Commentary on the Procedure of Action
Kriyakramadyotikavyākhyā
SKप्. १) || श्रीशिवाभ्यां नमः || वागीशाद्यास्सुमनसः सर्वार्थानामुपक्रमे | यं नत्वा कृतकृत्यास्युः तं नमामि गजाननम् || || श्रीशिवाभ्यां नमः || इदं श्रीगोमुत्तीश्वरार्चक स्वामिनाथ शर्मणः || || श्रीशिवाय परब्रह्मणे नमः || वन्दे महागणपतिं मदनारिसूनुं वामोरु सुस्थितं वनिता भुजवेष्टितांगम् | वल्लीश पूर्वजमभीष्टदमाश्रितानां वाणीपति प्रकख देव गणाचिताघ्रिम् || कान्ताकंकण वीक्षितांगममलं कालानवच्छेदकं कारुण्यात् स्वपदार्चकाखिल नृणां काम्य प्रदानोद्यतम् | कामांगक्षयकारणं कलिहरं कल्लोलभास्वद्गलं कामाक्षी पतिमातनोस्मि सततं कांचीपुरीनायकम् || प्. २) साक्षात् सदाशिव पुरात्स्वयमेव शंभुः भक्तान्तराननुग्रहीतुमिहागतोयः | नाम्ना सदाशिव इति प्रथितोत्र कांच्यां अस्मद्गुरुं तमति सौम्यगुणं नमामि || प्रणम्यामलमीशानं शक्तिं तत्समवाथिनीम् | गणेशं च ततो वाणीं सदेशादि गुरूनपि || अघोरदेशिकेन्द्रेण कृतामगमपद्धतिम् | क्रियाक्रमद्योतिकाख्यां व्याख्यास्ये गुर्वनुग्रहात् || इह खलु निखिल शिवागमज्ञानकुशल श्रीमदघोर शिवदेशिकेन्द्रः प्रारप्सितस्यग्रन्थस्याविघ्नेन परिसमाप्यर्थं वक्ष्यमाणकर्म कलापादि मूलकारण भूतं परशिवं तत्समवेतां शक्तिं चाद्येन श्लोकेन नमस्कृत्य प्. ३) द्वितीयेन श्लोकेन स्वगुरु नमस्कार पूर्वं स्वकर्तव्य ग्रन्थ प्रतिपाद्यं नित्यादिकं प्रतिजानीते | वन्दे विश्वाधिकमित्यादिना- विश्वस्मात् चराचरात्मक प्रपंचादधिकं शान्तं रागद्वेषादिरहितं अनादि निधनं आदिः जन्मनिधनं नाशः आदिश्च निधनं च आदिनिधने न विद्यते आदि निधनं यस्य तम् | तथा | जन्मनाशौ न विद्येते यस्य तौ तु कथंचन | अनादि निधनश्चायं षड्विकार विवर्जितः | इत्युक्तत्वात् निष्कलं कला अवयवास्तत् रहितो निष्कलः निष्कलंकः कलंक रहितः निर्मल इति यावत् | तं एवं भूतं शिवं वन्दे नमामि | अनन्तरं ज्ञानक्रियात्मिकां ज्ञानं च क्रिया च ज्ञानक्रियेते आत्मस्वरूपं यस्यास्सा तथोक्तानां प्. ४)
SKशक्तिं पूर्वोक्त शिवस्य शक्तिं च वन्दे इत्यन्वयः | द्वितीय श्लोकमाह- गुरुनिति गुरुवंश क्रमागतान् आपरमेश्वरादविच्छिन्नसुतान क्रमेण समागांस्तान् परापराः पराः सदाशिवादयः अपराः दुर्वासादयः स्वगुरुपर्यन्तांस्तान् गुरून् नत्वा नित्यादेः नित्यं नित्यकर्म स्नानादि तद्याद्या नित्याद्य आदिपदेन नैमित्तिक मुच्यते तेन दीक्षा प्रतिष्ठा गृह्यते | तदुक्तम् स्नानं पूजा जपो होमो ध्यानं चैव तु पञ्चकम् | इति नित्यं सदा कुर्यात् इति दीक्षा चैव प्रतिष्ठा च ज्ञेयम् नैमित्तिकं द्विधा | इति इयं परिदृश्यमाना क्रियाक्रमद्योतिका क्रियाः स्नान शिव पूजादयः तत्र विद्यमान मुद्रादयश्च तेषां क्रमः विधानं प्. ५) तस्य द्योतिका प्रकाशिका स्फुटं यथा भवति तथा क्रियते मयेति शेषः | तत्राभिधास्य मानेषु नित्यादिषु प्रथमं करणीयमाह प्रातरित्यादिना- ध्यात्वेत्यन्तेन प्रातस्समयः प्रातःकालः असय कालस्य लक्षणमाह वक्ष्येति | संध्या प्रकरणे प्रतस्तारकितें बरः इति तस्मात् पूर्वं पंचनाडिकावच्छेदे पंचनाडिकायां स्थितायां समुत्थाय शुचिर्वाप्य शुचिर्वेत्यत्र उभय पद प्रधान्य ज्ञापनार्थं वाकारद्वयं कृतं | यथा संभव शौचयुक्तः तत्कालोचित पादप्रक्षालनादि समेतस्सन् हृत्पद्मे द्वादशान्ते वा अत्र विकल्पोऽधिकारि भेदेन वक्ष्यमाण संध्या ध्यानवत् कृत इति मन्तव्यः शिवं शान्तं तदुक्तं शान्तत्वात्सर्व कर्तृत्वात् भावात् परमकारणात् | शिव उक्तो महातन्त्रे तंत्रविद्भिः सदाशिवः || प्. ६) (स्मृतौ त्रिवदार्थं चतुष्पादं महातंत्रमिति स्मृतम्) इति गुरुपदिष्ट प्रकारेण ध्यात्वा | अन्यथा तत् कर्तुमशक्यत्वादिति भावः | एतं निष्कलशिव ध्यानं समाधि सामर्थ्य युक्तः योगसामर्थ्ययुक्तः कुर्यात् तद्रहितः सदाशिवादीत्यादिपदेन पंचवक्त्र त्रिपञ्च नयनादिरूपं ध्यायेत् | तथोक्तं- ज्ञानरत्नावल्याम्- अथारुणोदये मन्त्री समुत्थाय समाहितः | हृदं भोरुह संस्थं वा ज्योतिरूपं परात्परम् ||
SKसूक्ष्मं बिन्दुगतं देवं परमाक्षरमव्ययम् | यद्वा ब्रह्मबिले व्योम्नि परे नित्यं शिवैकधीः || यथाधिकारं शिवविद्यायेद्भोगापवर्गदम् | अप्रबुत्थः शिवं ध्यायेत् हृत्पद्मे तु सदाशिवम् || इति || अथ स्नानार्थं बहिर्गमनमाह दंडादि सहाय इति दण्डो वैणवः तस्यैव दार्यत्वेन विहितत्वात् तथोक्तं प्. ७) नैष्ठिकानां गृहस्नानां हस्तव्यामेन कारयेत् | सर्व वा धारणीयं स्यात् वैणवं दण्डमुत्तमम् || इति | आदिपदेन स्नान द्रव्याण्युच्यन्ते | तहा कालोत्तरे हृत्काष्ठ गोमयं पुष्पं तिलमामलकं तथा | कुशभस्मादि संगृह्य नदीं गच्छेत् समुद्रगाम् || इति दण्डादि सहायः दण्डादि संयुक्तः यथोचित देशमिति मलमूत्रादि विसर्जन योग्यदेशं गत्वा तस्मिन्नावश्यकम् | तस्मिं देशे अवश्यमनेनैव क्रियमाणं कर्म आवश्यकं महाभूत विकारवर्ज्यं महाभूत विकाराः भूविवरादयः तेषां वर्ज्यं प्. ८) यथा भवति तथा- सूर्याद्यनभिमुखः आदिपदेन ब्राह्मणादय तेषामसम्मुखः तृणावच्छिंतायां भूमौ तृण विशिष्ट भूमौ मलं विसृज्य तथा क्रियाकाण्ड क्रमावल्याम्- उत्सृजेन्मलमूत्रादीन् गत्वा देशं यथोचितम् | उत्तराभिमुखो मौनी दिवा संध्या सु सर्वदा || दक्षिणाभिमुखो रात्रौ नासाग्रन्यस्त लोचनः | छन्न मूर्घंकचित्तस्तु तृणच्छन्ने महीतले || दक्षकर्णोपवीती च द्विजादीनां असंस्कृतः(?) | इति- ब्रह्मशंभु पद्धत्याम् | विप्रार्क लिंगिनां स्त्रीणां सम्मुखं चंद्रसूर्ययोः | महाभूत विकाराणां वर्जयन्तु सृजेन्मलम् | इति कामिके | प्. ९) आवश्यकं न कर्तव्यं स्रो गो विप्रार्क लिंगिनाम् | चन्द्रस्य संमुखो भूत्वा भूतानां विक्रतौ तथा | इति अयोग्य देश गमन विषेधः उक्तः सुप्रभेदे क्षेत्रे च वृक्षछायां नद्यामन्तस्सरित्सुच | चैत्यवृक्ष समीपे च वेलायां च महोदधेः | चत्वरे गृहमध्ये च न कुर्यादुभयं नरः || इति तथान्यत्र- देवालयादि | वल्मीक श्मशानाराम संनिधौ |
SKभस्म होमय दूर्वासु वारिपिच्छिल चत्वरे | मलमूत्रादिकं यस्तु त्यजेदे तेषु मानवः || स पच्यते महाघोरे यावदाभुत संप्लवम् || इति | अथ शौचविधिमाह - लोष्ठादिनेति आदिपदेन तृणादयो गृह्यंते तदुक्तम्- प्. १०) अयाज्ञिकैस्तृणैर्लोष्ठः इष्ट्या वा शोधयेत् गुदम् | न गोमयैः न पाषाणैः दारुभिस्तन्न शोधयेत् | इति || वामपाणिना शेफं संगृह्य शेफः मेढ्रः मेढ्रोमेहन शेफलीत्यमरः | अन्येन यथोक्तां शास्त्रोक्तां जलान्तिकं गत्वा पात्रोद्धृतेन जलेन शौचं कुर्यात् | तदुक्तं वामे शिश्नं गृहीत्वा मृत्पिण्डं दक्षिणे करे | इति | श्मशान वर्त्मवल्मीक वालुका सुच कर्दमे | क्रिमिकीट तुषांगार भस्मचर्मास्थि दूषिते | परशोचावशिष्टे च पांसुलेनाहरेन्मृदम् | विशुद्धदेशे शौचार्थं मृत्तिकामाहरेत् बुध | इति || तथान्यत्र- गृहीत शिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः | गंध लेप क्षयकरं शौचं कुर्यादतंत्रितः | रत्तिमात्रं जलं त्यक्त्वा कुर्यात् शौचमनुद्धृते | प्. ११) पश्चात् तच्छोधयेत्तीरं अन्यथा ह्यशुचिर्भवेत् | इति || सिद्धांतशेखरे जलतीत्रे शौचमृत्स्नांनिधायाभ्युक्ष्यवारिभिः | दक्षपाणि पुटाकृष्टैः प्रथमं शोधयेन्मृदम् || आदाय दक्षहस्तेन वामपाणौ नियुक्तया | त्रिज्जलान्तरयापायुं क्षालयेत् पंचसंख्यया || एकया क्षालयेत् शिश्नं दशभिर्वामहस्तकम् | मृत्स्नाभिस्सप्तभिर्हस्तौ परिमृज्यात्स्थिजौ जलैः || एकैकया मृदा पादौ हस्तौ प्रक्षालयेज्जलैः | एतत् शौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् | त्रिगुणं च वनस्थानां यतीनां स्यात् चतुर्गुणम् || शौचमेतत् दिवा प्रोक्तं रात्रावुक्तार्थमाचरेत् | द्वित्रिपादं समुद्दिष्टं व्याधितानां तथा भवेत् || इति भावशुद्ध्य भावः | इति उक्त प्रकारेण शौचं प्. १२) कृत्वा मनसश्शुध्यभावेयावत्मनसो शुद्धिर्भवति तावत् शौचं विदध्यात् | अनेन उक्त संख्यायाः अधिक करण एव तात्पर्यं नतु ह्रासे | तथा सति संख्या विधानानर्थक्य प्रसंगात् ||
SKअन्यस्मिन् प्रदेशे द्विराचम्येति शौच कृतदेशादन्यत्र स्थले पूर्वं मन्त्रवर्जं आचम्य पश्चात् आचमन प्रकरणे वक्ष्यमाणवत् समंत्रकाचमनं कुर्यात् | दन्त शुद्धिमाह- दन्तशुध्यर्थं काष्ठं दन्तकाष्ठं उक्तलक्षणं अनिषिद्ध निषिद्ध वृक्षादि भेदेन उक्त लक्षणं चूतादिष्वनिषिद्ध वृक्षेषु संभवं पिशाच धव निवार निंब एरंड काश कुश यज्ञ संबन्धिनो वृक्षाः याज्ञियवृक्षाः तेषु संभवं दन्तकाष्ठम् | प्. १३) अंगुली प्रसिद्धः- आदिपदेन अन्यदपि निषिद्ध वृक्षोद्भवं दन्तकाष्ठं परिहृत्य अन्यदनिषिद्ध दन्तकाष्ठं परिगृह्णीयात् | अपां द्वादश गंडूषैरिति उक्तेषु निषिद्ध दिनेषु द्वादशवारं आस्यप्रक्षालनैः वा शुद्धवक्त्रैश्चूतादि वृक्षोद्भव वक्त्रैः वा दंतशुद्धिं कुर्यात् | तथा सिद्धांतशेखरे शैरीषार्जुनकारं जचिरि बिल्वैस्सखादिरैः | समच्छोदार्दसत्वग्भिः अपर्वर्जु निरामयैः || अष्टांगुल समायामैः अरिष्टवारिणाहकैः | कुर्यान्मुमुक्षवश्शुद्धिं दन्तानां दन्तधावने || अशोक जंबूककुभ चूतप्लक्षादि मुक्तकैः | स चंपकैरपामार्गैः द्वादशांगुल संमितैः || दन्तशुद्धिर्बुभुक्षूणां- इति क्रियाकांड क्रमावल्याम् प्. १४) सेन्तु धात्रीय | वैरंड क्षीरीनिंबाकुलि तृणः | शिश्रू वा नीरपैशाच काशांगुलि कुशैर्न हि || नवमी दर्शषष्ठी च प्रतिपच्च विना चरेत् | कुर्याद्वा पावनैः पत्रैः बुभुक्षोर्दन्त धावनम् || अथवा मुख संशुद्धिः दन्तानां धावनं विना | गंडूषैस्सूर्य संख्यातैः विधाय स्नानमाचरेत् || इति | तथा अन्यत्रापि उक्तम् तृणपत्रैस्सदाकुर्यादमामेकादशीं विना | तयोरपि च कुर्वीत जंबूप्लक्षयसालकैः || इति | अथ स्नानविधिमाह- स्नायादिति तत्र नदी संगमाद्यन्यतमंगत्वा- नदी समुद्र संगमः नदी संगमः आदिपदेन नदीनद तटाकादयः तेषु एकतमं प्राप्य इत्यर्थः | प्. १५) तथोक्तं सिन्धु संगम कासार तटाकेषु नदे हृदे | पल्वले प्लवने चैव स्नानमत्यन्तमुत्तमम् ||
SKनालिके पुष्करिण्यादौ मध्यमं कन्यसं पुनः | वापी कुण्डोदपानेषु गृहे स्नानमनुत्तमम् || इति | तथोक्तं सुप्रभेदे नद्यां वाप्यां तटाके वा कूपे वापि चतुर्विधा | कूपस्नान न कर्तव्यं नद्यादिषु च संभवे || अलाभे तु प्रकर्तव्यं कूपस्नानं न दोषभाक् | तटाकेष्वपि नस्नायात् सरित् सत्यां गजानन || कूपाद्दशगुणं वापी वाप्याद्दशगुणं सरः | तस्मात् दशगुणं विद्धि नदीं चैव समुद्रगाम् | तोयं शुद्धमशुद्धं वा शिवालय समीपगम् || शिवगंगेति विख्याता शिवधामांवु सेचनात् | इति | तत्र नद्यादौ- वारुणाग्नेय दिव्य वायव्यमानसाख्य प्. १६) पंचविध स्नानेषु वारुणस्नानस्य मलस्नानविधि स्नानरूपेण द्वैविध्यात् | आदौ मलस्नानमाह- अस्त्रेण मृदमष्टांगुलादधस्संगृह्येति- तदुक्तम्- स्नान वारुणमाग्नेयं दिव्यवायव्यमानसम् | वारुणं वारिणा स्नानं आग्नेयं भस्मना भवेत् || वृष्ट्या सातपया दिव्यं वायव्यं गोरजोद्भवम् | मन्त्रैर्मानसमित्युक्तं स्नानमेवन्तु पंचधा || अधुना वारुण स्नानं द्विविधं शृणु सात्वतः | मलस्नानं पुराकृत्वा विधिस्नानमथाचरेत् || रजनी कण मृत्पिष्टैरंगप्रत्यंग कर्षणम् | मलस्नानमिति प्रोक्तं विधिस्नानं तु मंत्रतः || इति अस्त्रमन्त्रेण भूमिं खात्वा अष्टांगुलादधस्थितां मृत्तिका हृदाऽहृत्य जलतीत्रे निधाय भागत्रयं कृत्वा प्. १७) एकेन भागेन शेषमंगं सर्वमालिप्य | षण्मुख्या पदनादिकं विधायेति- चक्षुश्रोत्र नासिकाभिधानं विवक्षितं तथोक्तम् खात्वासिना विशुद्धां तु भुवमष्टांगुलादधः | मृदं हृदा समादाय पुनस्तेनैव पूरयेत् || त्रिणादि शिखयोद्धृत्य वर्मणा विभजेत् ततः | एकयानाभि पादान्तं प्रक्षाल्य पुनरन्यधा || अस्त्राभि जप्तयालिप्य दीप्तया सर्वविग्रहम् | निशुध्या क्षीणि पाणिभ्यां प्राणान् संधम्यवारिणि || निमज्यान्ति तहृद्यस्त्रं स्मरन् कालानिल प्रभम् | मलस्नानं विधायेत्थं समुत्थाय जलांतरात् || अस्त्र संध्यामुपास्याथविधि स्नानमथाचरेत् | इति षण्मुखी लक्षणमुक्तं-
SKअंगुष्ठाभ्यामुभौ कर्णौ तर्जनीभ्यामथाक्षिणी | प्. १८) मध्यमाभ्यां निबध्नीयान्तासिकायुगलं दृढम् | षण्मुखीकरणं ह्येतत् स्नानकर्मणि योजयेत् || इति ततो द्विजा | इति ब्राह्मण क्षत्रिय वैश्याः ब्राह्मीं वेदोक्तामितरः शूद्रः तस्य वैदिक कर्मण्यनधिकारात् | ननु स्नानमध्ये कथं संध्योपासन मितिचेदुच्यते | अस्त्रमुद्दिश्य या संध्यासास्त्र संध्या प्रकीर्तिता | इति आगेमेषु उक्तत्वात् शिवास्त्रेण प्रोक्षणपूर्वकं अर्घ्यत्रयं दत्वा यथाशक्ति जपित्वा निवेदयेत् | अथवास्त्र गायत्र्या प्रोक्षणादिकं कुर्यात् | एवं प्रकारेण मलस्नानांगत्वेन प्रोक्षणादीनां विहितत्वात् | वैदिकीन्तु पुरा कृत्वा तत शैवीं समाचरेत् | इति संध्या वन्दनादीनां केषांचिद्वैदिक कर्मणां शैवानुष्ठानात् पूर्वमेव प्. १९) करणीयत्वात् स्नानकालेपि संकल्प सूक्तपठनमित्यादि वैदिककर्मणः सद्भावात् | उक्तमित्यदोषः विधिस्नानमाहपुनश्शेषमिति शेषं त्रिभागावशिष्टं संहितयाभि मन्त्र्येति | संधीयंते बीजान्यस्यामिति- संहिता येषां सकल प्रासादोमंत्रः तेषां सार्ध त्रिशत्युक्त मूल ब्रह्मांग सहिता येषां पुनः निष्कल प्रासादो तेषां द्विशति कालोत्तराद्युक्तांग वीज संहतिरेव संहिता तस्मादस्याः पत्यतेस्सार्ध त्रिशति मूलत्वान् मूलब्रह्मांग वाचक मंत्रास्संहिता शब्देनोच्यन्ते | शिवतीर्थवद्विचिन्त्येति शिवतीर्थवत् शिवतीर्थ संयुक्तम् | तदुक्तं सिद्धान्तशेखरे- आदाय मृत्तृतीयांशं मन्त्री शंहारमुद्रया | प्. २०) नाभि प्रमाणतोयस्थो वामपाणावुदङ्मुखः | कवचेन त्रिधा कृत्वा भागांस्तानभि मंत्रयेत् || सर्वज्ञानोत्तरे च अस्त्रजप्तं भवेत् पूर्वं ब्रह्मजप्तं तु दक्षिणम् | उत्तरं शिवजप्तं तु पृथक् कुर्युः पृथक् पृथक् || अस्त्र जप्तं भवेद् दिक्षु दशस्वपि यथा क्रमम् | नाराचास्त्र प्रयोगेण तोय मध्ये पुनः क्षिपेत् || ब्रह्मजप्तेन भागेन शरीरमवलेपयेत् | आग्नेयीं धारणं ध्यात्वा चिन्तयेदमृतं पुनः ||
SKशिवजप्तेन भागेन ततोभ्यावर्तयेज्जलम् | शिवतीर्थं भवेदेवं विधिनानेन षण्मुख || सर्वतीर्थपरं पुण्यम् | इति || तथा सुप्रभेदेपि सर्वमण्डूक मत्स्याद्यैः अन्यैश्च जलजन्तुभिः | प्. २१) सेवितन्तु जलं नित्यं तस्माद् दुष्टं विशेषतः | तद्दोष शमनार्थाय शिवतीर्थं प्रकल्पयेत् | इति || शिवं ध्यात्वेति- हृदयकमले शिवं सम्यक् ध्यात्वा ततः सोमसूर्याविति यथाक्रमं दक्षिणहस्ते सूर्यं शिवं च वामहस्ते सोमं शक्तिं च ध्यायेत् | तदुक्तम् सिद्धान्तशेखरे शंभुं हृदंबुजे ध्यात्वा तिष्ठं तीर्थजलान्तरे | शिवशक्ति स्वरूपाभ्यां कराभ्यां कुंभमुद्रया || वौषडं तैस्तथा मन्त्रैस्सिंचेन्मूलेन वा शिरः | अस्त्रेणांबु स्वरक्षार्थं विघ्नौघस्य च शान्तये || सर्वदिक्षु विनिक्षिप्य इति | स्नायादिति | सुप्रभेदे तु- अन्तर्जलं विधायाक्षं सर्वागं नैव दर्शयेत् | दर्शयेद् वा ततश्चार्धं मुखमग्नोथ वा जपेत् || प्. २२) मुखमग्नेनयज्जप्तं त्वेकं शतगुणं भवेत् | अर्धांगमग्ने साहस्रं सर्वांगे कोटिरुच्यते || इति | कुंभमुद्रालक्षणमुक्तम् वामहस्त तले सव्यं मुष्टिं विन्यस्य गोपयेत् | वामाभिरंगुलीभिस्तां ऊर्ध्वेंगुष्टद्वयं न्यसेत् | कुंभमुद्रा सडाख्यता प्रणवामृतविस्रवेति || चक्रवर्तुपचारेणेति चक्रवर्तिः वत्तूर्यादि राज्योपचारः तेन सुगंधा मलकादिनेति | आमलकादेरवश्यं भावित्वं विधि स्नान समनंतर करणीयत्वं दर्शितम् | श्रीमन्मतंगे- विधिस्नान समनन्तरं- तथोद्वर्तनकैः पश्चात् सुगंधामलकैरपि | गायत्र्या मन्त्रितैर्मन्त्री स्नायाच्छिव मनुस्मरन् | इति || प्. २३) चक्रवर्ति उपचारेणेति- अत्रायं पक्षः गृहस्थानामेवति केचित् | उक्तं च चक्रवर्त्युपचारेण सुगंधा मलकादिभिः | तत्रादौ कारयेत् स्नानं विधिस्नानं ततः परम् | मृत्तिकादिभिरेवैदं यति स्नानमुदाहृतम् || इति || किंचात्र- सुगंधामलकादि नेति गृहस्थस्थान प्रकारं कथ्यतेति केचित् तन्न |
SKसुगंधा मलकादिना स्नात्वा जलादुक्तीर्येति उत्तरण विधानात् | गृहस्थ स्थानस्य तदनुपपत्तेः | अत्र सुगंध शब्देन लक्षणया पार्थिवांशः सद्योजातः | सद्यस्तु पृथिवी ज्ञेया इति वचनात् | अमल शब्देन बोधः बोध शब्देन हृदयमुच्यते | हृदयं बोध पर्यायमिति वचनात् | तस्मात् प्. २४) सुगंधादिभिः सद्योजातादिभिः आमलकादिभिः हृदयादिभिः साधितैः कुंभैः इत्यध्याहार्यत्वात् | नानुपन्नमिति न्यायविदः | उपविश्य आचम्येति उपविश्यै वाचमनं कुर्यात् न तिष्ठन् प्रह्वो वा ह्रस्व प्रासादेन तीर्थमुपसंहरेति | ह्रस्व प्रासादो उच्चारण भेद इति मन्तव्यः | तीर्थं स्वकल्पित शिवतीर्थं उपसंहरेत् संहारमुद्रयेति शेषः | अथ आचमनविधिमाह - ततः इति- ततः स्नानकरणान्तरं अंगलग्नजलं देहसक्तजलं शुद्धेन धौतेन अनार्दवाससा आर्दो न भवतीत्यनार्द्रं अनाद्रं च तत् वासश्च अनार्द्र वासः तेनोन्मृज्य परिमृज्य शुद्धवाससि परिधायेति | अत्र वाससीति द्विवचनात् प्. २५) वस्त्रद्वय परिधानं कृत्वा संध्या वंदनादि कर्म कर्तव्यं नैकवस्त्रेण | तथा ज्ञानरत्नावल्याम् नैकवस्त्रः क्रियां कुर्यान्नग्नः कौपीन केवलः | स्नाने देवार्चने यागे भोजने च विपश्चिता | धौतवस्त्रं द्वयं धार्यं अखण्डं च नदं शिवम् || कौपीनिनो न दोषोस्ति नैष्ठिक ब्रह्मचारिणाः || इति | तथा शुमति च आर्दवस्त्रेण संयुक्तः कर्मकुर्यादतंद्रितः | वृथा भवति तत्कर्म पुनस्नानेन शुध्यति || इति | अन्यत्र च स्नानं कृत्वार्द वस्त्रस्तु विण्मूत्रं कुरुते यदि | प्राणायाम त्रयं कृत्वा पुनस्नानेन शुध्यति | इति || बद्ध चूड इति शिखाबद्धयुक्तः अनावृत शिरा इति प्. २६) वस्त्रादिनाच्छादित शिरस्कः इति | तदुक्तम् सिद्धान्तशेखरे- शिखां वध्वाथ शिखया चोपवीतस्तटे शुचौ | वामं पादं जले कृत्वा स्थले कृत्वा तु दक्षिणम् || पुर्वास्यश्चोत्तरास्यो वा जानुमध्य करद्वय | फेन बुद्बुद खेटादि रहितं वारि निर्मलम् ||
SKदक्षपाणि तले कृत्वा मुक्तांगुष्ठक निष्ठिके | सोमरूपं सिते पक्षे कृष्णेत्वर्कात्मकं स्मरेत् || आत्मविद्या शिवस्तत्वै स्वथान्तैः प्रणवादिकैः | हृच्चिरश्चूलिका मन्त्रै बीलसहितैश्चुलुक त्रयम् || प्रपिबेद्ब्रह्मतीर्थेन ब्रह्मविष्णु हरप्रियम् | इति | तथा कामिके च- आजानु पादौ प्रक्षाल्य हस्ता वा मणि बंधनात् | समक्बद्ध शिखो भूत्वा प्राङ्मुखो वाप्युदङ्मुखः || प्. २७) हस्तं गोकर्णवत् कृत्वा माषमग्नजलं पिबेत् | ब्रह्मतीर्थेन मूलेन त्रिःप्रीत्वा त्रिःप्रमार्जयेत् || ओष्ठंवागुंष्ठ मूलेन अनामिकांगुष्ठ योगतः | चक्षुर्नासा श्रुती बाहु वक्षो नाभि शिरप्रशेत् || समंत्रा च मनं विद्यादात्मविद्या शिवाणुभिः | स्वथांतैस्सलिलं पीत्वा हेतिनोष्ठौ प्रमार्जयेत् || हृन्मन्त्रेणाक्षि संस्पर्शं कुर्यात् सव्य क्रमादिति | पराख्ये च- संस्प्रशेच्च तत्ॐगानि शिरो नेत्रे च नासिके | श्रोत्रां सौहृदयं नाभि शिरस्पर्शं तत्ॐ ततः | अनामयांग संस्पर्शः कर्तव्य्ॐगुष्ठयुक्तया | भवेदीशस्सद्ॐगुष्ठो नामानाम मृताकला || तया मृतात्मया देवास्सदातृप्तास्त्वनामया | भवंति तत्क्रिया कर्तुः क्रिया भावोप ब्रह्मिके | इति || प्. २८) नन्वागमांतरे तावत् अंगुली भेदेन अक्ष स्पर्शनं विधीयते | तत्कथं- अंगुष्ठानामिकाभ्यामिति | तदुक्तम् सुप्रभेदे- त्रिवीत्वांगुष्ठमूलेन द्विः प्रमृज्याधरौ पुनः | मुखं हस्तेन संस्पृश्य पदावभ्युक्षयेश्शिरः || अंगुष्ठानामिकाभ्यां तु चक्षुषी संस्प्रशेत् बुधः | अंगुष्ठ तर्जनीभ्यां तु नासिकां संस्प्रशेत् पुनः || तदंगुष्ठ निष्ठाभ्यां श्रोत्रौ चैव तु संस्प्रशेत् | अंगुष्ठेन तु बाहू च नाभिमंगुष्ठकेन वै | अंगुल्यग्रेण हृदयं पञ्चभिमूर्ध्नि संस्प्रशेत् | ऋग्यजुस्सामवेदानां त्रिःपानान् तृप्तिरिष्यते || आस्य द्विमार्जनादत्राधर्वेदेति हासयोः | सकृन्मार्जनतो वक्त्रं गणेशस्य प्रियं भवेत् || पश्चिरोभ्युक्षणे नैव ऋषीणां त्रिप्तिरिष्यते | प्. २९)
SKनयनस्पर्शने नैव प्रियं स्यात् सोमसूर्ययोः | नासिका स्पर्शने नैवाश्विन्योस्तु प्रियं भवेत् | श्रोत्रसंस्पर्शनेवैव दिशां प्रीतिकरं भवेत् | इन्द्र विष्ण्वनलानां च बाह्वोर्नाभे हृदस्तथा | इति || एवमुक्तोपि- क्रियादि भेदभिन्नोयं तंत्रभेदः समासतः इति क्रियादि भेदस्य तन्त्रभेद कारणत्वात् | तत्र तथा भवन्तु | इह तु आगमानां बहुत्वे तु कर्तव्यं | स्वगुरु क्रमात् | इति पूर्वाचार प्राप्तस्य कर्तव्यत्वादुक्तम् | अथ प्रसंगात् गृहस्नान प्रकारमाह- यद्वेति पूर्ववन्मृद्भिस्स्नात्वेति- पूर्ववत् स्नानप्रकरणोत्तवत् | प्रभुविषयमेतत् | तथोक्तं कामिके- अथवा स्वगृहे शुद्धवारिणा शीतलेन वा | तप्तेन लिप्तभूमिस्थ पीठस्थस्स्नानमाचरेत् || इति || प्. ३०) तथा अन्यत्र- नवाष्ट पञ्चभिः कुंभैः शिवमन्त्रप्रकल्पितैः | स्नानं गृहेपि कर्तव्यं लिप्तायां भुवि दीक्षितैः || इति | रोगादि स्नानकरणासामर्थ्यमाह वारुणस्नानशक्त इति | यथाशक्ति स्वशरीर बलानुगुणं आगलंगलपर्यन्तं वा कटिमात्रं पादमात्रं वा संक्षाल्य आर्दवाससा शेषमंगं संमृजेत् | तथोक्तम् सिद्धान्तशेखरे शिरोरोगाद्य सामर्थ्यात् क्षालयेदागलं तनुम् | कण्ठस्नानमिदं प्रोक्तं मृज्जलैवारुणं भवेत् || धौतार्दवस्त्रं संमार्ज्य आदंगनां वारुणं तु वा | इति | तथा अन्यत्रापि- दिव्यं सा तपवर्षेण कापिलं कायमार्जनम् | आर्देन वाससा चान्यं मानसं शिवचिन्तनम् || इति | प्. ३१) अस्त्रेण हुंफडंतेनेति- हुंफडंतास्रेण सत्वपादांगुष्ठोत्थिते | नाग्निनेति | सव्यांगुष्ठे कालाग्निः इति शास्त्रेषु प्रसिद्धत्वात् | तेनाग्निना शरीरगत बाह्यमलमात्रं दग्धं भावयेत् | क्षुब्धशक्ति परिसृत शुद्धतोयेनेति | मानस स्नानप्रकरण वक्ष्यमाणवत् | शरीरमाप्लुतं कुर्यात् संहितामेक वारु जपेत् इति | स्नानाकरणप्रायश्चित्तार्थं संहितां जपेत् | सरुजस्नानहीनश्चेत् शिवैकादशिकां जपेत् | इत्युक्तत्वात् | किञ्च सर्वत्र अस्पृश्य स्पर्शने वारुण स्नानस्यैव विहितत्वात् | उक्तं च
SKकाक कंककप्रोतोष्ट्र खर कुक्कुट गृध्रकैः | ग्राम क्रीडादिभिस्पृष्टः तदुद्भूतांग वै कृतैः || अंत्यज प्रेतपतितैः तथा निर्माल्य भुग्जनैः | प्. ३२) उदक्या सूतिकाद्यैः वा स्पृष्टो वारुणमाचरेत् | अन्यविन्मूत्र संपर्कैः नाभेरूर्ध्वं करौ विना | उपघाताज्जलै स्नायात् शेषं प्रक्षालयेत् शुचिः | इति | एवं वारुणस्नान प्रकारं उक्त्वा आग्नेय स्नान प्रकारमाह- अथ भस्मस्नानविधिरिति- अथ वारुणस्नानानन्तरं भस्मस्नानविधिः विधानं यथा प्रकारं उच्यते इति शेषः | अस्य भस्म स्नानस्य जलस्नानादुत्कृष्टतमात् ब्राह्मणादिभिः समस्तैर्गृहस्थ विरक्तैः अवश्यं भस्मस्नानं यथायोग्यं कर्तव्यं | उक्तं च कामिके भुक्ति मुक्ति दमाग्नेयं विशुद्धे नैव भस्मना | आग्नेयं वारुणं स्नानात् असंख्येय फलावहम् | यथा गंगाजलं शुद्धं तथा भस्मापि पावनम् | प्. ३३) भासयत्ये वयद्भस्म शुभं भासयते च यत् | भक्षणात् सर्वपापात् भस्मेति परिगीयते || श्रीकरं च पवित्रं च हारमाभरणं तथा | लोकवश्यकरं पुण्यं भस्मस्नानं दिने दिने | ज्वरापस्मारपैशाच ब्रह्मराक्षसपीडिताः | भस्मलेपन मात्रेण स्वस्था दृष्ठा भुवस्तले || मद्यं पीत्वा गुरु दारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्या च कृत्वा भस्मच्छन्नो भस्मशय्याशयिनः रुद्राद्ध्यायीमुच्यते सर्वपापैः | भस्मस्नानं जलस्नानात् कोटि पुण्यगुणं भवेत् | त्रिकालं वा द्विकालं वा एककालमथापि वा | भस्मस्नानं यथा योग्यं यकुर्यात् सकृदेव वा || सर्वपाप विनिर्मुक्तः साधयेदीप्सितं फलम् | त्रिपुण्यं धारयेन्नित्यं गृहस्थाश्रममाश्रितः | प्. ३४) धारयेद् भिक्षुको नित्यं मितिजा बालिकी श्रुतिः | ललाटे चैव दोर्दण्डे तथैवोरसि बुद्धिमान् || त्रिपुण्ट्रं धारयेन्नित्यं भुक्ति मुक्ति फलप्रदम् | पर्णानामाश्रमाणां च मन्त्रतो मन्त्रतोपि वा ||
SKत्रिपुण्ट्रोद्धूलनं प्रोक्तं जाबालेनादरेण तु | उद्धूलनं त्रिपुण्ट्रं च ज्ञानां गत्वेन सादरम् | आमनंति मुनिश्रेष्ठाः श्वेता श्वेतरशाखिनः | उद्धूलनं त्रिपुण्ट्रं च मायापाश निवृत्तये | आमनन्ति मुनिश्रेष्ठाः अथर्व शिरसि स्थिताः | यज्ञोपवीत वद्धार्यं नित्यं भस्म द्विजादिभिः | श्रुत्या विधीयते यस्मात् तत्यागी पतितो भवेत् | इति स्मृति सारसमुच्चये | अशुद्धिर्वाप्य नाचारो मनसा पापमाचरेत् | शुचिरेव भवेन्नित्यं त्रिपुण्ट्रस्य तु धारणात् | इति | प्. ३५) धर्मसारसुधानिधौ- त्रिपुण्ट्रकं सदा कुर्यान् मन्त्र पूते भस्मना | वेदोक्तेन विधानेन शिवसायुज्यमाप्नुयात् || इत्यादि वचनैः भस्मस्नानस्य जलस्नानामुत्सृष्टत्वेपि जलस्नानं विना भस्मस्नानाकरणे योग्यता भावात् | पूर्व जलस्नानं कृत्वा पश्चात् गृहस्थाश्रमिभिः भस्मस्नानं कर्तव्यम् | उक्तं च- नित्यं सकृद् यथाशक्ति स्वात्ॐभसि दिने दिने | भस्मस्नानेधिकारी स्यात् नान्यथा मुनिपुंगवाः | इति | कल्पादि सिद्धमिति आदि पदेनानु कल्पोपकल्पा गृह्यते | कल्पोनुकल्पोपकल्पानां भस्मनां पूर्वमेव विध्युतन्नत्वेन संहिता मन्त्रणं कृत्वा धारयेत् | अकल्पत्वमिति- p. 36) nivṛtyādika kalāmantrai ādipadena pratiṣṭhā vidyāśānti śāntyatīta kalāmantrāḥ gṛhyante | saṃśodhya śuddhiṃ kṛtvā | saṃhitā mantraiścābhimantrya dhārayet | āgneyaṃ bhasmanā kuryāt caturdhā bhasmakīrtitāḥ | kalpābhidhānaṃ prathamaṃ dvitīyamanukalpakam || upakalpaṃ tritīyaṃ syāt akalpaṃ syāccaturthakam | pūrvāt pūrvaṃ viśeṣaṃ syāt vahnigomaya bhedataḥ || gṛhītvā gomayaṃ khasthaṃ piṇḍīkṛtya viśoṣitam | śodhitaṃ śivavahnau dagdhaṃ sadyādi mantrakaiḥ || mūlena śodhitaṃ bhasma kalpākhyaṃ parikīrtitam | agnihotra samudbhūtaṃ athavā bhasma kalpakam || anukalpaṃ vane śuṣkaṃ śuddhaṃ dagdhaṃ śivāgninā | aṭavī gṛha govāṭe śuṣkaṃ vāyeṣṭikādikai || vahninā bhasmavastreṇa dagdhaṃ ca śodhitaṃ tathā | p. 37)
SKपिण्डीकृतं च गोमूत्रैः पूर्ववत् संस्कृतं च यत् | उपकल्पाभिधानं तत् त्रितीयं भस्मकीर्तितम् || भस्ममन्त्र विहीनं यत् अकल्पं स्यात् अदूषितम् | इति भस्मस्नानोपि मलस्नानविधि स्नानरूपेणद्वैविध्यात् | आदौ मलस्नानमाह- saṃgṛhya muṣṭimātraṃ tu dakṣahastena bhasmanaḥ | dhāraṇadhyāyogena viśodhya paramīkṛtam || vidhāya śoddhayenmūla brahmāṃgamanubhiḥ sadā | agnirityādinā bhasma sthāpya vāmakare tu tat || astreṇa dakṣahastena malasnānaṃ tu mastakāt | vidhāya bhasmarajasā vidhi snānaṃ tataḥ caret || iti | vidhi snānamāha - īśāneti - īśaḥ īśānamantraḥ p. 38) puruṣaḥ tatpuruṣamantraḥ pratyaṃgamiti aṃgaṃ prati astramantreṇa hastaśuddhiṃ smṛtvā (kṛtvā) uddhūlyāvaśiṣṭaṃ bhasmabrahmārīśāna mantraiḥ mūlena śirasi abhiṣekaṃ kuryāt | etaduddhūlanamadhikāri bhedenāgamāṃtareṣūktatvāt | brāhmaṇassarvāṃgoddhūlanaṃ kuryāt | kṣatriyo vaiśyaśca nābherūrdhvamuddhūlayet | śūdraḥ uddhūlanaṃ varjayitvā tripuṇṭrātmakāmeva bhasmasnānaṃ kuryāt tadetat tapasvi vyatiriktaṃ śūdraviṣayam | ataḥ eva jñānaratnāvalyām tapasvī cedvidhivad bhasmasnānaṃ samācarediti | ādinā malasnānavidhi snānarūpayoḥ uddhūlanayoḥ adhikāri bhedenoktam | evaṃ kṣatriya vaiśyāvapyata visvanau tripuṃḍrātmakameva bhasmasnānaṃ kuryāt | athavā | p. 39) brāhmaṇādayaścatvāro gṛhasthāśrama dharmiṇaḥ uddhūlanā śaktau tripuṇṭrātmakameva bhasmanāṃ kuryāt | yatiruddhūlayedaṃgaṃ tripuṇṭrādyaiḥ gṛhāśramamiti keṣucit āgameṣu uddhūlanasya tapasvi viṣayatvena proktatvāt | evamāgamokta pakṣāṇām | kiṃca kevalaṃ tripuṇṭrātmaka bhasmasnābhiprāyeṇa keṣucidāgameṣu niṣkaṃ niṣkārdhakaṃ caiva tadardhaṃ ca tadardhakaṃ iti bhasma (snānasya) pramāṇasya brāhmaṇādi viṣayatvena proktatvāt |
SKएवमागमोक्तपक्षाणां मध्ये पूर्वाचार प्राप्तंकंचित्पक्षमाश्रित्य ललाटादि पंचस्थानेषु अष्टस्थानेषु षोडशस्थानेषु वा द्वात्रिंश स्थानेषु वा तर्जनी मध्यमानामिकाभिः प्. ४०) अथवा ललाटे मध्यमानामिकांगुष्ठैः वा त्रिपुण्ट्रकं कर्तव्यं | उक्तं च- श्रीमन्मृगेद्रेस्नायादीशादिभिर्मुर्धावक्त्र हृद्गुह्य विग्रहात् | प्रत्यंगि कर्महस्तस्य शुद्धिमस्त्रेण कारयेत् | इति || सिद्धान्तशेखरे- ईशाद्यैः पञ्चभिर्मन्त्रैः क्रमादुद्धूलयेद्बुधः | विधिस्नानमिद प्रोक्तं त्रिपुण्ट्रकमथोच्यते || मध्यांगुलिभिरादायतिसृभिर्मूल मन्त्रितम् | ब्राह्मणा भस्म वेश्मस्थोलाटे हृदयेंसयोः || नाभावुद्धूलयेत् तेषु देवानेतान् स्मरेत् क्रमात् | शिवेश्चरण रुद्रविष्णू ब्रह्मा पंचसु संधिषु || पञ्चांग पुण्ट्रमित्युक्तं पक्षे चाष्टांग पुंट्रकम् | शिरोफालगलांसेषु हृदिनाभौ च पृष्ठके || ब्रह्मा सरस्वती लक्ष्मीरुमेशौ सवितानलाः | प्. ४१) शशीत्युदितमष्टांगं षोडशांग मथोच्यते | फाले कण्ठां सयोबार्ह्वोः कूर्पर द्वितये तथा || मणिबंध द्वये वक्ष्यः कुक्षिनाभिषु पार्श्वयोः | पृष्टे च देवता शंभुः ईशो रुद्रप्रजापतिः || विष्णुर्वामादि नवकं अश्विनौ षोडश क्रमात् | द्वात्रिंशत् संधिदेवेशा त्रिपुण्ट्रक्रममुच्यते | शिरोफालगलर्क्षेषु नासामुख शिरादिषु || अंसयोर्भुज युग्मेमपि कूर्पर द्वितये तथा | मणिबंधद्वये वक्षो नाभिमेड्रगुदेषु च || प्रष्ठोरुजानु जंघांघ्रिपादेष्वेतेषु देवता | मूर्ति विद्येश दिक्पाला वसष्टक चतुष्टयम् || द्वात्रिंशत् स्थानकं प्रोक्तं त्रितत्वेशं त्रिपुण्ट्रकम् | यथा संभवतः कुर्यात् देशकालाद्यपेक्षया || इति | क्रियाकाण्ड क्रमावल्याम् प्. ४२) संध्या त्रये निशीये च संध्या पूर्ववसानयोः | सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् | स्त्रीयं नपुंसकं शूद्रं बिलालंबक मूषिकान् || सृष्ट्वा तथा विधानन्याग्येय स्नानमाचरेत् | देवाग्नि गुरुविद्यानां समीपे चांत्य दर्शने | अशुद्ध भूतले मार्गे कुर्यान्नोद्धूलनं प्रति | इति ||
SKअनन्तरकरणीयमाह- ततः इति- पूर्ववदाचमन प्रकरणोक्तवत् | अत्र भस्मस्नानानन्तरं अपि पाद प्रक्षालनाचमनादि कुर्यादिति केचित् | मानस स्नानविधिमाह- मूलमन्त्रः परशिववाचकः प्रासादमन्त्रः अस्य लक्षणं उक्तरत्र शिव पूजा प्रकरणे स्फुटा भविष्यति | नादांतं ब्रह्मरंध्रपर्यन्तम्- अत्र पूरककुंभौ कृत्वा मनसोच्चारित मूलमन्त्रेण क्षोभित प्. ४३) शक्ति मण्डल परिसृतामृत धाराभि स्वदेहमभिषिक्तं भावयेत् | उक्तं च- मूलमन्त्र परिक्षुस्थ शक्ति पीयूषधारयां | स्वबाह्यांभ्यन्तरासेकान्मानसस्नानमाचरेत् | इति इदं मानसस्नानं सर्वत्रा शुचि शंकायां विधेयम् | दिव्य वायव्यादि स्नानमपि प्रतिदिनं करणीयम् वा इत्यत् आह- दिव्यादीनामिति- दिव्यादीनामपि नैमित्तिकत्वात् | कालादिकं निमित्तीकृत्य प्राप्तत्वात् | तं नैमित्तिक काल एव कुर्यात् सर्वेषु स्नानेषु एतद्वारुणमाग्नेयं च नित्यं इतराणि नैमित्तिकानीत्युक्तम् | ब्रह्मशंभुपद्धत्याम्- स्नानं वारुणमाग्नेयं नित्यमित्यभिधीयते | मानसादि चतुष्कं यत् नैमित्तिकमिस्मृतम् | प्. ४४) निमित्तं च वृष्ट्यासातपया इत्यादि पूर्वमेवोक्तं | करांगयोः मन्त्रन्यास प्रकारमाह- तत इत्यादिना- ततः मानस स्नानान्तरं सकलीकरणं कलाभिरीशानादि मन्त्रः सहितः शिवमन्त्रः सकलः तेन विन्यस्त देहादिः सकली असकखिनं सकलिनं करोतीति सकलीकरणम् | तच्च त्रिविधम्- सृष्टि स्थिति संहार भेदेन तत्र ईशानादि अस्त्रादि क्रमेण यः न्यासः तत्सृष्टिरूपम् | सद्यादि हृदयादि क्रमेण यः न्यासः तत्संहाररूपम् | ब्रह्मणां सृष्टिक्रमेण अंगानां संहार क्रमेण यः न्यासः तत्स्थितिरूपम् | अत्र लोक धर्मणि दीक्षित गृहस्थस्य भौतिक ब्रह्मचारिणः बुभुक्षु गृहिणः सपत्नी वनस्थस्य साधकस्यापि सृष्टिरूपम् | प्. ४५)
SKअपत्नीक वनस्थस्य ममुक्षोर्नैष्ठिक ब्रह्मचारिणः सन्यासिनश्च संहाररूपम् | देहान्त मुमुक्षोः गृहस्थस्य तथाविध भौतिक ब्रह्मचारिणः तथाविध सपत्नीक वनस्थस्यापि भौतिक नैष्ठिक (समया) गृहस्थाचार्ययोश्च स्थितिरूपम् | नैष्ठिकेनापि दीक्षायाः कर्तव्यत्वात् | आचार्यस्यांन्त्येष्ट्यादि विषये संहाररूपम् | दीक्षाविषये शिष्यार्हरूपम् | त्रिविधेष्वत्रस्तितिरूपं सकलीकरणमभिहितमिति मन्तव्यम् | एतेषां सम्मति वचनानि बहुत्वान्ने लिखितम् | दक्षिण वामहस्ताविति करांगयोर्मन्त्रन्यास समये करशुद्धिं कृत्वा अनन्तरं मन्त्रन्यासस्य विहितत्वात् | आदौ करशुध्यर्थं दक्षिण हस्तेन वामहस्तस्तलं प्. ४६) तत्पृष्टं च मणिबंधादंगुष्ठाग्र पर्यन्तं अस्त्रमन्त्रेण प्रत्यैकं द्विवारं प्रमृज्य पश्चात् आप्तुतौ करौ भावयेत् | उक्तं च सिद्धान्तशेखरे- हुंफडंतास्त्रमन्त्रेण वामहस्ततलं द्विधा | मणिबंधात् समारभ्य सप्रष्ठं दक्षपाणिना | प्रमृज्य दक्षपाणिं तु सदृदोवोक्तमार्गतः | वामहस्तेन च करौ भावयेद् दग्धरज्जुवत् | आप्लाव्यतौ करौ प्राग्वत् पद्ममुद्रां प्रकल्पयेत् | इति | तलयोः अंगुष्ठामिति तलयोः हस्ततलयोः इत्यर्थः | ह्ॐ ईशान मूर्धाय नमः | इति ब्रह्मणां प्रयोगे प्रणवमुच्चार्थानंतरं तत्तद्बीजमुच्चार्य पश्चादीशानमूर्धायेत्यादिव्योमव्यापि मध्य पठित मन्त्रानुच्चारयेत् इति गुरवः | तथा सोमशंभुपद्धत्याम्- प्. ४७) होमं निवर्तयेदेवं ब्रह्मबीज पदैस्ततः | इति |
SKअत एव पद्धत्यामव्येवं मन्त्रप्रयोगः कृतः | सकल हस्तव्याप्ति शक्तित्वेन इति | कलाभिः सहितौ सकलौ | सकलौ च तौ हस्तौ च सकलहस्तौ | तयोः व्याप्ता शक्तिरीशानादिरूपा तथोक्ता तस्याः भावः तत्वं तेन मध्ये (हस्त) हस्तव्याप्ति शक्ति मध्ये तद्व्यापकत्वेनेति | तस्याश्शक्तेर्व्यापकः तस्य भावः तत्वं तेन प्रासादः शिवमन्त्रः तमावाह्य हृदयाय नम इति आदि अंगानां न्यासे नेत्रं विना सर्वान् मन्त्रान् नमोन्तानुच्चार्य न्यासं कुर्यात् | काम्यकर्म विधाने तु नमस्वाहेत्यादि जाति षट्कयुतानुच्चारयेत् | इति मृगेन्द्र पद्धति व्याख्याने मन्त्रोद्धार प्रकरणे व्याख्यान्तम् प्. ४८) शिवार्चना चन्द्रिकायमप्युक्तम्- मन्त्रन्यासकाले सर्वेप्येते मन्त्रा नमोन्ता अस्त्रमन्त्रस्तु हु फडंत इति तालत्रय पुरस्सरदिग्बन्धनं विधाय इति | तालमुद्रालक्षणं उक्तं अजिते- दक्षिणांगुलिभिर्वामहस्तस्य तल | ताडनं अंगुष्ठवर्जिताभिस्सातालमुद्राविशुद्धिदा इति | नारा च मुद्रा लक्षणमुक्तम् पराख्ये कृत्वा दक्षिणहस्तेन मुष्टिं दृढतरं ततः | अंगुष्ठाग्रेण तर्जन्याः सम्यगग्रं प्रवी(पी)ड्य च || प्रक्षिपेत् तर्जनीं भेदे यदा शब्दोदयो भवेत् | नाराचास्त्र समाख्येयं मुद्रा दिग्बन्ध कर्मणि || इति | महामुद्रां दर्शयेदिति- महामुद्रालक्षणम् समानतन्त्रे- हस्ताभ्यां संस्पर्शये पादौतौ नयेन् मस्तकावधि | प्. ४९) एषा मुद्रा महामुद्राकर संस्कार कर्मणि | इति || कारणे तु विशेषोक्तः- कराभ्यां संस्पृशेत्पादौकादि पादांतकं ततः | एषा मुद्रा महामुद्रा इति | प्राणायाम क्रममाह पश्चादित्यादि- प्राणायामः प्राणवायुः तस्य आयामः गमागमः पूरक कुंभकरे चकाख्य विशेषेति यावत् | स च कालभेदेन ज्ञातव्यः | उक्तं च कामिके- रेचयेद् देहगं वायुमशुद्धं व्योमसंस्थितम् | शुद्धं वायुं पूरकेण समाह्यत्य शनैश्शनैः || संपूर्ण कुंभवत् तिष्ठेत् रेचयेत् तदनन्तरम् | मात्रा द्वादशभिर्हीनो द्विगुणैर्मध्यमो मतः || त्रिगुणैर्मध्यमः कालः प्रत्येकं रेचकादिषु | प्. ५०)
SKजानु मंडलमावृत्य मात्रास्याच्छोटिकात्रयात् | इति तं प्राणायामं मन्त्र संहितया संपाद्य प्रथमतः देहगं वायुं विरेच्य अनन्तरं बाह्यवायुं पूरकेणाहृत्य कुंभक काले संहिता मन्त्रं जपित्वा पश्चाद् रेचयेत् | तथा- संहिताम्मनसा मन्त्री त्रिर्जपेन्नियतानिलः | प्राणायामो भवेदेषः सर्वकर्म सुचोदितः | इति | अनन्तरं करणीयमाह- बिन्दुस्थानादिति बिन्दुस्थानादमृतमंकुशमुद्रयाहृत्य | अंकुश मुद्रा लक्षणमुक्तम्- कृत्वा सव्यकरं मुष्टि तर्जनी वर्जितं ततः | तर्जन्या कुंचिंतायां सा सृणिमुद्रा प्रकीर्तिता | सैव प्रसारितायां तु तर्जन्यां सृणिनामिका | उद्भवाख्या भवेन्मुद्रा शस्ता स्थापन कर्मणि | इति | प्. ५१) उत्भव मुद्रया तदमृतं जले संस्थाप्य संरक्ष्य अवकुण्ठ्यामृती कुर्यात् | तथा चोक्तं- ततो मृतं समाकृष्य भूमध्यादंकुशाख्यया | पुरस्सर्वात्मकमन्त्रेण स्थापयेदुद्भवाख्यया || इति | अस्त्रमन्त्रेणच्छोटिका मुद्राभिः दशदिग्बन्धनम् | संरक्षणं कवच मन्त्रेण | दक्षिण तर्जनी भ्रमणमवकुण्ठनं धेनुमुद्रा प्रदर्शनेनामृतीकरणम् | धेनुमुद्रा लक्षणमुक्तम् वेणी बंधौ करौ कृत्वा अंगुष्ठौ युग्म संस्थितौ | तर्जनी मद्यमे लीने कनिष्ठानामिके तथा || एवं चत्वारि युग्मं तु दिव्यामृतसुवर्षिणी | इयं सुरभि मुद्रास्यात् द्रव्य शुध्यर्थमुच्यते | संध्यावन्दन प्रकारमाह- संध्यां ध्यात्वा वंदयेत् तदेवोपपादयति- रक्तभूषांबरेत्यादि प्रातस्तारकितेम्बरेति- उक्तं च- प्. ५२) उक्त(त्त)मातारकोपेता मध्यमालुप्ततारका | अधमा सूर्यसहिता प्रातस्संध्या प्रकीर्तिता || इति | मध्यं दिन इति- मध्यं दिनः मध्याह्नकालः स च द्वादश घटिकोपरि षट्घटिकापर्यतो विवक्षितः | अर्धास्तमितारुण इति- अर्धास्तमित सूर्ये उक्तं च- उत्तमा सूर्यसहिता मध्यमा लुप्त सूर्यका | अधमा तारकोपेता सायं संध्या त्रिधा मता || इति |
SKब्राह्म्यादि शक्तीनां प्रत्येक लक्षण मुक्त्वा सामान्यलक्षणमाह कृष्णाजिनधरास्सर्वा इति | एतासां सात्विकादि विभागमाह सत्वादि गुण संयुक्ता - इति | तत्र रजोगुण युक्ता ब्राह्मी सत्वगुणयुक्ता वैष्णवी तमोगुणयुक्ता रौद्री इति ज्ञातव्या | प्. ५४) अत्र शक्तिरेव ब्राह्म्यादि रूपेण ध्यातव्येत्याह ब्राह्म्यादिकारणोपाधि भेदभिन्नामिति | ब्राह्म्यादि कारणेश्वराणामुपाधयः सृष्ट्यादयः तेषां भेदेन भिन्ना भेदं प्राप्ता या शिवशक्तिः तामित्यर्थः | एतत् सकलध्यानम्- कस्येत्याकांक्षायां आह समधिन इति- समधिनः सामान्य समधिनः विशिष्ट समधिनश्च | उक्तं च ज्ञानरत्नावल्याम्- तदभिन्न क्रिय वामाज्येष्टा रौद्रीत्युदीरिता | ता एव परिणामेन ब्रह्मविष्णु हरात्मिकाः || गुणत्रयान्विता ब्राह्मी वैष्णवीशां करी तथा | एताश्च शक्तयस्तिस्रस्संध्याध्येधा मनीषिभिः || कालोपाधि वशाद्वर्ण वाहनायुध विग्रहाः | हृद्बिन्दु ब्रह्मरन्ध्रेषु भावनीयालमाः क्रमात् || इति | एवं समधि विशिष्ट समधिनोस्संध्या ध्यानमुक्त्वा- प्. ५५) पुत्रादीनामाह- पुत्रकाधास्त्विति- पुत्रकः निर्वाण दीक्षामात्रयुक्तः | आदिपदेन साधकाचार्यौ गृह्यते | पुत्रकादीनां स्वरूपं दीक्षाप्रकरणे व्यक्तम् | वक्ष्यामः- मृणालतन्तु वक्तनीत्यादि- मृणाल तन्तुवत् तन्वी सूक्ष्मरूपा रक्ता प्रातःकाले ध्येया मृणापा शुक्ला मध्याह्नकाले मृणालतन्तुवतन्वी सितेतरा कृष्णेत्यर्थः | सा सायंकाले ध्येया | या निशीथे ध्येया | विभा भाव्यते सा तुर्याक रूपारूप रहिता कृष्णवर्णा वा एतासां शक्तीनां मध्ये तिस्रः शक्तिधः सत्वादि गुण संयुक्ताः | चतुर्धा शक्तिः गुणवर्जिता | तथा चोक्तं क्रियाकाण्डक्रमावल्याम्- ज्ञानिनां परमा संध्या चतस्रोभिदधेधुना | एकैवा नेकतां याति शिवशक्तिरूपाधितः || प्. ५६) मृणालतन्तुवत्तन्वी रक्तांशुक्यसितेतरा | तुर्यात्वरूपा कृष्णा वा या निशी विभाव्यते || हृद्बिन्दु ब्रह्मरन्ध्रेषु परे चैतास्थिताः क्रमात् | तिस्रस्सत्वादि संयुक्ता चतुर्धागुण गुणवर्जिता || इति | तथा चोक्तम् ज्ञानरत्नावल्याम्-
SKयास्तु क्रिया दृशीच्छाख्या शक्तयश्शुद्धवर्त्मनि | एताः कालवशाः प्रोक्ताः संध्यास्तिस्रः परापराः || निर्वाण दीक्षितैर्ध्येया हृत्कालकबिलेषु च | पराख्या समाख्याता सातु तुर्योन्मनान्तका || इति | पुत्रकादिष्वपि योगिज्ञानिनोः प्रसंगात् संध्याध्यानं ग्रंन्थातरादाहृत्य लिख्यते | सूर्या चंद्रमसोरंते द्वे संध्ये प्राणयेंगिनाम् | शिवबोधः परोयस्तु सा संध्या परमोच्यते || इति | अस्य श्लोकस्य व्याख्या क्रियते | प्. ५७) सूर्या चन्द्रमसोः ऊर्ध्वाधः प्राणारूपयोः | तथा चोक्तं- ऊर्ध्वप्राणोदिनेशस्यादधः प्राणस्तु चन्द्रमाः | इति || तयोः अन्ते यद्वा इडा पिंगला नाड्योः चन्द्रसूर्य संज्ञयोः उवरतौ सत्यां प्राणयोगिनां हंसयोगिनाम् | हकारस्तु स्मृतः प्राणः स्वप्रवृत्तौ हंसाकृतिः | इति वचनात् | प्राण एव हंसः तस्मात् प्राणेन हंसेन सह योगः प्राणयोगः सोयेषामस्तीति प्राणयोगिनः | तेषां द्वे संध्ये स्मृते- जपं कुर्वन्ति ये मूलं नादरूपं परात्परम् | गमागम प्रयोगेण नाभेरूर्ध्वं शिखावधि | ततो नाभ्यवसाने तु ते चोक्ताः प्राणयोगिनः | उभे संध्ये स्मृते तेषां अन्ते वै सूर्यसोमयोः | || इति || ज्ञानिनामाह- शिवबोध इति- प्. ५८) शिवबोधस्सवोपाधि विधुर द्वादशान्तस्थ परशिव संविदनु भवस्तत्रात्म शिवयोः संधि ध्यानं तत्सामरस्यं तद्वा संध्या | उक्ताभ्यः सर्वाभ्यः परमा | तथा चोक्तं- एकैव वस्तुत शैवी या शक्ति निर्मला परा | अविना भाविनी शंभोः शुचेरुष्णत्ववत् प्रभोः | तथात्म शिवयोस्संधिः शिवबोधः परात्परः || सध्येत्युदीरिता सेयमिति- अत्र समधिनां रक्तभूषांबरामित्यादि- स्थूला संध्या | निर्वाण दीक्षितानां मृणालतन्तुवत्तन्वीत्यादि सूक्ष्मा संध्या | तेषां योगिनां आगमांतरोक्त सूर्याचन्द्रमसोरित्यादि परा संध्या | ज्ञानिनां शिवबोधः इत्यादि परतरा संध्या इति | अधिकारि भेदेन चत्रसृस्संध्या विहिता ज्ञेया प्. ५९) मार्जन विधिमाह तत्रे इत्यादि-
SKतत्र पूर्वोक्त संध्यं ध्यानेषु यथाधिकारं यस्य यस्मिन् ध्याने अधिकारयोग्यः यथा भवति तथा तत्कालोचितां प्रातरादि कालोचितां तत्प्रभामण्डल मध्यस्थित इति | तासां प्रभादीप्तिस्तस्यामंडलं समूहः तस्य मध्यस्थितोहमिति स्वात्मानं भावयेत् | दक्षिण हस्तेन वामहस्ते जलमित्यादि स्पष्टम् | अधमर्षणमाह तत्पुनः अवशिष्टमिति अवशिष्टं मार्जन कृतावशिष्टं वामहस्तस्थं तत्तोयं वज्रशिलायामिति | पुरो भागे जले वा स्थले वा क्षिपेत् | उक्तं च सिद्धान्तशेखरे- वामपाणि तलेतोयं सौम्यतीर्थे निधाय तत् | हृदाभि मन्त्रितं कृत्वा तत्तीर्थाद्गलितांबुभिः || प्. ६०) मार्जनं संहिता मन्त्रैः आचरेद्दक्षपाणिना | वामपाणि तलस्थं तु कृत्वा दक्षकरोदरा || नीत्वा तद्वामना साग्रं धर्मरूपं सितं स्मरेत् | पूरकेणेडया कृष्य धारयेद्बिन्दुमण्डले || कुंभकेनाथ सर्वांग व्यापकं पाव(प)संचयम् | दक्षनाड्यांजनाभासं आरेच्यादाय दक्षिणे || पाणौ पापं पुरो वज्र शिलायां क्रोधतः क्षिपेत् | शतधाग्नेय तीर्थेन स्यादेतदघमर्षणम् || इति | श्रीमत्किरणेपि उक्तं च- मार्जनं संहिता मन्त्रैः शिवेन सलिलेक्षणम् | इति | तद्व्याख्याने सलिले क्षणमघमर्षणमित्यर्थः | अघं पापं समाख्यातं मर्षणं तस्य नाशनम् | नै-ऋतीयं शिवेनोक्ता संज्ञया पापहारिणी | इत्युक्तत्वात् वादादारभ्य शिरोवसानावस्थितं प्. ६१) आत्म समवेतं पापमेकीकृत्य रेचकेणाहृत्या घोरमन्त्रेण भूमौ जले वा निक्षिप्य पुनः आचमेदिति | मृगेन्द्र पद्धति व्याख्याने तु जलं वज्र शिला प्रष्ठे क्षिपेत् तदघमर्षणं मित्यत्र जलक्षेपो नि-ऋत्याम् दिशिकर्तव्यमित्युक्तम् | एतेषु उक्तपक्षेषु एकत्र जलक्षेपः कर्तव्यः | अनन्तर करणीयमाह- तत इत्यादि-
SKततः अघमर्षण करणानन्तरं अमन्त्रकं मन्त्ररहितं समन्त्रकं मन्त्रसहितं चाचमनं कृत्वा पूर्ववत् सकली कृत्येति | पूर्ववत् सकलीकरण प्रकरणोक्तवत् पूर्वं सकलीकरणं कृतमपि पुनश्च सकलीकरणम् | यत्र यत्राचमनं क्रियते तत्र तत्रापि मंत्र सिध्यर्थं कर्तव्यम् | उक्तं च- यदा यदा समाचमेद्देहन्यासस्तदास्तदा | कुर्वीत करकायेषु मन्त्री मन्त्रार्थ सिद्धये || इति || प्. ६२) कवचेन कवचमन्त्रेण सूर्यमण्डल मध्यस्थमिति सूर्यमण्डलमध्ये सदाशिवं ध्यान प्रकारेण वक्ष्यमाण ध्यान प्रकारेणाऽश्रयोपाधिवशाद्रक्तरूपं ध्यात्वा अर्घ्यप्रदानाधिकं कुर्यात् | अथवा गायत्रीं शिवगायत्रीं तप्तकांचन वर्णाभामित्याद्युक्त प्रकारेण ध्यात्वा मूलेन वा गायत्र्या वा अर्घ्यत्रयं सूर्यमण्डलस्थाय सदाशिवाय दत्वा शक्तितः जपेत् | उक्तं च मृगेन्द्र पद्धत्याम्- ध्यात्वा सदाशिवं सूर्यबिम्बेमूलाणुनार्पयेत् | इति | सिद्धान्तशेखरे- आचम्य सकलीकृत्य रक्तपुष्पाक्षतादिभिः | प्रदद्यान् शिव सूर्याय मूलेनार्घ्य त्रयं जलैः || जपेत् त्रिणेत्र गायत्रीं प्रातः प्राग्वदनस्थितः | इति || प्. ६३) संहितां स्वाहांतं तर्प्येति- मन्त्राणां देवानां तर्पणविधौ स्वाहान्तस्यैव विधानात् | तथा चोक्तम् मृगेन्द्र पद्धत्याम्- पुनराचम्य मन्त्रांग(देवता)स्तर्पयेन्मन्त्र देवताः | नामभिस्सचतुर्थ्यन्तैः स्वाहान्तैः प्रणवादिभिः | दर्भयुक्त कराग्रेण मुनीन्कंठावलंबिना || उपवीतेन तीर्थेन कनिष्ठा मूलवर्तिना | नमोन्तैः पूर्ववन्मर्त्यान् भूतान्वै पर्वसंधिभिः || वषटीवौषड्युतैः मन्त्रैः सनकादीन्यनु क्रमात् | तर्जन्यंगुष्ठ मूलाभ्यां प्राचीनावीतवान् पित्रन् || इति | सर्वेभ्यो देवेभ्य स्वाहा इत्यादि- समुदायेन कृतस्यापि तत्फलसिद्धेः | यद्वा विस्तरेणेति- विस्तरेण समुदाय पक्षं विना विस्तरपक्षेण पद्धत्युक्तक्रेमण वा तर्पणानि कुर्यात् प्. ६४)
SKमूलमन्त्र प्रभृति मन्त्रानिति- तत्र विस्तारपक्षेपि मूलमन्त्र प्रमुख मन्त्रान् प्रथममंगुल्यग्रेण देवतीर्थेन संतर्प्य पश्चाद्देवादि तर्पणं कुर्यात् | अंगुल्यग्रस्य देवतीर्थमिति शास्त्रप्रसिद्धम् | उक्तं च सिद्धान्तशेखरे- दक्षपाणि तलस्थं स्यादाग्नेयं तीर्थमुत्तमम् | अग्रेणांगुलिना दैवं ब्राह्मेमंगुष्ठमूलतः || पैत्रं स्यात् तर्जनी मूले कनिष्ठा मूलसंस्थितम् | प्राजापत्यं ऋषीणां च समस्तांगुलि संधिकम् || वाम पाणितले सौम्यं भौमं करभमूलतः | तीर्थान्येतानि विदुषां निवसन्ति करान्तरम् || इति || अथोपवीतीति- पितृतर्पण करणानन्तरं उपवीति भूत्वा | गणपत्यंबिकादीनामित्यादि पदेन लक्ष्मी सरस्वत्यादयो गृह्यन्ते | प्. ६५) आदित्य मूर्तय इति- आदित्यः मूर्तिः शरीरं यस्य प्रासादं यथाशक्तिः जपेत् | जपकरणे स्वस्य यथा बलं तावन्मात्रमुक्त संख्यामेकं पक्षमाश्रित्य जपेत् | तदुक्तम्- श्रीमत्किरणे तावद्व्यावत् शतं पूर्णं स्वशक्त्या वा अथवा जपेत् इति | उक्त संध्याकाल भृशे इति | उक्तमातारकोपेता इत्यादि | उक्त कालातीते सति | सन्ध्याकाल त्रय परिभ्रंशे शिवैकादशिकां त्रिवारं जपेत् | प्रायश्चित्तकाण्ड प्रोक्तत्वात्- एककालभ्रंशे एकवारं जपेत् | अथ स्नानादि कर्म कृत्वा गृहं प्रत्यागच्छतः कृत्यमाह- ततोस्र पंजरमध्यगः इति- अस्त्र मन्त्रेण दशदिग्बन्धनरूपं विमानं भावयित्वा | तन्मध्यगो भूत्वो स्वगृहादिकं प्. ६६) व्रजेत् | तथोक्तम्- कामिके- विघ्नान्विरेच्यमार्गस्थानस्त्रात्मक विमानगः | व्रजेद्देवालयं वापि गृहमात्मीयमुत्तमम् || इति | पृथिव्यादि तत्वानीति अशुद्धानि पृथिव्यादि एकत्रिंशत् तत्वान्यथस्थितानित्रत्वा- शुद्धविद्यास्वरूपं पूजास्थानं भावयेदुक्तम् च- ततश्शुद्धि क्रमात् क्ष्मादीन्यथस्तत्वानि कल्पयेत् | विद्या तत्वाकं गेहं भुक्तिमुक्ति फलप्रदम् || इति |
SKशुद्धविद्या तत्वात्मकं पूजास्थानमिति | एतेनात्मार्थ विषये पूजाग्रहमपि शास्त्रोक्त प्रकारेण कर्तव्यमिति सूचितं तच्च गृहस्येशान दिक्भागे शिलामयं पक्वेष्टकामयं शुद्धदारुमयं मृण्मयं वा चतुरश्रमायताश्रं वृत्तं वा यजमानस्य मध्यंगुलि मध्यपर्वदैर्ध्यतत्र्यं शतदर्ध रूपोक्तममध्यमाधमभेदेन प्. ६७) भिन्नांगुलि चतुविंशत्याख्य हस्तमानेन स्थानसंकटादि ज्ञात्वा विभवानुगुणं त्रिपंच सप्तव त्रयोदश सप्तदश विंशत्येक विंशति द्वात्रिंशद्धस्तान्यतम प्रमाण एकद्वित्रिभौमं वा पूजागारं निर्माय तत्पञ्चधा विभज्य मध्यभागे शिलाबुधे वर्जयित्वा मृण्मयीमैष्टिकां वा चतुष्कोणां स्तंभरहितां वा षोडशागुलोस्थेधां अष्टांगुलोस्तेधां वा वेदिकां विरचच्य तदुपरि पश्चिमभागे एकताल विस्तारायामं पंचांगुलोत्सेधं गर्भगृहस्थानीय देशं तस्य पूर्वभागे ताद्रशाधाम विस्तारोत्सेधमर्धमण्टपस्थानीय देशं च कृत्वा तस्य पूर्वभागे पंचतालायामं चतुस्तालविस्तारं अष्टांगुलोत्सेधं बेरमण्टप स्थानीय देशं कल्पयेत् | तत्र गर्भगृह स्थानीय देशे सौवर्णं रजतं ताम्रं मृण्मयं वा चतुरश्रमायताश्रं वृत्तं वा प्. ६८) वेटकं स्थापयेत् | बेरमण्टप स्थानीयदेशे द्विहस्तायतमेकहस्तविस्तृतं द्वादशांगुलोच्छ्रायं कमलभूषितं वेटकं विन्यस्य तदुपरि रमणीयं तन्मानं पट्टादिवस्त्रं प्रासार्य तन्मध्ये गजदन्तादि निर्मितं पीठं विन्यस्य तदुपरि तदुपरि सुवर्णादि निर्मितं पद्मपीठं पश्चिम भागरचित प्रभामण्डल सहितं स्थाप्य तदुपरि च वस्त्रं प्रसारयेत् | पूजामण्टपं च प्रकीर्ण कुसुम धूपामोदचंदनचर्चित वितानमुक्तादामध्वजपताकदर्पण दीपादिभिरलं कुर्वीते इति | एवं विध पूजामंटाभावे शिवपूजास्थानमेव ताद्रसं पूजामण्टपं मनसा भावयेत् एवं विध पूजास्थानं प्रविश्य तत्रादौ करणीयमाह पूर्वास्यो भास्करमर्चयेदिति- पूर्वासः पूर्वाभिमुखस्सन् देवेन्द्रानलयोर्मध्ये रविं नित्यं प्रपूजयेत् | इति च |
SKप्. ६९) इन्द्रः पूर्वेऽमरावत्यां तेजोवत्यां हुताशनः | तयोर्मध्ये जगत्साक्षी भानुमत्यां दिवाकरः इति वचनात् च तस्मिन् स्थाने प्रपूजयेत् | तत्रापि ईशानश्चैव पर्जन्यो जयंतश्च महेन्द्रकः | आदित्यश्चैव सक्त्यश्चेत्यादि वास्तु पूजोक्तेः स्वपदे एव भास्करं स्वस्याभिमुखमर्चयेत् | नन्वहोशैवानामिदमयुक्तम् | सौरवैष्णव शैवानां भेदास्सिद्धास्ततो मताः | कालभैरव शाक्तानामपि मिश्रे फलं नही इति वचनात् | कर्मणा मनसात्वत्तो नान्यो गतिर्ममेति पवित्र पूजाविधान प्रकरण वक्ष्यमाणत्वाच्च | किं च पृथिव्याद्यष्टमूर्तीनामपि शिवमूर्तित्व विशेषादेकस्य मूर्तेः पूजने क्रियमाणे अन्येषामपि तथा कर्तव्यता स्यात् | सत्यमुच्यते- प्. ७०) सर्वापितान्परित्यज्य देवान् ब्रह्म पुरोगमान् | आराधयेद् विरूपाक्षमादित्यांतर वर्तिनम् || इति वचनात् | अथ नन्दि महाकालौ दण्डी पिंगल संज्ञकौ | शिवसूर्यश्शिवांगानि मंत्रा विद्येश्वराग्रहाः इति वचनात् | ईश्वरं भास्करं विद्यात् स्कन्दमंगारकं तथा | इत्यादि बोधायन वचनात् आधाराधेय प्रतिपत्यात्रापि शिव एव पूज्यत इति अदोषः | तर्हेकत्र सूर्यमूर्तावेव पूजा क्रियतां लिंगादावपि किमर्थं क्रियतेति चेत्- ṣaḍādhāra śivārcanāyāṃ āgameṣu niṣkaṣṭatvena vidhānāt | sūryapūjāyāḥ kāmanā viṣayatvena proktatvācca | uktaṃ ca- sūryopasthānamātmejyā liṃgāgni gurupustake | iti nityaṃ prakurvīta ṣaḍādhāraṃ śivārcanam || iti | p. 71) (ṣaṭsahasrikādāvuktatvāt) sūryabimba yajet śaṃbhuṃ kīrtimedhā vivṛddhaye | saubhāgyamardha saṃsiddhiṃ nityahomā pravartate || liṃgadevaṃ yajenmantrī manasāpi nākāmyate | iti | iyaṃ sūryapūjā kāmanā viṣayatvāt | mumukṣubhiraktavyeti kecit tanna | sakṛnnityaṃ prapūjayet iti | ṣaṭsahasikādāvuktatvāt | bubhukṣubhirmumukṣibhiśca kartavyeti guravaḥ | sūryamūlamantreṇa kṛta dehaśuddhiriti | tathā makuṭe- mūlamantraṃ ṣaḍaṃgaṃ ca khervakṣye maheśvara | praṇavaṃ vahnisaṃyuktaṃ ṣaḍākāraṃ tamakṣaram ||
SKस बिन्दुमूलं दीर्घं च पुनस्तत् शिरसायुतम् | व्योम पूर्व विसर्गान्तं सूर्यमन्त्रं नमोन्तकम् || सान्तं बिन्दु समायुक्तं हृदयं हृदयं न्यसेत् | प्. ७२) अर्काय शिरसे मूर्ध्नि भूर्भुवस्वश्शिखां न्यसेत् | ह्रूंकौरं कवचं न्यस्त्वा त्रिवेदी नेत्र मंत्रकम् || अग्निबीजं विसर्गान्तं सौरास्त्र फटी समायुतम् | कन्तबिन्दु समायुक्तमर्चयेत् शिवमव्ययम् || अबिन्दुमेकमुच्चार्य खषोल्कं सूर्यान्तमुच्चरन् | मन्त्रेणानेन गंधां च पुष्पदामपि दापयेत् || इति || तेन कृत देहशुद्धिः यस्य सः सूर्यमूलमन्त्रेण कृत प्राणायाम इत्यर्थः स्वतनुं सूर्यरूपं भावयेत् इति वक्ष्यमाण सूर्यध्यान प्रकारेण स्वशरीरं सूर्यरूपं भावयेत् | तथा सिद्धान्तशेखरे- कुर्यात् करांग विन्यासं सूर्यमूलांगशंबरैः | विधाय देह संशुद्धिं मूलशंबरभावतः || भावयेत् भानुरूपेण स्वात्मानं भास्करं परम् | प्. ७३) करन्यास काले हृदयमंगुष्ठे न्यस्य शिरश्शिखाकवचास्त्राणि कनिष्ठादि तर्जन्यां तं न्यसेदिति उत्तुंग शिवपद्धतौ उक्तम् | तस्मात् आचार्यैरपि तथैव प्रयोगः कृतः | एवं न्यासादिक मुक्त्वार्घ्य विधानमाह- पश्चादिति ताम्रपात्रे इति पूज्यमानस्य सूर्यस्य वस्त्रगंधादिकं यद्वर्णं तद्वर्णेनार्घ्य पात्रादिकमपि कर्तव्यमित्युक्तम् | ताम्रपात्रे रक्तपुष्पादि तोयेन अर्घ्यं कृत्वा इत्यनेन उत्तरत्र वक्ष्यमाणवत् अस्त्रशोधिते अर्घ्यपात्रे बिन्दुप्रसृता रक्तवर्णामृत रूपतोयाक्षतादिभिः अर्घ्यपात्रं आपूर्य मन्त्रार्चनमपि कर्तव्यम् | स्थण्डिले लिखिताष्टदल पद्मेति- स्थण्डिले गोमयादिना परिष्कृत भूम्यां- प्. ७४) वेदिः परिष्कृता भूमिस्समे स्थंडिल चत्वरेति अमरनिखंडौ प्रोक्तत्वात् | द्वारदक्षिण पार्श्वेति द्वारमंतर्मुखं विद्याद्वारपाला बहिर्मुखाः | इति वचनात् दक्षिणदिगेव दक्षिणपार्श्वः | तथा मृगेन्द्रपद्धति व्याख्यानेपि- आत्मनो दक्षिण वामशाखयोः दण्डी पिंगलौ पूजयेत् | इत्युक्तम् | विस्फुरमुद्रां दर्शयित्वेऽति | विस्फुरमुद्रालक्षणमस्पष्टपद बोधिन्या मुक्तम्-
SKअंगुष्टेन कनिष्ठादि क्रमेणांगुलि मूर्धसु | स्पर्शनं करयोरेषा विस्फुरा स्यात् तथा चयोः | ललाटा कृष्टेति- ललाटात् ललाट मध्यात् | आकृष्टमाकृतं स्फुरदरुणबिन्दुं प्राणवर्त्मनां जलिगतं ध्यात्वेत्यर्थः | तथा सिद्धान्तशेखरे- रक्तबीजपदं सूर्यं तेजोरूपं सुनिर्मलम् | प्. ७५) बिन्दुमध्याद्विनिर्गत्य पुष्पांजलि गतं स्मरेत् | इति | आवहनादि मुद्रालक्षणमुक्तम्- भोजदेवेन- हस्ताभ्यामंजलिं कृत्वा नामिका मूलयोरंगुष्टद्वयसंयोजनेनाऽवाहिनी | इयमेवाधोमुखी स्थापिनी | संलग्नमुष्ट्युच्छृतांगुष्ठकरौ संनिधानी | तावेव गर्भांगुष्ठौ निष्ठुरा | पद्माकारौ कृत्वा मध्ये अंगुष्ठौ कर्णिकाकारौ विन्यसेदिति पद्ममुद्रा प्रसारितांगुष्ठद्वयलग्न मध्यमांगुल्यग्रा बिंबमुद्रेति | मूलेकैकत्वमिति- अंगांगिनोरप्रक्भाव खषोल्किनेति | ॐ खं खषोल्काय सूर्याय नमः इति तप्रयोगः हृदादीनां धेनुमुद्रामिति | तथा सोमशंभौ- हृदादीनां धेनुमुद्रा गोविषाणं च नेत्रयोः | अस्त्रस्य त्रासनी मुद्रा योज्य गृहाणां च नमस्क्रिया | इति एतेषां लक्षणमप्युक्तं भोजदेवेन- प्. ७७) प्रकारोत्तरत्र शिवपूजान्ते निपुणतरमुपपादयिष्यामः | अनन्तरं चण्डपूजाप्रकारः | ततश्चैशान्यां दिशीत्यादि यद्वा | शिवपूजान्ते विसर्जयेदित्यत्र सूर्यपूजायाः पुष्पादिकं अपनीय पाद प्रक्षालनादिकं कृत्वा शिवार्चना कर्तव्यम् | अन्यथा शिवपूजान्ते चण्डनाथं विसर्जयेत् | एवं सूर्यपूजा विधिमभिधायाऽधुना शिवपूजामाह अथेति- सूर्यपूजानंतरं शिवपूजाकार्या स च बद्धमुष्टेर्दक्षिणहस्तस्य मध्यमा तर्जन्यो विस्फुरित प्रसारणेन गोविषाणा | बद्धमुष्ठेर्दक्षिणहस्तस्य मध्यमा तर्जन्योर्विस्फुरित प्रसारणेन गोविषाणार्ध परार्ध भेदेनाधिकारिभेदेन बाह्यांभ्यंतर भेदेन कालभेदेन पूजाभेदेन अनेकप्रकाराम् | तथा सिद्धान्तशेखरे- शिवार्चनं तद्विविधं परार्थ स्वार्थभेदतः | प्. ७८) ग्रामादौ स्थापिते लिंगे यद्वा स्वायंभुवादिके | परार्थ यजनं विद्यात् सर्वपाणि हितावहम् ||
SKस्वार्थं दीक्षोत्तरे काले गुरंदत्ते स्वलिंगके | यजनं स्वार्थसिद्धर्थं स्वार्थमेव मुदाहृतम् || परार्थ यजनं कुर्यात् आदि शैवो गुरूत्तमः | सर्वे स्वार्थं प्रकुर्वीरं दीक्षिता ब्राह्मणादयः || अदीक्षितश्चतुर्वेदी न स्पृशेन्नापिचार्चयेत् || तथा कामिकेप्युक्तम्- अथार्चनाविधिं वक्ष्ये भुक्ति मुक्ति फलप्रदम् | परार्थं स्वार्थमित्येवं द्विविधं तत्प्रकीर्तितम् || परार्थ यजनं- शिव विप्रैस्तु नित्यशः | अन्येषां स्वार्थ एव स्यात् परार्थे नाधिकारिता | शिवं सृष्टिं विनायेतु जायन्ते ब्रह्मणामुखात् || ते सामान्यानतेषां परार्थेज्याधिकारिता | यदि मोहेन राज्ञो राष्ट्रस्य तु नाशनं स्थितिः || प्. ७९) भृत्यर्थं ये शिवं विप्राः सामान्यास्त्वर्चयन्तिचेत् | षाण्मासात्पतनं यान्ति तस्मात् तान् परिवर्जयेत् || शिवदीक्षाभिषिक्तस्य शिव विप्रस्य धीमतः | शिवाज्ञावशतस्तस्य परार्थे ज्ञान दोषभाक् || इति | आदि शैव लक्षणमुक्तं वीरतन्त्रे- ईश्वर उवाच- अनादि शैवः प्रथमः आदिशैवो द्वितीयकः | महाशैवः त्रितीय स्यात् चतुर्थश्चानुशैवकः || पञ्चमोवान्तरश्शैवः षष्ठः प्रवर उच्यते | सप्तमश्चान्त्य शैवस्स्यात् तेषां भेदो निगद्यते || अनादिः शैवो विज्ञेयः सोहमेव न संशयः | शिवद्विजास्तु विप्रेन्द्रा आदि शैवाः प्रकीर्तिताः || कौशिक काश्पश्चैव भरद्वाजो त्रिरेव च | गौतमश्चेति पञ्चेते पंचवक्तेषु दीक्षिताः || प्. ८०) एतेषां ऋषिवर्याणां वंशे जाताश्शिव द्विजाः | महाशैवस्तथा विप्रा शिवदीक्षा समन्विताः || अदीक्षितश्चतुर्वेदी न स्पृशेन्नापि चार्चयेत् | भृत्यर्थं परमेशानं दीक्षा विरहिता जनाः || षाण्माव्यान्ति पातित्यं ते च देवलका स्मृताः | त्रीणि वर्षाणि भृत्यर्थं स्थिरलिंगे ह्यदीक्षितः | पूजयेत् यदि विप्रास्तु सवै देवलको भवेत् | इति | अन्येषां शैवानां लक्षणं तत्रैव आधार्यम् | तथा सुप्रभेदे- शिवसृष्टि समुत्भूताः ब्रह्मवक्त्र चतुष्टयात् | ये भूमौ ब्राह्मणा जाताः ते शिव ब्राह्मणा स्मृताः ||
SKशिवसृष्ट्यापिनाये तु जायंते केवलं मुखात् | सामान्या ब्राह्मणा प्राहुः दीक्षया प्रापयेत् शिवम् || ये शैवा निर्मिता येन शिवेन परमात्मना | प्. ८१) ते शैवा ब्रह्मवक्त्राच्च मर्त्यलोकं समागताः | काश्यपादि सुनामैश्च ऋषिरूपेश्च कीर्तिताः || इति | बाह्याभ्यन्तरभेदः सिद्धान्तशेखरोक्तः- यजनं द्विविधं प्रोक्तं बाह्यांभर भेद्यतः | द्वितयं तद्बुभुक्षूणां यतीनां मानसार्चनम् (भवेत्) || सर्वेषां वा बहिर्यागं तत्स्वरूपं निरूप्यते | इति || कालभेदोपि तत्रैव- अष्टयामेषूक्तमोत्तममुच्यते- प्रातरारभ्ययामेषु सप्तसूत्तम मध्यमम् | उत्तमाधमं इत्युक्तं षट्सु यामेषु पूजनम् || पंचधा मार्जनं ज्ञेयं मध्यमोक्तममागमे | प्रातमध्याह्न सायाह्ने निशीथे मध्य मध्यमम् || प्रातर्मध्यं दिने सायं यजनं मध्यमाधमम् | प्रातःकाले च रात्र्यादौ ह्ययजनं चाधमोत्तमम् || प्. ८२) कनिष्ठं मध्यमं ज्ञेयं प्रातःकाले शिवार्चनम् | यथासंभवकाले स्याद्यजनं ह्यधमाधमम् || इति | कालविभेदन नवधा ह्यजनं विभौ | पूजां षोडशध प्राहुः अन्ये कालविभेदतः | मूहूत्र द्वितयं यत्र कालस्तस्मिन् शिवं यजेत् | द्वात्रिंशत् कालभेदेन केचित् पूजां प्रचक्षते || कालस्तत्र मुहूर्तं स्यात् एवमुक्तं शिवागमे | संपद्राधिक्यतो ज्ञेया सर्वमेतत्परार्थके || इति | पूजाभेदोपि तत्रैव- पूजाभेदेन यजनं पंचधा परिकीर्तितम् | आराधार्चना पूजा यागार्हा चेति पंचधा || आराधनं तु दीपान्तं यतीनां मुक्तिदायकम् | अर्चनं स्याद्धविष्यान्तं बुभुक्षोर्मुक्तिदायकम् || पूजोत्सवां ना विज्ञेया ग्रामादौ सर्वसौख्यदा | प्. ८३) यागोनृत्तांतको ज्ञेयो राजराष्ट्र समृद्धिकृत् | विप्र भोजनपर्यन्तो स्यादर्हां सर्वशांतिदा || इति | अनन्तरकरणीयमाह | आचम्येत्यादिना- अत्र आचमनं पूर्वकृत सौर भावनानि वृत्यर्थं इति मन्तव्यम् | आचमनानन्तरं सकलीकरणमपि कर्तव्यमिति पूर्वमुक्तम् | यदा यदा समाचमेद्देहन्यासस्तदा तदा | इति |
SKअत्र द्वारादि चण्डान्ते समस्तदेवता साधारण्येनार्घ्यकरणमाह- सामान्यार्घ्यपात्रमित्यादिना सामान्यं समुदायकं अर्घ्यं तत्करणार्थं पात्रं भाजनं तत् | अस्त्रेण संशोध्य अस्त्रमन्त्रेण शुद्धिं कृत्वा | वौषडंत हृदयमन्त्रेण बिन्दुप्रसृतामृतमधेन जलेन तत्पात्रमापूर्य प्रणवेनास्त्रेण वा सप्तवारं संपूज्य प्. ८४) पुनरपि सप्तवारं तेनैवाभिमन्त्रा दिग्बन्धनावकुण्ठनामृतीकरणनि कुर्यात् || तदुक्तम्- सामान्यं द्वारपादीनामर्घ्यं चण्डार्चनान्तकम् | प्रणवेनाऽथवास्त्रेण सामान्यार्घ्याभिमन्त्रणम् | इति द्वारपूजा क्रममाह- द्वारमित्यादिना | अत्र भोगमोक्ष कामः पूर्वद्वारे द्वारद्वारपालानर्चयेत् | कीर्ति विजय सौभाग्यकामो दक्षिणद्वारे | केवलं मोक्षकामः पश्चिमद्वारे | उदक् द्वारे तु पूजनं न कर्तव्यमित्यागमात् | सामान्य जलेन द्वारमस्त्रेण संप्रोक्ष्य प्रथमं बहिर्चारपालानर्चयेत् | ऊर्ध्वोदुंबर दक्षिणभागेति | ऊर्ध्वोदुंबरो नाम द्वारस्यो भयपार्श्वस्थित शाखयोः ऊर्ध्वस्थित फलका द्वयमुच्यते | ऊर्ध्वोदुंबरस्य दक्षिणभागे दक्षिणदिशि | तथा मृगेन्द्र पद्धत्याम्- प्. ८५) ऊर्ध्वोदुंबर याम्यायां गणेशं कमलांगिरम् | स्वस्य दक्षिणशाखस्थं नंदिनं गंगया सह || महाकालं यमुनया वामशाखगतं यजेत् | इति | अग्रगणपत्यादि पूजनं अविघ्नाद्यर्थ सिध्यर्थं कार्यम् | यदुक्तं पौष्करादौ- अविघ्नार्थं तु यजनं गणेशस्य पुरा भवेत् | मन्त्रसिध्यै यजेद् वाणीं द्रव्यसिध्यै महाश्रियम् || नन्द्यादीनां तु द्वारपालकतया पूजा सिद्धा | रक्षामेषां विज्ञापयेदिति | विघ्ननिवारणं कार्यमिति द्वारपालान् प्रार्थयेत् | न्यस्तमूलेनेति न्यस्तं मूलमन्त्रं यस्मिन् तत् तेन दिव्यानिति दिवि भवाः दिव्याः आकाशस्थ इति यावत् | देहल्यामिति- देहली अयोदुंबरं तस्यां अस्त्रं वक्ष्यमाण ध्यानपुरस्सरं आवरण पूजा प्रकरणे प्. ८६) वक्ष्यमाण वदित्यर्थः | तदुक्तम्-
SKएतै पूज्या नम्ॐतैश्च हृदयाद्यैर्यथा क्रमम् | रूपसंस्थान भावैस्तु गंधपुष्पादिभिः क्रमात् || सामान्यार्घ्यं ततो दत्वा प्रार्थयेद्वारपान्निति | द्वारपादेव देवस्य द्वारं रक्षतयत्ततः || निवार्य विघ्नसंघातां इत्याज्ञा परमेश्वरी || दिव्यदृष्टि निपातेन दिव्यानुपरिवर्तिनः | ज्वलन्नाराच शस्त्रेण पुष्पं क्षिप्त्वांतरिक्षगान् || दक्ष पार्ष्णेस्त्रिभिर्घातैः भूतिमिष्ठां त्रिविधानिति | विघ्नानुस्तारयेन्मन्त्री यागमन्दिरमध्यगान् || देहलीमस्पृशन् किञ्चिद् वामशाखां समाश्रयन् | प्रविशेद् दक्षपातेन प्रासादाभ्यंतरं गुरुः || निवारणार्थं विघ्नानां न्यसेत् खड्गमुदुंबरे | संपूज्यात्मभुवं वास्तोष्पतये ब्रह्मणे नम | इति || प्. ८७) पूजनमेतेषां आसन दाना वाहन स्थापन संनिधानसंरोधन पाद्याचमनार्घ्य गंधपुष्पधूपदीपदानांते नैवेद्य ताम्बूलान्तं वा प्रत्येकं कर्तव्यम् | प्रत्येककरणाशक्तौ मध्ये एव सर्वेभ्यो द्वारपालेभ्यो नम इति गंधपुष्पादिभिः पूजयेत् | अयं ऊर्ध्वोदुंबरादिषु गणपत्यादि पूजाप्रकारो यथोक्त लक्षण शिवमन्दिरादि सद्भावे | आत्मशुद्धेः पूर्वं कर्तव्यं तदभावे पूजास्थानमेव तादृशं पूजामण्टपं मनसा भावयित्वा शिवपीठसमीपोविष्टः तत्रैव पेटके पश्चिमदेशे द्वारं संपूज्य देशिक इत्युक्त प्रकारेण द्वारपालार्चनमात्मशुद्धेः पूर्वं पश्चात् वा कुर्यात् | अथ शिव स्नानार्थं जलाद्याहरण प्रकारमाह- स्नपनार्थमित्यादि गड्डुकान् घटान् चुस्संस्कार निरीक्षण प्रोक्षणताडनाभ्युक्षणानि | निरीक्षणादीनां लक्षणमुक्तं शिवतन्त्ररहस्यसारे- प्. ८८) अंगुष्ठानामिकाभ्यां तु न्यस्तमूलेन चक्षुषा | द्रव्यस्यालोकनं येन तन्निरीक्षणमुच्यते || हुफडंतास्त्रमन्त्रेण प्रोक्षणं स्याप्तताकया | अभ्युक्षणमिति ख्यातं शास्त्रे द्रव्यस्य शुद्धये || मायेठेयर्वस्तुभिः पूजा कृता चेन्निष्फला भवेत् | निरीक्षणादि संशुद्धिं जातैद्रव्येश्शिवं यजेत् || दृक्क्रियेच्छात्मकैरर्क वह्नि सोम विलोचनैः | क्रमाच्छुष्कं तथा दग्ध ममृताप्लुति संयुतम् ||
SKशुध्यर्थं प्रोक्षितं शक्ति तेजताडितं ततः | अभ्युक्षण क्रिया जात गृह्येता भाव संयुतम् || शिवपूजार्हकं द्रव्यं शिवमन्त्राभिमन्त्रितम् | यथैवानल संपर्कात् काष्ठं तन्मयतां व्रजेत् || प्. ८९) तथा मन्त्रेण मायेयं द्रव्यं शक्तिस्वरूपकम् | इति | तोयवस्त्रं चेति चकारात् | गड्डुकानपि अस्त्रेण प्रक्षाल्य बिन्दुस्थान प्रसृतामृतरूपेण जलेन हृदयेन गायत्र्या वा वस्त्रविधान पूर्वकान् घनापूर्य यागार्थं पूजार्थं पुष्पादि सर्वद्रव्याणि आदिपदेन गंधाक्षतादि समस्तपूजाद्रव्याण्युच्यन्ते | तदुक्तं सोम शंभु पद्धत्याम्- निरीक्षणादिभिशास्त्रैः शुद्धानादाय गड्डुकान् | लब्ध्वानुज्ञां शिवां मौनी गंगादिकमनु व्रजेत् || पवित्रांग प्रजप्तेन वस्त्रपूतेन वारिणा | पूरयेदस्त्र पूतास्तान् गायत्र्या हृदयेन वा || सुगंधाक्ष पुष्पादि सर्वद्रव्य समुच्चयम् | संनिधीकृत्य पूजार्थं भूतशुद्धिं समाचरेत् || इति | देवदक्षिण भाग इत्यादिना पूजक प्रकारः देवस्याराध्यमानस्य प्. ९०) शिवस्य दक्षिणदिग्भागे इतरभागावस्थितस्य देवानुकूल्येन उत्तरस्यानुपपत्तेः | बृस्याद्यासन इति- वृतिनिमित्तं दर्भादिना कृतस्यासनस्य ब्रसीति नाम व्रतीनामासनं ब्रसीत्यमरः | आदिपदेन कृष्णाजिनादयो गृह्यन्ते | उदङ्मुखं उत्तराभिमुखस्सन् सुखासनमिति मृदुस्पर्शे कृष्णाजिनादौ | यद्वा पद्म स्वस्तिकादिना योगशास्त्र विहितेन स्वस्य यथा सुखस्थातु शक्यन्ते तथा स्थित्वा | तथा कामिके- कुशक सप्तासने ब्रस्यामथ कृष्ण मृगाजिने | यथेष्टमासनं बध्वा ऋजुकायोक्तराननः || इति | अस्त्र प्राकारेति- अस्त्र मन्त्र एव प्राकारः आवरणं कवचमन्त्र एवावकुण्ठनम् | पटकुटीरादिवत् | आवेष्टनं ताभ्यां यागगृहं पूजास्थलं प्. ९१) संरक्ष्य विघ्नेभ्यो रक्षां कृत्वा इत्यर्थः | अथ पञ्चशुद्धक्रमं वक्तुं- आत्मशुद्धि क्रिया पूर्वा स्थानशुद्धि द्वितीयका | त्रितीया द्रव्य शुद्धि स्यात् चतुर्थ मन्त्रशोधनम् || पञ्चमो लिंगशुद्धिश्च कथ्यन्ते पाचशुद्धयः |
SKइत्युक्त्वादादौ आत्मशुद्धि प्रकारमाह- शिवीकरणमिति शिवीकरणं शिवत्वकरणं शिवत्वं नाम सर्वज्ञत्व सर्वकर्तृत्वमुच्यते | तेन च नित्येनावृतेन योगात् परमेश्वरो शिवोभिधीयते | तच्च शिवत्वमात्मनामनादिनाऽशुद्धिपर्यायेण मलेनावृतत्वात् न सर्वविषयं प्रकाशते | तन्निवृत्यर्थं आत्मनः देहशुद्धिपुरस्सरं शिवत्वकरणं कार्यम् | तथा सर्वज्ञानोत्तरे- यत्कृत्वानुनरस्सम्यक् शिवो भवति नान्यथा | प्. ९२) देहं संशोधयेत् पूर्वं धारणाभिस्तु पञ्चभिः | शुद्धदेहस्ततो भूत्वा शिवमन्त्राभि योजयेत् || इति | सामन्येन स्नानादि नाशोधितमपि देहं पूर्वं विशेषतः वक्ष्यमाणाभिः पार्थिवादिभिः धारणादिभिस्संशोध्य पश्चात् शिवीकरणं कुर्यात् | नन्वेतदनुपपन्नं- दीक्षामेव तच्छुद्धेः कृतत्वात् | तत्सत्यम् दीक्षायां संशुद्धमपि देहं प्रतिदिनं भूतशोधनं कृत्वा मन्त्रमयं कार्यम् | तथा शिवतन्त्ररहस्यसारे- देहस्थानि तु भूतानि शोध्यानित्युर्दिने दिने | निश्शेषं दग्धवंशस्य भुक्तभोगस्य चात्मनः || निर्दग्ध संचितागामी कर्मणो निर्मलात्मनः | मातापित्र मलोद्भूते देहे स्थातुं न शक्यते || तस्मान् मन्त्रमयं मयः कार्यं क्रियते प्रतिवासरम् || इति || प्. ९३) किञ्च समधिनां तावत् सर्वमन्त्र प्रसाध्यानां या स्थिता व्यक्ति शक्तयः | विघ्नरूपाभिरोधिन्यस्तासां दाह इहेष्यते | दाहश्चाप्रसवस्तासां निरोधो वा तदा स्मृत इति | निर्वाण दीक्षितानां तु दीक्षायामक्षपितस्य प्रारब्धकायस्य कर्मणः प्रत्यहमुपभोगेन क्षीयमाणस्यापि वसनायास्संभवात् | तस्यानुरोधेन स्थितस्य भोकृत्वविषया सक्ति जनकस्य मलस्य तत्साधन शरीरेन्द्रिय जनकस्य मायां शस्य प्रत्यहमंशाशिकया पंचधः क्रियते इत्युक्तम् | सूक्ष्मस्वयंभुववृत्तौ- इत्थं प्रयोजनमुक्त्वा देहशुद्धि करणार्थं आदौ करंन्यास विधिमाह- तत्रेत्यादिना- तत्र देह शुध्युपक्रम समये पूर्ववत् संध्या प्रकणोक्तवत् प्. ९४) करं न्यासः करयोर्मन्त्रन्यासं विधाय | तथा कामिके-
SKचन्दनालिप्त हस्तौ तु शोद्धयेदस्त्र मन्त्रतः | परस्परौ सुसंशोध्य स्थलिकौ हस्त प्रष्ठकौ || अमृतीकृत्य मूलेन वौषडंतेन मन्त्रतः | विद्या शरीरतां ध्यात्वा तयोश्शक्त्यंतमुत्तमम् || मूलेन शिवमावाह्य ब्रह्माण्यंगानि विन्यसेत् | एवं शिवी कृतौ हस्तौ समर्थौ सर्वकर्मसु || सकलीकरणे संध्याकाले चाचमने तथा | करन्यासो विधातव्यः तद्विशेष विधावपि || इति | अथ सुषुम्नादि स्वरूप अपरिज्ञाने देहशुध्यर्थं क्रियमाणस्य प्राणायामादेः कर्तुमशक्यत्वात् तत् स्वरूपमाह पादांगुष्ठेत्यादिना- पादयोरंगुष्ठौ पादांगुष्ठौ तयोः द्वयादारभ्य- प्. ९५) यावद्वस्ति मूलाधारस्तावत् पर्यन्तं द्विरूपां ऊर्ध्वं तदूर्ध्वं ब्रह्मबिलान्तं एकरूपां हृत्कंठादिष्वित्यादि पदेन तालुभ्रूमध्य ब्रह्मरंध्राणि गृह्यन्ते | इडापिंगलाभ्यां मूलाधारस्थित कंदादारभ्यवामदक्षिणभागावस्थिताभ्यां संयुक्तां सुषिररूपां अन्तस्थित रन्ध्रयुक्तां एवं भूतां सुषुम्नानाडीं विभाव्य तस्यां सुषुम्नायांतः बहिश्च | परमव्योमरूपिणीं- इति- परमं व्योम परमाकाशं कुंडलिन्याख्यं रूपं यस्यास्तां तादृशीं तद्वारात्मनः सूक्ष्मदेहस्तस्याधिष्ठात्रीम् | ततः प्रवर्तिते नामृतेनामृतवर्षयित्रीं शिवशक्तिं च ध्यायेत् | तथा चोक्तम्- द्वयं पादद्वये रन्ध्रं तनावेकं हृदादिषु | पंचग्रन्थि समायुक्तं सुषुम्ना नाडि मध्यगम् || प्. ९६) तन्मध्ये च बहिश्शक्तिं सुधाबिन्दु परिस्रुतिम् | क्रियाज्ञान स्वरूपान्तां विन्यसेद्व्योमरूपिणीम् || इति |
SKतन्मध्ये हूंकारं ज्वलंतं संचिन्त्येति | तस्याः रंध्रमध्यस्यायाः शक्तेः मध्ये हूमिति शिखा बीजं संचिन्त्य अनन्तरं हृदयस्थानगतपद्मविकसादि कारणार्थमाह- पुरककुंभक कृत्वेति- प्रथमतः द्वादश मात्रा कालकल्पित पूरकं तावत् कालकल्पित कुंभकं च कृत्वा | अनन्तरं पूर्वोक्त हूंकारे चित्तं निवेश्य वायुमूर्ध्वं द्वादशान्त पर्यन्तं विरेचयन् | ऊर्ध्वं प्रवर्तयन् वायोरूर्ध्व प्रवर्तनकाले हुंफटिति शिखा बीज सहितेन शिवास्त्रेण संततोच्चारणानुस्युतोच्चारणेन पद्ममुकुलानि हृदयानि स्थानेषु अधोमुखतयावस्थितान् | प्. ९७) कमल कुट्मलानूर्ध्वोक्तं भितोर्ध्वमुखान् | विकसितां च कृत्वा प्रतिनिवृत्य दक्षिण नाड्या विरेचयेत् | ऊर्ध्वगतं वायुं निवृर्त्य पुरातन स्थाने हूंकारं निधाय पिंगलधा रेचयेत् | तथा सिद्धान्तशेखरे- इडा नाड्या समाकृष्य पूरकेणाग्नि सप्रभम् | हूंकारं रंध्रमध्येस्मिन् कुंभकेन च धारयेत् || हूंकारेण फडंत्ॐ रेचकेन च भेदयेत् | ग्रंथीन् हृत्कण्ठतालु भ्रूब्रह्मरंध्रस्थितानपि || तस्मान्निवृत्य हूंकारं विन्यसेन्नाभिमंडले || इति | समानतंत्रे- हुं फडंतेन पटलं भित्वा चोर्ध्वं विशेत् ततः | इति | श्रीमत्त्रयोदशशतिकेपि शिवाय तु समाख्यातां षष्ठं बीज स्वरान्वितम् | प्. ९८) भवेत् सायेजनीयातः केवला पार्वती सुत | शिवतत्वेन संयुक्ता युक्ता वासा प्रकीर्तिता || प्रेरिका भवते वत्स अस्त्रस्य तु महात्मन | इति | अथ देहशुद्धिं कर्तुं आत्मयोजना प्रकारमाह- पुनः पूरकवायुनेत्यादिना- अनन्तरमपि पूरकवयुना वाम नाड्याहृतवायुना संहृत चैतन्यं चेतना सुखदुख लक्षणाया शक्तिः तस्या इदमिति चैतन्यमात्मा संहृतमुपसंहृत शरीरव्यापकं चैतन्यं संकुचितात्मानमित्यर्थः |
SKहृत्कमलाश्रितं हृदयकमलसंस्थं स्फुरत्तारकाकारं अति प्रकाशनक्षत्र समानं सांतबीजमयं बिन्दुयुक्त हकारवाच्यं व्यापकस्यात्मनः ग्रहणा संभवात् | वाचक द्वारेण जीवं जीवनहेतुत्वात् जन्मशब्द वाच्येन पुर्यष्टकाख्येन प्. ९९) उपाधिनावच्छिन्नं हृदय संपुटितं हृदय मन्त्रेण पुर्यष्टक देहादाहृत्य संपुटीकृत्य बीजविग्रहं बीजमेव सान्तात्मकं विग्रहो रूपं यस्य तं पुरुषमात्मानमेकाकिनं तेनापि सूक्ष्म शरीरेणमुच्यमानम् | अत एव निरामयं निर्दोषं हूंकार शिखांतस्थं हूंकारस्य नाभिदेशस्थस्य शिखा बीजस्य उपरिविन्यस्य तेनापि संपुटितं कृत्वा सूक्ष्मबिन्दु भूतं अन्त्यन्त सूक्ष्मोच्चारलयक्रमेण परमकारण बिन्दुस्वरूपं ध्यात्वा कुंभकं कृत्वा | वायुमूर्ध्वं प्रवर्तयन् ऊर्ध्वं विरेचयन् संहारमुद्रयादायाऽहृत्य | अत्र मुद्रालक्षणं उक्तम्- prasārya dakṣiṇaṃ hastaṃ saṃharedaṃgulīrathaḥ | kaniṣṭhādi krameṇeyaṃ mudrā saṃhārikā matā || iti | p. 100) nanu ātmano vyāpakatvena gamanā saṃbhavāt | puryaṣṭaka dvāreṇātra gamanamabhyupagamyate | tadrahitasya kathamūrdhvaṃ nayanaṃ yujyate || yadvā- puryaṣṭaka sahitasyetyucyate | tadā puryaṣṭaka dehasya viśodhyatvāt | ekākinaṃ nirāmayaṃ dhyātvetyuktatvācca ucyate | bīja vigrahamityutvācca bindukārya nādaśaktyadhiṣṭhitastamayonīya tenādasya hi puryaṣṭakavirahepyapi avinā bhāvaḥ | yadāhuḥ- svarūpa jyotirevāṃtaḥ sūkṣmā vā ganapāyinī | puruṣe śakale tāmāharamṛtāhvayām | iti || brahmādikāraṇatyāga krameṇa hṛtkaṇṭhatālu bhrūmadhyabrahmarandhra sthāneṣu sthita brahmācyuta rudreśvara sadāśivākhya kāraṇe vā ca kākārādīn saṃtyajen | p. 101) ekenodghātena ekodyoga kṛtenordhva vātena ūrdhvavāhaneti yāvat | taduktam- संनिरोध कृते सम्यगूर्ध्वं वायुं प्रवर्तते | सोद्घातेति विख्याता स्वेच्छया तु कनीयसा || इति |
SKभोग्य कर्मोपभोगार्थं वर्तमान देहे भाग्यत्वेन दीक्षायामक्षपितस्य कर्मणो भोगार्थं पुनरपि आगमनाय न तु स्वेच्छोत्क्रांति वदपुनरावर्तय इति भावः | ननु इत्थं भोग्यकर्मणि विद्यमाने शरीरस्य शुद्धिर्न स्यात् | यतः कर्मकारणं शरीरं कर्मतश्च शरीराणि विविधानि शरीराणामित्युक्तत्वात् | अथवा यदि शरीरस्य शुद्धिं मन्यसे तदा भोग्य कर्मणोपि | नाशस्यात् | यस्मादत्र भूतशोधनेन देहदाह उच्यते | दहेद्योगग्निनादेहमापादतलमस्तकमिति वचनात् | प्. १०२) सत्यं तदुच्यते- अत्र शरीर दाहः कर्मदाहो वायः योगाग्निना प्रोक्तः | नव्यक्तेः किन्तु कर्मणां इत्युक्तत्वात् | द्वादशान्ते उन्मन्यन्ते शिवे निष्कल स्वरूपे संयोजयेत् | संयोजनं नाम शाक्त्यातु नीयते जीवमिति उक्तत्वात् | तत्त्यागे तु मन्त्र बीजवृत्या बिन्दु भूतस्सन्नाधष्ठात्र्या शिवशक्त्या सह शिवपदे प्रवेशमात्मनोनु संदध्यात् | ततस्तत्र प्रवेशो भवति | तथा चोक्तं सर्वज्ञानोत्तरे- पूरकेणोपसंहृत्य हृदयेन तु मन्त्रवित् | शान्तबीजमयं जीवं न्यसेत् हुंकारमूर्धनि || हूंकारस्य शिखातस्थं पुरुषं बीजविग्रहम् | ध्यात्वा त्वेकाकिनं सूक्ष्मं बिन्दु भूतं निरामयम् || प्. १०३) ततः संयोजयेद् योगी शिवे परमकारणे | शिवातीतो सदेशांते शुद्धस्फटिक निर्मले || एकोनोद्घात मात्रेण इति | अत्र द्वादशांतसंयोजनं | संध्या ध्यानवत् अधिकारि भेदेनेति मन्तव्यम् | यतः हृदयादि स्थानेष्वपि प्रोक्तत्वात् | तदुक्तं श्रीमत्किरणे- तत्संग्रह्यात्मनात्मानं रेचनाद्बिन्दु मध्यगम् | कृत्वा कायं दहेत् पश्चात् - इति | क्रियाकाण्डक्रमावल्यामपि- भोग्यकर्मोप भोगार्थं विधानज्ञो हृदंबुजे | पाणिकच्छनिकायां वा द्वादशांते वदेथवा || इति | तट्टीकायां दुर्बोधवद बोधिन्यां द्वादशांत निवेशनं निर्वाण दीक्षितानामेवेति ख्यातम् | अथ आत्मयोजनानन्तरं सूक्ष्मस्थूल भेदेन प्. १०४)
SKदेहस्य द्वैविध्यादादौ सूक्ष्मशुद्धिमाह एवमित्यादिना- एवं पूर्वोक्त प्रकारेण बीज वृत्या मन्त्रबीज शिवे लीनः व्याप्ति रूपेण तत्तुल्यतांगतः यच्छ्रूयते लयस्तु तुल्ययोगितेति | प्रातिलोम्येन संहार क्रमेण गंधे प्रथ्वीं रसे जलमित्यादिना वक्ष्यमाण प्रकारेण तत्वानि प्रथिव्यादीनि षट्त्रिंशत्तत्वानि तत्वमस्तकस्थ शिवतत्व भुवनमुच्यते | तावत् पर्यन्तं सूक्ष्मदेह शुध्यर्थं लयं नयेत् | शोधयेत् उक्तं च- बीजवृत्या शिवे लीनस्तत्रस्थो मनसा तनौ | अवन्यादीनि तत्वानि प्रतिलोमं स्वहेतुषु || शिवतत्वावधी यावत् लयं नीत्वा विशोधयेत् | इति | पक्षान्तरमाह यद्वेति- प्. १०५) प्रासादोच्चारेणावाहन प्रकरण वक्ष्यमाणवत् | मूलमन्त्रोच्चारणं कृत्वा हृदयादि पद्मेषु हृदयादि पद्मस्थित ब्रह्मादि कारणेशेषु शब्दादित्यागाद्वा | सूक्ष्मदेहशुद्धिं कुर्यात् शब्दादिरित्यादि पदेन स्पर्शरूपरसगंध मनोहंकार बुद्धयो गृह्यन्ते | शब्दस्पर्शश्च रूपश्च रसोगंधश्च पंचमः | मनोबुद्धिरहंकारः पुर्यष्टकमुदाहृतम् | इति कालोत्तरे प्रोक्तत्वात् | ननु पुर्यष्टकं नाम प्रतिपुरुष नियत स्वर्गादाकल्पं मोक्षान्तं वा स्थितः प्रथिव्यादि कलांतस्त्रिंशत्तत्वात्मको साधारस्सूक्ष्मदेह उच्यते | कथं शब्दादीनां पुर्यष्टकमिति चेत् तद्व्याख्याने तत्र भवता राम कण्ठेन त्रिंशत्तत्व वाचक तया व्याख्यातं भूतं | मात्रशुद्धींद्रियान्तकरणसज्ञैः तत्कारणेन गुणेन तदा पूरकेण पृथक्कलादिपंचकंचुकात्मना चाष्टवर्गेणारब्धत्वात् इति | प्. १०६) अतः तच्छुध्यर्थं ब्रह्मादिषु समर्पयेत् | तदुक्तम्- शब्दस्पर्शौ ब्रह्मणि च श्रीवत्सांकेस्सुत्यजेत् | रूपगंधौत्यजेद्रुद्रे धीगर्वावीश्वरेत्यजेत् | सदाशिवमनो बिन्दुं पुर्यष्टक विशुद्धये इति || कथं स्थूलदेह शुद्धये तदारंभकाणि भूतानि शोधयेत् इत्याह- तत इत्यादिना-
SKततः सूक्ष्मदेह शुध्यनन्तरं स्थूलदेहं भौतिकदेहं शोधयेत् | अत्र च स्थूलसूक्ष्मदेहस्थानां तत्वानां विषानिवृत्यर्थं गरुड भावनावत् बंधकत्व निवृत्यर्थं विलयभाव इव शुद्धिं | न तु साक्षादुपसंहारः पार्थिवं पृथिवी संबन्धि मण्डलं पीतवर्णं कठिनं (वज्र)कनेस्वभावं वज्रलांचितं प्. १०७) माहेंद्र मण्डलत्वात् वज्रालाञ्चितं युधचिह्नितम् | तथा सर्वज्ञानोत्तरे- चतुरश्रं समापीतं वज्रांकं कठिनं गुरुः | माहेन्द्रमण्डलं योगी मूर्ध्न आरभ्य चिन्तयेत् || इति | ननु एकदेश वर्तिनः प्रथिव्यादि तत्वस्य कथं पादादारभ्य मूर्धान्तं विचिन्त्येति चेत् उच्यते | निवृत्यादि कलाभिरधिष्ठि तत्वादुक्तं अत्र अयमभिप्रायः | अत्र वाग्शब्दरूपा महामाया शुद्धाध्व वर्तिनां भोगप्रदत्वेनऽवस्थितापि मायीयेप्य शुद्धे ध्वनि नादात्मनावस्थितेत्युक्तमागमेषु एवं हि नित्यार्चनादौ बाह्यशोधकत्वेन देहारंभकाणि प्रथिव्यादि पंचभूत तत्वानि | तदीयाः कलाः विशेषतो अधिष्ठंत्या अधिष्ठेयनात्मा निवृत्यादि कला एव अत्र पृथिव्यादि शब्देनोच्यन्ते | प्. १०८) तथोक्तं श्रीमद्विशति कालोत्तरे- निवृत्तिः पृथिवी ज्ञेयां प्रतिष्ठाऽप उच्यते | विद्या तेजोमयी प्रोक्ता वायुश्शान्तिः प्रकीर्तिता || शान्त्यतीता परं व्योम तत्परं शान्तमव्ययमिति | पादादारभ्य मूर्ध्नान्तं इति एतदाप्य मण्डलादिष्वपि समानं तेषामपि शरीरव्याप्तित्वात् | उद्घात पंचकेनेति- संनिरोध कृतस्सम्यगूर्ध्वं वायुं प्रवर्तते | उद्घात इति विख्यात स्वेच्छया तु कनीयस इति वचनात् | मात्रा द्वादशकमनतिक्रम्य पूरककुंभकं कृत्वा मनसाह्वामिति ध्यात्वा उच्चारणं वा कृत्वा द्वादशान्तं नीत्वा निवृत्य रेचयेत् | एवं उद्घातानां पंचकेन प्रथिव्याः पंचगुणनाशाय पञ्चोद्घाताः प्रोक्ताः | अन्येषां तु प्. १०९)
SKस्व स्वगुणनाशाय स्वस्वगुण संख्याताः उद्घाताः क्रमेण ज्ञातव्याः | पृथिवीं स्वविरुद्धवायुनाभि पूतामितिक्षिति पवनयोः जलवह्न्योश्च परस्परं विरुद्धत्वात् परस्पराभिभूतं चिन्तयेत् | तदुक्तं श्रीमन्मृगेन्द्रे- वारि वायु शिखिक्षिति | वार्यग्नि भूमि पवनौ वारिक्षे चानिलानलौ | मध्यस्थारातिमित्राणि चतुष्के युग्म युग्मशः || इति तदा कारामिति- कदि स्वभावं विहाय शत्रु भूत वाय्वाद्याकारं भावयेत् (चिन्तयेत्) | आकौ शन्तु सर्वेषामपि विरुद्धत्वात् | अन्यथा शोध्यमित्याह नभोमण्डलमिति व्योमाकारं लौकिकानां व्योमत्वेन प्रसिद्धावकाशाकारममूर्तत्वात् शून्यं बिन्दुशक्त्या विभूषितमिति कुटिला शक्त्यधिष्ठितं- प्. ११०) परमाकाशाभिभूतमिति अपराकाशं ग्रहनक्षत्रादि युक्तं तद्रहितं परमाकाशमिति आकाशस्य द्वैविध्यमुक्तम् आगमेषु | तथा रत्नत्रये- किंचानिशाधिकं प्राहुः तमंबरमनश्वरम् | शिवनाम समैश्वर्य भाजां भोगाधिकारयोः || ज्योतिर्गुणानामाकाश शिव भूतादि कारणम् | इति | निश्वासकारिकायामपि- निर्गुणं सांजनातीतं ग्रहनक्षत्र वर्जितम् | शुद्धस्फटिक संकाशं परं व्योम विचिन्तयेत् || इति | तस्मात् भौतिकाकौशं अनित्यत्वादि गुणं विहाय नित्यत्वादि गुणयुक्तं महाकाश स्वरूपं चिन्तयेत् | अनन्तरकरणीयमाह ततो अस्त्रेणेति- ततः प्रथिव्यादि भूतगत गंधाधिगुण क्षपणानन्तरं अस्त्रेण हुंफडंतास्त्रमन्त्रेण प्. १११) पादांगुष्ठोद्धितेन दक्षिण पादांगुष्ठ समुद्गतेनाग्निना शिवशक्त्यधिष्ठित कालाग्निनाऽरब्ध शरीरं गुणक्षय | वशात् क्षीण शक्तिकं भूतसमुदायात्मकं बाह्यशरीरमुच्यते | तद्गतदोषं दुग्धं भावयित्वा तद्भस्म च शाक्ते नवायुनापनीय ततो बद्ध शून्यमित्यादिना वक्ष्यमाण प्रकारेण आप्लावनं कुर्यात् | अथ स्थूलदेहशुद्धेः एव प्रकारान्तरमाह यद्वेति-
SKयद्वा पूर्वोक्त प्रकारमकृत्वा वा स्थूल शरीरं वटवृक्षाकारं संचिन्त्य शोधयेत् | स्वदेहं बाह्यशरीरं पृथिव्यादि पंचभूत बीजं पृथिव्यादि पञ्चभूतान्येव यस्य तत् | ब्रह्मणस्सृष्टिकर्तृत्वात् विष्णोः पालनकर्तृत्वात् ताभ्यां उद्भिन्नं उद्भूतं अंकुरं यस्य तत् रागद्वेषौ प्. ११२) इच्छानिच्छ धर्माऽधर्मौ प्रसिद्धौ मोहः मलविशेषः | मोहोमदश्च रागश्च विषाद स्थाप एव च | शोषो वैचित्र्यमित्येवं सप्तैते सहला मलाः इत्युक्तत्वात् | एते रागादयो मूलानि यस्य तत् | ततोक्तं- विद्या विद्याधिपतयो मन्त्रा मन्त्रेश्वराः तैः परिपालितं कलादिरिति | आदि पदेन विद्याराग कालनियत्याख्य तत्वानि उच्यन्ते तान्येव सारः स्थिरांशो यस्य तत् | तथोक्तं- mahāśākhālvaśākhāḥ yasya | tathoktaṃ- viṣayālocanāni cakṣurādiṃdriya vyāpārāṇi tānyeva vallavānikisalayāni yasya tat | tathoktaṃ- bhāvāḥ dharmādayoṣṭau buddhiguṇāsteṣāṃ prapaṃcāni paṃcāyat pratyayāni p. 113) kusumāni taiḥ saṃyuktaṃ buddheradhyavasiyoyaṃ ghaṭaḥ kathaṃ paṭa iti niścala rūpo vyāpāraḥ saṃkalpaḥ manasānu saṃdhānarūpo vyāpāraḥ tadeva phalaṃ yasya tat tathoktaṃ | puruṣaḥ ātmā saḥ eva vihaṃgaḥ śarīrasya vṛkṣarūpeṇa proktatvāt | tatphala bhoktṛtayā'tmanaḥ pakṣiśabdena vācyatvaṃ upacārāduktaṃ bhoktṛtvarasaṃ bhogyavastu rasaṃ tena ca saṃyuktaṃ ūrdhvagata mūlaṃ adhogata śākhāyuktaṃ evaṃ bhūtaṃ vaṭatarurūpaṃ nyagrodha vṛkṣākāraṃ bhāvayitvā anantaraṃ pūraka pūrvārtheneti | pūrakasya dvādaśa mātrākāla rūpasyā'rthaṃ ṣaṇmātrā kālaḥ tāvatā kālena nivṛttikalā bījoccāra paṃcakena pṛthivyāḥ pañcaguṇanāśāya hlāmiti paṃcavāramuccārya patrapuṣpa phalarahitaṃ stabdhaṃ vibhāvya patrāgha yogānvitamiti siddhāntasārāvalyāṃ uktatvāt | p. 114)
SKप्रथमतः पत्रादिरहितं स्थाण्वाकारं विचिन्त्य पश्चात् पूरकस्य परार्धेन षण्मात्रा कालेन ह्वीमिति प्रतिष्ठाकलाबीजं चतुष्टय वारमुच्चार्य स्निग्धेर्मनोज्ञैः पत्रपुष्प फलैस्सहितं भावयेत् | पश्चात् कुंभकं कृत्वा प्रथमा परार्ध्याभ्यां मात्राकाल परिमित पूर्वार्थं तावत्काल परिमित परार्धाभ्या ह्रूम् | इति विद्या कलाबीजं त्रिवारमुच्चार्य शुष्कं दग्धं विचिन्त्य रेचक पूर्वार्थेन अत्रापि (द्वादश) षण्मात्रा परिमित कालो मन्तव्यः | ह्यैमिति शान्ति कलाबीजं द्विवारमुच्चार्य दग्धवृक्षं भस्मीभूतं दिक्षु प्रलीनं च विभाव्य रेचकस्य परार्ध कालेन हौमिति शान्त्यतीत कलाबीजमेकवारमुच्चार्य शुद्धस्फटिकाकारं प्. ११५) शरीरं चिन्तयेत् | तथा सिद्धान्तसारावल्याम्- स्वं देहं भूतबीजं हरिविधिरचितं स्वांकुरं कर्ममूलं भव्यं कालादिसारं विषयदलगतंखादि शाखोपशाखम् | भावाशेष प्रसूनं व्यवहित सुफलं पुंविहंगोपभोग्यं न्यग्रोधं चोर्ध्वमूलं विषयरसमवाक् शाखिनं भावयेच्च || इति | तथा कालोत्तरेप्युक्तम्- क्षेत्रमाया माणवबीजं धर्माधर्म प्रभावपि | मोहमूलं कलादीनि सारो निर्धूष रागवत् || जीवः पुरुष इत्यादि प्रवृत्यादि महातरुः | इन्द्रियाण्येव शाखादि विषयाः पल्लवाः मताः || तथैव तच्च धर्मादि भावसंध प्रसूनकम् | ऊर्ध्वमूलमधश्शाखं सुख दुख फलद्वयम् || इत्येवं चिन्तयेन्मंत्री स्वदेहं वटवृक्षवत् | पूरकार्येण पूर्वेण पार्थिव्या कलयेत्पुरा || प्. ११६) पत्र पुष्पफलोपेतं स्तब्धं तं भव पादपम् | अपरार्धेन वारुण्या पत्र पुष्प फलान्वितम् || आग्नेय्या कुंभके नैव शुष्कं दग्धं च चिन्तयेत् | रेचकेणाऽथ वायव्या भस्मीभूतं दिशो दश || प्रलीनमन्यथा शुद्धं निर्मलं व्योम भावयेत् | भूरादि गुण संख्याभिः मंत्रान्येषामुदीरयेदिति || तथा कामिके- ऊर्ध्वमूलमधश्शाखं कल्प्य संसार पादपम् | पूरकार्थेन पार्थिव्य हेयो पादेय वस्तुधीः ||
SKआप्यायि तुन्तु वारिण्या पूरकाऽपरभागतः | पत्रपुष्पफलोपेतं स्निग्धं वैराग्य शस्त्रतः || चेदयित्वा तथाग्नेर्या कुंभकेन विशोष्य च | ज्ञानानलेन निर्दग्धं पादांगुष्ठादि कान्तकम् || प्. ११७) रेचकेनाऽथ वायव्या भस्मीभूतं दिशो दश | प्रलीनमन्यथा शुद्धिः निर्मलं व्योम भावयेत् || एवमुत्सारित भूतगत दोषं शरीरमाप्लावयेत् इत्याह | तत इत्यादिना- ततः देहशुद्धि करणानन्तरं बद्धरूपं स्थूल सूक्ष्मात्मकं शरीरं सर्वं शून्यमिति विभाव्य बंधकत्वात् व्यापृतमसत्कल्पमिति कृत्वा नात्मन्यात्मभावना रूपा लंबना पेक्षा भावान्निरालंबके बलं पाशरहितं विज्ञान मात्रमेवात्मस्वरूपं सूर्यमण्डल संकाशमेवावशिष्यते | तथा मृगेन्द्रे- निर्दहेत् पाशवीं मूर्तिं सदाशिव पदस्पृशा | तद्भस्मवायुना शाक्तो नापनीयावलोकयेत् || दिनकृन्मंडलाकारं दृक्क्रिया मंडलांचितः | तदेव वपुरस्ये तत् अव्यक्तांगमितीष्यते || इति || प्. ११८) ततः स्वेच्छोत्क्रान्तिवत् स्थूल सूक्ष्मात्मकस्य शरीरस्य सर्वथानवध्वंसा माये यस्य शरीरस्य परमेश्वरस्य स्पर्शनार्हत्वात् परमेश्वरार्चनादि विना प्रारब्धकर्म सहकारितया शेषित मलस्यानपोहनात् | शुद्धिकाले विरश्मि मात्रा वियोगेन सर्वथा त्याजितत्वाच्च | सकल वस्तुनामोत प्रोतरूपेण परमेश्वर शक्तेर्नित्याधिष्ठेय रूपस्य परमामृत रूपस्य परबिन्दोस्सर्वाधारत्वेन स्थितत्वात् | तदुद्भूतेनामृतेनाप्लावनं करणीयं वौषडंतेन मूलाधारादारभ्य आवाहन प्रकरण वक्ष्यमाणवत् मन्त्रं वौषडंतमुच्चार्य नादांतस्थाधो मुखपद्मस्थित शक्तिमण्डलसृतैः सुषुम्नादि समस्त नाडीद्वारं प्रविशद्भिः अमृत प्रवाहैराप्लावनं कारयेत् | प्. ११९)
SKअथ द्वादशांतस्थस्यात्मनः पुनः हृदि विन्यासार्थमासन(प्र)कल्पनमाह हृदय इत्यादिना हृदये हृदयस्थाने नालपत्र कर्णिकारूपं आत्मादि तत्व त्रयात्मकं अत एव तद्व्यापिना महामायात्मना अकारादि मात्रा त्रययुक्तेन सूर्यादि मण्डल त्रितयेन निवृत्यादि कलात्रितयात्मना सद्यादि मन्त्र त्रयरूपेण च प्रणवे नैव शुद्धविद्यात्मकं शुद्धविद्यास्वरूपमासनं विन्यसेत् | तदुक्तं त्रयोदशशतिके- सद्यः कलाष्टसंयुक्तं अकाराक्षरसंभवम् | आत्मतत्वं विजानीयात् चतुर्विंशति तत्वयुक् || कंद नालोद्भवं तेन * * * परिकीर्तितः | वामं ह्युकारजं विद्यात् त्रयोदश कलान्वितम् || विद्यातत्वं विनिर्दिष्टं शिवस्याधारसंस्थितम् | प्. १२०) पत्र केसर मध्ये तु कर्णिकायां व्यवस्थितम् | शिवतत्वमकारन्तु बहुरूपं प्रकीर्तितम् || इति || समानतन्त्रेपि- सूर्यमण्डलसंकाशमकारा ह्यात्मसंभवम् | इत्यारभ्य ओमित्यनेन कमलं योगपीठं तथा भवेत् इति | हृदयस्थाने आधारशक्त्यादि शुद्धविद्यान्तमात्मासनं तालुगत मकारांत व्याप्तिकम् (दीर्घोच्चारेणाकारादि बिन्दन्तमुच्चार्य) ह्रस्वोच्चारणे प्रणवेन विन्यस्यानंतरं तत्कमलकर्णिकायां शुद्धं पुर्यष्टकं बिंद्वंत व्याप्तिकं दीर्घोच्चारेणऽकारादि बिंद्वंतं चतुष्कलेन प्रणवेनाऽवतीर्णं संचिन्त्य अनन्तरं तस्मिन् पुर्यष्टक देहे द्वादशांतस्थं भूतशुद्धि करणार्थं द्वादशांत संयोजितं पूर्वोक्त बीज स्वरूपं प्. १२१) शिवमयं शिवाधिष्ठित तत्वान् शिवस्वरूपमात्मानं मकारादिना दांत पंचकलायुक्तेन प्लुतोच्चारेण संस्थापयेत् | तमात्मानं वौषडन्त शक्तिमन्त्रेणामृताप्लावनं कुर्यात् | तथा चोक्तं- मूलमन्त्र द्रवी भूतशक्ति पियूषधारया | संवाह्याभ्यन्तरं तेनार्व्यभिषिंच्य हृदंबुजे || आत्ममूर्तिं समावाह्य मूर्तिमन्त्रेण देशिकः | तस्यमात्मानमादाय द्वादशांतान्नियोजयेत् || एकी भावाय तद्देहममृतेनाभिषेचयेत् | देहस्सदाशिवो ज्ञेयः पुद्गलः शिव एव हि || एव मत्यर्थमद्वैतं मन्त्रन्यासेन भावयेत् | इति |
SKआत्मावाहनं प्रासादमन्त्रेण कर्तव्यमित्यागमान्तरे प्रोक्तम् कथमिह प्रणवेनेति चेत् प्रासाद प्रणवाभ्यांतुनांतरं परिकल्पयेदिति वचनाददोषः | प्. १२२) मन्तर्न्यासमुक्त्वा बाह्यशरीरे शाक्तस्य विद्या देहस्य सिध्यर्थं मन्त्रन्यासः कर्तव्यमित्याह | तदनुपूर्ववदंगन्यासं विधायेति पूर्ववत् संध्या प्रकरणोक्तवत्- यस्याऽवसरोस्तिमति क्षोभश्च न भवति सह दीक्षा प्रकरण वक्ष्यमाण(वत्) दंडभंगि मुण्डभंगि वक्त्रभंगिन्यासं च आगमान्तरे प्रोक्तं श्रीकण्ठन्यास व्योम व्यापि मन्त्रन्यासादिकमपि कुर्यात् | एवं जीवशुद्धिः देहशुद्धि पूर्वकन्न्यस्तमन्त्र तनुः स्वरूपेण विग्रहेण शिवरूपतां प्राप्तश्शिवार्चनयोग्यो भवति | ना शिवश्शिवमर्चयेदिति वचनात् | एवं जीव शुद्धि देहशुद्धिकरणाशक्तौ न्यास मात्रं कुर्यात् | न्यासस्यापि कृतस्तस्यकरणाशक्तौ पंचब्रह्म षडंगन्यास मात्रं वा कुर्यात् प्. १२३) तावतैव देहात्मनोश्शुद्धा शिवरूपता तावत्या शिवार्चनयोग्यो भवति | अथांतर्ज(र्य)नादिकमाह- हृन्नाभि बिन्दुस्थानानीति- ननु अत्र किमर्थं अन्तर्यजनं (कृत्वा) बाह्यपूजाया एवमुपक्रमत्वादिति चेत् उच्यते- बाह्यपूजा कृद्भिरपि पूर्वमन्तर्यजनं कृत्वानन्तरं बहिरर्चनं कार्यम् | उक्तं च- अन्तर्यागं पुरा कृत्वा बाह्यपूजामथाचरेत् | ज्योतिर्लिंगठहृदस्थं तत् तदेवाभ्यर्च्यते बहिः || यतस्तस्मात्पुराकार्यं अन्तर्यागमिहोच्यते | अकृत्वा मानसं यागं यो बहिर्यागमाचरेत् || वृथा परिश्रमस्तस्य शास्त्रस्येति विनिश्चयः | इति | वक्ष्यमाण क्रमेण बाह्यपूजायामासनावाहनादिजपान्तं मनोभावनयानीत पुष्पाद्यैः शिवमिष्ट्वा प्. १२४) नाभिरेव कुण्डं तस्मिन्स्वतस्सिद्धः उदरे जठराग्नि स्थित इति स्यादिति प्रसिद्धः तस्मिन् हवनं कृत्वा बिन्दौ मध्ये सर्वतोमुखं निष्कलं तथा सिद्धान्तशेखरे- भ्रूमध्ये निष्कलं ध्यायेदिति - एवं हृदि पूजनं नाभौ होमं भ्रूमध्ये ध्यानं च कार्यम् | तथा कामिके -
SKएव मन्त्रत्वमापन्नो दिव्यदेहे यथा क्रमम् | पूजाहोम समाधीनां स्थानानि परिकल्पयेत् || ललाटे चेश्वरं ध्यायेद् वरदं सर्वतो मुखम् | आसनं कल्पयेदत्र वक्ष्यमाण विधानतः || आवाह्यदेवं गंधाद्यै मानसे शिवं अर्चयेत् | नाभि कुण्डे स्वभावोत्थे तर्पयेत् परमामृतैः || उद्दीप्य च निजं वह्निं संरुध्यापान वर्तिनः | स्थाणु स्थाने स्मरेल्लिंगं स्फटिकाभं महोज्वलम् || प्. १२५) तथा सिद्धान्तशेखरे- शंभुं हृदंबुजे सांगं बहिर्याग विधानतः | पूजयेदाहृतैर्बुध्या इति | एवमत्रांतर्यजनादिकं शिव दीक्षावतां सामान्ये नाभि हितं अधिकारि विभेदेनागमांतरे प्रोक्तमपि प्रसंगात् अत्र लिख्यते | आचार्यस्तत्व विद्धीमान्विशिष्ट कुलसंभवः | सर्वलक्षण हीनोपि शिवशास्त्रार्थ विद्गुह || विद्या पादार्ध कुशलैरिति आदि लक्षण लक्षिताचार्यः पूजास्तवाद्युक्त प्रकारमन्तर्यजनादिकं कुर्यात् | तद्यथा- अन्तर्हृदयावकाशे दिव्यरक्तमयं शिवार्चन मण्टपं मनसा संकल्प्य तस्मिन् शिवार्चनोपयुक्तानि द्रव्याणि मनसोपनीय विशोध्य द्वादशांत स्थित चन्द्रमण्डलगलदमृतधारयार्घ्य प्. १२६) पात्रादि पूरणं तत् संस्कारं च कृत्वा द्वारपालार्चनं विधाय वक्ष्यमाण क्रमेण गणेश गुरु पङ्क्तिरनुज्ञया प्रार्थना पूर्वं माणिक्य कनकवर्णनाभिकं दशमुत्थित नीलवर्णनालांचित यवलवर्णाष्टदल हृदय कमल पीतवर्ण कर्णिकार संस्थित बिन्दुरूप क्रियाशक्त्यात्मक पीठे श्रवणांगुष्ठ संयोगाधिगम्य नादरूप दीपशिखाकारं ज्ञानशक्तिमयं लिंगं संचिन्त्य पीठे वक्ष्यमाण क्रमेण शक्त्यादि शक्ति अन्तं शिवासनमभ्यर्च्य लिंगे शिवमूर्तिं विद्यादेहं चाभ्यर्च्य तत्र परमशिवमावाहनादि क्रमेणार्घ्यांत संस्कारैः अभिपूज्य द्वादशांतच्युत बहुलामृतधारयाभिषिच्य वस्त्राभरणादिभिः वैराग्य चंदनेनालंकृत्य अहिंसा पुष्पं समर्पयामित्यादि प्रकारेण- प्. १२७)
SKअहिंसेन्द्रिय निग्रह क्षमा दया ज्ञान तपः सत्यरूपैः अष्टभिः पुष्पैः अभ्यर्चयेत् | ततः मानसिक पात्रे प्राणमग्निमहंकारमेव धूपशिखां संकल्प्य धूपं दद्यात् | शिवज्ञानमेव दीपं संकल्प्य दद्यात् | विषयेभ्यः प्रत्याहृतं मनो नैवेद्यमिति भावयित्वा समर्पयेत् | सुषुम्ना मार्गे(ण) प्राणस्य गमागममेव जपत्वेन भावयेत् | पार्थिवादि पंचधारणास्थिरीकृत सदाशिव वयव जातध्यानकल्पितैः तदवोचितैः भूषणैश्च भूषयेत् | शिवोहमिति शिवसाम्य भावना रूपमात्म निवेदनं च कुर्यात् | यद्वा- अभिषेकानन्तरं गंध शब्द स्पर्श रूप रस तन्मात्राश्चंदन पुष्पधूपनैवेद्यात्मना समर्पयेत् | प्. १२८) तत्र अयं क्रमः- मूलमन्त्रोच्चारण पूर्वकं ॐ ह्लां सद्यो जाताय शिवाय गंध तन्मात्रकं गंधं समर्पयामि हौम् ईशानाय शिवाय गुब्द तन्मात्रकं पुष्पं समर्पयामि ह्यैम् तत्पुरुषाय शिवाय स्पर्श तन्मात्रकं धूपं समर्पयामि | ह्रूम् अघोराय शिवाय रूप तन्मात्रकं दीपं दर्शयामि | ह्वीं वामदेवाय शिवाय रसतन्मात्रकं नैवेद्यं समर्पयामीति | ततो हस्तक्षालन मुखवासदानानन्तरं सत्व रज तमोत्मकं ताम्बूलं समर्पयामि इति भावयेत् | ततः नीरांजनं परिकल्प्य बुद्धिस्थ वायुना कृप्त दर्पणं मंगलानि च | मनोवृत्तिर्विचित्राते नृत्तरूपेण कल्पिता || ध्वनयोगीत रूपेण शब्दो वाद्य प्रभेदः | सुषुम्ना ध्वजरूपेण प्रामाद्याश्चामरात्मना || प्. १२९) अहंकारो गजत्वेन कौप्तो देहो रथात्मना | मनः प्रग्रह रूपेण बुद्धिस्सारथि रूपतः || सर्वमन्यं मया कौप्तं तपोपकरणात्मना | इति ||
SKसर्वमात्मीयं बुद्धिः मनः प्राणादिकं शिवपूजोपकरणत्वेन समर्पयेत् | आवरण पूजामपि वक्ष्यमाण रूपां तत्समये कुर्यात् | ततो प्रदक्षिण नमस्कारैश्शिवं प्रसादाभिमुखं विधाय तदाज्ञयाग्निकार्यं कुर्यात् | तत्रायं क्रमः- नाभौ त्रिमेखलं कुण्डं तत्राग्निं स्वतस्सिद्धं विभाव्य तमग्निमस्त्रमन्त्रेण प्रज्वाल्य तत्राग्नौ किंचिदंगारं क्रव्यादांशत्वेन भावयित्वा तन्नि-ऋतिकोणे परित्यज्य कुण्डस्थमग्निं वीक्षणादिभिः विशोध्य तस्य शिवाग्नित्व सिध्यर्थं रेचकेण तमग्नि (च्चैतन्यं) द्वादशान्तं नीत्वा तत्र परमशिवेन संयोज्य तत्तेजः पुंजपिंजरं कुर्यात् | प्. १३०) तं ज्ञानाग्नि रूपं प्रत्यानीय नाभि कुण्डे स्थापयेत् | एवं कृते संस्कारांतरमनपेक्ष्य शिवाग्निर्भवति तच्छिवाग्निं रक्तवर्णं पञ्चवक्त्रं दशभुजं सदाशिव समानाकारं ध्यात्वा तस्य हृदय कमले आसन मूर्ति विद्यादेहन्यास पुरस्सरं शिवमावाह्य इडया सुषुम्ना स्रुवेण द्वादशांत सृतामृतधारामयमाज्यम्मूलमन्त्रेणाष्टोत्तर शतमष्टाविंशति वारमष्टवारं वा हुत्वा शाक्तामृत घृतपरिपूर्ण नाभि कंदकलशां हृदय कमलांकित सुषुम्ना दण्डमन्तस्रुचं विभाव्य तया पूर्णाहुतिं हुत्वा मोह संतर्पितं शिवं नाडी मार्गेण हृत्पद्मपूजिते शिवे संयोज्य तमष्ट पुष्पिकयाभ्यर्च्य पूजां समापयेत् | ततो भ्रूमध्ये सर्वावयव विभागरहितं प्. १३१) शुद्ध दीप समाना कृतिश्च शिवं ध्यायेत् | अत्रांत हृदयावकाशेत्यादिना प्रोक्तं सर्वं योगसामर्थ्येन सूक्ष्मशरीर युक्तस्य प्रत्यक्षेण दृश्यते | तद्रहितेन सर्वं मनोभावनया कार्यम् | यस्य जाग्रे प्रलीयन्ते सर्वे भावास्सुषुप्तिवत् | पर्याप्तं तस्य विज्ञानं त्रिपदं तेन लंघितम् ||
SKइत्यादि लक्षणयुक्तज्ञानिनः पूजाप्रकार उच्यते | भूतरूप देहाभिमान राहित्यं भूतशुद्धिः विषयाभिलाष राहित्यं देहशुद्धिः अथवा अष्टमूर्तित्व दर्शनं भूतशुद्धिः शिवस्य सर्वद्रव्यानुप्रवेशनं दर्शनं द्रव्यशुद्धिः शिवज्ञानेन स्वस्वरूमालोक्य तन्मयेन स्थितिरात्मशुद्धिः पंचाक्षरे पाशपदार्थ पराक्षर द्वयं त्यत्वा पतिपदार्थ पराक्षर द्वयं परशुपराक्षरमेकं च प्. १३२) ज्ञात्वा वाचिकं मानसं च त्यक्त्वा वाच्यैकयानुसंधानं मन्त्रशुद्धिः | अखण्डाकार सच्चिदानंदरूपमनुभवैकवेद्यं शिवमिति भावना लिंगशुद्धिः | आत्मा शिवासनं मूर्तिः सत्यज्ञानमनावृतम् | मूलं तु परमानंदमावाहनमथोच्यते || शिवाभिवृत्तिरेवात्र चावाहनमिति स्मृतम् | नैर्मल्यं स्थापनं चाभिमुख्यत्वं संनिधानकम् || लय विक्षेप हलनं संनिरोधनमुच्यते | माया द्वयस्य गलनं पाद्यमाचमनं तथा || कर्मत्रय विनाशं स्यात् अर्घ्यमज्ञानमोचनम् | महाभिषेको नैर्मल्यं वस्त्रशुद्धः निरावृतिः || निर्लेपनं च श्रीगंधो द्वंद्वत्याग प्रसूनकम् | अज्ञान वासनानाशो धूपदीपं स्वयं प्रभा || शिवानुभूति नैवेद्यं वानीयं च सुवासितम् | प्. १३३) रसा स्वादस्य गलनं हस्तोद्वर्तनकं तथा | कषाय गलनं प्रोक्तं ताम्बूलं मुखवासनम् || आहताख्यस्य नाथस्य लयस्तोत्रं समीरितम् | प्रदक्षिणं स्यात् सर्वत्र व्यापित्वं सहशंभुना || सरित् समुद्र संयोगात् जलं समरसं तथा | तथात्म शिवयोः योगः नमस्कारः प्रकीर्तितः || ज्ञाताज्ञानं यथा ज्ञेयमग्नं भवति तत्तथा | पराङ्मुखार्घ्यमित्याहुः आत्मनश्च निवेदनम् || इति || एवं अन्तर्यजनादिकमुक्त्वा बाह्यपूजा शिवानुज्ञा प्रार्थनं आह- बहिः पूजयामिति- अन्तः संपूजितं त्वां बहिरपि पूजयामिति प्रार्थ्य तथा कुर्विति तदा लब्ध्वेत्यर्थः | अनन्तर करणीयमाह स्थानशुद्धिमाचरेदिति पूर्वं होमयादिना शुद्धमपि पूजास्थलं प्. १३४) मन्त्रतश्शुद्धं कार्यं | तदाह अस्त्रेणेति-
SKअस्त्रमन्त्रेण तालत्रयं ताललक्षणमंगन्यास प्रकरणेवधार्थं चोटिकादिभिरिति तल्लक्षणमत्रैवोक्तं परिघा अघाथिका शक्ति जालं शक्ति समूहं सर्वत्र कृत रक्षां विघ्नोभ्यो भावयेत् | शिवार्घ्यकरणं वक्ति- स्वर्णादि निर्मितं इति- आदिपदेन रजत ताम्रादीनि गृह्यन्ते | तथोक्तं कामिके- सौवर्णं रजतं ताम्रं केलीहारं शंखजा | पलाशपद्म पत्रोघं दारवं मृत्तिका मयम् || अन्यद्वायंत्रिकादिस्थं पात्रमुक्तं शिवार्चने | पात्रमस्त्रेणेति- हुंफडंतास्त्रमन्त्रेण प्रक्षालनं कृत्वा अत्र पात्रमित्येक वचनात् शिवार्घ्य पात्रमेकमेव तथा क्रियाकाण्डक्रमावल्याम्- प्. १३५) एकं स्वर्णादि पात्राणां पात्रमस्त्रांबु शोधितं इति | तेनैव पाद्याचमननिरोधार्घ्याणि देयानि | विभवे सति प्रत्येकं तेषां प्रत्येकं कल्पनीयम् | तथा सिद्धान्तशेखरे- चतुष्कमर्घ्यपात्राणां क्षालयेदस्त्रमंततः | मण्डलं त्रितयं तत्र सोमसूर्याग्नि संज्ञकम् || अर्घ्यपात्रे विशेषार्घ्यं हृत्बीजेन प्रकल्पयेत् | पयोभिः पूरयेद् बिन्दु सुधाभैश्शक्तिमन्त्रतः || तेषु द्रव्याणि निक्षिप्य शास्त्रोक्तानि पृथक् पृथक् | तत्रैव | अभावेर्घ्यादि पात्राणां द्वे कुर्यात् अर्घ्यपात्रके || अर्घ्य द्वितयपक्षे स्यात् विशेषार्घ्यं विभोस्सदा | सामान्य द्वारपादीनां अर्घ्यं चण्डार्चनान्तकम् || इति || गंधपुष्पाक्षतादिभिरिति- आदिपदेन प्. १३६) आपक्षीर कुशाग्राणि तण्डुलास्सुमनास्तिलाः | अर्घ्योष्टांग इति- प्रोक्तो यवैस्सिद्धार्थकैस्सह इति वचनात् द्रव्याष्टकं गृह्यते | अलाभे गंधपुष्पाक्षतानि प्रक्षिपेत् | अर्घ्य कृते अनन्तरकरणीयमाह तज्जलैरस्त्रमन्त्रेण आत्मानं संप्रोक्ष्य गंधादि पूजाद्रव्याण्यपि कवचेन प्रोक्षयेत् | न्यास्तानां हृदय शिखादीनां कलानां च भिन्नवर्णानाम् आवाहित परमशिव तेजसादि धवलेन तत् वर्णता प्राप्ति भावनं परमीकरणं महामुद्रानाममस्तकादि पादांतं हस्ताभ्यां संस्पर्शनम् | किं च अस्त्रमन्त्रं द्विरुच्चार्य वामपाणिं च शोधयेत् |
SKकरेण दक्षिणे नैव दक्षिणं वामपाणिना | एकवारं समुच्चार्य शोधयेत् नन्दिकेश्वर || प्. १३७) अस्त्र तेजोन्वितौ हस्तौ मणिबंधावधि स्मरेत् | पाणिभ्यां संपुटं कृत्वा अंगुष्ठ द्वय मध्यमे || ध्यायेदमृतबीजेन शक्तिमण्डलमुत्तमम् | ॐ हां शक्तये वौषट् संप्लाव्यं करसंपुटे || पद्माकारं पुटे भाव्यं तन्मध्ये तु शिवासनम् | मूर्ति सूक्ष्मान्तु विन्यस्य पश्चान्मन्त्रं समुच्चरन् || एवं सदाशिवं रूपं विन्यसेत् नन्दिकेश्वर || वीरतन्त्रे- ईशादि पञ्चमन्त्राणि अंगुष्ठादि न्यसेत् ततः | विद्या शरीरतां ध्यात्वा ततो शक्त्यंतमुत्तमम् || नेत्रं हस्ततले न्यस्य पश्चादंगानि विन्यसेत् | चिन्त्य विश्वसादाख्ये- सकलीकरणं पश्चात् कनिष्ठांगुष्ठ कान्तकम् | हृदादि मन्त्र विन्यासं सकलीकरणं भवेत् || प्. १३८) कालोत्तरे- विन्यस्यांगुलिभिर्मध्ये कवचेनावकुण्ठयेत् | करांगुली सुसर्वासु प्रासादं विन्यसेत् ततः || अजिते- करन्यासं समाख्यातं अंगन्यासमतः परम् | दक्षांगुष्ठानामिकाभ्यां हृद्यासनं च मूर्तिकम् || विन्यस्य विधिवद्देह पंचब्रह्मं न्यसेत् ततः | अंगुष्ठाग्रेण मूध्नीशं विन्यसेद् ग्राहमुष्ठिना | मुखे तत्पुरुषं चैव तर्जन्यांगुष्ठ योगतः || मध्यमांगुष्ठयोगेन हृद्यघोरं तथा न्यसेत् | अंगुष्ठा नामिका योगात् गुह्ये वामं च विन्यसेत् || कनिष्ठांगुष्ठयोगेन सद्यो जातं तु पादयोः | अंगुष्ठा नामिकाग्रेण विद्या देहं हृदिन्यसेत् || लोचने विन्यसेन्नेत्रं मध्यास्त्रिभिरंगुलैः | प्. १३९) प्रासादं हृदि विन्यस्य पश्चादंगंनिविन्यसेत् | कनिष्ठांगुष्ठयोगेन हृद्यघोरं तथा न्यसेत् || अंगुष्ठानामिकाग्रेण शिरश्शिरसि विन्यसेत् | शिखां शिखायामंगुष्ठ मध्यमाग्रेण विन्यसेत् || हृदयादि न्यसेद् देहं कवचं स्तन मध्यतः | अंठ प्रावरणत्वेन तर्जनीभ्यां न्यसेत् ततः || अनामिकाभ्यां हस्ततले अस्त्रमन्त्रं तु विन्यसेत् | तालत्रयं तथास्त्रेण दिग्बन्धनमथाचरेत् || चिन्त्य सादाख्ये- चोटिका मुद्रयानेन दशदिग्बन्धनं कुरु | तदुक्तमजिते-
SKदक्षिणांगुलिभिर्वामहस्तस्तस्य तलताडनम् | अंगुष्ठवर्जिताभिस्साताल मुद्रा विशुद्धिदा || कृत्वा दक्षिण हस्तेन मुष्टिं तरं पुनः | प्. १४०) अंगुष्ठाग्रेण तर्जन्या सम्यगग्रं प्रवीड्य च | प्रक्षिपेत् तर्जनीं भेदे यदा शब्दोदयो भवेत् || नाराचास्त्र समाख्येयं मुद्रादिग्बंधकर्मणि || सर्वज्ञानोत्तरे- मन्त्रपूतौ करौ कृत्वा कवचेनाव कण्ठयेत् | ततश्चालंभनं कुर्यात् पादादारभ्य मूर्धनि || मूलेन परमी कृत्वा महामुद्रां ततः क्रमात् | तदुक्तं समानतन्त्रे- हस्ताभ्यां संस्पृशेत्पादौ तौ नयेद्वाममस्तकम् | एषा मुद्रा महामुद्रा कर(संस्कार)संस्का(र) कर्मणि || कारणे विशेषोक्तः- हस्ताभ्यां संस्पृशेत् पादौ कादि पादांतकं यतः | एषा मुद्रा महामुद्रा करसंस्कार पश्चिमे || अस्य प्रयोजनं पौष्करे प्रतिपादितम् | प्. १४१) अतिभिन्न स्वभावानां यदि प्रयोजनम् | अंगानामंगिना सार्थं अमृतीकरणं हि तत् | इति कर्मणि सर्वज्ञानोत्तरे | शिवस्य यादृशं रूपं तादृशं चिन्तयात्मनि | शिवमन्त्रमिदं न्यासमात्मनस्तु सदा कुरु || इत्थं मन्त्र सन्नद्ध विग्रहस्सन साधकः | शरीर रक्षार्थं सर्वविघ्नैर्नानु भूयते || तथोक्तम्- हृदयावत् परित्राण पट्टबंध वदाहितम् | शिरश्चतश्चिरस्राणं शिरसोपरिवेष्टनम् || चूलिकामस्तकत्राणं अंगत्राणं च कंकटम् | करे शस्त्रे गृहीते तु भीषणे भटवत्स्थितः || क्षुद्राणामप्रधृष्याणां स्यात्तार्क्ष्योद्युश्रवसामिवा प्. १४२) अनन्तरं तानि द्रव्याणि हृदाभिमन्त्र्य कवचेनावकुण्ठ्यं अर्घ्य जल बिन्दुं स्नानतोय घटेषु पुष्पसहितं क्षिपेत् | तथा कामिके- तत्तोयैः कवचे नैव स कुशं प्रोक्षयेत् तथा | गंधपुष्पं च धूपं च दीपमर्घ्यं निवेद्यकम् || दधिक्षीर घृतादींश्च प्रोक्षयेद्धृदयेन तु || पूजार्थं कल्पितं द्रव्यं प्रत्येकमभि मन्त्रयेत् | अर्घ्यांबुलोलं यत्पुष्पं संयुक्तं हृदयेन तु || स्नानकुंभेषु सर्वे(व्ये)षु निक्षिपेत् तद्विशुद्धये | तथा सर्वज्ञानोत्तरे-
SKद्रव्याणि प्रोक्षयेत् तेन यज्ञार्थं कल्पितानि च | अप्रोक्षितं न दातव्यं अवैशिष्यं चौव शिवे || तद्वृत्तौ- विशिष्टत्वं च द्रव्याणां मन्त्रपोक्षणाभिमन्त्रणावकुण्ठनादिना शक्तित्वा पादनमिति | प्. १४३) पूजायाः विरुद्धं पूजाविरुद्धं पूजापर्यन्तं मौनेन स्थातव्यमित्यर्थः | तथा कामिके- आत्मानमर्चयेद् द्रव्यैरेवं भूतैर्यथा क्रमम् | संगृह्य वांचितं मौनं ततो मन्त्रानि शोधयेत् | इति तथा क्रियाक्रमावल्याम्- पुष्पं दत्वा निजासने- विधाय तिलकं मूर्ध्नि पुष्पं मूलेन योजयेत् | स्नाने देवार्चने होमे भोजने याग यागयोः || आवश्यके जपे धीराः सदा वाचं यमो भवेत् | इति | मन्त्रशुद्धिमाह मन्त्रानिति- अत्र बहुवचनात् पञ्चब्रह्म षडंग मूलमन्त्राः प्रोच्यन्ते ह्रस्व दीर्घप्लुत क्रमेण इति | ब्रह्माणि ह्रस्वाः प्रोक्तानि दीर्घाण्यंगानि षण्मुख | इति वचनात् | बिंद्वंतनादांतलयांत क्रमेण पंचब्रह्म षडंग मूलमन्त्रान् ॐकारादि नमोन्ता प्. १४४) ॐकारमादौ येषां ॐकारादयः नमः अन्ते येषां नमोन्ताः मन्त्रशुद्धिं कुर्यादिति | तेषां शुद्धिस्तु मायीय शब्दव्यंग्यत्व जनित स्पर्शलक्षणं देहं परतत्व समाश्रयतः ............. पयेत् | तथोक्तं सिद्धान्तशेखरे- रसयोगाद्यथा ताम्रं विमलं हेम जायते | तद्वस्तु विमला मन्त्रा योग्याश्च शिवयोगतः || ह्रस्व दीर्घप्लुतान्बिन्दु ब्रह्मरंध्र शिवांतगान् | मंत्रान् समुच्चरेन्मत्री क्रमेणानेन तत्ववित् || अथ लिंग शुद्धिमाह- पर्युषिता मित्यादिना- पूर्वरचितां शिवलिंगादौ पूर्वकालकल्पितां पूजागंध पुष्पादिकं सहृदेति हृदय बीजाक्षर सहितेन स्वाहान्तेन मूलेन प्रासादेन सद्यादि ब्रह्म पंचकमावत्येति एकवारमुच्चारणं कुर्यात् | प्. १४५) केचित् कनिष्ठाव्यंगुलि मूर्धसु न्यासं कुर्यात् इत्याहुः | तन्न- पूज्योपरि हस्तं निधाय इत्युक्तत्वात् | लिंगात् पूजामिति अस्त्रमन्त्रेण लिंगोपरिस्थितं पूर्वकाल कल्पितं गंधादिकमादाय (ऐशान्यांदिशि) (पीठिकादौ) |
SKॐ हां चण्डायेदं शिवपूजान्ते समर्पयामीति स्थापयेत् | अनन्तरं अस्त्रमन्त्रेण लिंगं पीठं च पूर्वकल्पित गंधादि निवृत्यर्थं प्रक्षालनं कृत्वा सामान्यार्घ्याभिषेचनात् लिंगशुद्धिः भवति | उक्तं च- लिंगशुद्धि क्रमात् प्रोक्ता यथावदभिधीयते | लिंगं त्रिविधमाख्यान्तं व्यक्ताऽव्यक्तो भयात्मकम् || स्वयंभु देवबाणार्ष पौरुषाद्यमनेकधा | स्थिरलिंगम् चरं वाथ मण्डलं स्थंडलं तथा || प्. १४६) पटं वा भित्ति चित्रं वा पीठे वा मन्त्र संस्मृतम् | वन्यम्बु गुरु वृक्षाद्यं विद्या पीठमथापि वा || विशेषतः स्वयं सिद्धं पाषाणं रत्नमेव वा | अन्यद्वा लिंगकं प्रोक्तं सैकताद्यं विशेषतः || एतत् सर्व शिवेज्यार्थं यथा योगं प्रकल्प * | लिंगमूर्ति गतां पूजां पूर्वकाल प्रकल्पिताम् || गायत्र्या पूजयित्वा तु सामान्यार्घ्यं तु दापयेत् | उच्चार्य पंचब्रह्माणि पूजां लिंगाद्वसृज्य च || हृन्मन्त्रेणेश दिग्भागे पीठिकादौ यथाविधि | चण्डेशायेति निक्षिप्य पिंडिकामस्त्रतोयतः || विशोध्य दक्षहस्तेन शिवलिंगं तु साधकः | अस्त्रांबु नैव संशोध्य शिवलिंगं स वेदिकम् || सामान्यार्घ्य जलैः पश्चात् अभिषेकं समाचरेत् | इति कामिके | तथा अन्यत्रापि- प्. १४७) कनिष्ठांगुष्ठ योगेन किंचित् पूजां पुराकृताम् | व्यपोह्यास्त्रेण पुष्पं तु गायत्रा लिंग मस्तके || मध्यमा नामिकांगुंष्ठेरुत्तानैरधिरोपयेत् | अस्त्रेण वामहस्तेन पिंडिकां क्षालयेज्जलैः || लिंगात्तु दक्षहस्तेन गंधाद्यपनयाविधि | न वामे न स्पृशेत् लिंगं पिंडिकां चैव संस्पृशेत् || इति | एवं लिंगशुद्धि करणानन्तरं आधारशक्त्यादि स्थिरासन पूजापुरस्सरं आवाहनादि दशसंस्कारानन्तरं अभ्यंगादि महास्नपनस्य चरस्थिरयोस्सारण्येन प्राप्तवात् | विशिष्य दर्शयति- चललिंग इति- अत्र केचित् स्नान वेदिकायां षडुत्थासनं संपूज्य वृषभरूपं ध्यायत् | शिवासनं संपूज्य मण्टप पूजायां यज्ञ रक्षकयोः शिवकुंभ वर्धन्योरिव आवाहन पूर्वं प्. १४८)
SKवौषडंत पुष्पदानांतं शिवं संपूज्य पंचगव्यादिस्नपनं विधाय पीठे समारोप्य पुनराधारशक्त्यादि स्थिरासनं संपूज्य आवहनादिकं कुर्यात् इति वदन्ति | अन्ये तु अस्य चललिंगत्वात् स्नानवेदिकायामेव समग्रासन पूजाष्ट त्रिंशत् कलान्यासादि पूर्वं स्थिरलिंगवदावाहनादि दश संस्कारानन्तरं पंचगव्यादि स्नपनं कृत्वा वस्त्रेण संमृज्य पीठे समारोप्य गंधपुष्पादि समर्पणं कुर्यात् इति | एतदुभय विधमपि आचार्यस्यासंमतत्वात् नांगी कृत्यात्र पद्धत्यां चललिंगेष्ट पुष्पिकयासन मूर्तिमूलमन्त्रैवेति | विकल्पेनोक्तं- तस्मात् पद्धत्युक्त पक्ष एव वरः | तथा सिद्धान्तशेखरे- कालेस्मिन् चललिंगे तु प्रदद्यादष्ट पुष्पिकाम् | प्. १४९) गव्यादि स्नपनं कुर्यात् स्थिरत्वा वाहनोर्ध्वतः || इति पंचामृतादि संभव इति | पंचामृतानि क्षीर दधि मधु शर्कर घृतानि तेषां संभवम् | तेन पंचामृतादिना स्नपनं कुर्यात् | आदि पदेन अगमांतर प्रोक्तानि नालिकेर फल रसादि पुष्प स्वर्ण रक्त्नोदकानि गृह्यन्ते | तथोक्तं- पयो दधि घृत क्षौद्र शर्कराभि स्वशक्तितः | कुडु पाद्याडकांतैश्च कुडुपाद्वर्धितैरपि || नालिकेर फलांभोभिः अन्यैर्वारसवद्रसैः | पुष्पोदैर्हेमतोयैश्च रक्तोद्यैर्गंधतोयकैः || इति | अभ्यंगोद्वर्तन निमज्जनादि स्नपनांगानि विभाव्येति | उक्तरत्र पद्धत्यां वक्ष्यमाणत्वात् तान्यपि संभवे पंचामृतादि स्नपनात् पूर्वं कर्तव्यानि | गो घृतेन तैलेनाभ्यंगं कृत्वा पिष्ठेन हरिद्रा चूर्णे प्. १५०) सहितेन उद्वर्तनं कुर्यात् | तथोक्तं- शिवमभ्यच्य गव्येन सर्पिषा वा सुगंधिना | हस्त यन्त्रोद्ध तैलेन नम्ॐतेन शिवाणुना || शुभेन शालि पिष्ठेन हरिद्रा संयुतेन च | उद्वर्त्य माष चूर्णेन निमज्जनमथा चरेत् || इति
SKजलधूपाष्ट पुष्पांतरितेनेति- अभ्यंगादीनां समर्पणकाले मध्ये मध्ये जलेनाभिषिच्य अष्टपुष्पिकया संपूज्य धूपदीपौ तत्पूजामप्यस्त्रेणापनीय | शून्यमस्तकं पुष्पादि सहितं यथा भवति तथा द्रव्यान्तरेण अभिषेचयेत् | मूलेन पंचवारं ब्रह्मभिरंगैश्चेति चकारात् तेषामपि प्रत्येकं पंचवारमुच्चारणं कुर्यात् | शिवकलशेन संस्नाप्येति विधानात् स्नपन कल्पोक्त प्रकारेण एक कलशं संपूज्य प्. १५१) तेन अभिषेकं कुर्यात् | तथोक्तम्- स्वाहान्त संहिता मन्त्रैः ब्रह्मभिर्यदिवांगकैः | मूलेन वा हृदादेवा स्नापयेन्मंगलस्वनैः || स्नापितैः कलशैः पश्चात् अभिषेकं अथा चरेत् | कुसुमं पूर्वविन्यस्तं तदस्त्रेणापनीय च || धौतपाणि स्वमन्त्रेण शंखमुद्रा परिप्लुतैः | जलैरनुच्चलद्भिः च स्नापयेत् परमेश्वरम् || याग द्रव्य कदंबानि स्नानतोयै विसेचयेत् | पुष्परिक्तं न कुर्वीत सर्वदाशर्वमस्तकम् || सुसूक्ष्म शुद्धवस्त्रेण कवचेन नमोन्तकम् | निमृज्य सर्वगात्राणि स्नानपानीयनुक्तये || दिव्यांबरावृते पीठे स्थापयेज्जगतीश्वरा || इति उक्तमर्थं उपसंहरति एवमित्यादिना | एवं पूर्वोक्त प्रकारेण कृतात्मस्थान द्रव्यमन्त्र लिंगशुद्धयः कृताः | प्. १५२) आत्मस्थान द्रव्यमन्त्र लिंगशुद्धयः येन सः | शिवं वक्ष्यमाण प्रकारेण पूजयेत् | तथा सिद्धान्तशेखरे- इत्थं भूताश्रय द्रव्यमन्त्र लिंगविशुद्धयः | कृताः पंचक्रमाद्येन सपूजां कर्तुमर्हतीति || तत्रेत्यादिना गणपत्यादि पूजां वक्ति | पूर्वोक्त रूपमिति द्वारपूजाया मुक्तरूपं गणपतिं तथा श्रियमपि ध्यात्वा पूजयेत् | स्वामि पादुका इति बहुमान वाचि गुरुचरणरित्यर्थः यथा संभवन्नकारकमिति | यथा प्रकारं संपन्ना संजात कारका उपकारणानि यस्य तं सदाशिवादयः परमगुरोः शिवस्य स्वगुरोश्च पृथगेव शिवासन पूजामाह- तत इत्यादिना- देवस्य पीठाधो भागे मध्यत इति | पीठस्य प्. १५३)
SKपिण्डिकायाः अधो भागः पृष्ठभागः तस्य मध्यतः मध्य प्रदेशे ततः कूर्म शिलासीनामिति | कूर्म शिला कूर्माकारा आधार शक्त्यधिष्ठान भूता शिला क्षीरोदः क्षीराब्धिः बीजांकुराकारं बीजांकुराणां आकारं यस्यास्सातयोक्या | कुटिलात्मिकेति यावत् तस्या एवांकुराकार श्रवणात् | तथाहि श्रूयते- श्रीकालोत्तरे- चन्द्राग्नि रवि संयुक्ता आद्या कुण्डलिनी तु या | हृत्प्रदेशे तु सा ज्ञेया अंकुराकारवत् स्थिता || इति || तथा अन्यत्र- पुनरंडं समुद्भिद्य कंदादं जुरवत्स्थिता | इति | अत्र धर्मादीनां अनन्त सामर्थ्य रूपत्वेन वक्ष्यमाणत्वात् निराश्रयाणामवस्थित्य संभवात् | अनन्तस्य तदासनस्य सहस्रदल माया पद्मात्मकस्य प्. १५४) च न्यासः कर्तव्य इत्याह ब्रह्मशिलोपरीति ब्रह्मशिला आधार शिला तस्योपरि अनन्तासनस्वरूप इत्याह | पृथ्वी कंदमिति- तत्पद्मस्य भूरेव कंदं कला तत्वान्तं जलादिकलां तत् त्रिंशत्तत्वात्मकं एकं नालं यस्य तत् भावाः पंञ्चाशत् विधाः बुद्धि धर्माः त एव कंटकानि यस्य तत् | भावनां लक्षणं मृगेन्द्रादौ द्रष्टव्यम् | तत्कंदगमिति अनन्तेशं अत्र अनंतेशो नाम विद्येश्वराणां प्रथम भूतः तं विभुं व्यापकं अत एव व्यप्त्याधो भागे विस्थितं अत्र कमलकंदे अनन्तेशस्थितेरुक्तत्वात् | तस्य शरीरं च कर्मजत्वात् शुद्धकारणमयम् | तदुक्तं पराख्ये- शुद्धयोनिमयं तस्य वपुरुक्तमकर्मजमिति | ततः तदवस्था विशेषात्मकैः शुद्धैः पृथिव्यादिभिः प्. १५५) विभाव्यं शिवासन पद्मासनस्य शुद्धविद्या शोभितमिति श्रुते | शुद्धविद्यामयत्वं तदवयवभूतानां नालादीनामपि शुद्धविद्या व्यवस्थात्म शुद्ध पृथिव्याद्याधारतया स्थितं शुद्धाध्वापेक्षयामायी यस्य किंचित् ज्ञात्वादि हेतुत्वात् मोहकाच्च | अतः पद्मावयव भूतानामनंतशरीरावयव भूतानां एकत्वात् शरीर शरीरिणोः अव्यतिरेकात् शरीरिणः प्राधान्यात् अनन्तेशस्थित इत्युक्तम् | कामिके-
SKअनन्तः कर्तृरूपेण पीठात्मा तत्र तिष्ठतीति तत्सामर्थ्य रूपानिति तस्यानंतेश्वरस्य सामर्थ्यं तेजः तद्रूपान् धर्मादीन् | तदुक्तम्- श्रीपराख्ये- तस्य भाविदिशो पादागात्राणि दिशो मता इति | तस्येत्यनं तस्य भाः तेजसः विदिशोमधिष्ठाय का शक्तयः | प्. १५६) पादादिशामधिष्ठायक गात्राणीति- तद्वृत्तौ कथितं एषाधर्मादि संज्ञा च धर्माद्यधिष्ठानान् धारणादि व्यापार हेतुत्वाद्विज्ञेयम् | विचित्रकेसरि प्रख्यात् विचित्र सिह्मनिभान् अन्योन्यं प्रष्टदर्शिनः | अन्योन्यं प्रष्टदर्शितारः धर्मादीनां युगरूपत्वं च परस्परकार्य कारण भावात् उपचारेणोच्यते | काश्मीरः रक्तवर्णः कलिः कृष्णवर्णः तालः पीतवर्णः यथाक्रम सितरक्तपीतकृष्ण रूपान् कृष्ण श्वेतमिति आग्नेयादि कोणस्थ सिंहोपरिस्थानां पूर्वाद्याशागतानां फलकानां गात्रका इति संज्ञा तेषु पूर्वदिशिस्थित गात्रं ईशानाग्नेय कोण स्थितं सिंहरूप संमिश्रमेवं दक्षिण पश्चिमोत्तर दिग्गतानां फलकानां रूपत्वं तदुभय पार्श्वस्थित सिह्मरूपमिश्रं चिन्तयेत् | प्. १५७) अनन्तेश बलानिति धर्मादिवत् अनन्तं सामर्थ्य रूपाणीत्यर्थः | यद्वा गात्राणीति प्रकारान्तरः स्फटिक प्रख्यान् चतुरोगात्रकान् स्फटिक निभाना भावयेत् | सिंह शिरोद्धृतान् कोणस्थित सिंहशिरोभिः धार्यमाणान् स्तब्ध बाहु शिरोग्रीवान् स्तब्धाः निश्चलाः बाहुः शिरोग्रीवाः एषां ते तथोक्तास्तान्पादुका सक्त मस्तकान् | पादुकासुकोण स्थित पादेषु आसक्तानि मस्तकानि एषां किं च | अग्रगात्रकपादस्थ मस्तकान् अग्रगात्रकाः भूपुरे भागे स्थित गात्रकाः तेषां पादेषु अन्योन्यं न्यस्त मस्तकान् बुद्धि ग्रुणाऽधर्ममुखाधिष्ठायकान् | बुद्धिगुणाबुधर्माः अधर्ममुखाः अज्ञाना वैराग्यानैश्वर्याणि बुद्धिगुणाश्च ते प्. १५८) अधर्ममुखाश्च तथोक्तास्तेषामधिष्ठायकाः अधिष्ठातारः पूर्वोक्तानंत तेजो विशेषाः तानित्यर्थः | तथोक्तं सिद्धान्तशेखरे- आग्नेय दिग्गतं धर्मं वायुदिग्गदनस्थितम् | नै-ऋत्य दिग्गतं ज्ञानं रक्तमीशान दिङ्मुखम् ||
SKवैराग्यं वायुदिवसंस्थं कृष्णं नि-ऋति दिङ्मुखम् | सिंहरूपधारान् त्यक्षान्दंष्ट्रालून् पादसंश्रयान् || धर्मादीन् स्वसमाकार परिवारोप सेवितान् | धृतगात्रानुकामांगैः कामरूपान् प्रपूजयेत् || तत्पीठ फलकाकारां स्तब्ध सव्यांग विग्रहान् | सिह्मशीर्षस्थितान्योन्य पादुकासक्त मस्तकान् || अधो मुखान्तराकारान् निर्मल स्फटिक प्रभान् | कृतत्रेतादिकैश्पेररक्त पीतासित प्रभैः || आग्नेयादि चतुःकोण स्थित कीलैस्सुयंत्रितान् | प्. १५९) ऋग्यजुस्साम संधान पट्टिकाभिस्सुसंहितान् | यजेदधर्मज्ञानमवैराग्यमिमान् क्रमान् || अनैश्वर्यं चतुर्दिक्षु शरीरेषु च बिन्दुगान् | स्मरेदिति- पीठस्य पिण्डिकायाः ऊर्ध्वमेखलाकंठोर्ध्व भागः तस्याधो भागः अधः प्रदेशः तस्मिन् क्षुब्धमायान्तं पृथिव्यादि मिश्रमायापर्यन्तं अधः चदनं तदूर्ध्वे तस्याः ऊर्ध्वमेखयाः ऊर्ध्वदेशं ऊर्ध्वच्चदनं पूजयेत् | कामिके- अधच्चदनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् | बन्धमोचन हेतुत्वात् शक्तिद्वयमयं त्वयम् || नै-ऋत्यामीश दिग्भागे मेखलायोर्ध्व संगतम् | इति तन्मध्येति - तस्य पीठस्य मध्य प्रदेशे ऊर्ध्वे दशदिग्भागे माणिक्य सदृशमित्यादि विद्येश्वराष्टक प्. १६०) रूपाणि विद्येश्वराः अनन्तादयः तेषां रूपाणि शुद्धमाया जन्यत्वात् शुभ्राणि | केचित् विद्येश्वर वर्ण दलाष्टकानीति वदन्ति | तदा दलं रजतसंनिभमित्युक्ते विरोधात् | तं मूल पीठोपरिपिण्डिकाया उपरिभागे पीठोन्तत भागेति | पीठस्य उन्नतभागः उत्तानप्रदेशः मध्ये अवटस्थले पंचाशत् बीजगर्भितामित्यत्र पंचाशत् वर्ण एव उक्तम् पौष्करे | अकारादि क्षकारान्ताः वर्णाः पंचाशदेवहि इति | किरणे तु- कर्णिका बीजानि शिवशक्त्यात्मकानि इत्युक्तम् | शिवशक्ति द्वयारब्ध कर्णिकाबीजराजितमिति केसराणां चतुष्षष्ट्या इति | मकार रहिताः ककारादि पंचवर्गाः यकारादि हकारान्ताश्च आद्यक्षरादि क्रमेण प्रत्येकं मकारबिन्दु प्. १६१)
SKयुक्ताद्विरुच्चारिता एव केसराणां चतुष्षष्टीत्युक्तं यद्वेति पक्षांतरः समुदितरूपं पूर्वोक्त कंदादुक्तरूपं पद्मं कर्णिकां च पूजयेत् | पूर्वोक्त सर्वं पद्मांतर्गतत्वात् तत इत्यादि विद्येश्वराधिष्ठात्रीः विद्येश्वर नियोगकारिणी शिवशक्तिरेव वामाद्यष्टशक्ति भेदभिन्ना मृगेन्द्रे तस्या भेदा एव वामादय सुस्तेपि प्रोक्ताः कृत्यभेदेन सद्भिः | इति शिवशक्तिमेव शिव समवेत शक्तिमेव मनोन्मनीं मनोन्मनि संज्ञां पूजयेत् | तासां ध्यानम्- उद्यद्दिनकरभासा इत्यादि- एतासारक्तत्वमैश्वर्यं रक्तानां अनन्तादीनामधिष्ठान्यान् मनोन्मन्यास्तु तदधिष्टानराहित्यात् शुक्लत्वम् | दलाग्र वृत्त इत्यादि- सूर्यसोमाग्नि मण्डलानि प्. १६२) न लोक सिद्धानि भूर्भुवस्सुवर्लोकचारिणी | अपि तु ज्ञानक्रियेच्छा शक्तीनामाविभावाधिकार भूतानि आत्मतत्व विद्यातत्व शिवतत्व शब्दे वाच्यानि बिन्दु विकाराणि लोक सिद्धानां तेषां ब्रह्मांडत्वेन दिव्य सिहासनस्थित्य संभवात् तदधिपतयश्च न लोक सिद्धाः तदधिष्ठात्र शक्तिविशेषा इत्युक्तं गुरुभिः मृगेन्द्रे वृत्ति दीपिकायाम् | कर्णिका मध्य इत्यादिना कुटिलात्मिकां कुण्डलिनी स्वरूपां एतादि सूर्यादि मण्डलानि तदधिपतीश्च दलाग्र केसराग्र कर्णिकाग्र कर्णिका मध्येषु पूर्वादीशानांतं पूजयेत् | सिद्धान्तशेखरे- दलाग्र व्यापकं पूर्वे पूजयेत् सूर्यमण्डलम् | ब्रह्माणमधिपं तस्य पूजयेदग्नि कोणतः || प्. १६३) किंजल्क व्यापकं दक्षे पूजयेत् सोममण्डलम् | तत्स्थानाधिपतिं विष्णुं यजेन्नि-ऋतिकोणगम् || पृथिव्यां कर्णिका व्याप्तं पूजयेदग्नि मण्डलम् | तन्मण्डलाधिपं रुद्रं पूजयेद् वायु कोणगम् || त्रिबिंब व्यापकं सौम्ये शक्तिमण्डलमर्चयेत् | ईशं तन्मण्डलाधीशं ईशकोणे प्रपूजयेत् || तदुपरीत्यादि- तदुपरि शक्तिमण्डस्योपरि क्षित्यादि कुटिला प्रान्तमिति | ननु क्षित्यादि शुद्धविद्या तत्वान्त व्यापगमासनमित्यागमान्तरे प्रोक्तम् | अत्र कथं कुटिला प्रान्तमिति चेत् अत्र शुद्धविद्येति कुटिलायाः पर्याय नाम | तदुक्तम् -
SKपरवागीश्वरी विद्या माया च कुटिला स्मृता | इति || प्. १६४) तस्मात् पीठं एवं विधं कल्प्यमशेषाध्वा विनिर्मितम् | इति किरण श्रुतेः सर्वाध्वनिर्मितं पीठं चतुर्युग महांघ्रिकम् | प्रध्वीकं दंतथा काल तत्वांतस्थैक नालकम् || पञ्चाशद्भाव संभिन्नं कंदकै रूपशोभितम् | माया तत्वं ब्रह्मग्रन्थि शुद्धविद्योरुपंकजम् || विद्येश्वर दलं शक्ति केसरै रूप शोभितम् | शिवशक्ति द्वयारब्ध कर्णिका बीजराजितम् || पीठमेवं विधं ध्यायेत् इति कामिके | श्रुत्या च- क्षित्यादि महामायावसान व्याप्तिकमासनं संचित्य शिवासनं पूजयेत् | एवं शिवासनरूप मुक्त्वा मूर्तिन्यासमाह- मूर्तिमित्यादि- ऋक्संपुटस्त्व जातो वै मूर्तिमन्त्र इति स्मृति वचनात् मूर्तिमीश्व तत्व नामधेयं तेजोरूपां प्. १६५) संपूर्ण परमज्योतिरूपां दण्डाकारां दण्डानादः तस्या आकारो यस्यास्तां अविभक्त करचरणादिविभागरहितं अवयवं यस्यास्तां शिवतत्वात्मकपरबिन्दु व्याप्तिकां शिवतत्वात्मकः शिवसमवेत शक्तिरूपः अपर बिन्दुरीश्वर तत्वः | तदुक्तं रत्नत्रये- जायते ध्वायतश्शुद्धो वर्तते लीयते तथा | स बिन्दुः परनादाख्यो नाद बि * र्ण कारणम् || इति ईश्वर तत्वांत व्यापकमित्यर्थः एवं विधां मूर्तिं विचिन्त्य विन्दन्तं मन्त्रोच्चारणं कृत्वा पुष्पांजलि पुरस्सरं लिंगवेष्टने निवेशयेत् | न्यसेत् सिद्धान्तशेखरे- तत्र सिह्मासने दिव्ये स्थिर विद्युत्समप्रभाम् | योजनानां लक्षकोटि विस्तीर्णां बिन्दुरूपिणीम् || प्. १६६) सहस्र सूर्यसंकाशां सोमसूर्याग्नि दुर्गमाम् | सूक्ष्मामीश्वर तत्वांतां शरीरे तु सुसंस्थिताम् || शिवमूर्तिं परामेतां संचिन्त्य ध्यान योगतः | पुष्पैरंजलिमापूर्य हृत्प्रदेशे निधाय च || तं मन्त्रं बिन्दंतमुच्चार्य नीत्वा कूर्चांतमंजलिः आनीय हृदये रेच्य पुष्पांजलिगतं न्यसेत् | इति एवमव्यक्त मूर्तिन्यासानन्तरं आत्ममूर्तिं पुरा न्यस्य विद्यामूर्तिं ततो न्यसेत् |
SKइति वचनात् | विद्यादेह कल्पनमाह- अस्यामूर्ताविति- अस्यां ईश्वर तत्वांत बिन्द्वंत व्याप्त स्थूल मूर्तौ लिंगनाहस्वरूपिण्यामविभक्तावयवामित्यर्थः | अस्यास्समवेत शक्त्यात्मिकाया मूर्तिरेव परमेश्वरस्य पंचकृत्य विषये कार्यकारणत्वेन स्थितत्वात् | प्. १६७) तत् तत्कृत्योपाधिवशात् भिंनस्य ईशानादि ब्रह्मपंचकस्य तदवान्तर भेदाहतानां अष्टत्रिंशत्कलान्यासः कर्तव्यमित्याह मूर्धामुख इत्यादि- bhedāt | atra dīkṣā prakaraṇa vakṣyamāṇa prakāraḥ īśānassarvavidyānāṃ śaśinyainma ityādi nyāsaḥ saśakti nyāsaḥ | īśānassarvavidyānāṃ īśvara sarvabhūtānāṃ īśvaraḥ sarvabhūtyādiyo nyāsassoviśaktika nyāsaḥ | śaśinī cordhva mūrdhādityādi nātrokta prakāraḥ kevala śaktinyāsaḥ ukta pakṣa trayeṣu kevala śakti nyāsasyaiva atra vihitatvāt | anena prakāreṇa śivamūrtau nyāsaḥ kartavyaḥ p. 168) upasaṃharati evaṃ syāditi - evaṃ ukta prakāreṇa īśānādi pañcamantraiḥ śaśinyādi kalābhiśca mūrdhādi vibhāgakaplanākṛtā cet | śivaḥ śāktaḥ śakti saṃbadhi vigraho bhavati paramārthastasya śarīrā bhāvāt | taduktaṃ pauṣkare- sā kalpyaṃ tu yathā tasya tatpravakṣyāmi sāṃpratam | sarvāraṃbho narārthaṃ yat nijapūrṇāṃ tanuṃ prabhoḥ || sā pūrṇā paṃcabhissadya vāmāghoraṃ kṣutātmakaiḥ | īśāna sahitairmantraiḥ sā tanuḥ parameṣṭhinaḥ || sākalyaṃ nārthatastasya kalpanīyaṃ yathātmanaḥ | iti | tatraiva- evaṃ mantrāstu paṃcaiteyairnibaddhā tanu śivā | vastutastu na bhinnāstāḥ yato nādyassvaśaktitaḥ || iti | icchāśaktimayīṃ mūrtiṃ kalpayet karaṇasyatviti | mohasūrottare- p. 169) mūrtirasyopacāreṇa paṃcabrahmamayī śivā | iti ||
SKपंचमन्त्र तनुर्देवः सकलः परिपठ्यते | इति च मतंगे | सहकलाभिः पंचमंत्रास्सांतरभेदरूपाभिवर्तन्तेति तद्वृत्तौ | अत एव शाक्तेनानेन सकलो विज्ञेयो निष्कलः शिव इति | आचार्येरुक्तं क्षित्यादि कुटिला प्रान्त मन्त्र सिंहासन स्थितमित्यादि विद्या देहस्य ध्यानमुक्तम् | द्वात्रिंशल्लक्षान्वितमिति- तद्यथा- पंचदीर्घं चतुर्ह्रस्वं पंचसूक्ष्मं षडुन्नतम् | सप्तरक्तं त्रिगं भीरं द्विविस्तीर्णं यथोच्यते || बाहुनेत्रान्तरे द्वे च जानुर्नासा स्तनांतरम् | पंचदीर्घं समाख्यातं अथ ग्रीवा च जंघिका || पृष्टमध्यं च चत्वारि हृस्वानुक्तानि सूरिभिः | सूक्ष्माण्यंगुलि पर्वाणि केशास्त्वग्रदनानखाः || प्. १७०) अक्षौ कुक्षिश्च वक्षश्च घ्राणस्कंधौ ललाटिका | षट् चैव मुन्नतान्याहुस्सर्वपारिषदा जनाः || पाणिपादतले रक्ते नेत्रांतानि नखानि च | तालु जिह्वा धरोष्ठाश्च सप्तरक्ताः प्रकीर्तिताः || स्वरस्सप्तं च नाभिश्च त्रिगंभीरं प्रकीर्तितम् | उरो ललाटिका चैव द्विविस्तीर्णं प्रशस्यते || द्वात्रिंशल्लक्षणं प्रोक्तं यथा दृष्टं नृशासन || इति शक्त्यभीत्यादि शक्तिः परमेश्वरस्य लयावस्थारूपिणी ज्ञान शक्तिरेव शक्त्याख्यमस्त्रं भोगावस्थान रूपा शक्तिः अभयं स्वपद प्राप्तानां पुनरावर्ति भया भावादभयत्वं इच्छाज्ञान क्रिया रूपाधिकारावस्थारूपिणी शक्तिः त्रिशूलं शुद्धतत्व प्रवृत्तिका शक्ति खट्वांगं आत्मानं कर्मानुरूपाभिमत भोगप्रदा शक्तिः वरः मायातत्व प्. १७१) प्रवृत्तिका शक्तिः बीजपूरं प्रकृति तत्व प्रवृत्तिका शक्तिः | डमरुः कलादि जनित विषय प्रवृत्तिका शक्तिः नागः ज्ञानेन्द्रिय कर्मेन्द्रिय पंचतन्मात्र पंचमहाभूत प्रवृत्तिकाशक्तिः | अक्षमालां मनः प्रवृत्तिका शक्तिः इन्दीवरम् | तथोक्तं चतुर्विंशति सहस्रकालोत्तरे- बोधरूपा पराशक्तिस्सादाख्यं अभयं स्मृतम् | इच्छाज्ञान क्रियारूपं त्रिशूलं सव्यवस्थितम् || ता एव परिणामेन खट्वांगमपि सांगिनम् | बीजानां विवृतिस्तेषां पूरणाद्बीज पूरगम् ||
SKमाया डमरु रूपेण सैव दीर्घा द्विजिह्वकः | इन्दीवरमनप्रोक्तं इन्द्रियाण्यक्षमालिकेति || इच्छाज्ञान क्रियाशक्ति त्रयनेत्र युतं स्मरेत् | चन्द्रं सर्वज्ञता रूपं दशहस्तादिशो दश || प्. १७२) इति कामिके प्रोक्तत्वात् | अणु सदाशिवस्य दिक्पालायुध सामान्यतामेवेति योजयन्त्यन्ये तद्यथा शक्तिरग्नेरस्त्रः शूलमीशानस्य वरदः अधोमुख पताका भावात् | पायोरस्त्रं खट्वांगं गदाकारत्वात् | अबेरस्य अभयं वैष्णवं स्थिति मूर्तित्वात् | तदुक्तं- शंखचक्रधरां वामे दक्षिणे सा गदाभयाम् | इति | डमर्यर्धमस्य अघोरायुधत्वात् यमस्याधिष्ठाता अघोरः नागः पाशत्वात् वरुणः अक्षसूत्रं बाह्यं बीजापूरं वज्रं नानाविध वर्णत्वादैन्द्रं नीलाब्जमसिः श्यामतायाः नै-ऋतमिति - एवं दृक्क्रियैच्छा विशालाक्षं ज्ञानचन्द्र कलान्वितं | इति | पाद पद्मादारभ्य जटाचूड पर्यन्तस्यास्य विद्या देहस्य हस्तगतायुध विशेषस्य चक्राभरणादेः प्. १७३) सर्वस्यापि शाक्तत्वं अवसीयते | एवं विधस्य सदाशिव विग्रहस्य बैन्दवत्वं केचिदिच्छति | अन्ये तु बिन्दूद्भूत शरीर योगिष्वणु सदाशिवेष्वन्यतममिच्छन्ति | तदुभयमपि मदुक्तेन प्रकारेण अनुपपन्नं युक्ति विरोधश्च | पूर्वस्मिन्पक्षे तस्य शरीरस्य कार्यत्वादेव कर्तन्तरापेक्षा स्वकृतवे अन्यकृतत्वेवानवस्था प्रसंगः | उत्तरस्मिन्पक्षे परमेश्वरस्य साधारणत्वेन शास्त्रोक्ते निष्कललिंगेचिदंतरस्य विरुद्ध एव | अत एव अयं विद्यादेहश्शाक्त एवेति सुष्टुक्तं एवं विधो विद्यादेहः स्थण्डिले चल लिंगे च साधकाभिमुखश्शिवः | प्रत्युक्वक्त्रं तु कुंभादौ स्थिरे द्वाराभिः संमुखम् | इति वचनात् स्थिरलिंगविषये द्वाराभिमुख एव ध्यातव्यः | प्. १७४) लिंगस्यापि मुखं यत् तत् द्वारं तत्पूर्वमिष्यते | तत्र तत्पुरुषं वक्त्रं ऊर्ध्वं चाभिमुखं स्मरेत् || बलिपीठं वृषं शूलं तद्वक्त्राभिमुखं स्मरेत् | इति च | शिवस्याभिमुखं द्वारं द्वारस्याभिमुश्शिवः | इति |
SKयस्यां दिशि भवेद्वारंतां प्राचीं परिकल्पयेत् | तत्र तत्पुरुषं वक्त्रं ऊर्ध्वं चाभिमुखं भवेत् || इत्यादि वचने स्थिरलिंगस्य लोकानुग्राहकत्वात् द्वाराभिमुखं सिद्धं चरलिंग विषये पूजकस्य साधारणतयार्च्यमानत्वात् तत् तत्पूजकानुग्रहीतत्वेन दक्षिणाभिमुखो शिवो ध्यातव्यः तथा सुप्रभेदे- अभिमुखीकरणं यत् तदा वाहनमितीष्यते | इति च | सोम शंभुपद्धत्यां- प्. १७५) ध्यानन्तमभिमुखं देवं पंचवक्त्रं सदाशिवम् | इति तत्रैव प्रदेशांतरे- सादरं संमुखी भावमावाहनमिहोच्यते | संनिधाने ततश्शंभो उपविश्य निजासने || इति | ब्रह्मशंभु पद्धत्याम्- ध्यात्वात्र सकलोपाधि विग्रहं सम्मुखं शिवम् | परमामृत निष्यंद धवलीकृत दिङ्मुखम् || अर्घ्यं निवेदयेत् पूर्वं दक्षहस्तेन संमुखम् | इति | रौरवे वृत्ति विवेकप्रकरणे मुद्राप्रकरणे परमेश्वरस्य व्यापकत्वात् आवाहन स्थापनसंनिधान संनिरोधनानि असंभवतीति | भ्रान्ति निवृत्तये व्याचष्टे विशिष्ट स्थितिरिति- तदनुग्राहकत्वेन अभिमुखी भावे विशिष्ठं सांनिध्यमिति च | प्. १७६) सिद्धान्तशेखरे- ध्यायत श्रद्धया सम्यक् मनसा पूजकस्य यत् | अभिमुख्यं शिवस्ये तत् आवाहनमुदाहृतमिति || तस्मात् चललिंगानां साधकाभि मुख्यमेव साधकानुग्राहकत्वात् | एवं पूज्य पूजकयोराभिमुख्यत्वेन विभोः प्रतिस्तिष्ठेदिति वचन प्राच्यमकृतश्शंभोरित्यादि वचनानि बोधेरन् इति चेत्तेषां वचनां प्राङ्मुख स्थिरलिंग विषयतया पूजास्तव मृगेन्द्र पद्धति व्याख्यान कृद्भिः परिहृत्य चललिंगस्य साधकाभिमुखं बहुयुक्तिभिस्साधितं तत्रैव अवधेयम् | अत्र पद्धत्यामपि काम्य मन्त्र पूजकस्तु दर्धं विज्ञाप्य लब्धानुज्ञः शिवासन पद्मस्य दक्षिण दलाग्रे प्राग्भागे स्त्री रूपाग्नौर्यादि मन्त्रान् पश्चिमभागे प्. १७७) पुंरूपान्मृत्युंजयादीन् स्त्रीपुंरूपानुमा महेश्वरादि मन्त्रान् देवस्य पुरतो यजेत् इति विधानात् | अनेनापि शिवस्य दक्षिणाभिमुखत्वं सिद्धम् | तथा मृगेन्द्रे-
SKअथाभ्यर्च्य महेशानं साध्य मन्त्रं यजेत् श्रियै | सर्वथा सर्वदा गुप्तं साधकैः वक्ष्यमाणवत् || यमाब्ज पत्रे प्राक् पश्चात् भागयोस्त्रीन्य विग्रहम् | अघोर लोचनं ज्योतिः मध्ये नान्यत्र कुत्रचित् || इति | अघोर संनिधौ श्रुत्यर्थं मन्त्र साधनस्य विहितत्वात् | सिद्धिका मानामपि दक्षिणतो मन्त्र साधनं विहितम् | तस्मात् दक्षिणाभिमुखत्वं ममुक्षूणां सिद्धिकामानामपि सिद्धमेव एष विद्यादेहन्यासः | पुष्पांजलि पूर्वं मन्त्रेण कर्तव्य इत्याह- ब्रह्मरंध्रांतर्व्यापकमित्यादि प्रासादं शिवमन्त्रं प्. १७८) तस्य स्वरूपं उक्तरत्र ग्रंथकार एवं मूलमन्त्रं मेधादि कलोपेतमित्यादि वक्ष्यति | शिवतत्वान्तव्यापकं शिवतत्वं निष्कलतत्वं तावत् पर्यन्तं व्यापकम् | ननु क्षित्यादि कुटिला प्रान्तमेवं व्याप्तिकमासनम् | इति शिव द्वयारब्ध कर्णिकाबीजराजितमित्यादिना शिवासन व्याप्तिरुक्ता विद्या देहस्यापि शिव तत्वांत व्यापकं कथमिति चेदुच्यते | अस्मिन् शास्त्रे परमेश्वरस्य ज्ञानक्रियात्मिका शक्तिरेव मूर्तिः सा च कृत्यभेद निबंधनात् पञ्च ब्रह्मात्मिकेति पूर्वमेवोक्तम् | अतो देवस्य साकल्य निबन्धन भेदानां कृत्यभेद निबन्धनात् | तस्य च आधिष्ठेय भेद निबन्धनत्वात् अधिष्ठेयस्य च विद्येश तत्वादूर्ध्वं प्. १७९) निष्कल शिवाधस्तात् स्थितस्य तस्य सदाशिव शब्द वाच्यम् | तदधिष्ठान निबन्धनं च साकल्यं तदुक्तं श्रीमन्मृगेन्द्रे- ईशानतीत्य शांतान्तं तत्वं सादाशिवं स्मृतम् | भुवनान्यपि नादादि कलानान्यः पतिश्शिवात् || उपक्रम्य- इति सादाशिवं तत्वं व्याख्यातं लेशतस्तव | शक्यिरप्येवमित्येषस्सकलः कृत्य योगतः || कृत्यं ददादि विषयं निष्कलोन्यत्र सर्वदा | इति | अतः साकल्य निबंधन त्रितत्व समुदाय वाचिकतया सदाशिव संज्ञया विद्या देहापरपर्यायः सकल विग्रहो विवक्षित इति तथा साधूक्तम् | तथा पौष्करेपि- ऋषयः- दीक्षायां भगवान् तत्वं शिवाख्यं शोध्यमीरितम् शान्त्यतीत कलाव्याप्तं इति चात्र विरुध्यते || प्. १८०)
SKईश्वरः चोदितं सत्यमेवैतद्वक्ष्ये यूयं समाहिताः | प्रकृतित्वादयं बिन्दुः क्षोभ्यते नाखिलात्मना || अत्रयो क्षुब्ध भागोस्याः शान्त्यतीत कला तु सा | शान्त्यादि भुवनात्मायः परिमाणस्तु बैन्दवः || शिवतत्वं तु तत्रोक्तं सादाख्यं भुवनं च यत् | बेन्दवं तत् तु सादाख्यं तत्वमुत्तं शिवागमे || एतान्येव तु शोध्यानि पूर्वोक्तानि च कुत्रचित् | इति तत्रैव- बिन्दु नैव विभिन्नोयं भक्तस्तु भुवनैरपि || शान्त्यतीतादि शान्तिश्च विद्यास्थिति निवृत्तयः | भुवनानि महांत्येषु संज्ञां पंचलभेत् शिवः || ईशान पुरुषाघोर वामजातादिकाः क्रमात् | एता सदाशिवावस्था भोगस्यानन पंचकाः || पंचमूर्तिमयी शुभ्रा नित्या सकल निष्कला | मूर्ति सादाशिवी ज्ञेया सर्वकार्य प्रवर्तिका || इति | प्. १८१) तस्मात् परमेश्वरस्य शक्तिरेव शरीरत्वादासनं विद्यात्मकमेव- अत एव | आसनासनि सद्भावं ज्ञात्वा यजनमारभेत् | इति कामिके प्रोक्तम् | एवं विद्या देहस्वरूपमुक्त्वा शिवस्य आवाहन क्रमं आह- मूलमन्त्रमित्यादिना | मूलमन्त्रः प्रासादमन्त्रः तं मेधादि कलोपेतं मेधा औकारं तदादयश्च ते कलाश्च मेधादि कलाः प्रोच्यन्ते | आदिपदेन ऊकारमकार बिंद्वर्ध चन्द्रनाद नादांत शक्ति व्यापिनी समनोन्मनाख्याः एकादश कलाः प्रोच्यन्ते | ताभिः उपेतं ब्रह्मादिकारणत्याग क्रमेण आदिपदेन विष्णु रुद्रेश्वर सदाशिवाः प्रोच्यन्ते तेषां वाचकाकार उकार मकार बिद्वर्ध्व चन्द्रनाद कलानां तत् तत्स्थानस्थित कारणेश्वरैः सहत्याग प्. १८२) क्रमेण लयांतं निष्कल शिवान्तं उच्चरन् सर्वकर्तारं सर्वं निरवशेषं जगत् करोतीति सर्वकर्तारं निष्कलं अवयवरहितं विभुं सर्वव्यापकं ज्ञानानन्दमयं ज्ञानेन यदा नन्दः निरतिशय सुखं अनाख्येयं स्वानुभववेद्यं नन्मयं तत्स्वरूपमित्यर्थः | तथा चोक्तम्- हेयो पादेय वेद्येन ज्ञानेन सुविचार्य च | शैवं तत्वमुपादेयं ज्ञात्वा तस्मिन्निराश्रये ||
SKनिस्तन्त्रे निष्कली भूते विदंत्यात्म नियत्सुखम् | निर्विकल्पमचित्यं च हेतु द्रष्टान्त वर्जितं || तत्सुखं परमं प्रोक्तं स्वानुभाव्यमतीवयत् || इति स्व परप्रकाशं स्वश्च परश्च स्वपरौ तयोः प्रकाशयतीति | स्वपरप्रकाशः तं संचित्य तन्मयी भूतः तस्य परमशिवस्य स्वरूपभूतं प्. १८३) शिवमन्त्रं सृष्टिक्रमेण अनुलोम क्रमेण चादशान्तात्परमशिव स्थान भूतोन्मन्यं तात्पतंग बिंबाभं सूर्यबिंबोपमं ललाटे भ्रूमध्ये निर्यक् निर्गच्छस्तुथा पिंडः अमृत समूहः तेन पांडुरितं धवलितं दिङ्मण्डलं दिशां समूहं तं प्राण प्रवाह वर्त्मना रेचकेण विनिर्गत्य अंजलिगतं विचिन्त्य लक्ष्यमूर्तौ न्यस्त मन्त्रविग्रहे हृदयेन हृदय मन्त्रसहितेन प्रासादेना वाहिन्या वहन मुद्रया वाह्य | तदुक्तं सोमशंभु पद्धत्याम्- सर्वज्ञं सर्वकर्तारं बोधानंदमयं विभुम् | निष्कलं स्वप्रकाशं च संचिन्त्य परमं शिवम् || ब्रह्मादि कारणत्यागान्मन्त्रं नीत्वा शिवास्पदम् | ततो ललाट मध्यस्थं स्फुरत्तारापति प्रभम् || षडंगेन समाकीर्णं बिन्दुरूपं परं शिवम् | प्. १८४) पुष्पांजलि गतं ध्यात्वा लक्ष्यमूर्तौ निवेशयेत् | इति || तथा कामिके- कृत्वा हृद्गतमंजलिं च कुसुमं प्रासाद मन्त्रम् पठन् भक्त्या निष्कलगोचरस्समरसी भावं गतस्साधकः | ध्यायेदुत्क्रमतस्तु शक्तिकरणे नादे तथा बिन्दुके निष्क्रान्तः क्रमतस्वशक्तिकरणेस्यादेवमावाहनम् || इति || ननु अप्राप्त संनिधानस्य वस्त्वन्तरस्य यद्व्यावाहनं क्रियते | शिवस्य व्यापकत्व हानिः यदि चिद्व्यक्तिः क्रियते | स्वयंभु बाणलिंगयोः कृतः संनिधेः विरोधश्च न विरोधेगुर्वनुग्रहीतानामत्रावाहनं द्विविधं प्रतिष्ठाकाले लिंगे जीवन्यासरूपं यदा वाहनं तच्छिद्व्यक्तिरूपम् | तथा कामिके- ऋषयः ऊचुः | सर्वगस्य शिवस्येह अथमावाहनं प्रभो | प्. १८५) यद्यावाहनमिष्टं स्यात् सर्वगत्वं विहन्यते | ईश्वरोवाच-
SKआमूलाग्र स्थितस्याग्नेरभिर्व्यायथातरौ | तद्वदेकत्र चिद्व्यक्तिः व्यापकस्य न बाध्यते || यथात्मनस्तनुद्वारास्यातामिह गमागमौ | तद्वन्मन्त्रितनु द्वारा शिवस्येष्टौ गमागमौ || अचिंत्य शक्ति युक्त * * * * व्यापकश्च सः | स तनुस्तनु हीनो वा सर्वकृत् सर्वगश्शिवः || इति | आवाहन विसर्गान्तं प्रत्यहं कर्मणामिहेति वचनात् प्रतिदिवसं पूजाकाले यथा वाहनं तदभिमुखीकरणम् | अभिमुखीकरणं यच्च तदावाहनमुच्यते | इति सुप्रभेदे तदभिमुखत्वमीशान वस्त्रस्य | तथा कामिके- तत्रेशानस्थितोक्तानो मूर्ध्निस्थ स्वदिगीषणे | प्. १८६) आवाहनादीनां स्वरूपं सोम शंभु पद्धत्यां उक्तम्- सादरं संमुखी भावं आवाहनमिहोच्यते | भक्त्या निवेशनं तत्र स्थापनं कथितं बुधैः || जगन्नाथ तवास्मीति यत्सीकारोव दर्शनम् | विभुत्वेपि तदीशस्य संनिधानं न बाध्यते || आकर्मकाण्डपर्यन्तं संनिधेर्योऽपरिक्षयः | स शंभोर्व्यापकत्वेपि निरोधः परिकीर्त्यते || तथा अन्यत्र- आवाहनं स्थापनं च सान्निध्यं संनिरोधनम् | विधौ स्थितानि नामानि कर्मणां कथितानि तु || नरैरावाह्यते कश्चित् न च कैश्चिन् निवेश्यते | निरुध्य तेन देवेश संनिधिः क्रियते न च || व्यापकं मन्त्ररूपेण चिन्तयेत् परमं शिवम् | तदा वाहनमित्युक्तं क्षमस्वेति विसर्जनम् || प्. १८७) इति आवाहन मुद्रा लक्षणं सूर्यपूजायामुक्तम् | तदत्रावधार्यम् | हृदयेनावाहिन्या वाह्येति विधानात् | स्थापन संनिधान संनिरोध नान्यपि सहृदय मूलेनैव कुर्यात् | तथा सोमशंभु पद्धत्याम्- आवाहिन्या हृदा वाह्य स्थापिन्या स्थाप्य शंकरम् | इति | देहे लक्ष्मी कृते नासेत्स्थापनं हृदयेन तु || इति ब्रह्मशंभुपद्धत्याम् | ततो मन्त्रैः सकलीकृत्य हृदादि स्थानस्थित ब्रह्मादि कारण पंचक त्यागेन लयांतमुच्चरन् आवाहन स्थापन संनिधान संनिरोधनानि स्व स्व मुद्रया मूलमन्त्रेण विधायेति | विमलवत्यां तथा द्विशति कालोत्तरे |
SKआवाहयेत् तथा देवं हृदयेन तु साधकः | स्थापनं पूजनं चैव हृदये नैव कारयेत् || प्. १८८) हृदये नैव तत्सर्वं यत्किंचिद् विधि चोदितं | इति तद्वृत्तौ परमशिवं सहृदयेन प्रासादेनावाहयेत् | एषां च उपलक्षणत्वाच्चकार समुच्चयादावाहनादि जप निवेदनान्तं कर्म हृदये नैव कुर्यात् | विधिमूलशास्त्रं तंत्रोक्तमिहानुपात्तसर्वमित्यर्थः | उक्तानुक्तं तु यत्किंचित् सर्वं हृदयेन तु | इति समान तन्त्र वचनात् | इह हृदयेनेति पुनः पुनरभिधानान्मन्त्रांतरसाध्यमपि सर्वं कर्मतत्तदाकारेण तदेव साधयतीत्यघोर शिवाचार्येण व्याख्यातम् | ननु आवाहनयेद जातेन वामेन स्थापयेच्छिवम् सांनिध्यं स्यादघोरेण पुरुषेण निरोधयेत् || इति आगमान्तरे प्रोक्तमितिना शंकनीयम् | अत्र पद्धत्यां आवाहन स्थापन संनिधान संनिरोधनानन्तरं स्वागतार्घ्यं दत्वा हृद्यादि मन्त्रन्यासानंतरं मूलेनैकत्वम् | प्. १८९) रक्षावकुण्ठना मूलेनामृत मुद्रां दत्वा वौषडंत मूलेन महामुद्रया परमीकृत्य | पञ्चमुखीमुद्रामाबध्य इति संनिरोनंतरं हृदयादि न्यास रक्षावकुण्ठन मुद्रादर्शनादीनां विधानमुक्तं सोमशंभु पद्धत्याम् | आवाहिन्या हृदावाह्यस्थापिन्या स्थाप्यशंकरम् | संनिधान्यांतिकं कृत्वा निष्ठुरया निरोधयेत् || कालकंठ्या फडंतेन विघ्नानुच्चाट्यरिष्टिना इति हेतिना | लिंगमुद्रां नमस्कारं हृदा बध्वाऽवकुण्ठयेत् || इति | अनन्तरं सकलीकरणं कृत्वा मन्त्रैः षट्यभिरथैक्तामिति | संनिरोधानन्तरं मुद्रादर्शनावकुण्ठन हृदयादि न्यासानः विधानमुक्तम् | किं च मुद्रा भेदोप्युक्तः | एवं क्रियाभेदवन्मन्त्र भेदोपि तथा स्वायम्बुवे | प्. १९०) आवाहिन्यां जलौ कृत्वा अघोरेण निरोधयेत् | निष्टुरां च ततो बध्वा देयान्यंगानि वै विभोः || नेत्रं स्यात् हृत्प्रदेशे तु गायत्रीं वापि विन्यसेत् | सावित्री चेत्ययं प्रोक्तः इति आवाहयेद जातेन वामेन स्थापयेत् शिवम् | अघोरेण तु सान्निध्यं अर्घ्यं तत्पुरुषेण तु |
SKइति सर्वज्ञानोत्तरे | अत्र संनिरोधानाभिहितः | सदाशिवं परं ध्यात्वा आवाहयेत् सद्य मंत्रतः || स्थापनं वाममन्त्रेण अघोरेण निरोधनम् | नरेण संनिधानं स्यात् ईशानेन तु पूजनम् || इति मकुटे | आवाहयेत् तु सवेद्येन वामेन स्थापयेत् ततः | अघोरेण निरोधं तु सान्निध्यं पुरुषेण तु || ईशानेन तु मन्त्रेण अभिषेकं समाचरेत् | प्. १९१) इति संताने एतयोर्निरोधनानन्तरम् | संनिधानस्योक्तं किं बहुना | आगमानां बहुत्वेपि कर्तव्यं स्वगुरु क्रमात् इति वचनात् स्वगुरूदितमेवाचरणीयम् | अथ शिव प्रार्थनमाह- स्वामिन्नित्यादिन - स्वागतार्घ्यं संमुखार्घ्यं निरोधार्घ्यं पराङ्मुखार्घ्यमिति पर्याय नामानि | अत्र तावत् अर्घ्यो द्विविधः विशेषार्घ्यो निरोधार्घ्यश्चेति | शिवतत्व विद्या तत्व प्राप्ति भाघाद्विभिन्नः | तत्र आवाहन विसर्जनयोः विद्या तत्वांत व्यापको निरोधार्घ्यो देयः | पूजायां तु शिवतत्वांत व्याप्तिक शिवार्घ्यः | तदुक्तं श्रीमन्मृगेन्द्रे- आवाहने विसर्गे च रोधार्घ्यमुपयुज्यते | शिवाभिधानं पूजायां पाद्ये चाचमनीयक || इति || प्. १९२) अत्र तावत् निरोधार्घ्यं पञ्चसुमूर्धा सुदेयमिति केचित् | ऊर्ध्व वक्त्रे तु दातव्यं संमुखं च पराङ्मुखम् | आगतस्य देवस्य संमुखं परिकल्पयेत् || विसर्जने तु गांगेय देयमार्घ्यं पराङ्मुखम् | इति सर्वज्ञानोत्तर वचनात् ऊर्ध्ववक्त्रे एव संमुखार्घौ देयौ | हृदयादि करांतस्थानेष्वित्यादि | मूलेनैकत्वम् | अंगांगिनोः अभिंनत्वं विधाय अमृतमुद्रां धेनुमुद्रां नम्ॐत मूलेन दद्यात् | महामुद्रया प्ररोच्य | रुचिरांग कल्पनं कृत्वा | तदुक्तं कामिके- यथा नल तरण्याद्यास्समर्थास्स्वस्व दीप्तिभिः | तद्वदंगै स्वभावोक्तैः रध्रष्योखिलकृच्छिवः || प्. १९३) अंगागिनोरभिन्न प्रतिपत्तिर्विभिन्नयोः | अमृतीकरणं प्रोक्तं प्रभोरमृतमुद्रया || प्ररोचनं भवेत् तस्य रुचिरांग प्रकल्पनम् | तन्महामुद्रया कुर्यान्मोचनद्राविणाख्यया || इति पञ्चमुखी मुद्रा लक्षणं सुप्रभ्दे |
SKकृत्वान्योन्य गतांगुल्यः पृष्ठतो हस्तयोर्द्वयोः | तिर्यक् कनिष्ठिके कृत्वा अंगुष्ठा कृतके तथा || देशिन्या मध्य युगले नामिका द्वय संश्रिते | कृत्वा पंचमुखी ख्याता मुद्रेयं शंकर प्रिया || इति | अन्येषां लक्षणं पूर्वमेवोक्तम् | शिवस्य पाद्यादि समर्पणमाह- सहृदेत्यादि- पाद्यादि समर्पण विधानां शिवतंत्रांहस्यसारे विशिष्य प्रतिपादितम् | साधकस्ये शतत्वाख्य पदा पादकमुद्धृतम् | प्. १९४) पाद्यं पादांबुज द्वन्द्वे बिन्द्वन्तं यं सुशंबरम् | पुष्पैर्नमोन्तमुच्चार्य शिवाय विनिवेदयेत् || सदाशिव पदप्राप्ति हेतुमाचमनीयकम् | शंबरं ब्रह्मरंध्रान्तं समुच्चार्य स्वधांतकम् || पुरुषा घोर वामाजे शाख्येष्वास्येषु पंचसु | पात्रमुक्षिप्य देवाय प्रदद्याद्देशिकोत्तमः || ईशतत्पुरुषाघोर वाम जातान्त मूर्धसु | स्वाहान्त मूलमुच्चार्य द्वादशान्त पदावधि || शिवतत्व पदप्राप्ति हेतुमर्घ्यं स पुष्पकम् || सयत्रकं समुद्धृत्य दद्याद् देवाय बुद्धिमान् | शिवमन्त्रं समुच्चार्य वौषडन्तं शिवान्तकम् || ईशादि सद्य पर्यन्तेष्वुक्तमांगेषु पंचसु | आत्मज्ञानमयं पुष्पं शिवसायुज्यकारणम् || सुगंधगंधि संपन्नं शिवाय विनिवेदयेत् | प्. १९५) इति पूर्ववदाचमनार्घ्यौ दत्वा | पूर्वोक्त प्रकारेण मन्त्रोच्चारणं कृत्वा | पंचसुमुखेष्वाचमनम् | पञ्चसु शिरस्वर्घ्यं च ददेत् | इत्थमावाहनस्थापन संनिधान सकलीकरणामृतीकरण पाद्याचमनार्घ्य वौषडन्त पुष्पदानाख्यैः दश संस्कारैः संस्कृत्य | अनन्तरं अभ्यंगादि महास्नपन प्राप्तत्वात् चललिंगविषये समग्रासन पूजानन्तरं चलनमयुक्तमिति | पूर्वं स्नपनं कृतमपि पुनरपि मनो भावनया करणीयमित्याह अभ्यगोद्वर्तनादिति- गंधादि समर्पणं वक्ति- चन्दनेत्यादिना | मेखला कटिसूत्र चन्दनादि सर्वं सहृदय मूले नैव दद्यात् | मनोरथ मुद्रालक्षणमुक्तं सुप्रभेदे | प्. १९६) वलितं हस्तयोः कृत्वा उक्तानौ तु कनिष्ठिकौ | तयोर्वामा बहिर्ज्ञेया विलिते मध्यमेपि च ||
SKकुंचिते नामिकाग्रे च स्वपाणि तलयोचिते | देशिन्यौ प्रसृतौ कृत्वा तयोरग्रं नियोजयेत् || अंगुष्ठौ मूलपर्वस्थौ तयोरेव हि कुंचितौ | मनोरथेति विख्याता शिवसायुज्यदायिनी || इति मुद्रादाने देवस्य हृदय प्रदेशे दर्शयेत् | तदुक्तम्- स्तनद्वयादधः कृत्वा करमुद्रां न बंधयेत् | संनिधावपि लिंगस्य नाथो नैव मधोमुखीम् || मुद्रा प्रीतिप्रदा शंभोः हृद्देशेतान्ति दापयेत् | इति अर्घ्यदाने विलिंगोपरिकरं न भ्रामयेत् | कर इति - ब्रह्मांगानि लयस्थानेष्विति | लयस्थानानि मूर्धा मुखादि तत् तत् स्थानानि तेषु- प्. १९७) आवरण पूजार्थ मध्येष्येति- अघ्येष्य प्रार्थ्य | अत्रैकावरणस्योक्तत्वात् नित्यविधौ एकावरण पूजैवकार्या | त्र्यावरण पंचावरणार्चनं नैमित्तिकादौ कार्यम् | तथा सिद्धान्तशेखरे- पंचब्रह्म षडंगानि प्रथमावरणे यजेत् | विद्येश्वरान् द्वितीये तु नन्द्याष्टौ त्रितीयके || चतुर्थे लोकपालास्युः लोकपास्त्राणि पंचमे | पंचावरण मार्गोयं कार्यो नैमित्तिकादिषु || एकमावरणं नित्ये यदि वा वरण त्रयम् | पंचनैमित्तिके काम्ये यदि वा नवमो मतः || तत्रापि पूर्ववत् पंचषष्ठे स्यात् सप्तमातरः | सप्तमे वसवः प्रोक्ताः रुद्रेकादशसंस्मृताः || अष्टमावरणे प्रोक्ताः आदित्या नवमे मताः | इति | तथा द्विशति कालोत्तरे- प्. १९८) एकावरणमेतत्तु सर्वकामार्थ साधिनम् | इति तस्य शिरपंचकेभ्यो इत्यादि आवरण पूजा प्रकारः | आदायेत् यत्र शिवस्य मूर्धादि स्थानेभ्यः ईशानादि मन्त्रान् दीपाद्दीपान्तराणीवादाय | पद्धत्युक्त प्रकारेण तत्तद्दिक् स्थित दलेषु पूजयेत् | तथा सिद्धान्तशेखरे- मस्तकेभ्योध वक्त्रेभ्य हृदयाद् गुह्यकात्तनोः | शिवस्य ग्राह्य एतेभ्यः प्रदीपाद्दीपकानिव || स्वमन्त्र ध्यान योगात्ताना कृष्यांजलि मुद्रया |
SKइति | सद्भावात्मकमित्यादि - सत् चासौ भावश्च सद्भावः | सद्भावात्मकं सद्भाव स्वरूपं शिवस्य हृदयं व्यपदिश्यते | सद्भावो हृदयं तस्येति पौष्करे | सर्वैश्वर्य लक्षणमिति- अत्र ईश्वरस्य विविधत्वं अणिमादि सिद्धि प्रवृत्तत्वादौपचारिकम् | प्. १९९) नतु तद्रूपतया तस्य शरीरेन्द्रिय धर्मत्वेन तद्रहितस्य शिवस्य तदसंभवात् तदुक्तं मतंगे- त्रितयं वा यत सिद्धं ऐश्वर्य मणिमादिका | प्रप्त्यादयो गुणः पञ्च देहिनः करणात्मकः || इति || अत एव दृक्क्रियात्मकमैश्वर्यमित्युक्तम् श्रीमत्पराख्ये- दृक्क्रियात्मकमैश्वर्यं यस्य तद्दात्र पूर्वकम् | ईश्वरस्सोत्रमन्तव्येति पौष्करे- ऐश्वर्यं स्वामिता तस्य चिदचिद्व्यक्तिणोर्द्वयोः | इति | अनन्या धीनवशित्व शिखामिति वशित्वं स्वातन्त्र्यं अन्यस्याधीनं अन्याधीनं अन्याधीनं न भवतीति अनन्याधीनम् | अनन्याधीनं च तत् वशित्वं च तदेव रूपं यस्यास्तादृश प्. २००) रूपां शिखामित्यर्थः | मुक्तात्मवत् ईश्वरांतर व्यापारेण मलापोहन द्वाराभिव्यक्त स्वातत्र्यं नेत्यर्थः | वशित्वमपराधीनं तं शिखासोपरिस्थिता | इति पौष्करे | अनन्याधीनता शंभोः वशिताया शिखा परा इति शिवतंत्ररहस्य सारे | तेजोरूपं कवचमिति तेजः स्वदृक्क्रियौ तावेव रूपं यस्य तत् ज्ञानक्रियाशक्ति रूप किरणमेव कवचम् | किं च स्वदृक्क्रियाशक्ति किरणात्मकमव्ययम् | इति पौष्करे | दिनकृन्मण्डलाकार दृक्क्रिया मण्डलं चित इति पराख्ये | अभेद्यं परमेशस्य तेजः कवचमुच्यते | इति मृगेन्द्रे- तेजश्शर्वस्य दुर्भेद्यं वर्मत्वेन विनिर्मितम् | इति शिवतन्त्ररहस्य सारे- प्रतापरूपमिति प्रतापोज्वलनन्तदेवास्त्रं- प्. २०१)
SKयो साव प्रसहश्शंभोः प्रतापो हेति रुच्यते | इति | पौष्करे- प्रभोः प्रतापः प्रथितशस्त्रं स्यादघनाशनमिति | शिवतन्त्ररहस्यसारे- एवमीशानादि मन्त्रान् हृदयादि मन्त्राश्चादाय पद्धयुक्त ध्यान स्वरूपेण ध्यात्वा पूजयेत् चतुर्दिक्ष्वस्त्रमर्चयेत् इति वचनात् शिवस्य दक्षिण पार्श्वस्थित शक्त्यभीति शूलवरानादाय पूजयेत् | तत्पुरुषादिभ्यो वाम भाग इत्यत्र तत्पुरुषादीनां शिवस्याभिस्थिते रुक्तत्वात् तत्पुरुषस्य याम्य दिग्भागो वामभागः एवमघोरस्य पश्चिम दिग्बागः सद्योजातस्योत्तर दिग्भागः | वामदेवस्य पूर्वदिग्भाग इति ज्ञातव्यः | एतेषां स्व स्वमन्त्रैरावाहनादि संस्कारा विधेयाः | तदुक्तं कामिके- प्. २०२) आवाहनादीन्येतानि स्वमन्त्रैः क्रमशोर्चयेत् | नावकुण्ठेनमेतेषाममृतीकरणं तथा || संस्कारष्टकमेवैतत्प्रयेकं विहितं बुधैः | स्नपनं दीपकौप्तिश्च न पृथक् चांग भावतः || भोजनं तु प्रभोः पार्श्वे तेषां तस्य च कीर्तितम् | इति | उक्त संस्काराष्टक प्रत्येक करणा शक्तौ एकत्र समुदायेन कार्यमित्याह यद्वा धेनु पद्ममुद्रयोः लक्षणं सूर्यपूजाप्रकरणे पूर्वमेव उक्तम् | त्रिशूलादीनां लक्षणं उक्तं मृगेन्द्र पद्धत्याम्- करयोस्तर्जनीयुग्मे नामा युग्मे च प्रष्ठतः | लीनयुग्म त्रये शेषैश्शूलं शिष्टैः प्रसारिते || सम्मुखे तर्जनी युग्मे कुंचिता नामिका द्वये | ज्येष्ठाभ्यां पृष्ठतः क्रान्ते सुगेवमकरी भवेत् || कनिष्ठे वलितेन्योन्यं परस्पर तलश्रिते | प्. २०३) अनामिके च मध्ये द्वे प्रसार्यत्वग्र संयुते | तर्जन्यौ मध्यमाप्रष्ठे लग्न प्रान्तश्च कुंचिते || अंगुष्ठौ मध्यमा लग्न प्रान्तं मुद्रा स्रुगीरिते इति | नमस्कारमुद्रा लक्षणं पूर्वं उक्तम् | अथ आवरण पूजानन्तरं करणीयमाह पश्चादित्यादिना- राजसीतु भवेत् पूजा परमीकरणं विना |
SKइति मोहशूरोत्तर वचनात् परमीकरणं कर्तव्यम् | परमीकरण प्रकारः पुष्पांजलि हस्तः पूर्ववन्मूलमन्त्रं द्वादशान्तपर्यन्तमुच्चार्य भोगांगार्थमाहृति शक्ति पूरणार्थं शिवाय पुष्पांजलिं समर्पयेत् | सर्वेषां शिवेन सार्थमिति सर्वेषामावरणार्चितदेवानां एकमन्तर्भावः एकत्वमगांगिनोरपृथग्भावं तदुक्तम्- प्. २०४) सर्वावरण देवानां पृथग्भावं न कारयेत् || इति | नैवेद्यं विविधमिति- शुद्धान्न पायसान्न गुलान्न क्रसरान्न मुद्गान्नादि भेदेन यदि वा भक्ष्य भोज्य लेह्य चोष्य पेय घृत सूप शाख दधि क्षीर फलादि भेदेन नाना प्रकारं चतुस्संस्कार संशुद्धमित्यनेन नैवेद्यादि सर्वं चतुस्संस्कार पूतं कार्यं स्वाहांत मूलेन दत्वेत्यनेन कुत्रेत्याकांक्षायां साधकेन नैवेद्यादि शिवस्य दक्षिण हस्ते देयम् | तेन ऊर्ध्व वक्त्रेण भोज्यमिति भावयेत् | तदा हस्तोद्वर्तनस्य सिद्धिः | अन्यथा साधकेन नैवेद्य मूर्ध्ववक्त्रे देयं चेत् तदा शिवस्य हस्तोद्वर्तनस्य नावकाशः | साधक हस्तस्य निर्माल्यानुषंडश्च तस्माद्धस्ते नैवेद्यं साधुमतम् | प्. २०५) (तथा द्विशति कालोत्तरेपि) ननु तत्पुरुष वक्त्रे नैवेद्य दानमागमान्तरे प्रतिपादितं कथं ऊर्ध्ववक्त्रे देयमिति चेदुच्यते | ऊर्ध्ववक्त्रस्येव साधकाभिमुख्यत्वेन द्वाराभिमुख्यत्वेन वा आभिमुख्य विधानात् | ऊर्ध्ववक्त्रे एव नैवेद्यादि देयम् | तदुक्तं सर्वज्ञानोत्तरे भक्ष्य भोज्यान्न पानादि लेह्य शोष्यमनेकशः | ऊर्ध्ववक्त्रे तु दातव्यं यत्किंचिद्विधि चोदितम् | तथा द्विशति कालोत्तरेपि- भक्ष्यं भोज्यं च पेयं च लेह्यं शोष्यं च पंचधा | ऊर्ध्ववक्त्रे प्रदातव्यं हृदयेन षडानन || कामिके- पंचवक्त्रेषु नैवेद्यं ऊर्ध्ववक्त्रेथ वा पुनः | इति | प्. २०६) पंचसु ईशानवक्त्रस्य सर्वातिशय फलप्रदात्रत्वमुक्तमागमान्तरे | तद्यथा- प्रसन्नत्व यदीशस्यस्तैमित्यं पुरुषस्य च | चण्डत्वं बहुरूपस्य मुक्ति स्थित्यंत हेतुकम् ||
SKविलोभनत्वं वामस्य ध्यायित्वं यदजस्य च | तिरो भावोद्भवार्थं तु सर्वार्थ समुदायकम् || इति च | मुक्त्यर्थं स्फटिकाकारं प्रसन्नं चेतसा स्मरेत् | ईषत् प्रहसितं षीतं गर्वितं स्तंभनादिनादिषु || करालमसितं पीत जटामुण्ड हि भूषणम् | क्षयादिषु तिरो भावे सरक्तं चागमण्डनम् || मनने सर्वभावानां ध्यान सक्त मनुस्मरेत् | इति ब्रह्मांगानां स्वस्वमन्त्रै दत्वेत्यत्र पात्र संभवे तेषां प्रत्येकं दद्यात् | अथ वै कस्मिन्पात्रेत्युक्तरत्र विधानात् | उक्तं च- प्. २०७) भोगांगानां पृथग्देयं अभावादेकतो भवेत् | इति | निवेदनानन्तरकरणीयानाह- हस्तोद्वर्तन इत्यादिना- हस्तोद्वर्तनं हस्तप्रक्षालनम् | तथा सिद्धान्तशेखरे- शिवेन भुक्तं सांगेन स्मरेदावरणैस्सह | हस्त प्रक्षालनं दद्यात् शिवायाचमनीयकम् || ताम्बूलं च ततो दद्यादिति | मुखवास इति- मुखवासयतीति परिमली करोतीति मुखवासः | एलालवंग कर्पूरे तिंबुजाती फलतक्कोल कस्तूरीणां हिमांभसा पिष्टानां गुलिकी कृतानां मुखवासमिति नाम दूर्वाक्षत सहितं पुष्पं मंजलौ गृहीत्वा इति पवित्र समर्पणमुक्तम् | एतदकरण पूजायास्तामसत्वंतूक्तम् मूहशूरोत्तरे | पवित्रेण विना पूजा तामसी परिकीर्तिता इति | प्. २०८) तत्पवित्र दानं द्विविधं नित्यनैमित्तिकं चेति | आद्यं पत्र पुष्पकुशाक्षत रूपं सर्वतत्वमयं पवित्रं अन्यदुक्तरत्र वक्ष्यमाण प्रकारेण मिथुन शुक्ल चतुर्दश्यादिषु समर्पणरूपम् | प्रत्यहं वाङ्मनकाय व्यापारजनिता दलम् | पतनात् त्रायते यस्मात् तस्माद् देयं पवित्रकम् | इति कामिके || सर्वचिद्रहरश्चान्यो विधिशेष निगद्यते | यः प्राप्तस्तपसादेवैः हरात् स्वविधिपुष्टये || शंभोः पवित्रमासाद्य पूरयेद्वार्षिकं विधिम् | इति मृगेन्द्रे | आरात्रिकमिति- एकस्या एव स्थालिकायानवभिरष्टभि पंचभिर्वा दीपैः संयुक्तयाः आरात्रिकमिति नामतम् | प्. २०९)
SKअथ ऊर्ध्वं वारत्रयं परिभ्राम्य पूर्वं अधः वारत्रयं परिभ्रमणं कृत्वा पश्चादूर्ध्वमपि वारत्रयं भ्रामयेत् | आरात्रिकां ज्वलद्दीपै नवपंचाष्टभिर्युताम् | सौवर्णां राजतीं वापि गंधदूर्वाक्षतार्चिताम् | अथ ऊर्ध्वं क्रमेणश सन्निधौ तां शनैः शनैः || त्रीनारान् भ्रामयेदिति- दुर्बोध पदबोधिन्याम् | तथा त्रयोदशशति कालोत्तरे- बिन्दोश्शिवाधिष्ठितस्य शुद्धा शुद्धाध्वनोः भ्रमात् | व्यापिनं चिन्त्यते येन तन्नीराजनमिष्यते || इति शिवाधिष्टितस्य बिन्दोः निवृत्तिकला रूपस्य पंच प्रदीपाड्यस्याधो भ्रमात् | अशुद्धाध्वस्य ऊर्ध्व भ्रमात् | शुद्धाध्वसु यद्वापकं चिन्त्यते तन्नीराजनमित्यभिधीयते | प्. २१०) तस्मिन् भस्म शिखोपरि त्रिधा भ्राम्य क्षिपेत् | तद्विघ्न निवारणं उक्तं च | ग्रहीत्वा भस्म हस्तेन भ्रामयित्वा शिखोपरि | त्रिवारं दीपमध्ये तु निक्षिपेदनंतरम् || पूजा प्रतिफटानां तु राक्षसानां निवारणम् | यत् तद्विभाव्यते पुत्र कल्पसिद्धेन भस्मना || इति | आचमनार्घ्यौ दत्वा इति पुनपुनरभिधानात् | आवाहनानंतरं प्राप्ताचमनार्घ्य व्यतिरिक्ता चमनार्घ्यौ ईशानमुखे सकृदेव देयौ | तथा कामिके- धूपे दीपे च नैवेद्य बलावभ्यंतरेपि च | सकृदाचमनं दत्वा कर्तव्यं कर्मचोत्तरम् || इति नन्द्यादिभिः नन्दिकेश्वरः प्रथमगणः | आदि पदेन ब्रह्मविष्णवादयः गृह्यंते | तैस्तूयमानं तदुक्तं- सिद्धांतशेखरे- प्. २११) ब्रह्मविष्णिंद्र देवाद्यैः सेवितं शिवसेवकैः | श्रौतैः पौराणिकैस्तोत्रैः मन्त्रैर्गीतैरनेकधा || स्तूयमानं शिवं तुष्टं पूजकः पूजया स्मरेत् | इति | तथा सोमशंभु पद्धत्याम्- सूयमानं विरिंचाद्यैः सतुष्टं भावयेत् शिवम् | इति |
SKद्विरष्टककलोपेतेति- द्विरष्टककलाष्षोडशकलाः तत्समवेतेन प्रासादेन पूर्वमावाहन विधानोक्त द्वादशकलाभिस्सह समना व्यापकान्तस्थे व्योमान्तानंत संज्ञिका | अनाथानाश्रिते देवि ज्ञेयोद्व्यष्ट कलश्शिवः इति वचनात् व्योमरूपानन्तानाथानाश्रिताख्याश्चत्वारः कलास्समनायाः अधः व्यापिन्या उपरिसंयुक्ताश्चेत् षोडशकला भवन्ति | तेषां प्रस्तार स्वरूपं सिद्धान्तसारावल्यादौ अवधेयः | प्. २१२) अथ जपविधिमाह- हस्तैः पुष्पं गृहीत्वेत्यादिना- पूजया विपुलं राज्यं अग्निकार्येण संपदः | जपेन पाप संशुद्धिः ध्यानेन ज्ञानमुच्यते || इत्युक्तत्वात् पाप क्षयार्थं जपः कर्तव्यः | सः जपः मानसादि भेदेन त्रिप्रकारः | तथोक्तम्- स जपस्त्रिविधे ज्ञेयः सोपांशु भाष्यमानसैः | मानसो मनसा कार्यो मन्त्र वाक्यार्थ चिन्तया || उपांशुरोष्ठ संस्पर्शमात्रस्वमति गोचरः | उच्चैर्भाष्य जपः प्रोक्तः परश्रवण गोचरः || मानसस्सात्विकः प्रोक्तः राजसंश्च द्वितीयकः | विस्पष्टस्तामसः प्रोक्तः तामसः क्रूरकर्मणि || राजसः पुष्टि वश्यादौ सात्विको दिव्य सिद्धयेति | हस्ते पुष्पं गृहीत्वेत्यत्र वामहस्तधृत पुष्पस्सन् हृत् संपूजितयाक्ष मालयेति | अत्र अक्षमाला च आगमेषु बहुप्रकारा | प्. २१३अ) तत्र रुद्राक्षमालाया (जपः कर्तव्यः) अतिशय फल प्रदातृत्वेन श्रुतेः | रुद्राक्षमाला जपः कर्तव्यः तदुक्तम्- जपमालाविधानं च संक्षेपेण निगद्यते | तद्भेदस्तत्फलं चापि मन्त्रीणां हितहेतवे || अल्पायास प्रसाध्याय बहुसिद्धिप्रदायिनी | प्रथमं वर्णमालैव गद्यते सिद्धिकांक्षिणाम् || अनुलोम विलोमस्थै बिन्दुयुङ्मातृकाक्षरैः | समेरुगै साष्टवर्गौः कृतया वर्णमालया || प्रत्येक वर्णयुक् मन्त्रा जप्तास्युः क्षिप्रसिद्धिदा | अत्रांगुलि जपं कुर्वन् सांगुष्ठांगुलिभिर्जपेत् || अंगुष्ठेन विना कर्म कृतं तद्धिफलं भवेत् | कनिष्ठा नामिका मध्या चतुर्थी तर्जनी मता || तिस्र्ॐगुल्यस्त्रिपर्वास्युः मध्यमा चैक पर्विका | प्. २१३ब्)
SKपर्वद्वयं मध्यमा याः जपकाले विवर्जयेत् | आरभ्या नामिका मध्यात् प्रदक्षिण वशात् सुधीः || तर्जनी मूलपर्यन्तं जपेद् दश सुपर्वसु | अथवा मध्यमा नामा मध्यपर्व युगात्मकः || मेरुं प्रदक्षिणी कुर्वन् न नामा मूलपर्वणि | आरभ्य मध्यमा मूलपर्यन्तं गणयेद्बुधः || अंगुलिं न वियुंजीत किंचित् संकोचयेत् तलम् | अंगुलीनां वियोगे तु चिद्रेषु स्रवते जपः || अंगुल्यग्रे तु यज्जप्तं यज्जप्तं मेरु लंघने | पर्व संधिषु यज्जप्तं तत्सर्वं निष्फलं भवेत् || गणना विधिमुल्लंघ्य यो जपेत् तु प्रमादतः | गृह्णन्ती राक्षसा यस्मात् नियतं गणयेद् बुधः || नित्यं जपं करे कुर्यात् न तु काम्यमबोधनात् | मालाभिस्तु प्रकुर्वीत नित्यं काम्यं च साधकः || प्. २१४) अंगुली जपसंख्यानां एकमेक मुदाहृतम् | पुत्र जीवैर्दशगुणं शतं शंखैस्सहस्रकम् || प्रवालैर्मणिरत्नैश्च दश साहस्रकं स्मृतम् | तदेव स्फाटिकैः प्रोक्तं मौत्तिकैर्लक्षमुच्यते || स्वर्णैः दशगुणा प्रोक्ता तस्मात् शतगुणाकृता | कुशग्रघ्न्या च रुद्राक्षैः अनन्तगुणितं फलम् || आदिक्षात्रार्णयोगित्वा दक्षमालेति कीर्तिता | तद्वर्ण संख्या मणिभिः जपमालां प्रकल्पयेत् || अथवा तान् शनैः कुर्यात् सर्वसाधारणे जपे | पंचाशद्भिः काम्यकर्म सिद्धिस्यात् चतुरुत्तरैः || अष्टोत्तरशतैः सर्वसिद्धिरुक्ता कृत सृजा | मोक्षादी सप्तविंशत्यो पंचदश्याभिचारके || इत्यादिना सर्वसाधारणण्येन प्रोक्तम् | रुद्राक्षस्य तु- सप्तविंशतिभिश्चाक्षै पंचवक्त्रैर्विशेषतः | प्. २१५) अक्षमालां प्रकुर्वीत गोपुच्छवलयाकृतिम् | इति उक्तत्वात् रुद्राक्षाणां सप्तविंशतिभिः मुखे मुखं प्रयुंजीत पृष्टे पृष्टे नियोजयेत् | मेरुरूर्ध्वमुखाकार्या इत्युक्त प्रकारेण मालां कृत्वा | प्रक्षालये जातेन वामदेवेन बंधयेत् | धूपयेदप्य घोरेण लेपयेत् पुरुषेण तु || मन्त्रयेत् पंचमेनैव तथा घोरेण मन्त्रयेत् | मुद्राष्टकं दर्शयित्वा प्रत्येकं पूजयेत् क्रमात् || ग्रथितं पंचभिः पूज्यं पूर्ववच्छायया शिवे | इति |
SKमध्यमा नामिकांगुष्ठैः गृहीत्वा जपं कुर्यात् | तदुक्तं कामिके- मध्यमा नामिकांगुष्ठैः कर्षणात् सिद्धिरुक्तमा | अंगुष्ठ तर्जनी योगात् मध्या सिद्धिरितीष्यते || प्. २१६) कनिष्ठांगुष्ठ संयोगात् सिद्धिरुक्ता कनीयसी | अक्षमाला प्रगोप्तव्या जपकाले सुमेधसा || जपकाले ह्यक्षमालां गुरोरपि न दर्शयेत् | नालसं न मनो भ्रान्तन्नद्रुतं न विलंबितम् || इति | मूलमन्त्रमष्टोत्तरशतं जपेत्वत्र- आवहनोक्तवन्मूलाधारान्नादमुत्थाप्य हृदयादि स्थानस्थितब्रह्मादित्यागगत्या द्वादशान्तं नीत्वा | भुक्तये सृष्टिमार्गेण कर्षये दक्ष सूत्रकम् | ऊर्ध्वमार्गेण मुक्त्यर्थं कर्षयेत् तु शनैश्शनैः || मेरुं न लंघयेन् मंत्री लंघनाद् दोषभाक् भवेत् | इत्युक्तत्वात् भुक्ति मुक्त्यादि गुणं रुद्राक्षं कर्षन्- एवं अष्टोत्तरं जप्यं सहस्रं शतमेव वा | अष्टां विंशतिरष्टौ वा गुरुणा वा यथोदितम् || इति उक्त विकल्पेषु स्वगुरूदित संख्याकं जपं प्. २१७) कृत्वा अक्षमालां दक्षिणांगुष्ठे विन्यस्य तल स्थितां कृत्वा वामहस्तधृत पुष्पं जपाभिव्यक्ति स्थानमिति संकल्प्य दक्षिणहस्ततले अस्त्रकवच हृदय मन्त्रान्न्यस्त्वा | वामहस्तस्थित पुष्पमस्त्ररक्षितं कवचावकुण्ठितं दक्षिणहस्ते गृहीत्वा वामहस्ततले दक्षिणांगुष्ठेन अस्त्र कवच हृदयमन्त्रान्यस्त्वादक्षहस्तस्थित पुष्पमर्घ्य सहितं कृत्वा तदुपरि वामपाणितले कृत्वा संपुटीकृत्य श्लोकं गुह्यातिगुह्य गोप्तेति श्लोकं पठेत् | अस्य श्लोकस्य अयमर्थः | गुह्याति गुह्येति संबुद्धिः | गुह्यानामाप्तानां अतिगुह्यात्याप्ताः यतस्त्वं गोप्ता विघ्नेभ्य रक्षिता यद्वा गुह्यं च अतिगुह्यं च गुह्यातिगुह्ये | अत्र गुह्य शब्देन रहस्य पर्यायेण पंचविंशोयं पुरुष इत्यादि श्रुति प्. २१८)
SKसिद्धानि पुरुष प्रकृत्यादीनि वस्तूनि उच्यन्ते | एतान्यतीत्य स्थितानि सिद्धान्त सिद्धानि अतिगुह्यानि अतिगुह्य शब्देन बैन्दवादि तत्वानि नादादि वैखर्यान्ते शब्दरूपा माये यानि कलादिरागन्तानि तत्तत्ववासिनो विद्येश्वरादयः सर्वे आत्मानः कथ्यन्ते | एते सर्वेपि यस्याधिष्ठेयास्स गुह्यादि गुह्यसत्वं गोप्ता सर्वेषामात्मनां रक्षकस्त्वमेवनान्यः | ततः कारणात्वधि गोप्तरस्थिते सतित्वत् प्रसादात् | मे म मयेन जपेन सिद्धिर्भवति | तमस्मत्कृतं जपं गृहाणेति श्लोकार्थः | यथा कस्मिन् अव्याप्तजने गोप्तरि समर्थे समर्पितं धनं दुष्टैरजुष्टं पुनरपि प्रज्यानां सिध्यै भवति | तथा अत्रापि शिवार्पिते जपः विघ्नैरनभिभूत साधकानां सिध्यै भवति इति भावः | प्. २१९) सिद्धि शब्देन साधक विषये तत्तद्भूमिषु स्थितानि अणिमाद्यैश्वर्याण्युच्युते | ममुक्षोरपि तस्मिन्निवेदनमानेन निष्प्रत्यूहा मुक्तिरुच्यते | भोगीश्लोकं पठित्वामुंदक्षहस्तेन शंभवे | मूलाणुनार्घ्यतोयेन वरहस्ते निवेदयेत् || इति सोमशंभुपद्धति वचनात् | भोगी भौतिक दीक्षया दीक्षितः स्वभोगानन्तरं मोक्षभाक् | तथा रुरुसंहितायाम्- दीक्षापूता गणपति गुरोः मण्डले जन्मवन्तः सिद्धामन्त्रैस्तरुण दिनकृन्मण्डलोद्भासिदेहाः | भुक्त्वा भोगान् सुचिरममरस्रीनिकायैरुपेताः स्रस्तोत्कंठाः परशिव पदैश्वर्य भाजो भवन्ति || इति एवं भूतः गुह्याति गुह्येत्यनेक श्लोकेन जपकर्मात्मानं च निवेदयेत् | प्. २२०) यत्किंचित् कर्मशिवोदातेति श्लोकद्वयाभ्यां नैष्ठिक दीक्षया दीक्षितः जपकर्मात्मानं च समर्पणं कार्यमिति केचित् | तदुक्तम्- श्लोकद्वयमधीत्येव शिवार्पित मनामुनिः | जपादीन् संभवे नित्यं ममुक्षुर्विनिवेदयेत् || इति |
SKयत्किंचिदिति- श्लोकस्य अयमर्थः सुकृतं दुष्कृतं वा यत्किंचित् कर्मास्माभिः क्रियते तद्विविधमपि कर्म हे देव शिवपदस्थस्य शिवपदे दीक्षयायोचितस्य मे मम मोक्षांतायापहरणाय सुकृत रूपं पालय पालन प्रत्तेरपि भुजेरात्मने पदत्वं पारमेश्वरत्वात्- सोडव्यं दुष्कृतरूपं नाशय भृंक्ष्वेति पाठान्तरम् | तत् तु कर्मद्वय नाशकं बीजद्वय रूपं मन्त्रान्तरं तेन क्षपयेति यथा कस्यचित् प्रायश्चित्वोऽघोरादि जपात् पापक्षयो भवति | प्. २२१) तथा अत्रापि अक्षरद्वयोच्चारणेन कर्मक्षय इति भावः | शिवोदातेत्यादि शिवशब्देन निर्मल निरतिशय सर्वार्थज्ञान क्रियारूप शिवत्व युक्तः | परमेश्वर उच्यते- स एव दाता शोधिता शिवो भोक्ता स एव सर्वेषां पालयिता रक्षकः इत्यर्थः | भुजि पालनाभ्यवहारधोरिति धातोः शिवो पालन एव वर्तते | नित्य तृप्तस्य तस्य आहारा संभवात् | शिवस्सर्वमिदं जगदीष्टेति शेषः | यद्वा स शिवः शुद्धमिश्रा शुद्धरूपमिदं सर्वं जगद्रक्षकत्वेन शोधकत्वेन च व्याप्य स्थित इति | कस्मात् नान्यश्शोद्धको रक्षकश्च विद्यते | शिवो यजतीति प्राकृत भावमुत्सृज्य शिवोहमिति भावयेत् | यावत् न तत्समोज्यातस्तावत् नोराधने क्षमः | शिवो भूत्वा शिवं यजेत् प्. २२२) इत्यादिभिः वचनैः यः दीक्षया पूर्वोक्त भूत शुध्यादि प्रकारेण च शिवः भूत्वा सर्वत्र शास्त्रा चोदितेषु सर्वेष्वधिकरणेषु स्वकीयाऽशुद्धिक्षयाय यजति | शोधयितृत्वादि विशिष्टं परशिवं पूजयति स आराधक शिवोहमेवत्वं च आराध्य शिव इत्येन पूज्य पूजकयोः जगन्नाथ तवास्मीति यत्स्वीकारोपदर्शनम् | इत्यागमोक्तं स्वस्वामिसंबन्धप्रदर्शनमुपपादिता | अत एवैतदात्मनिवेदनमिति | ब्रह्मशंभुरुक्तम्- निवेद्यैव सदात्मानं जपं पूजां च भक्तितः | इति केवल हृदावानिवेद्य इति | जपादि समर्पणे उक्त श्लोकत्रयं विना सहृदय मूलमन्त्रेण वा समर्पयेत् | एवं नित्यं करणीय जपविधिमुक्त्वा साधकानुष्टेयं साध्यमन्त्राराधनकाम्यमन्त्रपूजक इत्यादिना- प्. २२३)
SKअभिषिच्यात्मनात्मानमनंत विजये यतः | मन्त्रपूतेश्वरेन्मन्त्री साध्यमन्त्रोक्त वर्त्मना || इत्युक्तत्वात् काम्य मन्त्राराधक आगमान्तरोक्तां साधक दीक्षां प्राप्य काम्य मन्त्रपूजानिमित्तं शिवं प्रार्थ्य देवस्य दक्षिणामूर्तौ पंचलक्षं स्थितो जपेत् | जपांते घृतहोमस्य दश साहस्रिका भवेत् एवमाराधितो मन्त्रः कर्मयोग्यो भवेत् ततः | उक्तानि यानि कर्माणि तानि सिध्यंति संशयः || इति द्विशति कालोत्तर तद्वृत्तौ | परमेश्वरं लिंगादौ संपूज्य तस्य दक्षिण पत्रके | अघोर लोचन ज्योतिर्मध्ये साध्याणुनार्चयेत् | इति श्रुतेः | शिवासनाब्ज दक्षिणपत्रे साध्यमन्त्रस्य पूजां कृत्वा प्रत्यहं सांख्योपचयमिल प्. २२४) पञ्चलक्षसंख्या जपं कृत्वा | अन्तेपि मण्डल पूजां कृत्वा | साध्य मन्त्रस्य घृतेन स्रुवाहुति सहस्र दशकं जुहुयात् | ततः तस्योक्तानि कर्माणि सिध्यन्ति | प्रत्यहं वा जपान्ते होमः तत्संख्यानुगुणं कार्य इत्युक्तत्वात् | शिवासन दक्षिणपत्रे काम्य मन्त्रानाराधयेत् | स्वाध्वान्त प्रणवेनासनं मूर्तिं च दत्वेति | स्वस्याध्वा स्वाध्वा यस्य मन्त्रस्य यावत् तत्व पर्यन्तमासनमूर्ति मूलानां व्यप्तिस्तावत् पर्यन्तं प्रणवसहितमासन मन्त्रं मूर्तिमन्त्रं च उच्चार्य पूजयेत् | एवं जपकरणानन्तर करणीयमाह- तदनु देवस्याग्नेय दिग्भागे इत्यादि- सकृत्प्रयोगेण ॐ हां गुर्वासन पद्मायन्म इति | अथवा अनन्तादि पद्मांत षडुत्थमासनं न्यस्त्वामूर्ति प्. २२५)
SKभावेन स्वगुरुमूर्तिं संपूज्य तस्यां शिवमावाह्य इति | तस्यां गुरुमूर्तौ शिवमावाह्य पूजयेत् सोमशंभु वचनात् | निजमूर्तौ गुरोमूर्तौ पुस्तके सलिले नले | चित्रादौ स्थण्डिले वापि लिंगेत्वन्त्यमुत्तमम् || इति सोमशंभु वचनात् निजमूर्त्यादीनां सर्वासां शिवपूजा विषयेत्व चित्प्रधानत्वेन सहितमपि निजमूर्ताद्यनलांत पंचाधिकरण पूजालिंगाधिकरण पूजायाः अंगभूता | तस्मात् भूतशुद्धि प्रकरणे निजमूर्तौ अर्घ्य प्रकरणे सलिले च शिवार्चना विहिता | अधुना गुरुमूर्तौ अनन्तरं विद्यापीठे वह्नौ वक्ष्यति | विद्यापीठेपि मत्वैवमेकोच्चारेण पूजयेत् | इति | विद्यापीठं कोटिमात्रं पूजयेत् | प्. २२६) क्रमागतामेकां संहितां वा तत्रैकादशं वा संपूज्य तत्र शिवमावाह्य पूजयेत् | पुष्पांजलि त्रयेणाभ्यच्यस्तोत्रै संतोष्य वन्दयेदित्युक्तत्वात् सुराधिप नमस्कृत्य इत्यादि पद्धत्युक्त प्रकारेण स्तोत्रं कुर्यात् इत्यादि मतिविभवानुसारेण मतिविस्तारानुकूलेन स्वल्पं वा बहुलं वा स्तुत्वा प्रदक्षिणत्रयं सव्यापसव्य क्रमेण कृत्वा | साष्टांगं प्रणमेत् | पादौ जानु करा पूर नाभिरंसापुरश्शिरः | अष्टोत्तमांगानीत्याहुस्तैः प्रणामं शिवस्य तु || इत्युक्त प्रकारेण प्रणमेत् | अथवा देश कालानुगुणं पंचांगत्यंग नमस्कारं कुर्यात् | तथा चोक्तम्- प्. २२७) स्तोत्रेणानेन चाल्पेन स्तुत्वोच्चैः प्रणमेत् शिवम् दण्डप्रणाममाद्याद्यं स्यात् प्रणमो धनमस्तुतिः | अंष्टागे रथ वा पंचांगैस्त्रिभिरंगैस्त्रिधा मता || पुष्पैरंजलिमापूर्य समुच्चार्य च शंबरम् | नमोन्तं भक्ति संयुक्तः शिवं संचिन्त्य मन्त्रवित् || दत्वा देवस्य पुरतः पुष्पं तत्प्रणमेद्यथा | शिरसा हस्त युग्मेन कर्णाभ्यां चिबुकेन च || बाहुभ्यां भुवमष्टांगैस्संस्पृश्य प्रणमेत् शिवम् | शिरो हस्तैश्च जानुभ्यां पंचागै प्रणमेत् शिवम् || शिरसा हस्त युग्मेन त्रिभिरंगैर्नमेत् शिवम् | यथोचितं नमेदेतैः देशकालाद्यपेक्षया ||
SKततः प्रदक्षिणं कुर्यात् सव्यासव्य विधानतः | मूलमन्त्रं जपन्मौनी गुर्वादीनामलंघयन् || छायां च सोमसूत्रं च जल्पं परिहरं जनैः | प्. २२८) शिवं प्रदक्षिणीकृत्य दृष्ट्वा देवं प्रणम्य च | सव्यापसव्य मार्गेण मृदगत्या प्रदक्षिणम् || यथा संभवतः कार्यः शिवं ध्यायं न्यथोक्तवत् | इति | मध्याह्न समयं यावत् कृत्वा स्वाध्यायं ईप्सितम् | अर्चयेत् परमेशानं कृत्वा स्नानादि पूर्ववत् || पूर्वार्चितेथवा देवे प्रदद्यादष्ट पुष्पिकाम् | इति मृगेन्द्र पद्धति वचनात् | एककालार्चने लुप्ते सहस्रं दक्षिणं जपेत् | एककालं द्विकालं वा त्रिकालं वार्धरात्रिकम् || त्रिकाल पूजन * * एककालमथापि वा | प्रायश्चित्तं समन्तेषां तनूनं नाधिकं भवेत् || इति सोमशंभु पद्धत्याम् | प्रायश्चित्त प्रकरणे विधानाच्च तद्वृत्तौ एककालाकात् प्. २२९) द्विकालार्चकस्य * * * * कर्मलोपे को विशेषः | न कश्चिद् इत्यर्थः | संध्यार्चनं चतुष्कालस्यावश्य कार्यत्वात् संक्षेप कृतामेकस्मिन्काल इतर कालोद्देशेन अष्टपुष्पिका समर्पण दर्शनेनैव तत् तत्कालार्चना संपादनादेक काल त्रिकालार्चनलोपयोः प्रायश्चित्तं साम्यमिति भावः | तथाचोक्तम्- एककालार्चने लुप्ते सहस्रं दक्षिणं जपेत् | एवं द्विकाललोपादौ वर्धयेत शतं शतम् || एकाह पूजा लोपेन सहस्रं त्रिशतोत्तरम् | उपवासेन संयुक्तः कामतो द्विगुणं त्विदम् || चतुष्कालार्चनं एषां एककालमथापि वा | प्रायश्चित्तं समन्तेषां नन्यूनं नाधिकं भवेत् || अष्टपुष्पादि दानेन द्विकालाघर्चना विधिः | प्. २३०) अन्तर्भाव्य कृतो यस्मादेकालार्चकेरपि | इति प्रोक्तत्वात् | द्विकालादि पूजने समर्थश्चेत् मध्याह्न समयेपि स्नात्वा पूजयेत् | असमर्थश्चेत् तत् तत्काल एवाऽष्ट पुष्पादिना इतर कालमपि कर्यमित्याह द्विकालादि पूजाशक्त इत्यादिना | अथ होमकरणार्थं शिवप्रार्थनमाह अग्निकार्याधिकारीत्यादिना | अग्नि कार्याधिकारी विशेष दीक्षायुक्तः | तथा कामिके-
SKएवं समय दीक्षायां विशिष्टायां विशेषतः | वह्नि होमागमज्ञाने योग्यस्संस्त्यायते शिशुः || इति | अनेन पुत्रकादयोपि गृह्यन्ते | संपन्नोपकरणैः द्रव्यकालादि सामश्रीयुक्तः | अत एव उत्तरोत्तर अग्निकार्याधिकारयुक्तोपि उपकरण वैकल्यात्तदशक्तः होमप्रतिनिधि जपं कुर्यात् | प्. २३१) इत्युक्तं तदनधीकारी समयदीक्षामात्र युक्तः | ननु समयी पुत्रकाभ्यान्तु नित्यमेवं प्रकीर्तितम् | स्नानं पूजा जपो होम ध्यानं चैव तु पंचमम् || इति नित्यं समाख्यामित्यादिना- समयिनोर्होमेऽधिकारः श्रूयते कथमिति चेत् - समयी द्विविधः सामान्यसमयी विशिष्टसमयी चेति | तथा कामिके- सामान्यसमयी यस्तु स तु शूद्रः माहेश्वर स्मृतः | जात्युद्धार विहीनोयः सामान्यसमयी भवेत् || इति | तथा वरुण पद्धत्याम्- यत्र रुद्र पदे योगो योगो यत्रेश्वरे पदे | शिखा * * नयत्रास्ति दीक्षा सा समयी द्विधा || इति | तस्मात् सामान्य समयिनः शिवपूजायामधि कारोस्ति होमेनाधिकारः | प्. २३२) तदुक्तं सिद्धार्थ समुच्चये- समय संस्कारेण पुनः पांचभौतिक देहशुद्धि पुरस्सरं नित्यपूजायामधिकारो जन्यते | तावन्मात्रेणास्य रुद्रलोक प्राप्तिः भवति | विशिष्ट समय संस्कारेण तु होमादावधिकारः निर्वाण दीक्षायमर्हत्वं च संपद्यते | तस्य ईश्वर पद प्राप्तिः भवति | एषां तु प्रथमा दीक्षा भूताख्या परिकीर्तिता इति | शिवहस्तं प्रदातव्यो रुद्रस्य पददायक इति | इत्थं समयदीक्षायां भवेद्योयोग्यो शिवार्चने | इति | अग्निकार्यार्थन्त स्थान गमनमाह- अध्येष्येत्यादिना- अध्येष्य प्रार्थ्य अर्घ्यपात्रादिकमादाय अर्घ्यपात्रं सामान्यार्घ्यपात्रम् | आदिपदेन चर्वाज्य समिद्गंधपुष्प तिल दर्भादयो गृह्यन्ते | प्. २३३) याम्य नै-ऋत वायव्येभ्योऽन्यतरस्यां उक्त दिक्त्रय व्यतिरिक्त दिशि | तथा मृगेन्द्र पद्धत्याम्- मरुद्दैत्य यमाशाभ्योऽन्यत्र हस्त प्रमाणकम् | चतुस्त्रिद्वयंगुलोत्सेध प्रधुने मित्रयान्वितम् ||
SKवृत्तं वा चतुरश्रं वा नाभ्यश्वत्थ दलाभया | द्वादशांगुलया युक्तं षडंगुल विशालया || द्व्यंगुलोच्छृतया प्रत्यंद्याम्ययोन्यासकंधरम् | अग्रस्थ नाभिरासीनो विदध्यात् कुण्ड संस्कृतिम् || इति | अत्र दिक्त्रय निषेधात् शिष्ट पंचदिक्षु नित्यहोमः कर्तव्यः | तथोक्तं- ऐशान्यां दिशि संस्थं तु पूजागारं मनोरमम् | द्वात्रिंशद्धस्तमानं तु विंशद्धस्तमथापि वा || षोडशार्ककरं वापि वसुहस्तमथापि वा | प्. २३४) चतुरश्रं समंताच्च द्विगुणं वापि दैर्घ्यकः | तदैर्घ्यं तु त्रिधा कृत्वा द्विभागेन तु मण्टपः || चतुर्द्वारः प्रकर्तव्यः सर्वशोभानितोवरः | एतेन होमशाला स्यात् पूर्वे वा पश्चिमेपि वा || उदीच्यामीशकोणे वा आग्नेय्यां वा विशेषतः | नित्ये कर्मणि होमार्थं अग्न्यागारं प्रकल्पयेत् || नित्याग्निकार्यं कुर्वीत नित्याग्नौ होममन्दिरे | पंचनालयव * * कुण्डे वह्निविधिं क्रमात् || इति कामिक वचनात् | परार्थ विषये पाक गृहे वा नित्यहोमः कर्तव्यः | पूर्वास्योत्तत्तरास्यो वा इत्यत्र अग्रस्थ नाभिरासीन इति वचनात् | पश्चिम दिशि योनिश्चेत् पूर्वाभिमुखं उपविशेत् | दक्षिणदिशि चेदुक्तराभिमुख सिद्धान्त कुण्डे वा स्थंडिले वा इत्यत्र विस्तारः संक्षेपोपि समानम् | प्. २३५) स्थंडिले तदभावे वा संस्कृतेग्निं निवेशयेत् | असंस्कृते तु वै कुण्डे शिवाग्नि नैव सिध्यति | अनिष्पन्ने शिवाग्नौ तु हुतं भवति निष्फलम् || इति वचनात् | कुण्डं वा स्थंडिलं वा अष्टादश संस्कारैश्चतुस्संस्कारैर्वापद्धत्युक्तद्वाभ्यां संस्काराभ्यां वा देशकालाद्यनुगुणं संस्कृत्य तत्र शिवाग्निमुत्पाद्य होमयेत् | मध्ये अस्त्रेण पूर्वाग्रमिति मध्ये कुण्डमध्ये पूर्वाग्रं पूर्वाभिमुखम् | दक्षिणे चोत्तरे कुण्डमध्ये (अस्त्रेण पूर्वा)ति सृस्तदुक्तरे | इति वचनात् | दक्षिणे उत्तरे कुण्डमध्ये च प्रतीच्यादीशस्समारभ्यतिस्रो रेखाः कार्याः तदुपरि मध्ये दक्षिणादारभ्य रेखैका कार्या | प्. २३६)
SKएतत् पूर्वाभिमुख कुण्डविषयम् | उत्तरास्यश्चेत् विपर्ययेण पूर्वे पश्चिमे मध्ये दक्षिण दिशस्समारभ्य उत्तरमुखास्तिस्रो रेखाः तदुपरि मध्ये पश्चिमादारभ्य पूर्वमुखा रेखैका कार्या | कवचेनाभ्युक्ष उल्लेखनानन्तरं अर्घ्यांभोभिरभ्युक्षयेत् | सर्वसंस्कार पङ्क्ति विभाव्य उल्लेखनाभ्युक्षणाभ्यामेव पवित्र प्रकरण वक्ष्यमाणाष्टादशसंस्कार संस्कृतं भावयेत् | द्वाभ्यां संस्कृतमिति न मन्तव्यम् क्रियादि भेदेन तन्त्रभेदस्य उक्तत्वात् | श्रोत्रबुध्यनुगुणेन क्वचित् संग्रहेण क्वचिद्विस्तरेणागमानां प्रवृत्तत्वात् | तथा द्विशति कालोत्तरे- अतः परं प्रवक्ष्यामि अग्निकार्य विधिक्रमम् | उल्लेखनं तु शस्त्रेण वर्मणाभ्युक्षणं स्मृतम् || प्. २३७) शक्तिन्या संततो मन्त्री हृदयेन तु कारयेत् | इति सर्वज्ञानोत्तरे तु- प्रोक्षयित्वा पुरा प्राज्ञः कुण्डमस्त्रोदकेन तु | ततस्त्वा वेष्टयेत् पश्चात् कवचेन यथा क्रमम् || पुनरुल्लेखनं कुर्यात् अस्त्रबीजेन षण्मुख | दक्षिणे च उत्तरे कुण्ड मध्य तिस्रस्तदुत्तरे || पुनरभ्युक्षणं पश्चात् कवचेन विधानवित् | विष्टरं कुण्डमध्ये तु प्रणवेन पुनर्न्यसेत् || इति संस्कार चतुष्टयमुक्तम् | एवं शिवाग्नि उत्पादनादौ लघुविस्तारभेदौ तस्मान्नित्यकर्मणि विस्तार पक्षेण कर्तुमशक्यत्वात् | आचार्यैः अत्र संग्रहेण अभिहितम् | द्रव्य कालादि संपक्तौ पवित्र प्रकरणे वक्ष्यमाणवत् विस्तरेण वा कर्तव्यम् | प्. २३८) अग्न्युत्पादनार्थं वागीश्वरी पूजामाह- तत्र हृदयेनेत्यादिना- हृदयेन हृदयबीजयुक्तेन तत्र कुण्डे विष्ठरमासनं दत्वा तस्मिन् नासने मूर्तिं श्यामां यौवन रूपां ऋतुमतीं गर्भाधान योग्याम् अरण्यादि संभूतमित्यादिना * * * शमी पिप्पल गभोत्थां कल्पयेदरणीं दृढाम् | द्विरष्टांगुल विस्तीर्ण दीर्घाद्दद्विदशांगुलम् || उच्छ्रायेणांगुलामन्थीत् शिवबीजमनुस्मरन् | गायत्र्यारणितुष्टिस्यान्मथानं तु हृदार्चयेत् || चक्रं खड्गेन संयोज्य वर्मणा क्रमणं तथा | शिखया योत्कृतं युज्यान् शिरसा हस्त वेष्टनम् ||
SKएवं कृतो हितो वह्निः इति करण्यादिरित्यादि पदेन द्विज ग्रहादयो गृह्यन्ते | प्. २३९) तदुक्तं तत्रैव- द्विजमन्दिरज्योथ वा सूर्यकान्तोद्भवो वा स्यात् सामान्य गृहजोथ वा | इति शुद्धवेश्म संभवमिति सदाचारयुक्त ब्राह्मणादि मन्दिर मुच्यते क्रव्यादांशम् | राक्षसांशं तद्रव्यं शवादि भक्षण दुष्टं परित्यज्य कृव्यादांश परित्यागो नै-ऋत्यां दिशि हुंफडंतास्त्रेण कार्य इति ज्ञानरत्नावल्यां उक्तम् | अवशिष्टममरांशं वीक्षणादि चतुस्संस्कारैः संस्कृत्य | अस्य वह्ने भौतिकत्वात् | नाभ्यग्निना बिद्वग्निना च संयोजनं कर्तव्यं प्रदीपकलिकोपमं प्रकाशमानमाग्नेयं अग्निसंबधिबीजं बीजाक्षरं प्रातृस्थे अग्नौ (विन्यस्य) निवेश्य | तदुक्तम्- वह्नि सदाश्रयानीतं शुद्धपानो परिस्थितम् | प्. २४०) क्रव्यादांशं परित्यज्य वीक्षणादि विशोधनम् | औदर्यं बैन्दवं भौतमेकी कृत्या नलत्रयम् || विन्यस्य वह्नि चैतन्यं वह्निबीजेन देशिक | इति || एवं भूतमग्निं परमेश्वर वीर्यं शिवबीजमिति संभाव्य | आत्मसंमुखं आत्मनः स्वस्य यथा भवति तथा निक्षिप्य तदुक्तम्- संहिता मन्त्रितं वह्निं धेनु मुद्रामृतीकृतम् | रक्षितं हेति मन्त्रेण कवचेनाव कुण्ठितम् || पूजितं त्रिःपरिभ्राम्य कुण्डस्योर्ध्वं प्रदक्षिणम् | शिवं बीजमिति ध्यात्वा वागीशी गर्भगोचरे || वागीश्वरेण देवेन क्षिप्यमाणं विभावयेत् | भूमिष्ठ जानुगो मन्त्री हृदात्म संमुखं क्षिपेत् || इति वह्नि विन्यासानन्तर करणीयमाह- संमूह्य इत्यादि- नाभिदेशे वह्निं हृदा सुमूह्य प्. २४१)
SKदेव्यै वागीश्वर्यै वासः वस्त्रं अत्र लघु संस्कारस्य कर्तव्यत्वात् | गर्भादानादि संवक्त्यर्थं सद्यो जातादि मन्त्रैः वह्निं संपूज्य मूलमन्त्रेण आहुति पंचकं दद्यात् | अत्र द्रव्यस्यानुक्तत्वात् तिलादिभिः विदध्यात् | सद्यो जातेन मन्त्रेण हृदयं तु पुनर्जपेत् | इति सर्वज्ञानोत्तर वचनात् | होमद्रव्याभावे जपं वा कुर्यात् | वह्निरक्षार्थं ब्रह्मादीना इन्द्रादीनां पूजायै स्थानमाह- पूर्वपश्चिमेत्यादिना | भो भो ब्रह्मादयो देवाः इन्द्राद्यलोकपालकाः | निवार्य संघातं बालकं पालयिष्यथ | इत्यग्नि शीशो रक्षां विज्ञापयेत् | अनन्तरं हेतुताशनत्वं ॐ हां शिवाग्निरसीति वह्ने नामकरणं कुर्यात् | पितरौ विसृजेदित्यत्र वागीश्वरी वागीश्वरौ विसर्जयेत् | प्. २४२) एवं कृते शिवाग्निः भवति | तथा सिद्धान्तशेखरे- कथ्यते लघुमार्गेण शिवपावक संस्तुतिः | शुद्धमग्निं समादाय बिन्दग्नौ सुनियोच्यतः || नियोज्य जाठराग्नौ तौ त्रीनग्नीनेकतः क्रमात् | प्रक्षिप्य कुण्डवह्नौ तं सद्याद्यै ब्रह्मभिर्यजेत् || जुहुयादाहुतिः पंचतिलाद्यैः मूलमंत्रतः | शिवाग्निरसि वह्नेत्वं हृदानामेति कल्पयेत् || ब्रह्मादीनर्चयेत् पश्चात् चतुरोनेतरानिति | कथितो लघुसंस्कारः शिवाग्नेर्होमसिद्धये || अथवा जुहुयाद्याज्यमात्मविद्या शिवाणुभिः | तिस्रः पूर्णाहुतीरग्नौ शिवाग्नेर्लघु संस्क्रिया || परं ज्योतिमयं बिन्दु वह्निरूपं वह्नीश्वरं शिवम् | मूलेन योजयेद् वह्नौ शिवाग्निः जायतेथवा || प्. २४३) अनिष्पाद्य शिवाग्नौ तु हुतं भवति निष्फलम् | अथाग्नि शिव यजन पूर्वकं होमविधिमाह || ततोग्नि हृत्पद्म इत्यादि - ततः शिवाग्न्युत्पादनानन्तरं अग्ने हृदयकमले पूर्ववदाधारशक्त्यादि शिवासनां तमासनं संकल्प्य तस्मिन् नावाहनाद्यावरण पूजान्तं शिवं संपूज्य तिलादिभिः आदिपदेन होमद्रव्याण्युच्यन्ते | तदुक्तं | कामिके- आज्या भावे तिलैर्होमः कर्तव्यः कृष्णवर्चसैः | व्रीहिभिर्वायवैर्वापि समिद्भिर्वाऽजुगुप्सितैः || इति || तथा सिद्धान्तशेखरे-
SKतिल व्रीहि यवैराज्य समित्क्षीरादि तण्डलैः | मधु गुग्गुलु धान्याद्यैः नित्यं होमं समाचरेत् || समिद्धोमेप्सितं ध्यायेत् आसीनं चरुहोमके || प्. २४४) घृतहोमे शयानं च आसीनं शेषकर्मसु | होमद्रव्य प्रमाणानि वक्ष्यन्ते च यथा क्रमम् || कर्ष प्रमाणमाज्यं स्यात् मधुक्षीरं तु तत्समम् || शुक्तिमात्रं दधिप्रोक्तं पायसं प्रसृतेस्समम् | प्रथ्यामात्राणि भक्ष्याणि लाजं मुष्टि प्रमाणतः || अग्नं ग्रास समं वार्थं शाकं ग्रासार्थ मात्रकम् | मूलानां तु त्रिभागं स्यात् कन्दानामष्टमांशकैः || इक्षोरापर्विकं दानं लतानामंगुलद्वयम् | प्रादेशमात्र समिधः ब्रीहीणामंजलीसमम् || तिल सत्तु कणादीनां मृगीमुद्रा प्रमाणतः | पत्र पुष्प फलानान्तु समानाहुतिरिष्यते || चन्द्रचंदन कस्तूरि कुंकुमागरुकर्दमान् | कालाय संमितानेतान् गुग्गुलुं बदराण्डवत् || आहूतीनामिदं मानं वक्ष्ये द्रव्यफलं पृथक् | प्. २४५) आद्योक्त तिलहोमेन सर्वसिद्धिर्भवेद्ध्रुवम् | ओदनेनान्न वृद्धि स्यात् दध्नाचेंद्रिय वर्धनम् || आधुष्यं क्षीरहोमेन तेजो वृद्धि घृतेन च | धान्यैर्नानाविधास्सिद्धि शान्ति क्षीरयुतैः तिलैः || रोगापहारो दूर्वाभिः सवश्या भवन्ति हि | कुमुदेन सुता वाप्तिः अशोकैः प्रिय संगतिः || जाती मुकुल होमेन वश्या गंधर्व कन्यका | नागपुष्पैरनेकस्त्री चंपकैः अप्सराः वशाः || वल्लीदलस्य होमेन भवेल्लक्ष्मीर्निरन्तरम् | पुण्डरीकैर्भवेद्राज्यं कदंबै यक्षणी वशा || श्रेष्ठं गुग्गुलुनासिद्धिः चूतपुष्पैर्ज्वरापहम् | रक्तपुष्पाणि वश्येस्युः मधूनि लवणानि च || स्तंभने पीतपुष्पाणि कृष्णपुष्पाणि मारणे | दाहे नीलाभ पुष्पाणि धूम्रमुच्चाटने मतम् || प्. २४६) तिलैश्च वेतसैर्वृष्टिरित्यादि द्रव्यजं फलम् | इति अग्नेर्वर्णादि चिह्नमुक्तम् सुप्रभेदे || वर्णं गंधं च शब्दं च धूमं चैव शिखां तथा | एतानि लक्षयेन्मन्त्री विधिनानेन साप्रतम् || वज्रकांचन रौप्येंद्र गोप सिन्दूर संनिभम् | आदीत्योदयसंकाशं हरिताल समप्रभम् ||
SKवैडूर्यशोणिताभं च पिंगलां च स्वभावतः | तप्ताय सन्निभं वह्नेः सदृशैको वर्णमुच्यते || चंदना गरुकर्पूर कस्तूरी जाति गंधकः | मल्लिका पाटली गंधो गुग्गुलाज्य सुगंधकः || उशीर नाग पुंनाग चंपका मोदकश्शुभः | शंखभेर्यादिनिर्घोषो मेघदुन्दुभिनिस्वनः || सर्वसंपत्करो वह्नेः धूमं चैव ततः शृणु | कुन्दपुष्प निभं चैव धूमं शुभकरं परम् || प्. २४७) स्वस्त्यावक्त्र समाकारा चक्राकारोर्ध्वगामिनी | शिखाशिखि शिखाकारां कादंबः कुक्कुटाकृतिः || यस्मिन् होम शिखा ह्येषा तस्मिन् सिद्धिर्न संशयः || इति सर्वज्ञानोत्तरे | बहु हव्येन्धने शुद्धे सुसमिद्धे हुताशने | विधूम लेलिहाने च हूयते यस्ससिध्यति || अप्रवृद्धे स धूमे च हूयते यो हुताशने | कर्महानिर्भवेत् तस्य होता चैव विनश्यति || अर्चिष्मान् पिण्डित शिखी सुगंधिर्लघुविक्रमः | स्निग्धः प्रदक्षिणावर्तो जातवेदास्तु सिद्धितः || विस्फुलिंगीलिहद्भूमिः शुक्लकृष्णोऽप्रदक्षिणः | दुर्गन्धी चैव रूक्षश्च तत्र सिद्धिर्न (संशयः) विद्यते | इति || प्. २४८) अत्र प्रायश्चित्तमुक्तम् क्रियासारे | एवं विधेयेषु दोषेषु प्रायश्चित्ताय देशिकः मूलेनाज्येन जुहुयात् पंचविंशति माहुतिम् | इति पंचविंशतिरेकैकस्मिन्दोषेति ज्ञेयम् || तद्भस्म वन्द्येति शिव विसर्जनात् | पूर्वमग्निप्राप्तेन दर्भेण तदभिव्यक्त शिवरूपेण भस्मना शिरो ललाटादिष्वालंबनं कुर्यात् | तदुक्तं सूक्ष्मे- तद्भस्मधारणं पुंसां आयु श्रीकीर्ति वर्धनम् | इति निरपेक्षं शिवं विसृज्येति | उत्तरत्र वक्ष्यमाणवद्विसर्जयेत् | अत्र द्रव्य कालादि संपत्तौ चण्डहोमः प्रकर्तव्यः | तत्रापि होम समर्पणं कृत्वा | शिवलिंगार्चनं परिसमाप्य मण्डलादौ चण्डार्चनं विधार्य प्. २४९) पश्चादग्नौ कर्तव्यः | तदुक्तम्- द्रव्यकालादि संपत्तौ चण्डमभ्यर्च्य होमयेत् | तविसृज्याग्निमभ्यर्च्य हुत्वा व्याहृतिभिः क्रमात् || विसृज्याग्निं सुरान्ब्रह्म पुरोगान्व्युत्क्रमात् ततः | इति द्रव्यकालादि संपत्तौ चण्डहोमस्य विधानात् ||
SKअसंपत्तौ न कर्तव्यमिति सिद्धम् | अन्तर्वलि बहिर्बलि विधानमाह- ततस्व दक्षिण दिग्भाग इत्यादिना | स्वदक्षिण दिग्भागे स्वस्य याम्यदिशि एतत्पूर्वाभिमुख विषयम् | अन्तर्बहिर्बलिं दद्यादाग्नेर्यां कुण्ड संनिधौ इति सोम शंभु वचनात् | उत्तराभिमुखश्चेदग्नि दिग्भागे मण्डलद्वयं कृत्वा | प्रथम मण्डले रुद्रादिभ्यो द्वितीय मण्डले इन्दादिभ्यश्च | पद्धत्युक्त प्रकारेणाऽन्तर्बलिं दत्वा | अनन्तरं मण्डलात् प्. २५०) बाह्ये यागमण्टपपात् बाह्ये वा गोमयकृत मण्डले वायसादिभ्योत्यादिना बहिर्बलिं विदध्यात् | यदि वा संक्षेपेणेति पक्षान्तरं तथा मृगेन्द्र पद्धत्याम् | स्व स्व दिक्षु क्रमाल्लोकपालेभ्यो बलिमाहरेत् | क्षेत्रपालाय तन्मध्ये काकादिभ्यो बलिं दिशेत् || अथवानेन मन्त्रेण संक्षेपेण बलिं दिशेत् | क्षिपेत् वा || एवं उक्त अन्तर्बलि बहिर्बलि प्रकारस्त्वात्मार्थ विषये कुण्ड समीप एव कार्यः | परार्थश्चेद्वारपादि बाह्यावरण देवतानां बलिं विदध्यात् | तथा कामिके अग्निकार्य पटले- तत्रैवाऽन्तर्बलिं दद्यात् कृत्वा मण्डलकं भुवि | सुकृते फलके वापि गंधपुष्पादि संस्कृतम् || प्. २५१) रुद्रेभ्यो पूर्वतो दद्यात् इत्यादि क्षेत्रपाल बलिं दद्यात् इत्यन्तमुक्त्वा आत्मार्थेप्येवमुद्दिष्टं गृहादौ देवसद्मनि | नन्द्यादि परिवारणां बलिं दद्यात् पृथक् पृथक् इति तत्रैव नैवेद्य पटले | नैवेद्यं तु प्रदातव्यं मनसा तदसंभवे | बाह्यावरण देवानां नैवेद्यं स्यात् पृथक् पृथक् || अभावे बलिदानं स्यात् वाराध्यक्ष पुरस्सरम् | तद्बाह्य भूत पीठेषु दिग्विदिग्स्थापितेषु च || रुद्रेभ्यो पूर्वतो दद्यात् इत्याद्यनन्तरकरणीयानि आह तत इत्यादि- ततः बलिदानानन्तरं श्रोत्रवदनादिकं कृत्वा | श्रोत्र वदनं प्राणायामः आदिशेब्देवाऽचमनं (कृत्वा) उच्यते | यत्कृतमित्यादि होम समर्पण प्रकारः | अनन्तरकरणीयमाह तत इत्यादिना- प्. २५२)
SKहोमसमर्पणानन्तरं पूजा प्रातिलोम्येन पूर्वमीशानादि क्रमागत भोगांग पूजायाः प्रातिलोम्येन विपरीत क्रमेण पूर्वमस्त्रेभ्यः अनंतरं कवचायेत्यादि क्रमतः नाराच दिव्य मुद्रयोः लक्षणमुक्तं भोजदेवेन | उभयतर्जनांगुष्ठाग्रतः पुष्प क्षेपणं नारा च मुद्रा | संसक्तानामंगुष्टानामिकाग्रयोः आरात्परितोऽभिमुख भ्रमणेन संयोजनं दिव्यमुद्रेति क्षमस्वेति ब्रूयात् इति सापेक्ष विसर्जन प्रकारः निरपेक्षस्तु चण्डपूजांते स्थण्डिले पूजितान् शिवादीन् एवमेव विसर्जयेत् इति वक्ष्यति | तथा सिद्धान्तशेखरे- हुफडन्तास्त्रमंत्रेण देवानावरणस्थितान् | पुष्पक्षेपात् समुत्थाप्य यथा संयोजयेत् शिवे || शिवमूर्तौ प्रभा पुंजलीनानावरणामरात् | प्. २५३) मूर्तिमन्त्रेण भावेन पुष्पमारोप्य संस्मरेत् | धेनुमुद्रां महामुद्रां प्राग्वत्संदर्शयेश्शिवे || लिङ्गात् साधारणाद् देवं स्थंडिले क्षणिकादिकान् | संहारमुद्रयादाय स्वहृत्पद्मे नियोजयेत् || इति | तथा कामिके- संहारमुद्रयास्त्रेण देवानावरण स्थितान् | उत्थाप्य मूर्तिमन्त्रेण योजयेन् मूर्तिसंगतम् || ह्रन्मात्रानुगतं मूलमुच्चार्य करणोच्चितम् | सकलोपाधि निर्मुक्तं यथा निष्कलतां गतम् || शिवतत्व विभावेन चिन्तये हृत् स्थितेन च | निरपेक्ष विसर्गोयं लिंगे साधारणे मतः || परिग्रहीत लिंगे तु सापेक्षः प्राक्प्रदर्शितः | चललिंगे च सापेक्षः नापेक्ष स्थण्डिले सदा || इति || अथ चण्ड पूजामाह- प्. २५४) तत् इत्यादिना - ऐशान्यां दिशि शुद्ध भूतले गोमयशुद्ध भूप्रदेशे पीठे वा चण्डार्चनं कुर्यात् | तस्वरूपमाह रुद्राग्नि प्रभवमित्यादिना- रुद्राग्नेः कालाग्नि रुद्रात् समुद्भूतोयो रौद्रभावः स चण्डः | यद्वा रुद्रस्याग्निः क्रोधः तस्मात् प्रकृष्टो भवो जन्म यस्य सः चण्डः |
SKतदुक्तम्- क्रोधांशः परमेश्वरस्य चण्डेशः इति कीर्तितः | इति चण्डेशोपि साधकानां समयादि लंघनाद्यच्चण्डघोरं तस्येशः अपहरण कर्तेति | चण्डेशः सर्वमेतत्क्रियाकाण्डं मया चण्डतवाज्ञया | इति विज्ञापनेन शिवाराधकानां सर्वेषां चण्डपूजा कार्या | अन्यथा पूजा परिपूर्तिः न युज्यत इति गुरवः | अत्र केचित्- बाणेरोहे चले सिद्धेन चण्डेश प्. २५५) स्वयंभुवीत्यादि कामिकवच न तात्पर्यानवगमश्रमेण बाणाद्याराधकानां चण्डपूजनं न कार्यमिति वदन्ति | तन्न- शैवानामपि शाक्तानां सोमसिद्धान्त वेदिनाम् | पञ्चार्धकाल वक्त्राणां भक्तिमार्गजुषान्नृणाम् || शास्ताचण्डेश्वरस्तेषां स्वस्वाचार विलंघिनाम् | चण्डनाथं प्रपन्नो येन तेषां भव कारणम् || तस्मात् सर्वैश्च संपूज्य चण्डेशस्त्व विचारतः || इति दीप्तागम वचनात् || शिष्यं तदग्रे संस्थाप्य समयान् श्रावयेत् | इति दीक्षाप्रकरणे समय श्रवणस्य चण्डेश्वरस्य सन्निधौ कर्तव्यत्व विधानात् | चण्डपूजायां न शंकावकाशः | बाणलिंगादि विषये चण्डपूजा निषेधस्तु साधारणलिंगे चैतन्यं प्. २५६) विहाय स्वमन्त्रं विसृज्य | तस्मात् चण्डेश्वरमावाह्य संपूजयेत् | इति प्रतिष्ठा प्रकरणे वक्ष्यमाणवत् लिंगमूर्तौ चण्डार्चनस्य वा तेषां संनिधाने चण्डप्रतिष्ठापनस्य वा इति मन्तव्यः | तथा सिद्धान्तशेखरे- लिंगेषु केषुचित् चण्डं केचित् नेच्छन्ति पंडिताः | सिद्धान्ते सर्वलिंगेषु चण्डपूजा प्रचोदिता || यत्र यत्र च चण्डेशः नाधिकारीति कीर्तितः | तत्र तत्र चरेत् तस्य * प्रतिष्ठां विचक्षणः || किन्तु संपूजयेच्चण्डं पीठे वा मंडलेपि वा | प्रदद्याच्चिव निर्माल्यं प्रत्यहं नात्र संशयः || इति | पूर्वस्थापित निर्माल्यं दत्वेति पूर्वं शिवपूजासमये चण्डार्थं गुडपात्र स्थापित गंधपुष्पादिकं वस्त्राभरणादिव्यतिरिक्तम् | तदुक्तम्- प्. २५७) धरा हिरण्यगो रत्न ताम्ररौप्यगुडादिकान् | अन्यदं नादिपानीयं तांबूलं गंधपुष्पकम् || दद्याच्चण्डाय निर्माल्यं शिवभुक्तं तदा यथा | इति सिद्धान्तशेखरे |
SKअत एवोक्तं पद्धत्यामपि लेह्यशोष्यानपानादीति | नतु जिघ्रेत् स्पृशेन्नापि लंघयेन्त च भक्षयेत् | नदानपि क्रिये कार्ये नोपेक्षेत कथंचन || क्रव्यादो जायते दानात् मातंगस्तस्य भक्षणात् | लंघने सिद्धिहानि स्यात् गंधे पादानको वृकः || चण्डालस्त्वस्य दानेन विक्रियेशबरो भवेत् | स्पर्शने जायते स्त्रीत्वं निर्माल्यस्य न संशयः || इति कामिके | प्रायश्चित्त प्रकरण विधानात् चण्डेश्वरस्य कथं दीयते | दानस्यापि दोष श्रवणादुच्यते | प्. २५८) चण्डेश्वरस्य तपसा तोषिते शिवेनानु ज्ञापनात् | शिवाज्ञया दानस्य न दोषः | अत उक्तम्- निर्माल्य भोजनं तुभ्यं प्रदक्तं तु शिवाज्ञया | इति सोमशंभुपद्धत्याम् | पूजायामन्न धूपादि गंधे दीप प्रभापि च | वितान दाम संस्पर्शो न दूष्यति कथाचन || मर्दने लंघने दाने पूर्वं चण्डेश कल्पनात् | नार्चारूढस्य दोषोस्ति नैवेद्यार्घ्यांग वस्तुनः || इति प्रतिषिद्धस्य स्पर्शनादेः दोषाभाव इत्युक्तम् | अत रत्नादि लिंगेष्वपि निर्माल्यस्य अनुक्तत्वात्तदाराधकैस्तन्निवेदितमंन्नादिकं भोक्तव्यम् | तथा कामिके- अग्निकार्य प्रकरणे | रत्नहेमादि लिंगेषु चले चित्रे प्रतिक्षणे | गुरुष्वपि न निर्माल्यं व्याख्यासु प्रतिमासु च || प्. २५९) स्वेष्ट लिंगे च यद्दत्तं चरुवत्तन्न संशयः | नैवेद्यं भृत्य पुत्राणां भगीनानां च दापयेत् || इति | ननु रत्नादि लिंगार्चनायामपि चण्डार्चनस्य अनिवार्यत्वात् | परमेश्वरस्य विवेदितमन्नपानादिकं सर्वमपि चण्डेश्वराय दातव्यमिति श्रवणात् | चण्डभोज्यं दुराधर्ष नात्मभोगाय कल्पयेत् | इति तत्रैवाग्नि कार्य प्रकरणे प्रोक्तत्वात् कथं भोक्तुं शक्यते मैवं शिवसंस्कार भुक्तैः भुक्त्यतिशयेन चण्डभोज्यमपि भोक्तुं शक्यते नेतरैरिति | तत्रैव प्रायश्चित्त प्रकरणे विहितम् तद्यथा- मद्भुक्तं चण्डभुक्तं वा यो लोभा भक्षयेन्नरः | स पापी दुर्मतिः प्रोक्तः पूर्वाभ्यां नाति रुच्यते || प्. २६०)
SKभक्षयेद्योनरो भक्त्या पवित्रमिति शंसितः | शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति || अशुद्धात्माऽशुद्धिर्लोभात्मद्भुक्तं पावनं नरः | भक्षणे नाशमायादि रस भोक्तायथा द्विजाः || मद्देहधारिणो लोके देशिका मत्परायणाः | मदैकशरणास्तेषु योग्यं नैवान्य जंतुषु || इति | तथा शिवपुराणे | शंभो निर्माल्यकं शुद्धं भुंजीयात् सर्वतो द्विजाः | अन्य देवस्य निर्माल्यस्य भुक्त्वा चांद्रायणं चरेत् | इति जिह्वा चापल्य संयुक्तः | शिवनिर्माल्य भोजी चेत् रौरवं नरकं व्रजेत् | इति आदित्य पुराणे | पूरकान्वित मूलेनेत्यत्र | पूरकवायुना हृत्य मूलेन तं मूलमन्त्रेण स्वहृदि विन्यसेत् इत्यत्र हृदय कमले अत्र हि प्. २६१) मंत्राणां व्यक्ति लयौ | ज्ञानशक्तिः परे लीनाया हृदेन्यात्मनि व्यवस्थिता | तस्मात् प्रजायते मन्त्रस्तत्रैव प्रविलीयते | इति श्रुतेः | स्थण्डिले पूजितांश्चिवादीन् एवमेवेत्यत्र एवमेव चण्डमन्त्रं यथा हृदयकमले योजितं तद्वदित्यर्थः | ततो धौत पाद इत्यादि- ततः निर्माल्यापनयनानन्तरं धौत पादः प्रक्षालित पादः | स्नानपानीय दुग्धाद्यैः यदि सिक्तो भवेत् तदा | स्नायात् प्रक्षालयेद्वाथ नाभेरूर्ध्वमयस्तथा || आचम्य प्रयतो भूत्वा इति कामिक वचनात् | निर्माल्योद्धरणकृतनिमित्तं पादप्रक्षालनादिकं कार्यं अघोरमेकविंशति वारं जपेदित्यत्र होमसमर्पण अनन्तरं वा जपं कृत्वा शिवे समर्पयेत् | प्. २६२) तथा सिद्धान्तशेखरे- न्यूनादि दोष मोक्षार्थं पूजयेत् घोरशंबरम् | अष्टोत्तरशतं वापि विदध्यादष्ट विंशतिः || जप पुष्यमघोरस्य प्राग्वदर्घ्य जलान्वितम् | यत्किंचित् कर्म हे देव सदा सुकृत दुष्कृतम् || तन्मे शिवपदस्थस्य भुङ्क्षक्षपयशंकर | न्यूनं वाप्यधिकं वापि यन्मया मोहतः कृतम् || तत्सर्वं परमेशान परिपूर्णं सदास्तु मे | श्लोकद्वयं समुच्चार्य तच्चिवाय समर्पयेत् || इति | अथ कपिलार्चनमाह- तत इत्यादिना |
SKगावः पंच समायाता शिवलोकान्महीलम् | सुनन्दा च सुभद्रा च सुशीला सुरभिस्तथा || सुमनाचेति संपूज्याः कपिलाश्च वृषास्तथा | सर्वलोकोपकारार्थ देवानां तर्पणाय च || प्. २६३) गोमातर स्थिता भूमौ स्नानार्थं तु शिवस्य तु | सर्वदेवमयाश्चेताः सर्वलोकस्य मातरः || ग्रासास्ताभ्यश्चतेभ्यश्च देयास्तद्वृतमुक्तमम् इति सिद्धान्तशेखरादिष्वुक्तत्वात् | ॐ कपिले सुनं देनमः ॐ कपिले सुभद्रे नमः ॐ कपिले सुशीले नमः ॐ कपिले सुमनसे नमः इति संपूज्य सर्वलोक धराह्येते जीवितान्न प्रदायिनः | ग्रासंग्रंहन्तु मे हृष्टा एतम्मे पृतमुत्तमम् | नित्यं परग वेददद्यादहीत्वा दुर्लभं वृतम् | रक्षन्ति च भयात् कूरात् स्पर्शने पापनाशनम् | इति | ग्रासं दद्यादथवा | गवां ग्रासा यथा देया सौरभेयाय चैव हि | तुल्यमेतत्फलं दृष्टं किन्तु मन्त्रः पृथक् पृथक् || प्. २६४) इति वचनात् पद्धयुक्त प्रकारेण | अमृतमथनोद्भूत सुरभि लोकधारिणी | इदं ग्रासं गृहाणत्वं इदं मे वृतमुत्तमम् | इति दद्यात् | अनन्तरं तान्तत्वा | तस्याः पृष्ठदेशीं स्पृष्ट्वा | वन्दितासि वसिष्ठेन विश्वामित्रेण जह्नुना | कपिले हरमे पापं यन्मया दुष्कृतं कृतम् || गावो ममाग्रतस्संतु गावो मे सन्तु पृष्ठतः | गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् || इति मन्त्रं पठेत् | एतन्मंत्र पठनस्यातिशय फलमुक्तं सोम शंभुपद्धत्याम् | एतन्नरो जपेन्नित्यं त्रिसंध्यां नियतश्शुद्धिः | विमुक्तः सर्वपापेभ्यो शिवलोकं स गच्छति || इति | कपिलार्चनानंतरमाह- मध्याह्नसमयं यावदि प्. २६५)
SKमध्याह्नसमयः मध्याह्नकालः | सूर्योदयानन्तरं प्रातःकालः षट्घटिका तदंतरं संगम(व)कालः षट्घटिका एवं द्वादश घटिकानन्तरं मध्याह्नकालः तावत् पर्यन्तं स्वाध्ययनादिकमिति | गुरुमुखात् कृत्वा | स्वस्य गुरुपाद सेवनात् प्रभृति सर्वत्र सर्वत्र गुरुवाक्यादेव प्रवर्तितव्यम् | तान्यतः पूर्ववत् प्रातःकालवत् शिवार्चनादिकमिति आदिपदेन जपहोमादयः गृह्यन्ते | कुर्यात् यद्वा इति पक्षान्तरः | पूर्वार्चिते प्रातःकालार्चिते शिवे द्विकालादि पूजाऽशक्त इत्याद्युक्त प्रकारं कुर्यात् | अथ शरीरस्थित्यर्थं भोजनोपक्रमः पश्चादित्यादिना इत्यत्र चुल्ली होमबलि विधानयोरनुक्तत्वात् | तयोरर्थ सिद्धत्वात् | प्. २६६) शब्द सामर्थ्य लभ्यं यदर्थ सामर्थ्यतोपि वा | वस्तु शक्त्याथवा प्राप्तं तद्ग्राह्यं संहितांतरात् || इति वचनात् | संहिता तरादाहृत्य लिख्यते | तथा सोमशंभु पद्धत्याम्- विधिमाध्याह्निकम् कृत्वा रम्य भोजन मन्दिरे | विविक्ते गोमया लिप्ते विशुद्धं पाकमानयेत् || ततो मृत्युंजये नैव वौषडन्तेन सप्तधा | जप्तैस्सदर्भ शंखस्थैः सिंचेत्तं वारि बिंदुभिः || सर्वपाकाग्रमुद्धृत्य शिवायार्थं निवेदयेत् | अन्यदर्थं चुल्लिका होमविधानायोपकल्पयेत् || विशोध्य विधिना चुल्लिं तद्वह्निं पूरकाहृतम् | कृत्वा नाभ्यग्निना चैक्यं ततो रेचक वायुना || वह्निबीजं समादाय कादिस्थानादितः क्रमात् | शिवाग्नित्वमिति ज्ञात्वा चुल्लिकाग्नौ निवेशयेत् || प्. २६७)
SKहां अग्नये नमः हां सोमाय नमः हां सूर्याय नमः हां ब्रह्मस्पतये नमः हां प्रजापतये नमः हां सर्वेभ्यो देवेभ्यो नमः | हां सर्वेभ्यो विश्वेभ्यो नमः | अग्नये स्विष्टकृते नमः | वह्न्यादि पूर्वपर्यन्तं पूजयित्वा नले क्रमात् | स्वाहांतमाहुतीर्दत्वा मयित्वा विसर्जयेत् | ततः धर्माय नमः चुध्यां दक्षिण बाहौ | अधर्माय नमः वामबाहौ | ॐ सरस परिवर्धनाय इति कां * * * * * * * दि संधान भाण्डेषु ॐ हां जलाश्रिताय वरुणाय नमः इति जल भाण्डे- ॐ विघ्नराजाय नमः गृहप्रधानद्वारे | ॐ सहने नमः वेषण्यां ॐ ऐन्द्यै नमः ॐ कोदृगिरिकायै नमः उलूखले ॐ बलभद्र प्रियाय हरणाय नमः मुसले- ॐ मृत्यवे चोदि नमः इति प्. २६८) संमार्जन्यां ॐ कामाय कुसुमायुधाय नमः | शयनीय शिरसि ॐ स्कंदाय गृहाधिपतये नमः इति गृहमध्यस्तंभस्याधस्तात् | सिद्धान्तशेखरे संपूज्य बलिनाचाथ बहिर्निर्गत्य मन्दिरात् | बलिं च वायसादिभ्यो दत्वा धौतांघ्रिराचमेत् | न्यासं कृत्वा प्रविश्यान्तः लिप्ते भोजन मन्दिरे || इति भस्मना चतुस्त्रिद्व्येकरेखा परिष्कृत इति- आचार्य चतुष्टय रेखाकृते मण्डले | एवं साधक पुत्रक समधिनः त्रिद्व्येक रेखा कृते सवर्णैस्समान जातीयैः संस्कृतैः दीक्षा संस्कारयुक्तैः पङ्क्तिपावनैः पङ्क्ति भोजनार्हैः सदाचारयुक्तैः सदाचारयुक्तैः इत्यर्थः | तदुक्तं मृगेन्द्र पद्धत्याम्- सवर्णरेखया तत्र संस्कृतैः पङ्क्तिपावनैः | इति || प्. २६९) सोमशंभु पद्धत्यामपि- शिवभक्तैस्सदाचारैः शुद्धशैवैस्तपोधनैः | परस्पर संकीर्णै रूपविष्टैरनाकुलैः || इति | संभाव विभवे सति स्वर्णादि पात्राणि आचार्यादि विषयत्वेन उक्तानि मृगेन्द्र पद्धत्याम् | सौवर्णे रजते ताम्रे लोहजे देशिकादयः || इति अभावे स्वर्णाद्यभावे सर्वे कांस्य एव भुंजीत | तदुक्तं सोमशंभु पद्धत्याम्- सौवर्णे रजते ताम्रे लोहपात्रे सुसंस्कृते | आचार्यः साधकः पुत्रः समधी च यथा क्रमम् ||
SKचतुर्दिगाननो मौनी प्रात्रा भावे च ताम्रजे | साधारणेऽथवा कांस्ये सप्तधा भस्म शोधिते || मन्त्रिते बहुरूपेण पात्रे भुंजीत भोजनं इति | तथा सिद्धान्तशेखरे- प्. २७०) शुभे हेमादिके पात्रे कांस्य साधारणेः इति || तथा अन्यत्र- एक एव तु यो भुङ्क्ते विमले कांस्य भ चत्वारि तस्य वर्धन्ते आयुः प्रज्ञायशो तांबूलाभ्यंजने चैव कांस्यपात्रे तु भे यतिश्च ब्रह्मचारी च विधवा च विव * इति अन्तः कांस्यपात्रं गृहस्थ विष अनिषिद्धेषु कदल्यादि पत्रेषु वेत्या चूतमयूक पलाश पद्मपत्रादीन् आविहितान्युच्यते | तदुक्तम्- प्. २७१) गृहस्थस्यापि संस्कार विशेषात् | अत्र निषेध इति केचित् बद्धवीरासनोवेत्यत्र वीरासन लक्षणमुक्तं किरणे | दक्षिणं चोर्ध्वत स्थित्वा वाम पादतले स्थितं | द्विगुणं पतितं चात्र वीरासनमिति स्मृतम् || वीरासनोवेति विकल्पनात् | पादाभ्यां धरणीं स्पृष्ट्वा पादे नैकेन वा पुनः | इति शास्त्रांतरोक्त वद्वा यथा सुखं स्थित्वा भुंजीत || लशुन पलांडुग्रं जनानि लशुन भेदानि अलाबु प्रसिद्धः | सामान्यशास्त्र निषिद्धानि चेत्यत्र श्रुतिस्मृत्यादिकं सामान्यं शास्त्रं तस्मिन्शास्त्रे निषिद्धानि शाकान्यपि विवर्जयेत् | इति || श्रुति स्मृति पुराणाद्याचागमायर्मदेशिकाः | सामान्यं च विशेषं च प्. २७२) शैवं वैशेषिकं वच इति | परिघा मुद्रां बध्वेत्यत्र परिघा लक्षणमुक्तम् | आरोप्य वामहस्तस्य वामांगुष्टे नियोजयेत् | विततौ चकरौ कृत्वा दक्षांगुष्ठं मुखे न्यसेत् || परिधेयं समाख्याता दुष्टाहार विनाशिनी | इती एवं गृहस्थस्य भोजनविधि मुक्त्वा विरक्तस्याह विरक्तस्त्वित्यादिना | समाधिस्थ इति ध्यात्र ध्यानावभास विधुरम् | ध्येयैक निर्भास लक्षणं यम नियमाद्यष्टांगेष्वंतिमंयोगांगं समाधि | तदुक्तम्- यमोय नियमः पश्चात् आसनं प्राण संयमः | प्रत्याहारो धारणा च ध्यानं चैव समाधिकम् || भवेद्वादश मात्राभिः अनिष्ठाभिः अनिष्ठकः || प्. २७३)
SKमध्याभिः मध्य उद्घातः उक्तमाभिरथोक्तमः | एकोद्घातः समः प्रोक्तः प्राणायामो मुनीश्वरैः || द्वादश प्राण संरोधो प्रत्याहारस्स ए * * | द्वादशैके धारणैका ध्यानन्त द्वादश स्मृतम् || ध्यान द्वादश संप्रोक्तो समाधिः कालवामतः || इति | एतेषां यम नियमादीनां स्वरूपं सिद्धान्तशेखरे अवधेयम् | ग्रन्थविस्तारभयात् न लिखितम् || मध्याह्नपर्यन्तं समाधिं कृत्वा अनन्तरं माध्यंदिन संबन्धि स्नानसन्धि शिवार्चनादिकं माध्यं दिनं तत्कृत्वा यथा विधि विधिमनतिक्रम्य अटित्वा अनन्तर संचारं कृत्वा | भिक्षा भोजन नियतः भिक्षाभोजननियमवान् प्रार्थनादि क्लिष्टां प्रार्थनाद्युपरोधकृतां सांतानिकादि लक्षणमुक्तं पौष्करे- प्. २७४) भैक्षं चतुर्विधं प्रोक्तं साधकानाम्मह माधुकरं स्वयं दत्तं सांतानिकमयाति गृहं गृहं पर्यटन्तो भैक्षं माधूकरं च स्वयं दत्तं साधकस्य भैक्षं पात्रस्य स्वयं दत्तानिष्परिग्रहा तस्यांश्चल ब्रह्मशंभु पद्धतौ | भिक्षायै संप्रविष्टाय भ्रमते स्वयं उपनीता स्वदत्ताया सा भिक्षा निष्प शिष्यादि संतता विशसन्तं वि * (?) द्रव्य यत् गुरवे सा हि भिक्षासां ता * (?) प्. २७५) अयाचित परित्यागेन पित्र देवोद्देशेन कृतस्य धर्मस्य हानेरुक्तत्वात् | धमोन्नयने च या पतितादिभ्यस्त्वयाचितां भिक्षां नाददीतेति तत्रैवोक्तम् | पतितैश्चाभिशस्तैश्च त्यजेदत्तामयाचिता इति | कणान्नभिक्षाख्ययेत् यत्र कणभिक्षा व्रीह्याद्या | अथ तद्विधिरिति भिक्षार्थं गमनप्रकारः | परिवर्तित कौपीनोत्तरीय इति तल्लक्षणमुक्तम् | द्वादशांगुल विस्तीर्ण दीर्घं षट्त्रिंशदंगुलम् || शतार्धं सूत्रकं रज्जु कौपीन त्र्यंश लंबितम् | द्विजकन्याकृतं सूत्रं त्रिगुणं परिवर्त्य च || त्रिगुणी कृत मेतद्धि त्रिसरं ब्रह्मचारिणः | नाभि प्रदक्षिणावर्त शुक्लवस्रोत्तरीयकः || इति पात्र लक्षणमुक्तम् | द्वादशांगुल विस्तीर्ण मुच्छायमंगुलाष्टकम् | प्. २७६)
SKभिक्षापात्रं प्रकर्तव्यं ताम्रं वा पत्रकल्पितम् | इति सोपानत्क इति पादरक्षा सहितः | गृहीतमविरुद्धं मौनं येन गृहीता विरुद्धमौनः || ब्रह्मदेवस्वोपजीविगृह वर्जं इति | ब्रह्मशब्देन ब्राह्मणा उच्यन्ते | तेषां स्वं क्षेत्र धनादिक ग्रामादीशस्य देव स्वं देवद्रव्यं पटादिकं इत्यादि देवस्वं ब्रह्मस्वं देवस्वं वा बलादपहृत्यये भुज्यन्ते | ते ब्रह्मदेव स्वोपजीविनः तेषां भिक्षां नाहरेत् | शुद्ध गृहेषु निष्ठीवनमास्य जलोद्गीरणं स्पर्शः यस्य कस्यापि स्पर्शः अमार्ग समर्पणमपथागमनं क्रुत्सनं निंदा कोपः प्रसिद्धः विवादः व्यवहारः संवत्सगो प्रस्नवकालः गौर्वत्स संयोगात् प्रत्सन समाप्तिः जायन्ते | तावत् कालं स्थित्वा व्रजेत् | प्. २७७) अनन्तरकरणीयमाह- एवं पर्याप्तमित्यादिना- त्र्यक्षरेण मृत्युंजय मुद्रेण | स्वरक्षार्थं स्वशरीर रक्षार्थं पूर्ववत् भोजनप्रकरणोत्तवत् परिषेचनादिकं कृत्वा भुंजीत | एवं विरक्तस्य भिक्षा चरण मुक्त्वा तस्यापि द्विकाल पूजाशक्तौ तत्कर्तव्यतामाह पूर्ववत् समाधिं कृत्वा इत्यादिना पूर्ववत् अधमाध्युदिनं यावदित्यादिना पूर्ववन्मूलाधारस्थितकमल कंदात् तदुक्तम्- देहकन्दस्थानं मनुष्याणां देहमध्यं नवांगुलम् | येन मन्त्राः अधिष्ठिताः तन्नादं शिवमन्त्रं कीदृग्भूतं नादमित्याकांक्षायामाह | सुप्रभेति सुष्टुप्रभा सुप्रभातयाद्योतितं प्रकाशीकृता शेष धरणीतलं येन तं तत्रैव नादात्मक शिवमन्त्र एव तद्भाव गतश्चेतसः तस्य भावननादस्य प्. २७८) भावनायां गता चेतो यस्य तस्य शान्तरुद्रादि भेदजाः शिवरुद्रादि भेदोत्पन्नाः तस्मिन् व्योम्नि तस्मिन् ब्रह्मरंध्रोपरि शिवांतस्थः द्वादशांतस्थः एवमुक्त प्रकारेण संध्यास्विति बहुवचनात् मध्याह्नवत् सायंकाले निशीधेयशिव पूजायामशक्तः तत् तत्संध्यावसानानन्तरं समाधिं कुर्यात् | निशीधे च संध्यां कृत्वेति विधानात् संध्योपासनमपि मनसा भावयेत् | तथा ब्रह्मशंभु पद्धत्याम्- अर्धरात्रे तु संप्राप्ते कुर्यात् सायं तनं विधिः |
SKआचम्योद्धूल्य वा ध्यायन् स्वपेत् पूर्ववदीश्वरम् | इति यथोद्दिष्टं कर्मकाण्डं प्रत्यहं करणीयमित्याह- प्रात ध्यायेत्यादिना | उक्त शिव पूजायाः प्रयोजनमाह- प्. २७९) य एवं सौरादि चंडपर्यन्त पूजा प्रकारेण पूजयति | तस्य पापं न जायते | शिवार्चनया नाशमायाति स शरीरावसाने कर्मभूमिं न प्राप्नोति | अनेन शिवलिंगार्चनस्य सामान्य विशेष शास्त्रेभ्यो ज्ञानयोग समाधि ध्यान जप तपः प्रभृतिभ्यो निरतिशय मोक्षसाधनत्व मुक्तम् | तथा मोहशूरोक्तरे- devāsurādayo yakṣāmunayovītamatsarāḥ | liṃgārādhana tassiddhiṃ gadāmuktiṃ ca śāśvatīm || iti kriyā samopetaṃ liṃgamāśritya sādhakaḥ | labhatebhi matāṃ siddhiṃ mokṣaṃ mokṣaparāyaṇaḥ || padmapatre yathā toyaṃ vātoddhūtaṃ su caṃcalam | tāvastu caṃcalaṃ śakṛpraṇināmapi jīvitam || asthiraṃ yauvanaṃ śakra dravyamasthirameva ca | p. 280) asthiraṃ putrapautrādyaṃ raṃbhā sāramayaṃ yataḥ | tasmāt putra kalatrāṇi suhṛnmitra dhanāni ca || vihāya moha jālāni kuryālliṃga parigraham | iti | asya pūjāvidheśca sthirādi sarvaliṃga sādhāraṇyamāha- sāmānya yajanamiti- nanu ayaṃ pūjā prakāraḥ sarvaliṃga sādhāraṇaścet dravyasaṃpannai kartu śakyate | netarairiti nāśaṃkanīyam | atra dravyāpekṣayā noktam | kintu mantra tantra kriyāpekṣayā tasmāt sarvajanaiḥ svavibhavānuguṇaṃ yajanaṃ kartavyam | tathā kāmike- arcanā paṭale- pūjopacārairvibhavānusāraiḥ snānādibhiḥ svalpataraiḥ mahadbhiḥ vidhīyate nityavidhau samastaiḥ grahādibhiḥ kāmya vidhāvaśyam | p. 281) snānaṃ vastra vilepanaṃ ca kusumaṃ dhūpotha dīpo haviḥ tāmbūlaṃ mukhavāsa gaṃdha sahitaṃ gītaṃ ca nṛttaṃ tathā | homo bhūta balipradāna sahito nityotsavopālitaṃ saṃgītaṃ ca samastametaduditaṃ śaṃbhorvibhūtau sati ||
SKअत्र प्रसंगात् स्वजन्म ऋक्षादौ क्षीराभिषेकादिना स्वस्वगृह पीडादि निवृत्तिमाह | खंडेन पयसेत्यादिना स्वकृत शास्त्र प्रतिपादन पूर्वं निगमयति (तदुक्तम्) श्रीमतंगादि शास्त्रेष्विति | एवं प्रत्यहं अनुष्ठेय नित्यकर्मक्रममुक्त्वा अधुना प्रत्यब्दमनुष्ठेयं नित्यांगभूतं पवित्रारोहणाख्यं कर्मानु वदति | अथेति- अथ नित्यविधि प्रतिपादनानंतरं पवित्रविधिः वक्ष्यते इति प्रतिज्ञा | पवित्रं नाम प्रत्यहमनुष्ठीयमानस्य शिवार्चनस्य प्. २८२) विधि लोपे सति देशिकादीनां भोगमोक्षाख्य सिद्धि भ्रंशो जायते | तद्विधिच्चित्रपूर्णात्मकं पवित्रमिति शास्त्रेषुकथ्यते | तच्च देशिकादिभिः समस्तैः पवित्रारोहणकालं च पूर्वं स्वकृत नित्य नैमित्तिक काम्य भेद भिन्नस्य सांगोपांगस्य पूजाविधानस्य येन केन वा संपूर्णं न जायते तत्पूरणार्थमवश्यं कर्तव्यम् | तदुक्तम्- कामिके- प्रत्यहं वांमनःकाय व्यापारजनिता दलम् | पतनात्त्रायते यस्मात् तस्मादेतत्पवित्रकम् || इति | तथा सोमशंभु पद्धत्याम्- सर्वपूजा विधिच्छिद्र पूरणाय पवित्रकम् | कर्तव्यमन्यथा मन्त्री सिद्धि भ्रंशमवाप्नुयात् || इति || तथा मृगेन्द्रे- प्. २८३) सर्वच्छिद्र हरश्चान्यो विधिरेषा निगद्यते | य प्राप्तः तमसा देवैः हरात् स्वविधि पुष्टये || शंभोः पवित्रमासाद्य पूरयेद्वार्षिकं विधिम् | एतत् पवित्रकं गुह्यं प्र(व्रा)तानामुत्तमोत्तमम् || सर्वव्यतिकरोच्छित्यैकार्थं लिंगाश्रितैर्नरैः | (गृहस्थैः देशिकाद्यैश्च रुद्राराधन तत्परैः) का(वा)ननस्थे गुहायां वा रुद्राराधन तत्परैः || गृहस्थैर्देशिकाद्यैश्च भुक्तिमुक्ति फलार्थिभिः | यतस्सर्व कलाव्याप्तिः विधौ च विकले सती || स दुर्लभतरस्तस्मात् नैतत्कार्य न केनचित् | इति सर्वचिद्र हरश्चान्यः इत्यनेन प्रायश्चित्तात् कोपि विशेष इति चेत्तद्धि विहितानाचरणनिषिद्धाचरण रूपस्य कर्मणोनंकुर प्रसिवता मात्र जननम् | न कृतस्य पूरकं इत्थं भूतं प्. २८४)
SKपूरकं सर्वपूजाविधि चिद्रपूरणाय पवित्रकमित्युक्तत्वात् | किं चेदं प्रायश्चित्तं भवितुं नार्हति | कर्मलोप समनन्तरमेव प्रायश्चित्त श्रवणात् | अस्य च काल नैयत्वात् | एवं चेदस्य पवित्रस्य नित्यनैमित्तिककाम्य प्रायश्चित्ताख्येषु कर्मस्वाकस्मिन्नंतर्भाव इति आकांक्षायां केषुचित् आगमेषु नैमित्तिकत्वमुक्तं आचार्यैः मृगेद्र पद्धत्यां उक्तम् | नित्यांगमेतदुष्टमिति | ननु इदं पवित्रं नित्यांगश्चेत् संध्यावन्दनादिवत् अनुदिनं प्रकर्तव्यमिति नाशंकनीयम् | प्रतिदिशमपि धेययत्वं सूत्रा भावादेव नित्यं तु नित्यपूजायां पत्र पुष्प कुशादिभिः पवित्रम् | अन्य कालेपि प्रत्यहं कल्पयेदित्युक्तत्वात् | किं च पवित्र कालेपि अष्टाधिक शतसूत्राऽसंभसप्तविंशादिर्वा प्. २८५) कर्तव्यमित्युक्तत्वाच्चयदि सूत्रसिद्धिः तदा प्रतिदिन करणेपि न दोषः स्यात् | तत्राशक्तस्यैव नियत कालः | तथा कालोत्तरे- पूजांगत्वात् प्रकर्तव्यं नित्यमेवं पवित्रकम् | अथवा नियमे नैव कुर्यान्मासि त्रयांतरे || आषाडान्ते चतुर्दश्यां नभस्यश्च * * स्तथा | एवं कालेत्वतिक्रान्ते प्रायश्चित्तं समाचरेत् || इति पवित्रेण विना पूजातामसी परिकीर्तिता || राजसीत्र भवेत् पूजा परमीकरणं विना | तत्पूजायाः पवित्रं च परमीकरणं तथा || कर्तव्यं सततं सद्भिः संस(धा)र भयमीरुभिः इति | मोहशूलोत्तरे- अथैतुत् पवित्रकर्मशास्त्र विहित काले एव कर्तव्यं प्. २८६) इत्याह उक्त काल इति- अत्र काल स्वरूपं आगमान्तरादाहृत्य लिख्यते | अषाडादि त्रयो मासाः ज्येष्ठमध्यमकन्यसाः इति कामिके | शुक्याष्टमी विनाषाडे तथा श्रवणभाद्रयोः | सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु च || आषाढेपि न कर्तव्यं अप्रसुप्ते जनार्दन | इति मृगेन्द्र पद्धत्याम् | आषाढादि त्रयेष्वेव सुप्त एव जनार्दने | पवित्रं विदधीतेति सोमशंभु पद्धयाम् || तत्र आषाढादि त्रयेष्वेवत्यवधारणात् तदूर्ध्वमपि सुप्त एव जनार्दन इत्यनेन विष्णोस्वापात् पूर्वमपि पवित्र पूजनं न कर्तव्यम् इत्युक्तं भवति |
SKअथ मोहशूरोत्तरे- मोहादज्ञानतो वापि चाप्रसुप्ते जनार्दने | प्. २८७) पवित्रं कारयेद् यस्तु स पापी पाव मोहितः | पंचाहस्तु निराहारो जपेत् पंचायुत हरे || सिद्धिमेवं समभ्येति नान्यथा तु कदाचन | भ्रामादूर्ध्वं न कुर्वीत सिद्धान्ते दोषभाक् भवेत् || लक्षद्वयमघोरस्य जप्ता चैव विशुध्यति | दैवादज्ञानतो वापि राषाढादि नये कृतम् || तत्राप्येवं विनिर्दिष्टं प्रायश्चित्तं पुरंदर | इति तथा अन्यत्रापि- रोगाभिवृद्धि संयुक्तः प्रथासी राजपीडितः | उक्तमास त्रये यस्तु न कुर्यात् सूत्ररोहणम् | असौ कन्यागते भानौ जप्त्वा दक्षाणुनायुतम् || कुर्यात् पवित्रकं शंभोस्तुलायां न कदाचन | इति | अत्र आषाढस्सौरद्रशामुक्तराणान्तिमो मासः मिथुनराशिः- तदुक्तं निश्वासकारियाम्- माघ मासादितः कृत्वा आषाढान्तेन शोभने | प्. २८८) विज्ञेयं लौकिकं कालमुत्तरायणमुत्तमम् | श्रावणीमादितः कृत्वा पुष्यान्तेन तु शोभने || विज्ञेयं लौकिकं कालः दक्षिणायनमुत्तमम् | इति माघादिमासानां मकरादि संज्ञश्च | तत्रैवोक्तम्- तस्मिन् रासौ स्थितो भानुः माघमादिकरोतियः | मकरं कुंभ मीनौ च मेषश्चैव वृषस्तथा || मिथुनः कथितो पृष्टो राश्यां षण्मासि कीर्तिताः | कर्कट सिंहकन्याः तुलावृश्चिक एव च || धनुश्चैव समाख्याता दक्षिणे भास्कराश्रये | इति | तथा- आयुर्वेद विद्भिरपि- मासैर्द्विसंख्यैमरिवाद्यै कृताषडृतव स्मृता | इति | तथा निखण्डुकैरपि- द्वौ द्वौ मासादि मासौ स्यादृतुस्तैरथनं त्रिभिः | प्. २८९) अयने द्वे गति रुदग्दक्षिणार्कस्य वत्सरः | इति | चन्द्रद्रशौ तु शुक्ल प्रतिपदादिकः आषाढनक्षत्र युक्तं पौर्णमासी मध्यो माघास्यन्तश्च | तदुक्तं- पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा | नाम्ना स पौषो माघाद्याश्चैवमेकादशा परे | इति दर्शावधिं मासमुशंति चान्द्राः सौरं तथा भास्करराशिचारात् | इति सिद्धान्तशेखरे-
SKमेषादिस्थे सवितरियो यो दशः प्रवर्तते चांद्रोमासस्तदंतश्च चैत्रादिक इति स्मृतः | इति ज्योतिष संग्रहे | अतश्चांद्राषाढः कर्कटकः सौराषाढस्तु मिथुनराशिः | तदुक्तम्- राशिमासश्च सुरश्च द्वौ विज्ञयौ विशेषतः | चान्द्रेण व्यवहारार्थं सौरेण शुभकर्मसु || इति प्. २९०) ज्योतिर्विदान्नियमात् एतेषु सौरत्वेन श्रुतेषु मिथुनं कर्कट सिंहराशिषु आषाढादि संचितेषु पवित्रं कर्तव्यम् | कन्याराशन प्रायश्चित्त पूर्वं कर्तव्यम् | तुलायां च न कलंचन इति विधानात् तुलाराशौ कदाचिदपि न कर्तव्यम् | किं च विष्णुस्वापानन्तरं कर्तव्यं तत्पूर्वं न कर्तव्यमिति वचनात् | तत्स्वापकालस्तु अधिमासरहिते वत्सरे मिथुन गता शुक्लद्वादशी तद्युक्ते तु कर्कटस्था सैव | तथा मोहशूरोत्तरे- दर्शद्वयं भवेद् यत्र रवि संक्रान्ति वर्जितम् | अधिमासस्सविज्ञेयो विष्णु स्वपति कर्कटे || इति | तथा ज्योतिश्शास्त्रे च- दर्शद्वयमतीत्येव यदा संक्रमते रविः | मलमास्सविज्ञेय सर्वकर्म बहिष्कृतः || Fओलिओ २९१ नोत् fओउन्द् प्. २९२) संकल्प्य चतुरोमासान् स्थानमाश्रित्य पाचितम् | कार्यानियमस्तैस्तु मृद्भस्मादि परिग्रहः || आदृच्छेदमधोध्वानं गुरुन्यत्र वर्जयेत् | आपत्स्वपि च कर्तव्यं पंचरात्रं त्रिरात्रकम् || इति | मृगेन्द्रेपि- चतुर्मासान् त्रिमासं वा द्विमासं मासमेव वा | मासार्थं(र्धं) सप्तरात्रं वा पञ्चरात्रंत्यहंदिनम् || क्रिया पर्यवसानं वा नियमेनैव कारयेत् | इति | वह्नि ब्रह्माम्बिकादीनां प्रतिपदादि तिथिषु पवित्रं समर्पणीयमित्युक्तं सोमशंभु पद्धत्याम्- वह्न ब्रह्मांबिके भास्यवागस्कन्दर्क इरलिनाम् | दुर्गायमेंद्रगोविन्द स्मरशंभु स्वथा(ध)भुजाम् || अमीषां सर्वदेवानां विधातव्यं पवित्रकम् | प्. २९३) प्रतिपदं समारभ्य यावत् पंचदशि क्रमात् | शुक्लपक्षे गृहस्थस्य व्रते रुभयपक्षयोः || इति |
SKअथ शास्त्रोत्त प्रकारेणैव तंतु संख्या विशालादि युक्तं पवित्रं कार्यमित्याह- उक्तवत् पवित्रं निष्पाद्येति- तत्स्वरूपमप्यागमान्तराल्लिख्यते | क्षौमं कार्पासजं सूत्रं मौंजं वा तद संभवे || दार्भं सवल्कलोत्थं वा समाहृत्याधिवासयेत् | त्रिगुणं त्रिगुणीकृत्य शोधयेदस्त्र मन्त्रतः | शुष्क कृत्वा हृदात्वेन पवित्रं कारयेद् गुरुः || इति कामिके | तथा सिद्धान्तशेखरे- क्षौमेण पट्टांबुज दर्भशाणमौंजादिकं वा विभवानुरूपम् | द्विजादि कन्याकृतमुक्तमस्यात्कृतं धनाद्यैरथमं पवित्रम् | स्थूलं कृशं ग्रंथियुतं च भग्नं दग्धं त्यजेत् कशमलादि दुष्टम् | प्. २९४) त्रिधा कृतं तत्रिगुणीकृतं च नवात्मकं चापितदेकसूत्रम् | ईशादि मन्त्रैः कबलं विद्यध्याक्तत्कंदुकारकृतं च सूत्रम् | अजेन धौतं पयसा च शुष्कं शस्त्रेण सूत्रं ग्रथितं तु वामात् | घोरेण शुद्धं पुरुषेण रक्तं कस्तूरिका चंदन कुंकुमाद्यैः | काश्मीर कर्पूर हरिद्रकाद्यैः तद्ग्रंथिके वा विदधीत सूत्रम् | ईशानमन्त्रेण सुधूपितं तत्पात्रेषु गुप्तं मनुभिः प्रजप्तम् | इति | अन्यत्र समलं चान्य दोषाड्यं दूरतः परिवर्जयेत् | समलं जनयेत् पापं दग्धं राजभयंकरम् || स्थूलं व्याधिकरं प्रोक्तं सूक्ष्मं द्रव्य क्षयंकरम् | मृतिदंश्चिन्न तन्तुस्याद्गतिघ्नं युग्म युक्तथा ||| अष्टोत्तर शतेनैव सूत्राणां स्यात् पवित्रकम् | इत्थं त्रीणि तदर्थेन विंशत्या वाथ सप्तधा || इति | प्. २९५) स्वायंभुवादि सर्वलिंग साधारण्ये नोक्ता सूत्रसंख्या सोमशंभु पद्धत्यां सिद्धान्तशेखरे तु- साष्टं शतं स्यात् प्रवरं पवित्रं मध्यं तदर्थं च तदर्थमत्यम् | एवं पवित्र त्रितयं विदध्याद्गंगावतारं शतं च साष्टम् | हस्तादिके द्वादश सूत्रमाद्यं पवित्रकं द्वादश सूत्रवृत्या | शिवागमे साष्टशतांत्तमुक्तं नव प्रकारम् नवलिंगके | तथा कामिके- शतमष्टोत्तरं तेषां तन्तूनामुत्तमोत्तमम् | द्वादशोत्तरया वृत्या द्वादशेभ्यस्तदंतिकाः ||
SKततो वाथ संसिद्धाः अन्यसादिषु सिद्धिषु | यवीय सांकला संख्या मध्यानां वर्णलक्षिताः || ज्येष्टानां पदसंख्याताः तंतवो मानुषे मताः | स्वयंभुवादि लिंगेषु बाणे वा रत्नजेपि वा || प्. २९६) स्थंडिले मण्डले वापि चले वा प्रतिमासु च | संख्या सर्वा च संग्राह्या समा वा विषमाश्च वा || समा एव गृहस्थस्य परिवारामरादिषु | तथैव हीन वित्तानां लिंगादिषु मुनीश्वराः || एकाद्येकैक वृध्या तु तन्तवो द्वादशान्तिकाः | ग्रन्थयस्तंतु संख्याताः स्निग्ध गर्भानवाथ वा || यथेष्ट ग्रन्थयो वापि समास्सर्वत्र संस्थिताः || इति | तथा मृगेन्द्रपद्धत्याम्- पवित्राणां विधातव्यं तुल्यग्रंध्यन्तरालकम् | ग्रन्थयो दशकर्तव्या अथ तावतु संख्यया || इति | पवित्राणां विस्तार प्रमाण मुक्तम् सोमशंभुपद्धत्याम्- द्वादशांगुलमानानिव्यायादष्टांगुलानि वा | लिंगविस्तारमानानि चतुरंगुलकानि च || प्. २९७) तथैव पिण्डिका स्पर्शी चतुर्थं सार्पदैवतम् | गंगावतारकं कार्यं पवित्रमति सुन्दरमिति || तट्टीकायाम स्पष्टपद बोधिन्यामपि | लिंगमूर्धपरीणाहं यथा चैवात्मकं तथा | विद्यात्मकपरीणाहं ततो भागद्वयं विना || तस्माद्भागद्वयं न्यूनं शिवाख्यं तत्पवित्रकम् | ग्रन्थिभिः दशभिर्युक्तं नवभिर्वा समन्तरम् || मस्तकात् पिण्डिकान्तन्तु कर्तव्यं सार्वदैवतम् | शिववल्लोक पादीनां यथा संभवतोपि वा || विद्यापीठं प्रतिप्रान्तं श्रंगात् प्रष्ठानुगं वृषे | रवितं तु समग्रन्थि कर्तव्यं सर्वतत्वगम् || गुर्वात्मनोः प्रकर्तव्यं पवित्रं नव तन्तुकम् | शिवकुंभे च वर्धानां सप्तविंशति तन्तुकम् || वास्त्वधिपति हेरम्ब गुरुपङ्क्ति पवित्रकम् | प्. २९८) गृहलोकेश लक्ष्मीणां सर्वेष्वावरणेषु च | घंटार्घ्यपात्र मालासु क्षेत्रपात्रादि मूर्तिषु || द्वारपालेषु कर्तव्यं वसु तन्तु युगांगुलम् | द्वादशान्ते बलेस्तद्वत् एकादश वहिर्बलेः || एकतन्तुमकल्पत्वे सर्वेषां परिकल्पयेत् | इति | तथा कामिके-
SKपवित्रमेवं सर्वेषां आवृतानां विधीयतम् | एकैकमेव दातव्या चण्डेश क्षेत्रपालयोः || यागधाम वृषस्थान प्रासादानलसंश्रयान् | कारकाणि च सर्वाणि त्रिव्रस्तूत्रेण वेष्टयेत् || इति | अथ पवित्राधिवासार्थं मण्टप पूजाविधिं अभिहितुन्तत्पूर्वकरणीयानाह सप्तम्यामित्यादिना- अत्राष्टम्यां पवित्रपूजां च तत्पूर्वेद्युस्सप्तम्यां अधिवासनमारभते | चतुर्दश्या त्रयोदश्यामारभेत् | प्. २९९) नैमित्तिकीं संध्यामिति- पवित्रारोहण निमित्तेन क्रियमाणां तदुक्तं ज्ञानरत्नावल्याम्- पवित्रारोहणे कार्याया संध्यातानिमित्ततः | तेन नैमित्तिकी प्रोक्ता न नैमित्तिक कर्मतः || इति नित्य संध्यां विहाय पंचान्नैमित्तिकीं संध्यां समाचरेदित्यर्थः | काले हि कर्मचोद्यते न कर्मणि काल इति न्यायेन सायन्तनकाल एव नित्य संध्या समनंतरं पवित्राधि वासार्थं पुनरपि संध्यावन्दनं कार्यम् | एतद्विधि सामर्थ्यादेव तर्पणश्चापि सिद्ध्यै पुनर्विशेष ग्रहणं श्रीमन्मृगेन्द्राद्युक्तवद्विस्तार तर्पणाय तद्यथा | ततश्च पुनराचम्य पाण्यग्रेण गुरूत्तमः | ब्रह्मादि पञ्चकान् सर्वान् विद्याविद्येश्वरानपि || तत्वानधिपतीन् ध्यायन् कालान्तमण्डले | प्. ३००) चतुर्थ्यन्ताभिधानेन स्वाहान्तेन्युतर्पयेत् | ततो यज्ञोपवीतेन मुनीन्कण्ठावलं बिना || सनकादि स भृग्वादीन् स गोत्र प्रवराधिपान् | कनिष्ठ मूलमार्गेण ज्ञात्यादीन् पर्वसंधिभिः || तथा वसद्येन पित्रन् सपत्नीकान्पितामहान् | प्रपूर्वांश्च गुरूनेव चोदकान् बोधकान्परान् || भ्रातृन् सखीनुपाध्यान्समातामहमातुलान् | स्वधांते नाभिधानेन न तु प्रान्तेन मध्यमान् || इति अन्यत्र परिग्रह यागमण्टपादि स्वरूपं यागोपकरद्रव्याण्यपि दीक्षाप्रकरणे प्रतिष्ठा प्रकरणे च निपुणतरमुपपादयिष्यामः | विशेष द्रव्य स्वरूपं उत्तरत्र व्रतचर्यांगानि निवेदयेदित्यादिना ग्रन्थकार एव वक्ष्यति | इन्द्राग्न्योरन्तरेभानुमित्युक्तत्वाद्वास्तुगते तत्पद एव वनित्योक्तवन्नित्यकर्मणि प्. ३०१)
SKपूर्वास्यो भानुमर्चयेत् इत्यादिना उक्त प्रकारेण सूर्यं संपूज्य | तस्य विसर्जनं न कुर्यात् यागमण्टपे पूजित देवानां कर्मावसान पर्यन्तस्थितेरित्युक्तत्वात् प्रणवार्घ्य हस्तः सामान्यार्घ्यहस्तः मण्टपस्य चतुद्वारत्वात् द्वाराणीति बहुवचन उक्तम् | तच्छाखयो द्वारो भयपार्श्वस्थयोः कलशयोः | पश्चिमे पश्चिमद्वारे नित्यवत् ऊर्ध्वोदुंबरादिषु गणपत्यादीन् पूजयेत् | नै-ऋते पुष्पं दत्वेत्यत्र नै-ऋत्यां दिशि नित्यवद्भावयावास्तु ब्रह्माणं पूजयेत् | नै-ऋते वास्तु नाथमभ्यच्येत्युक्तरत्र कलशार्चने वक्ष्यमाणत्वात् | भूतशुद्धिं विधायेति- तत्र पूर्वं करन्यासं विधायेत्यादिना नित्यपूजा प्रकरणोक्त प्रकारेण वौषडन्त शक्तिमन्त्रोच्चारणोभिषिंचेदित्यन्तं प्. ३०२) कर्म कृत्वा अनन्तरमंगन्यासं कुर्यात् | पूर्वोक्तवत्कालान्यासमिति शशिनी चोर्ध्व मूर्धास्यादित्याद्यष्ट त्रिंशत्कलान्यासमापि स्वस्य कुर्यात् | अन्तर्यजनमन्तर्यागः हवनं होमः ध्यान समाधिं तनन्यपि हृन्नाभि बिन्दुस्थानेषु कुर्यात् | तालत्रयादिनाधाम संरक्ष्य इति स्थानशुद्धि प्रकरणोक्तवघस्त्र तालत्रयं कृत्वेत्यादि सर्वत्र कृतरक्षां भावयेदित्यन्तं कृत्वा विशेषार्घ्यमपि कल्पयेत् | शिवहस्तकरणं वक्ति चंदनलेप पूर्वमिति तत्स्वरूपं दीक्षा प्रकरणे- ततो दक्ष हस्ततलेत्यादिना स्पष्टं वक्ष्यति | अथ स्वस्य शिवभावनामाह- शिव इति- आदि सर्वज्ञः आदिश्चासौ सर्वेषामनन्तादिनां गुरूणां सर्वज्ञश्चेत्यादि सर्वज्ञः | यदाहुः- पूर्वेषामपि गुरुः कालेनानवच्छेदादिति प्. ३०३)
SKशिवभावनानन्तरं करणीयानाह- पंचगव्यमिति विकीर्यत इति विकराल्लाजादीन् पंचगव्यस्थापन विकिरस्वरूपोपि दीक्षा प्रकरणेव धार्यताम् | अथ मण्टप संस्कारः नै-ऋत्यामित्यादिवा- निरीक्षणमादिर्येषां संस्काराणां निरीक्षणादयः | चतुष्पदमन्तं येषां तै निरीक्षणादि चतुष्पदान्तैरुक्तरत्र कुण्डस्य वक्ष्यमाणाष्टादश संस्कारैः मण्टपमपि संस्कुर्यात् | अथ शिवकुंभवर्द्धनी पूजां लोकपाल पूजया सहानुवदती | ततो ऐशान्यामित्यादिना सर्वधान्यस्थेन तिल सर्षपमुद्गकुलुद्ध शिंबव्रीह्याख्य सप्तधान्यस्थे पश्चिमानने पश्चिमाभिमुखे | तदुक्तम्- प्रत्यक् वक्त्रं तु कुंभादौ इति मूर्ति भूत शिव विग्रह स्वरूपे | चलाचलासनमिति || षडुत्थानसनस्य चलाचलमिति संज्ञा | प्. ३०४) तदुक्तमुत्तरत्र चलाचलासनं वृषभासनेन अनन्त धर्म ज्ञान वैराग्य ऐश्वर्य पंकजै संपूज्ये तिरोधर हितमिति लोकपाल पूजानन्तरं शिवकुंभ शिवकुंभवर्धन्यो भ्रमणार्त्थं संनिरोधनं न कर्तव्यम् | पश्चात् स्थिरासन पूजानन्तरं निरोधः कार्यः | तद्दक्षिण तलतितस्य शिवकुंभस्य दक्षिण दक्षिण दिग्भागे तथा स्थितायां इति शिवकुंभवत् सप्तधान् स्थितायां गलितांभसा पूरितायां चूतपल्लवाद्यलंकृतायामित्यर्थः कुंभाग्रगामिनीमिति कुंभस्य शिवकुंभस्याग्रे पुरतो गच्छतीतितां अविच्छिन्न पयोधरां अखण्डित जलधाराम् | स्थिरासनमिति आधारशक्त्यादि शिवासनांतं परिकल्प्य तस्मिन् शिवमूर्ति विद्यादेह नेत्राणि विन्यस्य शिवावाहनादि परमीकरणांतं संपूज्य वर्धन्यां पूर्ववत् पाशुपतास्त्रमर्चयेत् | प्. ३०५)
SKअवभृतान्तं कर्मावसान पर्यन्तं वर्धन्यासन इति अस्त्र कुंभस्यासन भूतेभ्यः पूर्वं कुश कूर्च्यासमाहृत विकरेभ्यः मन्त्रैरुत्पन्नैरस्त्रप्रहरणैः | अपसारितं प्रोत्सारितं अशेषं समस्तं विघ्नं यस्य तत् | ब्रह्मस्थानमिति एकाशीति विभागीकृत मण्टपस्य मध्यस्थित चतुष्पदं यत् तत् ब्रह्मस्थानमिति संज्ञा | तस्मिन् वेदिकां कृत्वा तत्र मण्डलं रचित्वा तस्मिन् मण्डलेपि शिवं संपूजयेत् | मण्डले कर्मणां साक्षी कलशे यज्ञरक्षक इत्युक्तत्वात् दिव्यदृष्ट्येति मूलमन्त्रन्यासकृत दृष्टिः दिव्यदृष्टिः कुण्ड सकाशमेत्यत्र कुण्डं होमकुण्डं तत्स्वरूपमपि दीक्षाप्रकरणे वक्ष्यामः पुरस्कुर्वन् पुरो भागं कुर्वन् अथ कुण्ड संस्कार विधिः तत्रेत्यादिना | न्यस्त मूलेनेति- प्. ३०६) न्यस्तं मूलमन्त्रं यस्य तेन चक्षुषा भूगत विघ्ननिवारणार्थं आलोकनं यत् तन्निरीक्षणमुच्यते | तत्कर्म शिवमन्त्रेण कुर्यात् प्रोक्षणं च ताडनं च प्रोक्षणताडने प्रोक्षणं सजलया पताकमुद्रया | ताडनं सकुशयामयमांगुल्या द्वयमपि हुंफडंतास्त्रेण भू शुध्यर्थं कुर्यात् | प्रोत्सारितानां विघ्नानां पुनः प्रवेश निरासाय | संकुशया उत्तान पताकया जलस्योर्ध्वक्षेपणं अभ्युक्षणं तद्वौषडन्त कवच मन्त्रेण कुर्यात् | खननं तद्भूत प्रदेशस्य शल्यादि दोषनिवृत्यर्थं क्रियमाणं कर्म | तन्मृदुद्धारणमवकीरणमित्युच्यते | तद्घातस्य क्रिमि कीटपालादि रहितया शुद्धमृदा पूर्यमाणं कर्मपूरणमित्युच्यते | पूरित प्रदेशे निम्नोन्नतराहित्यकरणं समीकरणम् | पश्चादुदकपूरणया प्. ३०७)
SKमृदः नमज्जीकरणं सेचनम् मुद्गरादिना स्थिरीकरणं कुट्टनम् | स्थिरीकरणानन्तरं शुष्कस्य तद्देशस्य रजोपक्षेपणं संमार्जनम् | अनन्तरं गोमयालेपनम् समालेपनम् | एतानि खननाद्यष्ट संस्काराणि खड्गेनास्त्रमन्त्रेण कुशेन कुर्यात् | प्रागायतमिति होतु पूर्वाभिमुखस्थितिश्चेत् पश्चिमादारभ्य पूर्वदिक्पर्यन्तं रेखा त्रय कुण्डमध्ये कृत्वा | तदुपरि दक्षिणादारभ्य रेखैकाकृता चेत्तया सह रेखा चतुष्टयं भवति | तस्योत्तराभिमुखस्थितिश्चेद्दक्षिणादारभ्य उत्तरदिक्पर्यन्तं रेखात्रयं कृत्वा तदुपरि पश्चिमात् पूर्वदिक्पर्यन्तं रेखैका कृता चेत्तया सह रेखा चतुष्टयं भवति | एतत् स्वरूपं नित्यहोम प्रकरणे विलिखितम् तत्र अवधेयम् | उभयत्रेति- उभयत्र उभय पार्श्वे त्रिशूलाकारेण प्. ३०८) कुण्डमध्ये कुशत्रय विनासं वज्रीकरणम् | वज्रवत् दृढचिन्तनं कुण्डमध्ये पूर्वाग्रमुत्तराग्रं च एकैकदर्भ विन्यास चतुष्पथं चतुर्दिक्षु मार्गचतुष्टयकरणम् | एतत् रेखाकरण वज्रीकरण चतुष्पथान्यासकरण त्रयमपि अस्त्रमन्त्रेणैव कुर्यात् | तदुक्तम्- निरीक्षशंभुनाकुण्डं संप्रोक्ष्यास्त्रेण ताड्य च | अभ्युक्ष्य वर्मणास्त्रेण खात्वोत्कीर्य प्रपूर्य च || समी कृत्याथ संसिच्य निकुंठ्य परिमार्ज्य च | उपलिप्य कलारूपं प्रकल्प्य परिधाप्य च || त्रितंतून् प्राङ्मुखारेखास्त्रिस्रः कुर्यादुदङ्मुखा | एका यद्वा विपर्या सा वज्रीकरण हेतवे || कृत्वा चतुष्पथ न्यासं अक्षपाटन्तु वर्मणः | इति || मृगेन्द्रपद्धत्याम् | तथा कामिके च- वीक्षणं शिवमन्त्रेण प्रोक्षणं च अस्त्र मन्त्रतः | प्. ३०९) इत्याद्युक्त्वा | रेखा चतुष्टयं वज्रकॢप्ति शृंगाटकल्पना | एतत् सर्वन्तु मतिमान् अस्त्रमन्त्रेण कारयेत् || इति |
SKकुण्डस्याभ्यंतरेति- अभ्यंतरोन्तः प्रदेशः समंतात् समं ततः उत्थितैः ऊर्ध्वाग्रैः कुशैः दर्भैः अक्षपाटं तिरस्करणीं कवचेन कवचमन्त्रेण विन्यसेत् | निरीक्षणादि चतुष्पथांन्तानष्टा दशसंस्कारान्मुक्ता | अनन्तरं वागीशी वागीश्वरयो संयोगर्थमक्षपाटकर्माभिहितं केषुचित् ग्रन्थेषु कलारूपं कलामयाभ्यर्चनमप्येकं कृत्वा अक्षपाटन सहाष्टादश इत्युक्तम् तथात्वेकलारूप प्रकल्पनानन्तरमेव कलाभ्यर्चनं वक्तव्यम् मध्ये त्रिसूत्र परिधानस्य विहितत्वात् उभयमपि प्रत्येकमेव किं च मण्टपस्यापि कुण्डवदष्टादशसंस्कारस्योक्तत्वात् | तत्र अक्षपाटस्य अप्रयोजनत्वात् | अक्षपाटः पृथक् इति सिद्धम् | प्. ३१०) अनन्तरकरणीयानाह- मध्ये इति- मध्ये कुण्डमध्ये विष्टरमासनं कुशत्रय कल्पितं ब्रह्मग्रन्थियुतं वितस्थिमात्रं विन्यसेत् | वागीश्वरी वागीश्वरौ शिवशक्तिभेदौ | वागीशी सा भवेत् गौरी वागीशस्यान् महेश्वरः | इत्युक्तत्वात् तद्वागीश्वरमिति यथा वागीश्वर्याः श्यामरूप सद्वासादिकमुक्तं तथा वागीश्वरमपि ध्यात्वा पूजयेत् | तदुक्तम्- विष्ठरं रुद्रकाष्ठाग्रं न्यस्य वागीश्वरीं न्यसेत् | तद्वागीश्वरं चापि यद्वागिशी तनुं शिवा | इति | करणेत्यादि- करणि स्वरूपमुक्तम्- नित्यहोम प्रकरणे | सूर्यकान्तादग्न्युत्पादनप्रकारमुक्तं सिद्धान्तशेखरे- कृष्णाजिनं समास्तीर्य वर्मणा शुभ्रभूतले | अर्ककान्तमणा वह्नि अर्कयुक्तेर्क दीधितौ || प्. ३११) विधृतो मणिजो वह्निः जायते सोपि शस्यतेति | द्विजग्रहाद्ब्राह्मणादि ग्रहात् सुग्रहात् सदाचारयुक्त ग्रहात् क्रव्यांदांशमिति क्रव्यादांशं रक्षसांशं तदुक्तम्- प्रबुद्धं शुद्धपात्रस्थं ज्वलन्तं विभजेद् विधा | देवासुर विभागेन रक्षांशं निर्-ऋतौ त्यजेत् || इति | नाभिदेशे संमूह्येति- क्षिप्तस्य वह्ने शिवमन्त्रेण एकत्र करणं संमूहनम् | परिधानस्य वस्त्रस्य संप्रतिं समाच्छादनं कवचेन कवचमन्त्रेण सदिंधनैः यज्ञ वृक्ष संभूतैः | तदुक्तम्-
SKप्रज्वाल्य ज्वलनं तत्र शुष्कैर्यज्ञ तरूद्भवैः | केश कीटाद्य निर्दिष्टैः इति गर्भाग्निं गर्भस्थिताग्निम् | तत्ॐतस्थित बीजास्य नाभिदेशे संमूहनम् | संप्रतिं परिधानस्य शौचमाचमनं हृदा || प्. ३१२) गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना | बध्नीयाद्दर्भजं देव्याः बध्नीयात् पाणिपल्लवे || इति गर्भाधानाय गर्भाधान निमित्तम् | सद्यो जातेन च हृदा दद्यात् आहुति पंचकम् || गर्भाधानं भवेद् देवं इति एवं पुंसवनादिष्वपि वामदेवादि रूप शिवस्मरण पूर्वकं पूजनं कार्यम् | जलबिन्दु दाने तु जीवानु संधानं कार्यम् इति उक्तं मृगेन्द्रे | किन्तु पुंसवने बिन्दुमपां दर्भेण निक्षिपेत् | जीवमित्यभिसंधाय हुनेद्भावनया पुमान् | जुहुयाद्भावनां पुमान् इति शिखयैव शिखामन्त्रेणैव | तदुक्तम् कामिके- śikhayaivāhuti trayaṃ datvā darbheṇa śikhayā vaktrāṃgānāṃ ca kalpanam | iti niṣkramaṇaṃ niśśeṣakaraṇaṃ p. 313) tacchodhanaṃ iti kecit | taduktaṃ mṛgendre- jātakarmaṇi niṣpanne vaktrotpaṭanaśodhane | vidhāyeti | siddhāntaśekhare ca- vaktrāṃga kalpanā kalpya vaktroddhāna niṣkṛtim | darbheṇa śikhayā vahnau āhuti tritayaṃ kṣipet | jananāryaṃ jātakarmanimittaṃ puruṣeṇa tatpuruṣeṇa mantreṇa | jāte jananāntaraṃ jātakarmaṃ nṛvarmabhyāṃ daśame māsi pūrvavat | kṛtvā garbhamalocchityai vahnerjātasya majjanam || arghyāṃbunā'srāto devyāḥ kaṃkaṇaṃ mocayet karāt | kare tu saṃsmaret sūtraṃ varmaṇā svarṇanirmitam || iti uttarapūrvāgrāniti- pūrvapaścima mekhalayoḥ uttarāgrān dakṣiṇottaramekhalayoḥ pūrvāgrān darbhānāstīrya tadvat paridhīnviṣṭarānapi sthāpayet | p. 314) ekamekhalakeyastānmekhalāyāḥ paristaret | dvamekhale dvitīyāmmadhya māyāṃ trimekhale ||
SKसिक्ता बाह्येति वचनात् परिधि विष्ठरानपि एकमेखला कुण्डमेखलाधस्थात् स्थापयेत् | द्विमेखला कुण्डेकयो मेखलायां परिधिं तदधः प्रदेशे विष्टरांश्च त्रिमेखले तु मध्यमायां परिधीं तदधो मेखलायां विष्ठरांश्च स्थापयेत् | सृक्सृव संस्कारमाह तत इत्यादिन सकुशौकुशसहितौ आभ्राम्य समंताद् भ्रमणं कृत्वा | तदग्रं सृगग्रं मध्येन कुशमध्येन मध्यं सृवमध्यं मूलेन मूलंतयोः सृक्स्रवयोः कुश स्पृष्ट प्रदेशेषु अग्रमध्यमूलेषु त्रिसूत्री वेष्ठित ग्रीवौ त्रिसूत्त्र्याति तंतुनावेष्टित ग्रीवौ कण्ठौ ययोस्तौ | आज्य संस्कारमाह- प्. ३१५) अथेत्यादिना- गव्यमाज्यमिति गविभव्यं गव्यम् | उत्तमं गोघृतं प्रोक्तं मध्यमं महिषी भवम् | अधमं चागजान्तं च तस्माद्गव्यं प्रशस्यत | इति | वीक्षणादिभिः विशोध्येति | तदुक्तम्- आज्यस्थाली मथादाय प्रोक्षयेदस्त्र वारिणा | तस्यामाज्यं विनिक्षिप्य संस्कृतं वीक्षणादिभिः || इति शारदातिलके | आदिपदेन प्रोक्षण ताडनाभ्युक्षणादीन्युच्यते | भ्रमणतापनादीनामुत्तरत्राभिहितत्वादाज्यस्याप्यष्टादश संस्काराजाताः | तदुक्तमाचार्यैः | वीक्षणादि चतस्रश्च वह्नौ तद्भ्रमणं त्रिधा | तापनाधि श्रयोद्वासं चोत्प्लवं संप्लवौ तथा | पूतनीराजनोद्योतमन्त्रद्योतनमन्त्रणम् || रक्षावकुण्ठने सौधं घृतेष्टा दशसंस्कृतिः | प्. ३१६) इति वीक्षणादि चतुस्संस्कारानंतरं कुण्डस्य उपरि त्रिधा भ्रमणमेकं अनन्तरं ब्रह्मविष्णुरुद्राणां आज्य बिन्दुदानं तापनाधिश्रयोद्वासाख्यास्त्रयस्संस्काराः | तदुक्तम्- स्वकं ब्रह्ममयीं मूर्तिं ध्यात्वादाय कुशाग्रतः | ब्रह्मणे जुहुयात् बिन्दुं स्वाहांत हृदयाणुना || तापन तत्समाख्यातं पुनर्विष्णुमयीं स्वकम् | ईशकोणे घृतं घृत्वा विष्णवे जुहुयात् तथा || इत्यधिश्रयमाख्यातं नाभौ धृत्वा तथा घृतम् | रुद्रोरुद्राय तद् दद्याद्दुद्वासनमीरितम् ||
SKक्वचिदेतत्त्रयं प्रोक्तं हृच्छिरश्चूलिकादिभिः | इति अग्नि संमुखं त्रिधोत् प्लावयेत् | इति उत्प्लवनम् | तद्वदात्म संमुखमिति संप्लवन् | हृदाभिमन्त्रितस्य दग्ध दर्भोल्कस्यास्त्रेण घृते प्. ३१७) क्षेपात् पवित्रीकरणं नाम कर्मैकम् | दीप्तेनान्येन दर्भेणेति नीराजनाख्यं परेण दीप्तेनेति संदीपनाख्यं च कर्मद्वयमुक्तं भवति | दग्ध दर्भायाः निर्गत ज्वालाः उल्मुकमिति उल्केति नाम | तदुक्तं कामिके- नीराज्याज्य ततो धीमान् उल्कां वह्नौ च निक्षिपेत् | इति | मन्त्रद्योतनाख्यं कर्म इत्यादि | ततः अनन्तरं दक्षिण वाम क्रमेण स्वस्य दक्षिणभागे पिंगलां शुक्लपक्षं च वामभागे इडां कृष्णपक्षमपि चिन्तयेत् | वामभागात् गृहीत्वाज्यं कृशानोर्वामचक्षुषि सोमाय स्वेति जुहुयात् | आज्यार्थं कृष्णवर्त्मनि स्वेति किंचिद्धुत्वा हेत्याज्य शेषमाज्येत्यत्र चरु प्रकरणे वक्ष्यमाण संपाताहुति प्रकारो विधेयः | कृष्णपक्षे इत्यत्र प्. ३१८) पूर्वं वामभागादर्थो सोमाय स्वाहेत्यादि विपर्यासेन कार्यम् | तदुक्तं सिद्धान्तशेखरे- शुक्लकृष्णौ घृते पक्षौ भागयोर्दक्ष वामयोः | तत्रेडां पिंगलां ध्यायेत् सुषुम्नां मध्यतस्तयोः || संपाता हुतयः कार्याश्चतस्रस्तत्र दैवताः | अग्निस्सोमताग्निस्स्विष्टकृत्स्याच्चतुर्थकम् || प्रणवाद्या सहृद्बीजा स्वहांता शंबराः क्रमात् | अग्नेर्नेत्र त्रये वक्त्रे तत्प्रबोधाय होमयेत् || दक्षभागात् गृहीत्वाज्यं कृशानोर्दक्ष चक्षुषि | अग्नये स्वेति जुहुयादाज्यार्थं कृष्णवर्त्मनि || हेत्याज्य शेषमाज्यात्य दक्ष(वाम)भागे विनिक्षिपेत् | घृतमध्यात् गृहीत्वाऽज्यं कृशानोर्मध्य चक्षुषि || आज्यार्थं जुहुयादग्नि षोमाभ्यां स्वेत्युषबुंधि | हेत्याज्यं मध्यतो दद्यात् हतशेषं सृवस्थितम् || प्. ३१९) आज्यस्य दक्षिणाद्वामात् मध्यादादायतद्धृतम् || वह्निवक्त्रेग्नयेस्विष्ट कृते स्वेति हुताशने | घृतार्धं जुहुयात् हेति शेषमाज्यं त्रिभागके | पक्षोयं शुक्लपक्षे स्यात् कृष्णपक्षे विपर्ययः ||
SKचतस्रो जुहुयादित्थं संपाताज्य घृताहुतिः | सोमाय वह्नये ताभ्यां वह्निवामे * रोर्ध्वत || इति संहितयाभिमन्त्र्य इति अभिमन्त्रण रक्षावकुण्ठनामृती करणैस्सहाऽष्टादशसंस्काराः उक्ताः भवन्ति | एवमाज्य संस्कारमभिधाय | वक्त्राघार वक्त्रानुसंधावक्त्रैकी करणाद्याः तत इत्यादिना | आधारो नाम अग्नेः पंचवक्त्राणि सितपद्मासनासीनं पंचवक्त्रमित्यादिना वक्ष्यति | तेषां वक्त्राणां सद्यादि क्रमेण एकैकाहुत्यादीपनाऽधारः | तदक्तं षड्ग्रहस्रिकायाम्- प्. ३२०) पश्चिमादीश पर्यन्तं स्वमन्त्राहुति योगतः | वक्त्राभिघारः क्रैशानो वक्त्राणां दीपनं वरम् | इति | तथा सिद्धान्तशेखरे- सद्येन जुहुयादाज्यं पश्चिमास्ये हविर्भुजः | वामेनादङ्मुखे हुत्वा दक्षास्ये बहुरूपिणा || पुंसा प्राग्वदने चोध्वमुखै चैशान मन्त्रतः | एकैकया घृताहुत्यातिसृभिर्वाभिवारणम् || इति वक्त्रैकी करणार्थं चतघोरेकाहुति दानं वक्त्र संधानम् | तदुक्तं किरणे- वक्त्रैकी करणं कर्म तदाधार त्रयान्वितम् | च्याभ्यां द्व्याभ्यान्तु कर्तव्यं पूर्वोत्तर द्विमध्यगम् || अग्निवायुगतं चैक निर्-ऋतैशान कोणगम् | सद्यं वामेन घोरेण वक्त्रेणैव क्रमात् द्वयम् || शिवे नैशान मन्त्रेण इति | प्. ३२१) तद्वृत्तौ आधार त्रयान्वितमिति आधाराहुतिः यः तेषां त्रयं तेनान्वितमापादितं द्वाभ्यां द्वाभ्यामित्यादि ग्रन्थेन चतुर्दिक्षुस्थितानि यानि वक्त्राणि तानि द्वाभ्यां सद्योजाता घोराभ्यां एकं संधानं कर्तव्यम् | वामदेव तत्पुरुषाभ्यां द्वितीयम् | पश्चात् पूर्वोत्तरेण द्वाभ्यां वक्त्राभ्यां मध्ये योगश्च त्रिरेखांशकः पूर्वोत्तर द्विमध्यगः | अग्निवायुगतश्चैक इत्यादि सूत्रेण पूर्ववक्त्रं तत्पुरुषं उत्तरं वामदेवं तेन तत्पुरुषेण वामेन चैको योगः कर्तव्यम् | अपरोऽघोरेण सद्योजातेनोर्ध्वं शिवेनैशान मन्त्रेण द्वाभ्यामित्यनुवर्तते | एवमनेन येन क्रमात् क्रमेणैवं संधयेत् | इति किमुक्तं भवति चतुर्वक्त्रेषु चतुर्दिक्षु रेखा चतुष्काणां योगं कृत्वा | प्. ३२२)
SKपश्चाद्दिग्रेखाभ्यां वक्त्रैकी करणं कुर्यादिति व्याख्यातम् | पंचवक्त्राणामेकस्मिन्वक्त्रे अभिमतत्वसिध्यर्थं अभेदत्वा पादनं यत् तद्वक्त्रैकी करणं यतो वक्त्र भेदेन फलभेद श्रवणात् | तथोऽक्तं सिद्धान्तशेखरे- नित्यकर्मणि शिष्याणं संस्कारे समयाह्वये | सद्योजात मुखेत्वास्यान्न्यंत भूतानि भावयेत् || आकृष्टे शान्तिके वश्ये पौष्टिके पाशशोधने | सौभाग्य संपदर्थादौ वामदेव मुखे तथा || अन्तभूतानि कुर्वीत वक्त्राण्यन्यानि बुद्धिमान् | मारणे स्तंभने द्वेषे उच्चाटे पापनिष्कृतौ || अघोरवदनेत्वास्यान्यंत भूतानि भावयेत् | घृटिकांजन * * * पाताले शिष्यजन्मनि || नानासिध्यादि विषये पुरुषास्ये विभावयेत् | प्. ३२३) ईशानवदने मुक्तौ वन्तर्भूतानि भावयेत् | इति वक्त्राभिघार संधाने सद्यादि क्रमेण वा ईशानादि क्रमेण वा कृत्वा | वक्त्रैकीकरणं सद्यादि क्रमेणैव कुर्यात् | तत्रापि स्वाभिलक्षितं वक्त्रमीशानस्थाने कृत्वा तत्स्थाने च ईशानमुखं भावयन् स्वाभिलक्षितं मुखं कुण्ड प्रमाणं कल्पयेत् | यद्वा स्वाभिलक्षितं मुखं कुण्डप्रमाणं स्मृत्वा | तस्मिन् अन्यवक्त्राण्यन्तर्भूतानि भावयेत् | तथा च उक्तं कालोत्तरे- वक्त्राभिघार संधाने कुर्यात् सद्यादि शंबरैः | यद्वैशानादिभिः पश्चात् कर्मज्ञात्वननैकताम् || ध्यात्वा वक्त्राणि पंचाग्ने येन यत्कर्म वञ्चितम् | तद्वक्त्र मूर्ध्वे कुर्वीत तत्स्थाने चोर्ध्वगंमुखम् || अन्तर्भावान्य वक्त्राणि तच्च कुण्डप्रमाणकम् | प्. ३२४) अथवा कुण्डमानं तत् यदिष्टवदनं स्मरेत् | अन्तर्भावान्य वक्त्राणि तदैकीकरणं मतम् || इति | सिद्धान्तशेखरे च- सद्यादि पंचवक्त्रेभ्यो घृतधारां क्षिपेत् यथा | अग्निकोणमथारभ्य वायुकोणांतनी तया || नि-ऋतेः कोणमारभ्य रुद्रकोणांतनीतया | कुर्वीत वदनैकत्वमविच्छिन्नाज्यधारया || अभीष्टवदने कुण्डे प्रमाणेन्यानि संस्मरेत् || इति यथा |
SKएकैक बहुरूपा तु सर्वकाम फलप्रदा इति | बहुरूपैश जिह्वा स्यात् इत्युक्तत्वात् ईशान वक्त्रे अन्यवक्त्राणामन्तर्भावं स्मृत्वा | तत्तद्वक्त्रोक्त फलदा कृत्वमपि ईशानवक्त्रस्यैव भावयेत् | अत्रान्तरे प्रसंगात् एकैकाहुति दानेन जिह्वादीपनमाचरेत् | प्. ३२५) द्वाभ्यां द्वाभ्यां तु संधानं कृत्वा मध्ये लयं नयेत् | इति केचिद्विस्ताररुचयः | वक्त्रैकी करणेन कुतोर्ध्व वक्त्रं हिरण्यादि सप्तजिह्वानां तत्तन्मन्त्रैर्जिह्वाभिधार संधानैकी करणानि कुर्यादित्याहुः | तन्मन्त्रं यथा- विरेफावन्तिमौवर्गौ रेफषष्ठ स्वरान्वितम् | बिन्दुनाद समायुक्ता जिह्वा बीजान्यनुक्रमात् | इति अस्यार्थः विरेफौ रेफरहितौ अन्तिमवर्गौयवर्गीषवर्गौ तेन य र ल व श ष सहाः उच्यन्ते | रेफषष्ठ स्वरान्वितौ षष्ठस्वरः ऊकारः एते यादि हांताः अक्षरा रेफ षष्ठ स्वरान्ताभ्यां बिन्दुताभ्यां संयुक्ताश्चेत् ध्रूं ल्रूं हिरण्यायै स्वाहेति प्रयोगः | प्. ३२६) अथाग्नि संस्कारानन्तरकरणीयानाह तत इत्यादिना | नामकरणार्थं नामकरणनिमित्तं ईशानं ईशान मन्त्रेण हृदयेन वागीशी वागीश्वरौ इत्यत्र हृदयेन हृदयमन्त्रयुक्तेन ॐ हां वागीश्वर्यै नमः इत्यादि कुण्डमानं कुण्डप्रमाणं यथा अभिलक्षितं स्वस्य यस्मिन्वक्त्रे होमस्य वांच्छा तद्वक्त्रं कुण्डविशालं स्मरेत् | मध्यजिह्वायामित्यत्र कनका बहुरूपा चाप्यति रक्ता ततः परम् | सुप्रभा चैव कृष्णा च रक्ताचान्या हिरण्मयी | ऊर्ध्ववक्त्रे स्थितास्तिस्रश्शेषाः प्रागादितः क्रमात् || स्थिता इति कामिक वचनात् | ऊर्ध्ववक्त्रे स्थित तिसृषु जिह्वासु मध्यस्थित बहुरूपाख्यायां जिह्वायामित्यर्थः | चूडादिरिति चूडा चौलकर्म तदादयश्चते संस्काराश्च प्. ३२७) प्रीत्यर्थं शेषसंस्कार सिध्यै पश्चात् पूर्णां प्रदापयेत् इति ज्ञानरत्नावल्याम् | शिवाग्निरिति नामास्य कृत्वाऽहुति पुरस्सरम् | पित्रोर्विसर्जनं कृत्वा चूडोपनयनादिकम् || अथोद्वाहावसानन्तु कृत्वा संस्कारमस्य तु |
SKइति वायवी संहितायाम् | अन्नप्राशन चूडादि संस्काराणां प्रसिद्धये | जिह्वायां मध्यसंस्थायां पूर्णाहुतिमथाचरेदिति कामिके | तस्माच्चूडादि विवाहांत कर्मसिध्यर्थं पूर्णाहितिः सिद्धा | वौषडन्तमूलेनेति यत्र यत्र पूर्णाहुतिः क्रियते तत्र तत्र वौषडन्ते नैव कुर्यात् | तथा किरणे- स्वाहाकारा तु होमे स्यात् पूर्णस्य द्वौषडन्तिकेति | तथा अन्यत्र- प्. ३२८) मन्त्रेण्ॐकार पूर्वेण स्वाहांतेन विचक्षणः | स्वाहावसाने जुहुयाध्यायनै मन्त्र देवताः || पूर्णान्तु वौषडन्तेन इति | तथा सर्वज्ञानोत्तरे- संपूर्णाहुति दानं तु प्रकुर्याद्धारणान्वितम् | अमृतं यत्परं वत्स स्रवन्तं मनसा स्मरेत् || प्लुतमुच्चारयेन्मन्त्रं मन्त्री पूर्णाहुतिं प्रति | इदमस्त्वमृतं भूयो वौषडन्तमनुस्मरेत् || इति | मूलेन शिवमन्त्रेण तदुक्तं तत्रैव | शिवस्य शिवमन्त्रस्तु होमकाले विधीयते | संपूर्णाहुतिदानेनत्विति- साधकस्य होमकाले तत्तन्मन्त्र विषय भावना विशेषात् फलसिद्धिः इति तत्रैवोक्तम् | मन्त्रार्पितमनाभूत्वा मन्त्रालंकृत विग्रहः | प्. ३२९) होमयेदेकचित्तस्तु मन्त्रतन्मयतांगतः | य एवं जुहुयान्मन्त्री जपे मन्त्रं समाहितः || शब्द तत्वे परेलीनस्ससिद्धिफल भाग्भवेत् || इति शब्दतत्व परेलीन इति स्वकारणलयानुसंधान पूर्वं मन्त्रमुच्चारयन्ति | इत्यर्थः | पूर्णाहुतेरनन्तरकरणीयानाह- चर्वाद्यर्थमित्यादिना- चर्वाद्यर्थं चरुपाकाद्यर्थं आदिपदेन कुण्डान्तर सद्भावे तदर्थं धूपदीपार्थं च विसर्जनं कर्तव्यमित्युक्तं भवति | तथा सिद्धान्तशेखरे- चर्वर्थं धूपदीपार्थं होमार्थं कुण्डसंचये | कुण्डादग्निं समुद्धृत्य तत्तत्कार्यं समाचरेत् || इति कुण्डान्तरस्य अग्नि संग्रहणं पूर्वादिक्रमेण कृत्वा | तत्तद्दिक् स्थित कुण्डेषु प्रक्षिप्य | प्. ३३०) होमयेत् | शिवाग्नेर्ध्यानमाह- सितपद्मासनासीनमित्यादिना | ननु द्विमुखं चैक हृदयं चतुश्रोत्रं द्विनासिकम् | षण्णेत्रं पिंगलं सप्तहस्ताड्यं च त्रिमेखलम् ||
SKत्रिपादं सुललाटं च सप्तजिह्वा समन्वितम् | चतुश्रिंगं वृषारूढं नानादित्य समप्रभम् || उपवीत समायुक्तं जटामकुट मण्डितम् || दक्षभागे चतुर्हस्तं त्रिहस्तं वामभागके | सृक्स्रवौ चाक्षमालां च शक्तिं दक्षिणकैः करैः || तोमरं व्यजनं हस्तैः घृतपात्रं तु वामकैः || हिरण्या कनका रक्ता कृष्णा दक्षिणवक्त्रके | सुप्रभा चातिरक्ता च वामास्ये बहुरूपिणीम् || दधतं अग्निमध्ये तं शिवाग्निं पश्चिमाननम् | संस्मरेदिति विख्यातं शिवाग्निं च शिवागमे || प्. ३३१) इति शिवाग्नि स्वरूपमागमान्तरे प्रोक्तम् | अत्र पंचवक्त्रं चतुर्भुजमिति कथं सत्यं द्विमुखमित्यादि रूपं काम्य विषय तया सुप्रभेदे प्रतिपादितम् | इत्थं रूपं स्मरेदग्नेः काम्यकर्म सुदेशिकः | नित्यनैमित्तिके चैव विशेषात् पंचवक्त्रकम् | इति | कामिके तु वैदिकाग्नि स्वरूपमित्युक्तम् | यथा- अतः परं प्रवक्ष्यामि अग्निकार्य विधिक्रमम् | वैदिकं मिश्रकं चैव अग्निकार्यं त्रिधा स्मृतम् || केवलै वैदिकैः मन्त्रैः विहितो वैदिको भवेत् | मन्त्रैश्च वैदिकैः शिवैः विहितो मिश्र उच्यते || उत्पादने क्रमस्वेवं विहितश्शिवशासने | त्रिभि परिधिभिश्चोर्ध्व समिद्भ्यां संयुस्तुयः || वैदिकाग्निस्समुद्दिष्टो मिश्राग्निस्तूभयात्मकः || प्. ३३२) प्रणीता ब्रह्म कूर्चेन संयुक्तो वैदिक स्मृतः | तथैव मिश्रवह्निस्तु शैवाग्निस्तद्युतो नवा || मिश्रवैदिकयोरग्न्यो स्वरूपं शृणु तद्विजाः | एकविग्रह संयुक्तो द्विवक्त्रश्च द्विनासिकः || इत्यादि जिह्वास्थानं प्रकीर्तित इत्यन्तं वैदिक मिश्राग्न्यो स्वरूप मुक्त्वानन्तरं शैवाग्निं कथ्यते विप्राः शृणुतास्मिन् समाहिताः | पंचवक्त्रयुतं रक्तं सप्तजिह्वा विराजितम् || इत्यादिना शिवाग्नि स्वरूपमुक्तम् | तस्मात् पद्धत्युक्त (प्रकारेण) स्वरूप ध्यानमेव नित्यनैमित्तिकादिषुवरम् | अथाग्नौ शिवयजन प्रकारमाह अग्नेत्वमित्यादिना | ऐश्वरं ईश्वर संबन्धि शिवबीजमिति ध्यात्वेत्यादिना वागीशी जन्यत्नेनोक्तत्वात् प्. ३३३)
SKविग्रह मध्यं शरीरमध्यं नाड्या प्रविश्येत्यत्र तस्येडा नाड्या प्रवेशन कार्यं तदीय हृत्पद्मे तदीय वह्नि संबद्धन हृदयकमले पूर्ववत् पूजाप्रकरणोक्तवत् सासनं आधार शक्त्यादि शिवांतासन सहितं भगवन्तं (भास्करम्) परमेश्वरं भास्वरम् आश्रयोपाधिवशात् रक्तवर्णं स च रक्त तनुः त्र्यक्षः शिवायुध भुजान्वित इत्युक्तत्वात् सावरणमावरण सहितं पूजयेत् | तदुक्तं मृगेन्द्रे- ततस्तद्विग्रहं नाड्या प्रविश्य हृदि शंकरम् | इष्ट्वा संधायेति- तथा कामिके- प्रार्थयित्वा ततो तस्य योगपीठं हृदंबुजे | विन्यस्य कल्पयेन्मूर्ति भास्वरां सुपरापराम् || आवाहनादिभिस्तस्यां संनिधी कृत्य कारणम् | प्. ३३४) पूजयित्वा बहिस्तस्य भोगांगानि च पूजयेत् | आश्रयो पाधितो ध्यात्वा भास्वराणि पृथक् पृथक् || प्ररोच्य परमीकृत्य शिववक्त्राग्नि वक्त्रयोः | कृत्वा संधानमिति- निसृत्य वह्नि विग्रहात् बहिरागत्य नाडीसंधान क्रममाह मूलमन्त्रमुच्चरन्नित्यादिना- वह्नौ स्थीयत इति वह्निस्थः स चासौ शिवश्च वह्निस्थ शिवः तस्य नासा विनिर्गता नासाद्विनिर्गताज्येंतिरेव रूपं यस्याः ज्योतिरूपा च सा शिखा च ज्योतिरूप शिखानासा विनिर्गता च ज्योतिरूप शिखा च तथोक्तां अत्र शिखा शब्देन सुषुम्नोच्यते | यागस्थ शिव शिखालीनां यागस्थः मण्डलस्थ शिवः तस्य शिखाया सह लीनामेकीभूतां प्. ३३५) रश्मिमात्रा वियोगेन (वच्छिन्ना) रश्मि शब्देन कान्तिरुच्यते | तावन्मन्त्रा वियोगेन अवियुक्तेन संयोगेनत्यर्थः अविच्छिन्नां अभिन्नां उभयत्र वह्निस्थे मण्डलस्थे च कृतास्पदां कृतावासां ध्यायेत् | तदुक्तं- वह्निकुण्डार्चितं देवं मण्डलाभ्यर्चिते शिवे | नाडी संधानरूपेण विधिना योजयेत् ततः || इति | एवं उक्त प्रकारेण कुंभयागाग्नि शिवैः कुंभशब्देन शिवकुंभास्त्र कुंभौ उच्यते | यागशब्देन मण्डलमुच्यते | कुंभस्थण्डिल वह्निषु पूजितैः शिवैः आत्मना स्वेन सह नाडीसंधानं कार्यम् | तदुक्तं पराख्ये-
SKशिवयागे समारब्धे शिवः पंचाशकः स्थितः | कर्तरीस्थश्च कुंभस्थः वह्निस्थस्स्थंडिलस्थितः || प्. ३३६) देशिकस्थस्थश्च सर्वोयं पंचस्थः पाशमोचकः | तथा सिद्धान्तशेखरे- आत्मदेहाद्विनिष्क्रान्तां त्रसन्तं तु निभां शुभाम् | सुषुम्नां शिवसंयुक्तां पुनरात्मगतां स्मरेत् || तद्वन्वह्निस्थ देवेन सहतं योज्यतां पुनः | आत्मस्थामित्यादि- मन्त्रैस्तर्पणार्यमिति मन्त्राणां सामान्यमन्त्राणां तर्पणार्थमाप्त्यर्थं विशेष तर्पणार्थं विशेष मन्त्र तृप्त्यर्थं चकारोऽत्राप्यष्टोत्तर शतहोमं कर्तव्यमिति ज्ञेयम् | सामान्य विशेष तर्पणाय प्रत्येकं मूलशतं होमं विधायेति दीक्षा प्रकरणे वक्ष्यमाणत्वात् | देशापाताविति- पवित्र विधानस्य शास्त्रोक्त देशकालयोर्यत्किचिन्न्यूनातिरिक्ते तत्संपादनार्थं प्. ३३७) तत्र दुर्निमित्त संभवे तत्परिहारार्थं च सुनिमित्ता पादनाय च प्रत्येकं शतं शतं होमं कुर्यात् | पवित्रकरणार्थमिति अत्र कुण्ड संस्काराद्येतावत् पर्यन्तं कर्मणः दीक्षा प्रतिष्ठाष्वपि समानत्वादितः परं तत् तत्कर्मोद्दिश्यत्वेन कर्तव्यत्वात् अत्र पवित्रस्य प्रकृतत्वात् तत् तत्करणनिमित्तं मूलमन्त्रेणाहुति शतं हुत्वा | अनन्तरं मन्त्राणां संहिता मन्त्राणां तत् तत्कर्मादौ स्वाहान्तैकैकाहुत्या तर्पणम् | हुफडन्ताहुति त्रयेण दीपनश्च विदध्यात् | तत्प्रयोगस्तु पद्धत्युक्त प्रकार एव | तथा सिद्धान्तशेखरे- शिखादि शस्त्र पर्यन्त शबेराणां प्रतर्पणम् | कुर्वीत सकृदाज्येन स्वाहान्तैः प्रणवादिभिः || प्. ३३८) प्रणवादि शिखाबीज द्वंद्वमध्यगबीजकैः | हुफडन्तैश्चतुर्थ्यन्तैः मन्त्रैर्दीपनमाचरेदिति || अथ स्थाली पाक विधिमाह- तत इत्यादिना स्थालीं चरुपात्रं प्राणादि दोषरहितांशिथिलच्छिद्राद्यदुष्टां अनुपभुक्तां उपभुक्तं पुरातनं तद्रहितं इत्यर्थः | एतद्विशेषण द्वयं मृत्पात्रपरं | ताम्रलयपर्यन्तं तस्योक्तत्वात् | तथा कामिके- नैवेद्यविधि पटले-
SKसुवर्णतार ताम्रादिपात्रं शुद्धं लयान्तिकम् | नवमृद्भाण्डकं वापि प्रतिसंध्यं प्रकल्पयेत् || इति चरुं सुपक्वं मंदती प्रपाकरहितम् | इति | यथा संभवति तथा विपचेत् | मन्दतीव्रत्वे प्रायश्चित्त विधानात् दोषश्रवणाच्च चरु शब्देनांतस्तंडुल सहितमन्नमुच्यते | प्. ३३९) तदुक्तं सिद्धान्तशेखरे- अन्तस्तण्डुल शेषोयं चरुरित्यभिधीयते | तत्सिध्यै सुपक्वार्थं स्वाहांतय संहितथेत्यत्र ॐ हां सुस्विन्नो भव स्वाहा ॐ हिं सुस्विन्नो भव स्वाहा इत्यादि प्रकारेण उक्तरत्र वक्ष्यमाण संपाताहुतिवत् स्वेत्यग्नौ हेत्याज्ये प्रक्षिप्तस्याज्यबिन्दोः तप्ताभिधारमिति नाम- ॐ हां सुशीतलो भवौ षट् इति कृतस्य शीताभिधारमिति संज्ञा | तथा कामिके- विपचेत् पूर्वत्कृस्सन् मध्यपक्वं यथा भवेत् | उष्णे तप्ताभिधारं स्यात् शीतेशीताभिधारणम् || स्वांतया मन्त्र संहत्या शिवहव्य वहे पुरा | हविष्यंते च हेतुत्वात् सुस्विन्नो भव इत्यपि || तप्ताभिधारमेवं स्यात् द्वितीये मण्डले ततः | प्. ३४०) प्रोक्षणादि समायुक्ते पूजिते ह्यवरोप्यताम् | सुशीतलो भवेत्येवं वौषट् पल्लवयुक्तया || शीताभिधारमेवं स्यान्मन्त्रसंहितया चरौ | इति स्वेत्यग्नौ हेति संस्कारस्योपरीत्यत्र यद्यत् द्रव्यं संस्कार्यं उत्तरत्र वक्ष्यमाण पवित्रादिकं न्यस्य तस्योपरि सृवं धूनन् चालयन् पातयेत् | प्रक्षिपेत् | तथोक्तं- संपातहोमं कुर्वीत घृतैस्संहितया चरौ | स्वाहांतया सृवेणाग्नौ आज्यार्थां स्वेति निक्षिपेत् || शिष्टाज्यं च चरौ हेति संपातेस्यादिति क्रमः | भागत्रयं संकल्प्य इति शिवनिवेदनार्थमेकं होमार्थमेकं आत्मन एकं एवं त्रिभागं कृत्वा आत्मभागं केवलमाज्येन शिवाग्नि भागौ घृत मधुभ्यां संयोजयेत् | प्. ३४१) तत स्थालीकृतं त्रेधा दर्भेण विभजेच्चरुम् | तदेकं भागमादाय पात्रे संपूजितं हृदा || शंभवे स्थंडिलस्थाय दद्यात् कुंभस्थिताय च | कर्तरीस्थाय चास्त्राय भागं चित्रा वसौ परम् ||
SKसृवेण जुहुयात् विद्वान् शिवायाग्नि स्थिताय च | हुत शेषं पुनस्थाल्यां निधाय घट्टयेदिति || शिवकुंभादिभ्यो विनिवेद्यत्वात् | शिवाय कल्पितं भागं पञ्चधा विभज्य | यागगेहपूजित सूर्यद्वारपादि सहिताय कलशकर्तरी मण्डलादि करस्थाय शिवाय भागत्रयं स्वेष्टलिंगादि करणस्थाय भागमेकं च दत्वा | शेषं वृतांग निवेदन काले निवेदनीयम् | तथा अग्न्यर्थं भागं चतुर्धा विभज्य एकं भागं यागेश्वरस्य चरुनिवेदनानन्तरं प्. ३४२) वह्निस्थ शिव निवेदनार्थं हृत्वा द्वितीयान्नादन्तर्बलिं दत्वा | त्रितीनग्नौ पवित्रारोपणकाले तच्च दत्वा | तुरीयेण बलिर्देयम् | तथात्मभागं स्वात्म शिष्यसंख्यया विभज्य कर्मान्ते एतैस्सहवा श्रीयादिति- अस्यार्थस्य चरुमाज्यं गंधादि पूर्वस्यामिति- ततोग्निस्थाय भगवते चरोस्त्रितीयांशं हृत्वेति वक्ष्यमाण वचनद्वयं सूचकमिति गुरवः अनन्तरकरणीयानाह | तत इत्यादिना ततः स्थालीपाकानन्तरं तन्तु नवकेष्वित्यत्र सूत्रगत नवतन्तुष्वित्यर्थः | तन्तु त्रिगुण त्रिगुणीकृतमेकं सूत्रमिति विधानात् | ग्रन्थिषु पवित्रग्रन्थि नवकेषु पूर्ववत् स्वस्वनाम्नापि विन्यसेत् इत्यत्र प्रणव नमस्कार युक्तेन चतुर्थ्यन्तेन विन्यसेत् | प्. ३४३) एतत् कंकणत्रयगत ग्रंथि विषयम् | गंगावतारस्योक्तरवक्ष्यमाणत्वात् | गंगावतारकं नाम पराशक्तिस्वरूपं पवित्रं तत्पवित्रगताष्टादशग्रन्थिषु द्विरष्टक कला प्रासादमन्त्र गत षोडशकला शिवशक्ति द्वयं च विन्यसेत् | तन्तु संख्यया कृत ग्रंथि पक्षे तु एता एव कलाः आवर्त्यावर्त्य एकदेशेन कार्त्स्नेन वा यथा योग्यं न्यसनीयाः | मण्डल चतुष्टयमिति- सूर्यसोमाग्नि शक्ति मण्डलानां चतुष्टयं साधिपतिं तत्तदधिपति सहितं यथा त्रिमण्डत्मविद्या शिव तत्वाख्य पवित्रेषु गंगावतार पवित्रे च संपूजयेत् | संवत्सरात्मकं इति- संवत्सरात्मा यस्या सौ संवत्सरात्मकः तथाहि- पुरातनादाषाढात् द्वितीयाषाढं यावत् प्. ३४४)
SKआराधनामाराधनानुसारिणां संध्यादीनां साक्षिणं अव्ययं परिपूर्णं गोप्तारं सर्वकृत्य फलरक्षकं संश्रयं आश्रयभूतं कर्मफलप्राप्ति निबन्धनं तत्कृत कर्मफलप्राप्तं कारणं शिवं हृदि शिवलिंगेग्नौ च संस्मरन् गंध पवित्रमित्यत्र कस्तूरिकादि गन्धेन युक्तं तथा सिद्धान्तशेखरे कस्तूरिका चन्दनमेव जाति कर्पूरतक्कोललवंग कोष्टम् | उशीरमेला नवतीतलोहं पलत्रयं केसरकं सरागम् | एतैस्सचूर्णं विदधीतगंधैः विलिंग लिप्तं शिवशंबरेण | तेनैव गंधेन विलिप्त सूत्रं तदुच्यते गंध पवित्रकाख्यम् || इति | प्. ३४५) सूर्यनाम विशिष्टं सूर्यनाम सहितं आमन्त्रणं ॐ समस्तविधि विच्छिद्र पूरणे चेत्यादिना वक्ष्यमाणमामन्त्रण पदात्मकं मन्त्रं शंभो इत्यत्र सूर्य इति परेत् | तन्मूलेन सूर्यमूलमन्त्रेण तदंगग्रहेभ्यः तदंगानि आग्नेयादिषु संपूतानि हृदयादीनि ग्रहाः सोमादयस्तेभ्यः स्वस्वमन्त्रैस्तत्तन्मन्त्रैः पवित्रं समर्पयेत् | देव समीपं शिवलिंग समीपं | अथ व्रतांग द्रव्य निवेदन प्रकारः | व्रतचरांगानि निवेदयेदित्यादि एतद्दन्तकाष्ठ मृद्भस्म जलगव्य होमद्रव्य दण्डाक्ष सूत्रादिकं व्रतोपयोगी द्रव्य जातं व्रतांगं व्रत वृद्धये देयम् | रोचना कुंकुमतांबूलादिकं भोगांगं भोगवृद्धयेदेयम् इति दुर्बोध पदबोधिन्यामुक्तम् | प्. ३४६) मृगेन्द्र टीकायान्तु एतत् साधकोपयोगि द्रव्यजातं अन्यत् सर्वं तत् तद् दिग्देवता तृप्त्यर्थं देयमित्युक्तम् | अथ देवस्य आमन्त्रण पवित्र समर्पण प्रकारमाह गंधाद्यधिवासितमित्यादिना गंधाद्यधिवासितं पूर्वोक्त कस्तूरिकादि वासितं कल्पतन्तुकं तत्तदधिकरणोचित्त पवित्रगतन्तु संख्यया हीनतन्तु युक्तं स पुष्पं पुष्पसहितं अंजलावादाय अंजलि मध्यस्थं कृत्वा | मन्त्रण पदात्मकमित्यत्र पदशब्दोपलक्ष्यवाचकं | इहामरदत्तः- पदं व्यवसितं त्राणं स्थान लक्ष्मांघ्रि वस्तुषु इति |
SKआमन्त्रणद्योतवाक्य समूहात्मकमित्यर्थः | ॐ इति मन्त्रदीपनार्थकं समस्तविधि विच्छिद्र पूरणेश सर्वक्रिया व्यतिकरण परिपूरण क्षमामवयं प्रतियज्ञं प्रति प्. ३४७) प्रभो स्वामिन् त्वदिच्छाप्राप्तिकारकः त्वदिच्छयात्वदीयाज्ञयालब्धोपकरणः त्वामहमामंत्रयामि विशेष सपर्याग्रहणाय अनुज्ञापयामि | तत् तस्माद्यजतः प्रयत्नमातिष्ठतः मे मम तत्सिद्धिं पवित्राख्य कर्मफल निष्पत्तिं अनुजानीहि आज्ञापय चिदचित्पते चिदा(ता)त्मनां अचितां मायादीनां च पते सर्वथा सर्वप्रकारं सर्वदा सर्वकालं च नमस्तेस्तु मे प्रसीद प्रसन्नोभव आमन्त्रण प्रकारांतरमा मन्त्रितोऽसीत्यादि नियमं वृ(व्र)तावधेर्नियमं सद्योधिवासे एकस्मिन् दिवसे एव पूर्वमधिवासनं कृत्वा अनन्तरं पवित्र समर्पण पक्षे प्रभाते तु पवित्रकमित्यत्र सद्यः काले पवित्रकमिति वदेत् | रेचकेन प्राणवायोरूर्ध्ववाहेन संनिरोधे कृते सम्यक् ऊर्ध्वं प्रवर्तते इत्युक्तत्वात् | प्. ३४८) रेचक योगेन सह मूलं शिवमन्त्रं लयान्तं द्वादशान्तपर्यन्तं | तथा कामिके- एवं ग्रन्थि समायुक्तं क(अ)ल्पतन्तु विनिर्मितम् | धूपितं पुष्पसंयुक्तं समादायान्जलौ गुरुः || आमन्त्रण पवित्रं तत् सुधा मुद्रा प्ररोचितम् | शिवायारोप्य तन्मूर्ध्नि रेचकेन शिवाणुना || इति | सिद्धान्तशेखरे च- इत्येवमा मन्त्र्य शिवं विचिन्त्य तन्मूलमन्त्रं सह रेचकेन | शिवान्तमुच्चार्य शिवाय दद्यात् लिंगोत्तमांगे शुभ गंध सूत्रम् || इति गंध पवित्र समर्पणानन्तरं करणीयान् आह धूपदीपादिभिरित्यादिना- प्. ३४९)
SKदीपादिभिरित्यादि पदेन छत्र चामरदयो गृह्यन्ते | अग्न्यधिकरणेपि तत्क्रियामाह तत इत्यादिना चरोरग्न्यर्थं विभक्तस्य चरोः त्रितीयांशं प्राप्तं त्रितीयमंशं हुत्वा ब्रह्मांगेभ्यश्च दत्वेत्यत्र अग्न्यदिकरणस्य शिवस्य अपरत्वेन पूजित ब्रह्मांगेभ्यश्च पवित्रं समर्पयेत् | प्रायश्चित्तार्थं न्यूनादि दोषमोक्षार्थं मूलेनाष्टोत्तर᳚ऽसतमिति श्रुतेः अधिवासन कर्मणो न्यूनातिरिक्त दोषशान्त्यर्थमित्यर्थः शिवमग्निस्थं निष्ठुरया निष्ठुरमुद्रया निरोधयेत् | स्विष्ट कृदाहुतीः अग्न्याद्याहुतयश्चतस्रः | समाचम्येत्यत्र बलिविधानानन्तरमाचमनीयस्य विहितत्वात् श्रोत्र वंदनं प्राणायामं वा कुर्यात् | मण्डलस्थं शिवं समर्पिताया प्. ३५०) क्रियायाः करिष्यमाण कर्मणः शेषं यस्य तमपि अष्टपुष्पिकया संपूज्य निरोधयेत् | अथ संपात संस्कृतस्य पवित्रस्य संस्कारानन्तरं रक्षणं चाह पूत इत्यादिना पूते शुद्धे वंशादि संभवे वेण्वादि निर्मिते पात्रे पेटिकायामन्येन विधाय सूत्रैरावेष्ट्य इत्युरत्र विधानात् कलमेवा यतनमेव संस्थानं यस्य तस्मिन् स्थीयत इति | तथोक्तम्- तन्निकटे रक्षार्थं संस्थाप्य कलशे यज्ञ रक्षकत्वेन स्थित इति दीक्षायां वक्ष्यमाणत्वात् विघ्नादिभ्यो रक्षितव्यमिति विज्ञापयेत् | सिद्धांतपुस्तके विद्यापीठे च स्वगुरौ | गुरोपदांतिकं गत्वा भक्त्या दद्यात् पवित्रकम् | इति सोमशंभु वचनात् | प्. ३५१) तदनन्तरकरणीयानाह वह्निरित्यादिना बहिः यागमण्टपाद्बहिः कृमादुक्तकृमात्पूर्वं पंचगव्य प्राशनानन्तरं चरुभक्षणं कृत्वा तदनन्तरं दन्तधावनं कुर्यात् | मुमुक्षुरप्येवमिति पञ्चगव्यादि सेवनं कुर्यात् सद्यो शिवासन पक्षे पञ्चगव्य प्राशनादिकमकृत्वा उक्तरत्र कर्म कुर्यात् इति पवित्राधिवासनविधिः | एवं पवित्रादि(धि)वासनमुक्त्वा पवित्रारोहणकार्यं करणीयानाह अथेत्यादिना
SKमण्टप यागमण्टपं भुवं यागमण्टप भुवं देवं लिंगस्थ शिवं अविसृज्यैव पूर्वस्मिन् दिवसे विसर्जनायानुक्तत्वात् | गंधपवित्रमादायान्यत्र संस्थाप्य पश्चाद् विसर्जनं कुर्यात् | अन्यथा पुनरपि तत्समर्पणस्य प्. ३५२) अयोग्यत्वात् पवित्रदानसमये गंधपवित्रमपि देयमिति गुरुभिरुक्तत्वात् पंचगव्य चरुलाज जल पुष्पादिकं वर्जयित्वा व्रतांग द्रव्याण्यप्यादायाह्निकद्वयमित्यादिना प्रातः मध्याह्न कृत्यद्वयं सूर्यनाम विशिष्टं कालात्मनेत्यादि पठित्वेत्यत्र कालात्मनात्वधादेव इत्याद्युक्तरत्र वक्ष्यमाण श्लोकद्वय पठनं कृत्वा | शंभो इत्यत्र भानो इति पठित्वा शिव सूर्याय पवित्रं समर्पयेत् | अथ देवस्य पवित्रारोपणात्पूर्वं करणीयानाह शिवं संपूज्य इत्यादिना शिवं इष्टलिंगस्थं संपूज्य नित्यपूजानन्तरं यथाशक्ति विशेषपूजां कुर्यात् | तथोक्तम् मृगेन्द्रे यथा विभवतः पूजां कुर्यान्नित्यादनन्तरम् | प्. ३५३) दन्तधावन त(स)द्भस्म मृध्या(द्धा)त्री फल भावनात् | ऐन्द्रादि शंकरांतासु दिक्षु पात्रेषु विन्यसेत् || इति | व्रतभोगांग द्रव्य निवेदनानन्तरं पवित्राणि समर्पयेत् | अत्र द्रव्य निवेदने जल कुंकुम पंचगव्यतांबूलचखो न्यु(नू)तना एव देयाः | इतराणि पूर्वदिन दत्तान्येव- अथ देवस्य स्वस्य स्वाभिमत प्रार्थना पूर्वं पवित्र समारोपणमाह कालात्मनेत्यादिना कालात्मना त्रुटिलव निमेष काष्ठा कला मुहूर्त यामाहोरात्र पक्षमास ऋत्वयव संवत्सर युगमनन्तकल्प महाकल्पाख्याष्टादशवस्थात्मकोवायामायामिनीभ्यां विना षोडशावस्थात्मक कालो वा आत्मशरीर नित्याधिष्ठेयत्वेन यस्या सौ कालात्मा | तथाचोक्तम् प्. ३५४) सर्वाभावमयो देवो विश्वेस्मिन् स चराऽचरे | कल्प्यते कालरूपेण विश्वमूर्तिं महेश्वरः || इति
SKहे देव कालात्मना त्वया मामके विधौ मदीय व्यापारे यत्क्लिष्टं कृतं कर्म कथं भूतं क्लिष्टं यत्किल भगवान् महेश्वरः पञ्चोपचारेण पूज्यते तत्र उपचार हीनं कर्म क्लिष्टमित्युच्यते | न केवलं क्लिष्टमात्रं समुत्सृष्टमपि यत्किलागमेषु भगवतः पूजाविधिरावाहनादि दशभिस्संस्कारैः प्रतिपादितः तत्राज्ञानात् कियन्तं संस्कारमुत्सृज्य पूजानिवर्त्यते | तत्समुत्सृष्टमित्युच्यते | तथा हृत्मपि तान् संस्का(र) ज्ञानतोपि कार्यवशात् व्यग्रतया यदपहृत्याऽबुद्धि पूर्वं यत्क्रियते तत्कर्म हृतमित्युच्यते | तदेवं चतुर्विधमपि कर्ममत्कृतं प्. ३५५) मया कृतं हे शंभो तत्र यत्क्लिष्टं तदक्लिष्टं कृतमस्तु असत्कृतं समुत्सृष्टादित्रयं पुष्टं संपूर्णं यथा भवति तथा कृत कृतमस्तु अनेन एतदुत्सृष्टहृत गुप्तानां तंत्रेणाभिधानं सर्वेषामसत् कृतत्वा | विशेषात् त्वदिच्छया त्वदीयाज्ञया कृतेन सर्वात्मना सर्वस्मिन् चतुर्विधे कर्मणि पूरकत्वेन आत्मास्वरूपं यस्य तेन यद्वा सर्वात्मना आत्मतत्वादिरूपत्वेन सर्वव्यापकत्वेन सर्वपूरकेणेति यावत् | अमुना पवित्रेण क्लिष्टाद्युपलक्षित सर्वकर्मच्छिद्राणि पूरय पूरय | अत्र द्विरुक्तिस्संपूर्णतातिशय प्रतिपादनापरा मघो(खां) यागः व्रतं कृष्णाष्टम्यादिनियमस्तु अक्रोधादयः मघश्च व्रतं च नियमश्च मघव्रत नियमाः प्. ३५६) तेषामीश्वरः प्रभुः तस्मै स्वाहेत्यत्र स्वशब्दमात्मवाची व्यक्षर साम्यानि ब्रूयादिति न्यासात् | आहाहरण वाचकः अत स्वात्मानमाहरामीति निवेदयामीत्यर्थः | तदुक्तमभियुक्तैः | आत्मोच्यता ब्रह्मनचात्मनेन्यत् नमस्य तस्त्वामधिहस्तमस्तीति | अथात्मादि तत्व त्रयात्मकं पवित्रं गंगावताराख्यमपि मूलमन्त्रोच्चारणभेदेन समर्पणीयमित्याह प्रकृति तत्वांतव्यापकमित्यादिनाऽत्र प्रकृति शब्देन शुद्धाध्वनः परः प्रकृतिर्मायोच्यते | आत्मतन्तु मायांतमिति बहुश्रुतेः मन्त्रव्याप्तेः मायां तत्व वचनाच्च श्रुत्यादि मायांताध्वांशक व्यापकमात्म तत्वमिति | अत्र सर्वत्र सप्तमी निमित्तार्थः
SKप्. ३५७) केचित् तु अधिकरणार्यैव सप्तमीति- तत्रत्वधिष्ठातारं शिवमित्यथं अध्याहृत्य फणन्ति | ब्रह्मणा पालित इत्यत्र एष ब्रह्मा श्रीमत्किरणाद्युक्तवत् शुद्धाध्वाध्वावस्थितश्शुद्ध एव | ननु(तु) प्राकृत इति केचित्- अणुशक्ति शंभुभेदेन मन्त्रं मन्त्रेश्वराणामिह(मिव)कारणेशानामपि त्रिविधत्वात् | ब्रह्माद्य(दि)धिष्ठानयुक्त शिवशक्ति विशेषा एव तत्र ब्रह्मादि शब्देनोच्यन्ते इति गुरवः | तदुक्तं श्रीमत्पराख्ये एकोपि नामकैर्भेदैः पंचधा समवस्थितः इति एतत् स्वरूपं संध्या प्रकरणे प्रपंचितम् | तत्रैवाऽवधेयम् | मायांतमुच्चार्येति अत्र मायान्तमित्यनेन लक्षणया शुद्ध विद्या तत्वं उच्यते | प्. ३५८) मायान्ताध्वांश व्यापकं विद्यातत्वं तदधिष्ठातारं शिवं च ध्यात्वा मायान्तद्योतक रुद्रवाचकमकारपर्यन्तं मन्त्रं उच्चार्य लिंगमूर्ध्नि पवित्रमारोपयेत् | एवं द्वितीय पवित्रदानसमये शुद्धविद्या तत्वांत व्यापकमित्यत्र शुद्धविद्या तत्वांत अध्वांश व्यापकं विद्यातत्वमित्याशयः | तदधिष्टातारं शिवं ध्यात्वा ईश्वर तत्वं उच्चार्येत्यत्र ईश्वरांताध्वावद्योतकेश्वरवाचक बिन्द्वन्तं मन्त्रं उच्चार्य लिंगमूध्नि समारोपयेत् | तृतीय पवित्र समर्पणे शिवांत मुच्चार्येत्यत्र शिवशक्त्यन्तमवधिः यस्य तत् तथा शक्ति तत्वाध्वांत व्यापकं शिवतत्वमिति यावत् | तदधिष्ठातारं शिवं ध्यात्वा तस्मै सदाशिवान्तद्योतक प्. ३५९)
SKनादकलान्तं मन्त्रं उच्चार्य पवित्रं दद्यात् | एवं मुमुक्षुः नैष्टिकी दीक्षया दीक्षितः पवित्र त्रयं दद्यात् | बुभुक्षु भौतिकी दीक्षाविशेषाभ्यां लोकधर्मिणी शिवधमिणीभ्यां दीक्षितस्तु शिवतत्वान्तं उच्चार्य शिवतत्व पवित्रमादौ पश्चाद् विद्या तत्व पवित्रमनन्तरंमात्मतत्वपवित्रं दद्यात् | एवं प्रातिस्विककरणाधिष्ठित तत्वाध्वांशाख्यां तत्व त्रयाधिष्ठान युक्ताय शिवाय पूजनमुक्त्वा अधुना सामस्त्येन सर्वतत्वेष्वधिष्ठान त्रितयावस्थिताय पूजनमाह पश्चादित्यादि सर्वकारणपालिते ब्रह्मादि पञ्चकारणैः परिपालिते लयान्तं द्वादशांतोऽवधिः | अत्र बुभुक्षु विषये केचित् ऊर्ध्वस्थापि प्. ३६०) शिवतत्व पवित्रस्य स्वायोवृत्ति विद्या तत्वात्मकादयोवस्थानानुपत्या प्रथममारोपितम् | शिवतत्व पवित्रकं विद्यातत्व पवित्रारोपणानन्तरं उद्धृत्य तस्मादुपर्यवस्थाप्य एवं आत्मविद्यात्मकमपीति भणन्ति | तदयुक्तं तथाविधश्रुत्य दर्शनात् कंकण त्रयेन मानभेदेनोर्ध्वाधोवस्थान वृत्या संभवाच्च | तदुक्तं षट्सहस्रिकायाम् लिंगमूर्ध परीणाहं यथा चैवात्मकं तथा | विद्यातत्व परीणाहं ततो भागद्वयं विना || तस्माद्भागद्वयं न्यूनं शिवाख्यं यत्पवित्रकम् | इति | तदनन्तरकरणीयमाह पुष्पांजलि पुटो भूत्वेत्यादिना गतिः मुक्त(क्ति)लक्षणं श्रीमत्स्वायंभुवे- प्. ३६१) दग्ध संसार बीजस्य या पुंसः पश्चिमा स्थितिः | सागतिस्तस्य विज्ञेयः नदेहान्तर संस्थितिः ||
SKइति | पराख्ये प्राप्तिस्सा समतास्यत्विति परमेश्वरस्य गत्य संभवात् तद्धेतुत्वेन तद्वाच्यत्वमिति ज्ञेयम् | सर्वप्राणिनां चराचरे स्थावरजंगमे संस्थितं अधिष्ठात्रतया स्थितः | अन्तश्चारेण अंतर्यामि तथा(या) द्रष्टा शुभाशुभकर्म साक्षीकर्मणाकायिक व्यापारेण मनसा ध्यानादि हेतुना वाचास्तुत्यादि रूपतयागतिः गंतव्यं मदीयानां काय मनोवाक्संध्यानां क्रियाणां त्वमेव विषयमित्यर्थः | अकृतं च्युत संध्योपासनादि यत् तद्वाक्य हीनं स्वागत विज्ञापनादि वाक्यहीनं संपूतः सुष्ठु अतिशयेन पूतः प्. ३६२) शुद्धः अनादि निर्मल इत्यर्थः तत्तयैव पवित्रं पतना त्रायते यतः एवमतः परं पापनाशनं पापं नाशयित्वा प्राणिनः परतत्वं नय यतः | एवं तवशीलं अत स्थावरजंगमात्मकं जगत्सर्वं त्वयैव हि पवित्रितम् | पवित्री कृतं निर्मलभूतं भवति भविष्यति च तस्मात् व्रतमन्त्र सद्भक्त्या सम्यक् भजनं सर्वदा भगवतस्सेवनं उपवासनन्तच्च मन्त्र द्रव्य क्रियांगोपेतं तदेकदेश विहीनं विकलं तस्य भावः वैकल्यं तेनात्मनो योगः तस्मात् खण्डितमपरि पूर्णकृतं यत् तत्सर्वमेकी भवन्तु परिपूर्णमस्तु यतस्तवाज्ञा सूत्रेण गुम्भितं ग्रथितं तवतत्सर्वं परिपूर्णं भवतु इति त्वं यदि स्मरसि तदा तदेवं भवतीत्यर्थः एवं विज्ञापनानन्तरकरणीयानाह- प्. ३६३)
SKधूपदीपेत्यादिना- आचार्यः सर्वदेवानामित्यत्र सर्वदेवानां यागमण्टपस्थितानां साधकः साध्य मन्त्रस्यापीत्यपि शब्दात् सोपि यागमण्टपस्थित सर्वदेवानां पवित्रं दद्यात् | तस्याभि(प) साधिकार दीक्षितत्वादिति केचित् | इतरस्तु नित्यकर्मणि पूजितानां देवानामेव पवित्रारोपणं कुर्यादिति भावः | चतुर्मासादित्यादि पदेन चतुर्मासं त्रिमासं वात्यादिना पूर्वोक्त पक्षेषु स्वाभिमतकालं गुरुणादिष्टं वा व्रतनियमं गृहीत्वा इत्यत्र व्रतमेक भुक्तादि परमावधिकत्वेन उक्तकालात्पूर्वं यथोक्तकाल व्यतिरेकेण गुरुणा स्वयं यः कालावधिरुद्दिष्टः सोपि वा ग्राह्यः | एवं नियमित कालेत्यत्र गमनं न कार्यम् | P. ३६४) तथोक्तं मोहशूरोत्तरे- न गंतव्यं सहस्राक्ष पवित्रेत्वविसर्जिते | विसर्जिते तु गंतव्यं स्वेच्छं वै यत्र रोपत(चते) || इति | विधिच्छिद्र पूर्तिस्थैर्यायेत्यत्र स्वानुष्ठित विधिच्छिद्र पूरणात्मनः पवित्रकर्मणस्थैर्यार्थं होमं कर्तव्यम् | एकाहपक्षे द्वितीयदिने करणीयानाह अपरेद्युः इत्यादिना भुक्तिकामः भोगेच्छुः मुक्तिकामो मोक्षकामः संबंधकं तथोक्तं कामिके व्रतं निवेदयेदुक्त्वा ममास्तु फलसाधकम् | भुक्ति कामो व्रतीमास्तु कर्मै तत्प्रतिबंधकम् || इति | अथ यागविसर्जन प्रकारः | वह्नि स्थायेत्यादिना वह्निस्थं भगवन्तं शिवं नाडीमार्ग संयोगेन वह्नि कुण्डार्चितं देवं प्. ३६५)
SKमण्डलाभ्यर्चित शिवेत्युक्तत्वात् मण्डलस्थ शिवे संयोजनं कुर्यात् | अनन्तरं मन्त्रान् शिवं तदंग वाचक मन्त्रान् परिधि विष्ठर मन्त्रांश्च | यद्वा चण्डपूजान्तेतमपीत्यत्र वह्निस्थ शिवविसर्जनानन्तरं वह्निविसर्जनमकृत्वा चण्डनाथमाराध्य शतं हुत्वेत्युक्तरत्र विहितत्वात् | चण्डपूजानन्तरं तमपि चण्डनाथमपि वह्नौ संपूज्य हुत्वोपकर्मान्ते वह्निं विसर्जयेत् | मण्डल स्वेष्ट लिंगस्थादीनधिकरणानुरूपं सापेक्षं निरपेक्षं वेत्यत्र स्वेष्ट लिंगस्थं सापेक्षं विसर्जयेत् सापेक्ष निरपेक्ष विसर्जनयोः स्वरूपं शिवपूजायां निरूपितम् | ततो दिग्का(पा)लादी नित्यादि शब्देन मण्टप पूजित सर्वदेवग्रहणतः गुरुगणेशादिपानुपर्यन्तान् पूजाक्रम प्. ३६६) विपर्यासेन निरपेक्षं विसर्जयेत् इत्यर्थः शुद्ध पवित्राणि यथा न्यायमाहृत्येत्र शुद्ध पवित्राणि चण्डार्थं कल्पितानि पवित्र चतुष्टयानि यथा न्यायं सूर्याग्नि चण्डेश महेश कुंभे शंभूक्तवत्सूत्रसमृद्धित इति | सिद्धान्तशेखराद्युक्त प्रकारं वा सूत्र समृद्धौ इति विधानात् | सूत्र संकटे एकैकमेव दातव्यम् चण्डेश क्षेत्रपालयोरित्याह | मान्तरोक्तमेक पवित्रं वा पूर्वं चण्डेश्वराय समर्प्य अनन्तनिर्माल्य पवित्राण्यपि देयानि अन्धकुपादिकेत्यत्र निर्माल्य पुष्पमालादिकं पवित्राणि निर्मल पवित्राणि अग्नौ दहेत् | भूशोधन प्रकारः तत इत्यादिना भूशोधनानन्तरकरणीयानाह आचम्येदित्यादिना प्. ३६७) पूर्वं कृतं पूजनमपि देवं स्वेष्टलिंगं पवित्रारोपणाय कृत पर्युषित पूजितत्वात् निर्माल्य परिशोधनार्थं नित्यवत् स्नापयित्वा पूजयेत् | अथ एकस्मिन्दिवसे एव पवित्राधिवासन समर्पणयोः क्रममाह सदोधिवासेत्यादिना चतुर्मास्यादि नियमवतापि नियमान्ते पुनः पूर्ववद्यागं विधाय उक्तक्रमेण विसृज्य इष्टिं कुर्यात् | स्वगुरुपूजामाह गुरुश्शिववदभ्यर्च्य इत्यादिना
SKएतत्पवित्रकरणं गुरुसंनिधावेव कार्यमित्याह पंचयोजन संस्थोपि इत्यादिना अथ एतत्प्रकरणोप संहारः परमेश इति एवं पवित्रं पूजाविधिमभिधायानन्तरं दमन पूजाविधिमभिधातुं प्. ३६८) तदवश्य कर्तव्यतामाह चैत्रेत्यादिना अलाभ भयात् अप्राप्ति भयात् मे स्वकृत शिवार्चना पुण्य फलस्य अलाभ भयमिति चेत् अत्रेतिहासो लिख्यते पुरा पुरस्परमदमत्त(त्सर) देवासुराणां अकाण्ड जगद् क्षयकारी युद्धं | हरस्य महान् क्रोधो भूत् तस्मात् भैरवः संजातः | तेन भैरवेण तेषां गर्वपरिहारः कृतः | तस्मादसौ भैरवः देवासुरदमनाद्दमनाह्वोऽभूत् | अनन्तरं तस्याह(सह्य)तेजो निरीक्षणे नैव सांप्रतं जगत् संहरतीतिमत्वा जगद्धिताय तद्वीर्येण प्रीतेनापि शिवेन तं भैरवं भूतले विटपो भवेदित्युक्तत्वात् उद्भूतः | सि(कि)सलयादि नामदर्चनं येन करिष्यन्ति तैः क्रियमाण चैत्रमास पूजापुण्यफलं तव इति तस्मैवरमपि दत्तं इति स्वच्छन्द भैरव प्. ३६९) तन्त्रोक्तं पुरावृत्तं सोमशंभुना संग्रहेण लिखितं तद्यथा हरकोपात् पुराजातो भैरवो दमनाह्वयः मा(द)न्तास्तेन सुरास्सर्वे दानवाश्च महाबलाः प्रीतेनाथ शिवेनोक्ता विटपो भव भूतले तां तनुं त्वमनु प्राप्य मद्भोगाय भविष्यसि | पूजयिष्यंति ये मर्त्याः देवत्वत्पल्लवादिभिः ते यास्यन्ति परं स्थानं दमनत्वत् प्रभावतः | ये पुनर्नकरिष्यन्ति दामनं || तेषां ते चैत्र मासोत्थं दत्तं पुण्यफलं मया | स्वच्छन्दभैरवे तन्त्रे यद्यपीठमुदाहृतम् || तथा पीह समानत्वात् सिद्धान्तेप्युपपादितम् | अतः परमेश्वरेणैव वरदानात् भैरवस्याप्यत्र पद्धत्याप्युक्तम् | आचार्यैस्तत्रांतर विहितोपि दमनोत्सवविधिः साधकैः ग्रहीत इति | प्. ३७०) ननु ऊर्ध्ववक्त्रोद्भवै शैवै सिद्धान्तैर्देशिकैस्सदा | तन्त्राचारो न योग्यस्यात् वामाचारस्तथा गुह ||
SKमिश्राचारो न कर्तव्यः चेत् प्रमादादधोगतिः | इति कालोत्तर वचनात् | सिद्धान्तेतरतन्त्रे विहिता कथमनुष्ठीयतेति चेत् मैवं यद्यपि इदं भैर्व तन्त्रे कथितम् | तथा भैरवस्य ईश्वरेण वरदानात् कर्तव्यमेव | नह्येकत्रोक्तस्य इति हासस्यान्यत्राकथनमात्रेण मिथ्यात्वं युक्तं तथात्वे सर्वपुरा वृत्तानां सर्वत्रा कथनमात्रेणा सत्य प्रसंगेन तं मूल धर्मानुष्ठान प्रवृत्तेः दमन पूजा प्रकारः तदित्यादिना तच्छ्रद्धालुना तस्यां दमनपूजायां श्रद्धावता पवित्रवद्यागं कुर्यात् | इत्यनेन सप्तम्यां त्रयोदस्यां वा अधिवासनार्थं प्. ३७१) यागं संपाद्य सूर्यद्वारपाल पूजा पुरस्सरं स्थाली पाकान्तं कर्मकुर्यात् | दमनका मन्त्रणप्रकारः अहं प्रसाद संभूत इति स पंचागं मूलनाल पत्र पुष्पफल सहितं अत्र समीप स्थितं चेदुद्यानं तत्र गत्वा दमनकमामन्त्रयेत् | दूरस्थितं चेत्तमानीय गृहे संरक्षयित्वा मन्त्रयेत् | तदुक्तं सप्तम्यां वा त्रयोदश्यां गत्वा दमनकान्तिकम् | अद्यानस्थं समामन्त्र्य संरक्ष्य भवनं व्रजेत् | यदि दूरे तमानीय समूलं मृत्तिकान्वितम् || पुनरारोप्य मृत्पूर्णे पात्रे संसिध्य वारिणा | गृहेप्या मन्त्रणं कुर्यात् पूर्वोक्त विधिना बुधः || इति | अत एवोक्तमत्र पद्धत्यां गृहं गतं वेति प्. ३७२) अग्नि सनिधिं नीत्वा संपाद्येत्यत्र पवित्रवत्सपाताहुति संशुद्धं कुर्यात् | अथ व्रतांगद्रव्यैस्सह दमनक निवेदन प्रकारः निवेदयेदित्यादि अनन्तरकरणीयान्याह अर्पितोस्मीत्यादिना सद्यः काल इत्यत्र सद्योधिवासन पक्षमाश्रित्य संग्रहेणोक्तम् | पवित्रवद्यागं कुर्यात् इति विधानात् | द्वितीये सति पूर्वेद्युस्सायाह्नेऽधिवासनं कृत्वा परस्मिन्दिवसे पवित्र विधान प्रोक्तवत् सर्वमनुष्ठेयमिति दमनक समर्पण प्रकारः | तत इत्यादिना दमनक समर्पणानन्तरं प्रार्थना प्रकारः भगवन्नित्यादि दामनकं पर्वदामनोत्सव कुसुमांजलिः | अनन्तरकरणीयान्याह प्. ३७३)
SKअग्न्यादिभ्यः इति आदिपदेनान्तर्बल्यादि देवानामपि दमनकं देयमिति सूचितम् | यागं विसर्जयेदित्यनेन मण्टपस्थ देव विसर्जन पूर्वं चण्डपूजनमपि कृत्वा विसर्जयेत् | इति दमन पूजाविधिः समाप्तः || एकमाकंदनामांघ्रि पूजकेन द्विजन्मना | आचार्यकृत पद्धत्याः व्याख्यानं लिखितं मया || भग्नपृष्ठ कटीग्रीवः स्तस्थ(ब्ध) बाहुरधोमुखः | कष्टेन लिखितं ग्रन्थं यत्नेन परिपाल्यताम् || इति श्रीमत्कच्छपेश्वर शिवाचार्यविरचिता श्रीमदघोरशिवाचार्यकृतक्रियाक्रमद्योतिकाव्याख्या समाप्तम् अनैषीत् || श्रीशिवाभ्यान्नमः ||