0.1 SK तं नत्वा विमलं शिवार्ककिरणे शास्त्रे परे रच्यते सङ्क्षेपाद्विवृतिः पदेषु गमिका विद्याख्यपादे यतः प्रोक्तो विस्तरतः पदार्थविषयो युक्त्यागमैर्निर्णयः प्रायो ऽन्यत्र मया कृतान्तविमतिच्छेदाय साधारणः //
2 SK पुरा किल भगवतोमापतिना गरुत्मतो ऽनुग्रहं कुर्वता यथा यादृग्रूपं च शास्त्रमुपदिष्टं तथा तादृग्रूपं च कश्चित्तच्छिष्यः प्रशिष्यो वा स्वशिष्येभ्यः कथयति
1.1 SK कैलासशिखरासीनं सोमं सोमार्धशेखरम् हरं दृष्ट्वाब्रवीत्तार्क्ष्यः स्तुतिपूर्वमिदं वचः //
4 SK Vऋत्ति: यत्तु प्रथममेवोत्सूत्रं कैश्चिच्छास्त्रस्वरूपं तत्सम्बन्धाभिधेयादि चात्र वर्ण्यते तत्सूत्रैरेव तेषां वक्ष्यमाणत्वादयुक्तमेव| अथादौ प्रवृत्तिहेतुत्वेनावश्यं तद्वक्तव्यमिति चेत्| शास्त्रान्तराणामिवात्र तदभिधानेन प्रवृत्त्ययोगात्| अत्र हि गुरूपसदनात्प्रभृति गुरुवाक्यादेव सर्वत्र प्रवर्तितव्यं नान्यत इति दर्शयिष्यामः|
5 SK तत्र कैलासस्य शिखरमग्रप्रदेशः| तस्मिन्नासीनं तं दृष्ट्वेत्यनेन योगिमध्यस्थितत्वेन वक्ष्यमाणादस्य ब्रह्मविष्णुलोकाभ्यामूर्ध्वमण्डलमध्ये वक्ष्यमाणस्य देवस्य विशेषः| सहोमया वर्तते यस्तमित्यनेन कैलासशिखरासीनान्तराच्छ्रीमन्नन्दिकेश्वरादेर्विशेषः||
6 SK अथ रूढिर्योगमपहरतीति न्यायतो ऽत्र सोमशब्देन कश्चिच्चन्द्रमेव प्रत्येष्यतीति तदर्थमेतत्सोमार्धं शेखरे शिरसि यस्य तं दृष्ट्वेति| किञ्च हरति बन्धनानि पुंभ्यः पुंसो ऽप्यूर्ध्वं पदमिति हरः तं स्वगुरुं तार्क्ष्यो दृष्ट्वेत्यर्थः| अत एवास्य निर्वाणदीक्षा सम्पन्नेति प्रतीयते| नादीक्षितानां श्रवणाधिकार इति वक्ष्यति यतः| हरशब्दस्य रूढ्यैवोमापत्यर्थत्वे व्याख्यायमाने गतार्थत्वं व्यवच्छेदान्तराभावादिति विशिष्टक्रियायोगाभिधानेनैव व्याख्यानं ज्यायः| अत्र च प्रणामसामर्थ्यादेव दर्शनस्य सिद्धेर्नायमर्थो हरं दृष्ट्वेति| अपि तु स्तुतिपूर्वं दृष्ट्वेति स्तुतिपूर्वमिति पदमत्र क्रियाविशेषणत्वेन व्याख्येयम्| न तु वचोविशेषणत्वेन| ततश्च वक्ष्यमाणान्धकमथनादिकर्मस्तुत्या विशिष्टकर्मयुक्तं भगवन्तमाराध्येदं वचनं वैनतेयो ऽब्रवीदित्यत्रार्थः| तन्न दोषः कश्चिदिति||
7 SK अथ कासौ स्तुतिर्यत्पूर्वं दृष्ट्वेत्युक्तम्| तत्रोच्यते
1.2 SK जयान्धकपृथुस्कन्धबन्धभेदविचक्षण जय प्रवरवीरेशसंरुद्धपुरदाहक //
1.3 SK जयाखिलसुरेशानशिरश्छेदभयानक जय प्रथितसामर्थ्यमन्मथस्थितिनाशन //
1.4 SK जयाच्युततनुध्वंसकालकूटबलापह जयावर्तमहाटोपसरिद्वेगविधारण //
1.5 SK जय दारुवनोद्यानमुनिपत्नीविमोहक जय नृत्तमहारम्भक्रीडाविक्षोभदारुण //
1.6 SK जयोग्ररूपसंरम्भत्रासितत्रिदशासुर जय क्रूरजनेन्द्रास्यदर्शितासृक्सुनिर्झर //
1.7 SK जय वीरपरिस्पन्ददक्षयज्ञविनाशन जयाद्भुतमहालिङ्गसंस्थानबलगर्वित //
1.8 SK जय श्वेतनिमित्तोग्रमृत्युदेहनिपातन जयाशेषसुखावासकाममोहितशैलज //
1.9 SK जयोपमन्युसन्तापमोहजालतमोहर जय पातालमूलोर्ध्वलोकालोकप्रदाहक //
16 SK Vऋत्ति: अन्धकस्य महासुरस्य यौ विस्तीर्णौ स्कन्धौ तयोर्बन्धो विचित्रः सन्निवेशः तस्य भेदो विदारणम्| तस्मिन्यो विचक्षणः पण्डितस्त्वमेव, नान्यः| तस्यामन्त्रणं हे तथाभूत भगवन् जयेति| किञ्च प्रकृष्टो वरो ब्रह्मदत्तो येषां ते प्रवराश्च वीराश्च प्रवरवीरेशाः| तैरेव समुपरुद्धं यत्त्रिपुरं तस्य दाहक हे भगवञ्जयेति| तथाखिलानां सुराणामीशानो ब्रह्मा तस्य यच्छिरः तस्य च्छेदः पुराणेतिहासादिभिरुक्तस्तेन भयानको रौद्रमूर्तिः तस्य सम्बोधनम्| किं च सकलत्रैलोक्यमोहकत्वेन यः प्रथितसामर्थ्यो मन्मथः कामस्तस्य भोगादिस्थितिहेतुत्वात्स्थितिः शरीरं तस्य नाशन हे भगवन् जयेति| अपि चाच्युतस्य विष्णोस्तनुध्वंसनहेतुत्वात्तनुध्वंसः कालकूटस्तस्य वेगस्तमपहरतीति| यदुक्तं वायुपुराणे
17 SK विषेणोद्भूतमात्रेण तेन कालानलत्विषा|
18 SK तस्य बलान्यपहरतीति बलापहो यस्तस्य सम्बोधनम्| किञ्च आवर्तः परिभ्रमस्तेनात्यन्तभीषणाटोपो वेगवत्प्रवाहः स यस्याः सरितः प्रकरणाज्जाह्णव्याः सावर्तमहाटोपसरित्| तस्या वेगो बलं तद्विधारण| किल शिरसि तथाभूता महानदी भगवतैव धार्यते नान्येनेत्यतिशयस्तुतिः|| २--४||
19 SK किञ्च दारूणि देवदारूणि तेषां वने यदुद्यानमाश्रमस्तस्मिन्ये मुनयस्तेषां तेषां च याः पत्न्यस्तासां विमोहक| अविजितकामक्रोधादीन्मुनीन्पत्नीश्च केनापि प्रयोजनेन विमोहयतीत्यत्र प्रशंसार्थो ऽन्यथा कुत्सैवेयं कुतः स्तुतिरिति| तथा नृत्तं विचित्राभिनयाद्यात्मको गात्रविक्षेपस्तस्य महारम्भलक्षणा क्रीडा| अस्य वैलक्षण्येन ताण्डवरूपं विहरणम्| तया विक्षोभो ऽनवस्थितिर्जगतस्तेन दारुण भीषण हे भगवञ्जयेति| तदिदमुक्तम्|
20 SK चलति मही दलन्ति गिरयः स्खलन्त्युदधयो नमन्ति खेचरा इत्यादि त्रिभुवनमस्वतन्त्रमिह यस्य नृत्तसमये स पातु नो हर इत्यन्तम्|
21 SK किञ्च उग्रं भीषणं यद्भैरवाकारं रूपमुमासन्त्रासदानाय घटत इतीतिहासपुराणादिगीतं तस्य संरम्भो जगत्त्रासलक्षणाभिनयानुकारस्तेन त्रासिता देवासुरा येन तस्य सम्बोधनम्| किञ्च क्रूरजनानां रक्षसामिन्द्रो रावणस्तस्यास्येषु दर्शितो ऽसृगेव सुनिर्झरः प्रपातो येन तस्यामन्त्रणम्| किञ्च वीरो वीरभद्रः तस्य परिस्पन्दः प्रेषणं तेन दक्षस्य प्रजापतेर्यज्ञविनाशन हे भगवञ्जयेति प्रशंसार्थो ऽन्यथा निन्दैव कुत्सितत्वादस्येति| किञ्च अद्भुतमाश्चर्यभूतं यन्महालिङ्गं सकलत्रैलोक्यस्य व्यापकं तस्य संस्थानमाकारविशेषो ज्वालात्मकः तस्य बलं तेजसो ऽसह्यत्वं तेन गर्वित ब्रह्मविष्ण्वादिभ्यो ऽपि सातिशय हे भगवञ्जयेति| यदुक्तं वायुपुराणादौ
22 SK अकस्माद्ब्रह्मविष्ण्वाद्यैर्ज्वालालिङ्गं तदद्भुतम्| दृष्टमभ्युद्गतं येन व्याप्तं सर्वं चराचरम्|| इति|| ५--७||
23 SK किञ्च श्वेतो महामुनिः तन्निमित्तमुग्रस्य मृत्युदेहस्य निपातन हे भगवञ्जयेति| अपि चाशेषस्य सुखस्याभिरतेरावासः स्थानं कामस्तेन मोहिता शैलजा गौरी येनेति कामो ऽपि यस्य वशे गौरी वा सर्वलोकेश्वरी यं प्रति साभिलाषेति प्रशंसार्थः| किञ्च उपमन्योर्यः सन्ताप स्तपोजनितशरीरक्लमः यच्च मोहजालमेव पञ्चविधविपर्ययात्मकं तमोवृत्ति त्वात्तमस्तद्धरति यस्तस्य सम्बोधनम्| किञ्चान्यत्| पातालानां मूलं कालाग्निभुवनं तत ऊर्ध्वं लोकः स्थावरादिमनुष्यान्तः षड्विधो भूतसमूहः| अलोकस्तु तद्विलक्षणः पिशाचादिपिता महान्तो ऽष्टविधो दैवसर्गः| यदुक्तं सांख्यैः
24 SK अष्टविकल्पो दैवस्तैर्यग्योनिश्च पञ्चधा भवति|
25 SK मानुष्यस्त्वेकविधः समासतो भौतिकः सर्गः|| इति|
26 SK तस्य दाहकेत्युपलक्षणम्| स्थितिसंरक्षणदानभवानुग्रहकर्तः हे भगवन् जय| जयेति जयत्येवास्य श्रीकण्ठनाथस्याधिकारात्| तदेवमपदान षोडशकात्मिकया स्तुत्या भगवतः श्रीकण्ठनाथस्यास्यैव दर्शनं, न योगिनां विद्येशानां वा मध्यपठितस्येति दर्श्यते| तथैतावद्भिरेवापदानैरियं स्तुतिर्दृष्टा नापदानान्तरैश्चक्रप्रसाददेहार्धगौरीधारणादिभिरपीति|
27 SK अन्धयतीत्यन्धको मलः तस्य पृथुस्कन्धावूर्ध्वाधोदृक्प्रतिरोधशक्ती ताभ्यां बन्धनं पुंसां दृक्क्रियावरोधः| तस्य भेदे दीक्षाद्वारेण यो विचक्षणस्तस्य सम्बोधनम्| इत्येवं सर्वथेयमत्र दीक्षानिर्वर्त्यकार्यस्तुतिर्गौणलाक्षणिकया वृत्त्येति व्याचक्षते| तेषां प्रसिद्धस्यार्थस्य परित्यागे ऽत्रासिद्धस्य च कल्पने किं कारणमिति वक्तव्यम्| कारणं विनैव हि तथात्वे सर्वत्र गौणमुख्यार्थाव्यवस्थितिः पदवाक्ययोरप्रतिप त्तिरेव| तदुक्तम्|
28 SK नर्ते प्रयोजनादिष्टं मुख्यशब्दार्थ लङ्घनम्| इति|
29 SK श्रीमद्रौरवाददौ परमशिवविषयत्वात्स्तोत्रस्य परमशिवे चाशरीरत्वेन शशाङ्कार्धशेखरत्वाद्यसम्भवाद्युक्तैवाप्रसिद्धार्थकल्पनेत्यविरोधः||८--९||
30 SK अथ किं तद्वचो यदब्रवीत्तार्क्ष्यः स्तुतिपूर्वं दृष्ट्वेत्युक्तम्| तत्रोच्यते
1.10 SK भक्तस्य मम भीतस्य शिवज्ञानं परं वद यदवाप्य नराः सर्वे मुक्तिमायान्ति केवलाम् //
32 SK Vऋत्ति: भजतीति भक्तः सेवकः बिभे तीति च भीतः| तस्य यद्यपि दीक्षया संसारभीतत्वमपाकीर्णं तथापि नित्यनैमित्तिकादिकर्म चोदितत्वादनुष्ठेय म्| तदननुष्ठाने विपरीतानुष्ठाने वा पुनरपि संसाराद्भीतत्वमस्त्येव| यदुक्तम्
33 SK आज्ञाविलङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः|
34 SK ननु वेदादिज्ञानान्येवं हरिहरहिरण्यगर्भाद्यात्मकप्रसिद्धशिवकृतानि पराणि भविष्यन्तीति| तदयुक्तं तेषामशिवत्वरूपमुक्त्युपदेशकत्वेन शिवकृतत्वासिद्धेः| समलत्वमेव ह्यात्मनामशिवता| तद्विरहः केवलित्वं शिवतेति| मलकैवल्यं च तैर्मुक्तावुपदिष्टं मलस्वरूपस्यापरिच्छेदात्| अपरिच्छिन्नस्य हर्तुमशक्यत्वादिति| यज्ज्ञानं प्राप्य नरा मुक्तिमायान्ति केवलां तद्वदेति वेदादिशास्त्रनिषेधः | \च्रुx सर्व इति
35 SK ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयो ऽपि हि| इति
36 SK श्रुत्यधिकारिण एव| गरुत्मतो ऽधिकारः प्रकृतं सर्वपदस्य नियतार्थत्वात्\च्रुx | यदुक्तम्
37 SK अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः|
38 SK प्रोक्ताः सामान्यशब्दानां विशेषस्थितिहेतवः|| इति|
39 SK एवं च दीक्षितत्वे ऽप्यविदितशास्त्रविवेकस्य तार्क्ष्यस्यायं प्रश्नस्तथाभू तशास्त्राधिगमायेति प्रतीयते न तु ज्ञस्येति||
1.11ab SK एवमुक्तो हरः प्राह विस्फुरच्चन्द्रशेखरः
42 SK Vऋत्ति: एवं स्तुतिपूर्वदर्शनपूर्वकं शास्त्रवि षयाविवेकप्रदर्शनतः शास्त्रं वैनतेयेन पर्यनुयुक्तः सन् सविस्मयत्वे सत्युत्पन्नशिरःकंपत्वाद्विशेषेण स्फुरच्चन्द्रशेखरः श्रीकण्ठदेवः प्राह| किञ्च प्राहेत्युच्यते|
1.11cd SK भद्रमेतत्त्वया पृष्टं शृणु ज्ञानं महोदयम् //
1.12 SK किरणाख्यं महातन्त्रं परामृतसुखप्रदम् सर्वानुग्राहकं शुभ्रं पदार्थोद्द्योतकं स्फुटम् //
45 SK Vऋत्ति: यदेतद्भद्रं सकलान्यशास्त्रफलविलक्ष णश्रेयःसाधकं शास्त्रं वदेति त्वया पृ ष्टं तच्छृणूच्यत इति प्रतिज्ञा| अत एवात्र भद्रपदस्यैव मङ्गलाद्यर्थत्वादादिसूत्रत्वे ऽपि नाथशब्दानुपादानादेर्दोषः| महांश्च दर्शनान्तरसिद्ध्यानभिभाव्य उदयः सिद्धिलक्षणो यस्मादित्यनेनास्य शास्त्रस्य प्रयोज नमुक्तम्| अत एव तथाभूतार्थप्रकाशकत्वात् किरणाख्यमेतदुक्तम्| महच्च तत्परमेश्वरप्रयुक्तत्वात्| तन्त्रमित्यनेनास्य प्रामाण्यमुक्तम्| ईश्वरकृतत्वेनैव शास्त्र स्य प्रामाण्यात्, नाकृतकत्वेनासंभवात्| रचना कर्तारं नव्यभिचरतीति यतः| परं च तत्सर्वार्थव्यापकत्वादमृतं चाविनश्वरमिति परामृतं यत्सुखं परा परिपूर्णता सर्वज्ञत्वकर्तृत्वाभिव्यक्तिः| तद्ददातीत्युपायत्वेनाभिव्यनक्तीत्यर्थः|
46 SK शुभ्रमिति वक्ष्यमाणपादचतुष्टयशोभायुक्तत्वात्| न त्वानर्थक्यलूनविशीर्णात्मकमिति विशि ष्टस्वरूपकथनम्| पदार्था अर्थराशयः षट् पश्वादयो वक्ष्यमाणास्तेषामुद्द्योतकमित्यनेनास्याभिधेयकथ नम्| स्फुटमित्यनेन संहितान्तरेभ्यो ऽस्य विशेषः| तानि ह्यस्फुटं कृत्वा पदार्थानामुद्द्योतकान्यतस्तैरगतार्थत्वमित्यर्थः| एवं च स्वरूपागतार्थत्वप्रामाण्याधिकारिसम्बन्धाभिधेयप्रयोजनानि शास्त्रस्योक्तानीति प्रतिज्ञारूप मेतदेवादिसूत्रम् अथातो ऽनादि मध्यान्तेत्यादि श्रीमद्रौरव
47 SK अथ किं तस्य शुभ्रत्वम्| कीदृशाश्च ते पदार्था येषामेतद्द्योतकमुक्तम्| कियत्संख्याश्चे ति तदर्थमेतत्प्रतिज्ञासूत्रान्तरम्||
1.13 SK पशुपाशपतिज्ञानविचारप्रतिपादकम् क्रियाचर्यासमोपेतं योगभूतिभरावहम् //
49 SK Vऋत्ति: पशुशब्दो निर्मलानामप्रयोगात्समलानामेवात्मनामभिधायकः| ते च बहवो ऽपि सकलाकलभेदेन द्विरूपाः| तत्र सकला द्विरूपाः सूक्ष्मदेहाः स्थूलदेहाश्च| अकला अपि विज्ञानाकलाः प्रलयाकलाश्चेति द्विरूपा एव| ते सर्व एव पशवः पशुशब्दवाच्याः तावदत्रैकः पदार्थः पशुरित्युच्यते|
51 SK मायीयस्तु कलादिक्षित्यन्तत्रिंशत्तत्त्वात्मकः प्रतिपुरुषं सूक्ष्मदेहात्मना भिन्नो नवत्यधिकशतत्रयभुवनात्मना चाभिन्नः प्रतिभुवनं भूतात्मक स्थूलदेहत्वेन भिन्नश्चाभिन्नश्च स्थूलदेहस्यात्मान्तरैरपि भोग्यत्वादित्यपि निवेदयिष्यामः| मायापि पाशयोनित्वात्पाशः| तिरोभावनशक्तिरपि मायागर्भाधिकारीश्वराभिव्यक्ता पाश एवेत्येतावदर्थजातमत्र द्वितीयः पदार्थः पाश इत्युच्यते|
52 SK पतिस्तु भगवान् शिवसदाशिवरूपतत्त्वद्वयभेदेन भुवनपञ्चकभेदेन
53 SK विचारयति पुरुषकर्मानुसारेण जगतः साधारणासाधारणात्मनः सृष्टिसंहारादिकमिति विचारो ऽत्र पञ्चमपदार्थतया विद्या विद्येशात्मकतत्त्वद्वयरूपषड्विंशतिभुवनभेदभिन्नो ऽर्थराशिः प्रतिपाद्यते| एषां पञ्चानां पदार्थानां प्रतिपादकं शास्त्रं विद्यापादात्मकं शृण्विति प्रतिज्ञातार्थानुषङ्गः| न तु पशुपाशपतीनां यत् ज्ञानं यश्च विचारो ऽनुमानं तयोः प्रतिपादकमेतच्छास्त्रं शृण्विति व्याख्येयम्| शास्त्रस्य शब्दात्मकत्वेनानन्वयात्| न हि शब्दात् ज्ञानं प्रतीयते| \च्रुx वाचकत्वेनास्य वाच्यसंकेतित्वात्\च्रुx | अपि त्वर्थ एव| ज्ञानं तु ततो ऽनुमेयम्|
54 SK अथ ज्ञानशब्दो ऽत्रार्थात्पश्वादिज्ञानहेतौ वाक्ये प्रयुक्तो विचारशब्दो ऽपि तदनुमानहेतौ लिङ्ग इति व्याख्यायते| \च्रुx एवमपि रूढार्थत्यागेनानयोरत्र प्रवृत्तेरविशेषाद्वरं\च्रुx\ पदार्थ विषयतैव युक्तेति| पदार्थानां पञ्चत्वसिद्धिः| यदुक्तं श्रीमद्रौरवे
55 SK पदार्थाः पञ्च विख्याता विद्येशवदनोद्भवाः|
56 SK विधिः क्रिया कलायोगौ शिवश्चेति समासतः|
57 SK इति पूर्वैव व्याख्या युक्ता| क्रिया करणं संस्करणं दीक्षेति| चर्या चरणं नित्यादिकर्मानुष्ठानं ताभ्यां समं तुल्यत्वेनोपेतं क्रियाचर्यात्मकपादद्वय युक्तमप्येतच्छास्त्रं शृण्वित्यर्थः| यो योगश्चेतसो ध्येयेनार्थेन सम्बन्धस्तद्विषयः समाधिरेकाग्रतारूपो वा तस्य भूतिः प्रत्याहाराद्यङ्गावैकल्येन भवनं तस्याभरो ऽनन्तफलाविर्भावः तमावहति यच्छास्त्रं तच्छृण्विति चतुर्थस्य पादस्य प्रतिज्ञेत्यर्थादत्र पादसंख्यापि प्रतीता| क्रियादिपादत्रयप्रतिपाद्यश्चार्थः षष्ठः पदार्थः कथ्यते यः श्रीमतङ्गादावुपायपदार्थत्वेनोक्तः| अर्थतथात्वस्थितिश्च संहितान्तरात्संहितान्तर संशयविषयेषु युक्तैककर्तृकत्वाच्छ्रुत्यादिशास्त्रेष्विवेत्य दोषः| तदेवं
58 SK चतुष्पादमिदं शास्त्रं षट्पदार्थाभिधायि च|
59 SK इत्य स्यानुषङ्गिकस्य प्रतिज्ञासूत्रस्यार्थः||
1.14 SK यद्येवं स पशुस्तावत्कीदृशो बध्यते कथम् मुच्यते कथमाख्याहि संदेहविनिवृत्तये //
62 SK Vऋत्ति: यद्येवं पश्वादयः षट्पदार्थास्त्वया व्याख्येयत्वेनोद्दिष्टाः| तत्र यः प्रथमपदार्थत्वेन सङ्गृहीतः पशुः स कीदृश इति तस्य तावल्लक्षणं वक्तव्यं यतः सौगतैरसौ प्रतिक्षणं ध्वंसित्वेन विज्ञानसन्तानात्मकः| वेदान्तविद्भिश्च कैश्चिद्ब्रह्मकार्यत्वेनानित्य इष्यते| नैयायिकादिभिस्तु नित्यः| तथा चार्वाकैश्चतुर्महाभूतात्मकः| वैशेषिकादिभिस्तु तद्विलक्षणः| तथा सांख्यैस्तु बद्धावस्थायां मुक्त्यवस्थायामिव ज्ञत्वस्वभावश्चाकर्ता च| जैमिनीयादिभिस्तु ज्ञः कर्ता चेति| नैयायिकादिभिश्च बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारैर्नवभिर्गुणैर्युक्तः| सांख्यैस्तु निर्गुणः| एवं पुरुषकारवादिभिः प्रभुः स्वतन्त्रः | दैववादिभिश्चास्वतन्त्रः| तथा दिगम्बरैर्जीवोत्पत्तिवादिभिश्च वेदान्तविद्भिरव्यापकः| नैयायिकादिभिश्च व्यापक इत्येवमनेकाप्रतिष्ठितकुयुक्त्यधिगमात्संशयो ऽस्माकम्| ततस्तन्निवृत्त्यर्थमाख्यातव्यं भवता को ऽत्र पक्षः सर्वज्ञेनानेन दर्शनेनानुगृहीतो य आगमसंवादित्वात्प्रमाणं को वाननुगृहीतो य आगमविरुद्धत्वादप्रमाणमिति| किञ्च बध्यते कथमिति केन प्र कारेण| किं नैयायिकादीनामिव शरीरेन्द्रियैरेवाथ सांख्यादीनामिव बुद्ध्यादिभिरपीति संशयः| किञ्च मुच्यते कथमिति किं ज्ञानेनैव सांख्यादीनामिव| किं योगेन पातञ्जलादीनामिव सन्न्यासेन वा वेदान्तवादिनामिव क्रियया वा जैमिनीया नामिव| यदाहुः
63 SK नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया|
64 SK मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः|| इति|
65 SK एवमत्रापि सन्देहो ऽतस्तन्निवृत्तये वक्तव्यमिति||
66 SK अथ सन्देहाष्टकनिवृत्तये सिद्धान्तः||
1.15 SK पशुर्नित्यो ह्यमूर्तो ऽज्ञो निष्क्रियो निर्गुणो ऽप्रभुः व्यापी मायोदरान्तस्थो भोगोपायविचिन्तकः //
68 SK Vऋत्ति: नित्यत्वश्रुत्यात्र सौगतादिमततिरस्कारेण नैयायिकादिदृष्टहेतूनामनुग्रहः| किं चामूर्त इति| मूर्तिः काठिन्यं विद्यते यस्य स मूर्तः स्पर्शवदर्थः महाभूतचतुष्टयात्मक उच्यते तद्रूपो न भवतीति भूतचैतन्यवादितिरस्कारेण तद्वैलक्षण्यप्रतिपादकसौगतादिदृष्टहेतूनामनुग्रहः| अपि चाज्ञो निष्क्रिय इत्यकलावस्थायां ज्ञानक्रियारहित एव सक लावस्थायां चालवणः सूप इतिवदल्पज्ञो ऽल्पक्रियश्चेति सांख्यादि प्रतिक्षेपेण जैमिनीयादिपक्षानुग्रहः| निर्गुण इत्यनेन तु नैयायिकादिदृष्टबुद्धिसुखदुःखादिनवात्मगुणप्रतिक्षेपेण सांख्यादिदृष्टस्य निर्गुणत्वस्यानुग्रहः| अप्रभुरित्यने नाप्यल्पप्रभुत्वं प्राग्वदुच्यते| इदानीमर्जनीयदृष्टादृष्टफलविचित्राग्निष्टोमादिकर्मविषय एव प्रभुः प्राग र्जितकर्मभोगे त्वप्रभुरेवेति पुरुषकारदैववादिनोर्द्वयोरप्येकांशितयानुग्रहः| व्यापीत्यनेनाव्यापकजीवपुद्गलवादिप्रतिक्षेपेण तद्व्यापकवादिनैयायिकाद्यनुग्रहः| इत्यत एव सर्वान्यागमदर्शनज्ञत्वात् गरुत्मतो नात्रात्मनित्यत्वादिसिद्धौ हेतवः कथिताः| तैर्विनापि स्थाणुपुरुष विषयसंशयस्य स्थाणुरयमित्याप्तवाक्यादि वास्यापि संशयस्य चक्रस्यान्यतरपक्षानुग्रहेण तदुक्तहेत्वनुग्रहेण वा निवृत्तिसिद्धेस्तेषामल नुपयोगात्| यदिवानुभवसिद्धत्वमने नात्मनः प्रतिपाद्यते अनुभवसिद्धौ हेतूनामनुपयोगात् यथा घटो ऽयं लोहितः परिवर्तुल इत्यत्रानुभवसिद्धत्वान्नास्य हेतुः सम्भवति| तथा ग्राहकात्मन्यपि परात्मप्रकाशकतयानुभवसिद्धेः स्थैर्यमनुभवसिद्धमेव तथावगमात्| इति किमत्र हेतुना कार्यम्| न च क्षणिके तस्मिन्कालादाविव विभ्रमात् स्थैर्यमध्यारोपितमिति वाच्यम्| स्वात्मनि क्रियाविरोधेनाविकल्पत्वाद्विकल्पानामध्यारोपासम्भवादिति दर्शितमस्माभिर्मतङ्गवृत्तौ
69 SK किञ्च अमूर्तत्वमस्य प्राग्वदेव मूर्तोपलक्षितस्पर्शयुक्तमहाभूताकारशरीरादन्यत्वं तद्ग्राहकतया प्रकाशनादित्यनुभवेनैव भूतात्मनिषेधः| अत एव भूतोद्भूताच्चास्य विलक्षणत्वेनानुभवान्न भूतेभ्यः समुत्पत्तिः| प्रतिजन्म पूर्वतरजन्मानुभवसंस्कारोत्पन्नस्मरणपूर्वचेष्टादर्शनतो ऽनादित्वेन नित्यत्वेन सिद्धेश्चेति प्रदर्शितं रौरववृत्तिविवेके
70 SK आद्यः करणविन्यास ः प्राणस्योर्द्ध्वं समीरणम्|
71 SK स्थानानामभिघातश्च न विना पूर्ववेदनाम्|| इति|
72 SK तथास्य किञ्चिज्ज्ञत्वकर्तृत्वाल्पप्रभुत्वम् प्राग्वदनुभवसिद्धमेव| एवं निर्गुणत्वमपि बुद्धिसुखदुःखादीनां कादाचित्कत्वेनानुभवतो घटादेरिव ग्राह्यत्वेन तद्विरुद्धधर्मतयानुभवात्| सर्वदैव हि क्रमेण युगपद्वानेकग्राह्यविषय ग्राहकरूपमप्यभिन्नमेवात्मतत्त्वमनुभवसिद्धमिति दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे|
73 SK अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः|
74 SK तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यते|| इति|
75 SK अनुभवत एव सर्वधर्मयुक्तस्यास्य सिद्धिरिति दर्शयितुं नात्र हेतवः कथिताः| श्रुतिरप्येवमाह
76 SK तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति|
77 SK इत्यविरोधः| तदेवं परस्परविरुद्धार्थानेकपशुदर्शनजनितं पशुविषयसंशयषट्कं तावदपाकृत्य स्वदर्शनप्रसिद्धमेवास्यावस्थाभेदेन स्थानवैचित्र्यमुच्यते| मायाया उदरञ्चान्तश्च तयोः स्थित इति| तत्र मायोदरे प्रलयकेवली स्थितः| मायाप्रान्ते तन्मस्तके तु विज्ञानकेवलीति भेदः| मायोदरमेवान्त इति तु व्याख्यायमाने विशेषणमफलमेव| अत एव प्रलयकेवलिगतत्वेन प्रश्नो भविष्यति| स्थितो मायोदरे कथमिति|
78 SK अधुना बध्यते कथमित्यस्य संशयस्य निरासः||
1.16ab SK तस्याशुद्धस्य सम्बन्धं समायाति शिवात्कला
80 SK Vऋत्ति: तस्येत्यनेन प्रकृतस्य पशोरेव परामर्शः| नात्राशुद्धस्य मलयुक्तस्येति व्याख्येयम्| नापि कलादियुक्तस्य सकलस्य अनुक्रमेण वक्ष्यमाणत्वात्| अपि तु मलकर्मयुक्तस्येति ततो ऽयमर्थः --- तस्य पशोर्मलकर्मयुक्तस्यैव कला सम्बन्धमायाति न तु कर्मरहितस्य विज्ञानकेवलिनः| यद्वक्ष्यति भोगं भुङ्क्ते स्वकर्मत इति|
81 SK ननु कलैव तावदसिद्धेति कुतस्तस्याः प्रेरणतः कर्ता सिध्यतीति| तत्रोच्यते
1.16cd SK तयोद्बलितचैतन्यो विद्याख्यापितगोचरः //
1.17 SK रागेण रञ्जितश्चापि प्रधानं च गुणात्मना बुद्ध्यादिकरणानीकसम्बन्धाद्बध्यते पशुः //
84 SK Vऋत्ति: तया कलयोद्बलितं मलनिवृत्तिद्वारेण समर्थीकृतं चैतन्यं यस्य पुंसः स तथोक्तः| एतदुक्तं भवति --- वक्ष्यमाणस्य युक्तिसिद्धस्य पुंसो दृक्क्रियावरणात्मनो मलस्यावश्यं सकलावस्थायां कश्चित्परिमितो ऽर्थो निवर्त्तको ऽभ्युपगन्तव्यः| अन्यथा प्रलय केवलिनां मुक्तानामिव संवेदनस्य किञ्चिद्विषयस्यानुभूयमानस्यानुपपत्तिः| स च न तावत्पुरुषः प्राग्वदशक्तेः| नापि कर्म अत एव भोगान्यथानुपपत्तिसिद्धेश्च| न हि यत्कार्यान्तरान्यथानुपपत्त्या संसिद्धसत्ताकमत्यन्तातीन्द्रियं वस्तु तत्कार्यान्तरकारणत्वेन शक्यमध्यवसातुमनेकेन्द्रियादिकारणान्तरकॢप्तेरप्यभावप्रसङ्गात्| अत एव नेन्द्रियादि नेश्वरो वेति यस्तस्य निवर्तकः सा कलेति कलालक्षणेन तावद्बन्धेन प्रथमं बध्यत इति| तदनु विद्याख्यापितो गोचरो विषयो यस्य स तथोक्तः| विनिवृत्तमलस्यापि हि पुंसः स्मृतिप्रतिभाविकल्पादिवक्ष्यमाणबुद्धिवृत्त्यात्मकसंवित्तौ अवश्यं करणान्तरेण भवितव्यं संवित्तित्वादिन्द्रियार्थसंवित्तिवत्| न चात्र बुद्धिः करणं कर्मत्वात्तस्याः| न चाप्यहंकारादयः तेषां शरीरधारणादिक्रियान्तर करणत्वेन वक्ष्यमाणत्वादत्रापि करणत्वासिद्धेर् \च्रुx इत्युक्तम्\च्रुx | अतो यत्तत्र करणं सा विद्येति बन्धान्तरसिद्धिः| किञ्च रागेणाभिष्वङ्गात्मना रञ्जितो बद्धः| अयमर्थः --- यो ऽयं विषय विषयो रागो ऽभिष्वङ्गात्मको नायं विषयधर्मो ऽध्यात्मन्येव परिस्पन्द्दात्मकत्वाद्वीतरागाभावप्रसङ्गाच्च| नाप्यवैराग्यलक्षणो बुद्धिधर्मः| तस्य भावात्मकतया वासनारूपत्वेनावस्थितेरसंवेद्यत्वात्| नापि तद्वृत्त्यात्मकः अभिलषणीयतानुसन्धाने ऽपि वीतरागस्य तददर्शनात्| नापि कर्मादीनां मलनिवृत्त्यादिवदित्युक्तम्| पारिशेष्याद्यस्य धर्मः स रागो ऽन्यो बन्धः|
85 SK ततः प्रधानं सत्त्वादिगुणाकारेण स्थूलभुवनाकारेण च सम्बध्यते| चशब्दात्कालादीन्यपि वक्ष्यमाणपृथिव्यन्ततत्त्वसहितानि स्वस्वगुणात्मना भुवनाकारेण च सम्बध्यन्त इति| तत्त्वसर्गवद्भुवनसर्गो ऽप्यत्र बन्धत्वेनोक्तः| ततश्च बुद्ध्यादीनि यानि सांख्यादिप्रसिद्धानि बुद्ध्यहंकारमनोलक्षणानि करणानि च यानि च पञ्चबुद्धीन्द्रियपञ्चकर्मेन्द्रियरूपाण्यनीकं च यत्समूहात्मकं भूततन्मात्रात्मकं दशविधं कार्यान्तरं तत्सम्बन्धात् बद्ध्यत इति सांख्यादिप्रसिद्धस्य बुद्ध्यादेर्वक्ष्यमाणप्रकारेण बन्धस्यानुग्रहः न तु वैशेषिकादिदृष्टस्य देहेन्द्रियात्मन एवेति| अत एव चात्र दर्शनान्तराप्रसिद्धानां कलादीनामेव बन्धानां कार्यद्वारेणोपन्यासो ऽप्रसिद्धत्वादेव तत्प्रसिद्धानां चानुवादमात्रमेवेति न तेषां लक्षणानभिधानादव्याप्तिदोष इति| अत एव नियत्यात्मनो ऽपि बन्धस्य कार्यद्वारेण स्वरूपम् उपन्यस्यते ततो नियतीत्यादि
1.18ab SK ततो नियतिसंश्लेषात् स्वार्जिते ऽपि नियम्यते
87 SK Vऋत्ति: ततः कार्यकरणसम्बन्धादनन्तरं नियत्या यः संश्लेषः सम्बन्धस्ततो हेतोः प्रागर्जिते कर्मफले नियम्यते पुरुषः| अयमर्थः---कर्मफलं प्रति नियमः पुंसां न कर्महेतुकः तस्य कृष्यादिकर्मवत् स्वफलजननमात्र एवोपयोगात्| नापि तत्त्वान्तरहेतुः स्वकार्यैरेव तेषां सिद्धेः कार्यान्तरहेतुत्वे प्रमाणाभावादित्युक्तम्| अतः कृष्यादौ राजनियुक्तेनेवात्रापि केनचिन्नियामकेन भवितव्यम्| यो ऽसौ नियामकः स नियत्याख्यो ऽपरो बन्धः| अत एवास्य मायाकार्यत्वेन वक्ष्यमाणस्यापि कार्यकरणसम्बन्धोत्तरकालं व्यापार इति पश्चादत्र निर्देशः| तथा कालस्यापीत्यदोषः|
88 SK अथ कीदृशो नियत्या नियम्यत इत्युच्यते|
1.18cd SK कालेन कालसंख्यानकार्यभोगविमोहितः //
90 SK Vऋत्ति: कालस्य सम्बन्धि यत्संख्यानलक्षणं कार्यं चिरक्षिप्रादि न तु दिशः क्रोशयोजनादि नापि संख्यायाः शतसहस्रादि तेन हेतुना कालेन भोगे मोहितो यः स नियत्या नियम्यते| कालस्यापि भोगहेतुत्वात्| यदाहुः
91 SK चिरेण बत लब्धासि न जाने करवाणि किम्|
92 SK प्रविशामि किमंगेषु पिबामि निगिरामि किम्|| इति|
93 SK स च भोगहेतुत्वेनाप्रसिद्धत्वादत्र कार्यद्वारेणोपन्यस्तः| स्वरूपेण वैशेषिकादिसिद्धो ऽपि| यदाहुः
94 SK कालश्चिरक्षिप्रप्रत्ययलिङ्ग इति|
95 SK यत्तु तस्य नित्यत्वादि तैर्गीयते यदाहुः नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम्|
96 SK व्यापारव्यतिरेकेण कालं कालविदो विदुः|| इति|
97 SK तन्मायाकार्यत्वेन वक्ष्यमाणत्वात्
98 SK अथैषां कलादीनां तत्त्वरूपत्वमव्यापकत्वं स्थूलदेहपूर्वकत्वं चोच्यते
1.19 SK एवं तत्त्वकलाबद्धः किञ्चिज्ज्ञो देहसंयुतः मायाभोगपरिष्वक्तस् तन्मयः सहजावृतः //
100 SK Vऋत्ति: तत्त्वानि चैतानि कलादिक्षित्यन्तानि प्रागुक्तानि कलाश्च ता इति कार्यत्वेन वक्ष्यमाणत्वाद्व्यक्तत्वे सत्यव्यापकत्वात्|
101 SK हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्|
102 SK सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्|| इति|
103 SK ताभिरेवमुक्तप्रकारेण बद्धः सकल एवाप्राप्तबाह्यशरीरः प्रणष्टबाह्यशरीरो वा सूक्ष्मदेहतयेत्यर्थः| व्यापकत्वे ह्येषां सूक्ष्मदेहत्वानुपपत्तिः| यदुक्तम्
104 SK अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिनेति|
105 SK तत्त्वकलाबद्धः सन्स्थूलदेहसंयुक्तः किञ्चिज्ज्ञो भवति न तु तदबद्ध इति सकलस्य भेदान्तरप्रतिपादनेन भूतसृष्टेरपि बन्धत्वमुक्तम्| स्थूलदेहयुक्तश्च पुमान्---मायायाः सम्बन्धी भुज्यते अनुभूयत इति मायाभोगो ऽनात्मन्यात्माभिमानरूपो यो मोहस्तेन परिष्वक्तो व्याप्तः सन् तन्मयो ऽनात्मन्यात्माभिमानमयो भवति| न कार्यकरणेभ्यो व्यतिरिक्तमात्मानं मन्यत इति| इदमेव तन्मायाया मोहकत्वमिति वक्ष्यामः|
106 SK इत्थं मायाञ्जनस्थो ऽणुर्निजदोषतिरस्कृतः|
107 SK याति तन्मयतां तेषु मायाभोगेषु रञ्जितः|| इति|
108 SK मलस्य त्वावारकत्वमेव बन्धकत्वं चक्षुषः पटलादेरिव प्रलयकेवलाद्यवस्थायां सिद्धमित्युक्तम् सहजेन मलेनावृत इति||
1.20ab SK ततः सुखादिकं कृत्स्नं भोगं भुङ्क्ते स्वकर्मतः
111 SK Vऋत्ति: ततः स्थूलदेहसम्बन्धादनन्तरं प्रागर्जित शुभाशुभकर्मजनितभावप्रत्ययात्मना सुखदुःखादिकं फलं भुङ्क्त इति भावसृष्टेः कर्मबन्धरूपत्वमुक्तम्| तथा कृत्स्नं निरवशेषं सर्वकर्मक्षये ऽपि तत्संस्कारशेषेण चक्रभ्रमवद्धृतशरीरत्वात्तत्संवेदनमात्रं भोगं भुङ्क्त इति सकलस्यावस्थान्तरं बन्धत्वेनोक्तम्| तदियता बध्यते कथमित्येतत्प्रश्नस्य निरासाय पाशपदार्थः सर्वो ऽभिहितः||
112 SK अधुना मुच्यते कथमित्येतस्य समाधिः|
1.20cd SK समे कर्मणि सञ्जाते कालान्तरवशात्ततः //
1.21 SK तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा सर्वज्ञः स शिवो यद्वत् किञ्चिज्ज्ञत्वविवर्जितः //
1.22ab SK शिवत्वव्यक्तिसम्पूर्णः संसारी न पुनस्तदा
116 SK Vऋत्ति: कालयति कृष्णतां नयति मलिनी करोतीति कालो मलः| कालनीलादीनां पदानां वर्णविशेषाभिधायकत्वात्| यदाहुः
117 SK यन्न किञ्चिदपि तन्महात्मनः सङ्गमेन परभावमश्नुते|
118 SK चन्द्रमःकरनिपीतकालिम क्षीरसिन्धुरिव भाति यन्नभः|| इति|
119 SK तस्यान्तरं परिणामस्तस्य वशः सामर्थ्यं तस्मात् कालान्तरवशात् यस्तीव्रः शक्तिपातो न त्वस्माद्भूतभविष्यदादिकालान्तरवशादिति ततःशब्दस्यार्थः| मलपरिपाकस्यैव शक्तिपातहेतुत्वात्| यद्वक्ष्यति
120 SK कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः| इति|
121 SK श्रीमत्स्वायम्भुवे ऽपि
122 SK क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रति|| इति|
123 SK तेन यदस्य सममिष्टनिमित्तमनिष्टनिमित्तं च कर्म| यदाहुः
124 SK न हृष्यत्युपकारेण नापकारेण कुप्यति|
125 SK यः समः सर्वभूतेषु जीवन्मुक्तः स उच्यते|| इति|
126 SK तस्मिन् सञ्जाते सति गुरुणा मन्त्रगणेनेश्वरेणाचार्याधिकरणेन दीक्ष्यते नान्यथा| तथाभूतकर्मसमत्वं विनाचार्यस्य शक्तिपातानिश्चयात्| न त्वत्र कर्मणां विरुद्धफलानां साम्यं युगपत्परिपाकात्तीव्रवेगत्वेन वा व्याख्येयम्| तन्निमित्तस्य शक्तिपातस्य मोक्षहेतुत्वाभावात्| अत एवासौ विरुद्धकर्मद्वयापेक्ष संकटात् पुंसां मोक्षहेतुः न बन्धान्तरात्तस्य प्राग्वदविशेषादिति दर्शयिष्यामः|
127 SK स चैवं दीक्षितः सद्योनिर्वाणदीक्षया यदा भवति तदा शिववत्सर्वज्ञः सर्वकर्ता च किञ्चिज्ज्ञत्वहेतुभिर्बन्धैर्विवर्जितश्च भवति| यदा त्वसद्योनिर्वाणदीक्षया दीक्षितो न पुनः संसारी यदा पतितशरीरो भवति तदा शिवत्वव्यक्तिसंपूर्णो भवति न प्रागारब्धकार्यकर्मभोगोपरोधे न सर्वात्मना बन्धक्षयस्य शिवत्वस्य व्यक्तेश्चाकरणादिति वक्ष्यामो येनेदं तद्धि भोगत इत्यत्र|
128 SK अथ सर्वेषां प्रश्नसमाधानानामुपसंहारः|
1.22cd SK एवं क्रमाद्विबद्धः सन् मुच्यते क्रमयोगतः //
1.23ab SK केवलः सकलः शुद्धस् त्र्यवस्थः पुरुषः स्मृतः
131 SK Vऋत्ति: यदुक्तं बध्यते कथं मुच्यते कथमिति
132 SK चेतनस्यापि शुद्धस्य क्षेत्रज्ञस्य शरीरिणः|
133 SK ज्ञस्वभावात्मनो ऽकर्तुस्तस्य संस्कार इष्यते||
134 SK इति संक्षेपेण त्र्यवस्थः पुरुषो नित्यत्वादिध र्मयुक्त उपसंहृत इति|
135 SK यस्तु त्र्यवस्थः पुरुष इत्येतत्सूत्रमवस्थान्तरव्युदासपरत्वेन नियमार्थ इति व्याचष्टे तेन सकलस्य तावदवस्थाभेदेन भेदः प्रागुक्तः शुद्धस्य तु युक्तिसिद्धत्वादवश्याभ्युपगमनीय इत्यज्ञानत एव नियमः प्रदर्शितः| यदपि विज्ञानकेवलिनो ऽसम्भवात् केवलावस्थाभेदो नोपपन्न इत्युक्तं तदप्य युक्तं, तस्या सम्भवासिद्धेः| तथा हि यो यद्बन्धव्यतिरिक्तो यस्य बन्धः स तद्व्यतिरेकेण तस्य सम्भवतीति निगडव्यतिरेकेणेव वैरदण्डादि कर्ममायीयबन्धव्यतिरिक्तश्च मलो भवद्भिरपि पुंसो बन्ध इष्यते| न तदव्यतिरिक्तो नैयायिकादिभिरिवेति| ततः केवलमलबद्धः पुरुषः संभवति| यो ऽपि तन्निराकरणाय प्रयोगो रचितो मलकेवलिनो कर्मबन्धेनापि बद्धा अनादिमलसम्बन्धित्वात्प्रलयकेवलिवदिति| तत्र पक्षस्तावन्माता मे वन्ध्येतिवत्| केवलमलबन्धत्वे कर्मणो ऽपि बन्धत्वानुपपत्तेः| तदुपपत्तौ वा केवलार्थानुपपत्तितः स्ववचननिराकृतत्वाद्दुष्ट इत्ययुक्त एव| यदाहुः
136 SK न तस्य हेतुभिस्त्राणमुत्पत्स्यन्नेव यो हतः| इति|
137 SK आगमनिराकृतश्च| यदुक्तं श्रीमन्मालिनीविजयादौ
138 SK विज्ञानकेवलानष्टौ सर्गादाविच्छया पतिः|
139 SK अनुगृह्णाति मन्त्रेशान्मायागर्भाधिकारिणः|| इति|
140 SK किञ्च यावत्प्रोक्तयुक्तिसिद्ध्यसंभवात् विज्ञानकेवलिनो न निराकृतास्तावदयं हेतुः सन्दिग्धविपक्षव्यावृत्तत्वात् अहेतुरेव| यावच्चास्य हेतुत्वं न विनिश्चितं तावन्न ते निराकर्तुं शक्या इति इतरेतराश्रयाद्व्याप्त्यसिद्धेर्नास्य हेतुत्वम्| अत्र च हेतुत्वे प्रलयकेवलिनिरासे ऽपि हेतुत्वमेव| तेषामपि कलादिबन्धैर्भवितव्यम्| अनादिमलसम्बन्धित्वात्सकलवदिति| साधु समर्थितः स्वनय इत्यलं स्वशास्त्रवेतालोत्थापकैः सह निर्बन्धेनेति|
141 SK अथ समस्तस्यास्य प्रकरणस्योपसंहारः|
1.23cd SK पशुरेवंविधः प्रोक्तः किमन्यत्परिपृच्छसि //
143 SK Vऋत्ति: पशुपदार्थो ऽत्रैवंविधः पश्वादिपदार्थपञ्चकयुक्तः प्रकर्षतो लक्षणेनोक्तः| वस्तुतः पदार्थान्तराणां तादर्थ्येनैव प्रवृत्तिरिति किमन्यत्परिपृच्छसि| सर्वं प्रागुद्दिष्टमत्रैव मया लक्षणेन प्रतिपादितमित्यर्थः||
144 SK \Cओलो इति श्रीनारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ प्रथमं प्रकरणम्||
145 SK अथ तेषामेव पदार्थानां परीक्षार्थं प्रश्नपूर्वं प्रकरणान्तरमेतावत एव प्रश्नस्यावशिष्टत्वात्
2.1 SK यो ऽसावात्मा त्वया प्रोक्तः किंचिज्ज्ञः सर्वविच्छिवः निमित्तमनयोर्ब्रूहि शुद्धाशुद्धस्वरूपयोः //
147 SK Vऋत्ति: तत्रास्य तावत्प्रकरणस्यारम्भे पञ्चविधः सम्बन्धो वक्तव्यः| तदुक्तं श्रीमत्पौष्करे
148 SK अनन्तरं यत्पटलात्सूत्रं तन्त्रे प्रवर्तते|
149 SK वक्तव्यस्तस्य सम्बन्धः पञ्चधा समवस्थितः||
150 SK तन्त्रवस्त्वात्मकात्सूत्राद्वाक्यात्प्रकरणात्तथा|
152 SK तत्रेह तन्त्रवस्तुनः षट्पदार्थात्मनः प्रतिज्ञातत्वात्तत्सम्बन्धस्तत्परीक्षात्मकः| सौत्रस्तु पदार्थोद्द्योतकपदेन| वाक्येन तु पशुर्नित्य इत्यादिना|
153 SK अयञ्चात्र प्रश्नार्थः---यो ऽसौ नित्यत्वादिधर्मयुक्तः सकलाकलाद्यवस्थाभेदेन किञ्चिज्ज्ञ इत्यशुद्धः पशुरात्मा त्वया प्रोक्तः प्रागुक्तः पशुर्नित्य इत्यादिना|
154 SK यश्चासौ सर्वज्ञः सर्वकर्ता च शुद्धः शिवो दृष्टान्तत्वेनोक्तः सर्वज्ञः स शिवो यद्वदित्यादिनानयोः शिवात्मनोः सम्बन्धिनी ये शुद्धाशुद्धे निर्मलमलयुक्ते स्वरूपे तद्विषयनिमित्तं ब्रूहि|
155 SK केन निमित्तेन शिव एव शुद्धो नात्मा केन निमित्तेनात्मैवाशुद्धो न शिवः| न ह्यहेतुर्नियमो युक्त इति प्रश्नः|
2.2 SK अनादिमलसम्बन्धात् किञ्चिज्ज्ञो ऽसौ मयोदितः अनादिमलमुक्तत्वात् सर्वज्ञो ऽसौ ततः शिवः //
2.3 SK आदिमत्त्वं यदा सिद्धं निमित्तं कल्प्यते तदा ईदृग्रूपं स्मृतं ताभ्यां शुद्धाशुद्धं यथार्थतः //
2.4 SK विशुद्धः स्फटिकः कस्मात् कस्मात्ताम्रं सकालिकम् यथास्मिन्न निमित्तं हि तथा नैव शिवात्मनोः //
160 SK Vऋत्ति: यथा ह्यात्मनो ऽनादित्वान्नान्यत्स्वरूपे निमित्तं तथा कालिकया सह वर्तत इति सकालिकस्य ताम्रादेरिवाशुद्धत्वे ऽपि| यथा चेश्वरस्य प्रोक्तेन वक्ष्यमाणेन च प्रमाणेन सिद्धस्यानादित्वान्नान्यत्स्वरूपे निमित्तं तथा स्फटिकादीनामिव शुद्धत्वे ऽपीति| आदिमतो हि वस्तुनो निमित्तमन्विष्यते घटादेरिवान्यथासिद्ध्यसम्भवादिति| ईदृगनादिशुद्धाशुद्धस्वरूपं यथार्थतः सत्यार्थत्वेन स्मृतं ताभ्यामितीशात्माभ्यामित्यर्थः| अत्र च मलसम्बन्धस्यानादित्वेन मलस्याप्यनादित्वं सिद्धम्|
161 SK अधुनैतदनुवादेन प्रश्नान्तरम्
2.5ab SK किंनिमित्तं पुनर्बद्धो बन्धेनात्मा कलादिना
163 SK Vऋत्ति: द्विविधं हि निमित्तमुच्यते लोके करणं प्रयोजनञ्च| यथा पाकादेरिन्धनादि अन्नादेर्ब्राह्मण भोजनादि च| तत्र कलादिबन्धस्यैव पुंप्रवृत्तौ करणनिमित्तमुक्तं कर्माणि| तस्याशुद्धस्य सम्बन्धं समायाति शिवात्कलेत्यादिना
164 SK सत्यम्| अत एव तदप्याक्षिप्तमत्र| प्रयोजनत्वाभावात्| प्रयोजकस्य प्रयोज्यस्य चोपकारकं प्रयोजनमुच्यते वैद्यराज्ञोरिव पथ्ययूषादिनोपकारः| न चैतत्प्रयोजकस्य परिपूर्णत्वात्परोपकारायैव प्रवृत्तेरुपकारकम्| नापि प्रयोज्यस्य दुःखमोहरूपत्वेनात्यन्तविनश्वरसुखमात्ररूपत्वेन चानर्थरूपत्वादित्यनेनापि भोगात्मनानर्थेन किन्निमित्तं भगवता पुमांसः कदर्थ्यन्त इत्यपि प्रश्नार्थः| तन्न विरोधः| द्वितीयस्तु प्रश्नः स मायान्तर्गत इत्यादि
2.5cd SK स मायान्तर्गतः प्रोक्तो व्यापकश्च त्वया विभो //
2.6 SK व्यापकत्वात्स सर्वत्र स्थितो मायोदरे कथम् परस्परविरुद्धत्वात् कथमेतद्भविष्यति //
167 SK Vऋत्ति: यदुक्तं प्राग्व्यापी मायोदरान्तस्थ इति
2.7 SK मुक्त्यर्थं स पशुर्बद्धो नान्यथा सास्य जायते यावच्छरीरसंश्लेषो न सञ्जातो न भोगभुक् //
2.8 SK मायेयं तद्वपुस्तस्य तदभावान्न निर्वृतिः तेन तेनास्वतन्त्रत्वान् मलिनो मलिनीकृतः //
170 SK Vऋत्ति: नामिश्रं परिणमत इति
2.9 SK यथा वस्त्रं सदोषत्वान् मलान्तःस्थं विशुद्ध्यति अशुद्धः पुद्गलो ऽप्येवं मायोदरगतो ऽपि सन् //
172 SK Vऋत्ति: अत्र मलिनो मलिनीकृत इत्युपक्रमसामर्थ्यादन्तःशब्दो ऽन्तरशब्दस्यार्थे वर्तते| तदयमर्थः---यथा वस्त्रं सदोषत्वान्मलिनत्वादेव भस्मगोमयादिमलान्तरस्थं विशुद्ध्यति दार्ष्टान्तिके ऽप्युच्यते| अशुद्धः पुद्गलो ऽप्येवमित्यत्रापिशब्दो भिन्नक्रमः| अशुद्धो ऽपि पुद्गल आत्मा मायोदरगतः सन्नेवमिति विशुध्यत्यशुद्ध्यन्तरेण युक्त इत्यर्थः| अपिशब्दादमायोदरगतो ऽपि विज्ञानकेवली| ननुविज्ञानकेवलिनामशुद्ध्यन्तरस्य निवृत्तत्वादुक्तदृष्टान्तनयेन शुद्धिर्नोपपद्यत एव| न| अत एवोपपत्तेः निवर्त्यमानेनापि तेन वस्त्रादेर्मलनिवृत्त्यनुगुणस्य संस्कारस्य कृतस्य दृष्टत्वात्| सर्वथा नाशुद्ध्यन्तरोपकारं विना पूर्वाशुद्धेर्निवृत्तिरित्यत्र दृष्टान्तार्थः|
173 SK द्वितीयस्यापि प्रश्नस्य निरासः|
2.10 SK मायोदरं हि यत्प्रोक्तं कलाद्यवनिलक्षितम् तस्मिन्यश्च लयः प्रोक्तः सूक्ष्मदेहविवक्षया //
175 SK Vऋत्ति: यश्च व्यापकस्याप्यात्मनो मायोदरे लयो व्यापी
176 SK अथ मलस्वरूपपरीक्षार्थं प्रश्नः
2.11 SK त्वयानादिर्मलः प्रोक्तो मायेयो ऽस्यात्मनो ऽपि वा गुणस्तद्व्यतिरिक्तो वा मलो ब्रूहि किमात्मकः //
178 SK Vऋत्ति: इह हि पूर्वमनादिमलसम्बन्धादित्यादिनानादित्वं मलस्योक्तम्|
2.12ab SK सहजः स्यान्मलो मायाकार्यमागामिको मलः
180 SK Vऋत्ति: आत्मनः परमार्थतो जन्मानुपपत्तेः सहजशब्देनात्र तेनात्मना सहानादिसिद्धो ऽर्थान्तरभूतो मलः कथ्यते| ततश्च नावस्तुभूतः| अपि तु चक्षुषः पटलादिवद्वस्तुरूप एव मल इत्युक्तं भवति| अवस्तुत्वे हि तस्य शशविषाणादेरिव नित्यनिवृत्तत्वाद्दीक्षाज्ञानादेः सर्वस्यैतन्निवृत्तिहेतोरानर्थक्यप्रसङ्गः|
181 SK यद्येवं मायाकार्यात्मक एव वस्तुभूतो मलः प्रागुक्तो विद्यते| यदुक्तम् मायाभोगपरिष्वक्तस्तन्मय इति|
182 SK तत्किमन्येनानेन कल्पितेनेति| तदर्थमेतन्मायाकार्यमागामिकस्तदुत्तरकालभावी मल \च्रुx इत्ययमर्थः\च्रुx\ यद्येवं मलिनस्य मायाकार्यं बन्धाय भवेत् तदा अनादिमलमुक्तस्य शिवस्यापि न किं भवेदिति वक्ष्यामः|
183 SK तस्माद्बन्धमोक्षान्यथानुपपत्त्या मायाकार्याद्व्यतिरिक्तः सहजो वस्तुभूत एव मलो ऽभ्युपगन्तव्यः| यद्येवं मायैवासौ भविष्यतीति मायामलवादिनः| तदप्ययुक्तं यतः
2.12cd SK माया नो मोहिनी प्रोक्ता स्वतः कार्यात्प्रकाशिका //
185 SK Vऋत्ति: नो निषेधे| नैव मायायाः स्वतः पुं मलिनीकरणमुपपद्यते शक्तिरूपत्वेनाव्यक्तरूपत्वे सत्यक्रियावत्त्वात् क्षीराद्यवस्थितदधिनवनीतादिशक्तिवत्| यदुक्तं सांख्यैः
186 SK हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्|
187 SK सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्|| इति|
188 SK किञ्च यैव कलादिकार्यहेतुर्माया सैव किं मलो ऽथान्या| यद्यन्या ततो व्यतिरिक्त एव मल इति नास्ति विवादः| सैव चेत्तदयुक्तम्| यतः कार्यादिति कार्यद्वारेण प्रकाशनकर्तृस्वभावासिद्धा ततो न मोहिनी नावरणकर्तृस्वभावा सवितृवत् स्वभावविरुद्धकार्यासिद्ध्या गम्यत इत्यर्थः|
189 SK न चायमसिद्धो हेतुरित्युच्यते|
2.13 SK यतः स्वकार्यसंश्लेषाच् चैतन्यद्योतिकात्मनः मलं विदार्य चिद्व्यक्तिम् एकदेशे करोत्यसौ //
191 SK Vऋत्ति: यतो मलनिवृत्तिपूर्वमात्मनश्चिद्व्यक्तिमेकदेश एव कार्यकरणादिनैव सा कुर्वती दृश्यत इत्युक्तं तयोद्बलितचैतन्य
2.14ab SK स्थिता प्रकाशिका कार्यान् मोहकत्वे न संस्थिता
193 SK Vऋत्ति: कार्यद्वारेण यतः प्रकाशिका सिद्धा ततो मोहकत्वेन पुंसो नावस्थितेति स्वभावविरुद्धकार्यासिद्ध्या प्रतीयत इत्युक्तम्| ततश्च येन कार्येण सह यद्विरुद्धं कार्यं तत्तत्कारणव्यतिरिक्तकारणजन्यं यथा प्रकाशलक्षणकार्यविरुद्धमन्धकारात्मकं कार्यं प्रकाशकारणव्यतिरिक्तकारणजन्यम्| पुंप्रकाशकार्यविरुद्धं च पुंमोहात्मकं कार्यमतस्तदपि पुंप्रकाशकारणव्यतिरिक्तकारणजन्यमिति यत्तत्कारणं स मायाव्यतिरिक्तो मलो ऽत्र कार्यविशेषानुमानसिद्ध इति तात्पर्यार्थो ऽस्य निगमनवाक्यस्येति न गतार्थता| अत एवोपसंहरिष्यति व्यतिरिक्तः स युक्तित इति|
194 SK अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः| इति|
195 SK ननु प्रकाशविशेष एव मोहो ऽनात्मन्यात्माभिमानात्मक इति साङ्ख्याः| यदाहुः
196 SK भेदस्तमसो ऽष्टविधो मोहस्य च दशविधो महामोहः|
197 SK तामिस्रो ऽष्टादशधा तथा भवत्यन्धतामिस्रः|| इति||
198 SK ततो ऽत्र स्वभावविरोधासिद्धेः कुतो व्यतिरिक्तमलसिद्धिः| तदयुक्तम्
2.14cd SK प्रकाशो व्यक्तिशब्देन मलशब्देन चावृतिः //
200 SK Vऋत्ति: अयमर्थः---नात्र प्राकृतो ऽयं मोहो विवक्षितो ऽस्य शरीरसद्भाव एव सिद्धेः| अपि तु आत्मनश्चिद्धर्मत्वेन व्यापकतया वक्ष्यमाणस्य सर्वज्ञत्वप्रसङ्गस्य परिहारायावश्यमावृतिरूपो मलशब्दवाच्यो ऽन्य एव मोहो ऽभ्युपगन्तव्यः| स च प्रकाशावरणरूपत्वाद्व्यक्तिशब्दवाच्येन पुंप्रकाशेन सह विरुध्यत इति नासिद्धो ऽत्र व्यतिरिक्तमलसाधनस्वभावविरोध इति| अस्त्वस्यावृत्यात्मनो मलस्याज्ञानहेतुत्वान्मोहकत्वं यस्त्वयं प्राकृतो मोहः कथितस्तस्य पुंव्यक्तिरूपत्वात्तदयुक्तमेवेति| न यतः|
2.15ab SK व्यक्तिर्याणोर्मलः प्रोक्तः स्फुटं दीपान्धकारवत्
202 SK Vऋत्ति: यथा दीपः प्रकाशको ऽपि नीलोत्पलादौ रक्तोत्पलादिविपरीतप्रकाशकत्वात् अन्धकारो मोहः प्रोक्तस्तथात्मव्यक्तिरप्यनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मत्वेन विपरीतेन प्रकाशमाना स्फुटमेव कृत्वा मलो मोहः प्रोक्तः|
2.15cd SK मायापि मोहिनी प्रोक्ता विषयास्वादभोगतः //
204 SK Vऋत्ति: तेनैव रूपेणास्माभिर्मायाभोगपरिष्वक्त
2.16 SK यत्र तत्र स्थितस्यास्य स्वकर्ममलहेतुतः मायोत्थं बन्धनं तस्य सनिमित्तं प्रवर्तते //
2.17 SK अनादिमलमुक्तस्य शिवस्यापि न किं भवेत् तस्मान्माया मलो नैव व्यतिरिक्तः स युक्तितः //
207 SK Vऋत्ति: कलादिक्षित्यन्तभुवनेषु सर्वत्र पुंसो यथा मायाप्रवृत्तौ कर्माणि निमित्तं तथा मलो ऽपि| अन्यथा तस्य चिद्धर्मत्वेन वक्ष्यमाणत्वात्सर्वज्ञत्वसर्वकर्तृत्वेन शिवत्वप्रसङ्गतो मायीयबन्धा प्रवृत्तिरेव| ननु कर्माणि तत्प्रवृत्तौ निमित्तमस्तु मलेन किम्| नैवं मल मुक्तस्य सर्वस्य शिवत्वेनानुष्ठातुरभावात्तेषां कर्मणामप्यसिद्धेः||
208 SK ननु कर्मैवावरणत्वेन कल्प्यतां किं मलेनेति क्षपणकाः| तदयुक्तम्| तस्य कृष्यादाविव स्वफलहेतुमात्रत्वेन सिद्धेः आवरणत्वादर्शनात् अर्थालोचनादावप्येवं तस्यैव हेतुकल्पनेनेन्द्रियादेरभावप्रसङ्गाच्चेत्युक्तम्| ततश्च मायाप्रवृत्तौ कर्मव्यतिरिक्त एव मलो ऽभ्युपगन्तव्य इति| यत एवं तस्मान्न माया मलः| यथा च तद्व्यतिरिक्तस्तथा युक्तितो ऽनुमानेनैव साधित इत्युपसंहारः|
209 SK अत्र पूर्वपक्षाशङ्का
2.18ab SK मायाकार्यं समस्तं स्यात् कुतो ऽन्यः सहजो मलः
211 SK Vऋत्ति: \च्रुx मायाकार्यं कलादि समस्तमित्यविकलं तत्त्वात्मकमेव बन्धनं स्यात्\च्रुx | यद्वा निरवशेषभूतभुवनात्मकं स्यादिति| अयमर्थः---यद्बन्धनं तत्तत्त्वमेवाध्वनि भुवनाद्यात्मना वा संनिविष्टं यथा मायाकार्यं बन्धनं तद्वन्मलो बन्धनं भवद्भिरुक्तं सो ऽपि तत्त्वान्तरमध्वनि वा भुवनाद्यन्तरमिति तत्त्वातिरेको भुवनातिरेकश्च प्रसज्यत इति| अथ तत्त्वभुवनाद्यात्मकत्वमस्य नेष्यते ततः शशविषाणादेरिव बन्धनत्वमप्यस्यासिद्धमित्युक्तम्| कुतो ऽन्यः सहजो मल इति|
2.18cd SK आत्मस्थं तत्पशुत्वं स्यात् पशुरप्यध्वमध्यगः //
2.19ab SK प्रोक्तो येन मतस्तेन मलस्तद्भिन्नलक्षणः
215 SK Vऋत्ति: अयमर्थः---कर्मणास्य हेतोरनैकान्तिकत्वं तस्य बन्धत्वे ऽपि तत्त्वभुवनादिस्थित्य भावात्| अथ मायातत्त्वे स्थितत्वात्तस्य नानैकान्तिकविषयतेति| उच्यते---यद्येवं तदपि पशुत्वमिति मलः पशुतत्त्वस्थं तेन विनात्मनां पशुत्वायोगात्| तद्द्वारेण तदप्यध्वनि स्थितमिति मायाकार्यात्तत्त्वभुवनादेर्भिन्नलक्षणो ऽपि मलः कर्मवद्बन्ध इत्यदोषः||
216 SK यस्तु सहजः स्यान्मलो माये त्येवमादिभिः पदच्छेदैर्बलादेव
217 SK यदप्यस्य दूषणत्वेनानयोः कार्ययोः शिवत्वपशुत्वरूपत्वेनैकस्मिन्नात्मनि समावेशात्सहावस्थानविरोधो नास्त्ये वेत्युक्तं तदप्ययुक्तं परस्परपरिहाराविरोधे ऽप्यनयोरितरेतराभावरूपत्वाद्वृक्षतदभावयोरिव नैकस्मात्कारणादुद्भवः सम्भवति यतः| अयमेव चास्माकमत्र प्रतिज्ञातो ऽर्थ इति| विरुद्धयोरप्यनयोः सहानवस्थानोपदर्शनमेतद्दोषोद्भावनमेव प्रतिज्ञातार्थाबाधनात्| न च शिवत्वस्येव पशुत्वस्याप्यात्मन्यवस्थानमिति युक्तम्| तस्य वस्त्वन्तराकारमलरूपत्वेन तद्व्यतिरिक्ततयावस्थितेः| वक्ष्यति च आत्मनो ऽनादिसम्बन्धाद्धर्म इत्युपचर्यत इति|
218 SK यदपि चक्षुरादिनालोकादिसहकारिसन्निधानासन्निधानाभ्यां प्रकाशाप्रकाशादिविरुद्धं कार्यं कुर्वतास्य हेतोरनैकान्तिकत्वमुक्तं तदतितरामयुक्तम्| सहकार्यसन्निधाने हि तत्स्वकार्यमकुर्वद्दृष्टं न तु तद्विरुद्धं कुर्वदभावस्यावस्तुत्वेन करणासम्भवात्| सविता पुरुषादीनामिवोलूकादेः प्रकाशमेव करोति| स तु प्रकाशको ऽत्यन्तभास्वरत्वेन तस्य नेत्रोपघातहेतुत्वात् मन्दनेत्रस्येव स्वकार्या करणादप्रकाशक इत्युपचर्यत इति न तु तमोवदप्रकाशकरणादिति नानैकान्तिकविषयः| ततश्च सर्वदोषरहितात्प्रागुक्तात्स्वभावविरुद्धकार्योपलम्भान्मायाव्यतिरिक्त एव मलः सिद्ध्यतीत्यलमागमार्थबहिष्कृतैः सह विवादेनेति|
219 SK तदेवं प्रमाणतो मायाव्यतिरिक्तस्य मलस्य सिद्धस्य संहितान्तरैरभिख्यानप्रदर्शनाय पर्यायान्तराण्युच्यन्ते|
2.19cd SK मलो ऽज्ञानं पशुत्वं च तिरस्कारकरस्तमः //
2.20 SK अविद्या ह्यावृतिर्मूर्छा पर्यायास्तस्य चोदिताः स चाविद्यादिपर्यायभेदैः सिद्धो मते मते //
222 SK Vऋत्ति: अथ किमसौ मलः संहितान्तरेष्विव दर्शनान्तरेषु प्रसिद्धः| नेत्युच्यते
2.21ab SK तत्सद्भावात्पशुः पाश्यः शोध्यो बोध्यो मतस्त्विह
224 SK Vऋत्ति: तस्यास्य मलस्य सद्भावादिहेत्यस्मिन्नेव पारमेश्वरे दर्शने पशुः प्रेर्यः पाश्यश्च कलादिना शोध्यश्च दीक्षया बोध्यश्च शास्त्रात्मना ज्ञानेनाभिमतो न तथा दर्शनान्तरेषु| ततश्च दर्शनान्तरमुक्ताः पशव एव मलस्य तैरज्ञातत्वेन विच्छेत्तुमशक्यत्वादित्युक्तं भवति| यद्येवमात्मनः पाश्यादिवृत्तिभेदा अप्यनादिस्थिता एव| ततस्तेषामपि बन्धान्तरत्व प्रसङ्गः| तदयुक्तम्| यतः
2.21cd SK पाश्यादिवृत्तयो यास्तु तस्य भेदाः प्रकीर्तिताः //
2.22ab SK मले सति भवन्त्येता भोक्तृत्वं च न केवलम्
227 SK Vऋत्ति: एषां पाश्यादिवृत्तीनां मलनिवृत्तौ निवृत्तिसिद्धेर्मलनिमित्तत्वं सिद्ध्यति प्रदीपनिमित्तत्वमिव प्रभाया इति| न पृथग्बन्धान्तरत्वमिति| तदियता मलस्यावस्तुत्वे मायास्वभावत्वे च निषिद्धे अधुना आत्मनो ऽपि वा गुण
2.22cd SK यद्येवं संस्थितः पाश्यो मलो ऽस्य पशुसंगतः //
2.23ab SK आत्मनः किं न धर्मो ऽसौ युक्तितः कल्प्यते मलः
230 SK Vऋत्ति: यद्येवं चिद्रूप एवात्मा पाश्यो व्यवस्थित इति किञ्चिज्ज्ञत्वान्यथानुपपत्त्यास्यावारको ऽपि मलः कल्प्यते| हन्त तर्हि आत्मन एवासौ अज्ञानात्मा मलो धर्मत्वेन युक्तितो ऽनुमानेन कल्प्यताम्| यदाहुर्नैयायिकवैशेषिकाः---यद्यत्र कारणान्तरेण क्रियते तत्तत्र नास्त्येवान्धकार इव प्रदीपादिना क्रियमाणः प्रकाशः| क्रियते च कार्यकरणादिभिरात्मनि विज्ञानं| ततस्तदपि तत्र नास्तीत्यज्ञस्वभाव एवात्मा सिध्यति कुतो व्यतिरिक्तमलसिद्धिः|
2.23cd SK आत्मनो ऽनादिसम्बन्धाद् धर्म इत्युपचर्यते //
2.24ab SK कथं तज्ज्ञानयुक्तत्वाद् अज्ञानगुणतां गतः
234 SK Vऋत्ति: भवेदेवं यद्ययं हेतुरस्मान्प्रति सिद्धः स्यात्| असिद्धस्तु कार्यकरणादीनां तत्रास्माभिर्ज्ञानव्यञ्जकत्वेनाभ्युपगमात्|
235 SK ननु तद्भावतदभावयोर्दर्शनादर्शनाभ्यां ज्ञानस्य कार्यकरणादिकारणत्वं सिध्यति| न तयोर्व्यञ्जकत्वेनापि संभवेनानैकान्तिकत्वादिति नानेना सिद्धेन हेतुनात्मन्यज्ञत्वसिद्धिः| ततश्चावश्यं तस्याशुद्धात्मनो ऽनादिसम्बन्धेनावरणेन व्यतिरिक्तेन भवितव्यमिति| तद्योगादशुद्ध इत्युपचारादागमे कथितो द्रष्टव्यो नाज्ञस्वभावत्वादेवेति|
236 SK तर्ह्यत एव तत्राज्ञत्वसंशयो युक्तो न तज्ज्ञत्व निश्चयो येन व्यतिरिक्तमलसिद्धिरिति| तत्रोच्यते
2.24cd SK तस्य धर्मो न धर्मत्वे परिणामः स्फुटो भवेत् //
238 SK Vऋत्ति: न तस्यात्मनो धर्मः स्वभावो वाज्ञानात्मा मलो घटादिवदनात्मत्वप्रसङ्गात्| अथ यत्र ज्ञानं समवेतमुत्पद्यते स आत्मेति| तदप्ययुक्तम्| तस्य पूर्वमज्ञानं प्रति धर्मित्वे घटादेरिव पश्चादपि ज्ञानसमवायो नोपपद्यत एव| अथाज्ञानात्मनस्तु तस्य ज्ञानाभ्युपगमे स्फुटमेव रूपान्तरपरिणामः स्यादामलकादेः पीततोत्पत्त्यात्मक इवेति वक्ष्यमाणो दोषः|
239 SK ननु ज्ञानं तावदस्मदादिप्रत्यक्षत्वे सत्यचाक्षुषप्रत्यक्षत्वाद्रसादिवद्गुणः| गुणेन च द्रव्याश्रितेन भवितव्यमिति यस्तस्याश्रयः स तद्विलक्षणत्वादज्ञानरूप एवात्मा सिद्ध्यति| तदप्ययुक्तम्| यतः| चिद्धर्मे पुंसीत्यादि|
2.25ab SK चिद्धर्मे पुंसि नो धर्मो यदि स्यात्परिणामवान्
241 SK Vऋत्ति: चित् ज्ञानमेव धर्मः स्वभावो यस्य स तथाभूतः \च्रुx पुमित्यनुभवति सर्वमिति पुमान्\च्रुx\ आत्मा स्वसंवेदनेन स्वपरात्मप्रकाशतया प्रतिपुरुषं सिद्ध्यति किमन्येन साधनेन|
242 SK ननु ज्ञानस्य रसादेरिव गुणत्वे हेतुरुक्त एव| सो ऽप्ययुक्तः दृष्टान्तस्यास्मान्प्रति साध्यधर्मा सिद्धत्वात्| रसादयो हि भावाः संहता एव जायमानाः संहता एव निरुद्धाश्च सांख्यसौगतादिभिरिवास्माभिरपि प्रमाणसिद्धत्वादर्थक्रियाकरणाः कथ्यन्ते| न त्वन्यः कश्चित्तेषामाश्रयभूतस्तद्व्यतिरेकेण तस्यानुपलम्भनादिति| कथं तर्हि पृथिव्यां गन्ध इत्यादिव्यवहारः| कुदर्शनाभ्यासमूलो भ्रान्त एव| यदि वा विशिष्टसमुदायैकदेशप्रतिपादनाय वनस्य धवः शोभन
243 SK तस्मिञ्ज्ञानात्मकत्वाच्चित्स्वभावे पुंसि नाज्ञानं मलो धर्मो युक्तः| आमलकादीनामिव रूपान्तरपरिणाम प्रसङ्गात्| तथा हि
2.25cd SK एकस्मिन्व्यज्यते ज्ञानम् अन्यस्मिंस्तत्तिरोहितम् //
245 SK Vऋत्ति: एकस्मिन्रूपादौ विषये ज्ञानमुत्पद्यते अन्यस्मिंस्तु रसादावुत्पन्नमपि नष्टं भवद्भिरिष्यते यतस्ततश्च रूपान्तरपरिणामो ऽस्यात्मनः| को दोष इत्युच्यते|
2.26ab SK परिणामो ऽचेतनस्य चेतनस्य न युज्यते
247 SK Vऋत्ति: यः परिणामी सो ऽचेतनः सिद्धो यथामलकादिरर्थ इति परिणामित्वादात्मनो ऽप्यचेतनत्वप्रसङ्ग इत्यवश्यं तत्प्रसङ्गपरिहारायात्मा नैवाज्ञानस्वभावो ऽभ्युपगन्तव्यः| अपि तु विज्ञानस्वभाव एवेति| तस्यावारकस्वभावो व्यतिरिक्तो मलः सिद्धः| अन्यथा सर्वज्ञत्वप्रसङ्गादिति तृतीयस्यापि प्रश्नस्य निरासः|
248 SK यद्येवं व्यतिरिक्तमलपक्षे ऽप्येष एव दोष इति समुच्चयेन चोदकः|
2.26cd SK तयोश्चानादिसम्बन्धाद् विश्लेषो न विभुत्वतः //
2.27ab SK सहजप्रक्षये प्राप्ते तस्य नाशो न किं भवेत्
251 SK Vऋत्ति: तयोरात्ममलयोर्यो ऽनाद्यावार्यावारकलक्षणः सम्बन्धः स स्वभावविशेष एव तस्मान्न विश्लेषो निवृत्तिरनादित्वादेव यथा चेतनाज्जडाद्वा स्वभावादित्यनिर्मोक्षः| अथ तस्माद्विश्लेष इष्यते| यद्येवं सहजस्य स्वभावस्य प्रक्षये सति तस्यापि नाशः स्वभावान्तरोत्पादरूपः परिणामो भवेदिति स एव तदवस्थो दोषो यः प्रागव्यतिरिक्त मलपक्षे प्रोक्तः| अथ न तयोः स्वभावाद्विश्लेषः अपि तु परस्परसंश्लेषान्नेत्रतदावरणयोरिव ततो नैष दोष इत्युच्यते सो ऽपि न युक्तः| विभुत्वत इति व्यापकत्वात्| अव्यापकस्य ह्यव्यापकाद्देशान्तरनयने विश्लेषः| व्यापकस्य तु सर्वत्रावस्थानान्न कुतश्चिद्विश्लेषः सम्भवतीत्यनिर्मोक्षः| अथ तथाभूतस्यापि विश्लेष इष्यते| यद्येवं सहजस्य सहभाविन आवरकस्य प्रक्षये तस्याप्यावार्यत्वस्य स्वभावस्य नाशो रूपान्तरपरिणाम इति स दोषस्तदवस्थ एव|
2.27cd SK विभोरपि मलस्यास्य तच्छक्तेः क्रियते वधः //
2.28 SK उपायाच्छक्तिसंरोधः कथंचित्क्रियते मले यथाग्नेर्दाहिका शक्तिर् मन्त्रेणाशु निरुद्ध्यते //
2.29ab SK तद्वत्तच्छक्तिसंरोधाद् विश्लिष्ट इति कथ्यते
256 SK Vऋत्ति: अत्र मलविषयस्तावदयमदोषः| यतो न केवलमस्यैवाव्यापकस्य मोहात्मनः प्राकृतस्य मलस्य यावद्व्यापकस्याप्याणवमलस्योपायेन मन्त्रदीक्षात्मना शक्तेरावारकस्वभावस्याग्नेर्दाहकत्वस्येव वधो ऽन्यथाभावः क्रियत एव| कथञ्चिदित्यारब्धकार्यकर्मभोगोपरोधेनासर्वात्मना तदनुपरोधेन तु सद्योनिर्वाणदीक्षया सर्वात्मनेति| ततश्च मलस्य परिणामिनित्यत्वाभ्युपगमान्नैष स्वभावान्तरपरिणामसाधनप्रसङ्गो युक्तः सिद्धसाधनादित्युक्तं भवति| अत एव मलस्य स्वभावान्तरपरिणतेः स्वरूपसत्त्वे ऽप्यामयाद्विश्लिष्टः पुरुष इतीव मलशक्तिरोधादपि विश्लिष्टः कथ्यते| ततो विश्लेषो न विभुत्वादित्ययमप्यदोषः|
257 SK इदानीं पुरुषविषयो ऽपि दोषः प्रतिक्षिप्यते|
2.29cd SK कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः //
259 SK Vऋत्ति: शक्तेः संरोधः शक्तिसंरोधः| तस्य मलस्य तं कृत्वा भवनिःस्पृहः क्रोधरागादिरहितः पुरुषः क्रियते परमेश्वरेण| अत एव शक्तिपातनिश्चयायाक्रोधरागादीनि लिङ्गानि दीक्षाधिकारार्थं गुरुभिः शिष्याणां परीक्ष्यन्त इत्युक्तम्|
260 SK यो ऽपि सहभाव्यावरणनिवृत्तित आत्मनो ऽप्यावार्यत्वनिवृत्तिलक्षणस्वभावान्तरपरिणामदोष उक्तः तत्राप्युच्यते
2.30 SK सहजा कालिका ताम्रे तत्क्षयान्न च तत्क्षयः यद्वत्ताम्रे क्षयस्तद्वत् पुरुषस्य मलक्षयः //
2.31ab SK यथा तण्डुलकम्बूके प्रक्षीणे ऽपि न तत्क्षयः
263 SK Vऋत्ति: सहचरकालिकानिवृत्त्या न ताम्रस्य कश्चिद्विकारो दृश्यते यथा तथा मलनिवृत्त्याप्यात्मनो न विकार इत्येतावतांशेन दृष्टान्तत्वं नान्यथा ताम्रस्य परिणतिधर्मत्वेनाभ्युपगमादिति| एतदुक्तं भवति---औपाधिको ऽयं मलसन्निधानासन्निधानकृतो भेदः| न त्वात्मनो मलानपेक्षयार्थग्रहणैकस्वभावस्यान्यो ऽनावार्यस्वभावो यो भेदं विदध्यादिति स्वभावान्तरपरिणामाभावान्न पूर्वोक्तदोषप्रसङ्गः|
264 SK अयमेव पक्षः प्रमाणसिद्ध इत्यनुमानसिद्धेनापि दृष्टान्तान्तरेण पोष्यते
2.31cd SK विषसम्बन्धिनी शक्तिर् यथा मन्त्रैर्निरुद्ध्यते //
2.32ab SK तथा न तद्विषं क्षीणम् एवं पुंसो मलक्षयः
267 SK Vऋत्ति: मोहमारणहेतुत्वान्मलस्थानीयायां सहजायामपि शक्तौ पुरुषस्थानीयस्य विषस्यनिवृत्तायां न कदाचिद्वर्णाकृत्यादिस्वरूपनाशो यथा तथा पुंसो मलक्षय इति| अंशेन दृष्टान्तत्वादधुना प्रत्यक्षसिद्धदृष्टान्तान्तरेण प्रकरणोपसंहारः
2.32cd SK फलं कतकवृक्षस्य क्षिप्तं सकलुषे जले //
2.33 SK कुरुते शक्तिसंरोधं किं क्षिपत्यन्यतो जलात् शिवज्ञानं तथा तस्य शक्तिसंरोधकारकम् //
270 SK Vऋत्ति: यथा हि कतकाभिधानस्य वृक्षविशेषस्य फलं \च्रुx मेघजादि सहजकलुषयुक्त\च्रुx\ एव जले प्रक्षिप्तं तस्याः कलुषलक्षणायाः शक्तेः संरोधं विदधल्लक्ष्यते| न तु जलात्किञ्चिदपि स्वभावान्तरमन्यतो ऽन्यत्र क्षिपेदिति कालुष्यमात्रमेव तस्य निवर्तयति नान्यत्किञ्चिदित्यर्थः| तथा शिव एव ज्ञानं सर्वेषां चिच्छक्तिव्यञ्जकत्वेन ज्ञानहेतुत्वात्तस्येति मलस्य शक्तिसंरोधकारकं दीक्षया तदधिकारोत्पादनाय वा शक्तिपातेनेत्युक्तम्| यदि वा शिवस्य ज्ञेयतया संबन्धि यद्दीक्षितानां नित्यकर्तव्यतया वक्ष्यमाणज्ञानं तदारब्धकार्यकर्मभोगोपरोधेनाक्षपितस्य दीक्षया सर्वात्मना मलस्यैव प्रत्यहमपचयात् क्रमेण शक्तिसंरोधकारकं न तु पुरुषस्येति| ततश्च तस्यांशे ऽपि स्वभावान्तरपरिणामाभावान्न पूर्वोक्तमचेतनत्वं दूषणं मलस्य त्वेतद्भूषणमेवेति न व्यतिरिक्तमलपक्षे कश्चिद्दोष इति|
271 SK \Cओलो इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृतौ द्वितीयं प्रकरणम्
272 SK अथ पदार्थानामेव परीक्षार्थं प्रश्नपूर्वं रकरणान्तरम्| अत्र च सूत्रपदार्थप्रकरणसम्बन्धाः प्राग्वद्द्रष्टव्याः| पाटलिकस्तु व्यतिरिक्तमलसिद्धेरनन्तरं मलस्यैवा रागत्वपरीक्षात्मको वाक्यात्मको ऽपि रागेण रञ्जितश्चेति
3.1 SK भोक्तृत्वं मलतः प्रोक्तम् अभिलाषान्न किं भवेत् स च रागाद्यतो रागो वक्तव्यो ऽत्र मलेन किम् //
274 SK Vऋत्ति: ननु मलशब्देन चावृतिरित्यादिना
275 SK पाश्यादिवृत्तयो यास्तु तस्य भेदाः प्रकीर्तिताः|
276 SK मले सति भवन्त्येता भोक्तृत्वञ्च न केवलम्|| इति|
277 SK को ऽयं प्रश्नः| अथावार्यत्वमेवात्र भोक्तृत्वमुच्यते न तु भोगैकरसिकत्वमिति प्रश्नः| यद्येवं ततो मल एव वक्तव्यः किं रागेणेति रागाक्षेपप्रश्नो युक्तः, न तु मलेन किमिति| रागाद्यभावे ऽपि प्रलयकेवलाद्यवस्थायां तत्कार्यस्य भावादिति| सत्यमेतत्| किन्तु नात्र सर्वथा मलाभावः पूर्वपक्षीकृतो यदात्र भोक्तृत्वे मलेन किमिति| भोक्तृत्वं हि भोगैकरसिकत्वात्मकं रागकार्यात्प्रागुक्तादभिष्वङ्गादेव दृष्टात्सिद्धमिति किमत्र मलस्यापि हेतुत्वेन कल्पितेन| रागस्यैवात्र पारम्पर्येण हेतुत्वमिति प्रश्नार्थः| तन्न विरोध इति| अत एवात्र मलस्याभ्युपगमेनैव समाधिः
3.2ab SK भोक्तृत्वं नाम यत्प्रोक्तम् अनादि मलकारणम्
279 SK Vऋत्ति: यदेतद्भोक्तृत्वमस्माभिः प्रागुक्तं तदनादि| यतो मलकारणमुक्तं ततो मलस्यानादित्वात्तदप्यनादि| एतदुक्तं भवति---अन्यदेवास्मान्मोहजनिताद्भोक्तृत्वाद्भोगयोग्यत्वलक्षणमेतद्भोक्तृत्वम्| प्रलयाकले विद्यते न तु विज्ञानकेवले कर्माभावात्| तस्य कर्मवन्मलो ऽपि कारणं परिणतमलस्य प्रलयाकलस्यापि परमेश्वरानुग्राह्यत्वान्न तत्सम्भवति यतः|
280 SK ततश्च नाभिलाषो ऽस्य निमित्तमित्युच्यते
3.2cd SK अभिलाषस्तनौ सत्यां सा तनुः केन हेतुना //
3.3ab SK रागो ऽपि तन्निमित्तत्वात् प्रवृत्तः
283 SK Vऋत्ति: अभिलाषो ऽप्ययं सति स्थूले ऽस्मिञ्छरीरे भवतीति| तच्छरीरं सूक्ष्मदेहात्मकरागादिसम्बन्धात्| रागादीनां तु प्रवृत्तौ तद्भोक्तृत्वं निमित्तमिति कथमस्याभिलाषो निमित्तमाशङ्क्यते| अभिलाषहेतोरस्य रागादेरप्येतन्निमित्तत्वात्| तत्र दृष्टान्तः
KirT_3.3b-d SK पुरुषस्य तु चौर्यं हि बीजमापेक्ष्य यथा निगडबन्धनम् //
3.4ab SK एवं पशुत्वमापेक्ष्य रागतत्त्वं प्रवर्तते
286 SK Vऋत्ति: यथा चौर्यं बीजभूतमा समन्तादपेक्ष्यपुरुषस्य निगडादिबन्धनं प्रवर्तते तथैव प्रागुक्तनयेन प्रलयकेवलिनः पशुत्वं मलमपेक्ष्य रागादयः प्रवर्तन्त इति कुतो रागस्यात्र हेतुत्वमाशङ्क्यते| तदेवं
3.4cd SK एतस्मादस्य भोक्तृत्वं तनुर्भोगो ऽन्यहेतुजः //
3.5 SK पशुत्वेन हि भोक्तृत्वं मायाबन्धस्तनौ स्थितः सुखदुःखादिको भोगः कर्मतः संस्थितः पशोः नान्यथास्य विनिर्दिष्टं भोगभोक्तृत्वबन्धनम् //
289 SK Vऋत्ति: पशुत्वसंज्ञकान्मलादस्य भोक्तृत्वं मायातस्तच्छरीरं कर्मतः पुनर्भोगः कर्मणामेव सुखदुःखात्मना परिणामादिति साक्षान्निमित्तत्वमत्रोक्तं न तु परम्परया पारम्पर्येण सर्वस्यास्य मायात्मनः कर्माक्षिप्तत्वादिति दर्शयिष्यामः|
290 SK कर्मतश्च शरीराणि विषयाः करणानि च| इति|
291 SK नान्यथैतस्य भोगश्च भोक्तृत्वं च शरीरं च विनिर्दिष्टमिति| तदियता पशुपदार्थः परीक्षित इति||
292 SK अधुना पाशपदार्थपरीक्षाविशेषार्थः प्रसङ्गात्प्रश्नः
3.6 SK यदेतत्कर्म देवेश प्रोक्तं भोगनिबन्धनम् कर्मार्जनं तनौ सत्यां सृष्टिकाले तनुः कुतः //
294 SK Vऋत्ति: यदेतत्सुखदुःखादिको भोग इत्यादिना कर्म भोगनिबन्धनमुक्तं तन्न व्यापकमित्यध्याहारः| यतो महाप्रलयादनन्तरं सर्गारम्भकाले प्रथमः शरीरादिभोगः कुतश्चिदेव निमित्तादिष्यते| न कर्मतः| तदुत्तरकालभाविनां कर्मनिमित्तत्वादिति| यदाहुः---
295 SK आद्यो हि देहः पुरुषार्थमूलस्ततो ऽप्यन्ये कर्ममूलाः प्रतिपन्ना इति|
3.7 SK यथानादिर्मलस्तस्य कर्माप्येवमनादिकम् यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना //
298 SK Vऋत्ति: पुरुषाणां हि सर्वदा शारीरभोगादिवैचित्र्यान्यथानुपपत्त्या कर्मणः सत्त्वं सृष्टिकाले ऽपि पशुमृगपक्षिसरीसृपस्थावरमनुष्यादि जन्मवैचित्र्यश्रुतेः| महाप्रलये ऽपि कर्मसिद्धितः प्रवाहानादिः कर्मशरीरप्रबन्धः सिद्ध्यति|
3.8 SK तस्मादनादिकं कर्म मायाप्येवं भवस्तथा तथानादिः शिवः कर्ता सर्वस्य जगतः स्थितः //
300 SK Vऋत्ति: एवं कर्मनिबन्धनो भवः कलादिक्षितिपर्यन्ततत्त्व भूतभुवनरूपः संसारो मायीयस्तन्निबन्धनं च पुनरर्ज्यमानं कर्मेति कर्मभवयोः परस्परहेतुत्वेन प्रवाहानादित्वसिद्धिः| भवानादित्वादेव च तदुपादानेन कर्मानादित्वाच्च तदधिकरणेनापि प्रकृत्यात्मनानादिना भवितव्यम्| कृष्यादिकर्मणां प्रकृतिसंस्कारकत्वेन दृष्टत्वान्नैयायिकादिपरिकल्पितात्मसंस्कारकत्वायोगादात्मनः परिणामित्वप्रसङ्गाच्च| यच्च तद्भवो पादानं कर्माधिकरणं च सा मायाप्यनादिसिद्धा| तथा भवस्य तनुकरणभुवनात्मनः प्रवाहानादित्वेनोक्तत्वात्तत्कर्तापीश्वरो ऽनादिः सिध्यतीति|
301 SK अथ पाशपदार्थपरीक्षाविशेषादनन्तरं प्रसङ्गात्पतिपदार्थपरीक्षार्थं प्रश्नः
3.9ab SK शिवः कर्ता त्वया प्रोक्तः स कथं गम्यते प्रभो
303 SK Vऋत्ति: ईश्वरे हि जगत्कर्तरि सिद्धे तस्यानादित्वं साधयितुं शक्यम्| स एव कथं गम्यते| न तावत्प्रत्यक्षतो ऽतीन्द्रियत्वेन तस्य भवद्भिरभ्युपगमात्| तदुक्तं जैमिनीयैः
304 SK न च कैश्चिदसौ ज्ञातुं कदाचिदपि शक्यते|
305 SK स्वरूपेणोपलब्धे ऽपि स्रष्टृत्वं नावगम्यते||
306 SK न च तद्वचनेनैषा प्रतिपत्तिः सुनिश्चिता|
307 SK असृष्ट्वापि ह्यसौ ब्रूयादात्मैश्वर्यप्रसाधनात्|| इति|
308 SK नापि रूपोपलब्ध्यादिना चक्षुरादिरिव पूर्वोक्ततनुकरणभुवनादिकार्यान्यथानुपपत्ति लक्षणेनानुमानेन तस्य महाभूतेभ्य एवोत्पत्तिदृष्टेः| यदाहुः सौगताः
309 SK यस्मिन्सति भवत्येव यत्ततो ऽन्यस्य कल्पने|
310 SK शस्त्रौषधादिसम्बन्धाच्चैत्रस्य व्रणरोपणे|
311 SK असम्बद्धस्य किं स्थाणोः कारणत्वं प्रकल्प्यते|| इति|
312 SK नाप्यागमेन तस्याकृतकत्वेन भवद्भिरनभ्युपगमात्| तत्कृतस्यान्योन्यसंश्रयेणाप्रामाण्यात्| न च प्रमाणान्तरमस्ति भवताम्| तत्साधनप्रमाणाभावान्न कथंचिद्गम्यत इत्यर्थः|
313 SK यद्येवमत एवैतद्विषयसंशयो ऽस्तु| नास्तीश्वर इति कुतो बाधकप्रमाणाभावादिति| उच्यते|
3.9cd SK वैकरण्यादमूर्तत्वात् कर्तृत्वं युज्यते कथम् //
315 SK Vऋत्ति: करणानामभावो वैकरण्यं तस्मादीश्वरो जगतः कर्ता न संभवति| करणाभावाद्दण्डचक्रसूत्रादिरहितः कुम्भकार इव कुम्भे| तदिदमुक्तं जैमिनीयैः
316 SK न च निःसाधनः कर्ता कश्चित्सृजति किञ्चन| इति|
317 SK किञ्च मूर्तत्वं कठिनता| अत्र शरीरयोगस्तदभावादीश्वरो न सम्भवति कर्तेति| तदिदमुक्तं तैरेव
318 SK अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्म वद्भवेत्|
319 SK इत्येवं साधकबाधकप्रमाणाभावसद्भावाभ्यामीश्वराभावसिद्धिरिति पूर्वः पक्षः| अत्र सिद्धान्तो बाधकनिरासपूर्वः| तस्मिन्ह्यनिराकृते साधकस्य हेतोरप्रवृत्तिरेव| तत्प्रतिज्ञावचनस्यानुमाननिराकृतत्वात्| यदाहुः
320 SK सन्दिग्धे हेतुवचनाद्व्यस्तो हेतोरनाश्रयः| इति|
3.10 SK यथा कालो ह्यमूर्तो ऽपि दृश्यते फलसाधकः एवं शिवो ह्यमूर्तो ऽपि कुरुते कार्यमिच्छया //
323 SK Vऋत्ति: तत्र यस्तावदकर्तृत्वसिद्धावत्रामूर्तत्वादिति हेतुरुक्तः स कालेनानैकान्तिकस्तस्यामूर्तत्वे ऽपि पुष्पफलादिकर्तृत्वप्रसिद्धेः| अथ कालस्याचेतनत्वेन स्वकार्यं प्रति कारणत्वात्कर्तृत्वासिद्धेः नानैकान्तिकविषयता| तत्रोच्यते तर्हि कालस्यात्रोपलक्षणत्वादस्मदाद्यात्मनानैकान्तिकस्तस्यामूर्तस्यापि स्वदेहस्पन्दादिकार्यदर्शनात्| दृष्टान्तो ऽप्यत्र साध्यधर्मासिद्धः मुक्तात्मनो ऽप्यस्माभिः सर्वाधिष्ठातृत्वेनाभ्युपगमादिति|
324 SK यस्त्वत्रवैकरण्यादिति हेतुरुक्तः सो ऽप्यसिद्ध एव| तथा हि
3.11ab SK इच्छैव करणं तस्य यथा सद्योगिनो मता
326 SK Vऋत्ति: इच्छात्मिकैव शक्तिस्तस्य करणं योगिन इव विद्यते यतः| योगिनश्च सर्ववादिनां सिद्धा एव चार्वाकैरपि विषग्रहचिकित्साकारित्वेन मण्यौषधादिवन्न प्रतिक्षेप्तुं शक्याः| यदाहुः
327 SK अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति|
328 SK अथ वैकरण्यमत्रेन्द्रियाभावो हेतुरभिप्रेतस्तत्राप्युच्यते
329 SK शल्याकृष्टिकरो दृष्टो ह्य् % अक्षहीनो ऽपि कर्षकः \
KirT_3.11c-f SK व्यापारो न च दृश्येत कार्यमिच्छा प्रतीयते //
331 SK Vऋत्ति: तदानीमयस्कान्तमणिनानैकान्तिको हेतुः| स हीन्द्रियहीनो ऽपि शल्यात्मकायःसमाकर्षको दृष्टो यतः| अत्रापि प्रागुक्तकालवदनैकान्तिकाक्षेपतत्समर्थनं तथैव द्रष्टव्यमिति|
332 SK तदेवमसत्तानिश्चायके बाधके ऽपनीते ऽधुना सत्तासंशयनिवारणाय प्रमाणमुच्यते
KirT_3.12a-c SK स्थूलं विचित्रकं कार्यं नान्यथा घटवद्भवेत् अस्ति हेतुरतः कश्चित् %//
334 SK Vऋत्ति: इह हीश्वरसिद्धौ सांख्यसौगतजैमिनीयार्हतचार्वाकाः प्रतिपक्षाः| तत्र पूर्वयोर्यदेतद्विचित्रकमित्यदृष्टकर्तृकं तनुकरणभुवनादिकं प्रागुक्तं जगद्धर्मित्वेन चिकीर्षितं तत्प्रतिक्षणं परिणामादुत्पादाद्वा कार्यत्वेन सिद्धमेव| अपरेषां तु
336 SK इत्यभ्युपगमात्तदेकदेशभुवनादि तथा न सिद्धमिति तान्प्रति स्थूलत्वेन कार्यत्वमत्र साध्यते| यत्स्थूलं तत्कार्यं यथा घटादि स्थूलं चैतददृष्टकर्तृकं भुवनादि ततः कार्यमिति| न चात्रेश्वरशरीरेण नित्येन वेदेन वानैकान्तिकत्वम्| यथोक्तं जैमिनीयैः
337 SK अनेकान्तश्च हेतुस्ते तच्छरीरादिना भवेत्| इति|
338 SK तस्यास्माभिः सर्वथा वेदस्य चानित्यत्वेनाभ्युपगमात्| तस्मिन्नपि च कार्ये सिद्धे ऽधुना कार्यत्वेनात्र सर्वस्मिञ्जगति कर्तृपूर्वकत्वं साध्यते| न तु स्थूलत्वेन तद्व्यापकत्वादिति| यत्कार्यं तद्विशिष्टज्ञानक्रियायुक्तकर्त्रा विना न सिध्यतीति यथा घटादि| कार्यं चैतत्सर्वमेव जगत्| अतस्तदपि विशिष्टज्ञानक्रियायुक्तेन कर्त्रा विना न भवतीति| यस्तत्कर्ता स ईश्वरः सिद्ध एवेत्येवमत्र पदत्रयस्य नान्योन्यं गतार्थतेत्यविरोधः| न च कार्यत्वमत्र तथाभूतं न सिद्धमित्याशङ्कनीयम्| यदाहुः सौगताः
339 SK सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत्|
340 SK सन्निवेशादि तद्युक्तं तस्माद्यदनुमीयते||
341 SK वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः|
342 SK न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने|| इति|
343 SK कार्यमात्रस्य कर्तृमात्रेण घटादौ कृतकत्वमात्रस्यानित्यत्वमात्रेणेव व्याप्तेः सिद्धत्वात्| अन्यथा तत्राप्यन्यत्रापि च दृष्टान्तसाध्यधर्मभेदेन हेतुभेदकल्पने सर्वानुमानाभाव एव| अविशेषात्पाण्डुत्वस्य तु भावात् धूमाभावे ऽपि हिममक्कोलादिषु च तद्दर्शनात् वह्न्यनुमापकत्वमयुक्तमेव| नाप्यनैकान्तिकः सर्वस्यादृष्टकर्तृकस्य वनतृणादेरपि पक्षीकृतत्वात्| न च विरुद्धो हेतुः यथाहुर्जैमिनीयाः तथासिद्धे च दृष्टान्ते भवेद्धेतोर्विरुद्धता|
344 SK अनीश्वरविनाश्यादिकर्तृकत्वं प्रसज्यते|| इति|
345 SK विपर्ययव्याप्त्यभावात्| दृष्टान्ते हि घटादावयं हेतुः स्वसाध्ये स्वकार्यसर्वज्ञत्वसर्वकर्तृत्वलक्षणेनेश्वरत्वेन व्याप्तः सिद्धो यतस्तस्यांशेनापि वैकल्येन घटादर्शनादविनाशित्वेनापि कुम्भकारात्मनो नित्यत्वात्तस्यैव च कर्तृत्वात्| नापि धर्मिस्वरूपविपरीतसाधनो ऽयं विरुद्धः| यथाह मण्डनः
346 SK सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि|
347 SK प्रसिद्धसन्निवेशादेरेककारणता कुतः||
348 SK रथाद्यवयवा नानातक्षनिर्मापिता अपि|
349 SK दृश्यन्ते जगति प्राय उपकार्योपकारकाः| इति|
350 SK यतो रथाद्यवयवानामनेकतक्षनिर्मितानामपि नैकस्थपतिबुद्धिक्रियाभ्यां विनैकरथारम्भकत्वं दृष्टमिति|
351 SK नाप्यनीश्वरकर्तृकं जगत् कार्यत्वात् घटादिवदिति विरुद्धाव्यभिचार्याक्रान्तत्वादहेतुरयमिति वाच्यम्| धूमादग्न्यनुमानवदत्र वस्तुबलप्रवृत्तत्वेन तदसम्भवादिति भवतामभ्युपगमः| अन्यथा पर्वतादावपि धूमादग्न्यनुमाने ऽत्रापर्वतवर्ती वह्निः धूमात् यत्र धूमस्तत्रापर्वतवर्ती वह्निर्यथा महानसे ऽत्र च धूमस्तस्मादपर्वतवर्ती वह्निरिति सर्वत्र विरुद्धाव्यभिचार्यनुमानावस्करसंभवादनुमानाभाव एवेत्येवमादयो ऽत्र हेतुदोषा विस्तरेणास्माभिर्नरेश्वरपरीक्षाप्रकाशे प्रतिक्षिप्ता इति तत एवावधार्याः|
354 SK Vऋत्ति: अनेन हि प्रयोगवचनेन भवद्भिः कर्तृमात्रं साध्यमुपक्षिप्तम्| तच्चोभयवादिसिद्धं कर्मास्त्विति श्रावणः शब्द इतिवत्सिद्धसाधनत्वादयुक्तमेतत्| यदाहुर्जैमिनीयाः|
355 SK कस्यचिद्धेतुमात्रस्य यद्यधिष्ठातृतेष्यते|
356 SK कर्मभिः सर्वभावानां तत्सिद्धेः सिद्धसाधनम्|| इति|
359 SK Vऋत्ति: न सिद्धसाधनं यस्मात्कर्माचेतनमिति| अयमर्थः---नास्माभिरत्र कर्तृत्वमात्रं साध्यते ऽपि तु विशिष्टज्ञानक्रियायुक्तः कर्तेति कुतो ऽचेतनैः कर्मभिः सिद्धसाधनमिति| यद्येवं धर्मिविशेषविपरीतसाधनो ऽयं विरुद्धः| यदाहुः|
360 SK कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत्|
361 SK कार्यत्वात्तेन जगतः कर्ता देही प्रसज्यते|| इति|
3.13 SK प्रोक्तः स निष्कलः स्थूलस् तथा सकलनिष्कलः ईशः सदाशिवः शान्तः कृत्यभेदाद्विभिद्यते //
364 SK Vऋत्ति: कार्यस्य शरीरव्यभिचारात् स्वदेहस्पन्दात्मकं कार्यमस्मदादेर्न देहान्तरपूर्वकं सिद्धमित्युक्तं यतः|
365 SK शक्तोद्युक्तः प्रवृत्तश्च कर्ता त्रिविध इष्यते| इति|
366 SK तत्र यच्छक्तत्वं कार्यं प्रति योग्यत्वं सा निष्कलावस्था शान्त इत्युच्यते| यत्तूद्युक्तत्वं सा सकलनिष्कलावस्था सदाशिवः कथ्यते| प्रवृत्तक्रियत्वं तु स्थूलावस्था ईश्वर इति| कृत्यविषयो ऽयमवस्थाभेदस्तेनोपचारादेतत्तत्त्वत्रयं भिन्नमित्युच्यते| न परमार्थत्वादित्यर्थः| यद्वक्ष्यति
367 SK पुंसामनुग्रहार्थं तु परो ऽप्यपरतां गतः| इति|
368 SK एवं च ज्ञानपदार्थस्याप्यत्रैव परीक्षासिद्धिः| अत्र प्रश्नः
3.14 SK निष्कलः स कथं ज्ञेयः सकलो ऽपि पुमांस्तदा द्विस्वभावस्तथा यो ऽन्यो विरुद्धः स परस्परम् //
370 SK Vऋत्ति: इह हि पूर्वं शिवज्ञानं तथा तस्येत्यादिना
371 SK आकारवांस्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैति बुद्धिः| इति|
372 SK ततश्चाशक्यानुष्ठेयत्वात्तद्विषयज्ञानमनुपदेश्यमेव| नापीश्वरः सकलो भवति शरीरित्वेन देवदत्तादिवत्सर्वज्ञत्वकर्तृत्वाभावात्| नापि सकलनिष्कलं नाम वस्तु सम्भवति विरुद्धयोर्घटतदभावयोरिवैकत्र समावेशासम्भवादिति तत्त्वत्रयादस्मादेकस्य ज्ञानोपदेशवैयर्थ्याद्द्वयोश्च स्वरूपानुपपत्तेरेवावक्तव्यतेति प्रश्नार्थः| सिद्धान्तस्तु
3.15 SK पशोः शक्तिनिपातेन मन्त्रशक्त्या च सर्वदा निष्कलं लक्ष्यते शक्त्या सूक्ष्मं विषविकारवत् //
374 SK Vऋत्ति: पशोर्यः परमेश्वराच्छक्तिपातो या च मन्त्रशक्तिर्दीक्षा ताभ्यां या शक्तिर्ज्ञानक्रियात्मिका निर्मलीकृता तया सर्वदैव निष्कलतत्त्वं लक्ष्यते| विषदीक्षाशुद्धस्य मन्त्रिणः शक्त्यैव विषस्य विकारो मृतितापात्मक इव| शक्त्यतिशयख्यापनांशत्वेन दृष्टान्तत्वम्| अयं त्वत्रार्थः---यदि निष्कलत्वादेवास्य ज्ञेयत्वं नोपपद्यत इति प्रश्नस्तदात्मना व्यभिचारः| तस्य कार्यकरणव्यतिरेकेण स्वतः परतश्च कायवाग्व्यवहारात्मनानुमानेन ज्ञेयत्वात्|
375 SK अथ बौद्धस्य ज्ञानस्याकारग्रहणेनैव वस्तुव्यवस्थापकत्वादनाकारो न ज्ञेय इति प्रश्नार्थः| तदा सिद्धसाधनत्वमेव ज्ञानशक्त्यैवात्र तस्य ज्ञेयत्वेनोक्तत्वान्न बुद्ध्यादिभिरित्यदोषः| यो ऽपि सकलत्वात् भगवतो ऽनीश्वरत्वप्रसङ्ग उक्तः सो ऽप्ययुक्त इत्युच्यते
3.16ab SK सकलो ऽपि पुमान्नैव मायावयववर्जनात्
377 SK Vऋत्ति: अन्यदेवैतत्सकलत्वं सकलशक्तिप्रसरात्मकं यद्योगादीश्वरो ऽपि सकल इत्युच्यते| न तु पुरुषवन्मायीयकलादिशरीरयोगादिति सकलशब्दवाच्यत्वे ऽप्यत्र न पुरुषत्वं तथाभूतस्य सकलत्वस्यासिद्धत्वादिति भावः|
378 SK अथ कर्तृत्वात्तस्य पुरुषस्येव कथं न मायात्मिकास्ताः कलाः कल्प्यन्त इति| तत्रोच्यते
3.16cd SK निर्मलत्वाच्छिवस्यात्र न कल्प्यास्त्वसिताः कलाः //
380 SK Vऋत्ति: अन्यथासिद्धत्वादस्य हेतोर्यतो न मायात्मिकास्ताः कलाः पुंसः कर्तृत्वं जनयन्ति येन तदन्यथानुपपत्त्यात्र कल्प्याः स्युः| परिणामित्वेनाचेतनत्वप्रसङ्गादित्युक्तं परिणामो ऽचेतनस्येत्यादिना|
3.17ab SK मन्त्रात्मिकाः कलास्तस्य ते च मन्त्राः शिवात्मिकाः
382 SK Vऋत्ति: शिवस्यात्मभूता ये मन्त्राः सद्योजातादयो वक्ष्यमाणास्त एव
3.17cd SK तैः प्रकल्प्य शरीरं स्वं शुद्धाक्षाध्यासितं महत् //
3.18ab SK यावदेवं न कुरुते तावन्नो गुरुपद्धतिः
385 SK Vऋत्ति: तैरीशानादिभिः शिवात्मकैर्मन्त्रैर्मूर्धादिभेदेन तदवान्तराष्टत्रिंशत्कलाभेदेनेन्द्रियाद्यात्मना चाध्यासितं स्वं शरीरं ध्येयाद्याकारं परिकल्प्य भगवानत्र यावदेवमिति वक्ष्यमाणप्रकारेण सृष्ट्याद्यनुग्रहं न करोति तावन्न गुरुसाधकादिक्रम इति वक्ष्यति लक्ष्यते सकलं ध्यानादिति|
3.18cd SK कुरुते ऽनुग्रहं देही सर्वेषामेव देहिनाम् //
387 SK Vऋत्ति: शरीरद्वारेण हि सेव्यमानो राजादिरनुग्रहं कुर्वन्दृश्यते नाशरीरी| अस्मदाद्यगोचरत्वादित्यत्राराधनोपायत्वेनाकारोपदेशो ऽयं भगवत इति||
388 SK ननु यदि भगवतस्त्वपारमार्थिकं शरीरं कथमधिष्ठेयम्| अधिष्ठीयमानं कथं न शरीरमिति| तत्रोच्यते
3.19 SK यथैव योगिनः शक्तिर् ग्रहणे मोचने ऽपि हि तद्वदेवात्र बोद्धव्यं ग्रहणं मोचनं विभोः //
390 SK Vऋत्ति: यथा योगशक्त्या योगी कुड्यादिकमशरीरभूतमपि संसार्यनुग्रहार्थमधिष्ठाय परित्यजति| यदाहुः
391 SK सान्निद्ध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव|
392 SK निःसरन्ति यथाकामं कुड्यादिभ्यो ऽपि देशनाः|| इति|
393 SK तथैव परमेश्वरो ऽप्यनुग्रहार्थं बाह्यप्रतिमादिवत्तद्ध्येयाकारं बुद्धिनिर्मितशरीरभूतमप्यधिष्ठाय परित्यजतीत्यदोषः| अपि च
3.20 SK मुद्रामण्डलमन्त्रैश्च त्रिधासिद्धिविचेष्टितैः लक्ष्यते सकलं ध्यानात् सर्वज्ञानप्रवृत्तितः //
395 SK Vऋत्ति: मुद्राः परमेश्वरस्यावाहनविसर्जनादौ तच्छक्त्यभिव्यक्तिस्थानतया वक्ष्यमाणाः करसन्निवेशविशेषाः|
396 SK मूर्ध्नस्तु विजयं तन्त्रं ललाटात्पारमेश्वरम्|
397 SK विनिर्गतं महेशस्य मुखाच्च मुखबिम्बकम्|| इत्यादि|
398 SK निष्कलस्य त्ववयवविभागाभावादेताः श्रुतयो ऽनुपपन्नाः स्युरिति| एवमेतत्प्रकरणं ध्येयाकारनिष्ठत्वेन बुद्ध्याकारनिष्ठत्वेन च व्याख्येयम्| न तु बैन्दवशरीरप्रतिपादकत्वेन तस्य भगवत्यसम्भवात्| शरीरं हि यदचेतनमपि व्यवधानेन ज्ञानक्रियाशक्त्यभिव्यञ्जकं तदस्मदादेरित्युच्यते| विद्याविद्येशानां तु क्रियाशक्त्यभिव्यञ्जकमेव तेषां सर्वज्ञत्वाद्भगवतस्त्वभिव्यक्तसर्वशक्तित्वान्न कथञ्चित्तदुपपद्यत इत्यधिष्ठानमात्रेण तु शरीरत्वे सर्वं सर्वस्य शरीरं स्यादित्यनवस्था| तस्मात्पूर्वैव व्याख्या युक्तेति| एवं सकलविषयमपि दूषणं परिहृत्याधुना सकलनिष्कलविषयं परिह्रियते
3.21 SK द्विस्वभावगतो यो ऽन्यो देवः प्रोक्तो न निष्कलः बृहच्छरीरमापेक्ष्य कलाहीन इति स्मृतः //
400 SK Vऋत्ति: यस्त्वाभ्यां निष्कलेश्वराभ्यामन्यस्तृतीयो देवः सदाशिवभट्टारकःस द्विस्वभावगततया सकलनिष्कलत्वेनापेक्षाभेदात्केवलमस्माभिः प्रोक्त एव| न तु विरुद्धस्वभावो ऽभ्युपगतः| शिवापेक्षया ह्यसावुद्युक्तशक्त्यवस्थात्मकत्वाद निष्कलः सकल इत्युच्यते| ईश्वरशरीरं तु प्रवृत्तक्रियात्मकत्वेन बृहदिति स्थूलतरमपेक्ष्य निष्कल इत्यविरोधः| ततश्च न निष्कलवदत्राज्ञेयत्व दोषः प्रागुक्त उच्यते|
3.22ab SK एवमीशः स्थितः साक्षाद् योगिनां योगकारणम्
402 SK Vऋत्ति: एवं ध्येयाकारशरीरयोगेनेश्वरः सदाशिवश्च साक्षादाकारवत्त्वेन चित्तविषयत्वाद्योगादिकारणं समुपपद्यते| तदेवम्|
3.22cd SK योगो न लक्ष्यहीनत्वान् न नाडी न च धारणा //
3.23ab SK पुंसामनुग्रहार्थं तु परो ऽप्यपरतां गतः
405 SK Vऋत्ति: यतो निष्कले लक्ष्यभूतस्याकारस्याभावान्न योगो ज्ञानं वोपपद्यते| नापि मध्यनाड्यादिना योगप्रकरणवक्ष्यमाणनयेन गमागमादि व्यापके तदनुपपत्तेः| नापि देशबन्धश्चित्तस्य धारणेति ततः समस्तपुरुषानुग्रहानुपपत्तिरित्यालोच्य भगवान्निष्कलो ऽपि ध्येयाकारशरीरेणापरतां शरीरित्वं गत इति तथात्वे प्रयोजनमप्यत्रोक्तमिति|
406 SK न केवलमनेनैव सदाशिवाद्यात्मना ध्येयशरीरभेदेनापरतां गतो यावत्स्ववाचकमन्त्रावस्थाभेदेन मन्त्रान्तरवाच्यवाचकभेदेन चेत्युच्यते|
3.23cd SK नादबिन्दुखमन्त्राणुशक्तिबीजकलान्तगः //
408 SK Vऋत्ति: तत्र नादः कुण्डलिन्यभिधानायाः परस्या वाक्च्छक्तेरव्यक्तशब्दात्मकः प्रथमः क्षोभः| बिन्दुश्च तस्यैवेषत्स्थूलतान्तःसंजल्पात्मकत्वम्| खं चात्र परमाकाशं महामायैव सर्वपुरुषसंयुक्ता शक्तिस्तत एव नादात्मनः शब्दस्योदयादिसंवेदनात्| प्रोक्तं च श्रीमत्कालोत्तरे
409 SK आगोपालाङ्गना बाला म्लेच्छाः प्राकृतभाषिणः|
410 SK अन्तर्जलगताः सत्त्वास्ते ऽपि नित्यं ब्रुवन्ति तम्|| इति
411 SK सैव पश्यन्त्य वस्थेत्यागमान्तरानुसारिणः| यदाहुः
412 SK अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा|
413 SK स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी|| इति
414 SK मन्त्रश्च स्थूलशब्दः परमेश्वराभिधायको ऽत्र व्योमव्याप्यादिक इत्येवमवस्थाभेदेन चत्वारि स्थानानि वाचः प्रोक्तानि| श्रुतिरप्याह
415 SK चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः|
416 SK गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति||
417 SK श्रीमत्कालोत्तरे तु बिन्दुनादयोर्द्वयोरपि सूक्ष्मतया विशेषाभावात्त्रीणि रूपाण्यस्याः
418 SK स्थूलं शब्द इति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत्|
419 SK चिन्तया रहितं यच्च तत्परं परिकीर्तितम्|| इति|
420 SK आगमान्तरे ऽपि तिस्रो वाचः प्रोक्ताः|
421 SK घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते|
422 SK तयोरपि च घोषिण्योर्निर्घोषेह गरीयसी|| इति
423 SK केवलमात्मसमवेता एवैकान्ततस्तैरिष्यन्ते| अस्माभिस्तु तस्यापरिणामित्वात्परिग्रहवर्तिन्य इति दर्शितं नादसिद्धौ|
424 SK अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्|
425 SK इष्टस्यार्थस्य सम्प्राप्तौ को विद्वान्यत्नमाचरेत्| इति|
3.24ab SK योगी यथोपकारज्ञः सर्वज्ञत्वात्फलप्रदः
428 SK Vऋत्ति: स ह्युपकारकेभ्यः स्वल्पमहदुपकारापेक्षया तथारूपमेव फलं ददद्दृष्टो यतः| तदेवं
3.24cd SK इच्छानुग्रहकर्तृत्वाल् लयभोगाधिकारवान् //
3.25ab SK त्रिविधः कृत्यभेदेन दर्शितो नामभेदतः
431 SK Vऋत्ति: ध्येयाकारशरीरभेदभिन्नो ऽपि भगवान्परमार्थत इच्छामात्रेणानुग्रहादिकर्तृत्वादेव प्रागुक्तनयतः कृत्यभेदेन विभिन्नो लयभोगाधिकारवान् भिन्न इत्युच्यते| सर्वज्ञत्वस्याभेद इति यावत्|
432 SK अथ ज्ञानपदार्थपरीक्षानन्तरं विचारपदार्थपरीक्षा|
3.25cd SK ईश्वरो ऽधःस्थविद्यानां पतीन्संप्रेरयत्यसौ //
3.26ab SK तेन प्रेरितमात्रास्ते कुर्वते ऽधस्तनं जगत्
435 SK Vऋत्ति: प्रकृतत्वात्पतिभ्यो ऽधस्तिष्ठन्तीति अधःस्था विद्याः सप्तकोटिसंख्याता मन्त्रास्तेषां ये पतयो ऽनन्तादयो वक्ष्यमाणास्तान्प्रेरयति|
436 SK यद्येवमुपरितनं जगत्कः करोतीत्युच्यते|
3.26cd SK शुद्धे ऽध्वनि शिवः कर्ता प्रोक्तो ऽनन्तो ऽसिते प्रभुः //
438 SK Vऋत्ति: शुद्धे विद्यातत्त्वभुवनाद्यात्मके मन्त्रमन्त्रेशाध्वनि शिवः कर्ता| तत्कृतास्ते तद्भुवनादिकं च समस्तमित्यर्थः| अनन्तो ऽनन्तादिरित्यर्थः| अनन्तादिको वर्गो ऽसिते मायावर्त्मनि प्रभुः स्थित्यादिकर्तेति|
439 SK अथ शुद्ध इवाशुद्धे ऽपि कथं न स एव प्रभुरिति| उच्यते|
KirT_3.27a-d SK यथा भूमण्डलेशेन नियुक्तः स्वसमप्रभुः तथासौ कुरुते सर्वं तच्छक्तिप्रतिबोधितः
441 SK Vऋत्ति: दृष्टवददृष्टकल्पना| यथा भूमण्डलेशो ऽत्र नृपतिरन्तरङ्गममात्यपुरोहितादिप्रकृतिवर्गं स्वयमेव कुर्वन्दृश्यते बहिरङ्गमात्मकल्पामात्यादिप्रेरणेनैवेत्येवमत्रापि श्रुतेरविरोधः| तच्छक्तिप्रतिबोधित इत्यनेन विज्ञानकेवलिनः सतो ऽनन्तादिवर्गस्यानुग्रह इति| अप्रतिबुद्धो हि प्रतिबोध्यते| तच्चाप्रतिबुद्धत्वं मलत एवोक्तं यतः|
442 SK अथानन्तादेः स्वरूपम्
3.27ef SK सर्वज्ञः शुद्धदेहश्च सर्वज्ञानप्रकाशकः //
444 SK Vऋत्ति: ईश्वरादयं कर्तृत्वेनैव कलया न्यूनो, न तु ज्ञत्वेनापीत्यर्थः| शुद्धदेहश्च न मायागर्भाधिकारिवदशुद्धदेहः| सर्वेषां च दशाष्टादशभेदभिन्नानां शिवज्ञानानामुपदेष्टृत्वेन स्थितः, न तु गुर्वन्तरवत्कतिपयानामिति||
445 SK \Cओलो इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ तृतीयं प्रकरणम्||
446 SK अथ विचारपदार्थस्यैव विस्तरपरीक्षार्थं प्रश्नपूर्वकं प्रकरणान्तरम्|
4.1 SK शिवशक्तिप्रभावाच्च किलानन्तः प्रबुध्यति प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यते //
4.2 SK अन्येषां सन्निकृष्टापि बोधं सा कुरुते न किम् योग्यानामुपकारी चेद् रागवान्स्याच्छिवस्तदा //
449 SK Vऋत्ति: अत्र च सूत्रपदार्थप्रकरणसम्बन्धाः प्राग्वदेव द्रष्टव्याः| पाटलिकस्तु विचारपदार्थस्यैवानन्तरं विशेषपरीक्षात्मकः| वाक्यात्मकस्तु प्रोक्तो ऽनन्तो ऽसिते प्रभुरित्यादिभिरनेकविधः|
450 SK ततश्चेश्वरशक्तेर्व्यापकत्वेन सर्वत्र सन्निहितत्वतो विशेषाभावात् सर्वेषामात्मनामनन्तादिरूपता स्यात् न वा कस्यचिदपि| सेवनादियोग्यतापेक्षया तत्करणे च तस्य रागद्वेषादियोगात् पुरुषवदनीश्वरत्वप्रसङ्ग इति|
4.3 SK यथार्करश्मिसम्पर्कात् पद्मबोधः समो न किम् कानिचित्प्रतिबुध्यन्ति तथान्यानि न जातुचित् //
4.4 SK रागद्वेषौ न चार्कस्य तथेशस्य न तौ यतः अधिकारान्नियोगो ऽस्य न नियोगं विना स्थितिः //
4.5ab SK तत्सामर्थ्यादनन्तस्य सर्वज्ञत्वं भवेत्खग
455 SK Vऋत्ति: सत्यम्| व्यापिका शक्तिर्योग्यतापेक्षया चानुग्राहिका| न च तया रागद्वेषानुमानम्| तथाभूतायास्तस्या अत्रासिद्धत्वाद्यतो ऽधिकारिणामधिकारो मलस्य पक्वत्वमत्र योग्यता| पक्वमलानां सा बोधप्रदेत्युच्यते| यथा सवित्रा प्रतिबोधयोग्यं प्रतिबोध्यते| तस्मादधिकाराद्योग्यतालक्षणादनन्तस्य नियोगस्तन्नियोगं विना बहिरङ्गकार्यस्य न व्यवस्थानमुपपद्यत इत्युक्तं यतः| न च तथाभूतस्य योग्यतानुसरणस्य रागद्वेषाद्यविनाभावः सिद्ध इति न ततो ऽत्रानीश्वरत्वप्रसङ्गः|
456 SK अधुनात्रैव परीक्षान्तराय प्रश्नः|
4.5cd SK सर्वज्ञत्वं तनौ सत्याम् अनन्तस्य न युज्यते //
4.6ab SK नियतानि यतो ऽक्षाणि नियतग्राहकाणि च
459 SK Vऋत्ति: यदुक्तं सर्वज्ञः शुद्धदेहश्चानन्त इत्येतन्नोपपद्यते| यतः प्रागुक्तनयेन प्रतिनियतकार्यकरणात्मकशरीरयोगः प्रतिनियतग्राहकत्वेन व्याप्तः सर्वशरीरिगततया सिद्धः| अतः शरीरित्वेन विरुद्धव्याप्योपलब्ध्या सर्वज्ञत्वनिषेधः क्रियत इत्यर्थः|
460 SK नन्वसिद्धो ऽयं हेतुरन्यत्वात्कार्यकरणादेः शुद्धदेहत्वेनानन्तस्योक्तत्वादिति| अत्रोच्यते
4.6cd SK मायात्मकं शरीरं तच् छिष्टकर्मनिमित्तजम् //
4.7ab SK यदि नाम विशेषः स्यात् सुदूरश्रवणादिकः
463 SK Vऋत्ति: न तावदमायात्मकत्वमकर्मजत्वं वा तच्छरीरस्य शुद्धत्वं संभवति शरीरत्वादस्मदादिशरीरवदिति| यदाहुः
464 SK मायोर्ध्वं देहसद्भाव इति वार्तैव भद्रिका| इति|
465 SK \च्रुx यदि परं ब्रह्मादिशरीरस्येव विशिष्टकर्मजत्वमेव ततो ऽस्य वाच्यम्\च्रुx | ततश्च तथाभूतशरीरयोगात्तस्य तद्वदेव सुदूरश्रवणादिक एव विशेषः सिध्यतीति| यदाहुः
466 SK यो यत्रातिशयो दृष्टः स एवान्यत्र लङ्घनात्| इति|
467 SK न तु सर्वज्ञत्वमतो नायमसिद्धो हेतुरिति पूर्वः पक्षः|
4.7cd SK शुद्धयोनिमयं तस्य वपुरुक्तमकर्मजम् //
4.8ab SK तस्यैवं पाशमुक्तत्वाज् ज्ञानं केन निवार्यते
471 SK Vऋत्ति: शरीरस्य मायात्मकत्वेनेह व्याप्तिरसिद्धा, शुद्धविद्यात्मनो ऽपि सम्भवादित्युक्तं शुद्धे ऽध्वनि शिवः कर्ता इत्यादिना|
4.8cd SK तत्स्थं सर्पं विषं यद्वत् तद्गतं न विबाधते //
4.9ab SK बाधते ऽनन्तमेवं न तद्गतः पाशसञ्चयः
474 SK Vऋत्ति: यथा हि विषस्रष्टुः सर्पस्य शरीरस्थमपि विषं सर्पान्तराद्वा प्रतिसंक्रान्तं तन्न विषतया बाधकं तथानन्तस्य \च्रुx तत्स्थानसाधकगतः शरीरादिजनकत्वाक्षिप्तशुद्धविद्याकर्तृत्वात्तदात्मकः\च्रुx\ पाशसञ्चयः शरीरात्मको न बाधक इति| एवं माया गर्भाधिकारिणो ऽपि वीरभद्रादयो न मायापाशसञ्चयेन बाध्यन्त इत्युक्तं भवति| तदुक्तं गुरुभिः
475 SK कलायोगे ऽपि नो वश्याः कलानां पशुसङ्घवत्|
476 SK वश्यास्ताः पशुभिः सार्धं तेषां ते तदुपर्यतः| इति|
477 SK यद्येवं पाशान्तरवच्छुद्धविद्यापि पाशत्वेनानन्तस्य भगवतो विच्छिन्नेति कथं ततो ऽयं शरीरात्मकः पाशसञ्चय इति| तत्रोच्यते
4.9cd SK छिन्ना छिन्नोद्भवा यद्वत् स्थानाश्रयवशाद्भवेत् //
4.10ab SK स्थानयोगेन मन्त्रेशे हठवत्तनुधारणम्
480 SK Vऋत्ति: यथा छिन्नोद्भवा गडूची मूलतो विच्छिन्नापि स्थानविशेषमाश्रयमाश्रित्य पुनः प्ररोहं याति| एवं शुद्धविद्यापि छिन्नापि अनन्तस्य तदधिकारित्वलक्षणं स्थानविशेषमाश्रित्य तच्छरीराद्यात्मना पुनः प्ररोहमायातीत्यधिकारसामर्थ्यादनन्तेशस्यानिच्छतो ऽपि बलादिव शरीरधारणमित्यविरोधः| यदपि तच्छरीरस्य कर्मजत्वे ऽनुमानमुक्तं तदप्यनैकान्तिकमित्युच्यते|
4.10cd SK मन्त्रशक्त्या यथा देहो विधृतस्तिष्ठते चिरम् //
4.11 SK प्राप्नोत्यभीप्सितं स्थानं कालदष्टो ऽपि शक्तितः एवं तच्छक्तिसामर्थ्याद् आस्ते तस्य वपुर्यतः //
4.12ab SK अतः सुनिर्मलं ज्ञेयं बिसिनीपत्त्रवद्वपुः
484 SK Vऋत्ति: मरणकाल एव यो दष्टः सर्पेण स कालदष्टः क्षीणकर्मेत्यर्थः| तस्य यथा मन्त्रशक्त्यैव धृतो देहश्चिरं तिष्ठत्यभीप्सितञ्च स्थानं प्राप्नोति प्रागुक्तस्यैव पुंसः शक्त्या ज्ञानक्रियात्मिकया तथेश्वरशक्तिसामर्थ्यादधिकाराख्यादनन्तेशस्य शरीरमकर्मजमेवेति|
485 SK अतस्तत्पूर्वयुक्त्या च कार्ममायीयलक्षणैः|
486 SK असंस्पृष्टं मलैर्ज्ञेयं पद्मपत्रमिवाम्भसा|| इति|
487 SK अस्मदादीनामपि केषाञ्चिदकर्मजदेहदर्शनाच्छरीरत्वादित्यस्य हेतोरत्रानैकान्तिकत्वमित्युक्तं भवति| ननु बोधायतनं शरीरमस्मदादीनामिव तस्येति किमुच्यते हठवत्तनुधारणमिति तदर्थमेतत्|
4.12cd SK तन्त्रैरुपकृतः कल्यो यथा देहगतो रसः //
4.13ab SK स तिष्ठति शरीरे ऽस्मिंस् तद्वद्बोधो महाबलः
490 SK Vऋत्ति: यथा कलने गतौ साधुः कल्यो ऽत्यन्तानवस्थितः शरीरे रसः पारतः स एव तन्त्रैस्तत्कुटुम्बधारणादिभिर्द्रव्यान्तरैरुपकृतः
4.13cd SK यथा भेषजसामर्थ्याद् अशक्तानां बलं परम् //
4.14 SK याति तच्छक्तिसामर्थ्याद् अनन्तस्य परे बलम् तेन सामर्थ्ययोगेन योनिं प्रेरयते क्षणात् //
493 SK Vऋत्ति: अशक्तानां यथौषधादिसामर्थ्याच्छक्तिरुपचयं याति| एवं तस्य शरीरस्य या शक्तिः तया यत्सामर्थ्यं कर्तृत्वसमर्थनं तस्मादनन्तेशस्य परस्मिञ्छिवतत्त्वे बलं संस्कार्यसंयोजनाद्यात्मकं यातीति| अयमर्थः---सर्वज्ञत्वे ऽपि तस्य शिवात्कलया कर्तृत्वन्यूनत्वेनात्र संस्कार्यसंयोजनादिव्यापारानुपपत्तेरवश्यं तावतो ऽपि कर्तृत्वांशस्याभिव्यञ्जनायास्मदादेरिव शरीरमुपयुज्यत इत्यदोषः|
494 SK अत्रैव परीक्षान्तराय प्रश्नः
4.15 SK प्रेरको ऽधस्तने मार्गे मायायाः प्रेरकेण किम् स्वत एव विकारेण जगत्यस्मिन्विकारिणी //
4.16 SK जगद्योनिर्यतः प्रोक्ता तद्विकाराः कलादयः विकारात्सर्वनाशः स्याद् विकारो न जगत्कथम् //
497 SK Vऋत्ति: ननु चायं प्रश्नो ऽनुपपन्नः पूर्वमेवेश्वरसिद्धौ न्यायनिराकृतत्वात्समाधिरपि प्रागुक्त एव यतः| यदुक्तं कर्म चेन्न ह्यचेतनमिति|
4.17 SK अचेतनत्वात्प्रेर्या सा पुरुषार्थेन हेतुना स्वतो न विकृतिस्तस्माद् अनन्तो ऽस्याः प्रचोदकः //
500 SK Vऋत्ति: महाप्रलये ऽपि पुरुषार्थतया कलादिव्यक्त्यनुगुणेन सूक्ष्मसूक्ष्मतराद्यवस्थाभेदेन भगवतः साक्षात्प्रेर्यैव| तदानीमपीश्वराद्यवस्थानुपसंहारान्न पूर्वः प्रसङ्ग इत्यर्थः| यदुक्तं श्रीमन्मृगेन्द्रे
501 SK स्वापे ऽप्यास्ते बोधयन्बोधयोग्यान्रोध्यान्रुन्धन्पाचयन्कर्मिकर्म|
502 SK मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन्पश्यन्सर्वं यद्यथा वस्तुजातम्|| इति|
503 SK महाप्रलयश्च बहिरङ्गकलादिकार्योपसंहारः| तत्रैव चानन्तादेः कर्तृत्वमित्युक्तं यतः| नापि द्वितीयप्रसङ्ग इत्युच्यते
4.18 SK वायुवेगाद्यथोदन्वान् उपर्येव विकारभाक् अक्षोभ्यत्वात्तथा माया सविकारा कलादिभिः //
505 SK Vऋत्ति: यथा ह्युदधिः परिमिताभिः शक्तिभिस्तरङ्गात्मकं विकारमनुभवति न सर्वाभिरेवं शक्तिसमाहारात्मकत्वान्मायायाः कतिपयाभिरेव शक्तिभिः सा कलादिविकारमनुभवति न सर्वाभिस्तेन रूपेणाक्षोभ्यत्वादिति| अत्र पराभिप्रायः
4.19a SK नाक्षुब्धा कार्यकर्त्री चेत्
507 SK Vऋत्ति: विकृतानामप्यविकृतानामिव शक्तीनां तत्सहभावित्वादक्षोभे तासामपि विकारानुपपत्तेः कार्यानुपपत्तिरित्यवश्यं सर्वैव क्षुब्धाभ्युपगन्तव्येत्यक्षोभ्यत्वादित्ययं हेतुरत्रासिद्ध इति|
KirT_4.19b-d SK क्षोभो ऽस्याः स्यात्तदीरणम् सा शक्तिः प्रेरिता तेन नित्यं कार्यकरी भवेत् //
510 SK Vऋत्ति: अयं सामान्यक्षोभः सर्वशक्तिविषयः प्रेरणात्मकस्तस्या अभ्युपगम्यत एव| कार्यात्मकस्तु विशेषक्षोभः कस्याश्चिदेव शक्तेरिति| एवञ्च नात्रासिद्धतेत्युच्यते
4.20 SK उक्ताक्षोभ्या विभुत्वात्सा कारणं जगतः स्थिता यथा मायाधिका व्याप्य न तत्कार्यगणो ऽध्वनि भावान्कलादिकान्व्याप्य स्थिताक्षोभ्या ततःस्मृता //
512 SK Vऋत्ति: विभुत्वेन सर्वशक्त्यात्मना न कार्यतया क्षोभ्यत इत्यक्षोभ्यत्वेनोक्ता भवति| जगत्कारणात्मनानुमीयते| तेन रूपेणाक्षोभ्यैव यतो भवन्तीति भावास्तत्कार्यात्मकाः कलादयः तान्व्याप्य स्थिता| घृतकीटन्यायेन तद्गर्भ एव तेषामुत्पत्तिरित्यर्थः न तु तद्भावभावित्वात्| घटादेः कार्यस्य मृदादिद्रव्यमेव कारणं लोके दृष्टं न तु तच्छक्तिः| तत्किमुच्यते शक्तिः कार्यकरीति| तत्रोच्यते
4.21 SK तत्कार्यकारिका शक्तिः क्रियाख्या सूक्ष्मरूपिणी स्थूलकार्यासु सूक्ष्मापि स्थिता न्यग्रोधबीजवत् //
514 SK Vऋत्ति: लोके ऽपि न्यग्रोधबीजवत् सूक्ष्मापि शक्तिस्तस्य स्थूलस्य कार्यस्य कारिका परिणतिशब्दवाच्या नित्यानुमेयधर्मिणी सिद्धैव| न तु द्रव्यमशक्त्यवस्थायामपि तस्य भावात्| यदाहुः
515 SK शक्तिः कारकं न द्रव्यं व्यभिचारादिति|
516 SK नापि सहकारिसन्निधानमशक्तस्य तत्सहकारियोगे ऽपि तत्कार्यादर्शनादिति शोभनमुक्तम् शक्तिः कार्यकरीति| ततः प्रकृते किमुच्यते
4.22ab SK कारणं तेन सा ज्ञेया स्थूलस्यास्य समन्ततः
518 SK Vऋत्ति: येनैवमनेकशक्तिरूपापि माया न सर्वशक्त्यात्मना परिणमत इत्युक्तं तेन कारणेन सा काचिदेव शक्तिरस्य स्थूलस्य कलादेः कार्यस्य सामस्त्येन कारणं प्रोक्ता| न तु शक्त्यन्तरमिति द्वितीयो ऽपि प्रसङ्गो ऽनुपपन्न इति|
519 SK अथ किं सर्वस्य जगतः साक्षात्कारणम्| नेत्युच्यते
4.22cd SK तस्मात्कला तुटिः संस्था बोधिनी ह्यभिलाषकृत् //
4.23 SK सूक्ष्मं चातो गुणास्तेभ्यो बुद्धिर्बुद्धेरहंकृतिः तस्मादेकादशाक्षाणि पञ्च तन्मात्रकाणि च तेभ्यो भूतानि जातानि सर्वमीशः सृजत्यधः //
522 SK Vऋत्ति: तस्मान्मायातत्त्वात्कला तुटिश्च कालः संस्था च प्रागुक्ता नियतिरेव साक्षादुत्पन्नाः| यदुक्तं श्रीमत्स्वायम्भुवे
524 SK कलाशब्देन तत्र नियतेरप्युपादानात्| बोधनी तु प्रागुक्ता विद्या| हीति यस्मात्कारणादुत्पन्ना तस्मादेवाभिलाषकृत् प्रागुक्तो रागः| सूक्ष्मं च गुणकारणतया प्रागुक्तं प्रधानमुत्पन्नं तत एव| प्रक्रमान्तरनिर्देशान्न मायातः किन्तु कार्यप्रक्रमात्पूर्वश्रुतायाः कलात एव| यदुक्तं श्रीमद्रौरवे
525 SK कलातत्त्वाद्रागविद्ये द्वे तत्त्वे सम्बभूवतुः|
527 SK अत इति सूक्ष्मपदोपात्तात्तत्त्वात्प्रधानाद्गुणाः सत्त्वादयस्त्रयस्तेभ्यो बुद्धिरिति गुणेभ्यः| बुद्ध्यादेः सामान्यशास्त्रप्रसिद्धस्य तत्त्वादिवस्तुनः प्रकारविशेषपरिग्रहार्थमनुवाद इति दर्शितं प्रागेव| प्रोक्तं च सांख्यैः
528 SK प्रकृतेर्महांस्ततो ऽहंकारस्तस्माद्गणश्च षोडशकः|
529 SK तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि|| इति|
530 SK सर्वमिति भूतभावभुवनात्मकम्| यच्चाधः स्थूलभूतमयं ब्रह्माण्डं तदप्यसृजत्| तदेवं
4.24 SK सो ऽसृजद्भगवानीशः शिवशक्तिसमन्वितः कृत्स्नं मायात्मकं कार्यं शुद्धाशुद्धविमिश्रितम् //
532 SK Vऋत्ति: पारम्पर्येणैतत्सर्वं मायातः स एवानन्तेशो ऽसृजत्| तत् प्रतिस्थानं शुद्धैश्चाशुद्धैश्चाधिकारिभिर्विमिश्रितम्| ते ऽपि तेनैव निर्मिता इत्यर्थः| यदुक्तं श्रीमद्रौरवे
533 SK पतयश्चाञ्जनातीताः साञ्जनाश्च पृथग्विधाः|
534 SK भुवने भुवने देवास्तन्नियोगाद्व्यवस्थिताः|| इति|
535 SK स्वरूपेणापि तच्छुद्धमशुद्धं च विमिश्रितं सो ऽसृजदिति| यदुक्तं सांख्यैः
536 SK ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः|
537 SK मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः|| इति|
4.25ab SK योनिजं बुद्धिभेदाच्च तदेकं चेद्द्विधा कथम्
540 SK Vऋत्ति: योनिर्माया तज्जत्वेनाविशेषात् सर्वमेव \च्रुx शुद्धानां शरीरं शुद्धं \बेगिन्सुप्प्ल्य् शुद्धं \एन्द्सुप्प्ल्य् वा भुवनं स्यात्\च्रुx | एकरूपमेवेत्यर्थः| किञ्चित्त्वशुद्धानामशुद्धं वा मिश्रितं वेत्येवं द्विधा कथमसृजत्| असंभवात्| यदाहुः
541 SK नोपादानं विरुद्धस्येति|
542 SK अथैकस्माद्द्वितयमेतत्प्रकारतया भिद्यते| यथान्नादोदनापूपाविति| ततो नानयोर्विरोधसम्भव इति| तदयुक्तमित्युच्यते बुद्धिभेदाच्चेति| बुद्धिभेदे ह्यन्नादोदनादेस्तत्प्रकारतया द्वितयत्वम्| यस्य त्वेकस्माद्बुद्धिभेदे ऽसत्यनेकत्वं नासौ तत्प्रकारतया द्विधा भवति| घट इव तदभावतया| बुद्धिभेदे ऽसत्यनेकत्वं च| प्रागुक्तादशुद्धाच्छुद्धं शुद्धाच्चाशुद्धम्| अतस्तदपि तत्प्रकारतया द्विधा कथम्| नैवेति| प्रकारभेदाभावादत्र घटतदभावयोरिव वस्तुभेद एव| अतो नोपादानं विरुद्धस्येति युक्त एव प्रश्नः| सिद्धान्तस्तु
4.25cd SK दृष्टं खद्योतकादेस्तद् विरुद्धं चैकहेतुकम् //
544 SK Vऋत्ति: अयुक्तमेतदसिद्धत्वात्| न हि \च्रुx प्रकारान्तरस्य प्रकारान्तरकारणप्रकारान्तरत्वमस्माभिस्तद्बुद्धिभेदादिष्यते\च्रुx | अपि तु प्रकारिण एव तथादृष्टत्वात्| खद्योतमशकमक्षिकादीनां हि प्रकाशाप्रकाशरूपेण बुद्धिभेदे ऽपि स्वेदैकयोनिजत्वेन बुद्ध्यभेदात्तत्प्रकारत्वं दृष्टम्| तद्वदत्र शुद्धाशुद्धयोरुत्पद्य ज्ञानाज्ञानरूपेण बुद्धिभेदे ऽपि योनिजत्वेन बुद्धिभेदाभावात्तत्प्रकारभेदेनैव द्विधाभावो युक्त इति प्रकाराणां परस्परपरिहारविरोधे ऽप्येकप्रकार्युपादानहेतुत्वं खद्योतमशकमक्षिकादीनामिव दृष्टं न विरुध्यत इत्यदोषः| तथा हि
KirT_4.26a-d SK एवं तद्भिन्नसंस्थानं शुद्धाशुद्धाङ्गसंयुतम् ज्ञेयं कारणशक्त्युत्थं कार्यं बीजनिमित्तजम्
546 SK Vऋत्ति: एवमेकबीजभूतयोनिशक्तिनिमित्तत्वे ऽपि शुद्धाशुद्धामित पक्षस्थं भिन्नसंस्थानं भिन्नप्रकारतया ज्ञेयम्| न घटतदभाववद्भेदेनेति|
4.26ef SK एवमेतत्समादिष्टं तत्कार्यं विग्रहाश्रयम् //
549 SK Vऋत्ति: विग्रहे ऽस्मिन्स्थूलशरीरे सूक्ष्मदेहतयाश्रयो यस्य तन्मायाकार्यं कलादि सूक्ष्मदेहतयैवमादिष्टं परमेश्वरेण| कथमित्युच्यते
4.27 SK यद्यप्येतन्मिथः कार्यं विरुद्धमसितात्मकम् तथाप्येतत्सुसंश्लिष्टम् एकस्मिन्वस्तुनि स्फुटम् //
4.28ab SK नरार्थं साधयेद्भिन्नं नरस्य शकटाङ्गवत्
552 SK Vऋत्ति: यद्यप्यशुद्धं मायाकार्यं कलाद्येतत्परस्परपरिहारस्वभावतया घटतदभावादिवत्तद्विरुद्धं तथाप्येतदेकस्मिन्सूक्ष्मदेहे वस्तुनि संश्लिष्टं स्फुटं कृत्वा पुरुषस्यार्थं प्रागुक्तेन चैतन्योपोद्बलेनोपलब्धं कलादिव्यापारभेदेन साधयतीति सम्भाव्यते शकटाङ्गानीव शकटाश्लिष्टानीति|
4.28cd SK एवमेतदनन्तेन सृष्टं देहनिबन्धनम् //
554 SK Vऋत्ति: यस्मादेवं पुरुषार्थसाधकमेतत्तस्मात्कारणाद्देहे निबन्धनं स्थितिर्यस्य तद्देहनिबन्धनं स्थूलदेहाधारत्वेन पुरुषार्थसाधकतयानन्तेशेन सृष्टं नान्यथेति|
555 SK अथ को ऽसौ पुरुषार्थः कथं च देहनिबन्धनो ऽसावित्युच्यते
4.29ab SK न देहेन विना मुक्तिर् न भोगश्चित्क्रियागुरुः
557 SK Vऋत्ति: तत्र मुक्तिर्भोगश्च यश्चित्क्रिययोर्गुरुरुपदेष्टा भोगेन हि चित्क्रिये उपदिश्येते| येनाभोगे न प्रलयकेवलाद्यवस्थायामित्येष द्विविधः पुरुषार्थः| स च देहेन विना नोपपद्यते| मुक्तिर्हि मलपरिपाकं विना नोपपन्ना| नामिश्रं परिणमत इति न्यायेन| केवलस्य च तस्य परिपाकासम्भवादवश्यं तत्परिपाकसहभावित्वेन शरीरापेक्षेत्युक्तम्| भोगो ऽपि भोगसाधनानामेषामधिकरणं विना व्यापारादर्शनाद्देहापेक्षा सुसिद्धैवेत्यविरोधः| न केवलमत्रानन्त एव कर्ता यावत्
KirT_4.29c-f SK एतच्च कुरुते शम्भुः स्वतन्त्रत्वात्प्रभुत्वतः सर्वानुग्राहकः शान्तस् तद्वशादखिलं फलम् //
559 SK Vऋत्ति: परमेश्वरश्च तत्करोति न केवलो ऽनन्तेश इति चकारो ऽत्र भिन्नक्रमः| प्रयोज्यप्रयोजकभावेन द्वयोरत्र कर्तृत्वमित्यर्थः||
560 SK \Cओलो इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ चतुर्थं प्रकरणम्||
561 SK अथ पाशपदार्थस्यैव परीक्षान्तरार्थं प्रश्नपूर्वं प्रकरणान्तरम्||
5.1ab SK शक्तिपाताद्भवेद्दीक्षा निपातो न विभुत्वतः
563 SK Vऋत्ति: अत्र सूत्रपदार्थप्रकरणसंबन्धाः प्राग्वद्द्रष्टव्याः| वाक्यात्मकस्तु
564 SK तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
565 SK इत्यादिभिरनेकविधः| पाटलिकस्तु सर्वानुग्राहकः शान्त इत्यादि|
566 SK अयं चात्र प्रश्नार्थः| यदुक्तं तीव्रशक्तिनिपातेन गुरुणा दीक्षित इत्येतदयुक्तम्| पातो ह्यव्यापकत्वेन व्याप्तः कुण्डबदरादिसिद्धस्तद्विरुद्धं च व्यापकत्वं ततो व्यापकविरुद्धोपलब्ध्यात्र व्यापकत्वेन शक्तेरव्यापकत्वाभावे पतनाभावः साध्यत इति| न चायमसिद्धो हेतुः|
567 SK प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यत इति
568 SK पूर्वमेव व्यापकत्वेनास्याः समभ्युपगमादिति| न तु मायया नैकान्तिकत्वमत्रेत्युच्यते
5.1cd SK शिवस्य समवेतत्वात् सर्वदैव स्थिता पशौ //
570 SK Vऋत्ति: परिग्रहवर्त्तिनी शक्तिरचेतना मायेत्युक्तम्| ततश्च परिणतिस्वभावत्वात्कार्यक्रमेण पुंसः प्रलयोत्तरकालं सा पततीति युज्यते वक्तुम्| इयं तु परमेश्वरसमवेतत्वाच्चिद्रूपत्वेनापरिणतिधर्मिणी| यदुक्तम्
571 SK परिणामो ऽचेतनस्य चेतनस्य न युज्यत इति|
572 SK ततश्च सर्वदैव पशौ सानुग्राहिकात्वेन संस्थितेति नानैकान्तिकता समवेतत्वे सतीति विशेषितत्वादत्र हेतोरित्यर्थः|
573 SK अथ सैव स्थितिः पात इत्युच्यते| यद्येवं
5.2ab SK स्थितत्वात्सर्वदा शक्तेर् भवोच्छित्तिर्न किं भवेत्
575 SK Vऋत्ति: तस्याः सर्वपुरुषगतत्वेनानादिव्यवस्थितेः सर्वपुरुषाणामप्यनादिरेव दीक्षायोगान्मोक्ष इति संसाराभावप्रसङ्गः| अभ्युपगम्यापि शक्तेः प्रागुक्तं पातमित्युच्यते
5.2cd SK कालो वा स च कः प्रोक्तो यदि कालः शिवेन किम् //
577 SK Vऋत्ति: वाशब्दः पक्षान्तराभ्युपगमसूचनार्थः| अथवा यदुक्तं प्राक्
578 SK समे कर्मणि सञ्जाते कालान्तरवशादिति|
579 SK मलपरिपाककालः प्रोक्तः| चशब्दात् को ऽन्यः प्रोक्त इति| किं प्रागुक्त एव शक्तिपातस्य कालो ऽन्यो वेत्यर्थः| न तु तस्यैवाज्ञातत्वेन व्याख्येयं प्राक् प्रतिपादितत्वेन तस्याज्ञानसम्भवाभावात्| यदपि कालः शक्तिपातस्य निमित्तं, शक्तिपातो दीक्षाया इति प्रागुक्तं तदप्ययुक्तम्| यतः कालो यदि शक्तिपातस्य हेतुरिष्यते ततः स एव दीक्षाहेतुरस्तु किं शिवेनात्र शक्तिपातद्वारेण मोक्षहेतुना कल्पितेन| भोगे तु स्थूलं विचित्रकं कार्यमित्यादिना प्रतिपादितत्वात्तस्य कर्तृत्वमस्त्विति प्रश्नार्थः|
580 SK इदं प्रश्नजातं क्रमेण निराकरोति|
5.3 SK उपचारेण शब्दानां प्रवृत्तिरिह दृश्यते यथा पुमान्विभुर्गन्ता नित्यो ऽप्युक्तो विनश्वरः //
5.4 SK पाशच्छेदो यथा प्रोक्तो मन्त्रराड् भगवाञ्छिवः एवं शक्तिनिपातो ऽपि प्रोच्यते सोपचारतः //
583 SK Vऋत्ति: तत्र यदुक्तं निपातो न विभुत्वतः शक्तेरिति तत्सिद्धसाधनमेव| अत एव त्वदुक्तप्रमाणबाधितत्वान्मुख्यार्थासम्भवेनास्माभिरपि शक्तिपातश्रुतीनामुपचरितार्थत्वमभ्युपगतं| यथा नित्यव्यापकधर्मयुक्तो ऽपि पुरुषो गन्ता विनश्वरश्च स्वशरीरेणोपचारेणोच्यते| यथा च पाशानां दीक्षितं पुरुषं प्रत्यप्रवर्तनमेव च्छेद इव च्छेद उच्यते| न तु वास्तवो द्वैधीभावः| यथा च मन्त्रैर्विराजत इति मन्त्रराट् परमेश्वरो ऽपि सन् भगवानुपचारादुच्यत इत्यविरोधः| अथात्रोपचारस्य निमित्तमनादिस्थिताया वामशक्तेस्तावत् पातपदप्रवृत्तावुच्यते
5.5 SK निपातो भयदो यद्वद् वस्तुनः सहसा भवेत् तद्वच्छक्तिनिपातो ऽपि प्रोक्तो भवभयप्रदः //
5.6ab SK तस्मादन्यत्र यात्येव तथात्मा देशिकं प्रति
586 SK Vऋत्ति: यथा हि पाषाणादिपातो भयदः पुंसामेवमनादिरपि परमेश्वरशक्तेः सम्बन्धः संसारभयहेतुत्वात्पात इवोच्यते| ज्येष्ठाशक्तिसम्बन्धिनो ऽपि दीक्षापूर्वभावित्वेन प्रागुक्तस्य पातस्योपचारनिमित्तमुच्यते
5.6cd SK गुरुर्यथाग्रतः शिष्यान् सुप्तान्दण्डेन बोधयेत् //
5.7 SK शिवो ऽपि मोहनिद्रायां सुप्ताञ्छक्त्या प्रबोधयेत् यदा स्वरूपविज्ञानं पतितेति तदोच्यते //
5.8ab SK तस्माच्छक्तिनिपातः स्यान् निपातश्चिह्नवाचकः
590 SK Vऋत्ति: यथाग्रे स्थितत्वाविशेषे ऽपि शिष्याञ्छासने ऽर्हान् योग्यानेव गुरुर्दण्डेन बोधयति न त्वशिष्यान्| एवं मोहो मलस्तस्य निद्रा कार्यं प्रत्यसामर्थ्यं परिपाकविशेषस्तस्यां सत्यामपि ये सुप्तास्तन्निवृत्त्युपायसंविद्विकलास्तान्परमेश्वरस्तयैव पूर्वव्यवस्थितया शक्त्या बोधयति| एवं सैव मलपरिपाकयोग्यतानुसारेण यदा विशिष्टं तन्निवृत्त्युपायविज्ञानं संसारवैतृष्ण्यादिक्रमेण जनयति तदा ज्येष्ठा शक्तित्वेन कार्यहेतुः पतितेत्युपचारादुच्यते| यदुक्तं
591 SK कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः| इति|
593 SK संसारात्स विरज्येत प्रध्वस्तकलुषः सदा| इति|
594 SK श्रीमत्स्वायम्भुवे ऽपि
595 SK तन्निपातात्क्षरत्यस्य मलं संसारकारणम्|
596 SK क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रति| इति||
598 SK स्थितत्वात्सर्वदा शक्तेर्भवोच्छित्तिर्न किं भवेदिति|
599 SK तदप्यदूषणमेव| सर्वदास्थितत्वे ऽपि तस्यास्तत्र मलपरिपाकानुसारेण तदैव भवविच्छित्तिकारणत्वं नान्यदान्यत्र चेति यतः|
600 SK तृतीयो ऽपि प्रश्नः प्रतिषिध्यते|
5.8cd SK तन्निपातस्य सः कालः कर्मणां तुल्यतैव च //
602 SK Vऋत्ति: यदुक्तं कालो वा स च कः प्रोक्त
603 SK समत्वे सति यो भोगः कथं तस्य प्रजायत इति|
604 SK एवं च सत्यनादौ संसारे कस्यचित्कदाचित्तथाभूतकर्मसंकटान्तःप्रवेशेन भोगानुपपत्तेः संसाराभावप्रसङ्ग इत्यवश्यं तत्परिहारायानीश्वरवादिभिरप्यत्रेश्वरशक्तिपातः कामिन्यादौ राजशक्तिवदभ्युपगन्तव्यो गत्यन्तराभावात्| अनेनैव च रूपेण कर्मणोः समत्वमत्र शक्तिपातस्य कालो ज्ञेयो न तु संख्याकृतमिति दर्शयितुं पुनरुक्तिः|
5.9a SK तुल्यत्वं कर्मणः कालः
606 SK Vऋत्ति: समसंख्यत्वेन ह्यविरोधतो न कदा चिद्भोगानुपपत्तिः| अन्यथा विशेषाभावात् सर्वदैव शक्तिपातप्रसङ्गतः कर्मभोगासम्भवात्| नाभुक्तं कर्म नश्यतीत्यागमविरोधः|
607 SK अत एव मलपरिपाकलिङ्गत्वेन प्रागुक्तादपि कर्मसाम्यादिदमन्यदेव कर्मविरोधात्मकं शक्तिपातैकनिवर्त्यं कर्मसाम्यमित्यदोषः|
608 SK अथ शक्तिपातात्कीदृशं तत्कर्मद्वयं भवतीति तदर्थमेतत्
5.9b SK क्षीणं वा यदि वासमम्
610 SK Vऋत्ति: यदा तयोर्विरुद्धयोरपि कर्मणोरवशिष्टं सर्वमेव कर्मावापगतत्वेन सममेव सम्पद्यते तदानीं कर्मान्तरस्यानावापगतस्यानुरोध्यस्यासम्भवात्तत्त्वैः समग्रैरेव सह क्षीणं भवतीति पुंसां विज्ञानकेवलित्वमेव| यद्वक्ष्यति समे भोगस्तदा न हीति|
611 SK अधिकन्यूनसम्बन्धाद्व्याकुलत्वं न जायत इति|
5.9c SK समत्वं तत्कथं गम्यं %//
614 SK Vऋत्ति: यदेतद्युगपत्परस्परविरोधात्मकं समत्वं तत्कथं ताभ्यां कर्मविशेषाभ्यां प्राप्यम्| नैवेत्यर्थः| अनुष्ठानक्रमस्यैव फलदानापेक्षितत्वादिति भावः|
5.9d SK न्यूनाधिकतुटिः कथम् \
617 SK Vऋत्ति: न्यूना चाधिका च तुटिः कालः| स कथं गम्यते| कृष्यादिभिर्दृष्टैः कर्मभिरित्यध्याहारः| एतदुक्तं भवति---कृष्यादिकर्मभिरयं हेतुरनैकान्तिकः| यतस्तेषां क्रमेणाप्यनुष्ठितानां कदाचित्पश्चादनुष्ठितस्य न्यूनः कालः शीघ्रमेव पूर्वानुष्ठितेन सहभाव फलं कुर्वन्दृश्यते| पूर्वानुष्ठितस्य त्वधिकश्चिरात्मक इति तद्वदत्रापि सम्भवाद्गम्यमेवैतत् कर्मणोः समत्वमित्यविरोधः| ततश्च
5.9ef SK एवं सूक्ष्मं समानत्वं यस्मिन्काले तदैव सा //
5.10ab SK स्वरूपं द्योतयत्याशु बोधचिह्नबलेन वै
620 SK Vऋत्ति: एवं दृष्टस्येवादृष्टस्यापि कर्मणः सम्भाव्यमानं परस्परविरोधात्मकं समानत्वमस्मदाद्यगोचरत्वात् सूक्ष्मं यस्मिन् काले भवति तस्मिन्नेव काले सा पारमेश्वरी शक्तिः| बोधचिह्नस्य यद्बलं मलपरिपाको यदुक्तम्
621 SK कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः| इति|
622 SK श्रीमन्मतङ्गे ऽपि संसारात्स विरज्येत प्रध्वस्तकलुषः सदेति|
623 SK श्रीमत्स्वायम्भुवे ऽपि
624 SK क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रतीति|
625 SK तेन स्वरूपं सर्वज्ञत्वादि पुंसो दीक्षाद्वारेण द्योतयति| यदुक्तं
626 SK गुरुणा दीक्षितो यदा|
627 SK सर्वज्ञः स शिवो यद्वदिति
628 SK न तत्र मलपरिपाकापेक्षो ऽन्यः शक्तिपातः अपि तु स एव प्रसङ्गादुभयनिमित्तं सम्पद्यत इति भावः| वैशब्दो ऽपि प्रकारान्तरे बोधचिह्नबलाभावे तु क्षीणं वा यदि वासममित्युक्तमेव
629 SK ननूभयोरप्यनयोर्मोक्षहेतुत्वमस्तु| एवमप्येष विरोधो न भवत्येवेति| अस्तु यदि मलपरिपाकस्येव कर्मसाम्यस्यापि तन्निमित्तत्वप्रतिपादकं स्फुटं वचनं भवेत्तस्य तु कर्मसाम्यपरिहारमात्रफलं शक्तिपातं प्रति तन्निमित्तत्वं प्रतिपादयति नान्यत्रेत्युक्तम्| वक्ष्यति च समे भोगस्तदा न हीति|
630 SK अथ केन हेतुना विरुद्धयोः कर्मणोर्युगपत्सम्भव इत्युच्यते
5.10cd SK कर्मांशो यो ऽधिकः पूर्वं भोगदस्त्वितरः पुनः //
632 SK Vऋत्ति: शुभाशुभानेककर्मवत्त्वे ऽपि पुंसो य एव कर्मविशेषः कृष्यादिवत्पश्चादनुष्ठितो ऽपि कर्मान्तराद्युपकारजनितपरिपाकवशात्तीव्रवेगत्वेन चाधिकः शक्त्या भवति स एव प्रथमं भोगप्रदः| प्रोक्तं चान्यैरपि तीव्रवेगानामासन्नं फलमिति| यस्तु तस्मादन्यः पुनरिति पश्चात्कुतश्चित्कर्मान्तरप्रतिबन्धकापगमतः शक्तिप्रतिलम्भतो वा भोगद इति| किमत इत्युच्यते
5.11ab SK समत्वे सति यो भोगः कथं तस्य प्रजायते
634 SK Vऋत्ति: एवं च सति कुतश्चित्कारणसामर्थ्याद्द्वयोः शुभयोरशुभयोर्वा परिपाकवशात्तीव्रवेगत्वेन वा समत्वे संजाते सति तस्य पुंसो युगपद्विरुद्धकर्मद्वयाकृष्टस्य कथं भोगः| नैव जायत इत्यवश्यं विरोधपरिहारायात्र शक्तिपातो ऽभ्युपगन्तव्य इत्युक्तं प्रागेव| नन्वेवं सर्वाण्येव कर्माणि स्वस्वफलमात्रसाधकत्वात्परस्परविरुद्धत्वेन समानानीति सर्वदा शक्तिपातप्रसङ्गः| नेत्युच्यते
5.11cd SK मिश्रं वारम्भकं कर्म समे भोगस्तदा न हि //
5.12ab SK वक्तव्यश्चाधिकः कश्चिद् अन्यथा न सुखेतरम्
637 SK Vऋत्ति: त्रिविधं हि कर्म जात्यायुर्भोगदं पुंसो भोगारम्भकं न केवलं भोगप्रदमेवायुःप्रदं वा जातिविशेषं विना भोगानुपपत्तेः| नापि जातिप्रदमेव ताभ्यां विना जन्म समनन्तरमेव पुंसो मरणात् भोगा नुपपत्तेरिति| समे विजातीयेनामिश्रे केवलभोगप्रदे केवलायुःप्रदे केवलजातिप्रदे वा कर्मणि सति भोगो नोपपद्यत इति तत्राधिकः कश्चित्कर्मविशेषो विजातीयः| भोगप्रदे जातिप्रदः| तस्मिन्वा भोगप्रद इत्यादिर्वक्तव्यः| अन्यथा सुखदुःखभोगानुपपत्तेस्तथाभूतकर्मसद्भावे ऽपि विज्ञानकेवलित्वमेव तस्येति न सर्वदा कर्मणां विरोधेन शक्तिपातप्रसङ्गः| तदविरोधस्यैव सर्वदा सम्भवादिति|
5.12cd SK अधिकन्यूनसम्बन्धाद् व्याकुलत्वं न जायते //
639 SK Vऋत्ति: यत्रापि पुरुषे द्वयोर्विरुद्धयोर्युगपदुपस्थितयोः कर्मणोः साम्यं तत्रापि प्रागुक्तनयेन कर्मान्तरानुरोधतः शक्तिपातो न क्षयं विधत्ते| अपि तु कस्यचिदधिकत्वं कस्यचिन्न्यूनत्वमिति तयोर्व्याकुलत्वं विरोधो न जायत इति| अयमेवायुर्वेदे ऽप्यायुष्यानायुष्य कर्मणोर्व्याकुलत्वपरिहाराय प्रकारः प्रोक्तः
640 SK शिलाजतुप्रयोगाद्वा प्रसादाद्वापि शाङ्करात्|
641 SK अजासत्रप्रयोगाद्वा क्षयः क्षीयेत नान्यथा|| इति|
642 SK निद्रास्तोत्रादौ च नारायणभट्टोक्त एव महाभारते च दर्शितः
643 SK कान्तारेषु च सन्नानां मग्नानां च महार्णवे|
644 SK दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्||
645 SK सौगतैरपि तारास्तोत्रादौ
646 SK हरिकरिशिखिफणितस्करनिगडमहार्णवपिशाचभयशमनि|
647 SK शशिकिरणकान्तिहारिणि भगवति तारे नमस्तुभ्यम्|| इति|
648 SK कथं तर्हि तज्जायत इतीत्याह
5.13ab SK अधिकन्यूनशून्यत्वात् तत्स्थानमभिगच्छति
650 SK Vऋत्ति: यदा तयोर्विरुद्धयोर्द्वयोरपि कर्मणोः सर्वमेवान्यत् कर्मावापगतत्वेनाधिकन्यूनरहितं सममेव संपद्यते कस्मिंश्चित्पुरुषे तदानीं व्याकुलत्वं न जायत इति कर्मान्तरस्यानुरोध्यस्या सम्भवेन शक्तिपातात्तेषां सर्वेषां क्षयः प्रोक्त इति स क्षीणकर्मा पुरुषस्तदानीं तत्स्थानं प्राक् यत्समे भोगस्तदा न हीत्यत्रोक्तं
651 SK अथ यथायं शक्तिपातो ऽस्मदाद्यगोचरत्वेन प्राक्सूक्ष्म उक्तो व्याध्यादिनिवृत्त्यनुमेयो वा तथैव किमसौ प्रागुक्तो न वेत्युच्यते
5.13cd SK स पात इति मन्तव्यस् तस्य भक्तिर्विलक्षणा //
653 SK Vऋत्ति: स प्रागुक्तो मलपरिपाककालभावी शक्तिपात इत्येवं नियतपुरुषगतत्वेन मन्तव्यः| यस्य ह्यसौ भवति तस्य भक्तिर्विलक्षणा भवतीति| यदुक्तं प्राक्
654 SK कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृह इति|
655 SK श्रीमत्स्वायम्भुवे ऽपि क्षीणे तस्मिन्यियासा स्यादित्यादि|
5.14ab SK काल एव स निष्णातः शक्तेरात्मपरिग्रहः
658 SK Vऋत्ति: स एव प्रागुक्तः शक्तेः पातकालः| स निष्णातः कुशलः यस्मादात्मा परिगृह्यते अनुगृह्यते तस्मिन्नित्यात्मपरिग्रहः स काल इति| तस्मात्तमेव तत्रापेक्षते भगवान्नान्यं पुनः
5.14cd SK अनादिकर्मसम्बन्धाच् छिवः कालमपेक्षते //
5.15ab SK कालच्छिद्रमिति प्रोक्तं तज्ज्ञश्च भगवाञ्छिवः
661 SK Vऋत्ति: अनादिर्यः कर्मात्मकः सम्यग्बन्धस्तस्मादेव यो भोगस्तस्यानुपपत्त्या कालच्छिद्रमित्यनेन शब्देन प्रोक्तः कर्मविरोधात्मकस्तमत्रापेक्षते शक्तिपातहेतुत्वेन| शक्तिपातात्तेषां विरोधपरिहारः क्षयो वा नान्यथा सम्भवतीत्येवं भगवान् जानाति यतः|
662 SK अथ कथमसौ तमेव कालं कर्मणां क्षये ऽपेक्षते| न तु तदविरोधकालमपीत्युच्यते|
5.15cd SK यथा कश्चिच्चले लक्ष्ये कञ्चित्कालमपेक्षते //
5.16ab SK तज्ज्ञो ऽपि स शिवस्तद्वत् समकालमपेक्षते
665 SK Vऋत्ति: यथा ह्यत्यन्तसुशिक्षितो ऽप्यर्जुनादिर्धनुर्धरो न सदैव शत्रुतो विनिर्गतं शराद्यायुधजातं स्वशरैश्छिनत्ति| अपि तु यदा स्वशरीरोपघातायायुष्यकर्मविरोधेन तदुपस्थितं भवति तस्मिन्नेव काले विरुद्धत्वादेव तद्वदेव तत् भगवानपि कर्मविरोधलक्षणं साम्यमेव शक्तिपाते ऽपेक्षते विरुद्धत्वादेव तदानीं भोगासम्भवादित्युक्तम्| न तु तदविरोधकालमप्यविरोधेनैव तदानीं भोगोपपत्तेरिति| यदा त्वेतन्नाभ्युपगम्यते तदा
5.16cd SK अभावात्तत्समत्वस्य युगपन्मुक्तिरन्यथा //
667 SK Vऋत्ति: अन्यथा विरोधाभावेन सर्वपुरुषाणां युगपच्छक्तिपातप्रसङ्गात् कर्मभ्यो मुक्तिर्विज्ञानकेवलित्वं स्यादित्यवश्यं तत्परिहारायात्र कर्मसाम्यमेव हेतुत्वेन वाच्यमित्यविरोधः|
668 SK यद्येवं स मलपरिपाकलक्षणः कालो भगवतानुग्रहे ऽपेक्ष्यते| न तु तदपरिपाकलक्षणो ऽपीत्यत्र को हेतुरित्युच्यते
5.17ab SK नोपायसाधनापेक्षा क्रमो यदि स नेष्यते
670 SK Vऋत्ति: यदि स क्रमः कालो ऽनुग्रहे नापेक्ष्यते तदा गुर्वाद्युपायदीक्षादिसाधनापेक्षा नात्र भवेत्| सर्वेषां युगपदनुग्रहस्तदानीं प्रसज्यत इत्यर्थः| ततश्चावश्यं तत्परिहाराय केनापि निमित्तेन भवितव्यम्| तच्चक्षुरादौ पटलादीनामिव मलस्य परिपाकात्मकमेवोक्तमिति न कश्चिद्दोषः||
671 SK अधुना चतुर्थमपि प्रश्नं निवर्तयति
5.17cd SK प्रभुरत्र शिवो ज्ञेयः प्रभुत्वं किं तुटेर्मतम् //
5.18ab SK प्रभुत्वं ज्ञस्वभावत्वाद् अज्ञत्वान्न तुटिः प्रभुः
674 SK Vऋत्ति: यदुक्तं काल एव मोक्षहेतुरस्तु| किं शक्तिपातहेतुनात्र शिवेन कल्पितेनेति| तदयुक्तं हेतुत्वभेदात्| निमित्तं हि कालो ऽत्राचेतनत्वादमावास्यादिर्यागादेरिव कर्ता तु भगवानमावास्यादियागे द्विजातिवच्चेतनत्वात्| न च निमित्ताभ्युपगमे कर्त्रभावप्रसङ्गो युक्तः| विरोधाभावात्| कर्त्रन्तराभ्युपगमे तु स युक्त एव| स एवाविरोधः कार्ये कर्तृनिमित्तयोर्दृष्टान्तेनोच्यते
5.18cd SK सति काले प्रभुत्वं स्यात् पद्मबोधे यथा रवेः //
5.19 SK न च कालादृते तत्र विकासः प्रतिपद्यते तथापि भास्करः प्रोक्तो लोके ऽस्मिन्पद्मबोधकः //
5.20ab SK कालो ऽपि योग्यता सा चेद् द्योतको ऽप्युपचारतः
678 SK Vऋत्ति: दार्ष्टान्तिके ऽप्युच्यते
KirT_5.20c-f SK एवं यद्यपि तुल्यत्वं कर्मणः काल एव सः तथापि प्रभुरत्रेशः शक्तिपातस्य संस्थितः //
680 SK Vऋत्ति: पशूनामशक्तत्वेनान्धादीनामिव पाशविमोक्षकर्तृत्वासम्भवात्| पाशानाञ्च जडत्वेन पटलादीनामिव स्वतः पशुभ्यो निवृत्त्यनुपपत्तेस्तत्पतिरेव प्रतिनियतकालापेक्षया चक्षुर्वैद्यादिरिव मोक्षकर्ता युक्त एव प्रोक्त इत्यदोषः|
681 SK अत्र शक्तेरनेकपुरुषप्रबोधकर्तृत्वादनेकत्वप्रसङ्गदोष इति पराभिप्रायः
5.21ab SK एका सती बहूनां सा कथं बोधं करोति चेत्
683 SK Vऋत्ति: सिद्धान्तस्तु
5.21cd SK बहूनामप्यदोषः स्याद् विभुत्वान्न निवार्यते //
685 SK Vऋत्ति: यतो व्यापकत्वेन बहूनामप्युपकारो ऽस्याः शक्तेर्न निवार्यते| ततो ऽयमदोष इति|
686 SK अथ प्रकरणार्थोपसंहारः
5.22ab SK एवं शक्तिसमायोगः प्रोक्तः सूक्ष्मो ऽत्र शासने
688 SK Vऋत्ति: एवं शक्तिपातः प्रागुक्तः| सर्वप्रश्नशून्यो मया प्रोक्तो ऽत्रेति| अत्र प्रसङ्गात्प्रश्नः
5.22cd SK एवं तच्छक्तिसंयोगाद् दीक्षा यदि च संस्थिता //
5.23 SK दीक्षितोत्तरकाले ऽपि तिरोभावः प्रदृश्यते तिरोभावकरी शक्तिर् यदि तस्य न निर्वृतिः //
5.24ab SK तथा करोतु स स्वामी यथासौ नान्यथा भवेत्
692 SK Vऋत्ति: एवमनेन क्रमेण विशिष्टात् परमेश्वरशक्तिसम्बन्धाद्यदि पुंसो दीक्षेति मोक्षहेतुरनुग्रहस्ततो दीक्षोत्तर कालमपि तच्छक्तिसम्बन्धस्य भावात्तिरोभावः समयोल्लङ्घनाद्यात्मको न भवेत्| दृश्यते चासौ ततस्तद्भावभावित्वस्य व्यभिचाराच्छक्तिपातस्यानुग्रहहेतुत्वासिद्धेः| यदुक्तं
693 SK तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा|
694 SK इत्येतत्पुनरप्ययुक्तमेव| अथानुग्रहहेतुरसाविष्यते यद्येवं तथा करोतु स शक्तिपातलक्षणं स्वमस्यास्तीति स्वामी यथासौ पुरुषो नान्यथा भवेन्न तिरोभावहेतुषु प्रवर्तत इत्यर्थः| न च तथा करोति तदानीमपि तिरोभावहेतुष्वनुष्ठानदर्शनात्तत् नानुग्रहहेतुः शक्तिपात इति पूर्वः पक्षः| अत्र सिद्धान्तः
5.24cd SK तिरोभावगतानां सा पुरुषाणां शिवेच्छया //
5.25 SK न तिरोभावकर्तृत्वाद् उच्यते सा तिरोहिका तिरोभावाय पातो न यतो ऽनुग्रहधर्मिणी //
697 SK Vऋत्ति: इह तावत्तिरोभावगतानामपरिणतमलानां न सा शक्तिरनुग्राहिका संस्थितेति सम्बन्धः| नापि सा दीक्षा तेषामाचार्यैर्लोभाज्ञानादिभिः कृता शिवेच्छया तस्याः संस्थितत्वादित्युक्तम्| न तस्या ज्ञानं सम्भवतीति शूद्राणामुपनयनादिवदनधिकारिणां सा निष्फलैव| तेषां तु तिरोभावकर्त्री तदानीमन्यैव तिरोहिका शक्तिः संस्थितेत्युच्यते| यतस्तस्या नैव तिरोभावाय पातः सम्भवति अनुग्रहधर्मित्वादिति यदुक्तम्
698 SK तिरोभावकरी शक्तिर्यदि तस्य न निर्वृतिः
699 SK इत्येतत्तावदसिद्धमेव| यद्येवमनुग्रहधर्मित्वात् कथं न सर्वेषामनुग्रहं विधत्त इति| तत्रोच्यते
5.26ab SK येनासन्नतमः कालस् तेनात्मानं प्रकाशयेत्
701 SK Vऋत्ति: येन कारणेन यस्यैव पुंसो मलपरिपाककालो ऽसावासन्नस्तेन तस्यैवात्मानं प्रकाशयतीत्युक्तम्
702 SK कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृह इति|
703 SK ततो ऽयमप्यदोषः| यदुक्तं दीक्षोत्तरकालमपि सा शक्तिः कथं तिरोभावहेतुत्वेन संस्थितेति| तदप्ययुक्तम्| यतः
5.26cd SK प्रकाश्य याति विद्युद्वत् सा शक्तिः पुंप्रबोधिनी //
705 SK Vऋत्ति: पुंसस्तदानीं प्रतिबोधं मलक्षयात्मकं कृत्वा सा शक्तिरचिरेणैव कालेन विद्युद्वद्याति तस्माद्व्यापारान्निवर्त्तते| कृतस्य पुनः करणासम्भवादिति न्यायसिद्ध एवायमर्थ इति भावः| दीक्षोत्तरं तु मोक्षप्राप्तिर्यावत् सामान्येन सा तस्याधिष्ठायकत्वेन स्थितेति न शक्तिपातस्यानुग्रहं प्रति व्यभिचारदोषः| एवमपि दीक्षाया मोक्षव्यभिचारप्रसङ्गदोषस्तदुत्तरकालं तिरोभावदर्शनादिति| अत्राप्युच्यते
5.27 SK यदि सर्वात्मना वायं दीक्षितो ऽपि तिरोहितः द्विविधे ऽपि तिरोभावे स्थानप्राप्तिः क्वचिद्भवेत् //
707 SK Vऋत्ति: \च्रुx अदीक्षितस्तावत्सर्वात्मना तिरोहितो ऽपि सन्कृतदीक्षस्तस्येत्युक्तम्| यदि सम्यग्दीक्षितो ऽप्ययं कदाचिद्दैवान्मानुषाद्वा प्रतिबन्धात्सर्वात्मना तिरोहितो वाशब्दादसर्वात्मना च तदास्यास्मिन् द्विविधे ऽपि तिरोभावे क्वचिदिति कस्मिंश्चित्क्रव्यादयोन्यादौ समयातिक्रमफलप्राप्तिर्भवतीति| यदुक्तं श्रीमत्पौष्करे
708 SK समयोल्लङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः| इति|
709 SK न तु सर्वस्मिन्समयातिक्रमे वक्ष्यमाणैः प्रायश्चित्तैः क्षपित इति क्वचिद्ग्रहणम्| किमत इत्युच्यते|
5.28 SK तत्र स्थितस्य तस्येह वासना सैव जायते तद्युक्तस्य विमोक्षः स्याद् आत्मनो निर्विकल्पकः //
711 SK Vऋत्ति: तत्र समयातिक्रमफलभोगस्थाने क्रव्यादयोन्यात्मनि पिशाचादिशरीरे ऽप्यवस्थितस्य समयातिक्रमकर्तुर्दीक्षितस्य वासना सैवेति| यैवानतिक्रान्तसमयानां शिवभक्त्यादिहेतुर्वासना दृष्टा सैवाभिव्यज्यते| अतश्च दीक्षितत्ववासनायोगात्तत्प्रायश्चित्तफलं काम्यवद्दीक्षाफलविघ्नभूतं भुक्त्वासावात्मा मोक्षं दीक्षाफलं प्राप्नोत्येव| यदुक्तम्
712 SK प्रायश्चित्तविशुद्धस्य गतिः शुद्धा प्रकीर्तिता| इति|
5.29 SK अनेन क्रमयोगेन तिरोभावगतो भवेत् आनर्थक्यप्रसङ्गः स्याद् यदि मुक्तिर्न सा भवेत् //
715 SK Vऋत्ति: पूर्वं मलपरिपाकस्ततः शक्तिपातस्ततो दीक्षेत्यनेन क्रमयोगेन यो दीक्षितः कथञ्चित्तिरोभावगतो भवेत्तस्य यदि समयातिक्रमफलभोगादनन्तरं न तद्दीक्षाफलं मुक्तिर्भवेत्| ततस्तद्दीक्षाक्रमस्यानर्थक्यं प्रसज्येत| न च परमेश्वरव्यापारत्वात्तस्यासावुपपद्यत इति अवश्यं तत एव तस्य तदानीं मुक्तिरभ्युपगन्तव्येति न दीक्षाया अपि स्वकार्यव्यभिचारप्रसङ्गदोष इति| ननु तुल्ये शक्तिपाते दीक्षायोगे वा कथं कश्चिदेवोत्तरकालं तिरोभावेन युज्यते नान्य इत्यत्रोच्यते|
5.3ab SK मन्दा मन्दतरा शक्तिः कर्मसाम्यविवक्षया
717 SK Vऋत्ति: कर्मणा मलपरिपाकलक्षणेन यत्साम्यं मन्दत्वं मन्दतरत्वं वा तस्य विवक्षाहेतुत्वाद्विवक्षा ज्ञानमेव तया हेतुभूतया मन्दा मन्दतरा वा शक्तिः पारमेश्वरी दीक्षा वा यस्योपतिष्ठते तस्य प्रत्यवाययोगो भवत्येव| यस्य तु मलपरिपाकलक्षणेन कर्मणा तीव्रेण तीव्रतरेण वा साम्यं तद्विवक्षया तीव्रा तीव्रतरा वा शक्तिः पतति तस्य न प्रत्यवायः कथमपि सम्भवतीत्युक्तं भवति| एवमनुग्रहशक्तेर्मन्दत्वोपचारेण प्रत्यवायहेतुत्वं मन्तव्यम्| नान्यथेत्युच्यते
5.30cd SK न पुनस्तादृशी शक्तिः क्षीरवत्परिणामिनी //
5.31 SK यतः शक्तिमतः शक्तिः कृत्यसंस्थानभेदगा द्विजादिवर्णनिश्रेणी सा च मोचयति स्फुटम् //
720 SK Vऋत्ति: न पुनरनुग्रहशक्तिरेव तिरोभावात्मतां गच्छतीत्युपपद्यते यतः परमेश्वरस्य शक्तिः कृत्यस्य यत्संस्थानं स्थितिः तेनैव भेदं प्राप्ता न मुख्यत इत्युक्तम्|
721 SK ईशः सदाशिवः शान्तः कृत्यभेदाद्विभिद्यत इति|
722 SK ततश्च परमेश्वरवत्साप्यपरिणामिन्येव| यदुक्तम्
723 SK परिणामो ऽचेतनस्य चेतनस्य न युज्यते| इति|
724 SK सा च द्विजादीनां वर्णानां परमपदं मोक्षाख्यं गच्छतां निश्रेणी सोपानपङ्क्तिः ऊर्ध्वगतिहेतुत्वादिति| एवं
725 SK तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
726 SK इत्येतत्सूक्तमेवेति|| एवं समाप्तश्च पञ्चमो ऽध्यायः||
727 SK \Cओलो इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ पन्चमं प्रकरणम्||
728 SK अथोपायपदार्थस्य परीक्षार्थं प्रश्नपूर्वकं प्रकरणान्तरम्
6.1 SK सर्वानुग्राहकः प्रोक्तः शिवः परमकारणः द्विजातयस्तु ये वर्णा न्यूनाधिकतया स्थिताः //
6.2 SK संस्कारो ऽपि यदैवं स्यात् फलमेवं न किं भवेत् संस्कारः सदृशस्तेषां न्यूनाधिकगतिः कथम् //
731 SK Vऋत्ति: अत्र सूत्रपदार्थप्रकरणसम्बन्धाः प्राग्वद्द्रष्टव्याः| वाक्यात्मकस्तु गुरुणा दीक्षितो यदेत्यादिभिरनेकविधः|
732 SK मातृतः प्रथमा जातिरौपनायनिकापरा|
733 SK ब्रह्मक्षत्रविशां येन तेनोक्तास्ते द्विजातयः|| इति|
734 SK जातिस्वाभाव्यादेवगोगवयगर्दभादिवत्सामान्यशास्त्रेषूत्तममध्यमन्यूनत्वेन स्थितास्तेषां च यः सामान्यशास्त्रविहितो गर्भाधानादिरष्टचत्वारिंशद्भेदभिन्नः संस्कारः तज्जातेरेव पतितत्वमात्रनिवृत्तिफलो वेदविद्भिरिष्यते तच्छरीरस्य वा| यदाह मनुः
735 SK कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च|
736 SK गार्भैर्होमैर्जातकर्मचौलमौञ्जीनिबन्धनैः|| इति|
737 SK ततश्चायमपि दीक्षाख्यः संस्कारः संस्कारत्वा देवमिति जातेः शरीरस्य वा स्यात्| तथा च फलं तद्वदेवास्यानुग्रहात्मकं न किं भवेत्| नैव किञ्चिद्भवेदिति| ततश्च
738 SK गुरुणा दीक्षितो यदा| सर्वज्ञः स शिवो यद्वद्
739 SK इत्यस्याः श्रुतेर्विरोध इत्यर्थः| यतो वैदिकेनायं संस्कारः सदृशस्तेषां ततो वैदिकात् न्यूना गतिरस्माच्चाधिकेत्येतत्कथम्| नैवोपपद्यत इति प्रश्नः| सिद्धान्तस्तु
6.3ab SK न जातेर्न शरीरस्य संस्कारः प्राणिनो मतः
741 SK Vऋत्ति: नायं संस्कारो जातेः शरीरस्य वा मतः| अपि तु प्राणिनश्चेतनस्यैवानुग्रहात्मकः तथाश्रुतेरिति न साधर्म्यमात्रेणान्यथा कल्पनीयः| तन्नैष दोष इति| ये त्वयमपि संस्कारत्वाज्जातेः शरीरस्य वा संस्कारो भवन्न दृष्टेनैव रूपेण श्राद्धादि पितृपितामहादेरिव पुरुषस्योपकारो भविष्यतीति कल्पयन्ति तान्प्रत्युच्यते
6.3cd SK यदि जातेस्तदेकस्मिन् दीक्षिते ऽखिलदीक्षणम् //
6.4 SK तेन जातेर्न वक्तव्यो जडत्वान्न तनोर्मतः चिद्रूपानुग्रहः प्रोक्तः सर्वानुग्राहकः शिवः //
744 SK Vऋत्ति: जातेः सर्वपुरुषगतत्वेनाविशेषादेकपुरुषमोक्षोद्देशेन संस्कारे सर्वपुरुषमोक्षप्रसङ्गः| शरीरस्य तु पुरुषभेदेन भेदादेतत्प्रसङ्गाभावे ऽपि जडत्वान्निष्फल एव संस्कारः प्रोक्तः| अथ तद्द्वारेण चेतनस्यैवासौ संस्कार इत्युच्यते यद्येवमविरोधः| यतश्चिद्रूपानुग्रहः प्रोक्तो ऽस्माभिरिति|
745 SK अत्रैव परीक्षान्तराय प्रश्नः
6.5 SK सर्वानुग्रहकर्तृत्वाद् बालबालिशभोगिनाम् कर्तव्यो ऽनुग्रहो देव स च संस्कारपूर्वकः //
6.6 SK संस्कारेणैव मुक्तिः स्यात् प्रोक्ता तन्त्रे यदा तदा क्रियाज्ञानव्रतादीनाम् उपायानामहेतुता //
748 SK Vऋत्ति: इह हि परमेश्वरः सर्वेषामेव मलपरिपाकात्पश्चात्संस्कार्यतया ग्राहकः| तेषां मध्यात्
750 SK इति स्मृतेर्बालो बालो ऽप्राप्तपदवाक्यप्रमाणशास्त्राभ्यासकालः कथ्यते| बालिशस्तु न ततो ऽपि न्यूनवर्षः शक्तिपातनिश्चयाभावादात्मनो ऽनधिकारित्वादसंस्कार्य एवासौ यतः| अपि तु स्त्रीशूद्रादिवत् पदवाक्यप्रमाणशास्त्रश्रवणायोग्यो बालिश इव बालिशः कथ्यते| भोगी पुनर्न भोगनिष्ठ एव| तस्य मलपरिपाकाभावेन संस्कारानधिकारात्| यदुक्तम्
751 SK कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः| इति|
752 SK श्रीमद्विद्याधिपतिरप्याह
753 SK ते त्वच्छक्त्या नैव नियुक्ताः किल नूनं येषां भोगे संसृतिकर्तर्यभिलाषः|
754 SK किं ते तीर्णा भीममहाम्भोनिधिपारं ये यादोभिर्लुप्तशरीराः प्रतरन्त इति|
755 SK अपि तु श्रुतपदवाक्यादिशास्त्रः संप्राप्ततदभ्यासकालश्चैश्वर्यव्याक्षेपात्त्वकृततदभ्यासो राजा दिरेवोच्यते| तेषां मलपरिपाके सति अवश्यमनुग्रहः शक्तिपातात्मकः कर्तव्यः परमेश्वरेण| स च तथाभूतो ऽनुग्रहः संस्कारस्य दीक्षात्मनः पूर्व एव पूर्वोक्तो हेतुरित्यर्थः| ततश्च
756 SK तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा|
757 SK सर्वज्ञः स शिवो यद्वदिति
758 SK श्रुत्यात्रागमे संस्कारेणैव बालादेरिव प्रोक्ता सर्वस्य मुक्तिः स्यादिति दीक्षोत्तरकालमनुष्ठेयत्वेनोक्तानामस्माकं ज्ञानादीनां निष्प्रयोजनत्वमेव पदवाक्यप्रमाणसंस्काररहितत्वेनेहापि ज्ञानाद्ययोग्यानां बालादीनां संस्कारादेव मुक्तेः सिद्धत्वादित्यस्माकमपि पुरुषार्थानुपायभूतमेतत्क्रियाज्ञानाद्यनुष्ठानमकर्तव्यमिति प्रश्नः| सिद्धान्तस्तु
6.7ab SK ये यथा संस्थितास्तार्क्ष्य तथैवेशः प्रसादकृत्
760 SK Vऋत्ति: ये पदवाक्यादिसंस्कारेण व्यवस्थिता ये च प्रकारान्तरेण बालादयः तेषां सर्वेषामेव भगवान्मलपरिपाकपरीक्षया तत्प्रकारानुसारेण प्रसादं करोति| न तु ज्ञानायोग्यान्परित्यजतीत्यर्थः| तथा हि
6.7cd SK केचिच्चात्र क्रियायोग्यास् तेषां मुक्तिस्तथैव हि //
6.8 SK ज्ञानयोग्यास्तथा चान्ये चर्यायोग्यास्तथापरे एवं येषां यथा प्रोक्तो मोक्षस्तेनेशयोजनात् //
763 SK Vऋत्ति: येषां मुक्तिः सदा शिवत्वलक्षणा तथैव दीक्षाप्रकरणेनैवोक्ता तेषां मध्यात्केचिदत्र दीक्षोत्तरस्मिन्काले क्रियायां यागात्मिकायां जपबाह्यमानसभिन्नायामेव योग्या बाला भोगिनश्च न ज्ञाने| ननु ज्ञानं विना क्रियायां योग्यतैव न सम्भवतीति| यदाहुः ज्ञात्वा चानुष्ठानमिति|
764 SK समयोल्लङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः| इति|
765 SK न प्रत्यवायफलेभ्यस्तेषां मोक्ष इत्यर्थः| एवं तावद्यथाधिकारं ज्ञानादीनां चोदितत्वात्सर्वानुष्ठेयत्वदोषः परिहृतः| यत्तूक्तं किमर्थमनुष्ठीयन्त इति तत्रोच्यते
6.9 SK ज्ञानादीनामुपायानां दीक्षा कारणमिष्यते दीक्षयैव न मोक्षः स्याद् उपायः स नियामकः //
767 SK Vऋत्ति: न ज्ञानादीनां निष्प्रयोजनत्वमत्रोपायत्वेन श्रुतत्वात्| केवलं दीक्षापूर्वत्वेन तेषां श्रुतत्वात् न दीक्षया कार्यभूतो बन्धमोक्षः तस्य तयैवासम्पादितत्वात्| अपि तूपायः स नियामक इति येषां यथा बन्धनानां मोक्षार्थं विच्छेदात्मको नियमो दीक्षया न कृतः तेषां केषाञ्चिदेव स ज्ञानादिरुपायो नियामको विच्छेदको हेतुरुक्तः| तथा हि
6.10 SK सर्वानुग्रहकर्तृत्वाद् उपायास्ते प्रकीर्तिताः एकः कस्मादुपायो न प्रोक्तस्तेन यदन्यथा //
769 SK Vऋत्ति: इह हि वक्ष्यमाणयुक्त्यारब्धकार्यकर्मोपभोगोपरोधेनासद्योनिर्वाणदीक्षया
770 SK क्रियाज्ञानव्रतादीनामुपायानामहेतुता| इति|
771 SK तदसिद्धं दर्शितमेव विशिष्टाधिकारविषयत्वेन चैतत्सिद्धसाधनमित्युच्यते
KirT_6.11a-c SK समयांश्चाङ्गनादीनाम् अशक्तत्वाद्विशोधयेत् अज्ञत्वान्न च दोषो ऽस्ति %//
773 SK Vऋत्ति: बालिशास्तावदत्यन्ताज्ञत्वेन
774 SK तेषां निर्बीजिका दीक्षा समयादिविवर्जिता| इति|
775 SK न त्वत्र निषिद्धाः समयत्वेन मन्तव्याः| तेषां देवगुर्वग्निद्रोहात्मनां पातकोपपातकमहापातकभेदेन कृच्छ्रचान्द्रायणादिप्रायश्चित्तक्षपणीयत्वेन वक्ष्यमाणत्वात्|
6.11d SK ज्ञत्वाद्दोषो महान्भवेत् //
6.12 SK तेन तेषां विमुक्तिः स्याद् दीक्षया भक्तियोगतः ये ऽत्र शक्ता न तेषां तु शोध्यास्तेषां प्रकाशयेत् //
778 SK Vऋत्ति: ज्ञत्वमत्र शक्तत्वमेव| यथाह ये ऽत्र शक्ता न तेषां दीक्षया शोध्याः| किं तु नित्यानुष्ठेयत्वेन प्रकाशयेदिति| ततश्च शक्तत्वे सति ये नित्याद्यनुष्ठानं न कुर्वन्ति तेषां महान्दोषः प्रायश्चित्तलक्षणो भवेत्| नाशक्तानामिति| तर्हि किं तैर्नित्यमनुष्ठेयम्| लौकिकेन रूपेण शिवधर्मोदितेन वा यथाशक्ति देवगुरुतद्भक्तपरिचरणादिकमेव स्वतः पुत्रभृत्यादिप्रेषणेन वा| तदेव च तेषां प्रागुक्तज्ञानादिकृत्यं साधयति| यथाह भक्तियोगत इति| अन्यथा तेषामत्यन्तमूढत्वेन तिरश्चामिव शक्तिपातकार्यस्य भक्त्यादेरनिश्चयाद्दीक्षायामनधिकार एव| न च पुत्रादेस्तत्संस्कारार्थितया तेषां शक्तिपातानुमानं युक्तं व्यधिकरणत्वात्| न हि धवे धूमः खदिरे स्वकारणमग्निमनुमापयतीति| कारणं च शक्तिपातो भक्त्यादीनामित्युक्तम्| न त्वर्थितादेः| विशेषतो भिन्नाधिकरणस्य स्नेहसंस्कारपूर्वकत्वेनैव तस्य सिद्धेः| यदाहुः
779 SK इष्टं धर्मे नियोजयेदिति
780 SK न ततः शक्तिपातानुमानं युक्तं प्रतिबन्धाभावादिति| भक्तियोगत एव तेषां तिर्यग्वैलक्षण्येन ज्ञानसिद्धेरत्यन्ताशक्तत्वेन च शास्त्रचोदितानुष्ठानासम्भवादप्राप्तदीक्षाणामिवोपासकानां भगवद्विषयस्तुतिनमस्कारसपर्याद्येव नित्यमनुष्ठेयं युक्तमित्यविरोधः| येनैव तेषां ज्ञानाद्यननुष्ठेयमित्युक्तं तेन कारणेन यदुक्तम्
781 SK क्रियाज्ञानव्रतादीनामुपायानामहेतुता| इति
782 SK संस्कारेणैव मुक्तिः स्यात्
783 SK इति च तस्मिन्विषये सिद्धसाधनत्वादयुक्तमिति|
6.13 SK एवं ज्ञानादिकं सर्वं तच्छक्तस्य प्रकाशयेत् अन्यथा स्थितिभङ्गः स्यात् स्थितिश्चोक्ता शिवागमे //
6.14 SK तदभावे न किञ्चित्स्यात् तेनायं नियमः स्थितः सर्वानुग्राहकत्वेन स्थित्युपायविवक्षया //
787 SK Vऋत्ति: ज्ञानयोग्यस्य ज्ञानं नित्यानुष्ठेयतया प्रकाशयेदाचार्यः| क्रियादियोग्यस्य तु क्रियादीनि| सो ऽपि तथैवानुतिष्ठेत्| अन्यथागमविहिताया नित्याद्यनुष्ठानात्मिकायाः स्थितेरननुष्ठानात् भङ्गः स्यादेव| एवं स्थितेर्भङ्गे जाते सति न किञ्चित्स्यादिति वक्ष्यमाणप्रायश्चित्ताक्रान्तत्वात् तस्य न दीक्षाफलं समनन्तरं स्यात्| प्रायश्चित्तविघ्नाक्रान्तत्वादिति तेन कारणेनायं ज्ञानादीनां नित्यानुष्ठेयतया पुरुषार्थत्वेन नियमः स्थित इति| तदननुष्ठाने तु तेषां प्रायश्चित्तफलभोक्तृता| तदन्ते तु विशुद्धज्ञानकेवलित्वेन परमेश्वरादनुग्रहस्तावतो ऽपि मलस्य द्रव्यत्वेन स्वतो निवृत्त्यसंभवादित्येवं स्थित्युपायविवक्षयापि सर्वेषां परिणतमलानामनुग्राहको भगवानित्यदोषः|
788 SK अत्रैव परीक्षान्तराय प्रश्नः
6.15 SK पाशविश्लेषणार्थं तु दीक्षापि क्रियते किल विश्लेषो ऽपि न दृश्येत अदृष्टत्वात्कथं वद //
790 SK Vऋत्ति: दीक्षा पाशविश्लेषहेतुः| अपिशब्दाच्छिवत्वव्यक्तिहेतुश्च न भवति क्रियात्वाद्दर्शनान्तरदृष्टज्योतिष्टोमब्रह्महत्यादिक्रियावत्| कर्मणां च पाशानां दीक्षया विश्लेषो न सम्भवेत्| शरीरान्तरभोग्यत्वे सति ततो देशकालदूरवर्तित्वेन दृष्टत्वात्| खड्गविच्छेदो दूरस्थितभटादीनामिवेति प्रश्नार्थः| सिद्धान्तस्तु
6.16 SK पाशस्तोभात्क्षयः सिद्धः संसिद्धैः सो ऽपि शम्बरैः शम्बराणामचिन्त्यत्वाद् यथा मूर्तविषक्षयः //
792 SK Vऋत्ति: पाशानां दुष्कृतकर्मरूपाणां स्तोभात्क्षयः| यस्मात्पाशस्तोभकर्म प्रायश्चित्तात्मकमुच्यते तस्मात्क्षयो दुष्कृतलक्षणानां कर्मणां येन भवतां सिद्धः तेनात्र प्रथमो हेतुरनैकान्तिक इत्यर्थः| असिद्धश्चाकर्मत्वाद्दीक्षाया मन्त्रशक्तिर्ह्याचार्यव्यापाराभिव्यक्ता दीक्षेत्युक्तम्| मन्त्राणां च सम्यक्सिद्धानामचिन्त्यशक्तित्वाद्विषक्षयादिरिव सो ऽपि पाशविश्लेषादिः सम्भाव्यत इत्यदोषः| लोके ऽप्याहुः
793 SK अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः| इति|
794 SK द्वितीयो ऽपि हेतुरनैकान्तिक इत्युच्यते
6.17 SK नामसंकीर्तनादेव यथा कश्चित्प्रसाध्यते दूरस्थो मन्त्रमुख्यैस्तु तद्वत्कर्मक्षयस्त्विह //
796 SK Vऋत्ति: अत्र दूरस्थितो ऽपि कामिन्यादिरर्थः तन्नाम्ना सङ्कीर्त्तितमात्रेण मन्त्रविशेषैः साध्यमानो दृष्टः| अशुभसूचकैश्च कर्मभिरकाल एव पुष्पफलादिः| यदाहुः
797 SK अकालजं पुष्पफलं शीतमुष्णमकालजम्|
798 SK अकालजो नदीवेगो सूचयन्ति महद्भयम्|| इति|
799 SK तथैव शरीरान्तरभोग्यस्वकर्माकाल एव मन्त्रबलादुपस्थापितमुपभुक्तत्वात्तत्रैव क्षयमेष्यतीति न दोषः कश्चित्|
800 SK अत्रैव प्रश्नान्तरम्
6.18 SK अशेषपाशविश्लेषो यदि देव स दीक्षया जातायामर्थनिष्पत्तौ कथं स्याद्वपुषः स्थितिः //
802 SK Vऋत्ति: यदि दीक्षया कर्मादिसर्वपाशविच्छित्तिर्भवेत् ततो निमित्ताभावाद्दीक्षितानां शरीरं न भवेत्| भवच्च दृष्टम्| ततो दीक्षायां सर्वपाशक्षयश्रुतिरग्निना सिञ्चेदितिश्रुतिवत्प्रत्यक्षादिबाधितत्वादप्रमाणमिति पूर्वः पक्षः|
6.19 SK जातायां घटनिष्पत्तौ यथा चक्रं भ्रमत्यपि पूर्वसंस्कारसंसिद्धं तथा वपुरिदं स्थितम् //
804 SK Vऋत्ति: घटस्य निष्पत्त्यर्थं हि चक्रभ्रमणं तस्यां जातायां सम्पन्नायामपि यथा तत्संस्कारत एव चक्रभ्रमणं दृश्यते तथा सद्योनिर्वाणदीक्षायां कर्मादिसर्वपाशक्षये ऽपि तत्संस्कारेणैव दीक्षितानां कियन्तं कालं शरीरं तिष्ठतीति निमित्ताभावादित्यस्य हेतोस्तत्कालनैमित्तिकाभावासिद्धावनैकान्तिकत्वान्न प्रोक्तदीक्षाफलश्रुतिबाधक्षतिरिति| तदिदमाहुः
805 SK तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीर इति
806 SK असद्योनिर्वाणदीक्षाविषये तु सर्वपाशक्षयाश्रुतेरयं हेतुरसिद्धत्वादेवाबाधक इत्युच्यते
6.20 SK अनेकभविकं कर्म दग्धबीजमिवाणुभिः भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः //
6.21 SK देहपाते विमोक्षः स्यात् सद्योनिर्वाणदापि वा कार्याणुभिः सदा सिद्धैस् तेन ते शिवयोजकाः //
809 SK Vऋत्ति: सद्योनिर्वाणदीक्षायां तावत्सर्वाण्येव प्रागर्जितानि कर्माणि मन्त्रशक्तितः फलाप्रसवेनाप्यकाल एव भोगतः क्षयं नीयन्त इत्युक्तम्| असद्योनिर्वाणदीक्षायां तु सद्योमुमुक्षोरनधिकारान्न तस्य शरीरस्य विनाशाय मन्त्राः प्रयुज्यन्ते| अपि तु रक्षणायैव यस्माद्येनेदं कर्मणा यथा च शरीरमारब्धं तस्य भोगेनैव क्षयः| नानयेति| यत्तु दीक्षोत्तरकालमनुष्ठेयत्वाद्भविष्यदित्युक्तं कर्म तत्संस्कारारम्भसामर्थ्याभावद्वारेणानया संरुद्धम्| यतः प्रकृतौ कर्मणां संस्कारः कार्य इत्युक्तम्| अतश्च सर्व एव मन्त्रशक्त्या दीक्षितं प्रति दग्धबीजाः सम्पन्नास्ते कर्मविशेषाः| न पुनस्तत्संस्कारपात्रतां यान्तीति सद्योनिर्वाणदीक्षायाञ्चाराधितमन्त्रसामर्थ्यतस्तत्क्षये ऽपि चक्रभ्रमवद्धृतशरीरावस्थितेरुक्तत्वान्न दीक्षानन्तरमेव शरीरपातदोष इति|
6.22 SK पाशमुक्तस्य यच्चिह्नं स्वल्पमप्यत्र किं न तत् दृश्यते भक्तिचिह्नेन न च चिह्नं क्वचित्स्फुटम् //
6.2ab SK स्फुटं यत्र क्वचिद्दृष्टं तत्रापि व्यभिचारिता
813 SK Vऋत्ति: यद्येवमसद्योनिर्वाणदीक्षयैतच्छरीरभोगप्रदकर्मपाशामुक्त्वत्वे ऽपि तस्य मलाद्यन्यपाशमुक्तत्वे यच्चिह्नमविनाभावि सर्वज्ञत्वादिकं तत्स्वल्पमपि कथं न दृश्यते| तद्दर्शनाभावेन प्रमाणान्तरसिद्धप्रदीपावरणनिवृत्त्यसिद्धिवत् न तस्य तदानीं पाशमुक्तत्वसिद्धिरिति पुनरपि दीक्षाफलश्रुतेः प्रमाणान्तरेणैव बाधात् अप्रामाण्यमिति प्रश्नार्थः|
814 SK न च वाच्यं बाह्यचिह्नान्तरेण भक्त्यात्मनासौ पाशमुक्तो दृश्यत इति यतो न क्वचित्तत्पाशमुक्तस्य चैतच्चिह्नमुक्तम्| अपि तु शक्तिपातयुक्तस्यैव| स्फुटं च कृत्वा यत्रापि शक्तिपातयुक्ते तच्चिह्नं दृष्टं तत्राप्यस्य व्यभिचारितेत्युक्तं प्राक् तिरोभावकरी शक्तिरित्यादिना|
6.23cd SK प्रागुक्तं योजनं तस्य तद्युक्त्या ग्राहपूर्वकम् //
6.24 SK विभुत्वात्तस्य नो ग्राहस् तथामूर्ततयापि च महानत्र विरोधः स्यात् कथमेतद्ब्रवीहि मे //
817 SK Vऋत्ति: यदुक्तं प्राक् मोक्षस्तेनेशयोजनादिति
818 SK पुमर्थदादृष्टवशाद्देहो नैवातिवाहिकः|
819 SK अक्षाधारो ऽक्षगम्यो ऽयमनीशानां पिशाचवत्|| इति|
820 SK तदेवमात्मनः सर्वथा ग्रहणाभावेन संयोजनाद्यभावात्परपुरुषार्थैकप्राप्त्युपायत्वेनोक्ताया दीक्षाया अनुपपत्तेर्महान्विरोध इति द्वितीयः प्रश्नार्थः| सिद्धान्तस्तु प्रथमप्रश्ननिरोधाय|
6.25ab SK तच्चिह्नं वासनानिष्ठातत्कर्मण्यविकल्पना
822 SK Vऋत्ति: अयमर्थो ऽसद्योनिर्वाणदीक्षायां तावदेतच्छरीरभोगप्रदं कर्म पुंसो न क्षपणीयमित्युक्तम्| मलेन च कार्यकरणैश्च विना भोगानुपपत्तेरर्थान्मलस्य सूक्ष्मदेहस्य च न सर्वात्मना विच्छेद इति प्रतीयते| अपि तु तद्भोगोपरोधेन वासनात्मनांशेन विच्छेद इति तत्र सर्वात्मना पाशान्तरविच्छेदस्याप्यसिद्धेः शिवत्वव्यक्त्यसम्भवात्तच्चिह्नं सर्वज्ञत्वादि न दृश्यत इत्यध्याहारः| यतो मलादिवासना विद्यत इति| यत्तु चिह्नान्तरमपि तस्य नोपलभ्यत इत्युक्तं तदयुक्तं यतो या मललिङ्गयोरनयोरनया दीक्षया परिशेषितांशमात्ररूपा वासनेत्युक्तं तस्या निष्ठान्त्यो विनाशः तदर्थं यत्कर्म नित्यनैमित्तिकमनिषिद्धं ज्ञानक्रियाचर्यात्मकं प्राक् प्रतिपादितं तस्मिन्नविकल्पना विकल्पाभावः| यथाचोदितत्वेनानुष्ठानविवेकितास्यतावत्यपि पाशमोक्षे चिह्नमव्यभिचारि दृश्यत एव| अन्यथा तथाभूतत्वानुपपत्तिरिति न तदभावात्तस्य पाशमुक्तत्वासिद्धेः प्रोक्तदोष इति|
823 SK द्वितीयस्यापि प्रश्नस्य निरासः|
6.25cd SK तनुस्थं हि कथं चैतत् स्पन्देनाप्यनुमीयते //
825 SK Vऋत्ति: यदा विभुत्वादात्मनो ग्रहणं न सम्भवतीति अयं हेत्वर्थस्तदा तनुस्थमिति कार्यकरणाभिव्यक्तं कथमेतद्व्यापकं स्वरूपमस्यात्मनः स्वसंवेदनेनानुमीयते गृह्यते ज्ञानयोगादिभिश्च संस्क्रियत इति तेनायं हेतुरनैकान्तिक इत्यर्थः| तथा स्वात्मवदन्यात्मन्यपि परिस्पन्देनेति कायवाग्व्यवहारादिना तल्लिङ्गेनानुमीयते गृह्यत इति तेनाप्यनैकान्तिकः| आकाशेनापीत्युच्यते
KirT_6.26a-d SK विभुत्वे खं यथा शब्दाद् अमूर्तं हि विषं यथा गृह्यते मन्त्रशक्त्यासौ वाच्यस्तच्छक्तिको गुणः
827 SK Vऋत्ति: आकाशस्य प्राक्कार्यत्वेनोक्तेर्विभुत्वासम्भवादत्रान्यभूतापेक्षया विसृतत्वे ऽपि यथा विशिष्टेन शब्दात्मना गुणेन तद्गृह्यते योगिभिश्च स्वीक्रियते| तथैव दीक्ष्यस्यात्रागमे मन्त्रशक्त्या ग्रहणम्| संस्कार्यत्वसम्भवान्न योजनानुपपत्तिरिति| यदप्युक्तं सूक्ष्मदेहस्यामूर्तत्वेनादृष्टवशाच्चास्मदाद्यगोचरत्वान्न तद्द्वारेणापि दीक्षितस्य ग्रहणमिति| तदपि मन्त्रशक्त्यास्मदादिभिरमूर्ताया अपि विषशक्तेर्ग्रहणनिदर्शनादनैकान्तिकमिति| यथा सा विषशब्दवाच्या मारणशक्तिरस्मदादिभिर्गृह्यते तथैवात्मशब्दवाच्यो ज्ञानक्रियात्मको गुणः सूक्ष्मदेहशब्देनैव वाच्यश्च भोगसाधनात्मक आगममन्त्रशक्त्या गृह्यते संस्क्रियते चेति नात्र योजनानुपपत्तेः संस्कारानुपपत्तिदोष इति|
828 SK अथेह किमात्मको मन्त्रो यस्य शक्त्येत्युच्यते
6.26ef SK वाच्यवाचकयोगेन ज्ञेया मन्त्राणवः खग //
830 SK Vऋत्ति: \देव्दोत् मन्त्री गुप्तभाषणो विपद्येतेति शब्दभाषणयोगान्यथैव मन्त्रा वाचका अपि च मन्त्रशब्देनोच्यन्ते| तथैव तद्वाच्याश्चाणवो विशिष्टा इति||
Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kiraṇatantra with the commentary of Rāmakaṇṭha (chapters 1–6): GRETIL corpustei HTML transform of Kiraṇatantra 1–6 with Rāmakaṇṭha.
Source