया असत्यैव किंतु जाग्रज्जलादिसाध्यासा सत्या || दृष्टिसृष्टिवाद्येव शंकते | नन्वेवमिति | ज्ञानैकनिवर्त्यत्वादेः मिथ्यात्वस्वरूपत्वे सतीत्यर्थः | अहंकारतद्धर्माणामपि उक्तरूपमिथ्यात्वं वियदादिवत्सिध्यतीति संबंधः | कल्पितत्वाभावेपीति | प्रातिभासिकत्वाभावेपीत्यर्थः | तत्पदमहंकारादिपरं चिदात्मनोधिष्ठानत्वादि समर्थनमादि पदार्थः | अभिमतमिति |
498 SK प्. ७३अ) भाष्यकारादीनामितिशेषः | तथा च तत्संपादनादि यत्नः | सफल इति भावः | अहंकारतद्धर्माणां केवलसाक्षिवेद्यत्वेपि शुक्तिरजतादिवत् | प्रातिभासिकत्वं वक्तुमयुक्तं व्यवहारकाले बाधानुपलंभादतो वस्तुगत्या तेषां प्रातिभासिकत्वाभावेपि तदत्युपेत्यकारणत्रयसंपादनादि यत्नः तैः कृत इति परिहारांतरमाह | अभ्युपेत्येति | तद्भाष्यादि प्रातिभासिकत्वमभ्युपेत्यवचनमेव न वस्तुगतिमनुरुध्येत्यर्थः | अद्वितीयाधिष्ठान ब्रह्मात्मनि प्रमाणं चैतन्यमिति प्रतिपादयतिष्ठीकाविवरणादि गतस्य ग्रंथस्य प्रौद्धिवादत्व स्पष्टत्वादिति संबंधः | प्रौढि वादत्वे उपपतिमाह | चैतन्यस्य प्रमाकरणत्व इति | ब्रह्मप्रमाकरणत्व इत्यर्थः | औपनिषदत्व श्रुत्यनुसारैणवेदांतानामेव ब्रह्मप्रमाकरणत्व कल्पनेत्यर्थः | वेदांतजन्यब्रह्मप्रमायाः अपरोक्षत्वकल्पनमादिपदार्थः प्रपंचस्य परमार्थत्वे पूर्वमर्थकिर्याकारित्वमप्रयोजकमिति सूचितं तदयुक्तं मिथ्याभूतस्य शुक्तिरूप्यादेः कदकाद्यर्थ क्रियाकारित्वा दर्शनादिति मत्वाशंकते | नन्विति | अर्थक्रियाकारित्वं सत्यत्व व्यभिचारीति परिहरति स्वप्नवदिति | स्वाप्नजलादाववगाहनादिरूपार्थक्रियाकारित्वमस्ति तत्र सत्यत्वं नास्तीति व्यभिचार इत्यर्थः | नन्वर्थ | क्रियाकारित्वमात्रं न हेतुः | किंतु सत्यार्थक्रियाकारित्वं तच्च स्वाप्नजलादौ नास्तीति न व्यभिचार इति प्. ७३ब्) शंकते | नन्विति असत्येव न तु सतीत्यर्थः | असत्यैवेति पाठे असत्या न तु सत्येत्यर्थः | तर्हि प्रपंचः सत्यः सत्यार्थक्रियाकारित्वादित्यत्र हेतुत्वसिद्धिमाह सिद्धांती | किंत्विति | जाग्रज्जलादि साध्यासार्थक्रियासत्या किमिति संबंधः तु शब्दोवधारणे किं शब्दः आक्षेपार्थः सासत्या न भवत्येवेत्यर्थः | अतो हेत्वसंप्रतिपति परिहारायार्थ क्रियाकारित्वमात्रं सत्यत्व प्रयोजकं वाच्यं तच्च स्वाप्नजलादावस्त्येवेति व्यभिचारतादवस्थामितिभावः ||
499 SK अविशिष्टमुभयन्नापि स्वसमानसताकार्थक्रियाकारित्वमिति केचित् | अद्वैतविद्याचार्यास्त्वाहुः | स्वाप्नपदार्थानां न केवलं प्रबोधबाध्यार्थक्रियामात्रकारित्वं स्वाप्नांगना भुजंगमादीनां तदबाध्यसुखभयादि जनकत्वस्योपि दर्शनात् | स्वाप्नविषयजन्यस्यापि हि सुखभयादेः प्रबोधानंतरं न बाधोनुभूयते | प्रत्युत प्रबोधानंतरमपि मनः प्रसाद शरीरकं पादिनामह तदनुवृतिदर्शनात्प्रागपि सत्वमेवावसीयते | अत एव प्राणिनां पुनरपि सुखजनकविषयगोचर स्वप्ने वांछा अतादृशे स्वप्ने च प्रद्वेषः संभवति च स्वप्ने ज्ञानवंदतःकरणवृतिरूपस्य सुखभयादेरुदयः || प्. ७४अ) ननु स्वाप्नजलादौ सत्यार्थक्रियाकारित्वाभावेपि स्वसमानसताकार्य क्रियाकारित्वमस्त्येव तर्हि जाग्रत्प्रपंचस्यापि तदस्तनैतावता त्वदभिमतपरमार्थ सत्यत्वं सिध्यतीत्याशयेन परिहरति | अविशिष्टमिति | उभयत्रापीति | जाग्रत्स्वप्नावस्था द्वयेपीत्यर्थः | स्वपदं अर्थक्रिया हेतुभूतवस्तुपरं स्वप्न वदिति बूम इति समाधाने स्वप्नेवदर्थक्रियासत्या न भवति जागरे तु सा सत्येति वैषम्यशंकायां प्रतिवंद्या केषांचित् सामाधानं दर्शितं | इदानीं स्वप्नादि पदार्थानामपि सत्यार्थक्रियाकारित्व दर्शनान्न दृष्टांत वैषम्यमिति परिहारांतरमाह | अद्वैतेति | प्रबोधबाध्या अर्थक्रियाप्रातिभासिकी प्रबोधा बाध्यार्थ क्रियास्वप्नकालीनापि व्यावहारिकसत्यैवेति विभागस्तथा च स्वाप्नपदार्थानां प्रातिभासिकार्थक्रियाकारित्वमात्रं केवलं न भवति किंतु व्यावहारिकार्थ क्रियाकारित्वमप्यस्ति स्वप्नांगनादीनारव्यावहारिकार्थ क्रियाकारित्वं कैमुतिकन्याय सिधमिति मिथ्यात्वपक्षेनार्थक्रियाकारित्वानुपपतिरितिभावः | ननु स्वाप्नभुजंग मांगनादिरूपविषयाणां प्रबोधबाध्यत्वदर्शनात् | तत्कार्यभयसुखादीनां कथं प्रबोधा बाध्यत्वमित्याशंक्याह | स्वाप्नविषयेति | न प्रबोधाबाध्यसुख जनकत्वस्य स्वप्नभुजंगादीनां प्रबोधाबाध्यभयाकपादिजनकत्वस्य च दर्शनादेवं च
500 SK प्. ७४ब्) व्यावहारिक जाग्रत्पदार्थानां त्रुटत् हि प्रबोधानंतरं स्वप्नकाले सुखभयादिकं समनाभूदिति सुखभयादेर्बाधो अनुभूयते इत्यर्थः | प्रत्युतेति वर्तमानसुखानुभवकार्यं मनः प्रसादः वर्तमानभय दुःखानुभवकार्यं गात्रकंपादिः ततश्च प्रबोधानंतरमनुवर्तमानत्वे गमकं मनः प्रसादत्वादि तथा च तदनंतरमनुवर्तमानस्य भयादेः | सत्यत्वात् | प्रबोधात्प्रागपि तस्य सत्यत्वं निश्रीयत इत्यर्थः | स्वप्नकालीनमपि सुखभयादिकं जाग्रत्सुखदिवत् व्यावहारिक सत्यमेव न प्रातिभासिकं प्रबोधानंतरं बाधाभावात् तदनंतरमप्यनुवर्तमानत्वाच्चेति निष्कर्षः स्वाप्नसुखभयादेः सत्यत्वे गमकांतरमाह | अत एवेति स्वाप्नभयादेरप्रातिभासिकत्वादेवेत्यर्थः | रागद्वेषयोः सत्यसुखदुःखगोचरत्वनियमादितिभावः | ननु स्वप्ने सर्वस्य वासनामात्रत्वात् | कथं सत्यस्य भयादेः संभव इत्यत आह | संभवति चेति | तदेतत्सत्वं येन स्वप्नं पश्यतीति श्रुत्यनुसारेण कल्पतरुकारैर्मानसवृतिरूपज्ञानस्य स्वीकारात् | तद्वदंतःकरणपरिणामरूपभयादेर्व्यावहारिकस्य संभवः तदतिरिक्तपदार्थानामेव वासनापरिणामत्वेन प्रातिभासिकत्वाभ्युपगमादिति भावः ||
501 SK प्. ७५अ) न च स्वप्नांगनादि ज्ञानमेव सुखादिजनकं तच्च सदेवेति वाच्यं | तस्यापि दर्शनस्पर्शनादि वृतिरूपस्य स्वप्नप्रपंचसाक्षिण्यध्यस्तस्य कल्पनामात्र सिद्धत्वात् | न ह्युपरतेंद्रियस्य चक्षुरादि वृतयः सत्याभवंति | न च तद्विषयापरोक्ष्यमात्रं सुखजनकं तच्च साक्षिरूपं स देवेति वाच्यं | दर्शेनात् स्पर्शनेकामिन्याः पदास्पर्शनात् पाणिनास्पर्शने भुजंगस्या मर्मस्थले स्पर्शनात्मर्मस्थले स्पर्शने च सुखविशेषस्य भयविशेषस्य चानुभवसिद्धत्वेन स्वप्नेपि ततत्सुखभयादिविशेषस्य कल्पित दर्शनस्पर्शनादि विशेषजन्यत्वस्य वक्तव्यत्वादिति | तथा जागरे घटादि प्रकाशनक्षम तत्रत्यपुरुषांतरनिरीक्ष्यमाणालोकवत्पापूवरके सद्यः प्रविष्टेन पुंसा कल्पितस्य संतमसस्य प्रसिद्धसंतमसोचितार्थ क्रियाकारित्वं दृष्टंतेन तं प्रतिघटाद्यावरणं दीपाद्यानयने तदपसरणं तन्नयने पुनरावरणमित्यादि दर्शनादित्यपि केचित् ||
502 SK प्. ७५ब्) ननु स्वाप्नभयादिकं न भुजंगमांगनादि पदार्थजन्यं किंतु तद्गोचरज्ञानजन्यं तथा च ज्ञानस्य सत्यत्वादसत्यात् सत्यस्यापि कार्यस्य जन्यत्वं स्वप्ने दृष्टमित्युनुपपन्नमिति शंकते | न चेति | तच्च सदेवेति वदता वक्तव्यं किं तन्मनो मात्रजन्यवृतिरूपं किं वा चक्षुरादिजन्यवृतिरूपं केवलसाक्षिरूपं वा आद्येपि किं वृतिमात्रं भयादि हेतुरुतसाप्नभुजंगमादि रूपविषयविशेषितं | नाद्यः यत्किंचिद्गोचरवृतिज्ञानादपि भयादिप्रसंगात् | न द्वितीयः वृतिमात्रस्य सत्यत्वेपि विषयस्यासत्यतया तद्विशिष्टस्यापि प्रातिभासिकत्वा तथा च प्रातिभासिकज्ञानाद्व्यावहारिकार्थ क्रियोत्पतौ तदुदाहरणं भवत्येवेति मत्वा प्रथमविकल्पत्रयमध्ये द्वितीयं दूषयति | तस्यापीति | ज्ञानस्यापीत्यर्थः | ननु चक्षुरादिजन्यमेव दर्शनस्पर्शनादि वृतिरूपं सत्यज्ञानं कुंतो नोपेयते तत्राह | नहीति | तृतीयं शंकते | न च तदति दूषयति दर्शनादित्यादिना | कामिन्याः दर्शनात् तस्याः स्पर्शने तस्या एव पदास्पर्शनात् पाणिनास्पर्शने सुखविशेषस्यानुभवसिद्धेत्वेनेनेति संबंधः भुजंगमस्यामर्मस्थले पुछादौ स्पर्शनात् मर्मस्थले शिरसि स्पर्शनेव भयविशेषस्यानुभवसिद्धत्वेनेति संबंधः | स्वप्नेपीति | यथा जागरे सुखविशेषभयविशेषादेर्दर्शनस्पर्शनादि रूपवृतिविशेषविशिष्टविषयापरोक्ष्यजन्यत्वं न तु विषयापरोक्ष्यमात्रजन्यत्वं तन्मात्रस्यैकरूपत्वेन कार्यविशेषाप्रयोजकत्वात् |
503 SK प्. ७६अ) तथा स्वप्नेपि तथा च तत्तद्विषयापरोक्ष्यमात्रस्य साक्षिरूपस्य सत्यत्वेपि सुखभयादिजनकस्य प्रातिभासिक दर्शनादि वृतिविशेषविशिष्टस्य तत्तद्विषयापरोक्ष्यस्य प्रातिभासिकत्वात् प्रातिभासिकाद्व्यावहारिकसुखभयादि संभव इत्यर्थः | एवं स्वप्नावस्थायामसत्यात् सत्यार्थ क्रियामुदाहृत्यजागरेपि तामुदाहरति | तथेति | प्रकाशन क्षमो यः तत्रत्यैरपवरकस्थैः पुरुषांतरैः निरीक्ष्यमाणालोकः तद्वतीत्यर्थः | अपवरकं स्वल्पग्रहं तत्रत्यालोकासत्वशंका व्यावृतये पुरुषांतरनिरीक्ष्यमाणत्व विशेषणं दृष्टमित्येतत्प्रपंचयति | तैनेति | संतमसेनेत्यर्थः | अपि शब्दस्य तथा जागरेपीति संबंधः || अन्ये तु पानावगाहनाद्यर्थ क्रियायां जलादिस्वरूपमात्रमुपयोगिन तद्गतं सत्यत्वं तस्य कारणत्व तदवछेदकत्वयोरभावादिति किं तेन न चैवं सति मरुमरीचिकोदक शुक्ति रजतादेरपि प्रसिद्धोदकाद्युचितार्थ क्रियाकारित्वप्रसंगः मरीचिकोदकादाबुदकत्वादि जातिनीस्तीति | तद्विषयक भ्रमस्योदकशब्दोल्लेखित्वं तदुल्लेखि पूर्वानुभवसंस्कारजन्यत्व प्रयुक्तमिति तत्व शुद्धिकारादिमर्ते प्. ७६ब्) तदर्थक्रियाप्रयोजकोदकत्वादि जात्याभावादेव तदप्रसंगात् | तत्राप्युदकत्वादि जातिरस्त्यन्यथा तद्वैशिष्ट्योल्लेखिभ्रमविरोधादुदकाद्यर्थिनस्तत्र प्रवृत्यभावप्रसंगाच्चेति ||
504 SK अन्ये त्विति जगत्सत्यत्ववादिभिरपि हि अर्थक्रियाकारित्वमेव सत्यत्वमिति वक्तुं न शक्यते अर्थक्रियानुत्पति दशायां घटादेरसत्यत्वप्रसंगात् | किंतु सत्वमर्थ क्रियाप्रयोजकमिति वक्तव्यं तथा च किं सत्वमर्थक्रियाकारणमभिप्रेतं किं वा कारणतावछेदकं नोभयथापीत्याह | पानेत्यादिना | जलादिपदं जलत्वादेरपि संग्राहकं बोध्यं | उपयोगीति | जलादि स्वरूपं कारणतया जलत्वादि स्वरूपं कारणतावछेदकतयेति विभागः | मात्रपदव्यवछेद्यमाह | न तद्गतमिति सत्यत्वस्य जलादि स्वरूपातिरिक्ततयाकारणत्वाभावादति प्रसक्ततया कारणतावछेदकत्वाभावाच्चेत्यर्थः | किं तेनेति सत्यत्वेनेत्यर्थः | तथा च सत्यत्वाभावेपि प्रपंचस्यार्थक्रियाकारित्वं संभवान्न मिथ्यात्वविरोध इति भावः | ननु सत्यत्वस्य ततदर्थक्रियाकारिताया सति प्रसक्तत्वेप्यर्थक्रियाकारित्व सामान्ये सत्वमनति प्रसक्तत्वादवछेदकमेवान्यथा बाधकमाशंकते | न चैवं सतीति | सत्यत्वस्य कारणतासामान्यानवछेदकत्वे सतीत्यर्थः | एवं सति प्रसंग इति न
505 SK प्. ७७अ) चेत्यत्र हेतुमाह | मरीचिकोदकादिविति | मरुभूमिसंसृष्टासमरीचिकासुसमारोपितं तोयं मरीचिकोदकं तस्य तोयाभासत्वा तत्र तोयत्वं नास्ति कथं तर्हि तोयमिदमुदकमिति शब्दोल्लेखिप्रत्ययं इत्याशंक्य तस्यान्यथा सिद्धिमाह | तद्विषयकभ्रमस्येति | मरीचिकोदकविषयकभ्रमस्येत्यर्थः | उदकशब्दोल्लेखीयः पूर्वानुभवः सत्योदकविषयः तजन्यसंस्कारजन्यत्वान्म्रीचिकोदकस्य तत्प्रयुक्तं तच्छब्दोल्लेखित्वमित्यर्थः | प्रयोजकेति | प्रसिद्धोदकस्य उचितार्थक्रियायापानादि रुपातस्यामुदकत्वजातिः प्रयोजिका उदकादन्यत्रपानादेरदर्शना तथा प्रसिद्धरजतादेरुचितार्थक्रियाकटकादिलक्षणा तत्र च रजतत्वादिकं प्रयोजकं मदोदौ कटकाद्यर्थक्रियादर्शनादितिभावः | तदप्रसंगादिति | प्रसिद्धोदकाद्युचितार्थ क्रियाकारित्व प्रसंगाभावादित्यर्थः | मरीचिकोदकादावर्थक्रियाकारित्व प्रयोजकजातिमभ्युपगम्याप्युक्ताति प्रसंगं परिहरति तत्रापीत्यादिना मरीचिकोदकादावपीत्यर्थः | अन्यथेति | तत्र जलत्वादि जात्यभावे सतीत्यर्थः | तत्रेति मरीचिकोदकादाविष्टनावछेदक जलत्वाधिवैशिष्ट्यभानं विना तदर्थिनस्तत्र प्रवृतिर्न संभवतीतिभावः || प्रातिभासिके पूर्वदृष्टसजातीयत्व व्यवहारानुरोधिनां मते क्वचिदधिष्ठानविशेष प्. ७७ब्) ज्ञानेन समूलाध्यासनिवृति संभवात् | क्वचिदधिष्ठान सामान्यज्ञानोपरमेण केवलाध्यासनाशात् | क्वचिद्गंजादौ चक्षुषावह्न्याद्यध्यासस्थले दाहपाकादिप्रयोजकस्योलस्पर्शादेरनुध्यासाच्च तत्र तत्रोर्थ क्रियाभावोपपतेः | क्वचित्कासांचिदर्थ क्रियाणापिष्यमाणत्वाच्च | मरीचिकोदकादिव्यावर्तकस्यार्थ क्रियोययोगिरूपस्य वक्तव्यत्वे च श्रुतिविरुद्धं प्रत्यक्षादिना दुर्ग्रहंत्रिकालाबाध्यत्वं विहाय दोषविशेषाजन्यरजतत्वादेरेव रजताद्युचितार्थक्रियोपयोगिरूपस्य वक्तुं शक्यत्वाच्च | तस्मान्मिथ्यात्वेप्यर्थक्रियाकारित्व संभवान्मिथ्यैव प्रपंचो न सत्य इति ||
506 SK किं च शुक्तिरजतादौ सत्यरजतादौ च रजतत्वादि जातेरेकस्या अभावे प्रातिभासिकाध्यासेषु पूर्वदृष्टसाजात्यव्यवहारो भाष्यादि गतो न स्यात् तदनुरोधेनापि तत्र जातिरंगी कर्तव्येत्याशयेनाह | प्रातिभासिके इति | क्वचिदिति | दूरे मरीचिकोदकभ्रमानंतरं स्नानाद्यर्थ समीपं गतस्यनेदं जलं प्. ७८अ) मरीचिमात्रमिति विशेषदर्शने सति जलाध्यासस्य स्वमूलाज्ञानेन सहैव नाशात् न ततोर्थ क्रियोत्पतिरापादयितुं शक्येत्यर्थः | क्वचिदधिष्ठानेति | शुक्त्यादौ रजता ध्यासानंतरं यत्र विशेषदर्शनमस्ति तत्र पूर्वोक्तारीतिर्यत्र तत्रास्ति तत्राधिष्ठानसामान्यज्ञानरूपं कारणनाशेन रजताध्यासमात्र नाशसंभवात् | तत्रापि नार्थक्रियोत्पतिरापादपादयितुं शक्येत्यर्थः | स्वप्नवदिति ब्रूमरूत्यादि पूर्वग्रंथे प्रातिभासिक पदार्थानामपि अर्थं क्रियाकारित्वस्य दर्शितत्वादुक्ताति प्रसंगे इष्टापतिरपीत्याह | क्वचित्कासांचिदिति | इदानीं प्रातिभासिकेष्वर्थक्रियाकारित्वराहित्यमुपेत्यापि सत्यत्वं कारणतावछेदकं न वक्तव्यमित्याह | मरीचिकोदकादीति | च शब्दोप्यर्थः श्रुतीति मिथ्यात्व श्रुतीत्यर्थः | सद्रजतात् कटकादि कार्यं संभवति तद्विलक्षणाछ्रक्ति रजता तन्न संभवतीत्यन्वय व्यतिरेक सह कृत प्रत्यक्षेण हि त्वया सत्वमर्थ क्रियाकारितायामवछेदकतया ग्राह्यं तादृशं च सत्वं मिथ्यात्व विरुद्धकालत्रया बाध्यत्वरूपं न भवति | तस्य प्रत्यक्षा योग्यत्वादतोन्यदेव किंचितदवछेदकं वाच्यमित्याशयेनाह प्रत्यक्षादिनेति | अत्रादि पदमनुमानादि संग्रहार्थं प्रत्यक्षश्रुतिविरोधेनानुमानादेरपि प्रपंचे कालत्रया बाध्यत्वरूपसत्वसाधकस्यानुदयादेवतस्थानुमानादिनापि दुर्ग्रहत्वमुक्तमिति बोध्यं | प्. ७८ब्) रजतत्वादेरिति व्यवहारकालीत बाधरहित सर्पत्वादिकमादिपदार्थः | तस्मादिति सत्यत्व स्यार्थ क्रियां प्रत्यप्रयोजकत्वादित्यर्थः ||
507 SK ननु मिथ्यात्वस्य प्रपंचधर्मस्य सत्यत्वे ब्रह्मा द्वैतक्षतेस्तदपि मिथ्यैव वक्तव्यमिति कुतः प्रपंचस्य सत्यत्वक्षतिः मिथ्याभूतं ब्रह्मणः स प्रपंचत्वं ननिः प्रपंचत्वाविरोधीति त्वदुक्तरीत्या मिथ्याभूतमिथ्यात्वस्य सत्यत्वाविरोधित्वात् | अत्रोक्तमद्वैत दीपिकायां वियदादि प्रपंच समान स्वभावं मिथ्यात्वं | तच्च धर्मिणः सत्यत्व प्रतिक्षेपकं धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि उभयवादि सिद्धं धर्मि समसत्वं तंत्रं न पारमार्थकत्वं | अघटत्वादि प्रतिक्षेपके घटत्वादावस्माकं पारमार्थिकत्वा संप्रतिपतेः | ब्रह्मणः स प्रपंच त्वेन धर्मि समसताकमिति ननिः प्रपंचत्व प्रतिक्षेपकं | अत एव मिथ्यात्वस्य व्यावहारिकत्वे तद्विरोधिनोऽप्रातिभासिकस्य प्रपंच सत्यत्वस्य पारमार्थिकत्वं स्यादिति निरस्तं ||
508 SK प्. ७९अ) प्रकारांतरेण प्रपंचस्य सत्यत्वं शंकते | नन्विति वक्तव्यमिति | सिद्धांति नेतिशेषः | ननु मिथ्या भूतस्यापि मिथ्यात्वस्य स्वाश्रये प्रपंचे स्वविरोधि सत्यत्व प्रतिक्षेपकत्वा तस्य सत्यत्वक्षतिरपरिहार्येत्याशंक्यसिधांति संमतदृष्टांतेन परिहरति | मिथ्याभूतमिति | सप्रपंचत्वं प्रपंच तादात्म्यं निष्प्रपंचत्वं प्रपंचात्यताभाववत्वं तच्च वास्तवं व्यावहारिक प्रपंचात्यंताभावस्य ब्रह्मणि परमार्थत्वाभ्युपयमादतः सप्रपंचत्व निःप्रपंचत्वयोर्यथा एकत्राविरोधस्तथा मिथ्यात्वसत्यत्वयोरप्यविरोध इति भावः | मिथ्यात्वभुमी मिथ्या भूत इति पक्षमेव परिगृह्यसमाधते | अत्रोक्तमिति | समान स्वभावमिति | समानसताकमित्यर्थः | वियदादि प्रपंचस्य च?श्च व्यावहारिक सता इति भावः | नन्वरोपित घटत्वादेरारोपाधिष्ठानभूते स्वाश्रये स्वविरुद्धां घटत्वादि प्रतिक्षेपकत्वादर्शनात् सत्यमेव घटत्वादि स्वाश्रये सविरुद्धर्मप्रतिक्षेपकत्वेन कल्पनीयमिति कथं मिथ्याभूतं मिथ्यात्वं स्वधर्मिणि प्रपंचे सत्यत्व प्रतिक्षेपकं भवेदित्याशंक्याह धर्मस्येति | घटत्वादौ परमतरीत्या पारमार्थिकत्वरूपं सत्यत्वमस्ति तथा धर्मि समानसताकत्वं मतद्वयसंमतमस्ति तथा च घटत्वादि धर्मस्य स्वाभाविकाश्रये स्वविरुद्धधर्मप्रतिक्षेपकत्वे प्रयोजकाकांक्षायां संप्रतिपन्नमेव प्रयोजकं कल्पनीयं न विप्रतिपन्नमित्यर्थः | दृष्टांतं
509 SK प्. ७९ब्) विघटयति ब्रह्मण इति | नुधर्मीति | ब्रह्मणः पारमार्थिकत्वात् सप्रपंचस्य च व्यावहारिकत्वादितिभावः | ननु प्रपंचगत मिथ्यात्वस्य मिथ्यात्वपक्षे तद्व्यावहारिकमैव वाच्यं ब्रह्मज्ञानैक निवर्त्यस्य मिथ्या मिथ्यात्वधर्मस्य प्रातिभसिकत्व पारमार्थिकत्वयोरयोगा तस्य व्यावहारिकत्वे तु प्रपंच गतं सत्यत्वं पारिमार्थिकं सिध्यति तस्यापि स न घट इत्यादि प्रत्यक्षसिद्धस्य यावतत्वज्ञानमनुवर्तमानस्य प्रातिभासिकत्वायोगात् | व्यावहारिक मिथ्यात्व धर्मवति प्रपंचे तत्सत्यत्वस्य व्यावहारिकस्यायोगाच्च तथा च प्रपंच गतस्य सत्वत्व धर्मस्य पारमार्थिकत्व सिद्धौ धर्मिणः प्रपंचस्यापि पारमार्थिकत्वमनिर्वार्यमिति | ब्रह्माद्वैतक्षतिरिति कस्य चिच्चोद्यं वक्ष्यमाण हेतुना निरस्तमित्याह | अत एवेति || धर्मि समसता कस्य मिथ्यात्वस्य व्यावहारिकत्वे धर्मिणोपि व्यावहारिकत्व नियमात् | अथ वायो यस्य स्वाविषयमाक्षात्कारानिवृर्त्योधर्मः स तत्र स्वविरुद्धधर्मप्रतिक्षेपकः शुक्तौ शुक्ति तादात्म्यं तद्विषयसाक्षात्कारानिवर्त्यमशुक्तित्वविरोधि तत्रैव रजत तादात्म्यं तन्निवर्त्यमरजतत्वाने विरोधीति व्यवस्था दर्शनात् | एवं च मिथ्यात्वं कल्पितमपि प्. ८०अ) प्रपंचसाक्षात्कारानिवर्त्यमिति सत्वत्व प्रतिक्षेपकमेव ब्रह्मणः सप्रपंचत्वं तु ब्रह्मसाक्षात्कारनिवर्त्यमिति ननिः प्रपंचत्वप्रतिक्षेपकमिति | एतेन शब्दगम्यस्य ब्रह्मणा सत्यत्वे शब्दयोग्यतायाः शाब्दधी प्रामाण्यस्य च सत्यत्वं वक्तव्यं प्रातिभासिक योग्यतावताः नाप्तवाक्येन व्यावहारिकार्थस्य व्यावहारिकयोषतावतावताग्निहोत्रादि वाक्येन तात्विकार्थस्य वामिद्व्यभावेन योग्यता समानसताकस्यैव शब्दार्थस्य सिद्धिनियमात् ||
510 SK नियमादिति मिथ्यात्व धर्मस्य धर्मिसमानसताकत्वप्रयुक्तं व्यावहारिकत्वमुपेत्यमिथ्यात्वधर्मिणि प्रपंचे सत्यत्व पर्यवसायिनः प्रपंच सत्यत्वे पारमर्थिकत्वा पादनस्य विरोधेनासंभवादित्यर्थः | न च प्रपंचे पारमार्थिकस्य सत्यत्वस्याभावे प्रातिभासिक सत्यत्वयोरपि प्रा᳚ननिरस्तत्वा तत्र सत्वानुभवविरोध इति वाच्यं | व्यावेहारिकस्यैव सत्वस्य प्रपंचे स्वीकारैणानुभवविरोधाभावात् | न च मिथ्यात्व सत्यत्वयोर्व्यावहारिकत्वेन समानसताकयोरेकत्र विरोध इति वाच्यं | मिथ्यात्वाविरुद्धस्य या वृतत्वज्ञानं बाध
511 SK प्. ८०ब्) रहित स्वरूपत्व लक्षणसत्वस्य प्रत्यक्षादि विषयस्या सकृदुक्तत्वादितिभावः | सर्वत्रब्रह्मसतैव प्रतीय तेन तदतिरकेर्णव्यावहारिकं प्रातिभासिकं वा सत्वमस्तीति मते धर्मिसमसत्वं तंत्रमिति समाधानं न संभवतीति मत्वासमाधानांतरमाह | अथवेति | धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि स्वाश्रयसाक्षात्कारा निवर्त्यत्वं प्रयोजकं कल्पाते संप्रति पन्नुत्वान्नतु पारमार्थिकत्वं तस्यास्मा वामसंप्रतिपतेरितिभावः | यो धर्मो यस्य धर्मिणो धर्मि गोचर साक्षात्कारा निवर्त्यः | स धर्मस्तत्र धर्मिणीत्यक्षरार्थः उक्त प्रयोजके हेत्वंतरमाह | शुक्ताविति | तत्पदं शुक्तिपरं अशुक्तित्वविरोधीति | अशुक्तित्वस्य प्रतिक्षेपकमित्यर्थः | तत्रैवेति | शुक्तावेव रजत तादात्म्यरूपो धर्मो वर्तते स च स्वविरुद्धस्यारजतत्वस्य रजत भिन्नत्वस्य शुक्तिगतस्याविरोधी प्रतिक्षेपको न संभवतीत्यत्र हेतुगर्भं विशेषणं तन्निवर्त्यमिति | शुक्तिसाक्षारनिवर्त्यमित्यर्थः | एवं वेति स्वाश्रयसाक्षात्कारानिवर्त्य धर्मस्य स्वाश्रये स्वविरुद्धधर्मस्थिति विरोधित्वे प्रमाणेन निश्चिते सतीत्यर्थः | अनिवर्त्यमिति यथा शुक्तिसाक्षात्कारे सति शुक्ति तादात्म्यं न निवर्त्यते तथा घटादिरूपप्रपंच साक्षात्कारे सति श्रुति न्यायसिद्धं मिथ्यात्वं न निवर्तत इत्यर्थः | चोद्यांतरमपि वक्ष्यमाण हेतुना निरस्तमित्याह | एतेनेति | शब्दगम्यस्य प्. ८१अ) ब्रह्मणः सत्यत्वे शब्दनिष्टयोग्यतायाः सत्यत्वं वक्तव्यमित्यत्र हेतुमाह | योग्यता समान सता कस्यैवेति | वाक्यार्थ वाक्यनिष्ठयोग्यतयोः समानसताकत्वनियमं साधयति | प्रातिभासिक योग्यतावतेति | व्यावहारिकार्थस्य सिध्यभावेनेति संबंधः
512 SK अर्था बाधरूपप्रामाण्यस्यासत्यत्वेर्थस्य सत्यत्वा योगाच्च | तथा च ब्रह्मातिरिक्त सत्यवस्तुसत्वेन द्वैतावश्यंभाव इति वियदादि प्रपंचोपि सत्योऽस्तिति निरस्तां व्यावहारिकस्यार्थ क्रियाकारित्वस्य व्यवस्थापितत्वेन व्यावहारिकयोग्यताया अपि सत्यब्रह्मसिद्धि संभवात् | ब्रह्मपरे वेदांते सत्यादि पद सत्वाद्ब्रह्मसत्यत्वसिद्धेः | अग्निहोत्रादिवाक्ये तादृशपदाभावा तत्सत्वेपि प्रबलब्रह्माद्वैत श्रुतिविरोधा तदसिद्धिरित्येव वैषम्योपपतेः | शब्दार्थयोग्यतयोः समानसताकत्व नियमस्य निःप्रमाणकत्वात् घटज्ञानप्रामाण्यस्था घटत्ववत् सत्यभूतब्रह्मज्ञानप्रामाण्यस्यापि तदतिरिक्तघटितत्वेन मिथ्यात्वोपपतेश्च ||
513 SK प्. ८१ब्) शब्दगम्यस्य ब्रहमणः सत्यत्वे ब्रह्मगोचरशाब्दज्ञाननिष्टस्य प्रामाण्यस्य सत्यत्वं वक्तव्यमित्यत्र हेतुमाह | अर्था बाधरूपेति तथा च वेदांतार्थस्य ब्रह्मणः सत्यत्वसंरक्षणाय तद्वीप्रामाण्यस्य सत्यत्वं वक्तव्यमितिभावः | ननु ब्रह्मव्यतिरिक्त निरुक्तयोग्यतादेः सत्यत्व सिद्धावपि पूर्ववाद्यभिमतं निखिलद्वैत सत्यत्वं कथं सिध्यति तत्राह | तथा चेति | द्वैतावश्यंभाव इति | अद्वैतभंगावश्यंभाव इत्यर्थः | वेदांतशब्दनिष्टयोग्यतायाः सत्यत्वं किं तस्याः शादबोधरूपार्थक्रियाकारित्वसिध्यर्थमपेक्ष्यते किं वा ब्राह्मणः सत्यत्व सिध्यर्थं नाद्यत इत्याह | व्यावहारिकस्येति | प्रपंचस्येति शेषः | योग्यताया इति पंचमी सत्वस्य ब्रह्मणः सिद्धिः शाब्दबोधः द्वितीये योग्यतायाः सत्यत्वाभावेपि ब्रह्मणस्तत्सिध्यतीत्याह | ब्रह्मपर इति | अत्रादि पदं चित्पदादि संग्रहार्थं | तर्ह्यग्निहोत्रादि धर्मि स्यापि सत्यादि यदात्सत्यत्वसिद्धिः स्यादिति नेत्याह | अग्निहोत्रादीति | ननु यो वै स धर्मः सत्यं चैतदिति धर्मेपि सत्यपदं श्रुतौ प्रयुक्तमस्ति तत्राह | तत्सत्वेपीति तदसिद्धिरिति | यो वै स धर्म इति वाक्यस्याग्निहोत्रादौ परमार्थत्व प्रतिपादने तात्पर्यलिंगानाम भावेना तत्परस्य तं स्यतेत्परत्वरत्व न प्रवलया द्वैत श्रुत्यावाधाद्धर्मस्य न ब्रह्मवत्परमार्थत्वसिद्धिरित्यर्थः श्रुतावग्निहोवादेरवगत्यर्थत्वेन
514 SK प्. ८२अ) सत्यत्वमनुष्टीय मानावस्थत्वेन धर्मत्वं च विवक्षित्वा यो वै स धर्मः सत्यं चैतदिति सत्यधर्मयोरभेद उक्त इति मंतव्यं व्यावहारिकयोग्यतावता वेदांतवाक्येन सत्यस्य ब्रह्मणः सिद्धौ फलितमाह शब्दार्थयोग्यतयोरिति | ब्रह्मणः सत्यत्वेपितहाननिष्टप्रामाण्यस्य न सत्यत्वं सिध्यति | तस्य ब्रह्ममात्रत्वाभावादित्याह | घटज्ञानेति | तदतिरिक्तेति | ब्रह्मत्ववति ब्रह्मत्वप्रकारकानुभवत्वरूप तत्प्रामाण्यस्यापि ब्रह्मातिरिक्त ब्रह्मत्व वैशिष्ट्य घटितत्वेनेत्यर्थः | यदि च ब्रह्मज्ञानगतं प्रामाण्यमबाधितार्थानुभवत्वरूपं तच्च विवक्षितविवैकेन बाधायोग्यविषयस्वरूपमात्रं पर्यवस्यति तन्मात्रपर्यवसित प्रामाण्यस्य चाखंडार्थ परवेदांतेषु ब्रह्ममात्रत्वमेव न तदतिरिक्त घटितत्वमिति ब्रह्मज्ञानप्रामाण्यस्य सत्यत्वं संभवतीत्युच्येत तर्हि ब्रह्मगोचरशाब्दधी प्रामाण्यस्य सत्यत्वेपि न तवेष्टसिद्धिः | तस्य ब्रह्ममात्रत्वेन ब्रह्मातिरिक्त सत्यवस्त्वसिद्धेरितिभावः || तस्मादारंभणाधिकरणोक्त न्यायेन कृत्स्नस्य वियदादि प्रपंस्य मिथ्यात्वं वज्रलेपायते नन्वारंभणशब्दादिभिरचेतनस्य वियदादि प्रपंचस्य मिथ्यात्वसिद्धावपि चेतनानामपवर्गभाजां
515 SK प्. ८२ब्) मिथ्यात्वायोगादद्वितीय ब्रह्मणि समन्वयो न युक्तः | न च तेषां ब्रह्माभेदः प्रागुक्तो युक्तः परस्परभिन्नानां तेषामेकेन ब्रह्मणाभेदासंभवात् | न च तद्भेदासिद्धिः सुखदुःखादि व्यवस्थया तत्सिद्धेरिति चेत् | न तेषामभेदेप्युपाधिभेदादेव तद्यवस्थोपपतेः | ननूपाधिभेदेपि तदभेदा न पायात् कथं व्यवस्था न ह्याश्रयभेदं नोपपादनीयो विरुद्धधर्मा संकरस्तदतिरिक्तस्य कस्यचिद्भेदोपगमेन सिध्यति | अत्र केचिदाहुः सिद्धात्येवांतःकरणोपाधिभेदेन सुखदुःखादिव्यवस्था कामः संकल्पो विचिकित्सा श्रद्धा श्रद्धा धृतिरधृतिर्ह्रीर्ध्रीर्भीरित्येतत्सर्वं मन एव विज्ञानं यज्ञं तनुत इत्यादिभिः श्रुतिभिस्तस्यैव निखिलानर्था श्रयत्वप्रतिपादनादसंगो ह्ययं पुरुषः असंगो न हि सजत इत्यादि श्रुतिभिश्चेतनस्य सर्वात्मनौदासीन्य प्रतिपादनाच्च न चैवं सति कर्तृत्वादि बंधस्य प्. ८३अ) चैतन्यसामानाधिकरण्यानुभवविरोधः
516 SK तस्मादिति | विरोधाभावादित्यर्थः | प्रपंचस्य मिथ्यात्वपक्षे प्रत्यक्षादि विरोधाभावो निरूपितः | इदानीं सर्वेषु शरीरेष्टात्मन एकत्वपक्षे सुखदुःखादि व्यवस्थाविरोधमाशंक्यतां निरूपयितुं प्रसंगमाह | नन्वित्यादिना अपवर्गेति | जीवानां स्वरूपेण मिथ्यात्वज्ञानेन निवृत्यापत्या तेषां मुक्तिभात्कं न स्यादित्यर्थः | ननु जीवानां ब्रह्माभेदस्य वेदांतप्रमाणकस्य प्रथमपरिछेदावसाने उक्तत्वात् | ब्रह्माणेनाद्वितीयत्वानुपपतिरित्याशंक्य निराकरोति | न च तेषामिति | जीवानां परस्य भेदासिद्धिमाशंक्याह | न च तदिति | एकस्य यदाहुः खं भवति तदा जीवांतरस्य सुखं भवतीति सुखदुःखव्यवस्था एवं रागद्वेषादि व्यवस्थाप्यनुभवसिद्धा द्रष्टव्यांत तया तेषां परस्परभेदः सिध्यतीत्याह | सुखेति नन्वारंभणेत्यादिना प्राप्तं प्रतिशरीरमात्मभेदपक्षं प्रतिक्षिपति नेति | उपपतेरिति | नात्मभेदः प्रामाणिक इत्यर्थः | तदभेदेति | आत्मा भेदेत्यर्थः | कथं शब्दसूचितामनुपपतिमाह न हीति | तदतिरिक्तस्येति विरुद्ध सुखदुःखाद्याश्च याति रिक्तस्य कस्यचिदहमनुभवगोचरस्येत्यर्थः | अंतःकरणमेव बंधाश्रयो अहमनुभवगोचरश्च नत्वात्मा प्. ८३ब्) तस्य कूटस्थत्वात् तथा चाश्रयभेदादेव धर्मव्यवस्थेति समाधते | अत्र केचिदाहुरिति मन एवेति | मन्ॐतःकरणं कामसंकल्पादीनां तत्परिणामत्वात् सामानाधिकरण्यं विज्ञानमंतःकरणं तनुते करोति यज्ञं शास्त्रीयं कर्म आदिपदेन कामायेऽस्य हृदिश्रिता इत्यादिश्रुतिर्ग्राह्याचिदात्मनः कूटस्थत्वे प्रमाणमाह | असंगो ह्ययमिति असंगो न हि सज्जत इति संगा योग्यत्वादित्यर्थः | आदिपदेन साक्षी चेता केवलो निर्गुणंश्च अनश्ननऽन्यो अभिचाकशीतीत्यादि श्रुतिसंग्रहः | न चैवं सतीति अंतःकरणस्यैव बंधाश्रयत्वे सतीत्यर्थः | अहंकरोम्यहं सुख्यहं दुःख्यहमुपलभे इत्यादिरूपेण उपलब्धिरूप चैतन्यस्य कर्तृत्वसुखदुःखाद्यात्मकबंधसामानाधिकरण्यमनुभूयते तद्विरोध इत्यर्थः |
517 SK अंतःकरणस्य चैतन तादात्म्येनाध्यस्ततया तद्धर्माणां चैतन्यसामानाधिकरण्यानुभवोपपतेः | न चांतःकरणस्य कर्तृत्वादि बंधाश्रयत्वे चेतनः संसारीनस्यादिति वाच्यं कर्तृत्वादि बंधाश्रयाहंकारग्रंथि तादात्म्याध्यासाधिष्ठानभाव एव तस्य संसार इत्युपरामात् प्. ८४अ) तावतैव भीषणत्वाश्रय सर्प तादात्म्याध्यासाधिष्ठाने रजादावयं भीषण इत्यभिमानवदात्मनोनर्था श्रयत्वाभिमानोपपतेः | एतदभिप्रायेणैव ध्यायतीवलेला स्मृतिव अहंकार विमूढात्मा कर्ताहमिति मन्यत इत्यादि श्रुतिदर्शनाच्च न चैकस्मिन्नेवात्मनिविचित्रसुखदुःखाश्रयत तदंतःकरणानामध्यासादात्मन्याभिमानिक सुखदुःखादि व्यवस्थैवमपि न सिद्ध्यतीति वाच्यं || यथा इदमंश तादात्म्येनाध्यस्ते रजते रजतत्वस्य इदं त्व सामानाधिकरण्यानुभवः | तद्वदिति समाधते अंतःकरणस्येति | तद्धर्माणामित्यत्र तत्पदमंतःकरणपरं एतदुक्तं भवति | आत्मनश्चैतन्यरूपत्वेपि भेदकल्पनया चैतन्यमात्मधर्मः | तथा चात्म्यंतःकरणयोरैक्याध्यासे सति तयोर्धर्माणां चैतन्य कर्तृत्वादीनां सामानाधिकरण्यं संपद्यत इति न तदनुभवविरोध इति | चेतन इति | चैतन्याश्रय आत्मा संसारी कर्तृत्वादि धर्मवान् न स्यादित्यर्थः | चेतनस्य स्वतः संसाराश्रयत्वाभावेपि बुद्धिनिष्टस्य संसाराश्रयत्वस्य साक्षिणानुभूयमानस्यात्मन्यारोधोपपतेः
518 SK प्. ८४ब्) आरोपित संसाराश्रयत्वमस्तीति परिहरति | कर्तृत्वादीति | अहंकारस्य चेतनेन सह ग्रंथितुल्यो यस्तादात्म्यरूपो ध्यासस्तदधिष्ठानत्वमेवेत्यर्थः | तस्य चेतनस्य इत्यर्थः | संसार इति संसाराश्रयत्व भ्रांतिप्रयोजक इत्युपगमादित्यर्थः | तावतैवेति | उपाधेः संसाराश्रयत्वमात्रेणेत्यर्थः | भीषणत्वं भय हेतुत्वं तच्च सर्पधर्मः अभिमानो भ्रांतिः न चान्य निष्टसंसाराश्रयत्वस्यात्मन्यारोपे अन्यथा ख्याति प्रसंग इति वाच्यं | अनुभूयमानारोपस्थले आरोप्याधिष्ठानयोः संसर्गस्यानिर्वचनीयस्योत्पत्युपगमेन तदप्रसंगादिति भावः | एतदिति बुद्धिनिष्टसंसारस्यात्मन्यारोपाभिप्रायेणैवेत्यर्थः | बुद्धौ ध्यायंत्वामात्माध्यायतीवभाति तस्यामेवलेलायंत्यां चलंत्यामात्माचलतीव न तु वस्तुतो ध्यानाद्याश्रय इति इव शब्दार्थः | ध्यानादिग्रहणमशेषबुद्धिधर्माणामुपलक्षणार्थं अहंकारेण कर्तृत्वाश्रयेण सह विमोहं तादात्म्याध्यासमापन्नः स न आत्मा नमहं कर्तेति मन्यते कर्तृत्वमननमशेषसंसारमननोपलक्षणार्थं | ननु बुद्धेः स्वतः संसाराश्रयत्वं चिदात्मनस्तु भ्रांति सिद्धं संसाराश्रयत्वमिति | विभागाभ्युपगमे प्रतिशरीरं बुद्धिभेदातद्धेर्मव्यवस्थासिद्धावपि प्रतिशरीरमात्मभेदाभावात् | तद्गतस्य बंधस्य न प्. ८५अ) व्यवस्थासिध्यतीति शंकते | न चैकस्मिन्नेवेति | विचित्राणां सुखदुःखानां माश्रयभूतानि ततदंतःकरणानि तेषामेकस्मिन्नेवात्मन्यध्यासाद्धेतोर्य आत्मन्याभिमानिकः सुखदुःखादिः तस्य व्यवस्था न सिध्यतीत्यर्थः | एवमपीति | बुद्धि धर्मव्यवस्थासिद्धावपीत्यर्थः ||
519 SK आध्यासिक तादात्म्यापन्नांतःकरणगतानर्थजातस्येव तद्गतपरस्परभेदस्याप्यभिमानत आत्मीय तयात्मनो यादृशमनर्थभात्कं तादृशेन भेदेन तद्यवस्थोपपतेः | एतेन सुखदुःखादीनामंतःकरणधर्मत्वंपि तदनुभवः साक्षिरूप इति तस्यैकत्वात् सुखदुःखाद्यनुभवरूप भोगव्यवस्थान सिद्ध्यतीति निरस्तं तन्हद्रन्तःकरण तादात्म्यापत्त्या ततदंतःकरणभेदेन भेदेवते एव साक्षिणस्तम्नदंतःकरण सुखदुःखाद्यनुभवरूपत्वेन तद्व्यवस्थाया अप्युपपतेरिति | अन्ये तु जडस्य कर्तृत्वादि बंधाश्रयत्वानुपपतेः कर्ता शास्त्रार्थवत्वादिति चेतनस्यैव तदाश्रयत्वप्रतिपादकसूत्रेणांतःकरणे प्. ८५ब्) चिदाभासोबंधाश्रयस्तस्य चासत्यस्य बिंबाद्भिन्नस्य प्रत्यंतःकरणं भेदाद्विद्वदविद्वत्सुखिदुःखिकर्त्रऽकर्त्रादि व्यवस्था || बंधाश्रयत्वस्येव बुद्धिगतस्य परस्परभेदाश्रयत्वस्याप्यात्मन्यारोपाभ्युपगमान्ना व्यवस्थेति परिहरति | आध्यासिकेति | नन्वारोपितेन भेदेन कथं व्यवस्थेत्याशंक्य व्यवस्थापनीय स्यात्मन्यारोपितत्वान्ना व्यवस्थापकत्वं तादृश भेदस्येत्याह | यादृशमिति | आत्मसाक्षिचैतन्ययोरभेदेपि भेदं कल्पयित्वा कल्पितबंधाश्रयस्यात्मन एकसुखदुःखादेः त्व प्रयुक्तौ दोषो निरस्तः | इदानीं साक्षि चैतन्यस्य सर्वशरीरष्वेकत्वप्रयुक्तं दोषमाशंक्यनिराकरोति | एतेनेति | वक्ष्यमाणहेतुनेत्यर्यः | तदनुभव इति | सुखाद्यनुभव इत्यर्थः | सुखेति देवदत्तस्य यः सुखानुभवः स एव चेद्यज्ञदतस्यापि तदा देवदत्तस्य सुखानुभवकाले तमेव सुखानुभवमादाय यज्ञदत्तस्याप्यहं सुखीति भोगप्रसंग इत्यर्थः | यथा अंतःकरणगतभेदस्यात्मन्यारोपः तथा साक्षि चैतन्यरूपे सुखाद्यनुभवेपि तद्गतभेदारोपाभ्युपगमात् | न भोगा व्यवस्थेति परिहरति ते तदिति | भेदेनेति | ततदंतःकरण भेदेन साक्षिण्यारौपितेन
520 SK प्. ८६अ) भेदविशिष्टस्यैवेत्यर्थः | धान्येन धनवानित्यत्रैव तृतीया साक्षिण्यंतःकरणभेदारोपे हेतुः | तादात्म्यापत्येति | सर्वशरीरेष्वात्मन एकत्वे सुखादि व्यवस्थानस्यादिति पूर्ववाद्याक्षेपे | अन्यत् समाधानमाह | अन्ये त्विति पूर्वोक्तं बुद्धेर्बंधाश्रयत्वं दूषयति | जडस्येति | अनुपपतेरिति | बंधस्य चेतनधर्मत्वप्रसिद्धिविरोधादितिभावः | बुद्धेरेव कर्तृत्वं न चेतनस्य तस्य कूटस्थ त्वादिति सांख्यमत निराकरण पूर्वकं चेतनस्यैव कर्तृत्व व्यवस्थापक सूत्रानुसाराच्चेत्याह | कर्तेति | चेतनः कर्ता भवितु मर्हति तथा सत्यैव चेतनस्य कर्तृत्व प्रतिपादकं कर्ता विज्ञानात्मा पुरुष इति शास्त्रमर्थवद्भवति | अन्यथा तदनर्थकं स्यादिति सूत्रार्थः | चिदाभास इति | न तु साक्षाच्चिदात्मैव तस्य कूटस्थत्वेन बंध परिणामित्वा योगादिति भावः | चिदाभासस्य बंधा श्रयत्वेपि कथं व्यवस्था सिद्धिस्तत्राह | तस्य चैति बिंबपति बिंबयोरे भेदेपि प्रत्यंतःकरणं प्रतिबिंबभेदो लभ्यते उपाधि भेदेन तन्निरूपित प्रतिबिबानामपि कल्पित भेदाभ्युपगमा तथापि प्रतिबिंबमिथ्यात्वमत एव तस्य बंधाश्रयत्वं स्वाभाविकं भवतीति तन्मिथ्यात्वमतमाश्रितं || न चैवमसत्यस्य बंधाश्रयत्वे बंधमोक्षयोर्वैयधिकरण्यापतिः प्. ८६ब्) अस्य चिदाभासस्यांतःकरणावछिन्ने स्वरूपतः सत्यतया मुक्त्य नयिनि पारमार्थिक जीवेऽध्यस्ततया कर्तृत्वाद्याश्रय चिदाभास तादात्म्याध्यासाधिष्ठान भावस्तस्य बंध इत्युपगमादित्याहुः | अपरे त्वात्मेंद्रियमेनोयुक्तं भोक्तेत्याहुर्मरमीषिण इति सह कारित्वेन देहेंद्रियैस्तादात्म्यो न मनसा च युक्तस्य चेतनेस्य भोत्कृत्व श्रवणादंतःकरणभेदनतेद्विशिष्टभेदाद्व्यवस्थान चैवं विशिष्टस्य बंधः शुद्धस्य मोक्ष इति वैयधिकरण्यं विशिष्टगतस्य बंधस्य विशेष्ये अनन्वयाभावात् विशिष्टस्यानतिरेकादित्याहुः ||
521 SK न चैवमिति | बिंबप्रतिबिंबयोर्भेदांगीकारेत्यर्थः | सत्यस्य बिंबचैतन्यस्य ब्रह्मभावलक्षणमोक्षाश्रयत्वे च सतीतिशेषः मुक्त्यन्वपि नो बिंबभूतावछिन्नचैतन्यस्य स्वतः संसाराश्रयत्वाभावेपि भ्रांति सिद्धस्य तदाश्रयत्वस्य संभवान्न वैयधिकरण्य दोष इत्याह अस्येति | चिदाभास गत बंधस्य चिदात्मन्यध्यासे चिदात्मचिदाभासयोस्तादात्म्याध्यासं हेतुमाह प्. ८७अ) अध्यस्ततयेति | अस्य चिदाभासस्य परमार्थ जीवे ध्यस्तनयेति संबंधः | तस्य बंध इति बंधः | बंधारोपे हेतुरित्युपगमादित्यर्थः | यथा श्रुतस्याध्यासाधिष्ठानत्वस्य बंधरूपत्वाभावात् सुखादेरेव बंधरूपत्वाच्चेति बोध्यं | सर्वशरीरेषु चिदात्मन एकत्वेपि तस्य केवलस्य बंधाश्रयत्वं नोपेयते | किंतु बुद्धिविशिष्टस्य चिदात्मनस्तथा च बंधाश्रयस्य विशिष्टस्य प्रतिशरीरं भेदान्न सुखदुःकादि सांकार्यमिति मतांतरमाह | अपरे त्विति | विशिष्टस्य भोक्तत्वे मानमाह | आत्मेति आत्मशब्दो देहपरः श्रुतावात्मानमित्यध्याहारः इति शब्दो द्वितीया समानार्थकः | ततश्च देहेंद्रियांतःकरणयुक्तमात्मानं भोक्तारमाहुर्विद्वांस इत्यर्थः | ननु देहस्य विशेषणतया भोक्तृ कोटौ निवेशो न संभवति तस्यात्मनि भोगं प्रत्यवछेदकतया उपकरणं त्वादिंद्रियाणामपि भोक्तृ कोटौ निवेशौ न संभवति | तेषामुपकरणमात्रत्वात् स्वप्ने तेषामभावेपि भोगदर्शनाच्च तस्माद्देहेंद्रियैर्युक्तस्यात्मनो भोक्तत्व श्रुतिरनुपपत्तेत्याशंक्य युक्तपदोदितं योगं यथायोग्यं दर्शयति | सह कारित्वेनेति | आत्मनि तावत् कामसंकल्पादयोनुभूयंते ते च मनोधर्मत्वेन श्रुति सिद्धास्तथा च कामादिमन्मनस्तादात्म्यं विनात्मनः
522 SK प्. ८७ब्) कामाद्याश्रयत्वानुपपतेः | ततादात्म्येन तद्विशिष्टस्य भोक्तृत्वं युक्तमित्याशयेनाह | तादात्म्येनेति | ननु बुद्धिविशिष्टात्मा केवलात्मनः सकाशाद्भिन्नः विशिष्टं केवलं न भवतिति प्रतीतेः विशिष्टवृति केवलप्रतियोगिक भेदस्य विशेष्यवृतित्व नियमा तथा च विशिष्टात्मगत बंधस्य विशेष्यान्वपि त्वेपि मुक्तान्वपि केवलचैतन्ये बंधानन्वयाद्वैयधिकरण्यतादवस्थ्यमिति नेत्याह | विशिष्टस्येति | विशिष्टांतर्गतविशेष्यस्य केवलादनतिरेकादित्यर्थः | अयं भावः | लोके दंडविशिष्टपुरुषे कैवलपुरुषाभेदस्य प्रत्यभिज्ञायमानतात् | तत्प्रत्यभिज्ञाया बाधका भावाच्च विशिष्टांतर्गत विशेष्यस्य केवलस्य च स्वाभाविकमेकत्वं विशिष्टत्वाविशिष्टत्वरूपभेदेन काल्पनिको भेदश्च कल्प्यते तथा च विशिष्टगत बंधस्य विशेष्यान्वयिनः केवलात्मन्यय्यन्वयः सिद्ध इति || इतरे तु अस्तु केवलश्चेतनः कर्तृत्वादिबंधाश्रयः स्फटिकलौहित्य न्यायेनांतःकरणस्य तद्विशिष्टस्य वा कर्तृत्वाद्या अपस्य सन्निधानाच्चेतनेपि कर्तृत्वाद्यंतराध्यासोपगमात् | न च तस्यैकत्वाद्व्यवस्थानुपपतिः | उपाधिभेदादेव तदुपपते | न चान्यभेदादन्यत्रविरुद्ध प्. ८८अ) धर्मव्यवस्थानुयुज्यत इति वाच्यं | मूलाग्ररूपोपाधिमात्रेण वृक्षे संयोग तदभावव्यवस्था दर्शनात् | तत्तत्पुरुषकर्णपुटोपाधिभेदेन श्रोत्रभावमुपगतस्याकाशस्य तत्र शब्दोपलंभकत्वानुपलंभकत्वतारमंदेष्टानिष्ट शब्दोपलंभकत्वादि वैचित्र्यदर्शनाच्चेत्याहुः | एके तु यद्याश्रयभेदादेवविरुद्धधर्मव्यवस्थोपपादनीया तदा चेतने निकृष्टे एवोपाधिवशाद्भेदकल्पनास्तु अकल्पिताश्रयभेद एव व्यवस्थाप्रयोजक इति क्वाप्य संप्रतिपतैः मणिमुकरकृपाणाद्युपाधिकल्पितेन भेदेन मुखे श्यामा वदातवर्तुलदीर्घभावादि धर्माणां अंगुल्युपष्टंभोपाधिकल्पितेन भेदेन दीपे पाश्चात्यपौरस्त्यभावादि धर्माणां च व्यवस्थासंप्रतिपतेरित्याहुः ||
523 SK अंजसाबंधमोक्षयोः सामानाधिकरण्यमाह | इतरे त्विति | स्फुटिकेति | यथा लोहित्याश्रयस्य जपाकुसुमादेः सन्निधानात् स्फटिके उपाधिगतलौहित्यापेक्षया तत्प्रतिबिंबभूतस्य लौहित्यांतरस्योत्पतिः तथा चिदात्मनि बुध्यादि गतत बंधापैक्षया अन्यस्य प्. ८८ब्) कर्तृत्वादिबंधस्याभ्रमात्मकस्योपगमादित्यर्थः | न च बुध्यादौ साक्षिणानुभूयमानस्य बंधस्य चिदात्मनि संसर्गमात्राध्यासोपगमेन वैयधिकरण्य शंका परिहारसंभवात् तत्र बुध्यादिनिष्टकर्तृत्वादि सदृश कर्तृत्व प्रमुख बंधोत्पति कल्पनं न प्रामाणिकमिति वाच्यं | बुद्धेर्गुणेनाराग्रमात्रो ह्यवर इति श्रुताववरशब्दित जीवस्याराग्रमात्रशब्दितमल्पपरिमाणं बुद्धिगुणशब्दित परिमाण हेतुकमिति प्रतिपादनेन तुल्यन्यायतया कर्तृत्वादिकमपि बुद्धिधर्मसदृशमात्मन्युत्पद्यत इति | अस्यार्थस्य श्रुति संमतत्वेन प्रामाणिकत्वात् | न च तस्येति | कर्तृत्वाद्यध्यासाधिष्ठानस्यात्मन इत्यर्थः | मूलेति परमते नेदं दृष्टांत द्वयं सिद्धांते मूलावछिन्नवृक्षस्याग्रावछिन्नवृक्षस्य च काल्पनिक भेदाभ्युपगमेनैव संयोग तदभावव्यवस्थोपगमात् | श्रोत्रेंद्रियस्पदिगारभ्यत्वोपगमाच्चेति योध्यं | तारेति | तारशब्दोपलंभकत्वमंदशब्दोपलंभकत्वेष्टशब्दोपलंभकत्वा निष्टशब्दोपलंभकत्वादिलक्षणस्य वैचित्र्यस्य दर्शनादित्यर्थः | यदि दृष्टांतयोरुपाधिभेदेन तदुपहित वृक्षादिभेदं परो ब्रूया तदा प्रकृतेपि तथास्त्वित्याशयेनाह | एके त्विति | निकृष्ट इति | अंतःकरणविशिष्टवेषान्निकृष्टे तदुपहिते चिदात्मनीत्यर्थः | ननु सत्यभे एव व्यवस्था प्रयोजक इति नेत्याह | अकल्पितेति | घटादिभेदस्यापि सत्यत्वस्यास्माकमसंमतत्वादित्यर्थः |
524 SK प्. ८९अ) ननु स्वाभाविकभेदे एव व्यवस्था प्रयोजको नत्वौपाधिकभेद इत्याशंक्याह | मणीति | मुखे हि मलिन मणि दर्पण कृतेन भेदेन श्यामत्वावदातत्व व्यवस्था संप्रतियतेः | कृपाणमणिमयस्तंभादि कृतेन भेदेन वर्तुलत्व दीर्घभावादि व्यवस्था संप्रतिपतेरित्यर्थः | न च बिंबप्रतिबिंबयोरभेदे स्वाभाविके खलुभेद औपाधिक इति सिध्यति तद्वशाद्व्यवस्थापि सिध्यति तयोरभेद एव कथं सिद्ध इति वाच्यं तस्य प्रागेव साधितत्वादितिभावः | अवछेदपक्षे औपाधिकभेदस्य व्यवस्थापकत्व संप्रतिपतिं दर्शयति अंगुलीति || एवमुपाधिवशाद्व्यवस्थोपपादने संभाविते जीवानां परस्परसुखाद्यनुनुसंधानप्रयोजक उपाधिः क इति निरूपणीयं | अत्र केचिदाहुः भोगायतनाभेद तद्भेदावनुसंधानाननुसंधानप्रयोजका उपाधी शरीरावछिन्नवेदनायास्तदवछिन्नेनानुसंधानात् चरणावछिन्नवेदनाया हस्तावछिन्नेनाननुसंधानाच्च हस्तावछिन्नोहं पादावछिन्नवेदनामनुभवामीत्यप्रत्ययात् | कथं तर्हि चरणलग्नकंटको द्वाराय हस्तव्यापारः प्. ८९ब्) नायं हस्तव्यापारो हे स्तावछिन्नानुसंधानात् | किं त्वव एवावयविनोश्ररण शरीरयोरभेदसत्वेन वरणावछिन्नवेदनाशरीरावछिन्नेनाहं चरणे वेदना वा नित्यनुसंधीयत इति तदनुसंधानात् | एवं च चैत्रमैत्रशरीरयोरभेदाभावाच्चैत्रशरीरावछिन्नवेदनामैत्र शरीरावछिन्नेन नानुसंधीयते | नाप्युभयशरीरानुस्यूतावयव्यंतरावछिन्नेनानुसंधीयते उभयानुस्यूतस्यावयविनो भोगायतनस्या भावादिति न चैत्रशरीरलग्नकंटकाद्वासय मैत्रशरीरव्यापारमप्रसंग इति ||
525 SK जीवानामुपाधिभेदाद्वा औपाधिकभेदाद्वासुखदुःखादि व्यवस्थासिद्धौ तेषां वस्तुतः परस्पर भेदे प्रमाणाभादादेक ब्रह्माभेदः सिध्यति | तत्सिद्धौवजीवाभिन्ने निष्प्रपंचे ब्रह्मणि वेदांतसमन्वयः सिद्ध इति प्रतिपादितं | संप्रति विचारांतरमारभते | एवमिति | उक्त प्रकारेणेत्यर्थः | अनुसंदानाननुसंधानयोः किं भोगायतनाभेद तद्भेदौ प्रयोजकौ किं वा विश्लिष्टभोव्यायतनाभेद तद्भेदौ | अथवा शरीराभेदतद्भेदौ | अंतःकरणाभेदतद्भेदौ वा अज्ञानाभेद तद्भेदौ प्. ९०अ) वा इति प्रश्रे प्रतिवचनं निरूपणीयमित्यर्थः | तत्राद्यपक्षमादाय प्रतिवचनं निरूपयति | अत्र केचिदाहुरिति तत्रान्वयव्यतिरेकौ प्रमाणयति शरीरावछिन्नेति | भोगायतनं ह्यवछेदकता स बंधेन भोगाश्रयः सन्नदेहः तदवयवहस्तादिश्च भवतीत्याशयेनाह | चरणेति | अननुसंधानमेव दर्शयति | हस्तावछिन्न इति हस्तावछिन्नात्मनः पादावछिन्नात्म गत दुःखानुसंधातृत्वाभावे बाधकं शंकते | कथं तर्हीति | अयं हस्तव्यापादो हस्तावछिन्नस्यानुसंधानान्न भवति | किंतु तदनुसंधानादिति संबंधः तस्य शरीरोवछिन्नस्य यच्चरणावछिन्नगत वेदनानुसंधनं तस्मादित्यर्थः | ननु चरणावछिन्नगतवेदना कथं शरीरावछिन्नेनानुसंधीयते अवयवावयविनोर्भेदात् | भेदप्यनुसंधानोपगमें चैत्र शरीरावचिन्नवेदना मैत्र शरीरावछिन्नेनाप्यनुसंधीयेत भेदा विशेषात् | तथा च चैत्र शरीरलग्नकंटको द्वाराय मैत्र शरीरस्य स्वारसिकौ व्यापारः प्रसज्येतात आह | अवयवावयविनोरिति | अवयवानां परस्पर भेदेपि शरीर तदवयवयोस्तादात्म्योपगमादित्यर्थः | एवं चेति | शरीरावछिन्नस्य चरणावछिन्नस्ये चरणावच्छिनवैदनानुसंधानं प्रतिशरीरचरणयोस्तादात्म्यस्य नियामकत्वे
526 SK प्. ९०ब्) सतीत्यर्थः | ननु हस्तावछिन्नस्य चरणावछिन्नगवेदनानुसंधातृत्वाभावेपि चरणलग्नकंटको द्वाराय हस्त व्यापार चरेत् मैत्र शरीवछिन्नस्य चैत्रशरीरावछिन्नगतवेदनानुसंधातृत्वाभावेपि चैत्रशरीरलग्नकंटको द्वारापमैत्रशरीरव्यापारप्रसंगः परिहर्तुं न शकाते तत्राह नापीति | चैत्रमैत्र शरीरद्वयानुस्यूतेत्यर्थः | चैत्रशरीरावछिन्नवेदना उभयाअनुस्यूताऽवयव्यंतरावछिन्नेनापि नानुसंधीय इति संबंधः | अतो न दृष्टांतस्य म्य?मितिभावः || अन्ये तु विश्लिष्टोपाधिभेदो ननु संधानप्रयोजकः | तथा च हस्तावछिन्नस्य चरणावछिन्नवेदनानुसंधानाभ्युपगमेपि न दोषः | न चैवं सति गर्भस्थस्य मातृसुखानुसंधान प्रसंगः | एकस्मिन्न वयविन्यवयवभावेनाननुप्रविष्टयोर्विश्लिष्टशब्देन विवक्षितत्वात् | मातृगर्भशरीरयोस्तथात्वादित्वाहुः | न च उघदायुधदोर्दंडाः | पतित स्वशिरोक्षिभिः पश्यंतः यातयंतिस्मकबंधा अप्यरी तन् | इहेति भारतोक्त्याविश्लेषेप्यनुसंधानमवगमिति वाच्यं | तत्रापि शिरः कबंधयोरेकस्मिन्नवयविन्य च यवभावेनानुप्रविष्ट प्. ९१अ) चरत्वात् | शिरश्चेदानंतरं मूर्छामरणयोरन्यतरावश्यंभावे न दृष्टविरुद्धार्थस्य तादृशवचनस्य केंमुत्यन्यायेन योद्धुत्साहातिशय प्रशंसा परत्वात् | तादृक् प्रभाव युक्त पुरुषविशेषविषयत्वेन भूतार्थवादत्वेपि निरुक्तस्योत्सर्वातो | ननुसंधानतंत्रत्वा विघाताच्च | अत एवोक्त वक्ष्यमाणपक्षेषुयोगिनां जाति स्मराणां च शरीरांतरवृतांतानुसंधानेन दोष प्रसक्तिः ||
527 SK चरणलग्नं कंटको द्वाराध हस्त व्यापारानुरोधेन हस्तावछिन्नस्यैव चरणावछिन्नवेदनानुसंधातृत्वमुपेयते | न च तथा सति भोगायतन भेदस्याननुसंधानप्रयोजकत्वं न स्याच्चरणहस्तभेदे व्यभिचारादिति वाच्यं | तद्धारणाय विशेषणदानोपपतेरिति मत्वा द्वितीयं उपाधिं निरूपयति | अन्ये त्विति | उपाधि पदं भोगायतनपरं | न दोष इति | भोगायतनयोर्हस्तचरणयोर्भेदे सत्यपि तयोर्विश्लिष्टत्वाभावेन विश्लिष्टभोगायतन भेदस्याननुसंधानप्रयोजकस्याभावात् | न तत्र व्यभिचार दोष इत्यर्थः | न चैवं सतीति विश्रिष्टत्वविशेषणदाने सतीत्यर्थः | गर्भस्य जीवस्य यद्भोगायतने तस्य मातृशरीरस्य च विश्लोषाभावादितिभावः | विश्लिष्टपदार्था न भिज्ञ स्पंदे
528 SK प्. ९१ब्) चाद्यमिति परिहरति | एकस्मिन्निति तथात्वादिति | एकस्मिन्न वयविनि अवयव भावे नाननुप्रविष्टत्वादित्यर्थः | तथा च विश्लिष्टोपाधिभैदसत्वान्न गर्भस्थ जीवस्य हृसुखानुसंधान प्रसंग इति भावः निरुक्ताननुसंधानप्रयोजकस्य व्यभिचारं शंकते | न चेति | दोर्दंडाः क बंधाः छिन्नशिरस्का देहाः | इह युद्धे भूमो वा अत्र वचने चैत्र मैत्र शरीरयोरिव विश्लिष्टयोः क बंध शिरसोर्भेदै सत्यपि शिरोवछिन्नस्य क चैधावछिन्नगतयोद्धृत्वानुसंधातृत्वमवगम्यत इति व्यभिचार इत्यर्थः | तत्रानुसंधानमुपेत्य चैत्र मैत्र शरीवैलक्ष्ण्येन समाधते | तत्रापीति चरत्वादिति | पूर्वमनुप्रविष्टत्वादित्यर्थः | अस्य वचनस्य स्वार्थे मानुत्वाभावाद्व्यभिचार शंकैवा युक्तेत्याशयेनाभ्युपगमं परित्यजति | शिरस्छेदानंतरमिति | कबंधा अपि पातयंति किमुतान्य इति योद्धृणामुत्साहातिशयं प्रशंसत्ये तद्वचनमित्यर्थः | ननु शिरस्छेदानंतरमपि युद्धानुसंधानादिकं योगमहिम्नातयो महिम्ना वा चरदान महिम्ना वा केषांचित् संभवति | ततो विद्यमानार्थकमेवेदं वचनमित्याशंकायां पुनरनुसंधानमुपेत्य व्यभिचारं परहरति | तादृगिति | विश्लिष्टभोगायतन भेदो ननुसंधानप्रयोजक इत्युत्सर्ग प्. ९२अ) इत्युपगमादुदाहृतानुसंधानस्थलस्य तदपवादस्थलत्वाभ्युपगमात् | तत्र व्यभिचारो न दोषायेतिभावः | अत एवेति उत्सर्गरूपत्वाभ्युपगमादेवेत्यर्थः | न दोष प्रक्तिरिति भोगायतन भेदादेरननुसंधानप्रयोजकत्वनियमाभ्युपगमे हि योगियुजाति स्मरेषु च भोगायतनभेदादि प्रयोजक चतुष्टयस्य सत्वेप्यननुसंधानाभावेन व्यभिचाररूप दोष प्रसक्तिर्न भवेदित्यर्थः ||
529 SK अपरे तु शरीरैक्यभेदावनुसंधान तदभावप्रयोजकोपाधीवाल्य भवांतरानुभूतयोरनुसंधान तदभावदृष्टेः | न च वाल्यैयोवनयोरपि शरीरभेदः शंकनीयः प्रत्यभिज्ञानात् | न च परिमाणभेदा तद्भेदावगमः एकस्मिन् वृक्षे मूलाग्रभेदेनेव कालभेदेनैकस्मिन्ननेकपरिमाणान्वयोपपतेः | नन्ववयवोपचयमंतरेण न परिमाणभेदः | अवयवाश्च पश्चादापतंतो न पूर्वसिद्धं शरीरं परियुज्यंत इति परिमाणभेदे शरीरभेदे आवश्यक इति चैन्न प्रदीपारोपणक्रियासमसमयसौधोदरव्यापि प्रभामंडलविकास तत्पिधानसमसमयत् प्. ९२ब्) त्संकोचाद्यननुरोधिं नः परिमाणुप्रक्रियारंभवादस्यानभ्युपगमात् | विवर्तवादे चेंद्रजालिक दर्शित शरीरवद्विनैवावयवोपचयं मायया शरीरस्य वृद्युपपतेरित्याहुः | इतरेत्वंतःकरणाभेदतद्भेदाभ्यां अनुसंधानाननुसंधान व्यवस्थामाहुः | अयं च पक्षः प्रागुपपादितः | केचित् तु अज्ञानानि जीवभेदोपाधिभूतानि नानेति स्वीकृत्य तद्भेदाभेदाभ्या अनुसंधाना ननुसंधान व्यवस्थामाहुः | अत्र केचित् तु || अदृष्टविशेषा सह कृतस्य भोगायतनभेदादेरननुसंधानप्रयोजकत्वस्य विवक्षितत्वात् न योग्यादिषु व्यभिचार इति तात्पर्यं तृतीयपक्षमादाय प्रतिवचनं निरूपयति | अपरे त्विति | तत्र मानमाह | बाल्येति | बाल्येऽनुभूतस्य वार्धिके अनुसंधानं दृश्यते बाल्यवार्धकयोः शराभेदात् | तत् भेदादेव भवांतरानुभूतस्यास्मित् जन्मन्यनुसंधानं न दृश्यत इत्यर्थः | शंकनीय इति | परिमाणभेदादितिभावः | बाल्याद्यवस्थाभेदेपि तदेवेदं शरीरमिति प्रत्यभिज्ञा दर्शनात् | न शरीरभेद इति परिहरति | प्रत्यभिज्ञानादि शंका बीजमरुद्य अन्यथा सिद्धिमाह |
530 SK प्. ९३अ) न चेत्यादिना | आरंभवादमाश्रित्यशंकते | नन्विति न पूर्वसिद्धमिति | पूर्वसिद्धे शरीरे उपादानत्वा योगात् पूर्वसिद्ध शरीरनाशपूर्वं तदवयवैरुपचितावयवैश्च मिलित्वा शरीरांतरद्व्यणुकत्र्यणुकादिक्रमेणारब्धव्यमिति परिमाणभेदे शरीरभेद आवश्यकः प्रत्यभिज्ञा च शरीरत्वसामान्यविषया भविष्यतीत्यर्थः | समसमयकत्वं विकास विशेषणं समयश्च क्षणरूपौ बोध्यः | तत्पदं तदीय दीप्तिपरं उपादाना पादे ययोः सामानाधिकरण्यानुभवादिरादिपदार्थः | अननुरोधिन इति द्यष्णुकादिक्रमेण स्थूलावयव्युत्पतिपक्षे बिलंबापतेः समसमयत्वानुभवविरोधात्परिमाणुसंयोगनाशक्रमेण प्रभादिनाशेपि बिलंबापतेरारंभवादे उपादानो पादेययोरत्यंतभेदाभ्युपगमेन सामानाधिकरण्यानुभवविरोधाच्च तद्वादस्य हेयत्वमेवेत्यर्थः | अवयवो पचय क्रमेण शरांतरांरंभानुपगमे कथमेकस्मिन् शरीरे विरुद्धपरिमाणयोग इत्यत आह | विवर्तवादेवेति चतुर्थपक्षमादाय प्रतिवचनं ददाति | इतरे त्विति प्रागिति सुखदुःखादि व्यवस्थोपपादनग्रंथ इत्यर्थः | पंचमपक्षमाह केचित्विति प्रतिजीवमज्ञानभेदे प्रमाणं ब्रह्मलक्षणविचारावसरे दर्शितं एवमैकात्म्यवादे व्यवस्थामुपपादातन्नानात्ववादे व्यवस्थानुपपतिमाह | अत्रेति ||
531 SK प्. ९३ब्) अंशो नानाव्यपदेशादित्यधिकरणे अदृष्टानियमात अभिसंध्यादिष्वपि चैवं प्रदेशादिति चेन्नांतर्भावादिति सूत्रतद्भाष्यरीति मनुसृत्यैकस्मिन्नात्मन्युपाधिभेदेन व्यवस्थानुपगमेकणभुगादिरीत्यात्मभेदवादेपि व्यवस्थानुपपति तौल्यमाहुः | तथा हि चैत्रचरणलग्नकंटकेन चैत्रस्य वेदनोत्पादे समयेऽन्येषामप्यात्मनां कुतो वेदना न जायेत | सर्वात्मनां सर्वगत्वत्वेन चैत्रशरीरांतर्भावाविशेषात् | न च यस्य शरीरे कंटकवेधादि तस्यैव वेदनानान्येषामिति व्यवस्था सर्वात्मसन्निधावुत्पद्यमानं शरीरं कस्यचिदेव नान्येषामिति नियंतुमशक्यत्वात् न च यददृष्टोत्पादितं यच्छरीरं ततदीयमिति नियमः | अदृष्टस्यापि नियमासिद्धेः | यदा हि तदृष्टोत्पादाय केन चिदात्मना संयुज्यते मनः संयुज्यत एवं तदान्यैरपि कथं कारणसाधारण्यै क्वचिदेव तदृष्टमुत्पद्येत | ननु मनः संयोगमात्रसाधारण्येप्यहमिदं फलं प्राप्नुयामित्यभि प्. ९४अ) संधिरदृष्टोत्पादककर्मानुकूलकृतिरित्येवमादि व्यवस्थितमिति तत एवादृष्टनियमो भविष्यतीति चेन्न अभिसंध्यादीनामपि साधारण मनः संयोगादिति ध्याद्यतया व्यवस्थित्यसिद्धेः | ननु स्वकीयमनः संयोगोभिसंध्यादिकारणमिति मनसंयोग एवासाधारण्ये भविष्यतीति | न नित्यं सर्वात्मसंयुक्तं मनः कस्यचिदेव स्वमिति नियंतुमशक्यत्वात् | न चादृष्टविशेषादात्मविशेषेणमनसः स्वस्वामिभावसिद्धिः तस्याप्यदृष्टस्य पूर्ववद्व्यस्थित्यसिद्धेः ||
532 SK अंशो ब्रह्मणो जीवः श्रुतिषु जीवब्रह्मणोर्नानात्व व्यपदेशान्न च ब्रह्मणो निरंशस्य कथं जीव अंश इति वाच्यं | अवछिन्नाकाशो महाकाशस्य यथा अंशस्तथा अवाछिन्नमनछिन्नचैतन्यरूपस्य ब्रह्मण्ॐश इत्युपगमादिति सूत्रभागार्थः | अदृष्टानियमादि सूत्रत्रयस्य व्याख्यानं भविष्यति काणभुगादिभिर्हि प्रतिशरीरमात्मभेदाभावे व्यवस्थान संभवतीत्यात्मभेद आश्रितः न चात्मनः एकत्वेपि उपाधि कृता व्यवस्था संभवतीति | तद्भेदाश्रयणं तैषां व्यर्थमिति वाच्यं | उपाधि कृत व्यवस्थायाः क्लिष्टत्वात् | अत्ॐजसा व्यवस्था सिद्धये आत्मभेदस्तैराश्रित तदेतन्मतं प्. ९४ब्) दूषयति | कणभुगादिरीत्येति | व्यवस्थेति व्यवस्थांजस्यांभावस्य तूल्यत्वमाहुरित्यर्थः | यथा चैत्रस्य तथाऽन्येषामपीत्यर्थः | कंटकवेधादीत्यादिपदं खड्गघातादि संग्रहार्थं | शरीरस्थात्मविशेषं प्रत्यसाधारण्यससिद्धमिति दूषयति सर्वात्मसंनिधाविति | अदृष्टानियमादिति सूत्रमवतारयति | यद दृष्टेति | सूत्रं व्याचष्टे अदृष्टस्यापीति | अनियमं साधयति | यदा हीति | तदान्यैरप्यात्मभिः संयुज्यत इत्यर्थः | संयोगमात्रेति मात्रपदमभिसंध्यादिसाधारण्य व्यवछेदार्थं न तु समवापि कारणस्य तद्व्यवछेदार्थमिति बोध्यं | अभिसंधिफलेछा आदिपदेन कृतिजनककार्यताज्ञानचिंकीर्ययोः संग्रहः अभिसंध्यादिष्वपि चैवमिति सूत्रं योजयन्नुतरमाह | नेत्यादिना मनसो अंसाधारण्यमाशंक्यनिराकरोति | ननु स्वकीयेति | तथा च तत्संयोगा समवायि कारणकं सर्वमसाधारणं भविष्यतीति भावः | ततः किं तत्राह कथमिति आत्मममः संयोगरूपासमवायि कारणस्य समवायि कारणरूपात्मनश्च साधारणत्वादित्यर्थः त्रुटत् ३५ || नन्वात्मनां विभुत्वेपि तेषां प्रदेशविशेषा एवबंधभाज इत्यात्मांतराणां चैत्र शरीरे तत्प्रदेशविशेषाभावात् सखादि व्यवस्था भविष्यतीति |
533 SK प्. ९५अ) न यस्मिन् | प्रदेशे चैत्रः सुखाद्यनुभूय तस्मात् प्रदेशादपक्रांतस्तस्मिन्नेव मैत्रे समागते तस्यापि तत्र सुखदुःखादि दर्शनेन शरीरांतरे आत्मातंरप्रदेशविशेषस्याप्यंतर्भावात् | तस्मादात्मभेदेपि व्यवस्थादुरुपपादैव कथंचितदुपपादने च श्रुत्यनुरोधाल्लाघवाच्चैकात्म्यमंगीकृत्य तत्रैव तदुपपादनं कर्तुं युक्तमिति | संतु तर्ह्यणव एवात्मानो खदि विभुत्वे व्यवस्थान स्रुवचा नैवं आत्मनामणुत्वे कदाचित् सर्वांगीण सुखोदयस्य करशिरश्चरणाधिष्ठानस्य चानुपपतेः | यदत्रार्वाची न कल्पन मत्क्रांति गत्यागति श्रवणान्यथानुपपत्या अणुर्ह्येवैष आत्मायं वा एतेसिनीतः पुण्यं च पापं च वालाग्र शतभागस्येत्यादि श्रुतिषु साक्षादणुदत्व श्रवणेन चाणव एव जीवाः || प्रदेशादिति चेन्नांतर्भावादिति सूत्रं व्याचक्षाण एव प्रदेश कृतां व्यवस्थामाशंक्यनिराकरोति | नन्वात्मनामिति | बंधः सुखदुःखादिः ततदात्मासाधारणात् प्रदेशविशेषाद्यवस्थेति | चेदिति सौत्र
534 SK प्. ९५ब्) शंकाभागाक्षरार्थः | एकस्मिन् शरीरे एकस्यैवात्मनः प्रदेशोनात्मांतराणामिति नियमो असिद्ध इति दूषयति | न यस्मिन्निति | अदृष्टसुखादेरव्याप्यवृतित्वादात्मनो यः प्रदेशो अदृष्टाद्याश्रयः स एवात्र प्रदेशशब्दार्थः | तथा च यस्मिन्नासनादि प्रदेशे चैत्र शरीरं स्थितं सच्चैत्रस्य सुखाद्यायतनं भवति | तस्मिन्नेव प्रदेशे चैत्र शरीराय क्रमणानंतरं मैत्र शरीरमागत्य स्थितं सन्मैत्रस्य सुखाद्यायतनं दृश्यते | अतस्तत्र पश्चादागतमेत्र शरीरे चैत्रमैत्रात्मप्रदेशयोरदृष्टायश्रयोः प्रवेशात् | तच्छरीरे चैत्रमैत्रयोरुभयोरपि भोगप्रसंगः | न च पूर्वशरीरापक्रमणसमये तच्छरीरगतस्य चैत्रात्मप्रदेशस्याप्यपक्रमणमेवास्त्विति वाच्यं प्रदेशवत्वः आत्मनः स्थिर त्वेन प्रदेशस्य चलनानुपपतेरेव मन्येषामप्यात्मनां प्रदेशांतभीवप्रयुक्तं भोगसांकर्यमूह्यं तस्मादिति | आत्मनां व्यापकत्वाभ्युपगमादित्यर्थः | नन्वात्मैक्य मते इव तन्नानात्वमतेपि कथंचिद्व्यवस्था स्वीक्रियत इत्याशंक्याह | श्रुतीति आत्मैक्यश्रुतीत्यर्थः | तत्रैवेति | एकस्मिन्नेवात्मनीत्यर्थः | जीवाणुत्वगमक श्रुतियुक्त्यवष्टंभेन पुनर्जीवब्रह्माभेदमाक्षिपति | संत्विति | निराकरोति नैवमिति | अधिष्ठानस्य चेति | युगपत्करादि प्रेररणस्येत्यर्थः
535 SK प्. ९६अ) जीवस्याणुत्वेपि सर्वशरीरव्यापि सुखादिकं संभवतीति शंकते | यदत्रेति | कल्पनाप्रकारस्तेषामणुत्वेपीत्यादिना भविष्यति | आदौ तस्याणुत्वे मानमाह | उत्क्रांतीति | तु मुत्क्रामंतमित्यादि श्रुतिषूत्क्रांत्यादिकं श्रूयत इति भावः | ननु मध्यमपरिमाणस्य जीवस्योत्क्रांत्याद्यन्यथाऽनुपपत्या चेदणुत्वं कल्पते तर्हि जीवस्य ब्रह्मभावश्रवणानुपपत्या तस्य विभुत्वं कल्प्यते श्रुतार्थापतेरविशेषादित्याशंक्य श्रुतिमप्याह | अणुर्हीति | यमात्मानमेतेसिनीतः | वध्नीनः केते तत्राह | पुण्यं च पापं च एष आत्मा अणुर्हीत्यर्थः | बालः केशः शतधा कल्पितस्य च भागो जीवः स विज्ञेय इति | वाक्यमादिपदेन गृह्यते | बालाग्रस्य यः शत तमो भागः तस्यापि शतधा विभक्तस्य यो भागस्तुल्यपरिमाणो जीव इत्यर्थः || तेषामणुत्वेपि ज्ञानसुखादीनां प्रदीपप्रभान्यायेनाश्रयातिरिक्तप्रदेशविशेषव्यापि गुणतया सर्वांगीणतया सर्वांगीणसुखाद्युपलंभः द्रोणं बृहस्पतेर्भागमित्यादि स्मृत्यनुरोधेन जीवानामंश सत्वात् | करशिरश्चरणाद्यनुर्गतेषु सुखदुःखादि प्. ९६ब्) यौगपद्यंकाय व्यूहगतेषु योगिनां भोग वैचित्र्यं चेति न काचिदनुपपतिः | एवं च जीवानामणुत्वेनासंकरात् सुखदुःखादिव्यवस्थाविभोरीश्वराद्भेदश्चेति | अत्रोक्तमद्वैतदीपिकायां एवमपि कथं व्यवस्था सिद्धिः | चैत्रस्य पादै वेदना शिरसि सुखमिति स्वांशभेदगतसुखदुःकानुभववन्मैत्रगत सुखदुःखानुसंधानस्यापि दुर्वारत्वात् | अविशेषो हि चैत्र जीवातदंशयोर्मैत्रस्य च भेदः कायव्यूहस्थले वियुज्यान्यत्रसंसरणसमर्थानामंशानां जीवाद्भेदावश्यंभावादंशांशिनोस्त्वयाभेदाभेदाभ्युप- गमाच्च | न च शुद्धभेदोऽननुसंधानप्रयोजक इति वाच्यं | शुद्धत्वं हि भेदस्यांशांशिभावा सहचरि तत्वमभेदा सहचरित्वत्वं वा स्यात् |
536 SK जीवस्याणुत्व साधकप्रमाणानुसारिणमर्वाचीन कल्पना प्रकारं दर्शयति | तेषामणुत्वेपीति | यथा प्रभायाः स्वाश्रयं प्रदीपं विहाय प्रदेशांतर व्यापित्वं तथा ज्ञानादीनां स्वाश्रयमणुमात्मानं विहाय कदाचिच्छरीर व्यापित्वं कल्पत इत्यर्थः | नन्वात्मनः शशरीरव्यापित्वे सति प्. ९७अ) युगपत्सुखप्रयत्नादय उत्पद्यमानाः तस्मिन्नवछेदकभेदेन संभवंति तस्याणुत्वे तु कथं तेषां यौगपद्यनिर्वाहः | तत्राह द्रोणमिति | अनुगतेष्टित्यनंतरं जीवांशेष्वितिशेषः व्यूहः काय व्यूहगतेष्वित्यनंतरमपि जीवांशेष्वितिशेषः | भोगानां भुज्यमानसुखादीनां वैचित्र्यं युगपन्नाना विधत्वं युगपदनेकशरीराधिष्ठानं च योगिनां खांशैः संभवतीत्यर्थः | जीवाणुत्वपक्षेन केवलमनुपपति सामान्याभावः | किं तु लाभोप्यस्तीत्याह | एवं चेति | जीवस्याणुत्वे सतीत्यर्थः असंकरादिति | एकस्मिन् शरीरे सर्वेषां जीवानां प्रवेशाभावादित्यर्थः | विभोरिति | जीवस्यापि विभुत्वे लक्षणभेदाभावादीशात् भेदो न सिध्येत् अणुत्वेत्वत्यंत वैलक्षण्यात् भेदः सुगम इति भावः | अर्वाचीन कल्पनं दूषयति | अत्रोक्तमिति | एवमपीति जीवस्याणुत्वसांशत्व कल्पनेपीत्यर्थः | जीवस्य स्वांशगतसुखाद्यनुसंधानं जीवांतरगतसुखाद्यननुसंधानं चाभ्युपगछतात्वयाभेदो ननु संधानप्रयोजकः | अभेदश्च तदनुसंधानप्रयोजक इति वक्तव्यं तत्राननुसंधानप्रयोजकभेदोभेदमात्रं वा शुद्धभेदो वा आद्ये चैत्रः स्वांशगतसुखादिकं नानुसंधानप्रयोजकभेदस्य सत्वाद्यदि सत्यपि भेदे स्वांशगतमनुसंदध्यात् | तदा चैत्रोगेत्र गत सुखादिकं
537 SK प्. ९७ब्) मप्यनुसंदध्यादित्याह | चैत्रस्येति | अंशांऽशिनोरननुसंधानप्रयोजकभेदासिद्धिमाशंक्यतं | साधयति कायव्यूहेति वियुज्येति | अंशिनः सकाशाद्विभागं प्राप्येत्यर्थः | अन्यत्रेति | योगिनो निजशरीरादन्यत्र कायव्यूह इत्यर्थः | तयोर्भेदो नास्माभिः साधनीय इत्याशयेनाह | अंशांशिनोरिति | ननुभेदमात्रं अननुसंधानप्रयोजकतयानेष्यते | येन जीवस्वांशगमपि सुखादिकं नानुसंदध्यात् यद्यनुसंदध्यात् | तदा जीवांतरगतमपि तदनुसंदध्यात् दितिदोषः प्रसज्येत किंतु विशेषतो भेद इति द्वितीयं शंकते | न चेति || नाद्यः अंशो ह्येष परमस्य ममैवांशो जीवलोके अंशो नानाव्यपदेशादिति श्रुतिस्मृति सूत्रैर्जीवस्य ब्रह्मांशत्वप्रतिपादनैन ब्रह्मजीवयोर्भोगसांकर्य प्रसंगात् | ननु जीवांशानां जीवं प्रतीव जीवस्य ब्रह्मप्रतिनांशत्वं किं त्व चंद्रबिंबस्य गुरुबिंबः शतांश इति वत्सदृशत्वे सति ततो न्यूनत्वमात्रमौपचारिकांशत्वमिति चेत् | किं तदेनदतिरेकेण मुख्यमंशत्वं जीवांशानां जीवं प्रतिपदत्राननुसंधानप्रयोजकं शरीरे निवेश्यते | प्. ९८अ) न तावत् पटं प्रतिजंतूनामिवारंभकत्वं जीवस्यानादित्वात् | नापि महाकाशं प्रतिघटाकाशादीनामिव प्रदेशत्वं टंकछिन्नपाषाणशकलादीनामिव खंडत्वं वा अणुत्वेन निःप्रदेशत्वात् | अछेद्यत्वाच्च भिन्नाभिन्नद्रव्यत्वमंशत्वमभिमतमिति चेत् न तथा सति जीवेश्वरयोर्जीवांशानां च भोगसांकर्यप्रसंगात् | स्वतो भिन्नानां तेषां चेतनत्वादिनाऽभेदस्यापि त्वयांगीकारात् | समूहसमूहिनोर्भेदाभेदवादिनस्तवमते एकसमूहांतर्गतानां जीवानां परस्परमप्यभेदस्य त्वाच्च ||
538 SK आद्ये कल्पे जीवेश्वरभेदस्यांशांशिभाव सह चरितत्वेन शुद्धभेदत्वान्नावातयोः परस्परं सुखाद्यनुसंधानं स्यादित्याह | नाद्य इति | जीवेश्वरयोरंशांशिभावे मानमाह | अंशोहिति | परमस्य परमात्मनः जीवलक्षणो लोको जीवलोकः ननु भेदस्यांशांशिभावमात्रा सह चरितत्वं शुद्धत्वं न भवति | किंतु मुख्यांशांशिभावा सह चरितत्वं जीवेश्वरयोरंशांशित्वं तु न मुख्यमतेः तयोर्भेदे मुखाशांशिभावा सह चरितत्वरूपशुद्धत्वस्य सत्वान्नोक्त दोष इति शंकते |
539 SK प्. ९८ब्) नन्विति जीवं प्रतीति | तथा च जीव तदंशयोर्भेदे मुख्यांशांशिभाव सह चरितत्वस्यैव सत्वेन तद सह चरितत्वरूपशुद्धत्वाभावादनुसंधो नोपपतिरितिभावः | नांशत्वमित्यनंतरं मुखमितिशेषः कांतिमत्वं | मुख्यांशांशिभावा सह चरित भेदो ननुसंधानप्रयोजक इत्यत्र मुख्यांशांशिभावो दुर्निरूप इत्याह | किं तदिति | यन्मुख्यमंशत्वमत्रप्रयोजकशरीरे निवेश्यते तदेतदतिरेकेण किमिति योजना मुख्यमंशत्वं आरंभकावयवत्वं वो प्रदेशत्वं वा खंडत्वं वा भिन्नाभिन्नद्रव्यत्वं वेति किं शब्दार्थः | तत्राद्यं निराकरोति | न तावदिति | द्वितीय तृतीयौ क्रमेणानूद्यदूषयति | नापीत्यादिना | जीवस्याणुत्वेन प्रदेशासंभवादणुत्वेनैव द्वैधीभावा योग्यत्वाच्चेत्यर्थः | चतुर्थं शंकते | भिन्नाभिन्नेति | जीवांशानां जीवेन सह भिन्नद्रव्यत्वं मुख्यमंशत्वमभिमतं तदेव चाननुसंधानप्रयोजकशरीरे निवेश्यते | तथा च भिन्नाभिन्नद्रव्यत्वा सहचरितभेदः शुद्धभेदः स चाननुसंधानप्रयोजक इति निष्कर्षः | तत्र दूषणमाह | तथा सतीति | जीवेश्वरयोस्त्वयाभिन्नाभिन्नद्रव्यत्वाभ्युपगमात् | तयोर्भेदः शुद्धभेदो न भवति | तथा जीवाशानां परस्परं भिन्नाभिन्नद्रव्यत्वस्य त्वया स्वीकारा तेषां भेदोपि शुद्धभेदो न भवति | तथा चाननुसंधानप्रयोजका भावाज्जीवेश्वरयोर्जीवांशानां च भोगसांकर्य प्रसंग इत्यर्थः | चेतनत्वादिनेति सत्व द्रव्यत्व संग्रहार्थमादिपदं दूषणांतरमाह | समूहेति | समूहस्य समूहिनां च परस्परं भिन्नात्वे सत्य प्. ९९अ) भिन्नत्वमंगीकुर्वतस्तवमते समूहिनामपि परस्परभिन्नत्वमावश्यकं | तथा च उत्मवादौवेकत्रमिलितानां जीवानां भिन्नानां परस्परमभिन्नद्रव्यत्वस्यापि सत्वा तेषां परस्परं भेदः शुद्धभेदो न भवति भिन्नाभिन्नाभिन्नद्रव्यत्व सहचरितत्वा तथा च परस्परं तेषां सुखाद्यनुसंधान प्रसंग इत्यर्थः ||
540 SK स्वाभिन्नसमूहाभिन्नेन स्वस्याप्यभेदस्य दुर्वारत्वात् | यदि संयोगादीनां जातेश्चानेकाश्रितत्वं स्या तदागुणगुण्यादेरभेदात् | तदा घटाभिन्नसंयोगाभिन्नपटादेरपि घटाभेदः प्रसज्येत इत्यादि च दतात्वया तदभिन्नाभिन्नस्य तदभेदनियमाभ्युपगमात् | न च जीवांतरस्य धारण चेतनत्वादि धर्मैक रूप्यैक समूहांतर्गत्यादि प्रयुक्ताभेदविलक्षणमभेदांतरमंशांशिनोरस्ति भेदेप्यनुसंधानप्रयोजकं यदत्रा नति प्रसंगाय विनक्ष्येत तथा सति तस्यैव विशिष्यनिर्वक्तव्यत्वापतेः | धर्मैकरूप्याद्यप्रयुक्तत्वमंशाशिनोरभेदे विशेष इति चेत् || प्. ९९ब्) ननु समूहिनां समूह्य भिन्नत्वेपि | न तेषां परस्परमभिन्नत्वमस्मन्मतेऽस्ति अतो नोक्तदोष इत्याशंक्याह | स्वाभिन्नेति | स्वयमेकः समूही देवदतः तदभिन्नः समूहः तदभिन्नो यज्ञदतः तेन सहस्वस्यापि देवदतस्याप्यभेदस्य तस्य च मते दुर्वारत्वात् | त्वया तदभिन्नाभिन्नस्य तदभिन्नत्वनियमाभ्युपगमादित्यर्थः परं प्रत्युक्त नियमाभ्युपगमं साधयति | यदीत्यादिना | गुणगुण्योर्जाति व्यक्त्योश्चाभेदवादिनं प्रतिदूषणपरोयं जीवाणुत्ववादिग्रंथो यदीत्यादिः | गुणगुण्योरभेदमंगीकृत्य यदि गुणस्य संयोगविभागद्वित्वादेरनेकाश्रितत्वमभ्युपगम्येत तथा जातिव्यक्त्यारभेदमुपेत्य यदि जातेरनेकाश्रितत्वेमभ्युपगम्येत तदा पटादेरपि घटाभेदप्रसंग इति | तत्र हेतुगर्भं विशेषणमाह | घटाभिन्नेति | घटाभिन्नः संयोगः तदभिन्नत्वात्पटादरित्यर्थः | ननु जीवेश्वरयोर्जीव्ॐशानां समूहाभिन्नजीवानां च योयंवेतनत्वादि धर्मप्रयुक्ताभेदः एकसमूहाभेदप्रयुक्ताभेदश्च तदपेक्षयान्य एवाभेदो जीव तदंयोरस्ति अतस्तयोर्भेदे सत्यपि परस्परमनुसंधानं जीवेश्वरयोर्जीवांशानां समूहिजीवानां च तादृशाभेदाभावाच्चेतनत्वादि प्रयुक्ताभेदे सत्यपि न परस्परमनुसंधानमिति
541 SK प्. १००अ) व्यवस्था तथा च भिन्नाभिन्नद्रव्यत्वा सहचरितभेदः शुद्धे भेदः स चाननुसंधानप्रयोजक इत्यत्र जीव तदंशयोः परस्परानुसंधानप्रयोजकत्वाभिमतो विलक्षणाभेद एव प्रविष्ट इति जीवेश्वरादौ तादृशाभेदघटित भिन्नाभिन्नद्रव्यत्वा सहचरितभेदसत्वान्नोक्ताति प्रसंग इति शंकां निराकरोति | न चेति | जीवतदंशयोरिव जीवांतराणामपि साधारणो यश्चेतनत्वादि धर्मैकरूप्यप्रयुक्त एकसमूहांतर्गत्यादिप्रयुक्तश्चाभेदः तद्विलक्षणमित्यर्थः | जीवेश्वर गतस्यामुख्यांशांशिभावस्य संग्रहार्थमादिपदं अंशांशिनोर्भेदे सत्यपि तयोरनुसंधानप्रयोजकभेदांतरं ने चास्ति यदभेदांतरं जीवेश्वरादावति प्रसंगपरिहाराय भिन्नाभिन्नद्रव्यत्व शरीरप्रविष्टतया विवक्ष्येतेति योजना नन्वभेदांतरं कुतो नास्तीत्वाशंक्याह तथा सतीति विलक्षणाभेदस्यांशांशिनोः सत्व इत्यर्थः | जीवेश्वराद्यभेदापेक्षया जीव तदंशयोरभेदस्य विशेषं विशेषतौ निर्वक्ति धर्मैकरूप्याद्य प्रयुक्तत्वमिति || न जीवतदंशयोश्चोतनत्वादि धर्मैकरूप्यसत्वैनेकशरीरावछेदेकायव्यूहमेलने च समूह सत्वेन च तयोरभेदे धर्मैकरूप्यादि प्रयुक्तत्वस्यापि संभवात् धर्मैक प्. १००ब्) रूप्यादिप्रयुक्ताभेदांतर सत्वेपि जीव तदंशयोरंशांशिभावप्रयोजकाभेदो न तत्प्रयुक्त इति चेत् न तयोरभेदद्वयाभावात् | त्वन्मतेऽधिकरणैक्ये सति भेदस्याभेदस्य वा प्रतियोगिभेदेन तदाकारभेदेन वानेकत्वानभ्युपगमात् | तस्मादाद्यपक्षे सुस्थोति प्रसंगः | एतेनैव द्वितीय पक्षोपि निरस्तः | अभेदा सह चरितभेदस्याननुसंधानप्रयोजकत्वे उक्तरीत्यात्वन्मते जीवब्रह्मणो जीवानां चाभेदस्यापि सत्वेनाति प्रसंगस्य दुर्वारत्वात् | नन्वभेदप्रत्यक्षमनुसंधाने तंत्रमिति तदभावेः | ननुसंधानं स्वस्य स्वाभेदः स्वांशाभेदश्च प्रत्यक्ष इति तद्द्रष्ट्रर्दुखाद्यनुसंधानं जीवांतरेणऽभेदसत्वेपि तस्याप्रत्यक्षत्वान्न तदुःखाद्यनुसंधानं |
542 SK उक्त विशेषासिद्धिमाह | न जीवेति | जीवस्य तदंशानां च चेतनत्व सत्वद्रव्यत्वादि धर्मैकरूप्यमस्ति तथा जीवस्य तदवयवानां चैकशरीरानुप्रवेशकाले प्. १०१अ) तछरीरावछेदेन समूहोप्यस्ति तथा योगि जीवावयनां कायव्यूहशब्दितानेकशरीरेषु प्रविष्टानां कदाचित् तेषां शरीराणां मेलने सति योगि जीवेनांशिना सहस्रमूहोस्मि तथा च जीवतदंशयोरभेदे धर्मैकरूप्यादिप्रयुक्तत्व संभवातदप्रयुक्तत्वमसिद्धमित्यर्थः | ननु जीवानां चेतनत्वादि धर्मैकरूप्यादिप्रयुक्ताभेदसत्वेपि तेषामंशांशिभावादंशांशिभावप्रयोजकाभेदोन्य एव स च न धर्मैकरूप्यादिप्रयुक्त इति शंकते | धर्मैकरूप्यादीति जीवांतरसाधारणाभेदस्य धर्मैकरूप्यादि प्रयुक्तस्याप्य परिहार्यत्वा तस्याप्यभ्युपगमे सति जीव तदंशयोरभेदद्वयमभ्युपगते परस्य मते प्रसज्यते | ओमिति वदंतं परं प्रत्याह | न तयोरिति | अंशांशिनोरित्यर्थः | तदा कोरेति प्रतियोग्याकारेत्यर्थः | प्रतियोगितावछेदकेति यावत् | भेदस्यानेकत्वानभ्युपगमोपन्यासो दृष्टांतार्थः | तस्यादिति | जीवेश्वरयोर्यः पूर्वमंशाशिभावो निरूपिता तदतिरेकेण जीवतदंशयोर्मुखस्यांशांशिभावस्य दुर्निरूपत्वादित्यर्थः | तथा च जीवैश्वरयोर्भेदस्य निरूपितांशांशिभावसहचरितत्वेन तदसहचरितत्वरूपशुद्धत्वाभावे सत्यननुसंधानप्रयोजक शुद्धभेदाभावाज्जीवेश्वरयोः परस्परं भोगसांकर्यप्रसंगरूपो दोषः स्थिर इत्यर्थः | आद्यपक्ष इति अशांशिभावा सहचरितत्वं शुद्धत्वमिति पक्ष इत्यर्थः | अभेदासहचरितत्वं शुद्धत्वं भेदस्येति पक्षं प्. १०१ब्) वक्ष्यमाण हेतुना निराकरोति | एतेनेनैवेति | उक्तरीत्येति | चेतनत्वादि धर्मैकरूप्यमुक्तारीतिः | जीव तदंशयोरिव जीव ब्रह्मणोर्जीवाअनां चाभेदमुपेत्यापि पूर्वोक्ताति प्रसंगपरिहारं शंकते नन्विति स्वस्येति अंशिनो जीवस्येत्यर्थः | जीवांतरेणेति | स्वस्येत्यिनुसंगः ||
543 SK जातिस्मरस्य प्राग्भवीयात्मनाप्यभेदस्य प्रत्यक्ष सत्वा तद्वृतांतानुसंधानमन्येषां तदभावान्नेत्यादि सर्वं संगछत इति चेत् | तर्हि ऐकात्म्यवादेपि सर्वात्मतावरकाज्ञानावरणाच्चैत्रस्य न मैत्रात्माद्य भेदप्रत्यक्षमिति तत एव सर्वव्यवस्थोपपतेर्व्यर्थः | श्रुति विरुद्धात्मभेदाभ्युपगमः | न चेत्थमपि प्रपंचतत्ववादिनः तव व्यवस्था निर्वाहः सर्वज्ञस्येश्वरस्य वस्तु स जीवांतराभेदप्रत्यक्षावश्यंभावे न जीवेषु दुःखवत् स्वहं दुःखीत्यनुभवापतेः | अस्मन्मते त्वीश्वरः स्वाभिन्ने जीवे संसारं प्रतिमुखे मालिन्यमिव पश्यन्नपि मिथ्यात्वनिश्चयान्न शोचतीति नैष प्रसंगः स्यादे प्. १०२अ) तन्माभूदंश भेदं शंकरशिरश्चरणादीनां काय व्यूहस्य चाधिष्ठानमात्मदीपस्यानपायिनी ज्ञानप्रभास्तिव्यापिनीति तयैव सर्वाधिष्ठानं भविष्यतीति चेत् || जातिस्मरस्येति | पूर्वजन्मस्मरणवत इत्यर्थः | सर्वेति सर्वात्मतावरकं | यदज्ञानं तत्प्रयुक्तावरणादित्यर्थः | तत एवेति चैत्र मैंत्रादीनां सर्वेषां परस्परमभेद प्रत्यक्षाभावादेव व्यवस्थिततया सुखाद्यननुसंधानोपपतेरित्यर्थः | अभेदप्रत्यक्षस्यानुसंधानप्रयोजकत्वमुपेत्यपरमते आत्माभेदकल्पनागौरवं श्रुतिविरोधं च दर्शयित्वा परमते तस्य प्रयोजकत्वमपि न संभवत्यति प्रसंगादित्याह | न चेत्थमपीति | अभेदप्रत्यक्षमवुसंधानप्रयोजकमिति कल्पनयापीत्यर्थः | वस्तुसन् परमार्थो यो जीवांतराभेदः तत्प्रत्यक्षमीश्वरस्यावश्यकं | अन्यथा असर्वज्ञत्वप्रसंगः स्यादित्यर्थः | ननु सिद्धंतेपि ब्रह्मणः सर्वज्ञत्वजीवाभिन्नत्वयोः सत्वादुक्तदोषप्रसंग इति नेत्याह | अस्मत्मत इति | यत्तु जीवानां सावयवत्वात् करशिरश्चरणानुगतेषु जीवांशेषु सुखदुःखादि यौगपद्यं संभवति योगिनां कायव्यूहगतेषु योगिजीवावयवेषु युगपत्सुखदुःखादिभोगवैचित्र्यं च संभवतीति न काचिदनुपपतिरिति तन्न जीवं प्रतिजीवांशानां
544 SK प्. १०२ब्) सुख्यांशत्वस्यापि निरस्तत्वाज्जीवं प्रति तदंशानां जीवसदृशत्वे सति जीवापेक्षया न्यूनपरिमाणत्वरूपौपाचारिकांशत्वस्यापि जीवाणुत्वपक्षे बाधितत्वाच्च अणुपरिमाणस्यैव सर्वपरिमाणापेक्षया न्यूनपरिमाणत्वेन ततोपि न्यूनपरिमाणाभावात् सदृशत्वे सति ततो न्यूनत्वरूपांशत्वस्य चंद्रबिंबांश गुरुबिंबवज्जीवांशानां जीवापेक्षयात्यंतभेदप्रयोजकत्वेन जीवस्य स्वांशगतसुखाद्यनुसंधातृत्वासंभवाच्च तथा योगि जीवांशानां कायव्यूहाधिष्ठातृत्वेपि तेभ्योत्यंतभिन्नस्य योगि जीवस्य कायव्यूहाधिष्ठातृत्वाभावप्रसंगा तथा शरीरधिष्ठातुर्जीवस्य शरीरावयवशिरश्चरणाद्यधिष्ठातॄणां जीवांशानां चात्यंतभिन्नत्वेनैकस्मिन् शरीरे भोक्तृतानात्वप्रसंगात् जीवस्य सांशत्वे मानान्नावाच्च द्रोणं बृहस्पतेभीगमिति | वचनस्य वर्णितरीत्यादुक्तांशपरत्वाभावेन बृहस्पत्यादेर्योगप्रभावेणभूतारहरणादिदेव कार्यार्थं शरीरांतरपरिग्रहमात्रपरत्वात् | एतेन श्रीरामकृष्णादेर्विष्णुंशत्व व्यवहारोपि व्याख्यातः तस्माज्जीवांशविशेषस्य करशिरश्चरणाद्यधिष्टातृत्वं कायव्यूहाद्यधिष्ठातृत्वं च न संभवतीति पूर्वग्रंथस्याशये स्थिते शंकते स्यादेतदिति अधिष्ठानमिति | प्रेरक इत्यी भविष्यतीति | जीवः स्वयमणुतया शरीरैकदेशस्थोपि स्वसमचैतेन व्यापि ज्ञानेन करशिरश्चरणादीन् कायव्यूहं चाधि तिष्ठतीति प्. १०३अ) निरंशस्याप्यणोर्जीवस्य कृत्स्नशरीरोधिष्ठातृत्वादिकं नानुपपन्नमितिभावः ||
545 SK न ज्ञानवदात्मसुधर्मस्य सुखदुःखभोगस्य ज्ञानमाश्रित्योत्यत्यसंभवे नर चरणाद्यवयवभेदेन कायव्यूहवतः कायभेदेन च भोगवैचित्र्याभावप्रसंगात् | सुखदुःखभोगादिर्ज्ञानधर्म एवनात्मधर्म इत्युपगमे तद्वैचित्र्येण आत्मगुणस्य ज्ञानस्य भेदसिद्धावप्यात्मनो भेदासिद्ध्याभोगवैचित्र्यादिना आत्माभेदप्रतिक्षेपा योगाद्भोगाद्याश्रयस्यात्मनोणत्वेन प्रतिशरीरं विछिन्नतया तद्व्यापित्ववाद इव तदभेदवाद इवचनधर्मसंकरापतिरिति मतहानेश्च तस्माज्जीवस्याणुत्वोपगमेन व्यवस्थोपपादनेन युक्तं नापि तेन तस्येश्वराद्भेदसाधनं युक्तं उत्क्रांत्यादिश्रवणात्साक्षादणुत्व श्रवणाच्चाणुर्जीव इति वदतस्तवमते तत्सृष्टातदेवानुप्राविशत् अंतःप्रविष्टः शास्ताजनानां गुहां प्रविष्टौ परे मे परार्द्ध्ये इत्यादि श्रुतिषु प्रवैशादिश्रवणात् स एषोणिमा एषम प्. १०३ब्) आत्मांतं हृदयोणीयान् ब्रीहेर्वायवाद्धेति श्रुतेः साक्षादणुत्व श्रवणाच्च परोप्यणुरेव सिध्येदिति कुतः परजीवयोर्विभुत्वाणुत्वाभ्यां भेदसिद्धिः नन्वाकाशवत्सर्वगतश्च नित्यः ज्यायान् दिवोज्ज्यायांनंतरिक्षादित्यादि श्रवणात् ||
546 SK ज्ञानमाश्रित्येति | ज्ञानधर्मत्वे हि सुखादेर्ज्ञाने उत्पतिः संभवे ततश्च ज्ञानस्य व्यापकता तदाश्रित सुखादिरूपभोगस्यापि करशिरश्चरणादौ कायव्यूह च युगपदुदयः संभवेन्नतत्वया सुखादेर्ज्ञानधर्मत्वमिष्यते | तस्य ज्ञानवदात्मधर्मत्वाभ्युपगमादंशि ज्ञानस्य व्यापित्वेपि न करशिरश्चरणादौ कायव्यूहे च युगपद्भोगवैचित्र्यं संभवतीत्यर्थः | कायव्यूहवृत इति | योगिन इति शेषः तस्य च भोगवैचित्र्यं स्मर्यर्तौ क्षिपेच्च पुनस्तानि सूर्योरश्मिगणानिवेति | आत्मनां शरीराणां बलं योगजनितं सामर्थ्यं | तर्हि ज्ञानधर्मत्वमेव सुखादेरस्तु यदि तद्धर्षत्व भोगवैचित्र्यं संभवेत् तत्राह | सुखदुःखभोगादिरिति | असिद्ध्यति आत्मगुणज्ञाननिष्ठस्य भोगवैचित्र्यस्य व्यधिकरणतयो आत्मभेद साधकत्वासंभवादित्यर्थः | सुखादेर्व्यापि ज्ञानधर्मत्वं स्वमतविरुद्धं चेत्याह | भोगाद्याश्रयस्येति | नैय्यायिकादि मत इवाद्वैतमत इव चेत्यर्थः | तस्मादिति | आत्मगुणस्य ज्ञानसुखादेर्व्यापि
547 SK प्. १०४अ) त्वकल्पनायोगादित्यर्थः | जीवाणुत्वाभ्युपगमस्य पराभिमतं प्रयोजनांतरं | आत्मनां च सहस्राणि बहूनि भरतर्षभयोगी कुर्यात् बलं प्राप्यतैश्च सर्वां सह्ये चरेत् प्राप्नुयाद्विषयान् कैश्चित्कैश्चिदुग्रंत पश्चरेत् सं ५ त्रुटित् दूषयति | नापि तेन तस्येति जीवस्याणुत्वे नेत्यर्थः | श्रुति तदर्थापतिभ्यां जीवस्याणुत्वं वदतस्तवमते ताभ्यामेवेश्वराणुत्वस्थापि दुर्वारत्वान्नेश्वरस्य विभुत्वसिद्धिस्तदसिद्धौवनतवेष्टसिद्धिरिति दूषयति | उत्क्रांत्वादिति | वदंतस्तवपक्षेप्यणुरेवसिध्येदिति संबंधः | तत्सृष्टोत्यवतत्पदद्वयं जगत्परं प्रकृतः परमात्मासृष्ट्यादिकर्ता अंतरिति शरीरेष्वितिशेषः शास्तानियंतापरस्यार्द्धस्थानमर्हतीति परार्द्ध्यं परममुत्कृष्टं हार्दाकाशं तस्मिन् या बुद्धिलक्षणागुहातां प्रविष्टौ जीवेश्वरावित्यर्थः | प्रवेशादिति | शरीरांतस्थत्वादिकमादिपदार्थः स उपक्रमे प्रकृत एषः संनिहितः अणिमा अणुर्भाव प्रत्ययो न विवक्षिप्तः मे हृदयेंतरेषः प्रकृतोभाक्रूपत्वादिगुणक आत्मावर्तते स च ब्रीह्माद्यपेक्षयाणुतर इत्यर्थः | अनन्यथा सिद्धशुत्यादि वशेन विभुत्वमीश्वरस्य शंकते | नन्विति | ज्यायात्महतरःराः || सर्वप्रपंचोपादानत्वाच्च परस्य सर्वगत्वसिद्धेः तदणत्वश्रुतयः उपासनार्थादुर्ग्रहत्वाभिप्रावा उन्नेयाः प्रवेशश्रुतयश्च शरीराद्युपाधिना निर्वाह्याः | न च जीवोत्क्रांत्यादि श्रुतयोपि
548 SK प्. १०४ब्) बुद्ध्या उपाधिनानिर्वोदुंशक्या इति शंक्यं तमुत्क्रामंतं प्राणोनूत्क्रामतीति प्राणाख्य बुद्व्युत्क्रांतेः प्रावेव जीवोत्क्रांति वचनात् | तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति टिव्यमिति नामरूपमोक्षानंतरमपि गति श्रवणाच्च त चथानः सुसमाहितमुत्सुर्जन्यायादेवमेवायं शारीर आत्माप्राज्ञे नात्मनान्वारूढ उत्सर्जन्यातीति स्वाभाविकगत्याश्रयशकट दृष्टांतोक्तेश्चेति चेत् | नैतत्सारं स वा एष महानज आत्मायोयं विज्ञानमयः घटसंवृत आकाशे नीयमाने घटे यथा घटोनियेतनाकाशं तद्वज्जीवो नभोपम इत्यादि श्रुतिषु जीवस्यापि विभुत्वश्रवणात् || परस्य विभुत्वे लिंगमाह | सर्वेति | परमाणुत्व श्रुतीनामन्युथा सिद्धिमाह | तदणुत्वेति | उपासनार्था इति अणीयान् ब्रीहेर्वेत्या विश्रुतय इत्यर्थः | दुर्ग्रहत्वेति स एषोणिमेत्यादि श्रुतय इत्यर्थः | आसामुपासनाप्रकरणगतत्वाभावादिति भावः | व्यवस्थितविकल्पवाचीवाकारः प्रवेशादि श्रवणस्यान्यथा सिद्धिमाह | प्रवेश श्रुतयश्चेति परमेश्वरस्य स्वेछापरिगृहीत
549 SK प्. १०५अ) शरीरेंद्रिय प्रवेशोपाधिकः शरीरेष्वंतः प्रवेश इत्यर्थः | ननु जीवाणुत्व श्रुति लिंगानामप्यन्यथा नयन संभवाज्जीवस्यापि स्वाभाविकं विभुत्वं किं न स्यात् तथा च न तस्याणुत्वसिद्धिरिति सिद्धांतिनः शंका मनूद्यनिराकरोति | जीवाणुत्ववादी न चेत्यादिनातमुत्क्रामंतमिति | न चात्र श्रुतौ प्राणोप्राणोत्क्रांतेः प्रागेव जीवस्योत्क्रांति श्रवणेपि न केवलस्य तस्योत्क्रांति सिद्धिंर्बुद्धि विशिष्टस्योत्क्रांति संभवादिति वाच्यं बुद्धिप्राणयोर्भेदासिद्धेस्तयोरभेदस्यैव श्रुति सिद्धत्वाच्च तथा च श्रुतिर्यो वै प्राणः सा प्रज्ञाया वा प्रज्ञा स प्राण इति प्रज्ञाबुद्धिरित्याशयेनाह प्राणाख्या बुद्ध्यत्क्रांतेरिति | नामरूपशब्दितोपाधिनिवृत्यनंतरमपि जीवस्य ब्रह्म प्रतिगतिः श्रूयते | तथा च यथा उत्क्रांते रौपायिकत्वं न संभवति तथा गतेररपौपाधिकत्वं न संभवतीत्य मध्यमपरिमाणस्य जीवस्य स्वाभाविकमणुत्वं स्वीकर्तव्यमित्याशयेनाह | तथा विद्वानिति पराद्धिरण्यगर्भात् जीवस्या स्वाभाविके गत्याश्रयत्वे सत्येव दृष्टांतविशेषः संगछते न्यथा तद्वैरूप्यं स्यादित्याशयेनाह | तद्यथेति | ततत्र जीवस्य पारलोकं प्रतिगमने दृष्टां तत उच्यते | अनः शकठंसुसमाहितं गृहोपकरणैः पूर्णमुत्सर्जन् शब्दं कुर्वन् पायात् | गछेद्यथा एवं जीव ईश्वरेणान्वारूढः प्रेरितो गछति परलोक इत्यर्थः | तथा च जीवस्याणुत्वे प्. १०५ब्) स्वाभाविके सिद्धे सत्यणुत्वविभुत्वाभ्यां जीवेश्वरयोर्भेदसिद्धिरिति भावः | सिद्धांती दूषय इति | नैतत् सारमिति | यथा परमात्मप्रकरणे श्रुतं परस्य विभुत्वमन्यथानेतुमयुक्तं तथा जीव प्रकरणे श्रुतं जीवस्य विभुत्वमप्यन्यथा नेतुमयुक्तमित्याशयेनकतम आत्मेत्यादि जीवप्रकरण गतं वाक्यं जातमुदाहरति | स वा इत्यादिना विज्ञानमयो जीवो महान् व्यापक आत्मेति जीवस्य व्यापकत्व श्रवणादित्यर्थः | नभोपम इत्यनेन स्वतो जीवस्य विभुत्वमुच्यत इत्यर्थः | इयं श्रुतिः प्रागेव व्याख्याता ||
550 SK त्वन्मते प्रकृतेरेव जगदुपादानत्वेन ब्रह्मणो जगदुपादानत्वा भावात् | जीवस्य कायव्यूहुगत सुखदुःखोपादानत्ववदणुत्वेपि जगदुपादानत्वसंभवाच्च | ततस्तस्य सर्वगत्वासिद्धेः | तत्प्रवेश श्रुतीनां शरीरोपाधिकत्वकल्पने जीवोत्क्रांत्यादि श्रुतीनामपि बुद्ध्युपाधिकत्वोपगमसंभवात् | पंचवृतिर्मनोवद्यय दिश्यत इति सूत्रभाष्ये बुद्धिप्रायोः कार्यभेदस्य प्रतिपादितत्वेन बुद्ध्यपाधिके जीवे प्रथममुत्क्रामति प्राणस्यानूत्क्रमणोपपतेः प्. १०६अ) नामरूपमोक्षानंतरं ब्रह्मप्रामिश्रवणस्य प्राप्तरिजीवे इव प्राप्ये ब्रह्मण्यपि विभुत्वविरोधित्वात् | प्राकृतनामरूपविमोक्षातंतरमर्प्य प्राकृततोकविग्रहाद्युपाधाने ब्रह्मणः प्राप्तव्यत्ववादिमने प्राप्तुर्जीवस्याप्यप्राकृत देहेन्द्रियादि सत्त्वेन तदुप्राधानेन ब्रह्मप्राप्ति श्रवणाविरोधात् | स्वाभाविक गत्याश्रय शकट दृष्टांतश्रवणमात्राज्जीवस्य स्वाभाविक गति सिद्धौ गुहां प्रदिष्टाविति स्वाभाविक प्रवेशाश्रय जीवसमभिव्याहारेण ब्रह्मणोपि स्वाभाविक प्रवेशसिद्धिसंभवात् | विभुत्वेन न्यथासिद्धश्रुतिसाम्यमुक्त्वापरस्परोक्त विभुत्व लिंगं विघटयति | तन्मत इति | प्रकृतिर्माया परस्य ब्रह्मणः सर्वप्रपंचोपादानत्वमुपेत्यापि न तद्विभुत्वसाधकमियत्याह | जीवस्येति | अणोरितिशेषः | ततः सर्वोपादान त्वात्तस्येत्यर्थः | जीवाणुत्वश्रुतिलिंगानामन्यथा नयनमपि तुल्यमेवैत्याह | तत्प्रवेश श्रुतीति | ब्रह्मप्रवेशेत्यर्थः | पंचप्राणापानादिलक्षणावृतयो यस्य मुख्यप्राणस्य सः पंचवृतिः प्राणः श्रुतिषु व्यपदिश्यतै बहुवृतिमत्वमात्रे च दृष्टांतः मनो वदिति |
551 SK प्. १०६ब्) प्राणापानादि वृतीनां चोछासादिकं प्रत्येत्येकं कार्यमिति द्रष्टव्यं | तथा च दृष्टांत दार्ष्टांतिक भावेन सूत्रे मनःशब्दितबुद्धेः प्राणस्य च भेदौ निर्दिष्टः | स च बुद्धींद्रिय कार्यविषयो लोचनापेक्षया विलक्षणस्योछासादि क्रियारूपकार्यस्य प्राणे दर्शनात् | प्राणो बुद्ध्यादिभ्यो भिन्न इत्यादिप्रकारेण भाष्ये साधित इत्यर्थः | यो वै प्राणः सा प्रज्ञेति श्रुतौ प्रज्ञाप्राणयोर्भेदे सत्यपि प्रज्ञाप्राणोपहितस्य प्रत्यगात्मन एकत्वादुपहितात्प्राधान्येन तयोरेकीकरणमविरुद्धमिति प्रतर्दनाधिकरणभाष्यो प्रतिपादितत्वान्न श्रुतिविरोधोपीतिभावः | यतु नामरूपोपाधि निवृत्यनंतरं जीवस्य ब्रह्मप्रतिगति श्रवणं जीवस्य विभुत्व विरोधीति तदयुक्तं तस्य ब्रह्मण्यपि विभुत्वविरोधित्वेन ब्रह्मणोपि तदंसिद्धिप्रसंगात् | लोके परिछिन्नस्यैव गंतव्यत्वनियमदर्शनादित्याह | नामरूपेति | ननु परमते ब्रह्मणो व्यापक स्वरूपेण न मुक्तप्राप्यत्वं किंतु लोकविशेषाद्युपहितत्वेन उपहितरूपेण प्राप्तव्य त्वं च न ब्रह्मणः स्वरूपेण व्यापकत्वविदोधीत्याशंक्यतुल्यमेव तत्तवमते जीवस्यापीत्याह | प्राकृतेति विद्वाम्नामरूपाद्विमुक्त इति श्रुतौ प्राकृतनामरूपाद्विमुक्त इत्यर्थं कल्पयता त्वया विदुषो जीवस्याप्यप्राकृतनामरूप स्वीकारेण स्वतो विभोरपि जीवस्याप्राकृतनामरूपोपाधिपरिछिन्नस्य प्. १०७अ) ब्रह्मप्रतिगंतृत्व संभवान्न विभुत्व श्रुतयो जीवविषयावायनीया इत्यर्थः ||
552 SK ब्रह्मजीवोभयान्वयि न एकस्य प्रवेश पदस्य एकरूपप्रवेशपरत्वस्य वक्तव्यत्वात् ततः परमते ब्रह्मजीवयोर्विभुत्वाणुत्वादि व्यवस्थित्य सिद्धेर्न कुतोपि भेदसिद्धिं प्रत्याशा अस्मत्मते ब्रह्मात्मैक्य परमहावाक्यानुरोधेनावांतरवाक्यानां नेयत्वात् स्वरूपेण जीवस्य विभुत्वमौपाधिकरूपेण परिछेद इत्यादिप्रकारेण जीव ब्रह्मभेदे प्रात्यायक श्रुतीनांमुपपादेनं भाष्यादिषु व्यक्तं तस्मादचेतनस्य प्रपंचस्य मिथ्यात्वाच्चेतन प्रपंचस्य ब्रह्माभेदाच्च न वेदांतानाम द्वितीये ब्रह्मणि विद्यैक प्राप्ये समन्वयस्य कश्चिद्विरोध इति | इति शास्त्रसिद्धांतलेशसंग्रहे द्वितीयः परिच्छेदः || २ || ननु प्रविष्टावित्यत्र प्रविष्टपदं जीवे स्वाभाविक प्रवेशार्थकं ब्रह्मणि तु शरीराद्युपाधिकृतप्रवेशार्थकमित्याशंक्य तथा सति सकृच्छृतस्य प्रतिष्टपदस्यार्थ
553 SK प्. १०७ब्) वैरूप्यं प्रसज्येतेतिमत्वाह | ब्रह्मजीवो भयेति | यदि च ब्रह्मणो विभुत्व श्रुत्याद्यवुरोधेन प्रवेशमान्य परत्वमेव प्रविष्टपदस्य कल्पाते ननु तद्गतविशेषपरत्वमपि तर्हि जीवस्यापि विभुत्वश्रुत्यनुरोधेन शकटदृष्टांते गमनादि साम्यमात्रं विवक्ष्यतेन तु स्वाभाविक गत्या श्रयत्वादिकमपीति न जीवस्य स्वाभाविकाणुत्व सिद्धिः | तस्य तत्सिद्धौ वा ब्रह्मणोप्यणुत्वं दुर्वारं विनिगमनाविरहादिति भावः | तत इति उक्त व्यवस्थितेरित्यर्थः | ननु परमते जीवेश्वरयोरपि विभुत्वाणुत्व श्रुतिलिंगानामविशेषादुभयाणुत्व श्रुतिलिंगानामन्यथा सिद्ध्यविशेषाच्च तयोरणुत्वं विभुत्वं वा ससान तयैव सिध्येन्नत्वे कस्य विभुत्वमपरस्याणुत्वमिति व्यवस्था सिध्येदिति यथा दोषः प्रसज्यते | तथा सिद्ध्यंतेपि जीवस्य परिच्छिन्नत्व विभुत्वश्रुतिलिंगानामविशेषा तस्य स्वान्नाविकंविभुत्वं परिछिन्नत्वमौपाधिकमिति व्यवस्थान सिध्येदिति दोषः | प्रसज्यत एवेति नेत्याह | अस्मन्मत इति | ब्रह्मात्मैक्य ज्ञानस्य मुक्तिसाधनत्वातक्यानजनकानि तत्वमस्यादिवाक्यानि महावाक्यानि महावाक्यार्थज्ञानकारणी भूततत्वं पदार्थज्ञानं प्रतिसाधनभूतानि जीवस्वरूपप्रतिपादकवाक्यानीश्वर स्वरूपप्रतिपादकवाक्यानि चावांतर वाक्यानि महावाक्यशेषत्वात्पदार्थ प्रति प्. १०८अ) पादकवाक्यानामिति प्रधानवाक्यानुरोधेन गुणभूतवाक्यानां नेयत्वादित्यर्थः | स्वरूपेणेति | जीवस्य स्वरूपेणाणुत्वे महावाक्याप्रतिपाद्य ब्रह्माभेदानुपपतेर्ब्रमणश्च स्वरूपेण पूर्णत्वाभावे बहुश्रुत्यादि विरोधादितिभावः | अद्वितीये ब्रह्मणि वेदांतसमन्वयाविरोधसमर्थनरूपं परिछेदार्थमुपसंहरति | तस्मादिति | पंचम्यांतं पंचमीभ्यां विवृणोति | अचेतनस्येति | इति श्रीमत्परमहंसपरिव्राजिकाचार्य श्रीमत्स्वयंप्रकाशानंदसरस्वती दिव्यश्रीचरणारबिंदसंलग्नरजोभूतस्याच्युत कृष्णानंदतीर्थस्य कृतौ शास्त्रसिद्धान्तलेशसंग्रहव्याख्यायां द्वितीयः परिछेदः || २ || ॐ श्रीगणेशाय नमः |
554 SK अथ कोयमविद्यालेशोपदनुवृत्याजीवन्मुक्तिः आवरणविक्षेपशक्तिमत्यामूलाविद्यायाः प्रारब्धकर्म वर्तमानदेहाद्यनुवृति प्रयोजको विक्षेप शक्त्यंश इति केचित् | क्षालितलथुन भांडानुवृतलथुनवासना कल्पो विद्यासंस्कार इत्यन्येदपि पटन्यायेनानुवृतामूलाविद्यैवेत्यपरे सर्वज्ञात्मगुरवस्तु विरोधि साक्षात्कारोदये लेशतोप्यविद्यानुवृत्यसंभवात् || ॐ श्रीगणेशाय नमः || ॐ स्मृते सकलकल्याणभाजनं यन्न जायते | पुरुषस्तमजं नित्यं ब्रजामि शरणं हरिं || यत्र यस्मिन् हरौ स्मृते सतीत्यर्थः | नंदहस्तमवलंव्यपाणिनामंदमंदमरविदलोचनः संचरन् कनककिंकिणीरवस्संततं मम तनो तु मंगलं | यस्याः स्मरणमात्रेंण वाम्बिभूतिर्विजृंभते | सा भारती चिरं नित्यं रमतां मन्मुखां नुजें || यश्शिवो नामरूपाभ्यां या देवी सर्वमंगला | तयोस्संस्मरणात् पुंसां सर्वतो जयमंगलं || विघ्नेश विधिमार्तेड चंद्रेंद्रोपेंद्र वंदित | नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते || अथ कोपमिति | तृतीय परिछेदे ब्रह्मज्ञानरूपं मुक्तिसाधनं सपरिकरन्निरूपितमिदानीं तत्फलभूतामुक्तिर्निरूप्यते | तथा च फलनिरूपण परस्य चतुर्थ प्. १ब्) स्मृतौ तत्पदं ब्रह्मपरमुक्तमिति | तेनैति ब्रह्मवित् पुण्यकृदित्यादि श्रुत्येति शेषः | तेन ब्रह्मवेद न पुण्ययोः समुच्चयेन एति ब्रह्मप्राप्नोतीति श्रुत्यर्थः | ज्ञानकर्मणोः समुच्चयस्य ब्रह्मप्राप्ति हेतुत्व श्रवणमनुमोदते | सत्यमिति |
555 SK ब्रह्मप्राप्तेर्विद्यामात्रसाध्यत्व प्रतिपादक श्रुत्यंतरेण उपपति सहितेन विरोधात् समुच्चय श्रवणं तन्मूलकस्मृतिवचनं चक्रमसमुच्चय परतया नेतव्यमित्याशयेनाह | नान्यः पंथा इति | ब्रह्मज्ञानापेक्षया अन्यः ज्ञानकर्मसमुच्चयरूपः केवलकर्मरूपो वा पंथा | उपायो मोक्षं प्रतितास्तीति श्रुत्यर्थः | नित्यमात्मस्वरूपतया सिद्धस्य ब्रह्मणो वाप्तिरप्रात्यत्वभ्रमादि निवृतिरूपा भ्रमादि निवृतिश्च ज्ञानमात्रसाध्यत्वेन लोकै दृष्टा | यथा कंठगतायामेव कनमालायां विस्मृतायां सत्यां तस्यामप्राप्तत्वभ्रमेण बहुविधविक्षेपं प्राप्तस्य आप्तोपदेशजन्य ज्ञानमात्रेणाप्राप्तत्वभ्रमनिवृतिरूपा पूर्वसिद्धकनकमालावाप्तिः | तत्तुल्यायां नित्यसिद्धब्रह्मावाप्तौ विद्यातिरिक्तसाधनापेक्षाभावा तदतिरिक्तस्य भ्रमादि निवृतौ सामर्थ्या भावाच्चेत्यर्थः | परंपरया मुक्तावुक्तं कर्मणामुपयोगं प्रपंचयितुं पृछति | क्वतर्हीति | तर्हि ज्ञानवत् साक्षान्मुक्ति हेतुत्वाभावे सति क्वचि विदिषायां विद्यायां वा साधनत्वं तेषामित्यर्थः | तमेतमिति तछब्दः प्रकृत परमात्म परः एतछब्दः नित्यापरोक्ष जीवपरः | तथा च जीवाभिन्नं परमात्मानं वेदानुवचनादिभिर्वेदितुमिछंतीत्यर्थः | प्. २अ) अनशनादिलक्षणतयो व्यावृतये तपसो विशेषणमनाशकेनेति | तथा च हितमितमेध्याशनादिरूपं तप इह विवक्षितमिति लभ्यते | ननु विविदिषायामपुरुषार्थभूतायां कथं विनियोगः तत्राह | विद्याशंपादन द्वारेति | ततश्च गौणपुरुषार्थत्वं तस्याः संभवतीत्यर्थः | ननु मुक्तिं प्रतिप्रत्यासन्नत्वात् | विद्यायास्तस्यामेव विनियोगः कुतो न कल्प्यते | श्रुतत्वाविशेषाच्च कागनाविषयत्वेन श्रुतस्वर्गादेरेव कर्मफलतयान्यत्र स्वीकाराच्चेति मत्वाशंकते | नन्विति | स्वर्गकामादिवाक्येषु यागादेर्विधिप्रत्ययेन इष्टसाधनत्वे बोधिते किं तदिष्टमितिविशे ||
556 SK न स्यात् | प्रत्ययार्थस्य प्राधान्यात् | विद्यासंप्रयोगात् | प्रत्यासन्नानि विद्यासाधनानिशमदमादीनि विविदिषासंप्रयोगा तु वाह्यतराणि यज्ञादीनीति | सर्वापेक्षाधिकरणभाष्याच्च | ननु विविदिषार्थं यज्ञाद्यनुष्ठातुर्वेदनगोचरेछावत्वे विविदिषायाः सिद्धत्वेन तदभावे वेदनोपाये विविदिषायां कामनाऽसंभवेन च विविदिषार्थं यज्ञाद्यनुष्ठाना योगात् | न यज्ञादीनां विविदिषायां विनियोगो युक्त इति चेन्न अन्न द्वेषेण प्. २ब्) कार्श्यं प्राप्तस्य तत्परिहारायान्न विषयौत्कंठ्यलक्षणायामिछायां सत्यामप्युत्सुकाजीर्णादि प्रयुक्तथा तु वैषम्य दोषात् तत्र प्रवृतिपर्यंतारुचिर्न जायत इति तद्रोचकौषध विधिवत् || षाकांक्षायां सत्यां पुरुषविशेषणत्वेन श्रुतयोः कामनास्वर्गयोरन्यतरस्यापि शब्दतः प्राधान्याभावेन तत्रार्थतः प्राधान्यस्यैवाश्रयणीयत्वे स्वतः पुरुषार्थतया स्वर्गस्यैव फलत्वेनान्वयः स्वीकृतः यागः स्वर्गसाधनमिति न तु कामवायाः | इह तु वेदनकामनाया एव फलत्वेनान्वय उचितः शब्दतः प्रधानत्वादतः फलप्रत्यासत्यादिकमपि अकिंचित्करमिति मत्वासमाधते | न स्यादिति | सत्प्रत्ययः प्रत्ययशब्दार्थः विविदिषायामेव विनियोग इत्यत्र भाष्यसंमतिमाह | विद्यासंप्रयोगादिति | विद्यासाधनत्वादित्यर्थः | प्रत्यासन्नानीति | यावद्विद्योदयमनुष्ठेयानीत्यर्थः | शमादिवैषम्यं कर्मसुदर्शयति | विविदिषा संप्रयोगात्विति | तत्सायनत्वादेवेत्यर्थः | वास्पतगणीति | विविदिषोदय पर्यंतमेवानुष्ठेयानीति यावत् | विद्योत्पतौ सर्वाणि कर्माण्यपेक्षितव्यानीति प्रतिपादकाधिकरणेत्यर्थः | विविदिषाविनियोगं प्रकारांतरेणाक्षिपति | नन्विति | वेदनेछाया यज्ञादिफलत्वे वेदनेछा गोचरेछया यज्ञाद्यनुष्ठानं वाच्यं | वेदने छायाश्च स्वतः फलत्वाभावाद्वेदनद्वारा
557 SK प्. ३अ) मुक्तिफलकत्वं वाच्यं | तथा चायं क्रमः प्रथमं मुक्तौ स्वतः पुरुषार्थत्वज्ञानादिछा ततो वेदने मुक्तिसाधनत्व ज्ञानादिछा ततो वेदनेछायां वेदन साधनत्व ज्ञानादिछातया च यज्ञाद्यनुष्ठानमिति | तथा च वेदनेछारूपविविदिषोद्देशेन यज्ञाद्यनुष्ठाने प्रवर्तमानस्य ब्रह्मवेदने विविदिषाफले किमिछास्ति न वा आद्ये यज्ञानुष्ठान वैयर्थ्यमित्यभिप्रेत्याह | वेदन गोचरेति | वेदनगोचरेछाया एव विविदिषात्वादितिभावः | सिद्धत्वेन विविदिषार्थं यज्ञाद्यनुष्ठानायोगादिति संबंधः | न द्वितीयः | विविदिषा फले वेदने कामनायाः असत्वे विविदिषायामपि कामनाया अभावाद्विविदिषोद्देशेन यज्ञाद्यनुष्ठानायोग इत्याह | तदभाव इति | वेदनगोचरे छाया अभाव इत्यर्थः | विविदिषार्थं यज्ञाद्यनुष्ठातुरस्त्येव वेदनगोचरेछा न चैतावता तदनुष्ठान वैयर्थ्यं विविदिषाया द्वैविध्योपपतेः | तथा हि वेदनेछा द्विविधा विद्याया मौन्मुख्यलक्षणा रुचिलक्षणा च तत्राद्या यज्ञाद्यनुष्ठानात्प्रागपि वेदनेपि वर्तत इति तामादाय वेदनसाधनभूतायां विविदिषायां कामना संभवतीति विदिषार्थं यज्ञाद्यनुष्ठानमुपपन्नं द्वितीया तु यज्ञादि फलभूता तदनुष्ठानानंतरभाविनीति युक्त एव विविदिषायां यज्ञादि विनियोग इति समाधानमभिप्रेत्याह | नेति वेदनेछायाः द्वैवित्प्रेयक्षाद्यनुष्ठानादौ च दृष्टांतमाह | अन्न द्वेषेणेति | तत्परिहारायेति कार्श्यपरिहारायान्न भक्षणविषयकोत्कटेछाया सत्यासपीत्यर्थः | प्. ३ब्) उत्सकेति अधिकेत्यर्थः धातुवैषम्यप्रयोजकात्यंतानशनादि संग्रहार्थमादिपदं तत्रेति अन्नभक्षण इत्यर्थः | न जायत इति | एतच्चानुभवसिद्धमितिभावः ||
558 SK निरतिशयानंदरूपं ब्रह्म तत्प्राप्तौविद्यासाधनमित्यर्थे | प्राचीन बहुजन्मानुष्ठितानभिसंहितफलनित्यनैमितिक कर्मोपार्जितचितप्रसादमहिम्नासंपन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्तौ विद्यायां च तदौत्कंठ्यलक्षणायामिछायां सत्यामप्यनादिभवसंचितानेक दुरित दोषेणास्तिक कामुकस्य हेयकर्मणीव विषयभोगे प्रावण्यं संपादयता प्रतिबंधाद्विद्यासाधने श्रवणादौ प्रवृतिपर्यंता रुचिनं जायत इति प्रतिबंधनिरासपूर्वं तत्संपादक यज्ञादि विधानोपपतेरिति | विवरणानुसारिणस्त्वाहुः | प्रकृति प्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति सामान्यन्यायात् || अधीत सांग स्वाध्यायः पुरुषो वेदातैः ब्राह्मणो निरतिशयानंदरूपत्वं विद्यायां तत्प्राप्ति साधनत्वं च ज्ञात्वा तस्मिन्नर्थे संपन्नविश्वासो भवतीत्ययुक्तं | तथा विधानामपि
559 SK प्. ४अ) पुरुषाणां बहूनां तस्मिन् नर्थे विश्वाससंपतेरदर्शनादित्याशंक्याह | प्राचीनेति | प्राचीनेषु बहुषु जन्मस्वनुष्टितानि फलाभिसंधिरहितानि च यानि नित्यनैमितिकानि कर्माणि तैरुपसंजातौपश्चितप्रसादः शुद्धिविशेषस्तस्य महिम्नेत्यर्थः | तथा च स्मृतिः | मनुष्याणां सहस्रेषु कश्चिद्यतति सिधय इति | कश्चिदिति | उक्तचितप्रसाद वा नित्यर्थः | सिद्धये विद्यालाभायन सर्व इति भावः | ननु ब्रह्मप्राप्ति तत् साधनविद्यागोचरोत्कटेछायां सत्यां तत्साधनश्रवणादौ प्रवृतिपर्यंता रुचिर्न वेदेवेति कृतं तस्य यज्ञाद्यनुष्ठानेन तत्राह | अनादीति | दुरित दोषेण प्रतिबंधात् रुचिनं जायत इति संबंधः | ननु पूर्वोक्त चितप्रसादमहिम्ना ब्रह्मविद्यादौ संपन्नविश्वासस्यास्तिकतमस्यानर्थ बहले विषयभोगे प्रावण्यं कथं संभवतीत्याशांक्यानुभवसिद्ध दृष्टांतेन तत्संभावयति | आस्निक कामुकस्येति | विहितानुष्टानादं वश्यं श्रेयो भवति निषिद्धकरणादितश्चावश्यं महाननर्थो भवति | शास्त्रप्रामाण्यादिति निश्चय वा नास्तिकः | तस्यापि कस्यचित् कामोद्रेको निंदिता गम्यागमनादौ प्रावण्यं च यथा पाप विशेषात् संभवति तथा यथोक्तमुमुक्षोरपीत्यर्थः | प्रतिबंधेति | अनादिभवसंचितानेक दुरित दोषकृत प्रतिबंधेत्यर्थः | तत्संपादकेति | विविदिषाशदिताया श्रवणादौ प्रवृतिपर्यंतारुचिः तत्संपादकेत्यर्थः | क्व तर्हि कर्मणामुपयोग इत्यत्र प्रश्रे विद्यायां विनियोग इति प्रतिवचनांतरमवतारयति |
560 SK प्. ४ब्) विवरणेति पूर्वत्र यज्ञादीनां तृतीया श्रुत्यासाधनत्वेनावगतानां साध्याकांक्षायां विविदिषैव साध्यत्वेनान्वेति | तस्याः शब्दतः प्रधान त्वात् शब्दतः प्रधानस्यैव पदार्थस्य राजपुरुषमानयेत् पादौ सर्वत्रसमभिव्याहृतपदार्थांतरेणान्वयस्य व्युत्पति सिद्धत्वादित्याशयेन यज्ञादीनां विविदिषायां विनियोगदुक्तः | तत्रास्वरसंदर्शयत् विद्यायां तेषां विनियोगमुपपादयति | प्रकृतीति | प्रकृति प्रत्ययार्थयोर्वेदन तदिछयोर्मध्ये प्रत्ययार्थस्य विविदिषा लक्षणस्य प्रत्ययार्थत्वाछब्दतः प्राधान्यं | ततश्च विविदिषाया एव यज्ञादिफलत्वेनान्वय इत्यत्र हेतु भूतो यः सामान्य न्यायो राजपुरुषमानयेत्पादौ प्रसिद्धः शब्दतः प्रधानस्यैव समभिव्याहृतक्रियाकारकान्वय इत्येवं रूपः तस्मादित्यर्थः | विधिप्रत्ययेनेष्टसाधनत्वेनावगतयागादेरिष्टविशेषा कांक्षायां सत्यां शब्दतः प्राधान्याभावेपि स्वर्गस्य फलत्वेनान्वयः कॢप्त इत्यर्थः || इछाविषयतया शब्दबोध्य एव शाब्दसाधनतान्वय इति स्वर्ग कामादि वाक्ये कॢप्त विशेष न्यायस्य वलीयस्त्वादश्वेन जिगमिषति असिनाजिघांसुतीत्यादि लौकिक प्रयोगेऽश्वादिरूपसाधनस्य तदन्वेष्टव्यंतद्वावविजिज्ञासितव्यं निदिध्यासितव्य इत्यादि वै प्. ५अ) दिकप्रयोगे तव्यार्थ भूतविधेश्च सन्प्रत्ययाभिहितेछाविषय एव गमनादावन्वयस्य व्युत्पन्नत्वाच्च प्रकृत्यभिहितायां विद्यायां यज्ञादीनां विनियोगः | ननु तथा सति यावद् विद्योदयं कर्मानुष्ठानापतेस्त्यजतैव हितकर्षणाज्ञेयमित्यादि श्रुतिसिद्धकर्मत्यागरूपस्य संन्यासस्य विद्यार्थत्वं पीड्येतेति चेन्न प्रागबीजा वा पात्कर्षणं तदनंतरमकर्षणमिति कर्षणाभ्यां ब्रीह्यादि निष्पति वदारुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते | योगारूढस्य तस्यैव शमः कारणमुच्यतेत्यादिवचनानुसारेण चेतसः शुद्धौ विविदिषादिरूपप्रत्यक्प्रावण्योदयपर्यंतं कर्मानुष्ठानं ततः संन्यास इति कर्म तत्सन्यासाभ्यां विद्या निष्पत्युपगमात् ||
561 SK शाब्दप्राधान्याभवाविशेषे कामनाया एवयादि फलत्वेनान्वयः कुतो न कल्पितस्तत्राह | इछारिषपतयेति | इछाविषयत्वस्य फलत्व व्यंजक त्वात् | पुरुषार्थत्वेन प्रतीतस्य स्वर्गस्यैव फलत्वं न कामनाया इत्यर्थः | ननु कामनाविषयत्वस्य मुक्ति साधारण त्वात सैव यागादिफलं प्. ५ब्) कस्मान्न कल्प्यते तत्राह | शब्दबोध्य इति | शाब्दी ह्याकांक्षाशब्देनैव पूर्वत इति न्यायात्नाति प्रसंगः | तथा च इछेष्यमाण समभि व्याहारे इष्यमाणस्यै च प्राधान्यं न त्विछाया इति विशेषन्यायेन उक्त सामान्यन्याय बाधस्य कामोपबंधवाक्येषु कॢप्तत्वाद्विविदिषंतीत्यत्रापि प्रत्ययार्थत्वप्रयुक्तं विविदिषाया शब्दप्राधान्यं त्यक्ता वेदनप्राधान्यमेवादरणीयमित्यर्थः | इछावाचिसन्प्रत्यय समभिव्याहृतेष्वेव लौकिक वैदिक प्रयोगेषु प्रत्ययार्थतया प्रधानामपीछामुल्लंघ्य तद्विषयेस्वेव समभिव्याहतपदार्थांतरान्वय दर्शनाच्चेत्याह | अश्वेनेति | तदन्वेष्टव्यमिति | तद्दहराकाशाख्यं ब्रह्मविचार्यमित्यर्थः | विजिज्ञासितव्यमिति | तदेव ब्रह्मध्यातव्यमित्यर्थः | निदिध्यासितव्य इति | आत्माध्यातव्य इत्यर्थः | ननूदाहृतप्रयोगेषु इछाया अश्वादिसाधनाद्यन्वयायोगात्वा तस्याः परित्याग इति चेतर्हि प्रकृतेपि वेदनेछायाः तदतयोगात्वात् | ब्रह्मवेदनस्य च ब्रह्मानंदसाक्षात्काररूपतया फलत्वनान्वेतुं योग्यत्वाद्वेदन एव यज्ञाद्यन्वयो न विविदिषायामिति तुल्यमितिभावः | विद्याविनियोगपक्षे विध्यंतरविरोधं शंकते | न त्विति | कर्माणित्यजतैवमुमुक्षुणात्यक्तुः स्वस्य प्रत्यगात्मस्वरूपं पदं ब्रह्मसाक्षात्कर्तव्यं नत्वत्यजतेति श्रुत्यर्थः | अथ परिव्राडित्युपक्रम्य ब्रह्मभूयायकल्पत इत्यंतेन श्रुत्यंतरेणापि परिव्राट् शब्दोपातसंन्यासस्य ब्रह्मभूयशब्दित ब्रह्मसाक्षात्कार हेतुत्वमुक्तं | एवं श्रुत्यंतरेष्वित्यभिप्रेत्यादि पदं
562 SK प्. ६अ) द्रष्टव्यं | विविदिषावाक्यसंन्यासविध्योरविरोधं सदृष्टांतं सप्रमाणं च दर्शयति | न प्रागिति | वचने कारणपदद्वयं कर्तव्यार्थकं शमः संन्यासः चित्तशुद्धिविविदिषादिरूपप्रत्यक्प्रावण्येत्ये तद्गीतावचनगतयोगपदव्याख्यानमितिबोध्यं || उक्तं हि नैष्कर्मसिद्धौ | प्रत्यक् प्रवणतां बुद्धेः कर्माण्यापाद्यथुद्धितः कृतार्थान्यस्तमायांति प्रावृडंते घना इवेति | कर्मणां विद्यार्थत्वपक्षेपि विविदिषापर्यंतमेव कर्मानुष्ठाने विविदिषार्थत्वपक्षात्को भेद इति चेत् | अयं भेदः कर्म्मणां विद्यार्थत्वपक्षे द्वारभूतविविदिषा सिद्ध्यनंतरमुपरतावपि फलपर्यंतानि विशिष्टगुरुलाभात्निर्विघ्नश्रवणमनननिदिध्यासनसाधनानि निवृति प्रमुखानि संपाद्यविद्योत्पादकत्वनियमोस्ति विविदिषार्थत्व पक्षे तु श्रवणादिप्रवृतिजननसमर्थोत्कटेछा संपादनमात्रेण कृतार्थतेति नावश्यं विद्योत्पादकत्वनियमः यस्यैतेष्टाचत्वारिंशत्संस्कारा इति स्मृति मूले कर्मणामात्मज्ञानयोग्यतापादकमलापकर्षणगुणाधान प्. ६ब्) लक्षणसंस्कारार्थत्वपक्ष इवेति वदंति ||
563 SK रागादिराहित्यरूप चितशुद्धिविविदिषा वैराग्यगुरुदेवतादि भक्तिलक्षणप्रत्यक् प्रावण्यजन्मपर्यंतं कर्मानुष्ठानमित्यत्र सुरेश्वराचार्य संमतिमाह | उक्तं हीति शुद्धित इति | शुद्धिद्वारेत्यर्थः | अस्तमायांतीतित्यागमायांति त्यक्तव्यान्येव भवंति | कृतप्रयोजनत्वादित्यर्थः | कृतप्रयोजनानां निवृतौ दृष्टांतमाह | प्रावृडंत इति वर्षाकालावसान इत्यर्थः | विविदिषायां विनियोगपक्षे विविदिषोदय पर्यंतमेव यज्ञाद्यनुष्ठानमित्य विवादं विद्यायां विनियोगपक्षेप्येवं चेत्कस्तयोर्भेद इति शंकते | कर्मणामिति | अनुष्ठाने विशेषाभावेपि फलतो विषोस्तीत्याह | अयं भेद इति | वक्ष्यमाण इत्यर्थः | उपरताविति त्यागेपीत्यर्थः | अदृष्टद्वारेति शेषः विविदिषाविनियोगपक्षे हि यज्ञादिकर्मजनितादृष्टं श्रवणादिषु प्रवृतिपर्यंतां विविदिषा शब्दितां रुचिमुत्पाद्व्य नश्यति | फलैक्य नाश्यत्वाददृष्टस्य विविदिषोत्यत्यनंतरं च श्रवणादि प्रतिबंधक दुरिताभावे सति विविदिषावलादेव श्रवणादिकं संपाद्यविद्यां लभते | श्रवणादि प्रतिबंधक दुरित सत्वे तु तत्सत्वं यत्ने कृतेपि श्रवणाद्यलाभेन निश्चित्य तन्निवृत्युपायमनुतिष्ठति प्रायेण तन्निवर्तकोपायाननुष्ठाने वा तदनुष्ठानस्यापि विघ्नबाहुल्ये वा श्रवणाद्यसंभवात् न ज्ञानोदयः | यथा औषधवीर्येणात् न भक्षणे रुच्युत्पतौ सत्यामपि अप्रतिबंधेनावलाभे
564 SK प्. ७अ) तद्भक्षणेन कार्श्य निवृतिं लभते तदलाभे तु तल्लाभाय स पतते यत्ने कृतेपि यद्यत्नं न लभते तदानुकार्श्यनिवृतिं लभते एवमिहापीत्यभिप्रेत्याह | नावश्यमिति | विविदिषा विनियोगपक्षस्य संस्कारे कर्मणां विनियोगपक्षं दृष्टांतयति | यस्यैति इति | यस्य पुरुषस्य एते श्रौतस्मार्तधर्मा अष्टाचत्वारिंशत्संख्याकाः संस्काराः संति शमादि संपतिश्च वर्तते | तस्य कर्मभिः संस्कृतस्य विद्याधिकारिणः श्रवणादि संपत्यां तत्वज्ञानद्वारा परब्रह्मप्राप्तिर्भवति | तदसंपतौ च पुण्यलोकावाप्तिरिति कर्मणां संस्कारकत्वपक्षे यथा ज्ञानोत्पादकत्वनियमो नास्ति संस्कारजननमात्रेण सं || ननु केषां कर्मणामयमुदाहृत शुत्या विनियोगो बोध्यते | अत्र कैश्चिदुक्तं वेदानुवचनेनेति | ब्रह्मचारिधर्माणां यज्ञेन दानेनेति ग्रहस्थधर्माणां तपसा नाशकेनेति वानप्रस्थधर्माणां चोपलक्षणमित्याश्रमधर्माणामेव विद्योपयोगः | अत एव विहितत्वाच्च श्रमकर्मापीति शारीरकसूत्रे विद्यार्थकर्मस्वाश्रमकर्मपदप्रयोग इति कल्पतरौ तु नाश्रमधर्माणामेव विद्योपयोगः || चरितार्थानां कर्मणां विद्योत्पतिपर्यंत व्यापारा भावात्
565 SK प्. ७ब्) तथा तेषां विविदिषार्थत्वपक्षेपीत्यर्थः | आत्मज्ञानयोग्यता कार्यकारणसंघातनिष्ठा तदा पादकौ यौमलापकर्षणगुणाधानलक्षणौ संस्कारौ तदर्थत्वपक्ष इत्यर्थः | कर्मणां विविदिशार्थत्वपक्षे संस्कारार्थत्वपक्षे च ज्ञानोत्पत्यनियमे समानेपि विविदिषार्थत्वपक्षे प्रायिकी ज्ञानोत्पतिः तीव्रवुभुक्षाया इव दृढ विविदिषायाः सर्वप्रयत्नेन विद्यासंपादनसमर्थत्वात् | संस्कारार्थत्वपक्षे तु ब्रह्मज्ञानयोग्यतामात्र सिद्धावपि विविदिषाया अप्यनियतत्वेन विद्योत्पतिः प्रायिक्यपि न भवतीति विविदिषासंस्कारार्थत्वपक्षयोरपि भेद ऊहनीय इति भावः | केषामिति | किमाश्रमकर्मणामेव किं वाऽन्येषामपीत्यर्थः | नन्वाश्रमधर्माणामपि सर्वेषां विविदिषा वाक्ये श्रवणाभावात् तेषामपि न सर्वेषां विनियोगो लभ्यते तत्राह | वेदानुवचनेनेति | वेदस्य गुरुवचनमनुशिष्यस्य वचनं वेदानुवचनं वेदाध्ययनं तच्च ब्रह्मचारिधर्माणां मध्ये प्रधानं तेन तद्धर्माः सर्वे गृह्यंत इत्यर्थः | एवमुत्तरत्रापि प्राधान्यं द्रष्टव्यं तपः कृछ्रचांद्रायणादिरूपं वानप्रस्था साधारणमिह तपः शब्दरूढ्याभातीतिभावः | अनाश्रितः कर्मफलं कार्यं कर्मकरोति यः | इत्यादि स्मृतिषु नित्याश्रमिणां कार्यं कर्तव्यं यद्यत्कर्मास्ति तत्सर्वं फलाभि संधिंत्यक्ता यः करोति स योगपदोदितं पूर्वोक्त चितशुद्धि विविदिषारूपं प्रत्यक् प्रावण्यं लभत इति प्रतिपादना तन्मूलभूते विविदिषा वाक्येपि सर्वेषामाश्रमकर्मणामुपलक्षणं युक्तमिति मंतव्यं आश्रमकर्मणामेव
566 SK प्. ८अ) विनियोग इत्यत्र सौत्रलिंगमाह | अत एवेति आश्रमकर्मणामेव विनियोगाभ्युपगमादेवेत्यर्थः | आश्रमकर्मणां विविदिषावाक्येन विद्यादौ विनियुक्तत्वा तत्कामनारहिते नाश्रमिणा स्वाश्रमविहितं कर्मनानुष्ठेयमिति शंकायामुतरं सूत्रे तेनापि कर्तव्यमेव तं प्रतिविहितत्वादन्यथा प्रत्यवाय प्रसंगादिति सूत्रार्थो बोध्यः | अन्येषामपि विनियोग इति पक्षं नित्यकर्ममात्रविषयतया प्रथमं दर्शयति | कल्पतरौ त्विति | कल्पतरावुक्तमिति संबंधः | आश्रमधर्मव्यतिरिक्तानामप्यस्ति विद्योपयोग इति कल्पतरुकारमतमयुक्तं सूत्रे विद्यार्थकर्मस्वाश्रमकर्मथदप्रयोगविरोधान्न च सौत्राश्रमकर्मपदस्य वर्णधर्मेष्वप्यजहदल्लक्षणोपपतेर्न तद्विरोध इति वाच्यं | लक्षणायामेव प्रमाणाभावादित्याशंक्य तत्र नियामकं दर्शयति | नाश्रमधर्माणामेव विद्योपयोग इति || अंतरा चापि तु तद्दृष्टेरित्यधिकरणे आश्रम रहित विधुराद्यनुष्ठितकर्मणामपि विद्योपयोगनिरूपणात् | न च विधुरादीनामनाश्रमिणां प्राग्जन्माद्यनुष्ठित यज्ञाद्युत्पादित विविदिषाणां विद्यासाधनश्रवणादावधिकारनिरूपणमात्रपरं तदधिकरणं न तु तदनुष्ठित कर्मणां विद्योपयोग निरूपणपरमिति शंक्यं ||
567 SK प्. ८ब्) आश्रमधर्मव्यतिरिक्तानां वर्णधर्माणामप्यस्ति विद्योपयोग इत्येव कारार्थे हेतुमाह | अंतरा चापि त्विति | विद्यां प्रतिबहिरंगसाधनेषु कर्म स्वंतरंग साधनेषु श्रवणादिषु चानाश्रमिणामधिकारोस्ति न वेति संदेहे सति नास्त्यधिकार इति पूर्वपक्षः आश्रमकर्मणामेव विद्यायां विनियुक्तत्वातेषामाश्रमकर्मा भावात् | साधन चतुष्टय संपन्नस्यैव श्रवणादिष्वधिकाराच्च अनाश्रमिणां च साधन चतुष्टयांतर्गतस्य उपरति शब्दितसंन्यासस्याभावे न तत्स्वंपत्यभावादिति | सिद्धांतस्त सूत्रे तु शब्दः पूर्वपक्षव्यावृत्यर्थः | अंतराशब्दः आश्रमाणामंतरालमनाश्रमित्वमाह | तथा चानाश्रमित्वे वर्तमानोपि पुरुषः श्रवणादिषु विद्यार्थ कर्मसु चाधिक्रियते कुतः श्रुतिस्मृतिषुरैक्व वा चक्रवी प्रभृतीनामनाश्रमिणामपि विद्यावत्वोपलब्धेः परित्राजकस्य श्रवणादिषु मुख्याधिकारेपि ग्रहस्थादीनामिव अनाश्रमिणामपि गौणाधिकारोपपतेः | तथा च तदधिकरणे भाष्यं दृष्टार्था च विद्या प्रतिषेधा भावमात्रेणार्थिनममधिकरोति | श्रवणादिति | अविद्यानिवृतिः विद्यायाः दृष्टं फलं अर्थिनमविद्यानिवर्तकसाक्षात्कारार्थिनमधिकारित्वेन स्वीकरोति शूद्रस्येव वेदांत श्रवणादिष्वनाश्रमिणां प्रतिषेधा भावात् | गौणाधिकारे संन्यासापेक्षा नास्तीति मत्वामात्र पदमिति भाष्यार्थः |
568 SK प्. ९अ) अंतरा चापि त्वित्यधिकरणमनाश्रमिणां श्रवणाद्यधिकारमात्रनिरूपण परं न त्वनाश्रमिकर्मणामपि विद्योपयोगनिरूपणपरं तथा च सौत्राश्रमकर्मपदस्य वर्णधर्मोपलक्षणत्वं न सिध्यतीति मत्वा शंकते | न च विधुरादीनामिति | ननु तेषां विद्यार्थकर्माभावे विविदिषोदया संभवादनाश्रमिणां श्रवणाधिकारनिरूपणमयुक्तमित्याशंक्याह | प्राग्जन्मेति | अनाश्रमिणोपि ये जन्मांतरीयाश्रमकर्मानुष्ठान जनित विविदिषावंतः संन्यासहेतु तीव्रवैराग्या भावात् मुख्याधिकारात् प्रच्युताश्च तेषां श्रवणाधिकार निरूपण परं तदधिकरणं न त्वनाश्रमिमात्रविषयं अविविदिषूणां श्रवणादौ प्रवृत्यसंभवादेवेत्यर्थः | इति न च शंक्यमिति संबंधः || विशेषानुग्रहश्चेति तदधिकरणसूत्र तद्भाष्ययोः तदनुष्ठितानां जपादिरूपवर्णमात्रधर्माणामपि विद्योपयोगस्य कंठोक्तेर्विहितत्वाच्चाश्रमकर्मापीति सूत्रे आश्रमकर्मपदस्य वर्णधर्माणामप्युपलक्षणत्वादित्यभिसंधायोक्त- माश्रर्मधर्माति रिक्तानामप्यस्ति विद्योपयोगः | किंतु नित्यानामेव तेषां हि फलं दुरितक्षयं विद्यापेक्षते | प्. ९ब्) न काम्यानां फलं स्वर्गादि ||
569 SK ननु अंतराचापि त्विति सूत्रे विद्यार्थकर्मसु विधुरादी नामधिकारे श्रुत्यादिष्वनाश्रमिणां रैक्व वा चक्रवी प्रभृतीनां विद्यावत्वदर्शने हेतुत्वेनोक्तं तदयुक्तं रैक्व वा चक्रवी विदुर प्रभृतीनां जन्मांतरीय विद्यासाधनानुष्ठान वलादैव विद्याजातेति शंका संभवादतोऽनाश्रमिकर्मणां विद्योपयोग इत्यत्र तेषां विद्यावत्वदर्शनमन्यथा सिद्धं लिंगं न भवतीत्य स्वरसादनन्यथा सिद्धं हेतुमन्यमभिप्रेत्योक्तं | विशेषानुग्रहश्चेति विशेषैः धर्मविशेषैः जपादिलक्षणैः ब्राह्मणत्वादि वर्णमात्रसंबंधिभिरपि वितशुद्धि विविदिषादि द्वारा आश्रमधर्मैरिव विद्याया अनुग्रहः उपकारः संभवत्येव कुतः जप्येनैव तु संसिध्येत् ब्राह्मणो नात्रसंशयः गंगायां स्नानमात्रेण मुच्यते नात्रसंशयः | यस्य स्मरणमात्रेणेत्यादि वचनैः जपतीर्थस्नान देवताध्यानादि धर्माणां शुद्ध्यादिद्वाराविद्यासाधनत्वस्य प्रतिपादनादिति सूत्रार्थः | तदनुष्ठितानामिति | अनाश्रमिणः तछब्दार्थाः एवमनाश्रमधर्माणामपि सूत्रकारेणैव स्पष्टं विद्योपयोगस्य साधितत्वात्तदविरोधाय सौत्रमाश्रमकर्मपदं वर्णधर्माणामप्युपलक्षकं वाच्यमित्याशयेनाह | सूत्र इति | एवं कल्पतरु काराणामभिप्रायमुपवर्ण्य तन्मतमुपपादयति | आश्रमधर्मेत्यादिना | ननु यज्ञादीनां विनियोगः कल्प्यमानः
570 SK प्. १०अ) किं काम्यसाधारणः कल्प्यते किं वा नित्यानामेव नाद्यः काम्यकर्मफलस्य स्वर्गादेर्विद्ययानपेक्षितत्वेन तेषां विद्योपकारकत्वा संभवात् | न द्वितीयः नित्यकर्मफलस्य दुरितक्षयस्यापि प्रमाणसाध्य विद्यापेक्षितत्वे मानाभावेन तेषामपि विद्याविनियोगानुपपतेरिति | शंकते | किं त्विति समाधते | नित्यानामेवेति ज्ञानमुत्पद्यते पुंसां क्षपात्पापस्य कर्मणः इत्यादि वचनं नित्यकर्मफलस्य दुरितक्षयस्य विद्यया अपेक्षितत्वे प्रमाणत्वेन सूचयति हीति | प्रमाणजन्यायामपि विद्यायां दुरितस्य प्रतिबंधकत्वसंभवात् दुरितक्षपापेक्षायुक्तेतिभावः | काम्यकर्मणां विद्यानुपकारकत्वमंगीकरोति | नेति | न च काम्यानां नित्यानामिव दुरितक्षयफलकत्वमप्यस्तु तथा च तेषामपि विद्यापेक्षित दुरितक्षयलक्षणोपकारजनकत्वं संभवतीति वाच्यं | तेषां दुरितक्षयफलकत्वे मानाभावेन विद्योपकारकत्व स्या कॢप्तत्वादितिभावः || तत्र यथा प्रकृतौ कॢप्तोपकाराणामंगानामति देशे सति न प्रकृतोपकारातिरिक्तोपकारकल्पनमेवं ज्ञाने विनियुक्तानां यज्ञादीनां कॢप्तनित्यफल पापक्षयातिरेकेण न नित्यकाम्यसाधारणविद्योपयोग्युपकारकल्पन निमिति संक्षेपशारीरके प्. १०ब्) तु नित्यानां काम्यानां च कर्मणां विनियोग उक्तः यज्ञादिशब्दाविशेषात् | प्रकृतौ कॢप्तोपकाराणां पदार्थानां कॢप्तप्राकृतोपकाराति देशमुखेनैव विकृतिष्वति देशेन संबंधो न तु पदार्थानामति देशानंतरमुपकारकल्पनेति न तत्र प्राकृतोपकारातिरिक्तोपकारकल्पना प्रसक्तिः | इह तु प्रत्यक्षश्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनामुपदिष्टानामिव पश्चात् कल्पनीय उपकारः प्रथमावगत विनियोग निर्वाहाया कॢप्तोपि सामान्यशब्दोपात सकलनित्यकाम्यसाधारणः कथं न कल्प्यः ||
571 SK कर्मणां विद्यायां विनियोग विधेः कॢप्तोपकारैः नित्यकर्मभिरेव चारितार्थ्ये दृष्टांतमाह | तत्र यथेति | यद्वा काम्यानां पापक्षयफलकत्वस्यान्यतः | प्राप्त्यभावेपि यज्ञादीनां विनियोग बलादेव तेषां तत्कल्प्यतामिति नेत्याह | तत्रेति | काम्यकर्मणाविद्यापेक्षितोपकार हेतुत्वा कॢप्तौ सत्वामित्यर्थः | न नित्यंति | गौरवादितिभावः | आश्रमकर्मव्यतिरिक्तानामपि विनियोग इति पक्षं काम्यसाधारणं दर्शयति | संक्षेपेति अविशेषादिति | यज्ञादिशब्दानां नित्ययज्ञादिष्विवकाम्य प्. ११अ) यज्ञादिष्वपि रूढत्वाविशेषात् | नित्यानामिव काम्यानामपि विनियोगः | श्रुत्वाभातीति तत्साधारण एव कर्मणामुपकारः कल्प्यत इत्यर्थः | काम्यसाधारण्येन विद्योपयोग्युपकार कल्पनं न संभवति तत्कल्पने पूर्वतंत्र न्यायविरोधादिति मत्वा विकृतिष्वति दिष्टान्यंगानि दृष्टांतत्वेन कल्पतरावुदाहृतानि न तानि यज्ञादीनां दृष्टांतत्वेनोदाहरणे योग्यानीत्याह | प्रकृताविति | दर्शपूर्णमासादिषु प्रकृतियागादिषु यः पदार्थानां कॢप्त उपकारः | तस्य प्रथममति देशः तत्पृष्ठभावेन पदार्थानां विकृतिषु सौर्य पशुयागादिष्वति देशः न तु प्राकृतपदार्थानां अतिदेशेन विकृतिषु विनियोगानंतरं पदार्थानामुपकारकल्पनमिति न तत्र कॢप्तोपकारपरित्यागेनोपकारांतरप्रसक्तिरस्तीत्यर्थः | एतदुक्तं भवति प्रकृते यज्ञादीनां विनियोगानंतरं उपकारकल्पनमति देशस्थले तु उपकृतावुपकारकल्पनानंतरं प्राकृतपदार्थानां विकृतिषु विनियोगः | ततो दृष्टांतो विषम इति | इह त्विति | दार्ष्टांतिक इत्यर्थः | प्रकृतानुगुणं दृष्टांतमाह | उपदिष्टानामिति | दर्शपुमासादिप्रकरणेष्वन्यत्र वा श्रुतानां पदार्थानां श्रुतिलिंगादिभिः दर्शपूर्णमासादिषु विनियुक्तानां प्रथमावगतविनियोगनिर्वाहाय यथा योग्यं दृष्टादृष्टलक्षण उपकारः कल्प्यते यथा तथा उपकारोन्नापि कल्प्य
572 SK प्. ११ब्) एव न तु प्रथमावगत विनियोगपरित्याग उचितः यज्ञाद्यविशेषश्रुति वाध प्रसंगादित्यर्थः | सामान्यशब्देति | नित्यकाम्य साधारण यज्ञादि शब्देत्यर्थः || अध्वरेष्वरमीमांसकैरपि ह्युपकारमुखेन पदार्थान्वय एव कॢप्तोपकारनियमः पदार्थान्वयानंतरमुपकारकल्पने त्वकॢप्तोपि विनियुक्तपदार्थानुगुण एवोपकारः कल्पनीय इति संप्रतिपद्यैव वाधलक्षणारंभ सिद्ध्यर्थमुपकारमुखो विकृतिषु प्राकृतान्वयोदशमाद्ये समर्थितः || यथा कॢप्तोपकारातिरिक्तोपकाराकल्पनं कल्पतरुकारोक्तं मिमांसक संमतं तथा प्रथमावगत विनियोगानुसारेणाकॢप्तोपकारकल्पनमपि मीमांसक संमतमेवेत्याह | अध्वरेष्विति कर्ममीमांसकैरपीत्यर्थः | अध्वरमीमांशकैरपि संप्रतिपद्यैव प्राकृतान्वयः समर्थित इति संबंधः | पदार्थान्वय एवेति | पदार्थान्वयस्थल एवेत्यर्थः | कॢप्तोपकार नियमः कॢप्तोपकारातिरिक्तोपकाराकल्पनमित्यर्थः | एवकार व्यावर्त्यमाह | पदार्थान्वयानंतरमिति | उपकारकल्पनस्थले त्वित्यर्थः | संप्रतिपद्यैवेति स्वीकृत्यैवेत्यर्थः | वाधलक्षणेति वाधाध्यायारंभ सिध्यर्थमित्यर्थः | प्राकृतान्वय
573 SK प्. १२अ) इति प्रकृति यागादौ शेषभूताये पदार्थाः | तेषां विकृति यागादिष्वति देशेन प्राप्तिरित्यर्थः | एतदुक्तं भवति पूर्वतंत्रे दशमाध्याये विकृतावति दिष्टानामंगानां प्रकृतौ कॢप्तस्योपकारस्यासंभवे वाधो निरूप्यते तच्च वाधनिरूपणं विकृतिष्वति देशेन पदार्थप्राम्यनंतरमुपकारकल्पनपक्ष्ये न सिध्यति प्रकृतौ श्रुत्यादिभिर्विनियुक्तपदार्थानां दृष्टोपकारासंभवे अदृष्टोपकारकल्पनवत् | विकृतिष्वति देशेन विनियुक्तानां पदार्थानां दृष्टोपकारासंभवे अदृष्टोपकारकल्पनया तत्सिध्यर्थं सर्वंषामेवांगानामनुष्ठानावश्यंभावेन केषांचिदंगानामननुष्ठान तदति देशाप्रामाण्यरूपबाधा संभवादतो बाधनिरूपणासिद्ध्यर्थं प्रकृति कॢप्तोपकारमुखेनैव प्राकृतानामन्वयो विकृतिष्विति दशमाध्याय प्रथमाधिकरणे साधितं तथा च यत्र पदार्थानां विनियोगानंतरमुपकारकल्पनं तत्र ततत्पदार्थं सामर्थ्यानुसारेण प्रथमावगत विनियोगनिर्वाहाया कॢप्तोपकारकल्पनं मीमांसक संमतमिति प्रतीयते | यदि विनियोगानंतरमुकारकल्पनास्थलेपि कॢप्तोपकारासंभवे विनियुक्तपदार्थपरित्याग एव न त्वकॢप्तोपकारकल्पनं तत्संमतं भवे तदा उपकारमुखेनैव पदार्थानामति देश इति निरूपणपरमधिकरणं व्यर्थं स्यात् | पदार्थानामेव श्रयणावचातादीनामति देशेन्स विनियोगेपि विकृति गत कृष्णलादिषु श्रयणादेर्विक्लिति तुष प्. १२ब्) विमोकरूपदृष्टोपकारस्य लोकसिद्धस्याभावादकॢप्तोपकारकल्पनानंगीकाराच्च श्रयणादेरननुष्ठानादिलक्षणबाधस्य दशमाध्याये निरूपणीयस्य संभवेन तदर्थमुपकारमुखेनैव पदार्थानामतिदेश इति निरूपणस्यानपेक्षितत्वात् | तस्माद्विविदिषावाक्येनाविशेषेण नित्यकाम्यसाधारणे विनियोगे प्रथममवगते सति तन्निर्वोहाया कॢत्प्तोपकारकल्पनं युक्तमेवेति ||
574 SK किं च कॢप्तोपकारालाभान्नित्यानामेवायं विनियोग इत्यभ्युपगमे नित्येभ्योदुरितक्षयस्य तस्माद्वज्ञानोत्पतेरन्यत सिद्धौ व्यर्थोयं विनियोगः | अन्यतस्तदसिद्धौ ज्ञानापेक्षितोपकारजनकत्वं नित्येषु न कॢप्तमित्यविशेषान्नित्यकाम्यसाधारणविनियोगो दुर्वारः | ननु नित्यानां दुरितक्षयमात्र हेतुत्व स्यान्यतः सिद्धावपि विशिष्यज्ञानोत्पति प्रतिबंधक दुरित निवर्हकत्वं न सिद्धं | किं तु अस्मिन् विनियोगे सति ज्ञानोद्देशेन नित्यान्यनुतिष्ठतो वश्यं ज्ञानं भवति | इतरथा शुद्धिमात्रमनियता ज्ञानोत्पतिरिति सार्थकोयं विनियोग इति चेत् | तर्हि नित्यानामप्यकॢप्तमेव प्. १३अ) नियमतोज्ञानोत्पति प्रतिबंधक दुरित निवर्हणत्वं || वस्तुतस्तु नित्यकर्मस्वपि विद्यापेक्षितोपकारजनकत्व कॢप्तिरसिद्धेत्याह | किं चेत्यादिना | अलाभादिति | काम्येष्विति शेषः नित्यानां विद्यापेक्षित दुरितक्षयलक्षणोपकार द्वाराविद्याहेतुत्वं विविदिषा वाक्यादन्यतः सिद्धमसिद्धं वा तत्र नाद्यः विविदिषा वाक्यवैपर्थ्यप्रसंगादित्याह | नित्येभ्य इति | विनियोग इति | शेषत्वरूपविनियोगबोधक शब्द इत्यर्थः | द्वितीये नित्येष्वपि विद्योपकारकत्वमकॢप्तमेव कल्पनीयमिति नित्यकाम्यसाधारणोपकारकल्पनं युक्तमेवेत्याह | अन्यतस्तद सिद्धाविति | नित्यानां विद्योपकारकत्वासिध्हावित्यर्थः | अन्यतः सिद्धिपक्षमवलंव्य विनियोगार्थवत्वं शंकते | नन्विति दुरितं तावत् द्विविधं ज्ञानोत्पति प्रतिबंधकं ज्ञानोत्पतिं प्रत्युदासीनं सन् नरकादिप्रदं च तथा च नित्यानां ज्ञाने विनियोगाभावे नित्यकर्मभिज्ञानप्रतिबंधक दुरितस्यैव क्षय इत्यत्रमानं नास्ति धर्मेण पापमपनुदति | यज्ञोदानं तपश्चैव पावनानि मनीषिणां इत्यादि श्रुतिस्मृति वचनानां नित्यानां दुरितसामान्यक्षय हेतुत्वबोधनमात्रपरत्वादतो नियमेन ज्ञानप्रतिबंधक दुरितक्षय हेतुत्वं नित्यकर्मणामन्यतो न प्राममिति तत्प्राप्त्यर्थोयं विनियोग इत्यर्थः ||
575 SK प्. १३ब्) नित्यैरेव यज्ञादिभिर्दुरितक्षयद्वाराज्ञानं संपादयेदिति प्रकारेण विविदिषावाक्यीये नित्यानां ज्ञाने विनियोगे सति वा कथं ज्ञानप्रतिबंधक दुरितस्यैव क्षयोनित्यानुष्ठानतो लभ्यत इति पृछति | किं त्विति | तल्लाभप्रकारमाह | अस्मिन्निति अवश्यमिति | नित्यानुष्ठानात् ज्ञानप्रतिबंधक दुरित क्षपे सति प्रतिबंधक रहित महावाक्यादवश्यं ज्ञानं भवतीत्यर्थः | इतरथेति एतद्विनियोगाभावे इत्यर्थः | दुरितसामान्यक्षयरूपाशुद्धिर्भवति न तु नियमेन ज्ञानप्रतिबंधक दुरित क्षयरूपशुद्धिविशेषो भवति | ज्ञानो देशेन नित्यानामनुष्टानात् | तथा च बहुजन्मसु नित्यकर्मानुष्ठान शीलस्यापि नियमेन ज्ञानं न जायते किं तु दैव योगात् कदाचित् ज्ञानप्रतिबंधक दुरित संघस्य निःशेषं क्षयसंभवात् ज्ञानमपि कदाचित् भवतीत्यनियताज्ञानोत्पतिरित्यर्थः | ज्ञानापेक्षितोपकारो नित्येषु कॢप्त इति मनं निरालंबनमित्यभिप्रेत्यकाम्येष्विव नित्येष्वप्यकॢप्तोपकारकल्पनं तुल्यमिति दूषयति | तहीति नित्येषु ज्ञानोपकारकत्वनियमासिद्धावित्यर्थः || ज्ञानसाधनविशिष्टगुरुलाभश्रवणमननादि संपादकापूर्वं च द्वारं कल्पनीयमित्यकॢप्तोपकारकल्पनाविशेषान्न सामान्य प्. १४अ) श्रुत्या पादितो नित्यकाम्यसाधारणविनियोगो भंजनीय इति | नन्वेवमपि कथं कर्मणैव हि संसिद्धिमास्थिता जनकादय इत्यादिस्मरणनिर्वाहः | न च तस्य विद्यार्थकर्मनुष्ठान परत्वं विविदिषावाक्ये ब्राह्मण ग्रहणेन ब्राह्मणानामेव विद्यार्थकर्मण्यधिकार प्रतीतेः | अतो जनकाद्यनुष्ठित कर्मणां साक्षादेवमुक्त्युपयोगो वक्तव्यः मैवं विविदिषावाक्यै ब्राह्मण ग्रहणस्य त्रैवर्णिकोपलक्षणत्वात् ||
576 SK नन्वेवमपि नित्यानामेव विनियोग पक्षे विधेर्लाघवमस्ति तेषां पक्षे ज्ञानप्रतिबंधक दुरित निर्वहकत्वस्य वचनांतरात् प्राप्तत्वेन नियममात्रविधिलभ्यत्वात् | काम्येषु तु ज्ञानप्रतिबंधकदुरितनिवर्हकत्वं सर्वर्था न प्राप्तमिति काम्यानामपि विनियोगपक्षे विधेस्तात्पर्यगौरवमपरिहार्यमिति चेत् | सत्यं तथापि यज्ञादिश्रुतीनां संकोचलक्षणबाधपरिहारायकाम्यानामपि विनियोग आवश्यक इत्यत्रैव तात्पर्य बोध्यं नित्येभ्यो ज्ञानप्रतिबंधक दुरितस्यैव क्षयरूपशुद्धिविशेषलाभेपि तावन्मात्रात्न ज्ञानोत्पतिरस्ति प्रमाणप्रमेयासंभावनादिरूपदृष्टप्रतिबंधक सत्वादतः
577 SK प्. १४ब्) तन्निरासोपयोगिनामुत्कृष्टगुरुतदधीनश्रवणमननध्यानादीनां संपादको दृष्टजनकत्वं नित्यानाम कॢप्तमेव विविदिषा वाक्यीय विनियोग बलात् कल्पनीयमित्याह | ज्ञानसाधनेति | एवं विविदिषाद्वाराविद्यायां कर्मणां विनियोगं निरूप्य तेषु त्रैवर्णिकानामधिकार इति निरूपणार्थमाक्षेप व्याजेन प्रसंगं दर्शयति | नन्वित्यादिना एवमपीति | तत्प्राप्तिहेतुर्विज्ञानं कर्मचोक्तं महामुन इति ज्ञानकर्मसमुच्चय प्रतिपादकस्मरणस्य विविदिषावाक्याविरोधेन ज्ञानं साक्षाद्ब्रह्मप्राप्तिसाधनं कर्म च विद्या द्वारातत्प्राप्ति साधनमिति क्रमसमुच्चय परतया निर्वाहैपीत्यर्थः | अत्रावधारणेन संसिद्धि शब्दितमुक्तिं प्रतिकर्मातिरिक्तोपायनिषेधात् | जनकाद्यनुष्ठित कर्मणां मुक्तिं प्रतिसाक्षादेवोपयोगः प्रतीयते | स च विविदिषावाक्यविरुद्ध इति समुच्चय स्मरणवदस्य स्मरणस्य निर्वाहो न सिध्यतीत्यर्थः | अस्यापि विविदिषा वाक्याविरुद्धं सिद्धांत्यभिमतमर्थमाशंक्यनिषेधति | न च तस्येति विद्यार्थेति | अस्मिन् स्मरणे संसिद्धिपदं विद्यापरं तथा च शुद्धिद्वाराकर्मणैव विद्यां प्राप्ता इति स्मरणार्थ इति भावः | तस्य स्मरणस्य विद्यार्थकर्मानुष्ठान परत्वं न चेत्यत्र हेतुमाह | विविदिषा वाक्य इति अत इति | विविदिषा वाक्य बोध्ये विद्यासाधनकर्मणित्रैवर्णिकानामनधिकारादित्यर्थः | उपलक्षण त्वादिति | तथा च भाष्यं ब्राह्मणग्रहणमुपलक्षणार्थं | प्. १५अ) अविशिष्टो ह्यधिकारः | त्रयाणां वर्णानामिति तथा च विद्यार्थ कर्मसुजनकादीनामप्यधिकारसत्वात् | कर्मणैव हीति स्मरणं विद्यार्थकर्मानुष्ठान परमेवेति न तद्बलात् | तमेव विदित्वाति मृत्युमेति | नान्यः यथा इत्यादि श्रुति विरुद्धः साक्षादेव कर्मणां मुक्त्युपयोगो वक्तव्य इति भावः ||
578 SK यथाहुरत्र भवंतो वार्तिककाराः ब्राह्मण ग्रहणं चात्र द्विजानामुपलक्षणं | अविशिष्टाधिकारित्वात् सर्वेषामात्मबोधन इति | न हि विद्याकामो यज्ञादी ननु तिष्ठेदिति विपरिणमते विद्याकामाधिकार विधौ ब्राह्मपदस्याधिकारि विशेषण समर्पकत्वं युज्यते | उद्देश्ये विशेषणायोगात् | नापि राजास्वाराज्य कामो राजसूयेन यजेतेति स्वाराज्यकामाधिकारे राजसूयविधौ स्वाराज्यकामो राजकर्तृकेण राजसूयेन यजेतेनिति कर्तृतया यागविशेषणत्वेन विधे यस्य राज्ञो राजकर्तृकराजसूयस्याराज्ञा संपादयितुमशक्यत्वादर्थादधिकारि कोटि निवेश वदिह यज्ञादि कर्तृतया विधेयस्य ब्राह्मणस्यार्थादधिकारि कोटिनिवेश इति युज्यते ||
579 SK प्. १५ब्) अत्र भवंत इति पूज्या इत्यर्थः | आत्मबोधन इति | आत्मबोधसाधन यज्ञादिकर्मणीत्यर्थः | विद्यार्थकर्माधिकारस्यैव प्रकृतत्वादिति मंतंतव्यं | ननु विविदिषा वाक्ये ब्राह्मण पदस्य त्रैवर्णिकौपलक्षणत्वे सिद्धे त्रयाणां वर्णानामविशेषेण विद्यार्थं कर्मस्वधिकारः सिध्यति | तत्र सर्वेषां अविशिष्टाधिकारत्वे सिद्धे तदनुरोधेने ब्राह्मण ग्रहणस्योपलक्षणत्वं सिध्यतीति परस्पराश्रयत्वप्रसंग इति वेन्न व्राणग्रहणस्य द्विजोपलक्षणत्वमनुपजीव्यैव सर्वेषां द्विजानां विद्यार्थकर्मस्वधिकार सिद्धेर्वार्तिकवनैन विवक्षितत्वात | ननु विविदिषा वाक्ये ब्राह्मण ग्रहणेन ब्राह्मणस्यैव विद्यार्थकर्मस्वधिकारे प्रतीयमाने कथं वर्णत्र साधारणाधिकारः सिध्येदिति चेतन्न वक्तव्यं किं ब्राह्मण पदस्य यज्ञादि विधावुद्देश्य विशेषणसमर्पकतया ब्राह्मणमात्राधिकारप्रापकत्वं किं वा विधेय कर्तृसमर्पकतया तदुभयसमर्पकत्वाभावेपि स्वसंनिधिमात्रेण तन्मात्राधिकार प्रापकत्वं वा गत्यंतराभावा तत्र नाद्य इत्याह | नहीति | यज्ञादीनां विद्यालक्षणफले विनियोगपरे विधौ विपाकामस्याधिकारः सिद्ध एव तथा च ब्राह्मण्य विशिष्टस्य विद्याकामस्याधिकारो विवक्षित इति स्वीकृत्य ब्राह्मपदस्याधिकारिविशेषण समर्पकत्वं वक्तुं न शक्यते विधेय यज्ञादि निरूपितोद्देश्यतायाः विद्याकाममात्रे पर्यवसान संभवेन ब्राह्मण्यरूपविशेषणस्यानाकांक्षिततया
580 SK प्. १६अ) विद्याकामंष्वतिविशेषणत्वे नान्वयायोगात् | विशिष्टस्योद्देश्यत्वकल्पने गौरवाच्च विद्याकामब्राह्मण्ययोः प्रत्येकमुद्देश्यत्त्वे च वाक्यभेदप्रसंगात् | विद्याकामोपज्ञादीन तु तिष्ठेत ब्राह्मणो यज्ञादीननुतिष्ठेदितिभावः | द्वितीयं सदृष्टांतमाशंक्यनिरोति | नापीति | स्वाराज्यकामवाक्ये राजपदस्य पूर्वोक्तरीत्यास्वाराज्यकामप्रतिविशेषणत्वायोगात् | कर्तृविधायकत्वं स्वीकृत्यराजसूये राज्ञः सतः स्वाराज्यकामस्याधिकारः साधित इत्यर्थः | राज्ञोर्थादधिकारिकोटि निवेशवदिति संबंधः | अर्थादिति पदोक्तामर्थापतिं स्फुटयति | राजकर्तृकेति इहेति | विविदिषा वाक्य इत्यर्थः | विधे यस्येति | विद्याकामो ब्राह्मण कर्तृक यज्ञादीन ननु तिष्ठेत् इत्येवं विधे यस्येत्यर्थः | अर्थादिति ब्राह्मण कर्तृक यज्ञादेरब्राह्मणेन संपादयितुमशक्यत्वादित्यर्थः || सर्वथापित एवोभयलिंगादिति सूत्रेऽन्यत्रविहितानामेव यज्ञावीनां विविदिषा वाक्ये फलविशेषसंबंधविधिर्नापूर्वयज्ञादि विधिरिति व्यवस्थापितत्वेन प्राप्त यज्ञाद्यनुवादेनैकस्मिन्वाक्ये कर्तृरूपगुणविधिः फलसंबंधविधिश्चेत्युभयविधानात् वाक्यभेदापतेः | प्. १६ब्) नापि राजसूयवाक्ये राज्ञः कर्तृतया विधेयत्वाभावपक्षे राजपदसमभिव्याहारमात्राद्विशिष्टकर्तृत्वलाभवदिह वाक्याभेदायकर्तृतया ब्राह्मणाविधानेपि ब्राह्मणपद समभिव्याहारमात्रेण ब्राह्मकर्तृत्वलाभात् | तदधिकारपर्यवसानमित्युपपद्यते | अन्यत्र त्रैवर्णिकाधिकारकत्वेन कॢप्तानामिहापि त्रैवर्णिकारात्मविद्यार्थत्वेन विधीयमानानां यज्ञादीनां त्रैवर्णिकाधिकारित्वस्य युक्ततया विधिसंसर्गहीन ब्राह्मणपद समभिव्याहारमात्रादधिकारसंकोचासंभवेन ब्राह्मण पदस्य यथा प्राप्तविद्याधिकारिमात्रोपलक्षणौवित्यात्
581 SK अर्थादधिकारिकोटिनिवेश इत्यपि न युज्यत इत्यत्र दृष्टांतवैषम्यमभिप्रेत्य हेतुमाह | सर्वथापीत्यादिना | यज्ञादीनामाश्रमकर्मत्वपक्षे विद्या सहकारित्व पक्षे च यावजीवादिवाक्येषु येग्निर्हेत्रादयोधर्माविहितास्त एवानुष्ठेयाः कुतः श्रुतिस्मृतिरूपो भयलिंगात् | श्रुतिस्तावद्विविदिषा वाक्य गत यज्ञादि श्रुतिरेवतया प्रसिद्धयज्ञादीनां प्रसिद्धदानादीनां प्. १७अ) च प्रत्यभिजिञायमानत्वादपूर्वयज्ञादिविधायकत्वे प्रत्यभिज्ञाविरोधात् | प्रसिद्धयज्ञाद्यनुवादेन फलसंबंधमात्र बोधने लाघवाच्च यज्ञादीनां स्रुवंत यज्ञादिपदोषातत्वेनात्रविधेयत्वा प्रतीतेश्च स्मृतिश्च अनाश्रताकर्मफलमित्याद्याप्रसिद्धयज्ञादीनामेव फलाभिसंधिविनानुष्ठितानां विद्या हेतुत्वं दर्शयतीति सूत्रार्थः | अन्यत्रेति | विविदिषावाक्यादन्यत्र कर्मकांड इत्यर्थः | उभयविधानादिति | राजसूयवाक्ये तु कर्त्रादिगुणविशिष्टस्यापूर्वकर्मण एव विध्युपगमान्न वाक्यभेदप्रसक्तिरिति तत्र राजपदस्य कर्तृ रूपगुणविधायकत्वं युक्तमितिभावः | तृतीयमपि सदृष्टांतमाशंक्यनिराकरोति | नापीति | राज्ञ इति राज्ञः कर्तृतया विधेयत्वाभावेपि राज्ञ एव राजसूयाधिकारः सिध्यति राजपदसंनिधानेन स्वाराज्यकामपदस्य क्षत्रिय परत्वावगमादन्यथा राजपदवैयर्थ्यप्रसंगादिति तात्पर्येण येषां मते राजः कर्तृतयाविधिर्नाभ्युपगम्यते तेषां पक्षे इत्यर्थः | ब्राह्मणाधिकारपर्यवसानमित्यपि नोपपद्यत इत्यत्र हेतुमाह | अन्यत्रेति | कर्मकांड इत्यर्थः | इहापीति | विविदिषावाक्येपि इत्यर्थः | त्रैवर्णिकाधिकारात्मविद्येति | ब्राह्मणे व क्षत्रियवैश्ययोरपि विद्यायामर्थित्वलक्षणाधिकाराविशेषात् | शूद्रस्येव विद्यार्थ यज्ञादिषु तयोः प्रतिषेधाभावाच्चेत्यर्थः | युक्ततयेति | अधिकारिणामसंकोचस्य विधिगतानष्टापकत्वलक्षणप्रामाण्योपपादकत्वादितिभावः |
582 SK प्. १७ब्) अन्यत्र कॢप्तत्वाद्युपपति त्रय प्राप्तस्यापि क्षत्रिय वैश्ययोरधिकारस्य ब्राह्मणपदं अपवादकमित्याशंक्याह | विधिसंसर्गहीनेति उद्देश्यसमर्पकतया विधेयसमर्पकतया वा विधिवाक्यार्थान्वयबोधानुपयोगीत्यर्थः | राजसूयवाक्ये तु राजसूयस्यात्रैव विधेयत्वेन त्रैवर्णिकाधिकारिकत्वेनान्यत्रा कॢप्तत्वाद्युक्तं विविसंसर्गहीन राजपदसमभिव्याहारमात्राद्राजकर्तृनियम इति भावः | ननूक्त न्यायेन ब्राह्मणपदाभावेपि क्षत्रिय वैश्ययोरिव ब्राह्मणस्यापि विद्यार्थकर्मस्वधिकार सिद्धेः | ब्राह्मण ग्रहणं व्यर्थमेव स्यादिति चेन्न विद्यार्थ कर्मसु ब्राह्मणस्य मुख्याधिकार ज्ञापनार्थतोपपतेः वैयर्थ्यानवकाणादिति भावः || ननु विद्याधिकारिमात्रोपलक्षणत्वे शूद्रस्यापि विद्यायामर्थित्वादि संभवेन तस्यापि विद्यार्थकर्माधिकार प्रसंग इति चेन्न | अध्ययन ग्रहीतस्वाध्यायजन्य तदर्थज्ञानवत एव वैदिकेष्वधिकार इत्यपशूद्राधिकरणे अध्ययनवेदवाक्य श्रवणादि विधुरस्य शूद्रस्य विद्याधिकार निषेधात् | न शूद्रायमतिं दद्यादिति स्मृतेरापा ततोपि तस्य विद्यां महिमा प्. १८अ) ऽवगत्युपाया संभवेन तदर्थित्वानुपपतेश्च तस्य विद्यायामनधिकारादिति केचित् अन्ये त्वाहुः शूद्रस्याप्यस्त्येव विद्यार्थकर्माधिकारः तस्य वेदानुवचनाऽग्निहोत्राद्यसंभवेपि कंठोक्त सर्ववर्णाधिकार श्रीपंचाक्षरमंत्रराजविद्यादि जप पापक्षय हेतुतपोदानपाक यज्ञादि संभवात् | वेदानुवचनेन यज्ञेन दानेनेत्यादि पृथक्करणविभक्तिश्रुतेर्विधुरादीनां विर्थंपदानादि मात्रानुष्ठानानुमतेश्च वेदानुवचनादि समुच्चयान पेक्षणात् ||
583 SK ब्राह्मणग्रहणस्योपलक्षणत्वपक्षेति प्रसंगं शंकते | नन्विति | अविधेयायां हि विद्यायामधिकारो नामविद्यार्थित्वमात्रं तच्च शूद्रस्यापि संभवतीति क्षत्रियादेरिव तस्यापि विद्यार्थकर्मस्वधिकारो दुर्निवारा इत्यर्थः | शूद्रस्य शुत्युक्त सगुणब्रह्मविद्यासुनिर्गुणब्रह्मविद्यासाधन वेदांतश्रवणादिषु चाधिकारमाशंक्यनास्त्यध्कार इति निर्णीतमपशूद्राधिकरणे तस्याधिकाराभावे च भाष्ये हेतुरुपन्यस्तः वेदाध्ययनाभावादिति शूद्रस्य वेदोच्चारणश्रवणसाधारण निषेधेन वेदाध्ययनाभावेपि वेदार्थभूतोपासनाद्यनुष्ठानं किं नस्यादित्याशंक्य अध्ययन विधिनावेदजन्यवेदार्थ ज्ञानस्य
584 SK प्. १८ब्) वेदार्थानुष्ठानेषु नियमितत्वादध्ययन शून्यस्य तदभावात् न सगुणनिर्गुणविद्यानुष्ठानेष्वधिकार इत्युक्तं | तर्था च तुल्यार्थतया विद्यार्थकर्मस्वप्यधिकारो नास्तीत्यर्थः | ननु शूद्रस्य वेदोक्तयज्ञादिष्वधिकारा भावेपि वक्ष्यमाणरीत्या तस्य विद्यासाधनकर्मणां संभवाद्विद्याकामनया शूद्रूस्यापि तेषामनुष्ठानं संभवतीत्याशंक्य तस्य विद्या कामनैव न संभवतीत्याह | न शूद्रायेति | मतिं शास्त्रार्थज्ञानं विद्यामहिमानिरतिशयानंदरू ब्रह्मप्राप्तिसाधनत्वं शूद्रस्यापि विद्यार्थकर्माधिकार प्रसंग इत्यर्त्र इष्टापतिरित्याह | अन्ये त्विति | कंठत उक्तः सर्ववर्णाधिकारो यस्मिन् तादृश विद्यादि जपे स तथोक्तः श्रीमत्पंचाक्षरमेव मंत्रराजविद्या आदिपदं च आगमिकपौराणिकमंत्रांतरसंग्रहार्थं तथा च ब्रह्मोतरखंडे किं तस्य बहुभिर्मंत्रैः किं तीर्थैः किं तपोध्वरैः यस्य्ॐ नमः शिवायेति मंत्रो हृदयगोचरः मंत्राअधिराजराजो यः सर्ववेदांतशेखरः सर्वज्ञाननिधानं च सोयं शैव षडक्षरः प्रणवेन निनामंत्रः सोयं पंचाक्षर स्मृतः स्त्रीभिः शूद्रैश्च संकीर्णै धीर्यते मुक्तिकांक्षिभिरिति | पाकयज्ञादीत्यादिपदं द्विजशुश्रुषानामकीर्तनतीर्थस्नानदिसंग्रहार्थं | ननु विविदिषा वाक्ये शूद्रसाधारणवर्णधर्माणामुपलक्षणेपि यज्ञादीनामेक वाक्योपादानातेषां समुच्चयस्य विद्यासाधनत्वं भाति यज्ञादिषु समुच्चयश्च शूद्रे वाधित इति कथं तस्य विद्यार्थ कर्माधिका इत्याशंक्यहेत्वसिध्या दूषयति | वेदानुवचनेनेति | वेदानुवचनेन विविदिषंति प्. १९अ) यज्ञेन विविदिषंतीत्यादिरूपेणप्रत्येकं साधनत्व प्रतीतेः न समुच्चयापेक्षा तद्विवक्षायां हि वेदानुवचनयज्ञदानतपोभिर्विविदिषंतीति वाक्यं स्यात् पृथक्करणविभक्ति प्रवणेपि वेदानुवचनेन यज्ञेन च दानेन च तपसा चेति प्रतिपदार्थं चकारयुक्तं वा वाक्यं स्यात् यदग्नये च प्रजापतये चेत्यादि वदिति भावः
585 SK न च शूद्रस्य विद्यायामर्थित्वासंभवः श्रावयेच्चतुरो वर्णात् | कृत्वा ब्राह्मणमग्रत इत्यादीतिहासपुराणश्रवणे चातुर्वर्ण्याधिकारस्मरणेन पुराणाद्यवगत विद्या माहात्म्यस्य तस्यापि विद्यार्थित्वसंभवात् | न शूद्रायमतिं दद्यादिति स्मृतेश्च तदनुष्ठानानुपयोग्यग्निहोत्रादिकर्मज्ञाननिषेधपरत्वात् | अन्यथा तस्य स्ववर्णधर्मस्याप्यवगत्युपायासंभवै न शूद्रः चतुर्थो वर्ण एकजातिस्तस्यापि सत्यमक्रोधः शौचमाचमनार्थे पाणिपादप्रक्षालनमेवैकं श्राद्धकर्मभृत्यभरणं स्वदार तुष्टिः परिचर्याचोतरेषामित्यादि तद्धर्मविभाजकवचनानामननुष्ठानलक्षणाप्रामाण्यापतेः | न चैवं सत्यपशूद्राधिकरणस्य प्. १९ब्) निर्विषयत्वं तस्य न शूद्रे पातकं किंचिन्न च संस्कारमर्हतीति स्मृतेर्गुरूपदनाख्य विद्यांगोपनयनसंस्कारविधुरस्य शूद्रस्य सगुणविद्यासुनिर्गुणविद्यासाधन वेदांतश्रवणादिषु चाधिकारनिषेधपरत्वात् || यत्वापाततो विद्यामहिमावगत्युपाया संभवेन विद्यायामर्थित्वलक्षणाधिकारानुपपतिरिति | तदनूद्यनिराकरोति | न च शूद्रस्येति श्रावयेदिति ब्राह्मण इति शेषः | यदा क्षत्रियादी न श्रावयेत् तदा विशेषमाह | कृत्येति | पुराणादिभिः साधनभूतैरवगतं विद्यामाहात्म्यं येन शूद्रेण स तथा तस्येत्यर्थः | मति निषेधवचनस्य संकोचं दर्शयति | न शूद्रायेति अन्यथेति | शास्त्रार्थज्ञानमात्रदाननिषेधपरत्व इत्यर्थः | शूद्रस्य स्वतः पुराणादि पठननिषेधादन्येभ्योपि पुराणादिश्रवणाभावे स्वधर्मावगतिर्न संभवतीत्यर्थः | इष्टापतिमाशंक्याह | शूद्रश्चतुर्थो वर्ण इत्यादिना | जातिर्जन्म उपनयनाख्य द्वितीयजन्मशून्य इत्यर्थः | प्रक्षालनमेवेति नत्वपांप्राशनमंगस्पर्शनादिकं वेत्येवकारार्थः | उत्तरेषामिति | द्विजानामित्यर्थः | न शूद्रायमति दंद्यादिति स्मृतेः शास्त्रार्थज्ञानमात्रदाननिषेधपरत्वेपि वृद्धौ च मातापितरौ भार्यासाध्वीसुतः शिशुः अप्यकार्यं शतं कृत्वा भर्तव्यामतुर
586 SK प्. २०अ) ब्रवीदित्यादिवचनदर्शनेन ये ब्राह्मणा उक्तलक्षणमात्रादि संरक्षणोपयोग्यर्थे लाभाय शूद्रान् प्रतिपुराणादि पठने प्रवर्तंते तेभ्यो विद्यामाहात्म्य स्वधर्मयोरवगतिसंभवात् न काप्यनुपपतिरिति मंतव्यं | न चैवमिति | शूद्रस्यापि विद्यार्थकर्माधिकार स्वीकार इत्यर्थः | निर्विषयत्वमिति | तदधिकरणस्य शूद्राधिकार निषेधपरत्वादितिभावः | सत्यं तदधिकरणं शूद्राधिकार निषेधपरं किंतु विद्यार्थ कर्माधिकार निषेधपरं न भवति | वेदांतश्रवणाधिकारनिषेधपरत्वा तस्येति परिहरति | तस्य न शूद्र इत्याअदिना | वेदांतश्रवण सगुणोपासनेषु अधिकाराभावे हेतुगर्भविशेषणमाह | गुरूपसदनाख्येति | शूद्रस्य संस्कारशून्यत्वेमानमाह | न शूद्र इति | पातकमिति | अभक्ष्यभक्षणादिकृतमित्यर्थः | अध्ययनांगोपनयनलक्षणः विद्यांगोपनयनलक्षणश्च द्विविधमपि संस्कारं निषेधति | न च संस्कार मर्हतीति | शिष्यत्वेन स्वीकृत्य समीपे स्थापनरूपं विद्यांगोपनयनमाचार्यकर्तृकं तच्च शिष्यकर्तृकगुरूपसदनपूर्वकत्वात् | गुरूपसदनाख्यमित्युक्तं गुरूपसदनं च तद्विज्ञानार्थं स गुरुमेवाभिगछेदित्यादिना विद्यांगत्वेमविहितं तथातंहोपनिन्ये इत्यादि श्रुत्या विद्यांगत्वेनोपनयनं च प्रतीयत इति भावः | तं विद्यार्थिनं गुरुरुपनीतवानित्यर्थः || निर्गुणविद्यायां शूद्रस्यापि विषयसौंदर्य प्. २०ब्) प्रयुक्तस्यार्थित्वस्य निषेद्धुमशक्यत्वात् | अविधेयायां च तस्यां तदतिरिक्ताधिकारा प्रसक्त्या तन्निषेधायोगाच्च | न च तस्य वेदांतश्रवणासंभवे विद्यार्थकर्मानुष्ठान संभवेपि विद्यानुत्पतें तस्य तदर्थ कर्मानुष्ठानं व्यर्थमिति वाच्यं | तस्य वेदांतश्रवणाधिकाराभावेपि भगवत्पादैः | श्रावयेच्चतुरो वर्णानिति चेतिहासपुराणाधिगमे चातुर्वण्याधिकार स्मरणाद्वेदपूर्वस्तु नास्त्यधिकारः शूद्राणामिति स्थितमित्यपशूद्राधिकरण उपसंहारभाष्ये ब्रह्मात्मैक्य परपुराणादि श्रवणे विद्यासाधनेधिकारस्य दर्शितत्वात् ||
587 SK ननु श्रुत्युक्त सगुणोपासनेष्विव निर्गुणविद्यासाधनवेदांतश्रवणादिष्विव च निर्गुणविद्यायामप्यधिकारनिषेधपरमपशूद्राधिकरणं किं न स्याद्विनिगमकाभावा तथा च निर्गुणविद्यायामधिकाराभावे तत्साधनकर्मसुशूद्राधिकारो न सिध्येदित्यत आह | निर्गुण विद्यायामिति | ब्रह्मविद्यालक्षणस्य विषयस्य सौंदर्यं मुक्तिसाधनत्वं तद्ज्ञानप्रयुक्तस्य विद्यायामर्थित्वलक्षणाधिकारस्य तदधिकरण न्याये प्. २१अ) ननिषेद्धुमशक्यत्वादित्यर्थः | ननु शूद्रस्य विद्यायामर्थित्वलक्षणाधिकार सत्वेपि तदतिरिक्तस्य अधीतवेदत्वादिरूपविशेषणांतरस्याभावात् | कथं तस्याधिकारो विद्यायामित्यत आह | अविधेयायामिति | च शब्दः शंका निरासार्थः | तदतिरिक्तेति अर्थित्वाति रिक्तेत्यर्थः | स्वर्गानुभववत् ब्रह्मानंदानुभवरूपाया निर्गुणविद्यायाः फलरूपत्वादविधेयत्वं फलस्याविधेयत्वा तथा च यथा स्वर्गानुभवादीं फले तदर्थित्वमात्रमधिकारस्तथा निर्गुणविद्यायामपि तदर्थित्वमात्रमेवाधिकारः स च निषेद्धुमशक्यः विधेयेष्वेवोपासनादिषु पूर्वोक्ताधिकारि विशेषणांतरापेक्षा शास्त्रे निरूपितेति विषमो दृष्टांत इति भावः | असंभव इति | अपशूद्राधिकरण न्यायेन तदसंभवे सतीत्यर्थः | तस्य वेदांतश्रवणासंभवेपि ब्रह्मात्मैक्य परपुराणादिश्रवणाधिकारस्य भाष्ये दर्शितत्वात् शूद्रस्यापि संभवति विद्योत्पतिरित्यर्थः भाष्ये तु शब्दोवधारणार्थः | श्रावयेच्चतुरो वर्णानिति वचनेन शूद्रस्य पुराणादिश्रवणाभ्यनुज्ञानेपि मनननिदिध्यासनयोरभ्यनुज्ञानाभावात् | नमननाद्यनुष्ठानं तस्य सिध्यति | न च मननादेः श्रवणांगत्वात् न पृथगभ्यनुज्ञानापेक्षेति वाच्यं | प्रयाजदर्शपूर्णमासादेरिव प्रकृते शेषशेषिभावबोधक प्रमाणाभावेन श्रवणादिष्वंगांगिभावव्यवहारस्य गौणत्वात् | तथा च शूद्रस्याद्वैतपरपुराणादिभागश्रवणे कृतेपि विद्योदया संभवात् | विद्यार्थकर्मानुष्ठान वैयर्थ्ये
588 SK प्. २१अ) तदवस्थमेवेत्यैस्वरसादाह | विद्योत्पति योग्येति | यद्वा इतिहासपुराणाभ्यां वेदं समुपवृंहयेदिति वचनादितिहासादि गत ब्रह्मात्मैक्य परभागस्य वेदांतश्रवणाज्जनित वेदांतार्थज्ञानोपकारकत्वमात्रमेव न तु वेदांतश्रवणमनपेक्ष्यस्वातंत्र्येण ब्रह्मात्मैक्यज्ञानजनकत्वमिति निश्चीयते | तथा सत्येव तद्वचनपूर्वार्धं संगछते विभेत्यल्पश्रुताद्वेदो मामयं प्रतरेदितीति | अयमर्थः अल्पं वेदमात्रं श्रुतं विचारितं येन पुरुषेण सोल्पश्रुतः || विद्योत्पति योग्यविमलदेवशरीरनिष्पादनद्वारा मुक्त्यर्थं भविष्यतीति त्रैवर्णिकानां क्रममुक्तिफलक स गुणविद्यार्थ कर्मानुष्ठानवत् वेदांतश्रवणयोग्य त्रैवर्णिकशरीरनिष्पादनद्वारा विद्योत्पत्यर्थत्वं भविष्यतीति शूद्रस्य विद्यार्थ कर्मानुष्ठानाविरोधाच्च तस्माद्विविदिषा वाक्ये ब्राह्मण पदस्य यथा प्राप्तविद्याधिकारि मात्रोपलक्षणत्वेन शूद्रस्यापि विद्यार्थ कर्माधिकारः सिद्ध्यत्येवेति | ननु अस्तु कर्मणां चित्तशुद्धिद्वाराविद्योपयोगः संन्यासस्य किं द्वारातदुपयोगः केचिदाहुः विद्योत्पतिप्रतिबंधक दुरिता प्. २२अ) नामनंतत्वात किं विद्यज्ञाद्यनुष्ठान निवर्त्यं किंचित् संन्यासापूर्वनिवर्त्यमिति कर्मवच्चितशुद्धिद्वारैव संन्यासस्यापि तदुपयोगः
589 SK तस्मात् पुरुषा तेन श्रुतो वेदो विभेति | कथंति भेति तत्राह मासिति | अयमल्पश्रुतः पुरुषः मांश्रुतं वेदं प्रतरेत् | मद्विचाररूपायां मीमांसायां न्यायाभासत्वादि शंकया मामप्यर्थांतर परं संभावयेत् | इति शब्दो हेत्वर्थः | एवं प्रतारणसंभवाद्धेतोः इतिहासपुराणाभ्यां वेदं संम्यगुपवृंहयेत् | इतिहासपुराणवचनैर्मीमांसानुसारिभिः | तस्यां दृढन्यायत्वनिश्चयसंपादन द्वारा मीमांसानिर्णीतार्थपवमां वेदं स्थापयेदिति | तथा च शूद्रस्य वेदांतश्रवणरहितस्य वेदांतार्थोपवृहणरूपब्रह्मात्मैक्यपरे इतिहासादिश्रवणे प्रवजावपि नास्ति विद्योदयः श्रावयेच्चतुरो वर्णानिति वचनमपि शूद्रस्याद्वैतपरपुराणादि श्रवणांशे अदृष्टार्थमभ्युनुज्ञापरं अपशुद्राधिकरणभाष्येपि शूद्रस्याद्वैतपुराणस्रवणादि वर्णनं विभेत्यल्पश्रुतादिति वचनं नास्तीति कृत्वाकृतमिति न भाष्यविरोधापि तथा च वेदांतश्रवणैक साध्या विद्यात् तदभावे शूद्रस्य न सिध्यदैवेत्यस्वरसादाह | विद्योत्पति योग्येति मुक्त्यर्थमिति सुगुणब्रह्मोपासनमितिशेषः | विद्योत्यर्थत्वमिति शूद्रस्य मदनुष्ठितद्यर्माण्यं विद्योत्पत्यर्थत्वं भविष्यनीति
590 SK प्. २२ब्) निश्चयेन तदनुष्ठानसंभवादित्यर्थः | तस्मादिति | शूद्रस्य विद्यार्थकर्मानुष्ठाने बाधकाभावादित्यर्थः | विद्याधिकारिमात्रेति | न तु ब्राह्मण पदस्य ब्राह्मणमात्रपरत्वं न वा त्रैवर्णिकमात्रपरत्वमिति मात्रशब्दार्थः ब्राह्मण पदस्य द्विजोपलक्षणत्वे वार्तिक वचने यो हेतुरुक्तः त्रयाणामात्मबोधनसाधनकर्मस्वधिकाराविशेषादिति तस्य हेतोः शूद्रसाधारणत्वादितिभावः | किं द्वारेति | किमदृष्टद्वाराविद्योपयोगः किं वा दृष्टद्वारानाद्यः विद्योत्पति प्रतिबंधक दुरितस्य यज्ञाद्यनुष्ठान जनिता पूर्वेणैव निवर्तितत्वेन संन्यास जनिता पूर्वनिवर्त्यदुरितालाभे सति संन्यास वैयर्थ्यप्रसंगात् | न द्वितीयः | तदनुपलंभादित्याक्षेपाभिप्रायः | तत्राद्यं पक्षं समर्थयते | केचिदाहुरिति | ननु संन्यासापूर्वस्य न विद्योदय हेतुत्वं असंन्यासिनामपि केषांचिद्विद्व्योद्देशेन श्रवणाद्यनुष्ठान दर्शनात् | केषांचित् संन्यासं विनैव विद्योदयस्य प्रमाणसिद्धत्वाच्चेत्यत आह || तथा च गृहस्थादीनां कर्मछिद्रेषु श्रवणाद्यनुतिष्ठतां न तस्मिन् जन्मनि विद्यावाप्तिः किं तु जन्मांतरे संन्यासंलब्धैव येषां तु गृहस्थानामेव सतांजनकादीनां विद्यादृश्यते तेषां पूर्वजन्मनि संन्यासाद्विद्यावाप्तिः प्. २३अ) अतो न विद्यायाः संन्यासापूर्वव्यभिचारशंकापीति | अन्ये तु शांतोदांत उपरत इत्यादि श्रुतौ उपरतशब्दगृहीततया संन्यासस्य साधनचतुष्टयांतर्गतत्वात् | सहकार्यांतरविधिरिति सूत्रभाष्ये तद्वतो विद्यावतः संन्यासिनो बाल्यपांडित्यापेक्षया तृतीयमिदं मौनं विधीयते | तस्माद्ब्राह्मणः पांडित्यमित्यादि श्रुतौ | ततः प्राक् भिक्षाचर्यं चरंतीति संन्यासाधिकारादिति प्रतिपादनात् ||
591 SK तथा चेति संन्यासस्य विद्यां प्रतिदृष्टद्वारानुपलंभेनादृष्ट द्वारैव विद्या वाप्ति हेतुत्वे संन्यासविधिना सिद्धे सतीत्यर्थः | न च दृष्टद्वारानुपलंभो सिद्धः लौकिक वैदिक व्यापार विक्षिप्त चितस्य विद्योदया संभवेन सर्वकर्मसंन्यासस्य विक्षेपनिवृतिरूप दृष्टद्वाराविद्याहेतुत्वसंभवादिति वाच्यं | लौकिक वैदिक कर्मवतामपि केषांचित् पुरुषधौरे याणां दैन्यहर्ष क्रोधभयादिलक्षणविक्षेपनिवृतेरनुभवसिद्धत्वेन तदर्थंसे न्यासा न पेक्षणादितिभावः | संन्यासस्यादृष्टद्वारकत्वपक्षमेवावलंव्य संन्यासा पूर्वस्य श्रवणाद्यधिकारि विशेषणत्वेन विद्योपयोगं सप्रमाणमाह | अन्येतिति शांत इति | तितिक्षुः समाहितः
592 SK प्. २३ब्) श्रद्धावितो भूत्वात्मन्येवात्मानं पश्येदिति श्रुतिशेषः शमः अंतरिंद्रियनिग्रहःदमो बाह्येंद्रिय निग्रहः उपरतिर्नित्यकर्मत्यागः | ननु शांतदांतपदाभ्यामेव कर्ममात्रस्य वारितत्वादुपरति श्रुतिर्व्यर्थेति चेन्नशमदम विधिशास्त्रस्य सामान्यशास्त्रत्वात् | तस्य नित्यकर्मविधिना विशेषशास्त्रेण नित्यनैमितिककर्मव्यतिरिक्त बाह्यांतःकरणव्यापारनिवृतिमात्र परतया संकोचे सति नित्यकर्मत्यागा लाभात् | पुनरुपरति श्रुत्यानित्यकर्मत्यागो बोध्यत इति न तस्य वैयर्थ्यं तितिक्षुः शीतोष्णादि द्वंद्व सहिष्णुः समाहितः श्रवणाद्यपेक्षित चित समाधानवान् देवता गुरुवेदांतेषु श्रद्धैववितं यस्य सः श्रद्धावितो भूत्वेत्यस्य प्रत्येकमन्वयः आत्मन्येवकार्यकारणसंघात एसंघात एव संघातसाक्षिणमात्मानमहं ब्रह्मास्मीति पश्येदिति श्रुत्यर्थः | साधनचतुष्टयेति नित्यानित्यवस्तुविवेकः ऐहिकामुष्मिकभोगविरागः शमादिष᳚न्कं मुमुक्षा चेति साधनचतुष्टयं तच्च श्रवणाद्यधिकारिविशेषणमिति व्यवस्थापितं प्रथमसूत्र इति भावः संन्यासा पूर्वस्याधिकारिविशेषणत्वे हेत्वंतरमाह | सहकार्यतरेत्यादिना प्रतिपादनादित्यंतेन सह कार्यंतरस्य विद्यां प्रतिसाधनांतरस्य मौनस्य विधिरथ मुनिरिति शब्द इति सूत्रभागार्थः | सौत्र पदं तद्वत इति तस्य व्याख्यानं विद्यावत इति श्रवणाद्यनुष्ठानोपयोग्यापात प्. २४अ) ज्ञानवत इत्यर्थः | तद्वतः सह कार्यंतर विधिरिति सूत्रे संन्यासिन इति कथं लभ्यते तत्राह | तस्मादिति | तस्मादित्यपि श्रुति पदमेव यस्मादतीताः ब्राह्मणाः आपाततो ब्रह्मात्मानं विदित्वा तत्वसाक्षात्कारार्थं व्युत्थान शब्दितं संन्यासं कृत चेतः तस्मादिदानीं तनोपि ब्राह्मणो मुमुक्षुः संन्यस्य पांडित्यादिकं तत्वसाक्षात्कारार्थमनुतिष्वेदिति श्रुत्यर्थः | पांडित्यं श्रवणं मौनं ध्यानं तत इति तस्माद्ब्राह्मण इति वाक्यात् पूर्वमित्यर्थः ||
593 SK त्यक्ताशेष क्रियस्यैव संसारं प्रजिहासतः जिज्ञासोरेव चैकात्म्यंत्रप्यंतेष्वधिकारितेति वार्तिकोक्तेश्च संन्यासापूर्वस्य विद्यासाधन वेदांतश्रवणाद्यधिकारि विशेषणत्वमिति तस्य विद्योपयोगमाहुः | अपरे तु श्रवणाद्यंगतयात्मज्ञानफलता संन्यासस्य सिद्धेति विवरणोक्तेरनन्यव्याअपारतया श्रवणादिनिष्पादनं कुर्वतस्तस्य विद्यायामुपयोगः | दृष्टद्वारे संभवत्य दृष्टकल्पनायोगात् | यदित्वनलसस्य धीमतः पुरुषधौरेयस्याश्रमांतरस्थस्यापि प्. २४ब्) कर्मछिद्रेषु श्रवणादिसंपद्यते || संन्यासापूर्वस्याधिकारि विशेषणत्वे वार्तिक संमतिरूप हेत्वंतरमाह | त्यक्तेति | वार्तिके प्रथमविशेषणं संन्यासपरं ततश्च संन्यासमुमुक्षा जिज्ञासानां समुच्चयार्थेन च कारेण मुमुक्षुत्वादेरिव संन्यासस्यापि वेदांतश्रवणादिष्वधिकारि विशेषणत्वं भातीतिभावः | संन्यासापूर्वस्येति | संन्यासस्य त्यागलक्षण क्रियारूपेणानुवृत्ययोगादपूर्वपर्यंत धावनमिति | संन्यासस्य दृष्टद्वाराविद्योपप्योग इति द्वितीयं पक्षं समर्थयते | अपरे त्विति | ननु संन्यासस्य विद्यांगत्वबोधक श्रुत्यादि वृतस्य श्रवणाद्यंगत्वबोधकप्रमाणाभावाद्विवरणोक्तिरयुक्तेत्याशंक्य तस्यास्तात्पर्यमाह | अनन्य व्यापार तयेति कादाचित्कं श्रवणादिकं विद्योदयद्वारानामृतत्वसाधनं किंतु सार्वकालिकं ब्रह्मसंस्थो मृतत्वमेति | आसुप्तेरामृतेः कालं नयेद्वेदांतचिंतयेत्यादि श्रुतिस्मृति शतेभ्यः तथा चानन्यव्यापारतयाश्रवणाद्यनुष्ठानं विदधताशास्त्रेण संन्यासोपेक्ष्यते गृहस्थादेः स्वाश्रमविहितकर्मव्यग्रस्य सदा श्रवणाद्यनुष्ठानासंभवात् | तथा विद्यासाधनत्वेन संन्यासं विदधतापि शास्त्रेण द्वारतया निरंतरश्रवणाद्यनुष्ठानमपेक्ष्यते संन्यासस्य साक्षाद्विद्यासाधनत्वाभावात् | दृष्टद्वारसंभवे अदृष्टद्वारकल्पनानुपपतेश्च | तत्रापि श्रवणादिकं
594 SK प्. २५अ) तत्वव्यंजकत्वादर्थतः | प्रधानं भवति संन्यासस्तूक्त हेत्वभावाद्गणभूत तया व्यवतिष्ठते एवं श्रवणादि विधेः संन्यासविधेश्च परस्परापेक्षाबलादेक वाक्यभावमापन्नाभ्यां विधिभ्यां संन्यासांगकं मनननिदिध्यासन सहितं श्रवणं विधीयत इति सिद्धासंन्यासस्य श्रवणाद्यंगतया आत्मज्ञानफलकतेति भावः | यद्वा विवरणोक्तेरयंभावः श्रवणविधिस्तावत् श्रवणसाधनतया विक्षेप निवृतिं तद्धेतु संन्यासं चापेक्षते विक्षिप्तस्य चेतसः श्रवणाद्यनुष्ठाने प्रवृत्यसंभवात् | गृहस्थादेश्च स्वाश्रमकर्मकरणकालातिरिक्तकालेपि बहुविषयतयाविक्षेपावश्यं भावात् | संन्यासविधेरपि विक्षेपनिवृतिरूपदृष्टद्वाराश्रवणादिकं घटयित्वाविद्यां संपादयतः संन्यासस्य विधानेन चारितार्थ्यसंभवे अदृष्टद्वाराविद्यासाधनसंन्यासविधायकत्वा संभवात् | तथा च पूर्ववत् संन्यासस्य श्रवणाद्यंगतयैव विद्याफलकत्वं न त्वदृष्टद्वारेति सिद्धमित्यस्मिन् व्याख्याने अनन्यव्यापारतयेत्यस्य विक्षेपनिवृति द्वारेत्यर्थो विवक्षितः तस्येति संन्यासस्येत्यर्थः | ननु संन्यासस्य विक्षेपनिवृतिद्वारा श्रवणाद्यंगभावमापन्नस्य विद्यासाधनत्वमुक्तमनुपपन्नं संन्यासं विनापि विक्षेपनिवृतिः केषुचित् श्रवणाधिकारिषु संभवादिति शंकते यदि त्विति | अनलसस्येति | सत्त्वगुणप्रधानस्येति यावत् | धीमत इति विषयेषु दोषदर्शनशीलस्येति यावत् | पुरुषधौरे यस्येति विषयेभ्यः सकाशादिंद्रियाणां निग्रहे समर्थस्येत्यर्थः ||
595 SK तदा चतुर्ष्वाश्रमेषु संन्यासाश्रमपरिग्रहेणैव श्रवणादि निवर्ततीयमिति नियमोभ्युपेय इति | नन्वस्मिन् पक्षद्वये क्षत्रियवैस्ययोः कथं वेदांतश्रवणाद्यनुष्ठानं संन्यासस्य ब्राह्मणाधिकारत्वात् | ब्राह्मणो निर्वेदमायात् ब्राह्मणोव्युत्थाय ब्राह्मणः प्रव्रजेदिति संन्यासविधिषु ब्राह्मणग्रहणात् | अधिकारि विशेषस्य ज्ञानाय ब्राह्मण ग्रहः न संन्यासविधिर्यस्मात् श्रुतौ क्षत्रियवैश्ययोरिति वार्तिकोक्तेश्चेति चेत् | अत्र केचिद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्ग्रहाद्वाचनाद्वेत्यविशेषश्रुत्याब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद् ग्रहात् | त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमा इति स्मृत्यनुगृहीतया क्षत्रियवैश्ययोरपि संन्यासाधिकारसिद्धेः श्रुत्यंतरेषु ब्राह्मणग्रहणं श्रयाणामुपलक्षणं | अत एव वार्तिकेप्यधिकारिविशेषस्येति श्लोकेन भाष्याभिप्रायमुक्त्वात्रयाणामविशेषेण संन्यासः | श्रूयते श्रुतौ यदोपलक्षणार्थं स्याद्ब्राह्मण ग्रहणं तदेत्यनंतरश्लोकेन स्वमते क्षत्रियवैश्ययोरपि संन्यासाधिकारो दर्शित प्. २६अ) इति तयोः श्रवणाद्यनुष्ठानसिद्धिं समर्थयंते | अन्ये त्वनेकेषु संन्यासविधिवाक्येषु ब्राह्मणग्रहणादुदाहृतजावाल शुर्तौ संन्यासविधिवाक्ये ब्राह्मण ग्रहणाभावेपि श्रुत्यंतरसिद्ध ब्राह्मणाधिकारमेव सिद्धं कृत्वा संन्यासावस्थायामयज्ञोपवीती कथं ब्राह्मण इति ब्राह्मपरामर्शाच्च ब्राह्मणस्यैव संन्यासाधिकारः ||
596 SK एतैर्विशेषणैर्विक्षेप हेतूनामभावसूचनात् | विक्षेपनिवृतिरुक्ता संन्यासफलस्य विक्षेपाभावस्य संन्यासादिव संन्यासादन्यतोपि प्राप्तौ संन्यासस्य विधित्सितस्य श्रवणाद्यपेक्षितविक्षेप निवृतिं प्रतिपक्षे प्राप्तिः पक्षे चाप्राप्तिरिति लभ्यते | तथा च माभूत् संन्यासाश्रमविधिरपूर्वविधिः नियमविधिस्तु भवे देवेति समायते | तदेति परिग्रहेणैवेति | विक्षेप निवृति द्वारेति शेषः नन्वस्मिन् पक्षद्वय इति | संन्यासस्याधिकारिविशेषणत्वपक्षे श्रवणांगत्वपक्षे चेत्यर्थः | कथमिति | संन्यासाभावादिति भावः | तयोः संन्यासाभावे हेतुमाह | संन्यासस्येति | ब्राह्मणस्यै संन्यासाधिकारे मानमाह | ब्राह्मण इति निर्वेदं वैराग्यं तत्पूर्वक संन्यासं न्यासं कुर्यादित्यर्थः निर्वेदशब्दितवैराग्यस्य संप्रतिसामग्रीत्वेन तस्मिन सति संन्यासस्यावश्यकत्वात् | संन्यासविधिरेवायमितिभावः |
597 SK प्. २६ब्) व्युत्थायेति संन्यस्येत्यर्थः | यस्माछ्रुतावधिकरिविशेषस्य ज्ञानाय ब्राह्मणग्रहः | तस्मात् क्षत्रियं वेश्ययोः संन्यासविधिर्नास्तीति वार्तिकयोजना | अत्र केचित् तयो श्रवणाद्यनुष्ठानसिद्धिं समर्थयंत इति संबंधः ब्रह्मचर्यं समाप्यगृही भवेत् ग्वहाद्वनी भूताप्रवजेदिति पूर्वश्रुतौ च स्तुर्णीमप्याश्रमाणां समुच्चयं प्रतिपाढद्यतेषां विकल्पं दर्शयति | यदि वेतरथेति | यदि वेत्यस्य ब्रह्मचर्याश्रम एव वैराग्यमुत्पन्नं चेदित्यर्थः | तत्र तदनुत्पतावाह ग्रहाद्वेति ग्रहाश्रमेपि तदनुत्पतावाह | वनाद्वेति अविशेषेति | ब्राह्मणादिविशेषग्रहरहितेत्यर्थः | अत एवेति वर्णत्रय साधारणतया संन्यासस्य श्रुतिस्मृति सिद्धत्वादेवेत्यर्थः | यदा यदि वेति श्रुतौ श्रूयते | तदा उपलक्षणार्थं स्यादिति संबंधः | अन्ये त्विति | भाष्यानुवर्तिन इत्यर्थः | श्रुत्यंतरसिद्धमिति | ब्राह्मणो व्युत्थायेत्यादि श्रुत्यंतरसिद्धमित्यर्थः सिद्धं कृत्वेति | विद्योद्देशेन संन्यासविधिवाक्यानां सर्वेशामेक वाक्यत्वादितिभावः | कथमिति तां | तव यज्ञोपवीतादेर्ब्राह्मणत्वव्यंजकत्त्रात परमहंस संन्यासे चतुदभावादपि इत्यर्थः | यद्यत्र क्षत्रियवैश्ययोरपि संन्यासो विवक्षितः स्यात् तदा कथं ब्राह्मण इति वत् कथं क्षत्रियः कथं वैश्य इत्यपि श्रूयेत न तु श्रूयते तस्मात् न तयोः संन्यासः श्रुत्यभिमत इति भावः ||
598 SK प्. २७अ) विरोधाधिकरणन्यायेन श्रुत्यविरुद्धस्यैव स्मृत्यर्थस्य ग्राह्य त्वात् | यतु संन्यारास्य सर्वाधिकारत्वे वार्तिक वचनं तद्विद्वत्संन्यासविषयं न त्वातुरविविदिषा संन्यासे भाष्याभिप्रायविरुद्धसर्वाधिकारप्रतिपादनपरं सर्वाधिकार विछेदि विज्ञानं चेदुपेयते कुतोधिकार नियमो व्युत्थाने क्रियते बलादित्यनंतरश्लोकेन ब्रह्मज्ञानोदयानंतरं जीवन्मुक्तेन क्रियमाणे विद्वत्संन्यासे एवाधिकरनियमनिराकरणात् | एवं च ब्राह्मणानामेव श्रवणायनुष्ठाने संन्यास्ॐगं क्षत्रियवैश्ययोस्तप्रि?रपेक्षः श्रवणाद्यधिकार इति तयोः श्रवणाद्यनुष्ठाननिर्वाहः न हि संन्यासस्य श्रवणापेक्षितत्वपक्षे श्रवणमात्रस्य तदपेक्षानियतुं शक्यते क्रममुक्तिफलकसगुणोपासनयादेवभावं प्राप्तस्य श्रवणादौ संन्यासनैरपेक्ष्यस्यावश्यं वक्तव्यत्वात् || एवं संन्यासविधीनामैककंठ्ये स्थिते सति ब्राह्मणः क्षत्रियो वापीति स्मृति वचनं जावाल श्रुति तात्पर्याज्ञान
599 SK प्. २७ब्) मूलत्वादप्रमाणमित्याह | विरोधाधिकरणत्यायेनेति | प्रत्यक्षश्रुतिविरुद्धस्मृतिवचनमप्रमाणमिति विरोधाधिकरणन्यासः | तस्माद्ब्राह्मणः पांडित्यं निर्विद्येत्यादि श्रुतौ संन्यासाधिकारानुरोधेन ब्राह्मणः संन्यस्य पांडित्यादिकमनुतिष्ठेदिति वाक्यार्थलाभात् | विद्यार्थसंन्यासे विविदिषुणा क्रियमाणे ब्राह्मणस्यैवाधिकार इति भगवतो भाष्यकारस्य मतं यदि वार्तिकवचनस्य प्रमाणमूलभाष्यकारमत विरुद्धेर्थे तात्पर्थे कल्पे तत् तदा संन्यासस्य साधारण्य प्रतिपादकस्मृतिवचनवद्वार्तिकवचनमपि हेयमेव स्यादतो भाष्याविरुद्धार्थ परं वार्तिकवचनमित्याह | तद्विद्वत्संन्यास विषयमिति | विविदिषा संन्यासे सर्वाधिकारप्रतिपादनपरं न संभवतीत्यत्र हेत्वंतरमाह | सर्वाधिकारेति | क्षत्रियवैश्ययोस्तत्वज्ञानमप्युपेय तेन वानांत्यः जनकादीनां तत्वज्ञानवत्वप्रतिपादकशास्त्रविरोधानापः तत्वज्ञानेन कर्माधिकारप्रयोजकवर्णाश्रमाद्यध्यासनिवृतौ सकलकर्मनिवृतिरूपविद्वत्संन्यासस्य क्षत्रियवैश्ययोरपि वारयितुमशक्यतया विविदिषा संन्यास इव विद्वत्संन्यासेपि ब्राह्मणस्यैव अधिकार इति नियमासंभवादितिभावः | कुतो बलान्नियमः क्रियते तादृशं बलं नास्तीत्यर्थः | एवं चेति श्रवणांगत्वेनापि कारिविशेषणत्वेन वा विद्या साधने विविदिषासंन्यासे ब्राह्मणस्यैवाधिकार इति सिद्धे सतीत्यर्थः | ननु संन्यासस्याधिकारिविशेषणतया अंगतया वा श्रवणापेक्षितत्वपक्षे
600 SK प्. २८अ) श्रवणमात्रस्य संन्यासापेक्षत्वावगमात् | क्षत्रियवैश्ययोर्विविदिषासंन्यासरहितयोः श्रवणानुष्ठानं नास्तीत्येव पर्यवस्यति न तु तयोः श्रवणं संन्यासनिरपेक्षमिति तथा च कथं तयोः श्रवणाद्यनुष्ठाननिर्वाहः | तत्राह नहीति | देवभावं प्राप्तस्येति | न च सगुणोपासकस्य ब्रह्मलोकं गतस्य उपासनयादेवभावं प्राप्तस्य निर्गुणब्रह्मसाक्षात्कारायोपासकेन क्रियमाणे श्रवणादौ संन्यासस्य व्यभिचार इत्ययुक्तं तस्य सुगुणविद्यासामर्थ्यादेव निर्गुणसाक्षात्कारसंभवेन श्रवणाद्यनुष्ठानस्याभावादिति वाच्यं | देवताधिकरणे सगुणविद्ययादेवभावं प्राप्तमुपासकमेव प्राधान्येन विषयाकृत्य श्रवणादौ देवाद्यधिकारस्य निरूपितत्वेन तस्यापि श्रवणाद्यनुष्ठानं विना विद्यानुदयस्य प्रागेव श्रवणविधिविचारावसरे दर्शितत्वात् | तथा च तत्र व्यभिचारात् | संन्यासो न श्रवणमात्रांगं किंतु ब्राह्मणकर्तृकश्रवणस्यैवांगमिति क्षत्रियवैश्ययोः सन्यासाभावेपि श्रवणाद्यनुष्ठान निर्वाह इत्यर्थः || देवानां कर्मानुष्ठाना प्रसक्त्यातत्यागरूपस्य संन्यासस्य तेष्वसंभवादित्याहुः | अपरे तु ब्रह्मसंस्थो मृतत्वमेतीति श्रुत्युदिता यस्य ब्रह्मणि संस्था समाप्तिरनन्यव्यापारत्वरूपं तत्निष्ठत्वं तस्य श्रवणादिषु मुख्योधिकारः प्. २८ब्) गछतस्तिष्ठतो वापि जाग्रतः स्वप्नोपि वा न विचार परं चेतो यस्या सौमृत उच्यते | आसुप्तेरामृतेः कालं नयेद्वेदांतचिंतयेत्यादि स्मृतिषु सर्वदाविचारविधानात् | सा च ब्रह्मणि संस्था विना संन्यासमाश्रमांतरस्थस्य न संभवति | स्वस्वाश्रमविहित कर्मानुष्ठान वैयग्र्यादिति संन्यासरहितयोः क्षत्रियवैश्ययोर्न मुख्यः श्रवणाद्यधिकारः ||
601 SK ननु देवानामपि कुतः संन्यासाभावः तत्राह | देवानामिति | ननु देवकर्तृक श्रवणे संन्यासा श्रमस्य यदि व्यभिचारः तर्हि त्रैवर्णिक मनुष्य कर्तृक श्रवणे संन्यासाश्रमस्य हेतुत्वमस्तु न तु ब्राह्मणमात्रकर्तृके तथा संकोचे मानाभावात् | उक्तं हि प्रागेव चतुर्ष्वाश्रमेषु संन्यासाश्रमपरिग्रहेणैव श्रवणादिर्निर्वर्तनीयमिति स चाश्रमविभागो वर्णत्रय साधारण एव न ब्राह्मणमात्रगतः तथा च संन्यासिनो ब्राह्मणस्येव संन्यासहीनयोः क्षत्रियवैश्ययोः श्रवणादौ नाधिकारः संभवतीत्यस्वरसादाह | अपरे त्विति | श्रत्युदिता ब्रह्मणि संस्था यस्य संभवति तस्य मुख्योधिकार इति संबंधः | संस्थापदस्यो व्याख्यानं समाप्तिस्तस्यापि व्याख्यानमनन्येति अमृतत्वकामस्य नैरंतर्येण
602 SK प्. २९अ) विचारकर्तव्यतायां स्मृतिवचनान्यप्युदाहरति | गछत इति स्वपत इति | शयानस्येत्यर्थः | स जीवति मनो यस्य मननेनैव जीवतीत्यादि वचनसंग्रहार्थमादिपदं मननं तत्वचितनं तद्रहितो जीवन्नेव मृत इत्यर्थः | अयं च मुख्याधिकारः संन्यासिनामेवेत्याह | सा चेति | वैयग्र्यादिति | व्यग्रत्वादित्यर्थः सार्वकालिकी विक्षेपनिवृतिरसंन्यासिनां न भवतीति भावः | न मुख्य इति शास्त्रीयोधिकारो नास्तीर्थः | अयं भावः ब्रह्मसंस्थोमृतंत्वमेतीति श्रुत्यापांडित्य श्रुत्येव ब्रह्मनिष्ठाधर्मकः संन्यासाश्रमो विधीयते ब्रह्मसंस्थाशब्दितायाः ब्रह्मनिष्ठायाः संन्यासाश्रमे संभवादाश्रमांतरेष्वसंभवादिति प्रतिपादितं संन्यासाधिकरणभाष्यांदौ तथा च ब्रह्मनिष्ठत्वस्य संन्यासाश्रमधर्मत्वेन विहितत्वात्संन्यासिनो ब्राह्मणस्य ब्रह्मनिष्ठत्वं स्वधर्म इति संन्यासिनः तत्र मुख्योधिकारः | तस्य ब्रह्मनिष्ठत्व व्यतिक्रमे प्रत्यवायावगमाच्च तथा च परमहंसोपनिषदि श्रूयते काष्टदंडो धृतो येन सर्वाशी ज्ञानवर्ज्जिताः स याति नरकान् घोरान् महारौरवसंज्ञकानिति काष्टदंडोपलक्षितः संन्यासाश्रमोधृतः परिगृहीतो येन सः सर्वाशी सर्वे विषयजातमशितुं भोक्तुं शीलमस्यास्तीति सर्वाशी बाह्यांतःकरणजयरहितः इति यावत् ज्ञानवर्जितः ज्ञानाभ्यासरहित इत्यर्थः यः संन्यस्य शमादि सहितं ब्रह्मनिष्ठत्वं नानुतिष्ठति सतो वां दुर्गतिं गछतीत्यर्थः | यथा संन्यासिनो ज्ञाननिष्ठाविधायकानि संन्यस्य प्. २९ब्) श्रवणं कुर्यात् | गछतस्तिष्ठतो वापि आसुप्तेरामृतेः कालमित्यादीनि स्मृतिवचनानि सहस्रशः संति तथा तत्परित्यागे पातित्यबोधकान्यपि स्मृतिवचनानि सहस्रशः संतित्वं पदार्थविवेकाय संन्यासः सर्वकर्मणां श्रुत्याविधीयते यस्मातत्यागी पतितो भवेत् | नित्यकर्मपरित्यज्य वेदांत श्रवणं विना वर्तमानस्तु शंन्यासी पतत्येव न संशय इत्यादीनि सर्वाश्रमसाधा ||
603 SK किंतु दृष्टार्था च विद्याप्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोति श्रवणादिष्विति अंतराचापि तु तद्दृष्टेरित्यधिकरणभाष्योक्त न्यायेन शूद्रवद प्रतिषिद्धयोर्विधुरादीनामिव देहांतरे विद्या प्रापकेणा मुख्याधिकारमात्रेण श्रवणानुमतिः न ह्यंतरा चापि तु तदृष्टेरित्यधिकरणे विषुरादीनामनाश्रमिणामंगीकृतः श्रवणाद्यधिकारो मुख्य इति शक्यते || रण्येनापि स्वधर्मस्य विगुणस्यापि परित्यागे महान नर्थः स्मर्यते श्रेयान्स्वधर्मो विगुणः परिधर्मात् स्वनुष्ठितात् | स्वधर्मे निधनं श्रेयः परधर्मो भयावह इत्यादौ | संन्यासाधिकरणे भाष्यकारैरेव तत्सर्वमभिप्रेत्य संन्यासिनो
604 SK प्. ३०अ) नन्यव्यापारतया श्रवणादितिष्पादनमकुर्वतः पातित्यं कंठत एवोक्तं तथा च भाष्यं ब्रह्मनिष्ठत्वमेव हि तस्य शमाद्युपवृंहितं स्वाश्रमविहितं कर्मयज्ञादीनीवेतरेषां तद्व्यतिक्रमे च तस्य प्रत्यवाय इति तस्माछ्रवणादेर्भिक्षुं प्रतिविहितत्वात् | तदति क्रमेभिक्षीः प्रत्यवायावगमाच्च संन्यासिनः श्रवणादौ मख्योधिकारः संन्यासरहितान् प्रति तु श्रवणादेरविहितत्वादकरणे प्रत्यवाया नवगमाच्च नास्ति | तेषां मुख्योधिकार इति ननु क्षत्रियादिकं प्रतिश्रवणादिविधानाभावे सत्यधिकार एव नास्तीति कुतो नोच्यते इति शंकते | किं त्विति | नित्याधिकाररूपमुख्याधिकारासंभवेपि काम्याधिकाररूपगौणाधिकार संभवान्नैवमिति भाष्येणोतरमाह | दृष्टार्था चेति | किं त्वमुख्याधिकारमात्रेण श्रवणाद्यनुमितिरिति संबंधः | यथा भुजिक्रियाक्षुद्वाधा निवृतिरूपदृष्टफला तथा विद्यापि सर्वानर्थ मूलाविद्यानिवृतिरूपदृष्टफलाश्रुतिसिद्धा तथा च तस्यां विद्यायामनर्थ निवृतिकामानां सर्वेषामेवार्थित्वलक्षणाधिकारः संभवति | तथा च विद्याधिकारिणां सर्वेषामविशेषेण वेदांतश्रवणादावधिकारप्रसक्तौ शूद्रस्य वेदश्रवणादि प्रतिषेधात्नाधिकार इत्युक्तमपशूद्राधिकरणे क्षत्रियादीनां च तथा प्रतिषेधा भावाद्वेदांतश्रवणाधिकारो भाष्यानुमतो विधुरादेरिवेत्यर्थः | नन्व मुख्याधिकारिभिरनुष्ठित श्रवणादेरपि विद्योत्पादकत्वमवश्यं
605 SK प्. ३०ब्) वाच्यं अन्यथा गौणाधिकारनिरूपण परभाष्य वैयर्थ्य प्रसंगात् | विद्योत्पादकत्वावश्यंभावे च न काम्याधिकारस्य गौणत्वं मुख्यगौणाधिकारयोः फलतौ विशेषाभावादित्यत आह | देहांतर इति | अयं भावः मुख्याधिकारिणामनन्यव्यापारतया प्रत्यहं निर्वर्त्यमानं श्रवणादिकं निरंकुशब्रह्मचर्या हिंसाशमदमादि युक्तमस्मिन्नेव जन्मनि प्रायेण विद्योत्पादकं संपद्यते | अमुख्याधिकारिणां तु श्रवणादिकमनन्यव्यापाररूपत्वाभावात् | संकुचितब्रह्मचर्यादि युक्तत्वाच्चास्मिन् जन्मनि विद्योत्पादनयोग्यमेव न भवति किंतु बहुषु जन्मसु किंचित् किं छ्रवणादिकं संपाद्यमानं संभूय देहांतरे क्वचिदेवं ज्ञानमुत्पादयेदिति महान्फलभेदो गौणमुख्याधिकारयोः | तथा च स्मृतिः | अनेकजन्मसंसिद्धस्ततो पातिपरांगतिमिति अनेकेषु जन्मसुकृतश्रवणादिना क्वचिज्जन्मनि संसिद्धः उत्पन्नविद्यः सन्ततः सिद्धिवलान्मुक्तिं गछतीति स्मृत्यर्थः | ननु क्षत्रियवैश्ययोर्विधुरादीनामिवामुख्याधिकार इत्ययुक्तं | दृष्टांता संप्रतिपतेरित्यत आह | न हीति वक्तुं हि न शक्यत इति संबंधः || अतस्त्वितरज्ज्यायो लिंगाच्चेति सूत्रकारेणैव तेषाममुख्याधिकार स्फुटीकरणात् | न च तत्र तेषां श्रवणाधिकार एव नोक्तः किंतु तदीय कर्मणां प्. ३१अ) विद्यानुग्राहकत्वमिति शंक्यं | दृष्टार्था च विद्येत्युदाहत तदधिकरणभाष्यविरोधात् | न च क्षत्रियवैश्ययोः संन्यासाभावादमुख्याधिकारे तत एव देवानामपि श्रवणादिषुं अमुख्य एवाधिकारः स्यात् | तथा च क्रममुक्तिफलक सगुणविद्ययादेवभावं प्राप्य श्रवणाद्यनुतिष्ठतां विप्राम्यर्थं संन्यासार्हं पुनर्ब्राह्मणजन्म वक्तव्यमिति ब्रह्ममभिसंपद्यतेन स पुनरावर्तत अनावृतिः शब्दादित्यादि श्रुतिरूत्रविरोध इति वाच्यदेवानामनुष्टेय कर्मवैयग्न्याऽभावात् स्वत एवानन्य व्यापारत्वं संभवतीति क्रमं मुक्तिफलक सगुणविद्याविधापि शास्त्रप्रामाण्याद्विनापि संन्यासं तेषां मुख्याधिकाराभ्युपगमादित्याहुः ||
606 SK यद्यपि संन्यासिन एव मुख्याधिकार इति पूर्वप्रतिपादितत्वेन विधुरादिनां संन्यासाभावादेवगौणाधिकारः सिद्धस्तथापि तेषां गौणाधिकारे सूत्रसंगृहीतामप्युपपतिमाह | अतस्त्वितरदिति | अतः अनाश्रमिभिरनुष्ठित विद्यासाधनापेक्षया इतरदाश्रमिभिरनुष्ठितं विद्यासाधनं कर्मश्रवणादिकं वाज्यायः प्रशस्तं विद्यासाधनं प्. ३१ब्) ज्यायस्त्वावधारणार्थस्तु शब्दः श्रुतिलिंगात् स्मृति लिंगाच्च तेनैति ब्रह्मवित् पुण्यकृदिति वाक्यं श्रुतिलिंगं | अनाश्रमी न तिष्ठेत क्षणमेकमपि द्विज इत्यादिवाक्यं स्मृतिलिंगं तेन पुण्यलब्धेन ब्रह्मवेदनेन ब्रह्म एति ब्रह्मप्राप्नोतीति श्रुत्यर्थः | अत्र श्रुतौ पुण्यत्वेन प्रसिद्धानामाश्रमधर्माणामेव विशिष्य ब्रह्मप्राप्ति साधनत्व प्रतिपादनादनाश्रमिधर्माणां विशेषानुग्रहश्चेति सूत्रोक्त न्यायेन विद्योपयोगीनामपि निकर्षो भाति स च निकर्षो विधुरादीनां विद्यार्थ कर्मसु श्रवणादिषु च मुख्याधिकाराभावप्रयुक्त एवेति वक्तव्यं हित्वंतराभावादनाश्रमित्वस्य निदितत्वाच्च न हि कर्मज्ञानयोर्मुख्याधिकारी निंदार्ह इति सूत्रभाष्यकारयोरभिप्राय इत्यर्थः | ननु विधुराधिकरणे विधुराद्यनुष्ठितं कर्मविद्यासाधनमित्येतावदेवोक्तं न तु विधुरादेः श्रवणाधिकारोपि तत्र प्रतिपादितः | तथा च श्रवणादौ विधुराद्यधिकारस्य गौणमुख्यत्वचिंतातिरालंबनेत्याशंक्य परिहरति | न च तत्रेति | विधुराधिकरण इत्यर्थः | तत एवेति संन्यासाभावादेवेत्यर्थः | अस्तु पुनर्ब्राह्मणजन्म इत्यत आह | ब्रह्मलोकमिति | न स पुनरिति ब्रह्मलोकमभिसंपद्य पुनरिमंलोकं प्रतिनावर्तत इत्यर्थः | एतछ्रुति मूलं सूत्रमुदाहरति | अनावृतिरिति | अनावृतिरिवृतिरिति | ब्रह्मलोकं गतानामुपासकानामावृतिर्नास्ति | उदाहृत श्रुतेरित्यर्थः स्मृतेश्चेत्यादिसूत्रसंग्रहार्थमादि
607 SK प्. ३१२अ) पदं तथा च स्मृतिः | ब्रह्मणा सहते सर्वे संप्राप्ते प्रतिसंचरे परस्यांते कृतात्मानः प्रविशंति परं पदमिति | ते ब्रह्मलोकवासिनः ब्रह्मोपासकारः प्रतिसंचरे महाप्रलये परस्य हिरण्यगर्भस्य ब्रह्मलोक स्वामिनः आपुष्ॐ ते कृतः साक्षात्कृतः आत्मा येषां ते तथा | नन्वन्यव्यापारत्वसंभवेपि संन्यासो नास्तीति आशंक्याह | क्रममुक्तीति मनुष्येष्वेव संन्यासो मुख्याधिकार प्रयोजकः वर्णाश्रमविभागस्य मनुष्य विषयत्वादितिभावः || नन्वमुख्याधिकारिणादृष्टफलभूतवाक्यार्थावगत्यर्थं अविहित शास्त्रांतरविचारवक्रियमाणो वेदांत विचारः कथं जन्मांतरीय विद्यावाप्तावुपयुज्यते | न खलु विचारस्य दिनांतरीय विचार्य्यावगति हेतुत्वं युज्यते | दूरे जन्मांतरीय तद्धेतुत्वं न च वाच्यं मुख्याधिकारिणापरिव्राजकेन क्रियमाणमपि श्रवणं दृष्टार्थमेव सर्वत्रविचार्य्यावगतेर्दृष्टफलत्वा तस्य यथा प्रारब्धकर्मविशेषरूपप्रतिबंधादिह जन्मनि फलमजनयतो जन्मांतरे प्रतिबंधकापगमेन फलजनकत्वमैहिकमय्य प्रस्तुत प्. ३२ब्) प्रतिबंधे तद्दर्शनादित्यधिकरणे तथा निर्णयात् | एवमुम्बुख्याधिकारिकृतस्यापि स्यादिति | यतः शास्त्रीयाअंग युक्तं श्रवणमपूर्वविधित्वपक्षे फलपर्यंतमपूर्वं नियमविधित्वपक्षे नियमादृष्टं वा जनयति | तच्च जाति स्मरत्व प्रापका दृष्टवत् प्राग्भवीय संस्कारमुद्बोध्य तन्मूल भूतस्य विचारस्य जन्मांतरीय विद्योपयोगितां घटयतीति पुज्यते शास्त्रीयांग विधुरं श्रवणं नादृष्टोत्पादकमिति कुतस्तस्य जन्मोतरी विद्योपयोगित्वमुपपद्यते | घटकादृष्टं विना जन्मांतरीय प्रमाण व्यापारस्य जन्मांतरीयावगति हेत्वोपगमेति प्रसंगात् ||
608 SK अविहितेति | न्यायशास्त्रादिविचारवदित्यर्थः | एतज्जन्मीय वेदांतविचारस्यागामि जन्मीयां वेदांतार्थावगर्तिप्रतिहैतुत्वासंभवं कैमुति कन्या येन दृढयति | न खल्विति | मुख्याधिकारिकृतविचारदृष्टांतेन गौणाधिकारि श्रवणादेरपि जन्मांतरीय विद्योपयोगं शंकते | न च वाच्यमिति | ततः किं तत्राह | तस्येति | यथा तस्य मुख्याधिकारिकृतश्रवणस्य प्रतिबंधादिह जन्मनि विद्यालक्षणं फलमजनयतो जन्मांतरे फलजनकत्वं एवं अमुख्याधिकारिकृतमपि प्. ३३अ) श्रवणं जन्मांतरे फलजनकं स्यादिति न च वाच्यमितिसंबंधः | मुख्याधिकारिकृतश्रवणस्य सति प्रतिबंधके आमुष्मिकं विद्याजन्मेत्यत्र मानमाह | ऐहिकमपीति | प्रस्तुत प्रतिबंधे असतिविद्याजन्म इह जन्मन्यपिवति | अयि शब्दात् सति प्रतिबंधे जन्मांतरे भवति | कुतः तद्दर्शनात् | तस्य प्रतिबंधक वशात् जन्मांतरे विद्योदयस्य वामदेवादिषु दर्शनादित्यर्थः | दृष्टांत वैषम्येणोतरमाह | शास्त्रीयांग युक्तमिति शास्त्रीयांगं संन्यासः तद्युक्तं संन्यासिनानुष्ठीयमानमिति यावत् | तथा च शास्त्रीयांग सहितं श्रवणं श्रवणविधिरपूर्वविधिरिति पक्षे स्वयमेव विद्यालक्षणफलपर्यंतमदृष्टं जनयति | श्रवणविधिर्नियमविधिरिति पक्षे तु मादृशं श्रवणं नियमविशिष्टं सत् फलपर्यंतं नियमादृष्टं जनयतीत्यर्थः | तच्चेति श्रवणजनितादृष्टमित्यर्थः | जातीति जातिर्जन्म ततश्च यथा जाति स्मरत्व संपादकमदृष्टं पूवजन्म तद्वृतांतानुभवजन्य संस्कारमस्मिन् जन्मन्युद्बोध्य तद्वद्बोधनद्वारा पूर्वजन्म तद्वृतांत स्मृतिं घटयति तथा प्राचिभवे श्रवणादिजनतं संस्कारमुद्बोध्य तत्संस्कारकारणभूतस्य श्रवणस्य भावि जन्मनिविद्योपयोगित्वं घटयतीत्यर्थः | शास्त्रीयांगविधुरमिति | संन्यासरहितक्षत्रिययादीना क्रियमाणं श्रवणमदृष्टोत्पादकं न भवति क्षत्रियादिकं प्रत्यविहितत्वाछ्रवणादेरितिभावः | नन्वविहित श्रवणस्यादृष्टानुत्पादकत्वेपि
609 SK प्. ३३ब्) संस्कारजनकत्वसंभवात् | तद्वलादेवजन्मांतरीय विद्या हेतुत्वं कुतो न स्यादित्यत आह | घटकादृष्टं विनेति | अतिप्रसंगादिति जन्मांतरानुभूत सकलपदार्थस्मृतिप्रसंगादित्यर्थः || उच्यते अमुख्याधिकारिणाप्युत्पन्नविविदिषेण क्रियमाणं श्रवणं द्वारभूतविविदिषोत्पादक प्राचीनयज्ञाद्यनुष्ठान जन्यापूर्वप्रयुक्तमिति तदेवापूर्वं विद्यारूपफलपर्यंतं व्याप्रियमाणं जन्मांतरीयायामपि विद्यायां स्वकारित श्रवणस्योपकारिकतां गटयतीति नानुपपति | श्रवणादौ विध्यभावपक्षे तु संन्यासपूर्वकृतस्यापि श्रवणस्यादृष्टानुत्पादकत्वात्सति प्रतिबंधे तस्य जन्मांतरीय विद्या हेतुत्वमित्थमेव निर्वाह्यं | आचार्यास्तु नियमविधिपक्षेप्ययमेव निर्वाहः श्रवणमभ्यस्यतः फलप्राप्तेरर्वाक् प्रयाणे तन्नियमादृष्टस्यानुत्पतेस्तस्य फलपर्यंता वृतिगुणक श्रवणानुष्ठाननियमसाध्यत्वात् | न हि नियमादृष्टजनकः श्रवण नियमः फलपर्यंतमार्वर्तनी प्. ३४अ) यस्य श्रवणस्योपक्रममात्रेण निर्वर्तितो भवति | येन तज्जन्यनियमादृष्टस्यापि फलपर्यंत श्रवणावृतेः प्रागेवोत्पतिः संभाव्येत् ||
610 SK कर्मणां विद्यायां विनियोग इति पक्षमाश्रित्य परिहरति | उच्यत इति | यज्ञादिभिर्विद्यायां संपादनीयायां द्वारभूताया विविदिषा तस्या उत्पादकं प्राचीनं यद्विद्यार्थ यज्ञाद्यनुष्ठानं तज्जन्येत्यर्थः | स्वपदं यज्ञाद्यनुष्ठानजन्यापूर्वपरं वाचस्पतिमते मुख्याधिकारिकृतश्रवणस्यापि यज्ञाद्यपूर्वेणैव निर्वाह इति दृष्टांताभिप्रायेणाह | श्रवणादौ विध्यभावपक्षे त्विति | विवरण पक्षेप्येवमेव निर्वाह इत्याह | आचार्यो त्विति | अयं भावः प्रमाणासंभावना निवृतिः श्रवणफलं प्रमेयासंभावना निवृति मनतफलं विपरीत भावना निवृति | निदिध्यासन फलं तथा च त्रिविधप्रतिबंधकनिवृतिलक्षणफलपर्यंतमावृतिविशिष्टानि श्रवणादी नियस्य मुख्यायिकारिणो निष्पन्नानि तस्य नियमादृष्टमुत्पन्नमेव | एवं संपन्नविद्यासाधनस्यापि प्रतिबंधवशात् | यदि विद्या न जाता तदा पुनर्जन्मलाभेन प्रतिबंधक्षये सति पुनर्विचारमनपेक्ष्यैव विद्या जायते | यथा वामदेव हिरण्यगर्भादेः यस्य तूक्तप्रतिबंधनिवृतिपर्यंत श्रवणाद्यावृतिर्न जाता मध्ये मृतिश्च जाता तस्य मुख्याधिकारिणोपि नियमादृष्टं
611 SK प्. ३४ब्) न जायते | स च पुनर्जन्मांतरे उक्त प्रतिबंधनिवृतिपर्यंत श्रवणादिकमभ्यस्य श्रवणादिनियमादृष्टवशेन विद्याप्रतिबंधककल्मषक्षये सति विद्यां लभते | तदुक्तं भगवता श्रीकृष्णेन तत्र तं बुद्धिसंयोगं लभते | पौर्वदैहिकं यतते च ततो भूयः संसिद्धौ कुरु नंदन | इति तत्र प्राप्ते साधुजन्मनि पूर्व देहे भवमिदानिं संस्कारात्मनानुवर्तमानं बुद्धिसंयोगं श्रवणादि कर्तव्यता बुध्या संबंधं लभते अस्मिन्नपि जन्मनि प्रतिबंधनिवृतिद्वाराविद्योदयोयमयाश्रवणादिकमनुष्ठेयमिति बुध्यायुक्तो भवतीत्यर्थः | ततः पूर्वजन्मोय पत्नीपेक्षयाभूयः अधिकं यत्तत्ते संसिध्यर्थमित्यर्थः | तथा च योयं फलपर्यंतावृतिगुणकश्रवणादिरहितो योगभ्रष्टः तस्य नियमादृष्टाभावाद्यज्ञाद्यदृष्टादेव निर्वाहः कर्तव्य इति | प्रतिबंधनिवृतिरूपफलप्राप्तेः पूर्वं नियमादृष्टानुत्पतौ हेतुमाह | तस्येति | नियमादृष्टस्येत्यर्थः | नियमादृष्टं हि न श्रवणमात्रजन्यं किंतु श्रवणनियमजन्यं तन्नियमश्च श्रवणादेरेव फलपर्यंतमावृतौ सत्यां निष्पद्यते | तथा च फलोत्पतेरर्वाक् श्रवणादि नियमस्ये वा भावात् न नियमादृष्टोत्पतिरित्यर्थः | उक्तं प्रपंचयति | न हीत्यादिना || अवघातादिवदावृतिगुणकस्यैव श्रवणस्य
612 SK प्. ३५अ) फलसाधनत्वेन फलसाधनपदार्थनिष्पतेः प्राक् तन्नियमनिर्वतिवचनस्य निरालंबनत्वात् श्रवणावघाताद्युपक्रममात्रेण नियमनिष्पतौ तावतैव नियमशास्त्रानुष्ठानं सिद्धमिति तेदंनावृतावप्यवैकल्पप्रसंगाच्चेत्याहुः | केचित् तु दृष्टार्थस्यापि श्रवणस्य दिने दिने तु वेदांतश्रवणाद्भक्ति संयुतात् गुरुशुश्रूषयालब्धात्कृछ्राशीति फलं लभेदित्यादि वचनप्रामाण्यात् स्वतत्रादृष्टोत्पादकत्वमप्यस्ति | यथाग्नि संस्कारार्थस्याधानस्य पुरुषसंस्कारेषु परिगनात्तदर्थत्वमपि | एवं च वचनवलादुभयार्थत्वोपपतेः तथा च प्रतिदिन श्रवणजनितादृष्टमहिम्नैवामुष्मिक विद्योपयोगित्वं श्रवणमननादि साधनानामित्याहुः | एवं श्रवणमननादि साधनानुष्ठानप्रणाड्या विद्यावाप्तिरित्यस्मिन्नर्थे सर्वसंप्रतिपन्ने स्थिते भारतीतीर्थाः ध्यान दीपे विद्यावाप्तावुपायांतरमप्याहुः |
613 SK प्. ३५ब्) श्रवणनियमः श्रवणस्योपक्रममात्रेण निर्वर्तितो न भवतीत्यत्र हेतुमाह | अवघातादि वदिति | आवृति विशिष्टस्यैवावहन नस्य तंडुलनिष्पतिलक्षणफलसाधनतायाः लोकसिद्धत्वादितिभावः | प्राक् तदिति फलपर्यंतं श्रवणस्यैवावृतौ सत्यांश्रवणस्याप्राप्तांशपरिपूरणलक्षण नियमो निष्पन्नो भवति न ततः प्रागित्यर्थः श्रवणस्यारंभमात्रे वा कतिपयावृतिमात्रे वा जाते सति श्रवणनियमो निष्पन्न इति वचनं विषयाभावान्निरालंबनमित्यर्थः | तदनावृतावपीति | श्रवणावघाताद्यनुष्ठानमुपक्रम्य श्रवणादिकं त्यक्ताभाषाप्रबंधादि विचारे नखविदलनादौघग्रवृतावपि नियमविधिविरोधाभावप्रसंगादित्यर्थः | मुख्याधिकरिभिरन्वहं क्रियमाणस्य वेदांतश्रवणस्य प्रतिबंधकनिवृतिरूपदृष्टफलोत्पादकत्ववददृष्टोत्पादकत्वमप्यस्ति तथा च तद्बलात् जन्मांतरे विद्योपयोगित्वं विचारस्य घटत इति परिहारांरतमाह केचित्विति | फलमिति पुण्यरूपमित्यर्थः | वचने तु शब्दश्चार्थे | तथा च वेदांतश्रवणस्य देवतागुरुवेदांतविषयभक्ति गुरुशुश्रूषाभ्यामुपाताभ्यामनुपातैश्च शमदम ब्रह्मचर्या हिंसादिभिः समुच्चयार्थः तु शब्द इति भावः | स्वतंत्रेति वेदांतश्रवणस्य स्वतंत्रतया अदृष्टोत्पादकत्वमस्तीत्यर्थः स्वातंत्र्यं चादृष्टजनने श्रवणस्य विद्यायां विनियोगबोधकश्रवणविधिनैरपेक्ष्यमिति बोध्यं | एकस्योभयार्थत्वे दृष्टांतमाह प्. ३६अ) यथा प्रीति | अग्नीना दधीतेति वचनादाधानस्याहवनी पाद्यग्निसंस्कारत्वोपगमादितिभावः | पुरुषसंस्कारेष्विति | अग्न्याधेयमग्निहोत्रमित्यादिपुरुषसंस्कारसंग्राहक सूत्रे अग्न्याधानस्यापि पावादित्यर्थः | अदृष्टमहिम्नैवेति | वेदांतश्रवणजनितादृष्टस्य योग्यतया विद्यायामेव विनियोगस्य वक्तव्यतया तद्बलाज्जन्मांतरीय विद्योपयोगित्वमितिभावः | एवं उत्तममध्यमाधिकारिणां सांख्यमार्गं निरूप्यतदशक्तानां अत्यंतमंदाधिकारिणां योगमार्गं निरूपयितुमुपक्रमते | एवमिति |
614 SK सर्वसंप्रतिपन्न इति सर्वश्रुति स्मृतिषु सम्यक् प्रतिपन्ने निश्चित इत्यर्थः | आहुरिति सम्यक् निरूपितवंत इत्यर्थः || तत्कारणं सांख्ययोगाभिपन्नं यत्साख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते इति श्रुतिस्मृतिदर्शनाद्यथा सांख्यं नाम वेदांतविचारः श्रवणशब्दितो मननादि सहकृतो विद्यावाप्युपायः एवं योगशब्दितं निर्गुणब्रह्मोपासनपि | न च निर्गुणस्योपासनमेव नास्तीति शंक्यं | प्रश्नोपनिषदि शैव्यप्रश्नेयः पुनरेतं त्रिमात्रेण्ॐकारेण परमपुरुषमभिध्यायीतेति निर्गुणस्यैवोपासनप्रतिपादनात् प्. ३६ब्) तदनंतरं स एतस्माज्जीव घनात्परात्परं पुरिशयं पुरुषमीक्षत इत्युपासनाफलवादे ईक्षति कर्मत्वेन निर्दिष्टं यन्निर्गुणं ब्रह्मतदेवोपासनावाक्येपि ध्यायति कर्मनान्यत् ईक्षति ध्यानयोः कार्यकारणभूतयोरेकविषयत्व नियमादित्यस्यार्थस्ये क्षति कर्माधिकरणे भाष्यकारादिभिरंगीकृतत्वात् | न तु नूतनतया कल्पितवंत इति भ्रमितव्यं तथापि श्रुत्यादि सिद्धत्वात् | तत्प्रकृतं कारणत्वोपलक्षितं ब्रह्मसांख्ययोगाभ्यां विद्याद्वारा आभिमुख्येन प्रत्यक्तेन प्राप्तमिति श्रुत्यर्थः सांख्यैः श्रवणादिपरैः योगैरुपासकैः यत्स्थानं ब्रह्मस्वरूपं विद्याद्वारागम्यते प्राप्यत इत्यर्थः योगैरपीत्यपि शब्दाद्योगमार्गस्यानुकल्पत्वं भातीति बोध्यं अपीति | विद्यां प्राप्त्युपाय इत्यनुषंगः निर्गुणब्रह्मोपासनं मान शून्यमित्याशंक्यपरिहरति | न चेत्यादित्या नन्वियं शंका न युक्ता तत्कारणं यत्सांख्यैरिति श्रुतिस्मृत्योरादावेव तत्र प्रमाणत्वेनोदाहृतत्वात् | न चोदाहृत श्रुतिस्मृतिगतयोग पदस्य सगुणोपासन परत्व संभवादाशंकायुक्तेति वाच्यं | भिन्नविषयोरुपासनसाक्षात्कारयोः कार्यकारणभावा संभवेन निर्गुणविद्या हेतुभूतस्य योगस्य निर्गुणोपासनरूपत्वावश्यं भावान्न च सांख्यैरिति वचनगतयोगपदस्योपास्ति
615 SK प्. ३७अ) परत्वमेवासिद्धं तस्य गीताभाष्यकर्मयोगपरत्वेन व्याख्या तत्वादिति वाच्यं | यत्सांख्यैरिति वचनस्य वस्तुतो निर्गुणोपास्ति परस्यैव सतो भगवता श्रीकृष्णेन कर्मविषये उदाहृतत्वेन तदनुरोधेन भाष्ये तथा व्याख्यानोपपतेः | योग पदस्य ध्याने रूढत्वैन वस्तुतः कर्मपरत्वाभावात् | तद्वचन मूलभूतायां तत्कारणमिति श्रुतौ योगपदस्य ध्यानपरतया शारीरकभाष्ये व्याख्या तत्वाच्च कर्मयोगस्य मुखयोगद्वारा ब्रह्मप्राप्तिसाधनत्वं न तु साक्षादिति ज्ञापनायास्य वचनस्य कर्मविषयतया भगवतो दाहरण संभवाच्च तस्मान्मानाभावा शंका न युक्तेति च्चेन्न | उदाहृत श्रुतिस्मृति व्यतिरेकेणान्यत्र क्वापि निर्गुणोपासनं न दृष्टमित्येताभिप्रायेण शंकोपपतेः | अत एव सर्वासु श्रुतिषु निर्गुणोपासनं दृष्टमिति | मंदाधिकारिणमासश्चानायाह | प्रश्नोपसिषदात्यादिना त्रिमात्रेणेति द्वितीयार्थे तृतीया तिस्रः अकारोकारमकाराख्यामात्रा यस्य्ॐकारस्य स त्रिमात्रः ॐकारे निर्गुणमेव ब्रह्म तदभेदेन ध्येयमित्यत्र भाष्यादि संमतिमाह | तदनंतरमित्यर्थः | जीवरूपः परमात्मनो घनः घटाकाशवदुपाधिपरिछिन्नचैतन्यात्मा जीवघनः तस्मात् परः पुरुषः निरुपाधिकः परमात्मानं सः ध्यातापुरिहार्द्दाकाशे बुद्धि साक्षित्वेन शयं वर्तमानमीक्षते साक्षात्कारोतीत्यर्थः | उपासना वाक्ये परं पुरुषममिध्यायीतेति वाक्य इत्यर्थः | प्. ३७ब्) कार्येति ईक्षण वाक्यस्य ध्यानफलभूतसाक्षात्कारप्रतिपादकत्वेन ध्याशवाक्यैक वाक्यत्वात् | ध्याने क्षणयोः कार्यकारणभावोवगम्यत इति भावः | नियमादिति | अन्य ध्यानादन्यसाक्षारादननादिति भावः |
616 SK अन्यत्रापि तापनीय कठवल्ल्यादि श्रुत्यंतरे निर्गुणोपास्तेः प्रपंचित त्वात् सूत्रकृताप्युपास्य गुणपरिछेदार्थमारब्धे गुणोपसंहार पादे निर्गुणेप्यानंदादयः प्रधानस्येति सूत्रेण भावरूपाणां ज्ञानानंदादिगुणानामक्षरधियांत्ववरोध इत्यादि सूत्रेणाभावरूपाणामस्थूलत्वादि गुणानां चोपसंहारस्य दर्शितत्वाच्च | ननु आनंदादि गुणोपसंहारे उपास्यं निर्गुणमेव न स्यादिति चेन्न आनंदादिभिरस्थूलत्वादिभिश्चोपलक्षितमखंडैकरसं ब्रह्मास्मीति निर्गुर्णत्वानुपमर्देनोपासनासंभवात् | ननु तदेव ब्रह्मत्वं विद्धिनैदं यदिदमुपासत इति श्रुतेर्न परब्रह्मोपास्यमिति चेतन || ननु कल्पतरौ ध्यातव्यस्य सूर्यांतस्थत्वं स तेजसि सूर्ये
617 SK प्. ३८अ) संपन्न इति सूर्यसपतिवचनानुसारै विशेषणं दत्तं तथा च्ॐकारे ध्यातव्य पुरुषस्य निर्गुणब्रह्मरूपत्वं कल्पतरुकारैर्नांगीकृतमिति प्रतीयत इति चेन्न सूर्यसंपतिवचनस्यार्चिरादिभार्गप्राप्ति परतायाः चतुर्थाध्याये व्यवस्थापितत्वेन सूर्य तदंतस्थेश्वर प्राप्ति परत्वाभावात् | कल्पतरुकाराणामपि तदीयवचनांतरपर्यालोचनया श्रुतेर्मार्गपरतया च सूर्यांतस्थत्व विशेषण दाने तात्पर्याभावस्य परिमले प्रतिपादितत्वाच्चेतिभावः | देवाहवै प्रतिपतिमब्रुवन् | अणोरणीयां समिममात्मानम्ॐकारं नो व्याचक्ष्वेत्पाद्यातापनीय श्रुतिः अणोः सूक्ष्मादपि सूक्ष्मं दुर्विज्ञेयमिमं प्रत्यग्रूपं परमात्मानं ॐकारगम्यमित्यर्थः | एतद्धेवाक्षरं ब्रह्मेत्पाद्याकठवल्ली श्रुतिः ओमित्येतदक्षरमिदं सर्वमित्यादिमांडूक्यश्रुतिः ओमित्येवं ध्यायथ आत्मानमिति मुंडकश्रुतिश्चादिपदार्थः निर्गुणस्योपास्यचि सूत्रसंमतिमाह | सूत्रकृतापीति | सूत्रकृतानिर्गुणेपि गुणानामुपसंहारस्य दर्शितत्वादिति संबंधः निर्गुणे गुणोपसंहारो निर्गुणब्रह्मप्रमित्यर्थ एव न निर्गुणब्रह्मोपास्त्यर्थ इति शंकाव्यवछेदाय पादं विशिनष्टि उपास्य गुणपरिछेदार्थमिति | परिछेदो निर्णयः निर्गुणे गुणोपसंहारनिरूपणस्य निर्गुणोपास्तिरपि फलमिति वक्तव्यं अन्यथा तन्निरूपणस्य पादासंगति प्रसंगादितिभावः | आनंदादयः क्वचिछ्रुता अन्यत्राप्युपसंहर्तव्याः प्रधानस्य वेद्यस्य ब्रह्मणः
618 SK प्. ३८ब्) सर्ववेदांतेष्वभेदेन ब्रह्मविद्याया एकत्वादिति सूत्रार्थः भावरूपाणामिति विशेषणमक्षरधियामित्यधिकरणस्यानंदादय इत्यधिकरणेन पौनरुक्त्यपरिहारार्थमिति बोध्यं | अक्षरे ब्रह्मणि धीर्यैरस्थूलादिशब्दवाच्यार्थभूतैरभावैर्भवतितेक्षरयियः | तेषामवरोध उपसंहारः इतरेषु वेदांतेषु कर्तव्य एवेति सूत्रभागार्थः स्थौल्यादिनिषेधानां निष्प्रपंच ब्रह्मप्रमिति हेतुत्वादितिभावः | व्याघातं शंक्यते | नन्विति | आनंदादि गुणानामुपास्य कोटौ निवेशोनांगीक्रियते येनोपास्यं ब्रह्मसगुणं स्यात् किंतूपास्य निर्गुणनिर्णयद्वारा निगुणोपास्तावुपयोगमात्रं स्वीक्रियत इति समाधते | नेति | आनंदादि गुणानामस्थूलादि गुणानां च उपसंहारो हि तद्वाचकपदानां सहोच्चारणरूपो विवक्षितस्तथा च उपाधिविशिष्ट चैतन्य वाचकैरानंदादि पदैःर्स्थैल्याद्यभावविशिष्ट चैतन्यवाचकैरस्थूलादिशब्दैश्च सर्वेषु वाच्यार्थेष्वनुगतमखंडे करसं यद्ब्रह्मलक्षणया बोध्यते न दहमस्मीत्युपासनसंभवादित्यर्थः | उक्तं च ध्यान दीपे | आनंदादिभिरस्थूलादिभिश्चात्मात्रलक्षितः यो खंडैकरसः सोहमस्मीत्येवमुपासत इति | अत्रेति वेदांतेष्वित्यर्थः | एवं श्रुति सूत्राभ्यां निर्गुणस्थौपास्येत्वं निरूप्यनिर्गुणोपासनस्य श्रुत्यंतरविरोधमाशंक्यपरिहरति | ननु तदेवेत्यादिना | तदेवेति बुध्यादि साक्षिचैतन्यमेवेत्यर्थः ||
619 SK प्. ३९अ) अन्यदेव तद्विदितादथो अविदितादिति श्रुतेस्तस्य वेद्यत्वस्याप्यसिध्यापातात् | श्रुत्यंतरेषु ब्रह्मवेदन प्रसिद्धेरवेद्यत्व श्रुतिर्वास्तवावेद्यत्वपराचेदाथर्वण्ॐ तदुपासनाप्रसिद्धेस्तदनुपास्यत्व श्रुतिरपि वस्तुवृत परास्तु | एवं च श्रवणायापि बहुभिर्यो न लभ्य इति श्रवणात् | येषां बुद्धिमांद्यान्न्यायव्युत्पादनकुशलविशिष्टगुर्वलाभाद्वा-श्रव. नादि न संभवति | तेषामध्ययने गृहीतैर्वेदांतैरापाततोधिगमित ब्रह्मात्मभावानां तद्विचारं विनैव प्रश्नोपनिषदाद्युक्तमार्षग्रंथेषु ब्राह्मवासिष्टादि कल्पेषु पंचीकरणादिषु चानेक शाखाविप्रकीर्ण सर्वार्थोपसंहारेण कल्पसूत्रेष्वग्निहोत्रादिवन्निर्धारितानुष्ठानप्रकारं निर्गुणोषासनं संप्रदायमात्रविद्ध्यो गुरुभ्योवधार्य तदनुष्ठानात्क्रमेणोपास्य भूतनिर्गुणब्रह्मसाक्षात्कारः संपद्यते || उपास्यस्य ब्रह्मत्वनिषेधवद्वेद्यस्यापि ब्रह्मत्वनिषेधात् परब्रह्मवेदनमपि न सिध्येदित्याह | अन्यदेवेति | वेदनविषयादन्यत् ब्रह्मेत्युक्ते अर्थाद्ब्रह्मवेद्यं न भवतीति
620 SK प्. ३९ब्) सिध्यतीत्यर्थः | अस्त्विति वेद्यत्वमुपास्यत्वं ब्राह्मणि परमार्थतो नास्तीति | निषेध श्रुतीनां तात्पर्यमितिभावः | निर्गुणोपासने अधिकारिणं दर्शयति | एवं चेति निर्गुणोपास मे प्रमाणसिद्धे सतीत्यर्थः | केषांचित् मुमुक्षूणां श्रवणासंभवे प्रमाणंमाह | श्रवणायार्पाति वहभिर्मुमुक्षुभिर्यः परमात्माश्रोतुमपि नभ्यते | तस्याश्रुतस्यापि साक्षात्कारोदूरापास्त इत्यर्थः | बहुनां श्रवणा लाभे श्रुत्यभिमत्तं कारणं दर्शयति | येषामिति | बुद्धीति उक्तं च ध्यानदीपे | अत्यंतबुद्धिमांद्याद्वासामग्र्यावाप्यसंभवात् | यो विचारं न लभति ब्रह्मोपासितसोनिशमिति | तत्र सामग्र्यभावं विवृणोति | न्यायेति | येषामत्यंतबुद्धिमांद्यात् श्रवणादिकं | न संभवति येषां च कुशलमती नामपि सामग्र्यभावात् | श्रवणादिकं न संभवतीत्यर्थः | विशिष्टत्वं असंभिन्नार्यमर्यादत्वकारुणीकत्वादिलक्षणं बोध्यं | तेषां ब्रह्मजिज्ञासा हेतुमाह | अध्ययनेति | अधिगमितः अवगमितः ब्रह्मात्मभावो येषां ते तथोक्ताः तेषामित्यर्थः | तषां तद्विचारं विनैव गुरुभ्योवधार्य तदनुष्ठानात् | साक्षात्कारः संपद्यते इति संबंधः | निर्गुणब्रह्मविचारं विनैव निर्गुणब्रह्मोपासनादित्यर्थः | ननु प्रश्नोपनिषिदादावुपासनामात्रमुक्तं न तु तदनुष्ठानप्रकारोपीत्याशंक्याह | आर्षग्रंथेष्विति | ननु पंचीकरणे वेदांतलक्ष्ये अखंडैकरसे प्रणवमात्रात्मककृत्स्न प्रपंचप्रविलापनोक्ति पूर्वकमहं ब्रह्मास्मीत्यभेदेनावस्थानं समाधिरित्युक्त्यायो खंडैक रसः सोहमस्मीत्येवमुपासत
621 SK प्. ४०अ) इत्याद्युदाहृत ध्यानदीपवचनाच्च प्रकृतं निर्गुणोपासनमहंग्रहरूपं विवक्षितं | प्रश्नोपनिषिद्गत शैव्यप्रश्ने तु ॐकाररूपे प्रतीके निर्गुणब्रह्मदृष्टिर्विवक्षिता तथा कठवल्यामपि तथा च कथं प्रश्नादि वाक्यं प्रकृतोपासने प्रमाणत्वेनोदाहृतमिति चेत् | न प्रकृतोपासने तापनीय मांडूक्यमुंडक श्रुतीनामेव प्रमाणत्वेन विवक्षितत्वात् | प्रश्नकठवल्ली श्रुत्युदाहरणं तु निर्गुणस्याप्युपासनमन्यत्रापि दृष्टमित्ये तावन्मात्रणेति न विरोध इति भावः पंचीकरणादिषु च निर्धारितानुष्ठानप्रकारमिति संबंधः | तत्र दृष्टांतमाह | अनेकशाखेति | अनेकासु शाखासु विप्रकीर्णतया विशकलिततया स्थितानां पदार्थानामुपसंहारेण यथा अग्निहोत्रादिकर्मनिर्धारितानुष्ठानप्रकारं भवति | तथेत्यर्थः | उपासनानुष्ठानप्रकारः संप्रदायः तन्मात्रविद्भ्योपि गुरुभ्यः सकाशात् निश्चित्येत्यर्थः | उक्तं च भगवता श्रीक्र्ष्णेन निर्गुणप्रकरणे श्रुत्वान्येभ्य उपासत इति क्रमेणेति उपासनापरिपाकक्रमेणेत्यर्थः || अविसंवादि विभ्रमन्यायेनोपास्तेरपि क्वचित्फलकाले प्रमापर्यवसान संभवात् | पाणौ पंचवराटकाः पिधाय केनचित्करे कति वराटका इति पृष्ठे पंचवराटका इति तदुतर प्. ४०ब्) वक्तुर्वाक्यप्रयोग मूलभूतसंख्याविशेषज्ञानस्य मूलप्रमाण शून्यस्याहायीरोपस्यापि यथार्थत्ववन्निर्गुणब्रह्मोपासनस्यार्थ तथात्व विवेचकनिर्विचिकित्समूलप्रमाणनिरपेक्षस्य दहराद्युपासनावदुपासना शास्त्रमात्रमवलंव्यक्रियमाणस्यापि वस्तुतो यथार्थत्वेन दहराद्युपासनेनेव निर्गुणोपासनेन जन्यस्य स्वविषयसाक्षात्कारस्य श्रवणादि प्रणाड्याजन्यसाक्षात्कारवदेवतत्वार्थविषयत्वावश्यं भावाच्च ||
622 SK ननु निर्गुणोपासनस्य कथं प्रमालक्षणसाक्षात्कारपर्यवसानमित्यत आह | अविसंवादीति | अयमर्थः क्वचिद्ग्रहविशेषे स्थितस्य श्रीकृष्णरूपबिंबस्य प्रतिबिंबं गृहाद्बहिः पश्यतो दूरे स्थितस्य पुरुषस्य प्रतिबिंबे श्रीकृंष्णोयमिति भ्रमो जायते तेन भ्रमेण प्रतिबिंबाध्यासोपाधिसमीपं गतस्य पुरुषस्य सत्य श्रीकृष्णगोचरप्रमाजायत इति लोकप्रसिद्धं | तत्र प्रतिबिंबे बिंबभूत श्रीकृष्ण भ्रमो विसंवादीभ्रमः विसंवादः फलाभावः तद्रहितोऽविसंवादिभ्रमः फलवद्भ्रम इति यावत् | यथा तेन भ्रमेण प्रवतस्य श्रीकृष्णप्राप्तिलक्षणफलकाले श्रीकृष्णप्रमाजायते तथा
623 SK प्. ४१अ) निर्गुणोपासने प्रवृत्तस्यापि ब्रह्मप्राप्तिलक्षणफलकाले निर्गुणप्रमाजायत इति | ननु संवादिभ्रम दृष्टांतेन निर्गुणोपास्तेः प्रमापर्यवसानमुक्तमनुपपन्नं दृष्टांत वैषम्या तत्र हि समीपोपसर्पणानंतरं सत्य श्रीकृष्णस्य चक्षुः सन्निकर्षे सति श्रीकृष्णप्रमाजायतेन तु संवादिभ्रममात्रात् | प्रकृते च निर्गुणोपासनस्य प्रमाजनने सामर्थ्याभावात् | सामग्र्यंतराभावाच्च कथं प्रमापर्यवसानमित्याशंक्यनिर्गुणोपासनस्यैव स्वसमानविषयकप्रमाजनन सामर्थ्यसंभावनाय तस्य यथार्थत्वं सदृष्टांतमाह | पाणाविति पिधायेति | तदुत्तरवक्तुरविदितमितिशेषः | तदुतरेति | दैवयोगात् पंचैव वराटकास्तवपाणौ संतीत्युतरवक्तुरित्यर्थः निर्गुणोपासनस्यापि वस्तुतो यथार्थत्वेनेति संबंधः | अखंडैकरसंब्रह्माहमस्मीति प्रत्यय संतति रूपोपास्तेर्विषयबाधाभावाद्यथार्थत्वमितिभावः | ननु प्रकृतोपासनस्य निर्विकित्स तत्वज्ञानपूर्वकत्वादेवश्रवणमननोतरकालीन निदिध्यासनस्येव यथार्थत्वसंभवात् | किमिति दैवयोगाद्यथार्थत्वं समर्थ्यतै तत्राह | अर्थ तथात्वेनि अर्थस्य ब्रह्मणः तथात्वं प्रत्यग्रूपत्वनिष्प्रपंचत्वादितस्य विवेचकं निर्णायकं यन्निर्विचिकित्समन्य परत्वाशंकाशून्यं मूलप्रमाणं श्रुतिरूपं तन्निरपेक्षस्येत्यर्थः | निदिध्यासनस्येव प्रकृतनिर्गुणोपासनस्य विचारपूर्वकत्वाभावात् | न निर्विचिकित्स तत्वनिर्णयपूर्वकत्व प्रयुक्तं यथार्थत्वमितिभावः |
624 SK प्. ४१ब्) ननु विचारपूर्वकं प्रत्यगभिन्नब्रह्मनिर्णयाभावे कथमहंब्रह्मास्मीति प्रत्यय संतति रूपोपास्तिरनुष्ठीयते तत्राह | दहरादीति | यथा सगुणेश्वरस्य विचारपूर्वकं जीवाभिन्नत्व निर्णयाभावेपि स्वस्य सगुणेश्वराभेदचिंतनं कर्तव्यमित्येवं रूपं सगुणोपासनाविधिशास्त्रमवलंव्यसगुणोपासनं क्रियते तथा निर्गुणोपासनं कर्तव्यमित्येवमात्मकं शास्त्रमात्रमवलंव्य निर्गुणोपास्तिरनुष्ठीयते इत्यर्थः | निर्गुणोपासनस्य साक्षात्कार हेतुत्वे दृष्टांतमाह | दहराद्युपासनेनेवेति | अवश्यं भावादिति | समानविषयकध्यानसामर्थ्याद्विषयाबाधाच्चेत्यर्थः || इयांस्तु विशेषः प्रतिबंधरहितस्य पुंसः श्रवणादिप्रणाड्या ब्रह्मसाक्षात्कारो फटिति सिध्यतीति सांख्यमार्गो मुख्यः कल्पः उपास्त्या तु विलंबेनेति योगमार्गोनुकल्प इति | नन्वस्मिन्पक्षद्वयेपि ब्रह्मसाक्षात्कारे किं करणं केचिदाहुः प्रत्ययाभ्यासरूपं प्रसंख्यानमेव | योगमार्गे आदित आरभ्योपासनारूपस्य सांख्यमार्गे मननानंतरनिदिध्यासनरूपस्य च तस्य सत्वात् | न च तस्य ब्रह्मसात्कारकारणत्वे मानाभावः ततस्तुतं पश्यति निष्कलं ध्ययमान इति प्. ४२अ) श्रवणात् | कामातुरव्यवहित कामिनी साक्षात्कारे प्रसंख्यानस्य कारणं त्वकॢप्तेश्च आप्रापणा तत्रापि हि दृष्टमित्यधिकरणे विकल्पो विशिष्टफलत्वादित्यधिकरणे च दहराद्यहंग्रहोपासकानां प्रसंख्यानादुपास्य सगुणब्रह्मसाक्षात्कारांगीकाराच्च | ननु च प्रसंख्यानस्य प्रमाकरणेष्वपरिगणनातज्जन्यो ब्रह्मसाक्षात्कारः प्रमा न स्यात् | न च काकतालीय संवादिवराटक संख्याविशेषाहार्यज्ञानवदर्थाबाधेन प्रमाणत्वोपपतिः प्रमाणामूलकस्य प्रमात्वायोगात् आहार्य वृतेश्चोपासनावृतिवत् ज्ञानभिन्नयान सक्रियारूपतया इछादिवदवाधितार्थविषयत्वेपि प्रमात्वानभ्युपगमात् ||
625 SK सांख्ययोगमार्गयोस्तुल्यकल्पत्व भ्रममपनपति | इयांस्त्विति | बुद्धिमांद्यादि प्रतिबंधरहितस्य विशिष्टगुर्वादिलाभे सति सांख्यमार्ग एवानुष्ठेयः तस्य त्वरया सिद्धिहेतुत्वात् | सांख्यालाभे तु योगोनुष्ठेय इत्यनुकल्पः स इत्यर्थः | नत्वस्मिन्निति | सांख्ययोगमार्गद्वयेपीत्यर्थः | ननु योगमार्गे निर्गुणोपासनस्य सगुणोपासन प्. ४२ब्) दृष्टांतोदाहरणेन साक्षात्कारकारणत्वस्यानुपदमुक्तत्वात् | पक्षद्वय साधारण्येन प्रश्नानुपपतिरिति चिन्नैषदोषः उपासनस्य साक्षात्कारकारणत्वे प्रमाणाभिप्रायेणै प्रश्नोपपतेरत एव तत्र प्रमाणं वक्ष्यति न चेत्यादिना | अथवा पूर्वत्र सगुणोपासन दृष्टांतेन निर्गुणोपासनस्य हेतुत्वमात्रमुक्तं न तु करणत्वं तथा च योगमार्गेपि किमुपासनमेव करणं किं वा अन्यदिति प्रश्नाभिप्रायः संगछत इति भावः | मार्गद्वयेपि साक्षात्कारोदयकास्ते प्रसंख्यानस्यानुवृतिमाह | योगमार्ग इत्यादिना | निष्कलं निर्विशेषं परमात्मानं ध्यायमानः ततो ध्याना तं पश्यतीत्यर्थः | कामातुरेति | कामातुरस्यासंनिकृष्टकामिनीसाक्षात्कारे इत्यर्थः | तत्र सन्निकर्षाभावेन चक्षुषः करणत्वासंभवात् मनसो बहिरस्वातंत्र्याच्च कामिनी गोचरप्रसंख्यानमेव कारणमितिभावः | सगुणोपासनं प्रायणपर्यंतमावर्तनीयं कुतः तत्रापि मरणकालेपि योगिनो ब्रह्मचिंतनस्य श्रुतिस्मृतिसिद्धत्वात् | सदा प्रत्यभ्यासं विना मरणकाले तदसंभवादिति सूत्रार्थः | अहंग्रहीपासनानां विकल्पः उपास्य देवता साक्षात्कारलक्षणस्य फलस्याविशिष्टत्वादेकार्थालां विकल्पस्य प्रसिद्धत्वादिति सूत्रार्थः ब्रह्मसाक्षात्कारस्य प्रमाकरणजन्यत्वाभावेपि विषयाबाधात् | प्रमास्वमाशंक्यनिषेधति | न च काकतालीयेति | यादृछिकेत्यर्थः | कॢप्तचानकरणा जन्यस्य ज्ञानत्वमेव नास्ति
626 SK प्. ४३अ) प्रमात्वं तु दूरापास्तमित्यंभिप्रायेणाह | प्रमाणामूलकस्येति | अविसंवादिवराटकसंख्याविशेषगोचराहार्यवृतेरपि ज्ञानत्वमसिद्धमित्याह | आहार्य वृतेश्चेति अवार्धितार्थ ज्ञानत्वं हि प्रमात्वं नत्व बाधितार्थकत्वमात्रमति प्रसंगादिति मत्वाह | इछादि वदिति || मैवं कॢप्तप्रमाकरणामूलकत्वेपि ईश्वर मायावृतिवत्प्रमात्वोपपतेः | विषयाबाधतौल्यान्मार्गद्वयेपि प्रसंख्यानस्य विचारिताद उविचारिताद्वावेदांताद्ब्रह्मात्मैक्यावगममूलकतया प्रसंख्यानजन्यस्यापि ब्रह्मसाक्षात्कारस्य प्रमाणमूलकत्वाच्च | उक्तं हि कल्पतरुकारैः | वेदांतवाक्यजज्ञानभावनाजापरोक्षधीः मूलप्रमाणदार्द्व्येन न भ्रमत्वं प्रपद्यते | न च प्रामाण्यपरतस्त्वापतिस्तु प्रसज्ज्यते | अपवादनिरासायमूलशुद्धानुरोधनादिति | अन्ये तु एषोणुरात्मा चेतसा वेदितव्यः दृश्यते त्वग्र्यया बुध्येत्यादि श्रुतेर्मन एव ब्रह्मसाक्षात्कारे करणं | तस्य सोपाधिकात्मन्यहं वृतिरूपप्रमाकरणकॢप्तेः | स्वप्नप्रपंचविपरीतप्रमात्रादि ज्ञानसाधन प्. ४३ब्) स्यांतःकरणस्येत्यादि पंचपादिका विवरण ग्रंथेनापि तथा प्रतिपादनात् ||
627 SK ननु च प्रसंख्यानस्येत्यादिना प्राप्तं चोद्यं परिहरति | मैवमिति | मायावृतिवदिति | न च माया वृतेरपि मास्तु ज्ञानत्वमिति वाच्यं | तथा सतीश्वरीय मायावृतेर्यः सर्वज्ञः सर्वविदित्यादि श्रुतिषु ज्ञाधात्वर्थत्वाभावप्रसंगादितिभावः | तौल्यादिति | न चेछादावति प्रसंग इति वाच्यं तद्भिन्नत्वेन विशेषणोपपतेरितिभावः | प्रसंख्या न जन्य साक्षात्कारस्य प्रमाणमूलकत्वात् | प्रमाणत्वमिति समाधानांतरमाह | मार्गद्वयेपीति | अविचारितादिति | योगमार्गाभिप्रायं वैदांताद्या ब्रह्मावगतिः तन्मूलकतयेत्यर्थः | न च विचारिताद्वा यदि ब्रह्मावगतिर्जाता तर्हि किमर्थं प्रसंख्यानमिति वाच्यं | प्रसंख्यानात्पूर्वमविद्यानिवर्तका प्रतिबधब्रह्मावगतेरलाभातदर्थ तदावश्यकमितिभावः | प्रमाणाजन्यस्यापि प्रमाणप्रयोज्यत्वमात्रेण प्रमात्वे संमतिमाह | उक्तं हीति | ज्ञानभावना ज्ञानाभ्यासरूपं प्रसंख्यानंतजन्यमपरोक्षज्ञानमित्यर्थः | मूलप्रमाणं वेदांतवाक्यं तज्जन्यप्रमातस्य दाढ्यांनामाविप्रतिपन्नप्रामाण्यकत्वमिति बोध्यं | प्रसंख्यानजन्यसाक्षात्कारनिष्टप्रामाण्यज्ञप्तौ मूलप्रमाणज्ञप्त्यपेक्षायामपसिद्धांतापात इति शंकते | न चेति | प्रसंख्यानजसाक्षात्कारनिष्टमपि प्रामाण्यं नियमेन स्वाश्रयग्राहकसाक्षिभास्यमेवेति न
628 SK प्. ४४अ) तत्प्रामाण्यज्ञप्त्यर्थ मूलप्रमाणानुसरणं किंतु प्रसंख्यानजन्य व्यवहितकामिनीसाक्षात्कारस्याप्रमात्वादर्शनात् | प्रसंख्यानजन्यब्रह्मसाक्षात्कारेपि कदाचिदप्रामाण्य शंकासंभाव्यते ततस्तन्निरासाय मूलप्रमाणानुसरणमिति नापसिद्धांत इति भावः | अपवादेति | अप्रमाण्यशंका अपवादः | प्रसंख्या न मात्रं न साक्षात्कारे करणं किंतु तत्सहकृतं मनस्तत्रकरमितिमतं दर्शयति | अन्ये त्विति | अणुः दुर्विज्ञेयः अग्न्यत्वं प्रसंख्यान संस्कृतत्वं मनसैवानुद्रष्टव्यमित्यादि श्रुतिरादिपदार्थः जीवसाक्षात्कारे मनसः करणत्वे संमतिमाह | स्वप्नेति | प्रातिभासिकस्वप्नप्रपंचापेक्षया विपरीतो व्यावहारिकः प्रमात्रादिः तज्ज्ञानसाधनस्येत्यर्थः | आदिपदं प्रमेयादिसंग्रहार्थं | तथेति प्रमातृशब्दित सोपाधिकात्मसाक्षात्कारे मनसःकरणतयेति तथा शब्दार्थः || अहमेवेदं सर्वं सर्वोस्मीति मन्यते सोस्य परमो लोक इति श्रुत्युक्ते स्वाप्ने ब्रह्मसाक्षात्कारे एव मनसः करणत्व संप्रतिपत्तेश्च तदाकरणांतराभावात् | प्रसंख्यानं तु मनः सहकारिभावेनोपयुज्यते | वाक्यार्थभावनापरिपाकसहितमंतःकरणं त्वंपदार्थस्यापरोक्षस्य तत् दुपाध्याकारनिषेधेन तत्पदार्थतामाविभीवयतीतिभामतीवचनात् |
629 SK प्. ४४ब्) ज्ञानप्रसादेन विशुद्धे सत्वस्तस्तु तं पश्यति निष्कलं ध्यायमान इति श्रुतावपि ज्ञानप्रसादशब्दितचितैकाग्र हेतु तयैव ध्यानोपादानात् | ननु प्रसंख्यानं स्वयं करणं तस्य क्वचिदपि ज्ञानकरणत्वा कॢप्तेः कामातुरकामिनी साक्षात्कारादावपि प्रसंख्यान सहकृतस्य मनस एव करणत्वोपपत्याऽकॢप्तज्ञानकरणांतरकल्पनायोगादित्याहुः | अपरे तु तद्धास्य विजिज्ञौतमसः पारं दर्शयति | आचार्यवान् पुरुषो वेद तस्य तावदेव चिरमित्यादि श्रुतिषु आचार्योपदेशानंतरमेव ब्रह्मसाक्षात्कारोदये जीवन्मुक्तिश्रवणाद्वेदांतविज्ञान सुनिश्चितार्थाः इति ज्ञानांतरनैराकांक्ष्यश्रवणातंत्वौपनिषदं पुरुषंमिति ब्रह्मण उपनिषदेकगम्यत्व श्रवणाच्चौपनिषदं महावाक्यमेव ब्रह्मसाक्षात्कारे करणं न मनः यन्मनसानमनुत इति तस्य ब्रह्मज्ञानकरणत्वनिषेधात् || निरुपाधिकात्मसाक्षात्कारेपि मनसः करणत्वं कॢप्तमित्याह |
630 SK प्. ४५अ) अहमेवेति | इदं सद्रूपेण सर्ववस्तुनि अनुभूयमानं सर्वात्मकं ब्रह्मैवाहमस्मि ततः सर्वोस्मीति स्वप्ने ब्रह्मविन्मन्यत इत्यर्थः | ननु स्वप्ने ब्रह्मविदो महावाक्यानुसंधानसंभवाद्वाक्यमेव करणं किं न स्यादित्यत आह | तदेति | स्वप्ने महावाक्यानुसंधानस्यानियतत्वाद्वाक्यस्यापरोक्षधी हेतुत्वानुपगमाच्चेति भावः संमतिमाह वाक्यार्थेति | महावाक्यार्थेत्यर्थः | स्थूलसूक्ष्मकारणोपाधीनांतेति नेतीत्यादि | वाक्यैर्निषेधद्वाराशोधितो यः त्वं पदार्थः स्वप्रकाश चैतन्यात्मकः तस्य पूर्णतामाविर्भाव अवृतिसाक्षात्कार इत्यर्थः | यत्तु निष्कलं ध्यायमानस्ततो ध्याना तं पश्यति इति योजनामभिप्रेत्य ध्यानस्य साक्षात्कार करणत्वं श्रुतिसिद्धमित्युक्तं तद्दूषयति | ज्ञानप्रसादेनेति | करणव्युत्पत्याज्ञानपदं चितपरं ज्ञानस्य प्रसादः ऐकाग्र्यं तथा च ध्यायमानो ध्यानाल्लब्धेन ज्ञानप्रसादेन पश्यत इति योजना विवक्षितेति भावः | एवं योजनायां विनिगमकं पूर्वोदाहृतानि मनसः करणत्व बोधकवचनान्येवेत्यभिप्रेत्यप्रसंख्यानमात्रस्य करणत्वं दूषयति | नत्विति | महावाक्यमेव तत्र करणमिति मतमाह | अपरे त्विति | अस्य पितुरुपदेशात् तद्ब्रह्मविजज्ञौ साक्षात्कृतवान् हकिलेत्यर्थः | पारमधिष्ठानभूतं ब्रह्म तस्य विदुषस्तावानेव विलंबो विदेह कैवल्यं प्रतियावत्प्रारब्धान्न विमोक्ष्यत इत्यर्थः | वेदांतेति | अत्र वेदांतजन्य ज्ञानादेव ब्रह्मात्मैक्यलक्षणस्यार्थस्य सुनिश्चितत्वोक्त्यावाक्यार्थावगत्यनंतरं प्रसंख्यानानुष्ठानं नापेक्षितमिति प्रतीयत | इदं च तन्निरपेक्ष्यं वाक्यादेवापरोक्षज्ञानोत्पति पक्षे संगछते | अन्यथा
631 SK प्. ४५ब्) अपरोक्षज्ञानाय तस्यापेक्षितत्वा तत्तेरपैक्ष्यं न संगछते | अतो वेदांतविज्ञानश्रुत्यावाक्यमेवापरोक्षज्ञाने करणमिति निश्चीयत इति भावः | महावाक्यमेवेति सांख्यमार्गानुष्ठानेन योगामार्गानुष्ठामेत वा दृष्टलक्षणसकलप्रतिबंधक्षये सति बंधरहितं सद्वाक्यमेव साक्षात्कारं जनयतीति वाक्यस्य करणत्वपक्षेन सांख्ययोगमार्गयोर्वेयर्थ्य शंकेति मंतव्यं लोको मनसा यच्चैतन्यं न मनुते तदेवत्वं ब्रह्मविद्धीति योजना || न चापक्वमनोविषयमिदं येनाहुर्मनोमतमिति वाक्यशेषे मनोमात्रग्रहणात् | न चैवं यद्वाचानभ्युदितमिति शब्दस्यापि तत्करणत्वं निषिध्यत इति शंक्यं | मनःकरणत्ववादिनापि शब्दस्य निर्विशेषपरोक्षज्ञानकरणत्वस्याभ्युपगतत्वेन तस्य यतो वाचो निवतंते अप्राप्यमनसा सहेति श्रुत्यनुरोधेन शब्दार्थ प्राप्ति रूपशक्तिमुखेन शब्दस्य तत्करणत्वनिषेधे तात्पर्यस्य वक्तव्यतयाशक्य संबंधरूपलक्षणामुखेन तस्य तत्करणत्वाविरोधात् न च मनसैवानुद्रष्टव्यमिति श्रुतिसिद्धं मनसोपि तत्र करणत्व न पराकर्तुं शक्यमिति वाच्यं | शाब्दसाक्षात्कारजननेपि तदैकाग्र्यस्यापेक्षितत्वेन प्. ४६अ) हेतुत्वमात्रेण तृतीयोपपतेः | मनसा ह्येव पश्यति मनसा शृणोतीत्यादौ | तथा दर्शनात् | गीता विवरणे भाष्यकारीय मनः करणत्व वचनस्य मतांतराभिप्रायेण प्रवृतेरित्याहुः ||
632 SK न मनुत इति वाक्यं अशुद्धमनस एव ब्रह्मज्ञानकरणत्वं निषेधतीति न चेत्यत्र हेतुमाह | येनाहुरिति येन चैतन्येन मतं प्रकाशितं मन इति वाक्यशेषे अपक्व मन एव चैतन्य भास्यमिति वक्तुमशक्यतया तत्र मनो मात्रग्रहणमावश्यकं तदैकरूप्याय न मनुत इति पूर्ववाक्येपि मनोमात्रं ग्राह्यमित्यर्थः | न चैवमिति | मनो मात्रस्य ब्रह्मे ज्ञानकरणत्वनिषेधोपगमे इत्यर्थः | अनुभुदितमिति | अप्रकाशितमित्यर्थः | न च वा इत्यस्य वेदांतातिरिक्तशब्दपरत्वं स्वीक्रियत इति वाच्यं | अत्रापि येन वागभ्युद्यत इति वाक्यशेषे शब्दमात्रस्य चैतन्यप्रकाश्यत्व प्रतिपादनेन तदैकरूप्याय पूर्ववाक्येपि वा चेत्यस्य शब्दमात्रपरत्वादित्याशवानाह | शब्दस्यापीति | मनोमात्रस्येव शब्दमात्रस्यापीत्यर्थः | सत्यं शब्दमात्रस्य ब्रह्मज्ञानकरणत्वं निषेधति तथापि शब्दस्य शक्त्या ब्रह्मज्ञानकरणत्वनिषेधपरं तद्वचनं न तु लक्षणयापि तत्करणत्वनिषेधपरं औपनिषदत्व श्रुतेर्निरालंबनत्व प्रसंगादिति समाधानमभिप्रेत्यविपक्षे परेषामपि बाधकं सूचयति | मनःकरणत्ववादिनापीति | वेदांतानां लक्षणयापि ब्रह्मबोधकत्वानभ्युपगमे ब्रह्मण एवासिध्यापत्यामनःकरणत्ववादिभिरपि तेषां
633 SK प्. ४६ब्) ब्रह्मज्ञानकरणत्वस्याभ्युपगंतव्यत्वादित्यर्थः | परंतु वाक्यजन्यं ब्रह्मज्ञानं परोक्षं भवतां मते अस्माकं मते तु तदपरोक्षमिति विशेष इत्याशयेनाह | परोक्षेति | वेदांतानां शक्त्या ब्रह्मबोधकत्वनिषेधपरं यद्वा चानभ्युदितमिति वचनमिति व्यवस्थायां श्रुत्यंतरमनुकूलयति | तस्येति | यद्वा चानभ्युदितमिति निषेधे वचनस्येत्यर्थः | अप्राप्येति श्रुत्या ब्रह्मणि विषयशब्दानां प्राप्तिर्निषिध्यते | सा च प्राप्तिः शक्तिरेव तस्याः शब्दानामौत्सर्गिकत्वादिति भावः | वक्तव्य तयेति | मनः करणत्ववादिभिरपीतिशेषः तस्येति शब्दस्येत्यर्थः | तदिति ब्रह्मसाक्षात्कारेत्यर्थः | ब्रह्मगोचरवृतिं प्रतिकरणत्वं न तृतीया श्रुत्यर्थः पूर्वोदाहृत श्रुतिविरोधात् | किंतु एकाग्रस्य मनसः तां प्रत्युपादनतया हेतुत्वमात्रं तदर्थ इत्याह | शाब्दसाक्षात्कारजननेपीति | तथेति चाक्षुषज्ञानादौ मनसः करणत्वाभावेन हेतुत्व मात्रेणापि तृतीयादर्शनादिति भावः | शमदमादि संस्कृतं मन एवात्मदर्शने करणमिति गीताभाष्यवचनविरोधे परिहरति गीतेति | मतांतरेति | वृतिकारमतेत्यर्थः | न तु स्वमताभिप्रायेण उक्तप्रमाणविरोधादितिभावः || ननु तथापि शब्दस्य परोक्षज्ञानजनकत्व स्वभावस्य नापरोक्षज्ञानजनकत्वं संगछत इति चेत् | अत्र केचित् स्वतोऽसमर्थोपि शब्दः शास्त्रीयश्रवणमननपूर्वकप्रत्ययाभ्यासजनित संस्कारप्रचयलब्ध
634 SK प्. ४७अ) ब्रह्मैकाग्र्यचितदर्पणानुगृहीतोऽपरोक्षज्ञानमुत्पादयति शास्त्रीयसंस्कृताऽग्र्यधिकरण इव होमोऽपूर्वमिति कल्प्यते | तरति शोकमात्मविदिति शास्त्रप्रामाण्यात् अपरोक्षस्य कर्तृत्वाद्यध्यासस्यापरोक्षाधिष्ठानज्ञानं विना निवृत्ययोगात् | औपनिषदे ब्रह्मणि मानांतराप्रवृतेः शब्दादप्यपरोक्षज्ञानानुपपतौ अनिर्मोक्षप्रसंगादित्याहुः | अन्ये तु भावनाप्रचय साहित्ये सति वहिरसमर्थस्यापि मनसो नष्ट वनिता साक्षात्कारजनकत्वदर्शनान्निदिध्यासन साहित्येन शब्दस्याप्यपरोक्षज्ञानजनकत्वं युक्तमिति दृष्टांतानुरोधेन समर्थयंते || ननु तथापीति | शब्दस्य ब्रह्मसाक्षात्कारकरणत्वपक्षे श्रुतिभाष्यविरोधाभावेपि शब्दप्रमाणस्वभावविरोधान्न महावाक्यं ब्रह्मसाक्षात्कारे करणमित्यर्थः | शब्दस्वभावमनुरुध्यैव तस्यापरोक्षज्ञानकरणत्वं साधयति | अत्र केचिदिति | प्रचयः समूहः प्रचयलब्धं यद्ब्रह्मण्यैकाग्र्यं तद्वच्चितमेव दर्पणं तदनुगृहीत इत्यर्थः | यथा चक्षुः स्वतः प्रतिबिंबानुभवजननासमर्थमपि दर्पणानुग्रहीतं
635 SK प्. ४७ब्) सत् तदनुभवं जनयति तद्वदिति सूचयति चितदर्पणेति शास्त्रीयेति | यथा आधानादिजनित संस्काररहिताग्र्यधिकरणको होमस्तावदपूर्वं न जनयति | अग्र्यधिकरणकहोममात्रस्यापूर्वजननस्वभावाभात् शास्त्रीयसंस्कारविशिष्टाग्र्याधिकरणकहोमस्वपूर्वं जनयति तद्वदित्यर्थः | ननु दृष्टांते शास्त्रवला तथा स्वीक्रियते प्रकृते तथा शास्त्रं नोपलभ्यत इत्यत आह | तरतीति | नन्वनया श्रुत्या चिदात्मन्यध्यस्तस्य शोकोपलक्षितकर्तृत्वाद्यध्यासस्यात्मवेदनान्निवृतिरुच्यते | न तु शब्दस्यापरोक्षज्ञानकरणत्वमित्यत आह | अपरोक्षस्येति | यथा दृष्टांते होमाधिकरणस्याग्रेराधानादि संस्कृतत्वश्रवणान्यथानुपपत्याशास्त्रीयसंस्कारसहकृतग्र्यधि- करणको होमो पूर्वं जनयतीति कल्प्यते | तथात्मज्ञनस्यापरोक्षा ध्यासनिवर्तकत्वश्रवणान्यथानुपपत्या आत्मज्ञानजनक वेदांतानामेवापरोक्षज्ञानकरणत्वं कल्प्यत इत्यर्थः | अयोगादिति सत्यपि श्रवणजनितपरोक्षज्ञाने कर्तृत्वाद्यध्यासनिवृत्यदर्शनात् | परोक्षज्ञानमात्रेणाध्यासनिवृतौ मननादिविधि वैयर्थ्य प्रसंगाच्च अपरोक्षाध्यासरूपदिग्भ्रमादिग्याथात्म्यादि साक्षात्कारं विना निवृत्यदर्शनाच्चेति भावः | ननु कर्तृत्वाद्यध्यासनिवर्तकमधिष्ठानात्मतत्वसाक्षात्कररूपं ज्ञानं मनसैव संभवति किं शब्दस्य तत्करणत्व कल्पनयेति तत्राह | औपनिषद इति | अंतरिंद्रियस्य मनसः प्रत्यक्षप्रमाणत्वेन ब्रह्मणस्तद्गम्यत्वे उपनिषदेक गम्यत्व प्. ४८अ) प्रतिपादकश्रुतिबाधप्रसंग इति भावः | नन्वौपनिषदत्व श्रुति विरोधेन ब्रह्मणि मानांतराप्रवृतौ शब्दस्वभावविरोधेन शब्दस्यापि ब्रह्मसाक्षात्कारजनने प्रवृतिर्न संभवति | तथा च ब्रह्मसाक्षात्कारकरणस्यैवालाभात् | मास्तु तत्साक्षात्कार इत्यत आह | शब्दादपीति | तथा च मोक्षशास्त्रप्रामाण्याय शब्दस्यैव साक्षात्कारकरणत्वं कल्पनीयमितिभावः | शास्त्रप्रामाण्यमनुपजीव्यापि शब्दस्यापरोक्षज्ञानकरणत्वं साधयति | अन्ये त्विति ||
636 SK अपरे त्वपरोक्षार्थविषयत्वं ज्ञानस्यापरोक्ष्यं नामाऽन्याऽनिरुक्तेः अर्थापरोक्षत्वं तु नापरोक्षज्ञानविषयत्वं येनान्योन्याश्रयो भवेत् | किंतु तत्तत्पुरुषचैतन्याभेदः अंतःकरणतद्धर्माणां साक्षिणि कल्पिततया तदभेदसत्वात् | नाह्यचैतन्ये कल्पितानां घटादीनां बाह्यचैतन्ये वृतिकृत ततपुरुषीय चैतन्याभेदाभिव्यक्त्या तदभेदसत्वाच्च न क्वाप्यव्याप्तिः || इदानीं शब्दस्य परोक्षज्ञानजननस्वाभाव्यसेवा सिद्धमतो नित्यापरोक्षे ब्रह्मणि वेदांतानां साक्षात्कारकरणत्वं निरपवादमिति मतांतरमाह | अपरे त्विति | नन्विंद्रियजन्यज्ञानत्वादिकमेव ज्ञानस्यापरोक्षत्वं ब्रह्मगोचर
637 SK प्. ४८ब्) शाब्दज्ञानस्य तदभावात्नापरोक्ष्यमित्यत आह | अन्यानिरुक्तेरिति | इंद्रियजज्ञानत्वादेश्च प्रथमपरिछेदावसाने निरस्तत्वादितिभावः | नन्वर्थस्यापरोक्षत्वमपरोक्षज्ञानविषयत्वमन्यस्यानिर्वचना तथा चानोन्याश्रयः अर्थस्यापरोक्षत्व ज्ञप्तौ ज्ञानस्यापरोक्षत्व ज्ञप्तिः ज्ञानस्यापरोक्षत्व ज्ञप्तौ च अर्थस्यापरोक्षत्व ज्ञप्तिरित्याशंक्यानिर्वचनमसिद्धमित्यभिप्रेत्याह | अर्थापरोक्षत्वं त्विति ततदिति | ततत्प्रमातृचैतन्याभिन्नत्वं तस्य तस्य विषयस्य तं तं प्रमातारं प्रमातारं प्रत्यपरोक्ष ततत्प्रमातृचैतन्याभिन्नार्थविषयकं ज्ञानं ततत्प्रमातुः | ततत्प्रमातृचैतन्याभिन्ने विषये अपरोक्षज्ञानमित्यर्थः | न चार्थापरोक्षादावननुगम इति वाच्यं ज्ञानगतस्यानुगता परोक्ष्यत्वस्य जातिरूपस्य उपाधिरूपस्य वा प्रा᳚न्निरस्तत्वेन तदभावार्थापरोक्ष्यस्याप्यनुगतस्यासंभवेन तस्या दोषत्वादिति भावः | ननु प्रमातृचैतन्याभिन्नत्वरूपस्यार्थापरोक्ष्यस्य जडरूपापरोक्षार्थे व्याप्तिः चैतन्यजडयीरैक्यस्य बाधितत्वादित्यत आह | अंतःकरणेति तदभेदसत्वादिति साक्षिशब्दित प्रमातृचैतन्याभेदसत्वादित्यर्थः | तथा चार्थापरोक्ष्यनिर्वचने कल्पिता कल्पित साधारणाभेदस्य विवक्षितत्वेन प्रमातृचैतन्यब्रह्मचैतन्ययोरिव प्रमात्रचैतन्यजडयोरकल्पिताभेदाभावेपि जडं सदिति सामान्याधिकरण्यानुभवसिद्ध कल्पिताभेद सत्वात्नाव्याप्तिरितिभावः | आंतरजडपदार्थेषु प्रमातृचैतन्या भिन्नत्वमुपपाद्य बाह्यापरोक्षार्थेषु तदुपपादयति |
638 SK प्. ४९अ) बाह्येति अंतःकरण तद्धर्माणांदभेद सत्वात् | घटादीनां तदभेदसत्वाच्च न क्वाप्यांतरार्थे वाऽव्याप्तिरितिसंबंधः | घटादीनां ततत्पुरुषीय चैतन्याभेदसत्वे हेतुमाह | बाह्यचैतन्ये ततत्पुरुषीय चैतन्याभेदाभिव्यक्त्येति | ननु बाह्यचैतन्यस्य ततत्पुरुषीय चैतन्यस्य च वस्तुतः सदा अभेद सत्वेपि तदभिव्यक्तिः कुत इत्यत आह | वृति कृतेति | बाह्ये विषयावछिन्नचैतन्ये चक्षुरादि द्वारानिर्गताया वृतेः संसर्गे सति वृत्ति वृतिमतोरभेदाद्वृतिमदंतःकरणस्यापि तत्र संसर्गो लभ्यते | तथा च वृति संसृष्टबाह्यचैतन्यमेवांतःकरणसंबंधा ततत्पुरुषीय चैतन्यं भवतीत्यनेन प्रकारेण बाह्यचैतन्ये वृतिकृतातपुरुषीय चैतन्याभेदाभिव्यक्तिर्भवतीत्यर्थः | ननूक्त प्रकारेण बाह्य चैतन्यस्य प्रमात्रचैतन्याभिन्नत्व सिद्धावपि घटादीनां प्रमातृचैतन्याभिन्नत्वमसिद्धमेवेत्याशंक्याह | बाह्यचैतन्ये कल्पितानामिति | बाह्यचैतन्ये तावत् घटादीनामभेदः प्रागेव सिद्धः तत्र तेषां कल्पितत्वा तथा च बाह्यचैतन्यस्य वृत्तिकृत ततत्पुरुषीय चैतन्याभेदाभिव्यक्तिदशायां घटादीनामपि ततत्पुरुषीय चैतन्याभिन्नत्वं सिध्यतीनिभावः || न चांतःकरणधर्माणां ज्ञानादीनामिवधर्माधर्मसंस्काराणामपि साक्षिणि कल्पितत्वा विशेषादापरोक्षापतिः तेषामनुद्भूतत्वात् उद्भूतस्यैव
639 SK ४९ब्) जडस्य चैतन्याभेदः | आपरोक्ष्यमित्यभ्युपगमात् | एवं च सर्वपुरुषचैतन्याभिन्नत्वाद्यत्साक्षादपरोक्षाद्ब्रह्मेति श्रुत्यासत एवापरोक्षं ब्रह्मेत्यपरोक्ष्यार्थविषयत्वाछाब्दस्यापि ब्रह्मज्ञानस्यापरोक्षत्व वाचो युक्तिर्युक्ता एवेत्याहुः | अद्वैत विद्याचार्यास्तु नापरोक्षार्य विषयत्वं ज्ञानस्यापरोक्ष्यं स्वरूपसुखापरोक्षरूपज्ञाना व्यापनात् | स्वविषयकत्वलक्षण स्वप्रकाशत्व निषेधात् | किंतु यथा ततदर्थस्य स्वव्यवहारानुकूलचैतन्याभेदोर्थापरोक्ष्यं | एवं ततद्व्यवहारानुकूलचैततन्यस्य तत्तदर्थाभेदोज्ञानापरोक्ष्यं | तथा च चैतन्यधर्म एवेदमापरोक्ष्यं न त्वनुमिति त्वेछात्वादिवदंतःकरणवृतिधर्मः | अर्थापरोक्ष्यलक्षणस्याति व्याप्ति मां शंक्य निराकरोति न चेत्यादिना | धर्मेति धर्मादीनामप्यधिष्ठान भूतप्रमातृचैतन्ये सहाभिन्न सताकत्वरूपाभेदसत्वादिति भावः | उद्भूतत्वे सति प्रमातृचैतन्याभिन्नत्वमर्थापरोक्ष्यं उद्भूतत्वं च फलवलकल्प्य स्वभावविशेषः | स च धर्मादेर्नास्तीति परिहारार्थः | एवं शब्दस्य ब्रह्मसाक्षात्कारे
640 SK प्. ५०अ) करणत्वसिध्यर्थमुपोद्घातं कृत्वा प्रकृत दर्शयति | एवं चेति | ज्ञानापरोक्ष्यप्रयुक्तत्वे सतीत्यर्थः | अभिन्नत्वादिति | जीवरूपप्रमातुः ब्रह्माभेदस्य श्रुतिसिद्धत्वादिति भावः | इदं च ब्रह्मणो जीवाभिन्नत्वं जडस्य प्रमातृचैतन्याभिन्नत्ववत् काल्पनिकं न भवति किंतु वास्तवैक्यरूपमित्याशयेनाह | स्वत एवेति | ब्रह्मणो नित्यापरोक्षप्रमातृचैतन्याभेदे श्रुतिमाह | यत्साक्षादिति | ब्रह्म जडवत् स्वव्यतिरिक्तप्रमातृचैतन्यमपेक्ष्यापरोक्षं न भवति | किंतु साक्षात्प्रमातृचैतन्यस्वरूपत्वादेवापरोक्षमित्यर्थः | ज्ञानापरोक्ष्यमर्थापरोक्ष्यं च प्रकारांतरेण निरूपयति | अद्वैतविद्याचार्यास्त्विति | पूर्वोक्तं ज्ञानापरोक्ष्यलक्षणमव्याप्त्या दूषयति | नापरोक्षेति स्वरूपसुखस्यापरोक्ष्यरूपे स्वरूपज्ञानेऽव्यापनादित्यर्थः | नन्वात्मस्वरूपसुखानुभवस्य साक्षिचैतन्यरूपस्य स्वप्रकाशत्वाभ्युपगमात् | स्वप्रकाशत्वस्य च स्वविषयकत्वरूपत्वात् | स्वरूपसुखविषयकत्वं तदपरोक्षरूपे स्वरूपज्ञाने निरपवादमित्यत आह | स्वविषयकत्वलक्षणेति | एकस्मिन् चैतन्ये विषय विषपि भावलक्षणसंबंधो न भवति संबंधस्य द्विनिष्ठत्वात् स्वविषयत्वं विनापि स्वसत्ताप्रयुक्तसंशयाद्यगोचरत्वादिलक्षणस्य स्वप्रकाश तस्याकरेषु निरूपितत्वादिति भावः | किं तर्हि ज्ञानापरोक्ष्यमिति पृछति | किंत्विति ज्ञानापरोक्ष्यनिर्वचनं प्रतिदृष्टांतव्याजेन प्रथममर्थापरोक्ष्यं निर्वक्ति | यथेति | अर्थस्य
641 SK प्. ५०ब्) स्वव्यवहारानुकूलचैतन्याभिन्नत्वमपरोक्षत्वं अस्ति चांतःकरण तद्धर्माणां स्वव्यवहारानुकूलेन साक्षिचैतन्येनाभिन्नत्वं तत्र तेषामध्यस्तत्वात् | तथा घटादीनामपि स्वव्यवहारानुकूलेन घटादिगोचर वृत्युपहितेन घटाद्यभिष्टानचैतन्येनाभिन्नत्वमस्ति | तथा च ब्रह्मणोपि स्वव्यवहानुकूलेन स्वगोचरवृत्युपहितेन साक्षिचैत्नयेनाभिन्नत्वमस्तीति न क्वाप्यव्याप्ति घटाद्यर्थस्य चैतन्ये कल्पितस्य चैतन्याभिन्नत्वं सदा वर्तते | अपरोक्षत्वं तु सदा नास्तीति व्यवहारानुकूलेत्युक्तं घटादिगोचरवृति दशायामेव घटाद्यधिष्ठानचैतन्यं घटादिव्यवहारानुकूलं भवति न सर्वदेति नाति प्रसंगः ननु ततद्व्यवहारानुकूलचैतन्यस्य ततदर्थाभिन्नत्वमपरोक्षत्वमस्तुनाम तथापि ज्ञानापरोक्ष्यं नोक्तमेव वृतिरूपज्ञानस्य चैतन्यापेक्षा भिन्नत्वादित्यत आह | तथा चेति चैतन्यस्यैव ततदर्थव्यवहारानुकूलत्वे विवक्षिते सतीत्यर्थः | तथा च ज्ञानापरोक्ष्यमित्यत्र ज्ञानपदं चैतन्यपरमेव न वृत्तिज्ञानपरमिति नानुक्तिदोष इति भावः || अत एव सुखादिप्रकाशरूपे साक्षिणि स्वरूपसुखप्रकाशरूपे चैतन्ये चापरोक्ष्यं | न च घटाद्येंद्रियकवृतौ तदनुभवविरोधः | अनुभवस्य वृत्यवछिन्नचैतन्यगता परोक्ष्य प्. ५१अ) विषयत्वोपपतेः | ननु उज्ञानार्थयोरापरोक्ष्यं हृदयादिगोचर शाब्दवृति तद्विषयोरति प्रसक्तं | तत्र दैवात् कदाचिद्वृतिविषयसंसर्गे सति वृत्यवछिन्नचैतन्यस्य विषयावछिन्नचैतन्यस्य चाभेदाभिव्यक्तेरवर्जनीयत्वादिति चेत् न परोक्षवृतेर्विषयावछिन्नचैतन्यगताः ज्ञाननिवर्तनाक्षमतया तत्रा ज्ञानेनावृतस्य विषयचैतन्यस्यानावृतेन वृत्यवछिन्नसाक्षिचैतन्येनाभेदाभिव्यक्तेरभावादापरोक्ष्या- प्रसक्तेः ||
642 SK ततदर्थव्यवहारानुकूलत्वे सति ततदर्थाभिन्नत्वरूपं ज्ञानापरोक्षत्वं चैतन्यधर्म एवेत्यत्र युक्तिमाह | अत एवेति | चैतन्यधर्मत्वाभ्युपगमादेवेत्यर्थः | तस्य वृतिधर्मत्वे तु सुखदुःखादिगोचरापरोक्षवृत्यनंगीकारात् | सुखदुःखादिभासकसाक्षिचैतन्ये वृतिधर्मस्यापरोक्ष्यस्यासंभवाच्च सुखदुःखादेरपरोक्षत्वानुभवविरोधः स्यादितिभावः लक्षणे सत्यं तं वह्निगोचरानुमिति वृत्युपहिते जीवचैतन्येव हि व्यवहारानुकूले गतमिति तत्राति व्याप्तिवारणाय विशेष्यं | अनुमिति वृतेः विषयदेशे गमनाभावेन तद्वृत्यवछिन्नचैतन्यस्य न वह्न्यभिर्न्नत्वमिति नाति व्याप्तिः
643 SK प्. ५१ब्) घटादिगोचर वृत्यभावदशायां घटाद्यवछिन्नचैतन्ये घटाद्यपरोक्षत्व विरर्हिते घटाद्यर्थाभिन्नत्वमस्तीति तद्धारणाय सत्यं तं तदा तस्य चैतन्यस्यावृतत्वेन घटादि व्यवहारानुकूलत्वाभावात् | नाति व्याप्तिरिति मंतव्यं | न चेति | ज्ञानापरोक्ष्यस्य चैतन्यधर्मत्वे घटादि गोचरवृतौ घटसाक्षात्करोमीत्यादिप्रकारेणापरोक्षत्वानुभवविरोध इत्यर्थः | वृतिचैतन्ययोस्तादात्म्येन वृति साक्षात्कारत्वानुभवस्य चैतन्य गता परोक्षविषयकत्वोपपतेरित्यर्थः | ननु हृदयनाडीधर्मादिगोचरशाब्दवृतिरंतःशरीरव्यापिनी जायमाना दैवयोगात् हृदयनाड्याद्यवछिन्नांतःकरणप्रदेशे यदि जायेत तदा हृदयादिरूपविषयावछिन्नचैतन्यस्य हृदयादिगोचरशाब्दवृत्यवछिन्नस्य चाभेदाभिव्यक्तिरपरिहार्या घटादिस्थले वृतेः विषयसंसर्गे सति वृतिविषयावछिन्नचैतन्ययोरभेदाभिव्यक्ति स्वीकारा तथा च हृदयादिगोचरशाब्दानुमित्यादि वृत्यवछिन्नचैतन्यरूपे परोक्षज्ञाने हृदयाद्यर्थाभिन्ने हृदयादिव्यवहारानुकूले ज्ञानापरोक्ष्यलक्षणमति व्याप्तं | तथा हृदयादिरूपे परोक्षार्थे स्वव्यवहारानुकूलशाब्दादिवृत्यवछिन्नचैतन्याभिन्ने अर्थापरोक्ष्यलक्षणमति व्याप्तमिति शंकते | ननूक्तमिति | ययोश्चैतन्ययोरभेदाभिव्यक्तिरिष्यते | तयोरुभयोरप्यनावृतत्वमपेक्षितमन्यतरचैतन्यस्यावर्णदशायां तयोरभेदस्य प्रत्यक्षत्वलक्ष्ऽणाभिव्यक्त्ययोगात् तथा च हृदयादिगोचरशाब्द प्. ५२अ) वृतिस्थलेनाति व्याप्तिः तत्र विषयचैतन्यस्यावृतत्वादिति परिहरति | न परोक्षवृतेरिति | आपरोक्ष्याप्रसक्तेरिति | परोक्षहृदयादिविषयस्य हृदयादिगोचरशाब्दवृत्यवछिन्नचैतन्यरूपपरोक्षज्ञानस्य चेति शेषः तथा च हृदयादिगोचरशाब्दवृत्यवछिन्नचैतन्यरूपपरोक्षज्ञानस्य हृदयादिव्यवहारानु ||
644 SK कूलज्ञानत्वे सत्यपि हृदयादिविषयेण सहाभिव्यक्त्याभेदाभावादभिव्यक्त ततदर्थाभिन्नत्वे सति तदर्थव्यवहारानुकूलज्ञानत्वलक्षणं ज्ञानापरोक्ष्यं नास्ति | तथा हृदयाद्यर्थस्यापि स्वव्यवहारानुकूलशाब्दवृत्यवछिन्नसाक्षिचैतन्याभेदसत्वेपि तदभेदाभिव्यक्त्यभावेन स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्ति शालित्वरूपमर्थापरोक्ष्यं नास्तीत्यर्थः | न चाहं सुखीदुःखीत्याकारके सुखादिसाक्षिणी सुखदुःखादिरूपविषयाभेदो विद्ययाभेदो विद्यमानोपि नाभिव्यज्यते | सुखादिसाक्षिणो जीवस्य सुखादेश्चाधाराधेय भावप्रतीतेः | तथा च सुखदुःखादिप्रत्यक्षेभिव्यक्तविषयाभेदाभावादव्याप्तिरिति प्. ५२ब्) वाच्यं | घटादि प्रत्यक्षरूपे घटादि स्फुरणे घटस्फुरति पटस्फुरतीत्याकारानुभवमादाय घटाद्यर्थाभेदाभिव्यक्तिमत्वस्येव सुखं स्फुरतिः दुःखं स्फुरतीत्याकारानुभवमादायैव सुखदुःखादि प्रत्यक्षे सुखाद्यर्थाभेदाभिव्यक्तिमत्व सत्वात् | न च घटस्फुरतीत्यनुभवे घटस्य स्फुरणाश्रयत्वमेव भाति | न तु स्फुरणाभेद इति वाच्यं | घटस्फुरतीति प्रयोगे देवदत्तो गछतीत्यत्रगमनकर्त्रऽभिन्नो देवतदत इति वाक्यार्थवत्स्फुरणाश्रयाभिन्नो घट इति वाक्यार्थस्य वक्तव्य तया घटः स्फुरतीति प्रयोगमूलभूते घटः स्फुरतीत्यनुभवेपि स्फुरणाश्रयभूतचिदात्माभिन्नतया घटस्य भानावश्यं भावात् | नं च घटस्य स्फुरणाश्रयाभेदाभिव्यक्तावपि स्फुरणाभेदाभिव्यक्तिरद्यापि नोपयादितैवेति वाच्यं | घटस्य स्वरूपमिति प्रत्यक्षं हि घटमेव घटस्य स्वरूपतया यथा विषयी करोति | तथा घटस्फुरतीति प्रत्यक्षमपि घटादिवृति दशायां घटाद्यधिष्ठानभूतमनावृत्त चिदात्मानमेव
645 SK प्. ५३अ) स्वप्रकाशचिदात्माश्रित स्फुरणरूपेण विषयीकरोतीत्यभ्युपगमेन घटे स्फुरणाश्रया भेदभानस्यैव स्फुरणाभेदभानरूपत्वात् | एतदुक्तं भवति घटस्य स्वरूपमिति शब्दप्रयोग एव घट तत्स्वरूपयोर्भेदोभासतेन तु तन्मूलभूते घटस्य स्वरूपमिति प्रत्यक्षे अन्यथा तत्प्रत्यक्षस्य भ्रमत्व प्रसंगात् घटतत्स्वरूपयोर्भेदाभावात् | न च तस्य भ्रमत्वमभ्युपगतुं शक्यते बाधकाभावात् | एवं स्फुरतीति शब्दप्रयोगे एव स्वप्रकाशात्मनः स्फुरण तदाश्रयनावेन भेदभानं न तु स्फुरतीति प्रत्यक्षे तत्र स्फुरण द्वित्वानुपलंभादिति | न च ब्रह्मगोचरशाब्दवृतेर्विषयसंसृष्टायाविषयगता ज्ञाननिवर्तनक्षमत्वदर्शनेन हृदयादिगोचरशाब्दवृतेरपि विषयसंसर्गाविशेषे कथं तस्यां स्वविषयचैतन्यगता ज्ञाननिवर्तन क्षमत्वं नेति वाच्यं | हृदयादिगोचरशाब्दवृतेः सत्यपि विषयसंसर्गे तस्यां वृतौ अज्ञाननिवर्तकत्व प्रजकाभावेनाज्ञाननिवर्तकत्वस्य प्रथमपरिछेदावसाने प्. ५३ब्) दर्शितत्वादितिभावः | अत एव जीवस्य संसारदशायां वस्तुतः सत्यपि ब्रह्माभेदेन तदा परोक्ष्यं | अज्ञानावणाकृतभेदसत्वात् | न चैवं ब्रह्मणोपि जीवापरोक्ष्यासंभवादसर्वज्ञत्वापतिः | अज्ञानस्येश्वरप्रत्यनावरकतया तं प्रतिजीवभेदानापादनात् | यदज्ञानं यं प्रत्यावरकं तस्य तं प्रत्येव स्वाश्रयभेदापादकत्वात् | अत एव चैत्र ज्ञानेन तस्य घटाज्ञाने निवृतेऽनिवृतं मैत्राज्ञानं मैत्रं प्रत्येव विषयचैतन्यस्य भेदापादकमिति न चैत्रस्य घटापरोक्ष्यानुपपतिरपि ||
646 SK अर्थस्य स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्तिमत्वमेवापरोक्ष्यं न तु तादृशा भेदवत्वमात्रमित्यत्र लिंगमाह | अत एवेति | अभेदाभिव्यक्तेरेवापरोक्षत्वप्रयोजकत्व स्वीकारादेवेत्यर्थः | संसारेति | तत्वसाक्षात्कारात् पूर्वकाल इत्यर्थः | जीवस्य ब्रह्माभेदे सत्यपीत्यनेन ब्रह्मणः स्वव्यवहारानुकूलजीवचैतन्याभिन्नत्वे सत्यपीत्यपीत्यर्थो विवक्षितः | तथा च संसारदशायां स्वव्यवहारानुकूल जीवचैतन्याभिन्नस्यापि ब्रह्मणो जीवं प्रत्यपरोक्षत्वाभावस्तयोरभेदाभिव्यक्त्य भावादेवेति
647 SK प्. ५४अ) वक्तव्यतया अभेदाभिव्यक्तेरापरोक्ष्यप्रयोजकत्वं युक्तमितिभावः | न चैवमिति अज्ञानकृतभेदस्याभेदाभिव्यक्ति प्रतिबंधकत्व इत्यर्थः | असंभवादिति | जीवं साक्षात्करोमि जीवो मम परोक्ष इति जीवगोचरव्यवहारानुकूलं ज्ञानं ब्रह्मणो मायावृत्युपहितं ब्रह्मचैतन्यमेव तथा च ब्रह्मकर्तृकव्यवहारविषयस्य जीवस्य ब्रह्मकर्तृकव्यवहारानुकूल तादृशब्रह्मचैतन्याभिन्नत्वे सत्वेप्यभिव्यक्ताभेदशालित्वा भावात् जीवस्य ब्रह्मप्रत्यपरोक्षं न संभवति | न च ब्रह्मणो जीवगोचरापरोक्षज्ञोनासंभवेपि न सर्वज्ञत्वभंगः जीवगोचरपरोक्षज्ञानमात्रेणापि तत्संभवादिति वाच्यं | ईश्वरस्य परोक्षज्ञानानंगीकारादितिभावः | अज्ञानं हि जीवधर्मिकब्रह्मप्रतियोगिकभेदप्रयोजकं जीवस्य नाहं ब्रह्मेति ब्रह्मभेदानुभव सत्वात् | न तु ब्रह्मधर्मिक जीवप्रतियोगिकभेदप्रयोजकं ब्रह्मणो नाहं जीव इत्यनुभवे मानाभावात् | तथा च ब्रह्मप्रतिजीवस्य ब्रह्माभेदाभिव्यक्ति प्रतिबंधकस्याज्ञानकृतभेदस्याभावात् नोक्त दोष इति परिहरति | अज्ञानस्येति | अनावरकतयेति ईश्वरस्याहमज्ञ इत्यनुभवे मानाभावादज्ञानमीश्वरं प्रतिजीवावरकं न भवति | न चेश्वरस्यापि लीलाविग्रहपूर्वक व्यवहारकाले तदीये नैव वचनेन तस्याज्ञत्वानुभवोस्तीति गम्यत इति वाच्यं तदीयस्य तदीयाज्ञत्वगमकवचनस्यान्यथा सिद्धेश्चतुर्थपरिछेदे वक्ष्यमाणत्वादितिभावः | तमिति ईश्वरं प्रतिजीवप्रतियोगिक भेदाप्रयोजकत्वादित्यर्थः
648 SK प्. ५४ब्) तं प्रतिजीवावरकस्यापि जीवभेदा पादकं किं न स्यादित्यत आह | यं प्रतीति | यं जीवं प्रति यदज्ञानं विषयचैतन्यावरकं तं प्रत्येव तस्याज्ञानस्य स्वाश्रय भूतविषयचैतन्य प्रतियोगिकभेदापादकत्वाभ्युपगमादित्यर्थः | उक्त व्यवस्थायां नियामकमाह | अत एवेति | यं प्रति यदज्ञानमित्यादिव्यवस्थाभ्युपगमादेव चैत्रस्य घटापरोक्ष्यानुभवानुपपतिरपि नेति संबंधः | घटावछिन्नचैतन्ये चैत्रं प्रतिघटचैतन्यावरकमज्ञानं यथा वर्तते तथा मैत्रं प्रत्यपि घटचैतन्यावरकमज्ञानं तत्रास्ति | तथा च चैत्रीय घटज्ञानेन चैत्रस्य घटाज्ञाने चैत्रं प्रतिस्वाश्रय भूतविषयचैतन्यप्रतियोगिक भेदापादके निवृते सति चैत्रीय घटज्ञानेनानिवृतं घटचैतन्यगतं मैत्रं प्रतिघटावरकाज्ञानमैत्रं प्रत्येव स्वाश्रय भूत घटचैतन्यप्रतियोगिकभेदा पादकं | न तु मैत्राज्ञानं चैत्रं प्रतिघट चैतन्यानावरकमपि | चैत्रं प्रतिस्वाश्रयी भूतघट चैतन्यप्रतियोगिक भेदापादकं | तथा सति चैत्रीय घटज्ञानेन चैत्रीयाज्ञाने निवृते सति तत्कृतभेदनिवृत्रावपि चैत्रस्य घटचैतन्यस्य च मैत्राज्ञानकृतभेदसत्वेनाभेदाभिव्यक्त्यभावात् चैत्रस्य घटापवोक्ष्यानुभवानुपपतिरेवस्यादतो मैत्राज्ञानं मैत्रं प्रतीव चैत्रं प्रतिस्वाश्रय भेदापादकं न भवति चैत्रं प्रतिस्वाश्रय चैतन्यानावरकत्वादिति वक्तव्यं तथा चोक्त व्यवस्थासिद्धेत्यर्थः ||
649 SK प्. ५५अ) नन्वेवं वृतिविषयचैतन्याभेदाभिव्यक्तिलक्षणस्यापरोक्षस्य विषयचैतन्यगताज्ञाननिवृतिप्रयोज्यत्वे तस्य अज्ञाननिवृतिप्रयोजकत्वायोगात् ज्ञानमात्रमज्ञाननिवर्तकं भवेदिति चेत् | न यत् ज्ञानमुत्पद्यमानं स्वकारणमहिम्नाविषयसंसृष्टमेवोत्पद्यते तदेवाज्ञाननिवर्तकमिति विशेषणात् | ऐंद्रियक ज्ञानानां तथा त्वात् | एवं च शब्दादुत्पद्यमानमपि ब्रह्मज्ञानं सर्वोपादानभूत स्वविषयब्रह्मचैतन्यसंसृष्टमेवोत्पद्यत इति तस्याज्ञाननिवर्तकत्वमज्ञाननिवृतौ तन्मूलकभेदप्रविलयादापरोक्ष्यं चेत्युपपद्यतेतरां | नन्वेवमध्ययन गृहीत वेदांतजन्येनापि तत् ज्ञानेन मूलाज्ञाननिवृत्या आपरोक्ष्यं किं न स्यात् || ननु परोक्षज्ञानमज्ञाननिवर्तकमितिरीत्याज्ञानस्य अज्ञाननिवर्तकत्वे अपरोक्षत्वं प्रयोजकमिति | वक्तुं न शक्यते ज्ञानगतापरोक्षत्वस्यैवाज्ञाननिवृत्यधीनत्वात् | न च मास्तु ज्ञानापरोक्ष्यस्याज्ञाननिवृतिप्रयोजकत्वमिति वाच्यं | तथा सति ज्ञानमात्रस्याज्ञाननिवर्तकत्वापरोक्षज्ञानस्यापि
650 SK प्. ५५ब्) अज्ञाननिवर्तकत्वं प्रसंगादित्याशयेन शंकते | नन्वेवमिति | एवं शब्दार्थमवाह | वृतीति वृत्यवछिन्नचैतन्यरूपे ज्ञाने घटादिरूपविषये च वृत्यवछिन्नचैतन्यविषयावछिन्नचैतन्ययोरभेदाभिव्यक्ति घटितस्येत्यर्थः | अज्ञान निवृतिं प्रयोज्यत्व इति | प्रमातारं प्रतिषयचैतन्यावरणद्वाराविषयचैतन्यप्रतियोगिक- भेदापादकस्याज्ञानस्य निवृतिं विना अर्थस्य ज्ञानस्य वा अपरोक्ष्यासंभवस्योक्तत्वादापरोक्ष्यस्याज्ञाननिवृतिप्रयोज्यत्वमित्यर्थः | ज्ञानस्याज्ञाननिवर्तकतायामापरोक्ष्यस्य प्रयोजकत्वाभावेपि न हातिः | प्रयोजकोतरस्य प्रथमपरिछेदांते दर् शितत्वादित्याशयेन परिहरति | नेति | तथात्वादिति संनिकर्त्षरूपकारणमहिम्नाविषयसंसृष्टतयैव उत्पद्यमानत्वादित्यर्थः | अनुमित्यादि वृतीनाम तथात्वेनातिप्रसंगाभावाच्चेत्यपि द्रष्टव्यं | नन्वनु मे वह्न्यादि गोचरानुमिति वृतेरिव ब्रह्मगोचरशाब्दवृतेरपि | स्वविषयभूतेन ब्रह्मचैतन्येन संसर्गाभावान्मूलाज्ञाननिवर्तकत्वं न स्या तथा च तत्वज्ञानानंतरमपि ब्रह्मापरोक्ष्यं न स्यादित्यत आह | एवं चेति | एवमेवेत्यर्थः | ऐंद्रयकवृतिवदेवेति यावत् | ब्रह्मगोचरवृतेः स्वविषयसंसर्गनियमे कारणमाह | सर्वोपादानभूतेति जायमानस्य सर्वस्य ब्रह्मसंसर्गनियमे सति ब्रह्मगोचरवृतेः स्वविषयसंसर्ग नियमे किं वक्तव्यमित्याशयेन सर्वोपादानेत्युक्तं | कार्यस्योपादानसंसर्गनियमा
651 SK प्. ५६अ) तथा च ब्रह्मगोचरवृतेर्नानुमेय वह्न्यादिगोचरानुमिति वृतितुल्यतेति भावः | आपरोक्ष्यं चेति | ननु ज्ञानापरोक्ष्यस्याज्ञाननिवृतावप्रयोजकत्वमते वेदांतजन्य ज्ञानस्यापरोक्षत्व प्रसाधनमस्मिन् शाब्दापरोक्षवादे व्यर्थमिति चेन्न अज्ञाननिवर्तकज्ञानमपरोक्षरूपमिति नियमस्य चक्षुरादिजन्य ज्ञानेषु दृष्टस्य ब्रह्माज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने व्यभिचारवारणार्थतया तत्साधनस्यार्थवत्वोपपतेः | मूलाज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने आपरोक्ष्यस्य तद्वैतत्पश्यन्नित्यादिश्रुत्या ब्रह्मसाक्षात्करोमीति विद्वदनुभवेन च सिधस्य तत्र तत्प्रसाधनं विना अनुपपतेश्चेति भावः | घटादौ घटादिगोचरवृतिकाल एवापरोक्ष्यं तद्वृत्युपरमे तु पुनरज्ञानांतरकृतभेदप्राप्त्या स्वव्यवहारानुकूल चैतन्याभेदाभिव्यक्त्यभावान्नापरोक्ष्यं ब्रह्मणि तु मूलाज्ञाननिवृतौ पुनरावरणकृतभेदाप्रसक्त्या ब्रह्मज्ञानानंतरं सदैवापरोक्ष्यमिति विशेषं सूचयति | तरामिति | नन्वेवमध्ययन गृहीतेति | नियमेन यज्ञानं विषयसंसृष्टतयोदेति | तज्ज्ञानमज्ञानं निवर्तपत्येवेति नियमोपगमे सतीत्येवं शब्दार्थः | आपात ज्ञातस्यापि स्वयब्रह्मसंसर्गितयैव उत्पन्नत्वादितिभावः || न च तत् सत्ता निश्चयरूपत्वाभावान्नाज्ञाननिवर्तकमिति वाच्यं तथापि कृत श्रवणस्य
652 SK प्. ५६ब्) निर्विचिकित्सशाब्दज्ञानेन तन्निवृत्यामननादि वैयर्थ्यापतिरिति चेन्न सत्यपि श्रवणान्निर्विचिकित्सज्ञाने चितविक्षेपदोषेण प्रतिबंधात् | अज्ञानानिवृत्यातन्निराकरे मनननिदिध्यासननियमविध्यर्थानुष्टानस्यार्थवत्वात् | भवांतरीयमननाद्यनुष्ठाननिरस्तचितविक्षेपस्योपदेशमात्रात् ब्रह्मापरोक्ष्यस्येष्यमाणत्वाच्चेत्याहु | अथैवमपि कृतनिदिध्यासनस्य वेदांतजन्यब्रह्मब्रह्मानेनेव घटादिज्ञानेनापि ब्रह्माज्ञाननिवृतिः किं न स्यात् | न च तस्य ब्रह्माविषयत्वान्न ततो ब्रह्माज्ञाननिवृतिरिति वाच्यं | घटः सन्नित्यादिबुद्धिवृतेः सद्रूपब्रह्मविषयत्वोपगमात् | न च तत्र घटाद्याकारवृत्या तदज्ञाननिवृतौ स्वतः स्फुरणादेव तदवछिन्नचैतन्यं सदिति प्रकाशतेन तस्य घटाद्याकारवृतिविषयत्वमितिवाच्यं | तदभावे घटविषयं ज्ञानं तदवछिन्नचैतन्यविषयमज्ञानमिति भिन्नविषयेण ज्ञानेन तन्निवृतेरयोगात् | जडे आवरणकृत्याभावेन घटस्याज्ञाना प्. ५७अ) विषयत्वात् | न च घटादिवृतेस्तदवछिन्नचैतन्यविषयत्वेप्यखंडानंदाकारत्वा भावान्न ततो मूलाज्ञाननिवृतिरिति वाच्यं || सता निश्चयरूपत्वमपि निवर्तक ज्ञानविशेषणमतो नोक्ताति प्रसंग इति शंकते | न च तदिति | विचारप्राचीनमध्ययन गृहीत वेदांतजन्यज्ञानं तच्छब्दार्थः | विशेषणमभ्युपगम्याप्यति प्रसंगमाह | तथापीति | अप्रतिबद्धत्वमपि निवर्तक ज्ञानविशेषणमतो नोक्ताति प्रसंगोपीति समाधते | न सत्यपीति | ननु मननादेर्विक्षेप शब्दिता संभावनाविपरीतभावना निवृत्यर्थत्वे यस्य विद्याधिकारिणो जन्मांतरीय मननादि सहित श्रवणानुष्ठानेन समस्ती विक्षेप दोषो निरस्तः तस्योपदेशमात्रेणापि सता निश्चयरूपमप्रतिबद्धं च ब्रह्मज्ञानं जायते | तथा च तस्येह जन्मनि श्रवणमननाद्यनुष्ठानं विनापि मूलाज्ञाननिवृतिः ब्रह्मापरोक्ष्यं च स्यादित्यत आह | भवांतरीयेति |
653 SK तथा चेष्टापतिरितिभावः | अथैवमपीति | विक्षेपदोषनिवृत्यर्थमननाद्यपेक्षायामपीत्यर्थः | कृतनिदिद्ध्यासनस्याधिकारिणी घटादिध्यासनस्याधिकारिणो घटादिज्ञानेनापि मूलाज्ञननिवृतिः | किं न स्याद्घटादिवृतेरपि मूलाज्ञानविषयचैतन्यविष्यकत्वाविशेषादित्याक्षेपाभिप्रायः मूलाज्ञानघटज्ञानयोः समानविषयत्वमसिद्धमिति सिद्धांतितः शंकामनूद्यनिराकरोति | न च तस्येति | घटादिज्ञानस्येत्यर्थः | तत प्. ५७ब्) इति घटादिज्ञानादित्यर्थः | घटः सन्नित्याद्याकारायावृतेः ब्रह्मचैतन्यविषयकत्वाभ्युपगमो असिद्ध इति सिद्धांती शंकते | न च तत्रेति | तत्रेत्यादितछब्दत्रये घटादिपरं तस्येति ब्रह्मण इत्यर्थः | घटाद्यवछिन्नचैतन्यस्य घटादिवृतिविषयत्वं पूर्ववादी साधयति | तदभाव इत्यादिना | चैतन्यस्य घटादिवृतिविषयत्वा भावे सतीत्यर्थः | ननु यदि घटमात्रविषयकज्ञानेन घटावछिन्नचैतन्यविषयकाज्ञाननिवृतिर्न संभवति तयोः समानविषयकत्वाभावात् | तर्हि घटज्ञानेन सहाज्ञानस्य समानविषयकत्वसंपतये अज्ञानमपि घटादिजडमात्रविषय मे वास्तु नेत्याह पूर्ववादी | जड इति | जडस्य जडत्वादेवप्रमाणानवतारदशायामप्रकाशोपपत्या जडस्याप्रकाशार्यामावरणकल्पनायोगादित्यर्थः | कृत्यं फलं तथा च वेदांतजन्य ज्ञानवत् घटादिज्ञानस्यापि ब्रह्मचैतन्यविषयकत्वावश्यंभावेन मूलाज्ञानसमानविषयकत्वा तेनापि तन्निवृतिप्रसंग इति स्थितं | तत्र सिद्धांती शंकते न चेति || वेदांतजन्यसाक्षात्कारेपि तदभावात् | न हि तत्राखंडत्वमानंदत्वं वा कश्चिदस्तिप्रकारः वेदांतानां संसर्गागोचरप्रमाननकत्वलक्षणाखंडार्थत्वहानापतेः | न च वेदांतजन्यज्ञानादेव तन्निवृतिनियम इति वाच्यं | कॢप्ता
654 SK प्. ५८अ) ज्ञाननिवर्तकत्व प्रयोजकरूपस्य ज्ञानांतरेपि सद्भावे तथा नियंतुमशक्यत्वात् | न च घटाद्याकारवृतिविषयस्यावछिन्नचैतन्यस्य कल्पितत्वेन यन्मूलाज्ञानविषयभूतं सत्यमनवछिन्नं चैतन्यं तद्विषयत्वाभावाद्घटादि वृतीनां निवर्त्यत्वाभिमता ज्ञानसमानविषयत्वलक्षणं कॢप्त प्रयोजकमेव नास्तीति वाच्यं | तत्रावछेदकांशस्य कल्पितत्वेप्यवछेद्यांशस्याकल्पितमूलाज्ञानविषयचैतन्यरूपत्वात् | तस्य कल्पितत्वे घटवज्जडतयाऽवस्थाज्ञानं प्रत्यपि विषयत्वायोगेनावस्थाज्ञानविषयाकल्पितचैतन्यविषयत्वस्य वक्तव्यतया तन्निवर्तक घटादिज्ञानस्यापि तद्विषयत्वावश्यंभवेन तत्पक्षेपि ततो मूलाज्ञाननिवृतिप्रसंगस्यापरिहरात् || तर्हि वेदांतजन्यज्ञानमपि ब्रह्माज्ञानविवर्तकं न स्यादिति पूर्ववादी दूषधाति | वेदांतजन्येति | अखंडत्व मनवछिन्नत्वं वेदांतजन्यज्ञानस्याखंडत्वादि धर्मवैशिष्ट्यावगाहित्वोपगमे बाधकमाह | वेदांनामिति मूलाज्ञाननिवर्तकत्वानस्य वेदांतजन्यत्वमपि विशेषणं विवक्षितमतो प्. ५८ब्) घटादिज्ञानेनाति प्रसंग इत्याशयवती माशंकामनूद्यदूषयति | पूर्ववादी | न च वेदांतेत्यादिना | वेदांतजन्यज्ञानकॢप्तस्य मूलाज्ञाननिवर्तकत्व प्रयोजक रूपस्य मूलाज्ञानसमानविषयकत्व सता निश्चयरूपत्वा प्रतिबद्धत्वलक्षणस्य निदिध्यासनपरिपाककाले चक्षुरादिजन्यघटादिज्ञानेपि सत्वे सति वेदांतजन्यज्ञानादेवमूलाज्ञाननिवृतिः | न तु घटादिज्ञानादिति नियंतुमयुक्तत्वात् | वेदांतजन्यत्वस्यापि सता निश्चयरूपत्वादेरिव प्रयोजक विशेषणत्वे गौरवान्मानाभावाच्चेतिभावः | तर्हि वेदांतजन्यज्ञाने कॢप्तं यत्प्रयोजकं तदेव घटादिज्ञाने नास्तीति शंकते | न च घटाद्याकारेति |
655 SK अवछिन्नत्वं कल्पितत्वे हेतुः | अनवछिन्नत्वं सत्यत्वे हेतुः घटादिवृर्तानां कल्पितचैतन्यविषयकत्वेन सत्य ब्रह्मविषयकत्वाभावादित्यर्थः | घटाद्यवछिन्नचैतन्यं क कल्पितमित्यत्र चैतन्यांशस्याकल्पितत्वं कल्पितत्वं वा विवक्षितं नाद्य इत्याह | तत्रेति | अवछिन्नचैतन्य इत्यर्थः | अवछेद्यचैतन्यांशस्य घटादिवृतिविषयस्याकल्पितं यन्मूलाज्ञानविषयब्रह्मचैतन्यं तद्रूपत्वादित्यर्थः | तथा च घटाद्यवछिन्नचैतन्यगोचरवृतेरपि निवर्त्यत्वाभिमतमूलाज्ञान समानविषयकत्वरूपं वेदांतजन्यज्ञाने कॢप्तं प्रयोजकमस्तीतिभावः | द्वितीय कल्पेपि घटादिवृतौ कॢप्त प्रयोजकमस्तीति दर्शयन् | तं कल्पं दूषयति | तस्य कल्पितत्व इति | अवछेद्यचैतन्यांशस्येत्यर्थः | वक्तव्य तयेति अवछेद्यचैतन्यांशस्य कल्पितत्वपक्षे तस्य जडत्वापत्या प्. ५९अ) जडस्य तस्याज्ञानविषयत्वासंभवादवस्थाज्ञानं प्रतिमूलाज्ञानविषय ब्रह्मचैतन्यमेव विषय इति वक्तव्यं निर्विषयाज्ञानासंभवात् | तथा च ब्रह्मचैतन्यविषयकावस्थाज्ञाननिवर्तकत्वाय घटादिवृती नामपि मूलाज्ञानविषयब्रह्मचैतन्यविषयकत्वमपरिहार्यं घटादि वृतीनां सत्यब्रह्मविषयकत्वाभावे अव आज्ञानेन सहसमानविषयकत्वाभावातासामवस्थाज्ञाननिवर्तकत्वं न स्यादित्यर्थः | तन्निवर्तकेति | अवस्थाज्ञानं तच्छब्दार्थः तद्विषयत्वेति मूलाज्ञानविषयब्रह्मचैतन्यं तछब्दार्थः तत्पक्षेपीति अवछेद्यांशस्य कल्पितत्वमिति द्वितीय कल्पेपीत्यर्थः | तत इति घटादिज्ञानादित्यर्थः | अपरिहारादिति | घटादिज्ञानस्यापि वेदांतजन्यज्ञानस्येव मूलाज्ञानसमानविषयकत्वादितिभावः ||
656 SK अत्राहुराचार्याः | न चैतन्यं चक्षुरादिजन्यवृतिविषयः न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनं परां विखानिव्यतृणत् स्वयंभूस्तस्मात्परा᳚न्पश्यति नांतरात्मन्नित्यादि श्रुत्या तस्य परमाण्वादि वच्चक्षुराद्ययोग्यत्वोपदेशादौपनिषदमिति विशेषणाच्च | न च सर्वप्रत्ययवेद्येवा ब्रह्मरूपे व्यवस्थित इत्यादि वार्तिक विरोधः | तस्य घटाघाकार वृत्युदये सत्यावरणाभि भवात् | स्वप्नभं प्. ५९ब्) सद्रूपं ब्रह्मघटः सन्निति घटवद्व्यवहार्यं भवतीत्यौपचारिक घटादि वृति वेद्यत्व परत्वात् | आवरणांभिभावकत्वं च घटादिज्ञानस्य घटादिविषयत्वादेवोपपन्नं घटादेरप्यज्ञानविषयत्वात् | घटं न जानामि घटज्ञानेन घटाज्ञानं नष्टमित्यवस्थाज्ञानानां घटादिविषयत्वानुभवात् | न च तत्रावरण कृत्याभावादज्ञानांगीकारो न युक्तः | तद्भासकस्य तदवछिन्नचैतन्यस्यावरणादेव तदप्रकाशोपपतेरिति वाच्यं || अत्राहुरिति | घटादिज्ञानमपि मूलाज्ञाननिवर्तकं स्याच्चैतन्यविषयकत्वाद्वेदांतजन्य ज्ञानवदिति चोद्ये हेत्व सिद्धिमाहरित्यर्थः | अस्यात्मनो रूपं संदृशे संदृशश्चक्षुषो योग्यत्वेन न तिष्ठति रूपादि हीनत्वात् | अतो न कश्चिदेनमात्मानं चक्षुषा पश्यति परांविपराग्विंषयाणिखानि इंद्रियाणि व्यतृणत् हिंसितवान् | ईश्वरः जडार्थ विषयत्वे नैवकरणानि सृष्टवानिति यावत् | तस्मात् तथा सृष्टत्वात्परा᳚न्परां चं सर्वलोक इंद्रियैरुपलभते | न अंतरात्मानं चैतन्य स्वभावमित्यर्थः | न चक्षुषा गृह्यत इत्यादि श्रुतिरादिपदार्थः | तस्येति चैतन्यस्येत्यर्थः | ननु यदींद्रिया योग्यत्वोपदेशाब्दपनिषदेक गम्यत्व श्रवणाच्च
657 SK प्. ६०अ) चैतन्यं घटादिवृतिविषयोनुभवमीत्युपेयते तर्हि वार्तिक विरोध इति शंकते | न च सर्वेति | यद्यद्वस्तु प्रतीयते तत्सर्वं सदित्येव प्रतीयते तथा चानुभव वलात्सद्रूपं ब्रह्मसर्वप्रत्यय वेद्यतया व्यवस्थितमित्यर्थः | चैतन्यस्य सर्वप्रत्यय वेद्यत्वं गौणमेव वार्तिककाराणामभिमतं न घटादिवन्मुख्यं उदाहृत श्रुतिविरोधात् | तथा च न वार्तिक विरोध इति समाधते | तस्येति वार्तिक वचनस्येत्यर्थः | यथा घटस्य घटगोचरवृत्यधीनव्यवहारविषयत्वं तथा घटाद्यधिष्ठानसद्रूपब्रह्मणोपि घटादिवृत्यधीन व्यवहारविषयत्वमस्तीत्यनेन गुणै न सद्रूपं ब्रह्मघटादि प्रत्यय वैद्यमिति वार्तिककारैरुच्यत इत्यर्थः | न चैवं परोक्षवृतिविषयेष्टावरणानुभिभवादुक्त गतिस्तत्र न संभवतीति वाच्यं | वार्तिके प्रत्यय पदस्यावरणाभिभावकवृति परत्वोपपतेरितिभावः | ननु घटादिवृतेर्घटाद्यवछिन्नचैतन्यविषयकत्वाभावे चैतन्यावरकाज्ञानाभिभावकत्वं न संभवति ज्ञानाज्ञानयोः समानविषयकत्वाभावादित्यत आह | आवरणाभिभावकत्वं चेति जडस्याप्यज्ञानविषयत्वमनुभवबलात् स्वीकार्यमित्याह | घटादेरपीति | अवस्था पदं मूलाज्ञानव्यवछेदाय तस्य ब्रह्मनुजानामीति ब्रह्ममात्रविषयकत्वानुभवात् | न जडविषयत्वमितिभावः | न च तत्रेति | जडवस्तुतीत्यर्थः | न युक्त इति अज्ञानाश्रयत्वं जडेन युक्तं तत्रावरणाभावत् | तदभावश्च फलाभावादित्यर्थः | घटं न जानामीत्यनुभवस्तु घट तदधिष्ठान चैतन्ययोस्तादात्म्याच्चैतन्यविषयकत्वेनाप्युपपद्यत प्. ६०ब्) इति भावः | ननु जडस्यावरणाभावे कथं तदप्रकाशः संभवति | न च तत्प्रकाशकचैतन्यसंसर्गाभावादेवाप्रकाशो न त्वावरण बलादिति वाच्यं | जडस्य स्वप्रकाश चैतन्ये अध्यस्ततया तस्य सदावभासकचैतन्यसंसर्गसत्वादतो जडस्याप्रकाश एव जडावरणफलमित्यत आह | तद्भासकस्येति | अत्र तच्छब्दत्रयं जडपरं ||
658 SK उक्त भंग्याजडस्य साक्षादज्ञानविषयत्व प्रतिक्षेपेपि जडावछिन्नचैतन्यप्रकाशस्याज्ञानेनावरणं ततो नित्यचैतन्यप्रकाशसंसर्गेपि जडस्य नास्ति न प्रकाशत इत्यादि व्यवहारयोग्यत्वमिति परंपरयाऽज्ञानविषयत्वाभ्युपगमात् | साक्षात्परंपरया वा यदज्ञानावरणीयं तद्विषयस्यैव ज्ञानस्य तदज्ञाननिवर्तकत्व प्रयोजक शरीरे निवेशात् | न चैवं घटादीनामुक्तरीत्यामूलाज्ञानविषयत्वमपि स्यादिति घटादिसाक्षात्कारादेव मूलाज्ञाननिवृत्यापातः फलबलातदज्ञानकार्यातिरिक्त तद्विषय विषयकत्वस्यैव तन्निवर्तकत्वे तंत्रत्वात् || उक्त भंग्येति | तत्रावरणकृत्याभावादज्ञानांगीकारो न
659 SK प्. ६१अ) युक्त इति वाक्येन जडे साक्षादज्ञानाश्रयत्वस्य साक्षादज्ञानविषयत्वस्य च प्रतिक्षेपेपीत्यर्थः | ननु तद्वाक्यस्य जडे साक्षादज्ञानविषयत्व प्रतिक्षेपपरत्वं किमिति कल्पते साक्षात्परंपरा साधारणाज्ञानविषयत्व मात्रप्रतिक्षेपपरत्वं संभवादित्याशंक्य तथा सति तद्भासकस्य तदवछिन्नचैतन्यस्यावरणादेव तदप्रकाशोपपतेरित्युतर वाक्येन जडेपि परंपरयाज्ञानविषयत्वाभ्युपगमविरोधप्रसंगादित्याशयेनाह | जडावछिन्नेत्यादिना शंका ग्रंथे तदप्रकाशोपपतेरित्यनेनांशेन जडे अस्ति | प्रकाशते प्रियं चेत्येवमात्मकव्यवहारायोग्यत्वलक्षणमावरणमभ्युपगतं चैतन्यस्यावरणादेवेत्यनेनांशेन जडावरणस्य कारणत्वेन चैतन्यावरणमभ्युपगतमिति प्रतिपादयति | अज्ञानेनेति तत इति चैतन्यावरणादित्यर्थः | चैतन्यस्य स्वप्रकाशतया तस्य यथा सदा प्रसक्तप्रकाशत्वमावरणकल्पकमस्ति तथा जडस्यापि सदा चैतन्यप्रकाशसंसृष्टतया सदा प्रसक्तप्रकाशत्वमावरणकल्पकं तुल्यमिति सूचयति | नित्यचैतन्यप्रकाशसंसर्गेपीति | इति शब्दः प्रकारवचनः ननूक्तरीत्यावछिन्नचैतन्यनिष्ठमवस्थाज्ञानं जड तदवछिन्नचैतन्ययोरुभयोरप्यावरकमिति लभ्यते | तथा च घटादिज्ञानस्य जडमात्रविषयकत्व स्वीकारेण तस्याज्ञानेन सह सर्वाशे समानविषयकत्वाभावादज्ञाननिवर्तकत्वं न स्यादित्यत आह | साक्षादिति | ज्ञानस्याज्ञानसमानविषयकत्वमात्रं विरोधप्रयोजक शरीरे
660 SK प्. ६१अ) प्रविष्टं न तु सर्वांशेषि समानविषयकत्वं गौरवादितिभावः | न चैवमिति | ज्ञानाज्ञानयोः सर्वांशे समानविषकत्वानादर इत्यर्थः | उक्तरीत्येति | अवछिन्नचैतन्यस्य स्वरूपेण सत्यतया ब्रह्मस्वरूपस्यावस्थाज्ञानविषयत्ववत् मूलाज्ञानविषयत्वमप्यस्ति | तथा चावस्थाज्ञानकृतचैतन्यावरणबलाज्जडस्यापि परंपरयावस्थाज्ञानविषयत्वमित्युक्तरीत्या मूलाज्ञानकृतचैतन्यावरणबलात् | मूलाज्ञानविषयत्वमपि जडस्य घटादेरपरिहार्यं स्यादित्यर्थः | ततः किं तत्राह | घटादीति | यथा अवस्थापरं ज्ञानं प्रतिपरयाविषयभूत जडसाक्षात्कारादेवावछिन्न चैतन्यनिष्ठावस्थाज्ञानस्य निवृतिस्तथा मूलाज्ञानप्रत्यपि परंपरयाविषयभूत जडसाक्षात्कारादेव मूलाज्ञानस्यापि निवृत्यापात इत्यर्थः | मूलाज्ञाननिवृत्यापातो न चेत्यत्र हेतुमाह | फलबलादित्यादिना | घटादिसाक्षात्कारे सत्यपि मूलाज्ञानानुवृतिरूपफलबलादित्यर्थः | मूलाज्ञान तत्कार्यातिरिक्तो यो मूलाज्ञानविषयश्चिन्मात्रं तद्विषयकत्वख्यैवज्ञाने मूलाज्ञाननिवर्तकत्वे तंत्रत्व कल्पनात् | घटादिसाक्षात्कारे च तदभावान्न मूलाज्ञाननिवर्तकत्वापात इत्यर्थः || अथ वा मूलाज्ञानस्यैव जडं न विषयः अवस्था ज्ञानानां त्ववछिन्नचैतन्याश्रितानां तत जडमेव विषयः अन्यथा चाक्षुषवृत्याचंदनखंडे चैतन्याभिव्यक्तौ तत्संसर्गिणो गंधस्यापरोक्ष्यापतेः |
661 SK प्. ६२/६३अ) तदनभिव्यक्तौ चंदन तद्रूपयोरप्यप्रकाशापतेः | न च चाक्षुष वृत्याचंदन तद्रूपावछिन्न चैतन्ययोरभिव्यक्त्यातयोः प्रकाशः गंधाकारवृत्यभावेन गंधावछिन्नचैतन्यस्यानभिव्यक्त्या तस्यानभिव्यक्त्या तस्याप्रकाशश्चेति वाच्यं | चैतन्यस्य द्विगुणीकृत्यवृत्यभावेनैक द्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथक् पृथक् गगनावछेदकत्वस्येव चैतन्यावछेदकत्व स्याप्यसंभवा तेषां स्वाश्रय द्रव्यावछिन्नचैतन्येनैव शुक्तीदमंशावछिन्नचैतन्येन शुक्तिरजतवत्प्रकाश्यतया तस्याभिव्यक्तौ गंधस्यापि प्रकाशस्याऽनभिव्यक्तौ रूपादेरप्यप्रकाशस्या चापतेः | न च गंधाकारवृत्युपरक्त एव चैतन्ये पंधः प्रकाशत इति नियमः || जडमात्रगोचरवृत्या कथमवछिन्नचैतन्यावरकाज्ञाननिवृतिर्भिन्नविषयत्वादिति शंकायामवस्थाज्ञानमवछिन्नचैतन्यावरणद्वारा जडमप्यावृणोति अतो जडमात्रगोचरयापि वृत्या अवस्थाज्ञान निवृतिः संभवतीति प्रतिपादितमिदानीं तस्यामेव शंकायां प्रकारांतरेण समाधानं दर्शयति | अथवेति | अथवा अवस्थाज्ञानानां ततज्जडमेव विषय इति संबंधः | घटं न जानामीत्यादि पूर्वोक्तानुभवादेवेति प्. ६२/६३ब्) भावः | तर्ह्यवस्थाज्ञानानामाश्रयोपि तत्तज्जडमेवस्या तथा चाप सिद्धात इत्यत आह | अवछिन्नचैतन्याश्रितानामिति | ननु जडस्याज्ञानविषयत्वोपगमे जडमज्ञानस्य विषयो न भवतीति सिद्धांतस्य का गतिरित्यत आह | मूलाज्ञानस्यैवेति | जडस्याज्ञानाविषयत्व सिद्धांतो मूलाज्ञानमात्रविषय इति भावः | अन्यथेति | जडस्यानावृतत्वे इत्यर्थः | चंदनखंडगोचर चाक्षुष वृत्या तदवछिन्नचैतन्यमभिव्यज्यतेन वा आद्ये दोषमाह | तत्संसर्गिण इति | चंदननिष्ठगंधस्यापि चंदनस्येवापरोक्ष्यापतिरभिव्यक्ति चैतन्यसंसर्गित्वस्योभयत्राविशेषात् | जडस्यावृतत्वपक्षे तु नायं दोषः | चाक्षुषवृत्यागंधावरणानिवृतेरित्यर्थः | द्वितीये दोषमाह | तदनभिव्यक्ता इति | अप्रकाशापतेरिति |
662 SK चंदनुगोचर चाक्षुषवृतिकाले चंदनदद्रूपप्रकाशाभावो निष्ठ इति भावः | चंदनखंडन घटपटादि द्रव्याणामिवैक द्रव्यवृतिगुणानामपि चैतन्यावछेदकत्वमस्तीत्यभिप्रेत्याशंकते | न चेति | एकत्रद्रव्ये रूपरसगंधादिभेदेन चैतन्यभेदो नास्ति मानाभावादित्याह | चैतन्यस्येति चैतन्यस्य निरवयवतया द्रव्ये द्रव्यावछेदेनैकागुणावछेदेनापरावृतिर्न संभवतीत्यर्थः | यद्येक द्रव्ये प्रदेशभेदेन गंधादयः स्युः तदा तत्र दव्ये गंधादिभेदेन चैतन्यभेदशंकापि स्यात् | न त्वेतदस्ति गंधादीनां व्याप्यवृतित्वानुभवादित्याशयेनाह | व्याप्येति | यथा घटादिद्रव्याणां गगनभेदकत्वमस्ति तथा गंधादीनां गगनभेदकत्वं नास्ति गंधादिभेदेन गगनभेदा ननु प्. ६४अ) भवादितिभावः | गंधादिभेदेन चैतन्यभेदाभावे सिद्धे चंदनचैतन्याभिव्यक्त्यनभिव्यक्तिकृतौ पूर्वोक्त दोषौ दुष्परिहरावित्याह | तेषामिति | शुक्तीति यथा शुक्तीदमंशावछिन्नचैतन्ये रजतस्याध्यासात् रजतं शुक्तीदमंश चैतन्येवावभास्यं नत्विदमंशावछिन्नचैतन्यापेक्षया पृथग्भूतेन स्वावछिन्नचैतन्येनावभास्यं तथा द्रव्यावछिन्नचैतन्ये कल्पितारूपादयोपि द्रव्यावछिन्नचैतन्येनैव प्रकाश्या इत्यर्थः | ननु चंदनगंधस्याभिव्यक्तचैतन्यप्रकाशसंसृष्टस्यापि गंधगोचरवृत्यभावादेवापरोक्ष्याभाव इति शंकामनूद्यनिराकरोति | न च गंधाकारेति || प्रकाशसंसर्गस्यैव प्रकाशमानशब्दार्थत्वेनासत्यामपि तदाकारवृतावनावृत प्रकाशसंसर्गेऽप्रकाशमानत्वकल्पनस्य विरुद्धत्वात् | अभिव्यक्तस्य च गंधोपादानचैतन्यस्य गंधासंसर्गोक्त्य संभवात् | तस्माद्यथा चैत्रस्य घटवतौ तं प्रत्यावरकस्यैवाज्ञानस्य निवृतिरिति तस्यैव विषयप्रकाशो नान्यस्य तथा तत्तद्विषयाकारवृत्यात तदवरकाज्ञानस्यैव निवृतेर्न विषयांतरस्यापरोक्ष्यमनावृत्तार्थस्यैव संविदभेदापरोक्ष्यमित्युपगमादिति प्रमातृभेदेनवविषयभेदेनाप्येकत्र
663 SK प्. ६४ब्) चैतन्येवस्थाज्ञानभेदस्य वक्तव्यतयावस्थाज्ञानानां तत्तज्जडविषयकत्वमिति घटादिवृतीनां नावस्थाज्ञाननिवर्तकत्वे काचिदनुपपतिर्न वा मूलाज्ञाननिवर्तकत्वापतिः || नियमो न चेत्यत्र हेतुमाह | प्रकाशसंसर्गस्यैवेति | न तु वृत्युपहितानावृतप्रकाशसंसर्गस्य प्रकाशमानशब्दार्थत्वं सुखादिगोचरवृत्यनुयद्रित साक्षिप्रकाशसंयसर्गिणि सुखादौ प्रकाशमान शब्दार्थत्वाभावप्रसंगादित्यर्थः | गंधस्याभिव्यक्तचैतन्य संसर्ग एव नास्तीत्याशंक्याह | अभिव्यक्तस्य चेति चकारस्यासंभवादित्यनेन संबंधः उपादान पदमधिष्ठान परं | असंभवादिति | तथा च जडस्यानावृतत्वपक्षे चंदनचैतन्याभिव्यक्तिदशायां गंधस्याप्यापरोक्ष्यापतिरपरिहार्येति भावः | जडस्यावृतत्वपक्षे तु नोक्तदोषप्रसक्तिरित्याह | तस्मादिति | जडे आवरणस्य सिद्धत्वादित्यर्थः | ननु जडस्यावृतत्वपक्षेपि चंदनगोचरचाक्षुष वृत्यैव गंधावरणस्यापि निवृतिः स्यात् | गुणगुणिनोस्तादात्म्यात् | तथा च चंदनापरोक्ष्यदशायां तद्गंधां परोक्ष्यदोषोऽत्रापि तुल्य इति शंकां दृष्टांतेन परिहरति | यथेति | नान्यं प्रत्यावरकाज्ञानस्यापि निवृतिरित्येवकारार्थः | तस्यैवेति | चैत्रस्यैव घटप्रकाशो नान्यस्य मैत्रादेरित्यर्थः | तथेति गुणगुणिनोस्तादात्म्येपि भेदस्यापि सत्वात् न चंदनगोचरवृत्यागंधादेरापरोक्ष्यप्रसक्तिरित्यर्थः |
664 SK प्. ६५अ) ननु चंदन संविदभिन्नस्य गंधस्यावृतस्यापि कथं नापरोक्ष्यमित्याशंक्यानावृत् सुखादावेव संविदभेदस्यापरोक्ष्य प्रयोजकत्वदर्शनान्मैवमित्याह | अनावृतार्थस्यैवेति | नन्वेकत्रचंदनावछिन्नचैतन्ये अवस्था ज्ञानस्य चैत्रं प्रतिचंदनावरकस्यैकत्वा तस्य च चंदनगोचरवृत्यानिवृतत्वाच्चंदनवृतिकाले गंधस्यावरणमयुक्तमित्याशंकां निराकरोति इति प्रमातृभेदनेवेति | यथा प्रमातृविषये चैत्रमैत्रादिभेदेनाज्ञानमनेकमस्ति तथा एकत्रापि चंदनावछिन्नचैतन्ये गंधादिविषयभेदेनाप्यज्ञानमनेकमस्तीति वक्तव्यं चंदनापरोक्ष्यदशायां गंधापरोक्ष्यादर्शनादेवेत्ययं हेतुः प्रकृतपरामर्शिनेति पदेन समर्प्यते | तथा च चंदनापरोक्ष्यकाले गंधादेरावरणसंभवात्नोक्तदोष इति भावः | जडविषयकत्वमितीति | जडविषयकत्वादित्यर्थः | न काचिदनुपपतिरिति | घटादिवृतीनां चैतन्यविषयकत्वाभावे ज्ञानाज्ञानयोः समानविषयकत्वरूपं विरोधप्रयोजकं न भवति | तासां जडमात्रगोचरत्वादज्ञानस्य च चैतन्यमात्रविषयकत्वादिति पूर्वोक्तानुपपतिर्नास्ति स्वस्थाज्ञानस्यापि जडमात्रविषयकत्वाभ्युपगमात् | तथा जडस्यावरणाभ्युपगमेपसिद्धांतापति रूपानुपपतिरपि नास्ति जडावरणानभ्युपगमस्य मूलाज्ञानविषयत्वात् | तथा च ततज्जडावरकाज्ञान नानात्वाभ्युपगमे तदेकत्व सिद्धांतविरोधरूपानुपपतिरपि नास्ति तदेकत्वाभ्युपगमस्यापि मूलाज्ञनविषयत्वात् | जडावरकाज्ञानानां प्. ६५ब्) चावस्थारूपत्वादित्यादिकमभिप्रेत्य न काचिदनुपपतिरित्युक्तं | परमप्रकृतमाह | न चेति | घटादिवृतीनामपि मूलाज्ञाननिवर्तकत्वापतिरिति यत्पूर्ववादिनश्चोद्यमादौ प्रकृतं तन्नास्त्येव घटादिवृतीनां मूलाज्ञानविषयचैतन्यविषयकत्वानभ्युपगमादित्यर्थः ||
665 SK न चैवमपि जीवविषयाया अहमाकारवृतेर्मूलाज्ञाननिवर्तकत्वापतिस्तस्याः स्वयं प्रकाशमानचित्संवलिताऽचिदंशमात्रविषयत्वात् | सोहमिति प्रतिभिज्ञाया अपि स्वयं प्रकाशचैतन्येतःकरणवैशिष्ट्येन सह पूर्वापरकालवैशिष्ट्यमात्रविषयत्वेन चैतन्यविषयत्वाभावादिति | केचित्तु घटादिवृतीनां ततदवछिन्नचैतन्यविषयत्वमभ्युपगम्य सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् | श्रोतव्येति वचः प्राहवेदांतावरुरुत्सयेति वार्तिकोक्तेः श्रोतव्यवाक्यार्थवेदांतनियमविध्यनुसारेण वेदांतजन्यमेव नियमादृष्ट सहितं ब्रह्मज्ञानमप्रतिबद्धं ब्रह्मज्ञाननिवर्तकमिति न घटादिज्ञाना तन्निवृतिप्रसंग इत्याहुः | अन्ये तु तत्वमस्यादिवाक्यजन्यं जीव ब्रह्मा प्. ६६अ) भेदगोचरमेव ज्ञान मूलाज्ञाननिवर्तकं मूलाज्ञानस्य तदभेदगोचरत्वादिति न चैतन्य स्वरूपमात्रगोचराद्घटादि ज्ञाना तन्निवृति प्रसंगः || न चैवमपीति घटादिवृतीनां चैतन्यविषयकत्वाभावेप्यहमर्थरूप जीवस्य विदचित्संबलितरूपतया अहं वृतेः चैतन्य विषयकत्वावश्यंभावादित्यर्थः | तस्या इति स्वप्रकाशतया स्वयमेव प्रकाशमानायां चिति संबलितः चितादात्म्येनाध्यस्तो यो यमचिदंशः तन्मात्रविषयकत्वादहमाकारवृतेर्न चैतन्यविषयकत्वमौपनिषदत्व श्रुतिविरोधादेवेत्यर्थः | ननु योहं स्वप्ने श्रीकृष्णमन्वभूवं सोहं जागरे तं स्मरामीत्यादि प्रत्यभिज्ञायाश्चैतन्यविषयकत्वमावश्यकमन्यथा तया चिदात्मनः स्थायित्वं संघातव्यतिरिक्तत्वं च न सिध्येदित्यत आह | सोहमिति |
666 SK प्रत्यभिज्ञापि स्वयमेव प्रकाशमाने चैतन्ये अहमित्यंतःकरण तादात्म्यमिवततादिवैशिष्ट्यमपि विषयी करोति | न तु स्वप्रकाशचैतन्यमस्मिन्मते चिदात्मनः स्थापित्वादेः श्रुतिवलादेव सिद्धेः न प्रत्यभिज्ञाया इति बोध्यं घटादिवृतीनामपि चतन्यंविषयकत्वाविशेषाद्वेदांतजन्य ज्ञानवन्मूलाज्ञाननिवर्तकत्वापतिरिति चोद्ये हेतोरेवासत्वात् नोक्ताति प्रसंग इति समाधानमुक्तमिदानीं तासां चैतन्यविषयकत्वाभ्युपगमेपि नोक्ताति प्रसंग इत्याह | केचित्विति | अभ्युपगम्येति | न चैवमभ्युपगमे चैतन्यस्य चक्षुरादिविषयत्वनिषेधश्रुतिनां बाधः स्यादिति वाच्यं तासां निरुपाधिक प्. ६६ब्) चैतन्यविषयत्वाभ्युपगमेनावछिन्नचैतन्यस्य चक्षुरादिवृतिविषयत्वे तद्विरोधाभावादिति भावः | अत एव ब्रह्मचैतन्यस्य सर्वप्रत्यय वेद्यत्वप्रतिपादकं पूर्वोदाहृत वार्तिकवचनमपि संगछते | अज्ञातज्ञापकत्वं हि प्रामाण्यं अज्ञातं च वस्तुचैतन्यमेव तस्यैव स्वप्रकाशतया सदाप्रसक्तप्रकाशस्याज्ञानविषयत्वकल्पनौचित्यात् | अवभासकचैतन्यस्यावरणे सति जडानवभाससंभवेन तस्य पृथगावरणकल्पनायोगादज्ञानस्य चैतन्याश्रितत्वनियमेन तस्य तमस इव स्वाश्रयादन्यत्रावरण हेतुत्वानुपपतेश्च तथा च प्रत्यक्षादीनामपि प्रामाण्यसिद्धये घटाद्यवछिन्नचैतन्यविषयकत्वमेव स्वीकर्तव्यं न तु जडमात्रविषयकत्वमेवं सर्वेषामेव मानानां फलशब्दित चैतन्यविषयकत्वादमृतत्वसाधने ब्रह्मदर्शने सर्वेषां मानानांकारणत्वप्रसक्तौ वेदांतानामेवावरोधे छयानियमनेछया श्रोतव्येति वचःवेदांतानामेव विचारः कर्तव्य इत्यमुमर्थं प्राहेति वार्तिकार्थः घटादिवृतीनां तु चैतन्यविषयकत्वेपि वेदांतजन्यत्वाभावेन श्रोतव्यविधिसिद्धनियमादृष्टसाहित्याभावान्न मूलाज्ञाननिवर्तक प्रसंग इति भावः | अप्रतिवद्धमिति |
667 SK नियमादृष्टेन प्रतिबंधक दुरितस्य क्षीणत्वादिति भावः | तत्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनमिति नारदवचन दर्शनात् | तत्वमस्यादि वाक्योत्थं यज्जीवपरमात्मनोः तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनमिति भगवत्पादीयवचनदर्शनाच्च मूलाज्ञानस्य जीवब्रह्माभेदावरकत्वाच्च जीव ब्रह्मणोरैक्यलक्षण तादात्म्यविषयकं यद्ज्ञानमिदमेव प्. ६७अ) मुक्तिसाधनमत्वो नोक्ताति प्रसंग इति समाधानांतरं दर्शयति | अन्ये त्विति | इतीति वाक्यजन्याभेदज्ञानमेवाज्ञाननिवर्तकमिति स्थिते तदभेदागोचरात् घटादिज्ञानात्न मूलाज्ञाननिवृति प्रसंग इत्यर्थः || न चाभेदस्य तत्वावेदकप्रमाणबोध्यस्य चैतन्यातिरेके द्वैतापतेश्चैतन्यमात्रमभेद इति तद्गोचरघटादिज्ञानमप्यभेदगोचरमिति वाच्यं | न ह्यभेदज्ञानमितिविषयतो विशेषं ब्रूमः किंतु || न चेति | जीवब्रह्माभेदः चैतन्यापेक्षयातिरिक्त इति वक्तुं न शक्यते तथा सति वेदांत तात्पर्यगोचरस्याभेदस्य सत्यत्वावश्यंभावेन चैतन्यस्याद्वितीयत्वहानापतेर्वेदांत तात्पर्यविषयस्याभेदस्यासत्यत्वे वेदांतानां तत्वावेदकत्वलक्षणस्य प्रामाण्यस्य सिद्धांत संमतस्य भंगापतेरित्यर्थः | अत्र तत्पदं परमार्थ वस्तुपरं नहीति | घटादिज्ञाने चैतन्यविषयकेपि जीवब्रह्माभेदो न विषयः महावाक्यार्थज्ञाने तु तयोरभेदो विषय इत्येवं घटादिज्ञानापेक्षया महावाक्यजन्य ज्ञानस्य विषयतो विशेषं न ब्रूमः | यं नोक्तदोष तादवस्थ्यं स्यादित्यर्थः | न त्विदं रजतमिति भ्रमे यावानधिष्ठानाशोभासते तावदपेक्षया अधिकप्युक्तित्वादिविशेषविषयकस्य शुक्त्यादि ज्ञानस्य रजतादिभ्रमविरोधित्वं दृष्टं तथा च सन्घटः
668 SK प्. ६७ब्) स्फुरति घट इत्यादि भ्रमेषु यावदधिष्ठानभूतं चैतन्यं विषयः तावदपेक्षया अधिकाभेदविषयकत्वस्य वाक्यजन्य ज्ञानेऽनभ्युपगमे वाक्योत्थज्ञानस्य भ्रमनिवर्तकत्वमेव न स्यादतो विषयत्वो विशेषोभ्युपगंतव्य इति शंकते | किं त्विति भ्रमाधिकविषयाणामेव ज्ञानानां भ्रमनिवर्तकत्वमिति नियमो नास्ति भ्रमानधिकविषयाणामपि भ्रमनिवर्तकत्व दर्शनेन व्यभिचारात् | तथा हि वस्तुतो घोषाधारभूते गंगातीरे यस्य तटाकतीरत्व भ्रमैण तटाकतीरे घोष इति भ्रमोस्तितं प्रतिगंगायां घोष इति वाक्यप्रयोगे सति तस्माद्वाक्या तस्य पुरुषस्य गंगातीरे घोष इति बोधो जायते | तेन च बोधेन तस्य गंगातीरे तटाकतीरत्व भ्रमो निवर्ततेत च तत्र भ्रमविषयगंगातीरांशे भ्रमापेक्षया वाक्यजन्यबोधे कश्चिद्विशेषविषयो दृष्टः | न च तत्र वाक्यजन्य ज्ञाने तटाकतीर व्यावर्तकस्य गंगातीरत्व रूपविशेषस्य विषयत्वदर्शनाद्विशेषाविषयकत्वमसिद्धमिति वाच्यं | यत्र तीरत्व मात्रप्रकारक तात्पर्येण गंगायां घोष इति प्रयोगः | तथैव तस्य भ्रांतस्य तात्पर्य ग्रहश्च तत्र गंतातीरत्व प्रकारक बोधाभावेपि भ्रमनिवृतिदर्शनेन व्यभिचार ध्रौव्यात् | तथा येन केनचित् कपालेन तुषो एवापः कर्तव्य इति भ्रमवंतं पुरुषे प्रतिकपालत्वमात्रप्रकारक तात्पर्येण प्रयुक्ता तन्मात्र तात्पर्यवतया गृहीतात्पुरोडाशकपालेन तुषानु एवपतीति वाक्यात्कपालेन तुषोपवापः कर्तव्य इत्येव तस्य बोधो जायते तत्र कपालांशे कपालांतरव्यावर्तकविशेषाग्रहणेपि पुराडाशकपालातिरिक्तकपालेषु
669 SK प्. ६८अ) तुषोपवाधसाधनत्व भ्रमनिवृतिदर्शनेन तत्रापि व्यभिचारात् | तस्मात् तीरे घोष इति शाब्दबोधस्य गंगातीरत्वरूपविशेषविषयकत्वाभावेपि तद्धेतु पदार्थोपस्थितिकाले तीरस्य गंगासंबधित्वेन उपस्थिति सत्वा तदुपस्थिति महिम्नावस्तुगत्यागंगातीरविषकस्य भ्रमानधिकविषयस्यापि तस्य भ्रमनिवर्तकत्वमिति वक्तव्यं | तथा कपालेन तुषोपवापः कर्तव्य इति शाब्दबोधस्य स्वयं कपालांतरव्यावर्तक विशेषविषयत्वाभावेपि तादृशशाब्दबोध हेतुपदार्थोपस्थितिकाले कपालस्य पुरोडाश संबंधित्वेन उपस्थिति सत्वा तदुपस्थिति महिम्ना तस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वमिति वक्तव्यं तथा च ज्ञानस्य भ्रमविरोधित्वे सामग्रीविशेषप्रयोज्यत्वं प्रयोजकं न तु भ्रमाधिकविषयत्वं व्यभिचारात् || तत्वं पद वाच्यार्थधर्मिद्वयपरामर्शादिरूपकारणविशेषाधीनेन स्वरूपसंबंधविशेषेण चैतन्यविषयत्वमेव तदभेदज्ञानत्वं यथा हि विशेषणविशेष्य तत्संबंधगोचरत्वा विशेषेपि विशेषेपि विशिष्टज्ञानस्य विशेषणज्ञानादिकारणविशेषाधिन स्वरूपसंबंधविशेषेण तत्त्रितयगोचरत्वमेव समूहालंबन व्यावृतं विशिष्टज्ञानत्वं यथा वा स्थाणुत्वविरुद्धपुरुषत्व वा नित्याहार्यव्यावृतं संशयत्वं प्. ६८ब्) विषयत्वं विषयतो विशेषानिरूपणात् | तथा घटादावपि सोयं घट इत्यादिज्ञानस्य स्वरूपसंबंधविशेषेण घटादिविषयत्वमेव लघटशब्दादिजन्य ज्ञानव्यावृतं तदभेदज्ञानत्वमतिरिक्ताभेदानिरूपणात् ||
670 SK किं च महावाक्यजन्य ज्ञानस्य संसारमूलभ्रमविरोधित्वं श्रुतिस्मृतिविद्वदनुभवैः सिद्धं महावाक्यानां च चैतन्य स्वरूपमात्र बोधकत्वं द्वितीयपरिछेदे मुक्तिसाधन महावाक्यजन्य ज्ञानं प्रतिचैतन्यमात्ररूपविषयनियामक श्रुत्युदाहरणेनास्माभिः साधितं प्रपंचितं च निबंधनेष्वे तत् तथा च शुक्तिरजतादि स्थले भ्रमाधिकविषयक शुक्तिज्ञानादौ भ्रमविरोधिनि भ्रमाधिकविषयत्वस्येव दोषाभावादि घटितसामग्री विशेषाधीनत्व स्यापि दृष्टत्वेनाखंडार्थक वेदांतानुसारेण पूर्वोदाहृत व्यभिचारस्थलानुरोधेन च ज्ञानस्य भ्रमविरोधित्वे सामग्री विशेषाधीनत्वमेवानुगतं प्रयोजकं कल्पयितुं युक्तं न तु भ्रमाधिकविषयत्वमित्यभिप्रेत्यमहावाक्यार्थज्ञानस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वं संभवतीति समाधते | तत्वमिति तत्वं पदयोर्वाच्यार्थ भूतौ जीवेश्वरावेव धर्मिद्वयं तस्य तत्वं पदाभ्यां प्रथमं शक्त्यास्मृतिरूपः परामर्शस्तदनंतरं तत्वं पदसमानाधिकरण्य बलात् | जीव प्. ६९अ) ईश्वराभिन्न इति तयोर्विशेषणविशेष्यभावेनावगतिः | तदनंतरं च विशिष्टयोरैक्यं न संभवतीति विरोधप्रतीतिः | तदनंतरं च तत्वं पदाभ्यां वाच्यार्थरूपविशिष्टांतर्गतयोर्विशेष्यचैतन्यांशयोरभेद योग्ययोलंक्षणया प्रतीस्ततश्च विशेष्य द्वयाभेदगोचरशाब्दबोध इति क्रममभिप्रेत्य आदिपदं वाक्यजन्यज्ञानस्य स्वविषयचैतन्येन सह यः स्वरूपसंबंधविशेषः सामग्रीविशेषाधीनत्व प्रयुक्तस्तेन संबंधेन चैतन्यगोचरत्वं घटज्ञानादि व्यावृतं तदेव तस्याभेदज्ञानत्वं तद्बलादेव तस्य मूलाज्ञानमिथ्याज्ञानादि विरोधित्वमित्यर्थः | महावाक्यजन्य ज्ञानस्य घटादिज्ञाना पेक्षया चैतन्यांशे विषयतो विशेषाभावेपि सामग्री विशेषा देवघटादिज्ञानापेक्षया अभेदज्ञानत्वरूपे वैलक्षण्यै दृष्टांतमाह | यथाहीति | विशिष्टज्ञानस्येति |
671 SK दंडीपुरुष इति ज्ञानस्येत्यर्थः विशेषणविशेषण विशेष्ययोरसंसर्गाग्रह आदिपदार्थः समूहालंबनेति | दंडपुरुषसंयोगा इति ज्ञानं इत्यर्थः | तदुक्तं चिंतामणि क्र्ताकारणकृत इति विशिष्टज्ञानस्य समूहालंबनापेक्षया विशेषणज्ञानादिरूप कारणकृतो विशेष इति तदर्थः | स्थाणुत्वेति स्थाणुत्वविरुद्धपुरुषत्व वानिति निश्चयः संशयसमानविषयकोय आहार्यवृतिरूपः तद्व्यावृतमित्यर्थः विशेषदर्शनदशायामनाहार्यनिश्चया संभवादाहार्येत्युक्तं विषयत इति | विशिष्टज्ञाने स्थाणुः पुरुषोवेति संशये चेति शेषः | न केवलं तत्वमसि वाक्यजन्यज्ञानस्याभेदज्ञानत्वे इयं रीतिः सोयं प्. ६९ब्) घटः सोयं देवदत इत्यादिवाक्यजन ज्ञान्स्यापि केवल घटशब्ददेवदत शब्दादिजन्य ज्ञानव्यावृताभेद ज्ञानत्वेपीयंरीतिरनुसर्तव्येत्याह तथा घटादावपीति | अतिरिक्तेति | केवल घटशब्द देवदतशब्दादिजन्यज्ञानविषय घटस्वरूपापेक्षया सोयमित्यादिवाक्यगम्याभेदेस्यातिरिक्तत्वे मानाभावात् तथा च विषयतो विशेषाभावात् सोयं घट इत्यादावपि तत्वमसीत्यत्रेव सोयमिति पदद्वय वाच्यार्थरूपधर्मिद्वयपरामर्शादि रूपकारणविशेषाधीन स्वरूपसंबंधविशेषण घटादि स्वरूपविषयकत्वमेव घटाद्यभेदज्ञानत्वं नान्यदिति वक्तव्यमितिभावः || अभावसादृश्यादीनामधिकरण प्रतियोग्यादिभिः स्वरूपं संबंधयुक्तानामधिकरणेनाधाराधेय भावरूपस्वरूपसंबंधविशेषः प्रतियोगिना प्रतियोग्यनयोगिभावरूप इत्यादि प्रकारेण स्वरूपसंबंधेऽवांतरविशेषकल्पनवत् वृतीनां विषयेपि संयोग तादात्म्ययोरति प्रसक्त्याविषयैर्विषयविषयिभाव रूपस्वरूपसंबंधवतीनां विषयविशेषनिरूपणासंभवे | कॢप्त एव स्वरूपसंबंध अवांतरविशेषकल्पनेनाभेदज्ञानत्वादि परस्परवैलक्षण्य निर्वाहाच्च | प्. ७०अ) एवं च ब्रह्मज्ञानस्याभेदाख्य किंचित्संसर्गगोचरत्वानभ्युपगमान्न वेदांतानाम खेडार्थत्व हानिरपीत्याहुः ||
672 SK ननु केवल घटशब्दादिजन्यज्ञानस्यापि विषयेण स्वरूपसंबंध एव तथा च कथं स्वरूपसंबंधकृता अभेदज्ञानत्वादि व्यवस्था न च वृतिज्ञानानां विषयैः सह विषयविषयीभावप्रयोजक स्वरूपसंबंधानामविशेषेपि तेष्वेव विषय तद्ज्ञानस्वरूपात्म्क संबंधेषु सामग्री विशेषाधीनत्व प्रयुक्तं परस्य वैलक्षण्यकल्पनया व्यवस्थोपपादनं कर्तुं शक्यत इति वाच्यं | स्वरूपसंबंधेषु वैलक्षण्यस्य क्वाप्यदृष्टत्वेन तथा कल्पनानुपपतेरित्यत आह | अभाव सादृश्यादीनामिति | ननु वृतीनां विषयैः सह विषयविषयीभावः स्वरूपसंबंधकृत एव न भवति | किंतु संयोगादि कृतः तथा च तासां तैः सह स्वरूपसंबंधानामेवा सिद्धत्वात् | तेषु वैलक्षण्यात्मकविशेषकल्पनादूरापास्तेत्यत आह | संयोगेति | वृतिसंयोगस्य वृतिविषयत्वप्रयोजकत्वे चक्षुर्गोलकादेरपि घटादिवृतिसंयोगित्वेन तद्विषयत्वप्रसंगावृति तादातात्म्यस्य वृतिविषयत्वप्रयोजकत्वे वृत्यधिष्ठानतयोवृति तादात्म्यापन्नस्य घटाद्यवछिन्नचैतन्यस्य घटादिवृतिविषयत्वसंभवेपि घटादेर्वृति तादात्म्यरहितस्य तदविषयत्व प्रसंगा तद्वृतिपरिणाम्यतः करणस्य घटादिवृतिविषयत्वप्रसंगाच्च परिणाम
673 SK प्. ७०ब्) परिणामिनोस्तादात्म्यादित्यर्थः | ननु तत्वमस्यादिवाक्यजन्यज्ञानस्य विषयेण सह यः स्वरूपसंबंधश्चैतन्य तद्गोचरज्ञानोभयस्वरूपात्मकः तत्र सामग्री विशेषवलादपि विषयस्वरूपात्मके संबंधे विशेषो निरूपयितुं न शक्यत इत्यत आह | विषयविशेषनिरूपणासंभवे इति | विषये निर्विशेष चैतन्यात्मके विशेषाधाना संभवेपि स्वरूपसंबंधांतर्गततया कॢप्त एव ज्ञानस्वरूपात्मके संबंधे सामग्री विशेष बलाद्विशेषाधान संभवान्नोक्तदोष इति भावः | यद्वा वृतीनां विषयेपि संयोग तादात्म्ययोरति प्रसक्त्याविषयविशेषनिरूपणासंभवे विषयैर्विषयविषयीभावरूपस्वरूप संबंधवती नामिति संबंधः | अभाव सादृश्यादीनामधिकरणादाविववृतीनामपि विषये संयोग तादात्म्ययोरति प्रसक्तत्वेन ताभ्यां वृतीं प्रतिविषयविशेषनियमनासंभवे सति परिशेषाद्विषयविषयीभावप्रयोजकस्वरूपसंबंधवतीनामित्यर्थः | रूपपदं नियामक परं विषयविषयिभावस्य स्वरूपसंबंध नियम्यत्वेन तयोरभेदस्य रूपशब्दार्थस्यायोगात् | ननु संयोग तादात्म्ययोर्विषयविशेषनियामकत्वाभावेपि वृतीनां विषये स्वरूपसंबंधत्वं परिशेषान्न सिध्यति स्वरूपसंबंधातिरिक्तस्य संबंधांतरस्य कल्पनोपपतेरित्यत आह | कॢप्त एवेति | स्वरूपसंबंधस्य वृत्यादि स्वरूपतया तस्य कॢप्तत्वात् | कॢप्त एव स्वरूपं बंधे विशेषकल्पनायां लाघवं संबंधांतर कल्पयित्वा तस्मिन् संबंधांतरे अभेदज्ञानत्वादि निर्वाहकविशेषकल्पनायां प्. ७१अ) गौरवं अतो वृतीनं विषयैः सह स्वरूपसंबंधत्वमेवेति भावः | ननु तत्वमसि वाक्यात् जीवस्य ब्रह्माभेदज्ञानोपगमे तदभेदस्यैव संसर्गविधयाभानाद्वेदांतानां संसर्गागोचर प्रमिति जनकत्वरूपा खंडार्थत्वाभ्युपगमहानिरित्ये तच्चोद्यं निरवकाशमित्याह | एवं चेति | महावाक्यजन्य ज्ञानगताभेदज्ञानत्वस्यान्यथोपपादितत्वेनाभेनाभेद- संसर्गभानानपेक्षायां सत्यामित्यर्थः | हानिरपीति |
674 SK घटादि वृतीनां मूलाज्ञाननिवर्तकत्वापतिर्न्नास्ति | अखंडार्थत्वहानिश्च नास्तीत्यपि शब्दार्थः || ननु घटादिज्ञानवद्ब्रह्मज्ञानस्यापि न मूलाज्ञाननिवर्तकत्वं युक्तं निवर्तकत्वे तदवस्थानासहिष्णुत्वरूपस्य विरोधस्य तंत्र त्वात् कार्यस्य चोपादानेन सह तां दृशविरोधाभावादिति चेत्न कार्यकारणयोरन्यत्र तादृश विरोधादर्शनेप्येक विषयज्ञानाज्ञानप्रयुक्तस्य तादृश विरोधस्यात्र सत्वात्कार्यकारणयोरप्यग्नि संयोगपटयोस्तादृशविरोध दृष्टेश्च न चाग्निसंयोगे सत्यवयवविभागप्रक्रियया असमवायिकारणसंयोगनाशादेवपटनाशोनाग्निसंयोगादिति वाच्यं | दग्धपटेपि पूर्वसंस्थानानुवृतिदर्शनेन मुद्गरचूर्णीकृत घट वदवयवविभागा प्. ७१ब्) दर्शनात् | तत्रावयवविभागादिकल्पनाया अप्रामाणिकत्वात् नापि तत्र तंतूनामपि दाहेन समवापि कारण नाशात्पटनाश इति युक्तं अंशुतंत्वादिभिः सहयुगपदेव पदस्य दाहदर्शनेन क्रमकल्पनायोगात् | यतो नाधस्तादवयवनाशस्तत्रावयवेग्नि संयोगादेवनाशस्य वाच्यत्वात् | नन्वस्त्वेतदेवं तथापि सविलासाज्ञाननाशकमिदं ब्रह्मज्ञानं कथं नश्येत् नाशकांतराभावादिति चेत् || वेदांतजन्य ज्ञानस्यापि मूलाज्ञाननिवर्तकत्वमाक्षिपति | नन्विति तादृशेति | कार्यस्य लोके उपादान स्थिति विरोधित्वा दर्शनादित्यर्थः ब्रह्मगोचरवृतिप्रत्यंतःकरणस्यैव उपादानत्वेन तां प्रत्यज्ञानस्यानुपादानत्वात् | तन्निवर्तकत्वं संभवतीति मत्वाह | नेति | उपादानत्वमुपेत्याप्याह | कार्य्येति | उपादानोपादेययोर्निवर्त्यनिवर्तकभावप्रयोजकविरोधो नास्तीत्युत्सर्गः | स च ब्रह्मज्ञान तुदुपादानस्थले अपोद्यते निवर्तकभावप्रयोजकतया लोके कॢप्तसमानविषयज्ञानाज्ञान भावस्य विशेषरूपतया तेन सामान्यरूपस्य उपादानोपादेय भावप्रयुक्ताविरोधस्य बाधोपपतेरित्यर्थः | लोके उपादानोपादेययोर्निवर्त्यनिवर्तक भावप्रयोजक
675 SK प्. ७२अ) विरोधादर्शनमसिद्धं चेत्याह | कार्यकारणयोरपीति | अग्निसंयोगरूपकार्यस्य स्वोपादानपटनाशकत्वदर्शनादित्यर्थः | ननु तत्राग्निसंयोगस्य नाशकत्वदर्शनं भ्रांतिरिति मत्वाशंकते | न चाग्नीति प्रक्रिपयेति | अग्निसंयोगातंतुषु क्रियाततस्तेषां विभागस्ततस्तेषां पटासमवायिकारणसंयोगनाशः ततः पटनाशः इति वैशेषिक प्रक्रिया तंतुषु विभाग प्रक्रियैव भ्रांति मूलेत्याह | दग्धपटेपीति | पूर्वसंस्थानसंयुक्तावस्था व्यतिरेक दृष्टांतमाह मुद्गरेति | यथा मुद्गर चूर्णीकृतस्य घटस्यावयवेषु विभागो दृश्यते | तथा पटदाहानंतरं दग्धतंतुषु विभागादर्शनेनेत्यर्थः | तत्रेति तंतुष्वित्यर्थः | वैशेषिक प्रक्रियांतरमपि भ्रांतिमूलमेवेत्याह | नापीत्यादिना तत्रेति पटदाहस्थल इत्यर्थः | अग्निसंयोगस्य क्वचिदुपादानद्रव्यनाशकताया आवश्यकत्वात् पटनाशकत्वमपि तस्यैवेत्याह | यत इति | यतो द्व्यणुकाधस्ताद्व्यणुकावयवस्य परमाणोर्न नाशः | तत्र द्व्यणुके विद्यमानादग्निसंयोगादेवतदुपादानभूतद्व्यणुकनाशस्य वाच्य त्वान्न च तत्रावयवविभागप्रक्रियया परमाणु द्वय संयोगनाशादेव द्व्यणुकनाश इति वाच्यं अवयवावयविविभागप्रक्रियाया निरस्तत्वात् | तथा चाग्निसंयोगस्य स्वोपादानपटनाशकशदर्शनं न भ्रांतिरिति भावः | नन्वस्त्वेतदेवमिति | एतद्ब्रह्मज्ञानमेवमंतःकरणद्वारा स्वोपादानाज्ञाननाशकमस्त्यित्यर्थः | तथापीति | ब्रह्मज्ञानस्य सविलासा प्. ७२ब्) ज्ञाननाशकत्वेपीत्यर्थः | सकार्याज्ञाननाशकस्याज्ञाननाशकाले अवशिष्यमाणस्य ब्रह्मज्ञानस्य नाशो न सिध्येत् स्वस्य स्वनाशकत्वायोगात् नाशकांतरानवशेषाच्चेत्यर्थः ||
676 SK यथा कतकरजः सलिले न संयुज्य पूर्वसंयुक्तरज्ॐतरविश्लेषं जनयत्स्वविश्लेषमपि जनयति | यथात्मन्यध्यस्य मानं ब्रह्मज्ञानं पूर्वाध्यस्त सर्वप्रपंच निवर्तयत् स्वात्मानमपि निवर्तयतीति केचित् | अन्ये त्वन्यन्निवर्त्य स्वयमपि निवृतौ दग्धलोहपीतांबुन्यायमुदाहरेति | अपरे त्वत्र दग्धतृणकूटदहनोदाहरणमाहः | न च ध्वंसस्य प्रतियोग्यतिरिक्त जन्यत्व नियमः | अप्रयोजकत्वात् | निरंधनदहनादि ध्वंसे व्यभिचाराच्च | न च ध्वंसस्य प्रतियोगिमात्रजन्यत्वेऽति प्रसंगात् | कारणांतरं अवश्यं वाच्यं | निरिंधन दहनादि ध्वंसेपि कालादृष्टेश्वरेछादिकारणांतरमस्तीति वाच्यं | अति प्रसंगापरिज्ञानात् | न च घटादिध्वंसस्यापि कारणांतरनिरपेक्षत्वं स्यदित्यति प्रसंगः ध्वंसमात्रे कारणांतरे नैरपेक्ष्याऽनभिधानात् प्. ७३अ) न च घटध्वंस दृष्टांतेन ब्रह्मज्ञानध्वंसस्य कारणांतरापेक्षासाधनं तद्दृष्टांतेन मुद्गरपतनापेक्षाया अपि साधनापतेः || प्रथमं ब्रह्मज्ञानव्यतिरिक्तस्य सकलस्य ब्रह्मज्ञानेन नाशः पश्चादवशिष्टस्य ब्रह्मज्ञानस्य नाशः इति क्रमोनोपेयते | किंतु ब्र * ज्ञानेन सविलासाज्ञाननाशकाले सविलासाक्षानेन सहैव ब्रह्मज्ञानस्यापि नाश इत्युपेयते ब्रह्मज्ञानस्यैव स्वनाशं प्रत्यपि हेतुत्वाभ्युपगमात् | न चैकस्यैव स्वपरविलापकत्वं न दृष्टमिति वाच्यं | कतकरजसिदृत्वादिति परिहरति | यथेति पूर्वेति |
677 SK कतकरजः संयोगात्पूर्वं जलेन संयुक्तरज्ॐतरेर्जलस्य विश्लेषमित्यर्थः | पूर्वाध्यस्तेति ब्रह्मज्ञानाध्यासात्पूर्वेत्यर्थः | अन्येतिति | यथा वह्नितमलोहपिंडे प्रक्षिप्तमंबुलोहगतमग्निं नाशयदात्मानमपि नाशयति तथा ब्रह्मज्ञानमपीत्यर्थः | ब्रह्मज्ञानस्य स्वातिरिक्तं सर्वं निवर्तयतः | तदैव स्वस्यापि निवर्तने दग्धलोहेन पीतांबुरूपं दृष्टांतमुदाहरंतीत्यक्षरार्थः | अपरेतिति | यथा शुष्कतृणसमूहे प्रक्षिप्तो दहनस्तृणकूटं नाशयन्नात्मानमपि नाशयति तथा अज्ञान तत्कार्यसमुदाये समुत्पन्नो ब्रह्मप्रत्ययः तन्नाशयत् | आत्मानमपि नाशयतीत्यर्थः | ननु दग्धदाह्यदहनादि न्यायेन ब्रह्मज्ञाननाश इत्युपपादनमयुक्तं घटादिनाशे प्रतियोगि प्. ७३ब्) घटाद्यतिरिक्तमुद्गरपातादिकारणांतरदर्शनेन ध्वंसस्य प्रतियोग्यतिरिक्तकारणजन्यत्व नियमादितिशंकते | न च ध्वंसस्येति निरिंधनेति | इंधनानां निःशेषं नाशानंतरं दहनस्य स्वतरावनाशदर्शनेन निरिंधनदहनध्वंसे स्वापाव्यवहित पूर्वं कालीन ज्ञानादि ध्वंसे च प्रतियोगिमात्रजन्ये व्यभिचाराच्चेत्यर्थः | उक्तं व्यभिचारं पूर्ववादी परिहरति | निरिंधनेति | अति प्रसंगस्यैवासिध्याध्वंसे प्रतियोग्यतिरिक्तकारणजन्यत्वनियमस्याप्रयोजकत्वमित्याशयेन दूषयति सिद्धांती | अति प्रसंगापरिज्ञानादिति |
678 SK ननु कुतो परिज्ञानमिति चेतन्न वक्तव्यं ब्रह्मज्ञानध्वंसस्य प्रतियोग्यतिरिक्त अजन्यत्वे घटादिध्वंसोपि प्रतियोग्यतिरिक्तकारणानपेक्षः स्यादित्यति प्रसंगो वा घटादिध्वंसवत् | ब्रह्मज्ञानध्वंसोपि प्रतियोग्यतिरिक्तकारणापेक्षः स्यादित्यति प्रसंगो वा ब्रह्मज्ञानध्वंवसत् | घटज्ञानादिध्वंसोपिकारणांतरानपेक्षः स्यादित्यति प्रसंगो वा ब्रह्मज्ञानस्य स्वोत्पति द्वितीय क्षण एव नाशः स्यादित्यति प्रसंगो वा विवक्षित इति तत्राद्य मनूद्यदूषयति न चेति | ध्वंसमात्र इति ध्वंसत्वावछिन्न इत्यर्थः | अत भिधानादिति | न च सिद्धांतिना तथा नभिधानेपि ध्वंसत्वाविशेषा तत्र तदा पाद्यत इति वाच्यं | अप्रयोजकत्वादिति भावः | द्वितीयमतिप्रसंगेन दूषयति | न च घट ध्वंस दृष्टांतेनेति ध्वंसत्व हेतुनेति शेषः || प्. ७४अ) नापि ज्ञानध्वंसत्व साम्याद्घटज्ञानादिध्वंसस्यापि कारणांतरनैरपेक्ष्यं स्यादित्यति प्रसंगः | सेंधनानलध्वंसस्य जलसेकादि दृष्टकारणापेक्षत्वेपि निरिंधनानलध्वंसस्य तदनपेक्षत्ववजाग्रत् ज्ञानध्वंसस्य विशेषगुणांतरापेक्षत्वेपि सुषुप्ति पूर्वज्ञानध्वंसस्य तदनपेक्षत्व वच्च मूलाज्ञाननिवर्तक ज्ञानध्वंसस्य तदनपेक्षत्वोपपतेः नापिकारणांतरनैरपेक्ष्ये स्वोत्पत्युतरक्षण एव नाशः स्यादित्यति प्रसंगः | इष्टापतेः तदुत्पत्युतरक्षण एव ब्रह्माध्यस्तनिखिलप्रपंचदाहेन तदंतर्गतस्य तस्यापि तदैव दाहाभ्युपगमात् | निरिंधन दहनध्वंसन्यायेन ब्रह्मज्ञानध्वंसस्यापि कालादृष्टेश्वरेछादिकारणांतरजन्यत्वेप्यविरोधाच्च | सर्वप्रपंचनिवृत्युतरमेक शेषस्य ब्रह्मज्ञानस्य निवृतिरित्यनन्युपगमेन युगपत्सर्वदाहे पूर्वक्षणे चिदविद्यासंबंधरूपस्य द्रव्यांतररूपस्य वा कालस्येश्वर प्रसादरूपस्यांतःकरणगुणविशेषरूपस्य वा दृष्टस्यान्येषां च सत्वात् | न च तत्र ज्ञानातिरिक्तकारणापेक्षणे ब्रह्मज्ञानस्या
679 SK प्. ७४ब्) मिथ्यात्वप्रसंगः ज्ञानैक निवर्त्यत्वं मिथ्यात्वमित्युभ्युपगमादिति वाच्यं | ज्ञानाघटित सामग्र्य निवर्त्यत्वे सति ज्ञाननिवर्त्यत्वस्य तदर्थत्वात् || तृतीयमनूद्या * * * * जकत्वेन दूषयति | नापि ज्ञानध्वंसत्व साम्यादिति | ब्रह्मज्ञानध्वंसदृष्टांतेनेति शेषः सुषुप्तीति | सुषुप्तिपूर्वज्ञानादिगुणस्य नाशकगुणांतरापक्षायां तस्यापि नाशकात्मगुणांतरकल्पनापत्या सुषुप्त्युछेदप्रसंगः स्यात् तत्परिहाराय सुषुप्तिपूर्वज्ञानादि गुणस्य नाशकांतरानपेक्षत्वं वक्तव्यमितिभावः | मूलाज्ञाननिवर्तक इति ब्रह्मज्ञान इत्यर्थः | चतुर्थमति प्रसंगमनूद्यतस्येष्टत्वमाह | नापि कारणांतर नैनरपेक्ष्य इति | ब्रह्मज्ञानध्वंसस्येति शेषः | ननूदाहृतनिरिंधन दहनध्वंसादौ जलसेकादिविशेषकारणानां व्यभिचारदर्शनेपि साधारकारणानां व्यभिचारादर्शनेन ब्रह्मज्ञानध्वंसस्यापि साधारणकारणापेक्षादुर्वारेत्यत आह | निरिंधनधहनध्वंसन्यायेनेति | ननु प्रथमक्षणे ब्रह्मज्ञानस्य जन्म द्वीतियक्षणे सविलासाज्ञाननिवृतिः तृतीयक्षणे ब्रह्मज्ञानस्य निवृतिरिति क्रमे सति ब्रह्मज्ञाननाशात् पूर्वक्षणे कालादृष्टादीनामसत्वात्कथं तेषां ब्रह्मज्ञाननाश हेतुत्वाभ्युपगमे विरोधाभाव इत्यत आह | सर्वप्रपंचेति स्वमतेनाह | चिदविद्यति | परमतेनाह | द्रव्यांतरेति | यद्वा स्वमतेपीश्वरस्य कालत्वमभिप्रेत्याह |
680 SK प्. ७५अ) द्रव्यांतरेति स्वमते नैवादृष्टस्य द्विप्रकारत्वमाह | ईश्वरेति | प्रसादग्रहणमुपलक्षणं पुण्यं ईश्वर प्रसादरूपं पापं ईश्वरक्रोधरूपमिति द्रष्टव्यं अंतःकरणेति आत्मनः स्वमते निर्गुणत्वादितिभावः | अन्येषां चेति | ईश्वरदिगादीनामपीत्यर्थः | न च तत्रेति | ब्रह्मज्ञानध्वंस इत्यर्थः | ज्ञानैकनिवर्त्यत्वं हि ज्ञानातिरिक्तानिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वरूपं यथा श्रुतं न भवति ज्ञानसाध्यायामज्ञाननिवृतौ ज्ञानातिरिक्तस्य प्रतियोगिनोपि हेतुत्वात् किं त्वन्यदेवतदित्याह | ज्ञानाघटितेति | ज्ञानाघटिताया सामग्री तदनिवर्त्यत्वे सतीत्यर्थः | प्रपंच सत्यत्वमतेपि घटादेर्ज्ञाननिवर्त्यत्वमस्ति घटं नाशयामीत्यादि ज्ञानपूर्वकं मुद्गरपातादिना तन्नाशदर्शनादिति तद्धारणाय सत्यं तं घटादिनाशस्य ज्ञानपूर्वकत्वनियमाभावेन ज्ञानाघटित सामग्री निवर्त्यजातीये घटादौ तद घटित सामान्यनिवर्त्यत्वस्याभावात् | न च परमते नाशमात्रेस्येश्वर ज्ञानघटित सामग्री साध्यत्वा तदीयज्ञा || नान्यः पंथा इति श्रुतिरपि तत्रैव तात्पर्यात् | अतो युक्त एव दग्धदाह्यदहनादिन्यायः केचित् तु वृतिरूपं ब्रह्मज्ञानं नाज्ञानतन्मूलप्रपंच निवर्तकं | अज्ञानस्य प्रकाशनिवर्त्यत्वनियमेन जडरूपवृतिनिवर्त्यत्वायोगात् | किंतु तदा प्. ७५ब्) रूढचैतन्यप्रकाशस्तन्निवर्तकः स्वरूपेण तस्याज्ञानादि साक्षितया तदनिवर्तकत्वेपि अखंडाकारवृत्युपारूढस्य तन्निवर्तकत्वोपपतेः | तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं देहेत् | सूर्यकांतमुपारुह्यतं न्यायं तत्र योजयेदित्यभियुक्तोक्तेः | एवं च यथा किंचित्काष्टमुपारुह्यग्रामनगरादिकं दहन् वह्निर्दहत्येव तदपि काष्ठं तथा चरमवृतिमुपारुह्यनिखिलं प्रपंचमुन्मूलयन्न खंडचैतन्यप्रकाशस्तन्निवर्तनेपि प्रगल्भत इति न तन्नाशे काचिदनुपपतिरित्याहुः ||
681 SK न मादाय कार्यमात्रे ज्ञानाघटितसामग्र्यनिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वमस्तीति नैतन्मिथ्यात्वनिर्वचनमिति वाच्यं | लक्षणे ज्ञानपदस्य जैवज्ञानपरत्वात् | आत्मन्यतिव्याप्तिवारणाय विशेष्यमितिभावः | ननु कार्यमात्रे कालादृष्टादेः कारणत्वमित्यंगीकृन्य ब्रह्मज्ञानध्वंसेपि कालादृष्टादेःकारणत्वाभ्युपगमे मूलाज्ञानध्वंसरूपे मोक्षेपि कालादेःकारणत्वं स्यात् कार्यत्वाविशेषात् | न चेष्टापतिः नान्यः पंथा इति श्रुति विरोधादित्यत आह | नान्यः पथां इति | अस्याः श्रुतेः ज्ञानमेकमेव मोक्षसाधनमित्यत्र न तात्पर्यं किंतु मोक्षस्य ज्ञानाघटितं प्. ७६अ) किमपि साधनं नास्तीत्यत्र तात्पर्य | अतो न श्रुति विरोध इत्यर्थः | अत इति श्रुतिविरोधादिरूपबाधकाभावादित्यर्थः | वृतिरूपस्य ब्रह्मज्ञानस्याविद्यादिनाशकत्ववदेवस्वनाशकत्वमप्यस्तीत्युक्तमिदानिं वृतिरूपब्रह्मज्ञानस्याविद्यादिनाशकत्वं स्वनाशकत्वं वा नास्ति किंतु तद्वृत्यारूढचैतन्यमेव तद्वृति सहित सर्वनाशेकमिति मतमाह | केचित्विति | ननु चैतन्यस्याज्ञानादि साधकत्वात्कथं तस्य नाशकत्व सत आह | स्वरूपेणेति | तत्र दृष्टांतं श्लोकेन दर्शयति | तृणादेरिति |
682 SK एषा प्रत्यक्षा सूर्यदीप्तिः स्वरूपेण तृणादेः प्रकाशिकापि सूर्यकांतमणिमुपारुह्य तृणादिकं दहतीति प्रत्यक्षसिद्धं तत् न्यायं तत्र चैतन्ये योजयेत् | चैतन्यं स्वरूपेणाज्ञानादिप्रकाशकमपि वृतिविशेषसंसृष्टं सदज्ञानादेर्नाशकमिति निश्चिनुयादेव ननु साधकस्य कथं घातकत्वमित्यसंभावनया प्रमाणसिद्धमर्थमुपेक्षेतेति श्लोकतात्पर्यं ननु मण्यारूढा सूर्यदीप्तिः मणिव्यतिरिक्तमेव तृणादिकं दहति न तु मणिमपि तथा च वृत्यारूढं चैतन्यं वृति व्यतिरिक्तमेवाज्ञानादिकं नाशयेन्न वृतिमपि | तथा च ब्रह्मज्ञानं कथं नश्येत् नाशकांतराभावादिति शंकायाः समाधानं कथं लब्धं तत्राह | एवं चेति | चैतन्यस्य वृत्यारूढस्य नाशकत्वे प्रकाशाप्रकाशयोरेव लोके निवर्त्य निवर्तकभावदर्शनात् | प्रकाशस्यापि सहकारि विशेष च शेन नाशकत्वाविरोधाच्चेति युक्त द्वयेन सिद्धे सतीत्यर्थः | उन्मू * * * * न्नेति मूलभूताज्ञानेन सह प्. ७६ब्) नाशयन्नित्यर्थः | प्रगल्भत इति भवतीत्यर्थः | तन्नाश इति चरमवृतिनाश इत्यर्थः || अन्ये तु ब्रह्मज्ञानमज्ञानस्यैव निवर्तकं ज्ञानाज्ञानयोरेव साक्षाद्विरोधात् | प्रपंचस्य तूपादाननाशात्नाश इति प्रपंचांतर्गतस्य ब्रह्मज्ञानस्यापि तत एव नाशः न च प्रपंचस्य ज्ञानानिवर्त्यत्वे मिथ्यात्वानुपपतिः | प्रपंचनिवृतेः साक्षात्ज्ञानजन्यत्वाभावेपि ज्ञानजन्या ज्ञाननाशजन्यत्वात् साक्षात्परंपरया वा ज्ञानैकनिवर्त्यत्वं मिथ्यात्वमित्यंगीकारात् | एवं च तत्वसाक्षात्कारोदयेपि जीवन्मूक्तस्य देहादिप्रतिभास उपपद्यते | प्रारब्धकर्मणा प्रतिबंधेन तत्वसाक्षात्कारोदयेपि प्रारब्धकर्म तत्कार्यदेहादिप्रतिभासानुवृत्युपादानाविद्यलेशानिवृत्युपपतेः | अज्ञानवत्प्रपंचस्यापि साक्षाद्ब्रह्मसाक्षात्कारनिवर्त्यत्वेनायमुपपद्यतेऽतिविरोधिनि ब्रह्मसाक्षात्कारे सति प्रारब्धकर्मणः स्वयमवस्थानासंभवेनाविद्यालेशनिवृतिप्रतिबंधकत्वा- योगादित्याहुः | प्. ७७अ) इति श्रीशास्त्रसिद्धांतलेशसंग्रहे तृतीयः परिछेदः || ३ ||
683 SK अज्ञाननाश * * ब्रह्मज्ञाननाशहेतुरितिमतं दर्शयति | अन्ये त्विति | अज्ञानस्यैवेति | उक्तं च पंचपादिकायां ज्ञानमज्ञानस्यैव निवर्तकमिति साक्षादिति विरोध प्रयोजकस्य समानविषयत्वादेरज्ञान एव संभवादित्यर्थः | तत एवेति | उपादान नाशादेवेत्यर्थः | साक्षात्परंपरयावेति मूलाज्ञानमात्रस्य ज्ञानैकनिवर्त्यतया मिथ्यात्वसिद्धौ मूलाज्ञानातिरिक्त जडमात्रस्य तदधीनतया स्वयं साक्षात् ज्ञाननिवर्त्यत्वाभावेपि कृत्स्न प्रपंचस्य मिथ्यात्वसिद्धिरप्रत्युहेत्यपि मंतव्यं | अस्य मतस्य जीवन्मुक्तिशास्त्रानुगृहीतत्वं दर्शयति | एवं चेत्यादिना | अज्ञानातिरिक्तस्य जडस्य ज्ञानेन सह साक्षाद्विरोधाभावे सतीत्यर्थः | ननु तत्वसाक्षात्कारेणाज्ञाननाशे सत्युपादानाभावात् देहादेरवस्थानासंभवे सति कथं विद्योदये देहादि प्रतिभासः | इत्यत आह | प्रारब्धेति | तत्वसाक्षात्कारोदये सत्यज्ञानस्य निःशेषेण निवृतिप्रसक्तौ प्रारब्धकर्मकृतप्रतिबंधवशादज्ञानलेशस्य निवृतिर्न संभवति तल्लेशानुवृतौ च तत्वज्ञानानंतरमपि प्रारब्धकर्मणः तत्कार्यस्य देहादि प्रतिभासस्यापि अनुवृतिर्युज्यते देहाद्युपादानभूतस्याविद्यालेशस्यानुवृतेरित्यर्थः | पूर्वमते जीवन्मुक्त्यसिद्धिमाह | प्. ७७ब्) अज्ञानवदिति जीवन्मुक्तस्य देहादि प्रतिभास इत्यर्थः | विरोधिनीति | अज्ञानस्येव प्रारब्धकर्मणोपि साक्षाद्विरोधिनीत्यर्थः | श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं संप्रणम्य च व्याख्यातो यं परिछेदः श्रीकृष्ण परितुष्टये || || इति श्रीमत्परमहंसपरिव्राजिकाचार्य श्रीमत्स्वयंप्रकाशानंदसरस्वस्ती दिव्य श्रीचरणारविंदसंलग्नरजोभूतस्य अच्युतकृष्णानंदतीर्थस्य कृतौ शास्त्रसिद्धांतलेशसंग्रहव्याख्यायां श्रीकृष्णालंकाराख्यायां तृतीयः परिछेदः || ३ || समाप्तम् ||
Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. siddhāntaleśasaṃgrahaṭīkā [M00578].
Source