Rules of Logic

Nyāyasūtra · Nयायसूत्र

Rules of Logic

Nyāyasūtra

Nयायसूत्र

SK
(अथ प्रथमः अध्यायः) [अनुबन्धचतुष्टयप्रकरणम्]
SK
१.१.१: प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभास-च्छल-जाति-निग्रहस्थानानाम्तत्त्वज्ञानात् निःश्रेयसाधिगमः
SK
{पदार्थोद्देशसूत्रम्}
SK
१.१.२: दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरा पायात् अपवर्गः
SK
{पदार्थोद्देशसूत्रम्}
SK
[प्रमाणप्रकरणम्]
SK
१.१.३: प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि
SK
{प्रमाण-उद्देश-सूत्रम्}
SK
१.१.४: इन्द्रियार्थसन्निकर्षोत्पन्नम् ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम्
SK
{प्रत्यक्षलक्षणम्}
SK
१.१.५: अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च
SK
{अनुमानलक्षणम्}
SK
१.१.६: प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम्
SK
{उपमानलक्षणम्}
SK
१.१.७: आप्तोपदेशः शब्दः
SK
{शब्दलक्षणम्}
SK
१.१.८: सः द्विविधः दृष्टादृष्टार्थत्वात्
SK
{शब्दभेदः}
SK
[प्रमेयप्रकरणम्]
SK
१.१.९: आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्
SK
{प्रमेय-उद्देश-सूत्रम्}
SK
१.१.१०: इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गम् इति
SK
{आत्मलक्षणम्}
SK
१.१.११: चेष्टेन्द्रियार्थाश्रयः शरीरम्
SK
{शरीरलक्षणम्}
SK
१.१.१२: घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः
SK
{इन्द्रियलक्षणम्}
SK
१.१.१३: पृथिवी आपः तेजः वायुः आकाशम् इति भूतानि
SK
{भूतलक्षणम्}
SK
१.१.१४: गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः
SK
{अर्थ(विषय)लक्षणम्}
SK
१.१.१५: बुद्धिः उपलब्धिः ज्ञानम् इति अनर्थान्तरम्
SK
{बुद्धिलक्षणम्}
SK
१.१.१६: युगपत् ज्ञानानुत्पत्तिः मनसः लिङ्गम्
SK
{मनोलक्षणम्}
SK
१.१.१७: प्रवृत्तिः वाग्बुद्धिशरीरारम्भः
SK
{प्रवृत्तिलक्षणम्}
SK
१.१.१८: प्रवर्त्तनालक्षणाः दोषाः
SK
{दोषलक्षणम्}
SK
१.१.१९: पुनरुत्पत्तिः प्रेत्यभावः
SK
{प्रेत्यभावलक्षणम्}
SK
१.१.२०: प्रवृत्तिदोषजनितः अर्थः फलम्
SK
{फललक्षणम्}
SK
१.१.२१: बाधनालक्षणम् दुःखम्
SK
{दुःखलक्षणम्}
SK
१.१.२२: तदत्यन्तविमोक्षः अपवर्गः
SK
{अपवर्गलक्षणम्}
SK
[न्यायपूर्वाङ्गलक्षणप्रकरणम्]
SK
१.१.२३: समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः
SK
{संशयलक्षणम्}
SK
१.१.२४: यम् अर्थम् अधिकृत्य प्रवर्तते तत् प्रयोजनम्
SK
{प्रयोजनलक्षणम्}
SK
१.१.२५: लौकिकपरीक्षकाणां यस्मिन् अर्थे बुद्धिसाम्यम् सः दृष्टान्तः
SK
{दृष्टान्तलक्षणम्}
SK
[न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्]
SK
१.१.२६: तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः
SK
{अभ्युपगमसिद्धान्तलक्षणम्}
SK
१.१.२७: सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्
SK
{तन्त्रभेद-उद्देशसूत्रम्}
SK
१.१.२८: सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः
SK
{सर्वतन्त्रसिद्धान्त-लक्षणम्}
SK
१.१.२९: समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः
SK
{प्रतितन्त्रसिद्धान्त-लक्षणम्}
SK
१.१.३०: यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः
SK
{अधिकरणसिद्धान्त-लक्षणम्}
SK
१.१.३१: अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः
SK
{अभ्युपगमसिद्धान्त-लक्षणम्}
SK
[न्यायप्रकरणम्]
SK
१.१.३२: प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः
SK
{अवयव-उद्देशसूत्रम्}
SK
१.१.३३: साध्यनिर्देशः प्रतिज्ञा
SK
{प्रतिज्ञा-लक्षणम्}
SK
१.१.३४: उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः
SK
{हेतु-लक्षणम्}
SK
१.१.३५: तथा वैधर्म्यात्
SK
{हेतु-लक्षणम्}
SK
१.१.३६: साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम्
SK
{उदाहरण-लक्षणम्}
SK
१.१.३७: तद्विपर्ययात् वा विपरीतम्
SK
{उदाहरण-लक्षणम्}
SK
१.१.३८: उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः
SK
{उपनय-लक्षणम्}
SK
१.१.३९: हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनम् निगमनम्
SK
{निगमन-लक्षणम्}
SK
[न्यायोत्तराङ्गप्रकरणम्]
SK
१.१.४०: अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थम् उहः तर्कः
SK
{तर्क-लक्षणम्}
SK
१.१.४१: विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणम् निर्णयः
SK
{निर्णय-लक्षणम्}
SK
(इति न्यायसूत्रे प्रथमाध्यायस्य प्रथमम् आह्निकम्)
SK
(अथ द्वितीयम् आह्निकम्)
SK
[कथालक्षणप्रकरणम्]
SK
१.२.१: प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः
SK
{वाद-लक्षणम्}
SK
१.२.२: यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः
SK
{जल्प-लक्षणम्}
SK
१.२.३: सः प्रतिपक्षस्थापनाहीनः वितण्डा
SK
{वितण्डा-लक्षणम्}
SK
[हेत्वाभासप्रकरणम्]
SK
१.२.४: सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-कालातीताः हेत्वाभासाः
SK
{हेत्वाभास-उद्देश-सूत्रम्}
SK
१.२.५: अनैकान्तिकः सव्यभिचारः
SK
{सव्यभिचार-लक्षणम्}
SK
१.२.६: सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः
SK
{विरुद्ध-लक्षणम्}
SK
१.२.७: यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः
SK
{प्रकरणसम-लक्षणम्}
SK
१.२.८: साध्याविशिष्टः साध्यत्वात् साध्यसमः
SK
{साध्यसम-लक्षणम्}
SK
१.२.९: कालात्ययापदिष्टः कालातीतः
SK
{कालातीत-लक्षणम्}
SK
[छलप्रकरणम्]
SK
१.२.१०: वचनविघातः अर्थविकल्पोपपत्त्या छलम्
SK
{छल-लक्षणम्}
SK
१.२.११: तत् त्रिविधम् - वाक्छलम् सामान्यच्छलम् उपचारच्छलम् च इति
SK
{छल-भेद-उद्देश-सूत्रम्}
SK
१.२.१२: अविशेषाभिहिते अर्थे वक्तुः अभिप्रायात् अर्थान्तरकल्पना वाक्छलम्
SK
{वाक्छल-लक्षणम्}
SK
१.२.१३: सम्भवतः अर्थस्य अतिसामान्ययोगात् असम्भूतार्थकल्पना सामान्यच्छलम्
SK
{सामान्यच्छल-लक्षणम्}
SK
१.२.१४: धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम्
SK
{उपचारच्छल-लक्षणम्}
SK
१.२.१५: वाक्छलम् एव उपचारच्छलम् तत् अविशेषात्
SK
{उपचारच्छल-पूर्वपक्ष-लक्षणम्}
SK
१.२.१६: न तत् अर्थान्तरभावात्
SK
{उपचारच्छल-लक्षणम्}
SK
१.२.१७: अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः
SK
{उपचारच्छल-लक्षणम्}
SK
[लिङ्गदोषसामान्यप्रकरणम्]
SK
१.२.१८: साधर्म्यवैधर्म्याभ्याम् प्रत्यवस्थानं जातिः
SK
{जाति-लक्षणम्}
SK
१.२.१९: विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्
SK
{निग्रहस्थान-लक्षणम्}
SK
१.२.२०: तद्विकल्पात् जातिनिग्रहस्थानबहुत्वम्
SK
{निग्रहस्थानबहुत्व-सूत्रम्}
SK
(इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयम् आह्निकम्)
SK
(समाप्तः च अयम् प्रथमः अध्यायः)
SK
(अथ द्वितीयः अध्यायः)
SK
(प्रथमम् आह्निकम्) [संशयपरीक्षाप्रकरणम्] २.१.१: समानानेकधर्माध्यवसायात् अन्यतरधर्माध्यवसायात् वा न संशयः {संशय-} २.१.२: विप्रत्तिपत्त्यव्यवस्थाध्यवसायात् च {संशय-} २.१.३: विप्रत्तिपत्तौ च संप्रत्तिपत्तेः {संशय-} २.१.४: अव्यवस्था आत्मनि व्यवस्थितत्वात् च अव्यवस्थायाः {संशय-} २.१.५: तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः {संशय-} २.१.६: यथोक्ताध्यवसायात् एव तद्विशेषापेक्षात् संशये न असंशयः न अत्यन्तसंशयः वा {संशय-} २.१.७: यत्र संशयः तत्र एवम् उत्तरोत्तरप्रसङ्गः {संशय-} [प्रमाणसामान्यपरीक्षाप्रकरणम्] २.१.८: प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः {पूर्वपक्षसूत्रम्} २.१.९: पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः {पूर्वपक्षसूत्रम्} २.१.१०: पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः {पूर्वपक्षसूत्रम्} २.१.११: युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः बुद्धीनाम् {पूर्वपक्षसूत्रम्} २.१.१२: त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः {पूर्वपक्षसूत्रम्} २.१.१३: सर्वप्रमाणप्रतिषेधात् च प्रतिषेधानुपपत्तिः {पूर्वपक्षसूत्रम्} २.१.१४: तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः {पूर्वपक्षसूत्रम्} २.१.१५: त्रैकाल्याप्रतिषेधः च शब्दात् आतोद्यसिद्धिवत् तत्सिद्धेः {पूर्वपक्षसूत्रम्} २.१.१६: प्रमेया च तुलाप्रामाण्यवत् {पूर्वपक्षसूत्रम्} २.१.१७: प्रमाणतः सिद्धेः प्रमाणानाम् प्रमाणान्तरसिद्धिप्रसङ्गः {पूर्वपक्षसूत्रम्} २.१.१८: तद्विनिवृत्तेः वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः {पूर्वपक्षसूत्रम्} २.१.१९: न, प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः {सिद्धान्तलक्षणम्} २.१.२०: क्वचित् निवृत्तिदर्शनात् अनिवृत्तिदर्शनात् च क्वचित् अनेकान्तः {सिद्धान्तलक्षणम्} [प्रत्यक्षपरीक्षाप्रकरणाम्] २.१.२१: प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात् {प्रत्यक्षलक्षण-} {प्रत्यक्षलक्षणपरीक्षा} २.१.२२: न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः (दो) २.१.२३: दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः (दो) २.१.२४: ज्ञानलिङ्गत्वात् आत्मनः न अनवरोधः {प्रत्यक्षलक्षण-सिद्धान्त-सूत्रम्} २.१.२५: तदयौगपद्यलिङ्गत्वात् च न मनसः {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} २.१.२६: प्रत्यक्षनिमित्तत्वात् च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} २.१.२७: सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} २.१.२८: तैः च अपदेशः ज्ञानविशेषाणाम् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} २.१.२९: व्याहतत्वात् अहेतुः {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र} २.१.३०: न अर्थविशेषप्राबल्यात् {प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}
SK
[विषयपरीक्षा-प्रकरणाम्] २.१.३१: प्रत्यक्षम् अनुमानम् एकदेशग्रहणात् उपलब्धेः {पूर्वपक्ष-सूत्र} २.१.३२: न, प्रत्यक्षेण यावत् तावत् अपि उपलम्भात् {सिद्धान्त-सूत्र} २.१.३३: न चैकदेशोपलब्धिरवयविसद्भावात् {सिद्धान्त-सूत्र} [प्रसङ्गोपात्ता अवयविपरीक्षा] २.१.३४: साध्यत्वात् अवयविनि सन्देहः {पूर्वपक्ष-सूत्र} २.१.३५: सर्वाग्रहणम् अवयव्यसिद्धेः {सिद्धान्त-सूत्र} २.१.३६: धारणाकर्षणोपपत्तेः च {सिद्धान्त-सूत्र} २.१.३७: सेनावनवत् ग्रहणम् इति चेत् न अतीन्द्रियत्वात् अणूनाम् {सिद्धान्त-सूत्र}
SK
[अनुमानपरीक्षाप्रकरणम्]
SK
२.१.३८: रोधोपघातसादृश्येभ्यः व्यभिचारात् अनुमानम् अप्रमाणम् {पूर्वपक्ष-सूत्र} २.१.३९: न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात् {सिद्धान्त-सूत्र} {वर्तमानकालपरीक्षा} २.१.४०: वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः {पूर्वपक्ष-सूत्र} २.१.४१: तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात् {सिद्धान्त-सूत्र} २.१.४२: न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः {सिद्धान्त-सूत्र} २.१.४३: वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः {सिद्धान्त-सूत्र} २.१.४४: कृतताकर्त्तव्यतोपपत्तेः तु उभयथा ग्रहणम् {सिद्धान्त-सूत्र}
SK
[उपमानपरीक्षाप्रकरणम्] २.१.४५: अत्यन्तप्रायैकदेशसाधर्म्यात् उपमानासिद्धिः {सिद्धान्त-सूत्र} २.१.४६: प्रसिद्धसाधर्म्यात् उपमानसिद्धेः यथोक्तदोषानुपपत्तिः {पूर्वपक्ष-सूत्र} २.१.४७: प्रत्यक्षेण अप्रत्यक्षसिद्धेः {सिद्धान्त-सूत्र} २.१.४८: न अप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः {सिद्धान्त-सूत्र} २.१.४९: तथा इति उपसंहारात् उपमानसिद्धेः न अविशेषः {सिद्धान्त-सूत्र} [शब्दसामान्यपरीक्षाप्रकरणम्] २.१.५०: शब्दः अनुमानम् अर्थस्य अनुपलब्धेः अनुमेयत्वात् {पूर्वपक्ष-सूत्र} २.१.५१: उपलब्धेः अद्विप्रवृत्तित्वात् {पूर्वपक्ष-सूत्र} २.१.५२: सम्बन्धात् च {पूर्वपक्ष-सूत्र} २.१.५३: आप्तोपदेशसामर्थ्यात् शब्दात् अर्थसम्प्रत्ययः {सिद्धान्त-सूत्र} २.१.५४: पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः {सिद्धान्त-सूत्र} २.१.५५: शब्दार्थव्यवस्थानात् अप्रतिषेधः {सिद्धान्त-सूत्र} २.१.५६: न, सामयिकत्वात् शब्दार्थसम्प्रत्ययस्य {सिद्धान्त-सूत्र} २.१.५७: जातिविशेषे च अनियमात् {सिद्धान्त-सूत्र} [शब्दविशेषपरीक्षाप्रकरणम्] २.१.५८: तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः {सिद्धान्त-सूत्र} २.१.५९: न, कर्मकर्तृसाधनवैगुण्यात् {सिद्धान्त-सूत्र} २.१.६०: अभ्युपेत्य कालभेदे दोषवचनात् {सिद्धान्त-सूत्र} २.१.६१: अनुवादोपपत्तेः च {सिद्धान्त-सूत्र} २.१.६२: वाक्यविभागस्य च अर्थग्रहणात् {सिद्धान्त-सूत्र} २.१.६३: विध्यर्थवादानुवादवचनविनियोगात् {सिद्धान्त-सूत्र} २.१.६४: विधिः विधायकः {सिद्धान्त-सूत्र} २.१.६५: स्तुतिः निन्दा परकृतिः पुराकल्पः इति अर्थवादः {सिद्धान्त-सूत्र} {अर्थवाद-भेदः} २.१.६६: विधिविहितस्य अनुवचनम् अनुवादः {अर्थवाद-} २.१.६७: न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः {सिद्धान्त-सूत्र} २.१.६८: शीघ्रतरगमनोपदेशवत् अभ्यासात् न अविशेषः {सिद्धान्त-सूत्र} २.१.६९: मन्त्रायुर्वेदप्रामाण्यवत् च तत्प्रामाण्यम्, आप्तप्रामाण्यात् {सिद्धान्त-सूत्र}
SK
(इति न्यायसूत्रे द्वितीयाध्यायस्य प्रथमम् आह्निकम्)
SK
(द्वितीयम् आह्निकम्) [प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्]
SK
२.२.१: न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् {पूर्वपक्ष-सूत्र} २.२.२: शब्दे ऐतिह्यानर्थान्तरभावात् अनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात् च अप्रतिषेधः {सिद्धान्त-सूत्र} २.२.३: अर्थापत्तिः अप्रमाणम् अनैकान्तिकत्वात् {अर्थापत्तिप्रामाण्यपरीक्षा} २.२.४: अनर्थापत्तौ अर्थापत्त्यभिमानात् {नानैकान्तिकत्वमर्थापत्तेः} २.२.५: प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात् (-) २.२.६: तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम् {सिद्धान्त-सूत्र} [अभावप्रामाण्यसिद्धिः - अवान्तरप्रकरणम्] २.२.७: न अभावप्रामाण्यं प्रमेयासिद्धेः {पूर्वपक्ष-सूत्र} २.२.८: लक्षितेष्वलक्षणलक्षितत्वात् अलक्षितानां तत्प्रमेयसिद्धेः {उदाहरण सूत्र} २.२.९: असति अर्थे न अभावः इति चेत् न, अन्यलक्षणोपपत्तेः {सिद्धान्त-सूत्र} २.२.१०: तत्सिद्धेः अलक्षितेषु अहेतुः {पूर्वपक्ष-सूत्र} २.२.११: न, लक्षणावस्थितापेक्षसिद्धेः {सिद्धान्त-सूत्र} २.२.१२: प्राक् उत्पत्तेः अभावोपपत्तेः च {सिद्धान्त-सूत्र}
SK
[शब्दानित्यत्वपरीक्षाप्रकरणम्(१३-३९)] २.२.१३: आदिमत्वात् ऐन्द्रियकत्वात् कृतकवत् उपचारात् च {शब्दानित्यत्व-प्रतिपादन-सूत्र} २.२.१४: न, घटाभावसामान्यनित्यत्वात् नित्येषु अपि अनित्यवत् उपचारात् च {सिद्धान्त-सूत्र} २.२.१५: तत्त्वभाक्तयोः नानात्वविभागात् अव्यभिचारः {शब्दानित्यत्व-प्रतिपादन-सूत्र} {सिद्धान्त-सूत्र} २.२.१६: सन्तानानुमानविशेषणात् {शब्दानित्यत्व-प्रतिपादन-सूत्र} {सिद्धान्त-सूत्र} २.२.१७: कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् {शब्दानित्यत्व-प्रतिपादन-सूत्र} {सिद्धान्त-सूत्र} २.२.१८: प्राक् उच्चारणात् अनुपलब्धेः आवरणाद्यनुपलब्धेः च {शब्दानित्यत्व-प्रतिपादन-सूत्र} २.२.१९: तदनुपलब्धेः अनुपलम्भात् आवरणोपपत्तिः {शब्दानित्यत्व-प्रतिपादन-सूत्र} २.२.२०: अनुपलम्भात् अनुपलब्धिसद्भावात् न आवरणानुपपत्तिः अनुपलम्भात् {सिद्धान्त-सूत्र} २.२.२१: अनुपलम्भात्मकत्वात् अनुपलब्धेः अहेतुः {सिद्धान्त-सूत्र} २.२.२२: अस्पर्शत्वात् {सिद्धान्त-सूत्र} २.२.२३: न, कर्मानित्यत्वात् {सिद्धान्त-सूत्र} २.२.२४: न, अणुनित्यत्वात् {सिद्धान्त-सूत्र} २.२.२५: सम्प्रदानात् {सिद्धान्त-सूत्र} २.२.२६: तदन्तरालानुपलब्धेः अहेतुः {सिद्धान्त-सूत्र} २.२.२७: अध्यापनात् अप्रतिषेधः {सिद्धान्त-सूत्र} २.२.२८: उभयोः पक्षयोः अन्यतरस्य अध्यापनात् अप्रतिषेधः {सिद्धान्त-सूत्र} २.२.२९: अभ्यासात् {सिद्धान्त-सूत्र} २.२.३०: न अन्यत्वे अपि अभ्यासस्य उपचारात् {सिद्धान्त-सूत्र} २.२.३१: अन्यत् अन्यस्मात् अनन्यत्वात् अनन्यत् इति अन्यताभावः {सिद्धान्त-सूत्र} २.२.३२: तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः {सिद्धान्त-सूत्र} २.२.३३: विनाशकारणानुपलब्धेः {सिद्धान्त-सूत्र} २.२.३४: अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः {सिद्धान्त-सूत्र} २.२.३५: उपलभ्यमाने च अनुपलब्धेः असत्त्वात् अनपदेशः {सिद्धान्त-सूत्र} २.२.३६: पाणिनिमित्तप्रश्लेषात् शब्दाभावे न अनुपलब्धिः {सिद्धान्त-सूत्र} २.२.३७: विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः {सिद्धान्त-सूत्र} २.२.३८: अस्पर्शत्वात् अप्रतिषेधः {सिद्धान्त-सूत्र} २.२.३९: विभक्त्यन्तरोपपत्तेः च समासे {सिद्धान्त-सूत्र}
SK
[शब्दपरिणामपरीक्षाप्रकरणम्(४०-५६)] २.२.४०: विकारादेशोपदेशात् संशयः {पूर्वपक्ष-सूत्र} २.२.४१: प्रकृतिविवृद्धौ विकारविवृद्धेः {सिद्धान्त-सूत्र} २.२.४२: न्यूनसमाधिकोपलब्धेः विकाराणाम् अहेतुः {सिद्धान्त-सूत्र} २.२.४३: द्विविधस्य अपि हेतोः अभावात् असाधनं दृष्टान्तः {उदाहरणसूत्र} २.२.४४: न, अतुल्यप्रकृतीनाम् विकारविकल्पात् {सिद्धान्त-सूत्र} २.२.४५: द्रव्यविकारवैषम्यवत् वर्णविकारविकलः {पूर्वपक्ष-सूत्र} २.२.४६: न, विकारधर्मानुपपत्तेः {सिद्धान्त-सूत्र} २.२.४७: विकारप्राप्तानाम् अपुनरापत्तेः {सिद्धान्त-सूत्र} २.२.४८: सुवर्णादीनां पुनरापत्तेः अहेतुः {पूर्वपक्ष-सूत्र} २.२.४९: न, तद्विकाराणां सुवर्णभावाव्यतिरेकात् {सिद्धान्त-सूत्र} २.२.५०: वर्णत्वाव्यतिरेकात् वर्णविकाराणाम् अप्रतिषेधः {सिद्धान्त-सूत्र} २.२.५१: सामान्यवतो धर्मयोगो न सामान्यस्य {सिद्धान्त-सूत्र} २.२.५२: नित्यत्वे अविकारात् अनित्यत्वे च अनवस्थानात् {सिद्धान्त-सूत्र} २.२.५३: नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पात् च वर्णविकाराणाम् अप्रतिषेधः {पूर्वपक्ष-सूत्र} २.२.५४: अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः {पूर्वपक्ष-सूत्र} २.२.५५: विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेः च अप्रतिषेधः {सिद्धान्त-सूत्र} २.२.५६: प्रकृत्यनियमात् {सिद्धान्त-सूत्र} २.२.५७: अनियमे नियमात् न अनियमः {पूर्वपक्ष-सूत्र} २.२.५८: नियमानियमविरोधात् अनियमे नियमात् च अप्रतिषेधः {सिद्धान्त-सूत्र} २.२.५९: गुणान्तरापत्त्युपमर्द-ह्रास-वृद्धि-श्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः {सिद्धान्त-सूत्र}
SK
[शब्दशक्तिपरीक्षाप्रकरणम्] २.२.६०: ते विभक्त्यन्ताः पदम् {पद-लक्षण-सूत्रम्} २.२.६१: व्यक्त्याकृतिजातिसन्निधौ उपचारात् संशयः {पूर्वपक्ष-सूत्र}
SK
[व्यक्तिवाद-अवान्तरप्रकरणम्] २.२.६२: याशब्द-समूह-त्याग-परिग्रह-सङ्ख्या-वृद्ध्यपचय-वर्ण-समासानुबन्धानाम् व्यक्तौ उपचारात् व्यक्तिः {पूर्वपक्ष-सूत्र} २.२.६३: न, तत् अनवस्थानात् {सिद्धान्त-सूत्र} २.२.६४: सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योग-साधनाधिपत्येभ्यः ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटकान्न-पुरुषेष्वतद्भावे अपि तदुपचारः {सिद्धान्त-सूत्र}
SK
[आकृतिवाद-अवान्तरप्रकरणम्] २.२.६५: आकृतिः, तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः {पूर्वपक्ष-सूत्र}
SK
[जातिवाद-अवान्तरप्रकरणम्] २.२.६६: व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात् प्रोक्षणादिनां मृद्गवके जातिः {पूर्वपक्ष-सूत्र} २.२.६७: न, आकृतिव्यक्त्यपेक्षत्वात् जात्यभिव्यक्तेः {सिद्धान्त-सूत्र}
SK
[सिद्धान्तवाद-अवान्तरप्रकरणम्] २.२.६८: व्यक्त्याकृतिजातयः तु पदार्थः {सिद्धान्त-सूत्र} २.२.६९: व्यक्तिः गुणविशेषाश्रयः मूर्तिः {सिद्धान्त-सूत्र} २.२.७०: आकृतिः जातिलिङ्गाख्या {सिद्धान्त-सूत्र} २.२.७१: समानप्रसवात्मिका जातिः {सिद्धान्त-सूत्र}
SK
(इति न्यायसूत्रे द्वितीयाध्यायस्य द्वितीयम् आह्निकम्)
SK
समाप्तः च अयम् द्वितीयाध्यायः
SK
(अथ तृतीयः अध्यायः) (प्रथमम् आह्निकम्) [इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणं(१-३)] ३.१.१: दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात् {पूर्वपक्ष-सूत्र} ३.१.२: न, विषयव्यवस्थानात् {पूर्वपक्ष-सूत्र} ३.१.३: तद्व्यवस्थानात् एव आत्मसद्भावात् अप्रतिषेधः {सिद्धान्त-सूत्र} [शरीरव्यतिरिक्तात्मपरीक्षाप्रकरणम्] ३.१.४: शरीरदाहे पातकाभावात् {सिद्धान्त-सूत्र} ३.१.५: तदभावः सात्मकप्रदाहे अपि, तन्नित्यत्वात् {पूर्वपक्ष-सूत्र} ३.१.६: न, कार्याश्रयकर्तृवधात् {सिद्धान्त-सूत्र}
SK
[प्रासङ्गिकं चक्षुरद्वैतपरीक्षाप्रकरणम्(७-१४)] ३.१.७: सव्यदृष्टस्य इतरेण प्रत्यभिज्ञानात् {सिद्धान्त-सूत्र} ३.१.८: न एकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात् {पूर्वपक्ष-सूत्र} ३.१.९: एकविनाशे द्वितीयाविनाशात् न एकत्वम् {सिद्धान्त-सूत्र} ३.१.१०: अवयवनाशे अपि अवयव्युपलब्धेः अहेतुः {पूर्वपक्ष-सूत्र} ३.१.११: दृष्टान्तविरोधात् अप्रतिषेधः {सिद्धान्त-सूत्र} ३.१.१२: इन्द्रियान्तरविकारात् {सिद्धान्त-सूत्र} ३.१.१३: न, स्मृतेः स्मर्त्तव्यविषयत्वात् {पूर्वपक्ष-सूत्र} ३.१.१४: तदात्मगुणसद्भावात् अप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[आत्ममनोभेदपरीक्षाप्रकरणम्(१५-१७)] ३.१.१५: न, आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् {पूर्वपक्ष-सूत्र} ३.१.१६: ज्ञातुः ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् {सिद्धान्त-सूत्र} ३.१.१७: नियमः च निरनुमानः {सिद्धान्त-सूत्र} [आत्मनित्यत्वपरीक्षाप्रकरणम्(१८-२६)] ३.१.१८: पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः {सिद्धान्त-सूत्र} ३.१.१९: पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः {पूर्वपक्ष-सूत्र} ३.१.२०: न, उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् {सिद्धान्त-सूत्र} ३.१.२१: प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् {सिद्धान्त-सूत्र} ३.१.२२: अयसः अयस्कान्ताभिगमनवत् तदुपसर्पणम् {पूर्वपक्ष-सूत्र} ३.१.२३: न, अन्यत्र प्रवृत्त्यभावात् {सिद्धान्त-सूत्र} ३.१.२४: वीतरागजन्मादर्शनात् {सिद्धान्त-सूत्र} ३.१.२५: सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः {पूर्वपक्ष-सूत्र} ३.१.२६: न, सङ्कल्पनिमित्तत्वात् रागादीनाम् {सिद्धान्त-सूत्र}
SK
[शरीरपरीक्षाप्रकरणम्(२७-३१)] ३.१.२७: पार्थिवं गुणान्तरोपलब्धेः {सिद्धान्त-सूत्र} ३.१.२८: पार्थिवाप्यतैजसं तद्गुणोपलब्धेः {सिद्धान्त-सूत्र} ३.१.२९: निःश्वासोच्छ्वासोपलब्धेः चातुर्भौन्तिकम् {पूर्वपक्ष-सूत्र} ३.१.३०: गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् {पूर्वपक्ष-सूत्र} ३.१.३१: श्रुतिप्रामाण्यात् च {सिद्धान्त-सूत्र}
SK
[इन्द्रियपरीक्षाप्रकरणम्(३२-५१)] ३.१.३२: कृष्णसारे सति उपलम्भात् व्यतिरिच्य च उपलम्भात् संशयः {सिद्धान्त-सूत्र} ३.१.३३: महदणुग्रहणात् {साङ्ख्यमतखण्डनम्} ३.१.३४: रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् {सिद्धान्त-सूत्र} ३.१.३५: तदनुपलब्धेः अहेतुः {सिद्धान्त-सूत्र} ३.१.३६: न अनुमीयमानस्य प्रत्यक्षतः अनुपलब्धिः अभावहेतुः {सिद्धान्त-सूत्र} ३.१.३७: द्रव्यगुणधर्मभेदात् च उपलब्धिनियमः {सिद्धान्त-सूत्र} ३.१.३८: अनेकद्रव्यसमवायात् रूपविशेषात् च रूपोपलब्धिः {सिद्धान्त-सूत्र} ३.१.३९: कर्मकारितः च इन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः {सिद्धान्त-सूत्र} ३.१.४०: मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः {सिद्धान्त-सूत्र} ३.१.४१: न, रात्रौ अपि अनुपलब्धेः {सिद्धान्त-सूत्र} ३.१.४२: बाह्यप्रकाशानुग्रहात् विषयोपलब्धेः अनभिव्यक्तितः अनुपलब्धिः {सिद्धान्त-सूत्र} ३.१.४३: अभिव्यक्तौ च अभिभवात् {सिद्धान्त-सूत्र} ३.१.४४: नक्तञ्चरनयनरश्मिदर्शनात् च {सिद्धान्त-सूत्र} ३.१.४५: अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः {पूर्वपक्ष-सूत्र} ३.१.४६: कुड्यान्तरितानुपलब्धेः अप्रतिषेधः {सिद्धान्त-सूत्र} ३.१.४७: अप्रतीघातात् सन्निकर्षोपपत्तिः {सिद्धान्त-सूत्र} ३.१.४८: आदित्यरश्मेः स्फटिकान्तरिते अपि दाह्ये अविघातात् {सिद्धान्त-सूत्र} ३.१.४९: न इतरेतरधर्मप्रसङ्गात् {पूर्वपक्ष-सूत्र} ३.१.५०: आदर्शोदकयोः प्रसादस्वाभाव्यात् रूपोपलब्धिः {सिद्धान्त-सूत्र} ३.१.५१: दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः {सिद्धान्त-सूत्र}
SK
[इन्द्रियनानात्वपरीक्षाप्रकरणम्(५२-६२)] ३.१.५२: स्थानान्यत्वे नानात्वात् अवयविनानास्थानत्वात् च संशयः {सिद्धान्त-सूत्र} ३.१.५३: त्वक् अव्यतिरेकात् {पूर्वपक्ष-सूत्र} ३.१.५४: न युगपत् अर्थानुपलब्धेः {सिद्धान्त-सूत्र} ३.१.५५: विप्रतिषेधात् च न त्वक् एका {सिद्धान्त-सूत्र} ३.१.५६: इन्द्रियार्थपञ्चत्वात् {सिद्धान्त-सूत्र} ३.१.५७: न, तदर्थबहुत्वात् {पूर्वपक्ष-सूत्र} ३.१.५८: गन्धत्वाद्यव्यतिरेकात् गन्धादीनामप्रतिषेधः {सिद्धान्त-सूत्र} ३.१.५९: विषयत्वाव्यतिरेकात् एकत्वम् {सिद्धान्त-सूत्र} ३.१.६०: न, बुद्धिलक्षणाधिष्ठान-गत्याकृति-जातिपञ्चत्वेभ्यः {सिद्धान्त-सूत्र} ३.१.६१: भूतगुणविशेषोपलब्धेः तादात्म्यम् {सिद्धान्त-सूत्र}
SK
[अर्थपरीक्षाप्रकरणम्(६२-७४)] ३.१.६२: गन्ध-रस-रूप-स्पर्श-शब्दानां स्पर्शपर्यन्ताः पृथिव्याः {सिद्धान्त-सूत्र} ३.१.६३: अप्-तेजो-वायूनां पूर्वं पूर्वम् अपोह्य आकाशस्य उत्तरः {पूर्वपक्ष-सूत्र} ३.१.६४: न, सर्वगुणानुपलब्धेः {सिद्धान्त-सूत्र} ३.१.६५: एकैकश्येन उत्तरगुणासद्भावात् उत्तरोत्तराणां तदनुपलब्धिः {पूर्वपक्ष-सूत्र} ३.१.६६: विष्टं हि अपरं परेण {पूर्वपक्ष-सूत्र} ३.१.६७: न, पार्थिवाप्ययोः प्रत्यक्षत्वात् {सिद्धान्त-सूत्र} ३.१.६८: पूर्वपूर्वगुणोत्कर्षात् तत्तत् प्रधानम् {सिद्धान्त-सूत्र} ३.१.६९: तद्ध्यवस्थानं तु भूयस्त्वात् {सिद्धान्त-सूत्र} ३.१.७०: सगुणानाम् इन्द्रियभावात् {सिद्धान्त-सूत्र} ३.१.७१: तेन एव तस्य अग्रहणात् च {सिद्धान्त-सूत्र} ३.१.७२: न, शब्दगुणोपलब्धेः {पूर्वपक्ष-सूत्र} ३.१.७३: तदुपलब्धिः इतरेतरद्रव्यगुणवैधर्म्यात् {सिद्धान्त-सूत्र}
SK
(इति न्यायसूत्रे तृतीयाध्यायस्य प्रथमम् आह्निकम्)
SK
(द्वितीयम् आह्निकम्)
SK
[बुद्धेरनित्यत्वपरीक्षाप्रकरणम्(१-९)] ३.२.१: कर्माकाशसाधर्म्यात् संशयः {सिद्धान्त-सूत्र} ३.२.२: विषयप्रत्यभिज्ञानात् {सिद्धान्त-सूत्र} ३.२.३: साध्यसमत्वात् अहेतुः {सिद्धान्त-सूत्र} ३.२.४: न, युगपत् अग्रहणात् {सिद्धान्त-सूत्र} ३.२.५: अप्रत्यभिज्ञाने च विनाशप्रसङ्गः {सिद्धान्त-सूत्र} ३.२.६: क्रमवृत्तित्वात् अयुगपत् ग्रहणम् {सिद्धान्त-सूत्र} ३.२.७: अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् {सिद्धान्त-सूत्र} ३.२.८: न, गत्यभावात् {सिद्धान्त-सूत्र} ३.२.९: स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः {सिद्धान्त-सूत्र}
SK
[क्षणभङ्गपरीक्षाप्रकरणम्(१०-१७)] ३.२.१०: स्फटिके अपि अपरापरोत्पत्तेः क्षणिकत्वात् व्यक्तीनाम् अहेतुः {सिद्धान्त-सूत्र} ३.२.११: नियमहेत्वभावात् यथादर्शनम् अभ्यनुज्ञा {सिद्धान्त-सूत्र} ३.२.१२: न, उत्पत्तिविनाशकारणोपलब्धेः {सिद्धान्त-सूत्र} ३.२.१३: क्षीरविनाशे कारणानुपलब्धिवत् दध्युत्पत्तिवत् च तदुत्पत्तिः {पूर्वपक्ष-सूत्र} ३.२.१४: लिङ्गतः ग्रहणात् न अनुपलब्धिः {सिद्धान्त-सूत्र} ३.२.१५: न पयसः परिणाम-गुणान्तरप्रादुर्भावात् {सिद्धान्त-सूत्र} ३.२.१६: व्यूहान्तरात् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेः अनुमानम् {सिद्धान्त-सूत्र} ३.२.१७: क्वचित् विनाशकारणानुपलब्धेः क्वचित् च उपलब्धेः अनेकान्तः {सिद्धान्त-सूत्र}
SK
[बुद्धेरात्मगुणत्वपरीक्षाप्रकरणाम्(१८-४१)] ३.२.१८: न इन्द्रियार्थयोः, तद्विनाशे अपि ज्ञानावस्थानात् {सिद्धान्त-सूत्र} ३.२.१९: युगपत् ज्ञानानुपलब्धेः च न मनसः {सिद्धान्त-सूत्र} ३.२.२०: तत् आत्मगुणत्वे अपि तुल्यम् {पूर्वपक्ष-सूत्र} ३.२.२१: इन्द्रियैः मनसः सन्निकर्षाभावात् तदनुत्पत्तिः {पूर्वपक्ष-सूत्र} ३.२.२२: न, उत्पत्तिकारणानपदेशात् {सिद्धान्त-सूत्र} ३.२.२३: विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः {पूर्वपक्ष-सूत्र} ३.२.२४: अनित्यत्वग्रहात् बुद्धेः बुद्ध्यन्तरात् विनाशः शब्दवत् {सिद्धान्त-सूत्र} ३.२.२५: ज्ञानसमवेतात्मप्रदेशसन्निकर्षात् मनसः स्मृत्युत्पत्तेः न युगपत् उत्पत्तिः {पूर्वपक्ष-सूत्र} ३.२.२६: न, अन्तः-शरीरवृत्तित्वात् मनसः {सिद्धान्त-सूत्र} ३.२.२७: साध्यत्वात् अहेतुः {पूर्वपक्ष-सूत्र} ३.२.२८: स्मरतः शरीरधारणोपपत्तेः अप्रतिषेधः {सिद्धान्त-सूत्र} ३.२.२९: न, तदाशुगतित्वान्मनसः {पूर्वपक्ष-सूत्र} ३.२.३०: न, स्मरणकालानियमात् {सिद्धान्त-सूत्र} ३.२.३१: आत्मप्रेरण-यदृच्छा-ज्ञताभिः च न संयोगविशेषः {पूर्वपक्ष-सूत्र} ३.२.३२: व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् {सिद्धान्त-सूत्र} ३.२.३३: प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावात् अयुगपत्स्मरणम् {सिद्धान्त-सूत्र} ३.२.३४: ज्ञस्य इच्छाद्वेषनिमित्तत्वात् आरम्भनिवृत्त्योः {सिद्धान्त-सूत्र} ३.२.३५: तल्लिङ्गत्वात् इच्छाद्वेषयोः पार्थिवाद्येषु अप्रतिषेधः {पूर्वपक्ष-सूत्र} ३.२.३६: परश्वादिषु आरम्भनिवृत्तिदर्शनात् {सिद्धान्त-सूत्र} ३.२.३७: नियमानियमौ तु तद्विशेषकौ {सिद्धान्त-सूत्र} ३.२.३८: यथोक्तहेतुत्वात् पारतन्त्र्यात् अकृताभ्यागमात् च न मनसः {सिद्धान्त-सूत्र} ३.२.३९: परिशेषात् यथोक्तहेतूपपत्तेः च {सिद्धान्त-सूत्र} ३.२.४०: स्मरणं तु आत्मनः ज्ञस्वाभाव्यात् {सिद्धान्त-सूत्र} ३.२.४१: प्रणिधान-निबन्धाभ्यास-लिङ्ग-लक्षण-सादृश्य-परिग्रहाश्रयाश्रित सम्बन्धानन्तर्य-वियोगैककार्य-विरोधातिशय-प्राप्ति-व्यवधान-सुख-दुःखेच्छा द्वेष-भयार्थित्व-क्रियाराग-धर्माधर्मनिमित्तेभ्यः {सिद्धान्त-सूत्र}
SK
[बुद्धेरुत्पन्नापवर्गित्वपरीक्षाप्रकरणम्(४२-४५)] ३.२.४२: कर्मानवस्थायिग्रहणात् {सिद्धान्त-सूत्र} ३.२.४३: अव्यक्तग्रहणम् अनवस्थायित्वात् विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् {सिद्धान्त-सूत्र} ३.२.४४: हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा {सिद्धान्त-सूत्र} ३.२.४५: न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् {सिद्धान्त-सूत्र}
SK
[बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम्(४६-५५)] ३.२.४६: द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः {सिद्धान्त-सूत्र} ३.२.४७: यावच्छरीरभावित्वात् रूपादीनाम् {सिद्धान्त-सूत्र} ३.२.४८: न, पाकजगुणान्तरोत्पत्तेः {सिद्धान्त-सूत्र} ३.२.४९: प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः {सिद्धान्त-सूत्र} ३.२.५०: शरीरव्यापित्वात् {सिद्धान्त-सूत्र} ३.२.५१: न, केशनखादिषु अनुपलब्धेः {पूर्वपक्ष-सूत्र} ३.२.५२: त्वक्पर्यन्तत्वात् शरीरस्य केशनखादिषु अप्रसङ्गः {सिद्धान्त-सूत्र} ३.२.५३: शरीरगुणवैधर्म्यात् {सिद्धान्त-सूत्र} ३.२.५४: न, रूपादीनाम् इतरेतरवैधर्म्यात् {पूर्वपक्ष-सूत्र} ३.२.५५: ऐन्द्रियकत्वात् रूपादीनाम् अप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[मनःपरीक्षाप्रकरणम्(५६-५९)] ३.२.५६: ज्ञानायौगपद्यात् एकम् मनः {सिद्धान्त-सूत्र} ३.२.५७: न, युगपत् अनेकक्रियोपलब्धेः {पूर्वपक्ष-सूत्र} ३.२.५८: अलातचक्रदर्शनवत् तदुपलब्धिः आशुसञ्चारात् {सिद्धान्त-सूत्र} ३.२.५९: यथोक्तहेतुत्वात् च अणु {सिद्धान्त-सूत्र}
SK
[अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम्(६०-७२)] ३.२.६०: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः {सिद्धान्त-सूत्र} ३.२.६१: भूतेभ्यः मूर्त्युपादानवत् तदुपादानम् {पूर्वपक्ष-सूत्र} ३.२.६२: न, साध्यसमत्वात् {सिद्धान्त-सूत्र} ३.२.६३: न, उत्पत्तिनिमित्तत्वात् मातापित्रोः {सिद्धान्त-सूत्र} ३.२.६४: तथा आहारस्य {सिद्धान्त-सूत्र} ३.२.६५: प्राप्तौ च अनियमात् {सिद्धान्त-सूत्र} ३.२.६६: शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म {सिद्धान्त-सूत्र} ३.२.६७: एतेन अनियमः प्रत्युक्तः {सिद्धान्त-सूत्र} ३.२.६८: तत् अदृष्टकारितम् इति चेत् पुनः तत्प्रसङ्गः अपवर्गे {सिद्धान्त-सूत्र} ३.२.६९: मनःकर्मनिमित्तत्वात् च संयोगाव्युच्छेदः {सिद्धान्त-सूत्र} ३.२.७०: नित्यत्वप्रसङ्गः च प्रायणानुपपत्तेः {सिद्धान्त-सूत्र} ३.२.७१: अणुश्यामतानित्यत्ववत् एतत् स्यात् {पूर्वपक्ष-सूत्र} ३.२.७२: न, अकृताभ्यागमप्रसङ्गात् {सिद्धान्त-सूत्र}
SK
(इति न्यायसूत्रे तृतीयाध्यायस्य द्वितीयम् आह्निकम्)
SK
(समाप्तः च अयम् तृतीयः अध्यायः)
SK
(अथ चतुर्थः अध्यायः) (प्रथमम् आह्निकम्) [प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्(१-२)]
SK
४.१.१: प्रवृत्तिर्यथोक्ता {सिद्धान्त-सूत्र} ४.१.२: तथा दोषाः {सिद्धान्त-सूत्र}
SK
[दोषत्रैराश्यपरीक्षाप्रकरणम्(३-८)] ४.१.३: त्रैराश्यं रागद्वेषमोहार्थान्तर्भावात् {सिद्धान्त-सूत्र} ४.१.४: न, एकप्रत्यनीकभावात् {पूर्वपक्ष-सूत्र} ४.१.५: व्यभिचारादहेतुः {सिद्धान्त-सूत्र} ४.१.६: तेषां मोहः पापीयान्, नामूढस्येतरोत्पत्तेः {सिद्धान्त-सूत्र} ४.१.७: निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः {पूर्वपक्ष-सूत्र} ४.१.८: न दोषलक्षणावरोधान्मोहस्य {सिद्धान्त-सूत्र} ४.१.९: निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[प्रेत्यभावपरीक्षाप्रकरणम्(१०-१३)] ४.१.१०: आत्मनित्यत्वे प्रेत्यभावसिद्धिः {सिद्धान्त-सूत्र} ४.१.११: व्यक्ताद् व्यक्तानाम्, प्रत्यक्षप्रामाण्यात् {सिद्धान्त-सूत्र} ४.१.१२: न, घटाद् घटनिष्पत्तेः {पूर्वपक्ष-सूत्र} ४.१.१३: व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[शून्यतोपादाननिराकरणप्रकरणम्(१४-१८)] ४.१.१४: अभावाद् भावोत्पत्तिः, नानुपमृद्य प्रादुर्भावात् {पूर्वपक्ष-सूत्र} ४.१.१५: व्याघातादप्रयोगः {सिद्धान्त-सूत्र} ४.१.१६: न, अतीतानागतयोः कारकशब्दप्रयोगात् {पूर्वपक्ष-सूत्र} ४.१.१७: न, विनष्टेभ्यो ऽनिष्पत्तेः {सिद्धान्त-सूत्र} ४.१.१८: क्रमनिर्देशादप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[ईश्वरोपादानाताप्रकरणम्(१९-२१)] ४.१.१९: ईश्वरः कारणम्, पुरुषकर्माफल्यदर्शनात् {सिद्धान्त-सूत्र} ४.१.२०: न, पुरुषकर्माभावे फ्लानिष्पत्तेः {पूर्वपक्ष-सूत्र} ४.१.२१: तत्कारितत्वाद् अहेतुः {सिद्धान्त-सूत्र}
SK
[आकस्मिकत्वनिराकरणप्रकरणम्(२२-२४)] ४.१.२२: अनिमित्ततो भावोत्पत्तिः, कण्टकतैक्ष्ण्यादिदर्शनात् {पूर्वपक्ष-सूत्र} ४.१.२३: अनिमित्तनिमित्तत्वान्ननिमित्ततः {सिद्धान्त-सूत्र} ४.१.२४: निमित्तनिमित्तयोरर्थान्तरभावादप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[सर्वानित्यत्वनिराकरणप्रकरणम्(२५-२८)] ४.१.२५: सर्वम् अनित्यम्, उत्पत्तिविनाशधर्मकत्वात् {पूर्वपक्ष-सूत्र} ४.१.२६: न, अनित्यतानित्यत्वात् {सिद्धान्त-सूत्र} ४.१.२७: तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् {सिद्धान्त-सूत्र} ४.१.२८: नित्यस्याप्रत्याख्यानम्, यथोपलब्धि व्यवस्थानात् {सिद्धान्त-सूत्र}
SK
[सर्वनित्यत्वनिराकरणम्(२९-३३)] ४.१.२९: सर्वं नित्यम्, पञ्चभूतनित्यत्वात् {पूर्वपक्ष-सूत्र} ४.१.३०: न, उत्पत्तिविनाशकारणोपलब्धेः {सिद्धान्त-सूत्र} ४.१.३१: तल्लक्षणावरोधादप्रतिषेधः {पूर्वपक्ष-सूत्र} ४.१.३२: न, उत्पत्तितत्कारणोपलब्धेः {सिद्धान्त-सूत्र} ४.१.३३: न, व्यवस्थानुपपत्तेः {सिद्धान्त-सूत्र}
SK
[सर्वपृथक्त्वनिराकरणप्रकरणम्(३४-३६)] ४.१.३४: सर्वं पृथग्, भावलक्षणपृथक्त्वात् {पूर्वपक्ष-सूत्र} ४.१.३५: न, अनेकलक्षणैरेकभावनिष्पत्तेः {सिद्धान्त-सूत्र} ४.१.३६: लक्षणव्यवस्थानादेवाप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[सर्वशून्यतानिराकरणप्रकरणम्(३७-४०)] ४.१.३७: सर्वम् अभावो भावेष्वितरेतराभावसिद्धेः {पूर्वपक्ष-सूत्र} ४.१.३८: न, स्वभावसिद्धेर्भावानाम् {सिद्धान्त-सूत्र} ४.१.३९: न स्वभावसिद्धिः, आपेक्षिकत्वात् {पूर्वपक्ष-सूत्र} ४.१.४०: व्याहतत्वादयुक्तम् {सिद्धान्त-सूत्र}
SK
[संख्यैकान्तवादप्रकरणम्(४१-४३)] ४.१.४१: संख्यैकान्तासिद्धिः, कारणानुपपत्त्युपपत्तिभ्याम् {सिद्धान्त-सूत्र} ४.१.४२: न, कारणवयवाभावात् {पूर्वपक्ष-सूत्र} ४.१.४३: निरवयवत्वादहेतुः {सिद्धान्त-सूत्र}
SK
[फलपरीक्षाप्रकरणम्(४४-५४)] ४.१.४४: सद्यः कालान्तरे च फलनिष्पत्तेः संशयः {सिद्धान्त-सूत्र} ४.१.४५: न सद्यः, कालान्तरोपभोग्यत्वात् {सिद्धान्त-सूत्र} ४.१.४६: कालान्तरेणानिष्पत्तिहेतुर्विनाशात् {पूर्वपक्ष-सूत्र} ४.१.४७: प्राङ्निष्पत्तेर्वृक्षफलवत् तत्स्यात् {सिद्धान्त-सूत्र} ४.१.४८: नासन्न सन्न सदसत्, सदसतोर्वैधर्मयात् {पूर्वपक्ष-सूत्र} ४.१.४९: उत्पादव्ययदर्शनात् {सिद्धान्त-सूत्र} ४.१.५०: बुद्धिसिद्धं तु तदसत् {सिद्धान्त-सूत्र} ४.१.५१: आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्यहेतुः {पूर्वपक्ष-सूत्र} ४.१.५२: प्रीतेरात्माश्रयत्वादप्रतिषेधः {सिद्धान्त-सूत्र} ४.१.५३: न पुत्रपशुस्त्रीपरिच्छेदहिरण्यान्नादिफलनिर्द्देशात् {पूर्वपक्ष-सूत्र} ४.१.५४: तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः {सिद्धान्त-सूत्र}
SK
[दुःखपरीक्षाप्रकरणम्(५५-५८)] ४.१.५५: विविधवाधनायोगाद् दुःखमेव जन्मोत्पत्तिः {सिद्धान्त-सूत्र} ४.१.५६: न, सुखस्याप्यन्तरालनिष्पत्तेः {सिद्धान्त-सूत्र} ४.१.५७: भाधनानिवृत्तेर्वेदयतः प्र्येषणदोषादप्रतिषेधः {सिद्धान्त-सूत्र} ४.१.५८: दुःखविकल्पे सुखाभिमानाच्च {सिद्धान्त-सूत्र}
SK
[अपवर्गपरीक्षाप्रकरणम्(५९-६८)] ४.१.५९: ऋणक्लेशप्रवृत्त्यनुब्न्धादपवर्गाभावः {पूर्वपक्ष-सूत्र} ४.१.६०: प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः {सिद्धान्त-सूत्र} ४.१.६१: समारोपणादात्मन्यप्रतिषेधः {सिद्धान्त-सूत्र} ४.१.६२: पात्रचयान्तानुपपत्तेश्च फलाभावः {सिद्धान्त-सूत्र} ४.१.६३: सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः {सिद्धान्त-सूत्र} ४.१.६४: न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य {सिद्धान्त-सूत्र} ४.१.६५: न, क्लेशसन्ततेः स्वाभाविकत्वात् {पूर्वपक्ष-सूत्र} ४.१.६६: प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविके ऽप्यनित्यत्वम् {सिद्धान्त-सूत्र} ४.१.६७: अणुश्यामतानित्यत्ववद् वा {सिद्धान्त-सूत्र} ४.१.६८: न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम् {सिद्धान्त-सूत्र}
SK
(इति न्यायसूत्रे चतुर्थाध्यायस्य प्रथमम् आह्निकम्)
SK
(द्वितीयम् आह्निकम्) [तत्त्वज्ञानोत्पत्तिप्रकरणम्(१-३)] ४.२.१: दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः {सिद्धान्त-सूत्र} ४.२.२: दोषनिमित्तं रूपादयो विषयः सङ्कल्पकृताः {सिद्धान्त-सूत्र} ४.२.३: तन्निमित्तं त्ववयव्यभिमानः {सिद्धान्त-सूत्र}
SK
[प्रासङ्गिकम् अवयविप्रकरणम्(४-१७)] ४.२.४: विद्याविद्याद्वैविध्यात् संशयः {पूर्वपक्ष-सूत्र} ४.२.५: तदसंशयः, पूर्वहेतुप्रसिद्धत्वात् {सिद्धान्त-सूत्र} ४.२.६: वृत्त्यनुपपत्तेरपि तर्हि न संशयः {पूर्वपक्ष-सूत्र} ४.२.७: कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः {पूर्वपक्ष-सूत्र} ४.२.८: तेषु चावृत्तेरवयव्यभावः {पूर्वपक्ष-सूत्र} ४.२.९: पृथक् चावयवेभ्यो ऽवृत्तेः {सिद्धान्त-सूत्र} ४.२.१०: न चावयव्यवयवाः {पूर्वपक्ष-सूत्र} ४.२.११: एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः {सिद्धान्त-सूत्र} ४.२.१२: अवयवान्तरभावे ऽप्यवृत्तेरहेतुः {सिद्धान्त-सूत्र} ४.२.१३: केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः {पूर्वपक्ष-सूत्र} ४.२.१४: स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभाबो नाविषये प्रवृत्तिः {सिद्धान्त-सूत्र} ४.२.१५: अवयवावयविप्रसङ्गश्चैवमाप्रलयात् {सिद्धान्त-सूत्र} ४.२.१६: न प्रलयो ऽणुसद्भावात् {सिद्धान्त-सूत्र} ४.२.१७: परं वा त्रुटेः {सिद्धान्त-सूत्र}
SK
[औपोद्घातिकं निरवयवप्रकरणम्(१८-२५)] ४.२.१८: आकाशव्यतिभेदात् तदनुपपत्तिः {सिद्धान्त-सूत्र} ४.२.१९: आकाशासर्वगतत्वं वा {पूर्वपक्ष-सूत्र} ४.२.२०: अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः {सिद्धान्त-सूत्र} ४.२.२१: शब्दसंयोगविभावाच्च सर्वगतम् {सिद्धान्त-सूत्र} ४.२.२२: अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः {सिद्धान्त-सूत्र} ४.२.२३: मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः {पूर्वपक्ष-सूत्र} ४.२.२४: संयोगोपपत्तेश्च {पूर्वपक्ष-सूत्र} ४.२.२५: अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[बाह्यार्थभङ्गनिराकरणप्रकरणम्(२६-३७)] ४.२.२६: बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः {पूर्वपक्ष-सूत्र} ४.२.२७: व्याहतत्वादहेतुः {सिद्धान्त-सूत्र} ४.२.२८: तदाश्रयत्वादपृथग्ग्रहणम् {सिद्धान्त-सूत्र} ४.२.२९: प्रमाणतश्चार्थप्रतिपत्तेः {सिद्धान्त-सूत्र} ४.२.३०: प्रमाणानुपपत्त्युपपत्तिभ्याम् {सिद्धान्त-सूत्र} ४.२.३१: स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः {पूर्वपक्ष-सूत्र} ४.२.३२: मायागन्धर्वनगरमृगतृष्णिकावद्वा {पूर्वपक्ष-सूत्र} ४.२.३३: हेत्वभावादसिद्धिः {सिद्धान्त-सूत्र} ४.२.३४: स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः {सिद्धान्त-सूत्र} ४.२.३५: मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे {सिद्धान्त-सूत्र} ४.२.३६: बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् {सिद्धान्त-सूत्र} ४.२.३७: तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः {सिद्धान्त-सूत्र}
SK
[तत्त्वज्ञानविवृद्धिप्रकरणम्(३८-४९)] ४.२.३८: समाधिविशेषाभ्यासात् {सिद्धान्त-सूत्र} ४.२.३९: न, अर्थविशेषप्रावल्यात् {पूर्वपक्ष-सूत्र} ४.२.४०: क्षुदादिभिः प्रवर्तनाच्च {पूर्वपक्ष-सूत्र} ४.२.४१: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः {सिद्धान्त-सूत्र} ४.२.४२: अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः {सिद्धान्त-सूत्र} ४.२.४३: अपवर्गे ऽप्येवं प्रसङ्गः {पूर्वपक्ष-सूत्र} ४.२.४४: न, निष्पन्नावश्यम्भावित्वात् {सिद्धान्त-सूत्र} ४.२.४५: तदभावश्चापवर्गे {सिद्धान्त-सूत्र} ४.२.४६: तदर्थं यमनियमाभ्यासात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः {सिद्धान्त-सूत्र} ४.२.४७: ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः {सिद्धान्त-सूत्र} ४.२.४८: तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयो ऽर्थिभिरनसूयिभिरभ्युपेयात् {सिद्धान्त-सूत्र} ४.२.४९: प्रतिपक्षहीनम् अपि वा प्रयोजनार्थमर्थित्वे
SK
[तत्त्वज्ञानपरिपालनप्रकरणम्(५०-५१)] ४.२.५०: तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्ष्णार्थं कण्टकशाखावरणवत् {सिद्धान्त-सूत्र} ४.२.५१: ताभ्यां विगृह्यकथनम् {सिद्धान्त-सूत्र}
SK
(इति न्यायसूत्रे चतुर्थाध्यायस्य द्वितीयम् आह्निकम्)
SK
(समाप्तश्च चतुर्थः अध्यायः)
SK
(अथ पञ्चमः अध्यायः) (प्रथमम् आह्निकम्) [सत्प्रतिपक्षदेशनाभासप्रकर्णम्(१-३)] ५.१.१: साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्य् अप्राप्तिप्रषङ्गप्रतिदृऋष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्था पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकआर्यसमाः {सिद्धान्त-सूत्र} ५.१.२: साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ {सिद्धान्त-सूत्र} ५.१.३: गोत्वाद् गोसिद्धिवत् तत्सिद्धिः {सिद्धान्त-सूत्र}
SK
उत्कर्षसमादिजातिषट्कप्रकरणम्(४-६)ट ५.१.४: साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः {सिद्धान्त-सूत्र} ५.१.५: किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः {सिद्धान्त-सूत्र} ५.१.६: साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः {सिद्धान्त-सूत्र}
SK
[प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम्(७-८)] ५.१.७: प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ {सिद्धान्त-सूत्र} ५.१.८: घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम्(९-११)] ५.१.९: दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ {सिद्धान्त-सूत्र} ५.१.१०: प्रदीपोपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः {सिद्धान्त-सूत्र} ५.१.११: प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः {सिद्धान्त-सूत्र}
SK
[अनुत्पत्तिसमप्रकरणम्(१२-१३)] ५.१.१२: प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः {सिद्धान्त-सूत्र} ५.१.१३: तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[संशयसमप्रकरणम्(१४-१५)] ५.१.१४: सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः {सिद्धान्त-सूत्र} ५.१.१५: साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशये ऽत्यन्त संशयप्रसङ्गो नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[प्रकरणसमप्रकरणम्(१६-१७)] ५.१.१६: उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः {सिद्धान्त-सूत्र} ५.१.१७: प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः {सिद्धान्त-सूत्र}
SK
[अहेतुसमप्रकरणम्(१८-२०)] ५.१.१८: त्रैकाल्यासिद्धेर्हेतोरहेतुसमः {सिद्धान्त-सूत्र} ५.१.१९: न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः {सिद्धान्त-सूत्र} ५.१.२०: प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[अर्थापत्तिसमप्रकरणम्(२१-२२)] ५.१.२१: अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः {सिद्धान्त-सूत्र} ५.१.२२: अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच् चार्थापत्तेः {सिद्धान्त-सूत्र}
SK
[अविशेषसमप्रकरणम्(२३-२४)] ५.१.२३: एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर्- अविशेषसमः {सिद्धान्त-सूत्र} ५.१.२४: क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः {सिद्धान्त-सूत्र}
SK
[उअपपत्तिसमप्रकरणम्(२५-२६)] ५.१.२५: उभयोकारणोपपत्तेरुपपत्तिसमः {सिद्धान्त-सूत्र} ५.१.२६: उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[उपलब्धिसमप्रकरणम्(२७-२८)] ५.१.२७: निर्दिष्टकारणाभावे ऽप्युपलम्भादुपलब्धिसमः {सिद्धान्त-सूत्र} ५.१.२८: कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः {सिद्धान्त-सूत्र}
SK
[अनुपलब्धिसमप्रकरणम्(२९-३१)] ५.१.२९: तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः {सिद्धान्त-सूत्र} ५.१.३०: अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः {सिद्धान्त-सूत्र} ५.१.३१: ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् {सिद्धान्त-सूत्र}
SK
[अनित्यसमप्रकरणम्(३२-३४) ५.१.३२: साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः {सिद्धान्त-सूत्र} ५.१.३३: साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च {सिद्धान्त-सूत्र} ५.१.३४: दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स चोभयथा भावान्नाविशेषः {सिद्धान्त-सूत्र}
SK
[अनित्यसमप्रकरणम्(३५-३६)] ५.१.३५: नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः {सिद्धान्त-सूत्र} ५.१.३६: प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः {सिद्धान्त-सूत्र}
SK
[कार्यसमप्रकरणम्(३७-३८)] ५.१.३७: प्रयत्नकार्यानेकत्वात् कार्यसमः {सिद्धान्त-सूत्र} ५.१.३८: कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः {सिद्धान्त-सूत्र}
SK
[षट्पक्षीप्रकरणम्(३९-४०)] ५.१.३९: प्रतिषेधे ऽपि समानदोषः {सिद्धान्त-सूत्र} ५.१.४०: सर्वत्रैवम् {सिद्धान्त-सूत्र} ५.१.४१: प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः {सिद्धान्त-सूत्र} ५.१.४२: प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा {सिद्धान्त-सूत्र} ५.१.४३: स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात् समानो दोष इति {सिद्धान्त-सूत्र}
SK
(इति न्यायसूत्रे पञ्चमाध्यायस्य प्रथमम् आह्निकम्)
SK
(द्वितीयम् आह्निकम्)
SK
५.२.१: प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्त कालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हेत्वा भासाश्च निग्रहस्थानानि {निग्रहस्थान-उद्देश-सूत्रम्}
SK
[निग्रहस्थानपञ्चकप्रकरणम्(२-६)] ५.२.२: प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः {प्रतिज्ञाहानिः लक्षण-सूत्रम्} ५.२.३: प्रतिज्ञातार्थप्रतिषेधधर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तर. {प्रतिज्ञान्तर-लक्षण-सूत्रम्} ५.२.४: प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः {प्रतिज्ञाविरोधः लक्षण-सूत्रम्} ५.२.५: पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः {प्रतिज्ञासन्न्यासः लक्षण-सूत्रम्} ५.२.६: अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् {हेत्वन्तरम् लक्षण-सूत्रम्}
SK
[निग्रहस्थानचतुष्कप्रकरणम्(७-१०)] ५.२.७: प्रकृतादर्थादप्रतिसम्ब्द्धार्थमर्थान्तरम् {अर्थान्तरम् लक्षण-सूत्रम्} ५.२.८: वर्णक्रमनिर्देशवन्निरर्थकम् {निरर्थकम् लक्षण-सूत्रम्} ५.२.९: परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् {अविज्ञातार्थम् लक्षण-सूत्रम्} ५.२.१०: पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् {अपार्थकम् लक्षण-सूत्रम्}
SK
[निग्रहस्थानत्रिकप्रकरणम्(११-१३)] ५.२.११: अवयवविपर्यासवचनमप्राप्तकालम् {अप्राप्तकालम् लक्षण-सूत्रम्} ५.२.१२: हीनमन्यतमेनाप्यवयवेन न्यूनम् {न्यूनम् लक्षण-सूत्रम्} ५.२.१३: हेतूदाहरणाधिकम् अधिकम् {अधिकम् लक्षण-सूत्रम्}
SK
[पुनरुक्तिनिग्रहस्थानप्रकरणम्(१४-१६)] ५.२.१४: शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात् {पुनरुक्तम् लक्षण-सूत्रम्} ५.२.१५: अनुवादे तु अपुनरुक्तं शब्दाभ्यासात् अर्थविशेषोपपत्तेः {पुनरुक्तम् लक्षणापवादसूत्रम्} ५.२.१६: अर्थात् आपन्नस्य स्वशब्देन पुनर्वचनम् {पुनरुक्तम् लक्षणापवादसूत्रम्}
SK
[उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम्(१७-२०)] ५.२.१७: विज्ञातस्य परिषदा त्रिः अभिहितस्य अपि अप्रत्युच्चारणम् अननुभाषणम् {अननुभाषणम् लक्षण-सूत्रम्} ५.२.१८: अविज्ञातम् च अज्ञानम् {अज्ञानम् लक्षण-सूत्रम्} ५.२.१९: उत्तरस्य अप्रतिपत्तिः अप्रतिभा {अप्रतिभा लक्षण-सूत्रम्} ५.२.२०: कार्यव्यासङ्गात् कथाविच्छेदः विक्षेपः {विक्षेपः लक्षण-सूत्रम्}
SK
[मतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम्(२१-२३)] ५.२.२१: स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गः मतानुज्ञा {मतानुज्ञा लक्षण-सूत्रम्} ५.२.२२: निग्रहस्थानप्राप्तस्य अनिग्रहः पर्यनुयोज्योपेक्षणम् {पर्यनुयोज्योपेक्षणम् लक्षण-सूत्रम्} ५.२.२३: अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः {निरनुयोज्यानुयोग लक्षण-सूत्रम्}
SK
[कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम्(२४-२५)] ५.२.२४: सिद्धान्तम् अभ्युपेत्य अनियमात् कथाप्रसङ्गः अपसिद्धान्तः {अपसिद्धान्त लक्षण-सूत्रम्} ५.२.२५: हेत्वाभासाः च यथोक्ताः {हेत्वाभास निरूपणम्}
SK
(इति न्यायसूत्रे पञ्चमाध्यायस्य द्वितीयम् आह्निकम्) (समाप्तश्चायम् पञ्चमाध्यायः) न्यायदर्शनं समाप्तम्

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Gautama: Nyāyasūtra (sa_gautama-nyAyasUtra.htm).

Source