२. इति | यो ऽप्य् असौ लोकधातुर् अधातुः स तथागतेन भाषितस् तेनोच्यते लोकधातुर् इति // भगवान् आह | तत् किं मन्यसे सुभूते द्वातृंशता महापुरुषलक्षणैस् तथागतो द्रष्टव्यः
SK
३. आह | नो भगवंस् तत् कस्य हेतो तानि तानि द्वात्रिंशन् महापुरुषलक्षणानि तथागतेन भाषितान्य् अलक्षणानि तेनोच्यन्ते द्वात्रिंशन् महापुरुषलक्षणानीति | भगवान् आह | यश् च खलु
SK
४. पुनः सुभूते स्त्री वा पुरुषो वा गंगानदीवालुकोपमान् आत्मभावान् परित्यजेद् यश् चेतो धर्मपर्यायाद् अन्तशश् चतुष्पदिकाम् अपि गाथाम् उद्गृह्य परेभ्यो देशयेद् अयम् एव
१. भू xxx भूतसंज्ञेति | न मे भगवन्न् आश्चर्यं यद् अहम् इमं धर्मपर्यायं भाष्यमाणम् अवकल्पयाम्य् अधिमुच्य | ये ते भगवन् सत्वा इमं धर्मपर्यायम् उद्ग्रहीष्यन्ति | यावत् पर्यवाप्स्यन्ति
SK
२. | ते परमाश्चर्यसमन्वागता भविष्यन्ति | अपि तु खलु पुनर् भगवन् न तेषाम् आत्मसंज्ञा प्रवर्त्स्यते | न सत्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा | तत् कस्य हेतोः सर्वसंज्ञापगताहि
SK
३. बुद्धा भगवन्तः भगवान् आह | एवम् एतत् सुभूते परमाश्चर्यसमन्वागतास् ते भविष्यन्ति य इमं धर्मपर्यायं श्रुत्वा नोत्त्रसिष्यन्ति | न संत्रसिष्यन्ति | न संत्रासम् आपत्स्यन्ते
६. मे तस्मिन् समये आत्मसंज्ञा वा सत्वसंज्ञा वा जीवसंज्ञा वा पुद्गलसंज्ञा वा | व्यापादसंज्ञा वापि मे तस्मिन् समये ऽभविष्यद् अभिजानाम्य् अहं सुभूते अतीते ऽध्वनि पंच जातिशतानि
SK
७. यो ऽहं क्षान्तिवादी ऋषिर् अभूवंस् तत्रापि मे नात्मसंज्ञाभून् न सत्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा | तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेन सर्वसंज्ञा वर्जयित्वा
१. ःरिमाणेन | सर्वे ते सत्वा ममांसेन बोधिं धारयिष्यन्ति | तत् कस्य हेतोः न हि शक्यं सुभूते अयं धर्मपर्यायो हीनाधिमुक्तिकैः सत्वैः श्रोतुं| नात्मदृष्टिकैर् न सत्वजीवपुद्गलदृष्टिकैः
SK
२. शक्यं श्रोतुं उद्ग्रहीतुं वा | यावत् पर्यवाप्तुं वा नेदं स्थानं विद्यते | अपि तु खलु पुनः सुभूते यत्र पृथिवीप्रदेशे इदं सूत्रं प्रकाशयिष्यति | पूजनीयः स
SK
३. पृथिवीप्रदेशो भविष्यति | सदेवमानुषासुरस्य लोकस्य वन्दनीयः प्रदक्षिणीकरणीयश् चैत्यभूत स पृथिवीप्रदेशो भविष्यति | ये ते सुभूते कुलपुत्रा
SK
४. वा कुलदुहितरो वा | इमान् एवंरूपान् सूत्रान्तान् उद्ग्रहीष्यन्ति यावत् पर्यवाप्स्यन्ति | ते परिभूता भविष्यन्ति सुपरिभूताः यानि च तेषां सत्वानां पूर्वजन्मिकान्य् अशुभानि कर्माण्य्
३. अपि न क्षमते | सचेत् सुभूते तेषां कुलपुत्राणां कुलदुहित्रीणां च पुण्यस्कन्धं भाषेयं यावन्तस् ते सत्वा कुलपुत्राः कुलदुहितरश् च तस्मिन् समये पुण्यस्कन्धं
SK
४. परिग्रहीष्यन्ति | उन्मादं सत्वा अनुप्राप्नुयुश् चित्तविक्षेपं वा गच्छेयुः अपि तु खलु पुनः सुभूते अचिन्त्यो ऽयं धर्मपर्यायः अस्याचिन्त्य एव विपाकः //
SK
५. आह | कथं भगवन् बोधिसत्वयानसंप्रस्थितेन स्थातव्यं कथं प्रतिपत्तव्यं कथं चित्तं प्रगृहीतव्यं | भगवान् आह | इह सुभूते बोधिसत्वयानसंप्रस्थितेनैवं चित्तम् उत्पादयितव्यं
SK
६. सर्वसत्वा मया अनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्याः एवं च सत्वान् परिनिर्वाप्य न कश्चित् सत्वः परिनिर्वापितो भवति | तत् कस्य हेतोः सचेत्
१. सुभूते बोधिसत्वस्य सत्वसंज्ञा प्रवर्तेत | जीवसंज्ञा पुद्गलसंज्ञा वा न स बोधिसत्व इति वक्तव्यः तत् कस्य हेतोः नास्ति सुभूते स धर्मो यो बोधिसत्वयानसंप्रस्थितो नाम | तत् किं मन्यसे
SK
२. सुभूते अस्ति स कश्चिद् धर्मो यस् तथागतेन दीपंकरस्य तथागतस्यान्तिकाद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः आह | नास्ति स भगवन् कश्चिद् धर्मो यस् तथागतेन दीपंकरस्य
SK
३. तथागतस्यान्तिकाद् अनुत्तरा सम्यक्संबोधिम् अभिसंबुद्धः आह | तस्माद् अहं दीपंकरेण तथागतेन व्याकृतो भविष्यसि त्वं माणवानागते ऽध्वनि शाक्यमुनिर् नाम तथागतो
१. ऽसौ तथागतेन पुरुषो भाषित उपेतकायो महाकायः अकायः स भगवंस् तथागतेन भाषितस् तेनोच्यते उपेतकायो महाकायः भगवान् आह | एवम् एतत् सुभूते
SK
२. यो बोधिसत्व एवं वदेद् अहं सत्वान् परिनिर्वापयिष्यामीति | न स बोधिसत्व इति वक्तव्यः तत् कस्य हेतोः अस्ति सुभूते स कश्चिद् धर्मो यो बोधिसत्वो नाम | आह | नो हीदं भगवन्
SK
३. भगवान् आह | तस्मात् तथागतो भाषते निःसत्वाः सर्वधर्माः निर्जीवा निष्पुद्गलाः यः सुभूते बोधिसत्व एवं वदेद् अहं क्षेत्रव्यूहान् निष्पादयिष्यामीति | सो ऽपि तथैव
१. न मां द्रक्ष्यन्ति ते जनाः द्रष्टव्यो धर्मतो बुद्धो धर्मकायस् तथागतः धर्मता चाप्य् अविज्ञेया न सा शक्यं विजानितुं // तत् किं मन्यसे सुभूते लक्षणसंपदा तथागतेनानुत्तरा
SK
२. सम्यक्संबोधिर् अभिसंबुद्धाः न खलु पुनः सुभूते एवं द्रष्टव्यं न सुभूते लक्षणसंपदा तथागतेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा| यत् खलु पुनः
SK
३. सुभूते स्याद् एवं बोधिसत्वयानसंप्रस्थितैः कस्यचिद् धर्मस्य विनाशः प्रज्ञप्त उच्छेदो वा न खलु पुनः सुभूते एवं द्रष्टव्यं | न बोधिसत्वयानसंप्रस्थितैः कस्यचिद्
SK
४. धर्मस्य विनाशः प्रज्ञप्तो नोच्छेदः यश् च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा गंगानदीवालुकोपमाल् लोकधातून् सप्तरत्नप्रतिपूर्णान् कृत्वा तथागतेभ्यो
SK
५. ऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्याद् यश् च बोधिसत्वो निरात्मकेषु धर्मेषु क्षान्तिं प्रतिलभेत | अयम् एव ततो बहुतरं पुण्यं प्रसवेत | न खलु पुनः सुभूते बोधिसत्वेन
१. अपि तु खलु पुनः सुभूते यः कश्चिद् एवं वदेत् तथागतो गच्छति वागच्छति वा | तिष्ठति वा निषीदति वा शय्यां वा कल्पयति | न मे स भाषितस्यार्थम् आजानाति | तत् कस्य हेतोः
SK
२. तथागत इति सुभूते न कुतश्चिद् आगतो न क्वचिद् गतः तेनोच्यते तथागतो ऽर्हन् सम्यक्संबुद्ध इति | यश् च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा यावन्तस् त्रिसाहस्रमहासाहस्रे
SK
३. लोकधातौ पृथिवीरजांसि तावतो लोकधातून् मषिं कुर्यात् तद्यथापि नाम परमाणुसंचयस् तत् किं मन्यसे सुभूते बहु स परमाणुसंचयो भवेत् आहैवम्
SK
४. एतद् भगवन् बहु स परमाणुसंचयो भवेत् तत् कस्य हेतोः सचेद् भगवन् संचयो ऽभविष्यन् न भगवान् अवक्ष्यत् परमाणुसंचय इति | तत् कस्य हेतोः यो ऽसौ परमाणुसंचयो
SK
५. भाषितः असंचयः स भगवता भाषितस् तेनोच्यते परमाणुसंचय इति | यच् च तथागतो भाषति तृसाहस्रमहासाहस्रो लोकधातुर् इति | अधातुः स तथागतेन
१. भाषितः अग्राहः स तथागतेन भाषितस् तेनोच्यते पिण्डग्राह इति | भगवान् आह | पिण्डग्राहश् चैवाव्यवहारो ऽनभिलाप्यः सुभूते स धर्मःस बालपृथग्जनैर्
SK
२. उद्गृहीतः तत् कस्य हेतोः यः कश्चित् सुभूते एवं वदेद् आत्मदृष्टिस् तथागतेन भाषिता सत्वदृष्टिर् जीवदृष्टिः पुद्गलदृष्टिः अपि नु सुभूते स सम्यग् वदन् वदेत्
SK
३. आह | नो भगवंस् तत् कस्य हेतोः या सा भगवन्न् आत्मदृष्टिस् तथागतेन भाषिता अदृष्टिः सा तथागतेन भाषिता तेनोच्यते आत्मदृष्टिर् इति | भगवान् आह |
SK
४. एवं सुभूते बोधिसत्वयानसंप्रस्थितेन सर्वधर्मा ज्ञातव्या अधिमोक्तव्यास् तथा चाधिमोक्तव्या यथा न धर्मसंज्ञापि प्रत्युपतिष्ठेत् तत् कस्य हेतोः धर्मसंज्ञा
SK
५. धर्मसंज्ञेति सुभूते असंज्ञैषा तथागतेन भाषिता तेनोच्यते धर्मसंज्ञेति | यश् च खलु पुनः सुभूते बोधिसत्वो महासत्वः अप्रमेयासंख्येयाल् लोकधातून् सप्तरत्नपरिपूर्णान्
SK
६. कृत्वा दानं दद्याद् यश् च कुलपुत्रो वा कुलदुहिता वा इतः प्रज्ञापारमिताया अन्तशश् चतुष्पदिकाम् अपि गाथाम् उद्गृह्य धारयेद् देशयेत् पर्यवाप्नुयाद् अयम्
१. एव ततो बहुतरं पुण्यं प्रसवेताप्रमेयम् असंख्येयं | कठं च संप्रकाशयेद् यथा न प्रकाशयेत् तेनोच्यते संप्रकाशये इति // तारका तिमिरं दीपो मायावश्याय
SK
२. बुद्बुदः सुपिनं विद्युद् अभ्रं च एवं द्रष्टव्य संस्कृतं // इदम् अवोचद् भगवान् आत्तमना स्थविरसुभूतिस् ते च भिक्षुभिक्षुण्युपासकोपासिकाः सदेवमानुषासुरगन्धर्वश्
SK
३. च लोको भगवतो भाषितम् अभ्यनन्दन् // // वज्रच्छेदिका प्रज्ञापारमिता समाप्ताः // //