Verses on Sāṃkhya with Māṭhara's Commentary

Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti · Sआंख्यकारिका wइथ् Mआठरऽस् चोम्मेन्तर्य् Mआठरवृत्ति

Verses on Sāṃkhya with Māṭhara's Commentary

Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti

Sआंख्यकारिका wइथ् Mआठरऽस् चोम्मेन्तर्य् Mआठरवृत्ति

SK
|| श्रीः ||
SK
साङ्ख्यकारिका माठरवृत्तिसहिता
SK
सर्वविद्याविधातारम् आदित्यस्थं सनातनम् / नतो ऽस्मि परया भक्त्या कापिलं ज्योतिर् ईश्वरम्
SK
कपिलाय नमस् तस्मै येनाविद्योदधौ जगति मग्ने / कारुण्यात् साङ्ख्यमयी नौर् इह विहिता प्रतरणाय
SK
नमस्कृत्य तु तं तस्य वक्ष्ये ज्ञानस्य कारणम् / हिताय सर्वशिष्याणाम् अल्पग्रन्थसमुच्चयम्
SK
दुःखत्रयाभिघाताज् जिज्ञासा तदभिघातके हेतौ / दृष्टे सापार्था चेन् नैकान्तात्यन्ततो ऽभावात् // ISक्_१ //
SK
अस्या आर्याया उपोद्घातः क्रियते ---
SK
स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोजनम् / सम्बन्धाद्यभिधानं च उपोद्घातः स उच्यते //
SK
इह हि भगवान् महर्षिः सांसिद्धिकधर्मज्ञानवैराग्यैश्वर्यसम्पन्नो भगवतः पुराणपुरुषस्यावतारो जगदनुजिघृक्षया प्रजापतेः कर्दमस्य पुत्रः स्वायम्भुवस्य मनोर् दुहितरि देवहूत्यां कपिलो नाम बभूव | स तेन गुणपुरुषान्तरोपलब्धिरूपेण ज्ञानेनापारपारं दिदर्शिषया हस्तावलम्बेनेव, कालाहिदन्दश्यमानजगतः सुधामणिनेव, दुश्चिकित्स्यस्य भवव्याधेर् अपनयनाय सम्यगौषधेनेव, अविद्यान्धकारप्रध्वंसनप्रदीपेनेव, मुक्तिमार्गविरोधिमोहवृक्षविव्रश्चनकुठारेणेवामुनावबोधेन सम्पन्नो ऽन्धे तमसि मज्जज् जगद् इदम् अद्राक्षीत् | तद् अवलोक्यास्य कारुण्यम् उदपादि | अहो खल्व् इदं जगद् अनादिकालसम्बद्धं निसर्गाद् एव अन्धे तमसि वर्तत इति | अथासौ महायोगी कथम् अस्य वराकस्य अन्धे तमसि वर्तमानस्य विश्वस्यानुग्रहः कार्य इति समुत्पन्नकारुण्यो मनसि चिन्ताम् आपेदे | स(प्.१) एवं विचिन्तयन् आसुरिसगोत्रं ब्राह्मणविशेषं वर्षसहस्रयाजिनम् अधिकारिणम् अवगत्य ब्रह्मोपदेशविद्यया अतन्द्रितो भूत्वा वाचम् इत्य् उवाच --- ᳚भो भो आसुरे३ रमसे गृहस्थधर्मेण᳚ इति | स तम् उवाच --- ᳚रमे भो᳚ इति | स एवम् उक्तो मुनिर् ईषदनिष्पन्नविवेकवैराग्यो ऽयम् इति व्यवस्य निर्गम्य भूयो ऽपि द्वितीये वर्षसहस्रे पूर्णे प्रत्यागत्य तथैवाभ्युवाच --- ᳚भो भो आसुरे३ रमसे गृहस्थधर्मेण᳚ इति | स तम् उवाच --- ᳚रमे भो᳚ इति | अथासौ महायोगीन्द्रस् तथैव निर्गम्य तृतीये वर्षसहस्रे सम्पूर्णे अभ्येत्योवाच --- ᳚भो भो आसुरे३ रमसे गृहस्थधर्मेण᳚ इति | स तम् उवाच --- ᳚न रमे भो᳚ इति | अथ स भगवता उक्तः --- कथम् इति | पुनर् आह आसुरिः --- ᳚दुःखत्रयाभिघातात्᳚ इति | अथाह कपिलः --- तात उत्सहसे ब्रह्मचर्यवासं वस्तुं यदि तदामीषां दुःखत्रयाणां प्रतीकारं वयम् उपदेक्ष्यामः | सो ऽब्रवीत् --- ᳚भगवन् बाढं शक्तो ऽहं भगवताम् आदेशम् अनुगन्तुम्᳚ इति | स एवं गृहस्थधर्मम् अपहाय पुत्रदारादिकं च, प्रव्रजितो भगवतः किल कपिलाचार्यस्य योगिनः प्राणाः(?) शिष्यो बभूव | तत्र यदि कश्चिद् एवं ब्रूयात् --- कुतो ऽस्य जिज्ञासा समुत्पन्ना ययासौ गुरुकुलम् अभिगत इति | तत्रायं प्रतिवादः | दुःखत्रयाभिघाताज् जिज्ञासा समुत्पन्ना | कम् इह परं, किं याथात्म्यं, किं निःश्रेयसं, किं कृत्वा कृतार्थः स्याम् इति मत्वासौ गुरुकुलम् अभिगत इति | तथा हि ---
SK
᳚तत् तपः स जपः सा धीस् तज् ज्ञानं सा च वैदुषी / यतो नैव निपातः स्याद् अन्तःसंसारसागरम्᳚ //
SK
इति श्रवणात् |
SK
किञ् च ---
SK
इहोपपत्तिर् मम केन कर्मणा क्व च प्रयातव्यम् इतो भवाद् इति / विचारणा यस्य न जायते क्षितौ कथं स धर्मप्रवणो भविष्यति //
SK
तस्मात् समीचीनम् इदं यद् अस्येतिजिज्ञासा समुदपादि |
SK
किं पुनस् तद् दुःखत्रयं, तद् आह --- आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकम् | तत्र प्रथमं द्विविधं, शारीरं मानसं च | तत्र शारीरं वातपित्तश्लेष्मणां देहधातूनां वैषम्याद् यद् दुःखम् आत्मानं देहम् अधिकृत्य ज्वरातीसारादि प्रवर्तते | मानसं प्रियवियोगाद् अप्रियसंयोगाच् च द्विविधम् | एतद् आध्यात्मिकं दुःखम् अभिहितम् | आधिभौतिकं तु भूतान्य् अधिकृत्य यत् प्रवर्तते मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् | आधिदैविकं तु दिवम् अधिकृत्य यत् प्रवर्तते शीतोष्णवातवर्षादिकम् | एवम् एतैस् त्रिभिर् दुःखैर् अभिहतस्यासुरिसगोत्रस्य ब्राह्मणस्य जिज्ञासा समुत्पन्ना | क्व विषये?(प्.२) तदभिघातके हेतौ | तेषां त्रयाणां दुःखानाम् अभिघातको विनाशको यो ऽसौ हेतुस् तत्र | तां जिज्ञासाम् आह | किम् अमूनि दुःखानि वपुषः, आहोस्वित् तद्व्यतिरिक्तो ऽस्ति कश्चिद् अन्यः पुरुषो यस्येमानि त्रीणि दुःखानि जायन्ते, उतामीषां प्रतीकारोपायो ऽप्य् अस्ति न वा | यद्य् अस्ति तदानीं तम् एवास्थास्यामः | नो चेत् प्रथमप्रावृडासारं षण्ढ[?] इवामूनि निमीलितनेत्रा वयं सोढारः | वृश्चिकादिदष्ट एव विषप्रतीकाराय जाङ्गुलिकं गवेषयति नो वा विषभवपीडासहः | एवम् असह्यदुःखाभिभूतस्यासुरेस् तदभिघातके हेतौ जिज्ञासा समुत्पन्ना | स च समुत्पन्नदुःखाभावं जिज्ञासुस् तत्प्रतीकारकुशलं भगवन्तं कपिलाचार्यं शरणम् अभ्युपगतः, अयं मदभिलषितदुःखप्रतीकारोपायं वक्ष्यतीति | ननु दुःखेभ्य एव जिज्ञासा समुत्पन्ना कथं तेषाम् एवाभावाय कारणत्वम् उपयाति | न हि जनयित्रीसकाशाद् उत्पन्नस् तनयस् तस्या एव व्यापादनं कुरुते | सत्यम् | इह लोके यद्य् अस्माद् उत्पद्यते तत् तस्यापि विपत्तिकारणं दृश्यते | यथा कर्कटको ऽश्वतरो वा जनयित्र्याः समुत्पन्नस् ताम् एव व्यापादयति | यद् वा यथा कश्चिद् आशीविषः शुष्कतृणबहुलप्रदेशे स्थितः प्रतिसर्पं दृष्ट्वा क्रुद्धस् तस्य मुखनिःश्वासनिर्गतो वह्निस् तृणानि तं वापि सर्पं ददाह | अमुना न्यायेन दुःखेभ्य एव जिज्ञासा निष्पन्ना दुःखानाम् एवाभावं करिष्यतीत्य् अर्थसङ्गतिः | अत्रोच्यते | दृष्टे सापार्था चेत् | चेद् इत्य् अयं निपातः शङ्कायां वर्तते | इह लोके सकलसमुत्पन्नदुःखानां प्रतीकारो ऽस्त्य् एव, किं तदर्थं कपिलोपसर्पणेनेति भावः | तम् एव हेतुं दृष्टं दर्शयति | शारीराध्यात्मिकानां ज्वरातीसारादिसकलव्याधीनां सन्त्य् एवागदङ्कारा अष्टाङ्गायुर्वेदविदो भिषजः कायशल्यशलाकाविषोन्मादक्लीबजराकुमारचिकित्सानिपुणाः | मानसस्याध्यात्मिकतापस्य प्रतीकारः प्रियवस्तुसंयोगाद् अप्रियस्य दूरतः परिहरणाच् च | आधिभौतिकस्य तु ग्रामनगरादिकल्पनया प्रहाणोपपत्तिः | आधिदैविकस्याभिवातयातप्रावरणावरणादिभिः | अतस् तदभिघातकारणात् किं कपिलोपसर्पणेनेति भावः | तथा च लौकिकानाम् आभाणकः ---
SK
अर्के चेन् मधु विन्देत किमर्थं पर्वतं व्रजेत् / इष्टस्य लीलया सिद्धौ को विद्वान् यत्नम् आश्रयेत् //
SK
अत्रोच्यते --- न | न इत्य् अयं पूर्वपक्षवाक्यनिषेधे | नैवं वाच्यम् इत्य् अर्थः | एकान्तात्यन्ततो ऽभावात् | एकान्ततो ऽवश्यं त्वदुक्तहेतुभिर् न प्रतीकारः | यतश् चिकित्सकानां सुप्रयुक्तागदानां यथाशक्ति यतताम् अपि कदाचिज् जन्तुर्(प्.३) विपद्यते कदाचिज् जीवति | वैद्यगृहे ऽपि वधूपुत्रकलत्रभ्रातृपितृपभृतीनाम् अपरिहार्यमरणदर्शनान् नायम् ऐकान्तिकप्रतीकार आध्यात्मिकस्य | अपरम्, अत्यन्ततो ऽपि नासौ प्रतीकारः | अगदेन नीरुजीकृतानाम् अपि ज्वरादीनां पुनः कतिपयदिवसैर् उत्पत्तिदर्शनात् | अतः सर्वथा आत्यन्तिको ऽपि न दृष्टः प्रतीकार आध्यात्मिकदुःखापनयने समर्थः | वसन्तादीनाम् अपगतानाम् अपि पुनर् आगमनवत् | भवन्ति चात्र श्लोकाः ---
SK
पुनर् दाहः समुत्पन्नः पुनर् जातश् च वेपथुः / बाधते च पुनर् हिक्का ज्वरश् च पुनर् आगतः //
SK
अन्यच् च ---
SK
पुष्पिताक्षः शलाकी च कुष्ठी कायचिकित्सकः / पृच्छन्ति बालभिषजं कथं ते दारका मृताः //
SK
किञ् च नास्ति सम्यग्धातुपरिज्ञाननिपुणतया भैषज्यम् | तथा हि ---
SK
यानि कानि च मूलानि येन केन च पेषयेत् / यस्मै कस्मै च दातव्यं यद् वा तद् वा भविष्यति //
SK
अन्यच् च --- कार्यार्थिजनद्रव्यभक्षणाय, स्वशक्तिख्यापनाय च स्वल्पम् अपि रोगं पुरस्ताद् वर्धयन्ति भिषजः | ततश् च कदाचिद् असौ तेषाम् एवासाध्यताम् आयाति | तथा च ---
SK
वैद्य वैद्य नमस् तुभ्यं क्षपिताशेषमानव / त्वयि विन्यस्तभारो ऽयं कृतान्तः सुखम् एधते //
SK
एवम् असौ दृष्टेनागदादिहेतुना, एकातन्तो ऽवश्यम्, अत्यन्ततः सर्वथा, शारीरस्याध्यात्मिकदुःखस्य न प्रतीकारः | एवं मानसस्यापि शब्दादिप्रियसंयोगाद् अपि कदाचिन् न निवृत्तिः | एवम् आधिभौतिकम् अप्य् उपायैः कदाचिद् व्यपैति, कदाचिच् च नेति | एवम् आधिदैविकम् अपि कदाचिद् व्यपैति कदाचिच् च न | किञ् च व्यपगतिर् अपि दुःखस्य पुनरुत्पादाद् अनर्थिकेति | अस्य तु शिष्यस्यैकान्तिक आत्यन्तिकश् च दुःखव्यपगमे हेतुर् इष्टः | तस्माद् युक्तं तदर्थं गुरूपसर्पणम् इति // Sक्Mव्_१ //
SK
यद्य् एवं तदा दृष्टव्यतिरेकेणाप्य् आनुश्रविकः श्रुतिप्रणीतः स्वर्गादिसाधनरूपो यज्ञादिर् हेतुर् अस्तु | नाकपृष्ठे ऽपि तापत्रयासम्भवात् | तत्रैकान्तिकम् आत्यन्तिकं वानुश्रवे वेदे श्रूयते | गुरुणोक्तं पश्चाद् वेदं शृण्वन्ति शिष्या इत्य् अनुश्रवो वेदः | तत्र भव आनुश्रविकः | श्रौतो यज्ञादिरूपो ऽयं दुःखत्रयप्रतीकारहेतुर् उचितो ऽस्ति | एवं ह्य् आह --- ᳚तरति मृत्युं, तरति शोकं, तरति पाप्मानं, तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते᳚ [शतपथब्राह्मण १३ |३ |१ |१] इति | यच् चैनं देवाः पुनर् अप्य् आहुः ---(प्.४)
SK
᳚अपाम सोमम् अमृता अभूमागन्म ज्योतिर् अविदाम देवान् / किं नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य᳚ //
SK
[ऋग्वेदसंहिता ८ |४८ |३] इति |
SK
इह --- श्रुताव् ऐकान्तिकम् आत्यन्तिकं च फलं श्रूयते | अत्रास्य व्याख्या --- कदाचित् किलेन्द्रो देवान् उपस्थितान् निशम्य इत्य् अवोचत् --- भो भो देवत्वाद् अन्यद् अपि किम् अप्य् अस्ति सुखम् | ततस् ते देवा ऊचुः --- नास्त्य् अन्यत् सुखम् | अत एवास्मन्निवासस्य नाक इत्य् अभिधानम् | कम् इति सुखनाम, तस्य निषेधः अकम् असुखं तन् न इति नाकम् | केवलं सुखम् एव | द्वौ नञौ प्रकृतम् अर्थं गमयतः | ततः प्राहेन्द्रः --- कथम् इति | ततस् ते ऊचुः --- अनेन हेतुना अपाम पीतवन्तः | सोमं यज्ञे सोमरसं, तेन तत्पानेन अमृता अमरा अभूम सम्पन्नाः | किं च अगन्म प्राप्तवन्तः ज्योतिः स्वर्गम् | अन्यच् च अविदाम जानीमो देवान् | अस्मिन् स्वर्गे इयन्तो देवा इति विद्मः | किम् इत्य् आक्षेपे | नूनं निश्चितम् | अस्मान् अस्माकं विभक्तिविपरिणामः | कृणवत् कर्ता | अरातिः शत्रुर् मृत्युः | किं वा धृतिर् जरा अस्माकं करिष्यति | अमृतमर्त्यस्य अमृतपायिनां मर्त्यानाम् इति | ᳚बहुलं छन्दसि᳚[ ] इति वचनविपरिणामः | एवम् अन्यो ऽपि यः सोमं पास्यति तस्यैकान्तिको ऽवश्यम् आत्यन्तिकः सर्वथा दुःखत्रयाभिघातो भविष्यति | अतो ब्रूमः किं प्रव्रज्यया साङ्ख्यज्ञानेन वा कार्यं वेदोक्तं करिष्यामः | दुःखप्रतीकारश् च स्वर्गो भावीति वेदवादिनां वचनम् उपश्रुत्य साङ्ख्याचार्यस् तन्निवारणाय स्वमतप्रतिष्ठायै च द्वितीयाम् आर्याम् आह ---
SK
दृष्टवद् आनुश्रविकः स ह्य् अविशुद्धः क्षयातिशययुक्तः / तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् // ISक्_२ //
SK
य एष आनुश्रविकः श्रौतो ऽग्निहोत्रादिकः स्वर्गसाधनतया तापत्रयप्रतीकारहेतुर् उक्तः, सो ऽपि दृष्टवद् अनैकान्तिकः प्रतीकारः | तथा हि --- ᳚मध्यमपिण्डं पुत्रकामा पत्नी प्राश्नीयात् ᳚आधत्त पितरो गर्भम्᳚(वाजसनेयिसंहिता २ |३३) इति मन्त्रेण᳚[आपस्तम्बश्रौतसूत्र २ |७ |१४] | तद् एवं वेदवचसा बहून् पिण्डान् परःशतान् अश्नाति यावद् एको ऽपि पुत्रो न जायते | तथा ᳚पश्येम शरदः शतं जीवेम शरदः शतम्᳚[ऋग्वेदसंहिता ७ |६६ |१६] इति श्रुताव् आस्ते | परं गर्भस्थो जातमात्रो बालो युवापि कुमारो म्रियते | किं चान्यत् --- स श्रौतो हेतुः अविशुद्धः पशुहिंसात्मकत्वात् | क्षययुक्तः पुनः पातात् | अतिशययुक्तः तत्रापि स्वामिभृत्यभावश्रवणात् | उक्तं च ---(प्.५)
SK
᳚षट्शतानि नियुज्यन्ते पशूनां मध्यमे ऽहनि / अश्वमेधस्य वचनाद् ऊनानि पशुभिस् त्रिभिः᳚ //
SK
पशुवधो ऽग्निष्टोमे मानुषवधः गोसवव्यवस्था सौत्रामण्यां सुरापानं रण्डया सह स्वेच्छालापश् च ऋत्विजाम् | कल्पसूत्रे ऽन्यद् अप्य् अकृत्यं भूरि कर्तव्यतयोपदिश्यते | ᳚ब्रह्मणे ब्राह्मणम् आलभेत क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे तस्करं नारकाय वीरहणम्᳚[तैत्तिरीयब्राह्मण ३ |४ |११, आपस्तम्बश्रौतसूत्र २० |२४ |८] इत्यादिश्रवणात् | किञ् च ---
SK
᳚यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् / भूतहत्यां तथैवेमां न यज्ञैर् मार्ष्टुम् अर्हति᳚ //
SK
[भागवतपुराण, १ |८ |५२] ᳚न हि हस्ताव् असृग्दिग्धौ रुधिरेणैव शुद्ध्यतः᳚ /
SK
᳚तद् यथास्मिन् लोके मनुष्याः पशून् अश्नन्ति तथाभिभुञ्जत एवम् अमुष्मिन् लोके पशवो मनुष्यान् अश्नन्ति᳚ [शाङ्खायनब्राह्मण ११ |२] इति श्रुतिश्रवणात् | अन्यच् च ---
SK
᳚वृक्षान् छित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् / यज्ञैश् चेद् गम्यते स्वर्गो नरकः केन गम्यते᳚ //
SK
इत्य् अविशुद्धियुक्तः सर्वथा श्रौतो दुःखत्रयप्रतीकारहेतुः | अथ ᳚अपाम सोमम् अमृता अभूम᳚ इति प्राग् उक्तम् | तत्रेदं प्रत्युत्तरम् | सोमपायिनाम् अपि नृगनहुषेन्द्रययातीनां बेधबन्धपरिक्लेशा बहुविधाः | कर्मण उपभोगाद् इतरेषां पतनं च | एकाहादीनां सत्राणां दिनपरिमाणवतां कारणानां परिमाणवद् एव स्वर्गादि कार्यं दृष्टम् | कारणानुगमत्वात् कार्यस्य | परिमाणवन्मृत्पिण्डात् परिमाणवान् एव घटः स्यात् | एवम् आनुश्रविकाणां फलपरिमाणत्वात् पुनः क्षयः | अतिशययुक्तश् च | यथा आढ्यम् अवलोक्य दरिद्रस्य दुःखं स्यात्, सुरूपं च वीक्ष्य कुरूपस्य, प्राज्ञं दृष्ट्वा मूर्खस्य, तथा शताप्सरसं स्वर्गिणं दृष्ट्वा पञ्चाप्सरसस् तं दृष्ट्वैकाप्सरसो दुःखम् उत्पद्यते | एवम् अयं दृष्टवत् | तद् एवम् अन्योन्यातिशयात् स्वर्गे ऽपि दुःखम् अव्यावृत्तम् | तस्मात् | तद्विपरीतः श्रेयान् | ताभ्यां दृष्टानुश्रविकाभ्यां हेतुभ्यां विपरीतो विसदृश ऐकान्तिक आत्यन्तिको विशुद्धो ऽक्षयो ऽनन्तफलः कैवल्यान् निरतिशयो हेतुः स श्रेयान् प्रशस्यः | कथं पुनर् असौ भवतीत्य् आह --- व्यक्ताव्यक्तज्ञविज्ञानात् | व्यक्तं चाव्यक्तं च ज्ञश् च तेषां(प्.६) त्रयाणां विज्ञानाद् अनुभवात् | भवति ह्य् असौ अवश्यं फलदानाद् ऐकान्तिकः, प्रकृतिज्ञानाद् आत्यन्तिकः, यमनियमादिमत्त्वाच् छुद्धः, शरीरभेदे पुनर् अनावेश्यत्वाद् अक्षयफलः | कैवल्याद् अनुत्तरत्वाच् च निरतिशयफलम् इति वाक्यशेषः | तत्र व्यक्तं बुद्ध्यहङ्कारेन्द्रियतन्मात्रभूतभेदात् त्रयोविंशतिकम् | अव्यक्तं प्रधानम् | व्यक्तोत्पत्तिकारणम् | न ह्य् अकारणं कार्यम् इत्य् अस्य सिद्धिः | ज्ञः पुरुषः | सन्निधिसत्तामात्रेण चुम्बक इव लोहस्य प्रवृत्तिकारणम् | अतः प्रधानस्य जडस्य प्रवृत्तिहेतुर् अयम् अस्तीति सिद्धिः | एतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञसंज्ञानि | यद्विज्ञानाद् अवश्यं सर्वथा तापत्रयेण विमुच्यते // Sक्Mव्_२ //
SK
नन्व् अमीषां कतिधा प्रविभाग इत्य् अत्रोच्यते चतुर्धा | कथम् इति चेत् तद् उच्यते ---
SK
मूलप्रकृतिर् अविकृतिर् महदाद्याः प्रकृतिविकृतयः सप्त / षोडशकस् तु विकारो न प्रकृतिर् न विकृतिः पुरुषः // ISक्_३ //
SK
मूलप्रकृतिः प्रधानं मूलभूतत्वात् | मूलं सप्तानां प्रकृतिविकृतीनाम् आदिर् इत्य् अर्थः | प्रकरणात् प्रकृतिः | प्रसवधर्मकत्वात् सा प्रकृतिः | न विकृतिर् अविकृतिर् अन्यस्माद् अनुत्पत्तेः | कारणम् एव सा न कार्यम् इत्य् अर्थः | अनुत्पन्नत्वाद् उत्पादकत्वाच् च | महदाद्यास् तु सप्त प्रकृतयो विकृतयश् च | महान् अहङ्कारः पञ्चतन्मात्राणि चेति सप्त प्रकृतयो ऽन्येषां कारणतया, विकृतयश् च कार्यतया स्वयम् | तत्र व्यक्तिम् आह --- प्रधानाद् बुद्धिर् इति विकृतिः, सा च अहङ्कारं जनयतीति प्रकृतिः | अहङ्कारो महत उत्पन्न इति विकृतिः, तन्मात्राणि जनयतीति प्रकृतिः | तन्मात्राण्य् अहङ्काराद् उत्पन्नानीति विकृतयः पञ्चापि, ततः पञ्चमहाभूतानि जायन्त इति प्रकृतयः | उत्पन्नत्वाद् उत्पादकत्वाच् च सप्तमाः प्रकृतयो विकृतयश् च | तन्मात्राणि शब्दस्पर्शरूपरसगन्धाख्यानि | षोडशकस् तु पुनर् विकार एव कार्यत्वात् | न तु तस्य प्रकृतित्वम् अकारणत्वात् | तद्व्यक्तिम् आह --- वैकृतिकाद् अहङ्काराद् उत्पन्नान्य् एकादशेन्द्रियाणि तन्मात्रेभ्यः पञ्चमहाभूतानीति षोडशको ऽयं गणो विकारो ऽन्यस्माद् उत्पन्नो न हि ततो ऽन्यद् उत्पद्यत इत्य् अर्थः | उत्पन्नत्वाद् अनुत्पादकत्वाच् च | पुरुषस् तु पुनर् न प्रकृतिर् अनुत्पादकत्वात् न च विकृतिर् अनुत्पन्नत्वात् | नैवासौ कारणं न च कार्यम् इत्य् अर्थः | एवम् एष प्रकृतिः, प्रकृतिविकृतिः, विकृतिः, न प्रकृतिर् न च विकृतिर् इतिभेदाच् चतुर्धा प्रकृतिविकृतिविभागो ऽभिहितः // Sक्Mव्_३ //
SK
(प्.७)
SK
एषां व्यक्ताव्यक्तज्ञानां प्रमेयाणां साधनाय प्रमाणान्य् आह | प्रमाणप्रमेयप्रमातृप्रमितिक्रमेण हि सकलस्य सिद्धिर् दृष्टा |
SK
दृष्टम् अनुमानम् आप्तवचनं च सर्वप्रमाणसिद्धत्वात् / त्रिविधं प्रमाणम् इष्टं प्रमेयसिद्धिः प्रमाणाद् धि // ISक्_४ //
SK
दृष्टम् इति प्रत्यक्षपर्यायः | अक्षम् इन्द्रियं प्रतीत्य यद् उत्पद्यते ज्ञानं तत् प्रत्यक्षं दृष्टम् उच्यते | यथा श्रोत्रादीनां शब्दादयः पञ्चेन्द्रियार्थाः पञ्चानां दृष्टं प्रमाणम् | प्रथमम् इदं मुख्यं सकलप्रमाणानाम् | यो ऽर्थो ऽमुना दृष्टेन साधयितुं न पार्यते तत्रानुमानस्यावकाशः | तच् च त्रिसाधनं पञ्चसाधनं वा | त्र्यवयवं पञ्चावयवम् इत्य् अपरे | तच् च त्रयस्त्रिंशदाभासरहितं प्रत्यक्षाभावे प्रतन्यते ऽनुमानम् | कम् अपि हेतुम् अन्वीक्ष्य तस्य हेतोः पश्चान् मीयत इत्य् अनुमानम् | यथा धूमं हेतुम् अन्वीक्ष्य महानस इव पूर्वं वह्निदर्शनाद् अग्नेर् अस्तित्वं साध्यत इत्य् अनुमानम् | प्रत्यक्षानुमानाभ्यां यो ऽर्थः साधयितुं न शक्यस् तत्राप्तवचनम् | यथा स्वर्गे ऽप्सरसः सन्ति, नन्दनं वनं, तत्र विशेषाः शब्दादयो विषयाः, विमाने ऽधिवास इति | आप्ता रागद्वेषादिरहिता ब्रह्मसनत्कुमारादयः, श्रुतिर् वेदः, ताभ्यां उपदिष्टं तथेतिश्रद्धेयम् आप्तवचनम् | नन्व् अर्थापत्तिः सम्भवो ऽभावः प्रतिभा ऐतिह्यम् उपमानं चेतिप्रभृतीनि सन्ति बहूनि प्रमाणान्तराणि कथम् अत्र त्रिविधं प्रमाणम् इति सङ्गतिः | अत्रोच्यते --- सर्वप्रमाणसिद्धत्वात् | सर्वाणि हि प्रमाणानि प्रमाणत्रये ऽविरुद्धानि | तत्र पीनो देवदत्तो दिवा न भुङ्क्त इत्य् उक्ते रात्रौ भुङ्क्त इत्य् अर्थः | सार्थापत्तिर् अनुमानम् एव | प्रस्थ इत्य् उक्ते चत्वारः कुडवा इति बोधः सम्भवः | सो ऽप्य् अनुमानम् एव | अभावश् च प्रागितरेतरप्रध्वंसात्यन्ताभावभेदाच् चतुर्धा | यथा व्रीहिशोषणदर्शनान् न वृष्टो देव इति वृष्टेर् अभावं साधयति | सो ऽप्य् अनुमानभेदः | प्रतिभा यथा ---
SK
दक्षिणेन तु विन्ध्यस्य सह्यस्य तु यद् उत्तरम् / पृथिव्याम् आ समुद्रायां स प्रदेशो मनोरमः //
SK
इत्य् उक्ते तत्र शोभना गुणाः सन्तीति प्रतिभोत्पद्यते | प्रतिभा जानतां ज्ञानम् | साप्य् अनुमानम् एव | ऐतिह्यं यथा --- अस्मिन् वटे यक्षिणी प्रतिवसति इति जना वदन्ति इत्य् उक्ते, सा विघ्नं करोति, धनादि यच्छतीति ज्ञानं, तद् अप्य् अनुमानम् एव | उपमानम् --- यथा गौस् तथा गवय इत्य्(प्.८) अप्य् अनुमानम् एव | किं च तृषितस्याञ्जलिना, क्षुधितस्य पञ्चाङ्गुलियागात्, पृथुलाक्षिप्रभृतिदर्शनात् दुर्बलस्य, तर्जनीपङ्कदर्शनात्? ज्ञानम् इत्याद्यनुमानम् एव | तस्मात् त्रिष्व् एवान्यद् अन्तर्भवतीति युक्तम् अभिहितं त्रिविधं प्रमाणम् | इष्टम् इति अभिप्रेतम् इत्य् अर्थः | तेन प्रमाणेन किं साध्यम् इत्य् आह --- प्रमेयसिद्धिः प्रमाणाद् धि | यस्मात् प्रमेयं सकलं प्रमाणेन प्रमीयते यथा तुलया चन्दनादि, कर्षादिना घृतादि, प्रस्थादिना वा व्रीह्यादीत्यादिवत् | प्रत्यक्षानुमानागमाः प्रमाणानि | प्रमेया व्यक्ताव्यक्तज्ञाः | प्रमाता आत्मा | तत्र त्रयोविंशतिकं व्यक्तम् | अव्यक्तं प्रधानम् | ज्ञः क्षेत्रज्ञः | तद् अमीषां मध्ये किञ्चित् प्रत्यक्षेणान्यद् अनुमानेनेतरद् आप्तानुमानाभ्यां प्रमीयते | तस्माद् आचार्येण भगवता युक्तम् अभिहितम् --- ᳚प्रमेयसिद्धिः प्रमाणाद् धि᳚ इति // Sक्Mव्_४ //
SK
तत्र त्रिविधस्य प्रमाणस्य पृथक् लक्षणम् उपन्यस्यते |
SK
प्रतिविषयाध्यवसायो दृष्टं त्रिविधम् अनुमानम् आख्यातम् / तल् लिङ्गलिङ्गिपूर्वकम् आप्तश्रुतिर् आप्तवचनं तु // ISक्_५ //
SK
विषयं विषयं प्रति यो ऽध्यवसायो नेत्रादीनाम् इन्द्रियाणां पञ्चानां रूपादिषु पञ्चसु, तत् प्रत्यक्षं प्रतिपत्तिरूपं दृष्टाख्यम् | अनुमानं त्रिविधम् | त्रिसाधनं त्र्यवयवं पञ्चावयवम् इत्य् अपरे | तद् आख्यातं कथितम् | पक्षहेतुदृष्टान्ता इति त्र्यवयवम् | पक्षः प्रतिज्ञापदम् | यथा --- वह्निमान् अयं प्रदेशः | साध्यवस्तूपन्यासः पक्षः | इतरे पक्षाभासाः प्रत्यक्षविरुद्धादयो नव | त्रिरूपो हेतुः | त्रैरूप्यं पुनः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वम् इति | अत्रोदाहरणं यथा --- धूमवत्त्वाद् इति | अन्ये हेत्वाभासाः चतुर्दश | असिद्धानैकान्तिकविरुद्धादयः | साधर्म्यवैधर्म्याभ्यां द्विविधं निदर्शनम् | यथा महानसम् | इतरे निदर्शनाभासा दश | एवं त्रयस्त्रिंशदाभासरहितं त्र्यवयवम् अनुमानम् | पञ्चावयवम् इत्य् अपरे | तद् आह --- अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः | एवं पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं परार्थप्रतिपादनं परार्थम् अनुमानम् | तच् च त्रिविधम् | पूर्ववच्छेषवत् सामान्यतोदृष्टं च | तत्र विशिष्टमेघोन्नतिदर्शनात् भवित्रीं वृष्टिं सम्भावयति | पूर्वम् इयं दृष्टेति पूर्ववत् | नदीपूरदर्शनाद् उपरि वृष्टो देव इति वा प्रतीतिः | शेषवद् यथा --- समुद्रोदकबिन्दुं प्राश्य, शेषस्य लवणभावो ऽनुमीयते इति शेषवत् |(प्.९) सामान्यतोदृष्टम् --- पुष्पिताम्रदर्शनात् | अन्यत्र पुष्पिता आम्रा इति | पुनर् यथा --- बहिर् उद्योत इति केनाप्य् उक्तं, तत्रापरेणाप्य् उक्तम् | चन्द्र उदितो भविष्यतीत्य् अर्थसङ्गतिः | तल् लिङ्गलिङ्गिपूर्वकम् इति | लिङ्गेन त्रिदण्डादिदर्शनेनादृष्टो ऽपि लिङ्गी साध्यते नूनम् असौ परिव्राड् अस्ति यस्येदं त्रिदण्डम् इति | आप्तश्रुतिर् आप्तवचनं तु | तृतीयं प्रमाणम् | आप्ता ब्रह्मादय आचार्याः, श्रुतिर् वेदस् तद् एतद् उभयम् आप्तवचनम् | आप्तिः साक्षादर्थप्राप्तिर् यथार्थोपलम्भः तया वर्तत इत्य् आप्तः साक्षात्कृतधर्मा यथार्थाप्त्या श्रुतार्थग्राही तद् उक्तम् आप्तवचनम् | तत्रापि प्रसिद्धिलक्षणागुणयोगात् तिस्रः शब्दवृत्तयः | तत्र लक्षणात्रैविध्यम् | जहल्लक्षणाजहल्लक्षणा जहदजहल्लक्षणा चेत्यादि प्रमाणशास्त्रेषु बहुतरः प्रपञ्च आस्ते | तत्र प्रक्रान्तम् एव तावद् अभिधीयते भगवतः कपिलस्य मतम् |
SK
आगमो ह्य् आप्तवचनम् आप्तं दोषक्षयाद् विदुः / क्षीणदोषो ऽनृतं वाक्यं न ब्रूयाद् धेत्वसम्भवात् //
SK
स्वकर्मण्य् अभियुक्तो यो रागद्वेषविवर्जितः / पूजितस् तद्विधैर् नित्यम् आप्तो ज्ञेयः स तादृशः //
SK
तद् एवम् एतत् त्रिविधं प्रमाणम् // Sक्Mव्_५ //
SK
तद् एवं व्यक्ताव्यक्तज्ञाख्यस्य प्रत्यक्षादित्रिविधप्रमाणेषु केन कस्य सिद्धिः स्यात् इति | अत्रोच्यते ---
SK
सामान्यतस् तु दृष्टाद् अतीन्द्रियाणां प्रतीतिर् अनुमानात् / तस्माद् अपि चासिद्धं परोक्षम् आप्तागमात् साध्यम् // ISक्_६ //
SK
अत्र प्रधानपुरुषाव् अतीन्द्रियौ तयोः सामान्यतोदृष्टाद् अनुमानात् सिद्धिः | यस्मान् महदादि लिङ्गं त्रिगुणं दृष्ट्वा कार्यं तत्कारणम् अदृष्टम् अप्य् अस्ति त्रिगुणं चेति साध्यते प्रधानम् | न ह्य् असतः सदुत्पत्तिः स्याद् इति | न च कारणासदृशं कार्यं स्याद् इति | व्यक्तं तु प्रत्यक्षेणैव साधितम् इति तदर्थे न प्रयत्नः | यस्माज् जडम् अपि प्रधानं प्रसूतिक्रियायां प्रवर्तते तस्माद् अस्ति लोहस्य चलनक्रियाशक्तिहेतुचुम्बकवद् अवश्यं पुरुष इति ज्ञसिद्धिः // Sक्Mव्_६ //
SK
ननु प्रत्यक्षेण यो ऽर्थो नोपलभ्यते स सर्वथा नास्तीति मतं सङ्गच्छते | यथा द्वितीयम् अनीश्वरशिरः, तृतीयो बाहुः, शशविषाणादयो(प्.१०) वा | एवं प्रधानपुरुषौ नोपलभ्येते तस्मात् ताव् अपि न स्त इत्य् आशङ्कानिरासायाह ---
SK
अतिदूरात् सामीप्याद् इन्द्रियघातान् मनोऽनवस्थानात् / सौक्ष्म्याद् व्यवधानाद् अभिभवात् समानाभिहाराच् च // ISक्_७ //
SK
इह लोके सताम् अप्य् अर्थानाम् अष्टधा नोपलब्धिः | तथा हि दर्शयति --- यथा सताम् अपि देवदत्तविष्णुमित्रयज्ञदत्तानां देशान्तरगतानाम् अतिदूरान् नोपलब्धिः | तत् किं ते न सन्ति | यथा वा चक्षुर् अतिसामीप्यात् कज्जलं नोपलभते | तत् किम् इदं नास्ति | यथा बधिरान्धौ शब्दरूपे नोपलभेते | तत् किं ते न स्तः | अनवस्थितचित्तौ राजानम् अपि यान्तं न पश्यति | तत् किम् असौ न गतः | धूमोष्मत्रुटिनीहारपरमाणवो नोपलभ्यन्ते | तत् किम् अमीषाम् अभावः | कुड्येन व्यवहितं नोपलभ्यते | तत् किं नास्ति | सूर्यादितेजसाभिभूतानां ग्रहनक्षत्रतारकादीनाम् अनुपलम्भात् तेषां किम् अभावः शक्यते परिकल्पयितुम् | मुद्गराशिकुवलयामलकमौक्तिककपोतादिनिकुरम्बे क्षिप्तं समानं यदि नोपलभ्यते तद् अवेदम् इति | तत् किं नास्ति | एवम् अष्टधा सताम् अप्य् अनुपलम्भो ऽभिहितः | इदानीम् असतां चतुर्धा भवति | तत्रोच्यते --- प्राक्प्रध्वंसेतरेतरात्यन्ताभावभेदात् | तत्र मृत्पिण्डे घटः प्राग् उत्पत्तेर् नोपलभ्यत इति प्रागभावः | प्रध्वंसाभावो यथा मुद्गराभिघातात् प्रध्वस्तो घटो नोपलभ्यते | इतरेतराभावो यथा अश्वे गोत्वम्, गवि अश्वत्वम् | अत्यन्ताभावो यथा द्वितीयम् अनीश्वरशिरः, तृतीयो बाहुः, शशविषाणादयो वा | एवम् इयं द्वादशधा अनुपलब्धिः | सताम् अष्टधा ह्य् असतां चतुर्धा | एवं प्रधानपुरुषाव् अपि सन्तौ नोपलभ्येते // Sक्Mव्_७ //
SK
तद् अमीषां मध्ये केन हेतुनेमौ नोपलभ्येते | तद् उच्यते ---
SK
सौक्ष्म्यात् तदनुपलब्धिर् नाभावात् कार्यतस् तदुपलब्धिः / महदादि तच् च कार्यं प्रकृतिविरूपं सरूपं च // ISक्_८ //
SK
तस्य प्रधानस्यानुपलब्धिर् अनवगमः सौक्ष्म्यात् हेतोर् नाभावात् | सूक्ष्मं प्रधानं शब्दाद्यलक्षणत्वात् परमाण्वादिवत् | न पुनर् एवं, यन् नास्ति प्रधानम् अतो नोपलभ्यते | किं तु अस्ति प्रधानं नोपलभ्यते सौक्ष्म्यात् परमाण्वादिवत् | तर्हि कथम् उपलभ्यत इति | अत्राह --- कार्यतस् तदुपलब्धिः |(प्.११) कार्यं दृष्ट्वा कारणम् अनुमेयं वटधान्यवत् | यथा वटधान्यं कारणं वटं कार्यम् आलोक्यानुमीयते | एवं सद् एव प्रधानं कारणं महदादेः सतः कार्याद् अनुमीयते | न ह्य् असतः सदुत्पत्तिर् भवतीति | महदादि महान हङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि चेति त्रयोविंशतिकम् | एतन् महदादि कार्यं त्रिगुणं दृष्ट्वानुमीयते --- अस्ति प्रधानम् अपि त्रिगुणं कारणं यस्येदं त्रिगुणं कार्यम् इति | किं चान्यत् | तच् च कार्यं प्रकृतिविरूपं सरूपं च | प्रधानाद् विसदृशं सदृशं चेत्य् अर्थः | सन्ति ते हेतवो यैर् एतत् प्रधानं विसदृशं सदृशं च | यथा लोके पुत्रः पितुः सदृशो विसदृशः स्यात् यदि रूपेण तदा न गुणैः, यदा गुणैस् तदा न रूपेणेति यावत् | तांश् च हेतून् उपरिष्टाद् वक्ष्यामः // Sक्Mव्_८ //
SK
तिष्ठतु तावद् एतत् | अन्यत् पृच्छामः --- किम् एतन् महदादि प्राग् उत्पत्तेः प्रधाने सत् जायते, उतासत् सम्भवति | अत्राचार्याणां विप्रतिपत्तिर् अतः संशयः | अत्र वैशेषिका विप्रतिपन्ना असतः सद् भवतीति मन्यन्ते | मृत्पिण्डे हि प्राग् उत्पत्तेर् घटो नास्तीति व्यवसितास्ते | अस्ति नास्तीति वराका जीवकाः | नैवास्ति न च नास्ति | एष बौद्धानां पक्षः | एवम् अन्योन्यविरोधवादिषु दर्शिषु को नाम निश्चयः | तद् उच्यते | तत्र तावत् सदसद्वादिनो जीवकाः स्ववचनविरोधेनैव निरस्ताः | यदि सत् तदासन् न भवति | उतासत् तदा सद्भावो न | यतः सदसतोर् एकत्र विरोधात् | अत्र दृष्टान्तो यथा देवदत्तो मृतो जीवति चेतिवत् | बौद्धानां तु नास्ति न च नास्तीति पक्षपरिग्रहाभावात् तैः सह सञ्जल्प एव न युज्यते | वैशेषिकाणां तु असतः सद् भवतीति मतप्रतिषेधाय उच्यते ---
SK
असदकरणाद् उपादानग्रहणात् सर्वसम्भवाभावात् / शक्तस्य शक्यकरणात् कारणभावाच् च सत् कार्यम् // ISक्_९ //
SK
इह लोके सद् एव सद् भवति | असतः करणं नास्ति | यदि स्यात् तदा सिकताभ्यस् तैलं, कूर्मरोमभ्यः पटप्रावरणम्, वन्ध्यादुहितृभ्रूविलासः, शशविषाणं, खपुष्पं च स्यात् | न चास्ति तस्माद् अनुमीयते प्रधाने प्राग् उत्पत्तेर् महदादिकम् अस्त्य् एव | उपादानग्रहणात् | इह लोके यो येनार्थी स तदुपादानग्रहणं करोति | तन्निमित्तम् उपादत्ते | तद् यथा दध्यर्थी क्षीरस्योपादानं कुरुते | यदि चासत्कार्यं स्यात् तदा दध्यर्थी उदकस्याप्य् उपादानं कुर्यात्, न च कुरुते, तस्मात् प्रधाने महदादि कार्यम् अस्तीति | किं च सर्वसम्भवाभावात् | इह लोके यद् यस्मिन् विद्यते तस्माद् एव तद् उत्पद्यते | यथा तिलेभ्यस् तैलं, दध्नो घृतम् | यदि सासत्कार्यं स्यात् तदा सर्वं(प्.१२) सर्वतः सम्भवेत् ततश् च तृणपांसुवालुकादिभ्यो रजतसुवर्णमणिमुक्ताप्रवालादयो जायेरन् | न च जायन्ते | तस्मात् पश्यामः सर्वसम्भवाभावाद् अपि महदादि कार्यं प्रधाने सद् एव सद् भवतीति | अतश् चास्ति --- शक्तस्य शक्यकरणात् | इह लोके शक्तः शिल्पी करणादिकारणोपादानकालोपायसम्पन्नः शक्याद् एव शक्यं कर्म आरभते नाशक्यम् अशक्यात् | तद् यथा --- शक्तः कुम्भकारः शक्याद् एव मृत्पिण्डात् शक्यदण्डचक्रसूत्रोदकविदलतलादिभिः सम्पन्नो घटशरावोदञ्चनादीन्य् आरभमाणो दृष्टः | न च मणिकादि, अशक्यत्वात् तावता पिण्डेन तस्य | यदि पुनः करणनियमो न स्याद् अशक्याद् अप्य् अशक्यम् आरभ्येत | तस्मात् सत् कार्यं स्यान् नासत् | किं च --- कारणभावाच् च | कार्यं सद् एव स्यात् | इह लोके यल्लक्षणं कारणं तल्लक्षणं कार्यं स्यात् | यथा कोद्रवेभ्यः कोद्रवाः, व्रीहिभ्यो व्रीहयः स्युः | यदि चासत्कार्यं स्यात् तदा कोद्रवेभ्यः शालीनाम् अपि निष्पत्तिः स्यात् | न च भवति | तस्मात् कारणभावाद् अपि पश्यामः प्रधाने महदादि कार्यम् अस्तीति | साधितम् एवम् एतैः पञ्चभिर् हेतुभिः सत् कार्यम् | ᳚सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं तद्धैक आहुर् असद् एवेदम् अग्र आसीत्᳚ इत्य् आरभ्य ᳚सत्त्वेव सोम्येदम् अग्र आसीत्᳚ [छान्दोग्योपनिषद् ६ |२ |१-२] इति श्रुतेः // Sक्Mव्_९ //
SK
तत्र यद् उक्तं पूर्वस्याम् आर्यायां ᳚प्रकृतिविरूपं सरूपं च᳚ इति | तत्साधर्म्यवैधर्म्यप्रतिपादनाय इदम् आरभ्यते ---
SK
हेतुमद् अनित्यम् अव्यापि सक्रियम् अनेकम् आश्रितं लिङ्गम् / सावयवं परतन्त्रं व्यक्तं विपरीतम् अव्यक्तम् // ISक्_१० //
SK
हेतुमद् इति | यस्योत्पत्तिकारणम् अस्ति तद् धेतुमत् | हेतुर् अपदेशो निमित्तं प्रकृतिः कारणम् इत्य् अनर्थान्तरम् | प्रधानस्यैते पर्यायशब्दाः | तस्मात् प्रधानेन हेतुना सकारणम् इदं महदादिभूतपर्यन्तं त्रयोविंशतिकं लिङ्गम् | तथा हि --- महद् बुद्धितत्त्वं तत्प्रधानेन हेतुमत् | तेनाहङ्कारो ऽमुनैकादशेन्द्रियाणि तन्मात्राणि च | तैश् च भूतानीति सर्वम् एवेदं परस्परहेतुमत् | अथ च द्विविधो हेतुः कारको ज्ञापकश् च | तत्र प्रधानबुद्ध्यहङ्कारतन्मात्रलक्षणश् चतुर्विधः कारकः | विपर्ययाशक्तितुष्टिसिद्ध्यनुग्रहभेदात् पञ्चधा ज्ञापकः | तद् द्विविधेनापि हेतुना युक्तं हेतुमद् इदं सिद्धम् | किं च --- अनित्यं प्रलयं गच्छति | यस्माद् उत्पत्तिमत् तस्माद् अनित्यम् | अकारणवन् नित्यम् इति नित्यस्य लक्षणम् | तद्विपरीतम् इदम् अतो ऽनित्यम् | तद् यथा --- मृत्पिण्डाद् उत्पन्नो घटः स चानित्यो दृष्टः | एवं महदादि प्रधानाद् उत्पन्नं(प्.१३) तस्माद् अनित्यं तस्मिन्न् एव च लीयते | तथा हि --- प्रधाने बुद्धिस् तस्याम् अहङ्कारस् तस्मिन्न् इन्द्रियाणि तन्मात्राणि च तेषु भूतानि प्रलयकाले लीयन्ते | तस्माद् अनित्यम् | किञ् च --- अव्यापि असर्वगतम् | यथा प्रधानपुरुषौ सर्वगतौ न तथेदम् इत्य् अर्थः | इदं हि यस्मिन्न् एव प्रदेशे ऽवस्थितं तस्मिन्न् एव वर्तते | किं च --- सक्रियम् | यस्मात् संसरणकाले महदादि कार्यं सूक्ष्मशरीरम् आश्रित्य संसरति तस्मात् सक्रियम् | किं च --- अनेकम् बहुविधं त्रयोविंशतिप्रकारकम् | इतरच् च --- आश्रितम् | यद् यस्माद् उत्पद्यते तत् तदाश्रितम् | बुद्धिः प्रधानम् आश्रिता, तां चाहङ्कारः, तं चेन्द्रियाणि तन्मात्राणि च, तानि महाभूतान्य् आश्रितानि | एवम् आश्रितम् | लयं गच्छतीति लिङ्गम् | सावयवम् इति | अवयन्तीत्य् अवयवा यथा पिण्डस्य हस्तपादाद्याः | शब्दस्पर्शरसरूपगन्धाद्यवयवसम्पन्नं व्यक्तम् | किं च --- परतन्त्रम् पराधीनम् | यथा पितरि जीवति पुत्रो न स्वतन्त्र एवं व्यक्तम् | प्रधानतन्त्रा बुद्धिः, बुद्धितन्त्रो ऽहङ्कारः, अहङ्कारतन्त्राणि इन्द्रियाणि तन्मात्राणि च, तन्मात्रतन्त्राणि महाभूतानीति | एवं परतन्त्रम् | व्यक्तम् उक्तम् | एतद्विपरीतलक्षणम् अव्यक्तम् | अहेतुमत् अनुत्पन्नत्वात् | नित्यम् अकारणवत्त्वात् | व्यापि सर्वगतत्वात् | आब्रह्मस्तम्बपर्यन्तं पुरुषवद् व्याप्य प्रधानम् अवस्थितम् | निष्क्रियं सर्ववापकत्वात् | एकं सर्वकारणत्वात् | अनाश्रितं प्रभविष्णुत्वात् | अलिङ्गम् अनुत्पत्तिकत्वात् | निरवयवम् अमूर्तत्वात् | स्वतन्त्रं सर्वोत्पत्तिकारणत्वात् // Sक्Mव्_१० //
SK
एवम् अनयार्यया व्यक्ताव्यक्तयोर् वैधर्म्यम् अभिहितम् | साधर्म्यम् उच्यते ---
SK
त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतन प्रसवधर्मि / व्यक्तं तथा प्रधानं तद्विपरीतस् तथा च पुमान् // ISक्_११ //
SK
त्रिगुणं व्यक्तं महदादि | प्रधानम् अपि त्रिगुणम् | कारणानुगतत्वात् कार्यस्य | यथा कृष्णतन्तुः कारणं पटः कार्यम् अपि कृष्णम् एव भवति | त्रिगुणेन कार्येणास्य कारणम् अपि त्रिगुणं भवतीति प्रधानं साध्यते | किं चान्यत् --- अविवेकि व्यक्तम् | अमी गुणा इदं व्यक्तम् इति विवेक्तुं न पार्यते, तथा प्रधानम् अपि इदं प्रधानं अमी गुणा इति न शक्यते पृथक् कर्तुम् | किं च --- विषयो व्यक्तं महदादि | सुखदुःखमोहतया भोग्यं तत् पुरुषस्य | स हि तस्य भोक्ता | तथा प्रधानम् अपि सर्वपुरुषाणां क्षेत्रज्ञानां भोग्यम् | सामान्यं व्यक्तम् | गणिकावत् सर्वपुरुषाणाम् | तथा प्रधानम्(प्.१४) अपि | अचेतनं व्यक्तम् | सुखदुःखमोहान् न चेतयति | तथा प्रधानम् अपि | प्रसवधर्मि व्यक्तम् | बुद्धेर् अहङ्कारस् तत इन्द्रियाणि तन्मात्राणि च तेभ्यो भूतानि जायन्ते | एवं प्रधानम् अपि बुद्धिं प्रसूयते | उक्तम् इदं व्यक्ताव्यक्तयोः साधर्म्यम् | इदानीं ᳚तद्विपरीतस् तथा च पुमान्᳚ इत्य् उक्तं, तत् प्रतिपादयति | ताभ्यां व्यक्ताव्यक्ताभ्यां विपरीतः | तयोर् यत् साधर्म्यं ᳚त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतनं प्रसवधर्मि᳚ इत्य् उक्तम् | ततो ऽसौ विपरीतो विधर्मी | अगुणो विवेकी, अविषयो ऽसामान्यः, चेतनो ऽप्रसवधर्मी चेति | वैधर्म्यम् अभिधाय साधर्म्यम् आह --- तथा च पुमान् इति |
SK
᳚हेतुमद् अनित्यम् अव्यापि सक्रियम् अनेकम् आश्रितं लिङ्गम् / सावयवं परतन्त्रं व्यक्तं विपरीतम् अव्यक्तम्᳚ //
SK
(साङ्ख्यकारिका १०) इत्य् उक्तम् |
SK
तद् यथा व्यक्ताद् विसदृशं प्रधानं तथा प्रधानसधर्मा पुरुषः | तथा हि अहेतुमान् नित्यो व्यापी निष्क्रिय एको ऽनाश्रितो ऽलिङ्गो निरवयवः स्वतन्त्र इति // Sक्Mव्_११ //
SK
तत्र त्रिगुण व्यक्तम् अव्यक्तं च निर्गुणः पुरुष इत्य् उक्तम् | किमात्मका गुणा इत्य् अत्रोच्यते ---
SK
प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः / अन्यो ऽन्याभिभवाश्रयजननमिथुनवृत्तयश् च गुणाः // ISक्_१२ //
SK
तत्रायं समासः | प्रीतिश् चाप्रीतिश् च विषादश् च ते आत्मा स्वरूपं येषां गुणानां ते भवन्ति प्रीत्यप्रीतिविषादात्मकाः | तेषां लक्षणम् उच्यते | तत्र प्रीत्यात्मकं सत्त्वम् | आत्मशब्दः स्वभावे वर्तते | कस्मात्? सुखलक्षणत्वात् | यो हि कश्चित् क्वचित् प्रीतिं लभते तत्र आर्जवमार्दवसत्यशौचह्रीबुद्धिक्षमानुकम्पाज्ञानादि च तत् सत्त्वं प्रत्येतव्यम् | अप्रीत्यात्मकं रजः | कस्मात्? दुःखलक्षणत्वात् | यो हि कश्चित् कदाचित् क्वचिद् अप्रीतिम् उपलभते तत्र द्वेषद्रोहमत्सरनिन्दास्तम्भोत्कण्ठानिकृतिवञ्चनाबन्धवधच्छेदनानि च तद् रजः प्रत्येतव्यम् | विषादात्मकं तमः | कस्मात्? मोहलक्षणत्वात् | यो हि कश्चित् कदाचित् क्वचिन् मोहम् उपलभते, तत्राज्ञानमदालस्यभयदैन्याकर्मण्यतानास्तिक्यविषादस्वप्नादि च तत् तमः प्रत्येतव्यम् |(प्.१५) किं चान्यत् --- प्रकाशप्रवृत्तिनियमार्थाः | प्रकाशश् च प्रवृत्तिश् च नियमश् च ते अर्था येषां तथोक्ताः | तत्र प्रकाशयितव्यम् इति सत्त्वस्य, प्रवर्तितव्यम् इति रजसः, नियन्तव्यं संहर्तव्यम् इति तमसः | किं चान्यत् --- अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश् च गुणाः | तत्रापि समासः | अन्योन्याभिभवाश् च अन्योन्याश्रयाश् च अन्योन्यजननाश् च अन्योन्यमिथुनाश् च येषां गुणानाम् अन्योन्यवृत्तयश् च विद्यन्ते तथोक्ताः | चशब्दः समुच्चये द्रष्टव्यः | प्रीत्यादयश् च तावत् प्रागभिहिताः | अन्योन्याभिभवाश् चेति रजस्तमसोर् अभिभवात् शान्ता वृत्तिर् उत्पद्यते सत्त्वस्य धर्माद्या | सत्त्वतमसोर् अभिभवाद् रजसो घोरा वृत्तिर् उत्पद्यते अधर्माद्या | सत्त्वरजसोर् अभिभवात् तमसो मूढा वृत्तिर् उत्पद्यते अज्ञानाद्या | किं चान्यत् --- अन्योन्याश्रयाश् च गुणाः | सत्त्वं हि प्रवृत्तिनियमाव् आश्रित्य प्रकाशयति | रजः प्रकाशनियमाव् आश्रित्य प्रवर्तयति | तमः प्रकाशप्रवृत्ती आश्रित्य नियमयति | त्रिदण्डविष्टम्भवद् अमी वेदितव्या इति | किं चान्यत् --- अन्योन्यजननाश् च गुणाः | अन्योन्यं जनयन्ति | कदाचित् सत्त्वं रजस्तमसी जनयति | कदाचित् तमः सत्त्वरजसी जनयति | यथा सपरिकरकुम्भकाराधिष्ठितो मृत्पिण्डो घटं जनयति तद्वज् जनयन्ति | अन्योन्यं बोधयन्तीत्य् एतत् प्रतिगृह्यते | यथा देवदत्तयज्ञदत्तौ परस्परं बोधयत | एवं बुद्धिस्था गुणाः सत्त्वरजस्तमांसि परस्परं बोधयन्ति | एवम् अन्योन्यजनका गुणाः | किं चान्यत् --- अन्योन्यमिथुनाश् च गुणाः | अवियोगकधर्मत्वात् | एवं ह्य् आहुः ---
SK
᳚रजसो मिथुन सत्त्वं सत्त्वस्य मिथुनं रजः / उभयोः सत्त्वरजसोर् मिथुनं तम उच्यते᳚ //
SK
(देवीभागवतपुराण ३ |५०)
SK
किं चान्यत् --- अन्योन्यवृत्तयश् च गुणाः | अन्योन्यस्य वृत्तिं जनयन्ति | यथा काचित् स्त्री नयविनयविलासलीलावती भर्तुर् आत्मनो बन्धुवर्गस्य च प्रीतिं जनयति | सैव सपत्नीषु दुःखमोहौ जनयति | एवं सत्त्वेन स्त्रीभूतेन रजसस् तमसश् च वृत्तिर् जनिता | एवम् अन्येष्व् अपि योज्यम् // Sक्Mव्_१२ //
SK
(प्.१६)
SK
अत्राह --- न खलु सत्त्वरजस्तमांसि जात्यन्तराणि | कुतः | स्वभावेष्व् अवस्थानात् | इह खलु रूपयौवनदाक्षिण्यमतिसाधुत्वस्मृत्युग्रभावाभावलीलाविलाससम्पन्ना स्त्री सत्त्वस्य रूपम् उपदिश्यते | सा च भर्तुः सुखावहा भवति, सपत्नीनां दुःखाय रागिणां मोहाय च | तथा क्षत्रिया दुःखप्रहरणकृतापराधां दस्युसेनाम् अभिनिघ्नती रजसो रूपम् इत्य् उपदिश्यते | तेन च दस्युभिर् उपद्रुतानां दार्यमाणानां सुखावहा भवति | दस्यूनां दुःखाय मोहाय च | तथा घनाघनो महाकृष्णो मेघस् तोयाध्मातो ऽवलम्बी ग्रसमान इव नभो भूमिं चाभिवर्धमानः सबलाकः सविद्युद्गम्भीरस्तनितस् तमसो रूपम् इत्य् उपदिश्यते | स च कर्षकाणां सज्जीकृतबीजोपकरणानां सुखो भवति | स एवानाच्छादितशरणानाम् अनुपार्जितभक्तस्नेहलवणानाम् अप्रगुणिततृणकाष्ठानां प्रोषितवधूनां च दुःखो मूढश् च | तद् एवम् अवस्थितस्वभावत्वाद् एकं सत्त्वरजस्तमांसि | अत्रोच्यते जात्यन्तराण्य् अमूनि त्रीणि | लक्षणपृथक्त्वव्यवस्थानात् | कथम् इति चेत् तद् उच्यते ---
SK
सत्त्वं लघु प्रकाशकम् इष्टम् उपष्टम्भकं चलं च रजः / गुरु वरणकम् एव तमः प्रदीपवच् चार्थतो वृत्तिः // ISक्_१३ //
SK
अत्र यत् पूर्वस्याम् आर्यायाम् अभिहितं सत्त्वलक्षणं तल् लघुत्वप्रकाशकलक्षणं च | यदा सत्त्वम् उत्कटं भवति देवदत्ते तदा लघून्य् अङ्गानि, विशुद्धानीन्द्रियाणि स्वविषयग्रहणसमर्थानि भवन्ति | तदा मन्तव्यम् अद्य मे सत्त्वम् उत्कटत्वेन वर्तते | इष्टं च स्वरूपसाधनहेतुत्वात् | उपष्टम्भकं चलं च रजः | उपष्टम्भकं प्रेरकमुन्नाडिर् इत्य् अर्थः | यथा मत्तवृषो वृषं दृष्ट्वा उद्धतो भवति तद्वत् | अथवा गर्वश् चला क्रियेत्य् अर्थः | एवं यस्मिन् देवदत्ते यज्ञदत्ते वा रज उत्कटं भवति स कलहं मृगयते | किं चान्यत् चलचित्तश् च भवति ग्रामं गच्छामि स्त्रियं कामये तपः करोमि इत्यादि | एवं नित्यम् उत्सुकमना भवति | एतद् रजोलक्षणम् | तम आह --- गुरु वरणकम् एव तमः | यद् गुरुत्वम् आवरणत्वं चास्ति तत् तमः | यदा गुरूण्य् अङ्गानि भवन्ति | इन्द्रियाण्य् अलसानि स्वविषयग्रहणासमर्थानि भवन्ति | तदानीं मन्तव्यम् एतत् तम उत्कटत्वेन वर्तत इति | तस्माज् जात्यन्तराण्य् एव सत्त्वरजस्तमांसि | यत् पुनर् अभ्यधायि --- स्त्री क्षत्रिया मेघश् चेति | अत्र त्रये ऽपि ब्रूमः | सत्त्वं रजस्तमसी आश्रित्य स्वेन रूपेणाङ्गाङ्गिभावं गच्छति | तस्यापकाराद् दुःखम् उत्पद्यते | एवं रजस्तमसी योज्ये | परस्परविरुद्धानां गुणानां कथम् एका वृत्तिर् भवतीत्य् अत्राह --- परस्परविरुद्धाः(प्.१७) शत्रवो न ह्य् एकम् अर्थं कुर्वन्ति | इमे च गुणाः परस्परविरुद्धा अपि पुरुषार्थं कुर्वन्ति | कुतः | प्रदीपवच् चार्थतो वृत्तिः | प्रदीपेन तुल्यं प्रदीपवत् | अर्थतः कार्यवशात् | परस्परविरुद्धानाम् अप्य् अमीषां वृत्तिर् दृष्टा | यथा तैलाग्निवर्त्तिकासंयोगात् परस्परविरुद्धा अपि पदार्थाः संहत्य एकम् अर्थं प्रकाशरूपं निष्पादयन्त्य् एवं गुणा अपि परस्परविरुद्धाः संहत्य पुरुषार्थं कुर्वन्ति // Sक्Mव्_१३ //
SK
अत्राह --- अयम् अन्तरः प्रश्नो हि | यद् उक्तं पूर्वस्याम् आर्यायां ᳚त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतनं प्रसवधर्मि | व्यक्तम् --- ᳚तत् कथम् एवं ज्ञायते ऽव्यक्तम् अपि त्रिगुणत्वादियुक्तम् | अत्रोच्यते ---
SK
अविवेक्यादिः सिद्धस् त्रैगुण्यात् तद्विपर्ययाभावात् / कारणगुणात्मकत्वात् कार्यस्याव्यक्तम् अपि सिद्धम् // ISक्_१४ //
SK
यो ऽप्य् अयम् अविवेक्यादिर् गणः प्रसवधर्म्यन्तः स व्यक्ते ऽपि सिद्धो ऽव्यक्ते ऽपि सिद्धः | कथं गम्यते | त्रैगुण्यात् | यत् त्रिगुणं तद् अविविक्तम्, यद् अविविक्तं तद् विषयं, यद् विषयं तत् सामान्यं, यत् सामान्यं तद् अचेतनम्, यद् अचेतनं तत् प्रसवधर्मि | तस्माद् अविवेक्यादिर् गुणस् त्रैगुण्याद् एव सिद्धः | तद्विपर्ययाभावात् | इह हि यत्र तन्तवस् तत्रैव पटः यत्र पटस् तत्रैव तन्तवः, यस् तन्तून् पश्यति स पटं पश्यति, यो वा पटं पश्यति स तन्तून् पश्यति | एवम् एव तन्तुपटयोर् इव व्यक्ताव्यक्तयोः सम्बन्धः | दूरे हि प्रधानं सन्निकृष्टे व्यक्तम् | यो हि व्यक्तं पश्यति स चाव्यक्तम् अपि पश्यति | यो वा योगी प्रधानं पश्यति स व्यक्तम् अपि पश्यति | तस्माद् विपर्ययाभावाद् अविवेक्यादिगणेन सिद्धम् अव्यक्तम् | इतश् च सिद्धम् | कारणगुणात्मकत्वात् कार्यस्याव्यक्तम् अपि सिद्धम् | कारणस्य गुणाः कारणगुणास् ते आत्मा स्वभावो यस्य तद्भावः कारणगुणात्मकत्वम् | आत्मशब्दः स्वभावे वर्तते | कारणगुणस्वभावत्वात् कार्यस्य | इह लोके यदात्मकं करणं तदात्मकम् एव कार्यम् अपि भवति | कारणानुगतत्वात् कार्यस्य | यथा कटुनिम्बवृक्षात् कटुर् एव रसो भवति मधुराच् च मधुरो द्राक्षादिरसः | तस्माद् अविवेक्यादिगणेन सिद्धम् अव्यक्तम् | तत्र यद् उक्तं भवता तत्(प्.१८) कथम् एवं ज्ञायते अव्यक्तम् अविवेक्यादिगणेन युक्तम् इति तद् एवम् एव त्रिभिर् हेतुभिः प्रतिपादितम् | अत्राह --- इह लोके यन् न विद्यते तन् नास्ति | यथा द्वितीयम् अनीश्वरशिरः, तृतीयः पाणिः, शशविषाणं, वन्ध्यापुत्रिकाभ्रूविलासादयो वा | नैव तावत् प्रधानपुरुषाव् उपलभ्येते, तौ कथं हि स्त इति गम्यते | हिमवत उपलगणपरिमाणं नोपलभ्यते | किं तन् नास्ति? एवं प्रधानपुरुषाव् अनुपलभ्यमानाव् अप्य् उपलभ्येते हेतुभिः | तांश् च हेतून् उपरिष्टाद् वक्ष्यामः // Sक्Mव्_१४ //
SK
त उच्यन्ते ---
SK
भेदानां परिमाणात् समन्वयाच् छक्तितः प्रवृत्तेश् च / कारणकार्यविभागाद् अविभागाद् वैश्वरूप्यस्य // ISक्_१५ //
SK
अस्ति प्रधानम् | कुतः? भेदानां परिमाणात् | लोके यत्र कर्तास्ति तस्य परिमाणं दृष्टम् | यथा कुलालः परिमितात् मृत्पिण्डात् परिमितम् एव घटं कुरुते प्रस्थग्राहकम् आढकग्राहकं वा | एवं व्यक्तं परिमितम् | एका बुद्धिर् एको ऽहङ्कारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि इति त्रयोविंशतिकम् | एवम् एतत् परिमितं व्यक्तं दृष्ट्वानुमानेन साधयामो ऽस्त्य् अस्य कारणं प्रधानं यद् व्यक्तं परिमितम् उत्पादयति | यदि च प्रधानं कारणं न स्यान् निष्परिमाणम् इदं व्यक्तं स्यात् | अस्ति चास्य परिमाणं तस्माद् अस्ति प्रधानम् | इतश् चास्ति समन्वयदर्शनात् | कस्य समन्वयात्? भेदानाम् एव | अस्माद् एव कारणाच् शकलकपालमात्रसमस्तसमन्वयः | भूषणादीन् दृष्ट्वा तत्त्वेन दर्शयति | सामान्यप्रकरणाल् लोकभेदानाम् एकैकजातिसमन्वयो दृष्टः | तेषां धर्मो ऽन्वयः, तस्मात् समन्वयदर्शनात् पश्यामो ऽस्ति प्रधानं कारणम् इति | इतश् चास्ति --- शक्तितः प्रवृत्तेश् च | इह यो यस्मिन्न् अर्थे शक्तः स तस्मिन्न् एव प्रवर्तते | तद् यथा कुम्भकारो घटघटिकाशरावोदञ्चवादिकरणे शक्तः | अतः साधयामः प्रधानस्याप्य् अस्ति शक्तिर् यया शक्त्या व्यक्तम् उत्पादयति | सा च शक्तिर् निराश्रया न भवति | तस्माद् अस्ति प्रधानं यत्र शक्तिर् अवतिष्ठते | इतश् चास्ति --- कारणकार्यविभागात् | करोतीति कारणम्, क्रियत इति कार्यं, तयोर् विभागस् तस्मात् | तद् यथा मृत्पिण्डः कारणं घटः कार्यम् | स एव(प्.१९) हि मधूदकपयःप्रभृतीनां धारणे समर्थो न तु मृत्पिण्डः | एवं व्यक्ताव्यक्तयोर् विभागः | अन्यद् व्यक्तं महदहङ्कारतन्मात्रेन्द्रियमहाभूतपर्यन्तं, तच् च कार्यम् | अन्यच् च अव्यक्तं प्रधानं विपरीतं कारणम् इति | तस्माद् अस्ति प्रधानम् | इतश् चास्ति --- अविभागाद् वैश्वरूप्यस्य | न विभागो ऽविभागः | विश्वरूपस्य भावो वैश्वरूप्यम् | बहुरूपम् इत्य् अर्थः | तस्य | त्रैलोक्यं पञ्चसु महाभूतेष्व् अविभागं गच्छति | पञ्चमहाभूतानि तन्मात्रेष्व् अविभागं गच्छन्ति | पञ्चतन्मात्राण्य् एकादशेन्द्रियाणि चाहङ्कारे | अहङ्कारो बुद्धौ | सा च प्रधाने | इत्थं त्रयो लोकाः प्रलयकाले प्रधाने ऽविभक्ताः | प्रकर्षेण धीयते स्थाप्यते अत्राखिलम् इति प्रधानम् | ततो हि सृष्टौ सद् एवाविर्भवति | न ह्य् असत उत्पत्तिर् न च सतो ऽभावः |
SK
᳚नासतो विद्यते भावो नाभावो विद्यते सतः᳚ /
SK
इति गीतासु(२ |१६) | ᳚सद् एव सोम्येदम् अग्र आसीत्᳚[छान्दोग्योपनिषद् ६ |२ |१] इति श्रुतेश् च | तद् यथा --- दध्यादयः प्राक् प्रसूतेः क्षीरे ऽविभक्ताः सन्त्य् एव | यद्य् असत उत्पत्तिस् तदा काष्ठखण्डाद् अपि घटाद्युत्पत्तिः स्यात् | यतो न भवति | तस्मान् मृत्पिण्डे कारणे घटादेः सत एवोत्पत्तिर् इति समीचीनम् | यथा जलभूम्योर् एतद्रसगन्धादिवैश्वरूप्यम् अविभक्तम् अस्त्य् एव स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेषु | एवं जात्यनुच्छेदेन सर्वं सर्वात्मकम् इति // Sक्Mव्_१५ //
SK
अस्ति प्रधानं यत्र महदादिलिङ्गम् अविभागं गच्छति | इत्य् एवम् अवश्यम्भावी अविभागः पश्चाद् विभागश् चाविर्भवति तत् प्रधानम् | अत्रोच्यते ---
SK
कारणम् अस्त्य् अव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच् च / परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् // ISक्_१६ //
SK
कारणम् अस्त्य् अव्यक्तम् इति | तद् एवं पञ्चभिर् एभिर् हेतुभिर् ज्ञायते ऽस्ति तत्कारणम् एकम् अस्य जगतो ऽव्यक्तं मूलम् इति | अत्राह यद्य् एकं प्रधानं कथं तर्हि अनेकं कार्यम् उत्पादयति | तथा हि नैकस् तन्तुः पटाख्यं कार्यं जनयति | इत्थं प्रधानम् एकम् अनेकं कार्यं जनयतीति न जाघटीति | अतः समाधीयते --- प्रवर्तते त्रिगुणतः | प्रधाने हि सत्त्वरजस्तमसाम् अवस्थानाद् बहुत्वसम्भवः | तस्मात् त्रिगुणतः प्रवर्तते त्रिधा व्यवहारः | समुदयाच् च | यथा गङ्गायां स्रोतांसि समुदितानि गङ्गाम् आरभन्ते, यथा वा तन्तवः समुदिताः पटं कुर्वन्ति एवं सत्त्वरजस्तमांसि त्रयो गुणाः समुदिताः प्रधानस्था व्यक्तं कुर्वन्ति | अत्राह --- इह लोके द्विविधं कारणं परिणामकत्वाद्(प्.२०) अपरिणामकत्वाच् च | तत्रापरिणामकत्वान् मृत्पिण्डदण्डसूत्रोदकविदलान् पश्यामः | परिणामतश् च क्षीरं दधीति | तत्र प्रधानं कथं कारणम् इत्य् अत्रोच्यते --- परिणामतः | यथा क्षीरं दधिभावेन परिणमति, यद् एव क्षीरं तद् एव दधि, एवं प्रधानं व्यक्तभावेन परिणमति | दधिवद् व्यक्तं क्षीरवत् प्रधानम् इत्य् अर्थः | यद् एवाव्यक्तं तद् एव व्यक्तम् इति | तस्माद् उच्यते परिणामतः प्रधानं कारणम् इति | अत्राह को दृष्टान्तः? तद् उच्यते --- सलिलवत् | यथा सलिलम् एकं हिमवद् हिमभावेन परिणमति, यथा चेक्षुरसो रसिकाषण्डमत्सरिकाशर्कराफाणितगुडभावेन परिणमति | यथा वा क्षीरं द्रप्स्यदधिमस्तुनवनीतघृतारिष्टकिलाटकूर्चिकादिभावेन परिणमति | एवम् एवाव्यक्तम् आध्यात्मिकेन बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतभावेन परिणमति, आधिदैविकेन शीतोष्णवातवर्षादिभावेन परिणमति | अत्राह --- एकस्मात् प्रधानाद् उत्पन्नास् त्रयो लोकाः कथं विषमाः? इह ये देवास् ते सुखिनो मनुष्यास् ते दुःखिनस् तिर्यञ्चो मूढाः | एकस्मात् प्रधानाद् उत्पन्नानां त्रयाणां लोकानां कथं वैषम्यं मूढत्वादिनेत्य् अत्रोच्यते --- प्रतिप्रतिगुणाश्रयविशेषात् | तद् यथा --- एकरसम् अन्तरिक्षाद् जलं पतितम् | तच् च मेदिनीं प्राप्य नानारसतां याति | पृथग्भाजनविशेषात् | एवम् इमे त्रयो लोका एकस्माद् अपि प्रधानाद् उत्पन्ना गुणवैषम्यात् पृथग्भावं गताः | यथा देवेषु सत्त्वम् उत्कटं ततस् ते सुखिनः, तत्रापि रजस्तमसी गौणतया स्तः | मनुष्येषु रज उत्कटं ततस् ते दुःखिताः, तेष्व् अपि सत्त्वतमसी स्तः | तिर्यग्योनिगतेषु तम उत्कटं ततस् ते मूढाः | तेष्व् अपि सत्त्वरजसी स्तः | एवम् एकस्माद् उत्पन्नानां त्रयाणां लोकानां वैषम्यं भवति // Sक्Mव्_१६ //
SK
एवं द्वाभ्याम् आर्याभ्यां प्रधानस्याधिगमः कृतः | अत ऊर्ध्वं पुरुषस्याधिगमं करिष्यामः | अत्राह --- केचिद् आचार्या इति मन्यन्ते शरीरेन्द्रियबुद्ध्यादिव्यतिरिक्तो नास्ति परमात्मा | अपि च ---
SK
एतावान् एव पुरुषो यावद् इन्द्रियगोचरः / इति |
SK
अत्रोच्यते --- शरीरेन्द्रियबुद्ध्यादिव्यतिरिक्त आत्मा अस्तीति | को दृष्टान्तः? यथा असिकोशवत् | मुञ्जेषीकावत् | उक्तं च ---
SK
मशकोदुम्बरेषीकामुञ्जमत्स्याम्भसां यथा / एकत्वे ऽपि पृथग्भावस् तथा क्षेत्रात्मनोर् नृप //
SK
(प्.२१)
SK
एवं शरीरेन्द्रियबुद्ध्यादिभिः क्षीरनीरवद् एकीभूतो ऽपि तद्व्यतिरिक्तो ऽस्ति परमात्मा पुरुषो ऽपि | प्रधानवत् सूक्ष्मत्वान् नोपलभ्यते इति तदधिगमाय हेतुर् अभिधीयते ---
SK
सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययाद् अधिष्ठानात् / पुरुषो ऽस्ति भोक्तृभावात् कैवल्यार्थप्रवृत्तेश् च // ISक्_१७ //
SK
अस्ति पुरुषः | सङ्घातपरार्थत्वात् | यतः सङ्घातश् च परार्थः | तस्माद् हेतोः | इह लोके ये सङ्घातास् ते परार्था दृष्टाः पर्यङ्करथशरणादयः | एवं गात्राणां महदादीनां सङ्घातः समुदायः परार्थ एव | (तस्माद् अस्ति नूनम् अन्योन्याधिष्ठितो यदर्थो ऽयं सङ्घात इति सङ्गतिः |) पर्यङ्करथादयः काष्ठसङ्घाताः | गृहादयः काष्ठेष्टकादिसङ्घाताः | न हि ते रथगृहपर्यङ्कादयः किम् अपि स्वार्थं साधयन्ति | न वा परस्परार्थाः | किं त्व् अस्त्य् असौ देवदत्तादिर् यो ऽस्मिन् पर्यङ्के शेते रथेन गच्छति गृहे निवसतीति | (चेतसः प्रतीत्या) | एवम् अमी महदादयश् चक्षुरादयो न स्वार्था न च परस्परार्थाः, किं तु परार्थाः | यश् चासौ परः स चात्मा | तस्माद् अनुमीमहे अस्ति पुरुषः, यस्यार्थे चक्षुरादिसङ्घातः शरीरम् उत्पन्नम् इति | इतश् चास्ति --- त्रिगुणादिविपर्ययात् | त्रयो गुणा यस्य गणस्यादौ सम्भवन्ति स त्रिगुणादिः | त्रिगुणादेर् विपर्ययः | तस्मात् पश्यामो ऽस्ति पुरुष इति | उक्तं पूर्वस्याम् आर्यायां त्रिगुणम् अविवेकीत्यादि व्यक्तप्रधानसाधर्म्यम् | ᳚तद्विपरीतस् तथा च पुमान्᳚ इति | अगुणविवेक्यविषयासामान्यचेतनाप्रसवधर्मादिविपर्ययाद् आत्मनो ऽस्तित्वं पृथक्त्वं च सिद्धम् | अतश् चास्ति | अधिष्ठानात् | न ह्य् अन्तरेणाधिष्ठातारं भवति वस्तुजातम् | तद् यथेह लोके लङ्घनप्लवनधावनसमर्थैर् अश्वैर् युक्तो रथः सारथिनाधिष्ठितः प्रवर्तते | अथ सारथिनानधिष्ठितः प्रवर्तते ततः शरीरनाशः स्यात् | न चात्मविनाशाय प्रवर्तते | अपि चोक्तं षष्टितन्त्रे --- ᳚पुरुषाधिष्ठितं प्रधानं प्रवर्तते᳚ इति | ततः पश्यामो ऽसौ परमात्मा अस्ति पुरुषो येनाधिष्ठितं प्रधानं महदहङ्कारतन्मात्रेन्द्रियभूतान्य् उत्पादयति | तस्माद् अस्ति पुरुष इति | इतश् चास्ति --- भोक्तृभावात् | इह मधुराम्लतिक्तलवणकटुकषायाः षड् रसाः | एतैः षड्भी रसैर् युक्तं भोजनं दृष्ट्वा भोक्ता साध्यते | अस्ति भोक्ता यस्येदं भोजनम् | एवम् इदं व्यक्ताव्यक्तं दृष्ट्वा साधयामो ऽस्त्य् असौ परमात्मा पुरुषो यस्येदं भोक्तुर् व्यक्ताव्यक्तं भोग्यम् इति | इतश् चास्ति --- कैवल्यार्थप्रवृत्तेश् च | केवलभावः कैवल्यं मोक्ष इत्य् अर्थः | या तस्य प्रधानस्य प्रवृत्तिः सा कैवल्यार्था प्रवृत्तिः प्रधानस्येति // Sक्Mव्_१७ //
SK
(प्.२२)
SK
अत्राह --- गृह्णीमस् तावद् एभिः पञ्चभिर् अधीतैर् हेतुभिः शरीरव्यतिरिक्तो ऽसौ पुरुषो ऽस्तीति | स किं सर्वशरीरेष्व् एकः पुरुष आहोस्वित् प्रतिशरीरं भिन्नः पुरुष इति | कुतः संशय इति चेच् चोदक आचार्यविप्रतिपत्तेः संशयः | इह केचिद् आचार्या भेदवादिन इति मन्यन्ते --- एको ऽयं पुरुषः सर्वशरीरेषूपलभ्यते मणिसूत्रवत् | इह रसनायां यावन्तो मणयस् तेषु सर्वेष्व् एकम् एव सूत्रं प्रवर्तते | एवं मणिभूतेषु शरीरेषु किम् एकः सूत्रभूतः परमात्मा | आहोस्विज् जलचन्द्रवत् पुरुष इति एक एव बहुषु नदीकूपतडागादिष्व् इवोपलभ्यते इति | अतः संशयः किम् एकः पुरुषो गुणसूत्रन्यायेन आहोस्विद् बहवः पुरुषाः | अत्रोच्यते --- बहवः पुरुषाः कथम् इति चेत् तद् उच्यते ---
SK
जन्ममरणकरणानां प्रतिनियमाद् अयुगपत्प्रवृत्तेश् च / पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच् चैव // ISक्_१८ //
SK
जन्ममरणकरणानाम् इति | जन्मनियमाद् इह केचिन् नीचजन्मानः, केचिन् मध्यमजन्मानः, केचिद् उत्कृष्टजन्मानः | यदि पुनर् एकः पुरुषः स्यात् स एव नीचकुलोत्पन्नः स्यात् स एव उत्कृष्टकुलोत्पन्नः स्यात् | कस्मात्? पुरुषैकत्वात् | अस्ति चायं नियमः, अन्ये ऽधमा अन्य उत्कृष्टाः | तस्माद् बहवः पुरुषाः | अतश् च --- मरणनियमात् | मरणे ऽपि नियमो दृष्टो मम भ्राता मृतो मम पिता च | तस्माद् बहवः पुरुषाः | अपरे पुनर् इत्थङ्कारं वर्णयन्ति --- जन्ममरणनियमात् | इह कश्चित् कदाचिन् म्रियते तदैव परो जायते | यद्य् एकः पुरुषः स्यात् तर्हि एकस्मिन् जायमाने सर्वे ऽपि जायेरन् | न चैवम् | म्रियमाणे सर्वे म्रियेरन् | न चैवम् | तस्माद् बहवः पुरुषाः | इतश् च पश्यामः | करणनियमात् | करणानीन्द्रियाणि श्रोत्रादीनि | इह लोके केचिद् बधिरान्धमूकादयः | इतरे च पटुतरकरणाः | अतः पश्यामो य उपहतेन्द्रियास् ते अन्ये, ये चानुपहतेन्द्रियास् ते चान्ये | तस्मात् प्रतिनियतकरणत्वाद् अपि पश्यामो ऽनेके पुरुषा इति | इतश् च पश्यामः | त्रैगुण्यविपर्ययाच् चैव | चः समुच्चये | पूर्वोक्तैर् हेतुभिः | अस्माच् च हेतोर् इत्य् अर्थः | इहैकस्य ब्राह्मणस्य त्रयः पुत्राः सब्रह्मचारिण एकेनैव एकस्यां भार्यायां जाताः | तत्रैकः सात्त्विको मेधावी शुचिः सुखी |(प्.२३) द्वितीयो राजसो दुर्मेधावी दुःखी | तृतीयस् तामसो मूढो नास्तिकः | यद्य् एके आत्मा स्याद् एकस्मिन् सात्त्विके राजसे तामसे वा सर्वे तथा स्युः | न तथा भवन्ति | अतः पश्यामो ऽनेके पुरुषाः // Sक्Mव्_१८ //
SK
अत्राह --- अयं संशयः | किं खलु कर्ता पुरुषो ऽस्त्य् आहोस्विद् अकर्तेति | कुतः संशय इति चेत्, आचार्यविप्रतिपत्तेः | लोके तावत् पुरुषो गच्छति धावति तिष्ठति शोचति, पुरुषेणेदं कृतम् इति विप्रतिपत्तिः | एवम् आचार्या वेदवादिनो ब्रुवते | वैशेषिका अपि कर्ता इति मतं प्रतिपन्नाः | अतः संशयः | अत्रोच्यते --- अकर्ता पुरुषः | कथम् इति चेत् तद् उच्यते ---
SK
तस्माच् च विपर्यासात् सिद्धं साक्षित्वम् अस्य पुरुषस्य / कैवल्यं माध्यस्थ्यं द्रष्टृत्वम् अकर्तृभावश् च // ISक्_१९ //
SK
तस्माच् च विपर्यासाद् इति | कर्तृकारणानां को विशेषः अत्रोच्यते | तद् यथा कश्चिद् यमनियमरतः साङ्ख्ययोगाचार्यरतो भिक्षुर् नगरे प्रतिवसति | स च जनादिषु प्रतिवर्णाश्रमविहितासु क्रियासु प्रवर्तमानानां तन्नगरवासिनां साक्षिमात्रो भवति | ऋतुवशात् शीतोष्णादीन् आयातान् अनुभवति | तद्वद् अयं नानावस्थे गुणविमर्दे वर्तमानो वैधर्म्यात् क्षेत्रज्ञः साक्षिमात्रः स्यात् | एवं साक्षित्वं सिद्धम् अस्य पुरुषस्य | केवलभावः कैवल्यं नाम त्रिभ्यो गुणेभ्यो ऽन्यत्वम् | यथासौ भिक्षुः कदाचिन् नागराणां विवदतां वक्ता भवति त्वया साधुकृतम् इति त्वयासाध्व् इति | किम् एवं पुरुषो भवति | अत्रोच्यते --- माध्यस्थ्यम् | नास्य केनचित् कृत्यम् अस्ति | उदासीनो ह्य् अयम् | अत्राह --- यद्य् अकर्ता तत् किं परकृतानां प्रयोक्ता | अत्रोच्यते --- कर्तृभावश् च द्विविधो हि, प्रयोक्ता कर्ता च | अत्रोदासीनस्य पुरुषस्य कर्तृत्वं प्रतिषिद्धं गुणलक्षणेन // Sक्Mव्_१९ //
SK
अत्राह --- यद्य् अकर्ता पुरुषः अध्यवसायं तर्हि किं करोति धर्मं करिष्याम्य् अधर्मं चेति | यदि गुणा अध्यवसायं कुर्वन्ति तर्हि तेषां सचेतनत्वं(प्.२४) स्यात् | अमीषां चाचेतनत्वम् एव प्राग् उपन्यस्तम् | अथ पुरुषो ऽध्यवसायं कुरुते तदा तस्य कर्तृत्वप्रसङ्गः | तस्माद् उभयथापि दोष इति | अत्र समाधीयते नायं दोषः | कथम् इति चेत्, तद् उच्यते ---
SK
तस्मात् तत्संयोगाद् अचेतनं चेतनावद् इव लिङ्गम् / गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्य् उदासीनः // ISक्_२० //
SK
यस्माच् चेतनस्वभावः पुरुषः, तस्मात् तत्संयोगाद् अचेतनं महदादि लिङ्गम् अध्यवसायाभिमानसङ्कल्पालोचनादिषु वृत्तिषु चेतनावत् प्रवर्तते | को दृष्टान्तः --- तद् यथा अनुष्णाशीतो घटः शीताभिर् अद्भिः संस्पृष्टः शीतो भवति | अग्निना संयुक्त उष्णो भवति | एवं महदादि लिङ्गम् अचेतनम् अपि भूत्वा चेतनावद् भवति | तस्माद् अध्यवसायं कुर्वन्ति गुणाः कार्यादिषु | यद् अप्य् उक्तम् --- लोकोपचारात् कर्ता पुरुष इति | अत्र ब्रूमः --- गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्य् उदासीनः | अत्र दृष्टान्तश् च | केचित् किल चौरा ग्रामं हृत्वा द्रव्यं गृहीत्वा ग्रामान्तरं गच्छन्ति कृतकार्याः | तैः सह सार्थेन श्रोत्रियो ब्राह्मणः पन्थानं गच्छति | तत्पदानुसारिभिर् आरक्षिभिस् ते गृहीताः | कृतापराधैस् तैः सह सो ऽपि ब्राह्मणो गृहीतस् त्वम् अपि चौर इति | तद् यथासाव् अचौरस् तत्संसर्गदोषेण चौरतया प्रतीतस् तैः | तथा सत्त्वादयो गुणाः कर्तारस् तैः संयुक्तः पुरुषो ऽपि अकर्तापि कर्ता भवति | कर्तृसंसर्गात् कर्तेव | परं परमार्थतया अकर्ता पुरुषः // Sक्Mव्_२० //
SK
अत्राह --- तस्मात् तत्संयोगात् इति प्रधानपुरुषसंयोग इति चेत्, संयोगः कः | अनेकविधो हि संयोगः | अन्यतरकर्मजो यथा स्थाणुश्येनयोः, सम्पातजो द्वयोर् वा संयोगो यथा द्व्यङ्गुलाकाशयोः, स्वाभाविको यथाग्न्युष्णयोः, शक्तिहेतुको यथा मत्स्योदकयोः, यादृच्छिकः सुपर्नयोर् वाकस्मिकः | अतः संशयः | अत्रोच्यते --- अन्यतरकर्मजसंयोगश् च संयोगो नैव प्रधानपुरुषयोर् विभुत्वानिष्क्रियत्वात् | नास्ति स्वाभाविको ऽपि | तयोर् नित्यत्वान् मोक्षाभावः स्याद् अवियोगत्वात् | एवम् एव विषयहेतुके शक्तिहेतुकत्वे च | अत्राह --- कस् तर्हि प्रधानपुरुषयोः संयोग इति | अत्रोच्यते | अर्थहेतुकः | कश् चासाव् अर्थ इत्य् अत्राह ---(प्.२५)
SK
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य / पङ्ग्वन्धवद् उभयोर् अपि संयोगस् तत्कृतः सर्गः // ISक्_२१ //
SK
पुरुषस्य तावद् दर्शनार्थं संयोगः | पुरुषः प्रधानेन सह संयुज्यते सुगुणां प्रकृतिं द्रक्ष्याम्य् अयम् अर्थः | कैवल्यार्थं तथा प्रधानस्य संयोगः | अस्य तपस्विनः पुरुषस्य ज्ञाने वर्तमानस्य कैवल्यं करिष्यामीति | कैवल्यं मोक्ष इत्य् अर्थः | यथा राजा पुरुषेण संयुज्यते प्रैषणं मे करिष्यतीति | पुरुषो ऽपि राज्ञा संयुज्यते वृत्तिं मे दास्यतीति | एवं तावद् राजपुरुषयोर् अर्थहेतुकः सम्बन्धः | तथा प्रधानपुरुषयोर् अप्य् अर्थहेतुकः सम्बन्धः संयोगः | किं चान्यत् | पङ्ग्वन्धवद् उभयोर् अपि संयोग इति | अपि चात्र दृष्टान्तः | यथा किल कश्चिद् अन्धः सार्थेन समं पाटलिपुत्रं प्रस्थितः स च सार्थश् चौरैर् अभिहतः | अन्धो ऽपि अवशेषजीवितः कृच्छ्रेण महता निर्जगाम | स च सर्वस्वजनविरहित इतश् चेतश् च परिभ्राम्यन् पन्थानम् अपश्यन् समन्ताच् चङ्क्रममाणः केनचिद् वनमध्यस्थेन पङ्गुना दृष्टः प्रोक्तश् च | भो भो अन्ध मा भैषीर् अहं पङ्गुर् मार्गदर्शने कुशली गन्तुम् असमर्थः | अन्धेन प्रतिवचनं प्रोक्तम् --- भोः पङ्गो यथा भवान् गमनाशक्तस् तथाहम् अपि न शक्नोमि द्रष्टुं, गन्तुं मम सामर्थ्यम् अस्ति | तव दर्शनसामर्थ्येनाहं भवन्तं स्कन्धेनादाय गच्छाम्य् एवम् उभयोर् दुःखपरिहारलक्षणा कार्यसिद्धिर् अस्तु | एवं तयोर् यथा स्वार्थलब्धिहेतुकः सम्बन्धः संयोगस् तुल्यः | तद्वत् | पङ्ग्वन्धवत् प्रधानपुरुषौ द्रष्टव्यौ | पङ्गुवत् पुरुषो द्रष्टव्यः | अन्धवत् प्रधानम् | पुरुषस्य दृक्शक्तिः | प्रधानस्य क्रियासामर्थ्यम् | एवं प्रधानम् अपि पुरुषस्य मोक्षं कृत्वा निवर्तते | पुरुषः प्रधानं दृष्ट्वा मोक्षं गच्छति | किं चान्यत् --- तत्कृतः सर्गः | तच्छब्देन प्रधानपुरुषौ सम्बध्येते | ताभ्यां प्रधानपुरुषाभ्यां कृतस् तत्कृतः सर्गः | तद् यथा --- स्त्रीपुरुषसंयोगात् पुत्रः सम्भवति | एवं प्रधानपुरुषसंयोगात् सर्गोत्पत्तिर् भवति | सर्गशब्देन महदादिलिङ्गोत्पत्तिर् इति ब्रुवते // Sक्Mव्_२१ //
SK
ताम् उत्पत्तिं ब्रूमः ---
SK
प्रकृतेर् महांस् ततो ऽहङ्कारस् तस्माद् गणश् च षोडशकः / तस्माद् अपि षोडशकात् पञ्चभ्यः पञ्च भूतानि // ISक्_२२ //
SK
(प्.२६)
SK
प्रकृतिः प्रधानम् अधिकुरुते | ब्रह्म अव्यक्तं बहुधात्मकं मायेति पर्यायाः | तस्याः प्रकृतेर् महान् उत्पद्यते प्रथमः कश्चित् | महान्, बुद्धिः, मतिः, प्रज्ञा, संवित्तिः, ख्यातिः, चितिः, स्मृतिर् आसुरी हरिः, हरः, हिरण्यगर्भ इति पर्यायाः | ततो ऽहङ्कारः | तस्मान् महतो ऽहङ्कार उत्पद्यते | तस्य इमे पर्यायाः --- वैकृतस् तैजसो भूतादिर् अभिमानो ऽस्मिता इति | चतुःषष्टिवर्णैः परादिवैखरीपर्यन्ताभिधेयैर् यत् किम् अप्य् अभिधीयते बुद्ध्या समर्थ्य तत्सकलमाद्यन्ताकारहकारवर्णद्वयग्रहणेनोपरिस्थितपिण्डीकृतानुकारिणा बिन्दुना भूषितः प्रत्याहारन्यायेनाहङ्कार इत्य् अभिधीयते | तस्मात् अहङ्कारात् षोडशको गण उत्पद्यते | तामसाद् भूतादिनाम्नः पञ्चतन्मात्राणि शब्दादीनि | अत एव तानि मूढानि | सात्त्विकाद् वैकृताभिधानाद् बुद्धिकर्मात्मकानि मनःसहितानि एकादशेन्द्रियाणि | अत एव तानि किञ्चिज् जानन्ति | राजसात् तैजसाभिधानाद् उभयम् | मूढत्वाद् धि तमः | प्रकाशत्वात् सत्त्वम् | उभयगुणयोगात् षोडशको गणो ऽहङ्काराद् उत्पद्यते | तस्माद् अपि षोडशकात् मध्ये यानि पञ्च शब्दादितन्मात्राणि तेभ्यः पञ्च भूतान्य् आकाशादीनि | तत्र शब्दतन्मात्राद् आकाशम्, स्पर्शतन्मात्राद् वायुः, रूपतन्मात्रात् तेजः, रसतन्मात्राद् आपः, गन्धतन्मात्रात् पृथिवी इत्यादिक्रमेण पूर्वपूर्वानुप्रवेशेनैकद्वित्रिचतुष्पञ्चगुणान्य् आकाशादिपृथ्वीपर्यन्तानि महाभूतानीति सृष्टिक्रमः | अत एव भूतानाम् उत्पत्तिलयावबोधनात् भ इति | आगतिगतिपरिज्ञानात् ग इति | विदन् योगी इति व(व इति?) | अनति चलतीति अन् | सकलवर्णसम्प्रदायाद् भगवान् इत्य् अभिमानसिद्धिः | ᳚अप्य् अक्षरवर्णसामान्यान्(प्.२७) निर्ब्रूयान् न संस्कारम् आद्रियेत᳚(निरुक्ति २ |४) इति नैरुक्तश्रुतिप्रामाण्यात् | उक्तं च ---
SK
᳚उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् / वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति᳚ //
SK
श्रीविष्णुपुराणे षष्ठे ऽंशे(५ |७८) पराशरवचः | यद् उक्तम् --- व्यक्ताव्यक्तज्ञ विज्ञानान् मोक्षः प्राप्यत इति | तत्र महदादिभूतपर्यन्तम् इत्य् एतद् व्यक्तं व्याख्यातम् | अव्यक्तम् अपि ᳚भेदानां परिमाणात्᳚(साङ्ख्यकारिका १५) इत्यादिभिः पञ्चभिर् हेतुभिर् व्याख्यातम् | यद् उक्तम् ---
SK
᳚पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः / जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः᳚ // Sक्Mव्_२२ //
SK
अत्राह --- प्रकृतेर् महान् इत्य् उक्तम् | तस्य महतः किं लक्षणम् इत्य् अत्रोच्यते ---
SK
अध्यवसायो बुद्धिर् धर्मो ज्ञानं विराग ऐश्वर्यम् / सात्त्विकम् एतद् रूपं तामसम् अस्माद् विपर्यस्तम् // ISक्_२३ //
SK
अध्यवसायो बुद्धिर् इति | अध्यवसायो निश्चयः प्रतिपत्तिः अयं स्थाणुर् अयं पुरुष इति बुद्धेर् लक्षणम् | सा च बुद्धिर् अष्टाङ्गा | सात्त्विकतामसरूपभेदात् | तत्र बुद्धेः सात्त्विकं रूपं चतुर्विधं भवति धर्मो ज्ञानं वैराग्यम् ऐश्वर्यम् इति | तत्र धर्मो नाम वर्णिनाम् आश्रमिणां च समयाविरोधेन यः प्रोक्तो यमनियमलक्षणः स धर्मः | तत्र पञ्च यमाः पञ्च नियमाः | ᳚अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः᳚(पातञ्जलयोगसूत्र २ |३०) | ᳚शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः᳚(पातञ्जलयोगसूत्र २ |३२) | एभिर् यमनियमैर् यः साध्यते स धर्मः |
SK
धारणार्थो धृञ् इत्य् एष धातुः शाब्दैः प्रकीर्तितः / दुर्गतिप्रपतत्प्राणिधारणाद् धर्म उच्यते //
SK
तत्र या स्थावरजङ्गमानां भूतानां वाङ्मनःकायकर्मभिर् अद्रोहता सा अहिंसा | तथा यद् भूतहितम् अत्यन्तं दृष्टश्रुतानुमितिविज्ञातेष्व् अर्थेषु यथान्तःकरणप्रत्ययोपस्थितं तथैव इन्द्रियाणि अविलुप्य वञ्चनाभ्रान्तिप्रतिपत्तिबन्ध्यताविरहितवागुच्चारणं(प्.२८) तत् सत्यम् | तथा यत् सम्भ्रमेष्व् अन्येषु वात्यन्तिकेषु प्रयोजनेषु स्वे स्वे स्थाने समत्वाद् ग्रहणस्योपरमस् तद् अस्तेयम् | तथा स्त्रीपुरुषसंयोगे परस्परलिङ्गसंयोगे शब्दस्पर्शरसरूपगन्धेषु यः सङ्गव्युदासः श्रोताद्युपरतिः असङ्कल्पश् च मनस उपरतिः सो ऽष्टाङ्गं ब्रह्मचर्यम् | एवं ह्य् आहुः संयोगशब्दस्पर्शरसरूपगन्धसङ्कल्पस्मृतिधर्मफलत्यागाद्यष्टाङ्गं ब्रह्मचर्यम् इति | अन्यच् च | ब्रह्मबीजं रेतस् तच् चरति न मुञ्चतीति ब्रह्मचारी | ब्रह्म वेदं वा गुरुणा प्रदत्तं चरतीति | ब्रह्मा स्वयम्भूस् तस्यायं दण्डकमण्डलुधारणादिरूप आकारो ब्रह्मवच् चरतीति वा | एवम् अर्जनक्रयविक्रयादिकल्पनाभेदानाम् अनुपादानं सर्वथा सर्वस्यास्वीकरणम् अपरिग्रहः | इति पञ्च यमाः | यश् चेन्द्रियाणाम् अन्तःकरणोपरमस् तच् छौचं बाह्यं मृज्जलादिना |
SK
᳚अभक्ष्यपरिहारस् तु संसर्गश् चाप्य् अचिन्तितैः / स्वधर्मे च व्यवस्थानं शौचम् एतत् प्रकीर्तितम्᳚ //
SK
तथा यद् भैक्षार्जितेन हविषा प्राणयात्रा | आध्यात्मिकस्याग्नेर् मन्त्रगृहीतेन होमः कर्तव्यः | अहन्य् अहनि यज्ञशेषाशनार्थम् एतद् आहारलाघवं सन्तोषः | ᳚स यां प्रथमाम् आहुतिं जुहुयात् प्राणाय स्वाहा᳚(छान्दोग्योपनिषद् ५ |१९ |१) इत्य् आरभ्य ᳚स य इदम् अविद्वान् अग्निहोत्रं जुहोति यथाङ्गारान् अपोह्य भस्मनि हुतं(जुहुयात्?) तादृक् तत् स्यात्᳚ (छान्दोग्योपनिषद् ५ |२४ |१) इति श्रुतेः | तपः कृच्छ्रचान्द्रायणादि शरीरशोषणरूपम् |
SK
᳚विषया विनिवर्तन्ते निराहारस्य देहिनः |᳚ (भगवद्गीता २ |५९)
SK
इति स्मरणात् | नातपस्विनो योगः सिद्ध्यति | अनादिवासनाविचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर् नान्तरेण तपः सम्भेदम् आपद्यत इति तपस उपादानम् | तच् च चित्तप्रसादनम् अबाधमानम् आसेव्यम् इति मन्यन्ते | स्वाध्यायः प्रणवादिपवित्राणां जपः | ईश्वरप्रणिधानं क्रियाणां परमगुराव् अर्पणं तत्फलसंन्यासो वा | ᳚ब्रह्मार्पणं ब्रह्महविः(भगवद्गीता ४ |२४)᳚ इति, ᳚अनाश्रितः कर्मफलम्(भगवद्गीता ६ |१)᳚ इति श्रवणात् | इत्य् अमीषां यमनियमादीनां सेवनात् ᳚अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः᳚(पातञ्जलयोगसूत्र २ |३५) इत्याद्याः सिद्धयः | वैपरीत्ये तु ᳚वितर्कबाधने प्रतिपक्षभावनम्᳚(पातञ्जलयोगसूत्र २ |३३), ᳚वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्᳚(पातञ्जलयोगसूत्र २ |३४)(प्.२९) एवं च वर्तमानस्य योगिनः ᳚स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात्᳚(पातञ्जलयोगसूत्र ३ |५१) इति भिक्षोर् एते यमनियमाः | एभिर् यमनियमैर् वा साध्यते स धर्मो व्याख्यातः | अधुना ज्ञानम् आह --- ज्ञानं द्विविधम् | बाह्यम् आभ्यन्तरं च | तत्र बाह्यम् --- वीणापणवगन्धर्वचित्रकथागणितव्याकरणशास्त्राणि | आभ्यन्तरम् --- गुणपुरुषान्तरोपलब्धिलक्षणम् | अन्ये गुणाः सत्त्वरजस्तमांसि अन्यः पुरुष इति | बाह्येन ज्ञानेन लोकोपपत्तिर् आभ्यन्तरेण मोक्ष इति | एतत् ज्ञानं विषयोपरमात् | वैराग्यम् आह --- अर्जनरक्षणक्षयातृप्तिहिंसादिदोषान् दृष्ट्वा यो विषयेभ्यो विरक्तस् तस्य मोक्षो नास्तीति | आभ्यन्तरेण ज्ञानपूर्वकेण वैराग्येण मोक्षो भवति बाह्येन संसार इति | ऐश्वर्यं ईश्वरभावेनेत्य् अष्टविधम् | अणिमा लघिमा गरिमा महिमा प्राप्तिः प्राकाम्यम् ईशित्वं वशित्वं यत्रकामावसायित्वम् इति | एतानि धर्मादीनि चत्वारि सात्त्विकरूपाणि बुद्धेः | यदा सत्त्वेन रजस्तमसी अभिभूते स्तस् तदा सत्त्वोद्रिक्तः पुमान् एतान् गुणान् आप्नोति | किं चान्यत् | तामसम् अस्मात् विपर्यस्तम् | अस्मात् सात्त्विकाद् धर्मादेर् विपर्यस्तं विपरीतम् अधर्माज्ञानाद्यं चतुर्धा बुद्धे रूपं तामसम् | ये हिंसादयो वितर्का एकाशीतिभेदाः | पृथग् दशापि यमनियमाद्याः | तथा अधर्मो ऽज्ञानम् अवैराग्यम् अनैश्वर्यम् इत्य् अष्टधा सात्त्विकतामसभेदा बुद्धिः | अस्या एवम् विधाया बुद्धेर् अहङ्कारो जायते // Sक्Mव्_२३ //
SK
इदानीम् अहङ्कारस्य लक्षणं व्याख्यास्यामः | तद् उच्यते ---
SK
अभिमानो ऽहङ्कारस् तस्माद् द्विविधः प्रवर्तते सर्गः / ऐन्द्रिय एकादशकस् तन्मात्रपञ्चकश् चैव // ISक्_२४ //
SK
(प्.३०)
SK
अभिमानो ऽहङ्कार इति | रूपे अहम् रसे अहम् गन्धे अहम्, अहं विद्वान्, अहं दर्शनीय इत्येवमाद्य् अभिमानो ऽहङ्कारः | तस्मात् अभिमानलक्षणाद् अहङ्काराद् द्विविधः प्रवर्तते सर्गः | सर्ग इति सृष्टेः पर्यायः | कश् चासौ सर्गः? तद् उच्यते | ऐन्द्रिय एकादशकः | श्रोत्रादीनीन्द्रियाणि मनःपर्यन्तानि | तन्मात्रपञ्चकश् चैव | तन्मात्राण्य् अत्र शब्दादीनि गन्धपर्यन्तानि | एवम् एकादशेन्द्रियाणि पञ्चतन्मात्राणि चोत्पन्नानि // Sक्Mव्_२४ //
SK
अत्राह --- त्रिविधो ऽहङ्कारस् तं व्याख्यास्यामः | तत्र कतरस्माद् अहङ्काराद् इन्द्रियाण्य् उत्पद्यन्ते, कतरस्माद् वा तन्मात्राणीति | अत्रोच्यते ---
SK
सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात् / भूतादेस् तन्मात्रः स तामसस् तैजसाद् उभयम् // ISक्_२५ //
SK
सात्त्विक इति | यदा सत्त्वम् उत्कटं भवति अहङ्कारे तेन च सत्त्वेन रजस्तमसी अभिभूते स्यातां तदा सात्त्विको ऽहङ्कार उच्यते | तस्य सात्त्विकस्य वैकृतिक इति पूर्वाचार्यैः संज्ञा कृता | स वैकृतिको भूत्वा अहङ्कार एकादशेन्द्रियाणि उत्पादयति | तस्मात् सात्त्विकानीमानि विशुद्धानि स्वविषयग्रहणसमर्थानि भवन्ति | तस्माद् उच्यते --- ᳚सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात्᳚ इति | भूतादेस् तन्मात्राः | भूतादेस् तमोबाहुल्याद् गौणीभूतसत्त्वरजसो भूतादिनाम्नः पूर्वाचार्यैर् निरूपिताद् अहङ्कारात् तन्मात्रः शब्दादिपञ्चको गणो जायते | अभिभूतसत्त्वतमसो राजसात् तैजसाभिधानाद् अहङ्कारात् प्रवृत्तिकर्मण उभयं प्रकाशात्मकम् एकादशेन्द्रियकं मोहात्मकं तन्मात्रिकं चासीद् इति सम्बन्धः | तैजस एव राजसे ऽहङ्कारे क्रियाशक्तिर् अस्ति | सत्त्वं निष्क्रियम् एकाकि न शक्नोत्य् उत्पादयितुम् | तमश् च मूढत्वाद् अक्रियम् असमर्थं विना रजः सृष्टिम् उत्पादयितुम् | अत उभे सत्त्वतमसी सृष्टिविषये रजसानुगृहीते ऐन्द्रियकं तान्मात्रिकं च गणद्वयं जनयत इति तात्पर्यार्थः // Sक्Mव्_२५ //
SK
तत्र कानि बुद्धीन्द्रियाणि कानि कर्मेन्द्रियाणीति? उच्यते ---
SK
बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षूरसननासिकाख्यानि /
SK
(प्.३१) वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्य् आहुः // ISक्_२६ //
SK
श्रोत्रादीनि बुद्धीन्द्रियाणीति उच्यन्ते | शब्दस्पर्शरूपरसगन्धान् बुद्ध्यन्त इति बुद्धीन्द्रियाणि | इन्द्रियाण्य् एव तानीन्द्रियाणि | इन् इति विषयाणां नाम, तानिनः विषयान् प्रति द्रवन्तीति इन्द्रियाणि | वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्य् आहुः | कर्म कुर्वन्ति कारयन्ति च | कर्मेन्द्रियाणां वृत्तिः | वाक् वदतिकर्म, हस्तौ ग्रहणकर्माणौ, पादौ विषमसमनिम्नोन्नतभूप्रदेशेषु क्रामतः, पायुर् यथाभुक्तान्नोदकमलम् उत्सृजति, उपस्थ आनन्दं करोति पुत्रम् उत्पादयतीत्य् अर्थः | एवम् एताः कर्मेन्द्रियाणां वृत्तयो व्याख्याताः // Sक्Mव्_२६ //
SK
अत्राह --- मन इन्द्रियं तत् किं लक्षणम् इति | अत्रोच्यते ---
SK
उभयात्मकम् अत्र मनः सङ्कल्पकम् इन्द्रियं च साधर्म्यात् / गुणपरिणामविशेषान् नानात्वं ग्राह्यभेदाच् च // ISक्_२७ //
SK
उभयात्मकम् अत्र मनः | कर्मेन्द्रियेषु कर्मेन्द्रियम्, बुद्धीन्द्रियेषु बुद्धीन्द्रियम् | यथा देवदत्तो गोपालमध्ये स्थितो गोपालत्वं कुरुते मल्लमध्ये स्थितो मल्लत्वं कुरुते | कस्मात्? यस्माद् बुद्धीन्द्रियाणां वृत्तिं सङ्कल्पयति कर्मेन्द्रियाणां च | तस्माद् उभयात्मकं मनः | किं चान्यत् | इन्द्रियं च साधर्म्यात् | सहधर्मस्य भावः साधर्म्यम् | यस्मात् कर्मेन्द्रियाणि बुद्धीन्द्रियाणि च सात्त्विकाद् अहङ्काराद् उत्पद्यन्ते, मनो ऽपि तस्माद् एव उत्पद्यते | तस्माद् इन्द्रियं मनः | तत्र मनसः का वृत्तिः? सङ्कल्पो वृत्तिः | बुद्धीन्द्रियाणां शब्दादयो वृत्तयः, कर्मेन्द्रियाणां वचनादयः | एवम् एकादशेन्द्रियाणि सह वृत्तिभिर् व्याख्यातानि | अत्राह --- एकादशेन्द्रियाणि केन कृतानि पुरुषेण ईश्वरेण आहोस्वित् स्वभावेनेति कुत इयम् आशङ्केति चेत्, इमान्य् एकादशेन्द्रियाणि एकादशविषयग्राहकाणि भवन्ति | तत्रान्तःकरणप्रधानबुद्ध्यहङ्काराद्यचेतनम् | ततश् च नूनं चेतनेन पुरुषेणेश्वरेण वा स्वभावेनेति | अत्रोच्यते --- गुणपरिणामविशेषान् नानात्वं ग्राह्यभेदाच् च | सत्त्वादयस् त्रयो गुणास् ते यथा परिणमन्ति तस्माद् गुणपरिणामविशेषाद् इमान्य् एकादशेन्द्रियाणि नाना | तदर्थानि भिन्नानि | शब्दस्पर्शरूपरसगन्धाः पञ्चानां, वचनादानविहरणोत्सर्गानन्दाः पञ्चानां, सङ्कल्पश् च मनसः | एतेषाम् एव एकादशानाम् इन्द्रियाणि ग्राहकाणी भविष्यन्ति |(प्.३२) अथैतन् नानात्वं नेश्वरेण न बुद्ध्या नाहङ्कारेण न प्रधानेन न पुरुषेण न स्वभावेन कृतम्, गुणपरिणामेनेति | यद्य् अपि उक्तम् अचेतनानां गुणानां वृत्तिर् अयुक्तेति | तन् न | कस्माद् इति चेत्, तद् उच्यते | अचेतनानाम् अपि प्रवृत्तिर् दृष्टा | वक्ष्यति हि ---
SK
᳚वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिर् अज्ञस्य / पुरुषस्य विमोक्षार्थं तथा प्रवृत्तिः प्रधानस्य᳚ //
SK
(साङ्ख्यकारिका ५७) इति |
SK
तस्माद् अचेतना अपि गुणा एकादशेन्द्रियभावेन परिणमन्ति | अत्राह --- गृह्णीमस् तावद् एकादशेन्द्रियाण्य् अहङ्काराद् उत्पन्नानीति | एतेषाम् इन्द्रियाणां यथास्थाननिक्षेपः केन कृतः | चक्षुर् उच्चैः सन्निविष्टं दूरालोकने समर्थं भविष्यतीति | शिरःप्रदेशे श्रोत्रं सन्निविष्टं दूराच् श्रवणसमर्थं भविष्यतीति | त्वक् शरीराभ्यन्तरे बहिश् च सन्निविष्टा नानास्पर्शग्रहणसमर्था भविष्यतीति | जिह्वा अन्तर्मुखं सन्निविष्टा नानारसग्रहणसमर्था भविष्यतीति | एवं नासिका वाक् | एवम् इन्द्रियाणां निक्षेपः पुरुषेण वा कृत ईश्वरेण वा स्वभावेन वेति | अत्रोच्यते --- इह साङ्ख्ये पुरुषेश्वरस्वभावा न कारणम् | किं तर्हि --- अस्मिन्न् अहङ्कारे स्थितैः सत्त्वरजस्तमोभिस् त्रिभिर् गुणैर् निक्षेपः कृतः | तस्माद् ब्रूमः --- ᳚गुणपरिणामविशेषान् नानात्वं ग्राह्यभेदाच् च᳚ | गुणपरिणामविशेषाद् एकादशेन्द्रियाणां भेदः | ग्राह्यभेदाच् च | ग्राह्या एकादशेन्द्रियार्थास् तेषां भेदाद् अपीन्द्रियाणां भेदः // Sक्Mव्_२७ //
SK
अत्राह --- का कस्य वृत्तिः? उच्यते ---
SK
रूपादिषु पञ्चानाम् आलोचनमत्रम् इष्यते वृत्तिः / वचनादानविहरणोत्सर्गानन्दास् तु पञ्चानाम् // ISक्_२८ //
SK
मात्रशब्दो विशेषार्थः | यथा भिक्षामात्रं लभ्यते नान्यो विशेषः | तथा चक्षुः | गतार्थे आलोचनमात्रम् इति | एकैकस्य प्रतीन्द्रियं स्वविषयग्रहणसामर्थ्यम् एव | न हि चक्षुः श्रवणसमर्थं दानादानसमर्थं वा // Sक्Mव्_२८ //
SK
अत ऊर्ध्वं बुद्ध्यहङ्कारमनोवृत्तिं वक्ष्यामः | तद् उच्यते ---
SK
स्वालक्षण्या वृत्तिस् त्रयस्य सैषा भवत्य् असामान्या / (प्.३३) सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च // ISक्_२९ //
SK
स्वालक्षण्येति | बुद्धेर् अध्यवसाय उक्तः प्राक् लक्षणम् | तस्याः स एवाध्यवसायो वृत्तिः | एवम् अभिमानो ऽहङ्कारलक्षणम् | तस्य वृत्तिर् अपि स एव | मनसः सङ्कल्पो लक्षणम् | तस्यापि स एव वृत्तिः | येन येन लक्षणेनामी लक्ष्यन्ते तेषां स एव वृत्तिः | एवं या बुद्धीन्द्रियाणां न सा कर्मेन्द्रियाणाम् | या च कर्मेन्द्रियाणां न सा बुद्धीन्द्रियाणाम् | बुद्ध्यहङ्कारमनसां वृत्तिर् अभिहिता | साप्य् असामान्या | अध्यवसायाभिमानसङ्कल्पलक्षणा | सैषा भवत्य् असामान्या असाधारणा एवम् उक्ते ऽर्थात् गम्यते सामान्यापि साधारणापि वृत्तिर् अस्ति | यदपेक्षयासामान्येत्य् उच्यते | एवम् इन्द्रियाणाम् असामान्या वृत्तिर् आख्याता कुलस्त्रीसंस्थानीया | अत ऊर्ध्वं सामान्या वृत्तिर् उच्यते | सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च | सामान्यकरणवृत्तिः --- समस्तस्यान्तःकरणस्येत्य् अर्थः | प्राणाद्या वायवः पञ्चेति प्राणापानोदानसमानव्यानाः सर्वेषाम् इन्द्रियाणाम् सामान्यं कुर्वन्ति | स प्राणो नाम यो मुखनासान्तरगो बाह्ये चास्य विषये वृत्तिः | प्राणनात् प्राण एष इत्य् अभिधीयते | अस्मिन् प्राणे यत् स्पन्दनकर्म तत् कतमेन कृतम् इत्य् अत्रोच्यते --- त्रयोदशविधेन करणेन कृतम् | यतश् चैवं तस्मात् प्राणकर्म सर्वस्य करणग्रामस्य वृत्तिः सामान्या | अपि चात्र दृष्टान्तः --- यथा कस्मिंश्चिद् राजगृहे पञ्जरे शुकाः प्रतिवसन्ति | तेभ्यो देवदत्तेन ओदनो दर्शितः | ओदनं दृष्ट्वा सर्वे प्रचलिताः | तदा पञ्जरकम् अपि चलितम् | यत् पञ्जरस्य प्रचलनं कर्म तत् सर्वेषाम् शुकानां सामान्यम् | तद्वत् प्राणे यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्यम् | किं चान्यत् --- अपानेनोत्सृजति | इतश् चापक्रमणाद् अपान इत्य् उच्यते | अपानबहुलश् च देवदत्तः सर्पं दृष्ट्वा अपसर्पति एषो ऽपानः | तस्मिन्न् अपाने यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्या वृत्तिः | आरोहणाद् अर्थोत्कर्षे उदान इत्य् अभिधीयते | नाभिप्रदेशाद् उत्थितं गच्छति | उदानवृत्तिश् च देवदत्त आनन्दोत्कर्षं मृगयति | अहम् आढ्यो ऽस्माद् आढ्यतरः कथं स्याम् इत्य् एष उदानः | अस्मिन्न् उदाने यत् स्पन्दनकर्म तत् सामान्या वृत्तिः सर्वेन्द्रियाणाम् | किञ् चान्यत् --- हृद्यवस्थानं सहभावश् च तेन समानः | यो वायुर् हृद्देशे वर्तते स समानः | तद्बहुलश् च एकाकी न रमत एष समानः | तस्मिन् यत् स्पन्दनकर्म तत् सर्वेन्द्रियाणां सामान्यवृत्तिः | किञ् चान्यत् --- शरीरव्यापितया व्यानः | आनखाद् आकेशान्तं शरीरं व्याप्य अनति चलतीति व्यानः | व्यानबहुलो देवदत्तश् च अत्यन्तम् अन्येन विना रमते |(प्.३४) तस्मिन् व्याने यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्यवृत्तिः | तद् एवं सामान्यकारणवृत्तिः प्राणाद्या वायवो व्याख्याताः // Sक्Mव्_२९ //
SK
वृत्तिं व्याख्यास्यामः | तद् उच्यते ---
SK
युगपच् चतुष्टयस्य हि वृत्तिः क्रमशश् च तस्य निर्दिष्टा / दृष्टे तथाप्य् अदृष्टे त्रयस्य तत्पूर्विका वृत्तिः // ISक्_३० //
SK
बुद्धिर् अहङ्कारो मनश् चक्षुर् इत्य् एतानि चत्वारि युगपद् रूपं पश्यन्ति, अयं स्थाणुर् ऽयं पुरुष इति | एवं शब्दं स्पर्शं रसं गन्धं चत्वारि युगपद् गृह्णन्ति | एवम् एषा युगपच् चतुष्टयस्य वृत्तिः | किं चान्यत् | क्रमशश् च तस्य निर्दिष्टा बुद्ध्यहङ्कारमनश्चक्षुश्चतुष्टयस्य क्रमशो वृत्तिर् भवति | द्वारिद्वारविभागोपदेशाद् ह्रस्वकालत्वाद् विभागो न शक्यते वक्तुं ततो युगपद् इत्य् उच्यते | यथा बालपत्रशतं सूच्यग्रेण विद्धम् इति | तद् यथा | देवदत्तः पन्थानं गच्छन् स्थाणुं पश्यति तत्र तस्य संशयो भवति किम् अयं स्थाणुर् उत पुरुष इति | तत्र स्थाणुरूपं पश्यति शकुनिं च तत्रस्थं ततो ऽस्य बुद्धिर् भवति स्थाणुर् अयम् इति | आकुञ्चनप्रसारणे करोति ततो ऽपि पुरुषो ऽयम् इति प्रतीतिः | एवं बुद्ध्यहङ्कारमनश्चक्षुषां क्रमशो वृत्तिर् दृष्टा चक्षू रूपं पश्यति, मनः सङ्कल्पयति, अहङ्कारो ऽभिमानयति, बुद्धिर् अध्यवस्यति | एवं रसनादिष्व् अपि द्रष्टव्यम् | किं चान्यत् --- दृष्टे तथाप्य् अदृष्टे | त्रयस्य तत्पूर्विका वृत्तिः | तच्छब्देन समनन्तरोक्तानि बुद्धीन्द्रियाणि भवन्ति | रूपे चक्षुःपूर्विका, शब्दे श्रोत्रपूर्विका, स्पर्शे त्वक्पूर्विका, रसे जिह्वापूर्विका, गन्धे घ्राणपूर्विका बुद्ध्यहङ्कारमनसां वृत्तिर् इति // Sक्Mव्_३० //
SK
अत्राह --- अचेतनानीन्द्रियाणि बुद्ध्यहङ्कारौ मनश् चेति केन हेतुना स्वां स्वां वृत्तिं प्रतिपद्यन्ते इत्य् अत्राह ---
SK
स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् / पुरुषार्थ एव हेतुर् न केनचित् कार्यते करणम् // ISक्_३१ //
SK
स्वां स्वाम् इति वीप्साम् इच्छन्ति | (इति त्रयोदशविधस्य करणस्य ग्रहणं कृतं भवति) | प्रतिपद्यन्ते गृह्णन्तीत्य् अर्थआः | किं चान्यत् --- परस्पराकूतहेतुकां वृत्तिम् | बुद्धेर् आकूतं ज्ञात्वा अहङ्कारो ऽभिमानयति, मनः सङ्कल्पयति, इन्द्रियाणि स्वां स्वां वृत्तिं प्रतिपद्यन्ते | आकूतं नामाभिप्रायः | यथा किल चौरसेना ग्रामं हन्तुं गच्छति तत्र चौरसेनापतिना सङ्केतः(प्.३५) कृतो ऽस्ति यदाहं हा हेति ब्रवीमि तदा सर्वैः समवायेन प्रवेष्टव्यम् | यदा पुनर् अहम् अहा हेति ब्रवीमि तदा निर्गन्तव्यम् | एतां चौरसेनापतेर् आज्ञाम् आकूतं ज्ञात्वा चौराः प्रविशन्ति निर्गच्छन्ति च | तथेह चौरसेनापतिस्थानीया बुद्धिः चौरस्थानीयानीन्द्रियाणि | किं स्वार्थं विषयं प्रतिपद्यन्ते आहोस्वित् परार्थम् इत्य् अत्रोच्यते | परार्थं गम्यते | यस्माद् आह --- पुरुषार्थ एव हेतुः पुरुषार्थः कर्तव्य एव इति गुणानां प्रवृत्तिः | तस्माद् एतत् त्रयोदशविधं करणं पुरुषार्थः प्रवर्तयति | यद् अप्य् उक्तम् --- अचेतनानि करणानि कथं प्रवर्तन्त इति | अत्र ब्रूमः --- न केनचित् कार्यते करणम् | नेश्वरेण नापि पुरुषेण | स्वभावो नाम कश्चित् पदार्थो (ना)स्ति | यस्मात् स्वयम् एव च त्रयोदशविधं करणं स्वे स्वे विषये प्रवर्तत इति // Sक्Mव्_३१ //
SK
अत्राह --- उक्तं च भगवता न केनचित् कार्यते करणम् इति | तत् कतिविधं करणम् इति? अत्रोच्यते ---
SK
करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् / कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च // ISक्_३२ //
SK
यद् अत्र करणम् इत्य् उक्तं तत् त्रयोदशविधम् इति बोद्ध्यम् | पञ्च कर्मेन्द्रियाणि, पञ्च बुद्धीन्द्रियाणि, बुद्ध्यहङ्कारौ मन इति एतत् त्रयोदशविधं करणम् इति | अत्राह --- आहारकं धारकं प्रकाशकं च तद् इति | तत्राहारकम् इन्द्रियलक्षणम् | धारकम् अभिमानलक्षणम् | प्रकाशकं बुद्धिलक्षणम् | अत्राह --- किं तद् अस्ति यस्याहरणं धारणं प्रकाशनं च क्रियते | अत्रोच्यते --- कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च | कार्यम् इति शब्दस्पर्शरसरूपगन्धाः पञ्च, वचनादानविहरणोत्सर्गानन्दाः पञ्च | एते दश विषयाः कार्यम् इत्य् उच्यते | तं दशविधं विषयं बुद्धीन्द्रियैः प्रकाशितम् अर्थं कर्मेन्द्रियाण्य् आहरन्ति धारयन्ति च | तद् यथा तमसि स्थितं प्रदीपेन प्रकाशितं घटं हस्त आदत्ते धारयति च | तद् एवं यथा घटं तथा शेषाण्य् अपि // Sक्Mव्_३२ //
SK
अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् / साम्प्रतकालं बाह्यं त्रिकालम् आभ्यन्तरं करणम् // ISक्_३३ //
SK
अन्तःकरणं त्रिविधम् इति बुद्ध्यहङ्कारमनसां ग्रहणम् | एतत् त्रिविधम् अन्तःकरणसंज्ञितम् | दशधा बाह्यं बुद्धिकर्मेन्द्रियभेदात् | किं चान्यत् | त्रयस्य विषयाख्यं बुद्ध्यहङ्कारमनसां त्रयाणाम् अन्तःकरणानां बाह्यं दशविधं(प्.३६) करणं विषयाख्यं विषय(?) उपभोग्यम् इति | आभ्यन्तरं त्रिकं स्वामिभूतं बाह्यं दशविधं भृत्यभूतम् इत्य् अर्थः | किं चान्यत् --- साम्प्रतकालं बाह्यम् | यद् एतद् बाह्यं दशविधं करणम् उक्तं तत् साम्प्रतकालं वर्तमानविषयग्राहकं भवति | श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि वर्तमानान्य् एव शब्दादीनि गृह्णन्ति | नातीतानि न च भावीनि | एवं वाक्पाणिपादपायूपस्थानि वर्तमानेषु वचनादेयभूमिमलोत्सर्गानन्देषु प्रवर्तन्ते नातीताभविष्यतोः | किञ् चान्यत् --- त्रिकालम् आभ्यन्तरं मनोऽहङ्कारबुद्धिरूपं करणं प्रवर्तते | बुद्धिर् वर्तमानं घटं बुद्ध्यते अतीतं भविष्यन्तं च स्मरति | तद् यथा --- युधिष्ठिरभीमसेनाव् आस्ताम् अतीतविषयग्राहिणी बुद्धिः | कल्की भविष्यति भाविवस्तुग्राहिणी | एवम् अहङ्कारो ऽपि त्रिकालवान् | यथाहम् अस्मिन् गृहे स्वामी आसं, भविष्यामि चेति | एवं मनो ऽप्य् अतीतं सङ्कल्पयति वर्तमानं भावि च | यत एवं तस्माद् उच्यते ᳚त्रिकालम् आभ्यन्तरं करणम्᳚ इति // Sक्Mव्_३३ //
SK
अत्राह --- कानि इन्द्रियाणि सविशेषं विषयं गृह्णन्ति, कानि निर्विशेषम् | अत्रोच्यते ---
SK
बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि / वाग् भवति शब्दविषया शेषान्य् अपि पञ्चविषयाणि // ISक्_३४ //
SK
तेषाम् करणानां मध्ये येषाम् अयम् अधिकारो वर्तते तेषां यानि बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च तानि सविशेषं गृह्णन्ति अविशेषम् अपि विषयं गृह्णन्ति | अत्राह --- कस्य सविशेषं विषयं गृह्णन्ति कस्य निर्विशेषम् इति | अत्रोच्यते शब्दस्पर्शरसरूपगन्धाः पज्ञ देवानां तन्मात्रसंज्ञिता निर्विशेषाः केवलसुखलक्षणत्वात् | यस्मात् तत्र दुःखमोहौ न स्तस् तस्मान् निर्विशेषास् ते इति | तथा हि | विशिष्यन्ते शान्तघोरमूढत्वादिनेति विशेषास् तैः सह सविशेषाः, केवला निर्विशेषा इति तात्पर्यम् | एवं शब्दादयो मनुष्याणां सविशेषाः सुखदुःखमोहयुक्ता इत्य् अर्थः | देवानां तु बुद्धीन्द्रियाणि निर्विशेषं सुखात्मकं प्रकाशयन्ति | उक्तानि बुद्धीन्द्रियाणि देवानां मानुषाणां च | कर्मेन्द्रियाणि वक्ष्यामः | वाग् भवति शब्दविषया शेषान्य् अपि पञ्च विषयाणि | तत्र देवानां वाक् पादं पादार्धं श्लोकम् उच्चारयति | अस्माकम् अपि तथैव | अतो देवानाम् अस्माकं च वागिन्द्रियं तुल्यम् इत्य् अर्थः | किं चान्यत् --- शेषाण्य् अपि पञ्च विषयाणि इति | तेषां(प्.३७) चतुर्णाम् एकैकं पञ्चविषयम् | पाणिस् तावत् शब्दस्पर्शरसरूपगन्धयुक्तः | एवं पञ्चलक्षणम् एव पाणीन्द्रियं सन्निकृष्टं पञ्चलक्षणं घटं गृह्णाति | (यस्मात् पञ्चलक्षणं हस्तं हस्तेन्द्रियं च) एवं शब्दादिपञ्चलक्षणः पादः पञ्चात्मिकायाम् एव भुवि विहरति | एवं पञ्चलक्षणे पायूपस्थे अपि पञ्चलक्षणाव् उत्सर्गानन्दौ कुरुतः | तस्मात् युक्तम् अभिहितम् --- ᳚शेषाण्य् अपि पञ्च विषयाणि᳚ इति // Sक्Mव्_३४ //
SK
इदानीं बुद्धिविषयख्यापनायेदम् उच्यते ---
SK
सान्तःकरणा बुद्धिः सर्वं विषयम् अवगाहते यस्मात् / तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि // ISक्_३५ //
SK
सान्तःकरणा अन्तःकरणे अहंमनसी ताभ्यां सह वर्तते या बुद्धिः सा तथोक्ता | सा बुद्धिः सर्वं विषयं निरवशेषं त्रिष्व् अपि कालेषु यस्माद् अवगाहते व्याप्नोति गृह्णाति शब्दाद्यं पञ्चविधं तस्माद् एव तन्मनोबुद्ध्यहङ्कारलक्षणं त्रिविधम् एव करणं साधनं, क्रियते ऽनेनेतिकृत्वा | शेषाणि पुनः द्वारि बाह्ये यानि बुद्धिकर्मेन्द्रियतया प्रतीतानि श्रोत्रवाक्प्रभृतीनि दश तानि तस्या एव मनोऽहङ्कारयुक्ताया बुद्धेर् विषयग्रहणाय द्वाराणि प्रतीकान्य् एव न तु करणतया सान्वयानि | तथा एतैर् दशभिर् द्वारैः सान्तःकरणा बुद्धिर् एव विषयान् गृह्णातीति त्रिविधम् एव करणम् इत्य् अर्थः // Sक्Mव्_३५ //
SK
किञ् चान्यत् ---
SK
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः / कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति // ISक्_३६ //
SK
एते इति बुद्धिकर्मान्तःकरणभेदास् त्रयोदेश प्रदीपकल्पाः प्रदीपतुल्याः | किं चान्यत् | परस्परविलक्षणाः | भिन्नलक्षणा विसदृशा इत्य् अर्थः | श्रोत्रं हि शब्दं गृह्णाति, न स्पर्शादीन् | एवम् इतरत्र | वाग् वक्त्य् एव न गृह्णाति गच्छति विहरत्य् आनन्दति | एवं पाण्यादिषु | मनः सङ्कल्पयति नाहङ्कुरुते | अहङ्कारश् चाभिमनुते न सङ्कल्पयति | एवं द्वादशापि स्वं स्वम् अर्थं पुरुषभोग्यतया प्रकाश्य बुद्धौ प्रयच्छन्ति निक्षिपन्ति | तद् बुद्धिस्थं विषयं सुखदुःखाद्यं पुरुष उपलभते // Sक्Mव्_३६ //
SK
किञ् चान्यत् ---
SK
सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः / सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् // ISक्_३७ //
SK
(प्.३८)
SK
निर्विशेषं त्रिष्व् अपि कालेषु यो यो विषयं प्रति उपभोगो देवतिर्यग्योनिषु तं तं पुरुषस्य यस्माद् हेतोर् बुद्धिर् एव साधयति निष्पादयति | राजामात्यवत् | यथा सर्वेषां भृत्यानां मन्त्री उपलब्धिं विधाय राजनि निवेदयति | एवं कर्मेन्द्रियाणि प्रकाश्य बुद्धौ प्रयच्छन्ति | बुद्धिर् अपि पुरुषाय प्रयच्छति समर्पयति | अनेन प्रकारेण बुद्धिर् अभ्युदयफलेन | यावज्ज्ञानं नोत्पद्यते तावत् पुरुषं योजयति | स्वैरिणीव कामुकं मूढविज्ञानं घृताद्युपचारैः | बुद्धिप्रेरिता अहंमनोबुद्धिकर्मेन्द्रियाख्या विषयान् न स्वार्थं न च बुद्ध्यर्थं किं तु पुरुषार्थम् एव साधयन्ति | यथा सलक्ष्मीकस्वैरिणीगृहे दास्यस् तदादेशेन रसवतीं न स्वार्थं न च स्वामितयावस्थितस्वैरिण्य् अर्थं किं तु तयापहृतविवेकविज्ञानस्य कामुकस्य कृते निर्वर्तयन्ति तद्वत् | यावद् असौ विमूढस् तावद् अनया बुद्ध्या स्वैरिण्य् एव कामुको विषयैर् उपह्रियते | यदासौ कथम् अपि गुरुशास्त्रात्मानुभवादिभिर् आत्मानं चेतयते तदा स्वैरिणीव बुद्धिर् अपि पुरुषं विहाय संशाम्यति | ततो ऽसौ केवलतयावतिष्ठते | तदनुभवावस्थितिर् मुक्तिर् इति यत् किञ्चिद् इदम् अप्रस्तुतम् | प्रस्तुतम् उच्यते | किञ् चान्यत् | अतः सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् | सूक्ष्मं दुर्विज्ञेयम् | प्रधानपुरुषान्तरं नानात्वम् | सूक्ष्मत्वाद् अतीव दुर्बोधम् इति यावत् | बुद्धिर् हि अध्यवसायात्मिका स्वव्यापारेण चाध्यवसायेन साधयति | अहङ्कारेन्द्रियतन्मात्रभूताध्यवसायेन जगत् प्रधानपुरुषान्तरविवेचनेन विविच्य स्वयं म्रियते | अत एवोक्तम् ---
SK
᳚अहङ्कारो धियं ब्रूते मैनं सुप्तं प्रबोधय / प्रबुद्धे परमानन्दे न त्वं नाहं न तज्जगत् //
SK
मयि तिष्ठत्य् अहङ्कारे पुरुषः पञ्चविंशकः / तत्त्ववृन्दं परित्यज्य स कथं मोक्षम् इच्छति //
SK
यो ऽसौ सर्वेश्वरो देवः सर्वव्यापी जगद्गुरुः / देहीतिपदम् उच्चार्य हा मयात्मा लघुः कृतः᳚ //
SK
अकृतपुण्यचरणैर् न प्राप्यं प्रधानपुरुषयोर् नानात्वम् | तयोर् एवान्तरं दर्शयति | त्वम् अन्यम् आत्मानं न वेत्सि | प्रधानम् अन्यत् | सत्त्वरजस्तमांसि त्रयो गुणाः प्राधानिका अमूर्ताः साम्यावस्थायां प्रधानाख्याः | तेषाम् एकतयोद्रेकात् त्रिगुणा बुद्धिर् अन्या, अन्यो ऽहङ्कारः, पञ्च तन्मात्राण्य् अन्यानि, एकादशेन्द्रियाण्य् अन्यानीति बुद्ध्वा तत्त्वानि मोक्षं गच्छन्ति | न हि भगवतः कपिलस्य मते किम् अपि कर्तव्यम् अनुष्ठेयतया, किं तु साङ्ख्यानां (प्.३९) पञ्चविंशतितत्त्वज्ञानम् एव साधर्म्येण वैधर्म्येण च निःश्रेयसहेतुः | उक्तं च ---
SK
हस पिब लल मोद नित्यं विषयानुपभुञ्ज कुरु च मा शङ्काम् / यदि विदितं ते कपिलमतं तत् प्राप्स्यसे मोक्षसौख्यं च // Sक्Mव्_३७ //
SK
अत्राह --- उक्तं भगवता पूर्वस्याम् आर्यायां ᳚विशेषाविशेषविषयाणीन्द्रियाणि᳚ इति | तत्र के विशेषा के ऽविशेषा इति | अत्रोच्यते ---
SK
तन्मात्राण्य् अविशेषास् तेभ्यो भूतानि पञ्च पञ्चभ्यः / एते स्मृता विशेषाः शान्ता घोराश् च मूढाश् च // ISक्_३८ //
SK
यानि भूतादिसंज्ञात् तामसाद् अहङ्काराद् उत्पन्नानि पञ्च तन्मात्राणि शब्दादीनि तान्य् अविशेषा इत्य् उच्यन्ते | देवानां तन्मात्राणि सुखलक्षणा विषयास् तत्रापि रजस्तमसी स्तः किं तु तत्र सत्त्वम् उत्कटत्वेन वर्तते तस्माद् अविशेषा इत्य् उच्यन्ते | न विशिष्यन्ते शान्तघोरमूढत्वादिभिः सत्त्वोद्रेकात् केवलसुखतया इत्य् अर्थः | तर्हि विशेषाः के? अत्राह --- तेभ्यो भूतानि पञ्च पञ्चभ्यः | शब्दादिभ्यः पञ्चभ्यः आकाशादीनि पञ्च महाभूतानि पूर्वपूर्वानुप्रवेशाद् एकद्वित्रिचतुष्पञ्च गुणान्य् उत्पद्यन्ते | एते स्मृता विशेषाः | अत्राह --- एतेषां किं लक्षणम् इति | अत्रोच्यते | एतानि पञ्च महाभूतानि मनुष्याणां विषयाः | शान्ता घोरा मूढाश् च | तत्राकाशं शान्तं घोरं मूढं च | शान्तं तावत् सुखलक्षणम् | यथा कश्चिद् गर्भगृहात् निष्क्रान्तः अवकाशस्थितस् तस्य तदाकाशं सुखहेतुत्वाच् छान्तं स्यात् | तद् एवोष्णशीतवातादिसंयोगाद् दुःखत्वाद् घोरं स्यात् | पथि गच्छतः कान्दिशीकस्य केवलं सर्वत्राकाशं पश्यतो मार्गाद्यनभिज्ञस्य पुंसस् तद् एव मूढं स्यात् | एवं वायौ त्रैविध्यम् | यथा गर्भगृहवासिनो वातायनद्वारेण वायुः प्रविशन् सुखहेतुत्वाच् छान्तः | तेनैवोष्णमासि सम्पन्नेन दुःखोत्पादकतया दुःखी स्याद् इत्य् असौ वायुर् घोरः | स एव वायुः शीतकाले शीतं जनयन् मूढः | एवम् अग्निः शीतार्तस्य शान्तः | ग्रीष्मकाले तापार्तस्य घोरः | ग्रामादिदाहे प्रवृद्धो ऽग्निः पुंसो मोहोत्पादकतया मूढः | एवम् आपो घर्मार्तस्य सुखदत्वाच् छान्ताः | हेमन्ते दुःखदत्वाद् घोराः | समुद्रमध्यगतस्य पुंसः तीरम् अपश्यतो मोहहेतुत्वान् मूढाः | एवं पृथ्वी नवशाद्वलोपचिता प्रावृषि सुखकारिणीति शान्ता | ग्रीष्मकाले उष्णबालुका घोरा | सैव पथिकस्य मार्गानभिज्ञस्य प्राणिग्रामाद्यपश्यतो मूढा | एवं देवानां निर्विशेषा विषयाः | तन्मात्रसंज्ञिता निर्विशेषाः केवला एवानन्दमयाः शान्तघोरमूढतयाविशिष्टाः स्वभावरूपाः(प्.४०) शर्कराकटुतिक्तादिरसा निश्चितं स्वभावमाधुर्यामृता उपमेयसुखशालिक्षीरम् इव | माधुर्यक्षारकट्वादिपार्थिवगुणसम्पृक्तं स्वभावरसं जलम् इवामी विषयाः(?) | देवानाम् एवं निर्विशेषाः स्युः | तन्मात्रसंज्ञिताः सुखलक्षणा एव | मनुष्याणां वियदादिभूतमयत्वात् भूतानीव सुखदुःखमोहलक्षणास् ते इत्य् अर्थः // Sक्Mव्_३८ //
SK
अत्राह --- किम् एताव् अन्त एव विषयाः, न हि | किं त्व् अन्ये ऽपि सन्ति | के पुनस् ते इति? उच्यते |
SK
सूक्ष्मा मातापितृजाः सह प्रभूतैस् त्रिधा विशेषाः स्युः / सूक्ष्मास् तेषां नियता मातापितृजा निवर्तन्ते // ISक्_३९ //
SK
तत्र सूक्ष्मास् तावत् पञ्च तन्मात्रकाः तैर् एवादिसर्गे सूक्ष्मशरीराणि त्रयाणाम् अपि लोकानां प्रारब्धानि | तत् सूक्ष्मशरीरमृतुकाले मातुर् उदरं प्रविशति | मातू रुधिरं पितुः शुक्रम् | वेदान्तवादिनो ऽप्य् एवम् आहुः | प्राणिनः स्वर्गनरकादिषु स्वकर्मभोगानन्तरमत्राजिगमिषवः सोममण्डले लीना भूत्वा वृष्टयो भवन्ति | ततो ऽन्नम्, तत् स्त्रीपुंसाभ्याम् उपभुक्तं शुक्रशोणिते, ततः पुरुष इति | ᳚वेत्थ यथा पञ्चम्याम् आहुताव् आपः पुरुषवचस᳚(छान्दोग्योपनिषद् ५ |३ |३) इत्य् आरभ्य ᳚इति तु पञ्चम्याम् आहुताव् आप᳚(छान्दोग्योपनिषद् ५ |९ |१) इत्य् आहुः | पुराणेष्व् अपि
SK
᳚सोमवृष्ट्यन्नरेतांसि पुरुषस् तत्र पञ्चमः / स जीवत्य् अग्नये पश्चाद् धरन्त्य् अस्माद् यतो ऽभवत्᳚ //
SK
इति |
SK
तद् एवं सूक्ष्मशरीरस्योपचयं करोति | मातुर् अशितपीतान्नरसो मातृनाडीसम्बन्धेन प्रविश्य सूक्ष्मशरीरस्य शुक्रशोणितमयस्योपचयं कुरुते | मातुश् च नाड्या बालस्य नाभिरन्ध्रं प्रविशति | यथैकेन मार्गेण शाकवाटस्याप्य् आयनम् उदकं करोति एवम् अन्नपानस्य रसो मातृनाडीगतो बालस्य नाभिं प्रविशति | प्रविश्य बालशरीरस्याप्य् आयनं करोति | तत्र सूक्ष्मशरीरस्याकृतिर् यादृग्लक्षणा बहिःशरीरस्य भवति हस्तपादशिरःपृष्ठोदरजङ्घागुल्फ इति | अपि च शिष्टा वदन्ति बहिःशरीरं षाट्कौशिकम् इति | रुधिरमांसत्वचो मातृजाः स्नाय्वस्थिमज्जानः पितृजाः | एवम् एतद् बाह्यशरीरम् आभ्यन्तरसूक्ष्मशरीरस्योपचयं कुरुते | तस्यैव बहिःशरीरोपचितस्य सूक्ष्मशरीरस्य प्रसवकाले योन्या निर्गतस्य मातुर् उदरात् बाह्यानि पञ्च महाभूतानि पृथिव्यादीनि विहरणसंस्थानीयानि कृतानि | यथा कस्यचिद् राजकुमारस्य मातापितृभ्याम् उपचितस्य पञ्च महाभूतानि कृतानि | आकाशम् अवकाशने, भूमिर् विहरणे, आपः पिण्डीकरणे शुद्धौ च, अग्निर्(प्.४१) आहारपचने, वायुर् व्यूहने, अस्य शरीरस्यैवम् एते विशेषाः त्रिविधाः | सूक्ष्मा मातापितृजाः सह प्रभूतैः | प्र इत्य् उपसर्गः | एवं सूक्ष्मा मातापितृजा भूतानि चेत्य् अर्थः | तानि च पृथिव्यादीनि | एवम् एते त्रिधा विशेषाः | ये चान्ये प्राग् अभिहिता विशेषाः शान्ता घोरा मूढाश् च | अत्राह --- एतेषु त्रिष्व् अपि विशेषेषु के नित्याः के ऽनित्या इत्य् अत्रोच्यते --- सूक्ष्मास् तेषां नियताः | सूक्ष्मा इति यैर् आदिसर्गारम्भस् ते नियता नित्या इत्य् अर्थः | तैर् आरब्धं सूक्ष्मशरीरम् अस्मिन् स्थूलशरीरे पतति तद् अधर्मेण संयुक्तं पशुमृगपक्षिसरीसृपस्थावरान्तानि पञ्च स्थानानि पश्यति | धर्माधर्मयोः साम्येन ब्राह्मणादीनि चण्डालान्तानि पश्यति | एवं सूक्ष्मशरीरं नियतं यावत् संसारम् इत्य् अर्थः | तद् यावज् ज्ञानं गुणपुरुषान्तरोपलब्धिरूपं नोत्पद्यते तावत् संसरति, उत्पन्ने ज्ञाने निवर्तते | तस्मिंश् च निवृत्ते पुरुषो मोक्षं गच्छति | उक्तं च ---
SK
᳚देहे मोहाश्रये भग्ने युक्तः स परमात्मनि / कुम्भाकाश इवाकाशे लभते चैकरूपताम्᳚ //
SK
᳚यथा दर्पणाभाव आभासहानौ᳚ इत्यादि | तस्माद् एतत् सूक्ष्मम् | मातापितृजा निवर्तन्ते तत् सूक्ष्मशरीरं परित्यज्य मरणकाले मातापितृजं पतति | तत् सूक्ष्मशरीरं ज्ञानम् अविदुषां संसरति // Sक्Mव्_३९ //
SK
अत्राह --- उक्तं च भगवता --- ᳚मातापितृजा निवर्तन्ते तत् सूक्ष्मं संसरतीत्य् अर्थः | अत्रोच्यते ---
SK
पूर्वोत्पन्नम् असक्तं नियतं महदादिसूक्ष्मपर्यन्तम् / संसरति निरुपभोगं भावैर् अधिवासितं लिङ्गम् // ISक्_४० //
SK
पूर्वोत्पन्नम् इत्यादि | सर्गोत्पन्नम् इत्य् अर्थः | यावज् ज्ञानं नोत्पद्यते तावत् संसारे स्थिरतरं स्थितम् इत्य् अर्थः | किञ् चान्यत् --- असक्तं, क्वचिन् न सक्तम् इत्य् असक्तं देवमानुषतिर्यक्षु सूक्ष्मत्वात् | नियतं नित्यम् इत्य् अर्थः | पञ्च कर्मेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि पञ्च तन्मात्राणि मनो बुद्धिर् अहङ्कार एवम् अष्टादश --- महदादिसूक्ष्मपर्यन्तम् इति | महान्य् अस्यादौ, सूक्ष्माणि तन्मात्राणि शब्दादिविषयाख्यान्य् अन्ते यस्य तत् तथोक्तम् | अन्तःकरणबहिःकरणानि त्रयोदश तन्मात्राणि पञ्च चेति | अत्राह --- तत् किं करोति | अत्रोच्यते --- संसरति देवमानुषतिर्यग्योनिषु जीवभावम् आगच्छति | तद् धि(प्.४२) निरुपभोगं शब्दादयो विषया उपभोगास् तैर् विरहितम् | त्रयोदशकरणात्मकम् एवेत्य् अर्थः | भावैर् अधिवासितं देवमानुषतिर्यग्भावाधिवासितम् एवेत्य् अर्थः | यथा तिलपतनवस्त्रवासनवत्(?) | तद्वत् शान्ता भावा भवन्ति | देवभावाः शुभेन मिश्रेण मानुषा अशुभेन तिर्यक्त्वम् | लिङ्गं प्रलयकाले प्रधाने लयं गच्छतीति लिङ्गम् | प्रकर्षेण धीयते क्षिप्यते ऽत्र सर्वम् इति प्रधानम् // Sक्Mव्_४१ //
SK
अत्राह --- सूक्ष्मशरीरेण नास्ति प्रयोजनम् | तर्हि त्रयोदशविधं करणम् एव कथं संसरतीति? अत्रोच्यते ---
SK
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया / तद्वद् विनाविशेषैस् तिष्ठति न निराश्रयं लिङ्गम् // ISक्_४१ //
SK
इहाश्रयाश्रयिणोः सम्बन्धो दृष्टः | न ह्य् आश्रयं विनाश्रयी तिष्ठति | कुड्यापटाश्रयं कृत्वा चित्रम् अवतिष्ठते | तद् इदं सूक्ष्मशरीरं कुड्यपटस्थानीयं चित्रसंस्थानीयं त्रयोदशविधं करणम् | तद् एवं सति यद् उक्तं भवता त्रयोदशविधं करणम् एव संसरतीति तन् मिथ्या | किं चान्यत् --- स्थाण्वादिभ्यो विना यथा छाया इति | स्थाणुपुरुषादिभिर् विना यथा छाया न भवति | छायां विना ते च न भवन्ति | यथाग्निना विना प्रकाशो न भवति | तद्वद् विनाविशेषैस् तिष्ठति न निराश्रयं लिङ्गम् इति | अविशेषा इति तन्मात्राणि स्वाभाविकक्षीरजलवच् शान्तघोरमूढत्वरहितत्वात् | तैर् आरब्धं सूक्ष्मशरीरम् | तेन सूक्ष्मशरीरेण सर्गादिप्रारब्धेन विना निराश्रयं त्रयोदशकरणाख्यं लिङ्गं न तिष्ठति | अतो यद् उक्तं भवता ᳚किम् अविशेषैर् आरब्धसूक्ष्मशरीरकल्पनया प्रयोजनं त्रयोदशविधं करणम् एअ संसरति᳚ इति, तन् मिथ्या // Sक्Mव्_४१ //
SK
अत्राह --- सूक्ष्मशरीरं त्रयोदशविधकरणसम्पन्नं केन हेतुना संसरतीति? अत्रोच्यते ---
SK
पुरुषार्थहेतुकम् इदं निमित्तनैमित्तिकप्रसङ्गेन / प्रकृतेर् विभुत्वयोगान् नटवद् व्यवतिष्ठते लिङ्गम् // ISक्_४२ //
SK
पुरुषार्थः कर्तव्य इति प्रधानस्य तावत् प्रवृत्तिः | स चार्थो द्विविधः | शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्षणश् च | शब्दाद्युपलब्धिर् ब्रह्मलोकादिषु भोगावाप्तिर् गुणपुरुषान्तरोपलब्धिर् मोक्ष इति | तस्माद् उक्तम् --- पुरुषार्थहेतुकम् इदं सूक्ष्मशरीरम् इति | किं चान्यत् --- निमित्तनैमित्तिकप्रसङ्गेन(प्.४३) | तत्र निमित्तं धर्माद्यष्टविधम् | तत् पुरस्तात् वक्ष्यामः ᳚धर्मेण गमनम् ऊर्ध्वम्᳚ इत्यादि | प्रकृतिः प्रधानम् | विभुत्वं प्रभुत्वं तस्य योगात्(तद्विभुत्वयोगात्) | यथा कश्चिद् राजा प्रभुत्वयोगेन स्वराष्ट्रे यद् यद् इच्छति तत् तत् करोति | एवं प्रधानम् अपि प्रभुत्वयोगेन मानुष्यं वा दैवं वा तैर्यग्योन्यं वा कुरुते | एवं सूक्ष्मशरीरं त्रयोदशविधेन करणेन संयुक्तं हस्तिन्या उदर प्रविश्य हस्ती भवति | स्त्रीशरीरं प्रविश्य मनुष्यो भवति | पशुर् भवति | तस्मात् नटवद् व्यवतिष्ठते लिङ्गम् // Sक्Mव्_४२ //
SK
अत्राह --- उक्त पुरा भावैर् अधिवासितं लिङ्गं सूक्ष्मशरीरं संसरति | तत् के भावा इति? अत्रोच्यते ---
SK
सांसिद्धिकाश् च भावाः प्राकृतिका वैकृताश् च धर्माद्याः / दृष्टाः करणाश्रयिणः कार्याश्रयिणश् च कललाद्याः // ISक्_४३ //
SK
त्रिविधा भावाश् चिन्त्यन्ते | तत्र केचित् सांसिद्धिकाः, केचित् प्राकृतिकाः, केचिद् वैकृताः | तत्र सांसिद्धिकास् तावत् --- यथा कपिलस्य भगवतः परमर्षेर् आदिसर्गे उत्पन्नस्येमे चत्वारो भावाः सहोत्पन्ना धर्मो ज्ञानं वैराग्यम् ऐश्वर्यम् इति | एते सांसिद्धिका उच्यन्ते | प्राकृतिका नाम ब्रह्मणः पुत्राः किल सनकादयो बभूवुः | तेषाम् उत्पन्नकार्यकारणानां शरीरवतां षोडशवर्षाणाम् एवैते चत्वारो भावा अकस्माद् एवोत्पन्ना निधिदर्शनवत् | एते च प्राकृतिका भावा उच्यन्ते | वैकृतिका यथा --- आचार्यादिमूर्तिम् अधिकृत्य उत्पन्ना वैकृतिका इत्य् उच्यन्ते | आचार्यं निमित्तं कृत्वा ज्ञानम् उत्पद्यते | ज्ञानाद् वैराग्यं, वैराग्याद् धर्मो, धर्माद् ऐश्वर्यम् | एवम् एते चत्वारो भावा अस्मदादिष्व् अपि वर्तन्ते | तद् एव वैकृता इत्य् उच्यन्ते | एवम् एते त्रिधा भावा व्याख्याता यैर् अधिवासितं महदादि लिङ्गं संसरति | अत्राह --- धर्मो, ज्ञानम्, वैराग्यम् ऐश्वर्यम्, अधर्मो ऽज्ञानम् अवैराग्यम् अनैश्वर्यम् | एवम् एते ऽष्टौ भावाः क्व वर्तन्ते? पूर्वर्षिभिः दृष्टाः करणाश्रयिणः | करणान्य्(प्.४४) उच्यन्ते बुद्धिकर्मान्तःकरणभेदात् त्रयोदश | तान्य् आश्रित्याष्टौ भावाः प्रवर्तन्ते | उक्तं हि ᳚अध्यवसायो बुद्धिर् धर्मो ज्ञानं विराग ऐश्वर्यम्᳚ इत्य् एवमादि | किं चान्यत् --- कार्याश्रयिणश् च कललाद्याः | यथा सूक्ष्मशरीरम् उत्पत्तिकाले मातुर् उदरं प्रविशति | मातुः रुधिरं पितुः शुक्रं तस्य सूक्ष्मशरीरस्योपचय कुरुते | कललबुद्बुदघनमांसपेशीगर्भकुमारयौवनस्थाविरादयो ऽन्नपानरसनिमित्ता उत्पद्यन्ते | तत्र उच्यते --- ᳚कार्याश्रयिणश् च कललाद्या᳚ इति | कललग्रहणं विरागनिमित्तम् // Sक्Mव्_४३ //
SK
उक्तं पूर्वस्याम् आर्यायां ᳚निमित्तनैमित्तिकप्रसङ्गेन᳚ ᳚नटवद् व्यवतिष्ठते लिङ्गम्᳚ इति | तत्र किं निमित्तं किं च नैमित्तिकम् इति? अत्रोच्यते ---
SK
धर्मेण गमनम् ऊर्ध्वं गमनम् अधस्ताद् भवत्य् अधर्मेण / ज्ञानेन चापवर्गो विपर्ययाद् इष्यते बन्धः // ISक्_४४ //
SK
तत्र धर्मो निमित्तम् | इह लोके धर्मं यः कुरुते तन् निमित्तं कृत्वा सूक्ष्मशरीरम् ऊर्ध्वं गच्छति | ऊर्ध्वम् इत्य् अष्टानां देवयोनीनां ग्रहणम् | तत्र आद्यं ब्राह्मम् | प्राजापत्यम्, ऐन्द्रं, पित्र्यं, गान्धर्वं, याक्षं, राक्षसं, पैशाचम् इत्य् एतान्य् अष्टौ स्थानानि सूक्ष्मशरीरं गच्छति | तत्र धर्मो निमित्तम्, ऊर्ध्वगमनं नैमित्तिकम् | किं चान्यत् --- गमनम् अधस्ताद् भवत्य् अधर्मेण | इह लोके यमनियमलक्षणो धर्मस् तद्विपरीतो ह्य् अधर्मः, तेनाधर्मेण सूक्ष्मशरीरम् अधस्ताद् गच्छति पश्वादि | पशुमृगपक्षिसरीसृपस्थावरम् इति पञ्चधा तिर्यक् स्थावरान्तम् | अत्राधर्मो निमित्तम्, अधोगमनं नैमित्तिकम् | किं चान्यत् --- ज्ञानेन चापवर्गः | यत् पञ्चविंशतितत्त्वज्ञानं तेन ज्ञानेन तत्सूक्ष्मशरीरं निवर्तते | परमात्मापवर्गं प्राप्नोति मोक्षं गच्छतीत्य् अर्थः | अतो ज्ञानं निमित्तम् अपवर्गो नैमित्तिकः | अन्यच् च विपर्ययाद् इष्यते बन्धः | कस्य विपर्ययात् | ज्ञानस्य विपर्ययो ऽज्ञानं, तेनाज्ञानेनाहं दर्शनीयः सुभगो ऽहं भोक्ताहम् इति मन्यते | तेनाज्ञानेन मनुष्यतिर्यग्देवेष्व् आत्मानं निबध्नाति | न मोक्षं गच्छतीत्य् अर्थः | अतो ऽज्ञानं निमित्तं बन्धो नैमित्तिकाः | स च बन्धस् त्रिविधः | प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश् चेति | तत्र प्रकृतिबन्धो नामाष्टासु प्रकृतिषु परत्वेनाभिमानः | वैकारिकबन्धो नाम ब्रह्मादिस्थानेषु श्रेयोबुद्धिः | दक्षिणाबन्धो नाम गवादिदानेज्यानिमित्तः | एवं चतुर्विधं निमित्तनैमित्तिकं व्याख्यातम् // Sक्Mव्_४४ //
SK
(प्.४५)
SK
अन्यद् अप्य् एवंविधम् उच्यते चतुर्धा ---
SK
वैराग्यात् प्रकृतिलयः संसारो राजसाद् भवति रागात् / ऐश्वर्याद् अविघातो विपर्ययात् तद्विपर्यासः // ISक्_४५ //
SK
यथा कस्यचिद् वैराग्यम् अस्ति | (जितेन्द्रियो विषयेभ्यो विरक्तो न यमनियमपरः केवलम्) न तु ज्ञानम् अस्ति गुणपुरुषान्तराख्यम् | तेनाज्ञानेन वैराग्यपूर्वेण नास्ति मोक्षः | केवलम् अष्टासु प्रकृतिषु लयो भवति प्रधानबुद्ध्यहङ्कारतन्मात्रेषु | तत्र लीनम् आत्मानं मुक्तम् इत्य् अवगच्छति भूयः संसरणकाले संसरति त्रिषु लोकेषु शरीरोत्पत्तिर् भवति | तत्र वैराग्यं निमित्तं प्रकृतिलयो नैमित्तिकः | किं चान्यत् --- संसारो राजसाद् भवति रागात् | यो ऽयं राजसो रागो ऽवैराग्यं यज्ञं करोति, दानं ददाति, अमुनामुष्मिन् लोके सुखं मे भावीति | तेन रागेण संसारो भवति | ब्रह्मादिस्थानेषु जन्म भवति | तत्र रागो निमित्तं संसारो नैमित्तिकः | किं चान्यत् --- ऐश्वर्याद् अविघातः यत् पूर्वम् ऐश्वर्यम् अणिमादिकम् अष्टविधं निर्दिष्टं तस्माद् ऐश्वर्यात् प्रार्थितानाम् अविघातो भवति न मुक्तिः | अविघातो ऽस्खलनम् | विपर्ययात् तद्विपर्यासः | विपर्ययाद् अनैश्वर्यात् तद्विपर्यासः प्रार्थितानाम् अप्राप्तिर् इत्य् अर्थः | तत्रानैश्वर्यं निमित्तम् | प्रार्थितस्याप्राप्तिलक्षणो विपर्यासो नैमित्तिकः | एवं षोडशको नित्यनैमित्तिकप्रसङ्गो व्याख्यातः | प्रकृतिलयः प्रकृतिबन्ध इत्य् उच्यते | यज्ञादिभिर् दक्षिणाबन्ध इत्य् उच्यते | ऐश्वर्यादिनिमित्तो भोगो वैकारिक इत्य् उच्यते // Sक्Mव्_४५ //
SK
ननु निमित्तनैमित्तिकप्रसङ्गः किमात्मक इति? अत्रोच्यते ---
SK
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः / गुणवैषम्यविमर्देन तस्य भेदास् तु पञ्चाशत् // ISक्_४६ //
SK
एष इति | आर्याद्वयेन षोडशविधो नैमित्तिकः सर्ग उक्तः | प्रत्ययसर्ग उच्यते | प्रत्ययाद् बुद्धेर् उत्पन्नो यस्मात् तस्मात् प्रत्ययसर्ग इत्य् उच्यते | उक्तं हि पुरस्तात् ᳚अध्यवसायो बुद्धिः᳚ इत्यादि | सो ऽयं प्रत्ययसर्गो भूयश् चतुर्धा भिद्यते | यस्माद् आह --- विपर्ययाशक्तितुष्टिसिद्ध्याख्यः | संशयबुद्धिर् विपर्ययः स्थाणुर् अयं पुरुषो वेति | भूयो ऽपि स्थाणुं प्रसमीक्ष्य न शक्नोत्य् अन्तरं गन्तुम् एवम् अस्याशक्तिर् उत्पन्ना | ततस् तृतीयः तम् एव स्थाणुं(प्.४६) ज्ञातुं संशयितुं वा नेच्छति किम् अनेनास्माकम् इत्य् एषा तुष्टिः | भूयश् चतुर्थो (दृष्टे यस् तस्मिन्) स्थाण्वादिरूढां वल्लीं पश्यति शकुनिं वा | ततो ऽस्य निश्चय उत्पद्यते स्थाणुर् अयम् इत्य् एषा सिद्धिः | एवम् एष प्रत्ययसर्गो भिन्नश् चतुर्धा विपर्ययाशक्तितुष्टिसिद्ध्याख्यः | तस्य चतुर्विधप्रत्ययसर्गस्य गुणवैषम्यविमर्देन पञ्चाशत् भेदा भवन्ति | सत्त्वरजस्तमांसि त्रयो गुणास् तेषां वैषम्यं तद्विमर्देन | यदा सत्त्वम् उद्रिक्तं तदा रजस्तमसी गौणे | यथादित्योदयान् नक्षत्रतेजसो गौणत्वम् | एवं यदा रजसा सत्त्वतमसी, तमसा सत्त्वरजसी गौणे तदा तद्विमर्दो भवति | तेन विमर्देन तस्य चतुर्विधस्य प्रत्ययसर्गस्य पञ्चाशद् भेदा भवन्ति // Sक्Mव्_४६ //
SK
तान् आह ---
SK
पञ्च विपर्ययभेदा भवन्त्य् अशक्तेश् च करणवैकल्यात् / अष्टाविंशतिभेदा तुष्टिर् नवधाष्टधा सिद्धिः // ISक्_४७ //
SK
सुगमम् // Sक्Mव्_४७ //
SK
विपर्ययस्य च तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्र इति पञ्च भेदाः | तेषां भेदान्तराण्य् आह ---
SK
भेदस् तमसो ऽष्टविधो मोहस्य च दशविधो महामोहः / तामिस्रो ऽष्टादशधा तथा भवत्य् अन्धतामिस्रः // ISक्_४८ //
SK
तमसस् तqअवद् अष्टविधा प्रकृतिः | तद्वस्तु मलयतीति तमः | तस्य परम् अष्टासु प्रकृतिषु लयो भवति | तद् यथा प्रधानं बुद्धिर् अहङ्कारः पञ्चतन्मात्राणीत्य् एतेषु | तत्र लीनम् आत्मानं मुक्तो ऽहम् इति मन्यते | स च तस्य विपर्ययः | एवं तमसो ऽष्टधा भेदः | मोहस्य च अष्टविध एवेत्य् अर्थः | यत्तदणिमाद्यष्टविधम् ऐश्वर्यम् उक्तं तस्मिन् सक्ता ब्रह्मादयो देवता न मोक्षपदम् इच्छन्ति | तस्यैश्वर्यस्य शुभकर्मणोपात्तस्य क्षये पुनः संसरन्ति | अयम् अष्टविधो मोहस्यापि भेदः | महामोहस्य दशविधो भेदः | देवानां शब्दादयः पञ्चतन्मात्राख्या विषया अविशेषाः केवलानन्दरूपा निरुपाधिदुग्धवच् छान्तादिसञ्जातसुखादिविरहिता ये भवन्ति स्वर्गप्राप्तौ | एवं मनुष्याणां भौतिकशरीरतया सुखदुःखमोहसम्पन्नाः शान्तघोरमूढा भवन्तीत्य् एष दशविधो महामोहः | तद् एतेषु दशसु ब्रह्मेन्द्रादयो देवा मनुष्याश्(प्.४७) च तिर्यग्योन्यासक्ताश् च दृश्यन्ते | तेन हि विषयेभ्यः परम् अस्तीति मूढविज्ञानास् तदासक्त्या गुणपुरुषान्तरोपलब्धिरूपं नित्यनिरतिशयसुखाभिव्यक्तये ज्ञानावबोधं न कुर्वन्तीत्य् एष महामोहः | तेनामी ते मुक्तिं न भजन्ते | तामिस्रो ऽष्टादशधेति | देवमनुष्याणां दश विषयाः प्राग् अभिहिता अविशेषसविशेषतया | अणिमाद्यैश्वर्यं चाष्टगुणम् एवम् अष्टादशधा भवति | तेभ्यः केनचिद् वैगुण्येनाप्राप्त्याभिहितस्य यः क्रोधः स तामिस्र इत्य् उच्यते | तथा अष्टादशधा चेत्य् अर्थः | अन्धतामिस्रो ऽपि भवति तत्सङ्ख्य एव | तथा एवम् अष्टादशधात्रापि | तेषु च मरणत्रासाद् दुःखम् उत्पद्यते | ऐश्वर्ये विद्यमान ऐश्वर्यं परित्यज्य मृत्युना ह्रियमाणस्य गच्छामीति सङ्कल्पयतो यस् त्रासः सो ऽन्धतामिस्र इत्य् उच्यते दश विषयानैश्वर्यं प्राप्यापि भोक्तुं न लभते ऽन्तराले ऽपि म्रियत इति यावत् | एवम् अमी विपर्ययस्य तमःप्रभृतयः पञ्च भेदा विभिद्यमाना द्विषष्टिभेदाः सञ्जाताः | अत ऊर्ध्वम् अशक्तेर् अष्टाविंशतिभेदान् वक्ष्यामः // Sक्Mव्_४८ //
SK
एकादशेन्द्रियवधाः सह बुद्धिवधैर् अशक्तिर् उद्दिष्टा / सप्तदश वधा बुद्धेर् विपर्ययात् तुष्टिसिद्धीनाम् // ISक्_४९ //
SK
एकादशेन्द्रियवधाः आन्ध्यबाधिर्यघ्रानपाकजडत्वकुष्ठत्वमूकत्वकुणित्वपङ्गुत्वगुदावर्तक्लैब्योन्मादा इत्य् एकादशेन्द्रियवधाः | इन्द्रियाणां स्वविषयग्रहणासामर्थ्यं वध इव वधः | यथेह लोके कश्चिद् देवदत्तो यज्ञदत्तम् आहूय अब्रवीत् --- भो दुःखितो ऽस्मि किं करवाणीति | स तेनोक्तः साङ्ख्यज्ञानाधिगमं कुरुष्व दुःखान्तमोक्षं प्राप्स्यसीति | एवम् उक्तो ऽसाव् आह --- नाहम् एतद् अभ्यासं कर्तुम् अलम् | बाधिर्यात् गुरुवचनं न शृणोमि, शुश्रूषायाम् असमर्थो ऽस्मि | आन्ध्यकुणित्वपङ्गुत्वादिदोषाश्रयत्वात् कुतो मम ज्ञानाधिगम इति | एवम् एवान्ध्यमूकत्वोन्मादाद इन्द्रियोपघाता विद्याग्रहणे असमर्था बोद्धव्याः | एवम् एते एकादशेन्द्रियवधा अशक्तिर् उच्यन्ते | किञ् च --- सह बुद्धिवधैर् इति | बुद्धेर् वधा बुद्धिवधास् तैः सह | के ते बुद्धिवधाः? सप्तदशसङ्ख्याः | ते च सप्तदशापि --- नव तुष्टिभेदा अष्टौ सिद्धयः | तन्निरूपणप्रस्तावे व्याख्यास्यामः // Sक्Mव्_४९ //
SK
(प्.४८)
SK
तत्र नवधा तुष्टिम् आह ---
SK
आध्यात्मिक्यश् चतस्रः प्रकृत्युपादानकालभाग्याख्याः / बाह्या विषयोपरमात् पञ्च नव च तुष्टयो ऽभिहिताः // ISक्_५० //
SK
आत्मन्य् अधिकृत्य प्रवर्तन्ते ताश् चतस्रस् तुष्टयः | प्रकृतितुष्टिर् उपादानतुष्टिः कालतुष्टिः भाग्यतुष्टिश् चेति | यथा कश्चित् प्रकृतिमात्रं वेत्ति, न तु जानीते सगुणागुणत्वनित्यानित्यत्वचेतनाचेतनत्वसर्वगतत्वधर्मान् अस्याः केवलं प्रकृत्यस्तित्वमात्रज्ञानेनाहं जानामीति तुष्टः प्रव्रजितस् तस्य नास्ति मोक्षः | एषा प्रकृतितुष्टिः | कश्चित् त्रिदण्डकुण्डिकाक्षमालाकृष्णाजिनोपादानमात्रेणैवाहं मुक्त इत्य् अभिमानी ब्रूते | तेन मम मोक्षो भावीति | एतावन्मात्रेण तुष्टो ज्ञानाधिगमे न प्रवर्तते | तस्यापि न मोक्ष इत्य् एषा उपादानतुष्टिः | कश्चिद् एवं ब्रूते कालेन स्वयं मोक्षो भावी किं तत्त्वविज्ञानेनेति | ज्ञाने प्रवृत्त्यैव तुष्टः | तस्यापि न मोक्ष इति कालतुष्टिः | कश्चिद् एव महाभाग्येनैव मुक्तो भवति | तस्माज् ज्ञानम् असाधकं मुक्तेः स्याद् इति तावता तुष्टः तस्य न मोक्ष एषा भाग्यतुष्टिः | एवम् एता आत्मन्य् अधिकृत्य जायन्ते इत्य् आध्यात्मिक्यश् चतस्रस् तुष्टयः | बाह्यास् तु पञ्च तुष्टयः | पञ्चानां विषयाणाम् उपरमाद् भवन्ति, अर्जनरक्षणक्षयातृप्तिहिंसादोषान् भावयतः पञ्च | एवम् उभयत्र नव तुष्टयः | तत्रार्जनं नाम विषयाणां तदर्थं कृषिपाशुपाल्यादिव्यवसायदुःखम् अवधार्य तेभ्य एवोपरतस् तुष्टिं लभते | एषा पञ्चमी तुष्टिः | अर्जितानाम् अपि राजचौरादिभ्यो दुःखं विषयाणां रक्षणं कर्तुं तस्मान् न विषयैः कार्यम् इत्य् उपरतस् तुष्टिं लभते, सा षष्ठी तुष्टिः | रक्षणे ऽपि कृत उपभुज्यमानास् ते क्षीयन्त इति न तैः कार्यम् इत्य् उपरतस् तुष्टिं लभते, एषा सप्तमी | तथार्जनक्षयादिप्रतीकारैर् अपि कृतैर् नास्तीतीन्द्रियाणां वैतृष्ण्यम्, तस्मान् न तैः कार्यम् इत्य् उपरतस्याष्टमी तुष्टिः | प्रोक्तानां प्रतीकारे कृते ऽप्य् अर्जनादिप्रवृत्तेन हिंसाम् अन्तरेण भूतोपरोधं विनामी न प्राप्यन्ते तस्मान् न तैः कार्यम् इत्य् उपरतः तुष्टिं लभते | एषा नवामी तुष्टिः | एवम् एताः पञ्च बाह्यास् तुष्टयः | उभयं नव भवन्ति | (एवम् एताभिस् तुष्टिभिर् ज्ञानं विना मोक्षो ऽस्तीति केवलेन वैराग्येण तुष्टः |) आसां नवानाम् अपि तुष्टीनां ग्रन्थान्तरे संज्ञान्तराणि | तद् यथा --- (प्.४९) अम्भः सलिलम् ओघो वृष्टिः तारं सुतारं सुनेत्रं सुमरीचम् उत्तमाम्भसिकम् इति | आसां विपरीता अतुष्टयो ऽनम्भ इत्याद्याः | एवं तुष्ट्यतुष्टयो व्याख्याताः // Sक्Mव्_५० //
SK
इदानीं सिद्धयो व्याख्यायन्ते ---
SK
ऊहः शब्दो ऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः / दानं च सिद्धयो ऽष्टौ सिद्धेः पूर्वो ऽङ्कुशस् त्रिविधः // ISक्_५१ //
SK
तत्र ऊहो नाम यथा कश्चिच् चिन्तयति, किं परं याथात्म्यम्, किं निःश्रेयसम्, किं कृत्वा सुखं प्राप्यते | एवम् अस्य चिन्तयतो ज्ञानम् उत्पद्यते स्वतः शास्त्रतो गुरुतो वा | यत् प्रधानबुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतान्य् अन्यानि, अहम् अन्य इति ततो मोक्षं गच्छति | एषा ऊहसिद्धिः प्रथमा | चौरसाधुतदनुगामिस्वामिपथिकसंयोगादिवत् | प्रकृतिपुरुषशिष्यगुरुक्रमज्ञानम् | तद् यथा ग्रामम् आच्छिद्य चौरा यान्ति | तत्सार्थमध्ये साधुर् एको गच्छति | तदनुगामी च स्वामी | चतुर्थः पथिकस् तदभिज्ञः | पथिकचौरमध्ये साधुर् अपि चौरगुणास्पृष्टो ऽपि तदनुगामिना चौरतया प्रतीतस् तादृग्गणनायां (प्रतीतः) तदभिज्ञेन पथिकेन स्वामी सम्बोधितो यद् अहं सर्वं जानामि, अमी चौरा अयं साधुर् एव तत्सार्थानुवर्तीति | एवं चौरस्थानीयो बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतसमवायः, साधुस्थानीयश् च पुरुषः, तदनुगामिस्थानीयः शिष्यो, भेदेन बोध्याः | पथिकस्थानीयो गुरुः | तस्माज् ज्ञानं प्रतीकत्रयेणैवावगम्यते --- गुरुतः शास्त्रतः, स्वत इत्य् ऊहसिद्धिः प्रथमोक्ता | शब्दो नाम यथा कस्यचित् पठतः (तम् अस्य जनं) शब्दं श्रुत्वान्यत् प्रधानम् अन्यो ऽहम् इति तन्मार्गप्रवृत्तिप्रबुद्धो मोक्षं गच्छति | एवम् एषा द्वितीया सिद्धिः शब्दत उत्पन्ना | कश्चिद् गुरूपासनया ततो ऽधीत्यावगम्य सकलं ज्ञानम् आप्नोति, तृतीयाध्ययनसिद्धिः साङ्ख्यज्ञानम् अधीत्य सञ्जाता | एवम् एतास् तिस्रः सिद्धयः | शेषा व्याख्यायन्ते | दुःखविघातत्रयम् इति | यथा कश्चिद् आदाव् अभिहिताध्यात्मिकादिदुःखत्रयेणाभिभूतो ऽस्य प्रतीकारायोहं शब्दम् अध्ययनं वा प्रतिपद्य ज्ञानम् अधिगम्य मोक्षं यातीति दुःखविघाताय यत्रोहादित्रयम् अधिकुरुते तद् अपि सिद्धित्रयम् | एवं षट् सिद्धयः | कश्चिद् दुर्मेधा गुरोः सकाशान् नावधारयति | तत् केनचित् प्रत्युपकारानपेक्षेण सुहृदा तस्मात् संसारकूपाद् उज्जिहीर्षुणा तदनुकूलतया कृपावता सुगमवचोभिर् वैराग्यपूर्वकं गुणपुरुषान्तरोपलब्धिरूपं साङ्ख्यज्ञानम् उपदिशता समुद्धृतम् आलोक्याह, (प्.५०) भगवान् शास्त्रकारः --- सुहृत्प्राप्तिर् इति | ते हि सुहृदस् तथोपदिशन्ति सुहृत्तया यथा पाषाणो ऽप्य् अवबुध्यते | उक्तं च ---
SK
᳚एषा आतुरचित्तानां मात्रास्पर्शेच्छया विभुः / भवसिन्धुप्लवो दृष्टो यद् आचार्यानुवर्तनम्᳚ //
SK
(भागवतपुराण १ |६ |३५)
SK
एषा सप्तमी सिद्धिः | कश्चिद् आवाहनसंवाहनभिक्षापात्रवस्त्रच्छत्रकमण्डलुप्रभृतिदानेन गुरून् आराध्य साङ्ख्यम् अधिगम्य मोक्षं गच्छतीत्य् एषाष्टमी सिद्धिर् दानादिभिर् उपायैर् निष्पन्ना | आसाम् अष्टानां पूर्ववन्नामान्तराणि | तारं सुतारं तारतारं प्रमोदं प्रमुदितं मोहनं रम्यकं सदाप्रमुदितम् इति | विपरीता असिद्धयः | तद् यथा अतारम् इत्याद्याः | ततश् च एकादशेन्द्रियवधाः, नवानां तुष्टीनां विपर्ययाः प्रकृत्युपादानकालभाग्याख्यानां पञ्चविषयोपरमतुष्टीनां च | अष्टानां सिद्धीनां विपर्यया अनूहादयः | सप्तदश वधा बुद्धेर् एवम् एकादश सप्तदश चाष्टाविंशतिभेदा अशक्तेर् अभिधीयन्ते | एवं विपर्ययाशक्तितुष्टिसिद्धीनाम् उद्देशः कृत इति वाक्यशेषः | सिद्धेः पूर्वो ऽङ्कुशस् त्रिविधः | या ऊहाद्याष्टधा सिद्धिस् तस्या पूर्वो विपर्ययाशक्तितुष्टिरूपो ऽङ्कुशो नियामकः | त्रिविधस् त्रिप्रकार इत्य् अर्थः | यथाङ्कुशेन गृहीतो गजो वश्यो भवति | एवं विपर्ययाशक्तितुष्टिरूपं त्रिविधं प्रत्ययसर्गं हित्वा सिद्धिः संसेव्या, सिद्धेस् तत्त्वज्ञानं, तस्माच् च मोक्ष इति तात्पर्यम् // Sक्Mव्_५१ //
SK
अत्राह --- भगवता उक्तं पूर्वस्याम् आर्यायां भावैर् अधिवासितं लिङ्गं संसरति | तत्र किं लिङ्गं पूर्वोत्पन्नम् आहोस्वित् भावा इत्य् अत्रोच्यते --- लिङ्गं तावत् सूक्ष्मं तान्मात्रिकं शरीरम् अनादिकालोत्पन्नं त्रयोदशविधेन करणेन संयुक्तं भावैर् अधिवासितं संसरति | करणानि बुद्ध्यहङ्कारमनोबुद्धिकर्माख्यानि त्रयोदश | एवं त्रयोदशविधकरणम् आश्रित्य सूक्ष्मशरीरं तान्मात्रिकं संसरति | शरीरं करणानि चैतल्लिङ्गम् इत्य् अत्रोच्यते | भावैर् अधिवासितम् इति भावा धर्मज्ञानवैराग्यैश्वर्याणि चत्वारः सात्त्विकाः | विपरीतास् तामसाः | एवम् अष्टौ भावाः | तत्र सन्देहः | किं लिङ्गं पूर्वोत्पन्नम्, उतस्विद् भावा इति | उच्यते ---
SK
न विना भावैर् लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः /
SK
(प्.५१) लिङ्गाख्यो भावाख्यस् तस्माद् भवति द्विधा सर्गः // ISक्_५२ //
SK
लिङ्गेन विना भावो न भवति भावैश् च विना लिङ्गं न भवति | यथाग्निना विना नोष्णत्वम् उष्णत्वं विना नाग्निः | एवम् एतयोर् लिङ्गभावयोर् युगपदुत्पत्तिः, गोविषाणवत्, कुमारीस्तनवत् | यत्र लिङ्गं तत्र भावा यत्र भावास् तत्र लिङ्गम् | तस्माद् उच्यते --- लिङ्गाख्यो भावाख्यः | लिङ्गेन आख्यायते स लिङ्गाख्यः | भावैर् आख्यायत इति भावाख्यः | तस्माद् द्विधा सर्गो भवति जायते // Sक्Mव्_५२ //
SK
अत्राह --- किं द्विविध एव सर्गः किं तस्माद् अन्यस् तृतीयो ऽप्य् अस्ति इति | अत्रोच्यते ---
SK
अष्टविकल्पो दैवस् तैर्यग्योनश् च पञ्चधा भवति / मानुष्यश् चैकविधः समासतो भौतिकः सर्गः // ISक्_५३ //
SK
अष्टविकल्पो दैव इति | तद् यथा --- ब्राह्मं प्राजापत्यम् ऐन्द्रं पैत्रं गान्धर्वं याक्षं राक्षसं पैशाचम् इत्य् एवम् अष्टविधो देवसर्गः | तैर्यग्योनश् च पञ्चधा भवति | अत्र तुल्यलिङ्गत्वाद् भवति पशुपक्षिमृगसरीसृपस्थावरान्तश् चेति | मानुष्य एकविधस् तुल्यलिङ्गत्वाद् ब्राह्मणाअदिचाण्डालान्तः | समासतः सङ्क्षेपेण त्रिविधो ऽयं भूतमयः सर्गः | एवं चतुर्दशविधः // Sक्Mव्_५३ //
SK
अत्राह --- एतेषु त्रिषु स्थानेषु कतरो गुण उत्कटत्वेन वर्तते ---
SK
ऊर्ध्वं सत्त्वविशालस् तमोविशालश् च मूलतः सर्गः / मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः // ISक्_५४ //
SK
ऊर्ध्वं सत्त्वविशाल इति | ब्रह्मादिपिशाचान्तो यो ऽष्टविधः सर्गः | असौ सत्त्वबहुलः | यस्मात् तेषु सत्त्वम् उत्कटत्वेन वर्तते | तत्रापि रजस्तमसी स्तः किं तु सत्त्वस्योद्रिक्तता | तस्मात् सुखप्राया देवाः | तमोविशालश् च मूलतः | पश्वादिषु तमस उद्रेकात् पश्वादिस्थावरपर्यन्तो यस्मात् तेषु तम उत्कटत्वेन वर्तते तत्रापि गौणतया सत्त्वरजसी स्तः | तस्मात् ते तमोबहुलाः | मध्ये रजोविशालः | तत्रापि सत्त्वतमसी स्तः | किं तु रज उत्कटत्वेन वर्तते | तस्मात् ते दुःखप्राया मनुष्याः | ब्रह्मादिस्तम्बपर्यन्तः | चतुर्विध एष स्वेदजाण्डजादिना भूतसर्गः // Sक्Mव्_५४ //
SK
(प्.५२)
SK
अत्राह --- भूतसर्ग उत्पन्नो भावसर्गः सम्पन्नो लिङ्गसर्गः सम्पन्न इति यत्र सर्गाः प्राधानिका इति प्रधानकार्यं समाप्तम् इति | उत्पन्नास् त्रयो लोकाः प्रधानं चोपरतम् उत्पाद्य लोकान् इति तेषु देवमनुष्यतिर्यग्योनिगतेषु दुःखं को ऽनुभवति | किं चतुर्विंशतितमं प्रधानम्, आहोस्वित् महदादित्रयोविंशतिकम्, उतस्वित् पुरुष इति? अत्रोच्यते ---
SK
अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः / लिङ्गस्याविनिवृत्तेस् तस्माद् दुःखं समासेन // ISक्_५५ //
SK
अत्र त्रिषु लोकेष्व् इति | देवलोके, मनुष्यलोके, तिर्यग्योनौ च जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः | तत्र जराकृतं वलीपलितैर् अभिभूतः कासश्वासैः परिगृहीतो यष्टिविष्टम्भगामी पुत्रस्नुषाद्यभिभूतो यद् दुःखम् अनुभवति तज् जराकृतम् | मरणकृतम् इति | अष्टविधम् ऐश्वर्यम् अस्ति यत् प्राग् अभिहितम् अणिमादि, दश विषयाः सन्ति | देवानां पञ्चाविशेषाः केवलसुखरूपाः | मनुष्याणां सविशेषास् त एव शब्दादयः सुखदुःखमोहसम्पन्नाः | तन्मरणपातावस्थायां यद् दुःखम् उत्पद्यते तन् मरणकृतम् इत्य् एव | एवम् एतैर् दुःखैर् अन्तकाले च जनितदुःखानि सर्वाणि प्राप्नोति चेतनः पुरुष एव प्रधानादीनाम् अचेतनत्वात् | तस्मात् तस्यैव विज्ञानितया दुःखं न तु जडानां प्रधानादीनाम् | तर्हि कियन्तं कालं पुरुषो दुःखम् आप्नोति | अत्रोच्यते --- लिङ्गस्याविनिवृत्तेः | यावन् महदादिलिङ्गं न निवर्तते तावत् कालं पुरुषो दुःखभोक्ता | तस्माद् दुःखं समासेन --- सङ्क्षेपेण प्राप्नोति चेतनः पुरुषः | यदा तु तत् प्रतिनिवर्तते महदादिलिङ्गं ज्ञानोत्पत्त्या ततो मोक्षं प्राप्नोति | मोक्षं गतस्य दुःखं नास्ति | ज्ञानेन हि लिङ्गं निवर्तते | यदा प्रत्येकं प्रधानमहदहन्तन्मात्रेन्द्रियभूतान्य् अन्यानि अहम् अन्य इति ज्ञानं तदा लिङ्गाभावः // Sक्Mव्_५५ //
SK
प्रकृतेः किं निमित्तम् आरभ्य इत्य् अत्रोच्यते ---
SK
इत्य् एष प्रकृतिकृतो महदादिविषयभूतपर्यन्तः / प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः // ISक्_५६ //
SK
(प्.५३)
SK
इत्य् एष प्रकृतिकृत इति | एवमादिर् यः पूर्वम् उपवर्णितो लिङ्गसर्गो महदादिभूतपर्यन्तः, एष प्रकृतिकृत इति | अत्राह --- एवं लिङ्गसर्गः प्रधानेन किमर्थं कृत इति? अत्रोच्यते --- प्रतिपुरुषविमोक्षार्थम् | पुरुषं पुरुषं प्रति विमोक्षस् तदर्थं प्रतिपुरुषविमोक्षार्थम् | देवलोकगतानाम्, मनुष्यलोकगतानाम्, तिर्यग्योनिगतानां च मोक्षार्थम् इत्य् अर्थः | स्वार्थ इव परार्थ आरम्भः | स्वकीयो ऽर्थः स्वार्थः | इवोपमायाम् | यथा कश्चित् स्वार्थम् इव मित्रार्थं करोति तथा स्वार्थम् इव प्रधानं पुरुषार्थं करोति | स चार्थो द्विविधः | शब्दाद्युपलब्धिर् आदिर् गुणपुरुषान्तरोपलब्धिर् अन्तश् च | त्रिषु लोकेषु शब्दादिविषयैः पुरुषं योजयति | अन्ते च गुणपुरुषान्तरोपलब्ध्या मोक्षं कुरुते // Sक्Mव्_५६ //
SK
अत्राह --- उक्तं भगवता प्रधानं स्वार्थम् इव परार्थम् आरभते | अथ च त्वया प्रधानम् अचेतनम् उक्तं तत् कथं प्रवर्तते | अचेतनानाम् अपि प्रवृत्तिर् दृष्टा, निवृत्तिश् च |
SK
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिर् अज्ञस्य / पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य // ISक्_५७ //
SK
यथा तृणोदकं गवा भक्षितं पीतं च क्षीरभावेन परिणमति, वत्सवृद्धिं करोति, पुष्टे वत्से निवर्तते | एवं पुरुषविमोक्षनिमित्तं प्रधानस्याज्ञस्य प्रवृत्तिः // Sक्Mव्_५७ //
SK
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः / पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वद् अव्यक्तम् // ISक्_५८ //
SK
यथा लोक इष्टविषयौत्सुक्ये सति तस्य निवृत्त्यर्थं क्रियासु गमनागमनासु प्रवर्तते कृतकार्यो निवर्तते | तथाव्यक्तं पुरुषस्य विमोक्षार्थं शब्दादिभोगलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं द्विविधं पुरुषार्थं कृत्वा निवर्तते // Sक्Mव्_५८ //
SK
किञ् चान्यत् ---
SK
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् / पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः // ISक्_५९ //
SK
यथा नर्तकी शृङ्गारादिरसैर् हावभावैश् च निबद्धगीतवादित्रनृत्यानि रङ्गस्य दर्शयित्वा कृतकार्या नृत्यान् निवर्तते | एवं प्रकृतिर् महदहङ्कारतन्मात्रेन्द्रियभूतभावेन(प्.५४) देवमानुषतिर्यग्रूपासु योनिषु सुखदुःखमोहाकृतिः शान्तघोरमूढविषया सती आत्मानं पुरुषस्य प्रकाश्य निवर्तते | तस्यां च निवृत्तायाम् असौ केवलः पुरुषो दुःखत्रयं नानुभवति | यथा जलवाहकस्य घटाभावे तदाधेयस्योदकस्याभावः | तथा दुःखाभावः | ततो ऽसौ मोक्षं गच्छति // Sक्Mव्_५९ //
SK
अत्राह --- यथा नर्तकी नृत्यादिभिर् उपायैर् आत्मानं प्रकाश्य रङ्गाद् विनिवर्तते, एवं प्रकृतिः पुरुषस्य कैर् उपायैर् आत्मानं प्रकाश्य विनिवर्तते? अत्रोच्यते ---
SK
नानाविधैर् उपायैर् उपकारिण्य् अनुपकारिणः पुंसः / गुणवत्य् अगुणस्य सतस् तस्यार्थम् अपार्थकं चरति // ISक्_६० //
SK
नानाविधैर् उपायैः | शब्दस्पर्शादिभिर् उपकर्तुं शीलम् अस्याः सा तथोक्ता | अनुपकारिणः पुंसः | निष्क्रियत्वाद् इति यावत् | तस्योपकारिणी प्रकृतिस् तस्योपकृत्याहम् अन्या त्वम् अन्य इति निवर्तते (प्रकृतिः) | किं चान्यत् --- गुणवती | सा सत्त्वरजस्तमोमयी | अगुणस्य सतः | पुंसः निष्क्रियोदासीनामूर्तादिलक्षणवत्त्वात् | एवम् अस्य पुंसो ऽगुणस्यापि सतः (नित्यस्य) सेयं गुणवती अर्थम् अपार्थकं चरति | करोति | यथा कश्चिद् अनुरक्तो मित्रसुहृत्त्वम् अवलम्ब्य मित्रार्थम् अनुक्तम् अपि प्रत्युपकारम् अनपेक्ष्य कुरुते | एवं प्रधानं पुरुषस्य द्विविधम् अपि विषयोपलब्धिमोक्षात्मकम् अर्थं कुरुते | पुमान् पुनः प्रधानस्य किम् अपि न प्रत्युपकरोति | तत् प्रधानपुंसोः शिखिपिच्छवदेकपक्षचित्रन्यायः // Sक्Mव्_६० //
SK
निवृत्ता किं करोत्य् एतद् आह ---
SK
प्रकृतेः सुकुमारतरं न किञ्चिद् अस्तीति मे मतिर् भवति / या दृष्टास्मीति पुनर् न दर्शनम् उपैति पुरुषस्य // ISक्_६१ //
SK
प्रकृतिर् अपि प्रधानम् अपि कुरुते | यथेह स्नुषा व्रीडया स्वगृहान्तः प्रविशति अतो ब्रवीति इयं विशिष्टतरेति | एवम् इयं प्रकृतिः सुकुमारतरा | तस्मात् प्रकृतेः सुकुमारतरं नान्यद् अस्तीति | एवं पुरुषस्य परमात्मनो ऽपि मतिर् उत्पन्ना | नास्तीति मे मतिर् भवति | ममेति पुरुष आत्मानं ब्रवीति | तत्र सुकुमारतरत्वं वर्णयति ईश्वरः कारणम् इति केचिद् आचार्या ब्रवते | उक्तं च ---
SK
᳚अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत् स्वर्गं नरकम् एव वा᳚ //
SK
(महाभारत ३ |३१ |२७)(प्.५५)
SK
वेदवादिनः पुनर् इत्थं कारणम् आहुः | ᳚पुरुष एवेदं सर्वम्᳚(श्वेताश्वतरोपनिषद् ३ |१५) इत्य् अतः पुरुषं कारणम् आहुः | अपरे स्वभावम् आहुः | स्वभावः कारणम् इति | तथा हि ---
SK
᳚येन शुक्लीकृता हंसाः शुकाश् च हरितीकृताः / मयूराश् चित्रिता येन स नो वृत्तिं विधास्यति᳚ //
SK
(हितोपदेश १ |१८३)
SK
अत्र साङ्ख्या वदन्ति | ईश्वरः कारणं न भवति | कस्मात्, निर्गुणत्वात् | इमाः सगुणाः प्रजाः | सत्त्वरजस्तमांसि त्रयो गुणाः, ते च प्रजासु सन्ति | तांश् च गुणान् दृष्ट्वा साधयामः | प्रकृतेर् इमाः समुत्पन्नाः प्रजाः | यद् ईश्वरः कारणं स्यात् ततो निर्गुणाद् ईश्वरान् निर्गुणा एव प्रजाः स्युः | न चैवम् | तस्माद् ईश्वरः कारणं न भवति | एवं पुरुषो ऽपि द्रष्टव्यः | स्वभावो नाम न कश्चित् पदार्थो ऽस्ति | यतः प्रजानाम् उत्पत्तिसङ्गतिः स्यात् | तस्माद् यो ब्रूते स्वभावः कारणम् इति तन् मिथ्या | केचित् कालं कारणतया वर्णयन्ति ---
SK
᳚कालः सृजति भूतानि कालः संहरते प्रजाः / (महाभारत ३ |१३ |७० |५७) कालः सुप्तेषु जागर्ति तस्मात् कालस् तु कारणम्᳚ //
SK
तद् अपि साङ्ख्यो निराकुरुते | कालो नाम न कश्चित् पदार्थो ऽस्ति | व्यक्तम् अव्यक्तं पुरुष इति त्रय एव पदार्थाः | तत्र कालो ऽन्तर्भूतः | एवं प्रधानं हित्वा नास्त्य् अन्यत् कारणम् | तत्प्रधानावगमं प्रति यदा पुरुषस्य सम्यग्ज्ञानम् उत्पद्यते तदा तेन ज्ञानेन दृष्टा प्रकृतिः पुरुषसङ्गान् निवर्तते | स्वैरिणीव पुरुषेणोपलक्षिता | अये इयम् असाध्वी मां मोहयति, तस्मान् न ममानया कार्यम् इतिवत् | तस्यां च निवृत्तायां मोक्षं गच्छति | एवम् ईश्वरादीनि अकारणानि | सुकुमारतरम् इत्य् एतद् वाक्यशेषः कृतः | यस्मात् सुकुमारतरं प्रधानं तस्माद् उच्यते --- प्रकृतेः सुकुमारतरं न किञ्चिद् अस्तीति मे मतिर् भवति | इति मे पुरुषस्य | अत्राह --- सा दृष्टा पुरुषेण कथं निवर्तते प्रकृतिः | अत्रोच्यते --- या दृष्टास्मीति पुनर् न दर्शनम् उपैति पुरुषस्य | यथा काचित् कुलस्त्री साध्वी स्वगृहद्वारि स्थिता पुरुषेण सहसैवागतेन दृष्टा सहसैवं व्रीडमाना त्वरितं गृहं प्रविष्टा सा एवं मत्वा दृष्टाहम् अनेनेति न पुनर् दर्शनम् उपैति पुरुषस्य | एवं प्रकृतिः परमात्मना पुरुषेण ज्ञानचक्षुषा दृष्टा सव्रीडा कुलस्त्रीवन् न पुनर् दर्शनम् उपैति पुरुषस्य | तस्यां च निवृत्तायां पुरुषो मोक्षं गच्छति // Sक्Mव्_६१ //
SK
(प्.५६)
SK
अत्राह --- लोके शिष्टा वदन्ति पुरुषो बद्धः, पुरुषो मुक्तः, पुरुषः संसरति | अत्रोच्यते ---
SK
तस्मान् न बध्यते नापि मुच्यते नापि संसरति कश्चित् / संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः // ISक्_६२ //
SK
पुरुषो न बध्यते सर्वगतत्वात्, अविकारत्वात्, निष्क्रियत्वात्, अकर्तृत्वात् | यस्मान् न बध्यते तस्मान् न मुच्यते | मुक्त एव सः | अबद्धः कुतो मुच्यते | कस्याभुक्तेन विसूची भवति | न संसरति सर्वगतत्वात् | सर्वगतस्य बन्धमोक्षौ कुतः | अनधिगतप्रापणार्थं संसरणम् इत्य् उपदिश्यते | तेन च सुनिपुणं सर्वं प्राप्तम् | पुरुषं न विदन्ति ये त एवं वदन्ति | पुरुषो बद्धः, पुरुषो मुक्तः, पुरुषः संसरति | अत्राह --- यदि पुंसो बन्धमोक्षसंसरणानि न स्युः तर्हि कस्य भवन्ति | तद् उच्यते --- संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः | प्रकृतिर् आत्मानं बध्नाति, मोचयति, संसरति च | यत् तत् सर्गादौ सूक्ष्मं शरीरं तान्मात्रिकं प्राग् उक्तं त्रयोदशविधेन करणेन संयुक्तं त्रिविधेन बन्धेन बद्धं संसरति | स च बन्धस् त्रिविधः पूर्वम् आख्यातः | तद् एव सूक्ष्मशरीरम् उत्पन्ने ज्ञाने त्रिधा बन्धान् मुच्यते | तस्मान् मुच्यते बध्यते संसरति नानाश्रया प्रकृतिः | नानाश्रया देवमनुष्यतिर्यक्शरीरभूतेत्य् अर्थः | एवं यत् प्रधानं तत् सूक्ष्मं शरीरं तत् प्रधानं प्रकृतिर् इत्य् अनर्थान्तरम् | तत्र यः पुंसो बन्धमोक्षसंसरणानि ब्रूते स मूढः // Sक्Mव्_६२ //
SK
अत्राह --- सा प्रकृतिः कैर् गुणैर् आत्मानं बन्धयति, कैर् वा मोचयतीति? अत्रोच्यते ---
SK
रूपैः सप्तभिर् एवं बध्नात्य् आत्मानम् आत्मना प्रकृतिः / सैव च पुरुषस्यार्थं प्रति विमोचयत्य् एकरूपेण // ISक्_६३ //
SK
सप्तभी रूपैर् इयम् एवं प्रकृतिर् धर्मादिभिर् विना ज्ञानम् आत्मनात्मानं बध्नाति | सैव च प्रकृतिः गुणपुरुषान्तरोपलब्धिरूपं प्रति, एकरूपेण ज्ञानेनात्मानं विमोचयति // Sक्Mव्_६३ //
SK
(प्.५७)
SK
कथम् तज् ज्ञानम् उत्पद्यते ---
SK
एवं तत्त्वाभ्यासान् नास्मि न मे नाहम् इत्य् अपरिशेषम् / अविपर्ययाद् विशुद्धं केवलम् उत्पद्यते ज्ञानम् // ISक्_६४ //
SK
एवम् इति | यथा, एतानि पञ्चविंशतितत्त्वानि पुरुषाद्यानि भूतपर्यन्तानि तेषाम् अभ्यासस् तत्त्वाभ्यासः | अभ्यासेनैव तत्त्वदर्शनम् | तस्माद् अभ्यासात् पुरुषस्य बुद्धिर् उत्पद्यते | नास्मि तत्त्वानि, न मे तत्त्वानि, नाहं तत्त्वानाम्, किं तु प्राधानिकान्य् एतानि | तस्माज् ज्ञानम् उत्पद्यत एवमादि | अपरिशेषं निरवशेषम् इत्य् अर्थः | किं चान्यत् (ज्ञानं यस्माद् आह) --- अविपर्ययात् | विपर्ययः संशयस् तद्विपरीतो ऽविपर्ययस् तस्माद् अविपर्ययाद् असंशयाद् यथाभूतार्थदर्शनाद् विशुद्धम् निरवद्यम् अव्यामिश्रं केवलं ज्ञानम् उत्पद्यते प्रादुर्भवति | किं ज्ञानम्? गुणपुरुषान्तरोपलब्धिरूपम् इत्य् अर्थः // Sक्Mव्_६४ //
SK
अत्राह --- तेन ज्ञानेन पुरुषः किं करोति | अत्रोच्यते ---
SK
तेन निवृत्तप्रसवाम् अर्थवशात् सप्तरूपविनिवृत्ताम् / प्रकृतिं पश्यति पुरुषः प्रेक्षकवद् अवस्थितः स्वस्थः // ISक्_६५ //
SK
यथा कश्चित् प्रेक्षको रङ्गस्थितो गीतवादित्रनृत्यादिभिर् वर्तमानां नर्तकीं स्वस्थो निर्विकल्पः पश्यति | एवं पुरुष आत्मकृतेन ज्ञानेन तासु तास्व् अवस्थासु वर्तमानां प्रकृतिं पश्यति --- इयं सा प्रकृतिर् या सर्वपुराणम् आत्मानं बध्नाति | प्रेक्षकवत् प्रेक्षकेण तुल्यः स्वस्थः स्वस्मिन् भावे स्थितः | किंभूतां प्रकृतिम्? निवृत्तप्रसवाम् | निवृत्तबुद्ध्यहङ्कारकार्याम् | अर्थवशात् सप्तरूपविनिवृत्ताम् | निर्वर्त्तितोभयपुरुषप्रयोजनवशाद् यैः सप्तभी रूपैर् धर्मादिभिर् आत्मानं बध्नाति तेभ्यो रूपेभ्यो विनिवृत्ताम् | यावज् ज्ञानचक्षुषा दृष्टा प्रकृतिः पुरुषेण तथा च पुमान् दृष्टः // Sक्Mव्_६५ //
SK
अत्राह --- ज्ञानचक्षुषा दृष्ट्वा प्रकृतिं पुरुषः किं करोति? अत्रोच्यते ---
SK
दृष्टा मयेत्य् उपेक्षक एको दृष्टाहम् इत्य् उपरतान्या /
SK
(प्.५८) सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्य // ISक्_६६ //
SK
यथेमां रङ्गगतां नर्तकीं सर्वास्व् अवस्थासु वर्तमानां दृष्ट्वा विरमति रङ्गात् प्रेक्षकः दृष्टा मयेत्य् उपेक्षक एकः केवलः शुद्धः पुरुषः | तथा प्रकृतिर् अपि --- ᳚अनेनाहं दृष्टा᳚ इति निवृत्ता | एका त्रैलोक्यस्यापि प्रधानकारणभूता न द्वितीया प्रकृतिर् अस्ति | नर्तक्य् अपि --- ᳚अहम् अनेन दृष्टा᳚ इत्य् उपरमते नृत्यात्, एवं पुरुषो ऽपि ᳚दृष्टा मयेयं ज्ञानचक्षुषा प्रकृतिः᳚ इति प्रेक्षकवद् उपरमते मोक्षं गच्छतीत्य् अर्थः | तथा प्रकृतिर् अपि दृष्टाहम् अनेनेति स्वव्यापाराद् उपरमत्य् एव | अत्राह --- पुंप्रकृत्योः सर्वगतत्वात् सर्वनिषेधो न शक्यते वक्तुम् | तद् अस्य संसारसर्गस्य विनिवृत्तिर् एव | तत् कथम् इदं साधनं समीचीनम् इति | अत्रोच्यते --- सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्येति | यद्य् अपि प्रधानपुरुषयोः सर्वगतयोः संयोगो भवत्य् एव | तस्मिंश् च सति सर्गसम्भवस् तथापि नासौ सर्गः स्यात् प्रयोजनाभावात् | यस्मात् प्रधानस्य पुरुषार्था प्रवृत्तिः | स च पुरुषार्थो द्विविधः | शब्दाद्युपलब्धिर् आदिर् गुणपुरुषान्तरोपलब्धिर् अन्तश् च | ब्रह्मादिस्थावरान्तेषु पुरुषः शब्दादिभिर् विषयैर् योजयितव्यः | अन्ते च गुणपुरुषान्तरोपलब्ध्या मोक्षयितव्यः | एवं पुरुषदर्शनार्थं सम्प्रयोगः कृतः | एवं प्रकृतिपुरुषयोस् तयोः शरीरोत्पत्तिर् नास्ति पुनः ऋणिकधारिणकवद् यथेह लोके ऋणिकधारिणकौ उत्तमाधमर्णौ देवदत्तयज्ञदत्तौ यो ऽस्मिन् ऋणं धारयति स उत्तमर्णस् तेनाधमर्णाक्तः --- ᳚ऋणं मे देही᳚ इति | ततस् तेन तद्दत्तम् | ततस् तौ कृतप्रयोजनौ परस्परम् अर्थेन सन्त्यक्ताव् अथ तयोर् भूयः संयोगो भवति | तथापि नार्थकृत्यं प्रयोजनाभावात् | यथा वा वृद्धसंयोगाद् अपत्यं न भवति, प्रयोजनाभावात् | तथा प्रधानपुरुषयोः कृतप्रयोजनयोः प्रयोजनं नास्तीति सिद्धम् // Sक्Mव्_६६ //
SK
किञ् चान्यत्, यदि पुरुषस्योत्पन्ने ज्ञाने मोक्षस् तर्हि मम कस्मान् न भवति | अत उच्यते ---
SK
सम्यग्ज्ञानाधिगमाद् धर्मादीनाम् अकारणप्राप्तौ / तिष्ठति संस्कारवशाच् चक्रभ्रमवद् धृतशरीरः // ISक्_६७ //
SK
यदा पुरुषेण पञ्चविंशतितत्त्वज्ञानम् अधिगतं भवति तदा धर्मादीन्य् अकारणानि प्राप्तानि पुनर्जन्मसमर्थानि न भवन्ति | को दृष्टान्तः --- यथेह (प्.८९) लोके बीजान्य् अग्निदग्धानि न प्ररोहसमर्थानि भवन्ति | धर्मो येषाम् आदिस् तानि धर्मादीनि तेषाम् अकारणानां प्राप्तिर् अकारणप्राप्तिः | तथा सत्यां पुनर्जन्म न भवति | अत्राह --- यदि सम्यग्ज्ञानान् मोक्षो भवति तत्राचार्यस्योपदेष्टुः सम्यग्ज्ञानम् उत्पन्नं किमर्थं मोक्षं न गतो ऽस्ति, अथ वा त्वत्प्रसादात् तज्ज्ञानं ममापि सञ्जातं किम् अहं मोक्षं न गच्छामि | अत्रोच्यते --- तिष्ठति संस्कारवशात् | संस्कारो नाम धर्माधर्मौ निमित्तं कृत्वा शरीरोत्पत्तिर् भवति तिर्यङ्मनुष्यदेवादिषु | तस्य संस्कारेण ग्रहणम् | स च संस्कारः फलम् अदत्त्वा क्षयं न गच्छति, उत्पन्नज्ञानस्यापि तस्माद् इदं शरीरं विनाशं यास्यति | तन्निमित्ताभावाद् इदं शरीरं पतिष्यति | यथा च विद्वान् मोक्षं यास्यति | तस्मात् हेतोर् उत्पन्नज्ञानस्यापि धर्माधर्मवशात् तिष्ठति शरीरम् | को दृष्टान्तः? अत्रोच्यते --- चक्रभ्रमवद् धृतशरीरः | यथा कुलालश् चक्रं भ्रमयति घटं करिष्यामीति | स कुलालो घटं कृत्वा यथा स्वस्थो भवति, अवतिष्ठते | यस्मिंश् चावतिष्ठमाने चक्रं भ्रमत्य् एव | संस्कारवशात् --- कर्मवशाद् इत्य् अर्थः | एवम् एव पूर्वकृतयोर् धर्माधर्मयोर् बलवत्त्वाद् दुर्बलत्वाज् ज्ञानस्य, उत्पन्ने ऽपि ज्ञाने विद्वांस् तिष्ठति संस्कारवशाच् चक्रभ्रमवद् धृतशरीरः // Sक्Mव्_६७ //
SK
अत्राह --- उत्पन्नज्ञानः फलनिरपेक्षं कर्म निर्बीजं कुर्वन् न देहम् आरभते, आरब्धफलं यावत् जन्मदायि ᳚नाभुक्तं क्षीयते कर्म᳚ ᳚अवश्यम् एव भोक्तव्यं कृतम्᳚ इति क्षपयन्, अनारब्धफलेषु ᳚यथैधांसि समिद्धो ऽग्निः(भगवद्गीता ४ |३७)᳚ इति परिहारेण भस्मीकरणम् | एवं कर्मणां ध्वंसे, उत्पन्ने ज्ञाने ऽपि कदा विद्वान् मोक्षं गच्छतीति? अत्रोच्यते ---
SK
प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ / ऐकान्तिकम् आत्यन्तिकम् उभयं कैवल्यम् आप्नोति // ISक्_६८ //
SK
तद् एवं सति शरीरभेदे देहनाशे प्राप्त आयात इत्य् अर्थः | चरितार्थत्वात् | स चार्थो द्विविधः (शाब्दात्मिकः) पूर्वम् उक्तः | तस्यार्थस्य चरितार्थत्वात् कृत्वेत्य् अर्थः | प्रधानविनिवृत्तौ | यदा पूर्वकृतयोर् धर्माधर्मयोः क्षयो भवति तदा शरीरं भिद्यते | तस्मिंश् च शरीरे भिन्ने पूर्वोक्तेन ज्ञानेन शरीरं प्रधानाख्यं कारणम् अविशेषमयं तान्मात्रिकं सर्गादाव् उत्पन्नं तन् निवर्तते | इह शरीरे यत् पार्थिवं तत् प्र्थिवीं प्रविशति | एवम् अन्यद् अन्येषु प्रविशति | एवं स्थूलं शरीरं पञ्चधा भिद्यते | प्रधानं च कृतप्रयोजनं भूयो ऽन्यत्(प्.६०) शरीरं द्वितीयं नारभते विदुषः | एवम् अयं विद्वान् तस्मिन् शरीरे भिन्ने --- ऐकान्तिकम् आत्यन्तिकम् उभयं कैवल्यम् आप्नोति | ऐकान्तिकम् अवश्यम्भावित्वाद् आत्यन्तिकम् अपुनरावृत्तित्वात् सर्वथेत्य् अर्थः | न त्व् औषधादिवत् कादाचित्करोगनिवृत्तिवत् | न च निवृत्ते रोगे पुनः सम्भवेद् इत्य् उभयोदाहरणम् ऐकान्तिकात्यन्तिकयोः | इत्थम् एकान्तात्यन्तस् तापत्रयस्याभावाद् उपरमाद् अनुत्पत्तेः कैवल्यं मोक्ष इत्य् अर्थः | तम् आप्नोति // Sक्Mव्_६८ //
SK
अत्राह --- किंप्रयोजनम् इदं ज्ञानम् उच्यते | अत्रोच्यते ---
SK
पुरुषार्थज्ञानम् इदं गुह्यं परमर्षिणा समाख्यातम् / स्थित्युत्पत्तिप्रलयाश् चिन्त्यन्ते यत्र भूतानाम् // ISक्_६९ //
SK
यश् चासौ पुरुषार्थो मोक्षस् तदर्थं पुरुषविमोक्षार्थं ज्ञानम् इदम् इति | यद् एतत् पूर्ववर्णितं ज्ञानं एतद् गुह्यं दुर्विज्ञेयम् इत्य् अर्थः | परमर्षिणा कपिलेन समाख्यातं कथितम् इत्य् अर्थः | अत्राह --- अस्मिन् ज्ञाने के ऽर्थाश् चिन्त्यन्ते | अत्रोच्यते --- स्थित्युत्पत्तिप्रलयाः तत्र देवादीनाम् अष्टौ स्थानानि भवन्ति | मानुष्यं चैकविधम्, भूलोके पञ्चविधं तैर्यग्योनम् | एषु स्थानेषु ब्रह्मादीनि तिर्यग्योनिपर्यन्तानि तिष्ठन्ति | एषा स्थितिः | उत्पत्तिं प्रादुर्भावं प्रधानान् महदहङ्कारतन्मात्रेन्द्रियमहाभूतानीत्य् उत्पत्तिः | एवं भूतोत्पत्तिर् भावोत्पत्तिश् च व्याख्याता | लयं वक्ष्यामः --- भूतानि तन्मात्रेषु लीयन्ते, तानीन्द्रियेषु, इन्द्रियाणि लीयन्ते चाहङ्कारे, स बुद्धौ, सा प्रधाने लयं गच्छति | प्रधानं तु क्वचिन् न लीयते ऽविकृतत्वात् | एवं प्रलयः // Sक्Mव्_६९ //
SK
अत्राह --- यद् एतद् भगवता व्याख्यातं पञ्चविंशतितत्त्वज्ञानम्, तस्य कुत आगम इति? अत्रोच्यते ---
SK
एतत् पवित्र्यम् अग्र्यं मुनिर् आसुरये ऽनुकम्पया प्रददौ / आसुरिर् अपि पञ्चशिखाय तेन च बहुलीकृतं तन्त्रम् // ISक्_७० //
SK
(प्.६१)
SK
एतत् विज्ञानम् अधिकुरुते | एतत् पवित्रं, कथं पवित्रम्? | यस्मान् नरकप्रेततिर्यग्योनिषु पतनात् त्रायते तस्मात् पवित्रम् | अग्र्यं श्रैष्ठ्यात् | वेदपुराणभारतम् अन्वादिभ्यो ऽपि धर्मशास्त्रेभ्य एतत् पञ्चविंशतितत्त्वज्ञानम् उत्तमम् | कस्मात्? ऐकान्तिकत्वात्, आत्यन्तिकत्वाच् च | अतो दुःखाभावश् च | मुनिर् भगवान् कपिलः आसुरिसगोत्राय ब्राह्मणाय वर्षसहस्रयाजिने ऽधिकारिताम् अवगम्य (अस्मै) प्रददौ | तदनुकम्पया तद्विमोक्षार्थम् | अन्धे तमस्य् अज्ञाने ऽयं तपस्वी वर्तत इत्य् उत्पन्नयानुकम्पया | मुनिर् मननात् | भगवान् भूतानां गतिम् आगतिं च विदन्न् अनति चलतीति भगवान् कपिलः | प्रत्युपकारानपेक्षसर्वोपकारी सुहृद् इत्य् अर्थम् अवलम्ब्योवाच | तद् एव ज्ञानं भूय आसुरिसगोत्रो ऽनुकम्पया पञ्चशिखाय प्रोवाच | पञ्चशिखेन तेन बहुधाकृतं तन्त्रम् | बहूनां शिष्याणां प्रदत्तम् // Sक्Mव्_७० //
SK
तन्त्रम् इति व्याख्यायते | ᳚तम एव खल्व् इदम् अग्र आसीत्᳚(मैत्र्युपनिषद् ५ |२) | तस्मिंस् तमसि क्षेत्रज्ञो ऽभिवर्तते प्रथमम् | तम इति उच्यते प्रकृतिः, पुरुषः क्षेत्रज्ञः | षष्टिपदार्था यस्मिन् शास्त्रे तन्त्र्यन्ते तत् षष्टितन्त्रम् | षष्टितन्त्रं ज्ञात्वा कुशलः किलेश्वरकृष्णनामा | तेन ईश्वरकृष्णेन विस्तरग्रन्थग्रहणभीरुणा हितार्थं षष्टितन्त्रम् अतिसङ्क्षिप्तम् | तद् आह ---
SK
शिष्यपरम्परयागतम् ईश्वरकृष्णेन चैतद् आर्याभिः / सङ्क्षिप्तम् आर्यमतिना सम्यग् विज्ञाय सिद्धान्तम् // ISक्_७१ //
SK
शिष्यपरम्परयागतम् इति | कपिलाद् आसुरिणा प्राप्तम् इदं ज्ञानम् | ततः पञ्चशिखेन, तस्माद् भार्गवोलूकवाल्मीकिहारीतदेवलप्रभृतीन् आगतम् | ततस् तेभ्य ईश्वरकृष्णेन प्राप्तम् | तद् एव षष्टितन्त्रम् आर्याभिः सङ्क्षिप्तम् आर्यमतिना विस्तीर्णमतिना सम्यग् विज्ञाय सिद्धान्तम् कार्यकारणसिद्धस्य शरीरस्यान्तो ऽपुनर्भावो मोक्षस् तस्य तादात्म्यम् इत्य् अर्थः | ततिसिद्धस्य शरीरस्य सूक्ष्मस्य तान्मात्रिकस्य सर्गादिभवस्यान्तो मूर्तिनाश इति वा | एष षष्टितन्त्र इति तात्पर्यम् // Sक्Mव्_७१ //
SK
सप्तत्यां किल यो ऽर्थास् ते ऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य / आख्यायिकाविरहिताः परवादविवर्जिताश् चेति // ISक्_७२ //
SK
(प्.६२)
SK
ये षष्टितन्त्रे पदार्था अभिहितास् ते सप्तत्यां व्याख्याताः कथिताः | षष्टित्भेदाः प्राग् व्याख्याताः | ᳚भेदस् तमसो ऽष्टविध᳚ इति आर्यायां ᳚पञ्च विपर्ययभेदा᳚ इत्य् अत्र चाभिहिता इत्य् एते पञ्चाशत् प्रत्ययाः इमे चान्ये दश मौलिकाः | तथा हि ---
SK
अस्तित्वम् एकत्वम् अथार्थवत्त्वं पारार्थ्यम् अन्यत्वम् अथो निवृत्तिः / योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः //
SK
तत्र ᳚भेदानां परिमाणात्᳚ इत्य् एतैः पञ्चभिर् हेतुभिः प्रधानास्तित्वम् एकत्वम् अर्थवत्त्वं च सिद्धम् | ᳚सङ्घातपरार्थत्वात्᳚ इति परार्थत्वम् उक्तम् | ᳚जन्ममरणकरणानाम्᳚ इति पुरुषबहुत्वं सिद्धम् | ᳚चक्रभ्रमवद् धृतशरीर᳚ इति स्थितिः सिद्धा, एते दश, ᳚पञ्च विपर्ययाः᳚ अष्टाविंशतिधा अशक्तिः, नवधा तुष्टिः अष्टधा सिद्धिर् इति पञ्चाशत् | उभयं मिलित्वा षष्टिपदार्थाः षष्टितन्त्रे | तन्त्र्यन्ते व्युत्पाद्यन्ते पदार्था इति तन्त्रम् | षष्टिपदार्थानां तन्त्रम् इति सङ्गतिः | आख्यायिकाविरहिताः परवादविवर्जिताश् चेति | परेण सह वादः परवादः तेन वर्जिताश् च | इति परिसमाप्तम् इति // Sक्Mव्_७२ //
SK
अत्राह --- कथम् एतद् अल्पग्रन्थं शास्त्रं कृत्स्नस्य वाचकं भविष्यति? अत्रोच्यते ---
SK
तस्मात् समासदृष्टं शास्त्रम् इदं नार्थतश् च परिहीनम् / तन्त्रस्य च बृहन्मूर्तेर् दर्पणसङ्क्रान्तम् इव बिम्बम् // ISक्_७३ //
SK
यस्मात् षष्टितन्त्रम् इति हेतुः | समासदृष्टं सङ्क्षेपतो ग्रन्थम् इत्य् अर्थः | शास्त्रम् इति | शास्यते येनोत्पथाद् इति शास्त्रम् | तीर्थोदकमहत्फलम् | कर्ता भोक्ता भोज्यं मोक्षश् चात्र चिन्त्यते | अथ दुःखानां शासनात् शास्त्रम् | इदम् --- इमां सप्ततिं दर्शयति | नार्थतश् च परिहीनम् | षष्टिपदार्थविचारणायाम्(प्.६३) अहीनम् इत्य् अर्थः | तन्त्रस्येति | यथा स्वल्पे ऽपि दर्पणे महतो रूपस्य निरूपणं स्यात् | एवम् अल्पशास्त्रे षष्टितन्त्रस्य कृत्स्नस्यापि व्यक्तिर् अभिहितेत्य् अर्थः // Sक्Mव्_७३ //
SK
इत्य् आचार्येश्वरकृष्णप्रोक्तायाः साङ्ख्यसप्तत्या वृत्तिर् आचार्यमाठरकृतिः समाप्ता | (प्.६४)

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśvarakṛṣṇa: Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti (sa_IzvarakRSNa-sAMkhyakArikA-comm.htm).

Source