Essence of the Scriptures

Nigamasāranirṇaya

Essence of the Scriptures

Nigamasāranirṇaya

SK
ॐ नमस्तस्यै गणेशाय च | यद्रोमविवरे कीटा इव ब्रह्माण्डकोटयः | तमगाध कृपासिन्दुमपारं समुषास्महे || नत्वा गुरुं परगुरुञ्च परापराख्यं तस्मात् परञ्चापरमष्ठि गुरुं प्रण *? निष्कृष्य सारमखिलागमशास्त्रसिन्धोः श्रीमद्रमारमण एष समुच्चिनोतिं | वस्तूनि दूरतर दूरतमेषु गत्वा नानाविधान्युचिनोति जनः प्रयत्नैः | एकत्र तानि मिलितानि पुरोभिलभ्य दैवेन के च सुधियो विमुखी भवन्ति || तत्रादौ समुपास्य देवतानिर्णये मन्त्र विचारः प्रवर्तते अतस्तं निर्णयार्थं पुरोहर चक्रमे भिधीयते || अथातः संप्रवक्ष्यामि हर चक्रमनुत्तमं | यं ज्ञात्वा ज्ञानवान् लोके जायते मन्त्रवित्तमः || अन्यथा वर्जयेन् मन्त्र नित्याह भगवान् शिवः | तस्मात् सर्वप्रयत्नेन यः सुधीः प्रविचारयेत् || कुर्यात् क्षत्रन्तु देवानां ताराकोष्ठसमन्वितं | तन्मध्ये विभजेत् कोष्ठे चतुष्कं वर्ण सूत्रकं || पातयेद् दिक्षु दुर्गाञ्च वाणीं ताराञ्च भैरवीं | कर्णसूत्रस्यो भयत् ईशादि परियोजयेत् || त्रिपुरां भुवनेशीञ्च पीठेशीञ्चैव त्र्यवकं | वासुदेवं श्रियञ्चैव छिन्नमस्तां च चण्डिकां || ईशानाद्यं विवस्वन्तं क्रमाद्वत्वरितान्तथा | इन्द्राक्षीञ्चैव वहेरम्बं पितामह मनन्तरं || महामायाञ्च कालीञ्च यदन्यत् सौम्य दैवतं | पञ्चाशद् विलिखेद् वर्णानीश कोष्ठादिकं क्रमात् || १ब्) माता पितृ कृतं नाम वेदमन्त्र परिष्कृतं | सर्वकर्मणि संयोज्य शस्त्रतन्मन्त्रवीक्षणे || नामार्णन्तु समारभ्य यावद् देवार्ण गोचरं | संशुद्धौ ग्रहणं कुर्यादशुद्धौ न कदाचन || बन्धुं पुत्रञ्च लोभं च निधनञ्चैव विह्वलं | मुक्तिं सौख्यञ्च धर्मञ्च अरिं मित्रञ्च कामदं || भीषणं चिन्तये कोष्ठं कोष्ठचक्रमिति * *? | राशि चक्रवद् द्वादश कोष्ठकं चक्रं विलिख्य दिक्षु दुर्गादि चतुष्टयं विलिख्य ||
SK
कोणेषु ईशाणादि कोणेषु त्रिपुरादि चन्द्रान्ता विलिख्य तदनु ईशकोणादिकं प्रदक्षिण क्रमेण अकारादि पञ्चाशद् वर्णान् विलिख्य यस्मिन् कोष्ठे मासाद्यक्षरं पतति तत्कोष्ठे क्रमेण बन्ध्वादि द्वादशकोष्ठं प्रदक्षिण क्रमेण विचिन्तयेत् | अत्र यत् कोष्ठस्य यन्नाम तत् कोष्ठस्थ देवतानां तदनु रूप फलदातृत्वं? विशेषनिभिधानादिति संक्षेपः || इत्थमुपोह्य देवता निर्णये एकस्या अपि देवताया अनेक वर्णसत्वात् कस्मिन् मन्त्रे कस्याधि विकार इति तन्निर्णयार्थमकथह चक्रमभिधीयते || तत्र इन्द्वग्नि रुद्र नव नेत्र युगार्क दिक्षु ऋत्यष्ट षोडशचतुर्दशभूत शेष | पाताल पञ्चदश वह्नि हिमांशु कोष्ठेष्ठकैकशोऽथ विलिखेत् क्रम शम्भु धीमान् | चतुरस्रे लिखेद् वर्णान् चतुष्कोष्ठसमन्वितं | अकारादिक्षकारान्तान् स्वनामाद्याक्षराद्यतः || २अ) सिद्धादीन् कल्पयेन् मन्त्री कुर्प्यात् सिद्धादिभिः पुनः | सिद्धादीन् सिद्धिदः सिद्धो जपात् साध्याहुतादिभिः || सुसिद्धिः प्राप्तिमात्रेण साधकं भयेदरिः | सिद्धार्णा बान्धवा ज्ञेयाः साध्यास्ते सेवकाः स्मृताः || सुसिद्धाः पोषकाः ज्ञेयाः शत्रवो घातका मताः | सिद्धकोष्ठे यथोक्तेन द्विगुणात् सिद्धि साधकः || सिद्धसुसिद्धोऽर्द्ध जयात् सिद्धारिर्हन्ति बान्धवान् | द्विगुणात् साध्य सिद्धिस्तु साध्यसाध्यो निरर्थकः || साध्य सुसिद्धोऽर्द्धजपात् साध्यारिर्हन्ति बान्धवान् | सुसिद्धसिद्धोर्द्धजपात् द्विगुणात् सुसिद्धिसाध्यकः || सुसिद्धसुसिद्धस्तत् क्षणात् सुसिद्धोरिर्जातिहा स्मृतः | पत्नीमरि सुसिद्धस्तु अरिशत्रुस्तथात्महा || अरिसिद्धः सुत्रं हन्यादरि साध्यस्तु कामनां | प्रदक्षिण क्रमेणैव स्वनामाद्याक्षराद्यतः ||
SK
चतुरस्रं षोडशकोष्ठं चक्रं विलिख्य तत्र इन्द्रग्नि क्रमेण पञ्चाशद् वर्णान् विलिख्य तत्र यस्मिन् कोष्ठे स्वनामाद्यक्षरं पतति तदारभ्य कोष्ठ चतुष्टयं सिद्धकोष्ठं तद् दक्षिण कोष्ठ चतुष्टयं साध्यकोष्ठं तत्पश्चिम कोष्ठ चतुष्टयं सुसिद्धकोष्ठं तदुत्तर कोष्ठ चतुष्टयं अरिकोष्ठं तत्रैव सिद्धकोष्ठं चतुष्टये नामाक्षर कोष्ठं सिद्ध सिद्ध कोष्ठं तद् दक्षिण कोष्ठं सिद्धसाध्यकोष्ठं तत् पश्चिम कोष्ठं सिद्धसुसिद्धं तदुत्तरं सिद्धारि एवं साध्य कोष्ठ चतुष्टयेऽपि साध्यसिद्धेत्यादि नाम च * ष्टयं २ब्) एवं सुसिद्धकोष्ठेऽपि सुसिद्ध सुसिद्धेत्यादि नामचतुष्टयं एवमरिकोष्ठेपि अरिसिद्धेत्यादिनामचतुष्टयं षोडशकोष्ठं भवति | तत्र सुसिद्धि सुसिद्धं प्रशस्ततमं सुसिद्ध सि * *? शस्ततरं | सिद्धं प्रशस्तं साध्यसुसिद्धञ्च सिद्धसाध्यादिकं स्वप्रशस्तं चिरेणैव सिद्धेः अर्यादिकस्तु सर्वकोष्ठेष्वेव निषिद्धं सर्वर्थैव शत्रोः परित्याज्य त्वादिति संक्षेपः || अथ अकडमचक्रं || रेखाद्वयम् पूर्वपरेण कुर्यात् तन्मध्यते | वायुकुवेर भेदात् | महेश रक्षोधिपति क्रमेण भित्वा तथा वायुहुताशनेन || अक्लीववर्णान् विलिखेत् तथादीन् यथाद्य् कोष्ठेऽकडमा भवन्ति | सिद्धादयोऽत्रापि भवन्ति मन्त्राः | क्रमाच्चतुर्भिः पुनरेव त्रैस्तैः || स्वनाम वर्णादित एवमन्त्रवर्णान्त पर्यामणितैश्च लेख्यः | तेन रेखा द्वयं पूर्वपरेण कुर्याद् इत्यनेन राशिचक्रं षट् द्वादश कोष्ठं भवति *? कारादि ऋ ॠ ऌ ॡ रहितान् वर्णान् विलिख्य यथाद्य कोष्ठे अडमा भवन्ति त्रत्र स्वनामाद्यक्षरे मारभ्य मन्त्राद्यक्षर पर्यन्तं सिद्धसाध्य सुसिद्धारि क्रमेण शोधयेदित्यर्थः | एवं सिद्धादि क्रमेण मन्त्रनिर्णये स्वरासि मन्त्रादिभिर्योजनीयं करणीयं तदर्थं राशिचक्रमभिलिख्यते || अ आ इ ई भवेन् मेषः उ ऊ ऋ वृषभः स्मृतः | ऋ ऌ ॡ मिथुनः प्रोक्तः ए ऐ कर्कटकः स्मृतः | ओ औ सिंहो ञं अः श ष सफलं क्ष च कन्यका || ३अ)
SK
कवर्गस्तु तुला प्रोक्ता च वर्गश्चैव वृश्चिकः | टवर्गः कार्मुक धरस्तवर्गो मकरः स्मृतः || प वर्गः कुम्भ इत्युक्तो य वर्गो मीनसंज्ञकः | स्वराशेरेक नवगपञ्चगा वान्धवाः स्मृताः || द्वौ तथा षड्दशमगाः सेवकाः परिकीर्तिताः | सप्तत्रि चैकादशगाः पोषगा परिकीर्तिताः || द्वादशाष्ट चतुर्थाश्च घातका इति निश्चिताः | लग्नोधन भातृ शत्रु पुत्रबन्धुकलत्रकाः || मरणं धर्मकर्माय व्ययाः द्वादश राशयः | एवं राशिचक्रे विलिख्यते ततः स्वराशेर्लग्नधनादि चिन्ता स्वनामाद्यक्षरे राशेर्वा || अत्रापि नामानुरूपं फलं || तदुक्तं तन्त्रान्तरे || द्वियुग वह्नि वेदाग्नि विधवाण वाणेषु वाणेषु पयोधि संख्यान् | मेषादि राशिष्वभिलिख्य वर्णान् षडेवशादीन् युवतौ लिखित्वा विभावयेत् | एकोवाप्यथ पञ्चमोऽथ नवमोराशेः स्वकाद्वान्धवा राशिः स्याद् दशम द्वितीय सहितः षष्ठी भवेत् सेवकः | रुद्राग्नि स्वरसंख्यया यदि मतस्तन्त्रे स्वयं पोषकः स्याच्च द्वादशकोष्ठमश्रुति मितो मन्त्रः स्मृतो घातकः || एवं नक्षत्र चक्रस्या वश्यकत्वाद् गणशुद्धि चक्रस्यापि तदन्तर्गतत्वादु भावे वाभिलिख्यते || अ आश्विनी देव गणः इभरणी नरः स्मृतः | ई उ ऊ कृर्तिका चैव राक्षसः परिकीर्तितः ऋ ॠ ऌ ॡ मनुष्यस्तु रोहिणी परिकीर्तिता || ३ब्) एवै मृगशिरा देव ऐ अ आद्रा मनुजः स्मृतः | ओ औ पुनर्वसू देवस्तथा चैव प्रकृर्तितः || कश्च पुष्या देवश्च खगाश्लेषा राक्षसः स्मृतः | घ ङ तथा रक्षसश्च पूर्वफाल्गुनी नरः || छजश्चोत्तरा चैव फल्गुनी मनुजः स्मृतः | ऋजु हस्ता देवगदणष्ट ठरित्र्य च राक्षसः || डस्वाती निर्जरः प्रोक्तः ढ ण विशाखाथ राक्षसः | तेथदश्चानुराधा च देववर्गः प्रकीर्तितः || ध ज्येष्ठो राक्षसः प्रोक्तो नय फ मूला च राक्षसः | व पूर्वाषाढा मनुजभोत्तराषाढको नरः || मश्रवणा देवगणो यर धनिष्ठाथ राक्षसः | लशतभिषा तथा रक्षो वशौ नुपूर्व भाद्रकौ ||
SK
ष सहा उत्तरा भाद्रो मनुष्यः परिकीर्तितः | अं अः लक्षा रेवती च देववर्गः प्रकीर्तितः || जन्मसंपद् विपत् क्षेम प्रत्यरिः साधको वधः सैत्रं परममैत्रञ्च जन्मादीनि पुनः पुनः | देवासुराणां मनुजा सुराणां वैरं महत् स्नेह मथे जराणां | स्वगुणे चोत्तमं विद्यात् मध्यमं देव मामुषं | वैरंदितिजे देवेषु मरणं मानुषासुरं | एक नाडी स्थिता यत्र गुरुमन्त्राश्च देवताः | तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत् | यत्र स्वनक्षत्रादारभ्य मन्त्राक्षर नक्षत्रं निर्णीय जन्मसम्पदादि क्रमेण शोधयेत् | तदुक्तं तन्तान्तरे | पक्षैकत्र्यब्धिरूपावनिभुजशशि युगयुग्म भूर्युग्मेष ४अ) क्षायुग्मैक द्वित्रिरूपत्र्यवनिशशिशशिद्व्येक पक्षाग्निवेदाः | अश्विन्यादि क्रमेणाक्षरमिहगदितं शेषभे विन्दु सर्गौ जप्तु नक्षत्रतः खादथ परिगणये जन्मसंपत् क्रमेण || एवङ्गण शुद्धि चक्रेपि स्वनक्षत्र गणं निर्णीय मन्त्राक्षर गणेन चिन्ता तत्र शुद्धौ मन्त्रमहीभीष्ट फलदमिति संक्षेपः | एवं षट् पद चक्रेपि निन्दा श्रवणात् तदप्य वश्यं विचार्यं अतस्तदप्यभि लिख्यते | षट् पदञ्च क्रमालिख्य प्रागादिषु हरेषु च | अकारादिक्षकारान्तान् वर्णनेकैकशो लिखेत् | स्वनामाद्यक्षर यत्र तदारभ्य विचारणा || उदिते फलमिष्टास्या द्वितीये विपदां क्षयः | तृतीये च धृतिं विद्याच्चतुर्थे बन्धु विग्रहः || पञ्चमे संशयात्मा स्यात् षष्ठे सर्वविनाशकः | अस्यार्थः || षड्दलं चक्रं निर्माय प्रागादिषु दलेषु पञ्चाशद् वर्ण विलिखेत् ततः स्वनामाद्यक्षरमारभ्य मन्त्राद्यक्षर पर्यन्तं विचारयेत् तत् फल मुदिते फलमित्यादि संक्षेपः || एवं वर्गशुद्धि चक्रेपि स्ववर्गपञ्चमगस्य रिपुत्वेनाभिधानात् तदपि विचार्यमेव || वैनतेय सिंहमार्जारश्च सर्पमूषगजशशप्ताः वर्गाधियास्त्वमी प्रोक्ताः स्ववर्गात् पञ्चगा रिपुः || कलास्वरो वैनते यः कवर्गोप्यो तु रुच्यते | च वर्गः सिंह इत्युक्तष्ट वर्गः श्वा प्रकीर्तितः ||
SK
ते वर्गो भुजगो ज्ञेयः य वर्गोप्याषुरित्यपि | यवर्गो मत्तमातङ्ग इति शास्त्र विनिर्णयः || श वर्गः शशकः प्रोक्तः स्ववर्गात् पञ्चमो रिपुः | अस्यार्थः स्वनामाद्यक्षरं यस्मिन् वर्गे तद्वर्गोत्तर प * * *? pakṣimārjārapa * *? spaśunaḥ sarpāsvu(?) dantinaḥ | śaśaḥ kramāda kārādi sva * * *? vijātayaḥ | evaṃ sarvacakrairmantre nirṇīte ṛṇī mantraḥ phaladaḥ iti ṛṇi dhani *? kramabhi likhyate || indrakṣana *? rapi pañcadaśarbhuve harandhrā yudhāṣṭamevabhirguṇitāṃśca sādhyāt | digbhugiri śruti gajāgni munīṣu veda ṣaḍvahnibhiśca guṇitānatha sādhakārṇān | dvau dvau svarau pañcasukoṣṭhakeṣu śeṣāna svaro ṣaḍe *? mekāṃ * * * *? śeṣān | aṣṭābhiśca hareccheṣamadhikantu bhavedriṇī | asyārthaḥ || ekādaśakoṣṭha caturguṇitaṃ * * *? likhya prathamaikādaśa koṣṭha * *? daśa svarān yugmakrameṇa likhitvā śeṣān svaro naikaikaśo likhitvā taccheṣa koṣṭheṣu kādīn phaśeṣān vilikhya upari mantrārtha parīkṣakān ekādaśāṅkān digbhūrityādi likhitvā tānaṣkānekī kṛtya aṣṭābhirharedadhikaśeṣataro ṛṇī etena ṛṇī mantra eva grāhyaḥ athavā hāritāṅkena vā ṛṇī dhaniśodhanaṃ || 5a) ṣaṭkālakālaviyadagni samudravedakhā kāṃśaśūnye dahanāḥ khalu sādhakārṇāḥ | yugma dvipañca viyadamvarayukaśaśāṅka vyomā dvivedaśaśinaḥ khalu sādhakārṇāḥ | ūrddhādhasthairebhiraṅgairvā ṛṇidhaniśodhanaṃ | athānya prakāraḥ | nāmādyakṣaramārabhya yāvanmantrādi kārṇakaṃ | tridhā kṛtvā svaraibhindyāt tadanya dvi parītakaṃ || asyārthaḥ || nāmādyakṣaraṃ gṛhītvā mantrādyakṣara paryantaṃ yāvanto varṇāstān saptarguṇaṃ kṛtvā tribhirharet sādhaka pakṣe mantra pakṣe tu tadanya dvi paritakamiti mantrādyakṣaraṃ gṛhītvā nāmākṣara paryantaṃ yāvanto varṇāstān triguṇaṃ kṛtvā saptabhirharedaradhikaśeṣataro ṛṇī svaraiḥ saptabhirityarthaḥ | ata evoktaṃ nāmādyakṣaramārabhya yāvan mantrādya darśanaṃ | saptaplutāṃ tribhiḥ śiṣṭaṃ ṛṇaṃ tyājyaṃ dhanādikaṃ ||
SK
मन्त्राद्यक्षरमारभ्य यावर्न्नादर्शनं | त्रिः प्लुतं सप्तशिष्टन्तद्ग्राह्यञ्चै * णाधिकमित्यादि || अथवा साध्य नाम द्विगुणितं साधकेन समन्वितं | अष्टाभिभिश्च हरेच्छेषं तदन्य द्विपरीतकं || मन्त्राक्षराणि सर्वाणि साधकनामाद्यक्षराणि यावन्ति तानि द्विगुणं कृत्वा अष्टाभिर्हरेन् मन्त्रमक्षे साधक पक्षे तु पूर्वोक्तानि वर्णानि अष्टगुणं कृत्वा द्वाभ्यां हरेदधिक शेषतरो ऋणी इति प्रकार चतुष्टयो न्यतमेन ऋणि धनि शोधनं कृत्वा मन्त्र ग्रहणं कुर्यादिति संक्षेपः || ५ब्) श्रीरमारमण देव शर्मणानि निर्मिते निगमसारनिर्णये | सर्वसिद्धिकरणैक कारणः पूर्वमाद्य पटलः समृद्धृतः || अथ कदाचिद्भ्रमं प्रमादाद् गुरुमौढ्यादरि मन्त्र लाभे तत् त्यागमवश्यमेव कर्तव्यं अन्यथा स्वहानेः तत्र प्रमाणमभिलिख्यते || अथारिमन्त्रसंत्यागविधिः सम्यक् प्रचक्षते | शुचिः समहितो भूत्वा प्रारभेत् प्रवरे दिने || अशेषदुःखनाशाय देशिकः प्रवरं विधिं | तत्रादौ रम्य भवने कुम्भं दीक्षा विधि क्रमात् || मण्डले स्थापयेद् विद्वान् पूरयेत् तं जलैः शुभैः | विलोम मन्त्र पाठेन तत्रावाह्य तु देवतां || सकलीकृत्य संपूज्या वरणानि प्रपूजयेत् | एवं सावरणामिष्ट्वा मन्त्री मन्त्रस्य देवतां || हुत्वा विलोममन्त्रेण सर्पिषागोरपि द्विजः | ततो यथावद्गन्धाद्यैर्देवताभ्यो वलिं हरेत् || विदिक्षु च तथा वक्षमाणैर्मनुक्रमैः | ॐ आयाहीन्द्र स्वधाधीश शतमन्यो शचीपते || नमस्तुभ्यं गृहाणेमं पुष्पधूपादिकं वलिं | ॐ आयाहि तेजसां नाथ हव्यवाहवर प्रद || गृहाणपुष्पधूपादि वलिमेनं स पूजितं | ॐ प्रेतराजसमायाहि प्रभञ्जन समद्युते वलिं दत्तं गृहाणेमं सुप्रीतो वरदो भव || ॐ नमस्ते रक्षसां नाथ निरृतेत्वमिहागतः | गृहाणवलि पूजादि मयां भक्त्या निवेदितं || ६अ) ॐ एहि पश्चिम दिक्पाललोकनाथ नमोऽस्तुते | भक्त्या निवेदितां पूजां गृहीत्वा प्रीतिमाप्नु हि ||
SK
ॐ प्रभञ्जन प्राणपते त्वमे हि सपरिच्छदः | मया प्रयुक्तं विधिवद् गृहाणवलिमादरात् || ॐ कुबेरतारकोधीशा वा गच्छतां सुरोत्तमौ | पुष्पधूपादिभिः प्रीतौ भवेतां वरदौ मम || ॐ ईश्वत्वमेव भगवन् सर्वविद्या श्रय प्रभो | पूजितः (पूजितैरिति पाठः) पुष्पधूपाद्यैः प्रीतो भवति भूतय || ॐ आयाहि सर्ववर्णानां नाथ ब्रह्मणममार्चनं | गृहाण सर्वविघ्नान् मां निवर्तये नमोऽस्तुते || ॐ आगच्छ वरदा व्यक्त विष्णो विश्वस्य नाथके (नाशकेति पाठः) | पूजितः परया भक्त्या भवत्वं सुखदो मम || ततः सपरिवाराञ्च पूजयेन् मन्त्र देवतां | मन्त्रेण विपरीतेन पुष्पधूपो पचारकैः || ततस्तु प्रार्थयेद् विद्वान् पूजितां मन्त्रदेवतां | आत्मानः काममालोक्य मया तरलबुद्धिना || तदुपात्तं पूजितञ्च प्रभो मन्त्रस्वरूपकं | तेन मनसः क्षोभमशेषं विनिवेत्तय || पापं प्रतिहतं चास्तु भूयाच्छ्रेयः सनातनं | तनोतु मम कल्याणं यावनी भक्तिरेव ते || इति संप्रार्थ्य मन्त्रान्तं मन्त्रं पात्रे विलोमतः | लिखित्वा मल कर्पूरचन्दनेन समर्चयेत् || कलसोपरि संस्थाप्य भक्त्या परमया पुनः | तत्प्रात्रं प्रतिमान् पश्चाद् वध्वा निजशिरस्यथ | स्नायात् पूजितकुम्भस्थ तोयैर्मन्त्रमयैः शुभैः || ६ब्) पुनश्चान्येन तोयेन कुम्भमापूर्य संयतः | तन्मध्ये मन्त्रपत्रञ्च निःक्षिप्याथ प्रपूजयेत् || तन्मध्ये निम्नगा तोये शुद्धे चापि जलाशये | निःक्षिपेदथ विप्राश्च यथाशक्त्या प्रभो जयेत् || इत्थं कृतविधानस्य रिपुमन्त्रोद्भवारुजः | नश्यन्त्येव न संदेहः क्रमाच्चित्तप्रसन्नता || जायते तीवसम्पन्नो वर्द्धते स्वकुलं क्रमात् | मालिनीविजयस्येति मतमेतदुतीरितं || अथ पद्धतिः ||
SK
पूर्वदिने निरामिषमेकवारं भुक्त्वा अग्निमदिने कृत नित्य कृत्यः च्छाया मण्डपं गत्वा दीक्षाविधि क्रमेण कुम्भं संस्थाप्य सर्वतो भद्रमण्डलोपरिकुम्भशुद्धजलेन पूरयेत् तत्र विरोमं मन्त्रं पठित्वा इष्टदेवतां सकलीकृत्य विलोममन्त्रेण यथोपदेशं पद्यादिभिः संपूज्य आवरणानि च पूजयेत् ततो वह्निस्थापनं कृत्वा विरोरुमन्त्रेण अष्टोत्तरशतं जुहुयात् | ततो यथावद् गन्धाद्यैः ॐ इन्द्राय नम इत्यादि क्रमेण दश दिक्पालान् संपूज्य प्रत्येकं वलिमुत्सृज्य आयाहीत्यादि मन्त्रेण प्रत्येकं वलिं निवेदयेत् | ततः सपरिवारां मन्त्रदेवतां विलोममन्त्रेण संपूज्य मन्त्रदेवतां आत्मलोक्येत्यादि मन्त्रेण प्रार्थयेत् | ततो मन्त्रं पात्रे विलोमेन लिखित्वा निर्मलकर्पूरचन्दनादिभिः कलसोपरिसंस्थाप्य जीवन्यासं विधाय पाद्यादिभिः संपूज्य प्. ७अ) परमया भक्त्या तत्पात्रं स्वशिरसि दत्वा पूजित कुम्भतो यैः स्नायात् ततः कुम्भं पुनर्जलेनापूर्य तन्मध्ये पात्रं प्रक्षिप्येतत्कुम्भं जलाशये निःक्षिपेत् ततो गुरवे दक्षिणां दत्वा अच्छिद्रा वरणं कृत्वा ब्राह्मणान् भोजयेत् ततो दीक्षोक्तक्रमेण पुनर्मन्त्रं सर्वचक्रविराजितं गृह्नीयात् इति संक्षेपः || अथ स्वप्नादिना च कदाचिदरिमन्त्रलाभे यत् कर्तव्यं तदभिलिख्यते || प्रणवं यथा योगिनीतन्त्रमालोक्य स्वप्नलब्धमनोर्विधिं | प्रवक्ष्यामि हितार्थाय साधकानां विशेषतः | स्वप्नलब्धं स्त्रीदत्तञ्च संस्कारेणैव सिद्ध्यति | स्वप्नलब्धे च कलुषे गुरोः स्थाने निवशयेत् | वटपत्रे कुंकुमे वा लिखित्वा ग्रहणं कृतं | ततः सिद्धिमवाप्नोति अन्यथा विफलं भवेत् |
SK
एवं स्वप्नादिना मन्त्रलाभे दीक्षोक्तक्रमेण कलसं संस्थाप्य वटपत्रेण कुंकुमेन लिखित्वा दशसंस्कारं विधाय गुरोर्मन्त्र ग्रहणं कुर्यात् | अथवा तद्देवताकसर्वचक्रविचारितमन्त्रान्तरं गृह्नीयात् उपास्यस्यैकमन्त्रत्वात् स्वप्नेपि मन्त्रच्छलेन उपास्योपदेशात्तन्मन्त्रमपि जपेत् वहुमन्त्रवतः पुंसः का कथा शिव एव सः | इत्यादि पुरस्कार श्रवणादिति संक्षेपः || अथ मन्त्रसंस्कारः || फेत्कारिणीतन्त्रे || जननं (जजनमिति पाठः) जीवनं चैव ताडनं बोधनं तथा | अथाभिषेको विमलीकरणाप्यायनं ततः || ७ब्) तर्पनं दीपनं चैव गोपनं दशमः स्मृतं | मन्त्राणां मातृकावर्णादुद्धारो जजनं स्मृतं || मन्त्रवर्णाश्च प्रत्येकं प्रणवान्तरितान् तथा | कृत्वा चैव जपेत् तेन जीवनं परिकीर्तितं || मन्त्रवर्णाश्च पात्रे वै प्रत्येकं चन्दनाम्भसा | ताडयेच्चैव मन्त्रेण * *? नं परिकीर्तितं || मन्त्रवर्णांश्च प्रत्येकं ताडयेच्चन्दनाम्भसा | करवीरेण पुष्पेण वर्णसंख्येन बोधनं || दीक्षोक्तेन क्रमेणैव कलसं स्थापयेत् पुनः | यावन् मन्त्राक्षराः सन्ति तावदश्वत्थ पल्लवैः || अभिषिञ्चन् मूलमन्त्रमभिषेचनकं स्मृतं | मनसा मन्त्रं विचिन्त्य ज्योतिर्मन्त्रेण केवलं || मलत्रयस्य दहनं विमली करणं स्मृतं | मन्त्रस्य वर्णान् प्रत्येकं प्रोक्षयेच्च कुशोदकैः || मन्त्रं जपंस्तु मनसा चैतदाप्यायनं स्मृतं | मन्त्रं जपन् जले नैव तर्पणं तर्पनं स्मृतं || तारमाया रमादीनां योगाद् दीपनमुच्यते | जप्य मानस्य मन्त्रस्य गोपनं त्वप्रकाशनं || मन्त्राणां कथितो ह्येते संस्काराः शीघ्र सिद्धिदाः | एवं क्रमेण मन्त्रे गृहीते स्वप्नलब्धादि मन्त्राः सिद्ध्यन्तीति संक्षेपः ज्योतिर्मन्त्रो यथा || ह्रौं || अथ विधिर्द्दीक्षायाः || वामेश्वरतन्त्रे || अथ दीक्षां प्रवक्ष्यामि मन्त्रिणां हितकाम्यया | विना तया न सिद्ध्येत सर्वमन्त्र फलं यतः || तस्मादीक्षेति संप्रोक्ता देशिकैः कर्म वेदिभिः |
SK
चतुर्विधा समुद्दिष्टां क्रियावती वर्णमयी कलावती वेधमय्यपि | ८अ) प्रकाशिता सर्वतन्त्रेनोक्तं तच्चात्र साम्प्रतं || दीक्षानिरूपनं वामकेश्वरतन्त्रे || दीक्षामूलं जगत्सर्वं दीक्षा हि परमं तपः | दीक्षा स्थानं भवेन्नित्यं समुद्रकूरमाश्रयः || कोटिजन्म कृतं पापं ज्ञानाज्ञान कृतं च यत् | दीक्षाग्रहणमात्रेण पलायन्ते न संशयः || ततो वाञ्छित सिद्धिः स्याद्धनधान्य समृद्धिदा | अन्ते देवालयं याति दिव्यसेवक सेवितः || महाकालके तन्त्रे || दीयते ज्ञानमभ्यन्तं क्षीयते पापसंचयः | तस्माद् दीक्षेति संप्रोक्ता वाञ्छितार्थ प्रसाधिनी || ज्ञानं दिव्यन्ततो दद्यात् कुर्यात् पापक्षयन्तथा | तेन दीक्षेति लोकेस्मिन् कीर्तिता तन्त्रपारगैः || ब्रह्महत्या स्वरूपाणां स्वर्णस्ते याति पातकान् | उपपातक लक्षानि हन्ति दीक्षा श्रयोन्नरः || दीक्षितो ब्राह्मणो याति ब्रह्मलोकमनामयं | इन्द्रलोकं क्षत्रियोपि प्राजापत्यं तथा विशः || याति गन्धर्व नगरं शूद्रो दीक्षा स्वभावतः | चतुर्णामेव वर्णानामतो दीक्षा प्रसश्यते || रामार्चने || दीक्षा ग्रहणमात्रेण पापराशिः पलायते | तदेव देव पितॄणां कार्यार्हा भवति स्वयं || अथवा यत्कृतं कर्म हुतं भश्मनि तुल्यवत् || महोग्रताराकल्पे || कल्पे दृष्ट्वा तु ताराया यो गृह्नाति सनराधमः | मन्वन्तर सहस्रैस्तु निस्कृतिर्नैव विद्यते || गुरोर्मुखान्महाविद्याङ्गृह्नीयात् पाप नासिनीं | कृष्णपक्षस्य चाष्टम्यां शुभे लग्ने शुभे क्षणे || पूर्वभाद्रपदे युक्ते मित्रतारादि संयुते | अथवाप्यनुराढायां रेवत्यां वा प्रशस्यते || जानीयाच्छोभनं कालं मन्त्रस्य ग्रहणं प्रति | इषे चैव विशेषेण कार्तिके च विशेषतः || अष्टोत्तर शतं होमं बिल्वपत्रेण जायते | अथवाष्टादशं कुर्यादष्टाविंशति वा पुनः || पायसं कृषरं दद्यान् मोदकं खण्डशर्कराः | बलिन्दद्याच्छागलन्तु गोधामांसमनुत्तमं || जवक्षीरन्ततो दद्यात् शाल्यन्नं मधुना युतं | नारिकेल जलं दद्या * * *? तदेव करं ||
SK
गोभूहिरण्यवस्त्राद्यैस्तोषयेद् गुरुमात्मनः | सर्वस्वं दक्षिणां दद्यातदर्द्धम्वा दयान्विते || यथा ददाति संतुष्टः प्रसन्न * * * *? | दीक्षितस्य च || यथा वाराहीतन्त्रे || अदीक्षिते च मरणं रौरत्नान्न निवर्तते | तस्य * * * * * *? तन्त्रमाश्रित्य तान्त्रिकः || मृडालीतन्त्रे ||? मायेया मोहिता यस्तु किन्नरैः परिवेष्टितः | स दीक्षां नैव सम्येत नरक भ * * ता * *? || अथ दीक्षा विहीत * *? वर्तते भुवि पाप हाक् | मोहान्धकार नरके गर्ते पतति दुःखितः || दीक्षाहीनोऽशुचिर् * * * * * *? सर्वकर्मसु * ९अ) मन्त्रयामले || अदीक्षितेन मन्यहं कृतं सर्वमनर्थकं | पशु योनि मवाप्नोति दीक्षाहीनो शुचिर्नरः || योगिनीतन्त्रे || अमान्त्रिकं नरं दृष्ट्वा किञ्चित् कार्यन्न कारयेत् | अमान्त्रिको हि पुरुषो मूर्तिमान् मृगदंशकः || तस्मात् सर्वर्थैव दीक्षा कर्तव्या || अथ तात्कालिकी दीक्षा || दीक्षा सामान्यमेतत् तु सूर्यग्रहे फलं शृणु | चन्द्रग्रह स * स्रेण सूर्यग्रह समो भवेत् || धनमायुः पुत्र लाभः श्रीसन्मानयशः प्रदः | पापक्षय करो मन्त्र सैंहिकेय गते च वौ || परमोक्ष प्रदा साम्यान् त्रिकालसिद्धि दायिका | ततो लक्षगुणं प्रोक्तं ग्रहणे निजवासरे || उक्ता तात्कालिकी दीक्षा मन्त्रिणां हितकाम्यया | निषेधवारमासादितो हि लग्नादिकेष्वपि || सर्वकामार्थदा दीक्षा तत्काल सिद्धिदायिका | तस्मादेभिर्वचनैर्गहणादौ लग्न निषेधादि विचारो नास्तीत्यर्थः || अथ गुरुनिर्णयः || षोढार्णवे || शान्तो दान्तः कुलीनश्य विनीतः शुद्ध वेशवान् | शुद्धचारः सुप्रशुद्धः शुचिर्दक्षः सुबुद्धिमान् || आश्रमी ध्यानयुक्तश्च तन्त्रमन्त्रविचक्षणः | निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते || मातृतः पितृतः शुद्धः शुद्धभावो जितेन्द्रियः | सर्वागमानां सारज्ञा देवता हृदयंगमः || समयाचार || शिवगुष्ठे गुरुस्ताता गुरौरुष्टेन कश्चनं | ९ब्) पृथिव्यान्नास्ति तद्द्रव्यं यदत्वा ह्यरिणी भवेत् || देव्यागम शिव वाक्यं ||
SK
गुरु शय्याशनं यानम्पादुका गुरुपीठकं | स्नानोदकं तथा छायां लंघयेन्न कदाचन || अथ सिद्ध गुरुः || अपुत्रो हतपुत्रश्च * *? श्च वामनस्तथा | क्रूद्धश्च कपटी रोगी वहुवकु वल्गकः | एतैर्दोषैर्विहीनाग्रः स गुरः शिष्य * * *? || पितुर्मन्त्रं न गृह्नीयात् तथा माता महादपि | कनिष्ठा *? दराद्वापि वैरि यन्त्रा(?)श्रितान्तथा || प्रमदाद्वा? तथा ज्ञाना * * दीक्षां स * * *? | प्रायश्चित्तं ततः कुर्यात् पुन दीक्षां समाचरेत् || तत्र * * * * * * *? द्दीक्षायते दीक्षाया दीक्षा सिद्धीसां(?) च पितुर्मन्त्रं तथा माता महा *? य * शुद्ध्यति || यदृच्छया कृतं मन्त्रं च्छिन्नं *? ये च्छलेन वा || र्णवे || शान्ता विनीतः शुद्धात्मा श्रद्धावान् *? रण * * * तोधनी || वार्थ तत्परः | मात्ततः पितृतः शुद्धः शुद्धभावो नितेन्द्रियः || १०अ) मन्त्रकार्ये महोत्साहो दाता वित्तानुरूपतः | एवङ्गुणसमायुक्तः शिष्यो भवति तत्परः || अथ निषिद्ध शिष्यः || षोढार्णवे || शठे क्रूरे च मूर्खे च चुम्बके भक्ति वर्जिते | मन्त्रं न दूषिते देयं सुबीजं विपिने यथा || परदाररते चापि च्छलग्राहिणि रागिणि | न देयं परशिष्यभ्यः परचर्यारतेषु च || अति साहसिके चैव कुलमार्ग विनिन्दके | कुलनिन्दा परे वापि न च मन्त्रं न्यसेत् क्वचित् || अथ गुरुभक्ति निर्णयः || कुलागमे || हुतमेक गुणं वह्नौ दत्तं लक्षगुणं गुरौ | लभ्यते कोटि गुणितमविमृतत् परामृषेत् || यत्र नास्त्यग्र विश्वासः कुरुते धनसंचयं | राजभिर्नीयते चौरैस्तस्करैर्नीयते वलात् || अधितिष्ठति पक्षाश्च वह्निर्वहति वा चिरात् | त्यक्त्वा निखातं म्रियते सत्यं तेन न तुद्यते || सिद्धस्यापि ततः पुंसो मोक्षार्थी कर्म कुर्वतः | विघ्नं कुर्वन्ति सततं देवतादि निरूपिणः || नाना मुक्त्या भ्रामयन्ति मतिन्तस्य मुमुक्षतः | वित्तशाठ्यं परित्यज्य सर्वकार्याणि कारयेत् || वित्तशाठ्यन्निहन्त्याशु पुत्रमापुर्यशो बलं | गुरु देवं वञ्चयित्वा यत् कुरुते धन संचयं ||
SK
तेन तद् दुह्यते नैव ह्रियते वाथ तस्करैः | गुरु मूलमिदं सर्वं तस्मान्नित्यं गुरुं यजेत् || तेन तद्रुह्यते नैव ह्रियते वाथ तस्करैः | गुरुः पिता गुरुर्माता गुरुरेव स्वयं शिवः || १०ब्) शिवे रुष्टे गुरुस्त्राता गुरौरुष्टेन कञ्चन | गुरोर्हितं हि कर्तव्यं वाङ्मनः काय कर्मभिः || अहिताचारणाद् देवि विष्ठायां जायते कृमिः | आज्ञा भङ्गं गुरोर्देवि यः करोति समूढधीः || स जाति नरकं घोरं पिशाचत्वमवाप्नुयात् | इति गुरु भक्ति संक्षेपः || अथ दीक्षाकाले नियमः || कुलार्णवे ज्ञानार्णवेपि || शुक्लपक्षे शुभे दिने शुभवारे वरानने | मन्त्राघोराधनं कुर्याद् ग्रहणे चन्द्रसूर्ययोः || न वारे मास दोषोपि ग्रहणे चन्द्रसूर्ययोः | पवित्र पूर्व देवेशि संक्रान्त्याद्या शुभे दिने || चैत्रेऽनिष्ठफलं ज्ञेयं नीच जायत लोचने | वैशाखे क्षेत्रलाभञ्च ज्येष्ठे च मरणं भवेत् || आषाढे बन्धुनाशं च श्रावणे च शतायुधं | क्षमी भाद्रपदे मासि आश्विने रत्नसंचयः || कार्तिके तु भवेल्लक्ष्मीर्मार्गशीर्षे धनं महत् | पौषे तु सकला भोगा माघे सम्पत्तिरुत्तमा || फाल्गुणे सर्वकार्याणि मासानां फलमीदृशं | एवं सर्वशुद्धमासलग्नादौ दीक्षां कुर्यात् || तत्र क्रमः || पूर्वदिने निरामिषमेकवारं भुक्त्वा सर्वपापक्षयकामोहमयुत गायत्री जपेत् || अपर दिने छाया मण्डपं गत्वा सर्वतो भद्र मण्डलं विलिख्य यथा संपत्ति गुरुवरणं कृत्वा तत्र द्विगुणतस्तु वेष्टितं पञ्च रक्तोदरं पञ्च पल्लवास्यं नववासो ११अ)
SK
युगाच्छादितं कुम्भं संस्थाप्य तत्र यथा विभवं शिष्य देवतां संपूज्य आत्म वामे स्नातं शिष्यमानीय संकल्पं कारयेत् | अद्येत्यादि प्राग्जन्मार्जित पापसंचयक्षयपूर्वक उत्तमकामप्राप्ति कामो दीक्षामहं करिष्ये इति संकल्प्य भूतशुद्ध्यादिकं कुर्यात् ततः कृतभूतशुद्धौ शिष्ये गुरुः शिष्य शिरसि दुर्वाक्षतन्दत्वा मातृकान्यासमुपदिश्य दक्षिणकर्णे ऋषिच्छन्दो देवतादीनि कारयेत् ततः शिष्य शिरसि निवृत्यादिन्या संविधाय तद्यथा पादतलार्जानु पर्यन्तं निवृत्त्यै नमः जानोर्नाभिपर्यन्तं प्रतिष्ठां नाभेः कण्ठावधि विद्यां कण्ठाल्ललाटावधि शान्तिं ललाटान् मस्तकावधि शान्त्यतीतां विन्यस्य व्युत्क्रमेण च विन्यसेत् || दक्षिण कर्णे मन्त्रं तिस्रो ब्रूयात् || ततो गृहीत मन्त्रं शिष्योपि यथाशक्ति जप्त्वा आत्मानो मन्त्र देवता यथा विभवं पूजयित्वा गुरवे यथाशक्ति दक्षिणां दद्यात् यथोक्तानुसारेण वलिदान होमादिकञ्च करणीयं || तदग्रेलि षिष्याम इति संक्षेपः || श्रीरसारमणदेवशर्मणा निर्मिते निगमसारनिर्णये त्याज्यमन्त्र गुरुशिष्य तत्र दीक्षिते शुभे दिने पुरश्चरणमाचरेत् || तत्र स्थान नियमः || पुरश्चरण चण्डिकायां || पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकं | ११ब्) तीर्थ प्रदेशाः सिन्धूनां सङ्गमोङ्गारणं वनं | उद्यानानि विविक्तानि विल्वमूलं तलं गिरेः || तुलसी काननं गोष्ठे वृषसून्यं वृषालयं | अश्वस्था मलकी मूले गोशाला जल मध्यतः || देवतायलानं कूलं स्वच्छ द्रव्यं निजं गृहं | गुरूणां सन्निधानञ्च वित्तैकाग्रस्थले तथा || प्रेत भूम्यादिकञ्चैव तत् तत् कल्प प्रकाशितं | एषा मन्यतमं स्थानमाश्रित्य जपमाचरेत् || अथासने निर्णयः || पुरश्चरण चण्डिकायां || सर्वसिद्ध्यै व्याघ्रचर्म ज्ञानसिद्ध्यै मृगाजिनं | वस्त्रासनं रागहरं नेत्रजं श्रीविवर्द्धनं || कौषेयं पुष्टिदं प्रोक्तं काम्बलं दुःखमाचनं | अभिचारे कृष्णवर्णं रक्तञ्च वश्य कर्मणि ||
SK
शान्तिके धवलं प्रोक्तं चिबुकं(?) सर्वकर्मसु | विद्वेषे जाम्बुकं प्रोक्तं भवोद्गा चर्म शान्तिके || वंशासने च दारिद्र्यं दौभाग्यं दारुजासने | धरण्यां दुःखसम्भूतिः पाषाणे दुःखसम्भवः || तृणासने यशो हानिः पन्नगे चित्त विभ्रमः | इष्टकायामधाधिः स्यादेवत्साधारणे जपे || अदीक्षितो वसत् क्वापि कृष्णसाराजिने गृहे | वसेद् यतिर्वनस्थश्च ब्रह्मचारी च स्नातकः || कुशाजिने * * कार्य चतुरस्र समन्वितः | एकहस्त द्विहस्तम्वा चतुरङ्गुलमुच्छ्रितं || स्वस्तिकादि क्रमेणाथ वसेत् तत्र निराकुलः | स्वस्तिकं पद्मकं वीरं सिद्धञ्चेति चतुष्टयं || जपेत् प्रशस्त मेतत् तु प्रसङ्गा देव कीर्तितं | १२अ) अथ निषिद्धासन निर्णयः || स्त्रिपुरामहार्णवे || आम्रनिम्बकम्बानामासनं सर्वनाशनं | वकुले किंशुके चैव पनसे च हताश्रियः || दीप स्थानस्य लाभय कूर्मचक्रमथोच्यते | अथ वक्ष्यामि देवेशि कूर्मचक्रे मनूतमं || आदौ च वर्तुलं कृत्वा नवकोष्ठानि कारयेत् | नवभागं मध्यकोष्ठः तथैव पूर्वते लिखेत् || कवर्गादि सप्तवर्गं लक्षमीशे तदन्तरं | मध्यस्य वसुकोष्ठेषु स्वरांश्च युग्मशो लिखेत् || मध्य कोष्ठे क्षत्र नाम चक्रं कूर्माष्यमुत्तमं | यस्मिन् कोष्ठेक्षर नाम पूर्ववर्णं मुखं स्मृतं || मुखस्य पार्श्वे योः पानि युग्मपार्श्व द्वयन्ततः | कुक्षि स्थानं पादयुगं ततोऽन्ते पुच्छमालिखेत् || मुखे कार्यानि सिद्ध्यन्ति स्कन्धे क्लेशमवाप्नुयात् | उदरे दुःखमधिकं पादयोर्हानिरुच्यते || पुच्छे तु धन हानिः स्याद् दीप स्थानं मुखं स्मृतं | दीपस्थानस्य लाभाय कूर्मचक्रोयमीरितः || एवन्दीप स्थानं निश्चित्य यथोक्त स्थानासने पुरश्चरणं कुर्यादिति संक्षेपः || अथ भूतशुद्धिः || रामार्चने चण्डिकायां || भूतशुद्धिं विनाकर्तुर्जपहोमादिकाः क्रियाः | भवन्ति निस्फलाः सद्यः प्रकारणाप्यनुष्ठिताः || कुलार्णवे || भूतशुद्धिं विधायाथ वाग्वग्नि ललिलान्दारैः | शोषदाह प्लवान् कृत्वा कला विद्या विदैः क्रमात् ||
SK
कला विद्या विदैर्देवि पूरकादि क्रमेन तु | १२ब्) शोषयेद् दाहयेत् पाप पुरुषं कुक्षिसंस्थितं || वाराहीतन्त्रे || शोषनं दहनं भस्म प्रोन्मुदामृतकर्षणं | आप्लावनञ्च कर्तव्यं चिन्तामात्रं विशुद्धये || इति भूतशुद्धि भेदः || अथ प्राणायामः || इडया कर्षयेद् वायुं वाह्या षोडश मात्रया | धारयेत् पुरितं मन्त्री चतुःषष्ट्या तु मात्रया || सुषुम्ना मध्यगं सम्यक् द्वात्रिंशन् मात्रया शनैः | नाड्यापिंगलया चैव रेचयेद् गुरुमुत्तमं || यैरेष संत्यजेदेनं पूजये धारयेत् ततः | रेचनं च ततः कुर्याच्छनैरेव पुनः पुनः || मुक्तं मुक्तं पिबेद् वायुं मुक्तं मुक्तं धारयेत् | मुक्तं मुक्तं पिबेद् देवमेवं सिद्धिमवाप्नुयात् || अगस्त्यसंहितायां || पञ्चमीतन्त्रेपि || यथा शक्त्यापि चिद्वायुं यथाशक्त्या च कुम्भयेत् | स्वभावञ्च पिबेद् वायुं तत्रैवा सिद्धिमाप्नुयात् || प्राणायाममिदं प्राहुर्योगशास्त्रविशारदाः | भूयो भूयः क्रमात् तस्य रेच्यांशे च पुनः पुनः || तर्जनी मूल पर्यन्तं कनिष्ठा मूलमादितः | वर्णैः षोडशभिर्भिन्नां मात्रा वर्ण विदुर्वुधाः || दक्षिणामूर्तिसंहितायां || प्राणायामं चरेन् मन्त्री विधिनासुसमाहितः | मूलमन्त्रेण देवेशि वामनापूर्य चोदरं || कुम्भकेन त्रिधा वृत्या दक्षिणेन चरे च येत् | कालीतन्त्रेपि || प्राणायाम त्रयं कुर्यान् मूलेन प्रणवेन वा | १३अ) कनिष्ठानामिकाङ्गुष्ठैर्यन्नाशापुट धारणं | प्राणायाम सविज्ञेयः तर्जनी मध्यमे विना || इति प्राणायाम प्रकारः || अथ यन्त्रादि निर्णयः || श्रीक्रमसंहितायां || सारग्रामे मणौ यन्त्रे प्रतिमायां पटेषु च | सूर्ये वह्नौ तथा तोये लिंगविम्ब घटेषु च || आकाशे पूजयेन् नित्यं प्रशस्ता द्वादश स्मृताः | सौवर्णे राजते ताम्रे भूर्जपट्टे तथा भुवि || विना यन्त्रेण यायूजा देवता न प्रसीदति || त्रिपुरा महार्णवे || यन्त्र मन्त्र मयं प्राहुर्देवता मन्त्ररूपिणी | देहात्मनोर्यथा भेदो मन्त्र देव तयोस्तथा || मननान्त्रा मतीतीह मन्त्रमित्युच्यते वुधैः || कुलामृते ||
SK
शमत्यखिल पापञ्च त्रायते महतो भयात् | साधकं पूजनाद् ध्यानादिति यन्त्र मयं वपुः || देव्युवाच || कोर्था यन्त्रस्य देवेश को मन्त्रस्यार्थ उच्यते | मुद्रा सा उच्यते कावो तन्मे ब्रूहि शिव प्रभो || ईश्वर उवाच || यन्त्रं शरीरमित्याहुर्मन्त्रज्ञानमखण्डितं | शरीरं विधं प्राहुर्भौतिकञ्च मनामयं || परं ज्ञानमयं नित्यं जलराशि निरन्तरं | मुद्रा भौतिकमित्याहुर्यन्त्रमृद्धि मनामयं || यन्त्रं ज्ञानमयं विद्धि एवं त्रिधा वपुर्भवेत् | मुद्रापि मानसं पुंसोर्थ भौतिके नास्ति निश्चयं || विना शिष्याद् द्वयं तस्मादेक संस्थमिति स्मृतं || पार्वत्युवाच || १३ब्) श्रुतं यन्त्रं शरीरं मे प्राणेश भक्त वत्सले | मुद्रा शरीरं मे ब्रूहि यदि तुष्टोसि मे प्रभो || ईश्वर उवाच || योनिरूपा महामुद्रा शरीरमिति कीर्त्यते | संक्षोभ द्रावणाकर्षवश्योन्मादमहाङ्कुशा || खेचरी बीज रूपा च * * *? नि प्रकीर्तिता | एता महामेक * * *? स्वमासेन प्रकीर्तिताः || कुलामृते || त्रायते महतः माया(?) * * नान्ध *? मयात्? aniśaṃ * * * * * * * * * * * śrīcakraṃ * * * *? | evaṃ yathokta prakāreṇa puraścaraṇepi mantrān siddhyanti * * * * * * * * * * ādimena tu supto sā madhya *? na tu kīlitā | antimena tu chinnā sā tena vidyā na siddhyati || tathā tantracūḍāmaṇau || * * *? uvāca || mātaḥ sarva prapañcānāṃ sākṣī * * * * *? ni | tava krodhabhaye naiva vaktuṃ śaṃkāstimādṛśaḥ || prasīdasi yadā madhyaṃ prasādaṃ kuru me prabhaḥ | kimarthaṃ hṛdaye śunyaṃ tanme bruhi kṛpānidhe || devyuvāca || a * * * *? ṣaṇaiva * * * *? sadāśivāḥ | te *? pūjā mahādevyā dvaina śuṣyāḥ sadāgatāḥ || etā sā *? yathā goptātvameva jagatāṃ prabho | 14a) na brahmā na haristā dṛk naivāhaṃ puruṣarṣabhaḥ || bhaktenābhyarthito viṣṇuḥ śararīravyayena tu | lokānugraha kāmyena bhaviṣyati yuge yuge || matsyādi rūpamādhāya matpūjā yā prasādataḥ | lokārthaṃ vedavādādi uddhūtaṃ parameśvara ||
SK
सत्वगुण स्वभावेन सर्वत्र समतां गतः | कीट पक्षि पतङ्गादि मनुष्येषु समो भवेत् || यथा कथं चिद्भक्ताय आस्मानं स प्रदास्यति | एत देव समाचारस्तत्वे बोधः प्रवर्तकः || तथापि समयाचारे न दातव्या परात्मिका | यदि जन्म सहस्रेण शिष्येण सेवितो गुरुः || प्राणै धनैर्जनैर्वापि न देया प्रिय निश्चितं | यस्याक्षरैक मात्रेण नारदोपि च देशिकः || तासां वत्स प्रसादेन सृष्टि चिन्ता कथं भवेत् | सर्वे ब्रह्मात्मनो देव यदि यास्यन्ति विद्यया || कैवसृष्टिः किमत्रापि कार्यं स्याद् वद भैरव | सर्वे विष्णुर्महेशश्च सर्वे शक्र दिवाकरौ || न्युनाधिक परावृत्तिः कथं स्याद् वद भैरव | इति मत्वा मया देवि सृष्टि चिन्ता परात्मना || शप्ताः सर्वा महाविद्याः सप्त्यर्थं सयने स्थिताः | ततः सर्व समागम्य मन्त्रसुप्ति गत प्रभाः || ब्रह्मादयः सुराः सर्वे स्तुवन्ति भय विह्वलाः | मातर्देवि जगद्धात्रि जगदुत्यात नाशिनि || देहि मूर्द्ध्नि पदच्छायां विच्छायान् कुरु मादृशान् | स्रष्टार्थमेव देवेशि त्वमेव स्थिति कारकः || १४ब्) संहारकस्त्वं हि * * त्वमेव हि पुनर्भवः | कार्यं त्वमेव देवेशि त्वमेव कारेण प्रभो || अविद्या विद्ययोर्भेदस्त्वमेव हि तदात्मकः | द्वैताद्वैत विभिन्नस्त्वं परमात्मा स्वरूपतः || सच्चिदानन्दरूपेण स्थितात्वं परमा कलाः | स्त्रीपुंनपुंसकैरैक्यं त्वमेव हि जगत्पते || त्वद्भेदास्त्वयि जायन्ते लीयन्ते च तवैव हि | यथोत्पन्नो महाविद्यास्तथैव संहृता यदि || प्रसीद तु पद द्वन्द्वं विशन्तु तत्र देवताः | सूत्रसञ्चार दक्षेण यथासंचरतोखिलं || अचेतनं कोष्ठलोष्ठं चर्मपुत्तलिकादिकं | तथा त्वयैव निर्दिष्ट्या नयं ब्रह्म हरादयः || चित्रपुत्तलिकाः सर्वे कर्तारौ हरण क्षमाः | इत्युत्वा चरणे देव प्रविष्टाः सर्वदेवताः || शापोद्धारञ्च वक्ष्यामि गुरुस्त्वं च भविष्यसि | यासौ स्वप्नावती विद्या त्रिषु लोकेषु गोपिता ||
SK
सर्वाविद्या विवुद्ध्यन्ते तयैव विभुना विभो | रात्रौ सर्वं समालिंग्य या मूला प्रकृतिः परा || उद्वाधत् प्रापयित्वा तु दिवा कोटरमध्यगा | एतयैव पुरा देव विश्वामित्रेण धीमता || साधिता त्रिपुरा देवी सर्वसम्पत् प्रदायिनी | कर्ता हर्ता ततो देव स भविष्यति निश्चितं || ततो ब्रह्मस्तवे नैव सापि शप्ता महाकुलं | तवाराधनमात्रेण साचान्यत्र स्वजीविनी || मर्दिनी परमा विद्या नारदेन समर्चिता | त्यक्त्वा तेन प्रेष्य भावं विष्णु तुल्यो भविष्यति || १५अ) शब्द ब्रह्मेति तां मत्वा वीणावादन तत्परः | तत् सत्व गुण योगस्य स्थितो विष्णोस्तु सन्निधौ || त्वत् प्रसादान् महादेव त्वमेवाहं यतो गतः | अतस्त्वमेव मच्चित्ते सुप्ता तव जगत्पते || विष्णोराराधनांत्पूर्वं यस्त्वां न पूजयिष्यति | तस्य पूर्वं फलं देवि हनिष्यसि न संशयः || एवं वरं ततो दत्वा साप्ति सुप्ता महोन्मुखी | चर्यानाथेन सा देवी जीवनी जीविता भवेत् || तेन सेयं परा विद्या न देया यस्य कस्यचित् | योगमार्ग प्रसादेन तवोपदेश मन्त्रतः || जीविता सा ततो देव भवता तादृशी कृता | इत्यादि शोकसन्ताप दुरिताहं तवान्तिक || स्मारं स्मारं पुनः दुःखं नवीभूतं जगत्प्रभो || भैरव उवाच || देवि मे हृदयं भाव जर्जरं तव भावने | निष्ठुरे दुःख कूपौघे कथं मां क्षिप्रसि प्रभो || ये यं विद्या महाविद्या त्रिपुरा परमेश्वरी | त्वमेव मर्दिनी देवी द्वयोस्तुल्यं परं कुलं || मयो यास्म्या महादेवी चिद्रूपा मर्दिनी कुलं | कथं जीवामितच्छ्रीघ्रं यन्मे कृपय चण्डिके || तूलराशिर्यथा वह्नौ वह्नि तोये यथा कुले | देशिको हरिभक्तश्च यथा मूर्ध्न्यशनिक्षतं || क्षणं स्थातुं न शक्नोमि मातर्देवि नमोऽस्तुते | देशिकोऽहं भविष्यामि तवाज्ञा वलतः प्रिये || काम् विद्याम् प्राप्य देवेशि तवाधिको भवाम्यहं || श्रीदेव्युवाच || उत्तिष्ठ वत्स सर्वज्ञ विना प्रशमनङ्कुरु | आकाशास्पतिते वह्नौ मयासौस्तन भावया ||
SK
वह्निशक्तिं समुल्लघ्य? जीविता विभुरूपिणी | ततः सा सर्व विद्यानां सुप्तबोध(?) प्रदायिनी || एषा स्वप्तावती गुप्ता सर्वलोकेषु गोपिता | द्व्यक्षरी परमा विद्या त्र्यक्षरी स्वर (स्वरभाषितेपि पाठः) भाषिता || उभाभ्यां योग * * * सर्व * *? प्रबोधिनी | अस्यार्थः || आकाशो हकारः वह्नीरेफः मालक्ष्मीः तया ईकार स्वरूपयास्तने भारो विन्दुः तेन ह्रीमिति सिद्धं? * * *? स्व आहुतीय * * * उभाभ्यां योगमासाद्य सर्वविद्या प्रबोधिनी तेन * * * * सकलवारं जप्तेन सर्वविद्या प्रबोधः | स्वप्नावती विद्यां संपुटी कृत्या नया पञ्च कुटा स्वष्मावती पूर्वाक्षा (ठिस् लिने इस् बोत्तोम् ओf पगे) एषा विद्या महाविद्या कल्पान्तेपि भूव * * *? | नैव यास्यत्यकस्माद्ब्रह्मनापि सास्वभिष्यते(?) || तेन सापि यथा यावा(?) तत्किं वत्स वदाम्यहं | तव भक्त्या पुनर्वक्तुं शोको मुक्त्ययते(?) ध्रुवं || इति सप्तासती(?) विद्या सत्या देव्या समर्चिता | हरस्य गृहिणी जाता तस्या देव्याः प्रसा *? तः || कालविपाकमापन्ने विपन्नासामसती | तष्कोकानलदश्चेएन हरण(?) विकलीकृत || मस्तका हसमादाय भ्राम्यते हि जगत् त्रये | देव कृत्या ततो जाता सृष्टिनाश प्रसङ्गतः || १६अ) ततस्तनौ प्रविश्यासु सनिना तत् तनूकृतं | खण्डखण्डं विधायाथ पतितं भुन त्रये || उपास्यात्म गुणे नैव तया तनुर्विमुच्यते | देवी कूटे पादयुग्मं उड्डियाने उरु द्वयं || कामतिरौ महायोनि तद्भूमौ नाभिमण्डलं | जालन्धरं स्तनयुग्मं अंशग्रीवे च भैरव || पूर्वगिरौ कामरूपाभ्यन्तरे देविकाशिरः | कामरूपे द्विजेशेन नामकेन द्विजेन वै || कायेन मनसा वाचा चिरं देवी प्रपूजनात् | कामाख्या योनिमालम्ब्य स्वप्ने सालभते सुखं || तत्र स्थित्वा ततो ज्ञाने जायते स समुञ्चितः | सन्यासि रूपमास्थाय स हि सिद्धिश्वरो भवेत् || कदापि करुणा दृष्ट्या विलोक्य द्विज वालकं | स्वकीय योग विघ्नार्थं तस्मै दत्ता भविष्यति || तेनापि पाप वटुना ज्ञानहीनेन सर्वदा | सर्वसिद्धि समायोगात् तावद् वत्स प्रकाशिता ||
SK
एवं क्रमेण देवेश म्लेच्छान्ते यं भविष्यति | यदि यं भवता गोप्या दीपनीत्वे प्रदापये || तनुतन्त्रेण विद्येयं कदाचिच्छिष्यगोचरा (गोचर इति पाठः) | या स्यात् दीपनी कुल भैरव सैव साध्या वसानेषु सुन्दर्याः षोडशी भवेत् | जाग्रद् दशांश मापन्ना सापि देवी भविष्यति | अथवा शक्ति कूटान्तः शक्तिबीज पुरो गतः || शक्तिर्नाथ तदा देवी सर्वसिद्धि प्रदा भवेत् | एतदेव महादेव न प्रकाश्यं कदाचन || १६ब्) तारमाया रमादीनां प्रत्येकं योजनाद् भवेत् | एवं तारमाया रमादीनां प्रत्येकं स्वप्नावती मन्त्रादौ योजनात् सर्वविद्या प्रबोधो भवति एतन स बीज स्वप्नावती(?) आदौ(?) तदुक्तं श्रीक्रमे मन्त्रनिर्णये || श्रीमन्त्रिपुरसुन्द * * *? थ वक्ष्यामि दीपनीं || * * * *? तच्छिष्यादि दा * * आदिमे न तु सुप्ता सा मध्यमे न कीलिता | अन्तिमे न तुस्थि *? सा * * *? विद्या न सिद्ध्यति || अतस्ते * * * * *? रथ मता परमदुर्लभं | वाङ्माया क्रमला? चैव वाग्भव * *? विद्या जयेत् | प्रणवं लक्ष्मि वाग्बीजे * * *? भुवनेश्वरीं || एवं जप्त्वा तु मन्त्रज्ञा वाग्भवाख्यान्त मु * *? | भावं वाग्भवं बीजं रसो * *? ध मायया || स्वप्नावत्या महाकूटं प्रज * *? समाहितः | मन्मथं स्वधरं कामं रमाञ्च भुवनेश्वरीं(?) || मधुमती ततो य *? मायांदीं चर्म बीजकं | फट्कारं प्रणवाद्यन्तं शिवशक्ति *?वीकृतं || एषा * * * *? विद्या अजवा प्राणदायिनी(?) | पञ्चमी परमा विद्या सिद्धिदा सा तदा भवेत् || अस्यार्थः || प्रणवं ॐ लक्ष्मी श्री वाक् ऐं मन्मथं क्लीं भुवनेश्वरीं ह्रीं एतेनायं मन्त्रः | ऐं ह्रीं श्रीं क ए? ई ल ह्रीं | १७अ) ॐ श्रीṁ ऐṁ क्लीṁ ह्रीṁ हसकल ह्रीं || ॐ ऐṁ श्रीं क्लीं ह्रीं हकहल ह्रीं क्लीं एं क्लीं श्रीं ह्रीं क हसल ह्रीं हस ॐ ह्रीं द्रीं हूं फट् ॐ हसहकलस ह्रीं एवं कृते पञ्च सिद्धा भवतीत्यर्थः || अपरञ्च प्रवक्ष्यामि मन्त्रिणां दुर्लभं परं | माया श्री मदनश्चैव श्रीमाया मदनैरपि ||
SK
मदनैर्मायया श्रीश्च श्रीर्मदनमायया | मायया मदनैः श्रीश्च कथिता च त्रिपञ्चिका || नास्त्यस्याः सदृशी विद्या विद्यते भुवन त्रये | भैरव्याश्च महातन्त्रे विद्या परम दुर्लभा || सिद्धासुनिर्मला शान्ता त्रैलोक्य वशकारिणी | पञ्चकूटादि दत्वा जपेद् वै पञ्च पञ्चमी || तेन ह्रीं श्रीं क्लीं | श्रीं ह्रीं क्लीं | क्लीं ह्रीं श्रीं | श्रीं क्लीं ह्रीं | ह्रीं क्लीं श्रीं एवं त्रीणि त्रीणि वीजानि प्रत्येकं पञ्चकूटादिके दत्वा जपेत् तदा पञ्चमी सिद्धा भवति || अन्यासां सर्वविद्यानां प्राणं वक्ष्यामि साम्प्रतं | रमा माया हंसबीजं वाग्भवाद्ये सुदुर्लभं || शक्त्यन्तेहं स वीजन्तु महामाया रमा तथा | एतैर्युक्तेन नियतं विद्या जपनमा चरेत् || अस्यार्थः || रमा श्रीं माया ह्रीं हंसबीजं हंसः वाग्भव कूटस्यादौ दद्यात् | शक्ति कूटान्ते तु हंसबीजं हंसः महामाया ह्रीं रमा श्रीं एतैर्वीजैः पूर्वापरस्थैः सर्वविद्या प्रबोधो भवति || रमाबीजेन युक्तेन धर्ममोक्ष सुखप्रदा | ह्रींकारेण पुत्रदा नित्या नानार्थ संचय प्रदा || १७ब्) हंसबीजे नक्तेन नानाकाम प्रदायिनी | मोक्षन्तु प्रणवोद्यन्ते निश्चितं दुर्लभं परं || एतच्च कथितं सारं परञ्च कथयाम्यथ | एतेन श्रीं ह्रीं हंस इत्यादौ वीज त्रयं कृत्वा(?) सर्वविद्यायाः शक्ति कूटान्ते हंसः क्रीं श्रीं इयं सर्वश्रीविद्यासुदीपिनी || तार माया रमा काम वाग्भवैर्वाग्भवं जपेत् | तदेव विपरीतन्तु कामबीजं नभोन्वितं || स तारं वाग्भवं काम नमा माया समन्वितं | चैतन्यं कथितं सारं परञ्च कथयाम्यथ || अस्यार्थः || तोय ॐ माया ह्रीं रमा श्रीं कामः क्लीं वाग्भवः ऐं तदेव विपरीतं वाग्भवाद्यं कृत्वा नभोन्वितं हकार युक्तं कामराजमित्यार्थः | तार ॐ वाग्भवं ऐṁ कामः क्लीं रमा श्रीं माया ह्रीं || तेन ॐ ह्रीं श्रीं क्लीं एं वाग्भव कूट ऐं क्लीं श्रीं ह्रीं ॐ कामकूट ॐ ऐं क्लीं श्रीं ह्रीं शक्तिकूट इयञ्च श्रीविद्या दीपिनी || अपरञ्च ||
SK
वाङ्माया कमला बीजं वाग्भवाद्य नियोजयेत् | वेदाद्यं लक्ष्मि वाग्वीजे मन्मथं तदनन्तरं || माया बीजं ततो दत्वा वाग्भवाख्यं समुच्चरेत् | आद्यन्ते तार मायान्तु मध्ये श्रीबीजसंयुतं || तारस्यान्ते वाग्भवन्तु कामबीजं तथा स्थितं | एवमेतत् समुच्चार्य कामराजं समुच्चरेत् || एतस्या एव विद्याया मध्ये कामं नियोजयेत् | मन्मथादिस्थमधरं श्रीबीजं मन्मथान्तरं || एवं क्रमेण संयोज्य शक्तिकूटं ततोच्चरेत्(?) | इयञ्च दीपनी प्रोक्ता सर्वतन्त्रेषु गोपिता || १८अ) तेन ऐṁ ह्रीं श्रीं एं ॐ श्रीं एं क्लीं ह्रीं वाग्भवे | ॐ एं श्रीं क्लीं ह्रीं कामकूटे | ॐ ऐं क्लीं श्रीं ह्रीं शक्तिकूटे इयञ्च दीपिनी || अपरञ्च || तारमायाहं सबीजं वाग्भवाद्ये नियोजयेत् | कामबीजन्ततः पश्चाद् ब्रह्मबीजं तदन्तिके || शक्त्यन्ते हंसबीजन्तु प्रजपेत् साधकोत्तमः | इयञ्च दीपिनी विद्या परञ्च कथयाम्यथ || तेन ॐ ह्रीं हंसः वाग्भव कामकूट ॐ शक्तिकूट हंसः इयं च श्रीविद्या दीपिनी | अथवा प्रणवं लक्ष्मीं मन्मथं वाग्भवं परां | एतज्जप्त्वा वाग्भवाख्यमुच्चरेत् साधकोत्तमः || प्रणवञ्चैव वाग्बीजं रमामन्मथ मायया | एवमेव तदा जप्त्वा कामबीजं समुच्चरेत् | प्रणवञ्चाधरं कामं रमाञ्च भुवनेश्वरीं || एवं क्रमेण संयोज्यं शक्तिकूटं समुच्चरेत् | एतच्च कथितं सारं सर्वसिद्धि प्रदायकं || एतागुप्ततमा विद्याः सर्वाश्चैतन्य कारिकाः | आसामेकतमां दत्वा जपेद् विद्यां समाहितः || जपादौ तु जपस्यान्ते गुरुवाक्यमनुक्रमात् | तेन ॐ श्रीं क्लीं ऐं ह्रीं वाग्भवे ॐ ऐं क्लीं ह्रीं कामकूटे | ॐ ऐं क्लीं श्रीं ह्रीं शक्तिकूटे इयं च श्रीविद्या दीपिनी एवञ्च आसामन्यतमं यथोक्त प्रकारेण दत्वा जपारम्भ सकलवारं जपान्ते सकलवारं (सकलप्रकारेमित्यर्थः) जपेदिति संक्षेपः | अपरञ्च || वामकेश्याश्च विद्याया विशेषः पुनरुच्यते | वाग्भवे कामराजे च शक्तिकूटे पुनः क्रमात् || कामबीज क्रमेणैव दीपन्यादि समीरितं (बीजत्रयेणैवेति केचित् पाठः) | १८ब्)
SK
एवञ्च वाग्भवादि कूटे | यदि कामबीजारोपे वामकेश्वर्या दीपनं भवतीत्यर्थः || श्रीरमारमणदेवशर्मणानिर्मिते निगमसारनिर्णये | च्छिन्न *? लित सुषुप्तिवाचकः पूर्वमाद्यपटलः तृतीयकः || इति यद्यपि नानाविधानि साधनो पायानि लिखितानि तथापि भावेन विना मन्त्रो न सिद्धन्तीति भावचूडामणिर्लिख्यते || तत्र चूडामणौ || भैरव उवाच || मातर्देवि महामाये वन्धमोक्षप्रवर्तिनि | इदानीं श्रोतुमिच्छामि गुरुक्रममनुत्तमं || देव्युवाच || गुरुक्रम *? वहुधा मन्त्रविस्तर गौरवात् | काला?नामप्यनादित्यात् कथं तत् कथयामिते || नैव ज्ञात्वा गुरुकुलं नष्ट(?) मार्गो भविष्यति | नष्ट? मार्गान्महाविद्ये न तादृक् फलगोचरे || गुरूणां शिष्य भूतानां नास्ति चेत् संतति क्रमः | तन्त्रमन्त्र्यश्च विद्याश्च निस्फला नात्र संशयः || विंशतिं पुरुषान् वापि नवसुप्त त्रयोपि वा | ज्ञानतो गुरुवंशानां शिष्यः स्यान्नष्टसंतति || स्ववंशा दधिकं ज्ञेयं गुरुवंश शुभाशुभं | जनकादधिकं ज्ञेयं मन्त्रदस्य महेश्वर || तस्मात् सर्वत्र देवेश * *? या च्छृणुतान् गुरुन् | आदौ सर्वत्र देवेश मन्त्रदः परमो गुरुः || परापर गुरुस्वं हि परमेष्ठिरहं ततः | सर्वतन्त्रेषु विद्यासु स्वयं प्राच्या?त रूपिणी || ततः पुरुष(?) रूपश्च(?) तस्मात् स्वगुरु सन्ततिं | १९अ) ते नैवाहं मदंशाश्च मद्भक्ताश्च विशेषतः | सर्व तन्त्रेषु प्रभवः सर्वत्रशुदायकः || शिवःश्चैवाश्च ये विप्रास्तेपि सर्वत्र देशिकाः | गणेशोगाणपत्याश्च गणदीक्षा प्रभुर्मतः || शूरः शौरास्तथा वत्स विष्णुर्विष्णु परायणाः | विद्यौघ गुरवो देव सिद्धौघ गुरवस्तथा || मानवौघाः समासेन कथयामि तवाग्रतः | सर्वतन्त्रेषु मन्त्रेषु प्रोक्तामन्त्र चतुष्टयं || तत्रादौ कथिता देवी तस्याः शृणु गुरुक्रमं | महादेवी महाकाल त्रिपुरश्चैव भैरवः || दिव्यौघ गुरवः प्रोक्ता निद्धौघान् कथयामिते | ब्रह्मानन्दः पूर्णदेवश्चलचित्तश्चलाचलः ||
SK
कुमरः क्रोधनश्चैव वरदः स्मदीयनः | माया मायावती चैव मानवौघान् शृणु प्रिये || विमलः ककरश्चैव भीमसेनः सुधाकरः | मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः || मूलदेवोरन्ति देवो विघ्नेश्वर हुताशनौ | समयानन्दः सहजः विज्ञेया गुरवः स्मृताः || अथ तारा गुरू नवक्ष्ये दृष्टादृष्टफलप्रदान् | ऊर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृध्वजः || दिव्यौघाः सिद्धिदा वत्स शृणुष्वा वहितास्मना | वशिष्ठः कूर्मनाथश्च नीलनाथो महेश्वरः || हरिनाथो मानवौघा नथवक्ष्यामि सद्गुरून् | तारावती भानुमती जयाविद्या महोदरी || सुखानन्दः परानन्दः पारिजातः कुलेश्वरः | १९ब्) विरूपाक्षो फेरवी च कथितं तारिणी कुलं || सिद्धौघे मानवौघे च दिव्यौघे परमेश्वरः | अक्ष्योभ्य सर्वमूर्द्धन्यस्त्रि मूर्तिनामरूपधृक् || अथ स्वप्नावती देवान् कथयामि तव प्रिये | परानन्दश्च पूर्णेशी देवदेवी जनार्दनः || पूर्णेशी सुन्दरी विषमाहुतीरति(?) कामिके | पुरस्त्यो भावसम्पन्नो वीरो कर्षणकर्षिणः || सिद्धौघे च सती देवी भरवश्चन्द्रशेखरः || मा || मानवौघे सतां देवी क्षमापूर्णा कलावती | महेशो विष्णुनामा च गंगेशः स्मरनायकः || कलानन्दः कुमारी च सर्वाश्च संस्कृताः स्त्रियः | विदग्धाः सर्वजातीनां सर्वावस्था गताश्च वा || वाला वा यौवनोन्मत्ता निष्पतिर्वास पुत्रिका | गुरुभावं परित्यज्य योषित्सु यदि साधकः || स्वप्नावती यजेद् वाचा मनसा वपुषापि च | सर्वदोषसमायुक्तस्त्याज्यसौ कुलयांशलः || तस्मात् सर्व प्रयत्नेन विप्रियं परयोषिति | निजास्वपि चनो कार्य मदंशा योषितो यतः || अथ वक्ष्यामिते वत्स षोडशीनां गुरु क्रमं | आनन्दनाथ? देवश्च परप्रकाशकस्तथा || ततः परशिवो देवः परशक्तिस्ततः परं | कौलेश्वरः शक्ति देवाऽकुलेशानश्च * *? कः || सिद्धौघा स कथयिष्यामि भोगः क्लीङ्गश्च भैरवः | समयो देव सहयौ मानवौघान् शृणु प्रिये ||
SK
गगणो विष्णु विमलौ सहजो भवनस्तथा | नीलः खादु प्रियः पश्चात् कथिता गुरुसत्तमाः || २०अ) भैरव उवाच || विद्या चतुष्टयी प्रोक्ता दुर्गया सदृशाधर | तां विहायकं तारा प्रोक्ता परमदुर्लभा || भैरव्युवाच || साधुपृष्ठं त्वया वत्स सर्वप्राणैः सुखावह | यथा तारा तथा दुर्गा विष्मयो नास्ति यद्यपि || तथापि तत्प्रकाशाय भयं जातं पदे पदे | शृणुवत्स महादेव गूरुन् दुर्गामनुद् भवान् || परमात्मा परानन्दः परमेष्ठी शुभोदयः | कृष्णः कोलः कलानाथो दिव्यौघा भैरवादिकाः || नारदः कश्यपः शम्भु भार्गवः कुलकौलिकः | एते पञ्च महादेव सिद्धौघाः परिकीर्तिताः || रुद्राचार्यः क्षमाचार्यः पवनाशन संज्ञकः | कुमारीशः शक्तिधरो घनानन्द प्रकाशकः || हरिशर्माविष्णुशर्मा दत्तात्रयः प्रियम्वदः | वकुलाशाकिनी देवी चर्यानाथः प्रकीर्तिताः || लोपामुद्रा गुरून् वक्ष्ये प्रशङ्गाच्छृणु भैरव | आदौ परेश्वरो देवः परमेशी ततः परं || मित्रीशश्चैव षष्ठीश उड्डीशो दिव्य साधकाः | चर्यानाथो लुपो मुद्रा अगस्ताः कालदीपनः || मानवौघांस्ततो वक्ष्ये धर्माचार्यस्ततः परं | मुक्तकेशीश्वरो देव दीपकोथ एव च || विष्णुः प्रभाकरश्चैव मनोजस्तदनन्तरं | कल्याण देवरत्न देवौ श्रीरामानन्द देवकः || आनन्दनाथ शब्दान्ता गुरवः सर्वसिद्धिदाः | अथवा सर्वशाक्तेषु गुरवः पूर्वसूचिताः || २०ब्) कुलचूडामणौ देव शृणु देव महेश्वरः | येषु येषु च तन्त्रेषु ये ये ऋषि गणाः स्मृताः || ते ते पूज्याः सपर्यादौ संक्षेपाद् गदितं मया | अज्ञानाद् गुरुनाम्नां वै गुरु त्रितय सर्वयेत् || चतुष्टयं वा? सङ्कोचो न कार्यश्च ततः परं | गुरून् परगुरूंश्चैव परापर गुरूंस्ततः || परमेष्ठि गुरूंश्चैव कथिता गुरवस्ततः | गुरूपूजां विना वत्स यदि पूजां समाचरेत् || तदोष समने वत्स कूलपूजां समाचरेत् | विगुणं यच्च? यद् वा स्यात् सगुणं कुल पूजनात् ||
SK
कुला * * करं चेत् स्यात् कुतः प्रोक्षण मार्जनं | क्व स्नानं क्व च वाक् शुद्धिः क्व च न्यास विशोधनं || दीक्षा यन्त्रः कुलीनश्चेत् कुलम्वा वटुकेश्वरः | तद्गेह गुरुमानीय त्वत् पाद स्मरणं चरेत् || न जानामि गुरोर्नाम वंशशुद्धिं महेश्वरि | स्वस्वादाम्बुजरेणुनाकनयो दे?हि दासतां || इति स्तवेन मन्त्रत्यु(?) निजङ्कल(?) गुरुं यदि | तन्नाम्ना पूजयेद् वत्स तेन पूजा गुरोर्भवेत् || स्वप्नावत्यास्तु पूजायां कुलरूपं गुरुं स्मरेत् | कुलं(?) य?धा गुरुस्तत्र न तथा कुलसाधकः || गुरु क्र?मञ्च कथितं न ज्ञात्वा कु * *? लः | न देयं यत्र कुत्रापि योग्य षष्ठे च चम्बुके || पशोरग्रे नद्यैवेषां नामग्राह्यं कुलेश्वर | वैष्णवे शक्ति तन्त्रे वा गाणपत्यऽथवा पुनः || निजं गुरुं तदा ध्यात्वा ततो गुरु चतुष्टयं | २१अ) पूजयित्वा जपेद् देवि न च सङ्कोच माचरेत् | भैरव उवाच || समयाचार संकेतो भावसंकेतमेव च | सूचितन्तु महादेवी कथयस्वानुकम्पया || सर्वतन्त्रेषु विद्यासु भावसङ्केतमेव हि | तथापि शक्ति तन्त्रेषु विशेषात् सर्वसिद्धिदं || भावस्तु त्रिविधो देव दिव्य वीर पशु क्रमात् | गुरवस्तु त्रिधा चात्र तथैव मन्त्र देवताः || आद्य भावो महादेव श्रेयान् सर्वसमृद्धिदः | द्वितीयो मध्यमश्चैव तृतीयः सर्वनिन्दितः || वहुजपात् तथा होमात् काय क्लेशादि विस्तरैः | न भावे न विना देव यन्त्र मन्त्राः फलप्रदाः || किं वीरसाधनैर्देव (* *?) किम्वादृष्टि (* किं पीठ पूजने नैव किं कन्या भोजनादिभिः || स्वयोषित् प्रीति दानेन किं परेषान्तथैव च | किं जितेन्द्रिय भावेन किं कुलाचार कर्मणा || यदि भाव विशुद्धात्मा नस्या भाव परायणः | भावेन लभते मुक्तिं भावेन कुलवर्द्धनं || भावेन कुल गोत्र (कुलर्चि?) वृद्धिः स्याद् भावेनकाय शोधनं | किं न्यास विस्तरेणैव किं भूतशुद्धि विस्तरैः || किम् वृथा पूजने नैव यदिभावो न जायते | केनोना पूज्यते विद्या न च केन च जप्यते ||
SK
फला भावस्तु देवेश भावाभावात् प्रजायते | एतद् रहस्य कथने कतके (* * *?) सममानसं || त्रिलोकी मत्सरी प्रायं सर्वत्र तत्समागमः | २१ब्) ना वीक्ष्य निर्जनं देव कथं तत् कथयामि ते | भैरव उवाच || त्वत् प्रसादान् मया देवि विद्या स्वप्न विवोधिनी | सर्वमाया प्रपञ्चानां दीक्षादक्षा ममाग्रणीः || विद्यते देवि सर्वेषां भूतानां स्वापकारणं | करोमि कथयत्वं मां यदि पुत्रत्वमागतः || देव्युवाच || प्रथमं दिव्य भावस्तु कथ्यते शृणु सादरं | यद्वर्णा देवता यत्र तत् तेजः पुञ्जपुरितं || तेजोमयं जगत्सर्वं विभाव्य मूर्ति कल्पनं | तत् तन्मूर्ति मयैर्मन्त्रैः स्वेना स्वेनैव वा पुनः || आत्मानं तन्मयं दृष्ट्वा सर्वं भावन्तथैव च | तत्सर्वं योगिभिर्द्ध्यात्वा चिन्तये शुद्ध मानसः || अशेषकुल सम्पन्नो नाना जाति समुद्भवाः | नानादेशोद्भवा वापि गुणलावन्यसंयुताः || द्वितीय वत्सरादूर्द्धं यावत् स्याद् दशमावधि | तावत् कुमारी विज्ञेया यन्त्र मन्त्र फलप्रदा || कुमारी पूजनाच्चैव कुमारी भोजनाददि | एक द्वित्र्यादि बीजानां फलदा नात्र संशयः || ताभ्यः पुष्पं फलं वापि अनुलेपादिकं तथा | वालप्रियं च यद् द्रव्यं दत्वा नत्वा च पूजितः || ध्यात्वा तदङ्गे स्वात्मानं वालभाव विचेष्टितः | ताभिः प्रिय कथालाप क्रीडाकौतूहलादिकं || यथा तथा तत् प्रिय कृत् कृत्वा सिद्धीश्वरो भवेत् | तस्मात् षोडश पर्यन्तं भवतीति प्रचक्ष्यते || तत्र भाव प्रकाशश्चेत् स भावः परमो मतः | चरणान् मूल पर्यन्तं पीत्वापि च पुनः पिपेत् || २२अ) तस्यानख शशि ज्योत्स्ना खण्डितान्तस्तमो भवेत् | कमठी खर्पराकारा प्रपदाञ्चल शोभया || स्निग्धान्तः करणो वीरो निर्विकारः सदा भवेत् | स्ववृत्तजानुना चारु जंघोरुजे घनाश्रयैः || नाभिरोमा वलीवक्षः स्थलैः पीनपयोधरैः | ग्रीवा नयन पर्यन्तः केशाग्रैः प्रवरस्मितैः ||
SK
यावन् मधु मदापूर्णं नदीनैः भाव लोलितैः | स्निग्धेन्द्रियश्च संतुष्टः चतुर्वर्ग समाश्रियः (प्रदा पयः?) || निवृत्ति काले पुनस्तस्या भावपूर्णामृतैर्निजं | मुखं विन्दु वदाकारं तदधः कुच युष्मकं || सर्वविद्यामृतापूर्णं सर्ववाग्विभवप्रदं | सर्वार्थ साधकं देव सर्वरञ्जन कारकं || तदधः सपरार्द्धञ्च सुपरिस्कृतमण्डलं | सर्वदेवादि भूतन्तत् सर्वदेव नमस्कृतं || सर्वा ह्लादन सम्पूर्णं सर्वरञ्जन कारकं | सर्वार्थसाधकं देव सर्ववश्य प्रवर्तकं || एतत् कामकला ध्यानं सुगोप्यं साधकोत्तमैः | ध्यात्वा स्पृष्ट्वाथ वा दृष्ट्वा ध्यात्वा कामकलान्वितः || क्षणं तत्व विमर्षेण जायते भावपं?चयः | कुलेषु तत्कलारूपमकुले परिचिन्त्य च || कुलीनो जायते यस्मात् कथं तत् कथयामि ते | कुले साक्षाद् यतस्तत्वं स्वयं चिन्तति तत्वतः || तेन तत्कुलशास्त्रज्ञैः पूजनीयं प्रयत्नतः | कुलदेवी वान्म देवी निश्चला यस्य विद्यते || स धन्यः पुरुषा लोके निश्चयोदय एव सः | यत्कुले कुलदीक्षा तु न स्यात् पापी स एव हि || अदीक्षित कुलासंगात् सिद्धिहानिः प्रजायते | तत्कथा मिश्रणं चेत् स्यात् तत् तल्प गमनं यदि || सुकुलीनः कथं देवि पूजयेत् परमेश्वरी | गन्धरूपानुरूपेण नामकुर्यान्निजेच्छया || मातापितृ कृतं वा?मे वर्जनीयं प्रयत्नतः | परयो वाधित्(?) सज्ञेया निजा श्रीप्रीति वर्द्धिनी || आगते स्वागतं कुर्याल्लीला योगात् स्वलीलया | तल्वादुत्थाय हस्ताग्रे धृत्वा सम्वेशयेत् ततः || ध्यात्वा कामकलां तत्र विंद्वादि पूर्णविग्रहां || केशविन्यास तिलकं भारकेयूर यावकं | सर्व कलाम्विधा यादौ कुलद्रव्या नियोजयेत् || हेतु युक्तं समाम्वु?लं दत्वा भुक्त्वा तु साधकः | पृच्छत् कुलकथां तस्यां लौकिकालौलिकादिकीं || म पञ्चोद्भव पुष्पानि(?) कीर्तितानि कुलादिषु | न करोति कुलाभिज्ञः सिद्धापि नश्यति ध्रुवं || दृष्ट्वा दोषादिकं तत्र स्नेहादिस्कृत(?) शिक्षया | भाषयेन्नेक भूक्त्य वैकृते तु निस्फलं भवेत् ||
SK
कुलशास्त्र रहस्यन्तु कुलमुखं यतः प्रभो | वरंकुलमनोस्त्या गोवलं कुलगुरोरपि || न त्याग योग्यं स्वकुलं दृष्टधाषादपि(?) प्रियं | कुलवृक्ष स्थितो सोहं स्वकुलं पोषयाम्यहं || तेन सर्व प्रयत्नेन रक्षणीयं प्रयत्नतः | स्वकुले कुल वाहुल्यं यदि स्याद् भाग्य योगतः || २३अ) समरूपं विधातव्यं वैपरीत्यम्वरित्यजेत् | पृथक् स्थानं पृथग् ध्यानं पृथक् पूजा पृथक् स्तुतिः || न कर्त्वव्या प्रयत्नेन किमेभिर्वहु जल्पितैः | कुले तिष्ठामि देवेश नात्रकार्या विचारणा || तासां निस्वास योगेन तदेशश्चैव नश्यति | प्रमोदादमृत स्नानं मम स्यान् नात्र संशयः || कुलजाहं महायुद्धे वीरास्फालननादिनी | न दोषमनु गच्छामि पालयामि यतो जगत् || मौखर्यं परिविद्वेषः कटूक्ति कलहादिकं | नीचादि गमनाच्चैव नाहमीषन्नरा प्रिया || ब्रह्माण्डभाण्ड सम्भेदात् तेन जीवे स सिद्धि युक् | विनाकुलेन मत्सिद्धिर्न कुत्र प्रतिपद्यते || भैरव उवाच || चतुर्थाश्रमिणां देवि मोक्षदात्वं सदा कथं | कुलभाव विरोधि त्वात् संशयं मनदूरय || देव्युवाच || मोक्षद्वारस्तु वहुधा यद्यस्ति कुलभैरव | केवलं कुलयोगेन प्रसीदामि न संशयः || चतुर्थाश्रमिणां देव अवधूत श्रमो महान् | तत्राहं कुल योगेन प्रसन्नामोक्षदायिणी || यदि न स्यास्तथा वत्स शृणु तत् कथयामि ते | ज्ञानाभावे समुत्पन्ने सम्प्रार्थ्य निजकौलिकीं || तस्मान्नयामि मुक्तिः स्यात् तां संपूज्य कुलान्तरे | कुण्डली शक्ति विवरे तदा योग्यं समभ्यसेत् || निर्द्वन्द्वो निरहंकारः शुद्धनाडी गणोव्रती | मृद्वासने समासीनः खगसंयमने रतः || मेलुदण्ड वहिः पार्श्वे चन्द्रसूर्यात्मिके शिव | २३ब्) मध्ये सुषुम्ना सन्दिष्टा तन्मध्ये चित्ररूपिणी | ते नैव ग्रथितं पद्मं मूलादि पद्मपंचकं || कालिकाकालरूपेण डाकिन्याद्यवलम्बितं | मूलद्वारं समाच्छाद्य स्थिता सा नागरूपिणी || वायुनाभिद्य तद्वक्त्रं दृढविद्रावयेत् ततः | तच्छ्वासो ज्वरकामस्य शिखायाति समुज्वला ||
SK
प्रतिचक्रं प्रबुद्धासौ जीवात्मानं परे कुले | नियोजयति तद्योगाद्यात्येय ममृतं चिरं || व्योमप्रोद्भिद्य नासान्तं गतौ चन्द्रदिवाकरौ | अधोवक्त्रं महापद्मं क्रोडीकृत्य सुषुम्नया || व्याघुष्ठानासिका मध्यं गता चित्रान्तसङ्गता | ऊर्द्धं भित्वा तु लिङ्गम्वै इतरं पुष्करन्ततः || वहिरत्न मनो कांखिनी * * मोक्षदायिनी | जीवना दृष्टसंरुद्धा स्थिता सा पुरसन्निधौ || एतद् भेदं विजानाति भित्वा याति परं पदं | अदृष्ट धातु जीवासौ वहिर्याति दिने दिने || दिनशाङ्गुलि मानेन तदर्द्धञ्चोपरासतः | द्विगुणं रतिकालस्यान्त्रिगुणं भोजनाद् वहि || अर्द्ध ऊर्द्धं वहेद् देविस्त्रिदिनं यदि भैरवः | नूनम्वा तदधः प्राणः शरीरं परिमुञ्चति || शरीरसमतां नीत्वा नूनम्वा वहुकेश्वर | कुम्भयित्वा अधो वायुं कुण्डलीमुखवर्न्मनि || योजयित्वा ततो जीवं नीत्वानादावसानकं | गमागमं कारयित्वा सिवो? भवति मानवः || पीयते खाद्यते यत् तत् तत्सर्वं कुण्डली मुखे | हुत्वा सिद्धिमवाप्नोति न स वन्धेन वध्यते || भित्वाकार्या न च स्वार्थं कुण्डलीन्याः कृते पुनः | २४अ) रे मातर्देहि मे भिक्षां कुण्डलीं तर्पयाम्यहं | अवधूताश्रमे स्थित्वा भैरवानन्द तत्परः || भैरवोहं न चान्यस्मिन् न देवो मत्परः क्वचित् | मन्त्र तन्त्रार्जनं सर्वं मयिजातं न चान्यथा || शिवोहं भैरवानन्दो मत्तोहं कुलनायकः | रक्तचन्दन दिग्धाङ्गो रक्तकौपीनभूषितः || रक्तमाल्याम्वरधरो हेतु युक्तः सदा भवेत् | एवं भिक्षां प्रजन् भिक्षुर्भैरवाचार तत्परः || क्षीयते न च पापेन वध्यते न च जन्तुना | यत्र द्वेषे द्वयं याति स देशः क्षिति नायकः || अत्र निन्दा परा ये तु तेन पश्यन्ति क्षणात् प्रभो | तस्माद् यत्नात् पूजितव्यो न तिरस्कार्य एव च || यत्रेच्छा विद्यते तस्य तत्कार्यं प्रियमप्रियं | तदन्ये देवदेवेश विलोपाचार विस्तरं || पूजयन्ति महादेवीं कुलाङ्ग दृष्टि मात्रतः | पुष्पं गन्धञ्च ताम्बूलं नैव्येद्यं यत्र तद् भवेत् ||
SK
मनसा तत्समुत्सृज्य वाह्यतोऽकुलुवारिणा | आत्मने तत् मायोज्य देवी रूपः कुलेश्वर || न पूजानापि तन्यासो न निष्ठा न व्रतादिकं | पूर्णोहं भैरवश्चाहं नित्यानन्दोहमव्ययः || निरञ्जन स्वरूपोहं निराकारस्त्वहं प्रभुः | सर्वशास्त्रादि युक्तोहं सर्वमन्त्रार्थ पारगः || नास्मात् परतरो देवो न जाता न जनिष्यति | आनन्दरूपवान् भूत्वा सर्वेषां प्रियकारकः || मुक्तदुर्गन्ध मत्स्यादित्याज्यं दिव्य वलि प्रियैः | २४ब्) नानासुगन्धिसंयुक्तं मांसादि भोजनं चरेत् | सुधन्धामलतैलाद्यैर्नानाङ्गं रागविस्तरैः || स्नानं कार्यञ्चाति शुद्धिं सूक्ष्मं वा सोभिधापयेत् | सुगन्धिपुष्पमालाभिः स्वर्णालङ्कारभूषणैः || स्निग्धं स्वमधुरं देहं कामरूपं मनोहरं | कृत्वानुमङ्गलं देहं मृदुभाषण तत्परः || कुलालायानुसंधार्यं कुलरूपं विचिन्त्य वै | विहरेद् दिवसे चैव रात्रा वाज *? ष्टि तत्परः || आनीय योषितः सर्वा जात्यष्टकसमुद्भवाः | गन्धानुक्रमतो देव नामरूपं विचिन्त्य वै || कुर्यान् महेश्वर | यास्यात् प्रथम शक्तिस्तु शुद्धान्तः करणा द्विजा | शुद्धा विमलसद्गात्री दिव्यगन्धा मनोरमा || सा हि स्वप्नावती देवी तन्मन्त्रन्तत्र योजयेत् | शुभ्रपुष्पैश्च नैव्यद्यैर्लवनैर्मधुसंयुतैः || पूजयित्वा यथापूर्वं साधयेन् निजसाधनं | या हृष्ण? नीलकृष्णा सामृदुमङ्गल लोचन || साधका कांक्ष द्वदया सुगन्धा निन्द्यगन्धिकां || तस्यां नारी समायोज्या सा देवी परिकीर्तिता | तत्पुष्पे नैवतां देवीं तन्नैवेद्यैश्च पूजयेत् || सा स्या * *? त्तृतीया गौराङ्गी मधुगन्धानुलोचन | त्रिपुरा नाम सा देवी रक्तपुष्पेण पूजयेत् || मदगन्धानु या नारी मदस्खलन मन्थरा | युक्ता(?) आमिष गन्धेन महिषासुरमर्दिनी || मद्य गन्धा च या नारी रक्त नेत्रा विनिस्कुरे | सोग्रतारेति संप्रोक्ता मत्ता पाप विनासिनी || २५अ) अश्वगन्धा तु या नारी दीर्घजंघा मनोहरा | सास्यार्चाकतलोलाक्षी अश्वारूढा वरप्रदा ||
SK
आमगन्धा च वदने पूतिगन्धा च सन्धिषु | नीलचर्चल केशाया सास्याद् दुर्गा महोन्मुखी || सर्वलक्षणसंयुक्ता नानागन्धा समाकुला | सुदती चारु केशी च दीर्घनेत्रा मनोहरा || नानाविलासकुशला कुलशास्त्र विचारिणी | गुरुवक्षस्थलाक्रान्त मध्याविवलदर्शिनी || सुदती सा भवेद् देवी सर्वकार्या प्रवद्धिनी | एतद् गन्धैः समायुक्ता नाना वा एक जातयः || रूपगन्धसमायुक्ता नामतः परिकीर्तिताः | रक्षितव्याः प्रयत्नेन अक्षतास्ता यथा भवेत् || स्वयं कामेश्वरो नाम्ना भूत्वा काम परायणः | भाववृद्धिं विधायैव मूलयोगं समा * रेत् || मूलयोगे कृते तत्र सप्ताहान् मरणं भवेत् | न विष्णुर्न हरिः शम्भुर्न देवी न च षोडशी || न च मृत्युञ्जयो वापि न न्यासो नापि भावना | तस्य मृत्युक्षये देवि प्रभवन्ति न देवताः || शास्त्रेण मूलयोगेन नागदष्टविधेन वा | वज्रेनाभि ज्वरेणैव महाव्याधि वशादपि || म्रियते तेन पापेन सत्यं देव सुनिश्चितं | देवकृत्या तु वहुधा दृष्टादृष्टविभेदतः || विशेषतोत्र देवेश किमन्यद् वहुजल्पितैः | मायया च्च्छाद्यचात्मानं निजस्त्रीरूपधारिणी || आगत्य रमते नित्यं ते नैव नश्यति ध्रुवं | तस्मात् स्वदेशे नैवै तत्कर्तव्यं सिद्धिकांक्षया || २५ब्) किं वा कामविलोपार्थं पतितव्यं सुरेश्वर | कर्मदण्डं समादाय शिवसाम्यं विधाय च || तद्गात्रं चक्र सूत्रेण वेष्टनं सप्तधा कृतं | पाशत्वं सर्वभूतानां रक्षणाय स्वयंभुवा || निर्मितोसि महाभाग उग्रं बन्धं विधीयतां | एवमामन्त्र्य तत्सूत्रं शिवाङ्गे सप्तवेष्टितं || जाग्रद् दशांस मासाद्य स्वापमन्त्रं ततो जपेत् | संहार प्र?वोधिन्या पुटितं प्रणव त्रयं || स्वाप मन्त्रः समाख्यातः स्वापदः सर्वजन्तुषु | एवं कृत्वा स्वयं देवो महेशाधिक्य एव च || कुलं यदि स्याद् योगञ्च चञ्चरं स्मर लोलुपं | तदा पक्षा विधातव्या न कार्या कर्हिचिद् बुधैः || वराङ्गे शृणुमद्वाक्यमावयोः शुभ हेतुकं | एतत् कार्यं समासाद्य कर्तव्यं तव वेष्टितं ||
SK
एवमुक्त्वा? निजं कार्यं विधाय साधकोत्तमैः | वक्तव्यं न च कर्तव्यं कुलयोगं महेश्वर || वीरपत्नी वीरकन्या वीराङ्गजवराङ्गना | नाकृष्या साधकैः पूर्वं यावत्(?) स्यान् मससः(? manaḥkṣobha tatra jāte mūlayogena yatphalaṃ | tatphalaṃ jāyate deva satyaṃ satyaṃ na cānyathā || vīrapatnī tu paramā svayameva maheśvarī | tatsutā kulavidyānāmādyā vai tripurātanī || tadvadhūrbhuveneśānī sarvamantra prabodhinī | nyāyato nyāyato vāpi vīrapatnī gururyadi || vīkṣaṇādeva sarvārtha sādhakaḥ sādhako bhavet | 26a) yadi bhāgyavaśādeva vīrapatnī tu labhyate | phalapākaṃ tatra kṛtvā kiṃ na siddhyati bhūtale || phalapākavidhānantu sarvadeva namaskṛtaṃ | kathayāmi mahādeva na prakāśyaṃ kathañcana || dṛṣṭvā kṛṣṇa kulaṃ deva deva gandharva kinnarāḥ | āyānti phalapākārthaṃ tasmād yatnād vicintayet || visarjanaṃ vidhātavyaṃ gopanaṃ bhāva śāntikaṃ | tat tat kalyā vidhānena kulaṃ kuryāt svaśikhitaṃ || mātaḥ pativratāddharmā dharmā na hi jagat traye | patiṣprāṇaprado nityaṃ patireva parāgatiḥ || patireva parabrahma patiṣprāṇādhikaṃ prabhuḥ | sarvatīrtha mayasvāmī sarvadaiva mayaḥ patiḥ || sarvadeva mayaścaiva patireva mahāguruḥ | āgatyo paviśet pārśve mukhavīkṣya sthitā bhavet || pati bhāveṅgite dakṣā hṛṣṭā syāt pati darśane | uttareṇottaraṃ dadyād vyāhared bhūta karmaṇi || sarvadevamayaṃ hitvā yā nārī paragocarā | śūkarī garddhabhī kākī śṛgālī jāyate dhruvaṃ || ahantu putravad devi nātrabhītirna ca trayā | tavāṅge yo hi jāti yatirūpadharaḥ kvacit || mūlamantraṃ japaṃ toyaṃ tad gātre deyamīśvari | tadā yadi vahirna syāt tadā svapatireva ca || itodapi kṣayākāryāḥ śikṣitā kulayocitaḥ | rakṣākāryā vidhānena pūrvokte naiva vatmanā || yoginīnāṃ mahāpūjā vaṭukānāñca bhairave | kāryāvighnapināśārthaṃ kulavārarkṣa yogataḥ || 26b)
SK
यासां मूलतरोर्मूल मूलविद्या तु कामिका | लिखित्वानेक कालेषु ततो विघ्नैर्न लुप्यते || वीरपत्या मुलदेशे न कार्यं मन्त्र योजनं | विसर्जन विधौ देव यदीच्छेत्फल पातनं || ये * * * * *? तस्य कुलस्य कुलवित्ततं | तद्रूपं(?) विग्रहं कृत्वा भैरवा वटुकादयः || तत्र वीजार्पणं कृत्वा कुर्वन्ति फलरक्षणं | लिङ्गै * * * * *? वज्ञात्वा * *? समुद्भवं || ज्ञात्वा फलविभाग *? पञ्चमात् परतः प्रभो || सप्तमाष्टममा साद्वा(?) * *? मध्ये सरो *? hastaṃ da * * * * * * *? saṃhāra yogataḥ || japedaṣṭa sahasraṃ vai svayaṃ vṛkṣānpatiṣpati | evaṃ kṛte yat patati tatphalaṃ deva ni * *? || aśvā * *? ñca patati * * * * * * * doṣabhāgaṃ parityajya phalavṛkṣaṃ praṇamya ca | tāmrapātre mahāraṇye phalapākaṃ samānayet || vṛkṣādi *? vidhāyaiva vaṭutraya samanvitaṃ | nānāsugandhisaṃmiśraṃ siddhaṃ jñātvā vicakṣaṇaḥ || saṃskṛtā nalamadhye tu aghoraṃ homayet tataḥ | dhenumudrā *? tī kṛtya homaṃ kuryādalakṣitaḥ || rātrā devaṃ vidhāyaiva yajñaśeṣaṃ bhajet tataḥ | bhuktamātre tu tasmin vaicirajīvi(?)kṣitau bhavet || sadye madhumatī siddhiḥ karasthā bhogadāyinī | 27a) divyabhāvaḥ sādhakendro martyaśakra samo bhavet | devānāṃ priya kāritvāt mokṣadatvān maheśvara || sādhakānāṃ kulajñānāṃ na doṣaḥ kalpapātane | etat phalanipātārthaṃ phalavaptā pade pade || vighnaṃ karoti sarvatra nijasaṣkā ca kāraṇāt | phalavṛkṣopari tathā vighnamācarati dhruvaṃ || phalavṛkṣasya hāni syāt kadācid daivayogataḥ | sādhakopi tathā deva bhaven nātra vikalpanaṃ || vācāvāmanasā vāpi kāyād vā yadi vādhyate | phalavṛkṣastadā devo naśyati smara śāsanaṃ || vādhyate kulavṛkṣaścet sādhakasya kṛte prabho | tāvan naḥ kulapūjā syād yāvat tanniskṛtirbhavet || tāvan nija kulālāpo varjanīyaḥ prayatnataḥ | etat kārya vidhāne tu yogyo nāsti mahītale ||
SK
अति दूरान्तरे देशे नामवर्ण विवर्जितः | करोति यदि भद्रं स्याद् विघ्नं वा फलसाधनं || न दोषैस्तत्र वाध्यन्ते साधकाः कुल देवताः | विघ्नप्रधाने मेतत् तु कदाचित् फलसाधनं || सर्वत्रसंकेत नैव कर्तव्यं फलसाधनं | स्वफलं समंनुप्राप्य क्रियते यदि पामरः || फलं भवति देवेश पापेन वध्यते ध्रुवं | निन्दामधुमती तत्र जायते नात्र संशयः || मधुमत्याः फलन्देव कथयामि शृणुष्व मे | सुधाधार धरावाणी वक्त्रात् तस्य प्रजायते || सर्वज्ञ सर्वशास्त्राणामधिपः कुलनायकः | चन्द्रसूर्यावधि पृथ्यां भुनक्ति वहुलं सुखं || २७ब्) देवकन्याप्सरोभिस्तु दिव्यगन्धर्व चारणैः | नानाविलाससम्पन्नैः कलाकुश? *? को विदैः || नृत्यैर्गीतैः सुमधुरैर्नानोपाय रसायनैः | अमृतार्थे प्रीति करैर्देव भोग्यैः सुदुर्लभैः || देवकन्या हस्तगतैरथमारुह्य सोत्सुक | आयाति साधका कांक्ष हृदया परमेश्वरी || यत्र कामेश्वरो देवश्चिन्ता वशमुपागतः | तत्रैव यान्ति सततं देवकन्याः सहस्रसः || इन्द्र गोप्य पुवी(?) कृत्वा मरते साधकैः समं | तत्रो योगत पापात्मा भुक्ता तु वहुधा सुखं || चिरे(?) कारै(?) भुवि स्थित्वा चान्त मुक्ति मवाप्नुयात् | एषते कथिता देव दिव्यभावः सुखावहं || न देयो यस्य कस्यापि पशौ गोप्यः प्रयत्नतः | वीरभावो महादेव कथ्यते शृणु भैरव || निर्द्वन्द्व मानसा भुक्त्वा हृदि * *? कला * *? | निसापूजा * *? रोहे तु युक्तः स देव हि || निजकुलं समादाय स्वयं भैरव रूपधृक् | कुलञ्च भैरवी रूपं तद्गात्र न्यास विस्तरं || विन्यस्य सकलं न्यासं नवयोन्यात्मकन्तथा | प्रसून तूलिका मध्ये पुष्पप्रकरसङ्कुले || नानागन्धसमाकीर्णे कुलद्रव्येन यन्त्रकं | लिखित्वा पूजयेच्छंखं घटस्थापन पूर्वकं || स्ववाम भागे षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकं | लिखित्वा तत्र कुम्भं वै सौवर्णं राजतं यवा ||
SK
ताम्रं भूमि मयं वापि यद्वालोहविवर्जितं | स्थापयेत् कलया देव कुम्भं गन्धसुवासितं || २८अ) हेतु द्रव्यं ब्राह्मणादि भेदतः परिपूजयेत् | तत्र मन्त्रं विलिख्यादौ यद्यत् कुलसमुद्भवं || ध्यात्वेष्टं देवतां तत्र जपेदष्टोत्तरं शतं | धेनुमुद्रां प्रदर्श्याथ अमृतन्तद्विचिन्तयेत् || दृष्ट्वार्घस्य तु पात्रं वै नृत्यन्ति स गणाधिपाः | नृत्यन्ति भैरवाः सर्वे नृत्यन्ति मातरो गणाः || इन्द्रादयः सुराः सर्व नृत्यन्ति मधुलोलुपाः | ब्रह्मविष्णु महेशाद्या नृत्यन्ति हर्ष तत्पराः || अर्घे भाण्डं द्विधा कृत्वा गुरवे चैक भागकं | एवं कुलाय दत्वा वै एकेन देव तर्पणं || पीत्वा कुल रसं देवे नानालंकालभूषितः | साक्षाद् यदि गुरुर्न स्यात् तदा तोये विसर्जयेत् || आनन्द रूपवान् भूत्वा पूजयेत् परमेश्वरीं | तत् तत् कल्पोक्त विधिना तत् तद् यन्त्रे प्रपूज्य च || विसर्जनं विधायार्थं स्वकुले योजयेत् ततः | तद् विन्दु रस पानेन अमृतं भुज्यते मया || तच्चक्रो ररसा खादैः सम्प्रद्द्रुमम जायते | तत्फल ग्रहणा देव सुमेरु शृङ्गरोहणं || लता लिङ्गनमात्रेण सुधाधौत कलेवरा | मूलयोगे कृते तत्र जपेदष्ट सहस्रकं || जपपूतं हविर्द्द्रव्यं गृहीत्वा तर्पयेत् ततः | विधाय तर्पणं देव प्रदक्षिण मनु व्रजन् || प्रणम्य स्तुत्वा कल्पोक्तस्तवेन तोषयेत् ततः | इदं वीरकुलं देव सुन्दरं सुमनोहरं || यद् देशे विद्यते वीरस्तत्कुलं वापि भैरव | न च मारी भयं तत्र न च राज भयादिकं || सुमङ्गलं सदा तत्र धनपुत्र विवर्द्धनं | २८ब्) लक्ष्मीस्तत्र महादेव सुस्थिरा सर्वदा भवेत् || मन्त्रं स्वप्न प्रबोधिन्या अवश्यं वृक्षमूलके | योजनीयं प्रयत्नेन न च विघ्नं प्रजायते || नान्यवीरेण तद् योगाद् ग्रहणे * * *? पि | योगिनीभिस्तु पूज्यन्ते(?) * *? पापेन * *? ते || यत्र तत्र * *? वारे श्मशाने गमने कृते | पूजाफलं भवेत् तत्र सप्तवासर सम्मितं || चतुर्मास्यां(?) गते तत्र * * * *? फलं
SK
नान्यः स्यादधिक्या(?) देव(?) इति चिन्ता परायणः | साध * * * * * *? मयिक्षोभ प्रजायते || त * * *? भाग(?) युतो भवेद् वीरवरः सुदी? | भोगेन मोक्षमाप्नोति भोगेन कुल साधनं || विना हेतुं समासाद्य * * * * महेश्व *? | रक्त मन्येति दोषास्ति माया च दो * * *? णं ||? यद्यद् * * *? निद्राति यत् करोति यदर्वति |? तत्सर्वं कुलरूपं तु ध्यात्वा यदि हरेत् सुखी || एकान्ते निर्जने देशे श्मशाने पर्वते वने | शून्यागारे नदीतीरे * *? संगो विहरे *? || वीराणां जप कालस्तु सर्वकालः प्रशस्यते | सर्व देशे सर्वपीठे कर्तव्यं नवसंशयः || यदि विप्रा(?) भवेद् भ्रष्टः कुलद्रव्य परायणः | तदा न * * * * *? कर्तव्यं कुलतोषणं || अपरो पुष्प गर्भे तु कुलस्थानं मनोहरं | २९अ) सर्वदेव मुखं तत् तु महाकाम कलात्मकं | हयारि कुसुमे देवः स्वयमस्ति सदाशिवः || तन्मध्ये लघुमादाय पुष्पमध्ये तु चन्दनं | रक्तं कुंकुमरागं वा दत्वा तत्र शिवात्मकं || योजयेच्छिवशक्त्यास्तु ऐक्यं सम्भावयन् धिया | क्षणन्तत्रैव संपूज्य निश्चित्य परमेश्वरीं || जप्त्वा तदेव कुण्डोत्थं द्रव्यं परमदुर्लभं | अमृतादधिकं ज्ञेयमेतद् द्रव्यं सुदुर्लभं || यत्रा पराजिता पुष्पं जवापुष्पं च भैरव | करवीरे रक्तशुक्ले द्रोणम्वा यत्र तिष्ठति || तत्र देवी वसेन् नित्यं तद्यंत्रे पूजनं मम | दत्तैकैक जवापुष्पे पट्टवस्त्रे फलं लभेत् || ब्रह्महत्यादिकं पापं क्षणान् नश्यति निश्चितं | अपरायान्तु महान्म्यं वक्तुं न हि महेश्वरि || वीरसाधक कार्यन्तु कर्तव्यं वीरपूरुषैः | दिव्यैरपि च कर्तव्यं पशुभिर्नव पामरैः || वरं पामर कार्यन्तन्न पशोरिति निश्चयः | यद् यद् यदा पुरा प्रोक्तं शक्ते तं मन्त्र साधनं || अञ्जनं गुटिकादींश्च कुर्याद् वीरो महावलः | दिव्ये वीरे नभे नभे दोस्ति यो भेदःसर कथ्यते || शान्तो विनीतो मधुरः कलालावन्य संस्थितः | दिव्यस्तु देववत् प्रायो वीरश्चोद्धत मानसः ||
SK
विभूति भूषणो वापि चन्दनैर्वा विलेपितः | आकार गोपना वापि त्यक्तो वा कुल भैरव || रक्तचन्दन दिग्धो वा वैष्णवो वाप्य वैष्णवः | असंस्कृतः संस्कृतो वा नित्य व्यक्तः कुलेश्वरः || अपमाने च पूजायां हृष्टः पुष्टः सदा भवेत् | देवनिन्दापरो वापि तत्पूजादि परोपि वा || पूजा रतस्तत्र हितः कुलात् कुल मते स्थितः | निजभाव समायुक्तो देववद् विहरेत् क्षितौ || स्वकुलान्ते पुरश्चर्या कार्या रात्रौ न चान्यथा | वेदहीने द्विजे देवं यथा न श्रुति सत्क्रिया || विष्णुभक्तिं विना देवि भक्तिर्न प्रभवेद् यथा | शाक्तं ज्ञानं विनामुक्तिर्यथा हास्याय कल्पते || गुरुं विना यथा तन्त्रे नाधिकारः कथंचन | पतिहीना यथा नारी सर्वकर्म विवर्जिता || कुलं विना तथा देवो वीरो वाममसाधकः | नाधिकारीति कौलेय तस्माद् भाव परो भव || अविनीतं कुलं यस्य स कथं समसाधकः | तस्माद् यत्नात् तथा कार्यं यथा स्याद् विनयान्वितं || भावाभाव कुलेशास्त्रे नाधिकारः कथंचन | तेन भावविशुद्धस्तु साधकः कौलिका भवेत् || देव्युवाच || पशुभावं प्रवक्ष्यामि शृणुवत्स महाहितः | यथाविधि पशोर्दीक्षां गृहीत्वा भावे तत्परः || प्रथमं पूर्वमेवार्थं यत्नातः शुद्धिमाप्नुयात् | नमस्स्य भोजनं कुर्यान् न स्त्रियं मनसा स्मरन् || न पर द्रव्य लोभः स्यान् न भोगे मानसं भवेत् | सिन्धुतीरे पर्वते वा कानने वा सुरालये || विल्वमूले विविक्ते च पुण्यक्षेत्रे सुशोभने | न शूद्रदर्शनं कुर्यात् कौटिल्यं दूरे तस्त्यजेत् || देवता शुद्ध वर्णं तु ध्यातव्या सुसमाहितैः | ३०अ) त्रिसंध्यं देवपूजा च त्रिसंध्यं जपमाचरेत् | रात्रौ मालाञ्च यन्त्रं च स्पृशेन् नैव कदाचन || न मन्त्रे मुच्चरेद् भुक्त्वा मौनी स्यात् सर्वकर्मसु | पर्वकाले स्त्रियं नैव गच्छेत् तु साधकोत्तमः || पुष्पं गन्धं जलं चैव स्वयमानीय पूजयेत् | मैथुनं तत्कथालोपं तद्गौष्ठी परिवर्जयेत् ||
SK
ऋतुकालं विनागच्छेन् न च स्वस्त्रियमादरात् | पुराणश्रवणे श्रद्धा वेदवेदार्थ तत्परः || न रात्रौ भोजयेद् विद्वांस्ताम्बूलं परमेश्वर | गुरुणा यद् यदा दिष्टं तत्सर्वं यत्नतश्चरेत् || स्वजात कुसुमं चैव हेतु द्रव्य तु भैरव | स्पृस्त्वा स्तुत्वा त्रिरात्रं च पञ्चगव्येन शुद्ध्यति || रक्तं वस्त्रं न गृह्नीयात् देवी भक्ति परायणः | विष्णुमन्त्रोक्त कल्पेन तदनुष्ठान मेव च || कार्यं वीर कथालापं न कुर्याद् वीरवन्दिते | मिश्राद्धं गवाग्रासं संध्यावन्दनमेव च || तीर्थस्नानं पीठ देश गमनं धर्म तत्परः | पशुस्तु द्विविधो देव पूर्वे न सह भैरव || अस्याधिकारः पूजायां न गुरुत्वे कथंचन | पूर्वस्य नाधिकारोस्ति पूजा देशगलागतौ || पूर्वस्तु सर्वकौलयैर्वहिः कार्यः स्वदेशतः | पूर्वदर्शनमात्रेण कुलदर्शनमाचरेत् || ब्रह्महत्यादिकं पापं वरं सह्यं न च प्रभो | पूर्वदर्शनमेवात्र सत्यं सत्यं वदाम्यहं || ममात्मा सोपि देवेश विभुत्वा यद्यपि प्रभो | तथापि तत्र मेशङ्को जायते तु पदे पदे || ३०ब्) वलं कुल परित्यागं वरं स्वकुल हिंसनं | वरं स्वकुलनिन्दा स्याद् वरं स्वकुलवर्द्धनं || वरं स्वकुलहानिस्तु वरं स्वकुल * ट्टनं | कायेन मनसा वाचा वरं स्वकुलपातनं || न कुर्यात् पूर्वसङ्गन्तु ममाङ्गक्षति(?) कारणात् | कुलशास्त्रष्विदं पापं गरिष्ठं कुलनायके || स्वकुले महती निन्दापरयोगः(?) कुलेश्वरे | तस्मादपि महापापं पशुसङ्गात् प्रजायते || सर्वथा तत्र भावौ द्वौ * *? काश्यौ कुलेश्वर | स भावश्च विभावश्च प * * * ? वस्थितः || स भावः पशुभावेन जन्म द्वयविभावनात् | वीरभावो भवेद् देव त * * * * जायते || दैवान्न? जायते वीरो वीरो देवः प्रजा * *? | दैववीरे न संदेह * * * *? भिधीयते || भावस्तु मनसो धर्मः शब्दे स * * * * *? | तस्माद् भावा न *? क्तव्यो दिङ्मात्रं समुदाहृतं || यथे * * * *? साध * *? नैर्जायते * तथा भावविभावस्तु मनसो परिभाव्यतं ||
SK
एक एव महाभावो नानात्वं(?) भजते प्रभो | उपाधि भावभेदेन * * * *? तदुक्षति || आनन्दघनसंदोह प्रभुः परमरूपधृक् | सुररूपः स एवात्मा प्रभु निरवया महान् || स्रोतव्यः सुरमन्तव्यानि ध्यातव्यः स एव हि | साक्षात् * *? श्च देवेश आसनैर्विविधैः(?) प्र वा वध्यः श्रुति वाच्य * *? न्तव्यो मनसादिभिः | सोपपन्निभिरेवायं ध्यातव्यो गुरुदेशितैः || ३१अ) तदा स एव सर्वात्मा प्रत्यक्षो भवति क्षणात् | तस्मिन् देवे तु देवेश प्रत्यक्ष परमेश्वर || भावैर्वहुविधैर्देव भावस्तत्रापि लीयते | भुक्त्वा नानाविधं ग्रासं गविचैको यथारसः || दुग्धाद्यभ्यास योगेन नानात्वं लभते प्रभो | तृणेन जायते देव रसस्तस्मात् परो रसः || तस्माद् दधि ततो हव्यं तस्मादपि रसोदयः | स एव कारणं तस्य तत्कार्यं स च लभ्यते || दृश्यते च महादेव न कार्यं न च कारणं | दुग्धत्वाद्यभिसंबन्धाद् भेदैः स हि विभज्यते || तथैवायं स एवात्मा नानाविग्रह योनिषु | जायज निष्पते जातः कालभेदाद् विभिज्यते || स जातः स मृतो वद्धः समुक्तः ससुखी पुमान् | सस्त्रीस नपुंसकः सोपि स विद्वान् स च एव सः || नाना ध्यान समायोगान् नानात्वं भजते प्रभुः | एक एव स एवात्मा रसरूपी सनातनः || अव्यक्तश्च संत्रध्यक्तः प्रकृत्या ज्ञायते ध्रुवं | तस्मात् प्रकृति योगेन ज्ञायते नान्यथा क्वचित् || विना घटत्व योगेन प्रत्यक्षो न यथा घटः | इतराद् भिद्यमानोपि न भेदमुप गच्छति || मां विना पुरुषे भेदा न च यान्ति कथंचन | न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमैः || प्रकृत्या ज्ञायते ब्रह्म प्रकृत्या लीयते पुमान् | प्रकृत्याधिष्टितं सर्वं प्रकृत्या वांच्छितं जगत् || प्रकृत्या भेदमाप्नोति प्रकृत्या भेदमाप्नुयात् | ३१ब्) वरं प्रकृतिर्नैव नपुमान् परमेश्वरः | तयोः सरसंज्ञानं वस्तु तत्वं महेश्वर || उभयोः समभावस्तु वस्तु तत्वं वरं पदं | ज्ञाते तस्मिन् स्वयं प्रज्ञाश्चित् स्वरूपः पुमानसौ ||
SK
निर्विकारः सर्व वेद प्रमाना गोचरः पुमान् | व्यक्तो भवति देवेशि स्वयमात्मा स्वयं भवः || पायोः सन्ति वहुधा ज्ञातुं ब्रह्म सनातनं | तथापि प्रकृतेर्योगात् क्षिप्रं प्रत्यक्षतां व्रजत् || सांयात्रिकाः कुदेशेषु यथानावं प्रगृह्य च | नानादेशं समुत्तिर्य समुद्रं विशते चिरात् || तटे वै नावमादाय क्षणाद् यान्ति यथा प्रभो | विष्णुभक्त्या लभेद् ब्रह्म तद्भावादपि * प्रभो || वैजात्यं नास्ति चेत् तत्र कथं तत् तद्विकारणं | तस्मात् परं परा यातास्ते हि कारणतां गताः || न कारणानि ते वत्स साक्ष्यात् प्रकृति कारणं | स्त्री भावः प्रकृतिर्ज्ञेयः पुंभावः पुरुषो मतः || ज्ञप्ति ज्ञेयालि भागेन ज्ञानं च भैरवेश्वर | घट प्रत्यक्ष माणस्तु आलोको रंजको यथा || चक्षुरादि न तात्किञ्चिदधिकं निर्विकल्पकं | श्रीरमारमण देवशर्मणानिर्मिते निगमसारनिर्णये | आशु * * * इदानीं यत्रास्ति भागो न च तत्र मोक्षो यत्रास्ति मोक्षो न च तत्र भोगः | श्रीसुन्दरी पूजन तत्परा शंभोगश्च मोक्षश्च करस्थ एव || इति स्तुति मुखेनो भय फलश्रवणादुभयमाधनत्वे स पुरुषार्थ त्वात् प्रथमं सुन्दरी मन्त्राभि लिख्यन्ते || ३२अ) इह यद्यपि षोडशार्णा यो जाग्रद् रूपे त्वात् प्राधान्यं तथापि त्रिकूटा सकला भद्रे षोडशार्णा भवन्ति हि | इति वचनात् षोडशार्णाया अपि त्रिकूट घटितत्वात् प्रथमं त्रिकूटमन्त्राभि लिख्यन्ते || तत्र ज्ञानार्णवे || भूमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्व मादनौ | अर्द्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते || महात्रिपुरसुन्दर्या मन्त्रामेरु समुद्भवाः | भूमिर्लकारः चन्द्रः सकारः शिवोहकारः माया ईकारः शक्तिरकारः कृष्णाध्वा रेफः मादनः ककारः एते वर्णाः सुन्दरी मन्त्राणां मेरवः सुन्दरी मन्त्रेष्वे तदक्षराति रिक्ताक्षरं नास्तीत्यर्थः || अथ कामराजः || शक्तितस्तूर्यर्णायः कलमध्ये वरानने | वाग्भवं पंचवर्णस्तु कामराजमथोच्यते || मादने शिवचन्द्राद्ये शिवान्ते मीललोचने | कामराजमिदम्भद्रे षड्वर्णं सर्वमोहनं ||
SK
शक्तिबीजम्वरारोहे चन्द्राद्यं सर्वसिद्धिदं | चतुरक्षर रूपन्तु त्र्यक्षरा त्रिपुरा भवेत् || शक्तिरेकारः तूर्य वर्णो दीर्घ ईकारो यः सककारलकारयोर्मध्ये लिखनीयः तेन क ए ई ल रूपन्ततो माया बीजं ह्रीमिति || अथ तन्त्रे माया बीजस्यालिखनात् कथं लभ्यते इति चेत् सकाला भुवनेशानी कामेशी बीजमुत्तमं | अनया सकला विद्याः कथयामि विशेषत इत्यतो लभ्यते | ३२ब्) अथ शक्ति तस्तूर्य पर्णस्य सकल मध्य विधानात् कथं शक्तेरपि कलमध्यविधानमिति चेन्न तन्त्रान्तरे विरोधात् तथा हि चतुश्मत्यां || मादनं तदधः शक्तिस्तदन्ते विन्दु मालिनी | ऐन्द्रञ्च भुवनेशानी बीजन्तद्वाग्भवम्भवेदिति लिखनान् || कामबीज मोहमादन इति मादने ककार शिव चन्द्राद्ये यस्यर्थः शिवान्ते शिवाहकारः अन्तो लकारः तावन्त यस्य मध्यान्त शब्दलोपः तेन हसकल ह्रीमिति पूर्व वचनात् सर्वत्र भुवनेशी वीजसम्वः | अथ मादने शिव चन्द्राद्य इत्यस्य शिवचन्द्रस्यादौ मादनस्य सद्भावः कथन् न स्यादिति रत्न(? śivabījaṃ tridhā kṛtvā sṛṣṭi sthiti naya kramāt | dvayamādyena rahitaṃ ādyādho madanākṣaraṃ || para sthiti śivādhastādindra bījanniyojayet | tathā laya śivādhopi vahnistūrya surendu māniti likhanāt || ādyādho madanākṣaramiti pāṭhāllikhita samāsa eva bhavati | asyārthaḥ || śivabījaṃ hakāraṃ tridhā likhitvā dvayaṃ ādyena upasthita śivādyena sakāreṇa rahitaṃ ekaṃ sakāre sahitaṃ ādyādho hakārottara sakārādho madanākṣaraṃ kakāraṃ datvā tatparasthiti hakārādhastādindra bījaṃ lakāraṃ dadyāt tato laya hakārādho vahnistūrya svarādau repha īkārau nidhāya madhya bījamuddharediti śaktibījamāha candrādyamiti kala svarūpamityarthaḥ || 33a) tena sakala hrīmiti atha mantra pratipādaka tantre kalasva rūpā na bhidhānāt kathaṃ kalasvarūpaṃ labhyate iti ccanna tantrāntare candrādya kalasvarūpasyābhidhānāt tathā hi catuśmatyāṃ ||
SK
मायाबीजं महेशानि मादनंशक्रसंयुतं | चन्द्रबीजं केवलं तु विनियुज्य वरानने || संहार क्रमयोगेन शक्तिबीजं समुद्धरेत् | अस्यार्थः || माया ह्रीṁ मादनं ककारः शक्रो लकारः चन्द्रः सकारः संहार क्रमेण चन्द्राद्य क्रमेणेति अपसंहार क्रमेण सकारोत्तर लकारो लभ्यत इति चेत् शक्रसंयुतमित्यस्य विशेषणत्वेनाप्रधान त्वात् पूर्वनिपातः | एतेन पञ्चदशाक्षरी त्रिकूटाकामराजाख्य विद्येति दिक् || || अथात्र सापोद्धारः || यथा मुण्डमालायां || कामराजाख्य विद्याया विद्धासा पुष्पधन्वनो | शक्रेण पूजिता पूर्वं भुवनश्या प्रतिष्ठिता || तेन कामशापादिन्द्रेण भुवनेश्यासंयुज्य उद्धारः कृतः भुवनेशी ह्रीं || तथा कामराजाख्य विद्यायाः शक्तिं तूर्यञ्च सुन्दरि हित्वा * * मुखे शिवेन्दुभ्यां लोपामुद्रा त्वियं भवेत् || अस्यार्थः || कामराजाख्य विद्यायाः शक्तिं एकारं तूर्यमीकारञ्च त्यक्ता मुखे आदौ शिवचन्द्राभ्यां हकार सकाराभ्यां योजनाल्लोपामुद्रा भवतीति || ३३ब्) तेन ह सकल ह्रीमिति प्रथम बीजं बीजद्वयं कामराजा * *? || बीजं * *? द्या सस्त्यर्चिता(?) भवेत् || विद्यायास्तृतीयशक्ति दीक्षादौ(?) सह रूपाक्षर द्वय द्वितीय लोपामुद्रा भवति || ते * * * * * * * *? तृतीय बीजं आद्य द्वयं पूर्ववत् || ब्रह्मविद्या(?) *? रं प्रदे(?) *? मि शक्तिमादन मध्यगं | शिवङ्कुर्याद् वाग्भवेथ शिवाद्यं कामराजाख्य(?) || * पूजिता(?) || अस्यार्थः || ककारयोर्मध्यगं शिवं हका * * * * * * * तृतीयबीजचन्द्राद्यं कुर्यात् || तेन क ह ए ईल ह्रीं ह ह सकहल ह्रीं स सकल ह्रीमिति स्वरूपा(?) मनु पूजिता भवति || अन्यथा शिवाद्यञ्च आद्यमिति अस्यो ननुया * *? त्तः एतेन यदुक्तं शेषवीजद्वयं यथास्तितमिति देवनाथोपाध्य *? स्तदपि परास्तं || तथा लोपामुद्रा द्वितीयान्तु विलिख्य सुरवन्दित | पुनर्विलिख्य नामेव चतुर्थे पञ्चमे स्थितां || हित्वा तु भुवनेशानिमेका कारेण चोच्चरेत् | चतुःकूटात्मिका विद्या शङ्करोराधिता भवेत् || अस्यार्थः ||
SK
द्वितीय लोपामुद्रामुद्धृत्य पुस्तामेव ३४अ) विलिख्य चतुर्थपञ्चम कूटस्थां भुवणेश्वरीं त्यक्ता एकतापत्तौ शङ्कराराधिता भवति || तथा लोपामुद्रान्तथा देवि विलिख्य तदनन्तरं | नन्दिकेश्वर विद्याञ्च षट्कुटा वैष्णवी भवेत् || अस्यार्थः || लोपामुद्रा द्वितीया मेव तथेति श्रवणात् | एतेन द्वितीय लोपामुद्रा नन्दिकेश्वरेकात्री करणे षट्कूटा वैष्णवी भवति || नन्दिकेश्वर विद्या यथा || तथा कामराजाख्य विद्याया वाग्भवं मादनं त्यज | चन्द्रन्तथैव संयोज्य कामराजे ततः परं | हित्वा चन्द्रं मुखे कुर्याद् विद्येयं नन्दि पूजिता || अस्यार्थः || कामराजाख्य विद्याया वाग्भवे प्रथम बीजे मादनं ककारं त्यजेच्चन्द्रं सकारं दद्यात् | तेन स ए ई ल ह्रीं ततः कामराजे चन्द्रबीजं सकारं हित्वा मुखे मादनं ककारं कुर्यात् || तेन कह कह ल ह्रीं न तु चन्द्रं हित्वा मुखे चन्द्रं सकारङ्कुर्यादिति कामन्तत्र विनिःक्षिपेदिति दक्षिणामूर्ति तच्च सुरसात् तृतीयं कामराजवदिति || तथा हसाद्यं वाग्भवे देवि चन्द्राद्यं शिव मध्यगं | मादनं कामराजे तु शक्तिकूटं हसान्वितं || चन्द्रो राधित विद्येयं भोगमोक्ष फलप्रदा | अस्यार्थः || कामराजाख्य विद्याया वाग्भवं हसाद्यं कुर्यात् तेन ह स क ए इल ह्रीमिति कामराजं चन्द्राद्यं कुर्यात् ततः शिवयोर्हकारयोर्मध्यगं मादनम्भवति तेन सह क फ ल ह्रीं शक्तिबीजं हसान्वितं तेन ह स सकल ह्रीमिति इयं चन्द्राराधिता भवति || तथा हसाद्यम्वाग्भवं बीजं शिवाद्यं हसमध्यगं | मादनं कामबीजे तु तृतीयं शृणु पार्वति | हसाद्यं शक्तिबीजस्तु कुवेरेण समर्चिता || अस्यार्थः ||
SK
हसाद्यं वाग्भवं ह स वर्णाद्यं वाग्भवमित्यर्थः | तेन ह स क ए ई ल ह्रीं शिवाद्यं हकाराद्यं मादनं ह स मध्यगं मादनं ककारः कुर्यादिति सम्वन्धः | तेन हकार स्याद् य विद्य स्थितं ककारं ह स मध्यगं कुर्याद् इत्यर्थः | तेन ह क सहल ह्रीं तृतीयं शक्तिबीजं हसाद्यं ह स सकल ह्रीमिति कुवेराराधिता विद्या || तथा कामराजाख्य विद्याया हित्वा भूमिं तृतीयके | शक्तिबीज स्थितां देवि चन्द्राधः कुरु तत्र च | इन्द्राराधित विद्येयं भुक्ति मुक्ति फलप्रदा || अस्यार्थः || कामराजाख्य विद्यायाः तृतीयके शक्ति बीजे भूमि लकारं उक्त स्थानात् हित्वा चन्द्राधः सकाराधः कुरुते तेन सकल ह्रीमिति चरमं आद्य द्वयं कामराजवत् इति संक्षेपः || एवं त्रिकूट विद्यायां निरूपितायां षोडश्याश्च तन्निरूपणाधीन त्वात् इदानीं षोडशी लिख्यते | अथ वक्ष्यामि तां विद्यां सर्वाद्यां सर्वसिद्धिदं | शब्दब्रह्ममयी नित्यां षोडशार्ण स्वरूपिणीं || ब्रह्मविद्या स्वरूपाञ्च भुक्ति मुक्ति फलप्रदां | विना गुरु पदेन श्रीविद्यां योजयेद् बुधः || ३५अ) योगिनीनां भवेद् भक्ष्यः श्रीगुरोः शापमालभेत् | षोडशार्णां महाविद्यां न दद्यात् कस्यचिद् बुधः || राज्यं देयं धनं वरं देयं कदाचन | प्रकाशात् सिद्धिहनिः स्यादित्याज्ञा शम्भुना कृता || राज्ञराज्य प्रदायोपि पुत्राय प्राणदय वा | देयन्तु सर्वसाम्राज्यं पुत्रमित्र कलत्रकं || शिरोपि प्राणसहितं न देया षोडशाक्षरी | उच्चार्य माना मन्त्रा ये ते सर्ववाचिकाः स्मृताः || उच्चार्य रहितं वस्तु श्रीविद्या षोडशाक्षरी | चतुर्विध प्रकारेण कथयिष्यामि सुदुर्लभां || दक्षिणामूर्तितन्त्रस्य या या विद्या समुद्धृता | सा सा च षोडशी विद्या सकला बीज भेदतः || चन्द्राद्यं वारुणान्तञ्च शक्रादि सहितं पृथक् | वामाक्षि बिन्दुनादाद्यं विश्वमातृकलात्मकं ||
SK
विद्यादौ योजनादेव जाग्रद् रूपा च षोडशी चन्द्रः सकारः स एवाद्ये यस्य हकारस्य तच्चन्द्राद्यं वरुणो वकारः तस्यान्तः सकारः तदित्यर्थः शक्रादि सहितौ इत्यर्थः | शक्रो लकारस्तस्यादी रेफः तत्सहितं पृथक् अक्षर द्वय रूपं वामाक्षि दीर्घ ईकारः तदुक्तं बिन्दुनादाद्यं बिन्दुनाद युक्तं तेन ह्रीṁ श्रीṁ रूपं एतयोर्विद्यादौ योजना देव जाग्रद् रूपा षोडशी भवति विद्या चात्र कामराजः | उत्पत्तिर्जाग्ररो बोधो व्यावृत्तिर्मनसः सदा | कलाचतुष्टयं जाग्रदवस्थायां अवस्थितं जाग्रत् * *? गुण ३५ब्) त्रिकूटा केवला भद्र पञ्चकूटाभवन्ति हि | वैष्णवी वसुकूटा स्यादेवं नारायणी भवेत् || तेन एतद्बीज * * * * * * * *? टाः पञ्च कूटा भवति षोडशी वैष्णवी नारायणी च वसु कूटा भवति एतयोः षट्कूट कामिनि(?) * *? पापं प्रकारान्तस्या * * व्यापकत्वाच्च निश्चला | सुसुप्ति रूपिणी साक्षात् ब्रह्मरूपा यतो भवेत् | * जाग्रद् रूपा शाम्भवी तु बीजैक विनियोजनात् | तेन तयोर्बीज * *? प्रत्येकारेपि षोडशी * * * * सुसुभ्यन्तेजागरादौ(?) स्वप्नावस्था रजो मयी | प्रतिमासो भ्रमश्चिन्ता विषयेषु मनःस्यु *? || कला चतुयं * * * * * * * * * * * या षोडशी शिव शक्तिके || वेदादि मण्डिता सा तु शिवशक्ति मयी भवेत् | अस्याः स्मरण * * * * * * * * * * अस्यार्थः || पञ्चकूटात्मिकायो षोडशी कथितां * *? वयदादिः ॐकारः तेन यु * * * *? कूटा शिवशक्ति * * * * यथा ॐ ह्रीṁ श्रीṁ इति कामराजः अतो जाग्रत् सुसुप्ति स्वप्नरूपा स्ववस्थासु भेद त्रयं कथितमिति अपरा च षोडशी कामराजाख्या त्रिधा भवति बीजतः दत्वाशोपार बीजन्तु कामराजस्य पूर्वतः || ३६अ) षोडशी कामराजाख्या कन्दर्प्याराधिता मता | अस्याः प्रसादात् कामोपि त्रैलोक्य विजयान्वितः || सर्वसौन्दर्य शुभगः कारयेत् त्रिजेद्वशं | अस्यार्थः || कामराजस्य पूर्वतः गोपालबीजं क्लीमिति नियोज्य लिख्यते कन्दर्प्याराधिता षोडशी भवति | तथा माया पुरस्कृता विद्या षोडशी सर्वदुर्लभा ||
SK
श्रीकृष्णाराधिता सेयं यतो भूदीश्वरः स्वयं | यत् प्रसादात् स्वयं कृष्णो विभर्ति च गुणत्रयं || अस्यार्थः || सेयं कन्दर्प्य राधिता माया ह्रीṁ रूपया पुरस्कृता चेत् श्रीकृष्णाराधिता भवति | न तु माया पुरस्कृता कामराज विद्येति | जाग्रद् रूपा षोडशी तु बीजैक विनियोजनादित्यनेना भेदापपत्तेरिति | तथा षोडशी विद्या सर्वसौभाग्यदायिनी | लक्ष्म्या चाराधिता विद्या विभर्ति च गुणत्रयं || यत् प्रशादाल्लक्ष्मीर्वैष्णवी वल्लभा | अस्यार्थः || पूर्वोक्ता कन्दर्प्याराधिता षोडशी श्रीमतं | श्रीमिति बीजयुता लक्ष्म्या चाराधिता भवति न तु कामराज विद्या पूर्वा भेदापत्तेरिति | तथा अपराञ्च प्रवक्ष्यामि षोडशीं सर्वदुर्लभं | कामराजाख्य विद्यादौ कामयोनिः श्री यः क्रमात् | जप्त्वा च साधको भक्त्या वागीशत्वमुयिवान् | एषा गुप्ततमाज्ञेया सप्त तन्त्रेषु गोपिता || अनया सदृशी विद्या मत्कला(?) न भविष्यति | अस्यार्थः || पूर्वोक्त कामराज विद्यादौ कामयो *? श्रियः क्लीṁ ऐṁ श्रीṁ * लहर्या(?) स्नानं(?) योनिं लक्ष्मी *? आदितः जीवा(?) जीवे नाराधिता * *? | अस्याः साधनमात्रेण जिवावाधिता(?) भवति वाग्बीजमै * * * * * हंस बीजा * * *? रूपः | * * * *? बीज यदि बिन्दुयुग्बीज पूर्वा तदा शस्तु पूजिता भवति बिन्दुयुग्बीजं * *? रः | त * * * *? बीज महा * * * * * गतिः | अर्थः कामराज विद्या यदि तारपूर्वा भवति तदा * * * इदृशः स्मृतः | * * * * * * * * * तथा लोपामुद्रा या अपि द्वादशविधत्वं | ३७अ) अथ त्रिकूटा सकला भद्र षोडशांता भवन्ति हि वचनात् सर्व त्रिकूटाया एव षोडशीत्व मायाति तत्कथं लोपाया विषयाभिधानं चेत् गुह्यतमत्व प्रतिपादनार्थं दिक् || इदानीं महाषोडशी निरुप्यते || इदानीन्तु प्रवक्ष्यामि षोडशीं सर्वदुर्लभां | यस्या विधानमात्रेण बह्मसाक्षान्न संशयः || सुसुप्त्यादौ जागरान्ते स्फुरद्भामात्र लक्षण | अवस्था शेषतां प्राप्ता तुर्या तु परमा कला || भावाभावविनिर्युक्ता गुणातीता निगद्यते | वैराग्यं च मुमुक्षुत्वं समाधि विमलं मनः ||
SK
सदसद्वस्तु? निर्द्वारस्तुर्यायास्तु कलास्त्विमाः | यत्प्रसादाच्छिवो देवो जगतामीश्वरो विभुः || विद्यानामुत्तमा विद्या सर्वशास्त्रेषु दुर्लभा | एकोच्चारण नश्यन्ति महापातक कोटयः || तीर्थस्नान सहस्राणि गजदान शतानि च | तुला पूरुषलक्ष्याणि वाजिमेध शतानि च || तुलां नार्हन्ति कुत्रापि नात्र कार्या विचारणा | एकोच्चारण मात्रेण किं पुनर्ब्रह्म केवलं || वाजपेय सहस्राणि प्राणक्षिप्यं तथा भुवः | काश्यादि तीर्थयात्राश्च सार्द्ध कोटि त्रयान्विताः || तुलां राहंन्ति कुत्रापि नात्र कार्या विचारणा | शंकेतेन प्रवक्ष्यामि श्रीगुरोः कृपया परं || सर्वथा गोपयेद् विद्वान् यदीच्छदात्मनोहितं | शान्तान्तं शिवपूर्व सप्तमयुतं सूक्ष्मान्तमष्टाष्वितं देवी दक्षिण वाहु शक्रयनं वामं कलालाञ्छि?तं | ३७ब्) तन्त्राधोर्द्ध सुखं स जीव द * *? शषं मुखनान्वितं बीजं पञ्चकमित्थमेवमुदितं सर्वार्थ सिद्धि प्रदं | वेदाद्यं त्रिगुणां रमामथ वदेत् कामेन संसेवितां आ?पाद्या पुनरेव प * * परापरतरा सर्वार्थसिद्धि प्रदा सारात्सारतरा समस्त जगत् समुत्पत्ति(? asyā * * *? ekārasya rūpaḥ(?) antāntā hakāraḥ antārakāraḥ sa eva antā yasya hakārasya sa tathā | antaḥ śakāra hakāraṃ śivapūrvasaptamayutaṃ śivoha * * *? sya pūrvasaptamo rephastadyutaṃ bindu bhūṣitaṃ tena śrīṁ hrīṁ svarūpau devī dakṣiṇa vāhuḥ kakāraḥ nayanavāma īkāraḥ sāyusvāraṃ | klīmiti * * *? dantā vahnistena yuktamityarthaḥ tena aimiti śeṣa daśanaṃ ddhau?tāraḥ kiṃ bhūtaṃ sa jīvaṃ jīvaḥ sa kāmaḥ(?) taduktaḥ mukhena visargeṇānvitaḥ tena sauḥ svarūpaṃ etāni bījāni krameṇa purato nidhāya vedādyaṃ oṃkārastatastriguṇāṃ bhuvaneśvarī hrīṁ tato ramāṃśrī svarūpāṃ kimbhūtāṃ kāmena kāmarāje saṃsevitāṃ lopāmudrāṃ vā vilikhya etad bīja pūrvāvilikhya pūrvāvaloka kramāt bījapañcakaṃ uddharet pūrvaṃ śāntānta krameṇa yathoddhṛtaṃ tathoddharet tena śrīṁ hrīṁ klīṁ aiṁ sauḥ 38a)
SK
ॐ ह्रीṁ श्रीṁ त्रिकूटा क्लीṁ ऐṁ सौः श्रीṁ ह्रीṁ इति मन्त्रः उक्तं च श्रीक्रमेपि | श्रीमाये मदनो योनिः परेतानि मुखे कुरु वेदादि भुवनेशानि श्रीबीजञ्च त्रिकूटकं | षट्कूटां संपुटी कुर्यादेतैः पञ्चभिरक्षरैः | श्रीमाये श्रीṁ ह्रीṁ स्वरूपे मदनः क्लीṁ योनिः ऐṁ परासौः वेदादिः प्रणवः भुवनेशानी ह्रीṁ श्रीबीजं श्रीṁ इति | अथ श्री क्रमेण एतैः पञ्चभिरक्षरैरित्युक्त्वा कथं द्युक्रमोपलभ्यते इति चेद् दक्षिणामूर्तितन्त्र स्वरेसात् | तत्र चक्रमात् कूटं दद्यादित्यद्धृत्य मालया संपुटं कुर्याद् रमाख्या परमेश्वरीत्यत्र रमाख्या परमेश्वर्या श्रीṁ ह्रीṁ स्वरूपयोः पञ्चादुपादानात् | तन्त्रकौमुदीकारेणैकवाक्य तया लिखितमिति वस्तु तस्तु पूर्वावलोक क्रमात् इत्यत्र दक्षिणामूर्तितन्त्र विरोधो भवेत्येव तत् कथमेकवाक्यतानुरोध इति | तन्त्रभेदात् षोडशी भेद एव वाच्यः | त्रिकूटस्य पश्चात् | श्रीṁ ह्रीṁ क्लीṁ ऐṁ सौः इति युक्तः अन्यथा तन्त्रभेदेन मन्त्रभेदानङ्गीकारे भवते वाक्त श्रुतौ मन्त्र भेदा लिखित इति मामोयेतारः परालक्ष्मीः कुमारिका विद्या व्यस्ता वालाश्रीः पराचेति | मामाये श्रीṁ ह्रीṁ स्वरूपे तारः ॐ परा ह्रीṁ लक्ष्मीः श्रीṁ कुमारिका ऐṁ क्लीṁ सौः विद्या त्रिकूटा व्यस्ता वाला क्लीṁ ऐṁ सौः श्रीṁ श्रीṁ परा ह्रीṁ इति श्रुत्यनुबोधेनाङ्गी कृत भेदान्मन्त्र भेदो वाच्य एवेति दिक् | ३८ब्) अथ श्रुतिमन्त्रयोरेकवाक्यता भावेपि तन्त्रैकवाक्येता युज्यत इति चेत् | गन्धर्वाख्यतन्त्रेण स?हṁ विरोधः यथालक्ष्मीः परा(?) मदन वाग्भव शक्तियुक्तातारं च शक्ति कमले कथिताद्य विद्याः | शक्त्यादिकं च विपरीत तयो प्रयुक्तं श्री * * *? र्णकमथागसं * * * * * *? श्रीṁ परा ह्रीṁ मदनः क्लीṁ वाग्भव ऐṁ शक्तिः सौः तारं ॐ शक्तिः ह्रीṁ कमला श्रीṁ ततः विद्या त्रिकूटा विपरीत तयाशक्त्यादि * * * * * इत्येव भवति च मन्त्रभेदस्यावश्यकत्वं || स्तुतिमाह ||
SK
साक्षाद्व * * * *? सुरमुनि निवहैः सेवितानन्तरूपासंसारस्यैक सारान्त्रिभुवन जननी धर्मकर्मोदया यासेयं श्रीब्रह्मरूपा सकलगुणमयी निर्गणामिन्द्रियं चाविद्येयं सर्वपूर्वा सकलहितकरा चित्करानन्त रूपा || वक्त्र कोटि सहस्रैस्तु जिह्वाकोटि शतैरपि | वर्णन्तं(?) नैव शक्त्यगं शिवेन षोडशाक्षरी || अस्मान्मन्त्रान्निःसरन्ति महामन्त्राः सहस्रशः | विस्फुलिङ्गा यथा यान्ति सुतप्ता लोहगोलका || विद्यया सहकर्तव्यो न देया यस्य कस्यचित् | प्राणान्तेपि न दातव्या तुरीया षोडशाक्षरी || शिष्याय भक्ति युक्ताय सत्य वाक्ये पराय च | षोडश्याः? पदे बीजं तु जले विलिख्य साधकं || शिष्यमूर्द्ध्नि पदं दत्वा दिव्याचार क्रमेण तु | ३९ब्) लक्षमेकं तदधम्वा गजान्तक सहस्रकं | एकाकी शिव गेहे तु जप्त्वा मन्त्र प्रकाशयेत् || श्रीमन्त्रि पुरसुन्दर्या नान्यथा सिद्धिदा भवेत् || अथास्यान्यानि भेदानि कथ्यन्ते तन्त्रयोगतः | तथा अस्याः मध्यात्वा स राज्यं? लोपान्यासं त्यजेत् ततः || दक्षिणामूर्ति तन्त्रस्य सर्वाविद्याः क्षिपेत् क्रमात् | तदा च सकला भेदास्तुरीया षोडशी भवेत् || एषामन्यतमं ज्ञात्वा ज्ञातव्यं नाम शिष्यते | अर्थः षोडश्या मध्यात् कामराजं लोपामुद्रां वासं त्यज्य दक्षिणामूर्ति तन्त्रस्य उक्त मन्त्रारोप सकला तुरीया षोडशी भवति एतेन मन्त्र कौमुदी कारेण यल्लिखितं त्रिकूट मात्रस्यैव तत् घटक त्वात् षोडश्या वहुविषत्वमिति तत्र दक्षिणामूर्तितन्त्रोक्त त्रिकूटस्यैव तद्घटत्वं | अन्यथा विशेष विधेरानर्थक्य प्रसंगात् || अथ प्रकारान्तर तुरीया षोडशी || कुलार्णवे || प्रसन्नो यदि मे देव षोडशीं ब्रूहि तत्वतः | श्री महाषोडशी गुप्ता त्वया माया कलादिषु || सर्वतन्त्रेषु संगुप्ता साप्रतं मे प्रकाशय || ईश्वर उवाच || शृणु गूढा महाविद्या दुर्लभा या सुरासुरैः | शिवशक्तिस्तथा कामः पृथिवी प्रथमं पुनुः || रविश्चन्द्रस्तथा कामस्ततोहं सश्च वासवः | तृतीयञ्च पराकामः सहस्र नयनस्त्वमी ||
SK
हृल्लेखाभिः सदायुक्ता अधस्तात् परमेश्वरी | ३९ब्) तुदात् तु शक्रवामाक्षिकं नादं भुवनेश्वरी | परः पराग्निर्वामाक्षि बिन्दुनाद त्रयं यदि || अग्रे दद्यान् महेशानि श्रीमहाषोडशी भवेत् | ज्ञानमात्रेण देवेशि मृत्युं मृत्य पदं नयेत् || अर्थ || शिव हकारः शक्तिः सकारः कामः ककारः पृथिवी लकारः ततो रवि हंकारः चन्द्रः सकारः कामः ककारः हंसो हकारः वासवो लकारः ततः परा सकारः कामः ककारः सहस्र नयनो लकारः अमी वर्णा अवसानेषु हृल्लेखाभिर्युक्ता हृल्लेखा ह्रीं तेन प्रथमं लोपामुद्राक्षरं मन्त्रो भवति अधस्तात् परमेश्वरी ह्रीमिति अस्य मन्त्रस्य अग्रे आद्ये तुण्डात् ककारात्(?) शक्रो लकारः वामाक्षि इकारः अनुस्वानादयुक्त इति तेन क्लीमिति ततो भुवनेश्वरी ह्रीमिति परः पराशकारः परात्परो रसरूपा यस्यादिति मध्य परापदलोपसकारवर्णा गमोपि छान्दसः अग्नीरेफः वामाक्षि दीर्घ ईकारः बिन्दुनादौ च तेन श्रीमिति एतद् वीजत्रयस्य आदापारोपे(?) श्रीमहाषोडशी एतेन क्लीṁ ह्रीṁ श्रीṁ लोपामुद्रा ह्रीṁ इत्यपरा तुरीया महाषोडशीति वहवः षोडशी भेदाः || अथ पञ्चमी मन्त्राः || श्रीक्रम(?) संहितायां || कामं शक्तिश्च माया च इन्द्रबीजन्ततः पठेत् | वियद् वह्नि समायुक्तं नादबिन्दु कलान्वितं || वाग्भवं कथितं कूटं चतुर्थस्वरभूषितं | अर्थः | कामः ककारः ४०अ) शक्ति रेकारः माया ईकारः इन्द्रबीजं लकारः वियद् हकारः वह्नी रेफः बिन्दुरनुस्वारः चतुर्थस्वरो दीर्घ ईकारः तेन क ए ई ल ह्रीṁ प्रथम कूटमस्य वाग्भवनाम | वियच्छक्तिस्ततः पश्चात् कलने कुल वह्नि च | मया स्वरेण संयुक्तं नादबिन्दु कलान्वितं || प्रथितं बीजमुदितं कथयामि सुदुर्लभं | प्रथितं मधुमतीति | वियद् हकारः शक्तिः सकारः कल कल स्वरूपः नकुलो हकारः वह्नि रेफः माया स्वरा दीर्घ ईकारः बिन्दुरनुस्वारस्तेन ह सकल ह्रीṁ इति द्वितीय बीजं |
SK
तथा वियद् देवि समुद्धृत्यः कामं व्योम ततः परं | शक्रबीजं परं भद्रे अपरं शृणु वल्लभे || महामाया ततः पश्चात् स्वप्नावतीति कथ्यते | वियद् हकारः कामं ककारः व्योम हकारः शक्रबीजं लकारः महामाया ह्रीṁ तेन हशल ह्रीमिति अस्य स्वप्नावती नाम तथा | मादनं शिव बीजञ्च अनिलस्तु ततः परं | इन्द्रबीजं ततः पश्चात् शिवबीजं स वह्निकं || चतुर्थस्वरसंयुक्तं बिन्दुनादविभूषितं | कामराजमिदं देवि शक्तिबीजं शृणु प्रिये || मादनं ककारः शिवबीजं हकारः अनिलं यकारः इन्द्रबीजं लकारः | शिवबीजं हकारः स वह्निकं रेफ युक्तं चतुर्थस्वरो दीर्घ ईकारः बिन्दुरनुस्वारस्तेन कहये ल ह्रीṁ अस्य कामराजेति नाम | तथा विशबीजं महादेवि काममिन्द्रं महेश्वरि शक्ति माया पठेत् पश्चात् सर्वकामफल प्रदां | ४०ब्) कथिता पञ्चमी विद्या त्रैलोक्येसु गेह यः शिव * * *? रः कारं ककारः इत्थं * * * * *? सकारः माया ह्रीṁ तेन हकलस ह्रीमिति सिद्धं स्तुति माहा कथिता परमा अ * * * * सृष्टिसंहारे काल मे कथिताद् ब्रह्मणा पुरा | दूरे वा प्रान्तरे वापि पतिते शत्रु विग्रहे || संग्रामे सागरे वापि स्व * * *? पञ्च * *? | प्रत्यक्षा साधके भूत्वा सर्वा पायेषु रक्षयेत् | स्वप्ने वा दृश्यते देवी साधकेन मनोत्तमा(?) || सिन्दुर प्रतिबिम्ब कान्ति सदृशीं कल्लोल वस्त्रैर्यवा बन्धुकारुण कोटिसूर्य विदितां व *? न्ति नमा * * *? विद्या पञ्चकलङ्करहिरा(?) पञ्च प्रकारान्वितानिर्दिष्टा तर भक्तितश्च समया गुह्या परादुर्लभा || मातृमैथुवत् कृत्वा गोपनीया(?) प्रय * *? | साधय * * *? विद्यां क्रमेण परिकीर्तितां || देव्युवाच(?) || तथा श्रीक्रमे || विद्यारूपं समस्तञ्च कथितं तव भक्तितः | ब्रह्मविद्येति यो प्रोक्ता सू * * *? प्रकाशिता || ईश्वर उवाच || प्रकाशिते च देवेशि नरराक्षसकिन्नराः | सिद्धिप्रदा भवेयुस्ते प्रभुत्वं मे कथं भवेत् || देव्युवाच || प्रण त्यागं करिष्यामि दैवं ब्राह्मं *? लयं | ४१अ)
SK
सर्वनाशं च देवेशि कर्तव्यं नात्रसंशयः || ईश्वर उवाच || प्रकाश्यं यदि कुर्यास्त्वं ब्रह्मविद्या महाक्षरं | तदा ते सिद्धि हानिश्च स्यादित्यागम पार्वति || श्रुयतां मुक्ति कामेन महात्रिपुरसुन्दरी | तां विद्यां शृणु देवेशि काममिन्द्र समन्वितं || नादबिन्दु कलाभेदात् तुरीय स्वर भूषितं | एवं बीज त्रयं भद्रे विद्यायाः सारसंग्रहं || वाग्भवं काम राजञ्च शक्ति तत्वे नियोजनं | भुक्तौ मधुमतांसिमुक्तः कैवल्य दायिनी || या या विद्या स्थिता देवि एतदक्षर योजिता | मासात् स्यात् सिद्धिर्विहिता ज्ञातव्या देवि निश्चयैः || अस्यार्थः || कामं ककारः इन्द्रो लकारः चतुर्थ स्वरो दीर्घ ईकारः तेन क्लीṁ क्लीṁ क्लीṁ त्रयं ततः कामराजाख्य विद्या | अन्य त्रिकूटा वा अत एव या या विद्या एतदक्षर योजिता भवति | अस्या मासात् सिद्धिर्भवेदित्यर्थः || तन्त्रान्तरमाह श्रीक्रमे || मादनं शक्र मायान्तु नादबिन्दुसमन्वितं | तत्रैव कूट(?) भेदेन ज्ञातव्यं पृथक् पृथक् || वाग्भवं कामराजं च शक्तिकूटं तथा भवेत् | तदा जप्त्वा सुरश्रेष्ठे जीवनं तत्र जायते || अति यत्नेन गोप्तव्यं रक्षितव्यं प्रयत्नतः | दुर्लभं सर्वलोकेषु श्रीक्रमेषु प्रकाशितं || अस्यार्थः || मादनं ककारः शक्रो लकारः माया ईकारः तेन क्लीमिति त्रिकुट भेदेन त्रिकूटादौ दत्ते अति गुप्ततरो भवति जीविता भवतीति दिक् || ४१ब्) अन्येमस्त्राग्रस्थ गौर भयान्न लिखिताः | इदानीं संक्षिप्य पूजा क्रमो लिख्यते || तन्त्रे प्रातःकृत्यं || ज्ञानार्णवे || प्रातरुत्थाय देवेशि गुरुं ध्यात्वा * *? मभिः | संध्या स्नानादिकं देवि विधाय मनु वित्तमः || इति वचनात् || प्रातर्गुरुनमस्कारस्या वश्यकत्वं तत्र क्रमः | शरीरे षड्वक्त्राणिभी * * सहस्रदले गुरुं ध्यात्वा तत्पादोदकेन शरीरे सा प्लाव्य नमस्कुर्यात् || मन्त्रो यथा || अज्ञानतिमिरान्धस्य ज्ञानाञ्जन शलाकया | चक्षरुन्मिलितं येन तस्मै श्रीगुरवे नमः || इति प्रणम्य देवीं यथोपदेश ध्यात्वा अष्टोत्तरशतं त्रिशतं शहस्रम्वा जपेत् ||
SK
प्रातरुत्थय देवेशि शय्या तत्व *? श्रितः | ध्यात्वा देवीं स्वहृदये जपेदष्टोत्तरं शतं || त्रिशतं जपेन्नित्यमष्टोत्तर सह *? मिति दर्शनात् || ततः प्रातन्तनीं संध्यां कुर्याद् गुरु निसेवकः | जले संयोज्यतीर्थारिति दारं मूलमन्त्रतः | क्षिप्त्वा भूमौ कुशाग्रेण सप्तधा मूर्द्ध्नि सेन्न(?)येत् | वामे जलं समादाय मुद्रया दक्षिणेन तु || पुनर्वामेन तं क्षिप्त्वा मूर्द्ध्नि सिञ्चन्ति वारकं | इडयाकृष्य तत्तोयं क्षलिता कर्मनः पुनः || अस्त्र मन्त्रेण तत्तोयं शिलायां पाठयेत् क्रमात् | अर्घमर्घण मेतद्धि सर्वपाप निकृन्तन || गायत्रीञ्च ततो जप्त्वा सुन्द * *? निवेदयेत् | इति तन्त्रदर्शनाज्जलं तीर्थमावात्रयं कुशेन भूमौ ४२अ) क्षिप्त्वा मूलेन सप्तधा शिरः प्रोक्षणं कृत्वा वामहस्ते तज्जलं समादाय दक्षिणकरेण तत्वमुद्रया मूर्द्ध्नि क्षिप्त्वा तत् तोयं वामनासां पुटेनाकृष्य क्षालितान्त पुनर्दक्षिणेन तज्जलं निःसार्यास्त्र मन्त्रेण फडिति मन्त्रेण दारुपाषाणे प्रक्षिपेत् | ततो दिव्यौघा गुरवस्तृप्यतां एवं सिद्धौघा गुरव एवं मानौघा गुरवस्तृप्यन्तामिति संतर्प्य ॐ सपरिवार श्रीमदकिमातस्तृप्यन्तामिति त्रिःसंतर्प्य गायत्रीं जपेत् || ॐ त्रिपुरसुन्दरि विमहे कामेश्वरी धीमहि तन्नः क्लीने प्रचोदयात् | इति गायत्रीं यथाशक्ति जप्त्वा सूर्यायार्घ्यं दद्यात् | ह्रीं हंसः मार्तण्ड भैरवाय प्रकाश शक्ति सहिताय एषार्घा नमः इत्यर्घं दत्वा स्नानं कुर्यात् तदुक्तं || ज्ञानार्णवे || मूलमन्त्रेण वा देवि सूर्यमन्त्रेण वा पुनः | सूर्य मन्त्रः शिवो बीजं वह्निसंस्थं वामनेत्र विभूषितं || बिन्दुनाद कलाक्रान्तं हंसः पदमथो वदेत् | अनेन मनुना देवि सूर्यायार्घन्निवेदयेत् || शिवबीजं हकारौ वह्नीरेफः तेन ह्रीṁ हंसः | जले श्रीचक्रं विभाव्य मेलापकर्षं कृत्वा सूर्यमण्डलादङ्कु मुद्रया तीर्थमावाह्य तज्जलेन क्षीरबुद्ध्या सपरिवारां यथाशक्ति सन्तर्प्य मूलेन शिरसि कुम्भमुद्रया त्रिर्जलमभिषिच्य स्नायादिति संक्षेपः || तदुक्तं ज्ञानार्णवे ||
SK
स्नानकर्म ततः कुर्यान् मूलमन्त्रं स्मरेद् बुधः | त्रिवारमञ्जलौ वारि मन्त्रयित्वा स्वमूर्द्धनि || विक्षिपेत् परमेशानि त्रिधा चम्य च तर्पयेत् || इति तथा ज्ञानार्णवे || स्नानसंध्यान्तरं || यागमदिरे मंदिरे मागत्यलंक्षा चित्र *? चित्रवान् | भूप्रवेशे समेरण्ये सिन्दूर रजसा तथा कुम्कुमस्य रजोभिश्च भूमौ चक्रं समालिखेत् | अथवा हेमरूप्याभ्यां ताम्रेण वहुधा *? āsanāpaveśasyāvaśyakatvāt tadapi yathā parābījaṃ tataśca dhāra pūrvakaṃ | śaktyāṃ?ti padamālikhya kamalāsanamālikhet | ṅentaṃ namaḥ padaṃ coddharet āsanasya manuṃ vadet || parā hrīṁ tena hrīṁ ādhāraśakti kramatvā? savāya nama ityasaṃpūjya tatropaviśya śrīcakraṃ likhedityarthaḥ || tathā yāmale || bindu trikoṇa vasu koṇa daśa ca yugmaṃ manvasranāgadalasaṃgata ṣoḍaśāraṃ | vṛtta trayaṃ ca dharaṇī madanatrayaṃ ca śrīcakra rājamuditaṃ paradaivatāyāḥ | tena śrīcakre nava tatvātmakatva māyā tu na ta eva || cakrasya navadhā tatvaṃ kathayāmi tavānaghe | ādi saṃbhūsuraṇa(?) syād dvitīyaṃ ṣoḍaśārakam ityādi || likhana kramastu granthagaurava * * * *? litaḥ | gurūpadagā jñātavya iti dik || atha * * *? karaṇaṃ || vārāhītantre || 43a) svaguruṃ cintayet pūrvaṃ kapolasya tu dakṣiṇe | gaṇeśvaraṃ ca praṇamet śikhāyāṃ paramaṃ guruṃ || hṛdaye devatā bhāvaṃ bhūtaśuddhiṃ tataścaret | tena kapolasya dakṣiṇe guṃgurubhyā namaḥ gaṃ gaṇeśāya nama iti śikhāyāṃ parama gurubhyo namaḥ hṛdi tripurasundaryai nama iti praṇasya sāmānyārgha sthāpanaṃ pūrvakaṃ bhūtaśuddhiṃ kruyāt || jñānārṇave || vidhāya vāmabhāge ca caturasra svamaṇḍalaṃ | yantrikāṃ tatra saṃyojya śaṃkhaṃ tatra vinikṣipet || śuddhodakena saṃpūrya pūjayet kāraṇānvitaṃ | ṣaḍaṃṅgaṃ tatra saṃpūjya sāmānyārghamidaṃ śiva ||
SK
वामभागे चतुरस्रं सुमण्डलं विन्यस्य त्रिकोणं विधाय तत्र यन्त्रिकां समारोप्य तत्र शंखं जलेनापूज्या तत्र षडङ्गानि संपूज्य तत्र मूलमष्टधा जप्त्वा तेनोदकेन सर्वमभ्युक्ष्य विशेषार्घ स्थापनं कुर्यात् || तथा तन्त्रे || अथ वक्ष्ये महेशानि विषार्घंस्य लक्षणं | आत्म श्रीचक्रयोर्मध्ये चतुरस्रं च मण्डलं || सामान्यार्घस्य तोयेन देशिको भूमिजान्तक | वह्निकोणार्द्ध पुटितां यन्त्रिकां तत्र निःक्षिपेत् || त्रिकोणवृत्त षट्कोणं यजेत् तत्र च मण्डलं | वह्निं तत्र विचिन्त्याथ पूजयेद् यन्त्रिका मयं || पूर्ववत् परमेशानि त्रिकूटा मध्यगां यजेत् | व्यष्ट कूटे यजेत् तत्र त्रिकूटं परमेश्वरि || द्विरावृत्या षडङ्गानि षट्कोणेषु समर्चयेत् | ४३ब्) सूर्यरूपं न्यसेत् प्रात्रं यन्त्रं पूर्ववदा लिखेत् || समस्त व्यस्त कूटेषु त्रिकूटं पूजयेच्छिवे | विशेषेण समापूर्य चन्द्रं द्रव्यमयं शिवे || पूर्ववद् यन्त्रमालिख्य त्रिकूट मध्यगं यजेत् | त्रिकोणं पूजयेत् तत्र त्रिकूटै पूजनं शिवे || अकथादि त्रिरेखाढ्यं हक्षाभ्यन्तरमुत्तमं | द्विरावृत्या षडङ्गानि षट्कोणेषु प्रपूजयेत् || आत्मासनं समारभ्य आनन्देन च पूजयेत् | मूलविद्यां यजेत् तच्च षोडशार्णं परां बुधः || संदर्शयंस्तत्र साक्षाद् ब्रह्ममयो भवेत् | प्रोक्षयेत् तेन चात्मानं पूजोपकरेणा *? पि || सामान्यार्घ जलेन भूमौ चतुरस्रं मध्यगं त्रिकोणं विलिख्य तत्र वह्नि रूपां यन्त्रिकां विन्यस्य तत्र त्रिकोण वृत्त षट्कोणं विचिन्त्यमं वह्नि मण्डलाय दशकलाव्याप्त्यात्मन नम इति संपूज्य * *? त्रिकूटेनाभ्यर्च्य द्विरावृत्या षडङ्गानि षट्कोणेषु प्रपूजयेत् | अत्र विशेषा न भिधानात् मूलमन्त्रः *? वेत्यर्थः न तु तन्त्रे कौ *? दी? triḥkṣālitamarghaṃ sūryarūpaṃ saṃsthāpya aṃ dvādaśa kalā vyāptātmana pūrvavat saṃsthāpya tadargha pātraṃ sā * *? rgha jalenāpūrya uṃ ṣoḍaśakalā vyāptātmana(?) candrakuṇḍalāya(?) nama iti tatra saṃpūjya pūrvavat mantramālikhya 44a)
SK
तत्र त्रिकोण मध्ये हक्षवर्ण द्वयं त्रिरेखासु अकारादि ककारादि थकारादि षोडशाक्षराणि विचिन्त्य पूर्ववत् पूजयेत् | तत्र वक्तव्य मन्त्रेण आसनादि चतुष्कं संपूज्य मूलविद्यां यदवदर्चयेत् तत्राष्टधा मूलमुच्चारयन् वमिति धेनु मुद्रां योनिमुद्रां वध्वा अस्त्रेण संरक्ष्य तज्जलेन सर्वं प्रोक्ष्य सर्वं विद्या मयं भावयेत् || अथ भूतशुद्धिः || तथा आनन्दं च समभ्यर्च्य भूतान् संत्रासयेत् ततः | मूलविद्यां समुच्चार्य दिग्बन्ध स्फोत नान्यथा || उन्मुखः सन्नतो भूत्वा भूतशुद्धिं ततश्चरेत् | इति लिखनादानन्द भैरव पूजनं || मन्त्रो यथा || शिवचन्द्रो मातृकान्त कालशक्राद्य वह्नयः | वायुश्च वामकर्णेन योजिता बिन्दुनादिनी || बीजमेतत् समुच्चार्य तथा चानन्द भैरवः | ङेन्तं शिखा मन्त्रयुतं पुनुर्बीजं तु संलिखेत् || चन्द्रं हित्वा दिशं कुर्यात् कर्णे वाक्षि योजयेत् | सुधा देव्यै ततो वौषट् अयमानन्द भैरवः || शिवो हकारः चन्द्रः सकारः मातृकान्तः क्षकारः कालो मकारः शक्राद्यो वकारः शक्र लकारः स एवाद्या यस्य वह्नीरेफः वायुर्यकारः वामकर्णे ऊकारः बिन्दुनादौ च तेन ह स क्ष म व र यूं एतद् बीजं | तत चतुर्थ्यन्त आनन्द भैरवं शिशा मन्त्रो वौषट् | तेन पूर्वबीजानन्तरं | ४४ब्) आनन्द भैरवाय वौषडिति तथैव बीजं विलिख्य चन्द्रं हित्वा आदौ संकुर्यात् | वामकर्णे वामाक्षि दत्वा सुधादेव्यै वौषडिति मन्त्र आनन्द भैरस्य तेन सह क्ष म व र य ईṁ सुधा देव्यै वौषडिति मन्त्रः | तेनानन्द भैरवं संपूज्यमूलेन भूतमिवारणं कृत्वा दिग्बन्धन स्फोटनानि च विधायाङ्गुष्ठानामिकाभ्यां पुष्पं गृहीत्वा कचकच्छपिकां वध्वा कुक्षौ वामभागे पापपुरुषं चिन्तयेद् यथा कुक्षि स्थितं पाप पुरुषं परिचिन्तयेत् || ब्रह्महत्या शिरस्कं च स्वर्णस्तेय भुजद्वयं | तत्संसर्गि पद द्वन्द्वमङ्ग प्रत्यङ्ग पातकं || सुरापान हृदायुक्तं गुरुतल्प कटि द्वयं | उपपातकरो मानं रक्तस्म श्रुविलोचनं ||
SK
उत्तरस्यां पिङ्गलाक्षं शूलपाणिं भयावहं | इति पापं विचिन्त्य मूलाधार स्थितं बीजं प्रदीप कलिका कृतिं || प्रणवेन समाकृष्य द्वादशान्तं नयेत् सुधीः | वायुबीजेन देहस्था धातवः पापसंयुताः || संशोष्य वह्निबीजेन पापेन सहितं दहेत् | पापं विनापुनर्जीवममृतीकृत्येव जीयेत् || जलबीजेन देवेशि पार्थिवेन स्थिरं कुरु || इति वचनात् || मूलाधाराज्जीवात्मकं तेजः ॐकारेण हंस इति मन्त्रेण हंसेन पुस्करस्थेन परमात्मनि योजयेदिति सुरसात् | इति मन्त्रेण वा द्वादशान्तं सहस्रदलकमले नीत्वा पञ्च विंशति तत्वानि च गृहीत पुष्पं शिरसि दत्वा मूलाधारे पुष्पाञ्जलिं दद्यात् | ४५अ) ततो यमिति वायु बीजोत्पन्न वायुना देहं संशोरमिति वह्नि बीजोत्पन्न दक्षपादाङ्गुष्ठोत्थेन वह्निना देहं दग्धं विचिन्त्य वमित्य मृतबीजोत्पन्ना मृत वृष्ट्या संजातमात्मानं लमिति पृथ्वी बीजेन स्थिरं कृत्वा देवी रूपं चिन्तयेत् | ततोतीतानि तत्वानि जीवात्मानं च सोहमिति मन्त्रेण स्वस्वस्थान मानयेत् | आṁ सोहं मिति प्राणप्रतिष्ठा मन्त्रो यथामुखवृत्तं समुच्चार्य हसश्च वीपरीतक इति लिखनात् || अथवा बीजत्रयेण प्राणायाम त्रयरूपं वा भूत शुद्धिं कुर्यात् | अत्र यद्यपि मातृका न्यासो न श्रुयते तथापि || जपाद्यं सर्वमन्त्राणां विन्यसेन् न लिपेर्विना | कृतान्तं निस्फलं विद्यात् तस्मात् पूर्वं लिपिं न्यसेत् || इति वचत्पुरतो लिपि न्यासः || तथा च || तन्त्रे द्वेष्ट पत्राम्बुजे कण्ठे स्वरान् षोडश विन्यसेत् | द्वादशच्छ हृत्पद्मे कादीन् द्वादश विन्यसेत् || दशपत्राम्बुजे नाभौ डकारादीन् न्यसेद् दश | षट्पत्रे लिङ्गमध्यस्थे वकारादीन् न्यसेच्च षट् || आधारे चतुरो वर्णान् वादीन्न्यसेच्चतुर्दले | हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेच्छिवे || इत्यन्तर्मातृकां न्यस्य सर्वाङ्गं न्यासमाचरेत् | मूर्द्धा च मुखवृत्तञ्च नेत्रकणेषु पार्वति || नासागण्ठोष्ठदन्तेषु समूर्द्धास्येषु विन्यसेत् | पाणिपादयुगस्यान्तं मध्यग्रेषु तथा शिवे || ४५ब्)
SK
पार्श्व द्वये तथा नाभि जठरेषु क्रमान् न्यसेत् | तस्याङ्गुलि नियमो यहा | ललाटे नामिका मध्ये विन्यसेन् मुख वृत्तकं | तर्जनी मध्यमा नामा वृद्धानामे च नेत्रयोः || अङ्गुष्टं कर्णयोर्न्यसेत् कनिष्ठाङ्गुष्ठकौनसोः | मध्यास्त्रिसोङ्गुष्ठयोश्च मध्यमामोष्ठयोर्न्यसेत् || अनामां दंतयोर्न्यस्य मध्यमामुत्तमाङ्गके | मुखे नामां मध्यमां च हस्ते पादेथ पार्श्वयोः || कनिष्ठानामिकामध्यास्तास्तु पृष्ठे च विन्य * त् | ताः साङ्गुष्ठा नाभि देशे सर्वाः कुक्षौ च विन्यसेत् || हृदये च तलं सर्व संशयोश्च ककुत्स्थले | हृत्पूर्वं हस्तयात् कुक्षि मुखेषु तलमेव च || एतास्तु मातृका मुद्राः क्रमेण परिकीर्तिताः | अज्ञात्वा विन्यसेद् यस्तु न्यासः स्यात् तस्य निस्फलः || इति क्रमेण मातृकान्यासं कुर्यात् || अस्य मन्त्रस्य दक्षिणामूर्ति ऋषिरनुष्टुप् छन्दस्त्रिपुरसुन्दरी देवता अभीष्टार्थ सिद्धौ विनियोग इति स्मृत्वा शिरसि दक्षिणामूर्ति ऋषये नमः | मुखे अनुष्टुप् छन्दसे नमः | हृदि त्रिपुरसुन्दर्यै देवतायै नमः || अथ वाराहीतन्त्रे || ऋषिः शम्भुः शिवो बीजं अनुष्टुप् छन्द ईरितं | देवता सुन्दरी ख्याता काममोक्षेषु योजयेत् || इति वचनात् शम्भुरेपि अत्र ऋषिः || करशुद्धि करी विद्या मध्यमादि तलान्तिका | अङ्गुलीषु द्विरावृत्याः करशुद्धि करी शिवे || ४६अ) मन्त्रो यथा || आद्यं वाग्भवमुच्चार्य द्वितीयं कामराजकं | कुमार्याश्च तृतीयं च त्रिपुरा परमेश्वरि || अथ प्रयोगः || अद्यं अकारः द्वितीयमाकारः कुमार्यास्तृतीयं सौः || तदुक्तं तन्त्रान्तरे || आद्यं द्वितीयं वर्णोर्द्ध त्रिपुरेश्यन्तिमं महत् | तेन अं मध्यमाभ्यां नमः || आं अनामिकाभ्यां नमः | सौः कनिष्ठाभ्यां नमः | अं अङ्गुष्ठाभ्यां नमः | आṁ तर्जनीभ्यां नमः | सौः करतलपृष्ठाभ्यां नमः | इति विन्यस्य आसन चतुस्कं न्यसेत् || मन्त्रो यथा || त्रिपुरेश्यादिमं त्यक्त्वा भुवनेशीं परिक्षिपेत् | अनयात्मासनं दद्यात् त्रिपुरश्याः षडङ्गकं ||
SK
त्रिपुरश्या वालाया आदि बीजं त्यक्त्वा भुवनेशीं ह्रीं परिक्षिपेत् | तेन ह्रीṁ क्लीṁ सौः आत्मासनाय नमः इति पादयोः | पादयो जङ्घयोर्जान्वोर्लिंगे न्यस्य चतुष्टयं | इति सुरसात् || त्रिपुरेशी महेशानि त्रिबीजाह स्थिता यदि | चक्रासन गता देवी विद्धि त्रिपुरवासिनी || त्रिपुरेशी बीजत्रयं यदा हकाराढ्यं भवति तदा | चक्रासनं तेन हैṁ ह्क्लीṁ ह्सौंः चक्राय नम इति जङ्घयोः | तथा त्रिपुरेशी महेशानी वाग्भवे कामराजके | शिवचन्द्रसमायुक्ता तार्तीया शिवरूपिणी | सर्वमन्त्रासन गता त्रिपुरा श्रीरियं शिव त्रिपुरेशी वाला तस्या वाग्भवे कामराजे च शिव चन्द्र युक्ते तृतीय बीजे केवल शिवयुक्ते सर्वासन गता भवति शिवोहकारः ४६ब्) चन्द्रं सकारः तेन ह्क्लैṁ(?) ह्स्क्लीṁ(?) ह्कौः(?) सर्वासनाय नमः इति जानुनोः | तथा आत्मासन गतानान्तु हित्वा तार्तीयमद्रिजे | वलमात्मकमारोप्य साध्यसिद्धासनं भवेत् || आत्मासन गतानां बीजानां तृतीय बीजं त्यक्त्वा चलमात्मकं व्लुṁ? स्वरूपं बीजं दद्यादित्यर्थः तेन ह्रीṁ क्लीṁ व्लुṁ साध्यसिद्धासनाय ये नम इति लिङ्गे एवं आसन चतुस्कं विन्यस्य वालाया द्विरावृत्या षडङ्ग न्यासं कुर्यात् || तदुक्तं || ततो रक्षां प्रकुर्वीत पूर्वोक्त कुलविद्यया | षडङ्ग न्यासयोगेन नमस्कार नियुक्तयो || तेन ऐṁ हृदयाय नमः क्लीṁ शिरसे स्वाहा सौः शिखायै वषट् ऐṁ कवचाय हूṁ क्लीṁ नेत्रयाय वौषट् सौः अस्त्राय फट् | इति षडङ्ग मन्त्रान् तत् तदङ्गेषु न्यसेत् तथा | ऐṁ हृदयाय नमः | इति क्रमेण अङ्गुष्ठादि करतलान्तं न्यस्य तालत्रयं दिग्बन्धनादिकं विधाय मूलेन सप्तधा पंचधा व्यापकं न्यस्य षोडशाक्षरी गलस्त्री(?) धूपधारा(?) स्वरूपां मूर्द्ध्नि स्मरेत् || तदुक्तं || व्यापकत्वेन मूर्तिन्तु विन्यसेत् सिद्धि हेतवं | संपूर्णं चिन्तयेद् विद्वान् ब्रह्मरन्ध्रे रुण प्रभां || द्रवत्सुधा षोडश *? महासौम्य(?) प्रदां स्मरेत् | वामां सा दैवसौभा दण्डिनीं भ्रामयेत् ततः || रिपु जिह्वा महामुद्रां पादमूले विनिक्षिपेत् || दण्डिनी यथा ||
SK
तर्जनीं(?) सकलां कृत्वा भ्रामयेद् दणिनीं भवेत् || ४७अ) अन्तरङ्गुष्ठमुष्ट्या तु निरुद्धन् जगती तलं | रिपु जिह्वाङ्कयां मुद्रां न्यासकाले नियोजयेत् || अथ वशिन्यादि न्यासः || ज्ञानार्णवे || वशीनीं मातृकां न्यसेद् बीजाष्टक समन्वितां | अवर्णान्ते लिखेद् बीजं रवलं तत् क्रमान्वितं || वामकर्णं विशोभाढ्यं बिन्दुनादात्मिका शिवे | वशिनीं विन्यसेद् वाचां देवतां देवि सुप्रभे || अवर्गः षोडशस्वराः तदन्ते रवलूं वामकर्ण ऊकारः तेन शिरसि अṁ आṁ इत्यादि षोडशस्वरानन्तरं रवलूं वाशिनी वाग्भवायै नमः | तथा कवर्गान्ते महेशानि कामेशी बीजमुत्तमं | मेरुर्द्धगं समुच्चार्य वाग्देवीञ्च समर्चयेत् || कवर्गान्ते कामेशी बीजं कल ह्रीṁ तेनकं ५ कल ह्रीṁ मा कामेश्वरी वाग्देवतायै नम इति ललाटे | तथा च वर्गान्ते धान्तनी रक्ष्मा चतुर्थ स्वरान्वितं | मोदिनीं पूजयेद् वाचां देवतां तदनन्तरं | च वर्गस्यान्ते धान्तो नकारः नीरो वकारः क्ष्मा लकारः चतुर्थस्वर दीर्घ ईकारः तेन चं ५ न वलीं मोदिनी वाग्देवतायै नम इति भ्रूमध्ये तथा टवर्गान्ते वायुबीजं इन्द्रस्थञ्च महेश्वरि | वामकर्णेन्दु विन्द्वाढ्यं विमलां वाग्वीश्वरीं तेन टं ५ य्लुṁ विमला वाग्देवतायै नमः कण्ठे वायु बीजं यकार इन्द्रो लकारः वामकर्ण ऊकारः तथा तवर्गान्ते जमोग्न्याढ्यं वामनेत्र विभूषितं | ४७ब्)
SK
बिन्दुनादाङ्कितं बीजं वाग्देवी मरुणीं यजेत् || तेन तं ५ जका * * * *(?) अग्नीरेफः वामनेत्रा दीर्घ ईकारः तेन जमनीं अरुणी वाग्देवतायै नम इति हृदि तथा पवर्गान्ते व्योम चन्द्रक्ष्मा?तो यादग्नि संख्यकं | * * *? स्वरसंयुक्तं विंद्वन्तं(?) जननीं जय *? पवर्गः प्रसिद्धः व्यो(?) मोहकारः चन्द्रः सकारः क्ष्मा लकारः तोया वकारः तस्मादग्निसंखो विलोमेन यकारः तेन(?) यं(? yavargānte jāntakāna repha vāyu samanvitaṃ | māyāḍhyāṃ devatāṃ vācāṃ sarvaiśīṃ paripūjayet | jānto ṛkāraḥ kālā makāraḥ repho rakāraḥ vāyurmakāraḥ māyādīrgha ūkāraḥ tena yaṃ 4 ṛ manayūṃ sarveśī vāgdevatāye namaḥ ādhāre | tathā kāmavahni mataṃ(?) tūrya * ca samarcayet | * * * *? maheśāni nyaṁ sarvārtha siddhayo vījā(?) dīrgha īkāraḥ tena śaṃ 6 * *? kaulinī | * snāneṣu taduktaṃ śiro lalāṭa bhrūmadhya * * * * * * atha prathama * * *? dau cakāraḥ kathaṃ na syādityāha tantrāntare(?) uddharet prathamaṃ rephaṃ tadadhaḥ kuṭilāntagamini likhanāt | 48a) atha jayinī bīja toyādagni saṃkṣakamiti vacanān kathaṃ yakāro labhyate iti cenna nalī soma śakrañca varuṇaṃ vāyumeva ca iti śrīkramācca bodhanāt atha kaulinī bīje māyā svara svara iti śravaṇāt kathaṃ ūkāro labhyata iti cet ṣaṣṭhasvarasamāyuktaṃ saptamaṃ kuṭamattamamiti śrīkramān bodhāditi dik || ṣoḍhānyāsaṃ tataḥ kuryād yena sākṣyācchivo bhavet | vāmakeśvaratantre || gaṇeśaḥ prathamo nyāso dvitīyaśca grahairmataḥ | nakṣatreṇa tṛtīyaḥ syād yoginībhiścaturthakaḥ || rāśibhiḥ pañcamaḥ proktaḥ ṣaṣṭhaḥ pīṭhairnigadyate | evaṃ nyāsasta dehastu sa pūjyaḥ sarvayogibhiḥ || nyāsosya pūjyā lokeṣu pitṛmātṛ mukho janaḥ | sa eva pūjyaḥ sarveṣāṃ sa svayaṃ parameśvaraḥ || ṣoḍhānyāsa vihīnaṃ yaṃ praṇamed yadi pārvati | acirān mṛtyūmāpnoti narakañca prapadyate || vighneśvaraśca tathā śrīśca vighnarājastathā kriyā | vināyakastathā tuṣṭiḥ śānti yukta śivottamaḥ ||
SK
विघ्न कृपुष्टि युक्तश्च विघ्न कृच्च सरस्वती | विघ्नराड्रति युक्तश्च मेधाढ्यो गणनायकः || एकदन्तश्च कान्तिश्च द्विदन्तः कामिनी पतिः | गजवक्त्रा मोहिनी च निरञ्जनजत ततः || कपर्द हृती आतीव्रा दीर्घवक्त्रः ततः प्रिये | स्वामिनी सहितः पश्चान् नन्दाषं कर्षर्णौ ततः || वृषध्वजश्च स्वरसगणनाथेन संयुता | ४८ब्) कामरूपीयिका पश्चाङ्गजेन्द्रः शुभया युतः | सूर्य कर्णस्तु जयिनी त्रिनेत्रः सत्यया युतः || लम्बोदरश्च विघ्नेशी महानन्दस्वरूपिणी | चतुर्मूर्तिः कामदा च सदाशिव युता ततः || मद विह्वल नाम्नी च आमोद विकटे ततः | दुर्मुखश्च तथा पूर्णा सुमुखो भूतिमा तथा || प्रमोदश्च तथा भूमिरेक पादस्तथा सती | द्विजिह्वश्च रमायुक्तः स्वरैश्चैव तु मानुषी || वीरेण सहिता पश्चात् शैलजे मकरध्वजा | षण्मुखश्च विवर्णा च वरदो भ्रूकूटी तथा || वामे देवस्तथा लज्जा वक्त्रतुण्डस्ततः परं | दीर्घघोनान्वितः पश्चाद् द्विरण्डक धनुर्द्धर || सेनानीर्यामिनी मुक्तो ग्रामणी रात्रि संयुतः | तमश्च चन्द्रिका युक्तो विमलश्च शशि प्रभा || मत्तवाहन लोलचूजती च चपले क्षणा | स्वन्तरुक्ष्मा ततः पश्चात् षड्विन्दुर्भगान्वितः || चण्डी तु ऋद्धि संयुक्तः खडी *? र्भगमालि *? | इति पाठान्तरः | वरण्यश्चैव शुभगा वृषकेतुस्तथा शिव || भक्ष प्रियश्च दुर्गा च मेघनादस्तु कामिनी | गणेशः कालकु * * * *? शः *? प्रहारिणी || मातृकार्णैर्न्यसेद् देवि ग्रहन्यासं ततश्चरेत् | ललाटे अं विघ्नेश्वर श्रीभ्यां नम इति क्रमेण मातृका स्थानेषु मातृ न्यसेत् | ट वर्गेन वुध हृत्सुत वर्गेण वृहष्पतिं | हृदयोपरि देवेशि पवर्गेण गले भृगुं || य वर्गेण शनिं नाभौ राहुं वक्त्रेश वर्गगं | ४९अ) लक्षाभ्यां पादयोः केतुं न्यसेदेवं वरानने | तेन हृदि अं आं १६ षोडशस्वरानन्तरं सूर्य ग्रहाय इति क्रमेण उक्त स्थानेषु न्यसेत् || अथ नक्षत्र वृन्दस्य न्यासं कुर्यात् सुखावहं | युग्मं युग्मं तथा युग्मं युग्मयुग्मेन रोहिणी ||
SK
एकमेकं तथा द्वन्द्वमेक पुष्पान्तमुच्यते | एतेन चतुर्दशस्वरानश्विन्यादि पुष्पान्तं कस्याश्चिदादौ युग्मं कस्याश्चिद्युग्मं कस्याश्चिदेकं | तेन अं आं अश्विन्यै नम इति ललाटादिषु न्यसेत् | यथा ललाटे लोचन पश्चाद् वाम दक्षिण कर्णयोः | नासोर्द्धये च देवेशि तथा कण्ठे न्यसेत् क्रमात् || कपुष्पाञ्च प्रविन्यस्य खगाभ्याश्चैव सर्पिकं | दक्षस्कन्धे घङाभ्याञ्च मघां स्कन्धे द्वितीयके || चं पूर्व फल्गुणी दक्ष कुर्परेच्छजसंयुतां | उत्तरा फाल्गुणीं वामे कुर्परे विन्यसेत् प्रिये || ऋ ञ वर्णयुतं हस्तं मनिरन्धेथ दक्षिणे | चित्रां टठाभ्यां वामे च मनिरन्धे न्यसेच्छिवे || न प फैश्च तथा मूलां न्यसेद् वाम कटौ शिवे | पूर्वाषाढां वकारेण दक्षौरौ विन्यसेत् ततः || भकारेणोत्तराषाढां वामोरौ तदनरं | मकारे युक्तां श्रवणां दक्षजानुनि विन्यसेत् || यर स्थितां धनिष्टां च वामजानुनि विन्यसेत् | लकारेण ततो देवि शतभिषां न्यसेच्छिवे || दक्षजङ्घो गतां पश्चात् पूर्वभाद्र पदां न्यसेत् | वशवर्णस्थितां न्यस्य वामजङ्घ्य गतां क्रमात् || ४९ब्) ष सहा उत्तराभाद्रपदां दक्षिण पादके | क्षकारेण ततो बिन्दुसर्गाभ्यां देवि रेवतीं || वामदाद प्रविन्यस्य योगिनी न्यासमाचरेत् | बिन्दुसर्गाभ्यां अं अः स्वरूपाभ्यां नवत्यै नम इति क्रमेण न्यसेत् || अथ योगिनी(?) न्यासः || डां डीं वीज द्वयञ्चो? *? तरे स्वाः कलहोः प्रिये | डाकिनी राकिनी चैव लाकिनी काकिनी तथा | शाकिनी हाकिनी चैव योगिन्योमित? सिद्धिदाः || वामकर्णेन्दु * *? द्ध्या? डाकिन्यै नम इहापि | स्वरान्ते तु प्रकर्तव्यं(?) * क्षरक्ष पदं द्वयं || अश्यस्मने(?) कण्ठदेशे विशुद्धे विन्यच्छिवे |
SK
एवते(?) कण्ठे अं आं(?) षोडशस्वरारन्तरं(?) डां डीं डूं डाकिन्यै नमो रक्ष रक्ष त्वगात्मने इति मन्त्रः | डां डीं बीजद्वयं चोक्त्वा(?) आसां डाकिन्यादीनां डकलाः(?) क सहाः? * * *? र्णेन्दु नादार्द्व्य्ॐ वामकर्ण ऊकारे डूमित्यदि(?) | वां वीं इत्यादि बीजानि एवं * *? स्यादी नामविवादव्यं तथा कठ वर्णौ राकिनी तु टकाराद्यक्षरैः क्रमात् | पूर्ववद् बीजं संयुक्तैषट्भगात्मा तु सम्वदेत् | क्रं स्वं द्वादशाक्षरानन्तरं रां रीं रुं राकिण्यै नमो रक्ष रक्ष असृगात्मने इत्यादि क्रमेण यथोक्त स्थानेषु न्यसेत् | तथा अनाहते न्यसेत् पश्चात् उकारादि फकारगैः | लाकिनीञ्च तथा देवि मांसात्मा मनिपूरके || वलवर्णैः काकिनीन्तु स्वाधिस्थाने तथा विधां | ५०अ) मेद स्वरूपा विन्यस्य यशवर्णैस्तु शाकिनीं | अस्थि पूर्वाञ्च पूर्वोक्तं बीजपूर्वा प्रविन्यसेत् || हक्षवर्ण स्थितां तद्वन् मर्जा हाकिनीकां न्यसेत् | भ्रूवोर्मध्ये महेशानि न्यासोयं योगिनी मतः || एतेन उक्ताक्षराणि लिखित्वा डाṁ डीṁ इत्यादि लिखित्वा नामानि वर्णां षष्ठस्वर बिन्दुयुतं लिखित्वा डाकिन्यै नम इत्यादि क्रमेण लिखित्वा अन्ते रक्ष पद द्वयं विलिख्य त्वगात्मन इत्यादि उच्चरेत् || अथ राशि न्यासः || तथा राशि न्यासं ततः कुर्यात् सर्वरक्षाकरं नृणां | अकारादि चतुस्केन विन्यसेत् सुरवंदिते || मेषं दक्षिणगुल्फे च ततस्तुण्डेन वैवृषं | न्यसेज्जानु निवेदैस्तु मिथुनं वृषणे ततः || द्वाभ्यां कर्कटकं कुक्षौ द्वाभ्यां स्कन्धे तु सिंहकं | अनुस्वारविसर्गाभ्यां शवर्गेण च कन्यकां || दक्षिणे तु शिरो भागे विन्यसेद् वीरवन्दिते | तथा वामशिरो भागे कवर्गेण तुलाभूतं || च वर्गेण तथा स्कन्धे वृश्चिकं विन्यसेच्छिवे | ट वर्गेण तथा कुक्षौ धत्विनं विन्यसेच्छिवे || मकरन्तु तवर्णेन वृषणे विन्यसेत् क्रमात् | पवर्गेण तथा वुम्फं(?) वामजानुनि विन्यसेत् ||
SK
यवर्गेण क्षकारेण मीनं वामे तु गुल्फके | एतेन अṁ आṁ इṁ ईṁ मेषाय नम इति दक्षिणगुल्फे इत्यादि क्रमेनोक्त स्थानेषु न्यसेत् | अथ पीठानि विन्यसेन् मातृकार्णैरेसु क्रमात् | ५०ब्) कामरूपं महापीठं पीठं वाराणसीं पुनः | नेपालञ्च तथा पीठं तथा * * * *? र्द्धनं || परस्थितं तथा पीठं च वस्थिर मतः परं | पूर्णशैलं महापीठं निचुत्वं च ततः पर || आम्रातकेश्वरं पीठं एकाम्रञ्च ततः परं | कैलासं भृगुकेदारं पीठं चन्द्रपुरं ततः | श्रीपीठञ्च तथैङ्कारं जालन्धरे मतं परं || मालवञ्च तथा पीठ कलान्तं * * * * *? | गोकर्णञ्च(?) महापीठं मारुकेश्वरेमेव च || अट्टहासं च विरजं राजगृहं महायुधं | पीठं कोला * *? प्रोक्तं मलापुरमनन्तरं || वामेश्वर महापीठं * * * * * *? न्तकीं | पीठमुज्जयिनीञ्चैव चीत्रांक्षी * *? का भिधं || हस्तिनापुरकं पीठं उड्.ईशं रवि(?) योगकं | षष्ठीशञ्च तथा पीठं मायापुर महेश्वरं(?) || महेन्द्र वामनं चैव हिरण्यपुरमेव च || महालक्ष्मी मयं पीठं उड्डियान मतः परं | अं कामरूपपीठाय नम इति ललाटे इत्यादि क्रमेण मातृका स्थानेषु न्यसेत् || नित्या स्तुतो देवि मातृकास्वरसं *? ः || मातृका * *? सद्वक्त्रे(?) सर्वसौभाग्यदो क्रमात् | तत्रादौ प्रथमा विद्या(?) * * *? पुन * * ५१अ) कामेश्वरीमख्याता तथैव भगमालिनी | नित्य क्लिन्ना च भेरुण्डा तथा वै विन्ध्यवासिनी || वज्रेश्वरी च दूती च त्वरिता कुलसुन्दरी | नित्या नीलपताका च विजया सर्वमङ्गला || ज्वाला मालिनी * वित्रा ताः पञ्चदश कीर्तिता | एता नित्या वक्त्रे अं महात्रिपुर सुन्दर्यै नमः || इति ललाटे इत्यादि क्रमेण न्यसेत् || तथा स्थिति न्यासं ततः कुर्यात् श्रीविद्या षोडशाक्षरैः | पञ्चाङ्गुलीषु करयोर्ब्रह्मरन्ध्र मुखे हृदि एवं विन्यस्य नाभ्यादि पादान्ते चैकमद्रिजे | गलावामाभिपर्यन्तं डाकारञ्च ततः परं | ब्रह्मरन्ध्रादि कण्ठान्तमेकं विन्यस्य पादयोः ||
SK
अङ्गुलीषु च विन्यस्य न्यासोयं स्थिति कारकः | तथा शिरो ललाट हृद्वक्त्र जिह्वापत्सत्विकेषु च || षोडशार्णान् न्यसेद् वक्रे स्वरस्थानेषु च क्रमात् | व्यापकं गोरकं कुर्यात् प्राणायामं ततश्चरेत् || एवं वहवो न्यास भेदास्तन्त्रेषु लिखिता इह तु ग्रन्थगौरव भयादुपेक्षिताः | अत्रापि षोढान्यासा नामना वश्यकत्वं एतेन व्यापकं सप्तधा पञ्चधा वा न्यस्य प्राणायामं कुर्यादिति संक्षेपः || तथा प्राणायामस्य विधिवन् मुद्रासम्बद्ध विग्रहः | क्षोभण द्रावणा कर्ष वश्योन्माद महाङ्कुशाः | खेचरी बीजयोन्याख्यानवाङ्गानि प्रकीर्तिताः || तथा ज्ञानार्णवे || ५१ब्) शृणु देवि प्रवक्ष्यामि यजनं चेन्तरं महत् | मूलादि ब्रह्मरन्ध्रान्तं विशतन्तु तनीयसीं || उद्यत् सूर्यप्रभा जाल विद्युत् कोटि प्रभा मयं || चन्द्रकोटि प्रभारं त्रैलोक्यैक प्रभा मयं || अशेष * * * * *? स्थि स्थिति संहार कारकं | ध्यायेद् यथा मनो देवि निश्चलं जायते यथा || इत्यन्तर्यजनं कृत्वा वहिर्यजनमाचरेत् || इति वचना || दन्तर्यागानन्तरमेव वहिर्यजनमित्यर्थः || अथ ध्यानं || ततः पद्मनिभां देवीं वालार्क किरणारुणां | जवाकुसुमसंकाशां कुम्कुमोदरसंनिभां || श्यामालिकुलसङ्काश कुटिलालककुण्डलां || प्रत्यग्रोरुणसंकाश वदना * *? मण्डलां | किञ्चि * * * * * * *? ल ललाटमृदुपट्टिकां || पिनाकधनुराकार सुकषां(?) परमेश्वरीं | आनन्दमुतान्दोललीलोल्लोलित लोचनां || स्फुर मयूखसंहातविलस * *? कुण्डलां | मु * *? मण्डलाभोगजितन्दु मण्डलां परां || विश्वकर्मादि निर्माण सूत्रसुस्पष्ठ नासिकां | ताम्र *? ह्रस्व बिम्बाभ रक्तौष्ठी ममृतोपमां || दाडिमी बीज रकाभ दन्तपंक्ति विराजितां | रत्नद्वीप जगद् भाति जिह्वा मम * भाषिणीं || मिते माधुर्य * *? त माधूर्य रससागरां | त्रिवली दलनायुक्त मध्यदेश सुशोभितां || कम्बुग्रीवां महादेवीं मृणाललितैर्भुजैः | ५२अ) रक्तोत्पलकुलाकार सुकुमार कराम्बुजां | कराम्बुज नखद्योतिर्वितानि च नभस्थलां ||
SK
मुक्ताहारलतोपेत समुन्नत पयोधरां | त्रिवलनायुक्तमध्ये देशे सुशोभितां || लावन्य सरिदा वर्ता कारणाभि विभूषितां | अनन्तरत्न घटित काञ्ची मुक्तां नितम्बिनीं || नितम्बबिम्ब द्विरदरोमराजिवराङ्कुशां | कदलीललित स्तम्भ सुकुमारारुमीश्वरीं || लावन्य कदली तुल्य जङ्घ्यायुगल मण्डितां | गुढगुल्फ पदद्वन्द्वां प्रपदाजित कच्छपां || तनुदीर्घाङ्गुलिभसु नखचन्द्रविराजितां | ब्रह्मविष्णुशिरोरत्न विघृष्ट चरणाम्बुजां || शितांशुशतसंकाश कान्ति सन्तान हासिनीं | लौहित्यजित सिंदूर यवापीतिमरागिनीं || रक्तवस्त्र परीधानां पाशाङ्कुश करोद्यतां | रक्तवस्त्र निविष्टां तां रक्ताभरणभूषितां || चतुर्भुजां त्रिनेत्रां च पञ्चवाणधनुर्द्धरां | कर्पूरसकलोन्मिश्रिताम्बूल पूरिता ननां || महामृगमदोद्दाम कुम्कुमारुण विग्रहां | सर्वशृङ्गार वेशाढ्यां सर्वालङ्कार भूषितां || जगदानन्द जननीं जगद्रञ्जनकारिणीं | सर्वदेव मयीं देवीं कदम्बवनमध्यगां || वहन्नाडी पुट द्वारि निर्गतां चिन्तयेत् क्रमात् | एवं ध्यात्वा परामेषां वहानाडी पुट क्रमात् || आगत्य चक्र मध्ये तु मुद्रया च त्रिखण्डया || ५२ब्) संस्थितां चिन्तयेद् देवीं श्रीपीठान्तर्निवाशिनी || आवाहन मन्त्रः || तन्त्रे || सुंपप्रदा भैरवीरमन्ते सर्ग समन्विता | देव्या वाहन विद्यास्यादिति दर्शनात् तेन हसरे ऐṁ ह सकल र ईṁ ह स र औṁ मूलमुच्चार्य महात्रिपुरसुन्दरि आगच्छ आवाहयामि महापद्म वनान्तस्थे केवलानन्द विग्रहे | सर्वभूतहिते मातरह्येभि? परमेश्वरि | अस्मिन् महामण्डलसानिध्यं कुरु श्रीमहात्रिपुर सुन्दरि इहा गच्छ इह तिष्ठ इह सन्निधे हि इह सन्निरुध्य स्वदेवता शरीर षडङ्ग मन्त्रेण षडङ्गानि विन्यस्य तालत्रय दिग्बन्ध *? संर * *? कनीहता(? tattanmudrā pradarśayet || taduktaṃ ||
SK
महात्रिपुर मुद्रास्तु(?) * * * * *? मुद्रया | विद्यया वाह्य सुभगे नमस्कार नियुक्त *? ति श्रवणात् | मूलविद्या या दर्शनात् || मुद्राः सन्दर्शयेत् तत्र पर्वणैस्तु त्रिधा यजेत् || अथ आवाहनादि मुद्रा यथा || हस्ताभ्यामञ्चलिं वध्वा नामिको मूलपर्वणोः | अङ्गुष्ठौ निक्षिपेत् सेयं मुद्रात्वा(?) वहनी भवेत् || १ || अधोमुखी त्वियं वृत्स्यात् * * *? मुद्रिका शिवे || २ || उत्थिताङ्गुष्ठ मुष्ट्यास्तु संयोगात् सन्निधापनी || ३ || अन्या प्रवेशिताङ्गुष्ठा सैवसम्बोधनी मता || ४ || उत्तनमुष्टि युगला सम्मुखी करणी मता || ५ || देवताङ्गे षडङ्गानां न्यासः स्यात् ककली कृतिः || ६ || सव्य हस्त कृता मुष्टिर्दीर्घाधो मुखतर्जनी | अवगुण्ठन मुद्रेय मतिभद्रामिता मता || ७ || अथ संक्षोभनादि मुद्रादि क्षणं || तथा मध्यमे मध्यमे कृत्वा कनिष्ठाङ्गुष्ठ बोधिते | तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके || एषा तु प्रथमा मुद्रा सर्वसंक्षोभकारिणीं || १ || एतस्या एव मुद्राया मध्यमे सवले यदा | क्रियते परमेशानि सर्वविद्राविणी तदा || २ || मध्यमा तर्जनीभ्याम्वा कनिष्ठा नामिको समे | अङ्कुशाकाररूपाभ्यां मध्यमे परमेश्वरि || इयमाकर्षणी मुद्रा त्रैलोक्या कर्षकारिणी || ३ || पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशा कृती | परिवर्त्य क्रमेणैव मध्यमे तदधो गते || क्रमेण तेन देवेशि कनिष्ठा नामिका द्वयं | संयोज्य निविडाः सर्वा अङ्गुष्ठाटग्र देशतः || मुद्रेयं परमेशानि सर्ववश्यकरी मता || ४ || सम्मुखौ तु करौ कृत्वा मध्यमा मध्यगे नुजे | अनामिका तु सरले तद्वहिस्तर्जनी द्वयं || दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमा नख देश * | मुद्रैषान् मादिनी नाम्ना ह्रादिनी सर्वयोषितां || ५ || अस्यास्त्वनासिका युग्म सधः कृत्वाङ्कुशाकृती | ५३ब्) तर्जन्या वपिते नैव क्रमेण विनियोजयेत् | इयं महाङ्कुशा मुद्रा सर्वकर्मार्थसाधिनी || ६ || सव्यं दक्षिण पार्श्वे तु दक्षिणं सर्वदेशतः | वाहु कृत्वा महेशानि हस्तौ संयनि वर्त्य च ||
SK
कनिष्ठा नामिके देवि मुद्रे तेन क्रमेण च | तर्जनीभ्यां समाक्रान्ते वामोर्द्धमग्निमध्यमे || अङ्गुष्ठौ तु महेशानि सवलादपि कारयेत् | एवं स खेचरी मुद्रा नाम्ना सर्वोत्तमा मता || ७ || परिवर्त्य करौ पष्टावर्द्धचन्द्राकृते प्रिये | तर्जन्याङ्गुष्ठ युगलं युगप्त् कारयेत् ततः || अधः कनिष्ठावष्टब्धे मध्यमे विनियोजयेत् | तथैव कुटिले योज्य सर्वाधस्तादनामिके || बीजमुद्रेयमचिरात् सर्वसिद्धि प्रवर्तिनी मध्यमे कुटि * नासिका युग्ममधः कृत्वाङ्कुशाकृती | तर्जन्यावपिते नैव क्रमेण विनियोजयेत् | इयं महाङ्कुशा मुद्रा सर्वकर्मार्थ साधिनी || ६ || सव्यं दक्षिण पार्श्वे तु दक्षिणं सर्वदेशतः | वाहु कृत्वा महेशानि हस्तौ संपरिवर्त्य च || कनिष्ठानामिके देवि मुद्रे तेन क्रमेण च | तर्जनीभ्यां समाक्रान्ते वामोर्द्धमपि मध्यमे || अङ्गुष्ठौ तु महेशानि सवलादपि कारयेत् | एवं सस्व * री मुद्रा नाम्ना सर्वोत्तमा मता || ७ || परिवर्त्य करौ पष्टा वर्द्ध चन्द्रा कृते प्रिये | तर्जन्याङ्गुष्ठयुगलं युगपत् कारयेत् ततः || अधः कनिष्ठा * * *? मध्यमे विनियोजयेत् | ५४अ) तथैव कुटिलै योज्ये सर्वाधस्तादनामिके | बीजमुद्रे यम चिरात् सर्वसिद्धि प्रवर्तिनी || ८ || मध्यमे कुटिले कृत्वा तर्जन्युपरिसंस्थिते | अनामिका मध्य गते तथैव हि कनिष्ठके || सर्वा एकत्र संयोज्य अङ्गुष्ठ परिपीडिताः | एषा तु प्रथमा मुद्रा योनि मुद्रेति सङ्गिता || ९ || परिवर्त्य करौ स्पष्ठौ अङ्गुष्ठौ कारयेत् समौ | अनामांतर्गते कृत्वा तर्जन्यौ कुटिला कृति || कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि | त्रिखण्डेयं समाख्याता त्रिपुराङ्कार कर्मनि || १० || अस्मिन्नेव जीवन्यासः || जीवन्यास मन्त्रश्च विष्णुप्रकरणेऽनुसन्धेय ततो मूलान्ते सपरिवारां महात्रिपुरसुन्दरीं तर्पयामि इति अर्घोदकेन त्रिः संतर्पयेत् मन्त्र विशेषानभिधानात् | तथा गन्धपुष्पाक्षतादीनि देव्यै सम्यक् निवेदयेत् |
SK
एतेन मूलान्ते ऐṁ ह्रीṁ श्रीṁ इति सम्बन्धः मायालक्ष्मी मयं बीजं युग्मयुग्म क्रमेण तु इति सुरसान् महात्रिपुरसुन्दर्यै पाद्यं निवेदयामीति पाद्यादिकं दद्यात् | तदुक्तं पाद्यं निवेदयामीति पाद्यादीनि प्रकल्पयेत् | तथा उपचारैः षोडशभिः संपूज्य परदेवतां | तर्पणानि पुनर्दद्यात् त्रिवारं मूलमुच्चरन् इति तन्त्रदर्शनात् पूजानन्तरं पुनस्तर्पणमिति दिक् | एतस्मिन् समये देवि तिथि नित्यां प्रपूजयेत् || ५४ब्) कामेश्वर्यादिका देवि विचित्रान्ता वरानने | प्रतिपत्पौर्णमास्यान्तास्तिथिरूपाः प्रपूजयेत् || कृष्णपक्षे पूजयेत् तिथि मण्डलं विचित्राद्या वरारे फेत् कामेश्वरी भवेत् | तेन शुक्लपक्षे कामेश्वर्यादि विचिन्ताः कृष्णपक्षे विचित्रादि कामेश्वर्यन्ताः प्रपूजयेदिति तत्र वर्ण स्थान नियमः | अकारादि ऋकारान्तं दक्षिणायां विचिन्तयेत् | ततः पूर्वरेखायां दीर्घाकारादि पञ्चकं || विलिख्योत्तरे रेखायां शक्त्यादि विलिखेत् ततः | अनुस्वारान्त मात्रास्तु विसर्गे षोडशीं यजेत् || वामावर्तेन देवेशि नित्याः षोडश पूजयेत् | एतेन दक्षिण रेखायां अकारादिः ऌकारान्तं ह्रस्वपञ्च वर्णान् विचित्न्य पूर्व रेखायां आकारादि ॡकारार्णान् पञ्चवर्णान् विलिख्य उत्तररेखायां शक्त्यादि एकारादि स्वरान् विलिख्य अनुस्वारान्त मात्रा विलिख्य? | तत्र नित्याः प्रपूजयेत् वामावर्तेन विसर्ग षोडशीं यजेत् || अथ नित्या मात्राः || शृणु देवि प्रवक्ष्यामि नित्यामण्डलमुत्तमं | वालां(?) तारं च द्वत्प्रान्ते कामेश्वरि वदुं वदेत् || इच्छाकामफलप्रान्ते पदे सर्व पदं वदेत् | ततः सर्ववशं ब्रूयत् करिसर्व जगत् पदं || क्षोभनान्ते करे ब्रूयात् हूṁकार त्रयमालिखेत् | पञ्च वामान् समालिख्य संहारेण कुमारिकां || ५५अ) एषा कामेश्वरी नित्या प्रसङ्गात् कथिता शिवे | तेन ऐṁ क्लीṁ सौः ॐ नमः कामेश्वरि इच्छाकाम फलप्रदे सर्व सर्व वशङ्करि सर्व जगत् क्षोभन कर हूṁ हूṁ हूṁ द्राṁ द्रीṁ क्लीṁ व्लṁ सः सौः क्लीṁ ऐṁ अं कामेश्वरी श्रीपादुकां पूजयामीति पूजयेत् || १ ||
SK
वाग्भवं भगशब्दान्ते भगे भगिनि चालिखेत् | भगे देवि भगान्ते च भगमालिनि भगावहे || भग गुह्ये भगे प्रान्ते योनि प्रान्ते भगाङ्किते | निपातिनि च सर्वान्ते ततो भगवशङ्करि || भगरूप ततो लेख्यं नीलजायत लोचने | नित्य क्लिन्ने भग प्रान्ते स्वरूपे सर्वा वा लिखेत् || भगानि मे चानयान्ते वरदेथ समालिखेत् | रेते सुरेते भगवत् क्लिन्ने क्लिन्न द्रवे ततः || क्लेदय द्रावया मोघे सर्वसत्वान् भगेश्वरि | आत्मने भगविच्चैव क्षुभक्षाभय सर्वतः || सत्यं भगेश्वरि ब्रुयात् वाग्भवं व्लṁ जमादिकं | भौṁ व्लṁ सौṁ व्लṁ च हैṁ हूṁ चाहं क्लिन्ने च ततः परं || सर्वाणि भगान्यन्ते मेवशं चानयेति च | श्रीबीजञ्च हरप्रान्ते वलमात्मकमक्षरं || भुवनेशीं समालिख्य विद्येयं भगमालिनी || २ || तेन ऐṁ भगभगे भगिनि भगे देवि भगभगमालिनि भगावहे भग गुह्ये भगयोनि भगनि पातिनि सर्वभगवशङ्करि भगरूपे नित्य क्लिन्ने भगस्वरूपे सर्वभगानि मे आनय वरदे रेते सुरेते भग क्लिन्ने क्लिन्न द्रवे ५५ब्) क्लेदय द्रावया मोघे सर्वसत्वान् भगैश्वरि आत्मन भगवित् क्षुभक्ता भय सर्वसत्वं भगेश्वरि ऐṁ व्लṁ जम व्लं भौṁ व्लṁ साṁ व्लṁ च हैṁ हूṁ च ह क्लीन्ने सर्वाणि भगानि मेव समानय श्रीं हर व्लṁ ह्रीṁ भगमालिनि श्रीपादुकां पूजयामि इति पूजयेत् || तथा पराबीजं समुच्चार्य नि *? क्लि * *? द *? वे | अग्निजायान्निता मन्त्रा नित्य क्लिन्ने यमीरिता || ३ || तेन * * * * * * * * * * * * श्रीपादुकां पूजयामीति पूजयेत् | तथा प्रणवं पूर्वमुच्चार्य तथाङ्कुश युगं वदेत् | तन्मध्ये विलिखेद् देवि भावयात्मकमक्षरं || चतुर्दश स्वरोपेतं बिन्दुरा *? ङ्कितं पृथक् || त्मकं भ्रṁ स्वरूपं च वर्गं च छ ज ऋ स्वरूपं वह्नी रेफः चतुर्दश स्वर औकारः वह्निजाया स्वाहा तेन ॐ क्रोड क्रोṁ(?) क्रोṁ(?) * * * *? स्वाहा भेरुण्डां || ४ ||
SK
तथा परां विलिख्य विन्ध्यान्तवासिन्यै नम इत्यपि | अष्टार्णोयं महेशान्या देवता विन्ध्यवासिनी || परावी ह्रीं तेन ह्रीं विन्ध्यवासिन्यै नमो विन्ध्यवासिनीं || ५ || नित्य क्लिन्नां सदद्रवां मुखतारं समालिखेत् | हृल्लेखान्ते फरमान्त चक्रबीजं विसर्गवत् || चतुर्दशाक्षरी विद्या देवी वज्रेश्वरी भवेत् | ५६अ) अस्यार्थः नित्य क्लिन्नां मदद्रवां नित्य क्लिन्नायाः पूर्वोक्त मन्त्रं सम्बोधन स्वाहान्तं विलिख्येत् प * र्यं तस्य मुखे आद्ये तारं ॐकारः हृल्लेखा ह्रीṁ फरमात्मकं फ्रेṁ चन्द्रबीजं सकारः विसर्गवत् विसर्गयुक्तं | तेन ॐ ह्रीṁ फ्रेṁ सः नित्य क्लिन्ने मद द्रवे स्वाहा वज्रेश्वरीं || ६ || पराबीजं समुच्चार्य शिवदूती च ङे युतं | हृदन्ताय मनुर्देवि शिवदूती समृद्धिदा || पराबीजं ह्रीं तेन ह्रीं शिवदूत्यै नमः शिवदूतीं | तथा ॐकारं बीजमुच्चार्य परा कवच मालिखेत् | खेच च्छै क्षं समालिख्य स्त्रीबीजञ्च समालिखेत् || हुṁकारं क्ष परा चास्त्रं विद्येयं त्वरिता भवेत् | परा ह्रीं कवच हूṁ स्त्रीबीजं स्त्रीं अस्त्रं फट् तेन ॐ ह्रीṁ हूं खेच दक्ष स्त्री हूं क्षे ह्रीं फट् त्वरितां || ८ || वालया पुटितां कुर्यात् तथा वै नित्य भैरवीं | पञ्चवाणांश्च विमला नित्या शक्राक्षरी भवेत् || तेन ऐं क्लीं सौः उरलकहस ऐं उरलकहस ईं उरलकहस औंः ऐं क्लीं सौः द्रां द्रीं क्लीं व्लुं सः विमलां || ९ || तेन द्रां द्रीं क्लीṁ व्लु सः नित्यां || १० || प्रणवं भुवनेशानी फरेमात्मकमक्षरं | व्लूमात्मकं द्वितीयन्तु भुवनेश्यङ्कुशं ततः || नित्यशब्दं समुद्धृत्य संयोज्या तु मद द्रवां | कवचं चाङ्कुशं विद्यां नीलपताकिनी || प्रणवं ॐ भुवनेशानि ह्रीं फरेमात्मकं फ्रें व्लं अङ्कुशं क्र्ॐ नित्य मद द्रवे हूं क्र्ॐ नी * *? पताकिनीं || ५६ब्) शक्रस्वरान्वितं | बिन्दुनादात्मकं देवि विद्येयं विजया भवेत् | वान्तं वकारः कालो म * *? रः शक्र * * *? || तथा
SK
चन्द्रवारुण संयुक्तन्दार बीजं समालिखेत् | चतुर्थ्यन्तं ततो देवि विलिखेत् सर्वमङ्गलां || हृदन्त * * * * * * *? यं सर्वमङ्गलां | चन्द्रः सकार वारुणं वरारः(?) तारवीजं ॐकारः | तेन खाṁ सर्वमङ्गलायै नमः सर्वमङ्गलां || १३ || देवि च | द्विरुच्चार्य सर्वान्ते भूतसंहारकारिके || जातवेदसि संलेख्य ज्वलेति पद युग्मकं | ज्वलति प्रज्वल द्वन्द्वं हूंकार त्रय मालिखेत् || वह्निबीजं त्रयं वर्मास्त्र स्वाहान्विता मनुः | इयं नित्या महादेवि ज्वालामालिनिका परा || तेन ॐ नमो भगवति ज्वालामालिनि देवि देवि भूतसंहारकारिके जातवेदसि ज्वल ज्वल ज्वल प्रज्वल प्रज्वल हूं हूं हूं रं रं रं हूं फट् स्वाहा || ज्वालामालिनी || १४ || कवर्गान्तं स्वरान्तञ्च शक्रस्वरसमन्वितं | बिन्दुनाद कलाक्रान्तं विचित्रा परमेश्वरी || कवर्गस्यान्तश्चकारः स्वरस्यान्तः *? क्षारः(?) शक्रस्वर औकारः तेन च क औṁ विचित्रा श्रीपादुकां पूजयामीति पूजयेत् || १५ || ततो मूलेन महात्रिपुरसुन्दरी श्रीपादुकां पूजयामीति पूजयेत् तदुक्तं ५७अ) पुनः श्रीत्रिपुरा देवीं यजेत् सौभाग्य हेतवे | कृष्णपक्षे तु विचित्रादि कामेश्वर्यन्ता पूजयेत् ततो वायव्यादि कोणेषु परगुरुभ्यो नमः परापर गुरुभ्यो नमः परगुरुभ्यो नमः परमेष्ठि गुरुभ्यो नमः | परमगुरुभ्यो नमः | स्वगुरुभ्यो नमः इति पूजयेत् || तदुक्तं वामकेश्वरतन्त्रे || वायव्यादि तथेशान्तं गुरुषट्कं प्रपूजयेत् | गरादि त्रयमभ्यर्च्य परमेष्टादिक त्रयं || सामान्य गुरुशिष्याणां गुरुपक्तिरियं भवेत् || अथाम्नाय पूजा || तथा सर्वसंक्षोभणे चक्रे पूर्वाम्नायं प्रपूजयेत् | सर्वरक्षाकरे चक्रे दक्षिणाम्नाय पूजयेत् || मध्य चक्रमये देवि पश्चिमाम्नायमर्चयेत् | नवचक्रेषु देवेशि कुवेराम्नाय पूजयेत् || वैन्दवे परमेशानि मध्ये सिंहासनं यजेत् | तथा सर्वसंक्षोभणादि चक्रेषु विशेषानभिधानात् || श्रीविद्यादिकाः पूजयेत् || तथा तन्त्रे ||
SK
श्रीविद्या च तथा लक्ष्मी महालक्ष्मी तथैव च | त्रिशक्तिः सर्वसंयोज्य लक्ष्मी पञ्च समीरिता || श्रीविद्या च परा ज्योतिः परं निस्कल शाम्भवी | अजपा मातृका चेति पञ्चकोषाः समीरिताः || श्रीविद्या त्वरिता चैव पारिजातेश्वरी तथा | त्रिकूटा पञ्च वानेशी पञ्च कल्प लताः स्मृताः || श्रीविद्यामृत पीठेशी सुधा श्रीरमृतेश्वरी | ५७ब्) अन्नपूर्णेति विख्याता पञ्चकामदु *? मताः || श्रीविद्याबिन्दुलक्ष्मीश्च मातङ्गी भुवनेश्वरी | वाराहीति च संप्रोक्ता पञ्चरत्नाः समीरिताः || अनेन ऐṁ ह्रीं श्रीं श्रीविद्या पादुकां पूजयामीति पूजयेन् माया लक्ष्मी मयं बीजं वाग्भवाद्यं क्रमेण तु | संयोज्य पूजयेत् सर्वाः क्रमाद् देवि वरानने | एतेन विशेषानुक्तौ बीजत्रयारापः || श्रीविद्या पूजन स्थान चक्रराजे महेश्वरि | सर्वसौभाग्य जननीं पादुकां पूजयामि च इत्युर्च्चार्य परं ज्योतिः कोषाद्यां पूजयेत् ततः | इत्यभिधानात् | विंदौ कोषाम्वा पूजयेत् पादुकां पूजयामीति सर्वत्र सम्बन्धः तथांशि वर्णदर्शनं देवि वैन्दवं पूजयेच्छिवोपरिता * * * * *? चक्रस्य परमेश्वरि | भूलिङ्गे पूजयेद् देवि प्राक्त दर्शनमुत्तमं | चक्रस्य वामना(?) देवि वैष्णवं दर्शनं यजेत् || सृष्टिचक्र यजे * * * * * * *? लक्षणे | स्थिति चक्र च संपूज्य वौद्धं दर्शनमुत्तमं || एवं संपूज्य सकलं श्रीविद्यां परितो यजेत् || तर्पणानि पुनर्दद्यात् त्रिवारं नत्व मुद्रया | तत्व मुद्रा यथा | अङ्गुष्ठानामिकाभ्याञ्च तत्व मुद्रेयमीरिता || मन्त्रश्च मूलान्ते अमुकीं तर्पयामि तदुक्तं मन्त्रान्ते तर्पयामीति तर्पणे विनियोजयेत् | तथा * *? समर्पयेद् देवि मुद्राया ज्ञानसंज्ञया | ५८अ) सर्वोपचारैराराध्य मुद्राः सन्दर्शयेत् क्रमात् || अथाङ्गपूजा || अग्नीशादि कोणेषु मध्ये दिक्षु च षडङ्गो न्यास मन्त्रेण मन्त्र विशेषानभिधानात् | तदुक्तं | अग्नीशासुरवायव्य मध्य दिक्ष्वङ्ग पूजनमिति तथा त्रैलोक्य मोहनचक्रे प्रकटा योगिनी यजेत् |
SK
चतुरस्रे चतुर्द्वारे योगिन्यः सिद्धिदायिकाः | अनिमां पश्चिमे द्वारि दक्षभागे प्रपूजयेत् || पूर्वद्वारे च महिमां उत्तरे पूजयेच्छिवे || इशित्व सिद्धिं देवेशि दक्षिणे द्वारि पूजयेत् | वशित्व सिद्धिं वायव्ये प्राकाम्यं शिवकोणके || अग्नेर्या भुक्तिमिच्छा तु पूर्वभागे तु नैर्-ऋते | प्राप्ति सिद्धिः सर्वकाम सिद्धिश्च परमेश्वरि || अधोर्द्ध क्रमरूपेण ज्ञातव्याः परमेश्वरि | एतेन ऐं ह्रीं श्रीं त्रैलोक्य मोहन चक्राय नम इति संपूज्य पश्चिमद्वारि दक्षिण भागे ऐं ह्रीं श्रीं अनिमा सिद्धि पादुकां पूजयामीति क्रमेण पूजयेत् || तथा ब्राह्मी माहेश्वरी चेन्द्री कौमारी वैष्णवी तथा | वाराही च ततः षष्ठी चामुण्डा सप्तमी भवेत् || अष्टमी च तथा लक्ष्मी पश्चिमादि क्रमेण तत् | पश्चिमादि क्रमेण द्वितीय रेखायामित्यर्थः || यत् तु देवनाथेन लिखितं असिताङ्गादि भैरवादि योगेऽपीति वालातन्त्रोक्त त्वात् स्तवराज सुरसाच्चेति तत्किमर्थं न जानीमः पञ्चमी तन्त्रोक्त क्रम लिखने विधि गौरवापत्तः || ५८ब्) एतेन ऐṁ ह्रीं श्रीं ब्राह्मी पादुकां पूजयामीति क्रमेण पूजयेत् | तथा तृतीय रेखायां क्षोभण द्रावणा कर्ष * ण्योन्माद महाङ्कुशाः | खेचरी वीजयोन्याख्यास्त्रिखण्डाः पूजयेत् क्रमात् | पञ्चवाणैः पञ्च मुद्रा करोमात्मकमक्षरं | आद्यन्तु रुद्र भैरव्या बीजं सादिशिवन्ततः | केवलं वाग्भवं देवि क्रमेण च चतुष्टयं || पञ्चवाणैः द्राṁ द्रीं क्लीं व्लं सः स्वरूपैः करामात्मकं क्रां स्वरूपं रुद्रभैरव्या आद्यं ह स र ऐं सदिशिवं हकारान्ते सकारं हयं स्वरूपं वाग्भवं ऐंकारः एतानि बीजानि प्रत्येकं क्षोभणादि मुद्रादौ दत्वा पादुकां पूजयामि इति पूजयेत् | त्रिखण्डायान्तु विशेषानभिधानात् | ऐं ह्रीं श्रीं इति बीजत्रयं वामभागे तु संपूज्य वायव्यादि च पूर्ववत् | तथा एताः सम्पूज्य चक्रेशी त्रिपुरां पूजयेत् परां | सर्वसंक्षोभिणी मुद्रां दर्शयेत् कमले क्षणे || एतेन ऐं ह्रीं श्रीं त्रिपुरा चक्रेशी पादुकां पूजयामीति पूजयेत् | तथा
SK
सर्वाशा पूरकञ्चक्रं षोडशारं ततोऽर्चयेत् | तत्र षोडशारे पश्चिमादि वामावर्तन षोडशस्वरान्विताः एताः पूजयेत् || तदुक्तं || कामाकर्षिणीकां देवि बुद्ध्याकर्षिणीकान्तथा | अहङ्कारा कर्षिणीञ्च शब्दाकर्षणरूपिणीं || स्पर्शा कर्षण रूपाञ्च रूपाकर्षण रूपिणीं | ५९अ) रसाकर्षण रूपां च गन्धाकर्षणकारिणीं | चिन्ताकर्षण रूपाञ्च धैर्याकर्षणरूपिणीं || स्मृत्याकर्षण रूपाञ्च नामाकर्षकरीन्तथा | बीजाकर्षणरूपाञ्च आत्माकर्षण कारिणीं || अमृताकर्षिणीञ्चैव शरीराकर्षिणीन्तथा | पश्चिमादि विलोमेन षोडशारे स्वरान्विता || कला नित्या यजेद् देवि चक्रेशीं त्रिपुरेश्वरीं | एतेन ऐṁ ह्रीṁ श्रीṁ अं वामाकर्षिणी श्रीपादुकां पूजामीति क्रमेण पूजयेत् || ततः ऐṁ ह्रीṁ श्रीṁ चक्रेशी त्रिपुरेश्वरी पादुकां पूजयामीति पूजयेत् || तथा सर्वविद्राविणीं मुद्रां दर्शयित्वा निवेदयेत् | सर्वसंक्षोभणे चक्रे यजेदष्ट तवाभिभाः || अनङ्ग कुसुमां प्राच्यां कवर्गेण प्रपूजयेत् | दक्षिणे च च वर्गेण तथा चानङ्ग मेखलां || अनङ्ग मदनं पश्चात् टवर्गेण च पश्चिमे | त वर्गेणोत्तरे पश्चादनङ्ग मदनातुरां || वह्निकोणेऽनङ्ग रेखां पवर्गेण प्रपूजयेत् | राक्षसेऽनङ्ग वेगां च यवर्गेण प्रपूजयेत् || वायवे तु शवर्गेण तथा नङ्गाङ्कुशां यजेत् | ऐशान्यां लक्षवर्गेण पूज्या चानङ्गमालिनी || चक्रेश्वरी ततो देवि यजेत् त्रिपुरसुन्दरीं | सर्वाकर्षण मुद्राञ्च दर्शयेत् सुरवन्दिते || एतेन ऐṁ ह्रीṁ श्रीṁ कं खं गं घं ङं अनङ्ग कुसुमा श्रीपादुकां पूजयामीति पूर्वादि क्रमेण पूजयेत् विलोमेन ततश्चक्रेश्वरी त्रिपुर सुन्दरी श्रीपादुकां पूजयामि इति पूजयेत् || ५९ब्) ततः सर्वसौभाग्यदं चक्रं संपूज्य तत्र चतुर्दशारे यथा सर्वसंक्षोभिणी शक्तिः सर्वविद्राविनी तथा || सर्वाकर्षिणिका शक्तिः सर्वाह्लादकरी तथा | सर्वसम्मोहिनी शक्तिः सर्वस्तम्भन कारिणी || सर्वजम्भनिका शक्तिः सर्ववश्यकरी तथा | सर्वार्थ रञ्जनी शक्तिर्नवमी परमेश्वरी ||
SK
सर्वान्मादनिका भूयः सर्वसर्वार्थ साधनीं | सर्वसम्पती पूर्णा च सर्वमन्त्रमयी तथा || चतुर्दशारे शक्तिश्च सर्वद्वन्द्व क्षयङ्करी | सर्वसौभाग्यदे चक्रे पश्चिमादि विलोमतः || वाममार्गेण देवेशि सम्पूज्य सर्वसिद्धिदाः | चक्रेश्वरीं सिद्धिकरीं परां त्रिपुरवासिनीं || संपूज्य वश्य मुद्राञ्च प्रदर्श्य विनिवेदयेत् | एतेन पश्चिमादि वामावर्त एṁ ह्रीṁ श्रीṁ सर्वसंक्षोभिणी श्रीपादुकां पूजयामीति सम्पूज्य ऐṁ ह्रीṁ श्रीṁ चक्रेशी सिद्धिकरी त्रिपुरवासिनी पादुकां पूजयामीति पूजयेत् | ततो दशारो सर्वार्थ साधकं चक्रं सम्पूज्य सर्वसिद्धि प्रदा देवी सर्वसम्पत् प्रदा तथा | सर्व प्रियंकरी देवी सर्वमङ्गलकारिणी | सर्वकाम प्रपूर्णा च सर्वदुःख प्रमोचनी || सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी | सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी || पश्चिमादि विलोमेन दशारे पूजयेत् क्रमात् | चक्रेशी सिद्धिदां देवीं पूजयेत् त्रिपुरां श्रियं || सर्वान्मादन मुद्राञ्च दर्शयित्वा निवेदयेत् | ६०अ) एतेन पश्चिमादि विलोमेन ऐṁ ह्रीṁ श्रीṁ सर्वसिद्धि प्रदा श्रीपादुकां पूजयामीति सम्पूज्य ऐṁ ह्रीṁ श्रीं चक्रेशी सिद्धिदात्रि पुरा श्रीपादुकां पूजयामीति पूजयेत् | ततोन्तर्दशारं सर्वरक्षाकरं चक्रं संपूज्य सर्वज्ञा सर्वशक्तिः सर्वैश्वर्य प्रदा तथा | सर्वज्ञानमयी देवी सर्वव्याधि विनाशिनी | सर्वाधार स्वरूपा च सर्वपाप हरा तथा || सर्वानन्द मयी देवी सर्वरक्षा स्वरूपिणी | सर्वेप्सितार्थ फलदा देव्यः सर्वसमृद्धिदाः || पश्चिमादि विलोमेन पूजयेत् पंक्ति कोणके | सर्वज्ञा पुरतो देवि चक्रेशीं मालिनीं यजेत् || महाङ्कुशां महामुद्रां दर्शयित्वा निवेदयेत् | एतेन पश्चिमादि विलोमेन ऐṁ ह्रीṁ श्रीṁ सर्वज्ञा श्रीपादुकां पूजयामीति पूजयित्वा ऐṁ ह्रीṁ श्रीṁ त्रिपुरमालिनी चक्रेशी पादुकां पूजयामीति पूजयेत् | ततोऽष्टारे सर्वरोगहरचक्रं सम्पूज्य रहस्य योगिनी देवि वशिन्याद्याश्च सिद्धिः |
SK
पश्चिमादि विलोमेन पूर्वोक्ताः पूजयेत् क्रमत् | चक्रेशीं सिद्धिदामिष्ट्वा खेचरीं दर्शयेत् क्रमात् || एतेन पश्चिमादि विलोमेन न्यासोक्त बीजेन वशिन्याद्यष्टकं पूजयित्वा ऐṁ ह्रीṁ श्रीत्रिपुरा सिद्धिदा चक्रेशी श्रीपादुकाम् पूजयामीति पूजयेत् || ततः सर्वसिद्धिप्रदं चक्रं संपूज्य परापर रहस्याख्यं योगिनीः परिपूजयेत् || पञ्चवानान् समुच्चार्य कामकामेश्वरी मयान् | ६०ब्) जम्भनाख्या महेशानि पूजयेद् वाण देवताः || एतेन द्रां द्रीं क्लीं व्लूं सः जम्भनेत्यः कामेश्वर वानभ्यो नमः एवं कामेश्वरी वानेभ्यो नम इति पूजयेत् | पश्चिमदिशि तथा धमात्मकं कामचापं द्वितीयं धनुरात्मकं | कामे᳚श्वर्या मोहनाख्यं पूजयेच्चाप देवताः || एतेन धं मोहनाय कामेश्वर धनुषे नमः एवं कामेश्वरी धनुषे नम इति पूजयेद् उत्तरदिशि | तथा द्वितीयं भुवनेशानि पाशयुग्मं वशङ्करं | कामेश्वरस्य कामेश्या त्रैलोक्याकर्षणं प्रियं || चतुर्थस्तम्भनं देव्या अंकुशं परिपूजयेत् | पूर्वदिशि आं आं वशीकराय कामेश्वर वाशाय नमः एवं कामेश्वरी पाशाय नम इति पूजयेद् दक्षिणदिशि क्र्ॐ स्तम्भनाय कामेश्वराङ्कुशाय नमः एवं कामेश्वर्यङ्कुशाय नम इति पूजयेत् पश्चिमादि क्रमेणैव चतुर्दिक्षु प्रपूजयेत् | तथा कामेश्वरीं मुद्रशक्तिं आद्यकूटेन चाग्रतः | द्वितीयेन च कूटेन वज्राख्याञ्चैव वैष्णवीं || दक्षकोणे समभ्यर्च्य तृतीय नैव पूजयेत् | भगमालां विश्वशक्तिमुत्तरे विश्वमातृकां || चक्रेश्वरीमम्बिकाञ्च कामेशीं पुरतो यजेत् | एतेन अग्रकोणे वाग्भव कूटेन कामेश्वरी श्रीपादुकां पूजयामीति पूजयेत् दक्षकोणे कामराजकूटेन वज्रेश्वरी श्रीपादुकां पूजयामीति पूजयेत् || शक्तिकूटेन उत्तरकोणे भगमाला श्रीपादुकां पूजयामीति पूजयेत् | ६१अ) ततो ऐṁ ह्रीṁ श्रीṁ त्रिपुराम्बिका वज्रेश्वरी श्रीपादुकां पूजयामीति सम्पूज्य बीजमुद्रां प्रदर्शयेत् | ततः सर्वानन्दमयं चक्रं सम्पूज्यविन्दौ | कूटत्रयं समुच्चार्य सर्वविद्या स्वरूपकं | समस्त देवता रूपं सर्ववस्तु मयं यजेत् ||
SK
चक्रेश्वरीञ्च तामेव महात्रिपुरसुन्दरीं | श्रीविद्यां षोडशार्णाञ्च भुक्तिमुक्ति फलप्रदां || उपचारैर्यजेद् भुक्त्या गन्धपुष्पाक्षतादिभिः | तर्पणानि पुनर्दद्यात् त्रिवारं मूलविद्यया || योनि मुद्रा प्रदर्श्यार्थ मुद्राः संदर्शयेत् क्रमात् | वनस्पति रसोत्पन्नैः पवित्रैरन्य गन्धिभिः || दशाङ्गाद्यैर्धूप मयैर्धूपयेत् परमेश्वरीं | अभितो वेदिका चक्रं दीपमाना घृतप्रुताः || कर्पूर रचिताश्चापि तैलपूर्णास्तु तापयेत् | धूपदीपौ निवेद्याथ तर्पयेत् पूर्ववच्छिवे || आरात्रिक विधिं कुर्याद् विधिवद् वीरवन्दिते | नैवेद्यं षट् रसोपेतं मधुधूपादि संयुतं || संकल्पपरमेशान्यै नित्यहोम विधिञ्चरेत् | यथामूलेन प्राण सहिता आहूतीः पञ्चहोमयेत् || षडाहुतीः षडङ्गानां नित्यहोमः समीरितः | तेन मूलमुच्चार्य प्राणाय स्वाहा इत्यादि क्रमेण अपान समान व्यानोदान्येभ्यः ग्रासमुद्राया इति पञ्चकं दत्वा षडङ्गमन्त्रेण षडाहुतीर्जुहूयात् || तथा उपविश्यासने रम्ये वामभागे ततः परं | मण्डलं चतुरस्रन्तु तन्मध्ये विलिखैत् प्रिये || त्रिकोणवृत्तं व्याकोषं मण्डलं पूजयेत् ततः | ६१ब्) व्यापकान्ते मण्डलाय हृदन्तो वाग्भवं परां | मुखे कृत्वा पूजनीयं मण्डलं मनुना प्रिये || वाग्भवं ऐṁकारः परा ह्रीṁ हृन्नमः मुखे कृत्वा आद्ये कृत्वा वाग्भवं पराञ्चेत्यर्थः | तेन ऐṁ ह्रीṁ व्यापक मण्डलाय नमः | इति पूजयेत् ततो यथा शक्ति जप्त्वा गुह्याति गुह्य गोप्तृत्वं गृहाणा स्मत्कृतं जपं | सिद्धिर्भवतु मे देवि त्वत् प्रसादात् सुरेश्वरि || इति देव्यै जपं समर्पयेत् || वाराहीतन्त्रे || महोमत्सवे पवित्रे च शुक्राष्टम्यां च पूजयेत् | नार्चयेद् वाममार्गेण अनाचारेण नार्चयेत् || अनिमां बिन्दु स्थाने पश्चात् कामकलां यजेत् | ब्राह्मीं तृतीय भागे च सुन्दरीञ्च चतुर्थके || आकर्ष्णीं पञ्चमे च षष्ठे कामेश्वरी यजेत् | वसु पत्रे च भैरुण्डां षोडशारे कुलेश्वरीं || पुष्पाञ्जलि त्रयं दत्वा जपे मन्त्र मनन्यधीः | एतदेव भवेन्नित्यं सूतके मृतके त्यजेत् ||
SK
अवश्यन्तु श्मरेन् मन्त्रं योति भक्ति समन्वितः | करजापी नैत्यके च षडङ्गं न्यासमाचरेत् || न जपेद् वैष्णवे रात्रौ शाक्ते शैवेन दुष्यति | श्रीक्रमे || अत्यन्त रोग मुक्ते वा शुचिर्वाप्यथ वा शुचिः || अकालेप्यथ वा कालेऽध्निकारी सदा भवेत् | योगयुक्तेन मनसा प्रसादामि यतः प्रभो || तेन सन्तुष्ट हृदय स भवेन् मम साधकः | पतिर्वा भूपतिर्वापि नान्योस्ति मम पूजकः || ६२अ) अथ पुरश्चरणं || यत्र वा कुत्र चिद्भागे लिङ्गं स्यात् पश्चिमा मुखं | स्वयम्भुवं वाणवृत्तं फलं मूलं जलस्थितं || पश्चिमायतनम्वापि इतरम्वापि सुव्रते | शक्ति क्षेत्रेषु गङ्गायां नद्यां पर्वत मस्तके || पवित्रेषु स्थले देवि यजेद् विद्यां प्रसादवान् | वानवृत्तं वाणासुरस्थापितं फलं सूल्यं जलमुलादि युक्तं | तथा तत्र स्थित्वा जपेल्लक्षं साक्षाद् देवि स्वरूपकः | मुक्ता रुद्राक्ष पद्माक्ष स्फाटिकोद् भव मालया || मानिक्य पद्मरागादि मलिभिर्जपमाचरेत् | एतेन लक्षैकमेव पुरश्चरणं यत्र तु लक्ष द्वयादि जापं श्रुयते तत्काम्यमधिक फलार्थमिति व्रुमः | अत एव लक्ष द्वयेन पापानि सप्तजन्म भावान्यपीत्युक्तं अन्ये विधयो ग्रन्थगौरव भयान्नाक्तामिति दिक् || इदानीं जीवनी लिख्यते || यथा श्रीक्रमसंहितायां || महात्रिपुरसुन्दर्या यथा स्याज्जीवनान्विताः | भुवि विद्यास्तथा देव श्रुयतां कुलसम्भवां | यथा श्रींकारं प्रथमं देवि क्रीं क्लीṁ च तदनन्तरं || हैṁ हैṁ कल ह्रीṁ सौः सकल ह्रीं ततः पठेत् | क्लीं क्लीं तदधो देवि ह्रींकारश्च श्रीं तथा | सर्वेषां जीवनी विद्या सर्वचक्रेषु योजिता || प्रतिमायान्तथा कार्यं वलिं दद्यात् समाहितः | देव्यादक्षिण पार्श्वे तु जीवनी जपमाचरेत् || वलीनां शोनितं दत्वा कालिकां पूजयेत् ततः | एतेन यन्त्र प्रतिमा प्रतिष्ठायां जीवन्यास काले जीवनी जापः कर्तव्यः पूजा कालेपि अधिका चरणेन क्षतिः मन्त्रः सुव्यक्त एव ध्यानं यथा || ६२ब्) खड्गंमुस्तांविकटास्यां व्याघ्रचर्मविभूषितां |
SK
रक्तांवर धरां घोर रूपां चतुर्भुजां खड्गशूलं कपालं च वरदां तीक्ष्न नासिकां || अथ कालसुन्दरी मन्त्रः श्रीक्रमसंहितायां || क्रोधीशानन्तसंयुक्तं बिन्दुनाद कलान्वितं | क्रोध्यानन्तं ततः पश्चात् संयुक्तो न पठेत् सुधीः || पिनाकी च स सूक्ष्मा च क्रोध्यानन्तस्ततः पठेत् | अनिलो भौतिकश्चैव तदधः प्रणवं पठेत् || एषा विद्या महाविद्या महाचक्र समन्विता | क्रोधीशः ककारः अन्तः आकारः क्रोधी ककारः अनन्त आकारः पिनाकी लकारः सूक्ष्मा इकारः क्रोधी ककारः अनन्त आकारः अनिलो यकारः भौतिक ऐकारः प्रणवं ॐकारः तेन कां कालिकायै ॐ | तथा द्वितीया दक्षिणाख्याता तत्परा पश्चिमोत्तरा | सावदेवी महाकाली नामकालिक सुन्दरी || महापद्मासना देवी महाजीवन कारिणी | प्रतिमा जीवितां कृत्वा अनया शोनितं क्षिपेत् || महाध्यानं शृणुत्वं हि परमाशक्ति रूपिणी | नीलमेघ समां देवीं नीलकाञ्ची समप्रभां || चतुर्भुजां त्रिणयणां रक्तमाल्यविभूषितां | वामे खड्गञ्च शूलञ्च चक्राङ्कुशञ्च दक्षिणे || चन्द्रमण्डलमूर्द्धाञ्च सूर्यमण्डलसंस्थितां | रक्तवस्त्रपरीधानां रक्तगन्धानु लेपितां || ब्रह्मविष्णु शिवादीनां शिव(?)सापाद शोभितां | ६३) उन्मत्त यौवनोपेतां प्रेतस्थां लिङ्गपीडितां | एवं रूपां दहादेवीं चिन्तये साधकोत्तमः || अनया विद्यया देवि सम्पूज्य परमेश्वरीं | तदा चक्रे पदं दृष्ट्वा प्रतिमा चण्डकां यजेत् || संहार मुद्रया देवि साधकः स्थिर मानसः | निर्माल्यं शिरसा धृत्वा स्तुत्वा नत्वा विसर्जयेत् || एतेन एतस्या अपि स्वतन्त्रविद्यात्वमायाति कालसुन्दरीति नाम पूजादिकं सुन्दरीवत् इति संक्षेपः || श्रीरमारमण देवशर्मणा निर्मिते निगमसारनिर्णये | सुन्दरीमनुविधानपूजनध्यानभूत्प्रर्थमतः पटलोयं || ६४) क् गुल्फ प्रददायिनी | महासौन्दर्यसुभगा महामृत्युविनाशिनी | सर्वतीर्थमयी देवी खर्णरसाद्रिदायिनी ||
SK
सूर्यस्वर ऐकारः स्वरान्तः क्षकारः प्र्ठिवी * * *? भृगुः तथा दक्षिणामूर्ति तेन(?) आदित्यादिञ्च मध्यञ्च मध्यं मध्यं ततान्तिमं अम्वा * * न्तथा | किञ्च(?) सैवशीघ्र * *? भवेत् | नवार्ण त्रिपुरेशानि प्रा *? णदशाक्षरी | आदिमादि(?)मिति पूर्वोक्त त्र्यक्षर मन्त्रस्य आद्या आद्याक्षरं वार * * * * मध्येक्षरं वारद्वयं ततोऽत्यं वारत्रयं पुनराद्यक्षरं तेन ऐṁ ऐṁ क्लीं ह्लीṁ क्लीṁ *?ः * सुन्दरी मन्त्रान्तं प्रातः क * * * * *? विधाय प्रसुनाय *? शमादिकं च यागवस्थनि त्रि * * * * विशु * * *? देवेशि ततो न्यासं * * * * युना * * * *? बीजं वाग्भवे * *? ६५अ) द्दिष्टं शक्तिं तार्तीयमूहयेत् | एतेन अस्य मन्त्रस्य दक्षिणामूर्ति ऋषिः पक्तिः च्छन्दौ वालात्रिपुरा देवता वाग्भवं बीजं ह्सौः शक्तिरभीष्टसिद्ध्यै विनियोगः इति स्मृत्वा शिरोवदन हृत्सु ऋषिच्छन्दो देवतादीन् न्यसेत् | नाभेराचरणं न्यस्य गलादाराभि चापरं | मूर्द्धादि गलपर्यन्त त्र्यक्षरीं विन्यसेत् क्रमात् | इति कवचं त्र्यक्षरी शब्देन त्रिकूटालक्षते भैरव्यादीनान्तथा दर्शनात् तथा वामे पाणि तले चैकं दक्षपाणि तले तथा | उभयोः सम्पुटे विद्यात्त्रिबीजं विन्यसेच्छिवे || तथा मूर्द्ध्न्याधार हृदि न्यसेत् भूयो बीज त्रयं क्रमात् | एवमुक्तेषु स्थानेषु क्रमाद् वीज त्रयं न्यसेत् || पञ्चवानान् क्रमेणैव पञ्चाङ्गुलिषु विन्यसेत् | अङ्गुष्ठादि कनिष्ठान्तं क्रमेण परमेश्वरि || द्रां द्रीं क्लीं व्लं इति प्रोक्तं चन्द्रमाः सर्गवान् भवेत् || पञ्चवाणानि देवेशि नामानि शृणु पार्वति | क्षोभनं द्रावणो देवि तथा कर्षणसंज्ञकः || वश्योन्माद क्रमेणैव कथिता वीरवन्दिते | एतेन द्रां क्षोभनाय नम इति क्रमेणाङ्गुष्ठादिषु न्यसेत् | चन्द्रमाः सकारः सर्गवान् विसर्गवान् | तेन सः इति चाण चतुष्टये प्रमाणमुक्तं || ज्ञानार्णवे || खान्त द्वयं समालिख्य वह्निसंस्थं क्रमेण हि | मुखवृत्तेन नेत्रेण वामेण परिमण्डितं || वाणद्वयमिदं प्रोक्तं मादनं भूमिसंयुतं | ६५ब्)
SK
चतुर्थस्वरविन्द्वाढ्यं नादरूपं वारानने | फान्तं शक्रसमायुक्तं वामकर्णविभूषितं || विन्दुनादसमायुक्तं इत्यादि || थान्तं दकारः वह्नीरेफः मुखवृत्त आकारे वामनेत्र ईकारः मादनं ककार भूमिर्लकारः चतुर्थस्वर ईकारः फान्तं वकारः शक्रो लकारः वामकर्ण ऊकारः | तेन द्रां द्रीं क्लीं व्लूंमिति || कामास्तत्रैव विज्ञेयास्तेषां नामानि संशृणु | पराबीजं मध्यवाणं वाग्भवं परमेश्वरि || तूर्यवाणं ततश्चैव स्त्रीबीजं तत्क्रमान् न्यसेत् | पराबीजं क्रीं मध्यवाणं क्लीं वाग्भवं ऐṁ तुर्यवाणं व्लूं स्त्रीबीजं स्त्रीं | तथा काममन्मथ कन्दर्प्यमकरध्वजसंज्ञकाः | मीनकेतुर्महेशानि पञ्चमः परिकीर्तितः | तेन ह्रीं कामाय नम इति क्रमेणाङ्गुष्ठादिषु न्यसेत् | तथा मूलविद्या द्विरावृत्या सर्वांगुलि तलेष्वपि | षडङ्गमपि निर्वर्त्य मातृकान्यासमाचरेत् || तेन ऐṁ हृदयाय इति क्रमेण अङ्गुष्ठादि तलान्तेषु हृदादिषु च षडङ्ग न्यासं विधाय सुन्दरी मन्त्रोक्त मातृका न्यासं कुर्यात् तथा विद्या न्यासं ततः कुर्यात् त्रिभिर्बीजैः क्रमाच्छिवे || करयोर्विन्यसेद् आदौ मणिबन्धे तलेग्रके | दक्षे वामे च विन्यस्य कक्षकुर्पर पाणिषु || पुनदक्ष च वामे च पादयोश्च तथा न्यसेत् | नादान्ते हृदये लिङ्ग न्यसेद् देवि ततः परं || ६६अ) एतेष्वङ्गेषु देवेशि संहार क्रमतो न्यसेत् | एतेषु उक्तेषु त्रिषु त्रिष्वङ्गेषु क्रमाद् बीजत्रयं न्यसेत् | एवं संहार क्रमेण विपरीत क्रमेणेत्यर्थः | एवयोन्याङ्कितं न्यासं कुर्याद्बीजैस्त्रिभिस्ततः | कर्णयोश्चिबुके भूयः शंखयोर्वदने पुनः || नेत्रयोनसि विन्यस्य वाहुयुग्मे हृदम्बुजे | ततश्च कुर्पयोः कुक्षौ जानुनोर्ध्वज मूर्द्धनि || पादयोर्गुह्य देशे च पार्श्व हृत्सुस्तन द्वये | कण्ठे च नवयोन्याख्यं न्यसेद् बीज त्रयं क्रमात् || एतेनोक्त स्थानेषु विद्यां क्रमेण त्रिरावृत्या नवभिर्वीजैर्नव योनि न्यासं कुर्यात् तथा | षडङ्गमाचरेद् देवि द्विरावृत्या क्रमेण तु | त्रि * कैक दश त्रिद्विसंख्यया शैल सम्भवे ||
SK
इति वचनाद्यथा वसरं करणीयमिति | तथा || अङ्गन्यासं पुनर्देवि वाणान् कामांश्च विन्यसेत् | ललाट गलद्वन्नाभि मूलाधारेषु वै क्रमात् || एतेन पूर्वोक्त वाणान् कामांश्च ललाटादिषु न्यसेदित्यर्थः | ततो मूलेन व्यापकं कृत्वा प्राणायामं समाचरेत् | एतदादौ मातृकानन्तरं कर न्यासः | तथा अन्येपि काम्या न्यासास्तन्त्रान्तरेष्वनु संधेयः || तथा ज्ञानार्णवे || एवं न्यस्त शरीरौ सौ समाहित मनास्ततः | परमानन्द सन्दोह सानन्दश्चिन्तयेत् क्रमात् || ततोऽन्तर्यजनं कृत्वा वाह्य पूजां समाचरेत् | ६६ब्) तत्र प्राङ्मुख आसीनो यन्त्रोदारं प्रकल्पयेत् | ईशानादग्नि पर्यन्तं ऋजुरेखां समालिखेत् || ईशादग्रे तदग्राद्यां रेखे आकृष्य देशिकः | एकी कृत्वा देवारुण्यां * * * *? पराशिवे || त्रिकोणाकार(?) रूपन्तु शक्तिद्वय मुदाहृतं | पूर्वशक्त्यग्र भागे तु मानयष्टि वदा लिखेत् || रेखान्तु परमेशानि वायुराक्षसा * ण्गं | रेखे आकृष्यकोणाभ्यां तदग्रात् पूर्वगान् कुरु | वह्नि *? र्ण मेतत् स्यात् पूर्वाग्रं सुरवन्दिते(?) || नवयोनि विशे *? ढ्यं चक्रराजमिदं भवेत् | एतद् वाह्ये तु संलेख्यं वृत्तं पूर्णेन्दु सन्निभं || तल्लग्नमष्टपत्रन्तु ग्रन्थिभिश्चाष्टभिर्युतं | ग्रन्थयः प्रणवाभ्यान्तु संपुटत्वेन कारयेत् || त्रिशूलाष्टक मालिख्य चतुरस्रं लिखेच्छिवे | चतुर्द्वार विशोभाढ्यं सर्वानन्दकरं सदा || हṁसौः कारं समालिख्य त्रिकोणास्तृ सुरेश्वरि | वामबीजं मध्यमं यदष्टकोणे संलिखेत् || स्वरान् षोडश देवेशि युग्मयुग्म प्रभेदतः | दलाष्टक तु संलिख्य पश्चिमादि प्रदक्षिणं || ग्रन्थि स्थानेषु वर्णानां कादीनां परमेश्वरि | विलिखेत् सप्तवर्गाणि मध्य तु परमेश्वरि || क्षकारमष्ट?मे योज्यं शेषवर्ण क्रमेण तु | मूलाष्टके तु संलिख्याः पञ्चमादि क्रमेण तु || तद् वाह्यै मातृका वृत्तं लिखेच्च परमेश्वरि | चतुरस्रे महेशानि मातृकां कामगर्भितां || विलिख्य पूजयेद् यन्त्रं हेमरूप्यादि पट्टके | ६७अ)
SK
भूमौ चन्दनपीठे च कुङ्कुमारुण चन्दनैः | सिन्दुररजसा वापि कस्तूरी घुसृणाम्वुभिः || विलिख्य यन्त्रं देवेशि पूजा द्रव्याणि योजयेत् || वाराहीतन्त्रे || मधुपात्रं तथा चाग्रे क्षीरपात्रन्तु दक्षिणे | कुण्डद्वयं गुग्गुलाढ्यं वामदक्षे निवेशयेत् || त्रिपुरा च तथा ङन्तं विद्महे पदमुच्चरेत् | भैरव्यै च तथा चोक्त्वा धीमहीति ततो वदेत् || तन्नो देवी पदं चोक्ता प्रचोदयादुदीरयेत् | गायत्री त्रैपुरी ख्याता रागाद्येन समुद्धरेत् || ङेन्तं चतुर्थन्तमित्यर्थः वाक् ऐṁ कुशोदके जप्तेन यागवस्तूनि शोधयेत् | ततो देवीं ध्यायेत् || मूलादि ब्रह्मरन्ध्रान्तं विशतन्तु तनीयसीं | भ्रमद्भ्रमरलीलाभधम्मिल्लामलपुष्पिनीं || ब्रह्मरन्ध्र भ्रमद्भृङ्गमुक्तारेखा विराजितां | मुक्तारेखालग्नरत्न तिलकां मुकुटोज्वलां || विशुद्धमुक्तारत्नाढ्यं चन्द्ररेखा किरीटिनीं | भ्रमद्भ्रमक लीलाभ नयनत्रय भूषितां || सूर्यभास्वन्महारत्न मुकूटालङ्कृतां परां | शुभ्राकारस्फुरन्मुक्ता हारभूषणभूषितां || ग्रैवैयांगद पत्राणि स्फूरत् कान्ति जितामृतां | गङ्गातरङ्गकर्पूर शुद्धाम्वरविराजितां || श्रीखण्डवल्ली शदृश वाहूवल्ली विराजितां | कङ्कालादि लसद्भूषा मणिवद्ध लसत् प्रभां || प्रवालपल्लवाकार पादपल्लवभूषितां | नक्षत्रमालासंकाश मुक्तामञ्जीरमण्डितां || ६७ब्) वामे न पाणि नैकेन पुस्तकं चापरेण तु | अभयेन प्रयच्छन्ती साध *? नां वरानने || अक्षमालाञ्च वरदां दक्षपाणि द्वय क्रमात् | दधतीं चिन्तयेद् देवीं विश्वसौभाग्य वाक् प्रदं || क्षीरकुन्देन्दु धवलां प्रसन्नां संस्मरेच्छिवा | इति ध्यात्वा मानसैरुपचारैः संपूज्य अर्घस्थापनं कुर्यात् || ततः पीठपूजां विधायादौरवि देवीं विराजितां | रवि देवीं द्वादशा देवीं वामाज्येष्ठा च रौद्री च अम्बिकेच्छा? ततः परं | ज्ञाना क्रिया कुब्जिका च विभी चैव विषघ्निका | भूचरी चैव आनन्दा देवि द्वादश शक्तयः ||
SK
पूर्वादि परितः पूज्या रविसंख्या वरानने | सम्पूज्य मध्यै देवेशि प्रेतसिंहासनं यजेत् || एतेन पूर्वादि प्रादक्षिण्येन ॐ वामायै नम इति क्रमेण पूजयेत् | ततः प्रेतसिंहासनं यजेत् | चक्रमध्य स्थितं बीजं सदाशिव महापदं | प्रेतपद्मासनं ङेन्तं नमोऽन्तो मुरुरीरितः || महाशिवस्य म * *? कुलार्णव परमेश्वरि | चक्रमध्य स्थितं बीजं हसौः तेन ह्क्लौः(?) सदाशिव महाप्रेत पद्मासनाय नमः इति मन्त्रः | तथा आवाह्य चक्रमध्ये तु तर्पयेत् कुलसुन्दरी | एतेनावाहनादि स * * * * * * * *? वाहनादिकांन्मत्र्यश्च तत्रैव लिखिताः तथा उपचारैरलङ्कारैस्तोषयेत् परमेश्वरीं | एतेन * हन्नाड्यानी * * *? संस्थाप्य जीव न्यासादिकं विधाया वाह्य अर्घोदकेन तर्पयेत् | ६८अ) ततः पाद्यादिभिरुपचारैः पूजयेद् इत्यर्थः | षडङ्गं कल्पयेद् देह सम्यक् संतर्पयेच्छिवां || परिवारार्चनं पश्चादादावंगावृतिः शिवे | एतेन षडङ्गमन्त्रेण षडङ्गं संपूज्य गुरुपूजां कुर्यात् | तदुक्तं | गुरु पूजानन्तरन्तु परमं गुरुमर्चयेत् | कोणमध्ययोन्यन्तराले तथा नैजं गुरुं यजेत् || एतेन प्रति मध्ययोन्यन्तराले गुरुमय पूजनं ततो विशेषमुद्रां दर्शयेत् | यथा योन्याख्या हृदि विक्षिप्ता त्रैलोक्य क्षोभणी भवेत् | त्रैलोक्ये द्राविणी नाम मुखस्था परमेश्वरि | भ्रूमध्यस्था महेशानि त्रैलोक्या कर्षणी भवेत् || ललाटस्था महेशानि त्रैलोक्य वशकारिणी | ब्रह्मरन्ध्र स्थिता सैव सर्वाह्लादकरी मता || पञ्चमुद्रा मयी देवी योनिमुद्रां प्रदर्शयेत् | ततः षडङ्गावरणं परितः पीठमद्रिजे || अग्नीशा सुरवायव्य मध्ये दिक्षु च पूजयेत् | परितः पीठं पीठस्य परितः | तथाग्र कोणे रतिं पश्चात् प्रितिञ्चोत्तर कोणके || मनो भवां दक्षकोणे ततो वानान् समर्चयेत् | एतेन रत्नैर्नम इति क्रमेण पूजयेत् || वाणपूजन स्थानमुक्तं || ज्ञानार्णवे || उत्तरस्यां द्वयं देवि दक्षिणस्यां द्वयं दिशि | अग्रे चैकं क्रमेणैव पंचवाणान् समर्चयेत् ||
SK
पंचकामास्तथा देवि प्राग्रादि क्रमतो यजेत् | अष्टयोनिषु देवेशि क्रमेण परिपूजयेत् || एतेना योनिषु अनङ्ग कुसुमायै नम इत्यादि क्रमेण | तथा ततो ब्राह्म्यादिकं यजेत् | युग्म युग्म प्रभेदेनवसुवत्रे वरानने | असिताङ्गं तथा ब्राह्मीं रु रुं माहेश्वरीं शिवे || चण्डं कौमालिकां चैव क्रोधीशं वैष्णवीन्तथा | उन्मत्तञ्चैव वाराहीं माहेन्द्रीञ्च कपालिनं || भीषणञ्चैव चामुण्डां संहारं चाष्टमं यजेत् | महालक्ष्मीं महेशानि युग्मानि परिपूजयेत् || पश्चिमादि क्रमेणैव ततः पीठान् समर्चयेत् | एतेन पश्चिमादि क्रमेण अं असिताङ्ग सहित ब्राह्मै नमः अति अष्टदलेषु यजेत् | ततः पीठान् समर्चयेत् | कामरूपञ्च मलयं ततः कोलगिरिन्तथा | कुलान्तकञ्च चौवान्तं जालन्धर मतः परं || उड्डियानं देवकूटं पीष्टन्तं क्रमन् क्रमात् | ग्रन्थिमूलेषु संपूज्यं पश्चिमादि क्रमेण तत् || तेन ग्रन्थि मूलेषु पश्चिमादि क्रमेण कामरूपाय नम इत्यादि क्रमेण पूजयेत् || त्रिशूलं परितो देवि मातृका चतु मण्डले | भैरवा दशसंपुज्याः पश्चिमादि क्रमाच्छिवे || हेतुकञ्चैव(?) वेतालं तन्मध्ये त्रिपुरान्तकं | अग्निजिह्वञ्च कालान्तं कपालिन मनन्तरं || एकपादं भीमरूपं मलयं हाटकेश्वरं | एतेन त्रि?शूलस्य परित वृत्तमण्डले हेतुकाय नम इत्यादि क्रमेण पूजयेत् | चतुरस्रे लोकपालान् दिग्विदिक्षु समर्चयेत् | तथा क्षौंकारं बीजमुच्चार्य वटुकाय नमो वदेत् | यांकार बीजमुच्चार्य योगिणीभ्यो नमस्तथा | ६९अ) क्षांकारं बीजमुचार्य क्षत्रपालाय वै नमः | गंकारं बीजमुच्चार्य तथा गणपतिं वदेत् || ङेन्तन्नमः पश्चिमादि दिक्षु पूज्याः क्रमेण त | तेन ङेन्तं चतुर्थ्यन्तं नमोन्तं गणपति पदमित्यर्थः || तथा चतुरस्रे तु संपूज्या विदिक्षु परमेश्वरि वायव्यादि क्रमेणैव वक्षमाणा महेश्वरि | वसवो द्वादशादित्या रुद्राञ्चैव ततः शिवे | सर्वभूता वरारोहे क्रमेण परिपूजयेत् ||
SK
एतेन वायव्यादि कोणेषु वहुत्व चतुर्थ्या पूजनमिति तथा पूजां विधाय देवेशीमुपचारैः प्रपूजयेत् || ज्ञानार्णवे || धूपं विस्तारयेत् सम्यङ्मूलमन्त्रं हृदि स्मरन् | वनस्पति रसोत्पन्ना गन्धाढ्या गन्ध उत्तमः || आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यतां | सुप्रकाशा महातेजाः सर्वत्र तिमिरापहः || स बाह्याभ्यन्तरं ज्योतिर्दीपोयं प्रति गृह्यतां | तथैव दीपमन्त्रोयं विद्यते परमेश्वरि || आरात्रिक विधिं कुर्यात् सर्वकामसमृद्धिदं | कुङ्कुमेण लिखेत् पद्मं वसुपत्रं मनोहरं || चन्द्ररूपं चारुकृत्वा तन्मध्ये मसके शिवे | दीपमेकं विनिक्षिप्य वसुपत्रेषु दीपकान् || अभिमन्त्र्य महेशानि रत्नेश्वर्या ततः परं | श्रीबीजञ्च पराबीजं विलिख्य परमेश्वरि || गसौ चयवलाः पश्चादिन्द्रस्था क्रमतः शिवे | वामकर्ण समायुक्ता नादबिन्दु विभूषिताः || वीजपञ्चकमेतन्तु पञ्चरत्नानि सुन्दरि | पूर्वबीजे विलोमेन रत्नेशी यं नवाक्षरी || श्रीबीजं श्रीं परा ह्रीं इन्द्रो लकारः वामकर्ण ऊकारः पूर्वबीज श्रीं ह्रीं स्वरूपे तेन श्रीṁ ह्रीṁ ग्लूṁ म्लूṁ प्लूṁ व्लूṁ ल्लूṁ ह्रीṁ श्रीṁ इति अनयारत्नश्वर्या अभिमन्त्र्य तथा मूलमन्त्रेण चाभ्यर्च्य ततश्चारात्रिकं चरेत् | ततः पात्रं समुद्धृत्य मस्तकान्तं पुनः पुनः | नववारं महेशानि ततो नीराजनं चरेत् || समस्त चक्र चक्रेशि पत्र देवि नवात्मके | आरात्रिकमिदं दिव्यं गृहाणपरमेश्वरि || नीराजने मनुर्देवि विद्यान्ते प्रकटी * *? ः | एतेन मूलमन्त्रान्ते समस्तचक्रेत्यादि मन्त्रणा रात्रिकं समर्प्य चक्रमुद्रां कुर्याद् वामहस्ताङ्गुष्ठ गर्भ दक्षिणस्य कनिष्ठिकां | कनिष्ठा गर्भ जवामुद्ग * *? ष्टं विनिःक्षिपेत् | अन्यान्य योगतो देवि चक्रमुद्रेयमीरिता | आरात्रिक विधिं कृत्वा नैवेद्यन्तु निवेदयेत् || हेमपात्र गतं विन्द्वं परमान्नं सुसंस्कृतं | पंचधा षड्रसोपेतं गृहाण परमेश्वरि || विद्यान्ते परमेशानि नैवेद्यमनुरीरितंः | परिषिच्य ततो देविमि * * *? समाचरेत् ||
SK
मूलमन्त्रानन्तरमनेन वलिं दद्यादित्यर्थः | तथा मूलमन्त्रेण देवेशि हुनेत् पञ्चाहुतिः क्रमात् | प्राणापाणौ तथा व्यान उदानश्च समानकः | एतत् स्वरूपं जानीयाद् आहुतीनाञ्च पञ्चकं || षडाहुतीः ष * ङ्गेषु नित्या होमोयमीरितः | ७०अ) एतेन मूलेन प्राणाय स्वाहा इत्यादि क्रमेणाहुति पञ्चकं दत्वा षडङ्गमंत्रेण षडङ्गाहुतीर्जुहुयात् | ततो यथाशक्ति जप्त्वा गुह्यातिगुह्येत्यादिना जपं समर्प्यसंहारमुद्रया निर्माल्यं गृहीत्वा यथा मुखं भुञ्जीत || तथा नित्य होमं विधिं कृत्वा वलिदान विधिञ्चरेत् | इशानादिषु कोणेषु मण्डलानाञ्चतुष्टयं || श्रीचक्रमभीतो देवि त्रिकोणं व्योममालिखेत् | अथवा वामभागे तु मण्डलाञ्चैकमालिखेत् || एतेन मण्डलचतुष्टयमेकं वा विधाय श्रीचक्रं चक्रस्य परितस्त्रिकोणं विखिखेदित्यर्थः | तथा पूर्वमन्त्रैः समभ्यर्च्य वटुकादिकमद्रिजे | पूर्वमन्त्रेण क्षौṁ वटुकाय नमः इत्यादि मन्त्रेण संपूज्य वलिं दद्यान् मन्त्रो यथा | एह्येहि देवि पुत्र वटुकान्ते तु नाथ च | कपिलान्ते जटाभार भास्वरान्ते त्रिणेत्र च | ज्वालामुख च सर्वान्ते विघ्नान् नाशय नाशय || सर्वोपचारसहितं वलिं हृह्न द्विधा पदं | वह्नि जायान्नितो मन्त्रो वटुकस्य समीरितः || वह्निजाया स्वाहा तेन एह्येहि देवि पुत्र वटुकनाथ कपिल जटाभावभासुरेत्रेणेत्र ज्ञानामुखसर्वविघ्नाननाशयनाशयसर्वोपचार सहितं वलिं गृह्न गृह्न स्वाहा इति मन्त्रः | एवं यां योगिनीभ्यो नमः इति संपूज्य || ऊर्द्धं ब्रह्माण्डतो वादिवि ७०ब्) गगणतले भूतले निस्कले वा पाताले वा तले वा पवन शलिलयोर्यत्रतग्र स्थितो वा | क्षेत्रपीठोपपीठादिषु च कृत पदाः पुष्पधूपादिको न प्रीता देव्यः सदानः शुभवलिविधिनापान्तु देवेन्द्र वन्द्याः | एतदन्ते महेशानि यां बीजं योगिनी ततः | भ्यः स्वाहा सर्ववर्णान्ते योगिनी पदमालिखेत् || कवचं चास्त्रमालिख्य वह्निजायां पुनर्लिखेत् | अनेन मनुना देवि योगिनी वलिमाहरेत् ||
SK
कवचं हूं अस्त्रं फट् वह्नि जाया स्वाहा तेन यां योगिनीभ्यः स्वाहा योगिनी हूṁ फट् स्वाहा इति मन्त्रेण योगिनी वलिं दद्यात् | तथा षद्दीर्घ स्वरसम्भिन्नं क्षकारं पुनरालिखेत् | पुनः क्षत्रपदं पालं धूपदीपादि चालिखेत् | सहितं वलि *? लिख्य गृह्न गृह्न ततो वदेत् | वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य सुन्दरि | तेन क्षाṁ क्षत्रपालाय नम इति संपूज्य क्षां? क्षीं? क्षुं? स्वाहा इति मन्त्रेण वलिं दद्यात् तथा * *? गूं त्रयमालिख्य ङेन्तं गणपतिं वदत् | वरान्ते वरदान्तै च सर्वान्ते जनमालिखेत् | मेवश *? नयेत्युक्ता वलिं गृह्न द्विधा परं || वह्नि * * *? तो मन्त्रो गणपस्य वलिं हरेत् | वामाङ्गुष्ठानामिकाभ्यां वटुकस्य वलिर्भवेद् || गां गीं गूं गणपतये न्ववरद सर्व * *? मेव शमानय वलिं गृह्न गृह्न स्वाहा इति मन्त्रेण गणपति वलिं दद्यात् || ७१अ) अथ वलिमुद्रा || सैव वटुकमुद्रा दक्षिणाङ्गुष्ठ सहिता योगिनीनान्तु कथ्यते | तथा | अंगुष्ठ मध्यमानामा योन्याकारेण योजयेत् | वामामुष्टिं विधायादौ तर्जनीं सवलां कुरु || अनया मुद्रया देवि क्षत्रपाल वलिं हरेत् | तथा मुष्टिषु मध्यस्था अंगुली दण्डवत् कुरु || गजदन्त महामुद्रा गणपस्य वलिर्भवेत् | अतोऽधिकं तन्त्रान्तरेष्वनुसन्ध्येयमिति || अथ पुरश्चरणं || ज्ञानार्णवे || वर्णलक्षं जपेन्मन्त्रं तद्दशांशं हुनेच्छिवे | इत्यलम्बिस्तरः | यत्राधिक संख्या श्रुयते तत्राधिक फलमिति भावः || अथ भैरवी मन्त्राः || भैरव्या अपि वाला घटितत्वाद्वालायाः प्रागुपन्यासः इति || तथा ज्ञानार्णवे || पंच सिंहासन गता कथं सा त्रिपुरा परा | कथयस्व महादेवि कथं सिंहासनम् भवेत् || शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरं | कामबीजं तथा देवि शिवचन्द्रान्वितन्ततः || पृथ्वीबीजं तु वह्याढ्यं(?) तार्तीयं शृणु वल्लभे | कुमार्याः परमेशानि हित्वा सर्गन्तु वैन्दवं || त्रिपुरा भैरवी देवि महासेस्यत् प्रदा शिवे |
SK
शिवोहकारः चन्द्रः सकारः वह्नीरेफ वाग्भवं ऐṁ कामबीजं क्लीṁ शिवचन्द्रान्वित हकार सकारे युक्तमित्यर्थः तन्मध्यस्थ पृथ्वीबीजं लकारं वह्नी रेफः तदाढ्यं तद्युक्तं तेन स्वतन्त्र वर्णत्व मायाति | तेन हसकलर ईṁ इति सिद्ध्यति | कुमार्या वालाया तार्तीयं शक्तिबीजं विलिख्य सर्गं हित्वा वैन्दवं कुर्यात् किम्भूतं शिवचन्द्रान्वितं इत्यनु षड्गं विधाय तृतीय बीजमुद्धरन्ति | देवनाथादयः हस औṁ इति अथ कथं विसर्ग परित्यागः सम्पत्प्रदा भैरवीयं तत्र तार्तीय बीजके | बिन्दु हित्वा ततः सर्गं निःक्षिपेत् सुरसुन्दरि इत्यत्र विन्दोरेव परित्यागः श्रुयते इति चेन्नः अत्र सर्गं हित्वा बिन्दुं निःक्षिपेदिति व्यवस्थितान्वयेनोपपत्तिरिति तन्न चरमबीजवर्ण चतुष्टयापत्ति अनुसंगावत्तिर्व्यवहितान्वयावत्तिश्च कुमार्यास्तार्तीयं सौः तत्र शिवचन्द्रानुषङ्गेह ससौमिति वर्णचतुष्टयापत्ति अन्यद्बाधक द्वयं व्यक्तमेव विसर्गबाधवचनी सत्वाच्च || सावदायां मनः || सर्गेन्दुखण्ड वा निदर्शनाच्च वयन्तु कामबीजं तथा देवि इत्यत्र कुमार्या वाग्भवं यथा शिव चन्द्रस्थं तथा | शिवचन्द्रस्थं कुमार्याः कामबीजमिति इयांस्तु विशेषः कामबीजस्थ पृथ्वीबीजं तु वह्न्याढ्यां ततः परं कुमार्याः तार्तीयं शिव चन्द्रान्वितं कृत्वा उद्धरेत् ससर्ग ऐन्दवं वा हित्वा किम्वा असर्गं ऐंदवं हित्वा परित्यज्य ऐंदवं इन्दोरिदं सकारः ससर्गं शक्तिबीजस्थं अस *? शिवचन्द्रेत्यादिनाद्वृतं हित्वा उद्धरेदित्यर्थः ७२अ)
SK
ननु ससर्गं हित्वेत्यत्र सर्गस्यापि पक्षे त्यागः कथं न स्यादिति चेदकस्मिन्नेव तन्त्रे मन्त्र भेदापत्तेः | अतः सकारत्याग एवविकल्पपूर्वस्थं वा परस्थं वेति अत एववर्ण त्रयरूपं चरमबीजं भवति अतो नानुषङ्गो व्यवस्थितान्वयश्च बिन्दुं हित्वा ततः सर्गं निःक्षिपेदित्यत्र विसर्गस्यैव प्रापानिकत्वात् | अत एव रिपु निकृन्तिनी मन्त्रोद्धारे द्वितीयबीजोद्धारे सम्पत् प्रदाय भैरव्याः कामराजं तदेव हीत्युक्त्वा सदाशिवञ्च बीजञ्चेत्युक्तं अतः सदाशिव बीजे विसर्गसद्भावो वर्णत्रय रूपता च अत एव शापोद्धार मुखेनोक्तं सारसमुच्चये || शप्ता पूर्वं येन विद्येय माया देव्या तेन प्राणहीना भवत्सा | विद्या मूलोत्पत्तिरेषा मयोक्ता ज्ञातव्येयं सर्वथा सिद्धिकामैः || अद्यावाला शिवशक्तिबीज मत एवशम्भुना निहितं तयोरुपरिपूर्वबीजयोः | अकुलं परोपरि च मध्य माधव दहनं | ततः प्रभृति सोर्चिताभवत् || शिवशक्तिबीजं हसरूपं पूर्वबीजयोरुपरि अतः परं परासकारस्तदुपरि अकुलं हकारः मध्यमे कामराज अधरे दहनं रेफः एतेन सर्वमनो कुलमिति दिक् || तथा ध्यानमस्याः प्रवक्ष्यामि महासम्पत् प्रदा शिवे | आताम्रार्क सहस्राभां शरच्चन्द्रजटास्फुरेत् || किरीट रत्न विलसन्नेत्र विम्बितमौक्तिकां | श्रवद्रुधिरपङ्का * मुण्डमालाविभूषितां | ७२ब्) नयनत्रय लोभाढ्यां पूर्णेन्दु वदना मतां(?) | मुक्ताहारलताराजन्मीनोन्नत घनस्तनीं || रक्ताम्वर परीधानां यौवनोन्मत्तरूपिणीं | पुस्तकं चोभयं वामे दक्षिणे चाक्षमालिकां || वरदान रतां नित्यं(?) महास * * *? स्मरेत् | न्यासपूजादिकं पूर्वं कुमार्या एव सुव्रते || तथा वाग्भवं प्रथमं बीजं जीवप्राणसमन्वितं | सकला भुवनेशानी द्वितीयं(?) बीज(?) मुद्धृतं || जीवं प्राणं वह्निसंस्थं शक्रस्वरविभूषितं | विसर्गाढ्यं महेशानि विद्या त्रैलोक्य मोहिनी || चैतन्य भैरवी नाम चेतना निश्चले शिवे |
SK
जीवः सकारः प्राणो हकारः वाग्भवमैकारः तेन सह ऐं सकला सकल वर्णस्था भुवनेशानी ह्रीं तेन सकल ह्रीं जीवप्राण वह्नयोर् *? ख्याताः शक्रस्वरः औकारः तेन हसर औः || अथ ध्यानं || उद्यद् भास्कर रूपाभां नानालङ्कालभूषितां | मुकुटोज्वलाल्लसच्चन्द्र(?) * * *? श्चराम्वितां(?) || पाशाङ्कुश धरां नित्यं(?) वामहस्त(?) कपालिनीं | वरदाभय शोभाढ्यां पीनोन्नत घनस्तनीं || एवं ध्यात्वा यजेद् देवीं सिंहासन गतां शिवे | द्विरावृत्या षडङ्गानि न्यसेत् सर्वाङ्ग(?) लक्षणं || यन्त्रमस्याः प्रवक्ष्यामि देव्यास्त्रैलोक्य मोहनं | त्रिकोणञ्चैव षट्कोणं वसुप्रेतं वरानने || चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् | ७३अ) तत्र वाह्य यजेद् देवीं पूर्ववत् परमेश्वरीं | रत्यादिकांस्तनो देवीं पूर्ववत् परिपूजयेत् || अग्रे वसन्तं वामे तु कामो देवं वरानने | चन्द्रं दक्षिण दिक् कोणे वानान् पूर्ववदद्रिजे || डाकिनीं शाकिनीञ्चैव काकिनीं लाकिनीन्ततः | राकिणीं हाकिनीञ्चैव पश्चिमादि क्रमाद् यजेत् || परभूत् सारसौ चैव शुकमेघा ह्वयौ पुनः | अपाङ्गभ्रूविलासौ च भारहारौ च पूर्ववत् || पूर्वसिंहासन गता कथिता वीरवन्दिते || तथा एतस्या एव विद्याया बीजद्वयमुदाहृतं | तदन्ते परमेशानि नित्य क्लिन्ने मदद्रवे || एतस्या एव तार्तीयं रुद्रार्णा परमेश्वरी | एतस्याश्चैतन्य भैरव्या बीजद्वयानन्तरं नित्यकिन्ने मद द्रवेति विलिख्य चरमबीजमुद्धरेदित्यर्थः | अत एवोक्तं || ध्यानपूजादिकन्देवि चैतन्या एव पूर्ववत् | त्रिकोणे तु विशेषोस्ति कथयामि वरानघे || अग्रकोण क्रमेणैव नित्यकिन्नां मदद्रवां | पूर्वसिंहासना मुक्ता दक्षिणसिंहासनमाह || ज्ञानार्णवे || शिवचन्द्रौ मादनस्थं वान्तं वह्नि समन्वितं | शक्तिभिन्नं बिन्दुनाद कलाढ्यं वाग्भवं शिवे || सम्पत् प्रदाया भैरव्या कामराजन्तदेव हि | सदाशिवञ्च बीजञ्च महासिंहासनस्य तु || एषा सिंहासने देवि दक्षिणे परमेश्वरि |
SK
शिवचन्द्रौ हकारे सकारौ मादनः ककारः वान्तं लकारः वह्नी रेफः शक्ति रेकारः तेन हसकल ऐṁ शेष द्वयं सम्पत् प्रदायाः || ७३ब्) उद्यत् सूर्य सहस्राभां चन्द्रचूडां(?) त्रिलोचनां | नानालङ्कालसुभगां सर्व वैरिनिकृन्तिनीं | श्रवद्रुधिरमुण्डाली कलितां रक्तवासनीं || एवं ध्यात्वा महेशानि पूजामण्डलमालभेत्(?) | त्रिकोणन्देवि षट्कोणं वृत्ताष्टदलनीरजं || वृत्तं भूमण्डलारीत मेषा त्रिपुर यन्त्रिका | वामां जेष्ठाञ्च रौद्रीञ्च कालीञ्च व?रलोचने || कलाढ्याञ्च वलाढ्याञ्च यजेद् विकरणीन्तथा | वलप्रमथनीं सर्व भूतानां पदमाहरेत् || दमनीञ्च तथा यष्ट्वा मनोन्मन पदान्वितां | अघोरे वाग्भवे चोक्त्रा(?) घोरे च भुवनेश्वरीं || घोरघोरतरे चैव रक्षमां रक्षां(?) *? चरेत् | सर्वतः सर्व्व सर्वेशि देव्या बीजयुतां लिखेत् | त्रिंशद्भिश्च त्रिभिर्वर्णैर्विद्येयं कथिता शिवे || अनेन मनुना देवि ततः सिंहासनं यजेत् | एतेन वामादि सर्वभूतमनोन्मनदमनी पर्यन्तं सम्पूज्य अनेन मनुना सिंहासनं यजेत् | देवी बीजं ह्रीं तेन अघोरे वाग्भवे * *? भुवनेश्वरि घोरघोरतरे रक्षमां रक्ष सर्वतः सर्वसर्वेशी ह्रीṁ इति तथा भूदिपलोकपालांश्च(?) सायुधान् परमेश्वरि | द्वितीय सिंहासन * *? पूजयेत् परमेश्वरीं || दक्षिण सिंहासना मुक्त्वा पश्चिम सिंहासना माहः || ज्ञानार्णवे || डाकिनी राकिनी बीज लाकिनी काकिनी युगे | ७४अ) बीजान्या हृत्य देवेशि योजयेच्चन्द्र सूर्ययोः | आद्यमैङ्कारसंयुक्तं अन्यदीङ्कारमण्डितं || शक्रस्वरान्वितं देवि तार्तीयं बीजमालिखेत् | बिन्दुनादकलाक्रान्तं तृतीयं शैलसम्भवे || एषा विद्या महेशानि पश्चिमासनगा भवेत् |
SK
डाकिनी डकारः राकिनी रेफः लाकिनी लकारः काकिनी ककारः एतानि बीजाचन्द्रसूर्ययो रुपरि सकार हकारयोरुपरि आकृत्य कूटत्रय रूपमुद्धरेत् | तत्र आद्यं ऐंकारः संयुक्तं तेन डरलकसह ऐṁ अन्यदींकारमण्डितं तेन डरलकसह ईंशक्रस्वरान्वितं देवि तार्तीयं शक्रस्वर औकारः विन्दुनादादि युक्तं तेन डरलकसह औः तृतीयं शैलसम्भव इत्यनुक्ते पूर्वबीजद्वये बिन्दुद्वया पत्तेः अत्र तृतीय बीजे विसर्गोपि दृश्यते तदुक्तं बिन्दुनादान्वितं चान्यद्युग्ममन्त्यं विसर्गवदिति तथा च ध्यानं || इन्द्रगोप प्रभां देवि जवाकुङ्कुमसन्निभां | मुण्डमालावली रम्यां वालसूर्य समत्विषां || सुवर्ण कलसाकार पीनोन्नत पयोधरां | पाशाङ्कुशौ पुस्तकञ्च तथा च जपमालिकां || एवं ध्यात्वा यजेद् देवीं मानसैरुपचारकैः | द्विरावृत्या षडङ्गानि विधाय परमेश्वरि || यन्त्रमस्या वरारोहे त्रिकोणं तत्पुटं लिखेत् | वहिरष्ट दलं पद्मं रवि पत्रं ततो लिखेत् || चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् | ७४ब्) पूर्वोक्तेन विधानेन पूजयेन् नित्य भैरवीं | एतस्या एव विद्याया षड्वर्णन् क्रमतस्थितान् || विपरीतान् वद प्रौढे विद्येयं भोगमोक्षदा | एतस्या विद्यायाः डकारादि * *? न्यन्तान् वर्णान् हकारादि डकारान् कृत्वा उद्धरेदित्यर्थः तेन हसकल रे ड ऐं इत्यादि क्रमेणोद्धारः | नित्या श्रीभैरवी देवी रिपु(?) हारापहारिणी | न्यासपूजादिकं सर्वं पूर्ववत् परिकल्पयेत् || पश्चिमसिंहासनो मुक्त्वा उत्तरे सिंहासनमाह || ज्ञानार्णवे || ह *? द्यं वाग्भवञ्चाद्यं(?) हस(?) कान्ते सुरेश्वरि | भूबीजं भुवनेशानी द्वितीयं बीजमुद्धृतं || शिवचन्द्रौ महेशानि भुवनेशी च भैरवी | वाग्भवं ऐंकारः हश्च(?) सश्च हसौ(?) तेन हस ऐं हसकान्ते हसकवर्णान्ते भूबीजं लकारः भुवनेशानी क्रीं तेन हसकल ह्रीं शिवचन्द्रौ हकार सकारौ? औकार विसर्गा *? तेन(?) हस(?) औः(?) || अथ कथमत्र औकारो लभ्यते विसर्गश्चेति चेत्तन्त्रान्तरे सुरसात् ||
SK
तदुक्तं || वाराहीतन्त्रे || हंसास्त्रयोपी हसकान् युक्ताने स्वर्द्ध(?) पंक्तिस्वरसंविभिन्नाः | मध्ये विरिञ्चीन्द्र हराग्नि युक्ता आद्यौ सन्दूपरतो विसर्गीति हंसो हकारः ते त्रय सकार युक्तार * * * *? कारः क्लीवा नामगननात् | तदर्द्ध ईकारः पंक्तिस्वर औकारः विरिञ्चिः ककारः इन्द्रो लकारः हरो हकारः अग्नीरेफः इत्येक वाक्यतयैव लभ्यत ७५अ) इति देवनाथादिभिरुक्तं भुवनेशीति भैरवी विशेषणमिति वस्तु तस्तु तन्त्र भेदेन मन्त्र भेदादैक वाक्यतैव न सङ्गच्छते || ज्ञानार्णवे || पंक्तिस्वर बोधका भावात् | तथा च | शिवचन्द्रौ भुवनेशी च भैरवी विशेषणे भुवनेशी पदवै अर्थ्यापत्तिरिति तेन हसह्रीं इति चरमबीजं | तथा मध्यबीजेन देवेशि षड्दीर्घस्वर भेदिना | षडङ्गानि प्रविन्यस्य ध्यायेद् देवीं चतुर्भुजां | जवाकुङ्कुमसङ्काशां दाडिमी कुसुमोपमां || चन्द्ररेखा जटाजूटां त्रिनेत्रां रक्तससीं | नानालङ्कार शुभगां पीनोन्नत घनस्तनीं || पाशाङ्कुश वराभीतिं ध्ययन्तीं शिवां शिवे | एवं ध्यात्वार्चयेद् देवीं यन्त्रोद्धारं च पूर्ववत् || चैतन्य भैरवी देवी मन्त्रवत् परमेश्वरि | रत्याद्याः पूजयेद् देवि त्रिकोणे तदनन्तरं || ब्रह्माविष्णुश्च रुद्रश्च पूज्यास्तत्रैव सुन्दरि | तेनेयं प्रापिता विद्या धनराजः सचो भवेत् || तथा तारञ्च भुवनेशानी श्रीबीजं कामराजकं | हृदन्ते भगवत्यर्णान् माहेश्वरि पदं वदेत् || अन्नपूर्णे अग्निजाया च विज्ञेया विंशदक्षरी | अनया सदृशी विद्या सिद्धिदा नास्ति भूतले || तेन ॐ ह्रीṁ श्रीṁ क्लीं भगवति माहेश्वरि महेश्वरि अन्नपूर्णे नमः स्वाहा || ७५ब्) तथा भुवनेश्वरि भैरव्या भेदान्तरमथोच्यते | सहाद्या सैव देवेशि तदा सा सकलेश्वरी || ध्यानपूजादिकं सर्वं एतस्या एव पार्वति |
SK
सासंसंपत् प्रदा स *? द्या चेत् सकरेश्वरी भवे तीर्थः भुवनेश्वरीति सम्वोधनं | अत एवोक्तं स्वरसमुच्चये | भैरवीय मुदिता कुल पूर्वा देशिकै यदि भवेत् कुल * *? सैव शीघ्र फलदेविति अकुलं हकारः कुलं सकारः | तथा हस वाद्यौ भैरवी सा * * * * *? पार्वति || एतस्या एव विद्याया आद्यन्तर * * *? ति | तदेयं परमेशानि नाम्ना सकल सिद्धिदा || सम्पत् प्रदा भैरवीव ध्यान पूजा * एतस्यास्त्रिषु बीजेषु आद्यन्ते आदि बीजस्यान्ते वाग्भवे रेफ वर्जिते सति सकलसिद्धिदा नाम भवति * * * *? भैरवी मन्त्रस्य प्रथम कूटे रेफा भावात् || अथ * * * *? सारदा तिलके || दीक्षां प्रा * *? येन्मन्त्रं तत्वलक्षं जितेन्द्रियः | पुष्पैर्भानु सहस्राणि जुहुयाद् ब्रह्म वृक्षजैः || तत्वानि द्वादश तत्वार्द्ध लक्षावपीति प्रपञ्चसारः | सारसमुच्च(? tarujaistrimadhvaktairhomaṃ tadanudiśivāreṇa juhuyāditi tathā mārgesminnavalakṣamakṣaya padaprāptyau 76a) tato lakṣayediti nānātacacaneṣu nānā prakāraḥ śruyate | tatra devanātha * tatva lakṣamiti | tanna tatvarakṣanyūnāti rikta pratipādaka vacanānāṃ nirarthakatvā patteriti || vayantu tripurāsārasamuyokta lakṣameva puraścaraṇaṃ adhikapratipādakavacanamadhika phalārthaṃ ata evākṣaya pada prāptaye ityādi yathā śrībhairavī tathetyabhidhānācca sarvatra taddharmāti daśa iti bhāvaḥ || śrīramāramaṇadevaśarmaṇānirmite gamasāranirṇayo bhairavī tripuravālikāmanūddhārakastu paṭalo dvitīyakaḥ || atra yadyapi mahāvidyā nirūpaṇānantaraṃ siddhi vidyā nirūpaṇamevamucyate || tathāpi athāntara vidyānāṃ ubhayācāra saṃvalitatvādubhaya madhya eva nirūpaṇamucitamiti || tatra prathamaṃ bhuvaneśvarī mantrā likhyante sāradā tilakānusāreṇa yathā || atha vakṣye jagaddhātrī madhunā bhuvaneśvarīṃ | brahmādayopi yāṃ jñātvā lebhire śriyamūrjitāṃ ||
SK
नकुलीशोग्नि मारूढो वामनेत्रार्द्ध चन्द्रभाक् | नकुलीशोहकारः अग्नीरेफः वामनेत्रा दीर्घ ईकारः तेन ह्रीं || अथ ध्यानं || उद्यदिनद्युतिमिन्दु किरीटां तुङ्ग कुचां नयन त्रयसंयुक्तां | स्मेरमुखीं वरदाङ्कुश पाशांभीति करां प्रभजेद् भुवनेशीं || ७६ब्) षड्दीर्घ भाजाबीजेन कुर्यादङ्गानि षट्क्रमात् | ह्रां हृदयाय नम इति क्रमेण || तथा पुरश्चरणं || जपेन्मन्त्रं ततो मन्त्री द्वात्रिंशल्लक्षमानतः || अत्रापि शापः || यथा मुण्डमालायां भुवनेशी महाविद्या देवराजेन वैपुरा | आराधिता च विद्येयं राजेन नाम मोहिता | एकाक्षरी बीजहीना वाग्भवेनोद्धृता पुरा इत्यादि दर्शनात् || अत एव वाग्भवाद्ये शापो नास्तीत्यर्थः || तथा वाग्भवं शम्भुवनिचता रमाबीज त्रयात्मकं | मन्त्रं समुद्धरेन् मन्त्री त्रिवर्ग फलसाधनं || वाग्भवं ऐंकारः शम्भु वनिता ह्रीं रमा श्रींमिति || अथ ध्यानं || सिन्दूरारुण विग्रहां त्रिनयनां मानिक्य मौलिस्फुरत्तारा नायके शेषरां स्मितमुखी मा पीन वक्षोरुहां | पाणिभ्यां मणिपूर्णं रसकं रक्तोत्पलं विभ्रतीं सौम्यां वर्हघटस्थले व्यचरणां ध्यायेत् परामम्बिकां || पुरश्चरणं || रविलक्षं जपेन्मन्त्रं पायसैर्मधुरा प्लुतैः | दशांशं होमयेन् मन्त्री यजेत् पीठे समाहितः || तथा वाग्बीजपुटिता मया विद्येयं त्र्यक्षरी भवेत् | वाग्बीज सैंकारः तेन पुटिता मायाबीजमित्यर्थः || माया ह्रीं श्यामाङ्गीं शशिशेषरां निजकरैर्ज्ञानञ्च रक्तोत्पलं रत्नाढ्यं चसकं परं भयहरं संविभ्रतीं सास्वतीं | ७७अ) मुन्तास्त(?)रलसत्पयोधरनतां नेत्र त्रयोल्लासिनीं वन्देहं सुरपूजितां हरवधूं रक्तारविन्द स्थितां || मध्येन दीर्घयुक्तेन वाक्पुटेन प्रकल्पयेत् || ऐं ह्रां ऐं हृदयाय नम इति क्रमेण || अथ पुरश्चरणं || तत्वलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत् ततः | तथा अनन्तो बिन्दुसंयुक्तो माया ब्रह्माग्नि तारवान् || पाशादि त्र्यक्षरो मन्त्रः सर्ववश्य फल प्रदः |
SK
अनन्तः आकारः माया ह्रीं ब्रह्मा ककारः अग्नीरेफः तारः ॐकारः तेन क्रां इति || अथ ध्यानं || वराङ्कुशौ पाशमभीति मुद्रां करैर्वहन्तीं कमलासनस्थां | वालार्क कोटि प्रतिमा त्रिनेत्रां भजेहमाद्यां भुवनेश्वरीन्तां || अथ अनन्तो विन्दुसंयुक्त इत्यादिना अक्षरत्रय रूपमन्त्रो भवति स एवपाशादिश्चेत् चतुरक्षर रूपता भवितु मर्हतीति चेत् आदिशब्दोत्र अवयवार्थः तेन स बिन्द्वनन्त ब्रह्माग्नि तारवान् मन्त्रः पाशादिः त्र्यक्षरस्याद्य वयवः पाश इत्यर्थः || तथा पुरश्चरणं || हविष्य भुक् जपेन्मन्त्रं तत्वलक्षं जितेन्द्रियः | संहारसृष्टि मार्गेण मातृकान्यस्त विग्रहः || मन्त्र न्यासं ततः कुर्याद् देवता भाव सिद्धये | तेन सुन्दरी मन्त्रोक्त क्रमेण प्रातःकृत्य सन्ध्यादि स्नानादिकं भूतशुद्ध्यादिकं च विधाय अनुलोम विलोमेण मातृका कुर्यात् ततो ऋष्यादि कन्यासंकृत्वा मन्त्र न्यासं कुर्याद् विशेषानंभिधानादेकत्र निर्णीत इति न्यायात् | तथा ऋषिः शक्तिर्भवेच्छन्दा गायत्री देवता मनोः | कथिता स्वरसंहेन देवेशी भुवनेश्वरी || तेन शिरो वदने हृदत्सु ऋषिच्छन्दो देवता विन्यस्य मन्त्र न्यासं कुर्यात् | यथा हृल्लेखां मूर्द्ध्नि वदने गगनां हृदयाम्बुजे | रक्षां करालिकां गुह्ये महच्छुष्मां पद द्वये || तेन मूर्द्ध्नि हृल्लेखायै नमः | इत्यादि क्रमेण न्यसेत् | तथा ब्राह्माणं विन्यसेद् भाले गायत्र्या सहसंयुक्तं | सावित्र्यासंयुतं विष्णुं कपौले दक्षिणे न्यसेत् || वागीश्वर्या समायुक्ते वामगण्डे महेश्वरं | न्यसेच्छ्रियाधनपतिं वामकर्णाग्रके पुनः || मुखे न्यस्य न्यसेत् पृष्ठे गणेशं परितो न्यसेत् | सव्यकर्णौ परिनिधी कनगण्डान्तरालयोः || न्यस्तव्यौ वदने पद्मं भूयश्चैतान् ततौ न्यसेत् | कण्ठमूलस्तन द्वन्दे वामांशे हृदयाम्बुजे || सव्यांशे पार्श्वे युगले नाभिदेशे च देशिकः | भालांश पार्श्वजठरे पार्श्वाशापरक हृदि || ब्राह्मीत्याढ्यास्ततो न्यस्या विधिना प्रोक्त लक्षणाः | मलेन व्यापकं न्यस्य देही देवीं विचिन्तयेत् ||
SK
एतेन पूर्वोक्तरूपां ध्यायेत मानसो पचार पूजनं विशेषार्घ स्थापनञ्च ततो यन्त्रं पुरतो निधाय आवाहनं मुद्रादि भिरावाहनं विधाय पाद्यादीनि दद्यादित्याचारः यन्त्रोद्धारं यथा || ७८अ) पद्ममष्टलं वाह्यै वृत्तं षोडशभिर्दलैः | विलिखेत् कर्णिका मध्ये त्रिकोणमति सुन्दरं || ततः संपूजयेत् पीठं नवशक्ति समन्वितं | जया च विजया चैव अजिता चापराजिता || विद्या विलासिनी दोग्ध्री अघोरामङ्गला नव | बीजाढ्य मासनं कृत्वा मूर्तिं मूलेन कल्पयेत् || बीजाद्यं मायाबीजाद्यमित्यर्थः | तथा तस्यां सम्पूजयेद् देवी मावाह्या वरणैः क्रमात् | प्राङ्मध्ययाम्य सौम्येषु पश्चिमे च यथा क्रमं || हृल्लेखाद्याः समभ्यर्च्य पञ्चाद्भुत तरः प्रभा | वरपाशाङ्कुशाभीति धारिण्योमित भूषणाः || स्थानेषु पूर्वमुक्तेषु पूजयेद् अङ्ग देवताः | इन्द्रकोणे च गायत्रीं ब्रह्मणा सह पूजयेत् || वक्षः कोणे च सावित्रीं पूजयेद् विष्णुना सह | सरस्वती वायुकोणे रुद्रेण सह पूजयेत् || वह्निकोणे महालक्ष्मीं धनदेन तदंकगां | वारुणे काम देवेन समाश्लिष्टां रतिं यजेत् || ऐशान्यां पूजयेत् सम्यक् विघ्नराजं प्रियान्वितं | दिगंवरी ततः पूज्या संसारार्णव तारिणी || कार्णकायां निधी पूज्यौ षट्कोणस्याथ पार्श्वयोः | अनङ्ग कुसुमा पश्चादनङ्ग मदना तथा || अनङ्गधारिणी तत्व मनङ्ग मदनातुरा | ततो भुवनपालाख्या गगणवेगा ततः परं || शशिरेखा गलरेखा पूज्यता ह्यष्ट शक्तयः | ततः षोडश पत्रेषु कराली विकल्युमा || सरस्वती श्रीर्द्धि दोषा लक्ष्मी सत्या स्मृतिर्धृतिः | श्रद्धा मेधामतिः कान्तिराद्याः षोडश शक्तयः || पद्माद् वहिः समभ्यर्च्याः शक्तयः परिचारिकाः | प्रथमानङ्गरूपास्यादनङ्ग मदनो तथा || मदनातुराथ भुवने वेगा भुवन पालिका | स्यात् सर्वशिशिरानङ्ग वदनानङ्ग मेखला || चसकं तालवृर्तञ्च ताम्बूलं च्छत्रमुज्वलं | चामरचांशुभं पुष्पं विभ्रणाकरपङ्कजैः || एवं संपूज्य देवेशीं साधकः किं न साधयेत् |
SK
एवमुक्तस्थानेषु संपूज्य मूलेन त्रिस्तर्पयित्वा प्राणायामं विधाय यथा विभवं पूजयित्वा जप्त्वा जपं समर्प्य संहारे मुद्रयो निमाल्यं गृहीत्वा ऐशान्यांश निर्माल्य वासिन्यै नमः इति संपूज्य विसर्जयेदिति संक्षेपः || अथ लक्ष्मी यन्त्राः || शारदा तिलके || अथ वक्ष्ये श्रियो मन्त्रान् श्रीसौभाग्य फल प्रदान् | यस्याः कटाक्ष मात्रेण त्रैलोक्यमपि लभ्यते || वान्तं वह्नि समायुक्तं वामनेत्रन्दु संयुतं | बीजमेतच्छ्रियः प्रोक्तं चिन्तामणिमिवापरं || वान्तं शकारः वह्नीरेफ वामनेत्र इकारः | तेन श्रीं || अथ ध्यानं || कान्त्याकाञ्चन सन्निभां हरगिरि प्रख्यैश्चतुर्भिर्भुजैर्हस्तौत्क्षिप्त हिरन्मया मृतघटैरासिच्यनानां श्रियं | विभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटो ज्वलां क्षौमावद्धनितम्ब बिम्बगलितां वन्देरविन्द स्थितां || ७९अ) षट्दीर्घबीजेन कुर्यादङ्गानि षट् क्रमात् | भानु लक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः || तथा वाग्भवं वनिता विष्णोर्मायामकरकेतनः | चतुर्बीजात्मको मन्त्रश्चतुर्वर्ग फल प्रदः || भानुलक्षं हविष्याशी जपेदन्ते हुनेदपि | वाग्भवं ऐंकारः विष्णोर्वनिता श्रीं माया ह्रीं मकरकेतनः | क्लीं || अथ ध्यानं || मानिक्य प्रतिमप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्भुजैर्हस्ताग्राहित रत्न कुम्भ सलिलैरासिच्यमानं सदा | हस्ताग्रैर्वरदानमम्बुजयुगाभीतिर्दधानं हरः कान्तां कांक्षित पारिजातलतिकां वन्दे सरोजासनां || ऋषिर्भृगूनिवृट्(गूटेति पाठः)च्छन्दो देवता श्रीः समीरिताः | षड्दीर्घ युक्तमध्येन कुर्यादङ्गानि षट्क्रमात् || श्रां हृदयाय नमः इत्यादि क्रमेण | तथा अत्र सम्यक् यजेत् पीठं नवशक्ति समन्वितं | विभूतिरुन्नतिः कान्ति सृष्टिः कीर्तिश्च सन्नतिः || व्युतष्टिरुत्कृष्टि ऋद्धिश्च संप्रोक्ता नवशक्तयः | तत्रा वाह्य यजेद् देवीं परिवार समन्वितां || बीजाढ्यमासनं दत्वा मूर्तिं मूलेन कल्पयेत् |
SK
इह तन्त्रादौ यद्यपि भूतशुद्ध्यादि न श्रुयते तथापि सामान्य पटलोद्धृतत्वादूहनीयं || तथा च पूर्ववत् प्रातः कृत्य स्नान सन्ध्यार्घ स्थापन भूतशुद्धि लिपि न्यासादि विधाय विशेष न्यास पूर्वादिकं कर्त्तव्यं प्रत्थगौरव भयात् सर्व * *? लिख्यते | तेषामावश्यकत्वादिति | तथा बीजाढ्य मानसं दत्वा मूर्तिं यथोक्तं च परिकल्प्य देयं | यजेद् देवीमित्यने नैव विना उपचारेण पूजाभाजा?पद्यादिकमूहनीयं आवाह्येत्यादिना आवाहनादि मुद्रा सम्बध्यतेति तथा यजेत् पूर्व वदङ्गानि षडङ्गं मन्त्रेण पूर्ववत् षडङ्गं पूजयेत् | तथा विश्वन्धनम्वर्चयेत् ततः दिग्बन्धनेषु अष्टदलेषु चतुदशसु | आवरणानामष्टसंख्यत्वात् | यथा वासुदेवं शङ्कर्षणं | प्रद्युम्नमनि रुद्ध(?)कं | विशेषणमाह || हेमपीत तमालेन्द्र नीलाभं पीतवाससं | शंखचक्रधरं देवं गदापद्मधरं तथा || कमलं सलितं रूपो गुग्गुलुञ्च कुरण्डकं || ४ || तथा यजेच्छंख निधी देव्यादक्षिण क्रमयोगतः | दलाग्रेषु यजेद् देव वराक्याद्याः समन्ततः || वलाकीनि मला चैव कमला च न मालिका | विभीषिका मालिका च शंकरी च सुमालिका || पङ्कजे द्वय धारिण्ये मुक्ताहारसमप्रभाः | लोकेशान् पूजयेदन्ते वज्रा?द्यस्त्राणि तद् वहिः || इत्थं संपूज्य मूलेन त्रिःसंपूज्यसङ्केत मुद्रया तर्पयित्वा प्राणायामं विधाय यथाशक्ति जप्त्वा गुह्यातिगुह्येत्यादिना जपं समर्प्यस्तुला नला संहार मुद्रया निर्माल्यं गृहीत्वा विसर्जयेदिति संक्षेपः | ८०अ) इत्थं यो भजते नित्यं देवीं विधिना साधकोत्तमः | धनधान्य समृद्धिः स्याच्छ्रिय माप्नोत्य निन्दतां || वक्षः प्रामाणे सलिले स्थित्वा मन्त्रमिमं जपेत् | त्रिलक्षं सयतो मन्त्री देवीं ध्यात्वार्क मण्डले || स भवेदल्प कालेन रमाया वसतिः स्थिरां | विष्णुगेहञ्च निन्दस्य मूलमध्यास्य मन्त्रवित् || त्रिलक्षं प्रजपेन्मन्त्री वाञ्छितं लभते धनं | एतेन त्रिलक्षमेव पुरश्चणमिति संक्षेपः || अथान्न पूर्णमन्त्रः || शारदा तिलके ||
SK
माया हृद्भगवत्यन्ते माहेश्वरि पदं वदेत् | अन्नपूर्णे वह्निजाया मनुः सप्तदशाक्षरः || माया ह्रीं हृन्नमः वह्निजाया स्वाहा || ततः प्रागुक्त क्रमेण प्रातःकृत्य स्नान सन्ध्या सामान्यार्घ स्थापन भूतशुद्धि प्राणायाम मातृका न्यासादिकं विधाय ऋष्यादि न्यासं कुर्यात् | ऋषिर्ब्रह्मा तृष्टुप्छन्दोऽन्न पूर्णा च देवताः इति शिरो वदन हृत्सुन्दस्य मूलेन षडङ्ग न्यासं कुर्यात् || तदुक्तं मूलेनाङ्गानि विन्यस्य ततो देवीं विचिन्तयेत् | रक्तां विचित्र वसनां नवचन्द्रचूडां अन्नप्रदाने निरतांस्तम भारनम्रां | नृत्यन्त सिन्दु सकलो भरणं विलोक्य हृष्टां भजे भगवतीं भव दुःखहन्त्रीं || इति ध्यात्वा मूलेना वाह्य पाद्यादिभिः संपूज्य मूलान्ते सपरिवारायै अन्नपूर्णायै नम इति | ८०ब्) तथा सपरिवारां अन्नपूर्णां तर्पयामीति त्रिःसन्तर्प्य यथाशक्ति जप्त्वा गुह्यातिगुह्यत्यादिना जपं समर्प्य स्तुत्वा नत्वा संहारमुद्रया निर्माल्यं गृहीत्वा विसर्जयेदिति संक्षेपः || तथा पुरश्चरणं || यथा विधि जपेन्मन्त्रं वसुयुग्मसहस्रंकं || १६ || साज्यनान्नेन जुहुयात् तद् दशांश मनन्तरं | प्रात * * जपेन्मन्त्री नित्यमष्टोत्तरं शतं || एतस्यान्नसमृद्धिः स्याच्छ्रिया सह महीयसी | अतोऽस्याः पुरश्चरणं षोडश सहस्रमिति दिक् || अथ त्वरि?ता मन्त्रः || शारदा तिरके || तारा माया चर्म बीज मृद्धिरीशखरान्विता | कुर्मस्थ दन्तो भगवान् क्षस्त्री दीर्घ तनुच्छदं || सम्वर्ता भगवान् माया फट् न्ता द्वादशाक्षरः | तार ॐकारः माया ह्रीं चर्मबीजा हूं ऋद्धिः खकारः ईशस्वर एकारः कूर्मश्चकारः दन्तश्च्छकारः भग एकारः क्षस्तीस्वरूपं(?) दीर्घ तनुच्छदं हूं सम्वर्तः क्षकारः भग एकारः माया ह्रीं तेन ॐ ह्रीं हूं खेचच्छक्षस्त्री हूं क्ष ह्रीं फट् इति मन्त्रः || ततो यथोक्त प्रकारेण प्रातकृत्य स्नानसन्ध्यार्घ स्थापन भूतशुद्धि प्राणायाममातृका न्यासादिकं विधाय ऋष्यादि न्यासं कुर्यात् | तथा
SK
मुनिरर्जुन आख्यातो विराट्च्छन्दः समीरितं | त्वरिता देवता प्रोक्ता पुरुषार्थ फल प्रदा || ८१अ) तथा च अस्य मन्त्रस्यार्जुन ऋषिर्विराट् च्छन्दस्त्वरिता देवता पुरुषार्थ सिद्धये विनियोगः इति स्मृत्वा शिवो वदन हृत्सु विन्यस्य मन्त्र न्यासं कुर्यात् | यथा माया विवर्जितान् वर्णान् मूर्द्ध्नि भाले गले हृदि | नाभिगुह्यारुयुग्मेषु जानुजंघा पदेषु च | विन्यस्य व्यापकं कुर्यात् समस्त नैव साधकः || तेन मूलमन्त्रं माया बीज विवर्जितं कृत्वा मूर्द्ध्नादि न्यसेत् | ततः समस्तेन व्यापकं कुर्यादित्यर्थः | तथा कूर्माद्यैः सप्तभिर्वर्णैः पूर्वपूर्वविवर्जितैः | द्वाभ्यां द्वाभ्यां षडङ्गानि कल्पयेत् साधकोत्तमः | तथा च कूर्माद्यैश्च काराद्यैः सप्तर्भिर्वर्णैः षडङ्गन्यासं कुर्यात् पूर्व पूर्व वर्जितान् कृत्वा द्वाभ्यां द्वाभ्यांचार द्वयं प्रत्येकं पठित्वा न्यसेद् इत्यर्थः | तथा च चच्छे हृदयाय नमः छक्ष शिरसे स्वाहा क्षंस्त्री शिखायै वषट् इत्यादि क्रमेण न्यसेत् | ततो मूलेन व्यापकं विधाय ध्यायेत् || श्यामां वर्हि कलाप शेषरयुतामावर्द्धपट्टांशुकां गुञ्जाहारलसत्ययो धरेन तामष्टा हि पान् विभ्रतीं | ताडङ्काङ्गदमेखला गणरेनन्मञ्जीरतां प्रापितान् कैराती वरदाभयोद्यतकरां देवीं त्रिनेत्रां भजे | इति ध्यात्वा मानसैरुपचारैः संपूज्य विशेषार्घ स्थापनं विधाय पीठं पुरतो विलिख्य पूजयेत् | ८१ब्) यथा मध्ये सरोजे दशपत युक्त मायां लिखेद् वाञ्छित साध्यगर्भां | तारादि वर्णान् दशपत्र संस्थान् षट्कोणवीतं वसुधा पुरस्थं | कृत्याद्रोहादि समनं व्यालचौरभयापहं | विधृतं त्वरिता यन्त्रं विशेषाद्विजय प्रदं || तेन षट्कोणं दशपत्रं पीठं पीठ मन्त्रेण पूजयेन् मन्त्रो यथा सम्वर्ततको विन्दु युतः * * *? सकलं वियत् | वज्र देह कुरु द्वन्द्वमाभाष्य हिङ्गुलु द्वयं | गर्ज युग्मं वियेत् सेन्दुर्वर्मान्तो दीर्घबिन्दुन् || पंचामनाय हृदयं पीठमन्त्रः प्रकीर्तितः | दद्यादासनमेतेन मूर्ति मूलेन कल्पयेत् ||
SK
संवर्तः क्षकारः कवचं हूं वियेत् हकारः | किं भूतं सकलं कलया सह वर्तमानं हूṁमिति तेन क्षं हूṁ हं वज्रदेह कुरु कुरु हिङ्गुलु हिंगुलु गर्ज गर्ज हं हूं क्षं पंचाननाय नमः वियद्? हकारः | वर्म हूं अ *?ः क्षकारः दीर्घबिन्दु दीर्घश्च बिन्दुश्च दीर्घ आकारः बिन्दुरनुस्वारः | अथवा दीर्घविन्दुविसर्गस्तद्युक्त इत्यर्थः | इति पीठ मन्त्रेण पीठं संम्पूज्य मूलेन * * *? द्या * * *? संपूज्य * क्रमात् | तथा केशरेषु * *? प्रणादां(?) ह्रां(?) ह्रीं(?) ह्रूं(?) ह्रैं(? taduktaṃ | deveṣu pūjayedetāḥ śrībījādyāḥ svabhūṣitāḥ | 82a) hūṃkārīṃ khecarīṃ caṇḍāṃ cchedinīṃ kṣepaṇīṃ striyaṃ | hūṃkārīṃ kṣemakārīñca lokeśāṃ varabhūṣaṇāṃ || tena śrīṃ hūṃkāryai namaḥ ityādi krameṇa pūjayet tathā | phaṭkārī nagrato vāhye kodaṇḍaśaradhāriṇīṃ || dvārasya pārśvayoḥ pūjye hemavatra karāmbuje | jayākhyā vijayākhyā ca kaṃ kalāya padaṃ tataḥ || vakṣa yugma padasyānte tvaritāṅgā sthiro bhava | varmāstrāntena manunā kiṅkaraṃ tad bahiryajet || na guḍaṃ vibhrataṃ kṛṣṇaṃ kṛṣṇavarvaramūrddhajaṃ || tathā ca || kiṃkarāyarakṣarakṣatvaritāṅgā sthiro bhava hūṃ phaṭ kiṃkarāya namaḥ iti pūjayet || tato mūle tarpayitvā yathā śakti japaṃ vidhāya guhyātiguhyatyādinā japaṃ samarpya stutvā natvā saṃhāramudrayā nirmālyaṃ gṛhītvā visarjayet || atha puraścaraṇaṃ || lakṣaṃ saṃjapya mantrajño mantramenaṃ jitendriyaḥ | daśāṃśaṃ juhuyādvillaistrimadhvaktaiḥ samidvaraiḥ || evaṃ siddha manurmantrī nārī naranareśvaraiḥ | mānyate vatsuro darvāk lakṣmājita dhaneśvaraḥ || ityādi saṃkṣepaḥ || atha trikūṭā mantraḥ || śrīmāyāmadanaiḥ proktā mantrau bīja trayātmakaḥ | śrīḥ śrīṃ māyā hrīṃ madana klīṃ iti tato yathokta pūrva prakāreṇa prātaḥkṛtyādi mātṛkā nyāsāntaṃ varmasamāpya ṛṣyādi nyāsaṃ kuryāt | 82b) yathā ṛṣiḥ samvāhanaṃ cchando gāyatryaṃ devatā manāḥ | tripuṭākhya trirukṣaistairbījairaṅgāni ṣaṭkramāt ||
SK
तेन शिरो वदन हृसु ऋषिच्छन्दो देवताङ्गानि विन्यस्य श्रीं हृदयाय नमः | ह्रीं शिरसे स्वाहा | ह्रीं शिखायै वषट् | श्रीं कवचाय हूं | ह्रीं नेत्रत्रया वौषट् | क्लीं अस्त्राय फट् | इति षडङ्ग न्यासं कृत्वा ध्यायेत् || पारिजात वने रम्ये मण्डपे मनि कुट्टिमे | रत्न सिंहासने सौम्ये पद्मे षट्कोण शोभिते || अधस्तात् कल्पवृक्षस्य निसन्नां देवतां स्मरेत् | चापं पाशाम्बुज सर्सि जान्यङ्कुशं पुष्पवानान् || विभ्राणा क्षांकर सरसिजै रत्न मौक्ती त्रिनेत्रां | हेमाब्जाभां कुच भरनतां रत्नमञ्जीर काञ्जीग्रेवयाद्य विलसित तनुं भाव * *? क्तिमाद्यां || चामरादर्शताम्बूल करण्डक स * * * *? | वहन्तां भिः कुचार्ताभि दूतीभिः परिवारितां || करुणामृतवर्षिन्या पश्यन्ती साधकं दृशा | एवं ध्यात्वा मानसैरुपचारैः संपूज्य किशकं(?) *? स्थापनं विधाय पीठं पुरतो निधाय पूजयेत् || तत्र स्थापयित्वा समावाह्य मुद्राः दर्शयित्वा पद्यादिभिः संपूज्य अग्न्यादि कोणेषु पूजयेत् || तदुक्तं || लक्ष्मी हेमप्रभां तन्वीं सतरा द्व?युगा भया || १ || शंखचक्र गदाम्भोज धरं हेम निभं हृदिं || २ || तामृगटङ्का भयाभीष्टधरं स्वर्णनिभं शिवं || ४ || निलोत्पल करां सौम्यां रतिङ्काञ्चन सन्निभां || ५ || धृतपाशाङ्कुशेष्वास पुष्पेषु मरणं स्मरं | तेन लक्ष्मादि स्मरान्ताः षट्कोणेषु पूजयेद् इत्यर्थः || ६ || पूर्ववन्निधि युग्मन्तु यजेदुभय पार्श्वतः | वहिरङ्गानि संपूज्य पूज्याः पत्रेषु मातरः || मातरो ब्रह्माण्याद्या इत्यर्थः लोकेशान् वनिता रूपानर्चयेत् सौम्य विग्रहान् | तेन इन्द्रादि लोकपालान् संपूज्य मूलेन सन्तर्प्य पुष्पादिभिः संपूज्य यथाशक्ति जप्त्वा गुह्याति गुह्येत्यादिना जपं समर्प्य संहारमुद्रया निर्माल्यं गृहीत्वा विसर्जयेदिति तथा इत्थं यः पूजयेद् देवीं नित्यं भक्ति समन्वितः | संप्राप्य कवितां दिव्यां प्राप्यलक्ष्मी मनश्राअं || सौभाग्य मतुलं लब्ध्वा विहरेत् सुचिरं भुवि | अथ पुरश्चरणं ||
SK
भानुलक्षं जपेन् मन्त्रं एनन्तावत् सहस्रकं | जवापुष्पैश्च जुहुयात् तोषयेच्च स्वकं गुरुं || इति संक्षेपः || अथ महिषमर्दिनी मन्त्रः || शारदा तिलके || भान्तं वियेत् स नयनं श्वेतो मर्दिनि ठ द्वयं | अष्टाक्षरी समाख्याता विद्या महिष मर्दिनी || भान्तं मकारः वियत् हकारः नयनं इकारः श्वेतः षकारः द्वयं स्वाहा || ततो ऋष्यादि न्यास कुलचूडामनौ || नारदोस्य ऋषिः प्रोक्तश्च्छन्दो गायत्र्यमीरितं | ८३ब्) देवता महिषघ्नीयं पूर्वबीजं परापरा || एवं प्रातःकृत्यादि पूर्वोक्तं मातृकान्तं विधाय विशेष न्यासं कुर्यात् | तदुक्तं महिष हिंसिके हूं फट् हृदयं परिकीर्तितं | महिष शत्रोर्वि हूं फट् शिरोङ्गं परिकीर्तितं || महिषं भीषय द्वन्दं हूं फट् डन्तः शिखामनुः | महिषं हन युग्मान्ते देवि हूं फट् तनुच्छदं || महिषान्ते सूदिनि हूं फडन्तमन्त्रमीरितं || तथा कुलचूडामनौ || त्रैलोक्य बीजभूजतान्ते सम्बोधन पदन्ततः | सृष्टिसंहारवर्णौ द्वौ विद्या महिष मर्दिनी || अति गुह्या महाविद्या सृति स्थिति विधायिनी | त्रैलोक्य बीजभूतं ह्रीं सम्बोधन पदं महिष मर्दिनि सृष्टिसंहार वर्णौ स्वाहा | तथा न कस्मैचित् प्रयोक्तव्या कथिता सिद्धि नासिनी | अ * * न्त गुरुभक्ताय शुद्धाय यदि कथ्यते || तदाष्ट वर्णं दातव्यं न बीजं नापि साधनं | साधारणी प्राण विद्या हृल्लेखा सिद्धि गोचर || एतत् पूर्व स्थिता देवी गुरुसिद्धि विनासिनी | त्रैलोक्य बीजभूत पदेन ह्रीमिति कथ्यते तदेव व्यक्ती कृतं साधारणी प्राणविद्या हृल्लेखेत्यादि हृल्लेखा ह्रीं | तेनास्य मन्त्रस्य नावद ऋषिर्गायत्री छन्दो महिषमर्दिनी देवता अभिष्टसिद्धौ विनियोग इति स्मृत्वा शिरो वदन हृत्सु विन्यस्य महिष हिंसिक हूं फट् हृदयाय नमः ८४अ)
SK
महिष शत्रोर्वि हूं फट् शिरसे स्वाहा महिषं भीषय भीषय हूं फट् शिखायै वषट् महिषं हन हन हूं फट् कवचाय हूं महिष भूदिनि हूं फट् अस्त्राय नम इति विन्यस्य एताने वाङ्गुष्ठादिषु न्यसेत् | ततो मूलेन व्यापकं विधाय देवीं ध्यायेत् || गारुडापमसन्निभां मणिमौलि कुण्डलमण्डितां नौमि भालविलोचनां महिषोत्तमाङ्गनिषदुषीं | चक्रशंख कृपाणखेटकवानाकार्मुकशूले करां तर्जनीमपि विभ्रतीं निज वाहुभिः शशिशेषरां || इति ध्यात्वा मानसैरुपचारैः संपूज्यविशेषार्घ स्थापनं कृत्वा पीठं पुरतो विधाय तत्रा वाह्य तत् तन्मुद्राः प्रदर्श्य पाद्यादिभिः संपूज्य पूर्वोक्त षडङ्ग मन्त्रेण षडङ्गं पूजयेत् || तदुक्तं || संपूज्याङ्गानि पत्रेषु दुर्गाख्यां वरवर्णिनीं | आर्याञ्चैव तृतीयां च चतुर्थीं कनक प्रभां || पञ्चमीं कृर्तिका संज्ञां षष्ठीमप्य भयप्रदां | कन्यां स्वरूपां प्रयजेन् मन्त्री दीर्घस्वरैः क्रमात् || दीर्घस्वरै आं ईं ऊं ऐं औं अः इत्यादि || तेनाष्ट पत्रेषु आं दुर्गायै नम इत्यादि क्रमेण पूजयेत् | तथा यजेदग्रेष्वायुधानि चक्रशंखानि खेटकान् | वाणं सरासनं शूलं तर्जनीमादिभिः क्रमात् || आदिभिर्दीर्घस्वरैरित्यर्थः | तेन आं चक्राय नमः इत्यादि क्रमेण पूजयेत् | तथा लोकपालास्ततः पूज्यास्तदस्त्राणि ततः परं | ८४ब्) एवं क्रमेण संपूज्य गन्धादिभिश्च पुनः पूजयित्वा मूलेन तर्पयित्वा यथा शक्ति जप्त्वा गुह्याति गुह्येत्यादिना जपं समप्य स्तुत्वा नत्वा दण्डवत् प्रणम्यसंहारमुद्रया निर्माल्यं गृहीत्वा विसर्जयेदिति || जपं *? न्त्रं | तत्सह अन्ति(?)लैः शुभैः | हुत्वा प्रागीतिते पीठे यजेन् महिष मर्दिनीं || इत्यादि विस्तरः || देवि चिन्तापरेणास्य * * * *? मकुलं | स जीवं दोष रहितं कथयस्वममाग्रतः | वेदविघ्नसंदु(?) * * *? नन्तोगणनायकः ||
SK
ऐकारः तेन ॐ ॐ दुंदु * *? नमः | * * * * योजनीयं न सा देवी योजनीया च भोगदा | एतेन अस्य मन्त्रस्यादौदुमिति बीजं त्याक्ता * * * * *? द्यतनं दद्याति * * * बीजपूर्वकमित्यभिधाय वाग्बीजं सृष्टिबीजस्य * *? भिधानामादावयबीजारापः | पूर्वोक्तं(?) ऐं सृष्टिबीजं ह्रीं कामबीजं * * * * *? तन्त्रचूडामनौ || ८५अ) उग्रदुर्गा तु वा प्रोक्ता परा सा सिंहवाहिनी | त्रैलोक्यबीजभूतान्ते सा परामर्दिनी कुलं || वरं वह्नि प्रिया युक्ता दयाननमसायुता | सर्वत्र कुलशास्त्रज्ञ महाशाप प्रदायिनी || तस्मात् सर्व प्रयत्नेन ज्ञातव्ये यं नवाक्षरी | त्रैलोक्य बीजभूतं ह्रीं अस्या अन्ते यदि उग्र दुर्गायाष्टाक्षरी तदा सर्वथैव अदेया इति | तथा पूर्वोक्त क्रमेण प्रातःकृत्यादि मातृकान्तं कर्मसमाप्य ऋष्यादि न्यासं कुर्यात् || तदुक्ते नारदोस्य मुनिः प्रोक्तः गायत्र्यं च्छन्द ईरितं | उग्रदुर्गेति विख्याता विद्या महिषमर्दिनी || तथा च शिरो वदन हृत्सु ऋषिछन्दो देवतादीनि विन्यस्य मूलेन व्यापकं विधाय देवीं ध्यायेत् || घोरां दुर्वादलश्यामां महाभीमां चतुर्भुजां | शंखचक्रधनुर्वाणान् धारयन्तीं महोन्मुखीं || सिंहासन गतां देवीं विद्यैश्वर्य प्रदायिनीं | एवं ध्यात्वा मानसैरुपचारैः संपूज्य विशेषार्घ स्थापनं कृत्वा पीठं पुरतो नियोजयेत् | यथा यन्त्रे वसुदलेऽनुष्टुप् वीते मातृकयान्विते | अष्टार्ण दलसंयुक्ते मध्ये बीज समालिखेत् || मध्ये गर्भं तारमध्ये पूजयेत् परमेश्वरीं | तेन मध्ये बीजद्वय युक्तं दले अष्टक्षर युक्तं यन्त्रमुद्धरेदित्यर्थः | तत्र देवीं मूलेन संस्थाप्य आवाह्य तत् तन्मुद्राः | प्रदर्श्य पाद्यादिभिः पूजयित्वा षडङ्ग मन्त्रेण नमोन्तेन षडङ्गं सम्पूज्य पत्रेषु पूजयेत् || यथा ८५ब्) प्रभा माया जया शूक्ष्मा विशुद्धा नलिनी पुनः | सुप्रभा विजया सर्व सिद्धिदा नवशक्तयः ||
SK
पूज्या इत्यर्थः || तथा स्वरैर्लघु क्लीव हीनैर्बीजैः सिंहासनं जयेत् | तेन आं ईं दुं एं औं अः सिंहासनाय नमः इति सम्पूज्य तत्र देवीं संपूज्य अस्त्राणि पूजयेत् || तदुक्तं || प्रथमा कृत्तिरङ्गाद्यै द्वितीया शक्तिभिः पुनः | अस्त्रावृत्तिस्तृतीयास्याल्लोकपालैश्चतुर्थिका || परावृत्तिस्तदस्त्रानि सम्पूर्णं कथितं तव | एतेन पञ्च विधत्व मायाति अङ्गाद्यैः षडङ्गाद्यैः शक्तिभिः द्वितीया पुनः शक्तिभिरित्यर्थः यथा जया च विजया कीर्तिः प्रीतिः पश्चात् प्रभा पुनः | श्रद्धामेषाधृतिः प्रोक्ता स्वनामाद्याक्षरान्विताः || जंजयायै नम इत्यादि क्रमेण | तथा शंखचक्रगदापद्म पाशाङ्कुश शरान् धनुः | पूजयेदित्यर्थः | तथा इन्द्राद्या लोकपाला चैवज्राद्यायुध दैवतं एतेन पञ्चविधत्व मायाति ततो मूलेन तर्पयित्वा गन्धादिभिः सम्पूज्य यथा शक्ति जप्त्वा गुह्याति गुह्येत्यादिना जपं सपप्यस्तुत्वा नत्वा संहार मुद्रया निर्माल्यं गृहीत्वा विसजयेदिति तथा सर्वं रहस्यं कथितं तवस्नेहान् महेश्वरि | न देया परमा विद्या सर्वत्र विजय प्रदा || वागीशत्व प्रदा देवी महामोक्ष प्रदायिनी | अष्टसिद्धि प्रदा देवी किमन्यैर्वहुजल्पितैः || ८६अ) यस्मै कस्मै न दातव्या न दातव्या कथञ्चन | येन यं दीयते विद्यामदुच्चातने कारिणी || वज्रेन शस्त्रयातेन तस्य जीवं हराम्यहं || अथ पुरश्चरणं || एवं ध्यात्वा जपेल्लक्षं तद्दशांशं हुनेत् ततः | इत्यादि संक्षेपः || अथ नवदुर्गामन्त्रः || शारदा तिलके || उत्तिष्ठ पदमाभाष्य पुरुषि स्यात् पदन्ततः | पितामहः स नेत्रेन्दुः स्वपिषिस्याद् भयञ्च मे || समुपस्थितमुच्चार्य यदि शक्य मनन्तरं | अशक्यम्वा पुनस्तन्मे वदेद् भगवतिन्ततः || शमयाग्नि वधूः सप्त त्रिंशद्वर्णात्मको मनुः |
SK
पितामहः ककारः नेत्र ईकारः बिन्दुरनुस्वारः तेन उत्तिष्ठ पुरुषि किं स्वपिषिभयं मे समुपस्थितं यदि शक्यमशक्यम्वा तन्मे भगवति शमय स्वाहा | ततः प्रातःकृत्यादि मातृकान्तं कर्म समाप्य ऋष्यादि न्यासं कुर्यात् || तदुक्तं || ऋषिरारण्यकछन्दोऽप्यनुष्टुप् छन्दो हृतं | देवता वनदुर्गास्याः सर्वदुर्गविमोचनीं || एवं शिरो वदन हृत्सु ऋषिच्छन्दो देवता विन्यस्य एतेष्वङ्गेषु मन्त्राक्षराणि न्यसेत् || तदुक्तं || पदाष्ट सन्धिषु गुदलिङ्गाधारो दलेषु च | पार्श्व हृत्सु न कण्ठेषु पुनर्वाह्वष्ट सन्धिषु || मुखनाशा कपोलाक्षि कर्ण भ्रुमध्यमूर्द्धसु | मन्त्राक्षराणि विन्यस्येद् देवताभावशुद्धये || तेन उं मन इत्यादि क्रमेण पदादिषु न्यसेत् | ८६ब्) तथा षड्भिश्चतुर्भिरष्टाभिरष्टाभिः षड्भिरिन्द्रियैः | मन्त्रार्णैरङ्गं कृप्तिः स्याज्जाति युक्तैर्यथाक्रमं || तेन मन्त्रस्य षड्भिरक्षरैर्विद्यादि क्रमेण हृदादिषु अङ्गुष्ठादिषु न्यसेत् | ततो मूलेन व्यापकं विधाय ध्यायेत् || सौवर्णाम्बुज मध्यगां त्रिणयनां सौदामिनी सन्निभां चक्रं शंखं वराभयानिदधतीमिन्दोः कलां विभ्रतीं | ग्रैवेयाङ्ग दहारकुण्डल धरामाखण्डलाद्यैस्तुतां ध्यायेद् विन्ध्य निवासिनीं शशिमुखीं पार्श्वस्थ पञ्चाननां || एवं ध्यानानसैरुपचारैः संपूज्यार्घ स्थापनं कृत्वा ततो नवकोण समन्वितं अष्टदल भूराद्यं यन्त्रं पुरतो निधाय पूर्वोक्त रूपां ध्यात्वा यन्त्रे संस्थाप्या वाह्य पाद्यादिभिः पूजयित्वा षडङ्गेनाभ्यर्च्य दलषु पूजयेत् | आर्यादुर्गा च भद्राख्या भद्रकाली ततोऽम्बिका | क्षम्यान्यावदगर्भाख्या क्षमङ्कर्पष्ठ शक्तयः || तेन ॐ आर्यायै नमः इत्यादि क्रमेण पूजयेत् | तन्त्राणि पत्र मध्येषु चक्रंशंखाशिखेटकान् || वाणं को दण्ड शूलादि कपालान्तानि पूजयेत् | ब्राह्माद्याः स्युर्दलाग्रेषु लोकपालास्ततः परं ||
SK
तेन यथोक्त स्थानेष्वतान्यस्त्रानि पूजयेत् | ततो मूलेन तर्पयित्वा जप्त्वा स्तुत्वा नत्वा विसर्जयेत् | सिद्धमन्त्र प्रयोगेषु देवीमित्थं प्रपूजयेत् || इत्यादि विस्तरः || अथ चण्डिकामन्त्रः || अथ चण्डीमनुं वक्ष्ये मङ्गलां मङ्गलालयां | वान्तं वह्नि समारूढं चतुर्थस्वरभूषितं || अनुस्वारेण संयुक्तं मायाबीजेन संपुटं | वान्तं शकारः वह्नी रेफः चतुर्थ ईकारः माया ह्रीं तेन ह्रीं श्रीं ह्रीं इति तथा च प्रातःकृत्यादि मातृकान्तं कर्म समाप्य ऋष्यादि न्यासं कुर्यात् ऋषिः स्याद् दक्षिणामूर्तिरनुष्टुप् देवता शिवः | ऋतुलक्षं जपेन् मन्त्रं तदर्द्धं न्यासमाचरेत् | तदर्द्धेन चरेद्धोमं तदर्द्धेन च तर्पणं || तदर्द्धेन वलिं दत्वा सहस्रार्द्धेन पूजयेत् | यन्त्र इत्यर्थः || षट्कोणे विलिखेत् पद्मं सकलं त्रिगुणैर्युतं | वसुद्वारं धरागेहं बीजाढ्यं यन्त्रमीरितं || त्रिगुणैर्युतं रेखा युतमित्यर्थः वसुद्वारं अष्टद्वारं एवं यन्त्रं पुरतो निधाय ध्यायेत् || यथा सुधासागर मध्यस्थं महद्वीपं सुशोभनं | सतृङ्ग कुसुमोपेतं कल्पवृक्षो यशोभितं || सपताक ध्वजो पेतं शुभ्रचामरराजितं | तन्मध्ये स्वर्णपर्यङ्कं नानारत्न समन्वितं || वारिषूण्डैः स्वर्णकुम्भैः सर्वतः सुसमावृतं | चिन्तयेत् परमां देवीं पूर्णस्वर्ण घटोपरि || पञ्चसिंहासगतां तप्त जाम्बूनद प्रभां |? अटसी पुष्पसंकाशां वालार्क किरणारुणां || वराभयधरां देवीं चन्द्रार्द्धकृतशेषरां | स्मितप्रसन्नवदनां बन्धूकाधरपल्लवां || एवं ध्यात्वा यन्त्रमध्ये देवी मन्तः प्रपूजयेत् | इति ध्यात्वा पाद्यादिभिः संपूज्य जपादिकं विधाय समा(?) अथ महामाया मन्त्रः || वाग्भवं प्रथमं बीजं कामबीजं द्वितीयकं | तृती * * * * * *? पुनर्वाग्भवमुच्यते || लज्जाबीजं ततः पश्चात् पद्माबीजन्ततः परं | वर्मचाग्नि प्रियान्तोत्र महामाया महामनुः || वाग्भवं ऐं कामबीजं क्लीं शक्तिबीजं सौः वाग्भवं ऐं लज्जाबीजं ह्रीं पद्माबीजं श्रीं वर्म हूṁ अग्नि प्रिया स्वाहा ||
SK
तेन ऐं क्लीं सौः ऐं ह्रीं श्रीं हूं स्वाहा | इति तथा च पूर्वोक्त क्रमेण प्रातःकृत्य सन्ध्या मातृकान्तं कर्मसमाप्य मन्त्र न्यासं कुर्यात् || तथा षडङ्ग मन्त्रेण || अंगुष्ठादि करतलान्तस्य न्यसेत् हृदादिषु | यथा ऋषिर्ब्रह्मा समुर्द्दिष्टो गायत्रीच्छन्द ईरितं | देवता च समुद्दिष्टा महामाया सुगोपिता || इति ऋष्यादि न्यासं विधाय मूलेन व्यापकं कृत्वा ध्यायेत् || यथा || ध्यायेद् दिग्वसनां प्रहास्य वदनां कोट्यर्क तेजः प्रभां पद्मस्थां वरदान पङ्कजधरां सव्ये सुताभीष्टदां | आद्यां मुक्तिमभीप्सुभिः परिवृतां कण्ठे च मुण्ड स्रजां स्निग्धा मुल्लसितस्तनीं परशिवां शस्तोर्हरेर्मध्यगां || इति ध्यात्वा मानसैरुपचारैः संपूज्य विशेषार्घ स्थापनं कृत्वा यन्त्रं पुरतो निधाय तत्रावाह्य पाद्यादिभिः संपूज्य यथा शक्ति जपं समर्प्य स्तुत्वा नत्वा संहार मुद्रया निर्माल्यं गृत्वा विसर्जयेदिति संक्षेपः || ८८अ) तथा मायाबीजं समुद्धृत्य महामाया पदन्ततः | ङेन्तमग्नि प्रियान्तोयं महामाया महामनुः || मायाबीजं ह्रीं अग्निजाया स्वाहा || ध्यानं || सिन्दूरारुण विग्रहां त्रिनयणां मानिक्य मौलिस्फुरहारा नायक शेषरां स्मितमुखीमापीन वक्षोरुहां | पाणिभ्यामनिपूर्ण रत्न च सकां रक्तोत्पलां विभ्रतीं सौम्यां रत्न घटस्थ सव्य चरणां ध्यायेत् परामम्विकां || तत्वलक्षं जपेन्मन्त्री तद्दशांशं हुनेत् ततः | पूर्वोक्तं पूजयेत् पीठं पूजां पूर्व वदाचरेत् || तथा हान्तान्त पूर्वो मान्तश्च नान्तोणान्तस्तथैव च | कैकादशकादि षष्ठखान्तो विष्णुपुरःसरः || एभिरष्टाक्षरैर्मन्त्रं शोन पद्मसमं लिखेत् | ॐकारं पुरतः कृत्वा जप्यः स्यान्नारदो मुनिः || च्छन्दोनुष्टुप् विज्ञेयं महामाया च देवता |
SK
हान्तः सकारः स एवान्तः षकारः तत्पूर्वं शकारः मान्तो यकारः मान्तः पकारः णान्तस्तकारः कैकादशष्टकारः कादि षष्ठश्चकारः खान्तः ककारः विष्णुं रकारः तेन वैपरीत्येन अक च ट त प य श इति तत्रादौ प्रणवं दत्वा जप्यमित्यर्थः || अथ वैपरीत्येनोद्धारः कथं लभ्यते इति चेद् विष्णुपुरःसर इत्यतो लभ्यते अन्यंथा पुरःसर त्वमेव न स्यात् | ८८ब्) अष्टलक्षं जपेन्मन्त्रं प्रथमाञ्चैव साधकः || अथ ध्यानं || तत्रेक्षु सामरान्तस्थं स्वर्णद्वीपं विचिन्तयेत् | तन्मध्ये * *? पर्यङ्क रत्नमण्डपसंस्थितं || आकाशगंङ्गातोयाद्यैः सदैवा सिञ्चितं शुभं | तत् पर्यङ्के रक्त पद्मं प्रसस्तं सर्वदा शिवं || चिन्तयेत् स्वर्णमालाङ्कं सप्तपाताल नालकं(?) | आब्रह्म भुवनस्पर्शिं स्वर्णवर्णञ्च कर्णिकं || तत्र स्थितां महामायां *? येदव्यग्रमा * * *? | शान पद्म प्रतीकाशां युक्तमूर्द्धजलान्विनीं(?) || चलत्काञ्चन सम्वद्ध कुण्डलोज्वलमालिनीं | सुवर्णरत्न संवद्ध किरीटवरधारिणीं || | सन्ध्या ताम्र समप्रख्य कपाला लोललोचनां || विपङ्क?दाडिमी बीजदन्तां वज्रगुणोज्वलां | कम्बुग्रीवां विशालाक्षीं सूर्यकोटि समप्रभां | चतुर्भुजां विवसनां पीनोन्नत पयोधरां || दक्षि * * * * * *? परेण सि * * * विभ्रतीं वामहस्ताभ्यां अभीति वरधारिणीं || निम्ननाभिं क्रमां यत्तु क्षीण मध्यां मनोहरां | आल * *? सवामोरुं गूढ * * * * *? कां || वर्द्धपर्यङ्कसंकल्प निविडासनराजितां | ग्रा?त्रेण रत्नस्तम्भञ्च नम्यगालम्व्य संस्थितां || किमिच्छसीति वचनं व्याहरन्तीं मुहुर्मुहुः | ८९अ) पञ्चाननं पुरःसस्थं निरीक्षन्तीं स्ववाहनं | मुक्तावली स्वर्ण रत्न हारकं कणकादिभिः || सर्व्वैरलङ्कालगणैरुल्वनां संमिताननां | सूर्यकोटि प्रतीकाशां सर्वलक्षणसंयुतां || तादृशीमम्बिकां ध्यात्वा सैवाहमिति चिन्तयन् | अंगन्यास करन्यासौ ततः कुर्यात् क्रमेण तु ||
SK
एभिर्मन्त्रैः स्वरैः संहैरामीसूमैः क्रमान्वितैः | औमश्चेते स प्रणवा रक्तवर्णामनोहराः || अङ्गुष्ठादि कनिष्ठान्त मन्त्रसंवेष्टनं फटा | प्रान्तेन कुर्याद् विन्यासं ततः करतल द्वये || तेन ॐ आं फट् हृदयाय नम इत्यङ्गुष्ठयोः इति क्रमेण न्यसेत् | हटा प्रान्तेन अन्तस्थ फट्कारेणेत्यर्थः | तथा हृट् शिरः सिखा कवच नेत्रेषु क्रमतो न्यसेत् | तानेव वर्णान् हृदादिष्वपि न्यसेत् तथा ततस्तु मूलमन्त्रस्य चक्रे पृष्ठे तथोदरे | वाट्कोर्गुह्ये पदयोश्च जंघयोर्जघने तथा | विन्यसेदक्षरान्यष्टौ ॐकारञ्च तथा स्मरन् || चक्रे मूलाधारे मूलमन्त्रस्य प्रत्येकमक्षरं प्रणवाद्यं कृत्वा चक्रादिषु न्यसेत् | तथा पञ्चरूपान्तु कामाख्यां पूजयेत् परमेश्वरीं | स कल्पकोटि लक्षाणि मम लोके च मानवः || स्थित्वा देवी प्रसादेन परं निर्वाण माप्नुयात् | अन्यत् सर्वं न्यत्सर्वं पूर्ववदिति संक्षेपः || अथ वाराही मन्त्रः || ८९ब्) तथा वाराही च तथा ङेन्तं मायादिष्ट द्वयावधि | वाराहीति ङेन्तं चतुर्थ्यन्तमित्यर्थः || माया भुवनेश्वरी ह्रीं ठ द्वयं स्वाहा || तेन ह्रीं वाराह्यैर्स्वहा इति मन्त्रः | तथा च प्रातःकृत्यादि मातृकान्तं समाप्य ऋष्यादि न्यासं कुर्यात् तथा ऋषिर्णोरायणः प्रोक्तः स्त्रिष्टुप् च्छन्दश्च देवता वाराही कथिता चात्र सर्वार्थे विनियोजयेत् | ततो मूलेन व्यापकं विधाय यन्त्रं पुरतो निधाय ध्यायेत् || तदुक्तं || त्रिकोणं चक्रमालिख्य अष्टपत्रमनन्तरं | धरणी सदनं पश्चात् स वज्रं द्वार युक् क्रमात् || ध्यायेत् तप्त सुवर्णाभां नानालङ्कारभूषितां | पाशाङ्कुशौ दक्षिणेन सृष्टि स्थिरं वरमेव च || दधतीं रत्नमुकुटां त्रैलोक्यमिति रापहां || इति ध्यात्वा मानसैरुपचारैः संपूज्यार्घ स्थापनं कृत्वा चक्रे समावाह्य तत् तन्मुद्राः प्रदर्श्य पाद्यादिभिः सम्पूज्य मूलेन तर्पणं कृत्वा जपं विधाय समर्प्यस्तु विसर्जयेदिति | तथा त्रितत्वं तारयोर्मध्ये वाराहीत्य परा भवेत् |
SK
त्रितत्वं हूं तारं ॐ तेन ॐ हूं ॐ ध्यातादिकं पूर्ववत् || अथ मा?लामुखी मन्त्रः || रुद्रजामले || वह्नि हीनेन्द्र युक् माया वगलामुखि सर्वयुक् | दुष्टानां वाचमित्युक्ता मुखं स्तम्भय कीर्तयेत् || जिह्वां कीलये तद्बुद्धिं विनाशय पदं वदेत् | पुनर्बीजं ततस्तारं वह्निजयावधिर्भवेत् || तारादिका चतुस्त्रिंशदक्षरी वगलामुखी | ९०अ) माया ह्रीं किम् भूता वह्नि हीना इन्द्रयुक् लकार युक्ता तेन ह्लींतार ॐ वह्निजाया स्वाहा तेन ॐ ह्लीं ॐ ह्लीं वगलामुखि सर्वदुष्टानां वाचं मुखं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीं ॐ स्वाहा || तथा च प्रातःकृत्यादि मातृकान्तं विधाय ऋष्यादि न्यासं कुर्यादस्य मन्त्रस्य नारद ऋषिः पंक्तिच्छन्दः श्रीवगलामुखी देवता ह्लीं बीजं स्वाहा शक्तिः समस्त शत्रोर्मुखस्तम्भन विध्यर्थे जपे विनियोगः इति स्मृत्वा शिरो वदन हृत्सु विन्यस्य षड्दीर्घ भाजावीजेन षडङ्गन्यासं विधाय ध्यायेत् || मध्ये सुधाब्धि मनिमण्डपमध्य वेद्यां सिंहासनोपरि गतां परिपीतवर्णां | पीताम्बरा भरणमाल्यविभूषिताङ्गीं देवीन्नमामि धृतकुण्डल वैरि जिह्वां || इति ध्यात्वा मानसैरुपचारैः संपूज्यार्घ स्थापनं कुर्यात् ततो यन्त्र समावाह्य पाद्यादिभिः संपूज्य जप्त्वा जपं समर्प्य विसर्जयेदिति संक्षेपः || श्रीरमारमणदेवशर्मणा निर्मिते निगमसारनिर्णये | इत्यवान्तरसपर्ययान्वितः पूर्व एष पटलस्तृतीयकः || इदानीमवान्तर विद्यानिरूपनानन्तरं सिद्धविद्या निरूप्यते | तत्र प्रथमं अल्पश्रमसाध्या निरूपणीया इत्यादौ || तत्र मातङ्गीमन्त्रः || ९०ब्) मन्त्रं शृणु महादेवि यथावत् कथयामि ते | दद्यादुच्छिष्ट शव्दन्तु(?) तथाचाण्डालिनीति च || सुमुखीति ततो देवीं कीर्तये तदनन्तरं | महापिशाचिनीन्तस्मान् मायाबीजमनन्तरं || बिन्दुनादसमायुक्तं ठकार त्रितयं ततः | सविसर्ग महादेवि सर्वसिद्धि फलप्रदं || माया ह्रीं तेन उच्छिष्ट चाण्डालिनी सुमुखी देवी महापिशाचिनी ह्रीं ठंः ठंः ठंः || तथा
SK
अथवोच्छिष्ट चाण्डालि मातङ्गि पदमीरयेत् | ततः सर्वव?ञ्चान्त *? रि हृद्वह्नि वल्लभा || एकोण विंशता वर्णैः सर्वाभीष्ट करो भवेत् | हृन्नमः वह्नि वल्लभा स्वाहा तेनोच्छिष्ट * *? लि मातङ्गि सर्ववशङ्करि नमः स्वाहा || तथा अथातः संप्रवक्ष्यामि देवीङ्गुप्त तमां प्रिये | उच्छिष्टपूर्विकां देवीं मातङ्गीं सर्वसिद्धिदां || सर्वपच्चा?रिणी * *? सर्वदोषविवर्जितां | ययाविज्ञातया देव्याक्षयमिच्छन्ति चापदः || स्थावरं जङ्गमं चैव कृन्त्रिमं चाङ्गजन्तथा | इमां विद्यां जपेशानि परे *? ङ्ग समाश्रिताः || इयं विद्या महाविद्या सर्वपापापहारिणी | स्वर्गदा मोक्षदा चैव र * *? भाग्यदा तथा || सकृदुच्चारिता विद्या ब्रह्महत्या पहारिणी | सदोच्छिष्टमु *? भूत्वा स्मरेद् देवीङ्कदाचन || तदा चान्ता भवेद् देवि विनैवा वसने(?) कृते | दुर्भगा सुभगा * *? दुःखिता सुखिता भवेत् || वन्ध्यापि लभते पुत्रं शतहायनजीवितं | विधानञ्चात्र वक्ष्यामि शृणु देवि वरानने || ९१अ) भोजनानन्तरन्देवि विनैवा च मने कृते | वलिन्दत्वा प्रथमतो मूलमन्त्रेण साधकः || ततो मन्त्रं जपेद्ध्यात्वा देवीन्तामिष्ट सिद्धयेत् | न तिथिर्णे च नक्षत्रं न चाङ्गं न्यास एव च || नारि दोषो न विद्वेषौ नाशौचं नियमोपि न | यस्य तिष्ठति मन्त्रोयं न स विघ्नैरवाप्यते || तथा च प्रातःकृत्यादि मातृकान्तं कर्म कृत्वा मूलेन व्यापकं विधाय ध्यायेत् || शवोपरि समासीनां रक्ताम्वर परिछदां | रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषितां || षोडशाब्दाञ्च युवतीं पीनोन्नत पयोधरां | कपालकर्तृका हस्तां परं ज्योतिः स्वरूपिणी || वामदक्षिण योगेन ध्यायेत् तां मन्त्रवित्तमः | एवं ध्यात्वा मानसैरुचारैः संपूज्यार्घं संस्थाप्य यन्त्र स्थापयित्वा समावाह्या वाहनादि मुद्रा प्रदर्श्य पाद्यादिभिः संपूज्य मूलेन तर्पयित्वा जपं विधाय समर्प्य स्तुत्वा नत्वा विसर्जयेदिति | तथा उच्छिष्टेन वलिन्दत्वा जपेत् तङ्गतमानसः |
SK
उच्छिष्टे नैव कर्तव्यो जपो स्याः सिद्धिमिच्छता उच्छिष्ट जपमानस्य जायन्ते सर्वसिद्धयः | अपरञ्च प्रवक्ष्यामि शृणु देवि फलप्रदं | होमञ्च तर्पणञ्चैव सर्वकामार्थ सिद्धये || देवीं ध्यात्वा चरेद्धोमं दधिसिर्द्धार्थ तण्डुलैः | सहस्र मात्रहोमेन राजानं वशमानयेत् || मार्जारस्य तु मांशेन देव्याहोमं समाचरेत् | ९१ब्) संप्राप्तोति परां विद्यां शस्त्रशास्त्र वशीकृतां | बिल्वपत्रैश्च समध्वक्तैर्मसमेकं निरन्तरं || वन्ध्यापि * *? ते पुत्रं चिरजीविनमुत्तमं | प्रातरुत्थाय यः कश्चिद्धोमं कुकुर्याद् दिन दिन || जपापुष्पेन साज्येन शतमन्त्रोत्तरं शिवे || इदानीमवान्तर विद्या चिद्रूपमानन्तरं सिद्धि विद्या निरूप्यते || तत्र प्रथममल्प श्रमसाध्यानिरूपणीया इत्यादौ || मन्त्रं शृणु महादेवि यथावत् कथयामि ते | दद्यादुच्छिष्टशब्दन्तु तथा चाण्डालिनीति च || सुमुखीति ततो देवीं * * *? तदन * * | बिन्दुनादसमायुक्तं ठकार त्रितयं ततः | स विसर्ग महादेवि सर्वसिद्धि फलप्रदं || माया ह्रीं तेन उच्छिष्ट चाण्डालिनी सुमुखी देवी महापिशाचिनी ह्रीं ठः ठः ठः || तथा || अथ वा च्छिष्ट चाण्डालि मातङ्गि पदमीरयेत् | ततः सर्ववशञ्चान्तक विकृद्वह्नि वल्लभा || एकोन विंशता वर्णैः सर्वाभीष्टकरो भवेत् | हृन्नमः | वह्नि वल्लभा स्वाहा || तेनाच्छिष्ट चाण्डालि मातङ्गि सर्ववशङ्करि नमः स्वाहा || तथा | अथातः संप्रवक्ष्यामि देवीङ्गुप्ततमां प्रिये | उच्छिष्ट पूर्विकान्देवीं मातङ्गीं सर्वसिद्धिदां || सर्वापद्वारिणीन्देवी सर्वदोष विवर्जितां | यया विज्ञातया देव्या क्षयमिच्छन्ति चापदः || ९२अ) स्थावरं जङ्ग * * * वकृत्तिमं चाङ्गजन्तथा | इमां विद्यां जपेशानि परताङ्ग समाश्रिताः || इयं विद्या महाविद्या सर्वपापापहारिणी | स्वर्गदा मोक्षदा चैव राज्यसौभाग्यदा तदा || सकृदुच्चरिता विद्या ब्रह्महत्या पहारिणी | सदाच्छिष्ट मुखो भूत्वा स्मरे देवीङ्कदाचन ||
SK
तदा चान्तो भवेद् देवि विनैवा चमने कृते | दुर्भगा सुभगानूनं दुःखिता सुखिता भवेत् || वन्ध्यापि लभते पुत्रं शतहायन जीवितं | विधानञ्चात्र वक्ष्यामि शृणु देवि वरानने || भोजनानन्तरन्देवि विनैवा चमने कृते | वलिन्दत्वा प्रथमतो मूलमन्त्रेण साधकः || ततो मन्त्रं जपेद्ध्यात्वा देवीन्तामिष्टसिद्धये | न तिथिर्न च नक्षत्रं न चाङ्गन्यास एव च || ना विदेशो न विद्वेषो नाशौचं नियमोपि न | यस्य तिष्ठति मन्त्रोयं न स विघ्नैरवाप्यते || तथा च प्रातःकृत्यादि मातृकान्तं कर्म कृत्वा मूलेन व्यापकं विधाय ध्यायेत् || शवोपरिसमासीनां रक्ताम्बर परिच्छदां | रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषितां || षोडशाब्दाञ्च युवतीं पीनोन्नत पयोधरां | कपाल कर्तृका हस्तां परं ज्योतिः स्वरूपिणी || वामदक्षिण योगेन ध्यायेत् तां मन्त्रवित्तमः | एवं मानसैरुपचारैः सम्पूज्यार्घं संस्थाप्य यन्त्रे ९२ब्) स्थापयित्वा समावाह्या वाहनादि मुद्रां प्रदर्श्य पाद्यादिभिः संपूज्य मूलेन तपयित्वा जपं विधाय समर्प्यस्तु स्वाविसर्जयेदिति || तथोच्छिष्टेन वलिं दत्वा जपेत् तद्गत मानसः | उच्छिष्टे नैव कर्तव्यो जपास्याः सिद्धिमिच्छताः || उच्छिष्ट जपमानस्य जायन्ते सर्वसिद्धयः | अपरञ्च प्रवक्ष्यामि शृणु देवि फलप्रदं || होमञ्च तर्पणं चैव सर्वकामार्थसिद्धये | देवीन्ध्यात्वा चरेद्धोमं दधिसिद्धार्थ तण्डुलैः || सहस्रमात्र होमेन राजानं वशमानयेत् | मार्जारस्य तु मांसेन देव्या होमं समाचरेत् || संप्राप्नोति परां विद्यां शस्त्रशास्त्र वशीकृतां | विल्वपत्रैश्च मध्वक्तैर्मासमेकं निरन्तरं || वन्ध्यापि लभते पुत्रं चिरजीवि न मुत्तमं | प्रातरुत्थाय * * * * द्धोमं कुर्याद् दिने दिने || जवापुष्पेण योज्येन शतमष्टोत्तरं शिवे | उज्जटे वा श्मशाने वा शून्यागारे चतुःपथे || वलि प्रदानतो देवी प्रत्यत्यक्षा भवति ध्रुवं | उच्छिष्ट भूषणं कृत्वा सपवित्रो भवेद्ध्रुवं ||
SK
यद्यपि पुरश्चरणं न लिखितं तथापि || अष्टसहस्राणि जापः || तदुक्तं || येषां जपेच्च होमे च संख्यानोक्ता मणीषिभिः | तेषामष्टसहस्राणि संख्यास्याज्जप होमयोः || इत्यभिधानादिति संक्षेपः || अथ च्छिन्ना मन्त्राः || भैरवतन्त्रे || लक्ष्मीर्लज्जा तथा माया मात्रां द्वादशिकी मथ | ९३अ) वज्रवैरोचनीय द्वे माये फट् स्वाहया युते || लक्ष्मीः श्रीं | लज्जा ह्रीṁ | माया हूṁ | द्वादशकी ऐṁ || तथा च || श्रीṁ ह्रीṁ हूṁ ऐṁ वज्रवैरोचनीये हूṁ हूṁ फट् स्वाहा || इति मन्त्रः || तथा || लक्ष्मी बीजं पदद्यास्यान्तस्य श्रीः सर्वमुखी | लज्जाबीजेन आद्येन वश्यतां याति योषितः || माया बीजेन चाद्येन महापातक नाशनं | मात्रा द्वादशकीमाद्येन स्यान् महामोक्ष प्रदायिनी || तेन पूर्वोक्त मन्त्रादौ || एतद् बीजान्यतमदानेन मन्त्रविशेषतो भवति || तथा || अनादि बीजं मन्त्रस्य कीर्तयेत् मन्त्रवित्तमः | वज्रवैरोचनीये स्यान् मायाबीजे ततः परं || फट् स्वाहया समायुक्तं मन्त्रं मन्त्र महोरगं | सर्वसिद्धि प्रदं पुण्यं भुक्तिमुक्ति सुखप्रदं || अनादि बीजं ॐ वज्रवैरोचनीये हूṁ हूṁ फट स्वाहा इति || तथा || शक्ति त्रितनु वाग्बीजतारमन्त्रात् समुद्धरेत् | वज्र वैरोचनीत्यन्ते भगवान् मारुतो भवेत् || कूर्चमम्त्रं द्विठान्तो सौ त्रिशक्तिः समुदीरितः | शक्तिबीजं त्रितनुं शक्ति ह्रीṁ | त्रितनुं हूṁ | वाक् ऐṁ | तारं ॐ | मारुतः पकारः | भग एकारः | अस्त्रं फट् | द्विठः स्वाहा || तेन ह्रीṁ ह्रूṁ ऐṁ ॐ वज्रवैरोचनीये हूṁ फट् स्वाहा || इति पञ्चदशाक्षरः || तंत्रान्तरे तथा || रमाकूर्चन्तथा लज्जा वाग्भवं वज्र वै पदं | रोचनीये परा द्वन्द्व मम्त्राग्नि वल्लभा ततः || ९३ब्) इयं सा षोडशी प्रोक्ता त्रिशक्तिरभिधीयते | रमा श्रीṁ | कूर्चं हूṁ | लज्जा ह्रीṁ | वाग्भवं ऐṁ | पराद्वन्द्वं ह्रीṁ ह्रीṁ | अस्त्रं फट् | अग्निवल्लभा स्वाहा || तेन श्रीṁ हूṁ ह्रीṁ ऐṁ वज्रवैरोचनीये ह्रीṁ ह्रीṁ अस्त्रं फट् स्वाहा(?) तथा ||
SK
अथातः संप्रवक्ष्यामि देव्याः संक्षेपतो विधिं | तथा च || प्रातःकृत्यादि मातृकान्तं कर्मविधाय पुष्पादिव्या संकुर्यात् || तदुक्तं || भैरवोऽस्य ऋषि * * *? श्छन्दः संम्राट् वरानने | देवताच्छिन्नमस्तास्या बीजं माया द्वयं भवेत् | इति विन्यस्य मूलेन व्यापकं कृत्वा पुरतो यन्त्रं निधापयेत् || तदुक्तं || अथान्तर्यजनं वक्ष्ये यथावद वधारय || वामेनानिलमाकृष्य किञ्चदाकुञ्चयेद्ध्रुवं | रेचयेद् भानुमार्गेण जिह्वायां तालु * *? चरेत् || शक्त्ं शिव पदे योज्य किंचिदा कुञ्चिते क्षणं | अन्तर्याग विधिं कृत्वा वहिर्यजनमाचरेत् || तथा || उच्चरेत् पूर्वमारं बिन्दुलाञ्छित मस्तकं | खड्ग चक्र(?) दयायति स्वाहा युक्ष कनीयसीं || ईकारं च ततो देवि चन्द्रकोटि समप्रभं | सुखड्गाय ततो वाच्यं शिरसे तदनन्तरं || स्वाहायुक्तं ततो वाच्यं पवित्राङ्गुलि संयुतं | ऊकारं च ततो देवि विन्दुलाञ्छित मस्तकं || श्रीवज्राय ततो युक्तं शिखायै च ततः परं | स्वाहान्तं मध्यमायां तु विन्यसेत् तदनन्तरं || ९४अ) मात्रां द्वादशिकान् देवि विन्यसेत् तदनंतरं | स्वाहान्तं विन्यसेन् मन्त्रं तर्जन्यां तदनन्तरं || अकारं च ततो देवि बिन्दुलाञ्च्छित मस्तकं | नेत्रत्रयाय संयुक्तमङ्गुष्ठे करयोर्द्वयोः || अकारं च विसर्गान्तं सुरक्षयायसंयुतं | असुरक्षयाय संयुक्त मम्त्रायेति ततः परः || फडक्षर समायुक्तं विन्यसेत् करयोर्द्वयोः | हृदादिषु च विन्यस्य मूलेन व्यापकं भवेत् || तेन आṁ खड्गाय हृदयाय स्वाहा || इति कनिष्ठयोरित्यादि क्रमेण न्यसेत् || तथा || अथास्या मण्डलं वक्ष्ये यथावदवधारय | शिवं कुर्याद् दलं पूर्वमाग्नेयं रक्तवर्णकं || याम्ये कृष्णमतः पीतं शुक्लरक्तं ततोधिकं | ततः पीतं प्रकुर्वीत मण्डलं चण्डरोविषः || रजः सत्य तमोरेखा रक्तशुक्लासिताः क्रमात् | माया युग्मं तथान्यस्य फडक्षर समंवितं || वाह्यान्तरस्य चक्रस्य कुर्यात् त्रिद्वारसंयुतं | पूर्वं रक्तं ततः पीतं शुक्लं पीतं तथाक्रमं ||
SK
चतुर्द्वारसमायुक्तं क्षेत्रपालैरधिष्ठितं | एतेन रजःसत्व तमोरेखेत्यनेन त्रिकोणं भवति || दलादि प्रमाणं तु शितं कुर्याद् दलं पूर्वमित्यादौ | आवरण पूजायाञ्च ज्ञेयं | तथा || पूर्वद्वारे करालञ्च विकरालं च दक्षिणे | पश्चिमे चाति कालं च महाकालं तथोन्तरे || चतुर्थ्यां च नमोन्तेन पूजामेषां समाचरेत् | ९४ब्) तेन कलाय नम इत्यादि क्रमेण पूजयेत् || तथा || आधारशक्तिं कूर्मञ्च नागराजमतः परं | पद्मनालं च पद्मञ्च पूजयेन् मन्त्र विन्नरः || मण्डलञ्चण्डरस्मिश्च रजः सत्वं तमस्तथा | रतिकामौ च संपूज्य शक्तिपूजां समाचरेत् || तेन आधारशक्तये नम इत्यादि क्रमेण पूजयेत् || विशेष्य * *? प्रणवादि नमोन्ते एष मन्त्रः | ततो देवीन्ध्यायेत् || पुण्डरीकं ततो ध्यायेच्छुद्ध विकसितंशितं | तत्पद्मकोष मध्ये च मण्डलञ्चण्डरोचिषः || जवाकुसुमसंकाशं नवबन्धूकसन्निभं | रजःसत्व तमोरेखा योनिमण्डलसन्निभं || मध्ये चैव सदा देवीं सूर्यकोटि समप्रभां | ताञ्च देवीं करवामे धारयन्तीं स्वमस्तकं || प्रसारित मुखं भीमं लेलिहानोग्र जिह्विकां | प्रपिवद्रौधिनीन्धारां निजकण्डसमुन्नतां || विकीर्णकेशनिस्वयां नानाभूषणभूषितां | दिगम्बरां महाघोरां प्रत्यालीढ पदास्थितां || रतिकामोपरिस्था तां के विद्ध्यायन्ति मन्त्रिणः | तथा || विपरीतरतस्थं च ध्यायेद्रति मवाभवं | वर्णिनी डाकिनी युक्तां वामदक्षिणपार्श्वयोः || वामके वर्णिनीं ध्यायेड्डाकिनी दक्षिणे तथा | वर्णिनी लोहितां सौम्यां मुक्तकेशीन्दिगम्वरां || कपालकर्तिका हस्तां वामदक्षिणयोगतः | देवी गलोच्छलद्रक्त धारं पानं प्र * *? तीं || ९५अ) अस्थिमालां धरां देवीं नागयज्ञोपवीतिनीं | डाकिनी दक्षपार्श्वे तु कल्पान्त ज्वलनो पमां || विद्युच्छताभ नयनां दन्तपंक्ति वलाकिनीं | दंष्ट्राकरालवदनां पीनोन्नत पयोधरां || महादेवीं महाघोरां मुक्तकेशीन्दिगम्वरां | लेलिहान महाजिह्वां मुण्डमालाविभूषणां ||
SK
कपालकर्तृका हस्तां वामदक्षिणयोगतः | देवी गलोच्छलद्रक्त धारापानपरायणां || करस्थेन कपालेन भीषणेन तु भीषणां | आभ्यां निषेवितां ध्यायेद् देवीं साधकसत्तमः || तथा च || अपरं च प्रवक्ष्यामि शृणु देवि यथाक्रमं | स्वनाभौ नीरजं शुभ्रं भानुमण्डलमण्डितं || योनिवक्त्र समायुक्तं गुणत्रयसमन्वितं | तेजमध्ये महादेवीं ध्यायेत् तामधि दैवतां || प्रदीप्तकलिकाकारा मतिबीमां व्यवस्थितां | करकच्छयि युक्तां च रक्तपद्मासनस्थितां || योगनिद्रासमायुक्तां हृदय स्थित लोचनां | इतीदं निष्कलं ध्यानं तथा चाति कलं स्थितं || इति ध्यात्वा मानसैरुपचारैः संपूज्यार्घ स्थापनं विधाय देवीं स्वहृदयादानीय दक्षिणनाशापुटेन यन्त्रे संस्थाप्य आवाहयेदनेन यथा || सर्वसिद्धि प्रदे पूर्वमुर्च्चरेत् साधकोत्तमः | वर्णिनीये ततो वाच्यं सर्वसिद्धि प्रदे ततः || डाकिनीये ततो वाच्यं देवी नाम ततः परं | एह्येतीति ततो वाच्यमिहति तदनन्तरं || ९५ब्) तिष्ठ तिष्ठेति वाच्यञ्च मायायुग्मन्ततः परं | षडक्षरसमायुक्तं स्वाहेति तदनन्तरं || इत्यावाहनमुद्दिष्टं स्थापनेन समन्वितं | माया हूं देवी नामसम्बोधनं | तेन सर्वसिद्धि प्रदे वर्णिनीये सर्वसिद्धि प्रदे डाकिनीये च्छिन्नमस्ते एह्येहि तिष्ठ तिष्थ हूṁ हूṁ फट् स्वाहा || इति मन्त्रेणावाह्या वाहनादि मुद्राः प्रदर्श्य योनि मुद्रादिकं च दर्शयित्वा मूलेन पाद्यार्घाचमनीयादि यथा सन्निवेशं निवेद्यमांसभक्त वलिं दद्यात् || वलि मन्त्रस्तु उच्चरेत् || प्रणवं पूर्व * * * सर्वसिद्धि प्रदान्विते | वर्णिनीये ततो वाच्यं सर्वसिद्धि प्रदे ततः || डाकिनीये ततो वाच्यं देवीनाम ततः परं | एह्येहीति ततो वाच्यमिमं वलि मतः परं || गृह्न गृह्न ततः प्रोक्ता मम सिद्धिन्ततः परं | देहि देहीति माये च ततः फट् स्वाहा हस्त युते || वलिमन्त्रः समाख्यातः पूजितोयं सुरेश्वरि |
SK
तेन ॐ सर्वसिद्धि प्रदे वर्णिनीये सर्वसिद्धि प्रदे डाकिनीये च्छिन्नमस्ते एह्येहि इमं वलिं गृह्न गृह्न मम सिद्धि देहि हूṁ हूṁ फट् स्वाहा || इति वलि मन्त्रः || इत्यनेन वलिं दत्वा मूलेन त्रिः सन्तर्प्य षडङ्गं पूज्यं च कृत्वा दलेषु पूजयेत् || भैरवी चम पूर्वां * भैरवीन्तदनन्तरं || ९६अ) इन्द्राक्षीमसितां देवीं ततः संहारिणीं क्रमात् | पूर्वादिके दले पूज्याः शक्तयः क्रमयोगतः || तेन ॐ एकानंगाभिधायैनेन इत्यादि क्रमेण पूजयेत् | मूलेन यथाविभवं पूजयित्वा गायत्रीं जप्त्वा मूलं यथाशक्ति जप्त्वा जपं समर्प्य स्तुत्वा नत्वा संहारे मुद्रया निर्माल्य उत्तरतिशिनिःक्षिप्यास्त्र मन्त्रेण ततश्चण्डरश्मौ निवेशयेत् || तत्र मन्त्रः || उत्तरे शिखखे जाते भूम्यां पर्वत वासिनि | ब्रह्मणा समनुज्ञाते गच्छ देवि यथेच्छया || गायत्री यथा || ॐ वैरोचनीये विद्महे च्छिन्नस्तायै धीमहि तन्नो देवि प्रचोदयात् | इति संक्षेपः || तथा || अथ किं वहुनोक्तेन ब्रह्महत्यादिकं च यत् | तज्ज्वालयति मन्त्रोयं लक्षजापान्न संशयः || अगम्या गमनं चैव तथा भक्षस्य भक्षणं | सकृदुच्चतितो मन्त्रो दहत्यग्निरिन्धनं || अर्चितव्या सदा रात्रौ माषमांससुरादिभिः | एष मन्त्रः सदा गोप्यो न प्रकाश्यः कदाचन || अनास्था विघ्नमत्यन्त अश्रद्धा जप कर्मणि | आलस्यं भीरुता शक्तिः मन्त्रहानिर्न संशय || इति नारिदोषो न विद्वेषो नाशौ च नियमोपि न | सिद्धमन्त्र तया नात्र पूर्वसे वा परिश्रमः || जाग्रच्छया न उत्तिष्ठन् भुंजानो मैथुनोद्यतः | सदाकालं जपेन् मन्त्रमिष्टसिद्धि प्रदायकं || रणे राज कुले * ते संग्रामे रिपुसंकटे | यः सदा जपते मन्त्रं मारस्तस्य न विद्यते || लिखित्वा यः करे मन्त्रं मुष्टिवद्धं विधीयते | स्तम्भयेत्याशु सर्वाणि यावन्मुष्टिर्विमुञ्चति || लिखित्वा स्वकरे मन्त्रं मातुरे संस्पृशेन्नरः | विमुञ्चति दृढाद्रोगी दीर्घायुश्च विन्दति ||
SK
शुक्लेण ध्यानमात्रेण मृतमुत्थापयेन्नरं | महोरगशतैर्दष्टं मृतमुत्थपयेद्ध्रुवं || रक्तेन वश्य मायाति सर्वमाकृष्यते जगत् | पीतेन स्तम्भयेत् सर्व लोकवाजि गजादिकं(?) || कृष्णेन(?) ध्यान मात्रेण रिपुनुच्चाटयेन्नरः | मारयेद प्रयत्नेन कृष्ण ध्यानं न संशयः || तर्पणं च प्रकुर्वंति पयसा पायसेन वा | आप्येन मधुना वापि सुरया मन्त्रसाधकः || ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरस्मयथाक्रमं | तर्पणस्य विधानेन हठात् सिद्धिः प्रवर्तते || अथ पुरश्चरणं || तथा || शृणु देवि प्रवक्ष्यामि वह्निस्थापनसङ्गतिं | जायन्ते सिद्धयो येन साधकस्य तथेप्सिताः || होमकर्म विधातव्यं कामना मन्त्रविच्चरेत् | ततो जपं प्रकुर्वीत जायन्ते येन सिद्धयः || लक्षं जप्त्वास्य मन्त्रस्य लभेत् सिद्धि यथेप्सितं | सर्वं सम्पद्यते देवि जपहोमान्नसंशयः || आप्ययुक्तेन वलिर्देयः सदामिषैश्च साधकः | ताम्बूलेन विना चैव मत्स्यमांसैः सदासवैः || मांसभक्षवलिर्देवि मन्त्रसिद्धि सयच्छति | ९७अ) तस्मा सर्व प्रयत्नेन वलिर्देयः सदामिषैः | आमिषेण विना तत्र देवीं तुष्टिर्नयच्छति || षड्मासं दधिसंयुक्तो लक्ष्मीस्तस्य स्थिरो भवेत् | च्छागमांसं सरक्तञ्च घृतेन प्लावितन्तथा || जुहोत्य युतं मन्त्री च राजा तस्य वशो भवेत् | श्वेतेन करवीरेण होमं सम्यक् करोति यः || लक्षमात्रविधानेन स जीवत् कालदष्टकं | जुहुयात् तिल पुष्पेण यो जुहोति घृतैः सह || स प्राप्नोति परां सिद्धिमीप्सितां सुरसुन्दरि | वन्धूक कुसुमं हुत्वा घृतेनायुतसंख्यकं || तस्य प्रीता भवेद् देवी सर्वसिद्धि फलप्रदां | तिलतण्डुल होमे तु यो घृतेन समाचरे || जगन्ति तस्य वश्यानि जायन्ते सुरसुन्दरि | पायसेन चरेद्धोमं घृतेन सहसुन्दरि || त्रिसन्ध्यं मासमात्रं च वागीशत्यमवाप्नुयात् | इत्येकः कथितो देवि क्रमहोमविधिर्मया || अपरं च प्रवक्ष्यामि कामनायां विशेषतः | गोमासं मधुलोड्य * * वामहस्तेन होमयेत् ||
SK
अपि देवावशं यान्ति किं पुनः क्षुद्रमानुषाः | निष्ठीवनं दन्तकाष्ठं स्वेदेहोद् वर्तनन्तथा || नामम्नामध्वक्त होमेन त्रैलोक्यं वशमानयेत् | रजस्वला या रक्तेन युतमुद्गीर्ण भोजनं || सहितं मानुषैः केशैः सद्य आकर्षयेद्ध्रुवं | रुरुमांसेन साज्येन कृत्वा होमं वरानने || सर्वसिद्धिमवाप्नोति सुराणामपि दुर्लभां | ९७ब्) महामासेन यः कश्चिद्धोमयेन्मधुसंयुतं | शतमष्टोत्तरं देवि त्रिसन्ध्यं साधकोत्तमः || सभुंक्षे मेदिनीं सर्वां षण्मासेन न संशयः | राज्यं तस्य प्रयच्छन्ति डाकिन्याः प्रीति मानसाः || इत्यादि विस्तरः | तत् तस्य(?) त्वक(?) मिमां | तन्त्रान्तरेऽनुसन्धेयमिति || अथ सम्वत्सरं याति फलाहारी यतो व्रतः | विष्णुभक्ति परश्चैव शिवशक्ति परायणः || यथाशक्ति जपेन् नित्यं देवीं ध्यात्वा यथोदितां | फलेप्यलावुकुष्माण्डौ वर्जनीयौ प्रयत्नतः || अथ संवत्सरे तीते सौर्य(?)नान्तक तुल्यकः | सामर्थेन भवेद् विष्णुर्विद्यया च वृहस्पतिः || सर्वज्ञः शस्तुना तुल्यस्तेजसा च दिवाकरः | सश्लाघ्यः सगुणी धन्यः सकुलीनः सबुद्धिमान् || सशूरः सदा विक्रान्तः ससुखी सुन्दरः कृती | वर्षादूर्द्धं च तद् देहं देवरूपं च दृश्यते || यद् यत्र व्यभिचारः स्यात् तदा देवी तु तं नरं | श्रीघ्रं मारयति क्रुद्धा सर्वकाम फलप्रदा || अपरञ्च प्रवक्ष्यामि विद्या द्रव्य प्रकाशकं | अथ कृष्ण त्रयोदश्यामन्धकारे निशार्द्धके || गृहाभ्यन्तर गो भूत्वा वियुक्ते दशवाद्यतः(?) | देवीरूपं स्मरेद् भक्त्या ध्यायेद् वा साधकोत्तमः || आनीय युवतीमेकां पञ्चपुरुष गामिनीं | सुदतीं सुन्दरीमेतां सुशीलां चारुहासिनीं || वस्त्रालंकार कनकं दत्वा तस्यै यथोदितां | परिधाय पतेद् वस्त्रं दूरं कुर्यात् सुसंयुतः || ९८अ) पूर्वमण्डलमालिख्य षट्कोणन्तत्र संलिखेत् | तस्य परिततां नारीं निर्लज्जां भूषणान्वितां || विवस्त्रामुक्त केशीञ्च तत्र तामुपवेशयेत् | पूजयेद् अङ्ग देवाṁश्च मण्डले कथिता प्रिये ||
SK
तत्र तां विविधैः पुष्पैः श्वेतपीतकलोहितैः | देवी रूपेण सञ्चिन्त्य पूजयेत् साधकोत्तमः || सहस्रमयुतं वापि प्रजपेद् भक्ति भावतः | वलिञ्च तत्र मन्त्रेण दद्यादुषसिमज्जनात् || तां नारीं तोषयेन् मन्त्री वस्त्रालङ्कारभूषणैः | ब्राह्मणान् भोजयेद् दद्याद् गुरवे दक्षिणा वलात् || अनेन विधिना लक्ष्मीर्विद्यां सर्वामवाप्नुयात् | विद्यामदृष्ट पूर्वाञ्च दृष्ट्या पाठयते नरः || क्षुद्रा नामपि लक्ष्मीः स्यात् कवित्ये चास्य काकथा | एकारात्रेण लभते विद्यां लक्ष्मीं न संशयः || द्विरात्रेण यशोराशिं त्रिरात्रेण गुरुः स्वयं | ध्यात्वा न्यस्त्वां छिन्नमस्तां जपेदष्टोत्तरं शतं | त्रिशतम्वा जपेन्नित्यमष्टोत्तर सहस्रकं || षण्मासेन महादेवि वाणी गद्यमयी भवेत् | वत्सरार्द्धेन शास्त्राणां निश्चितं पारगो भवेत् || त्रिवत्सराद् भवेदूर्द्धं वागीश्वर इवापरः | तस्य दर्शनमात्रेण वादितो निःप्रभा मताः || परायन्ते गता भूमौ यथा सिंहभयाद्गजाः | दशांशेनाङ्गमन्त्राणां मूलमन्त्रानुसारतः || शकृद्वा प्रजपेन् नित्यं केचित् प * सिमं शिवे | ९८ब्) इत्यादि विस्तरः || ॐ || पूजनाख्य पटलश्चतुर्थः || इदानी * * * * * * * * * * * * प्रथमं स परं दत्वा चतुर्थस्वरभूषितं | रेफारूढस्फुरद्दीप्तिमिन्दु विष्णु समाहितं || तकारं च ततो दद्याच्चतुर्थश्च * * * *? | दीर्घाकारसमायुक्तं हकारं योजयेत् ततः || फट्कारं च ततो दद्यात् संपूर्णं मन्त्रसिद्धकं || सपरं हकारः | चतुर्थस्वर ईकारः | इन्द्वर्द्ध चतुर्थ बिन्दुरनुस्वारः | त्रकारं त्र | चतुर्थस्वर उक्तः | तेन ह्रीṁ स्त्रीṁ हूṁ फट् इति मन्त्रः | श्रीबीजाद्या * *? बीजं तस्य श्रीः सर्वा * * *? | वाग्भवाद्याया(?) बीजं वागीशस्वप्रदायिनी अत्र यद्यपि फडन्तस्यैव संपूर्णत्व मुक्तं तथापि || क्रियानन * * * * स्तुति श्रवणात् | प्रथम त्र्यक्षरस्य नील सरस्वती *? क्रियालज्जया ९९अ) इति वशिष्ठशाप श्रवणात् | सकार रहिते शापः पर्यवस्यति || अत एवोक्तं ||
SK
क्षिप्र प्रसादा जगतां सदानील सरस्वती | विशेषतः कलि युगे मत्प्रसादाद् भविष्यति || इह यद्यपि सकारस्तन्त्रेषु न श्रूयते | वधूबीजनोद्धारात् || सकारो लभ्यते | स्त्रीबीजस्यैव वधूत्व प्रतिपादनादिति || अत एवोक्तं मुण्डमालायां || ततः प्रतिष्ठिता विद्या ताराचन्द्र स्वरूपिणी | चन्द्रः सकारस्तत् स्वरूपिणी तद् युक्ता प्रतिष्ठिता || शापरे हितेत्यर्थः | स एव त्र्यक्षरः | फडन्तश्चेत् | एकजटा मन्त्रः | स एव फडन्तस्तारादिस्तारा मन्त्रः || तदुक्तं || त्र्यक्षरोसौ महामन्त्रः फट्कारान्तो हृदि स्थितः | पञ्चरश्मि समायुक्तोप्यज्ञानेन्धन दाहकः || पञ्चरश्मिरोङ्कारः | तदुक्तं || अस्त्रान्तेयं महाविद्या जटा पुंगवधारिणी | वेदादि मुखयुक्ता चेत् तारां त्रिभवतारिणी || वेदादिः ॐकारः | तथा तन्त्रान्तरे || लज्जायुग्मं वधूबीजं ततो दीर्घ तनुच्छदं | सारस्वतो परो मन्त्रः संप्रोक्तश्चतुरक्षरः || लज्जायुगं ह्रीṁ ह्रीṁ वधूबीजं स्त्रीṁ | दीर्घ तरुछदं हूं || तेन ह्रीṁ ह्रीṁ स्त्रीṁ हुṁ | तदन्ते यदि फट्कारो मनुः पञ्चाक्षरो भवेत् || तदन्ते चतुरक्षरान्ते || तथा तारं शक्तिर्वधुबीजा * न्ते दीर्घ तनुच्छदं | अस्त्रमग्नि वधूरन्ते मनुः सप्ताक्षरो भवेत् || ९९ब्) तारं ॐ | शक्तिः ह्रीṁ | वधूः स्त्रीṁ | दीर्घ तनुच्छदं हूं | अस्त्रं फट् | अद्मि(?) वधूः स्वाहा || तेन ॐ ह्रीṁ स्त्रीṁ हूṁ फट् स्वाहा || तथा मन्त्रः शास्त्रेषु संप्रोक्तस्तथा दीर्घेण वर्मणा | पुटितं च वधूबीजमपरासौ गुणाक्षरः || दीर्घचर्मा हुंकारः मधूबीजं स्त्रीṁ | तेन हूं स्त्रीṁ हूं || तथा || स्वतन्त्रश्चेद्वधू बीजस्त्वेकाक्षरमिहोच्यते | वधूबीजं स्त्रीṁ | तेन स्त्रीṁ || तथा | एका * * * * * * तारं पद्मे युगं पश्चात् महापद्मे समीरयेत् | पद्मावति द्विठान्तैक जटा सप्तार्क वर्णयुक् | त्रितन्तं हूं तारं ॐ | तेन व्रीṁ व्रीṁ हूṁ फट् ॐ || पद्मे पद्मे महापद्मे पद्मावति स्वाहा द्विठ स्वाहा || तथा फेत्कारिणीतन्त्रे ||
SK
कैलाशशिखरासीनं चन्द्रषण्डविराजितं | वक्षस्थले समासीना पृच्छतिस्म नगात्मजा || कथमीशान सर्वज्ञ लभन्ते ते तपोधनाः | कां(?) विद्यां प्राप्य * * *? भारतातीत् प्रचक्रिरे || श्रुत्वा नगात्मजा वाक्यं विहस्य परमेश्वरः | प्राह प्रियां परित्यज्य साध्वि साध्विति चाक्रतनु(?) || शृणु शाक्ति(?) महाविद्या मङ्कानन्धन(?) दाहिनीं | यामवाप्य महात्मानो धर्मकामार्थ मुक्तिषु || नासाध्यं जायते किञ्चित् कवयः शुद्धवुद्ध * * * *? स *? सि यावा च स्तम्भिनी प्रतिवादिनः || विद्याहानिकरी चैव विदुषां वलिदानतः | १००अ) हास्याय यासदस्यानामशुद्धमपि जल्पयेत् | वादिनं वाथराजानं मन्त्रिणा वशमानयेत् || मन्त्रस्य ज्ञानमात्रेण जपात् सर्वज्ञतां नयेत् | जिह्वायां न्यसनादेव मुकोपि सुकविर्भवेत् || अव्याहता मतिः शास्त्रे विजयो वाक्पतेरपि | मधुना त्रिदिनादर्वाक् | गर्भक जिह्वा सुविन्यसेदमुक मन्त्री || यदि पण्डितोसौ नाचेन्नो मूर्खतां याति | महाचीन क्रमान्नत्वा तारान्त्रि भवतारिणीं | सत्साधनमहं वक्ष्ये शृणुसार्वज्ञ कारणं || तत् क्रमः || पूजनं मानसं दिव्यं मानसं कल्पनादिकं | सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् || न विशेषो दिवा रात्रौ न सन्ध्यायां महानिशि | वस्त्रासनस्थान देहं गेहे स्पर्शाधिकारिणः || न शुद्धिं चर्वयेदत्र निर्विकल्पं मनश्चरेत् | सर्वदा पूजयेद् देवीमस्नातः कृत भोजनः || महानिश्य सुचौदेशे वलिमन्त्रेण दापयेत् | स्त्री द्वेषोपि न कर्तव्यं विशेषात् पूजनं स्त्रियः || जप स्थाने महाशंखं निवेश्योर्द्ध चरेज्जपं | स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र कुत्राप्य चूडके || भक्षान् ताम्बूलमन्यांश्च भक्षद्रव्यान् यथारुचीन् | मांसमत्स्य दधि क्षौद्र पयः शाकाट्यमैक्षवं || भक्ताद्यशेष द्रव्याणि हुत्वा भक्षन् चरेज्जपं | दिशादि नियमो तात्रस्थिदि नियमोपि न || जपेन काल नियमो नार्घादिषु वलिष्वपि स्वेच्छा नियम उक्तोत्र महामन्त्रस्य साधने || १००ब्)
SK
नाधर्मो जायते तेन किञ्चद्धर्मो महान् भवेत् | स्वेच्छाचारोत्र गदितः प्रचेर्द् हृष्टमानसः || कृतार्थम * *? विष्णु संतुष्टस्तु * *? मान * विल्वैर्मेरुवकाद्यैश्च तुलसी वर्जितैः शुभैः | विद्या त्रितयमाक्षिणीं || एक लिङ्गश्च पञ्च क्रोशा * * * *? saṃgrāme patitaṃ vāpi vyāpāditamaṃ cūḍakaṃ | * * * *? sṛtaṃ proḍhavya * * * *? tadantike | śūnyāgāraṃ devaśūnyaṃ nirjanaṃ vā gṛhāntaraṃ | devāgāre devaśūnye nirjanaikāntavaśmani || urjaraṃ(?) parvate vāpi nirjane vā catuḥpathe || mantra(?) proktau(?) kartavyamāha(?) || avāpya mantraṃ vidhivat paritoṣya yathā guruṃ | gobhūhiraṇya vastrādyairyathā vibhavavistaraiḥ || mṛdu me cūḍamastine | anyeṣu komaleṣu ca | viṣṭarāsanamāśritya sādhayet siddhimuttamāṃ || tathā | bhāvanāvasasampanno bhaved yogī mahākaviḥ | jaḍopi yadi mūrkhaḥ syād bhāvanā vaśa tatparaḥ || labhate'bhimatāṃ ṣāṇīṃ lakṣamantrasya jāpataḥ | 101a) kalpayet sthiracitte na paṇḍitohaṃ mahākaviḥ | ajasra bhāvanābhyāsād bhavedevaṃ na saṃśayaḥ || suvimala nakhapāṇi pādadanto sudita manāḥ paraduṣaṇeṣu maunī | hariharacaraṇāravindabhakto bhavati cirāya sarasvatī nivāsaḥ || manurvimṛṣya dātavyaḥ śreṣṭhasyāpi vilīnatāṃ | putrasya kimutānyasya vigotrāya svapauruṣaṃ || tathā || sarvadā gopayedenaṃ manuṃ ca gurumeva ca | tena vīryavatī vidyā nirvīryāsyāt prakāśataḥ || utpādaka brahmadāttrī garīyāna mantradaḥ pitā | tasmān manyeta satataṃ piturapyadhikaṃ guruṃ || upadeśādaṅga mantrovali mantrastathaiva ca | jñātavyo viduṣāṃ siddhirasya mantrasya lobhataḥ || upāṃśuḥ syācchataguṇaḥ sahasro mānaso japaḥ | acirādā gatā siddhirmahāśaṃkhasya mālayā || kubjikatantre || yasmin mantreya ācārastaddharmastu hitā dṛśaḥ | kṛtārthastena jāyeta svargaṃ vāmokṣameva vā || bhrāntiratra na kartavyo siddhihāniḥ prajāyate | viśuddha cittotra bhajet siddhiḥ syādapavargajā ||
SK
उपचार विशेषेण राजपत्नी वशं नयेत् | राजानं जपमात्रेण वलिना सकलं जगत् || तथा नीलसरस्वत्याः प्रपञ्चोयं प्रदर्शितः | ब्रह्मणा पूर्वमस्मभ्यं मयातुभ्यं नगात्मजे || १०१ब्) नीलसा(?) * * *? मन्त्र * * * * अन्यस्ता च तृतीयं तु न किंचिद् विघ्नकारणं || सिद्धमन्त्रो यदा मन्त्री वालिशस्यापि मूर्द्धादि * * * * * वाग्मिनं | वाचस्पति विनाश्वर्यं पश्य * * * * * * * * पद च न भिता व्यता(?) || विद्या ब्राह्मणमि * * * * * * * * * * नियतं ब्रह्मवादिनं | तस्मै मां युक्ति * * * * * * * * * स्वगात्र(?) पौरुषं नैतदन्यगोत्रं नयेत् सुधीः | विद्यां * * * * * * * * * * * तत्र प्रातःकृत्यादि मातृकान्तं कर्म * * *? यज * मायां *? भौ रक्त वर्णां ध्यात्वा तज्जातवह्निना शुक्रं पापा भश्म प्रोत्सारितं ध्यात्वा ललाटे च विचिन्तयेत् | १०२अ) कूर्चं तुषारवर्णाभं तदुद्भूता मृतेन तु | तदस्थि प्रावितं ध्यात्वा तत्रात्मानं विचिन्तयेत् || समस्त पापनिर्मुक्तं निर्मलं देवतात्मकं | इत्यादि || अथ पद्धतिः || तदुक्तं तन्त्रचूडामणौ || ॐ वज्रोदके हू फडिति जलमानीय पूजयेत् | ॐ ह्रीṁ स्वाहेति मन्त्रेण ते नैव पादधावनं || ॐ ह्रीं सर्वशुद्धान्ते धर्मगात्रि ततः परं | सर्वपापानिशमय ततो शेष पदं वदेत् ||
SK
विकल्पा नया स्वाहा | ते नैवाचमनं प्रिये || तेन ॐ ह्रीṁ सुविशुद्ध धर्मगात्रि सर्वपापानिशमय अशेष विकल्पा नपनय स्वाहा || ॐ रक्ष रक्ष हूं फट् स्वाहेति भूम्यभि मन्त्रेणं || ॐ दारय दारय हूं फट् स्वाहेति विघ्न दारणं || ॐ पवित्रं वज्र भूमे | ॐ फडन्तो भूमि शोधनं || ॐ शताभिषेकेशमय त्रियमाश्रये ततः | हूṁ फट् स्वाहेति मन्त्रेण पुष्पाधिष्ठान मारयेत् | ॐ मणिधरि पदं ततः वशङ्करीति हूं फट् स्वाहा रक्षा प्रकीर्तितः | ॐ मणिधरि वज्रिणि सर्वशङ्करि हूं फट् स्वाहा इति शिखा वन्धनं || ॐ पुष्पकेतु राजशब्दादर्हतेति पदन्ततः | तस्मात् सम्यक् पदस्यान्ते संयुक्ताय पदं ततः | ॐ पुष्पे सुपुष्पे पुष्पान्ते पुष्प सम्भवे पुष्प शब्दतः | च याव कीर्णे हूं फट् स्वाहान्तः पुष्पधारणं | १०२ब्) ॐ पुष्पकेतु राजार्हते सम्यक् संयुक्ताय ॐ पुष्प सुपुष्प पुष्प सम्भवे पुष्प त्रयावकीर्ण हूं फट् स्वाहा | इति भूमि मन्त्रणं || ॐ दारय दारय हूं फट् स्वहेति विघ्नदारणं || ॐ कामरूप पीठाय अनेन(?) इत्यां(?) सनाधिष्ठानं | * *? मूलमन्त्रादनन्तरं न्यासः || तदुक्तं || मूलान्ते || ॐ ए? जटा(? taduktaṃ || a *? bhya ṛṣireta * * * * * * * || hūṃ bījamantra śakti syāccaturvarga phalapradaḥ * * *? bhājādyavarṇe * * * * * * *? ti * * krameṇāṅguṣṭhādikalatalāntaṃ vinya * *? diṣvapi nyaset || akhanḍavāgrūpiṇītyuktvāśi *? sa vahni(?) vallabhā || brahmavāgrūpiṇī * * *? śa *? yai * * * mirayet | rudravāgrūpiṇī tyuktvā netra trayāya ca vauṣaṭ | sarvavāgrūpiṇī tyuktvā kuryādaṅgāni ṣaṭ kramāt | 103a) tena hrāṁ akhila vāgrūpiṇi hṛdayāya namaḥ |
SK
इत्यादि क्रमेण न्यसेत् | तथा ह्राṁ एकजटेत्युक्त्वा हृदयाय नमो वदेत् | ह्रीṁ तारिणि शिरसेति स्वाहा शिरसि न्यसेत् | ह्रूṁ वज्रोदके त्युक्त्वा च शिखायै वषडित्यपि | ह्रैṁ उग्र जटेत्युक्त्वा च कवचाय हूमीरयेत् | ह्रौṁ महापरिसरेत्युक्त्वा नेत्र त्रयाय च वौषट् | ह्रः पिङ्गोग्रैक जटे च अस्त्रत्राय फडित्यपि | अत्र मूलमन्त्रादनन्तरं न्यासः || तदुक्तं || मूलान्ते एकजटायै हृदयं परिकीर्ततमित्यादि | तथा मूलेन व्यापकं कृत्वा देवीं ध्यायेत् || अन्तरिक्षे ततो ध्यायेद् ओङ्काराद् रक्तभानं (पंकजमिति पाठः) | भूयस्तस्योपरिध्यायेट्टांकारात् पद्मभाजनं | तस्योपरि पुनर्द्ध्यायेद्धूकारं नीलसन्निभां || ततो हूṁकारजां पश्चात् कर्तृकां बीजभूषितां | कर्तृपरिनतिं ध्यायेदात्मानं तारिणी मयं || तथा || प्रत्यालीढ पदां घोरां मुण्डमालाविभूषितां | खर्वांलम्बोदरीं भीमां व्याघ्रचर्मावृतां कटौ || नवयौवनसंपन्नां पञ्चमुद्रां विभूषितां | चतुर्भुजां ललज्जिह्वां महाभीमां वर प्रदां || खड्गकर्तृयुतां सव्ये वामे मुण्डोल्पलान्वितां | पिङ्गोग्रैक जटां ध्यायेत् मौला वक्षोभ्य शोभितां || वालार्क मण्डलाकार लोचनत्रयभूषितां | १०३ब्) सावेशस्य * *? द * * *? कारविभूषितां || ध्यान भ * * * * * * * * * * * मनाहरं || तन्मध्ये *? स्य युगलं मध्यबीज विभूषितं | ते * * * * * * * * * * * * || तथा सु योनिनो * * *? ष्टपत्र मन्त्रं सुशोभनं | चि *? | तत्र पीठशक्तीः पूजयेत् तथा || लक्ष्मीसरस्वती चैव रतिः * * * * * * *? | शक्तयः || १०४अ) एताः संपूज्य पुन ह्सौः सदाशिव महाप्रे पद्मासनाय नम इति पूजयेत् | ततः स्वहृदयात् करस्थ पुष्पवहन्नाड्या संयोज्य यन्त्र संस्थाप्य आवाहनादि मुद्राः प्रदर्श्य आवाहयेत् || ॐ देवेशि भक्ति सुलभे परिवार गणार्चिते | यावत् त्वां पूजयिष्यामि तावदत्र स्थिता भव | इत्या वाह्य एषार्घः श्रीमदेक जटे प्रतीच्छति दद्यात् || तदुक्तं || आवाह्य स्थापयित्वादावर्घं दत्वानुलेपनं |
SK
श्रीमदेक जटे वज्रपुष्पमित्यभिधीयते | मूलेनाग्नि प्रियान्तेन मतारेण यजेत् पुनः || अग्नि प्रिया स्वाहा || तारं ॐकारः | एवं पाद्याचमनीयादिकमपि दद्यात् || तदुक्तं || दत्वा गन्धादिकमपि वलि युक्तं निवेदयेत् || तन्त्रचूडामणौ || श्रीमदेकजटे पादार्घं प्रतीच्छ स्वाहया युतं | अर्घं दत्वा जवापुष्पं दापयेत् मन्त्रमुच्चरन् || वज्रपुष्पं प्रतीच्छति संबोधन पदान्वितं | तेन आदौ अर्घ्यन् दत्वा जवापुष्पं निवेद्य पाद्य गन्धादि दद्यात् || ॐ अक्षोभ्य वज्रपुष्पं प्रतीच्छति च मस्तके | तथा वैरोचनं शङ्ख पाण्डरं पद्ममाभकं || असिताङ्गं यजेन् मन्त्री दिक्ष्वीन्द्रीतश्चतुर्दले | तत्र स्वनामाद्यक्षर बीजारापोपि तदुक्तं || वैरोचनामितलाभ पद्मनाभस्ततः परं | १०४ब्) शंखं पाण्डरसं * *? तेषां मन्त्रः शृणु प्रिये | नामाद्यक्षर बीजा * * * * * * * * * ते * * * * * * * *? वज्रपुष्पं * तारया सह | द * * * * * * * *? कोणे मन्त्रैः स्वैः स्व यथाक्रमं || तेन * * * * * * * तेन नानामेके वज्र * * * * * * * * * घोरा च भ्रामरी चैव महारात्रिश्च * * *? | स्वाहेत्युनि क्रमेण पूजयेत् | एषा पूजनं * * * * * * द्वारे पूर्वादितः पद्माकक *? पि पसान्तव * * * * क्रमेण पूजयेत् || तदुक्तं || प्रणवाद्या * * * * * * तदुक्तं || नात्युच्चं नातिनीचञ्च ध्यात्वा देवीं जपेन् मनुं | गायत्रीञ्जपेदित्यर्थः(?) || यथा श्रीमदेक जटे विद्महे विकटदंष्ट्र धीमहि तन्नस्तारे प्रचोदयात् || ततो वलिं दत्वा नमस्कृत्य स्तुत्वा देवीम्विसर्जयेत् | तथा || वलिपूजादिकं दद्यान् निशायां क्रियते सदा | तत् तदक्षयतां याति तारा देव्याः प्रसादतः || श्रीमदेकजटे चोक्त्वा वज्रपुष्पं प्रतीच्छ च | तारादि वह्नि जायान्त मुदीर्य यजनं चरेत् || तथा मृद्वासन मध्यास्य मायां पूवदले लिखेत् | याम्यबीजं द्वितीयन्तु फान्तरपश्चिमे तुटं || मध्ये बीजं लिखित्वा तु भूतशुद्धिं समाचरेत् |
SK
जपान्ते भोजनकाले श्रीमदेक जटे महापक्षाधि पतये इमं वलिं गृह्न गृह्न गृह्नापय पर विद्यामाकृष्य त्रुट २ सर्वञ्जगद्वशमानय हूं फट् स्वाहा || इति वलिं दद्यात् || अत्र यद्यपि नीलसरस्वती तारेत्यादि नाम श्रूयते मन्त्रष्वेक जटात्वं तथाप्येक जटात्वमेव सर्वत्र तथैव दर्शनात् || यथा सुन्दरी मंत्रेषु यत्रोपाशितत्यादि नाम तथा देवता त्वमेक जटात्वे नैव इति तत्वं || तथा ध्यानान्तरमुक्तं || तन्त्रचूडामणौ || प्रश्नं व्यापकनीरीब्धौ आṁकारां चिन्तयेत् ततः | तच्छब्द गुणयोगेन रक्त पद्मं विचिन्तयेत् || १०५ब्) तस्योपरि ततो ध्यायटाः तारादक्ष भाजनं | तस्योपरि ततो ध्याये द्धूṁकारं नीलसन्निभं || तस्योपरि ततो ध्यायेत् कर्तृकां बीजभूषितां | तस्योपरि महादेवी खट्वानील घनप्रभां || लम्बोदरीं व्याघ्रचर्म समावृतनितम्विनीं | पिनोन्नत पयोभारं रक्तवर्तुल लोचनां || ललर्जिह्वां महाभीमां दंष्ट्राकोटि समुज्वलां | पिङ्ग्रोग्रैक(?) जटां नील नागहार समुज्वलां || नीलोत्पललसत्माला वद्धजूटां भयङ्करीं | श्वेतास्थि प * *? युक्त कपालं च सुशोभितां || ललाट रक्तनागेन कृतकर्णावतंसिकां | अति शुभ्र महानाग कृतहार महोज्वलां || दूर्वादलश्यानागकृत यज्ञोपवीतिनीं | चतुर्भुजां रक्तमांस खड्गमण्डितमुष्टिन || जटाजूटेन सूत्रेण शोभितातीक्ष्णधारय | खड्गस्य दक्षिणस्य क *? शोभितं घोरनादिनीं || तदयस्ताद्वीजवृन्दां कर्तृका लंकृतां परां | वामोर्द्ध रक्तमार्गेन दिगम्बर मतो हरं || दधतीनीलपद्मञ्च तदघ्न * *? पालकं | जगतां जाड्यसंयुक्तं दधती कुन्दसन्निभं || धूम्राभ नागसंदोह कृतकेयूर सत्वरां | सुवर्णवर्णनागेन कंकनोज्वल पानिकां || शुभ्रवर्ण महादेव शवद्वद्यासनस्थितां | नियस्त्रनभिया तद्वत् संकुश्च प्रपदा * लां || शवपादद्वयारूढ वामपादां महोन्मुखीं | १०६अ) कुन्दासनागसंशोभि कटिसुत्रां त्रिलोचनां | ईषद्रक्तेन नागेन कृतनूपुर पल्लगां ||
SK
सद्यश्च्छिन्नगलद्रक्त नृमुण्डैरक्त भूषणैः | अन्योन्य केशग्रंथितैः पादपद्मावलम्बितैः || पञ्चाशद्भिर्महामायां शोभितां भुवनेश्वरीं | ज्वलच्चितां मध्यसंस्थां द्वीपि चर्माज्वलांशुकां || अक्षोभनागसम्वद्ध जटाजूटां वरप्रदां | एवं भूतां महादेवीमात्मानं यागवस्तु च || विज्ञापयेन् महादेव पण्डितोहं महाकविरित्यादि ध्यायेत् || तथा || अमुक्तः प्रजपेन्मन्त्रं न दोषः कृत भोजने | वलिदाने च पूजायां नात्रकार्या विचारणा || नियमानियमो नात्र नालस्यं भीरुता त्रया | स्वेच्छाचारोत्र विहितो महाचीन क्रमादिति || अथ काम्यानि || पुष्करिण्या जलागाधे यष्टिकाष्ठं तमोग्रहे | दन्तेनानीय तूर्णं तु कीलकं तेन कारयेत् || ते नैव मधूधुव्युताक्तेन पद्मिनी पत्र मात्रके | लिखेद् वज्रारणी मध्ये मूलमन्त्रं तु सिद्धिदं || वज्रारणी मध्ये अष्टवज्राष्टदलभूपुर मध्ये मूलमन्त्रं लिखेदित्यर्थः || अथ वलिदानमाह || प्रणवं पूर्वमुच्चार्य पद्मे युगन्तथैव च | महापद्मे पदं ब्रूयात् पद्मावनि पदं ततः || माये स्वाहेति च मन्त्रेण यथापूर्वं वलिं हरेत् | एवं यः कुरुते कर्म सस्याद् द्रुत कविर्भवेत् || १०६ब्) ॐ पद्मे पद्मे महापद्मे पद्मावति माय(?) स्वाहा यथापूर्वं चतुःपथे | नित्य वलिविहितस्तथैव *? र्थः || तथा || अर्द्धरात्रे ततो नित्यं वलिं दद्याच्चतुःपथे | प्रणवञ्च * * * * * * * * * * * यन्त्राधि पद्म * * * * * * * * * * शक्ति * * * * * * * * * * * * प * * * * * * * * * * * * १०७अ) शताभिजप्त मन्त्रेण रोचनातिलकं नरः | कृत्वा पश्यति यं मन्त्री तं कुर्याद् दासवद्वशं || तथा || श्मशानाङ्गारमादाय शनिमङ्गलवासरे | कृष्णवस्त्रेणसंवेष्ट्य वध्नीयाद् रक्त तन्तुना || शताभिमन्त्रितं तच्च क्षिपे वैरिमन्दिरे | सप्ताहाभ्यन्तरे तेषामुच्चाटनमिदं भवेत् || कृष्णवस्त्र नीलीराग रंजितं तथा | नरास्थि विलिखेन् मन्त्रं क्षारयुक्त हरिद्रया ||
SK
सहस्रं परिजप्येन निशायां रविवासरे | निक्षिप्यते गृहे यस्य मृत्युस्तस्य त्रिमासतः || क्षेत्रे च शाल्यहानिः स्याद्ध्रुव हानिस्तु सङ्करे || धारणयन्त्रमाह || योनि युग्मे लिखेद् भूर्य लाक्षारसेन मन्त्रवित् | तन्मध्ये साध्यसंयुक्तं मूलमन्त्रं लिखेत् ततः || स्वरान् क्रमगतांश्चापि वर्णान् कादीन् यथाक्रमं | अष्टवज्रसमायुक्तं यन्त्रमेतत् प्रयोजयेत् || वेष्टितं पीतवस्त्रेण चर्तुलोपरिषष्ठयेत् | वध्नीयात् पट्टसूत्रेण शिशूनां कण्ठभूषणं || स्त्रीणां वामभुजवद्धमन्येषां दक्षिणे करे | वन्ध्यापि लभते पुत्रं निर्द्धनो धनवान् भवेत् || इयं रक्षा पुरावद्धा ज्ञानार्थं गतिमादिभिः | कीर्त्यर्थं पार्थिवैश्चान्यैः संग्रामे जयकांक्षिभिः || साध्यसंयुक्तं मूलमन्त्रं मूलमन्त्रानन्तरं अमुकं शर्मकुर्विति योनियुग्मं षट्कोणमित्यर्थः | तन्मध्ये षट्कोणमध्ये तदनन्तरं स्वरान् कादीश्च यथाक्रमं क्रमेणत्यर्थः || तथा || १०७ब्) इति निगदितमत *? तमाद्यैर्ययुक्तं सकलमिदमे पूर्वं यन्त्रराज स्वरूपं | यदधिगमवशात् स्याद् वाञ्चिताभीष्ट?सिद्धिर्द्धुत तरकवितायै यत्नमन्यद्यजेच्च || इत्यादि विस्तरः || तथा || अस्याः कुल्लु *? नीलसरस्वती मन्त्र त्र्यक्षरः | तां सिरसि वृत्यैव जवादिकं कुर्यात् || तदुक्तं || अधृत्वा कुल्लुका देवी म * *? गुरुपादुकां | निस्फलं तस्य सर्वस्यात् तारिणीं योजयेद् वुधः || इत्यादि निम्बा(?) श्रवणादिति दिक् || श्री * * * * * *? शर्मणानिर्मिते निगमसारनिर्णये | तारिणीमन्त्रविधानपूजनख्यापकः पटल एष पञ्चमः || त्रिगुणं च ततः कूर्चं युग्मं लज्जा युतं ततः | दक्षिणे कालिके चेति पूर्ववच्च ततः पुनः || ठ द्वयं येन समायुक्तं मनुमेनं समुद्धरेत् | वर्गाद्यः कवर्गस्तदाद्यः ककारः | वह्निरेफः | रतिः ईकारः | * * लज्जा ह्रीṁ तद्वयं | पूर्व * पुनः सप्तबीजं उद्धरेत् | ठ द्वयं स्वाहा || तेन क्रीं २ हूṁ २ ह्रीṁ २ दक्षिणे कालिके क्रीṁ ३ हूṁ २ ह्रीṁ २ स्वाहा || तदुक्तं || कालिकासुप्रनिषत्सु || अथ
SK
१०८अ) हैनां ब्रह्मरन्ध्रे ब्रह्मस्वरूपिणीं प्राप्नोति शुभदा | कामरेफन्दिरा समस्तरूपिणी एतत् त्रिगुणितामादौ तदनु कूर्च युगं कूर्च बीजं तु व्योम षष्ठस्वर बिन्दुमेलनरूपं | तदेव द्विरुच्चार्य भुवना द्वयं | भुवना तु व्योमज्वलनेन्दिरा शून्यमेलनरूपा | तद्द्वयं दक्षिणाकालिका चेत्यभि मुखगता | तदनुबीज सप्तकमुच्चार्य वृहद्भानुजायामुच्चरेत् | इति कामः ककारः | इन्दिरा ईकारः | व्योमोहकारः | ज्वलनो रेफः | इन्द्रिरा ईकारः | वृहद्भानुजाया स्वाहा || तथा नात्र सिद्धाद्यपेक्षास्ति नारिमित्रादि दूषणं | न विन्तव्ययवाहुल्यं कायक्लेशकरं न च || इत्यादि || तथा मत्स्यसूक्ते || लज्जाबीजं ततः क्रोध फट्कारा त्र्यक्षरी भवेत् | लज्जा ह्रीṁ | क्रोṁधः कूṁ | तेन ह्रीṁ हूṁ फट् || इति मन्त्र || तथा तन्त्रान्तरे || नमः पाशांकुशौ द्वेधा फट् स्वाहा कालिकालिके | दीर्घं तनुच्छदं काली मनुः पञ्च दशाक्षरः || पाशः आṁ अङ्कुशः क्रोṁ | दीर्घ तनुच्छदं हूṁ | तेन नमः आṁ आṁ क्रोṁ क्रोṁ फट् स्वाहा कालिकालिके हूṁ || इति मन्त्रः || तथा कालीतन्त्रे || प्रणवं पूर्वमुच्चार्य हृल्लेखां च ततः परं | रति बीजं समुद्धृत्य पपञ्चमभगान्वितं || ट द्वयं च समुद्धृत्य विद्याराज्ञी च कालिका | प्रणवं ॐ | हृल्लेखा ह्रीṁ | रतिबीजं ईṁ | १०८ब्) पपञ्चमामकोनः | भग एकार गतेन संयुक्तं | ट *? संख्याह || तेन ॐ ह्रीṁ ईṁ * *? इति मन्त्रः || भैरवोऽस्य ऋषिः प्रोक्तो विराट् छन्द उ * *? ती सिद्धकाली * द्विंशति साहस्रं सहस्रैकेन संयुतं || अनया * * * * * अथ * * * * * * * * * * * * लोज्वल उन्च्लेअर् १०९अ) कारः | वामनेत्र ईकारः | वह्नी रेफः | तेन श्रीṁ मादनं ककारः | इन्द्रबीजं लकारः | भूतस्वर उकारः | तेन क्लुṁ इति त्र्यक्षरो मन्त्रः || तथा || तन्त्रान्तरं प्रवक्ष्यामि शृणु पार्वति सादरं | यस्याराधन मात्रेण सर्वसिद्धीश्वरो भवेत् || अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् | न कुत्रापि समाख्यातं तव स्नेहादिहोच्यते ||
SK
पूर्वोक्त मन्त्रराजस्य शेषवर्ण द्वयं प्रिय | संहारसृष्टिमार्गेण बन्धु सोपि न दर्शयेत् || मन्त्रस्य स्मरणादेव सकृज्जप्तस्य सुन्दरि | कोटि जन्मार्जितं पापं तत्क्षणादेव नश्यति || ऋषिः स्याद् भैरवो देवोऽनुष्टुप्छन्दः प्रकीर्तितं | देवता कालिका प्रोक्ता चतुर्वर्ग फलप्रदा || पूर्वोक्त मन्त्रस्य शेषबीज द्वयं संहारक्रमेण लिखेत् | शेषं मध्ये मध्यं शेषे लिखेत् | तदन्यस्त्र्यक्षरो भवति || ध्यानमस्याः प्रवक्ष्यामि शृणु पार्वति सादरं | नीलेन्दीवर सन्निभां त्रिनयनामापी तुङ्गस्तनीं भास्वन्मौलि किरीटशोभित गणां क्षीणां भुजैर्विभ्रतीं खड्गं मुण्डवराभयं स्मितमुखीं मोहान्धकारापहां ध्यायेत् सम्यगनाकुलेन मनसा प्रेतासनां कालिकां || अथ यन्त्रं || अष्टपत्रं लिखेत् पद्मं चतुर्द्वार विभूषितं | तन्मध्ये त्रिस्त्रिकोणं स्यात् तन्मध्ये विलिखेन् मनुं || इति नवकोणात्मकञ्च वारत्रय क्रमे लिखित्वा मूलमाचम्य शिखाबन्धनं कुर्यात् | १०९ब्) वश्यकरी स्वरूपं(?) * * *(?) मूलमन्त्रं सर्वशुद्धिं समान * * * * * * * संपूज्य गन्धपुष्पैस्तु यन्त्र मध्ये तु साधकः(?) | समानीय * *? देवीं कामो * * * * * * रप्यर्चयेत् | पूजयेत् || त्रिकोणे पूजयेद्देवीं * * * * * * * *? | उग्रचण्डां * * * * * * * *? पराजिके || माहेश्वरीं महादुर्गां * * * * * * * *? tato * *? la padmeṣu * * *? pūjayet kramāt | samarcayet || svāhānte naiva mantreṇa devīṃ sāvaraṇantataḥ | jitendriyaḥ | 110a) antakāle ca deveśi tvayyeva ca pralīyate || kālītantre || kāli hṛdaya vidyāñca siddhavidyāṃ mahodayaṃ | puroyena yathāyasvā siddhimāpnurdivaukasaḥ || kāmākṣaraṃ vahnisaṃsthamindirānādabindubhiḥ | mantrarājamidaṃ khyātaṃ durlabhaṃ pāpa cetasāṃ || kāmākṣaraḥ kakāraḥ | vahnīrephaḥ | indirā īkāraḥ | binduranusvāraḥ | ityekākṣaraḥ || triguṇā tu viśeṣeṇa sarvaśāstra prabodhikā | anayā sadṛśī vidyā na hi sārasvata pradā ||
SK
ध्यान पूजादिकं सर्वं साधनं च पुरस्क्रिया | अनिरुद्ध सरस्वत्याः समानं परिकीर्तितं || कुलचूडामणौ || एकाम्वा द्विगुणम्वापि त्रिगुणं वापि भैरव | जप्त्वा कर्षयति स्वैरं स्थावरं जङ्गमादिकं || तेद्व्यक्षरोपि मन्त्रः | ध्याने विशेषः || कुलचूडामणौ || ध्यायेत् कालीं कलालास्यां दंष्ट्रां नीलोत्पल प्रभां | चरच्छर करश्रेणी कृतकाञ्चीन्दिगम्वरां || वीरासन समासीनां महाकालोपरिस्थितां | श्रुतिमूलसमाकीर्ण सृक्वनी चण्डनादिनीं || मुण्डमालां गलद्रक्त चर्चितां पीवरस्तनीं | मदिरामोदितास्फार कम्पिताखिल मेदिनीं || वामे खड्गञ्च मुण्डं च धारिणीन्दक्षिणे करे | वाराभय युतां घोर वदनां लोलजिह्विकां || शकुन्तपक्षसंयुक्तं वाणकर्णविभूषितां | ११०ब्) शिवोभिघोररूपाभिः सेवितां प्रलयादितां | चण्डहासश्चण्ड नादश्चण्डास्फारैश्च भैरवैः || गृहीत्वा नरकं काल जपशब्द परायणैः | से * *? खलसिद्धौघमुनिभिः सवितां परां || इति ध्यात्वा दक्षिणा वदुपाचरेत् | * *? एवमन्त्रविशेष ध्यानविशेषो न तु विरोधये तन्त्र * * * * * * * विशेषः | एवं ध्यात्वा जपेल्लक्षं मन्त्रमेकं(?) * * * तथा सिद्धसावसते || संयुतौ * | नादबिन्दु कला सार्द्धं महामायान्वितान्(?) प्रिये(?) | कलाबिन्दुसमायुक्तः कथिता कामदः(?) प्रिये(?) | ध्यानपूजादिकं देवि सर्वपूर्व * * चरेत् || एत * * * * * * * * * * * * कल्पद्रुमं परं | येन जप्तं * * * * * * *? विद्या * * तदनन्तरं || नादवि *? श्वर युतं दक्षिणे कर्णि * * *? संस्तद १११अ)
SK
ः || माया द्वन्द्वं ह्रीṁ ह्रीṁ कूर्चयुग्मं हूं हूं | ऐन्द्रो लकारः | मादनः ककारः | तन्त्रयं || संहारक्रमयोगेन आदौ काम क्लीṁ बीजत्रयं ततः कूर्च द्वयं हूं हूं | ततो माया द्वयं ह्रीṁ ह्रीṁ पञ्च विंशत्यक्षरः | स एवताराद्यः | एकविंशत्यक्षरः | स एव तारादिः स्वाहान्तंस्त्रयो विंशत्यक्षरः | अत एवोक्तं भैरव तन्त्रे | एकविंशत्यक्षरो मन्त्रस्ताराद्या विश्व पूजितः | स्वाहान्तश्च त्रयोविंशत्यक्षरो मन्त्र नायकः | विंशत्यर्णा महाविद्या स्वाहा प्रणव वर्जिता | ध्यान पूजादिकं सर्वं दक्षिणावदुपाचरेत् || तथा स्वतन्त्रतन्त्रे || श्मशाने कालिका मन्त्रं शृणुष्व च हिते शिवे | वाणीं मायान्तथा लक्ष्मीं कामबीजन्ततः परं || कालिके संपुटत्वे च चतुष्कं बीजमालिखेत् | एकादशार्णा देवेशि चतुर्वर्ग प्रदायिनी || ऋषिर्भृगुर्वृहच्छन्दो देवता कालिका परा | श्मशानाद्या च * श * बीजशक्ती महेश्वरि || कीलकं कामबीजन्तु शृणु पूजा विधिं प्रिये | वाणीं ऐṁ | माया ह्रीṁ | लक्ष्मीं श्रीṁ | कामबीजं क्लीṁ | इति बीज चतुष्कमुच्चार्य कालिके स्वरूपमुक्त्वा तदेव बीजं चतुष्कं क्रमेणोद्धरेत् || इति चतुस्त्रिभिश्चतुर्वर्णैर्विद्या मन्त्रैः षडङ्गकं | विन्यस्य ध्यान कुर्वीत कालिकायाः समाहितः || मन्त्र द्विरावृत्त्यो षडङ्गम्विन्यस्य ध्यायेत् | कालीं घोरवक्त्रां श्मशानालयवासिनीं || १११ब्) त्रिनेत्रां मुक्तकेशीञ्च शुष्कमांसाति भीषणां | पिङ्गाक्षीम्वामहस्तेन सद्यः पूर्ण कपालकं || सद्यः कृन्त शिरो दक्ष हस्तेन दधतीं शिवां | स्मितवक्त्रां सदा वाममां *? व *? ण तत्परां || अथ यन्त्रं || चतुर्द्वारसमायुक्तं मध्ये मूलं समालिखेत् | दलेष्वष्टासु विलिखेत् | कवर्गाद्यष्ट वर्गकं | धरण्यां विलिखे वा पाद्यं(?) चतुष्कञ्च चतुष्ककं | पूर्वादि उत्तरायां तु मध्ये देवीं प्रपूजयेत् || ब्राह्माद्याः पूजयेन् मन्त्री दलेष्वष्टसुपूर्वतः | भैरवा न सिवाद्वा(?)द्यान् धरण्यां पूजयेत् प्रिये || पूर्वादि क्रमेण वामावर्तेन पूजयेत् || अथ पुरश्चरणं ||
SK
वर्णलक्षं जपेन्मन्त्रं तद्दशाशेन होमयेत् || कामबीजं समालिख्य कालिकायै पदम्वदेत् | नामान्ते वर(?) देवेशि सप्तार्णे मनु * * *? || काम(?) बीजं क्लीṁ? | तेन क्लीṁ कालिकायै नमः | इति सप्ताक्षरः || ध्यानादिकं अञ्जनादिनिभामित्यादि(?) || अथान्यः अ * *? || कालि * * *? | अथक(? yojayet | gatistasyāstīti nānyasya iha oṃ ma oṃ masatyaṃ(?) tat sarva prathamadvāviṃśatyakṣaryā vījatraya muktvā nāma prayoktavyaṃ tatastadeva bīja trayamityeko mantraḥ | 112a) evaṃ prathamabījapuṭitaṃ nāma ityaparaḥ | evaṃ prathamabījadvaya puṭitaṃ nāma ityanyaḥ | evaṃ kūrcabīja dvaya puṭitaṃ nāma ityapi prakāraḥ | evaṃ māyā bīja dvaya puṭitaṃ nāma ityapi || tena pañca prakāreṇa pañca mantrā bhavanti || eteṣāṃ pūjādikaṃ dakṣiṇāvat || atha guruṃ paritoṣya gṛhnīyān mantrarājakaṃ | gurustamapi śiṣyāya satkulīnāya vidyā bhaktāya suśruṣaye striyaṃ spṛṣṭvā svayaṃ parigṛhya niśāyāṃ nikure ekākī śivagehe lakṣaṃ tadarddhaṃ vā japtvādaya oṃ ma oṃ masatyaṃ tatsannānya prakāreṇa siddhirbhavatīti | iha vai kālikāmanorvātārāmanārvā tripurā manorvā sarvasya durgā manorvā ityāma oṃ tatsaditi saṃkṣepaḥ || athāntaryajanaṃ vakṣye dṛṣṭādṛṣṭa phalapradaṃ | guru dhyānaṃ prakurvīta yathāpūrvaṃ viśāladhīḥ || snāyācca vimale tīrthe puṣkare hṛdayā sṛte | bindu tīrtheṣu vāsnāyāt punarjanma na vidyate || iḍā suṣumne śivatīrtha kasmin jñānāmvu pūrṇe vahataḥ śarīra | brahmāmbubhiḥ snāti tayoḥ sadā yaḥ kintasya gāṅgairapi puṣkarairvā || iti snānaṃ || śivaśaktyoḥ sadā yogo yasmin dhyāne prajāyate | sā sandhyā kula niṣṭhānāṃ samādhiḥ syuḥ pratīyate || iti sandhyā || 112b) candrārkānalasaṃpadya kulinaṃ na parāmṛtaṃ | tenāmṛtena divyena tarpaye kula devatāṃ || hūṃ mantreṇa kuṇḍalinī somasūryāgni rūpiṇī |
SK
समुत्थाय परं बिन्दु निर्भिद्य कुल * * *? तर्पयेदिति त * पात्रमुत्तमं | कला मात्रेण * * * तर्पयेत् तु मुखचरीं || इति * बिन्दुभिध्य(?) * * *? दात्मिकां | बिन्दु * एकैकं वर्ण * * * * * * *? द्ध्रुवादिकं | नमो * * * *? पास(?) आन्तरः परिकीर्ति * इडामाकृष्यतश्चायं हृदय * * * * * * * निजदेहस्य शि * * *? न्त्रेण * * *? मन्त्र शिवो मन्त्रेण देशिकैः | हृच्छिरारूप निद्रा(?) * * ११३अ) अथ ध्यानं || शान्ति द्वय पुटान्तस्थं कमलद्वय संस्थितं | ज्योतिस्तत्व समं ध्यायेत् कुलाकुल नियोजनात् || तथा शृंगाट द्वय मध्यस्थं शक्ति द्वय पुटीकृतं | सदा समरसं ध्यायेद्ध्यानन्तत् कुलयोगिनां || तथा || किरणस्थानथाग्निस्थं चन्द्रभास्कर मध्यगं | महाशून्य लयं कृत्वा पूर्णस्तिष्ठति योगिराट् || तथा || निरालम्बे पदे शून्ये यत् तेज उपयोजते | तद्गर्भं सन्यसेन् नित्यं ध्यानमेतद् वियोगिनां || इति ध्यानं || अथ पूजा || अर्घं यद्विषयैः पुष्पैस्तत्क्षणात् तन्मयो भवेत् | नासस्तन्मयता बुद्धिः सोहं भावेन पूजयेत् || विषय पुष्पाणि यथा || अनाया चानहंकारमरागममदं तथा | अमोहकमदंतञ्च अद्धेषा भक्षकौ पुनः || अमात्सर्यमलोभञ्च दयात्मानम्विदुर्बुधाः | अहिंसा परमं पुष्पमिन्द्रिया निग्रहं तथा || दया पुष्पं क्षमापुष्पं ज्ञानपुष्पंञ्च पञ्चमं | इत्यष्ट सप्तभिः पुष्पैः पूजयेत् परदेवतां || इति पूजनं || मालापञ्चाशिका प्रोक्ता शूत्रं शक्ति शिवात्मकं | ग्रन्थितां कुण्डली शक्ति कलान्ते मेरुसंस्थितिः || तेन अकारादि लकारान्तं लकारादि अकारान्तं क्षं मेरुकं कृत्वा जप्त्वा परतेजसि समर्पयेत् || अथ होमः || आत्मानमपरिच्छिन्नं विभाव्य आत्मान्तरान्त परमात्मज्ञानात्म स्वरूपं ११३ब्)
SK
चतुरस्र चित्कुण्डलग्नमेखला युतं | अर्द्धमात्रा कृति योनि भूषितं | नाभौ ध्यात्वा तन्मध्यस्थ ज्ञानाग्नौ जुहुयात् || मूलान्त नाभौ चैतन्यरूपाग्नौ मनसाह विषाश्रुचाज्ञान प्रदीपित नित्यमन्त्रवर्ती जुहो * * *? हा || अनेन प्रथमाहुतिं दद्यात् || ततोमूलान्त || धर्माधर्म हविर्दीप्तावात्माग्नौ मनसा श्रुचा | सुषुम्ना वर्त्मना नित्य * * * * * * * *? || इति द्वितीय हुतिं दद्यात् || मूलान्ते || प्रकाशाकाश हस्ताभ्यामवलम्ब्योन्मनी श्रुवे(?) | धर्माधर्म कला स्नेह पूर्ण * * * * * *? || तृतीयाहुतिं दद्यात् || मूलान्ते || अन्तरमिरन्तरनिरिन्धन मेधमाने मोहान्धकार परिपक्षिति सम्वि * * जुहोमि वसुधादि शिवावसानं || इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्म मयो भवेत् | म * *? पापपुण्य * * * *? भवेद्ध्रुवं || अथ गायत्री कुमारीतन्त्रे || कालिकायै पदं प्रोक्ता विद्महे तदनन्तरं | श्मशानवासिनी * * *? महीति ततो वदेत् || तन्नो घोरपदं प्रोच्यं प्रचोदयात् पठेदिति | तेन कालिकायै विद्महे धीमहि तन्नो घोरे प्रचोदयात् || अस्याः(?) स्मरण मात्रेण महापातक कोटयः | सत्यं प्रलय मायान्ति साधकस्य न चान्यथा || ११४अ) अथातः संप्रवक्ष्यामि येन वै दक्षिणा विधिं | सर्वसिद्धि प्रदं साक्षान् महापातकनाशनं || देवैर्देवत्व विषये सिद्धैश्च वलसिद्धये | पन्नगैराक्षसैर्मर्त्यैर्मुनिभिश्च मुमुक्षुभिः || सदा | देवीन्दक्षिणसंज्ञान्तां प्रवक्ष्यामि यथाविधिं || तथा || गद्य पद्य मयीं वाणी सभायां तस्य जायते | तस्य दर्शन मात्रेण वादिनो निःप्रभा मताः || राजानोपि च दासत्वं भजन्ते किं परे जनाः | वह्नेः सैत्यं जलस्तम्भं गतिस्तम्भं विवस्वतः || दिवा रात्रि व्यत्ययञ्च वशी कर्तृ क्षणाद् भवेत् | सर्वस्य हि जनस्येह वल्लभः कीर्ति वर्द्धनः || अन्ते च भजते देव्या गणत्वं दुर्लभं नरैः | चन्द्रसूर्य प्रभो भूत्वा वसेत् कल्पायुतं दिवि || ब्रह्महत्या सुरापानमगम्यागमनन्तथा | सर्वानाशुभवत्येव दक्षिणामेव चिन्तयेन् ||
SK
वागीशस्य समो वाचि धनिर्द्धनपतिर्भवेत् | कामतुल्यश्च नारीणामरीणाञ्च यमोपमः || सर्वमेतद् भवत्याशु योनि मुद्रा निबन्धनात् | इत्येवमादिकं चोक्तमन्यत् किं कथ्यताम्पुनः || न तस्य दुर्लभं किञ्चिद् यः स्मरेद् घोरदक्षिणां || अथ प्रातःकृत्यादि मातृकान्तं कर्मसमाप्य ऋष्यादि न्यासं कुर्यात् || तदुक्तं कालिकोपनिषत्सु || भैरवोऽस्य ऋषिरनुष्टुप्छन्दः कालिका देवता क्लीṁ वीजं ११४ब्) हूं शक्तिः ह्रीṁ कीलकं कवित्वार्थे विनियोगः || इमे ऋषिच्छन्दे दैवतं ज्ञात्वा मन्त्रस्य फलमम्त्र?तेत्यादि | अस्य मन्त्रस्य भैरव ऋषिरनुष्टुप्च्छन्दो दक्षिणे कालिके देवता क्रीṁ बीजं कूं शक्तिः क्रीं कीलकं अनिरुद्ध सरस्वती कथितार्थे जपे विनियोगः | इति स्मृत्वा शिरो वदन हृत्सु विन्यस्य षडङ्ग न्यासं कुर्यात् || तदुक्तं || षड्दीर्घ वर्गाद्याश्च?न वह्नि बिन्दु युतेन च | षडङ्ग * *? सेन्मन्त्री तिःसकृद्वा यथाक्षमं || वर्गाद्याद्यः ककारः | षड्दीर्घ युक्तेन वह्नी रेफः | बिन्दुरनु * हृदयाय नम इत्याद् क्रमेण त्रिः सकृद्वा न्यसेत् || अङ्गुष्ठाकनिष्ठान्तं हृतयादिषु च || तथा || त्रिधाधा * * * *? पि मूले मन्त्रेण सप्तधा समस्तो *? प्रकुर्वीत शोधितं मन्त्रवित्तमः || ततो यथोक्त रूपान्तां ध्यायेत् || देवीन्दक्षिणां यदा || कराल * * * * * * चामुण्डां दक्षिणा दिव्यां मुण्डमाला विभूषितां | सद्यः कृत्त शिरः खड्ग वामोर्द्धाधः कराम्बुजां || अभय *? रव * *? दक्षिणाचार्द्ध पाणिकां | महामेघ प्रभा श्यामां तथा चैव दिगम्बरा || कण्ठावशक्ते मुण्डाली गलद्रुधिर चर्चितां | कर्णावतं सतांसीत शरयुग्म भयानकां || घोरदंष्ट्रां करालास्यां पीनोन्नत पयोधरां | शवानां करसंघातैः कृ *? काञ्चीं हसन्मुखीं || सृक्क द्वयगलद्रक्त धारा विस्फुरिताननां | ११५अ) घोररूपां महारौद्रीं श्मशानालयवासिनीं | एवं यश्चिन्तयेद् देवीं सर्वकामसमृद्धिदां || तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः | शवरूपमहादेव हृदयोपरिसंस्थितां ||
SK
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्वितां | महाकालेन च समं विपरीत रतान्तुरां || मुखप्रसन्न वदनां स्मेरानन सरोरुहां | एवं ध्यात्वा मानसैरुपचारैः संपूज्यार्घ स्थापनं कुर्यात् || ततो यन्त्रं पुरतो निधाया वाहयेत् || यन्त्रं यथा || त्रिकोणं विन्यसेत् पूर्वं पुनश्चापि त्रिकोणकं | नवकोणं न्यसेत् तत्र तन्मध्ये स्थापयेच्छिवां || एवम्पञ्च दशात्मकं पत्रमित्यर्थः || केषाञ्चिन्मते षट्कोणान्तर्गतं नवकोणं || केषां चिन्मते पञ्चप्रकारात्मक मन्त्र वाक्य भेदेन तत्सुरूप देशात् || ज्ञातव्यमुभयस्यैव प्रामाणिक त्वादिति | एवञ्च यन्त्रं पुरतो निधाय यथोक्तरूपां ध्यात्वा मूलेनावाह्यावाहनादि मुद्राः प्रदर्श्य मूलेन पाद्यादिकं दत्वा पञ्चदशकोणे वामावर्तेन पूजयेत् || यथा कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीं | विप्रचित्तां न्यसेच्चैव वहिः षट्कोणके वुधः || उग्रामुग्र प्रभां दीप्तां अपरे त्रिकोणके न्यसेत् | नीलांघनां वलाकाञ्च तथैवान्यत् त्रिकोणके || मात्रां मुद्रा च मित्राञ्च न्यसेच्चन्यत् त्रिकोणके | सर्वाः श्यामा चासिक चामुण्डमालाविभूषणा || ११५ब्) तर्जनी वामके हस्त धारयन्त्यश्च सस्मिताः | तेन वहिर्व्ययक्रम्य अन्तः पर्यन्तं || ॐ काल्यै नमः || इत्यादि क्रमेण पूजयेत् || तथा || वहिर्मण्डलकेरापि ब्राह्मी नारायणी तथा | माहेश्वरी च चामुण्डां कौमारीं चापराजितां || वाराहीञ्च तथा भ्यर्च्य * * * *? ननन्तरं | सर्वासामपि वै देयो वलिः पूजनमेव च || अनुलेपनकं चापि विभवेनोपकल्पि?तं | स्त्रिः पूजाविधातव्या सर्वा * * *? म *? सर्वदा || ततो देवी शिरसि पुष्पं चन्दनादिकं दत्वा नैवेद्यादिकं निवेद्य त्रिस्तिर्पयित्वा महाकालं च स * *? यथाशक्ति जप्त्वा जपं समर्प्य * * धारयेदिति || तदुक्तं || संपूज्य यत्नतश्चापि * * *? विनिवेदये * * * हृदये चैव पवीस्वे(?) समर्प्य विधिवत् पुनः | नैर्-ऋत्यां स्वऽशुचौ देशे धारनीयं स *? वुधैः(?) | इत्यादि(?) दर्शनात् || अथ पुरश्चरणं ||
SK
लक्षं चैव जपेन्मन्त्री हविष्यासि दिवासुचिः | अशुचिश्च दिवारत्रौ लक्षमेकं तथा जपेत् || दशांशं होमयेन् मन्त्री तर्पयेदभिषेचयेत् | होमेपि तर्पणे चैव पूजावत् कथितो विधिः || एवन्देवीं कलुषे दहनीम् पूजयित्वा यथावद् दत्वा तावद् वलिमपि तथा(? 116a) atha yantroddhāre'ṣṭa dalādau kiṃ pramāṇaṃ tatra māstīti kecit || tatra granthāntara darśanāt || taduktaṃ kālikopaniṣatsu || trikoṇaṃ trikoṇaṃ navakoṇaṃ padmaṃ tasmin devīṃ sarvāṅgenābhyarcya ityādi || evaṃ ca lakṣadvayameva puraścaraṇamiti kecit | vastuto lakṣameva puraścaraṇaṃ | ata evoktaṃ || kālikopaniṣatsu || evaṃ mantrarājaṃ lakṣamāvartayet | sapāpmānaṃ taratītyādi darśanāt || yat tu lakṣadvaye muktaṃ tat prakaraṇa bhedenādhika phalārthamiti bhāvaḥ || ata evoktamupaniṣatsulakṣamabhidhāya || atha haināṃ kālikāmanujāpīyaḥ sa bhāvātmādiva brahmacārī rātrau nagnaḥ sadā maithunāśaktamanya japapūjādi niyato bhagodakena tarpaṇaṃ saha tyāntaretītyādi || atha kāmyāni || nāgayajñopavītāñca candrārddhakṛtaśeṣarāṃ | jaṭājūṭāñca sañcintya mahākālasamīpagāṃ || kūrcaṃ lajjā yugambīja yugmānte ca tathaiva ca | evaṃ sañcintya devīñca raktapuṣpaiḥ samarcayet || kāmavāna samāviddhā niryānti vihvalāḥ striyaḥ | svaṃ svaṃ santyajya bhartāra māliṅganti sa daivataṃ || ante tathaivetyatra dakṣiṇa kālike ityasyānte bījāni likhedityarthaḥ | lohitāṃ śūlahastāntāmekāṃśūladharāṃ parāṃ | mahākālasaṃsthāñca dhyātvā puṣpaistu pītakaiḥ || abhyarcyaikaikaśaścādye tantraivāntepi yojayet | 116b) pātālapatagañcāpiti * * * * * * * * * ku * * * * * * * * * * * * unclear 117a) sarvavidyāvatāṃ śreṣṭho bhaven naivātra saṃśayaḥ || ṛtumatyā bhagaṃ paśyan prajapedayutaṃ naraḥ | anārthakāpi tadvāṇī gadya padya mayī bhavet || chandovaddhāparaṃ tasya vāṇī vaktrāt prajāyate | surateṣu ca japtavyaṃ mahāpātaka muktaye ||
SK
धनागमाय च तथा परयोषित् समागमे | यदि योषिन्न संसर्गे तदा रेतः प्रयत्नतः || समुत्सार्य ततो जप्यं सर्वकामार्थसिद्धये | श्मशानालयमागत्य मुक्तकेशो दिगम्वरः || जपेदयुतसंख्यन्तु सर्वकामार्थसिद्धये | तत्रैव प्रेतमारुह्य योजपेन् मन्त्रवित्तमः || अयुतं मैथुनी भूत्वा विभोः सत्व परायणः | सयाति परमां सिद्धिं देविरपि सुदुर्लभां || आकर्षणवशीकारो वन्धनोच्चाटनादयः | स्तम्भनं मोहनं चैव त्रासनं ह्रासनं तथा || वाग्मित्वञ्च धनित्वञ्च वहुपुत्रत्व मेव च | वहुवल्लभतां प्राप्य सर्वं प्रियत्वमेव च || स याति खेचरत्वं च देवत्वमपि चैव हि | न जरा न च वै रोगो न मृत्युर्न च नालयं || न वा प्रीतिर्मनुष्यत्वेन न च वाक्काय पातनं | अथवा स भवेन् नित्यं चतुर्विंशति सिद्धि युक् || स्वदेहरुधिराक्तेन विल्वपत्रेण सहस्रशः | श्मशानेऽभ्यर्च्य देवीं तु वागीश समतां व्रजेत् || रेता युक्तेन पत्रेण वाभ्यर्च्येह सहस्रशः | श्मशानभ्यर्च्य देवीं तु सर्वसिद्धिं स विन्दति || धनवान् वलवान् वाग्मी सर्वयोषित् प्रियो भवेत् | ११७ब्) सुखी स्यान्नात्र संदेहो महाकाल वचा यथा | श्मशा * * * * * * * * * * * उन्च्लेअर् ११८अ) युगानामयुतं तेन दक्षिणा पूजिता भवेत् || सर्वसिद्धिर्भवेतस्य वाग्मी वीरश्च जायते | न तस्य दुर्लभं किञ्चित् पृथिव्यां यदि विद्यते || योनि रूपं च कुण्डं वै कृत्वा वितस्ति मानतः | हस्त विस्तारितस्तावत् कृत्वा चापि तथाप्यधः || तत्र कार्या हि मन्त्रेण वह्निस्थापन का क्रिया | महाकालाय देवाय दद्यात् प्रथममाहुतिं || ध्रुवं मांसेन चाप्येन भक्तेन रुधिरेण च | कृष्णपुष्पेण चार्घेण स्वरक्तेन विशेषतः || आमिषादतिरप्येवं जुहुयात् श्मशानालये | स्नातः शुक्लाम्वर धरः शुचिः प्रयतमानसः || दिवा चैव प्रकर्तव्यं सर्वकामार्थ सिद्धये | रात्रौ नग्नो मुक्तकेशो मैथुनेषु व्यवस्थितः ||
SK
द्विजानां चैव सर्वेषां द्विविधश्चात्र कथ्यते | शूद्राणां चैव सर्वेषां दिवारात्रि महाव्रतं || इत्यादि संक्षेपः || अथ भद्रकाली मन्त्रः || फेत्कारिणीतन्त्रे || प्रासादनी बीजमुद्धृत्य कालीति पदमुद्धरेत् | महाकालि पदं चोक्त्वा किलि युग्ममतः परं || फडन्तोऽग्नि प्रियान्तोयं भद्रकाली महामनुः | प्रसाद वीजं हौṁ अग्नि प्रिया स्वाहा || तेन हौṁ कालिमहाकालि किलि किलि फट् स्वाहा || तथा || आराध्य प्रजपेन् मन्त्रं नित्यमष्टोत्तरं शतं | विधुमालाविधातव्या अष्टाधिक शतेन च || ध्यातव्ये यं महादेवीं भद्रकालीं भयापहां | ११८ब्) क्षुत्कामाकोटरा * * * * * * * * *? केशी तु दन्ती नाहं सुप्ता सुदन्ती जगदखिलमिदं ग्रासमेकं करोमि |* भकाली || प्रयागमत्र क * * * * * * * *? लोद्धृतं * *? देवी महादेवी शत्रुविग्रहकारिणी || यथेष्ट चिन्तया देवी धर्मकामार्थ मुक्तिदा | अत्र * *? पुन * * विशेषानभिधानादिति संक्षेपः | विधुमाला नरास्थि माला(?) उपाशनादि * * *? तथा * * * * *? | अथ महाकाली मन्त्रः | फेत्कारिणीतन्त्रे || अथातः संप्रवक्ष्यामि महाकाली महामनुं | प्रलयाग्नी स * * * * * * * * * * नादबिन्दुसमायुक्ता यैवं क्रोढ द्वयं पुनः | पशु गृहाण पदतो वर्मास्त्रा नल वल्लभाश्चतुर्दशाक्षरी * * रुधिरो रेफः | ऊर्द्धकेशी एकारः || तेन फ्रेṁ फ्रेṁ क्रोध द्वयं हूं हूं वर्म हूं | अस्त्रं फट् | अनल वल्लभा स्वाहा | ध्रुव ॐ || तेन ॐ फ्रेṁ फ्रेṁ हूṁ हूṁ पशुं गृहाण हूं फट् स्वाहा || तथा न्यास शुद्धीन् साध्यादि नात्र किञ्चिद् विचारणा | ११९अ) कृष्णतोयेन संपूर्णे कृष्णकुम्भेथ कालिकां | दिक्षु ब्राह्म्यादि भूतीभिर्युक्तां संपूज्य भक्तिमानित्यादि || इह यद्यपि न्यासादिकं न लिखितं सामान्य पटलोद्धृतं कर्तव्यं दक्षिण काली मन्त्रोक्तवत् | तत्प्रकरणात् स्तुति परम्वा || अथवा विशेष न्यासादि निषेधः || अथ ध्यानं || पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्र त्रिलोचनां | शक्तिशूलधनुर्वाण खड्गखेटवराभयान् ||
SK
दक्षादक्ष भुजैर्देवीं विद्राणां परिभूषितां | ध्यात्वैवं साधकः साध्यं साधयेत् मनसेप्सितं || पूर्वादीशान पर्यन्तं दुत्यः कुम्भाङ्गसंस्थितां | तेन पूर्वादीशानपर्यन्तं ब्राह्म्यादि शक्तीः पूजयेदित्यर्थः || तथा कर्णिकां ततः काली * * * महापहां | नामाच्चरेण संरुद्धे वह्नौ प्रज्वलिते पुरे || जुहुयाद् वैरिणां शुद्धो देवी मन्त्रं जपन् तथा | समिधः पिचुमर्दस्य विभीव्रतेति काष्टिका || हरीविराजिका कञ्चुकश्च जाम प्रलम्बिकां | गृहधूम श्मशानास्थि विभीताङ्गार होमतः || सप्ताद्वैरिणं हन्ति कालिकामन्त्र योगतः | उच्चाटमपगाह्ने च सन्ध्यायां मारणन्तथा || दक्षिणस्यां दिशि स्थिताग्रामादेर्दक्षिणामुख इत्यादि इत्यादि || विचुमर्दो निम्बो विभीव्रततिरमृता गृह धूमः सोन इति ख्यातः | अत्रापि पुरश्चरणं पूर्ववत् || अष्टौ सहस्राणि वा विशेषानभिधानादिति संक्षेपः || ११९ब्) श्रीरमारमणदेवशर्मणा निर्मिते निगमसारनिर्णये | कालिकामनुविधानपूजनध्यान भुविभृतकः पटलोयं ||

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. nigamasāranirṇaya [M00321].

Source