Sutras on Distinctions

Vaiśeṣikasūtra · Vऐशेषिकसूत्र

Sutras on Distinctions

Vaiśeṣikasūtra

Vऐशेषिकसूत्र

SK
वैशेषिकसूत्रम्
SK
अथातो धर्मं व्याख्यास्यामः | KVस्_१,१.१ |
SK
यतो ऽभ्युदयनिःश्रेयससिद्धिः स धर्मः | KVस्_१,१.२ |
SK
तद्वचनाद् आम्नायप्रामाण्यम् (U,V,Bह्V आम्नायस्य प्रामाण्यम्) | KVस्_१,१.३ |
SK
पृथिव्य् आपस् तेजो वायुर् आकाशं कालो दिग् आत्मा मन इति द्रव्याणि | KVस्_१,१.४ |
SK
रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश् च गुणाः | KVस्_१,१.५ |
SK
उत्क्षेपणम् अवक्षेपणम् आकुञ्चनं प्रसारणं गमनम् इति कर्माणि | KVस्_१,१.६ |
SK
सद् अनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवद् इति द्रव्यगुणकर्मणाम् अविशेषः | KVस्_१,१.७ |
SK
द्रव्याणि द्रव्यान्तरम् आरभन्ते | KVस्_१,१.८ |
SK
गुणाश् च गुणान्तरम् | KVस्_१,१.९ |
SK
कर्म कर्मसाध्यं न विद्यते | KVस्_१,१.१० |
SK
कार्याविरोधि द्रव्यं कारणाविरोधि च | KVस्_१,१.११ |
SK
उभय्तथा गुणः | KVस्_१,१.१२ |
SK
कार्यविरोधि कर्म | KVस्_१,१.१३ |
SK
क्रियावद् गुणवत् समवायिकारणम् इति द्रव्यलक्षणम् | KVस्_१,१.१४ |
SK
द्रव्याश्रय्य् अगुणवान् संयोगविभागेष्व् अकारणम् अनपेक्ष इति गुणलक्षणम् | KVस्_१,१.१५ |
SK
एकद्रव्यम् अगुणं संयोगविभागेष्व् अनपेक्षं कारणम् इति कर्मलक्षणम् | KVस्_१,१.१६ |
SK
द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् | KVस्_१,१.१७ |
SK
तथा गुणः | KVस्_१,१.१८ |
SK
संयोगविभागानां कर्म | KVस्_१,१.१९ |
SK
न द्रव्याणां व्यतिरेकात् | KVस्_१,१.२० |
SK
गुणवैधर्म्यान् न कर्मणां | KVस्_१,१.२१ |
SK
द्रव्याणां द्रव्यं कार्यं सामान्यम् | KVस्_१,१.२२ |
SK
द्वित्वप्रभृतयश् च संख्याः पृथक्त्वं संयोगविभागाश् च | KVस्_१,१.२३ |
SK
असमवायात् सामान्यं कर्म कार्यं न विद्यते | KVस्_१,१.२४ |
SK
संयोगानां द्रव्यम् | KVस्_१,१.२५ |
SK
रूपानां रूपम् | KVस्_१,१.२६ |
SK
गुरुत्वप्रयत्नसंयोगानाम् उत्क्षेपणम् | KVस्_१,१.२७ |
SK
संयोगविभागाः कर्मणाम् | KVस्_१,१.२८ |
SK
कारणसामान्ये द्रव्यकर्मणां कर्माकारणम् उक्तम् | KVस्_१,१.२९ |
SK
कारणाभावात् कार्याभावः | KVस्_१,२.१ |
SK
न तु कार्याभवात् कारणाभावः | KVस्_१,२.२ |
SK
सामान्यं विशेष इति बुद्ध्यपेक्षम् | KVस्_१,२.३ |
SK
भावः सामान्यम् एव | KVस्_१,२.४ |
SK
द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश् च | KVस्_१,२.५ |
SK
अन्यत्रान्त्येभ्यो विशेषेभ्यः | KVस्_१,२.६ |
SK
सद् इति यतो द्रव्यगुणकर्मसु | KVस्_१,२.७ |
SK
द्रव्यगुणकर्मभ्यो ऽर्थान्तरं सत्ता | KVस्_१,२.८ |
SK
एकद्रव्यवत्त्वान् न द्रव्यम् | KVस्_१,२.९ |
SK
गुणकर्मसु च भावान् न कर्म न गुणः | KVस्_१,२.१० |
SK
सामान्यविशेषाभावाच् च | KVस्_१,२.११ |
SK
एकद्रव्यवत्त्वेन द्रव्यत्वम् उक्तम् | KVस्_१,२.१२ |
SK
सामान्यविशेषाभावेन च | KVस्_१,२.१३ |
SK
गुणे भावाद् गुणत्वम् उक्तम् | KVस्_१,२.१४ |
SK
सामान्यविशेषाभावाच् च | KVस्_१,२.१५ |
SK
कर्मणि भावात् कर्मत्वम् उक्तम् | KVस्_१,२.१६ |
SK
सामान्यविशेषाभावाच् च | KVस्_१,२.१७ |
SK
सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच् चैको भावः | KVस्_१,२.१८ |
SK
रूपरसगन्धस्पर्शवती पृथिवी | KVस्_२,१.१ |
SK
रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश् च | KVस्_२,१.२ |
SK
तेजो रूपस्पर्शवत् | KVस्_२,१.३ |
SK
वायुः स्पर्शवान् | KVस्_२,१.४ |
SK
त आकाशे न विद्यन्ते | KVस्_२,१.५ |
SK
सर्पिर्जतुमधूच्छिष्टानां पार्थिवानाम् अग्निसंयोगाद् द्रवताद्भिः सामान्यम् | KVस्_२,१.६ |
SK
त्रपुसीसलोहरजतसुवर्णानां तैजसानाम् अग्निसंयोगाद् द्रवताद्भिः सामान्यम् | KVस्_२,१.७ |
SK
विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् | KVस्_२,१.८ |
SK
स्पर्शश् च | KVस्_२,१.९ |
SK
न च दृष्टानां स्पर्श इत्य् अदृष्टलिङ्गो वायुः | KVस्_२,१.१० |
SK
अद्रव्यवत्त्वाद् द्रव्यम् (C,V,Bह्V U अद्रव्यवत्त्वेन) | KVस्_२,१.११ |
SK
क्रियावत्त्वाद् गुणवत्त्वाच् च (V ओमित्स्) | KVस्_२,१.१२ |
SK
अद्रव्यवत्त्वेन नित्यत्वम् उक्तम् (C,Bह्V) (V अद्रव्यत्वेनानित्यम्, U अद्रव्यत्वेन) | KVस्_२,१.१३ |
SK
वायोर् वायुसंमूर्च्छनं नानात्वे लिङ्गम् | KVस्_२,१.१४ |
SK
वायोर् इति सति स्न्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते | KVस्_२,१.१५ |
SK
सामान्यतोदृष्टाच् चाविशेषः | KVस्_२,१.१६ |
SK
तस्माद् आगमिकम् | KVस्_२,१.१७ |
SK
संज्ञाकर्म त्व् अस्मद्विशिष्तानां लिङ्गम् | KVस्_२,१.१८ |
SK
प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः | KVस्_२,१.१९ |
SK
निष्क्रमणं प्रवेशनम् इत्य् आकाशस्य लिङ्गम् | KVस्_२,१.२० |
SK
तद् अलिङ्गम् एकद्रव्यवत्त्वात् कर्मणः | KVस्_२,१.२१ |
SK
कारणान्तरानुक्Ṝप्तिवैधर्म्याच् च | KVस्_२,१.२२ |
SK
संयोगाद् अभावः कर्मणः | KVस्_२,१.२३ |
SK
कारणगुणपूर्वः कार्ये गुणो दृष्टः कार्यान्तराप्रादुर्भावाच् च शब्दः स्पर्शवताम् अगुणः | KVस्_२,१.२४ |
SK
परत्र समवायात् प्रत्यक्षत्वाच् च नात्मगुणो न मनोगुणः | KVस्_२,१.२५ |
SK
लिङ्गम् आकाशस्य | KVस्_२,१.२६ |
SK
द्रव्यत्वनित्यत्वे वायुना व्याख्याते | KVस्_२,१.२७ |
SK
२८ तत्त्वं भावेन | KVस्_२,१ | पुष्पवस्त्रयोः सति सन्निकर्षे गन्धान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् | KVस्_२,२.१ | एतेनाप्सूष्णता व्याख्याता | KVस्_२,२.२ | व्यवस्थितः पृथिव्यां गन्धः | KVस्_२,२.३ | तेजस्य् उष्णता | KVस्_२,२.४ | अप्सु शीतता | KVस्_२,२.५ | अपरस्मिन् परं युगपद् अयुगपच् चिरं क्षिप्रम् इति काललिङ्गानि | KVस्_२,२.६ | द्रव्यत्वनित्यत्वे वायुना व्याख्याते | KVस्_२,२.७ | तत्त्वं भावेन | KVस्_२,२.८ | कार्यविशेषेण नानात्वम् | KVस्_२,२.९ | नित्येष्व् अभावाद् अनित्येषु भावात् | KVस्_२,२.१० | कारणे कालाख्या | KVस्_२,२.११ | इत इदम् इति यतस् तद् दिशो लिङ्गम् | KVस्_२,२.१२ | द्रव्यत्वनित्यत्वे वायुना व्याख्याते | KVस्_२,२.१३ | तत्त्वं भावेन | KVस्_२,२.१४ | कार्यविशेषेण नानात्वम् | KVस्_२,२.१५ | आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच् च प्राची | KVस्_२,२.१६ | तथा दक्षिणा प्रतीच्य् उदीचि च | KVस्_२,२.१७ | एतेन दिगन्तराणि व्याख्यातानि | KVस्_२,२.१८ | सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश् च संशयः | KVस्_२,२.१९ | दृष्टम् अदृष्टाम् | KVस्_२,२.२० | दृष्टं च दृष्टावत् | KVस्_२,२.२१ | दृष्टं यथादृष्टाम् अयथादृष्टाम् उभयथादृष्टत्वात् | KVस्_२,२.२२ | विद्याविद्यातश् च संशयः | KVस्_२,२.२३ | श्रोत्रग्रहणो यो ऽर्थः स शब्दः | KVस्_२,२.२४ | तस्मिन् द्रव्यं कर्म गुण इति संशयः | KVस्_२,२.२५ | तुल्यजातीयेष्व् अर्थान्तरभूतेषु च विशेषस्योभयथा दृष्टत्वात् | KVस्_२,२.२६ | एकद्रव्यवत्त्वान् न द्रव्यम् | KVस्_२,२.२७ | अचाक्षुषत्वान् न कर्म | KVस्_२,२.२८ | गुणस्य सतो ऽपवर्गः कर्मभिः साधर्म्यम् | KVस्_२,२.२९ | सतो लिङ्गाभावात् | KVस्_२,२.३० | नित्यवैधर्म्यात् | KVस्_२,२.३१ | कार्यत्वात् | KVस्_२,२.३२ | अभावात् | KVस्_२,२.३३ | कारणो विकारात् | KVस्_२,२.३४ | दोषात् | KVस्_२,२.३५ | संयोगाद् विभागाच् छब्दाच् च शब्दनिष्पत्तेः | KVस्_२,२.३६ | लिङ्गाच् चानित्यः | KVस्_२,२.३७ | द्वयोस् तु प्रवृत्त्योर् अभावात् | KVस्_२,२.३८ | संख्याभावात् | KVस्_२,२.३९ | प्रथमाशब्दात् | KVस्_२,२.४० | सम्प्रतिपत्तिभावाच् च | KVस्_२,२.४१ | सन्दिग्धाः सतिबहुत्वे | KVस्_२,२.४२ | संख्याभावः सामान्यतः | KVस्_२,२.४३ |
SK
प्रसिद्धा इन्द्रियार्थाः | KVस्_३,१.१ |
SK
इन्द्रियार्थप्रसिद्धिर् इन्द्रियार्थेभ्यो ऽर्थान्तरत्वे हेतुः | KVस्_३,१.२ |
SK
सो ऽनपदेशः | KVस्_३,१.३ |
SK
कारणाज्ञानात् | KVस्_३,१.४ |
SK
कार्याज्ञानात् | KVस्_३,१.५ |
SK
अज्ञानाच् च | KVस्_३,१.६ |
SK
अन्य एव हेतुर् इत्य् अनपदेशः | KVस्_३,१.७ |
SK
संयोगि समवाय्य् एकार्थसमवायि विरोधि च, कार्यं कार्यान्तरस्य, कारणं कारणान्तरस्य, विरोध्य् अभूतं भूतस्य, भूतम् अभूतस्य, अभूतम् अभूतस्य, भूतं भूतस्य | KVस्_३,१.८ |
SK
प्रसिद्धपूर्वकत्वाद् अपदेशस्य | KVस्_३,१.९ |
SK
अप्रसिद्धो ऽनपदेशः | KVस्_३,१.१० |
SK
असन् सन्दिग्धश् चानपदेशः | KVस्_३,१.११ |
SK
विषाणी तस्माद् अश्वो विषाणी तस्माद् गौर् इति च | KVस्_३,१.१२ |
SK
आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन् निष्पद्यते तद् अन्यत् | KVस्_३,१.१३ |
SK
प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् | KVस्_३,१.१४ |
SK
आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश् च मनसो लिङ्गम् | KVस्_३,२.१ |
SK
द्रव्यत्वनित्यत्वे वायुना व्याख्याते | KVस्_३,२.२ |
SK
प्रयत्नायौगपद्याज् ज्ञानायौगपद्याच् चैकं मनः | KVस्_३,२.३ |
SK
प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्नश् चेत्य् आत्मलिङ्गानि | KVस्_३,२.४ |
SK
द्रव्यत्वनित्यत्वे वायुना व्याख्याते | KVस्_३,२.५ |
SK
यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते | KVस्_३,२.६ |
SK
सामान्यतोदृष्टाच् चाविशेषः | KVस्_३,२.७ |
SK
तस्माद् आगमिकम् | KVस्_३,२.८ |
SK
अहम् इति शब्दव्यतिरेकान् नागमिकम् | KVस्_३,२.९ |
SK
यदि च दृष्टप्रत्यक्षो ऽहं देवदत्तो ऽहं यज्ञदत्त इति | KVस्_३,२.१० |
SK
देवदत्तो गच्छति विष्णुमित्रो गच्छतीति चोपचाराच् छरीरप्रत्यक्षः | KVस्_३,२.११ |
SK
सन्दिग्धस् तूपचारः | KVस्_३,२.१२ |
SK
अहम् इति प्रत्यगात्मनि भावात् परत्राभावाद् अर्थान्तरप्रत्यक्षः | KVस्_३,२.१३ |
SK
न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्रयोर् ज्ञानविशेषः | KVस्_३,२.१४ |
SK
सुखदुःखज्ञाननिष्पत्त्यविशेषाद् ऐकात्म्यम् | KVस्_३,२.१५ |
SK
नाना व्यवस्थातः | KVस्_३,२.१६ |
SK
शास्त्रसामर्थ्याच् च | KVस्_३,२.१७ |
SK
सद् अकारणवत् तन् नित्यम् | KVस्_४,१.१ |
SK
तस्य कार्यं लिङ्गम् | KVस्_४,१.२ |
SK
कारणभावाद् धि कार्यभावः | KVस्_४,१.३ |
SK
अनित्यम् इति च विशेषप्रतिषेधभावः | KVस्_४,१.४ |
SK
अविद्या च | KVस्_४,१.५ |
SK
महत्य् अनेकद्रव्यवत्त्वाद् रूपाच् चोपलब्धिः | KVस्_४,१.६ |
SK
अद्रव्यवत्त्वात् परमाणाव् अनुपलब्धिः | KVस्_४,१.७ |
SK
रूपसंस्काराभावाद् वायाव् अनुपलब्धिः | KVस्_४,१.८ |
SK
अनेकद्रव्येण द्रव्येण समवायाद् रूपविशेषाच् चोपलब्धिः | KVस्_४,१.९ |
SK
एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् | KVस्_४,१.१० |
SK
तदभावाद् अव्यभिचारः | KVस्_४,१.११ |
SK
संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच् चाक्षुषाणि | KVस्_४,१.१२ |
SK
अरूपिष्व् अचाक्षुषत्वात् | KVस्_४,१.१३ |
SK
एतेन गुणत्वे भावे च सर्वेन्द्रियज्ञानं व्याख्यातम् | KVस्_४,१.१४ |
SK
प्रत्यक्षाप्रत्यक्षाणाम् अप्रत्यक्षत्वात् संयोगस्य पञ्चात्मकं न विद्यते | KVस्_४,२.१ |
SK
गुणान्तराप्रादुर्भावाच् च त्र्यात्मकम् अपि न | KVस्_४,२.२ |
SK
आत्मसंयोगस् त्व् अविप्रतिषिद्धो मिथः पञ्चानाम् | KVस्_४,२.३ |
SK
अनेकदेशपूर्वकत्वात् | KVस्_४,२.४ |
SK
धर्मविशेषात् | KVस्_४,२.५ |
SK
कार्यविशेषात् | KVस्_४,२.६ |
SK
समाख्याभावात् | KVस्_४,२.७ |
SK
संज्ञादिमत्त्वात् | KVस्_४,२.८ |
SK
सन्त्य् अयोनिजा वेदलिङ्गाच् च | KVस्_४,२.९ |
SK
आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म | KVस्_५,१.१ |
SK
तथा मुसलकर्म हस्तसंयोगाच् च | KVस्_५,१.२ |
SK
अभिघातजे मुसलकर्मणि व्यतिरेकाद् अकारणं हस्तसंयोगः | KVस्_५,१.३ |
SK
तथात्मसंयोगो हस्तमुसलकर्मणि | KVस्_५,१.४ |
SK
मुसलाभिघातात् तु मुसलसंयोगाद् धस्ते कर्म | KVस्_५,१.५ |
SK
तथात्मकर्म हस्तसंयोगाच् च | KVस्_५,१.६ |
SK
संयोगाभावे गुरुत्वात् पतनम् | KVस्_५,१.७ |
SK
नोदनविशेषाभावाद् नोर्ध्वं न तिर्यग् गमनम् | KVस्_५,१.८ |
SK
प्रयत्नविशेषान् नोदनविशेषः | KVस्_५,१.९ |
SK
नोदनविशेषाद् उदसनविशेषः | KVस्_५,१.१० |
SK
हस्तकर्मणा दारककर्म व्याख्यातम् | KVस्_५,१.११ |
SK
तथा दग्धस्य विस्फोटनम् | KVस्_५,१.१२ |
SK
प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम् | KVस्_५,१.१३ |
SK
तृणकर्म वायुसंयोगात् | KVस्_५,१.१४ |
SK
मणिगमनं सूच्यभिसर्पणम् इत्य् अदृष्टकारितानि | KVस्_५,१.१५ |
SK
इषाव् अयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः | KVस्_५,१.१६ |
SK
नोदनाद् आद्यम् इषोः कर्म कर्मकारिताच् च संस्काराद् उत्तरं तथोत्तरम् उत्तरं च | KVस्_५,१.१७ |
SK
संस्काराभावे गुरुत्वात् पतनम् | KVस्_५,१.१८ |
SK
नोदनाद् अभिघातात् संयुक्तसंयोगाच् च पृथिव्यां कर्म | KVस्_५,२.१ |
SK
तद् विशेषेणादृष्टकारितम् | KVस्_५,२.२ |
SK
अपां संयोगाभावे गुरुत्वात् पतनम् | KVस्_५,२.३ |
SK
तद् विशेषेणादृष्टकारितम् | KVस्_५,२.४ |
SK
द्रवत्वात् स्यन्दनम् | KVस्_५,२.५ |
SK
नाड्या वायुसंयोगाद् आरोहणम् | KVस्_५,२.६ |
SK
नोदनात् पीडनात् संयुक्तसंयोगाच् च | KVस्_५,२.७ |
SK
वृक्षाभिसर्पणम् इत्य् अदृष्टकारितम् | KVस्_५,२.८ |
SK
अपां सङ्घातो विलयनं च तेजसः संयोगात् | KVस्_५,२.९ |
SK
तत्रावस्फूर्जथुर् लिङ्गम् | KVस्_५,२.१० |
SK
वैदिकं च | KVस्_५,२.११ |
SK
अपां संयोगाद् विभागाच् च स्तनयित्नुः | KVस्_५,२.१२ |
SK
पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् | KVस्_५,२.१३ |
SK
अग्नेर् ऊर्ध्वज्वलनं वायोश् च तिर्यग्पवनम् अणुमनसोश् चाद्यं कर्मेत्य् अदृष्टकारितानि | KVस्_५,२.१४ |
SK
हस्तकर्मणा मनसः कर्म व्याख्यातम् | KVस्_५,२.१५ |
SK
आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे तदनारम्भः | KVस्_५,२.१६ |
SK
आत्मस्थे मनसि सशरीरस्य सुखदुःखाभावः स योगः | KVस्_५,२.१७ |
SK
कायकर्मणात्मकर्म व्याख्यातम् | KVस्_५,२.१८ |
SK
अपसर्पणम् उपसर्पणम् अशितपीतसंयोगः कार्यान्तरसंयोगाश् चेत्य् अदृष्टकारितानि | KVस्_५,२.१९ |
SK
तदभावे संयोगाभावो ऽप्रादुर्भावः स मोक्षः | KVस्_५,२.२० |
SK
द्रव्यगुणकर्मवैधर्म्याद् भावाभावमात्रं तमः | KVस्_५,२.२१ |
SK
तेजसो द्रव्यान्तरेणावरणाच् च | KVस्_५,२.२२ |
SK
दिक्कालाव् आकाशं च क्रियावद्भ्यो वैधर्म्यान् निष्क्रियाणि | KVस्_५,२.२३ |
SK
एतेन कर्माणि गुणाश् च व्याख्याताः | KVस्_५,२.२४ |
SK
निष्क्रियाणां समवायः कर्मभ्यः प्रतिषिद्धः | KVस्_५,२.२५ |
SK
कारणं त्व् असमवायिनो गुणाः | KVस्_५,२.२६ |
SK
गुणैर् दिग् व्याख्याता | KVस्_५,२.२७ |
SK
कारणेन कालः | KVस्_५,२.२८ |
SK
बुद्धिपूर्वा वाक्यकृतिर् वेदे | KVस्_६,१.१ |
SK
न चास्मद्बुद्धिभ्यो लिङ्गम् ऋषेः | KVस्_६,१.२ |
SK
तथा ब्राह्मणे संज्ञाकर्मसिद्धिर् लिङ्गम् | KVस्_६,१.३ |
SK
बुद्धिपूर्वो ददातिः | KVस्_६,१.४ |
SK
तथा प्रतिग्रहः | KVस्_६,१.५ |
SK
तयोः क्रमो यथानितरेतराङ्गभूतानाम् | KVस्_६,१.६ |
SK
आत्मगुणेष्व् आत्मान्तरगुणानाम् अकारणत्वात् | KVस्_६,१.७ |
SK
अदुष्टभोजनात् समभिव्याहारतो ऽभ्युदयः | KVस्_६,१.८ |
SK
तद् दुष्टभोजने न विद्यते | KVस्_६,१.९ |
SK
दुष्टं हिंसायाम् | KVस्_६,१.१० |
SK
समभिव्याहारतो दोषः | KVस्_६,१.११ |
SK
तद् अदुष्टे न विद्यते | KVस्_६,१.१२ |
SK
विशिष्टे प्रवृत्तिः | KVस्_६,१.१३ |
SK
समे हीने चाप्रवृत्तिः | KVस्_६,१.१४ |
SK
एतेन हीनसमविशिष्तधार्मिकेभ्यः परादानं व्याख्यातम् | KVस्_६,१.१५ |
SK
तथा विरुद्धानां त्यागः | KVस्_६,१.१६ |
SK
सम आत्मत्यागः परत्यागो वा | KVस्_६,१.१७ |
SK
विशिष्टे आत्मत्यागः | KVस्_६,१.१८ |
SK
दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो ऽभ्युदयाय.(C,V) (U दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनम् अभ्युदयाय.) | KVस्_६,२.१ |
SK
अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थ्ययज्ञदानप्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश् चादृष्टाय | KVस्_६,२.२ |
SK
चातुराश्रम्यम् उपधाच् चानुपधाच् च/ | KVस्_६,२.३ | भावदोष उपधा | KVस्_६,२.४ | अदोषो ऽनुपधा | KVस्_६,२.५ | इष्टरूपरसगन्धस्पर्शं प्रोक्षितम् अभ्युक्षितं च तच् छुचि | KVस्_६,२.६ | अशुचीति शुचिप्रतिषेधः | KVस्_६,२.७ | अर्थान्तरं च | KVस्_६,२.८ | अयतस्य शुचिभोजनाद् अभ्युदयो न विद्यते यमाभावात् | KVस्_६,२.९ | विद्यते चानर्थान्तरत्वाद् यमस्य | KVस्_६,२.१० | असति चाभावात् | KVस्_६,२.११ | सुखाद् रागः | KVस्_६,२.१२ | तन्मयत्वात् | KVस्_६,२.१३ | तृप्तेः | KVस्_६,२.१४ | अदृष्टात् | KVस्_६,२.१५ | जातिविशेषाच् च रागविशेषः | KVस्_६,२.१६ | इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः | KVस्_६,२.१७ | ततः संयोगो विभागश् च | KVस्_६,२.१८ | आत्मकर्मसु मोक्षो व्याख्यातः | KVस्_६,२.१९ |
SK
उक्ता गुणाः | KVस्_७,१.१ |
SK
गुणलक्षणं चोक्तम् | KVस्_७,१.२ |
SK
इदम् एवंगुणम् इदम् एवंगुणम् इति चोक्तम् | KVस्_७,१.३ |
SK
पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्यत्वाद् अनित्याः | KVस्_७,१.४ |
SK
अग्निसंयोगाच् च | KVस्_७,१.५ |
SK
गुणान्तरप्रादुर्भावात् | KVस्_७,१.६ |
SK
एतेन नित्येष्व् अनित्यत्वम् उक्तम् | KVस्_७,१.७ |
SK
अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् | KVस्_७,१.८ |
SK
अनित्येष्व् अनित्या द्रव्यानित्यत्वात् | KVस्_७,१.९ |
SK
कारणगुणपूर्वाः पृथिव्यां पाकजाश् च | KVस्_७,१.१० |
SK
अप्सु तेजसि वायौ च कारणगुणपूर्वाः पाकजा न विद्यन्ते | KVस्_७,१.११ |
SK
अगुणवतो द्रव्यस्य गुणारम्भात् कर्मगुणा अगुणाः | KVस्_७,१.१२ |
SK
एतेन पाकजा व्याख्याताः | KVस्_७,१.१३ |
SK
एकद्रव्यवत्त्वात् | KVस्_७,१.१४ |
SK
अणोर् महतश् चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते | KVस्_७,१.१५ |
SK
कारणबहुत्वात् कारणमहत्त्वात् प्रचयविशेषाच् च महत् | KVस्_७,१.१६ |
SK
तद्विपरीतम् अणु | KVस्_७,१.१७ |
SK
अणु महद् इति तस्मिन् विशेषभावाद् विशेषाभावाच् च | KVस्_७,१.१८ |
SK
एककालत्वात् | KVस्_७,१.१९ |
SK
अणुत्वमहत्त्वयोर् अणुत्वमहत्त्वाभावः कर्मगुणैर् व्याख्यातः | KVस्_७,१.२१ |
SK
अणुत्वमहत्त्वाभ्यां कर्मगुणा अगुणाः | KVस्_७,१.२२ |
SK
एतेन दीर्घत्वह्रस्वत्वे व्याख्याते | KVस्_७,१.२३ |
SK
कर्मभिः कर्माणि गुणैर् गुणाः | KVस्_७,१.२४ |
SK
तद् अनित्ये | KVस्_७,१.२५ |
SK
नित्यं परिमण्डलम् | KVस्_७,१.२६ |
SK
अविद्या विद्यालिङ्गम् | KVस्_७,१.२७ |
SK
विभवान् महान् आकाशः | KVस्_७,१.२८ |
SK
तथा चात्मा | KVस्_७,१.२९ |
SK
तदभावाद् अणु मनः | KVस्_७,१.३० |
SK
गुणैर् दिग् व्याख्याता | KVस्_७,१.३१ |
SK
कारणेन कालः | KVस्_७,१.३२ |
SK
रूपरसगन्धस्पर्शव्यतिरेकाद् अर्थान्तरम् एकत्वं तथा पृथक्त्वम् | KVस्_७,२.१ |
SK
तयोर् नित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते | KVस्_७,२.२ |
SK
निष्पत्तिश् च | KVस्_७,२.३ |
SK
एकत्वपृथक्त्वयोर् एकत्वपृथक्त्वाभावो | KVस्_७,२.४ |
SK
कर्मभिः कर्माणि गुणैर् गुणाः | KVस्_७,२.५ |
SK
निःसंख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते | KVस्_७,२.६ |
SK
एकत्वस्याभावाद् भाक्तं न विद्यते | KVस्_७,२.७ |
SK
कार्यकारणैकत्वपृथक्त्वाभावाद् एकत्वपृथक्त्वे न विद्येते | KVस्_७,२.८ |
SK
एतद् अनित्यनितयोर् व्याख्यातम् | KVस्_७,२.९ |
SK
अन्यतरकर्मज उभयकर्मजः संयोगजश् च संयोगः | KVस्_७,२.१० |
SK
एतेन विभागो व्याख्यातः | KVस्_७,२.११ |
SK
संयोगविभागयोः संयोगविभागाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः | KVस्_७,२.१२ |
SK
कर्मभिः कर्माणि गुणैर् गुणाः | KVस्_७,२.१३ |
SK
युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्येते | KVस्_७,२.१४ |
SK
गुणत्वात् | KVस्_७,२.१५ |
SK
गुणे च भाष्यते | KVस्_७,२.१६ |
SK
निष्क्रियत्वात् | KVस्_७,२.१७ |
SK
असति नास्तीति च प्रयोगात् | KVस्_७,२.१८ |
SK
शब्दार्थाव् असंबद्धौ | KVस्_७,२.१९ |
SK
संयोगिनो दण्डात् समवायिनो विषाणाच् च | KVस्_७,२.२० |
SK
दृष्टत्वाद् अहेतुः प्रत्ययः | KVस्_७,२.२१ |
SK
तथा प्रत्ययाभावः | KVस्_७,२.२२ |
SK
संबद्धसंबन्धाद् इति चेत् सन्देहः | KVस्_७,२.२३ |
SK
सामयिकः शब्दाद् अर्थप्रत्ययः | KVस्_७,२.२४ |
SK
एकदिक्कालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परम् अपरम् | KVस्_७,२.२५ |
SK
कारणपरत्वात् कारणापरत्वाच् च | KVस्_७,२.२६ |
SK
परत्वापरत्वयोः परत्वापरत्वाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः | KVस्_७,२.२७ |
SK
कर्मभिः कर्माणि गुणैर् गुणाः | KVस्_७,२.२८ |
SK
इहेति यतः कार्यकारणयोः स समवायः | KVस्_७,२.२९ |
SK
द्रव्यत्वगुणत्वकर्मत्वप्रतिषेधो भावेन व्याख्यातः | KVस्_७,२.३० |
SK
तत्त्वं च | KVस्_७,२.३१ |
SK
द्रव्येषु ज्ञानं व्याख्यातम् | KVस्_८.१ |
SK
मन आत्मा च | KVस्_८.२ |
SK
ज्ञाननिर्देशे ज्ञाननिष्पत्तिर् उक्ता | KVस्_८.३ |
SK
गुणकर्मस्व् असन्निकृष्टेषु ज्ञाननिष्पत्तेर् द्रव्यं कारणं कारणकारणं च | KVस्_८.४ |
SK
सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् | KVस्_८.५ |
SK
सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु | KVस्_८.६ |
SK
द्रव्ये द्रव्यगुणकर्मापेक्षम् | KVस्_८.७ |
SK
गुणकर्मसु गुणकर्माभावद् गुणकर्मापेक्षं न विद्यते | KVस्_८.८ |
SK
समवायिनः श्वैत्याच् छ्वैत्यबुद्धेः श्वेते बुद्धिस् ते कार्यकारणभूते | KVस्_८.९ |
SK
द्रव्येष्व् अनितरेतरकारणात् कारणायौगपद्यात् | KVस्_८.१० |
SK
तथा द्रव्यगुणकर्मसु कारणाविशेषात् | KVस्_८.११ |
SK
अयम् एष कृतं त्वया भोजयाइनम् इति बुद्ध्यपेक्षं | KVस्_८.१२ |
SK
दृष्टेषु भावाद् अदृष्टेष्व् अभावात् | KVस्_८.१३ |
SK
अर्थ इति द्रव्यगुणकर्मसु | KVस्_८.१४ |
SK
द्रव्येषु पञ्चात्मकं प्रत्युक्तम् | KVस्_८.१५ |
SK
भूयस्त्वाद् गन्धवत्त्वाच् च पृथिवी गन्धज्ञाने | KVस्_८.१६ |
SK
तथापस् तेजो वायुश् च रसरूपस्पर्शज्ञानेषु रसरूपस्पर्शविशेषात् | KVस्_८.१७ |
SK
क्रियागुणव्यपदेशाभावाद् असत् | KVस्_९.१ |
SK
सद् असत् | KVस्_९.२ |
SK
असतः सत् क्रियागुणव्यपदेशाभावाद् अर्थान्तरम् (&#x७f;शभावाद् ?) | KVस्_९.३ |
SK
सच् चासत् | KVस्_९.४ |
SK
यच् चान्यत् सतस् तद् अप्य् असत् | KVस्_९.५ |
SK
असद् इति भूतप्रत्यक्षाभावाद् भूतस्मृतेर् विरोधिप्रत्यक्षत्वाच् च ज्ञानम् | KVस्_९.६ |
SK
तथाबावे भावप्रत्यक्षत्वाच् च | KVस्_९.७ |
SK
एतेनाघटो ऽगौर् अधर्मश् च व्याख्यातः | KVस्_९.८ |
SK
अभूतं नास्तीत्य् अनर्थान्तरम् | KVस्_९.९ |
SK
नास्ति घटो गेह इति सतो घटस्य गेहसंयोगप्रतिषेधः | KVस्_९.१० |
SK
नास्त्य् अन्यश् चन्द्रमा इति सामान्याच् चन्द्रमसः प्रतिषेधः | KVस्_९.११ |
SK
सद् असतोर् वैधर्म्यात् कार्ये सद् असत्ता न | KVस्_९.१२ |
SK
आत्मन्य् आत्ममनसोः संयोगविशेषाद् आत्मप्रत्यक्षम् | KVस्_९.१३ |
SK
तथा द्रव्यान्तरेषु | KVस्_९.१४ |
SK
आत्मेन्द्रियमनोऽर्थसन्निकर्षाच् च | KVस्_९.१५ |
SK
तत्समवायात् कर्मगुणेषु | KVस्_९.१६ |
SK
आत्मसमवायाद् आत्मगुणेषु | KVस्_९.१७ |
SK
अस्येदं कार्यं कारणं संबन्ध्य् एकार्ह्तसमवायि विरोधि चेति लैङ्गिकम् | KVस्_९.१८ |
SK
एतेन शाब्दं व्याख्यातम् | KVस्_९.१९ |
SK
हेतुर् अपदेशो लिङ्गं निमित्तं प्रमाणं कारणम् इत्य् अनर्थान्तरम् | KVस्_९.२० |
SK
अस्येदम् इति बुद्ध्यपेक्षत्वात् | KVस्_९.२१ |
SK
आत्ममनसोः संयोगविशेषात् संस्काराच् च स्मृतिः | KVस्_९.२२ |
SK
तथा स्वप्नः स्वप्नान्तिकं च | KVस्_९.२३ |
SK
धर्माच् च | KVस्_९.२४ |
SK
इन्द्रियदोषात् संस्काराच् चाविद्या | KVस्_९.२५ |
SK
तद् दुष्टं ज्ञानम् | KVस्_९.२६ |
SK
अदुष्टं विद्या | KVस्_९.२७ |
SK
आर्षं सिद्धदर्शनं च धर्मेभ्यः | KVस्_९.२८ |
SK
आत्मसमवायः सुखदुःखयोः पञ्चभ्यो ऽर्थान्तरत्वे हेतुस् तदाश्रयिभ्यश् च गुणेभ्यः | KVस्_१०.१ |
SK
इष्टानिष्टकारणविशेषाद् विरोधाच् च मिथः सुखदुःखयोर् अर्थान्तरभावः | KVस्_१०.२ |
SK
संशयनिर्णययोर् अर्थान्तरभावश् च ज्ञानान्तरत्वे हेतुः | KVस्_१०.३ |
SK
तयोर् निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानान्तरत्वे हेतुः | KVस्_१०.४ |
SK
भूतम् इति प्रत्यक्षं व्याख्यातम् | KVस्_१०.५ |
SK
भविष्यतीति कार्यान्तरे दृष्टत्वात् | KVस्_१०.६ |
SK
तथा भवतीति सापेक्षेभ्यो ऽनपेक्षेभ्यश् च | KVस्_१०.७ |
SK
अभूद् इत्य् अभूतात् | KVस्_१०.८ |
SK
सति च कार्यासमवायात् | KVस्_१०.९ |
SK
एकार्थसमवायिषु कारणान्तरेषु दर्शनाद् एकदेश इत्य् एकस्मिन् | KVस्_१०.१० |
SK
शिरः पृष्ठम् उदरं पाणिर् इति तद्विशेषेभ्यः | KVस्_१०.११ |
SK
कारणम् इति द्रव्ये कार्यसमवायात् | KVस्_१०.१२ |
SK
संयोगात् वा | KVस्_१०.१३ |
SK
कारणसमवायात् कर्मणि | KVस्_१०.१४ |
SK
तथा रूपे कारणकारणसमवायाच् च | KVस्_१०.१५ |
SK
कारणसमवायात् संयोगे | KVस्_१०.१६ |
SK
तथा कारणाकारणसमवायाच् च | KVस्_१०.१७ |
SK
संयुक्तसमवायाद् अग्नेर् वैशेषिकम् | KVस्_१०.१८ |
SK
लैङ्गिकं प्रमाणं व्याख्यातम् | KVस्_१०.१९ |
SK
दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो ऽभ्युदयाय (S ओमित्स् दृष्टप्रयोजनानां) | KVस्_१०.२० |
SK
तद्वचनाद् आम्नायप्रामाण्यम् इति (U,S आम्नायस्य प्रामाण्यम्) | KVस्_१०.२१ |

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kaṇāda: Vaiśeṣikasūtra (sa_kaNAda-vaizeSikasUtra.htm).

Source