Verses on the Meaning of the Body (Yogācārabhūmi)

Śarīrārthagāthā a chapter of his Yogācārabhūmi · Śअरीरार्थगाथा अ छप्तेर् ओf हिस् Yओगाचारभूमि

Verses on the Meaning of the Body (Yogācārabhūmi)

Śarīrārthagāthā a chapter of his Yogācārabhūmi

Śअरीरार्थगाथा अ छप्तेर् ओf हिस् Yओगाचारभूमि

SK
पापं न कुर्यान् मनसा न वाचा कायेन वा किंचन सर्वलोके / रिक्तः कामैः स्मृतिमान् संप्रजानं दुःखं न सेवेत अनर्थसंहितम् // Śअग्_१.१
SK
आख्येयसंज्ञिनः सत्वा आख्येये ऽस्मिन् प्रतिष्ठिताः / आख्येयम् अपरिज्ञाय योगम् आयान्ति मृत्युनः // Śअग्_२.१
SK
आख्येयं तु परिज्ञाय आख्यातारं न मन्यते / तद् वै न विद्यते तस्य वदेयुर् येन तं परे // Śअग्_२.२
SK
समो विशेष उत वापि हीनो यो मन्यते स विवदेत तेन / विधात्रये ऽस्मिन् न विकम्पते यः समो विशिष्टश् च न तस्य भवति // Śअग्_२.३
SK
आच्छिद्य तृष्णाम् इह नामरूपे प्रहाय मानं च न संगम् एति / तं शान्तधूमम् अनिघं निराशं नाद्राक्षुस् ते देवमनुष्यलोके / इह बाहिरतश् च // Śअग्_२.४
SK
कामरागाभिभूतत्वाच् चित्तं मे परिदह्यते / अंग मे गौतम ब्रूहि शान्तिं त्वम् अनुकंपया // Śअग्_३.१
SK
विपर्यासेन संज्ञानां चित्तं ते परिदह्यते / निमित्तं वर्ज्यतां तस्माच् छुभं रागोपसंहितं // Śअग्_३.२
SK
अशुभां भावय सदा त्वम् एकाग्रः सुसमाहितः / निर्वापयाशु रागाग्निं दह्यसे मा पुनः पुनः // Śअग्_३.३
SK
संस्कारावरतां पश्य दुःखतो ऽनात्मतस् तथा / स्मृतिं कायगतां कृत्वा निर्वेदबहुलो भव // Śअग्_३.४
SK
भाव्यताम् अनिमित्तं च मानानुशयनाशनं / ततो मानाभिसमयाद् दुःखस्यान्तं करिष्यसि // Śअग्_३.५
SK
कुमारिकाप्रश्नगाथा: कथंविहारबहुलो भिक्षुः पञ्चौघतीर्णस् तरतीह षष्ठं / कथंध्यायी विपुलां कामतृष्णां तीर्णो भवत्य् अप्रतिलब्धयोक्त्रः // Śअग्_४.१
SK
प्रश्रब्धकायः सुविमुक्तचित्तो ह्य् असंस्कुर्वन् स्मृतिमान् अकोप्यः आज्ञाय धर्मम् अवितर्कध्यायी कोपस्पृहास्त्यानदोषैः वियुक्तः // Śअग्_४.२ एवंविहारबहुलो भिक्षुः पञ्चौघतीर्णस् तरतीह षष्ठं / एवंध्यायी विपुलां कामतृष्णां तीर्णो भवत्य् अप्रतिलब्धयोक्त्रः // Śअग्_४.३
SK
नित्योत्रस्तो ह्य् अयं लोको नित्योद्विग्ना इयं प्रजा / अनुत्पन्नेषु दुःखेषु समुत्पन्नेषु वा पुनः / यदि किंचिद् अनुत्रस्तं पृष्ट आचक्ष्व तन् मम // Śअग्_५.१
SK
नान्यत्र ज्ञानतपसो नान्यत्रेन्द्रियनिग्रहात् / नान्यत्र सर्वसंत्यागान् मोक्षं पश्यामि देवते // Śअग्_५.२
SK
चिरस्य बत पश्यामि ब्राह्मणं परिनिर्वृतं / सर्ववैरभयातीतं तीर्णं लोके विषक्तिकाम् // Śअग्_५.३
SK
केनाभिवर्णा जनता प्रणीता मार्गश् च नैर्याणिकतः प्रयुक्तः / कुत्र स्थितः कुत्र च शिक्षमाणो नायं मर्त्यः परलोकाद् बिभेति // Śअग्_६.१
SK
यः शीलवाञ् ज्ञानवान् भावितात्मा समाहितः स्मृतिमान् ऋजुगतश् च / सर्वे ऽस्य शोकज्वरथाः प्रहीणाः सम्यक्स्मृतो यस्य चित्तं विमुक्तं // Śअग्_६.२
SK
तेनाभिवर्णा जनता प्रणीता मार्गश् च नैर्याणिकतः प्रयुक्तः / अत्र स्थितः अत्र च शिक्षमाणो नायं मर्त्यः परलोकाद् बिभेति // Śअग्_६.३
SK
कथं यशस्वी भवति कथं भवति भोगवान् / कथं कीर्तिम् अवाप्नोति कथं मित्राणि विन्दति // Śअग्_७.१
SK
शीलाद् यशस्वी भवति दानाद् भवति भोगवान् / सत्येन कीर्तिम् आप्नोति ददन् मित्राणि विन्दति // Śअग्_७.२
SK
कुतः सरा निवर्तन्ते कुत्र वर्त्म न वर्तते / कुत्र दुःखसुखं लोके निःशेषम् उपरुध्यते // Śअग्_८.१
SK
चक्षुः श्रोत्रं तथा घ्राणं जिह्वा कायो मनस् तथा / यत्र नाम च रूपं च निःशेषम् उपरुह्यते // Śअग्_८.२
SK
ततः सरा निवर्तन्ते तत्र वर्त्म न वर्तते / तत्र दुःखसुखं लोके निःशेषम् उपरुध्यते // Śअग्_८.३
SK
केन स्विद् ओघं तरति केनोत्तरति चार्णवं / दुःखं त्यजति केन स्वित् केन स्वित् परिशुध्यति // Śअग्_९.१
SK
श्रद्धया तरति ह्य् ओघम् अप्रमादेन चार्णवं / वीर्येण दुःखं त्यजति प्रज्ञया परिशुध्यति // Śअग्_९.२
SK
क एतम् ओघं तरति रात्रिंदिवम् अतन्द्रितः / अनालम्बे ऽप्रतिष्ठे च को गंभीरे न सीदति // Śअग्_१०.१
SK
सर्वतः शीलसंपन्नः प्रज्ञावान् सुसमाहितः / अध्यात्मचिन्ती स्मृतिमांस् तरतीमं सुदुस्तरं // Śअग्_१०.२
SK
विरक्तः कामसंज्ञाभ्यो रूपसंयोजनातिगः / अनालम्बे ऽप्रतिष्ठे च स गंभीरे न सीदति // Śअग्_१०.३
SK
रागद्वेषौ भगवन् किन्निदानाव् अरतिरती रोमहर्षः कुतो ऽयम् / कुतःसमुत्थाश् च मनो वितर्काः कुमारका धात्रीम् इवाश्रयन्ते // Śअग्_११.१
SK
स्नेहजा आत्मसंभूता न्यग्रोधस्कन्धका यथा / पृथग्विषक्ताः कामेषु मालुता वा लता वने // Śअग्_११.२
SK
रागश् च द्वेषश् च इतोनिदानाव् अरतिरती रोमहर्षः इतो ऽयं / इतःसमुत्थाश् च मनो वितर्काः कुमारका धात्रीम् इवाश्रयन्ते // Śअग्_११.३
SK
ये तान् प्रजानन्ति यतोनिदानांस् ते तां जना यक्ष विनोदयन्ति / त अर्णवं संप्रतरन्तीहौघम् अतीर्णपूर्वम् अपुनर्भवाय // Śअग्_११.४
SK
कार्यम् एतद् ब्राह्मणेन प्रहाणम् अकिलासिना / कामानां विप्रहाणार्थं न हि कांक्षत्य् असौ भवं // Śअग्_१२.१
SK
स कार्यं ब्राह्मणस्यास्ति कृतार्थो ब्राह्मणः स्मृतः // Śअग्_१२.२
SK
यावन् न गाधं लभते न तीरम् आयूहते सर्वगात्रैः स तावत् / तीरं तु लब्ध्वेह संतिष्ठति स्थले नायूहते पारगतो निरुच्यते // Śअग्_१२.३
SK
एषोपमा दामले ब्राह्मणस्य क्षीणास्रवो यो निपको ध्यानलाभी / सर्वे ऽस्य शोकज्वरथाः प्रहीणाः सम्यक्स्मृतो यस्य चित्तं विमुक्तम् // Śअग्_१२.४
SK
गेय: भिक्षो भिक्षो ओघम् अतार्षीः / आम देवते / अनालम्बे ऽप्रतिष्ठे ओघम् अतार्षीः / आम देवते / यथा कथं त्वं भिक्षो अनालम्बे अप्रतिष्ठे ओघम् अतार्षीः / यथा यथाहं देवते आयूहामि तथा तथा संसीदामि / यथा यथा संसीदामि तथा तथा संतिष्ठे / यथा यथा संतिष्ठे तथा तथा उह्ये / यथा यथाहं देवते नायूहामि तथा तथा न संसीदामीति विस्तरेण शुक्लपक्षो वेदितव्यः // Śअग्_१३
SK
कुमारिकाप्रश्नगाथा: एको ऽरण्ये प्रसृतो ध्यायसे त्वं वित्ताद् विहीन उत वा प्रार्थयानः / ग्रामस्य वा किंचनागो न्व् अकार्षीः कस्माज् जनेन न करोषि सख्यं सख्यं न संविद्यते केन चित् तव // Śअग्_१४.१
SK
अर्थाप्राप्त्या हृदयस्येह शान्तिर् जित्वेह सेनां प्रियशातरूपं / एको ध्यायी सुखम् अस्म्य् अन्वभोत्सं तस्माद् जनेन न करोमि सख्यं सख्यं न संविद्यते केन चिद् मम // Śअग्_१४.२
SK
अनित्या बत संस्कारा उत्पादव्ययधर्मिणः / उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखम् // Śअग्_१५ (च्f. Uव् १.३)
SK
अप्रमादो ऽमृतपदं प्रमादो मृत्युनः पदं / अप्रमत्ता न म्रियन्ते प्रमत्तास् तु सदा मृताः // Śअग्_१६ (च्f. Uव् ४.१) वितर्कप्रमथितस्य देहिनस् तीव्ररागस्य शुभानुदर्शिनः / भूयस् तृष्णा विवर्धते सा गाढीकुरुते ऽस्य बन्धनं // Śअग्_१७ (च्f. Uव् ३.१)
SK
धर्मस्थं शीलसंपन्नं ह्रीमन्तं सत्यवादिनं / आत्मनः प्रियकर्तारं तं जनः कुरुते प्रियं // Śअग्_१८ (च्f. Uव् ५.२४)
SK
यत् परेषूपनिध्यायेत् कर्म दृष्ट्वेह पापकम् / आत्मना तन् न कुर्वीत कर्मबद्धो हि पापकः // Śअग्_१९ (च्f. Uव् ९.६)
SK
सुभाषितं ह्य् उत्तमम् आहुर् आर्याः प्रियं वदेन् नाप्रियं तद् द्वितीयं / सत्यं वदेन् नानृतं तत् तृतीयं धर्मं वदेन् नाधर्मं तत् चतुर्थम् // Śअग्_२० (च्f. Uव् ८.११)
SK
श्रद्धाथ ह्रीः शीलम् अथापि दानं धर्मा इमे सत्पुरुषप्रशस्ताः / एतं हि मार्गं दिविगं वदन्ति एतेन वै गच्छति देवलोकम् // Śअग्_२१ (च्f. Uव् १०.१)
SK
श्रुत्वा धर्मं विजानाति श्रुत्वा पापान् निवर्तते / श्रुत्वा अनर्थं त्यजति श्रुत्वा प्राप्नोति निर्वृतिम् // Śअग्_२२ (च्f. Uव् २२.६)
SK
आकाशसमो न लिप्यते इन्द्रकीलप्रतिमो न कंपते / ह्रद इव समुपेतकर्दमे संसारे रमते न पण्डितः // Śअग्_२३ (च्f. Uव् १७.१२)
SK
ये रूपेण प्रमिण्वन्ति मां घोषेणानुयान्ति च / च्छन्दरागवशोपेता न मा जानन्ति ते जनाः // Śअग्_२४.१ (च्f. Uव् २२.१२)
SK
अध्यात्मं च विजानाति बहिर्धा च न पश्यति / अध्यात्मफलदर्शी यः स वै घोषेण नीयते // Śअग्_२४.२ (च्f. Uव् २२.१३)
SK
अध्यात्मं च न जानाति बहिर्धा च विपश्यति / बहिर्धाफलदर्शी यः सो ऽपि घोषेण नीयते // Śअग्_२४.३ (च्f. Uव् २२.१४)
SK
अध्यात्मं च न जानाति बहिर्धा च न पश्यति / समन्तावरणो बालः सो ऽपि घोषेण नीयते // Śअग्_२४.४ (च्f. Uव् २२.१५)
SK
अध्यात्मं च विजानाति बहिर्धा च विपश्यति / धीरो निःसरणप्रज्ञो न स घोषेण नीयते // Śअग्_२४.५ (च्f. Uव् २२.१६)
SK
षष्ठे अधिपतौ राज्ञि रज्यमाने रजस्वलः / अरजस्य् अरजा भवति रक्तो बालो निरुच्यते // Śअग्_२५ (च्f. Uव् १६.२२)
SK
नगरम् अस्थिप्राकारं स्नायुमांसानुलेपनं / यत्र रागश् च द्वेषश् च मानो म्रक्षश् च गाहते // Śअग्_२६ (च्f. Uव् १६.२३)
SK
कूर्मः स्वके ऽङ्गानि यथा कपाले भिक्षुर् निदध्यान् मनसो वितर्कानि / अनिश्रितो ऽन्यान् अविहेठमानः परिनिर्वृतो नापवदेत कं चित् // Śअग्_२७ (च्f. Uव् २६.१)
SK
तुल्यम् अतुल्यं च संभवं भवसंस्कारम् अवासृजन् मुनिः / अध्यात्मरतः समाहित अभिनत् कोशम् इवाण्डसंभवः // Śअग्_२८ (च्f. Uव् २६.३०)
SK
नास्ति कामसमः पंको नास्ति द्वेषसमो ग्रहः / नास्ति मोहसमं जालं नास्ति तृष्णासमा नदी // Śअग्_२९ (च्f. Uव् २९.३७)
SK
आकाशे वै पदं नास्ति श्रमणो नास्ति बाह्यकः / प्रपञ्चाभिरता बाला निष्प्रपञ्चास् तथागताः // Śअग्_३० (च्f. Uव् २९.३८)
SK
स्थितिः प्रपंचाश् च न सन्ति यस्य यः संदानं परिघं चातिवृत्तः / तं निस्तृष्णं मुनिं चरन्तं न विजानाति सदेवको ऽपि लोकः // Śअग्_३१ (च्f. Uव् २९.५१) यस्य वितर्का विधूपिता अध्यात्मम् अविकल्पिता अशेषं / संगं सो ऽतीत्य रूपसंज्ञां चतुर्योगापगतो न जातिम् एति // Śअग्_३२ (च्f. Uव् २९.५६) ददतः पुण्यं प्रवर्धते वैरं संयमतो न चीयते / कुशली प्रजहाति पापकं क्लेशानां क्षयतस् तु निर्वृतः // Śअग्_३३ (च्f. Uव् २८.२)
SK
सर्वपापस्याकरणं कुशलस्योपसंपदा / स्वचित्तपर्यवदमनम् एतं बुद्धानुशासनं // Śअग्_३४ (च्f. Uव् २८.१)
SK
दुर्निग्रहस्य लघुनो यत्रकामनिपातिनः / चित्तस्य दामनं साधु चित्तं दान्तं सुखावहम् // Śअग्_३५ (च्f. Uव् ३१.१)
SK
चित्तनिमित्तस्य कोविदः प्रविवेकस्य च विन्दते रसं / ध्यायी निपकः प्रतिस्मृतो भुंक्ते प्रीतिसुखं निरामिषं // Śअग्_३६ (च्f. Uव् ३१.५१)
SK
पारायणेष्व् अजितप्रश्नः: केनायं निवृतो लोकः केनायं न प्रकाशते / किं चाभिलेपनं ब्रूषे किं च तस्य महद् भयम् // Śअग्_३९.१
SK
अविद्यानिवृतो लोकः प्रमादान् न प्रकाशते / जल्पाभिलेपनं ब्रूमि दुःखं तस्य महद् भयं // Śअग्_३९.२
SK
स्रवन्ति सर्वतः स्रोताः स्रोतसां किं निवारणं / स्रोतसां संवरं ब्रूहि केन स्रोतः पिधीयते // Śअग्_३९.३
SK
यानि स्रोतांसि लोकस्य स्मृतिः तेषां निवारणं / स्रोतसां संवरं ब्रूमि प्रज्ञया हि पिधीयते // Śअग्_३९.४
SK
प्रज्ञायाश् च स्मृतेश् चैव नामरूपस्य सर्वशः / आचक्ष्व पृष्ट एतन् मे कुत्रैतद् उपरुध्यते // Śअग्_३९.५
SK
प्रज्ञा चैव स्मृतिश् चैव नामरूपं च सर्वशः / विज्ञानस्य निरोधाद् धि अत्रैतद् उपरुध्यते // Śअग्_३९.६
SK
कथं स्मृतस्य चरतो विज्ञानम् उपरुध्यते / आचक्ष्व पृष्ट एतन् मे यथातथम् असंशयः // Śअग्_३९.७
SK
अध्यातं च बहिर्धा च वेदनां नाभिनन्दतः / एवं स्मृतस्य चरतो विज्ञानम् उपरुध्यते // Śअग्_३९.८
SK
ये च संख्यातधर्माणो ये च शैक्षाः पृथग्विधाः / तेषां मे निपकस्येर्यां पृष्टः प्रब्रूहि मार्ष // Śअग्_३९.९ कामेषु नाभिगृध्येत मनसानाविलो भवेत् / कुशलः सर्वधर्मेषु स्मृतो भिक्षुः परिव्रजेत् // Śअग्_३९.१०
SK
अर्थवर्गीयेषु कामान् आरभ्य गाथा: कामान् कामायमानस्य तस्य चेत् तत् समृध्यति / अद्धा प्रीतमना भवति लब्ध्वा मर्त्यो यद् ईप्सितं // Śअग्_४०.१
SK
तस्य चेत् कामायमानस्य छन्दजातस्य जंतुनः / ते कामाः परिहीयंते शल्यविद्ध इव रूप्यते // Śअग्_४०.२
SK
यः कामां परिवर्जयति सर्पस्येव शिरात् पदं / स इमां विषक्तिकां लोके स्मृतः समतिवर्तते // Śअग्_४०.३
SK
क्षेत्रवस्तुहिरण्यं च गवाश्वमणिकुण्डलं / स्त्रियो दासान् पृथक्कामान् यो नरो ह्य् अभिगृध्यति // Śअग्_४०.४
SK
अबलं वा बलीयांसो मृद्नंत्य् एनं परिस्रवाः / तत एनं दुःखम् अन्वेति भिन्नां नावम् इवोदकं // Śअग्_४०.५ यस्य त्व् एतत् समुच्छिन्नं तालमस्तकवद् धतं / शोकास् तस्य निवर्तन्ते उदबिन्दुर् इव पुष्करात् // Śअग्_४०.६ (च्f. Uव् १०.१३अब् उन्द् ३.१०च्द्)
SK
भद्रैकरागाथा (भद्रगरात्रीय, भद्रकरात्रिय): अतीतं नान्वागमयेन् न प्रतिकांक्षेद् अनागतं / प्रत्युत्पन्नाश् च ये धर्मास् तत्र तत्र विपश्यकः / असंहार्यम् असंक्षोभ्यं तद् विद्वान् अनुबृंहयेत् // Śअग्_४१.१

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Asaṅga: Śarīrārthagāthā a chapter of his Yogācārabhūmi (sa_asaGga-zarIrArthagAthA.htm).

Source