Seventy Verses on the Perfection of Wisdom in Three Hundred Lines

Triśatikāyāḥ prajñāpāramitāyāḥ kārikāsaptatiḥ · Tरिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः

Seventy Verses on the Perfection of Wisdom in Three Hundred Lines

Triśatikāyāḥ prajñāpāramitāyāḥ kārikāsaptatiḥ

Tरिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः

SK
Aसङ्ग: Tरिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः
SK
परमो ऽनुग्रहो ज्ञेयः शारीरः सपरिग्रहः / प्राप्ताप्राप्ताविहानौ च परमा स्यात् परीन्दना // Tश्Pक्_१
SK
विपुलः परमो ऽत्यन्तो ऽविपर्यस्तश् च चेतसि / उपकाराशयः स्थानं याने ऽस्मिन् गुणपूरितः // Tश्Pक्_२ दानं पारमिताषत्कम् आमिषाभयधर्मतः / एकद्वयत्रयेणेह प्रतिपत् सा ऽप्रतिष्ठिता // Tश्Pक्_३
SK
आत्मभावे प्रतिकृतौ विपाके चाप्य् असक्तता / अप्रवृत्तितदन्यार्थप्रवृत्तिपरिवर्जने // Tश्Pक्_४
SK
प्रग्रहो मण्डले त्रेधा निमित्ताच् चित्तवारणम् / उत्तरोत्तरसंदेहजन्मतश् च निवारणा // Tश्Pक्_५
SK
संस्कृतत्वेन संकल्प्य संपत् प्राप्तौ निवार्यते / त्रैलक्षण्यान्यथाभावात् तदभावात् तथागतः // Tश्Pक्_६
SK
सहेतुफलगाम्भीर्यदेशनास्मिन् युगाधमे / न निष्फला यतः सन्ति बोधिसत्त्वास् त्रयान्विताः // Tश्Pक्_७
SK
शिक्षयोपासानात् पूर्वं कुशलस्यावरोपणात् / शीलवन्तो ऽन्यबुद्धेषु गुणवन्तश् च कीर्तिताः // Tश्Pक्_८
SK
सपुद्गलेषु धर्मेषु संज्ञाया विप्रहाणतः / प्रज्ञावन्तश् च संज्ञाया अष्टधाष्टार्थभेदतः // Tश्Pक्_९
SK
पृथग्भावेन संतत्या वृत्तेर् आजीवितस्थितेः / पुनश् च गतिलीनत्वाद् आत्मसंज्ञा चतुर्विधा // Tश्Pक्_१०
SK
सर्वाभावाद् अभावस्य सद्भावान् नाभिलाप्यतः / अभिलापप्रयोगाच् च धर्मसंज्ञा चतुर्विधा // Tश्Pक्_११
SK
अधिमुक्तिवशात् तेषां भूतसंज्ञा प्रसादतः / यथारुताग्रहात् संयग्देशितत्वस्य चोद्ग्रहात् // Tश्Pक्_१२
SK
फलतो न मिता बुद्धैः प्रणिधिज्ञानलक्षिताः / Iआभसत्कारकामानां तद्वादविनिवृत्तये // Tश्Pक्_१३
SK
अस्थानाद् आनुकूल्याच् च धर्मेष्व् अधिगमस्य हि / कोलस्येव परित्यागो धर्मे संधिस् ततो मतः // Tश्Pक्_१४
SK
नैर्माणिकेन नो बुद्धो धर्मो नापि च देशितः / देशितस् तु द्वयाग्राह्यो ऽवाच्यो ऽवाक्पथलक्षणात् // Tश्Pक्_१५
SK
स्वाभाविकाप्तिहेतुत्वात् तदन्यस्य च जन्मनः / कैवल्याद् बुद्धधर्माणाम् अग्र्यत्वं पुण्यसाधनम् // Tश्Pक्_१७
SK
अग्राह्यानभिलप्यत्वं स्वफलानाम् अनुद्ग्रहात् / द्वयावरणनिर्मोक्षात् सुभूताव् अरणाद्वयं // Tश्Pक्_१८
SK
बुद्धदीपंकराग्राहाद् वक्येनाधिगमस्य हि / ततश् चाधिगमे सिद्धा अग्राह्यानभिलाप्यता // Tश्Pक्_१९
SK
सुमेरोर् इव राजत्वे संभोगे नास्ति चोद्ग्रहः / सास्रवत्वेन चाभावात् संस्कृतत्वेन चास्य हि // Tश्Pक्_२१
SK
बहुत्वभेदख्यात्यर्थं विशेषस्य च सिद्धये / पौर्वापर्येण पुण्यस्य पुनर् दृष्टान्तदेशना // Tश्Pक्_२२
SK
द्वयस्य पात्रीकरणान् निष्यन्दत्वमहत्वतः / असंक्लेशस्य हेतुत्वाद् धीनाभिभवनाद् अपि // Tश्Pक्_२३
SK
तत्फलश्रेष्ठदुःखत्वाद् दुर्लभार्थोत्तमार्थतः / ज्ञेयापारमितत्वाच् च परासाधारणत्वतः // Tश्Pक्_२४
SK
गाढगंभीरभावाच् च परसूत्रविशिष्टतः / महाशुद्धान्वयत्वाच् च पुण्यात् पुण्यं विशिष्यते // Tश्Pक्_२५
SK
सहिष्णुता च चर्यायां दुष्करायां शुभा यतः / तद्गुणापरिमाणत्वाद् अग्रार्थेन निरुच्यते // Tश्Pक्_२६
SK
आत्मव्यापादसंज्ञाया अभावाद् दुःखता न च / ससुखा करुणाभावाच् चर्यादुःखफला ततः // Tश्Pक्_२७
SK
प्रतिपत्तिश् च सत्त्वार्था विज्ञेया हेतुभावतः / सत्त्ववस्तुनिमित्तात् तु विज्ञेया परिवर्जिता // Tश्Pक्_२९
SK
नामस्कन्धाश् च तद्वस्तु तत्संज्ञापगमाज् जिने / तदभावो हि बुद्धानां तत्त्वदर्शनयोगतः // Tश्Pक्_३०
SK
फलाप्रतिष्ठितो मार्गस् तत्फलस्यापि कारणम् / बुद्धानां भूतवादित्वात् तच् च ज्ञेयं चतुर्विधम् // Tश्Pक्_३१
SK
प्रतिज्ञा हीनयानस्य महायानस्य देशना / सर्वव्याकरणानां च न विसंवादिनी यतः // Tश्Pक्_३२
SK
अप्राप्तेर् आनुकुल्याच् च न सत्या न मृषा मता / यथारुतनिवेशस्य प्रतिपक्षेण देशना // Tश्Pक्_३३
SK
व्यञ्जने त्रिविधा धर्मधरत्वे श्रुतविस्तरे / अर्थस्य परतो ऽध्यात्मम् आप्तौ श्रवणचिन्तनात् // Tश्Pक्_३७
SK
पश्चाद्व्याकरणान् नो च चर्या दीपंकरे परा / बोधिस् तच् चर्यया तुल्या न स x x x x x x // Tश्Pक्_४३
SK
x x x x x x x x न मृषा परिदीपिता / धर्मास् ततो बुद्धधर्माः सर्वे ऽभावस्वलक्षणाः // Tश्Pक्_४४
SK
धर्मधाताव् अकुशलः सत्त्वनिर्वापणे मतिः / क्षेत्राणां शोधने चैव x x x x x x x x // Tश्Pक्_४७
SK
धर्मकायाविनिर्भागान् न द्वयं न तथागतः / संपत्तिर् उच्यते भूयो द्वयं नास्त्य् अस्तिता ततः // Tश्Pक्_५३
SK
देश्यदैशिकगांभीर्यश्रद्धा न च न सन्ति हि / न सत्त्वा नापि चासत्त्वास् ते ऽनार्यार्य x x x x // Tश्Pक्_५५
SK
उपायानुत्तरत्वाच् च सास्रवत्वाद् अधर्मतः / शुभा न धर्मा x x x x x x x x x x x // Tश्Pक्_५७
SK
समत्वाद् धर्मधातोश् च न सत्त्वा मोचिता जिनैः / सहनाम्ना यतः स्कन्धा धर्मधात्वबहिर्गताः // Tश्Pक्_६०
SK
आत्मग्राहसमो दोसस् त x x x x x x x / x x x x x ग्राहे हि अग्राहग्राहता मता // Tश्Pक्_६१
SK
न चैव रूपकायेन सो ऽनुमेयस् तथागतः / धर्मकायो यतश् चक्रवर्ती माभूत् तथागतः // Tश्Pक्_६२
SK
रूपानुश्रवमात्रेण न बुद्धज्ञः पृथग्जनः / तथताधर्मकायो हि यतो ऽविज्ञानगोचरः // Tश्Pक्_६४
SK
न च पुण्यस् x x x x x x x x x x x x / क्षान्तिलाभे ऽपि नोच्छेदो निर्मलस्यास्य लाभतः // Tश्Pक्_६५
SK
पुनः पुण्यनिमित्तं हि तस्माद् दृष्टान्तदेशना / तत् पुण्यस्याविपाकत्वान् नोद्ग्रहः सपरिग्रहः // Tश्Pक्_६६
SK
गत्यादयस् तु निर्माणैर् बुद्धास् त्व् अविचलाः सदा / धर्मधातौ च तत्स्थानं नैकत्वान्यत्वतो मतम् // Tश्Pक्_६८
SK
असंचयत्वापिण्डत्वम् अनेकत्वनिदर्शनम् / संहतस्थानता तस्मिन् नान्यत्वे च निदर्शनम् // Tश्Pक्_७०
SK
ज्ञानद्वयसमाधानप्रहेयं तच् च देशितम् / निर्माणैः कशणात् पुण्यं तद् बुद्धानां न नाक्षयम् // Tश्Pक्_७३
SK
संस्कारो न तथा नान्यं निर्वाणं हि तथागते / नवधा संभूतस्येह संयग्ज्ञानपरीक्षणात् // Tश्Pक्_७५
SK
दृष्टिर् निमित्तं विज्ञानं प्रतिष्ठादेहभोगता / अतीतं वर्तमानं च परीक्ष्यं चाप्य् अनागतम् // Tश्Pक्_७६
SK
त्रिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः समाप्ता // //
SK
कृतिर् इयम् आर्यासङ्गपादानाम् इति // //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Asaṅga: Triśatikāyāḥ prajñāpāramitāyāḥ kārikāsaptatiḥ (sa_asaGga-trizatikAyAH-prajJApAramitAyAH-kArikAsaptatiH.htm).

Source