Summary of the Vedas Vedārthasaṃgraha
Vएदार्थसंग्रह
1 SK अशेषचिदचिद्वस्तुविशेषिणे शेषशायिने / निर्मलानन्तकल्याणनिधये विष्णवे नमः //
2 SK अशेष-चिद्-अचिद्-वस्तु-विशेषिणे शेष-शायिने / निर्मल-अनन्त-कल्याण-निधये विष्णवे नमः //
2 SK परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत्परोपाध्यालीढं विवशमशुभस्यास्पदम् इति / श्रुतिन्यायापेतं जगति विततं मोहनम् इदं तमो येनापास्तं स हि विजयते यामुनमुनिः //
4 SK परं ब्रह्म एव अज्ञं भ्रम-परिगतं संसरति तत्-पर-उपाध्य्-आलीढं विवशम-शुभस्या अस्पदम् इति / श्रुति-न्याय-अपेतं जगति विततं मोहनम् इदं तमो येन अपास्तं स हि विजयते यामुन-मुनिः //
3 SK अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समधिगतो ऽयम् अर्थः जीवपरमात्मयाथात्म्यज्ञानपूर्वकवर्णाश्रमधर्मेतिकर्तव्यताकपरमपुरुषचरणयुगलध्यानार्चनप्रणामादिर् अत्यर्थप्रियस् तत्प्राप्तिफलः /
6 SK अशेष-जगद्-धित-अनुशासन-श्रुति-निकर-शिरसि समधिगतो ऽयम् अर्थः जीव-परम-आत्म-याथात्म्य-ज्ञान-पूर्वक-वर्ण-आश्रम-धर्म-इतिकर्तव्यताक-परम-पुरुष-चरण-युगल-ध्यान-अर्चन-प्रणाम-आदिर् अत्यर्थ-प्रियस् तत्-प्राप्ति-फलः /
4 SK अस्य जीवात्मनो ऽनाद्यविद्यासंचितपुण्यपापरूपकर्मप्रवाहहेतुकब्रह्मादिसुरनरतिर्यक्स्थावरात्मकचतुर्विधदेहप्रवेशकृततत्तदभिमानजनितावर्जनीयभवभयविध्वंसनाय देहातिरिक्तात्मस्वरूपतत्स्वभावतदन्तरयामिपरमात्मस्वरूपतत्स्वभावतदुपासनतत्फलभूतात्मस्वरूपाविर्भावपूर्वकानवधिकातिशयानन्दब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम्, तत् त्वम् असि / अयम् आत्मा ब्रह्म / य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः / एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः / तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन / ब्रह्मविद् आप्नोति परम् / तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यत इत्यादिकम् /
8 SK अस्य जीव-आत्मनो ऽनाद्य्-अविद्या-संचित-पुण्य-पाप-रूप-कर्म-प्रवाह-हेतुक-ब्रह्म-आदि-सुर-नर-तिर्यक्-स्थावर-आत्मक-चतुर्-विध-देह-प्रवेश-कृत-तत्-तद्-अभिमान-जनित-अवर्जनीय-भव-भय-विध्वंसनाय देह-अतिरिक्त-आत्म-स्वरूप-तत्-स्व-भाव-तद्-अन्तरयामि-परम-आत्म-स्व-रूप-तत्-स्व-भाव-तद्-उपासन-तत्-फल-भूत-आत्म-स्व-रूप-आविर्भाव-पूर्वक-अनवधिक-अतिशय-आनन्द-ब्रह्म-अनुभव-ज्ञापने प्रवृत्तं हि वेदान्त-वाक्य-जातम्, तत् त्वम् असि / अयम् आत्मा ब्रह्म / य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्या अत्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्म-अन्तर्याम्य् अमृतः / एष सर्व-भूत-अन्तर्-आत्म-अपहत-पाप्मा दिव्यो देव एको नारायणः / तम् एतं वेद-अनुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपस आनाशकेन / ब्रह्म-विद् आप्नोति परम् / तम् एवं विद्वान् अमृत इह भवति न अन्यः पन्था अयनाय विद्यत इत्य्-आदिकम् /
5 SK जीवात्मनः स्वरूपं देवमनुष्यादिप्रकृतिपरिणामविशेषरूपनानाविधभेदरहितं ज्ञानानन्दैकगुणं, तस्यैतस्य कर्मकृतदेवादिभेदे ऽपध्वस्ते स्वरूपभेदो वाचाम् अगोचरः स्वसंवेद्यः, ज्ञानस्वरूपम् इत्य् एतावद् एव निर्देश्यम् / तच् च सर्वेषाम् आत्मनां समानम् /
10 SK जीव-आत्मनः स्व-रूपं देव-मनुष्य-आदि-प्रकृति-परिणाम-विशेष-रूप-नाना-विध-भेद-रहितं ज्ञान-आनन्द-एक-गुणं, तस्य एतस्य कर्म-कृत-देव-आदि-भेदे ऽपध्वस्ते स्व-रूप-भेदो वाचाम् अगोचरः स्व-संवेद्यः, ज्ञान-स्व-रूपम् इत्य् एतावद् एव निर्देश्यम् / तच् च सर्वेषाम् आत्मनां समानम् /
6 SK एवंविधचिदचिदात्मकप्रपञ्चस्योद्भवस्थितिप्रलयसंसारनिर्वर्तनैकहेतुभूतः समस्तहेयप्रत्यनीकानन्तकल्याणतया च स्वेतरसमस्तवस्तुविलक्षणस्वरूपो ऽनवधिकातिशयासंख्येयकल्याणगुणगणः सर्वात्मपरब्रह्मपरज्योतिःपरतत्त्वपरमात्मसदादिशब्दभेदैर् निखिलवेदान्तवेद्यो भगवान् नारायणः पुरुषोत्तम इत्य् अन्तर्यामिस्वरूपम् / अस्य च वैभवप्रतिपादनपराः श्रुतयः स्वेतरसमस्तचिदचिद्वस्तुजातान्तरात्मतया निखिलनियमनं तच्छक्तितदंशतद्विभूतितद्रूपतच्छरीरतत्तनुप्रभृतिभिः शब्दैस् तत्सामानाधिकरण्येन च प्रतिपादयन्ति /
12 SK एवं-विध-चिद्-अचिद्-आत्मक-प्रपञ्चस्य उद्भव-स्थिति-प्रलय-संसार-निर्वर्तन-एक-हेतु-भूतः समस्त-हेय-प्रत्यनीक-अनन्त-कल्याणतया च स्व-इतर-समस्त-वस्तु-विलक्षण-स्व-रूपो ऽनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गणः सर्व-आत्म-पर-ब्रह्म-पर-ज्योतिः-पर-तत्त्व-परम-आत्म-सद्-आदि-शब्द-भेदैर् निखिल-वेदान्त-वेद्यो भगवान् नारायणः पुरुष-उत्तम इत्य् अन्तर्यामि-स्व-रूपम् / अस्य च वैभव-प्रतिपादन-पराः श्रुतयः स्व-इतर-समस्त-चिद्-अचिद्-वस्तु-जात-अन्तर्-आत्मतया निखिल-नियमनं तच्-छक्ति-तद्-अंश-तद्-विभूति-तद्-रूप-तच्-छरीर-तत्-तनु-प्रभृतिभिः शब्दैस् तत्-सामानाधिकरण्येन च प्रतिपादयन्ति /
7 SK तस्य वैभवप्रतिपादनपराणाम् एषां सामानाधिकरण्यादीनां विवरणे प्रवृत्ताः केचन निर्विशेषज्ञानमात्रम् एव ब्रह्म, तच् च नित्यमुक्तस्वप्रकाशस्वभावम् अपि तत् त्वम् अस्य् आदिसामानाधिकरण्यावगतजीवाइक्यं, ब्रह्मैवाज्ञं बध्यते मुच्यते च, निर्विशेषचिन्मात्रातिरेकेश्वरेशितव्याद्यनन्तविकल्परूपं कृत्स्नं जगन्मिथ्या, कश्चिद् बद्धः, कश्चिन् मुक्त इत्य् इयम् अवस्था न विद्यते / इतः पूर्वं केचन मुक्ता इत्य् अयम् अर्थो मिथ्या / एकम् एव शरीरं जीववन् निर्जीवानीतराणि, तच्छरीरं किम् इति न व्यवस्थितम्, आचार्यो ज्ञानस्योपदेष्टा मिथ्या शास्त्रं च मिथ्या शास्त्रप्रमाता च मिथ्या शास्त्रजन्यं ज्ञानं च मिथ्या -- एतत् सर्वं मिथ्याभूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति /
14 SK तस्य वैभव-प्रतिपादन-पराणाम् एषां सामानाधिकरण्य-आदीनां विवरणे प्रवृत्ताः केचन निर्विशेष-ज्ञान-मात्रम् एव ब्रह्म, तच् च नित्य-मुक्त-स्व-प्रकाश-स्व-भावम् अपि तत् त्वम् अस्य् आदि-सामानाधिकरण्य-अवगत-जीव-ऐक्यं, ब्रह्म एव अज्ञं बध्यते मुच्यते च, निर्विशेष-चिन्-मात्र-अतिरेक-ईश्वर-ईशितव्य-आद्य्-अनन्त-विकल्प-रूपं कृत्स्नं जगन्-मिथ्या, कश्चिद् बद्धः, कश्चिन् मुक्त इत्य् इयम् अवस्था न विद्यते / इतः पूर्वं केचन मुक्ता इत्य् अयम् अर्थो मिथ्या / एकम् एव शरीरं जीववन् निर्जीवानि इतराणि, तच्-छरीरं किम् इति न व्यवस्थितम्, आचार्यो ज्ञानस्य उपदेष्टा मिथ्या शास्त्रं च मिथ्या शास्त्र-प्रमाता च मिथ्या शास्त्र-जन्यं ज्ञानं च मिथ्या --- एतत् सर्वं मिथ्या-भूतेन एव शास्त्रेण अवगम्यत इति वर्णयन्ति /
8 SK अपरे त्व् अपहतपाप्मत्वादिसमस्तकल्याणगुणोपेतम् अपि ब्रह्मैतेनैवाइक्यावबोधेन केनचिद् उपाधिविशेषेण संबद्धं बध्यते मुच्यते च नानाविधमलरूपपरिणामास्पदं चेति व्यवस्थिताः /
16 SK अपरे त्व् अपहत-पाप्मत्व-आदि-समस्त-कल्याण-गुण-उपेतम् अपि ब्रह्म एतेन एव ऐक्य-अवबोधेन केनचिद् उपाधि-विशेषेण संबद्धं बध्यते मुच्यते च नाना-विध-मल-रूप-परिणाम-आस्पदं च इति व्यवस्थिताः /
9 SK अन्ये पुनर् ऐक्यावबोधयाथात्म्यं वर्णयन्तः स्वाभाविकनिरतिशयापरिमितोदारगुणसागरं ब्रह्मैव सुरनरतिर्यक्स्थावरनारकिस्वर्ग्यपवर्गिचेतनेषु स्वभावतो विलक्षणम् अविलक्षणं च वियदादिनानाविधमलरूपपरिणामास्पदं चेति प्रत्यवतिष्ठन्ते /
18 SK अन्ये पुनर् ऐक्य-अवबोध-याथात्म्यं वर्णयन्तः स्वाभाविक-निरतिशय-अपरिमित-उदार-गुण-सागरं ब्रह्म एव सुर-नर-तिर्यक्-स्थावर-नारकि-स्वर्ग्य्-अपवर्गि-चेतनेषु स्व-भावतो विलक्षणम् अविलक्षणं च वियद्-आदि-नाना-विध-मल-रूप-परिणाम-आस्पदं च इति प्रत्यवतिष्ठन्ते /
10 SK तत्र प्रथमपक्षस्य श्रुत्यर्थपर्यालोचनपरा दुष्परिहारान् दोषान् उदाहरन्ति / प्रकृतपरामर्शितच्छब्दावगतस्वसंकल्पकृतजगदुदयविभवविलयादयस् तद्+ऐक्षत बहु स्यां प्रजायेयेत्यारभ्य सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यादिभिः पदैः प्रतिपादितास् तत्संबन्धितया प्रकरणान्तरनिर्दिष्टाः सर्वज्ञतासर्वशक्तित्वसर्वेश्वरत्वसर्वप्रकारत्वसमाभ्यधिकनिवृत्तिसत्यकामत्वसत्यसंकल्पत्वसर्वावभासकत्वाद्यनवधिकातिशयासंख्येयकल्याणगुणगणा अपहतपाप्मेत्याद्यनेकवाक्यावगतनिरस्तनिखिलदोषता च सर्वे तस्मिन् पक्षे विहन्यन्ते /
20 SK तत्र प्रथम-पक्षस्य श्रुत्य्-अर्थ-पर्यालोचन-परा दुष्परिहारान् दोषान् उदाहरन्ति / प्रकृत-परामर्शि-तच्-छब्द-अवगत-स्व-संकल्प-कृत-जगद्-उदय-विभव-विलय-आदयस् तद्+ऐक्षत बहु स्यां प्रजायेय इत्य्-आरभ्य सन्-मूलाः सोम्य इमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठा इत्य्-आदिभिः पदैः प्रतिपादितास् तत्-संबन्धितया प्रकरण-अन्तर-निर्दिष्टाः सर्व-ज्ञता-सर्व-शक्तित्व-सर्व-ईश्वरत्व-सर्व-प्रकारत्व-सम-अभ्यधिक-निवृत्ति-सत्य-कामत्व-सत्य-संकल्पत्व-सर्व-अवभासकत्व-आद्य्-अनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गणा अपहत-पाप्म ईत्य्-आद्य्-अनेक-वाक्य-अवगत-निरस्त-निखिल-दोषता च सर्वे तस्मिन् पक्षे विहन्यन्ते /
11 SK अथ स्यात् -- उपक्रमे ऽप्य् एकविज्ञानेन सर्वविज्ञानमुखेन कारणस्यैव सत्यतां प्रतिज्ञाय तस्य कारणभूतस्यैव ब्रह्मणः सत्यतां विकारजातस्यासत्यतां मृद्दृष्टान्तेन दर्शयित्वा सत्यभूतस्यैव ब्रह्मणः सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति सजातीयविजातीयनिखिलभेदनिरसनेन निर्विशेषतैव प्रतिपादिता / एतच् छोधकानि प्रकरणान्तरगतवाक्यान्य् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, निष्कलं निष्क्रियं निर्गुणं, विज्ञानम् आनन्दम् इत्यादीनि सर्वविशेषप्रत्यनीकैकाकारतां बोधयन्ति / न चैकाकारताबोधने पदानां पर्यायता / एकत्वे ऽपि वस्तुनः सर्वविशेषप्रत्यनीकतोपस्थापनेन सर्वपदानाम् अर्थवत्त्वाद् इति /
22 SK अथ स्यात् --- उपक्रमे ऽप्य् एक-विज्ञानेन सर्व-विज्ञान-मुखेन कारणस्य एव सत्यतां प्रतिज्ञाय तस्य कारण-भूतस्य एव ब्रह्मणः सत्यतां विकार-जातस्य असत्यतां मृद्-दृष्टान्तेन दर्शयित्वा सत्य-भूतस्य एव ब्रह्मणः सद् एव सोम्य इदम् अग्र आसीद् एकम् एव अद्वितीयम् इति सजातीय-विजातीय-निखिल-भेद-निरसनेन निर्विशेषत ऐव प्रतिपादिता / एतच् छोधकानि प्रकरण-अन्तर-गत-वाक्यान्य् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, निष्कलं निष्क्रियं निर्गुणं, विज्ञानम् आनन्दम् इत्य्-आदीनि सर्व-विशेष-प्रत्यनीक-एक-आकारतां बोधयन्ति / न च एक-आकारता-बोधने पदानां पर्यायता / एकत्वे ऽपि वस्तुनः सर्व-विशेष-प्रत्यनीकता-उपस्थापनेन सर्व-पदानाम् अर्थवत्त्वाद् इति /
12 SK नैतद् एवम् / एकविज्ञानेन सर्वविज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान् न सेत्स्यति / सत्यत्वमिथ्यात्वयोर् एकताप्रसक्तिर् वा / अपि त्व् एकविज्ञानेन सर्वविज्ञानं सर्वस्य तदात्मकत्वेनैव सत्यत्वे सिध्यति /
24 SK न एतद् एवम् / एक-विज्ञानेन सर्व-विज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्य अभावान् न सेत्स्यति / सत्यत्व-मिथ्यात्वयोर् एकता-प्रसक्तिर् वा / अपि त्व् एक-विज्ञानेन सर्व-विज्ञानं सर्वस्य तद्-आत्मकत्वेन एव सत्यत्वे सिध्यति /
13 SK अयम् अर्थः -- श्वेतकेतुं प्रत्याह स्तब्धो ऽस्य् उत तम् आदेशम् अप्राक्ष्य इति परिपूर्ण इव लक्ष्यसे तान् आचार्यान् प्रति तम् अप्य् आदेशं पृष्टवान् असीति / आदिश्यते ऽनेनेत्य् आदेशः / आदेषः प्रशासनम् / एतस्य वा अक्षरस्य गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्य् आदिभिर् ऐक्यर्थ्यात् / तथा च मानवं वचः -- प्रशासितारं सर्वेषाम् इत्यादि / अत्राप्य् एकम् एवेति जगदुपादानतां प्रतिपाद्याद्वितीयपदेनाधिष्ठातरनिवारणाद् अस्यैवाधिष्ठातृत्वम् अपि प्रतिपाद्यते /अतस् तं प्रशासितारं जगदुपादानभूतम् अपि पृष्टवान् असि येन श्रुतेन मतेन विज्ञातेनाश्रुतम् अमतम् अविज्ञानं श्रुतं मतं विज्ञातं भवतीत्य् उक्तं स्यात् / निखिलजगदुदयविभवविलयादिकारणभूतं सर्वज्ञत्वसत्यकामत्वसत्यसंकल्पत्वपरिमितोदारगुणगणसागरं किं ब्रह्मापि त्वया श्रुतम् इति हार्दो भावः / तस्य निखिलकारणतया कारणम् एव नानासंस्थानविशेषसंस्थितं कार्यम् इत्य् उच्यत इति कारणभूतसूक्ष्मचिदचिद्वस्तुशरीरकब्रह्मविज्ञानेन कार्रभूतम् अखिलं जगद् विज्ञातं भवतीति हृदि निधाय येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातं स्याद् इति पुत्रं प्रति पृष्टवान् पिता / तद् एतत्सकलस्य वस्तुजातस्यैककारणत्वं पितृहृदि निहितम् अजानन् पुत्रः परस्परविलक्षणेषु वस्तुष्व् अन्यस्य ज्ञानेन तदन्यविज्ञानस्याघटमानतां बुद्ध्वा परिचोदयति -- कथं नु बगवः स आदेश इति /
26 SK अयम् अर्थः --- श्वेतकेतुं प्रत्याह स्तब्धो ऽस्य् उत तम् आदेशम् अप्राक्ष्य इति परिपूर्ण इव लक्ष्यसे तान् आचार्यान् प्रति तम् अप्य् आदेशं पृष्टवान् असि इति / आदिश्यते ऽनेन इत्य् आदेशः / आदेषः प्रशासनम् / एतस्य वा अक्षरस्य गार्गि सूर्या-चन्द्रमसौ विधृतौ तिष्ठत इत्य् आदिभिर् ऐक्यर्थ्यात् / तथा च मानवं वचः --- प्रशासितारं सर्वेषाम् इत्य्-आदि / अत्र अप्य् एकम् एव इति जगद्-उपादानतां प्रतिपाद्य अद्वितीय-पदेन अधिष्ठातर-निवारणाद् अस्य एव अधिष्ठातृत्वम् अपि प्रतिपाद्यते /अतस् तं प्रशासितारं जगद्-उपादान-भूतम् अपि पृष्टवान् असि येन श्रुतेन मतेन विज्ञातेन अश्रुतम् अमतम् अविज्ञानं श्रुतं मतं विज्ञातं भवति इत्य् उक्तं स्यात् / निखिल-जगद्-उदय-विभव-विलय-आदि-कारण-भूतं सर्व-ज्ञत्व-सत्य-कामत्व-सत्य-संकल्पत्व-परिमित-उदार-गुण-गण-सागरं किं ब्रह्म अपि त्वया श्रुतम् इति हार्दो भावः / तस्य निखिल-कारणतया कारणम् एव नाना-संस्थान-विशेष-संस्थितं कार्यम् इत्य् उच्यत इति कारण-भूत-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरक-ब्रह्म-विज्ञानेन कार्र-भूतम् अखिलं जगद् विज्ञातं भवति इति हृदि निधाय येन अश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातं स्याद् इति पुत्रं प्रति पृष्टवान् पिता / तद् एतत्-सकलस्य वस्तु-जातस्य एक-कारणत्वं पितृ-हृदि निहितम् अजानन् पुत्रः परस्पर-विलक्षणेषु वस्तुष्व् अन्यस्य ज्ञानेन तद्-अन्य-विज्ञानस्य अघटमानतां बुद्ध्वा परिचोदयति --- कथं नु बगवः स आदेश इति /
14 SK परिचोदितः पुनस् तद् एव हृदि निहितं ज्ञानानन्दामलत्वैकस्वरूपम् अपरिच्छेद्यमाहात्म्यं सत्यसंकल्पत्वमिश्रैर् अनवधिकातिशयासंख्येयकल्याणगुणगणैर् जुष्टम् अविकारस्वरूपं परं ब्रह्मैव नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं स्वलीलायै स्वसंकल्पेनानन्तविचित्रस्थिरत्रसस्वरूपजगत्संस्थानं स्वांशेनावस्थितम् इति /
28 SK परिचोदितः पुनस् तद् एव हृदि निहितं ज्ञान-आनन्द-अमलत्व-एक-स्व-रूपम् अपरिच्छेद्य-माहात्म्यं सत्य-संकल्पत्व-मिश्रैर् अनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गणैर् जुष्टम् अविकार-स्व-रूपं परं ब्रह्म एव नाम-रूप-विभाग-अनर्ह-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरं स्व-लीलायै स्व-संकल्पेन अनन्त-विचित्र-स्थिर-त्रस-स्व-रूप-जगत्-संस्थानं स्व-अंशेन अवस्थितम् इति /
15 SK तज्ज्ञानेनास्य निखिलस्य ज्ञाततां ब्रुवंल् लोकदृष्टं कार्यकारणयोर् अनन्यत्वं दर्शयितुं दृष्टान्तम् आह -- यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति / एकम् एव मृद्द्रव्यं स्वैकदेशेन नानाव्यवहारास्पदत्वाय घटशरावादिनानासंस्थानावस्थारूपविकारापन्नं नानानामधेयम् अपि मृत्तिकासंस्थानविशेषत्वान् मृद्द्रव्यम् एवेत्थम् अवस्थितं न वस्त्वन्तरम् इति / यथा मृत्पिण्डविज्ञानेन तत्संस्थानविशेषरूपम् घटशरावादि सर्वं ज्ञातम् एव भवतीत्यर्थः /
30 SK तज्-ज्ञानेन अस्य निखिलस्य ज्ञाततां ब्रुवंल् लोक-दृष्टं कार्य-कारणयोर् अनन्यत्वं दर्शयितुं दृष्टान्तम् आह --- यथा सोम्य एकेन मृत्-पिण्डेन सर्वं मृन्-मयं विज्ञातं स्याद् वाचा आरम्भणं विकारो नाम-धेयं मृत्तिक ईत्य् एव सत्यम् इति / एकम् एव मृद्-द्रव्यं स्व-एक-देशेन नाना-व्यवहार-आस्पदत्वाय घट-शराव-आदि-नाना-संस्थान-अवस्था-रूप-विकार-आपन्नं नाना-नाम-धेयम् अपि मृत्तिका-संस्थान-विशेषत्वान् मृद्-द्रव्यम् एव इत्थम् अवस्थितं न वस्त्व्-अन्तरम् इति / यथा मृत्-पिण्ड-विज्ञानेन तत्-संस्थान-विशेष-रूपम् घट-शराव-आदि सर्वं ज्ञातम् एव भवति इत्य्-अर्थः /
16 SK ततः कृत्स्नस्य जगतो ब्रह्मैककारणताम् अजानन् पुत्रः पृच्छति -- भगवांस् त्व् एव मे तद् ब्रवीत्व् इति / ततः सर्वज्ञं सर्वशक्ति ब्रह्मैव सर्वकारणम् इत्य् उपदिशन् स होवाच सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति / अत्रेदम् इति जगन् निर्दिष्टम् / अग्र इति च सृष्टेः पूर्वकालः / तस्मिन् काले जगतः सदात्मकतां सद् एवेति प्रतिपाद्य, तत्सृष्टिकाले ऽप्य् अविशिष्टम् इति कृत्वैकम् एवेति सदापन्नस्य जगतस् तदानीम् अविभक्तनामरूपतां प्रतिपाद्य तत्प्रतिपादनेनैव सतो जगदुपादानत्वं प्रतिपादितम् इति स्वव्यतिरिक्तनिमित्तकारणम् अद्वितीयपदेन प्रतिषिद्धम् /
32 SK ततः कृत्स्नस्य जगतो ब्रह्म-एक-कारणताम् अजानन् पुत्रः पृच्छति --- भगवांस् त्व् एव मे तद् ब्रवीत्व् इति / ततः सर्व-ज्ञं सर्व-शक्ति ब्रह्म एव सर्व-कारणम् इत्य् उपदिशन् स होवाच सद् एव सोम्य इदम् अग्र आसीद् एकम् एव अद्वितीयम् इति / अत्र इदम् इति जगन् निर्दिष्टम् / अग्र इति च सृष्टेः पूर्व-कालः / तस्मिन् काले जगतः सद्-आत्मकतां सद् एव इति प्रतिपाद्य, तत्-सृष्टि-काले ऽप्य् अविशिष्टम् इति कृत्व ऐकम् एव इति सद्-आपन्नस्य जगतस् तदानीम् अविभक्त-नाम-रूपतां प्रतिपाद्य तत्-प्रतिपादनेन एव सतो जगद्-उपादानत्वं प्रतिपादितम् इति स्व-व्यतिरिक्त-निमित्त-कारणम् अद्वितीय-पदेन प्रतिषिद्धम् /
17 SK तम् आदेशम् प्राक्ष्यो येनाश्रुतं श्रुतं भवतीत्यादाव् एव प्रशास्तितैव जगदुपादानम् इति हृदि निहितम् इदानीम् अभिव्यक्तम् / स्वयम् एव जगदुपादानं जगन्निमित्तं च सत् तद् ऐक्षत बहु स्यां प्रजायेयेति / तद् एतच्छब्दवाच्यं परं ब्रह्म सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पम् अवाप्तसमस्तकामम् अपि लीलार्थं विचित्रानन्तचिदचिन्मिश्रजगद्रूपेणाहम् एव बहु स्यां तदर्थं प्रजायेयेति स्वयम् एव संकल्प्य स्वांशैकदेशाद् एव वियदादिभूतानि सृष्ट्वा पुनर् अपि सैव सच्छब्दाभिहिता परा देवतैवम् ऐक्षत हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति / अनेन जीवेनात्मनेति - जीवस्य ब्रह्मात्मकत्वं प्रतिपाद्य ब्रह्मात्मजीवानुप्रवेशाद् एव कृत्स्नस्याचिद्वस्तुनः पदार्थत्वम् एवंभूतस्यैव सर्वस्य वस्तुनो नामभाक्त्वम् इति च दर्शयति / एतदुक्तं भवति -- जीवात्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद् ब्रह्मात्मकः / यस्यात्मा शरीरम् इति श्रुत्यन्तरात् / एवंभूतस्य जीवस्य शरीरतया प्रकारभूतानि देवमनुष्यादिसंस्थानानि वस्तूनीति ब्रह्मात्मकानि तानि सर्वाणि / अतो देवो मनुष्यो राक्षसः पशुर् मृगः पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पट इत्यादयः सर्वे प्रकृतिप्रत्यययोगेनाभिधायकतया प्रसिद्धाः शब्दा लोके तत्तद्वाच्यतया प्रतीयमानतत्तत्संस्थानवस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्मपर्यन्तसंघातस्यैव वाचका इति /
34 SK तम् आदेशम् प्राक्ष्यो येन अश्रुतं श्रुतं भवति इत्य्-आदाव् एव प्रशास्तित ऐव जगद्-उपादानम् इति हृदि निहितम् इदानीम् अभिव्यक्तम् / स्वयम् एव जगद्-उपादानं जगन्-निमित्तं च सत् तद् ऐक्षत बहु स्यां प्रजायेय इति / तद् एतच्-छब्द-वाच्यं परं ब्रह्म सर्व-ज्ञं सर्व-शक्ति सत्य-सङ्कल्पम् अवाप्त-समस्त-कामम् अपि लीला-अर्थं विचित्र-अनन्त-चिद्-अचिन्-मिश्र-जगद्-रूपेण अहम् एव बहु स्यां तद्-अर्थं प्रजायेय इति स्वयम् एव संकल्प्य स्व-अंश-एक-देशाद् एव वियद्-आदि-भूतानि सृष्ट्वा पुनर् अपि स ऐव सच्-छब्द-अभिहिता परा देवत ऐवम् ऐक्षत हन्त अहम् इमास् तिस्रो देवता अनेन जीवेना अत्मन आनुप्रविश्य नाम-रूपे व्याकरवाणि इति / अनेन जीवेना अत्मन ईति -- जीवस्य ब्रह्म-आत्मकत्वं प्रतिपाद्य ब्रह्म-आत्म-जीव-अनुप्रवेशाद् एव कृत्स्नस्य अचिद्-वस्तुनः पद-अर्थत्वम् एवं-भूतस्य एव सर्वस्य वस्तुनो नाम-भाक्त्वम् इति च दर्शयति / एतद्-उक्तं भवति --- जीव-आत्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद् ब्रह्म-आत्मकः / यस्या अत्मा शरीरम् इति श्रुत्य्-अन्तरात् / एवं-भूतस्य जीवस्य शरीरतया प्रकार-भूतानि देव-मनुष्य-आदि-संस्थानानि वस्तूनि इति ब्रह्म-आत्मकानि तानि सर्वाणि / अतो देवो मनुष्यो राक्षसः पशुर् मृगः पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पट इत्य्-आदयः सर्वे प्रकृति-प्रत्यय-योगेन अभिधायकतया प्रसिद्धाः शब्दा लोके तत्-तद्-वाच्यतया प्रतीयमान-तत्-तत्-संस्थान-वस्तु-मुखेन तद्-अभिमानि-जीव-तद्-अन्तर्यामि-परम-आत्म-पर्यन्त-संघातस्य एव वाचका इति /
18 SK एवं समस्तचिदचिदात्मकप्रपञ्चस्य सदुपादानतासन्निमित्ततासदाधारतासन्नियम्यतासच्छेषतादि सर्वं च सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यादिना विस्तरेण प्रतिपाद्य कार्यकारणभावादिमुखेनाइतदात्म्यम् इदं सर्वं तत्सत्यम् इति कृत्स्नस्य जगतो ब्रह्मात्मकत्वम् एव सत्यम् इति प्रतिपाद्य कृत्स्नस्य जगतः स एवात्मा कृत्स्नं जगत् तस्य शरीरं तस्मात् त्वंशब्दवाच्यम् अपि जीवप्रकारं ब्रह्मैवेति सर्वस्य ब्रह्मात्मकत्वं प्रतिज्ञातं तत् त्वम् असीति जीवविशेष उपसंहृतम् /
36 SK एवं समस्त-चिद्-अचिद्-आत्मक-प्रपञ्चस्य सद्-उपादानता-सन्-निमित्तता-सद्-आधारता-सन्-नियम्यता-सच्-छेषता-आदि सर्वं च सन्-मूलाः सोम्य इमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठा इत्य्-आदिना विस्तरेण प्रतिपाद्य कार्य-कारण-भाव-आदि-मुखेन ऐतदात्म्यम् इदं सर्वं तत्-सत्यम् इति कृत्स्नस्य जगतो ब्रह्म-आत्मकत्वम् एव सत्यम् इति प्रतिपाद्य कृत्स्नस्य जगतः स एवा अत्मा कृत्स्नं जगत् तस्य शरीरं तस्मात् त्वं-शब्द-वाच्यम् अपि जीव-प्रकारं ब्रह्म एव इति सर्वस्य ब्रह्म-आत्मकत्वं प्रतिज्ञातं तत् त्वम् असि इति जीव-विशेष उपसंहृतम् /
19 SK एतद् उक्तं भवति / ऐतदात्म्यम् इदं सर्वम् इति चेतनाचेतनप्रपञ्चम् इदं सर्वम् इति निर्दिश्य तस्य प्रपञ्चस्यैष आत्मेति प्रतिपादितः, प्रपञ्चोद्देशेन ब्रह्मात्मकत्वं पतिपादितम् इत्यर्थः / तद् इदं ब्रह्मात्मकत्वं किम् आत्मशरीरभावेनोत स्वरूपेणेति विवेचनीयम् / स्वरूपेण चेद् ब्रह्मणः सत्यसङ्कल्पाद्यः -- तद् ऐक्षत बहु स्यं प्रजायेयेत्य् उपक्रमावगता बाधिता भवन्ति / शरीरात्मभावेन च तद् आत्मकत्वं श्रुत्यन्तराद् विशेषतो ऽवगतम् अन्तःप्रविष्टः शास्ता जनानां सर्वात्मेति प्रशासितृत्वरूपात्मत्वेन सर्वेषां जनानाम् अन्तःप्रविष्टो ऽतः सर्वात्मा सर्वेषां जनानाम् आत्मा सर्वं चास्य शरीरम् इति विशेषतो ज्ञायते ब्रह्मात्मकत्वम् / य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृत इति च / अत्राप्य् अनेन जीवेनात्मनेतीदम् एव ज्ञायत इति पूर्वम् एवोक्तम् / अतः सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वात् सर्वप्रकारं सर्वशब्दैर् ब्रह्मैवाभिधीयत इति तत् त्वम् इति सामानाधिकरण्येन जीवशरीरतया जीवप्रकारं ब्रह्मैवाभिहितम् /
38 SK एतद् उक्तं भवति / ऐतद्-आत्म्यम् इदं सर्वम् इति चेतन-अचेतन-प्रपञ्चम् इदं सर्वम् इति निर्दिश्य तस्य प्रपञ्चस्य एष आत्म ईति प्रतिपादितः, प्रपञ्च-उद्देशेन ब्रह्म-आत्मकत्वं पतिपादितम् इत्य्-अर्थः / तद् इदं ब्रह्म-आत्मकत्वं किम् आत्म-शरीर-भावेन उत स्व-रूपेण इति विवेचनीयम् / स्व-रूपेण चेद् ब्रह्मणः सत्य-सङ्कल्प-आद्यः --- तद् ऐक्षत बहु स्यं प्रजायेय इत्य् उपक्रम-अवगता बाधिता भवन्ति / शरीर-आत्म-भावेन च तद् आत्मकत्वं श्रुत्य्-अन्तराद् विशेषतो ऽवगतम् अन्तःप्रविष्टः शास्ता जनानां सर्व-आत्म ईति प्रशासितृत्व-रूप-आत्मत्वेन सर्वेषां जनानाम् अन्तःप्रविष्टो ऽतः सर्व-आत्मा सर्वेषां जनानाम् आत्मा सर्वं च अस्य शरीरम् इति विशेषतो ज्ञायते ब्रह्म-आत्मकत्वम् / य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्य अत्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्म-अन्तर्याम्य्-अमृत इति च / अत्र अप्य् अनेन जीवेना अत्मन ईति इदम् एव ज्ञायत इति पूर्वम् एव उक्तम् / अतः सर्वस्य चिद्-अचिद्-वस्तुनो ब्रह्म-शरीरत्वात् सर्व-प्रकारं सर्व-शब्दैर् ब्रह्म एव अभिधीयत इति तत् त्वम् इति सामानाधिकरण्येन जीव-शरीरतया जीव-प्रकारं ब्रह्म एव अभिहितम् /
20 SK एवम् अभिहिते सत्य् अयम् अर्थो ज्ञायते -- त्वम् इति यः पूर्वं देहस्याधिष्ठातृतया प्रतीतः स परमात्मशरीरतया परमात्मप्रकारभूतः परमात्मपर्यन्तः / अतस् त्वम् इति शब्दस् त्वत्प्रकारविशिष्टं त्वदन्तर्यामिणम् एवाचष्ट इति / अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ब्रह्मात्मकतयैव जीवस्य शरीरिणः स्वनामभाक्त्वात् तत् त्वम् इति सामानाधिकरण्यप्रवृत्तयोर् द्वयोर् अपि पदयोर् ब्रह्मैव वाच्यम् / तत्र च तत्पदं जगत्कारणभूतं सकलकल्याणगुणगणाकरं निर्वद्यं निर्विकारम् आचष्टे / त्वम् इति च तद् एव ब्रह्म जीवान्तर्यामिरूपेण सशरीरप्रकारविशिष्टम् आचष्टे / तद् एवं प्रवृत्तिनिमित्तभेदेनैकस्मिन् ब्रह्मण्य् एव तत् त्वम् इति द्वयोः पदयोर् वृत्तिर् उक्ता / ब्रह्मणो निरवद्यं निर्विकारं सकलकल्याणगुणगणाकरत्वं जगत्कारणत्वं चाबाधितम् /
40 SK एवम् अभिहिते सत्य् अयम् अर्थो ज्ञायते --- त्वम् इति यः पूर्वं देहस्य अधिष्ठातृतया प्रतीतः स परम-आत्म-शरीरतया परम-आत्म-प्रकार-भूतः परम-आत्म-पर्यन्तः / अतस् त्वम् इति शब्दस् त्वत्-प्रकार-विशिष्टं त्वद्-अन्तर्यामिणम् एवा अचष्ट इति / अनेन जीवेन अत्मन आनुप्रविश्य नाम-रूपे व्याकरवाणि इति ब्रह्म-आत्मकतय ऐव जीवस्य शरीरिणः स्व-नाम-भाक्त्वात् तत् त्वम् इति सामानाधिकरण्य-प्रवृत्तयोर् द्वयोर् अपि पदयोर् ब्रह्म एव वाच्यम् / तत्र च तत्-पदं जगत्-कारण-भूतं सकल-कल्याण-गुण-गण-आकरं निर्वद्यं निर्विकारम् आचष्टे / त्वम् इति च तद् एव ब्रह्म जीव-अन्तर्यामि-रूपेण स-शरीर-प्रकार-विशिष्टम् आचष्टे / तद् एवं प्रवृत्ति-निमित्त-भेदेन एकस्मिन् ब्रह्मण्य् एव तत् त्वम् इति द्वयोः पदयोर् वृत्तिर् उक्ता / ब्रह्मणो निरवद्यं निर्विकारं सकल-कल्याण-गुण-गण-आकरत्वं जगत्-कारणत्वं च अबाधितम् /
21 SK अश्रुतवेदान्ताः पुरुषाः पदार्थाः सर्वे जीवात्मनश् च ब्रह्मात्मका इति न पश्यति सर्वशब्दानां च केवलेषु तत्तत्पदार्थेषु वाच्यैकदेशेषु वाच्यपर्यवसानं मन्यन्ते / इदानीं वेदान्तवाक्यश्रवणेन ब्रह्मकार्यतया तदन्तर्यामितया च सर्वस्य ब्रह्मात्मकत्वं सर्वशब्दानां तत्तत्प्रकारसंस्थितब्रह्मवाचित्वं च जानन्ति / नन्व् एवं गवादिशब्दानां तत्तत्पदार्थवाचितया व्युत्पत्तिर् बाधिता स्यात् / नैवं सर्वे शब्दा अचिज्जीवविशिष्टस्य परमात्मनो वाचका इत्य् उक्तम् / नामरूपे व्याकरवाणीत्य् अत्र / तत्र लौकिकाः पुरुषाः शब्दं व्याहरन्तः शब्दवाच्ये प्रधानांशस्य परमात्मनः प्रत्यक्षाद्यपरिच्छेद्यत्वाद् वाच्यैकदेशभूते वाच्यसमाप्तिं मन्यन्ते / वेदान्तश्रवणेन च व्युत्पत्तिः पूर्यते / एवम् एव वैदिकाः सर्वे शब्दाः परमात्मपर्यन्तान् स्वार्थान् बोधयन्ति / वैदिका एव सर्वे शब्दा वेदादव् उद्धृत्योद्धृत्य परेणैव ब्रह्मणा सर्वपदार्थान् पूर्ववत् सृष्ट्वा तेषु परमात्मपर्यन्तेषु पूर्ववन् नामतया प्रयुक्ताः / तद् आह मनुः -- सर्वेषां तु नामानि कर्माणि च पृथक् पृथक् / वेदशब्देभ्य एवादौ पृथक्संस्थाश् च निर्ममे // इति / संस्थाः संस्थानानि रूपाणीति यावत् / आह च भगवान् पराशरः -- नाम रूपं भूतानां कृत्यानां प्रपञ्चनम् / वेदशब्देभ्य एवादौ दैवादीनां चकार सः // इति / श्रुतिश् च -- सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयद् इति / सूर्यादीन् पूर्ववत् परिकल्प्य नामानि च पूर्ववच् चकार इत्यर्थः /
42 SK अश्रुत-वेदान्ताः पुरुषाः पद-अर्थाः सर्वे जीव-आत्मनश् च ब्रह्म-आत्मका इति न पश्यति सर्व-शब्दानां च केवलेषु तत्-तत्-पद-अर्थेषु वाच्य-एक-देशेषु वाच्य-पर्यवसानं मन्यन्ते / इदानीं वेदान्त-वाक्य-श्रवणेन ब्रह्म-कार्यतया तद्-अन्तर्यामितया च सर्वस्य ब्रह्म-आत्मकत्वं सर्व-शब्दानां तत्-तत्-प्रकार-संस्थित-ब्रह्म-वाचित्वं च जानन्ति / नन्व् एवं गव-आदि-शब्दानां तत्-तत्-पद-अर्थ-वाचितया व्युत्पत्तिर् बाधिता स्यात् / न एवं सर्वे शब्दा अचिज्-जीव-विशिष्टस्य परम-आत्मनो वाचका इत्य् उक्तम् / नाम-रूपे व्याकरवाणि इत्य् अत्र / तत्र लौकिकाः पुरुषाः शब्दं व्याहरन्तः शब्द-वाच्ये प्रधान-अंशस्य परम-आत्मनः प्रत्यक्ष-आद्य्-अपरिच्छेद्यत्वाद् वाच्य-एक-देश-भूते वाच्य-समाप्तिं मन्यन्ते / वेदान्त-श्रवणेन च व्युत्पत्तिः पूर्यते / एवम् एव वैदिकाः सर्वे शब्दाः परम-आत्म-पर्यन्तान् स्व-अर्थान् बोधयन्ति / वैदिका एव सर्वे शब्दा वेद-आदव् उद्धृत्य उद्धृत्य परेण एव ब्रह्मणा सर्व-पद-अर्थान् पूर्ववत् सृष्ट्वा तेषु परम-आत्म-पर्यन्तेषु पूर्ववन् नामतया प्रयुक्ताः / तद् आह मनुः --- सर्वेषां तु नामानि कर्माणि च पृथक् पृथक् / वेद-शब्देभ्य एवा अदौ पृथक्-संस्थाश् च निर्ममे // इति / संस्थाः संस्थानानि रूपाणि इति यावत् / आह च भगवान् पराशरः --- नाम रूपं भूतानां कृत्यानां प्रपञ्चनम् / वेद-शब्देभ्य एवा अदौ दैव-आदीनां चकार सः // इति / श्रुतिश् च --- सूर्या-चन्द्र-मसौ धाता यथा-पूर्वम् अकल्पयद् इति / सूर्य-आदीन् पूर्ववत् परिकल्प्य नामानि च पूर्ववच् चकार इत्य्-अर्थः /
22 SK एवं जगद्ब्रह्मणोर् अनन्यत्वं प्रपञ्चितम् / तेनैकेन ज्ञातेन सर्वस्य ज्ञाततो ऽपपादिता भवति / सर्वस्य ब्रह्मकार्यत्वप्रतिपादनेन तदात्मकतयैव सत्यत्वं नान्यथेति तत् सत्यम् इत्युक्तम् / यथा दृष्टान्ते सर्वस्य मृद्विकारस्य मृदात्मनैव सत्यत्वम् /
44 SK एवं जगद्-ब्रह्मणोर् अनन्यत्वं प्रपञ्चितम् / तेन एकेन ज्ञातेन सर्वस्य ज्ञाततो ऽपपादिता भवति / सर्वस्य ब्रह्म-कार्यत्व-प्रतिपादनेन तद्-आत्मकतय ऐव सत्यत्वं न अन्यथ ईति तत् सत्यम् इत्य्-उक्तम् / यथा दृष्टान्ते सर्वस्य मृद्-विकारस्य मृद्-आत्मन ऐव सत्यत्वम् /
23 SK शोधकवाक्यान्य् अपि निरवद्यं सर्वकल्याणगुणाकरं परं ब्रह्म बोधयन्ति / सर्वप्रत्यनीकाकारताबोधने ऽपि तत्तत्प्रत्यनीकाकारतायां भेदस्यावर्जनीयत्वान् न निर्विशेषवस्तुसिद्धिः /
46 SK शोधक-वाक्यान्य् अपि निरवद्यं सर्व-कल्याण-गुण-आकरं परं ब्रह्म बोधयन्ति / सर्व-प्रत्यनीक-आकारता-बोधने ऽपि तत्-तत्-प्रत्यनीक-आकारतायां भेदस्य अवर्जनीयत्वान् न निर्विशेष-वस्तु-सिद्धिः /
24 SK ननु च ज्ञानमात्रं ब्रह्मेति प्रतिपादिते निर्विशेषज्ञानमात्रं ब्रह्मेति निश्चीयते / नैवं / स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन स्वरूपम् अपि प्रतिपादयन्ति / गवादिशब्दवत् / तद् आह सूत्रकारः -- तद्गुणसारत्वात् तद्व्यपदेशः प्राज्ञवत् / यावद् आत्मभावितत्वाच् च न दोष इति / ज्ञानेन धर्मेण स्वरूपम् अपि निरूपितं न ज्ञानमात्रं ब्रह्मेति / कथम् इदम् अवगम्यत इति चेद् यः सर्वज्ञः सर्वविद् इत्यादिज्ञातृत्वश्रुतेः परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च / विज्ञातारम् अरे केन विजानीयाद् इत्यादिश्रुतिशतसमधिगतम् इदम् / ज्ञानस्य धर्ममात्रत्वाद् धर्ममात्रस्यैकस्य वस्तुत्वप्रतिपादनानुपपत्तेश् च / अतः सत्यज्ञानादिपदानि स्वार्थभूतज्ञानादिविशिष्टम् एव ब्रह्म प्रतिपादयन्ति / तत् त्वम् इति द्वयोर् अपि पदयोः स्वार्थप्रहाणेन निर्विशेषवस्तुस्वरूपोपस्थापनपरत्वे मुख्यार्थपरित्यागश् च /
48 SK ननु च ज्ञान-मात्रं ब्रह्म इति प्रतिपादिते निर्विशेष-ज्ञान-मात्रं ब्रह्म इति निश्चीयते / न एवं / स्व-रूप-निरूपण-धर्म-शब्दा हि धर्म-मुखेन स्व-रूपम् अपि प्रतिपादयन्ति / गव-आदि-शब्दवत् / तद् आह सूत्र-कारः --- तद्-गुण-सारत्वात् तद्-व्यपदेशः प्राज्ञवत् / यावद् आत्म-भावितत्वाच् च न दोष इति / ज्ञानेन धर्मेण स्व-रूपम् अपि निरूपितं न ज्ञान-मात्रं ब्रह्म इति / कथम् इदम् अवगम्यत इति चेद् यः सर्व-ज्ञः सर्व-विद् इत्य्-आदि-ज्ञातृत्व-श्रुतेः परास्य शक्तिर् विविध ऐव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च / विज्ञातारम् अरे केन विजानीयाद् इत्य्-आदि-श्रुति-शत-समधिगतम् इदम् / ज्ञानस्य धर्म-मात्रत्वाद् धर्म-मात्रस्य एकस्य वस्तुत्व-प्रतिपादन-अनुपपत्तेश् च / अतः सत्य-ज्ञान-आदि-पदानि स्व-अर्थ-भूत-ज्ञान-आदि-विशिष्टम् एव ब्रह्म प्रतिपादयन्ति / तत् त्वम् इति द्वयोर् अपि पदयोः स्व-अर्थ-प्रहाणेन निर्विशेष-वस्तु-स्व-रूप-उपस्थापन-परत्वे मुख्य-अर्थ-परित्यागश् च /
25 SK नन्व् ऐक्ये तात्पर्यनिश्चयान् न लक्षणादोषः / सो ऽयं देवदत्त इतिवत् / यथा सो ऽयम् इत्य् अत्र स इति शब्देन देशान्तरकालान्तरसंबन्धी पुरुषः प्रतीयत अयम् इति च संनिहितदेशवर्तमानकालसंबन्धी, तयोः सामानाधिकरण्येनाइक्यं प्रतीयते / तत्रैकस्य युगपद्विरुद्धदेशकालसंबन्धितया प्रतीतिर् न घटत इति द्वयोर् पदयोः स्वरूपमात्रोपस्थापनपरत्वं स्वरूपस्य चाइक्यं प्रतिपद्यत इति चेन् नैतद् एवम् / सो ऽयं देवदत्त इत्य् अत्रापि लक्षणागन्धो न विद्यते / विरोधाभावात् / एकस्य भूतवर्तमानक्रियाद्वयसंबंधो न विरुद्धः / देशान्तरस्थितिर् भूत्वा संनिहितदेशस्थितिर् वर्तते / अतो भूतवर्तमानक्रियाद्वयसंबन्धितयाइक्यप्रतिपादनम् अविरुद्धम् / देशद्वयविरोधश् च कालभेदेन परिहृतः / लक्षणायाम् अपि न द्वयोर् अपि पदयोर् लक्षणासमाश्रयणम् / एतेनैव लक्षितेन विरोधपरिहारात् / लक्षणाभाव एवोक्तः / देशान्तरसंबन्धितया भूतस्यैवान्यदेशसंबन्धितया वर्तमानत्वाविरोधात् /
50 SK नन्व् ऐक्ये तात्पर्य-निश्चयान् न लक्षणा-दोषः / सो ऽयं देव-दत्त इतिवत् / यथा सो ऽयम् इत्य् अत्र स इति शब्देन देश-अन्तर-काल-अन्तर-संबन्धी पुरुषः प्रतीयत अयम् इति च संनिहित-देश-वर्तमान-काल-संबन्धी, तयोः सामानाधिकरण्येन ऐक्यं प्रतीयते / तत्र एकस्य युगपद्-विरुद्ध-देश-काल-संबन्धितया प्रतीतिर् न घटत इति द्वयोर् पदयोः स्व-रूप-मात्र-उपस्थापन-परत्वं स्व-रूपस्य च ऐक्यं प्रतिपद्यत इति चेन् न एतद् एवम् / सो ऽयं देव-दत्त इत्य् अत्र अपि लक्षणा-गन्धो न विद्यते / विरोध-अभावात् / एकस्य भूत-वर्तमान-क्रिया-द्वय-संबंधो न विरुद्धः / देश-अन्तर-स्थितिर् भूत्वा संनिहित-देश-स्थितिर् वर्तते / अतो भूत-वर्तमान-क्रिया-द्वय-संबन्धितय आइक्य-प्रतिपादनम् अविरुद्धम् / देश-द्वय-विरोधश् च काल-भेदेन परिहृतः / लक्षणायाम् अपि न द्वयोर् अपि पदयोर् लक्षणा-समाश्रयणम् / एतेन एव लक्षितेन विरोध-परिहारात् / लक्षणा-अभाव एव उक्तः / देश-अन्तर-संबन्धितया भूतस्य एव अन्य-देश-संबन्धितया वर्तमानत्व-अविरोधात् /
26 SK एवम् अत्रापि जगत्कारणबूतस्यैव परस्य ब्रह्मणो जीवान्तर्यामितया जीवात्मत्वम् अविरुद्धम् इति प्रतिपादितम् / यथा भूतयोर् एव हि द्वयोर् ऐक्यं सामानाधिकरण्येन प्रतीयते / तत्परित्यागेन स्वरूपमात्राइक्यं न सामानाधिकरण्यार्थः -- भिन्नप्रवृत्तिनिमित्तानां शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इति हि तद्विदः / तथाभूतयोर् ऐक्यम् उपपादितम् अस्माभिः / उपक्रमविरोध्युपसंहारपदेन वाक्यतात्पर्यनिश्चयश् च न घटते / उपक्रमे हि तद् ऐक्षत बहु स्याम् इत्यादिना सत्यसंकल्पत्वं जगदेककारणत्वम् अप्य् उक्तम् / तद्विरोधि चाविद्याश्रयत्वादि ब्रह्मणः /
52 SK एवम् अत्र अपि जगत्-कारण-बूतस्य एव परस्य ब्रह्मणो जीव-अन्तर्यामितया जीव-आत्मत्वम् अविरुद्धम् इति प्रतिपादितम् / यथा भूतयोर् एव हि द्वयोर् ऐक्यं सामानाधिकरण्येन प्रतीयते / तत्-परित्यागेन स्व-रूप-मात्र-ऐक्यं न सामानाधिकरण्य-अर्थः --- भिन्न-प्रवृत्ति-निमित्तानां शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इति हि तद्-विदः / तथा-भूतयोर् ऐक्यम् उपपादितम् अस्माभिः / उपक्रम-विरोध्य्-उपसंहार-पदेन वाक्य-तात्पर्य-निश्चयश् च न घटते / उपक्रमे हि तद् ऐक्षत बहु स्याम् इत्य्-आदिना सत्य-संकल्पत्वं जगद्-एक-कारणत्वम् अप्य् उक्तम् / तद्-विरोधि च अविद्या-आश्रयत्व-आदि ब्रह्मणः /
27 SK अपि चार्थभेदतत्संसर्गविशेषबोधनकृतपदवाक्यस्य स्वरूपतालब्धप्रमाणभावस्य शब्दस्य निर्विशेषवस्तुबोधनासामर्थान् न निर्विशेषवस्तुनि शब्दः प्रमाणम् / निर्विशेष इत्यादिशब्दास् तु केनचिद् विशेषेण विशिष्टतयावगतस्य वस्तुनो वस्त्वन्तरगतविशेषनिषेधपरतया बोधकाः / इतरथा तेषम् अप्य् अनवबोधकत्वम् एव / प्रकृतिप्रत्ययरूपेण पदस्यैवानेकविशेषगर्भत्वाद् अनेकपदार्थसंसर्गबोधकत्वाच् च वाक्यस्य /
54 SK अपि च अर्थ-भेद-तत्-संसर्ग-विशेष-बोधन-कृत-पद-वाक्यस्य स्व-रूपता-आलब्ध-प्रमाण-भावस्य शब्दस्य निर्विशेष-वस्तु-बोधन-असामर्थान् न निर्विशेष-वस्तुनि शब्दः प्रमाणम् / निर्विशेष इत्य्-आदि-शब्दास् तु केनचिद् विशेषेण विशिष्टतय आवगतस्य वस्तुनो वस्त्व्-अन्तर-गत-विशेष-निषेध-परतया बोधकाः / इतरथा तेषम् अप्य् अनवबोधकत्वम् एव / प्रकृति-प्रत्यय-रूपेण पदस्य एव अनेक-विशेष-गर्भत्वाद् अनेक-पद-अर्थ-संसर्ग-बोधकत्वाच् च वाक्यस्य /
28 SK अथ स्यात् -- नास्माभिर् निर्विशेषे स्वयंप्रकाशे वस्तुनि शब्दः प्रमाणम् इत्य् उच्यते / स्वतःसिद्धस्य प्रमाणानपेक्षत्वात् / सर्वैः शब्दैस् तदुपरागविशेषा ज्ञातृत्वादयः सर्वे निरस्यन्ते / सर्वेषु विशेषेषु निवृत्तेषु वस्तुमात्रम् अनवच्छिन्नं स्वयंप्रकाशं स्वत एवावतिष्ठत इति / नैतद् एवम् / केन शब्देन तद्वस्तु निर्दिश्य तद्गतविशेषा निरस्यन्ते / ज्ञप्तिमात्रशब्देनेति चेन् न / सो ऽपि सविशेषम् एव वस्त्ववलम्बते / प्रकृतिप्रत्ययरूपेण विशेषगर्भत्वात् / ज्ञा अवबोधन इति सकर्मकः सकर्तृकः क्रियाविशेषः क्रियान्तरव्यावर्तकस्वभावविशेषश् च प्रकृत्यावगम्यते / प्रत्ययेन च लिङ्गसंख्यादयः / स्वतःसिद्धाव् अप्य् एतत्स्वभावविशेषविरहे सिद्धिर् एव न स्यात् / अन्यसाधनस्वभावतया हि ज्ञप्तेः स्वतःसिद्धिर् उच्यते /
56 SK अथ स्यात् --- न अस्माभिर् निर्विशेषे स्वयं-प्रकाशे वस्तुनि शब्दः प्रमाणम् इत्य् उच्यते / स्वतःसिद्धस्य प्रमाण-अनपेक्षत्वात् / सर्वैः शब्दैस् तद्-उपराग-विशेषा ज्ञातृत्व-आदयः सर्वे निरस्यन्ते / सर्वेषु विशेषेषु निवृत्तेषु वस्तु-मात्रम् अनवच्छिन्नं स्वयं-प्रकाशं स्वत एव अवतिष्ठत इति / न एतद् एवम् / केन शब्देन तद्-वस्तु निर्दिश्य तद्-गत-विशेषा निरस्यन्ते / ज्ञप्ति-मात्र-शब्देन इति चेन् न / सो ऽपि सविशेषम् एव वस्त्व्-अवलम्बते / प्रकृति-प्रत्यय-रूपेण विशेष-गर्भत्वात् / ज्ञा अवबोधन इति स-कर्मकः स-कर्तृकः क्रिया-विशेषः क्रिया-अन्तर-व्यावर्तक-स्व-भाव-विशेषश् च प्रकृत्य आवगम्यते / प्रत्ययेन च लिङ्ग-संख्या-आदयः / स्वतः-सिद्धाव् अप्य् एतत्-स्व-भाव-विशेष-विरहे सिद्धिर् एव न स्यात् / अन्य-साधन-स्व-भावतया हि ज्ञप्तेः स्वतः-सिद्धिर् उच्यते /
29 SK ब्रह्मस्वरूपं कृत्स्नं सर्वदा स्वयम् एव प्रकाशते चेन् न तस्मिन्न् अन्यधर्माध्यासः संभवति / न हि रज्जुस्वरूपे ऽवभासमाने सर्पत्वादिर् अध्यस्यते / अत एव हि भवद्भिर् आच्छादिकाविद्याभ्युपगम्यते / ततश् च शास्त्रीयनिवर्तकज्ञानस्य ब्रह्मणि तिरोहितांशो विषयः / अन्यथा तस्य निवर्तकत्वं च न स्यात् / अधिष्ठानातिरेकिरज्जुत्वप्रकाशनेन हि सर्पत्वं बाध्यते / एकश् चेद् विशेषो ज्ञानमात्रे वस्तुनि शब्देनाभिधीयते स च ब्रह्मविशेषणं भवतीति सर्वश्रुतिप्रतिपादितसर्वविशेषणविशिष्टं ब्रह्म भवति /
58 SK ब्रह्म-स्व-रूपं कृत्स्नं सर्वदा स्वयम् एव प्रकाशते चेन् न तस्मिन्न् अन्य-धर्म-अध्यासः संभवति / न हि रज्जु-स्व-रूपे ऽवभासमाने सर्पत्व-आदिर् अध्यस्यते / अत एव हि भवद्भिर् आच्छादिक-अविद्य आभ्युपगम्यते / ततश् च शास्त्रीय-निवर्तक-ज्ञानस्य ब्रह्मणि तिरोहित-अंशो विषयः / अन्यथा तस्य निवर्तकत्वं च न स्यात् / अधिष्ठान-अतिरेकि-रज्जुत्व-प्रकाशनेन हि सर्पत्वं बाध्यते / एकश् चेद् विशेषो ज्ञान-मात्रे वस्तुनि शब्देन अभिधीयते स च ब्रह्म-विशेषणं भवति इति सर्व-श्रुति-प्रतिपादित-सर्व-विशेषण-विशिष्टं ब्रह्म भवति /
30 SK अतः प्रामाणिकानां न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः / निर्विकल्पकप्रत्यक्षे ऽपि सविशेषम् एव वस्तु प्रतीयते / अन्यथा सविकल्पके सो ऽयम् इति पूर्वावगतप्रकारविशिष्टप्रत्ययानुपपत्तेः / वस्तुसंस्थानविशेषरूपत्वाद् गोत्वादेर् निर्विकल्पतदशायाम् अपि ससंस्थानम् एव वस्त्व् इत्थम् इति प्रतीयते / द्वितीयादिप्रत्ययेषु तस्य संस्थानविशेषस्यानेकवस्तुनिष्ठतामात्रं प्रतीयते / संस्थानरूपप्रकाराख्यस्य पदार्थस्यानेकवस्तुनिष्ठतयानेकवस्तुविशेषणत्वं द्वितीयादिप्रत्ययावगम्यम् इति द्वितीयादिप्रत्ययाः सविकल्पका इत्य् उच्यन्ते / अत एवैकस्य पदार्थस्य भिन्नाभिन्नत्वरूपेण द्व्यात्मकत्वं विरुद्धं प्रत्युक्तम् / संस्थानस्य संस्थानिनः प्रकारतया पदार्थान्तरत्वम् / प्रकारत्वाद् एव पृथक्सिद्ध्यनर्हत्वं पृथगनुपलम्भश् चेति न द्व्यात्मकत्वसिद्धिः /
60 SK अतः प्रामाणिकानां न केन अपि प्रमाणेन निर्विशेष-वस्तु-सिद्धिः / निर्विकल्पक-प्रत्यक्षे ऽपि सविशेषम् एव वस्तु प्रतीयते / अन्यथा सविकल्पके सो ऽयम् इति पूर्व-अवगत-प्रकार-विशिष्ट-प्रत्यय-अनुपपत्तेः / वस्तु-संस्थान-विशेष-रूपत्वाद् गोत्व-आदेर् निर्विकल्पत-दशायाम् अपि ससंस्थानम् एव वस्त्व् इत्थम् इति प्रतीयते / द्वितीय-आदि-प्रत्ययेषु तस्य संस्थान-विशेषस्य अनेक-वस्तु-निष्ठता-मात्रं प्रतीयते / संस्थान-रूप-प्रकार-आख्यस्य पद-अर्थस्य अनेक-वस्तु-निष्ठतय आनेक-वस्तु-विशेषणत्वं द्वितीय-आदि-प्रत्यय-अवगम्यम् इति द्वितीय-आदि-प्रत्ययाः सविकल्पका इत्य् उच्यन्ते / अत एव एकस्य पद-अर्थस्य भिन्न-अभिन्नत्व-रूपेण द्व्य्-आत्मकत्वं विरुद्धं प्रत्युक्तम् / संस्थानस्य संस्थानिनः प्रकारतया पद-अर्थ-अन्तरत्वम् / प्रकारत्वाद् एव पृथक्-सिद्ध्य्-अनर्हत्वं पृथग्-अनुपलम्भश् च इति न द्व्य्-आत्मकत्व-सिद्धिः /
31 SK अपि च निर्विशेषवस्त्वादिना स्वयंप्रकाशे वस्तुनि तदुपरागविशेषाः सर्वैः शब्दैर् निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम् / वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति विकारनामधेययोर् वाचारम्भणमात्रत्वात् / यत् तत्र कारणतयोपलक्ष्यते वस्तुमात्रं तद् एव सत्यम् अन्यद् असत्यम् इतीयं श्रुतिर् वदतीति चेन् नैतद् उपपद्यते / एकस्मिन् विज्ञाते सर्वं विज्ञातं भवतीति प्रतिज्ञाते ऽन्यज्ञानेनान्यज्ञानासंभवं मन्वानस्यैकम् एव वस्तु विकाराद्यवस्थाविशेषेण पारमार्थिकेनैव नामरूपम् अवस्थितं चेत् तत्रैकस्मिन् विज्ञाते तस्माद् विलक्षणसंस्थानान्तरम् अपि तद् एवेति तत्र दृष्टान्तो ऽयं निदर्शितः / नात्र कस्यचिद् विशेषस्य निषेधकः को ऽपि शब्दो दृश्यते / वाचारम्भणम् इति वाचा व्यवहारेणारभ्यत इत्य् आरम्भणम् / पिण्डरूपेणावस्थितायाः मृत्तिकाया नाम वान्यद्व्यवहारश् चान्यः / घटशरावादिरूपेणावस्थितायास् तस्या एव मृत्तिकाया अन्यानि नामधेयानि व्यवहाराश् चान्यद्दशाः / तथापि सर्वत्र मृत्तिकाद्रव्यम् एकम् एव नानासंस्थाननानानामधेयाभ्यां नानाव्यवहारेण चारभ्यत इत्येतद् एव सत्यम् इत्य् अनेनान्यज्ञानेनान्यज्ञानसंभवो निदर्शितः / नात्र किंचिद् वस्तु निषिध्यत इति पूर्वम् एवायम् अर्थः प्रपञ्चितः /
62 SK अपि च निर्विशेष-वस्त्व्-आदिना स्वयंप्रकाशे वस्तुनि तद्-उपराग-विशेषाः सर्वैः शब्दैर् निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम् / वाचा आरम्भणं विकारो नाम-धेयं मृत्तिक ईत्य् एव सत्यम् इति विकार-नाम-धेययोर् वाचा आरम्भण-मात्रत्वात् / यत् तत्र कारणतय ऊपलक्ष्यते वस्तु-मात्रं तद् एव सत्यम् अन्यद् असत्यम् इति इयं श्रुतिर् वदति इति चेन् न एतद् उपपद्यते / एकस्मिन् विज्ञाते सर्वं विज्ञातं भवति इति प्रतिज्ञाते ऽन्य-ज्ञानेन अन्य-ज्ञान-असंभवं मन्वानस्य एकम् एव वस्तु विकार-आद्य्-अवस्था-विशेषेण पारमार्थिकेन एव नाम-रूपम् अवस्थितं चेत् तत्र एकस्मिन् विज्ञाते तस्माद् विलक्षण-संस्थान-अन्तरम् अपि तद् एव इति तत्र दृष्टान्तो ऽयं निदर्शितः / न अत्र कस्यचिद् विशेषस्य निषेधकः को ऽपि शब्दो दृश्यते / वाचा आरम्भणम् इति वाचा व्यवहारेणा अरभ्यत इत्य् आरम्भणम् / पिण्ड-रूपेण अवस्थितायाः मृत्तिकाया नाम व आन्यद्-व्यवहारश् च अन्यः / घट-शराव-आदि-रूपेण अवस्थितायास् तस्या एव मृत्तिकाया अन्यानि नाम-धेयानि व्यवहाराश् च अन्यद्-दशाः / तथ आपि सर्वत्र मृत्तिका-द्रव्यम् एकम् एव नाना-संस्थान-नाना-नाम-धेयाभ्यां नाना-व्यवहारेण चा अरभ्यत इत्य्-एतद् एव सत्यम् इत्य् अनेन अन्य-ज्ञानेन अन्य-ज्ञान-संभवो निदर्शितः / न अत्र किंचिद् वस्तु निषिध्यत इति पूर्वम् एव अयम् अर्थः प्रपञ्चितः /
32 SK अपि च येनाश्रुतं श्रुतम् इत्यादिना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेद् यथा सोम्यैकेन मृत्पिण्डेनेत्यादिदृष्टान्तः साध्यविकलः स्यात् / रज्जुसर्पादिवन् मृत्तिकाविकारस्य घटशरावादेर् असत्यत्वं श्वेतकेतोः शुश्रूषोः प्रमाणान्तरेण युक्त्या चासिद्धम् इत्य् एतद् अपि सिषाधयिषितम् इति चेत् / यथेति दृष्टान्तयोपादानं न घटते /
64 SK अपि च येन अश्रुतं श्रुतम् इत्य्-आदिना ब्रह्म-व्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेद् यथा सोम्य एकेन मृत्-पिण्डेन इत्य्-आदि-दृष्टान्तः साध्य-विकलः स्यात् / रज्जु-सर्प-आदिवन् मृत्तिका-विकारस्य घट-शराव-आदेर् असत्यत्वं श्वेतकेतोः शुश्रूषोः प्रमाण-अन्तरेण युक्त्या च असिद्धम् इत्य् एतद् अपि सिषाधयिषितम् इति चेत् / यथ ईति दृष्टान्तय ऊपादानं न घटते /
33 SK सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् एवाद्वितीयम् इत्य् अत्र सद् एवैकम् एवेत्य् अवधारणद्वयेनाद्वितीयम् इत्य् अनेन च सन्मात्रातिरेकिसजातीयविजातीयाः सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्न् एतद् एवम् / कार्यकारणभावावस्थाद्वयावस्थितस्यैकस्य वस्तुन एकावस्थावस्थितस्य ज्ञानेनावस्थान्तरावस्थितस्यापि वस्त्वैक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोर् अप्रज्ञातं सर्वस्य ब्रह्मकारणत्वं च वक्तुं सद् एव सोम्येदम् इत्य् आरब्धम् / इदम् अग्रे सद् एवासीद् इति / अग्र इति कालविशेषः / इदंशब्दवाच्यस्य प्रपञ्चस्य सदापत्तिरूपां क्रियां सद्रव्यतां च वदति / एकम् एवेति चास्य नानानामरूपविकारप्रहाणम् / एतस्मिन् प्रतिपादिते ऽस्य जगतः सदुपादानता प्रतिपादिता भवति / अन्यत्रोपादानकारणस्य स्वव्यतिरिक्ताधिष्ठात्रपेक्षादर्शने ऽपि सर्वविलक्षणत्वाद् अस्य सर्वज्ञस्य ब्रह्मणः सर्वशक्तियोगो न विरुद्ध इत्य् अद्वितीयपदम् अधिष्ठात्रन्तरं निवारयति / सर्वशक्तियुक्तत्वाद् एव ब्रह्मणः / काश्चन श्रुतयः प्रथमम् उपादानकारणत्वं प्रतिपाद्य निमित्तकारणम् अपि तद् एवेति प्रतिपादयन्ति / यथेयं श्रुतिः / अन्याश् च श्रुतयो ब्रह्मणो निमित्तकारणत्वम् अनुज्ञायास्यैवोपादानतादि कथम् इति परिचोद्य, सर्वशक्तियुक्तत्वाद् उपादानकारणं तदितराशेषोपकरणं च ब्रह्मैवेति परिहरन्ति -- किंस्विद् वनं क उ स वृक्ष आसीद् यतो द्यावापृथिवी निष्टक्षुर्मणीषिणो मनसा पृच्छतेद् उत्द्यद् अध्यतिष्ठद् भुवनानि धारयन् / ब्रह्म वनं ब्रह्म स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुर् मनीषिणो मनसा विब्रवीमि वः ब्रह्माध्यतिष्ठद् भुवनानि / धारयन्न् इति सामान्यतो दृष्टेन विरोधम् आशङ्क्य ब्रह्मणः सर्वविलक्षणत्वेन परिहार उक्तः / अतः सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्राप्य् अग्र इत्याद्यनेकविशेषा ब्रह्मणो प्रतिपादिताः / भवदभिमतविशेषनिषेधवाची को ऽपि शब्दो न दृश्यते / प्रत्य् उत जगद्ब्रह्मणोः कार्यकारणभावज्ञापनायाग्र इति कालविशेषसद्भावः / आसीद् इति क्रियाविशेषो, जगदुपादानता जगन्निमित्तता च, निमित्तोपादानयोर् भेदनिरसनेन तस्यैव ब्रह्मणः सर्वशक्तियोगश् चेत्य् अप्रज्ञातः सहस्रशो विशेषा एव प्रतिपादिताः /
66 SK सद् एव सोम्य इदम् अग्र आसीद् एकम् एव अद्वितीयम् एव अद्वितीयम् इत्य् अत्र सद् एव एकम् एव इत्य् अवधारण-द्वयेन अद्वितीयम् इत्य् अनेन च सन्-मात्र-अतिरेकि-सजातीय-विजातीयाः सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्न् एतद् एवम् / कार्य-कारण-भाव-अवस्था-द्वय-अवस्थितस्य एकस्य वस्तुन एक-अवस्था-अवस्थितस्य ज्ञानेन अवस्था-अन्तर-अवस्थितस्य अपि वस्त्व्-ऐक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोर् अप्रज्ञातं सर्वस्य ब्रह्म-कारणत्वं च वक्तुं सद् एव सोम्य इदम् इत्य् आरब्धम् / इदम् अग्रे सद् एवा असीद् इति / अग्र इति काल-विशेषः / इदं-शब्द-वाच्यस्य प्रपञ्चस्य सद्-आपत्ति-रूपां क्रियां सद्रव्यतां च वदति / एकम् एव इति च अस्य नाना-नाम-रूप-विकार-प्रहाणम् / एतस्मिन् प्रतिपादिते ऽस्य जगतः सद्-उपादानता प्रतिपादिता भवति / अन्यत्र उपादान-कारणस्य स्व-व्यतिरिक्त-अधिष्ठात्र्-अपेक्षा-दर्शने ऽपि सर्व-विलक्षणत्वाद् अस्य सर्व-ज्ञस्य ब्रह्मणः सर्व-शक्ति-योगो न विरुद्ध इत्य् अद्वितीय-पदम् अधिष्ठात्र्-अन्तरं निवारयति / सर्व-शक्ति-युक्तत्वाद् एव ब्रह्मणः / काश्चन श्रुतयः प्रथमम् उपादान-कारणत्वं प्रतिपाद्य निमित्त-कारणम् अपि तद् एव इति प्रतिपादयन्ति / यथ ईयं श्रुतिः / अन्याश् च श्रुतयो ब्रह्मणो निमित्त-कारणत्वम् अनुज्ञाय अस्य एव उपादानता-आदि कथम् इति परिचोद्य, सर्व-शक्ति-युक्तत्वाद् उपादान-कारणं तद्-इतर-अशेष-उपकरणं च ब्रह्म एव इति परिहरन्ति --- किंस्विद् वनं क उ स वृक्ष आसीद् यतो द्यावा-पृथिवी निष्टक्षुर्-मणीषिणो मनसा पृच्छतेद् उत्द्यद् अध्यतिष्ठद् भुवनानि धारयन् / ब्रह्म वनं ब्रह्म स वृक्ष आसीद् यतो द्यावा-पृथिवी निष्टतक्षुर् मनीषिणो मनसा विब्रवीमि वः ब्रह्म-अध्यतिष्ठद् भुवनानि / धारयन्न् इति सामान्यतो दृष्टेन विरोधम् आशङ्क्य ब्रह्मणः सर्व-विलक्षणत्वेन परिहार उक्तः / अतः सद् एव सोम्य इदम् अग्र आसीद् इत्य् अत्र अप्य् अग्र इत्य्-आद्य्-अनेक-विशेषा ब्रह्मणो प्रतिपादिताः / भवद्-अभिमत-विशेष-निषेध-वाची को ऽपि शब्दो न दृश्यते / प्रत्य् उत जगद्-ब्रह्मणोः कार्य-कारण-भाव-ज्ञापनाय अग्र इति काल-विशेष-सद्-भावः / आसीद् इति क्रिया-विशेषो, जगद्-उपादानता जगन्-निमित्तता च, निमित्त-उपादानयोर् भेद-निरसनेन तस्य एव ब्रह्मणः सर्व-शक्ति-योगश् च इत्य् अप्रज्ञातः सहस्रशो विशेषा एव प्रतिपादिताः /
34 SK यतो वास्तवकार्यकारणभावादिविज्ञाने प्रवृत्तम् अत एवासद् एवेदम् अग्र आसीद् इत्यारभ्यासत्कार्यवादनिषेधश् च क्रियते -- कुतस् तु खलु सोम्यैवं स्याद् इति / प्रागसत उत्पत्तिर् अहेतुकेत्यर्थः / तद् एवोपपादयति -- कथम् असतः सज् जायेतेति / असत उत्पन्नम् असदात्मकम् एव भवतीत्यर्थः / यथा मृद् उत्पन्नं घटादिकं मृदात्मकम् / सत उत्पत्तिर् नाम व्यवहारविशेषहेतुभूतो ऽवस्थाविशेषयोगः /
68 SK यतो वास्तव-कार्य-कारण-भाव-आदि-विज्ञाने प्रवृत्तम् अत एव असद् एव इदम् अग्र आसीद् इत्य्-आरभ्य असत्-कार्य-वाद-निषेधश् च क्रियते --- कुतस् तु खलु सोम्य एवं स्याद् इति / प्राग्-असत उत्पत्तिर् अहेतुक ईत्य्-अर्थः / तद् एव उपपादयति --- कथम् असतः सज् जायेत इति / असत उत्पन्नम् असद्-आत्मकम् एव भवति इत्य्-अर्थः / यथा मृद् उत्पन्नं घट-आदिकं मृद्-आत्मकम् / सत उत्पत्तिर् नाम व्यवहार-विशेष-हेतु-भूतो ऽवस्था-विशेष-योगः /
35 SK एतद् उक्तं भवति / एकम् एव कारणभूतं द्रव्यम् अवस्थान्तरयोगेन कार्यम् इत्य् उच्यत इत्य् एकविज्ञानेन सर्वविज्ञानं प्रतिपिपादयिषितम् / तद् असत्कार्यवादे न सेत्स्यति / तथा हि निमित्तसमवाय्यसमवायिप्रभृतिः कारणैर् अवयव्याख्यं कार्यं द्रव्यान्तरम् एवोत्पद्यत इति कारणभूताद् वस्तुनः कार्यस्य वस्त्वन्तरत्वान् न तज्ज्ञानेनास्य ज्ञातता कथम् अपि संभवतीति / कथम् अवयवि द्रव्यान्तरं निरस्यत इति चेत् / कारणगतावस्थान्तरयोगस्य द्रव्यान्तरोत्पत्तिवादिनः संप्रतिपन्नस्यैवैकत्वनामान्तरादेर् उपपादकत्वाद् द्रव्यान्तरादर्शनाच् चेति कारणम् एवावस्थान्तरापन्नं कार्यम् इत्य् उच्यत इत्य् उक्तम् /
70 SK एतद् उक्तं भवति / एकम् एव कारण-भूतं द्रव्यम् अवस्था-अन्तर-योगेन कार्यम् इत्य् उच्यत इत्य् एक-विज्ञानेन सर्व-विज्ञानं प्रतिपिपादयिषितम् / तद् असत्-कार्य-वादे न सेत्स्यति / तथा हि निमित्त-समवाय्य्-असमवायि-प्रभृतिः कारणैर् अवयव्य्-आख्यं कार्यं द्रव्य-अन्तरम् एव उत्पद्यत इति कारण-भूताद् वस्तुनः कार्यस्य वस्त्व्-अन्तरत्वान् न तज्-ज्ञानेन अस्य ज्ञातता कथम् अपि संभवति इति / कथम् अवयवि द्रव्य-अन्तरं निरस्यत इति चेत् / कारण-गत-अवस्था-अन्तर-योगस्य द्रव्य-अन्तर-उत्पत्ति-वादिनः संप्रतिपन्नस्य एव एकत्व-नाम-अन्तर-आदेर् उपपादकत्वाद् द्रव्य-अन्तर-अदर्शनाच् च इति कारणम् एव अवस्था-अन्तर-आपन्नं कार्यम् इत्य् उच्यत इत्य् उक्तम् /
36 SK ननु निरधिष्ठानभ्रमासंभवज्ञापनायासत्कार्यवादनिरासः क्रियते / तथा ह्य् एकं चिद्रूपं सत्यम् एवाविद्याच् छादितं जगद्रूपेण विवर्तत इत्य् अविद्याश्रयत्वाय मूलकारणं सत्यम् इत्य् अभ्युपगन्तव्यम् इत्य् असत्कार्यवादनिरासः / नैतद् एवम् / एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादृष्टान्तमुखेन सत्कार्यवादस्यैव प्रसक्तत्वाद् इत्य् उक्तम् / भवत्पक्षे निरधिष्ठानभ्रमासंभवस्य दुरुपपादत्वाच् च / यस्य हि चेतनगतदोषः पारमार्थिको दोषाश्रयत्वं च पारमार्थिकं तस्य पारमार्थिकदोषेण युक्तस्यापारमार्थिकगन्धर्वनगरादिदर्शनम् उपपन्नं, यस्य तु दोषश् चापारमार्थिको दोषाश्रयत्वं चापारमार्थिकं तस्यापारमार्थिकेनाप्य् आश्रयेण तद् उपपन्नम् इति भवत्पक्षे न निरधिष्ठानभ्रमासंभवः /
72 SK ननु निरधिष्ठान-भ्रम-असंभव-ज्ञापनाय असत्-कार्य-वाद-निरासः क्रियते / तथा ह्य् एकं चिद्-रूपं सत्यम् एव अविद्याच् छादितं जगद्-रूपेण विवर्तत इत्य् अविद्या-आश्रयत्वाय मूल-कारणं सत्यम् इत्य् अभ्युपगन्तव्यम् इत्य् असत्-कार्य-वाद-निरासः / न एतद् एवम् / एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा-दृष्टान्त-मुखेन सत्-कार्य-वादस्य एव प्रसक्तत्वाद् इत्य् उक्तम् / भवत्-पक्षे निरधिष्ठान-भ्रम-असंभवस्य दुरुपपादत्वाच् च / यस्य हि चेतन-गत-दोषः पारमार्थिको दोष-आश्रयत्वं च पारमार्थिकं तस्य पारमार्थिक-दोषेण युक्तस्य अपारमार्थिक-गन्धर्व-नगर-आदि-दर्शनम् उपपन्नं, यस्य तु दोषश् च अपारमार्थिको दोष-आश्रयत्वं च अपारमार्थिकं तस्य अपारमार्थिकेन अप्य् आश्रयेण तद् उपपन्नम् इति भवत्-पक्षे न निरधिष्ठान-भ्रम-असंभवः /
37 SK शोधकेष्व् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्मेत्यादिषु वाक्येषु सामान्याधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्टैकार्थावबोधनम् अविरुद्धम् इति सर्वगुणविशिष्टं ब्रह्माभिधीयत इति पूर्वम् एवोक्तम् /
74 SK शोधकेष्व् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्म इत्य्-आदिषु वाक्येषु सामान्याधिकरण्य-व्युत्पत्ति-सिद्ध-अनेक-गुण-विशिष्ट-एक-अर्थ-अवबोधनम् अविरुद्धम् इति सर्व-गुण-विशिष्टं ब्रह्म अभिधीयत इति पूर्वम् एव उक्तम् /
38 SK अथात आदेशो नेति नेतीति बहुधा निषेधो दृष्यत इति चेत् / किम् अत्र निषिध्यत इति वक्तव्यम् / द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चेति मूर्तामूर्तात्मकः प्रपञ्चः सर्वो ऽपि निषिध्यत इति चेन् नैवम् / ब्रह्मणो रूपतयाप्रज्ञातं सर्वं रूपतयोपदिश्य पुनर् तद् एव निषेद्धुम् अयुक्तम् / प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् इति न्यायात् / कस् तर्हि निषेधवाक्यार्थः / सूत्रकारः स्वयम् एव वदति -- प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति / उत्तरत्र अथ नामधेयं सत्य् अस्य सत्यं प्राणा वै सत्यं तेषाम् एष सत्यम् इति सत्यादिगुणगणस्य प्रतिपादितत्वात् पूर्वप्रकृतैतावन्मात्रं न भवति ब्रह्मेति, ब्रह्मण एतावन्मात्रता प्रतिषिध्यत इति सूत्रार्थः /
76 SK अथ अत आदेशो न इति न इति इति बहुधा निषेधो दृष्यत इति चेत् / किम् अत्र निषिध्यत इति वक्तव्यम् / द्वे वाव ब्रह्मणो रूपे मूर्तं च एव अमूर्तं च इति मूर्त-अमूर्त-आत्मकः प्रपञ्चः सर्वो ऽपि निषिध्यत इति चेन् न एवम् / ब्रह्मणो रूपतय आप्रज्ञातं सर्वं रूपतय ऊपदिश्य पुनर् तद् एव निषेद्धुम् अयुक्तम् / प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् इति न्यायात् / कस् तर्हि निषेध-वाक्य-अर्थः / सूत्र-कारः स्वयम् एव वदति --- प्रकृत-एतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति / उत्तरत्र अथ नाम-धेयं सत्य् अस्य सत्यं प्राणा वै सत्यं तेषाम् एष सत्यम् इति सत्य-आदि-गुण-गणस्य प्रतिपादितत्वात् पूर्व-प्रकृत-एतावन्-मात्रं न भवति ब्रह्म इति, ब्रह्मण एतावन्-मात्रता प्रतिषिध्यत इति सूत्र-अर्थः /
39 SK नेह नानास्ति किंचनेत्यादिना नानात्वप्रतिषेध एव दृष्यत इति चेत् / अत्राप्य् उत्तरत्र सर्वस्य वशी सर्वस्येशन इति सत्यसङ्कल्पत्वसर्वेश्वरत्वप्रतिपादनाच् चेतनवस्तुशरीर ईश्वर इति सर्वप्रकारसंस्थितः स एक एवेति तत्प्रत्यनीकाब्रह्मात्मकनानात्वं प्रतिषिद्धं न भवदभिमतम् / सर्वास्व् एवंप्रकारासु श्रुतिष्व् इयम् एव स्थितिर् इति न क्वचिद् अपि ब्रह्मणः सविशेषत्वनिषेधकवाची को ऽपि शब्दो दृश्यते /
78 SK न इह नान आस्ति किंचन इत्य्-आदिना नानात्व-प्रतिषेध एव दृष्यत इति चेत् / अत्र अप्य् उत्तरत्र सर्वस्य वशी सर्वस्या इशन इति सत्य-सङ्कल्पत्व-सर्व-ईश्वरत्व-प्रतिपादनाच् चेतन-वस्तु-शरीर ईश्वर इति सर्व-प्रकार-संस्थितः स एक एव इति तत्-प्रत्यनीका-ब्रह्म-आत्मक-नानात्वं प्रतिषिद्धं न भवद्-अभिमतम् / सर्वास्व् एवं-प्रकारासु श्रुतिष्व् इयम् एव स्थितिर् इति न क्वचिद् अपि ब्रह्मणः सविशेषत्व-निषेधक-वाची को ऽपि शब्दो दृश्यते /
40 SK अपि च निर्विशेषज्ञानमात्रं ब्रह्म तच् चाछादिकाविद्यातिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्य् अयम् अर्थो न घटते / तिरोधानं नाम प्रकाशनिवारणम् / स्वरूपातिरेकिप्रकाशधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात् स्वरूपनाश एव स्यात् / प्रकाशपर्यायं ज्ञानं नित्यं स च प्रकाशो ऽविद्यातिरोहित इति बालिशभाषितम् इदम् / अविद्यया प्रकाशतिरोहित इति प्रकाशोत्पत्तिप्रतिबन्धो विद्यमानस्य विनाशो वा / प्रकाशस्यानुत्पाद्यत्वाद् विनाश एव स्यात् / प्रकाशो नित्यो निर्विकारस् तिष्ठतीति चेत् / सत्याम् अप्य् अविद्यायां ब्रह्मणि न किंचित् तिरोहितम् इति नानात्वं पश्यतीति भवताम् अयं व्यवहारः सत्स्व् अनिर्वचनीय एव /
80 SK अपि च निर्विशेष-ज्ञान-मात्रं ब्रह्म तच् चा अछादिक-अविद्या-तिरोहित-स्व-रूपं स्व-गत-नानात्वं पश्यति इत्य् अयम् अर्थो न घटते / तिरोधानं नाम प्रकाश-निवारणम् / स्व-रूप-अतिरेकि-प्रकाश-धर्म-अनभ्युपगमेन प्रकाशस्य एव स्व-रूपत्वात् स्व-रूप-नाश एव स्यात् / प्रकाश-पर्यायं ज्ञानं नित्यं स च प्रकाशो ऽविद्या-तिरोहित इति बालिश-भाषितम् इदम् / अविद्यया प्रकाश-तिरोहित इति प्रकाश उत्पत्ति-प्रतिबन्धो विद्यमानस्य विनाशो वा / प्रकाशस्य अनुत्पाद्यत्वाद् विनाश एव स्यात् / प्रकाशो नित्यो निर्विकारस् तिष्ठति इति चेत् / सत्याम् अप्य् अविद्यायां ब्रह्मणि न किंचित् तिरोहितम् इति नानात्वं पश्यति इति भवताम् अयं व्यवहारः सत्स्व् अनिर्वचनीय एव /
41 SK ननु च भवतो ऽपि विज्ञानस्वरूप आत्माभ्युपगन्तव्यः / स च स्वयंप्रकाशः / तस्य च देवादिस्वरूपात्माभिमाने स्वरूपप्रकाशतिरोधानम् अवश्यम् आश्रयणीयम् / स्वरूपप्रकाशे सति स्वात्मन्य् आकारान्तराध्यासायोगात् / अतो भवतश् चायं समानो दोषः / किं चास्माकम् एकस्मिन्न् एवात्मनि भवदुदीरितं दुर्घटत्वम् भवताम् आत्मानन्त्याभ्युपगमात् सर्वेष्व् अयं दोषः परिहरणीयः /
82 SK ननु च भवतो ऽपि विज्ञान-स्व-रूप आत्म-अभ्युपगन्तव्यः / स च स्वयं-प्रकाशः / तस्य च देव-आदि-स्व-रूप-आत्म-अभिमाने स्व-रूप-प्रकाश-तिरोधानम् अवश्यम् आश्रयणीयम् / स्व-रूप-प्रकाशे सति स्व-आत्मन्य् आकार-अन्तर-अध्यास-अयोगात् / अतो भवतश् च अयं समानो दोषः / किं च अस्माकम् एकस्मिन्न् एवा अत्मनि भवद्-उदीरितं दुर्घटत्वम् भवताम् आत्म-अनन्त्य-अभ्युपगमात् सर्वेष्व् अयं दोषः परिहरणीयः /
42 SK अत्रोच्यते -- स्वभावतो मलप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपं स्वाभाविकानवधिकातिशयापरिमितोदारगुणसागरं निमेषकाष्ठाकलामुहूर्तादिपरार्धपर्यन्तापरिमितव्यवच्छेदस्वरूपसर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभूतकालकृतपरिणामास्पष्टानन्तमहाविभूति स्वलीलापरिकरस्वांशभूतानन्तबद्धमुक्तनानाविधचेतनतद्भोग्यभूतानन्तविचित्रपरिणामशक्तिचेतनेतरवस्तुजातान्तर्यामित्वकृतसर्वशक्तिशरीरत्वसर्वप्रकर्शावस्थानावस्थितं परं ब्रह्मैव वेद्यं, तत्साक्षात्कारक्षमभगवद्द्वैपायनपराशरवाल्मीकिमनुयाज्ञवल्क्यगौतमापस्तम्बप्रभृतिमुनिगणप्रणीतविध्यर्थवादमन्त्रस्वरूपवेदमूलेतिहासपुराणधर्मशास्त्रोपभृंहितपरमार्थभूतानादिनिधनाविच्छिन्नपाठसंप्रदायर्ग्यजुःसामाथर्वरूपानन्तशाखं वेदं चाभ्युपगच्छताम् अस्माकं किं न सेत्स्यति / यथोक्तं भगवता द्वैपायनेन महाभारते -- यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् / द्वाव् इमौ पुरषौ लोके क्षरश् चाक्षर एव च / क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते // उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः / यो लोकत्रयम् आविश्य विभर्त्यव्यय ईश्वरः // कालं च पचते तत्र न कालस् तत्र वै प्रभूः / एते वै निरयास् तात स्थानस्य परमात्मनः // अव्यक्तादिविशेषान्तं परिणामर्द्धिसंयुक्तम् / क्रीडा हरेर् इदं सर्वं क्षरम् इत्य् अवधार्यताम् // कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः / कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् // इति / कृष्णस्य हि कृत इति कृष्णस्य शेषभूतं सर्वम् इत्यर्थः / भगवता पराशरेणाप्य् उक्तम् -- शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते / मैत्रेय भगवच्छब्दः सर्वकारणकारणे // ज्ञानशक्तिबलाइश्वर्यवीर्यतेजांस्य् अशेषतः / भगवच्छब्दवाच्यानि विना हेयैर् गुणादिभिः // एवम् एष महाशब्दो मैत्रेय भगवान् इति / परमब्रह्मभूतस्य वासुदेवस्य नान्यगः // तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः / शब्दो ऽयं नोपचारेण त्व् अन्यत्र ह्य् उपचारतः // एवंप्रकारम् अमलं सत्यं व्यापकम् अक्षयम् / समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् // कलामुहूर्तादिमयश् च कालो न यद्विभूतेः परिणामहेतुः // क्रीडतो बालकस्येव चेष्टास् तस्य निशामय // इत्यादि / मनुनापि -- प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् / इत्युक्तम् / याज्ञवल्क्येनापि -- क्षेत्रस्येश्वरज्ञानाद् विशुद्धिः परमा मता / इति / आपस्तम्बेनापि -- पूः प्राणिनः सर्व एव गुहाशयस्येति / सर्वे प्राणिनो गुहाशयस् परमात्मनः पूः -- पुरं शरीरम् इत्यर्थः / प्राणिन इति सजीवात्मभूतसंघातः /
84 SK अत्र उच्यते --- स्वभावतो मल-प्रत्यनीक-अनन्त-ज्ञान-आनन्द-एक-स्वरूपं स्वाभाविक-अनवधिक-अतिशय-अपरिमित-उदार-गुण-सागरं निमेष-काष्ठा-कला-मुहूर्त-आदि-पर-अर्ध-पर्यन्त-अपरिमित-व्यवच्छेद-स्व-रूप-सर्व-उत्पत्ति-स्थिति-विनाश-आदि-सर्व-परिणाम-निमित्त-भूत-काल-कृत-परिणाम-अस्पष्ट-अनन्त-महा-विभूति स्व-लीला-परिकर-स्व-अंश-भूत-अनन्त-बद्ध-मुक्त-नाना-विध-चेतन-तद्-भोग्य-भूत-अनन्त-विचित्र-परिणाम-शक्ति-चेतन-इतर-वस्तु-जात-अन्तर्यामित्व-कृत-सर्व-शक्ति-शरीरत्व-सर्व-प्रकर्श-अवस्थान-अवस्थितं परं ब्रह्म एव वेद्यं, तत्-साक्षात्कार-क्षम-भगवद्-द्वैपायन-पराशर-वाल्मीकि-मनु-याज्ञवल्क्य-गौतम-आपस्तम्ब-प्रभृति-मुनि-गण-प्रणीत-विध्य्-अर्थ-वाद-मन्त्र-स्व-रूप-वेद-मूल-इतिहास-पुराण-धर्म-शास्त्र-उपभृंहित-परम-अर्थ-भूत-अनादि-निधन-अविच्छिन्न-पाठ-संप्रदाय-र्ग्-यजुः-साम-अथर्व-रूप-अनन्त-शाखं वेदं च अभ्युपगच्छताम् अस्माकं किं न सेत्स्यति / यथ ऊक्तं भगवता द्वैपायनेन महाभारते --- यो माम् अजम् अनादिं च वेत्ति लोक-महा-ईश्वरम् / द्वाव् इमौ पुरषौ लोके क्षरश् च अक्षर एव च / क्षरः सर्वाणि भूतानि कूट-स्थो ऽक्षर उच्यते // उत्तमः पुरुषस् त्व् अन्यः परम-आत्म ईत्य् उदाहृतः / यो लोक-त्रयम् आविश्य विभर्त्य-व्यय ईश्वरः // कालं च पचते तत्र न कालस् तत्र वै प्रभूः / एते वै निरयास् तात स्थानस्य परम-आत्मनः // अव्यक्त-आदि-विशेष-अन्तं परिणाम-र्द्धि-संयुक्तम् / क्रीडा हरेर् इदं सर्वं क्षरम् इत्य् अवधार्यताम् // कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि च अप्ययः / कृष्णस्य हि कृते भूतम् इदं विश्वं चर अचरम् // इति / कृष्णस्य हि कृत इति कृष्णस्य शेष-भूतं सर्वम् इत्य्-अर्थः / भगवता पराशरेण अप्य् उक्तम् --- शुद्धे महा-विभूत्य्-आख्ये परे ब्रह्मणि शब्द्यते / मैत्रेय भगवच्-छब्दः सर्व-कारण-कारणे // ज्ञान-शक्ति-बल-ऐश्वर्य-वीर्य-तेजांस्य् अशेषतः / भगवच्-छब्द-वाच्यानि विना हेयैर् गुण-आदिभिः // एवम् एष महा-शब्दो मैत्रेय भगवान् इति / परम-ब्रह्म-भूतस्य वासुदेवस्य न अन्य-गः // तत्र पूज्य-पद-अर्थ-उक्ति-परिभाषा-समन्वितः / शब्दो ऽयं न उपचारेण त्व् अन्यत्र ह्य् उपचारतः // एवं-प्रकारम् अमलं सत्यं व्यापकम् अक्षयम् / समस्त-हेय-रहितं विष्ण्व्-आख्यं परमं पदम् // कला-मुहूर्त-आदि-मयश् च कालो न यद्-विभूतेः परिणाम-हेतुः // क्रीडतो बालकस्य इव चेष्टास् तस्य निशामय // इत्य्-आदि / मनुन आपि --- प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् / इत्य्-उक्तम् / याज्ञवल्क्येन अपि --- क्षेत्रस्या इश्वर-ज्ञानाद् विशुद्धिः परमा मता / इति / आपस्तम्बेन अपि --- पूः प्राणिनः सर्व एव गुह-आशयस्य इति / सर्वे प्राणिनो गुह-आशयस् परम-आत्मनः पूः --- पुरं शरीरम् इत्य्-अर्थः / प्राणिन इति स-जीव-आत्म-भूत-संघातः /
43 SK ननु च किम् अनेनाडम्बरेण / चोद्यं तु न परिहृतम् / उच्यते / एवम् अभ्युपगच्छताम् अस्माकम् आत्मधर्मभूतस्य चैतन्यस्य स्वाभाविकस्यापि कर्मणा पारमार्थिकं संकोचं विकासं च ब्रुवतां सर्वम् इदं परिहृतम् / भवस् तु प्रकाश एव स्वरूपम् इति प्रकाशो न धर्मभूतस् तस्य संकोचविकासौ वा नाब्युपगम्येते / प्रकाशप्रसारानुत्पत्तिम् एव तिरोधानभूताः कर्मादयः कुर्वन्ति / अविद्या चेत् तिरोधानं तिरोधानभूततयाविद्यया स्वरूपभूतप्रकाशनाश इति पूर्वम् एवोक्तम् / अस्माकं त्व् अविद्यारूपेण कर्मणा स्वरूपनित्यधर्मभूतप्रकाशः संकुचितः / तेन देवादिस्वरूपात्माभिमानो भवतीति विशेषः / यथोक्तम् -- अविद्या कर्मसंज्ञान्या तृतीया शक्तिर् इष्यते // यथा क्षेत्रशक्तिः सा वेष्टिता नृप सर्वगा / संसारतापान् अखिलान् अवाप्नोत्य् अतिसंततान् // तया तिरोहितत्वाच् च शक्तिः क्षेत्रज्ञसंज्ञिता / सर्वभूतेषु भूपाले तारतम्येन वर्तते // इति / क्षेत्रज्ञानां स्वधर्मभूतस्य ज्ञानस्य कर्मसंज्ञाविद्यया संकोचं विकासं च दर्शयति /
86 SK ननु च किम् अनेन अडम्बरेण / चोद्यं तु न परिहृतम् / उच्यते / एवम् अभ्युपगच्छताम् अस्माकम् आत्म-धर्म-भूतस्य चैतन्यस्य स्वाभाविकस्य अपि कर्मणा पारमार्थिकं संकोचं विकासं च ब्रुवतां सर्वम् इदं परिहृतम् / भवस् तु प्रकाश एव स्व-रूपम् इति प्रकाशो न धर्म-भूतस् तस्य संकोच-विकासौ वा न अब्युपगम्येते / प्रकाश-प्रसार-अनुत्पत्तिम् एव तिरोधान-भूताः कर्म-आदयः कुर्वन्ति / अविद्या चेत् तिरोधानं तिरोधान-भूततय आविद्यया स्व-रूप-भूत-प्रकाश-नाश इति पूर्वम् एव उक्तम् / अस्माकं त्व् अविद्या-रूपेण कर्मणा स्व-रूप-नित्य-धर्म-भूत-प्रकाशः संकुचितः / तेन देव-आदि-स्व-रूप-आत्म-अभिमानो भवति इति विशेषः / यथ ऊक्तम् --- अविद्या कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते // यथा क्षेत्र-शक्तिः सा वेष्टिता नृप सर्व-गा / संसार-तापान् अखिलान् अवाप्नोत्य् अतिसंततान् // तया तिरोहितत्वाच् च शक्तिः क्षेत्र-ज्ञ-संज्ञिता / सर्व-भूतेषु भू-पाले तारतम्येन वर्तते // इति / क्षेत्र-ज्ञानां स्व-धर्म-भूतस्य ज्ञानस्य कर्म-संज्ञा-अविद्यया संकोचं विकासं च दर्शयति /
44 SK अपि चाच्छादिकाविद्या श्रुतिभिश् चाइक्योपदेशबलाच् च ब्रह्मस्वरूपतिरोधानहेयदोषरूपाश्रीयते तस्याश् च मिथ्यारूपत्वेन प्रपञ्चवत्स्वदर्शनमूलदोषापेक्षत्वात् / न सा मिथ्या दर्शनमूलदोषः स्याद् इति ब्रह्मैव मिथ्यादर्शनमूलं स्यात् / तस्याश् चानादित्वे ऽपि मिथ्यारूपत्वाद् एव ब्रह्मदृश्यत्वेनैवानादित्वात् तद्दर्शनमूलपरमार्थदोषानभ्युपगमाच् च ब्रह्मैव तद्दर्शनमूलं स्यात् / तस्य नित्यत्वाद् अनिर्मोक्ष एव /
88 SK अपि च अच्छादिक-अविद्या श्रुतिभिश् च ऐक्य-उपदेश-बलाच् च ब्रह्म-स्व-रूप-तिरोधान-हेय-दोष-रूप-आश्रीयते तस्याश् च मिथ्या-रूपत्वेन प्रपञ्चवत्-स्व-दर्शन-मूल-दोष-अपेक्षत्वात् / न सा मिथ्या दर्शन-मूल-दोषः स्याद् इति ब्रह्म एव मिथ्या-दर्शन-मूलं स्यात् / तस्याश् च अनादित्वे ऽपि मिथ्या-रूपत्वाद् एव ब्रह्म-दृश्यत्वेन एव अनादित्वात् तद्-दर्शन-मूल-परम-अर्थ-दोष-अनभ्युपगमाच् च ब्रह्म एव तद्-दर्शन-मूलं स्यात् / तस्य नित्यत्वाद् अनिर्मोक्ष एव /
45 SK अत एवेदम् अपि निरस्तम् -- एकम् एव शरीरं जीववत्, निर्जीवानीतराणि शरीराणि स्वप्नदृष्टनानाविधानन्तशरीराणां यथा निर्जीवत्वम् / तत्र स्वप्ने द्रष्टुः शरीरम् एकम् एव जीववत् / तस्य स्वप्नवेलायां दृश्यभूतनानाविधशरीराणां निर्जीवत्वम् एव / अनेनैकेनैव परिकल्पितत्वाज् जीवा मिथ्याभूता इति ब्रह्मणा स्वस्वरूपव्यतिरिक्तस्य जीवभावस्य सर्वशरीराणां च कल्पितत्वाद् एकस्मिन्न् अपि शरीरे शरीरवज् जीवभावस्य च मिथ्यारूपत्वात् सर्वाणि शरीराणि मिथ्यारूपाणि, तत्र जीवभावश् च मिथ्यारूप इत्य् एकस्य शरीरस्य तत्र जीवभावस्य च न कश्चिद् विशेषः / अस्माकं तु स्वप्ने द्रष्टुः स्वशरीरस्य तस्मिन्न् आत्मसद्भावस्य च प्रबोधवेलायाम् अबाधितत्वान् अन्येषां शरीराणां तद्गतजीवानां च बाधितत्वात् ते सर्वे मिथ्याभूताः स्वशरीरम् एकं तस्मिञ् जीवभावश् च परमार्थ इति विशेषः /
90 SK अत एव इदम् अपि निरस्तम् --- एकम् एव शरीरं जीववत्, निर्जीवानि इतराणि शरीराणि स्वप्न-दृष्ट-नाना-विध-अनन्त-शरीराणां यथा निर्जीवत्वम् / तत्र स्वप्ने द्रष्टुः शरीरम् एकम् एव जीववत् / तस्य स्वप्न-वेलायां दृश्य-भूत-नाना-विध-शरीराणां निर्जीवत्वम् एव / अनेन एकेन एव परिकल्पितत्वाज् जीवा मिथ्या-भूता इति ब्रह्मणा स्व-स्व-रूप-व्यतिरिक्तस्य जीव-भावस्य सर्व-शरीराणां च कल्पितत्वाद् एकस्मिन्न् अपि शरीरे शरीरवज् जीव-भावस्य च मिथ्या-रूपत्वात् सर्वाणि शरीराणि मिथ्या-रूपाणि, तत्र जीव-भावश् च मिथ्या-रूप इत्य् एकस्य शरीरस्य तत्र जीव-भावस्य च न कश्चिद् विशेषः / अस्माकं तु स्वप्ने द्रष्टुः स्व-शरीरस्य तस्मिन्न् आत्म-सद्-भावस्य च प्रबोध-वेलायाम् अबाधितत्वान् अन्येषां शरीराणां तद्-गत-जीवानां च बाधितत्वात् ते सर्वे मिथ्या-भूताः स्व-शरीरम् एकं तस्मिञ् जीव-भावश् च परम-अर्थ इति विशेषः /
46 SK अपि च केन वा विद्यानिवृत्तिः सा कीदृशीति विवेचनीयम् / ऐक्यज्ञानं निवर्तकं निवृत्तिश् चानिर्वचनीयप्रत्यनीकाकारेति चेत् / अनिर्वचनीयप्रत्यनीकं निर्वचनीयं तच् च सद् वासद् वा द्विरूपं वा कोट्यन्तरं न विद्यते / ब्रह्मव्यतिरेकेणैतदभ्युपगमे पुनर् अविद्या न निवृत्ता स्यात् / ब्रह्मैव चेन् निवृत्तिस् तत्प्राग् अप्य् अविशिष्टम् इति वेदान्तज्ञानात् पूर्वम् एव निवृत्तिः स्यात् / ऐक्यज्ञानं निवर्तकं तदभावात् संसार इति भवद्दर्शनं विहन्यते /
92 SK अपि च केन वा विद्या-निवृत्तिः सा कीदृशि ईति विवेचनीयम् / ऐक्य-ज्ञानं निवर्तकं निवृत्तिश् च अनिर्वचनीय-प्रत्यनीक-आकार ईति चेत् / अनिर्वचनीय-प्रत्यनीकं निर्वचनीयं तच् च सद् व आसद् वा द्वि-रूपं वा कोट्य्-अन्तरं न विद्यते / ब्रह्म-व्यतिरेकेण एतद्-अभ्युपगमे पुनर् अविद्या न निवृत्ता स्यात् / ब्रह्म एव चेन् निवृत्तिस् तत्-प्राग् अप्य् अविशिष्टम् इति वेदान्त-ज्ञानात् पूर्वम् एव निवृत्तिः स्यात् / ऐक्य-ज्ञानं निवर्तकं तद्-अभावात् संसार इति भवद्-दर्शनं विहन्यते /
47 SK किञ् च निवर्तकज्ञानस्याप्य् अविद्यारूपर्वात् तन्निवर्तनं केनेति वक्तव्यम् / निवर्तकज्ञानं स्वेतरसमस्तभेदं निवर्त्य क्षणिकत्वाद् एव स्वयम् एव विनश्यति दावानलविषनाशनविषान्तरवद् इति चेन् न / निवर्तकज्ञानस्य ब्रह्मव्यतिरिक्तत्वेन तत्स्वरूपतदुत्पत्तिविनाशानां मिथ्यारूपत्वात् तद्विनाशरूपा विद्या तिष्ठत्य् एवेति तद्विनाशदर्शनस्य निवर्तकं वक्तच्यम् एव / दावाग्न्यादीनाम् अपि पूर्वावस्थाविरोधिपरिणामपरंपरावर्जनीयैव /
94 SK किञ् च निवर्तक-ज्ञानस्य अप्य् अविद्या-रूपर्वात् तन्-निवर्तनं केन इति वक्तव्यम् / निवर्तक-ज्ञानं स्व इतर-समस्त-भेदं निवर्त्य क्षणिकत्वाद् एव स्वयम् एव विनश्यति दाव-अनल-विष-नाशन-विष-अन्तरवद् इति चेन् न / निवर्तक-ज्ञानस्य ब्रह्म-व्यतिरिक्तत्वेन तत्-स्व-रूप-तद्-उत्पत्ति-विनाशानां मिथ्या-रूपत्वात् तद्-विनाश-रूपा विद्या तिष्ठत्य् एव इति तद्-विनाश-दर्शनस्य निवर्तकं वक्तच्यम् एव / दाव-अग्न्य्-आदीनाम् अपि पूर्व-अवस्था-विरोधि-परिणाम-परंपर-अवर्जनीय ऐव /
48 SK अपि च चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य को ऽयं ज्ञाता / अध्यासरूप इति चेन् न / तस्य निषेधतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्तेः / ब्रह्मस्वरूप एवेति चेन् न / ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम् उताध्यस्तम् / अध्यस्तं चेद् अयम् अध्यासस् तन्मूलविद्यान्तरं च निवर्तकज्ञानविषयतया तिष्ठत्य् एव / तन्निवर्तकान्तराभ्युपगमे तस्यापि त्रिरूपतयानवस्थैव / सर्वस्य हि ज्ञानस्य त्रिरूपकत्वविरहे ज्ञानत्वम् एव हीयते / कस्यचित् कंचनार्थविशेषं प्रति सिद्धिरूपत्वात् / ज्ञानस्य त्रिरूपत्वविरहे भवतां स्वरूपभूतज्ञानवन् निवर्तकज्ञानम् अप्य् अनिवर्तकं स्यात् / ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमे ऽस्मदीय एव पक्षः परिगृहीतः स्यात् / निवर्तकज्ञानस्वरूपज्ञातृत्वं च स्वनिवर्त्यान्तर्गतम् इति वचनं भूतलव्यतिरिक्तं कृत्स्नं छिन्नं देवदत्तेनेत्य् अस्याम् एव छेदनक्रियायाम् अस्याश् छेदनक्रियायाश् छेत्तृत्वस्य च छेद्यान्तर्भाववचनवद् उपहास्यम् /
96 SK अपि च चिन्-मात्र-ब्रह्म-व्यतिरिक्त-कृत्स्न-निषेध-विषय-ज्ञानस्य को ऽयं ज्ञाता / अध्यास-रूप इति चेन् न / तस्य निषेधतया निवर्तक-ज्ञान-कर्मत्वात् तत्-कर्तृत्व-अनुपपत्तेः / ब्रह्म-स्व-रूप एव इति चेन् न / ब्रह्मणो निवर्तक-ज्ञानं प्रति ज्ञातृत्वं किं स्व-रूपम् उत अध्यस्तम् / अध्यस्तं चेद् अयम् अध्यासस् तन्-मूल-विद्या-अन्तरं च निवर्तक-ज्ञान-विषयतया तिष्ठत्य् एव / तन्-निवर्तक-अन्तर-अभ्युपगमे तस्य अपि त्रि-रूपतय आनवस्थ ऐव / सर्वस्य हि ज्ञानस्य त्रि-रूपकत्व-विरहे ज्ञानत्वम् एव हीयते / कस्यचित् कंचन अर्थ-विशेषं प्रति सिद्धि-रूपत्वात् / ज्ञानस्य त्रि-रूपत्व-विरहे भवतां स्व-रूप-भूत-ज्ञानवन् निवर्तक-ज्ञानम् अप्य् अनिवर्तकं स्यात् / ब्रह्म-स्व-रूपस्य एव ज्ञातृत्व-अभ्युपगमे ऽस्मदीय एव पक्षः परिगृहीतः स्यात् / निवर्तक-ज्ञान-स्व-रूप-ज्ञातृत्वं च स्व-निवर्त्य-अन्तर्गतम् इति वचनं भूतल-व्यतिरिक्तं कृत्स्नं छिन्नं देव-दत्तेन इत्य् अस्याम् एव छेदन-क्रियायाम् अस्याश् छेदन-क्रियायाश् छेत्तृत्वस्य च छेद्य-अन्तर्भाव-वचनवद् उपहास्यम् /
49 SK अपि च निखिलभेदनिवर्तकम् इदम् ऐक्यज्ञानं केन जातम् इति विमर्शनीयम् / श्रुत्यैवेति चेन् न / तस्या ब्रह्मव्यतिरिक्ताया अविद्यापरिकल्पितत्वात् प्रपञ्चबाधकज्ञानस्योत्पादकत्वं न संभवति / तथा हि दुष्टकारणजातम् अपि रज्जुसर्पज्ञानं न दुष्टकारणजन्येन रज्जुर् इयं न सर्प इति ज्ञानेन बाध्यते / रज्जुसर्पज्ञानभये वर्तमाने केनचिद्भ्रान्तेन पुरुषेण रज्जुर् इयं न सर्प इत्युक्ते ऽप्य् अयं भ्रान्त इति ज्ञाते सति तद्वचनं रज्जुसर्पज्ञानस्य बाधकं न भवति भयं च न निवर्तते / प्रयोजकज्ञानवतः श्रवणवेलायाम् एव हि ब्रह्मव्यतिरिक्तत्वेन श्रुतेर् अपि भ्रान्तिमूलत्वं ज्ञातम् इति / निवर्तकज्ञानस्य ज्ञातुस् तत्सामग्रीभूतशास्त्रस्य च ब्रह्मव्यतिरिक्ततया यदि बाध्यत्वम् उच्यते हन्त तर्हि प्रपञ्चनिवृत्तेर् मिथ्यात्वम् आपततीति प्रपञ्चस्य सत्यता स्यात् / स्वप्नदृष्टपुरुषवाक्यावगतपित्रादिमरणस्य मिथ्यात्वेन पित्रादिसत्यतावत् / किञ्च तत् त्वम् अस्य् आदिवाक्यं न प्रपञ्चस्य बाधकम् / भ्रान्तिमूलत्वाद् भ्रान्तप्रयुक्तरज्जुसर्पबाधकवाक्यवत् /
98 SK अपि च निखिल-भेद-निवर्तकम् इदम् ऐक्य-ज्ञानं केन जातम् इति विमर्शनीयम् / श्रुत्य ऐव इति चेन् न / तस्या ब्रह्म-व्यतिरिक्ताया अविद्या-परिकल्पितत्वात् प्रपञ्च-बाधक-ज्ञानस्य उत्पादकत्वं न संभवति / तथा हि दुष्ट-कारण-जातम् अपि रज्जु-सर्प-ज्ञानं न दुष्ट-कारण-जन्येन रज्जुर् इयं न सर्प इति ज्ञानेन बाध्यते / रज्जु-सर्प-ज्ञान-भये वर्तमाने केन-चिद्-भ्रान्तेन पुरुषेण रज्जुर् इयं न सर्प इत्य्-उक्ते ऽप्य् अयं भ्रान्त इति ज्ञाते सति तद्-वचनं रज्जु-सर्प-ज्ञानस्य बाधकं न भवति भयं च न निवर्तते / प्रयोजक-ज्ञानवतः श्रवण-वेलायाम् एव हि ब्रह्म-व्यतिरिक्तत्वेन श्रुतेर् अपि भ्रान्ति-मूलत्वं ज्ञातम् इति / निवर्तक-ज्ञानस्य ज्ञातुस् तत्-सामग्री-भूत-शास्त्रस्य च ब्रह्म-व्यतिरिक्ततया यदि बाध्यत्वम् उच्यते हन्त तर्हि प्रपञ्च-निवृत्तेर् मिथ्यात्वम् आपतति इति प्रपञ्चस्य सत्यता स्यात् / स्वप्न-दृष्ट-पुरुष-वाक्य-अवगत-पित्र्-आदि-मरणस्य मिथ्यात्वेन पित्र्-आदि-सत्यतावत् / किञ्च तत् त्वम् अस्य् आदि-वाक्यं न प्रपञ्चस्य बाधकम् / भ्रान्ति-मूलत्वाद् भ्रान्त-प्रयुक्त-रज्जु-सर्प-बाधक-वाक्यवत् /
50 SK ननु च स्वप्ने कस्मिंश्चिद् भये वर्तमाने स्वप्नदशायाम् एवायं स्वप्न इति ज्ञाते सति पूर्वभयनिवृत्तिर् दृष्टा / तद्वद् अत्रापि संभवतीति / नैवम् / स्वप्नवेलायाम् एव सो ऽपि स्वप्न इति ज्ञाते सति पुनर्भयानिवृत्तिर् एव दृष्टेति न कश्चिद् विशेषः /
100 SK ननु च स्वप्ने कस्मिंश्चिद् भये वर्तमाने स्वप्न-दशायाम् एव अयं स्वप्न इति ज्ञाते सति पूर्व-भय-निवृत्तिर् दृष्टा / तद्वद् अत्र अपि संभवति इति / न एवम् / स्वप्न-वेलायाम् एव सो ऽपि स्वप्न इति ज्ञाते सति पुनर्-भय-अनिवृत्तिर् एव दृष्ट ईति न कश्चिद् विशेषः /
51 SK श्रवणवेलायाम् एव सोऽपि स्वप्न इति ज्ञातम् एवेत्युक्तम् / यद् अपि चेदम् उक्तं भ्रान्तिपरिकल्पितत्वेन मिथ्यारूपम् अपि शास्त्रम् अद्वितीयं ब्रह्मेति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात् तनबाधादर्शनाद् ब्रह्म सुस्थितम् एवेति / तद् अयुक्तम् / शून्यम् एव तत् त्वम् इति वाक्येन तस्यापि बाधितत्वात् / इदं भ्रान्तिमूलवाक्यम् इति चेत् / सद् अद्वितीयं ब्रह्मेति वाक्यम् अपि भ्रान्तिमूलम् इति त्वयैवोक्तम् / पश्चात् तनबाधादर्शनं तु सर्वशून्यवाक्यस्यैवेति विशेषः / सर्वशून्यवादिनो ब्रह्मव्यतिरिक्तवस्तुमिथ्यात्ववादिनश् च स्वपक्षसाधनप्रमाणपारमार्थ्यानब्युपगमेनाभियुक्तैर् वादानधिकार एव प्रतिपादितः / अधिकारो ऽनभ्युपायत्वान् न वादे शून्यवादिनः / इति /
102 SK श्रवण-वेलायाम् एव सोऽपि स्वप्न इति ज्ञातम् एव इत्य्-उक्तम् / यद् अपि च इदम् उक्तं भ्रान्ति-परिकल्पितत्वेन मिथ्या-रूपम् अपि शास्त्रम् अद्वितीयं ब्रह्म इति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात् तन्-अबाध-अदर्शनाद् ब्रह्म सुस्थितम् एव इति / तद् अयुक्तम् / शून्यम् एव तत् त्वम् इति वाक्येन तस्य अपि बाधितत्वात् / इदं भ्रान्ति-मूल-वाक्यम् इति चेत् / सद् अद्वितीयं ब्रह्म इति वाक्यम् अपि भ्रान्ति-मूलम् इति त्वय ऐव उक्तम् / पश्चात् तन्-अबाध-अदर्शनं तु सर्व-शून्य-वाक्यस्य एव इति विशेषः / सर्व-शून्य-वादिनो ब्रह्म-व्यतिरिक्त-वस्तु-मिथ्यात्व-वादिनश् च स्व-पक्ष-साधन-प्रमाण-पारमार्थ्य-अनब्युपगमेन अभियुक्तैर् वाद-अनधिकार एव प्रतिपादितः / अधिकारो ऽनभ्युपायत्वान् न वादे शून्य-वादिनः / इति /
52 SK अपि च प्रत्यक्षदृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते / प्रत्यक्षस्य दोषमूलत्वेनान्यथासिद्धिसंभवान् निर्दोषं शास्त्रम् अनन्यथासिद्धं प्रत्यक्षस्य बाधकम् इति चेत् / केन दोषेण जातं प्रत्यक्षम् अनन्तभेदविषयम् इति वक्तव्यम् / अनादिभेदवासनाख्यदोषजातं प्रत्यक्षम् इति चेत् / हन्त तर्ह्य् अनेनैव दोषेण जातं शास्त्रम् अपीत्य् एकदोषमूलत्वाच् छास्त्रप्रत्यक्षयोर् न बाध्यबाधकभावसिद्धिः /
104 SK अपि च प्रत्यक्ष-दृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते / प्रत्यक्षस्य दोष-मूलत्वेन अन्यथा-सिद्धि-संभवान् निर्दोषं शास्त्रम् अनन्यथा-सिद्धं प्रत्यक्षस्य बाधकम् इति चेत् / केन दोषेण जातं प्रत्यक्षम् अनन्त-भेद-विषयम् इति वक्तव्यम् / अनादि-भेद-वासना-आख्य-दोष-जातं प्रत्यक्षम् इति चेत् / हन्त तर्ह्य् अनेन एव दोषेण जातं शास्त्रम् अपि इत्य् एक-दोष-मूलत्वाच् छास्त्र-प्रत्यक्षयोर् न बाध्य-बाधक-भाव-सिद्धिः /
53 SK आकाशवाय्वादिभूततदारब्धशब्दस्पर्शादियुक्तमनुष्यत्वादिसंस्थानसंस्थितपदार्थग्राहि प्रत्यक्षम् / शास्त्रं तु प्रत्यक्षाद्यपरिच्छेद्यसर्वान्तरात्मत्वसत्यत्वाद्यनन्तविशेषणविशिष्टब्रह्मस्वरूपतदुपासनाद्याराधनप्रकारतत्प्राप्तिपूर्वकतत्प्रसादलभ्यफलविशेषतदनिष्टकरणमूलनिग्रहविशेषविषयम् इति न शात्रप्रत्यक्षयोर् विरोधः / अनादिनिधनाविच्छिन्नपाटसंप्रदायताद्यनेकगुणविशिष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्षपारमार्थ्यम् अवश्यम् अभ्युपगन्तव्यम् इत्य् अलम् अनेन श्रुतिशतविततिवातवेगपराहतकुदृष्टिदुष्टयुक्तिजालतूलनिरसनेनेत्य् उपरम्यते /
106 SK आकाश-वाय्व्-आदि-भूत-तद्-आरब्ध-शब्द-स्पर्श-आदि-युक्त-मनुष्यत्व-आदि-संस्थान-संस्थित-पद-अर्थ-ग्राहि प्रत्यक्षम् / शास्त्रं तु प्रत्यक्ष-आद्य्-अपरिच्छेद्य-सर्व-अन्तर-आत्मत्व-सत्यत्व-आद्य्-अनन्त-विशेषण-विशिष्ट-ब्रह्म-स्व-रूप-तद्-उपासन-आद्य्-आराधन-प्रकार-तत्-प्राप्ति-पूर्वक-तत्-प्रसाद-लभ्य-फल-विशेष-तद्-अनिष्ट-करण-मूल-निग्रह-विशेष-विषयम् इति न शात्र-प्रत्यक्षयोर् विरोधः / अनादि-निधन-अविच्छिन्न-पाट-संप्रदायता-आद्य्-अनेक-गुण-विशिष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्ष-पारमार्थ्यम् अवश्यम् अभ्युपगन्तव्यम् इत्य् अलम् अनेन श्रुति-शत-वितति-वात-वेग-पराहत-कुदृष्टि-दुष्ट-युक्ति-जाल-तूल-निरसनेन इत्य् उपरम्यते /
54 SK द्वितीये तु पक्ष उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तरानभ्युपगमाद् ब्रह्मण्य् एवोपाधिसंसर्गाद् औपाधिकाः सर्वे दोषा ब्रह्मण्य् एव भवेयुः / ततश् चापहतपाप्मत्वादिनिर्दोषत्वश्रुतयः सर्वे विहन्यन्ते /
108 SK द्वितीये तु पक्ष उपाधि-ब्रह्म-व्यतिरिक्त-वस्त्व्-अन्तर-अनभ्युपगमाद् ब्रह्मण्य् एव उपाधि-संसर्गाद् औपाधिकाः सर्वे दोषा ब्रह्मण्य् एव भवेयुः / ततश् च अपहत-पाप्मत्व-आदि-निर्दोषत्व-श्रुतयः सर्वे विहन्यन्ते /
55 SK यथा घटाकाशादेः परिच्छिन्नतया महाकाशाद् वैलक्षण्यं परस्परभेदश् च दृश्यते -- तत्रस्था गुणा वा दोषा वानवच्छिन्ने महाकाशे न संबध्यन्ते एवम् उपाधिकृतभेदव्यवस्थितजीवगता दोषा अनुपहिते परे ब्रह्मणि न संबध्यन्त इति चेत् / नैतद् उपपद्यते / निरवयवस्याकाशस्यानवच्छेद्यस्य घटादिभिश् छेदासंभवात् तेनैवाकाशेन घटादयः संयुक्ता इति ब्रह्मणो ऽप्य् अच्छेद्यत्वाद् ब्रह्मैवोपाधिसंयुक्तं स्यात् / घटसंयुक्ताकाशप्रदेशो ऽन्यस्माद् आकाशप्रदेशाद् भिद्यत इच् चेत् / आकाशस्यैकस्यैव प्रदेशभेदेन घटादिसंयोगाद् घटादौ गच्छति तस्य च प्रदेशभेदस्यानियम इति तद्वद् ब्रह्मण्य् एव प्रदेशभेदानियमेनोपाधिसंसर्गाद् उपाधौ गच्छति संयुक्तवियुक्तब्रह्मप्रदेशभेदाच् च ब्रह्मण्य् एवोपाधिसंसर्गः क्षणे क्षणे बन्धमोक्षौ स्याताम् इति सन्तः परिहसन्ति /
110 SK यथा घट-आकाश-आदेः परिच्छिन्नतया महा-आकाशाद् वैलक्षण्यं परस्पर-भेदश् च दृश्यते --- तत्र-स्था गुणा वा दोषा व आनवच्छिन्ने महा-आकाशे न संबध्यन्ते एवम् उपाधि-कृत-भेद-व्यवस्थित-जीव-गता दोषा अनुपहिते परे ब्रह्मणि न संबध्यन्त इति चेत् / न एतद् उपपद्यते / निरवयवस्या अकाशस्य अनवच्छेद्यस्य घट-आदिभिश् छेदा-संभवात् तेन एवा अकाशेन घट-आदयः संयुक्ता इति ब्रह्मणो ऽप्य् अच्छेद्यत्वाद् ब्रह्म एव उपाधि-संयुक्तं स्यात् / घट-संयुक्त-आकाश-प्रदेशो ऽन्यस्माद् आकाश-प्रदेशाद् भिद्यत इच् चेत् / आकाशस्य एकस्य एव प्रदेश-भेदेन घट-आदि-संयोगाद् घट-आदौ गच्छति तस्य च प्रदेश-भेदस्य अनियम इति तद्वद् ब्रह्मण्य् एव प्रदेश-भेद-अनियमेन उपाधि-संसर्गाद् उपाधौ गच्छति संयुक्त-वियुक्त-ब्रह्म-प्रदेश-भेदाच् च ब्रह्मण्य् एव उपाधि-संसर्गः क्षणे क्षणे बन्ध-मोक्षौ स्याताम् इति सन्तः परिहसन्ति /
56 SK निरवयवस्यैवाकाशस्य श्रोत्रेन्द्रियत्वे ऽपीन्द्रियव्यवस्थावद् ब्रह्मण्य् अपि व्यवस्थोपपद्यत इति चेत् / न वायुविशेषसंस्कृतकर्णप्रदेशसंयुक्तस्यैवाकाशप्रदेशस्येन्द्रियत्वात् तस्य च प्रदेशान्तराभेदे ऽपीन्द्रियव्यवस्थोपपद्यते / आकाशस्य तु सर्वेषां शरीरेषु गच्छत् स्वनियमेन सर्वप्रदेशसंयोग इति ब्रह्मण्य् उपाधिसंयोगप्रदेशानियम एव /
112 SK निरवयवस्य एवा अकाशस्य श्रोत्र-इन्द्रियत्वे ऽपि इन्द्रिय-व्यवस्थावद् ब्रह्मण्य् अपि व्यवस्थ ऊपपद्यत इति चेत् / न वायु-विशेष-संस्कृत-कर्ण-प्रदेश-संयुक्तस्य एवा अकाश-प्रदेशस्य इन्द्रियत्वात् तस्य च प्रदेश-अन्तर-अभेदे ऽपि इन्द्रिय-व्यवस्थ ऊपपद्यते / आकाशस्य तु सर्वेषां शरीरेषु गच्छत् स्व-नियमेन सर्व-प्रदेश-संयोग इति ब्रह्मण्य् उपाधि-संयोग-प्रदेश-अनियम एव /
57 SK आकाशस्य स्वरूपेणैव श्रोत्रेन्द्रियत्वम् अभ्युपगम्यापीन्द्रियव्यवस्थोकता / परमार्थतस् त्व् आकाशो न श्रोत्रेन्द्रियम् / वैकारिकाद् अहंकाराद् एकादशेन्द्रियाणि जायन्त इति हि वैदिकाः / यथोक्तं भगवता पराशरेण -- तैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश / एकादशं मनश् चात्र देवा वैकारिकाः स्मृताः // इति / अयम् अर्थः / वैकारिकस् तैजसो भूतादिर् इति त्रिविधो ऽहंकारः / स च क्रमात् सात्त्विको राजसस् तामसश् च / तत्र तामसाद् भूतादेर् आकाशादीनि भूतानि जायन्त इति सृष्टिक्रमम् उक्त्वा तैजसाद् राजसाद् अहंकाराद् एकदशेन्द्रियाणि जायन्त इति परमतम् उपन्यस्य सात्त्विकाहंकाराद् वैकारिकानीन्द्रियाणि जायन्त इति स्वमतम् उच्यते -- देवा वैकारिकाः स्मृता इति / देवा इन्द्रियाणि / एवम् इन्द्रियाणाम् आहंकारिकाणां भूतैश् चाप्य् आयनं महाभारत उच्यते / भौतिकत्वे ऽपीन्द्रियाणाम् आकाशादिभूतविकारत्वाद् एवाकाशादिभूतपरिणामविशेषा व्यवस्थिता एव शरीरवत् पुरुषाणाम् इन्द्रियाणि भवन्तीति ब्रह्मण्य् अच्छेद्ये निरवयवे निर्विकारे त्व् अनियमेनानन्तहेयोपाधिसंसर्गदोषो दुष्परिहर एवेति श्रद्दधानानाम् एवायम् पक्ष इति शास्त्रविदो न बहु मन्यन्ते / स्वरूपपरिणामाभ्युपगमाद् अविकारत्वश्रुतिर् बाध्यते / निरवद्यता च ब्रह्मणः शक्तिपरिणाम इति चेत् / केयं शक्तिर् उच्यते / किं ब्रह्मपरिणामरूपा / उत ब्रह्मणो ऽनन्या कापीति / उभयपक्षे ऽपि स्वरूपपरिणामो ऽवर्जनीय एव /
114 SK आकाशस्य स्व-रूपेण एव श्रोत्र-इन्द्रियत्वम् अभ्युपगम्य अपि इन्द्रिय-व्यवस्थ ऊकता / परम-अर्थतस् त्व् आकाशो न श्रोत्र-इन्द्रियम् / वैकारिकाद् अहं-काराद् एकादश-इन्द्रियाणि जायन्त इति हि वैदिकाः / यथ ऊक्तं भगवता पराशरेण --- तैजसानि इन्द्रियाण्य् आहुर् देवा वैकारिका दश / एकादशं मनश् च अत्र देवा वैकारिकाः स्मृताः // इति / अयम् अर्थः / वैकारिकस् तैजसो भूत-आदिर् इति त्रि-विधो ऽहंकारः / स च क्रमात् सात्त्विको राजसस् तामसश् च / तत्र तामसाद् भूत-आदेर् आकाश-आदीनि भूतानि जायन्त इति सृष्टि-क्रमम् उक्त्वा तैजसाद् राजसाद् अहंकाराद् एकदश-इन्द्रियाणि जायन्त इति पर-मतम् उपन्यस्य सात्त्विक-अहंकाराद् वैकारिकानि इन्द्रियाणि जायन्त इति स्व-मतम् उच्यते --- देवा वैकारिकाः स्मृता इति / देवा इन्द्रियाणि / एवम् इन्द्रियाणाम् आहंकारिकाणां भूतैश् च अप्य् आयनं महा-भारत उच्यते / भौतिकत्वे ऽपि इन्द्रियाणाम् आकाश-आदि-भूत-विकारत्वाद् एवा अकाश-आदि-भूत-परिणाम-विशेषा व्यवस्थिता एव शरीरवत् पुरुषाणाम् इन्द्रियाणि भवन्ति इति ब्रह्मण्य् अच्छेद्ये निरवयवे निर्विकारे त्व् अनियमेन अनन्त-हेय-उपाधि-संसर्ग-दोषो दुष्परिहर एव इति श्रद्दधानानाम् एव अयम् पक्ष इति शास्त्र-विदो न बहु मन्यन्ते / स्व-रूप-परिणाम-अभ्युपगमाद् अविकारत्व-श्रुतिर् बाध्यते / निरवद्यता च ब्रह्मणः शक्ति-परिणाम इति चेत् / क ईयं शक्तिर् उच्यते / किं ब्रह्म-परिणाम-रूपा / उत ब्रह्मणो ऽनन्या क आपि इति / उभय-पक्षे ऽपि स्व-रूप-परिणामो ऽवर्जनीय एव /
58 SK तृतीये ऽपि पक्षे जीवब्रह्मणोर् भेदवद् अभेदस्य चाभ्युपगमात् तस्य च तद्भावात् सौभरिभेदवच् च स्वावतारभेदवच् च सर्वस्येश्वरभेदतात् सर्वे जीवगता दोषास् तस्यैव स्युः / एतद् उक्तं भवति / ईश्वरः स्वरूपेणैव सुरनरतिर्यक्स्थावरादिभेदेनावस्थित इति हि तदात्मकत्ववर्णनं क्रियते / तथा सत्य् एकमृत्पिण्डारब्धघटशरावादिगतान्य् उदकाहरणादीनि सर्वकार्याणि यथा तस्यैव भवन्ति, एवं सर्वजीवगतसुखदुःखादि सर्वम् ईश्वरगतम् एव स्यात् /
116 SK तृतीये ऽपि पक्षे जीव-ब्रह्मणोर् भेदवद् अभेदस्य च अभ्युपगमात् तस्य च तद्-भावात् सौभरि-भेदवच् च स्व-अवतार-भेदवच् च सर्वस्या इश्वर-भेदतात् सर्वे जीव-गता दोषास् तस्य एव स्युः / एतद् उक्तं भवति / ईश्वरः स्व-रूपेण एव सुर-नर-तिर्यक्-स्थावर-आदि-भेदेन अवस्थित इति हि तद्-आत्मकत्व-वर्णनं क्रियते / तथा सत्य् एक-मृत्-पिण्ड-आरब्ध-घट-शराव-आदि-गतान्य् उदक-आहरण-आदीनि सर्व-कार्याणि यथा तस्य एव भवन्ति, एवं सर्व-जीव-गत-सुख-दुःख-आदि सर्वम् ईश्वर-गतम् एव स्यात् /
59 SK घटशरावादिसंस्थानानुपयुक्तमृद्द्रव्यं यथा कार्यान्तरान्वितम् एवम् एव सुरपशुमनुजादिजीवत्वानुपयुक्तेश्वरः सर्वज्ञः सत्यसंकल्पत्वादिकल्याणगुणाकर इति चेत् सत्यं स एवेश्वर एकेनांशेन कल्याणगुणगणाकरः स एवान्येनांशेन हेयगुणाकर इत्य् उक्तम् / द्वयोर् अंशयोर् ईश्वराविशेषात् / द्वव् अंशौ व्यवस्थितव् इति चेत् / कस् तेन लाभः / एकस्यैवानेकांशेन नित्यदुःखित्वाद् अंशान्तरेण सुखित्वम् अपि नेश्वरत्वाय कल्पते / यथा देवदत्तस्यैकस्मिन् हस्ते चन्दनपङ्कानुलेपकेयूरकटकाङ्गुलीयालंकारस् तस्यैवान्यस्मिन् हस्ते मुद्गराभिघातः कालानलज्वालानुप्रवेशश् च तद्वद् एवेश्वरस्य स्याद् इति ब्रह्माज्ञानपक्षाद् अपि पापीयान् अयं भेदाभेदपक्षः / अपरिमितदुःखस्य पारमार्थिकत्वात् संसारिणाम् अनन्तत्वेन दुस्तरत्वाच् च /
118 SK घट-शराव-आदि-संस्थान-अनुपयुक्त-मृद्-द्रव्यं यथा कार्य-अन्तर-अन्वितम् एवम् एव सुर-पशु-मनुज-आदि-जीवत्व-अनुपयुक्त-ईश्वरः सर्व-ज्ञः सत्य-संकल्पत्व-आदि-कल्याण-गुण-आकर इति चेत् सत्यं स एवा इश्वर एकेन अंशेन कल्याण-गुण-गण-आकरः स एव अन्येन अंशेन हेय-गुण-आकर इत्य् उक्तम् / द्वयोर् अंशयोर् ईश्वर-अविशेषात् / द्वव् अंशौ व्यवस्थितव् इति चेत् / कस् तेन लाभः / एकस्य एव अनेक-अंशेन नित्य-दुःखित्वाद् अंश-अन्तरेण सुखित्वम् अपि ना इश्वरत्वाय कल्पते / यथा देव-दत्तस्य एकस्मिन् हस्ते चन्दन-पङ्क-अनुलेप-केयूर-कटक-अङ्गुलीय-अलंकारस् तस्य एव अन्यस्मिन् हस्ते मुद्गर-अभिघातः काल-अनल-ज्वाल-अनुप्रवेशश् च तद्वद् एवा इश्वरस्य स्याद् इति ब्रह्म-अज्ञान-पक्षाद् अपि पापीयान् अयं भेद-अभेद-पक्षः / अपरिमित-दुःखस्य पारमार्थिकत्वात् संसारिणाम् अनन्तत्वेन दुस्तरत्वाच् च /
60 SK तस्माद् विलक्षणो ऽयं जीवांश इति चेत् / आगतो ऽसि तर्हि मदीयं पन्थानम् / ईश्वरस्य स्वरूपेण तादात्म्यवर्णने स्याद् अयं दोषः / आत्मशरीरभावेन तु तादात्म्यप्रतिपादने न कश्चिद् दोषः / प्रत्य् उत निखिलभुवननियमनादिर् महान् अयं गुणगणः प्रतिपादितो भवति / सामानाधिकरण्यं च मुख्यवृत्तम् /
120 SK तस्माद् विलक्षणो ऽयं जीव-अंश इति चेत् / आगतो ऽसि तर्हि मदीयं पन्थानम् / ईश्वरस्य स्व-रूपेण तादात्म्य-वर्णने स्याद् अयं दोषः / आत्म-शरीर-भावेन तु तादात्म्य-प्रतिपादने न कश्चिद् दोषः / प्रत्य् उत निखिल-भुवन-नियमन-आदिर् महान् अयं गुण-गणः प्रतिपादितो भवति / सामानाधिकरण्यं च मुख्य-वृत्तम् /
61 SK अपि चैकस्य वस्तुनो भिन्नाभिन्नत्वं विरुद्धत्वान् न संभवतीत्युक्तम् / घटस्य पटाद् भिन्नत्वे सति तस्य तस्मिन्न् अभावः / अभिन्नत्वे सति तस्य च भाव इति / एकस्मिन् काले चैकस्मिन् देशे चैकस्य हि पदार्थस्य युगपत्सद्भावो ऽसद्भावश् च विरुद्धः /
122 SK अपि च एकस्य वस्तुनो भिन्न-अभिन्नत्वं विरुद्धत्वान् न संभवति इत्य्-उक्तम् / घटस्य पटाद् भिन्नत्वे सति तस्य तस्मिन्न् अभावः / अभिन्नत्वे सति तस्य च भाव इति / एकस्मिन् काले च एकस्मिन् देशे च एकस्य हि पद-अर्थस्य युगपत्-सद्-भावो ऽसद्-भावश् च विरुद्धः /
62 SK जात्यात्मना भावो व्यक्त्यात्मना चाभाव इति चेत् / जातेर् मुण्डेन चाभावे सति खण्डे मुण्डस्यापि सद्भावप्रसङ्गः / खण्डेन च जातेर् अभिन्नत्वे सद्भावो भिन्नत्वे चासद्भावः अश्वे महिशत्वस्यैवेति विरोधो दुष्परिहर एव / जात्यादेर् वस्तुसंस्थानतया वस्तुनः प्रकारत्वात् प्रकारप्रकारिणोश् च पदार्थान्तरत्वं प्रकारस्य पृथक्सिद्ध्यनर्हत्वं पृथगनुपलम्भश् च तस्य च संस्थानस्य चानेकवस्तुषु प्रकारतयावस्थितश् चेत्यादि पूर्वम् उक्तम् /
124 SK जात्य्-आत्मना भावो व्यक्त्य्-आत्मना च अभाव इति चेत् / जातेर् मुण्डेन च अभावे सति खण्डे मुण्डस्य अपि सद्-भाव-प्रसङ्गः / खण्डेन च जातेर् अभिन्नत्वे सद्-भावो भिन्नत्वे च असद्-भावः अश्वे महिशत्वस्य एव इति विरोधो दुष्परिहर एव / जात्य्-आदेर् वस्तु-संस्थानतया वस्तुनः प्रकारत्वात् प्रकार-प्रकारिणोश् च पद-अर्थ-अन्तरत्वं प्रकारस्य पृथक्-सिद्ध्य्-अनर्हत्वं पृथग्-अनुपलम्भश् च तस्य च संस्थानस्य च अनेक-वस्तुषु प्रकारतय आवस्थितश् च इत्य्-आदि पूर्वम् उक्तम् /
63 SK सो ऽयम् इति बुद्धिः प्रकाराइक्याद् अयम् अपि दण्डीति बुद्धिमत् / अयम् च जात्यादिप्रकारो वस्तुनो भेद इत्य् उच्यते / तद्योग एव वस्तुनो भिन्नम् इति व्यवहारहेतुर् इत्यर्थः / स च वस्तुनो भेदव्यवहारहेतुः स्वस्य च संवेदनवत् / यथा संवेदनं वस्तुनो व्यवहारहेतुः स्वस्य व्यवहारहेतुश् च भवति /
126 SK सो ऽयम् इति बुद्धिः प्रकार-ऐक्याद् अयम् अपि दण्डि ईति बुद्धिमत् / अयम् च जात्य्-आदि-प्रकारो वस्तुनो भेद इत्य् उच्यते / तद्-योग एव वस्तुनो भिन्नम् इति व्यवहार-हेतुर् इत्य्-अर्थः / स च वस्तुनो भेद-व्यवहार-हेतुः स्वस्य च संवेदनवत् / यथा संवेदनं वस्तुनो व्यवहार-हेतुः स्वस्य व्यवहार-हेतुश् च भवति /
64 SK अत एव सन्मात्रग्राहि प्रत्यक्षं न भेदग्राहीत्यादिवादा निरस्ताः / जात्यादिसंस्थानसंस्थितस्यैव वस्तुनः प्रत्यक्षेण गृहीतत्वात् तस्यैव संस्थानरूपजात्यादेः प्रतियोग्यपेक्षया भेदव्यवहारहेतुत्वाच् च / स्वरूपपरिणामदोषश् च पूर्वम् एवोक्तः /
128 SK अत एव सन्-मात्र-ग्राहि प्रत्यक्षं न भेद-ग्राहि इत्य्-आदि-वादा निरस्ताः / जात्य्-आदि-संस्थान-संस्थितस्य एव वस्तुनः प्रत्यक्षेण गृहीतत्वात् तस्य एव संस्थान-रूप-जात्य्-आदेः प्रतियोग्य्-अपेक्षया भेद-व्यवहार-हेतुत्वाच् च / स्व-रूप-परिणाम-दोषश् च पूर्वम् एव उक्तः /
65 SK यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति एष त आत्मान्तर्याम्यमृतः / य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो य आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति एष त आत्मान्तर्याम्यमृतः / यः पृथिवीम् अन्तरे संचरन् यस्य पृथिवी शरीरं यं पृथिवी न वेदेत्यादि -- यो ऽक्षरम् अन्तरे संचरन् यस्याक्षरं शरीरं अक्षरं न वेद -- यो मृत्युम् अन्तरे संचरन् यस्य मृत्युः शरीरं यं मृत्युर् न वेद -- एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः / द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते / तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति / अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा / तत्सृष्ट्वा तद् एवानुप्राविशत् / तदनुप्रविश्य सच् च त्यच् चानृतं च सत्यम् अभवत् / अनेन जीवेनात्मनेत्यादि / पृथगात्मानं प्रेरितारं मत्वा जष्टस् ततस् तेनामृतत्वम् एति / भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म, एतत् / नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् / प्रधानक्षेत्रज्ञपतिर् गुणेशः / ज्ञाज्ञौ द्वव् अजव् ईशानीशव् इत्यादिश्रुतिशतैस् तदुपबृंहणैः -- जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् // यत् किंचित् सृज्यते येन सत्त्वजातेन वै द्विज / तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस् तनुः // अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः // सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च // इत्यादिवेदविदग्रेसरवाल्मीकिपराशरद्वैपायनवचोभिश् च परस्य ब्रह्मणः सर्वस्यात्मत्वावगमाच् चिदचिदात्मकस्य वस्तुनस् तच्छरीरत्वावगमाच् च शरीरस्य शरीरिणं प्रति प्रकारतयैव पदार्थत्वाच् शरीरशरीरिणोश् च धर्मभेदे ऽपि तयोर् असंकरात् सर्वशरीरं ब्रह्मेति ब्रह्मणो वैभवं प्रतिपादयद्भिः सामानाधिकरण्यादिभिर् मुख्यवृत्तैः सर्वचेतनाचेतनप्रकारं ब्रह्मैवाभिधीयते / सामानाधिकरण्यं हि द्वयोः पदयोः प्रकारद्वयमुखेनैकार्थनिष्ठत्वं / तस्य चैतस्मिन् पक्षे मुख्यता / तथा हि तत् त्वम् इति सामानाधिकरण्ये तद् इत्यनेन जगत्कारणं सर्वकल्याणगुणगणाकरं निरवद्यं ब्रह्मोच्यते / त्वम् इति च चेतनसामानाधिकरण्यवृत्तेन जीवान्तर्यानिरूपि तच्छरीरं तदात्मतयावस्थितं तत्प्रकारं ब्रह्मोच्यते / इतरेषु पक्षेषु सामानाधिकरण्यहानिर् ब्रह्मणः सदेषता च स्यात् /
130 SK यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति एष त आत्म-अन्तर्याम्य्-अमृतः / य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो य आत्मा न वेद यस्या अत्मा शरीरं य आत्मानम् अन्तरो यमयति एष त आत्म-अन्तर्याम्य्-अमृतः / यः पृथिवीम् अन्तरे संचरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद इत्य्-आदि --- यो ऽक्षरम् अन्तरे संचरन् यस्य अक्षरं शरीरं अक्षरं न वेद --- यो मृत्युम् अन्तरे संचरन् यस्य मृत्युः शरीरं यं मृत्युर् न वेद --- एष सर्व-भूत-अन्तर-आत्म-अपहत-पाप्मा दिव्यो देव एको नारायणः / द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिष-स्व-जाते / तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशि इति / अन्तः प्रविष्टः शास्ता जनानां सर्व-आत्मा / तत्-सृष्ट्वा तद् एव अनुप्राविशत् / तद्-अनुप्रविश्य सच् च त्यच् च अनृतं च सत्यम् अभवत् / अनेन जीवेना अत्मन ईत्य्-आदि / पृथग्-आत्मानं प्रेरितारं मत्वा जष्टस् ततस् तेन अमृतत्वम् एति / भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रि-विधं ब्रह्म, एतत् / नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् / प्रधान-क्षेत्र-ज्ञ-पतिर् गुण-ईशः / ज्ञ-अज्ञौ द्वव् अजव् ईश-अनीशव् इत्य्-आदि-श्रुति-शतैस् तद्-उपबृंहणैः --- जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधा-तलम् // यत् किंचित् सृज्यते येन सत्त्व-जातेन वै द्वि-ज / तस्य सृज्यस्य संभूतौ तत्-सर्वं वै हरेस् तनुः // अहम् आत्मा गुडाकेश सर्व-भूत-आशय-स्थितः // सर्वस्य च अहं हृदि संनिविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च // इत्य्-आदि-वेद-विद्-अग्रे-सर-वाल्मीकि-पराशर-द्वैपायन-वचोभिश् च परस्य ब्रह्मणः सर्वस्या अत्मत्व-अवगमाच् चिद्-अचिद्-आत्मकस्य वस्तुनस् तच्-छरीरत्व-अवगमाच् च शरीरस्य शरीरिणं प्रति प्रकारतय ऐव पद-अर्थत्वाच् शरीर-शरीरिणोश् च धर्म-भेदे ऽपि तयोर् असंकरात् सर्व-शरीरं ब्रह्म इति ब्रह्मणो वैभवं प्रतिपादयद्भिः सामानाधिकरण्य-आदिभिर् मुख्य-वृत्तैः सर्व-चेतन-अचेतन-प्रकारं ब्रह्म एव अभिधीयते / सामानाधिकरण्यं हि द्वयोः पदयोः प्रकार-द्वय-मुखेन एक-अर्थ-निष्ठत्वं / तस्य च एतस्मिन् पक्षे मुख्यता / तथा हि तत् त्वम् इति सामानाधिकरण्ये तद् इत्य्-अनेन जगत्-कारणं सर्व-कल्याण-गुण-गण-आकरं निरवद्यं ब्रह्म उच्यते / त्वम् इति च चेतन-सामानाधिकरण्य-वृत्तेन जीव-अन्तर्यानि-रूपि तच्-छरीरं तद्-आत्मतय आवस्थितं तत्-प्रकारं ब्रह्म उच्यते / इतरेषु पक्षेषु सामानाधिकरण्य-हानिर् ब्रह्मणः स-देषता च स्यात् /
66 SK एतद् उक्तं भवति / ब्रह्मैवम् अवस्थितम् इत्य् अत्रैवंशब्दार्थभूतप्रकारतयैव विचित्रचेतनाचेतनात्मकप्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्भावः / तथा च बहु स्यां प्रजायेयेत्य् अयम् अर्थः संपन्नो भवति / तस्यैवेश्वरस्य कार्यतया कारणतया च नानासंस्थानसंस्थितस्य संस्थानतया चिदचिद्वस्तुजातम् अवस्थितम् इति /
132 SK एतद् उक्तं भवति / ब्रह्म एवम् अवस्थितम् इत्य् अत्र एवं-शब्द-अर्थ-भूत-प्रकारतय ऐव विचित्र-चेतन-अचेतन-आत्मक-प्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्-भावः / तथा च बहु स्यां प्रजायेय इत्य् अयम् अर्थः संपन्नो भवति / तस्य एवा इश्वरस्य कार्यतया कारणतया च नाना-संस्थान-संस्थितस्य संस्थानतया चिद्-अचिद्-वस्तु-जातम् अवस्थितम् इति /
67 SK ननु च संस्थानरूपेण प्रकारतयैवंशब्दार्थत्वम् जातिगुणयोर् एव दृष्टं न द्रव्यस्य / स्वतन्त्रसिद्धियोग्यस्य पदार्थस्यैवंशब्दार्थतयेश्वरस्य प्रकारमात्रत्वम् अयुक्तं / उच्यते -- द्रव्यस्यापि दण्डकुण्डलादेर् द्रव्यान्तरप्रकारत्वं दृष्टम् एव / ननु च दण्डादेः स्वतन्त्रस्य द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो दृष्टः / यथा दण्डी कुण्डलीति / अतो गोत्वादितुल्यतया चेतनाचेतनस्य द्रव्यभूतस्य वस्तुन ईश्वरप्रकारतया सामानाधिकरण्येन प्रतिपादनं न युज्यते / अत्रोच्यते -- गौर् अश्वो मनुष्यो देव इति भूतसंघातरूपाणां द्रव्याणाम् एव देवदत्तो मनुष्यो जातः पुण्यविशेषेण यज्ञदत्तो गौर्जातः पापेन, अन्यश् चेतनः पुण्यातिरेकेण देवो जात इत्यादिदेवादिशरीराणां चेतनप्रकारतया लोकदेवयोः सामानाधिकरण्येन प्रतिपादनं दृष्टम् /
134 SK ननु च संस्थान-रूपेण प्रकारतय ऐवं-शब्द-अर्थत्वम् जाति-गुणयोर् एव दृष्टं न द्रव्यस्य / स्व-तन्त्र-सिद्धि-योग्यस्य पद-अर्थस्य एवं-शब्द-अर्थतया ईश्वरस्य प्रकार-मात्रत्वम् अयुक्तं / उच्यते --- द्रव्यस्य अपि दण्ड-कुण्डल-आदेर् द्रव्य-अन्तर-प्रकारत्वं दृष्टम् एव / ननु च दण्ड-आदेः स्व-तन्त्रस्य द्रव्य-अन्तर-प्रकारत्वे मत्व्-अर्थीय-प्रत्ययो दृष्टः / यथा दण्डी कुण्डलि ईति / अतो गोत्व-आदि-तुल्यतया चेतन-अचेतनस्य द्रव्य-भूतस्य वस्तुन ईश्वर-प्रकारतया सामानाधिकरण्येन प्रतिपादनं न युज्यते / अत्र उच्यते --- गौर् अश्वो मनुष्यो देव इति भूत-संघात-रूपाणां द्रव्याणाम् एव देव-दत्तो मनुष्यो जातः पुण्य-विशेषेण यज्ञ-दत्तो गौर्-जातः पापेन, अन्यश् चेतनः पुण्य-अतिरेकेण देवो जात इत्य्-आदि-देव-आदि-शरीराणां चेतन-प्रकारतया लोक-देवयोः सामानाधिकरण्येन प्रतिपादनं दृष्टम् /
68 SK अयम् अर्थः -- जातिर् वा गुणो वा द्रव्यं वा न तत्रादरः / कंचन द्रव्यविशेषं प्रति विशेषणतयैव यस्य सद्भावस् तस्य तदपृथक्सिद्धेस् तत्प्रकारतया तत्सामानाधिकरण्येन प्रतिपादनं युक्तम् / यस्य पुनर् द्रव्यस्य पृथक्सिद्धस्यैव कदाचित्क्वचिद्द्रव्यान्तरप्रकारत्वम् इष्यते तत्र मत्वर्थीयप्रत्यय इति विशेषः / एवम् एव स्थावरजङ्गमात्मकस्य सर्वस्य वस्तुन ईश्वरशरीरत्वेन तत्प्रकारतयैव स्वरूपसद्भाव इति / तत्प्रकारीश्वर एव तत्तच्छब्देनाभिधीयत इति तत्सामानाधिकरण्येन प्रतिपादनं युक्तं / तद् एवैतत् सर्वं पूर्वम् एव नामरूपव्याकरणश्रुतिविवरणे प्रपञ्चितम् /
136 SK अयम् अर्थः --- जातिर् वा गुणो वा द्रव्यं वा न तत्र-आदरः / कंचन द्रव्य-विशेषं प्रति विशेषणतय ऐव यस्य सद्-भावस् तस्य तद्-अपृथक्-सिद्धेस् तत्-प्रकारतया तत्-सामानाधिकरण्येन प्रतिपादनं युक्तम् / यस्य पुनर् द्रव्यस्य पृथक्-सिद्धस्य एव कदाचित्-क्वचिद्-द्रव्य-अन्तर-प्रकारत्वम् इष्यते तत्र मत्व्-अर्थीय-प्रत्यय इति विशेषः / एवम् एव स्थावर-जङ्गम-आत्मकस्य सर्वस्य वस्तुन ईश्वर-शरीरत्वेन तत्-प्रकारतय ऐव स्व-रूप-सद्-भाव इति / तत्-प्रकारि-ईश्वर एव तत्-तच्-छब्देन अभिधीयत इति तत्-सामानाधिकरण्येन प्रतिपादनं युक्तं / तद् एव एतत् सर्वं पूर्वम् एव नाम-रूप-व्याकरण-श्रुति-विवरणे प्रपञ्चितम् /
69 SK अतः प्रकृतिपुरुषमहदहंकारतन्मात्रभूतेन्द्रियतदारब्धचतुर्दशभुवनात्मकब्रह्माण्डतदन्तर्वर्तिदेवतिर्यङ्मनुष्यस्थावरादिसर्वप्रकारसंस्थानसंस्थितं कार्यम् अपि सर्वं ब्रह्मैवेति कारणभूतब्रह्मविज्ञानाद् एव सर्वं विज्ञातं भवतीत्य् एकविज्ञानेन सर्वविज्ञानम् उपपन्नतरम् / तद् एवं कार्यकारणभावादिमुखेन कृत्स्नस्य चिदचिद्वस्तुनः परब्रह्मप्रकारतया तदात्मकत्वम् उक्तम् /
138 SK अतः प्रकृति-पुरुष-महद्-अहंकार-तन्मात्र-भूत-इन्द्रिय-तद्-आरब्ध-चतुर्-दश-भुवन-आत्मक-ब्रह्म-अण्ड-तद्-अन्तर्वर्ति-देव-तिर्यङ्-मनुष्य-स्थावर-आदि-सर्व-प्रकार-संस्थान-संस्थितं कार्यम् अपि सर्वं ब्रह्म एव इति कारण-भूत-ब्रह्म-विज्ञानाद् एव सर्वं विज्ञातं भवति इत्य् एक-विज्ञानेन सर्व-विज्ञानम् उपपन्नतरम् / तद् एवं कार्य-कारण-भाव-आदि-मुखेन कृत्स्नस्य चिद्-अचिद्-वस्तुनः पर-ब्रह्म-प्रकारतया तद्-आत्मकत्वम् उक्तम् /
70 SK ननु च परस्य ब्रह्मणः स्वरूपेण परिणामास्पदत्वं निर्विकारत्वनिरवद्यत्वश्रुतिव्याकोपप्रसञ्गेन निवारितम् / प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधाद् इत्य् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानमृत्तत्कार्यदृष्टान्ताभ्यां परमपुरुषस्य जगदुपादानकारणत्वं च प्रतिपादितम् / उपादानकारणत्वं च परिणामास्पदत्वम् एव / कथम् इदम् उपपद्यते /
140 SK ननु च परस्य ब्रह्मणः स्व-रूपेण परिणाम-आस्पदत्वं निर्विकारत्व-निरवद्यत्व-श्रुति-व्याकोप-प्रसञ्गेन निवारितम् / प्रकृतिश् च प्रतिज्ञा-दृष्टान्त-अनुपरोधाद् इत्य् एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञान-मृत्-तत्-कार्य-दृष्टान्ताभ्यां परम-पुरुषस्य जगद्-उपादान-कारणत्वं च प्रतिपादितम् / उपादान-कारणत्वं च परिणाम-आस्पदत्वम् एव / कथम् इदम् उपपद्यते /
71 SK अत्रोच्यते -- सजीवस्य प्रपञ्चस्याविशेषेण कारणत्वम् उक्तम् / तत्रेश्वरस्य जीवरूपपरिणामाभ्युपगमेन नात्मा श्रुतेर् नित्यत्वाच् च ताभ्य इति विरुध्यते / वैषम्यनैर्घृण्यपरिहारश् च जीवनम् अनादित्वाभ्युपगमेन तत्कर्मनिमित्ततया प्रतिपादितः -- वैषम्यनैर्घृण्ये न सापेक्षत्वान् न कर्मविभागाद् इति चेन् न -- अनादित्वाद् उपपद्यते चाप्य् उपलभ्यते चेत्यकृताभ्यागमकृतविप्रणाशप्रसङ्गश् चानित्यत्वे ऽभिहितः /
142 SK अत्र उच्यते --- सजीवस्य प्रपञ्चस्य अविशेषेण कारणत्वम् उक्तम् / तत्रा इश्वरस्य जीव-रूप-परिणाम-अभ्युपगमेन ना अत्मा श्रुतेर् नित्यत्वाच् च ताभ्य इति विरुध्यते / वैषम्य-नैर्घृण्य-परिहारश् च जीवनम् अनादित्व-अभ्युपगमेन तत्-कर्म-निमित्ततया प्रतिपादितः --- वैषम्य-नैर्घृण्ये न सापेक्षत्वान् न कर्म-विभागाद् इति चेन् न --- अनादित्वाद् उपपद्यते च अप्य् उपलभ्यते च इत्य्-अकृत-अभ्यागम-कृत-विप्रणाश-प्रसङ्गश् च अनित्यत्वे ऽभिहितः /
72 SK तथा प्रकृतेर् अप्य् अनादिता श्रुतिभिः प्रतिपदिता -- अजाम् एकां लोहितशुक्लकृष्णां बह्नीं प्रजां जनयन्तीं सरूपाम् / अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः // इति प्रकृतिपुरुषयोर् अजत्वं दर्शयति / अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः -- मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् इति प्रकृतिर् एव स्वरूपेण विकारास्पदम् इति च दर्शयति / गौर् अनाद्यन्तवती सा जनित्री भूतभाविनीति च / स्मृतिश् च भवति -- प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभव् अपि / विकारांश् च गुणांश् चैव विद्धि प्रकृतिसंभवान् // भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च / अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा // अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् / जीवभूतां महाबाहो ययेदं धार्यते जगत् // प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः / मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् // इत्यादिका /
144 SK तथा प्रकृतेर् अप्य् अनादिता श्रुतिभिः प्रतिपदिता --- अजाम् एकां लोहित-शुक्ल-कृष्णां बह्नीं प्रजां जनयन्तीं सरूपाम् / अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजो ऽन्यः // इति प्रकृति-पुरुषयोर् अजत्वं दर्शयति / अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् च अन्यो मायया संनिरुद्धः --- मायां तु प्रकृतिं विद्यान् मायिनं तु महा-ईश्वरम् इति प्रकृतिर् एव स्व-रूपेण विकार-आस्पदम् इति च दर्शयति / गौर् अनाद्य्-अन्तवती सा जनित्री भूत-भाविनि ईति च / स्मृतिश् च भवति --- प्रकृतिं पुरुषं च एव विद्ध्य् अनादी उभव् अपि / विकारांश् च गुणांश् च एव विद्धि प्रकृति-संभवान् // भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च / अहंकार इति इयं मे भिन्ना प्रकृतिर् अष्टधा // अपर ईयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् / जीव-भूतां महा-बाहो यय ईदं धार्यते जगत् // प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः / मय आध्यक्षेण प्रकृतिः सूयते सचर-अचरम् // इत्य्-आदिका /
73 SK एवं च प्रकृतेर् अपीश्वरशरीरत्वात् प्रकृतिशब्दो ऽपि तदात्मभूतस्येश्वरस्य तत्प्रकारसंस्थितस्य वाचकः / पुरुषशब्दो ऽपि तदात्मभूतस्येश्वरस्य पुरुषप्रकारसंस्थितस्य वाचकः / अतस् तद्विकाराणाम् अपि तथेश्वर एवात्मा / तद् आह -- व्यक्तं विष्णुस् तथाव्यक्तं पुरुषः काल एव च / सा एव क्षोभको ब्रह्मन् क्षोभ्यश् च परमेश्वरः // इति / अतः प्रकृतिप्रकारसंस्थिते परमात्मनि प्रकारभूतप्रकृत्यंसे विकारः प्रकार्यंसे चाविकारः / एवम् एव जीवप्रकारसंस्थिते परमात्मनि च प्रकारभूतजीवांशे सर्वे चापुरुषार्थाः प्रकार्यंशो नियन्ता निरवद्यः सर्वकल्याणगुणाकरः सत्यसंकल्प एव /
146 SK एवं च प्रकृतेर् अपी इश्वर-शरीरत्वात् प्रकृति-शब्दो ऽपि तद्-आत्म-भूतस्या इश्वरस्य तत्-प्रकार-संस्थितस्य वाचकः / पुरुष-शब्दो ऽपि तद्-आत्म-भूतस्या इश्वरस्य पुरुष-प्रकार-संस्थितस्य वाचकः / अतस् तद्-विकाराणाम् अपि तथा ईश्वर एवा अत्मा / तद् आह --- व्यक्तं विष्णुस् तथ आव्यक्तं पुरुषः काल एव च / सा एव क्षोभको ब्रह्मन् क्षोभ्यश् च परम-ईश्वरः // इति / अतः प्रकृति-प्रकार-संस्थिते परम-आत्मनि प्रकार-भूत-प्रकृत्य्-अंसे विकारः प्रकार्य्-अंसे च अविकारः / एवम् एव जीव-प्रकार-संस्थिते परम-आत्मनि च प्रकार-भूत-जीव-अंशे सर्वे च अपुरुष-अर्थाः प्रकार्य्-अंशो नियन्ता निरवद्यः सर्व-कल्याण-गुण-आकरः सत्य-संकल्प एव /
74 SK तथा च सति कारणावस्थ ईश्वर एवेति तदुपादानकजगत्कार्यावस्थो ऽपि स एवेति कार्यकारणयोर् अनन्यत्वं सर्वश्रुत्यविरोधश् च भवति / तद् एवं नामरूपविभागानर्हसूक्ष्मदशापन्नप्रकृतिपुरुषशरीरं ब्रह्म कारणावस्थं, जगतस् तदापत्तिर् एव च प्रलयः / नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यत्वं, ब्रह्मणस् तथाविधस्थूलभाव एव जगतः सृष्टिर् इत्य् उच्यते / यथोक्तं भगवता पराशरेण -- प्रधानपुंसोर् अजयोः कारणं कार्यभूतयोः / इति /
148 SK तथा च सति कारण-अवस्थ ईश्वर एव इति तद्-उपादानक-जगत्-कार्य-अवस्थो ऽपि स एव इति कार्य-कारणयोर् अनन्यत्वं सर्व-श्रुत्य्-अविरोधश् च भवति / तद् एवं नाम-रूप-विभाग-अनर्ह-सूक्ष्म-दशा-आपन्न-प्रकृति-पुरुष-शरीरं ब्रह्म कारण-अवस्थं, जगतस् तद्-आपत्तिर् एव च प्रलयः / नाम-रूप-विभाग-विभक्त-स्थूल-चिद्-अचिद्-वस्तु-शरीरं ब्रह्म कार्यत्वं, ब्रह्मणस् तथा-विध-स्थूल-भाव एव जगतः सृष्टिर् इत्य् उच्यते / यथ ऊक्तं भगवता पराशरेण --- प्रधान-पुंसोर् अजयोः कारणं कार्य-भूतयोः / इति /
75 SK तस्माद् ईश्वरप्रकारभूतसर्वावस्थप्रकृतिपुरुषवाचिनः शब्दास् तत्प्रकारविशिष्टतयावस्थिते परमात्मनि मुख्यतया वर्तन्ते / जीवात्मवाचिदेवमनुष्यशब्दवत् / यथा देवमनुष्यादिशब्दा देवमनुष्यादिप्रकृतिपरिणामविशेषाणां जीवात्मप्रकारतयैव पदार्थत्वात् प्रकारिणि जीवात्मनि मुख्यतया वर्तन्ते / तस्मात् सर्वस्य चिदचिद्वस्तुनः परमात्मशरीरतया तत्प्रकारत्वात् परमात्मनि मुख्यतया वर्तन्ते सर्वे वाचकाः शब्दाः /
150 SK तस्माद् ईश्वर-प्रकार-भूत-सर्व-अवस्थ-प्रकृति-पुरुष-वाचिनः शब्दास् तत्-प्रकार-विशिष्टतय आवस्थिते परम-आत्मनि मुख्यतया वर्तन्ते / जीव-आत्म-वाचि-देव-मनुष्य-शब्दवत् / यथा देव-मनुष्य-आदि-शब्दा देव-मनुष्य-आदि-प्रकृति-परिणाम-विशेषाणां जीव-आत्म-प्रकारतय ऐव पद-अर्थत्वात् प्रकारिणि जीव-आत्मनि मुख्यतया वर्तन्ते / तस्मात् सर्वस्य चिद्-अचिद्-वस्तुनः परम-आत्म-शरीरतया तत्-प्रकारत्वात् परम-आत्मनि मुख्यतया वर्तन्ते सर्वे वाचकाः शब्दाः /
76 SK अयम् एव चात्मशरीरभावः पृथक्सिद्ध्यनर्हाधाराधेयभावो नियन्तृनियाम्यभावः शेषशेषिभावश् च / सर्वात्मनाधारतया नियन्तृतया शेषितया च -- आप्नोतीत्य् आत्मा सर्वात्मनाधेयतया नियाम्यतया शेषतया च -- अपृथक्सिद्धं प्रकारभूतम् इत्य् आकारः शरीरम् इति चोच्यते / एवम् एव हि जीवात्मनः स्वशरीरसंबन्धः / एवम् एव परमात्मनः सर्वशरीरत्वेन सर्वशब्दवाच्यत्वम् /
152 SK अयम् एव चा अत्म-शरीर-भावः पृथक्-सिद्ध्य्-अनर्ह-आधार-आधेय-भावो नियन्तृ-नियाम्य-भावः शेष-शेषि-भावश् च / सर्व-आत्मना आधारतया नियन्तृतया शेषितया च --- आप्नोति इत्य् आत्मा सर्व-आत्मना आधेयतया नियाम्यतया शेषतया च --- अपृथक्-सिद्धं प्रकार-भूतम् इत्य् आकारः शरीरम् इति च उच्यते / एवम् एव हि जीव-आत्मनः स्व-शरीर-संबन्धः / एवम् एव परम-आत्मनः सर्व-शरीरत्वेन सर्व-शब्द-वाच्यत्वम् /
77 SK तद् आह श्रुतिगणः -- सर्वे वेदा यत्पदम् आमनन्ति सर्वे वेदा यत्रैकं भवन्तीति / तस्यैकस्य वाच्यत्वाद् एकार्थवाचिनो भवन्तीत्यर्थः / एको देवो बहुधा निविष्टः, सहैव सन्तं न विजानन्ति देवा इत्यादि / देवा इन्द्रियाणि / देवमनुष्यादीनाम् अन्तर्यामितयात्मत्वेन निविश्य सहैव सन्तं तेषाम् इन्द्रियाणि मनःपर्यन्तानि न विजानन्तीत्यर्थः / तथा च पौराणिकानि वचांसि -- नताः स्म सर्ववचसां प्रतिष्ठा यत्र शश्वती / वाच्ये हि वचसः प्रतिष्ठा / कार्याणां कारणां पूर्वं वचसां वाच्यम् उत्तमम् / वेदैश् च सर्वैर् अहम् एव वेद्यः / इत्यादीनि सर्वाणि हि वचांसि सशरीरात्मविशिष्टम् अन्तर्यामिणम् एवाचक्षते / हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मानुप्रविश्य नामरूपे व्याकरवाणीति हि श्रुतिः / तथा च मानवं वचः -- प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् // अन्तः प्रविश्यान्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् -- अणीयांस आत्मानः कृत्स्नस्याचेतनस्य व्यापकतया सूक्ष्मभूतास् ते तेषाम् अपि व्यापकत्वात् तेभ्यो ऽपि सूक्ष्मतर इत्यर्थः -- रुक्माभः आदित्यवर्णः -- स्वप्नकल्पबुद्धिप्राप्यः, विशदतमप्रत्यक्षतापन्नानुध्यानैकलभ्य इत्यर्थः / एनम् एके वदन्त्य् अग्निं मारुतो ऽन्ये प्रजापतिम् / इन्द्रम् एके परे प्रमाणम् अपरे ब्रह्म शाश्वतम् // इति / एके -- वेदा इत्यर्थः / उक्तरीत्या परस्यैव ब्रह्मणः सर्वस्य प्रशासितृत्वेन सर्वान्तरात्मतया प्रविश्यावस्थितत्वाद् अग्न्यादयः शब्दा अपि शाश्वतब्रह्मशब्दवत् तस्यैव वाचका भवन्तीत्यर्थः / तथा च स्मृत्यन्तरम् -- ये यजन्ति पित्Qन् देवान् ब्राह्मणान् सहुताशनान् / सर्वभूतान्तरात्मानं विष्णुम् एव यजन्ति ते // इति / पितृदेवब्राह्मणहुताशनादिशब्दास् तन्मुखेन तदन्तरात्मभूतस्य विष्णोर् एव वाचका इत्युक्तं भवति /
154 SK तद् आह श्रुति-गणः --- सर्वे वेदा यत्-पदम् आमनन्ति सर्वे वेदा यत्र एकं भवन्ति इति / तस्य एकस्य वाच्यत्वाद् एक-अर्थ-वाचिनो भवन्ति इत्य्-अर्थः / एको देवो बहुधा निविष्टः, सह एव सन्तं न विजानन्ति देवा इत्य्-आदि / देवा इन्द्रियाणि / देव-मनुष्य-आदीनाम् अन्तर्यामितया आत्मत्वेन निविश्य सह एव सन्तं तेषाम् इन्द्रियाणि मनः-पर्यन्तानि न विजानन्ति इत्य्-अर्थः / तथा च पौराणिकानि वचांसि --- नताः स्म सर्व-वचसां प्रतिष्ठा यत्र शश्वती / वाच्ये हि वचसः प्रतिष्ठा / कार्याणां कारणां पूर्वं वचसां वाच्यम् उत्तमम् / वेदैश् च सर्वैर् अहम् एव वेद्यः / इत्य्-आदीनि सर्वाणि हि वचांसि स-शरीर-आत्म-विशिष्टम् अन्तर्यामिणम् एवा अचक्षते / हन्त अहम् इमास् तिस्रो देवता अनेन जीवेना अत्म-अनुप्रविश्य नाम-रूपे व्याकरवाणि इति हि श्रुतिः / तथा च मानवं वचः --- प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् रुक्म-अभं स्वप्न-धी-गम्यं विद्यात् तं पुरुषं परम् // अन्तः प्रविश्य अन्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् --- अणीयांस आत्मानः कृत्स्नस्य अचेतनस्य व्यापकतया सूक्ष्म-भूतास् ते तेषाम् अपि व्यापकत्वात् तेभ्यो ऽपि सूक्ष्मतर इत्य्-अर्थः --- रुक्म-अभः आदित्य-वर्णः --- स्वप्न-कल्प-बुद्धि-प्राप्यः, विशदतम-प्रत्यक्षता-आपन्न-अनुध्यान-एक-लभ्य इत्य्-अर्थः / एनम् एके वदन्त्य् अग्निं मारुतो ऽन्ये प्रजापतिम् / इन्द्रम् एके परे प्रमाणम् अपरे ब्रह्म शाश्वतम् // इति / एके --- वेदा इत्य्-अर्थः / उक्त-रीत्या परस्य एव ब्रह्मणः सर्वस्य प्रशासितृत्वेन सर्व-अन्तर-आत्मतया प्रविश्य अवस्थितत्वाद् अग्न्य्-आदयः शब्दा अपि शाश्वत-ब्रह्म-शब्दवत् तस्य एव वाचका भवन्ति इत्य्-अर्थः / तथा च स्मृत्य्-अन्तरम् --- ये यजन्ति पित्Qन् देवान् ब्राह्मणान् सहुत-आशनान् / सर्व-भूत-अन्तर-आत्मानं विष्णुम् एव यजन्ति ते // इति / पितृ-देव-ब्राह्मण-हुत-आशन-आदि-शब्दास् तन्-मुखेन तद्-अन्तर-आत्म-भूतस्य विष्णोर् एव वाचका इत्य्-उक्तं भवति /
78 SK अत्रेदं सर्वशास्त्रहृदयम् -- जीवात्मानः स्वयम् असंकुचितापरिच्छिन्ननिर्मलज्ञानस्वरूपाः सन्तः कर्मरूपाविद्यावेष्टितास् तत्तत्कर्मानुरूपज्ञानसंकोचम् आपन्नाः, ब्रह्मादिस्तम्बपर्यन्तविविधविचित्रदेहेषु प्रविश्टास् तत्तद्देहोचितलब्धज्ञानप्रसरास् तत्तद्देहात्माभिमानिनस् तदुचितकर्माणि कुर्वाणास् तदनुगुणसुखदुःखोपभोगरूपसंसारप्रवाहं प्रतिपद्यन्ते / एतेषां संसारमोचनं भगवत्प्रपत्तिम् अन्तरेण नोपपद्यत इति तदर्थः प्रथमम् एषां देवादिभेदरहितज्ञानैकाकारतया सर्वेषां साम्यं प्रतिपाद्य, तस्यापि स्वरूपस्य भगवच्छेषतैकरसतया भगवदात्मकताम् अपि प्रतिपाद्य, भगवत्स्वरूपं च हेयप्रत्यनीलकल्याणैकतानतया सकलेतरविसजातीयम् अनवधिकातिशयासंख्येयकल्याणगुणगणाश्रयं स्वसंकल्पप्रवृत्तसमस्तचिदचिद्वस्तुजाततया सर्वस्यात्मभूतं प्रतिपाद्य, तदुपासन साङ्गं तत्प्रापकं प्रतिपदयन्ति शास्त्राणीति /
156 SK अत्र इदं सर्व-शास्त्र-हृदयम् --- जीव-आत्मानः स्वयम् असंकुचित-अपरिच्छिन्न-निर्मल-ज्ञान-स्व-रूपाः सन्तः कर्म-रूप-अविद्या-वेष्टितास् तत्-तत्-कर्म-अनुरूप-ज्ञान-संकोचम् आपन्नाः, ब्रह्म-आदि-स्तम्ब-पर्यन्त-विविध-विचित्र-देहेषु प्रविश्टास् तत्-तद्-देह-उचित-लब्ध-ज्ञान-प्रसरास् तत्-तद्-देह-आत्म-अभिमानिनस् तद्-उचित-कर्माणि कुर्वाणास् तद्-अनुगुण-सुख-दुःख-उपभोग-रूप-संसार-प्रवाहं प्रतिपद्यन्ते / एतेषां संसार-मोचनं भगवत्-प्रपत्तिम् अन्तरेण न उपपद्यत इति तद्-अर्थः प्रथमम् एषां देव-आदि-भेद-रहित-ज्ञान-एक-आकारतया सर्वेषां साम्यं प्रतिपाद्य, तस्य अपि स्व-रूपस्य भगवच्-छेषता-एक-रसतया भगवद्-आत्मकताम् अपि प्रतिपाद्य, भगवत्-स्व-रूपं च हेय-प्रत्यनील-कल्याण-एक-तानतया सकल-इतर-विसजातीयम् अनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गण-आश्रयं स्व-संकल्प-प्रवृत्त-समस्त-चिद्-अचिद्-वस्तु-जाततया सर्वस्या अत्म-भूतं प्रतिपाद्य, तद्-उपासन साङ्गं तत्-प्रापकं प्रतिपदयन्ति शास्त्राणि इति /
79 SK यथोक्तम् -- निर्वाणमय एवायम् आत्मा ज्ञानमयो ऽमलः / दुःखाज्ञानमला धर्मा प्रकृतेस् ते न चात्मनः / इति प्रकृतिसंसर्गकृतकर्ममूलत्वान् नात्मद्वरूपप्रयुक्ता धर्मा इत्यर्थः / प्राप्ताप्राप्तविवेकेन प्रकृतेर् एव धर्मा इत्युक्तम् / विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि / शुनि चैव श्वपाके च पाण्डिताः समदर्शिनः / इति / देवतिर्यङ्मनुष्यस्थावररूपप्रकृतिसंसृष्टस्यात्मनः स्वरूपविवेचनी बुद्धिर् एषां ते पण्डिताः / तत्तत् प्रकृतिविशेषवियुक्तात्मयाथात्म्यज्ञानवन्तस् तत्र तत्रात्यन्तविषमाकारे वर्तमानम् आत्मानं समानाकारं पश्यन्तीति समदर्शिन इत्य् उक्तम् / तद् इदम् आह -- इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः / निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः // इति / निर्दोषं -- देवादिप्रकृतिविशेषसंसर्गरूपदोषरहितं स्वरूपेणावस्थितं सर्वम् आत्मवस्तु निर्वाणरूपज्ञानैकाकारतया समम् इत्यर्थः /
158 SK यथ ऊक्तम् --- निर्वाण-मय एव अयम् आत्मा ज्ञान-मयो ऽमलः / दुःख-अज्ञान-मला धर्मा प्रकृतेस् ते न चा अत्मनः / इति प्रकृति-संसर्ग-कृत-कर्म-मूलत्वान् ना अत्म-द्व-रूप-प्रयुक्ता धर्मा इत्य्-अर्थः / प्राप्त-अप्राप्त-विवेकेन प्रकृतेर् एव धर्मा इत्य्-उक्तम् / विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि / शुनि च एव श्व-पाके च पाण्डिताः सम-दर्शिनः / इति / देव-तिर्यङ्-मनुष्य-स्थावर-रूप-प्रकृति-संसृष्टस्या अत्मनः स्व-रूप-विवेचनी बुद्धिर् एषां ते पण्डिताः / तत्-तत्- प्रकृति-विशेष-वियुक्त-आत्म-याथात्म्य-ज्ञानवन्तस् तत्र तत्र अत्यन्त-विषम-आकारे वर्तमानम् आत्मानं समान-आकारं पश्यन्ति इति सम-दर्शिन इत्य् उक्तम् / तद् इदम् आह --- इह एव तैर् जितः सर्गो येषां साम्ये स्थितं मनः / निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः // इति / निर्दोषं --- देव-आदि-प्रकृति-विशेष-संसर्ग-रूप-दोष-रहितं स्व-रूपेण अवस्थितं सर्वम् आत्म-वस्तु निर्वाण-रूप-ज्ञान-एक-आकारतया समम् इत्य्-अर्थः /
80 SK तस्यैवंभूतस्यात्मनो भगवच्छेषतैकरसता तन्नियाम्यता तदेकाधारता च तच्छरीरतत्तनुप्रभृतिभिः शब्दैस् तत्समानाधिकरण्येन च श्रुतिस्मृतीतिहासपुराणेषु प्रतिपाद्यत इति पूर्वम् एवोक्तम् /
160 SK तस्य एवं-भूतस्या अत्मनो भगवच्-छेषता-एक-रसता तन्-नियाम्यता तद्-एक-आधारता च तच्-छरीर-तत्-तनु-प्रभृतिभिः शब्दैस् तत्-समान-अधिकरण्येन च श्रुति-स्मृति-इतिहास-पुराणेषु प्रतिपाद्यत इति पूर्वम् एव उक्तम् /
81 SK दैवी ह्य् एषा गुणमयी मम माया दुरत्यया / माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते // इति तस्यात्मनः कर्मकृतविचित्रगुणमयप्रकृतिसंसर्गरूपात् संसारान् मोक्षो भगवत्प्रपत्तिम् अन्तरेण नोपपदयत इत्युक्तं भवति / नान्यः पन्था अयनाय विद्यत इत्यादिश्रुतिभिश् च / मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना / मत्स्थानि सर्वभूतानि न चाहं तेषु अवस्थितः // न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् // इति सर्वशक्तियोगात् स्वाइश्वर्यवैचित्र्यम् उक्तम् / तद् आह -- विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् / इति -- अनन्तविचित्रमहाश्चर्यरूपं जगन् ममायुतांशेनात्मतया प्रविश्य सर्वं मत्संकल्पेन विष्टभ्यानेन रूपेणानन्तमहाविभूतिपरिमितोदारगुणसागरो निरतिशयाश्चर्यभूतः स्थितो ऽहम् इत्यर्थः / तद् इदम् आह -- एकत्वे सति नानात्वं नानात्वे सति चैकता / अचिन्त्यं ब्रह्मणो रूपं कुतस् तद्वेदितुम् अर्हति // इति / प्रशासितृत्वेनैक एव सन्विचित्रचिदचिद्वस्तुष्व् अन्तरात्मतया प्रविश्य तत्तद्रूपेण विचित्रप्रकारो विचित्रकर्म कारयन् नानारूपां भजते / एवं स्वल्पांशेन तु सर्वाश्चर्यं नानारूपं जगत्तदन्तरात्मतया प्रविश्य विष्टभ्य नानात्वेनावस्थितो ऽपि सन्न् अनवधिकातिशयासंख्येयकल्याणगुणगणः सर्वेश्वरः परब्रह्मभूतः पुरुषोत्तमो नारायणो निरतिशयाश्चर्यभूतो नीलतोयदसंकाशः पुण्डरीकदलामलायतेक्षणः सहस्रांशुसहस्रकिरणः परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमंस् तदक्षरे परमे व्योमन्न् इत्यादिश्रुतिसिद्ध एक एवातिष्ठते /
162 SK दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया / माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते // इति तस्या अत्मनः कर्म-कृत-विचित्र-गुण-मय-प्रकृति-संसर्ग-रूपात् संसारान् मोक्षो भगवत्-प्रपत्तिम् अन्तरेण न उपपदयत इत्य्-उक्तं भवति / न अन्यः पन्था अयनाय विद्यत इत्य्-आदि-श्रुतिभिश् च / मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना / मत्-स्थानि सर्व-भूतानि न च अहं तेषु अवस्थितः // न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् // इति सर्व-शक्ति-योगात् स्व ऐश्वर्य-वैचित्र्यम् उक्तम् / तद् आह --- विष्टभ्य अहम् इदं कृत्स्नम् एक-अंशेन स्थितो जगत् / इति --- अनन्त-विचित्र-महा-आश्चर्य-रूपं जगन् मम अयुत-अंशेना अत्मतया प्रविश्य सर्वं मत्-संकल्पेन विष्टभ्य अनेन रूपेण अनन्त-महा-विभूति-परिमित-उदार-गुण-सागरो निरतिशय-आश्चर्य-भूतः स्थितो ऽहम् इत्य्-अर्थः / तद् इदम् आह --- एकत्वे सति नानात्वं नानात्वे सति च एकता / अचिन्त्यं ब्रह्मणो रूपं कुतस् तद्-वेदितुम् अर्हति // इति / प्रशासितृत्वेन एक एव सन्-विचित्र-चिद्-अचिद्-वस्तुष्व् अन्तर-आत्मतया प्रविश्य तत्-तद्-रूपेण विचित्र-प्रकारो विचित्र-कर्म कारयन् नाना-रूपां भजते / एवं स्व्-अल्प-अंशेन तु सर्व-आश्चर्यं नाना-रूपं जगत्-तद्-अन्तर-आत्मतया प्रविश्य विष्टभ्य नानात्वेन अवस्थितो ऽपि सन्न् अनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गणः सर्व-ईश्वरः पर-ब्रह्म-भूतः पुरुष-उत्तमो नारायणो निरतिशय-आश्चर्य-भूतो नील-तोय-द-संकाशः पुण्डरीक-दल-अमल-आयत-ईक्षणः सहस्र-अंशु-सहस्र-किरणः परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमंस् तद्-अक्षरे परमे व्योमन्न् इत्य्-आदि-श्रुति-सिद्ध एक एव अतिष्ठते /
82 SK ब्रह्मव्यतिरिक्तस्य कस्यचिद् अपि वस्तुन एकस्वभावस्यैककार्यशक्तियुक्तस्यैकरूपस्य रूपान्तरयोगः स्वभावान्तरयोगः शक्त्यन्तरयोगश् च न घटते / तस्यैतस्य परब्रह्मणः सर्ववस्तुविजातीयतया सर्वस्वभावत्वं सर्वशक्तियोगश् चेत्य् एकस्यैव विचित्रानन्तरूपता च पुनर् अप्य् अनन्तापरिमिताश्चर्ययोगेनैकरूपता च न विरुद्धेति वस्तुमात्रसाम्याद् विरोधचिन्ता न युक्तेत्यर्थः / यथोक्तं -- शक्तयः सर्वभावानाम् अचिन्त्यज्ञानगोचराः / यतो ऽतो ब्रह्मणस् तास् तु सर्गाद्या भावशक्तयः // भवन्ति तपसां श्रेष्ट पावकस्य यथोष्णता //इति / एतद् उक्तं भवति -- सर्वेषाम् अग्निजलादीनां भावानाम् एकस्मिन्न् अपि भावे दृष्टैव शक्तिस् तद्विजातीयभावान्तरे ऽपीति न चिन्तयितुं युक्ता जलादाव् अदृष्टापि तद्विजातीयपावके भास्वरत्वोष्णतादिशक्तिर् यथा दृश्यते, एवम् एव सर्ववस्तुविसजातीये ब्रह्मणि सर्वसाम्यं नानुमातुं युक्तम् इति / अतो विचित्रानन्तशक्तियुक्तं ब्रह्मैवेत्यर्थः तद् आह -- जगद् एतन् महाश्चर्यं रूपं यस्य महात्मनः / तेनाश्चर्यवरेणाहं भवता कृष्ण संगतः // इति /
164 SK ब्रह्म-व्यतिरिक्तस्य कस्यचिद् अपि वस्तुन एक-स्व-भावस्य एक-कार्य-शक्ति-युक्तस्य एक-रूपस्य रूप-अन्तर-योगः स्व-भाव-अन्तर-योगः शक्त्य्-अन्तर-योगश् च न घटते / तस्य एतस्य पर-ब्रह्मणः सर्व-वस्तु-विजातीयतया सर्व-स्व-भावत्वं सर्व-शक्ति-योगश् च इत्य् एकस्य एव विचित्र-अनन्त-रूपता च पुनर् अप्य् अनन्त-अपरिमित-आश्चर्य-योगेन एक-रूपता च न विरुद्ध ईति वस्तु-मात्र-साम्याद् विरोध-चिन्ता न युक्त ईत्य्-अर्थः / यथ ऊक्तं --- शक्तयः सर्व-भावानाम् अचिन्त्य-ज्ञान-गोचराः / यतो ऽतो ब्रह्मणस् तास् तु सर्ग-आद्या भाव-शक्तयः // भवन्ति तपसां श्रेष्ट पावकस्य यथ ऊष्णता //इति / एतद् उक्तं भवति --- सर्वेषाम् अग्नि-जल-आदीनां भावानाम् एकस्मिन्न् अपि भावे दृष्ट ऐव शक्तिस् तद्-विजातीय-भाव-अन्तरे ऽपि इति न चिन्तयितुं युक्ता जल-आदाव् अदृष्ट आपि तद्-विजातीय-पावके भास्वरत्व-उष्णता-आदि-शक्तिर् यथा दृश्यते, एवम् एव सर्व-वस्तु-विसजातीये ब्रह्मणि सर्व-साम्यं न अनुमातुं युक्तम् इति / अतो विचित्र-अनन्त-शक्ति-युक्तं ब्रह्म एव इत्य्-अर्थः तद् आह --- जगद् एतन् महा-आश्चर्यं रूपं यस्य महा-आत्मनः / तेना अश्चर्य-वरेण अहं भवता कृष्ण संगतः // इति /
83 SK तद् एतन् नानाविधानन्तश्रुतिनिकरशिष्टपरिगृहीततद्व्याख्यानपरिश्रमाद् अवधारितम् / तथा हि -- प्रमाणान्तरापरिदृष्टापरिमितपरिणामान् एकतत्त्वनियतक्रमविशिष्टौ सृष्टिप्रलयौ ब्रह्मणो ऽनेकविधाः श्रुतयो वदन्ति -- निरवद्यं निरञ्जनं विज्ञानम् आनन्दं निर्विकारं निष्कलं निष्क्रियं शान्तं निर्गुणम् इत्य् आदिकाः निर्गुणं ज्ञानस्वरूपं ब्रह्मेति काश्चन श्रुतयो ऽभिदधति / नेह नानास्ति किंचन -- मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति --यत्र त्व् अस्य सर्वम् आत्मैवाभूत् -- तत् केन कं पश्येत् तत् केन कं विजातीयाद् इत्यादिका नानात्वनिषेधवादिन्यः सन्ति काश्चन श्रुतयः / यः सर्वज्ञः सर्ववित् -- यस्य ज्ञानमयं तपः --सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यद् आस्ते -- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि -- अपहतपाप्मा विजरो विमृत्युर् विशोको विजघत्सो ऽपिपासः सत्यकामः सत्यसंकल्प इति सर्वस्मिञ् जगति हेयतयावगतं सर्वगुणं प्रतिषिध्य निरतिशयकल्याणगुणानन्त्यं सर्वज्ञता सर्वशक्तियोगं सर्वनामरूपव्याकरणं सर्वस्यावधारतां च काश्चन श्रुतयो ब्रुवते / सर्वं खल्व् इदं ब्रह्म तज्जलान् इति -- ऐतदात्म्यम् इदं सर्वं -- एकः सन् बहुधा विचार इत्यादिका ब्रह्मसृष्टं जगन् नानाकारं प्रतिपाद्य तदैक्यं च प्रतिपादयन्ति काश्चन / पृथगात्मानं प्रेरितारं च मत्वा -- भोक्ता भोग्यं प्रेरितारं च मत्वा -- प्रजापतिर् अकामयत प्रजाः सृजेयेति -- पतिं विश्वस्यात्मेश्वरं -- श्वास्तं शिवम् अच्युतं -- तम् ईश्वराणां परं महेश्वरं तं देवतानां परं च दैवतं -- सर्वस्य वशी सर्वस्येशान इत्यादिका ब्रह्मणः सर्वस्माद् अन्यत्वं सर्वस्येशितव्यम् ईश्वरत्वं च ब्रह्मणः सर्वस्य शेषतां पतित्वं चेश्वरस्य काश्चन / अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा -- एष त आत्मान्तर्याम्य् अमृतः -- यस्य पृथिवी शरीरं -- यस्यापः शरीरं -- यस्य तेजः शरीरम् इत्यादि यस्याव्यक्तं शरीरं -- यस्याक्षरं शरीरं - यस्य मृत्युः शरीरं --यस्यात्मा शरीरम् इति ब्रह्मव्यतिरिक्तस्य सर्वस्य वस्तुनो ब्रह्मणश् च शरीरात्मभावं दर्शयन्ति काश्चनेति /
166 SK तद् एतन् नाना-विध-अनन्त-श्रुति-निकर-शिष्ट-परिगृहीत-तद्-व्याख्यान-परिश्रमाद् अवधारितम् / तथा हि --- प्रमाण-अन्तर-अपरिदृष्ट-अपरिमित-परिणामान् एक-तत्त्व-नियत-क्रम-विशिष्टौ सृष्टि-प्रलयौ ब्रह्मणो ऽनेक-विधाः श्रुतयो वदन्ति --- निरवद्यं निरञ्जनं विज्ञानम् आनन्दं निर्विकारं निष्कलं निष्क्रियं शान्तं निर्गुणम् इत्य् आदिकाः निर्गुणं ज्ञान-स्व-रूपं ब्रह्म इति काश्चन श्रुतयो ऽभिदधति / न इह नान आस्ति किंचन --- मृत्योः स मृत्युम् आप्नोति य इह नान ईव पश्यति ---यत्र त्व् अस्य सर्वम् आत्म ऐव अभूत् --- तत् केन कं पश्येत् तत् केन कं विजातीयाद् इत्य्-आदिका नानात्व-निषेध-वादिन्यः सन्ति काश्चन श्रुतयः / यः सर्व-ज्ञः सर्व-वित् --- यस्य ज्ञान-मयं तपः ---सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्व आभिवदन् यद् आस्ते --- सर्वे निमेषा जज्ञिरे विद्युतः पुरुष-अदधि --- अपहत-पाप्मा विजरो विमृत्युर् विशोको विजघत्सो ऽपिपासः सत्य-कामः सत्य-संकल्प इति सर्वस्मिञ् जगति हेयतय आवगतं सर्व-गुणं प्रतिषिध्य निरतिशय-कल्याण-गुण-अनन्त्यं सर्व-ज्ञता सर्व-शक्ति-योगं सर्व-नाम-रूप-व्याकरणं सर्वस्य अवधारतां च काश्चन श्रुतयो ब्रुवते / सर्वं खल्व् इदं ब्रह्म तज्-जलान् इति --- ऐतदात्म्यम् इदं सर्वं --- एकः सन् बहुधा विचार इत्य्-आदिका ब्रह्म-सृष्टं जगन् नाना-आकारं प्रतिपाद्य तद्-ऐक्यं च प्रतिपादयन्ति काश्चन / पृथग्-आत्मानं प्रेरितारं च मत्वा --- भोक्ता भोग्यं प्रेरितारं च मत्वा --- प्रजापतिर् अकामयत प्रजाः सृजेय इति --- पतिं विश्वस्या अत्म-ईश्वरं --- श्वास्तं शिवम् अच्युतं --- तम् ईश्वराणां परं महा-ईश्वरं तं देवतानां परं च दैवतं --- सर्वस्य वशी सर्वस्या इशान इत्य्-आदिका ब्रह्मणः सर्वस्माद् अन्यत्वं सर्वस्या इशितव्यम् ईश्वरत्वं च ब्रह्मणः सर्वस्य शेषतां पतित्वं चा इश्वरस्य काश्चन / अन्तः प्रविष्टः शास्ता जनानां सर्व-आत्मा --- एष त आत्म-अन्तर्याम्य् अमृतः --- यस्य पृथिवी शरीरं --- यस्या अपः शरीरं --- यस्य तेजः शरीरम् इत्य्-आदि यस्य अव्यक्तं शरीरं --- यस्य अक्षरं शरीरं -- यस्य मृत्युः शरीरं ---यस्या अत्मा शरीरम् इति ब्रह्म-व्यतिरिक्तस्य सर्वस्य वस्तुनो ब्रह्मणश् च शरीर-आत्म-भावं दर्शयन्ति काश्चन इति /
84 SK नानारूपाणां वाक्यानाम् अविरोधो मुख्यार्थापरित्यागश् च यथा संभवति तथा वर्णनीयम् / वर्णितं च -- अविकारश्रुतयः स्वरूपपरिणामपरिहाराद् एव मुख्यार्थाः / निर्गुणवादाश् च प्राकृतहेयगुणनिषेधपरतया व्यवस्थिताः / नानात्वनिषेधवादाश् चैकस्य ब्रह्मणः शरीरतया प्रकारभूतं सर्वं चेतनाचेतनं वस्त्व् इति सर्वस्यात्मतया सर्वप्रकारं ब्रह्मैवावस्थितम् इति सुरक्षिताः / सर्वप्रकारविलक्षणत्वपतित्वेश्वरत्वसर्वकल्याणगुणगणाकारत्वसत्यकामत्वसत्यसंकल्पत्वादिवाक्यं तदभ्युपगमाद् एव सुरक्षितम् / ज्ञानानन्दमात्रवादि च सर्वस्माद् अन्यस्य सर्वकल्याणगुणगणाश्रयस्य सर्वेश्वरस्य सर्वशेषिणः सर्वाधारस्य सर्वोत्पत्तिस्थितिप्रलयहेतुभूतस्य निरवद्यस्य निर्विकारस्य सर्वात्मभूतस्य परस्य ब्रह्मणः स्वरूपनिरूपकधर्मो मलप्रत्यनीकानन्दरूपज्ञानम् एवेति स्वप्रकाशतया स्वरूपम् अपि ज्ञानम् एवेति च प्रतिपादनाद् अनुपालितम् / ऐक्यवादाश् च शरीरात्मभावेन सामानाधिकरण्यमुख्यार्थतोपपादनाद् एव सुस्थिताः /
168 SK नाना-रूपाणां वाक्यानाम् अविरोधो मुख्य-अर्थ-अपरित्यागश् च यथा संभवति तथा वर्णनीयम् / वर्णितं च --- अविकार-श्रुतयः स्व-रूप-परिणाम-परिहाराद् एव मुख्य-अर्थाः / निर्गुण-वादाश् च प्राकृत-हेय-गुण-निषेध-परतया व्यवस्थिताः / नानात्व-निषेध-वादाश् च एकस्य ब्रह्मणः शरीरतया प्रकार-भूतं सर्वं चेतन-अचेतनं वस्त्व् इति सर्वस्या अत्मतया सर्व-प्रकारं ब्रह्म एव अवस्थितम् इति सुरक्षिताः / सर्व-प्रकार-विलक्षणत्व-पतित्व-ईश्वरत्व-सर्व-कल्याण-गुण-गण-आकारत्व-सत्य-कामत्व-सत्य-संकल्पत्व-आदि-वाक्यं तद्-अभ्युपगमाद् एव सुरक्षितम् / ज्ञान-आनन्द-मात्र-वादि च सर्वस्माद् अन्यस्य सर्व-कल्याण-गुण-गण-आश्रयस्य सर्व-ईश्वरस्य सर्व-शेषिणः सर्व-आधारस्य सर्व-उत्पत्ति-स्थिति-प्रलय-हेतु-भूतस्य निरवद्यस्य निर्विकारस्य सर्व-आत्म-भूतस्य परस्य ब्रह्मणः स्व-रूप-निरूपक-धर्मो मल-प्रत्यनीक-आनन्द-रूप-ज्ञानम् एव इति स्व-प्रकाशतया स्व-रूपम् अपि ज्ञानम् एव इति च प्रतिपादनाद् अनुपालितम् / ऐक्य-वादाश् च शरीर-आत्म-भावेन सामानाधिकरण्य-मुख्य-अर्थता-उपपादनाद् एव सुस्थिताः /
85 SK एवं च सत्य् अभेदो वा भेदो वा द्व्यात्मकता वा वेदान्तवेद्यः को ऽयम् अर्थः समर्थितो भवति / सर्वस्य वेदवेद्यत्वात् सर्वं समर्थितम् / सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितम् इत्य् अभेदः समर्थितः / एकम् एव ब्रह्म नानाभूतचिदचिद्वस्तुप्रकारं नानात्वेनावस्थितम् इति भेदाभेदौ / अचिद्वस्तुनश् चिद्वस्तुनश् चेश्वरस्य च स्वरूपस्वभाववैलक्षण्याद् असंकराच् च भेदः समर्थितः /
170 SK एवं च सत्य् अभेदो वा भेदो वा द्व्य्-आत्मकता वा वेदान्त-वेद्यः को ऽयम् अर्थः समर्थितो भवति / सर्वस्य वेद-वेद्यत्वात् सर्वं समर्थितम् / सर्व-शरीरतया सर्व-प्रकारं ब्रह्म एव अवस्थितम् इत्य् अभेदः समर्थितः / एकम् एव ब्रह्म नाना-भूत-चिद्-अचिद्-वस्तु-प्रकारं नानात्वेन अवस्थितम् इति भेद-अभेदौ / अचिद्-वस्तुनश् चिद्-वस्तुनश् चा इश्वरस्य च स्व-रूप-स्व-भाव-वैलक्षण्याद् असंकराच् च भेदः समर्थितः /
86 SK ननु च तत् त्वम् असि श्वेतकेतो तस्य तावद् एव चिरम् इत्य् ऐक्यज्ञानम् एव परमपुरुषार्थलक्षणमोक्षसाधनम् इति गम्यते / नैतद् एवम् / पृथगात्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एतीत्य् आत्मानं प्रेरितारं चान्तर्यामिणं पृथग् मत्वा ततः पृथक्त्वज्ञानाद् धेतोस् तेन परमात्मना जुष्टो ऽमृतत्वम् एतीति साक्षादमृतत्वप्राप्तिसाधनम् आत्मनो नियन्तुश् च पृथग्भावज्ञानम् एवेत्य् अवगम्यते /
172 SK ननु च तत् त्वम् असि श्वेत-केतो तस्य तावद् एव चिरम् इत्य् ऐक्य-ज्ञानम् एव परम-पुरुष-अर्थ-लक्षण-मोक्ष-साधनम् इति गम्यते / न एतद् एवम् / पृथग्-आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेन अमृतत्वम् एति इत्य् आत्मानं प्रेरितारं च अन्तर्यामिणं पृथग् मत्वा ततः पृथक्त्व-ज्ञानाद् धेतोस् तेन परम-आत्मना जुष्टो ऽमृतत्वम् एति इति साक्षाद्-अमृतत्व-प्राप्ति-साधनम् आत्मनो नियन्तुश् च पृथग्-भाव-ज्ञानम् एव इत्य् अवगम्यते /
87 SK ऐक्यवाक्यविरोधाद् एतदपरमार्थसगुणब्रह्मप्राप्तिविषयम् इत्य् अभ्युपगन्तव्यम् इति चेत् / पृथक्त्वज्ञानस्यैव साक्षादमृतत्वप्राप्तिसाधनत्वश्रवणाद् विपरीतं कस्मान् न भवति / एतद् उक्तं भवति / द्वयोर् तुल्ययोर् विरोधे सत्य् अविरोधेन तयोर् विषयो विवेचनीय इति / कथम् अविरोध इति चेत् / अन्तर्यामिरूपेणावस्थितस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज् जीवात्मनस् तत्प्रकारं ब्रह्मैव त्वम् इति शब्देनाभिधीयते / तथैव ज्ञातव्यम् इति तस्य वाक्यस्य विषयः / एवंभूताज् जीवात् तदात्मतयावस्थितस्य परमात्मनो निखिलदोषरहिततया सत्यसंकल्पत्वाद् अनवधिकातिशयासंख्येयकल्याणगुणगणाकरत्वेन च यः पृथग्भावः सो ऽनुसंधेय इत्य् अस्य वाक्यस्य विषय इत्य् अयम् अर्थः पूर्वम् असकृदुक्तः / भोक्ता भोग्यं प्रेरितारं च मत्वेति भोग्यरूपस्य वस्तुनो ऽचेतनत्वं परमार्थत्वं सततं विकारास्पदत्वम् इत्यादयः स्वभावाः, भोक्तुर् जीवात्मनश् चामलापरिच्छिन्नज्ञानानन्दस्वभावस्यैवानादिकर्मरूपाविद्याकृतनानाविधज्ञानसंकोचविकासौ भोग्यभूताचिद्वस्तुसंसर्गश् च परमात्मोपासनान् मोक्षश् चेत्यादयः स्वभावाः, एवंभूतभोक्तृभोग्ययोर् अन्तर्यामिरूपेणावस्थानं स्वरूपेण चापरिमितगुणौघाश्रयत्वेनावस्थानम् इति परस्य ब्रह्मस् त्रिविधावस्थानं ज्ञातव्यम् इत्यर्थः //
174 SK ऐक्य-वाक्य-विरोधाद् एतद्-अपरम-अर्थ-सगुण-ब्रह्म-प्राप्ति-विषयम् इत्य् अभ्युपगन्तव्यम् इति चेत् / पृथक्त्व-ज्ञानस्य एव साक्षाद्-अमृतत्व-प्राप्ति-साधनत्व-श्रवणाद् विपरीतं कस्मान् न भवति / एतद् उक्तं भवति / द्वयोर् तुल्ययोर् विरोधे सत्य् अविरोधेन तयोर् विषयो विवेचनीय इति / कथम् अविरोध इति चेत् / अन्तर्यामि-रूपेण अवस्थितस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज् जीव-आत्मनस् तत्-प्रकारं ब्रह्म एव त्वम् इति शब्देन अभिधीयते / तथ ऐव ज्ञातव्यम् इति तस्य वाक्यस्य विषयः / एवं-भूताज् जीवात् तद्-आत्मतय आवस्थितस्य परम-आत्मनो निखिल-दोष-रहिततया सत्य-संकल्पत्वाद् अनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गण-आकरत्वेन च यः पृथग्-भावः सो ऽनुसंधेय इत्य् अस्य वाक्यस्य विषय इत्य् अयम् अर्थः पूर्वम् असकृद्-उक्तः / भोक्ता भोग्यं प्रेरितारं च मत्व ईति भोग्य-रूपस्य वस्तुनो ऽचेतनत्वं परम-अर्थत्वं सततं विकार-आस्पदत्वम् इत्य्-आदयः स्व-भावाः, भोक्तुर् जीव-आत्मनश् च अमल-अपरिच्छिन्न-ज्ञान-आनन्द-स्व-भावस्य एव अनादि-कर्म-रूप-अविद्या-कृत-नाना-विध-ज्ञान-संकोच-विकासौ भोग्य-भूत-अचिद्-वस्तु-संसर्गश् च परम्-आत्म-उपासनान् मोक्षश् च इत्य्-आदयः स्व-भावाः, एवं-भूत-भोक्तृ-भोग्ययोर् अन्तर्यामि-रूपेण अवस्थानं स्व-रूपेण च अपरिमित-गुण-ओघ-आश्रयत्वेन अवस्थानम् इति परस्य ब्रह्मस् त्रि-विध-अवस्थानं ज्ञातव्यम् इत्य्-अर्थः //
88 SK तत् त्वम् असीति सद्विद्यायाम् उपास्यं ब्रह्म सगुणं सगुणब्रह्मप्राप्तिश् च फलम् इत्य् अभियुक्तैः पूर्वाचार्यैर् व्याख्यातम् / यथोक्तं वाक्यकारेण -- युक्तं तद्गुणकोपासनाद् इति / व्याख्यातं च द्रमिडाचार्येण विद्याविकल्पं वदता -- यद्य् अपि सच्चितो न निर्भुग्नदैवतं गुणगणं मनसानुधावेत् तथाप्य् अन्तर्गुणाम् एव देवतां भजत इति तत्रापि सगुणैव देवता प्राप्यत इति / सच्चित्तः सद्विद्यानिष्ठः / न निर्भुग्नदैवतं गुणगणं मनसानुधावेत् --अपहतपाप्मत्वादिकल्याणगुणगणं दैवताद् विभक्तं यद्य् अपि दहरविद्यानिष्ठ इव सच्चितो न स्मरेत् / तथाप्य् अन्तर्गुणाम् एव देवतां भजते -- देवतास्वरूपानुबन्धित्वात् सकलकल्याणगुणगणस्य केनचिद् परदेवतासाधारणेन निखिलजगत्कारणत्वादिना गुणेनोपास्यमानापि देवता वस्तुतः स्वरूपानुबन्धि सर्वकल्याणगुणगणविशिष्टैवोपास्यते / अतः सगुणम् एव ब्रह्म तत्रापि प्राप्यम् इति सद्विद्यादहरविद्ययोर् विकल्प इत्यर्थः /
176 SK तत् त्वम् असि इति सद्-विद्यायाम् उपास्यं ब्रह्म स-गुणं स-गुण-ब्रह्म-प्राप्तिश् च फलम् इत्य् अभियुक्तैः पूर्व-आचार्यैर् व्याख्यातम् / यथ ऊक्तं वाक्य-कारेण --- युक्तं तद्-गुणक-उपासनाद् इति / व्याख्यातं च द्रमिड-आचार्येण विद्या-विकल्पं वदता --- यद्य् अपि सच्-चितो न निर्भुग्न-दैवतं गुण-गणं मनसा-अनुधावेत् तथ आप्य् अन्तर्गुणाम् एव देवतां भजत इति तत्र अपि सगुण ऐव देवता प्राप्यत इति / सच्-चित्तः सद्-विद्या-निष्ठः / न निर्भुग्न-दैवतं गुण-गणं मनस आनुधावेत् ---अपहत-पाप्मत्व-आदि-कल्याण-गुण-गणं दैवताद् विभक्तं यद्य् अपि दहर-विद्या-निष्ठ इव सच्-चितो न स्मरेत् / तथ आप्य् अन्तर्गुणाम् एव देवतां भजते --- देवता-स्व-रूप-अनुबन्धित्वात् सकल-कल्याण-गुण-गणस्य केनचिद् पर-देवता-साधारणेन निखिल-जगत्-कारणत्व-आदिना गुणेन उपास्यमान आपि देवता वस्तुतः स्व-रूप-अनुबन्धि सर्व-कल्याण-गुण-गण-विशिष्ट ऐव उपास्यते / अतः सगुणम् एव ब्रह्म तत्र अपि प्राप्यम् इति सद्-विद्या-दहर-विद्ययोर् विकल्प इत्य्-अर्थः /
89 SK ननु च सर्वस्य जन्तोः परमात्मान्तर्यामी तन्नियाम्यं च सर्वम् एवेत्य् उक्तम् / एवं च सति विधिनिषेधशास्त्राणाम् अधिकारी न दृश्यते / यः स्वबुद्ध्यैव प्रवृत्तिनिवृत्तिशक्तः स एवं कुर्यान् न कुर्याद् इति विधिनिषेधयोग्यः / न चैष दृश्यते / सर्वस्मिन् प्रवृत्तिजाते सर्वस्य प्रेरकः परमात्मा कारयितेति तस्य सर्वनियमनं प्रतिपादितम् / तथा च श्रूयते -- एष एव साधु कर्म कारयति ते यम् एभ्यो लोकेभ्य उन्निनीषति / एष एवासाधु कर्म कारयति तं यम् अधो निनीषतीति / साध्वसाधुकर्मकारयितृत्वान् नैर्घृण्यं च /
178 SK ननु च सर्वस्य जन्तोः परम-आत्म-अन्तर्यामी तन्-नियाम्यं च सर्वम् एव इत्य् उक्तम् / एवं च सति विधि-निषेध-शास्त्राणाम् अधिकारी न दृश्यते / यः स्व-बुद्ध्य ऐव प्रवृत्ति-निवृत्ति-शक्तः स एवं कुर्यान् न कुर्याद् इति विधि-निषेध-योग्यः / न च एष दृश्यते / सर्वस्मिन् प्रवृत्ति-जाते सर्वस्य प्रेरकः परम-आत्मा कारयित ईति तस्य सर्व-नियमनं प्रतिपादितम् / तथा च श्रूयते --- एष एव साधु कर्म कारयति ते यम् एभ्यो लोकेभ्य उन्निनीषति / एष एव असाधु कर्म कारयति तं यम् अधो निनीषति इति / साध्व्-असाधु-कर्म-कारयितृत्वान् नैर्घृण्यं च /
90 SK अत्रोच्यते -- सर्वेषाम् एव चेतनानां चिच्छक्तियोगः प्रवृत्तिशक्तियोग इत्यादि सर्वं प्रवृत्तिनिवृत्तिपरिकरं सामान्येन संविधाय तन्निर्वहणाय तदाधारो भूत्वान्तः प्रविश्यानुमन्तृतया च नियमनं कुर्वञ् शेषित्वेनावस्थितः परमात्मैतदाहितशक्तिः सन्प्रवृत्तिनिवृत्त्यादि स्वयम् एव कुरुते / एवं कुर्वाणम् ईक्षमाणः परमात्मोदासीन आस्ते / अतः सर्वम् उपपन्नम् / साध्वसाधुकर्मणोः कारयितृत्वं तु व्यवस्थितविषयं न सर्वसाधारणम् / यस् तु सर्वं स्वयम् एवातिमात्रम् आनुकूल्ये प्रवृत्तस् तं प्रति प्रीतः स्वयम् एव भगवान् कल्याणबुद्धियोगदानं कुर्वन् कल्याणे प्रवर्तयति / यः पुनर् अतिमात्रं प्रातिकूल्ये प्रवृत्तस् तस्य क्रूरां बुद्धिं ददन् स्वयम् एव क्रूरेष्व् एव कर्मसु प्रेरयति भगवान् / यथोक्तं भगवता -- तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् / ददामि बुद्धियोगं तं येन माम् उपयान्ति ते // तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः / नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता // तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् / क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु // इति /
180 SK अत्र उच्यते --- सर्वेषाम् एव चेतनानां चिच्-छक्ति-योगः प्रवृत्ति-शक्ति-योग इत्य्-आदि सर्वं प्रवृत्ति-निवृत्ति-परिकरं सामान्येन संविधाय तन्-निर्वहणाय तद्-आधारो भूत्व आन्तः प्रविश्य अनुमन्तृतया च नियमनं कुर्वञ् शेषित्वेन अवस्थितः परम-आत्म-एतद्-आहित-शक्तिः सन्-प्रवृत्ति-निवृत्त्य्-आदि स्वयम् एव कुरुते / एवं कुर्वाणम् ईक्षमाणः परम-आत्म-उदासीन आस्ते / अतः सर्वम् उपपन्नम् / साध्व्-असाधु-कर्मणोः कारयितृत्वं तु व्यवस्थित-विषयं न सर्व-साधारणम् / यस् तु सर्वं स्वयम् एव अतिमात्रम् आनुकूल्ये प्रवृत्तस् तं प्रति प्रीतः स्वयम् एव भगवान् कल्याण-बुद्धि-योग-दानं कुर्वन् कल्याणे प्रवर्तयति / यः पुनर् अतिमात्रं प्रातिकूल्ये प्रवृत्तस् तस्य क्रूरां बुद्धिं ददन् स्वयम् एव क्रूरेष्व् एव कर्मसु प्रेरयति भगवान् / यथ ऊक्तं भगवता --- तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् / ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते // तेषाम् एव अनुकम्पा-अर्थम् अहम् अज्ञान-जं तमः / नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता // तान् अहं द्विषतः क्रूरान् संसारेषु नर-अधमान् / क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु // इति /
91 SK सो ऽयं परब्रह्मभूतः पुरुषोत्तमो निरतिशयपुण्यसंचयक्षीणाशेषजन्मोपचितपापराशेः परमपुरुषचरणारविन्दशरणागतिजनिततदभिमुख्यस्य सदाचार्योपदेशोपबृंहितशास्त्राधिगततत्त्वयाथात्म्यावबोधपूर्वकाहरहरुपचीयमानशमदमतपःशौचक्षमार्जवभयाभयस्थानविवेकदयाहिंसाद्यात्मगुणोपेतस्य वर्णाश्रमोचितपरमपुरुषाराधनवेषनित्यनैमित्तिककर्मोपसंहृतिनिषिद्धपरिहारनिष्टस्य परमपुरुषचरणारविन्दयुगलन्यस्तात्मात्मीयस्य तद्भक्तिकारितानवरतस्तुतिस्मृतिनमस्कृतिवन्दनयतनकीर्तनगुणश्रवणवचनध्यानार्चनप्रणामादिप्रीतपरमकारुणिकपुरुषोत्तमप्रसादविध्वस्तस्वान्तध्वान्तस्यानन्यप्रयोजनानवरतनिरतिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपभक्त्येकलभ्यः / तद् उक्तं परमगुरुभिर् भगवद्यामुनाचार्यपादैः -- उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्य इति / ज्ञानयोगकर्मयोगसंस्कृतान्तःकरणस्येत्यर्थः / तथा च श्रुतिः / विद्यां चाविद्यां च यस् तद् वेदोभ्यं सह / अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते // इति/ अत्राविद्याशब्देन विद्येतरत्वाद् वर्णाश्रमाचारादि पूर्वोक्तं कर्मोच्यते विद्याशब्देन च भक्तिरूपापन्नं ध्यानम् उच्यते / यथोक्तम् -- इजाय सो ऽपि सुबहून्य् अज्ञाञ् ज्ञानव्यपाश्रयः / ब्रह्मविद्याम् अधिष्ठाय तर्तुं मृत्युम् अविद्यया // इति / तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते / य एनं विदुर् अमृतास् ते भवन्ति / ब्रह्मविद् आप्नोति परम् / सो यो ह वै तत् परं वेद ब्रह्म वेद ब्रह्मैव भवतीत्यादि / वेदनशब्देन ध्यानम् एवाभिहितम् / निदिध्यासितव्य इत्यादिनाइकार्थ्यात् / तद् एव ध्यानं पुनर् अपि विशिनष्टि -- नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन / यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् इति / भक्तिरूपापन्नानुध्यानेनैव लभ्यते न केवल,, वेदनामात्रेण न मेधयेति केवलस्य निषिद्धत्वात् /
182 SK सो ऽयं पर-ब्रह्म-भूतः पुरुष-उत्तमो निरतिशय-पुण्य-संचय-क्षीण-अशेष-जन्म-उपचित-पाप-राशेः परम-पुरुष-चरण-आरविन्द-शरणा-गति-जनित-तद्-अभिमुख्यस्य सद्-आचार्य-उपदेश-उपबृंहित-शास्त्र-अधिगत-तत्त्व-याथात्म्य-अवबोध-पूर्वक-अहरहर्-उपचीयमान-शम-दम-तपः-शौच-क्षम-अर्जव-भय-अभय-स्थान-विवेक-दया-हिंसा-आद्य्-आत्म-गुण-उपेतस्य वर्ण-आश्रम-उचित-परम-पुरुष-आराधन-वेष-नित्य-नैमित्तिक-कर्म-उपसंहृति-निषिद्ध-परिहार-निष्टस्य परम-पुरुष-चरण-आरविन्द-युगल-न्यस्त-आत्म-आत्मीयस्य तद्-भक्ति-कारित-अनवरत-स्तुति-स्मृति-नमस्कृति-वन्दन-यतन-कीर्तन-गुण-श्रवण-वचन-ध्यान-अर्चन-प्रणाम-आदि-प्रीत-परम-कारुणिक-पुरुष-उत्तम-प्रसाद-विध्वस्त-स्व-अन्त-ध्वान्तस्य अनन्य-प्रयोजन-अनवरत-निरतिशय-प्रिय-विशदतम-प्रत्यक्षता-आपन्न-अनुध्यान-रूप-भक्त्य्-एक-लभ्यः / तद् उक्तं परम-गुरुभिर् भगवद्-यामुन-आचार्य-पादैः --- उभय-परिकर्मित-स्व-अन्तस्य एकान्तिक-आत्यन्तिक-भक्ति-योग-लभ्य इति / ज्ञान-योग-कर्म-योग-संस्कृत-अन्तःकरणस्य इत्य्-अर्थः / तथा च श्रुतिः / विद्यां च अविद्यां च यस् तद् वेद उभ्यं सह / अविद्यया मृत्युं तीर्त्वा विद्यय आमृतम् अश्नुते // इति/ अत्र अविद्या-शब्देन विद्या-इतरत्वाद् वर्ण-आश्रम-आचार-आदि पूर्व-उक्तं कर्म उच्यते विद्या-शब्देन च भक्ति-रूप-आपन्नं ध्यानम् उच्यते / यथ ऊक्तम् --- इजाय सो ऽपि सुबहून्य् अज्ञाञ् ज्ञान-व्यपाश्रयः / ब्रह्म-विद्याम् अधिष्ठाय तर्तुं मृत्युम् अविद्यया // इति / तम् एवं विद्वान् अमृत इह भवति न अन्यः पन्था अयनाय विद्यते / य एनं विदुर् अमृतास् ते भवन्ति / ब्रह्म-विद् आप्नोति परम् / सो यो ह वै तत् परं वेद ब्रह्म वेद ब्रह्म एव भवति इत्य्-आदि / वेदन-शब्देन ध्यानम् एव अभिहितम् / निदिध्यासितव्य इत्य्-आदिन आइकार्थ्यात् / तद् एव ध्यानं पुनर् अपि विशिनष्टि --- न अयम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन / यम् एव एष वृणुते तेन लभ्यस् तस्य एष आत्मा विवृणुते तनूं स्वाम् इति / भक्ति-रूप-आपन्न-अनुध्यानेन एव लभ्यते न केवल,, वेदना-मात्रेण न मेधय ईति केवलस्य निषिद्धत्वात् /
92 SK एतद् उक्तं भवति -- यो ऽयं मुमुक्षुर् वेदान्तविहितवेदनरूपध्यानादिनिष्ठो यदा तस्य तस्मिन्न् एवानुध्याने निरवधिकातिशया प्रीतिर् जायते तदैव तेन लभ्यते परः पुरुष इति / यथोक्तं भगवता -- पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया / भक्त्या त्व् अनन्यया शक्यो ऽहम् एवंविधो ऽर्जुन / ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टं च परंतप // भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः / ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् // इति / तदनन्तरं तत एव भक्तितो विशत इत्यर्थः / भक्तिर् अपि निरतिशयप्रियानन्यप्रयोजनसकलेतरवैतृण्यावहज्ञानविशेष एवेति / तद् युक्त एव तेन परेणात्मना वरणीयो भवतीति तेन लभ्यत इति श्रुत्यर्थः / एवंविधपरभक्तिरूपज्ञानविशेषस्योत्पादकः पूर्वोक्ताहरहरुपचीयमानज्ञानपूर्वककर्मानुगृहीतभक्तियोग एव / यथोक्तं भगवता पराशरेण -- वर्णाश्रमाचारवता पुरुषेण परः पुमान् / विष्णुर् आराध्यते पन्था नान्यस् तत्तोषकारकः // इति / निखिलजगदुद्धारणायावनितले ऽवतीर्णः परब्रह्मभूतः पुरुषोत्तमः स्वयम् एवैतदुक्तवान् -- स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु // यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् / स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः // इति / यथोदितक्रमपरिणतभक्त्येकलभ्य एव / RVअस्_९३ बोधायनटङ्कद्रमिडगुहदेवकपर्दिभारुचिप्रभृत्यविगीतशिष्टपरिगृहीतपुरातनवेदवेदान्तव्याख्यानसुव्यक्तार्थश्रुतिनिकरनिदर्शितो ऽयं पन्थाः / अनेन चार्वाकशाक्याउलूक्याक्षपादक्षपणककपिलपतञ्जलिमतानुसारिणो वेदबाह्या वेदावलम्बिकुदृष्टिभिः सह निरस्ताः / वेदावलम्बिनाम् अपि यथावस्थितवस्तुविपर्ययस् ताडृशां बाह्यसाम्यं मनुनैवोक्तम् -- यो वेदबाह्याः स्मृतयो याश् च काश् च कुदृष्टयः / सर्वस् ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः // इति / रजस्तमोभ्याम् अस्पृष्टम् उत्तमं सत्त्वम् एव येषां स्वाभाविको गुणस् तेषाम् एव वैदिकी रुचिर् वेदार्थयाथात्म्यावबोधश् चेत्यर्थः /
184 SK एतद् उक्तं भवति --- यो ऽयं मुमुक्षुर् वेदान्त-विहित-वेदन-रूप-ध्यान-आदि-निष्ठो यदा तस्य तस्मिन्न् एव अनुध्याने निरवधिक-अतिशया प्रीतिर् जायते तद ऐव तेन लभ्यते परः पुरुष इति / यथ ऊक्तं भगवता --- पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया / भक्त्या त्व् अनन्यया शक्यो ऽहम् एवं-विधो ऽर्जुन / ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टं च परंतप // भक्त्या माम् अभिजानाति यावान् यश् च अस्मि तत्त्वतः / ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् // इति / तद्-अनन्तरं तत एव भक्तितो विशत इत्य्-अर्थः / भक्तिर् अपि निरतिशय-प्रिय-अनन्य-प्रयोजन-सकल-इतर-वैतृण्य-आवह-ज्ञान-विशेष एव इति / तद् युक्त एव तेन परेणा अत्मना वरणीयो भवति इति तेन लभ्यत इति श्रुत्य्-अर्थः / एवं-विध-पर-भक्ति-रूप-ज्ञान-विशेषस्य उत्पादकः पूर्व-उक्त-अहरहर्-उपचीयमान-ज्ञान-पूर्वक-कर्म-अनुगृहीत-भक्ति-योग एव / यथा-उक्तं भगवता पराशरेण --- वर्ण-आश्रम-आचारवता पुरुषेण परः पुमान् / विष्णुर् आराध्यते पन्था न अन्यस् तत्-तोष-कारकः // इति / निखिल-जगद्-उद्धारणाय अवनि-तले ऽवतीर्णः पर-ब्रह्म-भूतः पुरुष-उत्तमः स्वयम् एव एतद्-उक्तवान् --- स्व-कर्म-निरतः सिद्धिं यथा विन्दति तच्-छृणु // यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् / स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः // इति / यथा-उदित-क्रम-परिणत-भक्त्य्-एक-लभ्य एव / RVअस्_९३ बोधायन-टङ्क-द्रमिड-गुहदेव-कपर्दि-भारुचि-प्रभृत्य्-अविगीत-शिष्ट-परिगृहीत-पुरातन-वेद-वेदान्त-व्याख्यान-सुव्यक्त-अर्थ-श्रुति-निकर-निदर्शितो ऽयं पन्थाः / अनेन चार्वाक-शाक्य-औलूक्य-अक्षपाद-क्षपणक-कपिल-पतञ्जलि-मत-अनुसारिणो वेद-बाह्या वेद-अवलम्बि-कुदृष्टिभिः सह निरस्ताः / वेद-अवलम्बिनाम् अपि यथा-अवस्थित-वस्तु-विपर्ययस् ताडृशां बाह्य-साम्यं मनुन ऐव उक्तम् --- यो वेद-बाह्याः स्मृतयो याश् च काश् च कुदृष्टयः / सर्वस् ता निष्फलाः प्रेत्य तमो-निष्ठा हि ताः स्मृताः // इति / रजस्-तमोभ्याम् अस्पृष्टम् उत्तमं सत्त्वम् एव येषां स्वाभाविको गुणस् तेषाम् एव वैदिकी रुचिर् वेद-अर्थ-याथात्म्य-अवबोधश् च इत्य्-अर्थः /
94 SK यथोक्तं मात्स्ये -- संकीर्णाः सात्त्विकाश् चैव राजसास् तामसास् तथा / इति / केचिद् ब्रह्मकल्पाः संकीर्णाः केचित् सत्त्वप्रायाः केचिद् रजःप्राया केचित् तमःप्राया इति कल्पविभागम् उक्त्वा सत्त्वरजस्तमोमयानां तत्त्वानां माहात्म्यवर्णनं च तत्तत्कल्पप्रोक्तपुराणेषु सत्त्वादिगुणमयेन ब्रह्मणा क्रियत इति चोक्तम् -- यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा / तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते // इति / विशेषतश् चोक्तम् -- अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते / राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः // सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः / तेष्व् एव योगसंसिद्धा गमिष्यन्ति परां गतिम् // संकीर्णेषु सरस्वत्याः ....................... // इत्यादि / एतदुक्तं भवति -- आदिक्षेत्रज्ञत्वाद् ब्रह्मणस् तस्यापि केषुचिद् अहस्सु सत्त्वमुद्रिकं केषुचिद् रजः केषुचित् तमः / यथोक्तं भगवता -- न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः / सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः // इति / यो ब्रह्मणं विदधति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मा इति श्रुतेः / ब्रह्मणो ऽपि सृज्यत्वेन शास्त्रवश्यत्वेन च क्षेत्रज्ञत्वं गम्यते / सत्त्वप्रायेष्व् अहस्सु तदितरेषु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्परविरोधे सति सात्त्विकाहःप्रोक्तम् एव पुराणं यथार्थं तद्विरोध्यन्यद् अयथार्थम् इति पुराणनिर्णयायैवेदं सत्त्वनिष्ठेन ब्रह्मणाभिहितम् इति विज्ञायत इति / सत्त्वादीनां कार्यं च भगवतैवोक्तम् -- सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च / प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च // प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये / बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी // यथा धर्मम् अधर्मं च कार्यं चाकार्यम् एव च / अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी // अधर्मं धर्मम् इति या मन्यते तमसावृता / सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी // इति / सर्वान् पुराणार्थान् ब्रह्मणः सकाशाद् अधिगम्यैव सर्वाणि पुराणानि पुराणकाराश् चक्रुः / यथोक्तम् -- कथयामि यथा पूर्वं दक्षाद्यैर् मुनिसत्तमैः / पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः // इति /
186 SK यथा-उक्तं मात्स्ये --- संकीर्णाः सात्त्विकाश् च एव राजसास् तामसास् तथा / इति / केचिद् ब्रह्म-कल्पाः संकीर्णाः केचित् सत्त्व-प्रायाः केचिद् रजः-प्राया केचित् तमः-प्राया इति कल्प-विभागम् उक्त्वा सत्त्व-रजस्-तमो-मयानां तत्त्वानां माहात्म्य-वर्णनं च तत्-तत्-कल्प-प्रोक्त-पुराणेषु सत्त्व-आदि-गुण-मयेन ब्रह्मणा क्रियत इति च उक्तम् --- यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा / तस्य तस्य तु माहात्म्यं तत्-स्व-रूपेण वर्ण्यते // इति / विशेषतश् च उक्तम् --- अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते / राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः // सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः / तेष्व् एव योग-संसिद्धा गमिष्यन्ति परां गतिम् // संकीर्णेषु सरस्वत्याः ....................... // इत्य्-आदि / एतद्-उक्तं भवति --- आदि-क्षेत्र-ज्ञत्वाद् ब्रह्मणस् तस्य अपि केषुचिद् अहस्सु सत्त्व-मुद्रिकं केषुचिद् रजः केषुचित् तमः / यथा-उक्तं भगवता --- न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः / सत्त्वं प्रकृति-जैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः // इति / यो ब्रह्मणं विदधति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मा इति श्रुतेः / ब्रह्मणो ऽपि सृज्यत्वेन शास्त्र-वश्यत्वेन च क्षेत्र-ज्ञत्वं गम्यते / सत्त्व-प्रायेष्व् अहस्सु तद्-इतरेषु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्पर-विरोधे सति सात्त्विक-अहः-प्रोक्तम् एव पुराणं यथा-अर्थं तद्-विरोध्य्-अन्यद् अयथा-अर्थम् इति पुराण-निर्णयाय एव इदं सत्त्व-निष्ठेन ब्रह्मण आभिहितम् इति विज्ञायत इति / सत्त्व-आदीनां कार्यं च भगवत ऐव उक्तम् --- सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च / प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च // प्रवृत्तिं च निवृत्तिं च कार्य-अकार्ये भय-अभये / बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी // यथा धर्मम् अधर्मं च कार्यं च अकार्यम् एव च / अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी // अधर्मं धर्मम् इति या मन्यते तमसा-आवृता / सर्व-अर्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी // इति / सर्वान् पुराण-अर्थान् ब्रह्मणः सकाशाद् अधिगम्य ऐव सर्वाणि पुराणानि पुराण-काराश् चक्रुः / यथा-उक्तम् --- कथयामि यथा पूर्वं दक्षा-आद्यैर् मुनि-सत्तमैः / पृष्टः प्रोवाच भगवान् अब्-ज-योनिः पितामहः // इति /
95 SK अपौरुषेयेषु वेदवाक्येषु परस्परविरुद्धेषु कथम् इति चेत् / तात्पर्यनिश्चयाद् अविरोधः पूर्वम् एवोक्तः / यद् अपि चेद् एवं विरुद्धवद् दृश्यते -- प्राणं मनसि सह कारणैर् नादान्ते परमात्मनि संप्रतिष्ठाय ध्यायीतव्यं प्रध्यायीतव्यं सर्वम् इदं, ब्रह्मविष्णुरुद्रास् ते सर्वे संप्रसूयन्ते, न कारणं, कारणं तु ध्यायः, सर्वाइश्वर्यसंपन्नः सर्वेश्वरः शंभुर् आकाशमध्ये ध्येयः -- यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित् -- वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् -- ततो यदुत्तरतरं तदरूपम् अनामयं य एतद्विदुर् अमृतास् ते भवन्ति, अथेतरे दुःखम् एवापियन्ति -- सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः / सर्वव्यापी च भगवांस् तस्मात् सर्वगतः शिवः // यदा तमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः / तदक्षरं तत्सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी // इत्यादि नारायणः परं ब्रह्मेति च पूर्वम् एव प्रतिपादितं, तेनास्य कथम् अविरोधः /
188 SK अपौरुषेयेषु वेद-वाक्येषु परस्पर-विरुद्धेषु कथम् इति चेत् / तात्पर्य-निश्चयाद् अविरोधः पूर्वम् एव उक्तः / यद् अपि चेद् एवं विरुद्धवद् दृश्यते --- प्राणं मनसि सह कारणैर् नाद-अन्ते परम-आत्मनि संप्रतिष्ठाय ध्यायीतव्यं प्रध्यायीतव्यं सर्वम् इदं, ब्रह्म-विष्णु-रुद्रास् ते सर्वे संप्रसूयन्ते, न कारणं, कारणं तु ध्यायः, सर्व-ऐश्वर्य-संपन्नः सर्व-ईश्वरः शंभुर् आकाश-मध्ये ध्येयः --- यस्मात् परं न अपरम् अस्ति किंचिद् यस्मान् ना अणीयो न ज्यायो ऽस्ति कश्चित् --- वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेन इदं पूर्णं पुरुषेण सर्वम् --- ततो यद्-उत्तरतरं तद्-अरूपम् अनामयं य एतद्-विदुर् अमृतास् ते भवन्ति, अथ इतरे दुःखम् एवा अपियन्ति --- सर्व-अनन-शिरो-ग्रीवः सर्व-भूत-गुह-आशयः / सर्व-व्यापी च भगवांस् तस्मात् सर्व-गतः शिवः // यदा तमस् तन् न दिवा न रात्रिर् न सन् न च असच् छिव एव केवलः / तद्-अक्षरं तत्-सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी // इत्य्-आदि नारायणः परं ब्रह्म इति च पूर्वम् एव प्रतिपादितं, तेन अस्य कथम् अविरोधः /
96 SK अत्यल्पम् एतत् - वेदवित्प्रवरप्रोक्तवाक्यन्यायोपबृंहिताः / वेदाः साङ्गा हरिं प्राहुर् जगज्जन्मादिकारणं // जन्माद्यस्य यतः -- यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञानस्व तद् ब्रह्मेति जगज्जन्मादिकारणं ब्रह्मेत्य् अवगम्यते / तच् च जगत्सृष्टिप्रलयप्रकरणेष्व् अवगन्तव्यम् / सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति जगदुपादानताजगन्निमित्तताजगदन्तर्यामितादिमुखेन परमकारणं सच्छब्देन प्रैत्पादितं ब्रह्मेत्य् अवगतम् / अयम् एवार्थः -- ब्रह्म वा इदम् एकम् एवाग्र आसीद् इति शाखान्तरे ब्रह्मशब्देन प्रतिपदितः / अनेन सच्छब्देनाभिहितं ब्रह्मेत्य् अवगतम् / अयम् एवार्थस् तथा शाखान्तर आत्मा वा इदम् एक एवाग्र आसीन् नान्यत् किंचन मिषद् इति सद्ब्रह्मशब्दाभ्याम् आत्मैवाभिहित इत्य् अवगम्यते / तथा च शाखान्तर एको ह वै नारायण आसीन् न ब्रह्म नेशानो नेमे द्यावपृथिवी न नक्षत्राणीति सद्ब्रह्मात्मादिपरमकारणवादिभिः शब्दैर् नारायण एवाभिधीयत इति निश्चीयते /
190 SK अत्यल्पम् एतत् -- वेद-वित्-प्रवर-प्रोक्त-वाक्य-न्याय-उपबृंहिताः / वेदाः स-अङ्गा हरिं प्राहुर् जगज्-जन्म-आदि-कारणं // जन्म-आद्य्-अस्य यतः --- यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञानस्व तद् ब्रह्म इति जगज्-जन्म-आदि-कारणं ब्रह्म इत्य् अवगम्यते / तच् च जगत्-सृष्टि-प्रलय-प्रकरणेष्व् अवगन्तव्यम् / सद् एव सोम्य इदम् अग्र आसीद् एकम् एव अद्वितीयम् इति जगद्-उपादानता-जगन्-निमित्तता-जगद्-अन्तर्यामिता-अदि-मुखेन परम-कारणं सच्-छब्देन प्रैत्पादितं ब्रह्म इत्य् अवगतम् / अयम् एव अर्थः --- ब्रह्म वा इदम् एकम् एव अग्र आसीद् इति शाखा-अन्तरे ब्रह्म-शब्देन प्रतिपदितः / अनेन सच्-छब्देन अभिहितं ब्रह्म इत्य् अवगतम् / अयम् एव अर्थस् तथा शाखा-अन्तर आत्मा वा इदम् एक एव अग्र आसीन् न अन्यत् किंचन मिषद् इति सद्-ब्रह्म-शब्दाभ्याम् आत्म एव अभिहित इत्य् अवगम्यते / तथा च शाखा-अन्तर एको ह वै नारायण आसीन् न ब्रह्म ना इशानो न इमे द्याव-पृथिवी न नक्षत्राणि इति सद्-ब्रह्म-आत्म-आदि-परम-कारण-वादिभिः शब्दैर् नारायण एव अभिधीयत इति निश्चीयते /
97 SK यम् अन्तः समुद्रे कवयो वयन्तीत्यादि -- नैनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् / न तस्येशे कश्चन तस्य नाम महद्यशः // न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम्, हृदा मनीषा मनसाभिकॢप्तो य एवं विदुर् अमृतास् ते भवन्तीति सर्वस्मात् परत्वम् अस्य प्रतिपाद्य, न तस्येशे कश्चनेति तस्मात् परं किम् अपि न विद्यत इति च प्रतिषिध्य, अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टाव् इति तेनैकवाक्यतां गमयति / तच् च महापुरुषप्रकरणं ह्रीश् च ते लक्ष्मीश् च पत्न्याव् इति च नारायण एवेति द्योतयति /
192 SK यम् अन्तः समुद्रे कवयो वयन्ति इत्य्-आदि --- न एनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् / न तस्या इशे कश्चन तस्य नाम महद्-यशः // न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चन एनम्, हृदा मनीषा मनस आभिकॢप्तो य एवं विदुर् अमृतास् ते भवन्ति इति सर्वस्मात् परत्वम् अस्य प्रतिपाद्य, न तस्या इशे कश्चन इति तस्मात् परं किम् अपि न विद्यत इति च प्रतिषिध्य, अद्भ्यः सम्भूतो हिरण्य-गर्भ इत्य्-अष्टाव् इति तेन एक-वाक्यतां गमयति / तच् च महा-पुरुष-प्रकरणं ह्रीश् च ते लक्ष्मीश् च पत्न्याव् इति च नारायण एव इति द्योतयति /
98 SK अयम् अर्थो नारायणानुवाके प्रपञ्चितः / सहस्रशीर्षं देवम् इत्यारभ्य स ब्रह्म स शिवः सेन्द्रः सो ऽक्षरः परमः स्वराड् इति / सर्वशाखासु परतत्त्वप्रतिपादनपरान् अक्षरशिवशंभुपरब्रह्मपरज्योतिःपरतत्त्वपरायणपरमात्मादिसर्वशब्दांस् तत्तद्गुणयोगेन नारायण एव प्रयुज्य तद्व्यतिरिक्तस्य समस्तस्य तदाधारतां तन्नियाम्यतां तच्छेषताम् तदात्मकतां च प्रतिपाद्य ब्रह्मशिवयोर् अपीन्द्रादिसमानाकारतया तद्विभूतित्वं च प्रतिपादितम् / इदं च वाक्यं केवलपरतत्त्वप्रतिपादनैकपरम् अन्यत् किंचिद् अप्य् अत्र न विधीयते /
194 SK अयम् अर्थो नारायण-अनुवाके प्रपञ्चितः / सहस्र-शीर्षं देवम् इत्य्-आरभ्य स ब्रह्म स शिवः स इन्द्रः सो ऽक्षरः परमः स्व-राड् इति / सर्व-शाखासु पर-तत्त्व-प्रतिपादन-परान् अक्षर-शिव-शंभु-पर-ब्रह्म-पर-ज्योतिः-पर-तत्त्व-पर-आयण-परम-आत्म-आदि-सर्व-शब्दांस् तत्-तद्-गुण-योगेन नारायण एव प्रयुज्य तद्-व्यतिरिक्तस्य समस्तस्य तद्-आधारतां तन्-नियाम्यतां तच्-छेषताम् तद्-आत्मकतां च प्रतिपाद्य ब्रह्म-शिवयोर् अपि इन्द्र-आदि-समान-आकारतया तद्-विभूतित्वं च प्रतिपादितम् / इदं च वाक्यं केवल-पर-तत्त्व-प्रतिपादन-एक-परम् अन्यत् किंचिद् अप्य् अत्र न विधीयते /
99 SK अस्मिन् वाक्ये प्रतिपादितस्य सर्वस्मात् परत्वेनावस्थितस्य ब्रह्मणो वाक्यान्तरेषु ब्रह्मविद् आप्नोति परम् इत्यादिषूपासनादि विधीयते / अतः प्राणं मनसि सह करणैर् इत्यादि वाक्यं सर्वकारणे परमात्मनि करणप्राणादि सर्वं विकारजातम् उपसंहृत्य तम् एव परमात्मानं सर्वस्येशानं ध्यायीतेति परब्रह्मभूतनारायणस्यैव ध्यानं विदधाति /
196 SK अस्मिन् वाक्ये प्रतिपादितस्य सर्वस्मात् परत्वेन अवस्थितस्य ब्रह्मणो वाक्य-अन्तरेषु ब्रह्म-विद् आप्नोति परम् इत्य्-आदिषु उपासन-आदि विधीयते / अतः प्राणं मनसि सह करणैर् इत्य्-आदि वाक्यं सर्व-कारणे परम-आत्मनि करण-प्राण-आदि सर्वं विकार-जातम् उपसंहृत्य तम् एव परम-आत्मानं सर्वस्या इशानं ध्यायीत इति पर-ब्रह्म-भूत-नारायणस्य एव ध्यानं विदधाति /
100 SK पतिं विश्वस्येति न तस्येशे कश्चनेति च तस्यैव सर्वस्येशानता प्रतिपादिता / अत एव सर्वाइश्वर्यसंपन्नः सर्वेश्वरः शंभुराकाशमध्ये ध्येय इति नारायणस्यैव परमकारणस्य शंभुशब्दवाच्यस्य ध्यानं विधीयते / कश् च ध्येय इत्यारभ्य कारणं तु ध्येय इति कार्यस्याध्येयतापूर्वककारणैकध्येयतापरत्वाद् वाक्यस्य / तस्यैव नारायणस्य परमकारणता शंभुशब्दवाच्यता च परमकारणप्रतिपादनैकपरे नारायणानुवाक एव प्रतिपन्नेति तद्विरोध्यर्थान्तरपरिकल्पनं कारणस्यैव ध्येयत्वेन विधिवाक्ये न युज्यते /
198 SK पतिं विश्वस्य इति न तस्या इशे कश्चन इति च तस्य एव सर्वस्या इशानता प्रतिपादिता / अत एव सर्व-ऐश्वर्य-संपन्नः सर्व-ईश्वरः शंभुर-आकाश-मध्ये ध्येय इति नारायणस्य एव परम-कारणस्य शंभु-शब्द-वाच्यस्य ध्यानं विधीयते / कश् च ध्येय इत्य्-आरभ्य कारणं तु ध्येय इति कार्यस्य अध्येयता-पूर्वक-कारण-एक-ध्येयता-परत्वाद् वाक्यस्य / तस्य एव नारायणस्य परम-कारणता शंभु-शब्द-वाच्यता च परम-कारण-प्रतिपादन-एक-परे नारायण-अनुवाक एव प्रतिपन्न ईति तद्-विरोध्य्-अर्थ-अन्तर-परिकल्पनं कारणस्य एव ध्येयत्वेन विधि-वाक्ये न युज्यते /
101 SK यद् अपि ततो यदुत्तरम् इत्य् अत्र पुरुषाद् अन्यस्य परतरत्वं प्रतीयत इत्यभ्यधायि तद् अपि यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित्-- यस्माद् अपरं -- यस्माद् अन्यत् किंचिद् अपि परं नास्ति केनापि प्रकारेण पुरुषव्यतिरिक्तस्य परत्वं नास्तीत्यर्थः / अणीयस्त्वं -- सूक्ष्मत्वम् / ज्यायस्त्वं -- सर्वेश्वरत्वम् / सर्वव्यापित्वात् सर्वेश्वरत्वाद् अस्यैतद्व्यतिरिकितस्य कस्याप्य् अणीयस्त्वं ज्यायस्त्वं च नास्तीत्यर्थः / यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चिद् इति पुरुषाद् अन्यस्य कस्यापि ज्यायस्त्वं निषिद्धम् इति तस्माद् अन्यस्य परत्वं न युज्यत इति प्रत्युक्तम् /
200 SK यद् अपि ततो यद्-उत्तरम् इत्य् अत्र पुरुषाद् अन्यस्य परतरत्वं प्रतीयत इत्य्-अभ्यधायि तद् अपि यस्मात् परं न अपरम् अस्ति किंचिद् यस्मान् न अणीयो न ज्यायो ऽस्ति कश्चित्--- यस्माद् अपरं --- यस्माद् अन्यत् किंचिद् अपि परं न अस्ति केन अपि प्रकारेण पुरुष-व्यतिरिक्तस्य परत्वं न अस्ति इत्य्-अर्थः / अणीयस्त्वं --- सूक्ष्मत्वम् / ज्यायस्त्वं --- सर्व-ईश्वरत्वम् / सर्व-व्यापित्वात् सर्व-ईश्वरत्वाद् अस्य एतद्-व्यतिरिकितस्य कस्य अप्य् अणीयस्त्वं ज्यायस्त्वं च न अस्ति इत्य्-अर्थः / यस्मान् न अणीयो न ज्यायो ऽस्ति कश्चिद् इति पुरुषाद् अन्यस्य कस्य अपि ज्यायस्त्वं निषिद्धम् इति तस्माद् अन्यस्य परत्वं न युज्यत इति प्रत्युक्तम् /
102 SK कस् तर्ह्य् अस्य वाक्यस्यार्थः / अस्य प्रकरणस्योपक्रमे तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनायाइति पुरुषवेदनस्यामृतत्वहेतुतां तद्व्यतिरिक्तस्यापथतां च प्रतिज्ञाय यस्मात् परं नापरम् अस्ति किंचित् तेनेदं पूर्णं पुरुषेण सर्वम् इत्य् एतद् अन्तेन सर्वस्मात् परत्वं प्रतिपादितम् / यतः पुरुषतत्त्वम् एवोत्तरतरं ततो यदुत्तरतरं पुरुषतत्त्वं तद् एवारूपम् अनामयं य एतद्विदुर् अमृतास् ते भवन्ति, अथेतरे दुःखम् एवापियन्तीति पुरुषवेदनस्यामृतत्वहेतुत्वं तदितरस्यापथत्वं प्रतिज्ञातं सहेतुकम् उपसंहृतम् / अन्यथोपक्रमगतप्रतिज्ञाभ्यां विरुध्यते / पुरुषस्यैव शुद्धिगुणयोगेन शिवशब्दाभिप्रायत्वं शाश्वतं शिवम् अच्युतम् इत्यादिना ज्ञातम् एव / पुरुष एव शिवशब्दाभिधेय इत्यनन्तरम् एव वदति -- महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तक इति / उक्तेनैव न्यायेन न सन् न चासच् छिव एव केवल इत्यादि सर्वं नेयम् /
202 SK कस् तर्ह्य् अस्य वाक्यस्य अर्थः / अस्य प्रकरणस्य उपक्रमे तम् एव विदित्व आतिमृत्युम् एति न अन्यः पन्था विद्यते ऽयनाय ऐति पुरुष-वेदनस्य अमृतत्व-हेतुतां तद्-व्यतिरिक्तस्य अपथतां च प्रतिज्ञाय यस्मात् परं न अपरम् अस्ति किंचित् तेन इदं पूर्णं पुरुषेण सर्वम् इत्य् एतद् अन्तेन सर्वस्मात् परत्वं प्रतिपादितम् / यतः पुरुष-तत्त्वम् एव उत्तरतरं ततो यद्-उत्तरतरं पुरुष-तत्त्वं तद् एव अरूपम् अनामयं य एतद्-विदुर् अमृतास् ते भवन्ति, अथ इतरे दुःखम् एव अपियन्ति इति पुरुष-वेदनस्य अमृतत्व-हेतुत्वं तद्-इतरस्य अपथत्वं प्रतिज्ञातं सहेतुकम् उपसंहृतम् / अन्यथ ऊपक्रम-गत-प्रतिज्ञाभ्यां विरुध्यते / पुरुषस्य एव शुद्धि-गुण-योगेन शिव-शब्द-अभिप्रायत्वं शाश्वतं शिवम् अच्युतम् इत्य्-आदिना ज्ञातम् एव / पुरुष एव शिव-शब्द-अभिधेय इत्य्-अनन्तरम् एव वदति --- महान् प्रभुर् वै पुरुषः सत्त्वस्य एष प्रवर्तक इति / उक्तेन एव न्यायेन न सन् न च असच् छिव एव केवल इत्य्-आदि सर्वं न इयम् /
103 SK किंच न तस्येशे कश्चनेति निरस्तसमाभ्यधिकसंभावनस्य पुरुषस्याणोर् अणीयानित्यस्मिन्न् अनुवाके वेदाद्यन्तरूपतया वेदबीजभूतप्रणवस्य प्रकृतिभूताकारवाच्यतया महेश्वरत्वं प्रतिपाद्य दहरपुण्डरीकमध्यस्थाकाशान्तर्वर्तितयोपास्यत्वम् उक्तम् / अयम् अर्थः -- सर्वस्य वेदजातस्य प्रकृतिः प्रणव उक्तः / प्रणवस्य च प्रकृतिर् अकारः / प्रणवविकारो वेदः स्वप्रकृतिभूते प्रणवे लीनः / प्रणवो ऽप्य् अकारविकारभूतः स्वप्रकृताव् अकारे लीनः / तस्य प्रणवप्रकृतिभूतस्याकारस्य यः परो वाच्यः स एव महेश्वर इति सर्ववाचकजातप्रकृतिभूताकारवाच्यः सर्ववाच्यजातप्रकृतिभूतनारायणो यः स महेशवर इत्यर्थः / यथोक्तं भगवता -- अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा / मत्तः परतरं नान्यत्किंचिद् अस्ति धनंजय // अक्षरणाम् अकारो ऽस्मि ----------------- // इति / अ इति ब्रह्मेति च श्रुतेः / अकारो वै सर्वा वाग् इति च / वाचकजातस्याकारप्रकृतित्वं वाच्यजातस्य ब्रह्मप्रकृतित्वं च सुस्पष्टम् / अतो ब्रह्मणो ऽकारवाच्यताप्रतिपादनाद् अकारवाच्यो नारायण एव महेश्वर इति सिद्धम् /
204 SK किंच न तस्या इशे कश्चन इति निरस्त-सम-अभ्यधिक-संभावनस्य पुरुषस्य अणोर् अणीय-अनित्यस्मिन्न् अनुवाके वेद-आद्य्-अन्त-रूपतया वेद-बीज-भूत-प्रणवस्य प्रकृति-भूत-अकार-वाच्यतया महा-ईश्वरत्वं प्रतिपाद्य दहर-पुण्डरीक-मध्य-स्थ-आकाश-अन्तर्वर्तितय ऊपास्यत्वम् उक्तम् / अयम् अर्थः --- सर्वस्य वेद-जातस्य प्रकृतिः प्रणव उक्तः / प्रणवस्य च प्रकृतिर् अकारः / प्रणव-विकारो वेदः स्व-प्रकृति-भूते प्रणवे लीनः / प्रणवो ऽप्य् अकार-विकार-भूतः स्व-प्रकृताव् अकारे लीनः / तस्य प्रणव-प्रकृति-भूतस्य अकारस्य यः परो वाच्यः स एव महा-ईश्वर इति सर्व-वाचक-जात-प्रकृति-भूत-अकार-वाच्यः सर्व-वाच्य-जात-प्रकृति-भूत-नारायणो यः स महा-ईशवर इत्य्-अर्थः / यथा-उक्तं भगवता --- अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा / मत्तः परतरं न अन्यत्-किंचिद् अस्ति धनंजय // अक्षरणाम् अकारो ऽस्मि -------------------------- // इति / अ इति ब्रह्म इति च श्रुतेः / अकारो वै सर्वा वाग् इति च / वाचक-जातस्य अकार-प्रकृतित्वं वाच्य-जातस्य ब्रह्म-प्रकृतित्वं च सुस्पष्टम् / अतो ब्रह्मणो ऽकार-वाच्यता-प्रतिपादनाद् अकार-वाच्यो नारायण एव महा-ईश्वर इति सिद्धम् /
104 SK तस्यैव सहस्रशीर्षं देवम् इति केवलपरतत्त्वविशेषप्रतिपादनपरेण नारायणानुवाकेन सर्वस्मात् परत्वं प्रपञ्चितम् / अनेनानन्यपरेण प्रतिपादितम् एव परतत्त्वम् अन्यपरेषु सर्ववाक्येषु केनापि शब्देन प्रतीयमानं तद् एवेत्य् अवगम्य इति शास्त्रदृष्त्या तूपदेशो वामदेववद् इति सूत्रकारेण निर्णीतम् / तद् एतत् परं ब्रह्म क्वचिद् ब्रह्मशिवादिशब्दाद् अवगतम् इति केवलब्रह्मशिवयोर् न परत्वप्रसङ्गः / अस्मिन्न् अनन्यपरे ऽनुवाके तयोर् इन्द्रादितुल्यतया तद्विभूतित्वप्रतिपादनात् / क्वचिद् आकाशप्राणादिशब्देन परं ब्रह्माभिहितम् इति भूताकाशप्राणादेर् यथा न परत्वम् / यत् पुनर् इदम् आशङ्कितम् अथ यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वा व विजिज्ञासितव्यम् इत्य् अत्राकाशशब्देन जगदुपादानकारणं प्रतिपाद्य तदन्तर्वर्तिनः कस्यचित् तत्त्वविशेषस्यान्वेष्टव्यता प्रतिपाद्यते / अस्याकाशस्य नामरूपयोर् निवोढृत्वश्रवणात् पुरुषसूक्ते पुरुषस्य नामरूपयोः कर्तृत्वदर्शनाच् चाकाशपर्यायभूतात् पुरुषाद् अन्यस्यान्वेष्टव्यतयोपास्यत्वं प्रतीयत इत्यनधीतवेदानाम् अदृष्टशास्त्राणाम् इदं चोद्यं /
206 SK तस्य एव सहस्र-शीर्षं देवम् इति केवल-पर-तत्त्व-विशेष-प्रतिपादन-परेण नारायण-अनुवाकेन सर्वस्मात् परत्वं प्रपञ्चितम् / अनेन अनन्य-परेण प्रतिपादितम् एव पर-तत्त्वम् अन्य-परेषु सर्व-वाक्येषु केन अपि शब्देन प्रतीयमानं तद् एव इत्य् अवगम्य इति शास्त्र-दृष्त्या तु उपदेशो वाम-देववद् इति सूत्र-कारेण निर्णीतम् / तद् एतत् परं ब्रह्म क्वचिद् ब्रह्म-शिव-आदि-शब्दाद् अवगतम् इति केवल-ब्रह्म-शिवयोर् न परत्व-प्रसङ्गः / अस्मिन्न् अनन्य-परे ऽनुवाके तयोर् इन्द्र-आदि-तुल्यतया तद्-विभूतित्व-प्रतिपादनात् / क्वचिद् आकाश-प्राण-आदि-शब्देन परं ब्रह्म अभिहितम् इति भूत-आकाश-प्राण-आदेर् यथा न परत्वम् / यत् पुनर् इदम् आशङ्कितम् अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तर-आकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वा व विजिज्ञासितव्यम् इत्य् अत्रा अकाश-शब्देन जगद्-उपादान-कारणं प्रतिपाद्य तद्-अन्तर्वर्तिनः कस्यचित् तत्त्व-विशेषस्य अन्वेष्टव्यता प्रतिपाद्यते / अस्या अकाशस्य नाम-रूपयोर् निवोढृत्व-श्रवणात् पुरुष-सूक्ते पुरुषस्य नाम-रूपयोः कर्तृत्व-दर्शनाच् चा अकाश-पर्याय-भूतात् पुरुषाद् अन्यस्य अन्वेष्टव्यतय ऊपास्यत्वं प्रतीयत इत्य्-अनधीत-वेदानाम् अदृष्ट-शास्त्राणाम् इदं चोद्यं /
105 SK यतस् तत्र श्रुतिर् एवास्य परिहारम् आह / वाक्यकारश् च -- दहरो ऽस्मिन्न् अन्तराकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वा व विजिज्ञासितव्यम् इति चोदिते यावान् वा अयम् आकाशस् तावान् एषो ऽन्तर्हृदय आकाश इत्यादिनास्याकाशशब्दवाच्यस्य परमपुरुषस्यानवधिकमहत्त्वं सकलजगदाधारत्वं च प्रतिपाद्य तस्मिन् कामाः समाहिता इति कामशब्देनापहतपाप्मत्वादिसत्यसंकल्पपर्यन्तगुणाष्टकं निहितम् इति परमपुरुषवत् परमपुरुषगुणाष्टकस्यापि पृथिविजिज्ञासितव्यताप्रतिपादयिषया तस्मिन् यद् अन्तस् तदन्वेष्टव्यम् इत्युक्तम् इति श्रुत्यैव सर्वं परिहृतम् /
208 SK यतस् तत्र श्रुतिर् एव अस्य परिहारम् आह / वाक्य-कारश् च --- दहरो ऽस्मिन्न् अन्तर्-आकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वा व विजिज्ञासितव्यम् इति चोदिते यावान् वा अयम् आकाशस् तावान् एषो ऽन्तर्हृदय आकाश इत्य्-आदिन आस्या अकाश-शब्द-वाच्यस्य परम-पुरुषस्य अनवधिक-महत्त्वं सकल-जगद्-आधारत्वं च प्रतिपाद्य तस्मिन् कामाः समाहिता इति काम-शब्देन अपहत-पाप्मत्व-आदि-सत्य-संकल्प-पर्यन्त-गुण-अष्टकं निहितम् इति परम-पुरुषवत् परम-पुरुष-गुण-अष्टकस्य अपि पृथिवि-जिज्ञासितव्यता-प्रतिपादयिषया तस्मिन् यद् अन्तस् तद्-अन्वेष्टव्यम् इत्य्-उक्तम् इति श्रुत्य ऐव सर्वं परिहृतम् /
106 SK एतद् उक्तं भवति -- किं तद् अत्र विद्यते यद् अनेष्टव्यम् इत्य् अस्य चोद्यस्य तस्मिन् सर्वस्य जगतः स्रष्टृत्वम् आधारत्वं नियन्तृत्वं शेषित्वम् अपहतपाप्मत्वादयो गुणाश् च विद्यन्त इति परिहार इति / तथा च वाक्यकारवचनम् -- तस्मिन् यद् अन्तर् इति कामव्यपदेश इति / काम्यन्त इति कामाः / अपहतपाप्मत्वादयो गुणा इत्यर्थः / एतद् उक्तं भवति -- यद् एतद् दहराकाशशब्दाभिधेयं निखिलजगदुदयवैभवलयलीलं परं ब्रह्म तस्मिन् यद् अन्तर् निहितम् अनवधिकातिशयम् अपहतपाप्मत्वादिगुणाष्टकं तद् उभयम् अप्य् अन्वेष्टव्यं विजिज्ञासितव्यम् इति / यथाह -- अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु कामचारो भवन्तीति /
210 SK एतद् उक्तं भवति --- किं तद् अत्र विद्यते यद् अनेष्टव्यम् इत्य् अस्य चोद्यस्य तस्मिन् सर्वस्य जगतः स्रष्टृत्वम् आधारत्वं नियन्तृत्वं शेषित्वम् अपहत-पाप्मत्व-आदयो गुणाश् च विद्यन्त इति परिहार इति / तथा च वाक्य-कार-वचनम् --- तस्मिन् यद् अन्तर् इति काम-व्यपदेश इति / काम्यन्त इति कामाः / अपहत-पाप्मत्व-आदयो गुणा इत्य्-अर्थः / एतद् उक्तं भवति --- यद् एतद् दहर-आकाश-शब्द-अभिधेयं निखिल-जगद्-उदय-वैभव-लय-लीलं परं ब्रह्म तस्मिन् यद् अन्तर् निहितम् अनवधिक-अतिशयम् अपहत-पाप्मत्व-आदि-गुण-अष्टकं तद् उभयम् अप्य् अन्वेष्टव्यं विजिज्ञासितव्यम् इति / यथा आह --- अथ य इहा अत्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु काम-चारो भवन्ति इति /
107 SK यः पुनः कारणस्यैव ध्येयताप्रतिपादनपरे वाक्ये विष्णोर् अनन्यपरवाक्यप्रतिपादितपरतत्त्वभूतस्य कार्यमध्ये निवेशः स स्वकार्यभूततत्त्वसंख्यापूरणं कुर्वतः स्वलीलया जगदुपकाराय स्वेच्छावतार इत्य् अवगन्तव्यः / यथा लीलया देवसंख्यापूर्णं कुर्वत उपेन्द्रत्वं परस्यैव, यथा च सूर्यवंशोद्भवराजसंख्यापूर्णं कुर्वतः परस्यैव ब्रह्मणो दाशरथिरूपेण स्वेच्छावतारः, यथा च सोमवंशसंख्यापूरणं कुर्वतो भगवतो भूभारावतारणाय स्वेच्छया वसुदेवगृहे ऽवतारः /
212 SK यः पुनः कारणस्य एव ध्येयता-प्रतिपादन-परे वाक्ये विष्णोर् अनन्य-पर-वाक्य-प्रतिपादित-पर-तत्त्व-भूतस्य कार्य-मध्ये निवेशः स स्व-कार्य-भूत-तत्त्व-संख्या-पूरणं कुर्वतः स्व-लीलया जगद्-उपकाराय स्व इच्छा-अवतार इत्य् अवगन्तव्यः / यथा लीलया देव-संख्या-पूर्णं कुर्वत उपेन्द्रत्वं परस्य एव, यथा च सूर्य-वंश-उद्भव-राज-संख्या-पूर्णं कुर्वतः परस्य एव ब्रह्मणो दाश-रथि-रूपेण स्व-इच्छा-अवतारः, यथा च सोम-वंश-संख्या-पूरणं कुर्वतो भगवतो भू-भार-अवतारणाय स्व-इच्छया वसुदेव-गृहे ऽवतारः /
108 SK सृष्टिप्रलयप्रकरणेषु नारायण एव परमकारणतया प्रतिपाद्यत इति पूर्वम् एवोक्तम् / यत् पुनर् अथर्वशिरसि रुद्रेण स्वसर्वाइश्वर्यं प्रपञ्चितं तत् सो ऽन्तराद् अन्तरं प्राविशद् इति परमात्मप्रवेशाद् उक्तम् इति श्रुत्यैव व्यक्तम् / शास्त्रदृष्ट्या तूपदेशो वामदेववद् इति सूत्रकारेणैवंवादिनाम् अर्थः प्रतिपादितः / यथोक्तं प्रह्लादेनापि -- सर्वगत्वाद् अनन्तरस्य स एवाहम् अवस्थितः / मत्तः सर्वम् अहं सर्वं मयि सर्वं सनातने // इत्यादि / अत्र सर्वगत्वाद् अनन्तस्येति हेतुर् उक्तः / स्वशरीरभूतस्य सर्वस्य चिदचिद्वस्तुन आत्मत्वेन सर्वगः परमात्मेति सर्वे शब्दाः सर्वशरीरं परमात्मानम् एवाभिदधतीत्य् उक्तम् / अतो ऽहम् इति शब्दः स्वात्मप्रकारप्रकारिणं परमात्मानम् एवाचष्टे / अत इदम् उच्यते / आत्मेत्य् एव तु गृह्णीयात् सर्वस्य तन्निष्पत्तेर् इत्यादिनाहंग्रहणोपासनं वाक्यकारेण कार्यावस्थः कारणावस्थश् च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमात्मैवेति सर्वस्य तन्निष्पत्तेर् इत्य् उक्तम् / आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति सूत्रकारेण च / महाभारते च ब्रह्मरुद्रसंवादे ब्रह्मा रुद्रं प्रयाह -- तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः / इति / रुद्रस्य ब्रह्मणश् चान्येषां च देहिनां परमेश्वरो नारायणो ऽन्तरात्मतयावस्थित इति / तथा तत्रैव -- विष्णुर् आत्मा भगवतो भवस्यामिततेजसः / तस्माद् धनुर्ज्यासंस्पर्शं स विषेहे महेश्वरः // इति / तत्रैव -- एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ / तदादर्शितपन्थानौ सृष्टिसंहारकारकौ // इति / अन्तरात्मतयावस्थितनारायणदर्शितपथौ ब्रह्मरुद्रौ सृष्टिसंहारकार्यकराव् इत्यर्थः /
214 SK सृष्टि-प्रलय-प्रकरणेषु नारायण एव परम-कारणतया प्रतिपाद्यत इति पूर्वम् एव उक्तम् / यत् पुनर् अथर्व-शिरसि रुद्रेण स्व-सर्व-ऐश्वर्यं प्रपञ्चितं तत् सो ऽन्तराद् अन्तरं प्राविशद् इति परम-आत्म-प्रवेशाद् उक्तम् इति श्रुत्य ऐव व्यक्तम् / शास्त्र-दृष्ट्या तु उपदेशो वामदेववद् इति सूत्र-कारेण एवं-वादिनाम् अर्थः प्रतिपादितः / यथ ऊक्तं प्रह्लादेन अपि --- सर्व-गत्वाद् अनन्तरस्य स एव अहम् अवस्थितः / मत्तः सर्वम् अहं सर्वं मयि सर्वं सनातने // इत्य्-आदि / अत्र सर्व-गत्वाद् अनन्तस्य इति हेतुर् उक्तः / स्व-शरीर-भूतस्य सर्वस्य चिद्-अचिद्-वस्तुन आत्मत्वेन सर्व-गः परम-आत्म ईति सर्वे शब्दाः सर्व-शरीरं परम-आत्मानम् एव अभिदधति इत्य् उक्तम् / अतो ऽहम् इति शब्दः स्व-आत्म-प्रकार-प्रकारिणं परम-आत्मानम् एवा अचष्टे / अत इदम् उच्यते / आत्म ईत्य् एव तु गृह्णीयात् सर्वस्य तन्-निष्पत्तेर् इत्य्-आदिन आहं-ग्रहण-उपासनं वाक्य-कारेण कार्य-अवस्थः कारण-अवस्थश् च स्थूल-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः परम-आत्म ऐव इति सर्वस्य तन्-निष्पत्तेर् इत्य् उक्तम् / आत्म ईति तु उपगच्छन्ति ग्राहयन्ति च इति सूत्र-कारेण च / महा-भारते च ब्रह्म-रुद्र-संवादे ब्रह्मा रुद्रं प्रयाह --- तव अन्तर-आत्मा मम च ये च अन्ये देहि-संज्ञिताः / इति / रुद्रस्य ब्रह्मणश् च अन्येषां च देहिनां परम-ईश्वरो नारायणो ऽन्तर-आत्मतय आवस्थित इति / तथा तत्र एव --- विष्णुर् आत्मा भगवतो भवस्य अमित-तेजसः / तस्माद् धनुर्-ज्या-संस्पर्शं स विषेहे मह-ईश्वरः // इति / तत्र एव --- एतौ द्वौ विबुध-श्रेष्ठौ प्रसाद-क्रोध-जौ स्मृतौ / तद्-आदर्शित-पन्थानौ सृष्टि-संहार-कारकौ // इति / अन्तर-आत्मतय आवस्थित-नारायण-दर्शित-पथौ ब्रह्म-रुद्रौ सृष्टि-संहार-कार्य-कराव् इत्य्-अर्थः /
109 SK निमित्तोपादानयोस् तु भेदं वदन्तो वेदबाह्या एव स्युः / जन्माद्यस्य यतः -- प्रकृतिश् च -- प्रतिज्ञादृष्टान्तानुपरोधाद् इत्यादि वेदवित्प्रणीतसूत्रविरोधात् / सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् -- तद् ऐक्षत बहु स्यां प्रजायेयेति -- ब्रह्मवनं ब्रह्म स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः -- ब्रह्माध्यतिष्ठद्भुवनानि धारयन् -- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि -- न तस्येशे कश्चन तस्य नाम महद्यशः -- नेह नानास्ति किंचन -- सर्वस्य वशी सर्वस्येशानः -- पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् उतामृतत्त्वस्येशानः -- नान्यः पन्था अयनाय विद्यत इत्यादिसर्वश्रुतिविरोधाच् च /
216 SK निमित्त-उपादानयोस् तु भेदं वदन्तो वेद-बाह्या एव स्युः / जन्म-आद्य्-अस्य यतः --- प्रकृतिश् च --- प्रतिज्ञा-दृष्टान्त-अनुपरोधाद् इत्य्-आदि वेद-वित्-प्रणीत-सूत्र-विरोधात् / सद् एव सोम्य इदम् अग्र आसीद् एकम् एव अद्वितीयम् --- तद् ऐक्षत बहु स्यां प्रजायेय इति --- ब्रह्म-वनं ब्रह्म स वृक्ष आसीद् यतो द्यावा-पृथिवी निष्ट-तक्षुः --- ब्रह्म-अध्यतिष्ठद्-भुवनानि धारयन् --- सर्वे निमेषा जज्ञिरे विद्युतः पुरुष-अदधि --- न तस्या इशे कश्चन तस्य नाम महद्-यशः --- न इह नान आस्ति किंचन --- सर्वस्य वशी सर्वस्या इशानः --- पुरुष एव इदं सर्वं यद् भूतं यच् च भव्यम् उत अमृतत्त्वस्या इशानः --- न अन्यः पन्था अयनाय विद्यत इत्य्-आदि-सर्व-श्रुति-विरोधाच् च /
110 SK इतिहासपुराणेषु च सृष्टिस्थितिप्रलयप्रकरणयोर् इदम् एव परतत्त्वम् इत्य् अवगम्यते / यथा महाभारते -- कुतः सृष्टम् इदं सर्वं जगत्स्थावरजङ्गमम् / प्रलये च कम् अभ्येति तन् तो ब्रूहि पितामह // इति पृष्टो -- नारायणो जगन्मूर्तिर् अनन्तात्मा सनातन / इत्यादि च वदति -- ऋषयः पितरो देवा महाभूतानि धातवः / जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् // इति च / प्राच्योदीच्यदाक्षिणात्यपाश्चात्यसर्वशिष्टैः सर्वधर्मसर्वतत्त्वव्यवस्थायाम् इदम् एव पर्याप्तम् इत्य् अविगानपरिगृहीतं वैष्णवं च पुराणं जन्माद्य् अस्य यत इति जगज्जन्मादिकारणं ब्रह्मेत्य् अवगम्यते / तज्जन्मादिकारणं किम् इति प्रश्नपूर्वकं विष्णोः सकाशाद् भूतम् इत्यादिना ब्रह्मस्वरूपविशेषप्रतिपादनैकपरतया प्रवृत्तम् इति सर्वसंमतम् / तथा तत्रैव -- प्रकृतिर् या ख्याता व्यक्ताव्यक्तस्वरूपिणी / पुरुषश् च+प्य् उभाव् एतौ लीयेते परमात्मनि // परमात्मा च सर्वेषाम् आधारः परमेश्वरः / विष्णुनामा स वेदेषु वेदान्तेषु च गीयते // इति / सर्ववेदवेदान्तेषु सर्वैः शब्दैः परमकारणतयायम् एव गीयत इत्यर्थः / यथा सर्वासु ष्रुतिषु केवलपरब्रह्मस्वरूपविशेषप्रतिपादनायैव प्रवृत्तो नारायणानुवाकस् तथेदं वैष्णवं च पुराणम् -- सो ऽहम् इच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् / बभूव भूयश् च यथा महाभाग भविष्यति // यन्मयं च जगद्ब्रह्मन्य् अतश् चैतच्चराचरम् / लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च // इति परं ब्रह्म किम् इति प्रक्रम्य -- विष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम् / स्थितिसंयमकर्तासौ जगतो ऽस्य जगच् च सः // परः पराणां परमः परमात्मात्मसंस्थितः / रूपवर्णादिनिर्देशविशेषणविवर्जितः // अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः / वर्जितः शक्यते वक्तुं यः सद् अस्तीति केवलम् // सर्वत्रासौ समस्तं च वसत्य् अत्रेति वै यतः / ततः स वासुदेवेति विद्वद्भिः परिपठ्यते // तद्ब्रह्म परं नित्यम् अजम् अक्षयम् अव्ययम् / एकस्वरूपं च सदा हेयाभावाच् च निर्मलम् // तद् एव सर्वम् एवैतद्व्यक्ताव्यक्तस्वरूपवत् / तथा पुरुषरूपेण कालरूपेण च स्थितम् // स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश् च मुने व्यतीतः / अतीतसर्वावरणो ऽखिलात्मा तेनास्तृतं यद् भुवनान्तराले // समस्तकल्याणगुणात्मको ऽसौ स्वशक्तिलेशोद्धृतभूतवर्गः / इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितो ऽसौ // तेजोबलाइश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः / परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे // स ईश्वरो व्यष्टिसमष्टिरूपो ऽव्यक्तस्वरूपः प्रकटस्वरूपः / सर्वेश्वरः सर्वदृक्सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः // संज्ञायते येन तद् अस्तदोषं शुद्धं परं निर्मलम् एकरूपम् / संदृश्यते वाप्य् अधिगम्यते वा तज्ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम् // इति परब्रह्मस्वरूपविशेषनिर्णयायैव प्रवृत्तम् /
218 SK इतिहास-पुराणेषु च सृष्टि-स्थिति-प्रलय-प्रकरणयोर् इदम् एव पर-तत्त्वम् इत्य् अवगम्यते / यथा महा-भारते --- कुतः सृष्टम् इदं सर्वं जगत्-स्थावर-जङ्गमम् / प्रलये च कम् अभ्येति तन् तो ब्रूहि पितामह // इति पृष्टो --- नारायणो जगन्-मूर्तिर् अनन्त-आत्मा सनातन / इत्य्-आदि च वदति --- ऋषयः पितरो देवा महा-भूतानि धातवः / जङ्गम-अजङ्गमं च इदं जगन्-नारायण-उद्भवम् // इति च / प्राच्य-उदीच्य-दाक्षिणात्य-पाश्चात्य-सर्व-शिष्टैः सर्व-धर्म-सर्व-तत्त्व-व्यवस्थायाम् इदम् एव पर्याप्तम् इत्य् अविगान-परिगृहीतं वैष्णवं च पुराणं जन्म-आद्य् अस्य यत इति जगज्-जन्म-आदि-कारणं ब्रह्म इत्य् अवगम्यते / तज्-जन्म-आदि-कारणं किम् इति प्रश्न-पूर्वकं विष्णोः सकाशाद् भूतम् इत्य्-आदिना ब्रह्म-स्व-रूप-विशेष-प्रतिपादन-एक-परतया प्रवृत्तम् इति सर्व-संमतम् / तथा तत्र एव --- प्रकृतिर् या ख्याता व्यक्त-अव्यक्त-स्व-रूपिणी / पुरुषश् च+प्य् उभाव् एतौ लीयेते परम-आत्मनि // परम-आत्मा च सर्वेषाम् आधारः परम-ईश्वरः / विष्णु-नामा स वेदेषु वेदान्तेषु च गीयते // इति / सर्व-वेद-वेदान्तेषु सर्वैः शब्दैः परम-कारणतय आयम् एव गीयत इत्य्-अर्थः / यथा सर्वासु ष्रुतिषु केवल-पर-ब्रह्म-स्व-रूप-विशेष-प्रतिपादनाय एव प्रवृत्तो नारायण-अनुवाकस् तथ ईदं वैष्णवं च पुराणम् --- सो ऽहम् इच्छामि धर्म-ज्ञ श्रोतुं त्वत्तो यथा जगत् / बभूव भूयश् च यथा महा-भाग भविष्यति // यन्-मयं च जगद्-ब्रह्मन्य् अतश् च एतच्-चर-अचरम् / लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च // इति परं ब्रह्म किम् इति प्रक्रम्य --- विष्णोः सकाशाद् उद्भूतं जगत् तत्र एव च स्थितम् / स्थिति-संयम-कर्त आसौ जगतो ऽस्य जगच् च सः // परः पराणां परमः परम-आत्म-आत्म-संस्थितः / रूप-वर्ण-आदि-निर्देश-विशेषण-विवर्जितः // अपक्षय-विनाशाभ्यां परिणाम-र्द्धि-जन्मभिः / वर्जितः शक्यते वक्तुं यः सद् अस्ति इति केवलम् // सर्वत्र असौ समस्तं च वसत्य् अत्र इति वै यतः / ततः स वासुदेव इति विद्वद्भिः परिपठ्यते // तद्-ब्रह्म परं नित्यम् अजम् अक्षयम् अव्ययम् / एक-स्व-रूपं च सदा हेय-अभावाच् च निर्मलम् // तद् एव सर्वम् एव एतद्-व्यक्त-अव्यक्त-स्व-रूपवत् / तथा पुरुष-रूपेण काल-रूपेण च स्थितम् // स सर्व-भूत-प्रकृतिं विकारान् गुण-आदि-दोषांश् च मुने व्यतीतः / अतीत-सर्व-आवरणो ऽखिल-आत्मा तेन अस्तृतं यद् भुवन-अन्तराले // समस्त-कल्याण-गुण-आत्मको ऽसौ स्व-शक्ति-लेश-उद्धृत-भूत-वर्गः / इच्छा-गृहीत-अभिमत-उरु-देहः संसाधित-अशेष-जगद्-धितो ऽसौ // तेजो-बल-ऐश्वर्य-महा-अवबोध-सुवीर्य-शक्त्य्-आदि-गुण-एक-राशिः / परः पराणां सकला न यत्र क्लेश-आदयः सन्ति पर-अवर-ईशे // स ईश्वरो व्यष्टि-समष्टि-रूपो ऽव्यक्त-स्व-रूपः प्रकट-स्व-रूपः / सर्व-ईश्वरः सर्व-दृक्-सर्व-वेत्ता समस्त-शक्तिः परम-ईश्वर-आख्यः // संज्ञायते येन तद् अस्त-दोषं शुद्धं परं निर्मलम् एक-रूपम् / संदृश्यते व आप्य् अधिगम्यते वा तज्-ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम् // इति पर-ब्रह्म-स्व-रूप-विशेष-निर्णयाय एव प्रवृत्तम् /
111 SK अन्यानि सर्वाणि पुराणान्य् एतदविरोधेन नेयानि / अन्यपरत्वं च तत्तदारम्भप्रकारैर् अवगम्यते / सर्वात्मना विरुद्धांशस् तामसत्वाद् अनादरणीयः /
220 SK अन्यानि सर्वाणि पुराणान्य् एतद्-अविरोधेन नेयानि / अन्य-परत्वं च तत्-तद्-आरम्भ-प्रकारैर् अवगम्यते / सर्व-आत्मना विरुद्ध-अंशस् तामसत्वाद् अनादरणीयः /
112 SK नन्व् अस्मिन्न् अपि -- सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्नुशिवात्मिकां / स संज्ञा याति भगवान् एक जनार्दनः // इति त्रिमूर्तोसाम्यं प्रतीयते / नैतद् एवम् / एक एव जनार्दन इति जन अर्दनस्यैव ब्रह्मशिवादिकृत्स्नप्रपञ्चतादात्म्यं विधीयते / जगच् च स इति पूर्वोक्तम् एव विवृणोति -- स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च / उपसंह्रियते चान्ते संहर्ता च स्वत्यंप्रभुः // इति च स्रष्टृत्वेनावस्थितं ब्रह्मणं सृज्यं च संहर्तारं संहार्यं च युगपन् निर्दिश्य सर्वस्य विष्णुतादात्म्योपदेशात् सृज्यसंहार्यभूताद् वस्तुनः स्रष्टृसंहर्त्रोर् जनार्दनविभूतित्वेन विशेषो दृश्यते / जनार्दनविष्णुशब्दयोः पर्यायत्वेन ब्रह्मविष्णुशिवात्मिकाम् इति विभूतिम् / अत एव स्वेच्छया लीलार्थं विभूत्यन्तर्भाव उच्यते / यथेदम् अनन्तरम् एवोच्यते -- पृथिव्यापस् तथा तेजो वायुर् आकाश एव च / सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज् जगत् // स एव सर्वभूतात्मा विश्वरूपो यतो ऽव्ययः / सर्गादिकं ततो ऽस्यैव भूतस्थम् उपकारकम् // स एव सृज्यः स च सर्वकर्ता स एव पात्यत्ति च पाल्यते च / ब्रह्माद्यवस्थाभिर् अशेषमूर्तिर् विष्णुर् वरिष्ठो वरदो वरेण्यः // इति /
222 SK नन्व् अस्मिन्न् अपि --- सृष्टि-स्थित्य्-अन्त-करणीं ब्रह्म-विष्नु-शिव-आत्मिकां / स संज्ञा याति भगवान् एक जन-अर्दनः // इति त्रि-मूर्तो-साम्यं प्रतीयते / न एतद् एवम् / एक एव जन-अर्दन इति जन अर्दनस्य एव ब्रह्म-शिव-आदि-कृत्स्न-प्रपञ्च-तादात्म्यं विधीयते / जगच् च स इति पूर्व-उक्तम् एव विवृणोति --- स्रष्टा सृजति चा अत्मानं विष्णुः पाल्यं च पाति च / उपसंह्रियते च अन्ते संहर्ता च स्वत्यं-प्रभुः // इति च स्रष्टृत्वेन अवस्थितं ब्रह्मणं सृज्यं च संहर्तारं संहार्यं च युगपन् निर्दिश्य सर्वस्य विष्णु-तादात्म्य-उपदेशात् सृज्य-संहार्य-भूताद् वस्तुनः स्रष्टृ-संहर्त्रोर् जन-अर्दन-विभूतित्वेन विशेषो दृश्यते / जन-अर्दन-विष्णु-शब्दयोः पर्यायत्वेन ब्रह्म-विष्णु-शिव-आत्मिकाम् इति विभूतिम् / अत एव स्व-इच्छया लीला-अर्थं विभूत्य्-अन्तर्भाव उच्यते / यथ ईदम् अनन्तरम् एव उच्यते --- पृथिव्य्-आपस् तथा तेजो वायुर् आकाश एव च / सर्व-इन्द्रिय-अन्तःकरणं पुरुष-आख्यं हि यज् जगत् // स एव सर्व-भूत-आत्मा विश्व-रूपो यतो ऽव्ययः / सर्ग-आदिकं ततो ऽस्य एव भूत-स्थम् उपकारकम् // स एव सृज्यः स च सर्व-कर्ता स एव पात्यत्ति च पाल्यते च / ब्रह्म-आद्य्-अवस्थाभिर् अशेष-मूर्तिर् विष्णुर् वरिष्ठो वर-दो वरेण्यः // इति /
113 SK अत्र सामानाधिकरण्यनिर्दिष्टं हेयमिश्रप्रपञ्चतादात्म्यं निरवद्यस्य निर्विकारस्य समस्तकल्याणगुणात्मकस्य ब्रह्मणः कथम् उपपद्यत इत्य् आशङ्ख्य स एव सर्वभूतात्मा विश्वरूपो यतो ऽव्यय इति स्वयम् एवोपपादयति / स एव सर्वेश्वरः परब्रह्मभूतो विष्णुर् एव सर्वं जगद् इति प्रतिज्ञाय सर्वभूतात्मा विश्वरूपो यतो ऽव्यय इति हेतुर् उक्तः / सर्वभूतानाम् अयम् आत्मा विश्वशरीरो यतो ऽव्यय इत्यर्थः / वक्ष्यति च -- सत्सर्वं वै हरेस् तनुर् इति / एतद् उक्तं भवति / अस्याव्ययस्यापि परस्य ब्रह्मणो विष्णोर् विश्वशरीरतया तादात्म्यविरुद्धम् इत्य् आत्मशरीरयोश् च स्वभावा व्यवस्थिता एव / एवंभूतस्य सर्वेश्वरस्य विष्णोः प्रपञ्चान्तर्भूतनियाम्यकोटिनिविष्टब्रह्मादिदेवतिर्यङ्मनुष्येषु तत् तत् समाश्रयणीयत्वाय स्वेच्छावतारः पूर्वोक्तः / तद् एतद् ब्रह्मादीनां भावनात्रयान्वयेन कर्मवश्यत्वं भगवतः परब्रह्मभूतस्य वासुदेवस्य निखिलजगदुपकाराय स्वेच्छया स्वेनैव रूपेण देवादिष्व् अवतार इति च षष्टे ऽंशे शुभाश्रयप्रकरणे सुव्यक्तम् उक्तम् / अस्य देवादिरूपेणावतारेष्व् अपि न प्राकृतो देह इति महाभारते -- न भूतसंघसंस्थानो देहो ऽस्य परमात्मनः / इति प्रतिपादितः / श्रुतिभिश् च -- अजायमानो बहुधा विजायते -- तस्य धीराः परिजानन्ति योनिम् इति / कर्मवश्यानां ब्रह्मादीनाम् अनिच्छताम् अपि तत्तत्कर्मानुगुणप्रकृतिपरिणामरूपभूतसंघसंस्थानविशेषदेवादिशरीरप्रवेशरूपं जन्मावर्जनीयम् / अयं तु सर्वेश्वरः सत्यसंकल्पो भगवान् एवंभूतशुभेतरजन्माकुर्वन्न् अपि स्वेच्छया स्वेनैव निरतिशयकल्याणरूपेण देवादिषु जगदुपकाराय बहुधा जायते, तस्यैतस्य शुभेतरजन्माकुर्वतो ऽपि स्वकल्याणगुणानन्त्येन बहुधा योनिं बहुविधजन्म धीराधीरमताम् अग्रेसरा जानन्तीत्यर्थः /
224 SK अत्र सामानाधिकरण्य-निर्दिष्टं हेय-मिश्र-प्रपञ्च-तादात्म्यं निरवद्यस्य निर्विकारस्य समस्त-कल्याण-गुण-आत्मकस्य ब्रह्मणः कथम् उपपद्यत इत्य् आशङ्ख्य स एव सर्व-भूत-आत्मा विश्व-रूपो यतो ऽव्यय इति स्वयम् एव उपपादयति / स एव सर्व-ईश्वरः पर-ब्रह्म-भूतो विष्णुर् एव सर्वं जगद् इति प्रतिज्ञाय सर्व-भूत-आत्मा विश्व-रूपो यतो ऽव्यय इति हेतुर् उक्तः / सर्व-भूतानाम् अयम् आत्मा विश्व-शरीरो यतो ऽव्यय इत्य्-अर्थः / वक्ष्यति च --- सत्-सर्वं वै हरेस् तनुर् इति / एतद् उक्तं भवति / अस्य अव्ययस्य अपि परस्य ब्रह्मणो विष्णोर् विश्व-शरीरतया तादात्म्य-विरुद्धम् इत्य् आत्म-शरीरयोश् च स्व-भावा व्यवस्थिता एव / एवं-भूतस्य सर्व-ईश्वरस्य विष्णोः प्रपञ्च-अन्तर्भूत-नियाम्य-कोटि-निविष्ट-ब्रह्म-आदि-देव-तिर्यङ्-मनुष्येषु तत् तत् समाश्रयणीयत्वाय स्व-इच्छा-अवतारः पूर्व-उक्तः / तद् एतद् ब्रह्म-आदीनां भावना-त्रय-अन्वयेन कर्म-वश्यत्वं भगवतः पर-ब्रह्म-भूतस्य वासु-देवस्य निखिल-जगद्-उपकाराय स्व-इच्छया स्वेन एव रूपेण देव-आदिष्व् अवतार इति च षष्टे ऽंशे शुभ-आश्रय-प्रकरणे सुव्यक्तम् उक्तम् / अस्य देव-आदि-रूपेण-अवतारेष्व् अपि न प्राकृतो देह इति महाभारते --- न भूत-संघ-संस्थानो देहो ऽस्य परम-आत्मनः / इति प्रतिपादितः / श्रुतिभिश् च --- अजायमानो बहुधा विजायते --- तस्य धीराः परिजानन्ति योनिम् इति / कर्म-वश्यानां ब्रह्म-आदीनाम् अनिच्छताम् अपि तत्-तत्-कर्म-अनुगुण-प्रकृति-परिणाम-रूप-भूत-संघ-संस्थान-विशेष-देव-आदि-शरीर-प्रवेश-रूपं जन्म अवर्जनीयम् / अयं तु सर्व-ईश्वरः सत्य-संकल्पो भगवान् एवं-भूत-शुभ-इतर-जन्म अकुर्वन्न् अपि स्व-इच्छया स्वेन एव निरतिशय-कल्याण-रूपेण देव-आदिषु जगद्-उपकाराय बहुधा जायते, तस्य एतस्य शुभ-इतर-जन्म अकुर्वतो ऽपि स्व-कल्याण-गुण-आनन्त्येन बहुधा योनिं बहु-विध-जन्म धीरा-धीरमताम् अग्रेसरा जानन्ति इत्य्-अर्थः /
114 SK तदेतन्निखिलजगन्निमित्तोपादानभूताज् जन्माद्य् अस्य यतः -- प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधादित्यादिसूत्रैः प्रतिपादितात् परस्माद् ब्रह्मणः परमपुरुषाद् अन्यस्य कस्यचित् परतरत्वं परमतः सेतून् मानसंबन्धभेदव्यपदेशेभ्य इत्याशङ्क्य सामान्यात् तु -- बुद्ध्यर्थः पादवत् -- स्थानविशेषात् प्रकाशादिवत् -- उपपत्तेश् च -- तथान्यप्रतिषेधात् -- अनेन सर्वगतत्वमायाम् आदिशब्दादिभ्य इति सूत्रकारः स्वयम् एव निराकरोति /
226 SK तद्-एतन्-निखिल-जगन्-निमित्त-उपादान-भूताज् जन्म-आद्य् अस्य यतः --- प्रकृतिश् च प्रतिज्ञा-दृष्टान्त-अनुपरोध-आदित्य-आदि-सूत्रैः प्रतिपादितात् परस्माद् ब्रह्मणः परम-पुरुषाद् अन्यस्य कस्यचित् परतरत्वं पर-मतः सेतून् मान-संबन्ध-भेद-व्यपदेशेभ्य इत्य्-आशङ्क्य सामान्यात् तु --- बुद्ध्य्-अर्थः पादवत् --- स्थान-विशेषात् प्रकाश-आदिवत् --- उपपत्तेश् च --- तथ आन्य-प्रतिषेधात् --- अनेन सर्व-गतत्व-मायाम् आदि-शब्द-आदिभ्य इति सूत्र-कारः स्वयम् एव निराकरोति /
115 SK मानवे च शास्त्रे -- प्रादुरासीत् तमोनुदः सिसृक्षुर् विविधाः प्रजाः / अप एव ससर्जादौ तासु वीर्यम् अपासृजत् // तस्मिञ् जज्ञे स्वयं ब्रह्म इति ब्रह्मणो जन्मश्रवणात् क्षेत्रज्ञत्वम् एवावगम्यते / तथा च स्रष्टुः परमपुरुषस्य तद्विसृष्टस्य च ब्रह्मणः अयं तस्य ताः पूर्वं तेन नारायणः स्मृतः / तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते // इति नामनिर्देशाच् च / तथा च वैष्णवे पुराणे हिरण्यगर्भादीनां भावनात्रयान्वयाद् अशुद्धत्वेन शुभाश्रयत्वानर्हतोपपादनात् क्षेत्रज्ञत्वं निश्चीयते /
228 SK मानवे च शास्त्रे --- प्रादुर्-आसीत् तमोनुदः सिसृक्षुर् विविधाः प्रजाः / अप एव ससर्जा अदौ तासु वीर्यम् अप असृजत् // तस्मिञ् जज्ञे स्वयं ब्रह्म इति ब्रह्मणो जन्म-श्रवणात् क्षेत्र-ज्ञत्वम् एव अवगम्यते / तथा च स्रष्टुः परम-पुरुषस्य तद्-विसृष्टस्य च ब्रह्मणः अयं तस्य ताः पूर्वं तेन नारायणः स्मृतः / तद्-विसृष्टः स पुरुषो लोके ब्रह्म इति कीर्त्यते // इति नाम-निर्देशाच् च / तथा च वैष्णवे पुराणे हिरण्य-गर्भ-आदीनां भावना-त्रय-अन्वयाद् अशुद्धत्वेन शुभ-आश्रयत्व-अनर्हता-उपपादनात् क्षेत्र-ज्ञत्वं निश्चीयते /
116 SK यद् अपि कैश्चिद् उक्तम् -- सर्वस्य शब्दजातस्य विध्यर्थवादमन्त्ररूपस्य कार्याभिधायित्वेनैव प्रामाण्यं वर्णनीयम् / व्यवहाराद् अन्यत्र शब्दस्य बोधकत्वशक्त्यवधारणासंभवाद् व्यवहारस्य च कार्यबुद्धिमूलत्वात् कार्यरूप एव शब्दार्थः / न परिनिष्पन्ने वस्तुनि शब्दः प्रमाणम् इति / अत्रोच्यते / प्रवर्तकवाक्यव्यवहार एव शब्दानाम् अर्थबोधकत्वशक्त्यवधारणं कर्तव्यम् इति किम् इयं राजाज्ञा / सिद्धवस्तुषु शब्दस्य बोधकत्वशक्तिग्रहणम् अत्यन्तसुकरम् / तथा हि -- केनचिद् धस्तचेष्टादिनापवरके दण्डः स्थित इति देवदत्ताय ज्ञापयेति प्रेषितः कश्चित् तज्ज्ञापने प्रवृत्तो ऽपवरके दण्डः स्थित इति शब्दं प्रयुङ्क्ते / मूकवद् धस्तचेष्टाम् इमां जानन् पार्श्वस्थो ऽन्यः प्राग्व्युत्पन्नो ऽपि तस्यार्थस्य बोधनायापवरके दण्डः स्थित इत्यस्य शब्दस्य प्रयोगदर्शनाद् अस्यार्थस्यायं शब्दो बोधक इति जानातीति किम् अत्र दुष्करम् / तथा बालस् तातो ऽयम् इयं मातायं मातुलो ऽयं मनुष्यो ऽयं मृगश् चन्द्रो ऽयम् अयं च सर्प इति मातापितृप्रभृतिभिः शब्दैः शनैः शनैर् अङ्गुल्या निर्देशने तत्र तत्र बहुशः शिक्षितस् तैर् एव शब्दैस् तेष्व् अर्थेषु स्वात्मनश् च बुद्ध्युत्पत्तिं दृष्ट्वा तेष्व् अर्थेषु तेषां शब्दानाम् अङ्गुल्या निर्देशपूर्वकः प्रयोगः सम्बन्धान्तराभावात् संकेतयितृपुरुषाज्ञानाच् च बोधकत्वनिबन्धन इति क्रमेण निश्चित्य पुनर् अप्य् अस्य शब्दस्यायम् अर्थ इति पूर्ववृद्धैः शिक्षितः सर्वशब्दानाम् अर्थम् अवगम्य स्वयम् अपि सर्वं वाक्यजातं प्रयुङ्क्ते / एवम् एव सर्वपदानां स्वार्थाभिधायित्वं संघातविशेषणां च यथावस्थितसंसर्गविशेषवाचित्वं च जानातीति कार्यार्थैव व्युत्तिपत्तिर् इत्यादिनिर्बन्धो निर्बन्धनः / अतः परिष्पन्नः वस्तुनि शब्दस्यबोधकत्वशक्त्यवधारणात् सर्वाणि वेदान्तवाक्यानि सकलजगत्कारणं सर्वकल्याणगुणाकरमुक्तलक्षणं ब्रह्म बोधयन्त्य् एव /
230 SK यद् अपि कैश्चिद् उक्तम् --- सर्वस्य शब्द-जातस्य विध्य्-अर्थ-वाद-मन्त्र-रूपस्य कार्य-अभिधायित्वेन एव प्रामाण्यं वर्णनीयम् / व्यवहाराद् अन्यत्र शब्दस्य बोधकत्व-शक्त्य्-अवधारण-असंभवाद् व्यवहारस्य च कार्य-बुद्धि-मूलत्वात् कार्य-रूप एव शब्द-अर्थः / न परिनिष्पन्ने वस्तुनि शब्दः प्रमाणम् इति / अत्र उच्यते / प्रवर्तक-वाक्य-व्यवहार एव शब्दानाम् अर्थ-बोधकत्व-शक्त्य्-अवधारणं कर्तव्यम् इति किम् इयं राज-आज्ञा / सिद्ध-वस्तुषु शब्दस्य बोधकत्व-शक्ति-ग्रहणम् अत्यन्त-सुकरम् / तथा हि --- केनचिद् धस्त-चेष्टा-आदिन आपवरके दण्डः स्थित इति देव-दत्ताय ज्ञापय इति प्रेषितः कश्चित् तज्-ज्ञापने प्रवृत्तो ऽपवरके दण्डः स्थित इति शब्दं प्रयुङ्क्ते / मूकवद् धस्त-चेष्टाम् इमां जानन् पार्श्व-स्थो ऽन्यः प्राग्-व्युत्पन्नो ऽपि तस्य-अर्थस्य बोधनाय-अपवरके दण्डः स्थित इत्य्-अस्य शब्दस्य प्रयोग-दर्शनाद् अस्य अर्थस्य अयं शब्दो बोधक इति जानाति इति किम् अत्र दुष्करम् / तथा बालस् तातो ऽयम् इयं मात आयं मातुलो ऽयं मनुष्यो ऽयं मृगश् चन्द्रो ऽयम् अयं च सर्प इति माता-पितृ-प्रभृतिभिः शब्दैः शनैः शनैर् अङ्गुल्या निर्देशने तत्र तत्र बहुशः शिक्षितस् तैर् एव शब्दैस् तेष्व् अर्थेषु स्व-आत्मनश् च बुद्ध्य्-उत्पत्तिं दृष्ट्वा तेष्व् अर्थेषु तेषां शब्दानाम् अङ्गुल्या निर्देश-पूर्वकः प्रयोगः सम्बन्ध-अन्तर-अभावात् संकेतयितृ-पुरुष-आज्ञानाच् च बोधकत्व-निबन्धन इति क्रमेण निश्चित्य पुनर् अप्य् अस्य शब्दस्य अयम् अर्थ इति पूर्व-वृद्धैः शिक्षितः सर्व-शब्दानाम् अर्थम् अवगम्य स्वयम् अपि सर्वं वाक्य-जातं प्रयुङ्क्ते / एवम् एव सर्व-पदानां स्व-अर्थ-अभिधायित्वं संघात-विशेषणां च यथा-अवस्थित-संसर्ग-विशेष-वाचित्वं च जानाति इति कार्य-अर्थ-एव व्युत्तिपत्तिर् इत्य्-आदि-निर्बन्धो निर्बन्धनः / अतः परिष्पन्नः वस्तुनि शब्दस्य-बोधकत्व-शक्त्य्-अवधारणात् सर्वाणि वेदान्त-वाक्यानि सकल-जगत्-कारणं सर्व-कल्याण-गुण-आकर-मुक्त-लक्षणं ब्रह्म बोधयन्त्य् एव /
117 SK अपि च कार्यार्थ एव व्युत्पत्तिर् अस्तु / वेदान्दवाक्यान्य् अप्य् उपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन दुःखासंभिन्नदेशविशेषरूपस्वर्गादिवद् रात्रिसत्रप्रतिष्ठानादिवद् अपगोरणशतयातनासाध्यसाधनभाववच् च कर्योपयोगितयैव सर्वं बोधयन्ति / तथा+हि -- ब्रह्मविद् आप्नोति परम् इत्यत्र ब्रह्मोपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन ब्रह्मप्राप्तिः श्रूयते -- परप्राप्तिकामो ब्रह्म विद्याद् इत्यत्र प्राप्यतया प्रतीयमानं ब्रह्मस्वरूपं तद्विशेषणं च सर्वं कार्योपयोगितयैव सिद्धं भवति / तदन्तर्गतम् एव जगत्स्रष्टृत्वं संहर्तृत्वम् आधारत्वम् अन्तरात्मत्वम् इत्याद्य् उक्तम् अनुक्तं च सर्वम् इति न किंचिद् अनुपपन्नम् /
232 SK अपि च कार्य-अर्थ एव व्युत्पत्तिर् अस्तु / वेदान्द-वाक्यान्य् अप्य् उपासन-विषय-कार्य-अधिकृत-विशेषण-भूत-फलत्वेन दुःख-असंभिन्न-देश-विशेष-रूप-स्वर्ग-आदिवद् रात्रि-सत्र-प्रतिष्ठान-आदिवद् अपगोरण-शत-यातना-साध्य-साधन-भाववच् च कर्य-उपयोगितय ऐव सर्वं बोधयन्ति / तथा+हि --- ब्रह्म-विद् आप्नोति परम् इत्य्-अत्र ब्रह्म-उपासन-विषय-कार्य-अधिकृत-विशेषण-भूत-फलत्वेन ब्रह्म-प्राप्तिः श्रूयते --- पर-प्राप्ति-कामो ब्रह्म विद्याद् इत्य्-अत्र प्राप्यतया प्रतीयमानं ब्रह्म-स्व-रूपं तद्-विशेषणं च सर्वं कार्य-उपयोगितय ऐव सिद्धं भवति / तद्-अन्तर्गतम् एव जगत्-स्रष्टृत्वं संहर्तृत्वम् आधारत्वम् अन्तरात्मत्वम् इत्य्-आद्य् उक्तम् अनुक्तं च सर्वम् इति न किंचिद् अनुपपन्नम् /
118 SK एवं च सति मन्त्रार्थवादगता ह्य् अविरुद्धा अपूर्वाश् चार्थाः सर्वे विधिशेषतयैव सिद्धा भवन्ति / यथोक्तं द्रमिडभाष्ये -- ऋणं हि वै जायत इति श्रुतेर् इत्य् उपक्रम्य यद्य् अप्य् अवदानस्तुतिपरं वाक्यं तथापि नासता स्तुतिर् उपपद्यत इति / एतद् उक्तं भवति -- सर्वो ह्य् अर्थवादभागो देवताराधनभूतयागादेः साङ्गस्याराध्यदेवतायाश् चादृष्टरूपान् गुणान् सहस्रशो वदन् सहस्रशः कर्मणि प्राशस्त्यबुद्धिम् उत्पादयति / तेषाम् असद्भावे प्राशस्त्यबुद्धिर् एव न स्याद् इति कर्मणि प्राशस्त्यबुद्ध्यर्थं गुणसद्भावम् एव बोधयतीति / अनयैव दिशा सर्वे मन्त्रार्थवादावगता अर्थाः सिद्धाः /
234 SK एवं च सति मन्त्र-अर्थ-वाद-गता ह्य् अविरुद्धा अपूर्वाश् च अर्थाः सर्वे विधि-शेषतय ऐव सिद्धा भवन्ति / यथ ऊक्तं द्रमिड-भाष्ये --- ऋणं हि वै जायत इति श्रुतेर् इत्य् उपक्रम्य यद्य् अप्य् अवदान-स्तुति-परं वाक्यं तथ आपि न-असता स्तुतिर् उपपद्यत इति / एतद् उक्तं भवति --- सर्वो ह्य् अर्थ-वाद-भागो देवता-आराधन-भूत-याग-आदेः साङ्गस्या अराध्य-देवतायाश् च अदृष्ट-रूपान् गुणान् सहस्रशो वदन् सहस्रशः कर्मणि प्राशस्त्य-बुद्धिम् उत्पादयति / तेषाम् असद्-भावे प्राशस्त्य-बुद्धिर् एव न स्याद् इति कर्मणि प्राशस्त्य-बुद्ध्य्-अर्थं गुण-सद्-भावम् एव बोधयति इति / अनय ऐव दिशा सर्वे मन्त्र-अर्थ-वाद-अवगता अर्थाः सिद्धाः /
119 SK अपि च कार्यवाक्यार्थवादिभिः किम् इदं कार्यत्वं नामेति वक्तव्यम् / कृतिभावभाविता कृत्युद्देश्यता चेति चेत् / किम् इदं कृत्युद्देश्यत्वम् / यद् अधिकृत्य कृतिर् वर्तते तत् कृत्युद्देश्यत्वम् इति चेत् / पुरुषव्यापाररूपायाः कृतेः को ऽयम् अधिकारो नाम / यत्प्राप्तीच्छया कृतिम् उत्पादयति पुरुषः तत् कृत्युद्देश्यत्वम् इति चेद् धन्त तर्हीष्टत्वम् एव कृत्युद्देश्यत्वम् / अथैवं मनुषे इष्टस्यैव रूपद्वयम् अस्ति / इच्छाविषयतया स्थितिः पुरुषप्रेरकत्वं च / तत्र प्रेरकत्वाकारः कृत्युद्देश्यत्वम् इति सो ऽयं स्वपक्षाभिनिवेशकारितो वृथाश्रमः / तथा हीच्छाविषयतया प्रतीतस्य स्वप्रयत्नोत्पत्तिम् अन्तरेणासिद्धिर् एव प्रेरकत्वम् / तत एव प्रवृत्तेः / इच्छायां जातायाम् इष्टस्य स्वप्रयत्नोत्पत्तिम् अन्तरेणासिद्धिः प्रतीयते चेत् ततश् चिकीर्षा जायते ततः प्रवर्तते पुरुष इति तत्त्वविदां प्रक्रिया / तस्माद् इष्टस्य कृत्यधीनात्मलाभत्वातिरेकि कृत्युद्देश्यत्वं नाम किम् पि न दृष्यते / अथोच्यते -- इष्टताहेतुश् च पुरुषानुकूलता / तत्पुरुषानुकूलत्वं कृत्युद्देश्यत्वम् इति चेत् / नैवम् / पुरुषानुकूलं सुखम् इत्य् अनर्थान्तरम् / तथा पुरुषानुकूलं दुःखपर्यायम् / अतः सुखव्यतिरिक्तस्य कस्यापि पुरुषानुकूलत्वं न संभवति / ननु च दुःखनिवृत्तेर् अपि सुखव्यतिरिक्तायाः पुरुषानुकूलता दृष्टा / नैतत् / आत्मानुकूलं सुखम् आत्मप्रतिकूलं दुःखम् इति हि सुखदुःखयोर् विवेकः / तत्रात्मानुकूलं सुखम् इष्टं भवति / तत्प्रतिकूलं दुःखं चानिष्टम् / अतो दुःखसंयोगस्यासह्यतया तन्निवृत्तिर् अपीष्टा भवति / तत एवेष्टतासाम्याद् अनुकूलताभ्रमः / तथा हि -- प्रकृतिसंसृष्टस्य संसारिणः पुरुषस्यानुकूलसंयोगः प्रतिकूलसंयोगः स्वरूपेणावस्थितिर् इति च तिस्रो ऽवस्थाः / तत्र प्रतिकूलसंबन्धनिवृत्तिश् चानुकूलसंबन्धनिवृत्तिश् च स्वरूपेणावस्थितिर् एव / तस्मात् प्रतिकूलसंयोगे वर्तमाने तन्निवृत्तिरूपा स्वरूपेणावस्थितिर् अपीष्टा भवति / तत्रेष्टतासाम्याद् अनुकूलताभ्रमः /
236 SK अपि च कार्य-वाक्य-अर्थ-वादिभिः किम् इदं कार्यत्वं नाम इति वक्तव्यम् / कृति-भाव-भाविता कृत्य्-उद्देश्यता च इति चेत् / किम् इदं कृत्य्-उद्देश्यत्वम् / यद् अधिकृत्य कृतिर् वर्तते तत् कृत्य्-उद्देश्यत्वम् इति चेत् / पुरुष-व्यापार-रूपायाः कृतेः को ऽयम् अधिकारो नाम / यत्-प्राप्ति-इच्छया कृतिम् उत्पादयति पुरुषः तत् कृत्य्-उद्देश्यत्वम् इति चेद् धन्त तर्हि इष्टत्वम् एव कृत्य्-उद्देश्यत्वम् / अथ एवं मनुषे इष्टस्य एव रूप-द्वयम् अस्ति / इच्छा-विषयतया स्थितिः पुरुष-प्रेरकत्वं च / तत्र प्रेरकत्व-आकारः कृत्य्-उद्देश्यत्वम् इति सो ऽयं स्व-पक्ष-अभिनिवेश-कारितो वृथ-आश्रमः / तथा हि इच्छा-विषयतया प्रतीतस्य स्व-प्रयत्न-उत्पत्तिम् अन्तरेण असिद्धिर् एव प्रेरकत्वम् / तत एव प्रवृत्तेः / इच्छायां जातायाम् इष्टस्य स्व-प्रयत्न-उत्पत्तिम् अन्तरेण असिद्धिः प्रतीयते चेत् ततश् चिकीर्षा जायते ततः प्रवर्तते पुरुष इति तत्त्व-विदां प्रक्रिया / तस्माद् इष्टस्य कृत्य्-अधीन-आत्म-लाभत्व-अतिरेकि कृत्य्-उद्देश्यत्वं नाम किम् पि न दृष्यते / अथ उच्यते --- इष्टता-हेतुश् च पुरुष-अनुकूलता / तत्-पुरुष-अनुकूलत्वं कृत्य्-उद्देश्यत्वम् इति चेत् / न एवम् / पुरुष-अनुकूलं सुखम् इत्य् अनर्थ-अन्तरम् / तथा पुरुष-अनुकूलं दुःख-पर्यायम् / अतः सुख-व्यतिरिक्तस्य कस्य अपि पुरुष-अनुकूलत्वं न संभवति / ननु च दुःख-निवृत्तेर् अपि सुख-व्यतिरिक्तायाः पुरुष-अनुकूलता दृष्टा / न एतत् / आत्म-अनुकूलं सुखम् आत्म-प्रतिकूलं दुःखम् इति हि सुख-दुःखयोर् विवेकः / तत्र-आत्म-अनुकूलं सुखम् इष्टं भवति / तत्-प्रतिकूलं दुःखं च अनिष्टम् / अतो दुःख-संयोगस्य असह्यतया तन्-निवृत्तिर् अपि इष्टा भवति / तत एव इष्टता-साम्याद् अनुकूलता-भ्रमः / तथा हि --- प्रकृति-संसृष्टस्य संसारिणः पुरुषस्य अनुकूल-संयोगः प्रतिकूल-संयोगः स्व-रूपेण अवस्थितिर् इति च तिस्रो ऽवस्थाः / तत्र प्रतिकूल-संबन्ध-निवृत्तिश् च अनुकूल-संबन्ध-निवृत्तिश् च स्व-रूपेण अवस्थितिर् एव / तस्मात् प्रतिकूल-संयोगे वर्तमाने तन्-निवृत्ति-रूपा स्व-रूपेण अवस्थितिर् अपि इष्टा भवति / तत्र इष्टता-साम्याद् अनुकूलता-भ्रमः /
120 SK अतः सुखरूपत्वाद् अनुकूलतायाः नियोगस्यानुकूलतां वदन्तं प्रामाणिकाः परिहसन्ति / इष्टस्यार्थविशेषस्य निवर्तकतयैव हि नियोगस्य नियोगत्वं स्थिरत्वम् अपूर्वत्वं च प्रतीयते / स्वर्गकामो यजेतेत्य् अत्र कार्यस्य क्रियातिरिक्ता स्वर्गकामपदसमभिव्याहारेण स्वर्गसाधनत्वनिश्चयाद् एव भवन्ति / न च वाच्यं यजेतेत्य् अत्र प्रथमं नियोगः स्वप्रधानतयैव प्रतीयते स्वर्गकामपदसमभिव्याहारात् स्वसिद्धये स्वर्गसिद्ध्यनुकूलता च नियोगस्येति / यजेतेति हि धात्वर्थस्य पुरुषप्रयत्नसाध्यता प्रतीयते / स्वर्गकामपदसमभिव्याहाराद् एव धात्वर्थातिरेकिणो नियोगत्वं स्थिरत्वम् अपूर्वत्वं चेत्यादि / तच् च स्वर्गसाधनत्वप्रतीतिनिबन्धनम् / समभिव्याहृतस्वर्गकामपदार्थान्वययोग्यं स्वर्गसाधनम् एव कार्यं लिङादयो ऽभिदधतीति लोकव्युत्पत्तिर् अपि तिरस्कृता / एतद् उक्तं भवति -- समभिव्यहृतपदान्तरवाच्यार्थान्वययोग्यम् एवेतरपदप्रतिपाद्यम् इत्यन्विताभिधायिपदसंघातरूपवाक्यश्रवणसमन् अन्तरम् एव प्रतीयते / तच् च स्वर्गसाधनरूपम् / अतः क्रियावद् अनन्यार्थतापि विरोधाद् एव परित्यक्तेति / अत एव गङ्गायां घोष इत्यादौ घोषप्रतिवासयोग्यार्थोपस्थापनपरत्वं गङ्गापदस्याश्रीयते / प्रथमं गङ्गापदेन गङ्गार्थः स्मृत इति गङ्गापदार्थस्य पेयत्वं न वाक्यार्थान्वयीभवति / एवम् अत्र अपि यजेतेत्येतावन्मात्रश्रवणे कार्यम् अनन्यार्थं स्मृतम् इति वाक्यार्थान्वयसमये कार्यस्यानन्यार्थता नावतिष्ठते / कार्याभिधायिपदश्रवणवेलायां प्रथमं कार्यम् अनन्यार्थं प्रतीतम् इत्य् एतद् अपि न संगच्छते / व्युत्पत्तिकाले गवानयनादिक्रियाया दुःखरूपाया इष्टविशेषसाधनतयैव कार्यताप्रतीतेः / अतो नियोगस्य पुरुषानुकूलत्वं सर्वलोकविरुद्धं नियोगस्य सुखरूपपुरुषानुकूलतां वदतः स्वानुभवविरोधश् च / करीर्या वृष्टिकामो यजेय्तेत्यादिषु सिद्धे ऽपि नियोगे वृष्ट्यादिसिद्धिनिमित्तस्य वृष्टिव्यतिरेकेण नियोगस्यानुकूलता नानुभूयते / यद्य् अप्य् अस्मिञ् जन्मनि वृष्ट्यादिसिद्धेर् अनियमस् तथाप्य् अनियमाद् एव नियोगसिद्धिर् अवश्याश्रयणीया / तस्मिन्न् अनुकूलतापर्यायसुखानुभूतिर् न दृश्यते / एवम् उक्तरीत्या कृतिसाध्येष्टत्वातिरेकि कृत्युद्देश्यत्वं न दृश्यते /
238 SK अतः सुख-रूपत्वाद् अनुकूलतायाः नियोगस्य अनुकूलतां वदन्तं प्रामाणिकाः परिहसन्ति / इष्टस्य अर्थ-विशेषस्य निवर्तकतय ऐव हि नियोगस्य नियोगत्वं स्थिरत्वम् अपूर्वत्वं च प्रतीयते / स्वर्ग-कामो यजेत इत्य् अत्र कार्यस्य क्रिया-अतिरिक्ता स्वर्ग-काम-पद-समभिव्याहारेण स्वर्ग-साधनत्व-निश्चयाद् एव भवन्ति / न च वाच्यं यजेत इत्य् अत्र प्रथमं नियोगः स्व-प्रधानतय ऐव प्रतीयते स्वर्ग-काम-पद-समभिव्याहारात् स्व-सिद्धये स्वर्ग-सिद्ध्य्-अनुकूलता च नियोगस्य इति / यजेत इति हि धात्व्-अर्थस्य पुरुष-प्रयत्न-साध्यता प्रतीयते / स्वर्ग-काम-पद-समभिव्याहाराद् एव धात्व्-अर्थ-अतिरेकिणो नियोगत्वं स्थिरत्वम् अपूर्वत्वं च इत्य्-आदि / तच् च स्वर्ग-साधनत्व-प्रतीति-निबन्धनम् / समभिव्याहृत-स्वर्ग-काम-पद-अर्थ-अन्वय-योग्यं स्वर्ग-साधनम् एव कार्यं लिङ्-आदयो ऽभिदधति इति लोक-व्युत्पत्तिर् अपि तिरस्कृता / एतद् उक्तं भवति --- समभिव्यहृत-पद-अन्तर-वाच्य-अर्थ-अन्वय-योग्यम् एव इतर-पद-प्रतिपाद्यम् इत्य्-अन्वित-अभिधायि-पद-संघात-रूप-वाक्य-श्रवण-समन् अन्तरम् एव प्रतीयते / तच् च स्वर्ग-साधन-रूपम् / अतः क्रियावद् अनन्य-अर्थत आपि विरोधाद् एव परित्यक्त ईति / अत एव गङ्गायां घोष इत्य्-आदौ घोष-प्रतिवास-योग्य-अर्थ-उपस्थापन-परत्वं गङ्गा-पदस्या अश्रीयते / प्रथमं गङ्गा-पदेन गङ्गा-अर्थः स्मृत इति गङ्गा-पद-अर्थस्य पेयत्वं न वाक्य-अर्थ-अन्वयीभवति / एवम् अत्र अपि यजेत इत्य्-एतावन्-मात्र-श्रवणे कार्यम् अनन्य-अर्थं स्मृतम् इति वाक्य-अर्थ-अन्वय-समये कार्यस्य अनन्य-अर्थता न अवतिष्ठते / कार्य-अभिधायि-पद-श्रवण-वेलायां प्रथमं कार्यम् अनन्य-अर्थं प्रतीतम् इत्य् एतद् अपि न संगच्छते / व्युत्पत्ति-काले गव-आनयन-आदि-क्रियाया दुःख-रूपाया इष्ट-विशेष-साधनतय ऐव कार्यता-प्रतीतेः / अतो नियोगस्य पुरुष-अनुकूलत्वं सर्व-लोक-विरुद्धं नियोगस्य सुख-रूप-पुरुष-अनुकूलतां वदतः स्व-अनुभव-विरोधश् च / करीर्या वृष्टि-कामो यजेय्त इत्य्-आदिषु सिद्धे ऽपि नियोगे वृष्ट्य्-आदि-सिद्धि-निमित्तस्य वृष्टि-व्यतिरेकेण नियोगस्य अनुकूलता न अनुभूयते / यद्य् अप्य् अस्मिञ् जन्मनि वृष्ट्य्-आदि-सिद्धेर् अनियमस् तथ आप्य् अनियमाद् एव नियोग-सिद्धिर् अवश्य-आश्रयणीया / तस्मिन्न् अनुकूलता-पर्याय-सुख-अनुभूतिर् न दृश्यते / एवम् उक्त-रीत्या कृति-साध्य-इष्टत्व-अतिरेकि कृत्य्-उद्देश्यत्वं न दृश्यते /
121 SK कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वम् इति चेत् / किम् इदं शेषित्वं किं च शेषत्वम् इति वक्तव्यम् / कार्यं प्रति संबन्धी शेषः / तत्प्रतिसंबन्धित्वं शेषित्वम् इति चेत् / एवं तर्हि कार्यत्वम् एव शेषित्वम् इत्य् उक्तं भवति / कार्यत्वम् एव विचार्यते / परोद्देशप्रवृत्तकृतिव्याप्त्यर्हत्वम् शेषत्वम् इति चेत् / को ऽयं परोद्देशो नामेति / अयम् एव हि विचार्यते / उद्देश्यत्वं नामेप्सितत्वसाध्यत्वम् इति चेत् / किम् इदम् ईप्सितत्वम् / कृतिप्रयोजनत्वम् इति चेत् पुरुषस्य कृत्यारम्भप्रयोजनम् एव हि कृतिप्रयोजनम् / स चेच्छाविषयः कृत्यधीनात्मलाभ इति पूर्वोक्त एव / अयम् एव हि सर्वत्र शेषशेषिभावः / परगतातिशयाधानेच्छोपादेयत्वम् एव यस्य स्वरूपं स शेषः परः शेषी / फलोत्पत्तीच्छया यागादेस् तत्प्रयत्नस्य चोपादेयत्वं यागादिसिद्धीच्छयान्यत् सर्वम् उपादेयम् /
240 SK कृतिं प्रति शेषित्वं कृत्य्-उद्देश्यत्वम् इति चेत् / किम् इदं शेषित्वं किं च शेषत्वम् इति वक्तव्यम् / कार्यं प्रति संबन्धी शेषः / तत्-प्रतिसंबन्धित्वं शेषित्वम् इति चेत् / एवं तर्हि कार्यत्वम् एव शेषित्वम् इत्य् उक्तं भवति / कार्यत्वम् एव विचार्यते / पर-उद्देश-प्रवृत्त-कृति-व्याप्त्य्-अर्हत्वम् शेषत्वम् इति चेत् / को ऽयं पर-उद्देशो नाम इति / अयम् एव हि विचार्यते / उद्देश्यत्वं नामा इप्सितत्व-साध्यत्वम् इति चेत् / किम् इदम् ईप्सितत्वम् / कृति-प्रयोजनत्वम् इति चेत् पुरुषस्य कृत्य्-आरम्भ-प्रयोजनम् एव हि कृति-प्रयोजनम् / स च इच्छा-विषयः कृत्य्-अधीन-आत्म-लाभ इति पूर्व-उक्त एव / अयम् एव हि सर्वत्र शेष-शेषि-भावः / पर-गत-अतिशय-आधान-इच्छा-उपादेयत्वम् एव यस्य स्व-रूपं स शेषः परः शेषी / फल-उत्पत्ति-इच्छया याग-आदेस् तत्-प्रयत्नस्य च उपादेयत्वं याग-आदि-सिद्धि-इच्छय आन्यत् सर्वम् उपादेयम् /
122 SK एवं गर्भदासादीनाम् अपि पुरुषविशेषातिशयाधानोपादेयत्वम् एव स्वरूपम् / एवम् ईश्वरगतातिशयाधानेच्छयोपादेयत्वम् एव चेतनाचेतनात्मकस्य नित्यस्यानित्यस्य च सर्वस्य वस्तुनः स्वरूपम् इति सर्वम् ईश्वरशेषत्वम् एव सर्वस्य चेश्वरः शेषीति सर्वस्य वशी सर्वस्येशानः पतिं विश्वस्येत्याद्युक्तम् / कृतिसाध्यं प्रधानं यत् तत्कार्यम् अभिधीयत इत्य् अयम् अर्थः श्रद्दधानेष्व् एव शोभते /
242 SK एवं गर्भ-दास-आदीनाम् अपि पुरुष-विशेष-अतिशय-आधान-उपादेयत्वम् एव स्व-रूपम् / एवम् ईश्वर-गत-अतिशय-आधान-इच्छय ऊपादेयत्वम् एव चेतन-अचेतन-आत्मकस्य नित्यस्य अनित्यस्य च सर्वस्य वस्तुनः स्व-रूपम् इति सर्वम् ईश्वर-शेषत्वम् एव सर्वस्य चा इश्वरः शेषि ईति सर्वस्य वशी सर्वस्या इशानः पतिं विश्वस्य इत्य्-आद्य्-उक्तम् / कृति-साध्यं प्रधानं यत् तत्-कार्यम् अभिधीयत इत्य् अयम् अर्थः श्रद्दधानेष्व् एव शोभते /
123 SK अपि च स्वर्गकामो यजेतेत्यादिषु लकारवाच्यकर्तृविशेषसमर्पणपराणां स्वर्गकामादिपदानां नियोज्यविशेषसमर्पणपरत्वं शब्दानुशासनविरुद्धं केनावगम्यते / साध्यस्वर्गविशिष्टस्य स्वर्गसाधने कर्तृत्वान्वयो न घटत इति चेत् / नियोज्यत्वान्वयो ऽपि न घटत इति हि स्वर्गसाधनत्वनिश्चयः / स तु शास्त्रसिद्धे कर्तृत्वान्वये स्वर्गसाधनत्वनिश्चयः क्रियते / यथा भोक्तुकामो देवदत्तगृहं गच्छेद् इत्युक्ते भोजनकामस्य देवदत्तगृहगमने कर्तृत्वश्रवणाद् एव प्रागज्ञातम् अपि भोजनसाधनत्वं देवदत्तगृहगमनस्यावगम्यते / एवम् अत्रापि भवति / न क्रियान्तरं प्रति कर्तृतया श्रुतस्य क्रियान्तरे कर्तृत्वकल्पनं युक्तम् -- यजेतेति हि यागकर्तृतया श्रुतस्य बिद्धौ कर्तृत्वकल्पनं क्रियते / बुद्धेः कर्तृत्वकल्पनम् एव हि नियोज्यत्वम् / यथोक्तं -- नियोज्य सर्वकार्यं यः स्वकीयत्वेन बुध्यते / इति / यष्टृत्वानुगुणं तद्बोधृत्वम् इति चेत् / देवदत्तः पचेद् इति पाके कर्तृतया श्रुतस्य देवदत्तस्य पाकार्थगमनं पाकानुगुणम् इति गमने कर्तृत्वकल्पनं न युज्यते /
244 SK अपि च स्वर्ग-कामो यजेत इत्य्-आदिषु ल-कार-वाच्य-कर्तृ-विशेष-समर्पण-पराणां स्वर्ग-काम-आदि-पदानां नियोज्य-विशेष-समर्पण-परत्वं शब्द-अनुशासन-विरुद्धं केन अवगम्यते / साध्य-स्वर्ग-विशिष्टस्य स्वर्ग-साधने कर्तृत्व-अन्वयो न घटत इति चेत् / नियोज्यत्व-अन्वयो ऽपि न घटत इति हि स्वर्ग-साधनत्व-निश्चयः / स तु शास्त्र-सिद्धे कर्तृत्व-अन्वये स्वर्ग-साधनत्व-निश्चयः क्रियते / यथा भोक्तु-कामो देवदत्त-गृहं गच्छेद् इत्य्-उक्ते भोजन-कामस्य देवदत्त-गृह-गमने कर्तृत्व-श्रवणाद् एव प्राग्-अज्ञातम् अपि भोजन-साधनत्वं देवदत्त-गृह-गमनस्य अवगम्यते / एवम् अत्र अपि भवति / न क्रिया-अन्तरं प्रति कर्तृतया श्रुतस्य क्रिया-अन्तरे कर्तृत्व-कल्पनं युक्तम् --- यजेत इति हि याग-कर्तृतया श्रुतस्य बिद्धौ कर्तृत्व-कल्पनं क्रियते / बुद्धेः कर्तृत्व-कल्पनम् एव हि नियोज्यत्वम् / यथा-उक्तं --- नियोज्य सर्व-कार्यं यः स्वकीयत्वेन बुध्यते / इति / यष्टृत्व-अनुगुणं तद्-बोधृत्वम् इति चेत् / देवदत्तः पचेद् इति पाके कर्तृतया श्रुतस्य देवदत्तस्य पाक-अर्थ-गमनं पाक-अनुगुणम् इति गमने कर्तृत्व-कल्पनं न युज्यते /
124 SK किं च लिङादिशब्दवाच्यं स्थायिरूपं किम् इत्य् अपूर्वम् आश्रीयते / स्वर्गकामपदसमभिव्याहारानुपपत्तेर् इति चेत् / कात्रानुपपत्तिः / सिषाधयिषितस्वर्गो हि स्वर्गकामः / तस्य स्वर्गकामस्य कालान्तरभाविस्वर्गसिद्धौ क्षणभङ्गिनी यागादिक्रिया न समर्थेति चेत् / अनाघ्रातवेदसिद्धान्तानाम् इयम् अनुपपत्तिः / सर्वैः कर्मभिर् आराधितः परमेश्वरो भगवान् नारायणस् तत्तदिष्टं फलं ददातीति वेदविदो वदन्ति / यथाहुर् वेदविदग्रेसरा द्रमिडाचार्याः -- फलसंबिभत्सया हि कर्मभिर् आत्मानं पिप्रीषन्ति स प्रीतो ऽलं फलायेति शास्त्रमर्यादा इति / फलसंबन्धेच्छया कर्मभिर् यागदानहोमादिभिर् इन्द्रियादिदेवतामुखेन तत्तदन्तर्यामिरूपेणावस्थितम् इन्द्रादिशब्दवाच्यं परमात्मानं भगवन्तं वासुदेवम् आरिराधयिषन्ति, स हि कर्मभिर् आराधितस् तेषाम् इष्टानि फलानि प्रयच्छतीत्यर्थः / तथा च श्रुतिः -- इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिर् इति / इष्टापूर्तम् इति सकलश्रुतिस्मृतिचोदितं कर्मोच्यते / तद्विश्वं बिभर्ति -- इन्द्राग्निवरुणादिसर्वदेवतासंबन्धितया प्रतीयमानं तत्तदन्तरात्मतयावस्थितः परमपुरुषः स्वयम् एव बिभर्ति स्वयम् एव स्वीकरोति / भुवनस्य नाभिः -- ब्रह्मक्षत्रादिसर्ववर्णपूर्णस्य भुवनस्य धारकः -- तैस् तैः कर्मभिर् आराधितस् तत्तदिष्टफलप्रदानेन भुवनानां धारक इति नाभिर् इत्युक्तः / अग्निवायुप्रभृतिदेवतान्तरात्मतया तत्तच्छब्दाभिधेयो ऽयम् एवेत्य् आह -- तद् एवाग्निस् तद्वायुस् तत्सूर्यस् तद् उ चन्द्रमा इति / यथोक्तं भगवता -- यो यो याम् यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति / तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् // स तस्य श्रद्धया युक्तस् तस्याराधनम् ईहते / लभते च ततः कामान् मयैव विहितान् इह तान् // इति / यां यां तनुम् इतीन्द्रादिदेवताविशेषास् तत्तदन्तर्यामितयावस्थितस्य भगवतस् तनवः शरीराणीत्यर्थः / अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च / इत्यादि / प्रभुर् एव चेति सर्वफलानां प्रदाता चेत्यर्थः / यथा च यज्ञैस् त्वम् इज्यसे नित्यं सर्वदेवमयाच्युत / यैः स्वधर्मपरैर् नाथ नरैर् आदाधितो भवान् / ते तरन्त्य् अखिलाम् एतां मयाम् आत्मविमुक्तये // इति / सेतिहासपुराणेषु सर्वेष्व् एव वेदेषु सर्वाणि कर्माणि सर्वेश्वराराधनरूपाणि, तैस् तैः कर्मभिर् आराधितः पुरुषोत्तमस् तत्तदिष्टं फलं ददातीति तत्र तत्र प्रपञ्चितम् / एवम् हि सर्वशक्तिं सर्वज्ञं सर्वेश्वरं भगवन्तम् इन्द्रादिदेवतान्तर्यामिरूपेण यागदानहोमादिवेदोदितसर्वकर्मणां भोक्तारं सर्वफलानां प्रदातारं च सर्वाः श्रुतयो वदन्ति / चतुर्होतारो यत्र संपदं गच्छन्ति देवैर् इत्याद्याः / चतुर्होतारो यज्ञाः, यत्र परमात्मनि देवेष्व् अन्तर्यामिरूपेणावस्थिते, देवैः संपदं गच्छन्ति -- देवैः संबन्धं गच्छन्ति यज्ञा इत्यर्थः / अन्तर्यामिरूपेणावस्थितस्य परमात्मनः शरीरतयावस्थितानाम् इन्द्रादीनां यागादिसंबन्ध इत्य् उक्तं भवति / यथोक्तं भगवता -- भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् / इति / तस्माद् अग्न्यादिदेवतान्तरात्मभूतपरमपुरुषाराधनरूपभूतानि सर्वाणि कर्माणि, स एव चाभिलषितफलप्रदातेति किम् अत्रापूर्वेण व्युत्पत्तिपथदूरवर्तिना वाच्यतयाभ्युपगतेन कल्पितेन वा प्रयोजनम् / एवं च सति लिङादेः को ऽयम् अर्थः परिगृहीतो भवति / यज देवपूजायाम् इति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयो ऽभिदधतीति न किंचिद् अनुपपन्नम् / कर्तृवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्यः / भूतवर्तमानादिकम् अन्ये वदन्ति / लिङादयस् तु कर्तृव्यापारसाध्यतां वदन्ति /
246 SK किं च लिङ्-आदि-शब्द-वाच्यं स्थायि-रूपं किम् इत्य् अपूर्वम् आश्रीयते / स्वर्ग-काम-पद-समभिव्याहार-अनुपपत्तेर् इति चेत् / क आत्र अनुपपत्तिः / सिषाधयिषित-स्वर्गो हि स्वर्ग-कामः / तस्य स्वर्ग-कामस्य काल-अन्तर-भावि-स्वर्ग-सिद्धौ क्षण-भङ्गिनी याग-आदि-क्रिया न समर्थ ईति चेत् / अनाघ्रात-वेद-सिद्धान्तानाम् इयम् अनुपपत्तिः / सर्वैः कर्मभिर् आराधितः परम-ईश्वरो भगवान् नारायणस् तत्-तद्-इष्टं फलं ददाति इति वेद-विदो वदन्ति / यथा आहुर् वेद-विद्-अग्रेसरा द्रमिड-आचार्याः --- फल-संबिभत्सया हि कर्मभिर् आत्मानं पिप्रीषन्ति स प्रीतो ऽलं फलाय इति शास्त्र-मर्यादा इति / फल-संबन्ध-इच्छया कर्मभिर् याग-दान-होम-आदिभिर् इन्द्रिय-आदि-देवता-मुखेन तत्-तद्-अन्तर्यामि-रूपेण अवस्थितम् इन्द्र-आदि-शब्द-वाच्यं परम-आत्मानं भगवन्तं वासुदेवम् आरिराधयिषन्ति, स हि कर्मभिर् आराधितस् तेषाम् इष्टानि फलानि प्रयच्छति इत्य्-अर्थः / तथा च श्रुतिः --- इष्ट-अपूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिर् इति / इष्ट-अपूर्तम् इति सकल-श्रुति-स्मृति-चोदितं कर्म उच्यते / तद्-विश्वं बिभर्ति --- इन्द्र-अग्नि-वरुण-आदि-सर्व-देवता-संबन्धितया प्रतीयमानं तत्-तद्-अन्तर-आत्मतय आवस्थितः परम-पुरुषः स्वयम् एव बिभर्ति स्वयम् एव स्वी-करोति / भुवनस्य नाभिः --- ब्रह्म-क्षत्र-आदि-सर्व-वर्ण-पूर्णस्य भुवनस्य धारकः --- तैस् तैः कर्मभिर् आराधितस् तत्-तद्-इष्ट-फल-प्रदानेन भुवनानां धारक इति नाभिर् इत्य्-उक्तः / अग्नि-वायु-प्रभृति-देवता-अन्तर-आत्मतया तत्-तच्-छब्द-अभिधेयो ऽयम् एव इत्य् आह --- तद् एव अग्निस् तद्-वायुस् तत्-सूर्यस् तद् उ चन्द्र-मा इति / यथा-उक्तं भगवता --- यो यो याम् यां तनुं भक्तः श्रद्धय आर्चितुम् इच्छति / तस्य तस्य अचलां श्रद्धां ताम् एव विदधाम्य् अहम् // स तस्य श्रद्धया युक्तस् तस्य-आराधनम् ईहते / लभते च ततः कामान् मय ऐव विहितान् इह तान् // इति / यां यां तनुम् इति इन्द्र-आदि-देवता-विशेषास् तत्-तद्-अन्तर्यामितय आवस्थितस्य भगवतस् तनवः शरीराणि इत्य्-अर्थः / अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च / इत्य्-आदि / प्रभुर् एव च इति सर्व-फलानां प्रदाता च इत्य्-अर्थः / यथा च यज्ञैस् त्वम् इज्यसे नित्यं सर्व-देव-मय अच्युत / यैः स्व-धर्म-परैर् नाथ नरैर् आदाधितो भवान् / ते तरन्त्य् अखिलाम् एतां मयाम् आत्म-विमुक्तये // इति / स ईतिहास-पुराणेषु सर्वेष्व् एव वेदेषु सर्वाणि कर्माणि सर्व-ईश्वर-आराधन-रूपाणि, तैस् तैः कर्मभिर् आराधितः पुरुष-उत्तमस् तत्-तद्-इष्टं फलं ददाति इति तत्र तत्र प्रपञ्चितम् / एवम् हि सर्व-शक्तिं सर्व-ज्ञं सर्व-ईश्वरं भगवन्तम् इन्द्र-आदि-देवता-अन्तर्यामि-रूपेण याग-दान-होम-आदि-वेद-उदित-सर्व-कर्मणां भोक्तारं सर्व-फलानां प्रदातारं च सर्वाः श्रुतयो वदन्ति / चतुर्-होतारो यत्र संपदं गच्छन्ति देवैर् इत्य्-आद्याः / चतुर्-होतारो यज्ञाः, यत्र परम-आत्मनि देवेष्व् अन्तर्यामि-रूपेण अवस्थिते, देवैः संपदं गच्छन्ति --- देवैः संबन्धं गच्छन्ति यज्ञा इत्य्-अर्थः / अन्तर्यामि-रूपेण अवस्थितस्य परम-आत्मनः शरीरतय आवस्थितानाम् इन्द्र-आदीनां याग-आदि-संबन्ध इत्य् उक्तं भवति / यथ ऊक्तं भगवता --- भोक्तारं यज्ञ-तपसां सर्व-लोक-महा-ईश्वरम् / इति / तस्माद् अग्न्य्-आदि-देवता-अन्तर-आत्म-भूत-परम-पुरुष-आराधन-रूप-भूतानि सर्वाणि कर्माणि, स एव च अभिलषित-फल-प्रदात ईति किम् अत्र अपूर्वेण व्युत्पत्ति-पथ-दूर-वर्तिना वाच्यतय आभ्युपगतेन कल्पितेन वा प्रयोजनम् / एवं च सति लिङ्-आदेः को ऽयम् अर्थः परिगृहीतो भवति / यज देव-पूजायाम् इति देवता-आराधन-भूत-याग-आदेः प्रकृत्य्-अर्थस्य कर्तृ-व्यापार-साध्यतां व्युत्पत्ति-सिद्धां लिङ्-आदयो ऽभिदधति इति न किंचिद् अनुपपन्नम् / कर्तृ-वाचिनां प्रत्ययानां प्रकृत्य्-अर्थस्य कर्तृ-व्यापार-संबन्ध-प्रकारो हि वाच्यः / भूत-वर्तमान-आदिकम् अन्ये वदन्ति / लिङ्-आदयस् तु कर्तृ-व्यापार-साध्यतां वदन्ति /
125 SK अपि च कामिनः कर्तव्यता कर्म विधाय कर्मणो देवताराधनरूपतां तद्द्वारा फलसंभवं च तत्तत्कर्मविधिवाक्यान्य् एव वदन्ति / वायव्यं श्वेतम् आलभत भूतिकामो वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयतीत्यादीनि / नात्र फलसिद्ध्यनुपपत्तिः कापि दृश्यत इति फलसाधनत्वावगतिर् औपादानिकीत्य् अपि न संगच्छति / विध्यपेक्षितं यागादेः फलसाधनत्वप्रकारं वाक्यशेष एव बोधयतीत्यर्थः / तस्माद् ब्राह्मणाय नापगुरेतेत्य् अत्रापगोरणनिषेधविधिपरवाक्यशेषे श्रूयमाणं निषेध्यस्यापगोरणस्य शतयातनासाधनत्वं निषेधविध्युपयोगीति हि स्वीक्रियते / अत्र पुनः कामिनः कर्तव्यतया विहितस्य यागादेः काम्यस्वर्गादिसाधनत्वप्रकारं वाक्यशेषावगतम् अनादृत्य किम् इत्य् उपादानेन यागादेः फलसाधनत्वं परिकल्प्यते / हिरण्यनिधिम् अपवरके निधाय याचते कोद्रवादिलुब्धः कृपणं जनम् इति श्रूयते तद् एतद् युष्मासु दृश्यते / शतयातनासाधनत्वम् अपि नादृष्टद्वारेण / चोदितान्य् अनुतिष्ठो विहितं कर्माकुर्वतो निन्दितानि च कुर्वतः सर्वाणि सुखानि दुःखानि च परमपुरुषानुग्रहनिग्रहाभ्याम् एव भवन्ति / एष ह्य् एवानन्दयति -- अथो सो ऽभयं गतो भवति -- अथ तस्य भयं भवति -- भीषास्माद् वातः पवते भीषोदेति सूर्यो भीषास्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः -- इति / एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः -- एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरो ऽन्वायत्ता इत्याद्यनेकविधाः श्रुतयः सन्ति / यथोक्तं द्रमिडभाष्ये -- तस्याज्ञया धावति वायुर् नद्यः स्रवन्ति तेन च कृतसीमानो जलाशयाः समदा इव मेषविर्सपितं कुर्वन्तीति / तत्संकल्पनिबन्धना हीमे लोके न च्यवन्ते न स्फुटन्ते / स्वशासनानुवर्तिनां ज्ञात्वा कारुण्यात् स भगवान् वर्धयेत विद्वान् कर्मदक्ष इति च /
248 SK अपि च कामिनः कर्तव्यता कर्म विधाय कर्मणो देवता-आराधन-रूपतां तद्-द्वारा फल-संभवं च तत्-तत्-कर्म-विधि-वाक्यान्य् एव वदन्ति / वायव्यं श्वेतम् आलभत भूति-कामो वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन भाग-धेयेन उपधावति स एव एनं भूतिं गमयति इत्य्-आदीनि / न अत्र फल-सिद्ध्य्-अनुपपत्तिः क आपि दृश्यत इति फल-साधनत्व-अवगतिर् औपादानिकि ईत्य् अपि न संगच्छति / विध्य्-अपेक्षितं याग-आदेः फल-साधनत्व-प्रकारं वाक्य-शेष एव बोधयति इत्य्-अर्थः / तस्माद् ब्राह्मणाय न अपगुरेत इत्य् अत्र अपगोरण-निषेध-विधि-पर-वाक्य-शेषे श्रूयमाणं निषेध्यस्य अपगोरणस्य शत-यातना-साधनत्वं निषेध-विध्य्-उपयोगि ईति हि स्वीक्रियते / अत्र पुनः कामिनः कर्तव्यतया विहितस्य याग-आदेः काम्य-स्वर्ग-आदि-साधनत्व-प्रकारं वाक्य-शेष-अवगतम् अनादृत्य किम् इत्य् उपादानेन याग-आदेः फल-साधनत्वं परिकल्प्यते / हिरण्य-निधिम् अपवरके निधाय याचते कोद्रव-आदि-लुब्धः कृपणं जनम् इति श्रूयते तद् एतद् युष्मासु दृश्यते / शत-यातना-साधनत्वम् अपि न अदृष्ट-द्वारेण / चोदितान्य् अनुतिष्ठो विहितं कर्म-अकुर्वतो निन्दितानि च कुर्वतः सर्वाणि सुखानि दुःखानि च परम-पुरुष-अनुग्रह-निग्रहाभ्याम् एव भवन्ति / एष ह्य् एवा अनन्दयति --- अथो सो ऽभयं गतो भवति --- अथ तस्य भयं भवति --- भीष आस्माद् व आतः पवते भीष ऊदेति सूर्यो भीषा-अस्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः --- इति / एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्या-चन्द्रमसौ विधृतौ तिष्ठतः --- एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरो ऽन्वायत्ता इत्य्-आद्य्-अनेक-विधाः श्रुतयः सन्ति / यथ ऊक्तं द्रमिड-भाष्ये --- तस्या अज्ञया धावति वायुर् नद्यः स्रवन्ति तेन च कृत-सीमानो जल-आशयाः समदा इव मेषविर्-सपितं कुर्वन्ति इति / तत्-संकल्प-निबन्धना हि इमे लोके न च्यवन्ते न स्फुटन्ते / स्व-शासना-अनुवर्तिनां ज्ञात्वा कारुण्यात् स भगवान् वर्धयेत विद्वान् कर्म-दक्ष इति च /
126 SK परमपुरुषयाथात्म्यज्ञानपूर्वकतदुपासनादिविहितकर्मानुष्ठायिनस् तत्प्रसादात् तत्प्राप्तिपर्यन्तानि सुखान्य् अभयं च यथाधिकारं भवन्ति / तज्ज्ञानपूर्वकं तदुपासनादिविहितं कर्माकुर्वतो निन्दितानि च कुर्वतस् तन्निग्रहाद् एव तदप्राप्तिपूर्वकापरिमितदुःखानि भयं च भवन्ति / यथोक्तं भगवता -- नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः / इत्यादिना कृत्स्नं कर्म ज्ञानपूर्वकम् अनुष्ठेयं विधाय -- मयि सर्वाणि कर्माणि संन्यस्य इति सर्वस्य कर्मणः स्वाराधनताम् आत्मनां स्वनियाम्यतां च प्रतिपाद्य -- ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः / श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः // ये त्व् एतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् / सर्वज्ञानविमूढांस् तान् विद्धि नष्टान् अचेतसः // इति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान् विनिन्द्य पुनर् अपि स्वाज्ञानुपालनम् अकुर्वताम् आसुर् अप्रकृत्यन्तर्भावम् अभिधायाधमा गतिश् चोक्ता -- तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् / क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु // आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि / माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् // इति / सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्य्पाश्रयः / मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् // इति च स्वाज्ञानुवर्तिनां शाश्वतं पदं चोक्तम् / अश्रुतवेदान्तानां कर्मण्य् अश्रद्धा मा भूद् इति देवताधिकरणे ऽतिवादाः कृताः कर्ममात्रे यथा श्रद्धा स्याद् इति सर्वम् एकशास्त्रम् इति वेदवित्सिद्धान्तः /
250 SK परम-पुरुष-याथात्म्य-ज्ञान-पूर्वक-तद्-उपासन-आदि-विहित-कर्म-अनुष्ठायिनस् तत्-प्रसादात् तत्-प्राप्ति-पर्यन्तानि सुखान्य् अभयं च यथा-अधिकारं भवन्ति / तज्-ज्ञान-पूर्वकं तद्-उपासन-आदि-विहितं कर्म-अकुर्वतो निन्दितानि च कुर्वतस् तन्-निग्रहाद् एव तद्-अप्राप्ति-पूर्वक-अपरिमित-दुःखानि भयं च भवन्ति / यथा-उक्तं भगवता --- नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः / इत्य्-आदिना कृत्स्नं कर्म ज्ञान-पूर्वकम् अनुष्ठेयं विधाय --- मयि सर्वाणि कर्माणि संन्यस्य इति सर्वस्य कर्मणः स्व-आराधनताम् आत्मनां स्व-नियाम्यतां च प्रतिपाद्य --- ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः / श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः // ये त्व् एतद्-अभ्यसूयन्तो न अनुतिष्ठन्ति मे मतम् / सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः // इति स्व-आज्ञा-अनुवर्तिनः प्रशस्य विपरीतान् विनिन्द्य पुनर् अपि स्व-आज्ञा-अनुपालनम् अकुर्वताम् आसुर् अप्रकृत्य्-अन्तर्भावम् अभिधाय अधमा गतिश् च उक्ता --- तान् अहं द्विषतः क्रूरान् संसारेषु नर-अधमान् / क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु // आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि / माम् अप्राप्य एव कौन्तेय ततो यान्त्य् अधमां गतिम् // इति / सर्व-कर्माण्य् अपि सदा कुर्वाणो मद्-व्य्पाश्रयः / मत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् // इति च स्व-आज्ञा-अनुवर्तिनां शाश्वतं पदं च उक्तम् / अश्रुत-वेदान्तानां कर्मण्य् अश्रद्धा मा भूद् इति देवता-अधिकरणे ऽतिवादाः कृताः कर्म-मात्रे यथा श्रद्धा स्याद् इति सर्वम् एक-शास्त्रम् इति वेद-वित्-सिद्धान्तः /
127 SK तस्यैतस्य परस्य ब्रह्मणो नारायणस्यापरिच्छेद्यज्ञानानन्दामलत्वस्वरूपवज्ज्ञानशक्तिबलाइश्वर्यवीर्यतेजःप्रभृत्यनवधिकातिशयासंख्येयकल्याणगुणवत्स्वसंकल्पप्रवर्त्यस्वेतरसमस्तचिदचिद्वस्तुजातवत्स्वाभिमतस्वानुरूपैकरूपदिव्यरूपतदुचितनिरतिशयकल्याणविविधानंतभूषणस्वशक्तिसदृशापरिमितानन्ताश्चर्यनानाविधायुधस्वाभिमतानुरूपस्वरूपगुणविभवाइश्वर्यशीलाद्यनवधिकमहिममहिसीस्वानुरूपकल्याणज्ञानक्रियाद्यपरिमेयगुणानन्तपरिजनपरिच्छेदस्वोचितनिखिलभोग्यभोगोपकरणाद्यनन्तमहाविभवावाङ्मनसगोचरस्वरूपस्वभावदिव्यस्थानादिनित्यतानिरवद्यतागोचराश् च सहस्रशः श्रुतयः सन्ति / वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् / य एषो ऽन्तरादित्ये हिरण्मयः पुरुषः / तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी / य एषो ऽन्तर्हृदय आकाशस् तस्मिन्न् अयं पुरुषो मनोमयो ऽमृतो हिरण्मयः -- मनोमय इति मनसैव विशुद्धेन गृह्यत इत्यर्थः -- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि -- विद्युद्वर्णात् पुरुषाद् इत्यर्थः -- नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा -- मध्यस्थनीलतोयदा विद्युल्लेखेव सेयं दहरपुण्डरीकमध्यस्थाकाशवर्तिनी वह्निर्शिखा स्वान्तर्निहितनीलतोयदाभपरमात्मस्वरूपा अवान्तर्निहितनीलतोयदा विस्युद् इवाभातीत्यर्थः / मनोमयः प्राणशरीरो भारूपः / सत्यकामः सत्यसंकल्पः / आकाशात्मा सर्वकामा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यात्तो ऽवाक्यानादरः / माहारजनं वास इत्याद्याः / अस्येशाना जगतो विष्णुपत्नी / ह्रीश् च ते लक्ष्मीश् च पत्न्यौ /तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः / क्षयन्तम् अस्य रजसः पराके / यद् एकम् अव्यक्तम् अनन्तरूपं विश्वं पुराणं तमसः परस्तात् / यो वेद निहितं गुहायां परमे व्योमन् / यो ऽस्याध्यक्षः परमे व्योमन् / तद् एव तद् उ भव्यमा इदं तदक्षरे परमे व्योमन् नित्यादिश्रुतिशतनिश्चितो ऽयम् अर्थः /
252 SK तस्य एतस्य परस्य ब्रह्मणो नारायणस्य अपरिच्छेद्य-ज्ञान-आनन्द-अमलत्व-स्व-रूपवज्-ज्ञान-शक्ति-बल-ऐश्वर्य-वीर्य-तेजः-प्रभृत्य्-अनवधिक-अतिशय-असंख्येय-कल्याण-गुणवत्-स्व-संकल्प-प्रवर्त्य-स्व-इतर-समस्त-चिद्-अचिद्-वस्तु-जातवत्-स्व-अभिमत-स्व-अनुरूप-एक-रूप-दिव्य-रूप-तद्-उचित-निरतिशय-कल्याण-विविध-अनंत-भूषण-स्व-शक्ति-सदृश-अपरिमित-अनन्त-आश्चर्य-नाना-विध-आयुध-स्व-अभिमत-अनुरूप-स्व-रूप-गुण-विभव-ऐश्वर्य-शील-आद्य्-अनवधिक-महिम-महिसी-स्व-अनुरूप-कल्याण-ज्ञान-क्रिया-आद्य्-अपरिमेय-गुण-अनन्त-परिजन-परिच्छेद-स्व-उचित-निखिल-भोग्य-भोग-उपकरण-आद्य्-अनन्त-महा-विभव-अवाङ्-मनस-गोचर-स्व-रूप-स्व-भाव-दिव्य-स्थान-आदि-नित्यता-निरवद्यता-गोचराश् च सहस्रशः श्रुतयः सन्ति / वेद अहम् एतं पुरुषं महा-अन्तम् आदित्य-वर्णं तमसः परस्तात् / य एषो ऽन्तर-आदित्ये हिरण्-मयः पुरुषः / तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी / य एषो ऽन्तर्-हृदय आकाशस् तस्मिन्न् अयं पुरुषो मनो-मयो ऽमृतो हिरण्-मयः --- मनो-मय इति मनस ऐव विशुद्धेन गृह्यत इत्य्-अर्थः --- सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि --- विद्युद्-वर्णात् पुरुषाद् इत्य्-अर्थः --- नील-तोयद-मध्य-स्था विद्युल्-लेख ईव भास्वरा --- मध्य-स्थ-नील-तोयदा विद्युल्-लेख ईव स ईयं दहर-पुण्डरीक-मध्य-स्थ-आकाश-वर्तिनी वह्निर्-शिखा स्व-अन्तर्निहित-नील-तोयदा-भ-परम-आत्म-स्व-रूपा अव-अन्तर्निहित-नील-तोयदा विस्युद् इवा अभाति इत्य्-अर्थः / मनो-मयः प्राण-शरीरो भा-रूपः / सत्य-कामः सत्य-संकल्पः / आकाश-आत्मा सर्व-कामा सर्व-कामः सर्व-गन्धः सर्व-रसः सर्वम् इदम् अभ्यात्तो ऽवाक्य-अनादरः / माहारजनं वास इत्य्-आद्याः / अस्या इशाना जगतो विष्णु-पत्नी / ह्रीश् च ते लक्ष्मीश् च पत्न्यौ /तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरयः / क्षयन्तम् अस्य रजसः पराके / यद् एकम् अव्यक्तम् अनन्त-रूपं विश्वं पुराणं तमसः परस्तात् / यो वेद निहितं गुहायां परमे व्योमन् / यो ऽस्य अध्यक्षः परमे व्योमन् / तद् एव तद् उ भव्यमा इदं तद्-अक्षरे परमे व्योमन् नित्य-आदि-श्रुति-शत-निश्चितो ऽयम् अर्थः /
128 SK तद्विष्णोः परमं पदम् इति विष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यन्ति सूरय इति वचनात् सर्वकालदर्शनवन्तः परिपूर्णज्ञानाः केचन सन्तीति विज्ञायते / ये सूरयस् ते सदा पश्यन्तीति वचनव्यक्तिः, ये सदा पश्यन्ति ते सूरय इति वा / उभयपक्षे ऽप्य् अनेकविधानं न संभवतीति चेत् / न / अप्राप्तत्वात् सर्वस्य सर्वविशिष्टं परमस्थानं विधीयते / यथोक्तं -- तद्गुणास् ते विधीयेरन्न् अविभागाद् विधानार्थे न चेद् अन्येन शिष्टा इति / यथा यदाग्नेयो ऽष्टाकपाल इत्यादिकर्मविधौ कर्मणो गुणानां चाप्राप्तत्वेन सर्वगुणविशिष्टं कर्म विधीयते तथात्रापि सूरिभिः सदा दृश्यत्वेन विष्णोः परमस्थानम् अप्राप्तं प्रतिपादयतीति न कश्चिद् विरोधः / करणमन्त्राः क्रियमाणानुवादिनः स्तोत्रशस्त्ररूपा जपादिषु विनियुक्ताश् च प्रकरणपथिताश् चाप्रकरणपथिताश् च स्वार्थं सर्वं यथावस्थितम् एवाप्राप्तम् अविरुद्धं ब्राह्मणवद् बोधयन्तीति हि वैदिकाः / प्रगीतमन्त्रसाध्यगुणगुणिअभिमानं स्तोत्रम् / अप्रगीतमन्त्रसाध्यगुणगुणिनिष्ठगुणाभिधानं शस्त्रम् / नियुक्तार्थप्रकाशनां च देवतादिष्व् अप्राप्ताविरुद्धगुणविशेषप्र्तिपादनं विनियोगानुगुणम् एव / नेयं श्रुतिर् मुक्तजनविषया / तेशां सदादर्शनानुपपत्तेः / न+पि मुक्तप्रवाहविषया / सदा पश्यन्तीत्य् एकैककर्तृकविषयतया प्रतीतेः श्रुतिभङ्गप्रसङ्गात् / मन्त्रार्थवादगता ह्य् अर्थाः कार्यपरत्वे ऽपि सिद्ध्यन्तीत्युक्तम् / किं पुनः सिद्धवस्तुन्य् एव तात्पर्ये व्युत्पत्तिसिद्ध इति सर्वम् उपपन्नम् / ननु चात्र तद्विष्णोः परमं पदम् इति परस्वरूपम् एव परमपदशब्देनाभिधीयते / समस्तहेयरहितं विष्ण्वाख्यं परं पदम् इत्यादिष्व् अव्यतिरेकदर्शनात् / नैवम् / क्षयन्तम् अस्य रजतः पराके, तदक्षरे परमे व्योमन्, यो अस्याध्याक्षः परमे व्योमन्, यो वेद निहितं गुहायां परमे व्योमन् नित्यादिषु परमस्थानस्यैव दर्शनम् / तद्विष्णोः परमं पदम् इति व्यतिरेकनिर्देशाच् च / विष्ण्वाख्यं परमं पदम् इति विशेषणाद् अन्यद् अपि परमं पदं विद्यत इति च तेनैव ज्ञायते / तद् इदं परस्थानं सूरिभिः सदादृश्यत्वेन प्रतिपाद्यते /
254 SK तद्-विष्णोः परमं पदम् इति विष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यन्ति सूरय इति वचनात् सर्व-काल-दर्शनवन्तः परिपूर्ण-ज्ञानाः केचन सन्ति इति विज्ञायते / ये सूरयस् ते सदा पश्यन्ति इति वचन-व्यक्तिः, ये सदा पश्यन्ति ते सूरय इति वा / उभय-पक्षे ऽप्य् अनेक-विधानं न संभवति इति चेत् / न / अप्राप्तत्वात् सर्वस्य सर्व-विशिष्टं परम-स्थानं विधीयते / यथा-उक्तं --- तद्-गुणास् ते विधीयेरन्न् अविभागाद् विधान-अर्थे न चेद् अन्येन शिष्टा इति / यथा यद्-आग्नेयो ऽष्टाक-पाल इत्य्-आदि-कर्म-विधौ कर्मणो गुणानां च अप्राप्तत्वेन सर्व-गुण-विशिष्टं कर्म विधीयते तथ आत्र अपि सूरिभिः सदा दृश्यत्वेन विष्णोः परम-स्थानम् अप्राप्तं प्रतिपादयति इति न कश्चिद् विरोधः / करण-मन्त्राः क्रियमाण-अनुवादिनः स्तोत्र-शस्त्र-रूपा जप-आदिषु विनियुक्ताश् च प्रकरण-पथिताश् च अप्रकरण-पथिताश् च स्व-अर्थं सर्वं यथा-अवस्थितम् एव अप्राप्तम् अविरुद्धं ब्राह्मणवद् बोधयन्ति इति हि वैदिकाः / प्रगीत-मन्त्र-साध्य-गुण-गुणि-अभिमानं स्तोत्रम् / अप्रगीत-मन्त्र-साध्य-गुण-गुणि-निष्ठ-गुण-अभिधानं शस्त्रम् / नियुक्त-अर्थ-प्रकाशनां च देवता-आदिष्व् अप्राप्त-अविरुद्ध-गुण-विशेष-प्र्तिपादनं विनियोग-अनुगुणम् एव / न इयं श्रुतिर् मुक्त-जन-विषया / तेशां सदा-दर्शन-अनुपपत्तेः / न+पि मुक्त-प्रवाह-विषया / सदा पश्यन्ति इत्य् एक-एक-कर्तृक-विषयतया प्रतीतेः श्रुति-भङ्ग-प्रसङ्गात् / मन्त्र-अर्थ-वाद-गता ह्य् अर्थाः कार्य-परत्वे ऽपि सिद्ध्यन्ति इत्य्-उक्तम् / किं पुनः सिद्ध-वस्तुन्य् एव तात्पर्ये व्युत्पत्ति-सिद्ध इति सर्वम् उपपन्नम् / ननु च अत्र तद्-विष्णोः परमं पदम् इति पर-स्व-रूपम् एव परम-पद-शब्देन अभिधीयते / समस्त-हेय-रहितं विष्ण्व्-आख्यं परं पदम् इत्य्-आदिष्व् अव्यतिरेक-दर्शनात् / न एवम् / क्षयन्तम् अस्य रजतः पराके, तद्-अक्षरे परमे व्योमन्, यो अस्या अध्याक्षः परमे व्योमन्, यो वेद निहितं गुहायां परमे व्योमन् नित्य-आदिषु परम-स्थानस्य एव दर्शनम् / तद्-विष्णोः परमं पदम् इति व्यतिरेक-निर्देशाच् च / विष्ण्व्-आख्यं परमं पदम् इति विशेषणाद् अन्यद् अपि परमं पदं विद्यत इति च तेन एव ज्ञायते / तद् इदं पर-स्थानं सूरिभिः सदा-दृश्यत्वेन प्रतिपाद्यते /
129 SK एतदुक्तं भवति -- क्वचित्परस्थानं परमपदशब्देन प्रतिपाद्यते, क्वचित्प्रकृतिवियुक्तात्मस्वरूपं, क्वचिद्भगवत्स्वरूपम् / तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय इति परस्थानम् / सर्गस्थित्यन्तकालेषु त्रिविधैव प्रवर्तते / गुणप्रवृत्त्या परमं पदं तस्यागुणं महत् // इत्यत्र प्रकृतिवियुक्तात्मस्वरूपम् / समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् / इत्यत्र भगवत्स्वरूपम् / त्रीण्य् अप्य् एतानि परमप्राप्तत्वेन परमपदशब्देन प्रतिपाद्यन्ते / कथं त्रयाणां परमप्राप्यत्वम् इति चेत् / भगवत्स्वरूपं परमप्राप्यत्वाद् एव परमं पदम् / इतरयोर् अपि भगवत्प्राप्तिगर्भत्वाद् एव परमपदत्वम् / सर्वकर्मबन्धविनिर्मुक्तात्मस्वरूपावाप्तिर् भगवत्प्राप्तिगर्भा / त इमे सत्याः कामा अनृतापिधाना इति भगवतो गुणगणस्य तिरोधायकत्वेनानृतशब्देन स्वकर्मणः प्रतिपादनम् /
256 SK एतद्-उक्तं भवति --- क्वचित्-पर-स्थानं परम-पद-शब्देन प्रतिपाद्यते, क्वचित्-प्रकृति-वियुक्त-आत्म-स्व-रूपं, क्वचिद्-भगवत्-स्व-रूपम् / तद्-विष्णोः परमं पदं सदा पश्यन्ति सूरय इति पर-स्थानम् / सर्ग-स्थित्य्-अन्त-कालेषु त्रि-विध ऐव प्रवर्तते / गुण-प्रवृत्त्या परमं पदं तस्य अगुणं महत् // इत्य्-अत्र प्रकृति-वियुक्त-आत्म-स्व-रूपम् / समस्त-हेय-रहितं विष्ण्व्-आख्यं परमं पदम् / इत्य्-अत्र भगवत्-स्व-रूपम् / त्रीण्य् अप्य् एतानि परम-प्राप्तत्वेन परम-पद-शब्देन प्रतिपाद्यन्ते / कथं त्रयाणां परम-प्राप्यत्वम् इति चेत् / भगवत्-स्व-रूपं परम-प्राप्यत्वाद् एव परमं पदम् / इतरयोर् अपि भगवत्-प्राप्ति-गर्भत्वाद् एव परम-पदत्वम् / सर्व-कर्म-बन्ध-विनिर्मुक्त-आत्म-स्व-रूप-अवाप्तिर् भगवत्-प्राप्ति-गर्भा / त इमे सत्याः कामा अनृत-अपिधाना इति भगवतो गुण-गणस्य तिरोधायकत्वेन अनृत-शब्देन स्व-कर्मणः प्रतिपादनम् /
130 SK अनृतरूपतिरोधानं क्षेत्रज्ञकर्मेति कथम् अवगम्यत इति चेत् / अविद्या कर्मसंज्ञान्या तृतीया शक्तिर् इष्यते / यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा // संसारतापान् अखिलान् अवाप्नोत्य् अतिसंततान् / तया तिरोहितत्वाच् च इत्यादिवचनात् /
258 SK अनृत-रूप-तिरोधानं क्षेत्र-ज्ञ-कर्म इति कथम् अवगम्यत इति चेत् / अविद्या कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते / यथा क्षेत्र-ज्ञ-शक्तिः सा वेष्टिता नृप सर्व-गा // संसार-तापान् अखिलान् अवाप्नोत्य् अतिसंततान् / तया तिरोहितत्वाच् च इत्य्-आदि-वचनात् /
131 SK परस्थानप्राप्तिर् अपि भगवत्प्राप्तिगर्भैवेति सुव्यक्तम् / क्षयन्तम् अस्य रजसः पराक इति रजतःशब्देन त्रिगुणात्मिका प्रकृतिर् उच्यते केवलस्य रजसो ऽनवस्थानात् / इमां त्रिगुणात्मिकां प्रकृतिम् अतिक्रम्य स्थिते स्थाने क्षयन्तम् -- वसन्तम् इत्यर्थः / अनेन त्रिगुणात्मकात् क्षेत्रज्ञस्य भोग्यभूताद् वस्तुनः परस्ताद् विष्णोर् वासस्थानम् इति गम्यते / वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्ताद् इत्यत्रापि तमःशब्देन सैव प्रकृतिर् उच्यते / केवलस्य तमसो ऽनवस्थानाद् एव / रजसः पराके क्षयन्तम् इत्यनेनैकवाक्यत्वात् तमसः परस्ताद् वसन्तं महान्तम् आदित्यवर्णं पुरुषम् अहं वेदेत्य् अयम् अर्थो ऽवगम्यते / सत्यं ज्ञानम् अनन्तं ब्रह्म / यो वेद निहितं गुहायां परमे व्योमन् / तदक्षरे परमे व्योमन्न् इति तत्स्थानम् अविकाररूपं परमव्योमशब्दाभिधेयम् इति च गम्यते / अक्षरे परमे व्योमन् नित्यस्य स्थानस्याक्षरत्वश्रवणात् क्षररूपादित्यमण्डलादयो न परमव्योमशब्दाभिधेयाः / यत्र पूर्वे साध्याः सन्ति देवाः, यत्र र्षयः प्रथमजा ये पुराणा इत्यादिषु च त एव सूरय इत्य् अवगम्यते / तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर् यत्परं पदम् इत्यत्रापि विप्रासो -- मेधाविनः, विपन्यवः -- स्तुतिशीलाः, जागृवांसः -- अस्खलितज्ञानास् त एवास्खलितज्ञानास् तद्विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इत्यर्थः /
260 SK पर-स्थान-प्राप्तिर् अपि भगवत्-प्राप्ति-गर्भ ऐव इति सुव्यक्तम् / क्षयन्तम् अस्य रजसः पराक इति रजतः-शब्देन त्रि-गुण-आत्मिका प्रकृतिर् उच्यते केवलस्य रजसो ऽनवस्थानात् / इमां त्रि-गुण-आत्मिकां प्रकृतिम् अतिक्रम्य स्थिते स्थाने क्षयन्तम् --- वसन्तम् इत्य्-अर्थः / अनेन त्रि-गुण-आत्मकात् क्षेत्र-ज्ञस्य भोग्य-भूताद् वस्तुनः परस्ताद् विष्णोर् वास-स्थानम् इति गम्यते / वेद अहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्ताद् इत्य्-अत्र अपि तमः-शब्देन स ऐव प्रकृतिर् उच्यते / केवलस्य तमसो ऽनवस्थानाद् एव / रजसः पराके क्षयन्तम् इत्य्-अनेन एक-वाक्यत्वात् तमसः परस्ताद् वसन्तं महान्तम् आदित्य-वर्णं पुरुषम् अहं वेद इत्य् अयम् अर्थो ऽवगम्यते / सत्यं ज्ञानम् अनन्तं ब्रह्म / यो वेद निहितं गुहायां परमे व्योमन् / तद्-अक्षरे परमे व्योमन्न् इति तत्-स्थानम् अविकार-रूपं परम-व्योम-शब्द-अभिधेयम् इति च गम्यते / अक्षरे परमे व्योमन् नित्यस्य स्थानस्य अक्षरत्व-श्रवणात् क्षर-रूप-आदित्य-मण्डल-आदयो न परम-व्योम-शब्द-अभिधेयाः / यत्र पूर्वे साध्याः सन्ति देवाः, यत्र र्षयः प्रथम-जा ये पुराणा इत्य्-आदिषु च त एव सूरय इत्य् अवगम्यते / तद्-विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर् यत्-परं पदम् इत्य्-अत्र अपि विप्रासो --- मेधाविनः, विपन्यवः --- स्तुति-शीलाः, जागृवांसः --- अस्खलित-ज्ञानास् त एव अस्खलित-ज्ञानास् तद्-विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इत्य्-अर्थः /
132 SK एतेषां परिजनस्थानादीनां सद् एव सोम्येदम् अग्र आसीद् इत्यत्र ज्ञानबलाइश्वर्यादिकल्याणगुणगणवत्परब्रह्मस्वरूपान्तर्भूतत्वात् सद् एवैकम् एवाद्वितीयम् इति ब्रह्मान्तर्भावो ऽवगम्यते / एषाम् अपि कल्याणगुणैकदेशत्वाद् एव सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्रेदम् इति शब्दस्य कर्मवश्यभोक्तृवर्गमिश्रतद्भोग्यभूतप्रपञ्चविषयत्वाच् च सदा पश्यन्ति सूरय इति सदादर्शित्वेन च तेषां कर्मवश्यानन्तर्भावात् / अपहतपाप्मेत्याद्य् अपिपास इत्यन्तेन सलीलोपकरणभूतत्रिगुणप्रकृतिप्राकृततत्संसृष्टपुरुषगतं हेयस्वभावं सर्वं प्रतिषिध्य सत्यकाम इत्यनेन स्वभोग्यभोगोपकरणजातस्य सर्वस्य सत्यता प्रतिपादिता / असत्याः कामा यस्यासौ सत्यकामः / काम्यन्त इति कामाः / तेन परेण ब्रह्मणा स्वभोग्यतदुपकरणादयः स्वाभिमता ये काम्यन्ते ते सत्याः -- नित्या इत्यर्थः / अन्यस्य लीलोपकरणस्यापि वस्तुनः प्रमाणसंबन्धयोग्यत्वे सत्य् अपि विकारास्पदत्वेनास्थिरत्वाद् तद्विपरीतं स्थिरत्वम् एषां सत्यपदेनोच्यते / सत्यसंकल्प इत्येतेषु भोग्यतदुपकरणादिषु नित्येषु निरतिशयेष्व् अनन्तेषु सत्स्वप्यपूर्वाणाम् अपरिमितानाम् अर्थानाम् अपि संकल्पमात्रेण सिद्धिं वदति / एषां च भोगोपकरणानां लीलोपकरणानां चेतनानाम् अचेतनानां स्थिराणाम् अस्थिराणाम् च तत्संकल्पायत्तस्वरूपस्थितिप्रवृत्तिभेदादि सर्वं वाति सत्यसंकल्प इति /
262 SK एतेषां परिजन-स्थान-आदीनां सद् एव सोम्य इदम् अग्र आसीद् इत्य्-अत्र ज्ञान-बल-ऐश्वर्य-आदि-कल्याण-गुण-गणवत्-पर-ब्रह्म-स्व-रूप-अन्तर्भूतत्वात् सद् एव एकम् एव अद्वितीयम् इति ब्रह्म-अन्तर्भावो ऽवगम्यते / एषाम् अपि कल्याण-गुण-एक-देशत्वाद् एव सद् एव सोम्य इदम् अग्र आसीद् इत्य् अत्र इदम् इति शब्दस्य कर्म-वश्य-भोक्तृ-वर्ग-मिश्र-तद्-भोग्य-भूत-प्रपञ्च-विषयत्वाच् च सदा पश्यन्ति सूरय इति सदा-दर्शित्वेन च तेषां कर्म-वश्य-अनन्तर्भावात् / अपहत-पाप्म ईत्य्-आद्य् अपिपास इत्य्-अन्तेन सलीला-उपकरण-भूत-त्रि-गुण-प्रकृति-प्राकृत-तत्-संसृष्ट-पुरुष-गतं हेय-स्व-भावं सर्वं प्रतिषिध्य सत्य-काम इत्य्-अनेन स्व-भोग्य-भोग-उपकरण-जातस्य सर्वस्य सत्यता प्रतिपादिता / असत्याः कामा यस्य असौ सत्य-कामः / काम्यन्त इति कामाः / तेन परेण ब्रह्मणा स्व-भोग्य-तद्-उपकरण-आदयः स्व-अभिमता ये काम्यन्ते ते सत्याः --- नित्या इत्य्-अर्थः / अन्यस्य लीला-उपकरणस्य अपि वस्तुनः प्रमाण-संबन्ध-योग्यत्वे सत्य् अपि विकार-आस्पदत्वेन अस्थिरत्वाद् तद्-विपरीतं स्थिरत्वम् एषां सत्य-पदेन उच्यते / सत्य-संकल्प इत्य्-एतेषु भोग्य-तद्-उपकरण-आदिषु नित्येषु निरतिशयेष्व् अनन्तेषु सत्-स्वप्य-पूर्वाणाम् अपरिमितानाम् अर्थानाम् अपि संकल्प-मात्रेण सिद्धिं वदति / एषां च भोग-उपकरणानां लीला-उपकरणानां चेतनानाम् अचेतनानां स्थिराणाम् अस्थिराणाम् च तत्-संकल्प-आयत्त-स्व-रूप-स्थिति-प्रवृत्ति-भेद-आदि सर्वं वाति सत्य-संकल्प इति /
133 SK इतिहासपुराणयोर् वेदोपबृंहणयोश् चायम् अर्थ उच्यते -- तौ ते मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ / वेदोपबृंहणार्थाय ताव् अग्राहयत प्रभुः // इति वेदोपबृंहणतया प्रारब्धे श्रीमद्रामायणे -- व्यक्तम् एष महायोगी परमात्मा सनातनः / अनादिमध्यनिधनो महतः परमो महान् // तमसः परमो धाता शङ्खचक्रगदाधरः / श्रीवत्सवक्षा नित्यश्रीर् अजय्यः शाश्वतो ध्रुवः // शारा नानाविधाश् चापि धनुर् आयतविग्रहम् / अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः // विवेश वैष्णवं तेजः सशरीरः सहानुगः // श्रीमद्वैष्णवपुराणे -- समस्ताः शक्तयश् चैता नृप यत्र प्रतिष्ठिताः / तद्विश्वैरूप्यं रूपम् अन्त्यद्धरेर् महत् // मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः // नित्यैवैषा जगन्माता विष्णोः श्रीर् अनपायिनी / यथा सर्वगतो विष्णुस् तथैवेयं द्विजोत्तम // देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी / विष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् // एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये / तेषां तत्परं स्थानं यद् वै पश्यन्ति सूरयः // कलामुहूर्तादिमयश् च कालो न यद्विभूतेः परिणामहेतुः // महाभारते च -- दिव्यं स्थानम् अजरं चाप्रमेयं दुर्विज्ञेय, चागमैर् गम्यमाद्यम् / गच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्वमूर्त्या // कालः स पचते तत्र न कालस् तत्र वै प्रभुः / इति / परस्य ब्रह्मणो रूपवत्त्वं सूत्रकारश् च वदति -- अन्तस् तद्धर्मोपदेशाद् इति
264 SK इतिहास-पुराणयोर् वेद-उपबृंहणयोश् च अयम् अर्थ उच्यते --- तौ ते मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ / वेद-उपबृंहण-अर्थाय ताव् अग्राहयत प्रभुः // इति वेद-उपबृंहणतया प्रारब्धे श्रीमद्-रामायणे --- व्यक्तम् एष महा-योगी परम-आत्मा सनातनः / अनादि-मध्य-निधनो महतः परमो महान् // तमसः परमो धाता शङ्ख-चक्र-गदाधरः / श्रीवत्स-वक्षा नित्य-श्रीर् अजय्यः शाश्वतो ध्रुवः // शारा नाना-विधाश् च अपि धनुर् आयत-विग्रहम् / अन्वगच्छन्त काकुत्-स्थं सर्वे पुरुष-विग्रहाः // विवेश वैष्णवं तेजः स-शरीरः सह-अनुगः // श्रीमद्-वैष्णव-पुराणे --- समस्ताः शक्तयश् च एता नृप यत्र प्रतिष्ठिताः / तद्-विश्वैरूप्यं रूपम् अन्त्यद्-धरेर् महत् // मूर्तं ब्रह्म महा-भाग सर्व-ब्रह्म-मयो हरिः // नित्य एव एषा जगन्-माता विष्णोः श्रीर् अनपायिनी / यथा सर्व-गतो विष्णुस् तथ ऐव इयं द्विज-उत्तम // देवत्वे देव-देह ईयं मनुष्यत्वे च मानुषी / विष्णोर् देह-अनुरूपां वै करोत्य् एषा आत्मनस् तनुम् // एकान्तिनः सदा ब्रह्म-ध्यायिनो योगिनो हि ये / तेषां तत्-परं स्थानं यद् वै पश्यन्ति सूरयः // कला-मुहूर्त-आदि-मयश् च कालो न यद्-विभूतेः परिणाम-हेतुः // महा-भारते च --- दिव्यं स्थानम् अजरं च अप्रमेयं दुर्विज्ञेय, चा अगमैर् गम्यमाद्यम् / गच्छ प्रभो रक्ष च अस्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्व-मूर्त्या // कालः स पचते तत्र न कालस् तत्र वै प्रभुः / इति / परस्य ब्रह्मणो रूपवत्त्वं सूत्र-कारश् च वदति --- अन्तस् तद्-धर्म-उपदेशाद् इति
134 SK यो ऽसाव् आदित्यमण्डलान्तर्वर्ती तप्तकार्तस्वरगिरिवरप्रभः सहस्रांशुशतसहस्रकिरणो गम्भीराम्भःसमुद्भूतसुमृष्टनालविकरविकसितपुण्डरीकदलामलायतेक्षणः सुभ्रूललाटः सुनासः सुस्मिताधरविद्रुमः सुरुचिरकोमलगण्डः कम्बुग्रीवः समुन्नतांसविलम्बिचारुरूपदिव्यकर्णकिसलयः पीनवृत्तायतभुजश् चारुतरातम्रकरतलानुरक्ताङ्गुलीभिर् अलंकृतस् तनुमध्यो विशालवक्षःस्थलः समविभक्तसर्वाङ्गो ऽनिर्देश्यदिव्यरूपसंहननः स्निग्धवर्णः प्रबुद्धपुण्डरीकचारुचरणयुगलः स्वानुरूपपीताम्बरधो ऽमलकिरीटकुण्डलहारकौस्तुभकेयूरकटकनूपुरोदरबन्धनाद्यपरिमिताश्चर्यानन्तदिव्यभूषणः शङ्खचक्रगदासिश्रीवत्सवनमालालङ्कृतो ऽनवधिकातिशयसौन्दर्याहृताशेषमनोदृष्टिवृत्तिर् लावण्यामृतपूरिताशेषचराचरभूतजातो ऽत्यद्भुताचिन्त्यनित्ययौवनः पुष्पहाससुकुमारः पुण्यगन्धवासितानन्तदिगन्तरालस् त्रैलोक्याक्रमणप्रवृत्तगम्भीरभावः करुणानुरागमधुरलोचनावलोकिताश्रितवर्गः पुरुषवरो दरीदृश्यते / स च निखिलजगदुदयविभवलयलीलो निरस्तसमस्तहेयः समस्तकल्याणगुणगणनिधिः स्वेतरसमस्तवस्तुविलक्षणः परमात्मा परं ब्रह्म नारायण इत्य् अवगम्यते / तद्धर्मोपदेशात् -- स एष सर्वेषां लोकानाम् ईष्टे सर्वेषां कामानाम् -- स एष सर्वेभ्यः पापभ्य उदित इत्यादिदर्शनात् / तस्यैते गुणाः सर्वस्य वशी सर्वस्येशानः -- अपहतपाप्मा विजर इत्यादि सत्यसंकल्प इत्यन्तम् -- विश्वतः परमं नित्यं विश्वं नारायणं हरिम् / पतिं विश्वस्यात्मेश्वरम् इत्यादिवाक्यप्रतिपादिताः /
266 SK यो ऽसाव् आदित्य-मण्डल-अन्तर्वर्ती तप्त-कार्त-स्वर-गिरि-वर-प्रभः सहस्र-अंशु-शत-सहस्र-किरणो गम्भीर-अम्भः-समुद्भूत-सुमृष्ट-नाल-विकर-विकसित-पुण्डरीक-दल-अमल-आयत-ईक्षणः सु-भ्रू-ललाटः सु-नासः सु-स्मित-अधर-विद्रुमः सु-रुचिर-कोमल-गण्डः कम्बु-ग्रीवः समुन्नत-अंस-विलम्बि-चारु-रूप-दिव्य-कर्ण-किसलयः पीन-वृत्त-आयत-भुजश् चारुतरा-तम्र-कर-तल-अनुरक्त-अङ्गुलीभिर् अलंकृतस् तनु-मध्यो विशाल-वक्षः-स्थलः सम-विभक्त-सर्व-अङ्गो ऽनिर्देश्य-दिव्य-रूप-संहननः स्निग्ध-वर्णः प्रबुद्ध-पुण्डरीक-चारु-चरण-युगलः स्व-अनुरूप-पीत-अम्बर-धो ऽमल-किरीट-कुण्डल-हार-कौस्तुभ-केयूर-कटक-नूपुरोदर-बन्धन-आद्य्-अपरिमित-आश्चर्य-अनन्त-दिव्य-भूषणः शङ्ख-चक्र-गदासि-श्रीवत्स-वनमाला-अलङ्कृतो ऽनवधिक-अतिशय-सौन्दर्य-आहृत-अशेष-मनो-दृष्टि-वृत्तिर् लावण्य-अमृत-पूरित-अशेष-चर-अचर-भूत-जातो ऽत्यद्भुत-अचिन्त्य-नित्य-यौवनः पुष्प-हास-सुकुमारः पुण्य-गन्ध-वासित-अनन्त-दिग्-अन्तरालस् त्रैलोक्य-आक्रमण-प्रवृत्त-गम्भीर-भावः करुणा-अनुराग-मधुर-लोचन-अवलोकित-आश्रित-वर्गः पुरुष-वरो दरीदृश्यते / स च निखिल-जगद्-उदय-विभव-लय-लीलो निरस्त-समस्त-हेयः समस्त-कल्याण-गुण-गण-निधिः स्व-इतर-समस्त-वस्तु-विलक्षणः परम-आत्मा परं ब्रह्म नारायण इत्य् अवगम्यते / तद्-धर्म-उपदेशात् --- स एष सर्वेषां लोकानाम् ईष्टे सर्वेषां कामानाम् --- स एष सर्वेभ्यः पापभ्य उदित इत्य्-आदि-दर्शनात् / तस्य एते गुणाः सर्वस्य वशी सर्वस्या इशानः --- अपहत-पाप्मा विजर इत्य्-आदि सत्य-संकल्प इत्य्-अन्तम् --- विश्वतः परमं नित्यं विश्वं नारायणं हरिम् / पतिं विश्वस्या अत्म-ईश्वरम् इत्य्-आदि-वाक्य-प्रतिपादिताः /
135 SK वाक्यकारैश् चैतत्सर्वं सुस्पष्टम् आह -- हिरण्यमयः पुरुषो दृश्यत इति प्राज्ञः सर्वान्तरः स्याल् लोककामेशोपदेशात् तथोदयात् पाप्मनाम् इत्यादिना / तस्य च रूपस्यानित्यतादि वाक्यकारेणैव प्रतिषिद्धम् -- स्यात् तद्रूपं कृतकम् अनुग्रहार्थं तच्चेतनानाम् ऐश्वर्याद् इत्य् उपासितुर् अनुग्रहार्थः परमपुरुषस्य रूपसंग्रह इति पूर्वपक्षं कृत्वा, रूपं वातीन्द्रियम् अन्तःकरणप्रत्यक्षं तन्निर्देशाद् इति / यथा ज्ञानादयः परस्य ब्रह्मणः स्वरूपतया निर्देशात् स्वरूपभूतगुणास् तथेदम् अपि रूपं श्रुत्या स्वरूपतया निर्देशात् स्वरूपभूतम् इत्यर्थः / भाष्यकारेणैतद् व्याख्यातम् -- अञ्जसैव विश्वसृजो रूपं तत् तु न चक्षुषा ग्राह्यं मनसा त्व् अकलुषेण साधनान्तरवता गृह्यते, न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेनेति श्रुतेः, न ह्य् रूपाया देवताया रूपम् उपदिश्यते, यथाभूतवादि हि शास्त्रम्, महारजनं वासः -- वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्ताद् इति प्रकरणान्तरनिर्देशाच् च साक्षिण इत्यादिना हिरण्यमय इति रूपसामान्याच् चन्द्रमुखवत्, न मयड् अत्र विकारम् आदाय प्रयुज्यते, अनारभ्यत्वाद् आत्मन इति / यथा ज्ञानादिकल्याणगुणगणानन्तर्यनिर्देशाद् अपरिमितकल्याणगुणगणविशिष्टं परं ब्रह्मेत्य् अवगम्यत एवम् आदित्यवर्णं पुरुषम् इत्यादिनिर्देशात् स्वाभिमतस्वानुरूपकल्याणतमरूपः परब्रह्मभूतः पुरुषोत्तमो नारायण इति ज्ञायते / तथास्येशना जगतो विष्णुपत्नी -- ह्रीश् च ते लक्ष्मीश् च पत्न्यौ -- सदा पश्यन्ति सूरयः -- तमसः परस्तात् -- क्षयन्तम् अस्य रजसः पराक इत्यादिना पत्नीपरिजनस्थानादीनां निर्देशाद् एव तथैव सन्तीत्य् अवगम्यते / यथाह भाष्यकार -- यथाभूतवादि हि शास्त्रम् इति /
268 SK वाक्य-कारैश् च एतत्-सर्वं सु-स्पष्टम् आह --- हिरण्य-मयः पुरुषो दृश्यत इति प्राज्ञः सर्व-अन्तरः स्याल् लोक-काम-ईश-उपदेशात् तथ ऊदयात् पाप्मनाम् इत्य्-आदिना / तस्य च रूपस्य अनित्यता-आदि वाक्य-कारेण एव प्रतिषिद्धम् --- स्यात् तद्-रूपं कृतकम् अनुग्रह-अर्थं तच्-चेतनानाम् ऐश्वर्याद् इत्य् उपासितुर् अनुग्रह-अर्थः परम-पुरुषस्य रूप-संग्रह इति पूर्व-पक्षं कृत्वा, रूपं व आतीन्द्रियम् अन्तःकरण-प्रत्यक्षं तन्-निर्देशाद् इति / यथा ज्ञान-आदयः परस्य ब्रह्मणः स्व-रूपतया निर्देशात् स्व-रूप-भूत-गुणास् तथ ईदम् अपि रूपं श्रुत्या स्व-रूपतया निर्देशात् स्व-रूप-भूतम् इत्य्-अर्थः / भाष्य-कारेण एतद् व्याख्यातम् --- अञ्जस ऐव विश्व-सृजो रूपं तत् तु न चक्षुषा ग्राह्यं मनसा त्व् अकलुषेण साधन-अन्तरवता गृह्यते, न चक्षुषा गृह्यते न अपि वाचा मनसा तु विशुद्धेन इति श्रुतेः, न ह्य् रूपाया देवताया रूपम् उपदिश्यते, यथा-भूत-वादि हि शास्त्रम्, महा-रजनं वासः --- वेद अहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्ताद् इति प्रकरण-अन्तर-निर्देशाच् च साक्षिण इत्य्-आदिना हिरण्य-मय इति रूप-सामान्याच् चन्द्र-मुखवत्, न मयड् अत्र विकारम् आदाय प्रयुज्यते, अनारभ्यत्वाद् आत्मन इति / यथा ज्ञान-आदि-कल्याण-गुण-गण-आनन्तर्य-निर्देशाद् अपरिमित-कल्याण-गुण-गण-विशिष्टं परं ब्रह्म इत्य् अवगम्यत एवम् आदित्य-वर्णं पुरुषम् इत्य्-आदि-निर्देशात् स्व-अभिमत-स्व-अनुरूप-कल्याणतम-रूपः पर-ब्रह्म-भूतः पुरुष-उत्तमो नारायण इति ज्ञायते / तथ आस्या इशना जगतो विष्णु-पत्नी --- ह्रीश् च ते लक्ष्मीश् च पत्न्यौ --- सदा पश्यन्ति सूरयः --- तमसः परस्तात् --- क्षयन्तम् अस्य रजसः पराक इत्य्-आदिना पत्नी-परिजन-स्थान-आदीनां निर्देशाद् एव तथ ऐव सन्ति इत्य् अवगम्यते / यथा आह भाष्य-कार --- यथा-भूत-वादि हि शास्त्रम् इति /
136 SK एतदुक्तं भवति -- यथा सत्यं ज्ञानं अनन्तं ब्रह्मेति निर्देशात् परमात्मस्वरूपं समस्तहेयप्रत्यनीकानवधिकानन्तैकतानतयापरिच्छेद्यतया च सकलेतरविलक्षणं तथा यः सर्वज्ञः सर्ववित् -- परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च -- तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभातीत्यादिनिर्देशान् निरतिशयासंख्येयाश् च गुणाः सकलेतरविलक्षणाः / तथादित्यवर्णम् इत्यादिनिर्देशाद् रूपपरिजनस्थानादयश् च सकलेतरविलक्षणाः स्वासाधारणा अनिर्देश्यस्वरूपस्वभावा इति /
270 SK एतद्-उक्तं भवति --- यथा सत्यं ज्ञानं अनन्तं ब्रह्म इति निर्देशात् परम-आत्म-स्व-रूपं समस्त-हेय-प्रत्यनीक-अनवधिक-अनन्त-एक-तानतया-परिच्छेद्यतया च सकल-इतर-विलक्षणं तथा यः सर्व-ज्ञः सर्व-वित् --- पर आस्य शक्तिर् विविध ऐव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च --- तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति इत्य्-आदि-निर्देशान् निरतिशय-असंख्येयाश् च गुणाः सकल इतर-विलक्षणाः / तथा-आदित्य-वर्णम् इत्य्-आदि-निर्देशाद् रूप-परिजन-स्थान-आदयश् च सकल-इतर-विलक्षणाः स्व-असाधारणा अनिर्देश्य-स्व-रूप-स्व-भावा इति /
137 SK वेदाः प्रमाणं चेद् विध्यर्थवादमन्त्रगतं सर्वम् अपूर्वम् अविरुद्धम् अर्थजातं यथावस्थितम् एव बोधयन्ति / प्रामाण्यं च वेदानाम् औत्पत्तिकस् तु शब्दस्यार्थेन संबन्ध इत्युक्तम् / यथाग्निजलादीनाम् औष्ण्यादिशक्तियोगः स्वाभाविकः, यथा च चक्षुरादीनाम् इन्द्रियाणां बुद्धिविशेषजनशक्तिः स्वाभाविकी तथा शब्दस्यापि बोधनशक्तिः स्वाभाविकी / न च हस्तचेष्टादिवत् संकेतमूलं शब्दस्य बोधकत्वम् इति वक्तुं शक्यम् / अनाद्यनुसंधानाविच्छेदे ऽपि संकेतयितृपुरुषाज्ञानात् / यानि संकेतमूलानि तानि सर्वाणि साक्षाद् वा परंपरया वा ज्ञायन्ते / न च देवदत्तादिशब्दवत् कल्पयितुं युक्तम् / तेषु च साक्षाद् वा परंपरया वा संकेतो ज्ञायते / गवादिशब्दानां त्व् अनाद्यनुसंधानाविच्छेदे ऽपि संकेताज्ञानाद् एव बोधकत्वशक्तिः स्वाभाविकी / अतो ऽग्न्यादीनां दाहकत्वादिशक्तिवद् इन्द्रियाणां बोधकत्वशक्तिवच् च शब्दस्यापि बोधकत्वशक्तिर् आश्रयणीया //
272 SK वेदाः प्रमाणं चेद् विध्य्-अर्थ-वाद-मन्त्र-गतं सर्वम् अपूर्वम् अविरुद्धम् अर्थ-जातं यथा-अवस्थितम् एव बोधयन्ति / प्रामाण्यं च वेदानाम् औत्पत्तिकस् तु शब्दस्य अर्थेन संबन्ध इत्य्-उक्तम् / यथा-अग्नि-जल-आदीनाम् औष्ण्य-आदि-शक्ति-योगः स्वाभाविकः, यथा च चक्षुर्-आदीनाम् इन्द्रियाणां बुद्धि-विशेष-जन-शक्तिः स्वाभाविकी तथा शब्दस्य अपि बोधन-शक्तिः स्वाभाविकी / न च हस्त-चेष्टा-आदिवत् संकेत-मूलं शब्दस्य बोधकत्वम् इति वक्तुं शक्यम् / अनाद्य्-अनुसंधान-अविच्छेदे ऽपि संकेतयितृ-पुरुष-अज्ञानात् / यानि संकेत-मूलानि तानि सर्वाणि साक्षाद् वा परंपरया वा ज्ञायन्ते / न च देव-दत्त-आदि-शब्दवत् कल्पयितुं युक्तम् / तेषु च साक्षाद् वा परंपरया वा संकेतो ज्ञायते / गव-आदि-शब्दानां त्व् अनाद्य्-अनुसंधान-अविच्छेदे ऽपि संकेत-अज्ञानाद् एव बोधकत्व-शक्तिः स्वाभाविकी / अतो ऽग्न्य्-आदीनां दाहकत्व-आदि-शक्तिवद् इन्द्रियाणां बोधकत्व-शक्तिवच् च शब्दस्य अपि बोधकत्व-शक्तिर् आश्रयणीया //
138 SK ननु चेन् इन्द्रियवच् छब्दस्यापि बोधकत्वं स्वाभाविकं संबन्धग्रहणं बोधकत्वाय किम् इत्य् अपेक्षते, लिङ्गादिवद् इति उच्यते -- यथा ज्ञातसंबन्धनियमं धूमाद्यग्न्यादिविज्ञानजनकं तथा ज्ञातसंबन्धनियमः शब्दो ऽप्य् अर्थविशेषबुद्धिजनकः / एवं तर्हि शब्दो ऽप्य् अर्थविशेषस्य लिङ्गम् इत्य् अनुमानं स्यात् -- नैवम् / शब्दार्थयोः संबन्धो बोध्यबोध्कभाव एव धूमादीनां तु संबन्धान्तर इति तस्य संबन्धस्य ज्ञानद्वारेण बुद्धिजनकत्वम् इति विशेषः / एवं गृहीतसंबन्धस्य बोधकत्वदर्शनाद् अनाद्यनुसंधानाविच्छेदे ऽपि संकेताज्ञानाद् बोधकत्वशक्तिर् एवेति निश्चीयते /
274 SK ननु चेन् इन्द्रियवच् छब्दस्य अपि बोधकत्वं स्वाभाविकं संबन्ध-ग्रहणं बोधकत्वाय किम् इत्य् अपेक्षते, लिङ्ग-आदिवद् इति उच्यते --- यथा ज्ञात-संबन्ध-नियमं धूम-आद्य्-अग्न्य्-आदि-विज्ञान-जनकं तथा ज्ञात-संबन्ध-नियमः शब्दो ऽप्य् अर्थ-विशेष-बुद्धि-जनकः / एवं तर्हि शब्दो ऽप्य् अर्थ-विशेषस्य लिङ्गम् इत्य् अनुमानं स्यात् --- न एवम् / शब्द-अर्थयोः संबन्धो बोध्य-बोध्क-भाव एव धूम-आदीनां तु संबन्ध-अन्तर इति तस्य संबन्धस्य ज्ञान-द्वारेण बुद्धि-जनकत्वम् इति विशेषः / एवं गृहीत-संबन्धस्य बोधकत्व-दर्शनाद् अनाद्य्-अनुसंधान-अविच्छेदे ऽपि संकेत-अज्ञानाद् बोधकत्व-शक्तिर् एव इति निश्चीयते /
139 SK एवं बोधकानां पदसंघातानां संसर्गविशेषबोधकत्वेन वाक्यशब्दाभिधेयानाम् उच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकस् ते पौरुषेयाः शब्दा इत्य् उच्यन्ते / यत्र तु तदुच्चारणक्रमः पूर्वपूर्वोच्चरणक्रमजनितसंस्कारपूर्वकः सर्वदापौरुषेयास् ते च वेदा इत्य्+उच्यन्ते / एतद् एव वेदानाम् अपौरुषेयत्वं नित्यत्वं च यत्पूर्वोच्चारणक्रमजनितसंस्कारेण तम् एव क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यमाणत्वम् / ते चानुपूर्वीविशेषेण संस्थिता अक्षरराशयो वेदा ऋग्यजुःसामाथर्वभेदभिन्ना अनन्तशाखा वर्तन्ते / ते च विध्यर्थवादमन्त्ररूपा वेदाः परब्रह्मभूतनारायणस्वरूपं तदाराधनप्रकाराधितात् फलविशेषं च बोधयन्ति / परमपुरुषवत् तत्स्वरूपतदाराधनतत्फलज्ञापकवेदाख्यशब्दजातं नित्यम् एव / वेदानाम् अनन्तत्वाद् दुरवगाहत्वाच् च परमपुरुषनियुक्ताः परमर्षयः कल्पे कल्पे निखिलजगदुपकारार्थं वेदार्थं स्मृत्वा विध्यर्थवादमन्त्रमूलानि धर्मशास्त्राणीतिहासपुराणानि च चक्रुः / लौकिकाश् च शब्दा वेदराशेर् उद्धृत्यैव तत्तदर्थविशेषनामतया पूर्ववत् प्रयुक्ताः पारंपर्येण प्रयुज्यन्ते / ननु च वैदिक एव सर्वे वाचकाः शब्दाश् चेच् छन्दस्यैवं भाषायाम् एवम् इति लक्षणभेदः कथम् उपपद्यते / उच्यते -- तेषाम् एव शब्दानां तस्याम् एवानुपूर्व्यां वर्तमानां तथैव प्रयोगः / अन्यत्र प्रयुज्यमानानाम् अन्यथेति न कश्चिद् दोषः /
276 SK एवं बोधकानां पद-संघातानां संसर्ग-विशेष-बोधकत्वेन वाक्य-शब्द-अभिधेयानाम् उच्चारण-क्रमो यत्र पुरुष-बुद्धि-पूर्वकस् ते पौरुषेयाः शब्दा इत्य् उच्यन्ते / यत्र तु तद्-उच्चारण-क्रमः पूर्व-पूर्व-उच्चरण-क्रम-जनित-संस्कार-पूर्वकः सर्वद आपौरुषेयास् ते च वेदा इत्य्+उच्यन्ते / एतद् एव वेदानाम् अपौरुषेयत्वं नित्यत्वं च यत्-पूर्व-उच्चारण-क्रम-जनित-संस्कारेण तम् एव क्रम-विशेषं स्मृत्वा तेन एव क्रमेण उच्चार्यमाणत्वम् / ते च अनुपूर्वी-विशेषेण संस्थिता अक्षर-राशयो वेदा ऋग्-यजुः-साम-अथर्व-भेद-भिन्ना अनन्त-शाखा वर्तन्ते / ते च विध्य्-अर्थ-वाद-मन्त्र-रूपा वेदाः पर-ब्रह्म-भूत-नारायण-स्व-रूपं तद्-आराधन-प्रकार-अधितात् फल-विशेषं च बोधयन्ति / परम-पुरुषवत् तत्-स्व-रूप-तद्-आराधन-तत्-फल-ज्ञापक-वेद-आख्य-शब्द-जातं नित्यम् एव / वेदानाम् अनन्तत्वाद् दुरवगाहत्वाच् च परम-पुरुष-नियुक्ताः परम-र्षयः कल्पे कल्पे निखिल-जगद्-उपकार-अर्थं वेद-अर्थं स्मृत्वा विध्य्-अर्थ-वाद-मन्त्र-मूलानि धर्म-शास्त्राणि इतिहास-पुराणानि च चक्रुः / लौकिकाश् च शब्दा वेद-राशेर् उद्धृत्य एव तत्-तद्-अर्थ-विशेष-नामतया पूर्ववत् प्रयुक्ताः पारंपर्येण प्रयुज्यन्ते / ननु च वैदिक एव सर्वे वाचकाः शब्दाश् चेच् छन्दस्य एवं भाषायाम् एवम् इति लक्षण-भेदः कथम् उपपद्यते / उच्यते --- तेषाम् एव शब्दानां तस्याम् एव अनुपूर्व्यां वर्तमानां तथ ऐव प्रयोगः / अन्यत्र प्रयुज्यमानानाम् अन्यथ ईति न कश्चिद् दोषः /
140 SK एवम् इतिहासपुराणधर्मशास्त्रोपबृंहितसाङ्गवेदवेद्यः परब्रह्मभूतो नारायणो निखिलहेयप्रत्यनीकः सकलेतरविलक्षणो ऽपरिच्छिन्नज्ञानानन्दैकस्वरूपः स्वाभाविकानवधिकातिशयासंख्येयकल्याणगुणगणाकरः स्वसंकल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदचिदचिद्वस्तुजातो ऽपरिच्छेद्यस्वरूपस्वभावानन्तमहाविभूतिर् नानाविधानन्तचेतनाचेतनात्मकप्रपञ्चलीलोपकरण इति प्रतिपादितम् / सर्वं खल्व् इदं ब्रह्म -- ऐतदात्म्यम् इदं सर्वं -- तत् त्वम् असि श्वेतकेतो -- एनम् एके वदन्त्य् अग्निं मरुतो ऽन्यो प्रजापतिम् / इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् // ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास् त्रयी च / त्रयो ऽग्नयश् चाहुतयश् च पञ्च सर्वे देव देवकीपुत्र एव // त्वं यज्ञस् त्वं वषट्कारस् त्वम् ॐकारः परंतपः / ऋतुधामा वसुः पूर्वो वसूनां त्वं प्रजापतिः // जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् / अग्निः कोपः प्रसादस् ते सोमः श्रीवत्सलक्षणः // ज्योतींषि विष्णुर् भुवनानि विष्णुर् वनानि विष्णुर् गिरयो दिशश् च / नद्यः समुद्राश् च स एव सर्वं यद् अस्ति यन् नास्ति च विप्रवर्य // इत्यादिसामानाधिकरण्यप्रयोगेषु सर्वैः शब्दैः सर्वशरीरतया सर्वप्रकारं ब्रह्मैवाभिधीयत इति चोक्तम् / सत्यसंकलपं परं ब्रह्म स्वयम् एव बहुप्रकारं स्याम् इति संकल्प्याचित्समष्टिरूपमहाभूतसूक्ष्मवस्तु भोक्तृवर्गसमूहं च स्वस्मिन् प्रलीनं स्वयम् एव विभज्य तस्माद् भूतसूक्ष्माद् वास्तुनो महाभूतानि सृष्ट्वा तेषु च भोक्तृवर्गात्मतया प्रवेश्य तैश्चिद् अधिष्ठितैर् महाभूतैर् अन्योन्यसंसृष्टैः कृत्स्नं जगद् विधाय स्वयम् अपि सर्वस्यात्मतया प्रविश्य परमात्मत्वेनावस्थितं सर्वशरीरं बहुप्रकारम् अवतिष्ठते / यद् इदं महाभूतसूक्ष्मं वस्तु तद् एव प्रकृतिशब्देनाभिधीयते / भोक्तृवर्गसमूह एव पुरुषशब्देन चोच्यते / तौ च प्रकृतिपुरुषौ परमात्मशरीरतया परमात्मप्रकारभूतौ / तत्प्रकारः परमात्मैव प्रकृतिपुरुषशब्दाभिदेयः / सो ऽकामयत बहु स्यां प्रजायेयेति -- तत्सृष्ट्वा तद् एवानुप्रविशत् -- तद् अनुप्रविश्य सच् च त्यच् चाभवन् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवद् इति पूर्वोक्तं सर्वम् अनयैव श्रुत्या व्यक्तम् /
278 SK एवम् इतिहास-पुराण-धर्म-शास्त्र-उपबृंहित-साङ्ग-वेद-वेद्यः पर-ब्रह्म-भूतो नारायणो निखिल-हेय-प्रत्यनीकः सकल-इतर-विलक्षणो ऽपरिच्छिन्न-ज्ञान-आनन्द-एक-स्व-रूपः स्वाभाविक-अनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गण-आकरः स्व-संकल्प-अनुविधायि-स्व-रूप-स्थिति-प्रवृत्ति-भेद-चिद्-अचिद्-वस्तु-जातो ऽपरिच्छेद्य-स्व-रूप-स्व-भाव-अनन्त-महा-विभूतिर् नाना-विध-अनन्त-चेतन-अचेतन-आत्मक-प्रपञ्च-लीला-उपकरण इति प्रतिपादितम् / सर्वं खल्व् इदं ब्रह्म --- ऐतदात्म्यम् इदं सर्वं --- तत् त्वम् असि श्वेतकेतो --- एनम् एके वदन्त्य् अग्निं मरुतो ऽन्यो प्रजापतिम् / इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् // ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोक-पालास् त्रयी च / त्रयो ऽग्नयश् चा अहुतयश् च पञ्च सर्वे देव देवकी-पुत्र एव // त्वं यज्ञस् त्वं वषट्-कारस् त्वम् ॐ-कारः परंतपः / ऋतु-धामा वसुः पूर्वो वसूनां त्वं प्रजा-पतिः // जगत्-सर्वं शरीरं ते स्थैर्यं ते वसु-धातलम् / अग्निः कोपः प्रसादस् ते सोमः श्रीवत्स-लक्षणः // ज्योतींषि विष्णुर् भुवनानि विष्णुर् वनानि विष्णुर् गिरयो दिशश् च / नद्यः समुद्राश् च स एव सर्वं यद् अस्ति यन् न अस्ति च विप्रवर्य // इत्य्-आदि-सामानाधिकरण्य-प्रयोगेषु सर्वैः शब्दैः सर्व-शरीरतया सर्व-प्रकारं ब्रह्म एव अभिधीयत इति च उक्तम् / सत्य-संकलपं परं ब्रह्म स्वयम् एव बहु-प्रकारं स्याम् इति संकल्प्य अचित्-समष्टि-रूप-महा-भूत-सूक्ष्म-वस्तु भोक्तृ-वर्ग-समूहं च स्वस्मिन् प्रलीनं स्वयम् एव विभज्य तस्माद् भूत-सूक्ष्माद् वास्तुनो महा-भूतानि सृष्ट्वा तेषु च भोक्तृ-वर्ग-आत्मतया प्रवेश्य तैश्चिद् अधिष्ठितैर् महा-भूतैर् अन्योन्य-संसृष्टैः कृत्स्नं जगद् विधाय स्वयम् अपि सर्वस्या अत्मतया प्रविश्य परम-आत्मत्वेन अवस्थितं सर्व-शरीरं बहु-प्रकारम् अवतिष्ठते / यद् इदं महा-भूत-सूक्ष्मं वस्तु तद् एव प्रकृति-शब्देन अभिधीयते / भोक्तृ-वर्ग-समूह एव पुरुष-शब्देन च उच्यते / तौ च प्रकृति-पुरुषौ परम-आत्म-शरीरतया परम-आत्म-प्रकार-भूतौ / तत्-प्रकारः परम-आत्म ऐव प्रकृति-पुरुष-शब्द-अभिदेयः / सो ऽकामयत बहु स्यां प्रजायेय इति --- तत्-सृष्ट्वा तद् एव अनुप्रविशत् --- तद् अनुप्रविश्य सच् च त्यच् च अभवन् निरुक्तं च अनिरुक्तं च निलयनं च अनिलयनं च विज्ञानं च अविज्ञानं च सत्यं च अनृतं च सत्यम् अभवद् इति पूर्व-उक्तं सर्वम् अनय ऐव श्रुत्या व्यक्तम् /
141 SK ब्रह्मप्राप्त्युपायश् च शास्त्राधिगततत्त्वज्ञानपूर्वकस्वकर्मानुगृहीतभक्तिनिष्ठासाध्यानवधिकातिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपपरभक्तिर् एवेत्युक्तम् / भक्तिशब्दश् च प्रीतिविशेषे वर्तते / प्रीतिश् च ज्ञानविशेष एव / ननु च सुखं प्रीतिर् इत्यनर्थान्तरम् / सुखं च ज्ञानविशेषसाध्यं पदार्थान्तरम् इति हि लौकिकाः / नैवम् / येन ज्ञानविशेषेण तत्साध्यम् इत्य् उच्यते स एव ज्ञानविशेषः सुखम् /
280 SK ब्रह्म-प्राप्त्य्-उपायश् च शास्त्र-अधिगत-तत्त्व-ज्ञान-पूर्वक-स्व-कर्म-अनुगृहीत-भक्ति-निष्ठा-साध्य-अनवधिक-अतिशय-प्रिय-विशदतम-प्रत्यक्षता-आपन्न-अनुध्यान-रूप-पर-भक्तिर् एव इत्य्-उक्तम् / भक्ति-शब्दश् च प्रीति-विशेषे वर्तते / प्रीतिश् च ज्ञान-विशेष एव / ननु च सुखं प्रीतिर् इत्य्-अनर्थ-अन्तरम् / सुखं च ज्ञान-विशेष-साध्यं पद-अर्थ-अन्तरम् इति हि लौकिकाः / न एवम् / येन ज्ञान-विशेषेण तत्-साध्यम् इत्य् उच्यते स एव ज्ञान-विशेषः सुखम् /
142 SK एतद् उक्तं भवति -- विषयज्ञानानि सुखदुःखमध्यसाधारणानि / तानि च विषयाधीनविशेषाणि तथा भवन्ति / येन च विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकम् इत्य् अभिमतं तद्विषयं ज्ञानम् एव सुखं, तदतिरेकि पदार्थान्तरं नोपलभ्यते / तेनैव सुखित्वव्यवहारोपपत्तेश् च / एवंविधसुखस्वरूपज्ञानस्य विशेषकत्वं ब्रह्मव्यतिरिक्तस्य वस्तुनः सातिशयम् अस्थिरं च / ब्रह्मणस् त्व् अनवधिकातिशयं स्थिरं चेति / आनन्दो ब्रह्मेत्य् उच्यते / विषयायत्तत्वाज् ज्ञानस्य सुखस्वरूपतया ब्रह्मैव सुखम् / तद् इदम् आह -- रसो वै सः -- रसं हे एवायं लब्ध्वानन्दी भवतीति ब्रह्मैव सुखम् इति ब्रह्म लब्ध्वा सुखी भवतीत्यर्थः / परमपुरुषः स्वेनैव स्वयम् अनवधिकातिशयसुखः सन् परस्यापि सुखं भवति / सुखस्वरूपत्वाविशेषात् / ब्रह्म यस्य ज्ञानविषयो भवति स सुखी भवतीत्यर्थः / तद् एवं परस्य ब्रह्मणो ऽनवधिकातिशयासंख्येयकल्याणगुणगणाकरस्य निरवद्यस्यानन्तमहाविभूतेर् अनवधिकातिशयसौशील्यसौन्दर्यवात्सल्यजलधेः सर्वशेषित्वाद् आत्मनः शेषत्वात् प्रतिबंधितयानुसंधीयमानम् अनवधिकातिशयप्रीतिविषयं सत् परं ब्रह्मैवैनम् आत्मानं प्रापयतीति /
282 SK एतद् उक्तं भवति --- विषय-ज्ञानानि सुख-दुःख-मध्य-साधारणानि / तानि च विषय-अधीन-विशेषाणि तथा भवन्ति / येन च विषय-विशेषेण विशेषितं ज्ञानं सुखस्य जनकम् इत्य् अभिमतं तद्-विषयं ज्ञानम् एव सुखं, तद्-अतिरेकि पद-अर्थ-अन्तरं न उपलभ्यते / तेन एव सुखित्व-व्यवहार-उपपत्तेश् च / एवं-विध-सुख-स्व-रूप-ज्ञानस्य विशेषकत्वं ब्रह्म-व्यतिरिक्तस्य वस्तुनः स-अतिशयम् अस्थिरं च / ब्रह्मणस् त्व् अनवधिक-अतिशयं स्थिरं च इति / आनन्दो ब्रह्म इत्य् उच्यते / विषय-आयत्तत्वाज् ज्ञानस्य सुख-स्व-रूपतया ब्रह्म एव सुखम् / तद् इदम् आह --- रसो वै सः --- रसं हे एव अयं लब्ध्वा आनन्दी भवति इति ब्रह्म एव सुखम् इति ब्रह्म लब्ध्वा सुखी भवति इत्य्-अर्थः / परम-पुरुषः स्वेन एव स्वयम् अनवधिक-अतिशय-सुखः सन् परस्य अपि सुखं भवति / सुख-स्व-रूपत्व-अविशेषात् / ब्रह्म यस्य ज्ञान-विषयो भवति स सुखी भवति इत्य्-अर्थः / तद् एवं परस्य ब्रह्मणो ऽनवधिक-अतिशय-असंख्येय-कल्याण-गुण-गण-आकरस्य निरवद्यस्य अनन्त-महा-विभूतेर् अनवधिक-अतिशय-सौशील्य-सौन्दर्य-वात्सल्य-जल-धेः सर्व-शेषित्वाद् आत्मनः शेषत्वात् प्रतिबंधितय आनुसंधीयमानम् अनवधिक-अतिशय-प्रीति-विषयं सत् परं ब्रह्म एव एनम् आत्मानं प्रापयति इति /
143 SK ननु चात्यन्तशेषतैवात्मनो ऽनवधिकातिशयसुखम् इत्युक्तं भवति / तद् एतत् सर्वलोकविरुद्धम् / तथा हि सर्वेषाम् एव चेतनानां स्वातन्त्र्यम् एव इष्टतमं दृश्यते, पारतन्त्र्यं दुःखतरम् / स्मृतिश् च -- सर्वं परवशम् दुःखं सर्वम् आत्मवशं सुखम् / तथा हि -- सेवा श्ववृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् / इति / तद् इदम् अनधिगतदेहातिरिक्तात्मरूपाणां शरीरात्माभिमानविजृम्भितम् / तथा हि -- शरीरं हि मनुष्यत्वादिजातिगुणाश्रयपिण्डभूतं स्वतन्त्रं प्रतीयते / तस्मिन्न् एवाहम् इति संसारिणां प्रतीतिः / आत्माभिमानो यादृशस् तदनुगुणैव पुरुषार्थप्रतीतिः / सिंहव्याघ्रवराहमनुष्ययक्षरक्षःपिशाचदेवदानवस्त्रीपुंसव्यवस्थितात्माभिमानानां सुखानि व्यवस्थितानि / तानि च परस्परविरुद्धानि / तस्माद् आत्माभिमानानुगुणपुरुषार्थव्यवस्थया सर्वं समाहितम् / आत्मस्वरूपं तु देवादिदेहविलक्षणं ज्ञानैकाकारम् / तच् च परशेषतैकस्वरूपम् / यथावस्थितात्माभिमाने तदनुगुणैव पुरुषार्थप्रतीतिः / आत्मा ज्ञानमयो ऽमल इति स्मृतेर् ज्ञानैकाकारता प्रतिपन्ना / पतिं विश्वस्येत्यादि श्रुतिगुणैः परमात्मशेषतैकाकारता च प्रतीता / अतः सिंहव्याघ्रादिशरीरात्माभिमानवत् स्वातन्त्र्याभिमानो ऽपि कर्मकृतविपरीतात्मज्ञानरूपो वेदितव्यः / अतः कर्मकृतम् एव परमपुरुषव्यतिरिक्तविषयाणां सुखत्वम् / अत एव तेषाम् अल्पत्वम् अस्थिरत्वं च परमपुरुषस्यैव स्वत एव सुखत्वम् / अतस् तद् एव स्थिरम् अनवधिकातिशयं च -- कं ब्रह्म खं ब्रह्म -- आनन्दो ब्रह्म -- सत्यं ज्ञानम् अनन्तं ब्रह्मेति श्रुतेः / ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य वस्तुनः स्वरूपेण सुखत्वाभावः कर्मकृतत्वेन चास्थिरत्वं भगवता पराशरेणोक्तम् -- नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम / वस्त्व् एकम् एव दुःखाय सुखायेर्ष्यागमाय च / कोपाय च यतस् तस्माद् वस्तु वस्त्वात्मकं कुतः // सुखदुःखाद्येकान्तरूपिणो वस्तुनो वस्तुत्वं कुतः / तदेकान्तता पुण्यपापकृतेत्यर्थः / एवम् अनेकपुरुषापेक्षया कस्यचित् सुखम् एव कस्यचिद् दुःखं भवतीत्यवस्थां प्रतिपाद्य, एकस्मिन्न् अपि पुरुषे न व्यवस्थितम् इत्याह -- तद् एव प्रीयते भूत्वा पुनर्सुःखाय जायते / तद् एव कोपाय यतः प्रसादाय च जायते // तस्माद् दुःखात्मकं नास्ति न च किंचित् सुखात्मकम् / इति सुखदुःखात्मकत्वं सर्वस्य वस्तुनः कर्मकृतं न वस्तुस्वरूपकृतम् / अतः कर्मावसाने तद् अपैतीत्यर्थः /
284 SK ननु च अत्यन्त-शेषत ऐवा अत्मनो ऽनवधिक-अतिशय-सुखम् इत्य्-उक्तं भवति / तद् एतत् सर्व-लोक-विरुद्धम् / तथा हि सर्वेषाम् एव चेतनानां स्वातन्त्र्यम् एव इष्टतमं दृश्यते, पारतन्त्र्यं दुःखतरम् / स्मृतिश् च --- सर्वं पर-वशम् दुःखं सर्वम् आत्म-वशं सुखम् / तथा हि --- सेवा श्व-वृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् / इति / तद् इदम् अनधिगत-देह-अतिरिक्त-आत्म-रूपाणां शरीर-आत्म-अभिमान-विजृम्भितम् / तथा हि --- शरीरं हि मनुष्यत्व-आदि-जाति-गुण-आश्रय-पिण्ड-भूतं स्व-तन्त्रं प्रतीयते / तस्मिन्न् एव अहम् इति संसारिणां प्रतीतिः / आत्म-अभिमानो यादृशस् तद्-अनुगुण ऐव पुरुष-अर्थ-प्रतीतिः / सिंह-व्याघ्र-वराह-मनुष्य-यक्ष-रक्षः-पिशाच-देव-दानव-स्त्री-पुंस-व्यवस्थित-आत्म-अभिमानानां सुखानि व्यवस्थितानि / तानि च परस्पर-विरुद्धानि / तस्माद् आत्म-अभिमान-अनुगुण-पुरुष-अर्थ-व्यवस्थया सर्वं समाहितम् / आत्म-स्व-रूपं तु देव-आदि-देह-विलक्षणं ज्ञान-एक-आकारम् / तच् च पर-शेषता-एक-स्व-रूपम् / यथा-अवस्थित-आत्म-अभिमाने तद्-अनुगुण ऐव पुरुष-अर्थ-प्रतीतिः / आत्मा ज्ञान-मयो ऽमल इति स्मृतेर् ज्ञान-एक-आकारता प्रतिपन्ना / पतिं विश्वस्य इत्य्-आदि श्रुति-गुणैः परम-आत्म-शेषता-एक-आकारता च प्रतीता / अतः सिंह-व्याघ्र-आदि-शरीर-आत्म-अभिमानवत् स्वातन्त्र्य-अभिमानो ऽपि कर्म-कृत-विपरीत-आत्म-ज्ञान-रूपो वेदितव्यः / अतः कर्म-कृतम् एव परम-पुरुष-व्यतिरिक्त-विषयाणां सुखत्वम् / अत एव तेषाम् अल्पत्वम् अस्थिरत्वं च परम-पुरुषस्य एव स्वत एव सुखत्वम् / अतस् तद् एव स्थिरम् अनवधिक-अतिशयं च --- कं ब्रह्म खं ब्रह्म --- आनन्दो ब्रह्म --- सत्यं ज्ञानम् अनन्तं ब्रह्म इति श्रुतेः / ब्रह्म-व्यतिरिक्तस्य कृत्स्नस्य वस्तुनः स्व-रूपेण सुखत्व-अभावः कर्म-कृतत्वेन च अस्थिरत्वं भगवता पराशरेण उक्तम् --- नरक-स्वर्ग-संज्ञे वै पाप-पुण्ये द्विज-उत्तम / वस्त्व् एकम् एव दुःखाय सुखाया इर्ष्य-अगमाय च / कोपाय च यतस् तस्माद् वस्तु वस्त्व्-आत्मकं कुतः // सुख-दुःख-आद्य्-एक-अन्त-रूपिणो वस्तुनो वस्तुत्वं कुतः / तद्-एक-अन्तता पुण्य-पाप-कृत ईत्य्-अर्थः / एवम् अनेक-पुरुष-अपेक्षया कस्यचित् सुखम् एव कस्यचिद् दुःखं भवति इत्य्-अवस्थां प्रतिपाद्य, एकस्मिन्न् अपि पुरुषे न व्यवस्थितम् इत्य्-आह --- तद् एव प्रीयते भूत्वा पुनर्-सुःखाय जायते / तद् एव कोपाय यतः प्रसादाय च जायते // तस्माद् दुःख-आत्मकं न अस्ति न च किंचित् सुख-आत्मकम् / इति सुख-दुःख-आत्मकत्वं सर्वस्य वस्तुनः कर्म-कृतं न वस्तु-स्व-रूप-कृतम् / अतः कर्म-अवसाने तद् अपैति इत्य्-अर्थः /
144 SK यत् तु सर्वं परवशं दुःखम् इत्युक्तं तत्परमपुरुषव्यतिरिक्तानां परस्परशेषशेषिभावाभावात् तद्व्यतिरिक्तं प्रति शेषता दुःखम् एवेत्युक्तम् / सेवा श्ववृत्तिर् आख्यातेत्य् अत्राप्य् असेव्यसेवा श्ववृत्तिर् एवेत्युक्तम् / स ह्य् आश्रमैः सदोपास्यः समस्तैर् एक एव त्व् इति सर्वैर् आत्मयाथात्म्यवेदिभिः सेव्यः पुरुषोत्तम एक एव / यथोक्तं भगवता -- मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते / स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते // इतीयम् एव भक्तिरूपा सेवा ब्रह्मविद् आप्नोति परम् -- तम् एवं विद्वान् अमृत इह भवति -- ब्रह्म वेद ब्रह्मैव भवतीत्यादिषु वेदनशब्देनाभिधीयत इत्युक्तम् / यम् एवैष वृणुते तेन लभ्य इति विशेषणाद् यम् एवैष वृणुत इति भवगता वरणीयत्वं प्रतीयते / वरणीयश् च प्रियतमः / यस्य भगवत्य् अनवधिकातिशया प्रीतिर् जायते स एव भगवतः प्रियतमः / तद् उक्तं भगवता -- प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः / इति / तस्मात् परभक्तिरूपापन्नम् एव वेदनं तत्त्वतो भगवत्प्राप्तिसाधनम् / यथोक्तं भगवता द्वैपायनेन मोक्षधर्मे सर्वोपनिषद्व्याख्यानरूपम् -- न संदृशो तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् / भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीतीह // धृत्या समाहितात्मा भक्त्या पुरुषोत्तमं पश्यति -- साक्षात्करोति -- प्राप्नोतीत्यर्थः / भक्त्या त्व् अनन्न्यया शक्य इत्यनेनाइकार्थ्यात् / भक्तिश् च ज्ञानविशेष एवेति सर्वम् उपपन्नम् /
286 SK यत् तु सर्वं पर-वशं दुःखम् इत्य्-उक्तं तत्-परम-पुरुष-व्यतिरिक्तानां परस्पर-शेष-शेषि-भाव-अभावात् तद्-व्यतिरिक्तं प्रति शेषता दुःखम् एव इत्य्-उक्तम् / सेवा श्व-वृत्तिर् आख्यात ईत्य् अत्र अप्य् असेव्य-सेवा श्व-वृत्तिर् एव इत्य्-उक्तम् / स ह्य् आश्रमैः सद ऊपास्यः समस्तैर् एक एव त्व् इति सर्वैर् आत्म-याथात्म्य-वेदिभिः सेव्यः पुरुष-उत्तम एक एव / यथ ऊक्तं भगवता --- मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते / स गुणान् समतीत्य एतान् ब्रह्म-भूयाय कल्पते // इति इयम् एव भक्ति-रूपा सेवा ब्रह्म-विद् आप्नोति परम् --- तम् एवं विद्वान् अमृत इह भवति --- ब्रह्म वेद ब्रह्म एव भवति इत्य्-आदिषु वेदन-शब्देन अभिधीयत इत्य्-उक्तम् / यम् एव एष वृणुते तेन लभ्य इति विशेषणाद् यम् एव एष वृणुत इति भवगता वरणीयत्वं प्रतीयते / वरणीयश् च प्रियतमः / यस्य भगवत्य् अनवधिक-अतिशया प्रीतिर् जायते स एव भगवतः प्रियतमः / तद् उक्तं भगवता --- प्रियो हि ज्ञानिनो ऽत्य्-अर्थम् अहं स च मम प्रियः / इति / तस्मात् पर-भक्ति-रूप-आपन्नम् एव वेदनं तत्त्वतो भगवत्-प्राप्ति-साधनम् / यथ ऊक्तं भगवता द्वैपायनेन मोक्ष-धर्मे सर्व-उपनिषद्-व्याख्यान-रूपम् --- न संदृशो तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चन एनम् / भक्त्या च धृत्या च समाहित-आत्मा ज्ञान-स्व-रूपं परिपश्यति इति इह // धृत्या समाहित-आत्मा भक्त्या पुरुष-उत्तमं पश्यति --- साक्षात्करोति --- प्राप्नोति इत्य्-अर्थः / भक्त्या त्व् अनन्न्यया शक्य इत्य्-अनेन ऐकार्थ्यात् / भक्तिश् च ज्ञान-विशेष एव इति सर्वम् उपपन्नम् /
145 SK सारासारविवेकज्ञा गरीयांसो विमत्सराः / प्रमाणतन्त्राः सन्तीति कृतो वेदार्थसङ्ग्रहः //
288 SK सार-असार-विवेक-ज्ञा गरीयांसो विमत्सराः / प्रमाण-तन्त्राः सन्ति इति कृतो वेद-अर्थ-सङ्ग्रहः //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Rāmānuja: Vedārthasaṃgraha (sa_rAmAnuja-vedArthasaMgraha.htm).
Source