The Tale of Dependent Origination

Pratītyasamutpādāvadāna · Pरतीत्यसमुत्पादावदान

The Tale of Dependent Origination

Pratītyasamutpādāvadāna

Pरतीत्यसमुत्पादावदान

SK
सर्वम् अविद्यामूलं संसारतरुप्रकारवैचित्र्यम् / ज्ञातुम् वक्तुं हन्तुं कः शक्तो ऽन्यत्र सर्वज्ञात् // KAव्क्_७५.१ //
SK
श्रावस्त्यां स्वस्तिमान् पूर्वं जिनो जेतवने स्थितः / अशेषदर्शी भगवान् भिक्षुसंघम् अभाषत // KAव्क्_७५.२ //
SK
शृणुत श्रेयसे ज्ञानालोकनिर्मलमानसाः / प्रतीत्यसमुत्पादं वः कथयामि यथाक्रमम् // KAव्क्_७५.३ //
SK
अविद्यावासनैवेयं दुःखस्कन्धस्य भूयसः / संसारविषवृक्षस्य मूलबन्धविधायिनी // KAव्क्_७५.४ //
SK
तत्प्रत्ययस् तु संस्काराः कायवाङ्मानसात्मकाः / संस्कारोत्थं च विज्ञानं मनःषष्ठेन्द्रियात्मकम्न् // KAव्क्_७५.५ //
SK
तत्प्रत्ययं नामरूपं संज्ञासंदर्शनाभिधम् / मनःषष्ठेन्द्रियस्थानं षडायतनम् अप्य् अतः // KAव्क्_७५.६ //
SK
षडायतनसंश्लेषः स्पर्श इत्य् अभिधीयते / षट्स्पर्शानुभवो यश् च वेदना सा प्रकीर्तिता // KAव्क्_७५.७ //
SK
तया विषयसंक्लेशरागात् तृष्णा प्रजायते / कामादिषु तदुद्भूतम् उपादानं प्रवर्तते // KAव्क्_७५.८ //
SK
उपादानोद्भवः कामरूपारूप्यमयो भवः / नानायोनिपरावृत्त्या जातिर् भवसमुद्भवा // KAव्क्_७५.९ //
SK
जरामरणशोकादिसंततिर् जातिसंश्रया / अविद्यादिनिरोधेन तेषां व्युपरमक्रमः // KAव्क्_७५.१० //
SK
प्रतीत्योत्पादो ऽयं बहुगतिर् अविद्याकृतपदः स चिन्त्यो युष्माभिर् विजनवनविश्रामशमिभिः / परिज्ञातः सम्यग् व्रजति किल कालेन तनुतां तनुत्वं संप्राप्तः सुखतरनिवार्यश् च भवति // KAव्क्_७५.११ //
SK
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां प्रतीत्यसमुत्पादावदानं पञ्चसप्ततितमः पल्लवः |

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kṣemendra: Pratītyasamutpādāvadāna (sa_kSemendra-pratItyasamutpAdAvadAna.htm).

Source