Diamond Cutter Sutra

Vajracchedikā Prajñāpāramitā-Gilgit · Vअज्रच्छेदिका Pरज्ञापारमिता-Gइल्गित्

Diamond Cutter Sutra

Vajracchedikā Prajñāpāramitā-Gilgit

Vअज्रच्छेदिका Pरज्ञापारमिता-Gइल्गित्

SK
TRANSCRIPTION OF THE GILGIT TEXT
SK
Fओलिओ ५अ (G १३८०; Cहक् १८२.१-१८३.११; Dउ १५१.३-१५२.१५; MM २९.६-३०.११; Cz ३८.६-३९.२०; Pअर् १८२.१०-१८३.१०; Tइब् २५३.१.३-२.५)
SK
१. ःतः भगवान् आह | यावत् सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरजः कच्चित् तद् बहु | आह | बहु भगवन् तत् पृथिवीरजः अरजस् तथागतेन भाषितस् तेनोच्यते पृथिवीरज
SK
२. इति | यो ऽप्य् असौ लोकधातुर् अधातुः स तथागतेन भाषितस् तेनोच्यते लोकधातुर् इति // भगवान् आह | तत् किं मन्यसे सुभूते द्वातृंशता महापुरुषलक्षणैस् तथागतो द्रष्टव्यः
SK
३. आह | नो भगवंस् तत् कस्य हेतो तानि तानि द्वात्रिंशन् महापुरुषलक्षणानि तथागतेन भाषितान्य् अलक्षणानि तेनोच्यन्ते द्वात्रिंशन् महापुरुषलक्षणानीति | भगवान् आह | यश् च खलु
SK
४. पुनः सुभूते स्त्री वा पुरुषो वा गंगानदीवालुकोपमान् आत्मभावान् परित्यजेद् यश् चेतो धर्मपर्यायाद् अन्तशश् चतुष्पदिकाम् अपि गाथाम् उद्गृह्य परेभ्यो देशयेद् अयम् एव
SK
५. ततोनिदानं बहु पुण्यं प्रसवेताप्रमेयम् असंख्येयं // अथ खल्व् आयुष्मां सुभूतिर् धर्मप्रवेगेनास्रूणि प्रामुंचत् सो ऽस्रूणि प्रामृज्य भगवन्तम् एतद् अवोचत्* आश्चर्यं
SK
६. भगवन् परमाश्चर्यं सुगत | यावद् अयं धर्मपर्यायस् तथागतेन भाषितो यतो मे भगवं ज्ञानम् उत्पन्नं न मे जात्व् अयं धर्मपर्यायः श्रूतपूर्वः परमेण
SK
७. ते भगवन्न् आश्चर्येन समन्वागता भविष्यन्ति य इह सूत्रे भाष्यमाणे भूतसंज्ञाम् उत्पादयिष्यन्ति | या चैषा भगवन् भूतसंज्ञा सैवा x-ंज्-x-आ x स्मात् तथागतो भाषते
SK
Fओलिओ ५ब् (G १३८१; Cहक् १८३.१२-१८४.९; Dउ १५२.१५-१५४.११; MM ३०.१२-३२.१; Cz ३९.२०-४१.१९; Pअर् १८३.१०-१८४.२०; Tइब् २५३.२.५-३.८)
SK
१. भू xxx भूतसंज्ञेति | न मे भगवन्न् आश्चर्यं यद् अहम् इमं धर्मपर्यायं भाष्यमाणम् अवकल्पयाम्य् अधिमुच्य | ये ते भगवन् सत्वा इमं धर्मपर्यायम् उद्ग्रहीष्यन्ति | यावत् पर्यवाप्स्यन्ति
SK
२. | ते परमाश्चर्यसमन्वागता भविष्यन्ति | अपि तु खलु पुनर् भगवन् न तेषाम् आत्मसंज्ञा प्रवर्त्स्यते | न सत्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा | तत् कस्य हेतोः सर्वसंज्ञापगताहि
SK
३. बुद्धा भगवन्तः भगवान् आह | एवम् एतत् सुभूते परमाश्चर्यसमन्वागतास् ते भविष्यन्ति य इमं धर्मपर्यायं श्रुत्वा नोत्त्रसिष्यन्ति | न संत्रसिष्यन्ति | न संत्रासम् आपत्स्यन्ते
SK
४. | तत् कस्य हेतोः परमपारमितेयं सुभूते तथागतेन भाषिता| यां च तथागतः परमपारमितां भाषते | ताम् अपरिमाणा बुद्धा भगवन्तो भाषन्ते | तेनोच्यते परमपारमितेति
SK
५. // अपि तु खलु पुनः सुभूते य तथागतस्य क्षान्तिपारमिता सैवापारमिता | तत् कस्य हेतोः यदा सुभूते कलिराजाङ्गप्रत्यंगमांसान्य् अच्छैत्सीत् नासीन्
SK
६. मे तस्मिन् समये आत्मसंज्ञा वा सत्वसंज्ञा वा जीवसंज्ञा वा पुद्गलसंज्ञा वा | व्यापादसंज्ञा वापि मे तस्मिन् समये ऽभविष्यद् अभिजानाम्य् अहं सुभूते अतीते ऽध्वनि पंच जातिशतानि
SK
७. यो ऽहं क्षान्तिवादी ऋषिर् अभूवंस् तत्रापि मे नात्मसंज्ञाभून् न सत्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा | तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेन सर्वसंज्ञा वर्जयित्वा
SK
Fओलिओ ७अ (G १३८२; Cहक् १८४.९-१८५.४; Dउ १५६.१४-१५७.१३; MM ३४.२-३५.२; Cz ४४.६-४५.११; Pअर् १८६.११-१८७.७; Tइब् २५३.५.७-२५४.१.७)
SK
१. ःरिमाणेन | सर्वे ते सत्वा ममांसेन बोधिं धारयिष्यन्ति | तत् कस्य हेतोः न हि शक्यं सुभूते अयं धर्मपर्यायो हीनाधिमुक्तिकैः सत्वैः श्रोतुं| नात्मदृष्टिकैर् न सत्वजीवपुद्गलदृष्टिकैः
SK
२. शक्यं श्रोतुं उद्ग्रहीतुं वा | यावत् पर्यवाप्तुं वा नेदं स्थानं विद्यते | अपि तु खलु पुनः सुभूते यत्र पृथिवीप्रदेशे इदं सूत्रं प्रकाशयिष्यति | पूजनीयः स
SK
३. पृथिवीप्रदेशो भविष्यति | सदेवमानुषासुरस्य लोकस्य वन्दनीयः प्रदक्षिणीकरणीयश् चैत्यभूत स पृथिवीप्रदेशो भविष्यति | ये ते सुभूते कुलपुत्रा
SK
४. वा कुलदुहितरो वा | इमान् एवंरूपान् सूत्रान्तान् उद्ग्रहीष्यन्ति यावत् पर्यवाप्स्यन्ति | ते परिभूता भविष्यन्ति सुपरिभूताः यानि च तेषां सत्वानां पूर्वजन्मिकान्य् अशुभानि कर्माण्य्
SK
५. अपायसंवर्तनीयानि तानि दृष्ट एव धर्मे परिभूततया क्षपयिष्यन्ति बुद्दबोधिं चानुप्राप्स्यन्ति | अभिजानाम्य् अहं सुभूते अतीते ऽध्वन्य् असंख्येयैः कल्पैर् असंख्येयतरैर्
SK
६. दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परेण चतुरशीतिर् बुद्धकोटीनियुतशतसहस्राण्य् अभूवन् यानि मया आरागितानि आराग्य च न विरागितानि |
SK
Fओलिओ ७ब् (G १३८३; Cहक् १८५.४-२७; Dउ १५७.१३-१५९.२; MM ३५.२-३६.३; Cz ४५.११-४७.५; Pअर् १८७.७-देएस्त्; Tइब् २५४.१.७-२.६)
SK
१. यच् च मया सुभूते ते बुद्धा भगवन्त आराग्य न विरागिता यच् च चरिमे काले पश्चिमायां पंचाशत्यां वर्तमानायाम् इमां सूत्रान्तान् उद्ग्रहीष्यन्ति | यावत् पर्यवाप्स्यन्ति | अस्य सुभूते
SK
२. पुण्यस्कन्धस्यासौ पूर्वकः पुण्यस्कन्धः शततमीम् अपि कलान् नोपैति | सहस्रतमीम् अपि | शतसहस्रतमीम् अपि | संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम्
SK
३. अपि न क्षमते | सचेत् सुभूते तेषां कुलपुत्राणां कुलदुहित्रीणां च पुण्यस्कन्धं भाषेयं यावन्तस् ते सत्वा कुलपुत्राः कुलदुहितरश् च तस्मिन् समये पुण्यस्कन्धं
SK
४. परिग्रहीष्यन्ति | उन्मादं सत्वा अनुप्राप्नुयुश् चित्तविक्षेपं वा गच्छेयुः अपि तु खलु पुनः सुभूते अचिन्त्यो ऽयं धर्मपर्यायः अस्याचिन्त्य एव विपाकः //
SK
५. आह | कथं भगवन् बोधिसत्वयानसंप्रस्थितेन स्थातव्यं कथं प्रतिपत्तव्यं कथं चित्तं प्रगृहीतव्यं | भगवान् आह | इह सुभूते बोधिसत्वयानसंप्रस्थितेनैवं चित्तम् उत्पादयितव्यं
SK
६. सर्वसत्वा मया अनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्याः एवं च सत्वान् परिनिर्वाप्य न कश्चित् सत्वः परिनिर्वापितो भवति | तत् कस्य हेतोः सचेत्
SK
Fओलिओ ८अ (G १३८४; Cहक् १८५.२७-१८६.२२; Dउ १५९.२-१६०.१०; MM ३६.३-३७.१६; Cz ४७.५-४९.५; Pअर् देएस्त्-१८८.१०; Tइब् २५४.२.६-४.४)
SK
१. सुभूते बोधिसत्वस्य सत्वसंज्ञा प्रवर्तेत | जीवसंज्ञा पुद्गलसंज्ञा वा न स बोधिसत्व इति वक्तव्यः तत् कस्य हेतोः नास्ति सुभूते स धर्मो यो बोधिसत्वयानसंप्रस्थितो नाम | तत् किं मन्यसे
SK
२. सुभूते अस्ति स कश्चिद् धर्मो यस् तथागतेन दीपंकरस्य तथागतस्यान्तिकाद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः आह | नास्ति स भगवन् कश्चिद् धर्मो यस् तथागतेन दीपंकरस्य
SK
३. तथागतस्यान्तिकाद् अनुत्तरा सम्यक्संबोधिम् अभिसंबुद्धः आह | तस्माद् अहं दीपंकरेण तथागतेन व्याकृतो भविष्यसि त्वं माणवानागते ऽध्वनि शाक्यमुनिर् नाम तथागतो
SK
४. ऽर्हन् सम्यक्संबुद्धस् तत् कस्य हेतोस् तथागत इति सुभूते तथताया एतद् अधिवचनं यः कश्चित् सुभूते एवं वदेत् तथागतेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धेति |
SK
५. नास्ति सुभूते स कश्चिद् धर्मो यस् तथागतेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धः यः सुभूते तथागतेन धर्मो ऽभिसंबुद्धस् तत्र न सत्यं न मृषाः तस्मात् तथागतो भाषते | सर्वधर्मा
SK
६. बुद्धधर्मा इति | सर्वधर्मा इति सुभूते सर्वे ते अधर्मास् तेनोच्यन्ते सर्वधर्मा इति // तद्यथापि नाम सुभूते पुरुषो भवेद् उपेतकायो महाकायः सुभूतिर् आह | यो
SK
Fओलिओ ८ब् (G १३८५; Cहक् १८६.२२-१८७.१५; Dउ १६०.१०-१६२.१; MM ३७.१६-३९.२; Cz ४९.५-५०.१४; Pअर् १८८.१०-१८९.९; Tइब् २५४.४.४-२५५.१.१)
SK
१. ऽसौ तथागतेन पुरुषो भाषित उपेतकायो महाकायः अकायः स भगवंस् तथागतेन भाषितस् तेनोच्यते उपेतकायो महाकायः भगवान् आह | एवम् एतत् सुभूते
SK
२. यो बोधिसत्व एवं वदेद् अहं सत्वान् परिनिर्वापयिष्यामीति | न स बोधिसत्व इति वक्तव्यः तत् कस्य हेतोः अस्ति सुभूते स कश्चिद् धर्मो यो बोधिसत्वो नाम | आह | नो हीदं भगवन्
SK
३. भगवान् आह | तस्मात् तथागतो भाषते निःसत्वाः सर्वधर्माः निर्जीवा निष्पुद्गलाः यः सुभूते बोधिसत्व एवं वदेद् अहं क्षेत्रव्यूहान् निष्पादयिष्यामीति | सो ऽपि तथैव
SK
४. वक्तव्यः तत् कस्य हेतोः क्षेत्रव्यूहाः क्षेत्रव्यूहा इति सुभूते अव्यूहास् ते तथागतेन भाषितास् तेनोच्यन्ते क्षेत्रव्यूहा इति | यः सुभूते बोधिसत्वो निरात्मानो धर्मा निरात्मानो
SK
५. धर्मा इत्य् अधिमुच्यते स तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्वो बोधिसत्व इत्य् आख्यातस् तत् किं मन्यसे सुभूते संविद्यते तथागतस्य मांसचक्षुः आह | एवम् एतद् भगवन्
SK
६. संविद्यते तथागतस्य मांसचक्षुः // भगवान् आह | तत् किं मन्यसे सुभूते संविद्यते तथागतस्य दिव्यं चक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुः आहैवम् एतद् भगवन् संविद्यते तथागतस्य
SK
Fओलिओ ९अ (G १३८६; Cहक् १८७.१४-१८८.७; Dउ १६२.१-१६३.५; MM ३९.२-४०.८; Cz ५०.१४-५२.१४; Pअर् १८९.१०-१९०.७; Tइब् २५५.१.१-२.१)
SK
१. दिव्यं चक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुः // भगवान् आह | तत् किं मन्यसे सुभूते यावन्त्यो गंगानद्यां वालुकास् तावन्त्य गंगानद्यो भवेयुस् तासु या वालुकास् तावन्त एव लोकधातवो
SK
२. भवेयुः कच्चिद् बहवस् ते लोकधातवो भवेयुः भगवान् आह | यावन्तः सुभूते तेषु लोकधातुषु सत्वास् तेषाम् अहं नानाभावां चित्तधारां जानीयास् तत् कस्य हेतोश्
SK
३. चित्तधारा चित्तधारा इति सुभूते अधारास् तास् तथागतेन भाषितास् तेनोच्यन्ते चित्तधारा इति | तत् कस्य हेतोर् अतीतं सुभूते चित्तं नोपलभ्यते | अनागतं चित्तं नोपलभ्यते
SK
४. | प्रत्युत्पन्नं नोपलभ्यते | तत् किं मन्यसे सुभूते य इमं त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा दानं दद्याद् अपि नु स कुलपुत्रो वा कुलदुहिता
SK
५. वा ततोनिदानं बहु पुण्यं प्रसवेत | आह | बहु भगवन् बहु सुगत | भगवान् आह | एवम् एतत् सुभूते एवम् एतद् बहु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं
SK
६. बहु पुण्यं प्रसवेत | सचेत् सुभूते पुण्यस्कन्धो ऽभविष्यन् न तथागतो ऽभाषिष्यत् पुण्यस्कन्धः पुण्यस्कन्ध इति | तत् किं मन्यसे सुभूते रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्यः
SK
Fओलिओ ९ब् (G १३८७; Cहक् १८८.८-१८९.२१; Dउ १६३.५-१६४.९; MM ४०.८-४१.९; Cz ५२.१४-५४.१; Pअर् १९०.७-१९१.७; Tइब् २५५.२.१-३.३)
SK
१. आह | नो भगवन् न रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्यः तत् कस्य हेतोः रूपकायपरिनिष्पत्ती रूपकायपरिनिष्पत्तिर् इत्य् अपरिनिष्पत्तिर् एषा तथागतेन
SK
२. भाषिता तेनोच्यते रूपकायपरिनिष्पत्तिर् इति | भगवन् आह | तत् किं मन्यसे सुभूते लक्षणसंपदा तथागतो द्रष्टव्यः आह | नो भगवन् न लक्षणसंपदा तथागतो
SK
३. द्रष्टव्यः तत् कस्य हेतोः यैषा लक्षणसंपत् तथागतेन भाषिता अलक्षणसंपद् एषा तथागतेन भाषिता तेनोच्यते लक्षणसंपद् इति | भगवान् आह | तत् किं मन्यसे
SK
४. सुभूते अपि नु तथागतस्यैवं भवति न मया धर्मो देशित इति | यः सुभूते एवं वदेत् तथागतेन धर्मो देशित इति | अभ्याचक्षीत मांस सुभूते असताद् उद्गृहीतेन
SK
५. | तत् कस्य हेतोर् धर्मदेशना धर्मदेशनेति सुभूते नास्ति स कश्चिद् धर्मो यो धर्मदेशना नामोपलभ्यते | आहास्ति भगवन् केचित् सत्वा भविष्यन्त्य् अनागते ऽध्वनि य इमान्
SK
६. एवंरूपान् धर्मान् भाष्यमाणां च्छ्रुत्वाभिश्रद्दधास्यन्ति | भगवान् आह | न ते सुभूते सत्वा नासत्वास् तत् कस्य हेतोः सर्वसत्वा इति सुभूते असत्वास् ते तथागतेन भाषितास् तेनोच्यन्ते
SK
Fओलिओ १०अ (G १३८८; Cहक् १८८.३०-१८९.२१; Dउ १६४.९-१६५.१२; MM ४१.९-४२.७; Cz ५४.१-५५.८; Pअर् १९१.७-१९२.३; Tइब् २५५.३.३-४.३)
SK
१. सर्वसत्वा इति | तत् किं मन्यसे सुभूते अपि त्व् अस्ति स कश्चिद् धर्मो यस् तथागतेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धः आह | नास्ति स भगवन् कश्चिद् धर्मो यस् तथागतेनानुत्तरा
SK
२. सम्यक्संबोधिर् अभिसंबुद्धः भगवान् आह | एवम् एतत् सुभूते एवम् एतत् अणुर् अपि तत्र धर्मो न संविद्यते नोपलभ्यते तेनोच्यते ऽनुत्तरा सम्यक्संबोधिर् इति | अपि
SK
३. तु खलु पुनः सुभूते समः स धर्मो न तत्र किंचिद् विषमस् तेनोच्यते ऽनुत्तरा सम्यक्संबोधिर् इति | निर्जीवत्वेन निःसत्वत्वेन निष्पुद्गलत्वेन समा सानुत्तरा सम्यक्संबोधिः
SK
४. सर्वैः कुशलैर् धर्मैर् अभिसंबुध्यते | कुशला धर्माः कुशला धर्मा इति सुभूते अधर्माश् चैव ते तथागतेन भाषितास् तेनोच्यन्ते कुशला धर्मा इति | यश् च खलु
SK
५. पुनः सुभूते यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सुमेरवः पर्वतराजास् तावतो राशीन् सप्तानां रत्नानाम् अभिसंहृत्य दानं दद्याद् यश् चेतः प्रज्ञापारमिताया
SK
६. अन्तशश् चतुष्पदिकाम् अपि गाथाम् उद्गृह्य परेभ्यो देशयेद् अस्य सुभूते पुण्यस्कन्धस्यासौ पूर्वकः पुण्यस्कन्धः शततमीम् अपि कलान् नोपैति | यावद् उपनिशाम्
SK
Fओलिओ १०ब् (G १३८९; Cहक् १८९.२१-१९०.११; Dउ १६५.१२-१६६.१४; MM ४२.७-४३.७; Cz ५५.८-५६.२०; Pअर् १९२.३-१९२.२१; Tइब् २५५.४.३-५.४)
SK
१. अपि न क्षमते | तत् किं मन्यसे सुभूते अपि नु तथागतस्यैवं भवति | मया सत्वा मोचिता इति | न खलु पुनः सुभूते-र्-एवं द्रष्टव्यं | तत् कस्य हेतोः न स कश्चित् सत्वो
SK
२. यस् तथागतेन मोचितः यदि पुनः सुभूते कश्चित् सत्वो ऽभविष्यद् यस् तथागतेन मोचितः स एव तस्यात्मग्राहो ऽभविष्यत् सत्वग्राहो जीवग्राहः पुद्गलग्राहः
SK
३. आत्मग्राह इति सुभूते अग्राह एष तथागतेन भाषितः स च बालपृथग्जनैर् उद्गृहीतः बालपृथग्जना इति सुभूते अजना एते तथागतेन
SK
४. भाषितास् तेनोच्यंते बालपृथग्जना इति | तत् किं मन्यसे सुभूते लक्षणसंपदा तथागतो द्रष्टव्यः आहैवम् एतद् भगवल् लक्षणसंपदा तथागतो द्रष्टव्यः
SK
५. भगवान् आह | सचेत् पुनः सुभूते लक्षणसंपदा तथागतो द्रष्टव्यो ऽभविष्यद् राजापि चक्रवर्ती तथागतो ऽभविष्यत्* आह | यथाहं भगवतो भाषितस्यार्थम् आजानामि
SK
६. | न लक्षणसंपदा तथागतो द्रष्टव्यः // अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अभाषतः // ये मां रूपेण अद्राक्षुर् ये मां घोषेण अन्वयुः मिथ्याप्रहाणप्रसृता
SK
Fओलिओ ११अ (G १३९०; Cहक् १९०.१२-१९१.४; Dउ १६६.१४-१६८.३; MM ४३.७-४४.६; Cz ५६.२०-५९.१; Pअर् १९२.२१-१९३.१३; Tइब् २५५.५.४-२५६.१.४)
SK
१. न मां द्रक्ष्यन्ति ते जनाः द्रष्टव्यो धर्मतो बुद्धो धर्मकायस् तथागतः धर्मता चाप्य् अविज्ञेया न सा शक्यं विजानितुं // तत् किं मन्यसे सुभूते लक्षणसंपदा तथागतेनानुत्तरा
SK
२. सम्यक्संबोधिर् अभिसंबुद्धाः न खलु पुनः सुभूते एवं द्रष्टव्यं न सुभूते लक्षणसंपदा तथागतेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा| यत् खलु पुनः
SK
३. सुभूते स्याद् एवं बोधिसत्वयानसंप्रस्थितैः कस्यचिद् धर्मस्य विनाशः प्रज्ञप्त उच्छेदो वा न खलु पुनः सुभूते एवं द्रष्टव्यं | न बोधिसत्वयानसंप्रस्थितैः कस्यचिद्
SK
४. धर्मस्य विनाशः प्रज्ञप्तो नोच्छेदः यश् च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा गंगानदीवालुकोपमाल् लोकधातून् सप्तरत्नप्रतिपूर्णान् कृत्वा तथागतेभ्यो
SK
५. ऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्याद् यश् च बोधिसत्वो निरात्मकेषु धर्मेषु क्षान्तिं प्रतिलभेत | अयम् एव ततो बहुतरं पुण्यं प्रसवेत | न खलु पुनः सुभूते बोधिसत्वेन
SK
६. पुण्यस्कन्धः परिग्रहीतव्यः आह | पुण्यस्कन्धो भगवन् परिग्रहीतव्यः भगवान् आह | परिग्रहीतव्यः सुभूते नोद्ग्रहीतव्यः तेनोच्यते परिग्रहीतव्यः
SK
Fओलिओ ११ब् (G १३९१; Cहक् १९१.५-२६; Dउ १६८.३-१६९.४; MM ४४.७-४५,४; Cz ५४.१-६०.७; Pअर् १९३.१३-१९४.५; Tइब् २५६.१.४-२.४)
SK
१. अपि तु खलु पुनः सुभूते यः कश्चिद् एवं वदेत् तथागतो गच्छति वागच्छति वा | तिष्ठति वा निषीदति वा शय्यां वा कल्पयति | न मे स भाषितस्यार्थम् आजानाति | तत् कस्य हेतोः
SK
२. तथागत इति सुभूते न कुतश्चिद् आगतो न क्वचिद् गतः तेनोच्यते तथागतो ऽर्हन् सम्यक्संबुद्ध इति | यश् च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा यावन्तस् त्रिसाहस्रमहासाहस्रे
SK
३. लोकधातौ पृथिवीरजांसि तावतो लोकधातून् मषिं कुर्यात् तद्यथापि नाम परमाणुसंचयस् तत् किं मन्यसे सुभूते बहु स परमाणुसंचयो भवेत् आहैवम्
SK
४. एतद् भगवन् बहु स परमाणुसंचयो भवेत् तत् कस्य हेतोः सचेद् भगवन् संचयो ऽभविष्यन् न भगवान् अवक्ष्यत् परमाणुसंचय इति | तत् कस्य हेतोः यो ऽसौ परमाणुसंचयो
SK
५. भाषितः असंचयः स भगवता भाषितस् तेनोच्यते परमाणुसंचय इति | यच् च तथागतो भाषति तृसाहस्रमहासाहस्रो लोकधातुर् इति | अधातुः स तथागतेन
SK
६. भाषितस् तेनोच्यते त्रिसाहस्रमहासाहस्रो लोकधातुर् इति | तत् कस्य हेतोः सचेद् भगवन् धातुर् अभविष्यत् स एव भगवन् पिण्डग्राहो ऽभविष्यद् यश् चैव तथागतेन पिण्डग्राहो
SK
Fओलिओ १२अ (G १३९२; Cहक् १९१.२७-१९२.१५; Dउ १६९.४-१७०.७; MM ४५.४-४६.२; Cz ६O.७-६१.१२; Pअर् १९४.५-१९४.२२; Tइब् २५६.२.४-३.४)
SK
१. भाषितः अग्राहः स तथागतेन भाषितस् तेनोच्यते पिण्डग्राह इति | भगवान् आह | पिण्डग्राहश् चैवाव्यवहारो ऽनभिलाप्यः सुभूते स धर्मःस बालपृथग्जनैर्
SK
२. उद्गृहीतः तत् कस्य हेतोः यः कश्चित् सुभूते एवं वदेद् आत्मदृष्टिस् तथागतेन भाषिता सत्वदृष्टिर् जीवदृष्टिः पुद्गलदृष्टिः अपि नु सुभूते स सम्यग् वदन् वदेत्
SK
३. आह | नो भगवंस् तत् कस्य हेतोः या सा भगवन्न् आत्मदृष्टिस् तथागतेन भाषिता अदृष्टिः सा तथागतेन भाषिता तेनोच्यते आत्मदृष्टिर् इति | भगवान् आह |
SK
४. एवं सुभूते बोधिसत्वयानसंप्रस्थितेन सर्वधर्मा ज्ञातव्या अधिमोक्तव्यास् तथा चाधिमोक्तव्या यथा न धर्मसंज्ञापि प्रत्युपतिष्ठेत् तत् कस्य हेतोः धर्मसंज्ञा
SK
५. धर्मसंज्ञेति सुभूते असंज्ञैषा तथागतेन भाषिता तेनोच्यते धर्मसंज्ञेति | यश् च खलु पुनः सुभूते बोधिसत्वो महासत्वः अप्रमेयासंख्येयाल् लोकधातून् सप्तरत्नपरिपूर्णान्
SK
६. कृत्वा दानं दद्याद् यश् च कुलपुत्रो वा कुलदुहिता वा इतः प्रज्ञापारमिताया अन्तशश् चतुष्पदिकाम् अपि गाथाम् उद्गृह्य धारयेद् देशयेत् पर्यवाप्नुयाद् अयम्
SK
Fओलिओ १२ब् (G १३९३; Cहक् १९२.१६-२५; Dउ १७०.७-१५; MM ४६.२-११; Cz ६१.१२-६२.८; Pअर् १९४.२२-१९५.७; Tइब् २५६.३.४-३.८)
SK
१. एव ततो बहुतरं पुण्यं प्रसवेताप्रमेयम् असंख्येयं | कठं च संप्रकाशयेद् यथा न प्रकाशयेत् तेनोच्यते संप्रकाशये इति // तारका तिमिरं दीपो मायावश्याय
SK
२. बुद्बुदः सुपिनं विद्युद् अभ्रं च एवं द्रष्टव्य संस्कृतं // इदम् अवोचद् भगवान् आत्तमना स्थविरसुभूतिस् ते च भिक्षुभिक्षुण्युपासकोपासिकाः सदेवमानुषासुरगन्धर्वश्
SK
३. च लोको भगवतो भाषितम् अभ्यनन्दन् // // वज्रच्छेदिका प्रज्ञापारमिता समाप्ताः // //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Vajracchedikā Prajñāpāramitā-Gilgit (sa_vajracchedikA-prajJApAramitA-gilgit.htm).

Source
Vajracchedikā Prajñāpāramitā-Gilgit — Reader · Sutraya