The Tantra of the Differentiation of the Mothers Mātṛkābhedatantra
मातृकाभेदतन्त्रम्
2 SK Mआतृकाभेदतन्त्र, प्रथमः पटलः कैलासशिखरे रम्ये नानारत्नोपशोभिते / पप्रच्छ परया भक्त्या भैरवं परमेश्वरम् // MBह्T_१.१
3 SK श्रीचण्डिकोवाच / त्रिपुरापूजनं नाथ स्वर्णरत्नैर् विशेषतः / कलिकाले स्वर्णरूप्यं गुप्तभावं तथा मणिम् // MBह्T_१.२
4 SK केनोपायेन देवेश स्वर्णरूप्यादि लभ्यते / तद् वदस्व विशेषेण यथा रत्नादिकं भवेत् // MBह्T_१.३
5 SK यन् नोक्तं सर्वतन्त्रेषु तद् वदस्व दयानिधे // MBह्T_१.४
6 SK श्रीशङ्कर उवाच / शृणु देवि प्रवक्ष्यामि यथा रत्नादिकं भवेत् / मत्तेजसा पारदेन किं रत्नं न हि लभ्यते // MBह्T_१.५
7 SK तथा सामुद्रकेणैव सुशुभ्रलवणेन च / सम्बलस्य प्रकारं हि शृणु देवि प्रयत्नतः // MBह्T_१.६
8 SK चीनतन्त्रानुसारेण पूजयेत् सिद्धकालिकाम् / अथवा पूजयेद् देवीं दक्षिणां कालिकां पराम् / कालीतन्त्रोक्तविधिना सप्ताहं जपपूजनम् // MBह्T_१.७
9 SK सत्ये चैकं तु त्रेतायां द्विगुणं द्वापरे त्रयम् / एवं सर्वत्र जानीयाच् चतुर्गुणजपः कलौ // MBह्T_१.८
10 SK आनीय बहुयत्नेन सम्बलं तोलद्वयम् / वसुर् आद्यं शिवं चाद्यं मायाबिन्दुविभूषितम् / बीजत्रयं चाष्टशतं प्रजपेत् सम्बलोपरि // MBह्T_१.९
11 SK अशीतितोलकं मानं कृष्णधेनुसमुद्भवम् / दुग्धम् आनीय यत्नेन चाष्टोत्तरशतं जपेत् // MBह्T_१.१०
12 SK वस्त्रयुक्तेन सूत्रेण दुग्धमध्ये विनिक्षिपेत् / उत्तापं जनयेद् धीमान् मन्दमन्देन वह्निना // MBह्T_१.११
13 SK बिन्दु वेदान्तपर्यन्तम् अर्धशोषं भवेद् यदा / तदैवोत्तोल्य तद् द्रव्यं तोयमध्ये विनिक्षिपेत् // MBह्T_१.१२
14 SK ततः परीक्षा कर्तव्या प्रदद्यात् पावकोपरि / निर्धूमं वावके द्रव्यं दृष्ट्वा उत्थाप्य यत्नतः // MBह्T_१.१३
15 SK तत्रैव प्रजपेन् मन्त्रं सर्ववन्द्यनवात्मकम् / आनीय बहुयत्नेन शुद्धं ताम्रं मनोहरम् // MBह्T_१.१४
16 SK सार्धेन तोलकं ताम्रं वह्निमध्ये विनिक्षिपेत् / यथा वह्निस् तथा ताम्रं दृष्ट्वा उत्थाप्य यत्नतः // MBह्T_१.१५
17 SK गुञ्जाप्रमाणं तद् द्रव्यं तत्क्षणाद् यदि योजयेत् / सत्यं सत्यं हि गिरिजे रौप्यं भवति निश्चितम् // MBह्T_१.१६
18 SK श्रीचण्डिकोवाच / कारणं दुग्धरूपं वा केन रूपेण शङ्करः / तत्प्रकारं महादेव कृपया वद शङ्कर // MBह्T_१.१७
19 SK श्रीशङ्कर उवाच / टङ्कनम् आनयेद् धीमान् तोलकं तु चतुष्टयम् / वह्नियोगेन गिरिजे लाजरूपं चकार ह // MBह्T_१.१८
20 SK आम्रपुष्पं तद् द्विगुणं पिष्ट्वा मिलनम् आचरेत् / तस्योपरि जपेन् मन्त्रं महामायां हि चण्डिके // MBह्T_१.१९
21 SK एतत् तु गुटिकां कृत्वा मेलनं कारयेद् यदि / तदैव दुग्धरूपं स्यात् सत्यं सत्यं हि शैलजे // MBह्T_१.२०
22 SK श्रीचण्डिकोवाच / गन्धहीनं भवेन् मद्यं केनोपायेन शङ्कर / तत् सर्वं श्रोतुम् इच्छामि यदि स्नेहो ऽस्ति मा प्रति // MBह्T_१.२१
23 SK श्रीशङ्कर उवाच / शिवं वह्निसमारूढं वामनेत्रविभूषितम् / बिन्दुनादसमायुक्तं गन्धम् आदाय संलिखेत् // MBह्T_१.२२
24 SK उह्यतां पदम् उच्चार्यं चाष्टोत्तरशतं यदि / प्रजपेत् साधकश्रेष्ठो दुर्गन्धादिविनाशनम् // MBह्T_१.२३
25 SK Mआतृकाभेदतन्त्र, द्वितीयः पटलः श्रीदेव्य् उवाच / वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर / यत् त्वया कथितं नाथ मम सङ्गे विहारतः // MBह्T_२.१
26 SK कथं वा जायते पुत्रः शुक्रस्य कत्र संस्थितिः / वर्धमानं सदा लिङ्गं प्रवेशो वा कथं भवेत् // MBह्T_२.२
27 SK भीतियुक्ता ह्य् अहं नाथ त्राहि मां दुःखसङ्कटात् // MBह्T_२.३
28 SK श्रीशङ्कर उवाच / मणिपूरं महापद्मं सुषुम्णामध्यसंस्थितम् / तस्य नालेन देवेशि नाभिपद्मं मनोहरम् // MBह्T_२.४
29 SK वक्रत्रयसमायुक्तं सदा शुक्रविभूषितम् / ऊर्ध्वं नालं सहस्रारे अतः शुक्रविभूषितम् // MBह्T_२.५
30 SK तस्माद् एव स्तनद्वन्द्वं वर्धमानं दिने दिने // MBह्T_२.६
31 SK मध्यनालं सुषुम्णान्तं वृन्ताकारं सुशीतलम् / आयोन्यग्रम् अधोनालं सदानन्दमयि शिवे // MBह्T_२.७
32 SK शृणु चार्वङ्गि सुभगे तन्मध्ये लिङ्गताडनात् / यद् रूपं परमानन्दं तन् नास्ति भुवनत्रये // MBह्T_२.८
33 SK नाभिपद्मं तु यद् रूपं तच् छृणुष्व समाहितः / बिन्दुस्थानं मध्यदेशे सदा पद्मविराजितम् // MBह्T_२.९
34 SK बाह्यदेशे चाष्टपत्रं चतुरस्रं तु तद्बहिः / चतुर्द्वारसमायुक्तं सुवर्णाभं सवृत्तकम् // MBह्T_२.१०
35 SK तत्पत्रेण भवेत् पुष्पं वृन्तयुक्तं त्रिपत्त्रकम् / प्रफुल्ले तु त्रिपत्रारे बाह्ये रुधिरदर्शनम् // MBह्T_२.११
36 SK एतन्मध्ये महेशानि यदि स्याल् लिङ्गताडनम् / पद्ममध्ये गते शुक्रे संततिस् तेन जायते // MBह्T_२.१२
37 SK पुरुषस्य तु यच् छुक्रं शक्तेरक्ताधिको भवेत् / तदा कन्या भवेद् देवि विपरीतः पुमान् भवेत् // MBह्T_२.१३
38 SK उभयोस् तुल्यशुक्रेण क्लीबं भवति निश्चितम् // MBह्T_२.१४
39 SK शृणु चार्वङ्गि सुभगे पुष्पमाहात्म्यम् उत्तमम् / मध्ये तच्छुक्रसंयोगे वर्धते तद् दिने दिने / एवं दिङ्माससम्प्राप्ते तत्पुष्पं वृन्तसंयुतम् // MBह्T_२.१५
40 SK गलिते परमेशानि व्यक्तो भवति संततिः // MBह्T_२.१६
41 SK श्रीदेव्य् उवाच / किंचिद् रोगादिसम्भूते कृमिकीटादिसम्भवे / तस्मज्जीवं प्रणश्यन्ति सा नारी जीव्यते कथम् // MBह्T_२.१७
42 SK श्रीशङ्कर उवाच / अस्य पुष्पस्य माहात्म्यं किं वक्तुं शक्यते मया / बिन्दुस्थानं सहस्रं तु पुष्पमध्ये प्रियंवदे // MBह्T_२.१८
43 SK बुद्बुदा यत्र तिष्ठन्ति तत्रैव संततिर् भवेत् / एवं क्रमेण देवेशि सहस्रं संततिर् यदि / वर्धमानं महापुष्पं पीडा किंचिन् न जायते // MBह्T_२.१९
44 SK मया सार्धं महेशानि विहारं कुरु यत्नतः / विहारे यो भवेत् पुत्रो गणेशः स च कीर्तितः // MBह्T_२.२०
45 SK अपरे परमेशानि तव पुत्रप्रसादतः / पृथिव्यां जायते सृष्टिर् निर्विघ्नेन यथोचितम् // MBह्T_२.२१
46 SK एतच् छ्रुत्वा ततो देवि मदनानलविह्वला / शिवेनालिङ्गिता देवी शिवाकारेण वै तदा // MBह्T_२.२२
47 SK Mआतृकाभेदतन्त्र, तृतीयः पटलः श्रीदेव्य् उवाच / सर्वत्राहं श्रुता नाथ भोगं चेन्द्रियपुष्टिदम् / भोगेन मोक्षम् आप्नोति कथं वदसि योगभृत् // MBह्T_३.१
48 SK श्रीशङ्कर उवाच / भोगेन लभते योगं भोगेन कुलसाधनम् / भोगेन सिद्धिम् आप्नोति भोगेन मोक्षम् आप्नुयात् // MBह्T_३.२
49 SK तस्माद् भोगं सदा कार्यं बाह्यपूजा यथेच्छया / भोजनस्य विधानं यत् तच् छृणुष्व प्रियंवदे // MBह्T_३.३
50 SK आधारे तु या शक्तिर् भुजगाकाररूपिणी / आत्मा परमेशानि तन्मध्ये वर्तते सदा // MBह्T_३.४
51 SK भोजनेच्छा भवेत् तस्मान् निर्लिप्तो जीवसंज्ञकः / सैव साक्षाद् गुणमयो निर्गुणो जीव उच्यते // MBह्T_३.५
52 SK जीवस्य भोजनं देवि भ्रान्तिर् एव न संशयः / गुणयुक्ता कुण्डलिनी चन्द्रसूर्याग्निरूपिणी // MBह्T_३.६
53 SK मूलाधाराच् च तां देवीम् आजिह्वान्तां विभावयेत् / शोधितान् मत्स्यमांसादीन् संमुखे स्थापयेद् बुधः // MBह्T_३.७
54 SK मूलमन्त्रं समुच्चार्य जुहोमि कुण्डलीमुखे / अनेन मनुना देवि प्रतिग्रासं समाहरेत् // MBह्T_३.८
55 SK प्रतिग्रासे परेशानि एवं कुर्याद् विचक्षणः / तदैव ब्रह्मरूपो ऽसौ सत्यं सत्यं सुरेश्वरि // MBह्T_३.९
56 SK भुज्यते कुण्डली देवी इति चिन्तापरो हि यः / मन्त्रसिद्धिर् भवेत् तस्य ज्ञानसिद्धिर् न चान्यथा // MBह्T_३.१०
57 SK एवं कृते ब्रह्मरूपः शिवरूपः स्वयं हरिः / योगसिद्धिर् भवेत् तस्य चाष्टसिद्धिर् भविष्यति // MBह्T_३.११
58 SK शत्रुभिर् दीयते यत् तु कृत्रिमं दारुणं विषम् / भक्षणात् तत् क्षणे देवि ह्य् अमृतं नात्र संशयः // MBह्T_३.१२
59 SK मन्त्रेण शोधितं द्रव्यं भक्षणाद् अमृतं भवेत् / यदैव कालकूटं तु समुद्रमथने प्रिये // MBह्T_३.१३
60 SK तदा चानेन मनुना तत्क्षणात् खादितं मया // MBह्T_३.१४
61 SK सर्पाकारा कुण्डलिनी या देवी परमा कला / भुज्यते सर्परूपेण तत्रैव दारुणं विषम् // MBह्T_३.१५
62 SK इति ते कथितं कान्ते भोजनस्य विधानकम् / एतत् सर्वं महेशानि गोप्तव्यं पशुसंकटे // MBह्T_३.१६
63 SK श्रीदेव्य् उवाच / शृणु नाथ परानन्द परापरकुलात्मक / वद मे परमेशान होमकुण्डं तु कीदृशम् // MBह्T_३.१७
64 SK श्रीशिव उवाच / मणिपूरस्य बाह्ये तु नाभिपद्मं मनोहरम् / अष्टपत्रं तथा वृत्तं तन्मध्ये कुण्डदुर्लभम् // MBह्T_३.१८
65 SK चतुरस्रादिकं देवि तत् कुण्डं कामरूपकम् / सर्वकुण्डस्य देवेशि विप्रः कर्ता विधीयते // MBह्T_३.१९
66 SK वर्तुलं बाहुजातस्य वैश्यस्य चार्धचन्द्रकम् // MBह्T_३.२०
67 SK त्रिकोणं पादजातस्य होमकुण्डं सुरेश्वरि / एवं कुण्डं महेशानि नालत्रयविभूषितम् // MBह्T_३.२१
68 SK ऊर्ध्वनालं सहस्रारे परामृतविभूषितम् / मध्यनालं नाभिपद्मे मूलाधारे च सुन्दरि // MBह्T_३.२२
69 SK आलिङ्गाग्रम् अधोनालं सदानन्दमयं शिवे / होमकुण्डम् इदं देवि सर्वतन्त्रे परिष्कृतम् // MBह्T_३.२३
70 SK येन होमप्रसादेन साक्षाद् ब्रह्ममयो भवेत् / विप्रस्य चाहुतिहोमं विज्ञातव्यं चतुष्टयम् // MBह्T_३.२४
71 SK क्षत्रियस्य त्रयं देवि वैश्यस्य चाहुतिद्वयम् / शूद्रस्यैकाहुतिर् देवि मुक्तिश् चापि चतुर्विधा // MBह्T_३.२५
72 SK महामोक्षं ब्राह्मणस्य सायुज्यं क्षत्रियस्य च / सारूप्यं चोरुजातस्य सालोक्यं शूद्रजातिषु // MBह्T_३.२६
73 SK बाह्यकुण्डं बाह्यहोमे एव हि सुरवन्दिते / जातिभेदे कुण्डभेदं कुर्यात् साधकसत्तमः // MBह्T_३.२७
74 SK बाह्यहोमे काम्यसिद्धिर् भविष्यति न संशयः / ज्ञानहोमे मोक्षसिद्धिर् लभते नात्र संशयः // MBह्T_३.२८
75 SK इति ते कथितं कान्ते तन्त्राणां सारम् उत्तमम् / न वक्तव्यं पशोर् अग्रे शपथो मे त्वयि प्रिये // MBह्T_३.२९
76 SK श्रीदेव्य् उवाच / मद्यपाने महापुण्यं सर्वतन्त्रे श्रुतं मया / जातिभेदं न कथितम् इदानीं तत् प्रकाशय // MBह्T_३.३०
77 SK श्रीशङ्कर उवाच / सर्वयज्ञाधिपो विप्रः संशयो नास्ति पार्वति / सौत्रामण्यां कुलाचारे चत्वारो ब्राह्मणादयः // MBह्T_३.३१
78 SK ब्राह्मणस्य महामोक्षं मद्यपाने प्रियंवदे / ब्राह्मणः परमेशानि यदि पानादिकं चरेत् // MBह्T_३.३२
79 SK तत्क्षणाच् छिवरूपो ऽसौ सत्यं सत्यं हि शैलजे // MBह्T_३.३३
80 SK तोये तोयं यथा लीनं यथा तेजसि तेजसम् / घटे भग्ने यथाकाशं वायौ वायुर् यथा प्रिये // MBह्T_३.३४
81 SK तथैव मद्यपानेन ब्राह्मणो ब्रह्मणि प्रिये / लीयते नात्र संदेहः परमात्मनि शैलजे // MBह्T_३.३५
82 SK सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु / सा नारी मानवी मद्यपाने देवि न संशयः // MBह्T_३.३६
83 SK सूक्ष्मसूत्रे यथा वह्निर् देहमध्ये तथा शिवा / तपोरूपं बृहत्सूत्रं पूजारूपं तथा हरिः // MBह्T_३.३७
84 SK संयुक्तं कुरुते यत्र वर्धमानो महाङ्कुशः / मद्यपानं विना देवि तज्ज्ञानं न हि लभ्यते / अत एव हि विप्रेण मद्यपानं सदा चरेत् // MBह्T_३.३८
85 SK वेदमाताजपेनैव ब्राह्मणो न हि शैलजे / ब्रह्मज्ञानं यदा देवि तदा ब्राह्मण उच्यते // MBह्T_३.३९
86 SK देवानाम् अमृतं ब्रह्म तद् इयं लौकिकी सुरा / सुरत्वं भोगमात्रेण सुरा तेन प्रकीर्तिता // MBह्T_३.४०
87 SK मन्त्रत्रयं सदा पाठ्यं ब्रह्मशापादि मोचनम् / प्रकुर्यात् तु द्विजेनैव तदा ब्रह्ममयी सुरा // MBह्T_३.४१
88 SK हविर् आरोपमात्रेण वह्निर् दीप्तो यथा भवेत् / शापमोचनमात्रेण सुरा मुक्तिप्रदायिनी // MBह्T_३.४२
89 SK अत एव हि देवेशि ब्राह्मणः पानम् आचरेत् / स ब्राह्मणः स वेदज्ञः सो ऽग्निहोत्री स दीक्षितः // MBह्T_३.४३
90 SK बहु किं कथ्यते देवि स एव त्रिगुणात्मकः // MBह्T_३.४४
91 SK मुक्तिमार्गम् इदं देवि गोप्तव्यं पशुसंकटे / प्रकाशात् कायहानिः स्यान् निन्दनीयो न चान्यथा // MBह्T_३.४५
92 SK Mआतृकाभेदतन्त्र, चतुर्थः पटलः श्रीचण्डिकोवाच / कारणेन महामोक्षं निर्माल्येन शिवस्य च / श्रुतं वेदे पुराणे च तव वक्त्रे सुरेश्वर // MBह्T_४.१
93 SK अग्राह्यं तव निर्माल्यम् अग्राह्यं कारणं विभो / मृषा वाक्यं महादेव कथं वदसि योगभृत् // MBह्T_४.२
94 SK कारणेन विना देवि मोक्षज्ञानादिकं न हि / महाशङ्खं विना देवि न मन्त्रः सिद्धिदायकः // MBह्T_४.३
95 SK साक्षाद् ब्रह्ममयी माला महाशङ्खाख्यया पुनः / शिलायन्त्रे च वृन्दायां गङ्गायां सुरपूजिते / नैव स्पृशेन् महाशङ्खं स्पर्शनात् काष्ठवद् भवेत् // MBह्T_४.४
96 SK श्रीचण्डिकोवाच / गङ्गा तु कारणं वारि मद्यं परमकारणम् / कारणस्पर्शमात्रेण मालाः शुद्धा भवन्ति हि // MBह्T_४.५
97 SK गङ्गास्पर्शेन देवेश काष्ठवन् मालिका कथम् / वद मे परमेशान इति मे संशयो हृदि // MBह्T_४.६
98 SK श्रीशंकर उवाच / कारणं देवदेवेशि मोक्षदं सर्वजातिषु / तथा स्वर्गादिजनकं गङ्गातोयं न संशयः // MBह्T_४.७
99 SK कारणे निवसेद् देवि महाकाली परा कला / महाविद्या वसेन् नित्यं सुरायां परमेश्वरि // MBह्T_४.८
100 SK महाशङ्खे वसेन् नित्यं पञ्चाशद्वर्णरूपिणी / महाविद्या वसेन् नित्यं महाशङ्खे च सर्वदा // MBह्T_४.९
101 SK गङ्गास्पर्शनमात्रेण गङ्गायां लीयते प्रिये / काष्ठस्पर्शनमात्रेण काष्ठे वह्निस् तृणे यथा // MBह्T_४.१०
102 SK गङ्गास्पर्शे तथा देवि गङ्गायां लीयते प्रिये / तत्क्षणे च महाशङ्खः काष्ठवन् नात्र संशयः // MBह्T_४.११
103 SK शिलायन्त्रे तुलस्यादौ तथैव परमेश्वरि // MBह्T_४.१२
104 SK महाशङ्खाख्यमालायां यो जपेत् साधकोत्तमः / अष्टसिद्धिः करे तस्य स एव शम्भुर् अव्ययः / मौलौ गङ्गा स्थिता यस्य गङ्गास्नानेन तस्य किम् // MBह्T_४.१३
105 SK वाराणसी कामरूपं हरिद्वारं प्रयागकम् / गण्डकी बदरिका देवि गङ्गासागरसंगमम् // MBह्T_४.१४
106 SK यस्य भक्तिर् महाशङ्खे तस्य दर्शनमात्रतः / तीर्थस्नानफलं सर्वं लभते नात्र संशयः // MBह्T_४.१५
107 SK इति ते कथितं कान्ते सर्वं परमदुर्लभम् / न वक्तव्यं पशोर् अग्रे प्राणान्ते परमेश्वरि // MBह्T_४.१६
108 SK Mआतृकाभेदतन्त्र, पञ्चमः पटलः श्रीचण्डिकोवाच / पारदं भस्मनिर्माणं केनोपायेन शंकर / तद् अहं श्रोतुम् इच्छामि यदि ते ऽस्ति कृपा मयि // MBह्T_५.१
109 SK श्रीशंकर उवाच / पारदे भस्मनिर्माणे नानाविघ्नानि पार्वति / अत एव हि तत्रादौ शान्तिं कुर्याद् द्विजोत्तमः // MBह्T_५.२
110 SK वरयेत् कर्मकर्तारं वक्ष्यमाणविधानतः / पूजयेत् षोडशलिङ्गं पार्थिवं पर्वतात्मजे // MBह्T_५.३
111 SK षोडशेनोपचारेण तोडलोक्तविधानतः / भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि // MBह्T_५.४
112 SK पञ्चामृतेन देवेशं स्नापयेच् छुद्धवारिणा / पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् // MBह्T_५.५
113 SK चतुरङ्गुलिविस्तारं रौप्यनिर्माणपीठकम् / अलंकारं यथायोग्यं पुरुषस्य निवेदयेत् // MBह्T_५.६
114 SK अलक्तकयुतं वापि दद्यान् मलयजं शिवे / षडङ्गधूपं देवेशि प्रदद्याच् च पुनः पुनः // MBह्T_५.७
115 SK घृतयुक्तं तथा दीपं दद्यात् कल्याणहेतवे / नैवेद्यं विविधं रम्यं नानाफलसमन्वितम् // MBह्T_५.८
116 SK शर्करासंयुतं कृत्वा पायसं विनिवेदयेत् / दद्यात् तोयं महेशानि विजयासंयुतं प्रिये // MBह्T_५.९
117 SK षडक्षरं महामन्त्रं गजान्तकसहस्रकम् / प्रजपेत् साधकश्रेष्ठस् ततः सिद्धो भवेद् ध्रुवम् // MBह्T_५.१०
118 SK अथवा परमेशानि धनदां धनदायिनीम् / पूजयेद् बहुयत्नेन षोडशेनोपचारतः // MBह्T_५.११
119 SK द्वादशाह्वं यजेद् धीमान् दिक्सहस्रं ततो जपेत् / तद्दशांशं महेशानि होमं कुर्याद् विचक्षणः // MBह्T_५.१२
120 SK होमकर्माद्यशक्तश् चेद् द्विगुणं जपम् आचरेत् / यदि प्रीता भवेत् सा हि तदा किं वा न सिध्यति // MBह्T_५.१३
121 SK प्रत्यहं परमेशानि कुबेरो दीयते वसु / भस्मनिर्माणकं देवि विचित्रं तस्य किं शिवे // MBह्T_५.१४
122 SK गुरवे दक्षिणां दद्याद् यथाविभवविस्तरैः / ततः सिद्धो भवेन् मन्त्री नात्र कार्या विचारणा // MBह्T_५.१५
123 SK श्रीचण्डिकोवाच / विधानं देवदेवेश भस्मनिर्माणकर्मणि / सकृत् कृते येन रूपे भस्मसाज् जायते विभो // MBह्T_५.१६
124 SK श्रीशंकर उवाच / आनीय पारदं देवि स्थापयेत् प्रस्तरोपरि / तस्योपरि जपेन् मन्त्रं सर्ववन्द्यनवात्मकम् // MBह्T_५.१७
125 SK साष्टसहस्रं देवेशि प्रजपेत् साधकाग्रणीः / स्ययम्भुपुष्पसंयुक्ते वस्त्रे चारुणसंनिभे // MBह्T_५.१८
126 SK संस्थाप्य पारदं देवि मृत्पात्रयुगले शिवे / पुष्पयुक्तेन सूत्रेण बध्नीयाद् बहुयत्नतः // MBह्T_५.१९
127 SK मुक्तिधाराजलेनैव धान्यस्य परमेश्वरि / लेपयेद् बहुयत्नेन रौद्रे शुष्कं च कारयेत् // MBह्T_५.२०
128 SK पुनश् च लेपयेद् धीमान् ततो वह्नौ विनिक्षिपेत् / अष्टमीनवमीरात्रौ क्षिपेन् नैव सुरेश्वरि // MBह्T_५.२१
129 SK अथवा परमेशानि मृत्पात्रे स्थापयेद् रसम् / वल्लीरसेन तद्द्रव्यं शोधयेद् बहुयत्नतः // MBह्T_५.२२
130 SK घृतनारीरसेनैव तथैव शोधनं चरेत् / एवं कृते तु गुटिका यदि स्याद् दृढबन्धनम् // MBह्T_५.२३
131 SK धुस्तुरं च समानीय मध्ये शून्यं च कारयेत् / कृष्णाख्यतुलसीयोगे तथा घृतकुमारिका // MBह्T_५.२४
132 SK एवं कृते वह्नियोगे भस्मसाज् जायते किल / भस्मयोगे भवेत् स्वर्णं धनदायाः प्रसादतः // MBह्T_५.२५
133 SK विवर्णं जायते द्रव्यं यदि पूजां न चाचरेत् // MBह्T_५.२६
134 SK श्रीचण्डिकोवाच / स्वयम्भु कीदृशं नाथ कुण्डगोलं तु कीदृशम् / स्वपुष्पं कीदृशं नाथ वज्रपुष्पं तु कीदृशम् / सर्वकालोद्भवं नाथ कीदृशं वद शंकर // MBह्T_५.२७
135 SK श्रीशंकर उवाच / विवाहरहिता कन्या प्रथमं पुष्पसंयुता / तच्छोणितं महेशानि स्वयम्भु नात्र संशयः // MBह्T_५.२८
136 SK भर्तरि विद्यमाने तु या कन्या चान्यजा शिवे / तदुद्भवं कुण्डपुष्पं सर्वकार्यार्थसाधकम् // MBह्T_५.२९
137 SK मृते भर्तरि देवेशि या कन्या अन्यजा शिवे / तदुद्भवं गोलपुष्पं देववश्यकरं परम् // MBह्T_५.३०
138 SK विवाहितायाः कन्यायाः प्रथमे ऋतुसम्भवे / तच्छोणितं महेशानि स्वपुष्पं सर्वमोहनम् // MBह्T_५.३१
139 SK विवाहितायाः कन्यायाः पुरुषस्य च ताडनात् / यदि पुष्पं समुद्भूतं वज्रं तत् परिकीर्तितम् // MBह्T_५.३२
140 SK विवाहितायाः कन्यायाः प्रतिमासे च यद् भवेत् / सर्वकालोद्भवं पुष्पं कथितं वीरवन्दिते // MBह्T_५.३३
141 SK समक्रोशं वह्निमध्ये स्थापयेद् बहुयत्नतः / तत उत्थाय तद् द्रव्यं स्वर्णपात्रे निधाय च // MBह्T_५.३४
142 SK प्रजपेत् परमेशानि प्रासादाख्यं महामनुम् / ततः सिद्धो भवेन् मन्त्री नान्यथा मम भाषितम् // MBह्T_५.३५
143 SK एतन् मन्त्रं महेशानि गजान्तकसहस्रकम् / जपित्वा पूजयेत् पश्चात् पार्थिवं शिवलिङ्गकम् // MBह्T_५.३६
144 SK ततः परीक्षा कर्तव्या शृणु मत्प्राणवल्लभे / शुद्धताम्रं वह्निमध्ये मृत्पात्रे तोलकं मितम् // MBह्T_५.३७
145 SK द्रवीभूते च ताम्रे च गुञ्जामानं क्षिपेद् यदि / तत्क्षणे परमेशानि स्वर्णं भवति निश्चितम् // MBह्T_५.३८
146 SK गुञ्जाप्रमाणं तद् द्रव्यं भोजनं कुरुते यदि / सर्वरोगपरित्यक्तो जायते मदनोपमः / मन्त्रसिद्धिर् भवेत् तस्य जायते चिरजीविता // MBह्T_५.३९
147 SK प्रत्यहं परमेशानि शतनारीं रमेद् यदि / वीर्यादिरहितं न स्यात् तेजोवृद्धिकरं परम् // MBह्T_५.४०
148 SK मरणं नैव पश्यामि यदि ध्यानयुतो भवेत् / तस्य वित्तं विलोक्यैव कुबेरो ऽपि तिरस्कृतः // MBह्T_५.४१
149 SK गानेन तुम्बुरुः साक्षाद् दानेन वासवो यथा / महेश इव योगीन्द्रो निरृतिर् इव दुर्धरः // MBह्T_५.४२
150 SK महाबलो महावीर्यो महासाहसिकः शुचिः / महास्वच्छो दयावांश् च सर्वप्राणिहिते रतः / बहु किं कथ्यते देवि स एव गणनायकः // MBह्T_५.४३
151 SK Mआतृकाभेदतन्त्र, षष्टः पटलः श्रीचण्डिकोवाच / वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर / महारोगे महादुःखे महादारिद्र्यसंकटे // MBह्T_६.१
152 SK नाना व्याधिगते वापि नानापीडादिसंकटे / राज्यनाशे राजभये कारागारगते पुनः // MBह्T_६.२
153 SK रायदण्डे च देवेश तथा च ग्रहपीडिते / केनोपायेन देवेश मुच्यते वद शंकर // MBह्T_६.३
154 SK श्रीशंकर उवाच / शृणु चार्वङ्गि सुभगे यन् मां त्वं परिपृच्छसि / तत् तत् सर्वं प्रवक्ष्यामि सावधानावधारय // MBह्T_६.४
155 SK या चाद्या परमा विद्या चामुण्डा कालिका परा / तस्याः प्रयोगमात्रेण किं न सिध्यति भूतले // MBह्T_६.५
156 SK श्रीचण्डिकोवाच / राहुश् चण्डालो विख्यातः सर्वत्र परमेश्वर / पुण्यकालः कथं देव तस्य स्पर्शे दिवाकरे // MBह्T_६.६
157 SK निशाकरे तथा नाथ इति मे संशयो हृदि / कथयस्व परानन्द पश्चाद् अन्यत् प्रकाशय // MBह्T_६.७
158 SK श्रीशंकर उवाच / शृणु चार्वङ्गि सुभगे ग्रहणं चोत्तमोत्तमम् / ग्रहणं त्रिविधं देवि चन्द्रसूर्याग्निसंयुतम् // MBह्T_६.८
159 SK शक्तेर् ललाटके नेत्रे वह्निस् तिष्ठति सर्वदा / वामनेत्रे तथा चन्द्रो दक्षे सूर्यः प्रतिष्ठितः // MBह्T_६.९
160 SK शम्भुनाथेन देवेशि रमणं क्रियते यदा / तदैव ग्रहणं देवि शक्तियुक्तो यदा शिवः // MBह्T_६.१०
161 SK वामनेत्रे चुम्बने तु शशाङ्कग्रहणं तदा / दक्षनेत्रे चुम्बने च भास्करग्रहणं तदा // MBह्T_६.११
162 SK ललाटे चुम्बने चाग्निग्रहणं परमेश्वरि / शिववीर्यं यतो वह्निरतो ऽदृश्यः सुरेश्वरि // MBह्T_६.१२
163 SK राहुः शिवः समाख्यातस् त्रिगुणा शक्तिर् ईरिता / शिवशक्त्योः समायोगो ग्रहणं परमेश्वरि // MBह्T_६.१३
164 SK शिवशक्तिसमायोगः कालं ब्रह्ममयं प्रिये / अत एव महेशानि राश्यादीन् न विचारयेत् // MBह्T_६.१४
165 SK तिथिनक्षत्रयोगेन यद् योगं परमेश्वरि / तदैव परमेशानि राश्यादिगणनं चरेत् // MBह्T_६.१५
166 SK शिवशक्तिसमायोगात् सर्वं ब्रह्ममयं जगत् / मासपक्षतिथीनां च नोच्चार्यं परमेश्वरि // MBह्T_६.१६
167 SK दृष्टिमात्रेण जप्तव्यं तदा सिद्धिर् भवेद् ध्रुवम् / तत्कालं परमं कालं विज्ञेयं वीरवन्दिते // MBह्T_६.१७
168 SK तत्र यद् यत् कृतं सर्वम् अनन्तफलम् ईरितम् / पुरैव कथितं सर्वं बहु किं कथ्यते ऽधुना // MBह्T_६.१८
169 SK एतत् सुगुप्तभेदं हि तव स्नेहात् प्रकाशितम् / न वक्तव्यं पशोर् अग्रे न वक्तव्यं सुरेश्वरि // MBह्T_६.१९
170 SK एतत् तत्त्वं प्रयत्नेन ब्रह्मा जानाति माधवः / प्रगोप्तव्यं प्रयत्नेन स्वयोनिर् इव शैलजे // MBह्T_६.२०
171 SK श्रीचण्डिकोवाच / चामुण्डाया महामन्त्रं कीदृशं परमेश्वर / आराधनं कीदृशं वा तद् वदस्व दयानिधे // MBह्T_६.२१
172 SK श्रीशंकर उवाच / शृणु चार्वङ्गि सुभगे चामुण्डामन्त्रम् उत्तमम् / यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते // MBह्T_६.२२
173 SK कालीबीजयुगं देवि कूर्चबीजं ततः परम् / त्र्यक्षरी परमा विद्या चामुण्डा कालिका स्वयम् // MBह्T_६.२३
174 SK सप्ताहं पूजयेद् देवीम् उपचारैश् च षोडशैः / पूजान्ते प्रजपेन् मन्त्रं त्रिसहस्रं वरानने // MBह्T_६.२४
175 SK रात्रौ तु पञ्चतत्त्वेन पूजयेत् परमेश्वरीम् / तथा रात्रौ जपेन् मन्त्रं कुलशक्तिसमन्वितम् // MBह्T_६.२५
176 SK यन्त्रनिर्माणयोग्यं हि पीठं दद्यात् सुविस्तरम् / भोगयोग्यं प्रदातव्यं मधुपर्कं यथोचितम् // MBह्T_६.२६
177 SK शक्तेर् यथा विधेयं स्याद् युवत्याः परमेश्वरि / तथा वस्त्रं प्रदातव्यं सर्वकल्याणहेतवे // MBह्T_६.२७
178 SK अलंकारं यथायोग्यं तत्र तत्र नियोजयेत् / नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् // MBह्T_६.२८
179 SK सामिषान्नं प्रदातव्यं परमान्नं सशर्करम् / पूजयेत् परया भक्त्या बलिदानं ततः परम् // MBह्T_६.२९
180 SK प्रत्यहं परमेशानि चाद्यन्ते वा बलिं हरेत् / साङ्गे जाते महेशानि चाथवा बलिम् आहरेत् // MBह्T_६.३०
181 SK एवं कृते महासिद्धिं लभते नात्र संशयः / धनार्थी धनम् आप्नोति पुत्रार्थी पुत्रवान् भवेत् // MBह्T_६.३१
182 SK विवादे जयम् आप्नोति राजद्वारे जयी भवेत् / सर्वत्र विजयी भूत्वा देवीपुत्र इव क्षितौ // MBह्T_६.३२
183 SK रोगेभ्यो घोररूपेभ्यः पूजयित्वा प्रमुच्यते / इच्छासिद्धिर् भवेत् तस्य सर्वसिद्धिर् न चान्यथा // MBह्T_६.३३
184 SK कारागारगते देवि मुच्यते नात्र संशयः / प्रयोगं परमेशानि सारं परमदुर्लभम् // MBह्T_६.३४
185 SK अतिस्नेहेन देवेशि तव स्थाने प्रकाशितम् / अथवा परमेशानि पठेच् चण्डीं सनातनीम् // MBह्T_६.३५
186 SK पूजयेच् चण्डिकां देवीं सुगन्धिपुष्पसंयुतैः / धूपदीपेन गन्धेन नैवेद्येन सुरेश्वरि // MBह्T_६.३६
187 SK अवश्यं पञ्चतत्त्वेन पूजयेच् चण्डिकां पराम् // MBह्T_६.३७
188 SK आदाव् ऋष्यादिसूक्तेन चार्घ्यान्ते परमेश्वरि / पञ्चतत्त्वं समानीय शोधयेच् छास्त्रवित्तमः // MBह्T_६.३८
189 SK तर्पणं च ततः कृत्वा चार्घ्यपात्रे विनिक्षिपेत् / अर्घ्योदकेन संप्रोक्ष्य पूजयेत् पीठदेवताम् // MBह्T_६.३९
190 SK प्रणवं च समुद्धृत्य मायाबीजं ततः परम् / प्रभां मायां जयां सूक्ष्मां विशुद्धां नन्दिनीं तथा // MBह्T_६.४०
191 SK सुप्रभां विजयां सर्वसिद्धिदां परिपूजयेत् / वज्रनखदंष्ट्रायुधाय हूं फड् इत्यन्ततस् ततः // MBह्T_६.४१
192 SK नमो ऽन्तेन तु देवेशि आसनं च समर्चयेत् / गुरुपङ्क्तिं पूजयित्वा पुनर् ध्यानं समाचरेत् // MBह्T_६.४२
193 SK आवाहनं ततो मुद्रां जीवन्यासं प्रपूजनम् / षडङ्गेन तु सम्पूज्य परिवारान् प्रपूजयेत् // MBह्T_६.४३
194 SK शङ्खनिधिं पद्मनिधिं तथा ब्राह्म्यादिकं यजेत् / इन्द्रादींश् चैव वज्रादीन् पूजयेत् साधकोत्तमः // MBह्T_६.४४
195 SK प्रणवादिनमो ऽन्तेन पूजयेत् साधकोत्तमः / पुनर् देवीं महेशानि पञ्चतत्त्वेन पूजयेत् // MBह्T_६.४५
196 SK प्राणायामं ततः कृत्वा गुरुमन्त्रेष्टदेवताम् / ऐक्यं विभाव्य देवेशि मूलमन्त्रं जपेच् छतम् // MBह्T_६.४६
197 SK प्राणायामं ततः कृत्वा कारणादीन् समाहरेत् / तस्यै दत्त्वा स्वयं पीत्वा पठेच् चण्डीं सुरेश्वरि // MBह्T_६.४७
198 SK साङ्गे जाते तु माहात्म्ये पुनः पानं समाचरेत् / ततस् तु प्रपठेद् धीमान् क्रमेण पानम् आचरेत् // MBह्T_६.४८
199 SK समाप्ते तु विलोमेन पुनर् मन्त्रं शतं जपेत् / यदि भाग्यवशाद् देवि शक्तियोगं लभेन् नरः // MBह्T_६.४९
200 SK तत्क्षणे हि विजानीयात् सर्वसिद्धिः करे स्थिता / एवं कृत्वा महेशानि यदि पाठं समाचरेत् // MBह्T_६.५०
201 SK माहात्म्यं तस्य पाठस्य किं वक्तुं शक्यते मया / शतवक्त्रं यदि भवेत् तदा वक्तुं न शक्यते // MBह्T_६.५१
202 SK पञ्चवक्त्रेण देवेशि किं वक्तुं शक्यते ऽधुना / सकृत् पाठेन देवेशि किं पुनर् ब्रह्म केवलम् // MBह्T_६.५२
203 SK अवश्यं लभते शान्तिं सर्वत्र परमेश्वरि / यदि शान्तिं न लभते मम वाक्यं मृषा तदा // MBह्T_६.५३
204 SK षोडशेनोपचारेण प्रथमं पूजनं चरेत् / द्वितीये पञ्चतत्त्वेन पूजयेच् चण्डिकां प्रिये // MBह्T_६.५४
205 SK सहस्रावृत्तिपाठेन यत् फलं लभते नरः / सकृत् पाठस्य देवेशि कलां नार्हति षोडशीम् // MBह्T_६.५५
206 SK ध्यानम् अस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन् नरः // MBह्T_६.५६
207 SK ॐ या चण्डी मधुकैटभादिदैत्यदलनी माहिषोन्मादिनी या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी / शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिलक्ष्मीः परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी // MBह्T_६.५७
208 SK ध्यानम् एतच् चण्डिकायाः शृणुष्व वीरवन्दिते // MBह्T_६.५८
209 SK शृणु मन्त्रं प्रवक्ष्यामि त्रैलोक्येषु च दुर्लभम् / वेदाद्यं वाग्भवं मायां कामबीजं ततः परम् // MBह्T_६.५९
210 SK स्थिरमायां महामायां कामबीजं ततो नमः / नवाक्षरं महामन्त्रं जपेद् आदौ शतं प्रिये // MBह्T_६.६०
211 SK विपरीतं महामन्त्रं पाठान्ते तु शतं जपेत् / शृणु देवि प्रवक्ष्यामि ऋषिच्छन्दः सुदुर्लभम् // MBह्T_६.६१
212 SK ॐ सप्तशतीमहास्तोत्रस्य मेधातिथिऋषिर् गायत्र्यनुष्टुब्बृहतीपंक्तित्रिष्तुब्जगत्यश् छन्दांसि महाकालीमहालक्ष्मीमहासरस्वीदेवतास्तवकं ऐं ह्रीं क्लीं बीजानि क्ष्रौं शक्तिः ममामुककामसिद्ध्यर्थे विनियोगः // MBह्T_६.६२
213 SK प्रणवेन महेशानि षडङ्गन्यासम् आचरेत् / इति ते कथितं कान्ते चण्डीपाठस्य लक्षणम् // MBह्T_६.६३
214 SK सार्वणिः सूर्य इत्यादि सार्वणिर् भविता मनुः एतन्मात्रं पठेद् देवि किंचिन् न्यूनाधिकं न हि // MBह्T_६.६४
215 SK वारत्रयं पठेद् देवि संजप्य तु दिनत्रयम् // MBह्T_६.६५
216 SK महारोगे सहादुःखे राजपीडादिदारुणे / नाना व्याधिगते वापि राज्यनाशे तथा भये // MBह्T_६.६६
217 SK ग्रहपीडादिसंजाते ब्रह्महत्यादिपातके / एवं पाठेन देवेशि मुच्यते नात्र संशयः // MBह्T_६.६७
218 SK बहु किं कथ्यते देवि सर्वशान्तिं लभेन् नरः / सर्वशङ्काविनिर्मुक्तो जायते मदनोपमः // MBह्T_६.६८
219 SK एवं कृते महेशानि यदि सिद्धिर् न जायते / पुनस् तेनैव कर्तव्यं ततः सिद्धो भवेद् ध्रुवम् // MBह्T_६.६९
220 SK Mआतृकाभेदतन्त्र, सप्तमः पटलः श्रीशिव उवाच / अथातः सम्प्रवक्ष्यामि त्रिपुरामन्त्रम् उत्तमम् / यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते // MBह्T_७.१
221 SK त्रिपुरा त्रिविधा देवि बाला प्रोक्ता पुरा शिवे / तथैव भैरवी देवी नित्यातन्त्रे मयोदिता / इदानीं सुन्दरीं देवी शृणु पार्वति सादरम् // MBह्T_७.२
222 SK श्रीदेव्य् उवाच / महामन्त्रं श्रुतं नाथ वामकेश्वरयामले / प्रातःकृत्यादि देवेश आराधनक्रमं वद // MBह्T_७.३
223 SK श्रीशिव उवाच / प्रातर् उत्थाय मन्त्रज्ञः सहस्रारे निजं गुरुम् / पूर्वोक्तध्यानम् उच्चार्य पूजयेद् बहुयत्नतः // MBह्T_७.४
224 SK तथा च श्रीगुरोर् ध्यानं गुप्तसाधनतन्त्रके / कथितं च मया पूर्वं मन्त्रं शृणु वरानने // MBह्T_७.५
225 SK वाग्बीजं च महामायां विष्णुशक्तिं समुच्चरेत् / हसखफ्रें तथानन्दभैरवस्य मनुं ततः // MBह्T_७.६
226 SK तस्य शक्तेर् मनुं पश्चात् ततश् चैवं हसौः स्मृतः / श्रीगुरोश् च तथा शक्तेर् मन्त्रम् एतत् सुरेश्वरि // MBह्T_७.७
227 SK श्रीगुरोर् आनन्दनाथान्ते अथातः शक्तिर् ईरिता / वाग्बीजादीन् समुच्चार्य अमुकानन्दनाथ च // MBह्T_७.८
228 SK श्रीपादुकां समुच्चार्य पूजयामि नमस् ततः / वाग्बीजं च शम्भुपत्नीं तदुत्तरे हरिप्रियाम् // MBह्T_७.९
229 SK भूतबीजं समुच्चार्य प्रवदेच् च तदात्मकम् / समर्पयामि देवेशि पूजाविधिर् इति प्रिये // MBह्T_७.१०
230 SK ततश् चाष्टाक्षरं मन्त्रम् अष्टोत्तरशतं जपेत् / जपं समर्पयित्वा तु नमेद् अञ्जलिना प्रिये // MBह्T_७.११
231 SK श्रीदेव्य् उवाच / स्तुतिं च कवचं नाथ श्रोतुम् इच्छामि साम्प्रतम् / श्रीगुरोः कवचं स्तोत्रं त्वया प्रोक्तं पुरा प्रभो // MBह्T_७.१२
232 SK इदानीं स्त्रीगुरोः स्तोत्रं कवचं मयि कथ्यताम् / यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते // MBह्T_७.१३
233 SK श्रीशिव उवाच / शृणु देवि प्रवक्ष्यामि स्तोत्रं परमगोपनम् / यस्य श्रवणमात्रेण संसारान् मुच्यते नरः // MBह्T_७.१४
234 SK नमस् ते देवदेवेशि नमस् ते हरपूजिते / ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः // MBह्T_७.१५
235 SK अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया / यया चक्षुर् उन्मीलितं तस्यै नित्यं नमो नमः // MBह्T_७.१६
236 SK भवबन्धनपारस्य तारिणी जननी परा / ज्ञानदा मोक्षदा नित्या तस्यै नित्यं नमो नमः // MBह्T_७.१७
237 SK श्रीनाथवामभागस्था सदा या सुरपूजिता / सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः // MBह्T_७.१८
238 SK सहस्रारे महापद्मे सदानन्दस्वरूपिणी / महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः // MBह्T_७.१९
239 SK ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी / त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः // MBह्T_७.२०
240 SK चन्द्रसूर्याग्निरूपा च सदाघूर्णितलोचना / स्वनाथं च समालिङ्ग्य तस्यै नित्यं नमो नमः // MBह्T_७.२१
241 SK ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी / ज्ञानविज्ञानदात्री च तस्यै नित्यं नमो नमः // MBह्T_७.२२
242 SK इदं स्तोत्रं महेशानि यः पठेद् भक्तिसंयुतः / स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः // MBह्T_७.२३
243 SK प्रातःकाले पठेद् यस् तु गुरुपूजापुरःसरम् / स एव धन्यो लोके ऽस्मिन् देवीपुत्र इव क्षितौ // MBह्T_७.२४
244 SK श्रीशङ्कर उवाच / स्तोत्रं समाप्तं देवेशि कवचं शृणु सादरम् / यस्य श्रवणमात्रेण वागीशसमतां व्रजेत् // MBह्T_७.२५
245 SK स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः / तदाख्या देवता प्रोक्ता चतुर्वर्गफलप्रदा // MBह्T_७.२६
246 SK क्लीं बीजं मे शिरः पातु तद् आख्यातं ललाटकम् / क्लीं बीजं चक्षुषोः पातु सर्वाङ्गं मे सदावतु // MBह्T_७.२७
247 SK ऐं बीजं मे मुखं पातु ह्रीं जङ्घां परिरक्षतु / श्रीं बीजं स्कन्धदेशं मे वाग्भवं मे भुजद्वयम् // MBह्T_७.२८
248 SK हकारं मे दक्षभुजं क्षकारं वामहस्तकम् / क्षमणौ तदधः पातु लकारं हृदयं मम // MBह्T_७.२९
249 SK रकारं पृष्ठदेशं च रकारं दक्षपार्श्वकम् / जूङ्कारं वामपार्श्वे तु सकारं मेरुम् एव तु // MBह्T_७.३०
250 SK मकारं चाङ्गुलीः पातु लकारं मे नखोपरि / वकारं मे नितम्बं च रकारं जानुयुग्मकम् // MBह्T_७.३१
251 SK यीःकारं पादयुगलं हसौः सर्वाङ्गम् एव तु / हसौर् लिङ्गं च लोमं च केशं च परिरक्षतु // MBह्T_७.३२
252 SK ऐं बीजं पातु पूर्वे तु ह्रीं बीजं दक्षिणे ऽवतु / श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् // MBह्T_७.३३
253 SK श्रीं पातु चाग्निकोणे च तदाख्यां नैरृते ऽवतु / देव्य् अम्बा पातु वायव्यां शम्भोः श्रीपादुकां तथा // MBह्T_७.३४
254 SK पूजयामि तथा चोर्ध्वं नमश् चाधः सदावतु / इति ते कथितं कान्ते कवचं परमाद्भुतम् // MBह्T_७.३५
255 SK गुरुमन्त्रं जपित्वा तु कवचं प्रपठेद् यदि / स सिद्धः सगणः सो ऽपि शिवः साक्षान् न संशयः // MBह्T_७.३६
256 SK पूजाकाले पठेद् यस् तु कवचं मन्त्रविग्रहम् / पूजाफलं भवेत् तस्य सत्यं सत्यं सुरेश्वरि // MBह्T_७.३७
257 SK त्रिसंध्यं यः पठेद् देवि स सिद्धो नात्र संशयः // MBह्T_७.३८
258 SK भूर्जे विलिख्य गुटिकां स्वर्णस्था धारयेद् यदि / तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः // MBह्T_७.३९
259 SK विवादे जयम् आप्नोति रणे च निरृतिर् इव / सभायां जयम् आप्नोति मम तुल्यो न संशयः // MBह्T_७.४०
260 SK सहस्रारे भावयं स्तां त्रिसन्ध्यं प्रपठेद् यदि / स एव सिद्धो लोकेशो निर्वाणपदम् ईहते // MBह्T_७.४१
261 SK समस्तमङ्गलं नाम कवचं परमाद्भुतम् / यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन // MBह्T_७.४२
262 SK देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् / अभक्तेभ्यो ऽपि देवेशि पुत्रेभ्यो ऽपि न दर्शयेत् // MBह्T_७.४३
263 SK इदं कवचम् अज्ञात्वा दशविद्यां च यो जपेत् / स नाप्नोति फलं तस्य परे च नरकं व्रजेत् // MBह्T_७.४४
264 SK समाप्तं कवचं देवि किम् अन्यच् छ्रोतुम् इच्छसि / तव स्नेहानुबन्धेन किं मया न प्रकाशितम् // MBह्T_७.४५
265 SK कूर्चबीजं समुच्चार्य प्राणमन्त्रं ततः प्रिये / अनेन वायुयोगेन कुण्डलीचक्रं संचरेत् // MBह्T_७.४६
266 SK अष्टोत्तरशतं मूलमन्त्रं जप्त्वा नमेत् सुधीः / स्नानकर्म ततः कृत्वा संध्यां कुर्यात् पुरोदिताम् // MBह्T_७.४७
267 SK श्रीदेव्य् उवाच / संध्यायाः कीदृशं ध्यानं वद मे परमेश्वर / श्रीविद्याविषये नाथ विशेषो मयि कथ्यताम् // MBह्T_७.४८
268 SK श्रीशिव उवाच / ध्यायेच् च सुन्दरीं देवीं त्रिविधां बीजरूपिणीम् / प्रभाते वाग्भवां देवी मध्याह्ने मदनात्मिकाम् // MBह्T_७.४९
269 SK सायाह्ने शक्तिरूपां च त्रिविधां बिन्दुरूपिणीम् / पूजाकाले महादेवीं ध्यानानुरूपिणीं शिवाम् // MBह्T_७.५०
270 SK वाग्भवेनेन्दुसदृशां शुक्लवर्णां विचिन्तयेत् / शक्तिबीजं स्वर्णवर्णं रक्तवर्णां विभावयेत् // MBह्T_७.५१
271 SK प्रभाते शुक्लवर्णाभां मध्याह्ने नीलसंनिभाम् / सायाह्ने रक्तवर्णाभां भावयेत् साधकोत्तमः // MBह्T_७.५२
272 SK एवं ध्यात्वा महेशानि संध्यां कुर्याद् विचक्षणः / शिवपूजां ततः कृत्वा पूजयेत् परदेवताम् // MBह्T_७.५३
273 SK ततस् तु पूजयेद् देवीं त्रिपुरां मोक्षदायिनीम् / त्रिपुरा परमा विद्या महाविद्या पतिव्रता // MBह्T_७.५४
274 SK पतिपूजां विना पूजां न गृह्णाति कदाचन / अत एव महेशानि आदौ लिङ्गं प्रपूजयेत् // MBह्T_७.५५
275 SK पञ्चाक्षरं पञ्चवक्त्रं पूजयेद् बहुयत्नतः / ततस् तु पूजयेद् देवीं त्रिपुरां मोक्षदायिनीम् // MBह्T_७.५६
276 SK श्रीदेव्य् उवाच / किमाधारे यजेच् छम्भुं कृपया वद शंकर / आधारभेदे देवेश साधकः फलभाग् भवेत् // MBह्T_७.५७
277 SK श्रीशंकर उवाच / पूजयेत् पार्थिवे लिङ्गे पाषाणे लिङ्गके तथा / स्वर्णलिङ्गे ऽथवा देवि रौप्ये ताम्रे च कांस्यके // MBह्T_७.५८
278 SK पारदे वाथ गङ्गायां स्फाटिके मारकते ऽपि वा / कार्यभेदे लौहलिङ्गे भस्मनिर्माणलिङ्गके // MBह्T_७.५९
279 SK वालुकानिर्मिते लिङ्गे गोमये वाथ पूजयेत् / पार्थिवे पूजनं देवि तोडलाख्ये मयोदितम् // MBह्T_७.६०
280 SK संस्कारेण विना देवि पाषाणादौ न पूजयेत् / संस्कारं च प्रवक्ष्यामि विशेष इह यद् भवेत् // MBह्T_७.६१
281 SK रौप्यं च स्वर्णलिङ्गं च स्वर्णपात्रे निधाय च / तस्माद् उत्तोल्य तं लिङ्गं दुग्धमध्ये दिनत्रयम् // MBह्T_७.६२
282 SK त्र्यम्बकेण स्थापयित्वा कालरुद्रं प्रपूजयेत् / षोडशेनोपचारेण वेद्यान् तु पार्वतीं यजेत् // MBह्T_७.६३
283 SK तस्माद् उत्तोल्य तं लिङ्गं गङ्गातोये दिनत्रयम् / ततो वेदोक्तविधिना संस्कारम् आचरेत् सुधीः // MBह्T_७.६४
284 SK श्रीचण्डिकोवाच / लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो / पार्थिवे च शिलादौ च विशेषो यदि वा भवेत् // MBह्T_७.६५
285 SK श्रीशिव उवाच / मृत्तिकातोलकं ग्राह्यम् अथवा तोलकद्वयम् / एतदन्यं न कर्तव्यं कदाचिद् अपि पार्वति // MBह्T_७.६६
286 SK शिलादौ परमेशानि स्थूलं च फलदायकम् / अङ्गुष्ठमानं देवेशि यद् वा हेमाद्रिमानकम् // MBह्T_७.६७
287 SK एवं क्रमेण देवेशि फलं बहुविधं लभेत् / स्थूलात् स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि // MBह्T_७.६८
288 SK पूजनाद् धारणाद् देवि फलं बहुविधं स्मृतम् // MBह्T_७.६९
289 SK Mआतृकाभेदतन्त्र, अष्टमः पटलः श्रीदेव्य् उवाच / शृणु नाथ परानन्द परापरकुलात्मक / त्वां विना त्राणकर्ता च मम ज्ञाने न वर्तते // MBह्T_८.१
290 SK पूर्णलिङ्गं महेशान शिवबीजं न चान्यथा / शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् // MBह्T_८.२
291 SK पारदस्य शतांशैकं मम ज्ञाने न वर्तते / शिवबीजं महादेव शिवरूपं न चान्यथा / लिङ्गरूपं कथं देव तद् वदस्व मयि प्रभो // MBह्T_८.३
292 SK श्रीशिव उवाच / यथा ज्योतिर्मयं लिङ्गं कैलासशिखरे मम / तस्यैव षोडशांशैकः काश्यां विश्वेश्वरः स्थितः // MBह्T_८.४
293 SK पूर्णलिङ्गं महेशानि शिवबीजं न चान्यथा / शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् // MBह्T_८.५
294 SK पारदस्य शतांशैकं लक्ष्मीनारायणं न हि / पकारं विष्णुरूपं च आकारं कालिका तथा // MBह्T_८.६
295 SK रेफं शिवं दकारं च ब्रह्मरूपं न चान्यथा / पारदं परमेशानि ब्रह्मविष्णुशिवात्मकम् // MBह्T_८.७
296 SK यो यजेत् पारदं लिङ्गं स एव शम्भुर् अव्ययः / स एव धन्यो देवेशि स ज्ञानी स तु तत्त्ववित् // MBह्T_८.८
297 SK स ब्रह्मवेत्ता स धनी स राजा भुवि पूजितः / अणिमादिविभूतीनाम् ईश्वरः साधकोत्तमः // MBह्T_८.९
298 SK स्त्रियः स्वभावचपला गोपितुं न हि शक्यते / अत एव हि देवेशि विरता भव पार्वति // MBह्T_८.१०
299 SK श्रीदेव्य् उवाच / कथयस्व कृपानाथ करुणा यदि वर्तते / तव वाक्यं विना देव क्व मुक्तिः क्व च साधुता // MBह्T_८.११
300 SK श्रीशिव उवाच / पारदं शिवबीजं हि ताडनं न हि कारयेत् / ताडनाद् वित्तनाशः स्यात् ताडनात् सुतहीनता / ताडनाद् रोगयुक्तः स्यात् ताडनान् मरणं भवेत् // MBह्T_८.१२
301 SK श्रीदेव्य् उवाच / एतद् विघ्नादिकं नाथ सत्यम् एव न संशयः / विघ्नादिरहितं नाथ कथयस्व दयानिधे // MBह्T_८.१३
302 SK श्रीशिव उवाच / पारदे शिवनिर्माणे नानाविघ्नं यतः शिवे / अत एव हि तत्रादौ शान्तिस्वस्त्ययनं चरेत् // MBह्T_८.१४
303 SK द्वादशं पार्थिवं लिङ्गम् उपचारैश् च षोडशैः / पट्टादिसूत्रनिर्माणं रचितं शुक्लम् एव वा // MBह्T_८.१५
304 SK पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् / भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि // MBह्T_८.१६
305 SK अलंकारं यथाशक्ति दद्यात् कल्याणहेतवे / पूजयेद् बहुयत्नेन बिल्वपत्त्रेण पार्वति // MBह्T_८.१७
306 SK तोडलोक्तेन विधिना प्रत्येकेनायुतं जपेत् / आदौ पञ्चाक्षरं मन्त्रम् अष्टोत्तरशतं जपेत् // MBह्T_८.१८
307 SK पूजान्ते प्रजपेत् पश्चात् प्रासादाख्यं महामनुम् / दक्षिणान्तं समाचर्य हविष्याशी जितेन्द्रियः // MBह्T_८.१९
308 SK ताम्बूलं च तथा मत्स्यं वर्जयेन् न कदाचन / अस्मिंस् तन्त्रे हविष्यान्नं ताम्बूलं मीनम् उत्तमम् // MBह्T_८.२०
309 SK होमयेत् परमेशानि दशांशं वा शतांशम् / होमस्य दक्षिणा कार्या तदा विघ्नैर् न लिप्यते // MBह्T_८.२१
310 SK ततः परस्मिन् दिवसे पारदम् आनयेद् बुधः / तस्योपरि जपेन् मन्त्रं सर्ववन्द्यनवात्मकम् // MBह्T_८.२२
311 SK व्योमबीजं शिवान्तं च वर्गाद्यं बिन्दुमस्तकम् / वायुबीजं च त्रितयं त्रितयं त्र्यम्बकं प्रिये // MBह्T_८.२३
312 SK इमं मन्त्रं महेशानि प्रजपेद् औषधोपरि / पारदे प्रजपेन् मन्त्रम् अष्टोत्तरशतं यदि // MBह्T_८.२४
313 SK तद् एवौषधयोगेन बद्धो भवति नान्यथा // MBह्T_८.२५
314 SK ततः परस्मिन् दिवसे शृणु मत्प्राणवल्लभे / वरयेत् कर्मकर्तारं यथोक्तविभवावधि // MBह्T_८.२६
315 SK सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् / चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् // MBह्T_८.२७
316 SK हस्तद्वये महेशानि दद्याद् वलययुग्मकम् / वलयं शुक्लवर्णं च अङ्गरीयं तथैव च // MBह्T_८.२८
317 SK ऊर्मिं दद्यात् पीतवस्त्रं क्षौमवस्त्रयुगं शिवे / एवं कृत्वा महेशानि शिवरूपं विचिन्तयेत् // MBह्T_८.२९
318 SK अथातः सम्प्रवक्ष्यामि विधानं शृणु पार्वति / प्रस्तरे चैव संस्थाप्य झिण्टीपत्त्ररसेन च / प्रस्तरेण समालोड्य कुर्यात् कर्दमवत् प्रिये // MBह्T_८.३०
319 SK निर्माणयोग्यं तत्रैव यदि स्यात् सुरसुन्दरि / तदा निर्माय तं लिङ्गं पुनर् दृढतरं चरेत् // MBह्T_८.३१
320 SK स्वपुष्पसंयुते वस्त्रे अङ्गारे च करीषके / किंचिद् उष्णं प्रकर्तव्यं यतो दृढतरो भवेत् // MBह्T_८.३२
321 SK ततो निर्माय तं लिङ्गं पुनर् दृढतरं चरेत् / स्वपुष्पसंयुते वस्त्रे स्थापयेत् पार्थिवे पुनः // MBह्T_८.३३
322 SK किंचिद् उष्णं प्रकर्तव्यं यावद् दृढतरो भवेत् / विना ह्य् औषधयोगेन भस्म भवति नान्यथा // MBह्T_८.३४
323 SK Mआतृकाभेदतन्त्र, नवमः पटलः श्रीशिव उवाच / भस्मप्रकारं देवेशि शृणु मत्प्राणवल्लभे / कर्तारं वरयेद् आदौ यथोक्तविभवावधि // MBह्T_९.१
324 SK सुवर्णं मौक्तिकयुतं कर्णयुग्मे निवेदयेत् / हस्तयुग्मे च वलयम् अङ्गुरीयं तथैव च // MBह्T_९.२
325 SK तोढद्वयं बाहुयुग्मे शुद्धकाञ्चननिर्मितम् / ग्रीवायां दापयेत् स्वर्णं चतुष्कोणं मनोरमम् // MBह्T_९.३
326 SK वस्त्रयुग्मं पट्टसूत्रनिर्मितं च सुशोभनम् / उष्णीषं शुक्लवर्णं च उष्णीषं पीतवाससम् // MBह्T_९.४
327 SK एवं हि वरयेद् देवि कर्मयोग्यं विचिन्तयेत् / चिन्तयेच् छिवरूपं च चिन्तयेत् त्रिगुणात्मकम् // MBह्T_९.५
328 SK ततः परस्मिन् दिवसे शान्तिस्वस्त्ययनं चरेत् / निर्मितं शुद्धस्वर्णेन बिल्वपत्त्रेण सुन्दरि // MBह्T_९.६
329 SK सहस्रसङ्ख्यया देवि पार्थिवं द्वादशं यजेत् / षोडशेनोपचारेण पट्टवस्त्रयुगेन च // MBह्T_९.७
330 SK अलंकारविचित्रैश् च पूजयेत् परमेश्वरम् / भोगयोग्यं प्रदातव्यं मधुपर्कं निवेदयेत् // MBह्T_९.८
331 SK स्वर्णासनेन संस्थाप्य प्रत्येकं पूजनं चरेत् / पूजान्ते प्रजपेन् मन्त्रम् अष्टोत्तरशतं सुधीः // MBह्T_९.९
332 SK षडक्षरं महामन्त्रं प्रासादाख्यं मनुं ततः / दिक्सहस्रं जपेन् मन्त्रं तद्दशांशं हुनेत् प्रिये // MBह्T_९.१०
333 SK होमस्य द्रव्यं देवेशि शृणु मत्प्राणवल्लभे / वालुकानिर्मिते वापि कुण्डे वा परमेश्वरि // MBह्T_९.११
334 SK द्वात्रिंशदङ्गुलिमानं विस्तृतं तत्समं प्रिये / षोडशाङ्गुलिमानं हि कुण्डं कुर्यात् सुलक्षणम् // MBह्T_९.१२
335 SK तदूर्ध्वे परमेशानि वेदनेत्राङ्गुलिं शिवे / एव हि स्वर्णकुम्भं च ताम्रकुम्भासमर्थिना // MBह्T_९.१३
336 SK एतद् अन्यतरं कुम्भं स्थापयेद् वेदिकोपरि / पट्टवस्त्रेण युग्मेन संवेष्ट्य बहुयत्नतः // MBह्T_९.१४
337 SK होमयेद् बिल्वपत्त्रेण यथोक्तेन सुरेश्वरि / त्रिमध्वक्तेन विधिना ततः सिद्धो भवेद् ध्रुवम् // MBह्T_९.१५
338 SK ततस् तु दक्षिणा कार्या यथोक्तविभवावधि / सर्वद्रव्यमयं मूल्यं द्विगुणं वा प्रदापयेत् // MBह्T_९.१६
339 SK दक्षिणाविहीना यज्ञाः सिद्धिदा न च मोक्षदाः / अत एव महेशानि दक्षिणा विभवावधि // MBह्T_९.१७
340 SK वराहवत् समानीय जन्ममात्रे ऽपि सुन्दरि / पारदं तोलकं मानं भक्षयेद् बहुयत्नतः // MBह्T_९.१८
341 SK पुनस् तोलकमानं हि मातृदुग्धं ततः परम् / पुनश् च भक्षयेद् धीमांस् ततो दुग्धं तु भक्षयेत् // MBह्T_९.१९
342 SK ततश् च वत्सम् आनीय नवद्वारं प्रयत्नतः / सूत्रयोगेण देवेशि बद्धं कुर्यात् प्रयत्नतः // MBह्T_९.२०
343 SK ततश् च हेलकीमन्त्रम् अष्टोत्तरशतं जपेत् / गजप्रमाणं देवेशि दीर्घप्रस्थं तु खातकम् // MBह्T_९.२१
344 SK करीषकेण देवेशि पूर्णं कुर्याद् विचक्षणः / तन्मध्ये स्थापयेद् वत्सं संदहेद् बहुयत्नतः // MBह्T_९.२२
345 SK वह्निस्थिते महेशानि न स्पृशेत् कुण्डम् उत्तमम् / कुण्डे सुशीतले जात उत्थाप्य बहुयत्नतः // MBह्T_९.२३
346 SK सर्वप्रकाशकं मन्त्रम् अष्टोत्तरशतं जपेत् / विश्वेश्वरं प्रवक्ष्यामि शृणु पार्वति सादरम् // MBह्T_९.२४
347 SK पारदं तोलकं मानं ताम्रपात्रे तु लेपयेत् / चूर्णं कुर्यान् महेशानि गन्धकं सार्धं तोलकम् // MBह्T_९.२५
348 SK समाच्छाद्य प्रयत्नेन चूर्णेन परमेश्वरि / संदहेद् बहुयत्नेन मन्दमन्देन वह्निना // MBह्T_९.२६
349 SK कृष्णवर्णं रेणुयुतं दृष्ट्वा उत्थाप्य सुन्दरि / रत्तिप्रमाणं तद् द्रव्यं भक्षयेद् यदि सुन्दरि // MBह्T_९.२७
350 SK सत्यं सत्यं सर्वकुष्ठं भक्षणान् नाशम् आप्नुयात् / अनुपानम् उष्णतोयं मत्स्यादीन् परिवर्जयेत् // MBह्T_९.२८
351 SK एवं प्रयोगं देवेशि न कुर्यात् पुत्रवान् गृही / प्रथमे दिवसे पुत्रान् द्वितीये दिवसे धनम् // MBह्T_९.२९
352 SK तृतीये दिवसे शक्तिं चतुर्थे दिवसे गृहम् / पञ्चमे दिवसे रोगं नाशं तु जायते ध्रुवम् // MBह्T_९.३०
353 SK अत एव महेशानि आत्मस्वस्त्ययनं चरेत् / पूर्वोक्तविधिना मन्त्री चतुर्गुणं समाचरेत् // MBह्T_९.३१
354 SK Mआतृकाभेदतन्त्र, दशमः पटलः श्रीदेव्य् उवाच / नराकृतिं गुरुं नाथ मन्त्रं वर्णात्मकं तथा / ध्यानानुरूपिणं देवम् एकत्वं वा कथं वद // MBह्T_१०.१
355 SK श्रीशिव उवाच / गुरुवक्त्रान् महामन्त्रो लभ्यते साधकोत्तमैः / यद्य् एको जायते वीर्यस् तस्य मूर्तिर् भवेद् ध्रुवम् // MBह्T_१०.२
356 SK देवतायाः शरीरं च बीजाद् उत्पद्यते प्रिये / गुरोर् आज्ञानुसारेण चान्यमूर्तिस् तु जायते // MBह्T_१०.३
357 SK गुर्वादिभावनाद् देवि भावसिद्धिः प्रजायते / अत एव महेशानि चैकत्वं परिकथ्यते // MBह्T_१०.४
358 SK श्रीदेव्य् उवाच / यच् चाक्षुषं महादेव तदाकरं विचिन्तयेत् / अचाक्षुषे महादेव ध्यानं वा कीदृशं भवेत् // MBह्T_१०.५
359 SK श्रीशिव उवाच / शब्दब्रह्ममयं देवि मम वक्त्राद् विनिर्गतम् / आकाररहिते देवि यथा ध्यानादिकं भवेत् // MBह्T_१०.६
360 SK तथैवोच्चारणेनैव भक्तियुक्तेन चेतसा / सत्यं सत्यं महेशानि प्रत्यक्षं नात्र संशयः // MBह्T_१०.७
361 SK श्रीदेव्य् उवाच / पशुप्रदाने वाक्यं तु कीदृशं वद शंकर / येन वाक्येन देवेश देवी तुष्टा भवत्य् अपि // MBह्T_१०.८
362 SK श्रीशिव उवाच / मृगे महिषे चोष्ट्रे च पशुशब्दं न योजयेत् / छागले च तथा सिंहे व्याघ्रे च परमेश्वरि // MBह्T_१०.९
363 SK पशुशब्दं योजयित्वा महादेव्यै निवेदयेत् / पशुभावस्थितो मन्त्री महिषो दीयते यदि // MBह्T_१०.१०
364 SK बलिदानं प्रकर्तव्यं न मांसं भक्षयेन् नरः / सम्यक् फलं न लभते दशांशं लभते प्रिये // MBह्T_१०.११
365 SK महिषादि प्रदातव्यं दिव्यवीरमते स्थितः / स एव सिद्धिम् आप्नोति फलं सम्यक् प्रियंवदे // MBह्T_१०.१२
366 SK पशुदानं विना देवि पूजयेन् न कदाचन / तथा च नित्यपूजायां यदि शक्तो भवेन् नरः // MBह्T_१०.१३
367 SK केवलं बलिदानेन सिद्धो भवति नान्यथा / निर्धनः परमेशानि यदि पूजादिकं चरेत् // MBह्T_१०.१४
368 SK वत्सरान्ते प्रदातव्यं बलिम् एकं सुरेश्वरि / अन्यथा नैव सिद्धिः स्याद् आजन्म पूजनाद् अपि // MBह्T_१०.१५
369 SK बलिदानं महायज्ञं कलिकाले च चण्डिके / अश्वमेधादिकं यज्ञं कलौ नास्ति सुरेश्वरि // MBह्T_१०.१६
370 SK केवलं बलिदानेन चाश्वमेधफलं भवेत् / यज्ञावशेषं यद् द्रव्यं भोजनीयं न चान्यथा // MBह्T_१०.१७
371 SK यज्ञावशेषभोगेन स यज्ञी नात्र संशयः / न भक्षेद् यदि मोहेन न यज्ञफलभाग् भवेत् // MBह्T_१०.१८
372 SK त्याज्यं द्रव्यं कथं देवि महादेव्यै निवेदयेत् / ब्रह्मरूपं महातन्त्रं मम वक्त्राद् विनिर्गतम् // MBह्T_१०.१९
373 SK स पूतः सर्वपापेभ्यो यदि चैकाक्षरं श्रुतम् / महाभक्तियुतो भूत्वा शृणोति पटलं यदि // MBह्T_१०.२०
374 SK किं तस्य ध्यानपूजायां तीर्थस्नानेन तस्य किम् / शब्दब्रह्ममयं ज्ञात्वा समस्तं यदि चण्डिके // MBह्T_१०.२१
375 SK केवलं श्रवणेनैव स सिद्धो नात्र संशयः / अष्टादशपुराणानां श्रवणेनैव यत् फलम् // MBह्T_१०.२२
376 SK चतुर्वेदेन साङ्गेन श्रवणेनैव यतः फलम् / अस्य तन्त्रस्य देवेशि कलां नार्हन्ति षोडशीम् // MBह्T_१०.२३
377 SK ब्रह्मरूपम् इदं तन्त्रं सारात् सारं परात् परम् // MBह्T_१०.२४
378 SK Mआतृकाभेदतन्त्र, एकादशः पटलः श्रीचण्डिकोवाच / प्रासादं मण्डपं वापि यदि देव्यै निवेदयेत् / विधानं तस्य माहात्म्यं वद मे परमेश्वर // MBह्T_११.१
379 SK कूपादिकं महादेव यदि देव्यै निवेदयेत् / विधानं तस्य माहात्म्यं वद मे परमेश्वर // MBह्T_११.२
380 SK श्रीशङ्कर उवाच / शृणु देवि प्रवक्ष्यामि येन प्रासादम् उत्सृजेत् / तस्यैव पश्चिमे भागे वेदिकां चतुरस्रकाम् // MBह्T_११.३
381 SK प्रकुर्याद् बहुयत्नेन वस्त्रेण वेष्टनं चरेत / तदभावे महेशानि तृणेनैनं च वेष्टयेत् // MBह्T_११.४
382 SK कुम्भयुग्मं स्थापयित्वा क्षौमवस्त्रेण वेष्टयेत् / युग्मं युग्मं क्षौमवस्त्रं कुम्भयुग्मे नियोजयेत् // MBह्T_११.५
383 SK ईशकुम्भे यजेद् देवीम् आग्नेयाम् अग्निदैवतम् / चतुःषष्ट्युपचारेण पूजयेद् इष्टदेवताम् // MBह्T_११.६
384 SK अभावे पूजयेद् देवीं तदर्धेन प्रयत्नतः / अथवा परमेशानि यथाशक्त्युपचारतः // MBह्T_११.७
385 SK पूजयेद् बहुयत्नेन ततो होमादिकं चरेत् / आगमोक्तेन विधिना कुर्यात् तत्र कुशण्डिकाम् // MBह्T_११.८
386 SK त्रिमध्वक्तेन देवेशि बिल्वपत्रेण होमयेत् / सहस्रं होमयेन् मन्त्री शतन्यूनं न कारयेत् // MBह्T_११.९
387 SK पूर्णाहुतिं ततो दत्त्वा ततो वाक्यं समाचरेत् / अद्येत्यादि समुच्चार्यं सौरमासं समुच्चरेत् // MBह्T_११.१०
388 SK तिथिगोत्रं चामुको ऽहं धर्मार्थकामम् एव वा / प्राप्तये परमेशानि ततो मूलं समुच्चरेत् // MBह्T_११.११
389 SK देवतायै नमः पश्चाद् दक्षिणां दापयेद् गुरौ / कुम्भतोयेन देवेशि स्नापयेद् यजमानकम् // MBह्T_११.१२
390 SK सुरास् त्व् आदीन् समुच्चार्य शान्तिं कुर्यात् ततो गुरुः / सर्वादौ गुरुदेवस्य वरणं कारयेत् सुधीः // MBह्T_११.१३
391 SK सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् / चतुष्कोणयुतं स्वर्णं ग्रीवायां परियोजयेत् // MBह्T_११.१४
392 SK उष्णीषं च ततो दद्यात् कण्ठे मालां नियोजयेत् / ताडयुग्मं ततो बाहौ वलयं मणिबन्धके // MBह्T_११.१५
393 SK अङ्गुल्याम् अङ्गुरी देया दिव्यवस्त्रं नियोजयेत् / एवं हि वरणं कृत्वा कर्मयोग्यं विचिन्तयेत् // MBह्T_११.१६
394 SK गुरुं वा गुरुपुत्रं वा वरयेद् यत्नतः सुधीः / सदस्यं न हि कर्तव्यं तन्त्रधारं न तत्र वै // MBह्T_११.१७
395 SK ब्रह्माणं न हि कर्तव्यं केवलं वरयेद् गुरुम् / गुरोर् भृत्यो महेशानि भैरवो नात्र संशयः // MBह्T_११.१८
396 SK स्वीयेन परिधानेन वाससा तोषयेत् स्वयम् / स्वयं होता भवेद् विप्रो गुरोर् आज्ञानुसारतः // MBह्T_११.१९
397 SK मायाबीजं समुच्चार्य आधारशक्तये नमः / अनेन मनुना देवि वेदिसंस्कारम् आचरेत् // MBह्T_११.२०
398 SK भूरसीत्यादिमन्त्रेण घटयुग्माभिमन्त्रितम् / अस्त्रान्तेनैव मूलेन उष्णीषं परियोजयेत् // MBह्T_११.२१
399 SK वेदोक्तं चैव स्मृत्युक्तं मन्त्रं न योजयेत् सुधीः / एवं कूपादिदानेषु कर्तव्यं परमेश्वरि // MBह्T_११.२२
400 SK अन्यत् सर्वं समानं हि प्रासादादिस्थले पुनः / कूपादियोजनं कुर्यात् यष्टिप्रोतनम् आचरेत् // MBह्T_११.२३
401 SK चतुर्हस्तप्रमाणं च मध्यभागे तु प्रोतनम् / मूलमन्त्रं समुच्चार्य ततो वह्निवधूं न्यसेत् // MBह्T_११.२४
402 SK ततो यष्टिं समुच्चार्य पोतयामि वदेत् सुधीः / तत्र संतरणं धेनुं नैव कुर्याद् विचक्षणः // MBह्T_११.२५
403 SK धेनुसंतरणेनैव फलहानिः प्रजायते / स्वर्णं रूप्यं प्रवालं च दक्षिणां परियोजयेत // MBह्T_११.२६
404 SK स्नापयित्वा कुम्भतोयैः शान्तिं कुर्यात् ततो गुरुः // MBह्T_११.२७
405 SK अनेनैव विधानेन कूपाद्युत्सर्गम् आचरेत् / वापीकूपतडागादि ह्य् अनेनोत्सर्गम् आचरेत् // MBह्T_११.२८
406 SK दीर्घिकां च पुष्करिणीं ह्य् अनेनैव जलाशयम् / उत्सृज्य परया भक्त्या महादेव्यै प्रयत्नतः // MBह्T_११.२९
407 SK पुरुषं सप्तमं कान्ते पितृवंशे च मातरि / सप्तमं पुरुषं कान्ते मातृवंशे समं प्रिये // MBह्T_११.३०
408 SK कैलासे निवसेन् नित्यं देव्या वरप्रसादतः / स्वयं देवस्वरूपश् च जीवन्मुक्तो न संशयः // MBह्T_११.३१
409 SK अश्वमेधसहस्रेण वाजपेयशतेन च / यत् फलं लभते देवि तस्माल् लक्षगुणं भवेत् // MBह्T_११.३२
410 SK मेरुतुल्यं सुवर्णं तु ब्राह्मणे वेदपारगे / दत्त्वा यत् फलम् आप्नोति तस्माल् लक्षगुणं भवेत् // MBह्T_११.३३
411 SK पूर्णशस्येन देवेशि सप्तद्वीपां वसुंधराम् / प्रदद्याद् बहुयत्नेन ब्राह्मणे वेदपारगे // MBह्T_११.३४
412 SK तस्माल् लक्षगुणं पुण्यम् अनेन परमेश्वरि // MBह्T_११.३५
413 SK सदक्षिणं व्रतं सर्वं दानं यद् वेदसंमतम् / तस्माल् लक्षगुणं पुण्यम् अनेन परमेश्वरि // MBह्T_११.३६
414 SK श्रीचण्डिकोवाच / यज्ञसूत्रधारणेन भूपूज्यो नात्र संशयः / इदानीं यज्ञसूत्रस्य विधानं मयि कथ्यताम् // MBह्T_११.३७
415 SK श्रीशंकर उवाच / यज्ञसूत्रस्य यन् मानं तच् छृणुष्व वरानने / ऋग्वेदी धारयेत् सूत्रं नाभेर् ऊर्ध्वं स्तनाद् अधः // MBह्T_११.३८
416 SK यजुषां सूत्रमानं हि आश्चर्यं शैलजे परम् / बाहुमूलप्रमाणेन यज्ञसूत्रं द्विजातिभिः / धारणीयं प्रयत्नेन नान्यद् दैर्घ्यं कदाचन // MBह्T_११.३९
417 SK सामगस्य यज्ञसूत्रं त्रिविधं वरवर्णिनि / ब्रह्मरन्ध्रान् नाभिदेशपर्यन्तं यज्ञसूत्रकम् // MBह्T_११.४०
418 SK अथवापि च ग्रीवायाम् आरोप्य नाभिं संस्पृशेत् / तस्मात् पृष्ठान् मेरुदण्डपर्यन्तं यज्ञसूत्रकम् // MBह्T_११.४१
419 SK अथवा परमेशानि प्रकारान्तरकं शृणु / ग्रीवाया दक्षिणाङ्गुष्ठपर्यन्तं यज्ञसूत्रकम् // MBह्T_११.४२
420 SK अथवा धारयेत् सूत्रं यत्नेन यजुषां मतम् / अथवा धारयेत् सूत्रं सामगस्य प्रमाणतः // MBह्T_११.४३
421 SK अथर्वी धारयेद् यज्ञसूत्रं परममोहनम् / आज्ञाचक्रान् नाभिदेशपर्यन्तं यज्ञसूत्रकम् // MBह्T_११.४४
422 SK एतत् संकेतम् अज्ञात्वा यः कुर्यात् सूत्रधारणम् / स चण्डालसमो देवि यदि व्याससमो भवेत् // MBह्T_११.४५
423 SK Mआतृकाभेदतन्त्र, द्वादशः पटलः श्रीशंकर उवाच / अथातः सम्प्रवक्ष्यामि पूजाधारं सुदुर्लभम् // MBह्T_१२.१
424 SK शालग्रामे मणौ यन्त्रे प्रतिमायां घटे जले // MBह्T_१२.२
425 SK पुस्तिकायां च गङ्गायां शिवलिङ्गे प्रसूनके / शालग्रामे शतगुणं मणौ तद्वत् फलं लभेत् // MBह्T_१२.३
426 SK यन्त्रे लक्षगुणं पुण्यं मूर्तौ लक्षं सुलोचने / घटे चैकगुणं पुण्यं जले चैकगुणं प्रिये // MBह्T_१२.४
427 SK पुस्तिकायां सहस्रं तु गङ्गायां तत्समं फलम् / शिवलिङ्गे ह्य् अनन्तं हि विना पार्थिवलिङ्गके // MBह्T_१२.५
428 SK पुष्पयन्त्रे महेशानि पूजनात् सर्वसिद्धिभाक् / शालग्रामे च पूजायां न लिखेद् यन्त्रम् उत्तमम् // MBह्T_१२.६
429 SK मणौ स्थिते महेशानि न लिखेद् यन्त्रम् उत्तमम् / प्रतिमायां च पूजायां न लिखेद् यन्त्रम् उत्तमम् // MBह्T_१२.७
430 SK प्रतिमायाश् च पुरतो घटं संस्थाप्य यत्नतः / परिवारान् यजेत् तत्र घटे तु परमेश्वरि // MBह्T_१२.८
431 SK यन्त्राधिष्ठातृदेवांश् च घटे यन्त्रे प्रपूजयेत् / समस्तदेवतारूपं घटं तु परिचिन्तयेत् / सुरद्रुमस्वरूपो ऽयं घटो हि परमेश्वरि // MBह्T_१२.९
432 SK जन्मस्थानं महायन्त्रं यदि कुर्यात् तु साधकः / तत्र मूर्तिं न कुर्यात् तु कदाचिद् अपि मोहतः // MBह्T_१२.१०
433 SK यदि मूर्तिं प्रकुर्यात् तु तत्र यन्त्रं न कारयेत् / यदि कुर्यात् तु मोहेन यजेद् वारद्वयं प्रिये // MBह्T_१२.११
434 SK द्विगुणं पूजनं तत्र द्विगुणं बलिदानकम् / द्विगुणं प्रजपेन् मन्त्रं द्विगुणं होमयेत् सुधीः // MBह्T_१२.१२
435 SK अन्यथा विफला पूजा विफलं बलिदानकम् / सर्वं हि विफलं यस्मात् तस्माद् यन्त्रं न कारयेत् // MBह्T_१२.१३
436 SK इति ते कथितं कान्ते पूजाधारं सुदुर्लभम् // MBह्T_१२.१४
437 SK अथातः सम्प्रवक्ष्यामि शिवलिङ्गस्य लक्षणम् / पार्थिवे शिवपूजायां सर्वसिद्धियुतो भवेत् // MBह्T_१२.१५
438 SK पाषाणे शिवपूजायां द्विगुणं फलम् ईरितम् / स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् // MBह्T_१२.१६
439 SK सर्वसिद्धीश्वरो रौप्ये फलं तस्माच् चतुर्गुणम् / ताम्रे पुष्टिं विजानीयात् कांस्ये च धनसंचयम् // MBह्T_१२.१७
440 SK पारदस्य च माहात्म्यं पुरैव कथितं मया / गङ्गायां च लक्षगुणं लाक्षायां रोगवान् भवेत् // MBह्T_१२.१८
441 SK स्फाटिके सर्वसिद्धिः स्यात् तथा मारकते प्रिये / लौहलिङ्गे रिपोर् नाशं कामदं भस्मलिङ्गके // MBह्T_१२.१९
442 SK वालुकायां काम्यसिद्धिर् गोमये ऋतुहिंसनम् / सर्वलिङ्गस्य माहात्म्यं धर्मार्थकाममोक्षदम् // MBह्T_१२.२०
443 SK आधारभेदे यत् पुण्यं चाधिकं कथितं तु ते / अतिरिक्तफलान्य् एतद्धारस्य सुलोचने // MBह्T_१२.२१
444 SK शिवस्य पूजनाद् देवि चतुर्वर्गाधिपो भवेत् / अष्टैश्वर्ययुतो मर्त्यः शम्भुनाथस्य पूजनात् // MBह्T_१२.२२
445 SK स्वयं नारायणः प्रोक्तो यदि शम्भुं प्रपूजयेत् / स्वर्गे मर्त्ये च पाताले ये देवाः संस्थिताः सदा / तेषां पूजा भवेद् देवि शम्भुनाथस्य पूजनात् // MBह्T_१२.२३
446 SK स्वर्णपुष्पसहस्रेण यत् फलं लभते नरः / तस्माल् लक्षगुणं पुण्यं भग्नैकबिल्वपत्त्रके // MBह्T_१२.२४
447 SK भग्नैकबिल्वपत्त्रस्य सहस्रकेन भागतः / मेरुतुल्यसुवर्णेन तत्फलं न हि लभ्यते // MBह्T_१२.२५
448 SK शुद्धाशुद्धविचारो ऽपि नास्ति तच् छिवपूजने / येन तेन प्रकारेण बिल्वपत्त्रैः प्रपूजनात् / सर्वसिद्धियुतो भूत्वा स नरः सिद्धो हि // MBह्T_१२.२६
449 SK ब्रह्माण्डमध्ये ये देवास् तद्बाह्ये याश् च देवताः / ते सर्वे तृप्तिम् आयान्ति केवलं शिवपूजनात् // MBह्T_१२.२७
450 SK पुष्पं गन्धं जलं द्रव्यं लिङ्गोपरि नियोजयेत् / लिङ्गमध्ये महावह्निः सैव रुद्रः प्रकीर्तितः // MBह्T_१२.२८
451 SK रुद्रोपरि क्षिपेद् यत् तु तद् एव भस्मतां गतः // MBह्T_१२.२९
452 SK साक्षाद् धोमो महेशानि शिवस्य पूजनाद् भवेत् / महायज्ञेश्वरो मर्त्यः शिवस्य पूजनाद् भवेत् // MBह्T_१२.३०
453 SK कुशाग्रमानं यत् तोयं तत् तोयेन यजेद् यदि / सत्यं सत्यं हि गिरिजे तज् जलं सागरोपमम् // MBह्T_१२.३१
454 SK पुष्पं च मेरुसदृशं लिङ्गोपरि नियोजनात् / लिङ्गस्य मस्तके देवि यद् अन्नं परितिष्ठति // MBह्T_१२.३२
455 SK तदन्नस्य च दानेन क्षितिदानफलं लभेत् // MBह्T_१२.३३
456 SK एकेन तण्डुलेनैव यदि लिङ्गं प्रपूजयेत् / ब्रह्माण्डपात्रसम्पूर्णम् अन्नदानफलं लभेत् // MBह्T_१२.३४
457 SK एकया दूर्वया वापि यो ऽर्चयेच् छिवलिङ्गकम् / सर्वदेवस्य शीर्षे तु चार्धदानफलं लभेत् // MBह्T_१२.३५
458 SK सामान्यतोयम् आनीय यदि स्नायान् महेश्वरम् / सार्धत्रिकोटितीर्थस्य स्नानस्य फलभाग् भवेत् // MBह्T_१२.३६
459 SK श्रीचण्डिकोवाच / तारिणी ब्रह्मणः शक्तिस् त्रिपुरा वैष्णवी परा / कथं शाकम्भरी तारा त्रिपुरा शाम्भवी कथम् // MBह्T_१२.३७
460 SK श्रीशंकर उवाच / काली देहाद् यदा जाता सावित्री वेदमातृका / त्रिवर्गदात्री सा देवी ब्रह्मणः शक्तिर् एव च // MBह्T_१२.३८
461 SK गुप्तरूपा महाविद्या शैवी सैकजटा परा / तस्माल् लक्ष्मीर् वैष्णवी या त्रिवर्गदायिनी शिवा // MBह्T_१२.३९
462 SK गुप्तरूपा महाविद्या श्रीमत्त्रिपुरसुन्दरी / शाम्भवी परमा माया त्रिपुरा मोक्षदायिनी // MBह्T_१२.४०
463 SK एकैव हि महाविद्या नाममात्रं पृथक् पृथक् / तथैव पुरुषश् चैको नाममात्रविभेदकः // MBह्T_१२.४१
464 SK श्रीचण्डिकोवाच / मन्त्रधारणमात्रेण तदात्मा तन्मयो भवेत् / कथं वा वातुलः सो ऽपि कथं वा रोगवान् भवेत् // MBह्T_१२.४२
465 SK श्रीशंकर उवाच / मन्त्रच्छन्नाद् वातुलत्वं रोगो देहे न जायते / मन्त्रच्छन्नं प्रवक्ष्यामि शृणु देवि समाहिता // MBह्T_१२.४३
466 SK अभक्तिश् चाक्षरे भ्रान्तिर् लुप्तिश् छन्नस् तथैव च / ह्रस्वो दीर्घश् च कथनं स्वप्ने तु चाष्टधा स्मृतः // MBह्T_१२.४४
467 SK अभक्त्या नैव सिद्धिः स्यात् कल्पकोटिशतैर् अपि / एवं मन्त्रश् चान्यथा वा चेति भ्रान्त्या च वातुलः // MBह्T_१२.४५
468 SK लुप्तवर्णे बुद्धिनाशश् छिन्ने नाशो भवेत् किल / ह्रस्वोच्चारे व्याधियुक्तो दीर्घजापे वसुक्षयः // MBह्T_१२.४६
469 SK कथने मृत्युम् आप्नोति स्वप्ने ऽपि शृणु शैलजे / कालिकायाश् च ताराया मन्त्रो ऽपि ज्वलदग्निवत् // MBह्T_१२.४७
470 SK विप्ररूपेण देवेन प्रेमभावेन चेतसा / यदि मन्त्रं हरेद् देवि शृणु साधकलक्षणम् // MBह्T_१२.४८
471 SK सर्वाङ्गे वै भवेज् ज्वाला देहमध्ये विशेषतः / तोये शैत्यं न जायेत तथैवौषधसेवने // MBह्T_१२.४९
472 SK सदा वातुलवत् सर्वं प्रत्यक्षे स्वप्नवद् भवेत् / वर्षमध्ये त्रिवर्षे वा मृत्युस् तस्य न संशयः // MBह्T_१२.५०
473 SK श्रीचण्डिकोवाच / मन्त्रच्छन्नं चाष्टविधं तव वक्त्राच् छ्रुतं मया / यदि दैवाद् भवेद् देव तस्योपायं वदस्व मे // MBह्T_१२.५१
474 SK श्रीशंकर उवाच / बहुजापात् तथा होमात् कायक्लेशादिविस्तरात् / यदि भक्तिर् भवेद् देवि तस्य सिद्धिर् अदूरतः // MBह्T_१२.५२
475 SK गुरुणा तत्सुतेनैव साधकेन वरानने / अक्षरे दूषणं हित्वा पुनर् मन्त्रं प्रकाशयेत् // MBह्T_१२.५३
476 SK गुरुणा तत्सुतेनैव साधकेन समाहितः / लुप्तवर्णं समुत्थाप्य पुनर् मन्त्रं प्रकाशयेत् // MBह्T_१२.५४
477 SK चक्रभेदेन षट्कोणं तथैव योनिमुद्रया / एकोच्चारे जपेन् मन्त्रं लक्षम् एकं वरानने / गुर्वादिना महेशानि छिन्नदोषनिकृन्तनम् // MBह्T_१२.५५
478 SK गुरुणा लक्षजापेन तन् मन्त्रं श्रावयेत् त्रिधा / दूषणं ह्रस्वदीर्घस्य शान्तिश् चात्र न संशयः // MBह्T_१२.५६
479 SK गुरुणा तत्सुतेनैव साधकेनैव शैलजे / उक्तमार्गेण देवेशि जपेल् लक्षचतुष्टयम् // MBह्T_१२.५७
480 SK तद्दशांशं हुनेत् पश्चात् तर्पणादि समाचरेत् // MBह्T_१२.५८
481 SK ततो ऽपि यदि नैवाभूत् साधकः स्थिरमानसः / चतुर्गुणं हि कर्तव्यं शिष्यस्य मुक्तिहेतवे // MBह्T_१२.५९
482 SK यदि मृत्युर् भवेत् तस्य तथापि मुक्तिभाग् भवेत् / कथनस्य दोषशान्तिर् भवत्य् एव न संशयः // MBह्T_१२.६०
483 SK स्वप्ने ऽपि मन्त्रकथने श्मशाने चैव शैलजे / उक्तमार्गेण देवेशि जपेल् लक्षं चतुष्टयम् // MBह्T_१२.६१
484 SK तद्दशांशं हुनेत् पश्चात् तर्पणादि समाचरेत् / ततो ऽपि यदि नैवाभूत् साधकः स्थिरमानसः // MBह्T_१२.६२
485 SK चतुर्गुणं हि कर्तव्यं पूर्वोक्तं पूजनं चरेत् / कुजे वा शनिवारे वा प्रथमे गमनं चरेत् / सप्ताहं वा यजेद् देवीं तुरीयं वादिनं यजेत् // MBह्T_१२.६३
486 SK श्मशानसाधनं वक्ष्ये शृणु चैकाग्रचेतसा / स्वर्णं रौप्यं तथा वस्त्रं दत्त्वा वरणम् आचरेत् // MBह्T_१२.६४
487 SK स्वर्णपीठं प्रदातव्यं चतुरङ्गुलिविस्तृतम् / भोगयोग्यं प्रदातव्यं मधुपर्कं यथोदितम् // MBह्T_१२.६५
488 SK राजपत्नी येन तुष्टा तोषयेत् तेन वाससा / अलंकारं यथायोग्यं तत्र तत्र नियोजयेत् // MBह्T_१२.६६
489 SK नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् / सामिषान्नं गुडं छागं सुरापिष्टकपायसम् // MBह्T_१२.६७
490 SK भोग्यद्रव्यं जले दद्याद् यदि भोक्ता न तिष्ठति / एवं पूजां समाप्यादौ शिवपूजां समाचरेत् // MBह्T_१२.६८
491 SK षोडशैर् उपचारैश् च लिङ्गानां चैकविंशतिम् / अष्टोत्तरशतेनैव बिल्वपत्त्रैः सचन्दनैः // MBह्T_१२.६९
492 SK प्रत्येकं पूजयेन् मन्त्रं गजान्तकसहस्रकम् / सहस्रं होमयेत् पश्चाद् बिल्वपत्त्रैर् वरानने // MBह्T_१२.७०
493 SK एवं कृते लभेच् छान्तिं दीर्घायुर् नात्र संशयः // MBह्T_१२.७१
494 SK Mआतृकाभेदतन्त्र, त्रयोदशः पटलः श्रीचण्डिकोवाच / शृणु नाथ परानन्द परापरजगत्पते / इदानीं श्रोतुम् इच्छामि मालायाः कीदृशो जपः / का माला कस्य देवस्य तद् वदस्व समाहितः // MBह्T_१३.१
495 SK श्रीशंकर उवाच / वैष्णवे तुलसीमाला गजदन्तैर् गणेश्वरे / कालिकाया महामन्त्रं जपेद् रुद्राक्षमालया // MBह्T_१३.२
496 SK तारायाश् च जपेन् मन्त्री महाशङ्खाख्यमालया / महाशङ्खाख्यमालायां सर्वां विद्यां जपेत् सुधीः // MBह्T_१३.३
497 SK अकस्माद् वै महासिद्धिर् महाशङ्खाख्यमालया / तथैव सकला विद्या महाशङ्खे वसेत् सदा // MBह्T_१३.४
498 SK स्फाटिकी सर्वदेवस्य प्रवालैः सकलां जपेत् / स्वर्णरौप्यसमुद्भूतां सर्वदेवेषु योजिताम् // MBह्T_१३.५
499 SK कालिकायाश् च सुन्दर्या रुद्राक्षैः प्रजपेत् सदा / भैरव्याः प्रजपेन् मन्त्री शङ्खपद्माख्यया प्रिये // MBह्T_१३.६
500 SK श्मशाने धुस्तुरैर् माला जपेद् धूमावतीविधौ / इति ते कथितं कान्ते महामालाविनिर्णयम् // MBह्T_१३.७
501 SK अथ ग्रन्थिं प्रवक्ष्यामि शृणु कान्ते समाहिता / येन माला सुसिद्धा च न्णां सर्वफलप्रदा // MBह्T_१३.८
502 SK मालायाश् चाधिका कान्ते ग्रन्थिश् चैका फलप्रदा / एकपञ्चाशिकायां च मालायां परमेश्वरि // MBह्T_१३.९
503 SK ब्रह्मग्रन्थियुतां मालां सार्धद्वितयवेष्टिताम् / सपादवेष्टनं देवि नागपाशं मनोहरम् // MBह्T_१३.१०
504 SK सर्वदेवस्य मालायां सर्वत्र परमेश्वरि / ब्रह्मग्रन्थिं विधायेत्थं नागपाशम् अथापि वा // MBह्T_१३.११
505 SK मालायां त्व् अधिकां देवि चैकां ग्रन्थिं प्रदापयेत् / मूलेन ग्रथितं कुर्यात् प्रणवेनाथवा प्रिये // MBह्T_१३.१२
506 SK ग्रन्थिमध्ये च गुटिकां कुर्याद् अतिमनोहराम् / सूत्रद्वयं महेशानि मिलनं कारयेत् ततः // MBह्T_१३.१३
507 SK मेरुं च ग्रथनं कुर्यात् तदूर्ध्वे ग्रन्थिसंयुतम् / एवं मालां विनिर्माय गोपयेद् बहुयत्नतः // MBह्T_१३.१४
508 SK कम्पनं धूननं शब्दं नैव तत्र प्रकाशयेत् / करभ्रष्टं तथा छिन्नं महाविघ्नस्य कारणम् // MBह्T_१३.१५
509 SK कम्पने सिद्धिहानिः स्याद् धूननं बहुदुःखदम् / शब्दे जाते भवेद् रोगः करभ्रष्टाद् विनाशकृत् // MBह्T_१३.१६
510 SK छिन्नसूत्रे भवेन् मृत्युस् तस्माद् यत्नपरो भवेत् / एवं ज्ञात्वा महेशानि शान्तिस्वस्त्ययनं चरेत् // MBह्T_१३.१७
511 SK कम्पने यो जपेन् मन्त्रं यदि सिद्धिं प्रयच्छति / यत्नेन गुरुम् आनीय द्वाविंशदुपचारतः // MBह्T_१३.१८
512 SK कुम्भस्थापनकं कृत्वा पूजयेद् इष्टदेवताम् / ततो हुनेद् बिल्वपत्त्रैर् अष्टोत्तरशताहुतिम् // MBह्T_१३.१९
513 SK त्रिमध्वक्तेन विधिना धूनने ऽपि च सुन्दरि / सशब्दे जपने चण्डि ह्य् एवं कुर्याद् विचक्षणः // MBह्T_१३.२०
514 SK करभ्रष्टे तथा छिन्ने पुरश्चरणम् आचरेत् / जपाद्यन्ते यजेद् देवीं षोडशैर् उपचारकैः // MBह्T_१३.२१
515 SK प्रत्यहं प्रजपेन् मन्त्रं प्रत्यहं बलिदानकम् / पञ्चाङ्गस्य प्रमाणेन सर्वकर्म समापयेत् // MBह्T_१३.२२
516 SK दरिद्रः परमेशानि यदि विघ्नपरायणः / आद्यन्ते महतीं पूजां दिक्सहस्रं जपेन् मनुम् // MBह्T_१३.२३
517 SK सहस्रैकं हुनेत् पश्चात् सर्वविघ्नस्य शान्तये / कुम्भतोयैः स्नापयित्वा पुनर् मालां प्रदापयेत् // MBह्T_१३.२४
518 SK Mआतृकाभेदतन्त्र, चतुर्दशः पटलः श्रीचण्डिकोवाच / मन्त्रधारणमात्रेण तत्क्षणे तन्मयो भवेत् / जीवात्मा कुण्डलीमध्ये प्रदीपकलिका यथा // MBह्T_१४.१
519 SK निजेष्टदेवतारूपा देहसंस्था च कुण्डली / भुज्यते सैव देहस्था का चिन्ता साधकस्य च / तन् मे ब्रूहि महादेव यद्य् अहं तव वल्लभा // MBह्T_१४.२
520 SK श्रीशंकर उवाच / भोगस् तु त्रिविधो देवि दिव्यवीरपशुक्रमात् / निर्लिप्तो दिव्यभावस्थः कुण्डली भुज्यते यदि // MBह्T_१४.३
521 SK अजिह्वान्ता कुण्डलिनी वीरस्य वीरवन्दिते / महादेव्याः प्रीतये च प्रसादं भुज्यते पशुः // MBह्T_१४.४
522 SK द्विजातेर् दिव्यभावश् च सदा निर्वाणदायकः / विप्रो वीरश् च निर्वाणी भवत्य् एव न संशयः // MBह्T_१४.५
523 SK सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु / पशुना भक्तियुक्तेन प्रसादं भुज्यते यदि // MBह्T_१४.६
524 SK स्वर्गभोगी भवत्य् एव मरणे नाधिकारिता / जन्मान्तरम् अवाप्नोति महादेव्याः प्रसादतः // MBह्T_१४.७
525 SK दिव्यवीरमते दृष्टिर् जायते नात्र संशयः / दिव्यवीरप्रसादेन निर्वाणी नात्र संशयः // MBह्T_१४.८
526 SK प्रसादभोगी यो देवि स पशुर् नात्र संशयः / मरणे नाधिकारो ऽस्ति पशुभावस्थितस्य च // MBह्T_१४.९
527 SK नैव मुक्तिर् भवेत् तस्य जन्म चाप्नोति निश्चितम् // MBह्T_१४.१०
528 SK श्रीचण्डिकोवाच / वद मे परमेशान दिव्यवीरस्य लक्षणम् / यत् कृते दिव्यवीरस्य महामुक्तिर् भविष्यति // MBह्T_१४.११
529 SK श्रीशंकर उवाच / साक्षाद् ब्रह्ममयी देवी चाभिशप्ता च वारुणी / शापमोचनमात्रेण ब्रह्मरूपा सुधा परा // MBह्T_१४.१२
530 SK निवेदनान् महादेव्यै तत् तद् देवी भवेत् किल / मूलाधारात् कुण्डलिनीम् आजिह्वान्तां विभावयेत् // MBह्T_१४.१३
531 SK तन्मुखे दानमात्रेण ज्ञानवान् साधको भवेत् / यथैव कुण्डली देवी देहमध्ये व्यवस्थिता // MBह्T_१४.१४
532 SK तथैव वारुणीं ध्यायेत् कलाङ्गे स्वेष्टदेवताम् / कुण्डल्या समभावेन शक्तिवक्त्रे प्रदापयेत् // MBह्T_१४.१५
533 SK आत्मोच्छिष्टं महापूतं तन्मुखात् परमामृतम् / अवश्यम् एव गृह्णीयात् तादात्म्येन वरानने // MBह्T_१४.१६
534 SK उत्सृष्टादिविचारो ऽपि कदाचिन् नास्ति ब्रह्मणि / गङ्गातोयं परं ब्रह्म प्रसादं कस्य तद् वद // MBह्T_१४.१७
535 SK गङ्गासागरतोयं वा प्रसादं कस्य वा भवेत् / शृणु देवि प्रवक्ष्यामि तज्जले स्नानमात्रतः // MBह्T_१४.१८
536 SK मुक्तिभागी भवेन् मर्त्यः स्नानावगाहनात् किल / पादादिमस्तकान्तं वै स्नानकाले प्रमज्जति // MBह्T_१४.१९
537 SK पादस्पर्शो न दोषाय परब्रह्मणि शैलजे / परमात्मनि लीने च तथैव परमेश्वरि // MBह्T_१४.२०
538 SK इति ते कथितं देवि दिव्यवीरस्य लक्षणम् / वीरतन्त्रे च कथितं माहात्म्यं प्राणवल्लभे // MBह्T_१४.२१
539 SK शृणु देवि प्रवक्ष्यामि साधिकायाश् च लक्षणम् / दिव्यशक्तिर् वीरशक्तिर् गुरुशक्तिस् तथा परा // MBह्T_१४.२२
540 SK कुलशक्तिः कामिनी च नवशक्तिः कुमारिका / श्रीगुरुं पूजयेद् भक्त्या स्वदेहदानपूर्वकम् // MBह्T_१४.२३
541 SK अन्यथा तु स्वदेहस्य निग्रहो जायते ध्रुवम् / सप्तजन्मनि सा देवी पुक्कसी पतिवर्जिता // MBह्T_१४.२४
542 SK शिवं मत्वा स्वकान्तं च पूजासाधनम् आचरेत् / कदाचिन् न यजेच् चान्यं पुरुषं परमेश्वरि // MBह्T_१४.२५
543 SK अन्यस्य यजनाच् चण्डि सर्वनाशो भवेद् ध्रुवम् / कान्तस्यायुर्विहीनत्वं विपतिं च पदे पदे // MBह्T_१४.२६
544 SK धननाशो भवेन् नित्यं देव्याः क्रोधश् च जायते / अवश्यं पूजयेन् नित्यं गुरुदेवं सनातनम् // MBह्T_१४.२७
545 SK भद्राभद्रविचारं च या करोति गुरुस्थले / तस्या मन्त्रं क्रोधयुक्तं विपत्तिश् च पदे पदे // MBह्T_१४.२८
546 SK वरं जनमुखान् निन्दा वरं प्राणान् परित्यजेत् / तथापि पूजयेद् देवं साक्षान् निर्वाणदायकम् // MBह्T_१४.२९
547 SK सदा भयं च कापट्यं वर्जयेद् गुरुपूजने // MBह्T_१४.३०
548 SK श्रीगुरोस् तेजसं भक्त्या यदि धारणम् आचरेत् / सत्यं सत्यं पुनः सत्यं काशी सा नात्र संशयः // MBह्T_१४.३१
549 SK अभक्त्या परमेशानि यदि धारणम् आचरेत् / जपपूजादिकं तस्याः संदहेत् तेन तेजसा // MBह्T_१४.३२
550 SK श्रीचण्डिकोवाच / सपत्नीकं यजेद् देवं गुरुं निर्वाणदायकम् / तस्य सङ्गं परित्यज्य कथम् आत्मनियोजनम् // MBह्T_१४.३३
551 SK श्रीशंकर उवाच / शृणु देवि प्रवक्ष्यामि गुरोर् आज्ञानुसारतः / धारयेत् तेजसं भक्त्या स्वयं लिप्साविवर्जिता // MBह्T_१४.३४
552 SK गुरुपत्न्याश् चात्मजश् च श्रीगुरोर् आत्मजो यतः / गुरुपत्नी गुरुः साक्षाद् गुरुपुत्रो न संशयः // MBह्T_१४.३५
553 SK एकस्य पूजनात् कान्त उभयोः पूजनं भवेत् / गुरुपुत्रो गणेशश् च गुरुपुत्रः षडाननः // MBह्T_१४.३६
554 SK एकं गुरुसुतं कान्ते पूजने या सदा रता / अन्यं गुरुसुतं कान्ते पूजयेन् न कदाचन // MBह्T_१४.३७
555 SK वीरं वा दिव्यमूर्तिं वा कदाचिन् न हि पूजयेत् / एकस्य पूजनाद् देवि महासिद्धीश्वरो भवेत् // MBह्T_१४.३८
556 SK उभयोस् त्रीणि चत्वारि या नारी पूजनं चरेत् / तस्याः समस्तं विफलं ध्यानादिजपपूजनम् // MBह्T_१४.३९
557 SK यदि भाग्यवशाद् देवि एकं गुरुसुतं लभेत् / मनोज्ञं शास्त्रवेत्तारं निग्रहानुग्रहे रतम् // MBह्T_१४.४०
558 SK सुन्दरं यौवनोन्मत्तं गुरुतुल्यं जितेन्द्रियम् / प्राणान्ते ऽपि च कर्तव्यं पूजनं मोक्षदायकम् // MBह्T_१४.४१
559 SK नो यजेद् यदि मोहेन सैव पापमयी भवेत् // MBह्T_१४.४२
Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mātṛkābhedatantra: GRETIL corpustei HTML transform of the Mātṛkābhedatantra.
Source