एतदुक्तं भवति- न प्रकाशमानतामात्रं सत्त्वम्, येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत् / न हि सर्पातदभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते, प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा / तथा सति मरुषु मरीचिकानिचयम् ऽउच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णभवतीर्णा मन्दाकिनीऽ इत्यभिसंधाय प्रवृत्तः तत्तोयमापीय पिपासामुपशमयेत् / तस्मादकामेनापि प्रकाशमानस्याप्यारोपितस्य न वस्तुसत्त्वमभ्युपगमनीयम् /
SK
न च मरीचिरूपेण सलिलमवस्तुसत् स्वरूपेण तु परमार्थसदेव देहेन्द्रियादयस्तु स्वरूपेणाप्यसन्त इत्यनुभवागोचरत्वात्कथमारोप्यन्त इति सांप्रतम् ; यतो यद्यसन्तो नानुभवगोचराः कथं तर्हि मरीच्यादीनामसतां तोयाद्यात्मतयानुभवगोचरत्वम् ? न च स्वरूपसत्त्वेन तोयाद्यात्मनापि सन्तो भवन्ति /
पुनरपि चिदात्मन्यध्यासमाक्षिपति- कथं पुनः इति / अयमर्थः- चिदात्मा प्रकाशते न वा ? न चेत् प्रकाशते, कथमस्मिन्नध्यासो विषयतद्धर्माणाम् ? न खल्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः संभवति / प्रतिभासमाने वा न तावदयमात्मा जडो घटादिवत्पराधीनप्रकाश इति युक्तम् / न खलु स एव कर्ता च कर्म च भवति, विरोधात् / परसमवेतक्रियाफलशालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्याः कर्म ? न च तदेव स्वं च परं च, विरोधात् / आत्मान्तरसमवायाभ्युपगमे तु ज्ञेयस्यात्मनः अनात्मत्वप्रसङ्गः / एवं तस्य तस्येत्यनवस्थाप्रसङ्गः /
SK
स्यादेतत् / आत्मा जडो ऽपि सर्वार्थज्ञानेषु भासमानो ऽपि कर्तैव न कर्म, परसमवेतक्रियाफलशालित्वाभावात्, चैत्रवत् / यथा हि चैत्रसमवेतक्रियया चैत्रनगरप्राप्तावुबयसमवेतायामपि क्रियमाणायां नगरस्यैव कर्मता, परसमवेतक्रियाफलशालित्वात्, न तु चैत्रस्य क्रियाफलशालिनो ऽपि, चैत्रसमवायाद्गमनक्रीयाया इति /
SK
तन्न, श्रुतिविरोधात् / श्रूयते हि ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ इति /
SK
उपपद्यते च / तथा हि- यो ऽयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रथेते स किं जडः स्वयंप्रकाशो वा ? जडश्चेत् विषयात्मावपि जडाविति कस्मिन् किं प्रकाशेत अविशेषात्, इति प्राप्तमान्ध्यमशेषस्य जगतः / तथा चाभाणकः -
SK
ऽअन्धस्येवान्धलग्नस्य विनिपातः पदे पदेऽ
SK
इति / न च निलीनमेव विज्ञानमर्थात्मानौ ज्ञापयति चक्षुरादिवदिति वाच्यम् / ज्ञापनं हि ज्ञानजननम्, जनितं च ज्ञानं जडं सन्नोक्तदूषणमतिवर्तेतेति / एवमुत्तरोत्तराण्यपि ज्ञानानि जडानीत्यनवस्था / तस्मादपराधीनप्रकाशा संविदुपेतव्या /
SK
तथापि किमायातं विषयात्मनोः स्वभावजडयोः ? एतदायातं यत्तयोः संविदजडेति / तत्किं पुत्रः पण्डित इति पितापि पण्डितो ऽस्तु ? स्वभाव एष संविदः स्वयंप्रकाशाया यदर्थात्मसंबन्धितेति चेत्, हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत्पितृसंबन्धितेति समानम् / सहार्थात्मप्रकाशेन संवित्प्रकाशो न त्वर्थात्मप्रकाशं विनेति तस्याः स्वभाव इति चेत्, तत्किं संविदो भिन्नौ संविदर्थात्मप्रकाशौ / तथा च न स्वयंप्रकाशा संवित्, न च संवित् अर्थात्मप्रकाश इति / अथ संविदर्थात्मप्रकाशो न संविदो भिद्येते, संविदेव तौ / एवं चेत् यावदुक्तं भवति संवित्
SK
आत्मार्थौ सहेति तावदुक्तं भवति संविदर्थात्मप्रकाशौ सहेति / तथा च न विवक्षितार्थसिद्धिः /
एतावानत्रार्थसंक्षेपः- यद्यपि स्वाध्यायाध्ययनविधिना स्वाध्यायपदवाच्यस्य वेदराशेः फलवदर्थावबोधपरतां आपादयता कर्मविधिनिषेधानामिव वेदान्तानामपि स्वाध्यायशब्दवाच्यानां फलवदर्थावबोधपरत्वमापादितम्, यद्यपि च ऽअविशिष्टस्तु वाक्यार्थःऽ इति न्यायात् मन्त्राणामिव वेदान्तानामर्थपरत्वमौत्सर्गिकम्, यद्यपि च वेदान्तेभ्यः चैतन्यानन्दघनः कर्तृत्वभोक्तृत्वरहितो निष्प्रपञ्च एकः प्रत्यगात्मा अवगम्यते, तथापि कर्तृत्वभोक्तृत्वदुःखशोक-
SK
मोहमयमात्मानमवगाहमानेनाहंप्रत्ययेन सेदेहबाधविरहिणा विरुध्यमाना वेदान्ताः स्वार्थात्प्रच्युता उपचरितार्था वा जपमात्रोपयोगिनो वा इत्यविवक्षितस्वार्थाः / तथा च तदर्थविचारात्मिका चतुर्लक्षणी शारीरकमीमांसा नारब्धव्या /
SK
न च सर्वजनीनाहमनुभवसिद्ध आत्मा संदिग्धो वा सप्रयोजनो वा, येन जिज्ञास्यः सन् विचारं प्रयुञ्जीत- इति पूर्वपक्षः /
तदेवं सूत्रतात्पर्यं व्याख्याय तस्य प्रथमपदं अथ इति व्याचष्टे- तत्राथशब्द आनन्तर्यार्थः परिगृह्यते / तेषु सूत्रपदेषु मध्ये यो ऽयं अथशब्दः स आनन्तर्यार्थ इति योजना /
SK
ननु अधिकारार्थो ऽप्यथशब्दो दृश्यते, यथा ऽअथैष ज्योतिःऽ इति वेदे, यथा वा लोके ऽअथ शब्दानुशासनम्ऽ इति, ऽअथ योगानुशासनम्ऽ इति च ; तत्किमत्राधिकारार्थो न गृह्यत इत्यत आह- नाधिकारार्थः / कुतः ? ब्रह्मजिज्ञासाया अनधिकार्यत्वात् / जिज्ञासा तावदिह सूत्रे ब्रह्मणश्च तज्ज्ञानाच्च शब्दतः प्रधानं प्रतीयते / न च यथा ऽदण्डी प्रैषानन्वाहऽ इत्यत्र अप्रधानमपि दण्डशब्दार्थो विवक्ष्यते एवमिहापि ब्रह्मतज्ज्ञाने इति युक्तम्, ब्रह्ममीमांसाशास्त्रप्रवृत्त्यङ्गसंशयप्रयोजनसूचनार्थत्वेन जिज्ञासाया एव विवक्षितत्वात् / तदविवक्षायां तदसूचनेन काकदन्तपरीक्षायामिव न ब्रह्ममीमांसायां प्रेक्षावन्तः प्रवर्तेरन् / न हि तदानीं ब्रह्म तज्ज्ञानं च अभिधेयप्रयोजने भवितुमर्हतः, अनध्यस्ताहंप्रत्ययविरोधेन वेदान्तानामेवंविधेर्ऽथे प्रामाण्यानुपपत्तेः ; कर्मप्रवृत्त्युपयोगितया उपचरितार्थानां वा जपोपयोगिनां वा ऽहुम्ऽ इत्येवमादीनामिवाविवक्षितार्थानामपि स्वाध्यायाध्ययनविध्यधीनग्रहणत्वस्य संभवात् / तस्मात्संदेहप्रयोजनसूचनी जिज्ञासा इह पदतो वाक्यतश्च प्रधानं विवक्षितव्या / न च तस्या अधिकार्यत्वम्, अप्रस्तूयमानत्वात्, येन तत्समभिव्याहृतो ऽथशब्दो ऽधिकारार्थः स्यात् / जिज्ञासाविशेषणं तु ब्रह्मज्ञानमधिकार्यं भवेत् / न च तदप्यथशब्देन संबध्यते, प्राधान्याभावात् / न च जिज्ञासा मीमांसा येन योगानुशासनवदधिक्रियेत ; नान्तत्वं निपात्य ऽमाङ् मानेऽ इत्यस्माद्वा ऽमानपूजायाम्ऽ इत्यस्माद्वा धातोः ऽमान्बन्ध-ऽ इत्यादिना अनिच्छार्थे सनि व्युत्पादितस्य मीमांसापदस्य पूजितविचारवचनत्वात् ; ज्ञानेच्छावाचकत्वाज्जिज्ञासापदस्य / प्रवर्तिका हि मीमांसायां जीज्ञासा स्यात् / न च प्रवर्त्यप्रवर्तकयोरैक्यम्, एकत्वे तद्भावानुपपत्तेः / न च स्वार्थपरत्वस्योपपत्तौ सत्यां अन्यार्थपरत्वकल्पना युक्ता, अतिप्रसङ्गात् / तस्मात्सुष्ठूक्तम् ऽजिज्ञासाया अनधिकार्यत्वात्ऽ इति /
SK
अथ मङ्गलार्थो ऽथशब्दः कस्मान्न भवति ? तथा च मङ्गलहेतुत्वात् प्रत्यहं ब्रह्मजिज्ञासा कर्तव्येति सूत्रार्थः संपद्यत इत्यत आह- मङ्गलस्य च वाक्यार्थे समन्वयाभावात् / पदार्थ एव हि वाक्यार्थे समन्वीयते, स च वाच्यो लक्ष्यो वा / न चेह मङ्गलमथशब्दस्य वाच्यं वा लक्ष्यं वा, किं तु मृदङ्गशङ्खध्वनिवदथशब्दश्रवणमात्रकार्यम् / न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शब्दव्यवहारे दृष्ट इत्यर्थः / तत्किमिदानीं मङ्गलार्थो ऽशब्दः तेषु तेषु न प्रयोक्तव्यः ? तथा च ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा /
तदेतन्निराकरोति- न इति / कुतः ? कर्मावबोधात् प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः /
SK
इदमत्राकूतम्- ब्रह्मोपासनया भावनापराभिधानया कर्माण्यपेक्ष्यन्त इत्युक्तम् / तत्र ब्रूमः- क्व पुनरस्याः कर्मापेक्षा ? किं कार्ये यथाग्नेयादीनां परमापूर्वे चिरभाविफलानुकूले जनयितव्ये समिदाद्यपेक्षा ? स्वरूपे वा यथा तेषामेव द्विरवत्तपुरोडाशादिद्रव्याग्निदेवताद्यपेक्षा ? न तावत्कार्ये, तस्य विकल्पासहत्वात् / तथा हि- ब्रह्मोपासनाया ब्रह्मस्वरूपसाक्षात्कारः कार्यमभ्युपेयः / स चोत्पाद्यो वा स्यात् यथा संयवनस्य पिण्डः, विकार्यो वा यथावघातस्य व्रीहयः, संस्कार्यो वा यथा प्रोक्षणस्योलूखलादयः, प्राप्यो वा यथा दोहनस्य पयः / न तावदुत्पाद्यः / न खलु घटादिसाक्षात्कार इव जडस्वभावेभ्यो घटादिभ्यो भिन्न इन्द्रियाद्याधेयो ब्रह्मसाक्षात्कारो भावनाधेयः संभवति, ब्रह्मणो ऽपराधीनप्रकाशतया तत्साक्षात्कारस्य तत्स्वभाव्येन नित्यतयोत्पाद्यत्वानुपपत्तेः / ततो भिन्नस्य वा भावनाधेयस्य साक्षात्कारस्य प्रतिभाप्रत्ययवत् संशयाक्रान्ततया प्रामाण्यायोगात्, तद्विधस्य तत्सामग्रीकस्यैव बहुलं व्यभिचारोपलब्धेः / न खलु अनुमानावगतं सिद्धं वह्निं भावयतः शीतार्तस्य शिशिरभरमन्थरतरकायकाण्डस्य स्फुरज्ज्वालाजटिलानलसाक्षात्कारः प्रमाणान्तरेण संवाद्यते, विसंवादस्य बहुलमुपलम्भात् / तस्मात् प्रामाणिकसाक्षात्कारलक्षणकार्याभावान्नोपासनाया उत्पाद्ये कर्मापेक्षा / न च कूटस्थनित्यस्य सर्वव्यापिनो ब्रह्मण उपासनातो विकारसंस्कारप्राप्तयः संभवन्ति /
SK
स्यादेतत् / मा भूद्ब्रह्मसाक्षात्कार उत्पाद्यादिरूप उपासनायाः / संस्कार्यस्तु अनिर्वचनीयाविद्याद्वयपिधानापनयनेन भविष्यति, प्रतिसीरापिहिता नर्तकीव प्रतिसीरापनयद्वारा रङ्गव्यापृतेन / तत्र च कर्मणामुपयोगः / एतावांस्तु विशेषः- प्रतिसीरापनये पारिषदानां नर्तकीविषयः साक्षात्कारो भवति / इह तु अविद्यापिधानापनयमात्रमेव नापरमुत्पाद्यमस्ति, ब्रह्मसाक्षात्कारस्य ब्रह्मस्वभावस्य नित्यत्वेन अनुत्पाद्यत्वात् / अत्रोच्यते- का पुनरियं ब्रह्मोपासना ? किं शाब्दज्ञानमात्रसंततिः, आहो निर्विचिकित्सशाब्दज्ञानसंततिः ? यदि शाब्दज्ञानमात्रसंततिः, न तर्हीयमभ्यास्यमानाप्यविद्यां समुच्छेत्तुमर्हति / तत्त्वविनिश्चयस्तदभ्यासो वा सवासनं विपर्यासमुन्मूलयेत्, न संशयाभ्यासः, सामान्यमात्रदर्शनाभ्यासो वा / न हि स्थाणुर्वा पुरुषो वेति वा, आरोहपरिणाहवत् द्रव्यमिति वा शतशो ऽपि ज्ञानमभ्यस्यमानं पुरुष एवेति निश्चयाय पर्याप्तम्, ऋते विशेषदर्शनात् /
SK
ननूक्तं श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा युक्तिमयेन च व्यवस्थाप्यत इति / तस्मान्निर्विचिकत्सशाब्दज्ञानसंततिरूपोपासना कर्मसहकारिण्यविद्याद्वयोच्छेदहेतुः / न चासावनुत्पादितब्रह्मानुभवा तदुच्छेदाय पर्याप्ता / साक्षात्काररूपो हि विपर्यासः साक्षात्काररूपेणैव तत्त्वज्ञानेनोच्छिद्यते, न तु परोक्षावभासेन, दिङ्मोहालातचक्रचलद्वृक्षमरुमरीचिसलिलादिविभ्रमेष्वपरोक्षावभासिषु अपरोक्षावभासिभिरेव दिगादितत्त्वप्रत्ययैर्निवृत्तिदर्शनात् / नो खल्वाप्तवचनलिङ्गादिनिश्चितदिगादितत्त्वानां दिङ्मोहादयो निवर्तन्ते / तस्मात् त्वंपदार्थस्य तत्पदार्थत्वेन साक्षात्कार एषितव्यः / एतावता हि त्वंपदार्थस्य दुःखिशोकित्वादिसाक्षात्कारनिवृत्तिः, नान्यथा / न चैष साक्षात्कारो मीमांसासहितस्यापि शब्दप्रमाणस्य फलम्, अपि तु प्रत्यक्षस्य, तस्यैव तत्फलत्वनियमात् ; अन्यथा कुटजबीजादपि वटाङ्कुरोत्पत्तिप्रसङ्गात् / तस्मान्निर्विचिकित्सवाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वंपदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थतामाविर्भावयतीति युक्तम् / न चायमनुभवतो ब्रह्मस्वभावो येन न जन्येत, अपि तु अन्तःकरणस्यैव वृत्तिभेदो ब्रह्मविषयः / न चैतावता ब्रह्मणो ऽपि पराधीनप्रकाशता / न हि शाब्दज्ञानप्रकाश्यं ब्रह्म स्वयं प्रकाशं न भवति / सर्वोपाधिविहीनं हि स्वयञ्ज्योतिरिति गीयते, न तूपहितमपि / यथाह स्म भगवान्भाष्यकारः- ऽन तावदयमेकान्तेनाविषयःऽ इति / न चान्तःकरणवृत्तावप्यस्य साक्षात्कारे सर्वोपाधिविनिर्मोकः, तस्यैव तदुपाधेर्विनश्यदवस्थस्य स्वपरोपाधिविरोधिनो विद्यमानत्वात् / अन्यथा चैतन्यच्छायापत्तिं विनान्तःकरणवृत्तेः स्वयमचेतनायाः स्वप्रकाशत्वानुपपत्तौ साक्षात्कारत्वायोगात् / न चानुमितभावितवह्निसाक्षात्कारवत् प्रतिभात्वेनास्याप्रामाण्यम्, तत्र वह्निस्वलक्षणस्य परोक्षत्वात् / इह तु ब्रह्मस्वरूपस्य उपाधिकलुषितस्य जीवस्य प्रागप्यपरोक्षत्वात् / न हि शुद्धबुद्धत्वादयो वस्तुतस्ततो ऽतिरिच्यन्ते / जीव एव तु तत्तदुपाधिरहितः शुद्धबुद्धत्वादिस्वभावो ब्रह्मेति गीयते / न च तत्तदुपाधिविरहो ऽपि ततो ऽतिरिच्यते / तस्मात् यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारसचिवः श्रोत्रेन्द्रियेण षड्जादिस्वरग्राममूर्छनाभेदमध्यक्षमनुभवति, एवं वेदान्तार्थज्ञानाभ्यासाहितसंस्कारो जीवः स्वस्य ब्रह्मभावमन्तःकरणेनेति /
SK
अन्तःकरणवृत्तौ ब्रह्मसाक्षात्कारे जनयितव्ये अस्ति तदुपासनायाः कर्मापेक्षेति चेत्, न, तस्याः कर्मानुष्ठानसहभावाभावेन तत्सहकारित्वानुपपत्तेः / न खलु ऽतत्त्वमसिऽ इत्यादेर्वाक्यान्निर्विचिकित्सं शुद्धबुद्धोदासीनस्वभावं अकर्तृत्वाद्युपेतं अपेतब्राह्मणत्वादिजातिं देहाद्यतिरिक्तं एकमात्मानं प्रतिपद्यमानः कर्मस्वधिकारमवबोद्धुमर्हति / अनर्हश्च कथं कर्ता वाधिकृतो वा /
SK
यद्युच्येत निश्चिते ऽपि तत्त्वे विपर्यासनिबन्धनो व्यवहारो ऽनुवर्तमानो दृश्यते, यथा गुडस्य माधुर्यविनिश्चये अपि पित्तोपहतेन्द्रियाणां तिक्ततावभासानुवृत्तिः, आस्वाद्य थूत्कृत्य त्यागात् / तस्मादविद्यासंस्कारानुवृत्त्या कर्मानुष्ठानम्, तेन च विद्यासहकारिणा तत्समुच्छेद उपपत्स्यते / न च- कर्माविद्यात्मकं कथमविद्यामुच्छिनत्ति, कर्मणो वा तदुच्छेदकस्य कुत उच्छेदः इति वाच्यम्, सजातीयस्वपरविरोधिनां भावानां बहुलमुपलब्धेः / यथा पयः पयो ऽन्तरं जरयति स्वयं च जीर्यति, यथा विषं विषान्तरं शमयति स्वयं च शाम्यति, यथा वा कतकरजो रजो ऽन्तराविले पाथसि प्रक्षिप्तं रजो ऽन्तराणि भिन्दत् स्वयमपि भिद्यमानमनाविलं पाथः करोति, एवं कर्माविद्यात्मकमपि अविद्यान्तराण्यपगमयत् स्वयमप्यपगच्छतीति /
SK
अत्रोच्यते- सत्यम् ; ऽसदेव सोम्येदमग्र आसीत्ऽ इत्युपक्रमात् ऽतत्त्वमसिऽ इत्यन्ताच्छब्दाद्ब्रह्ममीमांसोपकरणादसकृदभ्यस्तान्निर्विचिकित्से ऽनाद्यविद्योपादानदेहाद्यतिरिक्तप्रत्यगात्मतत्त्वावबोधे जाते ऽपि अविद्यासंस्कारानुवृत्त्यानुवर्तन्ते सांसारिकाः प्रत्ययास्तद्व्यवहाराश्च, तथापि तानप्ययं व्यवहारप्रत्ययान्मिथ्येति मन्यमानो विद्वान् च श्रद्धत्ते, पित्तोपहतेन्द्रिय इव गुडं थूत्कृत्य त्यजन्नपि तस्य तिक्तताम् / तथा चायं क्रियाकर्तृकरणेतिकर्तव्यताफलप्रपञ्चमतात्त्विकं विनिश्चिन्वन् कथमधिकृतो नाम ? विदुषो ह्यधिकारः / अन्यथा पशुशूद्रादीनामपि अधिकारो दुर्वारः स्यात् / क्रियाकर्त्रादिस्वरूपविभागं च विद्वस्यमान इह विद्वानभिमतः कर्मकाण्डे / अत एव भगवान् अविद्वद्विषयत्वं शास्त्रस्य वर्णयांबभूव भाष्यकारः / तस्माद्यथा राजजातीयाभिमानिकर्तृके राजसूये न विप्रवैश्यजातीयाभिमानिनोरधिकारः, एवं द्विजातिकर्तृक्रियाकरणादिविभागाभिमानिकर्तृके कर्मणि न तदनभिमानिनो ऽधिकारः / न चानधिकृतेन समर्थेनापि कृते वैदिकं कर्म फलाय कल्पते, वैश्यस्तोम इव ब्राह्मणराजन्याभ्याम् / तेन दृष्टार्थेषु कर्मसु शक्तः प्रवर्तमानः प्राप्नोतु फलम्, दृष्टत्वात् / अदृष्टार्थेषु तु शास्त्रैकसमधिगम्यं फलमनधिकारिणि न युज्यत इति नोपासनाकार्ये कर्मापेक्षा /
SK
स्यादेतत् / मनुष्याभिमानवदधिकारिके कर्मणि विहिते यथा तदभिमानरहितस्यानधिकारः, एवं निषेधविधयो ऽपि मनुष्याधिकारा इति तदभिमानरहितस्तेष्वपि नाधिक्रियेत पश्वादिवत् ; तथा चायं निषिद्धमनुतिष्ठन् न प्रत्यवेयात् तिर्यगादिवदिति भिन्नकर्मतापातः / मैवम् / न खल्वयं सर्वथा मनुष्याभिमानरहितः, किं त्वविद्यासंस्कारानुवृत्त्यास्य मात्रया तदभिमानो ऽनुवर्तते / अनुवर्तमानं च मिथ्येति मन्यमानो न श्रद्धत्त इत्युक्तम् / किमतो यद्येवम् ? एतदतो भवति- विधिषु श्राद्धो ऽधिकारी नाश्राद्धः / ततश्च मनुष्याद्यभिमाने नश्रद्धधानो न विधिशास्त्रेष्वधिक्रियते / तथा च स्मृतिः-
SK
ऽअश्रद्धया हुतं दत्तम्ऽ-
SK
इत्यादिका / निषेधशास्त्रं तु न श्रद्धामपेक्षते / अपि तु निषिध्यमानक्रियोन्मुखो नर इत्येव प्रवर्तते / तथा च सांसारिक इव श्रद्धावगतब्रह्मतत्त्वो ऽपि निषेधमतिक्रम्य प्रवर्तमानः प्रत्यवैतीति न भिन्नकर्मदर्शनाभ्युपगमः / तस्मान्नोपासनायाः कार्ये कर्मापेक्षा /
SK
अत एव नोपासनोत्पत्तावपि ; निर्विचिकित्सशाब्दज्ञानोत्पत्त्युत्तरकालमनधिकारः कर्मणीत्युक्तम् / तथा च श्रुतिः-
SK
ऽन कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुःऽ / इति /
SK
तत्किमिदानीमनुपयोग एव सर्वथेह कर्मणाम् ? तथा च ऽविविदिषन्ति यज्ञेनऽ इत्याद्याः श्रुतयो विरुध्येरन् / न, आरादुपकारकत्वात्कर्मणां यज्ञादीनाम् / तथा हि- तमेतमात्मानं वेदानुवचनेन नित्यस्वाध्यायेन, ब्राह्मणा विविदिषन्ति, वेदितुमिच्छन्ति, न तु विदन्ति / वस्तुतः प्रधानस्यापि वेदनस्य प्रकृत्यर्थतया शब्दतो गुणत्वात्, इच्छायाश्च प्रत्ययार्थतया प्राधान्यात्, प्रधानेन च कार्यसंप्रत्ययात् / न हि ऽराजपुरुषमानयऽ इत्युक्ते वस्तुतः प्रधानो ऽपि राजा पुरुषविशेषणतया शब्दत उपसर्जन आनीयते, अपि तु पुरुष एव, शब्दतस्तस्य प्राधान्यात् / एवं वेदानुवचनस्येव यज्ञस्यापीच्छासाधनतया विधानम् / एवं तपसो ऽनाशकस्य / कामानशनमेव तपः, हितमितमेध्याशिनो हि ब्रह्मणि विविदिषा भवति, न तु सर्वथा अनश्नतः, मरणात् / नापि चान्द्रायणादि तपः, तच्छीलस्य धातुवैषम्यापत्तेः /
SK
एतानि च नित्यानि उपात्तदुरितनिबर्हणेन पुरुषं संस्कुर्वन्ति / तथा च श्रुतिः- ऽस ह वा आत्मायाजी यो वेद इदं मे ऽनेनाङ्गं संस्क्रियत इदं मे ऽनेनाङ्गमुपधीयतेऽ इति / अनेनेति प्रकृतं यज्ञादि परामृशति / स्मृतिश्च-
एवं वेदान्ता अपीत्यनपेक्षत्वलक्षणं प्रामाण्यमेषां व्याहन्येत / न च तैरप्रमाणैर्भवितुं युक्तम् / न चाप्रयोजनैः, स्वाध्यायाध्ययनविध्यापादितप्रयोजनवत्त्वनियमात् / तस्मात्तत्तद्विहितकर्मापेक्षितकर्तृदेवतादिप्रतिपादनपरत्वेनैव क्रियार्थत्वम् / यदि त्वसंनिधानात्तत्परत्वं न रोचयन्ते, ततः संनिहितोपासनादिक्रियापरत्वं वा वेदान्तानाम् / एवं हि प्रत्यक्षाद्यनधिगतगोचरत्वेनानपेक्षतया प्रामाण्यं च प्रयोजनवत्त्वं च सिध्यतीति तात्पर्यार्थः / पारमर्षसूत्रोपन्यासः तु पूर्वपक्षदार्ढ्याय /
अपि च न ब्रह्मरूपप्रतिपादनपराणामेषामर्थवत्त्वं पश्यामः / न च ऽरज्जुरियं न भुजङ्गःऽ इति यथाकथञ्चिल्लक्षणया वाक्यार्थतत्त्वनिश्चयाद्यथा भयकम्पादिनिवृत्तिः, एवम् ऽतत्त्वमसिऽ इति वाक्यार्थावगमान्निवृत्तिर्भवति सांसारिकाणां धर्माणाम्. श्रुतवाक्यार्थस्यापि पुंसस्तेषां तादवस्थ्यात् /
SK
अपि च यदि श्रुतब्रह्मणो भवति सांसारिकधर्मनिवृत्तिः कस्मात् पुनः श्रवणस्योपरि मननादयः श्रूयन्ते ? तस्मात्तेषां वैयर्थ्यप्रसङ्गादपि न ब्रह्मस्वरूपपरा वेदान्ताः, किं त्वात्मप्रतिपत्तिविषयकार्यपराः / तच्च कार्यं स्वात्मनि नियोज्यं नियुञ्जानं नियोग इति च मानान्तरापूर्वतयापूर्वमिति चाख्यायते / न च विषयानुष्ठानं विना तत्सिद्धिरिति स्वसिद्ध्यर्थं तदेव कार्यं स्वविषयस्य करणस्यात्मज्ञानस्यानुष्ठानमाक्षिपति / यथा च कार्यं स्वविषयाधीननिरूपणमिति ज्ञानेन विषेयेण निरूप्यते, एवं ज्ञानमपि स्वविषयमात्मानमन्तरेणाशक्यनिरूपणमिति तन्निरूपणाय तादृशमात्मानमाक्षिपति तदेव कार्यम् / यथाहुः- ऽयत्तु तत्सिद्ध्यर्थमुपादीयते आक्षिप्यते तदपि विधेयमिति तन्त्रे व्यवहारःऽ इति / विधेयता च नियोगविषयस्य ज्ञानस्य भावार्थतयानुष्ठेयता ; तद्विषयस्य त्वात्मनः स्वरूपसत्ताविनिश्चितिः /
SK
आरोपिततद्भावस्य त्वन्यस्य निरूपकत्वे तेन तन्निरूपितं न स्यात् / तस्मात्तादृगात्मप्रतिपत्तिविधिपरेभ्यो वेदान्तेभ्यः तादृगात्मविनिश्चयः / तदेतत्सर्वमाह- #यद्यपि#इति / विधिपरेभ्यो ऽपि वस्तुतत्त्वविनिश्चय इत्यत्र विदर्शनमुक्तम्- #यथा यूप#इति / ऽयूपे पशुं बध्नातिऽ इति बन्धनाय विनियुक्ते यूपे, तस्यालौकिकत्वात्को ऽसौ यूप इत्यपेक्षिते ऽखादिरो यूपो भवतिऽ, ऽयूपं तक्षतिऽ, ऽयूपमष्टाश्रीकरोतिऽ इत्यादिभिर्वाक्यैस्तक्षणादिविधिपपैरपि संस्काराविष्टं विशिष्टसंस्थानं दारु यूप इति गम्यते / एवमाहवनीयादयो ऽप्यवगन्तव्याः / प्रवृत्तिनिवृत्तिपरस्य शास्त्रत्वं न स्वरूपपरस्य, कार्य एव च संबन्धो न स्वरूपो, इति हेतुद्वयं भाष्यवाक्येनोपपादितम्- #प्रवृत्तिनिवृत्तिप्रयोजनत्वात्#इत्यादिना #तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात्#इत्यन्तेन / न च स्वतन्त्रं कार्यं नियोज्यमधिकारिणमनुष्ठातारमन्तरेणेति नियोज्यभेदमाह- #सति च विधिपरत्वे#
अन्यदिच्छत्यन्यत्करोतीति हि विप्रतिषिद्धम् / न च तत्कामः क्रियामेव कार्यमवगमिष्यति नापूर्वमिति सांप्रतम् ; तस्या मानान्तरादेव तत्साधनत्वप्रतीतेर्विधेर्वैयर्थ्यात् / न चावघातादिविधितुल्यता, तत्रापि नियमापूर्वस्यान्यतो ऽनवगतेः / न च ब्रह्मभूयादन्यदमृतत्वमार्थवादिकं किञ्चिदस्ति, येन तत्काम उपासनायामधिक्रियेत / विश्वजिन्न्यायेन तु स्वर्गकल्पनायां तस्य सातिशयत्वं क्षयिष्णुत्वं चेति न नित्यफलत्वमुपासनायाः / तस्माद्ब्रह्मभूयस्याविद्यापिधानापनयमात्रेणाविर्भावात्, अविद्यापनयस्य च वेदान्तार्थविज्ञानादवगतिपर्यन्तादेव संभवात्, उपासनायाः संस्कारहेतुभावस्य संस्कारस्य च साक्षात्कारोपजनने मनःसाचिव्यस्य च मानान्तरसिद्धत्वात्. ऽआत्मेत्येवोपासीतऽ इति न विधिः ; अपि तु विधिसरूपो ऽयम् ; यथोपांशुयाजवाक्ये ऽविष्णुरुपांशु यष्टव्यःऽ इत्यादयो विधिसरूपा न विधयः-इति तात्पर्यार्थः / #श्रुतिस्मृतिन्यायप्रसिद्धम्#इत्युक्तम् / तत्र श्रुतिं दर्शयति- #तथा च श्रुतिः#इति / न्यायमाह- #अत एव#इति / यत्किल स्वाभाविकं तन्नित्यम्, यथा चैतन्यम् ; स्वाभाविकं चेदम् ; तस्मान्नित्यम् /
SK
परे हि द्वयीं नित्यतामाहुः-कूटस्थनित्यता परिणामिनित्यतां च / तत्र नित्यमित्युक्ते मा भूदस्य परिणामिनित्यतेत्याह- #तत्र किञ्चित्#इति / परिणामिनित्यता हि न पारमार्थिकी / तथा हि-तत्सर्वात्मना वा परिणमते एकदेशेन वा ? सर्वात्मना परिणामे कथं न तत्त्वव्याहृतिः ? एकदेशपरिणामे वा स एकदेशस्ततो भिन्नो वा अभिन्नो वा ? भिन्नश्चेत् कथं तस्य परिणामः ? न ह्यन्यस्मिन् परिणममाने ऽन्यः परिणमति, अतिप्रसङ्गात् / अभेदे वा कथं न सर्वात्मना परिणामः ?
SK
भिन्नाभिन्नं तदिति चेत् ; तथा हि-तदेव कारणात्मनाभिन्नम्, भिन्नं च कार्यात्मना, कटकादय इवाभिन्ना हाटकात्मना भिन्नाश्च कटकाद्यात्मना / न च भेदाभेदयोर्विरोधान्नैकत्र समवाय इति युक्तम् / विरुद्धमिति नः क्व संप्रत्ययः ? यत्प्रमाणविपर्ययेण वर्तते / यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभाव एव / ऽकुण्डलमिदं सुवर्णम्ऽ इति सामानाधिकरण्यप्रत्यये व्यक्तं भेदाभेदौ चकास्तः ; तथा हि-आत्यन्तिके ऽभेदे ऽन्यतरस्य द्विरवभासप्रसङ्गः ; भेदे चात्यन्तिके न सामानाधिकरण्यं गवाश्ववत् ; आधाराधेयभावे एकाश्रयत्वे वा न सामानाधिकरण्यम् ; न हि भवति कुण्डं बदरमिति ; नाप्येकासनस्थयोश्चैत्रमैत्रयोश्चैत्रो मैत्र इति ; सो ऽयमबाधितो ऽसंदिग्धः सर्वजनीनः सामानाधिकरण्यप्रत्यय एव कार्यकारणयोर्भेदाभेदौ व्यवस्थापयति ; तथा च कार्याणां कारणात्मत्वात् कारणस्य च सद्रूपस्य सर्वत्रानुगमात्, सद्रूपेणाभेदः कार्यस्य जगतः ; भेदः कार्यरूपेण गोघटादिनेति ; यथाहुःकार्यरूपेण नानात्वमभेदः कारणात्मना /
SK
हेमात्मना यथाभेदः कुण्डलाद्यात्मना भिदा //
SK
इति /
SK
अत्रोच्यते-कः पुनरयं भेदो नाम, यः सहाभेदेनैकत्र भवेत् ? परस्पराभाव इति चेत्, किमयं कार्यकारणयोः कटकहाटकयोरस्ति न वा ? न चेत्, एकत्वमेवास्ति, न च भेदः / अस्ति चेत् भेद एव, नाभेदः / न च भावाभावयोरविरोधः, सहावस्थानासंभवात् / संभवे वा कटकवर्धमानयोरपि तत्त्वेनाभेदप्रसङ्गः, भेदस्याभेदाविरोधात् / अपि च कटकस्य हाटकादभेदे यथा हाटकात्मना कटकमुकुटकुण्डलादयो न भिद्यन्ते एवं कटकात्मनापि न भिद्येरन्, कटकस्य हाटकादभेदात् / तथा च हाटकमेव वस्तुसत् न कटकादयः, भेदस्याप्रतिभासनात् /
यदि हि पदानां कार्याभिधाने तदर्थस्वार्थाभिधाने वा नियमेन वृद्धव्यवहारे सामर्थ्यमबधृतं भवेत्, न भवेदहेयानुपादेयभूतब्रह्मात्मतापरत्वमुपनिषदाम् ; तत्राविदितसामर्थ्यत्वात्पदानां लोके, तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेः / अथ तु भूते ऽप्यर्थे पदानां लोके शक्यः संगतिग्रहः, तत उपनिषदान्तत्परत्वं पौर्वापर्यपर्यालोचनयावगम्यमानमपह्नुत्य न कार्यपरत्वं शक्यं कल्पयितुम्, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् / तत्र तावदेवमकार्येर्ऽथे न संगतिग्रहः, यदि तत्परः प्रयोगो न लोके दृश्येत, तत्प्रत्ययो वा व्युत्पन्नस्योन्नेतुं न शक्येते / न तावत्तत्परः प्रयोगो न दृश्यते लोके,
ऽ इति / अभ्युपेत्य च सृष्टेस्तात्त्विकत्वमिदमुक्तम् / अनिर्वाच्या तु सृष्टिरिति न प्रस्मर्तव्यमत्रापि / तथा च मायाकारस्येवाङ्गसाकल्यवैकल्यबेदेन विचित्रान् प्राणिनो दर्शयतो न वैषम्यदोषः, सहसा संहरतो वा न नैर्धृण्यम्, एवमस्यापि भगवतो विविधविचित्रप्रपञ्चमनिर्वाच्यं विश्वं दर्शयतः संहरतश्च स्वभावाद्वा लीलया वा न कश्चिद्दोषः
#अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः# / एवं हि मोक्षावस्थाभावि जीवपरिमाणं नित्यं भवेत्,यद्यभूत्वा न भवेत् / अभूत्वा भाविनामन्त्यत्वाद्धटदीनाम् / कथं चाभूत्वा न भवेद्यदि प्रागप्यासीत् / न च परिमाणान्तरावरोधे ऽपूर्वं भवितुमर्हति / तस्मादन्त्यमेव परिमाणं पूर्वमप्यासीदित्यभेदः / तथा चैकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरप्राप्तिः शरीरपरिमाणत्वाभ्युपगमव्याघातादिति / अत्र चोभयोः परिमाणयोर्नित्यत्वप्रसङ्गादिति योजना / एकशरीरपरिमाणतैवेति च दीप्यम् / द्वितीये तु व्याख्याने उभयोरवस्थयोरिति योजना / एकशरीरपरिमाणता न दीप्या, किन्त्वेकपरिमाणतामात्रमणुर्महान् वेति विवेकः
#अविभागेन दृष्टत्वात्# / यद्यपि जीवात्मा ब्रह्मणो न भिन्न इति तत्र तत्रोपपादितं तथापि स तत्र पर्येतीत्याधाराधेयभावव्यपदेशस्य संपत्तृसंपत्तव्यभावव्यपदेशस्य च समाधानार्थमाह