String of Jewels of Knowledge
Jñānaratnāvalī
SK|| ज्ञानरत्नावली || हरिः ओम् | प्रथम पत्रं न दृश्यते || इति भस्म गायत्री कुर्यात् | तेन विधिनानमीशादौ शिरसः क्रमात् | भौतिक ब्रह्मचारी चेत् पूर्वास्यः स्यादुदङ्मुखः | नैष्ठिकब्रह्मचारी चेद जाद्यैश्चरणादिभिः || उद्धूल्य सर्वगात्रेषु कुर्यात् पुण्ड्रमिति क्वचित् | सान्तानिको बुभुक्षुश्च साधकश्च त्रया युषम् || भस्मना च न्यसेन्मूर्ध्नि ब्रह्माङ्गैः कुम्भमुद्रया || विसृज्यभूगतं रेणुं तालत्रयपुरस्सरम् | दूरे प्रक्षेपयेत्तस्मात् तन्निमाल्यं न चा क्रमात् || स्नानमित्थं प्रकर्तव्यं आग्नेयं ब्रह्मचारिभिः || सन्ध्यात्रयेर्धरात्रौ च शय्यादाव वसानके | सुप्त्वा भुक्त्वा जलं पीत्वा कृत्वा चावश्यकं प्रति || तथैव पण्डशूद्रस्त्री स्पर्शेऽग्नेयमभ्यसेत् | शुक्रमार्जार नकुलैः तथा जाविकमूषकैः || यदा स्पृष्टं तथा चान्यैः स्नानमाग्नेयमाचरेत् || अथ यदुक्तं श्रीमतङ्गादौ - आग्नेयं भस्मनास्नान तद्वन्यैर्गोमयोपलैः | प्. ३) सञ्चितैरस्त्र सन्दीप्तैर्दर्गस्सर्वविनायकैः || भस्मी भूतैश्च तद्भस्म पवित्रं ब्रह्म मन्त्रितम् | तेन स्नायात्पवित्रेण भस्मना करजेन वा || शास्त्रोच्चारान्मलस्नानं निखिलाङ्ग प्रकर्षणम् | अङ्गगानि च विघ्नानि विनाशं यान्ति शास्मृतम् || पुनरीश नराघोर वामजैः कार्मुखञ्च हृत् | गुह्यं पादौ च सर्वाङ्गं पुनः सद्येन घर्षयेत् | के भिषेकं पुनर्दद्याद्ब्रह्माङ्गैश्च शिवेन च || मन्त्रभूते विशुद्धात्मा भवेत् सर्वक्रिया सुराः | अथवाग्नि होत्रे तु गृह्यभस्मविचक्षणः || तेनस्नायात्पवित्रेण पूर्वोक्तविधिनाबुधः | सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् || तत्फलं कोटि गुणितं भस्मस्नानाल्लभेन्नरः || इति स्नानमित्थं विद्या कौपीनं परिवर्तयेत् | तद्यथा - षोडशाङ्गुल विस्तीर्णं दीर्घं षट्त्रिंशदङ्गुलम् | क्वचित् - हस्तमात्रप्रविस्तीर्णं दीर्घं हस्तद्वयं मतम् | यो तं शुभं सूक्ष्मंसितं काषायमेव वा ||? त्रयोदशाक्षसङ्कोचं कौपीनं ब्रह्मचारिणः | सुदृष्टं कटिसूत्रञ्च मौञ्जीसूत्र पलाशकम् || प्. ४)
SKएकद्वित्रिसराद्यावत् पञ्चाशत्सरमुत्तमम् | यथा शोभं प्रकुर्वीत वामदेवेन धारयेत् || ताल मान कृतं सूत्रमेका शीति गुणीकृतम् | त्रिगुणं त्रिगुणीकृत्य परिवर्त्य पुनः पुनः || नाभेरूर्ध्वमनायुष्यमधोनाभेस्तपक्षयः | नाभि प्रदक्षिणावर्तं सर्वसिद्धिकरं स्थितम् || कुर्याद्यज्ञोपवीती * * त्रिसरं ब्रह्मचारिणम् | त्रिगुणं तद्गृहस्थस्य षड्गुणं देशिकस्य तत् || स्व स्व जातीशमन्त्रेण मन्त्रितं सोत्तरीयकम् | नाति स्थूलं कृशं छिन्नं ग्रथितं लिखितत्विषम् || सकेशभुलं संयुक्तं जीर्णं यत्नेन वर्जयेत् || सर्वदेवमयं साक्षात् पवित्रं परमं शिवम् | धारयेदुपवीतं तु भुक्तिमुक्तिप्रदस्सुधीः || कृष्णाजिनं पवित्रञ्च चतुःषट्पर्वसंमितम् | कुशद्वयेन साग्रेण दर्भक * द्वयेन वा | निर्मितं तत्पवित्रं तु मध्ये तद्ग्रन्थिसंयुतम् || क्रमाद्ब्रह्मादिभियुक्तं मूलमध्याग्रकेषु च | शिवाय शिवमन्त्रेण धारयेत्तत्पवित्रकम् || दण्डमात्मसमं सप्त नवैकादशपर्वकम् | अजेनाङ्गुष्ठवत्स्थौलयं वामे स्कन्ध निवेशितम् || प्. ५) भस्माधारमघोरेण तुम्बवस्त्राजिनादिकम् | यथा लाभं प्रकर्तव्यं यद्वा काष्ठाङ्गुलोच्छ्रितम् || व्रती व्रताङ्गसम्पन्नो गृहं स्वानगभूषणः | उपविश्य स पीठे सौम्यास्यः पूर्वदिङ्मुखः || बद्धचूडशिराः पादौ पाणी प्रक्षाल्यवाग्रतः | पश्चादाचमनं कृत्वा वारिणा तेन भस्मना || मध्यमानामिकाङ्गुष्ठे शिवमन्त्रं समुच्चरन् || त्रिपुण्ड्र लाञ्छनं कुर्यात्तिर्यगेव समं न्यसेत् | ब्रह्माविष्णुश्च रुद्रश्चाधि देवास्त्रिपुण्ड्रके || मूर्ध्नि ललाटे ग्रीवायां कण्ठयोर्बाहुमूलयोः | हृदि नाभौ च पृष्ठे च जानुनोः पादयोस्तथा || ललाटे हृदि बाह्वोश्च चतुरङ्गुलदैर्घ्यकम् | शेषाश्चैकाङ्गुलाः प्रोक्ता एवं कृत्वा त्रिपुण्ड्रकम् || शिरः स्थाने स्वयं ब्रह्मा ललाटे स्कन्द एव च | कर्णे विनायकश्चैव बाहुभ्यां केशव स्थितिः || हृदये ईश्वरः प्रोक्तः नाभौ चैव प्रजापतिः ||
SKजानुभ्यामश्विनी देवः पादाभ्यां पन्नगस्तथा | चाण्डालमुच्छिष्ट श्राद्धार्थं नैव युज्यते ||? प्रति पर्युषितं यच्च निर्भस्मैवं शिवार्चनम् | तस्मात्तिपुण्ड्रं कर्तव्यं शिवाराधन तत्परैः || प्. ६) शिखायामुपवीते वा गले बाह्वोश्च कर्णयोः | रुद्राक्षं शिवमन्त्रेण धारयेत्साधकोत्तमः || अरुद्राक्षधरो मन्त्री यः करोति शिवार्चनम् || बृथाश्रमस्तस्य शास्त्रस्येति विनिश्चयः | तस्माच्छिवाध्वरे नित्यं रुद्राक्षं धारयेत्ततः || जानु मध्यकरोमौनी श्वानादीन्नावलोकयन् | अनन्यमनसो भूत्वा स्वच्छशीतल वारिभिः || फेनबुद्बुदनिर्मुक्तैः वस्त्रपूतैः समुद्धृतैः || आचमेत् कृमिभिर्दुष्टैः नान्त्यजातिनिषेवितैः | अन्यैः कलुषितैर्यत्र वितृष्णा गौर्न जायते || चर्मस्थैः सोषरैस्सोष्णैरन्या सत्पाणि पात्रजैः || गच्छन् तिष्ठन् वदन् कुर्वन् ष्टीवन्पश्यन् स्वपन् स्पृशन् | खग्वा शर्या संस्थान विनोदस्थं सपादकम् | भारकी रसना ग्रस्था प्रणवश्चोष्ट सम्पूटे || नासापुटद्वये प्राणः चक्षुषोः शशिभास्करौ | श्रोत्रयोश्च दिशः सर्वा नाभौ ब्रह्मानलो हृदि | शुद्ध्यर्थं मस्तके विष्णुरुसघोरग्विनौ स्थितौ ||? क्रमेण मन्त्रितं सद्यो माषमग्नम् पराभृतम् | निःशब्दं ब्रह्मतीर्थेन शुद्धभावः शनैः पिबेत् || हृद्गतं तच्च विज्ञाय भूयो भूयः पिबेत्तदा || प्. ७) किन्त्वन्तरेऽन्तरे हस्तौ प्रक्षाल्य च मुहुर्मुहुः | ओष्ठावङ्गुष्ठमूलेन हेतिनामार्जयेद्द्विधा || ओष्ठनासाक्षिकर्णौ च नाभिवक्षः शिर्ॐसकम् | अङ्गुष्टेश परिक्षुब्धधानामशक्यमृदे हृदा || सेचयेत् तेन तद्देवाः शुद्धास्तृप्ता भवन्ति हि | तैः शुद्धैः शुद्धदेहः स्यात् शुद्ध भावश्च साधकः || यदुक्तं श्रीप्राख्ये च - आचामेन्नवतीर्थेऽसौ त्रिःपिबेदम्बु मन्त्रितम् | दक्षपाणितलस्थं तत् कृत्वा हृद्गतमानसः || तेन शुद्धिर्भवेदन्तः का * * * * मन्दिर मध्यगाः | तद्द्वार माननन्तस्य तेनतद्भिः प्रमार्जयेत् || विशुद्धेन हितेन स्यात् क्रियाङ्गायै तदुत्तराः | ते भवन्ति विशुद्धास्तु शुद्धभावक्रियागुणाः ||
SKसंस्पृशेच्च ततोऽङ्गानि शिरो नेत्रे स नासिकैः | श्रोत्रेंसे हृदये नाभि शिखास्पर्शं ततोऽन्ततः | शुद्धाः स्वभावतोदेवाः तथा स्थानानिवेधसा || कॢप्तानि शौचनिष्ठानां मार्ताण्डस्यापि चक्षुषी | तन्मातरिश्वोनोघ्राणं श्रोत्रे सर्वदिशागृहम् || अंसाख्यमश्विनोः स्थानं हृदयं कृष्ण वर्त्मनः | नाभि प्रजापतीरेव चैभिः स्पृष्टैः शुचिर्भवेत् || प्. ८) अनामयांसं स्पर्शः कर्तव्योङ्गुष्ठ युक्तयः | भवेदीशः सदाङ्गुष्ठो नामा नामाभृताकला || तथा भूतात्मया देवाः भूत तृप्ताः स्वकामदाः | भवन्ति तत्क्रियाकर्तुः क्रियाभावोपबृंहकाः || बाह्यो वापि तनोः शुद्धिः पृथिव्या सलिलेन च || कथमन्तर्भवेच्छुद्धिः एतद्विषयमार्जितः | किन्तु तद्भाव संशुद्ध्या शुद्धं भावादि तन्मनः || शुद्धेन मनसा शुद्धसङ्कल्पो यो भवेत्तदा | शुद्धसङ्कल्पयोगेन शुद्धः प्राप्नोति तत्फलम् || अत एव द्विराचामेच्छुद्धिभावः स्थिरत्व इति ||? इत्थं द्विधासमाचम्य कृतन्यासः प्रसन्नधीः | गृहस्थो ब्रह्मचारी च पूर्वं वन्देत वैदिकम् || पुनः शैवीं यती यद्वा सन्ध्यामेव शिवात्मिकाम् || उक्तं श्रीमत्स्वायंभुवादौ - स्नानमाशिरसः कृत्वा समाचम्योदगाननः | प्राङ्मुखो वा भजेत्सन्ध्यां वेदसिद्धां द्विराश्रमी || इतरस्तु विरागात्मा लौकिकार्थ पराङ्मुखः | कुर्याद्ब्राह्मीं न वां कुर्याच्छैवीमेवं नियोगतः || तथा बृहत्कालोत्तरे च - वैदिकीं तु पुराकृत्वा ततः शैवी * * * * भ्यसेत् || प्. ९) भौतिको नैष्ठिकस्तद्वद्ब्राह्मीं कुर्यात्पुरा न वा | शैवी तु नियमे नैव सेव्या पतनमन्यथा || नित्यादि त्रितयं कार्यं चतुर्भिरविशेषतः | वैश्वदेवं तथा सन्ध्या शूद्रं त्यक्त्वात्रये हितम् || इति || निरीक्षणादि संसिद्धे जले वा यत्र कुत्रचित् | चन्द्रार्क तनयादीनां मेकमङ्कुश मुद्रया || हृदा बिन्दोः * * * हृत्यपुरः क्षिप्त्वोद्भवाख्यया || यद्वा नाद परिक्षुब्धशक्ति पीयुष पूरितम् | नमोन्तसंहितां जप्त्वा दीपितं धेनु मुद्रया ||
SKशक्त्यादि शस्त्रवर्मभ्यां रक्षितं तीर्थमैश्वरम् | वौषडन्त षडङ्गैः तैः पूर्णहंसघटा मृतैः || मूर्ध्निसंयोजयेत्कायं वेष्टयेत्कवचं सुधीः | बीजसंहितयासोऽयं यद्वाकुर्याद्विचक्षणः | उक्तञ्च बद्ध्वा कलशमुद्रां तु सुधाख्यं धारणं स्मरेत् | तारकं पञ्चमात्रं यत्कुम्भवत् तदधोमुखम् | सुस्निग्धं चन्द्रसदृशं स्रवन्तमामृतां ततः || कुम्भ मुद्रां तथा बद्ध्वा संहितां तु सकृत् स्मरेत् | एवं त्रिधाभिलीकन्तु कर्तव्यः सर्वसिद्धिदः | पृथिव्यां यानितीर्थानि तत्र स्नातो भवेत्तथा | सर्वधर्माधिकारी स्यात् सर्वयज्ञफलं भवेत् || इति || प्. १०) अथ कुम्भकेन त्रिधा जप्त्वा मनसा शिवसंहिताम् | अतुसकलं प्रासादानुष्ठानां ब्रह्मां बीजसंघटनं संहिता |? ॐ हौं हं हां हिं हीं हुं हूं हें हैं ह्ॐ हः इति पुनः निष्कल प्रासादानुष्ठातॄणां अङ्गबीजसंघट्टनमेव संहिता | यथा - ॐ हौं हां हीं हूं हैं हः इति | अनेन देहान्तर पाप शुद्धिः | अथ - समाचम्य कृतन्यास स्वाममावेष्ट्य पूर्ववत् | कृतार्थोमुकुलीं बद्धा सन्ध्यांध्यायेद्यथागमम् || आद्याने क्षत्रसंहितां सर्कांसन्ध्यां तु पश्चिमाम् |? मध्यमां मध्यमेप्यर्के यत्तान्सन्ध्यां समभ्यसेत् || उत्तमादृष्टनक्षत्रा मध्यमा लुप्ततारकाः | अर्धोदितारुणाकन्या प्रातः सन्ध्यां त्रिधा मता || मध्याह्ने च तथा ज्ञेया घटिकात्रय लक्षिते | अध्वार्क मण्डलेश्रेष्ठा मध्यमास्तमितेरवौ || कन्यसा दृष्टनक्षत्रा सायं सन्ध्या त्रिधेति सा | प्राक्संध्या समयस्थस्य विशिष्टस्याह्निकद्वयम् || निर्वाणदीक्षितस्यात्र सन्ध्यात्रयमुदाहृतम् | रात्रौ नैव गृहस्थस्य ग्रहणायनवर्जितम् || यतीनां सर्वदा शस्तं सर्वेषामविशेषतः || अत्र अपरा परा परापरा सन्ध्यारूपेण सन्ध्यां त्रिप्रकारः अपराः कालो पाधि वशाद्ब्राह्म्यादिरूपेण सन्ध्या त्रित्रिसमयि पुत्रकयोः प्. ११)
SKहृत्फाल रन्ध्रेषु च | ततः परापरसन्ध्याश्च तिस्रः ज्ञानिनां निर्वाणदीक्षितानां आचार्याणाञ्च हृद्बिन्दु ब्रह्मरन्ध्रेषु मृणालतन्तु निभारक्त्र शुक्लास्तरूपाः तिस्रः क्रिया * * * मृगिच्छाख्यट शक्तयः क्रमात् स्येधाः | ततः परा सा तुर्या मृणाल तन्तुवत् असितरूपारूपा वा द्वादशान्ते ध्येया ततः सूर्याचन्द्रमसोरतेद्वे सन्ध्ये प्राणयोगिनाम् | ततः शिवावैकाहित कर्तानां ज्ञानशक्ति निष्ठानां परमज्ञानिनां अनवरतं शिवेन सहाया सान्धि सा सर्वासु सन्ध्यासु च परमा सन्धिः | तथा चागमः - एकैकस्तु तवामीशैः वा शक्तिर्निर्मला परा | अविनाभाविनीशम्भोः शुचेरुष्णत्ववत्प्रभोः || तयान्म शिवयोः सन्धि शिवबोधपरा परा | सन्ध्येत्युदीरितासेयं पुनः सैव त्रिधा मता || यास्तु क्रिया दृक्च्छक्त्या शक्तयः शुद्धवर्त्मनि | ताभिरात्मेशसादाख्यः शिवानां शक्तिभिस्सह | सा सन्ध्या बिन्दु नादान्त समना शक्ति गामिनी || एताः कालवशात् प्रोक्ताः सन्ध्यास्तिस्रः परापराः || निर्वाणदीक्षितैर्ध्येया हृत्फालकविलेषु च | पराख्यायासमाख्याता सा तु * * * योर्मनान्तगा || ततश्च | तथा भिन्ना क्रियावामा ज्येष्ठा रौद्रीत्युदीरिताः | प्. १२) ता एवं परिणामेन ब्रह्मविष्णुहरात्मिकाः | गुणत्रयान्विता ब्राह्मी वैष्णवी शाङ्करी तथा || एताश्च शक्तयस्तिस्रः सन्ध्याज्ञेया मनीषिभिः | अपरा वै समाख्याता समयस्यैश्च पुत्रकैः || हृद्बिन्दुब्रह्मरन्ध्रेषु भाविनीया इमाः क्रमात् | कालोपाधिवशाद्वर्ण वाहनायुध विग्रहाः || तत्र तासां यथा ध्यानं यथा शास्त्र मिहोच्यते | शुक्लोपवीतिनी ब्राह्मी रक्तवस्त्रविभूषणाः | रक्तबालाचतुर्वक्त्रा चतुर्हस्ताष्टलोचनाः | हंस पद्मासना सव्ये स्रुक्स्रुवाक्षरत्रगन्विताः ||
SKदण्डकुण्डिधरा वामे कृष्णासाराजिनान्विता | वैष्णवी गरुडाब्जस्था शुक्ला शुक्लपरिच्छदा | एकास्या वनमालास्या यो वनस्था विलोचना | कृष्णाजिना च वामादौ शंखचक्र गदाभया | रौद्रीवोढावृषाब्जस्था कृष्णा कृष्ण परिच्छदा | एक वक्त्रत्रिणेत्रा च जटाखण्डेन्दु मण्डिता | कृष्णाजिनोपवीताढ्या व्याघ्रचर्माम्बरा प्रिया | शूलाक्षमालिनी सव्ये वामे सा भयशक्तिका | शतकोटि प्रविस्तीर्णा योजनानां तु मण्डले | दीप्तपावक संकाशे ब्रह्माणि हृद्गणे स्थिता || प्. १३) द्विशतकोटि विस्तीर्णां योजनानां तु संख्यया | मण्डले चन्द्रसंकाशे वैष्णवी बिन्दु मध्यगाः || चतुःशतमिते बिम्बे योजनानां तु कोटिभिः | पद्मिनी वक्त्रसंकाशे रौद्री कपिल मध्यगा | सन्ध्यास्तिस्रः क्रमादेताः समयस्थैश्च पुत्रकैः || ध्यातव्याः क्रमशः प्रातः मध्याह्ने चापाराह्निके | व्रीह्यश्रकाग्रवज्ज्ञेयाश्चान्या दीर्घशिखोपमाः | ज्ञाभिः ध्यायमानाश्च तिस्रः सन्ध्याः परापराः || यथा तुर्या समाख्याता कृष्णवासात्वरूपिणी | एवं सन्ध्याः सदा वन्द्याः साक्षिण्यः सर्वकर्मणाम् || रोमरन्ध्रं वितन्वद्भिः तत्प्रभाभिः स पर्वतम् | देहं सञ्चिन्त्य यत्कुर्यात्तासां तद्वन्दनं मतम् || उक्तञ्च - तत्प्रभामण्डलाभोग प्रविष्टामात्मनस्तनुम् | सञ्चित्कुर्यात् तु यत्कर्म तासां तद्वन्दनं मतम् || सर्वदा शिवभावस्तु ज्ञानिनां सन्धिरीरिता | सा सन्ध्या परमाख्याता सर्वेषां शिवयोगिनाम् | ऊर्ध्वप्राणो दिनेशस्याधः प्राणस्तु चन्द्रमाः || तदन्त यच्छिवं स्थानं तद्योगो योगिनो मतः | उक्तञ्च - अयुते द्वे सहस्रैकं षट्छतानि तथैव च || अघोरास्त्रेण योगीन्द्रो जपसंख्या करोति यः || प्. १४) जगन्मूलं तु वै कुर्यान्नादरूपं परापरम् | गमागमः प्रयोगेण नाभेरूर्ध्वं शिवावधि || ततो नाभ्यवसानं तु ध्यानोक्तां प्राणयोगिनः | उभे सन्ध्ये स्मृते तेषां अन्ते वैडूर्य सोमयोः || इति प्रासंस * * * * पश्चात्कार्यं यत्तद्यथागमे ||
SKततो हृदयेन सारत्रयमथोत्तरसञ्चारेण सकुश दक्षिणहस्तेन सदर्भवामहस्ततले शिवतीर्थजलं प्रक्षिप्य तदधो गलितजलेन वौषडन्त षडङ्गेन शिरसि मार्जनं कृत्वा शेषजलं दक्षिणकरे प्रक्षिप्य पूरकवायुना वामनासापुटेन श्वेतरूपं जलमुदरे क्रमभि कृत्य मनसा शिवास्त्रं मम वारत्रयमुच्चारतज्जलेन देह * * * र गतपापं प्रक्षाल्य तेन जल मन्तः पापक्षयेण कृष्णवर्णं विचिन्त्य हुंफडन्तास्त्रेण रेच्क वायुना दक्षिणनासापुटेन अन्तर्जलं बहिर्निस्सार्य भावित वज्रीशिलायां नारा च वत्क्षिपेदित्यधमर्षणम् | तथा चागमः - संपूर्ण वामहस्तस्थं सलिलेन तु कारयेत् | वाङ्मनः कायिकंपापं रेचकेण दुरेद्वधेत् || सोमेन संप्रविष्टाङ्गं पिङ्गद्वारेणरेचयेत् | ततः पाशुपतास्त्रेण विप्रुषोदक्षिणेन तु || नारा चवात्क्षिपेद्भूमौ विघ्नानां ध्वंसनाय च | समाचम्याञ्जलिं पूर्णं सकूर्चं मन्त्र मन्त्रितम् || प्. १५) रत्नपुष्पाणि तोपेतमादित्यं यत्त्रिधाक्षिपेत् | तद्वत्प्रदक्षिणं कृत्वा गायत्रीं जप्त्वा जपेत् || अत्र समाचमेत्युक्तमिति | आचमनानन्तरं मन्त्रन्यासश्च कर्तव्यः | तदुक्तमाचार्यैः - यदा यदा समन्यासं मन्त्रन्यासं तदा तदा | कुर्वीत करकायेषु मन्त्रीमन्त्रार्थ सिद्धये || इति || अत्रादित्यायेति आदित्यमूर्तये शिवायेत्यर्थः | उक्तञ्च - गन्धपुष्पाक्षतोपेतं अर्घ्यमादित्यमूर्तये | दद्याच्छिवायसाङ्गाय सर्वकर्मैकसाक्षिणे || तेजो मण्डलमध्यस्थ ज्ञानशक्तिः वपुष्यते | इति | तथा श्रीमृगेन्द्रे च - सततस्तीक्ष्णांशु बिम्बस्थं ध्वात्वादेवं सदाशिवम् | क्षिपेत् क्षिप्त्वाञ्जलिं मन्त्री विरतौ चेतसा स्मरेत् || इति || अर्घ्यदानविधिक्रमो यथा - गन्ध पुष्प कुशाक्षतोपेतं हृन्मन्त्री तमत्यञ्जलिं हृत्प्रदेशे निधायसूर्यमण्डले समुपस्थितं शिवसूर्यं विचिन्त्य ॐ हां हौं शिवायार्घ्यं स्वाहा | त्रिधा विधायाय विधानमर्घ्यमुत्क्षिप्य गायत्रीं जपेत् | तद्यहा सिद्धान्तेषु -
SKउत्थित पूर्वसन्ध्यायामर्घ्यं पूर्वाननेन तु | आदित्याय प्रदातव्यं * * * * * * * * || प्. १६) उत्थितेन तु मध्याह्न समये तद्वद्दक्षाननेन तु | सायमुत्थाय दत्वार्घ्यमुपविश्य जपेत्तदा || शुष्कार्द्र वसनो वापि गायत्रीं न जपे जपेत् | सूर्यानलात्मिकं नित्यं विरोधाद्वा * * * * * || किं कार्यमित्यु * * * * * * * * * * * || सन्ध्यानतः सूर्यरश्मिः संपूर्ण विग्रहः | भानुमण्डल मध्यस्थे ता द्वितीय इवभास्करः || ऊर्ध्वबाहुश्च पादाभ्यां दक्षपादेन वा सितम् | तिर्यक् प्रसृत दक्षांघ्रि वामांद्दयब्जदलेस्थिताम् | एक वक्त्रां त्रिणेत्रां च जटाखण्डेन्दु मण्डिताम् || कृष्णाजिनोत्तरासङ्गां शु * * * * * * * | तन्महेशाय विद्महे महादेवाय धीमहि | तन्नः शिवः प्रचोदयात् इति शिव गायत्रीं उक्तञ्च - ॐ तन्मेशाय विद्मपदं विद्महे च ततः परम् | महादेवाय मन्त्रान्ते धीमहीति समन्वितम् || तन्नः शिवपदं * * * * * * * * * * * || प्. १७) गायत्री कथिता * * * * * * * * र्थदा || इति || उमामर्क मण्डलां देवा गतां जपान्ते पुनरर्क मण्डलमेव प्रविष्टां विचिन्तयेत् | उक्तञ्च - ॐकाराद्याश्चतुर्विंशाक्षरां तेनति वर्जिताः | गायत्र्यर्कगता जप्त्वा विष्टोपान्ते * * * मण्डलम् || इति || अत्र क्वचित् त्र्यक्षरां गायत्रीं जपेदिति | तदुक्तञ्च - ॐ ह्ॐ हीं वाथ गायत्री नमोन्ता भीष्टदायिका || इति || सा च सप्तावर्ता पुनर्देहं दशभिः प्रापयेद्दिवम् | विंशावर्ता तु सा देवी नयत्यश्चरमालयम् || शतमष्टोत्तरं जप्त्वा तारयेज्जन्मसागरात् || इति || यत एवं ततः प्रतिदिनं जप्त्वा साष्टशतं चार्घ्यं दत्वा त्रिःत्रिः प्रदक्षिणं साङ्गं सङ्ग्रहमभ्यर्च्य हृदाशम्भुं क्षमापयेत् || अन्यथानुपचारः स्थादितिगेहेऽथवार्चयेत् || उक्तञ्च - उपस्थितस्य सूर्यस्य पूजनैव विसर्जनम् | लोकोपचारतः सिद्धमिति नित्यं सकृद्यजेत् || इति | तथा श्रीकालोत्तरे - शिवगायत्रि मन्त्रेण प्रणवेन हृदा तथा | सूर्यायार्घ्यं प्रदातव्यं सकृन्नित्यं प्रपूजयेत् ||
SKतर्पणम् | यत एवं ततो * * * य गायत्र्या तर्पणानन्तरं शिवसूर्यं साङ्गं स गृहमभ्यर्च्य शिवमन्त्रं जप्त्वा समभ्यर्च्य शिवमन्त्रं जप्त्वा - प्. १८) समभ्यर्च्य विसृज्य तर्पणादिकमाचरेत् || तथा श्रीमन्मृगेन्द्रे च दिव्यां समुदितां पूजां सम्पाद्यार्घ्यपुरःसरम् | ततो जप्त्वा शिवं साङ्गमावेद्योत्तर भेदिति || अथ सङ्क्षेपतस्तावत् लिख्यन्ते | तर्पणं यथा - ॐ हां सर्वेभ्यः मन्त्रेभ्यः स्वाहा | ॐ हां सर्वेभ्यः देवेभ्यः स्वाहा | ॐ हां सर्वेभ्यो ऋषिभ्यो नमः | ॐ हां सर्वेभ्यो मनुष्येभ्यो वौषट् | ॐ हां सर्वेभ्यः पितृभ्यः स्वाहा | इति वक्ष्य माणविधानेन तर्पयेत् | अथ विस्तरेणैव तर्पयेत् | तद्यागमे - ॐ हां सर्वेभ्यः संहिता मन्त्रेभ्यः स्वाहा | ॐ सर्वेभ्यः शतकोटिमन्त्रेभ्यः स्वाहा | ॐ हां सर्वेभ्यः शिवागमेभ्यः स्वाहा | ॐ हां सर्वेभ्यः शिवेभ्यः स्वाहा | ॐ हां सर्वेभ्यो रुद्रेभ्यः स्वाहा | ॐ हां सर्वेभ्यः भुवनेश्वरेभ्यः स्वाहा | ॐ हां सर्वेभ्यः आदित्येभ्यः स्वाहा | ॐ हां सर्वेभ्योवसुभ्यः स्वाहा | ॐ हां सर्वेभ्यः विश्वेभ्यः स्वाहा | ॐ हां सर्वेभ्योमरुद्भ्यः स्वाहा | ॐ हां सर्वेभ्यो भृगुभ्यः स्वाहा | ॐ हां सर्वेभ्यो अङ्गिरेभ्यः स्वाहा | ॐ हां सर्वेभ्यः स्वाहा | ॐ हां सर्वेभ्योदिग्भ्यः स्वाहा | ॐ हां सर्वेभ्योदिक्पतिभ्यः स्वाहा | ॐ हां सर्वाभ्यः मातृभ्यः स्वाहा | ॐ हां सर्वेभ्यो गणेभ्यः स्वाहा | इति नरवैरङ्गुल्यादिभिः सकुशाक्षतवारिभिः तर्पयेत् | ततः कर्णोपवीती - ॐ हां सर्वेभ्यः शैवागमावतारकेभ्यो मुनिभ्यो नमः | ॐ हां सैवाधिकरणावतारकेभ्यो मुनिभ्यो नमः | ॐ हां शैव सन्धानमाश्रितेभ्यो मुनिभ्यो नमः | प्. १९) ॐ हां सर्वेभ्यः सप्तर्षिभ्यो नमः | इति संलग्नकरकनिष्ठा मूलेनाथ ॐ हां सर्वेभ्यो भूतेभ्यो वौषट् | ॐ हां सर्वेभ्यो राक्षसेभ्यो वौषट् | ॐ हां सर्वेभ्यो यक्षेभ्यो वौषट् | ॐ हां सर्वेभ्यो नागेभ्यो वौषट् | इति लग्नकरकमूलेन पुनरपसव्योपवीती -
SKॐ हां सर्वेभ्यः शिव पितृभ्यः स्वधा | ॐ हां सर्वेभ्यो देवपितृभ्यः स्वधा | ॐ हां सर्वेभ्यः पितृभ्यः स्वधा | ॐ हां सर्वेभ्यो ज्ञातिभ्यः स्वधा | ॐ हां सर्वेभ्य आचार्येभ्यः स्वधा | इति तजनीमूलेन सतिलकुशमूलाग्रैः सन्तर्प्य | ॐ अग्निदग्धाश्च देवा ये येप्यदग्धाः कुले मम | भूमौ दत्तेन तोयेन तृप्तायान्तु परां गतिम् || इति पठित्वा हुं फडन्तास्त्रेण सकुश तिल जलं त्रिधा तीरे समुत्क्षिप्य सव्योपवीती समाचम्य कराङ्गन्यासं कृत्वा ॐ हां हृदयाय नमः | इति संहार मुद्रया तत्तिर्थं संहरेदिति तर्पण विधिः | तदुक्तमाचार्यैः - उपविश्य शिवं जप्त्वा स्वाहान्तान्तर्पयेदणून् | रुद्रान् देवांश्च लोकेशान् मनुष्यांश्च नमोन्तगान् || भूतानि वौषडन्तानि नागयक्षांश्च राक्षसान् | पितॄन् देवपितॄन् प्रेतान् ज्ञात्वाचार्यान् स्वधान्तकान् || इति अत्र पितॄनिति शिव दीक्षितस्य पितरः | ईश सदा शिव शान्तमस्तानित्यर्थः | यद्यपि सपिण्डी करणोत्तरं प्रेतत्वं विद्यमानं प्. २०) तथा भूतसर्वगत्य प्रोक्तमित्य दोषः | ननु सर्वेषामभिजतीरेकैव प्रयुज्यताम् | तदप्रयोजनम् | स्वाहा स्वधा नमो जातिभिरेकार्यत्वात् | सत्यम् | एकार्थे सत्यपि तथा विधानात् | तथा चागमः | मन्त्रशुद्धौ मुनीन् देवान् पितृकानपि तर्पयेत् | अङ्गुल्यग्रैरणून् देवान् पितॄंश्चाप्यपसव्यतः | मुनींश्च पाणिमध्येन सन्तर्प्याञ्जलिभिर्जलैः | स्वाहा स्वधा नमस्कारैः जात्यङ्गैरप्यनुक्रमात् | हस्तेन्द्रियगतं दानं तदग्रैरग्रवर्तिनाम् | मन्त्राणां सव्यदेवानां तदग्रैस्तेन तर्पयेत् || प्रेतादीनां पितॄस्थानं तेषां वामायतः क्रमात् | सर्वेषां मुनयो मध्ये क्रियामध्येन तेन सा | सम्प्रदाने यतः प्रोक्तः शब्दः स्वाहा स्वधा नमः | दीयते भूतमेतेषां त्रयाणामपि तत्समम् | स्वस्वर्गे वस्तु हाहारो भूतं तेषां दिवौकसाम् | स्वधायस्वद्दिवं प्रोक्तं धास्वधा पितृषु प्रिया || नमो योनेति नाकं यः तस्मिन्मेऽनुसुधा नृणाम् | तर्पयित्वा शिखानेतान् प्रधानास्त घृटु क्रमात् || इति |
SKअत्र प्रेतादीनां पितृस्थानमिति | प्रेतपितृ प्रभृतीनां पितृस्थानं तीर्थस्थानं तर्जन्यङ्गुलिमूलमित्यर्थः | तदुक्तमाचार्यैः - प्. २१) पैतृमूलप्रदेशिनां कनिष्ठायाः प्रजापते | प्रधानकारके चतुर्थ्यामेव स्वाहा स्वधा नमः शब्दा प्रोक्ता व्याकरणे | तस्मात्कारणोक्तैः शब्दैः शिवायस्वाहेत्यादिरेतान् प्रधान देवमन्त्रमुख्यान् तर्पयेदित्यर्थः | ईशानादि स्थावरान्तानामेवं तृप्तिं समाचरेत् | यतस्तत्र स्थितः शम्भुः संप्रजीवानुकम्पया | इत्थं सर्वञ्च निर्वर्त्य शुद्धभावः कृतार्थधीः || सूपञ्चरमध्यस्थ स्नत्वा सोपान माक्रमन् | यथा वाक्संयमं कृत्वा स्पर्शञ्च परिभृत्यञ्च ||? शुद्ध विद्यापरव्यापि दिव्यं धामयथागमे | लिख्यनेत्रप्रसङ्गेन सङ्क्षेपाद्विस्तरादपि || ततस्तं संप्रवक्ष्यामि महीतलविशोधनम् | तस्याः परीक्षाव * * * ज्ञान * * * दन्यग्रमेव च || सुगन्धा स्वादु संयुक्ता श्वेता रक्ताथ पिञ्जरा || पांसुरभ्यधिकाधन्या भूमिः सर्वार्थसाधनी || प्रागुदक्प्रवणस्निग्धा कृष्णावा शुभदर्शना | जलतीरसमीपस्था शुक्लां भूमिं परीक्षयेत् | केशास्थि कण्टकैरेना * * * गतोषर विवर्जितान् | सर्पवल्मीकनिर्मुक्तां भस्माङ्गार तुषोज्झिताम् | त्रिहस्तोत्खातभूशल्यां सर्वदोष विवर्जिताम् || प्. २२) वास्तुमिष्ट्वा यथा शास्त्रं कृत्वा भूमिं समप्यवाम् | पक्वेष्टकमयं वापि शुद्धदारुमयं तथा | मृण्मयं वा पुराकृत्वा स्थापयेद्यागमण्टपम् || तद्यथा - दीसन्तद्विगुणं कृत्वा विस्तारे चैक भागिकम् | द्वार तृतीयके भागे सार्धहस्तप्रमाणता || मण्डलस्य तु द्वौभागौ भागं कुण्डस्य कल्पयेत् | विदुक्षु क्रूरकर्माणि कुर्याद्दिक्षु शुभानि तु || चतुरश्रं वाथ कुर्वीत सुखनं यागमण्टपम् | विचित्रपित्रकर्माद्यं प्रकार परिवेष्टितम् || तस्यो परिपुरारौभ्यां सोच्छासंदारुभिर्दृढम् | विधान संसितं कुर्यात्तदग्रं जालकं तथा || इति सङ्क्षेपतः प्रोक्तं मण्टपं भुक्तिमुक्तिदम् | सर्वज्ञानोत्तरे शास्त्रे ततः कालोत्तरे तथा ||
SKऐशान्यादीश संस्थं तु पूजागारं मनोरमम् | द्वात्रिंशद्धस्तमात्रं तु विंशसंस्थमथापि वा || चतुःस्तम्भ समायुक्तं चतुर्द्वारं सतोरणम् | सुगुप्तं जननं रम्यं प्रकीर्ण कुसुमोज्ज्वलम् || सधू * * * * गन्धाव्यञ्चार्चितं चन्दनादिभिः | वितानोपरिसञ्छिन्नं मुक्तादामा वलम्बितम् || सितवस्त्रपताकाढ्यं सितचित्रध्वजोच्छ्रयम् | प्. २३) कुङ्कुमोदकसंसिक्तं कर्पूरक्षोदद्धूसरम् | निष्काम्पार्चिः प्रदीपाढ्यं द * * * म्शुपूरितम् || वाह्येत् पश्चिमद्वारं पूर्वद्वारमथापि वा | इति नित्यार्चने शस्तं मन्दिरं भुक्तिमुक्तिदम् || एक भौमं वा * * * तद्वितानमिहोच्यते | क्षेत्रे ऋक्पञ्चधाकृत्वा मध्यभागेन वेदिका || ऐषुका मृण्मयाश्रेष्ठा नैव शैला सुधामया | षोडशाष्टाङ्गुलोच्छ्रायं कोणस्तम्भादिसंयुता || त्यक्त्वा भागं ततो भित्तिं चतुद्वारविभुषिताम् | द्वाराणि सकवाटानि द्वारपालयुतानि च || परितः पट्टशालास्यात् पश्चिमे मूलमण्टपम् | सा च शालासभित्तिः स्याद्गवाक्षैरुपशोभिता || याम्ये सोपस्कराशाला नृत्तशाला च पश्चिमे | देवस्नपनशाला स्यादुत्तरे जलसंश्रयाः | पूर्वे च होमशालास्याद्धूम जालकसंयुतम् || कुण्डलक्षणम् - नित्यहोमे तु वेदाश्रमाग्नेय्यां भस्मसंमितम् | विस्तारादुच्छ्रयादूर्ध्वमेखला सहितं तथा || कुर्यात् कुण्डमथैशान्यां पूर्वे वा योगपीठतः | ऐष्टकं सुदृढं कण्ठं खाताद्बाह्येऽङ्गुलस्ततः || प्. २४) आद्यावेद्यङ्गुलायोथ त्रियङ्गुलाद्व्यङ्गुल क्रमात् | मङ्गलाङ्गुलविस्तारामनिरुद्धाङ्गुलोन्नता | ओष्टमङ्गुष्टवत्सर्वं अश्वत्थदलवत्कुरु || वणचित्पश्चिमे वारुण्यां कार्यं योऽपि गजोष्टवत् || इति || तदुक्तञ्च - हास्तिकन्यत्यहोमे तु वृत्तं वा चतुरश्रकम् | पूर्वस्यां पश्चिमस्यां वा योगपीठात् प्रकल्पयेत् || नित्यं होमस्तु कर्तव्यस्त्वथवेशान गोचरे | कुण्डं कण्ठसमायुक्तं मेखलात्रयशोभितम् || आद्या वेदाङ्गुला कार्या त्र्यङ्गुलाद्व्यङ्गुला तु या | गाम्भीर्यं मुखवत्कुण्डं योनिरर्धेन संस्मृता ||
SKनवाङ्गुला तु दैर्घ्येण गजोष्ठाकारवत्स्मृता | नाभिरङ्गुलमानेन मेखलायोत्तरे स्थिता || कुण्डरूपानुसारेण योनिः कार्या न चान्यथा | योनेरद्वन्तरे वाथ कुण्डरूपेण कल्पयेत् || योनिकूले ततः किञ्चित् कुंभिकुम्भवदुन्नता | इति नित्यविधौ कुण्डं नैमित्तिकमिहोच्यते || इति | इत्थं प्रासङ्गिकं प्रोक्तं अथ प्रस्तुतमुच्यते | अन्यत्कर्म न कुर्वीत यावन्नाराधितः शिवः || तदुक्तञ्च - कृताञ्जलिपुटोविष्णुः ब्रह्मवापि विशेषतः || प्. २५) अनुग्रहाय लोकानां तस्माल्लिङ्गं प्रपूजयेत् | भुक्तिमुक्ति प्रसिद्ध्यर्थं प्रातःकाले नरोत्तमः || इति || धौत पादः समाचान्तो धृत्वा वस्त्रादि सञ्चयम् | नागदन्ते तुलाया शुद्ध दोरैश्शनैः ऋते || अलङ्कृत्य स्वकं देही (हं) रुद्राक्ष कटकादिभिः | पूजोपकरणं सर्वं सन्निधीकृत्य साधकः || तत्कालोचितपूजानो यदि वै कलतस्ततः | देवेन्द्रानलयोर्मध्ये सूर्य मूतिं शिवं यजेत् || शक्रानलयोर्मध्ये एवमेवं यजेदिति ||? कोऽयं नियमस्तत्रैव तत्स्थानमिति | तदुक्तञ्च - पुर्योष्टौ संस्थिताः पार्श्वे ले * * * * ततः | अमरावती महेशस्य वह्नेस्तेजोवती तथा || वैवस्वती कृतान्तस्य नीलारक्षोधिपस्य च | वरुणस्य शुभाख्याता वायोर्गन्धवतीति च | सोमस्य विमला नामेशानस्य मनोवती | अन्याश्चाष्टौ पुनः पुर्यो लोकपालान्तरे स्थिताः || शक्रानलान्तरा यावत्तावदीशानगोचरम् | भानोः प्रभावती नाम रूपास्या विश्वकर्मणः || रौग्र्यैकादश रु प्राणाम पितॄणाञ्च वधावती ||? मैत्री मित्रस्य च पुरी वसूनां वसु मध्यथा | गान्धर्वी च सरस्वत्या विष्णोश्चक्रवती तथा | प्. २६) अनन्तः पद्मवतीनाम विख्याता पद्मजन्मनः || इति || नन्वसु स्रूर्यमूर्तिमेव शिवं यजेदिति किमित्युक्तम् | चन्द्रादीनामपि शिवमूर्तित्वात् | तेषामभ्यर्चनमत्र किमिति न क्रियते | किन्तु षडाधारमेव नित्याङ्गमिति तेषां पूजा न क्रियते | उक्तञ्च - सूर्योपस्थानमात्मेज्यां लिङ्गाग्नि गुरु पुस्तकम् | इति नित्यं समाख्यातं षडाधारं शिवार्चनम् || इति
SKतथा चार्योऽपि स्नानाद्बाह्यान्तर शुद्धिः सूर्योपस्थानतोऽलिरवम् | कर्मसाफल्यमायाति मुक्तिर्लिङ्गार्चनाद्भवेत् | अर्थ लाभो जगत्प्रीतिः नित्यं होमेन जायते | विद्यापीठार्चनाज्ज्ञानं तत्सर्वं गुरुपूजनात् | इति नित्यं षडाधारं नैमित्तिकमिहोच्यते || लिङ्गस्थं कर्मणां साक्षी कुम्भस्थो यज्ञरक्षकः | वह्निस्थः पटलः पुंसां सव्यानुग्राहको गुरोः || शिष्ये पापश्शमोक्तास्यात् पञ्चधारमिदं मतम् || इति | अथ दण्डि महाकालेरादण्ड पिङ्गल संज्ञकौ |? शिव सूर्य शिवाङ्गानि मन्त्राविद्येश्वरा ग्रहाः | अथ यदुक्तं अल्पौघसारकाल ज्ञानादौ - रश्मि जाला ततो वह्निस्तन्मध्ये रविमण्डलम् | सोमसन्ध्यास्समावास्यं तत्रैवास्तं गतः स्थितः | योगिनां हृदिनाभौ च ब्रह्मरन्ध्रे तथा विदुः || प्. २७) तत्र दीपाङ्कुराकारा शक्तिः पीयूषरूपिणी | तत्रस्थः परमः शम्भुर्ध्यातव्यस्तत्ववेदिभिः || इति | कूर्मेणापि यदुक्तम् - तस्मात्सर्वान्परित्यज्य देवान् ब्रह्मपुरोगतान् | आराधयेद्विरूपाक्षमादित्यान्तर वर्तिनम् || इति अथ तत्पूजा विधिः - ॐ हां दण्डिने नमः | ॐ हां पिङ्गलाय नमः | इति पूर्वाभिमुखो भूत्वा स्वेदक्षिणवामयोः द्वारपालद्वयं ॐ हां गणपतये नमः | ऐशान्यां ॐ हां गुरुभ्यो नमः | आग्नेत्त्यां सामान्यार्घ्यादिभिः संपूज्य आत्मानं शिवसूर्यवत् सञ्चिन्त्य विशेषार्घ्यं विधाय तज्जनेक? द्रव्यजात आत्मानञ्चाभ्युक्ष्य पीठे वा स्थण्डिलेनानन्त धर्मज्ञान वैराग्यैश्वर्याणि मध्येचाग्नेयादिकोणेषु विन्यस्य तदुपरि ॐ हां पद्माय नमः | इत्यभि नवसरसीरुहं संपूज्य ॐ हां शिवसूर्यासनाय नम इति तेजः पुञ्जमरुयमण्डंसंपूज्य तौपरि ॐ हां हं हां शिवसूर्यमूर्तये नम इति संपूज्य आश्रयोपाधिवर्णा सूक्ष्माण्ड्यं पञ्चवक्त्रं महाद्युतिम् | सदाशिवमिति ज्ञात्वा मूलेनावाहयेत्परम् | स्थापनं सन्निधानञ्च रोधनं सकलीकृतिम् || शिवाङ्गैः शिवसूर्यस्य कृत्वामन्त्र विधान्तः || मूलेन परमीकृत्य धेनु मुद्रां प्रदर्शयेत् | पाद्यमाचमनं चार्घ्यं पुण्यं दत्वा प्ररोचयेत् ||
SKप्. २८) स्नानगन्धादिभिर्देवं भोगाङ्गानि च पूजयेत् || ॐ हां हृदयाय नमः | ॐ हीं शिरसे स्वाहा | ॐ हं शिखायै वौषट् ॐ हैं कवचाय हुम् | इत्यसी त्रि-ऋ-ऋतिवायुकोणेषु? ॐ अः अस्त्राय नमः | इति पूर्वादि चतुर्दिक्षु वक्ष्यमाणवद्ध्यात्वा संपूज्य ग्रहाणां मार्जनं कुर्यात् | पूर्वेसोमस्सिसौम्य साक्षात्सूत्र कमण्डलुम् |? आग्नेय्यां मङ्गलोरक्त्रः शक्त्यश्रीरक्तलोचनः | याभ्यां पीतो बुधाश्चापि साक्षसूत्रकरश्च सः | वृद्धो गौरो गुरुः साक्षात्कुर्वीत हस्तनैर्-ऋते | दक्षै काक्षस्सितः शुक्र कुण्डं क्षवलयी जले | वक्रपादस्त्वधः क्रूरदृष्टिभीमः शनैश्चरः | खिंखिरी जपमाली च राजावर्त विहोऽनिले | व्यावृत्तास्योर्ध्व देही च राहुः कृष्णोक्षचर्महृत् | उत्तरे शांकरे केतुः त्रिफणी खड्गखेटभृत् | नर नागाढ्यदेही च धूम्रो वाथकृताञ्जलिः || यद्वा सोम बुध बृहस्पतिशुक्रा पूर्वादिदिक्षु मङ्गलाद्यां वह्न्यादि कोणगाः पूज्याः | ॐ सं सोमाय नमः | इत्यादयो मन्त्राः | अथ मूलेन शिव सूर्यादि सपरिवाराय नमः इत्यादिभिः पाद्याचमनीयार्घ्य पुष्पदानाभ्यञ्जनोद्वर्तन स्नानगन्ध वस्त्राभरण पुष्पधूपदीप नैवेद्यपानीयाचमन हस्तोद्वर्तनमुखवास प्. २९) ताम्बूलदर्पणाद्युपचारा नन्तरं कुशदूर्वाक्षतादि पवित्रकश्च रोप्य धेनुमुद्रयाऽमृतीकृत्य महारात्रिकमुत्ताय च दत्वा यथाशक्तिमूलमन्त्र जपं कृत्वा निवेद्याङ्गदीनां दशांशं समर्प्य स्तुत्वा प्रणम्य सम्पूज्य दत्वा चार्घ्यं पराङ्मुखम् | हुं फडन्तास्त्रेण नारा च मुद्रया मन्त्रगणं संहृत्य मूर्तिमन्त्रेण दिव्यमुद्रया मूर्तौ संयोज्य मूलमन्त्रेण हृत्पुण्डरीक मध्यस्थे शिवसूर्ये नियोजयेत् | अथ षडुत्थासने ॐ चण्डासनाय नमः | ॐ ॐ चण्डमूर्तये नमः | ॐ अन्ततेजश्चण्डाय नमः |
SKइति तेजोमयं चण्डेश्वरं स्वदंष्ट्रा कराल चतुर्मदनमर्कलोचनपक्षमाला कमण्डलुतर्जनीटाकहस्तमावाहनादिभिः संपूज्य निर्माल्यादिकं समर्प्य विसृज्य निर्मालयं नीयस्थान शुद्धिं विधाय बहिर्गत्वा पादप्रक्षालनाचमनादि कुर्यात् | यद्वा - शिवबीजसर्जनानन्तरं सूर्यं विवर्जयेदिति सूर्यार्चन विधिमित्यं संपूज्य सूर्येशं पश्चाल्लिङ्गेशिवं यजेत् | तद्यथा - यज देवपूजा सङ्गतकरणादानेषु यजेदिति शिवपूजासङ्ग्रतकरणं पूज्य पूजकयोः परस्परानु कूल्यमुभयोस्समिति अहं शिव पूजायामिताराद्यकस्यातिशधिता शिवे शिवस्याराध्यस्य चैतदीयपूजां गृह्णामीति प्रासादविशेषः दानं शिवाभीष्टफलानुरक्ता चिदभिव्यक्तिः | किन्तूभयोरानुकूल्येन पाद्यादिस्वात्म प्. ३०) सकर्पणान्तदानम् | भुक्ति मुक्ति दानञ्चकाराधकाराध्या नियमाः प्रति विशेषः | एतत्परि पूर्णार्थं यजनमित शिवयजनमिति ज्ञानं शक्त्यात्मानं लिङ्गमाराधनं कृत्वा शिवस्याते यस्य जनं कार्यम् | अन्यच्च - कालाग्निशक्ति पर्यन्तत्वमानमविशेषकम् | आयाति लीयते यत्र तल्लिङ्गा लयसंज्ञकाः || इत्यागमात् | तथा - आश्रयेत्सिद्धिदं लिङ्गं सर्वसिद्धिप्रदायकम् | स्थण्डिलेपि हि मन्त्राणां आशु सिद्धिः प्रजायते इति | एतल्लिङ्गं व्यक्ताव्यक्तमन्यक्तञ्च? | तत्र व्यक्ता सादाशिनीताः | व्यक्ताव्यक्तं मुखलिङ्गं अव्यक्तं सकलम् | पुनश्चतुर्विधम् चलमचलं चलाचलमचल चलञ्च | अत्र चलं मानोमयलिङ्गं अचलं प्रासादादिष्वाधिरोपितं चलाचलं बाणलिङ्गम् | अचलचलं मण्डलसरण्डिलञ्च | एतदनेक विधं लिङ्गं | अधिकरणमधिष्ठाय शिवपूज्यः | किन्तु लिङ्गस्य एव शिवः पूज्यः | तथा बृहत्कालोत्तरे - पृथिव्यां यानितीर्थानि पुण्यान्या यतनानि च | वसन्ति लिङ्गमूले तु तस्माल्लिङ्गं समर्चयेत् || एककालं त्रिकालं वा चतुष्कालमथापि वा | अपूज्यपरमेशानं भङ्क्ते स तु प्रमादतः || प्रायश्चित्तं प्रकर्तव्यं अन्यथा नरकं भजेत् | पूजालोपो न कर्तव्यः सूतके मृतके तथा || प्. ३१)
SKजल बुद्बुदवज्जीवः तस्माल्लिङ्गं समर्चयेत् || तथा - अयष्ट्वा तु कृमीन् भुङ्क्ते अजापि मूत्ररेतसि | अहोऽमी मलमश्नीयाददाता विष?मश्नुते || तथा च स्कान्दे - अकृत्वा पूजनं शम्भोः यो भुङ्क्ते परमेष्ठिनः | गुण पञ्चमलं चैव सोऽश्नात्येव न संशयः || इति || किन्तु देहा वसाने तु यः पूजयति भक्तितः | स शिवः सर्वकृज्जीवो जीवन्मुक्तः स कथ्यते || यस्यां यस्या * * *? सरन्तस्यां स्मरेच्छिवम् |? तिष्ठन् गच्छन् स्वपन् जाप्यम्? भुञ्जानो मैथुनेरतः || यः शिवार्पित चेतस्को मुक्तिभाक् स च चान्यथा || शिवतत्वमविज्ञाय मन्त्र विद्यादि मण्डलम् | मृत्पिण्डवत्तु विज्ञेयं पतितञ्च यजेत्तथा || ? तस्मात्सर्वप्रयत्नेन तन्न वीर्यरक्ता * येत् |? वाच्यवाचक योरैक्यं ज्ञात्वाक्षर फलप्रदम् | वाच्य मन्त्राः स्थितः सर्वे तस्माद्विद्यां समाश्रयेत् || पूजां गृह्णाति लिङ्गस्थो वह्निस्थो हविरात्रिकम् | दैशिकीं मूर्तिमास्थाय पाशौघं कृन्तदीश्वरम् || इत्येवं परमेश्वरस्य यजनादि स्थान नियमः || वृत्त्यर्थं पूजयेद्यस्तु देवतां लिङ्गमेव च | देवस्थान पतिश्चैव स वै देवलकः स्मृतः || प्. ३२) अर्थार्थं कालनिर्दिष्टं यो देवं पूजयेन्नरः | स वै देवलकः प्रोक्तः सर्वकर्मबहिष्कृतः || तथा - आपद्यपि च कण्टायां भोतो या दुग्धतोऽपि वा | वृत्त्यर्थं पूजयेन्नैव परं देवं कदाचन || इति | न न्यून मस्तकं लिङ्गं कृत्वा तिष्ठेत बुद्धिमान् || तथा - न न्यून मस्तकं लिङ्गं दृष्ट्वा यायात् कदाचन || इति च || अलमति विस्तरेण | अथातः शिवार्चन मुच्यते - तद्द्विविधम् - बाह्यमान्तरं चेति | तत्र तावदध्यात्म दृष्टानां अन्तर्यजनं तेषां बाह्ययजनविषये पुष्पाद्याभरणे दोष प्रसङ्गात् | अतः क्रियावतां बाह्यपूजा स्यात् | उक्तञ्च सिद्धान्ते - यजनं संप्रवक्ष्यामि यथा विध्यनुपूर्वशः | द्विविधं तच्च विज्ञेयं अधिकार्यनुरूपतः || यतीनां योगिनां चैव बाह्योपरत शक्तिषु | अन्तर्यागस्तु विहितो बाह्यपूजापरेषु च || इति | यदुक्तमन्यत्रापि -
SKअहिंसादिभिरभ्यर्च्य योगिभिर्नबहिर्भवैः | द्रव्यहीशान कर्तव्या यत्र तत्र यतः शिवः || क्रियावद्भिः सदाभ्यर्च्यो लिङ्गस्थः कुसुमादिभिः | सुपक्वैः स्फटिकैः सद्यश्चाहृतैश्च सुगन्धिभिः | चम्पकैः करवीराद्यैः पुष्पैर्वन्यैस्ततो चितैः | तावदेवाहरेत् पूजां यावता कुसुमादिना || प्. ३३) न चेदात्मोपभोगोवा जीवहा स तु पठ्यते | यथा राजाङ्गभोगार्थमाहक्षकुसुमादिकम् || उद्यानवनतस्तस्य प्रत्यवायो न दृश्यते | तद्वदीश्वरपूजार्थं पुष्पहर्ता न दोषभाक् || इति | अथ चतैः बाह्यपूजारतैरन्तर्यजनं कर्तव्यम् | तेन विना तन्न भवतीति | तदुक्तञ्च सिद्धान्ते | अन्तर्यागं पुरा कृत्वा बाह्यपूजामथारभेत् | ज्योतिर्लिङ्गं हृदिस्थं यत्तथैवाभ्यर्च्यते बहिः || यस्मात्तस्मात्पुरा कार्य मन्तर्यागमिहोच्यते || तथा | अकृत्वा मानसं यागं यो बहिर्यागमाचरेत् | वृथा परिश्रमस्तस्य शास्त्रस्येति विनिश्चयः || तथा | आत्मस्थं यः शिवं त्यक्त्वा बहिष्ठं यजते शिवम् | हस्तस्यं बिसमुत्सृज्य लेहेत्कोर्परमात्मनः || इति | कथं मध्यमेऽपि हृदये ललाटेस्था एव ज्वलतिलिङ्गं दृश्यम् | अस्ति गार्ग्यपरमार्थमिदन्त्वम् | पश्य पश्य मनसारुचि रूपम् | इति | तथा मालिनी विजये च | ननु मालिनी विजयं पश्चिमात्मने सिद्धं तत्कथमत्रोदाह्रियते | तस्य शैवे निषिद्धत्वात् | सत्यम् | किञ्चात्रसमयाचारमन्त्रद्रव्य विषये प्रतिषेधः | अन्यच्च साक्षिमात्रवचनमित्यत्र न दोष प्रसङ्गः स्यात् | तत्तन्त्रेष्वपि शिवार्चनं प्. ३४) ज्ञापनार्थं विलिख्यते - शृणुदेवि परं गुह्यं दुष्प्रापमकृतात्मना | यन्न कस्य चिदाख्यातं तदद्य कथयामि ते || सर्वमन्यत्परित्यज्य चित्तमत्र निवेशयेत् | मृच्छैल धातुरत्नादि भवं लिङ्गं न पूजयेत् || यजेदाध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् | बहिर्लिङ्गमलिङ्गत्वमनेनाधिष्ठितं यतः ||
SKअतः संपूजयेदेतत् परमद्वैतमाश्रितम् | अनुध्यानेन देवेशि परमं मरमेष्ठिनम् | योनिस्यति स एवैनं लिङ्गं पश्यति नापरम् | यदैतत्स्पन्दनं नाम हृदये संप्रतिष्ठितम् | तत्र चित्तं समादाय वरदास्ते मुहूर्तकम् || तावदस्य भवेत्कम्पः तदानुभव एव सः | तत्र प्रशान्तिमापन्नो मासेनैकेन योगवित् | हृदयादुत्थितं लिङ्गं ब्रह्मलिङ्गान्तमीक्षते || स्वप्रभोद्योतिताशेष देहान्तमनलद्युतिः | ततस्तस्मिन् समुत्पन्ने षण्मासात्सर्व सिद्धयः || एतल्लिङ्गमविज्ञाय यो लिङ्गीलिङ्गमाश्रयेत् | वृथा परिश्रमस्तस्य न लिङ्गफलमश्नुते || शैवमेवन्महालिङ्गे चात्मलिङ्गेन सिद्ध्यति || प्. ३५) सिद्धेन सिद्धवल्लिङ्गी लिङ्गस्थो लिङ्गवर्जितः | भव * * * किमार्चयमेतस्माल्लिङ्ग लिङ्गिनः | अनेन लिङ्गिलिङ्गेन यदा योगी बहिर्व्रयेत् | तदा लिङ्गानि विज्ञेयः पुरातल्लिङ्गमस्यपि || एतस्माल्लिङ्ग विज्ञानाद्योगिनो लिङ्गिनः स्मृताः | अनेनाधिष्ठिता मन्त्राः शान्तारौद्रादि भेदतः | व्रजन्तीति किमाश्चर्यं तद्भागवत वेतसः | रौद्रभावं समाश्रित्य यदियोगं समभ्यसेत् | दुर्निरीक्षो भवेत् सर्वैः सदेवासुरमानुषैः || इति || इत्थं शिवलिङ्गस्वरूपं ज्ञात्वा सुसूक्ष्मलिङ्गाधिष्ठितं बाह्यलिङ्गं पूजयेत् | ननु - निष्कलः परमः शम्भुः स कथं मूर्तिर्विराजते | सत्यम् | किन्तु सर्वानुग्राहकत्वात् स्वेच्छयापरिगृहीतमन्त्र तनुः चित्तभेदानुरूपं रूपं धत्ते | उक्तञ्च - परेव्योम्नि शिखान्तस्थो निष्कलः परमः शिवः | चिदानन्दघनः सूक्ष्मः सर्वजीवानुकम्पया | ध्यान गम्यः स्वयं भूत्वा चिन्तामणिरिव स्थितः || अन्तर्वह्निशिखारूपो योगिनां हृदयालये अज्ञः हि स्थूनिष्ठा स्वहितार्थाय सर्वसम्पद्धिताय च | पूर्वास्यश्चैव मध्याह्ने चापराह्ने चार्धयामके || प्. ३६) स्वस्थवत्सर्वप्रयत्नेन चतुःसन्धिषु पूजयेत् | मानुषाणामहोरात्रं पितॄणां घटिकामता || त्रिंशद्घटिकोऽहोरात्रं पितॄणां घटिकामता | त्रिंशद्घटिकाहोरात्रं शुक्लपक्षादि भावयेत् ||
SKनिशां कृष्णं विजानीयात् पितॄणां तदहर्निशम् | पूर्वस्सन्तिनमावास्यां मध्याह्नञ्चाष्टमी भवेत् | पौर्णमास्या पराह्णं स्यादष्टमी चार्थयामकम् | संवत्सरं मनुष्याणां देवानां तदहर्निशम् | दिवोत्तरायणं प्रोक्तं रात्रिः स्याद्दक्षिणायनम् | उत्तरायणसंक्रान्तिः पूर्वाह्णं संप्रकीर्तितम् || चैत्र विष्णु च मध्याह्नं अपरं दक्षिणायनम् | आश्वयुग्विषुवं प्रोक्तं देवानां मध्ययामकम् | सस्यात्सा च तसृष्वेवं पूजनं स्याच्छिवप्रियम् | दिनसन्धिषु मर्त्याश्च पितरो मास सन्धिषु | अब्द सन्धिषु देवाश्च पूजयन्ति सदाशिवम् || एवमूर्ध्व स्थिता देवाः ब्रह्म विष्ण्वादयः परे | तेऽपिस्व दिनमानेन चतुःसन्धिषु पूजनम् | कुर्वन्ति परमेशस्य स्वेष्टसिद्धि फलार्थिनः || यतीनां मन्त्रिणाञ्चैव ज्ञानिनां योगिनां तथा | ध्यान पूजा निमित्तं हि तनुं गृह्णाति स्वेच्छया || प्. ३७) सकलं निष्कलं रूपं तथा सकलनिष्कलम् | निष्कलञ्च कलाहीनं कलादि सकलं भवेत् || कलाकल विमिश्रं यत्तस्मात्सकलनिष्कलम् | लिङ्गयोनि प्रमाणेन देवेशः पूज्यते सदा || ध्यानपूजा विहीनं तं निष्कलं तद्विनायकम् | तस्मात्तत्सकले शंभुं निष्कलं सम्प्रपूजयेत् || इत्यादीनि बहूनि वाक्यानि सन्ति | अलमति विस्तरेणा प्रकृतम्नुसरामः || समाचम्य कृतन्यासः प्राणायामत्रयान्वितः | ध्रुवेण दशधा लब्ध्वा सामान्यार्घ्यजलेन च || द्वाराण्यस्त्रेण संप्रोक्ष्य हुं फडन्तेन साधकः | पुष्पगन्धार्ध्यधूपैश्च घण्टावादित्र निस्वनैः | पूर्वादिद्वारपालादीनर्चयेद्वक्ष्यमाणवत् | यद्वापिधाय शेषाणि द्वारं पश्चिममर्चयेत् || तदुक्तञ्च - पश्चिमद्वार शाखायां द्वारपालान् प्रपूजयेत् | द्वारदक्षिणशाखायां नन्दिनं स्वद्धुनी यजेत् || महाकालञ्च यमुनां द्वारस्योत्तरशाखगम् | सरस्वतीं गणेशानं श्रीमूर्ध्वो दुम्बरेऽर्चयेत् | पुष्पार्घ्यं गन्धधूपैश्च बलिना पूज्यषण्मुखम् || यद्यप्यस्थं पराव्यत्ययेनोक्तं तथापि पूर्वमेव गणेशादीन् संपूज्य प्. ३८) पचन्नन्द्यादीन् पूजयेत् | उक्तञ्च -
SKगणेशं भारतीं लक्ष्मीं ऊर्ध्वोदुम्बरगान्न्यसेत् | नन्दीश्वर महाकाल जाह्नवी यमुनां ततः || प्रणवादिनमोन्तांश्च शाखयोर्दक्षिणवामयोः || इति || ॐ हां गणपतये नमः | ॐ हां सरस्वत्यै नमः | ॐ हां महालक्ष्म्यै नमः | इत्यूर्ध्वो दुम्बरे | याम्ये सौम्ये च मध्ये च ॐ हां नन्दिने नमः | ॐ हां गङ्गाय नमः | इति दक्षिणशाखाय नमः | ॐ हां महाकालाय नमः | ॐ हां यमुनायै नमः | इति वामशाखायाम् | एतेषां पृथगासन मूर्त्यावाहन स्थापन सन्निधान सन्निरोधपाद्याचमनार्घ्य पुष्पदानादिभिश्च गन्धपुष्पधूपदीप नैवेद्य पानीयाचमन ताम्बूल पवित्रादि स्वस्व मन्त्रेण कुर्यात् || ॐ हां सर्वेभ्यो द्वारपालेभ्योनम इति समुच्चयेन वा सर्वोपचाराणि कुर्यात् | ततस्तेषां ध्यानं | यथा - श्याम लम्बोदरं समूलं गजवक्त्रं * * * |? दन्ताक्षसूत्रे दक्षे तु वामे परशुशूलकौ | बिभ्राणं वामनं त्र्यक्षं द्वारोर्ध्वे दक्षिणे यजेत् | श्वेतां सरस्वतीं बालां सर्वशोभा विभूषिताम् | वामदक्षकराभ्यां तु बीणावादन तत्पराम् | पुस्तकाक्षधरां द्वन्द्वां उत्तरे सम्प्रपूजयेत् | तयोर्मध्ये महालक्ष्मीं हेमवर्णां विभूषिताम् || प्. ३९) श्रीफलाब्जधरां दक्षे वामेषद्माभयान्विताम् | भृङ्गरामृतधाराभिः गजकुण्डाभिषेचनीम् || श्रीनन्दिकेश्वरं रक्तं जटायज्ञोपवीतिनम् | त्रिशूलाक्षधरं सौम्यं वरदाभयपाणिनम् || यजेद्दक्षिणशाखायां त्रिणेत्रं चन्द्रभूषणम् | जह्नु कन्यां सितां सौम्यां मकरोपरिसंस्थिताम् | श्वेतचामरपीयूष कलशासक्तबाहुकाम् | यजेदुत्तरतस्तस्य नन्दिनं सर्वभूषणम् | कृष्णं पिङ्गजटं भीमं दंष्ट्रा विकटवक्त्रकम् || भ्रुकुटी भीषणं पीनं नागयज्ञोपवीतिनम् | कपाल खट्वाङ्गधरं सर्वदुन्दुभिधारणम् | यजेदुत्तरशाखायां वामे तस्याथ यौवनम् || कूर्मो परिस्थितां श्यामां कर्मपुत्रीं विभूषिताम् | सरोजामृतकुम्भोदां धारयन्तीं यजेत्सुधीः || इति ||
SKततः शिवशक्तिवाचक हंसात्म सा काङ्गुष्ठा नामिकाग्राभ्यां विन्यस्तव्य नाद ज्योतिः परिकल्पित दिव्यचक्षुस्तेजसा दिव्यविघ्नानुत्सार्य नारा च मुद्रया हुं फडन्त शिवास्त्र प्रज्वलत्पुष्प प्रक्षेपणादन्तरिक्षगतविघ्नान्यागमन्दिरान्निस्सार्य दक्षिण पार्ष्णिघातत्रयेण हुं फडन्तास्त्रविक्षेपात् पापालगतविघ्नान् सन्निवार्यदक्षशाखामाश्रित्य सव्य पादेन देहलीमुल्लंघयन् नाभ्यन्तरं - प्. ४०) प्रविश्य पश्चिमाननः शिवाश्रयं देहलीमध्ये पूर्ववदानमूत्यावाहनादिभिः संपूज्यध्यायेत् | चतुर्वक्त्रं चतुर्भुजं प्रदीप्ताग्निवर्णं दक्ष वामहस्तैर्वरशक्तिशूलाभयधारिणं जटाखण्डेन्दुमण्डितं पद्मासनं देहली मध्ये ध्यायेत् | सांप्रतं वरमहालक्ष्मीमूर्ध्वे वा दृशं बरान्ते यागालयाभिमुखीमर्चयेत् | ॐ हां वास्त्वधिपतये ब्रह्मणे सावरणाय नमः इति नि-ऋ-ऋतिकोणे पूर्ववदावाहनादिभिः सम्पूज्य तुन्दिलं सव्यवामकरैः स्रुवाक्षमालाश्रुक्कमण्डलु धारिणं पीतवर्णं पिङ्गजटं कूर्चकुण्डलोपेतं बुद्ध पद्मासनं ध्यायेत् | ततो दत्वा हृदा मन्त्री गुणगुर्वासनं ततः | गत्वा प्रदक्षिणी कृत्य देव देवं महेश्वरम् || बाह्यभूमिञ्च संशोध्यमार्जन्यामृदु सूक्ष्मया | विलिप्य गोमयाम्भोभिः रजोभिस्तां विराजयेत् | गङ्गादि तोय सम्पूर्णगस्सुगादि यथा विधि | पूजोपयोगि द्रव्याणि यानिसर्वाणि कानिचित् || आनीय सन्निधी कृत्य यथा वित्तानुसारतः | विशेषार्घ्याणि पात्राणि पूजोपकरणानि च | शोधयित्वा यथा शास्त्रं स्वस्व स्थाने निधाय च || भूतशुद्धिं ततः कुर्याद्यथा शास्त्रं यथा क्रमम् || तत्र | कृष्णाजिनेथवा शुद्धे कुशादि परिकल्पिते | प्. ४१) मृदु शुद्धासने देव दक्षिणे सन्निधौ विशेत् || उक्तञ्च - न प्राच्यामग्रतः शंभोः नोत्तरे योषिदाश्रये | न प्रतीच्यां यतः पृष्ठं तद्दक्षे संस्थितोऽर्चयेत् || तथा - नैव प्रभोः पुरस्तिष्ठेत् पश्चात् स्त्र्यन्तिकेन च | अघौघध्वंस मोक्षादि दक्षे दक्षे स्थितोऽर्चयेत् || इति || तथा -
SKन योषित्सन्निधौ नाग्रेन पृष्ठे सन्निधौ भवेत् | अर्चयेद्भुक्तिमुक्त्यर्थं दक्षेऽघौघ हरे स्थितः || इति || ननु न घोर इत्यघोरः शान्तः नयमद्यनिर्मोचकोभवि तु मर्हति | सत्यम् | किन्तु वस्तु स्वभावायां तदुक्तञ्च - भीमं मृदु च शीतञ्च पद्मं निर्दहते यथा | तथा घोरः प्रशान्तोऽपि पापनिर्दाहकारकः || इति | ननुयागमण्टपे पूर्वाभिमुखे प्रासादे वा स्वासंमुखं भवति | ननु पश्चिमाभिमुखे यतस्तत्रदेवः पश्चिमाभिमुखे तिष्ठति | ततस्तस्या घोरवदनमप्युत्तरे स्यादिति चेन्नैवं वाच्याम् | तत्रापि देवः पूर्वानन एवेति | उक्तञ्च देहस्य प्रासादोहवत् यथा काष्ठायाः कामं तत्पुरुषाणि मुखानि तु न जहति पूर्वादि दिक्संस्थाः लिङ्गं वा प्रतिमां वा क्रियतेऽन्यद्वा याया ककुभा तस्यां तस्यां यज्वा यजेत शिवमुत्तराभिमुखमिति | कथं यस्य देवस्य पश्चिमद्वाराभिमुखत्वं प्रतिपादितं तत्रापि तत्पुरुषेशानयोरेव | उक्तञ्च - प्रतीच्यां तद्यथा द्वारं तत्रैशानं पुरुषं स्मरेत् | प्. ४२) सद्यो जातं भवेत् प्राच्यां घोर वामञ्च पूर्ववत् | भोगाङ्गानि यथा पूर्वं साधकश्चोत्तराननः || नैवेद्यं दीपमालादि द्वारदेशे निवेशयेत् || इति || अथान्यत्र च - भोगाङ्ग वक्त्र युक्तो वा प्राची प्रत्यङ्मुखेशिवे | घोरस्य भावे भावे वा दक्षिणां दिशमाश्रयेत् || इति || रुद्रधत्ते दक्षिणमुखं तेन मां पाहि नित्यमिति श्रुतिरपि एतेनाघोरवक्त्र सन्निधौ पूजकस्यारभेतिरुच्यत एव | ननु पश्चिमद्वारावलोकनत्वं शिवस्यविद्यते चेत् एवं तर्हि ततश्च पश्चिमं वाहयेत् | द्वाराणि घट्टयेत् - वाहयेत्पश्चिमद्वारं सिद्धिकामः समाहितः | इत्यादि वचनाच्च पश्चिमद्वारमेव भवतु | किं पुनः पूर्वद्वारेण पूर्वाभिमुखत्वेन वा | नैवं वाच्यम् | अनादि व्यवस्थेयमिति पूर्वाभिमुख एव भगवान् | किञ्च सर्वहितत्वात् कल्पना नुरूपमास्ते | उक्तञ्च - यस्यां देशि भवेद्द्वारं प्रतीचानां प्रकल्पयेत् | लिङ्गस्याभिमुखं यत्तद्द्वारं तत्पूर्वमिष्यते ||
SKतत्र तत्पुरुषं वक्त्रमूर्ध्वञ्चाभि मुखं भवेत् | बलि पीठं वृषं शूलं तद्वक्त्रभिमुखं भवेत् || इति | तथान्यत्रापि - सदा पूर्वाननः शम्भुः साधकश्चोत्तराननः | कामना भेदतस्तत्तद्दिग्वक्त्रं भावयेच्छिवम् || नित्ये नैमित्तिके काम्ये पूर्वस्यां वा पराननम् | प्. ४३) अनिष्टेत्यन्यदिग्वक्त्रं देश सन्धिषु कल्पयेत् || इत्याद्यलमति प्रसङ्गेन || अथ भूत शुद्धिरुच्यते - ननु सम्प्रति भूतशोधनेन किं साध्यते | पूर्वमेव दीक्षावसरे षडध्व गर्हितानि भूतान्येव शोधितानीति | नैवं वाच्यम् | भूतानि तानि द्विविधानि भूतानि देह भूतानि चेति | उक्तञ्च - पृथिव्यापस्तथा तेजो वायुराकाश एव च | एतानि पञ्चतत्वानि सर्वेषां व्यापकानि तु || न विना पञ्चभिस्तत्वैर्देहबन्धो विधीयते || इति | स्थूल सूक्ष्म विभागेन ज्ञात्वैतानि च शोधयेत् | इति || तत्र तावद्दीक्षावसरे बाह्यानि तत्वरूपाणि भोगस्थानानि तत्रोप भोग्यकर्म शोधितार्थ शोधितार्थानि | न तु देहरूपाणि भूतानि | तदा प्रारब्ध कर्मविनाशाभावात् | उक्तञ्च - जातायां घट निष्पत्तौ यथा चक्रं भ्रमत्यपि | पूर्वसंस्कार संसिद्धं तदा वपुरिदं स्थितम् || अनेक भविकं कर्म दग्धं बीजमिवाणुभिः | भविष्यदपि संरुद्धं येनेदं तद्धिभोगतः || देहपति विमोक्षः स्यात् सद्योनिर्वाणदापि वा | इति | तस्माद्दीक्षासंशुद्धस्यात्मनः प्राकृते पञ्चभूतात्मके शुद्धे देहे मायीयव्यक्त शक्तिप्रेरित कर्मोपभोगस्थाने स्थितात्मन उपस्थानमयुक्तमिति प्. ४४) भूत शुद्ध्यास्व देहो मन्त्रमधः क्रियते | सावप्रत्यहं प्रतिक्षणं च विधेया | चित्तस्थैर्याभावात् | उक्तञ्चाचार्यैः - तस्मादीक्षा विशुद्धस्य प्राकृते पाञ्चभौतिके | देहे शुद्धस्वकर्मोप भोगस्थाने स्थितात्मनः प्रेरितस्य तदामायाशक्तिभिर्भोगसन्ततौ - अयुक्तं तदवस्थानं दुष्टपात्रे यथामधु | तस्माच्छाक्तिमयं देहं भूतशुद्ध्यात्मनः सुधीः || कुर्यात् सा च सदाकार्या यतः स्थैर्यं न वात्मनः || इति || उक्तं चागमे -
SKहृद्यब्जमुकुलं ध्यात्वा सुधावारिपरिप्लुतम् | तत्र स्वं चिन्तयेत्कार्यं दिव्यमानं यथा गरा || दाहो योगाग्निना प्रोक्तो न व्यक्ते किन्तु कर्मणाम् | सर्वमन्त्र प्रसाध्यानं यस्त्रता व्यक्तशक्तयः ||? आरोप्यन्ते स्वतन्त्रैस्तु स्वस्थाने तु यथा क्रमम् || स्व स्थानं च पुनर्यान्ति समाप्ते कर्मणि स्वयम् | अहन्यहनि योगानि सम्पर्काच्छिवशक्तयः || नित्यं मन्त्राम्बुसिक्ताश्च गच्छन्त्युपचयं क्रमात् | निरुद्धाश्च भवन्त्येवं ताभिश्च व्यक्तशक्तयः || प्रयान्त्युपचयं शुद्धाः सर्वदोषहराश्चताः | अपि व्यङ्गाश्च सम्पूर्णा भवन्त्येव न संशयः || इति | अत एव समस्ताध्वगर्हित भूतकला धारणादिभिः देहे संशोधनं कर्तव्यमेव | तदुक्तञ्च - प्. ४५) देहस्य भूत जन्मत्वाद्विशुद्धिर्भूत शोधने | भूतानि तत्वगर्भाणि पञ्चचिह्न युतानि च || स्वभाव वर्णसंस्थाने कलामण्डल कारणैः | वर्णमन्त्रगुणस्थान प्रमाणानि युतानि च || पञ्चभिर्धारणाभिस्तु पार्थिव्यादिभिरन्वितैः | पृथिव्याद्यैः कलायुक्ता उद्घाते नेह धारणा || इति || अस्यायमर्थः | भूतशोधने भूतशोधन समये देवस्यैव विशेषेण विशिष्टा विशुद्धिः | विशुद्धिः योगाग्निना दाहः क्रियते | तस्य भूतजन्मत्वान्मोहा भूतेभ्यः सूक्ष्मभूतैः सह जन्म स्यात् | सौभूत जन्मा | उक्तञ्च - महाभूतानि तत्वानि सूक्ष्म भूतमयं वपुरिति | तस्य भावो भूतजन्मत्वम् | तस्मादिति | भूतानि तावत् पृथिव्यप्तेजो वाटवाकाशाख्यानि | स्वभावादेव तत्व गर्भाणि तत्वानि पृथिव्यादीनि षट्त्रिंशत्संख्यानि गर्भे मध्ये यषां तानि | तत्व गर्भाणि | वज्रपद्मस्वस्तिक षट्बिन्दुशक्ति मय पञ्चचिह्न युक्तानि च | आह संस्थानमिति स्वभावोपवर्णम् | तत्र कठिनद्रवोष्णचलनावकाशं स्वरूपं स्वभावः | पीतश्वेतरक्त कृष्णा सिताभा वर्णाः कलानिवृत्ति प्रतिष्ठा विद्याशान्तिशान्त्यतीताख्याः मण्डलानि चतुरश्रार्ध चन्द्रत्रिकोणषडश्रवृत्तरूपाणि कारणानि ब्रह्मविष्णुरुद्रानन्तेश्वर सदा शिवाः | यदुक्तं च सर्वज्ञानोत्तरे -
SKब्रह्मा विष्णुश्च रुद्रश्चानन्तेशश्च सदाशिवः | पृथिव्यादिषु तत्वेषु क्रमात् तत्वाधिपाः स्मृताः || इति || प्. ४६) अथ वर्णा अकारादयः | मन्त्राः सद्योजातादयः | यद्वा मन्त्रैर्युक्ता मन्त्राः वर्णमन्त्राः | तत्र वर्णाः पार्थिवादि ल व र य ह बीजानि | मन्त्राश्च हृदयशिखा कवच शक्तिबीजानि | एवं ह्लां ह्वीं ह्रीं ह्यैं ह्रौं इति कला मन्त्राः समुद्धृत्ताः | गुणाः गन्धरस रूपस्पर्श शब्दाः | तत्र पञ्च चतुस्त्रिद्व्यैक गुणानि भूतानि स्थानानि | यद्वा स्थानं मस्तकादि | उक्तञ्च - सर्वाणि मण्डलानि मूर्धादि चरणावधि | संस्थितानि तु तत्सर्वं पार्थिवं वज्रलाञ्छितम् || इत्यादि | तथा सर्व ज्ञानोत्तरे च - महेन्द्री मण्डलं योगीमूर्ध्व आरभ्यचिन्तयेत् इत्यादीनि | प्रमाणशतकोट्यादितो दशगुण वृद्धिः | तथा च तत्रैव | पृथिवीमादितः कृत्वा यावत्तत्वञ्च बैन्दवम् | तत्वानि तु विजानीयाद्दशधावृत्य संस्थितम् || इति || आदि शब्देन प्रणवेनान्त प्रणवान्ता प्रणवादीनि चतुर्न पति पाशानि गृह्यन्ते | न दीक्षा प्रस्तावे च वक्ष्यमाणत्वादत्राविस्मृतानि | एवं समस्ताध्वगर्हितानि भूतानि विचिन्त्य तैः पृथिव्याद्यैर्भूतैः | किं विशिष्टैः पार्थिव्यादिभिः पञ्चभिर्धारणादिभिः अन्वितैर्देहस्य शुद्धिः कर्तया | नन्वत्र देहशोधने नाप्युक्त नित्यभूतान्येव शोध्यन्ते | तानि च पुनर्धारणादिभिरेव शोध्यन्ते | ततः शोध्यशोधकभावेनैकी भूतत्वाद्धारणा शोधनीया | ततस्तः केनैवताः शोध्यन्ते इत्यत्राह - कलयुक्ता उद्घातेऽह्ने धारण इति | तावत्सर्वाध्वगर्हितानि पृथिव्यादीनि पञ्चत्वानि | तत्वगर्हिताः कलाः | उक्तञ्च - प्. ४७) सन्निरोधे कृते सम्यक् ऊर्ध्ववायुः प्रवर्तते | उद्घात इति संख्यातः स्वेच्छयात्र कनीयसः || इति || सयोद्घातः पार्थिव्यादिषु पञ्चसुधारणासी तत्तत्व गुण संख्यातः कार्यः | यद्वा एकोद्घातेन सर्वा शोधनीयाः | तथा चोक्तम् - तत्व गर्भाणि भूतानि पञ्च पञ्चभिरेव तु | धारणाभिर्विचित्राभिर्मूर्धादिभिरनन्यधीः ||
SKपार्थिवी वारुण्याग्नेयी वायवी ना हसीति च | शोध्योपरक्त नामानः कला एवात्र धारणाः || मण्डलं बीजसंस्थानं रूपयुक्तं पृथक् पृथक् | प्राणायामान्वितं ध्यानं धारणेति निगद्यते || यद्वा करण पद्मेषु तत्तद्बीजविधारणात् | धारणाभिहिता तज्ज्ञैः शुद्धदेहोदयं प्रति | शोधयित्वाथ भूतानि तद्गुणोद्घात योगतः || तत्पदे कलामूर्तिं व्यक्तं स्वस्य विचिन्तयेत् | एकोद्घातेन वा सर्वाः चिन्तनीयाः स्वभावतः | देहात्माधो मुखस्तत्र ध्यातव्यो भवपादप || इति || अथ नाना गम परिज्ञाने कर्तव्यः स्व गुरुक्रमः इति प्रपञ्चः कर्तुमशक्य इति | तुल्यबलत्वाच्च लघुक्रम आरभ्यते - गन्धलिप्तौ करौ कृत्वा रेचयित्वा मरुत्सुधीः | तलं पृष्ठं द्विधा वामं सकृत्सव्यं समालभेत् || प्. ४८) अस्त्रवह्नि शिखादर्धौ शक्त्या संप्लावयेत्करौ | अङ्गुल्यष्टदलं पद्ममङ्गुल द्वय कर्णिकम् || ध्यात्वा तत्रासनं मूर्तिं शम्भुंतद्व्यापकं न्यसेत् | हृदाद्यङ्गानि विन्यस्य कनिष्ठाद्यङ्गुष्ठ च || मूलेन परमीकृत्य वर्मणावेष्टयेन्मिथः | शैवं तेजो मयं हस्तं ध्यात्वा संहार मुद्रया || मूर्ति मन्त्रेणचात्मानमाहृत्य प्राणवायुना | स्वदेह व्यापकं तेन प्रोत्फुल्ल हृदयाम्बुजे | अग्नीषोमात्मके तत्र तद्वह्नौ रविमण्डलम् | तत्स्थ चन्द्रस्रुवत्यन्तं स्थापयेत्तत्पुटान्तरे || सूर्य सोमानलान्तस्थ शक्तिपीयूष मण्डले | तन्निधाय विधायाण्डं शक्त्यादि युगमण्डलैः || कूर्म मुद्रां ततो बद्ध्वा क्रमात्तत्वं विशोधयेत् || अत्र क्रमः | आणवमलबीजं माया क्षेत्र विनिक्षिप्तं धर्मा धर्ममोहमूलं कलादि सारङ्गानि निर्यरूषं पुरुष जीवं प्रकृत्यादि महाकायमिन्द्रिय शाखोपशाखं विषयपल्लवं भाव प्रपञ्च कुसुमं सुखदुःखफलमूर्ध्व मूलमधः शाखं स्वदेहं वटवृक्षे चिन्तयेत् | उक्तञ्च - अङ्गशुद्धं स्वं रुद्रद्रव्य भूतशुद्धिं समाचरेत् | अक्षेशमिन्द्रियगतं क्रमेणैव नयेत्ततः || आत्मनात्मनि कर्तव्यमात्मनः शोधनं क्रमात् | प्. ४९)
SKमल माया कलारूपं शोधयेत्पादपं क्रमात् || इति | जानु मण्डलमावर्त्य मात्रस्याच्छोटिका क्रमात् | ताभिर्द्वादशमात्राभिः पूरकः कुम्भकस्तथा || रेचकश्चैवमाख्यातः प्रणायामः कनीयसः || ॐ हां निवृत्तिकलायै नमः | हुं फडिति पूरकार्धेन पार्थिव्याधारणया गुण पञ्चकविनाशार्थं पञ्चवारं मनसोच्चरन् पत्रपुष्पफलादिरहितं तद्देह पादपं चिन्तयेत् | ततः ॐ ह्वीं प्रतिष्ठाकलायै हः हुं फडिति पूरकापरार्धेन वारुण्याधारणया चतुर्गुणविनाशाय वार चतुष्टयमुच्चरन्तं पल्लवितं चिन्तयेत् | ततः ॐ ह्रूं विद्या कलायै हः हुं फडिति कुम्भकेन वह्निना धारणया गुणत्रयविनाशाय वारत्रयमुच्चरन् शुष्कं दग्धं च विचिन्तयेत् | ॐ के ह्यें शान्तिकलायै हः हुं फडिति रेचकपूर्वार्धेन वायव्या धारणया गुणद्वय विनाशाय वारद्वयमुच्चरन् तद्भस्म दशदिक्षु विनिक्षिप्तं विचिन्तयेत् || ततः ॐ हौं शान्त्यतीतकलायै हः हुं फडिति रेचकापरार्धेन नाभस्या धारणया गुणैकविनाशाय सकृदुच्चरन् निर्मलमाकासं चिन्तयेत् | अ नमोन्ताभिः शान्त्यतीतादिभिः शिरोललाटनासं ग्रीवा हृदयस्थानगताभिः सूक्ष्ममूर्तिं ज्योतिर्लिङ्गमयीं विचिन्त्य ततः द्वादशान्ते शक्तिमण्डलं परिपूर्ण चन्द्रमण्डल सदृशं अमृतमयं विचिन्त्य ॐ हौं शक्तये वौषडितिरेचकेन समुत्सार्य ततः सृष्ट्यात पराशक्ति प्रसृतशीतपीतरूपा मृतधाराभिः तामभिषिच्य विगतोपरितन मण्डलमात्मानञ्चैतत् सर्वं प्रणवोपेतैः प्राणायामैः पञ्चभिर्वाक्यम् | उक्तञ्च - प्. ५०) शोधयेत्प्रणवैस्सर्वं प्राणायामैश्च पञ्चभिः | रेचकेन सकृद्दग्धमापादान्मस्तवा वधि || तद्भस्मोत्पूरकं तद्वत्प्लावयेत्तत्सभस्मकम् | सकृदोकाङ्कारतोयेन रेचकार्धेनशाङ्करे || इति || ततः ॐ हां हं हां आत्ममूर्तये नम इति तामेवात्मनः पुष्टकस्थानमव्यग्रकर चरणादिरूपां रक्तांश्वेतां सूक्ष्ममूर्तिं विचिन्तयेत् | यदाहुः - चतुर्दलसमोपेतामुद्यदादित्य मण्डलाम् | मूर्तिमस्मिन् न्यसेत्स्मृत्वा व्यक्ताव्यक्तस्वरूपिणी ||
SKलिङ्गमध्ये न्यसेन्मूर्तिमात्माख्यां सुसित प्रभाम् || इति | इत्थं लिङ्गं व्यापकात्मानं विचिन्त्य ॐ हौं विद्यादेहाय नमः इति पञ्चब्राह्म कलामयं सदाशिवरूपं ध्यात्वा ॐ हां हौं शिवाय नम इति परमशिव भट्टारकं यजमान मूर्तिधरं हृदिस्थं तद्व्यापकं विचिन्त्य मानसैर्हृदयादिस्थानेषु हृदयादि मन्त्रान्विन्यस्य मूलेन परमीकुर्यात् | एतत्सर्वं मनसा कृत्वा पुनः कूर्म मुद्रां परित्यजेत् || अथाङ्गुष्ठा नामिकाभ्यां ॐ हां शिवासनाय नमः इत्युच्चार्य नाभौद्विसप्तति सहनासीचक्रमध्यस्थ प्रतिचक्रमध्यगत षोडशदलारविन्द कर्णिकामध्यस्थित बिन्दौ विन्यस्य ॐ हां हं हां शिवमूर्तये नमः भ्रूविन्द्वन्ताज्योव्यतीरूपां सूक्ष्ममूर्तिं विन्यसेत् | उक्तञ्च - बिन्दोर्बिन्दुगतां मूर्तिं ध्यात्वा स्थूलं वपुः स्मरेत् प्. ५१) इति | ॐ हां विद्यादेहाय नमः | इति ब्रह्मरन्ध्रान्तं पञ्चब्रह्मकलामयं सदाशिवं विन्यस्य ॐ हां हौं शिवाय नम इति विधिद्वादशान्तमुच्चार्य परं शिवभट्टारकमानीय मूर्तिद्वय व्यापकं विन्यस्य सकलीकरणाय ॐ हां हृदयाय नमः ॐ हीं शिरसे नमः ॐ हूं सिखायै नमः | इति हृच्छिरसि शिखास्थानेषु सितान्ततद्वर्णान् हृदयादीनां गुष्ठानाभिकाभ्यां विन्यस्य ॐ ह्यैं कवचाय नमः इति हस्ताभ्यां पक्षस्थले कृष्णवर्णं तनुत्रञ्च विन्यस्य ॐ हः अस्त्राय हुं फडिति कराभ्यां तालत्रयेण विघ्नप्रोत्सारणं कृत्वा जलं नाराचवदस्त्रच्छोटिकाभिः दिक्षु विदिक्षु विन्यस्य दिग्बन्धनं कृत्वा नमोन्त कवचेनावेष्ट्य कमल मन्त्रेण हस्ताभ्यां मस्तकात् पादान्तं परमी कृतिं कृत्वा वौषडन्तं शक्ति मन्त्रेण महामुद्रया पादादारभ्य सर्वमन्त्र प्ररोचनं कुर्यात् | उक्तञ्च- पीठमूर्तिं शिवं नाभौ हृदये हृदयं सितम् | शिरः शिरसि हेमाहं शिखायामरुणां शिखाम् || कृष्णं वक्षस्वपि नवकं कवचं भट भीषणम् |? अस्त्रमग्निनिभं हस्ते तालत्रयपुरस्सरम् ||
SKदिग्विदिग्विधं संघातं चोतिकास्त्रेण रेचयेत् | कवचेन समावेष्ट्य मूलेन परमी कृतिम् | कृत्वा तत्तेजसा क्रान्तां शक्त्यातां रेचयेदणून् || इति || इत्थं मन्त्रसन्नद्धविग्रहः सन् साधकः सर्वविघ्नो नाभिभूयते | तथा - प्. ५२) चो?क्तम् | हृदयं हृत्परित्राणं बद्ध पट्टवता हितम् | शिरच्छतञ्चरस्त्राणं शिरसः परिवेष्टनम् | मूलिकामस्तकत्राणं गत्राणञ्च क्रमंकटम् || करे शस्त्रे गृहीते तु भीषणो भटवत्स्थितः | क्षद्राणामप्रधृष्यः स्यात्तार्क्ष्यो दृक्श्रवसामिव || इति || प्रासा निष्कल प्रासादानुष्ठानत्रणा न्यासक्रमः | पुनः सकलप्रासादानुष्ठातृभिः ब्रह्माङ्गनेत्रैः न्यासः कर्तव्यः | उक्तञ्च सिद्धान्ते - इति कृत्वा यथा न्यासं मन्त्र न्यासमथाचरेत् | अस्त्रेण शोधयेद्धस्ता वन्योन्यं द्वेक संख्यया || शक्ते नासापुटोद्भू?तैः प्लावयेत् परमामृतैः | ध्यात्वा पद्मं ततस्तत्र विन्यसेन्मनसा सनम् || मूर्तिं तद्व्यापकं शम्भुं स्वेन स्वेनाणुना सुधीः | अङ्गुष्ठादि कनिष्ठान्तमीशानदीनि विन्यसेत् || हृदयादि कवचान्तानि कनिष्ठानि क्रमेण तु | नेत्रं हस्ततले न्यस्त्वा शस्त्रमङ्गुष्ठ गोचरे || मूलेन परमीकृत्य कवचेनावकुण्ठ्य च | शिवहस्तं विधायेत्थं तेन पूर्वं समाचरेत् || आसनाणुं न्यसेन्नाभौ मूर्ति मन्त्रमथो शिवम् | दण्डभङ्ग्या न वक्त्राणि मुण्डभङ्ग्यानि * * * | ईशानं मूर्ध्नि विन्यस्य वक्त्रे तत्पुरुषं न्यसेत् || प्. ५३) अघोरं हृदये न्यस्य गुह्यदेशे तु गुह्यकम् | तदधः पादपर्यन्तं सद्योजातञ्च विन्यसेत् || भूतस्थान इमेमन्त्राः तैः स्वदेहं प्रकल्प्य च | ईशनमीशमन्त्रेण मूर्ध्नि तद्वनं स्मरेत् ||? पूर्वं तत्पुरुषं वक्त्रं वक्त्रेण हृदयोपरि || दक्षांसोपरि दक्षास्यां वामदेवेन कल्पयेत् | ब्रह्मग्रीवोपरिस्थन्तु सद्योजातमजाणुना || एतानि भिन्नवर्णानि श्वेतपीतानि तानि च | रक्तश्वेतानि तत्सर्वं मौलिकुण्डलभूषितम् || हृदये हृदयंश्वेतं शिरः पीतं शिरस्सु च | शिखांरक्तां शिखायां तु कृष्णं वक्षस्यनाहकम् ||
SKनेत्रं नेत्रेषु विन्यस्य सूर्य सोमानलात्मकम् || अस्त्रं हस्तद्व्येरक्तं तालशब्दत्रयेण तु | विघ्नानुच्छाट्य दिक्ष्वस्त्रं चोटिकाभिश्च विन्यसेत् | मूलमन्त्रेण हस्ताभ्यां मूर्ध्नि आरभ्यसंस्पृशेत् | रेचयेद्देहगा मन्त्रा मन्त्रदेहस्तदा भवेत् || क्वचित् - रेचनं शक्तिमन्त्रेण वौषडन्तेन सर्व | इति || बीज ब्रह्मविधिः प्रोक्तः पादब्रह्म क्रमंशृणु | तत्पादानि विभज्यादौ कलाभिस्तानि विन्यसेत् || ईशानं पञ्चधामूर्ध्नि वक्त्रं वक्त्रचतुष्टये || प्. ५४) पञ्चमं प्रणवे नैव ततो घोरं कलां न्यसेत् | हृदि कण्ठं न्यसेन्नाभौ कुक्षिपृष्ठे च वक्षसि || गुह्ये लिङ्गे तयोर्वोश्च जानुनोर्जंघयोः स्फिचोः || कट्याञ्च पार्श्वयोश्चाथ वामदेव कलां न्यसेत् | पादयोर्हस्तयोर्घ्राणे मस्तके भुजदण्डयोः || सद्योजातकला योज्याः मन्त्रान्ताश्च कला न्यसेत् || यथा - ॐ ईशानः सर्वविद्यानां ईश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा शिवोमेऽस्तु सदाशिवोम् | ॐ तत्पुऋउषाय विद्महे महादेवाय धीमहि | तन्नोरुद्रः प्रचोदयात् | ॐ अघोरेभ्यो च घोरेभ्यो घोरघोरतरेभ्यः | सर्वतश्शर्व सर्वेभ्यो नमस्तेऽस्तु रुद्र रूपेभ्यः || ॐ वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः कालाय नमः कल विकरणाय नमो बल प्रमथनाय नमः सर्वभूतदमनाय नमो नमोन्मनाय नमः | ॐ सद्योजातं प्रपद्यामि सद्यो जाताय वै नमः | भवे भवेनाति भवे भजस्वमाम् भवोद्भवाय नमः | दक्ष वक्त्रे ॐ तन्नोरुद्र प्रतिष्ठायै नमः | वाम वक्त्रे ॐ प्रचोदयान्निवृत्त्यै नमः | पृष्ठवक्त्रे | ॐ अघोरेभ्यस्तस्मायै नमः | हृदये | ॐ अथ घोरेभ्यो मोहायै नमः | कण्ठे | ॐ अघोरक्षायै नमः | दक्षांसे | ॐ घोरतरेभ्यो निष्ठायै नमः | वामांसे | ॐ सर्वतः शर्व मृत्यवे नमः | नाभौ | सर्वेभ्यो मायायै नमः | जठरे | ॐ नमस्तेऽस्तु रुद्रभयायै नमः | पृष्ठे प्. ५५)
SKरूपेभ्यो ज्वरायै नमः | ॐ वामदेवाय नमोरजायै नमः | गुह्ये | ॐ ज्येष्ठायै नमो रक्षायै नमः | लिङ्गे | ॐ रुद्राय नमो रत्यैनमः | दक्षिणोरौ | ॐ कलाय नमः | पाल्यायै नमः | वामारौ | ॐ कलकामायै नमः | दक्ष जानुनि | ॐ अविकरणाय नमो संयमिन्यै नमः | वाम जानुनि | ॐ बाल क्रियायै नमः | दक्ष जंघायाम् | ॐ विकरणाय मनोबुध्यै नमः | वाम जंघायाम् | ॐ बलकार्यायै नमः | दक्षस्फिचि | ॐ बल प्रमथनाय नमो धत्र्यै नमः | वामस्फिचि | ॐ सर्वभूतदमनाय नमो भ्रामिण्यै नमः | कट्याम् | ॐ मन मोहिन्यै नमः | दक्ष पार्श्वे | उन्मनाय नमो मनोन्मन्यै नमः | वामपार्श्वे | ॐ सद्योजातं प्रवक्ष्यामि सिध्यै नमः | दक्षपार्श्वे | ॐ सद्योजातं प्रपद्यामि सिध्यै नमः | दक्षपादे | ॐ सद्योजातायै नमः | ऋद्धयै नमः | वाम पादे | ॐ भवेत्युक्ते नमः | दक्षकरे | ॐ अहवेलक्ष्म्यै नमः | वामकरे | ॐ अनादिभवे मेधायै नमः | प्राणे | ॐ भजस्वमां | कान्त्यै नमः | शिरसि | ॐ भवस्वधायै नमः | दक्षबाहौ | ॐ उद्भवाय नमो धृत्यै नमः | वामबाहौ | यद्वैताश्च न्यसेत् | सर्वबीजपुरः सराः | ॐ ह्ॐ शशिन्यै नमः | इत्यादयो मन्त्राश्चाङ्गानां पूर्ववन्या च सृष्टिन्यासः समीरितः | नैष्ठिकस्तु विरक्तश्चेत्कनिष्ठादि स्वजातिभिः | पादादिभिश्च संहारन्यासं कुर्याद्विचक्षणः || तथैवोद्धूलयेच्छान्तोनिः स्पृहः सङ्गवर्जितः | प्. ५६) योगाभ्यासरतो नित्यं नाधिकारोऽन्यथा मतः || यदुक्तमन्यत्र | साभूतैः कायसंकॢप्तिरजान्यैः पञ्चभिः स्थितैः | सद्यक्षितिर्जलं वामोघोरस्तेजो नरो मरुत् || ईशः खमुपसंहारन्यासः पादादिकस्तु सः || इति || इत्थं भूतशुद्धिपुरःसरं सकली करणं कृत्वान्तर्यजनमारभेत् | ॐ तच्च योगिभिरहिंसा कुसुमादिभिः कार्यम् | तानि च यथा गमे - अहिंसा प्रथमं पुष्पंमिन्द्रियाणां तु निग्रहः | क्षान्तिः पुष्पं तथा पुष्पं ज्ञान पुष्पमतः परम् ||
SKततः पुष्पं सत्य पुष्पं भाव पुष्पं तथाष्टकम् | नन्व हिंसादीनि पुष्पाणि चेत्कथमुपमीयन्ते | तेषामरूपत्वात् | सत्यम् | किन्तु पुष्पैरिवा हिंसादिभिरपि तोष्यते भगवानित्युपमाकृता | ननु रूप सामान्यात् स च योगी माध्यमिकश्चेत् सुषुम्ना नाड्यामेव - रात्रौ संपूजयेद्देवं दिवाहोमं प्रकल्पयेत् | सन्ध्यासु च तथा ध्यानं दिवारात्रौ जपेत्सदा || अथ निष्पन्नयोगी चेत् - न दिने पूजयेद्देवं रात्रौ नैव च नैव च | सततं पूजयेदेवं दिवारात्रौ च वर्जयेत् || अथ प्राथमिकश्चेत् - इडा नाड्यां वहन्त्याश्च हृदिस्थानं प्रकल्पयेत् | प्. ५७) पिङ्गला नाभिपद्मे तु सुषुम्नामूर्ध्नियोगवत् | हृदयेऽर्चाविधानं स्यान्नाभौहोमं प्रकल्पयेत् || ललाटे चेश्वरं ध्यायेदधूप ज्योतिरूपिणम् || यद्वासौ भुक्तिमुक्त्यर्थं मध्यनास्यां शिवं यजेत् | शान्त्यर्थं चाभिचारार्थं वामदक्षिणनासिकम् || तदुक्तं श्रीकालोत्तरे - बाह्येन वात्र कालेन चाध्यात्ममेकतः कुरु | बाह्यकालं ततस्त्यक्त्वा चाध्यात्मिकं विचिन्तयेत् || आध्यात्मिकेन कर्माणि कालेनैव तु चिन्तयेत् | विषये मुक्तिकामस्य यजनं परिकीर्तितम् || शान्त्यर्थं वाम नाड्याभिः प्रवाहेण महेश्वरम् | यजनं विहितं स्कन्दमानल्यामाभिचारके || इति || अथ भाव परित पुष्पाद्यैः हृदय कमले शिवं यजेत् | तच्च कन्दादुद्गतम् | तच्चोक्तम् - कन्द स्थानं मनुष्याणां देह मध्यं नवाङ्गुलम् | चतुरङ्गुलमुत्सेध मायामञ्च तथा विधम् || अण्डा कृति च दाकारं भूषितं तत्त्वगादिभिः || इति | अथ तत्कन्दमिव कन्दं सव्यनाडीनामुदस्थानं तस्मादुद्गतम् हृदय कमलं तत्कर्णिकायां सूर्यसोमानल शिखाशक्तौ क्रमेणानन्तेश सदेव परमशिवाः स्वभावतः तिष्ठन्ति | तहा चोक्तं श्रीमन्निश्वास कारिकायाम् - प्. ५८) कदली पुष्पसंकाशं हृदयं सर्वदेहिनाम् | तस्य मध्ये स्थितं पद्ममष्टपत्रं स कर्णिकम् || वितस्तिमात्रं हृदयं कमलं चतुरङ्गुलम् | अष्टाङ्गुल प्रमाणान्तं नाभेरूर्ध्वमवस्थितम् ||
SKपद्म नालीनयद्वारं समन्तात्कटकान्वितम् | अङ्गुष्ठपर्वतुल्यात्र कर्णिका सा सकेसरा || कर्णिकायां भवेत् सूर्यं तस्य मध्ये च चन्द्रमाः | चन्द्र मध्ये भवेद्वह्निः सूर्यमध्ये महेश्वरः || सदा शिवो महेशः स्याद्विपरीतमतस्थितः || सर्वेषां संप्रवक्ष्यामि प्रमाणं शिवनिर्मितम् || किञ्चिद्धीनतरं सूर्यं सूर्यात्सोमं तथैव हि | सोमादूनं विजानीयाद्वह्निमण्डलमुत्तमम् || अधूमनिर्मलं दिव्यमादित्योदय सन्निभम् | दशार्धस्यादरं सौम्यं शुद्ध स्फटिकनिर्मलम् || सदा शिवं माहात्मानं तस्यात्यूर्ध्वं परापरम् | स्थितिं सुनिर्मलं दिव्यमग्राह्यं परमं शिवम् || इति || इत्थं सर्वं विदित्वा तु पूजा होमसमाधीनां स्थानानि प्रकल्पयेत् || हृदयं चारु विस्तारं वेदबद्ध वितानकम् | प्रोत्फुल्लाष्टदलश्वेत पङ्कजाभोगमण्डलम् || मन्त्रसिंहासनासीनं मन्त्रसन्नद्धविग्रहम् || प्. ५९) मन्त्रपूजासुपं पन्नं यजेत्तत्र महेश्वरम् || नाभिचक्रगुहाभोग वह्निकुण्डे निसर्गणे | पूर्ववत्सन्निधीकृत्य तत्र्पयेत् परमामृतैः || ललाट विषयाभोग प्रस्फुरद्बिन्दुगह्वरे | ध्यायेदीशं शिवं शान्तमधूमं ज्योतिरूपिणम् || इति वचनात् |
SKअथ कन्दनाल पद्मकर्णिकासु वक्ष्यमाणवदधार शक्त्यादि शक्तिपर्यन्तं विन्यस्य तत्रेश्वरं सदाशिवस्थूलदेहात्मकं ध्यात्वा मूर्तिद्वय व्यापकं परमशिवद्वादशान्तं परमज्योतिः संप्रवृत्तं विन्यस्यावाहनादिभिः संस्कृत्य सकलीकृत्य पाद्यादिकं दत्वा इडा नाड्या पूरकेणभाव सङ्कल्पितद्रव्यैरभ्यर्च्य मध्यनासी चारेण जपं कृत्वा स्मभ्यंस्तु नमस्कारादिभिः प्रासादाभिमुखं विधाय त ततः ततो ज्ञया नाभिकुण्डे स्वयं भूते त्रिमेखले निजभूतानि मन्त्रेण प्रज्वालय क्रव्यादेशं परित्यज्य निरीक्षणादिभिः संशोध्य वह्निबीजसमुद्दीपितं रेचकेण हृदयभ्रूमध्यगत ज्ञानवह्निभ्यामेकीकृत्य द्वादशान्तं नीत्वा पूरकेणतं शिववह्निं नाभिगतं कृत्वा सद्योजातादिभिः भावनाया सम्पूज्य मूलेनाहुति पञ्चकं दत्वा ॐ हां शिवास्वग्निं हुताशनेति नाम कृत्वा तत्कुण्डमेखलासु च चतुर्दिक्षु न्यस्त कुशान्तरेषु ब्रह्मादि चतुष्टययजनञ्च कृत्वा तन्मात्रेन्द्रियमनोरूप षोडशसमिद्धोमं कृत्वा ततः परिपालनं ध्यात्वा तत्र वह्नेः हृदयकमल मध्येऽधारानादि शक्त्यादिपर्यन्तमानसं विन्यस्य तत्र शिवं साङ्ग कुशपवित्रान्तं सम्पूज्य नाडीसंधानपुरस्सरं प्. ६०) पिङ्गलारेचकेण द्वादशान्तस्थशक्तिमण्डल प्रसृत परमामृतरसनिर्भर कन्दकलशाच्छतं मध्यनाडीकण्ठतालु कर्ण पथव्यक्त ब्रह्मरन्ध्र मृत्कमण्डमल पुष्करं ब्रह्म पुत्रान्तप्रसरमसुधामृत सुभ्रूपमान्तरं भावयेत् | सुषुम्ना नासिरूपश्रवेणाष्टोत्तरशतादिहोमदशाङ्गानाञ्च तद्रूप स्रुचा पूर्णां दत्वा विधिवत्संपूज्याग्निस्थं शिवं नाडीमार्गेण हृत्पद्मपूजित शिवे संयोज्य नाभिकुण्डस्थमग्निं भूरादिहोमपूर्वं निरुध्य हृत्पद्मपूजितं शिवे कर्मार्पणं विधायसोपचारं निरुध्य शक्तिरूपं शिवं ध्यायेत् ||
SKअथ सुषुम्णारेचकेण भ्रूमध्यं गत्वा तत्र कुम्भकनकमनोनियम्य समाधिं कृत्वा तत्तेजः पुञ्जपुञ्जरितं स्वदेहं विचिन्त्य शिवोऽहमेवेति स्थिरधीः पुनः पूज्यपूजकभावेन द्विधाभावमात्मानं चिन्तयेत् || इत्यात्मशुद्धिः || अत्र यदुक्तं रहस्य तन्त्रेषु शिवः स्वधर्म महात्मासौयोगीन्द्रोयोजगं फलम् | सर्वलोकहृदिस्थः स कर्मसाक्षी जगद्गुरुः || प्रणिभिर्मननीयोगी प्राणिधर्म विवर्जितः | प्राणिनञ्च तदुद्भूता विष्णुर्लिङ्गा इवासयात् || क्रीडावस्तुत्वमापन्ना धामसंरुद्धदृक्क्रियाः | शिवेच्छा प्रेरिता यान्ति यत्र तत्र सदाणवः || सुखदुःखफलौ तेषां धर्माधर्म शिवेच्छया | भोग्योपभोगस्थानानि तानितत्वानि शक्तिभिः || प्. ६१) कल्पितानि महाभोगे स्थूलसूक्ष्माणि तानि च | स्थूलानिचाध्वरूपाणि हेहगान्यपराणि च || शक्रयस्ताश्च विज्ञेयाः क्रियाशक्ति समुद्गताः | नाना रूपाश्चता ज्ञेया शिवेच्छानुविधायिनः || सा च क्रिया समुत्पन्ना ज्ञान शक्तेस्व मध्यतः | ज्ञानशक्ति परासूक्ष्मा सर्वेषां करणात्मिकः || ज्ञानज्योतिर्मया सा च सैव देहः शिवस्य तु | क्रीडारूपधराश्रीमान् नानाभावानुरञ्जितः || स्वतन्त्रः क्रीडति प्रीतः सततानन्दचेतनः || ध्यायतः सततं पुंसां सत्यं सत्यं वरानने | प्रत्यक्षो भवति क्षिप्रं हृदि तस्य न संशयः | तस्मात्सर्वप्रयत्नेन ध्यान निष्ठः सदा भवेत् || तदा सौ शिव एवस्यान्नान्यथा वीरवन्दितम् | भावस्थिरतरो न स्याद्यदि बाह्ये तदार्चयेत् || यदा ध्यानानुरूपं तद्ध्यानं पूजापुरस्सरम् | ध्यायनिष्ठं तदाचित्तं तदाबाह्यं परित्यजेत् || अन्यथा यस्त्यजेन्मोहात् दभयं तस्य नश्यति | तस्माद्बाह्यं तदा कार्यं भूतशुद्धिपुरस्सरम् | पञ्चभिर्वारणाभिस्तु मायाशक्तिमयं वपुः || संशोध्यसकलं कृत्वा शिवोऽहमिति चिन्तयेत् | प्. ६२) शम्भुरेव द्विधाभूतः पूज्यपूजकभेदतः | इति मत्वा शिवं नित्यं पूजयेच्छिव सुन्दरि || मन्त्र मुद्रादिभिः पुष्पैर्यावच्चित्तं प्रसीदति | प्रसन्ने तु यदाचित्ते कौलभावं विवर्जयेत् ||
SKस्व प्रकाशमयोदेवः स्वयमेव हृदिस्थितः | प्रकाशयति चात्मानं प्रीतिः सर्वात्मना प्रिये || विकल्परहितः तस्मान्नित्यं सम्पूजयेच्छिवम् || इति || इत्यादीनि बहूनिरहस्य वाक्यानि शिवमतानुगानि सन्ति | तानि च ग्रन्थ विस्तर भयादत्त न लिखितानि | अथ प्रकृतमुच्यते - बाह्ययाग प्रसिद्ध्यर्थं स्थानशुद्धिमथाचरेत् | हुं फडन्तास्त्रेण तालत्रयपुरस्सरं च्छोटिकयादिग्बन्धनं कृत्वा प्राकारञ्च विधाय तद्बहिः कवचेन खाधिकां कृत्वा वौषडन्तशक्तिमन्त्रेण महामुद्रां प्रदर्शयन् शक्तिमयमण्टपं चिन्तयेदिति स्थान शुद्धिः | उक्तञ्च - अस्त्रेणोच्चाटयेद्विघ्नान् तालशब्दत्रयेण तु | छोटिकाभिर्दिशाबन्धं प्राकारञ्चास्त्रमन्त्रतः || खायिकां कवचेनाथ कृत्वा बाह्याभ्यन्तरस्थलम् | शक्तिमुद्रां ततो बध्वा शक्तिप्रातमयं स्मरेत् || इति || अस्मिन्नवसरे दिक्षु वज्राद्यस्त्राणि विन्यसेत् || इति क्वचित् | उक्तञ्च - उत्तराभिमुखो भूत्वा शस्त्रमावर्जयेच्छुचिः | प्. ६३) विघ्नानुच्चाटयेद्यत्नात्तालशब्दत्रयेण तु | तर्जन्या तर्जयेत्तास्तु भूतमन्त्रांस्तु विन्यसेत् || पुनरावेष्टयेन्मन्त्री तत् नं कवचेन तु | ततो भ्यस्त्राणि विन्यस्य दिक्षु शास्त्रे विदिक्षु च || वज्रं शक्तिञ्च दण्डञ्च खड्गपाशं तथाङ्कुशम् | गायत्री शूलचक्रञ्च पद्मं चेति यथाक्रमम् || ऐन्दीदिशं समारभ्य यावदीशानगोचरम् | अधश्चक्रं तु विन्यस्य दिक्षु शास्त्रे विदिक्षु च || गन्धपुष्पैस्तथा धूपैः पुनरस्त्राणि पूजयेत् || ततः शक्तिमनुस्मृत्य सूक्ष्मामृत रूपिणीम् | व्यापयन्ती मधश्चोर्ध्वमप्रमेयामनूपमाम् || इति || अथ पूजाङ्गद्रव्याणि समाहरेत् | तानि चोक्तानि - अथातः सम्प्रवक्ष्यामि अर्चनाङ्गसमुच्चयम् | पाद्यमाचमनं चार्घ्यं गन्ध पुष्पं च धूपकम् || दीपञ्चाथ निवेद्यञ्चाष्टाङ्गं सम्प्रकीर्तितम् | अष्टाङ्गेन समायुक्तं पूजयेत्परमेश्वरम् || दीपान्तमर्चनं प्रोक्तं भविष्यान्तञ्च होमनम् | बल्यन्तं शान्तिकं प्रोक्तं पूजा च त्रिविधोच्यते || उशीरं चन्दनोपेतं दूर्वासिद्धार्थकान्वितम् | प्. ६४)
SKचतुरङ्गमिदंशास्त्रे पाद्यद्रव्यमुदाहृतम् | एलालवङ्ग कर्पूर पूजादिकफलां मुरा || षडङ्गमाचमा चन्द्रमर्घ्यं द्रव्यमथशृणु | तिलब्रीहि समायुक्तमर्ध्यमष्टाङ्गमुच्यते || क्वचिद्ब्रीहिं विना कुसुमानि योज्यानीति प्रोक्तम् | उक्तं च - आपः क्षीर कुशाग्राणि तण्डुलाः सुमनः स्तिलाः | अर्घ्योऽष्टाङ्गमिति प्रोक्तोयवैस्सिद्धार्थकैः सह || इति | क्वचित्केवलं वारिपूरितं वा कार्यमिति | उक्तञ्च - अष्टाङ्गं कारयेद्यत्नात्तदभावेऽम्बुपुरितम् || इति || अगरुं च दिनञ्चैव कुष्ठं कुङ्कुमसंयुतम् | तुल्पमर्धं तदर्धं वा कर्पूरं तेन चान्वितम् || गन्ध द्रव्यमितिप्रोक्तं पुष्पाणि च शृणुष्व हि | श्वेतरक्ता सितानीह सात्विक्यादीनि तानि च || पुष्पाणि पीतवर्णानि मिश्रकाणि विनिर्दिशेत् | नीलोत्पलं विनान्यानि तामासानि च विसर्जयेत् | नन्द्यावर्तं श्रियावर्तं श्वेतार्कमदये हितम् || करवीरञ्च पद्मं च द्रोण पुष्पं च मध्यगे | मल्लिका कृष्णधुर्धूरं सायाह्ने चम्पकं हितम् || कदम्ब कनकं जाती चिकर्णी चार्धतात्रके | द्रोणञ्च श्वेतपद्मं च जाती च बहुकर्णिका || प्. ६५) नन्द्यावर्तं श्रियावर्तं मन्दारं शतपत्रिका | श्वेतार्कमालती बिल्वं पुन्नाग कुरवं तथा || एवमादीनि पुष्पाणि सात्विकानि विनिर्दिशेत् | रक्तोत्पलं तथापद्मककुरं बृहतीद्वयम् | पलाश पाटलादीनि राजसानि विनिर्दिशेत् || कर्णिकारञ्च धुर्धूरं चम्पकारग्वधादिकम् | एवमादीनिपीतानि मिश्रकाणि विनिर्दिशेत् || करञ्जं वकुलं शाकं शिरीषं केतकी तथा | फाल्गुनी दाडिमञ्चाथ श्रीपर्णी च विभीतकम् | बन्धूककुन्दयुद्धानि कार्पासं निंबकष्टजम् || किंशुकञ्च मदन्ती च कुमुदानि विवर्जयेत् | अतिपक्वमपक्वं च मुकुलञ्च विवर्जयेत् || केशकीटाप विद्धानि सूत सूत्र प्रतानि च | स्वयं पतित पुष्पाणि त्यजेदुपहतानि च || शमी बिल्वमपामार्ग कुशदूर्वासहा तथा | नाह नन्दी रुद्रपर्णी दमना मरुवं तथा | धात्री भद्री महाभद्री द्रोणभद्रं तथैव च ||
SKपत्र जातिषु सर्वासु बिल्वपत्रं प्रशस्यते | सर्वेषां पुष्पजातीनां बिल्व पुष्पमुदाहृतम् | एवं पुष्पाणि चोक्तानि शृणु धूपानि साम्प्रतम् || प्. ६६) अगरुं चैक भागं स्यान्निर्यासं द्विगुणं भवेत् | चन्दनं त्रिगुणं प्रोक्तं मीषत्कर्पूरमिश्रितम् || श्रीतारिनामधूलायामयुक्तं यत्प्रशस्यते | गुग्गुलुं घृतसंयुक्तं बिल्वं बाहुसमिश्रितम् || कुष्ठं स चन्दनं वापि घृतमिश्रं सुधूपयेत् | गोघृतेन च तैलेन कर्पूरं वर्तिदीपिता || चतुद्व्यङ्गुलमायादि परश्वाला विधिष्यते || दीप प्रियो हि भगवान् देवदेवः सदाशिवः | तथान्यत्रापि - कपिलाघृतेन दीपः स्यात्स्तितारक्ता सितेन वा | अजा घृतेन सा लेभे शुद्धतैलेन वा हितम् | कपिलायां घृतं श्रेष्ठं मध्यमं चान्यजं घृतम् || अथ जस्यादजा सर्पिः शुद्धतैलं तथैव च | सात्विकं राजसं चैव * * * क्रमाद्भवेत् || कर्पूरवर्तिकं दीपं दापयेत् सर्वसिद्धिदम् | श्रेष्ठोयुगाङ्गुल ज्वालो मध्यमस्तु युगाङ्गुलः || अधमो द्व्यङ्गुलज्वालो दीप एवं हि कीर्तितः | वृक्षबीजोद्भवैः स्नेहैः शिवेदीपं विवर्जयेत् || इति || यदुक्तमन्यत्र - चन्दनं चैव निर्यासं कुन्दुरुष्कं च कुङ्कुमम् | मेघञ्च कृष्णलोहञ्च कर्पूरञ्च क्रमेण तु | व्योम पक्षाग्नि भागान्तमीषत्कर्पूरमिश्रितम् || प्.६७) उत्तमं धूपं ख्यातं मधुना च परिप्लुतम् || उशीरं चन्दनोपेतं मधुयुक्तं मधुप्लुतम् | भागं तत्पूर्ववत्प्रोक्तं मध्यमं धूपमुच्यते | गुग्गुलुं घृतसंयुक्तं कन्यसं धूपमीरितम् || दीप्ताङ्गारसमायुक्तं घण्टावामकरान्वितम् | धूपपात्रं समादाय वादयन्धूपयेद्बुधः || यस्याः शब्देन विघ्नास्तु यान्ति सर्वेदिशोदश | व्याधयो दुर्ग्रहाः सर्वे तथा विश्वा विनयकाः || दुःस्वप्ना राक्षसा दुष्टा वेताला भैरवाः शुभाः (शिवाः) | साकिन्यो व्रतसङ्घाश्च सर्पाः कार्कोटकादयः | बलिकामाहन्तुकामा रतिकामास्तथा परे ||? घण्टानिनाद श्रवणाद्धत वीर्या भवन्तिते | तस्मात् सर्वप्रयत्नेन पूजाकाले सदा हरेत् || इति || तथा -
SKघण्टाशब्देन गच्छन्ति दानवाश्च भयङ्कराः | आगच्छन्ति च सुप्रीताः शिवेन सहदेवताः || इति | इति सर्वं समाहृत्य यथालाभं यथा रुचि | गन्धाधिवासितं तोयं बधन्यामस्त्रकल्पितम् || कृत्वा द्रव्य गणंतेन प्रत्येकं प्रोक्षयेत्ततः || इत्थं ततः पाद्यार्थमाचमनीयार्थञ्च बर्धनीद्वयं संकल्प्य विशेषार्घ्य पात्रं च यथागमं विदध्यात् | उक्तञ्च - प्. ६८) पाद्यमाचमनं चार्घ्यं तीरोधञ्च यथा क्रमम् | आहुस्तस्याथ देहस्य दद्याल्लोकोपचारतः || तद्यथा - उद्धृत्यवर्धनीं दद्यात्पाद्यमाचमनं तथा | संस्थितस्य च देवस्य संमुखार्घ्यं निवेदयेत् | आवाहनादिरोधान्ते रोधाप्यञ्चोपयुज्यते || विसर्जनीय तत्तस्मादर्घ्य बाहुश्चतुर्विधम् | पाद्यमीश्वर तत्वान्तमाचमाख्यं सदेशकम् | शिवार्घ्यं शिवतत्वान्तं रोधाख्यं शक्तिगोचरम् | मन्त्रमुच्चार्य तद्दद्यात्पात्र लक्षणमुच्यते | द्वादशाङ्गुलमुत्सेधा वर्धनी पीठसंयुता || अचला कण्ठसंयुक्ता न पिधान कलान्विता | पात्रमष्टाङ्गुलं ज्ञेयं पाणिपूरमथापि वा || ताम्रं पञ्चपलं ग्राह्य हेमतालं यथारुचि | ततः क्वचिद्भूमयं पत्रपुटकं वा ग्राह्यमिति | तथागमे - सौ वर्णञ्च तथा ज्ञेयं भृङ्गे वा पाणिपूरकम् | शिवार्घ्य पादमब्जाङ्कं व्रतं प्राणविवर्जितम् || सच्छृङ्ग शुक्तिशृङ्गादि पलाशाब्जदलादि वा | गव्यपात्राण्यपीमानि स्युर्विषणादिकं विना || षडङ्गुलार्धविष्कम्भ भ्रमसिद्धानि भूतये | यदा भूमयं तद प्रत्यर्चनन्तं न वतरं ग्राह्यम् | उक्तञ्च - प्. ६९) भूमयं प्रत्यहं कार्यं तच्चरुतन्नमिष्यते |? एकादशं प्रयुक्तं यत् तन्निर्माल्यं यतो भवेत् | इति विशेषार्घ्य जले नैव पाद्यमाचमनीयञ्च दद्यादिति क्वचित् | तथा - मृगेन्द्रे - निरोधान्ते विसर्गे वच रोधाक्यमुपयुज्यते |
SKशिवाभूतो भूततन भूगयान्तः प्रजान्तः पाद्ये याचमनी इति | अथ क्रमः | यथा समर्थ्यमर्घ्य पात्राणि संपाद्यास्त्रमन्त्रेण प्रक्षाल्य निरीक्षणादिभिः संशोध्य कवचेनावकुण्ठ्य वौषडन्तशक्तिमन्त्रेण बिन्दु स्थान प्रसृतामृतरूपतोयादि द्रव्यजातैः आपूर्य ब्रह्माङ्गैः षडङ्गेन वा भिमन्त्रयेत् | यद्वात्र * * * वं वासनं सङ्गमष्ट पुष्पिकया संपूज्य षडङ्गेनाभि मन्त्र्यास्त्र कवचाभ्यां संरक्ष्य वौषडन्त शक्तिमन्त्रेण धेनुमुद्रा महामुद्राञ्च प्रदर्श्यात्मानञ्च शिरसि तत्तोयैः वारत्रयं वौषडन्त शक्तिमन्त्रेणाभिषिच्य इत्थं निरोधार्घ्यं च संपूजयेत् || उक्तञ्च - स्वर्णाद्यैकतमंपात्रं यज्ञकाधारसंस्थितम् | अर्घ्यपात्रं ततो गृह्य हुंफट्कारेण क्षालयेत् || स बाह्याभ्यन्तरं पश्चात्कवचेनावकुण्ठयेत् | बिन्दुस्थानं समाश्रित्य मध्ये पद्मं विचिन्तयेत् || त्रितत्वं विन्यसेत्तस्मिन् पुनः शक्तिं तु विन्यसेत् | आपूर्य पञ्चभिर्ब्रह्मैः शिवाङ्गैश्च शिवेन च || गन्ध पुष्पसमायुक्तं तज्जलं मन्त्रसंस्कृतम् || प्. ७०) स्थानेषु कल्पनीयेषु बिन्दुं बिन्दुं प्रतापयेत् || इति || अथ द्रव्य शुद्धिः | अथ द्रव्यजातमङ्गुष्ठा नामिकाग्रन्यस्तमूलेन चक्षुषा समालोक्य हुं फडन्तास्त्रे ताड्योद्वास्य पुनराप्यायनाय कवचेनाभ्युक्ष्य पुनः शैवं धाम वृण्वता चक्षुषाऽवलोक्यैतत्तेजः पुञ्जदीपितं हृदा वा पञ्चभिर्वाङ्गैः अभिमन्त्रयेत् | यद्वा गन्धं सद्यो जातेन वस्त्रं वामदेवेनाभरणमघोरेण नैवेद्यं तत्पुरुषेण पुष्पमीशेनापराणि गायत्र्याऽभिमन्त्र्यास्त्रेण संरक्ष्य कवचेनावकुण्ठ्य शक्तिमन्त्रेणधेनु मुद्रयामृतीकृत्य शिवार्थमेवैतत्परिकल्पयेत् | पुनरन्येषां हृदाभिमन्त्रितं पृथगेवपात्रे निधापयेत् | उक्तञ्च - अश्वमुक्तमनेनापि वर्मणाभ्युक्षयेत्कुशैः | प्रत्येकमालभेज्जातो द्रव्यजातमुदाहृतम् || हृदयेन पवित्रैर्वा यद्वाङ्गैस्तत्स्वभावकैः | विलेपनमजातेन्त वस्त्रं वामेन चालभेत् ||
SKरूपिणाभरण प्रातन्नैवेद्यं पुरुषेण तु | ईशानेन च पुष्पाणि गायत्र्या शेषमालभेत् || वर्मास्त्ररक्षितं सर्वं धेनुमुद्रापुरोचितम् || इति || तथा - अशिवश्शिवकर्माणि नैव कुर्यात्कदाचन | शिवेनाधिष्ठितं द्रव्यं शिवाय परिकल्पयेत् || पृथगेव विधातव्यमन्येषां मुक्तिकासुत || प्. ७१) अप्रोक्षितं न दातव्यमनिर्देश्यं च वै शिवे | तोष कुम्भेषु सर्वेषु बिन्दु बिन्दुं प्रपातयेत् || अग्त् *?म्भसस्सपुष्पया? पुनर्मन्त्र समीरितम् | इति मन्त्रत्य?पापं न द्रव्यजातं पृथक् पृथक् || पूजयेत् पुष्पधूपाद्यैः मुद्रयेदमृताख्यया || इत्याचार्यः | अथ धूपदीपारात्रिक पात्राण्यस्त्रेण संप्रोक्ष्य हृदयेन संपूज्य घण्टा मन्त्रेणाभ्युक्ष्य पूजयेत् | || अथ पञ्चगव्य विधानञ्चात्र लिख्यते || पद्म तत्वात्मिके कोष्टे पञ्चवर्णविभूषिते | संपूज्य घण्टा वस्त्रेणाभ्युक्ष्य पूजयेत् ||? || अथ पञ्चगव्य विधानञ्चात्र लिख्यते || पञ्चतत्वात्मिके कोष्टे पञ्चवर्ण विभूषिते | तण्डुलैश्च कुशैर्वाथ कल्पयेत्तद भावतः || सशिवं सदाशिवं विद्यां पुंस्तत्वं कालसंज्ञिकम् | मध्यपूर्वादिपर्यन्त भागेषु क्रमशो न्यसेत् | सु प्रतिष्ठं सुशान्तञ्च तेजो वा रत्नजं तथा || अमृतं चेति पञ्चात्र निधिपात्राणि योजयेत् | क्षीरं दधिघृतं मूत्रं गोमयं तेषु विन्यसेत् || प्. ७२) पञ्चभूत जयार्थं हि पञ्चगव्यं तदात्मकम् | क्रमात्तद्गुण संख्यातैरीशाद्यैरभिमन्त्रयेत् || गृहस्थो ब्रह्मचारी चेदजाद्यैर्गोमयादितः | ऐशान्यां शक्तिपात्रस्थं कुशदूर्वाञ्चितं जलम् | गन्धयुक्तं च गायत्र्या षड्वारानभि मन्त्रयेत् || गोमयं गोजले क्षिप्तं तज्जलं घृतसंयुतम् | तद्घृतं दधिनिक्षिप्त तच्चक्षीरगतं कुरु || हृदयेनाथगायत्र्या क्षिपेत्तत्र कुशोदकम् | ब्रह्मद्भिश्च? शिवाङ्गैश्च गायत्र्या च सकृज्जपेत् | पञ्चगव्यमिदं प्रोक्तं ब्रह्मकूर्चमथोशृणु || वध्वत साद्यः प्रसूता च रोगार्तामृतवत्सनी | अमेध्याहारभक्षिण्यः त्याज्या गावश्च गर्भिणी ||
SKकृष्णायाः गोमयं?मूत्रं नीलायाः कपिलं घृतम् | शुक्लायादधिता ज्ञेया क्षीरमाहृत्य यत्नतः || व्योमस्थं गोमयं ग्राह्यमङ्गुष्ठार्ध प्रमाणकम् | गोमूत्रं पलमानं स्याद्वस्त्रपूतं तथा सृतम् || पल द्वयमिदं ग्राह्यं दध्यात्मानं पलत्रयम् | वत्सलालाविनिर्मुक्तं क्षीरं पञ्चपलं मतम् || कुशाम्बु पलमात्रं स्यात्पूर्वोक्तविधिमन्त्रितम् | एकत्र पूर्ववत्कृत्वा शतं मूलेन मन्त्रयेत् || प्. ७३) ब्रह्माङ्गैस्तद्दशांशेन गायत्र्या च तथा पुनः | नित्यं संस्नापयेद्देवं पञ्चगव्यामृतादिभिः || स्नापयेच्छिवकूर्चेन कृष्णाष्टम्यादि पूर्वसु | रात्रौ सम्पूज्य देवेशं तद्बिंबेद्यति मानवः || सरहस्यैर्महापापैर्लिप्यतेन सदाबुधः | केवलं हृदा वा कार्यमिति क्वचित् | उक्तञ्च - गोशकृन्मूत्रमाज्यं च दधिक्षीरं कुशोदकम् | पञ्चगव्यं हृदा लब्ध महाभूतगुणैरिति || अथ पञ्चामृतविधानञ्च लिख्यते || शर्करामधुसर्पिश्च दधिक्षीरं कुशोदकम् | अजाद्यैः पूर्ववत्कृत्वा स्नापयेत्तैः पृथक् पृथक् || अर्घ्य धूपान्तरैस्तद्वद्गस्सुगैः केन पूर्यते |? तानि मस्तक मानानि प्रस्थद्वयमितानि च | आसका पूरितानि स्युः कन्यसादीनितानि च || प्रत्यहं दशभिः स्नाप्यं शतैः पर्वसु पर्वसु | सप्तधाद्यो परिस्थाप्य ब्रह्माङ्गस्थानि कल्पयेत् || अथ द्रव्यशुद्धिः - अथासनमूर्तिलिङ्गोऽत्मपूजां कृत्वा स्वाहान्त मूलेन शिरस्यर्घ्यं दत्त्वा मूलमन्त्रं दशवारं जप्त्वा समर्प्याय शिवोऽहमिति संभाव्य ऋजुकायः करतले मुकुलं बध्वा सिद्वन्द्वं प्. ७४) ब्रह्मरन्ध्रान्तं द्वादशान्तं शक्त्यन्तञ्च ह्रस्वदीर्घप्लुतं मूलमन्त्रं प्रणवादि नमोन्तमुच्चार्य ततो सिद्वन्द्वान्यन्यानि ब्रह्माङ्गानि चोच्चरेदिति मन्त्रशुद्धिः | उक्तञ्च - एवं संशोधितैर्द्रव्यैः पूजां सङ्कल्प्य चात्मनः | परिगृह्येत्सितं मौनं मन्त्रशुद्धिं समाचरेत् || त्रिमात्रादि क्रमेणोर्ध्वं मन्त्रमुच्चारयेच्छनैः | यावन्निष्ठापदं पाप्तं तन्मानस्तत्परायणः | मन्त्रशुद्धिर्भवेदेवं शुद्धतत्व समाश्रयात् ||
SKइत्याचार्याः | तथाचागमः - बिन्दुनादं शिखाप्रान्तं मन्त्रमुच्चार्य शोधयेत् | ज्ञानशक्तिमयं मन्त्रं शिवेनाधिष्ठितस्सदा || मन्त्राः सर्वकराः शेषा बिन्दुकाः कामदा इति || ननु मन्त्राः स्वभावतः शुद्धाः वरदामोपशक्तयः इति वचनात् प्रकृत्या शुद्धमन्त्रास्तेषां शुद्धानामपि पुनः शुद्धिः क्रियते | तदा न वस्थाप्रसङ्गः स्यादिति चेत् | सत्यम् किन्तु तेषामैश्वर्यादिकारान्मलोविद्यए | तेन तिरोहित शक्तीनां तेषां वनाशक्तिसंपर्कात् स सामर्थ्योन्मीलनं शुद्धीनिष्यत एव | उक्तञ्च - ज्ञानशक्तिमयामन्त्राः किन्त्वैश्वर्य मलान्विताः | शक्त्या ज्वलितसामर्थ्यः सर्वेऽभीष्ट प्रदामताः || इति | तथा सर्वज्ञानोत्तरे च - प्. ७५) मन्त्रशुद्धिमनोन्तस्यैः मन्त्रेमन्त्र विचक्षणः | मलाद्यैश्वर्यसञ्जातं मन्त्राणां कीर्तितं गुह || तेषां प्रबोधिनी शक्तिः शिवज्ञानोमनास्स्थिताः | मन्त्रशुद्धिर्भवेदेवं समासात्परिकीर्तितम् || अन्तर्य जनमस्मिन्नवसरे कर्तव्यम् | मन्त्रशुद्धि समनन्तरमेव तद्युक्तमिति || गत्वा च स्नानशालायां ससहायः पुरा कृतम् | स्नान वेद्यां न्यसेत्पीठं तच्चताम्रमयं शुभम् || यद्वाक्षीरितरूध्वन्तं द्वेधाश्रं हस्त सम्मितम् | तदर्धमुन्नतं रम्यं मेखला गोमुखान्वितम् || न्यस्ते लिङ्गे चले तत्र स्थिरे धाम्नि पुराकृताः | पूजामन्त्रेण सम्प्रोक्ष्य गायत्र्याकुसुमैर्यजेत् || व्यापकं प्रकलीकृत्य तस्मिन्नन्तर्गतं शिवम् | सृष्टिसंहारभेदेन सामान्यार्घ्यमुपाहरेत् || पञ्चब्रह्माणि संपूज्य तद्वत्पञ्चसुमूर्धसु | ततोपरिनिर्माल्यं पुष्पं मूर्ध्नि योजयेत् ||? न शून्यं मस्तकं लिङ्गं पुष्पैः कुर्यात्कदाचन | अन्तर्गेहस्थितं यन्तन्निर्माल्यं पुनर्बहिः || चण्डेशाय हृदादद्यादैशान्यं कुसुमादिकम् | पट्टनेत्रादिसद्वस्त्रं प्रोक्षयेदस्त्रवारिणा | वातार्करश्मि सम्पर्काच्छुद्धमेतदुदाहृतम् || प्. ७६) गन्धलेप विनिर्मुक्तं शेषं यत्नेनशोधयेत् | हैममाभरणं रौप्यं क्षालयेदुष्णवारिणा ||
SKसस्ने समर्घ्यपात्रादि गोमयेन विरूक्षयेत् | भस्मना शुध्यते कांस्यं ताभ्यामाञ्त्रेन शुद्ध्यति || शङ्ख शुक्त्यादिकं यदुत्तत्तुषै?र्दध्ना च शुद्ध्यति | तत्कालोचितपात्राणां शुद्धिः कार्या प्रतिक्षणम् || अस्त्राभिमन्त्रितैस्तोयै गन्धलेपापनुत्तये | लिङ्गपीनं समासीनं विघ्नप्रोत्सारणाय च || सम्प्राप्य सेचयेत् पश्चान्मन्त्राः सान्निध्यमाप्नुयुः || इति || पुनः क्वचिल्लिङ्गे शिवास्त्रेण पीठं पाशुपतास्त्रेण प्रक्षालयेदिति | उक्तञ्च - नित्यं पूजासमाप्तौ च मध्ये मन्त्रगणे शिवे | शान्तं रूपं गते तत्र लिङ्गे पीठे च तत्क्षणात् || भुक्ति मुक्तिं च विग्नन्ति तस्मात्तान् रेचयेत्पुरा || शिवास्त्रेण च लिङ्गस्था पीठे च पाशुपतेन ते | पुनस्तासां च संस्नाप्य स्नापयेद्धृदयाम्बुभिः || तदालिङ्गं भवेच्छुद्धं पुनर्मन्त्राः फलप्रदाः || इति || तथा सर्वज्ञानोत्तरे च - लिङ्गं प्रक्षाल्यचास्त्रेण शिवास्त्रं यत्प्रकीर्तितम् | रुद्ररूपास्तथा विघ्नास्तेन प्रोत्सारितास्तुते || प्. ७७) पीठं प्रक्षालयेत्पश्चात् वर्धन्या उदकेन च | पाशुपतेन चास्त्रेण उमारूपधरागताः || एवं प्रोत्सारणं कृत्वा विघ्नानां विधिवद्बुधः | ततोऽर्चनं प्रकुर्वीत शिवस्य परमात्मनः || इति || अथ ॐ हौम् शिवाभ्यां शिवशक्तिभ्यां नम इति वा भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया | लिङ्गसंस्नापनेकाले लिङ्गमुद्रां प्रदर्शयेत् || भगलिङ्गसमायोगं कृत्वा मन्त्रगणं न्यसेत् || इत्थं स्थिरलिङ्गचलचित्र लेपस्थण्डिल मण्डलादिषु यथोचितां शुद्धिं स्नानं प्रोक्षणादिभिः हुंफडन्तास्त्रेण कुर्यात् | इति लिङ्ग शुद्धिः || एवं पञ्चशुद्धौ सत्यां मोघं शिवार्चनं भवति | उक्तञ्च - इत्थमात्माश्रय द्रव्यमन्त्रलिङ्गाङ्गपञके |? विशुद्धे सतिशैवानामर्चनं नान्यथा भवेत् || इति ||
SKअथ चललिङ्गं चेदा वाहनादि क्रमेण पञ्चगव्यादि स्नापन करणमशक्यम् | यदि पञ्चगव्यस्नानादिकं क्रियते तदानिर्माल्य सङ्कर प्रसङ्गः | अथ पञ्चगव्यादि विस्तारस्नानकरणाय लिङ्ग शुद्धि समनन्तरं चलासनत्वेनत्वेष शुद्धासन स्थलाङ्गोपेतं शिवं सम्पूज्यार्घ्यधूपादिभिः सन्तोष्य वक्ष्यमाण विधानेन तैलाभ्यङ्गादि पुरस्सरं पञ्चगव्यपञ्चामृतादिभिः संस्नाप्य मूलेनार्घ्य प्. ७८) तोयेन पुष्पमारोप्य परिशुद्धेन वस्त्रेण विमृज्य वेदिकोपरि विन्यस्ते दिम्बरावृते पीठं कुसुमासने विन्यस्य स्थिरमासनं पूजयेत् | तदुक्तम् - द्विहस्तमायतं पीठमेक हस्त प्रविस्तृतम् | द्वादशाङ्गुलमुच्छ्रायं यद्वाहस्तोन्ततो दृढम् || नानावर्णकसंयुक्तं मध्ये कमलभूषितम् || इति || अथ स्थिरलिङ्ग चेल्लिङ्गशुद्धिसमनन्तरमेव स्थिरासनं पूजयेत् | तत्र तावद्वायव्यां ॐ हां गणपत्यासनाय नमः | ॐ हां गणपति मूर्तये नमः | ॐ हां गणपतये नमः | पूर्ववदावाहनादिभिस्संस्कृत्य - श्यामं लम्बोदरं स्थूलं गजाननं वामदक्षिणहस्तैः लस्सुकटंकाक्षमाला स्वदन्तधारणमुपविष्टं ध्यात्वा गन्धपुष्पादि जपान्तं सम्पूज्य शिवकार्ये गणेशान निर्विघ्नत्वं प्रसीदमे इति प्रार्थयेत् || ततः ॐ हां गुर्वासनाय नमः | ॐ हां गुरुमूर्तये नमः | ॐ हां सदाशिवादिभ्यो नमः | इत्यावहनादि जपान्तं सम्पूज्य स्वामिन् भवदुपदिष्टमार्गेण शिवं पूजयामीति आज्ञां देहीति संप्रार्थयेत् | तथा बृहत्कालोत्तरे - ॐ नमः सदाशिवादिभ्यो गुरुभ्यो गुरुभ्यः तदनन्तरमिति | इत्थं गुरुचरणेभ्यः आज्ञांगृहीत्वा शिवासनं पूजयेत् || तथागमे - ॐ आधारशक्त्या न्यस्तव्या तत्र कूर्मशिलात्मिका | चन्द्रांशु निर्मला सौम्या चतुर्वक्त्रा चतुर्भुजा || प्. ७९) दुग्धाब्धिमध्यसंभूता कल्पिता हृदयाणुना | क्वचिद्बीजाङ्कुराकारा शक्तिराधार रूपिणी || ॐ हां आधारशक्तये नमः | केचित् - मूलेनतां न्यसेच्छक्तिं सर्वास्वाधाररूपिणीम् || इति | अनन्तं नीलसङ्काशं सहस्रफणिमण्डितम् ||
SKहृदाञ्जलि समायुक्तमेकवक्त्रं चतुर्भुजम् | क्षीराब्धितः समुत्पन्नं सरोरुह समाकृतिम् || रत्नाधारे हृदामन्त्री विन्यसेदासनात्मकम् || ॐ हां अनन्ताय नमः | इति शुद्ध सिद्धान्तव्यापकं पूजयेत् | धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च यथाक्रमम् | श्वेतं रक्तञ्च पीतञ्च कृष्णञ्चाग्न्यादिकोणगान् || ब्रह्मपीठे हृदाभ्यर्च्य सिंहाकारांश्च पादुकान् | ॐ हां धर्माय नमः | ॐ हां ज्ञानाय नमः | ॐ हां वैराग्याय नमः | ॐ हामैश्वर्याय नमः | इति बुद्ध्या पुरुषान्त तत्वरूपाननादि मायान्त तत्व व्यापकान् यजेत् | अधर्मं च तथा ज्ञानं वैराग्यं शिखिनध्वजः | अनैश्वर्यमिति प्रोक्तं हृदा गायत्रीणां चतुष्टयम् || धर्मादि वर्णसंमिश्रं हृदा सिंहोर्ध्वतो यजेत् | ॐ हां अधर्माय नमः | ॐ हां अज्ञानाय नमः | ॐ हां अवैराग्याय नमः | प्. ८०) ॐ हां अनैश्वर्याय नमः | इति रोगादि कालान्त तत्वरूपाणि गायत्र्यादीनि यजेत् | अथ ऊर्ध्वच्छदं न्यस्त्वा पङ्कजं च सकर्णिकम् | केसरालं हृदामन्त्री शक्तिचक्र समन्वितम् || वामाद्याः शक्तयः श्वेताश्चतुर्वक्त्राश्चतुर्भुजाः | वरदाभयहस्ताश्च शिवासक्त कराम्बुजाः || वीज्यते शङ्करस्ता हि श्वेतचामर पङ्कजैः | ॐ हां अधः च्छदनाय नमः | नि-ऋ-ऋतौ | ॐ हां ऊर्ध्व छदनाय नमः | ईशाने | एवं माया महामायात्मकं रक्तस्तिनिभंछदन द्वयं यजेत् | क्वचिन्मायात्मकमधः छदनं शुद्ध विद्यात्मकमूर्ध्व छदनं तन्मध्येऽनन्तमय पद्म मुकुलं विकसितमिति | अत्रगुरुक्रमं * * * त्यज्यः | प्रक्रममुच्यते - ॐ हां पद्माय नम इति शुद्ध विद्यात्मकं पद्मं विद्येशाष्टदलान्वितं श्वेतं सम्पूज्य ॐ हां पद्ममुद्रायै नम इति पद्ममुद्रांदर्शयेत् | ॐ हां कर्णिकायै नम इति तन्मध्ये पीतवर्णां पञ्चाशद्बीजगर्हितां नवात्माक्षरबीजां वा चतुष्षष्टि केसरात्मशक्ति समावृतां संपूजयेत् | उक्तञ्च - ब्रह्माक्षं तस्यदलेशक्तिः जगदाधाररूपिणी |? शैवी साथक्रियाशक्तिः विश्वविक्षोभकारणा ||
SKयावज्जृम्भति सत्वेषु सर्वतत्वेषु नित्यशः || प्. ८१) सर्वबीजेषु सा शक्तिः अङ्कुर प्रभवा स्थिता | सा तु ब्रह्माण्डमावृत्य निर्गता क्षीरसागरात् || पुनर्रन्ध्रं समुद्भिद्य कन्दादङ्कुरवत्स्थिता | अप्तत्वमादितः कृत्वा यावद्गव्यं समुद्गता || अप्तत्वं सेचकं ज्ञेयमग्निरुच्छ्राय कारणम् | समीरं प्रेरतस्तस्य वृद्ध्यर्थं व्योमकल्पितम् || तन्मात्राण्यङ्कुराभाणि सुषिराणीन्द्रियाणि च | अहकृत्सत्व मध्यस्थमोजस्कं सिद्धिकारणम् || ब्रह्मवेद्यां न्यसेदेन रत्नाधारे हृदाणुना || तत्र ब्रह्मवेद्यां न्यसेदेनमिति ब्रह्मद्येयस्थितं कूर्मशिलायां तु ध्यात्वा शक्तिरूपं न्यसेत् | पश्चाद्रत्नाधारे ब्रह्मवेद्यां पद्ममुकुलरूपमनन्तं न्यसेत् | इत्थं पूर्वमेवात्रोक्तम् | तत्रान्यत्र च - पूर्वं कूर्म शिलायां तु ध्यात्वा शक्तिं निवेशयेत् | ब्रह्माख्यायामनन्तं चेति | अनन्त नाम नागस्योर्वितत्वान्तमेव व्याप्तिर्नोर्ध्वं स्यात् | पश्चादनन्तवमलशवेदि विद्येश्वराधिपोऽनन्तः स्यात् | पश्चात्तदेवोद्गतं शुद्ध विद्यान्तं विद्येशानदलाष्टकम् || तदधस्तत्व सङ्घातं मायान्तः पीठसञ्चयम् | बुद्धिधर्मो मनोज्ञानं वैराग्यं प्राकृतं मतम् || प्. ८२) ऐश्वर्यं पौरुषं तत्वं युगधर्मा इमे मताः | सत्वं रजस्तमस्तत्तत्कारणं गुणसञ्चयम् || धर्मात्सत्वं मनः शुद्धिर्ज्ञानेन राजतेरजः | वैराग्यं तत्त्रिधाभूयादैश्वर्यात्तामसाद्भवेत् | मनोमान निमित्युक्तं मानसा सर्व दुह्यते || हेयं त्याज्यमधस्तत्वं ज्ञायते ज्ञानमीरितम् | धर्म तत्वमुपादेयं बुध्या निश्चित्ययोगिराट् || स्वीकरोतीत्यथ सर्वं धर्मे धर्मस्त्वितीरितः | प्राकृतं बन्धनं सर्वं मत्वाभोगात् लम्बनम् || तत्र वैराग्यमापन्नः पुंस्तत्वमधिगच्छति || अणिमादि गुणानीकमैश्वर्यं पुंसितामसम् | मत्वा त्याज्यमतित्यक्त्वा पुनरूर्ध्वं निरीक्षते || रागो विद्याकलाकालमात्म तत्वन्निबन्धनम् | राग रक्त स्वधर्मीस्यान्मिथ्या ज्ञानीत्व विद्यया || कलासु कुशलोमोहा दवैराग्य समुद्यतः | कालेन वदनं दुःखमनैश्वर्यमयोगिनाम् ||
SKइति मत्वा पुनस्तत्वमत ऊर्ध्वं निरीक्षते | मायातत्वं जगद्बीजं विनाग्य शिवात्मकम् | स्थूल सूक्ष्मात्मकं विश्वं तस्मिन्नन्तर्गतं स्थितम् || महद्भिर्योगभित्या यच्छति सन्मार्गं शैवज्ञाना च भासकः ||? प्. ८३) शुद्धविद्या पुनस्तत्वं योगिनामपि मोक्षदम् | अनन्तानन्त भोगस्य सर्वैश्वर्यालयं परम् || एतत्तत्वान्तमध्वानमासनं परमेष्ठिनः | ज्ञानकलानामानः प्राणनो यत्र संहिता ||? कैवल्या भासभावेन मुक्तास्तिष्ठन्तिमूढवत् | महगामवेद्यन्तन्मुक्ति स्थानमुपापरम् ||? पुनश्चैषां यन्त्रवत्स निरुच्यते |? धर्माख्याः केसरिप्रख्याः शम्भोरासनधारकाः | अग्नादि कोणकाश्वेतरक्तपीता सितप्रभा || विप्रतास्यश्शुभा स्निग्धाः मिथः पुष्ठावलोकिनः | ब्रह्माण्ड * * * यावन्माया तत्वान्त मुद्गता | गात्रकाणित्व धर्माद्या नानावर्ण विभूषिता || ऊर्ध्वाधः छदनं मायाद्वयं हेमनिभं मतम् | शुद्ध विद्यापदं पद्मं विद्येसाष्टदलान्वितम् | पिण्डिकाव्रति विष्फारः शरदिन्दुनिभं शुभम् || अष्टाष्ट केसर प्रख्या वामाद्याः शक्तयः स्थिताः | मध्ये मनोन्मनीशक्तिः कर्णिका कनक प्रभा | पञ्चाशद्बीजसंयुक्ता नवबीजयुताथवा || तन्मध्ये संस्थितं लिङ्गं शिवतत्वा * * भो चरम् | तत्र मूर्तिं न्यसेत्सूक्ष्मामीश तत्वस्वरूपिणीम् || प्. ८४) तत्वं सदाशिवं शाक्तं दैन्दवं च कलात्मकम् | विद्या देहात्मकं ध्यात्वा निष्कलं परमं न्यसेत् || क्वचिद्विद्या तत्वात्मकमूर्ध्वच्छदनं मयाभागात्मकं कलमिति | तथा चोक्तं सर्वज्ञानोत्तरे - पृथिव्यादीनि गव्यान्तं ब्रह्मवेदिं प्रकल्पयेत् | धारिकाभ्यूर्ध्व वेद्यां तु धर्मादि चरणं न्यसेत् || बुध्यादि पुरुषान्तानि चत्वारि चरणानि च | तानि चैव निबद्धानि गुणैरन्योन्यवर्तिभिः || चत्वारि गात्राणि सुरागाद्यावरणानि तु |? अथोर्ध्वच्छदने भूयो माया विद्यां प्रकल्पयेत् | भित्वा लिङ्गन्तु तन्मध्ये शिवान्तं यावद्?हुतम्? | विशुद्धिरश्मी संभाषं सूर्यकोटिसमप्रभम् ||
SKआधारं सर्वदेवानां भुक्ति मुक्ति फलप्रदम् | तस्य मूर्तिसितं पद्मं तल्लीनं चारु कर्णिकम् | चारुकेसरपर्यन्तमष्टपत्रं मनोरमम् | लिङ्गमेवं सदाकल्प्यं तस्मिन् संस्थापयेच्छिवम् || इति || अष्टाष्टकेसराग्रेषु ॐ हां वामायै नमः | ॐ हां ज्येष्ठायै नमः | ॐ हां रौद्र्यै नमः | ॐ हां काल्यै नमः | ॐ हां कलविकरिण्यै नमः | ॐ हां बलविकरिण्यै नमः | ॐ हां बलप्रमथिन्यै नमः | ॐ हां सर्वभूतदमन्यै नमः | इति पूर्वादीशान्तमौषधरादि प्. ८५) मूर्ति शक्तय पद्मस्थाः द्विभुजा कृताञ्जलि पुटाः शिवाभिमुखाः सम्पूज्य | ॐ हां मनोन्मन्यै नम इति कर्णिकायां संपूज्य ॐ हाम् नमस्कारायै नमः इति नमस्कारमुद्रां प्रदर्शयेत् | उक्तञ्च - क्षादि मूर्ति तदीशानां वामाद्याः शक्तयो मताः | वाम शब्देन सौन्दर्यमुक्तं पञ्चगुणान्वितम् || संपूर्ण गुणवत्वेन जलादी वामपेक्षया | जलादीनां चतुस्त्रिद्व्यैक गुणत्वादपूर्णता || वामात्र पृथिवीतत्व भूतभावात्मिका यया | सृष्टिः प्रवर्तते वामा सा शर्वः क्षितिमूर्तिपः || स एव वामदेव स्तच्छक्तिर्वा मेतिगीयते | ज्येष्ठा जलमयी तत्र स्थितापातानु रूपिणी || भवस्तदीशस्स ज्येष्ठो ज्येष्ठतः शक्तिरीरिता | अनैश्च रुद्ररूपत्वाद्द्रौद्र्याग्नेयी तदीश्वरः | पशुपतिस्स वै रुद्रो रौद्री तच्छक्ति रिष्यते || प्राणस्य कलरूपत्वात्कामाशक्तिस्तु वायवी | वायुमूर्तिप ईशानः सकला इति विश्रुतः | कालितच्छक्तिराकाशमधिकाल विकारिणी || यतः काला अवयवाः तेषां विकरणी तथा | व्योम्नोऽवयव शून्यत्वाद्व्यक्तद्विकरणं तथा || विगत * * * न्तेन कलाभास्तु स स्मृतः || प्. ८६) भीमोगगनमूर्तीशः कल विकरण-ईरितः | शक्तिः कलविकरणा चान्द्री वै बलपूर्विका || करणी च बलस्यात्र करणा वै विशेषतः | रोषयित्वा महादेवः तदीश्वरः ||? स वै बलविकरणस्तदीया बलपूर्विका | करण्यर्कमयीशक्तिः बलप्रमथनीयतः || अर्कस्य चण्डरश्मित्वाद्रुद्रोऽर्कमूर्तियः स्मृतः | स वै बलप्रमथन पाश * * क ईश्वरः ||
SKबलप्रमथनी तस्य सर्वभूतदमन्यथ | आत्मीय पुण्यपापौघ भोगोदयमत्यतः ||? आत्मा वै सर्वभूतानि यजमानस्तु स स्मृतः | उग्रस्तन्मूर्तिपः सर्वभूतानन्दमनस्तु सः | सा सर्वभूतदमनी शक्तिस्तस्यैव कीर्तिता || शैवीमनोन्मनीशक्तिः समनस्कं पशुं यतः | परं निर्व्यासकरणं शिवैक्यं यावयत्यणून् || मनोन्मनी तु सा ज्ञेया तदन्तः स्थः परः शिवः || वामाद्याः शक्तयो ह्येताः एकवक्त्राद्विबाहुकाः | कृताञ्जलि पृटाध्येया शिवस्यापि मुखास्तथा || इति || पूर्वोक्तेन विधानेन ध्येयायत्वा क्वचिन्मते | उद्यद्दिनकराभासा स्त्रिणेत्राश्चारु कुण्डलाः || प्. ८७) जटामकुट खण्डेन्दुमण्डितास्ताः क्वचिन्मते | भिन्नवर्णायुतस्सर्वा मकुटादि विभूषिताः || इति || अथ मायान्तं शुद्ध विद्यातत्वं पीठब्रह्मविष्णु भागयोर्विन्यस्य शिवतत्वान्तमर्चाभागे विन्यसेत् || उक्तञ्च - आत्मतन्तन्तु मायान्तं ब्रह्मभागे प्रकल्पयेत् | विद्यातत्वं तु विद्यान्तं विष्णुभागे न्यसेद्बुधः || शक्त्यन्तं शिव तत्वाख्यं अर्चाभागे स्थितं यजेत् || इति || तथा - बीजाङ्कुरमनन्तञ्च धर्मादीनि यथा क्रमम् | इत्यात्म तत्वं पीठाधो ब्रह्म स्थाने प्रपूजयेत् || पञ्चकर्णिकां पात्रे वामाद्याः केसरोपरि | मनोन्मनीपीठ पृष्ठे विद्यातत्वान्तगोचरम् | आधारशक्तेरारभ्य मनोन्मन्यन्तमानवः ||? सम्पूज्य गन्धपुष्पाद्यैरासं परमेष्ठिनः | ईश्वर्याशक्तिपर्यन्ते मूर्तिः स्याद्रुद्रसंज्ञिका || इति || ॐ हां सूर्यमण्डलाय साधिपाय नमः | ॐ हां वह्निमण्डलाय साधिपाय नमः | सप्तकुटिभिः रूपं च चतुर्थमण्डलञ्च केचित् पूजयन्ति | तथा - मन्त्राणां लोटयः सप्त शिवस्यासन संस्थिताः | अतः सप्तकोटिमन्त्राणां उत्पत्ति हेतुत्वाच्छक्तेः सप्तकुटिलत्वमिति | पद्मदले केसर कर्णिकाग्र प्रान्तेषु विन्यस्य ॐ हां क्रियाशक्तये नमः | इत्यूर्ध्वाधो व्यापिनीं विन्यस्य क्रियाशक्तिमयं पीठं विभाव्य ॐ हां शिवासनाय नमः प्. ८८)
SKइत्यासनं गन्धपुष्पादिभिः सम्पूज्या | ॐ हां ज्ञानशक्तये नमः इति लिङ्गे विन्यस्य ज्ञानशक्त्यात्मिकं लिङ्गं विभावयेत् | उक्तञ्च - क्रियाशक्तिमयं पीठं विद्यातत्वान्तमासनम् | ज्ञानशक्त्यात्मिके लिङ्गे शक्तितत्वान्तगोचरे || मूर्ति? द्वयं समावाह्य यजेद्देवं परं शिवम् || ती | तथा चागमे - पीठं मन्त्रान् न्यसेत्पीठे मूर्त्यादि लिङ्गविग्रहोपरि तत्वं तत्वाङ्गानि चिच्छक्तिञ्च क्रिया मता || इति ||? तथा प्रतिष्ठासारेऽपि - क्रियाशक्तिं न्यसेत् पीठे ज्ञानाख्यं लिङ्गविग्रहे || इति || ननु प्रतिष्ठासमय एव सर्वमन्त्राणां न्यासः कृतः | पुनः प्रत्यहं किमिति क्रियते | सत्यम् | किन्तु तदान्यत्र मन्त्रमेव यजनं प्रीत्यर्थं प्रत्यहं कर्तव्यम् || केचेत् पराङ्मुखो भवति | उक्तञ्च - मन्त्राणां यजनं कार्यं नित्यं सन्निधि हेतवे | अन्यथा न प्रयच्छन्ति सिद्धिं विघ्नं प्रकुर्वते || बहुदैवसिका पूजा यदि मष्टा तदागुह | पराङ्मुखास्ततो मन्त्रा व्रजन्ति स्थानमात्मनः || इति || अञ्जलिं हृत्प्रदेशे विधाय ॐ हां हं हां शिवमूर्तये नम इति बिन्द्वन्तमुच्चार्य सूक्ष्ममूर्तिमीशमूर्ति तत्वात्मिक कामलिङ्गाननं हेतुं विन्यसेत् | उक्तञ्च - सम्पूर्ण परमज्योतिरूप कर्मात्म गोचरम् | प्. ८९) मूर्तिमीश्वर तत्वाख्यां लिङ्गान्तं हेतुं विन्यसेत् | हृत्सम्पुटस्त्व जातो वै मूर्तिमन्त्र इति स्मृतः || अथ - पञ्चमन्त्रात्मिको मन्त्रो व्यक्तो मूर्तिस्सदाशिवः | मन्त्रदेहः शिवस्यासौ पठ्यते शास्त्रकोविदैः || इति वचनात् | ॐ हां विद्यादेहाय नमः | इति नारदा शक्त्यन्तमुच्चार्य अथेशानती त्याशान्तां तत्वं सदाशिवं वपुरिति वचनात्सदाशिवभक्त्याहत शिवतत्वान्तव्यापिकां व्यक्तमूर्त्यङ्गदैर्घ्यैः विन्यसेत् | उक्तञ्च - तथैव धर्ममूलोऽयं सादाख्यं मन्त्रमुच्यते | विन्यसेन्मूर्ति मध्ये तु विद्यादेहं सदाशिवम् || आरोहे शिवलिङ्गस्य शुद्धज्ञानमयं प्रभुम् | अष्टत्रिंशत्कलोपेतं ब्रह्माङ्गं कृतविग्रहम् ||
SKदृक्क्रियेच्छा त्रिपञ्चाक्षां पञ्चास्यं त्रिकरं परम् | दशायुधधरं सौम्यं सर्वाभरणभूषितम् || ननु यथात्मनः पुर्यष्टक मयः सूक्ष्म सूक्ष्म देहोन्तरागः पञ्चभूतात्मक स्थूलबहिरङ्गस्त्यः शिवस्यापि सूक्ष्मस्थूल देहद्वयम् | तत्रान्तरङ्गा सूक्ष्ममूर्तिः कथमधस्तादीश्वर तत्वात्मिकेत्युच्यते | सत्यम् | यद्यपि सा मूर्तिरीश्वर तत्वात्मिकेत्युदाहृता | वाच्यवाचकयोरभेदादीश्वर तत्वाधिष्ठायक बिन्दुमयीति बोद्धव्या | तदुच्यते | स्वात्मारामतरो भगवान्कृपामूर्तिः सूक्ष्ममतः सर्वानुग्राह प्. ९०) कत्वादकारद्वांश्चेन्नियमादुपास्येन वस्तुनाकारमुपैति बुद्धिरितिमत्वा सर्वेषामनुगर्थमत्त चित्तानुख्यं स्थूलं सूक्ष्मतरञ्च देहं धत्ते | स च देहः शाक्तः | सा च शक्तिरविनाभाविनी परधिदानन्द घनात्मिका | सा हि पुनरिच्छाज्ञानक्रियावेति विभिन्नैव | भवति | तच्छक्ति त्रयात्मको भगवान् बिन्दुरित्यभिधीयते | स च निष्कल बिन्दुः सकलः सकल निष्कलश्चेति त्रिधा स्थितः | तत्र चेच्छाशक्त्यात्मक निष्कलबिन्दुः शक्तितत्वमिति चोच्यते | यः पुनः सकलः स चतुष्कलात्मकः क्रियाशक्तिमयो बिन्दुरीश्वर तत्वे भूमध्ये प्राणापानादिषु स्थितः | यः पुनः ज्ञानशक्तिमयः सकलनिष्कलः सदाशिव भट्टमया न कस्यसूक्ष्म मूर्तिः स्थितः | तथाऽप्यनयोः सकल सकला कलयोर? भेदोपचारादीश्वर तत्वा म?र्मत्वा बिन्दुमयी मूर्तिरित्युदाहृता || उक्तं च - लोकानुग्रहकर्तृत्वात्पाशजाल निवृत्तये | ध्यान गम्यो भवेच्छं भुःसर्वगः परमः स्वराट् || इच्छाज्ञानं क्रियामूर्तिर्व्यक्ताव्यक्तोभयात्मिका | निष्कलस्थावराशक्तिर्जगतः कारणं स्थितः || पञ्चत्रिंशात्मको बिन्दुश्शक्ति तत्वमितीरितम् | शान्त्यतीतकलामात्रवाच्यं शान्त्यावैन्दवास्ततः || तत्तत्वं सकलोज्ञेयो भ्रूमध्ये बिन्दुवाचकः | इडापिङ्गासनन्नासु सोमसूर्यानलात्मिकाः || प्. ९१) तत्वमैश्वरमास्थाय योगिनां योगसिद्धिदः | तृतीयो यः समाख्यातस्सतु सादाशिवी तनुः || सूक्ष्मा सूक्ष्म कलाभिस्तु पञ्चभिः परिभूषितः ||
SKअर्धभिः षड्भिर्वा शुद्धे स्थूलमूर्तिः सदा शिवः | सर्वत्र बिन्दुरेकैवं ईश्वरतत्वात्मकः श्रूयते | तत्कथं त्रय इति न वाच्यम् | तस्या नेत्रात्मकत्वात् | तदुक्तं च सर्वज्ञानोत्तरे - अर्धपटले सदाशिवत्व वर्णनानन्तरं तथा च - अथोर्ध्वं चैन्दवं तत्वं विमलं सर्वतोमुखम् | परमं सर्वतत्वानामनन्तं ज्योतिरूपकम् || तत्र बिन्दु स्थितः स्कन्दः शुद्धस्फटिकनिर्मलः | कदम्बकोलकाकार * * * रणमालिकः || सकलो निष्कलश्चैव तथा सकलनिष्कलः | सूक्ष्मो भिन्नकलश्चेति ध्येयोऽसौ पञ्चधाप्रभुः | तच्च कलेशान्त्यादिभिः युक्तः सकलः परिपठ्यते || निष्कलः केवलो बिन्दुव्यापी सकल निष्कलः || ज्वालिन्यादिकया युक्तसूक्ष्मोऽसौ परिकीर्तितः | स्वरोषोडशभीषन्नो भिन्नात्मा बिन्दुरुच्यते || ततोऽस्थानन्ततो भेदं सर्वशास्त्रेषु षण्मुख | मन्त्रेषु पद्मकायञ्च न विनाबिन्दुः क्वचित् | निष्कलस्था पराशक्तिरचिन्त्या सर्वतोमुखी || प्. ९२) स सूक्ष्मा निर्मलानन्ता निर्वाण रूपिणी | या विजृम्भति सत्वेषु सर्वतत्वेषु चैवहि || तथा घृतं जगत्सर्वं मेकयानेकरूपया | अस्या ऊर्ध्वं निरालम्बं निराधारं निरामयम् || अचलं व्यापकं शान्तं सृष्टिसंहारवर्जितम् || इति || नानारूपी न चेदेवं भगवान् सर्वेषामनुग्रहार्थं तर्हियस्तेषां प्राणिनां कर्मपरित्यागार्थं सृष्टि स्थिति संहारानुग्रह तिरोभावा कृत्यमपि कर्तव्येन स्थितः | ततस्तस्मिन् कर्मसम्बन्धाद्भगवानपि कर्मबद्धः | किमिति न चायत इति वाच्यम् | दिव्यशक्तित्वात् | उक्तञ्च - अष्टत्रिंशत्कलोपेतो व्यक्तमूर्तिः सदाशिवः | सकलस्तु भवेदेवमन्यथा निष्कलः शिवः || ईश्वरस्य तु मन्तव्यो विधमूर्तिरमेकधा | संस्थितो योग सार्थक्यान्न च सीदति कर्मणा || क्रीडतः परमेशस्य मूर्तिरेषा ह्यनिन्दिते | तथा श्रीमन्मृगेन्द्रे च - लोके वपुस्मतो दृष्टिं कृत्यं सोऽप्यस्मदादिवत् | मालाद्य संभवाच्छाक्तं वपुर्नैतादृशं प्रभोः || तत्पुनः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ||
SKईश तत्पुरुषाघोर वामजैर्मस्तकादिभिः | साधाराणामन्यच्च तन्त्रेऽस्मिन् कथ्यते बुधैः || इति || प्. ९३) तथा - येन येन हि रूपेण साधकः संस्मरेत् सदा | तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः || यतो ध्यात्वा त्वैवमभ्यर्च्यते शिवः | यतो ध्यानमनन्तरेणैवाभिष्ट फलावाप्तिर्न स्यात् | अतोध्यातव्यः सर्वसदाशिवः | उक्तञ्च - अत एव च सध्येयो विशिष्टफलभोगदः | जुहुस्तद्विषयं च्याकं? यदन्तरवलोकनम् || अवलोकाद्भवेत्प्रीतः पुरुषोरूपसंयुतः | रूपमाश्चर्यभूतं तत्सर्व लोकविलक्षणम् || इति || ननु ध्यानार्चनादिभिरेव भगवानभीष्ट प्रदश्चेत् ताभिस्तदा स्मदादिवदुपकार प्रत्युपकार प्रलोभवनिति | विरागद्वेषादभिलाषादि संपृक्तः स्यादित्यपि न च वाच्यम् | यतः परिपाक कारणमेव चैतदपीति | नन्वेवञ्च दवलोकाद्भवेत्प्रीत इति कथं तदव्यक्तेऽवलोकादित्युप लक्षणमवलोकादिभिः ध्यानार्चनादिभिः कर्मसमत्व लक्षणोपरि पाके सम्यक् सञ्जाते तमात्मानं निराकुलमवलोक्य प्रीतोभगवानित्यर्थः | अत एव भगवान् तत्रैव विशिष्टभेदः सध्येय इति | विशिष्टफलमोक्षलक्षणं भोगशुद्धाध्वाणिमाद्यैश्वर्य सुखावाप्तिरित्येतद्द्वयमपि कर्म परिपाकेन विना न संभवति | स परिपाकश्चोद्धूलनादिना विना सञ्जायत इति यतः अतः कर पादेन स भगवान् ध्येयः | उपासनीय इत्यर्थः | यत एवं ततस्तदावनिबन्धनं नाशास्त्रोक्तं रूपं लिख्यते | प्. ९४) पञ्चाननं प्रकर्तव्यं पश्चिमं वदनं ध्यायेल्लोचनत्रयभूषितम् | इति पञ्चाननं सर्वजटालम्बिममस्तकम् | कशपाशनिबद्धोर्ध्वञ्चन्द्रार्धकृत शेखरम् || ध्यात्वा परमनिर्वाणं प्राप्नुवन्ति नरोत्तमाः || इति || श्रीमुखबिम्बे तथा - पश्चिमं वर्जितं किञ्चिदीशानमूर्ध्वगं न्यसेत् | प्रची तत्पुरुषंवक्त्रं हृदयोपरि शोभितम् || अघोरं दक्षिणस्कन्धे वामस्कन्धे तु गुह्यकम् | सद्योजातं प्रतीच्यां तु पृष्ठग्रीवो परिस्थितम् ||
SKनानाभरणशोभाढ्यं नानासिद्धिप्रदं नृणाम् | नाना क्रीडरतान्नित्यं विघ्नेश्वरं शिवापहम् || दर्शयेत्त्रीणिवक्त्राणि सद्येशानौ न दर्शयेत् || इति | यदावापि?तो तदा शिवरूपं लिख्यते तदेति शेषः | ईशान छाययाश्वेतं मध्ये तत्पुरुषं न्यसेत् | वेरोर्ध्ववक्त्र प्राथान्यात्तच्छाया परितः सितम् || इति || तथा - विद्यादेहं करन्प्रान्तं प्लुतमुच्चार्य सप्रभम् | याद्ये?दव्यक्तमूर्तौतं प्राकृत * * * मखात्मनः || ईशानशान्त्यतीताकं पुंसां त्रिवक्त्रपङ्कजम् | घोरविद्याभृतं वामं प्रतिष्ठागुह्यमण्डलम् || सद्योनिवृत्तिजां चाद्भिं भुवनाध्वतनूरुहम् || प्. ९५) वर्णत्वं मन्त्ररुधिरं पदमानं सिराचितम् | तत्वास्थिमज्जाशुक्लादि पद्मासीनं तु दिग्भुजम् || दृक्तियेच्छाति पञ्चाक्ष ज्ञानचन्द्रं कलान्वितम् | शुद्धस्फटिकसंकाशं द्वात्रिंशल्लक्षणान्वितम् || शान्तं मुवानं पिङ्गाश्रं जटामकुटमण्डितम् | वरदाभयखड्गशक्ति शूलानि दक्षिणो * * * * * * || पूजा पूरा हि डमरुनीलाब्जाक्षाणि वामतः | बिभ्राणं शक्तिपर्यन्त व्याप्तलिङ्गस्थदैर्घ्यके || तथा - दक्षिणेच्चमोङ्कारं पूजापूरं तु वामतः | खट्वाङ्गं डमरुं तद्वत्तद्वत्त्रिशूलभोगिनोः ||? असि नीलोत्पले तद्वत्तद्वच्छक्त्यक्ष सूत्रके | ईशादि पञ्चवक्त्राणां करस्थास्त्राख्यनुक्रमात् || इति || तथा - बालवक्त्रवदासीनं प्रसन्नं स्फटिक प्रभम् | निजं तत्वं समालोक्य ध्यानासक्तमिव स्थितम् || युवाकारं स्थितापीतं ध्यानस्तिमितलोचनम् | पूर्वं तत्पुरुषं वक्त्रं हृदयो परिचिन्तयेत् || अघोरं दक्षिणे घोरं कृष्णश्मश्रु समन्वितम् | दंष्ट्राकरालं विकतं दक्षस्कन्धोपरिस्थितम् || यौवनस्त्रीमुखाकाशं मायाविभ्रङ्गलोलुपम् | वलां स्त्री भूषणोपेतं वामस्कन्धो परिस्थितम् || प्. ९६) नृपवक्त्रसमाकारं ध्यानासक्तं हिमप्रभम् | सद्योजातं सदा ध्यायेत् पृष्ठग्रीवोपरिस्थितः || पञ्चवक्त्रमिति ध्येयं प्रतिवक्त्रं त्रिलोचनम् | विंशदस्मितविम्बोष्ठं कुण्डलाभरणान्वितम् ||
SKविशालफालतुङ्गाग्रं पीनगण्डस्थलं शुभम् | नानारत्नसमोपेतं हैम मौलिविभूषितम् || हारकेयूरसंयुक्तं मुद्रिकाकटकान्वितम् | सोत्तरीयोपविताढ्यं सौम्यं सोरबन्धनम् || विस्तीर्णोदरस्थलं पीनं सस्फित कटिमण्डलम् | सर्वलक्षणसम्पन्नं कटिसूत्रमनोरमम् || दिव्यवस्त्रपरीधानं व्याघ्रचर्माम्बरप्रियम् | नूपुरालंकृतपदं कटकादि विभूषितम् || सुक्तवान्तं पद्माङ्कदीर्घबाहुकम् ||? दशाद्युधधरं देवं दिव्यरूपमनोरमम् || स्तूयमानं विरिञ्चाद्यैः ध्यायेदेवं सदाशिवम् || इति || अलक्षण संग्रहे - पञ्चास्थानि यथालिङ्ग भवेत् सुव्यक्तपञ्चकम् ||? पञ्चवक्त्रमनिष्टेष्ट चतुर्वक्त्रं सुखावहम् || त्रिवक्त्रं शान्तिदं नित्यं द्विवक्त्रं चाभिचारकम् | एकवक्त्रञ्च रोगघ्नन्नासिकास्यञ्च लोचनम् || प्. ९७) चतुर्मुखे तु काधारे पञ्चास्यं वा चतुर्मुखम् || सितोत्तानं त्रिणेत्रञ्च मौलीकुण्डलशोभितम् | लिङ्गमूर्ध्नि स्थितं वक्त्रमैशानं को?शविक्षितम् || रक्त वर्णं सिते * * म्बकं मौलिमण्डितम् | सिंहोग्रंशा?श्रु केशाढ्यमैकं तत्पुरुषाननम् || कृष्णं याम्यमद्योरास्यं विकूर्चमसिभास्वरम् | दंष्ट्राकरालं वृत्ताक्षं ज्वलत्पावक सन्निभम् | वामवक्त्रं भवेत्पीन * * * * दिन्?स्थितम् || कान्तालङ्कार केशाढ्यं तिलकालकमण्डितम् | वारुणास्यं सितं रम्य द्व्यञ्जमौलीं जटां धरम् || त्र्यक्षंपीनं युवाकारं सुप्रसन्नं सुशोभनम् | विनेशारञ्च तद्वक्त्रत्रिमुखं स्वनकर्णितम् || सद्यः सादपि वक्त्रं स्यात्पुरुषेणैक विग्रहम् || वक्त्रकम् || अस्त्र सर्वाध्व संभव ब्रह्मविष्णुरुद्रैश्च रसदेशसान्त षडक्षर वैनतेयार्चित नागे कैवल्यसर्वतः सर्वभुवनेश पदेश मन्त्रेशकलेश वर्णेशाभिधाना एते सदाशिवा बहवो मिद्यन्ते | ईशोर्ध्व निष्कल शान्तव्यापक रुचिसदाशिव भट्टारकस्य भेदाः | पुनश्च मन्त्रभेदाः सदाशिव सदा बाह्योविद्यन्ते | एते सर्वे चिदानन्द घनस्वरूप पञ्चमन्त्रात्मिकाः परापर भक्तिप्रदा निष्कल शिवाधिष्ठिताश्चैतेषां प्. ९८)
SKमध्ये रुद्र सदाशिव एव शैवैः पूज्यः | तस्माद्रुद्र सदाशिव पदमाह - शक्तित्रिशूलखट्वाङ्गं वरदाभय बाहुमान् | पुराक्षडिण्डिमी व्यालो पालिनी प्राक्सदाशिवः || इति || अनेनोक्तन्यायो व्यक्ताव्यक्तो भयात्मक चलाचल लिङ्गेषु भुक्तिमुक्ति निमित्तं पूज्यमान सदाशिव भट्टारकः सर्वदा पूर्वाभिमुख एव भवेत् | यथा स भगवान् पञ्चमाभिमुखः तदा विधिरुच्यते | श्रीमुखबिम्बे - दीक्ष * * * टे शास्यं प्रतीच्यां चिन्तयेद्गुरुः | ईशं तत्पुरुषं शान्तं नित्यं नित्ये पुराननम् || इति || श्रीबृहत्किरणोद्योतादौ - प्राङ्गमुखावीश तत्पुरुषावघोरो दक्षिणाननः | नित्यं सौम्याननो वामः सद्यः पश्चान्मुखः स्मृतः || इति श्रीबृहद्वच भार्गवादौ ध्यायेत् || दीक्षादौ कलशाधारं तमेव प्रत्यगाननम् || इति || लक्ष्मीकेशसंवादे - नित्ये नैमित्तिके काम्ये सर्वाधिकरणं सदा | शिवः पूर्वाननोलक्ष्मी प्रत्यक्पृष्ठः कलातनुः || इति || तथा - प्रतीच्यां च यदा द्वारं तत्रेशं पुरुषं स्मरेत् | सद्योजातं भवेत्प्राच्यां घोरं वामञ्च पूर्ववत् || प्. ९९) भोगाङ्गानि यथा पूर्वं * * * कश्चोत्तराननः || नैवेद्य दीपमालादि द्वारदेशे निवेशयेत् || इति || ईशास्यं सदा कार्यं मूलद्वारावलोकनम् || सदा पूर्वाननं स्थाप्यं स्थाप्यं वा पश्चिमाननम् || इति || प्. १००) निभैर्युक्तः सदाशिव इति | ईशानस्योथर्वादिभिः लोकतक्त्रस्य स्फटिकन्तन्निर्मलत्वमेव | अतः परमार्थतः पर्वा * * * क्त्राणि सदाशिवविग्रह स्फटिकति भवन्ति भवन्ति | तुल्यम् | तन्वीशानादि वक्त्राणां प्रसन्नस्तिमित्यादि भावः किमर्थं? मनुष्याणामिवेति चेत् | नैवम् तत्पञ्चकृत्य निमित्तमिति | तथा गमना विलयेऽपि मुक्त्यर्थं यज्जटिका प्रसन्नं चेति संस्मरेत् | ईषत्प्रहसितं पीतं गर्वितं स्तम्भनादिषु | करालमसितं पिङ्गजटामुण्डा हि भुषणम् || क्षयादिषु तिरोभावे रक्तञ्चार्वमण्डलम् | जनने सर्वभावानां ध्यायेत् सक्तमनुस्मरेत् || बालयौवन बृद्धस्त्री कृपाकारं सदा स्मरेत् || इति | ननु
SKईश मूर्धासपुंवक्त्रो घोरहृद्गता * ?ह्यकः | सद्यो मूर्तिश्च देवोऽयं सकलं परिपठ्यते || इत्यादि - वचनात् ईशानादि मन्त्रमूर्तिः शिर इव *?निश्च यो जातः | तत्र कथमीशमूर्धा भगवान् निशाशन मन्त्रस्य वर्णात्मकत्वात्तद्वर्णमूर्धा यद्वादस्य प्रसन्नत्वात् | गुणाध्वान रूपात् प्रसन्नमूर्धा क्रदितद्वर्णात्मको मूर्धा तदा वर्णानामुच्चारा प्रविध्वंसिनाम नवस्थितत्वात् मूर्तिव्यं न घटते | अथा घोर हृदयः क्रूरमनाः वामदु?ह्यको वम्पटस्सद्योमूर्तिः सद्यः प्रदक्षिणं जायते विवत्वा?रत्नादिति चेत् नैवं वचनीयम् | यस्यादमूर्तः सर्वत्मे भगवानतः स्वरूप त * *?स्तस्य प्. १०१) मूढाकन्न विद्यते | किन्तु तत्वद्वय साम्य गुणागुणानुषङ्गादुपचारा देवमुच्यते | उक्तञ्च - ईष्टे यन्न जगत्सर्वं गुणेनो परिवर्तिना | समूर्ध्वंसम देशत्वामूर्धानावय च स्तनोः ||? तस्य तस्य वपुर्यापुः तस्यामृषति येन सः | तन्त्राणां द्व्यात्मनश्चापि तत्पुरुषवक्त्रकं हृदयं बोधपर्यायः सोऽस्याघोरश्शिवो यतः परिग्रहस्य घोरत्वात् | घोरोक्तिरुपचारतः | वामास्त्रिवर्ग वामत्वाद्रहस्यं च स्वभावतः | वामं धामपरं गुह्यं यस्यासौ वामगुह्यकम् || सद्योणुना मूर्तयः संभवानी यस्येच्छातस्तेन सद्योभिधानः | सद्यो मूर्तिर्योगिनां या विधत्ते सद्यो मूर्तिः कृत्य शैर्घ्यान्न मूर्तेः | इत्थं शक्तिः कुर्वती देह कृत्यं देहाभावनादुच्यते देहशब्दैः || तस्या भेदा यापि वामादयः स्युः तेपि प्रोक्ताः कृत्यभेदेन सद्भिः || इति || अत्र ईष्टे येन जगत्सर्वमित्यादि सर्वाध्वोपरिवर्तिनां येन गुणो जगत्सर्वमीश ईशान गोचरः | मूर्ध स देशत्वादिति | मूर्ध्ना सं सदृशो देशः स्था यस्यासौ मूर्धार्ध सदृशत्वम् | तस्मान्मूर्धा तस्य तस्येत्यादि | यस्य यस्य व?र्गादि कृत्यैः कर्मपरिणमसि प्. १०२)
SKतस्य या पूः पूर्वपुस्तसानं? पुर्यष्टति पतति तेनासौ तत्पुरुषः तत्राणा तेषां पुरुषाणां रक्षणात् तद्व्यञ्जताज्ज्ञान प्रकाशनाच्च तत्पुरुष वक्त्रः | यद्वा अवस्य तस्य तस्य वा रतायायापूः पूरितनुः तस्यां पुरीय जपानः स्वरूप तथाधिष्ठातृ भावेनास्ति तत्पुरुषः तत्पुरुषमत्य कस्माज्ज्ञानक्रिये व्यक्तित्रयते जातिभयात्ततः तत्पुरुषवक्त्रः | व्यञ्जन त्राणधर्मित्वा व्यक्तमित्यभिधीयते | इति श्रुतेः | हृदयमित्यादि | यतो यस्मान्नघोरः शिवस्तस्मात्तस्य घोरव्य* *? घोरमुग्रं हृदयं तस्मादघोरं प्रशान्तं निष्प्रपञ्चहृदयं बोधो यस्याः सा च घोरहृदयः | तर्हि घोरोक्तिः कथम् | सत्यं परिग्रह चरस्य शक्तिचक्रस्य पाशद्रावणकस्य घोरत्वादस्यामपि घोरोक्तिरुपचारतः वामस्ति वर्णा? वमत्वादित्यादि त्रयोवर्णाः त्रिविधः पासाः तैः सार्धं वामत्वा द्वैपरीत्याद्वामं तत्वभावतः? प्रकृत्या रहस्यमतीन्द्रियम् | इत्थं वामयं धमयस्यासौ वाममुह्यकः | * * * स्पष्टम् || नन्वेवं चैतद्दशायुधधरो भगवानित्येतत्कथं ? सत्यम् तथैव तानि हिंसकान्वायुध्वनि ? भवन्ति | किं मर्हि? आयुध्यन्ते वर्धन्तेच्छिद्यते एभिः पाशजालानि इत्यायुधानि ज्ञानशक्त्यादिनिधरान्तानि शक्त्यादीन्येना | उक्तम् - चतुर्विंशति साहस्रे बोधरूपा पराशक्तिः सदाख्यात्मयं स्मृतम्? इच्छाज्ञानक्रियाशक्तिः त्रिशूलं संव्यवस्थितः || ता एव धारणायेन खट्वाङ्गमपि शार्ङ्गिताम्? | प्. १०३) बीजानां विवृतस्तेषां * * * * णाद्बीजपूरकम् | माया डमरुरूपेण सैवदीर्घाद्विजाम्विका || इन्दीवरं मनः प्रोक्तमिन्द्रियाव्यक्षमालिन्य || इति ||
SKअस्यायमर्थः बोधरूप ज्ञानात्मिका परापरमशिवसमन्वयिनी या भगवती सैव समस्तपाशनि कृन्दवाय शक्यत इति शक्तिरिव शक्तिः सादाख्यमिति | वित्यत्वात्सदा पर्वकालमाख्या यो यद्वा सदाख्या सा यस्यास्तीति सादाख्यं नित्यशिवपदं यदा सर्वगुणसम्पन्नोभगवानिति या सतं साध्वी समाख्या यस्यास्तीति अणिमा सादाख्यं शिवपदां न विद्यते पुनरावृत्तिभयं य*? तदाभयम् | अभय सहस्तमिवाभय प्रदमित्यभयम् | पुनरपि तदेव शिवतत्वमिच्छाज्ञानक्रियाशक्तिभिः संविभक्तं त्रिशूलं इव त्रिधा जातं तथा त्र्यश्रमेक मूलं तथा मूलभूतं शिवतत्वं शक्तित्रय विभक्तम् | बिन्दुतत्वं सदा शिवतत्वं ईश्वरतत्वमिवेति त्रिधा संव्यवस्थितम् | पुनरपीच्छापक? क्रियाख्यास्ता शक्तय एव परिणामेव खट्वाङ्ग शिवमिच्छित्या जगदुपादानकपनां? अङ्गानि सहकारिकारणानि अस्य सन्नीति अङ्गी तत्र वायिकारणं तदप्ये तावत् एतत् पिण्डी भूतं शुद्ध विद्यान्तत्वमङ्गिना दण्डेन संयुक्तं खट्वाङ्गमिव भवति | अथ बीजानामाप्त वर्गाणां विवृतिः विकरणम् | सृष्टिः स च कर्मफल साञ्पादनं वरदमिवेति वरदम् | अथ तेषामिवात्मव प्. १०४) वर्गाणां समति समये पूर्णमायायां स्थानं ततस्तेन कारणेन बीजपूरकमिव माया तत्वे स्थितम् | अथ तन्मायातत्व स्वरूपमाह -
SKसामाया मायातत्व मण्डपरूपद्रूपेणा स्थितमिति | अथ यथा डमरुकाकरणं तथा कालादि विकरणकारणं मायातत्वमपीत्यर्थः | पुनश्च सामायैव दीर्घादीर्घभूता कालादि कार्य तथा परिणता सती द्विजिह्व इवोपसर्पति | द्वे जिह्वे पस्येति? द्विजिह्वः सर्पः यथा सर्पिरतो पर्याकुली भवतीति समानता | इन्दीवरमिव मनः संकोचमनत्वाद्विकास मानत्वाच्चा विकासनमिन्द्रियेषु प्रसरणम् | यद्वा विकासः सद्भोगे सति सन्तोषः | तदभावे द्वितोयः? सङ्कोचनमक्षमालेवेन्द्रियाणि इत्युपलक्षणम् | ततस्तन्मात्रादि भूतानि गृह्यन्ते | इत्येतज्जगदेव भोगायतरुमुभययाद्वोह्य? तत्वभेदोव स्थितः कर्मकारणं यद्यपि तथापि तदेव कर्मवल्लीच्छेदकमपीति आयु?धवदित्युक्तमुपचारात् | न तु साक्षादायुधमित्येवं सर्वमेतत् परिज्ञाय तत्सिंहासनो परिमूर्तिं विन्यस्य तत्र परमशिवावाहनं कुर्यात् || ननु शाक्त्यादि शक्तिपर्यन्तमासनं परमेष्ठिनः शिवतत्वास्थिता शक्तिः मूर्ति ज्ञानात्मिका नद्ये || एक वक्त्रा त्रिणेत्रा च शक्तिशूलवराभया || क्वचित् - एकवक्त्रा द्विहस्ता च बीजपूरा भयान्विता || इति पाठः | तत्र निष्कलमावाह्य निस्तरं सर्वं शिवम् || अङ्गैरङ्गिकृतं कृत्वा यजेन्निर्वाण शङ्करम् || प्. १०५)
SKइत्यादि वचनमस्ति | ततः कथमीशस्य सदे शक्तितत्वात्मिका मूर्तिरिति | सत्यम् | सिद्धान्तास्त्रिविधाः | ऊर्ध्ववक्त्रोत्सद्भवा अपि पादार्ध ग्रन्था बीज ग्रन्थामिश्र ग्रन्था इति | तत्र पादार्ध ग्रन्थेषु साधिका पादान्ये * * * पां * * * नि | बीज ग्रन्थेषु सर्वातीत निरधिकार पदमेवोपासनीयम् | उभयमप्युपासनीयमिति मिश्रग्रन्थेषु प्रतिपादितमस्ति | ततस्तत्र तत्र श्रोतृभेदादयं भेद इत्यदोषः | अलमति विस्तरेणेति प्रक्रममुच्यते | अथ मूर्धकायः साधकः पुष्पैरापूरितमञ्जलिं हृत्प्रदेशे निधाय स्वगुरूपदेशेन मूलमन्त्रमिदं तेन पुञ्चनिभं हृदयाग्रेसरं शिवं द्वादशान्ते निष्कलं स्वप्रकाशं सर्वगुणसम्पन्नं परमशिवमयं संचिन्त्य ततो रेचकेण मूलमन्त्रमिति स्पष्टमकारे कारादि मात्रा वाचा पृथिव्यादि समनान्त पाशजालमतिक्रम्योन्मना शक्त्यतीत परमशिवपर्यन्तमुच्चारयेत् | उक्तञ्च - अकारश्चोकारश्च मकारोबिन्दुरेव च | अर्धचन्द्रो विरोधी च नादो नादान्त एव च || शक्तिश्च व्यापिनी चैव समना उन्मना तथा | समनान्तं पाशजालमुन्मन्यन्ते परः शिवः || इति || नन्वयं प्रणवोच्चार मन्त्रक्रमः नतु प्रासाद विषय इति चेत् | नैवम् अकार हकारयोः अभेदविवक्षया | उक्तञ्च - अकारश्च हकारश्च द्वावेतावेकतः स्थितौ | प्. १०६) विभक्तिर्नैव विन्देत मारुताम्बरयोरिव ||
SKइति स्पष्टमुच्यते | अकारस्तु भृतः प्राणः स्वमृत्तौ तु हलाकृतिः | इति वचनात् | नाभि स्थानस्थ प्रकृति चक्रमध्यो बिन्दोरुद्रत हलाकृतिरेव हलाकार संयुक्तो हृदि अकारो भवती त्युक्तमुक्तम् | किन्तु सकलावृतिरेव अकारादि मात्रावतीति प्ररमशिवं गच्छन्ति | तत्र मणिवन्मन्त्र मालामर्घ्य प्रभावमन्त्रदेवतेत्यादीनि वाच्यवाचक भावेन शिवसमरस्वि भूतमन्त्रमेव तेजः पित्तं? सर्वज्ञतादि षष्ठकोपेतं परामृतस्य दिग्विन्दुरूपं शिवशाक्त?पूरकेण समावाह्यस्थापिन्या | मुद्रयानीय भ्रूविन्दौशरदिन्दु सहस्रवदा भाष्यरेचकेण पुष्पाञ्जलिगतं ध्यात्वा तमा *?हिन्या मुद्रया मूलेन समावाह्य स्थापिन्या मुद्रया विन्या?दे मूलेन मूर्तिद्वयं व्याप्य सन्निधीभूतं विचिन्त्य निष्टुर मुद्रया तथा निरुध्य निरोधार्घ्यं च दत्वा कालकण्ठ्याफडन्तास्त्रेण विघ्नानुच्चाट्य लिङ्गमुद्रां नमस्कार मुद्रां च हृदाबध्वा कवचेना वकुण्ठ्य हृदाद्यङ्गैः सकलीकृत्य भूमेव परमीकृत्य धेनुमुद्रया महामुद्रया च शक्तिमन्वोपन?मृती कुर्यात् | अत्र ॐ हौं हं शिवाया वाहनं नमः इत्यादयो मन्त्राः | उक्तञ्च - इदं तत्सकलं ध्यानं निष्कलं भावनामयम् | तस्मिन् सकले देहव्यापको नरवत्स्थितः || सकलं निष्कलं द्विष्ठं योऽभवेति सदाशिवम् | स पाशकाय? निर्मुक्तः शिवमेवाभिगच्छति || इति || प्. १०७) श्रीपरासाखे तथा - एवं शान्त्य वपुः कल्प्य तस्मिन् परमकारणम् | परमं शाश्वतं सत्य ज्ञानानन्द सुखात्मकम् || व्यापकं सर्वतत्वानामप्रमेयमनौपमम् | वाच्यवाचक रहितं वाङ्मनोतीतगोचरम् || व्यक्तं कुर्याद्विशेषेण निष्कलं सकलात्मनि | पारा वासनमित्युक्तं शिवमन्त्र नियन्त्रणात् || इति || तथा | तत्रार्क तेजसाह्वावनं विधायाह्वानमुद्रया | स्थापिन्या स्थापनं कुर्याच्छक्ति विग्रह संश्रये || प्रणत्या सन्निधीकृत्य * * * मरुन्ध्याद्रोद्यमुद्रया || इति || तथा | बिन्दु नादसमायुक्तं सान्तर्मात्रात्रयान्वितम् | निष्कलं परमं बीजं द्व * * च्चार्यात्मनान्तकम् ||
SKमन्त्रमूर्तिं शिवं सृष्ट्या भ्रूमध्ये मनसा स्मरेत् | चन्द्रबिम्ब समप्रख्यं स्मृत्वा पुष्पाञ्जलि स्थितम् || आवाहिन्या पुनर्नीत्वा स्थापिन्यास्थापयेद्धृदि | सूक्ष्ममूर्ति गतं देवं विद्यादेहे समन्ततः || व्याप्यमिव प्यजीवमिव विष्टं देहं देव्या विभागतः ||? स्वामिन्नभिमुखी भूतं संस्मरे * * * * धानया || आ पूजाविधि तत्रेशं रोधयेन्निष्ठुराख्यया | निरोधार्घ्यं ततो दद्यात्सन्निधानाय शम्भवे || प्. १०८) काल कण्ठ्या फडन्तेन हेतिना पुष्पमुत्क्षिपन् | अन्तरायं समुद्वास्य लिङ्ग मुद्रां प्रदर्शयेत् | हृदा बध्वा नमस्कारं कवचेनावकुठ्य च || हृदये हृदयं शुक्लं शिरः पीतं शिरस्सु च || शिखां रक्तां शिखा मध्ये तनुत्रं चासितं हृदि | अग्नि ज्वालानिभं शस्त्रं हस्त वर्गेषु विन्यसेत् || इत्येवं सन्निधायत्रस्सकली कृतिरीरिता | शिवैक वर्णवतां ध्यायेदङ्गवां भिन्नवर्णिनाम् || पुष्पमारोप्य मूलेन परमीकरणं हि तत् | अ * * * कि करणं कुर्यान्मन्त्राणां धेनुमुद्रया || महामुद्रां हृदा बध्वा दीपनञ्च प्रकल्पयेत् | स्वागतं ते महादेवेत्युक्त्वा सम्प्रार्थयेद्विभुम् || स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् | तत्वत्संप्रीतिभावेन लिङ्गेऽस्मिन् सन्निधी कुरु || इति || ननु यद्या वाह्यते भगवान् तदा तस्य विसर्जनञ्च भवति तर्हि तदा तस्य सर्गग तत्वमविन्यते | नैवम् | व्यापकस्यैव शिवस्य मन्त्रेणाभि व्यक्ती करणं इहा वाहनमुच्यते | उक्तञ्च - सर्वत्र व्यापिनं शान्तं देवं देवं सदाशिवम् | अभिमुखीकरणं यच्च तदा वाहनमुच्यते || पूजा परिसमाप्तां तु विमुखं तद्विसर्जनम् || इति | प्. १०९) ननु सर्वगतस्य सर्वत्र सन्निहितत्वात् इदमपि विरुद्धम् | नैवम् | तथा विधसन्निधानेन प्रयोजनाभावादिह पूज्यपूजकभावा विरुद्ध साधक श्रद्धानुरूपमनुग्राह्यानुग्राहक सम्बन्धलक्षण सन्निधानमावाहनम् | तच्च वाच्यवाचकोरभेदाद्वाचकस्य मन्त्रस्य विशेष विन्यासाद्वाच्यस्थापि शिवस्य विशिष्टा सन्निधिर्भविष्यतीति न बाध्यते | उक्तञ्च -
SKआमूलाग्रस्थितस्याग्नेरभि व्यक्तिर्यथा तरौ | तद्वदेकत्र चिद्व्यक्तिर्व्यापकाय न बाधते || तथा - यथा काष्ठगतो वह्निः व्यज्यते मथनादिभिः | तथा मन्त्रप्रभावेण भक्त्याऽभिव्यज्यते शिवः || इति || तथा कुण्डगतस्याग्नेः वायुना ज्वलनं भवेत् | तथात्र लिङ्गमन्त्रेण व्यज्यते भगवामपि || इति || नन्वेवं चेदा वाहनादिभिः क्रियाभिः किं प्रयोजनम् | सत्यम् | ताश्च क्रियानिष्ठानां चित्तस्थैर्यार्थं मुद्रिताः | तथा श्रीमन्निश्वासकारिकायतम् - सर्वगोऽपीति भगवान् न च देहे न पूज्यते | लिङ्गे च वा शुभेऽन्यम सम्पूज्यो भगवान् शिवः || आवाहनम् - अनुध्यानं मनोनृत्या निरोधनां शिवेनसह संयोगं चिन्तयेन्मनसाधिया | अर्चयेत्सकलं देयं जपेत्सकल निष्कलम् | प्. ११०) ध्यायेज्ज्योतिर्मयं सूक्ष्मं कलाभिन्नं तु तर्पयेत् | व्योम्नि स्फटिक शुद्धाभं जरामृत्युविनाशनम् || मनसा मोक्षसिध्यर्थं निष्कलं तं लयं स्मरेत् | स्नानेन निर्मलो मन्त्री जपेत्सिद्धिं हुताशनः | पूजया सन्निधौ देवौ होमकाले फलप्रदः || ध्यानेन सर्वगत्वं च योगायोगमानङ्गुल? | व्रतेन * * *?द्दीक्षया मुक्तिरिष्यते || आवाहानं स्थापनञ्च सान्निध्यं सन्निरोधनम् | विधौ हय कालि कलानि कर्मणां कथितानि तु || न चैव वाह्यते कैश्चित्तच्च कैश्चिन्निवेश्यते | निरुध्यते न देवेश सन्निधी क्रियते न च || व्यापकं मन्त्ररूपेण चिन्तयेत् परमं शिवम् || तदा वाहनमित्युक्तं क्षमस्वेति विवर्जनम् || इति ||
SKतत्रावाहनमिति | आवाह्यतेऽनेनेत्यावाहनम् | मनोव्यापारः स च निरति शय? श्रद्धा विशेषतः | तेन सहाभिधानं मन्त्र पदेन संबोधनम् | अभिमुखीकरणमावाहनम् | अद्य भगवान् अनवरतकरुणामृतं तपोनिधिः मन्त्रानुग्रहार्थमस्त इति भवनस्थापनं मनसो निश्चलता | अथ सन्निधी अनुग्राह्यानुग्राहक लक्षणः सम्बन्धः प्र * * * भिमुखीभावः | अथ भगवन्मयी सततमनुग्रहपरो भवेति प्रार्थना | निरोधानां सतां गुणोऽयं यतस्मन्तः प्रार्थनानुरूपं विधायिन प्. १११) इति पुनरपरिपक्वाक्षशमानां शिवत्व व्यक्तिरिति रोधनां अवकुण्ठनम् | ननु भवतु वामैवमस्तिकम् | किन्तु शिवस्य हृदयादि स्थान प्रकल्पनात् पुनरपि देह शङ्गा न विरस्थने? चेन्नैवं वाच्यम् | हृदादि स्थान साधार्यादुपचारादयमिष्यते | उक्तञ्च - मतं ज्ञानमभिप्रायं हृदयं सोऽथ वाचकम् | ज्ञान ज्योतिर्मयत्वाच्च चिच्छक्तिं हृदयं मतम् || अणिमादि गुणानीकं सर्वोत्कृष्ट पदात्मकम् | तच्छिरस्समदेशत्वाच्छिरो वाच यव स्ननोः? || विश्वशान्तिकरी शक्तिराज्ञा वै पारमेश्वरी | अनन्याधीनतः शम्भोः सा शिखावच्छित्वामता || प्रभा मण्डलमीशस्य तेजोराशि घनात्मकम् | अप्रतीहत रूपं तत्तनु त्राणं न चेतरत् || प्रातपो दुःसहः शैव सर्वदुष्ट विदारकः | शास्त्र वत्स च विज्ञेयः शस्त्रमव्यक्ता शङ्करे || इति || अवाहिन्यादिभिरावाहवने | शिवस्ततस्तासां लक्षणमपि लिख्यते - अङ्गुष्ठा क्रान्तस्रुक्पूर्णा मन्त्रेणा कुञ्चिताङ्गुलिः | आवाहनेऽञ्जलि मुद्रास्तथा पात्रोप्यकुञ्चिता || उद्धृताङ्गुष्ठके मुष्टिः पुष्पगर्भैः सुसङ्गते | लिङ्गमुद्रा तथा शम्भुः सन्निधानो हृदा भवेत् || निष्ठुराङ्गुष्ठ गर्भिण्योमुष्टि सर्वात्म कल्पिते | प्. ११२) सन्निरोधस्तथा कार्यो विभोरत्या विसर्जनान् | अनामा मतृय? पर्वस्थ ज्येष्ठाग्र द्रव्यतामता || उत्थानमुष्ठि संयोगादङ्गुष्ठद्वय रेचनात् | पुष्पस्यास्त्रेण सा ख्याता विघ्नानि कालकण्ठिका ||
SKउद्धृताङ्गुष्ठकामाभिः कामङ्गुष्ठाञ्च गर्भिणी | सव्यमामङ्गुलीमुप्ता लिङ्गमुद्रा शिवप्रिया || मध्यमा तर्जनीयोगात्कन्यानामग्रयोगतः | अन्योन्यान्तरिताङ्गुल्यो धेनुमुद्राद्विहस्तयोः || महामुद्रा च सा ज्ञेया अङ्गुलि प्रसृताञ्जलिः || इति || ननु नठी वदन्यो नमाङ्गुली सन्दर्भ विवकृ?करणारूपा किमिति क्रियते | नैवम् | मुद्रा रूपापि शिवशक्तिरेवेति | उक्तञ्च - मोचयत्यखिलान् बन्धाञ्चैवम् द्रावयते भृतम् | मोचनाद्द्रावणाच्चैषा शक्तिमुद्रेति गीयते || इति || अथ सुस्वागतं ते भगवानिति विख्यात? सुस्वागतं वत्स इति शिवेनोक्तं विचिन्तयेत् | उक्तञ्च - आवाहनं स्थापनं च सान्निध्यं सन्निरोधनम् | स्वागतं सुप्रसादं च भावयित्वा क्रमेण तु || इति || अथ हस्ताभ्यामस्त्र वर्धनीमुत्थाप्य ॐ हां हौं शिवाय पाद्यं नम इति पादयोर्भावयन्? पतग्रहे तथा आचमनं स्वधेति पूर्वयाम्य सौम्य पश्चिमोर्द्ध्ववदनेषु | अथ विशेषार्घ्य पात्रं य- प्. ११३) समुत्थाप्योपरिकरन्न भ्रामयन्नङ्गुष्ठानामिका मध्यमाङ्गुल्यग्रेणोत्तान मुखेनार्घ्यं स्वाहेति ईशानादि पञ्चसु पुष्पं वौषडिति दूर्वा पुष्पाक्षतादिकं दद्यात् | उक्तञ्च - पाद्यमाचमनं चार्घ्यं दूर्वा पुष्पाक्षतादिकम् | सुस्वागतक्रियापूर्वं विकल्पेन कल्पयेत् ||? पादयोः खङ्गवर्धन्योः पाद्यमाचमनं तथा | विकसन्मुखपद्मेषु सव्यासव्यं निवेदयेत् || समुत्क्षिप्य विशेषार्घ्यं जननं संमुखं विभो | निवेदयेत्सुकुसुममर्घ्यं पञ्चसु मूर्धसु || इति || यद्वा | पाद्यादिकं विशेषार्घ्य जलेन वादयेत् |? तथा चार्यैर्घ्यातव्यं सकलोपाधि विग्रहं मुखं शिवम् | परमामृतनिष्यन्द धवनीकृतदिङ्मुखम् || समुत्क्षिप्य विशेषार्घ्य भाजानं वामपाणिना || पद्भ्यां निवेदयेत्पूर्वं दक्षिणहस्तेन संमुखम् | मुखेष्वा चमनं तद्वदर्घ्यं पञ्चसु मूर्धसु || दूर्व पुष्पाक्षतादिकं पश्चाल्लोकोपचारकः | नमस्कारः स्वधास्वाहा वौषड्ज्ञातियुता हृदा || चतुष्टयमिदं तत्र परिपाठ्या निवेदयेत् || इति ||
SKननु भगवतः पाद्यादिभिः किं प्रयोजनम् | स्वभावशुद्धत्वात् | हेयोपादेय विलोचनेन पदे शैवेधाम्नि स्वस्यार्हत्वापादनं प्. ११४) पाद्यम् | अत एव हि तत्र मनः प्रयुज्यते | नम इति | तेन शिवञ्च प्रासादाभिमुखं करोति | चमधातोरादानार्थत्वाद्दनमासमन्ताच्छिव रसास्वादनमाचनम् शिवसमरसीभावः | अत एवात्र स्वधा शब्द्दः प्रयुज्यते | स्वधा स्वस्मिन् परमाह्लादनं धत्ते | स्वधा तृप्ति प्रीति तान भिवादनेष्ठीत्यर्थत्वात् | अतः परमुत्तमाङ्गं परां स स्थानमर्हतीत्यर्घ्यस्योपादानात्मनः सिवत्व व्यक्ति सम्पादनम् | अत एवात्र स्वधा जातिः प्रयुज्यते | व्यज्यन्ते सर्वज्ञतादयो गुणा इति | ननु स्वधा सम्प्रदानार्थं स्वाहाशब्दः स कथमात्मगुणस्येत्यर्थः स्यात् | सत्यम् | किन्तु तत्तद्देवताराधनफलमभीष्टमात्मनः एवो पार्ज्यते इत्यदोषः | एवं शिवत्व व्यक्तौ सत्यां यत्पूर्वं हेयो पादेय विवेचकं ज्ञानं तत्पुष्पमिव पुष्पं शिवत्व फल निबन्धनम् | तस्य समर्पणं नाशम् फलरूपेण परिपाकः | अत एवात्र वौषड्जातिः प्रयुज्यते | विपूर्वेष च संवायामिति धातौ वौषडिति निप्तना सिद्धम् | यतस्तत एव शिवसमवायित्वं प्रसूनार्पणमिति | ननु श्रषसे वौषट् च सम्प्रदानार्थोऽयं वौषट् शब्दः कथं समवायार्थो भवितु मर्हतीति | सत्यम् किन्तु दानेनापि पूज्यपूजकयो अनुग्राह्यानुग्राहक लक्षण सम्बन्ध विवक्षया समवायान्त भावान्तरङ्गो लक्ष्यत इति न दोषः | किञ्च तदा वौषड्जातिर्वा प्रयोक्त्व्या | वषव वौषट् पूजादानयोरिति द्वयोरेकार्थत्वात् | इत्थमावाहन प्. ११५) स्थापन सन्निधान सन्निरोधावकुण्ठन सकलीकरणपाद्याचमनीयार्घ्य पुष्पप्रदानान्त दशविधोपाचारान् कृत्वा धूपा चमनं दत्वा स्नानार्थं प्रार्थयेत् | उक्तञ्च - आवाहनं स्थापनं च सान्निध्यं सन्निरोधनम् | सकलीकारमेकत्वं वामकुण्ठनपूर्वकम् | पाद्यमाचमनं चार्घ्यं * * * * भिःसंस्कृत्यशङ्करम् || धूपमाचमनं दत्वा सम्प्रार्थ्य स्नापयेच्छिवम् || इति ||
SKननु पुष्प प्रदानादिकमपि संस्कारान्तर मुक्तम् | तत्कथं दशैवेति नियमः | सत्यम् किन्तुप्रधानभूता एते दशसंस्कारा एव | तदङ्ग भूता अन्य इति | तेन तु पृथगुपपाद्यते | ततः पुष्पादिकमपनीय नमोन्तमूलेन सुगन्धतैलादिभिरभ्यर्च्य शङ्खकाहलभेर्यादि निस्वनैः मङ्गलगीतोपेतदूर्वाकुशाक्षत मारोप्य धूपं दत्वा सकर्पूर चन्दन यव चूर्णादिभिर्नमोन्तास्त्रेणोद्वर्त्य नमोन्त कवचेन राजिका लवणकार्पास बीजकाञ्चिलोदनानि निर्मच्य ॐ हां शिव उत्तिष्ठ स्नानार्थमिति विज्ञाप्योत्तिष्ठन्तं शिवं विभाव्य स्वाहान्तमूलेन सुगन्धिना सुखोष्णतोयेन संस्नाप्य यथेष्ठं पञ्चामृतादिभिः सवाहान्तैः षडङ्गैर्ब्रह्मभिश्च स्तोत्र मन्त्रैरपि हृदा च स्नापयेत् || उक्तञ्च - इत्थं स्नानं ततः कार्यं गन्धतैलामलादिभिः | उद्वर्त्य यवचूर्णेन ततः स्नानं समाचरेत् || प्. ११६) पयसा स्नापयेद्दघ्ना घृतेनमधुना ततः | खण्ड शर्करया पश्चात्फल पुष्परसैस्ततः || स्नानं हृदा प्रकर्तव्यं प्रत्येकान्तरवारिणा | पुष्पाक्ष्यर्घ्य धूपयुक्तेन सर्वगन्धाम्बुपश्चिमम् || शतमष्टोत्तरं नेयं गस्सुकानां क्रमेण तु | वामहस्ततले कृत्वा गड्डुकं लिङ्गमस्तकात् || तथा - सहस्र सुषिरैः कुम्भैर्हेमरूप्यादि निर्मितैः | पूजयेद्गन्धतोयैश्च स्नापयित्वा च मेच्छिवम् || इति | शुद्धमृदुवाससा कवचेन संमार्ज्यार्घ्यं दत्वा मूलेन सुगन्धद्रव्यैर्दक्षिण करेण विलिप्य पुष्पं दत्वा वस्त्रादिभिः पूजां रचयेत् | उभाभ्यां वामेन केवलं वा हस्ते स्पृशेत् | उक्तञ्च - विशुद्धसूक्ष्मवस्त्रेण संमार्ज्याश्च निवेद्य च | चन्दनागरु कर्पूर कुंकुमादि विलेपनम् | कुर्याद्दक्षिणहस्तेन द्वाभ्यां वामेन केवलम् || वामहस्तेन द्वाभ्यां वा * * * नैव वामतः ||? लिङ्गमूर्ध्नि करं दद्यान्नैव न भ्रामयेत्परि | अर्घ्यं पुष्पं सधूपञ्च वस्त्रमाभरणानि च || पुष्पैर्नानाविधैः पूजां रेचयेद्ग्रथितैः शुभैः || इति || तथा |
SKन वामेन स्पृशेल्लिङ्गं न कार्यं शून्यमस्तकम् | वाससा मृदु शुद्धेन विधेयं शिवमार्जनम् || प्. ११७) नीलकण्ठं कुंकुमेनैव शशिग्रन्थ्याविलेपयेत् | इति | अलाभे द्रव्यजातानां मानसं वा प्रकल्पयेत् || तदुक्तञ्च - शुक्लं हेमं सुगन्धं च सरक्तं फल युग्मकम् | कारकं कणहाराद्यैः नानारत्नैर्विभूषयेत् || फलालाभे मानसी तु दातव्या द्रव्यरूपिणी || अथ रूपा च मनारात्रिक नीराजनादाचमनादनन्तरं आज्ञां प्रार्थ्य भोगाङ्गानि प्रपूजयेत् || तद्यथा - नमोन्त मूलमन्त्रेण गन्धं पुष्पञ्च वाससम् | भूषणं हेमरत्नादि दत्वा नत्वा पुनः पुनः || ददेच्छम्भोस्ततो धूपं दीपं स्वाहान्त मूलतः | आचमनन्तु तथा पूर्वं हेतिना रात्रिकपूजनम् || द्रव्यवत् तत्सुसंस्कारं स्वाहान्त कवचाणुना | उत्थार्य तत्पुनः शम्भोः पुष्पतोयेन वेष्टनम् | हेतिना हुं फडन्तेन छत्रचामरदर्पणम् || नमोन्तमूलमन्त्रेण गीत वादित्र नृत्तकम् | ददेद्वित्तानुसारेण तत्र लभ्यन्तु मानसम् || इति || तथा - निर्धूमज्वलदङ्गार पूर्णपात्रोदरे भृशम् | दह्यमानेन धूपेन धूपयेत्तदनन्तरम् || सुरूपां स्थिरनिर्घोषां घण्टां वामेन पाणिना | वादयन् सर्वदा धूपमुत्क्षिप्ते तत्र चोदिता || इति || प्. ११८) तथा - आरात्रिकं जवलद्दीपैः प्रभूतैः स्नेहपूरितैः | सत्पात्रान्निहितैस्तैस्तैः दधिपूर्वाक्षतार्चितैः || त्रीन् वारान्तमनुभ्राम्य शीताम्बु चुलुकत्रयम् || इति || तथोक्तञ्च - दीपमालादिभिः शोभां पुष्पप्रकरसंयुताम् | धूपमामोद संयुक्तं कृत्वा सन्धूपयेद्भृशम् || पञ्चसप्तनवेन्द्रादि वर्तिभिर्घृतदीपिकाम् | आरात्रिकान् समुत्यार्थ गीतवाद्यादि मङ्गलैः || हेमरूप्यादिपात्रस्थैः शङ्कस्थैर्वा सुगन्धिभिः | जलैस्त्रिवारमावेष्ट्य दद्यादाचमनं हृदा | छत्रचामरदानं च दर्पणं गीत नृत्तनम् | ध्यात्वा देवं सुसन्तुष्टं अपारकरुणानिधिम् | ईशादादेशमासाद्य भोगाङ्गानिप्रपूजयेत् ||
SKॐ हां हौं शिवायनम इति शिवं सम्पूज्य ततः ॐ हां हृदयाय नम इति शिवस्य हृदयमङ्कुश मुद्रया कृष्य श्वेतवर्णमाग्नेय्यां पूजयेत् | ॐ हां हौं शिवाय नम इति शिवं सम्पूज्य ततः ॐ हां हृदयाय नम इति शिवस्य हृदयमङ्कुश मुद्रया कृष्य श्वेतवर्णमाग्नेय्यां पूजयेत् | ॐ हां हौं शिवाय नम इति शिवं सम्पूज्य ततः ॐ हां हृदयाय नम इति शिवस्य हृदयाद्धृदयमुङ्कुश मुद्रया कृष्य श्वेतवर्णमाग्नेय्यां पूजयेत् | ॐ हीं शिरसे नम इति पञ्चभ्यः शिरोभ्यः शिरोमन्त्रं पीतवर्णमीशाने | ॐ हूं शिखायै नमः इति पञ्चभ्यो मौलिभ्योरक्त वर्णांशिखामाकृष्य | नैर्-ऋते ॐ हीं क हैं कवचाय नम इति सर्वाङ्गात्कवचं कृष्णमाकृष्या वायौ ॐ हः अस्त्राय नम इति दश प्. ११९) हस्तेभ्योऽग्नि वर्णमस्त्रं पूर्वादि चतुर्दलेषु प्रपूजयेत् | तथा - विद्यादेहात्समुत्पन्नामङ्गजातं विचिन्तयेत् | हृदयं वह्निपत्रस्थं गोक्षीरधवलं शुभम् || शिरः पीतं युवाकारं यजेदीशदने स्थितम् || शिखां सिन्दूरवर्णाभां कुचभारानतां शुभाम् | यजेन्नैर्-ऋतपत्रस्थां नानारत्नविभूषणाम् || दंष्ट्रा करालवदनं भीमं पीनं भ्रमरभासुरम् || यजेद्वायव्यपत्रस्थं स्वस्वमन्त्रैरनुक्रमात् | चतुर्दिक्षु यजेदस्त्रं रत्नदेहं सुभीषणम् || अङ्गान्येतानि सर्वाणि दिव्यभूतयुतानि च | एकास्यानि त्रिणे त्राणि वराभयकराणि च || भोगाङ्गैः सहसन्तुष्टं यजेद्देवं सदाशिवम् || इति || क्वचित्प्रोक्ताश्चतुर्वक्त्राः चतुर्हस्ताः हृदादयः | उभयत्रसमंप्रोक्ताः * * * * शूलवराभयाः || यदुक्तमन्यत्र - दक्षजानु समीपस्था हृदयं वह्निपात्रकम् | वामजानुसमीपस्थामीशाने तु शिरो न्यसेत् || दक्षांसनिकटे चूडां वर्मवामांस सन्निधौ | पूर्वादिदिक्षु चत्वारि भीमान्यस्त्रणि विन्यसेत् || ननु हृदयादीनामाग्नेयादि दिक्संस्थ दक्ष जान्वादि समीपावस्थानं कथमिह प्रोक्तम् | पश्चिमानन प्रसादे व्यभिचारसंभवात् | प्. १२०)
SKनैवम् | तत्राप्येवमेवा वस्थानमशेषाणामङ्गानां शिवस्यसर्वदा पूर्वाभिमुखत्वादिति | यदा कथञ्चित् पश्चिमाभिमुख प्रसादो भवति तदा तत्र भगवतः शिवभट्टारकस्य पञ्चार्घ्य निधनस्थानमन्त्रा पूर्वमेवा गमोपात्त वचनैरुक्तम् | इदानीमपि तथैव स्यात् | अत्र भोगाङ्गस्थ हृदयाद्यङ्गानामावाहनादि विधिरत्नाग्रे पञ्चावरणपूजायां सकल प्रासाद विषये वक्ष्यमाणविधानो ज्ञातव्यः || एवं निष्कल प्रासाद विषयमर्चनमेकावरणं युक्तमुक्तम् | अथ सकल प्रासादविषयमविप्येकावरणमुच्यते - ननु मातृकाक्षरनिष्ठोऽयं मन्त्रः सकलो निष्कलश्चेति | अथ सकल वाचकस्सकल निष्कल वाचको निष्कल इति चेत् तदयुक्तम् | सकल निष्कलं दविष्ठं योऽत्रवेत्ति सदाशिवमित्यादि पूर्वोक्ते नैवम् | अत्र सकल निष्कलत्वं वर्णविभेदमात्रं विवक्षितमिति | उक्तञ्च - विश्वरूपं परंबीजं विश्वात्मप्रभुरव्ययः | शिवस्य वाचको ज्ञेयः विश्वमावृत्य तिष्ठति || तस्माद्वैवाङ्मयं सर्वं योगिभिस्तदुपास्यते | विश्वरूपं महाबीजं द्वादशस्वरसंयुतम् || कृत्वैकादशबीजानि बिन्दुयुक्तानि नापरम् | प्रणवादि नमोन्तानि लघुबीजानि * * * * | सद्योजातादि वक्त्राणि पूजाकाले प्रकल्पयेत् || हृदाद्यङ्गानिदीर्घाणि सविसर्गाणि षट्क्रमात् | प्. १२१) नमः स्वाहा तथा वौषट् हुं वौषडयुतानि च | प्रणवादीनि योज्यानि सर्वकर्मकराणि च || बिन्दुयुक्तं तु तद्बीजं तत्रमात्रात्रयं न्यसेत् | अथ षष्ठारं न्यस्त्वामकारं मूर्ध्नि योजयेत् ||? बिन्दुवृत्तस्तदूर्ध्वं स्यादर्धचन्द्रोर्ध चन्द्रवत् | दण्डाकारस्ततो नादो बिन्दुद्वितय मध्यतः || ततस्त्रि कुटिलाशक्तिः नादान्तं विश्वरूपकम् | इत्येवं सकलः प्रोक्तः निष्कलं शृणु सांप्रतम् || एक दैवं महाबीजमूकार विलयोर्जितम् | ततो निष्कलमित्युक्तं पञ्चाङ्गेन समायुतम् || अत्राङ्गानि नमोन्तानि प्रणवादीनि च तानि च | हुं फडन्तं भवेदस्त्रं नेत्रमन्त्रं न विद्यते || एकावरणमेवोक्तं नित्ये नैमित्तिके जने || इति |
SKननु सर्वत्र सकल प्रासादस्य पञ्चावरणमर्थनं श्रूयते | तत्रंकावरणमिति | सत्यम् | क्वचिन्नित्यं नैमित्तिकञ्च पञ्चावरणमेवोक्तम् | क्वचित्पुनरेकोपणन्नित्यं पञ्चावरणं नैमित्तिकम् इत्युक्तम् | अतस्तद्व्यक्त्यर्थं मिदमिहकीर्तितम् | तदुक्तञ्च षट्सहस्रिके - सूर्यमात्रासमाक्रान्तं विश्वरूपं प्रकल्पयेत् | अंशुमत्संयुतं कृत्वा शशिबीजंस्युरनासुतम् || प्. १२२) सकलस्य प्रवक्ष्यामि मन्त्रोद्धारं यदास्थितम् | ईशानमोजसाक्रान्तं प्रथमं तु समुत्सरेत् || तृतीयं पुरुषं विद्धि दक्षिणं पञ्चमं तथा | सप्तमं वामदेवं तु सद्योजातं ततः परम् || रसयुक्तं तु नवमं पञ्चब्रह्मप्रकीर्तिताः | ॐकारादीपितामन्त्रा नमस्कारान्त संयुताः || सद्योजातस्य द्वितयं हृदयञ्चांशुनाङ्कितम् | चतुर्थं तु शिरोविद्धि ईश्वरं नामनामतः || प्रौक हस्त शिवा ज्ञेया विश्वरूप समन्विता | तनुत्रमष्टमं ख्यातं नेत्रं तु दशमं मतम् | अस्त्रं शशि समाख्यातं शिवसंज्ञं शिखिध्वजः | नमः स्वाहा स्वधा वौषट् हुं वषट् फट्क्रमेण तु || जातिषट्कं हृदादीनां क्रमेण विनियोजयेत् | ॐकार दीपितामन्त्रा जातियुक्ताः फलप्रदाः || एवं ब्रह्माणि चाङ्गानि कथितानि मया तव | शिवमन्त्रमथो वक्ष्ये प्रासादं नामनामतः || ईशानाद्रुद्र संख्यन्तु प्रोद्धच्चांशु संज्ञितम् | औषधाक्रान्त शिशिरमूहकस्योपरिस्थितम् | अर्धचन्द्रं च नादं च बिन्दुद्वितयमध्यगम् | तदन्तं विश्वरूपं यत् कुटिलं तत्त्रिधामता || प्.१२३) एवं प्रासाद मन्त्रोऽयं देवदेवेन भावितः | इत्येकावरणः ख्यातः सकलो भुक्तिमुक्तिदः || लोकपालास्त्रसंयुक्तं दीक्षाकाले शिवं यजेत् | ॐकारादि नमोन्तं तु लोकेशास्त्रं प्रकल्पयेत् || शिखाबीजं समुद्धृत्य फट्कारन्तु ततः फडम् | अर्धचन्द्राससंज्ञेयं कामदेवं सतर्षकम् | महापाशुपतास्त्रं तन्न शरीरे नियोजयेत् || सद्योजातं मूर्ति मन्त्रं प्रासादस्य प्रकल्पयेत् | प्रासादः सकलः प्रोक्तो निष्कलः कथ्यतेऽधुना ||
SKऔषधं विश्वरूपं तु रुद्राख्यं सूर्यमण्डलम् | चन्द्रार्थ नादसंयोगं विसजृं कुटिलं तथा || निष्कलं परमं मन्त्रं शिवं साक्षात्सदा शिवम् | भुक्तिमुक्ति प्रदंपुंसां पञ्चाङ्गं सहितं विभुम् | सांशुमान्विश्वरूपं तु सेश्वरः शिर उच्यते || षष्ठमेवं शिखाज्ञेया तनुत्रं चाष्टमं भवेत् | शशिना विश्वरूपं तु फडन्तमस्त्रमुच्चरेत् | प्रणवादि नमोन्तानि शिवाङ्गानि प्रकल्पयेत् | एता वरणमेतत्तु सर्वकामार्थसाधनम् || इति || ननु मूर्ति मन्त्रो निष्कलो हृदयः प्रोक्तः | तत्कथं सद्योजातेन मूर्तिं कल्पयेदिति पूर्वमुदाहृतम् | किन्तु पक्षान्तरमस्तीत्यदोषः | प्. १२४) उक्तञ्च सद्योजातेन मूर्तिः स्यादथवा हृदयेन तु | इति | ननु मुखे सति गौणेन किं कार्यमत्र निष्कलस्यैवाभि हि तत्वात् | सत्यम् | किञ्चात्र सकल निष्कलार्चनप्रतिपादन परत्वादुभय पक्षे ह्युभयमपि मूर्तित्वेन प्रतिपादितमिति गौण मुख्यविवक्षा नात्र क्रियते | क्वचित्सकल प्रासादोऽपि अङ्गान्यपि नमोन्तानीति | उक्तञ्च सर्वज्ञानोत्तरे - सर्वे बिन्दुसमायुक्ता शुद्धकुन्देन्दु सप्रभाः | ॐकार दीपिका मन्त्रा नमस्कारान्त योजिताः || अर्चने संप्रयोक्तव्या होमे स्वाहान्त योजिताः | न बिन्दुर्न शिखामन्त्रा स्वत्रवर्गस्य षण्मुख || सविष्कंकाः सदादीप्ताः घोरकर्मार्कन्नः स्मृताः || इति | अंशकेन विनामन्त्ररः निष्फलादुःखदा नृणाम् || इति वचनादङ्गहीनोऽयं मन्त्रः कथमुपासनीयो भवतीति न वाच्यम् | अस्य मन्त्रस्यांशका भावात् | उक्तञ्च - प्रासाद प्रवणाभ्यां तु माया वर्णस्य सण्मुख | नवात्माघोर देवाभ्यां नांशकं परिकल्पयेत् || सर्वानुग्राह्यका ह्येते मन्त्रराजेश्वरा मताः | सर्वार्थाः सर्वकार्येषु नाशयन्तेन कल्पयेत् || इति || ध्यायेत् सदा शिवं नित्यं प्राङ्मुखेशस्य वक्षसम् | शिवः पूर्वाननो लक्ष्मी प्रत्यःप्रत्यः कलातनुः || इति | प्.१२५) तथा - प्रतीच्यां च यदाद्वारं तत्रेशः पुरुषः स्मरेत् | सद्योजातं भवेत्प्राच्यां घोरं वामं च पूर्ववत् ||
SKभोगाङ्गानि यथा पूर्वं साधकश्चोत्तराननः | नैवेद्य दीपमालादि द्वारदेशे निवेशयेत् || ईशानाख्यं सदा कार्यं मूलद्वारावलोकनम् | सदा पूर्वाननं स्थाप्यं स्थाप्यं वा पश्चिमाननम् || इति || अत्र पूज्यमानस्य सदाशिवस्य भट्टारकस्य शुद्धस्फटिकवन्निर्मलत्व भावाच्च ततः परं ज्योतिर्मयं मूर्तिमन्त्रकल्पित व्यक्त मूर्तौ दण्डभङ्ग्या स्थित पञ्चब्रह्ममन्त्राणां सितवर्णमयत्वाच्च परावाहन रूपेण संपिडित शुद्धस्फटिकनिभ द्वादशान्त शिवस्पर्श निष्कल शिवमन्त्र विन्यस्तव्यापक परमनिष्कल शिवस्य निर्मलत्वाच्च सकलीकरणानन्तरं परमीकरणरूपेण सर्वाङ्ग व्यापक विन्यस्तपरतेजोरूपमयत्वाच्चामृत वार्षिण मूलमन्त्रेण धेनु मुद्रया मृतीकृतत्वाच्च सदा शिवभट्टारकस्य यान्यस्य याजकस्यापि परमशिववच्छुद्धस्फटिकवन्निर्मलत्वं सिद्धमेवेत्युक्तं भवति | तथा तद्वक्त्राणामपि परमार्थतः स्फटिकवन्निर्मलत्वमेव स्यात् | ईशानस्य स्फटिकनिभस्य व्योम * * * * स्त्य * * * * इतर वक्त्राणामपि तथा स्यात् किन्तु पूर्वादि महाशाश्रितेन्द्रादि कुबेरान्तायैशाकनां कुङ्कुमासितसितमन्त्रण वर्णानां तेषां कुङ्कुमादि वर्णस्थिरत्वार्थं शिवभट्टारकोऽपि तत्पुरुषादिभिश्च सदाकल प्रसादमन्त्रेण शिवस्यपूजां करोति | प्. १२६) साधकस्तथापि तद्ब्रह्माङ्गोपेतं यथा विधि तथोक्तेन प्रकारेण शिवं लयाङ्ग पर्यन्त सम्पूज्य देवचतुः सङ्ख्या आं हां भगवन्नाज्ञां देहि भोगाङ्गानि पूजयामीति विज्ञाप्य मूलं ब्रह्माङ्गैः शिवमभ्यर्च्य पञ्चावरण पक्षेऽपि शिवदेहात्क्रमादीशानादि मन्त्रान् स्वस्वस्थानात् स्वस्वमन्त्रेणाङ्कुश मुद्रयास्य - ईशानमीशपात्रेषु पूर्वपात्रे नरं यजेत् | अघोरं दक्षिणेपात्रे वामदेवं तथोत्तरे || अजातं पश्चिमे पात्रे हृदयं वह्निपात्रकम् | ईशानपात्रेशिरश्चूडा नैर्-ऋते वायवे शिवम् || नेत्रमग्रे चतुर्दिक्षु हेतिराजञ्च भीषणम् | सितत्तालं सुकृष्णञ्च रक्तं श्वेतमनुक्रमात् ||
SKश्वेतपीतारुणानील रक्तवर्णसमप्रभान् | एक वक्त्रां स्त्रिणेत्रांश्च शैव ज्ञानावतारकान् || पूर्वादितस्त्वनन्तेशं सूक्ष्मं चाथ शिवोत्तमम् | एकनेत्रैरुरुद्रौ च मूर्तिञ्चा * * * * परां शिवाम् || श्रीखण्डाख्यं शिखंडीशं पत्रे पत्रे प्रपूजयेत् || तृतीयावरणेपद्मे गणेशानां स्थितं क्रमात् | नन्दीश्वरी गणाध्यक्षः महाकालश्च भृङ्गिराट् || वृषभः कार्तिकेयश्च पार्वती चण्डनायकः | पद्मरागसमप्रख्या यद्वागोक्षीर सप्रभा || प्. १२७) त्रिशूलं वरदं दक्षे वामे मालाभयान्विताः | चतुर्थावरणे पूज्या लोकपालाः स्वदिक्क्रमात् || इन्द्राग्नियम रक्षोम्बु वायुयक्ष महेश्वराः | ईशाने नैर्-ऋतेपूज्यौ ब्रह्मा विष्णुश्च वामतः || पञ्चमे लोकपालास्त्रं चक्रादिक्रमतोऽर्चयेत् || इन्द्रादिलोकपालानां तदस्त्राणां यथाक्रमम् | वक्ष्यमाणविधानेन ध्यानं कार्यं विचक्षणैः || मण्डलेरचिते तत्र नैमित्तिकमिदं मतम् | एकावरणमेवोक्तं नित्यं सर्वफलप्रदम् || तच्च षट्सहस्रे यथा - निर्वर्त्यैवं विभोः पूजामीशानञ्चैशकोणकम् | गोक्षीरधवलं ध्यात्वा पूजयेत्कुसुमादिभिः || कर्णिकार दलप्रख्यं प्रग्दले पुरुषं न्यसेत् | अघोरं दक्षिणस्यां तु भिन्नाञ्जन यथोपमम् || डाडिमी पुष्पसंकाशं वामदेवं सदोत्तरे | पश्चिमस्यामजातं तु शङ्खकुन्देन्दु सप्रभम् || आग्नेय्यां हृदयं पूज्य मुक्ताफलसमद्युति | स्वच्छ वैडूर्यसङ्काशमैशान्यां तु शिरोहितम् || शिखां तु नैर्-ऋते भागे तटिद्रूपसमप्रभाम् | कृष्णवर्णं तु कवचं वायव्यादि * * * * * * | नेत्रं तु पूर्वतोध्येयं सोमसूर्याग्नि सप्रभम् || दलाग्रेषु न्यसेदस्यं ज्वलत्पावक सन्निभम् | प्. १२८) एव्ं वक्त्राणिचाङ्गानि भोगस्थानेषु विन्यसेत् | प्रतिबिम्बस्वरूपाणि इन्द्रको विभवद्य * * * | अनन्दाग्रां दलाग्रेषु विद्येशांस्तत्र पूजयेत् || पीठकर्णे गणेशांस्तु लोकेशान पीठपादतः || तदास्त्रा स्थिति देशे तु स्थिते ब्रह्मशिलोपरि | एवं स्वव्याप्ति भेदेन विभोरावरणं न्यसेत् || इति || सर्वज्ञानोत्तरे -
SKत्रयोदशान्त संभिन्नं विद्येशानं प्रकल्पयेत् | गणेश्वराणां गायत्री तस्मिन् सान्निध्यगां यजेत् || हृदयं लोकपालानां विज्ञेयं सर्वकामिकम् | अस्त्रं पाशुपतं दीप्तमस्त्रमन्त्रं प्रकल्पयेत् || इति मन्त्र विधौ तेषां पूजार्थं संप्रदर्शितम् | यद्वा हृदयमन्त्रं तु सर्वेषां परिकल्पयेत् || शास्त्रे शास्त्रेऽन्यथा प्रोक्तमेतन्मुख्यमिहोदितम् || इति नानागमवचनानि एकत्राकलत्त्य त्रिखितानि | अथ राजोपचारवदियमावृतिरपि शिवस्य ततस्तदावरणदेवा नामपि शिववदावाहन स्थापन सन्निधान सन्निरोधपाद्या चमनार्घ्य पुष्पदानान्तं संस्काराष्टकं विधाय पश्चाद्गन्ध पुष्पधूपदीपा चमनारात्रिकादीनामनन्तरं वक्ष्यमाणविधानेन नैवेद्य पानीयाचमनाअदिकञ्च दत्वा शिवे मूलेन पुष्पमारोप्य परमीकृत्वा धेनु मुद्रां महामुद्रां च प्रदर्शयेत् | अत्रावृति देवानां प्. १२९) शिवतेजसा हि भवनं परमीकरणम् | परमीकरणानन्तरं वा आवृति देवानां पाद्यादिकं दद्यात् | अत्र भेगाङ्गमर्चनमात्मनः शिवगुण प्राप्ति निमित्तम् | पुनः प्रभोरैक्यमङ्गानाञ्च पूजकस्य शिवसंयोगार्थमिति | अत्र समुदायेना पाद्याचमनादि दानं यथा पूर्वोक्तवत् स्वस्वमन्त्रेण भोगाङ्गानि सम्पूज्या वाहनादिमुद्रां प्रदर्श्य ॐ हां सौं शिवाय पुष्पं नमः इति शिवे पुष्पाञ्जलिमारोप्य धेनु मुद्रां महामुद्रां च प्रदर्श्य ॐ हां ॐ हौं शिवाय पाद्यं नमः इति पाद्यं दद्यात् | तथा स्वधान्तेनाचमनं तथा पुष्पं नमः तथा स्वाहान्तमूलेन धूपमाचमनीयं स्वाहान्तेन स्वाहार्घ्यं वौषडन्तेन पुष्पां ततः ॐ हां हौं शिवाय गन्धं नमः | इत्थं पूर्वोक्तमन्त्रेणारात्रिकादिकञ्च ददेत् | उक्तञ्च - भोगाङ्गं पृथगादेय महावादेकतोथवा | इति | तथा नैवेद्यञ्च तदुक्तम् - आवहनादिनैतानि स्वमन्त्रैः क्रमशोर्चयेत् | नाव कुण्ठनमेतेषामष्टमृतीकरणं तथा || संस्काराष्टकमेवैषां प्रत्येकं विहितं बुधैः | स्नपन दीपक्षुप्तिञ्च न पृथक् * * * * * * ||
SKभोजनं तु प्रभोः पार्श्वे तेषां तस्य च कीर्त्यते | तदर्धमस्य नैवेद्यं पृथक् पात्रेषु संभवेत् || पूतैष्वितरथैकस्मिन् हविष्यं मन्त्रसंस्कृतम् | तृप्ता वा चमनं दद्याद्धस्तोद्वर्तन पूर्वकम् || प्. १३०) ताम्बूलं मुखवासं च तद्वासककरं हि दित्याचार्यैः तनैवेद्यादिकं यथा तच्च खण्डनस्सुकर पूरिकाजादुपधारिका कदमूल फलव्यञ्जनादि समोपेतं कर्पूर वासितं स्निग्धं क्षीरपानं चाभिनवकदली पनससहकारफलानि विविधरसं मनाकञ्च गन्धवासितपानं पानीयादि सहितं निरीक्षणा * * * * न्ततमस्त्र कवचरक्षितं धेनु मुद्रायां भ्रीकृतं स्वाहान्तमूलेन तेन पानीयञ्च निवेद्य नमोन्तमूलेन देवशिरसि पुष्पं दत्वा ॐ हां द्रव्यदायै नम इति द्रव्यमुद्रां प्रदर्सयन् पूर्णद्रव्यजातं सम्पूर्णं विभाव्य स्वधान्त मूलेनाचमनं दत्वा स्वाहान्तमूलेन हस्तोद्वर्तन मुखवासकर्पूर तवकोलजातीफल * * * गन्धिताम्बूलं मुखादि संस्कृतं च सर्वं दानमुद्रया द * * * नमोन्तमूलेन दर्पणछत्रचामराणि समर्पयेत् | उक्तञ्च श्रीकालोत्तरे - नैवेद्यं द्विविधं दद्यान्नानापात्रेषु भक्तितः | पायसं तु घृतैर्मिश्रम् फलमूलांकुरं दधि || खण्डखाद्यं ह्यनेका * * * * लोदनं तथा | अशोकवर्तिः शाकुल्य पूरिकां धारिकां तथा || कन्दमूलानि शुद्धानि व्यञ्जनानि बहूनि च | क्षीरं देवाय तापयेत् |? वक्त्राङ्गानां पृथग्देयं महा * * * देकतोथवा | पानीयाचमनं चैव मुखवासं विभोर्ददेत् || स चन्द्रं चैव ताम्बूलं हस्तोद्वर्तन पूर्वकम् || इति || प्. १३१) एवमाद्यः प्रतिसन्ध्यं वारुणादिभिरष्ट्रभिः पुष्पैस्समर्च्यः | उक्तञ्च - वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि | प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकम् || भय पुष्पादिकं चैव वानस्पत्यं तु पञ्चमम् | पार्थिवं कन्दमूलाद्यः वायव्यं गन्धचन्दनम् || शुद्धाख्यं शिवपुष्पं तु कथिता चाष्ट पुष्पिका | अर्घ्यादीनां सर्वदाशस्ता समवस्थितचेतसाम् || इति यद्वा -
SKआसने प्रथमं पुष्पं दातव्यं शुद्धचेतसा | मूर्तिदानं हृदा कार्यं पुष्पेणैवापरेण तु || पञ्चपुष्पप्रदानेन पञ्चाङ्गानि प्रकल्पयेत् | शिवं तथाष्टमेनैव कथिता चाष्टपुष्पिका || एतानि चाष्टपुष्पाणि सर्वसाधारणानि तु | सर्वसिद्धिप्रदा * * * * तथा सर्वागमेषु च || सर्वेषां चैव वर्णानां सर्वसाधारणानि च | एककालं द्विकालं वा त्रिकालं वा प्रपूजयेत् | प्रातर्मध्याह्नसमये तथा चास्तमितेरवौ || पूजयेत् परया भक्त्या ह्यष्ट पुष्पविधानतः | दरिद्रणामनाथानां बालस्त्री बालिशेषु च || भोगिनां व्याधि जुष्टानां तथा ध्यानार्पितात्मनाम् | शिवशास्त्रानुरक्तानां नानासिद्धि हितात्मनाम् || प्. १३२) अनुरक्तविरक्तानां कथिता सृष्टि पुष्पिका || इति | कालोत्तरे - आवाहनार्घ्यं पूजासु स्नाने धूपे विलेपने | निवेद्यस्य विसर्गे च पुष्पमष्टौ सुपूजयेत् || पुष्पदन्तार्घ्यपात्रेषु स्नाने चाचमने तथा | क्षालने प्रोक्षणे चैव वारिसप्तसुयोजयेत् || धूपं सर्वत्रदातव्यं शेषं ज्ञात्वा प्रपूजयेत् || इत्थमष्टपुष्पिकया वा सम्पूज्यात्मनो वाङ्मनः कायजनित मोक्षार्थं शिवे संयोगार्थञ्च ॐ हां आत्मतत्वविद्यातत्वशिवतत्व सर्वतत्वाय शिवाय साङ्गाय कुशपवित्रकं स्वाहा इति कुशदूर्वाक्षत पवित्रकं दद्यात् | गृहस्थश्चेच्छिव तत्वादि मन्त्रमुच्चार्य दद्यात् | ततः पूर्ववद्धूपदीपा चमनारात्रिकादि दानान्ते मूलेनात्मलिङ्ग दत्वा वैषडन्त शक्तिमन्त्रेण धेनुमुद्रां महामुद्राञ्च प्रदर्शयेत् | यद्वा पवित्रदानान्ते द्वादशान्तमूलमुच्चार्य पुष्पाञ्जल्यादिकं ददेत् | उक्तञ्च - पवित्रमापदीभूत शिरस्य शिरह्यस्थारोपयेत् ||? प्रत्यहं वाङ्गमनः कायमव्यापार जनितादलम् ||? पतनात्त्रायते यस्मात्तस्मादेतत् पवित्रकम् | प्रकृतेः परमीभाव सम्पत्यर्चमनन्तरम् || परमान्तिकमुच्चार्य प्रासादं पूर्ववन्न्यसेत् | प्ररोहे च यथान्यायं मुद्रया प्रागुपायुधा || प्. १३३) धूपदीपादिकं दत्वा यथा पूर्वं शिवाय च | श्रीमत्पञ्च महाशब्दैः दर्पणछत्र चामरैः ||
SKगेयनृत्त स्थिति स्तोत्रैस्तदा तमभिनन्दयेत् || इति वचनाद्भोगाङ्गसहितं शिवं यागमन्दिर बाह्यस्थं ब्रह्मविष्ण्वादिभिः स्तूयमानं पूजक पूजया सन्तुष्टमखिलवेदो पनिषद्गोचर चरण नलिन युगलं अपार करुणामृताम्भोनिधिः प्रणतभक्तजनाभीष्ट फलदमभिमुखीभूतमभिध्यायन् हुं फडन्तास्त्रेण जपमालां सम्प्रोक्ष्य ॐ हां मालायै नम इति गन्धपुष्पादिभिः सम्पूज्यमालां मुद्रां बध्वा आत्म मन्त्ररक्षा विधानज्ञोनासी सन्धान पूर्वं जपमारभेत् | तदपि यथा श्रीकालोत्तरे - उभयोश्चन्द्रयोर्मध्ये स्वदेहं चिन्त्ययत्नतः | तेनामृतमयोदेह स्तपन्ध्यानस्त्रिदशैरपि || आत्मरक्षा समाख्याता मन्त्ररक्षानिगद्यते | शक्ति गर्भैर्न्यसेन्मन्त्रान्न पुंसि न शिवे तदा | अशक्ताः पुरुषस्थाः स्युः शिवस्थाः शान्ततेजसः || तस्माच्छक्तिं गतामन्त्राः भुक्तिमुक्तिफल प्रदाः | शक्तिराधामणन्दिद्या शैवी शिवफलप्रदा || शिवं सभिन्ना * * *? सर्वदा रविराशिवत् ||? मन्त्रमाता पराशक्तिराद्या कुण्डलिनी * * *? | हृत्प्रदेश स्थितानित्यं रवि चन्द्राग्नि सन्निभा || एका त्रिधा तु विज्ञेया इडापिङ्गादि भेदतः || प्. १३४) सुषुम्नान्तर्गता गूढा ज्ञाता गुरुमुखेन तु | अनाभो द्वादशान्तं तं व्याप्ता प्राणेन वर्तते || त्रिशूलमार्गतोयादि द्वादशान्तं तु योगिनाम् | गमागमप्रभेदेन याति सा शांकरे पथि || पराभावं समाश्रित्य परानन्दं समश्नुते | इति शक्त्यादयं ज्ञात्वा मन्त्ररक्षाक्षमो भवेत् || यदुक्तमन्यत्रापि - ब्रह्मरन्ध्रस्थिता शक्तिः नाभिपद्मान्तरं गता | आधारचक्रमाक्रञ्च शोधयेत् परमां कलाम् || हृत्पद्मकर्णिकावह्निः सूर्यसोमकलात्मिका | वर्णमालां सृजत्येषां तत्स्थं मन्त्रं जपेत्सदा || इति || तथा श्रीकालोत्तरे - वात्त्यश्च वाचकश्चैव शक्तिरात्मामनस्तथा | कृत्वैव मनसन्धानं प्रारभेत ज * * * * त् || हृत्पुण्डरीक मध्यस्था भारूपः परमेश्वरः | निर्मलः स्फटिकप्रख्यः प्रस्फुरत्सर्व तेजसः ||
SKतस्य शब्दमयी शक्तिः ज्वालेव निसृता महत् | तद्धर्मा धर्मिणी शुद्धा तस्या वै वर्णसन्ततिः | निःसृतामन्त्रजनक * * * * चैव मन्त्रराट् || निःसृतश्च यथा पुष्पं यथाग्राच्छंकर प्रियम् | एवमेवाक्षसूत्रं तदुदितञ्च क्रमात् स्मरेत् || हृन्मयं तल्लयं कुर्याद्धृन्मध्ये तल्लयं तथा || प्. १३५) शिवस्य मन्त्रा ना * * * वान्तर्बाह्यो स्थितस्य च | यद्यैक्यं स जपख्यातो लक्षसंख्याधिको भवेत् || विषुवद्योगमाश्रित्याक्षमेकं समाहरेत् | महाप्रणोदये नैव निष्कंतं यावदेव हि || ततः प्रदक्षिणं कुर्यान्मेरोर्धिन स्थितस्य च | निष्कलस्य च मन्त्रस्य तदूर्ध्वे वस्थितस्य च || ग्रन्थि रूपस्य च विभोरमलस्य महात्मनः || पृष्ठेन लंघनं यत्तद्वर्जनीयं षडाननः | मुक्त्यर्थं स्फटिकाभासं शान्तिके पौष्टिके तथा | पश्ये किंशुकस्वाभमाकृष्टौ नृपशैलवत् || मारणे कञ्जलाभासं विद्वेषे चाषपक्षवत् | उच्चाटने तु धूम्राभं शिवं ध्यात्वा जपेत्सदा || परापरस्वरूपेण जपस्तत्त्रिविधः स्मृतः | स्नानाष्टकेन निवृत्येः शब्दौ भाष्य इहोच्यते | सहस्रो वाथ निर्गेहे भाष्य यज्ञः प्रकाशितम् || सगर्भो ध्यान सहितो निग्रहो ध्यानवर्जितः | निर्गर्भात्तु सफलं शतगुणं भवेत् ||? आरुरुक्षोः प्रकर्तव्यं सर्वसिद्धिषु सिद्धिदम् | शक्तं बलं समाश्रित्योपांशु जपमारभेत् | द्विविधा शक्तिरुद्दिष्टा सूर्यसोममया सुता || हृदयात्तु त्रिपुट्यन्तं चरते पक्षवर्तिनी || प्. १३६) दिने सूर्योदये प्राणे जप्तव्यं मुक्तिकांक्षिणः | चन्द्रोदये निशायां च जप्तव्या भक्तिमिच्छता || गमा गमौ तु विज्ञाय जपः कार्यो न चान्यथा | सौषुम्न स्थेनमरुता जपः सर्वार्थ सिद्धिदः || भास्करेऽस्तमिते व्योम्नि चन्द्रांशुर्नोदितो यदा | चिन्मात्रं तत्पदं ज्ञेयमत्याग्रहणवर्जितम् || सर्वप्रमाणरहितं ज्ञानं सत्तामयं विदुः | एतत्कालोत्तरं ज्ञानं कथितं ते समासतः || तथा हृत्कमले ज्ञानं सत्तामात्रं प्रजायते | एतद्रहस्यं परमं नाख्येयं * * * * यत् ||
SKगुरुवक्त्रोपदेशस्थं ज्ञानमेतत् सुदुर्लभम् | परिपक्व कषायेषु दातव्यं नान्यथा सुत | दिश्वाहोरात्र चारेण दया प्राणो वहेत्तदा | तत्र तत्स्पर्शमासाद्य भौतिकस्तु जपेत्सदा || भुक्तिदोमुक्तिकामानां जपयज्ञस्तु शासने | पिङ्गला संस्थिते जीवे मुक्तिकामो जपेत्सदा || सुषुम्नान्तर संस्थेन जप्तव्यं भुक्ति मुक्तये | इडादि शान्तिको शस्तौ पष्टिकाप्यायने तथा || पिङ्गलाचैव संग्रामे भोजने मैथुनेऽपि वा | सुषुम्ना सर्वकार्येषु विज्ञेयः कृत्तिका सुत || प्. १३७) सगर्भन्तु जपेन्मन्त्रान् नामज्ञात्वा तु तत्वतः | व्याप्ति मन्त्रं प्रवक्ष्यामि सङ्क्षेपात्क्रौञ्च सूदन || अग्निमध्येरवि स्थानं रविमध्ये तु चन्द्रमाः | अग्निरर्कगलः सूर्यस्तथा षोडशकः शशी || षड्द्वित्रया त्रिदहने सूर्यशक्तिमयं व्रजेत् || रसस्थानं हृत्प्रदेशं तत्र सोमोलयं गतः || तत्वानामङ्कुराकारा चान्द्रीशक्तिरुदाहृता || एवं ज्ञात्वा प्रयत्नेन जपः कार्योविजानता || इति || पुनश्च जपादि लक्षण नानागम पाठेनैव लिख्यते | यथा - शतेनाष्टोत्तरेण स्यात् दक्षिण सूत्रं सदोत्तमम् | तदर्धं मध्यमं शस्तं * * * * * त्कन्यसम् || रुद्राक्षजं महाभूत्यै मुक्तिदं परमं शुभम् | एकवक्त्रैस्त्रिवक्त्रैर्वा चतुर्वक्त्रैश्च पञ्चभिः || षड्वक्त्रैर्वाथ कर्तव्यस्तस्मिन्मिश्रैस्तु वर्जयेत् | त्रिधा फलप्रमाणं यज्ज्येष्ठमेतदुदाहृतम् || बदराण्ड प्रमाणञ्च चणकं मध्यमाधमौ | निवर्तितन्तु नाप्रोक्तं कर्तव्यं पूर्ववच्छुभम् || नागपाशं तु सावित्रं ब्रह्माख्यं वाथ ग्रन्थनम् | ग्रन्थोद्वैकन्तु मेर्वाक्यं कर्तव्यं नैवलङ्घयेत् || क्षालयेत् सद्य देवेन वामदेवेनघर्षयेत् || प्. १३८) धूपयेद्बहुरूपेण लेपयेत्पुरुषेण च | मन्त्रयेत्पञ्चमेनैव प्रयेकं तु शतं शतम् || मेरुञ्चपञ्चमेनैव प्रत्येकं तु शतं शतम् | मेरुञ्च पञ्चमेनैव तथा घोरेण मन्त्रयेत् || मुद्राष्टकं दर्शितव्यं प्रत्येकं पूजयेत्क्रमात् | मेरुञ्च पञ्चभिः पूज्य शिववच्च यथा क्रमम् ||
SKअनामिकां गुष्ठाभ्यां गृह्य जपं कुर्यात्तु मानसम् | शतकोटिगुणं पुण्यं लभते नात्र संशयः || अङ्गुष्ठ मध्यमाभ्यां तु जपं कुर्यादुपांशुकम् | तथा लक्षफलं तस्य शतजापात् प्रजायते || अङ्गुष्ठ तर्जनीभ्यान्तु जपं भाष्यं प्रकल्पयेत् | अक्षराक्षरसन्धानं न द्रुतं न बिलम्बितम् || फलं सहस्र गुणितं प्राप्नुयान्नानृतं वचः | भुक्तये सृष्टिमार्गेण मुक्त्यर्थं कर्षयेत्तु शनैः शनैः || मेरुं न लङ्घयेन्मन्त्री लंघनाद्दोष भाक्भवेत् | मध्याङ्गुष्ठा वा क्रम्य जपं कुर्यादुपांशुकम् || तदालक्षफलं तस्य शतजापात् प्रजायते | तर्जन्यङ्गुष्ठावाक्रम्य जपं भाष्यं तु कारयेत् || अक्षराक्षरसन्धान वर्जिता ||? इति | तथा - अनामिकाङ्गुष्ठावाक्रम्य जपं कुर्यात्तु मानसम् | प्. १३९) अष्टोत्तरशते नैव फलं कोटिगुणं भवेत् | मध्यमाङ्गुला वाक्रम्य जपं कुर्यादुपांशुकम् || तदा लक्षफलं तस्य शतजापात् प्रजायते | तर्जन्यङ्गुष्ठावाक्रम्य जपं भाष्यं तु कारयेत् | मेरुहीनाक्ष * * * माला कर्तव्या वा प्रयत्नतः || तस्याः शतगुणं पुण्यं * * * तथाक्षमालिका | तस्या न लंघने दोषो यतो मेरु विवर्जिता || इति || तथा - अनामिकाङ्गुष्ठावाक्रम्य जपं कुर्यात्तु मानसम् | अष्टोत्तरशतेनैव फलं कोटि गुणं भवेत् || मध्यमाङ्गुष्ठावाक्रम्य जपं कुर्यादुपांशुकम् | तदा लक्षफलं तस्य शत जापात् प्रजायते || तर्जन्यङ्गुष्ठावाक्रम्य जपं भाष्यं तु कारयेत् | अक्षराक्षरसन्धानं न द्रुतं न विलम्बितम् || फलं सहस्रगुणितं प्राप्नुयान्नानृतं वचः || तथा - अभिन्नैः कारयेन्मालां प्रत्यग्रैः कण्टकान्वितैः | एकवक्त्रैस्त्रिवक्त्रैर्वा चतुर्वक्त्रैर्विशेषतः | षड्वक्त्रैः सर्वसिद्ध्यर्थं पञ्चक्त्रैस्तथैव च || सप्ताष्टनववक्त्रैश्च दशैकादशवक्त्रकैः || अक्षसूत्रं प्रकर्तव्यमक्षमालाऽमलोदिता | हृदासंपूज्य तत्सूत्रं चन्दनेनावकुण्ठ्य च || प्. १४०) अङ्गुष्ठानामिके मध्यां तर्जन्या वा विवर्तयेत् | ततो मेर्ववसाने तु नगेन्द्र परिवर्तनम् ||
SKशतं साष्ठोत्तरशतं जप्यं स्यान्मेरुलांघनम् || तथा - अङ्गुष्ठदेश निभ्यान्तु मध्यमायां व्यवस्थितम् | मन्त्रमुच्चारयन्नक्षमेकैकं कर्षयेच्छनैः || इति || तथा - मेरुं न लंघयेद्विद्वान् सृष्टिसंहारकारणम् | लंघितापि न दोषाय मेरुहीना गणान्तिका || मालं संग्रन्ययेत् स्वर्णतारसीसायसादिभिः | वक्त्रं वक्त्रेण संयोज्य मेरुणोर्ध्व मुखेन वा || क्षौमपट्टादि सूत्रैर्वा प्रत्यक्षं नागपाशिनीम् | व्यक्तार्थं गोपुच्छवलयां निःशब्दां निर्व्रणां दृढाम् || योजयेज्जीर्णया डोलामालया भग्न कण्टया | विषमावक्त्रया मन्त्रे नैव सिध्यति चालया || जप काले तु गोप्तव्या जपमाला च षण्मुख | परदृष्टिगता माला यदिस्यान्निष्फलो जपः || इति || तथा - जपः प्राण समः कार्यो दिनस्थो मुक्तिकांक्षिभिः | ऊर्ध्वप्राणोह्यहश्चैव ह्यपानोरात्रिरेव च || आत्मनः शिवमन्त्रश्च शिवशक्तिस्तथैकशः | कृत्वा सम्यक् जपेन्मन्त्रं भाष्यं बोपांशु मानसम् || मणिवन्मन्त्रमालाख्य प्रभावं मन्त्रदेवता | यच्छब्दः सोयजनकः परोक्षं गृण्वतां स्फुटम् || प्. १४१) भाष्य उच्चाटनादौ स उपांशुः शान्ति पौष्टिके | ओष्ठयोः पादमात्रेण परस्याः शब्दबोधकः || साहस्रोवाचिकोज्ञेयो तस्मात्कोटि गुणोऽपरः | यत्पादक्षरसंगत्या अर्थादर्थं पदात्पदम् | चिन्तनं सर्वशब्दानां समुक्त्यैस्यात् समानसः || इति | तथा - स्वमन्तं चाक्षसूत्रं च गुरोरपि न दर्शयेत् | जपकाले तु गोप्तव्या जपमाला च षण्मुख || परदृष्टिगता माला यदि स्यान्निष्फलो जपः || अलमतिविस्तरेण | प्रकृतमनुसरामः | प्रणवादि नमोन्तं शिवायेत्युपनोपेतं जपेत् | उक्तञ्च - प्रणवादि नमोमन्त्रं शिवायेति नमस्तथा | मनसा तु जपेदेनं तद्गतेनान्तरात्मना || इति ||
SKएवं यथोक्तं साष्टशतमन्त्रं जप्त्वा तज्जपं पूर्ण चन्द्रोपमं हृदयचन्द्रिकाङ्कुर शक्तेरुद्रोच्य दक्षकरतलस्थात्र वर्ण हृदयमण्डलोपरि स्थितं षडङ्गेनार्चितं हृत्कवचास्त्र संरक्षितं कृत्वातद्धस्तं हृत्प्रदेशे निधाय भूमिमिष्ट दक्षजानुको भूत्वा ॐ गुह्यातिगुह्यगोप्तात्वं गृहाणमत्कृतं जपम् | सिद्धिर्भवति मेयेन त्वत्प्रसादात् क्वचित् स्थिते || इति पठित्वा शिवाय जपं गृहाण स्वाहेत्याद्यांशुरेकेन सह वरदकहस्ते निवेदयेत् | त्रिभिश्चूलिकैरिति क्वचित् | उक्तं च - प्. १४२) ना संख्यं न परिभ्रान्तं जपं कुर्यात् कदाचन | अष्टोत्तरशतं कृत्वा मूलमन्त्रं जपन्सुधीः || दक्षजानुं क्षितौ कृत्वा तज्जपं विनिवेदयेत् | शिवेन शिवसव्ये तु गन्धांसु चुलकैस्त्रिभिः || इति | अत्रैकस्यैव जपस्य त्रिधा * * * * स्थिरत्वार्थं इत्यवगन्तव्यम् | अथावरण देवानां तद्दशांशं जपं कृत्वा निवेद्यशिव पुष्पाञ्जलित्रयेणाभ्यर्च्य वौषडन्त शक्तिमन्त्रेण धेनुमुद्रां महामुद्रां च प्रदर्श्य पूर्ववत्स्वाहान्तमूलेन धूपदीपं दत्वा स्वधान्त मूलेनाचमनं दत्वा स लवण सर्वपमुत्तार्य पूर्वोक्त विधानेन निरीक्षणादिभिः संशुद्धां हृदयेदधि दूर्वाक्षतार्चितां सकर्पूरवर्तिं महारात्रिकं धेनुमुद्राप्ररोचितामवर्मारक्षितां स्वाहान्त कवचेन त्रिधा यथा पूर्वमुत्तार्य शीताम्बु चुलिकैः त्रिभिरावेष्ट्याचमन छत्रचामरादिकं दत्वा स्तोत्रमिदं विज्ञापयेत् | ॐ नमः शिवाय निर्गुणाय निष्क्रियाय शूलिने | नमः शिवशक्त्यतीतगोचराय शम्भवे | नमः शिवाय निष्कलाय निर्मलाय योगिने | नमः शिवाय सिद्धि मुक्तिहेतवे चिदात्मने || नमः शिवाय शाश्वताय काममृत्यु मृत्यवे | नमः शिवाय नारसिंह हस्तिकृत्तिवाससे | नमः शिवाय विष्णुनेत्र पङ्कजार्चिता प्रिये || प्. १४३) नमः शिवाय सोमसूर्य वह्न्यतीत तेजसे | नमः शिवाय शैवसिद्धि योगियोगदायिने ||
SKनमः शिवाय बाणगोचराय वाङ्मनायते | नमः शिवाय सर्वतत्व शैलशृङ्ग वासिने | नमह् शिवाय सर्वकृत्तिसाक्षिणे महाक्षिणोमहात्मनः | नमः शिवाय हृत्पुटात्म बीजसूक्ष्मदेहिने | नमः शिवाय सत्प्रसाद मन्त्रभावितात्मने || नमः शिवाय मन्त्रशून्यधाम्नि संस्थिताय ते | नमः शिवाय चन्द्रशेखरे कपद दिने * * * * | नमः शिवाय भूतिभूषणाय भूति हेतवे | नमः शिवाय भूतनाथकाय चिद्घनाय ते || नमः शिवाय गर्भजन्ममृत्युदुःख हेतिने | नमः शिवाय नित्यतृप्ति चेतसेऽमृतात्मने | नमः शिवाय दिव्यसम्पदोकसे कृपात्मने | नमः शिवाय सारभूत सद्गुणैकभूतये | नमः शिवाय सर्वलोक बन्धवे हितैषिणे | नमः शिवाय कर्मसाम्यवेलया विवेहिने | नमः शिवाय नैजमोह कर्मपाश वह्नगे | नमः शिवाय चिन्मये नियोजकाय सत्पद्मे || नमः शिवाय चिद्विदान्विके तनैक तेजसे || प्. १४४) नमः शिवायबिन्दुनाद शक्तिपद्म वासिने | नमः शिवाय * * * चन्द्रिकाङ्कुरात्मनेऽमृतात्मने || नमः शिवाय मानसाब्ज राजहंस कामिने || नमः शिवाय दिव्यबोधरूपिणे परात्मने | भक्त्या सम्पूज्य देवेशं यः पठत्यग्रतस्तव || स्तोत्रमेतदसौ याति शान्तं तत्परमं पदम् ||
SKइत्यादिभिः परमेश्वरं स्तुत्वा सप्रदक्षिणं साष्टाङ्गं प्रणामं विधाय स्वामिन्नाग्निकार्यं करोमीति विज्ञाप्य तदाज्ञातः सामान्यार्घ्यकरः स्वसंभारमग्न्यागारं गत्वा निरीक्षणादि चतुः संस्कार शुद्धे कुण्डे यद्वा षडङ्गुलोन्नते करमाने स्थण्डिले वारऽण्डादिजनितमग्निं समिन्धनैः प्रज्वाल्य हुं फडन्तास्त्रेण सन्नाढ्य क्रव्यादांशमग्नि खण्ड निर्-ऋतिकोणे सन्त्यज्यावशिष्टं देशांशहोमोपकरण द्रव्यजातं स्रुक्स्रुवौ च निरीक्षणादिभिः संशोध्य ततो वह्निं वक्ष्यमाणवद्वह्निबीजेन वह्नि * * * येकी करणं विधाय गर्भाधानाद्यर्थं सद्योजातादिभिः सम्पूज्य मूलेनाहुति पञ्चकं दत्वा ॐ हां शिवाग्निस्त्वं हुताशनेत्यभिधाय गर्भाधानादि पञ्चसंस्कार संस्कृतमग्निं विभाव्य वौषडन्तमूलेन पूर्णां दत्वा सामान्यार्घ्य जलेन वौषडन्त कवचेन कुण्डमेखलां सम्प्रोक्ष्य मेखलासु कवचास्तिरिति पूर्वोत्तर कुशोपरि ॐ हां ब्रह्मणे नमः इति पूर्वे ॐ हां विष्णवे नम इति पश्चिमे ॐ हां रुद्राय नम इति दक्षिणे ॐ हां अनन्ताय नम इति प्. १४५) उत्तरे इति ब्रह्मादी वभ्यर्च्य ॐ हां ह्रूं वह्नये नम इति सम्पूज्य स्वाहा इत्याहुति पञ्चकं दत्वा वक्ष्यमाणवत्प्रार्थ्य कुण्डप्रमाणग्नेरीप्स्तितमुखं विभाव्य * * * * पिता रसानाञ्च ततस्तद्वह्नि हृदम्बुजे पूर्ववत् शासनं सा गङ्गमाश्रयोपाधिरूपं सोपचारं शिवम् पवित्रान्तं सम्पूज्य भगवन्त्वां तर्पयाद्रीति आज्ञां प्रार्थ्य नाडीसन पूर्वं जपस्था निने स्वाहान्तमूलेन य घृतादिभिः शतहोमं विधिवद्विधाय तद्दशांशाङ्ग मन्त्रैश्च हुत्वा स्वाहान्त मूलेनान्नादि होमं विधाय वौषडन्तमूलेन पूर्णां दत्वाऽचमन हस्तोद्वर्तन प्रभृतीति विदध्यात् || यद्वा तदग्निश्चैतन्यं हृत्पुण्डरीक वह्निना संशोज्य सतदुत्कलितं सुषुम्नारेचकेन मूलेन परमशिवं वृत्तं ज्वलदग्नौ नियोज्य तस्मिन् ज्ञानाग्नौ शिवं तर्पयेत् | तदुक्तं च कालोत्तरे - ततः सम्प्रार्थ्यदेवेशं होमागारं ततो व्रजेत् | अस्त्रेणोल्लेखनं कुण्डे वर्मणाभ्युक्षणं मतम् ||
SKज्ञानानलं न्यसेत्तत्र सूर्यायुतसमप्रभम् | हृत्पुण्डरीकमध्यात्तु सौषुम्नेन पथाऽनलम् || द्वादशान्ते पदे योज्य तत्तेजः पुञ्जपिञ्जरम् | तेन विन्यस्तमात्रेण सर्वकर्माष्टको भवेत् || गर्भाधानादिकं कर्म निष्कृतिञ्चाप्य पश्चिमाम् | ज्ञानाजलस्य पुरतः कलां नार्हतिषोडशीम् | नित्ये नैमित्तिके कार्यं काम्ये ज्ञानानलार्चनम् || प्. १४६) सकृत्प्रोक्षण मात्रेण स्रुक्संस्कारः कृतो भवेत् | पूर्णाहुति प्रदानं च कर्तव्यं धारणान्वितम् || चतुर्थं धूपदीपार्थमग्निमुद्धृत्य रक्षयेत् | पूर्वोक्तेन विधानेन शिवं सम्पूज्य यत्नतः | पुष्पाय गन्धधूपाद्यैः पूजयेन्मुद्रया सह || शिववक्त्राङ्गसंयुक्तं तर्पयेत्तद्धृतादिभिः || इति || ततस्तं शिवमष्ट पुष्पिकयाभ्यर्च्य विधिवद्विसृज्य नाडीमार्गेण लिङ्गस्थे शिवे संयोज्य ब्रह्मादींश्च विसृज्य तदञ्चग्नौ ॐ हां स्वाहा ॐ हां अग्निषोमाभ्यां स्वाहा ॐ हां अग्नये स्विष्ट कृते स्वाहा इति स्विष्टकृदाहुति होमं कृत्वा ॐ हां ह्रूं वह्नये नम इति वह्निं सम्पूज्य च ततः कुण्डस्याग्निकोणे ततो मण्डलद्वयं गोमयेन कृत्वा पश्चिममण्डल प्रान्ते ॐ हां रुद्रेभ्यो नम इति पूर्वे इति ॐ हां पितृभ्यो नम इति दक्षिणे ॐ हां गणेभ्यो नम इति पश्चिमे ॐ हां यक्षेभ्यो नम इति उत्तरे ॐ हां ग्रहेभ्यो नम इति ईशाने ॐ हां असुरेभ्यो नम इति अग्निकोणे ॐ हां राक्षसेभ्यो नम इति नैर्-ऋते ॐ हां नागेभ्यो नम इति वायव्याम् | ॐ हां नक्षत्रेभ्यो नम इति अग्नौ ॐ हां विश्वेभ्यो नम इति नैर्-ऋते ॐ हां क्षेत्रपालेभ्यो नम इति वायौ इति सकृदुच्चार्य पुष्पगन्धादिभिः संपूज्य जलविश्रान्तेन स्वाहान्तेन रुद्रादिभ्यो बलिं दत्वा हृदयेन विसृज्य ततः पूर्वमण्डले ॐ हां इन्द्राय नम इति पूर्वे ॐ हां अग्नये नम इति अग्नौ ॐ हां यमाय नमः प्. १४७)
SKइति याम्ये ॐ हां नि-ॠतये नम इति नैर्-ऋते | ॐ हां वरुणाय नमः इति पश्चिमे ॐ हां वायवे नम इति वायौ ॐ हां कुबेराय नम इति उत्तरे ॐ हां ईशानाय नमः इतीशाने ॐ हां ब्रह्मणे नम इत्यूर्ध्वभागमुद्दिश्य ईशाने विष्णवे नम इति योनिगुददेशे नैर्-ऋतिपूर्वे ॐ हां नील लोहिताय नमः इति मण्डल मध्ये इतीन्द्रादीनपि पूर्ववत्संपूज्य स्वाहान्तेन बलिं दत्वा विसृजेत् | ततो मण्डलाद्बहिः ॐ हां पूर्वदिग्वासिभ्यो दिगीशभूतमातृगण रुद्रक्षेत्रपालेभ्यो नमः दिग्नामभेदेन सर्वादिषु संपूज्य स्वाहान्तेन बलिं दत्वा नमस्कृत्य ॐ हां वायसादिभ्यः समय भेदिभ्यो नम इति मण्डपाग्रे मण्डलाग्रे सम्पूज्य स्वाहान्तेन बलिर्दातव्यः || ये रुद्रारुद्रकर्माणः रौद्रस्थान निवासिनः | मातरोरुद्ररूपाश्च गणानामधिपाश्चये || विघ्नभूतास्तथा चान्या दशदिक्षु समाश्रिताः | सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् || सिद्धिं पुष्यं तु मे नित्यं भयेभ्यः पान्तुमां सदा | इति रुद्रबलि मन्त्रः | इत्थं बलिं दत्वा नमस्कृत्य क्षमापयेत् | ततः समाचम्य कराङ्गन्यासं कुर्यादिति सङ्क्षेपादग्निकार्य विधिः | तदनु शिव समीपं गत्वाऽष्ट पुष्पिकया सम्पूज्य प्रणम्य न्यूनातिरिक्त दोष मोक्षार्थमघोर मन्त्रमेक विंशतिवारं जपेत् | उक्तं च - अघोरञ्च जपेद्यस्तु कृष्णाष्टम्यां सकृन्निशि | प्. १४८) मुच्यते सर्वपापेभ्यो निर्द्वन्द्वो निरुचोभवेत् | सकृत्स्मरण मात्रेण सर्वपापक्षयो भवेत् || आवर्त्य पञ्चवारं तु सर्वतीर्थफलं भवेत् | सर्वयज्ञफलानीह सप्तवारानु कीर्तनात् || त्रिः सप्तवारमावर्त्य पूजान्ते नियमेन तु | पूजाफलं समस्तं तु प्राप्नुयान्नात्र संशयः || अघोरान्नापरो मन्त्रः कलिमासाद्य सिद्धिदः || इति || त * * * जपं पूर्ववदर्चयित्वा - यत्किञ्चित्कुर्महे देवनदा सुकृतदुष्कृतम् | तन्मे शिवपदस्थस्य * * * भुं क्षपय शङ्कर || इति पठित्वा वरदहस्ते सम * * * भगवान् ॐ * * * * |
SKन्यूनं वाऽप्यधिकं वापि यन्मया मोहतः कृतम् | सर्वं तदस्तु सम्पूर्णं त्वप्रसादात् प्रभो मम || इति संप्रार्थ्य पूजाफलं समस्तं परिपूर्णं विचिन्त्य शिवमष्टपुष्पिकया सम्पूज्य तत्फलं शरदिन्दु निभञ्च जपवदभ्यर्च्य ॐ * * * * पूजा जपदिग्निकार्याद्यैः सुकृतं यन्मया कृतम् | तत्फलं परमेशानमया तुभ्यं समर्पितं | तद्गृहाण स्वयं प्रीत्या नेदं भोगाय मेऽस्तु भो || कर्मणा मनसा वाचा त्वं गतिर्मे महेश्वर || एवमुक्त्वा स्वसव्येन विभोस्सर्वे समर्पयेत् || प्. १४९) अत्र क्रमः - ॐ हां हौं भगवन् पूजाहोमादि पुण्यफलं गृहाण स्वाहा इति मुमुक्षुं समर्पयेत् | बुभुक्षुश्चेत् तत्फलं मेऽस्तु देवेश भुक्तिमुक्त्यर्थ साधनम् इति पठित्वा समर्पयेत् | उभाच व्यात्मसमर्पणं कुर्याताम् | तदुच्यते ॐ - नमः शिवाय शान्ताय कारणत्रयहेतवे | निवेदयामि चात्मानं त्वं गतिः परमेश्वर || इति पठित्वा ततः मूलमन्त्रमति स्पष्टमुच्चारं नादमूर्ध्नि - तेजो बिंबमयं जीवं रेचकेन पदे पदे | सामरस्यं प्राप्य वदं ज्ञानानन्द महोदधौ || पुनरानिय देहस्य वरहस्ते समर्प्य च | नाडी सन्धानयोगेन स्वकीयं हृदयाम्बुजम् || प्रविश्य चरितात्वर्थं चिन्तयेत्तव्यथा तथा | शिवो दाता शिवोभोक्ता शिवः सर्वमिदं जगत् || शिवोयजति सर्वत्र यः शिवः सोऽहमेव तु || इति | अथ शिवमष्टपुष्पिकया सम्पूज्य विरोधार्घ्येणाधोमुखहस्तेन स्वाहान्त मूलेन सद्योजातादि ईशानान्तं पञ्चशिरः सुपराङ्मुखञ्चार्घ्यं दत्वा सोमादि पूर्वान्तास्तेजः कवचादि हृदयान्तं गेभ्यो दद्यात् | उक्तञ्च - पराङ्मुखं ततश्चार्घ्यं सद्योजाताः शिवोवधिः | अस्य हृदय पर्यन्तं गन्धधूप स्रगादिभिः || इति || प्. १५०)
SKअथ सकल प्रासादाम्बुजा चेत् * *?प्युक्तकर्घ्यमन्दघात् | हुं फडन्तास्त्रेण नारा च? ज्योतिर्लिङ्गं विभाव्य वौषडन्त शक्तिमन्त्रेण धेनु * * * ? मुद्रया च शिवं प्ररोच्य भक्तान् नमस्कृत्वा विशेषार्घ्यं च विवर्जयेत् | ततो गुर्वादीन् सम्पूज्य तेषां पराङ्मुखार्थमर्घ्यदत्वा निष्ठुरया निरुध्य स्वस्वमन्त्रेण संहारमुद्रया पूरकेण विसर्जयेत् | इत्थं लिङ्गे सालक्षविसर्जनम् | अथ स्थण्डिले चेन्मूर्ति करणानन्तरं संहार मुद्रया संहृत्य पूरकेणात्ममानसपुण्डरीक ज्योतिर्लिङ्गे शक्त्यङ्के नियोजयेत् | लिङ्गे सापेक्ष विसर्जनं उक्तञ्च - विद्युत्वद्वदुत्थितां ध्यात्वा स्वस्थानेषु लयं नयेत् | लयस्थानगतान् मन्त्रान् मूलमन्त्रेलयं गतान् || मूलमन्त्रं ततो ध्यायेत्स्फुरद्बन्धो लयं गतम् | बिन्दुदेवालयोनादे नादो विज्ञानशक्तिकः || ज्ञानशक्तिः परेलीना यो हृद्व्योम्नि व्यवस्थितः | यस्मात्प्रजायते मन्त्रः तत्रैव प्रविलीयते || इति || ननु शक्तो मन्त्र एव शक्तौ नियोजितव्यः | तत्कथं शिववाचको मन्त्रः शक्तौ नियोज्यते | सत्यम् | तच्छक्तेन विनाभावान्वाचकत्वं विहन्यते | तस्माच्छक्तौ नियोज्याणून् शिवं यत्नेन वन्दयेदिति वचनाददोषः | तथाऽन्यत्र च - प्. १५१) नपुंसि न परे तत्वे शक्तौमन्त्रं नियोजयेत् | पुंस्तत्वेजसतां यान्ति वश तत्वेषु तु निष्फलाः || इति | तथा - शिवभावं गतो मन्त्रः साधकः स्यात्पराङ्मुखः | तस्मान्नित्यतपाच्चार्थी शक्त्यं शेणून्नियोजयेत् || शक्ति मध्यस्थितो मन्त्रः सर्वान् कामान् प्रयच्छति || इति | एवं सन्नपि * * * * * * * * * * * | ना जप्तः सिद्ध्यते मन्त्रः नाहुतस्तु फलप्रदः | नार्चितो यच्चतेनागामत * * त्रितयमाचरेत् || || इति शिवपूजा विधिः || अथ संक्षिप्त यजनार्थी वेदासन मूर्तिमूलाङ्गैः अष्टपुष्पिकया पुस्तकादिषु योजयेत् | तदुक्तं श्रीमन्मृगेन्द्रे - विद्यापीठेऽपि मत्वैवमेकोच्चारेण पूजयेत् | स्रग्गन्धधूप नैवेद्यैः समासरुचिरीश्वरम् ||
SKसूर्येन्दु मण्डले व्योम्नि गुरोः पादुकयोस्तथा | तेजसि मूर्ध्निस्थे श्रद्धावान् क * * * वच्छिते |? अथ यथा कथंचित् कुतश्चिद्वैकल्यात् परार्चिते लिङ्गे नित्यविधिः क्रियते तदा यमपि तुल्यानुष्ठानी चेत्तत्र संक्षिप्तोविधिः कार्यः | न कदाचिदपि मिश्रो विधिः कर्तव्यः | उक्तञ्च - तुल्यानुष्ठानीवाष्ट पुष्ण्या विधिं समापयेत् || प्. १५२) क्रियावद्भिः क्रिया कार्या सिद्धान्तोक्तेन चेतसा | यो मिश्रांशौ ततन्त्राभ्यां क्रियां कुर्याद्विमूढधीः || सुरापान समं ज्ञेयं तस्य पातकमुत्तमम् || इति | अथ साधारण लिङ्गपक्षे साधारण मन्त्रेणैवार्चनं कार्यम् | तथा - प्रणवोमातृका माया व्योमव्यापी षडक्षरः | प्रासादाघोरमन्त्रश्च सप्तसाधारणा मता || एभिः सम्पूजयेद्विद्वान् सर्वसाधारणं शिवम् || इति | अथ चण्डेश्वरार्चनमुच्यते | शिवार्चकानां समयोल्लङ्घनं जनितं यजेत् | ग्रामघोरं पापमपहरण कर्ता चण्डेश्वर उच्यते | बहिरीशकाष्टायामर्ध चन्द्रोपम गोमयमण्डले अनन्तधर्मज्ञान वैराग्यैश्वर्य पङ्कजं प्रणवेन विधाय पूजयेदिदं मानसम् | ॐ चण्डासनाय हुं फण्णम इति | तदुपरि ॐ चण्डमूर्तये हुं फण्णम इति | नीलाञ्जनच्छायाञ्चतुर्वक्त्रार्कलोचनाम् | सर्वोपवीतकेयूरामवोर्थो ग्रानलार्चिषम् ||? ज्वलज्ज्वालाज्य मन्त्राठ्यामति भीमाञ्चतुर्भुजाम् | शूक्तं कमण्डलुं वामदक्षो टङ्काक्ष मालिनीम् | रुद्राग्नि प्रभवां ध्यात्वा मूलेनावाहयेत् परम् || ॐ धुनि चण्डेश्वराय हुं फट् स्वाहा | परमीकृत्य धेनुमुद्रयामृती कृत्य हृदा पाद्या चमनादिकं दत्वा गन्धादिभिः भोगाङ्गोपेतं प्. १५३) सम्पूज्य यथाशक्ति जपं कृत्वा निवेद्य ततः प्रणवेन गोभूहिरण्यवस्त्रादि मणिहेमादि भूषणम् | विहाय शेषनिर्माल्यं चण्डेशाय निवेशयेत् || लेह्यशोष्यन्नपानादि ताम्बूलं स्रग्विलेपनम् | निर्माल्य भोजनं तुभ्यं प्रदत्तं तु शिवाज्ञया || इति पठित्वा शिव निर्माल्यं समर्प्य - ॐ - सर्वमेतत्क्रियाकाण्डं मया चण्डतवाज्ञया | न्यूनाधिकं कृतं मोहात् परिपूर्णं सदास्तु मे ||
SKइति विज्ञाप्य चण्डेशमष्टपुष्पिकया शिववद्विसर्जयेत् || तदानिर्माल्यं पानीयगोमयेनोपलिप्य स्थानमस्त्रेण संप्रोक्ष्यार्घ्यं विसृज्य कराङ्गन्यासं कृत्वा यथाशक्ति शिवसंहितां जपेत् | तथा - कालोत्तरे - ऐशान्यां चण्डनाथं तु हुं फडन्तेन पूजयेत् | वस्त्रान्न गन्धपानार्घ्य निर्माल्यादि पवित्रकैः | विसृज्य चार्धपात्रं च समाचम्योप संस्पृशेत् || न्यासं कृत्वा यथा शक्ति जप्तव्या शिवसंहिता || शिवार्चनं समाख्यातं यथा वदनुपूर्वशः || इति | तथासर्वज्ञानोत्तरे - विसर्जितस्य देवस्य गन्धपुष्प निवेदनम् | निर्माल्यं तद्विजानीयाद्वर्ज्यनिर्माल्य भक्षणम् || अश्वयित्वा तु तं भूयः चण्डेशाय निवेदयेत् || इति || ननु - बाणलिङ्गे चलेरोहे सिद्धलिङ्गे स्वयंभुवि | प्. १५४) प्रतिमासु च सर्वासु न चण्डोऽधिकृतो भवेत् | अद्वैत भावनायुक्ते स्थण्डिलेश विधावपि || इति केचित् | अपरे पुनः - घटितस्यापि देवस्य नैव चण्डार्चनमिति | तत्कथं स * * * * एतन्मतान्तर प्रणीतम् | शैवेसिद्धान्ते पुनः सर्वदा सर्वत्र पूजनीयमेवेति नियमः | तथा च कालोत्तरे - स्थिते चले तथारक्ते ममृतारौ न्य कल्पिते | लोहे चित्रमयेबाणे स्थितचण्डो निवामकः || तथा - अव्यक्ते व्यक्तके लिङ्गे मण्डले स्थण्डिलेऽनले | चले स्थिते तथा रत्ने मणिचित्रादिके तथा || गन्धानसंभवे लिङ्गे मृद्भस्मफल कल्पिते | तथा पुष्पमये लिङ्गे चण्ड * * * मिकेति || अथ विद्यापीठं कोटिमात्रं पूजयेत् | वास्व संहिताम् | गन्ध पुष्पादि नैवेद्यैः मालाभिः शिववत्सुधीः || इति | ॐ हां गणपतये नमः | ॐ हां सरस्वत्यै नमः | ॐ हां सदाशिवादि गुरुभ्यो नमः | ॐ हां शिवज्ञार्हेभ्यो नमः | ॐ हां शिवज्ञावतार्हरकेभ्यो नमः | ततः शिवमष्टपुष्पिकायां संपूज्य प्रणम्य क्षमापयेत् | अथाराद्ध चरणान्तिकं गत्वा पादकमले प्रक्षाल्य गन्धेनाभ्यज्य पुष्पाञ्जलित्रयेणार्चयित्वा साष्टाङ्गं त्रिधाप्रणम्य क्षमापयेत् | तदुक्तमागमान्तरेषु - प्. १५५)
SKवदेदाचार्यमासन्नं दूर सन्ध्यानयोगतः | परोक्षस्यापि पीठस्थे पादुके सम्यगर्चयेत् || न भुञ्जानं समाधिस्यं चं क्रमन्तं क्रियोद्यतम् | स्थितं गुरुं समीपे वामतिमान्नाभि वादयेत् || गच्छन्तं पृष्ठतो या याद्वजन्तमनुसंव्रजेत् | तद्वचो नानुयुञ्जीत शयानं न प्रबोधयेत् || तथा - प्रणाम पुष्पवादेन प्रयत्नात् प्रजपेद्गुरुम् | गोसहस्रफलं प्राप्यं गुरोः पादाभिवन्दनात् || कुलीनश्च क्रियायुक्तः स्वशास्त्राभ्यासको गुरुः || इति | अथान्यानपि तपोधना सुविनीतान् गुर्वसन्निधौ यथोचितं प्रणामं विदद्यात् | तथा - समयी समयी यश्च ज्येष्ठो यः पूर्वदीक्षितः | पुत्रकः पुत्रकस्यापि साधकः साधकस्य च || गुरोरपि गुरुः प्रोक्तः समयोक्ति निदर्शनात् | वन्दयेदात्मनो ज्येष्ठान् गुरुभ्रातृगणानपि || अथान्यानपि संशुद्धान् शैवान् वन्देतपोधनान् | लौकीकादिषु मार्गेषु चतुर्ष्वपि समाश्रितान् || अपि विद्यातपो ज्येष्ठान् प्रीतस्तेनाभिवादये | तथा - संस्कारकाभ्यार्धंको ज्येष्ठो व्रतीनां शिवशासने | न तु जाति वयोवृद्ध विद्या ज्येष्ठत्व कारणम् | प्. १५६) विद्यमाने शिशौ ज्येष्ठेऽभिषिक्तेन कनीयसा || गुरोश्च गुरुणा वापि कैश्चित्पाश्चात्प्रदीक्षितैः | अन्योन्यं गौरवं तैश्च कर्तव्यं वन्दनं विना || इति || तथा - अग्निकार्यं जपं पूजा दीक्षाज्ञान व्रतानि वा | वृथा तेषां विजानीयाद्गुरुष्वेषान्न देवता || गुरुः पिता गुरुर्माता गुरुर्देवो गुरुः सुहृत् | गुरोर्न परं किञ्चिदित्याह भगवान् शिवः || ज्ञानं ज्ञानेन दिव्येन योद्घाटयति चक्षुषी | अज्ञानतिमिराक्रान्ते तस्मात् सर्व समाभिसः || दीक्षाभिषेक ज्येष्ठेन कनिष्ठस्य कदाचन | तपो विद्याधिकस्यापि यन्तर्यन्नाभिवादनम् | सर्वेते गुरवो ज्ञेया ये चान्ये पूर्वदीक्षिताः | मान्याः पूज्याश्च ते सर्वे गरोरन्यत्र षण्मुख || अलमति विस्तरेण | केचिदीशतेतर्चनान्ते कपिलार्चनमिच्छन्ति | गावः शिवपुरात्पञ्च क्षितिमप्राप्ताः शिवेच्छया | पञ्चगावः समुत्पन्नाः सर्वलोकस्यमातरः ||
SKनन्दा सुभद्रा सुरभिः सुशीला सुमना तथा | कपिलं कृष्णं श्वेतञ्च धूम्रं रक्तं तथैव च || नन्दादिषु सुमनान्तानां वर्ममेवं प्रकीर्तितम् | सर्वलोकोपकारार्थं देवानां तर्पणाय च || प्. १५७) गोमातरः स्थिताभूमौ स्नानार्धं तु शिवाय च | गोमयं रोचनामूत्रं क्षीरं दधिघृतं गवाम् || षडङ्गानि पवित्राणि सर्वसिद्धिकराणि च | येभिर्यज्ञाः प्रवर्तन्ते गोभिर्देवाः प्रतिष्ठिताः || गोभिर्वेदाः समुद्गीर्णाः सषङ्गपदक्रमः | शृङ्गमूले गवां नित्यं ब्रह्मा विष्णुश्च संस्थिताः | शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च || शिरोमध्ये ह्यहं वत्स भूतैः परिवृतः सह | ललाटे संस्थितौ वत्सत्वद्भ्राता च विशेषतः || कम्बलाश्वतरौनागौ नासापुट समाश्रितौ | कर्णयोरपि नौदेवौ चक्षुषी शशिभास्करौ || दन्तेषु मरुतो देवाः जिह्वायां वरुण स्थितिः | सरस्वती च हुंकारे यमयक्षौ च गण्डयोः | सन्ध्याद्वयं तथा चोष्ठौ ग्रीवामिन्द्रः समाश्रितः || खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः | खुराणां पश्चिमाग्रेषु गन्धर्वाप्सरसः स्थिताः | रुद्राश्च दशग्रन्थिस्याः वायवः सर्वसन्धिषु | श्रोणितास्तस्य पितरः उरस्तस्या उमा भवेत् | श्रीरपाने गवां नित्यं धर्मोलो शूलमाश्रितः || आदित्यरश्मयो माला मृगोले जाह्नवी स्वयम् | ऋषयश्च तथा सर्वे रोमाग्रेषु संस्थिताः || प्. १५८) उदरे पृथिवी देवी सशैल वनकानना | चत्वारः सागराः पूर्णा गवाङ्गे तु पयोधराः || कथितं गजानन सर्वं यथागोषु प्रतिष्ठितम् | दत्तं चैव हुतं भुक्तं गोषुसर्वं चराचरम् | कपिलासस्तु गोमूत्रं कृष्णवर्णे तु गोमयम् || क्षीरं श्वेते तथा धूम्रे रक्तवर्णे घृतं भवेत् | गोमूत्राङ्गुलगुलुर्जातः सुगन्धः प्रियदर्शनः || आहारः सर्वदेवानां शिवस्य च विशेषतः | गोमयादुत्थितः श्रीमान् बिल्ववृक्षः शिवप्रियः || तथास्ते पद्महस्ता श्रीः श्रीवृक्षस्तेन चोच्यते | बीजान्युत्पल पद्मानां पुनर्जातानि गोमयात् ||
SKयवृद्धं जगतः किङ्चित्तज्ज्ञेयं क्षीरसम्भवम् | दघ्नः सर्वाणि जातानि मङ्गल्यान्यर्थ सिद्धये || सुतादमृतमुद्भूतं मराण * * * * * * मति प्रियम् | तस्मात्तु पञ्चगव्येन स्नापयेत्तच्छिवप्रियम् || गोरोचना च मङ्गल्या पवित्रा सर्वकामदा || इत्थं गावः समालोक्याः पञ्चगव्यार्थमुद्गताः | ग्रामपूर्वं समभ्यर्च्य स्वस्वनाम्ना ध्रुवेण च || गन्धपुष्प पवित्राद्यैः वन्दयेन्मन्त्र पूर्वकम् | तद्यथा - अमृतमथनोत्पन्ने सुरभे लोकधारिणि | इमं ग्रासं गृहाणत्वमिदं मेव्रतमूत्तमम् || प्. १५९) स्तुत्वैवं परयाभक्त्या ततो गोभ्यो विचक्षणः | ग्राहयेत् पञ्चगव्यानि यद्वा तासामभावतः || एकस्यामेव गृह्णीयात् पूजापूर्वोक्तशम्बरैः | भवेदत्रापि सर्वासां कपिलैका प्रशस्यते || || इति कपिलार्चन विधिः || अथ मध्यं दिनं यावत् समाधिस्थो भवेन्नरः | ज्ञानज्योतिर्मयं लिङ्गं शरच्चन्द्रवदुज्ज्वलम् || भ्रूमध्ये संस्थितं तत्र मनः प्राणांश्च योजयेत् | तल्लीनस्तन्मयो योगी चित्तं शून्यं नयेच्छनैः | नष्टे चित्ते चिदानन्दं स्वयमुद्योतते परम् || समाधिः कथितो ह्येवमणिमादि गुणालयः || शिवसद्भाव जनको युगपद्विश्वबोधकः | ऊर्ध्व स्रोतसि मत्वैवमभ्यसेन्नेत सूतत् || इति || तथा - एकाकारः समाधिः स्याद्देशालम्बन वर्जितः | प्रत्ययो ह्यर्थमात्रेण योगसाधनमूत्तमम् || अभावं भावमाश्रित्याभावे शून्यमभ्यसेत् | शून्यं शून्य विमुक्तं यः समाधिः शिव गोचरः || हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वतमस्तके | एवमादिषु देशेषु धारणा शिवधारिणा || गुरुवक्त्रं पर्वताग्रमिति | प्. १६०) तथा - पूर्ववद्गुरुवर्गं तु तस्याग्रमवलम्बयेत् | पर्वताग्रं स्मृतं तत्र पर्यायेण सुरार्चिता || देशावस्थितिमाल्यम्बुं दुग्धे * * * वृत्तिसन्ततिः | वृत्त्यन्तरैस्रसं सृष्टा तद्ध्यानं मोचकोपहृत् || इति || ननु कौलात्मये कौलिकानामेव परामुकिः | न शैवानामिति | उक्तञ्च - श्रीनिगुढ ज्ञानसद्भावे पञ्चस्रोतसात्मकं शिअवं लोकाअचाराय हेतवे |
SKकथितं बाह्यमार्गं तु पञ्चवक्त्रोद्भवं प्रिये | पञ्चस्रोतस्तु लोकेऽस्मिन् भक्तानां प्रकटी कृतम् || पञ्चभिर्मोहिता लोक नैव जानन्ति चान्वयम् | कुलन्तु केवलं शुद्धं पश्चिमाम्नाय पूजितम् || अस्मात्तन्त्रात्परं तन्त्रं दुष्प्राप्यं भुक्तिमुक्तिदम् | पञ्चस्रोतात्मके शैवे परापर समन्विते || दीक्षिताश्च न सिध्यन्ति कल्पकोटिशतैरपि || इति || नैवं वाच्यम् | तत्प्रवृत्ति निमित्तमुपचार वचनमेतदिति | नोचेदस्मिन्नेव प्रधानपुरुषस्या नादिकर्तुः स्वतन्त्रस्य पश्चिमवक्त्र विनिर्गतं तन्त्रं पश्चिमाम्नायं तत्कथं मुख्यं भवति | स भगवान् कथं गौणो भवति | तस्मादुपचार वचनमेवेदं अन्यच्च कुलशरीरमचेतनं तत्र भवमभ्यासादिकं गौलमुच्यते शिवभट्टारकं पुनस्सर्वातीतं परचिदानन्दघनस्तद्गताः शिवाः कथं मुक्तिभाजोन भवन्ति | तथा चोक्तं कुलालि काम्नाये सिद्ध पीठावतारे कुखाराख्यमेन चतुश्शीति साहस्रे चतुर्विंशतिमत्पटले - प्. १६१) देव्युवाच - अन्तः कौकाबहिः शैवा लोकाचारा ब्राह्मणाः | एते त्रयस्त्वयादेवि सूचिता न प्रकाशिताः || एतत् कौतूहलं देव कथयस्व प्रसादतः || भैरव उवाच - शृणु देवि परं गुह्यं कथयाम्यनुपूर्वशः || अन्तः शरीरमित्युक्तकौलं श्रीयन्नवाहकम् | तस्मान्नित्यं प्रवक्तव्यं कौलाभ्यासं वरानने || अन्तः कौलमिति प्रोक्तमभ्यास सर्वदा प्रिये | नासी च केषु यत्प्रोक्तं षट्दर्शकं विनिर्णये || विसपादादि विज्ञानेऽन्तर्याग विनिश्चये | पूर्वं वै कथितं सर्वं विस्तरेण तवानघे || अधोर्ध्व व्यापिनी ज्ञानं ज्ञात्वा कौलं समभ्यसेत् || अथ - बहिश्शैवमिति प्रोक्त शृणुष्वायत लोचने | अण्डजे खेदजे वापि जरायुजोद्भिदेव च || सर्वगं सर्वदं शान्तंशिवं सर्वत्र भावयेत् | इन्द्रियार्थेषु सर्वेषु विषयेषु च संस्थितः || यत्र यक्षिनिरिति क्षताना शिवं विद्यते क्वचित् |? यत्र यत्र निरुप्येत ज्ञेयं तत्रैव चिन्तयेत् | प्रसह्य चापलं धीरो योगिनामपि योगदम् ||
SKयद्विज्ञेयं तत्र भावं स्थिरं पूर्णं सदा भवेत् | चलित्वा यास्यते कुत्र सर्वमेव शिवात्मकम् || प्. १६२) बहिः शिअवमिति ज्ञात्वा नैवमुह्येत्कदाचन | यस्यैवं सर्वगो भावः सोऽपि सर्वगतो भवेत् || एतत्ते परमं प्रोक्तं गुह्याद्गुह्यतरं परम् || इति || अथ यदुक्तं महाकौल ज्ञाननिर्णये मत्स्य नाथावतारिते चन्द्री द्वीप विनिर्गते | ज्ञान मध्ये क्रियालीना ज्ञानीच्छा च लयं गतः | इच्छाशक्ति लयोधात्र स देवः परमः शिवः || यदुक्तं रहस्य भेदेऽपि - अहं अकारः सूर्य इत्युक्तः सागरः सोम उच्यते | सहंकारस्तु दिनंभद्रे सकारो रात्रिरुच्यते || हंकारस्तु शिवः शुद्धः सकारश्शक्ति रुच्यते || हंकारो निष्कलो नित्यः सकारः सम उच्यते | हंकारस्तु दिनंभद्रे सकारो रात्रि रुच्यते || हंकारस्तु शिवः शुद्धः सकलं निष्कलं प्रिये || ना स्थितेत्यादीनि वा वृक्षरहिताच्चायना न रहिते पूः तस्मान्निरञ्जनः शान्तः शिवः शक्तेश्च कारणम् | सर्वासामेव शक्तीनां हेतुः सर्वगतः शिवः | न शक्तेः परतन्त्रत्वाद्विश्वोपादानमास्थिते || इत्यादि वाक्यानि शक्तानि शिवत्व प्रतिपादकानि बहूनिसन्ति | ततः शुद्ध शैवा एव परतन्त्र गामिन इत्यलमति विस्तरेण || इति विश्चितम् | प्. १६३) एवमन्तर्य जनादि सार्धन्तमर्चनमुक्तमपि * * * पिलङ्काराधमे श्रेयस्करम् | उक्तञ्च - समाधि धारणाध्यानं जपोहोमं तपांसि च | स्वमूर्तो गुरुमूर्तौ च विद्यापीठे जलेऽनले || स्थण्डिले स्थिरलिङ्गे वा चलेनाकृति सन्निधौ | यजनं श्रेष्ठमेतेभ्यो लिङ्ग एवोक्त लक्षणे | तस्मान्नित्यं प्रयत्नेन लिङ्गाराधानमाचरेत् || इति || तथा कालोत्तरे - सर्वत्र संस्थितं पूज्यं सर्वाधारेषु सर्वदा | तत्रापि लङ्के भगवान् पूजां गृह्णाति धूर्जटिः || असंपूर्णकृतां पूजां मद्रद्रव्य क्रिया गुणैः | तथा विलिङ्गे सम्पूर्णपूजा भवति षण्मुख || न न्यूना नाधीका कार्या पूजा वै स्थण्डिलादिषु | न्यूनाधिका तु या पूजा फलहीना प्रकीर्तिता || एतस्मात् कारणाद्वत्स लिङ्गाराधनमारभेत् || इति ||
SKतथा चामये भर्तव्या भरणव्याजराज चोरेपकारतः ||? पाञ्चाल्याश्चेत सश्चेति तस्माल्लिङ्ग गतोपरम् || आचार्य कृतसान्निध्ये लिङ्गे पूजा यथा तथा | कृताफलं ददात्येव पूर्णान्तेन तदुत्तमम् || तथार्कशशितोयाग्नि गुरुविद्या खमूर्तिषु | पूजोक्ता सफला शैव सुव्यवस्थित चेतसाम् || प्. १६४) तपांसि प्राण विजयः प्रत्याहारोऽथ धारणा | ध्यानं समाधिरित्येतत् साधनं स्थितचेतसाम् || विदुषां वीतरागाणां जगत्तृणमिवेक्षताम् | लिङ्गार्चनमसद्रूप चेतसामपि मूर्तिदम् || इति || तथा सर्वज्ञानोत्तरे - आकाशलिङ्गमित्याहुः पृथिवी तस्य पीठिका | आलयः सर्वभूतानां लयनाल्लिङ्गमुच्यते || यदाद्यमैश्वरं तेजः सर्वदेवमयं च तत् | पिण्डीभूतञ्च तत्वानां तत्तेजोलिङ्गमुच्यते || उमा पीठं विजानीयाच्छुद्धकाञ्चन सप्रभा | जगन्माताम्बिका पुण्या धात्री योगीश्वरी तथा || इति तथा मोहशूरोत्तरे च - लीयन्ते यत्र भूतानि निर्गच्छन्ति पुनः पुनः | तेन लिङ्गं परं व्योम निष्कलं परमं शिवः || लिङ्गते चिह्नते येन भावेन भावेन भगवच्छिवः | योगभिभिस्त्रिधा लिङ्गं युक्ता युक्तो भयात्मकम् || व्यक्तं तत्सकलं ज्ञेयमव्यक्तं निष्कलं मतम् || ज्ञानज्योतिर्मयीलिङ्ग व्यक्ताव्यक्तमिति स्मृतम् | तदाकार तथा भक्तां कृत्रिमं तदधिष्ठिताम् || लिङ्गमित्युच्यते तत्र शिवामृद्दारु लोहजम् || इत्यलं शिवं भवेत् || प्. १६४) सादाख्याध्वमवक्त्रनिर्गत शिवज्ञानाणु वा दुद्धृतै- रीशार्चा जपवह्निकार्य शिवसन्धानादि र * * * शुभैः | श्रीमज्ज्ञान शिवेन शम्भुचरणाम्भोज यद्वधाहा कृता जीयाच्चैव जनेषु सिद्धिफलदासंज्ञानरत्नावली || षण्मार्गध्वगदने प्रोद्भूतसिद्धान्त सच्छास्त्रज्ञः परमेश्वराङ्घ्रि निलयः श्रीज्ञानशम्भुः सुधीः | स्नानाद्यं शिवपाद पद्मयजनं चाग्न्यर्चनं वेदवित् चक्रे भूसुर सत्तपोनिधिरयं सच्चोकादेशोद्भवः || समाप्तोऽयं श्रीज्ञानशम्भुविरचित ज्ञानरत्नावल्यां शिवनित्य पूजाविधिः ||
SKअज्ञानावान्तवल्ली विकलित कूपस्था जन्तुजाताः शृणुध्वं दीक्षापूता भवन्तो भवत गुरुतरोव्योमशम्भुः(सकाशात्) दिव्यादिव्यञ्च मिश्रं शिव वदनभवं शैव सिद्धान्त सारं येन ज्ञानं च कृत्स्नं श्रुति विदितपदं सन्ततं तं नमामि || ॐ नमः शिवाय || शिवार्चनान्ते शिवाग्निकार्यं दरिद्रसम्पन्न शिवार्चकानाम् | उक्त्वा समासाद्वृहदग्निकार्यं वक्ष्येऽथ कर्मत्रितयाङ्गभूतम् || सर्वलक्षणसम्पन्नं कुण्डमासाद्य देशिकः | चक्षुषा सप्रसादेन वीक्ष्य प्रोक्ष्य शिवासिना || आताड्याभ्युक्षयेद्विद्वान् वौषडन्तेन वर्मणा | प्. १६६) अस्त्रेणखातमुद्धारं पूरणं समता हृदा | सेचनं कवचेनाथ कुट्टनं हेतिनाचरेत् || संमार्जनं समालेपं कवचेन समारभेत् | न्यस्तव्यः शान्त्यतीताद्या मध्यपूर्वादितः कलाः | त्रिसूत्र प * * * नेन तनुत्राणेन वेष्टयेत् | ॐ हां कलामायाय कुण्डाय नम इति सम्पूज्य पुष्पाद्यैः समिद्दर्भेण हेतिना तिस्रा पूर्वाद्याः कार्या एकैक * * * * * | वज्रीकरणमन्त्रैणा? वज्राकार कुशैः त्रिभिः | हृदाचतुष्पथं का * ?माचन्द्रार्क कुशद्वयात् || इत्यष्टादशसंस्काराः कुण्डे प्रोक्ताः समासतः | अक्षवाटाय कुण्डेऽष्टौ कवचेन कुशान्न्यसेत् || ॐ हां वागीश्वरासनाय नम इति विन्यस्य विष्टर मध्ये दिव्यं सिंहासनं च स्मरेत् || तत्र मूर्तिं न्यसेन्मूर्त्या तस्या मावाहयेच्छिवम् || ॐ हां वागीश्वर्यै नमः | वागीशां श्यामलां देवीमृतु स्नातामलङ्कृताम् | द्विभुजामेकवक्त्रां तु त्रिणेत्रामीश कामिनीम् || दशबाहुं सितं सौम्यं पञ्चास्यं तिथिलोचनाम् | हृदाबाह्य समभ्यर्च्य तयोर्योगं विभाव्य च || अरणी सूर्यकान्तोत्थमग्निहोत्र समुद्भवम् | विप्रक्षत्रिय वैश्यानामाल्याद्वह्निमाहृतम् || प्. १६७) अस्त्रेणा तास्य पात्रस्था क्रव्यादांशं परित्यजेत् | निरीक्ष्य प्रोक्ष्य सन्ताड्या शेषमभ्युक्ष्य पूर्ववत् || अग्निबीजेन चैतन्यं हृदासंहारमुद्रया | आदाय योजयेद्बिन्दौ पूरकेण ततो हृदि || नाभौ वा वह्निना चैक्यं कृत्वा कुम्भकयोगतः | रेचकेन बहिर्नीत्वा ज्वलदग्नौ सुयोजयेत् ||
SKॐ ह्रां ह्रूं वह्नि चैतन्याय नमः | अभिमन्त्रय षडङ्गेन संरक्ष्य कवचाणुना || हृदासमर्चितं वह्निं धेनुमुद्रामृतिकृतम् | योनिक्षोभाय कुण्डोर्ध्वे त्रिधातं भ्रामयेद्धृदा || देवगर्भो शिवे नैव क्षिप्यमाणं विचिन्तयेत् || ॐ ह्रां ह्रूं वह्निबीजाय नम इति | भूमिष्ठ जानुकोभूत्वा निक्षिपेदात्म संमुखम् | एकीकृत्य हृदानाबहु शौचमाचमनादिकम् || दत्वा वस्त्रपरीधानं पट्टबन्धादिकं तथा | रक्षां बध्वा करोदेव्या हेमसूत्रादिनासिना || स दिग्धनैरथाच्छाद्य प्रज्वाल्यव्यजनेन च | हृदा सम्पूज्य गर्भाग्निं गर्भाधानादिमाचरेत् || सद्योजातेन सम्पूज्य गर्भाधानाय पावकम् | (हृदा पञ्चाहुतीर्दत्वा तिलैर्लाजैश्शिवाणुना नन्दनं दशमेकायं पुरुषेण च वर्मणा | प्. १६८) वह्निमुद्दिप्य दर्भाद्यैः जातं बालं शिवात्मजम् | स्निग्धां च देवीं संस्नाप्य दिव्यालं ||) हृदापञ्चाहुतीर्दत्वा स्थितं गर्भं स्थितं स्मरेत् | तृतीये मासि वामेन पूजयेच्छिरसा हुनेत् || ॐ हां पुर्यष्टक देहाय नमः | अर्घ्य बिन्दुं हृदा दद्यादादितः पुंसवनं स्मृतम् | षष्ठे मासि च सीमन्तमग्नेर्वक्त्राङ्ग कल्पना || कार्या घोरेण सम्पूज्य वक्तोद्घातानि निष्कृति | प्रत्येकमाहुतीः पञ्चतिलैर्लाजैः शिखाणुना | नन्दनं दशमे कार्यं पुरुषेण च वर्मणा || वह्निमुद्दीप्य दर्भाद्यैः जालं बालं शिवात्मजम् | स्निग्धां च देवीं संस्नाप्य दिव्यालङ्कारभूषिताम् || कुण्डं चाभ्युक्ष्य शस्त्रेण सद्यः सूतकशान्तये | अभ्यर्च्य गन्धपुष्पाद्यैः सन्तुष्टाम् भावयेच्छिवाम् || अग्नेर्लालापनोदाय पञ्चवक्त्रेषु भेदिना | इत्थमानः पञ्चहोतव्याः प्रान्तमूले घृतप्लुताः || अवक्राः सत्वक्शास्त्राणि निजारग्नि समाः शुभाः | सप्तसप्ता यमा होम्या सप्तजिह्व विशुद्धये || लक्षणं विष्टरादीनां यथा प्रोक्तं शिवागमे | याज्ञीयद्रुमजा बाहुमात्रः परिधयः समाः || कनिष्ठाङ्गुलवत्स्थूला हरिता ब्रण वर्जिता || प्. १६९) त्रिंशद्दर्भदलैर्वेणी ग्रथिता बाहुसंमितैः | ब्रह्मग्रन्थिः यथाचाग्रे वृत्तं वा विष्टरं शुभम् ||
SKतत्तुल्यहरिता हृद्याः कुशासिषु कृतं विना | पुंलिङ्गा हरिता ईषत्कनि * * * बर्हिषः सदा || नियोज्य शिवयागादौ प्रशस्ताः सौम्यकर्मसु || त्रिलिङ्गामृत वश्यामायाग कर्मसु शोभना ||? शान्तिके पौष्टिके चैवमेव माप्यायने हिताः | अधमाः कठिना-ईषच्छेदादर्भा नपुंसकाः || रौद्रकर्मसु ते योज्या गर्हिताः सौम्य कर्मसु || इति || कुशानुत्तर पूर्वाग्रान्मेखला स्वसिनास्तरेत् | पूर्वपश्चिम याम्येन्दौ हृदा विन्यस्त विष्टरे || ब्रह्माणं विष्णुमीशानमनन्तञ्च * * * त्क्रमात् | लोकेशान् परिधिस्थांश्च वाहनायुध संयुतान् || भोगो देवाः सुसन्नद्धाः बालमेनं शिवाज्ञया | रक्षतेति तदाश्रा * * * * * * नामकर्मसमाचरेत् || तस्याज्येन यतस्तस्मादाज्य शुद्धिः पुरासिता | वा * * * * * * यतः सापि तस्मात्तच्छुद्धिरुच्यते || तत्काष्ठत्व निरासाय वीक्षणादि विशोधितौ | वृतव्यः स्रुक्स्रुवावग्नौ ऊर्ध्वाधोवदनौ त्रिधा || पुनरभ्युक्ष्य तद्भ्रान्त मध्य मू * * * * * | प्. १७०) ॐ हूं शिवतत्वाय साधिपाय नमः | ॐ आत्मतत्वायः धिपाय नम इति | त्रिसूत्रवेष्टितग्रीवौ वर्मणापूजितौ हृदा | आत्मनो दक्षिणेभागे यागशाला कुशोपरि || स्रुचि शक्तिं स्रुवे शम्भुं हृदा गन्धादिभिर्यजेत् | घृतं गव्यमथादाय वीक्षणादि विशोधितम् | त्रिधातद्भ्रामयेत्कुण्डे पर्यग्निकरणं हितत् || हृदावतार्य तत्कुण्डे वह्निकोणे निधाय तु | स्वगां ब्रह्ममयीं स्रान्ति ध्यात्वादाय कुशाग्रतः || ब्रह्मणे जुहुयाद्बिन्दुं स्वाहान्त हृदयाणुना | तापनं तत्समाख्यातं महौधृत्वा तु तद्घृतम् || रुद्रोरुद्राय तद्दद्यात् इत्युक्त्वात्तु समीरितम् | क्वचिदेतत्त्रयं प्रोक्तं हृछिरश्चुलुकाणुभिः || अखण्डिताग्रमूलाश्च कुशाः प्रादेशसम्मिताः | घृत संस्कृतये योज्यानेतरे शुभदा कृशम् || कुश कुण्डाद्द्वयं मध्ये ब्रह्मग्रन्थिकृता स्पदम् | द्विहस्ताङ्गुष्ठनाहाग्रैस्तन्मूलाग्रं निगृह्य च || अग्नेः संमुखमस्त्रेण वर्मणा वा त्रिधार्चयेत् | उत्प्लवं संप्लवं चैव हृदा किन्त्वानं कुर्याद्वारत्रयेण तु ||? प्. १७१)
SKकर्तव्यं तत्र सन्धानं मन्त्राणां वदनेषु च | पृथिवीं वरुणे लीनां सद्योवामेन चिन्तयेत् || पश्चिमं चोत्तरे लीनं त्रितयं चैकतोनयेत् || दहनं वायुलीनं तु घोराणां पुरुषे तथा | दक्षिणास्याञ्च पूर्वास्यै तत्त्रयं चैकतो नयेत् || ईशानं व्योम्नि चैवास्यं शिवतत्वलयं न्यसेत् || कथितं ते विशेषेण वक्त्र सन्धानमादरात् || अथ ॐ हें हुं हिं हं ईशतत्पुरुषाघोर वामदेव सद्योजातेभ्यः स्वाहा इति अग्निदि * * * वायुकोणान्ते नैर्-ऋतादीशान्ते घृतधारया सद्योजात वक्त्रे शेषवक्त्राणां लयं विभाव्य तद्वक्त्रं विवृतास्यं कुण्डप्रमाणं विभावयेत् | इति नित्यकर्माणि वक्त्रैकीकार | अथ विद्यादि क्रमेणेशाने वक्त्रीकरमुक्ति कर्मणि शेषं कर्मानुरूपमीश स्थाने विभाव्य तदीशानान्तस्थाने विभावयेत् | इति वक्त्रैकीकरणम् | उक्तञ्च - वक्त्राभिधारा * * * * त्सद्यादिशाम्बरैः | यद्वैशानादिभिः पश्चात्कर्म ज्ञात्वादनैकताम् | ध्यायेद्वृत्तानि पञ्चाग्रे येन यत्कर्म वाञ्छितम् | तन्मुख्यमुर्ध्वेन कुर्वीत तत्स्थाने चोर्ध्वगंमुखम् | अन्तर्भावान्य वक्त्राणि तच्च कुण्डप्रमाणकम् || शिवारुद्रा ग्रहादित्या ब्रह्मचन्द्राच्युतादयः | हुताशनमुखास्सोऽपि सर्वदेवमयोहरः || इति || प्. १७२) अथ कर्मानुरूपं वक्त्रं च | यथा कालोत्तरे - ईशानमूर्तये होमः पुरुषे चाणिमादिकम् | प्रायश्चित्तादिकं घोरे तथा स्यात्क्रूर कर्म च || वश्याकर्षणमोहार्थं वामदेवे तु होमयेत् | नित्यकर्मविधानं तु वक्त्रेऽस्मिन् पश्चिमे हितम् | एवं ज्ञात्वा महासेन संकल्प्यः कुण्डमानतः || वक्त्रैकीकरणं ह्येवं नान्यथा कारयेत्सुत | होमानिभूतास्ते गौणान्यन्य मुखानि तु || इति || अतस्तस्मिन्वक्त्रे जिह्वाभिधारणादिकं विदध्यात् | तद्यथा - हिरण्याकनका रक्ता कृष्णा तदनु सुप्रभा | अतिरिक्ताबहुरूपा सप्तजिह्वाः प्रकीर्तिताः || ईशपूर्वाग्निनीनाती वरुणानिलदिक्षु च | मध्ये चैव हिरण्याद्या सप्तजिह्वाः स्थिताः क्रमात् || हिरण्यातप्तमेहाभा कनकारजतप्रभा | रक्तेरितारुण प्रख्या कृष्णा नील मणिप्रभा ||
SKसुप्रभा मौक्तिक ज्योत्स्ना सुरक्ता पद्मरागवत् | चन्द्रकान्तशरच्चन्द्र प्रभेद बहुरूपिणी || फलमेकैकभेदेन क्रव्यादा सामुदीर्यते | वश्याकर्षणयोराद्या कनका स्तम्भने हिता | विद्वेष मोहयो रक्ता कृष्णा मारण कर्मणि || प्.१७३) सुप्रभा शान्तिके प्रोक्ता सुरक्तोच्चाटने मता | एकै च बहुरूपा तु * * * * * * * दा ||? हिरण्याद्या स विज्ञेया यो जिह्वा वह्नि सन्निधौ | होतुश्चोप क्रमे मार्गः सम्भवेद् ब्रह्मघातकः | यादिहान्ता विनारेफं रेफषष्ठस्वर स्थितः || नादबिन्दु समायुक्ता जिह्वादीपनमाचरेत् | द्वाभ्यां द्वाभ्यां तु सन्तानं कृत्वा मध्येलयं नयेत् || इति जिह्वैकीकरणम् | ॐ भूः हिरण्यायै स्वाहेत्यादि मन्त्रप्रयोगः | वदेन्नामकरणार्थं ॐ ईशानाय नमः इति संपूज्य स्वहान्तास्त्रेणाहुति पञ्चकं दत्वा ॐ हां शिवाग्नि तत्वं हुताशनेति नामाभिधाय ॐ हां ह्रूं शिवाग्नये स्वाहेत्याहुति पञ्चकं दत्वा शेष संस्कार सिध्यर्थं वक्ष्यमाणवत् पूर्णां दत्वा ततः पितरौ सम्पूज्य दश दशाहुतिभिः सन्तर्प्य हृदयेन विसर्जयेत् || इति नामकरणम् | उक्तञ्च - नामकर्म च कर्तव्यं शिवाग्निरिति नामतः | रोषसंस्कार संसिध्यै पश्चात्पूर्णां पूर्वपातयेत् || निष्क्रमणान्न प्राशनञ्च व्रतबन्ध तथैव च | चूडा गोदान पर्यन्त प्रकान्तं पूर्णयाकृतम् || वागीश्वरीं शिवं चैव हृन्मन्त्रेन विसर्जयेत् || इति || अथवान्य प्रकारेण शिवाग्निं धारयेद्गुह || प्. १७४) आत्मविद्या शिवाख्यैश्च त्रिधापूर्णां प्रपातयेत् | शिवाग्निर्जायते तेन सर्वसंस्कारवर्जितः || इति || ततो धूपदीपार्थमग्निमुद्धृत्य स्थानान्तरे संरक्ष्य ॐ ह्रूं शिवाग्नये स्वाहेति * * * * * क्त मूलाग्रास्समिधः षोडशहुत्वा तदनु ॐ - अग्नेत्वमैश्वरं तेजः पावनं परमं यतः | तस्मात्त्वदीय हृत्पद्मे संस्थाप्य तर्पयाम्यहम् || इत्यग्निं संप्रार्थ्य तदाज्ञातस्तद्धृदय कमले पूर्ववत् साधनं सदाशिवमाश्रयोपाधि वर्णाढ्यं पवित्रान्तं विस्तरेण पूजयेत् || यद्वासनमूर्तिं शिंस्तदुच्चार्य पूजयेत् | उक्तञ्च |
SKआसनं मूर्तिमावाह्य त्रयन्तत्र सकृत्स्तरेत् | अथवाहृत्प्रयो * * गत शिवाग्निं कारयेद्यथा || आसनं पूर्ववद्देवं मूर्तिरत्रापि पूर्ववत् | परतत्वे शिवान्तस्तु तस्यां मूर्तौ नियोजयेत् || पूजां कृत्वा विधानेन पूर्ववद्धोम माचरेत् || ततो लिङ्गस्थेन शिवेन नाभिसन्धानं कृत्वा पुनर्वह्निस्थेन शिवेन संदध्यात् | तद्यथा - ऊर्णा तन्तु नित्यान्नासी मुदितेन विनिर्गताम् | अनुदितेन विशन्तींतां निर्गतामुदितेन तु || आनेनानुदिते नैव विशन्तीं चिन्तयेद्गुरुः || इति | स्रुतेव स्रुताक्तैस्तिलैर्वा मूलमन्त्रेणाष्टोत्तरशतं हुत्वा तद्दशां प्. १७५) शांशेनाङ्गानि च सन्तर्पयेत् | उक्तञ्च - स्रुताभावे तिलैर्होमः कर्तव्यः कृष्णवर्णकैः | व्रीहिभिर्वा यवैर्वाथ होमः सर्वार्थ सिद्धिदः | सर्वकामव्रतोहोमः तिलैर्युक्तो स्रुताप्लुतैः | अप्रदीप्तेन होतव्यं धूमो चास्य निबन्धने || प्रदीप्ते लेलीहाने च होमोहोमो वह्नौ प्रसिध्यति | स्निधः प्रदक्षिणावर्तः श्रुतिपुच्छादितः ध्वनि | नित्यमूर्ध्वगतोच्छिष्टात्त्स पिण्डीतश्शिवैश्शुभ | इति | अन्नग्रासत्रयं शम्भोः दत्वागग्रासपञ्चकम् | एकैकमङ्गजातानां पूर्णां दद्याद्यथोच्यते || घृतेनस्रुचमापूर्य निधायाधोमुखं स्रुवम् | तदग्रे पुष्पमारोप्य शङ्खसन्निभमुद्रया | हस्ताभ्यां स्रुक्स्तुवौ धृत्वा तन्मूलं नाभिमध्यगम् | कृत्वा चोत्थाय सन्तिष्ठेदृजुकायः समाहितः | मूलमन्त्र मति स्पष्टं वौषडन्तं समुच्चरन् | यत्कन्दकलशः सोऽयं नासीदण्डस्तदुद्गतः || हृदयं वेदिकाचारु पुष्कलं तालुरन्ध्रकम् | बिन्दोरुद्गत पीयूषैर्नासारन्ध्र विनिर्गतैः | स्रुवमापूर्य तत्सर्पिः पूर्णां दद्याच्छिनानलैः || अग्नेराचमनं दत्वा ताम्बूल प्रमुखानि च | प्. १७६) स्तुत्वा प्रणम्य सम्पूज्याभिवन्द्य समापयेत् || अयात्र प्रसङ्गाद्धो सोमद्रव्याणि प्रमाण दिकमग्निपूर्णाहुति लक्षणं च यथागमं लिख्यते - घृतेन पयसा वाथ तिलैर्वा घृतमिश्रितैः | यवैर्वा व्रीहिभिर्वाथ गुग्गुलेन घृतेन वा ||
SKनित्यहोमः प्रकर्तव्यः काम्यहोमस्तथोच्यते | दूर्वाघृताघ्न शान्त्यर्थं समिधस्त्रिः मधुप्लुताः || जातीचम्पक पद्मानि पुष्पाणि च फलानि च | श्रीकामानां हितोहोमः करवीरवशोभितम् | राजिका लवणं तद्वत्पीत पुष्पाणि स्तम्भने || आज्यं वै कर्षमात्रं तु होतव्यं कर्मसिद्धये | तिलामृग्या तु जुहुयाद्यवादीन् कम्बुमुद्रया || मुष्टिना तण्डुले नैव पुष्पादीन् कुम्भकेन तु | यतः सव्यञ्जनादीनि पताकेन तु होमयेत् || कर्कन्धुक प्रमाणेन गुग्गुलं होमयेत्सदा | घृताक्तं पायसं होमं शक्तिमात्रप्रमाणतः || ग्रासमात्रं सदाहोम्य मोदरस्या हुतित्रयम् | स्रवन्मात्रं व्यञ्जनानां भक्ष्याहोम्या स्वमानतः | कृच च लामल बद्धोक्तेम्यो? लवणं कर्षमात्रकम् | वाचा सिद्धार्थका होम्यामुष्टिमात्र प्रमाणतः || प्. १७७) फलानां कुसुमानां च स्वप्रमाणमभीप्सितम् | कन्दमूलफलेष्वेवं संस्कृतेषु षडानन || कन्दमूल फलाद्यैर्वा नित्यकाम्ये च शस्यते | भगन्तन निवृत्तौ तु राजयक्ष्माणि सक्तुना || उच्चाटने तुषा कम्बु क्रोशास्थीनि च होमयेत् | तीक्ष्मतेलेन समिधो विभीतक समुद्भवाः || विरुद्ध प्राणि सर्वाङ्ग होमो विद्वेष कर्मणि | ऊर्ध्व शुष्के च कर्तयं तच्चापि कृतनिश्चयः || प्रेतदारुश्मशानोत्थे रक्तमिश्रैस्तु शस्यते | उच्चाटयतु चक्रस्य नात्र कार्या विचारणा || कर कण्टकिनो वृक्षा ज्ञातव्यास्त्वभिचारके | शान्तिवृष्टि वशाकर्षे क्षीरिणस्तरवः स्मृताः || मधु प्रशस्यते होमे स्रुङ्मात्रैश्चैव शासने | चतुष्पदानां सर्वेषां आयुषो शस्यते पयः | पलमात्रं च मधुरं सदोत्कृष्टौ फलद्वयम् || सर्वाप्यायन सिध्यर्थं होतव्यं मधुना सह | निर्धूमे होमगा मात्रं प्रशस्तं नान्यथा शुभम् || प्रदीप्ते दक्षिणावर्ते होमः सर्वार्थ सिद्धिदः | अग्नौ वर्णाश्च गन्धाश्च स्वना आकृतयस्तथा || विकाराश्च शिखाश्चैव ज्ञातव्या साधकेन तु | प्. १७८) पद्मरागद्युतिस्तेषां लाक्षारससमप्रभः | बालार्कवर्णो हुतभुक् जयार्थं शस्यते नृणाम् ||
SKजपाकुसुमसंकाशो हितो भोगेषु * *? पावकः | चक्रा चापनिभश्शस्तं कुङ्कुमाम्बु निभस्तथा || रक्तवर्णस्तदा वह्निः प्रशस्तः सर्वसिद्धिदः | तप्तचामीकरप्रख्यो हरिताल निभश्चयः || हरिद्रा कुनटीवर्णा रोचनान्तश्च शस्यते | स्तम्भने पीतवर्णस्तु रक्तोवर्णस्तु धौ(यौ)हितः | षट्पदाञ्जननिः स्त्रिंशतुल्य वर्णो न सिद्धिदः | मरणोच्चाटनच्छेदे कर्माण्यस्मिन् समाहितः || शङ्खस्फटिककुन्देन्दु वर्णाड्योऽपि न सिद्धिदः || शान्तिके पौष्टिके चैवं शोभनः सर्वदानलः | मार्जाराक्षिनिभं शस्तं शुकपिञ्छाभ एव च || मयूरकर्ण न सदृशस्तथा पारावतोपमः | विचित्रोहूय मानोऽग्निः सहसैवं प्रजायते || ज्ञात्वा कर्मानुरूपं वेतं यस्ययस्यानुरूपतः | कर्मणः सततं ग्राह्यः त्याज्योवातविलोमतः || सुगन्धद्रव्य गन्धोऽग्नि घृतगन्धश्च शोभनः | आयुषः पद्मगन्धश्च विल्वगन्धश्च षण्मुख | उग्रगन्धोऽभिचारादौ प्रशस्तः सर्वदाऽनलः || नीलोत्पल समोगन्धः सौभाग्ये शस्यते सदा || प्. १७९) हूयमानः सदावह्निः करीन्द्राम्बुद निस्वनः | तदा होतुर्विजानीयात्कर्मसिद्धिरभीप्सिता || जीमूत वल्लकीशङ्ख मृदङ्गध्वनि रूपकः | सद्योऽग्निस्सिद्धये होतुरतोऽन्यश्च विपर्ययः || छत्रकारो भ्रुगुः श्रेष्ठा ध्वजचामर सन्निभः | वृषकुञ्जरयानेन तुल्याग्निः पुष्टिदः सदा || विमानाद्रिवितानानां प्रासादानाञ्चयो भवेत् || अकारणे च हंसानां मधुराणां च शस्यते | सिंहाकृतिर्यदावह्निः सद्यास्सिद्धि कविस्मृतः || घनाः स्निग्धाः पिण्डिताश्च निर्वमाश्चाति भास्करः || मृदवः सर्वदा शस्ताः सिद्धये सर्ववस्तुनः | रूक्षश्चटचटा शब्दस्तथास्मिमि सिद्धवनि | खरोष्ट्रमहिषादीनां रूपाश्चात्र न सिध्यते || स्निग्धः प्रदक्षिणावर्त र शब्दश्चापि यो भवेत् | वेद्यः सोऽर्थ प्रसिद्ध्यर्थं अन्यथा निष्फलो भवेत् || एवं विधाः प्रशस्यन्ते भ्रुगवो नात्र संशयः || उल्लिखेच्च सुधायाश्च यश्चायं शिख एव च | नाभ्यसौ मुक्तिमुक्त्यर्थं शास्त्र कालोत्तरात्मके || तथा -
SKहिरण्यायां हुनेदित्थं कनकायां घृतं हुनेत् | रक्तायां तु रथाः प्रोक्ताः कृष्णायां धान्यकं हुनेत् || सुप्रभायां हुनेत् सक्तून् सुरक्तायां तिलं हुनेत् | सिद्धार्थं बहुरूपायां सर्वासु चरुरुच्यते || प्. १८०) द्रव्याव्यन्यानि सर्वाणि * * * * कथां हुनेत् क्रमात् | समिद्धोमैस्तु तं ध्यायेद्दण्डिनीश्चरुणा हुनेत् || आज्य होमेशयानं तु आसीनं शेषकर्मसु | होमकाले तु मन्त्राणां जातिः कर्मानुरूपतः || स्वाहा शान्तौस्वधापुष्टौ वौषड्वश्ये नमोऽर्चने | ठठस्तम्भे बन्धूच्चाटे मारश्रे घातयस्वयम् || वषडाकर्षणे जातिरेवं मन्त्रेषु कीर्तिता | हेमन्ते पौष्टिकं कर्म शिशिरे मारणं परम् || वश्यां तुष्टि वसन्ते तु ग्रीष्मे विद्वेषणं भवेत् | प्राष्यपि सदोच्चाटः शान्तिः शरदि संश्रये | उषा योगे तु हेमन्तं प्रभाते शिशिरं विदुः || प्रहरे तु वसन्तश्च मध्याह्ने ग्रीष्म संज्ञकम् | प्रहरत्रये च वर्षाः शरदस्तमने बुधः || अलमति विस्तरेण | ततो वह्निस्थं शिवं सम्पूज्य पूर्ववद्विसृज्य लिङ्गस्थे शिवेनाडीमार्गेण संयोज्य कुण्डवह्नीः तद्देवानापि सोपचारं विसृज्य तदनु पूर्ववद्भूराहुत्यादिकं दत्वा कुण्डादग्निमुद्धृत्य नवेभाष्डे संरक्ष्य शेषाग्नौ चण्डेश्वरं सम्पूज्य यथा शक्ति सन्तर्प्य विसृज्यापूपवदन्तर्बहिर्बलिं दत्वा विमृज्य कुण्डगतद्रव्यजातं भस्मावशेषं विधाय तदुद्धृत्य कुण्डं स बाह्याभ्यन्तरं गोमय वारिणा संलिप्य पुनरपि होमकाले कुण्ड संस्कारं विधाय तत्रस्थापितमग्निं प्रज्वालय तस्मिन् शिवं पूर्ववत् सम्पूज्य सन्तर्पयेदित्येवं प्रत्यहं विदधीत | तदुक्तञ्च - प्. १८१) प्रत्यहं विदितं कर्म कुण्डस्योल्लेखवादिकम् | जाग्रपये ततोनाग्नि नित्यन्नैत्ये तु कर्मणि ||? अत्र शवेदनदीक्षा प्रतिष्ठेतर विहित नैमित्तिकेन कर्तव्य इति भावः | संस्कृते प्रत्यहं कुण्डे न्यसेत्प्राक् संस्कृतानलम् | इति | तथा - शिवाग्नेर्धारणं पुण्यं यावज्जीवं शिवाज्ञया | कुण्डादुधृत्ययत्नेन स्थापयेद्भाजने दृढे ||
SKतुषैः शुषैः कालपैः पुण्येनाग्निं सुरक्षयेत् | संस्कृत्य पूर्ववत्कुण्डं प्रत्यहञ्च प्रदक्षिणम् || तत्र निक्षिप्यमनुभिः तत्र सन्तर्पेच्छिवम् | कमान्ते पूर्ववद्रक्षा कार्यायत्नेन दीक्षितैः || एवं सुरक्षितं कृत्वा प्राणान्तं यः प्रतर्पयेत् | तस्य पुण्यफलं वक्तुं न केनापीह शक्यते || न चे तरेषु तत्कार्यं नैव प्राकृत जन्तुषु | विसर्जनं यदावह्नेर्देशादौ * * * स्यात्कदाचन || ज्ञानाग्नेर्हृदये चिन्तो योजयित्वा विसर्जयेत् | तदा वस्थानरूपं तु प्रायश्चित्तं समाचरेत् || स्वस्थे चित्ते पुनः कुर्याद्यथा पूर्वमुदाहृतम् || इति || ततः शिवान्तिकं गत्वा शिवहोमादि समर्पणं विधाय पूर्ववच्छिवं विसर्जयेत् || प्. १८२) स्वस्ति | श्रीविश्वेश्वर पादाब्ज चञ्चरीकः शिवालयः | श्रीज्ञान शङ्करश्चक्रे वह्निकार्यं स विस्तरम् || || इति श्रीज्ज्ञानरत्नावल्यां बृहदग्निकार्यः समाप्तः || श्रीमहागणपतये नमः || अथ मध्याह्नसमयेऽपि स्नानसन्ध्यापुरस्सरम् सविस्तरं स्याग्निकार्यं शिवमर्चयेत् | यद्वा पूजार्चिते देवे मुहूर्तपञ्चकम् यावत् प्रतीक्ष्य माध्याह्निक विधिं सन्ध्यापुरस्सरमष्ट पुष्पिकया वश्यं निर्वर्त्य च भोजनं विदध्यात् || उक्तञ्च - इति माध्याह्निकविधिं कृत्वा भुञ्जीत नान्यथा | तद निवर्त्ययोऽनाति सवनं सुरपूजितम् || मन्त्रस्थं नाधितिष्ठन्ति योगपीठ व्यवस्थिताः | मुहूर्तैः पञ्चभिर्यातैः कृत्वामाध्याह्निकं विधिम् | भुञ्जानस्य शिवामन्त्रा भवन्त्य शिवहारिणः || इति || तथा - अकृत्वा पूजनं शम्भोर्यो भुङ्क्ते पापकृद्द्विजः | गुणपञ्चमलं चैव वसोन्नाध्येव संशयः || अथ स्यात्तु कृमीन् भुङ्क्ते अजापि मूत्ररेतसि | अहो ! अमीमल मश्नीयाददाता विषमश्नुते || एतच्चतुष्टयं कृत्वा योगादमृतमश्नुते || अथ भोजनविधि रुच्यते - प्. १८३) गुरुभिः कृपया दत्तं शिष्यैर्भक्त्या हृदभ्यन् | धान्यवामादिकं वान्यैः भक्तैः शुद्धैः द्विजादिभिः || भक्त्यादत्तं सदा ग्राह्यं नेतरैर्मन्त्रपादिभिः | देवद्रव्यं गुरुद्रव्यं मन्त्यजस्वं विवर्जयेत् ||
SKआत्मार्थे पचते यस्तु ब्रह्महा स च कथ्यते | पाक प्रोडाश इत्युक्त स्वं शुष्कैरथेन्धनैः | कीट मध्यादि निर्मुक्ते शुद्धे लिप्ते महासने | स्वयं पाकः प्रकर्तव्यः शुद्धैरन्यैश्च वामतः || सिद्धे पाके गृहे लिप्ते पाके नीते शुचिर्गुरुः | कृतन्यासैः चितैस्थोयै पाकं मृत्युजितोक्षयेत् | तत्पाकाग्रं समुद्धृत्य शिवायार्थं निवेदयेत् || शेषार्धेन ततो हुत्वा ताञ्चपुल्लिं विशोध्य च | तत्र ज्ञानानलं कृत्वा हृदासम्पूज्य तत्र च || ॐ हां अग्नये नमः | ॐ हां सर्वेभ्यो नमः | ॐ हां अग्नये स्विष्ट कृते नमः | इत्यग्न्यादि पूर्वान्तं सम्पूज्य स्वाहान्तैरेव हरन्नादिकं कृत्वा क्षमयित्वा विसर्जयेत् | ततः केचिदस्मिन्नवसरे - धर्माधर्म शरीराश्च पुंल्लिं संस्थान भांडकम् | तोयकुम्भं तथा यन्त्री मीलामुसलसंयुतम् || उलूखमार्जनी युक्तं पेषणीं पर्जनीं तथा | गृह प्रधानद्वारेऽध्वे विघ्नेशञ्च सरस्वतीम् | प्. १८४) लक्ष्मीं च द्वारशाखायां द्वारमध्ये महेश्वरम् | द्वारायोदुम्बरे शक्तिमाधाराख्यं गृहस्थ च || मध्यस्तम्भादय स्कन्दं तदधो वास्तु नायकम् | कामं स्वशं धनाग्रे तु हस्ते खड्गं तथासनम् || यानं स्वावाहनं चैव कुमारीं दीपमुज्ज्वलम् | गन्धपुष्पाक्षतातोय धूपदीपान्न कादिभिः || पूजयन्त्यग्रमस्याश्च सर्वसम्पत्कराय च || इति || धौतपादः समाचान्तः कृतन्यासः समाहितः | स्थानमासाद्य पूर्वोक्तं भोजनार्थमुपक्रमेत् || तत्रा चार्योऽथ पूर्वास्यस्सुखासीनः सुखासने | जानुमध्यकरोवाह्यं मौनी वीरासनोऽथवा || साधकः सौम्यवक्त्रस्य शेषाः प्रत्य * * * वा स्थिताः | एषामेक तमोवापि नाश्नीयाद्दक्षिणाननः | प्रमादाद्यदि भुंक्तेऽसौ व्याधिभिः परिपीठ्यते | स वर्णैरेव पङ्क्तिस्थैरसं कीर्णैरनाकुलैः || शुद्धाम्नाय समुद्भूतैर्विनीतैर्गुरुवत्सलैः | सार्धं रक्षासिना कार्या भस्मना परितस्त्रिधा ||
SKकांस्ये ताम्रेऽथवा सीसे पात्रे भस्मा * * शोभिते | रम्भापद्मपलाभ्रमधूक पनसैर्दलैः | कुम्भी चम्पक पुन्नाग कूटजाति समुद्गतैः || प्. १८५) एवमादिभिरन्यैश्च प्रसिद्धैरेक जातिभिः | भुञ्जीयादिति शेषः | अश्वत्थैरण्डभल्लात न्यग्रोधार्क विभीतकैः || शूकोदुम्बरसञ्जाद्यैः? ना स्याद्भोजन भाजनम् | आग्रमूलयुते पात्रे यद्वापत्रत्विके कृते || नखच्छेदोपवीतेन च वीक्षणादि विशोधिते | घोरेण सप्तधा जप्ते ध्यात्वा मृत्युञ्जयामृतम् | तत्राभिधार्य भक्तादीन् प्रोक्ष्यमृत्युञ्जयादिभिः || तेन तत्सप्तधा लभ्य पानीयञ्च प्ररोचयेत् | भूमौ ग्रासार्धमात्रान्नं नागादिभ्योबलिं क्षिपेत् || तद्यथा - ॐ नाग कूर्म कृसर देवदत्तधनञ्जयेभ्यः उपप्राणवायुभ्यः स्वाहेति सव्यहस्तचुलुकाधो गलित जलेन वा गादिभ्यो बलिं निवेद्य ॐ हां अपानाय स्वाहा | ॐ हां सनानाय स्वाहा | ॐ हां उदानाय स्वाहा | ॐ हां व्यानाय स्वाहा इत्यङ्गुष्ठ मध्यमा नामिकाग्रैः प्राणादि वायुस्थ देवान् सन्तर्प्य इत्येषान्न मुदराग्निस्थ शिवाग्नौ शिवं जुहुयात् | उक्तञ्च - आत्माप्राणे स्थितोऽपाने संस्थिता भूतयोनयः | उदाने संस्थिता देवाः समाने पितरः स्थिताः || व्याने च संस्थिता नागाः तथा पातालवासिनः | अङ्गुष्ठ मध्यनामाग्रैः दक्षहस्त स्रुचाग्रकैः || आज्य कुण्डान्तरस्थाग्नि ज्वालामध्ये व्यवस्थितान् || प्.१८६) एकैकाहुतिभिर्दान्ता न स्पृशन्तर्पयेदिमान् | घृतव्यञ्जनसंमिश्रं शेषमीशायहोमयेत् || प्राणाग्निहोत्रमित्युक्तं अग्निहोत्र शताधिकम् | इति | तथा - शीघ्रफलञ्च लशुनं चिबुकामिषम् | गृञ्जनं मधु मांस्यं वा प्रत्यक्ष लवणं च च || उच्छिष्ठो परिनादद्यादाज्यं सामुद्रिकं तथा | नाद्यात्पर्युषितं पक्वं तैलपक्वं विना परम् | पानीयं न तु पानीय क्षालितेन तु पाणिना || परहस्तेन नाश्नीयात् पीतशेषं जलं नव | नादो दाग्नौ परिक्रुद्धौ वक्त्र ग्रावोग्यमानसः || जृम्भत्कासन्न जप * * * चिन्तेनो कुक्कुटासनम् | पत्रेक्षिप्तं पिबेत्तोयं नैव तद्वृतमानसः ||
SKमत्स्य कण्टक शम्बूक नखकेश कपर्दकैः | प्रमादान्मक्षिकाद्यैश्च दष्टन्तत्र समुद्धरेत् || शेषं भस्माम्बुनाभ्युक्ष्य सोऽद्यात्क्षालितपाणिना | अस्त तन्त्रं त्यजश्वानं पुष्पस्नी? खरसूकरान् || चण्डाल चर्मकारादीन् तदा नैवावलोकयेत् | तद्वाक्य श्रवणं नेष्टं तथा कुर्याज्जगद्ध्वनिम् || प्रमादादचलोकश्चे द्वान्त्वा तोयेऽवगाहयेत् | अर्धोच्छिष्टेय दापश्येत् स्नानमेव तदामतम् || श्रुत्वा तद्वाक्यमास्यस्थ मध्यत्वे चाममाचरेत् || प्. १८७) आदाये नैव माद्यञ्च पञ्चयन् समुपस्थितः | स्वलपं सुस्निग्धमश्नीयान्निश्शब्दं सव्यपाणिना || मध्यं दिनेऽथवानक्तं प्रथमा सुखमाचम्य ||? अथभुक्तदोष विशुद्ध्यर्थं ॐ हां कालाग्निरुद्राय स्वाहा | इति दक्षकराङ्गुष्ठाग्र प्रसृतजलेन दक्षपादाङ्गुष्ठाग्रस्थ कालाग्निरुद्रमभिषिच्य परिघामुद्रां बध्नीयात् | उक्तञ्च - यावन्तस्यानि पिण्डानि तावत्पापेन लिप्यते | अल्पमेव ततोऽश्नीयात् प्राणरक्षणमात्रकम् | तत्पापस्यापि शुद्ध्यर्थं दक्षपाद नखाग्रकम् || कालरुद्रं हृदामन्त्री सव्याङ्गुष्ठेन सेचयेत् | आरोप्य वामहस्तस्य कनिष्ठा नाभिमण्डले || तामेव दक्षहस्तस्य वामाङ्गुष्ठेन योजयेत् | विततौ च करौ कृत्वा दक्षाङ्गुष्ठं न्यसेन्मुखे || परिखेयं समाख्याता दुष्टाहार विनाशिनी | अथोद्धूल्य कृतन्यासो गुरुदेवं प्राणम्य च || अघोरं सप्तथा जप्त्वा मौनं पश्चाद्विसर्जयेत् || उक्तञ्च - आचम्याथ शुचिर्भूत्वा शिवं ध्यात्वा ततो जपेत् | वाग्विसृज्य जपस्थान्ते सत्यं प्रियतमं कुरु || इति | मुखसंशोधनं कुर्यात् | यदि पथ्यादिना सह न्यसेवेद कदाचिच्च ताम्बूलं रागकारणम् | इति सन्तानिक भिक्षाभोजन विधिः || प्. १८८) किं प्रतिग्रह दोषेण किंवादान फलेन च | पाकायासेन किं कार्यं बहुदोषाश्रयेण तु || इत्येतेषु विरक्तश्चेन्महापुण्य चिकीर्षयः | तीर्थे लिङ्गाश्रये कृत्वा तृणपर्णमयीं कुटीम् || तावत्परिकरो भूयाद्यावन्मात्रेण वर्तते | देहपाद व्यवहितं प्रदीषन्पादमव्ययम् ||
SKबोधानन्तमयं नित्यं शिवासक्तः शिवाज्ञया | कृतकृत्यस्सपूतात्मा भस्मपाण्डर विग्रहः || परिवर्त्य च कौपीनं काषायं परिवेष्ठितम् | कृतवस्त्रोत्तरासङ्गः धृतरुद्राक्षमालिकः | जटासंवरणं कृत्वा यथाचार्य परम्परा || द्वादशाङ्गुलमुत्सेधं मङ्गलाङ्गुलि विस्तृतम् | शस्त्रं स्वस्त्र जमाधारं तथा व्याघ्रमृगाजिनम् | लघुकं वा यथा लाभं लभमानं यथा शुभम् || तथा धारोधरो भूत्वा प्रक्षाल्य चरणौकरौ | समाचम्य विधानेन कृतन्यासः प्रसन्नधीः || चरेन्माधुकरीं भिक्षां तद्यतीनां यथागमे | दण्दमात्मा समाकृत्वा स्थूलमङ्गुष्ठ वत्समम् || यद्वाहस्तिमिदं वेत्रं वंशं वैणवखादिरम् | द्वादशाङ्गुलविस्तीर्णमिश्रयादङ्गुलाष्टकम् || प्. १८९) भित्वा पात्रं प्रकर्तव्यं ताम्रं वा पात्रकल्पितम् | पलाश मधुपात्रैश्च कदम्बात्रैश्च चम्पकैः || वर्जयेत् तु वटाश्वत्थ पिथ चाक्षाति केसरम् |? तथा पतति संभूतं भिक्षाकार्यं यथा विधि | दण्डेऽस्त्रं हृदयं पात्रे न्याथा याथाच्छिवं स्मरेत् || पात्रे प्रतिपदं भैक्षं भुञ्जीयाद्भूगतं न्यजेत् | स्थातव्यं न चिरंकालं निवृत्तेन निवृत्तनम् || मौनं प्रयत्नतः कार्यं पात्रपूरणतोऽथवा | कणभिक्षाऽथवा कार्या बहुदैवसिकन्तु वा || उविपूरु चित्वीकं हता अत्रयो विशेषः सोमशम्भुपादैः आनीयाचमनाय श्रद्धयावत्प्रदीयत | अन्नाद भूमिपर्यन्तं सा भिक्षास्यादयाचिता || पतितान्नापिताः कार्योऽभिशस्ता तथान्त्यजात् ||? धर्मोमनीषया भिक्षाभिषुरद्वाददीतव || यथा मध्वावाददावोऽपि भृङ्ग पुष्पं न बाधते | तद्वन्माधूकरीं भिक्षां आददीत गृहाधिपात् || एकान्नं तु न भुञ्जीत बृहस्पति समोयदि | एताभ्यः स्वपरं भिक्षां प्रार्थनाद्यपरोयतः || साध्यं भिक्षुर्निरोधार्घ्यमाधमां परिवर्जयेत् | भिक्षार्थं ताम्रजं लोहं बृहद्वृक्षादि पत्रजम् || प्. १९०) बुभुक्षोर्विहितं पात्रं मुमुक्षोस्तुम्बकादिकम् | पवित्रशुक्लमालम्बी बहुरूपाभिमन्त्रितम् ||
SKतनुत्रजप्तकाषाय शुद्ध वस्त्रावकुण्ठितम् | विशुद्धभस्मना स्नातः कौपीनश्चोत्तरीयकः || परिवर्त्य समाचम्य मौनीध्यात्वा शिवं गुरुम् | तयोराज्ञां समादाय दण्डञ्चास्त्राभिमन्त्रितम् | आतपत्रकरोयावद्भिक्षार्थं शुद्धवेष्मसु | तदाप्राणा मनीषा वा स्पर्शमुन्मार्गसर्पिणम् | कुत्सनं च न कुर्वीत त्यजेच्चाश्वादित्येकशश्चादि संकुलम् ||? [धर्मो मनीषया भिक्षा भिक्षुरद्वाददीत न | यथा मर्धवाददानोऽपि भृङ्गः पुष्पं न बाधते | तद्वन्माधूकरीं भिक्षामाददीत गृहाधिपात् |] चतुर्णां शुद्धवर्णानां समासाद्य गृहाङ्गणम् | भिक्षां देहीति संजप्य पादाङ्गुष्ठाग्र लोचनम् || तावत्कालं प्रतीक्षेत यावद्गौर्वत्सयोगतः | प्रस्नावं समवाप्नोति ततोऽन्यत्र व्रजेन्मुनिः || व्रजन्नपि समाभूतो नागच्छेत्तत्प्रदेशतः | यजदान जनानीतां भिक्षां तत्रैव चाहरेत् || न दर्या न च हस्तेन कालस्ये नाददीत तत् | वृषली गुर्विणी म्लानवस्त्राणाञ्च करणेन तु || ततो भिक्षामटित्वेत्थं पात्रपूर्त्यवडानिकाम् | लोकानां शुभमाशं सन् व्रजेदाश्रममात्मनः || इति || प्. १९१) भिक्षामानीय तामसधाप्यव्य स्थाने शुभे समे |? हस्तपादादिमाक्षाल्य स चामेत् पूर्ववत्सु च || हृदा सम्प्रोक्ष्यतान् द्रव्यान् शिवाय मुखे पुनः | भोजनं परितः कार्यं त्र्यक्षरेणाभिमन्वितम् | तदाभृतं भवत्याशु तद्घात मृत्युजिद्भवेत् || मौनमास्थाय भोक्तव्यं न चात्यन्त विरोधकृत् | एवं भिक्षाटनं प्रोक्तं सर्वसामान्यलक्षणम् || नास्ति भिक्षासमं पुण्यं कस्तिभिक्षासमं तपः | सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् | यत्पुण्यं सर्वदनेषु तथा चान्द्रायणादिषु | तत्फलं कोटिगुणितं भिक्षां श्री प्राप्नुयान्नरः || पाके निर्वर्तिते यात्रा तिथिर्याति पराङ्मुखः | देवाश्च पितरस्सर्वे यान्ति तस्मात्पराङ्मुखः || प्राप्त काले तु दातव्यं विचारेण च यत्नतः | कुलान्युद्धरते सोऽपि दशपूर्वान् दशापरान् || सर्वेषाञ्चैव पात्राणां पात्रमेवा तिथिः परम् | हीनाङ्गो यथा पूर्णाङ्गोऽप्यभ्रातो शुचिरेव च ||
SKअविचारेण पूज्योऽसौ सोऽश्वमेघ फलं लभेत् | सम्प्राप्तकाले योभिक्षुं पुरतः परिवर्जयेत् | तस्य पुण्यफलं सर्वं गृहीत्वा यातसोऽतिथिः || प्. १९२) अनिस्पन्ने यदा पाके योऽर्थयेद विचारतः | ब्रह्महा कथ्यतेऽसोऽपि बहुरूप सदा शुचिः || एवं ज्ञात्वा प्रयत्नेन कार्यं भिक्षाटनं सदा | सिद्धयस्तस्य सिध्यन्ति भिक्षाशयोजितेन्द्रियः || सर्वे प्रतिग्रहाः प्रोक्ताः विनाभिक्षां शिखिध्वज | यतिहस्ते जलं दत्वा भैक्षं दत्वा पुनर्जलम् || तदन्नं मेरुतुल्यं स्यात्तज्जलं सागरोपमम् || तथा - भिक्षादानं महादानं भिक्षा वै न प्रतिग्रहः | उभयोस्तत्फलं तुल्य दातृत्व ग्राहयोरपि || तस्माच्छ्रद्धां समादाय भिक्षां कुर्यात्सदाव्रती || || इति ज्ञान रत्नावल्यां भिक्षा भोजन विधिः || इति महागणपतये नमः सायाह्न समयं यावत्कार्य सिद्धान्त चिन्तनम् | तत्काले च यथाशक्ति स्नानं वा कटिशोधनम् || गात्र प्रक्षालनं वापि वाससा देह मार्जनम् | कृत्वा पूर्ववदुद्धूल्य सन्ध्यां वन्द्यार्चयेच्छिवम् || स्नान पानीय दुग्धाद्यैर्यदि सिद्धो भवेत्तदा | नाभेरूर्ध्व मधस्ताद्वा स्नायात्प्रक्षालयेत् क्रमात् || आचम्य सकलीकृत्य भूमौ भस्म कुशास्तरे | प्रस्तीर्य चाजितं कन्ध तत्र सौम्याननो विशेत् | प्. १९३) यावन्निद्रावशास्तावत्समाधि ध्यानतत्परम् | प्रतियाम्य शिरास्सुप्यात्पूर्वमूर्ध्वा गृही तदा || नमो नन्दीश्वरायेति पार्श्वाभ्यां योनिमुद्रया | कूश्माण्डादि भयं तस्य न कदाचिद्भवेदपि || दिवैवानी ततो याद्यैरर्धरात्रे तु पूर्ववत् | सन्ध्यां शिवार्चनं कुर्यादन्तर्यागमथापि वा || पुनः सुप्ता समुत्थाय पूर्वोक्तमखिलं चरेत् | प्रत्यहण् नित्य भावेन नैव पुण्यफला स्वया || इति श्रीमज्ज्ञान शिवाचार्य कोविदेन गुणाविधिना शिष्यैरभ्यर्थितेनायं कृतोनित्यं विधिक्रमः | इति ज्ञानरत्नावल्यां नित्यकर्मविधिः || श्रीमहागणपतये नमः || अथ नित्यं यदुक्तं तन्मन्त्र द्रव्य क्रियान्वितम् | प्रमादाद्दैवतो मोहात्कार्यव्यग्रतयापि वा ||
SKराज चोर * * * यालस्य देहव्यसनतस्ततः | अवश्यं जायतेच्छिद्रं तच्छिद्रपरिपूर्तये || नृणां हिताय नित्याङ्गं पवित्रमधुनोच्यते | देवैः शम्भोः पुराप्राप्त.ं तदुष्करेण यत् ||? उक्तञ्च श्रीमन्मृगेन्द्रे - स्वच्छिद्रहराश्चाक्यो विधिरेवा निगद्यते | यः प्राप्तस्तपसादेवैः हराद्विधि * * * | प्. १९४) श्रावणे तदुपान्तेवा न तस्येवोध्यमानवत् | शम्भोः पवित्रमासाद्य पूरयेद्वान्तिकं विधिः | इति || ननु व्यासङ्गमेतत् नित्यपूजायामेव नित्याङ्ग पवित्रस्य विमानत्वादस्य पुनः कालान्तरे कर्तव्यत्वाच्च कथमिदं नित्याङ्गं सवितुमर्हति | तस्मादिदं नैमित्तिकं काम्यं वा प्रायश्चित्तं वा भवितव्यम् | नैवं वाच्यम् | यतस्तस्मिन् नित्यपवित्रकञ्च पुष्पकुशादिभिः सूत्र प्रतिनिधिभिः क्रियमाणमप्य संपूर्णमेव जायते | ततस्तस्याप्यने नैव परिपूर्णमापाद्यत इति इदमपि नित्याङ्गमेव | अथ च नित्याङ्गभूत सन्ध्यादि लोपवदस्य लोपे प्रायश्चित्त श्रवणाच्चेदं नित्यान्गमेव भवति | न नैमित्तिकं काम्यञ्च | अत्र नैमित्तिकं दीक्षा प्रतिष्ठा च काम्यमणिमादिकं वश्यादिकञ्च | तथा चोक्तम् - स्नानं सन्ध्या तथा पूजा जपोहोमश्च पञ्चमः | इति नित्यं समुद्दिष्टं पवित्रारोपणं तथा || दीक्षा चैव प्रतिष्ठा च नैमित्तिकमिदं द्वयम् | अणिमादि प्रसिध्यर्थं काम्यं तदपि विस्मृतम् || इति || यथा नियमानुष्ठानभङ्गे प्रायश्चित्तं श्रूअय्ते तथास्य करणेऽपि प्रायश्चित्त श्रवणादिकं प्रायश्चित्तमपि न भवेदिति | अथकथाञ्चिदेतदेव प्रायश्चित्तं चेत्तदा चास्याकरणेऽपि प्रतितत्वमेव भवितव्यम् | तस्यपुनरन्य निष्कृतेरभावात् | उक्तञ्च - प्रायश्चित्तं प्रकर्तव्यं शास्त्रोक्तं गुरु भाषितम् | प्. १९५) अन्यथा निष्फलादीक्षा कर्मकाण्डं च तस्य हि | इति || तस्मादिदं नित्याङ्गमेव | तथा च कालोत्तरे - दीक्षाङ्गं संस्मृतं नित्यं नित्यं तत्रोभयात्मकम् | द्रव्यमन्त्र क्रियोपेतं विकलं विफलं नृणाम् | अतो नित्याङ्गमेवैषः पवित्रारोपणं मतम् ||
SKउक्त वैकल्यतोऽघोरात् पुनातीति पवित्रकम् || तस्मात्काले प्रकर्तव्यं प्रागुक्तं परमेष्ठिनः | तेन सां वत्सरीपूजा संपूर्णा जायते स्फुटम् || यस्तु संपूजयेद्वाक्याद्दिनमेकं महेश्वरम् | तस्य पुण्यफलं वक्तुमशक्तोऽस्मि षडध्वजः | ब्रह्मोपेन्द्रादिभिर्देवैः ताश्च सा पूजितापुरा || आधाय परमं स्थानं तस्मात्कोवा न पूजयेत् | पूजाङ्गत्वात्प्रकर्तव्यं नित्यमे नियमेन वा || अथा चानीयमे नैव कुर्यान्मास त्रयान्तरे | आषाढान्ते चतुर्दश्यां नभस्य नभसोस्तथा || अष्टम्यां वा चतुर्दश्यां पक्षयोरुभयोः समम् || पवित्रारोपणं कार्यं न तु कालान्तरे हितम् | एव कालेभ्यतीशान्ते प्रायश्चित्तं समाचरेत् || भौतिकानां विशेषेण शुक्लपक्षेह्ययं विधिः || इति | एवं सत्युपरि किन्तु विष्णुस्वापानन्तरमेव कर्तव्यम् | उक्तञ्च - प्. १९६) आषाढेऽपि च कर्तव्यं प्रसुप्ते मधुसूदने | कालोऽस्य नियतः ख्यातः श्रूयतां विधि निर्णयः || शुक्लाषाढचतुर्दश्यां कुर्याच्छ्रावणभाद्रयोः | अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि || नन्वाषाढ? शुक्ल चतुर्दश्यामिति अनेनैव विष्णुस्वापानन्तरकाले (ति) स्वयमेव लभयते | ततः किमिति प्रसूप्त एव मधुसूदन इति | सत्यम् | किञ्चाषाढस्तावद्द्विधः | चान्द्रः सौरश्चेति | तत्र चान्द्रे सार्वकालं स्वपिति | पुनरधिकमासे सौर मासिकर्कटक सङ्क्रान्तावेव विष्णु * * * * | एतत्स्मरणार्थ मुक्तमित्यदोषः | उक्तञ्च ज्योतिः शास्त्रे - मिथुनस्यो यदा भानुरमावास्याद्वयं स्पृशेत् | द्विराषाढः सविज्ञेयो विष्णुः स्वपितिकर्कटे || इति || उच्यते - दर्शद्वयमतिक्रम्य यदा सङ्क्रमते रविः | मलमासः स विज्ञेयः सर्वकर्मबहिष्कृतः || इति वचनात् पूर्वाषाढे पवित्रं न कर्तव्यमित्यभिप्रायः | इति ||
SKनन्वेवं चेद्यदा श्रावणे भाद्रपदेवाधिकमासस्तदा ज्ञातुः मध्ये विशेष विहित नियमः | व्रतादीनामप्यानर्थक्य प्रसङ्गः स्यात् | नैवं चैत्रादि मासेषु षट्स्वपि यत्रन्नवप्यधिकमासो भवतु | तत्राऽप्येवमेव काल नियमो यतस्तस्मान्न दोषः स्यात्तथा ज्योतिश्शास्त्रे उक्तञ्च - माधवाद्येषु षट्स्वेकमासितद्द्वयं सदा | प्. १९७) द्विराषाढस्तदापि स्याश्वेते च श्रावणेच्युत || इति | तदुक्तं माहेश्वरोत्तरे - शिवागमेऽपि दीक्षादि स्थापनाद्यं च पवित्रादिशतक्रतो |? अधिमासि न कुर्वीत यदीच्छेच्छुभमात्मनः | दर्श * * * * भवेद्यत्ताविसंक्रान्ति विवर्जितम् || अतिमासः स विज्ञेयः विष्णुः स्वपिति कर्कटे || तदुपरि - तुल्यमासेऽधिवा मासे कर्तयं तु पवित्रकम् | सुप्ते चैव हृषीकेशे दोष भागन्यथा भवेत् || इति || ननु किं चान्द्रमासेन सौरमास एव गृह्यताम् | तत्राधिकमासस्य शङ्कापि नास्तीति | नैवम् | ठाये पवित्रारोपणे चान्द्रोमास एवाभिमतः | कन्यागतेरवौ प्रायश्चित्तपूर्वं विधानात् | उक्तञ्च - आषाढादि त्रयोमासाः सुप्त एव जनार्दने || शुक्लपक्षे यथा कृष्णे प्रशस्ता सूत्ररोहणे | रोगाभि वृद्धिः संयुक्त प्रवसी राज पीडितः | उक्तमासत्रये यस्तु न कुर्यात्सूत्ररोहणम् || असौ कन्यागते भानौ जप्त्वा दक्षाणुना युतम् | कुर्यात्पवित्रकं शम्भोः तुलायां च कथञ्चन || मलद्वय यवोमासौ गर्हितः सर्व कर्मसु || इति || अलमति विस्तरेण | प्रकृतमनु सरामः | द्विजकन्याकृतं सूत्रमन्यद्वासुसितं शुभम् | नातिस्थूलक शच्छिन्नं बहुसन्धि स गुल्मकम् | समलं चान्यदोषाढ्यं दूरतः परिवर्जयेत् || प्. १९८) समलं जनयेत् पापं दग्धं राजभयङ्करम् | स्थूलं व्याधिकरं प्रोक्तं कृशं द्रव्यक्षयंकरम् || मृत्युरच्छिन्न तन्तु स्यात्सन्धि * * * गुलमयुक्तथा | ग्रन्थि कोशाड्यमत्यस्मान्निर्मलं दृढमाक्रमात् ||
SKअष्टाधिक शतं सूत्रं रुद्रसंख्या सदोत्तमम् | सूत्रा भावे तदर्धं वा तस्यार्धं वा प्रकल्पयेत् | एकाशीति पताकं वा पञ्चाशद्भाव संमितम् | अष्टत्रिंशत्कलाङ्कं वा सर्वलिङ्गेषु सम्मतम् | यद्वा साष्ट शतानाद्यैः दशन्यूनं भवेत्क्रमात् | उक्तञ्च - नागखेन्दुं समारभ्य यावन्नाग यमावधि | ज्येष्ठादि कन्यस प्राप्ते नवविङ्गमये तव || दशहुतान् समाख्याता सू * * * ख्या पुरन्दर | बिन्दुबाणं समारभ्य यावत् स्याद्वसु चान्द्रकम् | युगह्या?तात् समाख्याता ग्रन्थयः सुरवित्तमः || घटिकानां विधिः ख्यातो नान्येषां तु कदाचन | स्थण्डिले चललिङ्गे च बाणलिङ्गे स्वयं भुवि || नोहादौ नियमो नास्ति यदा पूर्वमुदाहृतम् | अष्टोत्तर शतमूर्ध्वं न कर्तव्यं कदाचन || सर्वेषां नियमः शक्र इत्याज्ञा परमेश्वरि | अष्टोत्तरशतैः कार्यं स्थण्डिलादौ पवित्रकम् | प्. १९९) अस्यार्धेन तदर्धेन यथा लाभेन वा हरे | दर्भमुञ्जादिभिर्वाथ सूत्राभावे पवित्रकम् || कर्तव्यं सुस्वरैर्लोकैः प्रायश्चित्तमयो यथा | ओङ्कारश्चन्द्रमग्निंश्च ब्रह्मभाभगुहा नृपिम् || सदेशं सर्वदेवाश्च यद्वाकालोत्तरोक्तवत् जयं विष्णुञ्च रुद्रञ्चे श्वरञ्च सदाशिवम् || सोमसूर्याग्निदेवांश्च विन्यसेन्नैवतन्तुषु | लिङ्गमस्तक विस्तारमात्मतत्व प * * * * कः || विद्याः शिवात्मकं तस्मान्न्यूनं न्यूनं यथा शुभम् | अचले तु चले कार्यं कर्काष्टा सङ्गुलायतम् | कृत्वा कङ्कणवत्तत्र दशग्रन्थि समातरम् || वामदेवं जपेच्छक्ति हृदान्तेषु न्यसेद्यथा | प्रकृतिः पौरुवीरा च * * * व पराजिता || जपान्या विजयाषष्ठी त्यजिताथ सदाशिव | मनोन्मनी स्यान्नवमी दशमी सर्वतोमुखी || नव ग्रन्थौ कृते यद्वा वामाद्याः शक्तयस्तथा | अत्र केचित् - अधिका वा यथा शोभं कर्तव्या ग्रन्थयः समाः | इति | गङ्गावतात्मका नाम चतुर्थं शक्तिसूत्रकम् | मस्तकात्पिण्डिकान्तान्तं स्थिरलिङ्गे च नान्यथा | बाहुमानं चले कार्यं यद्वा कुं * * * * * || प्. २००)
SKद्व्यङ्गुलान्तरितं तत्र कृत्वा ग्रन्थि चतुष्टयम् | ततस्तालान्तरं त्यक्त्वा कुर्याद्ग्रन्थि चतुष्टयम् || इति | शिवः शक्तिमयं भ्रान्ते कुर्याद्ग्रन्थिद्वयं पुनः || कलास्ताश्च यथा पूर्वं लिख्यन्ते परिपाटितः | आकारोकार मकारा बिन्दु नि * * * * * | नादान्ताश्च शक्तिश्च व्योमरूपिणी व्योमरूपिणी | अनन्ता नाश्रिता नाथा समाना व्योमिनी तथा || गुह्यनाभि हृदान्तस्था मूर्तीनां कंकणत्रयम् | मस्तकाज्जानु पर्यन्तं चतुर्थं परिकल्पयेत् || पटे चित्रे च जान्वन्तं सप्तविंशति तन्तुकम् | भोगाङ्गेषु च मेतस्यात् यद्वा सूक्ष्माष्टके मतम् || गुर्वात्मनो प्रकर्तव्यः नाभ्यन्तं नवतन्तुकम् | सूर्यकुम्भाग्नि चण्दानां गुण गुर्वोश्च शम्भुवत् || सर्वेषां लोकपादीनां वसुतन्तु युगाङ्गुलम् | पुस्तके तत्प्रमाणं स्याच्छृङ्गात्पुष्पानुकं वृते | एतत्तु कल्पयेत् पश्चात् देतेषां परिकल्पयेत् | तत्वमध्यवितानादि पात्रभृद्वेणु सम्भवम् | पुरातनं परित्यज्य ग्राह्यं नवतरं तदा | ग्रन्थ्येक * * * ड्यं द्वादशाङ्गुलमायतम् || कृत्वा गन्धपवित्रं तद्यद्वा वामविवर्जितम् || प्. २०१) सर्वौपाधि समायुक्तं कल्प्यं तत्प्रतिदैवतम् | पुरमांसि च माङ्गुष्टं शैल्यं रजनीद्वयम् || शदीशव्यकमुस्तञ्च सर्वौपधिगणः स्मृतः | वस्त्रदर्पण पुष्पाद्यैः सायाह्ने यागमण्टपम् || अलङ्कृत्य निजं देहं यथा योग्यं विभूषयेत् | उक्तञ्च - पवित्रारोहणं कार्यं या सन्ध्या तन्निमित्ततः | तेन नैमित्तिकी प्रोक्ता तन्नैमित्तिक कर्मतः || इति || मोहशूरोत्तरे - अथाचम्यकृतन्यासः सूर्यमर्यञ्च पूर्ववत् | द्वाराण्यभ्युक्ष्य चास्त्रेण सामान्यार्घ्य जलादिभिः | पूर्वेशान्ति कलाद्वारं विद्याद्वारं तु दक्षिणे | निवृत्तं पश्चिमेद्वारं प्रतिष्ठाञ्चोत्तरे तथा || प्रणवादि नमोन्तानि चतुर्थ्यन्तानि कानिचित् | सम्पूज्य कलशे वाथ स्थण्डिले वा तथाधिपान् ||
SKगणेशं भारतीं लक्ष्मीं सर्वद्वारोर्ध्वगां न्यसेत् | नन्दिनञ्च महाकालं भृङ्गीशञ्च विनायकम् | वृषभं कार्तिकेयञ्च गौरीं चण्डेश्वरं हृदा | पूर्वद्वारं समारभ्य सव्यासव्य क्रमेण तु || द्वौ द्वौ सम्पूजयेद्विद्वान् स्थण्डिले कलशेऽथवा | गङ्गामर्कसुतां सिन्धुं शारदां नर्मदां नदीम् || प्. २०२) तापी गोदावरीं यद्वा पौष्णीषं पूर्वतः क्रमात् | तथा सम्पूजयेत् सर्वान्गन्धपुष्पादि विस्तरैः || नित्यवत्पश्चिमद्वारा प्रविश्यास्नमुदुम्ब?रे | ब्रह्मस्थाने न्यसेत्पुष्पं वास्तु नाथाय सोदकम् | वैद्यस्थण्डिलयामे तु स्वासने समुपस्थितः || स्वच्छन्द नित्यवत्कृत्वा सव्यहस्ततलेन तु | सुगन्ध मण्डलेदेवं साङ्गं सम्पूज्यमूर्धनि || मूलमन्त्रमति स्पष्टं द्वादशान्तं समुच्चरन् | शिवहस्तं समारोप्य तेजसां पूर्व विग्रहम् || शिवोमन्त्रतनुः साक्षादहमित्येव भावयेत् | जाजि चन्दन सिद्धार्थ भस्मदक्ष कुशाक्षतान् || ताल मानञ्च बोधांसि षट्त्रिंशद्दलनिर्मितम् | अस्त्रेण सप्तधा लुप्य पञ्चगव्यं यथा पुरा || कृत्वार्घ्य पञ्चगव्याभ्यां सम्प्रोक्ष्य परितः स्थिते | वामकक्षस्थ बोधासि सौम्यास्यो नैर्-ऋते स्थितः | मनसा कुण्डसंस्कारैः संस्कृते यागमण्टपे || नानाप्रहरणाकारा नस्त्रेण विकिरोपरि | कालाग्नि शिवपर्यन्तं तत्वानामन्तरे स्थिताः || वितानाना विधाये तु तेषां प्रोत्सारणाय च | विकिरानुपसंहृत्य कुशकूर्चिकया हृदा || प्. २०३) वेदिको परिचैशान्यां वर्धन्याथ समूहयेत् | नैर्-ऋते वास्तु मुद्धृत्य पूजयेदक्षतादिभिः || कुम्भे वा सर्वशोभाढ्ये वास्तु देवान्यथागमे | यद्वावास्त्वधिपं चैकं ब्रह्माणं ध्यानपूर्वकम् | तथार्चयेन्महालक्ष्मीं पश्चिमे सिंहवासिनम् || मण्टपाभिमुखं ध्यात्वा सर्वार * * * महालयम् | पूरयन्तीं शिवं साक्षात्तथा बीजेन वा हृदा | सप्तधान्य कृताधारमैशान्यां वेदिकोपरि || हेम ताम्रमयं कुम्भं ताम्रं वा मृण्मयं शुभम् | दृ * * रक्तमवक्त्रञ्च नातिस्थूलं न वा लघुम् ||
SKअविवर्णतिलोपेतं सित सूत्रावकुण्ठितम् | पूर्वपात्र फलोपेतं पल्लवास्यं सि * * *र्जितम् | गन्धतीर्थाम्बु सम्पूर्णं हेमगर्भं सवस्त्रकम् || श्वेतोच्च वृष पृष्ठस्थं कृत्वा तस्मिंश्चलासने | कुम्भपद्मे यजेदीशं सङ्गपूर्वाननं प्रभाम् || तद्वामे विकिरासीनां पुनावेञ्च वर्धनीम् | सिंहोर्ध्वे पङ्कज प्रख्यां तत्र शस्त्रं च भीषणम् || अथदिक्षुससूत्रेषु पल्लवास्या खटेषु च | इन्द्रमग्निं यमं क्रूरं जलं वायुं धनाधिपम् || ईशानञ्च पुनर्विष्णुं ब्रुवाणं नैर्-ऋतेशगम् || प्. २०५) खड्गखेटकनारा च धनुः सूत्र कमण्डलुम् | शक्तित्रिशूलपरशु ब्रह्मदण्डकरान्वितम् | एकपादं द्विपादं वा समपादं सुचोज्ज्वलम् | सर्वाङ्गं भुजङ्गोपेतं नागयज्ञोपवीतिनम् || इति ध्यात्वा यजेदस्त्रं प्रणतार्तिविनाशिनम् | ॐ ॐ अस्त्रमूर्तये हुं फण्णमः | ॐ शं पशुं हुं फट् पाशुपताथाय हुं फण्णमः | ॐ हूं अस्त्रनेत्रेभ्यो हुं फण्णमः | ॐ फट् अस्त्रायस्त्राय हुं फण्णमः | इति सकली कृत्य मूलेन परमीकृत्य धेनुमुद्रां महामुद्रां च प्रदर्श्य पृथिव्यादिभिः संप्रोक्ष्यतोष्य गन्धादिभिश्च सम्पूज्य ॐ हां हौं शिवशक्तिभ्यां नमः | यज्ञस्यास्य पतिस्त्वं हि मूर्तिरेषा तथा चला || ए * * * * * * * * * * * * * * | इति विज्ञाप्य पूर्वाननस्य सदाशिवभट्टारकस्य सव्ये वरदहस्ते समर्पयेत् | उक्तञ्च - शिवस्य दक्षिणे हस्ते वस्त्रं न्यस्तं तु सन्धितम् | ननु - ध्यायेत् सदाशिवं नित्यं प्राङ्मुखे चास्य वामतः | दीक्षादौ कलशाधारं * * * * प्रत्यगाननम् || इति श्री मच्छिवोदये तथा बृहत्किरणोद्योते दीक्षादिषु घटे शास्यं प्रतीच्यां चिन्तयेद्गुरुः || प्. २०६) ईशं तत्पुरुषं शान्तं नित्यं नित्यपुराननम् || इति वचनात्कलशाधारः पश्चिमानन एव भूयात् || कथं मन्त्र पूर्वाननं व इति | सत्यम् | किन्तु - नित्ये नैमित्तिके काम्ये सर्वाधिकरणः शिवः | सदा पूर्वाननोलक्ष्मीः प्रत्यक् पृष्ठका तनुः || इति | लक्ष्मीकेश संवादे -
SKआगमानामनेकत्वात् स्वाम्नाय विधिरिष्टदः | सर्वाधिकरणं शम्भुः तस्मात्पूर्वाननो मतः || इति सिद्धान्तसार वचनाच्च स्वाम्नाय विधिः कर्तव्य इत्यदोषः | मया प्रवर्तितश्चायं यज्वनाभवतः क्रतुः | रक्षणीयस्त्वयैतर्हि समाप्तिर्यावदस्य हि || इति विज्ञाप्य देवेशं भक्त्या सम्यक् प्रणम्य च || वायु कोणे गणेशानमीशाने गुरुमर्चयेत् | आसनं स्थाप्य देवेशं शक्तया चन्द्रमृतादिभिः | पुष्पमण्डपि काम्येव पूजयेत् पुष्पविस्तरैः || ततः प्रणम्य लब्धाज्ञो गत्वा कुण्डान्तिकं गुरुः | कुण्डमग्निं च संस्कृत्य चतुर्थं किञ्चिदुद्धरेत् | पुनरावाह्य देवेशं साङ्गं सम्पूज्य तर्पयेत् || उक्तञ्च - पश्चाच्चारुपुरोडाशः पञ्चसंस्कार संस्कृते | अनाहूत शिवे वह्नौ होमस्त्वा वाहिते भवेत् || इति || अज्ञान सर्वमन्त्राणां स्वाहान्तैस्तर्पणं सकृत् | प्. २०७) ॐ हां हृदयाय नमः स्वाहा | एवं शिरः प्रभृतीनामपि | शिखः सम्पूटितैर्बीजैः हुं फडन्तेन दीपनम् || ॐ हां हं हृदयाय हुं हुं फट्त्वादयो मन्त्राः | त्रिष्कृत्वैवं पुनर्लिङ्गं वीक्षणाद्यैर्विशोधितम् | कुण्डाग्निकोणे संस्थाप्य पश्चिमाभ्यां हृदाशतम् || धर्माधर्म शरीरञ्च जप्तां शास्त्रेण सप्तधा | तत्र निक्षिप्य शैवाग्निं संप्रज्वाल्य सदिग्धनैः || तदग्रे मण्डले स्थालीं क्षालितामाज्य वारिणा | षडुत्थासनके धृत्वा मूर्तिभूतां तदन्तरे || मनसाशिवमभ्यर्च्य पुष्पैरभ्यर्च्य सर्पिषा | मूलास्याष्टशतं लब्ध्वा दुग्धं शाल्यादि तण्डुलैः | यथा पाकानु रूपं तं निक्षिप्याथ विधाय च || त्रिसूत्र्यावृतकण्ठं यद्वर्मास्त्रेण कुशेच्छया | धर्माधर्म शरीराय चुल्यामारोप्य यत्नतः | शिवं गृह्णन् हृदाचालन् पचेत् पूर्वाननश्चरुम् | सुस्विन्ने संहिता मन्त्रैः कृत्वा मन्त्राभिधारणम् | स्वाहान्तैस्ततश्चुल्यां स्रुवमापूर्य सर्पिषा | उत्तार्य मण्डले धृत्वा हृदा संमार्ज्य लेपयेत् || शीताभिधारणं कृत्वा वौषडन्त शिवाणुभिः | चुल्लिकां धूपदीपार्थं वह्निं संरक्ष्य यत्नतः || प्. २०८)
SKकुण्डाग्रे मण्डले धृत्वा सेति हेति प्रयोगतः | अग्नौ चरौ स्रुवाज्येन सम्पातस्यास्त्रिसप्तधा || ॐ हौं हां हीं हूं हैं हं शिवाय स्वाहा इति संहिताः || अभिमन्त्र्य च संरक्ष्य प्ररोच्याथ त्रिधाभवेत् | भागौ दत्वा शिवाग्निभ्यामात्मभागं घृतप्लुतम् || स्थाल्यां विधाय संरक्ष्य पूर्वास्यां स्थापयेद्यथा | मन्त्रैरीशादिभिर्वक्त्र प्रीत्यैव विनिविन्यसेत् || उक्तञ्च कालोत्तरे - ऐशान्यां पञ्चगव्यं तु पुरुषोदन्तधावनम् | भस्मदक्षिणवक्त्राय गन्धं वामाय दापयेत् || सद्योजाताय मृत्पात्रं सद्योजातेन दापयेत् || इति यदुक्तमयेपि - होमद्रव्याणि सर्वाणि सकुशान्यै वरानने | दण्डाक्षमाला कौपी न भिक्षापात्राणि दक्षिणे || रोचनाकुङ्कुमं तैलं साधकां केश शोधनम् | तदङ्गमपरञ्चोद ताम्बूलं स्यान्न किन्नरे || ऐशान्यामासनं छत्रं पादुका योगपट्टकम् | इति केचित् || ऐशान्यामीशमन्त्रेण मूलमन्त्रेण वा जलम् | पञ्च गव्यं च पालाश पुटसंस्थितम् |? ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशिलोचनम् | अगरुं नैर्-ऋताशायां वायव्यां च चतुस्समम् || इति | प्. २०९) अथ समीपे * * * * सेथ मण्डले शुभभाजने | पवित्राणि समारोप्य वीक्षणाद्यैः विशोध्यते || ब्रह्माङ्गैरभिमन्त्र्या वा स्वधायान्येत वस्तुना | संशोध्य संहिता मन्त्रैरधस्त्वेति त्रिसप्तधा || पुनरासीक्ष संरक्ष्य रेचयेद्धेनुमुद्रया | सूत्रेण वर्मणावेष्ट्य धारयामादि कारणम् | आसनञ्चात्र पात्रञ्चैषा धूपस्कटच्छकम् || दीपपात्रं तथा धल्ली दीपकं भंजल क्रमात् | वर्धनीं व्यञ्जनछत्र चामरं दर्पणं तथा || भेरी काहल शंखादि कुण्डारोहण वेदिकाम् | वितानध्वज दण्डं च खड्गं भण्डारमुञ्जवम् || तथा चान्य गृहादीनि भानुषङ्गो गृहं तथा | गृहोपकरणं सर्वं वेष्टयेदेक तन्तुना || सूर्यादीनां क्रमेणाथ दत्वादस्त्र पवित्रकम् | शिव कुम्भाय वर्धन्यै गणाय गुरवे तथा ||
SKआत्मने च तथा धूपं गन्धसर्वौषधि प्लुतम् | कुश दूर्वाक्षतोपेतं कृत्वापुष्पाञ्जलि स्थितम् | कृपानाथ कटाक्षेण वीक्षमाणं स्वकार्मुकम् || ध्यायन् सदाशिवं भक्त्या देवमावन्त्य वेद्य च | समस्त विधिवच्छिद्रं पूरणेशमखं प्रति || प्. २१०) प्रभावान्मन्त्रयामित्वात्त्वदिच्छावाप्ति कारकः |? तत्सिद्धिमनु जानीहि यष्टुं चिदचित्पते | ते सर्वदा सदाशम्भो नमस्तेऽस्तु | इति | अस्याप्ययमर्थः - समस्तेषु दिनेषु विधिर्वदाननम् कर्मद्रव्यमन्त्रक्रियात्मं तत्र चित्रं यदा परिपूर्णं तस्य पूरण विषये स्वयमीशः | यतस्त्वं समस्तैश्वर्य गुण सम्पन्नस्तत एव सकलः क्रिया व्यतिकर परिपूरण * * * * क्षमित्यर्थः | यतस्त्वं प्रभुः स्मरण मात्रादेव समस्त कार्य प्रभवन शीलस्तस्मादिदमपि तन्निमित्त पदमेवा हे प्रभो ! स्वामिन् ! मखं यज्ञं यजनं प्रतित्वा प्रतित्वां महामन्त्र यामिकं विशिष्टोहं त्वदिच्छावाप्ति कारकः | त्वदिच्छया त्वदीयाज्ञयाऽवाप्तानि प्राप्तानि करण कारण द्रव्यजातानि येन तथा | तस्माद्यजतः प्रयत्नमातिष्ठतो मम कार्यसिद्धिमनुजानी हि | आज्ञापये * * * हे चिदचित्पते | पितामात्मना मचितां मायादीनाञ्च पते | सर्वथासर्व प्रकार सर्वदास * * * नमस्ते प्रसीद प्रसन्नोभव | इति मन्त्रार्थः | मूलं शिवान्तमुच्चार्य रेचकेनामृती कृतम् | शिवादारोप्य साङ्गाय यद्वागेभ्यः पृथक् पृथक् || धूप दीपञ्च नैवेद्यं जपतं स्तोत्र नमस्कृतम् | भक्त्या विन्यायतद्याद्विदग्नयेर्चन पूर्वकम् |? प्. २११) हुत्वा साष्टशतं पूर्णा दत्वा चान्तर्बलिं क्षिपेत् | सपवित्रं बहिर्दद्याद्दिक्पतिभ्यश्च दिक्षु तत् || समाचम्य कृतन्यासो विधिपूर्णाय होमयेत् | मूलेनास्त्रे चरुं हुत्वा प्रणम्य च पुनः पुनः || शोधिते भाजने शस्तं कवचं हृदयं न्यसेत् | तत्र धृत्वा पवित्राणि ब्रह्माङ्गेरभि मन्त्र्य च | तदूर्ध्वे हृदयं वर्मशस्त्रं चान्यैः विधाय तत् | सूत्रेण वर्मणावेष्ट्य कुम्भाग्रे मण्डले न्यसेत् | ततो गन्धपवित्राद्यैः सम्पूज्या गमसञ्चयम् ||
SKआराध्य चरणाम्भोज द्वन्द्वमभ्यर्च्य भक्तितः | शिववक्त्रं वितानाद्यैरलङ्कृत्य प्रणम्य च || तदाज्ञया बहिर्गत्वा प्राङ्कणे मण्डल त्रये | सभ्यासो वाथ पूर्णास्ये पश्चिमे सव्यपाणिना || सकुशंत्रि * * * त्वेद्गव्यमाचान्तश्चान्तरान्तरा | मध्ये ग्रासत्रयं प्राश्य च * * * * न्तासनं स्पृशन् | तृतीये दन्तकाष्ठेन हृदा दन्तं विशोध्यवत् || धौतमूर्ध्वाग्रमुत्क्षिप्य तत्प्रातञ्चावलोक्य च | पूर्वापरे च सौम्यास्त्र शस्तं शेषमशोषणम् || तच्च शुद्ध्यै तमस्त्रेण हुत्वादेवं विसृज्य च | कृत्वा व्याहृतिभिर्घोरं तथा सकृदाहुतिनः ||? प्.२११अ) अग्निं तत्रैव संशोध्य तद्वक्त्रदृक्षकालिनपि | शिवाग्रे जागरं कार्यं गीतवादित्रयामुने || गृहस्तैर्यतिभिः कार्यं जपस्तोत्र प्रदक्षिणम् | तदा नन्दगुणं ज्ञेय शिवजागरणं फलम् || दर्भे भस्मानि वा सुस्यादिदं जागरण क्षमम् | गव्यमात्रं यतेख्य * * न्नं प्राश्यचरुभोजनम् ||? विना * * * नोकार्यं पवित्रारोहणं शिवे ||? सद्योधिवासनं वाद्यं तदा गव्यं चरुं विना | योग्यता पादनं मन्त्रैः द्रव्याणां यदिवार्चने || सोऽधिवासः समाख्यातः श्रीमदाज्ञान शम्भुना || || इति ज्ञानरत्नावल्यां मन्त्राधिवासन विधिः || अथ प्रातः समुत्थाय पूतस्नानादि संस्क्रियः | अष्टपुष्पिकयादेवमभ्यर्च्य कलशा नपि || पवित्राणि समादाय स्थापयेदीशगोचरे | विसृज्य पूर्ववद्देवं निर्माल्यमपनीयवत् || देवान्विहाय कुम्भस्या पुष्पाण्येवोपचर्य च | शनैः संशोध्य तत्स्थानं प्रोक्ष्य भावय वारिणा || अलङ्कृत्य च पुष्पाद्यैः नित्यकर्मद्वयोत्तरम् | देवान् कुम्भेषु संयोज्य पुष्पमालादिभिः शुभैः || प्. २१२) छत्र चामर वर्णादि वादा गीतादिमङ्गलैः | आरात्रिकं समुत्तार्य ताम्बूलं चुलुकं त्रिधा || जपं स्तोत्रं प्रणामञ्च साष्टाङ्गं सप्रदक्षिणम् | पुष्पाञ्जलि त्रयोपेतं भूयोभूयः समुच्चरन् || आनन्दाश्र्यः कृतार्थश्च हर्षोत्पुलकविग्रहः | पुष्पाञ्जलि पुटोभक्त्या जानुभ्यामवनौ स्थितौ ||
SKविज्ञापयेन् महादेवं सान * * * * * हम् | ॐ त्वं गतिस्सर्वभूतानां संस्थितस्त्वं चराचरे || अन्तश्चारेण भूताना द्रष्टात्वं परमेश्वरम् | कर्मणा मनसावाचा त्यक्तोनान्या गतिर्मम | मन्त्रहीनं क्रियाहीनं द्रव्यहीनं च यत्कृतम् || जपहोमार्चनादीनि इति नित्यं मयातव | अकृतं वाक्यहीनं च तत्पूरय महेश्वर || सुपूतस्त्वं महेशान पवित्रं पापनाशनम् | त्वया पवित्रितं सर्वं जगत्स्थावर जङ्गमम् || खण्डितं यन्मया देव व्रतं वैक * * * * | एकी भवतु तत्सर्वं तवाज्ञा सूत्रकुम्भितम् || इति सर्वा पराधौध कृत्यं सद्यः क्षमापजम् | वाक्यं विज्ञाप्य साष्टाङ्गं भूयो भूयः प्रणम्य च || चातुर्मास्यं व्रतं देव नियमञ्च तवाज्ञया | यथा शक्त्या करिष्यामि * * * तस्तञ्च निर्वहेत् || प्. २१३) भद्रपीठेऽधः संस्नाप्य देवं पञ्चामृतादिभिः | अर्चयेद्वेदिका मध्ये दिव्यगन्ध विलेपनैः || वस्त्रैर्नानाविधैः पुष्पैश्चित्रैराभरणैरपि | भोगाङ्ग सहितं शम्भुं नित्यगेयादि मङ्गलैः || अग्निस्थं शिवमभ्यर्च्य हुत्वामूलादिशम्बरैः | पूर्णां दत्वा च सूर्याय स्वस्थानेऽभ्यर्चिताय च || हृदारोप्य पवित्राणि परिवाराय तस्य च | धूपदीपादिभिः पश्चात्प्रणिपत्य दिवाकरम् || द्वारदिक्पाल लक्ष्म्यादि सर्वदेवेषु च क्रमात् | धूपदीपादिभिः सार्धः दत्वा पूतं प्रणम्य च || शिववत्कुम्भ वर्धन्योः गण गुर्वोर्यथात्मनः | पुष्पदूर्वाक्षतोपेतं सधूपामोदपेशलम् || पवित्रमञ्जलौ कृत्वा किङ्चित् कुम्भेश सम्मुखः | विज्ञापयेदिदं वाक्यं शिवं कालात्मकं स्मरन् || कालात्मना त्वयादेव दृष्टमामकेण विधौ |? कृतश्लिष्टं समुत्सृष्टं हृदं गुप्तञ्चमत्कृतम् | तदस्तु क्लिष्टमक्लिष्टं कृतं पुष्पमसत्कृतम् || सर्वात्मनामना शम्भोः पवित्रेण त्वदिच्छया || ॐ पूरय पूरयमरववृत नियमेश्वराय स्वाहा | अस्याप्यर्थः - त्रुटिलव निमिष काष्ठाकला मुहूर्तघटिका यामहोरात्र पक्षमासद्वयायन प्. २१४)
SKसंवत्सर युगमन्तर कल्पान्तर महाकल्पावस्या कलितः कालात्मना स्वरूपं धार्यस्यासौ कलशात्मनः | उक्तञ्च - सर्वभावमयोदेवो विश्वेस्मिन् सचराचरे | कला ते काल रूपेण विश्व मूर्ते महेश्वरः || इति | हेतवे कालात्मनात्वया मामके विधौ मदीये व्यापारे कर्मक्लिष्टं क्षितं दृष्टं यत्किल भगवान् सदाशिवः पञ्चोपचारेणेज्यते तरोपचार हीनं कर्मक्लिष्टमुच्यते | न केवलं क्लिष्टमेव समुत्सृष्टमपि यद्दृष्टं पूजा विधिभिरावाहनादिभिर्दशभिः शिवसंस्कारैः क्रियते तत्र क्रियन्तं संस्कारमुत्सृज्य कृतं कर्म समुत्सृष्टमित्युच्यते | तथा हृदमपि तदङ्गत्वेन प्रतिपाद्यते | ते नैव संस्कार जन्नन्नपि कार्यविग्रह तथा यदपि हृत्य क्रियते तत्कर्म हृदयमित्युच्यते | तथा गुप्तमपि यदन्यदपि यत्किञ्चिद्वाङ्गमनः कायजनितोष कर्म प्रायश्चित्त भयाद्गोपयति तद्गुप्त मित्युच्यते | तदेव चतुर्विधमपि कर्ममत्कृतं मयाकृतं तत्र यत् क्लिष्टं कर्म क्लिष्टं कृतम् | तदक्लिष्टमकृतमस्तु भवत्प्रसादादिति शेषः | अथ च यदन्य दसत्कृतं समुत्सृष्टादि त्रयं तदपि पुष्पं संपूर्णं कृतमस्तु हि शम्भो यतस्वशं सर्वथा सर्वदा सर्वेषामपि परं यद्भवसीतित्वम् शम्भोस्त्वतः कारणात् अमुनापवित्रेण कथं भूतेन सर्वात्मना सर्वस्मिन् चतुर्विधे कर्मणि पूरकन्त्वनात्मा स्वरूपं यस्य तत्तया तेन सर्वकर्म परिपूरकेण पवित्रेणत्वदिच्छया त्वदीयाज्ञया प्. २१५) पूरय पूरयेति द्विरुक्त्या दैन्य प्रार्थनातिशयेन स्वकर्म परिपूरणाति शयो तदुपरि * * * दितास्यात् | अथमरवोयागो यजनं व्रतं कृष्णाष्टम्यादि नवमः प्रवृत्तोपरीति | मखश्च व्रतश्च नियमश्चेति मखव्रतजियप्ताः तेषामीश्वरः यदाज्ञा मातॄणामेव सर्वे संपूर्णा भवन्ति | असौ तेषां प्रभुरित्यर्थः | तस्मै शिवाय स्वाहा | अमृतानन्द भवत्वितिमन्त्रार्थः | यद्वा मोह शूरोत्तरमन्त्रं पीठेद्यथाः | गन्ध पुष्प समोपेत दूर्वाक्षत समन्वितम् | पवित्रं तत्समादाय देवं विज्ञापयेदिदम् ||
SKसर्वदेवस्थितो देवः सर्वज्ञः सर्वगोविभुः | हीनं गेयं विभोः कर्मत्वया दृष्टं मयाकृतम् || तदनेन पवित्रेण सम्पूर्णं त्वत्प्रसादतः | एवं विज्ञाप्य देवेशं पवित्रमधिरोपयेत् || इति | मुमुक्षुभिः पुरादेयमात्म तत्व पवित्रकम् | प्राकृतं तत्वमास्थाय स्थितं ब्रह्मादि दैवतम् || मूल मायान्त * * * र्थतः शिवाय निवेदयेत् | पुनः स पुष्पमादाय विद्यातत्व पवित्रकम् || मायातत्वमधिष्ठाय स्थितं श्रीवत्सदैवतम् | मूलं लयान्तमुच्चार्य दद्याद्देवेशमूर्धनि || उक्तञ्च - पवित्रारोहणे शक्र प्रयोगमधुना शृणु | (हणे) शिवमन्त्रं समुच्चार्यऽयांतं सुसमाहितः || प्. २१६) आत्मतत्वाधिपाय शिवाय तदधिरोपयेत् ||? अथ - बुभुक्षुश्चानुलोमेन पवित्रगधिरोपयेत् || क्वचिदालभनं ख्यातं क्रमात्साष्टशतादिभिः || उक्तञ्च - गन्धपुष्पादि संयुक्तं शिवतत्व पवित्रकम् | शिवं साष्ठं शतं जप्त्वा शिवमूर्तौ प्रतापयेत् || दातव्यं सृष्टिमार्गेण सुध * * * * लोक सन्निभम् | विद्यात्मिकं तदर्धेन पादेनात्मपवित्रकम् || मुमुक्षुभिर्विलोमेन त्वात्म विद्याशिवात्मकम् || इति || अथ मन्त्रा यथा तथा विलिख्यन्ते - ॐ हौं आत्मतत्वाधिपाय पवित्रकं स्वाहा | ॐ हौं विद्याधिपाय पवित्रकं स्वाहा | ॐ हां शिवतत्वाधिपाय पवित्रकं स्वाहा | नमोन्तं वायमुच्चरेत् || उक्तञ्च - स्वाहान्तं वा नमोन्तं वा मन्त्रमेषां समुच्चरन् इति | नमोन्तं मूलमुच्चार्य दत्वा पुष्पाञ्जलित्रयम् | दूर्वा कुशाक्षतं चार्घ्यं बिन्दुं दत्वा प्ररोचयेत् || सन्तुष्टपूतपूजाभिः देवदेवं सनातनम् | स्तूयमानं विरिञ्चाद्यैः ध्यात्वा पूर्वोक्तवर्त्मना || धूपदीपादि संयुक्तं दत्वापूतं स्वमन्त्रतः | गोवृक्षादि देवानां भक्तानां सहवर्तिनाम् || ततः शम्भो यथा पूर्वं ददेच्छक्त्या यथा क्रमम् | हस्तोद्वर्तन ताम्बूलं मुख वासञ्च दर्पणम् || (* धूपदीपादि नैवेदापानीशाल्म?नादिकम् |) प्. २१८) पवित्राणि समारोप्य वह्निस्थाय शिवाय च | शतमष्टोत्तरं साङ्गं हुत्वापूर्णां यथा विधि ||
SKन्यूनातिरिक्तदोषघ्नं शतञ्चास्त्रेण पूर्णया | देवं विसृज्यतं वह्निं सन्निरुध्यान्तरे बलिम् || ससूत्रं पूर्ववद्दत्वा दिग्बलिञ्च बहिः पुनः | समाचम्याज्ञया शम्भोः भक्त्या शैव तपोधन | अन्यान्यत्य विचारेण यथाशक्त्यासु तर्पयेत् || भृष्टाहारेण सूत्रेण वस्त्रदक्षिणयापि च | आगमेषु पवित्राणि गत्वाचार्यं पदाम्बुजैः | प्रक्षाल्य पीठे संस्थाप्य चन्दनेन विलिप्य च || पुष्पधूपादिनाभ्यर्च्य दद्याद्गङ्गावतारवत् || ॐ हां हौं आत्मतत्व शिवतत्व सर्वतत्वाधिपाया राध्यमूर्तये शिवाय पवित्रकं स्वाहा | शिववत्पूजयित्वा तु प्रणम्य च पुनः पुनः | दद्यात्पवित्रकं भक्त्या भ्रातरश्च परस्परम् || पूर्ववज्जागरं कुर्याच्छिव लीलाकथादिभिः | प्रातराहृत्य सूत्राणि संस्थाप्य स्नानपूर्वकम् || नित्यनैमित्तिकं कृत्वा * * * सुपवित्रकं समर्प्य च || हुत्वा तिलैश्चतुष्टं च सर्वान्तं पूर्णया सह | प्रायश्चित्तं लिङ्गे संयोज्य तच्छंभुं व्याहृत्याग्निं प्रतप्य च ||? विस्तारेण बलिं दत्वा शुद्धि मन्त्रतनुः स्वयम् | अष्टपुष्पा शिवं चेष्ट्वा जपवत्पुण्यमर्पयेत् || प्. २१९) पवित्रारोहणे पुण्यं यन्मया समुपार्जितम् | तद्गृहाण महेशान साङ्गोपाङ्गं प्रसीदमे || इति विज्ञाप्य पूर्वान्त द्वारहस्ते समर्पयेत् | पुनः प्रणम्य सम्पूज्य सापेक्षं तं क्षमापयेत् || यागं विसृज्य चण्डेशं बहिरर्धेन्दु मण्डले | अभ्यर्च्य पूर्ववत्तस्मै दत्वा पूतचतुष्टयम् || ॐ आत्म तत्वेश्वराय ध्वनि चण्डेश्वराय हुं पवित्रकं स्वाहा | इत्यादयो मन्त्राः | धूपदीपादि नैवेद्ये सन्तोष्याथ निवेदयेत् | गन्धपुष्प पवित्राद्यं नैवेद्यादि पुरस्सरम् || तदुक्तम् - शिवोच्छिष्टं प्रासादं प्रवित्राद्यं शिवाज्ञया | तदयं कृपया नाथ प्रविष्टस्त्वं गृहाणभोः || इति वह्नौ च सन्तर्प्य नत्वा पुष्पाञ्जलि स्थितः | ॐ यत्किञ्चिद्वार्षिकं कर्म कृतं न्यूनाधिकम् मया || तदस्तु परिपूर्णं मे चण्डनाथ तवाज्ञया || त्वत्प्रसदाच्चण्डनाथ देव देव सदा शिव | मयि प्रसादो भवतु रक्षशम्भो महोद्भव ||
SKसमया चारहीनानां अनाथानाङ्गतिर्भवान् | आचारहीनं पतितं रक्षमां चण्डनायक || इति विज्ञाप्य साष्टाङ्गं दत्वा भक्त्या विसर्जयेत् | प्रक्षाल्य पादौ हस्तौ च समाचम्य शुचिस्ततः || प्. २२०) सुशुद्धे भूतले लिङ्गं संस्नाप्याभ्यर्च्य नित्यवत् | क्षमयित्वा महाभक्त्या देवदेवं विसृज्य च || नन्द्यां गर्ते हृदादौ वा तन्निर्माल्यादिकं क्षिपेत् | गोमयेनाम्बुना स्थानं लिप्त्वास्नातोपसंस्पृशेत् || इत्थं दिनत्रये कार्यं पवित्रं यदिवाक्षमः | तदधानद्वये कुर्या * * * त्पूर्वोक्तं सकलं क्रमात् || यद्येकस्मिन् दिनेकार्यं सम्पूर्ण तिथिभिर्यदा || उक्तञ्च - यदाद्वैक दिनेशम्भोः पवित्राद्यं चिकीर्षति | कृतनित्यस्तदासन्ध्यां कृत्वा नैमित्तिकं सकृत् || उद्धृत्य दत्वा चण्डाय लिङ्गसंस्नाप्य पूजयेत् || स्थण्डिले चार्ययेदीशं तस्य नैव भवेद्विधिः | स्नात्वा नर्चिवलिङ्गञ्च चण्डाश्चोर्ध्वं न धारयेत् || पूर्णमध्ये समंमिश्रं तदाकालान्तरे हि तम् | यद्वा तत्रैव कर्तव्यं यदि व्यग्रतया तदा || गोदोहान्तरितं कृत्वा साधिवासं पवित्रकम् | चतुर्दशीक्षणे कुर्याच्छेषं शेषतिथौ चरेत् || उक्तञ्च - सप्तम्यां वा त्रयोदश्यां कृत्वा गन्धपवित्रकम् | अष्टम्यां वा चतुर्दश्यां तथा कुर्यात्पवित्रकम् || प्. २२१) अपरेऽहनिकर्तव्यं सुपवित्रमिति स्थितम् | अथ द्वाभ्यां दिनेकेन कर्तव्यं वा परे जगुः | अधिवासं त्रयोदश्यां अपरे विधिवद्भयम् | गोदोहान्तरितं कृत्वा यदितव्यग्र मानसः || चतुर्दशीक्षणे कुर्यात्साधिवासं पवित्रकम् | सुपवित्रं पौर्णमास्यां तिथिवेधेत्वयं विति | अष्टम्यामपि बोद्धव्यः क्रमोऽयं सूत्ररोहणे || कृत्वा चावभृतस्थानं स्वयमभ्युक्षितः शिशून् | आचार्यं पूजयेत् पश्चाद्वस्त्रालङ्कारदामभिः || वित्तशाठ्यं विनातस्मै दद्यादाचार्य दक्षिणाम् || तुष्टेन गुरुनाथेन तुष्टो भवति शङ्करः | पवित्रं सफलन्तस्य यस्य तुष्टो गुरुः स्वयम् ||
SKअथाग्निं निष्फलच्छायामित्याह भगवान् शिवः | पञ्चयोजन संस्थोऽपि पवित्रं गुरु सन्निधौ | कुर्यात्तदा ज्ञया वश्यं स्वस्थाने वाथ बुद्धिमान् || अन्यथा निरयं यायादित्याज्ञा परमेश्वरि || उक्तञ्च - लोभान्मोहात्तदा ज्ञानाद्येन कुर्यात्पवित्रकम् | स तिष्ठेन्नरके घोरे यावदा भूतसंप्लवम् || शिवेच्छया यदा सृष्टिः पुनर्भवति सात्विकी | तदासौ मर्त्यमायाताः श्वानयोनिशतं व्रजेत् || प्. २२२) यः पुनर्भवति संयुक्तो संफल भववर्जितः | करोति कारयेद्वापि शास्त्रदृष्टेन (वर्त्मना) वर्मणा | पितृजैः दशभिस्सार्धं मातृजैर्दशभिः कुलैः | हित्वा समस्तपापानि शिवलोकं स गच्छति || व्रतान्ते शिवमभ्यर्च्य कुर्याद्व्रत समर्पणम् | व्रतान्तं वा पवित्राणि यावत्कृत्वा विसर्जयेत् || उक्तञ्च - चातुर्मास्यं चरेत्तत्र व्रतं चैव शिवात्मकम् | स्वशक्त्या वाथकर्तव्यं भौतिकैर्नैष्टिकैस्ततः || मासद्वयं तु पक्षं वाऽभावादीन सप्तकम् | तत्पात्रकं समुत्थाय शुचिदेशे निधापयेत् || ततः पूजावसाने तु लिङ्गमूर्तौ पवित्रकम् | समारोप्य अहन्यहनि यत्नतः ||? पूजाहोमादिकं सर्वं व्रतं ते द्विगुणं भवेत् | अविसृज्य पवित्राणि नैवदेशान्तरं व्रजेत् || उक्तञ्च - अविसर्जितपूतस्तु नासिमानं विलङ्घयेत् | दैवतोऽप्यन्यथाप्नोति सिद्धिरीशं पदे पदे || तथा - न गन्तव्यं सहस्राक्ष पवित्रेत्व विसर्जिते | विसर्जिते तु गन्तव्यं स्वेच्छं वै यत्र रोचते || श्री चोलदेश सम्बूता भूसुरेण तपोधिना | श्रीमज्ज्ञान शिवेनायं पैत्रक विधिः कृतः || || श्री महागणपतये नमः || प्. २२३) स्वच्छन्द भैरवेतन्त्रे भैरवोदितमन्त्रतः | इति प्रीत्यश्रुसंसिक्त स्मरभस्मभवः क्वचित् || सिद्धान्ते नादरस्तस्य प्रायश्चित्ता श्रुतैरपि | तथापि भाव सामान्यः पुष्पान्ध्यायेषु कीर्तनात् || पूर्वाचार्योदितत्वाच्च तद्विधानं तु कथ्यते | सप्तम्यां वा त्रयोदश्यां चैत्रेमासि द्विपक्षयोः | कृताह्निकस्तु सायाह्ने कृत्वादमन कान्तिकम् ||
SKसम्प्रोक्ष्यास्त्रेण संशोध्य पूजयेत् संहिताणुभिः | गन्धपुष्पपवित्राद्यैः धूपदीपादिभिः सुधीः || प्रणम्य च यथाशास्त्रं दाममामन्त्रयेत् तदा | ॐ हर प्रसाद सम्बूत त्वमत्रसन्निधी भव || शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया | पुनश्चाभ्यर्च्य संरक्ष्योत्पाट्य स्वगृहं नयेत् || यदि दूरं तथा नीतं समारोप्य समीपतः | तत्पूर्णपात्रे वा रोप्य गृहे व्यामन्त्रपूर्वकम् || यागं पूर्वोक्तवत्कृत्वा पवित्राणी व शोधयेत् | फलं पुष्पञ्च पत्रं च मृणालं तत्तदुद्भवम् | गव्यौघं दन्तकाष्ठं च भस्मशृद्धातकीफलम् || ईशानाद्युत्तरान्तस्य त्रिषु पात्रेषु विन्यसेत् | गन्धादमनमारोप्य सूर्यादीनामनुक्रमात् || प्. २२४) देवं दमनकैरिष्ट्वा पञ्चाङ्गैरविद?ण्डितैः | सदङ्गमनकं धूपं दूर्वापुष्पाक्षतान्वितम् | विधायाञ्जलि मध्यस्थमिद मामन्त्रणं वदेत् | आमन्त्रितोऽपि देवेश प्रातःकाले मयाप्रभो || कर्तव्यं तु यथा कालं दामपर्व तवाज्ञया | अत्र सद्योधिवासञ्चेत् सद्यः कालेभ्युदीर्यताम् | शिवान्तमूलमुच्चार्य साङ्गायेशायदीयताम् | धूपदीपादि नैवेद्यैः तोषयित्वा पुरोक्तवत् | अवशिष्टं च निर्वर्त्य रात्रौ जागययादिति | अधिवासविधिः ख्यातः प्रातर्नित्यादनन्तरम् || सा शम्बरे यजेदीशं द्वारदिक्य घटालुभिः | पुष्पदूर्वाक्षतैर्धूपैः कृत्वादमनकाञ्जलिम् || आविद्यानि शिवैस्तद्वैः मूलाद्यैरीश्वरान्तकैः | नमोन्तैस्त्र्यञ्जलीर्दत्वा चतुर्थाञ्जलि नार्चयेत् || ॐ हौं मघेश्वराय मद्यं पूरय पूरय शूलपाणये दमनकं नमः | अङ्गेभ्यश्च शिवाग्नेश्च दत्वा कृत्वा बलिद्वयम् | ॐ भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतम् | सर्वं तदस्तु संपूर्णं सर्वे दामन कर्मणः || इति विज्ञाप्य देवेशे कर्मात्मानं समर्प्य च || प्. २२५) यागं विसृज्य चण्डेष्टिं कृत्वायावभृतं चरेत् | सर्व यज्ञेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् || तत्फलं कोटि गुणितमभिषेकादवाप्यते | अत्र श्रीशम्भु सोमशम्भुपादैः यो विशेषः * * * * ?
SKएवं दाम विधिं कृत्वा कूर्वीत गुरुपूजनम् | परितोषकरं पश्चाद्द्विजादीनपि तर्पयेत् || गृहस्थो ब्रह्मचारी च वा * * * * ते विधिः |? जपं पूजादिकं तस्य सचलञ्चैत्रमासनम् || इति || गोलकीवंश जातेन श्रीमताज्ञानशम्भुना | कृपावतामुनीन्द्रेण दामपर्णविधिः कृतः || अनुष्ठेयं * * * * * * * * * न विप्लुतौ | प्रायश्चित्तं पुनर्ज्ञेयं तच्च कालोत्तरे यथा || ईश्वर उवाच - समाधि पुत्रकाभ्यां तु साधकस्य विशेषतः | नित्यं क्रमेण कथितं यावज्जीवं शिवाज्ञया || स्नानं पूजा जपोध्यानं होमश्चैव तु पञ्चमम् | इति नित्यं सदाकुर्यान्नित्याङ्गं प्रोच्यते पुनः || अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि || पञ्चदश्यादिनध्वंसे सङ्क्रान्तौ दक्षिणायने | मासवृद्धौ दिनाधिक्ये षोडशीति मुखेष्वपि || प्. २२६) रवीन्दु ग्रहणे चैव द्विगुणार्च जपादिकम् | चातुर्मास्येऽपि तद्वत्स्याद्व्रतं नित्यं हविष्य भुक् || अष्टम्यां च चतुर्दश्यां न भोक्तव्यं कदाचन | इति नित्याङ्गमेवोक्तं नैमित्तिकमथोच्यते | दीक्षा चैव प्रतिष्ठा च ज्ञेयं नैमित्तिकं तथा || नित्यं नैमित्तिकं काम्यमाचार्यस्योदितं त्रयम् | गुरुणापि त्रयंकार्य स्थापनेन विनासुत || नित्यादि त्रितयं काम्यं व्याख्यानं देशिकेन तु | नित्यं काम्यं यथार्कस्य स्वशास्त्रोक्तं षडानन || समयी पुत्रकाभ्यां तु नि * * * * प्रकीर्तितम् | स्वशास्त्रोक्तं प्रकर्तव्यं परशास्त्रं विसर्जयेत् || गुरुभ्रातृमयं नित्यं कर्तव्यं पुत्रकेण तु | समयस्थो न वा कार्यं कार्यं वा साधकेन तु || सरुजेभेषजासक्ते चोरराज भये तथा | परन्नित्यं प्रकर्तव्यं गुरुणा साधकेण वा | न काम्य निपुणैः कार्यं प्रायश्चित्तं समाचरेत् || गुरुश्च शिववत्पूज्यो न तं कर्मणि योजयेत् | नित्येवाभ्यर्चयेत्काम्ये प्रायश्चित्ते जपार्चने || पूजनीयो महादेवो नापरं मनसास्मरेत् || प्. २२७) गुरुवद्गुरुभार्यासु तत्पुत्रेषु च वर्तनम् | न नग्नां वनितां पश्चेत्कुमारीं पूजयेत्सदा ||
SKपरिहासो न कर्तव्यः गुरुदेवाग्निपूजनम् | मूत्र निष्ठीवनादीनि तदम्भस्तत्र वर्जयेत् || नामाचारानु रक्तानां निन्दां यत्नेन वर्जयेत् || हीनाङ्गाधिक गात्राणां जातिविद्याश्रुतात्मनाम् | सङ्गं हास्यं तथा निन्दां यत्नात्तेषु विवर्जयेत् || यस्त्रन्नैव भुञ्जीयाद्भङ्गुराङ्गी विशेषतः | वीरभार्यां न भुञ्जीत तथा नैव रजस्वलाम् || ऋतुकालाभिगामी स्यात् पर्वकालेऽभिवर्जयेत् | चित्तोन्मादं प्रमादं च कामं क्रोधञ्च साहस्रम् | विचिकित्सां) परं धैर्य गृहकुञ्चि हृतां तथा || अनुद्योगमनुत्साहं नास्तिकत्वं च संभ्रमम् | नास्तिकं भिन्नमर्यादं शिवं शास्त्रस्य दूषणम् || महापातक जुष्टानां संभाषां नैव कारयेत् | लौलयं वृन्तथा भ्रान्तिं लोकयात्रां विवर्जयेत् || पूतपूजादिकं यच्च परोक्तं परिवर्जयेत् || स्वशास्त्रोक्तं प्रकर्तव्यं क्रियाकाण्डमलुप्तकम् | सभयत्वं तथाऽलस्यं वर्जयेत् सा स्वनासु च || न निन्देत् कारणं देवं न शास्त्रं शिवभाषितम् | पैशून्यं यत्नतोवर्ज्यं लिङ्गच्छायां न लङ्घयेत् || प्. २२८) ऋतुमत्या तु यत्स्पृष्टं पक्वमन्नं विवर्जयेत् | पर्यङ्कखट्वां मुसलं देहलीन्मार्जनीं तथा | तदानीं पेषणीं चैव चुल्लीं पद्भ्यां न संस्पृशेत् || द्विजाति व्रतिनः सर्वे प्राणिनो येभिवादिताः || अश्वगावः कुमार्यश्च स्त्रियः पादैर्न संस्पृशेत् | निर्माल्यं देव देवोत्थं नाश्नीयान्नाभिलंघयेत् || देवद्रव्यं रुद्र द्रव्यं न चात्मन्युप योजयेत् | उपोष्यमथवा दानं रक्षितव्यं प्रयत्नतः || गुरुदेवाग्नि कार्याणि विरुद्धान्यपि कारयेत् | पूर्वहोमादिकं कर्म च चान * * * * * * | शिव तत्वे स्थितायेतु ते सेव्या बिबुधाबुधैः | शिववच्छिव भक्तास्तु द्रष्टव्याः शिवमिच्छता | भयदारिद्र्ययोगेभ्यो रक्षितव्याः प्रयत्नतः || साप * * * * * यतयो निर्वास्या नैवमारयेत् | न रात्रौ बहुधाधाना न सहायः कदाचन ||
SKश्मशाने देवतागारे नदीकूप तटेऽथवा | शून्यगारे तथारण्येऽश्रयं परिवर्जयेत् | संभाषणं न कर्तव्यं नास्फुटं न निरर्थकम् | वस्त्रशय्यासनं कुर्या पृथक् स्वात्मोचितं शुभम् || प्. २२९) मूर्खैश्च दीर्घसूत्रैश्च सङ्गतिं परिवर्जयेत् | क्रूरैश्च गुप्तपापैश्च वक्तात्सङ्गं विवर्जयेत् || देवगोब्राह्मणानाञ्च न निन्दां कारयेत्सदा | ब्राह्मणस्वं न कर्तव्यं * * जस्वंस्थावनोत् * * * | परस्वं यत्ततो वर्ज्यं शिववादं विवर्जयेत् || अधीरत्वं मार्यादं दुःखेदुःखं विवर्जयेत् || कृतघ्नतां च मात्सर्यं कार्पण्यं परिवर्जयेत् | निर्ममत्वमहंकारं प्राणिहिंसां च वर्जयेत् || पशुषु स्त्रिंक्षुदुस्सिद्धं भूतवादं न कारयेत् || निर्लज्जत्वं न कर्तव्यं सर्वयागोपवेश्मिनाम् | विषगोदनतोयाति शस्त्रक्रीडां विवर्जयेत् || स्वशास्त्रं गोपयन्नैव? संयमं च व्रतं तथा | स्वधर्मं पालयन्नित्यं परधर्मं विवर्जयेत् || चोरराजकथायुक्तं दूरतः परिवर्जयेत् | प्रमादं साहसञ्चैव तथालिङ्गोपवीतिनाम् || अन्यलिङ्गं तथान्यूनं वर्जयेत्तु भिषक्क्रियाम् | न चितिं न शिवं प्राणिं चन्नैव लङ्घयेत् || अदीक्षितस्य संस्पर्शं पूजाकाले विवर्जयेत् || शयनं नैव कर्तव्यं दिवानिद्रां विवर्जयेत् || पूजा काले जपे होमे मलोत्सर्गे विशेषतः | स्नान भोजनकाले च मौनं यत्नेन * * * यत् || प्. २३०) दीक्षां व्याख्यानं प्रतिष्ठाञ्च सन्यस्तो वर्जयेत् सदा | चतुर्थाश्रमसंप्राप्ता सन्यस्ता यतयोमताः || पातित्यमुभयोर्जा यत्कर्तुं कारापकस्य च | द्वाभ्यामनुग्रहं कार्यं * * * * ह्याख्या न तस्तथा || एवमादीनि चान्यानि समवानि प्रलापयेत् | प्राणि हिंसां प्रयत्नेन मनसा पिं विवर्जयेत् | प्राणिनां प्रतिकूलं यन्मनसापि न कारयेत् || एतदेव परोधर्मः एतदेव परन्तपः | न शून्यं मस्तकं लिङ्गं दृष्ट्वा * * * यात्कदाचन || इत्यादि समयाचारः पालनीयः शिवार्थिभिः || || इति समाचार विधिः || ॐ श्रीमहागणपतये नमः |
SKमार्गस्थाः साधकाद्याये लुप्ताचाराः प्रमन्त्रयम् | पालनीयो यतस्तस्मादाचारः शिवभावतः || प्रमादाद्विप्लुतोवारः प्रायश्चित्तं समाचरेत् | यद्भया तपसि प्रायो भूयश्चित्तमपि प्लुतम् || नित्यं प्रवर्तते सिद्धि प्रायश्चित्तमितीष्यते | दैवाद्रोगात्तथा मोहाद्यदि दोष उपागतः || स्नानं जपोपवासं च नित्यहोमश्च गण्डुकाः | पञ्चगव्याशनं दानं मार्गदुष्कृत नाशनम् || देवेनापि महासेन ज्ञात्वा कर्मवलाबलम् || प्. २३१) कर्तव्यमिति शेषः | अत्यन्त सरुजेदेहे राजघोर भयादिषु | अग्निषारुभये तद्वत्प्रवासे सूतकद्वये || गुरुदेवाग्निकार्ये च नित्यहानिर्न दोषकृत् | गृहस्थो ब्रह्मचारी च प्रायश्चित्तीद्वयः स्मृतः || प्रत्येकं विविधं ज्ञेयं सकामाकाम भेदतः | निष्फलास्तु सकामस्य द्विगुणं शुद्धिमादिशेत् || सकामस्य * * * सिर्भौतिकस्य प्रकीर्तिता | निष्कामे नैष्ठिको सास्यात्सकामे द्विगुणा च सा || अथैकामखिलं ज्ञातुमशक्यत्वादिहाधुना | नाना सिद्धान्तवाक्यानि लिख्यन्ते क्रमशो यथा || प्रातर्ध्यानं विना * * * ग्रा तदन्तर्द्विगुणं चरेत् | चतुर्गुणं समागच्छेद्यद्वा मूलं शतद्वयम् || अपसव्यमकृत्वा नामाचान्ते मलमुत्सृजेत् || अपसव्ये यदाचामे दनुद्धूल्य बहिर्व्रजेत् | उपोष्य पञ्चगव्याशी जपेद्घोर शतत्रयम् || नासापिण्डन निष्ठीवक्षुत जृम्भादि सम्भवे | प्राणायामत्रयं कृत्वा प्रणवञ्च त्रिसप्तधा || प्रागतारणमट्टाले गुहायाञ्च त्व रोचितम् || प्. २३२) चतुष्पथे च शृङ्गादौ नदी मध्ये च सङ्गमे || एकवृक्षे तथा कूपे विण्मूत्रं कुरुते यदा || अकामाद्विशतंघोरं जपेत्कामं शतत्रयम् | एवमन्येषु क्षेत्रेषु शुचिर्घोर जपाद्भवेत् || तथा - चन्द्रसूर्यादिकं पश्येदघोरेण शतं जपेत् | सकृत्सन्ध्या विलोपे तु सद्योजातशतं शुचिः || त्रिकाललोपात्त्रिगुणः सोपवासो जपोमतः | अकामतः समाख्यातः कामतो द्विगुणं चरेत् || भौतिकस्य समाख्यातं द्विगुणं नैष्ठिको मतः | चतुर्गुणं समारभ्य कथितं ब्रह्मचारिणाम् ||
SKउपवास विहीनं तु सरुजस्य जसः स्मृतः | बहुदेव सिकेभ्रंशे त्वयुन्दव्ययुतं क्रमात् || ज्ञात्वा जपेत्स्वयं धीमान् दत्तं स्वगुरुणा तदा | सोऽपि दत्वाबलिं ज्ञात्वा कालं पात्रं वयः सुतम् || तत्र वृद्धातुरा बालान्या ध्यादि परिपीडिताः | तेषां स्त्रीणाञ्च संक्षिप्तं यथा क्लेशो न जायते || कार्यं वा सिन्धुभिः शिष्यैर्भ्रातृभिः स्वसुतैर्बुधैः || उत्पन्ने प्राणसन्देहे द्विगुणं चापरैर्जनैः | प्रायश्चित्तं प्रकर्तव्यं स्वस्रोतस्यैव दीक्षितैः | सामान्य सिद्धिरक्षार्थं प्रायश्चित्तादिके तथा || प्. २३३) स्वमन्त्रो न नियोक्तव्यः स * * * * * * सिद्धिरन्यथा | अथ यदुक्तं सारसङ्ग्रहे च - सकृत्सन्ध्याविलोपे तु सद्योजातशतं जपेत् | नीरुजः सरुजस्तद्वात्विकैर्वादशिकां सकृत् || त्रिकाल लोपात्त्रिगुणं सोपवस्तुरसादयः | तद्दीन सरुजो जप्त्वा सन्ध्यां वन्देत पूर्ववत् || सरुजस्नानहीनश्चेश्चिद्वैकादशिकात्रयम् | जप्त्वा सन्ध्यां प्रकुर्वीत सरुजस्नानमाचरेत् || निरुजस्नानखिन्नञ्च सद्योजात शतत्रयम् | चतु * * * * सन्ध्यायां पूर्ववच्च चतुर्गुणम् || सरुजस्य सहस्रैकं निरुजस्या युतद्वयम् | बहुदैवसिके नष्टे मामगस्सूपवासकैः || स्नान सन्ध्या इति शेषः | यदुक्तं वरदेवीये क्रियां गृहे च - शिवारामे यदा कुर्यान्मूत्रोत्सर्गं शिवाङ्गणे | प्रत्येकं सोपवासं तु जपेद्बाह्यशतं क्रमात् || चत्वरे वृक्षमूलेना * * * नेवा कृतञ्जपेत् | रसानन्तु जपेन्मन्त्री प्रमादाच्छत पञ्चकम् | ऊषरे च जले कृष्टे नदीतीरेऽद्रिमस्तके || प्. २३४) विपरीतककुश्चापि सोऽप्यघोरशतं जपेत् | सन्ध्यामन्त्रेण वा प्राज्ञो द्विगुणं साधको जपेत् || जप शेषं ततो जप्त्वा सन्ध्यां वन्देत पूर्ववत् | सन्ध्यात्रये तु संलुप्ते ईशानं त्रिशतं जपेत् || निरुजः सरुजो मन्त्री संहितां वर्तयेत्त्रिधा | साध्य मन्त्रेण वा मन्त्री त्रिगुणं जपमारभेत् || चतुर्थ्यामपि सन्ध्यायां पूर्ववच्च चतुर्गणम् | विधिरावश्यको ह्येषः प्रायश्चित्त विशुद्धये ||
SKबहुदैवसिके भ्रंशे सोपवासं जपन् चरेत् | सहस्रं पञ्चमस्यैकं सूचकस्य प्रकीर्तितः || विरुजस्य तथा गव्य * * * रात्रञ्चायुतद्वयम् | प्राणायामत्रयं कृत्वा शिवमग्निञ्च पूजयेत् || इति || एककालं द्विकालं वा त्रिकालं सार्धरात्रिकम् | पूजयीत यतः शम्भुं नित्यञ्चाथ गृही ततः | प्रातर्मध्याह्न समये पश्चिमे प्रहरार्धके || अस्तं याते रवौपूजां दानं च परिवर्जयेत् | विना चन्द्रोपरागेण साधनाग्नि पिधानि च || एकाह पूजालोपश्चेत् सहस्रं दक्षिणे जपेत् | अकामतः प्रमादाच्च कामनोद्विगुणं चरेत् || प्. २३४) एककालार्चनं येषां येषां त्रिकालपूजनम् | प्रायश्चित्तं समस्तेषां न न्यूनं नाधिकं भवेत् || त्रिकालं पूजनं येषां यावदर्चा विलोपनम् | तत्रापि प्राक्प्रणीतेन शुद्धिः कार्या न चान्यथा || पूर्वोक्तं लक्षणं ज्ञेयं नैष्ठिकानां विशुद्धये | दैवाद्रोगान्महामोहाद्घोरराजभयादिभिः || एभिर्दोषैरकं मित्रं शेषं ज्ञेयं स कामगः | एकाहं तु समारभ्य यावत्पङ्क्ति दिनावधि | वर्धयेत्त्रिशतं प्रोक्ताद्धोमं वै गड्डुकानि च || पापकैर्लोपतो मन्त्री सुव्यक्तं दक्षिणं जपेत् | द्विगुणाभ्यासलोपे तु व्ययुतं वर्धयेत्ततः || मासि मासि माहासेन यावत्संवत्सरावधि | नित्यवद्धोमलोपेतु प्रायश्चित्तं समाचरेत् || यदुक्तं सारसंग्रहेऽपि - अग्निकार्यं यदाकार्यमभिषेकादनन्तरम् | रथस्तेन विनाचास्त्रं दीक्षादौ नाधिकारिणः || अग्निकार्यं न कुर्वन्ति देशिकाये प्रमादतः | वर्षाभ्यन्तर संख्यायाः कर्तव्यं लक्षसंख्यया || इति || अष्टम्यादिषु पूजा च जपहोमादिका क्रिया | चतुर्गुणं हिते लोके हे प्रायश्चित्तान् पुरोदितान् || प्. २३६) पवित्रारोहं देवानामाषाढादित्रये कृते | लक्षद्वयादघोरस्य तथा चान्द्रायणाच्छुचिः || यदुक्तं मोहशूरोत्तरे च - मोहादज्ञानतो वापि भ्यर्घ्यसुप्ते जनार्दने | पवित्रं कारयेद्यस्तु स पापी पापमोहितः || पञ्चदिनमनाहारो जपेत् |?
SKपञ्चायुधं परेशुद्धिमेवं समभ्येति नान्यथा तु कदाचन | भद्रादूर्ध्वं न कुर्वीत सिद्धान्ते दोषभाग्भवेत् || लक्षद्वयमघोरेण जप्त्वा चैव विशुद्ध्यति | दैवादज्ञानतो वापि नाषाढादि त्रयेकृते | तत्राप्येवं विनिर्दिष्टं प्रायश्चित्तं पुरन्दर || व्रतस्य च क्रियायाश्च नियमस्य च लोपने | नियत्यस्टशतं जप्त्वा छिद्रान्तादृशञ्चरेत् || अर्घ्ये विसर्जिते पात्रे भग्ने वाथ विवर्तिते | शतद्वयात्सहस्राच्च तदर्धाच्च शुचिः क्रमात् || द्विगुणं स्थण्डिले प्राहुः तत्काले च हुताशने | शिवाग्निं धारयेद्यत्ता * * * यत्प्रमादतः || अघोरस्यायुतं जप्त्वा शुद्धिमेति न चान्यथा | स्वेश्वरेऽग्नौ च निर्वाणे द्विगुणस्तु जपः स्मृतः || यदुक्तं मोहशूरोत्तरे च - प्. २३७) निर्वाणेऽथ शिवे वह्नौ * * * * * पोषितः | अयुतं रूपिणे जप्त्वा शुद्धिदृक्शक्ता संशयः || रक्षितेऽपि च निर्वाणे त्वहोरात्रमुपोषितः | सहस्रं रुपिणो जप्त्वा ततः शुद्ध्यति साधकः || इति | प्रमादादामिषं देवे त्व घोर * * * * * | गतात्कीटामिषास्थ्याद्यैः दूष नैवेद्यदर्शने || प्राण्यङ्गधूपदाने तु पञ्चमस्यशतं जपेत् | लिङ्गच्छायां गुरोश्च्छायां लिङ्गानां यदि लङ्घयेत् | शतत्रयं जपेद्घोरं दीप्तगोब्राह्मणे शतम् || गन्धुकाद्यपि घाते तु सपेन्द्रव्ययुतं जपेत् | आदूरादभिघाते तु निश्शब्दे च युतं जपेत् | लिङ्गे पादेन संस्पृष्टे लङ्घिते वा युतद्वयम् || अर्थात्पादरजस्पर्शौ शुद्धिरुक्ताकपर्दिना || सहस्राल्लुढिते शुद्धिर्द्विगुणात्परिवर्तते | त्रिचतुर्लुढिते लिङ्गे विभूते तु महीतले || अयुते तु शुचिर्लक्षा दगाधे पतितैः शुचिः | त्र्ययुताश्लेष्मणादुष्टे व्ययुतार्च्य तदम्भसा || लक्षान्निर्माल्य गर्ते च पतनाच्छुद्धिमादिशेत् | विष्टागर्तनिपाताच्च सार्धलक्षाच्छुचिर्मता || स्थिरस्त्रोन्मूलनाल्लक्षाच्छुद्धिः स्यात् स्थापनात्तथा || प्. २३८) शसमुत्शक लिङ्गे तु प्रमादात् पतिते सति | द्व्ययुक्तं हस्तमात्रं च कल्प्यं न्यूनाधिकं ततः ||
SKसमुद्गक विनिर्मुक्ते प्रमादात्पतिते शिवे | हस्तमात्र प्रमाणाच्च पूर्वोक्ताद्द्विगुणा शुचिः || त्र्ययुतादग्निनालीढे यदिकान्तिर्विधीयते | कान्तिहीने शुचिर्लक्षात्परित्यक्ते कृते पुरे || व्यभि * * * प्यथ विच्छाये नदीगर्तादि पाततः | शश्वत्कालीठिते लिङ्गे नीते वातापि दूषकैः || हृतेराज्ञातस्करैर्वा श्वपचैर्वा निषेविते | विरुद्धवर्गं द्वितय स्पृष्टे त्यागो विधीयते || लक्षैकञ्च जपेद्यत्नात्तद्रूपं स्थापयेन्ध्रुवम् | परम् | तदा शुद्धिमवाप्नोति साधको दुग्ध किल्विषम् || अन्यथा नैव मूव्येत विधिवैकल्य सम्भवात् | चतुर्वर्णात्मको वर्गो नटकैनर्तकोपरः || उपस्पर्शाद्भवे * * * रेतत्स्पर्शद्वयेन च | काकादि वर्गत्रितय * * * नासं येनोपजायते || पश्चादिति चतुर्थं तु सचे लो जलमाविशेत् || यदुक्तं तिलक परमेश्वरे च - स्वेष्ट लिङ्गे हृते नष्टे दग्धे वाथ प्र * * * * | प्रायश्चित्तं भवेल्लक्षं मन्त्रस्यरोपणं मतम् || प्रमादात् पतितं भूमौ पशुस्पृष्टमथापि वा || प्. २३९) दशसाहस्रकं जप्त्वा संस्कारं मौलिकं तथा | हस्ताच्चेत् प्रच्युतं लिङ्गमयुतैः पञ्चभिः शुचिः || हस्तद्वयाद्य * * * * पतितं तत्प्रमादतः | तदा लिङ्गे न शुद्धिः स्यात् संस्कारं मौलिकं भवेत् || करमात्राच्च्युतं लिङ्गं यदा भिन्नं प्रमादतः | प्रायश्चित्तं न तस्यास्ति शालिका भेदितायतः || स्थावरं जङ्गमञ्चेति लिङ्गं द्विविध सम्मतम् | कामतोऽकामतो वापि स्फोटितं पाटितं यदा || प्रायश्चित्तं न तस्यास्ति इत्याह भगवान् शिवः | लिङ्गोत्पाटं महाघोरमधिक्षेपं तपस्विनाम् || न क्षमामि द्विजश्रेष्ठ ब्रह्मकेश पथोरपि | शलाका घटिका चस्यात्प्रायश्चित्तं न विद्यते || शलाकां पतितां दृष्ट्वा देशस्त्याज्यः सदेशिकैः | दुर्भिक्षं व्याधयस्तस्मिन्नीतयश्च निरन्तराः || तदेशाने च ऋष्यन्ते नवदीर्घायुषो नराः | लिङ्गे हि पतिते विप्र जायते नात्र संशयः || इति || अक्षसूत्रापराधादौ लिङ्गोत्थात्पदतः शुचिः | घण्टायामपराधे तु लिङ्गोक्ताष्ट शताच्छुचिः ||
SKस्वेष्ट लिङ्गे तु संस्पृष्टे ब्राह्मणाद्यैरदीक्षितैः | तदा तस्य भवेछुद्धिरेक द्वित्रिचतुश्शतैः || प्. २४०) कैवर्तवर्गसंस्पृष्टे शुद्धिः स्यादयुतं नरः | स्पृष्टे काकादि वर्गेण त्र्ययुतां शुद्धिमादिशेत् || बाणायुतेन शुद्धिः स्याद्दृष्टे तु श्वपचादिभिः | एभिस्स्पृष्टं यदालिङ्गं द्विगुणाच्छुदिरिष्यते || स्वस्रोतो दीक्षितैर्लिङ्गं यदा स्पृष्टा न दोषभाक् | वामदक्षिणमार्गस्थैः स्पृष्टे लिङ्गे प्रमादतः || अयुताच्छुद्धयते मन्त्री महास्नानैश्च नान्यथा | ये निन्दन्ति गुरुं लिङ्गं शिवशास्त्रं च लिङ्गिनः || तस्मात्स्थानाद्वजेद्दूरं सद्योजातशतं जपेत् || शोधको बोधकश्चैव मोक्षदश्च त्रिधा गुरुः | मोक्षके बोधके चाथ प्रेरके क्रूर भाषणात् | लक्ष लक्षार्धतः शुद्धिः तत्पादेन च कल्पयेत् || षड्गुणादुपघातादौ रक्तस्याद्द्विगुणच्छविः | शस्त्रैः शतगुणाच्छुद्धिः ज्ञात्वान्यत्र प्रकल्पयेत् | ततः कुर्याद्यथा शक्त्या कृत्वा चान्द्रायणादिकम् || व्रतान्ते पूर्ववद्दीक्षा गृह्यपञ्चाब्ज पूर्विका | सर्वं स्वर्णं गुरोर्दद्यात् तदाशुद्धिर्भवेन्नृणाम् || सदा शिवव्रतधरे देशिके साधकादिके | तेषां तु रक्तपादेन लक्षजातेन शुध्यति || दण्डघातान्तिकं दत्तं यथारक्तं न दृश्यते || प्. २४१) तदर्धाच्छुध्यते मन्त्री प्रार्थयेत्पादवन्दनैः | महास्नानादिकं कार्यं गुरुद्रोहादिके कृते || पयोदधिघृतादीनां द्विसहस्रफलेन तु | महास्नानं प्रकर्तव्यं फलानामपि तत्समम् || अङ्गोलजातिपुन्नाग श्रीफलानां तथैव च | तथा रक्तं महावर्ति शिवस्याग्रे प्रकल्पयेत् || महास्नानं प्रकर्तव्यं महापूजातदर्धतः | उपवासद्वयं कार्यमयुते चायुते सदा || दशांशेन जपाद्धोम विंशत्यंशेन गड्डुकान् | सत्यं युतं ब्रह्मचर्यं भूशयानक्तं भोजनम् || अतैलस्सत्यवद्भूयाद्धविष्यान्तो जपाविधिः || पञ्चगव्यं सदापेयं समाप्ते च तथा भृशम् | पुस्तके पतिते यस्मात् स्वापिते यत्र कुत्रचित् ||
SKतत्सूत्रे भूगते वाथ भूमौ पुस्तक वाचने आसने शयने स्थाप्य पटले वा गृहस्य च | घोरं पञ्चशतं चार्घ्यं कामदस्तु द्विधाजपेत् | जीर्णागमं ससिद्धान्तं पुस्तकं तद्घृतप्लुतम् || अग्निकुण्डे तु होतव्यं हुत्वाघोरशतं जपेत् | क्रोशैश्च न संभका * * * * * * * * लिभिः | शतेन स्पर्शतः शुद्धिर्भाषणाद्वैतदर्धतः || प्. २४२) पञ्चार्धकालवक्त्रैश्च विवादं न समाचरेत् | संभाषणं तथा स्पर्शं दूरतः परिवर्जयेत् || साङ्गैः स्नाध्यैश्च चार्वाकैः न चै * * * पटादिभिः | तथा भागवतैः सार्धं पर्शनं च विवर्जयेत् || न च दोषः प्रकर्तव्यो ना विवादः कदाचन | यः करोति समूढात्मा द्वियुक्तः शुद्धिमाप्नुयात् || पञ्चपातकयुक्तानां दर्शनं परिवर्जयेत् | आलापादयुताच्छुद्धिः द्विगुणा स्पर्शतोमता || शयनं त्र्ययुताच्छुद्धिः भोजनं लक्षतः शुचिः | ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः || महापातकमित्याहुः तद्योगात् पञ्चमं भवेत् || हुत्वा कामाद्द्विजस्सत्यं गवां गोष्ठे जपेत्तदा | पीत्वाकामात्सुरां वामं शिवहर्म्ये जपेत्तदा || कृत्वास्तेयमकामस्तु घोरं पितृवने जपेत् || गुरुस्त्रीगमनं कृत्वा कामादग्न्यानुलेपनम् | योगं कृत्वा समस्तैस्तु नागाग्रे पञ्चमं जपेत् || प्रकाशे कामदश्चैव लक्षमावर्त्य शुद्ध्यति | अकामतोरहस्यश्चेत् सहस्राच्छुद्धिरिष्यते || कामदस्य रहस्यैते त्रितस्यादयुतद्वयम् |? अकाशतप्रकाशे च तत्राप्ये चा युत द्वयम् ||? प्. २४२) चान्द्रायणं पराकश्च कृच्छ्रं चैव यथा क्रमम् | तप्तं कृच्छ्राति कृच्छ्रौ च ब्रह्महत्यादि पञ्चसु || गवां गोष्ठादिकं चात्र मण्डलं पुष्करे यथा || ब्रह्मोवाच - गोमध्यमिति किं प्रोक्तं किञ्चप्रोक्तं शिवालयम् | श्मशानं * * * * * द चाग्निहोत्र गृहं च किम् || किं पर्वतार्व देवेश वक्तुमर्हसि तत्वतः || ईश्वरौवाच - गोमध्यं गोष्ठमित्याहु द्योगहस्तेन संमितम् | गो सहस्त्रादयः कोष्ठं ब्रह्मन् सामान्य * * * * ||
SKगामर्घ्यमण्डलं प्रोक्तं सौरभेयं तु तत्स्मृतम् | सुरभ्यो यत्र पूज्यन्ते एकादशसवत्सकाः || अष्टौदिक्षु स्थितं ब्रह्मं स्तिस्रो मण्डल मध्यगाः | तासां मध्ये तु वृषभः स्वयमेव व्यवस्थितः || देव्यः कामदुद्या वस्था सु * * * स्तत्पापात्मकम् | मण्डलं चाष्टहस्तान्तं नवधा दशधाभवेत् || चतुरश्रं चतुर्द्वारं चतुर्वक्त्रं सर्वाधिकम् | अमन्त्र मन्त्रा यथा * * * * द्ये स्वाहा | मध्य कमलं दक्षिणे जगद्योनिरुत्तरे ॐ अमोघमातः वृषभः कर्णिकायाम् तथा च गृद्धतये प्राच्यां ॐ जगद्धृदये आग्नेय्यां ॐ अमृते दाक्षिणस्यां ॐ तेजोमालिनि ॐ जगद्धेतो वारुण्याम् | ॐ शिवशक्ति वायव्याम् | ॐ सर्वलोक सञ्जीविनि कौवेर्यां ॐ स * * दे ऐशान्यां ॐ तेजः संहारिणि स्वाहा | इति वृक्षस्याग्रतः प्. २४४) ॐ स्रुव स्रुव गल गल सुखदुःखामृतं भवतु स्वाहेति सर्वासां वत्सकाः || इति धेनुमण्डलपूजनम् || सामान्य वाचकं ब्रह्मन् एक लिङ्गं शिवालयम् | मण्डलं तु विशेषेण च शिवाय * * मुदाहृतम् || पूज्यन्ते यत्र विधिना शिवः सृष्टिपुरस्सराः | एक एव स्थितो मध्ये व्योमव्यापी महाशिवः || तस्य सृष्टिः शिवपार्श्वे दक्षिणे समवस्थितः | स्थित स्थितः शिवोवामे कर्णिकायां शिवासने || ऐशान्यान् तस्य दिग्भागे संहाराख्यः व्यस्थितः | अनुग्रह शिवः प्राच्यामाग्नेय्यां मुक्तिदः शिवः || तिरोभावः शिवोदक्षे राक्षसेभूतिदः शिवः | भुक्तिमुक्ति शिवास्थाप्य दिक्षु शेषास्वनु क्रमात् | व्योमव्यापि पदावस्थो विज्ञेयोऽसौ महाशिवः | भवयुग्म पदावस्थो विज्ञेयो नाशिवस्तथा || सदा स्थितिः शिवस्तत्र भवेद्भवपदे स्थितः || मुञ्च मुञ्च पदावस्थः संहाराख्य शिवः स्थितः || अनुग्रहः शिवः प्रोक्तः सर्वभूतसुखप्रदः | भुक्ति मुक्ति शिवा ह्येते ते त्रयः परिकीर्तिताः || मण्डलं कल्पनीयं तत् पूर्ववच्चतुरश्रकम् || अत्र मन्त्रा यथा - ॐ व्योमव्यापिने महाशिवाय नमः | ॐ भव भव सृष्टि शिवाय नमः | प्. २४५)
SKॐ भवोद्भव स्थिति शिवाय नमः | ॐ मुञ्च मुञ्च संहार शिवाय नमः | ॐ सर्वभूत सुखप्रद अनुग्राह शिवाय नमः | ॐ नमः शिवाय नमो नमः | शिवाय नमो नमः | मुक्ति शिवाय नमः | ॐ प्रथम प्रथम तिरोभाव शिवाय नमः | ॐशिवः सर्वद भूतिदशिहस्रादधस्तात् करवीरादिकस्य तु | सामान्य वाचमिह अविशेषं मण्डलं त्विह | बहुरूपस्य पदैरघोराद्यै रूपपश्चिमैः | अघोरः प्रथमस्तत्र द्विक्रियो घोर उच्यते | घोर घोरतरश्चान्यः सर्वे रुद्रस्तथापरः || श्मशान मण्डले ह्येते चत्वारास्त शिवाः स्मृताः | अघोरं पद्म मध्यस्थः प्राच्यां घोरः प्रतिष्ठितः || घोर घोरतरोयाम्ये सर्वे वारुण दिक्स्थिताः | रुद्रस्तथोत्तराशास्थो मण्डलं तु चतुर्दलम् || चतुः प्रेतशिरोरुढाः सर्वे पूज्या विधानतः || अत्र मन्त्रा यथा - ॐ अघोरेभ्यो नमः | कर्णिकायाम् | ॐ अथ घोरेभ्यो नमः पूर्वदले | ॐ घोर घोरतरेभ्यश्च नमः याम्ये | ॐ सर्वतश्शर्व सर्वेभ्यो नमः वारुणे | नमस्तेऽस्तु रुद्ररूपेभ्यो नमः उत्तरे | इति श्मशान मण्डलम् | अग्निहोत्र गृहं ब्रह्मन् हूयन्ते तत्र वह्नयः | वोह सहस्रादयस्तस्माद्धोमात्संमान्य पावकः || प्. २४६) अग्निहोत्र गृहं तत्र विशेषा मण्डलं स्मृतः | त्रिभिः पद्मैस्तु देवस्य तद्धितं पुरुषस्य च || हर नेत्र त्रया कारः विशेषस्त्विह कीर्त्यते || पूर्वं वेदाश्रकं वृत्तं वारुणं याम्यमिन्द्रवत् || यत्र वै गार्हपत्योऽग्निः देवसत्पुरुष स्थितः | आह वाग्निर्महादेवो रुद्रः स्याद्दक्षिणोऽनिलः || पश्चिमे पुरुषो देवा महादेव पुरस्थितः | रुद्रस्तु दक्षिणेभागे मण्डले परिकीर्तितः || अत्र मन्त्राः - ॐ तत्पुरुषाय विद्महे गार्हपत्याय नमः | महादेवाय धीमहि आहवनीयाय नमः | पूर्वे ॐ तन्नो मृत्युः प्रचोदयात् * * * धनम् दक्षिणे | एवमग्निहोत्रमण्डले | पर्वताग्रं तु शिखरं सामान्यं परिकीर्तितम् | अद्वृषपर्वतानां स्यात्कुलाद्रीणां च कीर्तितम् || विशेषो मण्डलं ब्रह्मन् पर्वताग्रमिति स्थितम् ||
SKमेरुस्तु वर्ष * * * * प्रधानं परिकीर्तितम् | विन्ध्य एव कुलाद्रीणां चतुःशृङ्गदुपावपि | ईशानः पूर्वतो ज्ञेयः पर्वतः पर्ववानिति || पर्वेत्यर्थ वशात्संज्ञा वार्च्यवर्ण पदात्मिका | वाच्यान्यस्यतु पर्वाणि चत्वार्युक्तानि चासने | सदा शिवाख्यं यद्वाच्यं तदग्रं परिकीर्तितम् || प्. २४७) तन्मध्ये यजनीयं तु चतुःपर्वाग्र संस्थितम् | ईश्वरो दक्षिणे पूज्यः पश्चिमे ब्रह्मणोऽधिपः || उत्तरे पर्वाअणि शिरः मण्डले पूजयेदिति || अत्र मन्त्रा यथा - ॐ सदा शिवाय नमः मण्डल मध्ये | ईसानः सर्वविद्यानां नमः पूर्वभागे | ॐ ईश्वरः सर्वभूतानां नमः दक्षिणे | ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा नमः पश्चिमे ॐ शिवोमेऽस्तु नमः उत्तरे || इति पर्वताग्रपूजनम् || गुरुपत्नीं गतो मोहात् सकृद्वीतः पुनस्त्यजेत् | अन्तः सन्तापनं कृत्वा प्रायश्चित्ताय सर्पति || तस्यापि लक्षजाप्यं तु दातव्यं निर्विकल्पतः | न त्यजेत्कामतोमोहात् नारकी स्यान्नराधमः || प्रायश्चित्तं न तस्यास्ति दीक्षाफल निरोधिनः | गुरुपत्नीं यदा दृष्ट्वा दुष्टबुध्या शतं जपेत् || बहुरूपां प्रमादात्तु विवस्त्राणि शतं जपेत् || प्रतिमालिङ्ग शास्त्राणां विक्रये ब्रह्महा भवेत् | स एव गुरुहन्ता च मातृहा पितृहा तथा | गोघ्नश्चैव सुरापश्च सुवर्णस्तेय पातकी | त्रिसप्त कुलसंयुक्ता यावदा चन्द्रतारकम् || घोरं नरकमाप्नोति नात्रकार्या विचारणा || सर्वेषामेव पापानां प्रायश्चित्तं गवोदितम् || प्. २४८) प्रतिमालिङ्गशास्त्राणां विक्रये निष्कृतिर्नहि | तत्समोनास्ति पापीया नित्याह भगवाञ्छिवः || तथैव पिण्डिकानां तु विक्रये नास्ति निष्कृतिः | प्रमादाद्विक्रये कोटि जपाच्छुचि * * * * || कामतरे तथा तस्य त्रिगुणं परिकीर्तितम् |? किन्त्वत्र बहुनोक्तेन प्रायश्चित्तं न कुत्रचित् || विक्रये लिङ्ग पिण्डीनां सत्यं सत्यं तदा वचः || अथ शिवधर्मोत्तरे - क्रोधाद्द्वेषाद्भयाल्लोपाद्ब्राह्मणं वै वदेत यः | मर्मान्तिकं महादेवं ब्रह्महा सु प्रकीर्तितः || अथ ललितभेदे -
SKअलपापराधिनं विप्रं यो हन्यात् कामचारतः | वेदवेदाङ्ग तत्वज्ञं कन्यकालिङ्गिनः स्त्रियः || प्रायश्चित्तं न तस्यास्ति तस्मात्तान् न च मारयेत् | आक्रोशितस्ताडितावान्तथा संव्यवहारतः | द्रव्यक्षेत्रापहाअरादौ यतीक्रोधवशंगतः || म्रियतो ब्राहम्णो यस्मिन् सकामं ब्रह्महा भवेत् | अपराध सहस्रेष्पि नात्महत्यां समाचरेत् || यः करोति स पापात्मा नारकी स्यान्नराधमः | आत्मनात्मनि हन्तायः कुम्भी पाकेवसेच्चिरम् || तथा च स्मृतिः - अवमानादयः क्रोधाल्लोभात्परि भवाद्भयात् | उद्बध्यम्रियते नारी पुरुषो वा कथञ्चन || प्. २४९) असूर्यान्नामकांस्तत्र ते यान्ति मानवाः | पूर्य शोणित संपूर्णे त्यज्येतस्मिदारुणे || षष्ठिर्वर्षसहस्राणि हत्वात्मानं वसेन्नरः | आहवे गोगृहे वैरे विद्धं रेतस्करादिके | वर्धयन्तं वधे * * * * न तेन ब्रह्महा भवेत् || शिवस्य शिवमन्त्रस्य शिवाचार्यस्य कामतः | निन्दकान्विनिहत्याशु हत्यया न विलिप्यते | भवेद्दोषहते लिङ्गं न्यस्मिन्त्वा प्रति * * * व्यपि | येन केनापि दोषेण कर्मभिः दुष्टकुत्सितैः | लौ * * वा प्रबद्धं तन्नवद्ये लि * * स्त्रियम् || निग्रहो नैव कर्तव्यः स्त्रीणां चैव तपस्विनाम् || निर्धारणं परो दण्डोदिकन्यां सतां भवेत् ||? अपराध सहस्रेऽपि नहन्यान्न वि * * * यत् | गुरुणामप्यनिक्षे * * * पशीव * * * षणम् || शिव विद्वेषणं घोरं देवतावेद निन्दितम् | इष्टमित्रादिथीनान्तु वयोधी तस्य नाशनम् | प्रतिज्ञाय चेद्दत्तं विद्वज्जन विमर्दनम् || आत्मोत्कर्षणापादमुत मे * * * * * * * | क्षुधार्ते भोजने विघ्नं सत्रगो जलवारणम् | ब्रह्महत्या समंज्ञेयं पातकं कुलदूषणम् || प्. २५०) अभक्ष्य भक्षणं जैम्य मुत्कृष्टं दूषणानृतम् | रजस्वलामुखास्वादः सुरापान समानि तु ||? ईश्वरस्वमनुष्यस्त्री भूधेनु हरणादिकम् | निक्षेप हरणं सर्वं सुवर्णस्तेय संमितम् || सखी भार्या कुमारीषु सवयेष्वन्त्यजासु च | स गोत्रा सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ||
SKपितृस्वसृमातुलानी धनुषां मातृस्वसामपि | मातुः सपत्नीं भगिनीं आचार्य तनयां तथा | आचार्य पत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः | महापातकमित्युक्तं उपपातकमुच्यते || गोवधो प्राप्यतास्तैन्य मृणानाञ्च न पाक्रिया |? अनाहिताग्नि तापस्य विक्रयः परिवन्दनम् || भृतकाध्ययनादानं भृतकाध्यापनं तथा | पारदात्थ्यं पारवित्तं वाद्धूष्यं लवण क्रियाम् | स्त्रीशूद्रविट्क्षत्रियवाथो निन्दितापोपजीवनम् ||? नास्तिक्यं व्रतं लोपश्च स्वसुतानाञ्च विक्रयः | धान्यकूप्य पशुस्तेय मयाज्यानां च याजनम् || पितृमातृसुत त्याग तटकाराम विक्रयः | कन्यकादूषणं चैव परिविन्दक याजनम् || कन्याप्रसादन्ना तस्यै कौटिलिं व्रतलोपनम् | आत्मनोऽर्थे क्रियारम्भे मद्यपस्त्री निषेवणम् || प्. २५१) स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च || इन्धनार्थं द्रुमच्छेद स्त्री हिंसौषध जीवनम् | हिंसायन्त्र विधानञ्च व्यसना न्यात्मविक्रिया | शूद्रप्रेष्यं हीन सख्यं हीनयोनि निषेवणम् || तथैवानाश्रमे वासः परान्न परषु वृता | असच्छास्त्राधिगमनं आचारेष्वधिकारि ता || भार्याया विविधा येषामैककमुपपातकम् | इति || स्मृतिवचनम् - अथवा कालोत्तरे - प्राणि हिंसात्मसात्पापाच्छतघोर जपाच्छुचिः | कामतो गर्भपाताच्छ तृतीयस्य युतञ्जपेत् || स्त्रीशूद्रबालकात् हत्वा बहुरूपायुताच्छुचिः | धेनुं प्रमादतो हत्वा घोर लक्ष जपाच्छुचिः || धेनूनां च शतं हत्वा त्रिलक्षाद्वा विशुद्ध्यति | अनस्थि प्राणि संघाते स्वेदजे च हते सति | अजातस्य शतं जप्यं कामाकृततदर्धनः || आद्युनञ्च शतेनैव मार्जारेव सहस्रशः || श्वशृगालवधैरेव द्विगुणात्कपि कुक्कुटे | सर्पाद्यणु जघाते तु हंसादि शकु निष्वपि | हिंसादि मृगघाते तु अजाति पशुद्यातेन || शतश्शतुश्शतान्तं तु न्युरूपजपाच्छुचिः | श्वसृगालादि सर्वैर्वा यददिष्टः प्रमादतः | स्नात्वा शीताम्बु मध्यस्थ स्त्वघोरस्यायुतं जपेत् || प्. २५२)
SKविषविद्याञ्च वैद्यं च कुर्याच्चेच्चेन्द्र जालकम् | भूतग्रह पिशाचादि विच्छेदे तु शतत्रयम् || उपरोधात्तथा स्नेहात्कृत्वा शान्तिक पौष्टिकम् | शतत्रयाद्भवेच्छुद्धिर्बहुरूपस्य नान्यथा || अघोरस्या युतं जप्त्वा निराहारेकतः शुचिः | अज्ञात्वा शास्त्रसद्भावं ज्ञान तत्वसमुच्चयम् || दीक्षां करोति यो यो मोहात्पश्चात्तापं करोति चेत् | पञ्चलक्षं जपेद्घोरं यदि वाञ्छति शोभनम् || स्व गुरोर्योद्गुरोर्भ्राता गुरुपुत्रो विशेषतः || अज्ञादनेन तेषां तु लक्षपादेन शुद्ध्यति | दीक्षातैरेव कर्तव्या पवित्रारोहणं तथा || गुरुपुत्रं यदा योग्यन्न्यस्त्वान्यं परिकल्पयेत् | निष्फला तस्य वै दीक्षा महाकल्पं व्रजत्यधः || दूरतोऽपि सहायोज्य द्व्ययुत * * * * जपेत् | सहसाय चतुर्थांशं जप्त्वासौ प्रविशेद्गृहम् || शिवधर्मोत्तरे - परस्त्री द्रव्यसङ्कल्पं चैतदष्ट विचिन्तनम् | अकार्याभि निवेशञ्च च * * * * * * मनसा || अतिबद्ध प्रलापित्वमसत्यञ्चा प्रियं च यत् | परापवादं पैशुन्यं चतुर्थं कर्म वाचिकम् || अभक्ष्य भक्षणं हिंसां मिध्याकामध्य सेवनम् || प्. २५३) शिवभेदे सहस्रे वा * * * * * * * * * | वाक् च कर्मवचश्चैव यस्तु दण्डयति त्रयम् || त्रिदण्डी स तु विज्ञेयः प्राप्नोति गतिमुत्तमाम् || त्रयाणामपि चैतेषां निष्कृतिं च शृणु प्रिये | रसके स्यत्त्र्यहं मौनं मग्निकार्यार्चना जपम् || स गुप्ते गुरुदेवाय दीनां वाचं निवेदयेत् | समुक्तो वाचिकैर्बन्धैः कर्मबन्धं निबोधनम् || निराहारं त्रिरात्रञ्च त्रिसन्ध्यं जलगाहनम् | ब्रह्मचारी च मौनी च कर्मबन्धैर्विमुच्यते || मानस्यात् पापस्य प्राणायामेऽम्भसि कृते |? शिवगायत्रिमन्तेण शतं मुच्येत मानसैः || इति || अथ वामदेवी ये क्रियासङ्ग्रहे - जप्त्वा शिवायुतं मन्त्री सर्वदोषापनुत्तये | पञ्चगव्यं सकृत्पीत्वा सर्वपापैः प्रमुच्यते || अघोरतोषितो भूत्वा शिवस्य पुरतः स्थितः | ॐकाराद्येन मूलेन पूर्वाशाभिमुखः स्थितः ||
SKपीतमात्रे भवेच्छुद्धं शरदिन्दुरिवामलम् | मातापितृ समुद्भूतं सहजागन्तु कञ्चवत् || अस्थिमज्जागतं पापं ब्रह्मकूर्चो दहेत् क्षणात् || प्. २५४) विधिः प्रणच्छन्नपापेषु प्रकाशे कथयेद्गुरोः | लिङ्गं गुरुं तथा शास्त्रं प्रतिमां वा प्रमादतः | पादेन यदि संस्पृष्टो जपेद्घोरायुतद्वयम् || कामतष्षड्गुनं कृत्वा गड्डुकानां शतत्रयम् | गुरु शय्यासनं यानपादुकोपानहौ तथा || अकामाद्रोहणं कृत्वा सहस्रावर्तनाच्छुचिः | ज्ञात्वा यदारोहेत् प्राज्ञः तदासौ षड्गुणं चरेत् || गुर्वङ्गभूषणं वस्त्रं छत्रं पद्भ्यां न संस्पृशेत् | जिगीषामात्मनो वाथ कृत्वापञ्चशतं जपेत् || देवचण्डगुरोराज्ञा भङ्गे लक्षमुदीरितम् | अकामादयुतं प्रोक्तं होमगड्डूपवासकैः || ग्रोरादेशभङ्गे च सकामाद * * * * यः | अकामाच्च सहस्रं तु तथा तत्सन्निधौ स्वपन् | अकामतः प्रसुप्तस्य शुक्लादेः स्यन्दने सति || स्नात्वा पुरासचेलस्तु अस्त्रमन्तशतं जपेत् || पञ्चार्धकालवक्त्रैश्च स्पृष्ट्वा कापालकोलिकैः | श्वपाकम्लेच्छ चण्डाल बौद्ध नग्न सिताम्बरैः | चार्वाकैस्सोममाहृत्य श्मशानं दुष्प्रदर्शनात् || कृत्वा स्नानं स शैवस्तु तृतीयस्य शताच्छुचिः | मञ्चेकाष्ठेनापि कुड्ये तृषौद्येश्मनि हस्तिनि ||? प्. २५५) देवा यत्रापि वाहादौ यज्ञप्रकरणेषु च | उत्सवेषु च सर्वेषु स्पृष्ट्वा स्पृष्टिर्न दूष्यते || ततः स्वायं भुवे - न निन्द्याद्ब्राह्मणागावो न निन्द्याच्छिवमूर्तयः | न देवा ऋषयश्चैव न गणा न च मातरः | एषामेक तमस्यापि यदि निन्दां समाचरेत् || स्नात्वा सर्वात्मना कुर्यात्प्राणायाम द्विरष्टकम् | रेतोत्सर्गे निशायां तु षडूनमिद माचरेत् || श्वाप्यर्धे तु पूर्वोक्तमघोरेण चरेत् स्मृतम् | सङ्गम्य योषितं मन्त्री प्रणवस्य महात्मनः || प्राणवृत्ति निरोधेन लक्षमावृत्य शुद्ध्यति एतत्तपस्वि विषयमेव च - तदुक्तं सारसंग्रहे च - तपस्वी विषयासक्तो व्रतोद्धार पुरस्सरम् | स्त्रीपरि ग्रहणं कुर्यादन्यथा पतनं ध्रुवम् ||
SKजटा केशेषु या संख्या देहे वा भस्मरेणवः | तावत्कालं महाघोरे रौरवेनिवसेद्व्रती || यः सकृद्योषितं गच्छेत् कमस्याः पुनरुहयेत् | वामदेव सहस्रेण शुद्ध्यन्ते च न संशयः || बलादुत्सृज्य शुक्रं तु दिवावाम चतुश्शतान् | रात्रौ चेद्द्विशतं जप्यं दिवा सुप्त्वा शतं जपेत् || प्. २५६) पशुक्रीडां यदा पश्येदकामात्स शतं जपेत् | ऋटु स्नाता यदा पत्नी तत्पञ्चदिनावधि || व्योम विप्रेण पुत्रार्थमन्यथा ब्रूणहा भवेत् | ततस्तपस्विनिष्णाते जपहोमादिकं चरेत् || सततं यश्चरेद्विप्रो मैथुनं काममोहितः | स विप्रः खर विज्ञेयस्तस्य मन्त्राः पराङ्मुखाः || क्षत्रादौ न च दोषोऽस्ति दिवापर्वणि दोषभाक् | कर्मणा मनसा वाचा न कामं परिवारिकम् || शुद्धिर्लक्षार्थ जाप्नोयः यदि मोहात्समाचरेत् | कन्यायां द्विगुणं कार्यं तथा वर्णान्तरेषु च || इति || अथ पराख्ये - पर्व सन्धिषु सर्वेषु कदाचिन्मैथुनं दिवा | कृत्वायुतं जपेत्प्राज्ञो प्रणमस्य व्रते स्थितः | रात्रौ कृत्वा युतार्धं तु सन्ध्यायामयुतं जपेत् || कथां मैथुनजां कृत्वा हृद्बीजं शतं जपेत् | ब्रह्मचर्याद्वदेद्धिमान् प्रायश्चित्तं गृही चरेत् || वेश्यां च वृषलीं यत्नात्परदारांश्च वर्जयेत् | प्रमादान्मोहतो गत्वा प्रायश्चित्ती भवेन्नरः || परासंहितायाम् - अगम्या गमनं कृत्वा वामदेवशतं जपेत् | ब्राह्मणी मितरां वापि योऽभिगच्छेत्तु दीक्षितः || विप्रः साष्टशतं जप्त्वा तस्मात्पापात्प्रमुच्यते || प्. २५९) क्षत्रियो द्विशते नैव वैश्यस्तु त्रिशतेन तु | शूद्रो जप्त्वा च चत्वारि वामदेवं शिवाग्रतः || एकरात्रोषितो भूत्वा तस्मात् पापात्ममुच्यते | यस्तु प्रव्राजितां गच्छेत् ब्राह्मणीं वा कुलस्त्रियम् || ईशेनाष्टशतं जप्त्वा दोषामुच्येत दीक्षितः || कदाचिद्यः प्रमादेन वृषली सङ्गमा चरेत् | ईशानस्य शतं जप्त्वा तस्मान्मुच्येत किल्विषात् || चण्डाल स्त्रीं यदा ज्ञानान्मन्दिरे संव्यवस्थिताम् | मृण्मयादि त्यजेद्भाण्डं स्नात्वा संशोध्य तद्गृहम् ||
SKनरं पञ्च सहस्राणि जप्त्वा कृच्छ्रं समाचरेत् | भुक्त्वा सायाद्य कामेन तप्तकृच्छ्र पुरस्सरम् | अघोरं वायुतं जप्त्वा पञ्चगव्येन शुद्ध्यति || कामतश्चेत् सकृद्भुक्त्वा कृत्वा कृच्छ्राति कृच्छ्रकम् | वामदेव जपं तद्वत् परकान्ते व्रतं मतम् | ज्ञात्वा भुक्त्वा चिरं कालं तदासौ तत्समो भवेत् || रजकी चर्मकारी वा स्पृष्ट्वा वा मन्दिरे स्थितः | भाण्डत्यागादजा शुद्धिः त्र्यहात्पञ्चसहस्रकाम् || अकामतो यदास्पृष्ट्वा भुक्त्वा घोरं जपेद्यदि | कामात्तद्द्विगुणं ह्येतत्सकृद्योगात्समाचरेत् || अकामाद्बहु संयोज्य सञ्जातास्तदयोरपि | तदा चान्द्रायणं कार्यमनुयानैव शुद्ध्यति || प्. २५८) बहुदैवसिको योगः सञ्जातः कामतो यदि | तदा चान्द्रायणं कार्यं वारिणा केवलेन तु || मासार्ध * * * विप्रः स्थाच्छुक्ले कृष्णे च ह्रासयेत् | चान्द्रायण विधिः प्रोक्तो जलादेव जलात्मकः || एकभुक्तं त्र्यहं कुर्यात्कार्यं त्रियहममाचितम्? | त्र्यहंनक्तं समश्नीयात्र्यहं स्यान्मारुताशनः || एवं कृच्छ्रः समाख्यातः त्वतिकृच्छ्रमथ शृणु | क्षीरस्य त्रिपलं पानं दिवसानिक विंशतिः | अति कृच्छ्रं समाख्यातं पराकं शृणु साम्प्रतम् || द्वादशाहं निराहारः पारकोऽयमुदीरितः | अतिकृच्छ्र सहस्रेषु शिवभेदे यथा तथा || अश्नीयात् त्र्यहमेकैकं ग्रासं मध्यं दिने सुधीः | पुनस्त्रीणि दिनान्येवमश्नीयात् तदयाचितम् || अहानि त्रीणि नक्तं स्यान्निराहारः त्रिवासरम् | अति कृच्छ्र विधानं ते समासात्समुदाहृतम् || इति || लवणं गुस भिक्षाणा दिगन्धानि विविधानि च |? क्षीरं दधिघृतं तैलं मधुमांसादि धान्यकम् | पट्टवस्त्रं च कार्पासमौर्णं क्षौमञ्च मौञ्जजम् || चर्मप्रतिग्रहं कृत्वा जपेद्घोर शतत्रयम् | हेमादि लोहसंघातं व्रजादि रत्नसञ्चयम् || प्. २५९) हरितालादि धातूनि पारदं धान्य सञ्चयम् | वृषभं हस्तिनं ग्रामं क्षेत्रमश्वं नरं तथा || आलयादिषु यत्नेन बहुरूपायुताच्छुचिः || काष्ठोपल तृणादीनां भरणाच्छतशः शुचिः | पापानामप्यनेकानां संकरे समुपस्थिते ||
SKद्वात्रिंशक्षुरिकां घोरं ज्ञत्वा ज्ञात्वा जपेत्सुधीः || मठप्रतिग्रहं कृत्वा घोरं लक्षं जपेत्तदा || शिष्य भक्तादिभिः कृतं नूतनं चेदित्यर्थः |? मठमाश्रित्यये लिङ्गं पूजयन्ति कुबुद्धयः || मठमाश्रित्येत्यस्या यमर्थः - देव द्रव्यमिश्रितैः मठेग्रा साद्यभिलाषेण स्वकीयविरहितं परलीङ्गं चलाचलं गृहस्था ब्रह्मचारिणो वा ये पूजयन्तीति भावः || नरानारागिणस्तेस्युः निते मोक्षस्य भजनम् | यदीच्छेन्नारदं तं तु पुत्रमित्रादि बान्धवैः || तदे क्रुद्धिं प्रकुर्वीत माठापत्यं शिवालये || अत्र मूल निमित्तं वा माठापत्यं शिवालये || अत्र मूलनिमित्तं वा माठापत्यं क्रियेत वा | आ मूलोपरियुक्त विधिना यत्किञ्चित्क्रियते तद्यैतद्वचनं || वृत्त्यर्थं पूजयेद्यस्तु प्रतिमालिङ्गमेव वा | देवस्थानपतिश्चैव स वै देवलकः स्मृतः || सोम ब्रह्मरविस्कन्द विष्णुदेव्यश्च माताचमः |? प्.२६०) जीवन्ति ये केचिदर्चयित्वा तु भोजकाः | देवदेव कलास्तेषां सम्पर्कं निष्कृतिः स्मृता || वक्ष्य माणेनेति विशेषः | क्वचित् - शैवो वा वैदिकोवापि तन्त्राः पाशुपतोऽपि वा | कपालः कालवक्त्रो वा योवा कोवापि मानवः || द्रव्यार्थं पूजयेद्यस्तु देवं त्रिभुवनेश्वरम् | समयाचार युक्तोऽपि पतितः स नराधमः || इति | सम्पर्क मन्त्रैः समं कृत्वा भाण्डं स्पृष्टं यदा भवेत् | ब्रह्म यस्य तदात्माकं कुर्यादेवा विचारतः || लौहं ताम्रं तथा कांस्यं हेमरौप्यादि संभवम् | अग्नौ शुद्धिस्तदा चैषां भस्मता मलशोधनम् || शङ्ख शुक्त्यादितोयार्थं पञ्चगव्येन शोधयेत् | एवमदीन्यनेकानि ज्ञात्वा ज्ञात्वा विशोधयेत् || भोजकैर्जन्महीनैर्वा सम्पर्कात्कामतो यदा | अयुक्तेद्वे जपेद्घोरमकामादयुतं जपेत् || देवस्वं देवताद्रव्यं नैवेद्यं च निवेद्यकम् | चण्डद्रव्यं च निर्माल्यं निर्माल्यं षड्विधं स्मृतम् || देशं विषयग्रामं दद्यात्सीधान्यञ्चतुष्पथम् | देवस्वं तद्विजानीयात् तस्यभर्तुः प्रदापयेत् || त्र्यहमम्भः पिबेत्तप्तं क्षीरं तप्तं त्र्यहं भवे | प्. २६१)
SKत्र्यहमुष्णं घृतं पीत्वा त्र्यहं स्यात्मारुताशनः | तप्त कृच्छ्रमिदं ख्यातं देवस्वेपापनाशकृत् || वस्त्रालंकारधातूनि मणिरत्नानि यानि च | देवद्रव्यं समुद्दिष्टं कामतोभक्षितं यदा || द्विलक्षं बहुरूपस्य जपेद्बृक्ष मकामतः | चतुः पञ्चगुणं तद्वद्दता त्वञ्च विशुद्ध्यति || भक्ष्यभोज्यान्न पानादि देवार्थे यत्प्रकल्पितम् | भुक्ता युक्तञ्च देवस्य नैवेद्यमपि सञ्जते || ताचन्निवेद्यशुद्धिः स्यान्निवेद्य पिण्डिकोपरि | अपरेऽहनि संहृत्य पिण्डिकाकोणसङ्गतम् || भक्ष्यादि भक्तपानादि देवाय यत्प्रकल्पितम् | चण्डद्रव्यञ्च तद्ज्ञेयं कामतो भक्षितं यदा || द्विलक्षं बहुरूपस्य जपेल्लक्षमकामतः | चतुः पञ्चगुणंवापि दत्वा स्वञ्च विशुद्ध्यति || तदर्धेन च संयोगी तदर्धेन च सङ्करी || प्रतिसंकिरणञ्चार्धं जप्त्वोपोष्य निशाद्वयम् | तेषां संप्रगतो येषां चित्तं कलुषितं तदा || सहस्रेण भवेच्छुद्धिः तेषामप्यन्यथा बहिः | सद्यः प्रतिष्ठिते लिङ्गे चले वा यदि वा चले || चतुर्थी कर्मपर्यन्तं निर्माल्यंतं तदुद्भवम् || प्. २७२) रत्नास्थि हेम लिङ्गेषु प्रतिमासु प्रदक्षिणे | व्याख्या स्वपि चले चित्र नदी मध्यगते हृदे || गुर्वग्नि विद्यापीठानां गणनागेन्द्र योगिनाम् | मात्र्यक्षाकाम्बिकादीनां निर्माल्यं च शिवे यथा || होमार्थं वाथ गुर्वर्थं लिङ्गार्थं याचितञ्च यत् | लौल्येन तृष्णया वाथ भक्षयेद्यदि दुर्मतिः || जपेल्लक्षमपादञ्च प्रमादात्पादवर्जितम् || एवं दोषोभवेद्विद्वान् शुद्धान्नादी भवेत् सदा | यत्किञ्चित् स्वयमश्नीयान्नो दत्वा परमेष्ठिने | गुरुणां वा प्रमादेन तदासाष्टगतं जपेत् | तैलामिषं तयोर्दत्वा सर्वपाकं शुचिस्तदा || एकपङ्क्ति सदावर्ज्यं भ्जने हीनजातिभिः | यतः सञ्जातसम्पर्काः प्रायःखिन्ना भवन्त्यधः || सर्वेषां तुल्य जातीनां उच्छिष्ठोच्छिष्ठ सङ्गमे | यदा कालोत्तरोक्तवत् प्रायश्चित्तं च लिख्यते || स्वजातिदीक्षिते स्पृस्ठे समाचम्य शुचिर्भवेत् ||
SKआचम्य दीक्षितोवापि स्वजाती च शतं जपेत् | सामीप्ये दीक्षित स्पृष्टे प्रायश्चित्तं तथा भवेत् || तस्मिन्न दीक्षिते स्पृष्टे जपेत्सार्ध शतद्वयम् | एवं वैश्यस्य संस्पर्शाद्दीक्षितस्येतरस्य च || प्. २६३) शतत्रयं जपेत् स्पर्शे सोपवासो जपो भवेत् | तथैव शूद्रसंज्ञस्य स्पर्शनाद्दीक्षितस्य च || स्पर्शनादीक्षितस्यापि सहस्रं द्विरूपोषितः || सहस्र मध्ये द्विजोच्छिष्टं त्रिभिर्मतः ||? वैश्यशूद्रोनृपोच्छिष्टे पादोनं तत्तदर्धकम् | वैश्योच्छिष्टो जपेच्छूद्रः सपादोन सहस्रकम् || गणान्नं गणिकान्नं च वृषलीपतिभोजनम् | एकान्नं पतितान्नञ्च विक्रयान्नं च वर्जयेत् | वैश्यान्न मन्त्यजान्नं च कारुवर्गान्न भोजनम् | रजस्वलान्नं नादध्याच्छिन्नाङ्गानां च वर्जयेत् || गोपालमालाकारान्नं भाट्टगायण भोजनम् | यद्येवमादि वर्गाणामन्नमद्यात् प्रमादतः || सहस्रं बहुरूपस्य कामतो द्विगुणं चरेत् | यस्तु जपति सौर्येण गोसुवर्णापहारकः || ब्रह्मस्वं हस्ते यस्तु स विप्रोवृषलीपतिः | द्वौ द्वौ वा श्रमिणौ भोज्यौ ब्रह्मचारी गृहीति च | अभोज्यमन्ययोरन्नं तथा चैवान्यलिङ्गिनाम् || प्रमादाद्यदि भुङ्क्तेऽसौ बहुरूपायुताच्छुचिः | जैनवोर्धकपालयन्ने दीक्षे चैव विशुद्ध्यति | त्रयाणां ब्राह्मणादीनां भुञ्जीत दीक्षितात्मनाम् || प्. २६४) स्वधर्म संस्थितानां तु न शूद्राणां कदाचन | कामतोऽकामतो वापि सच्छूद्रान्नस्य भक्षणे | शतं जपेदघोरस्या सच्छूद्रे सहस्रकम् || उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति | वर्णत्रये निवृत्तोऽपि ब्राह्मणः शिवदीक्षितः || दीक्षितानां तु वर्णानां नवदद्यादशङ्क्तितः | शौचाचारेण सम्पन्नाः सवर्णाः क्षत्रियादयः || तेषामन्नं परिहरन् प्रायश्चित्ति भवेत्वरः | आमन्त्री न भङ्क्तेनञ्च अतज्जातीशस्य वर्णस्य? तैमङ्गके पुंस्त्वे सीमन्तोन्नयने तथा ||? प्रसूति सूतिके भुक्त्वा जपेद्घोरसहस्रकम् | नामधेये च निष्क्रामे तथान्न प्राशने मतम् || चौले व्रते वटे गोदाने विवाहे च शतं जपेत् ||?
SKचतुर्थिकान्नं भुङ्क्त्वा च सहस्रं परिवर्तयेत् | पाकयज्ञे हविर्यज्ञे सोमयागे शतं जपेत् || यः प्रबन्धः प्रयातस्य भुक्त्वा संवत्सरावधि | सत्यं श्राद्धं समारभ्य दक्षिणस्या युतं जपेत् || यद्वा - सद्यः श्राद्धे यदा भुङ्क्ते तदाघोरयुतं जपेत् | दशाहे द्वादसाहे वा त्रिशतं दक्षिणं जपेत् || एकोद्दिष्टे सपिण्डे वा सहस्रं परिवर्तयेत् || प्. २६५) तदूर्ध्वं श्राद्धकाले च भुक्त्वा घोरशतं जपेत् | शिवश्राद्धे यदा भुंक्ते दोषस्तत्र न विद्यते || उक्तस्थानेषु यो भुङ्क्ते जीर्णः स्नात्वा पुरोक्तवत् | प्रायश्चित्तं विधायैवं यजेदीशं च नान्यथा || यथा पुष्पवतीनारी सूतिकापुरुषस्तदा | नासं शुद्धोयजेद्देवं शुद्धिस्तेषां निगद्यते || प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी | तृतीये रजनी प्रोक्ता चतुर्थे स्नानतश्शुचिः || स्नानं मृत्तिकया कृत्वा गव्यं प्राश्य यजेच्छिवम् | अन्तर्यागः प्रकर्तव्यः तथा पूर्वदिनत्रये | रात्रौस्त्रियारजो योगे जन्ममृत्योश्च जन्मनि | त्रिर्वामे वन्दिनं ग्राह्यं यावन्नोदयते रविः | सर्वेषां बुद्धिवान्हग्नौ प्रवेशान्नास्ति सूतकम् | तदा सङ्कल्पित द्रव्यैः दानपूजादिकारयेत् | तथा जीववियोगाच्च पूर्वं संकल्पिते रविः || अन्यैः पूजापयेद्देवं शुद्धात्मायो भवेत्सदा | नाधिकारी ह्यनुष्ठाने दशाहं ब्रह्मणः स्वयम् || द्वादशाहौन्न पश्चैव वैश्यः पञ्चदशाह्निकम् | अमद्यपः कुलीनश्च नित्यं धर्मपरायणः || दीक्षितस्य भवेच्छूद्रः पाकैकर्म समान्यथा ||? प्. २८६) उद्वाहिताश्चतस्रो वै ब्राह्मणेन यदास्त्रियः | स्यात्सूतकः क्रमात्तासां दशषट्त्र्येक वासरम् || नृपाणां का सुरूणादा * * * * * सीनाञ्च सूतकम् | निर्वाणदीक्षितानाञ्च सूतकं नैव विद्यते || विद्यते सूतकं तेषां लोकदीक्षानुसारिणाम् | शिखाच्छेदेन यत्रास्ति दीक्षा सा लोकधर्मिणि || मायाश्शोकधने तेषां शिखाच्छेदो विधीयते | सूतकं भूतकं तेषां न कल्प्या शिवपूजने | परपाकी बहेद्दूरे सम्पर्कं तैर्विवर्जयेत् ||
SKसूतके मृतके वाथ भक्तिदं यद्यकामतः | सहस्रं बहुरूपस्य कामतोद्विगुणं जपेत् || लोकधर्मस्थितस्यापि सूतके पूजके तथा | प्रायश्चित्तं समादेव्यमन्तर्यागं विना तथा || अन्तर्यागः प्रकर्तव्यः लौकीकैरपि दीक्षितैः | जपः प्रदक्षिणादीनि कर्तव्यानि दिने दिने || स्नात्वो पोष्य तदन्ते च पञ्चगव्यं पिबेच्छिवः || अथ चतुर्णामपि दिनैकैकवृदध्या दशाहमेव भवति वाम देवीये शिवागमे - गृहस्थानां तु सर्वेषां दीक्षितानां शिवाध्वरे | दशाहेन भवेच्छुद्धिः सूतके मृतके तथा || प्. २६७) एक वृद्ध्या चतुर्वर्णां सुर(स्वा)नध्याय दिनानि च |? स्वकर्मकः क्रियानिष्ठो ज्ञानवृद्धिं समाश्रितः | शुद्ध्यते तत्क्षणात् स्नानं नित्यहानिरतोऽन्यथा | पृथक् पाकः प्रकर्तव्यः तद्योगं वर्जयेत्तदा || तद्योग दोष सम्बद्धस्तदासौ तत्समो भवेत् | तस्मापि तावच्छुद्धिर्याद्यावत्कान्तान्न भोजनात् ||? त्रिकालं शुद्ध्यते स्नानात्तथा घोरशत त्रयात् || न * * * भान्न पृथग्भागस्तथा शुद्धिष्मि?हात्विका ||? विधिच्छाय गृहं स्थानं यतीनां सूतकान्नपि | समयादि विधिस्थानां तपस्थानामयं विधिः || देवाग्निव गुरुकार्येषु विच्छेदो नैव विद्यते | ब्रह्मचर्यं जपोमौनं क्षान्तिराहार लापनम् || एतद्घोरं समुद्दिष्टं तपो वै पञ्चलक्षणम् | अविच्छिन्नं प्रकर्तव्यं सततं ब्रह्मचारिभिः || स्रंसनात्पूर्णगर्भस्य शुद्धिः स्यात् तत्क्षणात्विका | आनामकरणात्सद्यः एकाहोमान्त जन्मनः || चूडायास्त्रिदिनं प्रोक्तं मत्राप्यधिकमावृतात् |? तदुर्ध्वं पूर्ववच्छुद्धिः सर्ववर्णेष्वयं विधिः || शावे विशुद्ध्यते बुद्धिः न वृद्ध्या शोध्यते शिवः |? जीवञ्जातो यदिमाया भूतौ वाचायते यदि || प्. २६८) शावाशौचस्तु कर्तव्यः सूच * * * चं समाचरेत् | अहस्वदत्त कन्याय दत्तया त्रिदिनं भवेत् ||
SKस्वस्रादिषु तथा ज्ञेयं अतुलानां तथा मतम् | स्यालके तत्सुते मित्रे दौहित्रे भगिनीपतौ | जामात्रादौ मृतेवापि स्नानादेव विशुद्ध्यति | सन्यस्त बलहृच्चाग्नि बैला भृतेषु * * * * * |? देशान्तरे पृथक्पिण्डे स्नानं स्यात्तद्गुरुं विना | तीर्थयात्रा विवाहादि सपिण्डीकरणामृते | अष्टमेकं न कुर्वीत महागुरु निपातने | अजात दन्ताबालाये गर्भाद्ये च विनिःसृताः | एताषां नास्य संस्कारो नोदकादि क्रियाक्वचित् || मृते पत्यौ पिता कुर्यादेकरात्रमभोजनम् | पञ्चगव्ययुतं माता तत्रिरात्रं यथा विधि || भार्या कृच्छ्राति कृच्छ्रं तु कुर्याच्चान्द्रायणादिकम् | दाने यज्ञे विवाहे च संग्रामे देश विप्लवे | आपद्यपि च कष्टायां सद्यः शौचं विधीयते || आतुरे स्नानमापन्ने दशकृत्वेभ्यनातुरः | स्पृष्ट्वा स्पृष्ट्वा बहिः स्नायात्तदासौ शुद्धिमाप्नुयात् || तीर्थ यात्रा भृगोः पातः सन्यासोवह्निवेशनम् | महापथ प्रवृत्तिश्च मौख्यञ्चानशनादिकम् || प्. २६९) इत्यादि पशुजातीनां दीक्षितो न समाचरेत् | अत्यन्तक्लिष्टदेहश्चेत् त्वदोषक्षय पीडितः || सतामाचार्य विप्राणां गृहीत्वा संमतिं तथा | तत्कालोचित मालोच्यातुर्य निष्कृति पूर्वकम् || तदापि सूतकान्नास्ति स्नानादेव विशुद्ध्यति || लिख्यते महतो ज्येष्ठ स्पृष्टभाण्डादि शोधनम् | निःस्नेह गन्धलेपार्थं गोमयेनोक्त्वावारिणा || भैरबेर प्रशुद्धिः स्यात् लोहान्तं तत्क्षणादपि | शुद्ध्यतेम्लेन ताम्रोत्थं भस्मना कांस्य बोजनम् || वेणु तुम्बादि पात्रञ्च गोवालैर्वारिकर्षणात् | वारिणा शुद्धिमायाति भिक्षापात्रं तु पार्थिवम् || विशुद्ध्यत्यायसा सृष्टं दारं वाथ न शोधनात् | शंखस्य शुक्तेर्मौण्डस्य क्षालनं मथितेन तु || गोधूमस्य तुषैर्वीहि तुषैर्वा घर्षयेत्ततः | शुद्धिः कारेण वस्त्राणां वारिणा कीर्तिता * * * | चेलवच्चर्मरज्जूनां वै दलानां तथैव च | भक्तव्यंजन भाण्डानां नित्यं सलिलशोधनात् || तथैवोदक भासानां पर्यग्निकरणादपि | पात्रं कीटाख्यमार्जारैः आलीढं तु विशुद्ध्यति | सप्तास्त्र क्षालनात्तद्वत् पर्यग्नि करणा दपि ||
SKप्. २७०) खरोष्ट्रश्वादि ना घ्रातमवलिढं च संत्यजेत् | घोरूपा घृतपात्रं च संपरित्याज्यमेव हि | नकुलीखलीढं तु यत्पात्रं घ्रातमेव वा || सप्तपश्चाद्दुभिन्नं त मग्निना शुद्धिमेति हि | प्रसीदादौ पूर्वाणां शुद्धिमायाति भाण्डवत् || प्रभूतमन्नं काकाद्यैः जुष्टं तन्मात्र वर्जयेत् | उच्छिष्टस्यापि संस्पर्शादन्यतोन्यन्निधाय च || आचम्यान्नादिकं प्रोक्ष्य स्पृशेदस्त्राणु केन च | स्निग्धानां रक्षणाच्छुद्धिः सलेपानामलेपतः || गन्धापनयनाच्छुद्धिः दुर्गन्धानामुदाहृतम् | आसनं शयनं यानं शुद्धिमेति मृदम्भसा || स्त्रियश्च सर्वदा शुद्धाः शकुनिः फलशातनात् | वाणी शुद्ध्यति सत्येन नदीवेगेन शुद्ध्यति | रजसास्त्रीमताशुद्धा दुष्टतान्तन्निवर्तनात् ||? एवमन्यदशुद्धं यत्ज्ञात्वाधीमान्यशोधनम् | येत् | इति | यदुक्तं शिवधर्मोत्तरेऽपि - भक्तधान्यादि राशीनामेकदेशस्य दूषणे | तावन्मात्रं समुद्धृत्य शेषं प्रोक्षणमर्हति || अम्भसापयसा कार्यं मृदाचैव विशोधनम् | शाकमूल फलाद्यानां धान्यवच्छुद्धिरिष्यते || गोलीढं मक्षिकालीढं कृमि संस्पर्शनेषु च | छागाबलेहनाच्छुद्धिरन्यस्या न्यस्य प्रोक्षणात् || प्. २७१) खरोष्ट्रश्व सृगालाद्यैः विड्वराहाव लेहनैः | तावन्मात्रं समुद्धृत्य शेषं संस्कारगेद्बुधः || दीप्तोन्मुखेन संस्पर्शे त्रिच्छाखाघ्रातमेव च | स्वर्णोदकेन * * * * * ध्यतेव न संशयः || मक्षिका केशसंमिश्रं पादान्तो पहतं चयत् | रजः पिपीलिकायुक्तं भुञ्जानोन्नतवक्षुतम् | तावन्मात्रं समुद्धृत्य प्रोक्षयेदम्भसा ततः || आज्याभिधारणाच्छुद्धिः भस्मक्षेपेण वा भवेत् | भूयिष्टमुदकं पूतं वैतृष्ण्यं यत्र गोर्भवेत् | अव्याप्तं यद्यमेध्येन गन्धवर्णरसान्वितम् | न मुखाद्विप्नुषोच्छिष्टात्कोर्पकाङ्गन्तु योगतः | नखयुग्म मृगातानैः न दन्तान्तरसंस्थिताः | पादौ स्पृशान्ति ये चान्ये पराचमन बिन्दवः || ते पार्थिवैः समाज्ञेया नतैरिन्द्रियतो भवेत् | कृत्वा भुक्त्वापसुप्ता च पीत्वाऽभाष्याधमैः सह |
SKद्रव्यहस्तः समुच्छिष्ट सन्निधायात् * * * राचमेत् | द्रव्यशुद्धिस्तु पूर्वोक्ता कार्याद्रव्यानुरूपतः || इति || लक्षाध्यायी गुरुः श्रेष्ठः सर्वत्रछिन्न संशयः | सर्वदोषानु रूपं यः प्रायश्चित्तं यथा गमम् || प्. २७२) न न्यूनं नाधिकं दद्यात्तदभावे गुरुत्तमैः | दशपञ्चभिराचार्यैः दातव्याशास्त्रकोविदैः || सोऽपि तद्भक्तिमाश्रित्य शुद्धस्तद्गतमानसः | विजने च शुचिस्थाने जपेत् यावत्प्रपूर्यते || संपूर्णे तज्जपे पश्चाज्जपं तेषां समर्पयेत् | तेषां भोज्यं च दातव्यं येन तुष्टिः प्रजायते | अथवा पुष्पताम्बूल चन्दनाद्यैश्च तोषयेत् || यथा शक्त्या च तैस्तस्य कर्तव्यं चाद्यवारिणा | प्रायश्चित्ते तु जीर्णे तु वर्धयेरविरोधतः || अनुच्चार्यं तदा तस्य प्रायश्चित्तं न विद्यते || प्रायश्चित्तमिदं मौलेशादागमोक्तं समुद्धृतम् | यत्रैकार्थं भवेद्वाक्यं तत्र जाचीपवर्चिता |? द्विरुक्तं नैव मन्तव्यं नानासिधान्तवाक्यतः || इति || इति श्रीमद्दभ्रसभेश्वरांघ्रिकमल द्वन्द्वालिना धीमता श्रीमद्विज्ञानशिलेन वेद विदुषा वाराणसी वासिना | लुप्ता चारवता नृगांमहदघ प्रध्वंसहेतुः सद | प्रायाश्रीत्तविधिः कृतः शिवपदप्राप्त्यर्थमीशोक्तिभिः || || श्रीमज्ज्ञानरत्नावल्यां इति प्रायश्चित्तविधिः समाप्तः || || श्रीमहागणपतये नमः || प्. २७३) || श्रीमहागणपतये नमः || वन्दे विनायकं विघ्न शैलोन्मीलन तत्परम् | स्रवन्मदपतद्भृङ्गराजी रञ्जित गण्डकम् || नत्वा परार्धनियमयञ्जगदीशितारं विद्यामुमेश्वर मिहान वांबिकेयम् | श्रीयमशम्भुनेलादि शिवाभिधानं श्रीव्योमपूर्व शिवपद सरोजयुग्मम् || इति दीक्षाङ्गमातिष्ठं सङ्क्षेपोक्ताल्प युक्तिभिः | तथा दीक्षाखिलार्थैक भूमिरप्यसन निर्णितम् || अपिश्लोकत्रयेणात्र सकलस्योपवर्ण्यते ||
SKसहजमलं मूढो मायामोहितस्सन्तु नियतिकला विद्यावतो रागरक्तः पुरुष इति | पुनः स प्राकृतैर्बन्धदेहः | कथमयमकृतार्थोम्यते कर्मवल्या प्रकृति गुणविवेकमुच्यते | प्रकृतिः यमपुरनर पशुरेवा विद्याप्रेर्यतेऽसौ | कथमपि विधिनाचेत्सापि मायोदरे सः | प्रलय विकल एवस्यात्कला कार्यमुक्तः || अखिलमिदमसक्तं सत्यतामेति माया | यदि कलया चेदात्मसाकृत्य नित्यम् || इति | यदि सकले स्यात्संविवेकः तदा वा विदित भयभोगो ज्ञानकैकल्यमेति | एकश्लोकत्रयस्थाप्ययमर्थः सहजमलविमूढ इत्यादि तावदाविश्वियस्तथापि सहजन आणवाख्ये नमलेन मूढः तिरोहित चिच्चक्षुः | उक्तञ्च पाराख्य संहितायाम् - शिवतत्वमात्मशुद्धिं विद्या न विस्फुटम् |? आत्मलाभं लभेत्तस्मात् मलत्नपरोधकात् ||? इति | माया मायया शक्त्या मोहितो विषयासक्ति कृतः | तथा च किरणे - माया विमोहिनी प्रोक्ता विषयास्वाद भोगतः | इति | अस्यायमर्थः - विषयाः स्रक्चन्दन वनिता विषयादयः तेषां स्वतो विषया स्वादः विषयगुणं तस्मिन् भोगोऽनुभवः संवेदनं तस्माद्विषयास्वाद भोगमाया विमोहिनी विषयेषु रमणीयतया मोहमासक्तिमुत्पादयतीत्यर्थः | ततः त्रुटिनीयति काला विद्यादिः तयोरावृतः | अत्र त्रुटिः कालः कलनं संख्यानं करोति नियतिस्वार्जिते कर्मफले नियमयति कलातत्वं कलयति किञ्चित्कर्तृत्वमभि व्यनक्ति | अविद्या पुनः किञ्चिज्ज्ञत्वं विषय परिज्ञानमात्रं प्रतिपादयति | रागोरञ्जयति विषये करसदामापादयति | एवं सन्नात्मा पुरुषः पञ्चविंशतिक इत्युच्यते | पुनश्चासौ प्राकृतैस्तत्वैश्चतुर्विंशति बद्धदेहो भवति | स्वेच्छयैवेति शेषः | उक्तञ्च किरणे - तस्या शुद्धस्य सम्बन्धं समायाति शिवात्कला | तयोच्चालितसामर्थ्यो विद्याख्यापित गोचरः || रागोऽपिरञ्जकत्वेन प्रधानञ्च गुणात्मना | बुद्ध्यादि करणानीक सम्बन्धाद्बुध्यते पशुः || प्. २७५) ततो नियति संश्लेषात्स्वार्जिते विनियम्यते | कलोऽपि कालसंख्याने भवेत्तदनु सङ्गतः || इति ||
SKअस्याप्ययमर्थः - तस्या शुद्धस्यात्मन इति | सहजमलतिरस्कृति ज्ञानस्यानेक भवि कर्मवल्ली परिगुणितस्य मायाशक्त्युन्मुखी कृतसर्गस्य पशोरनुग्रहकाच्छिवादिति शिवेच्छया प्रेरितकला तत्वं तत्सम्बन्धभोग्य भोक्तृत्वलक्षण मायाति प्राप्नोति तया कलयोद्बन्धितं अव्यक्तञ्जितं सामर्थ्यं किञ्चित्कर्तृविलक्षणं यस्यासौतये द्वालित समर्थः | अशुद्धेऽध्वनि विद्या विद्या तयाख्यापितः ईषत्समारितो गोचरो विषयो यस्यासौ | तथा यस्मिन्काले विद्या संवध्यते तस्मिन्नेव काले तस्य विद्याख्यापितृगोचरसारजकत्वेनाभिलाष जनकत्वेन रागोऽपि सम्बध्यते | एवं कञ्चुकत्रय वेष्टितोऽयमात्मा पुंभावमनुप्राप्य पुरु तत्वे वर्तते | तमस्तस्य प्रधानं प्रकृति तत्वं गुणात्मना सौम्यावस्थि तत्वादि रूपेण परिणामं व्रजति | ततोबुद्ध्यवादिकरणानीक सम्बन्धाद्बुद्धिरादौ येषां तानि बुद्ध्यादीनि | तानि च करणानि चेतिबुद्ध्यादि करणानि तेषां अनीकं समूहः कार्यमन्तरेणकारणानां प्रवृत्तेस्तस्मान्मात्रादि दशधा कार्यं च गृह्यते | अनेन बुध्यादि करणानि केन सहसम्बन्धाद्बुध्यते सुखादिकं जनादि | अथ कालानियति कञ्चुकत्रयात् पूर्वमेव पुरुषेण सह सम्बध्यते | तथापि सर्वतत्वानि यन्त्रणं काल संख्यानञ्च कुरुत इति सम्प्रति व्याख्याते | तत्र नियत्याऽयमात्मनः संश्लेषः सम्बन्धः तत्समां - प्. २७६) नियति संश्लेषात् स्वार्जिते कर्मफले सुखदुःखात्मके विनियम्यते | यतो नियम्य नियतिः यस्मिन् नयसि यस्मिन्काले यस्मिन् देशे यद्भोक्तव्यं तत्रैव न न्यूनमधिकं वा भोजयिष्यतीत्यर्थः | कालोऽपि कर्तृभूतः | काल संख्याने तु त्रुटिलवादि कालेन कृत्वा | यत्संख्यानं कालबुद्बुदादि बालयौवनादिकं तस्मिन् कर्तव्ये तत्तनु सङ्गतस्तस्य शरीरसम्बन्धो भवतीत्यर्थः |
SKइत्थमासनाद्येवं सन्नद्धदेहः पुरुषकर्म कल्यां प्रकृतिजन्मकृत कर्मसमूहेन कमयं कृतार्थमुच्यते | शिवेन कृपावता न कृतः * * * लु समस्ताद्यर्थो यस्या सावकृतार्थः कथमुच्यते अपिधानमुच्यते | एवं लौकीक ज्ञा * * * शतैरपीत्यर्थः | तदेवाह प्रकृतिगुण विवेकात्प्रकृतिस्वभाव परिज्ञानात् सत्वरजस्तमसां साम्यावस्था प्रकृतिरचेतना बुध्यादिकार्यातया परिणततधृसूक्ष्मस्थूल देह निबन्धनं कर्मकारणञ्च भवतीति यत्परिज्ञानं तेन प्राकृतैः प्रकृतिकार्यैर्मुच्यते | यतोऽसौ पुनरस्य दर्शने परशुरेव कुतः यस्मादविद्याते विद्यते प्रेरिता पूर्वोक्ता नित्या तस्मादसौ प्रकृतिरविद्यया प्रेरिता सती पुनरपि भोग्य भोक्तृत्व लक्षणेन सम्बन्धेन पुरुषेण सह सम्बन्धा भवन्ति | प्रकृति परिज्ञानादात्मनः स्वरूपेणावस्थानं मोक्ष इत्येवं न स्यात् | ननु यस्य कस्यचित् प्राकृतत्वमत्वे भोक्तव्यं कर्मविद्यते | तस्यैवा विद्या प्रेरिता भवितुमर्हति | यस्य पुनः प्राकृते भोक्तव्यं नास्ति तस्य किमिति कैवल्यं न युज्यते इति चेत् प्. २७७) नैवं वाच्यम् | तस्य प्राकृतकर्माभावेपि प्रकृत्यूर्ध्व तत्वपरिज्ञाना भावात् तत्र भोक्तव्य कर्मणि विद्यमानत्वात् कथं मोक्षप्रसङ्गः | उक्तञ्च श्रीमन्मृगेन्द्रे - गुणतत्वोर्ध्वभोगस्य कर्मणानुपलब्धितः | कैवल्यमपि संख्यानां नैतद्युक्तमसंक्षयात् || इति ||
SKअथयेऽविद्या संवलितं सर्वहितं ब्रह्मज्ञानं प्रकृत्या सम्बध्यत इति अविद्या वादिनो वदन्ति | तेषामप्यविद्या ज्ञानमयानां यथार्थ परिज्ञानाभावात् अविद्या परित्यक्त जीवब्रह्म परब्रह्मणिलीयते | मन्येतदप्यसङ्गतम् भवति | अथ कथमपि केनाप्युपाते? धनवाचकेना विद्याशब्द मात्रेणाविसाप्य विद्याविदिता चेत्तदा तया मुक्तः तत्सहकारिभिः कालादि कार्यैरपि कार्यैरविमुक्तो भवति तदायमात्मापि मायातत्वमध्ये प्रलय विकलः प्रलयाकलाख्य एव स्यात् | न च मुक्तोभवति | तदा विमलकर्मणो विद्यमानत्वात् | पुनरपि सृष्टिकाले मायाकार्यैर्बध्यत एव | तथाय श्रीमन्मृगेन्द्रे - सत्कैवल्यं पुंप्रकृत्योर्विवेकात् यद्वा सर्वं ब्रह्ममत्वाविरामः | या वामुकश्चिन्मुक्तयः पाशजन्याः ततस्सर्वा भेदमायान्ति सृष्टौ || इति || अथ तया परिज्ञानादात्मनः किं भवेदित्याह अखिलमित्याह मायाशक्तिर्नित्यं अखिलञ्चिरमात्म वर्गमात्मसात्कृतिजनन द्वारेण स्वायत्तं विधाय कलयाकलादि क्षित्यन्त शक्त्या प्. २७८) कलयति गणयत्यभि व्यापयति चेत् | अथ सत्यम् | ध्रुवं जगदखिलं चराचरात्मकं सत्यतामेति सत्यवत्सत्य भावं तस्य भावः | सत्यतामेति प्राप्नोति | जगदिदं सत्यमपि सत्यमिव भवतीति संति?वेकं परिज्ञानं यदि सकले स्यात् सह कलया माया कार्येण वर्तत इति सकलस्तस्मिन् सकले पुंसि यदि भवतीति तदासौ पुमान्? अविदितभोगो ज्ञानकैवल्यमिति विज्ञानयोगकर्म सन्यासादिना मायाकार्येणाविमुक्तः सन् अविदितभवभोगः संसारभोगा भावेऽपि सहजमलमिति तिरोहितत्वात् ज्ञानकैवल्यं विज्ञानके वलतामेव प्राप्नोति | न चामुक्तो भवति | शिवानु जिघृक्षाभावात् | तथा श्रीमन्मृगेन्द्रे - मायाति ताणयोऽपि स्युः सहजाः शुद्धिसंज्ञिताः | या च ते वीक्षते शम्भुरध्वातीतो निरञ्जनः || एतस्मात् कारणादितरतरनमति निर्मलं भवति * * * शु दृग्भिरुदीरितत्वात् | ततः सर्वज्ञ प्रणीतमाप्तवाक्यमागतमज्ञानमेव निःश्रेयस हेतुः | उक्तञ्च रौरवे -
SKपशूनां भुक्तिमाप्तः पशुपतिः शिवः |? यदाप्तवाक्यं तदागम इति | तथा च वायुपुरा * * * श्री उपमन्यु कृष्ण संवादे - शिवागमोक्तं यज्ज्ञानं तदेव ज्ञानमुत्तमम् | श्रीकण्ठेन शिवेनोक्तं शिवायैव शिवागमः || प्. २७९) शिवाश्रितानां करुणः श्रेयसामेक साधनम् || इति || तस्मादागमोक्त न्यायेन कर्मसमत्वे सञ्जायते | शिवशक्त्या समावृतस्य दीक्षाख्योपायेनैव विशिष्टोमोक्षः स्यात् | तथा च किरणे - समेकर्मणि सञ्जाते कालान्तरवशाच्छिवात् | सर्वज्ञत्वाच्छिवोऽयमध्वं निर्द्वन्द्वो देह सङ्क्षये || शिवत्व व्यक्तिसम्पूर्णो न पुनर्भवमाप्नुयात् || इति || अस्याऽप्ययमर्थः | आत्मनोमुहुः प्रलयप्रत्यनुभवात्मककलाद्यः कश्चिदन्यः कालस्तत्कालान्तरस्य वशः सामर्थ्येंऽशोपि कोटिशः प्रवृत्तिरेव | तस्मात्कालान्तर वशाद्धर्माधर्मात्मनः कर्मण्य संयक् समत्वे सञ्जाते सति शिवादनुजिघृक्षोः सकाशात् यः स्त्री पुंसारोद्धरणदक्षः कृपाख्यायाः शक्तेर्निपातः पुरुषं प्रत्यनु ग्राहकमेव प्रवृत्तिस्तेन शक्ति निपातेनमलक्षयकारणात् | तत्वजिज्ञासया गुरुं प्रति याय स स्यात् | ततस्तत्वदर्शनं गुरुं प्राप्य तस्माच्छुश्रूवर्णादिभिः सन्तुष्टाद्दीक्षां लभते | एवं गुरुणा दीक्षितो यदा तदैवासौ आत्मा शिवो यद्वत्तथा स्यादिति जीवन्मुक्तो भवति | किन्तु देह संक्षये निर्द्वन्द्वः सुखदुःखात्मक द्वन्द्वान्निर्मुक्तः सर्वत्रसर्वमाणव कर्मणां मायीयं भोगायतन दक्षमिदं जगदिति जानाति | यदा शिवत्व व्यक्ति सम्पूर्णशिवत्वस्य शुद्धज्ञान क्रियात्मकस्य व्यक्तिः संपूर्णा यस्यासौ न प्. २८०)
SKपुनः संख्यादिवद्भवत्संसार * * * नुयात् मुक्त एव भवतीत्यर्थः * * * नञ्चात्र शिवशक्त्या समावृतस्य दीक्षाख्यो पायेनैवेति निर्धारणं किमर्थं ज्ञान क्रियादीनामपि मोक्षहेतुत्वात् | सत्यम् तदुच्यते | पूर्व जन्मसीकन्दाविद्दिक्षायां * * * तदासमयलंघनादि दोषे प्राप्तेत्वकृत प्रायश्चित्तानां पुनर्जन्मसु कथञ्चित्तत्कार्मक्षये जाते पूर्व दीक्षाफलमेव ज्ञानक्रियादिषु बुद्धिः प्रवर्तते इति ज्ञानक्रियादी नामपि दीक्षा * * * ते च मोक्षहेतवो भवन्तीति दीक्षायैव मोक्षः स्यादित्यवधानं कृतमित्यदोषः | उक्तञ्च - अस्मात्प्रवितताद्बन्धात्परार्थं स्या * * * निरोधनात् | दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्य * * || कोऽप्यनाहत शक्तीनां मन्त्राणां मितमात्मनाम् || अप्रमेय प्रभावानां प्रभावे चित्य विक्रमम् | सत्यमीशान वचनं मन्त्राः साध्याः स्वभावतः || स्वभावाल्लुठितं सर्वं कुर्वन्ति विघनन्ति च | शिवेच्छा कारिणस्सर्वे शिवेनाधिष्ठिताः सदा || कृतिं स्थितिं विनाशञ्च कुर्वन्त्युन्ततिमेव च | न मोक्षं याति पुरुषः स्वसामर्थ्यात्कदाचन || शिवदीक्षां विमुख्यकां सर्वत्राण्या * * * * * | दीक्षाव्यतिरिक्तः - ज्ञानतो योगतश्चैव चर्यातश्च न मुच्यते || प्. २८१) ज्ञान दीक्षादि हि सामर्थ्यं अत्रापिस्वं न विद्यते | बालबालिशवृद्धस्त्री भोगिनां सरुजां तथा || दीक्षां विना ज्ञानादि भिन्नमोक्षोऽस्ति तस्मा * * मोचनी | सर्वस्यानुग्रहः कारः शिवोदेवः स्वभावतः | दीक्षाचात्र मुक्तिः स्यात् सर्वेषां प्राणिनामिह || तस्मात्तु शिवसामर्थ्यं मुक्तिः सर्वस्य सिद्ध्यति | न कस्यचित् स्वसामर्थ्यादस्तितद्व्यलि * * * || तथा किरणे च - गरुडः - सवानुग्रहकर्तृत्वाद्बालबालिशभोगिनाम् | कर्तव्योऽनुग्रहो देवः स च संस्कार पूर्वकः || संस्कारेणैव मुक्तिश्च प्रोक्तातन्त्रे यदा तदा | क्रियाज्ञानव्रता * * * * या नामभेतु ना || भगवानाह - ये यथा संस्थितास्तार्क्ष्य तथैवेशप्रसाद कृत् | केचिच्चात्र क्रियायोग्याः तेषां मुक्तिस्तथैव च ||
SKज्ञानयोग्यास्तथा चान्येऽचार्य योग्यास्ततः परे | एवं येषां यदा प्रोक्तो मोक्षस्तेनेश योजनात् || ज्ञानादीनामुपायानां दीक्षाकारणमिष्यते | दीक्षा चैव विमोक्षः स्यादुपायस्तन्नियामकः || सर्वानुग्रह कर्तृत्वादुपायास्ते च कीर्तिताः || इति || तथा पौष्करे च - पतिर्विद्या तथाऽविद्या पशुः पाशश्च कारणम् | प्. २८२) तन्निवृत्ता वितिप्रोक्त पादार्थाः षट्समानतः | शिवः सदाशिवस्त्वीशः सहतद्भुवनादिभिः || ज्ञेयः पतिपदार्थोऽसौ मन्त्र मन्त्रेश लक्षणः || शक्ति विद्या च भुवनैः विद्याख्यश्च प्रकीर्तितः || शक्तिपदार्थः - मायातवमविद्याख्यः कर्मभावैः सहोवनैः | सर्वेषामात्मनश्चेह विज्ञानाकालसंज्ञिनाम् || प्रलयाकल संविज्ञानं सकलानां तथैव च | पशुत्वमलसंयोगात् पदार्थः पशुसंज्ञितः || पृथिव्यादि कलान्तोयोमायीयः पाशसङ्ग्रहः | सहसद्भूत भुवनैः मायागवाति कारिभिः || पदार्थः पाशसंज्ञेयः विज्ञेयः शिवयोगिभिः | तन्निवृत्तेः कारणाख्यः पदार्थः परमः शिवः || दीक्षा कर्म स्वरूपोऽयं मुक्त्युपायः प्रकीर्तितः | इति || तथा पुराणे वासिष्ठे लैङ्गै लोमश्चश उवाच - दुर्गसंस्कारकान्तारं संगृह्यमभिधावतम् | दीक्षामन्त्रविहीनोऽपि यस्सदार्चयते हरम् || सर्वपापैः सनिर्मुक्तः शिवलोके महीयते | यस्तु दीक्षाक्रियामन्त्रैर्युक्तोऽभ्यर्चयते हरम् || सर्व लोकेषु सोऽपवर्गी सदा पुमान् |? तस्मात्सर्वप्रयत्नेन स एव वृषभध्वजः || प्. २८३) आराधनीयस्तुष्टो वै शिवोद्वन्द्व प्रशान्तिदः || इति || अत्र द्वन्द्वप्रशान्तं परां मुक्तिं पर * * * * * प्राप्तं चाक्षुषी दीक्षया ददातीति द्वन्द्व प्रशान्तिदः | उक्तञ्च - दीक्षाज्ञान विहीनाये लिङ्गाराधनतत्पराः | ते प्रयान्ति हरस्थानं सर्वैश्वर्य सुखावहम् || नातो याति पुनर्देवि संसारो दुःखसागरे | शिवं यान्ति ततश्चोर्ध्वं श्रीकण्ठेन निरीक्षिताम् || इति || तथा वामनपुराणे च - श्रीवासुदेवाय श्री-उपमन्युभिरादिष्टम् -
SKहन्तते कथयिष्यामि सर्वपापविशोधनम् | संस्कारं परमं पुण्यं शिवेन परिभाषितम् || सम्यक् कृताधिकारी स्यात्पूजादिषु नरोयतः | संस्कारः कथितोयेन षडध्व परिशोधनम् || दीयते येन वै ज्ञानं क्षीयते पाशबन्धनम् | तस्मात् संस्कार एवायं दीयते च कथ्यते || इति | शक्तिपादादि विचारः किरणे यथा - गरुडौवाच - शक्तिपाताद्भवेद्दीक्षा निपाको न विभुत्वतः | शिवस्य समवेतत्वात् * * देव स्थिताः पशोः || स्थितत्वात्सर्वदा शक्तेः भवेच्छक्तिर्न किं भवेत् | कालो वा स च कः प्रोक्ता यदिकालः शिवेन किम्? || हे भगवन् | यदुक्तं * * * त्वयापूर्वं शक्तिपाताद्भवेद्दीक्षेति तदयुक्तम् | प्. २८४) शक्तेर्निपात शङ्का भावात् | कस्माद्विभुत्वतो व्यापकत्वात् | न व्यापकस्य वस्तुनः च्युति लक्षणो निपातः संभवति फलवत् | अन्यत् शिवस्य समवे तत्वात् अग्नेरुष्णत्ववच्छिवस्य समवेतायाः समवायिन्याः शक्तेः कथं निपातः शिववद्विधृतिः संभवति | अपि न भवत्ये(वे)त्यर्थः | एवं नित्यत्वाद्व्यापकत्वाच्च शक्तिः पशोरावनोऽपि सर्वदा सर्वकालं स्थिता संबद्धा भवति | तस्मादेवं शक्तेः सर्वकलस्थितत्वात् सर्वात्मव्यापकत्वेन सर्वबन्धत्वाद्भवोच्छक्तिः सर्वात्मनामद्युपक्तिः किं कस्मान्न भवेत् | अपि तु भवेदेव | अथ यद्येवं मन्यसे सा शक्तिः सर्वव्यापिन्यपि कस्मिंश्चिद्विशिष्टकाल एवानुग्रहकारिणी भवतीति | तर्हि च स च कालः कः प्रोक्तः किं विशिष्टः इत्युच्यते | यदि किं शक्ति निपातस्य कारणं भवति तर्हि भवतुनम काल एव मोक्षकर्ता किं शिवेन प्रयोजन मित्युक्ते भगवानाह - उपचारेण शब्दानां प्रवृत्तिरिह दृश्यते | यथा पुमान्विभुर्नित्यः विनष्टः शिवतांगतः || एवं शक्तिनिपातोऽपि प्रोच्यते सो विचारतः || इति |
SKहे गरुत्मन् ! निपातशब्दस्यार्थ परिज्ञाना भावात् त्वयैव मुक्तम् | किं कथं तर्हि शब्दानामर्थ प्रवृत्तयः मुख्या गौणाचेति द्विधा अस्ति | तस्मादत्र गौणी शब्दप्रवृत्तिः | मुख्या यथा - लोकेत्वस्य पुरुषस्य दृष्टिरस्यां कामिन्यां पतितेत्युक्ते कं तदा पुरुषाद्विच्युतादृष्टिं कमन्यान्निपतिता दृश्यते | यदृथा दृश्यते दर्शकसम्बन्ध मात्रेण प्. २८५) सम्बन्धाः दृष्टिः पतितेत्युपचारेणोच्यते | तद्वदेक कस्मिन् पुंस्यप्यनुग्राह्यानुग्राहक लक्षणेन सम्बन्धेन संबन्धा सन्धाः? शक्तिः पतितेत्युपचारेणोक्ता | न तु मुख्यत इत्यदोषः | इदमेव दृढयति | यथा पुमानित्याह यथा पुमानात्म नित्योऽपि तनुपातादुपचरेण विनष्ट इत्युच्यते | यथा विभुर्व्यापकोऽपि व्यक्तशिवत्वोपचारेण शिवतां गत इत्युपचारेणोच्यते | एवं शक्ति निपातोऽपि शे?विचारतः सहात्मना शक्तेरनु ग्राह्यानुग्राहक लक्षणेन सम्बन्धत्वात्नोपचारेण शक्तेर्निपातो भवतीति प्रोच्यते | नतु मुख्यत इत्यदोषः || अथ भवतु परिचारकोऽयं शक्ति निपातस्थताप्यमूर्तोयात्मिकं कर्तुं शभवेति | तत्पातानन्तरममासावात्मा किं करोतीति | अत्राह - निपातो भयतो यद्वस्तुनस्सहसा भवेत् | तस्मादन्यत्र यात्येव तथात्मादेशिकं प्रति || यथा लोके कस्यचिद्वस्तुनो निपातो यदो भवति उच्यते असिन्ग्रामे राजो * * * * वो भविष्यतीत्ययं शब्द निपातोप्यमूर्तोऽपितद्ग्राम निवासिनो लोकस्योभयतो दृष्टः | स लोकश्च भीतस्सन् परस्परमालोच्य तस्मात्स्थानात् सहसा शीघ्रमेव स्थानान्तरे भयहरण समर्थो याति | शच्छति च यथा तद्वदयं शक्तिनिपातोह्यमूर्तोऽपि प्राणिसंस्कार भयप्रदो भवति | यतः शक्ति निपाताह्य मूर्तोऽपि प्राणिसंस्कार भय प्रदो भवति | यतः शक्ति निपातात् पूर्वसु * * * * सारभोग एव परं ततः शक्तिपातादुन्मीलितचिच्चक्षुः संसारा सारतामालोच्य स्वस्थानादेकमाचार्यं भव भयहरण दक्षं प्. २८६)
SKयाति प्राप्नोतीत्यर्थः | अथ किं सा शक्तिः स्वयं कर्तृ प्रबोध्यति उतनेत्याह गुरुर्यथाग्रतस्सुप्तं शिष्यं दण्डेन बोधयेत् | इति | तथा शिवोऽपि भोमज्ञानमहोगाभिलाष जनकत्वेन मोहहेतुत्वान्मायी यमपि मोह शब्देन गृह्यते | तद्वद्भोग हेतुत्वात्कर्म च निद्रा शब्देन माय रुच्यते | कांश्चिद्विज्ञाना कलान्मायया अग्रतः शुद्धाध्व सन्निधाने प्रसुप्तान प्रबुद्धान् अज्ञान् शिवः स्वशक्त्या प्रबोधयति | कांश्चिन्निद्रायां मायायां प्रसुप्तान् प्रलयकेवलान् प्रबोधयति | कांश्चिन्मलकर्म मायीय माया स्वरूपनिद्रायां सत्यां प्रसुप्त शुद्धा शुद्धाध्व स्वरूपा परिज्ञानादप्रबुधान् भोगनिमग्न चित्तान् प्रबोधयति | तस्मादेव तच्छिव एव शक्त्या प्रबोधयतीति शक्तिः करणं शिवः स्वतन्त्रः कर्ता न स्वयं कर्त्रीत्यर्थः | अथास्य शक्तिपातः सञ्जात इति कथं गम्यत इत्यमाह - यदा स्वरूपविज्ञानं पतिते विति तदोच्यते | इति अत्र विज्ञान केवल प्रलय केवलयोः अशरीरिणोः शक्तिपातस्य दुर्विज्ञेयत्वात् तयोर्न्नि संप्रतिवर्ण्यते - यदा यस्मिन्काले पुरुषस्य सकलस्य कोऽहं किमात्मकश्चेति किमुदुःखपञ्जरमिति सञ्चिन्त्य बहुशो मुमुक्षुः गुरुमन्वियादित्येव तद्द्वयं स्वरूपं तद्विज्ञानं लिङ्गं तत्सं भवति तदा तस्मिन् शक्तिः प्रतीतेत्युच्यते | उक्तञ्च - येषां शरीरिणां शक्तिः पतत्यपि निवृत्तये | प्. २८७) तेषां तल्लिङ्गमौत्सुक्यं मुक्तौद्वेषो भवति स्थितौ | भक्तिश्च शिव भक्तेषु श्रद्धा तच्छासके विधौ || अनेनानुमितिश्लिष्ट हेतोः स्थूलधियामपि | ईषदर्ध निवृत्ते तु रोधकत्वे ततः पतेः || भवत्येतानिलिङ्गानि किञ्चिच्छिष्टे हि देहिनाम् | चतुर्धा शक्तिपातेन तुल्येनैव फलं प्रति || इति || तीव्रतरस्तथा तीव्रो मन्दो मन्दतरोऽपि च | सद्योमूर्च्छया पाक्रंपा द्रोमाञ्चस्ततस्थस्तथेति ||? अथ काले वास चक्रः प्रोक्तः इत्यस्योत्तरमाह - तुल्यत्वं कर्मणां कालः क्षीणं वा यदि वासमम् | इति |
SKयस्मिन् काले धर्माधर्मात्मनः कर्मणि सतुल्यत्वं समता भवति सकालः शक्तिपातकारणमित्युच्यते | सा शक्तिः व्यापकं न्यूनं वा यदि वा सममधिकं वा भवति तदा भोगदात्री भवति न तुल्यं न चानन्तरमेव लक्षयति | यदा यस्मिन्काले कर्मणः समत्वं भवति स एव कालत्वे सञ्जाते कथं भोगदातृत्वं निवृत्तमित्याह क्षीणं वा यदि वा सममिति || ततः कर्म क्षीणं वा न्यूनं वा यदि वासममधिकं वा भवति तदा भोगदातृभवति | न तु तुल्यम् | तच्च नन्तरमेव लक्षयति | यदा यस्मिन्काले कर्मणः समत्वं भवति स एव काल शक्तिपातस्य कारणम् | ततस्सर्वेषामपि यगपत्कर्मसमता भावात् | भवोशक्तिर्नस्यादित्यर्थः || प्. २८८) अथ यदि कर्म समत्वे सत्येव शक्तिपातः सम्भवति तर्हि कर्मा भावा द्विज्ञान केवलानां स कथं भवतीत्यत्राह एवं सूक्ष्मं समानत्वं यस्मिन्काले सदैव सा | स्वरूपं द्योतयत्याशु बोधचिह्न बलैरलम् || इति |
SKयदुक्तं विज्ञान केवलानां कर्म नास्तीति मायीयकारणं वै कर्मतेषां नास्तीति उक्तम् | न तु सर्वथा कर्मक्षयः सञ्जात इति तस्मात्कस्य चित्कर्मणः फलमेव हि तेषां विज्ञानाकलावस्थापीति | तेषामपि पूर्वमेव सकलावस्यायामुपार्जितमिति सूक्ष्म शरीरत्वादुर्लक्षं कर्म समानत्वं शक्तिपात कारणमस्तीत्यवगन्तव्यम् | अन्यथा शक्तिपात एव न स्यात् | यस्मिन् काले कर्म समानं भवति तदेव तस्मिन्नेव काले सा शक्तिः सर्व व्यापिन्यप्यनुग्रहं करोतीति यतस्तस्मात् अथ सा शक्तिः सकलानामिव विज्ञानकेवलानामपि किञ्चिद्विलक्षणं स्वरौ च विज्ञान मात्रं करोति | यद्वा विशिष्टं ज्ञानं उपायतीत्याह स्वरूपमित्यादि | यस्माद्विज्ञान केवलानां शरीर प्रारब्धकार्य भोगा भावात् तीव्रतराशक्तिः पतति | तस्मादाशुतीव्रं तद्विशिष्टमेव तेषां स्वरूपं शुद्धात्मस्वरूपं सर्वज्ञानादि लक्षणं द्योतयति प्रकाशयति | अथ यथा शक्ति सम्पर्कमात्रेण मलप्रोधारणादात्म गुणव्यक्ति विज्ञान केवलानां भवति | तथा सकलानां किमिति न स्यात् इत्याह बोधय चिह्नबलैरलमिति | प्. २८९) सकलानां प्रारब्धकर्मभोग्यत्वात् कर्मसाम्य कालतारतम्य विवक्षानुसारेण प्लक्षोञ्चिन्दा मन्दतरावा शक्तिः पतति | केषाञ्चित् तीव्रा तीव्रतरा वा भवति तदा शक्तिरस्मिन् पतितेति बोधार्थं परिज्ञानार्थं चिह्नानि रोमाञ्च मोहोत्पुलकादीपि तेषां चिह्नानां बलंसामर्थं तच्च हीनं प्राधखिन्ना भवन्त्यध | सर्वेषां तुल्य जातीनामुच्छिष्टोच्छिष्टसङ्गमे यथा कालोत्तरोन्तत्वर्द्धानतरमधिकतरं वा भवति | तैश्चिह्न सलिलैः चिह्नतारतम्यैरलमुपलक्ष्यते | तस्मान्न तदैवात्म गुणव्यक्तिः तेषां भवतीत्यर्थः |
SKयथ यदुक्तं पूर्वं क्षीनं वा यदि वा समं कर्मभोगदं भवतीति तदेस्पष्टीकरोति कर्माशोयोऽधिकः पूर्वं भोगदस्त्वितरः पुनः समत्वेसति यो भोगः कथं तस्य प्रजायत इति तावदेवात्मनो भोक्तव्यम् अनेक भविकं कर्म विद्यते | तच्च द्विविधं धर्माधर्मात्मकञ्चेति | तत्र महादानादिकं स्वर्गभोगकारणं धर्मात्मकं यत् *?नर्ब्रह्महत्यादिकं निर(या) वाप्ति कारणं तद धर्मज्ञानं तयोर्द्वयो कर्मां शयोः | अत्रांशशब्दः स्वरूपवाची | तस्माद्वयोः कर्मणो न धर्माधर्मात्मकयोः मध्येयः कश्चिद्धर्मः अधर्मात्मको वा कर्मांशः अधिको महद्वलवत्तरः | स पूर्वभागयोः भवति | तासीन् कर्मणि भोगं दत्वा निवृत्ते सति पुनः परतर स्वरूप कर्म भोगदं सृक्? न तुल्यः तस्माद्द्वयोः कर्मणोः समत्वे सतियो भोगः स तस्यात्मनः कथं प्रजायते | न कथमपीत्यर्थः || प्. २९०) मिश्रं वारम्भकं कर्म समभोगस्तदा नहि | वक्तव्याचाधिकः कश्चिदन्यथा न सुखेतरत् || इति | सूत्रम् | अथवा शब्दो यद्यर्थे | ननु भमतातुल्यः कर्मभोगदब्ज? भवति इति यदुक्तं तदयुक्तम् | धातो गोमेयादौ यागे पशुहननं तावत् अधर्मात्मकं तदेव स्वर्गारोहण निमित्तमधर्मात्मकं इत्यमुभयात्मकमपि कर्मभोगदं दृष्टम् | तस्मादितिचेत्तदापि द्वयोः कर्मणोः सम्भोगः समकाल एव भोगो न हि श्रूयते | यदि समत्वे सत्यं पिबेत्कर्मणि भोगदेहवेदान्तर्हि तदायुगपदेवात्मा स्वर्ग निरयपलमनुभवते | तन्न तस्मात्तत्रापि कश्चित्कर्मांशो ताभ्यधिकन्यून इति वक्तव्यम् | अन्यथा यद्येवं तत्र कर्मांशो न्यूनाधिको न भवति तदा यज्ञ याजिनां ससूनसुखेतरत् पूर्वं फलं स्वर्ग सुखं पश्चादितरद्भोग नानाद्यधर्मफलं दुःखमीत्येतन्न भवेत् | तत्तावद्भवत्येव तदुक्तञ्च - पशवोऽपितदा देवाः देवाश्च पशवस्था | ब्राह्मणाश्च तथाश्वान श्वानश्च ब्राह्मणास्तथा || इति | तथा च मनीषिणः -
SKअत गृहयजताङ्गो यज्ञमिष्टं द्विजानां नरह्य पशुश्चस्त प्राणि हिंसाफलं यत् | त्रिदिवननरकहेतुः सुप्रतीतप्रभाव इति तव शिवभक्तिं बुद्धिमन्तो जुषन्ते || इति || तस्मान्न्यूनाधिकं कर्मैव भोगदायकं न तुल्यमित्यर्थः | ततः कर्मसमत्व कालच्छान्त ते सर्वे शिव शक्तिपात संयोगाद्या दीक्षाक्रियते | प्. २९१) सा च पुनरात्मनां त्रयाणां अधिकार रूपासाधारा निराधारा सापेक्षा निरपेक्षा शिवधर्मिणि लोकधर्मिणि साधिकारा निरधिकारा चेति बहुधा भवति | उच्यते - आधारोऽधिकरणमधिष्ठानं स्थानमाचार्यः तेन धारणे निरपेक्षो भवन्परमशिव भट्टारकस्तेन तीव्रशक्त्या क्रियते सा दीक्षा सा निराधारा सा विज्ञानाकल प्रलयाकलयोरेव | उक्तञ्च - द्वयोस्तेषां शिवेनैव तीव्रशक्ति निपातितः | क्रियते सा निराधारा सा दीक्षा परता मता || इति | तत्र दीक्षायामपि कर्म सामान्य विवक्षया केषाञ्चित्सायुज्यपद प्राप्तिः केषाञ्चित्साधिकार पदप्राप्तिश्च श्रूयते - केवलद्वय मध्येऽपि कर्मसाम्य विवक्षया | शक्त्या क्रियते दीक्षा शिवेनैव कृपात्मना || सायुज्यं कस्यचिज्ज्ञेयं साधिकारं परात्मना || इति || किन्तु प्रलय केवलानां मध्ये येषां कर्मसाम्य प्रसङ्गो नास्ति तेषामहं मुखकाले कालादि सम्बन्ध एवोपजायते | उक्तं श्रीमल्ललित संहितायाम् - मायातत्वं जगद्बीजं नित्यं विभु तथाव्ययम् | तत्स्थं कृत्वात्म वर्गं तु युगपत्क्षोभयेत् प्रभुः || किमिव | हेला दण्डहतायाश्च बदर्यस्तत्फलानि च | तिर्यगूर्ध्वमधस्ताच्च निर्गच्छन्ति समन्ततः || मुक्ते तु भोजनं यत्रानुसाध्या ताश्शिवेन तु | ऊर्ध्वं गच्छन्ति ते सर्वे शिवं परम निष्कलम् || प्. २९२) विद्याया भाजनं ये तु मन्त्ररूपा भवन्ति ते || संस्कारभाजनं ये तु मलकर्मकलान्विताः || अधस्तात्संव्रजन्त्याशु घोरेऽध्वन्यत दारुणः || इति || तथान्यत्र च - यान्विमोचयति स्वापे शिवः सद्यो भवन्ति ते | संहृतौ वा समुद्भूताः वाणवा पतयोऽथवा || इति |
SKअस्याप्ययमर्थः | शिवस्वापे मोहकाले यतो विज्ञानकल प्रलयाकलावस्थायां आत्मनो ज्ञानशून्या वस्था तस्मात्तस्या मधस्था स्यादित्य तदा या ननु गृह्णाति ते सत्यस्तत्क्षणमेव शिवाभवन्ति | ततः संहृतौ सकलनां संहारे वा समुद्भूते वा प्रलयकलानां सृष्टिकाले कलाद्यनुबन्धन काले वा यतस्तदैव तेषां सृष्टिरतस्तदा यानुगृह्णाति ते ह्यणवोमन्त्रेश्वरा वाप्तयोरपि विद्येश्वराभवन्तीत्यर्थः | तथा च - आत्मास्यानेकधा प्रोक्तः तत्राद्यः सकलः स्मृतः | कमाया कर्ममलोपेतः * * * वनिगोचरः || कर्मशुद्धिकला युक्तश्चान्यो मायायं प्रलयाकलः |? मायोर्ध्वं शुद्धिविद्याधो मलमाया वृतोपरः || विज्ञानाकल स्थितिरित्यर्थः | यदुक्तमन्यत्रापि - आत्मनोऽपि बहवस्सन्ति चिद्रूपामलदूषिता | ताम्र कालिक वद्ज्ञेयो मलोज्ञानावरोधकः || सहजः सर्व जन्तूनां तद्धिभोक्तृत्वकारणम् | सता तेनास्य भोगाय शरीरेन्द्रिय कारणम् || प्. २९३) माया सम्पद्यते पश्चात्सुखदुःखैक कारणम् | कर्म सम्बन्धमायाति मायी पञ्चकलादिकम् || स्वकार्यकारणत्वेन भोगज्ञानाय बद्ध्यते | त्रिधा वस्थात्मका जीवाः सर्वेकाल क्रमेण वै || योर्ध्वं प्रागवस्थाय * * * यान्तु द्वितीयया | तृतीयाया कलादौ तु स्थितिरेषां प्रकीर्तिता || इति || अलमति विस्तरेण | सहाधिकारेणाचार्यो वर्तत इति साधिकारः शिवः | तेन सकलात्मनां कर्मतारतम्यानुरूपया मन्दतीव्रादि शक्त्या क्रियते सा साधारा | उक्तञ्च - आचार्य मूर्तिमास्थाय कर्मसाम्यविवक्षया | तीव्रादि भेदयाशक्त्या क्रियते शम्भु नैव या || साधारा सा समाख्याता विज्ञेया सकलात्मनाम् || इति || अत्र आगमान्तरे यो विशेषः स्थिताप्ते तच्छक्तिपात तारतम्यतोदेशिकीं मूर्तिमास्थाय शिवो या ननु गृह्णाति तेपि रुद्राणां मन्त्रैशानानां शिवस्य च पदं भजतीति क्वचित् | तथा चोक्तम् - रुद्र मन्त्रवदीशान पदवाच्यो भवन्ति ते | स्थितो या ननु गृह्णाति गुरुमास्थाय द्विवतः || इति ||
SKइयं साधारा दीक्षा वपुः निरधिकारानुरूपा द्विविधा सापेक्षा सेच्य बुधैः | समयाद्यनुष्ठानापेक्षया विनामोक्षप्रदा निरपेक्षा निर्बीजाख्या | उक्तञ्च - शर्वन्नयति या धाम समयाद्यनु वर्तकम् | पुरुषमिति शेषः | प् २९४) विशिष्टात्मगुणप्रायं सापेक्षः प्रोच्यते बुधैः | समयाद्यक्षमं वृद्ध मूढमालाबलादिकम् || यासौ तदानपेक्षत्वान्निरपेक्षान्निगद्यते || इति || तत्र तावत्सापेक्षापेक्षाद्विविधा शिवधर्मिणी लोकधर्मिणी चेति | तत्र तावच्छिवधर्मिणी लिङ्गिनां शिवाछेद समायुक्ता | अन्यागृहिणां तद्विरहिता | उक्तञ्च - द्वेधा निर्वाणदीक्षा लौकिकी शिवधर्मिणी | गृहिणां लौकिकी ज्ञेया लिङ्गिनां शिवधर्मिणी || शिखाच्छेदो नयत्रास्ति दीक्षा सा लोकधर्मिणी | शिखाखण्डेन संयुक्ता दीक्षा सा शिवधर्मिणी || तथा - माया तद्विशुद्धौ तु शिखां यस्य विनिर्दिशेत् | शिवधर्मी तु संगा तु सा दीक्षा शिवधर्मिणी || शिखाच्छेदं विनायाम्यन्या सा दीक्षा लोकधर्मिणी || इति | तथा - दीक्षाया लोकधर्मिण्या गृहस्थां दीक्षयेद्गुरुः | तथैव शिवधर्मिण्या दीक्षयेच्च तपोधनान् || इति || तत्र शिव धर्मिणी द्विधा नैष्ठिकी भौतिकी चेति | तत्र निरवधि तपस्विनो नैष्ठिकाः | तेषां या सा नैष्ठिकी निरवधीत्यपि कथ्यते | द्वितीयाकतिपयदिन व्रतपाल वादनन्तरं गृहपाददायी | उक्तञ्च - नैष्ठिकी देह पातान्ता भौतिकी व्रतमोक्षदा || इति | अथ निष्कामस्य सत्समत्वे तस्या परमशिव प्राप्तिह् | उभयोरपि सा दिक्षा साधिकारौ न वा भवेदिति | तत्र नैष्ठिकी सकामा कामभेदेन द्विविधा || प्. २९५) तत्र सकामस्य शुद्धाध्व भोगं दत्वा तदनन्तरं शिवपद प्रदा स कामा | उक्तञ्च - निष्कामस्य तु या दीक्षा विनारब्धेन कर्मणा | अशेषा पापहन्त्री च सा निर्बीजाद्वैत दायिनी || इति || तथा च - सबीजा चैव निर्बीजा द्विधासाक्षर कीर्तिता || स बीजा सा समात्रेणदाज्ञेया देहमात्रेण प्रागर्चितफलं तत्र दग्ध बीजत्वतां जयेत् | आगामिकं ततस्तस्य निरोध्यं विषशक्तिवत् |
SKआरब्ध तनुता तस्य भोगेच्छवदं व्रजेत् || इति | अथ भौतिकीय च तथा द्विविधा | उक्तञ्च - एवमेव क्रियायोगात् भौमित्यपि परापरा | किन्तु देहा वियोगार्थं प्रारब्धं कर्म मोहिनाम् || शैव साधन साध्येन सन्धाय परिपालयेत् | सानुबन्धं दहेदन्यद्दीप्ते दीक्षाहुताशने || अस्याप्ययमर्थः | एवमेवेति | नैष्ठिक सकाम कामवद्भौतिक सकाम कामयोरपि क्रियायोगात् क्रिया च योगश्चेति क्रियायोगम् | तत्क्रिया सकामस्य मायान्ताध्व विशोधनम् | निष्कामस्य समस्ताध्वविरंधनञ्च योगः | पुनः शुद्धाध्वनि भोगयोगः सकामस्य निष्कामस्य शिवयोगश्च | किन्तु तथापि शिवयोगे कर्तव्ये सत्यपि देहिनस्तस्य भौतिक निष्कामस्य देहेन योगार्थं प्रारब्ध कर्म विद्यते कारणम् तस्मात्तद्द्वयं शरीरकर्मद्वयं साधन साध्येन भावेन सन्धाय परिपालयेत् तस्मादन्यत् सानुयम्यमिति प्रारब्ध कर्मभोगाबद्धं जन्मान्तरकारणं प्. २९६) पूर्वसञ्चितं कर्म सहेति नानुबन्धेन वर्तत इति सानुबन्धमामामिकं कर्म तत्सर्वं दहेत् | तदा तस्य देहपाते विमोक्षः स्यात् | सद्योनिर्वाणतापि वा इति || अथ लोकधर्मिणी च परापरत्वेन द्विविधा | तत्र परा शिवत्वदा | उक्तञ्च - शिवा शिवात्मकं कर्म शोधयित्वाध्व मध्यगम् | या या निर्वाणमाप्नोति सापरा लोकधर्मिणी || इति || शरीरपातोत्तरमभिलक्षित भुवने शिष्टा परालोकधर्मिणी | अपरा पुनरभिलषित भुवनं यावदध्वशुद्धौ सत्यामभीष्ट भुवनेऽप्य शुद्धं कर्मनिवृत्तौ तद्भुवनेश्वरगणाणिमादि सिद्धिप्रदा | उक्तञ्च - भोगभूमिषु सर्वासु दुष्कृतां शेहते सति | देहोत्तराणिमाद्यर्थं शिष्टोष्टलोकधर्मिणी || इति | शरीरपातोत्तरमभिलषित भुवनेशिष्टपरा लोकधर्मिणी अणिमाद्यष्टक जनिका कर्तव्या | तथा च - शिवधर्मिणी माशोध्य यो जपेत् परमे पदे | देहपाते च मोक्षस्स्यात्समयाचार पालनात् || लोकधर्मिणी मारोप्य पदे भुवन कर्तरि | तद्धर्म पालनं कुर्याच्छिवे वा मुक्तिकांक्षिणाम् ||
SKतत्वे सदाशिवे भोगो लभ तस्य पदे पदे || इति || मुक्तिकामस्य न केवलमस्यैव शिवप्राप्तिः | भुवनेश्वर पदप्राप्त नामपि भोगानन्तरं शिवतत्व प्राप्तिरस्त्येव | उक्तञ्च - प्. २९७) दीक्षा पूतागणपति * * * गुरोर्मण्ड जन्मवन्तस्सिद्धाः मन्त्रैः त * * * रुणदिन कृन्मण्डलोद्भासि देहाः | भक्ता वा भोगान् सुचिरममरस्त्री न कायैरूपेतास्त्रस्तैश्वर्याः परम शिवैश्वर्य भाजो भवन्तीति | एवं सापेक्षा बहुधा ज्ञेया निरपेक्षा च परापरत्वेन द्विविधा सद्यो सद्यो निर्वाणा चेति | तयोरसद्यो निर्वाणा च तद्द्विधा अपरापरा च | दिक्तत्र बालाबलादि भोगिनां समयानुष्ठानव्यतिरेकेणैव शुद्धाध्वनि भोगं दत्वा तदनन्तरं मुक्ति प्रदाचाद्या | उक्तञ्च - निर्बीजात्व समर्थानां किन्तु भोगतराणाम् | दीक्षां पूर्वोदितां कृत्वा समयादि विशोधनीम् || लयः कार्यः परे तत्वे भोगं बद्ध्वा ध्वनिस्मरेत् | तैश्च भक्त्या सदाकार्यं यावज्जीवं शिवार्चनम् || आचार्यस्यार्चनं तद्वद्यथा शक्त्या तपस्विनाम् || इति | अन्यानिःस्पृहस्याध्यानैक निरतस्य कार्या | कुतञ्च - दीक्षाग्नि दग्धकर्मासौ माय विच्छिन्नबन्धनम् | गतः परां ज्ञान निष्ठां निर्बीजः स शिवो स्थितः | न तस्य नियमैः कार्यं न च लिङ्गार्चनेन तु || न तीर्थे क्षेत्रगमने नव शारीर यन्त्रणैः || इति || अथ - परिपन्नकषायाणां सम्यक्कर्म समत्वे सञ्जाते तीव्रतरशक्ति समावृतानां सद्यो निर्वाणतो भवति | सासस्यां परत साध्यो च विद्धत्ते निरामयम् ||? सद्यो निर्वाणकीपक्षे तपसो वाप्यते परम् | प्. २९८) इति | अस्याप्ययमर्थः | अनन्तमेव देहान्ते मोक्ष प्रदेति पराया निर्बीजा प्रोक्ता अस्याः परायाः परतमायास्सद्यस्तत्क्षणमेवात्मानं निरामयं विधत्ते | निर्मलं करोतीति | सा सद्यो निर्वाण दीक्षा सा च कर्म पाके सतीति व्रत शक्ति यातात्पुरुषेण वाप्यते तदासौ पुमानपि तमसः परम ज्ञान परां शिवत्वमाप्नोति | उक्तञ्च - मलस्यापनयो ज्ञानाच्छिव शक्ति निपातजान् | अभिव्यक्त शिवत्वाणेपं याति मलक्षणात् || इति ||
SKअथ सा सबीजा द्विविधा साधिकारा निरधिकाराचेति | तत्र साधिकारा साधका चार्ययोः दीक्षास्थापनाद्यधिकार प्रदा | उक्तञ्च - साधिकारा सबीजा सा यथा स्यादधिकारिता | साधका चार्ययोः यद्दीक्षा स्थापन सन्धिषु | द्वयोरूधिकारत्वात् समता नाधिकारिणी || अनयोराचार्य साधकयोः अविशुद्धाध्वनि भोगादधिकार मलनाशनमन्तरमेव मोक्षः स्यादिति श्रूयते || उक्तञ्च - स बीजा साधिकारा सा साधका चार्ययोस्सदा | दीक्षास्थापन योग्यार्थमधिकाराभिषेकदा || अधिकारपदारूढे मलस्तेषां च रोधकः | तेन शुद्धाध्व भोगः स्याद्दद्यात्स्याक्तं मलक्षयः || अधिकार मलेक्षीणे मोक्षः स्यादव्ययः परः || इति || तथा च - स बीजा द्विविधा ज्ञेया साधिकारि विभेदतः | प्. २९९) साधिका चार्ययोः कार्या साधिकार पदाढ्ययोः | अत्र शुद्धिः पुराप्रोक्ता भोगः सदाशिवे तयोः || ऐश्वर्ये शुद्ध विद्यायां साधकस्येच्छयाथवा | लयोभाव्या परे तत्वे द्वयोरप्य विशेषतः | अधिकारमलेनष्टे लयस्य शाश्वते पदे || पुस्तकः समयस्थे च नित्यकर्माधिकारिता | तत्र विलुत निष्ठा चोभयोः श्रेयः परं पदम् || दीक्षाद्यानधिकारित्वान्नाधिकारमलस्तयोः | नित्येप्यनधिकारित्वान्निर्बीजानां न विप्लुतिः || तेन तेषां न मोक्षः स्यात् देहपातादनन्तरम् || इति || ननु यद्याचार्य पदारूढस्या विधिकारमलस्तिरोधान कारणं भवति तर्हि तेनधिकारेण किं प्रयोजनमिति न वाच्यम् | आचार्य परमपदापेय दीक्षादि सम्प्रदायोनस्यादिति योग्यानामखिलात्म निवृत्त्यर्थमधिकारोऽनुमत एव | उक्तञ्च - सर्वानुग्रहकर्तृत्वादीश्वरः करुणानिधिः | आचार्य मूर्तिमास्थाय दीक्षाया मोक्षयत्यणून् || विना दीक्षां न मोक्षः स्यात्प्राणिनामिह शासने | सा च नस्याद्विनाचार्यमित्याचायं परम्परा || ज्ञेयाः सिद्धान्त शास्त्रार्थ सम्पदां याति हेतुतः || इति || अन्तरेणोपदेष्टारं मन्त्रस्यान्निष्कलो यतः | प्. ३००) पुस्तके लिखितामन्त्राना लोक्य प्रजपन्ति ये | सुरापान समं तेषां पातकं परिकीर्तितम् ||
SKअथ समाश्रयेदाचार्यं मुनिसत्तमम् | तेन तुष्टेन भक्त्याद्यैः दीक्षितोय शिवाध्वरे | सा समन्त्राधिकारी स्यात् सिद्धिमुक्तयोः स भाजनम् || एतस्मात्कारणाद्देवि योग्यानामधिकारिता | गुरुशिष्य प्रशिष्याणां विज्ञेयाशास्त्रकोविदैः || इति || तथा च - योग्य सन्धान तत्वज्ञो रूपशीलगुणान्वितः | शिष्यः स्यात्कुलसंभूतौ नित्यकर्म सुपालकः || अधिकार विरक्तोऽपि योज्योऽसौ गोरवे पदे | हठादेवापि सन्तान पालनाय गुरूत्तमैः || विद्येशाश्च प्रशंसन्ति गुरुसन्तान पालकम् | आगमाढ्य विनोदाढ्यमार्यमाचार्य पालकम् || स शिष्योकारार्थमपि रक्तोऽपि शिवाज्ञया | कियत्कालं विद्यायै तत्स्वशिष्याय समर्पयेत् || तस्यार्पिताधिकारस्य सा युज्यं परमे पदे || अधिकार पदस्वस्य भोगस्सदा शिवे पदे | तदन्ते शाश्वती मुक्तिरिति शास्त्रस्य निश्चयः || इति || प्. ३०१) कर्मसाम्यापेक्षया शिष्याभिलाषा बहुविद्याभवन्ति | ततस्तदभिप्रायमाचरता गुरुणा तथा विधबुध्या क्रियमाणा दीक्षापि तथा भवति | उक्तञ्च - वामेन शांभवे चैव शान्ती च मान्त्री चेति शिवागमोदीक्षोपदिश्यते त्रेधा शिवेन परमात्मना || गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि | सद्यः सञ्जायते चाज्ञा पाशोपक्षय कारिणी || सा दीक्षा शाम्भवी प्रोक्ता सा पुनर्विद्यते द्विधा | तीव्रा तीव्रतराचेति पाशोपक्षयभेदतः || या या स्यान्निर्वृतिः सद्यः सैव तीव्रतरः मता | तीव्रा तु जीवतोत्यन्तं पुंसः पाक विशोधका || शक्तिर्ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु | गुरुणा योगमात्रेण क्रियते ज्ञानचक्षुषा | मन्त्र क्रियावती दीक्षा कुण्डमण्डलपूर्विका || मन्दमन्दतरोद्देशात् कर्तव्या गुरुणा बहिः || शक्तिपातानुसारेण शिस्योऽनुग्रहमर्हति | शिवधर्माधिकारस्य तन्मूलत्वात् समागतः || यत्र शक्तिर्निपतिता तत्र सिद्धिर्न जायते || न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः | तस्माल्लिङ्गानि संवीक्ष्य शक्तिपातस्य भूयसः || प्. ३०२) ज्ञानेन क्रिययावाथ गुरुःशिष्यं विशोधयेत् | योऽन्यथा कुरुते मोहात् स विनश्यतिदुर्मतिः ||
SKतस्मात्सर्वप्रकारेण गुरुःशिष्यान्परीक्षयेत् | लक्षणं शक्तिपातस्य प्रबोधानन्द सम्भवः | सा यस्मात्परमा शक्तिः परमानन्दरूपिणी || आनन्दं बोधयेल्लिङ्गं अन्तःकरण विक्रिया | यथापुलक रोमञ्च सुरनेत्रादि विक्रिया || शिष्यस्तु शिक्षणीयत्वात् गुरुर्गौरव कारणात् | तस्मात्सर्वप्रयत्नेन गुरौगौरवमाचरेत् || यो गुरुः स शिवः प्रोक्तः यः शिवः स गुरुः स्मृतः | गुरुर्व्वा शिव एवाथ विद्याकारोऽथ संस्थितः || यथा शिवस्तथा विद्या * * * * कथा शिवः | शिव विद्या गुरूणाञ्च पूजया सदृशं फलम् || सर्वदेवात्मकत्त्वा सौ सर्वन्त्रमयोगुरुः | तस्मात्सर्वप्रयत्नेन तस्याज्ञां शिरसा वहेत् || श्रेयार्थी यदि गुर्वाज्ञां मनसाऽपि न लङ्घयेत् | गुर्वाज्ञापालको यस्मात् * * * * * * * * || ज्ञानसम्पत्तिपते - गच्छन् तिष्ठन् स्वयं भुञ्जन्मन्यत्कर्मसमाचरेत् | समक्षं यदि गुर्वा तत्सर्वं तं गुर्वनुज्ञया | गुरोर्गेहे समक्षं वा न यथेष्टासनो भवेत् || प्. ३०३) गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् | वपनं च यथा सङ्गात्तत्पापफलभाग्भवेत् || तद्वदाचार्य सङ्गेन तद्धर्मफलभाग्भवेत् | यथा भवति वह्निसंपर्कान्कलं त्यजति काञ्चनम् || तथैव गुरु सम्पर्कात् पापं त्यजति मानवः | यथा वह्नि समीपस्थाः शातकुम्भं विलीयते || तथा पापो विलीयेत आचार्य समीपतः | यथा प्रज्वलितोवह्निः काष्टं काञ्चनमादहेत् | तथाऽयमपि सन्तुष्टो गुरुः पापं क्षणाद्दहेत् || मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः | श्रेयार्थी चेन्नरोधीमान् नमित्याचारमाचरेत् || इत्थमाचारवान् भक्तो नित्यमुद्युक्त मानसः | गुरु प्रियकरः शिष्यः शैवं धाम ततोऽर्हति || शिष्योऽपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् | तत्संपर्के शिवार्चादौ स्वगतर्वायु तद्गतैः || गुरुश्च गुणवान् प्राज्ञः परमानन्दभासकः | तत्व विच्छिव संयुक्तो मुक्तितो नतु चञ्चलः संवित्ति जननं तत्वं परानन्द समुद्भवम् | तत्तत्वं विदितं येन स एवानन्ददर्शकः ||
SKन पुनर्नाम मात्रेण संहार रहितस्तु यः | प्. ३०४) अन्योन्यं तारयेन्नावं किं शिलातारयेच्छिलाम् | येषां तन्नाम मात्रेण मुक्तिर्वै नाम मात्रका || यैः पुनर्विदित्वन्तमुक्तामोचन यन्त्यपि | तत्वहीने कुतोबोधः कुतोमात्मपरिग्रहः || यः पुनस्सर्वतत्वानि वेत्त्येतानि यथार्थतः | पृथिव्यादीनीति शेषः | स गुरुर्न समः प्रोक्तः मन्त्रवीर्य प्रकाशकः | परिग्रह विनिर्मुक्तः पशुरित्यभिधीयते || पशुभिः प्रेरितस्यापि पशुत्वं न निवर्तते | तस्मात्तत्वपदेयेऽपि मुक्ता वै चक्र इष्यते || सर्वलक्षण युक्तोऽपि सर्वशास्त्र विदप्ययम् | सर्वोपाय विधिज्ञोऽपि तत्वहीनस्तु निष्फलः || यस्यानुभव पर्यन्ता बुद्धिस्तत्वे प्रवर्तते | शिवतत्वपर्यन्तं तस्य च लोकनाद्यैश्च परानन्दोऽभिजायते || तस्माद्यस्यैव सम्पर्कात्प्रबोधाअनन्द सम्भवः | गुरुमेव प्रणमेन्नापरं मतिमान्नरः || स शिष्यैर्विनयाचारचतुरो रुषतो गुरुः || यावद्विज्ञायते तावत् सेवनीयो मुमुक्षुभिः | ज्ञाते तस्मिन् स्थिराभक्तिः यदिस्यात्तत्समाश्रयेत् | निसतस्तं त्यजेज्जातु नोपेक्षेत कथञ्चन || प्. ३०५) यत्रसानन्द सम्बोधो कल्पं पू * * प लभ्यते | वक्यरा * * * विशिष्येण का गुरुमुपाश्रयेत् ||? गुरुमन्यं पन्नोऽपिनावमन्येत पौर्विकम् | गुरोर्भ्रातॄस्तथा पुत्रान् बोधकान् प्रेरकानपि || तथा - तत्रादावुपसंगम्य शिवशास्त्र विशारदम् | गुरुमाराधयेत् प्राज्ञं संभागं प्रियदर्शनम् || सर्वाभय प्रदातारं करुणाक्रान्तमानसम् | तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा || तावदाराधयेच्छिष्यः प्रसन्नोऽसौभवेद्यदा | तस्मिन् प्रसन्ने शिष्यस्य सद्यः पाशक्षयो भवेत् | तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च || भूषणानि च चासारां स्थानशय्यासनानि च | एतानि गुरवे दद्यात् भक्त्यावित्तानुसारतः || वित्तशाठ्यं न कुर्वीत यदीच्छेत् परमांगतिम् | स एव जनको माता भ्राता बन्धुर्धनं सुखम् | सखा मित्रञ्च यस्तस्मात्सर्वं तस्मै निवेदयेत् ||
SKनिवेद्य पश्चात्स्वात्मानं सञ्चयं सपरिग्रहम् | समर्प्य सोदकं तस्मिन् नित्यं तद्वशग्रे भवेत् || यदा शिवायस्वात्मानं दत्तवान् देशिकात्मने | तदा शैवो भवेद्देही ततोऽस्मि पुनर्भवः || प्. ३०६) देशिका कृतिमास्थाय पशोः पाशमशेषतः | शिवत्वा परंपदं देवो नयत्येनमिति श्रुतिः || गुरुश्च शास्त्रवित्प्राज्ञः तपस्वीजन वत्सलः | लोकाचाराञ्चितोवापि तत्विमोक्षदः स्मृतः || गुरुः स्वाश्रितान् शिष्यान्वर्षमेकं परीक्षयेत् | प्राणद्रव्य प्रदानाद्यैरदेशैश्च समासते | उत्तमाच्चाधमे कृत्वानी चानुत्तम कर्मसु || आ तुष्टास्तसिता वापि ये विषादन्तयान्यपि |? ते योग्या संयुता शुद्धाः शिवसंस्कारकर्मणि | नियोगाद्भर्तुरहस्त्येव भुक्ति युक्ता यदीश्वरैः | तथैव भर्तृहीनायां पुत्राभ्योरभ्यनुज्ञया | अधिकारो भवत्येव कन्यायाः पितुराज्ञया || असच्छूद्रान्त्य जातीनां पतितानां विशेषतः | तथा संस्कार जातीनां नाध्वशुद्धिर्विधीयते | तेऽप्यकृत्रिम भावाश्चेच्छिवे परमगातृणे | पादोदक प्रदानाद्यैः कुर्यात्पाश विशोधनम् || अत्रानु लोमजाती ये युक्ता येषु द्विजादिषु | तेषामध्व विशुध्यादि कुर्यान्मातृकुलोचितम् || यातु कन्यास्वपित्राद्यैः शिवधर्मे नियोजिताः | सा भक्ताय प्रदातव्या नापराध विरोधिने || प्. ३०७) दत्ताचेत्प्रति कूलाय प्रमादाद्बोधयेत् पतिम् | अशक्तौ तं परित्यज्य मनसाधर्ममाचरेत् || तथा शिवपुराणे - यथा मुनिवरं त्यक्त्वा मतिमन्त्रं पतिव्रता | कृतकृत्या भवत्पूर्वं तपसाऽराध्य शंकरम् || इति || गुरु शिष्य परीक्षाथ नानावाक्यैश्च लिख्यते | आद्यं शैवं समाख्यातं ततः पाशुपतं पुनः | तृतीयं कालरात्रिं च कालवक्त्रं चतुर्थकम् || चतुर्था दर्शनं शम्भोः तद्युक्ताश्च तदात्मकाः पञ्चार्धाः कालवक्त्रा᳚च सोम सिद्धान्त वेदिनः || भावद्रव्याग्नि सन्न्यासादेते सन्न्यासिनोयतः | दीक्षास्थापनयोस्तस्मादेते नैवाधिकारिणः || तथापि गुरवो ज्ञेयाः सन्यस्तानां स्वदर्शने ||
SKलोकानुग्रहकर्तारः न वै ज्ञेया नवे तरे | शुद्धाधिकारिणोद्भूतास्ते च ज्ञान क्रियान्विताः | आधारोधिकरं स्थानमाहुर्मनीषिणः || दधी च स्थापितं स्थानं गोविन्दानमिति श्रुतम् | स्थानमामर्दकं नाम श्रीदुर्वासनिषेवितम् || तस्माद्विनिर्गतं स्थानं रणभद्रञ्च गोलकी | ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्त्विति | जटीमुण्डी शिखीवापि दण्डकौपीन मेखली | प्. ३०८) मौञ्ज्यजिनधारी च भस्मपाण्डर विग्रहः | त्रिपुण्ड्राङ्कित सर्वांश्चाक्ष मालाविभूषिताः || गुरु शुश्रुषणासक्ताः शिव विद्याग्निपूजकाः | काषायी सितवस्त्रो वा सत्यवादी प्रियंवदः | त्रिस्नायी भैक्ष्य भोजी च ब्रह्मचारी समीरितः || द्विविधः स च विज्ञेयः नैष्टिको भौतिकस्तथा | कौमारी ब्रह्मचारी स्याद्यावज्जीवं स नैष्ठिकः || व्यवस्थित कृकालान्तं ब्रह्मचारी स भौतिकः | गृहस्थो गृहिणी योगात् स च वै द्विविधोमतः || व्रतार्थकः पुराप्रोक्तः ततस्सान्तानिको मतः | लौकिकस्य तु विज्ञेयो द्वाविमौ शिवमङ्गलौ || त्रिकालस्नानमेतेषामेक कालमथापि वा | त्रिपुण्ड्राङ्कित सर्वाङ्ग रुद्राक्षकटकान्विताः || वेदोक्त विधिनिष्ठाश्च शैवाचारानुपालकाः | वानप्रस्थोवने वासी कन्दमूलफलाशनः || एकाकी वा सभार्यो वा ब्रह्मचारी क्रियान्वितः | त्यक्त सर्वक्रियः शान्तः समदृष्टि क्रियान्वितः || भिक्षाशी पाणिपात्रो वा कौपीनी वा दिगम्बरः | ध्यान निष्ठः सदाभूया गच्छन् तिष्ठन् स्वपन् यतिः | वानप्रस्थो यतिश्चैव द्वावेतौ नधिकारिणौ || प्. ३०९) ब्रह्मचारी गृहस्थश्च दीक्षादावधिकारिणौ || उक्तञ्च - द्ववेवा श्रमिणौ चैव गूहस्य ब्रह्मचारिणौ | लोकानुग्रहकर्तारौ परिव्राट् तापसौ न हि || इति | ब्राह्मणः सर्वजातीनां सदानुग्रह विस्मृतः | स्वजाति पूर्वमाचार्या सूर्यश्शेषा नृपादयः || त्रिषुवर्णीषु ये युक्ता ते च न वर्णिनोमताः | अमद्यपः कुलीनश्च शिवधर्म परायणः || शूद्र क्षत्रियवज्ज्ञेयः शेषानिन्द्रास्ततो भृशम् | दीक्षादौ त्रीणि तेषां स्याद्भक्तानां चक्षुषी मताः || तथा च गरुडः -
SKमध्ये वर्ण चतुष्कस्य गुरुत्वं कस्य तद्वद | स च प्रोक्तोर्धरात्रान्ते शिववत्सर्वमोचकः || भार्या भक्त्यादिको बन्धुरुपसन्नो यदा भवेत् | तदा तेषां भवेद्दीक्षा तदैषां पुत्रता न किम् || अन्त्यजश्चोप सन्नोन्यः स चास्पृश्यः कथं पुनः | यदि तस्य न दीक्षा स्यात् न गुरुः सर्वमोचकः || ईश्वरः - चतुर्णामपि वर्णानामाचार्यत्वमिहोदितम् | ब्राह्मणादि चतुष्कस्य द्विजोऽनुग्रह पूर्मतः || त्रयाणां क्षत्रियो द्वाभ्यां वैश्यशूद्रस्स योनितः | अनुग्रहस्तु भार्यादेः यो यथा किं तु भावतः || निरपेक्षा यतो मन्त्रा यथा तद्भावना तथा | प्. ३१०) यथा स्थितेन भावेन मन्त्राः कुर्वन्त्यनुग्रहम् | यतस्तेनान्त्य जस्यापि किन्तु दीक्षा तु मानसी || कारुकाणां तु संस्पर्शान्न होत्रीं परिकल्पयेत् | ज्ञात्वा तेषां परां भक्तिं लोकश्चेद्दोषमाप्नुयात् || इति || चाक्षुष्यादि प्रभेदायाः दीक्षाया लिख्यतेऽधुना | निर्माल्य नयनं ध्यात्वा परं तत्वं सुनिर्मलम् || ततः पश्येच्छि शुद्ध्यर्थं दीक्षैषा चाक्षुषी मता | अत्र तद्व्यर्थ शब्दो भुक्तिमुक्त्योः हस्ते शिवपुरं ध्यात्वा ब्रह्माङ्गसहितं परम् | संस्पृशेच्छिष्य देहं तच्छिरः पृष्ठादिकं गुरुः || स्पर्शदीक्षा भवेदेवं लयभोगविदाकृता | चित्तं तत्वे समादाय पर तेजोपबृंहितान् || उच्चरेत्संहिता मन्त्रान्त्वा दीक्षा कारणं प्रभोः || तच्च नित्यम् न शक्यं न शक्तिर्ना चेतना चितः | मानसं विधिमाश्रित्य मानसी ज्ञानवत्यसौ || दीक्षा क्रियावती ज्ञेया ब्राह्मणादि चतुष्टये | रुद्रश्च रुद्रशक्तिश्च गुरुश्चेति समंत्रयम् || भक्त्या प्रविश्यते यस्तु तसौदीक्षोचितापरा | शिष्येणापि तदाग्राह्या यदासन्तोषते गुरुः | शरीरद्रव्य विज्ञानश्रद्धा कर्मगुणादिभिः || प्. ३११) तथा च - बहिरन्तश्चरैः प्राणैः गुरुभक्तस्तु योनरः | सोऽनुग्राह्यो भवेद्भव्यो नान्यः * * * * र कृत् || तथा - शरीर द्रव्य विज्ञानवाचः कर्मगुणानसून् | गुरुत्वं धारयेद्यस्तु स्तोत्रं संस्कारमर्हति || यदुक्तं विद्यापुराणे -
SKगुणाढ्यः कृशदोषा वा शिवभक्तः प्रशस्यते | अ * * * ण सम्पन्नो न द्विभक्तः कदाचन | येच्छोपिं शिवभक्तोयः सोऽनुग्राह्यो न संशयः || विप्रोविलक्षणैर्युक्तो न दीक्ष्यो भक्तिवर्जितः | शिवभक्ति दृढायत्या गुरोर्नित्यं क्रियासु च || शिवज्ञानासने नित्य विरक्तो भव संस्थितौ | अनन्यनीर तस्यास्य दीक्षा नान्यस्य शस्यते || स चाचार्यपदे योग्यो यदि शीलगुणान्वितः | ललिता भूतवाणी यः स * * * गगः प्रियः || नादी दीनरवश्च कृशस्थूला महोदरः |? अतिरिक्तस्तथा कृष्णो दन्तुरः कुनखः खलः | रक्त पिञ्जर केशाक्षाः तर्क कर्कशधीरपि || काणः केकरपिङ्गाक्षः पिङ्गभ्रूश्म श्रुमूर्धजः | गारुडी भूतमन्त्री च चैत्य कर्म त्रिविक्रयी || वक्र नासास्य कर्णाक्षः पापीरोगी च मत्सरी | शठः क्रूरक्रिया कूटः क्षूद्रशिल्पी च निर्घृणः || प्. ३१२) एवं विन्द्यगुणैर्हीनो युक्तायुक्तविशारदः | दक्षः कुलीनः शान्तात्मा स च सद्देश सम्भवः || तथा - काणः कृशोदरी कुब्जः हीनाङ्गोवाधिकाङ्गवान् | कृष्णो वा श्मश्रुहीनोवा कुनखीदन्तुरस्तथा || केकरः क्षयरोगी च बर्भरः स्थूलदेहवान् | एतैस्तु लक्षणैर्हीनं पूर्णाङ्गोमूर्तिमानयम् || शैवसिद्धान्तसारज्ञः पशुशास्त्र पराङ्मुखः | सर्वभूतानुकम्पी च शुष्कतर्कविवर्जितः || शठः क्रूरोऽपि मोही च पिशुनो मत्सरीखली | खलभावविनिर्मुक्तः परचित्तानुरञ्जकः || शीलवानेष जानीयादनुकम्पापरो भृशम् | ज्ञानेन हृदयस्थेन खलीनस्याच्छुशीलवान् || मधुना कोटरस्थेन निम्बः किं मधुरायते | ज्ञानमभ्यासतो वेत्ति शीलं स्वाभाविको गुणः || ज्ञानं सत्यं दयाधैर्यं विनयं स्थैर्यमेव च | सात्विकस्य गुणः प्रोक्तः सङ्गात्संजायते तु सः || स्वयमालोच्य शास्त्राणि वदताचार्यसत्तमः || इत्येवं ये वदन्त्यत्र त्याज्यास्ते वै स्वयंभुवा | अन्यलिङ्गं परित्यज्य योलिङ्गं शैलमाश्रयेत् | स पुनर्भवति ज्ञेयः सर्वकर्मसु गर्हितः || प्. ३१३)
SKतावत्ते गुरवो ज्ञेयाः यावदाचारपालकाः | आचारात्तु परिभ्रष्टाः त्याज्यास्ते भग्नलिङ्गवत् || भग्नव्रतात्समुद्भूतो योऽसौ भग्नाङ्कुरः स्मृतः | तज्जाताः कन्धका ज्ञेयास्ते जाताः कोगिकामताः || दीक्षास्थापनयोः सन्त्या त्याशुभा कांक्षिभिः ||? | इति || सर्वलक्षणसम्पन्न शिव शास्त्रं न विन्दति | न योगी न व्रतस्नातो नासावाचार्य उच्यते | सर्वलक्षणहीनोऽपि शिवशास्त्रार्थ विद्गुरुः || स्थापनादिषु सम्प्रोक्तः शिवशस्त्रेषु षण्मुख || इति || स च सद्देशसम्भूतः कुलजस्ता न्यथागमे | महेन्द्रो मलयः सह्य शुक्तिमानृक्ष पर्वतः || विन्ध्यपारियात्राञ्च सप्तैते कुलपर्वताः | एतेभ्यः कुलशैलेभ्य विःसृताः पुण्य सिन्धवः | निम्नगाः परिगामिन्यो येषु देशेषु सन्तिताः || याज्ञिकाः पुण्यदेशास्ते सर्वशास्त्रेषु सम्मताः || गङ्गारेव महीतापी गौतमी च सरस्वती | यमुना कृष्णवेणी च कावेरी गण्डकी तथा || गोमती सरयूसिन्धुः देविकेति चतुर्दश | पुण्यनद्य * * * क्षितोज्ञेयो सर्वलोकहितावहाः || महद्भिर्मुनिभिः सेव्यः याज्ञिकैश्च तपोधनैः | प्. ३१४) शिवलिङ्गैः स्वयंभूतैर्मुनिदेव प्रकीर्णकैः | तत्तीर संभवा देशाः पुण्यदेशामतासताम् || ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तद्देशवासिनः | तत्तीर्थ सेवा सर्वेषां सर्वदातः कलामषः || षडध्वशोधने योग्या यदि ते शिव भाविताः | नन्वत्र कावेरी च कर्कराष्टक मध्यपतितः | ततस्तद्देशीया नाधिकारिणः | उक्तञ्च - काश्मीर कौशला काञ्ची कलिङ्गाः कामरूपजाः कावेरी कोङ्गणोद्भूता कश्च देशसमुद्भवाः | तथाऽन्येऽपिरुराष्ट्राया कुशसङ्गच्छ वृत्तयः ||? विप्रादि वर्णाश्चत्वारो गुरुत्वेनाधिकारिणः || नैतद्वाच्यम् - शाक्तवाक्यमेतदिति नैवायं नियमः शैव सिद्धान्तेषु च | उक्तञ्च - सिद्धान्तोक्तेन वामेन वामेसिवामाचारो न दक्षिणे | यो यत्रैव विधिः प्रोक्तः तत्रैव फलप्रदः || इति | तथा -
SKब्राह्मणाः क्षत्रिया वैश्याः शूद्राः शुद्धास्तु साधकाः | सवर्णादानुपूर्व्येण ह्याचार्यास्ते षडानन | श्रद्धया नानसूया ये कर्मज्ञाः कर्म तत्पराः || अनुज्ञाताश्चाभिषिक्ता पश्चानुग्राहकामताः | कृष्ण वर्णो मृगो यस्मिंश्चरते तु षडनन || तद्देशं यज्ञिकं विद्याद्यश्च विप्रैरधितः | यत्र विप्राः सदाचारा यतयश्च तपोधनाः || प्. ३१५) सन्तिवेदास्तथा देवाः पुण्यदेशन्तमादिशेत् | तद्देश कुलसंभूताः आचार्याः शास्त्रसंमताः || शिवशास्त्र परानित्यं शिवपूजाग्नितत्पराः | तथा - आचार्यः पुण्यदेशीयाद्धार्मिकाः शिवता विदः || शिवशास्त्रार्थ तत्वज्ञाः तत्वज्ञान विधायिनः | कालिङ्गे सिंहलेवङ्गे किन्धारे म्लेच्छसेविते || यत्नेन वर्जयेचास दीक्षितः शिवमण्डले || इत्यादिशैव सिद्धान्तवाक्यैः काश्मीरादि पुरेदेशोद्भवानामाचार्य त्वमभिमतमेव || अथाध्वा वर्ण्यते यस्मात्तस्मिन् दीक्षा विधीयते | तध्वा भुवाध्वा च मन्त्राध्वा पद संज्ञिकः | वर्णाध्वा च पदाध्वा च बोधकाः षड्विधा मताः || बोद्धव्यं कर्मद्वयं पुंसो भोक्तव्यं पूर्वसञ्चितम् || अत्र पुंस इति पुरुषस्य स्वर्गपातालादिषु भोक्तव्यं सुखदुःखात्मकं धर्ममात्मस्वरूपं कर्मद्वयं तच्चानेन पुरुषेणर्व जन्मान्तरेषु अनेकेष्वार्जितं यत्तदेव सञ्चितमिति भावः भोगस्थानानि तनीति तत्वानिभुवनानि च | शोध्यानि शोधकाः शेषाः किन्तु ते च स्वभावतः || प्रकृत्या शोध्यशोधक भावेन सामरस्यं गता इति | शोधनीयाः क्रियाभावः बोधनिर्मल वारिभिः | इति | ंइस्सिन्ग् Pअगे नो. १६ प्. ३१७) सूक्ष्मो भिन्नकलश्चेति ज्ञेयोऽसौ पञ्चधाप्रभुः | तत्र शान्त्यादिभिर्युक्तः कलाभिः सकलामतः || निष्कलः कलया शून्यः व्यापी सकल निष्कलः || ज्वालिन्यादिकलायुक्तः सूक्ष्मोऽसौ बिन्दुरुच्यते | स्वरैष्षोडश भिन्नो भिन्नात्मा बिन्दुरीरितः || तत्र निष्कल बिन्दुस्था सा शक्तिः सर्वतोमुखी | बिन्दुशक्तिरिति ख्याता शक्तितत्वं तदित्यपि ||
SKईशान नेत्रमन्त्राढ्यं शान्त्यतीतकलान्वितम् | भुवनं च पदं चात्र पूर्विओक्तं संस्मरेद्बुधः || ततः सदाशिवं तत्वं कलाशान्त्या समन्वितम् | षोषशस्वरसंभिन्नं क्षकारांबुज सन्निभम् || देवस्सदा शिवस्तन मन्त्रमूर्ति व्यवस्थितः | व्योमव्यापिपसंस्थेयं पञ्चब्रह्मपरम्परा || व्योमरूपपदे ज्ञेयं पुनः स्थानं परात्मकम् | सर्वव्यापि शिवायेति पदद्वय समाश्रितम् || वामाज्येष्ठा स रौद्रीलामेकं पुरपरं मतम् ||? तदस्थवर संभिन्नं अकाराम्बुज संस्थितम् | तत्वमैश्वरमाख्यातं शाक्तिरात्री बिसाकला | ईश्वरोभगवांश्चतुर्वक्त्रः स्थितःस्सतः ||? अनन्तादि पदेष्वष्टे विद्येशाश्चाष्ट सुस्थिताः || प्. ३१८) अनन्तायुपमेनन्तः सूक्ष्मरुद्रः स्वनाथकः | अनाश्रिते शिवोत्कृष्टो ध्रुवाख्ये चैव नेत्रकम् | शाश्वते चैकरुद्रश्च त्रिमूर्तिर्योगपीठिकम् | नित्यं ज्ञेय पदेज्ञेय श्रीवक्त्रनायकः |? ध्यानाहार पदेसंस्थः शिखण्डीभुवनेश्वरः | पुरुषः कवचं चात्र मन्त्रौ शान्तिकलानुगौ | ततः षोडशवर्णाढ्यं सकाराम्बुज संस्थितम् || शुद्धविद्यादि अशुद्धविद्यान्त तत्वेषु विद्याकलाध्व घोरमन्त्रा स्वा |? विद्या तत्वान्ततो मादि शिवायान्तपदस्थितैः | विद्यादि विग्रहाराज्यं रुद्रव्यूहैः समावृतम् | तत्र विद्या स्थिता देवि मातृका मालिनीपरा || ओमित्येकाक्षरौ विद्या व्यूहो वामादिकस्य च | तद्यथा - वामोज्येष्ठश्च रुद्रश्च कालः काल विकृत्पुनः || बल विकरणः पश्चाद्वल प्रमथनस्तथा | सर्वभूतदमः शान्ते नवमस्यां मनोन्मनः ||? विग्रहव्यूह संज्ञः स्यादघोरादि नमः पदे || तद्यथा - अघोरस्त्वथ घोरश्च घोरघोरतरस्तथा | सर्वतस्सर्वसंज्ञस्तु सर्वोरुद्रस्तु रूपवान् || राज्ञी व्यूहोम्बिकादि स्याच्छिवायेति पदे स्थितः || तद्यथा - अम्बिका ब्रह्मवेताली त्रिगुणास्थाणुमत्यपि | प्. ३१९) रूपिणी च महाज्वाला मालिनी प्रथितः पुरा | सु वेताली च गौरीचाघोरा नन्दिनिन्दिता || अङ्गव्यूह स्थितः सर्वप्रभा वाक्यपदे यथा || तच्च -
SKविद्याधिपो ब्रह्म शिवे रुद्राणि स पुरुष्कृतः | महापाशुपतञ्चेति विद्याङ्गव्यूह ईरितः || ततः शिवपदे रुद्रव्यूहः संस्थो मलादिकः | हलाहलश्च मातङ्गो नीललोहितसंज्ञकः || उच्छुष्माश्शाल वाराश्च पदरुद्रामहाबलाः || अत्र महाबला इति एते रुद्रमहाबला इति पराक्रमा इत्यर्थः || मायातत्वं ततष्षण्ड स्वरपङ्कज संस्थितम् | आकार मुण्डमुद्रायमात्मवर्ग समाकुलम् || माया तत्र स्थिता देवि नीलारश्मि समाकुला | ईशानः पुरुषो घोरो वाम देवो ह्यजस्तथा | प्रणवश्च नमश्चेति नमश्चेति पदाष्टके || क्रमादङ्गुष्ठमात्रश्च भुवनेशोऽपि नायकः | ईशानः पिङ्गलस्तद्वदुद्भवश्च भवस्तथा || वामदेवो महादेवो इति रुद्राष्टकं स्थितम् || इति तद्ग्रन्थे - ऊर्ध्वाधः संपुटस्थैस्तद्गगनेशादिभिर्वृतम् || तद्यथा - गगनेशास्त्वसाध्यश्च विष्णुस्तत्वाध्वर स्मृतः | देशेशानो महावीर्यन्त्युलो गोपतिस्तथा || प्. ३२०) अथ सम्पूटके ज्ञेय पश्चादुर्वस्थिते इमे | क्षेमीयो ब्रह्मणोहन्ता विद्येशानः परस्तथा || वैद्येशश्च शिवश्चेति षट्कर्मोनन्त उच्यते | ततस्सागा समायुक्तो स्वरपङ्कमसंस्थितम् | काल तत्वं स्थितं तत्र कालरुद्रः कृतान्तवत् || गुह्याति गुह्यायाचेति गोप्त्रे चेति पतद्वयोः | एकवीरः शिखेदश्च भुवनद्वयमास्थितम् || वकारस्वर पद्मे तु कालतत्वमुपस्थितम् | तत्र मध्ये कलादेवी चित्राङ्गाभरणात्मिका || तत्वस्त्वनिधनामेति पदेपञ्चान्तिकः स्थितः | सर्वयोगाधिकृत्याय पदेशूरो व्यवस्थितः || यवर्ण स्वरपद्मस्थं तत्वानि यत संज्ञितम् | तत्र रुद्रः स्थितः साक्षात्सर्वज्ञो नीललोहितः | ज्योतीरुद्र परं तत्र ज्योती रूपपदे स्थितम् || परमे च पराचेति पदे पिङ्गेक्षणः स्थितः || रेफ लग्न स्वराम्भोजो विद्यातत्वमुपस्थितम् | वियादेवी स्थिता तत्र सर्वज्ञानाभवासिनी || अचेतनद्वये तत्र रुद्र संवर्तकः स्थितः | ख्यास्मिन्व्योमिन्पदे देव रोधरुद्रः स्थितस्ततः || विद्यादि शुद्धविद्यान्तं व्याप्यविद्याकलास्थिता || प्. ३२१)
SKअघोरः शिखया युक्तो मन्त्राध्वाचात्रकीर्तिताः | रागादितः प्रतिष्ठायां वान्तत्वञ्च सञ्चयम् || क्वचित्प्रतिष्ठाकलायां वादिपुरुषान्तं चतुर्विंशति तत्वानि सन्तीति च | विद्या कलायां रागादि शुद्ध विद्यान्तं तत्वानां सप्तकिमिति दृष्टम् | उभयत्रापि च शिवागमोक्तत्वात्तथा च तद्गृहीतव्यम् | वामः शिरश्च मन्त्राध्वा पृथक्शेषमथोच्यते | षोडशस्वरसंभिन्न धकाराम्बुज संस्थितम् || राग तत्वं तथारक्तं तत्र रागोऽरुणप्रभः | व्यापिन् व्यापिन् पदेज्ञेयः पूर्वरेके शिवः स्थितः || अरुपनि द्वयेनन्तज्जन्मात्प्रथमद्वये |? तेजस्तेजस्युमाकान्तच्यानु ज्योतिद्वये स्थितः || स्वरैष्षोडशभिर्भिन्नमकाराम्बुज मध्यतः | तत्वपेन रुषामातः रक्तः कर्बुत्तरं महः || तत्राऽस्ते पुरुषः सूक्ष्मः पुर्यष्टकतनुर्विभुः || रागो विद्याकलाकाल नियताणव कर्मवान् | प्रदे रूपे प्रचण्डः स्याद्द्विरोनविपदे स्थितः || सर्वेशान स्वधूमे स्याद्दभस्मे चाग्रसंज्ञिकः | भीमो नादे पदेज्ञेयो वामोनाना पदे स्थितः | स्वर षोडशपत्राढ्या भकाराम्बुज मध्यगम् | तत्वं प्राकृतमाख्यातं कारणं जगतः स्थितम् || प्. ३२२) अव्यक्ता प्रकृतिस्तन स्थिता चैतन्य रुपिणी | धू धू धू धू पदे पूर्वं श्रीकण्ठ भुवनस्थितम् || उमादेवी वपुर्ज्ञेयं ॐकारोभूः पदे ततः || कौमारं भुवनं ज्ञेयं ॐकारो वैष्णवं पुरा || ब्राह्यं भुवः पदे ज्ञेय म्ॐकारो भैरवं पुनः | स्वपने निधनेवाच कृतंचाकृत संज्ञकम् || सव्यनांबुजमध्यस्थं बुद्धितत्वमथारुणम् | अणिमादि गुणोपेता बुद्धिरत्र स्थितापुरा || निधनाख्य पदे ब्राह्मं भुवनं तत्र किर्तितम् | फकारस्वरमध्ये तद्गर्व तत्वं व्यवस्थितम् || शिवशर्वद्वये तत्र सौम्य मैन्द्रं पुरः क्रमात् | श्रोत्रादीन्यथ तत्वानि नादितान्तेष्वनु क्रमात् || वागादीन्यपि पञ्चात्राणादि टान्ताक्षरेषु च | तद्यथागमे - नासाजिह्वाक्षिचर्माणि श्रोत्रं बुद्धीन्द्रियाणि तु ||
SKगुदं गुह्यं करांघ्री च स्वरं कर्मेन्द्रियाणि च | इति शब्द तत्वज्ञादि वर्णस्वरूपं पङ्कजसंस्थितम् || गन्धर्व भुवनं तत्र परमात्मन् पदे स्थितम् | महेश्वर पदे तत्र याक्षं भुवनमास्थितम् || रूप तत्वं च वर्णस्थ स्वरूपं क जमध्यगम् | महादेव पदे तत्र राक्षसं भुवनं स्थितम् || प्. ३२३) रसतन्मात्रर्तत्वं तच्छ * * र स्वरपद्मकम् | पैशाचं भुवनं तत्र सद्भावेश्वर पार्श्वकम् || गन्धतत्वञ्च कारस्थ स्वरनीरज मध्यगम् || छगलञ्च द्विरण्डं च भूकोटं मण्डलेश्वरम् | कालाञ्जरं पुरं तत्र शङ्कुकण्डं स्थले चयम् || स्थूलेश्वरं महातेज पदे स्थाण्वष्टकं स्थितम् || व्योमतत्वं दकारस्थ स्वरपङ्कज संस्थितम् | तत्रास्ते भगवान् देवो व्योमरूपीमहेश्वरः || वस्त्र पादं रुद्रकोटिरं मुक्तं महालयम् |? गोकर्णं भद्रकर्णञ्च स्वकर्णाक्षं स्थाणुरित्यपि | यो गाधिपतिके चैतत्पवित्राष्टकमास्थितम् || वायुतत्वं घकारस्थ स्वरूपात्म व्यवस्थितम् | जीमूतसदृशं तत्र वायुनातेञ्जनप्रभः | यदाप्रकुरुतं क्षेत्रं नखरुं नाखलेश्वरम् || विमलञ्चाट्टहासञ्च मृगेन्द्रं भीमकेश्वरम् | गुह्याष्टकमिदं ख्यातं मुञ्च मुञ्च पदे स्थितम् | तेजस्तत्वं कवर्णस्थ स्वरराजवमध्यगम् || रक्तं नेत्र स्थितो वह्नि पद्मनाभसमप्रभः | हरश्चन्द्री च श्रीशैलं जल्पमात्रादिकेसरम् || मध्यमेशं मकाकालं केदारं भैरवं तथा || प्. ३२४) गुह्याति गुह्यमेतद्धि प्रथमद्वय मध्यगम् | अथ ख स्वरपद्मस्थमप्तत्वञ्चरुणालयम् || अमरेशं प्रभासाञ्च रैमीशं पुष्करं तथा | आषाढीशं च चण्डीशं भारभूतिं चलाकुलम् | आदि गुह्याष्टकं ह्येतच्छर्व शर्वपदे स्थितम् | निवृत्तौ पार्थिवं तत्वं ककाराम्बुजमध्यगम् || तत्र पृथ्वीस्थिता मेरौ हेमाभा सर्वभूषणा | आजात हृदयौ मन्त्रौ पदानि भुवनैर्यथा | तावद्ब्रह्माण्ड बाह्ये तु शतरुद्र व्यवस्थितम् | शम्भुर्विभुर्गुणाध्यक्षः त्र्यक्षस्त्रिदशवन्दितः ||
SKसंवाहश्च विवाहश्च नमोलिप्सुर्विचक्षणः | भव भव पदे रुद्रा इमे ब्रह्म पुरे स्थिताः || कपालीशो ह्यजो बुद्धो वज्रदेहः प्रमर्दनः | विभूतिरव्ययः शाप्ता पिनाकी त्रिदशाधिपः | इन्द्रस्य पुरमावृत्य भवेद्भवपदे स्थितः || अग्निरुद्रे हुताशी च पिङ्गलः खातकोहरः | ज्वलनोदहनो बभ्रु भस्मान्तक्षयवान्तकः || इमे रुद्राः पुरेवह्नेः सर्वभूतसुखप्रदे | याम्यो मृत्युर्हरो धाता वरकाकर्ण संज्ञकः | विरूपाक्षो धूम्रोदं षु लोहितः ||? प्. ३२५) ब्रह्म विष्णुरुद्रपर * * * पुरे स्थिताः || बलश्चातिबलश्चैव पाशहस्तो महाबलः | श्वेतश्च जयभद्रश्च दीर्घबाहुर्जलान्तकः || सन्धवास्यश्च भीमश्च वरुणालयवासिनः || अनर्चितानर्चितेति पदेरुद्राः स्थिता इमे | शीघ्रे * * वेगसूक्ष्मस्तीक्षां क्षयान्तकः | पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः || असंस्तुता संस्तुतेति पदे वायोः पुरे स्थिताः | जटामकुटधारी च ननारत्नसरोवरः | निधीशोरूपवान् धन्यः सौम्यदेहः प्रसादकृत् | प्रकाशोऽप्यय लक्ष्मीवान् कामरूपो दशोत्तरे || इमे सोमपुरे संस्थाः पूर्वस्थित पदद्वये | विद्याधरो ज्ञानधरः सर्वज्ञोवेदपारगः | मन्त्रवृन्तश्च पिङ्गाक्षो भूतपालो बलिप्रियः || सर्वविद्या विधाता च सुखदुःखकसान्त्विकी | ईशान भुवनेदेव साक्षिन् साक्षिन् पदे स्थिताः || अनन्तः पालकोधीरो विषार्ग्निर्विषलोचनः | वृक्षे वृषधरे वीरो नागासेनो बन्धपालनः || इमेऽनन्तपुरे देवाः रुद्रद्वय पदे स्थिताः || अथब्रह्माण्ड मध्यस्थ पुरादी नक्रमाद्यथा || प्. ३२६) रुद्र लोकस्थितः पूर्वमणिमादि गुणायतः | तत्र रुद्रोऽनेकैश्च स्थितारुद्र पुरोत्तमे || ततो वैकुण्ठ लोके च दशद्वादश मूर्तिभिः | विष्णुरास्ते गणैर्मुख्यैर्विष्वक्सेनपुरस्सरैः || वेदैरङ्गैः पुराणाद्यैः सत्य लोके पितामहः || एतल्लोकत्रयं चैव पतंगे विपदे स्थितम् | पिङ्ग पिङ्गपदे पश्चात्तपोलोके व्यवस्थिताः || स्थिता ब्रह्मसुतास्तत्र सनकाद्या महाचरः | न ज्ञानार्पतो लोको जनकाख्यो मुनिपूरितः ||
SKशब्द शब्द महालोकः सिद्धविद्या धरालयः | सूक्ष्मः सूक्ष्मपदे ज्ञेयः स्वलोके भोगभूरसौ || स्थिता देव सभा तत्र ग्रह नक्षत्र मण्डलम् | ततः शिवपदे ज्ञेयो भुवल्लोकोन्तरिक्षगः || प्राणाद्या वायवस्तत्र सिद्धाद्याः शिवमानगाः || ततः सर्व पदे कर्मभूमि लोकस्य आस्थितः | नदीकानन भूभृद्भिः सप्तद्वीपार्पावैः सह || सर्वेषामालयो यस्मात् कर्मिणां कर्मसिद्धये | समेरुमेरु नवखण्डो यद्द्वीपीक्षारार्णवो व्रताः | सर्वेषामपि देशानामयं देशः परः स्मृतः || इतः स्वर्गश्च मोक्षश्च यतः संप्राप्यते नरैः || प्. ३२७) देशेऽस्मिन् भारते पुण्ये प्राप्यमानुष्यमध्रुवम् | यः कुर्यादात्मनि श्रेयः तेनात्मावञ्चितश्चिरम् || भोगभूमिः स्मृतः स्वर्गः कर्मभूमिरियं मता || इहयत्कियते कर्म स्वर्गेतर पभुज्यते | छिन्नमूलस्तरुर्यद्वदवश्यं पतति क्षितौ | पुण्यलक्ष क्षयात्तद्वन्निपतन्ति दिवौकसः || देवासुराणां सर्वेषां मानुष्यमति दुर्लभम् | तत्संप्राप्तस्तथा कुर्यान्नगच्छेन्नरकं यथा || मानुष्येऽपि च विप्रत्वं यः संप्राप्तस्सदुर्लभम् | न करोत्यात्म निश्रेयः कोऽन्यस्तस्मादचेतनः || यतो नारकिणां पुंसां मधर्मा देव केवलात् | क्षणमात्रेण भूतेभ्यः शरीरमुपपद्यते | तद्वद्धर्मेण चैकेन देवानामुपपादितम् || सद्यः प्रजायते दिव्यं शरीरं भूतसारतः | धर्मरज्वा व्रजेदूर्ध्वं पापरज्वा व्रजेदधः | न हि देह भृतां शक्यं त्यक्तुं कर्मशुभाशुभम् | गच्छतस्तिष्ठतो वापि तदवश्य भवेत्ततः || अधर्म विनिवृत्तौ तु भवेत् पुण्यमकुर्वतः | धर्मत्यागादधर्मश्च स तिष्ठेन्निश्चलः कथम्? || तथा - कर्मतश्च शरीराणि विविधानि शरीरिणाम् || प्. ३२८) कर्मोदयाद्भवेत् सृष्टिः अपरास्तैः प्रियं विदुः | ईश्वरो व्यञ्जकस्तेषां भवेत्कर्मानुसारतः || इति || धरातलादयः सप्त पातालानि पदानि च | तलाख्यं सर्वदा ज्ञेयं प्रणवेनि तलं स्थितम् ||
SKलितलन्नति संस्थं तत्सुतलं च शिवायगम् | तलातलं ध्रुवं ज्ञेयं नमः संरथं रसातलम् || महातलं नतौ ज्ञेयं इति पातालानि च मीरितम् ||? पातालाधिपदे * * * हाटकेश्वर संज्ञका | कूश्माण्डोधिपतिस्तेषां स च रुद्रः प्रकीर्तितः | अयः कालानलो रुद्रः प्रणवाक्षरसंस्थितः | पीतरक्तसितश्वेत चण्डरश्मिभिरावृतः || रुद्रैश्च रुद्रकन्याभिः आवृतः परमेश्वरः | एवमध्वा समाख्यातः संक्षेपेण क्रमेण च || व्याप्यव्यापकतो ज्ञेयो दीक्षाकालेऽप्युपासते | पदेष्वन्तर्गतामन्त्राः पदाध्वा वर्णमध्यगः || भुवनान्तर्गता वर्णाः नीतयोरसितानि च || कलास्वन्तर्गतानीह तानि तत्वान्यनुक्रमात् | प्. ३२९) शक्तयस्ताः पराशक्तेः पञ्चभेदव्यवस्थिताः | ययादौ पार्थिवे तत्वे कर्मभोगानुवर्तिते || निवृत्तिः सा कलाज्ञेया सोमपानुक्रमेण तु | शिवरागानुरक्तात्मा स्थाप्यते पौरुषे यथा | सा विज्ञासा परिकला ज्ञेया ततो विद्या निगद्यते || माया कार्य विवेकेन वेत्ति विद्यापदं यथा | सा कला परमा ज्ञेया विद्या ज्ञानक्रियात्मिकाः || मलमायाविकारोऽसौ * * * पुंसः पुनर्यथा | सा कला शान्तिरित्युक्ता साधिकारास्पदप्रदा || शक्त्यतीतकलाद्वैत निर्वाणा नन्दबोधता | शिखामारभ्य फालान्तं फालं च हृदया वधि | हृदयं नाभिपर्यन्तं नाभेर्जानु द्वयानुगम् || जानुभ्यां पादपर्यन्तं शान्त्यतीतादितः कलाः | शिष्य देहे न्यसेद्वध्वा मन्त्रैर्हृदय सम्पुटैः || दीक्षाकाले गुरुस्तासु षड्विधाध्वादिकञ्च यत् | पूर्वमुक्तं तु तत्सर्वं भावयेद्धृदयो गतः | ततः संशोधयेन्मन्त्री कालास्ताश्च विलोमतः || क्वचिदेवं समाख्यातं क्वचिद्विस्तारतो यथा - कलाः पञ्च * * शोद्देहे शान्त्यतीतादितः क्रमात् || प्. ३३०) विन्यसेत् स्वस्वमन्त्रेण मस्तके वदने हृदि | नाभा वधः शरीरे च दीक्षाकाले गुरूत्तमः || तत्र तत्र विधानेन तत्वानि भुवनानि च | पदानि मन्त्रवर्णानि बीजानाडिकरवानि च || विषयाणी गुणानीति तथा वस्थानि जानि च | मण्डलान्याश्र युक्तानि वर्णभावयुतानि च ||
SKसांकानि योजना * * * संयुक्तानि न्यसेत्क्रमात् | तद्यथा - तत्वेद्वे शान्त्यतीतायां क्रमाच्छक्ति सदाशिवौ | तथानाश्रित शक्त्यादि निवृत्तिर्यावदन्तगाः | ताभिराधिष्ठिता न्यासां भुवनान्न्यून विंशतिः || क्वचिदिन्धिकमारभ्य यावदन्तमनाश्रितम् | ज्ञेयानि भुवनान्यष्टौ ततस्तत्र पदं यथा || नादजं प्रणवं विद्धि पदं साक्षाच्छिवात्मकम् | अकारादि विसर्गान्तं वर्णान् षोडश विन्यसेत् || ईशान नेत्र मन्त्रौ च बीजेद्वे नादभौ तथा | नाड्यौ कुहूश्च संशोखि देवदत्त दनंजयौ || वायुवदन कर्णौ च चन्द्रये विषयं खम् | गुणशब्दं तथा स्थानं तुर्यातीतं च पञ्चमी || मण्डलं व्योम संज्ञं च शुद्धस्फटिक सन्निभम् | व्योमरूपं सुवृत्तं च नियुज्यैः कोटियोजनैः || प्. ३३१) उच्छ्रितं तदसंख्याभिः कर्तारञ्च सदाशिवम् | हृत्संपुट नमोन्तेन कालभोगेन विन्यसेत् || शिखामारभ्य फालान्तं ध्यायेत्सर्वं सितं शिशोः | ईश्वरञ्च तथा विद्यां शान्तौ तत्वद्वयं न्यसेत् | कलाणुना तथेच्छाति वामान्तैश्शक्तिभिस्तथा || अधिष्ठितैक त्रिंशच्च भुवनानि तथा पुनः | व्योमव्यापि समारभ्य ध्यानाहार पदावधि | पदानि रविसङ्ख्यानि बिन्दुरूपाणि तानि च || द्वौवर्णौ चक्षुषौ मन्त्रौ तथैवात्र तृवर्मणि | अलंबुषायशा नाड्यै बीजे बिन्दुयकारकौ || कूर्मः * * * कृकरोवायु त्वत्काराणि त्रये तथा | विषयश्च गुणश्चात्र स्पर्श शब्दो यथाक्रमम् || मण्डलं वायसं कृष्णं चञ्चलञ्चषडश्रकम् || अङ्कितं बिन्दुभिः षड्भिः स्पर्शमेवास्य रूपकम् | रूप कोटिभिरुच्छ्रायं योजनानान्तु वायसम् || तुर्यवस्थाञ्चितञ्चात्र कारणं चेश्वरं न्यसेत् | श्यामवर्णमिदं सर्वं बालाच्च हृदयावधि || ध्यायन् देहे शिशोस्तत्र पाशसूत्रे च देशिकः | तदधो विन्यसेद्विधा कलापाशं स्वमन्त्रतः || तत्र मायादि रागान्त षट्तत्वानि च विन्यसेत् || प्. ३३२) अङ्गुष्ठ मात्रा भुवनाद्यावद्वाम पुरन्ततः | विन्यसेद्भुवनान्यत्र सप्तविंशति तानि च ||
SKपदमोकारमारभ्य व्योमिन् व्योमिन् पदावधि | एकविंशति सङ्ख्यानि भुवनानि पदानि च | सादिरेफान्त षड्वर्णां मन्त्रौसौ च शिखे तथा || बीजेमारौ तथा नाड्यौ पूजाञ्च करिजिह्विकाम् | व्याननागौ तथा वायू चक्षुः पादौ तथेन्द्रिये || रूपञ्च विषयं शब्दस्पर्श रूपगुणानि च || मण्डल तैजसं युक्तं दाहाकार त्रिकोणगम् || स्वस्तिकाङ्कं तदुच्छ्राय योजनायुतकोटिभिः | कारणं रुद्रदेवञ्च तथा वस्थां सुषुप्तिकाम् | सर्वमेतन्न्यसेत्तत्र भस्वराभं गुरुत्तमः | हृदयान्नाभि पर्यन्तं शिष्य देहे च संस्मरेत् | तदधो विन्यसेत्पाशं प्रतिष्ठा कलयान्वितम् || स्वाणुना पुरुषादीनि तत्वानि च बलावधि | चतुर्विंशति संख्यानि भुवनानि च संख्यया | पञ्चादशाधिकान्यत्र षड्भिः श्रीकण्ठ भौवनात् || लाकुलान्तत स्त्रिंशत्पदानि द्विविधानि च | व्यापिन् व्यापिन् पदाच्छर्व शर्वान्तानीहतानि च || उकार जान्यधस्तत्र यादिकान्ताक्षराणि च || प्. ३३३) पञ्चविंशति सङ्ख्यानि वामदेवशिरस्यणून् | बीजे उभौ तथा नाड्यौ गान्धारी च सुषुम्नया || समानोदानवायू च जिह्वावायु तथेन्द्रिये | रसं च विषयं शब्द स्पर्शरूपरसानि च || गुणानिवारुणं बिम्बं श्वेतमम्भोज लाञ्छितम् | अर्धचन्द्रवदाकारं स्रुवन्तं शीतलात्मकम् || घर्घ्यरारावमुखरं कोटिसाहस्र योजनैः || उन्नतं स्वस्तिमावस्यां कारणं गरुण्डध्वजम् | सर्वमेतत्स्हितं शिष्यान् नाभेर्जानुद्वयानुगम् || भावयञ्चिन्न्यसेत्तत्र पाशसूत्रे च तद्गुरुः | तदधो विन्यसेत्पाशं तन्निवृत्ति कलामयम् || स्वविष्णुना पार्थिवं तत्वमेकञ्च भुवनानि च | कालाग्नि भुवनान्तानि भद्रकालादिकस्तथा || दशोत्तर वितान्यत्र तथा कारोद्भवानि च | पदं भवभवारभ्य यावदोकारमन्तिकम् || अष्टाविंशति संख्यानि सद्यो हृदय शम्बरे | बीजे अलौ तथा नाड्या विडापिङ्गेऽथ वायवम् || प्राणापानौ तथा घ्राणोपस्था विन्द्रियाण्यपि | विषयं गन्धमेवैकं शब्दादि गुणपञ्चकम् || मण्डलं पार्थिवं गौरं वज्रां किं कठिनं गुरुम् | प्. ३३४)
SKवेदाश्रं योजनानाञ्च शतकोट्युच्छ्रयं दृढम् | जगच्चावस्फुकञ्चात्र कारणं कमलासनम् ||? शुद्ध काञ्चनसङ्काशं सर्वमेतद्विभावयेत् | शिवो जानोश्च पादान्तं गुरु सूत्रे च विन्यसेत् || अत्रयो विशेषः श्रीसोमशम्भु पादैश्च | अस्त्रै वान्तर्गताष्षष्ठी तु मातुली || पैशाचं राक्षसं यज्ञे योनयोऽपि चतुर्दश | प्रथमाविष्ट देवानामष्टान्या देव योनयः || मृगः पक्षी च पशवः चतुर्थस्तु सरीसृपः || स्थावरं पञ्चमं सर्वं योनि षष्ठी तु मानुषी | पैशाचं राक्षसं याक्षं गान्धर्वञ्चैन्द्रमेव च || सौम्यं प्रजेश्वरं ब्राह्ममष्टमं परिकीर्तितम् | अष्टानां पार्थिवं तत्वमधिकारास्पदं मतम् || लयस्तु प्रकृतौ बुद्धौ भोगौ ब्रह्मा च कारणम् | ततो जाग्रदवस्थान्तैः समस्तैर्भुवनादिभिः || निवृत्तिं गर्हितां ध्यात्वा स्वमन्त्रेण नियोज्यते || इति | अलमति विस्तरेण || इत्यध्वालेशतं ख्यातः कथ्यते काल निर्णयः | शरद्वसन्तयोर्योगे दीक्षा कर्मविधौ वरः | तयोरसं भवेद्वर्षा विनान्यत्रापि शस्यते || चतुर्थीं नवमीं षष्ठीमष्टमीञ्च चतुर्दशीम् || प्. ३३६) शुभवद्रोपकर्णे च चन्द्रभागोपकण्ठतः | कावेरी गोमतीतीरे तापि तीरे महीतटे | गुह्यायतन तीर्थेषु नदीनां सङ्गमेषु च || भवनेषु च रम्येषु वनेषू पवनेषु च || पूर्व सौम्यप्लवे क्षेत्रे सर्वदोष विवर्जितः | मण्डपं विधिवत्कार्यं वक्ष्यमाण विधानतः || वेदिं च विधिवत्कृत्वा तोरणाद्युपशोभितम् | वेद्याः प्राच्यां प्रतीच्यां वा कुण्डमेकं स लक्षणम् || नवपञ्चाथवा त्रीणि श्रीमतां शान्तिहेतवे | एवं सञ्जातसामग्री गुरुर्दीक्षां समारभेत् || यागारम्भे शिरः पूजा कर्तव्या शिवमिच्छता || उक्तञ्च कालोत्तरे - गुरुयागं प्रवक्ष्यामि सङ्क्षेपात् पार्वतीसुत | देवतादर्शने कार्या तथासौ सिद्धि दर्शने || विवाह यात्रा समये तथा दुःखस्वप्न दर्शने | स्वप्न प्राप्ते तथा मन्त्रे यागारम्भे विषेषटः ||
SKसामिधं हस्तमात्रान्तं कमलं वक्तये च्छुभम् | आसनं तत्र संकल्प्य मूर्तिभूतं गुरुं न्यसेत् || शिवमावाहयेत्तत्र ब्रह्माअङ्गसहितं तथा | पुष्पगन्धादिभिः पूजां मूलमन्त्रेण कल्पयेत् | शिवसाष्टशतं जप्त्वा तथा होमं समाचरेत् || गुरुं सदा शिवं ध्यात्वा प्रणिपत्य पुनः पुनः || प्. ३३७) तदाज्ञां प्रार्थयित्वाथ कुर्याद्यागादितः कुरु | विधानमेतत् कथितं गुरौ शिवपदे गते || यदि सन्निहितस्तं च पूर्ववत्पूजयेद्गुरुम् | आज्ञां गृहीत्वा यत्नेन ततः कर्म समाचरेत् || इति || अथ स * * * * * दीक्षाक्रमं कथ्यते || कृतकृत्य क्रियास्सिद्धः सायाह्ने यागमन्दिरे | द्वारदिक्पाल पूजादि मन्त्रतृप्त्यवसानकम् || पूर्ववत्कूर्म निर्वर्त्य देशकालादि सिद्धये | दुर्निमित्ताय नोदार्थं सुनिमित्तोपपादने || भक्तापूर्णेन पूर्णान्तं प्रतिकर्म शतं शतम् | तथा शिवस्य प्रवेशार्थं प्रतिशिष्यं शतम् || ततो वावगतान् देवान् वह्नौ सम्पूज्य तर्पयेत् || पञ्चाज्याहुतिभिः सम्यक् प्रत्येकं तत्तिलादिभिः | रजांसि मण्डलार्धं तु करणीयं घटिकां सिताम् || पाशसूत्रं यथा पूतं तीक्ष्णवाणीं स कर्तरीम् | वीक्षणाद्यैः ससंस्कृत्य मन्त्रयित्वा शिवाणुभिः || सम्पाताभिहुतान् कृत्वा चरुं संसाध्य पूर्ववत् | कृत्वा भागत्रयं तत्र भागमेकं मधुप्लुतम् | हुत्वाचान्तर्बलिं दत्वा समाचम्य प्रसन्नधीः || कृतमन्त्रतनुः श्रीमान् सर्वालंकारभूषितः || प्. ३३८) स्थण्डिलेशं समभ्यर्च्य करं शैवं स्वके न्यसेत् | उष्णीषं च यथा पूर्वमस्मिन्नवसरे तथा || शिवकुम्भनिवेशे च निमित्तान्युप लक्षयेत् || तद्यथा - कालोत्तरे - देवा विमानैर्दृश्यन्ते नित्यं तच्छुभदं मतम् | कुसुमानि विचित्राणि यदा योम्नः पतन्ति च || शस्तञ्चैन्द्र धनुः पुंसां सौम्यवृष्टिर्विशेषतः | उल्कापातोऽथ भुकम्पो निर्यातं केतु दर्शनम् || महावायु प्रवृत्तिश्च धूमनीहार दर्शनम् | पांसु पाताल वर्षा वाऽकाशे शकुनाहितम् ||
SKशिखी हंसशुकादीनां मधुरालाप इष्यते | भानुरश्मि समायोगात् दम्भसः पतनं शुभम् || शङ्खदुन्दुभि जीमूतं वल्मीकान्धवनी शुभः | आचार्या विप्रनारीणां न ने ज्ञानाञ्च दर्शनम् || हेमन्तु तत्सदाशस्तं मधुमांसादि यत्नतः अम्बुजानां च पुष्पाणां वृषभस्य तु दर्शनम् || तथा हस्ति तुरङ्गाणां दर्शनञ्चाति शस्यते | खरोष्ट्र महिषव्याल प्रतिनाग्नादयश्शुभाः || वाक् प्रशस्तं तथा शस्तं वाग्दुष्टो नेष्यते ध्वनिः | अकस्मात्कलहो नेष्ठः प्रमादाद्दारुणोरवः | प्रसादकार वृक्षाणां साधूनां दर्शनं तथा || प्. ३३९) यागः कार्यश्शुभेष्वेवमशुभेषु सृतस्य च | अघोरेण शतं होम्य फट्कारान्तेन शान्तये || इति || देवदारुवनेतस्मिन् प्रत्ययोद्यापि दृश्यते || दन्तकाष्ठशिखावृद्ध्या जन्तोर्दीक्षां कृतश्शिवः | ब्रह्मादि स्थावरान्तोयं देही यः कश्चिदिष्यते || शैवाद्दीक्षा विनानस्यात्सोऽधिकारी शिवार्चने || तदुक्तं पुष्कर पारमेश्वरे - देवदारुवने पु * * * दाद्दीक्षिता भुवि | महामण्डलयागश्च स्वयं निर्वर्त्यतो मम || इति || तस्मात्तस्यैव वास्यन्न्यजन्तोर्भक्तस्य शाङ्करे | देशिकीं मुक्तिमास्थाय दीक्षयः क्रियते शिवः || इति मत्वा शिवं भक्त्या वाक्यं विज्ञापयेदिदम् | यदर्थोऽयं मयादेवं भवद्यागः प्रवर्तितः || त इमे पशवः शान्ता द्वारि तिष्ठन्ति भावितः | कृत्येप्यत्राहमाज्ञप्तः भवता गुरुमूर्तिना || एषामनुग्रहं तस्मान्मामधिष्ठाय सम्प्रति | करोतु भगवानेन भुक्तिमुक्तिप्रदः प्रभुः || एवमस्त्वित्यनुज्ञाय शिवेनाधिष्ठितः स्वयम् | अद्वैतं भावयेत्तेन पञ्चाधिकरणात्मना || तद्यथा - स्थण्डिले साक्षिभूतोऽहं कुम्भस्थोयक्ष रक्षकः || प्. ३४०) अग्ना बाहुति भोक्ता च पाशाश्चावलकः पशो | आत्मन्यनु गृहीता च विहीनः कृत्य भेदनः || अहं तद्योजना स्थानं षड्गुणः परमं शिवः || इति भाव स्थितिं कृत्वा निर्गच्छेद्यागमण्टपात् | संमुखे पश्चिमद्वारे कृत्वा मण्डलकद्वयः ||
SKअस्त्रेण चतुरश्रं तत्पूर्वोदग्र कुशाक्षतः | प्रणवासनके तत्र शिष्यं स्नातं मुपोषितम् || सितवस्त्रद्वयोपेतं शिवभक्तं परीक्षितम् | बुभुक्षुं प्राङ्मुखं स्थाप्यं मुमुक्षुञ्चोत्तराननम् || ऊर्ध्वकायं स्वयं पूर्वा * * * नवः स्थितः || मूल ब्रह्माङ्ग सङ्क्षिप्त पश्वर्घ्यं शक्तिगोचरम् | कृत्वा शास्त्राम्बुभिश्शिष्यं प्रोक्षयेद्विघ्नशान्तये || मूलमन्त्रमति स्पष्टं द्वादशान्तं समुच्चरन् | ततः सृष्ट्यासमानीय स्फुरद्बिन्दोः स्थितं स्मरेत् || तत्तेजः शिवता जात दृष्टिभ्यामवलोकयन् | सृष्ट्यान्यथा वातं शिष्यं तद्धामहत कल्मषम् || अस्त्रेणाद्याम्बुना भ्युक्ष्य ताडयेद्धृदि भस्मना | पूर्वोक्तविधिसिद्धेन चोर्ध्वाधो भुक्तिमुक्तियोः || तेन विस्रस्त पाशौघमात्मानं हृदि बावयेत् | ततश्चाभ्युक्ष्य शस्त्रेण वारिणा शिवकारिणा || प्. ३४१) शस्त्रेण विकिरन् देहे प्रक्षिपेत्पाशमर्दकान् | ततश्च वर्मणागात्रेऽजं संयोजयेच्छिशोः || पाश शान्तिर्भवेत्तेन सिक्त मात्रेण वारिणा | नाभेरूर्ध्वं त्रिधास्त्रेण पाशस्तो हायनाभ्यधः || कुशाग्रमूलैरालभ्य हृद्यात्मानं निरोधयेत् | चतुर्मण्डल मध्यस्थं स्फुरत्कारसमप्रभम् | अमतिवाकभिक देहस्यमात्ममन्त्रेण रोधयेत् || ॐ हां हां हां आत्मने नमः || पुनराप्यायनाभ्युक्ष्य वर्मणा वा शिवाणुना | अष्टपुष्पिकया तस्य मूर्ध्निशम्भुं समर्चयेत् || शुक्लपुष्पैस्ततस्तस्य ललाटे तिलकं ददेत् | चन्दनेन सितेनैव दूर्वातण्डुल सर्षपैः || हस्ते पुष्पाक्षतं दत्वा नेत्रं पट्टादिवाससा || यद्वा खण्डित वस्त्रेण सितेन सदसेन च | वीक्षणादि विशुद्धेन मन्त्रि तेन हृदाणुना | नेत्रेण नैव बध्नीयादनालोकाय पापिनाम् || उक्तञ्च - स दत्तोनेत्रपट्टोयः तदन्येषामदर्शनम् | दर्शनाद्वासनायैव पाशबीजायते पुनः || तेन ते नात्र बन्धः स्यात् पशुपाश विघट्टनः || इति || तं प्रदक्षिणमानीय देवदक्षे स्वदक्षिणे || प्. ३४२) सौम्यास्यमुपवेश्याथ मण्डले तं चलासने | ततो विज्ञापयेच्छम्भुं वाक्यमेताच्छिशुं प्रति ||
SKअधमात्मा शिवत्वार्हा शिथिलीकृतबन्धनाः | निजशक्त्या मयैवायं पाशपातो विमद्वजः ||? तदमुंताम्र संस्थानं स्वगुणोदय योग्यकम् | स्पर्शवेध क्षिप्राख्यः शिवोऽहञ्च परिप्रभुः || सस्पर्शाद्विमलीकृत्य कलाधौतमिवाचिरात् | करोमि गुण सम्पन्नं तदामस्तन भूषणम् || ततः शिष्येण सन्धाय स्वासनं विष्टरेण तु | अङ्गुष्ठ तर्जनीभ्यां तु पुष्पेण देशिकः शुशुम् || सन्ताड्य हृदि शस्त्रेण प्रविशेन्नाधियोगतः | भूतशुद्ध्यादिकं कृत्वा पुनः शिष्येण पूर्ववत् || हृन्नाभि बिन्दुदेशेषु क्रमाच्छम्भु * * संस्मरेत् | पुनरागत्य चात्मानं देशिकः शुचिदेहतः | अष्ट पुष्प्या समभ्यर्च्ये शिवहस्तं स भासुरम् | मूलं लयान्तमुच्चार्य मूर्ध्नि तस्य समर्पयेत् || ब्रह्मरन्ध्र प्रविष्टेन सहसाहत कल्मषम् | शिष्यं हृत्पृष्टकं सर्वं तेन हस्तेन चालभेत् || मूलमन्त्रं घृणं कण्ठे पुष्पं देवे प्रदापयेत् | अपसार्यन्धवस्त्रं तत् शम्भुर्दृष्ट्वा प्रणामयेत् || प्. ३४३) कुण्डे याम्ये स्वके दक्षे शिष्यं संस्थाप्य मण्डले | कुशाग्रमात्मजं यान्तं मूलं तत्तत्करे हृदा || दत्वा यद्वा विपर्येण सुषुम्ना रूपकंशिवम् | कुशम् || नाडीसन्धानकं कुर्यादात्मनावह्नि शिष्ययोः | शिवहस्त स्थिरत्वार्थं शतमूलेन पूर्णया || प्रायश्चित्तं तथास्त्रेण हुत्वा संसिञ्चयेच्छिशुम् | इत्थमीशकर स्पर्शादीश सा रूप्यतां व्रजेत् | उक्तञ्च - शिववद्भावयेन्नित्यं आत्मानं देशिकोत्तमः || सुगन्धिगन्धं दन्धाढ्यं करं कृत्वा स्वदक्षिणम् | तन्मध्ये विन्यसेद्यत्नाद्वप्त्वाङ्गसहितं शिवम् | गन्ध पुष्पपवित्राद्यैः पूजयेत् परमेश्वरम् | तस्मिन् तेजः परं ध्यात्वा सर्वकर्माणि कारयेत् || शिवहस्त इति प्रोक्तः पाशानां नाशने परः || अनेना लब्धमात्रास्ते पशवः पाशगोचरात् | निष्क्रान्तः शिवतां यान्ति स्वच्छन्दा विगतज्वराः || भवन्ति मन्त्रसामर्थ्याच्छास्त्रे कालोत्तरात्मके || इति || तथा - सव्यं प्रक्षाल्य हस्तं स गन्धाद्यालङ्कृते | ब्रह्माणि करशाखासु पञ्चपञ्चस्वनु क्रमात् ||
SKगन्ध मण्डलकं कृत्वा वामाङ्गुष्ठेन मध्यतः | आवाहयेत् ततोदेवं वेद्याराजपरं शिवम् || प्. ३४४) पूजयेदर्घ्य पाद्याद्यैः गन्धधूप पवित्रकैः | ब्रह्मपञ्चक संयुक्त शिवेनाधिष्ठितं शुभम् | पाशच्छेदकरक्षेमी शिवहस्त इति स्मृतः || अनेना लब्धमात्रोऽसौ देहीनिर्मुक्त बन्धनः | प्रयाति शिवसारूप्यं निर्मलो विगत ज्वरः || इति || यो विशेषो भवेदत्र देशिकैर्विमलेश्वरैः | सम्पाद्यमस्तके मन्त्रैः तस्य पूर्वविधानतः || सन्ध्यां शिवार्चन पश्चात्कारयित्वा ततोऽर्चितः | शिष्येण शिवकुम्भेन शिवाग्नौ देशिकेऽपि च || प्रणामं कारयेत्तेषु भ * * * वैर्देशिकादिषु | सामान्य समयीह्येवं कुर्याच्छुश्रूषणार्चने || तदासौ सर्वयागेषु प्रवेश्याद्यधिकार भाक् | अन्यथा न भवेच्छिष्यः तस्मात्तं बोधयेद्गुरुम् || इति | अथ प्रकाशयेत्तस्य भोक्तान् सत्तमयान् गुरुः | तत्र निष्ठः प्रसन्नात्म श्रद्धावान् गुरुवत्सलः || शिष्यश्चेच्छिरमच्छिन्नः शक्तिपात वशंगतः || तदा निर्वाणदीक्षा कार्या तस्य न चान्दनम् | उक्तञ्च - शिष्यान् परीक्ष्ययत्नेन दीक्षयेत् प्रतिबोधयेत् || शिष्यदोषैः स्वदोषैश्च साध्यते दीक्षको गुरुः | यागं विसृज्य चण्डेशं पूजयित्वा यथापुरा || प्. ३४५) भूमिं संशोध्य यत्नेन पञ्चगव्यादिकं पिबेत् | ॐ यम दीक्षा | श्रीमहागणपतये नमः - यतो नैर्वाणकी तस्या द्विजिह्वापादनं विना | अतस्तस्य द्विजत्वं च यथा शास्त्रं निगद्यते || उक्तञ्च - नाद्वितो युज्यते सिद्धान्न च निर्वाणमश्नुते | द्विजोऽपि यतस्तेन कुर्यात्तद्द्विजसत्तमम् || इति || ननु यस्य वैदिके द्विजत्वं नास्ति तस्य द्विजत्वमिहयुक्तमापादयितुम् | यस्य पुनर्वैदिके द्विजत्वं विद्यते तस्य पुनरपि द्विजत्वापादनमयुक्तम् | अव्यवस्था हेतुत्वा सत्यम् किन्तु तद्वैदिक द्विजत्वं शरीरस्यै वोक्तं नत्वात्मनः | तथा च स्मृतिः - कार्यः शरीर संस्कारः पावनः प्रत्यवेह च | गार्ग्यैर्होमैर्जातकर्मक चौलं मौञ्जिनीं * * नैः || इति |
SKतत्संस्कारेणात्र प्रयोजनं नास्ति | यतस्तस्मिन्वैदिक द्विजत्वे सत्यपि कर्मायत्ता गतिरिति | तथा च स्मृतिः | जन्मना ब्राह्मणो वास्याच्छूद्रोयो वा * * सा परः | भविष्यत्कर्मणा क्रान्तास्तत्कृत बुद्धयः ||? शान्ताः क्रूराश्च वेष्टान्ते स्वर्ग नरकाय वा | मृतो विप्रस्स चण्डालो ब्राह्मणो भावयेत् स च || इति || तथाहि - भारतेऽपि - पशवोऽपि यथा देवा देवाश्च पशवस्तथा | ब्राह्मणाश्च तथा श्वानः श्वानश्च ब्राह्मणस्तथा || प्. ३४६) इति यदुक्तं * * * भिर * * * शुचीह कृतीबलमेकः | पूर्वजन्मोत्थमन्यदुपानय फलमेकं यज्ञ कृत्वोर्थकमन्यत् | स पिण्डीकृतमन्यन्ते तेषां कृतः कृतम् | पाठ्याभो चतुरेशं पदमत्व तस्मादत्रात्मनः संस्कारोऽभिमतः न शरीरस्य | उक्तञ्च - न शान्तेन शरीरस्य संस्कारः प्राणनो मतः | यदि जातेस्तदै * * स्मिन्दीक्षिते ख यदीक्षणम् || प्राप्तं तेन गजातेन नस्तु जटत्वान्न तवोमतिः |? चिद्रूपेण कृतप्राहः सर्वानुग्राहकः शिवः || इति | तथा कालोत्तरे - न शरीरस्य संस्कारः रोचना तेन कर्मणः | आत्मनः कारयेद्दीक्षा मलानादिमलकर्णिनः ||? संयोग वियोगयोः न चोत्पत्ति विनाशाभ्यां नापिजातेर्विधीयते | चेतनस्यापि शुद्धस्य क्षेत्रज्ञस्य शरीरिणः | ज्ञ स्वभावात्मनः कर्तुःस्तस्य संस्कार इष्यते || इति || अस्याप्ययमेवार्थः - अत्र राजन्ते वैदिकवन्न शरीरसंस्कारः क्रियते यतस्सोऽपि भोक्तृत्व हेतुरेव स्यादिति न संयोग वियोगयोरिति | याज्ञकृत्यवदुत्कृष्टफल संयोगार्थं निकृष्ट कर्मफल वियोगावचन संस्कारः | यतंक्षी तस्मिन् कालान्तर वशात् कर्मान्तरापत्तिरवश्यं संजायते | तस्मात्तयं निशम्? न चोत्पत्ति विनाशाभ्यां न सर्गसंहृति विनाशाय संस्कारः कर्मक्षयः क्रियते | यतस्तस्मिन् सत्यपि प्रलय केवलाद्यवस्थायामेवाव स्थानम् | प्. ३४७)
SKन च मोक्षः स्यादिति | वापि जातेर्विधीयते | शरीर प्रारब्ध कार्य परिमाणा भावात् | तर्हि कस्य क्रियते संस्कार इति | आह चेतनस्येत्यादि चेतना सुखदुःख मोह लक्षणा शक्तिः तथा सहसंयोगात् चेतन आत्मा अपि तस्यापि शुद्धस्याणवादि मलत्रय युक्तस्य क्षेत्रज्ञस्य क्षेत्रे शरीरे सुखदुःखादिकं जानातीति | तथा पिङ्गं सूक्ष्मशरीरम् चास्यास्तीति शरीरी | तस्यज्ञ स्वभावस्य सिद्धमस्यात्मनः कर्तुः अस्वतन्त्रस्य स्वयमेव भोगं भोक्तुं मोक्षं गन्तुं वा न समर्थस्य देवाधीनेस्येत्यर्थः | उक्तञ्च - अज्ञो जन्तुरनीशोऽयं आत्मनः सुखदुःखयोः | ईश्वर प्रेरितोगच्छेत् स्वर्गं वा श्वभ्रमेव वा || इति || एवं विशिष्टस्य तस्यात्मनः शिवत्व व्यक्तये संस्कार इत्यर्थः | अलमति विस्तरेण | प्रकृतमुच्यते - विधाय पूर्ववत्सर्वं यागाद्यं शिष्यवेदनम् | शिवहस्तञ्च दत्वाग्नौ शक्तिमादायका न्यसेत् || अत्र मायीयपथानेक कुटिलास्तरेण शुद्धविद्यादीपे क्रियात्मिकां - शक्तिं वागीश्वरीं देवीं वागीशञ्च सदा शिवम् | आवाह्याभ्यर्च्य सन्तर्प्य तयोर्भोगं? विभावयेत् || क्वचिज्ञलाणुना वागीश्वरी सदाशिवरूपिणे इष्टवासान्नौध्यत्रप्यर्थं पञ्चपञ्चाहुतीर्यजेत् || सञ्चिन्त्य रक्तौ श्यामौ वा पूर्वोक्त विधिना ततः || प्. ३४८) भावाहार विशुद्धोऽयं बीजदेश विशुद्धिमान् | द्विजो भवतु सद्रांशस्तु * * * * * * * || ततः शास्त्राम्बुना शिष्य * * * * * * * * | आत्मबीजवतास्त्रेण शिष्यं वक्षसि ताडयेत् || ॐ हां हां हां आत्मने हः हुं * * * * * * * | ॐ हूं हां हूं आत्मानं गृह्णामि हः हुं फट् इत्यादयः || वामायाः पूरकेणान्तः प्रवेश्य गुरुरात्मना | सामरस्यं विधायाथ कुम्भके * * * * दि | मूलमन्त्र शिखान्तस्थं जाला वह्निकलोपम् || रेचकेन शिखान्तस्थ सृष्ट्या वागीश वामया | प्रवेश्य देवीभूतं क्षिप्यमाण वै न तु ||? भावयन्ती क्षिपेद्देव्या शौचाद्यञ्च हृदाचरेत् | ॐ हां आत्मने नमः - अनेना भ्यर्च्य सन्तर्प्य योगतृप्तौ च पञ्च च | गर्भास्थानादि सम्पत्तौ शतं पञ्च शिवाणुना ||
SKहोमयेदग्नि जैश्च्छिन्नैः रूप या* * * * *य? कल्मषम् | षष्ठ गन्धे स भूहर्ता ब्रह्महा गुरुतल्पगः | सुरापोगुरुहन्ता च गोघ्नश्च कृत नाशनः || कृष्णेऽग्नौ शवगन्धे च गर्भे भ्रातृभि न विशेषं ज्येष्ठया हरेत् ||? प्. ३४९) शिखासम्पूटिते न्यून रुद्र स्वभावतां नयेत् | ॐ हां हं हां शनः भ्रमती स्त्रिविधे वह्निकम्पते हेमभर्तरि |? बन्धे स्फुटतिबालस्य निस्तेजा गर्भघातके | एवमादिषु चिह्नेषु सहस्रं बहुरूपिणा || पापभक्षणमन्त्रेण होमयेद्वा नवात्मना | अत्र पापमन्त्रभक्षण मन्त्रो यथा - शिखण्ड्यर्धेन्दुमारञ्च विश्वरूपं राशि स्थितम् | नारसिंहयमं वह्निं वायुं षष्ठस्वरान्वितम् || इन्दुबिम्बं शिखोपेतं खट्फिट्द्वयभूषितम् | प्रणवादि नमोन्तञ्च पापभक्षणसंयुतम् || प्रोद्धरेत् सौषधीमन्त्रं कूटमङ्गमतः शृणु | दीर्घषट्क समोपेतं कूटमङ्गमुदाहृतम् || पापभक्षणदेवस्य रूपं भिन्नाञ्जन प्रभम् | लेलिहानं धुराधर्षं गेधनेदं सुदुर्जयम् || विवृतास्यं महादंष्ट्रं रक्तवक्त्रं त्रिलोचनम् | रक्त मुक्त जटाचूडं सर्पमण्डलमण्डितम् || शूलकार्धधरं भीमं वरदत्ताय * * * * *? | व्याघ्र चर्मपरीधानं नागयज्ञोपवीतिनम् | सिंह पद्मासनासीनं ध्यायेद्घोर विनाशनम् || ॐ खड्गहस्ते क्षयरुद्रो खट्फट् पापत्रऽ * * भक्षणाय नमः इति | इति मन्त्र प्रयोगः प्. ३५०) || अथ नवात्मा च लिख्यते || विश्वरूपं समृध्यस्थं तेजस्य परिसंस्थितम् |? नारसिंहं ततोऽधस्तात् कृत * न्त * ययोर्न्यसेत् || तस्याध शक्रवर्णं तु रसार्णं तदसो न्यसेत् | [तस्याथ शक्रवर्णं तु रसार्णं तदसो न्यसेत् |] प्राणं तु दशधा न्यस्य ऊहकं तदधो पुनः अंशुमान्विश्वमूर्धस्थं नवात्मानं समुद्धरेत् || इति माया गर्भात्समुद्धृत्य शक्तिगर्भे नियोजनम् | आत्मनः शिव बीजत्वं गर्भाधान मुदीरितम् || माया सीमान्त मध्वानं यत्प्रत्युन्नयनं हि तत् ||
SKसीमन्तोन्नयनं ज्ञेयं जन्म * * * स्य पुत्रता | अत एवं शिवत्वेन बोधनं नाम कीर्तनम् || तदा दद्याद् यथा वर्णं नामवर्णं पदात्मकम् | शिव देवेश्वरान्तान्तं त्रिषुवर्णेष्वनुक्रमात् || देवान्तं कुलजे शूद्रेत्वसच्छूद्रेनणान्तकम् | शेषसंस्कार सिध्यर्थं ततः पूर्णां प्रदापयेत् || प्रविश्य पूर्ववद्वह्नौ विशिष्या * न? येत् | द्वादशान्तं पदं नीत्वा शिष्यदेहे नियोज्यताम् || आप्यायनाय तन्मूर्ध्नि सं सिञ्चेदघवारिभिः | ततः संपूज्य सन्तार्प्य विसृज्य पितरौ गुरुः प्. ३५१) हुत्वा वर्णां शिवाग्निभ्यां विधिच्छिद्रेशतं शतम् | चरुञ्च पूर्णया पश्चाच्छिष्येणाद्यापयेच्छिवम् || देववह्निगुणेशानाल्लोक पालांश्च साक्षिणः | कृत्वासंश्रावयेत् तस्य समर्थस्य सुशीलनः || पूर्वोक्त समयैस्सार्धमग्निकार्यञ्च नित्यशः || मा? मध्यापनं कार्यं प्रतिनिष्ठो भवाय च | आचारेष्व समर्थानामल्पमाचारमादिशेत् || प्रतिनेत व्रताङ्गानि पञ्चभूत जिगीषया | दन्डकौपीन भस्मानि संयमञ्च शिवोमणिम् | वीक्षणदि विशुद्धानि मन्त्रि तानि पवित्रकैः || सम्पाताहुति शुद्धानि कुम्भायं क्षणमात्रकम् | निधायादाया शिष्याय प्रणताय निवेदयेत् || अथवास * * * क्ष पतश्वाम समयानादिशेद्यथा | न शिवं शिवशास्त्रं च शिवाग्निं साधकं गुरुम् || नित्यम् न लङ्घयेत्तेषां छा?यामपि कथञ्च न | निर्माल्य भोजनं दानं लङ्घनं विवर्जयेत्? || शिवाग्नि गुरुपूजा च कर्तव्या जीवितावधि | अशक्तानाममून् सर्वान् पूर्वोक्त समयानपि || शोधयेद्देशिकः शम्भोः ज्ञानरब्धः ततो यथा | मण्डले कलशे वह्नौ सम्पूज्य परमेश्वरम् || विद्येश्वर गणेशान लोकपालानले क्रमात् || प्. ३५३) दिति | ननु ब्राह्मणानां जटाभस्मधारणं अयुक्तम् * * * केचित् | तदसन् श्रुति स्मृति पुराणा विरोधात् | तथागेन्तदमीय सूत्रे - चौलकर्म द्विजातीन्त्राणरं विशेषतः |? प्रथमेप्ते जटावापि कर्तव्या श्रुति चो * * * दिति || इति | तथा वायवीय सावर्णसंहितायाम् -
SKस्वायंभुवाद्यात्मवश्चतुर्दशहोदयाः कानर्ध सर्वाङ्गाछुभ्रयज्ञोपवीतिनः | त्रिपुण्ड्रालङ्कृताश्चाङ्ग जटारुद्राक्ष धारिणः | कमण्डलु धरास्सर्वे ह्यक्षमाला विराजिताः || शम्भोः पादाम्बुजं मूर्ध्ना माल्यं दत्वापवन्दिने | सावित्रीयं महाभागा कुन्देन्दु सदृशाकृती | रुद्राक्ष भूषणाश्शुभ्रो जटामकुटधारिणी || अक्षमालार्पितकराः कमण्डलु करान्विताः | कृष्णाजिनोपवीताङ्ग आषाढी पुण्यकीर्तनः || असेचता महादेअ योगिनां हृदयालयम् || इति || अथ लोक्षिसूत्रे मानस्तोकेन मन्त्रेण मन्त्रितं भस्मधारयेत् ||? त्रिपुण्ड्रंअ ब्राह्मणो विद्वान् मनसापि न लङ्घयेत् | श्रुत्या विधीयते तस्मात्तत्त्यागी पतितो भवेत् || मध्यमा नामिकाङ्गुष्ठैर्ललाटे भस्मना कृतम् | तत्त्रिपुण्ड्रं भवेच्छस्तं महापातकनाशनम् || इति || प्. ३५४) एवमादीनि वाक्यानि सन्तिस्मार्तान्यनेकशः | तस्मान्नैवा वधार्यं तद्वाक्यं लोकविडम्बनम् || || इति विशिस्ट समय दीक्षा जटाधारण विधिः || || ॐ श्रीमहागणपतये नमः || एवं निष्ठ प्रतिष्ठस्य शक्तिपात सुनिश्चलः | इति ज्ञात्वा परां दीक्षां कुर्यान्निर्वाण नामतः || अत्रापि पूर्ववद्यागं मन्त्रतृप्त्यव सानकम् | सृष्टया कलाध्व विन्यासं शम्भु कुम्भानलात्मसु | हस्तं शैवं स्वके दत्वा देवं विज्ञापयेदिति || परीक्षितौऽयं भगवान् मायातत्व शिवशक्तिनः | उत्कृष्ट जातिः सुचिरं रुद्रांशस्समयस्स्थितः || क्लिष्टोनिर्वाणकाङ्क्षी च भवदुःखादितः शिशुः | तदा तस्मिन्विमोक्षार्थं मयितिष्ठतु तां प्रभुः || तेनाधिष्ठित देहोऽयमाचार्यः स्वयमीश्वरः || निर्गत्य बहिरत्रापि मण्डलारोपणादिकम् | नेत्रबन्धं प्रवेशं च शिवहस्तञ्च पूर्ववत् || होमञ्च पूर्णयागत्वा मण्डले कुण्ठदक्षिणे | ऊर्ध्व कायं समारोप्य स्नानं शिष्यमुपोषितः || तच्छिखायां न बध्नीयात् शक्त्या सूत्रञ्च तद्यथा | नाति स्थूलमति शुभ्रं निर्गन्धि सदृशं शुभम् || प्. ३५४) काकर्कितं वितन्यापि त्रिगुणं त्रिगुणीकृतम् | अस्त्र प्रक्षालितं शुभ्रं * * * ब्यार्घ्याम्बु विशेषतः ||
SKपादाङ्गुष्ठाच्छिखां यावद्भुक्त्यै मुक्त्यै विलोमतः | पुंसप्त दक्षिणेभागे वामे वार्यादि योजयेत् || उक्तञ्च - कन्याभिः कर्तितं सूत्रं त्रिगुणं त्रिगुणीकृतम् | पञ्चगव्येन सम्प्रोक्ष्य गन्धतोयेन तत्पुनः || अर्घ्योदकेन देवेशि शक्त्या वाथ विचक्षणः | अर्चयित्वाथ तत्सूत्रमाचार्यः सुसमाहितः || पादाङ्गुष्ठ प्रदेशस्थं कृत्वा सूत्रं प्रसारयेत् | सूत्रं शिखा * * * * * * ग्राद्यावदङ्घ्रिकम् || तत्सूत्रं सकलीकृत्य सर्वै मन्त्रैर्विचक्षणः || इति || शक्तिसूत्रमिदं कार्यं ध्यायेत्पाश निबन्धनम् || उक्तञ्च - च्छेद्याद्भेद्याच्चते पाशाः सूत्रस्थानं तु विग्रहे | तस्मात्सूत्रमयोदेहो भावनीयः सदेशिकैः || इति || अथ प्रयोगक्रमः || ॐ हौं क्रियाशक्तये नम इति तद्देहे सम्पूज्य ताडनादिभिरादाय सूत्रे विन्यस्यापादि विधाय ततस्तच्छिष्य देहे ॐ हां शुद्धायै नमः ॐ हां पिङ्गलायै नमः | ॐ हां सुषुम्नायै नमः | इति सम्पूज्य नाडीसन्धानं विधाय ॐ हां इडायै हः हुं फडित्यादि मन्त्रेण ताडनभेदेन प्रवेश विश्लेषानन्तरं मृणाल तन्तुनिभाच्छिष्य देहादन्यु- प्. ३५६) च्छिन्न सन्तत्या पूरकसंहारिण्या दाय सूत्रे संयोज्याभ्यर्च्य निरुध्याव कुण्ड्याग्नौ सम्पूज्य सन्तर्प्य ततस्सुतासु ॐ हां वामायै नमः ॐ वामायै नमः ॐ हीं ज्येष्ठायै नमः ॐ हूं रौद्रै नमः | इति विन्यस्याभ्यर्च्य वह्नावपि सम्पूज्य सन्तर्पणार्थं सान्निध्यार्थञ्च पञ्चधा हुत्वा पुनश्च सूत्रे निरुध्याव कुण्ठ्य ततस्ताभिः पाशविश्लेषणादिकं विदध्यात् | उक्तञ्च - तिस्रश्च शक्तयः शम्भोः वामाज्येष्ठा च रौद्रिका | रोषे विश्लेषे उद्धारे सर्वत्र व्याहृतौजसः || इति ||
SKततस्तद्भावित निविहीलदेह सन्तान प्रतिरूपसूत्रे हृत्प्रदेशे ॐ हां सूर्यसोमाग्नि मण्डलाञ्चित हृत्पद्माय नम इति विन्यस्य तस्मिन् ॐ हां शक्तये नम इति विन्यस्याभ्यर्च्य रुध्वाव कुण्ठ्यग्नौ अपि सन्तर्प्य च | ततस्तत्र ॐ हौं विद्यादेहायनम इति व्यक्तं ज्योतीरूपं विन्यस्याभ्यर्च्याधि विधाय ततस्सप्तास्रजप्त पुष्पेण ॐ हां हं हां आत्मने नमः हः हुं फडिति शिष्यस्य हृदि सन्ताड्य अनेन वित्रस्तमात्मानं विभाव्य पुनरप्यनेनाणुना विभेदनं कृत्वा तद्धृत्पद्मकोशान्तिकञ्चिदुच्चलितं विभाव्य शिखासम्पुटितात्मबीजेन नमोन्तेन स्वदेहाद्रौद्र्या रेचकेन निर्गतस्य वामया पूरकेण प्रविश्य ॐ हां हं हां हूं आत्मानं गृह्णामि हः हुं फट् इति पूरक संहारिण्या तस्मादादाय स्ववामायात्मस्थं कृत्वा स्वात्मना कुम्भकेन समरसं विधाय ज्येष्ठया प्. ३५७) विश्लेष्य रौद्र्यारेचकेन मूलमन्त्राग्रस्थं ज्वलन कणोपमं द्ग्ग्रन्थिभेदेन द्वादशान्ताध्व शुद्ध्यन्तं नीत्वा ततः सृष्ट्या भ्रूमध्यमानीय पिङ्गलारेचकेन निःसार्य सूत्रदेहे वा मायापूरकेण प्रविश्य * * * आत्मने नमः इति मलादि पाशाव कुण्ठित कृष्ण वर्णमात्मानमुद्भवया वियोज्य वर्मणा वकुण्ठ्य निरुध्याग्नौ सान्निध्या कुर्यात् | पुनस्तदानीं कृष्णरूपाणां अवलं विभाव्य ॐ हां मलपाशाय भोक्तृत्वकारणाय नमः पुनर्धर्माधर्मात्मक सितासितरूपं विभाव्य ॐ हां कर्म पाशाय सुखदुःखमोह भोगकारणाय नमः अथ मायाकार्यं विचित्ररूपं विभाव्य ॐ हां माया पाशाय शरीरेन्द्रिय विषयकारणाय नम इति सम्पूज्याग्नावपि सान्निध्यादिकं कुर्यात् | ततः शिष्यशिरसि सूत्रेप्यच्छशक्तिव्युच्छिन्न सन्ततं ॐ हां मन्त्राध्वने नमः (ॐ हां तत्वाध्वात्मने नमः) ॐ हां पदाध्वने नमः ॐ हां वर्णाध्वने नमः ॐ हां तत्वाध्वात्मने नमः ॐ हां कलाध्वने नमः इति तमोरूपान् पदान्तव्यापकान् विन्यस्यार्चादि कुर्यात् | तथा चागमः - मन्त्रा पादानि वर्णैस्तु व्यापतानिह सन्ततम् | वर्णास्तु भवनैर्व्याप्ता तत्वैर्व्याप्तानि तानि तु ||
SKतत्वजानि तथा व्याप्ता कलाभिस्तु कला क्रमात् | शोधनीयाः प्रयत्नेन ह्यन्तपापं प्रकल्प्य च || इति | प्. ३५८) ततः ॐ हां मलपाशाधिष्ठात्रे शिवशक्तये नम इति तमो देहां शिवशक्तिं तद्देहे सम्पूज्यादाय सूत्रे संयोज्यार्चादि कुर्यात् || ननु शिवशक्ति रमला सा कथं पाश रूपा भवितु मर्हति | सत्यम् | किन्तु शोध्य शोधकेनानु रक्ता पाश इत्युपचारेणोच्यत इति | उक्तञ्च - तेषां माहेश्वरी शक्तिः सर्वानुग्राहका शिवा | धर्मानुवर्तनादेव पाश इत्युपचर्यते || इति || ॐ हां तिरोभाविकायै कुटिलाकृत एवमाशक्तये नम इति | तच्छिखामिव वा वह्नौ च तर्पणादि च विदध्यात् | उक्तञ्च - क्रियाशक्तिद्वया जाता वामाकुण्डलिनीति च | कुण्डली देह संक्लिष्टमपा ज्ञानावरोधका || इति || न्यूनातिरिक्त पूर्णार्थं शतमूलेन पूर्णया | हुत्वा तर्पणदीपौ च शान्त्यतीतादि तच्चरेत् || पाशानां ताडनादौ तु शक्त्यर्थं बन्धनादि षु || तद्यथा - ॐ हां हौं मन्त्राधिपाय शगहिय? शान्त्यतीत कला पाशाय हुं फडिति तथा दीपनं च | एवं शान्त्यादींश्च विधाय ततः शिखा भ्रूकर्ण नाभि जानु प्रदेश पाशसूत्रे कलाव्याप्ति परिज्ञानार्थं कुङ्कुमादिनारञ्जयित्वा ततस्तन्मस्तके ससूत्रे शिवं साङ्गं पागी विश्लेषणार्थं अष्टपुष्प्या समभ्यर्च्य तत्संविधौशतमूलेन पूर्णान्तं हुत्वा ततः पाशानामवलोकनादिकं विदध्यात् | तद्यथा - ॐ हां हौं मन्त्र भुवन तत्व मलकर्माया मायीय सविपास्त्रीरूपाय प्. ३५९)
SKप्रतिष्ठा कलापाशाय नम इति तत्व मल कर्माभे जालन्त शरीरे प्रतिष्ठा व्याप्तिमवलोक्य ॐ हां हां हां मन्त्र पदवर्ण भुवन तत्व मल कर्म माया मायीयश्ररूप तत्वरूपाय निवृत्ति कलापाशाय नम इति जानु प्रदेशात्पादाङ्गुलपदन्तरे निवृत्ति कलाक?मवलोक्य ॐ हां हौं ह्यैं हां मन्त्रादि पाश गर्हित शान्त्यतीत शान्तिकलाभ्यां नम इत्यादिभिर्मन्त्रैः शान्ति विद्या विद्याप्रतिष्ठा प्रतिष्ठा निवृत्ति पाशैश्च सन्धाय ॐ हां हौं हां मन्त्रादि पाशगर्हित शान्त्यतीत कला पाशाय हः हुं फडित्यादि मन्त्रैः प्रत्येकं (शान्तिकलाभ्यां नमः इत्यादिभिर्मन्त्रैः) विभेदनं विधाय पुनश्चपूर्वं मन्त्रमुच्चार्य शान्त्यतीतकलापाश व्याप्तिमवलोक्य ततस्तथा फडन्तेन कलाणुना विभेद्य पूर्ववत् प्रविश्य निश्चित्य ॐ हूं हां हूं मन्त्रादि पाशगर्हितं शान्त्यतीतकलापाशं गृह्णामि हः हुं फडिति पूरक संहारिण्या स्वस्थानाद्गृहीत्वा दायात्मस्थं कृत्वा कुम्भकेन ततो नमोन्तेन रेचकोद्भवाय तत्प्रवेशसूत्रे संयोज्य अत्र श्रीसोमशम्भु पादैर्यो विशेषः - स बीजायां तु दीक्षायां समयाचार पाशतः | देहारम्भक धर्माच्च मन्त्रसिद्धिफलादपि | इष्टापूर्तादिधर्माच्च व्यतिरिक्तं प्रबन्धकम् || चैतन्यरोधकं सूक्ष्मकलानामन्तरे स्मरेत् || इति | ॐ हूं हां हौं हां हूं मन्त्र पदादि गर्हितं शान्त्यतीत कलापाशं मध्नामीति शिखा प्रदेश सूत्रे ग्रन्थिं कृत्वा ॐ हौं मन्त्रपदादि प्. ३६०) गर्हिताय शान्त्यतीतकलापाशाय नमः इति सूत्रेऽग्नौ च संपूज्य स्वाहान्तेन तर्पणादि आहुति पञ्चकं दद्यात् | एवं शान्तिविद्यां प्रतिष्ठा कला स्वपि स्वस्वमन्त्रैः स्वस्वस्थाने विलोक्य सन्ताड्य विभज्य प्रविश्य गृहीत्वादानादि कृत्वा तत्तत्प्रदेशे * * * ? योज्य सूत्र रञ्जक स्थाने ग्रन्थिं कृत्वा सम्पूज्य सन्तर्पयेत् || एवं तर्पणादि तर्पणान्तानि षोडशकर्माण्युक्तानि | उक्तञ्च - तर्पणं दीपनं रक्तं पूजाहोमो विलेपनम् | सन्धिभेदे क्षणातार्ध वेशौ ग्रहण योजने ||
SKबन्धेषि तर्पणान्तानि षोडशैव कलासु च || अत्र ग्रहणबन्धनयोरर्थः सोमशम्भुपादैर्यथा - पाशादीनां वशीकारो ग्रहणं बन्धनं पुनः | पुरुषं प्रति निःशेषव्यापार प्रतिषेधने || इति || ॐ हौं कला पाशाधिष्ठायै शिव शक्तये नम इति शिष्यदेहादादाय सूत्रेण नियोजनं पूजनं अग्नौतर्पणं च विधाय ततस्तत्र शिवमष्ट पुष्पिकया सम्पूज्य शैवेनाधिष्ठितं पात्वोपविष्ठ्ये दक्षस्कन्धे पाशसूत्रं निधाय न्यूनातिरिक्त दोषमोक्षार्थमष्टोत्तर शतं पूर्णां दत्वा मूलेन हुत्वा ततः सद्योऽधिवासन पक्षे संपातन * * * मपूर्वं तदैव निवृत्त्यादि क्रमेण वक्ष्यमाण विधिनाशोधयेत् | दिनान्तरे चोपविष्ट शिष्यमस्तके सूत्रं विन्यस्य संपात प्रो * * * विधाय शिखातः सूत्रं अवतार्य ताम्रेशरावेना पुंसः त्रिप्रतितोदरे वा प्. ३६१) तत्सूत्रमस्त्र कवच हृदय सम्पूटस्थं विधाय शिवेनाङ्गेन सम्पूज्य द्वितीये * * * य संहिताया सम्पाताहुतिं विधाय पञ्चरङ्गिक सूत्रेण संवेष्ट्य कलशस्थाय शिवाय भगवन् पाशसूत्रमिदं रक्षेति शिशुं गुर्वाज्ञया समर्पयेत् | ननु - चरुं निष्पाद्य देवेग्नौ दत्वा भागद्वयं गुरुम् | देवाज्ञया बहिर्गत्वा प्राङ्गणे मण्डलत्रये || दक्षिणोत्तर संस्थाने प्रत्य * * गा स्थितोथवा | निवेद्यप्राङ्मुखं भुक्त्यै मुक्त्यै सौम्याननः शिशुम् || पञ्चब्रह्मगणं दद्याद्गव्यं सव्येन पाणिना | स कुशेनात्म तत्वाद्यैस्त्रिः पिबेदन्तरान्तरम् || आचान्तश्चरुकं ग्रासत्रयं भुक्त्वा द्वितीयके | तृतीये दन्तकाष्ठेन क्षीरिणा दन्तवच्चनम् || कृत्वाधौत्युग्रमुत्क्षिप्य भूमौ तत्पातमीक्षयेत् | प्रत्यक्पूर्वोत्तरेशाग्रं शस्तं नान्यदिगाननम् | तदा तद्दोष मोक्षार्थं अस्त्रेणाष्टोत्तरं शतम् || विस्मृतान्य वशान्त्यर्थं तथा पाशुपताणुना | तथा मूलेन पूर्णान्तं हुत्वा विज्ञापयेच्छिवम् || आचम्यकर्म शान्तान पर्यन्तो यस्त्वया विभो | पत्यानां पाकहानाय हातव्यो नात्र सन्निधिः || इति विज्ञाप्य - निरोधार्थं पुनर्दत्वा वह्निस्थं सन्निरोधयेत् | प्. ३६२)
SKनिर्वृत्यान्तर्बलिं पश्चादाचान्ता मन्त्रविग्रहा | संपूज्य स्थण्डिले शानं विज्ञाप्याश्चेन रोधयेत् || कुम्भस्थं च शिवं तत्र लोकेशान विधारयेत् | देवस्य दक्षिणेभागे गोमयेनोपलेपिते || कुशभस्म पटच्छन्ने भुक्तिमुक्ति व्यपेक्षया | पर्वदक्षिण शिष्यन्तं सन्निवेश्य मुखं शिशुं गुरुः || कृत्वा कालाध्व विन्यासं शिखां बध्वा शिवाणुना | अष्टपुष्प्या समभ्यर्च्य स्वप्नमन्त्रं समादिशेत् || ॐ नमः शम्भो त्रिणेत्राय पिङ्गलाय महात्मने | वामाय विश्वरूपाय स्वप्नाधिपतये नमः | आचक्ष्व देवदेवेश प्रपन्नोयत वान्तिकम् || स्वप्ने सर्वाणि कार्याणि हृदि स्थान न्यथानि वै | ॐ ह्रीं ह्लीं शूल पाणये स्वाहा | अनेन सप्तधा शिष्य मध्याप्य कवचाणुना वस्त्रेणाच्छाद्य वर्मणास्त्ररक्षितं स्नापयेच्छिशुम् || कुशभस्मतिलैः कार्यं परितोऽस्त्रेण रक्षणम् | निर्गत्य बहिराचार्यो दिक्पतिभ्यो बलिं क्षिपेत् || समाचम्य कृतन्यासः पञ्चगव्यादिकं भजन् | दीक्षा कर्म स्मरेत्सर्वं भूशर्याग्नि शिवः स्वपेत् || गोलकी वंशजातेन श्रीवज्ञान शम्भुना | कृतो दीक्षाधिवासोऽयं सिद्धान्तार्थानुसारतः || || इति दीक्षाधिनासविधिः || प्. ३६३) अथ प्रातः स्नानं यथा दृष्टं शिशोः श्रुत्वा त्रियामजम् | अवधार्यात्मदृष्टं वा शिवायेष्टा च वा वदेत् || अभिनन्द्यशुभं तत्र स्वप्नकल्पप्रकाशतः || तद्यथा श्रीमृगेन्द्रे शिखागोवाजिशैवेभविमात्राद्याधिरोहणम् | वारिराशिः सरिद्भर्ता सरः पङ्कादिकं धनम् | होमतार महारत्न सत्पुष्पफल योगता || मतिराज्यदधिक्षीर लाभो विष्टानु लेपनम् | रक्तपानप्लुतिर्जीवं मीनसिंह नृभक्षणम् || राजोपकरणप्राप्तिः सूर्येन्दु ज्वलनद्विषः | श्वेताम्रं खर्बुरं विद्युन्नक्षत्राणीन्द्र कार्मुकम् || सिद्धमाराप्सरोविप्र यज्ञवाट प्रदर्शनम् | समुद्रयानं सूर्येन्दु पावक ग्रासनाश्रये || चक्राद्यायुधसंसिद्धिः सिद्धिर्द्रव्यसमागमः || महाब्जकर्णिकारोहः पावनं क्षेत्रसंश्रयः | फलवत्क्षीरवृक्षस्य पुष्पितोपवनानि च ||
SKरोदना गम्यगामित्वमित्यादिष्टः प्रसिद्धये | खरोष्ट्रे सूकरारोहे गर्ताति च पतन्नतिः || गोशकृद्द्रवपङ्काम्बु मज्जनं शुक्लविच्छुतिः | लाक्षा लवणलोहाली काक क्रोष्टु प्रभा?ममः || रक्ता सितस्रगालेप वासोभूषण धारणम् || प्. ३६४) नृत्तवादित्र गीतानि सोभाग्यङ्ग प्रधावनम् | मुखाङ्गा स्फोटनं क्रीडा भूतपाणि निषेवणम् || सूर्येन्दु पतनं शेषो वारिधेर्गैरिकं परम् | ध्रुमयामपुरध्वंस तोरणेन्द्रध्वजच्युतिः || राजोपकरणापायो घोर नीहारसंवृतिः | वियोनि मैथुनोद्योगः पक्वमासाध्य सिद्धये || एषां निशान्ते श्रेष्ठत्वं मध्ये मध्यं निशादले | प्रदोषे लघुतान्येषु त्रिधामां श्लेषु कल्पना || परः साहस्रिको यो होमो घोरेणास्त्रेण वाग्भवेत् |? कन्यसः शक्तिकः शक्त्यै कल्पोऽन्यत्रयिणाञ्नधैः | इति चित्ते विधार्याथ कृत नित्य क्रियो गुरुः | विधाय पूर्ववद्यज्ञं शिष्य वेशावसानकम् || स्व स्वप्ने तत्प्रसिद्ध्यर्थं शतं मूलेन पूर्णया | प्रातः कालादिषु स्वप्ने घोरेणास्त्रेण वा तदा || स सहस्रशतं पञ्चशतके * * क्रमाध्वने | कृत नित्यक्रियं शिष्यं मण्डले समुपस्थितम् || अष्टपुष्प्यातमभ्यर्च्य कृतमन्त्रतनुं गुरुः || तेनैवाच्चापयेत् कुम्भम् शिवमग्नौ च होमयेत् | सूत्रमादाय संप्रोक्ष्य बद्ध्वा चूलिकया शिशोः || विन्यस्य पूर्ववत्सर्वं सूत्रे नाड्यादिकं शिवम् || प्. ३६५) शिवं मूलेन पूर्णान्तं हुत्वा तत्सर्वसन्निधौ | आत्म कुम्भ शिवाग्निस्थ वर्त्मसन्धानाहेतवे | शतं हुत्वा निवृत्त्यादि कला सन्तर्प्य दीपयेत् || ॐ हां ह्लां हां स्वाहेत्यादि प्रयोगः तर्पणे | ॐ हूं ह्लां हां हूं फडित्यादीनि दीपने | अग्नावभ्यर्च्य सन्तर्प्य शक्तिमाधाररूपिणीम् | ॐ हां आधारशक्तये नमः | ॐ हौं इडायै नमः | ॐ हौं पिङ्गलायै नमः | ॐ हौं सुषुम्नायै नमः |
SKवह्नौ सम्पूज्य सन्तर्प्य नादीसन्धानं कृत्वा ततः शिष्येणापि तथा विधाय तत्सन्निधये पञ्चपञ्चाहुतीः मूलेन हुत्वा पापाशावलोकादिकं विदध्यात् | ॐ ह्लां हां मन्त्रपदवर्ण भुवनतलमलकं मायीय सचिवाय स्त्रीरूपाय तत्वरूपाय निवृत्तिकलापाशाय नमः | इति जाञ्चय सूत्रे स्थावरादि ब्रह्मान्त चतुर्दश विधभूतसवर्गादि समस्ताध्व गर्हितां निवृत्तिकलामालोक्य अनेन हः वर्ण हुं फडिति सन्ताड्य विभेद्य पूर्वं नमोन्ते सा प्रमया पूरकेण प्रविश्य फडन्तेन ज्येष्ठया कुम्भकेन विश्लेष्य शिखासंपुटितेन स्वाहान्तेन रौद्र्यारेचकेनाङ्कुशमुद्रया बहुराकृष्य पाशं गृह्णाति | हः हुं फडिति गृहीत्वादाय वामाय पूरकेणात्मस्यं विधाय ज्येष्ठ वा कुम्भकेन विश्लेष्य नमोन्तेन रौद्र्या रेचकेनोद्भावया वह्नौ संयोज्य सम्पूज्य स्वाहान्तेना भयित्वा पञ्चाहुत्या समर्प्यसान्निध्येत च || प्. ३६६) ततो हृदयेन ब्राह्मणमावार्यमावाह्य सम्पूज्य सन्तर्प्य ॐ ब्रह्मन् त्वदधिकारेऽस्मिं युस्तवैनं दीक्षयाम्यहम् | मुमुक्षोरनुकूलोऽस्य भवत्वं शङ्कराज्ञया ||
SKइति विज्ञाप्य विज्य ॐ हां हौं ह्वां हौं हां मन्त्रपदवर्ण भुवनत * * * * मलकर्ममाया मायीय सचिन्त्यैः त्रिरूपतत्व रूप निवृत्ति कलापाश व्यापिन्यै वागीश्वर्यै नमः | इति वागीशी मृतुस्नातां युगपदनेकयोः निभेदण्डव रूपिणं कुण्डे समाबाह्य सम्पूज्य सन्तर्प्य ततस्तत्र ॐ हां हौं ह्लां हौं हां मन्त्रपदादिमुच्चार्य वागीश्वराय नम इति वागीशश्च निःशेषयोनिक्षोभकं विचिन्त्य समावाह्य सम्पूज्य सन्तर्प्य पूर्ववद्ध्यानपूर्वकं तयोः संयोगं विभाव्य योनिमुद्रामङ्गुलि मुद्रां च प्रदर्श्य * * योराज्ञामादाय ततस्सप्तधास्त्र जप्तपुष्पेण ॐ हां हां आत्मने हः हुं फडिति देह हृदये तासनं कृभेदनं चान्तेन वामाय पूर्ववत् प्रविश्य ज्येष्ठया विश्लेष्य ॐ हूं हां हं हां हं हां हूं आत्मने स्वाहा इति रौद्र्या तारक निभमात्मान मुत्कृष्य द्वादशान्तं नीत्वा नेनैवात्मानं गृह्णामि | गृहीत्वादाय वामाय पूरकेणात्मस्त्रं विधाय पूर्ववत्कुम्भकेन समरसी कृत्वा रेचकेन द्वादशान्तमूर्ध्व शक्त्यन्तं नीत्वा सृष्ट्या तत्वं समादाय वागीशवामता ध्यातमात्मानं प्रवेश्य भगवान् युगपत्सर्वासु योनिषु योगाद्यमपोयुस्य विधीयतामिति प्रार्थ्यं तेन भगवतानेक भेदभिन्नार्थखञ्जाद्याकारोत्पत्ति सिद्ध्यर्थं नानाविधयोनिरूप भुवन वागीशीगर्भे प्. ३६७) प्रक्षिप्तमात्मानं विभाव्य रेचकेनोद्भवाख्यं ॐ हां हं हां आत्मन्यशेष योनिषु गर्भाधानयुक्तो भुवनमिति संयोज्य अथ ॐ हां हां हं हां आत्मने नम इति सम्पूज्य स्वाहान्ते सन्तर्प्य तन्मूलेन तत्सन्निधानार्थं आहुति पञ्चकं दत्वा ततो भगवन्नस्य पाशोरनेक योनिषु युगपदेव गर्भाधानमस्त्विति प्रार्थ्य स्वाहान्त हृदयेनाहुति पञ्चकं दद्यात् | अथास्य पुंसवनं न कर्थवनत्व पुंसकस्य प्रतिषेढोमाभूदिति तथा सीमन्तोऽपि न कर्तव्यः | कुब्जखञ्जादिरूप प्रतिभेदोमाभूदिति ||
SKअथ भगन्यूग वत्सर्व योनिभ्यः पशोरस्य जननं भवत्विति प्रार्थ्य शिरसा पञ्चाहुतीर्दत्वा भगवन् सर्वत्राधिकारोऽस्य भवत्विति प्रार्थ्य शिखया पञ्चाहुतीर्हुत्वा भगवन्नस्य पशोः मन्त्रदि संसार समुपजात कर्मोपभोगो युगपदेवासपीति प्रार्थ्य वर्मणा पञ्चाहुतीर्दत्वा भगवन्नस्य पशोरस्य तद्भोगानन्तरं लयः संहृतिः समस्तौ भौम शरीर वियोगोऽस्त्विति मूलेन पञ्चाहुतीर्हुत्वा भगवन्नस्य पशोरूपभुक्त भुवनेषु व्यावृत्तिर्मा भूदिति स्त्रोतसां तत्तद्भुवनपथां शुद्धिस्तदानीं भकर्म निरोधनमस्त्विति प्रार्थ्य स्वाहान्तास्त्रेण पञ्चपञ्च ततो विश्शेष पार्थिव शुद्ध्यर्थं हृदा पञ्च ततो विगताम्बु शरद्धान न दाणवादिसमस्त निवृत्त कलापाशबन्धनिवृत्त्यर्थं निष्कृत्यञ्च हृदाशतम् हुनेत् | प्. ३६८) एवं प्रतिष्ठाकलादिष्वपि गर्भाधानदि तत्वशुद्धि पर्यन्तं कर्म विधाय पुनर्निष्कृतिं क्रमाच्छिरा कवच मूलाणुभिर्विदध्यात् | उक्तञ्च - तत्वोपस्थापनं वह्नौ शक्तौ योज्याणु मात्मना | गर्भाधानं हृदा कुर्याज्जननं शिरसाणुना || शिखायाधिकारञ्च भगवन्सर्वत्राधिकारो भवत्विति प्रार्थ्य शिखया पञ्चाहुतीर्दद्यात् | त्वाभागञ्च कवचाणुना लयसंज्ञं शिवेनैव स्रोतः शुद्धिं शिवाणुना | तत्व शुद्धिं हृदेत्येवं गर्भाधानादिषु क्रमात् | पञ्च पञ्चाहुतीर्दद्यात्ततः पाशनिवृत्तये || निवृत्तौ हृदये नैव प्रतिष्ठायां शिरोणुना | विद्यायां शिखया शान्तौ निष्कृतिः कवचाणुना || इति पाशोविचक्षणेन पुरन्निवृत्त्यर्थं शस्ताणव मलनिरोधनाय मूलेन पञ्च पुनरङ्गुष्ठ तर्जनीभ्यां सूत्रं सञ्चाल्य पाशविश्लेषणार्थं हुं फडन्तास्त्रेण पञ्चहुत्वा ततो भगवन् पशोः पाशंछिनत्विति प्रार्थ्य ॐ हं हः अस्त्राय हुं फडिति सप्तधा जपः कर्तव्यः | ॐ हां हं हां मन्त्रपादादि पाशगर्हितं सचिव निवृत्ति पाशसूत्रं छित्वा तदन्यत्र यथोक्तं क * * * रीं मन्त्रयेत् | पूर्वक्षुरिकास्त्रेण सप्तधा
SKशिवासिनावतां शोध्य योजयेन्मधुरत्रये | तदा संशोधयेत् पाशान्युक्तां ह्यस्त्र चयेन च || छिद्यन्ते ग्रन्थितः पाशास्ते हि तद्ग्रन्थिसन्धयः | प्. ३६९) लोकेऽपि सन्धिमत्संधेः निर्गन्धादिच्युतस्यते || इति पुनर्बन्धकत्व निवृत्त्यर्थं मन्त्रं ते मर्दयामि हः हुं फडिति हस्ताभ्यां विमृज्य पुनर्मन्त्रं ते वर्तुलीकृत्य घृतपूर्णं स्रुगग्रे निधाय ॐ हां ह्लां हां मन्त्रपदवर्ण भुवन तत्व मलकर्म माया मायीय सचिवं स्त्रीरूप तत्वरूप तत्वरूपं निवृत्ति कलापाशं मुहोमिहः हुं फडिति हुत्वा ततः पाशाङ्कुशर निवृत्तये हुं फडन्तास्त्रेण ततः प्रायश्चित्तमष्टाहुतीर्हुत्वा ततो ब्राह्मणमावाह्य सम्पूज्य सन्तर्प्य ततस्ताडनादिना कुण्डे पशोर्विश्लेष्य ॐ हां ब्रह्मन् शब्द स्पर्शौ शुक्लं गुहा स्वाहेति पञ्चा हुत्या शुक्लं गृहा समर्पयेत् | पृथिव्याः पञ्चगुणत्वात् | पञ्चापि गुणाः समर्पणीयाः | यद्वा निर्गुण इति गन्ध समर्पणीयस्तत्कथं पार्थिव तत्व शुद्धौ शब्द स्पर्शौ गगनवन गुणौ ब्रह्मणि समर्प्येते इति चेत् | नैवं वाच्यम् | तेषां गुणानां तत्व शुद्ध्याणव शुद्धिर्भवतीति न ते गुणाः समर्प्यते | किन्तर्हि तदुच्यते | तावदेवात्मनः शब्दस्पर्शादि पुर्यष्टकरूपमन्तरङ्गं लिङ्गशरीरं विधीयते | उक्तञ्च - शब्द स्पर्शौ च रूपं च रसोगन्धञ्च पञ्चमः | बुद्धिर्मनस्त्व हंकारः पुर्यष्टकमिदं विदुः || इति || तस्मादेते शब्दादयः पुर्यष्टका श्रोत्रादीन्द्रिय विप्लुति संभूता एव समर्प्यन्ते | तत्र शब्दो श्चेत्रेन्द्रिय वागिन्द्रिय विप्लुति जमितः | स्पर्शः पुनः त्वगिन्द्रिय पादुपाणि पायूपस्येन्द्रिय विप्लुति संभूता बुभौ ब्रह्मांशाविति ब्रह्मणमर्प्यते | अथाद्युरसना विप्लुतितो रसः | केशवे समर्प्यते | तथा चक्षुघ्राण विप्लुति विषयैः प्. ३७०) रूप गन्धौ रुद्राय समर्प्येते | एवं बुध्यहङ्कार विप्लुतिकीश्वरे | तया मता विप्लुतिश्च समस्त विकारण कारण बिन्दुशक्तिरपि ताडनादिना शिशोर्विश्लेष्य सदाशिवे * * * योज्यते | उक्तञ्च -
SKश्रुति विप्लुतिर्भ्राह्मी ब्रह्म क्रव्याद योनिदा | रसना वैष्णवी रौद्री प्राणलोचन हैतकी || ऐश्वरी गर्वधीमूलमानसी शिवदेवता | स्पर्शार्थत्वात् कर्मदेवाश्चत्वारस्त्वयि संस्थिताः || शब्दार्थत्वाछ्रुतौ पाणौ विधावात्रेति सूरयः | बाह्यार्थास्तिसृभिः सार्धमन्तः करवृतिभिः || पाश विश्लेषवत्कृत्वा देवतास्त्वधिरोपयेत् || इति | अथ प्रकृतमनुसार्यते - ब्रह्मन्नाद्यं कलानाथ पाशोरस्यत्वया पुनः | शिवाज्ञया न कर्तव्यः प्रतिबन्धः स्वगोचरे || इति प्रार्थ्य ब्रह्माणं विसृज्य आत्मोद्धारणार्थं मूलेन पञ्चाहुतीर्हुत्वा वह्नि वामया गत्वा ज्येष्ठया वियोज्य राहुमुखात् पञ्चमांसविनिर्गत चन्द्रबिम्बसदृशमात्मानं रौद्र्या कृष्यात्मस्थं कृत्वा सूत्रदेहे संयोज्य तत्सन्निधानाय मूलेनाहुति पञ्चकं दत्वा तच्छिरस्या वात्माप्यायनाय स्वधान्त मूलेनार्घ्य जलाभृतमनामिकया दत्वा पितरौ सम्पूज्य दशदशाहुत्या सन्तर्प्य विसृज्य समस्तक्रिया परिपूरणार्थं वौषडन्तमूलेन पूर्णां दत्वा ॐ हां हां हीं हां मन्त्र पदादि गर्हित निवृत्ति प्रतिष्ठा कलापाशाभ्यां नम इति प्. ३७१) ह्रस्वदीर्घोच्चारणेन शुद्धाशुद्धयोस्तत्वयोः सन्धानं कृत्वा तत्स्थिरत्वार्थं मूलेनाहुति पञ्चकं दद्यादिति आसनादि पूर्णान्तानि चतुर्विंशति कर्माणि भवन्ति | उक्तञ्च - ताडनं भेदनं वेशो विश्लेषा कृष्ट संग्रहः | योजनं पूजनं नृप्ति रहङ्कारण बोधनम् | इत्येका दश कर्माणि पाशानां कथितानि ते || ताडनं भेदनं कृत्वा प्रविश्याणुं वियोज्य च | आकृष्य ग्रहणं कृत्वा शक्ति गर्भे नियोजयेत् || आधानाय हृदा पञ्च जनने शिरसा तथा | शिखया चाधिकाराय भोगाय कवचाणुना || ल * * मूलमन्त्रेण स्रोतश्शुचित्व वासिना | ततः शुद्धौ हृदा पञ्च निष्कृत्यर्थं हृदाशतम् || कलशक्तितिरोधाने शस्त्रेणाहुति पञ्चकम् | छेदनं मर्दनं दाहमङ्कुर प्रतिषेधनम् || असिना कारणे शुक्लमर्पयित्वाणु मुद्धरेत् ||
SKपूर्णां दत्वा च सन्धानं कुर्याच्छुद्धा विशुद्धयोः | चतुर्विंशति कर्माणि प्रोक्तान्यात्मविशुद्धये || इति | ननु चतुर्विंशति कर्माणीत्येतत् कथम्? अष्टादशैव संस्काराः श्रूयन्ते ब्रह्मकवच भार्गवे यतः | उक्तञ्च - इत्यष्टादश संस्कारास्तत्वे तत्वेगुरोः पशोः | प्. ३७२) गलादित्रय हिनाय कुर्वीत शिव तृप्तये | आत्मनस्ताडनोदने स्वीकृतिस्तव योजना || आद्यानोत्पत्यधिकारो भोगेलयोऽथ स्रोतसाम् | शुद्धिस्तत्व विशुद्धिश्च पशुशक्ति निरोहणम् || पाशविश्लेष सच्छेदो तद्दाहे व्युत्क्रम क्रिया || करणेष्टि पशूद्धार एष्वेवान्येपि पूर्णया | सहसं मस्त संस्कार विज्ञेया मध्यवर्तिना || इति || सत्यम् | किन्तु भेदेन प्रवेशन विश्लेषण व्यतिरेकेणैवा कर्षणादिकं कर्तुमशक्यमिति अर्थसिद्धमेतदित्यवगन्तव्यम् | उक्तञ्च - विश्लेषार्थं ताडनं स्याद्विश्लेषः कर्षणाय च | कर्षणं ग्रहणायैव ग्रहणं योग कारणम् || विक्षेपायैव विच्छेदो विक्षेपस्तत्स्तकारणम् | तत्स्थान्ते चैव पूर्णं स्यादणूद्धारादि हेतुकी || ननु ताडना कर्षणा कृतेऽपि तस्मिन्नेव देहे स्थितस्यात्मनः कथं शक्ति गर्भयोगः? सर्वगतो यतः | यदादिश्य कृतोभावः जन आधानादिकं भवितु मर्हति | न संभवत्येव | तत्सत्यम् | किन्तु शिवशक्त्यात्मभावानां व्यापकत्वात् सर्वमेतत् संभवत्येव | उक्तञ्च - शिवः सर्वतः सूक्ष्मः शक्तिः सर्वगतः शिवः | आत्मा सर्वतस्तत्तद्भावकः सर्वतो यतः || यदादिश्य कृते भावः तत्तथैव भवेदिति || प्. ३७३) तथा च सर्वज्ञानोत्तरे - अथवा बहुनैतेन किमुक्तेन षडनन | वाग्विकल्पविशेषेण मानसं मोहकारिणा || सर्वधर्मात्मनः सन्ति यदुक्तं परिकल्पयेत् | तत्तद्भवत्यसंदेहात्सदा तद्भाव भाविनः || इत्येवमात्मविज्ञानं कथितं ते समासतः || इति || ननु तर्हि सर्वगतस्यात्मनः कथमाधान जननादिकं भवितु मर्हति | सत्यम् किन्तु तस्य शिवशक्तिसमवायादि स्वरूपमाधानादिकं भवति | उक्तञ्च -
SKतदाधानं समावेशो जननं दृक्क्रियोदयः | अधिकारस्तु साम्राज्यं भोह्लादो योनिजं परम् || पाशातीतो महान्नित्यो वयस्तत्तुल्य योगिता || इति || अस्याप्ययमर्थः | तयोर्निष्कल स्वरूपयोः शिव शक्त्योराधानात्मनः समावेशः समवायः तथा विधस्वरूपाभिव्यत्युपक्रमः | जननञ्च तन्महात्मनः समज्ञान क्रियोदयम् | अधिकारश्च परशिव प्रेर्येभ्यः समस्ताध्व चक्रवर्तिभ्योऽप्युत्कृष्टत्वात् तेषामप्याधिपत्यं भोगस्तु सर्वाभिशय योनिजः सहज आह्लाद आनन्दस्तदनु * * * वलक्षणो भोगः लयः पशातीत समस्ताध्वानं अतीत्य स्थित आत्मा | अत एवं भगवान् अन्यातिशयाभावां नित्यश्चापि नश्वरत्वत्वात् | एवं गुण विशिष्टः कोऽयौलय इत्यत्राह - तत्तुल्ययोगितेति | तेन शिवेन तुल्ययोगिता सहयोगिता समरसी भूत इत्यर्थः | || इति निवृत्तिकलाशुद्धिः || प्. ३७४) श्री महागणपतये नमः || ॐ हां हीं हां मन्त्रपदादि गर्हिता प्रतिष्ठा कलापाशाय नमः | इत्यालोक्य कला व्यप्तिं ताडनादि क्रमादिमाम् | पाशसूत्रादने नैव मन्त्रेण विधिना शिशोः | पूर्वोक्त विधिनादाय योजयेद्देशिकोत्तमः | अग्नौ सम्पूज्य सन्तर्प्य विज्ञापयेदिदम् || हे हरेऽधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहम् | शिवाज्ञयानुकूलोऽस्य भवत्वं शिवहितैषिणः | विसृज्यकेश्वरं वह्नौ वागीश्यावाहनादिकम् || कृत्वा च ताडनाद्यैश्च शिष्यात्मानं यथापुरा | आदाय योजयेद्देवि गर्भाधानादिकं तथा || कृत्वा निष्कृतये हुत्वा शतशः शिरसा पुनः | मल शक्तितिरोधानं पाश विश्लेषणं तथा || पाशच्छेदादिकं कृत्वा विष्णोः शुक्लं समर्पयेत् | आवाह्याभ्यर्च्य सन्तर्प्य वह्नौ तं हृदयाणुना || ॐ हां विष्णोरसना विप्लुति संभवं भवं रस शुष्कग्रहणाय स्वाहेति | विष्णोस्य दग्धपाशस्य गच्छतः पदमव्ययम् | स्वालकारे न कर्तव्यस्त्वया बद्धः शिवाज्ञया || इति विज्ञाप्य गोविन्दं विसृज्याग्नेर्यथापुरा | पशुमुद्धृत्य संयोज्य पाशसूत्रेण बिन्दुना || संसिच्य पितरौवह्नौ सन्तर्प्य विसृजेत्तथा || प्. ३७५)
SKततो मूलेन पूर्णान्ते सन्धानं विद्यया चरेत् || ॐ हां हीं हुं हां प्रतिष्ठा विद्याकलापाशाभ्यां नमः इति पूर्ववत्संधाय मूलेनाहुतिपञ्चकं दद्यादिति || इति प्रतिष्ठाकलाशुद्धिः || महागणपतये नमः || ॐ हां हूं हां मन्त्र पदादि गर्हिताय स्त्रीरूपाय तत्व रूपाय विद्याकला पाशायै नम इति विद्याकला मन्त्रैः पूर्ववद्वीक्षणादिभिः | विद्यापाशं समादाय वह्नौ संयोज्य तर्पयेत् | अत्र समावाह्य सन्तर्प्य तत्र विज्ञापयेदिदम् || रुद्रत्वदधिकारेऽस्मिन्मुमुक्षुमिममूर्धगम् | दीक्षयामित्वयाणोः कृपाकार्या शिवाज्ञया || इति प्राग्वारि योनौ शिष्यात्मानं नियोज्य आधानादिकमत्रापि प्राग्वदापाद्य चात्मनः | निष्कृतिं शिखया कृत्वा मलशक्तितिरोहणम् || पाश विश्लेषणादींश्च रुद्रे शुक्लं समर्पयेत् || ॐ हां रुद्र चक्षुर्घ्राणविप्लुति सञ्जातरूप गन्धं शुक्लं गृहाणस्वाहा इति रुद्रस्या प्लुष्ट बन्धस्य शिवगन्धाभि लक्षणः | भूयस्त्वया न कर्तव्यः निरोधः शंकराज्ञया || एवं विज्ञाप्य रुद्रं च विसृज्य च यथा पुरा | आत्मोद्धारादि पूर्णान्ते विद्याशान्त्यानु सन्धयेत् || ॐ हां हूं ह्यैं हां विद्या शान्तिकला पाशाभ्यां नमः | इति सन्धान मूलेन दद्यादाहुति पञ्चकम् || इति विद्याकलाशुद्धिः || प्. ३७६) ॐ श्री महागणपतये नमः || ॐ हां ह्यैं हां मन्त्र पादादिगर्भाय स्त्रीरूप तत्वरूपाय शान्तिकला पाशाय नमः || इति शान्तिं समालोक्य पूर्ववत्ताडनादिभिः | कलापाशं समादाय वह्नौ संयोज्य तर्प्य च || हृदि तत्र समाबाह्य बोधयेदीश्वरं यथा | अस्मिन्नीशाधिकारे ते मुक्तिकाममिमं शिशुम् || अनुगृह्णाम्यहं नाथ कृपाकार्या स्वगोचरे | ततो वागीश्वरी गर्भे शिष्यात्मा योजनादिकम् || विधाय पूर्ववत्सर्वं निष्कृतिं वर्मणा चरेत् | मल शक्ति तिरोधाने मलेनाहुति पञ्चकम् || कृत्वा शुद्धाध्व भोक्तृणां पादयेद्यथा ||?
SKॐ हां आत्मन्नणिमा ते भवतु स्वाहा तु तथा लघिमाते भवतु स्वाहा | महिमा ते भवतु स्वाहा | प्राप्तिस्ते भवतु स्वाहा | प्राकाम्यं ते भवतु स्वाहा | ईशित्वं ते भवतु स्वाहा | वशित्वं ते भवतु स्वाहा | यत्र कामा वसायित्वं ते भवतु स्वाहा || इत्थं गतेन पूर्णेन स्रुवेणैव यथा क्रमम् | तत्राहुतित्रयं दत्वा पूर्णां चैव शिवाणुना || इत्यैश्वर्य गुणोपेतं योजयेदैश्वरे पदे || तस्मादादाय तद्देहे योजयेद्विधिनागुरुम् | अथ भोगविरक्तस्य मलशक्ति निरोधने || प्. ३७७) अधिकारमलस्तस्य स्वयमेवोपतिष्ठते | परधाम गतिर्नस्यात्तेनापीति च तद्दधेत् || अस्त्र विंशतिमेन ततः पूर्णाहुतिं हुनेत् | पूर्णोऽत्रविधिनात्रापि निर्बीजे चेच्छिवाणुना || हुत्वा शतद्वयं पूर्णां दत्वा विज्ञापयेच्छिवम् | भगवन्नक्षमच्छायां समयाचार पालने || तस्मादनेन होमेन तत्सर्वं स्वक्षमापय || विद्येश्वर गणेशान लोकपालांश्च साक्षिणम् | कृत्वैवं रोधयेत्तस्य समयान् देशिकोत्तमः || ततः भगवन्पशोः पाशविमिश्लेषं सम्पादयो मीत्विका |? अङ्गुष्ठ तर्जनीभ्यां तु धृत्वा तत्पाश तन्तुकम् | चालयेच्छान्ति पाशानां विश्लेषार्थं यथापुरा || हुत्वा तत्वायुस्त्रेण कर्तव्यः पू?र्ववद्गुरुः? || पाशच्छेदादिकं कृत्वा शुक्लमी च समर्पयेत् | ॐ हां ईश्वर सर्वविप्लुतिकारणं बुध्यहंकार शुक्लगृहाण स्वाहा || सन्दग्धाशेष पाशस्य पशोरस्येश्वरत्वया | न स्तेयं बन्धकत्वेन स्वाधिकारे कृपावता || इत्यध्येष्य विसृज्येशमग्नेरादाय पूर्ववत् | अणिमां योज्य पूर्णान्ते कलासन्धानमाचरेत् || ॐ हां ह्यैं हौं हां शान्ति शान्त्यतीत कला पाशाय नमः | इति पूर्ववत्संधाय शिवेनाहुति पञ्चकं दद्यात् || || इति शान्तिकलाशुद्धिः || प्. ३७८) ॐ श्री महागणपतये नमः | ॐ हां हौं हां मन्त्रपदवर्ण भुवन तत्वमलकर्ममाया मायीय सचिवाय स्त्रीरूप तत्व रूप शान्त्यतीत कला पाशाय नम इत्यालोक्य यथा पूर्वं पाशमादाय निक्षिपेत् |
SKअग्नावावाह्य सादाख्यं शिवं विज्ञापयेदिदम् | भगवन्नधिकारे ते मुमुक्षुं दीक्षयाम्यहम् || अस्य त्वयानुकूलेन भवितव्यं कृपावता | पितरौवाससं पूज्य पूर्ववच्छिष्यते नमः || ताडनादिभिरादाय देविगर्भे नियोज्य च | इत्यापाद्य पशोस्सर्वं गर्भाधानादि पूर्ववत् || निष्कृतिञ्च शिवेनात्र भोक्तुः पूर्व गुणानपि | आपाद्य योजयेत्तत्वे सादाख्ये तद्गुणान्वितम् || विरक्तस्य पशोः कार्यमैश्वर्यमवरोधनम् | अस्त्रं विंशतिहोमेन मूलेनाष्टोत्तरं शतम् || भाविकर्म निरोधाय हुत्वा पूर्णा वसानकम् | पाशाधिष्ठातृका शक्तिरोधाय च तथा गुरुः || हुत्वास्त्रेण यथा पूर्वं पाशानाञ्च नियोजने | पाशच्छेदादिकं कृत्वा शिवे शुक्लं समर्पयेत् || ॐ हां भगवन् समस्त विकारकरणात्मनो बिन्दुमयं शुक्लं गृहाण स्वाहेति | स्तुवेन गृतपूर्णेन हुत्वा वारत्रयं ततः | अयं शिवकरोत्कृष्टो विलंघीत भवोद्भवः | कृतकृत्यस्त्वयात्मादौ न निरोध्यः सदाशिवः || प्. ३७९) इति विज्ञाप्य मूलेन शतं हुत्वा विसर्जयेत् | विस्मृताद्यय मोक्षार्थं शतं मूलेन पूर्णया || हुत्वा सन्ताड्य विश्लिष्य शिष्मात्मानं यथापुरा || ॐ हां हं हां आत्मने स्वाहेति पञ्चाहुत्या आत्मानं सन्तर्प्य निर्मलोज्वल सन्तर्प्य पूर्णशरदिन्दु निभं शिशुम् | कुण्डलादुद्धृत्य तद्देहो नियोज्यार्घ्यं निवेदयेत् सन्तर्प्य पितरौ सम्यक् भक्त्या विज्ञापयेदिदम् || माया शिष्यनिमित्तं यत्पितरौ खेदितौ युवाम् | क्षन्तव्यस्सोपराधौमे कारुण्यादखिलेश्वरौ || इति विज्ञाप्य सन्तर्प्य पूर्णां दद्यात् विसृज्यतौ || श्री महागणपतये नमः || सन्धान शान्त्यतीताय शिखाशक्त्या समाचरेत् | ॐ हां हौं हां शान्त्यतीत कलाशक्तिभ्यां नमः | मूलेन पञ्चधाहुत्वा वक्ष्यमाण विधानतः || विष्णुवत्क्रमयोगेन परभाव समन्वितः | लोकधर्म स्थितं शिष्यं योजयेत् परमे पदे || शिवधर्मे स्थितस्या च शिखा बीजवतासिना | ज्ञानशक्ति कलारूपां कर्तरीमभिमन्त्रयेत् || ॐ हूं हः अस्त्राय हुं फडिति | उक्तञ्च -
SKकर्तरीज्ञानशक्तिः स्याद्यथा पाशाञ्छिनत्यधौ | स कला परमा सूक्ष्मा मन्त्राणां बोधनी परा || कर्तरी कर्तृरूपेण ज्ञातव्या देशिकोत्तमैः || इति || तथा श्री हंस पारमेश्वरे - शिवशक्तिरमेधेया कर्तरीपापनाशिनी इति | प्. ३८०) ॐ हूं हूं हौं हां हूं तिरोभाविकां कुटिलशक्तिं चिनस्मिहः हुं फडिति | शिखां छिद्यात्तया शक्त्यारोधशक्तिस्वरूपिणीम् | कारणं सर्व पाशानां सावधे द्वादशाङ्गुलात् || अन्यस्याष्टाङ्गुलादूर्ध्वं निर्बीजाख्या स बीजयोः | मध्वाज्य संयुतां कृत्वा गोविड्गोलकमध्यगाम् | पूर्णा हुत्या शिखां दत्वा शस्त्रेणाहुति पञ्चकम् || आज्येन हुं फडन्तेन भस्मसात्कुर्याच्छिखाम् || ॐ हूं हां हौं हां हूं तिरोभाविका कुटिलाशक्तिं जुहोमि हः हुं फट् | कालोत्तरे - सबीजा चेति निर्बीजा दीक्षा प्रोक्ता तयापुरा | कलादीनां तु निर्बीजा समयाचार वर्जिता || सबीजा चैव शक्तानां समयाचार संयुता | द्विविधानामपि तदा दीक्षितानां शिखाहुनेत् || इति | यद्वा - शिखे मुण्डनं कृत्वा मलस्नानमाचरेदिति क्वचित् | उक्तञ्च - भुक्ति मुक्ति प्रशंसेन शिवशास्त्रेषु दृश्यते | सशिखं वपनं कार्यमिति तस्मादनन्तरम् || स्नानञ्च भस्मनाकार्यं यतीनां गृहिकां जलैः | कृतव क्षौरस्य लोके च यथा स्नानं तथात्र च || इति | अत्र यजतिना बलिस्नानमेव कर्तव्यमिति क्वचित् | उक्तञ्च - मुमुक्षुर्मुक्तिकामो वा शिखाच्छेदादनन्तरम् | जलावगाहं कृत्वा समाचम्य शुचिर्भवेत् || || इति शिखाच्छेदन विधिः || श्रीमहागणपतये नमः | जलेन भस्मना चापि स्नात्वा चम्यगुरुः स्वयम् | प्. ३८१) भूतसंशोधनं कृत्वा शिवहस्तं च भास्वरम् | विन्यसेन्मस्तके स्वीये शिवाद्वैतं विभावयेत् || भूतशुद्धि विशुद्धिं च नुतमन्त्रतनुः शिशुः | शिव हस्त प्रभामत्तो गुरुं देवं च दर्शयेत् || स शिष्य शिवमभ्यर्च्य गुरुर्दीप्ते हुताशने | मन्त्रान् सन्तर्प्य संदीप्य शिवं विज्ञापयेदिति || भगवंस्त्वत् प्रसादेन चाध्वषट्कं व्यवस्थितम् | पशुं संगृह्य संशोध्य शिखाच्छेदाय सानकम् ||
SKत्वन्मुखोक्त विधानञ्च लोकान्निर्नवर्तितं मया | त्वच्छक्त्या तेन गन्तव्यमाशु ध्रुवपदा शिवम् || इदानीं यन्मया कार्यं त्वदाज्ञानुविधायिना | तदाज्ञां देहिमेनाथ शिष्यं संयोज्य याम्यहम् || इति विज्ञाप्य देवेशं लब्धानुज्ञो गुरुस्तदा | आदाय शुश्रुवौ सोष्णतोयेनाक्षाल्य पूर्ववत् || अभ्यर्च्य गन्धपुष्पाद्यैः शिवशक्तिमयौस्मरेत् || उक्तञ्च - दण्डाधः कलशोधोय मण्डदण्डः कलान्तकः | दण्डाग्रसंपुटं माया वेदिर्विद्या प्रविस्मृता || चित्र पत्रगताशक्राः कोणास्त्रोतो निबन्धनम् || सुषिरं यत्तदाधारं पद्ममासन संस्थितम् | यत्कर्णो नाद संस्थानं स्रुङ्मुखं शक्तिरूपकम् || प्. ३८२) सर्वाध्व व्यापिका शक्तिरेषा स्रुगति कल्पिकाः | तथा स्रुवञ्च - स्रुक्सूत्राकृतिवद्दण्डो बिन्दोर्वृत्तपरिभ्रमः || स्रुक्स्तुव व्यपदेशेन शक्तिपिण्डः सदाशिवः || इति || ततः स्वसव्यभागस्थं मण्डले पूर्ववच्छिशुम् | संप्रोक्ष्य नाडीसन्धानं कृत्वा होमञ्च वन्निधिम् | केचिदस्मिन्नवसरे दीक्षोत्तर भाविकर्मरोधे मूलशतं हुनेत् | पूर्णान्तमयं संगृह्य स्रुक्स्रुवौ लिप्तपूजितौ | वह्नि दीप्तशिखं कृत्वा शिष्यात्मानं समाहरेत् || इति कथयन्ति || शक्तिः स्रुवतिपीयूषं शिवं चक्षुष्य विग्रह | इत्याज्य पुरितौ धृत्वाकौ नाभौ शङ्खमुद्रया || स्वसव्यमण्डलस्तस्य शिशोरादाय पूर्ववत् | आत्मीय हृदयांभोजे स्फुरत्तारक सप्रभाम् || आत्मानमात्मना कृत्वा सामरस्य गुरुद्वयम् | समपाद स्थितः किञ्चिद्विवृतास्यः प्रसन्नधीः || न्यत्वा तालुनिजिह्वाग्र गनागुल्मफय चक्षुषी | दिव्यं करणमास्थाय कृतदेहसमुन्नतिः | शम्भुकुम्भात्म वह्निभ्यो नासी सन्धान योगतः || कलास्वादाय संयोज्य स्रुगग्रेप्राण नासिकाः || पूरकं कुम्भकं कृत्वा रेचकेन शिवासिना || ॐ हूं हां हुं फडिति | हृत्कण्ठतालु भ्रूमध्य ब्रह्मरन्ध्रं विदार्य तु | प्. ३८३) व्यापुट्य कुम्भकं कृत्वा विषुवं सप्तधास्मरेत् | शिष्यात्म प्राणमनसां संयोगः प्राणसंज्ञकः ||
SKमेस्त्रोर्ध्वे कन्दनाभौ च हृदयं कर्णरूपिणा | कर्णिकाग्रं भ्रुवोर्मध्यं ललाटं ब्रह्मणो विलम् शक्तिञ्च द्वादशान्तं च दशग्रन्थी ननु क्रमात् | मूल मन्त्रं त्रिशूलेन हित्वा नादः प्रवर्तते || नाद नासी समायोगात् तन्नाडी विषुवन्मतम् | आत्मनो नाद मध्ये तु लयं सञ्चिन्त्य नाभितः | अकारोकारवर्णादि संयोगेन वियोगतः | हृदयादि बिलान्तं तु विषुमन्मन्त्र संज्ञकम् | अकारोकारवर्णौ च मकारं बिन्दुसंज्ञकम् || नादा नादान्त संज्ञौ च त्यक्त्वा ब्रह्मादिषु क्रमात् | सप्तमे शक्ति मध्ये तु शिष्यात्मानं लयं नयेत् | प्रशान्तं तद्विजानीयात् प्रशान्तेन्द्रिय गोचरम् || शक्ति मध्यगतो नादः समनादं प्रसर्पति | तच्छक्ति विषुवं प्रोक्तमुमान्यां कलसंज्ञकम् | इत्यं सप्तविधं ध्यात्वा विषुवद्देशिकोत्तमः || तदूर्ध्वे चिद्घानानन्दे नित्ये सर्वगुणालये नमस्तत्वे कारणातीते पुनराद्यति वर्जितः | आत्मानं विलयं नीत्वा शनैः पूर्णां निवेदयेत् || प्. ३८४) तत्राद्वैतस्थिरत्वार्थं पुनः पूर्णाहुतिं क्षिपेत् | भूयः सृष्ट्या समानीय पूर्णायाग्नौ नियोज्य च || गुणानापादयेन्मन्त्री सर्वज्ञत्वादिकान्यथा || ॐ हां त्वमात्मन्ननन्तशक्तिर्भव स्वाहा || एवं षड्गुणमापाद्य स्रुवेण घृतधारया | अग्नेरात्मानमादाय धारणाभिर्विशोधिते || प्रारब्ध कर्मभुक्त्यर्थं तद्देहे तन्नियोज्य च | अर्घ्येण योजयेन्मूर्ध्नि तत्वज्ञानं समादिशेत् || तथा द्ववयेन्मन्त्रं प्रक्रिया मूलमाश्रितः | दिव्यं करणमास्थाय परभाव समन्वितः || शिष्यात्म कुम्भवह्निभ्यो मण्डलादपदद्वयम् | सङ्गृह्याध्वानमारोप्य प्राण नासीगतं स्रुवम् || अग्रे गुरुक्तकं दादेर्मन्यमुच्चारयेद्यथा | मेढ्रोर्ध्वे कन्दनाभी च हृदयं कर्णरूपिका || वर्णिकाग्रं भ्रुवोर्मध्यं ललाटं ब्रह्मणः फलम् | शिखा च द्वादशान्तञ्च दशैते चार ग्रन्थयः || मन्त्राणां सिद्धिमुक्त्यर्थं ज्ञातव्यं देशिकादिभिः | मूलमन्त्रत्रिशूलेन भित्त्वा ग्रन्थी ननु क्रमात् ||
SKप्रासादाय शिखान्तस्यमात्मानञ्च लयावधि | नीत्वात्वा मानसं वै व्यापारं बोधरूपयुक् || प्. ३८५) शिवे षड्गुण सम्पूर्णे चिदानन्दघने परे | ध्यायन् विलीयमात्मानं शनैः पूर्णां निपातयेत् || तावत्तिष्ठेत्कुम्भकेन यथावत्सर्पिषश्रुतिः | स्थैर्ये योजनिका यश्च भूयः पूर्णाहुतिः क्षिपेत् | इति || अत्रात्मनिषु विवस्थिते शिखाञ्छिद्यादिति क्वचित् | पूर्ववत्सर्व कर्माणि सर्वाध्वनि समाचरेत् | तथैव चोन्मनी भावामाहुत्यन्ते षडनन || बहिरेवं विधिः प्रोक्ता शरीरे शृणुसाम्प्रतम् | येन शुद्धेन शुद्धिः स्यात् पुद्गलो नात्र संशयः || पूर्वोक्तेन विधानेन धारणाभिश्च पञ्चभिः | शोधयेत् सर्वतत्वानि देहस्थानि यथा क्रमम् || पशुं संयोज्य तत्रापि पूर्वोक्त विधिना शिवे | साधिकारे शिखातीते शुद्ध स्फटिक निर्मले || कर्मण्येवं कृते तस्य शिखाच्छेदो विधीयते | सप्ताभिमन्त्रितां कृत्वा क्षुटिकास्त्रेण कर्तरीम् | योजयीत शिखास्थाने युक्तां त्रिमधुरेण तु || शिखा बीजेन मन्त्रज्ञः वौषडन्तेन निक्षिपेत् | अमनस्कं ततः कुर्यात्साधिकाराद्विमोच्यतम् || शक्तिसम्पुट मध्यस्थां करणेन नियोजयेत् | अनाख्ये तु निरालम्बे त्वग्राह्ये चित्तवर्जिते || प्. ३८६) निस्तत्वे योजितो मुक्तिरिति शास्त्रस्य निश्चयः | यमुद्दिश्य कृतं कर्म मन्त्रदैवत पूर्वकम् || विधिना शास्त्र दृष्टेन तत्तस्य फलदं ध्रुवम् | यत्कृतं काग्रवारेण विधिहीनं षडानन || न तेन कर्मणा सिद्धिः न सुखं न परा गतिः || इति | ननु परतत्व नियुक्तात्मा पुनरपि मायीय देहे प्रारब्ध कर्मोपभोगाय नियुज्यते च | तर्हि तदा तस्य पुनरावृत्ति प्रसङ्गः कथं न स्यादिति चत् | नैवम् वाच्यम् | स पुनर्भोक्तव्याभावाद्देह पातानन्तरं शिव सायुज्यमेव प्राप्नोतीति | उक्तञ्च - एवं दीक्षा विशुद्धात्मा देहस्थोऽपि न देहभाक् | निर्द्दग्ध शेष पाशत्वाज्जीवन्मुक्तः शिवैकधीः || देहे पाते चिदानन्द शिवैकरसतां गते | न पुनर्भेदमायाति सरित्तोयमिवाम्बुधौ || इति यदुक्तं रौरवे -
SKयथा सूर्योदयं प्राप्य तमः क्षिप्रं विनश्यति | एवं दीक्षां समासाद्य धर्माधर्मौ विनश्यति || यथा सूर्य इमाल्लोकान्प्रकाशयति रश्मिभिः | तथा मन्त्राध्वरे देवि मुक्तिभस्तत्प्रकाशयेत् || विष्फुलिङ्गा यथा क्षुद्रा उच्चलन्ति हुताशनात् | एवं शिवादशेषासु शक्त्यश्च समुद्गताः | व्यापयन्ति शरीराणि सायकेषु नियोजिताः || प्. ३८७) यथादित्यः सभूयिठं रश्मिभि ह * * * तैजलम् | एवं शक्तिभिरीशोऽपि दीक्षितान् हरते पशून् || जलं जले यथाक्षिप्तं क्षीरे क्षीरमिवार्पितम् | तथैवेशकैतां याति दीक्षा मन्त्रेण मन्त्रवित् || यथा प्रदीप्ते ज्वलने तूलराशौ समर्पिते | दग्धौ निर्वाति सर्वत्र न भूयस्तूलतां व्रजेत् | एवं सेवाध्वरं प्राप्य दीक्षामन्त्र समुद्भवम् | न पुनर्जन्मतां याति दीक्षितो मनुजोत्तमः || भिन्नदेहे शिवो भूत्वा शिवधर्मसमन्वितः | शिवानन्दमनुप्राप्या विभावन कल्पते || यथा समुद्रमासाद्य नदीमृष्टाम्बुवहिनी | क्षारतोयत्वमायाति तत्प्रभावान्महोदधेः || एवं वै भिन्नदेहात्मा शिवमेवाधिगच्छति || इति || अथ श्रीमन्मृगेन्द्रोक्तं शिवयोजनिको विधानमत्रविशेषार्थ प्रतिपादकमिति लिख्यते - सर्पिषा स्रुचमापूर्य स्वातन्त्र्यामलतादयः | प्रकाशतामिति ध्यायन् क्षिपेद शिवसंविदः || स्रुचिचाध्यानमारोप्य कलशस्कन्ध गण्डिका | वेदि ग्रीवा मुखाग्रेषु निवृत्त्यादि विभागजः | नाडीं तदग्रे संधाय विन्यस्यादाय पुद्गलम् || प्. ३८८) सूर्यमण्डल सङ्काशं पाशातीतं शिवोन्मुखम् | ततः प्राणबलारूढं प्रणवं वपुरैश्वरम् || सर्वाध्वावयवं विद्वान् स्रुगनन्त्यमनुस्मरन् | बिन्दु प्रान्तेन वर्णेन स्रग्देहः पुष्करावधि || कल्प्यं तदुद्गतस्निग्ध ध्वनिधारा विरुढवा | शिवशक्त्या समुत्क्षिप्य शिवधामनयेत्परम् | गुणानापाद्य तत्रैव सिद्धानाहुतिभिस्त्रिभिः || स्वातन्त्रादि विधेर्दद्यादिच्छत्येव विपश्चितः | इति |
SKअस्यापि व्याख्या यथा - सर्पिण्येत्यादि | अस्यात्मनः स्वतन्त्रता तृप्त्यनादिबोधादयो गुणाः प्रकाशन्तामा शिव संविद इति | शिवज्ञान सदृश विज्ञान निष्पत्यन्तं यावदिति ध्यायं स्तन्निष्पत्यर्थं शिवे * * * | स्रुविचाध्वानिमित्यादि निवृत्यादि क्रमेण कलाध्वानं स्रुचि कलस्कन्ध गौडिकावेदिग्रीवा मुखभागेषु विचिन्तयन् तदग्रे सुषुम्ना नाडीं परशक्तिरूपां सन्धाय तथा शक्त्या समादाय पुद्गलमात्मानं अभिव्यक्त निर्-ऋति शयनिज तेजः प्रसरत्वात् सूर्यमण्डल सदृशं प्रभं पाशातीतं पाशेभ्यः आणवादिभ्यः अतीतं अतिक्रान्तं शिवे चाणुरनुक्ते निःश्रेयसे प्रापमुख्यस्रुगग्रे विन्यस्य पुनं किं कुर्वन्तीत्यत्राह ततः प्राण बलारूढमित्यादि | प्राणशक्ताबुरूढं प्रणवरूपं समस्ताध्वरूपञ्च यदैश्वरं वपुः तत्स्रु चः सकाशादनन्यं प्. ३८९) भिन्नमैक्येन स्थितं स्मरेत् | ततः किं विधाय किं कुर्यादित्यत्राह बिन्दु प्रान्तेनेत्यादि | बिन्दु प्रान्ते कारणतयावस्थितो यस्यासौ बिन्दु प्रान्तः प्रणवः | पुष्कराविधीत्याज्या श्रवणपद्मान्तं यावत् कल्पनीय इत्यर्थः | ततस्तदुद्गतः तस्मात्प्रणव रूपास्तुक्पुष्करादुद्गतः स्निग्धः उष्णीह प्रीताविति याधात्वर्यगत्या परानन्दस्पन्दी ध्वनिर्णयस्तदात्मिकाया स्तेऽज्यस्तुतिः तस्यामधिरूढा तदुपरि वर्तनीयासौ पराशक्तिः तया शिवशक्त्या शिष्यात्मानं वह्नि शिखान्तस्थ शिवे संयोज्य तस्मादुत्क्षिप्योद्धृत्य परं प्रकृष्टं शिवधाम पारमेश्वरं तेजो नयेत् प्रापयेत् || अथ किं कृत्येत्यत्राह - गुणानीत्यादि | तत्रैव वह्नौ तस्यात्मनः स्वसिद्धान् गुणान् सर्वज्ञादीन् प्रत्येकं तिसृभिस्तिसृभिः त्रिभिराहुतिभिः आपाद्येतितान् गुणानि सर्वसिद्धानि पुनादि पाशकूट स्थितत्वादुत्तेजयित्वा योजयेत् |
SKननु मलावरणावगमेनैव सचिक गुण प्रकाशः स्वतः संभवति | किमनेन कृत्येनेत्यत्राह स्वातन्त्रादि विधेरित्यदि सज्ञता तृप्तिरवादिबोध स्वतन्त्रतादि गुणोत्तेजनविधेः दार्ड्य?भेनितान्निरतिशय तु प्रतिपादनार्थमेवं क्रियामिच्छन्ति विपश्चितः | सूरयः सर्वज्ञाः श्रीनन्दिकेश्वर प्रभृतय इत्यर्थः | अथ प्रस्तुतमुच्यते || इत्येवं प्रस्तुते प्रोक्त दीक्षा निर्वाणदायिनी | आचार्य पदवी योग्यम् योजयित्वा परे पदे | प्. ३९०) स्वाधिकारपदे पश्चाद्भोगं तस्य प्रकल्पयेत् | शतहोमेन मूलेन पूर्णां दत्वा च पूर्ववत् || पूर्णयादाय संयोज्य ज्वालान्ते विपरे शिवे | गणानापाद्य तद्देहे तन्नियोज्य विधानतः || दद्यादर्घ्यमनन्तोऽयं मस्तके नामिकाग्रतः | तीव्राणुः शक्ति सम्पात सञ्जाताश्रम शान्तये | अथार्चां करयेदेवं लिङ्गादे च प्रमाणयेत् || शिवात्मानमग्निं च शिवदक्षिण मण्डले | स्थापयित्वा ततः शिष्यं शिवं विज्ञापयेदिति | त्वयैवानुगृहीतोऽयं मुक्तिमास्थाय मामकीम् | देवे वह्नौ गुणैस्तस्माद्भुक्तिन्नायस्य वर्धय ||? अव्याच्छिन्न क्रिया नष्टा त्वत्प्रसादादयं भवेत् | भोः प्रमादापरायोऽस्यमाभूद्बन्धककारणम् || इति विज्ञाप्य देवेशं गत्वा कुण्डान्तिकं ततः | न्यूनादि मोक्षमोक्षार्थं मूलेनाष्टोत्तरं शतम् || हुत्वा पूर्वावसानन्तु प्रायश्चित्तं तथा सिना | ततो हुत्वा चरुं प्राग्वद्दत्वापूर्णाहुतिं महत् | ततो विसृज्यदेवेशं भूराहुत्यादिकं हुनेत् | अन्तर्बहिर्बलिं दत्वा कृत्वा कर्मसमर्पणम् || ईशभागेऽथवा पूर्णे मण्डले स्वस्तिकाङ्किते || प्. ३९१) कुर्यादवभृतं शम्भुं कुम्भेनास्त्राम्बुपूर्वकम् | ततोऽग्नौ यज्ञशेषेण सहस्रेण शतेन वा || तर्पयित्वा क्षमस्वेति चण्डनाथं विसर्जयेत् || इति शिष्याभ्यर्थितेनायं श्रीशिवज्ञानशम्भुना | यथा शास्त्रं यथाबोधं कलादीक्षा विधिः कृतः || || इति कला दीक्षा || श्रीमहागणपतये नमः || अथ त्रितत्वदीक्षां च यथा योगमिहोच्यते | विधाय पूर्ववद्याम्बु पञ्चधारेष्वनुक्रमात् ||
SKतत्वत्रयं च विन्यस्य शिवहस्तं स्वमूर्धनि | शिवाद्वैतं विभाव्याथ मण्डलश्च शिशोः शिखाम् | सन्धाय पाशसूत्रेण शक्तिनाडीं च पूर्ववत् | शिष्यदेहात् समादाय वामाद्याः शक्तयस्तथा || विद्यादेहात् तथात्मानमाणवादि जलान्वितम् | सूत्रे विन्यस्य तद्देहं षड्विधाद्वाभिगर्हितम् || शिखामारभ्य फालान्तं फालात्कर्णावसानकम् | कण्ठाधः पादपर्यन्तं शिवविद्यात्मसंज्ञकम् || सृष्ट्या तत्वत्रयं न्यस्य हूं हीं हां शम्बरैरथ | पाशान् सन्तर्प्य सन्दीप्य शिवमभ्यर्च्य मूर्धनि || शान्त्यतीतकलाव्याप्तिं शिवतत्वे विलोकयेत् || ॐ हां हूं हां मन्त्रपद वर्णभुवन तत्व कलान्मल कर्ममाया प्. ३९२) मायीय संविहाय स्त्री शिवतत्व पाशाय नम इति संवीक्ष्य तद्देहान्पूर्वोक्त विधिना गुरुः | ताडनादि क्रमेणास्य शिरस्सूत्रे नियोज्यताम् ततः शान्तिकला व्याप्तिं विद्या तत्वे विलोकयेत् || ॐ हां हीं हां मन्त्र पदादि गर्भाय विद्यातत्व पाशाय नमः | आदास्यादाय तद्देहान्मुख सूत्रे नियोजयेत् | अथ शेष कलाव्याप्तिमात्मतत्वे विलोकयेत् || ॐ हां हां मन्त्रपदादि गर्भितायात्म तत्वपाशाय नमः || इत्याद्यणुभिरादाय ताडनादि क्रमेण तत् | कण्ठाधः पादपर्यन्तं सूत्रेऽभ्यर्च्य प्रतर्प्य च || पाशाधिष्ठान्तिकां शक्तिं तथा ज्ञानावरोधिकाम् | सम्पूज्यादाय तद्देहात् सूत्रे संयोज्य तर्पयेत् || फालान्ते कण्ठसूत्रे च रँजिते कुङ्कुमादिना | तत्र सम्पूज्य देवेशं सबीजायां यथा पुरा || समयादि परित्यज्य रोधनं शिष्य तेजसः | संस्मरन् बन्धयेत्पाशं यथा पूर्वं गुरूत्तमः || कृत्वा ताडनविश्लेषौ कुर्याद्ग्रहण बन्धने | शिष्यस्याधोपविष्टस्य स्कन्धे सूत्रं निधाय च | शतं मूलेन पूर्णान्तं हुत्वा सूत्रावतारणम् | कृत्वा कुम्भे समर्प्याय पञ्चगव्यादि पूर्ववत् || दत्वातं स्वापयेद्देवमधिचासनमीरितम् || || श्रीमहागणपतये नमः || प्. ३९३) प्रातर्निवर्तिताशेष नित्यनैत्तिक क्रियः | मण्डलस्थस्य शिष्यस्य नाडी सन्धान पूर्वकम् ||
SKतच्छिखायां निबन्ध्नीयात् सूत्रं सम्पात पूर्वकम् | शक्तिं नाडीरथाध्वानमात्मानं पूर्ववन्न्यसेत् || मूर्ध्निदेवं यजेदग्नौ हुत्वा मूलाणुना शतम् | पूर्णान्ते सर्वमन्त्राणां कृत्वा तर्पण दीपने || कुण्डेऽथ दारिकां शक्तिं विन्यस्याभ्यर्च्य तर्प्य च | ताडनं भेदनं वेशो विश्लेषा कृष्ट सङ्ग्रहम् | आदानात्मस्थकं कर्म तस्मादुद्धृत्य योजनम् || कृत्वा तत्वाणुभिस्तत्वाद्यग्नौ सम्पूज्य तर्पयेत् | ॐ हां हां मन्त्रपद वर्ण भुवन तत्व मलकर्म माया मायीय सचिवायात्म तत्व पाशाय नमः इत्यादयो मन्त्राः || ब्रह्मादि कारणं तत्र ततो विज्ञाप्य पूर्ववत् | आवाहनादिकं पुत्रे कृत्वा योगञ्च संस्मरन् || ताडनादि क्रमेणाणुं वागीश्यां सन्निवेश्य च | आत्मनश्चार्घ्यमिष्टं च कृत्वा विज्ञापनं क्रमात् || यथा पूर्व विधानज्ञो युगपत्सर्वयोनिषु || आधान जननं कृत्वा स्वामि भोगस्य संहृती | स्रोतस्तत्व विशुद्धिं च सर्वं सर्ववदाचरेत् || निष्कृतिं शिवमन्त्रेण त्रिषुतत्वेष्वनु स्मरेत् || प्. ३९४) मध्यशक्तितिरोधानं पाशविश्लेषणं तथा | तत्वास्त्रेणैव कर्तव्या पाशच्छेदञ्च मर्दनम् | ताभ्यां तदङ्कुराभावं प्रायश्चित्तञ्च पूर्ववत् || कृत्वा ब्रह्माणमावाह्य तस्मै शुक्लं समर्पयेत् || ॐ हां ब्रह्मन् शब्द स्पर्शरूपरस गन्धं शुक्लं गृहाण स्वाहा इति विज्ञाप्य - प्रतिबन्धाय तद्देहेऽणुं नियोज्य च | शक्तिं विसृज्य पूर्णान्ते तत्व सन्धानमाचरेत् || ॐ हां हां हिं हां आत्मतत्व विद्यातत्वाभ्यां नमः | अथ विद्यात्मकेऽप्येवं कृत्वाशुक्लं हरौत्यजेत् || ॐ हां विष्णो बुद्ध्य हंकारौ शुक्लं गृहाण स्वाहा इति | तच्छरीरे नियोज्याणुं तत्वसन्धानमाचरेत् || ॐ हां हिं हूं हां विद्या तत्वाभ्यां नम इति | तत्रापि पूर्ववत्सर्वं कृत्वा तत्वे शिवात्मके | रुद्रमावाह्य सन्तर्प्य शुल्कं तस्मै समर्पयेत् || ॐ हां रुद्रमनो बिन्तु शुल्कं गृहाण स्वाहा | इति | अणुं नियोज्य पूर्णान्ते तत्वं शक्तौ लयं नयेत् || ॐ हां हूं हौं हां शिवतत्व शिखा शक्तिभ्यां नमः इति |
SKपूर्ववत्तां शिखां छित्त्वा हुत्वा स्नानादिकं चरेत् | ततः संशोधयेद्देहं अणुभिश्च पञ्चभिः || शिवमन्त्र तनुर्भूत्वा शिवहस्तंस्वके न्यसेत् | शिष्यस्यापि तथा कृत्वा पञ्चधारेष्वनु क्रमात् || प्. ३९५) संपूज्य पशुभक्तारं मन्त्रान् सन्तर्प्य दीपयेत् | ततो विज्ञाप्य देवेशं लब्धानुज्ञो यथा पुरा || ताडनादिभिरादाय शिष्यात्मानं स्वकात्मनि | निक्षिप्य समरसीकृत्य विषुनं सप्तधास्मरेत् || प्रासादाब्जशिखान्तस्थः देशिकः परमे पदे | योजयित्वा गुणोत्कृष्टं कृत्वादेहे नियोजयेत् || श्रीशैवागम सारज्ञः पशुशास्त्र पराङ्मुखः | श्रीमज्ज्ञान शिवाचार्यः चक्रे दीक्षां त्रितात्विकीम् || || इति त्रितत्व दीक्षाविधिः || ॐ श्रीगणपतये नमः || अथैक तत्व दीक्षा च संक्षेपेणोपदिश्यते | सर्वं निर्वर्य यागाद्यं सूत्र बन्धे कृते हृदा || शक्तिनासी तनुम् विद्यामात्मानं पूर्ववन्न्यसेत् | तद्देहर्षस्विधा ध्वानं शिवतत्वञ्च कल्पयेत् || पाशाधिष्ठातृकां शक्तिं ज्ञानरोधं तथामतः | ततः पञ्चकलाव्याप्तिं शिवतत्वे नियोजयेत् || ॐ हां हूं हां मन्त्र पदादिगर्हिताय शिवतत्व पाशाय नमः | इति | ताडनादिभिरायोज्य सूत्रे बन्धनमाचरेत् | शिवमिष्ट्वा च तन्मूर्ध्नि शतं हुत्वाधिवासयेत् || अथ प्रातः कृताशेष क्रियासम्पातपूर्वकम् | सूत्रं बध्वा शिखायाञ्च निष्कृत्यन्तं शिवाणुना || प्. ३९६) शेषं पूर्ववदा पाद्य प्रायश्चित्ता वसानकम् | रुद्रं सम्पूज्य सन्तर्प्य तस्मै शुक्लं समर्पयेत् || ॐ हां हौं रुद्रशब्द स्पर्श रस रूप गन्ध बुद्ध्यहंकार मनोबिन्दुरूपं शुक्लं गृहाण स्वाहा इति प्रार्थ्य बन्धनिवृत्त्यर्चमात्मानं योजयेत्तनौ | विसृज्य पितरौ पूर्णां दत्वा तत्वं शिवाणुना || ॐ हां हूं हैं हां शिवतत्व शिखाशक्तिभ्यां नमः | इति | सन्धाय शिखयाच्छित्वा शिखं हुत्वा वगाहयेत् | तत्रापि पूर्ववत्कृत्वा भूतशुद्ध्यादिकं गुरुः || संयोज्य पुर्णयात्मानं गुणानापाद्य पूर्ववत् | योजयित्वा तु तद्देहे संसिञ्चेत्तं शिवाम्भसा ||
SKयागञ्च विसृजेदेवमेक तत्वं विधिक्रमः | श्रीमज्ज्ञानशिवाचार्य सूरिणा भवगीरिणा || एकतत्वात्मिका प्रोक्ता दीक्षा सिद्धान्त वेदिना || षट्त्रिंशत्तात्विकी दीक्षा प्रोक्ता कालोत्तरागमे | तत्कृत्य व्याप्ति बोधाय लिख्यते सा च साम्प्रतम् || कालग्निमादितः कृत्वा तत्तद्देवैरनु क्रमात् | योज्य यो जनकं भूयो धर्मैर्धर्मान्निरा कुरु || पतिधर्मैः समस्तैस्तु पशुधर्मान्निराकुरु | पतिधर्मान् शिवधर्मैरनिष्केन न तानपि || स्नाने जन्मतदैश्वर्यं तद्भोगापादनं तथा | अधिकारलयं चैव होमयेत् क्रमशः पुनः || तद्यथा - तत्वं संयोज्य यजेत्पूर्वं कुण्डमध्ये विचक्षणः || प्. ३९७) स्वनाम सर्वतत्वानां मन्त्रोग्रहण कर्मणि | तत्वमध्ये तु गायत्रीं स्वमन्त्रविधिकल्पिताम् || पशुं सङ्गृह्य तत्वज्ञः तत्वगर्भे नियोजयेत् | नासाग्रं नियतस्थानं पशोर्ग्रहण कर्मणि || ह्रस्व बीजमयं ज्ञानं जीवं तेजः पिण्डाकृतिं स्मरेत् | ताडयित्वास्त्र बीजेन हृदयेन तु संहरेत् || संहृत्य योनिमार्गेण वामयातु नियोजयेत् | गर्भाधानं तु सद्येन वामः पुंसवने स्मृतः || ऐश्वर्यमस्त्रबीजेन पुरुषं जातकर्मणि | ईशानं योन्नामनि हृदये नामन्नप्राशने ||? शिरसा चाधिकारं तु शिखया भोगमेव च | ऐश्वर्यमस्त्रबीजेन कवचेनलयं हुनेत् || एकैकेन दशाहुत्या पूर्णां हुत्वा शिवेन तु | दशभिः स्रोतसां शुद्धिः ब्रह्माङ्गैरनु पूर्वशः || शिवेन सर्वतत्वेषु तत्व शुद्धिं समाचरेत् || दशधाहुति वक्तव्यः अत्रानुत्तमं यत्किञ्चित् प्रत्यग्रन्तच्च ग्रन्धारे गुन्तरोभि ज्ञातव्यम् ||? पाशच्छेदं तथा दाहं प्रायश्चित्तं तु होमयेत् | अस्त्र बीजेनमन्त्रज्ञो नरकांश्च विशोधयेत् || अत्र संक्षिप्तोद्देशेन क्रियाक्रमपरिपूर्णमुत्तमं तद्देशस्पष्टमुत्तमं तच्चगुरूपदेशेन ज्ञातव्यम् | तद्यथा - प्. ३९७) तत्वं तत्वेन सन्धाय हुं फट्कारेण भेदयेत् | नियोज्य ज्येष्ठया पश्चाद्रौद्र्या चैवोद्धरेत् पुनः ||
SKतत्वे तत्वे त्विदं कर्म विधिना तेन षण्मुख | कर्मभूमौ सविस्तारं भूलोके तु समाचरेत् || कालाग्नि रुद्र तत्वे तु कालाग्नित्वं विशोधयेत् | नरके नारकान् धर्मं हुत्वा कूश्माण्डतां नयेत् || पाताले सप्तमेनन्त न्यासं कृत्वा विशोधयेत् | अत्रानन्तमित्यनन्त रुद्रमयः कटाहाधिपं भावाः || अथोर्ध्वं हाटकं तत्वं भूलोके योजयेत्ततः | हाटकेश्वर पूरञ्च शोधयित्वेति शेषं भूलोके वागीशी उदरे? शिष्यात्मानं संयोज्य स्थावरन्तु सद्येन सरीसृप्यं विषात्मावामेन पक्षित्वं घोरेणमृगत्वं पुरुषेण तु | पशुमीशबीजेन होमयेदनुपूर्वशः | एकैकं दशभिर्मन्त्रैर्हुत्वा पूर्णाहुतिं क्रमात् || क्वचिदस्मिन्नवसरे - श्वपचत्वं चण्डालमत्य जप्तञ्च सप्तधा | भेदोपभेदकं तेषां होमयेत् संहिताणुभिः || इति || सद्येन वामदेवेन हृदयेन विधानवित् || शूद्रत्वं होमयेदे हि वैश्यत्वादनुपूर्वशः | होमयित्वा ततश्चैवमात्मानञ्च गुरूत्तमः || इति शेषः | बाह्ययोनौ च संयोज्य विधानमिदमाचरेत् | गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा || प्. ३९९) जन्म निष्क्रामणं नाम चान्नप्राशनमेव च | हृदा निष्क्रामणं कार्यं शेषं वै ब्रह्मभिः स्मृतम् || अत्र गर्भाधानादि सप्तसंस्कारेषु निष्क्रामणं न | हृदा कार्यं शेषाणि षट्संस्काराणि ब्रह्मभिर्दशाहुतिभिः स्मृतम्प ज्ञातव्यमिति भावः | चौलोपनयनं कार्यं ब्रह्माङ्गैर्दशभिः क्रमात् | मेखलामुप वीतञ्च दण्डं कृष्णाजिनं तथा || स्वाध्यायमग्निकार्यञ्च सन्ध्योपासनमेव च | भैक्षाभिवादनं मौनं ब्रह्मचर्यं दयादमः || गुरूपसदनं जाप्यं अनिन्दामस्पृहा जपम् | अहिंसा सत्यमक्रोधं त्यागक्षान्तर पैशुनम् || तथा भूतेष्वलोकत्वं मार्दवं ह्री रचापलम् | तेजः क्षमाधृतिः शौचमद्रोहोऽनभिमानता || सर्वक्रमेणैतान् गायत्र्या दशधाहुनेत् | त्रिधायुणमुपाकर्म गोदानञ्च महाव्रतम् || नैष्ठिकीमसिधारञ्च हुनेत्पाशुपतेन तु | ततः स्वाक्तवने होमः शिवाङ्गैरभिधीयते ||
SKपत्नी संयोजनं कुर्याद्ब्रह्माङैः पुनरेव हि | कृत्वा गर्भमयीं पत्नीं ओमित्येव नियोजयेत् || तया सहयजेद्यज्ञान् पाकयज्ञादितः क्रमात् | अपत्य निष्कृतेर्दद्यादाहुतिः पञ्चविंशतिः || प्. ४००) हृदयेन विधानज्ञः पाकयज्ञं ततो हुनेत् | अष्टका पार्वणश्राद्धं श्रावण्याग्रायणीतया || चैत्री चाश्वयुजी चैव पाकयज्ञा इति स्मृताः | एकैकं पञ्चभिर्ब्रह्मैः एकैकानाहुतिर्दश | दैव पित्र्यमनुष्येषु भूतब्रह्मसु पञ्चधा | आधेयमग्निहोत्रञ्च दर्शः पूर्णमयी?तथा || चातुर्मास्य निरूढञ्च पशुः सौत्रामणी तथा | हविर्यज्ञाः समाख्याताः ब्रह्माङ्गैर्होमयेत् क्रमात् || एकैकं दशभिर्मन्त्रैः एकैकानाहुतिर्दश | अग्निष्ठोमोऽत्यग्निष्टोमो वाजपेयोक्थ्य षोडशी | अतिरात्राप्तोर्यामश्च सोमसंस्था इमे स्मृताः | ब्रह्माङ्गैः शिवगायत्र्या महास्त्रेण शिवेन च || विंशविंशाहुतीर्दद्यादेकैकस्य विशुद्धये | पूर्णाहुतिं ततः पश्चात् सर्वसंस्कार कर्मसु || शिवेन संप्लुतेनामृत वर्षिणा |? शिवेन होमं कुरुते यस्मिन् संस्कार कर्मणि | वर्ज्य पूर्णाहुतीमेकां द्विगुणं तत्समाचरेत् || सोमसंस्थावसाने तु सर्वमन्त्रैः सकृत सकृत् | सोमपानाहुतीर्दद्यात् दधिक्षीरं घृतं मधु || सहस्रं क्रतु मध्ये तु दशयज्ञान् परां हुनेत् || प्. ४०१) त्रिंशत्त्रिंशभिराहुत्या जनेन च विचक्षणः | अश्वमेघं ततो होमोदाहृत्य पञ्चविंशतिः || शिवमन्त्रेण मन्त्रज्ञो गृहस्थो भवति ध्रुवम् | वानप्रस्थं ततो होमे सर्वमन्त्रैस्तु पञ्चधा || तस्मिन् सर्वपरित्यागं कृत्वाभिक्षुर्विधीयते | भिक्षुत्वं होमयेत्तस्मिन् सर्वमन्त्रैः सकृत् सकृत् || अथास्मिन् भूलोके देह वियोगं विचिन्त्य स्रोतः शुद्धि? तत्व शुद्ध्यादि पूर्णान्तं कर्मनिर्वर्त्य भूलोकं भुवर्लोकेन सन्धाय तद्भुवनं मोहनादिकं शान्तिपूर्वं निर्वर्त्य ततः स्व * * * र्म भर्जनस्तपस्सत्यं ध्रुवं लोकेषु च कर्मणि निर्वर्तिते स्थितमात्मानं विशुद्ध कल्मषं भूयो ब्रह्मलोके नियोजयेत् ||
SKसन्धानं पूर्ववत्कृत्वा भेदयित्वा तथा पुनः | इष्ट्वा तु पूर्ववद्देवान् पूर्णोक्तं विधिमाचरेत् || ब्रह्मत्वं वासुदेवत्वं रुद्रत्वं च विधानवित् | पूर्ववत्क्रमयोगेन होमयेत् सुसमाहितः | कटाहं पूर्ववद्भित्वा दशरुद्रान् दिगीश्वरान् | पूर्वोक्तेन विधानेन यजेद्वप्ताणु मूर्धनि || मन्त्र सिंहासने शम्भुं जे शम्भुं पूर्वतो न्यसेत् | अग्निं रुद्रं स्वकेदिक्षु कालं याम्ये नियोजयेत् | भयानकन्तु नैर्-ऋत्यां वारुण्यां तु महाबलम् || प्. ४०२) वायव्यां शोषणं न्यस्य कामरूपं तथोत्तरे | सर्वविद्यापदं रुद्रमैशान्यां तु नियोजयेत् || स्वमन्त्रैरर्चयेत् सर्वान् शिवश्च शम्भुमीश्वरम् | पूर्वोक्तेन विधानेन कृत्वा मण्डल तर्पणम् || ततस्तु शम्भुरुद्रत्वं ज्वलयित्वा विशोधयेत् | शेषेषु निष्कृतिं दद्याद्विंशद्विं शाहुतीः क्रमात् || इत्यं विशोध्य पार्थिवं तत्वं वारुणत्वं नियोजयेत् || पूर्ववदिति विशेषः || तेजोऽनिले तथा व्योम्नि अहं शुद्धीषणे गुणे | अत्र व्योम्नितत्वमात्राणां शुद्धिञ्चाहंकार तत्वे कर्मेन्द्रिय बुद्धिन्द्रिय मनेन्द्रियान्येका दशेन्द्रियाण्यन्तर्त्गतानीति सञ्चिन्त्य देशिकबुद्ध्या तेषां विशुद्ध्यर्थं होमः कर्तव्य इत्यवगन्तव्यः || प्राकृते पौरुषे चैव रागविद्याकलात्मके | काले मायात्मके तत्वे विद्याविद्येश्वरे तथा || सदा शिवे तथा तत्वे तथा सकल निष्कले | सर्वतत्वाधिपान् धर्मान् तत्वधर्मान् तथा परान् || उक्त प्रकारेण - विधिनानेन संशोध्य कारणे चोद्वणे न्यसेत् | इति | एवं मन्त्रेषु वर्णेषु भुवनेषु पदेषु च | प्रागुक्त व्याप्ति पूर्वेषु दीक्षा कार्या विजानता || तथा सिद्धान्तसारे - शिष्य देहे न्यसेत्पूर्वमध्वानं षड्विधं गुरुः | शोध्यमेकं विनिश्चित्य व्याप्त्या शोष्याध्य सन्त्ययम् ||? प्. ४०३) सृष्ट्या वलोक्य तत्सूत्रे कृत्वा ताडव बन्धनम् | अधिवास्य पुनः कुर्याद्द्वित्रयेण विशोधनम् || मन्त्रः सद्यादि शोध्याय वर्णाः कादि क्रमात्मता | यद्वा वर्गान् विशोध्येत शादिवर्गक्रमेण तु ||
SKकालाग्निमादितः कृत्वा भुवनानि यथा क्रमम् | उपस्थाप्यन्यसेच्छक्तिं तत्रात्मानं नियोज्य च || गर्भाधानादिकं कृत्वा योजयेत् परमे पदे | प्रान्त प्रणवमारभ्यैकाशीति वदानि च || शोधयेदानुपूर्व्येण गर्भाधानादि पूर्ववत् | तत्वं पार्थिवमारभ्य शिवतत्वेऽनुपूर्वशः | निर्वर्त्य सर्वकर्माणि शाश्वते योजयेदणुम् || तन्निवृत्यक्रोधा च कलाः सर्वाध्वगर्हिताः | शोधनीयाः प्रयत्नेन तद्विधानमथोच्यते || निवृत्तिश्च प्रतिष्ठा च विद्यां शान्तिमनुक्रमात् | शान्त्यतीतञ्च संयोज्य युगपद्यानयेत् पुनः || ब्रह्माणं केशवं रुद्रमनन्तेशं सदा शिवम् | हृदा सम्पूज्य सन्तर्प्य शक्तिमावाह्य तर्पयेत् || अणिमादय संयोज्य गर्भाधानादिमाचरेत् || इति | दीक्षापूता गणपतिगुरोर्मण्डले जनन्तः सिद्धा मन्त्रैस्तनु दिनकृन्मण्डलोद्भासि देहाः || प्. ४०४) भुकत्वा भोगान् सुचिरममरस्त्री निकायै रूपेता- स्तस्तोत्कण्ठाः शिवपदपरैश्वर्यभाजो भवन्ति || इति इति शिवपद पद्मध्यान पुण्य प्रभावा- दपहृत दुरितौघ प्राप्त सिद्धान्तबोधः | निबिड निष्कल बन्धच्छेदनीं षड्विधाध्व- प्रतिविषदीक्षां ज्ञान शम्भुः स चक्रे ||? || इति षड्विधाध्व दीक्षाविधिः || || इति श्रीमज्ज्ञानरत्नावल्यां दीक्षाविधिः प्रोक्तः | श्रीमहागणपतये नमः || आसामेकतमां दीक्षां कृत्वा शिष्यस्य देशिकः | पूर्वं यल्लक्षणं प्रोक्तं देशिकानां शिवागमे || तो लक्षणभस्य संहितापरागस्य च ||? तस्य मन्त्र प्रसिद्ध्यर्थं संहिताव्रतमादिशेत् | श्रीशैलादि गिरौ पुण्ये क्षेत्रावासरि तान्तरे || तत्र पुष्पफलोपेते मृत्कुशोपचिते शुभे | श्रीमाहेश्वर संकीर्णे स्थाने वाथ मनोरमे || व्याधि चोर मृगोपेतं धूर्तस्त्री नास्तिकाञ्चितम् | बोध्याद्यन्यश्रम क्षेत्रं सिद्धिस्थानं परित्यजेत् || तत्र प्रत्यङ्मुखं लिङ्गं प्राङ्मुखं तदभावतः | सर्वावयवसम्पूर्णं स्वयं भूतं समाश्रयेत् || प्. ४०५)
SKस्थापितं मुनिसिद्धाद्यैः स्वयं वा परिकल्पितम् | किलतं वर्जयेद्धिमान् ब्रह्मविष्ण्विन्द्रमातृभिः | उमा महेश्वर स्कन्द क्षेत्रपालगणेश्वरैः || शतलिङ्गं सहस्राकं मुखलिङ्गञ्च वर्जयेत् | नृत्तवादित्र गीतादि भोगलिङ्गञ्च वर्जयेत् || याम्ये कौबेरवक्त्रं च वर्जयेल्लक्षणेच्चुतम् | परिगृह्योप्सितं लिङ्गं तद्याम्ये जगतीबहिः | मठे मनोरमे स्थित्वा * * * सायः प्रसन्नधीः || स्वेष्टलिङ्ग समीपे वा कायसिद्धिं समाचरेत् | कृच्छ्र चान्द्रायणाद्यैर्वा हविष्यैर्नर्त भोजनैः || उपवास समोपेतैः पञ्चगव्याशनैरपि | प्राणवृत्ति निरोधेन प्रणवं सर्वदाभ्यसेत् || लक्षमेकं यथा पूर्णं षण्मासं कृत निश्चयः | अघोरास्त्रमघोरञ्च दशसाहस्रकं जपेत् || तदन्ते शिवमभ्यर्च्य सन्तर्प्य जपमर्चयेत् | कायशुद्धिरिति प्रोक्तः कृत्वा यागञ्च पूर्ववत् | अभिषिच्यात्मनात्मानं प्रासादेन शिवाम्भसा | ततः सहायैर्युक्तः सन् निहितावृतमाचरेत् | स्नानं पूजा जपं होमं नैत्यं कर्म समाचरेत् || स्वाधीने स्थिरलिङ्गे च स्वेष्टलिङ्गे तथा जले | प्. ४०६) मूलमन्त्रं जपेत् पश्चात् पञ्चलक्षमतन्त्रितः | अविलम्बितमस्पष्टमद्रुतं भ्रान्ति वर्जितम् || प्रत्यहं जपमेतावदिति निश्चित्य निर्वहेत् | अङ्गानि तद्दशांशेन तात्वहोमं च नित्यशः || गवाज्येन घृतान्नैर्वा पुष्पैः कृष्णैःस्तिलैः शुभैः | शक्तिथञ्जपहोमौघफलं शम्भोः समर्पयेत् || दिनानि क्षेपये देवं मत्वा देहमशाश्वतम् | जपान्ते देव देवेशमर्चयित्वा विशेषतः || होमं विशेषतः कृत्वा भोजयित्वा तपस्विनः | अन्यान् माहेश्वरान् सर्वान् विप्रान् सन्तर्प्य शक्तितः | सर्वकर्मार्पणं कृत्वा नत्वा शम्भुं क्षमापयेत् || इति मन्त्रं जपेत् संख्यां श्रीशिवज्ञान शम्भुना | पाशच्छेदेन सामर्थ्यं येन स्याद्देशिकात्मनाम् || || इति ज्ञानरत्नावल्यां संहिता व्रतविधिः || श्रीमहागणपतये नमः - अथ जीर्णव्रतं शिष्यं संहितार्थ विशारदम् | सर्वावयव सम्पूर्णं सर्ववर्ण कुलोत्तमम् ||
SKव्रतिनां ग्रहिणां वापि सेचयेदार्यसत्तमम् || उक्तञ्च - चतुर्णामपि वर्णानां लिङ्गिनां व्रतिनामपि | आचार्यत्वं शिवेनास्मिन् सिद्धान्ते प्रतिपादितम् || स वर्णादनुपूर्वेण तेषामेकतमं शिशुम् | प्. ४०८) सत्यव्रतपरं शान्तं त्यागयुक्तं दयान्वितम् | प्रसन्नवदनं दक्षं गुरूत्तममचापलम् || शौचाचार सुसम्पन्नं योगयुक्तं जितेन्द्रियम् | शिवभक्तं सदा दान्तं शैवसिद्धान्त पारगम् || यागं कृत्वा यथोद्दिष्टं दीक्षां निर्वर्त्य मन्त्रवित् | ततोऽभिषेचयेच्छिष्यं युक्तायुक्त विशारदम् || इति | तथा - त्रिपदार्थं चतुष्पादं भुक्तिमुक्तिफलोदयम् | संहितां यो विजानि शिष्येऽसौ से तु? मर्हति || तथा - चतुर्मन्त्री गुरुश्चेति द्विधोक्तो वृत्तिभेदतः | मनाक्तवतये सम्यगुच्यते लक्षणं तयोः | तत्र देशे गुणाचार भक्तिशक्ति क्रियान्वितः | हिंसा निग्रहयोर्नित्यं अप्रमत्तः सहायवान् || स्थिरधीः सत्वसम्पन्नो जितद्वन्द्वो जितेन्द्रियः | अनिवृत्ता भियोगश्च साधकस्या दृढत्वतः | गुरुश्चैवं विधः किन्तु सुमूर्तिः श्रुत शीलवान् || न ही नाङ्गोऽधिकाङ्गश्च नाति दीर्घो न वामनः | नाति कृष्णोऽति गौरश्च नातिस्थूलो न वा तनुः || न शशिर्नाति जीर्णो वा न घृणी नात * * * | अविखण्डित चरित्रो न पुनर्भिन्नकं धनम् || प्. ४०८) नापि भस्म प्ररोहाख्यः षण्डः कुण्डश्च गोलकः | तार्किको नास्तिको रोगी विषभूतभिषक्क्रियः || इत्यं सलक्षणं शिष्यं सेचयेत् संयतं शुचिः | निन्दितं लक्षणैर्हीनं सर्वदा न च सेचयेत् || इति || अथाचार्यः शुभे देशे काले लग्ने कृतक्रियः | यागः पूर्ववदापाद्यं शम्भु कुम्भस्य पश्चिमे || दक्षिणे स्थण्डिले शस्य वेद्यां पद्मे कृतेऽक्षतैः || निष्कलं शिवमभ्यर्च्य कर्णिकायां शिवाणुना | सदाशिव मनन्तञ्च श्रीकण्ठं पार्वतीं हरम् || ब्रह्माणं कार्तिकेयञ्च स्वाचार्यञ्च ध्रुवासने | पूर्वादीशान्त क्षेत्रेषु विस्तरेण हृदार्चयेत् || गुरुपङ्क्ति समीपस्थं चण्डेशं साङ्गमर्चयेत् | प्रत्येकं शतहोमेन तर्पयित्वा निजाणुना ||
SKशिष्येणापि तथार्चाप्य शिवं विज्ञापयेदिति | भवतैव महंस्वामिन् * * * नादिष्ये मूर्तिमान् || दीक्षाव्याख्या नियोगोऽयमधिच्छेदाय सुव्रत | सम्यग्ज्ञाति परिज्ञान वृत्ताकारवते त्वया || दातव्यो निजशिष्याय शिरस्सेकादनन्तरम् | तवानुभावतः सोऽयं मयीदानीमुपस्थितः || तस्मैदन्नं प्रयच्छामि द्वितीयं भवदाज्ञया || प्. ४०९) एवं कुर्वित्यनुज्ञातः बहिः पूर्वेऽथवोत्तरे | ईशाने पश्चिमायां वा मण्डले प्रत्यगानने || पूर्वपश्चिम संस्थानं वेदिकाद्वितयं शुभम् | चतुर्हस्तं क्वचित्प्रोक्तं द्वादशाङ्गुलमुत्तमम् | क्वचिद्द्विहस्त विस्तारं मङ्गलाङ्गुलमुन्नतम् || लिप्तं स्वस्तिकपद्मादि पुष्पप्राकरशोभितम् | विधाय पुरुववद्युद्धे सप्तधान्योपरिस्थितान् || चर्चितान रुणान् हेमसर्वौपध्यक्षतान्वितान् | चूतपल्लववस्त्रः स्यात् पूर्णपात्रफलान्वितान् || मूलमन्त्रशतालुब्ध तीर्थवीर्यासुपूरितान् | ईशाद्याशासु मध्ये च कलशान्नव विन्यसेत् || क्षारक्षीरोदधि सर्पिः इक्षुकादम्बरी रसः | दर्भोदश्च क्रमादष्टौ न्यस्तव्यास्तेषु सिन्धयः | शिखण्डि रुद्रं श्रीकण्ठं त्रिमुक्तिं चैक रुद्रकम् | एकनेत्रं शिवोत्कृष्टं सूक्ष्मं चानन्तसंज्ञकम् || शुद्धस्फटिक संकाश नैकवक्त्रांश्चतुर्भुजान् | वरदाभय शूलाक्षमालाहस्तान् त्रिणेत्रिणा || क्षारादि जलयावेतान् षडुत्थासनकं न्यसेत् | स्वसंज्ञाङ्कितमूलेन प्रणवेन हृदाथवा || मध्यमं कलशे शक्तिं सुधाकल्लोल पूरिते || प्. ४१०) पूर्वतद्गन्ध धूपादि विस्तरैरर्चयेच्छिवम् | चतुर्दिक्ष्वथवा कुम्भेरक्तनीलसितारुणान् || अनन्ताद्येक नेत्रान्तान् आग्नेयादिघटे पुनः | एकरुद्राञ्च खण्डान्तासिताद्य नीललोहितान् || पञ्चास्यां चतुरास्यां वा शिवायुध धरान् यजेत् || यद्वा पञ्च कलाकॢप्त पञ्चकुम्भेषु पूर्वतः | प्रतिकुम्भं न्यसेत् सिन्धुद्वयं रुद्रद्वयं तथा || मध्ये कुम्भे यजेच्छम्भुमीशाने वा क्वचिन्मते | एकस्मिन् कलशेपलपुटे वा सर्वमर्चयेत् ||
SKप्रत्येकं निजमन्त्रेण पूर्णान्तं जुहुयाच्छतम् | ततस्सलिप्त भूभागे मण्डले पिष्ठकाकृते | अक्षते स्वस्तिके क्षिप्ते तत्र पीठे करामृते || तदर्थ विस्तरोच्छ्राये पङ्कजाङ्केवलाचने | कृतनित्य क्रियं स्नानं सितवस्त्रमुपोषितम् | भुक्त्यै पूर्णाननं शिष्यं मुक्त्यै सौम्याननं स्थितम् || अभ्यर्च्य सकलीकृत्य स्वशिष्यैः सहितो गुरुः | आवेष्ट्य वर्मणां रक्षां वज्राद्यस्त्रैर्विधाय च || द्रव्य गोमयमृद्भस्मकञ्चिकोदन सर्षपैः | कार्पासोदधितोयाठ्यैः वेदघोषादिमङ्गलैः | निर्मृज्य स्त्री जनैर्वाधि संवेष्ट्य कवचांबुना || प्. ४११) उद्धृत्य कलशान् पूर्णं क्षारोदाद्यैरनुक्रमात् | साधकादिभिराचार्यैरष्ट विद्येशमूर्तिभिः || सुधाधारणया सेकः कायोऽयं शिवधर्मणः | अनन्तादिशिखण्ड्यन्त कलशैर्लोक धर्मिणः || शम्भु कुम्भांभसा पश्चात् गुरुणा शिवमूर्तिना | अस्त्राम्बुधारयाचाम दत्वा वस्त्रद्वयं सितम् | पीठे पश्चिमवेद्यायामासने भूषणादिभिः || अलंकृत्य यजेच्छिष्यमारात्र्यादि प्रविस्तरैः || हरिद्रोदनपिण्डानि दधिदूर्वाक्षतानि च | समुत्थाय क्षिपेद्दीक्षां त्रिधावेष्ट्याम्बुधारया | रेचना चमनं दूर्वां कुसुमं दधि पायसम् || सक्षौद्रं श्वेतसिद्धार्थं मङ्गलायाभिवन्दयेत् || तस्य सव्यकरं सव्यपाणिना गृह्यदेशिकः | स प्रदक्षिणमादाय यागसद्म नियोजयेत् || देवस्य दक्षिणे पीठे मण्डले समुपस्थितम् | शिष्यं शिववदभ्यर्च्य शिवं विज्ञापयेदिति || अभिषिक्तस्त्वया नाथ कृपया गुरुमूर्तिना | शिष्योऽयं भगवन्नस्मै दीक्षादावधिकारिता || दातव्या योग्यता पेक्षा प्रेरितायविभोऽधुना || इत्याज्ञातो गुरुर्दद्यात् अधिकारं यथोच्यते | प्. ४१२) उष्णीषं मकुटं चित्रं शिविका चामराणि च | कङ्कणं मुद्रिकाहारं केयूरं रत्नकुण्डलम् || संहिता संहिता सूत्रं करणी योग पट्टकम् | दत्वा सिंहासनं तस्मै गुरु पङ्क्तौ शिवाज्ञया || दीक्षादावधिकारं च प्रणतंश्रावयेद्यथा | परतत्वं च समयाश्चण्डेशं गुरुसाक्षिकान् ||
SKत्वयाधि कारिणा यस्माद्गुरुपारम्परागतम् | नित्यं नैमित्तिकं काम्यं सदा सद्देशवासिना | अद्य प्रभृति कर्तव्यं सुविचार्य शिवज्ञया || इत्याज्ञाप्य शतं हुत्वा पूर्णां दत्वा शिवाणुना | ऊषरत्वाय पाशानां सव्याङ्गुष्ठादिषु क्रमात् || अङ्गेरस्त्रादिभिः सम्यग्दीप्तदर्भेण लाञ्छयेत् | एवं निवेदितात्मासौ गुरुः पाशैर्नियुज्यते || शिवं सम्पूज्य तद्धस्ते सम्पाताहुतिदीपिते | तेजो बिम्बमयं मूर्ध्नि तस्य हस्तं प्रदापयेत् || शम्भु कुम्भात्मवह्निभ्यः पूजां नित्यादि कारयेत् | गुरुपङ्क्तिमयाभ्यर्च्य स्वाराध्यञ्च प्रणम्य च || दीक्षापाशविशुद्ध्यर्थं गुरुरात्मानमर्पयेत् | उक्तञ्च - गुरुरप्यात्मशुद्ध्यर्थमिष्ट्वा देवं विधानतः | शिवादि यावदात्मीयं गुरुपङ्क्ति पूजयेत् || प्. ४१३) शास्त्रोपदिष्टमार्गेण वारुण्या श्वरस्य तु | पद्मस्थान् पूजयेन्मन्त्री मण्डले दृष्टमानसः || सदाशिवमनन्तं च विद्यारुद्रं सहोमया | विष्णुञ्च देववेत्तारं ब्रह्माणं स्कन्दमेव च || स्वगुरुं पुत्रकं वर्यात्पूज्य शम्भुं तथा गुरुम् | गन्धपुष्पपवित्राद्यैः वस्त्रालङ्कार वाहनैः || पूजयित्वा विधानेन स्वात्मानं विनिवेदयेत् | अद्य प्रभृति भगवन् योऽयं देहोममात्मकः || युष्मदीयो विकल्पेन तास्यः प्रास्यश्च ते सदा | एवं गुरुवशोभूत्वा सन्तिष्ठेद्यावदायुषम् || अनुज्ञातो यदा तेन कुरुकार्याणि साम्प्रतम् | अग्निकार्यं तथा पूजा दीक्षा व्याख्या व्रतानि च || इति तस्याज्ञया कुर्याद्दूरे तत्सन्निधौ न च | वृथा तेषां विजानीयाद्गुरुर्येषां न हृष्टदः || गुरुः पितागुरुर्माता गुरुर्देवो गुरुः सुहृत् | गुरोश्च न परं किञ्चिदित्याह भगवाञ्छिवः || ज्ञानाञ्जनेन दिव्येन योद्धारयति चक्षुषी | अज्ञानतिमिरा क्रान्ते तस्मात् सर्वमयोहिराः || गुरूपदिष्टमार्गेण प्राप्नुवन्तिपरं पदम् | तस्मादादौ गुरुः पूज्यः पश्चाद्देवो निरञ्जनः || प्. ४१४) दीक्षायाधः परः स्थानः नयते शाश्वतं पदम् | तस्मान्नास्तीति बोद्धव्यं गुरोः परतरं गुह || इति |
SKबहु शिष्यविधावेव?मेक शिष्ये त्वयं विधिः | स्वाधिकारं समर्प्याथ स्वयं योगं सदाभ्यसेत् || शून्यागारे वनेवाथ निःसङ्गो निस्स्पृहस्ततः | यदित्यक्तुमशक्तोयमात्मा दीक्षां तदा चरेत् || वह्नौ तत्वमयं न्यस्त्वा सन्तर्प्याधारशक्तिकम् | साध्वीरान्धान योगेन स्वात्मानं तत्र योजयेत् || सहस्रं मूल मन्त्रेण हुत्वा पूर्णाञ्च भास्वरम् | उद्धृत्यात्मानमायोज्य द्वादशान्ते परे शिवे | ततः सृष्टया निजेदेहे संयोज्यार्घ्यं निवेद्य च || आत्मानात्मनि कर्तव्यः त्वभिषेकः पुरोदितः | अधिकरोमयानाथ त्वदाज्ञानुविधायिना || शिष्येऽस्मिन्नर्पितस्तस्मा दधिकारं प्रसीदमे | इति विज्ञाप्य देवेशं तेन दत्ताधिकारवान् | शतं मूलेन पूर्णान्तं हुत्वा नत्वा क्षमापयेत् || उक्तञ्च कालोत्तरे - अधिकारेर्पिते तस्मिन् वानप्रस्थत्वमभ्यगात् | आहुतीनां सहस्रञ्च जुहुयाद्वा शिवाणुना || अधिकारं पुनर्दत्तं शङ्करेण तु पद्मना || त्वयावत् संप्रकर्तव्यमधिकारं यथेच्छया || प्. ४१५) यावद्देहावसानन्ते मयादत्तं यथा विधि || इति || अथाभ्यर्च्य विसृज्येशं कुर्यादवभृतं शिशोः | सदाचार्यवशस्तिष्ठन् स च नूतनदेशिकः || कृतनित्यविधिस्तत्र संपूर्णो यागसद्मनि | शिवास्वगुरुपर्यन्तां पूजयेद्गुरुपद्धतिम् || शिवमुक्त प्रकारेण हृदयेन सदाशिवम् | तथानन्तं हरं देवीमच्युतं कमलासनम् || षण्मुखं स्वगुरुं चान्ते प्रणवासनवर्तनम् | यथापि च दुपर्येष्टा तर्पयित्वा च पातके || कृतपूर्वोक्त कर्माणं शिष्यं तत्कारितार्चनम् | तद्गृहीत्वाद्वयं नीत्वा बहिर्नीत्वाभिषेचयेत् || ऐशान्यामुत्तरस्यां वा प्रतीच्यां वा द्विहस्तके | विस्तरेणोच्छ्रयेणापि स्थण्डिले मङ्गलाङ्गुले | सद्यो गोशकृता लिप्ते पद्मस्वस्तिकलाञ्छिते || दूर्वापुष्पाक्षताकीर्णे वितानालङ्कृताम्बरे || धर्मादि विभवासीनं पूर्वास्यञ्चोत्तराननम् | सितमालाम्बरांश्वेत गन्ध सिद्धार्थकाक्षतैः || अर्चितं लोकपालास्त्रैः पिष्टगोमयकल्पितैः | निर्मार्जितं प्रदीपैश्च सत्पुत्र्यां प्रतिबोधितैः ||
SKशम्भुकुम्भासमापूर्वमनुशास्त्रालुकाम्बुना | बुभुक्षुमभिषिञ्चेत मुमुक्षुं तद्विलोमतः || त्याजितं स्नानवस्त्राद्यं गृहीत्वान्यत्प्रसाधनम् || प्. ४१६) प्रयतं चार्चितं कृत्वा नीत्वा च गुरुसन्निधौ | ब्रूयात्तमङ्ग शृण्मेति वृत्तं पुरुषयत्नतः || स्नानस्यावभृतं पुण्यमादिष्टं परमात्मना | अव्यग्रमेव मनसा मानसस्थ मनातुरम् || शिववत्पूजयेन्नित्यं गुरुं शिष्यः प्रसन्नधीः | दक्षिणाङ्गगतस्तिष्ठेद्ब्राह्मणः क्षत्रियस्तथा || वामाङ्ग भागे वैश्यस्तु शूद्रश्चैवाज्ञया गुरोः | कटासने विशेन्नित्यं नीचे वा कुशपिण्डके | याने शय्यासने तिष्ठेदचक्षुर्विषये गुरोः || आज्ञापयेदिति ब्रूयाद्गुरुणा व्याहृतस्सदा | विज्ञापयामीति पुनः वक्तुकामस्तु नान्यथा || जाम्नाव भाषणं * * * * * * * * * * | गौरवं योग पीठं तु शुश्रूषन्नपि ना क्रमेत् | यथासन प्रमाणं तु त्वासनस्थस्य वै गुरोः || यथाशय्या प्रमाणन्तु शय्यायां संस्थितस्य तु | न दद्यादपदेशञ्च मुक्तासौ प्राणसंशयः | स्थिते नैव स्थितं * * * * * * * * * * || नोत्थापयेत्सुखासीनं शयानं वा प्रबोधयेत् || प्. ४१७) अन्यत्र प्राण सन्देहात् नोचेत्किञ्चिदुदीरयेत् | गुरोः कार्यं सदा कुर्यान्मूलेन कृतदास्वसत् || अर्थाभि जनविद्यानां परित्यक्तमदो भवेत् | आर्जयित्वा तु यत्किञ्चित्सद्विद्यां द्रविणादिकम् | तीर्थक्षेत्र फलं वापि तद्गुरोः प्रतिपादयेत् || अभिप्रायं गुरोर्ज्ञात्वा भूयस्तद्गतमानसः || आज्ञामलङ्घयन्कुर्यादाज्ञातो यत्र कुत्रचित् | जानन्नपि न कुर्वीत वदा शिष्योग्रतो गुरुः || तथा ज्ञानावले पञ्च निवसेज्जडवत्सदा | भगवत्पूज्य पादान्तं गुरुर्नामप्रकाशयेत् || उक्तानुक्तं च यत्किञ्चिदाचरेद् आज्ञया गुरोः | अनिमीत्तं न भोक्तव्यं शिष्येणान्तं गुरोः सदा || देवस्वमिव निस्तार्य कल्पकोटिशतैरपि || इति || तथा - सगुणो निगुणोवापि गुर्वाज्ञां शिरसा वहेत् | सद्गुणो ज्ञापिते तस्य सर्वयज्ञ फलं भवेत् || दुर्गुणे ख्यापिते सोऽपि नैर्गुण्य फलभाग्भवेत् | श्रेयार्थीयः सर्वगुर्वाज्ञां मनसापि न लङ्घयेत् ||
SKगुर्वाज्ञा पालनात्सम्यग्ज्ञान सम्पत्तिमश्नुते | गुरोर्विरुद्धं यद्वाक्यं न वदेत् तत्कदाचन || वदेह्यदि महामोहाद्रौरवं नरकं व्रजेत् | तं क्रोधाद्येत्य शिष्यन्ति तेषां यज्ञाश्च निष्फलाः || प्. ४१८) जपाश्च नियमाश्चैव नात्र कुर्याद्विचक्षनैः || इति || तथा शाक्ते मू * * * पीठे उलावतारे च * * * |? वरणं प्राण परित्यागः गुरोर्वाक्यं न लङ्घयेत् || गुरौतुष्टे शिवस्तुष्टः रुष्टे रुष्टो न संशयः | तस्मात् सर्वप्रयत्नेन गुरोस्तुष्टिं समाचरेत् || ये द्विषन्ति परोक्षे वै प्रत्यक्षे प्रियवादिनः | कुम्भी पाके च ते यान्ति पापिष्ठाच्चाधमां गतिम् || य एकाक्षरदातारं गुरुं शिष्यः स निन्दन्ति | असितां वैपुरीं याति समयस्य न संशयः || गुरोः परोक्षे विद्वेषं यः शृणोति यशस्विनी | श्रुत्वा चैवानु मन्येत सोऽपि याति न संशयः || शिवभक्तिं परित्यज्य योऽन्यं देवं प्रशंसते | न तस्य भवते दीक्षा कृताचेन्निष्फला भवेत् || तस्मात् सर्वप्रयत्नेन शैव मार्गं समाश्रयेत् || || इत्याचार्याभिषेक विधिः || ॐ श्री महागणपतये नमः || यः कामी पूर्वमित्युक्तः स स्मृतः साधकस्त्विह | तस्याप्येवं विधानेन शिरस्सेकादनन्तरम् || उष्णीष कर्तरी हीनमधिकारं समर्पयेत् | प्रासादे कृतमेनोपगवैभस्तेस्य सिद्धयः || आचार्यव्रतमाचार्यश्चरेदाचार्य सन्निधौ | प्. ४१९) चरेन्मन्त्रव्रतं मन्त्री लिङ्गाग्रे मण्डलेऽथवा || तदुक्तं च स्वायंभुवे - अथाचार्यव्रतं श्रेष्ठं चरेदाचार्य एव हि | सद्यादि शिव पर्यन्तामभ्यसेन्मन्त्र संहिताम् | पक्षत्रयमधः शायी नक्ताशी चरुभुक्सदा || मौनी त्रिषणस्नायी द्वन्द्वानुद्विग्न संयमी | शुक्लाम्बरधरः शान्तः शुक्लमाल्यानुलेपनः || योगपट्टा च सूत्री च मौञ्ज्य जिनपवित्रधृत् | जपञ्च प्रत्यहं कुर्याज्जपान्ते शक्तितः क्रमत् || घृतेन वा घृताक्तैर्वा तिलैः क्षीरेण तण्डुलैः | ब्रीहिभिर्वा समिद्भिर्वा दध्नावपि यवैस्तथा || श्रीफलैर्बिल्वपत्रैश्च पुष्पैर्वा याज्ञिकैः शुभैः ||
SKततो व्रत समाप्तौ तु पूर्वोक्तं मण्डलं यजेत् | पूतग्रहण काले च देशिकः साधकस्तथा || अभिषिच्यात्मनात्मानमनन्तं बीजयेत्ततः | चरेन्मन्त्रव्रतं मन्त्री साध्य मन्त्रोक्त वर्त्मना || इति || अथ यदुक्तं कालोत्तरे - अथा चार्याभिषेकार्यं नवनाहं विवर्तयेत् | काम्यानामपि सर्वेषां नवनाह फलप्रदम् || ऐशान्यां दिशि कर्तव्यं यजनं परमेष्ठिनः | चतुष्पादार्थकुशलं षट्पदार्थौघ वेदिनम् || तदा साह सिहकं वीरं सर्वभूत हितेरतम् | प्. ४२०) गुरुस्तमभिषिञ्चेत चीर्णविद्याव्रतंवरम् | शिवं ब्राह्माणि चाङ्गानि जप्तव्यानि शिवालये || संनियम्येन्द्रिय ग्रामं वर्षमेकञ्च संमतम् | नित्यभिक्षा भुजाशुद्ध कुशप्रस्तरशायिना || पूजानि भवनोद्युक्त चेतसा भावितात्मना | विद्याङ्ग वर्णे लक्षे तु समाप्ते मण्डलं विदुः || गुरुः नवपद्मकृतं ह्येवं यजनीयञ्च पूर्ववत् | तथा भिषेक योग्यस्य नान्यया तु कदाचन || शापानुग्रह सामर्थ्याद्गुरोस्तेन प्रशस्यते | व्रतमेतत्परं पुण्यं सिद्धा च विनियोजयेत् | साधकस्यात्म सिद्ध्यर्थं सर्वदाव्रतमाचरेत् || मूलार्क योगमिन्दोर्वा श्रवणेन सहेकतः | शुक्ल पक्षे च सुतिथौ सुयोगे चोत्तरायणे || अष्टम्यां वा चतुर्दश्यां अभिषेकः प्रशस्यते || इति श्री विश्वेश्वर पादाब्जषट् पदेन विपश्चिता | श्रीमज्ज्ञान शिवेनायमभिषेक विधिः कृतः | श्री महागणपतये नमः || अथ प्रसङ्गतः स्वल्पं मण्डलं लिख्यतेऽधुना | चतुरश्रसमक्षेत्र दर्पणोदर सन्निभे || पूर्वापरायतं सूत्रमास्फाल्यं मध्यतोऽङ्कयेत् | कोटिद्वयं तु तन्मानमङ्कयेद्दक्षिणोत्तरम् || प्. ४२१) उदक्क्षेत्रार्थ सूत्रेण मध्यात् कोणेषु लाञ्छयेत् | चतुसूत्र पदानेन वेदाश्रं वर्तयेद्बुधः || चतुर्हस्तेष्टधा भक्ते द्विपदं कमलं मतम् | वीथिका पादिकाबाह्ये द्वाराणि द्विपदानि च | कपोलोपकपोलाढ्यो कान्त्रियुक्तानि तानि च || कोणबन्धं विचित्रं तद्द्विपदं वर्तयेच्छुभम् | दलानि शुक्लवर्णानि कर्णिका काञ्चन प्रभा ||
SKकेसराणि चतुष्षष्ठिः पीतरक्त सितानि च | मूल मध्याग्र देशेषु स्थिरहर्तुः प्रवर्तयेत् || अरुणावीथिका कार्या पत्रवल्लीविचित्रिता | लोकपालानुरूपेण द्वाराणि परिपूरयेत् | व्योमरेखान्तरालञ्च कार्यं वै सूर्य सन्निभम् | अरुणं कोणसन्धिञ्च पीतं वाथहितं सितम् || इति भद्रं समाख्यातं शिवस्याधारमुत्तमम् | नित्ये नैमित्तिके कार्यं भद्रं भद्रप्रसिद्धये || अथ पद्मविधानञ्च लेशतः कथ्यते मया | असंसक्तञ्च संसक्तं कमलं द्विविधं मतम् || भुक्तिमुक्तिप्रदं पुंसामसंयुक्तं सदाहितम् || मुमुक्षूणां हितं नित्यं संयुक्तं पार्वती सुत | तच्चैककं त्रिधाज्ञेयं गुरुणाकल्पवेदिना || प्. ४२२) बालान्तरुण बृद्धञ्च नामतः फलसिद्धये | इति मत्वा ततः पद्मं वर्तयेदनुपूर्वशः || पद्मक्षेत्रे तु सूत्राणि दिग्विदिक्षु विनिक्षिपेत् | तथा षोडशसूत्राणि द्वात्रिंशत्तानिसंख्यया || वृत्तानि पञ्चकल्पानि पद्मक्षेत्रे समानि च || प्रथमे कर्णिका तत्र पुष्करैर्नवभिर्यथा | केसराणि द्वितीया तु चतुर्विंशति संख्यया || दलसन्धि तृतीये तु गजकुम्भाकृतिर्भवेत् | चतुर्थे तु दलाग्राणि व्योमरूपञ्च पञ्चमे || व्योमरेखा तदन्ते च न स्थूला न कृशाहिता | संसक्तं कमलं प्रोक्तं समसक्तमथोच्यते || असंसक्ते दलाग्रं तद्दिग्भागैर्विस्तराद्भवेत् | भागद्वय परित्यागाद्वस्वंशैर्वर्तयेद्दलम् || सन्धि विस्तर सूत्रेण तामनं लाञ्छयेद्दलम् | सव्यासव्यक्रमेणैव वृद्धपद्मं तदा भवेत् | अथ तत्त्सन्धिमध्यात्तु भ्रामयेदर्ध चन्द्रवत् || सन्धिद्वयाग्रहं सूत्रबालपद्मं तथा भवेत् | सन्धिसूत्रानुमाने तु पृष्ठतः परिवर्तयेत् || तीक्ष्णाग्रं तरुणं तेन कमलं भुक्तिमुक्तिदम् | मुक्तये वृद्धपद्मञ्च बालं स्यादिष्ट सन्धिषु | युवादल प्रयत्नेन सर्वकर्मसु शस्यते | चतुभ्रमवा कर्तव्यं संसक्तं व्योमवर्जितम् || प्. ४२३) व्योमरेखाञ्च किञ्चात्र दलाग्रान्ते विवर्तयेत् | इति लेशेन कमलमष्टपत्रं प्रदर्शितम् ||
SKसर्वसाधारणं वत्स विनिविघ्नेश मण्डलम् | मण्डलं नवनाथाख्यं कथ्यमानं शृणु प्रिये | अष्टहस्तं समक्षेत्रं दशहस्तमथापि वा | चतुस्सप्तातिभिर्भागैः समन्ताद्विभजेत् पुरम् | समन्तादष्टभिर्भागैः तन्मध्ये कमलं भवेत् || पादुका वेदिका कार्याद्वारं पक्षार्धमानतः | कल्पो?पकण्ठयुक्तं तत्कण्ठ्यं वर्तं द्विपट्टिकम् || इत्येतन्मध्ये कमलं विधिकाद्वारसंयुतम् | कथितं ते समासेन तद्बाह्ये वीथिकामता || पञ्चभागमितासा तु समन्ताद्दशभागिका | दिग्विदीक्षु ततः कार्यमष्टपद्मं पुरोक्तवत् | तद्भाह्ये पञ्चपदिका वीथिका पत्रभूषिता || पद्मवद्द्वार कण्ठं तु पदिकञ्जुपकण्ठकम् | कपोलं पदिकाकार्यं दिक्षुद्वारत्रयं स्फुटम् || को * ब * त्रिपदिकं द्विपदं वज्रवद्भवेत् | मध्ये तत्कमलं शुक्लं आपीतं पूर्वपङ्जम् | आग्नेय्यां रक्तवर्णं तु नीलाब्जं दक्षिणे स्थितम् || ध्रूम्रं वायुकोणस्थं रक्तपीतं तदुत्तरे || प्. ४२४) ईशाने मौक्तिक प्रख्यं शुक्लं वा नव पङ्कजम् | पद्मगौरमथोवापि रक्तगौरं यथापि वा || नवनाहं समाख्यातं प्रसादाख्यं शिवस्य तु | मध्य पद्मेशिवः पूज्यो लोकेशांश्चापरेषु च || अस्त्राणि बाह्यवीथौ तु भक्त्याधः पूजयेत्ततः | अश्वमेधसहस्राणि राजसूयशतानि च | एतन्मण्डल पूजायां कलां नार्हन्ति षोडशीम् || नासौ लिप्यति पापेन पद्मपत्रमिवाम्भसा | नित्ये नैमित्तिके काम्ये कर्तव्यं भुक्तिम्क्तये || महामण्डलसंज्ञं च वक्ष्येऽहं सर्वसिद्धिदम् | अष्टहस्तं पुराक्षेत्रं भागैर्विंशतिभिर्भजेत् || द्विपदं कमलं मध्ये वीथिका पयिका बहिः | दिविदिक्षु तथाष्टौ च नीलाब्जानि विवर्तयेत् || मध्यपद्म प्रमाणानि तीक्ष्णाग्राणि शुभानि च | दल सन्धिविहीनानि वीथिका पदिका ततः || पदानि दिविधां कृत्वा दिक्ष्वष्टौ स्वस्तिकानि च | वीथिका पदिका बाह्ये द्वाराणि कमलं यथा || कण्ठोपकण्ठसंयुक्तं कपोलोपकपोलयुक् | मध्य पद्मं स्थितं कार्यं कर्णिका कनक प्रभा ||
SKकेसराणि विचित्राणि पीतरक्तसितानि च || प्. ४२५) असंयुक्तं दलं शस्तं व्योमदव्योमकल्पनम् | कोणाश्व कोणवर्णास्तु वीथिकाकाञ्चन प्रभा || श्यामरूपाण्युत्पलानि कर्णिकारसकर्णिका | नानावर्णा स्वस्तिकास्युर्वीथिका पत्रवर्तिता || नानावर्णानि द्वाराणि रजसा परिपूरयेत् | महामण्डलसंज्ञन्तु शिवस्य हृदयं पति || प्रवित्रारोहणे शस्तं दीक्षायाञ्च विशेषतः | सर्वान्कामानवाप्नोति महामण्डल पूजनात् || श्रीमहागणपतये नमः पञ्चाब्जं संप्रवक्ष्यामि तद्व्रतानां समर्पणम् | लिङ्गोद्धारे च कर्तव्यमणिमादिषु सिद्धये || पञ्चहस्ते समेक्षेत्रे समन्तादिन्द्र भाजिते | द्विपदं कमलं मध्ये वीथिका पदिका ततः || चतुर्दिक्षु चतुःपद्मं मध्यवत्परिवर्तयेत् | तद्बाहिः पथिकालीथिः द्वाराणि द्विपदानि च || कण्ठोपकण्ठयुक्तानि विचित्रं कोणसङ्गमम् | मध्याब्जं सुसितं कार्यं पीतवर्णञ्च केसरम् || आपीत पङ्कजं पूर्णं वैडूर्याभन्तु दक्षिणम् | उत्तरं दरदाभासं चन्द्राभं वारुणाम्बुजम् || रक्ताभाप्रथमा वीथी काञ्चनाभा परामता || प्. ४२६) लोकेश प्रतिरूपाणि द्वाराणि शिखिवाहन | पञ्चाब्जं मण्डलं प्रोक्तं सर्वकाम प्रसिद्धिदम् || इति कालोत्तरे प्रोक्तं मण्डलं लिखितं तव | प्रासाद तिलकं वक्ष्ये मण्डलार्णव भाषितम् || चतुष्षष्ठि पदेभागान्नवकोणान् परित्यजेत् | स्तम्भमेकेन षड्भागैरूर्ध्वं तिर्यक्शिरोग्निभिः | स्तम्भाद्भागं प्रित्यज्य लिङ्गमेकं यथाभवेत् | षड्भिर्वेदैः कलाभिस्तु पादाज्जङ्घागलं क्रमात् || कण्ठपाठी च वेदी च वेदैष्षड्भिः क्रमाद्भवेत् | मध्ये लिङ्गयुगैर्भागं त्यक्त्वास्तम्भादिपूर्ववत् || एवं पञ्चात्रलिङ्गानि षड्भिः स्तम्भैः प्रकल्पयेत् | लिङ्गस्तम्भान्तर स्थानि लिङ्गोर्ध्वे संस्थितानि च || लब्धा कोष्ठानिवर्तेत शिखरं सितरूपकम् || स्तम्भोर्ध्वे च विमानार्थं पञ्चसप्त विलोपयेत् | कोणस्तम्भ द्वयादूर्ध्वं भागानष्टदशाहरेत् || कोणेषु तिलकाः कार्याः लताभिः सहशोभनाः | तदूर्ध्वे वीथिकाकार्या भागायुक्तै * * * तः ||
SKततो भागान् परित्यज्य कोणान् सप्तपुरोक्तवत् | त्रीणि लिङ्गानि वर्तेत चतुस्तम्भयुतानि च | कोणं पूर्ववदापाद्य वीथिकाभागमानतः || चतुर्भिः स्वस्तिकं कार्यं त्यक्त्वाकोणद्वयम् द्वयम् || प्. ४२७) तदूर्ध्वे वीथिकाकार्या भागमानसमन्ततः | मध्ये द्वादशभागेन युवा पद्मं विवर्तयेत् || बाह्ये वीथी क्वचित्प्रोक्ता पञ्चभागैस्ततोबहिः | दिक्ष्वष्टद्वार विन्यासं पद्मार्धेन क्वचिन्मतम् || पीतेन कर्णिकाबीजं न च कं हरितेन तु | केसराणां तु मूलानि कुन्दहारेन्दुरागणा | कार्याणि रजसा सम्यतान्मध्यान्या रूणानि वै || केसराग्राणि पीतेन धवलेन दलानि तु | भूमिं शुक्लेनरजसा चतुरश्रं त्रिभिर्मता | कृष्णेन रजसालिङ्गं वीथीपत्र विभूषिता || यव गोधूमजैश्चूर्णैः शालितण्डुलजैः सितम् | धातु सिन्दूरजं रक्तं वाथपक्वेष्टकं भवेत् || कृष्णं रजस्तुषैर्दग्धैरङ्गारैर्वा स चूर्णितैः | हरिद्राशाम्भवं पीतं गैरिकोद्भूतमेव वा || हरितैश्चूर्णितैः पत्रैः हारितञ्च प्रकल्पयेत् | एतानि सर्ववर्णानि तण्डुलैः श्यामकादिभिः | कुर्वन्ति भावितैः केचिद्धान्यैर्वा तत्प्रभायुतैः | एवं प्रासादतिलकं मण्डलं भावयेत् सुधीः | सुविशुद्धे महीपीठे दर्पणोदर सन्निभे || वेदिकोर्ध्वेथवा भूमौ मनोरम्ये मरैः शुभैः | विधारे ध्वजमालाद्यैः मण्डितेऽपि भवं यथा || निपात दीपरम्भाद्यैः गन्धपुष्पाद्यलंकृते | प्. ४२८) संप्रोक्ष्यास्त्राम्बुभिर्मन्त्री मण्डलं परमेष्ठिनः | प्रासाद तिलकं तत्र मध्यपद्मे शिवं यजेत् || प्रासादैकतमे नैव ब्रह्माङ्ग सहिताणुना | स्वस्तिकेषु च विद्येशां प्रथमान् पूर्वतः क्रमात् || मूलेन हृदयेनैव ततो लिङ्गेषु मध्यतः | तिलकेषु च पञ्चाष्टरुद्रान् सम्पूजयेद्धृदा | दर्पणे मण्डले तस्य दक्षिणे मण्डलस्य तु | इन्द्रादिलोक पालांश्च प्रथमान् पूर्वतः क्रमात् || स्वस्व दिक्षु च || बाह्यबीजौ यजेत्तत्र मनसा हृदयाणुना | शिवादि लोकपालान्तान् सर्वानेतान् गुरूत्तमः ||
SKसम्पूज्य गन्धपुष्पाद्यैः ध्यानपूर्वं यथागमम् | मूला मन्त्रजपं कृत्वा यथाशक्त्या शताधिकम् || दत्वा शिवस्य देवेषु तद्दशांशं समर्पयेत् | तथा सम्पूजयेदग्नौ तर्पयेद्विधिना चरुम् || इति प्रासादतिलकं द्रोत्प्रोक्तं वैशंकरप्रियम् || नित्ये नैमित्तिके काम्ये कार्यं सर्वप्रसिद्धिदम् | यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् || यत्फलं सर्वदानेषु तपोध्यानपुरस्सरम् | तत्कोटि गुणितं पुण्यं भवेदस्मिन् शिवार्चनात् | प्रासाद तिलकं भक्त्या योनरः पश्यते सकृत् | प्. ४२९) नासौ लिप्यति पापैश्च लिङ्गद्रोहादिभिस्तया | समयाचारलोपैश्च पद्मपत्रमिवाम्भसा || अलमति विस्तरेण | दीक्षा स्थापनयोर्विद्वान् कुम्भ एव शिवं यजेत् | स्थण्डिले चललिङ्गे वा सर्वथा न तु मण्डले | प्रायश्चित्ति भवेद्यस्माद्रजोभं * * लाङ्गवत् || इति मण्डल मार्गोऽपि प्रसङ्गादुदितो मया | तत्कृत्य प्राप्तिबोधाय श्रीशिवज्ञानशम्भुना || || इति मण्डल विधिः | श्रीमहागणपतये नमः || अयना वासये सम्य व्रतोद्धारश्च कथ्यते | अवधौ पूर्वतो शिष्यो गुरोर्विज्ञापयेदिदम् || यथा समर्थ्यमेतावत् कालं निर्वहितं व्रतम् | ममेदानीमशक्यस्य कृपाकार्या व्रतार्पणे || इति यागं विधायाथ शिष्येणाभ्यर्थितोगुरुः | कुम्भस्थण्डिलयोर्दक्षो रजोराजि विराजितम् || गन्धोपेताक्षतैर्यद्वा केवलं चन्दनेन वा | पञ्चाब्ज मण्डलं कृत्वा शिवाधिष्ठित विग्रहः || ईशानं मध्यमे पद्मे पुरुषं पूर्व पङ्कजे | अघोरं दक्षिणे पद्मे वाम मुत्तर नीरजे | अजातं प्रत्यगंभोजे ब्रह्माङ्गसहितानिमान् | श्वेतपीता सितारक्ताक्षीरवर्णा ननु क्रमात् || प्. ४३०) पञ्चवक्त्रां स्त्रिपञ्चाक्षं दशायुधधरास्मरेत् | गन्धपुष्प निवेद्याद्यैः पूजयित्वा दलेषु च || ब्रह्माङ्गानि तथा वर्णैः त्रिणेत्रैकमुखानि च | वरदाभयहस्तानि शक्तिशूलकराणि च || प्रत्येकं शतहोमेन तर्पयित्वा निजाणुभिः | ॐ हौं शिवाय नमः ॐ हौं ईशानेशाय नमः | ॐ ईशाने तत्पुरुषे नमः इत्यादयोमन्त्राः |
SKकृत नित्यक्रियं ब्रह्म सहस्रकृत निष्कृतिः | स्नातं चोपोषितं शिष्यं पञ्चमुद्रासमन्वितम् || प्रवेश्य यागे पूजाप्य तेन कुम्भेश पावकान् | स्थण्डिलेशं प्रणम्याथ गुरुं विज्ञापयेदिति || भगवन् सावधेरस्य व्रतदत्तं त्वया पुरा | व्रतोद्धारश्च कर्तव्योमागाधिष्ठाय सांप्रतम् || एवमस्त्वित्यनुज्ञातः शिवाधिष्ठित विग्रहः | व्रताङ्गसंख्यया हुत्वा प्रत्येकं तु शतं शतम् || पूर्णां मूलाणुना दत्वा व्रताङ्गान्यर्पयेद्यथा | पृथग्दत्वात्मकं दण्डं सद्योजाते निवेदयेत् || कौपीनं कटिसूत्रञ्च ब्रह्मचर्यचलात्मकम् | वामदेवे तथा घोरेऽप्याग्नेयं भसितं तथा || वायव्यमुपवीतं तत्पुरुषे च निजाणुभिः || प्. ४३१) व्योमतत्वं जटाजूटं ईशाने च नियोजयेत् | अस्यास्त्रेण च कर्तव्या जटामुक्तार्य देशिकः || अस्त्रमन्त्रं शतं हुत्वा पूर्णां दत्वा शिवाणुना | चण्डनाथमथाभ्यर्च्य व्रताङ्गानि समर्प्य च || विसृज्य निम्नगातोय प्रवाहेण प्रवाहयेत् | स्थातस्याथ शिशोर्दद्यात्सितवस्त्रद्वयं गुरुः || आज्ञां दत्वा विवाहार्थं पूर्वजातिप्रसिद्धये | शतं जाती च मन्त्रेण हुत्वायागं विसर्जयेत् | नैष्ठिकब्रह्मचारी च विषयासक्तचेतनः | यदि तस्या विदातव्यं तदाघोरं जपायुतम् || विप्लुत ब्रह्मचर्यस्य यदि तस्य न निस्मृतः | विषयोद्युक्त चित्तस्य लक्षघोर जपादथ || एवमेव विधिः कार्या तयोरप्य विशेषतः | उक्तन्च - अथोर्ध्वतो व्रतान् काम्यो गृहस्थो लिङ्गितश्च यः | स गृही पुनरित्युक्तः तयोरुद्धृतिरुच्यते | व्रतं शिखोपवीतञ्च भस्म कौपीनयष्टयः || व्रताभिव्यक्त हेतुत्वाद्व्रतमेतत् तपस्विनः | स्थिरा यस्य * * रो भक्तिर्ब्रह्मचर्यमविप्लुतम् | ब्रह्मचारीव्रतं सम्यक् असमर्थश्च रक्षणे | त्यक्त्वा तत्पूर्वमादौ तु द्वितीयं योऽभिवाञ्छति || प्. ४३२) गार्ह्यस्थं व्रतश्रियम् | आश्रयं मोचयेत्तस्य भौतिकस्य व्रतं कुरु | पुरे पञ्चाब्जके चित्रे ब्रह्माणि पूर्ववद्यजेत् ||
SKव्रतेशानेश्वरं शिवाहमितिवा पाठः | उपवास विशुद्धस्य कृत्य नित्यक्रियस्य च | शिवश्चाग्नेर्गुरोश्चापि यथास्यमनृणस्य च || अपनीयव्रताङ्गानि तानि तस्य विलोमतः | निवेद्य मण्डले तस्य चण्डेशाय प्रवाहयेत् || व्रतं संहारयोगेन कृतं स्नान कषायिणे | वासनं वासिशस्ते वांघ्रोश्चाथ निपातयेत् ||? स्नातकोसीतितं ब्रूयादादार ग्रहणादितः | विवाह पर्यन्तं त्वदारांश्च * * * * * * * || सवर्णादीनि शांशा * * * नांह * * * सि | विप्लुत ब्रह्मचर्यञ्च कृत्वाधिगतकल्मषम् || प्रायश्चित्तं कृत्वेतिशेषः || नियोज्यैवं व्रतं कुर्यादाश्रमान्तर भोजनम् | गार्हस्थ्यम् | नैष्ठिकश्चे * * रिभ्रष्टो ब्रह्मचर्यात्प्रमादतः || संयोजयेदनस्सक्तं व्रतैः संस्कृत्य पूर्ववत् | यद्वा ब्रह्मचर्याद्वि * * * * * * योजयेत् || सागरञ्च भोगासक्तं निक्षिपेञ्चञ्चलैर्गुरुः | प्. ४३३) यदुक्तं पूर्वगोत्रञ्च तदुक्तं तद्वदेव हि | तदुक्तम् - दीक्षाहीनांश्चयान् बन्धून् वर्जयेत्तान् प्रयत्नतः || अदीक्षिता तु या नारी तथा सङ्गं विवर्जयेत् || आत्मलिङ्गधरोजातो देवाग्नि गुरुपूजकः | अत्रात्मलिङ्गं यज्ञोपवीतादि | तथापि दीक्षाविहीनस्य शैवेऽस्मिन्नधिकात्विता | शिवशास्त्रैकचितात्मा शिवज्ञान विशारदः | दीक्षितो दीक्षिते नैव सम्बन्धं सम्यगाचरेत् || अदीक्षितो दीक्षितेन सम्बन्धं न समाचरेत् | व्याख्यानं श्रवणं दानं विशुद्धाच्च प्रतिग्रहः || दीक्षा संस्थापनं चेति षट्कर्माणि सदा गुरोः || इति शैवाव्रत सन्त्यागः प्रोक्तः || श्रीमहागणपतये नमः || शिवभक्त विभिन्नानां दीक्षितानाञ्च सर्वदा | दीक्षोद्धारः प्रकर्तव्यः स यथा विधि उयते || शिवाद्यवनि पर्यन्तं तत्वप्रातं विभावसौ || युगपद्यो जयित्वासौ हृदयेन प्रतर्पयेत् | ॐ हां शिवाद्यवनि पर्यन्तं तत्वव्रातेभ्यो नमः || इति || ताडनादिभिराधाय चैतन्यं तत्र योजयेत् | दीक्षा पुण्यापनोदाय तस्याः पाशुपताणुना | सहस्रं पूर्णया हुत्वा मन्त्रशक्तिं विवर्जयेत् || प्. ४३४)
SKअणुमुद्धृत्य तद्देहे योजयेत् पूर्वकर्म सु | अन्यथा नरकं याति देशिकः शास्त्रदोऽथवा || उक्तञ्च - मायाविनिशठेक्रूरे निःसत्ये कलहप्रिये | कामार्थे लोभसंयुक्ते रोगार्ते तार्किकेऽथवा || शिवभक्ति विहीने च दीर्घसूत्रेऽति कुत्सिते | न देयं शिवसद्भवदुर्न्याय पथवर्तिनि || दातारो नरकं यान्ति न देयं यस्य कस्यचित् | शिवाद्गुरुतरी यस्य गुरौभक्तिः प्रजायते || तस्य देयमिदं ज्ञानं दीक्षा व्याख्या न चेतरः || || इति शिव भक्तिजनहीन जनदीक्षा फलोद्धारः || || श्रीमहागणपतये नमः || अथ प्रसङ्गतोऽन्येषामुच्यते लिङ्गिनामपि | पञ्चार्धकालवक्त्राणां मायायामधरे पुटे || मुक्तिरुद्वक्ता द्वये स्थाने वकुले क्षेत्ररुद्रयोः | ऊर्ध्व * * * कटेशे मुक्तिरुक्ता कपालिनाम् || मुक्तिः स्यात्पौरुषे तत्वे सांख्यवेदान्त वदिनाम् | योनौ भगवते पाञ्चरात्र वैखानसेषु च || जैनान्तमसि विज्ञेया बुद्धौ बौद्ध विदा भवेत् | वायौ चार्वाक * * * क्त्रोणां मुक्तिस्थानमुदाहृतम् || तत्तुत्वाकदिकं कृत्वा क्षित्यन्तद्वय सञ्चयम् || प्. ४३५) सृष्ट्यादेहे न्यसेत्तेषां तत्त्रिरारोपवासिनाम् | स्वस्व मुद्रोपयुक्तानां स्थितानां बाह्यमण्डले || नाडीसन्धान योगेन ताडनादि क्रमेण च | आदाय योजयेदग्नौ कृते यागोर्ध्व सञ्चयम् || पञ्च पञ्चाहुतीर्दद्यात् प्रतितत्वं हृदाणुना | ॐ ह्ॐ माया तत्वाय नमः इत्यादयोमन्त्राः | ॐ हां मायादिधारान्त तत्वव्रतेभ्यो नमः || इति वाममन्त्र प्रयोगः || पूर्णां मूलाणुना दत्वा तद्रात्रावधिवासयेत् | अथ प्रातः कृता शेषक्रियाः कृत्वार्चनादिकाः || प्रवेश्य मण्डले बाह्ये पूर्ववत्तत्व सञ्चयम् | तत्वदेहेषु विन्यस्य सन्निध्याय प्रतर्प्य च || ताडनादिभिरादाअय व्युत्क्रमेणानले न्यसेत् | तत्वा तत्वान्नञ्च विन्यस्य स्वस्व संस्कार शुद्धये || प्रत्येकं जुहुयादष्टौ सहस्राणि समाहितः | गुरुः पाशुपतास्त्रेण पञ्चपञ्च शिवाणुना || प्रतितत्व विशुद्ध्यर्थं पूर्णां दत्वा शिखाणुना | तत्व प्रातान्तमुद्धृत्य पूर्वजातौ ततो न्यसेत् ||
SKतोये तेषां व्रताङ्गानि क्षिप्त्वा कार्या गृह स्थितिः | इति भक्ताः शिवे तेषां दीक्षानिर्बीजकामता || दीक्षादौनाधिकारित्वान्नाभिसिद्धि प्रसाधने || प्. ४३६) उक्तञ्च - न सिद्धि साधने वापि पश्वनुग्रह कर्मणि | अपि शास्त्रार्णवान्तस्थं योग्यं कुर्यात्पुनर्भवम् || इति | यद्वा साष्टदलाम्भोजे वीथीद्वारे विराजिते | कर्णिकायां यजेछम्भुं क्षुमित्यङ्गवता ततः || शिववर्गादीनि वर्गान्ता नष्टौ वर्णा ननु क्रमात् | ईशानाद्यासु संपूज्य वह्नौचाभ्यर्च्य तर्पयेत् || पञ्च पञ्च हृदा हुत्वा तत्र तत्वान्नियोज्य च | मूलेनाङ्गवता हुत्वा शतं पूर्णावसानकम् || शिवर्गादणुमुद्धृत्य देहे तस्य नियोजयेत् | एवं शिवादि वर्गेषु शोधयेत् सकृदेव वा || अणुं नियोज्य तद्देहे व्रताङ्गान्यम्भसि क्षिपेत् || इति श्री शैवागमे * * * धा वारिधे रुद्धृतो मया | व्रतोद्धार विधेर्लेशाच्छ्री शिवज्ञानशम्भुना || || इत्यन्याङ्ग व्रतोद्धारः || श्रीमहागणपतये नमः || अथ योगप्रवृत्तानां त्यक्त्वा सर्वाधिकारिणाम् | ब्रह्म मार्ग प्रवृत्त्यर्थं लिख्यते पावनो विधिः || गुरुं देवं प्रणम्यादौ सुखासीनं सुखासने | एकान्ते विजनेस्थाने ऋजुकायं समास्थितः || अक्षेशमावयेत्पूर्वमिन्द्रियार्थशतं शनैः | प्. ४३७) तन्निधाय हृदिस्थाने पुनर्यातं समाहरेत् | यावत्तावत् स्थितं जातं प्रत्याहारः स उच्यते || उदरं पूरयेत्तावद्वायुना यावदीप्सितम् | प्राणायामो भवेद्देवं पूरको देह पूरकः || विधाय सर्वं द्वाराणि निश्वासोच्छ्वासवर्जितः | संपूर्ण कुम्भवत्तिष्ठेत् प्राणायामः स कुम्भकः || अथोर्ध्वं रेचयेद्वायुं मूर्ध्नि निश्वास संयुतम् | रेचकस्त्वेष विख्यातः प्राण संशयकारकः || व्रतेनाग्रस्य हस्तेन जातु कृत्वा प्रदक्षिणम् | तदन्ते च्छोटिकां दद्यान्मात्रैषा परिकीर्तिता || मात्रा द्वादशभिर्ज्ञेयः प्राणायामः कनीयसः | द्विगुणोमध्यमः प्रोक्तः त्रिगुणो उत्तमः स्मृतः || एकैकां वर्तयेन्मात्रां प्रत्यहं योगवित्तमः | न त्वरं न विलम्बेत क्रमेणैव विवर्धयेत् ||
SKप्राणायामोक्तमेवन्तु द्विगुणा धारणा मता | धारणाद्विगुणा योगो योगोऽपि द्विगुणीकृतः || योग सन्धिरिति प्रोक्ता शिवेन परमात्मना | तत्परं गन्तुकामस्तु हृदयादि विभागशः || क्रमाद्ब्रह्मादिको योगः फलं तस्य तथा भवेत् | हृत्पद्मं प्राकृतं ज्ञेयं तच्चब्रह्मादि दैवतम् || प्. ४३८) तत्र ब्रह्मस्वरूपेण भाव्यो वा वर्णरूपवान् | पृथिव्यादि प्रधानान्ते मार्गे स्वामी भवेत्तदा || कण्ठे विष्णुः स्थितः शुद्धो द्वितीयाक्षम मध्यगः | स्वरूपेणाभ्यसेद्विष्णुमथवा वर्णरूपकम् || तदाभ्यासादयत्नेन सिद्धिः स्यात्पुरुषात्मका || तालुपद्मे स्थितो रुद्रः तृतीयक्षरमध्यगः || तदभ्यासादनन्तेश पदं यावत्सगच्चति | लालाटे चेश्वरं ध्यायेद्बिन्दुरूपमनामयम् || सर्वकर्ता भवेत्सोऽयमष्टैश्वर्य गुणान्वितम् | अणिमा लघिमातद्वन्महिमा प्राप्तिरित्यपि | प्राकाम्यञ्च तथेशित्वं वशित्वं यत्र कामता || एते गुणाः समाख्यातास्तेषां याथार्थ्यमुच्यते | सहसैवं यदादेहं स्थूलं त्यक्त्वा यथेच्छया || अणुमात्रं शरीरत्वं याति तेनोच्यतेऽणुना || पूर्वस्मिन्गुरु * * * * * तत्वैः सहसैव तु | तूलवल्लद्युदेहित्वं स्वेच्छया * * * मता || यत्र क्वचिद्यदा गच्छेत् स्वेच्छयातन्निवासिभिः | सर्वत्र पूज्यते यस्मान्महिमा तेन कीर्तिता || अकस्मादभिलाषस्य यदा वस्तु तदा भवेत् | अखिलद्रव्यसंप्राप्तिः प्राप्तिः स्यात्सहसात्मनः || प्. ४३९) आत्मनैवं कृतं रूपं प्रविश्यति यदात्मनि | यथेच्छानुकृतिं कृत्वा प्राकाम्यं तदुदाहृतम् | ब्रह्मविष्ण्विन्द्र सूर्यादि भुवनं यदि यादसः || तत्रेशित्वं प्रभुत्वं यत्तदीशित्वमिहोच्यते | तत्र तत्र वशित्वं यद्वशित्वं प्रणवात्मकम् | हठेन यद्वशित्वस्य यत्र कामावसायिता || एते गुणाः प्रवर्तन्ते तत्रेशाभ्यासनाद्ध्रुवम् | बिन्दोरूर्ध्वं भवेन्नादः सूक्ष्मोदीक्षाब्जतन्तुवत् || घण्टानादश्वाभ्यस्य सदाशिव पदेप्सुभिः | ध्येयो नादान्तको वाथ स्वरूपेण सदाशिवः ||
SKतस्यापि परतः शक्ति बिन्दु शक्तिरितीरिता | ऊर्ध्व बिन्दुः स्थितः सूक्ष्मो ख्याता कुण्डलिनीति च || सर्वज्ञः सर्वकर्ता च तदभ्यासाद्भवत्यसौ | तस्यास्तु परतः शक्तिरुन्मनीति हविः श्रुता || पद्ममध्ये स्थिता सा हि सूक्ष्मात्यर्थन्निहारना | दुलक्षा च तदभ्यासात्सर्वव्यापी तदा भवेत् || तस्याश्च परतः स्थानं निष्कलं नित्यमव्ययम् | ज्ञानानन्दमयं शुद्धं व्यापकं निखिलाधिपम् || क्रमाद्देव हतोयोगी तत्स्थानान्नाति वर्तते | नाभिमेढ्रान्तरे कन्दं तत्र नाडी शिवात्मिका || प्. ४४०) सुषुम्ना मध्यमार्गेण ब्रह्मरन्ध्रान्तमुद्गता | वीणादण्ड प्रवालस्य शुद्धस्फटिकनिर्मला || इडा च पिङ्गलाचेति वीणा दण्डस्य पार्श्वयोः | रक्ताङ्गा बभ्रुवर्णा च युगद्वय विनिर्गता || सकार संस्थितो मध्ये स्वप्रकृत्तोहलाकृतिः | तदस्थाने हलेपद्मे मध्यनाड्यां समावृतः || तदभ्यासाद्भवेन्मोक्षः पापपङ्कगतोऽपि सन् | योगी ब्रह्मादिकं काल यावदास्ते यथेच्छया || यदि वा स्वेच्छया योगी कृत्वोत् क्रान्तिः परं पदम् | एवं योगः समाख्यातः सर्वयोगेष्वनुत्तमः | विज्ञेयोऽभ्यसनीयश्च काङ्क्षन्योगेश्वरं पदम् || शिष्यात्मानं नियोक्तं वा गुरुणा तत्ववेदिना || अथोत्क्रान्ति विधानञ्च लिख्यते लेशतः क्रमात् | पूरकं कुम्भकं कृत्वा योगसिद्ध्यवसानकम् | हं रेचकयोगेन कपालं भेदयेत्सुधीः || क्रमाद्दुर्लर्घ्यस्य तत्वानि शुष्कं दत्वा च हेतुषु | ना * * * रेचक योगेन प्रविशेत् पादमव्ययम् || उक्तञ्च त्रिशतिकालोत्तरे - आसनं पद्मकं बद्ध्वा यथा सुखमथापि वा | मूर्ध्नि वित्तं समादाय मनसोच्चारयेद्धरम् || प्. ४४१) हं अहङ्कारम् शनैः शनैः समाकृष्य ब्रह्मनाड्या व्यवस्थितम् | रुद्रशक्त्या गृहो ध्यायेदात्मानमरुणप्रभम् || यावन्तं घण्टिकामार्गं ततो भिक्कां च कारयेत् || सम्पूज्य प्रक्षिपेत्कन्द वायुं श्रोतो व्यवस्थितम् | निष्पीड्योर्ध्वं न कुर्वीत यावत्ताल्वान्तिकं गतम् || सदा शिवं तु तस्योर्ध्वं बिन्दुनादं ततोपरि | बिन्दुनादं परित्यज्य ततः शक्तिमनुव्रजेत् ||
SKशक्तिं त्यक्त्वा व्रजेछान्तं शिवं परमकारणम् | यत्र गत्वा न जायेत प्रतिज्ञा मम पुत्रक | इति सङ्क्षेपतः प्रोक्ता उत्क्रान्तिस्तव सुव्रत || स्वशिष्याय प्रदातव्या भक्तियुक्ताय नित्यशः | शिवाद्गुरुतरीयस्य गुरौभक्तिः व्यवस्थिता || तस्य देयमिदं ज्ञानं नान्यस्य तु कदाचन | इत्युत्क्रान्तास्समस्ताध्व कर्मभोगैक निष्कृतिः || शिवधाम हृदाअप्रोक्तं श्रीमता ज्ञानशम्भुना | अथान्त्येष्टि विधानञ्च कथ्यते लेशतो मया || अत्रोत्क्रान्त्या विपन्नो यो योगी निर्दग्धकल्मनः | तस्य मन्त्रमयं शुद्धं देहोद्देहं शिवाग्निना || न च पिण्डक्रिया कार्या न वा तस्योदक क्रिया | किन्तु शिष्यैः सदाकर्यमनृणार्थं शिवार्चनम् || प्. ४४२) प्रसङ्गादुच्यतेऽन्येषां सर्वेषामपि सा यथा | दीक्षातस्तत्व निष्टहनां सदाचारवता नृणाम् || सिद्धान्तार्थ विनोदानं कालेन विगतात्मनाम् | शिवाग्निना दहेद्देहं किन्तु तस्य नियामता || अनाचारवनादिनामध्व शुद्धिर्विधीयते | उक्तञ्च - दीक्षाद सूत्तरे काले समयान्यस्त लङ्घयेत् || देवस्य च गुरुणाञ्च महापातकभाग्भवेत् | अमुक्त संशयाये च ये चान्ये समलात्मकाः | तेषां पापापनोदार्थं मन्त्येष्टिर्विहिता गुह || स्वसंज्ञालयमाप्नोति समयादि विलङ्घनात् || इति || तथा च - अमुक्त संशयानाञ्च समलानां विशेषतः | शास्त्रान्तरं रपन्नानां तथा लुप्त क्रियेषु च || अन्त्येष्टिर्ह्यन्ततः कार्या नन्यथा परमाप्नुयात् || इति || साधकाचार्य पुत्राणां कुर्यादध्व विशोधनम् | नैव तत्समयस्तस्य कुर्याद्वा मोक्षकाङ्क्षिणः | आचार्यः साधकोवापि पुत्रकः समयीमेव | व्रतिनं गृहीणं वापि मृतं संस्नाप्य भूषयेत् | अरांश्लिष्टौ तदङ्गुल्यौ श्वेतसूत्रेण बन्धयेत् || आरोग्य स्वर्गसोपाने सार्द्रवंशविनिर्मिते | विमाने रक्तवस्त्राढ्ये पताकापुष्पमालिके || शङ्खकाहलतूर्यादिनि विधेद्वजैः || प्. ४४३) सार्धमानार्य तत्तुल्य जातिभिर्वान्य जातिभिः | दीक्षितैरपि संख्यैश्च वसका * * * मस्त्कैः ||
SKधारयिताथमार्गैश्च बलिं दिक्षु विकीरयेत् | पुनः पुण्या नदीतीरे पुण्यक्षेत्रे जलाशये || याम्य प्रत्यक्प्लवे शुद्धे धारयेद्याम्य मस्तकम् | नवहस्तमितं कृत्वा मण्डलं हाटकावृतम् || सप्तहस्तप्रमाणं वा यात्यद्वारं सतोरणम् | नाम्नावसानकं ज्ञेयं कृतान्तं नाम तत्क्वचित् || तत्र हस्तमितं दण्डं वेदाश्रञ्चैकमेखलम् | ऋत्वङ्गुलोन्नतं वायौ तन्मृदावस्थलंकरम् || कुण्डाग्नेय्यां चिताखाताञ्चतुर्हस्तमितायताम् | मङ्गलाङ्गुलि गम्भीरं हस्तद्वितय विस्तृतम् || कुण्डदक्षिणतः कुर्याच्चिताखातं क्वचिन्मतम् | निस्पाद्य त्रितये नैव गोमयेनोप लेपयेत् | अधस्तात्वा समाचम्य सन्ध्यां कृत्वा समाहितः || अपसव्योत्तराशी तन्त्रालुकोगुरुः ||? गत्वा पदमेरुनि स्थण्डिलान्त मुदङ्मुखः ||? उपविश्यासने शुद्धे भूतशुद्धिं विधाय च | विपरीत कृतन्यासः कृतान्तव्यजनः सुधीः || सप्तास्त्र जप्तशास्त्रालुतोयैर्द्रव्याणि शोधयेत् || प्. ४४४) अभ्युक्ष्यात्मानमभ्यच्य कृत्वामन्त्रं विशोधनम् | अस्त्राम्बु पञ्चगव्याभ्यां संप्रोक्ष्य परितः क्षितिम् || चतुष्पथान्त संस्कारैः संकृत्य वि * * नपि | प्रक्षिप्याहृत्य संयोज्य चितेरीशानगोचरे || वर्धन्यां याम्यनालायां शस्त्रं पाशुपतं यजेत् | ईशाद्याशासु कुम्भेषु लोकपालायुधानि च || अस्त्रालुधारया कृत्वा स्नानस्य परिरक्षणम् | सम्पूज्य वर्धनीं तत्र सम्पूज्यास्त्रं चलासने || भोगो स्थानमिदं रक्षा यावत्कर्मावसानकम् | इति विज्ञाप्य हेतीशं स्थण्डिलान्तं समाश्रयेत् | कुशभस्मतिलैः कृत्वा स्थण्डिलोपरि रक्षणम् | अस्त्रेण द्वारपालादीन् हृदा सम्पूज्य पूर्ववत् || तिलाक्षतैः कृताम्भोजैः रजोराजविराजिते | सप्तधान्य स्थिते कुम्भे सर्वशोभान्वितेऽथवा || आधाराख्यामनन्ताब्जामैश्वर्यादींश्च पातकान् | अनैश्वर्यादिना त्राणि नानावर्णानि पूर्ववत् || ऊर्ध्वाधच्छेदने पद्मं कर्णिकायां मनोन्मनीम् | सर्वभूतदमन्यादि वामान्ताः केसरेषु च || शक्त्यग्नि सोमसूर्याढ्यमानसञ्च समर्पयेत् | मूर्तिद्वयं समावाह्य निवृत्त्यादि कलाः क्रमात् || प्. ४४५)
SKपादादारभ्यविन्यस्य शिवमावाह्य पूर्ववत् | अस्त्राद्यैः सकलीकृत्य मूलेन परमीकृतम् || कृत्वामृतीकृतं भक्त्या स्वागत क्रिययान्वितम् | दत्वा पाद्यादिकं शम्भोर्भोगाङ्गानि च पूजयेत् || अस्त्रादि हृदयान्तानि स्वस्वस्थानेषु पूर्ववत् | धूपदीपादि नैवेद्यैः मन्त्रं जप्त्वा समर्प्य च || कुण्डं संस्कृत्यवह्निं च भ्रामयित्वापसव्यतः | विक्षिप्य जनयेदग्निं कुर्यादान्धादि शोधनम् || शिवम् सम्पूज्य सन्तर्प्य पूर्णां दत्वा विधानतः | पश्चार्चितो * * टे कृत्वा पञ्चविंशति कोष्टकम् || वंशरज्जु समोपेतं वास्तु वेताल संज्ञकम् | तत्र वास्तु यथा रूपं ध्यात्वा सम्पूज्य देशिकः || तमत्येकञ्च कोष्टानि पीतेन रजसा हरेत् | नैर्-ऋता नलवायीव सेतु रश्चतुर्ॐशकन् || श्वेतरक्तासितश्वेत वर्णैः पूर्वादि कोष्टगान् | पीतकृष्णसितारक्तैः पूरयेच्चतुरः क्रमात् || तेषु धात्र्यादि तत्वानि साधिपानि यजेद्यथा | ॐ हां धरातत्वाय नमः | ॐ हां ब्रह्मणे नमः | इति मध्ये ॐ हां अप्तत्वाय नमः | ॐ हां विष्णवे नमः | इति नर्-ऋते ॐ हां तेजस्तत्वाय नमः | ॐ हां रुद्राय नमः | इति ज्वलने प्. ४४६) ॐ हां वायुतत्वाय नमः | ॐ हां ईश्वराय नमः | इति वायौ ॐ हां व्योमतत्वाय नमः | ॐ हां सदाशिवाय नमः | इतिशाने ॐ हां इन्द्राय नमः | इति पूर्वे ॐ हां यमाय नम इति दक्षिणे ॐ हां वरुणाय नम इति पश्चिमे | ॐ हां कुबेराय नम इत्युत्तरे गोष्टे सम्पूज्य माषभक्तबलिं दत्वा घृताक्तत्वेष्वनुक्रमात् | दत्वातोयादिकं तस्मात्तदग्नं स्फोटयेत् पुनः || कुण्डवत्संस्कृते तत्वे वीतेन चतुरश्रकम् | कृत्वा ब्रह्माणमभ्यर्च्य तन्मध्ये चित्रकोणकम् || रक्तेन रजसा कृत्वा कालाग्निं तरु पूजयेत् | ॐ हां ब्रह्मणे नमः | ॐ हां कालाग्निरुद्राय नमः | चतुरः कीलकान् शुष्कानूर्ध्व मूलानधोमुखान् | अस्त्रेण सप्तधा जप्त्वाऽग्नीशा निलरक्षसाम् | दिक्ष्वारोप्य * * * * रक्तसूत्रेण वेष्टयेत् || चन्दनादिभिरापूर्य याज्ञिकैश्च सदिन्धनैः | याम्याशादीशिनाच्छाद्य वस्त्रेणास्त्रेण पूजयेत् ||
SKॐ हां हः चितायै नमः || भस्म दर्भतिलैः शत्रुरक्षां कृत्वा विलोमतः | अग्नौ सम्पूज्य सन्तर्प्य चितेर्वास्तु गतासुरान् || शिवं मृद्गोमयाम्भोभिः प्रक्षाल्यो चूल्य चानयेत् | परिवर्ज्योपवीताद्यं पूर्वजात्यनपेक्षया | कुण्डयाम्ये विधायैनं सौम्यास्यं प्रणवासने || प्. ४४७) कॢप्ते मन्त्रमये देहे धारणादि विधानतः | महाजालाणुमानीय जीवसंहार मुद्रया || ॐ हूं हौं हां हां हूं अमुकात्मने नमः | योजयित्वा हृदम्भोजे विद्यादेहञ्च विन्यसेत् | शिवं हस्तञ्च शक्तिञ्च नासीश्चाग्नौ प्रतर्पयेत् || शान्त्यतीतादितः कृत्वाकलाः सर्वाध्वगर्हिता | सृष्ट्या विन्यस्य तन्मूर्ध्नि शिवमभ्यर्च्य पूर्ववत् | मूलेनाङ्गवता हुत्वा शतं पूर्णावसानकम् || शक्तिमाधारिका न्यस्य कण्ठे सम्पूज्य तर्प्य च | ताडनादिभिरादाय निवृत्यादिकलाः क्रमात् || अग्नौ संपूज्य सन्तर्प्य दीक्षोक्त विधिना न च | कारणानपि विज्ञाप्य सर्वाध्व व्यापिनीं शिवाम् | शिवञ्च क्षोभकं योनेः युगपत्सर्वपद्मनि || जीवमाताड्य संविश्य शिष्याकृतिषु योनिषु | निवृत्यादिषु सर्वासु दीक्षोक्त विधिना गुरुः || आधानं युगपत्कृत्वा जन्मभोगाधिकारिताम् | लयसृतो विशुद्धिञ्च तत्वशुद्धिं च निष्कृतिः || मलशक्तितिरोधानं भाविकर्म निवारणम् | वर्तमानं च संयोज्य भुक्तशेषं शिवासिना | पाशस्यच्छेदनं देहं सर्वगुल्क समर्पणम् || प्. ४४८) कारणेषु च सर्वेसु ब्रह्मादिषु च पूर्ववत् | कृत्वा चैतन्यमुद्धृत्य पूर्ववद्योजयेच्छिवे || विषुवत्क्रमयोगेन दर्शनान्ते गुरुः स्वयम् | केचित्तस्य शिखातीतं शिवे विन्यस्य योजनम् || इच्छन्ति गुरवस्तत्र कर्तव्यं स्वगुरु स्वक्रमम् | चितायुक्ता न मारोप्य शिवं दक्षिणमस्तकम् | विपरीत पटच्छिन्नं विदधीत सदिग्धनैः || स्थण्डिलेशं नियुज्याग्नौ कुण्डसंलग्न वह्निना | आरभ्य शिरसः पूर्णामास्येदन्त्वणु नाऽमुना | ॐ त्वमग्ने दक्षिणकालकाले नैवोपपादिताम् | गृहाण मन्त्रसम्भूता शाव्यामेनां महाहुतिम् || इति तप्तं क्षिपेद्दीप्ते स्रुक्स्रुवौ तावधोमुखौ || अस्यायमर्थः -
SKमो अग्नेत्वां दक्षिण सदाशिव भट्टारक दक्षिणानलना(मां?)त्मकम् | कालः कालमलरुद्रो भगवान् एनां महाहुतिं गृहाण किं विशिष्टां भोग्यकर्मोपभोग कालेनैवोपपादिताम् | मन्त्रसंभूतां दीक्षोत्तर मन्त्रहविर्न्यस्त मन्त्रपूतां सम्प्रत्यपि विहितां ते(त्ये)ष्टिं मन्त्रञ्च गृहाणेप्यर्थः || विसृज्याग्निस्थं शम्भुं देशिकः शक्रमुच्चरन् | वामस्कन्धे निधायात्र वर्धनीं * * दक्षिणम् || प्. ४४९) विमुञ्चन् पृष्ठतोधारामीशाने निक्षिपेत् ततः | गत्वा कालान्तिकं पृष्ठं पश्यन् * * * * * * || कपालं भिद्यते यावत्तावत्तत्र प्रतीक्ष्य च | सव्योपवीति संस्नात्वा समाचम्यापसव्यनान् || तीरे प्रस्तीर्य सद्दर्भान्याम्याग्रान्या पराननान् | तिलदर्भाक्षतैर्दद्यान्नि * * ख्याञ्जलित्रयम् | ॐ हां अमुकाशुद्धात्मन् ईशोभवस्वधा | ॐ हां अमुकाशुद्धात्मन् सदाशिवो भवस्वधा | ॐ हां अमुकाशुद्धात्मन् शान्तोभव स्वधा || पुनः स्नात्वात्समाचम्या सन्ध्यामावन्द्यपूर्ववत् || द्विशतं स्कन्ददातारे गुरुर्घोरशतं जपेत् | गत्वानिजाश्रमे देस्वं यथा सामर्थ्यमर्चयेत् || अस्थि निक्षेपयेत्तीर्थे तद्दिने वा तृतीयके | अस्थि संचयनं कृत्वा ततः पूर्णाघटान्तरे || शिखरे भूतले पुण्ये तीर्थ प्रस्थापनामयत् | तदा स्नात्वा समाचम्य घृतं साग्निं स भक्षयेत् || पुनः स्नात्वा कृतन्यासो वन्दयेद्गौर सर्वपान् || इति || परोक्षे च मृतः कश्चिदाह वादिषु वा तदा || दर्भाद्यैः प्रतिमां कृत्वा शेषं पूर्ववदाचरेत् | नैव भग्न व्रतस्थस्य कार्यान्तेष्टिः कदाचन || प्. ४५०) प्रत्यक्षं वा परोक्षं वा विपन्नस्याधिकारिणः || यथानकं पथा क्लिष्ट ह्यस्मयस्थस्य हीनस्योत्तर दीक्षया |? देशान्तरे विपन्नस्य मुक्तिकामस्य देशिकः || कौशीन्तत्प्रतिमां कृत्वा * * वा गोमयोद्भवाम् | पञ्चगव्यप्लुतान्तत्स्यात्तल्लिङ्गमुपकल्पयेत् || महाजाल प्रयोगेण मन्त्रबल मुद्राबलान्विताः | मन्त्रदेह कलासंस्थं संहृत्यैवं विधाय च | विशो * * * वत्पाशान्योजयेदमले पदे ||
SKपयः सर्पिर्मधूपेत तद्रूपं शिवतेजसा | दाहयित्वा तदर्धञ्च श्राद्धं कुर्यात्तदात्मकम् || शिवधर्म * * * * लोकधर्मानु सारतः | विधिरेष विपन्नस्य सपिण्डस्यापि सन्निधौ || बहिरापस्तथा कार्यः सद्योनिर्वाण कर्मवत् | अन्तेष्टौ न विशेषोऽस्ति वक्तव्यं नेति तद्विधा || उत्क्रान्तिना च संपालन पालनाञ्च * * नानाञ्च शिवाग्निनादा * * * वेत्यन्तेष्टिरित्यवगन्तव्यः || सायतः पुत्रकदीनां अन्तरा यदवानलः | भोगायतन पातोत्र भोक्तुर्भोगक्षयात्क्षितौ || भोक्तव्यानां सहात्यन्तं विविधोभोगसाधनैः | द्विप्रकारो भवेत्कामतो कामतश्च सः ||? प्. ४५१) प्रतिषिड्धो निषिद्धश्च कामतोऽन्यो नगण्यते | त्रिविधः प्रतिषिद्धः स्यात् सात्विकोराजसास्त्विति || तामसश्चेति तोयेग्नौ गिरौपातस्स सात्विकः | संग्रह * * * ति हस्तस्य मित्रताकार्यो स गोगृहे || हृत संरक्षणे मृत्युरिति राजस उच्यते | प्रतिकर्तुमशक्तस्यमन्युतो ह्युपकारिषु || उपद्रवेषु - आत्मनायोवधश्चासौ ताम * * * तीव निन्दितः | भोगसंसाधनं बुध्या परितत्वा परसंख्याय तत्ववित् || उत्क्रान्त्यायः करोत्यन्तं * * षिद्धस्तु तस्य सः | अस्मिन्निष्टिर्विधातव्या भार्गसंशुद्ध वर्जिता || नोत्तमेनानुवक्तव्यो हीनवर्णो व्रतोज्झितः | अनु गम्याम्भसि स्नात्वा स्वजातीशशतं जपेत् || व्रतस्थं प्रव्रतस्थं वा ब्रह्माणं शिवदीक्षितम् | विपन्नं यो वहेत्तस्य नाकाये मरणं भवेत् || असहाय मना * * गतासुं शिवयोगिनम् | नीत्वा सत्कारयेद्यस्तु सोऽनिष्टेर्विप्रयुज्यते || शिवव्रतधरस्याढ्य न मृतं न च सूतकम् | पूर्वाश्रमा न पेक्षित्वादस्थि संस्कारजं क्षणम् || पूर्वाश्रमस्थितस्यापि * * * * * दीक्षया || प्. ४५२) ध्वनि संस्कार बीजस्य ज्ञानिनः सत्क्रियावतः | क्षणमात्रं भवेद्यश्च स्नानादेव निवर्तते || अन्यथा न्यस्यहानि स्यात् सा च निष्ठाक्रियावताम् | शिवभूतस्य त * * * * * गुरुमिच्छति || अभावे तु गुरोः शिष्यं अभावे स्वस्य सन्ततिम् | सन्ततेरपि कालेन यदा भावोभवेदिह ||
SKअन्येषां तदनादेयं तदा याति स्वगोचरम् | यद्वा शिवाय तद्द्रव्यं निवेद्यं वा शिवाग्नये | अनुमन्यच्च तद्वाक्यमलङ्घ्यं स्थिति चिन्तकैः | अन्यथा योग्यकं तत्स्वं तथा च विनियोजयेत् || इति || अथ क्वचिदागमे - शिवकलशमस्त्र वर्धनीं स्थण्डिलं च कृत्वा * * * पूर्ववदापाद्य कुण्डस्य शिवायैव पूर्णया मनसा शिवम् |? समर्प्य स्थण्डिलाग्निस्थं शिवं विसृज्य केवलम् || शिखाग्निनैव चित्रिं दहेति | उक्तञ्च - आचार्येण चतुर्णां च साधकेन त्रयस्य च | द्वाभ्यां च पुत्रकेणैत समयज्ञे स्वसन्ततौ | अभयादपि सर्वेषां समयज्ञेन कारयेत् || नदीतीरं समासाद्य गोमयेनोपलेपयेत् | कलशं शास्त्रकलशं सम्पूज्य विधिवत्ततः || प्. ४५३) स्थण्डिले हस्तमात्रे च शिवं सम्पूज्यपूर्ववत् | तद्वद्धोमञ्च कर्तव्यं मन्त्रान् सन्तर्प्य दीपयेत् || तद्भस्म गोमयेद्घृष्टं शोधितव्यं शिवासिना | शिवमानीय तत्राग्नेः देहेन स्याद्दिशि न्यसेत् || प्रोक्षितो चूलितोऽस्यास्य चिन्तयेत् प्रणवं हृदि | सकलीकृत्य संपूज्य ततो होमं समाचरेत् || यदध्वना शिवं ध्यात्वा तद्देवाय निवेदयेत् | प्रतिगृह्नीष्व * * * गवञ्च वा व्यामेनाम महाहुतिम् || एवमुक्त्वा शिवं देहेऽभयस्थं विसृज्य च | ततस्तस्मिन्धने नाग्निप्रसक्तेन नयेर्चितम् || अव्युच्छिन्नां ततो धारामस्त्र कुम्भेन धारयेत् | अखण्डमण्डलाकारं शिवमस्तु तवाधुना || स्नानोदकं तटे दत्वा पुनः स्नात्वा तटं जपेत् | पश्चिमान्नेत्र पर्यन्तमावर्त्य शिवशोधने || शिष्यैर्वा गुरुसम्बन्धाद्गुरुसम्बन्धिभिस्तथा | जपहोमादिकं कर्म कर्तव्यं च परस्परम् || पुत्रा स्वशिष्या विज्ञाय भ्रातान्यः पुत्रको मतः | नित्यं समयनिष्ठश्च पुत्रकश्च कथमितः || साधकः पुत्रको भ्राता समयी पुत्रपुत्रकः | आचार्यः स्यात्पिता तेषां सर्वेषाञ्च क्रियावताम् || प्. ४५४) दिनैकं सूतकं तेषां शिवाशौच निमित्ततः | गृहस्थो लोकमार्गं तु मनसापि न लंघयेत् ||
SKलौकिकाचाररूपेण सूतकं जाति सम्मतम् | परमार्थतयापुंसां दीक्षिता नाग्निसूतकम् || तेषामन्तेष्टिकर्मात्र समांसत्कथितं मया || इति || अथ प्रमादतश्चोर सर्पवह्निगतात्मनाम् | अस्तिव्याघ्र नदीवेग सङ्ग्रामहत जीविनाम् || उद्धृत्यात्म वियुक्तानामन्येषामात्मघातिनाम् | अपि देहं दहेत्पूर्वं तूष्णीमेव शिवाग्निना || जत्वा लक्षमघोरस्य दद्याद्रुद्रबलिं यथा | रौद्रभूमौ यजेद्विद्वान् क्षेत्रपालांश्च तर्पयेत् | ये रुद्रा * * * * * णो जन स्थान निवासिनः | क्षेत्रपालाश्च येचान्ये पिशाचादान वादयः | सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् || उग्रं मृत्यु प्रभावेन पिशाचत्वमुपागतम् | विमुञ्चध्वमिति प्रार्थ्याञ्जलिं मुष्टिं निक्षिपेत् || ॐ रौद्र्यक्षेत्रपाल पिशाच राक्षस दानव भूतग्रहं माण्डबलिकामिभ्यो नमः स्वाहेति पूजादिबलिदानादि मन्त्रप्रयोगः || स्नानं सम्यग्समागम्य बोधयेच्च तपोधनान् | महाव्रतधरानष्टौ यद्वापाशुपतादिकान् || प्. ४५५) वस्त्रैर्दक्षिणया चैषां तोषयित्वा विसर्जयेत् | दर्भैः पुत्तलिकां कृत्वा तद्देह प्रतिकायिकाम् || शेषं पूर्ववदापाद्य योजये दमले पदे | इत्यन्तेष्टि विधिः ख्यातः सर्वावस्था गतात्मनाम् | नाना सिद्धान्त युक्त्यैव श्रीशिवज्ञान शम्भुना || || इति ज्ञानरत्नावल्यामन्त्येष्टि विधिः || || श्री महागणपतये नमः || अथ श्राद्ध विधिं वक्ष्ये गुर्वादीनामृणापहम् | उक्तञच - देवानातृणमत्यं पूजाहोमादि कर्मणाम् | दद्यादस्खलिता चारो मुनीनामपि नित्यशः || तर्पणादिभिः | गुर्वादीनामृणं दद्याद्दिक्षितः श्राद्धकर्मणा | विहायैवं विधानं तत्कथं शिष्योऽनृणीभवेत् || इति || श्रद्धयादीयते शिष्यैः गुरुनुद्दिश्य यद्घनम् | सत्सुपात्रेषु विद्वद्भिः तद्धि श्राद्धमुदिरितम् || संस्कार दिवसादूर्ध्वं तृतीयेऽह्नितपस्विनाम् | श्राद्धं कुर्यात् || विसृज्य तद्दिनादूर्ध्वं गृह स्थानामयं विधिः | सपिण्डीकरणं यावत् वैदिकी च क्रियामता | लोक संव्यवहारार्थं पुत्रादीनां ततः परम् ||
SKशिवश्राद्धं प्रकर्तव्यं शिवधर्म स्थितात्मनाम् | तच्च संपदि नित्यं च प्रतिपक्षमृतेऽहनि || प्. ४५६) प्रतिष्ठा सममावास्यां प्रतिसंवत्सरं च वा | मृताह्नि स्राद्धपक्षे चा योग्यैः शिष्यैः सुतैरपि || समय श्रुतसंस्थानं शिष्याणामनुकम्पया | आचार्यैर्भ्रातृवर्गैर्वा भ्रातॄणां स्नेहभावतः || पूर्वस्मिन् दिवसे भक्त्या देशिकादि तपोधनात् | शिष्या निष्ठान् गृहस्थांश्च दीक्षितांश्च निमन्त्रयेत् || अन्यस्मिन् दिवसे सम्यक् कृत नित्यक्रियाद्वयाः | नाना भक्ष्यान्न संयुक्ते सिद्धे पाके शिवानले || गुप्ते लिप्ते शुभे देशे धौतपीठादि सञ्चये | इष्टलिङ्गं समभ्यर्च्य धूपदीपादि विस्तरैः || नैवेद्यं प्रचुरं दत्वा होमं कृत्वा विधानतः | प्रार्थयित्वा शिवादाज्ञामाभूयान्मन्त्रि जन्मनात् || दक्षिणोत्तर संस्थानं वेदाश्रं मण्डलद्वयम् | विधाय प्राङ्कणे प्राच्यां करमानं करान्तकम् || सामान्यार्घ्योदके नैव संप्रोक्ष्यास्त्रेण मण्डलम् | यवदर्भा क्षतोपेत सित पुष्पैर्यथा क्रमम् || स्वस्वनाम्ना हृदाभ्यर्च्य पीठे पूर्वासनस्थितान् | हृदा पुष्पाक्षतोपेतं दद्यात्पादाञ्जलि द्वयोः || याम्ये सौम्ये समाचम्यान्दत्वा संवेष्टयेदुभौ | तद्यथा - ॐ हां कालाग्निरुद्राय पादार्घ्यं स्वाहा | ॐ हां अनन्ताय विष्णवे पादार्घ्यं स्वाहा इति | प्. ४५७) प्रतीच्यां मण्डले वृत्तेतिलैः पादाञ्जलि स्त्रिषु || ॐ हां ईशाय पित्रे पादार्घ्यं स्वधा | ॐ हां सदाशिवाय पितामहाय पादार्घ्यं स्वधा | ॐ हां शान्ताय प्रतितामहाय पादार्घ्यं स्वधा || दत्वा पूर्ववदा चान्तानाप्यन्तः प्रवेशयेत् |? अपसव्याक्रयै तेषां स्वयमाचम्य संविशेत् || देवस्य दक्षिणेभागे द्वयं पूर्वाननं पुराम् | संस्थाप्य स्थापयेत् पीठे त्रयं सौम्याननं गुरुः || अद्यामुके श्राद्धं भोयुष्मासु विधीयते |? हृदा स्वसंज्ञया कुर्यादासना वाहनादिकम् | पदादारभ्य मूर्धान्तमक्षतैर्द्वयमर्चयेत् || गन्धैः पुष्पैस्तिलैः पश्चाच्छिरसः प्रभृति त्रयम् | धूपदीप पवित्राद्यैर्वस्त्रैराग?रणैर्यजेत् ||
SKततस्तदा ज्ञया कृत्वा देव याम्ये च मण्डलम् | प्रत्यगग्र कुशोपेतं तिलाढ्यं चापसव्यवान् || सर्वपाकाग्रमुद्धृत्य मधुसर्पितिलान्वितम् | कृत्वा पिण्डत्रयं तत्र कुक्कुटाण्ड समाकृतिम् || पितृसन्निध्य सिद्ध्यर्थं पूर्वादारभ्य विन्यसेत् | ईशं सदाशिवं शान्तं तेषु सम्पूज्य विस्तरैः | धूप दीपादि नैवेद्यैः प्रत्येकञ्च शतं हुनेत् || प्. ४५८) कालानीलादितश्चाग्नौ सम्पूज्य च यथापुरा | अन्नग्रासत्रयं हुत्वा गत्वा तत्सन्निधावपि || पृथक्पृथग्यथापूर्वं दत्वा पात्रेऽथवादिकम् | सर्वं सम्पूर्णमित्युक्त्वा सन्निधानार्घ्यमुच्चरेत् || श्रुत्वा वाक्यं ततस्तेषां * * सं * * पूर्णमित्यथ | सप्तधा जप्ततं दत्वा दत्वा सन्निधि हेतवे || तेषां सव्यकरे पश्चात्पात्रे कृत्वा जपं सुधीः | पितृस्थानमसी त्युक्त्वा सव्यासव्यक्रमेण तु || प्रत्यग्भागे विधायाथ धौत पादकरः स्वयम् | भक्ष्यभोज्यान्न पानाद्यं हुतशेष पुरस्सरम् || दत्वा भोजनमित्यर्थं पूजितेष्वपि पञ्चसु | अन्नं मृत्युञ्जिता मन्त्र्य दद्यादापोशनं हृदा || जुषध्वममृतं यूय मित्युक्त्वा च निवेदयेत् | भोजयेदवि चारेण ब्राह्मणान तिथीनपि || तृप्तौ सत्यां तदा पृच्छेत् संपूर्णं भवतामिति | उच्छिष्ट निकटे दत्वा सोदकान्नं ततो ददेत् || पितृभ्यश्चाचमनं द्वाभ्यां पश्चात्पात्रं विसर्जयेत् | आचामान्ते च ताम्बूलं दत्वा दक्षिणयान्वितम् || समाचम्य कृतन्यासः पूर्णां दत्वा शिवानलम् | विसृज्येशं समभ्यर्च्य श्राद्धकर्म समर्पयेत् || प्. ४५९) जानुभ्यामवनौस्थित्वा श्राद्ध पुण्ये फलं सितम् | सव्यहस्ते समभ्यर्च्य पुष्पतोयाक्षतान्वितम् || अस्मदाराध्य पादानां भवत्सायुज्य साधनम् | माया दत्वाज्ञया श्राद्धं कृतमेतद्गृहाणभोः || इत्युक्त्वा देव देवस्य सव्यहस्ते समर्पयेत् | अर्घ्यमुद्धृत्य देवेशमीशादींश्च क्षमापयेत् || प्राशयेन्मध्यगं पुण्यानार्या पुत्रार्थदारकान् | जनयेच्छाङ्करं पुत्रं सा नारी ज्ञान विच्छुभम् ||
SKगोविप्रवह्नितोये वा ददेत्पुण्यं यथारुचि | ततः सम्बोधयेद्भूमिं कर्तागोत्रादिभिर्जनैः || भुञ्जीयात्पावनं शेषमन्नपानादिकं तथा | इति सङ्क्षेपतः प्रोक्तं श्राद्धं श्राद्धं तच्छिवधर्मिणाम् | अथ लौकीक धर्माणां एव श्राद्धपुरस्सरान् || सपिण्डी करणादूर्ध्वं शिवश्राद्धं विधीयते | भुवनेश पदार्थानां तदीशश्राद्धमाचरेत् || उक्तञ्च कालोत्तरे लोक धर्मिणाम् - अथ तस्य क्रिया कार्या स्वास्रमे वा जलाशये | उत्तराभिमुखी चुल्लीं धृत्वास्त्रेणानलं क्षिपेत् || स्थालीमारोप्य शस्त्रेण सोदकं तण्डुलं क्षिपेत् | मधुक्षीराज्य संयुक्तं सिद्ध मुक्तान्तमण्डले || प्. ४६०) मण्डलं भूतले कृत्वा केशकीटादि वर्जिते | कृत्वार्घ्य पात्रमस्त्रेण प्रोक्षयेत्तज्जलेन तत् || तत्र भद्रासनं श्राद्धं अवतार्य त्रिमन्त्रितम् | ततोच्चार्य सकृन्मन्त्र मासनं परिकल्पयेत् || हृदास्व संज्ञया तत्र पूजयेत्परमेश्वरम् | अर्घ्यपुष्पादिभिः पूर्वं मन्त्रन्यास क्रमं विना || वह्नौ पूजा हृदा शम्भोः काया तद्वन्न विस्तरात् | रजते ताम्रपात्रे वा चारुमुद्धृत्य वै हृदा | कुक्कुटाण्डप्रमाणेन सतिलं पिण्डकल्पनम् || संस्थाप्य तच्छिवास्थाने हृन्मन्त्रेणोदङ्मुखः || पुष्.पार्घ्यं गन्धधूपाद्यैः वस्त्रनैवेद्यकादिभिः | स्वधान्तेन स्वनाम् तत्पूजयेत्तदनन्तरम् || ॐ हां अमुकगोत्रायामुकधर्मिणे स्वधा नम इति मन्त्रः | तस्मिंस्तिले मधुनाकुशैर्गन्धोदकेन च | दधिक्षीराज्य संमिश्रैरन्नैर्नानाविधै हृदा | पूरयित्वाञ्जलिं पात्रं राजतं वाथ खड्गजम् || तत्पिण्डञ्चापसव्येन परितः प्रोक्षयेद्वहिः | नमस्कृत्य यथा न्यायं क्षमस्वेति विसर्जयेत् || मुद्रया सह मन्त्रेण पूर्वोद्दिष्टेन षण्मुखः | पूर्णां हृदाम्भसा कृत्वा कलशं स तिलं सुत || आचार्याय प्रदद्यात्तत्सवस्त्रं काञ्चनान्वितम् || प्. ४६१) जले पिण्डं विनिक्षिप्य वह्नौ वा तदभावतः | भूमौ तिलोदकं दत्वा हृन्नाम्ना स्वधया सह ||
SKप्रक्षाल्य पाणिपादौ च कुर्यादाचमनं ततः | संहृत्य पीठ विन्यस्तं वह्निस्थञ्च विसृक्य च || प्लावयित्वोपलिप्याथ कृतन्यासो विशेद्गृहम् | अस्त्रेण कृतरक्षस्तु भुञ्जीयात्पवनं लघु || पूर्वाननेन गुरुणा सौम्यवक्त्रैश्च साधकैः | पुत्रकैः समयस्थैश्च भोक्तव्यं पश्चिमनाने || एक पङ्क्तिः सदावर्ज्य भिन्नजातिषु षण्मुख | चतुस्त्रिद्वेकये रेखा विप्रादीनाञ्च मण्डलम् || शुक्लेन रजसा कार्यं व्योजने पात्र रक्षणम् | पूर्वादितासने स्थित्वाह्यथवा क्रम कल्पिते || द्वादशाङ्गुलदीर्घे वा वृत्ते वा द्वादशाङ्गुले | अघोरं भोजन चा यथा शक्त्या जपेत्ततः || दिनान्तेऽस्त्रेण सिद्धार्थान् क्षिप्त्वा शयनमाचरेत् | विधानमेतदखिलं कर्तव्यं च प्रयत्नतः | दिनानि दशमेधावी प्रेतानुग्रहकाम्यया || हृदादि नेत्र पर्यन्तैः कुर्यात्पञ्च दिनानि च | सद्योजातादिवक्त्रैश्च तदूर्ध्वं दिनपञ्चकम् || दशाहमेवं निर्वर्त्य प्राप्तेत्वेकादशेदिने || प्. ४६२) एकोद्दिष्टं ततस्तस्य लोकधर्म स्थितस्य च | तद्यथा - श्राद्धकर्म तदा कुर्यात् संपन्ने वाह्निके सति || तदर्थं गुरुमभ्यर्च्य गुरुपुत्रमथापि वा | साधकं तदभावाद्वा पुत्रकं समय स्थितम् || व्रतिनं शिव भक्तं वा चैकैकं पुत्र मासकम् | प्रक्षालिताधिमाचान्तं कृत्वान्तः संप्रवेश्यतम् || दत्वासनमथास्थाप्य चोत्तराभिमुखं ततः | तदग्रे पूर्ववदेवं ब्रह्माङ्गं सहितं यजेत् | ततः पूर्वविधानेन नाम गोत्र समन्वितम् | आचार्यं पूजयित्वाथ प्राहनामन्निमन्त्रितम् || गन्धपुष्पपवित्राद्यैः यथा शक्त्याम्बरादिभिः | मृतोपकरणं सर्वं तदा तस्मै निवेद्य च || तदाज्ञातः शिवोग्रे च पिण्डयागं समारभेत् | सतिलं सर्षपाकाग्रं सकुशं मधुविप्लुतम् || तत्र सम्पूज्य देवेशं गन्धपुष्प पवित्रकैः | नैवेद्यं शिवमन्त्रेण दत्वा पिण्डे प्रयत्नतः || पिण्डमर्प्य विधानेन सम्पूज्य भक्तिपूर्वकम् | मुद्रां कृत्वा जपं कृत्वा वह्निहोमं समाचरेत् ||
SKभिक्षा भोज्यादिकं दत्वा गुरवे च हृदाणुना | तद्भोजनावसाने तु मन्त्रपीठस्य चाग्रतः || प्. ४६३) अर्घ्यपात्रेण चास्त्रेण भूमौ दत्वा तिलोदकम् | भुक्त शेषं च सिद्धान्नं गृहीत्वा सोदकान्वितम् || भूतानां तर्पणार्थाय विकिरेद्वाह्यतो बलिम् | सम्पन्नमिति संपृच्छेद्दद्यादा चमनं गुरोः | उच्छिष्टमपि संहृत्य क्षितिमभ्युक्ष्य हेतिना || शिवसं प्रीणनं कुर्याद्गृहीत्वा दक्षिणं गुरुः | वह्निसंस्थस्य देवस्य दद्यात्पूर्णां शिवाणुना || हृदाब्ज कर्णिका मध्ये सूर्यकोटि समप्रभम् | मन्त्रेशमुपसंहृत्य पीठे पिण्डाग्निमध्यतः || अनेन विधिना कुर्यान्मासि मासि शिखिध्वज | निष्पन्नैव स्मरेचैवं प्राप्तेमासे त्रयोदशे || तस्य प्रेतत्व शान्त्यर्थं पितृश्राद्धं समाचरेत् | स्नानादि होमपर्यन्तमादौ निर्वर्त्य चाह्निकम् || संस्कृताग्नौ तु सिद्धेऽन्ने घृतक्षीर समाप्लुते | आहूयान्मन्त्रितान् भक्त्या देशिकांश्च क्रियावतः | पादप्रक्षालनं कृत्वा संप्रवेश्य गृहान्तरे | द्वावादौ पूर्ववक्त्रे तु विनिवेश्यासन द्वये || रुद्रं कालानलं विष्णुमनन्तं कल्पयेदुभौ | आ पाद मूर्ध्निपर्यन्तम् जानुभ्यामग्नौ स्थिति | अक्षतैः पुष्पधूपाद्यैः द्वयमादौ प्रपूजयेत् || प्. ४६४) त्रिणेत्रोदङ्मुखान्यस्त्वा पीठन्यासक्रमेण तु | ईशं सदाशिवं शान्तं तृतीयं तेषु कल्पयेत् || तत्राह्वानं हृदा कार्यमीशस्य पुत्रसंज्ञया | सदाशिवं स्वमन्त्रेण कल्पयेत्तु पितामहम् || शिवं स्वज्ञानमूलेन कल्पयेत् प्रपितामहम् | विधिना तु क्रमेणैता नर्ध्य पुष्पादिभिर्यजेत् || प्रार्थयित्वा ततोऽनुज्ञां मन्त्रेशं लिङ्गकं यजेत् | महासनादिभिर्गन्ध वस्त्रभूषणधामभिः || धूपदीपादि नैवेद्यैर्भक्ष्यैर्नानानवान्नकैः | स्तोत्रं मन्त्र नमस्कारैस्तोषयित्वा महेश्वरम् || तमेवानलमध्ये च सन्निकृत्य च तर्पयेत् | सव्यासव्योपवीतेन तेषां सव्योपसव्यतः || सप्तास्त्रमन्त्र जप्तार्घ्यं पात्रमुद्धृत्य भक्तितः | पितृ सान्निध्य सिद्ध्यर्थं दत्वार्घ्यं तदधो न्यसेत् ||
SKअस्तु सम्पूर्णमित्युक्त्वा पितृस्थानमसीत्यपि | दक्षिणाग्र कुशोपेतं मण्डले शिवसन्निधौ | पितृसान्निध्य सिध्यर्थं नैवेद्यं त्रितयं ददेत् || व्यञ्जनादि समोपेतं मध्वाज्यतिलभावितम् | संप्रोक्ष्यास्त्रार्घ्य तोयेन स्थानेषु त्रिषु वै हृदा || संहारक्रमयोगेन दर्भोपर्यपसव्यतः || प्. ४६५) स्मृतं स्मृत्वा पितॄन् ध्यात्वा मन्त्रैः स्वैः स्वैः पृथक् पृथक् | नाम गोत्रदिना प्राग्वच्छिवञ्च प्रयजेत्ततः || अत्रापि शब्दाभ्यामर्थं अमुमास सारतिथि |? नक्षत्रयोगेऽमुक गोत्रायामुकशर्मणेऽस्मिन् क्षेत्रे गङ्गादि तटेऽमुकेश्वर सन्निधाने मास्यश्राद्धमहं करिष्यामीत्येतद्वाक्यपुरस्सरम् | पितॄनभ्यर्च्य लिङ्गस्थं शि * * * * पुष्पादिभिः | प्रीणयेदित्यर्थः || पितृच्छिन्नौ तु सन्तर्प्य प्रीणयेच्चरुहोमतः | भोजनं च ततो दद्यात्पूजितानां पुरा सुत | यथागमं ततः पृच्छेत्तृप्तिरस्तूपरूपतः || सायान्तेन हृदा दद्याच्छिवस्याग्रे च दक्षिणाम् | ततः पूर्णाहुतिं दत्वा शिवञ्चाग्नि विसर्जयेत् || प्राशयेन्मध्यगं पिण्डं मूलमन्त्राभिमन्त्रितम् || नार्या पुत्रा यथासौ बहुकन्या प्रजायणम् | जनयेच्छङ्करं पुत्रं लक्ष्मीसौभाग्यवर्धनम् || धर्मज्ञानक्रियासक्तं सत्यव्रतपरायणम् | अथार्घ्यपात्रमुद्धृत्य हृदासङ्कल्पितं पुरा || स्वमन्त्रेण पितॄन् सर्वान् तत्रस्थान् खगतां स्मरेत् | अर्घ्यपात्रोदकेनैव नेत्र मन्त्रेण लोचने | अपमृज्योदकं तद्विक्षिपेत् स्थानेऽथपावने || प्. ४६६) इति मन्त्रमयं श्राद्धं ज्ञानध्यान समन्वितम् | समयज्ञादिकैः कार्यं गुरुणामन्त्रसिद्धये || पित्रादीनां सुतैः कार्यं गुरुशिष्यानुकम्पया | समाघृतस्य पूर्वाणां शिष्याणां भावितात्मनाम् || क्रिया सक्तेन तत्रापि कार्यमात्म हिताप्तये || दीक्सामयमिदं श्राद्धं मयोक्तं सुगति प्रदम् | कर्तव्यं दीक्षितानां तद्यागज्ञेन च साङ्गरे || देशेकाले च सत्पात्रे श्राद्ध कर्म समाचरेत् | शिवश्राद्धे कृते ह्येवं मां सदा शिव भूमिकम् ||
SKतृप्तिं यान्ति शिवेनात्र प्रीतैश्च शिवभावितैः | श्रीज्ञानशङ्कराचार्येण ज्ञानरत्नावलीमते | सिद्धान्तार्थानुसारेण श्राद्धकर्मविधिः कृतः || श्रीमहागणपतये नमः || अथ निर्माल्य संसर्गे प्रमादान्निः स्पृहात्मनाम् | ब्रूमः शिवाष्टकं तेषां तत्तद्दोषापनुत्तये || शुद्धद्रव्येण तत्कार्यं कृष्णाष्टम्यादि पर्वसु | निमन्त्रयेत पूर्वेद्युः द्वादशैव तपोधनान् || शुद्धाम्नायस्थिताञ्छान्तान् शिवभक्त्यादृढव्रतान् | शुद्धं पाकं समुत्पाद्य दिनेऽन्यस्मिन् क्रियक्रियः || प्. ४६७) तानाहूय यथावृत्तं पादौ प्रक्षालयेद्धृदा | ॐ हां सोमाय पादार्घ्यं स्वाहेत्यादयो मन्त्राः || उत्तराभिमुखानष्टौ वेशयेल्लिङ्ग सन्निधौ | प्रत्यगास्यद्वयं पूर्वे पूर्वस्यां पश्चिमे द्वयम् || संस्थाप्य पूजयेत् तेषु देवान् द्वादश तद्यथा | सोमशम्भुः शिवः शूली सर्वज्ञः शङ्करस्त्विति || शिति कण्ठश्च शर्वश्च सौम्यास्येषु स्थिता इमे | नानाशम्भोन्विताः सर्वे सिताः सिंहासन स्थिताः || वरदाभयशूलाब्ज धरास्सर्वे विशेषतः | विशेषं कथयाम्येषामष्टाना मनुपूर्वशः || पाशाङ्कुशकरस्सोम शम्भुः शरधनुर्धरः | घण्डकार्थ धरश्चान्ये जाप्यकुण्डिधरोऽपरः || अन्यः पुस्ताक्षमाली च शुक शारीधरः परः | चन्द्र सूर्य धरश्चान्यो वीणावादी तथाष्टमः || अथ ब्रह्मा च शक्रश्च पीतौ पूर्वे स्थितौ द्वये | विष्णुश्चानन्तनागश्च नीलोप्रत्यक्स्थित द्वये || कृताञ्जलि पुटास्सर्वे शेषमेषां निगद्यते | शक्तिदण्डधरोब्रह्मा वज्रतर्जधरोहरिः | गदा चक्रधरो विष्णुः नागः कुण्ड्यक्षमालिनः || ते रुद्राः षट्पदा ज्ञेयाः ब्रह्माद्याः सु चतुर्भुजाः || प्. ४६८) प्रणवो हृदयाणुर्वा मन्त्रास्तेषां प्रकीर्तिताः | सर्वान् सम्पूज्य गन्धाद्यैर्वस्त्रैः पुष्पैश्च भूषणैः || प्रत्येकशतहोमेन तर्पयित्वा हृदाणुना | भोजयेन्मधुरान्नाद्यैः तृप्तौ दद्यात् सदक्षिणम् || ताम्बूलं प्रार्थयेदेतान् जानुभ्यामवनौस्थितः | भो भो देवा मयापूर्वं प्रमादात्सेवितं सकृत् | देव द्रव्यादि निर्माल्यं तत्तद्दोषापनुत्तये ||
SKअनुग्रहः प्रकर्तव्यः कृपयामयि सम्प्रति | भवत्प्रसादादन्यैर्वा मुक्तिर्मेऽस्तु परे पदे | इति विज्ञाप्य लब्धाज्ञो नत्वा देवं क्षमापयेत् || देवतामाधिपत्ये च लोहशैलमृगादिभिः | मुक्तिं सङ्कल्प्य देवानां पुण्यक्षेत्रे शिवालये | चित्रे वा स्थापयित्वैतान् भोजयेच्च तपोधनान् || तदा शुद्धिं समभ्येति देव द्रव्य नियामकः | उक्तञ्च - श्री देव्युवाच - श्रूतं देवाध्व सन्तानं दीक्षा च बहुधा श्रुता | इदानीं श्रोतुमिच्छामि देवतामाधिकारिणीम् || निर्गमः | कलावहं कृतेः पापाद्वहु चित्रा तपाधिपान् | निर्माल्य भक्षणात्पापं मुक्तं घोरं सुदुस्तरम् || अस्ति किं देवदेवेश विस्तारस्तस्य कथ्यताम् | अज्ञानाज्ज्ञानतोवापि समस्तमल संभृतौ || प्. ४६९) ईश्वर उचाच - अस्त्येकः परमोपापः शिवनिर्माल्य घातिनाम् | उक्त्या शिवास्टकं कृत्वा तस्मात्पापात्प्रमुच्यते || शिलामृद्दारु लोहैर्वा चित्रैर्वा देवताग्रतः | कृत्वापि विधिवत्स्थाप्य जनः पापात् प्रमुच्यते || महान्ति पातकान्नार्यो * * * न्युक्तानि पुरेत च |? तेषु गर्हितमेतच्च ज्ञेयनिर्माल्यपावकम् | तत्तच्छिवाष्टकाद्देवि नास्ति पापं सुनिश्चितम् || सत्यं माहेश्वरं वाक्यं चिन्तितव्यं महेश्वरि | सोमः शम्भुः शिवः शूली सर्वज्ञः शङ्करस्तथा || शितिकण्ठश्च शर्वश्च ह्येतच्छिवाष्टकं प्रिये | जीविते च स्वयं कुर्यान्मृते शिवाष्टकं पुनः || यमुद्दिश्य कृतं देवि तस्य पापं न विद्यते | कृत्वा निर्माल्यकं देवि वर्जयाप्रीतिकोनरः || पुनः संभक्षणाद्याति नरकं नात्र संशयः | अष्टावेते शिवाः शान्ताः नानाशृङ्गार संयुताः || षोडश वर्षदिशीया रत्नताटङ्क मण्डिताः | लौल्यां गदहारच्छन्ना नूपुरां घ्रिविशोभिताः | त्रिणेत्रास्सजटाजूटाश्चन्द्रालंकृत मौलयः || केयूर कटकप्रान्ताः दिव्यवस्त्राः सुशोभिताः | षट्भुजाश्च त्रिभङ्गाश्च ऊर्ध्वं पद्मासनाश्च वा || प्. ४७०) रत्न सिंहासनोर्ध्वस्याः सर्वे वृषभलिङ्गिनः | इन्दीवरवराभीति शूलधारास्तु मुख्यतः ||
SKपश्चादस्त्रद्वयं दद्याद् यथाहं कथयामिते | पाशांकुश पुराप्रोक्तं धनुः शरधरस्तथा || घण्टकाश्चार्धयश्चान्यो जाप्य कुण्डिधरोऽपरः | माला पुस्तधाराश्च शुकधारीधरो परः || चन्द्रसूर्यधरश्चान्यो वीणावादी तथाष्टमः | एतेषां पङ्क्तिभूतानां पार्श्वेऽप्यन्यास्त्र देवताः | चतस्त्रः पूजयेदासां नामरूपाणि च ब्रूवे || कृताञ्जलि पुटाच्चक्रः ब्रह्मविष्णु ना विनायकाः || क्रमाद्वज्र तर्जधरः शक्तिदण्ड विधारकः | चक्रा गदाधराश्चान्यो जाप्य कुण्डीधरोपरः | एवं चतुर्भुजा ह्येते पूजनीया विधानतः || ब्रह्मचर्यादिभिर्देवि कर्तव्यं हि शिवाष्टकम् | अन्यैर्निर्माल्य चेतस्कैः पाषण्डैर्वा मलक्षयात् || अल्पापराधिभिर्देदेही द्वादशाय तपोधनाः | अन्येन दीक्षिता भक्ताः शौचाचारसमन्विताः || पूर्वोक्त विधिवत्पूज्याः सर्वपापक्षयार्यतः || इति || एवं शिवाष्टकं प्रोक्तं सर्वनिर्माल्य पातनात् | सिद्धान्तार्थानुसारेण श्रीशिवज्ञान शम्भुना || श्रीमहागणपतये नमः | प्. ४७१) || श्री महागणपतये नमः || नाडीभूतमये सूत्रे हृत्पदां मण्डलान्वितम् | हृदा विन्यस्य तत्रैव शक्तिमाधारिकां न्यसेत् || विद्यादेहस्ततस्तत्र न्यसेदप्युत्तमांशुना | शिष्यात्मानमथादाय न्यसेत्तत्र मलावृतम् | मलपाशं न्यसेत्कृष्णं मलपाशं सितासितम् || मायापाशं विचित्रं तदष्टभागेन चात्मनि | भोक्तृत्वममलस्तस्य कर्मणा च सुखासुखम् || मायीयं तच्छरीरस्य कारणं विषयेषु च | विद्यादेहं च तद्देहे मस्तके शिवमर्चयेत् || ततः शिरसि तत्सूत्रे ह्यव्युच्छिन्नेन मन्त्रवित् || न्यसेत् षड्विधमध्वानं पादान्त व्यापकं शिशोः | मलपाशाधिपां शक्तिं तथा विन्यस्य तर्पयेत् || ततस्तस्य शिखायां तु वामशक्तिं न्यसेद्यथा | निरोधं कुटिलाकारं वह्नौ सन्तर्पयेत्पुनः || न्यूनातिरिक्तपूर्णार्थं शतमूलेन पूर्णया | हुत्वाथ शान्त्यतीतादौ तर्पणं दीपनं चरेत् || ॐ नमः शिवाय ॐ श्री महागणपतये नमः |
SKकार्यं विश्वेश्वरं ज्योतिः मण्डलाभोग वासिना | श्रीमज्ज्ञान शिवेवाथ लिङ्गलक्षणमुच्यते || यद्यप्यस्ति सदेशस्य पूजाधारमनेकधा | प्. ४७२) तथापि लिङ्गे नित्यार्था सम्पूर्णफलदायकः || तथा श्रीकालोत्तरे - पूजाधाराणि वक्ष्यामि समासात् कृत्तिका सुत | समूर्तौ पूजनं कार्यं पूजारम्भे प्रयत्नतः || योगिनां वा स्वमूर्ते तु पूजनं विहितं सदा | यागारम्भे सदापूजा गुरुमूर्तौ प्रकल्पयेत् || आशीर्वाद * * वा वत्सकृदेवं शिवं यजेत् | विद्यापूजा * * * * * पूजा कार्या सदैव हि || विद्यापीठं कोशमात्रं पूजयेद्वस्व संहिताम् | जले सदाशिवः पूज्यः स्नानान्ते च सकृत्सुत || अग्नौ पूजावसाने तमिष्ट्वा होमं समाचरेत् | निर्विघ्नार्थं स्थण्डिले तु शिवास्त्रं सम्प्रपूजयेत् || शिवश्च स्थण्डिले पूज्यः जलवत्कलशोहितम् | स्थिरलिङ्गे सदाकारय्ं सिद्धिकामैः प्रयत्नतः || भुक्तिमुक्तिप्रदं पुंसां चललिङ्गे शिवार्चनम् || पूजयेत् सूर्यबिम्बस्थं दर्पणे प्रतिबिम्बितम् | तद्वद्वै सोमबिम्बस्थं पूजयेन्मृत्यु वञ्चने | सर्वत्र संस्थितं पूज्यं सर्वाधारेषु सर्वदा | तत्रापि लिङ्गे भगवान् पूजां गृह्णाति धूर्जटिः || असंपूर्णा कृतापूजा मन्त्रद्रव्यक्रियागणैः | तथापि लिङ्गे सम्पूर्णा पूजाभवति षण्मुख || न न्यूना नाधिकाकारा पूजा वै स्थण्डिले सुत || प्. ४७७) न्यूनाधिका तु या पूजा फलहीना प्रकीर्तिता | एतस्मात्कारणाद्वत्स लिङ्गाराधनमारभेत || इति | लीयन्ते यत्र भूतानि निर्गच्छन्ति यतः पुनः | तेन लिङ्गं परं व्योम निष्कलः परमश्शिवः || लिङ्ग्यते चिह्नतोयेन भावेन भगवञ्छिवः | योगिभिस्तत्त्रिधालिङ्गं व्यक्ताव्यक्तो भयात्मकम् || व्यक्तं तत्सकलं ज्ञेयमव्यक्तं निष्कलं मतम् | ज्ञानज्योतिर्मयं लिङ्गं व्यक्ताव्यक्तमिति स्मृतम् || तदाकारं तदाभक्तं कृत्रिमं तदधिष्ठितम् | लिङ्गमित्युच्यते तच्च कृत्रिमं तदधिष्ठितम् | ताम्र व्याहरणे विद्वानाचार्यः सर्वमङ्गलैः ||
SKस्वानु कूले तिथौ लग्ने यजमानेन पूजितः | शम्भु कुम्भं स शस्त्रालुं सम्पूज्य बलसंयुतम् || देवदेवत्वदाज्ञातो लिङ्गार्थं संयजाम्यहम् | त्वदधिष्ठान् योग्यं तल्लिङ्गं सद्यः प्रसूतमे || इति विज्ञाप्य लब्धाज्ञः शिल्पिभिः शकुनैः सह | समादायस्स सामग्र्य स्कन्धासौ पूजयेद्गुरुः || वनं शैलं नदीकूलं पुण्यक्षेत्रमथापि वा | तत्र सौम्यां शिलां प्राप्य तत्सौम्ये यागमन्दिरे || देवं शास्त्रं स लोकेशं कुम्भे सद्वारपं यजेत् | शिवा मन्त्रेण संप्रोक्ष्य हृदा संपूज्य रक्षयेत् || प्. ४७४) भस्मना चास्त्र वर्मभ्यां दिग्बलिं त्वनिशि क्षिपेत् | सर्वाक्यानभिसंपूज्य टङ्कमुद्गरकादिकम् || प्राश्य गव्यं तनुं शुद्धो यागमध्ये स्वपेद्गुरुः | भुक्त्यर्थी पूर्वदिङ्मूर्धा मुक्त्यर्थी दक्षिणा शिराः || शिरः स्थाने यजेत्कुम्भे सप्तमाणवकं शिवम् | शुद्धस्फटिकसंकाशमेववक्त्रं त्रिलोचनम् || व्याघ्रचर्मपरीधानं नागयज्ञोपवीतिनम् | चन्द्रार्ध शेखरं सौम्यं मौलीकुण्डलभूषणम् || त्रिशूलं वरदं सव्ये मेरुभय कपालिनम् | केयूर नूपुरोपेतं ध्यात्वा स्वप्नमनुं जपेत् || ॐ नमः शम्भो त्रिणेत्राय पिङ्गलाय महात्मने | वामाय विश्वरूपाय स्वप्नाधि पतये नमः || स्वप्ने कथय मे तथ्यं सर्वकार्यमखाधिपम् | ॐ हिलि हिलि शूल पाणये नमः | प्रातः स्नानादिकं कृत्वा संपूज्य परमेश्वरम् || सुस्वप्नं कथयेदिष्टे दुःस्वप्ने शान्तिमाचरेत् | अघोरास्त्र सहस्त्रेण तदर्धेन शतेन वा | पूर्वे सौम्ये तथेशावेत्वे व्यक्तोदेहः शिरः क्रमात् || अधोभागे शिरं चोर्ध्वे पृष्ठभागं समङ्कयेत् | पादस्थाने शिलाग्राह्या तच्छेषे वृषभस्तथा || प्. ४७५) तच्चिह्नचिह्नितां कुर्यात् प्रणवेन हृदाथवा | पत्रक्रिया यदानस्याच्छिलामाकृष्य यत्नतः || कर्मशालासु निक्षिप्य क्रियां पूर्ववदा चरेत् | ततः शिलां समाकृष्य गुणदोषान् परीक्षयेत् || तद्यथा कालोत्तरे -
SKसा शिला त्रिविधा प्रोक्ता स्त्रीपुंसतानपुंसका | बालायुवा तथा वृद्धा रूक्षा राजविवर्जिता | गम्भीरशब्दैर्गम्भीरा स्निग्धच्छया मनोरमा || जलोत्थिता स्थिरागुर्वी समासौम्याप्यधोमुकिही | गूढच्छाया सुगन्धा च स्निग्धा सुसुधादृढा || सितादि वर्णावर्णानां हीनरेखा विगर्हिता | उत्तमायां हीनरेखा वर्जनीयास्तु बिन्दवः || हीनाश्चोत्तमारेखाः शंसिता बिन्दवस्तथा || अवक्रा वितथाच्छिन्ना प्रशस्ता कृत्तिका सुत | एवं विद्या शिला ग्राह्या कीलोर्मि पुटवर्जिताः || बहुरेखा हीनरेखा व्यङ्गरेखासु सम्पूटा | सस्फोट वर्णबहुला रक्षा?काकपदान्विताः || अशुचि स्थान संस्था च युक्ता कापोत सन्निभा | पद्मा परावत प्रख्या हासचारखरोष्ट्रभा || अग्निमाञ्जिष्ट भृङ्गाभा अहिमण्डूकसन्निभा | सिंह व्याघ्रोष्ट्रमाचार खरश्च पदलाञ्छिताः || प्. ४७६) मत्स्य कर्दम धूम्राभा धूसरा मलिनत्विषा | याग रविलधैर्युक्ता या च दुर्गन्धि संयुता || तांक्षतां सूर्यतप्तं च बहुदोषं परित्यजेत् | निर्दोषानु सदा ग्राह्याद्या सर्वसिद्धिदा || व्यक्ता व्यक्तादिके लिङ्गेपीठे पुंशैलमीरितम् | स्त्रीरूपाणां तु पिण्डीनां स्त्रीशिलाना पराहिता || गौरी चरं तृतीयेन द्वार प्रसाअद सिद्धये | छेदने तक्षणे वाथ कर्षणे च विशेषतः || सगर्भामथ निर्गर्भां निर्देश्य लक्षणेन तु | विकृतं तु यदा तस्य मण्डलं वा स्वकं क्वचित् || तदा सगर्भं विज्ञेयं लेपपूर्वं परीक्षयेत् | कास?संहरितालं च अश्वं विषयमेव च || ऋद्धि पुष्पसमायुक्तं चक्रं वज्रं च कन्दकम् | विष्ट्वार नाल संयोगाद्रात्रौ लिङ्गं प्रलेपयेत् || स गर्भं विकृतैर्ज्ञेयं धारापातेन लक्षयेत् | यस्मान्नच्यवते लिङ्गं तत्र दोषं विनिर्देशेत् || मृदुत्वे मण्डले वाथ शब्देन विकृतेन वा | माञ्जिष्ठ वर्णे मण्डूकं गोधां पीते च निर्दिशेत् || पत्री जीवं श्यामवर्णे विचित्रे वृश्चिको भवेत् | अरुणे किन्तु कलावस्यं निस्त्रिंशाभे जलं भवेत् || प्. ४७८)
SKश्याम चात्रे? विपक्षी स्याद्भस्माभेसि कदाचयम् | एव मादीनि वाद्यानि विज्ञेयानि प्रयत्नतः || शाणादि घर्षितं कृत्वा चिह्नानि प्रविलोकयेत् | शुभवर्णे शुभाकारै सर्पसिद्ध्यै शुभप्रदम् || अशुभाकार वर्णैस्तु विपरीत फलप्रदम् | तथा प्रतिष्ठासार संग्रहे च - श्वेता रक्ता पीता कृष्णा विप्रादिस्.उ चयेत् क्रमात् | पद्माज्य रक्तगोमूत्र गन्धाक्षशोभनादृढा || मेघध्वनिस्तथा वीणा घण्टाशङ्खे परापरा | बाला युवस्तथा वृद्धा स्त्रीपुंरूपा नपुंसका || नानावर्णश्च मृद्वी च दुर्गन्धापि वनध्वनिः | लस्व बाला शिशुः ज्ञेया बाला बालेव निष्फला || कठिना शीतला स्निग्धा गम्भीरा सुध्वनीदृढा | तेजोधिका च गुर्वी सा मनोज्ञा सुयवा मता || सिद्धिदा सर्वकार्येषु सर्वलक्षण संयुता | रूक्षात्युष्णा कठीनाध्वनी हीनानि विगर्हिता || भेकमीना विघण्टाया भोगीनीपि लघूद्वहा | सर्वकार्य विनाशी सा वृद्धा वृद्धिमिव त्यजेत् || रम्भा दलाकृतिर्यात्र स्वस्त्रीणां सर्वकामदा | वटाश्वत्थ पलाशार्क पत्रतुल्यो गमध्वनिः || स्निग्धश्चिरश्च गम्भीरः पाषाणः पुरुषस्ततः | रूक्षमुष्णं सु कठिनं भेरिका घटिकोपमम् || प्. ४७८) शिरालं कर्कशं रूक्षं षण्डषण्डस्य सिद्धिदः | कांस्य होमाया भासैः सताम्राभैर्दलैर्युता || तद्वर्ण बिन्दुरेखाभिर्हीनकैश्चाभि नन्दिता | यजमान नृपंराष्ट्रं तापकं शिल्पिनं तथा || निगन्ति विमलैर्युक्ता तस्मात्तां परिवर्जयेत् | कृष्णा सिताङ्कुरासक्त कौपीके शैल लोहितः || हेम वर्णात्मकश्चैते शेषाः सर्वत्र दोषदाः || श्वेता पद्मोपमा रेखा ब्राह्मणानां हिता वहा | पीतरक्तं च राज्ञां स्याद्वैश्ये श्यामारुणार्थदा || शूद्राणां हरिता कृष्णा सर्वदाऽरोग्यदा मता || इन्द्रचापोपमारेखा सर्वेषां सर्वदा मता || हीना रेखोत्तमा हीना हीना रेखोत्तमा शुभा | सर्वलक्षणसंयुक्ता स्वल्पदोषा यदा शिवा || तदाघोर सहस्राज्यं हुत्वा संयोजयेद्गुरुः || इति || प्रशस्ता काष्ठसंभूत सुसानन्दारवं हितम् | चम्पका नन्दबीभत्स चन्दन द्वितयोद्भवम् ||
SKशाक सालतमालोत्थ खादिराशोकजं शुभम् | अश्वत्थ वटश्रीपर्ण बिल्वतिन्दुक गालवम् || जीर्णपादपजं वर्ज्यं चितिवल्मीक सम्भवम् | त्रिचतुर्णाथ? तद्वद्ग्राम यानि महीरुकम् | कीडविद्धं स्वयं भग्नं महापात गजावहम् || शुष्कं क्रुद्धादि संजुष्टं सेवितं चान्त्यजातिभिः || प्. ४७९) सव्रणं ग्रान्थिकं व्यङ्गं सारहीनं तरुं त्यजेत् | वृक्षं सलक्षणं वृद्धा पूर्ववच्चाधिवासयेत् || ऊर्ध्वंशिवस्ययः पादं वक्त्रं पूर्वोत्तरागमम् | लाञ्छयित्वास्त्रमन्त्रेण छेदयेत् तत्क्षणादपि || सोपचारं रथे कृत्वा समानीय प्रयत्नतः | देवालयोत्तरे भागे कर्मरूग्या निवेशयेत् || षट्सप्ताष्टयवैर्ज्ञेयं कन्सं मध्यमुत्तमम् | अङ्गुलन्तै स्त्रिधाज्ञेयं चतुर्विंशतिभिः करः | एकहस्तं द्विहस्तं च त्रिहस्तं कन्यसं त्रिधा | चतुर्भिः पञ्चभिः षड्भिः हस्तैस्यां मध्यमं त्रिधा || सप्ताष्टनवभिर्हस्तैरुत्तमं त्रिविधं मतम् || नवलिङ्गानि शुद्धानि शैलानि मृण्मयानि च | अष्टाष्टाङ्गुल पूजानि चान्तराणीह षोडश || षट् षडङ्गुल वृद्धानि चतुस्त्रिंशति वा जगुः | हस्तादधा स्थितं शैलं धाम्नि गेहे तु शोभनम् | तथा चाह मयं हस्तदध स्थितं शैलं प्रासादेषु न शष्यते | चलमप्यहितं सिद्ध्यै गृहे च गृहिणां श्रयेत् || इति | तथा च कालोत्तरे - हस्ता दधस्थितं शैलं प्रासादे परिवर्जयेत् | किन्तु रौद्रं यवाङ्कं तच्छ्मशानादिषु मारसा || इति || षोडशाङ्गुलमारभ्य दारुजं षट्करं भवेत् | अष्टाङ्गुलं समारभ्य लोहजं त्रिकरं मतम् | तथा च मोहश्रूरोत्तए - प्. ४८०) शिलामृद्दारुलोहोत्थं तुष्टिग्रह रसानिलैः | ज्येष्ठं ज्येष्ठकरं लिङ्गं चतुर्द्रव्य विभेदतः || तत्तृतीयांश सन्त्यागान्मध्यमस्योत्तमं भवेत् | कन्यसाग्रं दलादस्य त्रिधा लिङ्गमुदाहृतम् || भिद्यन्ते स्वस्वनामांशैर्नवलिङ्गं यथा भवेत् | ज्येष्ठादि कन्यसान्तानि लिङ्गानि कथितानि ते | तथा च कालोत्तरे -
SKएक हस्तादितः कृत्वा न चान्तं कथितं मया | मृच्छैलजं समानेन दारुजं स्यात्त्रिभिर्विना | तदर्धलोहजं चाग्र्यं हस्तमानेन कीर्तितम् | षोडशाङ्गुल पर्यन्तं प्रासादे दारु संहितम् || अष्टाङ्गुलं तथा लोहं तदर्धञ्चेद्गृहे हितम् | तच्छैलं दारुजं वापि स्वगृहे परिवर्जयेत् || भुक्ति मुक्तिप्रदं लोहं द्रव्यं सीसायसं विना | महाभुक्ति प्रदं हैमं मध्यमं तारसंभवम् | अन्य भुक्तिप्रदं शेषमङ्गुलात्तनयावधि || इति || गर्भमानेन वा कार्या प्रासादो यदि निर्मितः | नव प्रसाद गर्हस्य तुल्यनं तदुदृश्यते |? तद्गर्भे पञ्चधा भक्ते त्रिभिः स्यादुत्तमोत्तमम् || पुनश्च नवभिर्भक्तैः पञ्चभिर्मध्यमोत्तमम् | द्विधाभक्ते पुनर्गभे भागैकं कन्यसोत्तमम् || ज्येष्ठं ज्येष्ठात् समारभ्य कन्यसाधोद्वयावधि || प्. ४८१) नवलिङ्गानि जायन्ते सोत्तराणि स्वनामतः | तथा च कालोत्तरे - भूतरन्ध्राक्ष भक्तैस्तु धामगर्भे समन्ततः || वह्निभूतात्म भागैः स्याज्ज्येष्ठं मध्याधमं शिवम् | तेषां मध्ये तथा द्वेन्द्वे कन्यासाया तथा द्वयम् || प्रासाद गर्भमानेन नवलिङ्गानि सन्ति हि | एकैकं तु त्रिधाभक्त्या पुरुवं संख्या प्रजायते || इति | तथा पिङ्गलामते च - प्रासादे वा यथा पूर्वं लिङ्ग पश्चात् प्रकल्पयेत् | कन्यसादि समारभ्य ज्येष्ठान्तं गर्भमानतः | गर्भार्धं कन्यसं ज्येष्ठं नवभक्ते तु पञ्चभिः | मध्यमोत्तममाख्यातं भूताग्नि ज्येष्ठ ज्येष्ठकम् || ज्येष्ठा कन्यान्तरे खेद्वे देवलिङ्ग विकल्पना | तत्सङ्गं सममानेन कन्यासो द्वयमादिशेत् | तदन्तरं यथा पूर्वं त्रिधेकैकं प्रकल्पयेत् | अत्रापि सङ्खयालिङ्गं पूर्वं स्यात्परि विस्फुटम् || इति | यद्वा - गर्भार्धेनाधमं लिङ्गं भूतांशैस्स्यात्त्रिभिर्वरम् || तन्मध्ये सप्तसूत्राणि नवलिङ्गानि चैव हि || तथा च श्रीकिरणे - प्रासादो यदि पूर्वस्थः तदा तन्मान कल्पनम् | ऊर्धा?र्धे कन्यसं लिङ्गं पञ्चभागी कृते सति ||
SKत्रिम?घां दुत्तमं लिङ्गं नवधा भाजिते सति | पञ्चभिर्मध्यमं लिङ्गं भवेन्मध्यम मध्यमम् || प्. ४८२) तदूर्ध्वाधो भवेद्गर्भे भाज्यैरेखैस्त्रिभिस्त्रिभिः | एक गर्भो यथा योगं लिङ्गानि नवसंख्यया || कल्पनीयानि विद्वद्भिर्यजमानेच्छया खगः | यजमानो यथा भागो भवेल्लिङ्गं फलं तथा || इति | ऊर्ध्वमानं समाख्यातं विस्तरं कथ्यतेऽधुना || तीर्थं षोडशधा कृत्वा षट्पञ चतुरंशकैः || विस्तारं चतुरंशं स्यान्नाड्यो नाड्ये सुरार्चिते | स च सर्वसमेकार्यः सत्र्यं शैः पञ्चभिः पुनः || तथा च कालोत्तरे - एतदुच्छ्रायमानं तु विस्तारः कथ्यते पुनः | लिङ्गधामं विकारं वा शक्रमाहन्तुर्विपञ्चभिः || स त्रिभागैस्तु लिङ्गानां विस्तारः कथ्यते मया | आढ्यम् सुरार्चितं लिङ्गं तथा नाड्यं तृतीयकम् || अन्यत्सर्वं समं लिङ्गं विभागेन प्रकीर्तितम् || इति | तथा च लक्षणं गृहे उक्तायामस्य चार्धांशे नागांशैर्भाजिते क्रमात् | रस भूताब्धि षष्ठांश त्र्यंशाधिक शरैर्भवेत् || आढ्या नाड्यासुराज्याह्वं तुल्यानां चतुरश्रकः || इति || तथा च मोहश्रूरोत्तरे - नाभे भक्ते च लिङ्गार्थे रसबाणकृतैर्भवेत् | आड्या नाड्या सुरेष्टेषु विष्कंभः सर्वतः समे || सत्रिभागैर्भवेदक्षैः ब्रह्माङ्गश्चतुरश्रकः || इति || अङ्गुलानि स्फुटीकृत्य लिङ्गेष्वायं विलक्षयेत् || प्. ४८२) आयश्चतुर्विधः प्रोक्तः स्थान भेदाद्यथागमे || उक्तञ्च कालोत्तरे - लिङ्गानां पीठनात्मञ्च गणानाञ्च ध्वजायुता | शुद्धिप्रयत्नतो नेर्या द्रणानान्तु स्वरायुता || शयनानाञ्च यानानां शोधनं भूतसंज्ञकैः | वापीकूपतटाकानां शुद्धिरन्याधुनाहिता || ध्वजोधूमश्च सिंहा वा ऋषभगान्धारो मध्यमम् | पञ्चमस्तथा || दैवतञ्च निषादश्च स्वरायाः सप्तकीर्तिताः | श्रियो विनाशो वृद्धिश्च संसित्वं महिमा तथा || विषदण्डो महाभूतिः फलं सप्तस्वरोद्भवम् | पृथिव्यादीनि भूतानि भूतायानि मतानि तु | धूपमाप्यायनं दाहो गमनं पञ्चधा क्रमात् ||
SKअग्निराहव नीयाख्यो गार्हपत्यस्तथा पराः | भक्षणाग्निः क्रमात्तेषां स्नानं वासः क्षयः फलम् || इति || आयशून्यं यथा लिङ्गं तच्छुभायं विनिक्षिपेत् | वर्धमानं तदाख्यातं तच्चोक्तं परमेश्वरे || लिङ्गदैर्घ्याङ्गुलानीह गुणयेद्विस्तराङ्गुलैः | हरे दायैः पुनर्भावं शेषमायं विलक्षयेत् || दृष्ट आये यदा लिङ्गं शुभमायं क्षिपेत्तदा | वर्तमानञ्च तत्प्रोक्तं भागोनिर्घ्राण साधनम् | एकहस्ताङ्गुलं देहं तत्र यद्द्वित्रिहस्तके || प्. ४८४) चतुः पञ्चकरे पञ्च षट्सप्तसु च सप्तकम् | अङ्गुलानि नवैवस्य लिङ्गयोर्वसु रन्ध्रयोः || भागेषु ब्रह्म वैकुण्ठरुद्राणां मृदु भाजितम् | एक द्वित्रिक्रमाद्दद्यादङ्गुले वाथ् दोषभाक् | तथैव सान्तराणां च तायं सर्वसमेविधिः | भागत्रयेऽपि तुल्यादायभागत्रये विदुः || इति || छाया दोषो यथा नस्यादाढ्यादि त्रितये तथा | ब्रह्मभागं च रुद्रांशं न्यूनं वाऽप्यधिकं चरेत् || तथा चोक्तं श्रीमत्पारमेश्वरे शेखरादिषु - भागे न्यूनायके वर्यौ पितामहपुरद्विषाः | न न्यूनं नाधिकं भागं विष्टर श्रवसः क्वचित् || अन्यथा पिण्डकक्रान्तं लिङ्गं स्यात् पिण्डिकाथवा | लिङ्गक्रान्ते दृशीते च दोषते दूरतस्त्यजेत् ||? विष्कम्भदैर्घ्यं तस्त्यक्त्वा लिङ्गं स्याच्चांश मध्यतः | स्वया मन्त्र्यं शतोष्टां तु सन्तुर्याश्रमसेसितश्वरेत् ||? इति | तथा च विश्वकर्म ते - लिङ्गे हीने भवेन्मुत्युरधिके व्याधयोभृशम् | तस्माल्लिङ्गादिकं पीठं कर्तव्यं कर्तृजीवदे || लोङ्गेन पिण्डिका क्रान्ता पीठं वा लिङ्गतोधिकम् | यदि स्यात्पीड्यते रोगैः कर्ताराष्ट्रं गुरुस्तथा | तस्मान्न्यूनाधिकौ कार्यौ हरब्रह्मांशकावुभौ || प्. ४५०) उच्छ्रयेण त्रिलिङ्गानां न न्यूनोनाधिको हरैः | लिङ्गायामजिनं कृता सार्धाष्टां शैकजासनः || सार्धसप्तभिरीशः स्यादास्यैव स्वांशतो हरिः | सपादाष्टांशकैस्त्र्यक्षः चक्री स्यान्मण्डलागतः || पादोनाष्टांशतो ब्रह्मा कार्यमेन मनाड्यकम् | गृहांशेन हरोच्छ्रायं विष्णुमष्टांशकैस्ततः ||
SKब्रह्मांशं सप्तपाकेन कुर्याद्देवं सुरार्चिते | एवं यः कुरुते लिङ्गं तस्याभीष्टं करे स्थितम् || चतुरश्रो भवेद्ब्रह्मा विष्णुरष्टाश्रको भवेत् || रुद्रभागे भवेद्वृत्तं मिश्रलोपक्रमेण च || इति || तथा पिङ्गला मते - पीठ पिण्डिकयोर्मानं लिङ्गमानं समं कुरु | अर्चयामा समन्ताश्च चश्चाभृद्वै पिण्डिका मता || यदा तु पिण्डिकामानं लिङ्गं स्यात्क्रमते तदा | तद्देश वासिनस्सर्वे पीड्यन्ते व्याधिभिस्सदा || स्थापकः कर्तृशिल्पी च मूर्तिपैः सहसंयुताः | बाध्यन्ते व्याधिभिस्सर्वे क्षयकुष्ठ ज्वरादिभिः || पिण्डिकायाश्च मानेन लिङ्गं वा क्रमते यदा | यदुक्तं पूजनं दोषं तदा सर्वमवाप्नुयात् || तस्माद्यथानुरूपेण लिङ्गे योज्यानुपिण्डिका || इति || ब्रह्मांशं चतुरश्रं स्यादूर्ध्वमष्टाश्रकं यथा | प्. ४८६) बाहुसूत्रेषु कण्ठार्ध सूत्रैरोणानि लाञ्छयेत् | अथ बाहाहु सूत्रेण कण्ठसूत्र घृतेन च || कण्ठसूत्रस्य यच्छेषं तेन कोणेषु लाञ्छयेत् | व्यासे वा सप्तधा भक्ते त्रिभिर्मध्य द्विशातनात् || अष्टाश्रं जायते तेन विष्णुभागं तथा मतः || तदूर्ध्वं रुद्र भागे तु वृत्ताश्रं वेदभाजितम् | द्विशोत्कोणानि सञ्चिन्त्य क्रमाद्वृत्तं विवर्तयेत् || तथा च कालोत्तरे - त्रयो भागास्तु लिङ्गानां ब्रह्मविष्णुहरात्मकाः | चतुरश्रस्तथाष्टाश्रो वृत्तः स्यादूत संज्ञकम् || कोणोर्धादितरत्यागां अष्टाश्रं विष्णु संज्ञकम् | अश्वलोप क्रमेणैव रुद्राख्यं वृत्ततां नयेत् || तथा च मोहशूरोत्तरे - तत्कर्णार्धे तरत्यागादङ्गुलाश्रं शतक्रतो | मुनित्रयेण मध्यं स्याद्ध्यासन्तु करसंख्यया || षोडशाश्रमयैवं स्यात्समं पश्चात् प्रवर्तते || इति || तथा च मये अव्यक्तं चतुराश्राष्ट वृत्तभागोपलक्षितम् | लिङ्गायामं वि * * रांशैः चतुर्भूतर * सर्हितत् || विष्कम्भः साधनालिङ्गं विहाय मुनिसत्तम | तत्कर्णोर्ध्वे तुर त्यागादष्टाश्रं मुनिभाजिके || प्. ४८९) भागद्वय प्रहाराणां द्वामूर्ध्वं वृत्ततां नयेत् | भूमेण ब्रह्मणः स्थानादाश्र लोपक्रमेण वा || इति || तथापि लिङ्गमते -
SKनाहार्धं व ह्यु वत्कृता विष्कम्भं मृदु संख्यया | आढ्यमेतत् समाख्यातं लिङ्गं सुरवरार्चिते || लिङ्गार्धा वसुवत्कृत्वा वेदाश्रं भूतसंख्यया | अनाड्यमेतन्निर्दिष्टं सर्वासामान्य लक्षणम् || तृतीयं संप्रवक्ष्यामि नाम्ना सुत गणार्चितम् | ऊध्वं कल विभक्तं तु वेदाश्रं तुर्य संख्यया || अन्यत्सर्वसमं देवि धनधान्य सुखावहम् | सामान्य सर्वतत्वानां नानार्थं वसुवद्भवेत् || अधस्तात्षष्ठमायाञ्च त्रिधातद्विभजेत्पुनः | नागभागयुताः पञ्च विष्कम्भस्तु भवेत्स्फुटम् || प्रमाणमेतन्निर्दिष्टमाकारं कथयामिते | भागत्रय समं कृत्वा वेदाश्रं ब्रह्म संज्ञकम् || द्वात्रिंशाश्रयुतं वास्यादश्रिलिङ्गं द्विधामतम् | समं वा वृत्तलिङ्गस्य पूजाभागं प्रकल्पयेत् || इति | अथ यदुक्तं प्रतिष्ठासार सङ्ग्रहे च - विकारभाजितायामे रसबाण युगैः क्रमात् | अड्या नाड्य सुरार्चेषु विष्कम्भः सर्वतः समे || प्. ४९०) षष्ठांश त्रिंसंयुक्तैः पञ्चांशैर्विस्तरो भवेत् | ऐश्वर्याङ्गुलानि लिङ्गस्य गुणयेद्विस्तराङ्गुलैः || अष्टाष्टभिर्हृदयैः शेषमायं विलक्षयेत् | ध्वजे लक्ष्मे ध्रुतिधामे जयस्सिंहे शुविष्कयः || वृषे धर्मकरे दुःखः गजेलाभः क्षयः खगे | आयशून्यं यदालिङ्गं शुभमायं क्षिपेत्तदा || छायादोषो यदा न स्यात् तत्तल्लिङ्गं त्रिधाभजेत् | लिङ्गायाम तृतीयांशो पिण्डांशोऽथ चलत्यसौ | लिङ्गत्रयेऽपि शेषौ द्वौ भागौ न्यूनाधिकौ मतौ || आढ्य लिङ्गैर्विकारांशैरर्चाभागैर्विभाजिते | भागमेकं समाहृत्य ब्रह्मभागे नियोजयेत् || तदा पिण्डिकया लिङ्गं समृद्धिकरणं भवेत् || ब्रह्मभागेष्टधा भक्ते भागैकं रुद्रयोजितम् | सर्वसिद्धिप्रदं ज्ञेयं लिङ्गं सुगणचर्चितम् || त्रिषुभागेषु तुल्यं स्यान्मानं सर्वसमात्मके | तदा पीठा वटे लिङ्गे स्थापितं पिण्डिकायुते || अर्चाभागे समापिण्डी समन्तात्पीठसंयुता | तदा देवा सुरादीनां नराणाञ्च सुखावहम् | अन्यथा कुरुते लिङ्गे यो मोहात्स्थापयेच्चतम् || तावुभौ पाप कर्माणौ सर्वलोकापकारिणौ || प्. ४८९)
SKभागद्वय प्रहाराणां द्वा मूर्ध्वं वृत्ततां नयेत् | भूमेण ब्रह्मणः स्थानादाश्रलोपक्रमेण वा || इति || तथापि लिङ्गमते - नाहार्धं वह्युवत्कृत्वा विष्कम्भं मृदुसंख्यया | आट्यमेतत् समाख्यातं लिङ्गं सुरवरार्चिते || लिङ्गार्धा वसुवत्कृत्वा वेदाश्रं भूतसंख्यया | अनाड्यमेतन्निर्दिष्टं सर्वा सामान्य लक्षणम् || तृतीयं संप्रवक्ष्यामि नाम्नासुत गणार्चितम् | ऊध्वं कलविभक्तं तु वेदाश्रं तुर्य संख्यया || अन्यत्सर्वसमं देवि धनधान्य सुखावहम् | सामान्य सर्वतत्वानां नानार्थं वसुवद्भवेत् || अधस्तात्षष्ठमायाञ्च त्रिधातद्विभजेत् पुनः | नागभागयुताः पञ्च विष्कम्भस्तु भवेत्स्फुटम् || प्रमाणमेतन्निर्दिष्टमाकारं कथयामिते | भागत्रय समंकृत्वा वेदाश्रं ब्रह्म संज्ञकम् || द्वात्रिंशाश्रयुतं वास्यादश्रिलिङ्गं द्विधामतम् | समं वा वृत्तलिङ्गस्य पूजाभागं प्रकल्पयेत् || इति | अथ यदुक्तं प्रतिष्ठासार सङ्ग्रहे च - विकार भाजितायामे रसबाणयुगैः क्रमत् | अड्यानाड्य सुरार्चेषु विष्कम्भः सर्वतः समे || प्. ४९०) कुक्कुटान्तं समाख्यातं सुराकस्य न चान्यथा || चतुर्भागात्मके लिङ्गे चतुर्थं परिरक्षणात् | पुनरन्यदवेल्लिङ्गे षोढाभक्ते तु मस्तके || भागत्रयं परित्यज्य पुष्पमस्तकनन्दन | अनाड्यस्य प्रकर्तव्यं नान्यस्य तु कदाचन || कन्त्रिधा विभजेत्पूर्वं पार्श्वभागार्थ विच्युते | कोणसूत्रक्रमेणैव भूमावादर्धचन्द्रकम् || आढ्यस्यैव तु कर्तव्यं अर्चा भक्तस्य षण्मुख | समासात्कीर्तितं सर्वं लिङ्गलक्षणमस्तकम् || इति | अथ चतुर्विधस्यापि लिङ्गस्य चतुर्विधमपि मस्तकं स्यादिति | मोहशूरोत्तरे - लिङ्गमुक्तं शिरस्तस्य वक्ष्यते सामान्यतो हरे | पुण्डरीकं विशालञ्च श्रीवत्सं शत्रुमर्दनम् || त्रपुषं कुक्कुटाण्डं च खण्डचन्द्र शचीपते | इति सप्तशिरं प्रोक्तं वर्तनमधुना शृणु || अर्चाष्टांशे युगैर्युक्त पुण्डरीकं धनक्षयात् | कण्ठक्षयाद्विशालञ्च श्रीवत्सगुणसंक्षयात् ||
SKकोणक्षयाद्विजानीयाच्चतुर्थं शत्रुमर्दनम् | रसभक्ते सपादांश शतनात्रपुषाकृति || श्रुत्वंशस्य परित्या * त्कुक्कुटाण्डं भवेच्छिरा || प्. ४९१) गुणभक्ते च संत्यागाद्बालेन्दुः स्यात्परिस्फुटम् || इति || छत्रं कुक्कुटमर्घे त्रपुषं लिङ्गमस्तकम् | एकैकस्य चतुर्भेदं कथ्यते चागमोदिता || अष्टमांशे चतुर्भक्ते भागभागविलोपनम् | विमलं विपुलं नाम वर्धमानं तृतीयकम् || श्रीवत्सं चतुर्थं स्यात् कुक्कुटाण्डं चतुर्विधम् | तृतीयांश चतुर्भक्तभागैः क्रमविलेपनम् || विमलं विपुलं नाम वर्धमानं तृतीयकम् | श्रीवत्सं च चतुर्थं स्यात् कुक्कुटाण्डं चतुर्विधम् | तृतीयांशे चतुर्भक्ते भागभाग विशोधनात् || अमृतं पूर्णकुम्भञ्च बलं कुमुदसंज्ञकम् | इत्थं चतुर्विधं ज्ञेयं त्रपुषं सर्वकामदम् || इति || अध्यादीनां तु लिङ्गानां ब्रह्मभागादि वेष्टनम् | न न्यूनं नाधिकं यद्यद्यथा शास्त्रं निरूपितम् | लिङ्ग दैर्घ्यपिकाराशो मङ्गलं परिकल्पिते || चतुर्विंशति ब्रह्मा विष्णुर्विंशतिभिस्तथा | ऊनविंशतिभिः शम्भुराधे संवेष्टितः शुभाः || ब्रह्मा विंशतिभिर्वेष्ट्यो विष्णुस्सप्तेन्दुभिस्तथा | रुद्र भागाङ्गुलैर्वेद्य सोना षोडशभिर्मता | षष्ठ्ये षोडशभिर्ब्रह्मा भागपूर्वाङ्गुलैस्तथा || प्. ४९२) भागत्र्यंशयुते विष्णुः स्यात्त्रयोदशभिः स्मृता | एक विंशतिभिर्भागैः सत्र्यंशैः ब्रह्मवेष्टनम् | हरिभागोऽपि वेष्ट्यः स्यात् सत्र्यंशैर्दशसप्तभिः || स सप्तदशभिः शम्भुः वेष्ट्यः सर्व समे सदा | यद्वा पुरोक्तं वेदं ब्रह्मांशं तच्चतुर्भुजम् || तत्रैकं सप्तधा कृत्वा सार्धद्वयंशै स्त्रिभिर्भुजैः | विष्णुर्वेष्ट्यः सपादैकपादैः स्यात्त्रिभुजैर्हरः || तथा च किरणे - चतुर्भुजरजे वेष्ट्य कृत्वा सप्तांशकैः भुजम् | सार्धद्वित्रि भुजैर्विष्णुः सार्धैक त्रिभुजैर्हरः || इति || तथा च लक्षण संग्रहे -
SKलिङ्गनाहं विकारांशं कृत्वा तु गणयेत्ततः | जिनं विंशति शार्दूलैराद्यैर्ब्रह्मादि वेष्टनम् | न खात्याष्टि विकारांशे नर नाड्ये तथा भवेत् || विकारेण स्वरेणांश तृतीयांशयुतेन च | भागस्यार्ध विभागेन युक्तके कणसुरार्चिते || भागतृतीयभागेन नख चन्द्राङ्कितेन च | अंशतृतीयभागेन चातुष्ट्यंशयुतेन च || स सप्तदशभिश्चांशैः परिधिः स्यात्समांशके | चतुर्थोभिर्ररोवेष्ट्यं कृत्वा सप्तांशकैर्भुजम् | सार्धद्वित्रिभुजैर्विष्णुः सर्धैकत्रिभुजैर्हरः || इति | प्. ४९३) मृत्युन्नते महाभोगः पृष्ठे गोलाभ एव च | यवगर्भे भवेद्वृष्टिः पानान्नं जठरोन्नते || सर्वाङ्ग वर्तुलैः सौख्यं पूजा लक्ष्मी प्रवर्धनम् | समे कुक्षौ भयं हन्यात्स्थूल मूलेत्वरेगता || क्षितिनिम्नादिदोषाढ्यं लिङ्गं वर्ज्यं प्रयत्नतः | शतलिङ्गं सहस्राङ्गमुख लिङ्गं यथास्फुटम् || श्रीमत्कालोत्तरे प्रोक्तं तद्यथा त्रविलीयते | यत्तदाढ्यं पुराप्रोक्तं सहस्रंकं प्रकल्पयेत् | सर्वकामप्रदं यस्मात् सहस्रंकं ततोहितम् || रुद्रवद्रविभागन्तु च्छ्रायेण तु कारयेत् | यन्त्र रन्ध्रे समं तत्र विस्तारात्तद्विजः पुनः || एकोन्तरं सहस्रं तु लिङ्गं संजायते स्फुटम् | विषमं च न कार्याणि उपर्युपरिवर्जयेत् || लक्षरेखा विहीनानि संयुक्तान्यपि चेन्न्यसेत् | पयोधरासहस्रा * * ठाकेकन्द्र मस्तकमस्तकम् | अष्टोत्तरशतं चान्य लिङ्गं सुरगणार्चितम् || उच्छ्रायं वेदवत्कृत्वा विस्तरः सप्तलोचने | तेन चाष्टशतं लिङ्गं कर्तव्यं पूर्ववत्सुत || मुखलिङ्गं ततः कार्यं नित्यं सर्वसमं सुत | आढ्यो नाढ्ये च कर्तव्य नवशस्त्रं सुरार्चिते ||? प्. ४९४) न तु सर्वसमं शस्तं केवलस्यापनेषु च | किन्तु यद्वक्ष्यमाणं तत्कर्तव्यं हि त्रिभागकम् || प्रतिहस्ताङ्गुलं देयं तच्चैकादशभाजितम् | चतुष्पथैकभागं तत्क्रमत् ब्रह्मादिषु क्षिपेत् ||
SKस्वप्रमाणं तदालिङ्गं भुक्ति मुक्ति विवर्धनम् | प्रमाणेन विनावत्स समंदुःखाय केवलम् | स्व प्रमाणं तु तल्लिङ्गं स्थाप्यं वा मुखलाञ्छितम् || मुखलिङ्गप्रमाणं तु शैलेन प्रोच्यते मया | चतुस्त्रिरेक वदनं कर्तव्यं देशिकैः सदा | पञ्चवक्त्रं द्विवक्त्रं तु वर्जयेत्तदनिष्टदम् || पूजाभागः प्रकर्तव्यः जन्मातापद कल्पतः | अर्कांश मूर्ध्वतः स्त्यक्त्वा षट्स्थानानि विवर्जयेत् || शिरोन्नतिः प्रकर्तव्यः ललाटं नासिका तथा | वदनं च तथा ग्रीवा चतुर्भागैः भुजोच्छ्रितः || कराभ्यां मुकुलीकृत्वा प्रक्ष्यमाण प्रमाणतः | मु * * * र्गमनं कार्यं विस्तारादष्टमांशतः | चतुर्मुखं मयाख्यातं त्रिमुखं प्रोच्यतेऽधुना || किन्तु पादाधिकांस्तस्य ललाटाद्यं विनिर्दिशेत् | भुजो चतुर्भिर्भागैस्तु कर्तव्यस्तस्य नान्यथा | विहीनं पश्चिमं वक्त्रं त्रिमुखं तेन कारयेत् || प्. ४९५) विस्तारात्सप्तमांशेन मुखानां निर्गमो भवेत् | एक वक्त्रं ततः कार्यं पूर्वास्यं सौम्य लोचनम् || कं ललाटं नासिकाञ्च वक्त्रं ग्रीवं विवर्तयेत् | भुजांशं पञ्चमांशेन भुजहीनं विवर्तयेत् || विस्तारस्य षडंशेन मुखं निर्गमनं हितम् || सर्वेषां मुखलिङ्गानामत्रघूषं सकुक्कुटम् | पूर्वाननं तु पुरुषं अघोरं दक्षिणं मुखम् | उत्तरं वामदेवाख्यं सद्योजातं तु पश्चिमम् || वर्णभावानुरूपेण मुखलिङ्गानि वर्तयेत् | हस्तमानेन तेषां तु संख्या च व्यक्तवद्भवेत् || इति | यदुक्तं मोहश्रूरोत्तरे - व्यक्ता व्यक्तं ततः कुर्यादेकद्वित्रि चतुराननम् | शक्तिभक्ते च रुद्रांशे वह्निभागादयं शिरः || ललाट नासिकावक्त्र चिन्दुकादिपुरन्दरः | कल्पनीयं हरेः सम्यगवविष्कंभ बाह्यतः || लिङ्गस्यैव विकारांशं लिङ्गविस्तार बाह्यतः | चतुरास्ये चतुर्दिक्षु निर्गमाय प्रतापयेत् || भागात् प्रकल्प्य कुर्वीत रूपक व्यक्तलिङ्गवत् | मूर्ध्निभागञ्च लिङ्गाभं मूलविष्कम्भ विस्मृतम् || भागशः मकुटं कार्यं जटाबन्धान्वितं पगम् | गुणाढ्यं कारयेद्विद्वान् भावागे रसभाजिते || प्. ४९६)
SKपूजाभागे भुजस्कन्धौ ऋत्वङ्गुलविनिःसृत? | ग्रीवावाह्या ग्रामभागो नास्कन्धा ना तदूर्ध्वतः || पादात् पादात् प्रकर्तव्यं मकुटं पूजलक्षणम् | लिङ्गदैर्घ्यांर्धमन्यांशे लिङ्गं व्यास बहिष्कृते | कर्ण नासाकपालाद्यं तत्र सर्वं प्रकल्पयेत् | अंशैक वक्त्रके लिङ्गे भवांशे गुणभाजिते || अधोभागं द्विधा कृत्वा पुनरर्धमथास्थितम् | स्कन्धौ ग्रीवाश्च भागाभ्यां मध्ये सार्धं पुनर्यगैः || भागैकैकेन वक्त्रादि मस्तकान्तं विवर्तयेत् | तदूर्ध्वे तु गुणैर्भक्तैर्द्वाभ्यां मौलिं प्रकल्पयेत् || भागेनैव तु लिङ्गाभं वक्त्रं निर्गतिरुच्यते | लिङ्गदैर्घ्याक्त भोगेन निर्गमः शुभकारकः || अथभ्रमयलिङ्गञ्च मोहशूरोत्तरे यथा | गङ्गादि सरितो जातं पुण्यक्षेत्र समुद्भवाः || तथात्तु घटलिङ्गञ्च माया वक्ष्यामि लक्षणम् | मृत्स्नां सु जीर्णतां कृत्वा त्रिफला चूर्ण संयुताम् || कुनटीताल सिन्दूरं सगन्धक योजितम् ||? सुवर्ण गिरिकोपेतां किञ्चिद्गुग्गुलु मिश्रिताम् | मर्दयेत् सुपसुद्रव्य पटेनाश विचक्षणा || षण्मासा तबी बिल्वसौरान्दीर समाश्रिताम् ||? प्. ४९७) कषायोदक संकीर्णां सप्तरात्रमथोषिताम् | सुगन्धि गन्धमिश्रेण तथा सज्जरसेन च || मर्दयेत्सर्वतो येन सकाषा येण यत्नतः | ततो लिङ्गं प्रकुर्वीत यथोक्तं लक्षणं शुभम् || पक्वा पक्वं सुसढ्याक्षं यथा मनसि लाञ्छितम् || इति || यथा कालोत्तरे प्रोक्तं लिङ्गस्थानं फलं तथा | पक्वा पक्व विभागेन मृण्मयं द्विविधा मतम् || अपक्वं वज्रयुक्कार्यं पक्व हेमारुणान्वितम् | अघोरेण प्रकर्तव्यं तच्छिवाग्नौ पचेच्छनैः || चला चलानि लिङ्गानि वक्ष्यामि शृणु साम्प्रतम् | मृण्मयं तद्द्विधं कार्यं अपक्वं पक्वमेव च | अपक्वात्पक्वजे पुण्यं ज्ञेयं दशगुणं ततः || मुक्ता शैलमये तस्मात् फलं दशगुणं स्मृतम् ||
SKतस्माच्छतगुणं लोहे तीक्ष्णसंसादृशे फलम् | महाभूमिप्रदं हैमतारजं पुत्रवर्धनम् | कीर्तिदं कांस्यजं लिङ्गं ताम्रं प्रजा विवर्धनम् | पैत्तलं भुक्तिमुक्त्यर्थं सुसायसं रिपुक्षयेत् | वां कामायुः प्रदं लिङ्गं मिश्रजं सर्वसिद्धिदम् || ततः सहस्र गुणितं लोहाद्रत्नमयं फलम् | रत्नामणिमये लिङ्गे फलं लक्षगुणं मतम् || प्. ४९८) उत्तमाधम मध्यानां रत्नानामुत्तरोत्तरम् | दीप्तिप्रधानामणयो रत्नं ग्राह्यं तथा पुनः || संस्थाप्य बाणलिङ्गं तु रत्नात् कोटिगुणं भवेत् | रसलिङ्गे ततो बाणात् फलं कोटि गुणं सुत | को गुण नृसलिङ्गस्य वक्तुं शक्तोऽति शांकरे ||? सिद्धयोरसलिङ्गेस्युरणिमाद्याः सुसंस्थिताः | रसलिङ्गेऽर्चिते मुक्तिः स्याद्वै शिव शिवप्रदा || तत्तस्माद्रमयं लिङ्गं स्थापयेत्तु प्रयत्नतः | वातुलोक्तेन विधिना रसबन्धं च कारयेत् || रसो हि रस बालो हि रत्नगर्भन्तु बन्धयेत् | अथवा बलिनाशक्त्या वज्रलोहेन बन्धयेत् || दीप्तौषधि रसौघेन मूर्छयेद्बन्धयेदपि | मानोन्मान प्रमाणादि न तस्य परिकल्पयेत् | आरब्धस्य तु मूलं तु कृष्णं धुर्धूरकस्य च || मत्स्याक्षी मूलसंयुक्तं मेघनाद समन्वितम् | स्तन्येन पयसा पुष्पा पटकोपन कारयेद्बुधः ||? गुञ्जामात्रं रसं तत्र निक्षिप्य परिवेष्टयेत् | माषचूर्णेन मृत्पिण्डेऽहं ध्वान्त प्रकल्पयेत् || एवं वै रसबन्धं स्यादित्युक्तं रस शासने | रसञ्च रसकश्चेति द्वावेतौ तु महारसौ || प्. ४९९) सत्वं रजकजं तैलेरस्यात् पादेन भागिकान् | तुल्यहेम समायोगात् बन्धमायाति सूतकः || तल्लिङ्गहेमसंयुक्तं हेमपीठसमन्वितम् | भुक्तिमुक्तिप्रदं ज्ञेयं अनायासेन कीर्तितम् | अथवा रस विद्धान्तु धारयेन्मुद्रिकां करे || तत्तदक्षयमाप्नोति यद्ददाति जुहोति च | येप्येदग्धानराः केचिद्ये च पिण्डविवर्जिताः || डिम्भाहताश्चये केचिन्मृताये गर्भहेतुतः | तन्मुद्रिकां करेणैव दन्तन्तेषू पतिष्ठितैः ||
SKसर्वेषामथ लिङ्गानां क्षेत्र मानं श्रुणु प्रिये | रसबाण स्वयंभूणां समन्ताद्याजनं हितम् | मणिरत्नमयानाञ्च तदर्धं क्षेत्रमीरितम् | तदर्धाद्दारुलोहानां पार्थिवानां तथैव हि || ऋषिदैत्यार्चिनानाञ्च गणगन्धर्व राक्षसैः || सिद्धैर्वाथापि तानन्तु सुरासुरनरोत्तमैः | तेषां हि रूपमानं तु न ग्राह्यं बाणवत्सुत | स्वाच्छया कारयत्येषां पीठ प्रासाद कल्पनम् | जीर्णदोषैर्नते योज्या यथा बाणस्वयंभुवः | यथा स्वायंभुवक्षेत्रं तथा तेषु प्रकल्पयेत् | महानदी तटेक्षेत्रे विज्ञेयञ्च स्वयंभुवत् || प्. ५००) धनुस्त्रिंशच्चले ज्ञेयं काष्ठमृद्दारु शैलजे | द्विगुणं लोहजानां तु द्विगुणं द्विगुणं ततः || रत्नजे मणिलिङ्गे तु बाणे रसरसे ततः | एवं वै चित्रमानं तु साधनानामुदीरितम् | जपं प्रति तथा क्रान्तौ दाने वाप्यायनेऽथवा | पुनरेव प्रवक्ष्यामि तत्प्रमाणं यथा स्थितम् | क्षेत्रं तत्पञ्चधा कृत्वा पद्मवत् परिकल्पयेत् || प्रथमं कण्ठकं ज्ञेयं द्वितीयं केसराणि च | तृतीयञ्चात्र पात्राणि दलाग्राणिचतुर्थकम् | बाह्यञ्च पञ्चमं भागं क्षेत्रे च परिकल्पयेत् | प्रागुक्तं च फलं तत्र पञ्चधैवं प्रकल्पयेत् || स्फाटिकं त्रिविधं ज्ञेयं सूर्यचन्द्रमसात्मकम् | श्वेतं रक्तञ्च पीतं च कृष्णछायं द्विजादिषु | रेखा वै वर्णसन्त्राश्च तुषार गणिकाञ्चितम् || कलङ्कं शर्करा बिन्दु दक्षाक्रान्तं विवर्जयेत् | सपीठ स्फाटिकं लिङ्गं वर्तयेत् तद्यथोच्यते || अङ्गुलादि वितस्त्यन्तं पूजनीयं गृहे सदा | तदूर्ध्वं मुनिसंस्थाप्य निर्मल प्रभवोज्वलम् | लिङ्गमस्तविवस्तारं लिङ्गोच्छ्रायसमंमतम् | त्रिगुणं परिणाहः स्यात्तत्तत्पीठे च विस्मृतः || प्. ५०१) लिद्वि गुणतीर्थं स्यान्मध्ये कण्ठसमन्वितम् | लिङ्गवच्च प्रमाणं स्याद्यद्वद्देव्यामते यथा || अर्चा त्रिगुण विस्तीर्णा द्विगुणाचोच्छ्रयेण तु | चतुरश्राथवा वृत्ता चललिङ्गस्य पिण्डिका ||
SKसुदृढा निर्वृणा भद्रा मध्ये क्षमा त्रिमेखला | अत ऊर्ध्वं समंकार्यं पिण्डिका वा त्रिमेखला | पूजा भागार्थ भागस्य मेखलास्यात्त्रिभागतः | खातः स्यात्तत्प्रमाणेनाथवा पादवर्जितः | अर्चमाना प्रमाणं स्यात् प्रणालं बाह्यनिर्गतम् | विस्तारं तत्प्रमाणं तु मूलेह्यग्रे तदर्धतः || मध्ये त्रिभागतः कार्यो जलमार्गो मनोरमः || इति | अथ कालोत्तरे - लोहरत्नमयं लिङ्गं गृहिणां तु गृही हितम् | अङ्गुलार्ध वितस्तस्य नोर्ध्वन्नाधो विभूतये | रत्नजे नियमोनास्ति यथा लाभं प्रपूजयेत् | तेजोत्कटत्वं रत्नानां शस्यते सन्निधौ तदा || महानदी समुद्भूत सिद्धक्षेत्रादि सम्भवम् | पाषाणं परया भक्त्या लिङ्गवत् पूजयेत् सदा || लौहं लिङ्गं समाख्यातं बाणलिङ्गसमाकृतिम् | श्वेतं रक्तं तथा पीतं कृष्णं विप्रादिषूत्तमम् || अभावात् कृष्णभावन्तु सर्वजातिषु सिद्धिदम् | नर्मदा संभवं रोहं बाणलिङ्गवदीरितम् || प्. ५०२) स्वयं भूतं सदा पूज्यं सर्वलिङ्गोत्तमोत्तमम् | बाणलिङ्गं तथा ज्ञेयं भुक्तिमुक्तिप्रदायकम् | उत्पत्तिं बाणलिङ्गानां लक्षणं लेशतः शृणु || नर्मदा देवि * * * * * * * * * तथा | सन्ति पुण्यनदीनाञ्च बाणलिङ्गानिषण्मुख | इन्द्रादि पूजितान्यत्र तच्चिह्नैश्चिह्नितानि तु | आपीतानि षडश्राणि वज्राङ्गानि विशेषतः || इन्द्रलिङ्गानि तान्न्यासः साम्राज्यार्थ प्रदानि तु | हसितं हिमकीलालमुष्णस्पर्शात्करोत्यलम् || आग्नेयं शक्तिसम्पूज्याथवा शक्तिलाञ्छितम् | इदं लिन्गं परं स्थाप्य तेजसोऽधिपतिर्भवेत् | दण्डारं मतमायाम्यमथवा रसनाकृतिः || यदभ्यङ्गं मुहूर्तेन निरीतं जायते तदा | शत्रूनां विधनान्तेन क्रियते स्थापिते न तु | राक्षसं खङ्गसदृशं ज्ञानयोगफलप्रदम् | शर्करादि प्रलिप्तन्तु कन्तुकत्वं नयेत्तदा || वरुणं वर्तुलाकारं पाशाङ्कञ्चाति वर्चसम् | वृद्धि सुस्वादु स्वच्छत्वमाप्नोत्येव सुमध्यगे | कृष्णं धूम्रं तु वायव्यं धूम्रध्वज विभूषणम् | मस्तके स्थापितस्थस्य सञ्चलन्ति हि जन्तवः || प्. ५०३)
SKनिर्वाते तु चलन्त्यत्र शास्त्रैरुच्चाटने हितम् | गताकारं ध्यगुरुगुरुं कौबेरस्य समध्यगम् || दिनंवाऽप्यथवा रात्रिं सस्थानां वृद्धिवर्धनम् | त्र्यश्रं शूलाङ्कितं रौद्रं हिमकुन्देन्दु वर्चसम् || चतुर्वर्णमयं वापि विषुवज्जायतेऽग्रतः | वैष्णवं चक्रशङ्खाङ्कं गदाब्जादि विभूषितम् | श्रीवत्सकौस्तुभाक्रान्तं कौलसिंहासनाङ्कितम् || वैनतेय समाङ्कं वा श्रीभूदेवि समाङ्कितम् | वैष्णवं नाम तत्प्रोक्तं सर्वैश्वर्य फलप्रदम् | साल ग्रामादि संस्थं तु शङ्खाग्रं श्रीविवर्धनम् | पद्माङ्कं स्वस्तिकाङ्कं च श्रीवत्साङ्कं विभूतये || अश्वाङ्क कोलसिंहार्कं भूह्यङ्के राज्यवर्धनम् | उक्ताङ्कं श्रेयसे योज्यं शेष मल विवर्जयेत् || पद्मवर्णं तु यल्लिङ्गं पद्माकं वाममण्डलम् | दण्डाक्षसूत्रचिह्नं वा ब्राह्मयं ज्ञानाप्तिदं मतम् | शशिवर्णमहाकालं नदीशं पद्मरागवत् | पुष्परागनिभं सर्वं मुद्गाभं सिद्धपूजितम् || मौक्तिकाभं नीलनिभं रुद्रादित्यैः प्रपूजितम् || वसुदैत्येन्द्रियक्षे च गुह्यकैर्या तु धानकैः | नरवर्णं नीलवर्णं अब्जनीलोत्पलप्रभम् || इत्येतल्लक्षणं प्रोक्तं परीक्ष्य तत्व कोविदैः | त्रिपञ्चवारं यस्यैव तुलासाम्यन्त जायते || प्. ५०४) तदा बाण समाख्यातं शेषं पाषाण सम्भवम् | नद्यां वा प्रक्षिपेद्भूयो यदा तदुपलभ्यते || बाणलिङ्गं तदासिद्धिः शेषं दुःखविवर्धनम् | अथ बाणं समाख्यातं यथा बाणमथादिषु || बाणः सदाशिवो देवो बाणो बाणासुरोऽपि च | तेन तस्मै कृतं यस्याद्बाणलिङ्गमुदाहृतम् || सदा सन्निहितस्तस्य शिवः सर्वार्थसाधकः | कृतप्रतिष्ठं तल्लिङ्गं बाणाख्येन शिवेन च || पक्व जम्बुफलाकारं कुक्कुटाण्ड समाकृतिम् | भुक्तिमुक्तिप्रदं चैतद्बाण लिङ्गमुदाहृतम् || कर्कशोबाणलिङ्गे तु पुत्रदारक्षयोभवेत् | चिपिटो पूजिते तस्मिन् गृहभावो भवेद्ध्रुवम् || एकपार्श्वक्षये धेनु पुत्रदानं धनेक्षयः | शिरसि स्फुटिते बाणे याधिर्मरणमेव च ||
SKअन्यजाति विलग्ने तु सर्वगात्रक्षयो भवेत् | चित्रलिङ्गेऽर्चिते बाणे विदेशशमनं भवेत् || लिङ्गे च गणिकां दृष्ट्वा व्याधितो जायते पुमान् | अर्च्यं स्यात्कपिलं लिङ्गं मुनीनां मोक्षकांक्षिणाम् || लघु वा कपिलं स्थूलं गृही नैवार्चयेत् क्वचित् | दक्षिणाग्रं वक्रशीर्षं त्वश्रं लिङ्गं विवर्जयेत् || प्. ५०५) अति स्थूलमति कृशं स्वल्पं च भृद्यनान्वितम् | गृही विवक्षयेत्तत्र मुमुक्षो * * यतोहितम् || पूजितव्यं गृहस्थेन वर्णेन भ्रमरोपमम् | तत्सपीठं पीठं वामन्तसंस्कार वर्जितम् || सिद्धिमुक्तिप्रदं बाणं सर्वप्रसाद पीठगम् | बाणलिङ्गं यदा हस्ते तदा सौषुम्नके वहेत् || त्रिरूपञ्च सप्तवारं वातुल्या साम्यं न जायते |? तदा बाणं समाख्यातं शेषं पाषाणकं वदेत् || नद्यां वा प्रक्षिपेद्भूयो यदा तदुपलक्ष्यते | तदा बाणं समाख्यातं अन्यथाक्लेशदायकम् || रेखाकार्या विचारात्र घटिकोक्तविधानतः | बाण रोहादिलिङ्गानां परिणाहेरपि स्मृताः || तत्र्यंशेन समुच्छ्राया पिण्डिका वसुभाजिता | नेत्राणांघ्रिस्तु तत्पाठीरूपेण युगलेगलः || कण्ठपाठी तु रूपेण जलाधारं करेण तु | त्र्यंशेन कालिका दृश्चेत् कृत्वा भक्त्या समर्पयेत् || पूज्य गन्धस्मयं लिङ्गं त्रिकालं स्वसुखाविधिः | पूज्येन चन्दनेनाथ कुङ्कुमेन स * * * * | चतस्समेन वा कार्यं लघुना केवलेन वा | एवं वै गन्धलिङ्गन्तु कृत्वा सम्पूज्य भक्तितः || प्. ५०६) प्रयाति शिवसायुज्यं बन्धुभिः सहितोनरः | अथाअ गुग्गुलूत्थं तु कार्यं लिङ्गं सुशोभनम् || लाक्षाकुन्दरसं मिश्रं स्थिरं वा परिकल्पयेत् | अङ्गुलद्वार हस्तैश्च प्रकृतं वा प्रकल्पयेत् || अनन्तैश्वर्यं सम्प्राप्य * * * * * * त्यजेत् | अथ पञ्चान्नजं लिङ्गं * * * * * * * * | गुणतत्व पदं प्राप्य पश्चाच्छिव समो भवेत् | एवञ्चं तिलजं कार्यं लिङ्गं भोगविवर्धनम् || पुंस्तत्वाधिपतिर्भूत्वा ततः शिवपदं व्रजेत् || कार्यं गुलमयं लिङ्गं कालतो द्वादशाङ्गुलम् | प्राप्नोत्यैश्वर्यमतुलं मोक्षमक्षयमेव च ||
SKकल्पं फलमयं लिङ्गं समयात्परमं पदम् || कार्यं पुष्पं लयं लिङ्गं रूपगन्धसमन्वितम् | नवखण्डान्तरं भुक्त्वा गणेशाधिपतिर्भवेत् || रजोभिनिर्मितं लिङ्गं यः पूजयति भक्तितः | विद्यातत्व पदं प्राप्य पश्चाच्छिवसमो भवेत् || मुमुक्षु हसितं लिङ्गं पूजयेच्छिवतां व्रजेत् || श्रीकामोगोशकृल्लिङ्गं अहन्यहनिपूजयेत् | कस्थेनकाविलेनैव गोमयेन प्रकल्पयेत् || कार्यं पिष्टमयं लिङ्गं यवगोधूमशालिजम् | श्रीकामः पुष्टिकामश्च पुत्रकामस्तदर्चयेत् || प्. ५०७) सितखण्डमयं लिङ्गं पूज्यमारोग्यवर्धनम् | कीर्तिकामैर्दर्पणे च सम्पूज्य परमेश्वरम् || च श्ले लवणजंलिङ्गं तालत्रिकटुकान्वितम् | गव्यं धृतमयं लिङ्गं सम्पूज्यं बुद्धिवर्धनम् || भूतये वस्त्रलिङ्गन्तु दृष्टघ्नं सर्षपं शिवम् | इति तात्कालिकान्याहुः अहन्यहनिपूजयेत् || इति | श्रीमज्ज्ञानरत्नावल्यां लिङ्गलक्षणविधिः | श्रीमहागणपतये नमः लिङ्ग लक्षणमित्युक्तं नानाशास्त्र समीरितम् | अथार्च्य लिख्यते सम्यक् मोहशूरोत्तरोक्तवत् || प्रतिमा लक्षणं वक्ष्ये मानोद्वारकरात्मिके | तिर्यग्गुणैर्द्वारे द्वाभ्यामर्चोत्तमोत्तमः || पीठं भागेन कर्तव्यं मध्ये कृष्टं निगद्यते | नन्दवद्भाजते दीर्घे त्युक्त्वाभागं पुनस्त्रियः || भागासां पतिमाकार्यो भागं पीठाय कल्पयेत् | सिद्धिभक्ते पुनर्द्वारे तनुर्भागं परित्यजेत् || विभज्य गुणवच्छेष बाह्य जीव प्रकल्पया | अंशकेन भवेत्पीठं प्रत्येकाधोद्वयं द्वयम् | ज्येष्ठादि भेदतः शक्रद्वार्माना प्रतिमान च | करमेकं समारभ्य यावत् स्यादङ्कगोचरम् || प्. ५०८) लिङ्गवन्मानमेतासां सख्या तत्वात्पुरन्दरः | आयामार्येरसैर्भक्ते षष्ठां शस्य नवांशकम् || अङ्गुल सस्वमुद्दिष्टं तेना गोपां मवर्तन |? नवतास्सुरा ज्ञेया ब्रह्मविष्णु महेश्वराः ||? तालैकादशभिः कार्या भूतवेताल राक्षसाः | किङ्करस्सप्ततालाः स्युः पञ्चतालाश्च वामताः || पाकुकुवौ च भूताशौ कूश्माण्डो युगतालकः | रूचितं रूपकायामं विभज्य नवभागिकम् ||
SKरूपकं वर्तयेत्तत्र यस्य देव्या वियद्भवेत् | विकाराङ्गुलमुत्सेधो मकुटो पाकशासन || अत्रोक्तं मकुट विशेषणं कालोत्तरे - मौलिप्रभाः कर्तव्याः | प्रतिमासु षडानन | स्वस्तिकस्त्रि शिखश्चैव तथा सत्राकारयेच्चलेः किरीटं पद्मं च स रेताः | कुटा स भूतां कुटोष्ट कलः कार्यस्त्री पञ्चैकशिखस्तथा || मुक्त्वा लतमणि प्रातसंयुक्तं परिकल्पयेत् | देवानां मौलिरादेश्यो नागानां स्वस्तिकं तथा | दैत्य दानव यक्षाणां अस्त्राकारं विवर्तयेत् || इन्द्रादीनां किरीटं तु पद्मं विद्येश्वरादिषु | इदं प्रासङ्गिकं ख्यातं विख्याते प्रस्तुतं ततः | आस्यताल समंप्रोक्तं ग्रीवा वेदाङ्गुलाततः | ग्रीवाधस्ताद्विजानीयाद्धृदयं नाभिमण्डलम् || प्. ५०९) जठरं तालेन श्रेष्ठायाः कारणं विना |? धैर्यात्कामकलारूप रूजातु आलीकृताङ्गुले ||? जंघेरुद्रकलेकार्ये गुल्फौ वेदाङ्गुलेन तु | वसुदीं हींगुला ज्ञेया प्रतिमा * * पराहरे || ऊर्ध्वं मानुं समाख्यातं तिर्यङ्मनादिकं शृणु | भागत्रयं च वदने व * * * * चिबुकसंयुतम् || नासा वं शौललाटं च प्रत्येकं स्यात्कृताङ्गुलम् | विध्यङ्गुलं ललाटञ्च तिर्यक्स्यात् पाकशासन || ललाटाधोङ्गुलासक्ते सुभ्रुवौ सार्धलोचने | मूले द्वयविवस्तीर्णे पादहीने ततः क्रमात् || प्रान्ते यवार्थ विस्तरे वक्त्रे वै कार्मुका कृतिः | मात्रायामे शुभे कार्ये लोचने त्र्यंशतारके || मीनोदरनिभेतारे भूतांशे ज्योतिषीशुभे || अङ्गुलप्रधनीमध्ये शेषं ज्ञात्वा प्रयोजयेत् | यथाभिरुचितं रूपं तथा दृष्टिं नियोजयेत् || अत्रोक्तं कालोत्तरे च - उच्छ्रायं नवधा कृत्वा नवांशं रविवद्भजेत् | द्वादशांशाङ्गुलं तेन चाङ्गं प्रत्यङ्गवर्तिनम् || मुखं हृन्नाभि जठरं मुखमायव कारयेत्ततः | ऊरु मुनिद्वये नाथ जं.घेद्विवदनेमते | गुल्फजानुगलं तत्र कर्तव्यं चतुरङ्गुलम् || प्. ३१०) एतदुच्छ्रायमानं तु श्रेष्ठायां विकृतिं विना | द्विकलं रुद्रतालञ्च प्रमाणं तेषुकल्पयेत् | अष्टाङ्गुल ललातं तु विस्तारेण विशीर्यते ||
SKद्विकलं शंखतजे स्याद्भुवौ तन्मूल सङ्गते | तन्मध्यमङ्गुलं त्यक्त्वा चतुरङ्गुलमायते | द्वितीयं मूलदेशं तु क्रमात्तीक्ष्णे सितेमते | अन्तर्ज्या दण्डसदृशे नेत्रे नेत्रान्तरे स्थिते || नेत्रे नेत्रे समेमध्ये तारत * * * शतैर्भवेत् | तत्पञ्चमांशतो ज्योतिः नेत्रांश्रंयवमानकम् | नेत्राग्रेकविरौ कार्यौ सर्षपेण प्रमाणतः | द्वयवन्नेत्र पर्यन्त नेत्रमीनोदरं हितम् || चाप मत्स्य निभं नेत्रं * * * चोत्पलपत्रवत् | पद्माभं सारनयनं नेत्रं पञ्चविधं मतम् | त्रियवैः पञ्चभिः षड्भिर्नवभिः दशभिः परम् || विस्तारं कल्पयेत्तेषां यथायोगानुसारतः | चापाकारं भवेन्नेत्रं योगभूमिनिरीक्षणे || निर्विकारस्य मत्स्याभं शिवस्य परमात्मनः | उत्पलाभं स कामानां पद्माभं स्यात्सदाहुनेत् || रोषेसारनिभं नेत्रं शेषेष्वङ्गुल विस्तृतम् | रसभावानुसारेण दृष्ट्यः परिकल्पिताः || प्. ५११) इति | रसभावश्च नाट्य शास्त्रे यथा - शृङ्गारहास्य करुण वीररौद्र यथानकाः | वीभत्साद्भूतशान्ताश्च न नट्या रसाः स्मृताः || शृङ्गाराज्जायते हास्यो रौद्राच्च करुणो रसः | वीराच्चैवाद्भूतो ज्ञेयो वीभत्साच्च भयानकः || शान्तः स्वतन्त्र इत्युक्ता रसभावास्तु नर्तकैः || इति || इति प्रासङ्गिकं ज्ञेयं प्रकृती लिख्यतेऽधुना | अग्रेसमिश्रता नासा त्वङ्गुलाभ्यां शशीपते | पार्श्वे या वाधिकोसाधो मूले धारक निच्युता | निष्पाव दलवद्बाह्ये पुटेतारकविस्मृतौ | व्यध्ययादवलौ कार्यौ नासारन्ध्रे चतुर्यजे || नखल्व कलया मायामात्रे तत्र विचिस्मृतम् | तुटिकावङ्गुले तीर्तौ पाशौ भूषानुरोधतः || कण्ठान्तरं समुद्दिष्टं गृहकोलकमानकम् | ललाटाद्वंखं यावत्तद्विद्युत्पङ्क्ति गोलकम् || हनू षडङ्गुलौ कण्ठात् सन्धानं गोलकं तयोः | गुरवन्तद्विदलैः दैर्घ्या विस्मृतं तु सार्धमङ्गुलम् || अविस्मृतं समुद्दिष्टं विस्मृतं तु नवाङ्गुलम् | अत्रयो विषः कालोत्तरे - प्. ५१२)
SKवेदाङ्गुल मुखं दैर्घ्यात्कालार्धेन तु विस्मृतम् | सौम्यानां विकृतानां तु अङ्गुलं वृत्तमादिशेत् || इति || अकलार्धं धरेमानं तदर्धे नापरं विदुः | तस्यातोङ्गुलवत्कर्ता गोजीतत्रार्धमङ्गुलम् || ऊर्ध्वगो श्रीतु नासाधो द्वियवादलविस्मृताः | सृक्कणीदृष्टिसूत्रेण कपिलौ पुङ्गसूत्रकौ | मध्यवक्त्रोष्ट नासाभ्रूश्चिबुकाश्चैक सूत्रकाः | कल्पपत्रादिसङ्केत स्थानं प्रासङ्गिकं तथा || कर्णरन्ध्रपरीवेषः खल्पपत्रमुदीर्यते | शकुली सा तु विख्याता कल्पमावृत्ययास्तिता | कर्ण प्रान्त गतावर्ति शकुल्यः परितः स्थिता || ईक्षणाय स्थितो गण्डो ग्रीवागर्तोवटुः स्मृतः || सन्धानं चिबुकं ज्ञेयं कपिलो नेत्र मूलकः | कर्णदृष्ट्यन्तरं ज्ञेयं परञ्च चतुरङ्गुलम् || ललाट पश्ययोस्संस्थं शङ्खस्थानमुदीरितम् | चतुस्सप्ताङ्गुलो गण्डोमांसलश्चक्षुरोरधः || प्रतिमावर्तनाङ्गोऽयं लिख्यते प्रस्तुतं ततः | ग्रीवा त स्वङ्गुला कार्या वेष्टरे नार्कगोलकाः || सन्धौत्रिकोलकौ कार्यौविकाराङ्गुल वेष्टवौ | बाहुभूपांगुलौ कार्यो उभौ बाहुपुरन्दरौ | वसुरूपाङ्गुलौ धामौ ग्रन्थिं विद्यात्कलार्धतः || प्. ५१३) तद्वद्रोपबाह्वोश्च दैर्घ्यमन्यद्गुलन्तलम् | तिर्यग्बाणाङ्गुल मध्यात्तद्वदर्धाङ्गुलं विना || तर्जन्यनामिके ताभ्यां कलार्धेनाय कन्यसा | दैर्घ्यतस्तत्समोङ्गुष्ठो देशिन्यास्त्र्यङ्गुलादयः || मूले वह्निः कलोज्ञेयो सस्येन्द्रौ च परिच्युतः | बाहुमूले तथा शक्रत्वर्केरामयवोज्झितः || अक्षाङ्गुलादि कोणान्ता विष्कम्भस्त्रिगुणं प्रति | मांसलौ च करौश्रेष्ठावङ्गुलो वर्तुलाहरे | शशि नेत्र शिरैर्हीनं मध्यायां गोलकं यवैः || दैर्घ्यं सपर्वणो न्यासं पङ्क्तिमांशपरिच्युतैः | चतुर्थांशं विना कन्या प्रान्तपर्वार्ध जानुकाः | मूले च त्र्यङ्गुला मध्या मध्ये चैव यवेर्जिता | गुण एवोज्झिता प्रान्ते स्वानाहादन्यतः पुनः || तन्देग्रन्थौ तथा मध्ये रस भूत कृताङ्गुलाः | पर्वाणां स यवोङ्गुष्ठैः च्युततेरोग्रतः * * * * ||
SKकण्ठरूपं समारभ्य चूचुकौ रसगोलकौ | अन्तरञ्च तदेवस्यात्तयोः पक्षौ षडङ्गुलौ || मण्डलं द्विविधं प्रोक्तं मध्यस्थं यवमानकम् | व्य * * * चैवं समर्थस्य विपर्यययवैर्भवेत् || चूचुकौ तु समुद्दिष्टौ नाभिमान मथोच्यते | प्. ५१४) नाभिः प्रदक्षिणावर्ता गंभीरस्या वै * * * | विस्मृतैकाङ्गुले नैव वेष्ठनं त्रिगुणं हरेः | आयासंमेहिकं नद्विकुर्यादृत्वं गुणैः सहार्बुधः | दुःखाङ्गुलैस्ततो धस्तात्कटिदेशैर्जिनाङ्गुलैः || मेहिकं न द्विकलं साधो वृषणौ यत्रमानकौ |? विष्कम्भः कलहामूले त्रियंशं विकलः पुनः | वेष्टनं त्रिगुणं सर्वं हस्तपादादिकं विना || षण्मात्राविस्मृतादूरं ज्ञात्वाअभ्यांसं ततोन्यतः | त्रिकाला जानुकं ते स्याज्जंघाकन्दे तथैव च || तद्ग्रन्थो गोलकाधिक्यमस्या पादाङ्गुलोन्नतिः | त्रिगुणाः प्रावृतिः ख्याता पूर्वोक्तेन शतक्रतो | पादौ तु मङ्गलौ कार्यौ पार्ष्णिक त्र्यङ्गुले ततः || पादोन त्र्यङ्गुलोङ्गुष्ठो यवहीना व्रतोन्नतिः | त्रिगुणाप्रावृतिः ख्याता पूर्ववत्ते शतक्रतो || पादौ तु मङ्गलौ कार्यौ पार्ष्णिक त्र्यङ्गुले ततः || पादेन त्र्यङ्गुलोङ्गुष्ठो यवहीना प्रदेशिनी | पाद पाद विहिनासुरङ्गुलान्याश्शतक्रतो || कन्दे भूताङ्गुले नाभौ मध्ये तु विकलच्युतः | सार्धं विपर्यगुर्वे च च्युत च्युततरं क्रमात् || रामङ्गुलस्तदेविन्याः कण्ठाभ्यां शेखराङ्गुलः || प्. ५१५) यावड्यस्स्वग्रतो न्यासो मायाभागं परिच्युतः | यदुक्तं कालोत्तरे च - वृषणौकेङ्गुलौ वृत्तौ त्रिकालं स्याद्भजे हितम् | विस्ताद्व्यङ्गुलं कार्यं ऊर्ध्वारम्भं मुखेन तु || पुरतस्त्रिकलं शस्तं जंघारम्भं तथा पुनः | सप्ताङ्गुलं जानपाली जंघा मध्यं तथा मतम् || पञ्चाङ्गुलं तथा प्रान्तं त्रिगुणं परिणाहतः | वेदाङ्गुले मते पार्ष्णि चरणं मुखवद्भवेत् || पञ्चाङ्गुलं तु विस्तारात्तत्पादाग्रं प्रकल्पयेत् | तत्र तत्र्यंगुलाङ्गुष्ठो यवश्रेष्ठा प्रदेशिनी | प्रदेशिनी प्रमाणं तु पादौ पादौ चितास्त्रयः ||
SKनाभौ गुष्ठस्य मूले तु मध्ये चाग्रे तथैव च | पञ्च वेगैस्तथा भूतैः विकलार्ध समन्वितैः | तर्जनी मूलमध्याग्रा कपिलेन कलान्वितम् | परिणाहं प्रकर्तव्यं त्रियवं स यवं पुनः || पाद मध्ये सदा पद्मं चक्रं वा कल्प्य लाञ्छनम् || इति | एवं प्रासङ्गिकं प्रोक्तं लिख्यते प्रस्तुतं यथा | मूलेन निम्न वे कार्यो किञ्चिदग्रे समन्वितम् || पुं नारीलक्षणं प्रोक्तं लोकं नमुचिसूदन | किन्तु शेषं प्रवक्ष्यामि यथा मानं भवेत्स्त्रियः || प्. ५१६) नार्यष्टतलिकातन्वी नेत्रश्रोणिस्तनाधिमाः | भ्रुवे नयन वाधिक्ये नासा वाहिसमुच्छ्रयात् || दशाङ्गुलमुखीन्दीर्घ सच्युर विस्तरेण तु | तेना हीनौ शुभौ वंशौ स्यातां ते ते मनोरमौ || ग्रीवामष्टयवे हीना तिर्यक्कृत्वोर्ध्वतो न्यसेत् | एवमष्टाङ्गुलैर्दैर्घ्य विस्मृताकरणाङ्गुलैः | द्वन्द्वगोलकमादाय प्रबाहुसु शतक्रतो || इंरुजानु क्र पिण्डीषु दद्यादर्धाङ्गुलंमतम् | उच्चैस्ते वादयो दद्यात् पादौसमतलौ पुनः || चतुरङ्गुल मादाय बाहुयाम द्विवार्धेतौ | पीनौवृत्तौ स्फिचौकार्यौ अङ्गुलामानमुच्यते || नागांशं स्वस्तिमादाय विस्तरेणोर्ध्वतो न्यसेत् | त्र्यंशकृन्मोन्नतं स्निग्धं भयं कुर्यात्सलक्षणम् | तन्मध्यतः स्वतोभागो रन्ध्रं स्यात्कुञ्जरोष्टवत् || अत्रयदुक्तं मये - यवाधिके भ्रुवौ नार्यानाभोत्सेधो यवच्युतः | कलाधिकमुखे वक्त्रमूर्ध्व तिर्यक्तदुण्डितम् | त्रिभिर्यवैः त्रिभागोनैः आयते लोचने हिते || तदर्धाधिक वै पुल्ये कर्णपाशोधिकोमतः || अंसद्वयं कलान्यूनं मानं मुञ्च प्रशस्यते | श्रीवाद्यङ्गुल विष्कम्भात्तत्प्रवृत्ति समुन्नतिः || प्. ५१७) कलाहीना सविस्तारादूरजानुक पिण्डिका | पादपृष्ठस्फिचौ वृत्ता यथा योग्यं द्विजर्षभाः || अङ्गुल्यः सप्तभागो वा विष्कम्भायामनासतः | कला विवर्जितायामं न जङ्गोरू विकलाकटिः || पाशे मध्यं च तद्वृद्धं घनं पीनं स्तनद्वयम् | गुह्यमच्यर्थ पत्राभं सर्वशोभा विशिष्टति ||? श्री कालोत्तरे यथा -
SKइदानीं स्त्रीप्राणां तु लेशे नैवावधारय | मुखस्तस्या मुखे नैव शेषाणि गोलकं विना || तालानि तत्प्रवृत्तं स्यात् स्तनस्फिं स्नानमुन्नतम् | सस्येन्द्र पञ्चकाक्रान्तं द्विकलं त्रिकलं भवेत् || द्वादशांगुलं त्रिगुणं वा पाठः || गुल्फ जानु गलं तेन षण्णवत्यङ्गुलो स्त्रीस्यान्नाधोनूर्ध्वं शिवप्रदा |? षडङ्गुलं स्कन्ध देशमंसौ च द्विकलं भवेत् | सप्ताङ्गुलमताग्रीवा विस्तारेणा ग्रतस्सुत | हस्तौ पादौ विहीनौ च सप्तमांशेन पूर्वतः || पञ्चाङ्गुलं चतस्त्रीणि बाहुमध्ये कलाधिके | पदपृष्टस्फिचाभ्यान्तु वृद्धिः स्यातदङ्गुलेन तु || दशषड्भिः पञ्चभिश्चोर्वोज्जानू परिविकल्पनम् |? जंघामध्यं तथा प्रान्तं वर्तयेद्द्विजहस्तवत् | षडङ्गुलं मतं गुह्यं कूर्म पृष्ठमलोमशः || प्. ५१८) द्विरष्टवर्षा नारी तु कर्तव्यासु मनोहरा | अष्टाविंशांगुलाकार्या स्कन्धदेशस्य विस्मृतिः || अष्टादशांगुलं कार्यमक्षाभ्यामन्तरं सदा | स्तनभूमेस्तु विस्तारो विज्ञेयस्तु कलाष्टकम् || त्रिकलौ त्रिकला कार्या पार्वतीसुतेति |? इति स्त्री लक्षणं प्रोक्तं प्रस्तुतं लिख्यतेऽधुना || अर्चेतन्मानतः कार्या करस्थान करान्विता | नानासिद्धिप्रदायिन्या स्यादतोन्यानशोभना | हीनाधिकं भवेल्लक्षं यत्र तद्युक्तमाचरेत् | युक्ता दवाप्यते यस्मात् पारलौकैहिकं फलम् | समं पद्मकरीदारु मृण्मयी सुखदा भवेत् || पुष्टि प्रदाहेम मयी धान्यारत्नमयी मता || वर्णक्रमाः शुभा शैला क्षेम्यताम्रमयी मता | जयदाराजती सारोरैतीरिति करीनृणाम् ||? सौभाग्य राज्य पशुदा क्रास पित्तलसंभवा | बलदा सीसजाता स्यान्न कार्यालोह संभवाः || क्षुद्भयादीक्ष जठरा धनहानिं कृशोदरी | रोगो करोतिहीनाङ्गा दीर्घाङ्गा च भयाद्भयम् || भक्तारं दक्षिणता हन्ति वाममनता स्त्रियाम् | करोति सक्षता मृत्यु सद्गर्भारुग्भयं नृपः | ऊध्वदृष्टिस्तथा व्याधिरधो दृष्टिर्जनक्षयम् || प्. ५१९) निम्नोन्नतोष्ठी कलहं मुखरोगं मुखामुख | नेत्र हीना तु कैवल्यम् वक्त्रावक्त्रमशोणितम् ||
SKबाधिर्यत्वमकण्ठा तु हीनाङ्गा च पक्षयम् || शीनास्याच्छिल्पिनं हन्ति रौद्राङ्गी स्वामिनं तथा | हीनपादकरा नित्यं कलानां साचिनाशिख | हीनजंघा जनानी च मानुहीनारिवर्धनी || सन्त्रासाक्षी भयं कुर्यात्सरेखा सर्पसम्भव | कटिहीना परं हन्ति नृपं हन्ति महाभुज || स बिन्दुका सदोन्मादं कुरुते नात्र संशयः || अथ यदुक्तं कालोत्तरे - ऋज्वी यत्नेन कर्तव्या साची यत्नेन वर्जयेत् | अथ ऋज्वी तथा वर्ज्या तथा छायागतासु च || भक्तिकण्टक भक्तित्वा वर्ज्याधाम्नि च चक्षुषी | ईषदर्धोत्थितो वर्ज्या वर्ज्या चैव पराङ्मुखी | अष्टधा प्रतिमावर्ज्या कार्या मायामभूषणम् || इति | अथ शान्तमृजुस्थानं संपादं प्रविश्यते | सौम्यं रौद्रं च काम्यार्थं तत्स्थानं साञ्चते यथा || शान्तिं सौम्यं च रौद्रं च त्रिविधं स्थानकं स्मृतम् | ऋजोऽस्य समपादस्य त्र्यंगुलं चरणान्तरर्म् | तद्वै विषमपादस्याग्रान्नवकलं स्मृतम् || तत्पार्ष्णिद्वय मध्यात्तु परिज्ञेयं द्विभागकम् | ऋत्वाख्यं द्विविधैश्शान्तं सौम्यं वाम प्रसारितम् | रौद्रंत द्वयत्यया ज्ञेया अनयोर्लक्षणं समम् || प्. ५२०) तत्राद्यं मोक्षदं प्रोक्तं द्वितीयं भोगमोक्षदम् | रौद्रं निवृत्तरागाणां स्थानमार्गप्रदर्शकम् || इति | चतुष्षस्टिकरं प्रोक्तं स्थानकं बहुधा तथा | शतमष्टोत्तरं ज्ञेयं करणं भरतो दितम् || विस्तारं ग्रन्थबाहुल्य भयान्नात्रोदितं मया || ज्ञात्वा तच्च प्रकर्तव्यं मूर्तिभेदो यथागमे | लिख्यते पूर्वमित्यत्र महासादाशिवं वपुः || ब्रह्माण्डाधः कटाहाब्जे स्थितं वामाम्बुजद्वयम् | ब्रह्माण्डोऽब्ज कटाहाब्जे पद्भयां पद्मासनस्थितम् | बुद्धिर्मायावसाने तत् पञ्चमं भुजसञ्चयम् | पञ्चविंशति वक्त्राणांशुद्धे चाध्वनिसंस्थितः || शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः व्याघ्रचर्मपरीधानो नागयज्ञोपवीतिवान् | ब्रह्मा विष्णुश्च रुद्रश्चेश्वरश्च सदाशिवः || एतानि पञ्चवक्त्राणि ब्रह्मणः सृष्टिकारणम् | सदेशोक्त प्रमाणानि शेषान्न्यून कलानि तु ||
SKबाला गौरीवती रुद्रो विश्वेभ्यो व्योमनायकः | सदेशोक्त प्रमाणानि चतुर्द्वैकक्रमाल्लिखेत् | मध्यस्थं वदनं तालं शेषवक्त्रकलोज्झितम् || त्रिशूलं चांकुशं खड्गं चक्रं बाणं सशक्तिकम् | खट्वाङ्गञ्च महारत्नं गदापद्मं च मौलिकाम् || प्. ५२१) धूपपात्रं च परशुं सूर्यबिम्बं च कर्तरीम् | वज्र सूचिं महाशंखं कुम्भं पीयूषपूरितम् || पल्लवं सहकारस्य डडिमीफलमुत्तमम् | अभयं वरदं बिभ्रद्दक्षिणे बाहुभिः क्रमात् || शुक दर्पण तर्जन्तु स्रु चण्डमरुसर्पिकम् | बीजपूरार्धचन्द्रं च क्षुरिकां शब्दनीं तथा || स्वस्तिकं कुण्डिकादण्डं क्रन्तञ्च योगपट्टकम् | महासिद्ध्यष्टकं चापमुसलञ्च हलं परम् || पाशं नीलोत्पलं बिभ्रद्बाहुभिर्वामसंस्थितैः | पद्ममुद्राकराभ्यां तु मौलेऽर्धे हृदयेऽञ्जलिः || योनिमुद्रा कराभ्यां च नाभ्य?धस्तद्विभर्त्यसौ | महासदाशिवः प्रोक्तः विश्वरूपो विघ्नेश्वरः || अथ सदा शिवं रूपं प्रोक्तं कालोत्तरे यथा - सदाशिव प्रमाणं तु विशेषादवधारय | विंशत्यङ्गुलयुक्तेन सद्येनैव सदाशिवम् | स्वकीयेनाङ्गुलेनेह दशतालं प्रकल्पयेत् | वक्त्रं वक्त्रं समन्तस्य कलार्धोना पराणि च | गुल्फजानु गलं तस्य द्विकलेन मुखेन तु || प्रकर्तव्यं प्रयत्नेन विस्तारं पूर्ववर्त्मनः | बाहूपबाहूकर्तव्ये दशैकादशयुग्मतः || प्. ५२२) कलामात्रास्थिता सन्धिरूप सन्धिस्तथा मता | षडङ्गुलस्कन्धशीर्षं पाणिः द्विद्वादशाङ्गुलः || आजानुबाजुस्तेनायं कर्तव्यः परमेश्वरः | ऋत्वास्थितो यदा भूत्वा करैः स्पर्शति जानुनी || आजानुबाहुस्तेनायं कथितः कृत्तिका सुत | पञ्चाननं प्रकुर्वीत त्रिपञ्च नयनान्वितम् | ऊर्ध्ववक्त्रं कलाहीनं समन्तात्परिवर्तयेत् | त्र्यङ्गुला चन्द्ररेखा तु जटादक्षिणकोटिका || पञ्चाङ्गुल जटाजूटमीशानस्य प्रकल्पयेत् | ज्ञेयं दक्षिणवक्त्रस्य कपाला हि विभूषणम् | सुनासं सुमुखं सुभ्रुमन्त्र सिंहासन स्थितम् || दशबाहु विशालाक्षं राजीवायतलोचनम् ||
SKईशानमूर्ध्ववक्त्रं तु ध्याना सक्तं हिमप्रभम् | कुंकुमाभं तु पुरुषं सदा पूर्वाननं विभोः | विकृत्यं व्यालचूडं च भिन्नाञ्जनसमद्युति || अघोरं दक्षिणस्यां तु दिशिशम्भोः सदाशिवम् | डाडिमी कुसुमप्रख्यं लाक्षा हिंगुकलद्युति || भूषणैर्बहुभिर्युक्तं वाममुत्तरदिक्स्थितम् | हिमकुन्देन्दुसदृशं सुकपोलं स्थिताधरम् | पश्चिमास्यं सदाकार्यं सद्योजातं सदाशिवम् || प्. ५२३) ईशानस्य सदैवस्यान्मूल द्वारावलोकनम् | सदा पूर्वाननं स्थाप्यं सौम्यं वा पश्चिमाननम् || सिंहासनं तु वेदाश्रं अष्टताल समं ततः || तदर्धादुच्छ्रितं कार्यं षट्तालासनपङ्कजम् | वामादि शक्ति खचितं देव देवं सदा शिवम् | तथा - अङ्गेन पञ्चमूर्धानं दशतालं प्रकल्पयेत् || भैरवं नार सिंहञ्च वराहं कविनायकम् | द्वितलं रुद्रतालं च प्रमाणं तेषु कल्पयेत् | अनन्ताद्याः पुनः कार्या मध्य ज्येष्ठ प्रमाणतः || दैत्यदानव यक्षाद्याः पन्नगाः किन्नरादयः | कन्य मध्यममानेन कर्तव्या नान्यथा गुह | अन्ये क्षेत्रेशमुख्याश्च किङ्कराः कन्यसाधराः || ज्ञात्वा ज्ञात्वा प्रयत्नेन तेषां रूपं प्रकल्पयेत् | इदानीं भैरवादीनां प्रमाणमपि लिख्यते | द्विल्योलकादिकं वक्त्रं भैरवस्य समन्ततः || शेषमुच्छ्रायमानं तु भैरवस्यापि पूर्ववत् || सप्तषट्पञ्च विस्तारं बाहुकोर्पर मूलतः | वर्षो हृन्नाभिजं रन्ध्रं कटिरेवं क्रमेण तु || ऊरु द्वयं द्विदनं सकलं तद्वदेव हि | मुख द्वयं मुखार्धञ्च कटिः स्यात्त्रिमुखात्मिका || प्. ५२४) ऊरुफुल्लं जानुनी च जंघा मध्यं तदग्रकम् | द्विकलं सकलं सार्धं कलार्धे नाधिकं भवेत् || पूर्वमानं तु विस्तारं त्रिगुणं परिणाहतः | दंष्ट्राकोशं कलामानं सितंश्लक्ष्णं सुवर्तुलम् | कूर्चं तु लाङ्गुलं कार्यं बर्बरं भासुरं तथा | उत्तरोष्ठ स्थितं घ्राणं त्र्यंगुलं तु उदाहृतम् || भ्रुवमङ्गुल विस्तीर्णं कुटिलं भासुरं शुभम् | व्यावृत्त त्र्यङ्गुलं तस्य नेत्रमान मुदीरितम् ||
SKव्यात्तं वक्त्रं तु कर्तव्यं द्वात्रिंशद्दन्त संयुतम् | द्वियवं त्रियवं तस्य दन्तमानमुदाहृतम् | जिह्वापद्मदलाकारं त्र्यङ्गुलं रक्तवर्चसा | सरागनेत्रं कर्तव्यं भैरवं भैरवी सह || अष्टताला तु सा कार्या न न्यूनानाधिका भवेत् | एवं गौरी महालक्ष्मी दुर्गा श्रीश्च सरस्वती | गायत्री चैव सावित्री यथान्या मातरः पुनः || सुकरी नारसिंही च चामुण्डी च कृशोदरी | ऋक्षकर्णा लम्पटा च गुलगर्जा विशेषतः || वैनायकी गारुडी च तथान्या विकृतानना | त्रिगोलगाधिकं वक्त्रं सर्वासां समुदाहृतम् || शेषान्यपि च तालानि विकलान्यादिशेत् सुत | विकृतस्त्री प्रमाणं तु शतेनोच्छ्रायमादिशेत् | कल्पोक्त विधिनाकार्यं भुजायुध विकल्पनम् || प्. ५२५) अर्धनारीश्वराद्याश्च मोहशूरोत्तरे यथा | अर्धनारीश्वरः कार्यः ह्यदग्धाः क्षितिलक्षितः | अहमिन्दु जटाहारमर्धं सतिलकालकम् | कुण्डलं दक्षिणे कण्ठे वामे स्यात् कलिकादिकम् | श्रीपाव्यालार्ध हाराङ्कस्तनमेकञ्च वामतः || त्रिशूलं दक्षिणे हस्ते वामे चैवोत्पलं न्यसेत् | अर्धनारीश्वरं ख्यातं उमेशः कथ्यतेऽधुना | उमेशावुपविष्टाङ्कौ स्त्रीपुंरूपौ शतक्रतौ || सोरगिन्दु जटाभारा धरस्त्र्यक्षोहरः परः | ग्रीवा साभरणा कार्या कर्णौ कुण्डलमण्डितौ | द्विबुजः सोपवीताङ्गो वृद्धवीरासने स्थितः || वामोरु संस्थिता गौरी मुखालोकन तत्परा | सोमबाहूपगूढाङ्गी ललाटी तिलको ज्वला || कर्तव्यः केश विन्यासः सुगन्धी कुसुमा बिलः | कर्णौ सा भरणौ कायौ पादौ नूपुरमण्डितौ || दर्शयेद्दक्षिणं देव्या देवस्कन्धे भुजंहरे | वामे च दर्पणं दद्यात् कट्यां सूत्रं समेखलम् || देवहस्तं पुनर्दक्षं देवी चिबुके नियोजयेत् | सुनासिकासु वदनासु नेत्री सु पयोधरा || सु बाहुललिता भद्रा केयूर कटकाङ्किता || प्. ५२६) उमेश्वर समाख्याता हरनारायणा शृणु || हरनारायणं रूपं जटाकेशार्धमस्तकम् | ललाटे वार्धनयनं मुद्राकुण्डलमण्डितम् ||
SKचतुर्भुजसमाख्यातो नृत्तेशः कथ्यतेऽधुना | नृत्तरुद्रं प्रकुर्वीत चन्द्रार्धकृतमस्तकम् || वैशाखस्थानकधर ना(ग)यज्ञोपवीतिनम् | सौम्याननं जटाचूडं धारिणं व्यालमेखलम् || पीनवक्षोरुजंघानां सर्वलक्षण संयुतम् | द्विपि चर्मधरं सधो नृषारूढं स्मितानणम् | सुभव्यं षोडशभुजं कुर्याद्वासुभुजं शुभम् || विणुवीणामृदङ्गादि वाद्यसङ्घोप शोभितम् | वामं प्रसारितभुजं द्वितीयमभयप्रदम् || अक्षसूत्रेषु दण्डासि शूलं शक्तिधरं करैः | कपाल पाश खट्वाङ्गं खेटचर्माङ्कुशान्वितम् || एकं चापधरं तद्वत् प्रसारितमधोत्तरम् | उमा ब्रह्माहरिस्कन्दो नन्दीकालादयश्चये || वीक्ष्यमाणा शिव नृत्यद्भृङ्गी कार्योऽग्रतः स्थितः | मालाखड्ग भृतीये तु * * सिद्धादयः स्थिताः || प्राप्यस्था च प्रकर्तव्या नृत्तेशः कथितस्तव | त्रिधा विष्णुं प्रवक्ष्यामि वासुदेवं द्विबाहुकम् | प्रोच्यते लक्षणं तस्य समासेनैव सुव्रत | प्. ५२७) सुनासं सुकपोलञ्च सुवृत्तं मकुटोज्ज्वलम् | ललाट तिलकोपेतं श्यामं पीतां सरं हरैः || गदाखड्गाम्बुजं दक्षे तुर्यस्याच्छान्तिदं करम् | शङ्खचक्र धनुः खेटवामे चाष्टभुजे हरौ | शङ्खचक्रं प्रदातव्यं वामे हस्ते चतुर्भुजे || दक्षिणे तु करे पद्मं गदां त्रैलोक्य तर्जनीम् | द्विभुजं शङ्खभृद्वामे दक्षिणे शान्तिदं करः | विष्णुरेवं समाख्यातो ब्रह्माणमधुनाशृणु || पितामहश्चतुर्वक्त्रो लम्बकूर्चश्चतुर्भुजः | आपिङ्गल जटाबन्धो हंसस्थो वारिजासनः | दक्षिणस्य भुजे तस्य दण्डस्य दण्डसूत्रकम् || कमण्डलुं करेवामे बर्हिरायादिकं तथा || सावित्री दक्षिणे कार्या वामे चैव सरस्वती | इति ब्रह्मा समाख्यातः कथ्यतेऽथ दिवाकरः || एक चक्ररथः सप्ततुरगोरुणसरधिः | तत्रस्यो भास्करोदेवो मणिकुण्डलमण्डितः || पुरुषाङ्घ्रि सुरक्ताङ्गः सर्वाङ्गकवचावृतः | सुकेशो वा किरीटी वा द्विनेत्रो वा त्रिनेत्रकः || स पत्रनालपद्मेद्वे कराभ्यां स्कन्धयोर्वहन् | दण्डी तद्दक्षिणे गौर स धूदुन्दिल कूर्चवान् ||
SKप्. ५२८) मषीभाजन लेखिन्यौ धारयन् हस्तयोर्द्वयोः | प्राणिनां कर्मसाक्षीय तत्कर्माणि विखत्यसौ || पिङ्गलो वामपार्श्वे तु प्रतीहारः स दण्डभृत् || द्वारपालः - वरुणः सूर्यनामा च सहस्रांशुस्तथा परः | धाता तपनसंज्ञश्च सविता च गभस्तिकः || तथा रविश्च पर्जन्यः त्वष्टामिश्रश्च विष्णुकः | एते द्वादश सूर्याः स्युः द्विभुजा वरदाम्बुजाः || एकवक्त्राद्विनेत्राश्च प्रभामण्डल मध्यगाः | यद्वा चतुर्भुजाः कार्याश्चोर्ध्व हस्तद्वयोगजम् || दक्षिणे वरदं वामे ज्ञानाद्यस्त्रान्तमुच्यते | वज्रं शक्तिञ्च दण्डं च खड्गं पाशं ध्वजं गदाम् || त्रिशूलमुद्गारं तद्वदङ्कुशं चक्रमुज्ज्वलम् | स्रुक्स्रुवञ्च क्रमात्तेषां एते सूर्याः समीरिताः || क्वचिदेवान्यथा प्रोक्ता लिख्यन्तेऽत्रापि ते यथा | पूषाधाता विधाता च भगः पर्जन्य इन्द्रगः || अर्थमात्वयमिन्द्रश्च त्वष्टाविष्णुस्तथैव च | सावित्रश्चांशुमांश्चेति भास्कराद्वादशा स्मृताः || द्वादशारस्थ पद्मस्थाः पद्महस्तस्तद्वया मताः || इति | साक्षात्सूत्रं स्थितं सोमं स्वरूपं सुकमण्डलुम् | रक्ताक्षं रक्तवर्णञ्च त्र्यजं शक्त्यकमालिनम् || प्. ५२९) भानुपुत्रमथो दृष्ट्वा वक्त्रपादं सुबीषणम् | क्रूरं महाभुजं कृष्णं शिखरी जपमालिनम् || राहुं व्यक्ताननं घोरं कृष्णमध्याङ्ग भीषणम् | अर्धचन्द्रधरं साधो कथितं राहुरूपकम् || त्रिफणीभूषितं * * * * नरगागर्धरूपिणम् | खड्गखेटधरं केतुं कुर्याद्वाथ कृताञ्जलिम् | हेमरं सोमनाकारो हस्तिवक्त्र स्वदन्तहृत् || महोदरो महाकायः सालङ्कारश्चतुर्भुजः | सर्पयज्ञोपवीती च त्र्यक्षः खण्डेन्दु शेखरः || पुरन्दराङ्गुलव्यादैः ध्याद्भूपाङ्गुलं भवेत् | तस्यास्यं वसु विस्तीर्णं श्री वास्या त्र्यङ्गुलो श्रिया || रससमाङ्गुलाशुण्डा मूलं स्यादिङ्गुलम् | अन्ते कृताङ्गुलं यावं मध्ये सूत्रेऽनुपाततः || सरन्धृच्यां * * ताभिर्वा समनासाङ्गुला ततः || इति | ऊरु प्रदेशं तालमानं पादौसमुन्नतौ वा तत्कुम्भौ निबिडमस्तकम् |
SKनन्दनन्दाङ्गुलौ कुम्भौ तन्मध्यं सूत्रमानतः | दन्तकेशो भवेत्तस्य घ्राणं सार्धाङ्गुलं विलम् || कर्णौदृगन्त विस्तीर्णौ बाहुल्येनाङ्गुलौ मतौ | सर्वावयव सम्पूर्णः सर्वशोभासमन्वितः | गणाधिपः समाख्यातः शरजन्मा निगद्यते | रसवक्त्रसुवेष्टः स्यात् केशलाक्षस्तथाभुजः || शक्तिघण्टापताकाब्ज पाशकुक्कुटदण्डवान् || प्. ५३०) वराभयधनुर्बाणं परशुं तत्करे न्यसेत् | चतुर्भुजं द्विबाहुं वा कारयेच्छिखिवाहनम् अत्रयो विशेषः कालोत्तरे - गणेश वामनादीनां लक्षणं लेशतः शृणु | शङ्कुवत्सुप्रतिष्ठं तु नन्दनन्देषु निर्दिशेत् || हृन्नाभिजठरं तेषां कार्यमष्टाङ्गुलात्मकम् | ऊरुजङ्घे द्विवदने जानुगुल्फसमन्विते || द्व्यङ्गुलाभिहिता ग्रीवा कमलच्छ्रायमीरितम् | स नेत्रा पञ्चताला च प्रतिथिः कथिता मया || बहूपबाहुः कर्तव्यः मुखत्सन्धिसंयुतौ | वस्वङ्गुलौ करौ पदौ वक्ष स्त्रिवदनं भवेत् || एवं वै मानकं कुर्याद्गणेशो गणवक्त्रभृत् | अष्टाङ्गुलौ रामन्तात्तु कर्णौ तस्य समालिखेत् | सिरालौ कोमलौस्निग्धौ घण्टा चामरभूषितौ | तत्कुम्भौ चूचुकाकारौ तयोर्मध्यं कलाहितम् || तत्करं त्रिमुखं तस्य मूलमष्टाङ्गुलं भवेत् | अग्रे वेदाङ्गुलं शस्तं तदन्तं तत्षडङ्गुलम् || कट्या व्यासं सितं शस्तं पद्मस्थः स्याद्गणेश्वरः || सिंहस्थश्चेन्द्ररुस्थो वा पीठस्थः सर्वसिद्धिदः | स्वदन्तलस्सुपात्राश्च कुठारवल्यान्विताः || प्. ५३१) त्र्यक्षो लम्बोदरः स्थूलः सर्वाभ्रणभूषितः | षण्मुखः कार्तिकेयः स्यान्मुखान्न्यस्य षडश्रवत् || कर्तव्यानि समानेनैकवक्त्रोऽथवाश्रये || इति || यदुक्तं वै त्रिलोचना चार्यैरपि - पत्तने नगरे कार्यः पुरे वाथ षडाननः | भुजैर्द्वादशभिर्युक्तः स्कन्धो स्वरूपवान् ||? शक्तिषु पाशनिस्त्रिंशन्नतदोस्तर्जनीयुतः | शान्त्या च दक्षिणे हस्ते षड्भिर्वामे करे तथा || शिखिपिञ्छधनुः खेट पताकाभय कुक्कुटैः | गणः क्षेत्रेऽथवा षट्दोरे वक्तः प्रशस्यते ||
SKबिभ्रच्छक्त्यसि वक्त्रणि दक्षं घण्टां च खेटकम् | यथा क्रमं सदा षड्भिः दक्षिणोत्तर पाणिभिः || ग्रामे वा यदि वाख्ये द्विभुजश्चैक वक्त्रकः | बिभ्रच्छक्तिं कारेयाम्ये ताम्रचूडं तथोत्तरे || रक्ताङ्गो रक्तवस्त्रश्च बालरूपोऽथ मांसलः | शिखारूढश्च सर्वोऽयं सर्वालङ्कारभूषितः || इति || त्र्यक्षोगणान्वितो नन्दी श्रुतिबाहुर्यवा स्मृतः | मुख * * गौ न्यसेद्दक्षे वामेखेटं त्रिशूलकम् || महाकालस्तु कर्तव्यो यहा देवोऽत्र भैरवः || इति || विनायकः पुराप्रोक्तः भृङ्गीशः स्वस्ति पाण्डवः | प्. ५३२) दुरासनद्ध देहोऽयं त्रिपादः स्याच्छिखान्वितः | दण्डकुण्डीसमायुक्त शिखानन्दरसो भवेत् || त्रिणेत्रं शूलपाणिभ्यां भृङ्गीप्रोक्तः क्वचिन्मते | वृषोवृषभवज्ज्ञेयः कार्तिकेयः पुरोदितः || देवी चतुर्भुजापीता दिव्य भूषणभूषिता | दर्पणञ्चोत्पलं वामे दक्षेसूत्रं वरं तथा || चण्डेश्वराः पुराप्रोक्ताः सितागङ्गासु यौवना | यमुना श्यामकाङ्गं स्यान्मही पीता च नर्मदा || नीलामेघनिभासिन्दुर्भारती स्फटिकोपमा | तापि हेमनिभानीला पयोष्णी सर्वभूषणा || पद्मस्था मकरस्था वा कुम्भचामरपाणयः | प्रशान्ती शिशिरौ पीतौ शूलवज्रधरौ मतौ || पर्जन्या शोकनामानौ कुष्ठौ दण्ड त्रिशूलिनौ | पाशशूलधरश्चेतौ भूतसञ्जीवनामृतौ | धनद श्रीप्रदौ रक्तौ गदाशूलकरौ मतौ || इत्युक्ता द्वारपालाद्याः क्षेत्रपालास्तथोच्यते | कृष्णं चतुर्भुजं नग्नं किङ्किणीनूपुरान्वितम् || केयूर कटकोपेतं रत्नकुण्डलमौलीनम् || त्रिशूलं डमरुं चोर्ध्वे कपालं चूरिका तथा | दंष्ट्राकराल मत्युग्रं क्षेत्रपालं प्रकल्पयेत् || प्. ५३३) ऐरावत गजारूढः सहस्राक्षश्चतुर्भुजः | हेमवर्णकिरीटश्च सर्वभूषण भूषितः || अक्षसूत्री च वज्री च वरदाभयबाहुमान् | वज्राङ्कुशकरोवा स्याद्देवराजो नरावृतः || केशाक्षपीतां * * * * * * जठरो भवेत् | प्रेतस्थो नि-ऋ-ऋतिर्धूम्रो दंष्ट्रावान् वृत्तलोचनः ||
SKखड्गखेटधरः क्रुद्धो राक्षसैरावृतो भवेत् | पाशाङ्कुश भयश्चैते वरुणो म * * र स्थितः || क्वचित्पाशधरो दक्षोवामे पीयूष कुम्भधृत् | महोदरोमहाबाहुः सर्वाभरणभूषितः || श्यामो वाम मृगारूढी सध्वजाङ्कुश भूषितः | मेषारूढः कुबेरः स्यात्पीतो वरगदान्वितः || ईशानो वृषभारूढो जटाचन्द्रार्ध भूषणः | एकवक्त्र स्त्रिणेत्रश्च व्याघ्रचर्मव्रत स्थितः || खट्वाङ्गं डमरुं शूलं कपालं वामदक्षयोः | लोकपालाः समाख्याता ब्रह्मा विष्णुश्च पूर्ववत् || प्रत्यूषश्च प्रभासश्च अधन्य च जघन्यकौ | धाता चैव विधाता च आवाहश्च विवाहकः || वसवोऽष्टौ समाख्याता मकुटा भरणोज्ज्वलाः | अशोकपल्लवाकारा मालावरदवाहनः || प्. ५३४) श्वेतपीतारूणा श्यामा वेदाः कुण्ड्यक्षमालिनः | जटाभस्माङ्ग भूषाङ्गा कृताञ्जलि पुटाः सदा || मन्त्रैः सोपनिषद्भिस्ते देवदेवं स्तुवन्त्यपि | कृत त्रेतादि राजानं खड्गचापधराः शुभाः || धर्ममूर्तिः कृतोराजा पादपादोज्झिताः परे | भूर्भुवःस्वर्महर्जन्यस्तपस्सत्यो ध्रुवस्तथा || लोकास्वधिपवज्ज्ञेया वाहनायुध विग्रहैः | शुद्धकुन्देन्दु सङ्काशा मूर्तीशाः शूलपाणयः | कार्ध कट्वाङ्गवरदा जटाचन्द्रार्ध शेखराः || तत्वेशाश्च तथा ज्ञेया व्याघ्रचर्माम्बर प्रियाः | ध्यानं पूजां विना न स्युः वास्तुदेवाः फलप्रदः || तेषां ध्यानमथोवक्ष्ये यथाशास्त्रमनुक्रमात् | चतुष्षष्टि पदं वास्तु देवानां नापरं हितम् | मध्ये चतुष्पदे ब्रह्मा चतुर्वक्त्रश्चतुर्भुजः || हंसारूढो बृहत् कुक्षिः कमलोपरिसंस्थितः | षट्पदे पूर्वदिग्भागे समरीचि व्यवस्थितः || वज्र पाशधरः श्रीमान् चर्मपाशधरोऽथवा || एकवक्त्रोद्विनेत्रश्च तप्तचामीकरप्रभः | प्रत्यालीढ समाविष्टो नानाभूषणभूषितः || प्. ५३५) विवस्वान् दक्षिणेभागे षट्पदे वास्तुदेहगः | एकवक्त्रस्त्रिणेत्रश्च भिन्नाञ्जन चयद्युतिः ||
SKद्विभुजो महिषारूढो दण्डपाशकरार्पितम् | पश्चिमे वास्तु देहे तु षट्पदे मित्रनामकम् | हिमकुन्देन्दु संकाशं त्रिणेत्रं तु चतुर्भुजम् || पाशाङ्कुशधरं रौद्रं कुन्दहस्तं महाबलम् || आलीढस्थान सञ्छन्नो हिमकोटिसमन्वितम् || आलीढ प्रत्याईढ्योर्लक्षणं यथा धनुःशास्त्रे - किञ्चित्कुञ्चित वामजानुक मृजुन्यातं निदध्यात् पुरः पश्चात्तु द्विकरायत * * तिरश्चीनं पदं दक्षिणे | तिर्यग्वक्त्र मृजुस्थिर स्थिर वपुस्थानीं तदालीढकं प्रत्यालीढमपि दृशेव गदितं व्यत्यस्त पादस्थितम् || इति | अथ प्रथविधराख्यस्तु वासेतारुत्तरपट्पदे? एकवक्त्रश्चतुर्बाहु स्त्रिणेत्रो मकुटान्वितः | चन्द्रगौरो महाप्राणो वैष्णवासन पद्मधृक् | शरकार्मुकहस्तश्च मुसलोद्धतपाणिकम् || अत्रवैष्णवासनं भरतोक्तं यथा - द्वौतालं वार्धतालश्च पादयोरन्तरं भवेत् | तयोः समस्थितस्त्वेकस्त्र्यश्रं पक्षस्थितोपरम् || किञ्चिदञ्चित जङ्घञ्च सौष्ठबाहुसमन्वितम् || प्. ५३६) वैष्णवं स्थानमेतद्धि विष्णुस्तत्राधिदैवताम् || इति | ईसदिक्पतिकश्चाप स्त्रिवक्त्रः षड्भुजस्तथा | रन्ध्रलोचन पद्माभश्चक्र कुन्द गदाधरः || शरशान्त्यादि सन्नद्धः कोटिप्रथमसंयुतः | आपवत्सस्तथा ज्ञेयस्तद्दिक्पतिक संस्थितः || चन्द्रगौरनिभः किन्तु मण्डलस्थानक स्थितः || तच्च लिख्यते - ऐन्द्रस्यां मण्डलं पादौ चतुस्तालान्त संस्थितौ | स्त्र्यौ पक्षस्थितौ चैव कटिजानुसमा तथा || मण्डलं स्थानकं प्रोक्तं नानाभाव रसान्वितम् || इति | सविता पदिगोवहनु सावित्रः पदिकस्त्वधः | इन्द्र * * * जयौ तद्वौ दृक्षस्यां दिशि संस्थितौ || वायव्ये पदिके रुद्रे रुद्र दासस्तथा मतः | इतीशौ शर्वपदगौ खड्गांशञ्चाग्निकोष्टकौ || मृगं पीतं च नैर्-ऋत्यां रोगवा * * * निले | पर्जन्याद्यांश्च पदिकान् कथयामि क्रमेण ते || पर्जन्य जयमागेन्द्र सूर्य सत्य हृशां क्रमात् | पूर्वस्यां संस्थिता ह्येते दक्षिणस्यां ततः शृणु ||
SKपूषा वितथ सं * * * तथा चैव गृहक्षतः | यामे गन्धर्व भृङ्गौ च दक्षिणस्यां दिशि स्थिताः | दौवारिकश्च सुग्रीवः पुष्पदन्त प्रचेतसौ || प्. ५३७) अस्रुरा षोडश संज्ञाश्च पश्चिमायां दिशिस्थिताः | नाशो मुख्यश्चलभटे सोम-ऋग्यदिथी तथा || सर्वे ते पदका ज्ञेया ध्यानमेषां निगद्यते | पविता रक्तवर्णः स्यात्खड्गपाशकरान्वितः || सावित्र संज्ञकस्तद्वत् कुशपिञ्छलकान्य च | इन्द्रः काञ्चन वर्णः स्यात्त्रिणेत्रः कुलिशान्वितः || नीलेन्दीवर हस्ताश्चयोधः करवीरः स्थितः | तथैवेन्द्र जयः कार्यः खड्गपाशकरान्वितः | रुद्रः कृष्णाञ्जली प्रख्यः शूलीखड्गी त्रिलोचनः | तथा रुद्रजयः कार्यः शरको * * * हृत्सदा || मध्यावरणसंस्था च कथिताः कृतीकासुत | बाह्यावरणसंस्थाश्च कथयामि तवाधुना || ईशे त्रिणेत्रं शूलासि चर्महस्तं सपङ्कजम् || नानावारिकृताभ्यासं पर्जन्यं मेघवाहनम् | एकवक्त्रंसुनयनं कुन्दासिसित वर्णकम् || जयश्च पद्मवर्णः स्यात् वर्मबाणासि चर्मधृक् | इन्द्रः सहस्रनेत्रः स्यात्कुलिशाङ्कुश भूषितः || सूर्यः सिन्दूर वर्णः स्यात् रश्मिपद्मकरान्वितः || सव्यं पद्मध्वजाङ्कन्तु कूटं वामक्रार्पितम् | सत्यं चतुर्मुखं सिद्धिः पद्मरागसमप्रभः || सुरूपं यौवनोपेतं वृषवक्त्रन्तु पश्चिमम् | कमण्डलुधरं देवं दह्याक्ष बलयान्वितम् || प्. ५३८) राजीवासनसंस्थं तु राजीव करकल्पितम् | डाडिमी कुसुमप्रख्यं भृशमाश्चर्यरूपिणम् || त्रिसप्तवदनं देवं शतार्धकर कल्पितम् | दिङ्मुखं तत्र कर्तव्यमुपर्युपरि वक्त्रकम् || उपर्युपरिवक्त्राणां कलया भ्रा समादिशेत् | पुरुषं पूर्ववक्त्रं च भैरवं दक्षिणं मतम् | उत्तरं वामदेवं तु सद्योजातं तु पश्चिमम् || दिग्रूपाणि भृशस्यैवं वक्त्राणि कथितानि ते | अथर्ववेदं पूर्वास्यं वामदेवं तु दक्षिणम् ||
SKउत्तरास्यं यजुर्वेदं ऋग्वेदं पश्चिमाननम् | प्रागुक्त वक्त्रमानासु विकलानि मुखानि तु | वैकुण्ठं पुर्ववदनं नारसिंहं तु दक्षिणम् | उत्तरास्यं च वाशहं पश्चिमं कापिलं विदुः || अष्टाङ्गुलसमानानि युग्महान्या भवन्ति हि | इन्द्रं यमं च वरुणं कुबेरं क्रमशो मुखम् | हा * * * रात्रि विकर्तव्या कलाया कृत्तिका सुत | आदित्यं पूर्ववदनमाग्नेयं दक्षिणंमुखम् || उत्तरं चन्द्रवदनं पार्थिवं पश्चिमं मुखम् | चतुरङ्गुल मानानि कलहान्या बह्वन्ति हि || कलामेकां व्योमवक्त्रं सर्वेषामुपरिस्थितम् || प्. ५३७) इत्येवं वक्त्रहासन्तु कार्यमन्येषु षण्मुख | खस्त कुन्दशरवस धनुश्चक्रासिखेटकम् || पद्मपत्राक्षसूत्रं च बीजपूरकमण्डलुम् | फलशक्तिगदापाशदण्डं चाथ परश्वयम् | वीणां च वल्लकी वंस वृक्षचन्द्रार्धपट्टसम् | पुस्तकंस्रुक्स्रुवौ भिण्ऽं डमरुध्वजमेव च || कंकालास्त्र महास्त्रं च ब्रह्मास्त्रं पिच्छक तया | खातकास्त्रं अघोरास्त्रं शंखभेरीसमन्वितम् || एवमादीनिचान्यानि विभ्राणां संप्रकल्पयेत् | इत्येवं विश्वरूपं तु भृशाख्यस्य प्रकाशितम् || भिन्नाञ्जन चयप्रख्यं अन्तरिक्षं प्रकल्पयेत् | शूलासि मुद्गराव्याल व्याघ्रचर्माम्बरप्रियम् || शक्तिहस्तोभवेदग्निः पद्मपर्यङ्कके स्थितम् | चन्द्रगौरनिभः पूषा धनुर्बाणकरान्वितः || वितथोधूम्रवर्णाभः कृतान्त इव तेजसा | प्रेतारूढस्तथा दण्डी कार्योदिग्व्यसनः सदा || विकरालं महाकायमेव मेवं गृहक्षतः | महिषस्थः प्रकर्तव्यः यमोभिन्नाञ्जन प्रभः | शुक्लवस्त्रपरीधानो दण्डपाशकरान्वितः || व्याधि कोटिसमायुक्तो भीमोग्रनरकान्वितः | गन्धर्वः शंखवर्णः स्यात् पट्टशाङ्कुश संयुतः || प्. ५४०) गन्धर्व कोटिसंयुक्तो भृङ्गीशुक्लाभ्रसन्निभः | एक वक्त्रश्चतुर्बाहुः चर्मासीषुधनुर्धरः || मृगोदूर्वाङ्कुरश्याम चर्मासिकरकल्पितम् | पीतः कृशतरः कार्यः दण्डीपिष्टरमण्डितः || पिताराख्यैस्सदा देवैः कोटिसंख्यैः समावृतः ||
SKदौवारिको दण्डहस्तः विकटश्चपिनाकिनः || काननः || पाशधृग्बिसिनीपत्रमुद्गश्यामोऽथवा भवेत् | मामोहश्चापि सुग्रीवः स मुक्तिः खण्डदण्डधृक् || पुष्पदन्तः सुतेजाढ्यो मुखण्डीकरभूषितः | प्रवेतामाषवर्णाभः पाशांकुशकरान्वितः | ग्रहोपरिस्थितः कार्यो नागकोटिसमावृतः || अक्रूरः खड्गहस्तश्च कृष्णाभश्चर्मभूषितः | शोष कृशमतः कार्यो राजवर्तनिभोमतः || उमा हस्तस्तथा दण्डी व्याधि कोटिसमन्वितः | वायुः कार्योऽभ्रवर्णश्च सपदध्वजमण्डितः || नागः पद्मनिभः कार्यो नाना प्रहरणान्वितः | श्रीफलंकुशकुन्दास्त्र कृपाणाब्जा * * * मुषः || षसिध्वजशशादीक शार्ङ्गशक्तिञ्च वामतः || नागकोटि समायुक्तो मुख्यस्तु हरिसन्निभः | चापशूलधरः श्रीमाअन् तर्जन्यस्तर्जनोरतः || प्. ५४१) भल्लाटो हेमसङ्काशः शक्तिघण्टासमन्वितः | पताकाकुन्दलोद्धासि धनुर्बाणाम्बुजोत्पलः || विणाहस्तद्वयोपेतः कान्ता लक्षणलक्षितः | सण्मुखा द्वादशभुजो मयूरकृतवाहनः || सोमोऽमृतमयोज्ञेयो कलशासिसमन्वितः | रत्नजो ऋषिभिर्ज्ञेयो हयोपरिधनुर्धरः || कूर्चहीनश्च कर्तव्यो रविकोटिसमावृतः | ऋग्यजुस्तितिराभासो दण्डाक्ष बलयान्वितः || दर्भपुञ्जधरोधीमान् कमण्डलु करान्वितः | लम्बकूर्चोदिति वृद्धो मालापद्माङ्किताङ्गजः || दितिश्च रत्नगौराभः शंखचक्रधरः सदा | स्कन्धोर्यमा जम्भकश्च पिलिपिञ्छश्च पूर्वतः || चस्की च विदारी च पूतना पापराक्षसी | ईशकोणात् समारभ्य राक्षस्यो बाह्यतः स्थिताः || सितरक्ता पीतकृष्णा स्कन्धाद्यापि कृताननः | वज्रासिदण्डशूलं च पादख्याद्यगदा शिराः || स्कन्दाद्याः कथिताः सम्यक् राक्षसीः शृणु षण्मुख | खड्ग खाद्यादिक्षिरिका मुण्डखण्डासि कर्तरी | क्रमेण संयुताः कार्याः विकृतास्याः कृशाः पदम् | वास्तुदेह स्थिताः देवाः कथितास्ते मयानघ || प्. ५४२) वि * * * ध्यानं भवेद्राष्ट्र भङ्गं समादिशेत् | दुर्भिक्षं बलिहीने तु होमहीनेशु भक्षयम् ||
SKतस्माद्यत्नात्प्रकर्तव्यं ध्यानद्रव्य क्रियान्वितः | न्यासं तु मध्यतः कार्यं देवानामर्चनं तथा | देवानां प्रीतिदं नाम पदाष्टाष्टक वर्तकम् || एकाशीति पदं व * * तु गृहाणां सुप्रजात्मकम् | नित्यं शतपदं विद्धि सुस्थिराख्यं सुसिद्धिदम् || पथ दुर्ग पुराट्टाल नगर ग्राम खेटके || शय्यासु मानेषु तथा बलिं गृहेष्वपि | सिद्धिस्थाने तथा हर्म्ये यागादौ परिकल्पयेत् || वापी कूप तटाकादौ वनेषूपवनेषु च | उक्तानुक्तेषु सर्वत्र कार्यं शतपदं गुह || आवरीदर्शने पूर्वं सापृष्ठे तथा पुनः | तथा ब्रह्मशिलान्यासे द्वारकस्य निवेशने || सूत्रसंस्थापने पूज्या वास्तुदेवाः षडानन | पदेषु संस्थितं नाम भूपृष्ठे वास्तु संज्ञकम् || ब्रह्मपीठादयो वृद्धिसारके विघ्नदर्शनम् | सूत्रादो धर्मदण्डाख्यं चक्रमादञ्च मन्दिरे || शक्रो मयोद्गतो दैत्यो वास्तुर्यज्ञापहारकः | तन्निपाद्य स्थिता देवाः इत्युक्तं परमेश्वरे || प्. ५४३) अन्यथा यं पुनः ख्यातः पिङ्गलाख्यमते यथा | यदा वाराह रूपेण विष्णुना चोद्धृता धरा || तदात्र त्रादृयस्सर्वे सपक्षाः कामरूपिनः | निघ्नन्ति देवताः सर्वे मुनीनामाश्रमाणि च || देवेन्द्रेण तदा तेषां पक्षाः च्छिन्नाः शिरांसि च | तदा ते पतिताभूयो निधात इव भूतले | तदा शेषादधोनागा मुञ्चन्ति गरलं महत् | तद्विषाक्रा * * भूमिश्च ससर्जोष्णं महानिलम् || विषानिलसमायोगात् उत्पन्ना वास्तुरुच्यते | अध्रुवान्तश्शरीरोऽयं पिण्डयत्यखिलं जगत् || बर्बराङ्गो सुराकारः कृष्णोलोहित लोचनः | द्विबाहुर्भीषणो वीरो बभ्रुश्मश्रु शिरोरुहः || वज्रदेहः सुदुर्धर्षो देवानामपि दुष्करः | तद्भयाद्विद्रुतादेवाः देवदेवमुपागताः || देवस्तद्रक्षणार्थाय तत्क्षणादसृजत् प्रभुः | महामायात्मपाशान् रुद्रं चाति विलोभनम् ||? रुद्रो देवैः समुद्धृत्य तन्निपात्यधरातले | मायापाशैश्च तं बध्वा देवास्तत्रन्यवेशयेत् || ततः प्रभृति देवास्तु तद्देहे पूजिताः शुभाः || इति | तथा - चतुष्षष्टिपदं वास्तु देवधामनि संस्थितम् || प्. ५४४)
SKईशकोष्ठे शिरस्तस्य नि-ऋ-ऋतौ पाद संपुटम् | अग्निवायू प्रकोष्ठः स्यादजा कूर्परमेलकम् || पूजाकाले समुत्थानं नतो वाङ्मुखमर्चयेत् नवा प्रच्यो न वोदीच्यो नार्घ्यस्याश्च यथामये || लक्ष्मी यशोवती कान्ता सुप्रिया विमला शिवा | सुभगा सुमती चैता नाड्यः प्राची मुखोद्गताः || धन्याः प्राणा विशाला च स्थिराभद्रा जयानिशा | द्विरजापि भवाचैताः सौम्यवक्त्राः प्रकीर्तिताः | तिर्यगूर्ध्व स्थितौ वंशौ दुर्जयोदुर्धरस्तथा || कर्णयोः पादगुल्फे च कीलनी बन्धनी ततः | संवर्ता च विवर्ता च जानु कूर्परमेलके | हृद्गुह्य कुक्षिमार्गेषु सद्भावा जानुनीति च || पक्षिणः क्षितिविच्छेषु रञ्जवौष्टौ मनन्ततः | द्विपदास्तत्पदास्ताश्च देवाव्यस्तौ पि(ति)वस्थिताः || पद्मं वज्रं च सिद्धिञ्च पदं लाङ्गलसंपुटम् || त्रिशूल मणिबन्धं च त्रिक्रमं स्वस्तिकं तथा | विंशद्रज्जुमयान्नाडी मर्मत्रयोदशस्मृतम् || सूत्राष्टक समायोगात् पञ्चपद्मं प्रकीर्तितम् | ब्रह्मस्थाने च पूर्वे च याम्ये सौम्ये च पश्चिमे | षट्सूत्र योगतोवज्रः चाष्टा विंशति संख्यया || प्. ५४५) नाडी सम्पातको यत्र सिद्धिमर्मं तदुच्यते | तच्च षोडशसंख्या च सन्धि मर्म वरानने || शुद्धं कोष्ठं पदं प्रोक्तं तच्च षोडशसंख्यया | रज्जुसूत्रं सवंशंयत् तस्यार्धञ्च हलः स्मृतः || तस्य संख्या वरारोहे षोडशेति प्रकीर्तितः | कोणात् कोनगतं सूत्रं संपुटान्तं न संशयः || चतुस्त्रिंशत्तदाख्यातं नात्र कार्या विचारणा | कोणे त्रिसूत्रसंयोगात् त्रिशूलं संप्रकीर्तितम् || चतुः संख्या किमित्युक्तं ईशानी निर्-ऋतीरगम् | सूत्रपञ्चक संयोगं मणिबन्धः सकीर्तितः || अष्टसंख्यस्सविप्रोक्तः पूर्वादौ युग्मयुग्मता | तस्यान्तगत्रिसूत्रं यत् त्रिखण्डं तन्न संशयः || तस्य संख्या यथापूर्वं तद्दिशायामुदाहृतम् || रज्जुयुक्पदमध्ये तु स्वस्तिकं तन्न संशयः | वंशद्वयं पुराप्रोक्तं रज्जवोऽष्टौ तथैव च | नाड्योऽष्टादश पूर्वोक्ता तत्सर्वं मर्मकीर्तितम् ||
SKअङ्गुलं वा तदर्धं वा सूत्रं पूर्वोक्त वन्नयेत् || एवं प्रचालिते वास्तौ मर्मौघश्चालितो भवेत् | चतुरश्री कृते क्षेत्रे गृहे वास्तुं विवर्जयेत् || शान्तायशोवती कान्ता विशाला प्राणवाहिनी | प्. ५४६) सतीवसुमती नन्दा सुभद्रा यमुना रमा | दशनाड्यः स्मृता ह्येताः प्रत्यक्प्राचीमुखाद्गताः || हिरण्यासुप्रभा लक्ष्मीः विभूतिर्विमलाश्रिया | जया ज्वला विशोका च ईशा चैवोत्तरामुखाः || वंशद्वयं यथापूर्वं रज्जवोऽष्टौ तथैव च | त्रिपदाः षट्पदाः किन्तु ब्रह्मन्नव पदे स्थितः | षट्पदस्थामरीच्याद्याः स्वापाद्या द्विपदामताः || ईशाद्याः पतिका ज्ञेयाः स्कन्दाद्याश्चात्र पूर्ववत् | वास्तुं शतपदं वक्ष्ये दशधा भाजयेत् क्षितिः || एकादश स्मृता नाड्यः तत्र पूर्वोदिता नव | ऐन्द्री पूर्वे स्थिता नाडी पश्चिमे विजया मता || याम्ये दक्षिण नाडी स्यात्सौम्या नाडी स्थितोत्तरे | रज्जुवंशादिकञ्चात्र गृहवास्तुवदीरितम् || यथा देवालये न्यासः तथा शतपदे हितः | ग्रहाः स्कन्दादयश्चात्र विज्ञेयाश्च चतुष्पदाः || राक्षश्च चरक्याद्याः पञ्च पञ्च पदे स्थिताः | गृहे गृह प्रमाणं तु वास्तुदेहं प्रकल्पयेत् || सर्वेषामत्रदेवानां सघृतं पायसं दहेत् | माषभक्तं ससर्पिर्वा दधिमिश्रक्षताश्च वा || न मांसं न सुरादेया राक्षसीनाञ्च देशिकैः || प्. ५४७) अथोच्यते वृषोसोऽपि लिङ्गद्रव्यविनिर्मितः | अव्यक्ते घटिते लिङ्गे स्थापिते तत्पुरस्थितः || यजमाने नृपेराज्ये सर्वदा शुभकारणम् || तथा च - यमुना काल मृत्युर्न व्याधिर्नोपसर्गभयञ्जने | राजा च विजयी तत्र यत्रेशः सवृषः स्थितः || इति || स्वेष्टलिङ्गे सहस्राङ्गे मुखलिङ्गे स्वयं भुवि | अद्वैतै प्रतिमाग्रे च वृषभोदोषदो भवेत् || तत्स्थानं किलितं ज्ञेयं सिद्धिस्तत्र न विद्यते ||
SKननु साधारणेषु लिङ्गेषु पुरस्ताद्विहितोवृषः | इति श्रीमयोक्तेरिष्टलिङ्गं विहाय सर्वत्र विहितो वृषः | तत्कथमत्रमुखलिङ्गानामग्रेऽपि ष * * * भो न स्थापनीयः इति न वाच्यम् | तत्र मये सङ्क्षेपतः साधारणादित्युक्तान्यलिङ्गान्यपि व्यक्ता व्यक्तान्येवाभिमानानीति | तथैव मश्व घटिकायां श्रीसोमशम्भुपदैरपि व्याख्यातम् | यथा ब्रह्ममये च - अव्यक्ते घटिते लिङ्गे सर्वसाधारणे बुधाः | स्थापिते पुरतस्तस्य संमुखोवृषभो मतः || बाणेरौहे स्वयं व्यक्ते सहस्राङ्के शताङ्किते | अर्चाया मुखलिङ्गे च रत्नलिङ्गे विशेषतः || आत्मलिङ्गे तथाद्वैते वृषभं नैव कल्पयेत् | एतामग्रे यदा ज्ञानात् वृषभः कल्प्यते तदा || प्. ५४८) स्थानं तत्कीलितं ज्ञेयं तत्र सिद्धिर्न विद्यते | तस्मात् संस्थापनं कार्यं अव्यक्ताग्रे वृषस्य च || राजा विजयमाप्नोति प्रजानन्दन्ति तत्र वै | अपमृत्यु भयं व्याधिं उपसर्गभवं न च || तथा प्रतिष्ठासार सङ्ग्रहे च - वृषसाधारणे लिङ्गे स्थापिते व्यक्त संज्ञिते | कर्तव्यः पुरतस्तस्य सर्वदुष्कृत शान्तये || नान्यत्र वृषभः शस्तः श्रेयसे सिद्धिकाङ्क्षिणाम् || इति || तदुक्तमन्यत्र च - साधारणानां लिङ्गानां पुरः खलु वृषोमतः | न रौद्रे लोभने बाणे स्वं भुतेरचलेन च || शत लिङ्गे सहस्राङ्गे मुखलिङ्गेऽस्त्रलाञ्छिते | लोकपालार्चिते सिद्धे प्रतिमायां न वै वृष || इति || तथा च पिङ्गला मते - रौद्राणां विषभोनास्ति विशेषे चात्मके न हि | बाणलिङ्गे वृषो नैव स्वयंभूते वृषो न हि || रौहे च शतलिङ्गे च मुखलिङ्गे सहस्रके | वृषभो नैव कर्तव्यो लोकपालार्चिते तथा || अश्रिलिङ्गे वृषोनास्ति सिद्धलिङ्गे वृषो न हि | प्रतिमाग्रे परस्ये चैक लिङ्गे वृषो न हि || वृषास्त्रं नैव कर्तव्यं ध्वजयष्टि निवेदने | घटेषु पुरतः कार्यः सर्वसाधारणेषु च || प्. ५४९) शैलजैः शलजः कार्यः दारुजे दारुजो भवेत् | लोहानां लोहजः कार्यः मृण्मये मृण्मयात्मकः | इति |
SKअथ चैक करन्नाधः पञ्चहस्तोद्धतो न हि | इत्युक्तं पिङ्गलाग्रेषु लिख्यतेऽसौ यथा वृषः || हस्तमात्रस्य लिन्गस्य वृषभोपीतहत्समः || सपदा करलिङ्गस्य षड्विंशत्यङ्गुलो वृषः | सार्धर्हस्य च लिङ्गस्य मनुद्वायाङ्गुलोवृषः || पादोनद्विकरस्याथ वृषभस्त्रिंशदङ्गुलम् | द्विहस्तस्य च लिङ्गस्य द्विकरो वृषभो भवेत् || सपादत्ररथस्याथ स नेत्र द्विकरोवृषः | चतुर्हस्तस्य लिङ्गस्य कलाष्टद्विकरो भवेत् || सपादयुग हस्तस्य द्विकरोनव नेत्रकः | सार्धस्य युगहस्तस्य द्विकरोदश नेत्रकः || पादोन पञ्च हस्तस्य रुद्रनेत्र द्विहस्तकः | पञ्च हस्तस्य लिङ्गस्य वृषभः स्यात्त्रिहस्तकः || सपादपञ्च हस्तस्य नेत्रमात्रकरोवृषः | सार्धस्य पञ्चहस्तस्य द्विनेत्र त्रिकरोवृषः || पादोन षट्करस्थाथ त्रिनेत्र त्रिकरो वृषः | षट्करस्याय लिङ्गस्य त्रिकरोयुगनेत्रयुक् | सपाद षट्करस्याथ त्रिकरः पञ्च नेत्रकः || सर्ध षट्करलिङ्गस्य षण्णेत्रस्त्रिकरो भवेत् | पादोन सप्तहस्तस्य त्रिकरः सप्तनेत्रकः || प्. ५५०) सप्तहस्तस्य लिङ्गस्य त्रिकरो नवनेत्रकः | सपाद सप्तहस्तस्य दिव्यनेत्रकरोवृषः || सार्ध सप्तकरस्याथ रुद्रनेत्र त्रिबाहुमान् | पादोनाष्टकरस्थाथ वृषभः स्याच्चतुष्करः || सार्धाष्टलिङ्गकस्याथ सर्षन्नेत्रश्चतुष्करः | पादोन नवहस्तस्य सषण्णेत्रश्चतुष्करः || नवहस्तस्य लिङ्गस्य पञ्चहस्तोवृषोभवेत् | पञ्चहस्तान्न चैवोर्ध्वं वामे हस्तादधोन हि || इति | वृषोच्छ्रायमिदं प्रोक्तं द्विगुणं स्यात्तदायतिः || तथा च कालोत्तरे - साधारणेषु लिङ्गेषु वृषः कार्यो न चान्यथा | स्थापनं लिङ्गवत्तस्य क्रिया शक्त्यन्तगोचरम् || ईश्वर तत्वान्तम् - लिङ्गात्र्यशाश्वतः कार्यो द्विगुणः स्यात्तदायतिः | तथा च कालोत्तरे - साधारणेषु लिङ्गेषु वृषः कार्यो न चान्यथा | स्थापनं लिङ्गवत्तस्य क्रियाशक्त्यन्त गोचरम् || ईश्वर तत्वान्तम् - लिङ्गा त्रिंशोर्जिताः कार्या द्विगुणाश्चायतां भवेत् | समसूत्रस्तथा कार्यः पीठपृष्ठ समोयथा ||
SKवृषः समुज्झितः कार्यो लक्ष्मी मस्तक मस्तकः | लक्ष्म्यार्धाहित दृष्टिः स्याच्छेष लक्षणमुच्यते || देववस्वंश विच्छिन्नं वृषदैर्घ्यं षडानन | तदंशमङ्गुलन्तस्य द्विगुणं तत्कला मता || प्. ५५१) तालश्च षट्कलः प्रोक्तः कला त्र्यंशन्तु तारकम् | खण्डद्वितारविख्यात केरतालद्वयं मतम् || षोडशाङ्गुलमानेन वृषभस्य मुखं भवेत् | तथा वैशृङ्गदेशे तद्विस्तारस्य च कल्पयेत् || कर्णान्तरं सप्तकलं विस्तारे च प्रकल्पयेत् | स्राग्विणी प्रोतमध्ये च विस्तारः सकलो भवेत् || नासा पुटान्तरस्थस्य द्विकलं परिकल्पयेत् | दशाङ्गुलौ तु साक्षिण्यौ वृषभस्य समादिशेत् || कपोल देश स्त्रिकलं नासा नेत्रार्धतो भ्रमात् || नेत्रैर्नेत्र समे कार्ये किन्तु ताराधिके मते | विस्तारमङ्गुलं नेत्रे चन्द्रलेखोपमे शुभे || शृङ्ग पण्डी कलार्धेन शृङ्गनेत्रद्वयोच्छ्रिते || शृङ्गप्रान्त कलार्धेन नाचिकीर्षं विवर्तयेत् | शृङ्गान्तराल विकलं त्रिकलं पिण्डिकान्वितम् || कर्णौ पञ्चाङ्गुलौदैर्घ्यमुद्वृत्तौ च कलोन्नतौ | पञ्चाङ्गुलं तु कर्णस्य मध्यविस्तारमादिशेत् || परतश्च कृशौकर्णौ कर्तव्यौ त्रियवौधनौ | नाहं तु त्रिकलं मूले ऋजुरेखा समन्वितौ || ककुत्प्रदेशं त्रिकलं व्रतोर्ध्वं तद्द्विमेखलम् | अष्टनेत्रमता ग्रीवा सव्यासव्येहनू तथा || प्. ५५२) पञ्च नेत्रे पुरो जङ्घे सन्धिरेकाङ्गुलेन तु | अष्टाङ्गुलोपजङ्घे च गुल्फौ च त्र्यङ्गुलौ मतौ | खुरौ वेदाङ्गुलौ शस्तौ उच्छ्रायः कथ्यते पुनः | खुराद्घनावधिर्यावत् सार्धत्रिवदनोच्छ्रिते || मस्तकञ्चाष्ट नेत्रं च तथा ग्रीवा च विस्मृता | द्विनेत्रं ककुडुन्मानं त्रिणेत्रं वृषतोभवेत् || अष्टादशदलं पृष्टं विस्मृतं शकलं कटि | ततः पुच्छावधिर्यावत् दैर्घ्यादष्षट्कलं भवेत् || त्रिकटान्पुच्छमूलं तद्विकलं विस्मृतं भवेत् | इत्युद्देशेन कथितं व्यासाल्लक्षणमुच्य्ते || जङ्घारम्भे परीणाहं कलार्धं षोडशाङ्गुलम् ||
SKचतुर्दशाङ्गुलं मूले सन्धौपञ्चदशाङ्गुलम् | ततः सप्तकलान्नाहमुप जंघागर्ति भवेत् || एकादशाङ्गुलं गुल्फे पुच्छमानमथशृणु | पुच्छमूलं द्विनेत्रं स्यात् प्रान्तमङ्गुल विस्मृतिः || पुच्छं तु चामराकारं प्रलम्बं तु मुखत्रयम् | पृष्ठदेशस्य विस्तारं मूलमध्यात्तु तच्छृणु | दशाष्ट सप्तनेत्रैः स्युः मूल मध्यान्तविस्मृतिः || नाहश्चतुर्गुणोमूले सोदरे स्यात् षडानन | मध्यान्तयोस्तु त्रिगुणं परिणाहः प्रकीर्तितः || प्. ५५३) मध्यदेशे भवेन्नाभिः द्विकलं कम्बलं तथा | नाभ्यन्ते वृषणौ कार्यौ प्रलम्बौ द्विपलापनौ || दशाङ्गुला पुराजंघा चोपजंघामुखेन तु | नाभ्यं सन्धिश्च नेत्रेद्वे गुल्फे वेदाङ्गुलं भवेत् || खुरं पञ्चाङ्गुलं सार्धं खुरिका द्व्यङ्गुला भवेत् | अङ्गुलेनाग्रजंघायां खुरिकारश्च नान्वितः || जंघामूले परीणाहः द्वाविंशत्यङ्गुलो मतः | तत्प्रान्तेऽष्टकलोनाहः सन्धौसाङ्गुलमेव च || तिष्यङ्गुलोपजंघा स्याद्गुल्फे विश्वाङ्गुलं महत् | लोकतस्तत्परिज्ञाय दुष्टमङ्गं विवर्तयेत् || उपविष्टं वृषं वाथ कुर्यादेवं विधानतः | एवं निष्पाद्य वृषसीमधिवास्य यथा विधि || काजे योगेषु संस्थाप्य मौलिकं फलमाप्नुयात् | अकालमृत्युशमनमुपसर्गो न बाधते || राजा च विजयं याति वर्णं निन्दन्ति नित्यशः | वृषभस्य यथा शास्त्रं पुत्रलक्षणमीरितम् || || इति श्री ज्ञानरत्नावल्यां मूर्तिभेदविधिः || श्रीमहागणपतये नमः || मूर्तिभेदः समाख्यातः पीठादीनामयोच्यते || प्. ५५४) लिङ्गपीठोसितो यस्मात् स्थापितं च न सिद्धिदम् | तस्मात्पीठं प्रकर्तव्यं साव शक्तिक्रियात्मिकाम् || तथा मोहशूरोत्तरे - यथा व्यामोहितं सर्वं जगत्स्थावरजंघमम् | शक्त्या क्रियाह्वया शक्र पिण्डिका सैव कीर्तिता || ज्ञात्वा चैवं परं पीठं देहस्थं सुसमाहितः | अपरा वर्तयेत्पीठं नाम मानादि भेदतः || विधाना स्थापितं लिङ्गं पिण्डिका रहितं यदा | पूजारम्भं न गृह्णाति सान्निध्यं नैव शुद्ध्यति ||
SKतस्मात् पीठं प्रकर्तव्यं यत्नमास्थाय सुव्रत | येन सर्वफलावाप्तिः जायते साधकात्मनाम् || इति | प्रसाद गर्भमानेन पीठं यत्पिङ्गलामते | वसुभागकृते गर्भे तुर्यांशैः कन्यसं भवेत् || तार भाग कृते भूयः पञ्चभिर्मध्यमं भवेत् || वसुभागो गुणात्मांशैः ज्येष्ठं पीठमुदाहृतम् | द्वे द्वे मध्ये प्रकर्तव्ये कन्यायश्च तथा द्वयम् || इति || हस्तमान कृतानां तु तत्समं पीठ विस्मृतम् | उच्छ्रायं तद्विभागान्तं पिण्डिका सहितं भवेत् || बहुखण्डं मतम् पीठं एक खण्डेव पिण्डिका | मुखलिङ्गेष्वशक्तत्वात् द्विखण्डा पिण्डिका मता || तथा च कालोत्तरे - लिङ्गोच्छ्रायः प्रमाणेन पीठदैर्घ्यं समन्ततः | उच्छ्रायं विष्णु पर्यन्तं व्यक्ताव्यक्ते च तद्भवेत् || प्. २५६) एकखण्डस्तु सर्वेषां बहुखण्डमथापि वा | पिण्डिका चैव खण्डेव सर्वदा व्यक्तमेकदा || मुखलिङ्गे द्विखण्डाया बहुखण्डाथवा भवेत् | ताम्रं कीलैस्तु बध्नीयात् हेमतारमयैश्च वा || आयसै पीठबन्धः स्यात् कार्यो वा क्षुद्रसिद्धये || इति | तथा - विधिना स्थापयेत् पूर्वं लिङ्गं ब्रह्मशिलालटे | पीठबन्धं तथा कृत्वा पिण्डिकामवतारयेत् || एवमव्यक्त लिङ्गेषु कन्यसेषु स्थितिर्मता | शतलिङ्गे सहस्राङ्गे मुखलिङ्गे महत्यपि | एककण्डं मतं पीठं बहुखण्डमथापि वा || अशक्यत्वाद्द्विखण्डैव प्रवेशे पिण्डिकामता | उभयोर्नान्यथा तेषु विद्यते विश्वकर्मणि || चत्वारं श्रायतां पिण्डीं प्रतिमासु प्रचोदिता | कूर्चतुल्यात् सदादैर्घ्यस्तदर्घ्या विस्मृतोच्छ्रिता | प्रतिमास्कन्दमानेन नाभिमानेन वा मता | जङ्घावसानवा दैर्घ्या तदर्धा विस्मृता मता || विस्तारार्धो श्रया कार्या प्रणालश्च तथा मतः | पीठानां पिण्डिकानां च वर्तनाप्रोच्यतेऽधुना || पिण्डिका मध्यदेशी स्यात्कूर्मपृष्ठवदुन्नतिः | विस्तारः षष्ठमांशेन पिण्डिकास्थौल्यमाविशेत् || प्. ५५६) तथा च किरणे - जलाश्रयस्य बाहुल्यं लिङ्गस्यार्ध त्रिभागतः || इति | तथा लक्षण समर्चयेत् |
SKलिङ्गनाहप्रविस्तीर्णा विष्णुभागान्तमुन्नता | विस्तारष्षष्ठमांशेन बाहुल्येन समुन्नता || इति || मोहशूरोत्तराख्यातं लिख्यते पीठवर्तनम् | मोहशूरोत्तरैर्वस्त्रैः पिण्डिकां वसुसंख्यया || तासां नामानि वक्ष्यन्ते साम्प्रतं ते शची पते | प्रथमा कलमात्रात्र द्वितीया च पयोधरा | तृतीया च भवेद्वापि चतुर्थी वज्रसंस्थिता || चन्द्राख्या पञ्चमीख्याता षष्ठं चैवामृता भवेत् | संवर्ता सप्तमीशक्र नन्दिकाख्या तु चाष्टमी || इत्यत्र मुखलिङ्गः स्यात् कपिण्डीकेति बिह्वयाः || कालोत्तरे यथा - अद्ये पयोधराशस्ता सहस्राङ्के शताधिके || इति | ततह सर्वसमे कार्या मुखलिङ्गे विशेषतः | अनाढ्ये संस्थिता ज्ञाता तथा चन्द्रकलामता || सुराङ्गे चामृता कार्या पद्मां संवर्तिका तथा | नन्द्यावर्ता च कर्तव्या नान्येषां पार्वती सुत || इति | लिङ्गदीर्घस्य सूर्यांशं मेखलार्थं प्रकल्पयेत् | लिङ्गाश्रयं च सूर्यांशं हेमपश्चाद्विवर्तयेत् | क्वचिल्लिङ्गाश्रयं प्रोक्तं पिण्डिका स्थौल्यसंमिति || प्. ५५७) पीठ षोडशमांशेन मेखलापि क्वचिन्मता | तथा च कालोत्तरे - सर्वेषां चैव पीठानां उच्छ्रायात्षोडशांशतः | विस्तारा जलाधारा द्विगुणं मूलदेशतः || विस्तारवद्भवेत्ख्यातं श्वभ्रान्तमुन्नतं नयेत् || इति | अत्र मेखलाख्यात लक्षणं नाना विधं प्रोक्तम् मयदीपिकायाम् || दक्षिणस्यां स्मृतख्यातो दिशं वै मेखलादिसः | चतुर्थांशविहीनो वा तृतियांशविवर्जितः || क्वचिदर्धेन च प्रोक्तः तृतीयांशेन च क्वचित् || यवीय मध्यम ज्येष्ठ विभागेन पृथक् पृथक् | यवाधिकस्तु पूर्वस्यामपरस्यां तथैव च | प्रणाल मूले ख्यातस्तु द्वियवेनाधिकोमतः || इति || स्थूलतां पिण्डिकायाश्च त्यागमष्टाश्रकस्य तु | ब्रह्मभाग प्रवेशञ्च ज्ञात्वा पीठं प्रकल्पयेत् || मध्ये लिङ्गाश्रयं त्यक्त्वा पार्श्वे कर्मानुरूपतः | विस्तारं विभजेद्धीमान् शेषं सूत्रोक्तमाचरेत् | भूतेन्दु भाजिते क्षेत्रे पादं पद्मं तथाम्बुजम् ||
SKकर्णिकारञ्च देशञ्च वर्तयेत् सुसमाहितः | रूपश्वेतकरैश्चन्द्र * * * रा भाग्यैर्यथा क्रमम् || इन्दुद्ववाब्जे जलजे तुल्ये पूर्वपराहिते | यथा सिद्धा सुरा दैत्यामुनयो वीतमत्सराः || प्. ५५८) एषां पद्मेति विख्याता महासिद्धिं निधायभूः | भूपांशे रूपकोणाग्नि गोग्निभागैर्यथा क्रमम् || पाशगत्कुम्भवेदासूः कण्ठो रूपांशवेशतः | एकोत्तर वेदी च भागाभ्यां पट्टिके नृप ||? वज्रमेनां विजानीयात् पुत्रराज्यप्रदायिनी | इयं षडश्रा कथिता वज्रा कालोत्तरे पुनः | नागांशभाजितोत्सेधो रूपमात्राब्द नेत्रकैः | अङ्घ्रि जङ्घा तथा धारः कर्णश्चैवोर्ध्व पट्टिके || शान्तिपुष्टि प्रदायिन्या सर्वसिद्धिप्रदायिनी | एषा चन्द्रकलां स्या श्रीच्युता श्रीश्चामृता मता || सड्भागभाजिते क्षेत्रे जंघा कुम्भोर्ध्व पट्टिका | कण्ठोपकण्ठपट्टः स्यात्संवर्तापिण्डिका हरे || अष्टांशभ्राजितोच्छ्राये पक्षौ तुरगभाजितौ | पदमारभ्य ग्रीवान्तमेकैकं ह्रासयेत् पदम् || ग्रीवाद्वाभ्यां तथा जङ्घा प्रवेशो मुनिसंख्यया | निर्गमोरसभागेन यथा पीठान्त मार्गतः || सर्वसिद्धिप्रदाभद्रा सर्वेषां सर्वदा हिता | नन्द्यावर्ताकिता भद्रा नन्द्यावर्तेति विश्रुता || इति पिण्डी समाख्याता वक्ष्ये ब्रह्मशिलां तव | ब्रह्मभागसमाभद्रा कारय ब्रह्मशिला शुभा || प्. ५५९) दिव्यं गुलैर्यथा वासादधिका ज्येष्ठा ज्येष्ठके | एकैकाङ्गुलमन्येषां ह्रासयेत् क्रमतो हरे || तन्माना मेखला कार्या ख्यातं मेखलया समम् | गम्भीरं तत्समुद्दिष्टं व्यासं वच्मि तवाधुना || ब्रह्मव्यासेन विस्तीर्णमधिकं सार्ध्यवं बहिः | यवार्धार्धं तु चान्येषां ह्रासयेत् क्रमशः पुनः || अधिकं विस्तरेणैव कन्यसे द्वयवं भवेत् | सूत्रेण सुमितं कृत्वा वर्तयेत् सुदलं समम् | ख्यात मध्ये तु यत्नेन रत्नाचाराणि चोत्किरेत् | दिग्विदिक्षु ततो मध्ये वृत्तवत्परिकल्पयेत् || यथा ब्रहमशिलाकार्या ब्रह्मभागादिकाहरेत् | तथा कूर्म शिला कार्या किन्तु ब्रह्मशिलाधिका ||
SKइति ब्रह्मशिला प्रोक्ता प्रणालमधुनोच्यते | सप्रणालं भवेत् पीठं रौह रत्नजशैलजम् || पार्थिव * * * जञ्चैव प्रणालरहितं हितम् | रुद्रभाग समायातः प्रान्ते तदर्धविस्मृतम् || कर्णादूर्ध्वं सदा श्रेष्ठः तत्त्रिभागाम्बुनिर्गमः | कर्णोर्ध्वे कर्मसम्पन्नं प्रणालः सुखदो यतः || ततो न्यूनाधिकः पुंसां दुःखस्याछत क्रतो ||? श्रुत्यश्राष्टाश्रकं पीठे ब्रह्माच्युत विभागतः | लिङ्गस्थौल्यप्रमाणेन श्वभ्रं स्यात् कुशिलासु च || प्. ५६०) वस्वश्रं चोत्तमे लिङ्गे दृश्यं भूतयवं भवेत् | यवार्धार्धं तु चान्येषां ह्रासेन क्रमशस्ततः || समासेन समुद्दिष्टं पीठं ब्रह्मशिलादिकम् || इति | लिङ्गे शेषः तथा ग्राह्यः ग्रहपीठ शिवादिषु | तथा च पारमेश्वरे - देवपीठ * * दीशाने वृषोब्रह्मशिलापि च | एकजञ्चैव कर्णञ्च शुभमन्यदतो शुभम् || इति | अयजाकरजा वा स्यात् पिण्डिका पीठसंयुता | ननु ब्रह्मशिलाग्राह्या प्रोक्तमेवं क्वचिन्मते || ब्रह्मांशकर्णमानेन भवेद्ब्रह्मशिला क्वचित् | तच्चतुर्थांशतो वापि लिङ्गविस्तारतोऽधिका || शरांशेनापि सा क्वापि ब्रह्माङ्गाधिक विस्तरा | वाक्षी ब्रह्मशिला वाक्षी लिङ्गं स्यात् पिण्डिकापि च || एक हस्तादिलिङ्गानां व्यस्ताराद्व्यङ्गुलादिति | एकैकाङ्गुलया वृद्ध्या दशकं यावदन्तकम् | अधिका विस्तरेणैव कशिला तु क्वचिन्मता || प्रवेशं ब्रह्मभागस्य विज्ञेयोच्छ्राय कल्पना | प्रवेशस्त्वष्टमांशेन पदेनापि त्रिभागतः | अर्धेनाथ समस्तेन ब्रह्मभागस्य दैर्घ्यतः || अधि * * * * * * * * * * * * यथा || प्. ५६१) यावार्धात्तारया वृध्या षष्ठ्यवं खातमुत्तमैः | पीठनं यद्विखण्डं स्यात्पिण्डिकाश्चैव घण्डिका | अशक्यत्वादि खण्डे वा मुखलिङ्गे महत्यपि || ज्ये * * * * * * * * * * * द्वयोरपि | पीठानां पिण्डिकानां च लिङ्गायामेन विस्तरः || तत्त्रिभागोच्छ्राय त्र्यंशेन स्यात् प्रणालकः |? इति नानाविधं प्रोक्तं तत्वकालोत्तरे यथा |
SKस्थापिते सिद्धि दैत्येन्द्रैः लिङ्गेचास्मिन् यथा तथा | जलपट्टो यवाः कार्याः पीठहीनश्च सिद्धिदः || शैलजे शिअलजं * * * * * * * * * * | मृण्मये मृण्मयं विद्धि दारुजे दारुजंहितम् || लोहजे लोहजं सिद्धं रत्नजे रत्नजं तथा | मणिजे मणिजं शस्तं बाणे सर्वं प्रतिष्ठितम् || निराधारं * * * * * * * * * * * येत् || पट्ट भद्रासनादौ तु वस्त्रेवाथ समुद्गते | पुष्प पीठेऽथवा बाणं निराधारं प्रपूजयेत् || स्वयोनिरेव लोहानां भिन्नयोनिषु नेष्टदम् | त * * * * * * * * * * पैत्तलं तथा | स्फाटिकं ताम्रपीठं वा बन्धनं तार सम्भवम् || प्. ५६२) रत्नानां हेमजं पीठं तारजं वा प्रकल्पयेत् | बन्धनञ्चैव सर्वेषां हेमजं वाथ तारजम् || अङ्कुशद्वं न्यसेत्खाते पञ्चमांशमथापि वा | त्रिधा कृत्वा च लिङ्गानि भागैकं वा निवेशयेत् || इति | अथ चल लिङ्गेपि मयदीपिकायाम् - यथा - आनाह समविस्तीर्णा बाणादीनां प्रकीर्तिताः || शोभापेक्षा प्रमाणाद्वा रत्नजानां तथैव च | व्यास्त्र्यंशे * * * * * * * * समोच्छ्रया || रूपांशं वसुवत्कृत्वा खुरं भागेन कारयेत् | स पट्टिका तु जगती भागाभ्यां तु गालं तथा || निर्गमो देवदेवस्य दशांशेन च मेखला प्रोक्तैव पञ्चलिङ्गानां पीठिका सर्वसिधिदा || || इति श्रीमज्ज्ञानरत्नावल्यां पीठलक्षण विधिः || इति स्ंक्षेप * * * * * * * * कीर्तनम् | अथलिङ्गेषु पीठेषु लिख्यते लक्ष्म निर्णयः || पूर्वोक्त लक्षणैः सूक्ष्मैः कैश्चिदङ्गं समुज्झितम् || प्. ५६३) लक्षरेखायुतं शम्भुरन्यथा न स्वदेवरे | अलक्षणं यथा लिङ्गं ह्यन्य लक्षणमेव वा || अतिदीर्घं कृशं ह्रस्वनाश्रयन्ह्यत्र देवताः | तस्मात् सर्वप्रयत्नेन प्रोद्धरेल्लक्षनं शुभम् || इति || तथाणोः विनिर्मुक्तं प्रयतो लिङ्गलक्षणम् | तद्देशाधिपानां तु सर्वदा स्याद्भयङ्करम् || तस्मात् प्रयत्नमास्थाय कुर्याल्लिङ्गं सलक्षणम् || इति | ज्ञेयं तलजो निवेशनम् |? तथा च पिङ्गलामते -
SKशैव माहात्म्यकं तेजो यत्तदात्मत्वदीपकम् | तल्लक्षणं पुरं प्रोक्तं तदुद्धार्यं विपश्चिता || विशेष * * * * * * * * न विविच्यते || इति | अर्चांशे मध्यतः सम्यक् ब्रह्मसूत्रं प्रकल्प्य च | अष्टाधिकशतांशेन लिङ्गे चाङ्गुलमिष्यते || ललाट नासिकास्यादि स्थानमर्चाभल्लक्ष्मेनोर्ध्वं लक्ष्मा वतारयेत् तथापि पिङ्गुलामते च - मुख नासा ललाटानां भेदो श्रीवधिको भवेत् | नष्टे यस्मात्त तश्चासौ लक्षणं * * * * * | अर्चाभागं तृतीयाभ्यां लक्षविसावतारयेद्विद्वानन्यथा दोषदायकम् | राख्यात्तमे |? नवमाशच्युतो न्येषामशभि * * * * गुलैः? प्. ५६४) अष्टाष्टयवमानेन लेखा विस्ताराङ्गुलयामते ||? यथा - लिरः * * * * * * * * * तद्वदर्धदः | क्वचिदेवं समाख्यातं पित्रैवमृतवत्कुरु || तद्द्वयं विस्तरं मध्ये लम्बसूत्रं द्वयोः प्रिये | यवाष्टकोत्तमे लिङ्गे पृथुलासाचरेखिला ||? सयूककयवस्सप्तञ्च सप्तहस्ते * * * * * | स त्रियूकं पञ्चयवं वेदयूगा चतुर्यवः || चतुर्हस्ते त्रिहस्ते तु पञ्चयूका यवत्रयम् | षड्यूका * * * * * * * * चैक हस्तके || यवैकं सप्तयूकं च तदधोमारणोषितम् || इति | लक्षक्षेत्रेऽष्टधा भक्ते द्व्यंशात्पक्षावतारकम् | लक्ष्मक्षेत्रार्धमानेन पक्षक्षेत्रस्य विस्तरः || इति | यदुक्तं मोहशूरोत्तरे - द्वयाककार्यं लक्षणं भूतिमिच्छता लक्ष्मैकभाजिता यामे रूपोरामनुतनुते |? लक्ष्मरेखाङ्गुले * * * * * * च्युतोन्यतः | भागद्वादक्षरेखा स्यादवद्वसु भाजिते |? भ्रमाद्भागद्वयादूर्ध्वं पृष्ठतः सममन्तयोः | प्. ५६५) ऊर्ध्वं तु कुण्डलारेखा द्वे पृष्ठे ग्रन्थ्यधः स्थिते | यथा लिङ्ग शिरः प्रोक्तं तथा लक्षशिरोहितम् || सर्वसिद्धिप्रदं ध्न्यं सर्वविघ्नभयंकरम् | सर्वसाधारणं शक्र लक्षणं शुभलक्षणम् || इति || आढ्यादीनां विशेषोक्तं यथाकालोत्तरे तथा | लिङ्गोच्छ्राय विकारांशं त्रिभक्तं भागशासनात् ||
SKलेखान्तरन्तु लिङ्गानां सर्वसाधारणं मतम् | चतुर्विंशांशतोवाथ लिङ्गोच्छ्रायात्तु विस्मृतम् | यवाष्टकोत्तमे लिङ्गे लेखांभीर विस्मृता | सा लेखं लक्ष्मविस्तारं ज्येष्ठरुद्राङ्गुलात्मकम् || नवमांशच्युतारेखा कार्या लिङ्गद्वये ततः | लक्ष्मरेखां समुत्कीर्य मध्यमानां तथा पुनः | कन्यसे सयवा रेखा नवमांशे विहीनता || रुद्रभागविकाराद्यं सन्त्याज्यमागपञ्चकम् | रुद्रभागे रुद्रभागं अह्न्यर्वनय निर्भजेत् |? स्त्रीभागं समपादं च सार्धदिग्भागमुन्नतम् | लक्षणं कथितं सम्यग्गाढ्ये नाढ्येसुरार्चिते || तदर्धात्पक्षरेखाभ्यो निर्गमो नान्यथा भवेत् | वसुरन्ध्राग्नि भक्तेषु लम्बरेखागुणैः क्रमात् | भागद्वयेन सार्धेन सुराढ्याद्येषु सिद्धिदम् || प्. ५६६) अथवा कृति भक्ते तु त्यक्त्वा भागद्वयं तथा | रन्ध्रेर्केन्द्रैः क्रमात् पक्षौ सर्वसाधारणं त्रयम् || रेखाभ्यां सङ्गमः कार्यो नागपाशमथापि वा | भागप्रमाणं षष्ठे तु यवाकारं क्वचिन्मतम् || पक्षहीनं सपक्षं वा गजाक्षं सप्तमो हितम् || एकरेखं सुसम्पूर्णं विष्णुभागावसानकम् | बर्हस्तांशेक शताङ्गे वा यवाङ्ग व्यङ्गलक्षणम् ||? दृगुन्मीलनमर्चानां * * * * मुभयात्मनाम् | न बाणैरत्नजे लिङ्गेन लोहे पार्थिवेन च || किंतु पक्वे प्रकर्तव्यं न तु गन्धोद्भवेद्भवेत् || पिण्डीकायां भगाकारं लक्षणंद्रुतमध्यगम् | देशिकश्चाङ्कयेत्पूर्वं ततः शिल्पी समुल्लिखेत् || रत्नलिङ्गेषु वल्लक्ष्मे ज्योतिरत्यन्त निर्मलम् | सर्वज्ञानोत्तरे वाक्यं वामकं मध्यमं यथा || उक्तञ्च - भागद्वयं भवेद्दृश्यं तृतीयांश प्रवेशनम् | विहितं रत्नलिङ्गानां सुषिरे हेमभूषिते | तेषाञ्च लक्षणं मध्ये प्रोद्धरेत प्रयत्नतः || भागतृतीय संगत्वा ऊर्ध्वा योगं परित्यजेत् || इति | लिख्यते पिण्डिकायां च लक्षणं भागरूपकम् | लिङ्गलक्ष्मी समीपस्थं यथा स्याद्भगलक्षणम् || प्. ५६७) पिण्डिका गर्तमध्ये तु प्रमाणार्ध प्रमाणकम् | अश्वत्थ पत्रवत्कार्यं योन्याकारं सरन्ध्रकम् ||
SKरन्ध्रं द्वियूकदीर्घं स्यात्पञ्चलीक्षा प्रविस्तृताम् | सार्धलीक्षाद्वयं बाह्ये रेखागम्भीर विस्तरः || एकैकां वर्धयेद्यूकां लीक्षां च द्विकरादिषु | शेषं भोगसमायुक्तं लक्षणं वर्तयेत्सुधीः || इति | मर्मवेधं न कुर्वीत पक्षसूत्रावतारणे | लक्षसूत्र शिरोभागे यदिस्यान्मरणं ध्रुवम् || तथा च पिङ्गलामते - यत्सूत्रं पीठकं प्रोक्तं तन्मर्माधोर्ध्वतोऽपि वा | धवबद्धा शुभं प्रोक्तं न्यस्त्वा सम्यक् समालिखेत् || इति | शास्त्रे शास्त्रेऽन्यथा लक्षा बहुधा सम्प्रकीर्तितम् | किं तेन बहुधा कार्यं यद्येकं सर्वसिद्धिदम् || लक्षोत्किरणमाख्यातं अधिवासे खिलागमे | तथापीह समाख्यातः मुखयिष्पत्ति कारणम् || द्व्यग्राद्यङ्गादि सद्भावात् तत्काले हेमसूच्यात्त मन्त्रैसत्किरियेद्गुरुः |? इति सङ्क्षेपतः प्रोक्तं लक्ष्म सर्वं सुखावहम् | अथ प्रासाद सिद्ध्यर्थं लिख्यते स्थाननिर्णयः || त्यक्त्वा स्थानात् पुराक्षेत्रमेक द्वित्रिधनुश्शतम् | तत्र कृत्वा पुरं रम्यं तत्र प्रासादमारभेत् || तथा च कालोत्तरे - प्. ५६८) एकद्वित्रिशतं क्षेत्रं हीनं मध्यममुत्तमम् | कोदण्डानां प्रमाणेन मावनीयं शिखिध्वज || तत्र भूमिं परीक्षेत यथा वर्णानुरूपतः | इति || शतं सार्धयवं वाथ कोदण्डानां परित्यजेत् | स्वस्थान संमुखाः कार्याः प्रासादा न पराङ्मुखाः || नोत्तराभि मुखाः कार्या कदाचिद्दक्षिणामुखाः | किन्तु चैत्य सभामुक्त्वा मातृयक्ष विनायकाम् | भूमिभागवशेनैव दातरीयात्पराङ्मुखाः || तदाशास्त्रोचितं विद्वानुपाय मिममाचरेत् | तद्वर्ण भूषणोपेतं तद्वेषायुध वाहनम् || पुरस्याभिमुखं भित्तौ तत्रैवं तं सुरालिखेत् | विधिरेव समाख्यातः चित्रकर्मसमाश्रितम् || इति | पूर्णादियामदेवं च लिख्यन्तेऽत्र प्रसङ्गतः | विष्णुः शक्रश्चभानुश्च पूर्वे धामनि संस्थिताः || अग्निकोणे स्थितो वह्नि भानुमानवदक्षिणे | हनुमान् भूतवेतालं तारश्च यमुनस्तथा ||
SKपितरो भद्रकाली च दैत्या रक्षांसि राक्षसे | समुद्रो वरुणो नद्यो विश्वामित्रसमं तथा | पश्चिमे संस्थिताह्येते वायुकोणे पुनः शृणु | वायुः कात्यायनी नागा गणेशश्च शनैश्चरः || प्. ५६९) उत्तरे संस्थिता यक्षा ग्रहा स्कन्धश्च पार्वती | ईशाने भैरवो रुद्रः चण्डेशः क्षेत्रपालकः || ब्रह्मा च नयनो विप्राः सं पुराभिमुखाः शुभाः | शिवः सर्वगतोयस्मात् सर्वस्थाने शुभप्रदः || तथा च बाणमते - दिक्स्थाने नियमः प्रोक्तः सुराणांसविशेषतः | शिवस्य नियमो नास्ति प्रासाद करणं प्रति || अनादिः सर्वगः पूज्यो दिक्षुसर्वासु भक्तितः | ग्रामादिके भूवह्निस्थाः पश्चिमास्या सुरालया | दक्षिणात्युत्तरान्ता सा संस्थिताः प्राङ्मुखाः शुभाः || इति | तथा च मोहशूरोत्तरे - नृपालयाद्वहिर्दिक्षु भट्टानां पार्श्वयोर्द्वयोः | पृथक्सीमा परिछिन्नात्प्रासादान् कारयेन्नृप || देवताधिष्ठिते स्थाने धर्मवृद्धिः नृपेयतः || संमुखाद्विमुखाकार्या कर्तुरिच्छावशेन हि | विशेषोऽपि मुखानान्तु रूपकर्ममुखं युधे || तद्रूप भूषणोपेत तद्वेषायुध वाहनम् | वरदाभयपाणिं वा न्यसेद्देवं समाहितम् || तुल्यमेव द्वयोर्दुष्ट * * * * मुखोयतः | तैरावन्तरितश्चान्ये प्रासादास्तद्बहिः स्थिताः || संमुखा विमुखाः कार्या कर्तुरिच्छावशेन तु | नायं विद्धिस्वयं भूतेन बाणे सुरनायक | प्रमुखौ विमुखौ कार्यौ सर्वानुग्रहकौ यतः || इति | प्. ५७०) स्थाप्य स्थापितयोर्धाम्ना समबाणमये तथा | अधिकं वा समंहीनं पूर्वायामादि बाधकम् || प्रासादादि न कर्तव्यं कुर्याच्चेन्मृत्युमाप्नुयात् | उभयोर्द्विगुणोच्छ्रायं कुर्यात्त्यक्त्वाग्रतः क्षितिम् || पृष्ठतश्चोभयोर्नाहं तत्पादाग्रञ्च पार्श्वयोः | भिन्नानाभौ विधिश्चायं न दोषो भिन्न नाभिके || कोणादि धाम्न्या दोषाय नायकस्याङ्ग भू ततः | इति || तथा प्रतिष्ठासारसङ्गहे च - पूर्व स्थापित देवस्य स्वस्वं व्यक्तस्य वा यदा | मर्मवेधं न कुर्वीत सीमावेधं तथैव च ||
SKदक्षिणोत्तर दिङ्मध्य सूत्र मर्मद उच्यते | तत्सूत्रपार्श्वयोः कुर्याद्धामग्रामादिकेष्वपि || सूमाक्षेत्रं पूर्वपक्षे संस्हितस्याप्यमानयोः | अनन्तर द्विगुणं त्यक्त्वा द्वयोरुच्छ्राय संमितम् || अग्रे कुर्यात्ततः पृष्ठे व्यासद्विगुणमन्तरम् || एतत् पटादिकं त्यक्त्वा पार्श्वयोर्धामकल्पयेत् | अन्यथा मरणं कर्तुः महापीडा च जायते || राजा राष्ट्रस्य पीडस्य रूपसंयग्भयानि च | त्रिकटेषु न दोषः स्यात् न दोषः कोणधामसु || प्रधानस्याङ्गभूतत्वात् देकैव जगती यतः | प्रारब्धं यदिव ज्ञानात्पुनर्जातमिदं यदि || प्. ५७१) अनिष्पन्नं यदाधाम तदाभूताश्रयं भवेत् | निष्पन्नेति मृतिं कर्तुः तमादोषापनुत्तये | तत्तद्दिक्पालहोमेन तत्तद्वाहनदानतः || रुद्रशान्तिं सदा कुर्यात् प्रत्यहं च विधानतः | इत्थं शान्तिर्भवेत् कर्तुः महापूजाजपादिभिः || इति | कालोत्तरां यद्वेथ दोषोतिलिख्यते |? ब्रह्म विष्णुयुतादेवो यदा कार्यः पिनाकधृक् | सदा पूर्वाननः कार्यास्स काराश्च महेश्वराः || वर्जयेत् सुमुखौदेवौ तथा चान्योन्यपृष्ठगौ | पृष्ठाग्रतस्ततो वक्ष्ये कोदण्डस्य त्रिशेन तु || प्राक्प्रतिष्ठस्य यत्नेन पुनः प्रस्थापनं हितम् | किन्तून्नर प्रदेशे तु संस्थाप्यो वेदवर्जितः | उभयोर्द्विगुणा सीमान्त्यक्त्वा वोच्छ्राय संमिताम् | एवं विधाय प्रासादानन्ते स्युर्दुःखकारिणः || अन्यथा जायते दुःखं कर्तुश्चाराधकस्य च | महास्तम्भ भयोरथ्याश्चक्र रूपादि संभवे | गोरथ्या त्रिपदादौ वा महाशैलाधिवेधितम् | कर्तुर्मृत्यु प्रदं यस्मात् तस्माद्वेयं परित्यजेत् || नगर ग्रामखेसादौ संमुखं तत्प्रतिष्ठयेत् | पराङ्मुखस्थितो देवो देशोचाच शुभप्रदः | तस्मात्स * * मु * * * स्तानं मध्यमेन पराङ्मुखः || प्. ५७२) देशस्य मध्यगो देवः परचक्रभयमदः | तस्मान्नये तु मध्ये च न च दक्षिणदिग्गतम् || वामदेशे च देशस्य तस्माच्छस्त्रं च पश्चिमे | साम्राज्यं पूर्वदिग्भागे तामपाग्नेय गोचरे ||
SKमारीच दक्षिणे भागे पीडानैर्-ऋतगोचरे | वृद्धिः पश्चिमदेशे तु वायावुच्चारणं * * | उत्तरे चार्धसिद्धिः स्यादैदैशान्यां सर्वसिद्धये | महादेवं विशाखञ्च विष्णुं पूर्वे प्रतिष्ठयेत् | हुताशनं च ब्रह्माणमाग्नेय्यां क्रौञ्चसूदनः || मातरो भैरवेशाद्या गुह्यका दक्षिणे हिताः | रक्षस्यां क्षेत्रपालश्च किङ्करा विकृतास्तथा || पश्चिमाद्यं हिताः सर्वे ग्रामस्य नगरस्य च | क्षेत्रपालाश्च वायव्यामुत्तरस्यां च मातरः | ऐशान्यां योगिनं देवं मृत्युजिह्वाथ टङ्किनम् | विनायकमथोवापि कृष्णा युक्ता हि गोचरे | नगरा ग्रामखेडातावेवमेव न चान्यथा |? प्रासाददृक्षयूपादि मठचैत्य गृहादिषु | प्रासादानां च कर्तव्यं यत्नाद्गण गृहेष्वपि | नैर्-ऋत्यां भास्करः स्थाप्यो दुर्गा वायव्य गोचरे | छायाक्रान्तं गृहं राज्यं यस्मान्मृत्यु प्रदं ध्रुवम् || प्. ५७३) प्राकाराकारितं कार्यं यथा छाया न बाधते | इत्येतल्ल्क्षणं प्रोक्तं क्रमप्राप्तं शिखिध्वज || इति || इत्यवश्यं विधातव्यं विधानमुपदर्शितम् | लिख्यते भू परीक्षादि नानासिद्धान्त * * * * | स्थित विप्रे नृपे रक्ता पितावेश्म सिते तरा || शूद्रे वर्ण विनावेद्व स्वर्ण पादाब्जमाचरेत् | खात्वा मृत्स्नां समुद्धृत्य पूरयेदिष्टया मृदा | स्वादैश्च मधुराम्ला च कटकातित्तिका तथा | ग्रुतासृङ्मूत्र विष्टानां गन्धैर्युक्ता क्रमेण तु || ब्राह्मणीकशरोहेण क्षत्राणी * * * * * | वैश्यादूर्वाप्ररोहेणका शरोहेन शूद्रिणी | पूर्वप्लवा नृपस्योक्ता वैश्यः स्याद्दक्षिणप्लवा | उदक्प्लवा द्विजादीनां शूद्राणां पश्चिमप्लवा || सर्वोत्तरे शतोनिम्ना सर्वसाधारणामही | क्रमादासां भवेदृक्षमुत्तराषाढकृत्तिका || ज्येष्ठा शतभिषादेवा वरुणाग्नीन्द्र वायवा | उप्तबीजानुसञ्जाता तृतीये भ्यक्तमा मही || पश्चिमे मध्यमा प्रोक्ता सप्तमे चाधमास्मृता | याम्येन गोचरं चाप्ये सौम्ये सस्यं हरौजलम् | नाति मृद्वीन कठिना सुखस्पर्शा समासना || प्. ५७४)
SKस्निग्धा गुर्वी दृढाशुद्धा सुगन्धादोषवर्जिता | स्वादूदका नास्फुटिता स्वरूपादि मनोहरा | शूर्पादि शिखरोष्ठादि चुल्लिका समरूपिणम् || वृत्तायतां त्रिकोणां च दृग्भ्रमादि समन्वितम् | स गर्भां सौषरां छिद्रां सगर्हां च सशोणिताम् || असङ्गरादिभिर्जुष्ठामन्त्य जातिनिषेविताम् | पूतिगन्धादिभिर्जुष्टां ज्ञात्वाभूमिं परित्यजेत् | समस्तदोषनिर्मुक्तां मूलकीतां ससाक्षिकाम् | प्रार्थनाद्यैरुपायैर्वा न्यायेनैवार्जयेत्क्षितिः || पटाद्यैरावृते मध्ये हिप्ते मङ्गलशोभिते | आमकुम्भोपरिष्ठात्तु घृतपूर्णा प्रदीपिका || चतुर्दिक्षु चतुर्दीपं द्विजातानां प्रकल्पयेत् | जातीशमान्त्रितं यद्वा प्रणवेनाभिमन्त्रितम् || वर्मास्त्र रक्षितं गुप्तं निर्वादं परिरक्षयेत् | प्रज्वलन्ति यदा सर्वे सर्ववर्णेषु शोभनम् | उपशान्तो यदा यस्मिन् तदा तस्य न शोभनम् || सर्वशान्ता न शस्तासौ पुनः प्रज्वलिता अपि | हस्तमात्रं समन्ताद्वा खात्वातोयेन पूरयेत् | गताशतपदं यावत् पुनरागत्य वीक्षयेत् | पूर्णतोयाक्षितिः श्रेष्ठा मध्याद्व्यङ्गुलं विना | प्. ५७५) तदधः कन्यसं ज्ञेयं शोधनीया प्रयत्नतः | भूमेः परिग्रहे पूर्वं शिलानां स्थापने ततः | भित्यारम्भे विशेषेण यजेद्वास्तुं त्रिकालिकाम् || वास्तु क्षेत्र समं क्र्त्वा पूजयित्वा पुरोक्तवत् | सन्तर्प्य देवताः सर्वाः होमेन बलिभिस्तदा || दिग्बलिञ्च ततो दत्वा समाचम्य विधानवत् || शिवकुम्भद्वयं कुर्यात् मध्यादीशान कोष्ठगम् | अग्निकोष्ठं खनेत्खातं हस्तमात्रं समन्ततः || अनृतौ क्षेत्रमृत्स्नानं क्षेत्रे प्लव विशुद्धये | खाते क्रमजलं क्षिप्त्वा तेन क्षेसचयेत्क्षितिम् || विप्रस्कन्धे विधायान्यं कुम्भं वस्त्रं द्वयावृतम् | मङ्गलौर्वेद घोषैश्च पूर्वसीमान्त मानयेत् | तत्र स्थित्वाक्षणं सम्यक् भ्रामयेत् परितः पुरम् || सञ्चित्सीमान्तचिह्नानि देशिको मूर्तिपैः सह | अश्वादानमिदं प्रोक्तमीशकुम्भपरिभ्रमात् || क्वचित्खातं विनाकुम्भभ्रमाद्वे च परिग्रहः | वास्तु पूजनमेवोक्तं क्वचिद्बिम्बभ्रमं विना ||
SKकर्करान्तं * * * लान्तं वा खनेद्भारोपरोधतः | करापूरैस्तु पाषाणैर्मृत्तिकाष्टाङ्गुलान्तरैः || तावदापूरयेत्खातं यावत्पादो न मागतम् || प्. ५९६) पक्षेष्ट कचचं?नेष्टं यदुक्तं पिङ्गलामते | स्वाभिप्रेतस्यमानस्य चतुर्धांशाधिकं खनेत् || समन्ताद्विस्मृतं प्रोक्तं नि * * * यावज्जलान्तिकम् | चिन्मात्रं वा खनेत् प्राज्ञं पुरुषोत्थमथापि वा | पञ्चदापूरयेत् प्राज्ञः खातं पादोन मागतम् || पक्वे च कवचं नेष्टं शिलाबन्धमथापि वा | उभयं चलते यस्मात् फणीन्द्र विनिवर्तरे || भूकम्परथ यन्तैर्वा हत्याश्चापि परिभ्रमैः | मृदा केवलया नेष्टं मूढस्वारकन्दनिसस्तापूरसमाहित समां मृदाष्टाङ्गुल यान्तरैः ||? सेचनं वारिभिः कृत्वा पूरयेत् खातमादरात् | पलाशाश्वत्थ वृक्षार्थैः हस्तपादैः समन्ततः || अकुट्या कुट्यसम्पूर्य संभ्रमं प्रकल्पयेदिति || तत्र वास्तुं समभ्यर्च्य शिलान्यासं यथा क्रमम् | वक्ष्यमाणमवापाद्य शिलाभिर्बन्धमादृढम् || समपृष्ठे तु सञ्जाते दर्पणोदरवत्कृते | ततः प्रासारयेत् सूत्रमाचार्यः शिल्पिभिर्वृतम् || उदीचीं ध्रुवदेयान प्राचीं वा ध्रुवधारया | पुष्यपौष्ण मघावेधादथ शंखादि साधनैः | एते पूर्वापरं ज्ञात्वा मध्ये कं पार्वयोर्विधत् || प्. ५७७) तन्मान तुल्यसूत्रेण यथा स्याद्दक्षिणोत्तरम् | ततोऽप्यर्धं समादाय विदिक्कोणेषु लाञ्छयेत् || चतुरश्रं ततः कृत्वा स्वकीयाभिमतं यथा | तत्राभि वास्तुमभ्यर्च्य तत्तुल्यं भक्तिकल्पनम् || पीठबन्धप्रमाणं यद्दीपिका कामये यथा | कृत्वाथ पीठबन्धं तु मदप्रासादमानतः || उछ्रायेणोन्नतं पीठं प्रासादार्धेन योन्नतम् | मध्यमं पादहीनं स्यादुत्तमार्धेन कन्यसः || इति | यदुक्तं प्रतिष्ठासारसङ्ग्रहे च - उच्छ्रायाच्छिखरार्धेन व्यासात्पादोनमेव च | उत्तमं पीठबन्धं स्यात् तत्पादो नन्तुमध्यमम् || अर्घेन कन्यसं प्रोक्तं फलतुल्यं द्वयोरपि | पीठोच्छ्रायोन्नताज्ञेया ज * * * तरात्पुनः || उत्तमे धामतुल्या तु मध्यमे पाद वर्जिता ||
SKक्षेत्रस्य सार्धमानं तु कन्यसे जगतीरज | तद्यथा मोहशूरोत्तरे च - उच्छ्रायेणोन्नतं पीठं प्रासादार्धेन कीर्तितम् | मध्यमं पादहीनं स्यादुत्तमार्धेन कन्यसम् | जगती बन्धनं वक्ष्ये दिक्षुदेवालयैः सह || प्रासादार्धेन सा कार्या पादोना वाथ तत्समा | मण्टपाग्रे च तत्तुल्या चतुरश्रा सुशोभिता | प्रासादार्धेन तद्बाह्ये दिक्ष्वष्टौ देवतालयाः || प्. ५७८) तदर्धं बाह्यतस्त्यक्त्वाभित्ति बन्धं तु कारयेत् | प्रासाद भक्तिवत्कार्या जगत्याभक्तिबन्धनम् || प्रासाद समसंस्थानं खुर * * * भूषणान्विता | ऊर्ध्वं वरन्धिकायुक्त * * * * * * * * वेत् || अथ नन्दी महाकालो प्राच्यां वा वज्रपाणिणम् | अर्धनारीश्वरं सूर्यमाग्नेय्यां वा हुताशनम् || मातृशक्रं गणेशं वा कृतान्तं दक्षिणे स्थितम् | अश्विनौ * * * * * * * * * * * न्यसेत् | मृत्युंजनं योगिनं देवं वारुणे वरुणं न्यसेत् || कुबेरं योगवैर्युक्तं सौम्ये देवीमुमां न्यसेत् || चक्रीञ्च खण्डनामानमीशानं वा स्वगोचरे | मन्दिरार्थ समं वापि तद्गर्भात्तु समं तु वा || विस्तारं द्विगुणोत्सेधमालयानां विधीयते | ईशादि पावकान्ताश्च मन्दिराः पश्चिमाननाः || नैर्-ऋत्यादितिलान्ताश्च मन्दिराः प्राङ्मुखाः स्मृताः | पावकानैर्-ऋतान्तां स्युरुत्तराभिमुखास्तथा || उत्तरे मन्दिरास्सर्वे याम्यवक्त्रा इति स्मृताः || जगत्याद्यो परिष्ठाद्वा पीठबन्धं क्वचिन्मतम् | पीठबन्धोर्धतः कार्यं पादपीठमिति क्वचित् | तच्चधाम तृतीयांशादुन्नतं धाम विस्तरात् || प्. ५७९) वर्तितं षष्ठमांशेन पञ्चमांशेन वा क्वचित् | तत्रावर्तिना प्रोक्ता विश्वकर्मागतादिषु || वस्वस्वं कन्यसानां तु स्रूर्यांशं मध्यमेष्वपि | विकारांशं बहिर्दत्वा ज्येष्ठानां तत्र वर्तयेत् | रुद्रभागे भजेदूर्ध्वं चतुर्भिर्विस्तरं भजेत् || खुरांशार्धं शतं कुर्यात्कुम्भं साङ्घ्रिद्विभागतः | कुम्भपाठी तु पादेन कण्ठोभागद्वयेन तु | ततो भागं त्रिधा कृत्वा विदध्यात् पट्टिका त्रयम् ||
SKभोगेन चतुरश्रं स्याद्धं सपादोन भागतः | पादनं हंसपट्टी स्यात्तदूर्ध्वं कमलं भवेत् || कुरमध्यं प्रवेशेन कुम्भमेक शिवे ततः | तत्पाठी चार्धवेशेन द्वाभ्यां कण्ठे प्रवेशनम् || अर्धार्धनिर्गतं कार्यं पाटिकानां चतुष्टयम् | हंस स्वार्धप्रवेशेन तत्पट्टी पादवेशतः || तदूर्ध्वं निर्गतं पद्मं यथा शोभं प्रकल्पयेत् | नरहंसावलीव्यं स्याद्दश्च सिंहगजावलिः | प्रकर्तव्या प्रयत्नेन पीठशोभायर्धमादरात् || धारापीठं क्वचित्प्रोक्तं क्वचित्पाद शिलामता | बाधञ्च जगती पद्मं क्वचित्प्रोक्तं समासतः || पादं च जगतीकुम्भं पद्मं चेति क्वचिन्मतम् || प्. ५८०) जङ्घावर्ते च यत्पीठं वर्तयेदिति च क्वचित् | पिण्डिकावद्भवेत् पीठमित्येवं क्वचिदीरितम् || पीठबन्ध प्रकारोऽयं शतंभेदप्रविस्तरम् | ग्रन्थबाहुल्य भीत्यात्र संकलय्याल्पमुच्यते || पादं च जगती पद्मं कुमुदं पद्मकर्णिका | पीठबन्धे प्रकर्तव्या यथा शोभा तु रूपतः || चतुस्त्रिंशद्भ्रुच्छ्रायं विस्तारं वसुभिर्भजेत् | पादं वेदैश्चतुर्वेदो तत्पट्टी भागमुन्नता | भागेन निर्गता वेदैः उन्नता जगती मता || प्रविश्य द्वाभ्यामेकेन तत्पट्टी भागनिर्गतः | पद्मं वेदैस्ततुः पट्टी हसोद्वाभ्यां करोद्गतः || एकं कण्ठस्ततो द्वाभ्यां निर्गमात्पट्टिकाद्वयम् | द्वाभ्यां कुमुदमाख्यातं निर्गमादुच्छ्रयादपि || देशोद्वाभ्यां द्विपट्टी स्याद्द्वाभ्यां कण्ठस्तु भागतः | पट्टिका द्वितयं ताभ्यां पद्मं भागचतुष्टयम् || पद्मात् प्रविश्य भागेन कर्णिका स्याद्विक्रन्नता || कर्णिका परिभागैकं भागध्वं वा प्रविश्य च | प्रासादं वर्तयेत् पश्चात् स च कालोत्तरे यथा || वेदादि वेदविद्धाथ रसाग्निकरमन्तिकम् | पञ्चादि पञ्चवृद्धा वा पञ्चाब्धिकरं मन्तिकम् || प्. ५८१) पङ्क्त्यादि पञ्च वृद्धा वा वियद्भूतकरावधि | चतुर्हस्तोदधोनैव गृहं शम्भोः प्रकल्पयेत् || शतार्धं नागवश्शस्तं शेषं भूतगृहं मतम् ||
SKमृच्छैलदारुलोहानां व्यक्तानां नियमेव हि | प्रासादद्वाअरमानेन कर्तव्यानि षडानन || व्यक्ताव्यक्तभयानाञ्च दारुशैलमृदात्मनाम् | साधारो नैव कर्तव्यः प्रासादः कृत्तिकासुत | हेमरत्नमयानाञ्च विधानेन ह विद्यते | एवं वै बाणलिङ्गानां स्वयं भूतां विशेषतः || प्रासादमानात्पीठानां गर्भाणां लक्षणं शृणु | द्वाराणां च विशेषेण लेशतः कथ्यते गुह || अष्टभागीकृतक्षेत्रे पीठभागश्चतुष्टयात् | गर्भोद्वादशभागैस्तु भित्तिभागद्वयेन तु || पीठं वा द्वाद्वारविस्तारं उच्छ्रायं द्विगुणं ततः | जंघा विस्तारमानेन जंघोच्छ्रायमुदीरितम् || द्विगुणं शिखरं तस्माच्छूलाकारं प्रकल्पयेत् | रन्ध्र भक्ते तथा क्षेत्रे पीठं भागं समं भवेत् || गर्भपादेन कर्तव्यः गर्भभक्तिः पदेन तु | सुषिरं भागमानं तु बाह्यभित्तिः पदात्मिका | पीठविस्तारमानेन दिक्षुद्वारचतुष्टयम् || प्. ५८२) द्विगुणं बाह्यभित्तौ तु सार्धभागेन वा भवेत् | विस्तारद्विगुणोच्छ्रायं सार्धं द्विगुणमेव च || जंघा शिखरमानं तु कर्तव्यं पूर्ववत्सुत | पङ्क्त्यादि भूतवृद्धानां करराशौ द्विधाकृते || लिङ्गदैर्घ्येण पीठे स्यात्तद्वदावरणं त्रयम् | सभागं लिङ्गमानं यत्तेन बाह्यं प्रकल्पयेत् || लिङ्गवद्द्वार विस्तारं उच्छ्रायं द्विगुणं ततः | जंघोच्छ्रायं प्रकर्तव्यं जंघा विस्तारसंमितम् | गर्भमानेन नासायां नासागर्भं न चान्यथा || शिखरार्धग्रजा शस्ता नासामञ्जरि संवृता | गर्भार्घनिर्गता नाड्यः गर्भवन्मण्टपं विना || वेद भूतरसांशेन निर्गतावास मण्टपे | इत्येतल्लक्षणं प्रोक्तं सामान्यं कृत्तिका सुत || अथ यदुक्तं मोहशूरोत्तरे - नागभक्ते युगैः पीठं गर्भः कार्यो दिवाकरैः | भक्तयो वसुवेदैश्च जंघाभित्ति समोच्छ्रिता || शिखरं द्विगुणं कार्यं शुकाग्राअ शिखरार्धता | प्रागुक्तं गर्भवत्कुर्यात् तृतीयांशेन निर्गमम् | पीठे वा लिङ्गमानेन पीठार्धेन परिभ्रमः | पीठवच्च स्मृतद्वारं द्विविधोच्चं भित्तयोः पराः || प्. ५८३)
SKशुकग्रा पूर्ववज्ज्ञेया जंघा च शिखरं तथा | चतुरश्रे चतुर्भक्ते वेदा गर्भाव पीठके || लिङ्गपीठसमं द्वारं भित्तयश्च तथा विधाः | गर्भवन्नासिका तत्र पीठकोणन्तरोद्गता || समण्टपे शरांशेन वेद गर्भार्ध निर्गता | रन्ध्रभक्ते पदं पीठं गर्भोभित्ति भ्रमान्तिका | पतिका च बहिः कर्ता शुकाग्रे च प * * * * गते | हेमादि रत्नलिङ्गानामुक्तोऽयं गुपितहे ततः || आशादि बाणवृद्धेषु हस्तराशौ विधा कृते | लिङ्गवत् पीठमध्येन सैकेनावरणत्रयम् || व्यधिकेन बहिर्भक्तिः शुकाग्रादि पुरोदितम् | वेद हस्तादितं कृत्वा कोणहस्त विवृद्धिदः | रसारामत * * * * * * * प्रासादानामनुक्रमात् || लिङ्गदैर्घ्य समंपीठं तत्त्रिभागवृत्तिक त्रयम् | बहिर्भक्तिश्च पीठार्थं करराशौ कराहते || धामतुलय्ं तु रन्ध्रान्तं भित्यन्तं रन्ध्रमानकम् | प्रासादायाम कोणाश्च * * * * * सूत्रयेत् || द्वादशैते सरन्ध्राणां तुर्याश्रा स्युः पुरन्दराः | प्रासाद समसंस्थानं मण्टपा भुक्ति मुक्तिदाः || इति संक्षेपतः * * * * * सर्वधामसु || प्. ५८४) विशेष व्यक्तये शक्त पृथग्भूतं निगद्यते | षोडशा काष्टमं भागं बहिर्दद्यात् पुरन्दर || ज्येष्ठादीनां क्रमेणैव मौर्वादौ रूपसिद्धये || इति || यदुक्तं पिङ्गलामते च - अधुना संप्रवक्ष्यामि प्रासादानां च लक्षणम् | चतुरश्रं समं कृत्वा दिग्विदिक्षुविलक्षितम् || समंवसु च वित्तेत्तु तिर्यगूर्ध्वं यथा क्रमम् | तिर्यग्भागेन पीठं स्याद्धारव्यै भूषणं भवेत् || चत्वारिंशाष्टभित्तिः स्यान्नासग्रं स्यात्प्रकल्पना | क्षेत्रेतुल्लोर्ध्वजं बाह्यं जंघोर्ध्वं द्विगुणं भवेत् | शिखरं च वरारोहे शुकाग्रा गर्भमानना | त्र्यंशादध्यात्समाद्वापि निर्गमाग्रे प्रवर्ततः || विस्तारं गर्भमाना स्यादुच्छ्रायं शिखरार्धकम् | विस्तारं वसुवत्कृत्वा षड्भागे गर्भ उच्यते || शुकाग्रायाश्च प्रग्रीवा स्मृतो भित्तेस्तु निर्गमः | वास्तुमान स्मृतोह्येष मण्टपैर्हीन लक्षणैः | लिङ्गमानमथो वक्ष्ये पीठलिङ्गं समं भवेत् ||
SKपीठार्धेन भवेद्गर्भः समन्तात्स च सुव्रते | तद्द्विधा च भवेद्भित्तिः जंघातद्विस्तरेण तु || द्विगुणं शिखिनं प्रोक्तं जंघोच्छ्रायाद्वरानने | पीठगर्भान्तरं कण्ठास्तन्मानेन शुकाङ्घ्रिका || प्. ५८५) निर्गता च वरारोहे शेषं पूर्वदाचरेत् | लिङ्गमाना स्मृतोह्यष्ट द्वारमानमथोच्यते | वेदाश्रं वेदवत्कृत्वा द्वारं भागसमं भवेत् | विस्तरेण समाख्यातं द्विगुणं चाश्रयेण तु || द्वारवत्पीठ मध्ये तु शेषं स्युर्-ऋषिकं भवेत् | पादैकादशधाभित्ति द्वारमष्टार्ध भागतः | तद्विस्तारसमासङ्घा शिखरं द्विगुणं भवेत् || शुकाग्रां पूर्ववज्ज्ञेया निर्गमादुच्छ्रयादपि | प्रोक्तैषापि शुकाग्रा च मण्टपैर्मीनलक्षणा | स मण्डपे यथा न्यायं शुकाग्रां कथयामिते || गर्भाद्वेषांशकेनापि भूतांशेनाथवा प्रिये | निग्रताग्रे प्रकर्तव्या शुकाग्रा मण्टपान्विते || पूर्ववच्छेषमाख्यातं विस्तारोच्छ्राय कल्पनम् | निराधाराश्रयीणान्तु न्यायोऽयं परिकीर्तितः || एकहस्तादि लिङ्गानां यावत् स्यात्पञ्चहस्तकम् | समण्टपो विनाचापि निराधानः प्रकीर्तितः || गर्भासूत्राच्छुकाग्राद्वा पश्यतो मण्टपोत्तमः | मण्टपस्तु समाख्यातः मध्यमः सुरनाडिके || गर्भार्थं पक्षयोश्चाथ वैपुल्यं तत्समोग्रतः | कन्यसस्तु समाख्यातः तदर्धेनार्धमण्टपः || प्. ५८६) शुकप्रयासमोवापि समन्ताच्चतुरश्रकः | गर्भसूत्रसमोवापि विज्ञेयः पादमण्टपः || अस्याप्ययमर्थः - * वृषभचतुष्कि || चतुष्कि? मण्टपः स्यादधतो देवि गर्भार्धोमुखमण्टपः | मृत्खण्ड मण्डपार्धतोऽग्रेऽपि वृषभस्य चतुष्किका ||? चतुरश्रासमन्ताच्चतुर्यांशेनान्तरं भवेत् | समस्त मण्टपोन्माना ध्वजयष्टिरुदाहृता || मण्टप त्रितयस्यान्ते विज्ञेया ध्वजमस्थितिः | ध्वजंस्तम्भं प्रकर्तव्यं सारदारुविनिर्मितिः || वेदाश्रादाश्र वृत्तस्तु वृत्तोर्ध्वे च स्वकायुधम् | वृषोवाथ प्रकर्तव्यः प्रासादाभिमुखः स्थितः || अथ तद्वेदिका बन्धोघगोवाथ कुजासनम् | तदर्धाद्बलिपीठं तु चतुर्हस्तान्तरं भवेत् ||
SKचतुरश्रं प्रकर्तव्यं वृत्तां वा कमलञ्च वा | तत्रस्थं स्थापयेन्मृत्युं नित्यं बाल्यं हरं प्रिये || शिखरस्य चतुर्थांशे विज्ञेया तु पदक्षिणा || प्. ५८७) मण्टपस्य समोऽग्रे स्यादृगदिग्बन्धकः प्रिये | प्रासाद भित्तिवज्ज्ञेयं प्रकारन्तु समंतयोः | तदुच्छ्रायं च चिन्मात्रं सार्धं वा कौशिकात्मकम् || समबन्धवो य * * ख्यातिराधाराश्रयकः प्रिये | सन्धारिकानयो वक्ष्ये यथा देवि तथा शृणु | षडृस्तादृक लिङ्गानां यावत्स्यान्नवहस्तकम् || गुरुरौल्यादिकानां वा महाप्रतिमकासु च | प्रासादाश्च वरारोहे सन्धारः परिकीर्तितः || अन्येषां न च कर्तव्या यदि स्याच्छास्तुभं तदा | स च मत क्षेत्रमानं तु वसुभाग जयेत् समम् || भागैकं बाह्यभित्तिः स्याद्द्वितीये धारिका भवेत् | तृतीये च पुनर्भक्तिः गर्भकोष्ठैस्तु वेदयेत् | मध्ये भागैक विस्तारं पीठकार्यं विजान्ता || शुकाग्राग्रे प्रकर्तव्या तद्गर्भं गर्भमानतः | भक्ति मुक्ति समाज्ञेया निर्गमोच्छ्रादि पूर्ववत् | अथवान्य प्रकारेण वेदाश्रं तारवत्कुरु || पीठगर्भस्तथा भित्तिसन्धारी भित्तयः पुनः | मध्याह्नन्तु विभागेन चेकैक * * त लक्षणम् | शुकाग्रा पूर्ववत्कार्या सगर्भा भक्तिसंयुता | सन्धारिका स्मृताह्येते मास्तुमाना वरानने || प्. ५८८) लिङ्गमानमथो वक्ष्ये * * * * तथा शृणु || पीठं लिङ्गं समं कार्यं गर्भश्चापि तथा भवेत् ||
SKगर्भार्धेन भवेद्भक्ति तुल्य * * * य कारिका | पीठवद्बाह्य भित्तिस्तु शुकन्ध्रादिपुरोदितम् | इत्यस्याप्ययमर्थः - तावच्चतुर्भिस्तादि चतुर्भिस्तल्लिङ्गमानेन समन्तात् पीठमानेन गर्भः | तदर्धेभित्तिरिति प्रासादं क्षेत्रमानम् | तं पुनस्तत्क्षेत्ररं दत्वा तत्र भित्तिवदन्ध कारिका पीठवद्बाह्यभित्तिश्च कर्तव्या | अथ पञ्चहस्तादि पञ्चहस्त वृद्धानामापि स्वक्षेत्रान्तरे पिङ्गवत्पीठं लिङ्गञ्च तदर्धेन भित्तिस्तथान्धकारिका च तद्बहिः क्षेत्रान्तरं दत्वा पीठमानेन बाह्यभित्तिः प्रकर्तव्या | अथ दशहस्तादि पञ्चपञ्च वृद्धानां स्वस्वक्षेत्र मध्ये पीठगर्भेत्यन्धकारिकाभित्तिपूर्ववदापादिषु यद्वृत्तं क्षेत्रं तत्तद्वान्धकारिका | बाह्यभित्तिषु यथानुरूपं विनिक्षिपेत् | उक्तञ्च - पीठगर्भान्ध कारिभ्यो बाह्य भित्तिश्च शिल्पिभिः | भागाधिक्यं प्रकर्तव्यं न्यूनं वा सर्वधामस्त्विति | लिङ्गमानं समाख्यातं द्वारमानमथोच्यते | गर्भार्धेन भवेद्द्वारं द्वारवन्मध्यपीठिकम् || वायव्यं सुषिरं विद्धि तत्तुल्या भित्तिरीरिता | तत्तुल्या धारिका ज्ञेया समन्ताच्च वरानने || प्. ५८९) किन्तु स्यान्निर्गमस्त स्युः द्वारार्धेन सुरार्चिते | द्वारमान स्मृतो ह्येव मण्टपानामथोच्यते | पक्षयोः शुकनासाया क्षेत्रमानन्नयेद्वहिः || विस्तारं तत्समाग्रं स्यात् समस्य चतुरश्रकम् | मण्टपोऽयं समाख्यातः उत्तमः शुभलक्षणः || सान्धारं पक्षयोर्दत्वा विस्तारं तत्समोग्रतः | चतुरश्रं समन्ताच्च मध्यमः परिकीर्तितः || गर्भभित्ति समं सूत्रं शुकाग्रं पक्षवो यजेत् | विस्तारं तत्समोऽप्यग्रे स्यात्कन्यसं तं विजानतः | गर्भसूत्रसमोऽग्रे च मुखमण्टपको भवेत् || प्रासाद भित्तिवद्भित्तिः मण्टपस्यापि सुव्रते | प्रसादवत्त्रिभागेन विज्ञेया तु प्रदक्षिणा | मण्टपस्य त्रिभागेन जगतीबन्धकोमतः || मुखमण्टपवत्त्यक्त्वा वृषभस्य चतुष्किका | मण्टपद्वयमानेन प्रकुर्याद्ध्वज संस्थितम् ||
SKप्रासादस्य चतुर्थांशात् पार्श्वे देवालयामता | प्रासाद भित्तियुक्तास्ते ना क्रमेत प्रदक्षिणम् || चतस्रोवलभिर्भूताः पूर्वादि दिव्यसंस्थिताः | तुर्यान्ते शिखरा काराश्चाग्नेयादि विनिर्गताः || पूर्वे या वलभिः प्रोक्ता मध्ये द्वारा वरान्विते || मुखमण्टपद्बाह्ये चतुरापश्रयान्विते | द्वारोर्ध्वे भूमिकं दिव्यं घटिकेहन्तमुच्यते || प्. ५९०) नन्दिनञ्च महाकालं द्वारदेशे निवेशयेत् | अर्धनारीश्वरं रुद्रं न्यसेद्वह्निदिशि स्थितम् | मातरं * * म याम्ये नैर्-ऋत्यां भृङ्गिविग्रहः || योगेश्वरार्चयन्दिव्यं वारुण्यां विन्यसेद्बुधः | पश्चिमे चेत्प्रतीहारौ न पूर्वे योर्चयन्तदा | वायव्यां स्वामिनं देवमुमादेवीं तथोत्तरे || चण्डेशञ्च तथेशाने लोकेशं चेशदर्शितम् | इन्द्राग्नियमरक्षांसि वरुणानिलसोमगाः || ईशानश्च (स्)मृताह्येते पूर्वादीशान गोचराः || यद्यभागस्तथा भद्रे प्रासादस्थान् प्रकल्पयेत् || इति | सर्वसामान्यमित्युक्तं शेषं कालोत्तरे यथा | विशेषं संप्रवक्ष्यामि प्रासादानां तु लक्षणम् || मेरुः पञ्चाशहस्तः स्यात् * * * दिरः पञ्चभिर्विना | वियदेव करः कार्यः कैलासः शङ्करप्रियः | चतुर्थः सर्वतोभद्रः पञ्चत्रिंशत्करो मतः || त्रिंशद्धस्तो विनाम स्याद्द्वितीयस्तद्वदेव हि | श्रीवत्स भेदाश्चत्वारः पञ्चविंशत्करैर्मताः | गैरिकैलासवत्कार्यो नान्यथा कृत्तिकासुत || हंसः सुवर्णः कमलः चाष्टाश्रः षोडशाष्टकः | द्विपङ्क्तितः परानैव कर्तव्या भूतिमिच्छता || प्. ५९१) ग्रहराजः प्रकर्तव्य त्रिपञ्चकरसंमितः | नायः पङ्क्तिकरश्चस्ता हंसाष्टादधयस्सुत ||? वलया भूतहस्तात्तु यावत्पङ्क्तिद्वयावधि | लिङ्गमानेन कर्तव्याः प्रासादाश्च प्रमाणतः | इत्यत्र लिख्यते लक्षं प्रोक्तं शास्त्रान्तरेषु यत् | एक हस्तादिलिङ्गानां प्रासादः स्याच्चतुर्गुणः | कन्यसे त्रिगुणोगर्भो मध्यमे सार्धदृग्गुणः | उत्तमो द्विगुणोज्ञेयः शेसे भित्तिं प्रकल्पयेत् || इति | तथा लक्षण समुच्चये च -
SKमिश्राच्च व्यक्तलिङ्गान्त्रि द्विसार्धं तु द्विभागकैः | कनिष्ठकादि क्रमाद्गर्भः क्वचिद्भित्तेस्तु वर्धनम् || इति || तथासुरे च - सार्धौद्वौ मध्यमौ गर्भौ ज्येष्ठा भागद्वयेन तु || त्रिभिस्तु कन्यसोगर्भः शेषा भित्तिरिति क्वचित् | इति | तथा प्रतिष्ठासारसङ्ग्रहे च - कन्यसत्रयलिङ्गस्य त्रिगुणे गर्भ इष्यते | मध्यमत्रयलिङ्गस्य सार्धं द्विगुणितोवरः || उतमत्रयलिङ्गस्य त्रिगुणो गर्भ ईरितः | शेषभागे भवेद्भक्ति शुकाग्रादि पुरोक्तवत् || इति | यदुक्तं सर्वज्ञानोत्तरे च - धामगर्भं पुनस्स्कन्द लिङ्गस्य त्रिगुणं गुरुः || प्. ५९२) मध्यमांशे न्यसेद्वेति भित्तिभागस्य षण्मुख | ऊर्ध्व * * * * ग प्रकुर्वीत द्वारान्तं मध्यमं द्वयम् || भागमेक मयःस्त्यक्त्वा द्वाभ्यां स्यादुत्तमं त्रयम् || इति || इति प्रासङ्गिकं ज्ञेयं पुनः कालोत्तरे यथा | विकार सूर्यवस्वंश ज्येष्ठमध्याधमेषु च || रूपाशं पार्श्वतो दत्वा विस्तारोच्छ्रायतः समम् | कुर्यात्तत्र कलच्छन्दं वक्ष्यमाण विधानतः | नालच्छन्दानुसारेणोर्ध्वच्छन्द * त्तरेत् || ऊर्ध्वच्छन्द * * येत्ता * * द्यावद्वै वेदिकावधि | शिखामान चतुर्थांशं वर्जयित्वा विवर्तयेत् | ग्रीवा कुम्भादिकं तत्र चतुर्थांशे प्रकल्पयेत् || भागत्रयं मञ्जरी स्यान्नीलेन्दीवर पत्रवत् | तज्जङ्घां सप्तधा कृत्वा विभागं तत्र कल्पयेत् | मसूरिकं तु भागेन जङ्घा स्यात् पञ्चभागिका | कपोलं भागमानं तु कुत्रवर्तनमुच्यते | मयूरकं चतुर्थं तत्समभागं विवर्तयेत् || पादोभागेन कर्तव्यः त्रिपट्टं तु तदूर्ध्वतः | ग्रीवात् तत्कल्पयेत्तश्चा मध्यभाग प्रवेशतः || भागमात्रं ततो वृत्तं त्रिपट्टं पूर्ववत्ततः | यथा शोभानुसारेण वेशः कार्योविपश्चितैः || प्. ५९३) मसूरकं समाख्यातं जङ्घालक्षणमुचय्ते | नागरी च ललाटी च वैरागी प्रावनी तथा || शुद्धास्यान्नगरीशं वा परिकर्म विवर्जिता | स्त्रीपुंयुग्मयुता लाटी वैरागी पत्रसंकुला ||
SKमञ्जरी बहुलाकार्या जङ्घा सा द्राविडासदा | नागरी मध्यदेशे तु लाटी लाटे प्रकीर्तिता | द्राविडी दक्षिणे देशे वैरागी सर्वदेशगा | इति जंघा द्विभागान्ते सामान्यं कथितं गुह | कपोलपाल्या यद्रूपं सङ्क्षेपेणावतारय || कपोतपाली भागे तु दशपट्टं प्रकल्पयेत् | दशपट्टं प्रकल्प * * * * * * * * * || पद्मानि नलिनी शून्यं पद्मानि वर्त्मनि | हंसपत्रं तथा हंसं नलिनीं तत्र वर्तयेत् | मध्ये मध्ये च तत्पट्टी पादात्पादार्थतोऽपि वा || आमासुरा अकपोतान्तं कथितं ते समासतः | भूमिका ह्रासवृद्धिस्तु सर्वसाधारणोच्यते || भूमिकायास्तु यत्क्षेत्रं विषमं विभजेत्सुधीः | मध्यमां भूमिकां कृत्वा गणयेदूर्ध्व भूमिकाम् || यावती जायते संख्या तथांशं तु समाहरेत् | गृहीत्वा परिभूमेस्तु अधोभूमौ नियोजयेत् || प्. ५९४) अत्र यदुक्तं प्रतिष्ठा पारमेश्वरे च - प्रासादानां तु सर्वेषां भूमिका विषमा स्मृता | प्रवेशाभूमिकानां तु त्रयोदश महागतः | मध्यमां भूमिकां त्यक्त्वा गणयेदूर्ध्व भूमिकाम् || यावती जायते संख्या तावन्त्यङ्गुलकानि तु | गृहीतो परिभूमेस्तु अधोभूम्यां प्रदापयेत् || शेषाणामङ्गुलामध्र सार्धानि वृद्धिश्च जायते || इति | सर्वासां भूमिकानां तु क्षयवृद्धि प्रकाशिते | अष्टलक्षण संयुक्तां भूमिकां परिकल्पयेत् || भूमिकायाः समुच्छ्रायं त्रिधा कृत्वा विवर्तयेत् | भागेशं वा प्रकर्तव्या समसूरकपोतिका | भागद्वयेन शिखरः सकण्ठा मलसारकम् || भूमिका शिखराणां तु परिलेखा निगद्यते || मल्लिका कोशलं तद्वत् पञ्चशृङ्गलकं तथा | षड्बिन्दु मौदरं लेख्यं पुष्करश्चन्द्र शालकम् || अर्धपुष्करसंज्ञञ्च सकर्णं सशिखं लिखेत् | विशुद्धान्यथ मिश्राणि ज्ञात्वा ज्ञात्वा न योजयेत् | भूमिका लक्षणं ख्यातमाघटानां पुनः शृणु || मूलमञ्जरि रूपेणाऽघटांश्च समालिखेत् | प्रासादानां तु सर्वेषामिदं सामान्यतो हितम् || प्. ५४५) विशेष लक्षणं स्पष्टं मोहशूरोत्तरे यथा | सूर्येन्दु भाजिते क्षेत्रे तिर्यग्वेदविभाजिते ||
SKचतुष्कोणे रसंत्यक्त्वा तत्पिण्डी स्याद्विपर्ययैः | संवेश निर्गतं शक्र शेषं ज्ञात्वा विवर्तयेत् || तुष्टिबाणानलैर्वेशः चण्डपारगणैर्गतिः | चतुर्थे पत्रभङ्गाढ्यां कुर्यान्मध्यरथोद्गतिम् | सूर्यदिग्रसभागैस्तु शेषमेवं विवर्तयेत् || चतुर्द्वारश्चतुर्घ्राणं शृङ्गषोडशनासिकम् | बाण वेदानलद्वन्द्व भूमिका घाटपञ्चकम् || कामार्केश दिगम्भोधि युधिशृङ्गाण्यनुक्रमात् | वेदिकोर्ध्वे सहैकेन सपादं तु शतं भवेत् || इत्यस्यायमर्थः - एवमाघाटेषु पञ्चसु साष्टशृङ्गाणि शुकनासिकासु षोडश प्रधानमेकमेवं मिलितं वा शिखराणां समपादं शतमेकं भवेदिति | पञ्चविंशत्यधिक शतशिखराणि भवन्तीत्यर्थः वेदनिस्तम्भयोर्मध्यमाकाशद्वयभाजितम् | तत्रद्या भूमिका कार्या विंशद्भागैस्तदूर्ध्वतः || एकैः त्रासतोन्यासादुच्चयः क्रमशो हरे | भूषणैर्बूषिता कार्या षोडशैव तु भूमयः || शुकाग्रोर्ध्वञ्चतुर्दिक्षु स्वरापास्युः मृगादयः | वेदिकोपरि कण्ठेषु वेदव्यास त्रिभागतः || प्. ५९६) मृगारयो विधातव्याः केसरालङ्कृता हरे | दंष्ट्रा विकारघोरे स्यान्मस्तक न्यस्त पुच्छकाः || सर्वावयवसंपूर्णा सर्वशोभासमन्विताः | वेदिकोर्ध्वं चतुर्दिक्षु चत्वारो नररूपिणः || दिक्पालैरसरोगात्र विद्यामृद्गह निर्णयैः | गातृभिर्गणविद्येशैर्भूषयन्नेव भूमिका || गर्भोक्षान्ताम मञ्जरीणां प्रायं पातभयं भवेत् ||? द्वेद्वे रन्ध्रं ततः कुर्याद्भूमौ भूमौ जलान्तरे || स्वरूपात्कथितो मेरुर्मन्दरं शृणु साम्प्रतम् || वेदाष्ट भाजिते क्षेत्रे तिर्यग्ब्रह्माननैः कृते | कर्णगत्या नलत्यागात्कोण पिण्डी गुणांशकैः || संवेशनिर्गमौ कार्यौ सरकोणकरैर्हरेत् | मध्योद्गम प्रकर्तव्यो भूजो भुवनभास्करैः || अनेन विधिना सर्वं वर्तनं शेषं बाहुषु | भुवश्चतुर्दश चैव युक्ताः कोणेष्व पाश्रयैः || चतुराघटकस्सोऽपि भूतवेदाग्नि लोचनैः | वेदिं नितम्बयोर्मध्यमेक षष्ठ्युत्तरं शतम् | प्रथमाष्टदशे भूमिरन्यास्त्वेकैकमर्दनात् ||
SKद्वाराण्यस्यापि चत्वारि चतस्रः शुकनासिकाः | आद्याघाटे त्रयोविंशदेक विंशद्वितीयके || प्. ५९७) ऊनविंश तृतीये तु चतुर्थे दशसप्त च | एकं प्राधानिकं शूकं शूकाग्रासु च षोडश मन्दार वर्तयेवेदं सप्तनवति शृङ्गकम् | पुर्वोक्त भूषणैर्युक्तः सुरूपोय सुराधिप || षट्त्रिंशद्भाजिते क्षेत्रे तियग्वेद विभाजिते | मध्य देशे भवेत्तस्य भागैरष्टभिरुद्गतिः | आदौ तिर्यक्त्रयं मध्यादेकं चान्तस्त्रयं तथा || लुप्त्वा विनिर्गतिर्वेदे यावत्कोणमवाप्नुयात् || ब्रह्माननैस्ततः कोणः कैलासमिति वर्तयेत् || अत्रयो विशेषः - कालोत्तरे - षट्त्रिंशद्भिर्गजैर्दीर्घं विस्तरं भवेत् |? वसुभिर्मध्यरथकं निर्गतं वर्तयेत्सुत || त्रिचतुर्वह्नि वेदैश्च संवेशः पट्टिको हितः | पृथक् रथक संयुक्तः कैलासश्चतुरश्रकः || इति | वेदिनी स्तम्भयोर्मध्ये रसद्वन्द्वेषु भाजिते | भूपांशैः प्रथमा भूमिः शेषास्त्वेकैर्विमुच्यताः || चतुराघाटकः सोऽपि चतुरस्त्रिद्वि भूमिकाः | वस्विन्दु प्रथमाघाटे द्वितीये चैव षोडश | चतुर्दश त्ट्तीये तु चतुर्थे द्वादशैव तु || शुकनासां सुशृङ्गाणि षोडशैकन्तु मूलकम् || प्. ५९८) प्रासादोऽयं प्रियः शम्भोः सप्तसप्त त्रिशृङ्गकः | चतुरश्र कृतेक्षेत्रे वसुलोचन भाजिते || कर्ण गत्यागुणत्यागात् कोणपिण्डी गुणांशकैः | नेत्रांशैरथको ज्ञेयो गुणांशैरूपथस्तयः || दर्शनान्तरथः शक्र स्यादेवं शेषबाहुषु | भद्र एव समाख्यातः कर्तुरिष्ट विभूतिदः || शिखरैर्बाहुभिर्युक्तः स एवं शिखराकुलः | क्षुद्र भद्रस्वरैःर्भक्ते पार्श्वयोर्लोचनच्युतैः | त्रिमध्यो नलिनैर्युक्तो यथायं नलिनस्तथा | श्रीवत्सशिखरोपायं नन्दनः कर्तृभूतिकृत् || तथापि कालोत्तरे - चतुरश्रीकृते क्षेत्रे वसुनेत्र विभाजिते | कर्णदेशत्रयं दत्वा कोणबन्धं गुणोहितम् || द्वित्रिषड्भिः पदैरेव निर्गमं तस्य कल्पयेत् | भद्रमेतत् समाख्यातं सर्वसाधारणं मतम् ||
SKचतुर्द्वारं प्रकर्तव्यं सन्धारं सर्वसिद्धिदम् | आघाट भूमिकानां तु शतानां लक्षणं तथा || विमानं विस्मृतं भद्रे भद्रसिद्धि प्रदे सदा | एवं वै सर्वतोभद्रं शिखरैर्बाहुभिर्व्रतम् || आद्रि भद्रे पुराक्षेत्रे कोणे भागद्वयेन तु | रथकञ्चत्रिभिः कार्यं निर्गमं तत्पदेन तु || प्. ५९९) यवीयान् भद्रमाख्यात नलिनैर्नलिनं भवेत् | आघाट भूमिकासारं कल्पि तस्य विमानवत् || इति | युगाश्रे भूतभागेन कण्ठाश्र भ्रमवर्तनात् | वृत्तान्नतः पृष्ठतोऽग्रे द्व्यश्रयस्तुङ्गाश्रकोटजः || वेदाश्रे रूपयुग्मांशे रथे मध्ये विपर्ययैः | वेशनं चतुरंशेन स्तम्भयुग्मैस्तु कोणतः || एवमन्यञ्च चत्वारः आघाटा एव माननम् | अत्र यो विशेषः कालोत्तरे - त्रिसप्तवर्ति निक्षेत्रे भूतैर्मध्यमनिर्गमम् | वेदैर्वेशः प्रकर्तव्यः स्तम्भ भागेन वर्तयेत् || स्तम्भत्ॐशं परित्यज्य कोणं द्विपदिकं भवेत् | विमानं ते समाख्यातमेक द्वारं शिवप्रदम् || महाविमानं कर्तव्यमेव मेव शिवालयम् || पञ्चभिर्मध्यरथकं वेदैर्विप्रस्य कल्पयेत् | भागे स्तन्यं भविन्यासं कोणदेशं त्रयेण तु || महाविमानं कर्तव्यम् | इति || वेदारमद्विरूपैस्तु आघाटांश्चतुरो विपुः | शुकाग्रैकेन्दु शालायां नाट्येशस्य निवेशनम् || भूताङ्गभक्तशिखरे प्रथमा भूः पुरन्दरैः | ऊर्ध्वमेकैक संह्रासाद्भवन्ति दशभूमयः || त्रिहान्यः सर्वदशधा पञ्चाशच्छिखरामताः | विमानोऽयं विमानीभिः युगोवैमान वर्धनम् || प्. ६००) चतुरश्री कृतेक्षेत्रे पादनत्वा तु पृष्ठतः | वृत्तवद्भ्रामयेदग्रे द्विकोणोवृत्तगर्भकः || ततो जंघाप्रदेशः स्यान्निर्गतः किञ्चिदूर्ध्वतः | केसरालं कृतः सिंहो मुनिमुद्धाद्रिभूमिकः || प्रियो भवेन्नृसिंहस्य सिंहाकारोग्र नासिकः | इह कुम्भद्वयोर्मध्ये प्रसक्तहरि भूषणः | वेदाश्रे तु यथा भक्ते पार्श्वयोर्जगती युते || गर्भाश्चैव चतुर्भागैः त्रयोवृद्धस्तु मध्यगः | तस्यां शुक्रायुतो हंसो विमानस्यैव जंघया ||
SKभद्रस्यैव नितम्बोऽस्य श्रीवत्सस्यैव मञ्जरी | हंसशोभित शृङ्गाग्रो हंसः केशकभूमिकः || इतश्च तुल्य धामभ्यां सङ्गताः पार्श्वयोर्द्वयोः | ब्रह्माब्जपीठको मध्ये हरीशौ वाम दक्षिणौ || यदा मध्ये हरः कार्यः दर दक्षे पितामहः || अत्रयो विशेषः कालोत्तरे - वेदाश्रं द्विगुणं कृत्वा पङ्क्तिवद्द्विभुजे द्विधा | तच्चतुर्भिस्तु विस्तारो मध्य क्रोडं सुवर्तुलम् || गर्भश्चतुष्पदस्तस्य पक्षगमोऽथवा पुनः || पट्टिका च भवेद्भक्तिः हंस संज्ञस्य षण्मुख | ब्रह्मा मध्ये तु संस्थाप्य पक्षयोः शिवकेशकौ || विभिन्न मञ्जरी कोऽयं संसग्रीवत्सभद्रयुक् || इति | वियद्रूपाशिते द्वाभ्यां कोणोमध्यरथस्त्रिभिः || प्. ६०१) सार्धन्नोपरथः शक्र खुराद्यैर्भूषणैर्युतः | शृङ्गाण्यस्य तु चत्वारि भुवः पञ्चरथस्तथा || वियदिन्द्रियभक्तोर्ध्वे दूर्वाभूमिर्दिवाकरैः | पुनरेकैक संह्रासाद्भवेयुः पाशभूमयः || विभूतये सतांख्यातः श्रीवत्सोवर्धमानकः | वेदाश्रे सूर्यसंञ्छिन्ने त्रिभिःस्यान्मध्यमे रथः || भागोनार्ध्नोन्तरं त्यक्त्वा द्वाभ्यामुपरथम् विदुः | तदूर्ध्वं निश्शतो द्वाभ्यां कोणः संपूर्ण सालके || खुरकुम्भादि संयुक्तं अप्सरोगणसेवितम् | जंघा मध्ये वल्योख्यं पट्टिकाभिः सुभूषितम् || अन्धारिका द्वयोपेतं जंघोर्ध्वं स्यात्परण्डिका | पट्टभिर्वासनं तैश्चक्रणे चाराबालि युता ||? भूषणैश्चन्द्र शालाद्यैः शृङ्गैरेष विभूषितः | येन सिद्धाः सुरश्शक्र यत्र सिद्धःस्वयं शशी || लाभभागांशितो क्षेत्रे खण्डशालेऽप्ययं विधिः | सार्धेनोपधरश्शक्र विपक्षाणां विनाशकः || भुक्तये मुक्तये शस्त श्रीवत्सोऽयं तृतीयकः | विकार भाजिते क्षेत्रे चतुर्भिर्मध्यकोरथः || सार्धभागान्तरं त्यक्त्वा तथैवोपरथ स्थितिः | भागार्धं निर्गतस्तस्य त्रिभिःकोणं पुरन्दरः || प्. ६०२) शालावद्भूषणैर्युक्तः विशेषालोकनायकः | रुद्रैः क्रीडाविनोदाढ्यैर्गुणैर्यक्षैः सुरैस्तथा ||
SKदिव्यभूत्यैहितः कर्तुः श्रीवत्सो नन्दिवर्धनः | तुर्यभागी कृतेक्षेत्रे क्रोडभित्तिश्चतुर्दश || धामविस्तारपादेन निष्कसास्सर्व एव ते | षडश्रो मध्यगर्भोऽस्य स्तम्भादि रचनाबहिः || ससर्प कटिकर्णोऽस्य सकूटादशभूमयः | विष्णुमध्ये शिवोदक्षे वामतस्तु पितामहः || पुच्छे लक्ष्मीं प्रतिष्ठाप्य गरुडोऽयं हरिप्रियः | एष्टकस्तुङ्ग नासश्च पक्षाग्रस्थो हि सूदनः || नागांशे षोडशत्यागात् माससंवर्धिता यतः | युगदानात्पुरस्सिद्धिः शुकाग्रोवलभी हरे || व्यक्तलिङ्गेष्वयं योज्यः चण्डिकादौ विशेषतः | विस्ताराद्द्विगुणोत्सेधः हंसादि कृतसंवृतः | पार्श्वे सिंहद्वयो पेतो मध्येकलश भूषितः || तथा कालोत्तरे च - आयता बलभीकार्या द्विगुणा त्रिगुणाथ चा | विस्तारं पञ्चभिर्भक्त्यादैर्घ्यं वा पङ्क्ति संमितम् || भित्तिस्त पदिका तस्याद्वारं भागद्वयेन तु | पदिका निर्गतानासा विस्तीर्णाद्विपदेन सा || सा पादद्विगुणा कार्या बलभीचोच्छ्रयेण तु || प्. ६०३) भैरीसंवरणं तस्यां शंखवद्वा वर्तयेत् || इति |? वेदाश्रस्स तथैवोक्तः खुरादिभूषणान्वितः | शिखायास्संव्रतिः पादैः निर्विकारः शिवप्रियः || इत्यस्यायमर्थः - वेदाश्राख्यः यः प्रासादः स तथैव चतुरश्राकार एव | किंतु भूतप्रदेशे खुर कुम्भ पट्टिकादिभिरन्वितः | तदूर्ध्वे निर्विकारो रथकादि च रहित इत्यर्थः || चतुरश्री कृतेक्षेत्रे कर्णिकार्धाष्टाङ्गमुच्यते |? तत्प्रमाणे च वेदाश्रे दिक्षु कर्णं विनिक्षिपेत् | पतितेषु च सूत्रेषु दिक्ष्वष्टाश्रोऽत्र भूषितः | तन्मध्ये चरकं कृत्वाऽष्टाभ्यो मध्यताङ्कयेत् || तन्मानं बाह्यतः कृत्वा द्विगुणे द्वयश्रलघनात् | सोऽपि भूति प्रदो ज्ञेयो भूषणाद्यः पुरन्दर || चतुरश्रं चतुर्भद्र सान्धारश्च त्रिभूमिकः | दारुजो ग्रहराजोऽयं ग्रहकारः प्रशस्यते | ग्रहराजसमः किन्तु विनाभद्रेः पुरन्दरः | पट्टशालान्वितोऽप्यर्थ ग्रहराजः प्रकीर्तितः || एकभूमिर्द्विभूमिर्वा पट्टशाला विवर्जिताः | सर्वदेवालयं शक्र मार्ताण्डस्य विशेषतः ||
SKकण्ठार्धांश वसन्त्यागात् परिभ्रमणवत्ततः | वृत्त कुम्भः सुभूषाढ्यः ख्यातः कुम्भः सुराधिप || प्. ६०४) अग्रेशुकाग्रया युक्तो वृषोन्तश्चतुरश्रकः | स एव बाह्यतो वृत्तः पट्टकैस्तु विभूषितः || गावृक्षो वृत्त एवस्याद्रुद्रं विनावृषाः | एतद्देवालयं प्रोक्तं मुखतस्ते सुराधिप | अन्योन्य मिश्रभेदैस्तु फलमिश्रं तु यज्वनाम् || मेष्ववादि लघुसंस्थानाः प्रासादाछन्दनामकाः || चतुर्हस्तादधः शक्रः प्रासादः क्षुद्रनामकः | वर्तनं शिखराणां च कथयामि तवाधुना || जंघोर्ध्व द्विगुणोच्छ्राये पृथुत्वे दशधा कृते | उच्छ्रायस्य चतुर्थांशे चतुर्धा भाजिते सति || इन्दुकर्णोऽधमैः सारः पदे कुम्भसमुन्नतिः | षड्भिर्वेदस्त्रिभिः कण्ठः शेषे शिखरसंव्रतिः || तिर्यगूर्ध्वं च भूतांशैः स्याज्य भागे कृते सति | भागपानु भेदेन बहुत्वेन तथा भवेत् ||? तिर्यक्चतुर्गुणं सूत्रं कृत्वा वा वर्धयेद्धरे | सान्धारिकाश्रयाणां तु मौर्वादीनां यथा क्रमात् | अन्धकार विहीनायां मण्टपान्वित लक्षणम् | धाम गर्भाश्च तत्कर्णाः शुकाग्रा गर्भकण्ठतः || सूत्रं गृहीत्वाब्जयोनेः मध्यसूत्रादित्यर्थः | प्. ६०५) उभयोः पार्श्वयोर्दत्वा कुर्यान्मण्डपमग्रतः | प्रासादस्यार्ध विस्तारः तदग्रे मुखमण्टपः || शिखरं त्रिगुणं येषां पादोन सार्ध दृग्गुणम् | सपाद द्विगुणं वाथ जंघा तेषां त्रिभागिका || तदूर्ध्वं तु त्रिधाभज्य समांशं तुरगांशकम् | त्रिभिर्वेद तदर्धेन कण्ठे द्वाभ्यां शिर्ॐशतः || पादेन वृत्तवत्कुम्भः शेषं पूर्ववदाचरेत् | कण्ठादूर्ध्वं चतुर्दिक्षु ध्वजाधाराणि कारयेत् || चतुर्णामपि दण्डानां स्थितिः स्याद्वेदिकोपरि | सर्वेषां मण्टपानां तु नासिकान्तं शिखोश्रुतिः || तत्क्रोडे क * * * * * * * * * रौहकैः | षट्स्तम्भैस्तु च चक्राद्यैः कुम्भाद्यैस्तुर्यसाधनैः | चतुर्भिस्तन्निन्दिकाद्यैश्च शिरोभिस्ते विराजिताः | स्तम्भ संख्या समायुक्ताः पृथं संख्या भवन्ति ते ||
SKचतुष्षष्टिं समारभ्य स्तम्भद्वितय वर्जितः | श्रीवत्सादिसरुत्सूत्राः सप्तविंशति मण्टपाः || इदानीं द्वार निर्देशः समो साक्ते निगद्यते | विकारांशं विनातुल्यं वस्वंशाधिक विस्तरम् || द्विगुणं च समुत्सेधो किन्तुभूतप्रदेश कुम्भपट्टिकादिभिरन्वितः | तदूर्ध्वे निर्विकारोरथकादिरचता विरचित इत्यर्थः || प्. ६०६) चतुरश्री कृते क्षेत्रे कण्ठार्धाष्टांशकच्युते | तत्प्रमाणे च वेदाश्रे दिक्षुकण्ठं विनिक्षिपेत् || पतितेषु च सूत्रेषु दिक्ष्वष्टाश्रोत्र भूषितः | तन्मध्ये चरकं कृत्वा अष्टाभ्यो मध्यतोऽङ्कयेत् || तन्मानं पादपः कृत्वा द्विगुणे द्व्यश्रलंघनात् | सोऽपि भूति प्रदो ज्ञेयो भूषणाद्यः पुरन्दरः || चतुरश्रं चतुर्भद्र सन्धारश्च त्रिभूमिकः | दारुजो ग्रहराजोऽयं ग्रहकारः प्रशस्यते || ग्रहराज समः किन्तु विनाभद्रैः पुरन्दर | पट्टशालान्वितोऽप्यर्थ ग्रहराजः प्रकीर्तितः | एकभूमिर्द्विभूमिर्वा पट्टशाला विवर्जितः || सर्वदेवालयं शक्र मार्ताण्डस्य विशेषतः | कण्ठार्धांशांश सन्त्यागात् परिभ्रमणवर्तितः || वृत्तकुम्भः सुषाढ्यः ख्यातः कुम्भः सुराधिपः | अग्रे शुकाग्रया युक्तो वृषोन्तश्चतुरश्रकः || एव बाह्यतो वृत्तः पट्टकैस्तु विभूषितः | का वृषोवृत्त एव स्यात् * * * द्रुद्रं विनावृषः || एतद्देवालयं प्रोक्तं मुखतस्ते सुराधिप || अन्योन्य मिश्रभेदैस्तु फल मिश्रं तु यज्वनाम् | मौर्वादि लघुसंस्थानाः प्रासादाच्छन्द नामकाः || प्. ६०७) चतुर्हस्तादधः शक्र प्रासादाः क्षुद्रनामकाः | वर्तनंशिर कराणाञ्च कथयामि तवाधुना || जंघोर्ध्व द्विगुणोच्छ्राये पृथुत्वे दशधा कृते | उच्छ्रा यस्य चतुर्थांशे चतुर्धाभाजिते सति || इन्दुकण्ठोधमैः सारः पदे कुम्भ समुन्नतः | षड्भिर्वेदः त्रिभिः कण्ठः शेषैः शिखर संवृतिः || तिर्यगूर्ध्वं च भूतांशैः त्याज्य भागे कृते सति | भाग भानु * * * * पेतेन बहुत्वेन तथा भवेत् ||
SKतिर्यक् चतुर्गुणं सूत्रं कृत्वा वा वर्धयेद्धरे | सन्धारिका श्रयाणां तु मौर्वादीनां यथा क्रमात् || अन्धारिका विहीनानां मण्टपान्वित लक्षणम् | धाम गर्भाच्च तत्कण्ठा शुकाग्रा गर्भकण्ठतः || सूत्रं गृहीत्वाब्जयोने मध्य सूत्रादित्यर्थः |? शुकाग्रा सामकोणतः |? उभयोः पार्श्वयोर्दत्वा कुर्यान्मण्टपमग्रतः | प्रासादस्यार्ध विस्तारः तदग्रे मुखमण्टपः | शिखरं त्रिगुणं येषां पादोनं सार्धदृग्गुणम् | सपाद द्विगुणं वाथ जंघा तेषां त्रिभागिका || तदूर्ध्वं तु त्रिधाभज्य रामांशं तुरगां गतम् | त्रिभिर्वेद तदर्धेन कण्ठोद्वाभ्यां शिर्ॐशतः || प्. ६०८) पादेन वृत्तवत्कुम्भश्शेषं पूर्वदाचरेत् | कण्ठादूर्ध्वं चतुर्दिक्षु ध्वजा धाराणि कारयेत् || चतुर्णामपि दण्डानां स्थितिः स्याद्वेदिको परि | सर्वेषां मण्टपानां तु नासिकान्तं शिखोच्छ्रितिः | पीठस्सैवरणं कार्यमन्तक्रोवेकरोहके |? षट्स्तम्भैस्तु * * * क्रादैः कुम्भाद्यैस्तुर्य साधनैः | चतुर्भिर्न्न * * * द्यैश्च शिरोभिस्ते विराजिताः || स्तम्भ संख्या समायुक्ताः वृथासंज्ञा भवन्ति ते | चतुष्षष्टिं समारभ्य स्तम्भद्वितय वर्जितः || श्रीवत्सादि सरुत्सूत्राः सप्तविंशति मण्टपाः || इदानीं द्वारनिर्देशं समासते निगद्यते | विकारांशं विनातुल्यं वस्वंशाधिक विस्तरम् || द्विगुणश्च समुत्सेधः ज्येष्ठादौ लिङ्गमानतः | कर्णे सूत्ररसैर्भक्ते चतुर्भिर्वा समुच्छ्रितिः || क्षुद्रधाम्नामयं न्यायो द्रष्टव्यः पाकशासन | सवेदैकां समारभ्य कमुन्यन्त मनुक्रमात् || वियदिन्दूच्यते द्वारं भूतषट्कैर्गृहान्तिकम् | अङ्गुल्यैर्वृत्तलिङ्गानां तदर्धं विस्तरेण तु || तत्पादेन स्मृते शाखे तयोः स्थौल्यं तदर्धतः | द्विपादं देहली सार्धं उन्नतावसुधानितः || ऊर्ध्वस्था च सुनाध्यक्षाः सुविभक्ताः सुसञ्जिताः || प्. ६०९) प्रतिशाखास्त्र भागेन न्यूना कार्या परस्परम् | शरितरामतुशररैः श्वैर्नन्दान्त स्युर्यथाक्रमम् ||
SKतुर्यंशे तु प्रकीहारौ नन्दीकालश्च शाखयोः | सरिद्द्वयं भारवाहौ माला विद्या च किन्नरौ || गोगिरिं हस्ति युग्मं च ततो वैशेषवासुकी | शाखाधिक्ये व्ययन्यासो न्यूनोनभिर्दिवच्युतिः || इतोऽन्यत्पत्रवल्याय यहाशोभं विभूषयेत् || गणं लक्ष्मीं यक्ष कन्यां विष्ण्वीशौग्रह व्यालकाः | नृत्तेशौ मातरश्चैव क्रमादूर्ध्वं व्यवस्थिताः || द्वाराग्रे चार्ध चन्द्रं च शङ्खयुग्मादि वर्तयेत् | प्रासादाय युतं कार्यं न न्यूनं नाधिकं हितम् || इति | तद्यथा कालोत्तरे च - मञ्जरी वर्तका वक्ष्ये ग्रीवामलक लक्षणम् | सिखरं वेदवत्कृत्वा वेदांशं वेदवद्भवेत् || कण्ठं भागोन्नतं कुर्यात्सारकन्तु द्वयोच्छ्रितम् | चूलकं भागमानेन लिङ्गाकारं विवर्तयेत् || चूलकं कुम्भसदृशं पद्मां कर्मा तु लिङ्गकम् | चतुर्गुणेन सूत्रेण त्रिगुणानाञ्च वर्तनम् | सार्धं द्विगुण देहानां त्रिगुणेन च वर्तनम् || सार्धं द्विगुण सूत्रे च द्विगुणानाञ्च संव्रतिः | समा श्रीव्यश्रदेहानामेव मेव विवर्तनम् || प्. ६१०) स्कन्धे तु दशधा भक्ते पञ्चधा भाजितेऽथवा | द्विभाग भागहान्या तु स्कन्धविस्तारमादिशेत् || षड्भिर्वाथ त्रिभिर्वाथ वेदिविस्तारमीरितम् | द्विभागमेक भागं वा नवधा तद्विभाजयेत् || जंघोच्छ्रायं तथा भक्त्या कपोताद्वेदिकावधि | भागं भागं त्यजेद्दिमान् विस्तारादुछ्रयादपि || गणितेनाथवाग्रासः स चक्रैराशिकेन तु | तुण्डिकावापि भागेन विंशमांशेन कल्पिता || शूलाग्रैर्नैव कर्तव्यं यमात्तक्षय कारणम् | शुकाग्रा संव्रतिः कार्या विनास्कन्धेन षण्मुख | नीलोत्पल दल प्रख्या नासायां संप्रतिस्मृता || कण्ठोवेद्यर्धतः कार्या सारकं पञ्चभाजितम् | भागद्वयेन सार्धेन कण्ठतश्चूलिकोन्नतिः || विस्मृतञ्च त्रिभागेन कार्यं वा लिङ्गमानतः | तद्वद्भागद्वयं तस्य विष्णुं ब्रह्म द्वयं भवेत् || षडर्धं सारके क्षव्यं सार्धभागोन्नतं भवेत् | लक्ष्मसूत्रं विनाकार्यं स्थापयेत्तच्च लिङ्गवत् | वलभ्यां केशरिः कार्या शङ्करस्य वृषस्तथा ||
SKश्रियः करीप्रकर्तव्यः सूर्यस्य क्रमशस्तथा | नासिकोर्ध्वे प्रयत्नेन कुत्रचित्सारकोपरि || भागत्रयेण कर्तव्यः सारकस्य प्रमाणतः | शंकरस्य त्रिशूलं तु देवी च विशेषतः || प्. ६११) चक्रं हरैस्तु दक्पानां स्वायुधं परिकल्पयेत् | भूतादि रन्ध्रभागेन विस्तारामञ्जरी मता || इत्यस्यायमर्थः - वेदि प्रदेश पञ्चभागेन द्वारशिखादि लक्षणम् || द्वार विस्तार पादोन शाखाभ्यां विस्तरो मतः | ऊर्ध्वाधोदुम्बरं कार्यं द्वारार्धेन षडानन || उत्तरे दक्षशाखायां गङ्गावामेर्क पुत्रिका | पद्मसृष्टाहमस्ताश्च पीयूष कलशान्विताः | पुरुषास्तत्र कर्तव्यास्त्रयो भूषणभूषिताः || वीणा हस्तात्तु गन्धर्वा मालाविद्या धरास्तथा || गोहस्ती वाजियुग्म * * तथा मेषादि युग्मकम् | ज्येष्ठानां नव शाखां तु सप्तशाखां तु मध्यगम् ||? पञ्चत्रिशाखमधमं दत्वारं कार्यं विभूतिदम् | पत्रस्वस्तिकवल्लीभिः द्वारशालं विवर्तयेत् | शाखा विस्तारतः कार्या शिखाबाहुल्य मध्यतः || इति चारं समाख्यातं सन्धारो बाह्यतः शृणु | वियदिन्द्राङ्गुलैर्ज्येष्ठं पङ्क्तिहान्या तु सप्तकम् || अथ द्वारविस्तारं वियद्रसांगुलैर्हितम् | उच्छ्रितं द्विगुणं कर्यं विस्मृतैस्तु षडानन || ऊर्ध्वाधोदुम्बर न्यासः कर्तव्यः स्वप्रमाणतः || प्. ६१२) गणेशोभारती लक्ष्मी * * दोर्ध्वे दुम्बरैः स्थिता | तथा चाष्टौ ग्रहास्तत्र सप्त वै मातरस्तथा | तथास्येश्वरः कार्यो वालमीकिर्व्याससंयुतः || द्वाराग्रे चार्ध चन्द्रस्तु द्वारविस्तारमानतः || सारका भारतः कार्या कपित्थाख्याष्षडंशतः | द्वारशाखार्ध देशे तु कर्तव्यञ्चार्गजंदृढम् || न कुब्ज न * * धिक न्यून द्वारं तत्परि कल्पयेत् | कवाटौ यत्नतः कार्यौ दृढौ दारुसमुद्भवौ || कूर्चिकार समायुक्तौ निन्द्यौ च स्वयमुद्गतौ | कवाटौ यत्नतो वर्ज्यौ बहुखण्डौ गृहेष्वपि | लिख्यतेऽत्र प्रसङ्गश्च पिङ्गलादि मतोदितम् | विस्तारस्य चतुर्थांशाच्छागयोर्विस्तरं भवेत् | तदर्धेन तु वै पुल्यं शाखयोः परिकल्पयेत् ||
SKऊर्ध्वोदुम्बरकञ्चैव तदष्टांश विवर्जनात् | प्रतिशाखं प्रकर्तव्यं त्रिभागोनं परस्परम् || शशीरं मन्दिरार्थं वा मुनिताराथ वा प्रिये | विषमास्तु स्मृता शाखा नवान्तानोर्ध्वतः क्वचित् || शाखोच्छ्राये चतुर्थांशे प्रतीहारौ पुरास्मृतौ | सरितो मिथुनञ्चैव भारवाहास्तथैव च | विद्याधरस्तथा भूयः किन्नराश्च तथा पुनः || प्. ६१३) भावोगिरिस्तथा नागा नवशाखासु कल्पिता | नागान्ता नवशाखास्तु सप्तशाखं च गोविधिः || विद्याधरान्तं भूताख्यं त्रिशिखामिथुनान्तकम् | केवल प्रतिहारं स्यादेकशाखं यथा प्रिये | शेषं विवभङ्ग श्रीवत्स स्वस्तिकोपालमालिकैः ||? शङ्खैर्गजघटैश्चैव श्रियावर्तैस्तथैव च | नागपाशैस्तु शोभाढ्यैः शाखशोभा यथा भवेत् | ऊर्ध्वो दुम्बरमध्ये च श्रीगजश्च हरिस्तथा | यक्षिणी शङ्करश्वैव ग्रहाष्टौ पङ्क्ति संस्थिता || व्याख्योद्यतश्च श्रीकण्ठः तथा नाट्येश्वरः शुभः | तरः पङ् * * * संस्था च नवान्ता क्रमशोभिताः | नवं पुराणकोष्ठेन पाषाणैर्वा तथा विधैः || द्वारबन्धं कवाटं वा प्रमादाद्यादि स्वधा भोगो | विस्तारा मध्यसूत्रानु पादेन वर्तयेदिति च पक्षान्तरम् ||? चन्द्रशाला प्रकर्तव्या स्थिरत्वा पादनाय च | भूकम्पाद्यैर्महावातैः प्रासादा न पतन्ति च | ध्वजाधारः प्रकर्तव्यो वेद्या वै दण्डमानतः || अत्रामलसारवर्तनं यथोक्तं कर्मणा || क्षेत्रमामल सारस्यं भाज्यमंशैस्तु सप्तभिः | प्. ६१४) तस्मिन्वर्त्यानि शृङ्गाणि त्रिभागोन्नति विस्तरात् | त्रिभिश्च चन्द्रिका कार्या द्वाभ्यां वृत्तं तु तत्र वै || सारकोर्ध्वे तृतीयेऽपि ऊर्ध्ववक्त्रभ्रमं स्मृतम् | ततो भागेन कर्तव्या सुसमामलसारिका | इति मोहशूरोत्तरोक्त्या लिख्यते कलशोधुना || षड्भाग भाजिते क्षेत्रे कलशं वर्धयेद्धरे | लिङ्गायामसमायाम तदर्धेन प्रविस्मृते | अङ्घ्रिहीनां शतः प्रोच्या रसांशेन प्रविस्मृताः ||
SKपादपट्टी समुद्दिष्टा भागोनैर्लासनिर्मिता | उछ्रायो विस्तरस्तस्या वेदभागेन सुव्रत | तत्पट्टी पादभागोच्चा यथाशोभं प्रविस्मृता | कुम्भिका तस्यमामांशैर्भागार्धेन समुच्छ्रिता || कुर्परं वामदक्षं च सार्धवह्न्यं समुच्छ्रितम् | सूत्रभ्रमेण कर्तव्यं ततः स्कन्धं विवर्तयेत् || कूर्पान्त द्विभागान्ते सव्य स * * * * * * * | अपसव्यो भ्रमेणैव द्विभागान्ते शतक्रतो || उन्नता विस्मृता ग्रीवा सारकण्ठांशिकां ततः | ब्रह्माननैः कपोलः स्यातुर्धभाग समुच्छ्रितः || अस्त्रेणैव समुल्लासं पद्मनेत्रान्तांश विस्मृतम् | अञ्जलैर्भूषयेत् कुम्भं गुणभागावलम्बितैः || प्. ६१५) अशोक पल्लवैश्चित्रैर्यद्वा चूतसमुद्भवैः | कुम्भास्यं भूषयेदेतैः यथाशो भावलम्पिवः || लक्षानुरोधतः कार्यः रूपं न्यूनाकरं हरे | कुम्भस्य लक्षणं ख्यातं त्रिशूलं वच्मि साम्प्रतम् || रज्वानलाङ्गुलं ज्येष्ठे वेदयुग्मैस्तु मध्यमे | रसचन्द्रैः कनिष्ठे स्यात्त्रिशूलं सुतसत्तम || सदारगोलका त्यागादधो यस्याद्द्वयं द्वयम् | कोणाग्रे तुष्टितुष्ट्यंशे मध्यशूलं ग्रहांशकैः || पक्षांश विस्मृतिर्मध्ये तीक्ष्णाग्रमनुपाततः | मूलभागप्रविस्तीर्णं यद्वा रूपानुरूपतः || मात्रांश विस्मृतं दीर्घं रसांशैः सूत्र विभ्रमणात् | मध्ये हस्तं व्यवस्थाप्य वृत्ताकारं शुशोभनम् | अथवा - बहिर्मध्ये करं कृत्वा मध्यसप्तांश संस्थितम् | भ्रामयेद्दक्ष हस्तेन पार्श्वशूलश्च सिद्धये || अथो रेखाद्वयं कार्यं अर्धचन्द्रोपमं हरे | सार्धपत्रांश सूत्रेण विस्मृतिर्भागसंमिता || शृङ्गयोर्वा स्मरेखिन्यो बाह्यवृत्तेन विन्यसेत् | मध्यस्थे चैव रेखेद्वे मध्यवृत्ते नियोजयेत् || अधो भागद्वयं किञ्चिद्विभागान्तर संस्थितिम् | अर्धचन्द्र विधानेन भ्रामये स्याद्यथा गतिः || प्. ६१६) गण्डिका भूषितं मूले कुशं तुर्यांशकन्त्वधः | शेषे रेखा विनाशेन त्रिशूलं परिकीर्तितम् || पार्श्वयोर्धामसूत्रेण विन्यसेत्कलशोपरि | अग्रे पृष्ठे च यत्सूत्रं मध्यशूलेन सङ्गतम् || इति ||
SKअथ संक्षेपतो वक्ष्ये निर्मितादि कलहन्नित्यं मित्रामि कुम्भमिष्यन्ति ||? साकयोः सकला कान्ता द्वारं यदि सुरार्चिते | तदा दारिद्र्यता कर्तुः सगोत्रस्य भविष्यति || अथो विपुलतद्द्वारस्त्रियश्चापल्यमादिशेत् | द्वारार्थं विपुलं च स्यात् प्रभुत्वं प्रमदाजने | द्वारेऽपि पीठगा मध्ये धनधान्य सुतक्षयः || यवमध्यं यदाद्वार व्याधिवृद्धिस्तदा भवेत् | यदि स्यात् सूत्रहीनं तु द्वारान्तिष्ठन्ति सुव्रते || वक्रेगो महिषादीनां हृद्यानां च क्षयो भवेत् | भिन्न जात्या यदाद्वारो जन्मनाथः कुलान्तकः || भ्रमद्र्यक यष्टिगम्भीरे वृक्षापयैः |? चतुस्त्रि पथशृङ्गाद्यैः मार्गैः कूटगृहेण वा | एवमाद्यैर्यथा न्यायैर्वा * * रं विद्धिमशोभनम् || प्. ६१७) तन्मध्ये मध्यसूत्रं तु यथा सञ्चलितं भवेत् | सूत्रं सूत्रार्धकं वापि नयेदुत्तर दिग्गतम् || गर्भमध्ये * वं वर्म तस्मादपि तथा नयेत् || इति || वर्तं द्वारशाखासु लिख्यतेऽत्र प्रसङ्गतः | व्यासं विंशतिभिर्भक्त्या तत्स्थौल्यं तिथिभिर्भजेत् | षड्भागैर्दण्ड भ* * * स्यात्पत्रवल्ली च संकुला || एकभागेऽन्धकारी स्यात् प्रविष्टा पञ्चभिस्ततः || निर्गता रूपशाखा स्यात्त्रिभिर्भूतांशविस्मृता || अन्धकारी च भागेन वह्न्यंशेन प्रवेशिता | मरीची निर्गता ये दैः नेत्र भागेन विस्मृता || पञ्चभिर्मूलशाखा स्यात् चतुर्भाग प्रवेशिता | त्रिशाखं द्वा * * * ख्यातं पञ्चशाखमथोच्यते || द्वात्रिंशद्भिर्भवेद्व्यासं स्थौल्यमष्टादशैर्भवेत् | दण्डशाखा रसांशैस्स्यादेकेनान्धारिका मता || प्रविष्ठा च सप्तांशैः कल्पशाखाद्विनिर्गता || सा च पञ्च प्रविस्तीर्णा तमोभागैर्विवेशनम् | निर्गमा पञ्चभिः स्तम्भशाखा भूतांश विस्मृता | एकेनान्धारिका ज्ञेया भूतैः सा च प्रवेशिता || अब्ध्यंश निर्गतारूप शाखापञ्च प्रविस्मृता || भागेनान्धारिका ज्ञेया चतुर्भाग प्रवेशिता || प्. ६१८) मरीचीद्व्यंश विस्तारा निर्गतावह्नि भागतः | पञ्चभागमितावक्त्र शाखा वेदांश वेशिता ||
SKपञ्चशाखमिदं द्वारं सप्तशाखमथोच्यते | वियद्वै दर्भजेद्वास्यं स्थौल्यमष्टादशांशकैः || दण्डशाख रसांशेन चन्द्रेणान्धारिका मता | नवभाग प्रविष्टा सा ततष्षड्भाग निर्गता || भुजङ्ग वेदिकाकारा नाग शाखाब्धि विस्मृता | एकैकं धारिकाषड्भिः प्रतिष्ठा रूपशाखिका || पञ्चभागप्रविस्तीर्णा वह्निभागविनिर्गता | एकेनान्धारिता ज्ञेया त्रिभिर्भागैः प्रवेशिता || निर्गता पञ्चभागेन पत्रशाखाब्धिवत्स्मृता | ततश्चन्द्रशरैः कार्यं स्तम्भशाब्धि विनिर्गता || विस्ताराच्च तथा ज्ञेया तमश्चन्द्रेण सिन्धुभिः | तमश्चैकाग्निभिर्ज्ञेयं त्रिभिर्द्वाभ्यां मरीचिका | मूलशाखा त्रिभिर्विष्टा पञ्चभाग प्रविस्मृता || सप्तशाखमिदं ज्ञेयं नवशाखमथोच्यते | मुखास्थौल्य तृतीयांशे रुद्रवद्भाजिते सति || पञ्चाशद्भिर्भवेद्वासं दण्डे शाखा शराशतः | एकेनान्धारिका ज्ञेया प्रविष्टा सा च रुच्यते | प्. ६१९) एकेनान्धारिका ज्ञेया प्रविष्टा सप्तभिस्ततः | निर्गतामुनि भागेन स्तम्भाख्यं विप्र विस्मृता || तमः पूर्ववदाख्यातः मृणालाख्यातपूर्ववत् | तमश्च पूर्ववत्तस्मात् रूपाख्यामनि निर्गता || चतुर्भाग प्रविस्त्रीर्णा तमः पूर्व वदीरितम् | पूर्ववत्पत्रशाखा च तथैवान्धारिका मता || निर्गता रसभागेन रूपाख्या पञ्चविस्मृता | तमस्तस्माच्चतुर्भागा रूपशाखाब्धि विस्मृता || तमोमर * * काद्वाभ्यां निर्गता विस्मृता तथा || पत्र शाखा ततो द्वाभ्यां प्रविष्टा विस्मृताब्धिभिः | नवशाखमिदं द्वारं वर्तयेन्मतिमान्नरः || भागन्यूनाधिकं कुर्याच्छिल्पि कर्मानुरूपतः | विश्वकर्मादिशास्त्रोक्तं सकलं वेदितं मया | लिख्यते प्रस्तुतपरो यथा कालोत्तरोदितः || बलिपीठं बहिः कार्यं मूलायन संमतम् | सत्रिशूल वृषाङ्कं वा ध्वजयष्टिं प्रकल्पयेत् | शिखरस्य चतुर्थांशात् कल्पयेच्च प्रदक्षिणम् || मुख्यते च लयार्धेन त्र्यंशेन चरणेन च | कन्यसादि विभागेन ततो देवालयानि च ||
SKप्रासादाभि मुखान्येव कर्तव्यानि षडानन | पञ्चालयात् समारभ्य यथा स्वेच्छं शतावधि || प्. ६२०) मूलप्रासादरूपेण गणायतनकल्पना | प्रासादाग्रे मण्टपानां न * * * भां लेशतः शृणु || चतुर्द्वार प्रसादेन चत्वारो मण्डपामताः | एकद्वारे प्रकर्तव्यः एक एव तु मण्टपः || गर्भन्तु पक्षयोः कृत्वा चतुर्वक्त्रे गृहे हितः | एवं प्रयत्नतः कुर्यात् चतुरो मुखमण्टपान् | गर्भाद्भित्तेश्च सुविरात् समस्ताद्वापि वर्तयेत् | समस्तं पक्षयोः कृत्वा दैर्घ्यं तस्य प्रकल्पयेत् | दैर्घ्यात्त्रिंश विहीनस्तु विस्तारो मण्टपो हितः | एकवक्त्रस्य विन्यासः त्रिवक्त्रस्यापि पूर्ववत् || स्थम्भतो मण्डपानां तु संज्ञां भेदो निगद्यते | हरः शिवस्तथा नन्दो धर्मोदेवः शिखीशशी || प्रियो महाप्रियश्चेति नवप्रोक्तास्तु मण्टपाः | नियोज्यां कन्यसानां तु द्वादशेभ्यो निवृद्धितः || मध्यमानं पुनर्वक्ष्ये वसुनेमादितः शुभाः | सुनन्दनो नन्दनश्च वरिष्ठो वरदस्तथा | विशालश्च सुशीलश्च श्रुतीशो हरभद्रकौ || मध्यमानां द्विवृद्ध्या तु चतुर्वेदान्तिको मतः | उत्तमानां पुनर्वक्ष्ये वसुदेव वि * * * || जयश्च जयभद्रश्च बुद्धि बुद्धिधरस्तथा | आनन्दो नन्दनश्चैव पुष्पभद्रो च पुष्पकः || प्. ६२१) भद्रश्चेति विवृद्ध्या तु चतुष्षष्ट्यन्तकोमतः | रवि दिक्चाष्ट षट्स्तम्भा मण्टपा * * * * * * || शुकनासाधितो देयौद्वौस्तम्भौ च कुमारिका | इति || यदुक्तं पिङ्गलामते च - कथ्यते मण्टपानां तु तस्माद्विभाग संज्ञया | पुष्पका पुष्पभद्रश्च पुष्पानन्तः कुशस्यसः | तस्मात्संकीर्णकोनाम जयभद्रो जयावहः | श्रीवत्सो बीजयोर्वास्तु संकीर्णश्च श्रुकन्धरः || यज्ञभद्रो विशालश्च सुशीलाअश्च क्रमर्दकः | भावञ्चो * * न्दनो वृद्धिः तथा वै माणिभद्रकः || सुग्रीवो हर्षनामा च कर्णिकारः पदद्वकः | सिंहो वै वामभद्रश्च सुसूत्रश्चेति कीर्तिताः ||
SKसप्तविंशत्यमी नाम विभागश्चाधुनोच्यते | चतुष्षष्टिमितैः स्तंभैः पुष्पदृकरामा च द्विषष्टि स्तम्भ युग्भवेत् | स च मन्दरगः प्रोक्तः छन्दस्तभू * * * * वोहितः |? षष्टिस्तम्भयुतोदेव पुष्पानन्दः प्रकीर्तितः | स च कैलासकः प्रोक्तः तद्रूपेण च रूपकः | साष्टैश्शतार्धकैः स्तम्भैः कुशल्यः परिकीर्तितः | गज प्रासादकः सोऽपि चतुरश्रः स लक्षणः | षड्भिः शतार्धकैः स्तम्भैः बुद्धिसंकीर्णकोमतः | प्. ६२२) सर्वतोभद्रक * * श्चेपि सर्वतो भद्रवत्स्थितः | चतुः पञ्चाशकैः स्तम्भैः जयभद्रः प्रकीरितः || विमानानुगत सोपि तच्छन्दश्च पिनाकवत् | द्विपञ्चाशद्भिः तसै तु युक्तख्यतो जयावनन्दनानुगतः सोऽपि छन्दो नन्दनवात्मनः |? स्तम्भैः शतार्धकैर्युक्तः श्रीवत्सोनाम विश्रुतः | नन्दिवृद्धानुनः सोऽपि नन्दिवृद्धी व संस्थितः || साष्टभिश्चत्वारिंशद्भिः विजयोनामनामतः | द्विजा राजानुगः सोऽपि संस्थितो द्विजराजवत् | सषड्भिश्चत्वारिशद्भिः वास्तुनामा प्रकीर्तितः | पद्म प्रसादगः सोपि पद्माकारवदा स्थितः | स चत्वारिंशद्भिरसंकीऋणो * * * * नाम विश्रुतः | षोडशाश्रानुगः सोपि षडशाश्रः शुचिः स्मृतः | चत्वारिंशाधिकैर्यामैः मण्टपस्तु श्रुतिं धरः || अष्टाश्रानुगतः सोपि रूपेणाष्टाश्रगो भवेत् | चत्वारिंशतिभिः स्तम्भैः यज्ञभद्रः प्रकीरितः || गृहराजा गृहस्थोऽपि तदाकारेण संस्थितः | षड्भिस्त्रिंशतिभिः स्तम्भैः सुशीलोनामनामतः || खण्डार्धानुगतः सोपि खण्डार्ध इव संस्थितः | त्रिंशद्भिस्तु धृतस्तम्भैः नन्दनाख्यः प्रकीर्तितः || प्. ६२३) वर्धमानाग्रतः सोपि वर्धमानवदास्थितः | अष्टाविंशतिभिः स्तम्भैः सुग्रीवस्तु प्रकीर्तितः | वृषभाग्रे स्थितः सोपि वृषाकारस्वरूपतः || द्वाविंशतिभिः स्तम्भैस्तु हर्षाख्योनाम विश्रुतः | नृसिंहस्याग्रतः सोपि तद्रूपेण व्यवस्थितः | कर्णिकारस्तु विंशद्भिः भासस्याप्यग्रतो भवेत् ||
SKहंसरूपेण कर्तव्यो मण्टपः स च शोभनः | अष्टदशगतैः स्तम्भैः मण्टपः स्यात्पदद्विकः | नलिनानुगतः सोऽपि नलिनाभ्यो व्यवस्थितः || स्तम्भैष्षोडशकैर्देवि हंसाख्यो मण्टपाहृतः | श्रीनानानुगतः सोपि नागोनाम समस्थितः || इन्द्र संख्यान्वितैः स्तम्भैः श्यामे भद्रः प्रकीर्तितः | श्वा वृषस्याग्रतः सोऽपि श्वावृक्ष इव संस्थितः || स्तम्भैर्द्वादशकैर्देवि सुसूत्रश्चेति कीर्तितः | वेदामास्याग्रतः सोऽपि कार्योवेदाश्रवद्भवेत् || अत्र प्रसङ्गाद्रु च कादि स्तम्भलक्षणः |? यथोक्तं कामिक संहितादौ - वेदाश्रो रूचकः कार्यः स्वष्टाश्रो वज्रसंज्ञिकः | षोडशाश्रो * * * वज्रः स्याद्द्वात्रिंशाश्रः प्रलीनकः || मण्डन * * * द्व्याग्रः स्याद्वृत्तो ममथ संज्ञकः || प्. ६२४) रविः षोडश विंशद्भिः अङ्गुलैः कन्यसादितः | विस्तारस्तु भवेत्तेषां उच्छ्रायो द्वार संमितः || धामविस्तारपादोनात् स्तम्भोच्छ्रायः क्वचिन्मतम् रुचिकासम वेदाग्रः स्तम्भः कार्योविजानता | वज्रकारस्तृतीयांशः चतुरश्रः प्रकीर्तितः || द्वितीयो द्विगुणः प्रोक्तः षोडशाश्रस्तृतीयकः | अष्टाश्रषोडशाश्रञ्च वर्तश्चेति क्रमेण तु || द्विभज्रकस्य भागानि त्रीणि * * * शूलतः | प्रलीयस्य तृतीयांशो द्वात्रिंशाश्रः प्रकीर्तितः | भागार्धस्तु ततो वृद्धो भागार्धेकलशः स्मृतः || चतुर्भिरश्रिभिर्युक्तः ततो वृत्तस्तृतीयकः | अधोमुखैरश्रिभिस्तु चतुर्भिस्तु विभूषितः || मन्धनस्य तु सर्वाङ्ग चतुष्षष्ट्यश्रको मतः | मन्मथः समवृत्तः स्यात् शिरः कुम्भं यथोच्यते || वस्वर्क षोडशांशेन स्तम्भोच्छ्रायाद्यथा क्रमम् | कन्यसादौ शिरः कुम्भहारवाहक शोबितम् | यथा शोभं प्रकुर्वीत शिल्पि बुध्यास्वकर्मवत् || धामतुल्योऽथ वासार्धो पादोन द्विगुणोऽथवा | द्विगुणोवा प्रोक्तो मण्टपः क्वचिदागमे | कन्यसे च चतुःस्तम्भा द्वारशस्युः कुमारिकाः || प्.६२५) अष्टौ च मध्यमे स्तम्भा पङ्क्तिद्वय व्यवस्थिताः | तथा कोणगतः प्रोक्तः द्वदशैव कुमारिकाः ||
SKमध्ये तु कुड्यसंलग्ने द्वे द्वे योज्ये कुमारिके | उक्तमेव यथोक्तं चाष्टौ स्तम्भास्तु मध्यगाः || पक्तिद्वयस्थितारम्या कुड्य लग्नाः कुमारिकाः | स्मृताष्षोडश संख्याताः यद्वा भारानुरूपतः || इति | कर्मकाण्डमिदं प्रोक्तं दशपञ्च गुरुत्तमैः | समालोच्य प्रकर्तव्यं शिल्पिभिः शास्त्र वित्तमैः || || इति ज्ञानरत्नावल्यां प्रासादलक्षणविधिः || || श्रीमहागणपतये नमः || लिख्यते च प्रतिष्ठापि सा च पञ्च विधाशिवे | द्विविधा प्रतिमायाश्च प्रासादेष्वपि पञ्चधा || तथोचोक्तं प्रतिष्ठानं तद्वत्स्थापनमव्य च | आस्थापनं चतुर्थन्तु प्रोक्तमुत्थापनं ततः || प्रतिष्ठा पञ्चधाह्येवं प्रोच्यते तद्विनिर्णयम् || यत्र ब्रह्मशिला मध्ये लिङ्गमादौ निधाय च | अव्यक्तमुखलिङ्गं स्यात् पीठबन्धं विधाय च | शुद्ध लग्नं समासाद्य योगं पिण्डिकया सह | क्रियते सा प्रतिष्ठा स्यात् स्थापनं कथ्यते पुनः || प्. ६२६) धातुरत्नमयं लिङ्गं बाणं रौहमथापि वा | लिङ्गं तत्पञ्चधा कृत्वा त्रिधावासं विभज्य च || भागद्वयमथैकं वा ज्ञात्वालिङ्ग बलाबलम् | स्थाप्यते पिण्डिका मध्ये स्थापनं तमुदीरितम् || अभिन्न पिण्डिके लिङ्गे स्फटिकादौ विधीयते | संस्कारो मनसा यत्र ततः स्थापनमुच्यते | चतुर्हस्ता * * कं लिङ्गं व्यक्तलिङ्गमथापि वा | पीठं पिण्डिकया युक्तं कृत्वा प्रासाद मध्यगम् | संस्कारः क्रियते यत्र तदा स्थापनमीरितम् || व्य * * * गादितो यद्दुष्टं तल्लिङ्गमुद्धृत्य यत्नतः | अन्यत् संस्थाप्यते यत्र तदुत्थापनमुच्यते || एवं पञ्चविधा प्रोक्ता शिवलिङ्गस्य सूरिभिः | द्विधा रुद्रादि मूर्तीनां आस्थाप्योत्थाप्य लक्षणम् || आसनमावपनं श्रेष्ठं सर्वलिङ्गे शुभावहम् | अन्यासां काल नैकट्या द्व्याग्राद्वैकल्यसंभवात् || धम्निपाद शिलान्यासा द्वारहृत्कुम्भ चूलिका | ध्वजरोहस्तु विख्याता प्रतिष्ठा पञ्चधा यथा || समपृष्ठेऽथवा क्षेत्रे खाते पादोन पूरिते | व * * * संपूजिते तत्र तर्पिते च विधानतः ||
SKशिलान्यासः प्रकर्तव्यः शिलास्ताश्च यथागमे || प्. ६२७) शैलधाम्नि शिलाःशस्ताः हस्तमात्रास्समन्ततः | हस्तमात्रा क्वचिद्दैर्घ्यात् तदर्धाद्विस्तरोच्छ्रितः | तदर्धा दैष्टिकाश्शस्ता प्रासादे चेष्टकामये || चतुरश्रा शुभा मध्ये वज्राद्यैरंकिता नव | नन्द * *? द्राजया पूर्णा त्वजिता च पराजिता || विजया मठलाख्या च धरणी नवमी तथा | हेमतारमया कुम्भाः तदभावाच्च ताम्रजाः || हस्तिकेऽष्टाङ्गुलाश्शस्ताः त्रिपञ्चपलमानतः | हस्ते हस्ताङ्गुलावृद्धिः पलानां पञ्चभिस्तथा || विचित्र रचनायुक्ता लोकपालास्त्र लाञ्छिताः || सुभद्रश्च विभद्रश्च सुनन्दः पुष्पनन्दनः | जयश्च विजयश्चा च कुम्भः पूर्णस्तथोत्तरः || इति कुम्भा नवप्रोक्ता यदा नव शिलास्तथा | नन्दा भद्रा जयारिक्ता पूर्णा पञ्चशिलास्तथा || आसां पद्मोमहापद्मः शंखो मकरकस्तथा || समुद्रश्चेति कुम्भाः स्युः सर्वे पङ्कजलांछिताः | धातुरक्तौषधीगर्ता कुम्भामध्वाज्य पूरिताः | शिलानां मध्यदेशे वा शक्ताः कुम्भाः विमोहिताः || वक्ष्यमाणविधानेन मण्टपादि विधाय च | तोरणद्वार दिक्पाल कुम्भोशास्त्रादिमर्चयेत् || प्. ६२८) होमं कृत्वा विधानेन मन्त्रतर्पण दीपनम् | देशकालादि सम्पत्तिं संविधाय च देशिकः || यजमानोर्चितोयाय मूर्तिपैः स्थानमण्टपम् | मध्य पूर्वादितस्तत्र शिलाः कुम्भाश्च विन्यसेत् || कुशतल्पोपरिष्ठाच्चा ततः संस्थापयेद्गुरुः | कुशैरुल्लिख्यशस्त्रेण नाम्नाभ्यर्च्य ध्रुवादिना || पञ्चगव्य कषायाद्यैः मृद्भिर्गन्धांबु नासिका | गन्धैः पुष्पैर्विभूष्याथ वेष्टयेद्रक्तवाससा || तूर्य मङ्गल निर्घोषैः नीत्वा यागं प्रदक्षिणम् | अर्चयित्वा यथाभूयः पश्चिमास्ये निवेशयेत् || मण्टपे वेदिकायां च कुलिकादौ यथा क्रमम् | बुद्ध्यादि निधरान्तानि तासु तत्वानि विन्यसेत् || तत्वेशांश्च हृदान्यस्त्वा तत्र तत्वत्रयं न्यसेत् | बुद्ध्यहं कृति तत्वे तु शिवतत्वं सशंकरम् | विद्या तत्वं च विष्णुञ्च न्यसेदेकादशेन्द्रिये ||
SKब्रह्माणमात्म तत्वं च तन्मात्रासौ न्यसेत्पुनः | प्रतितत्वं न्यसेत् * * ज्ञत्तिशांश्च यथाक्रमम् || पञ्चवाचाष्ट वा तत्र विद्येशांश्चाथ पूजयेत् | माया बीजं च शक्त्यन्तं दूरं सतांसु विन्यसेत् || भूति दर्पतलैः शास्त्रैः कृत्वा च प्राभृति त्रयम् || प्. ६२९) ततः कुण्डान्तिकं गत्वा होमं कृत्वा विधानतः | भागत्रयेऽपि यद्वक्ष्यमाणवदाचरेत् ||? मध्यस्थे रत्नकुम्भेस्यादनन्तो नागनायकः | सुभद्राद्यष्टकुम्भाश्च लोकपालाणु पूजिता || ॐ हां अनन्ताधिपतये उक्त कुम्भाय नमः ॐ हां इ * धिपतये सुभद्रकलशाय नमः इत्यादयो मन्त्राः | शतं सहस्रमर्धं वा हुत्वा शक्त्या निरोधयेत् | धूपदीपादि नैवेद्यं दत्वा प्रासादिभूतले || वास्तु देवाः समभ्यर्च्य हुत्वा दत्वा च दिग्बलिम् | अत्र वास्तु पूजा मन्त्रा क्रमो पलभ्यते | अष्टाष्ट विभाजिते चतुष्षष्टिपदे देववासौ - ॐ हां ब्रह्मणे नमः मध्य चतुष्पदे ॐ हां मरीचये नमः पूर्व षट्पदे | ॐ हां आदित्याय नमः तथा दक्षिणे | ॐ हां मित्राय नमः तथा पश्चिमे - ॐ हां दह्राधराय नमः | तथोतरे ॐ हां आपाय नमः | ॐ हां आपवत्साय नमः तदीशानकोणे पदे पदे ॐ हां सवित्रे नमः | ॐ हां सवित्राय नमः तथा निऋ-ऋतिकोणे ॐ हां रुद्राय नमः ॐ हां रुद्रदासा नमः प्. ६३०)
SKतथा वायुकोणे इति मध्यावरण त्रयोदश | ततो द्वितीय वरणे पूर्वे ईशानकोणपदे - ॐ हां ईशानाय नमः (ॐ हां महेन्द्राय नमः ॐ हां रवये नमः) ॐ हां पर्जन्याय नमः ॐ हां यन्ताय नमः ॐ हां महेन्द्राय नमः ॐ हां रवये नमः ॐ हां सत्याय नमः | ॐ हां हृशाय नमः | ततोऽग्नि कोणार्धे - ॐ अन्तरिक्षाय नमः ततो दक्षिण तत्पदार्थे ॐ हां वह्नये नमः ततः ॐ हां पूष्णे नमः ॐ हाम् वितथाय नमः ॐ हां गृहक्षयाय नमः ॐ हां यमाय नमः ॐ हां गन्धर्वाय नमः ॐ हं भृङ्गाय नमः नैर्-ऋते पदार्थे - ॐ हां मृगाय नमः ततः पश्चिमे पदार्थे ॐ हां पित्रे नमः ॐ हां दौवारिकाय नमः ॐ हां सुग्रीवाय नमः ॐ हां पुष्पदन्ताय नमः | ॐ हां व्रतसे नमः ॐ हां असुराय नमः ॐ हां शेषाय नमः ततो वायु के पदार्थे ॐ हां रोगाय नमः उत्तरे तत्पदार्थे ॐ हां वायवे नमः ततः ॐ हां नागाय नमः ॐ हां मुख्याय नमः ॐ हां भल्लाटाय नमः | ॐ हां सोमाय नमः ॐ हां ऋगये नमः ॐ हां अदितये नमः ततः ईशानकोणे पदार्थे इति द्वितीयावरणे द्वात्रिंशत्संख्याः | ततस्तद्वाह्ये पूर्वादि चतुर्दिक्षु - ॐ हां स्कन्दाय नमः ॐ हां अस्यम्णे नमः ॐ हां जम्भकाय नमः ॐ हां पिङ्गलपिच्छकाय नमः | ततः ईशानादि कोणे ॐ हां चरक्यै नमः ॐ हां विद्यायै नमः ॐ हां पूतनायै नमः ॐ हां पापराक्षस्यै नमः प्. ६३१) इति भृ * * * कृता यथा न्यायमलित्वा गोमयवारिणा प्राप्ते लग्ने शुभे विद्वान् वेदघोषादि मङ्गलैः | स्वस्वमन्त्रैः न्यसेत्कुम्भो * * भ्रेष्वाधार शक्तिषु || मध्येस्याधारणी शेषा धर्मादिशरणा यथा | यद्वा श्री सोमशंग्रस्त न्यायेनारोपयेत्तदा || मध्यश्वभ्रे न्यसेच्छक्तिं कुम्भं चानन्तमन्तिमम् | लकारारूढमूलेन कुम्भेऽस्मिन् धरणीं शिलाम् ||
SKकुम्भानष्टासु भद्रासुदिक्षु पूर्वादितः क्रमात् | लोकपालाणुभिर्न्यस्त्वा स्वभ्रेषु न्यस्तशक्तिषु | शिलास्तेषु च नन्दाद्याः क्रमशो विनिवेशयेत् | मूर्तिस्तु मूर्तिराधानं यथा स्युर्भक्ति मध्यगोः || आसुधर्मादिकानष्टौ कोणाकोण विभागजः | सुभद्रादिषु नन्दाद्याः चतस्रोग्न्यादि कोणगाः || अजिताद्याश्च पूर्वादौ जयादिष्वथवा न्यसेत् || एवं नवशिलापक्षः शालः पञ्च यदा तदा | मध्ये पूर्व शिलान्यस्त्वा समुद्रकलशोद्धृताः || पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात् | मध्याभावच्चतस्रोवा न्यस्त्वा स्वयं भुवादिषु || दिव्यरूपाकृतस्नानाः शिलानामधिदेवताः | चन्द्रार्क तारकं यावत् प्रासादे हृष्टमानसाः || प्. ६३२) स्थित्वा सर्वार्थ सम्पत्तिं सर्वदा कुरुतादृताः | इति विज्ञाप्य सर्वासामूर्ध्वे ब्रह्माणमर्चयेत् || व्यापकञ्च शिवं न्यस्त्वा हुत्वैतान् सन्निरुध्य च | संस्मरेन्मनसाधीमान् व्योमप्रासादमत्र च | शिवादि प्राकृतान्तञ्च तत्वाध्वानं विचिन्तयेत् || सद्यः प्रासाद निष्पत्तिः निर्विघ्नाभवतु प्रभो | आयुरारोग्यसम्पत्तिः यजमाने सदा भवेत् || शिवमन्त्रं शतं हुत्वा तथा पाशुपतं चरुम् | पूर्णां दत्वा विशेषेण विषुद्विषु बलिं क्षिपेत् || दारुजाच्छैलजं शस्तं शैल जाल्लोहजं हितम् | लोहजाद्रत्नजं शस्तं रत्नजान्मणिजं हितम् | एवं ज्ञात्वा प्रयत्नेन जीर्णमुद्धृत्य योजयेत् || कान्तिहीनं यदारत्नं अग्निस्पृष्टं समुद्धरेत् | श्वद्यचैः सेवितं लिङ्गं बहुकालमपूजितम् || विधिहीनं तमुद्धृत्य सगर्भञ्च विशेषतः | ईषद्द्वङ्गं तथा नर्ह्यं मान हीनं समुद्धरेत् || शैवैः संस्थापितं पूज्यं भौतिकैर्नैन्द्रिकैरपि | सदा पाशुपतं वर्ज्यं सोमसिद्धान्त संस्थिते || तथा कालमुपैज्यञ्च चतुर्थं श्रमसंस्थितैः | इत्येतैः स्थापितं लिङ्गं नार्चयन्नाभिवादयेत् || उद्धृत्यान्यं तु संस्थाप्य यद्वा तद्गुणवद्यति | प्. ६३३)
SKमन्त्रैस्तदेव संस्कृत्य पुनः संस्थापयेद्गुरुः | दिदोषदुष्टं यल्लिङ्गं भूतालयं * * * मतम् ||? तदाश्रित्य महाभूताः पिशाचा ब्रह्मराक्षसाः | वेताला क्षेत्रपालाश्च ज्वरा भस्मारकादयः || दुर्भिक्षं दुर्जयं मारी दुःस्वप्नं दुर्निमित्तकम् | प्रजापीडा गर्भपीडा नृपपीडा द्विकादिषु || निर्घातघात सर्पादि भयं देशे प्रजायते | परराष्ट्रभयं तत्र जीर्णोद्धार महेश्वरः | महेश्वरा गृहास्तत्र ध्वं सयन्ति समन्ततः || गवाक्षीण विहीनस्याज्जायते कलहोमहान् | पशुमारी जनामारी स * * * स्येषु जायते | उल्कापाते भवेत्तत्र यदि निर्घात एव वा || एवमादीनि चान्यानि दुष्टानि प्रभवन्ति हि | तस्मात्सर्वप्रयत्नेन सुस्थितं नैव चालयेत् || उत्थितं धारयेन्नैव ज्ञात्वा ज्ञात्वा समुद्धरेत् || तस्योद्धारं प्रवक्ष्यामि यथा वदनु पूर्वशः | आचायान् पूजयेत् पूर्वं पायसेन घृतेन च || हेम रत्नादिकं तेषां दातव्यं वाहनादिकम् | मण्टपे देव दक्षस्थो कलशः पूर्ववद्यजेत् || शिवस्य स्थण्डिले पूजा कर्तव्या पूर्ववत्ततः || प्. ६३४) होमं कृत्वा विधानेन बहिश्चान्तर्बलिं क्षिपेत् | जीर्णमस्त्रेण संस्नाप्य सत्वतस्तं विसृज्य च || लिङ्गमभ्यर्च्य सन्तर्प्य त्रितत्वादि समन्वितम् | भागे भागेऽस्त मन्त्रेण चाहुतीनां सहस्रकम् | कुशैर्भागञ्च संस्पृश्य शस्त्रमन्त्रं जपेत्तहा || सहस्रार्धं शतं वार्ध जपाद्यं कृत्तिका सुत | विलोमार्घ्यं ततो दत्वा विसृजेन्मूर्ति मूर्तिपान् || ब्रह्म भागे यथा कर्म विष्णौ रुद्रे तथा हितम् | एवं पीठे शिलायाञ्च दाराग्रेषु तथा हितम् || प्रासादे चूलके * * * कर्तव्यं हि विसर्जनम् | प्रणवे नैव सर्वेषां संसारं हि विसर्जनम् | प्रणवे नैव सर्वेषां संसारं कारयेत्स्य तु || त्रितत्वमूर्तीशं शीलं शिवं संग्र विवर्जयेत् | तथा चण्देश्वरं देवं व्यक्ताव्यक्तं नियामकम् || हेमयुक्तमयेनैव प्रविस्कन्धगतेन च | बन्धेन होमपाशैस्तु प्रोद्धृत्यैवं बहिर्नयेत् || शिल्पाभिः स्थण्डिलं नेयं रथे पश्चात् समर्पयेत् ||
SKजले शैलं विनिक्षिप्य दारुजं वाहनं दहेत् | जले लौहञ्च निक्षेपं पुनर्वाथ विलापयेत् | रत्नजं मणिजं चैव जले क्षेपं च पार्थिवम् || व * * * ञ्च जलेक्षेपः शिवाग्नौ पाश निर्दहेत् || प्. ६३५) स गुणानि च पूनीय तेन संस्थापनावधि | द्विगुणानि समुद्धृत्य पुनरन्यानि योजयेत् || द्विगुणं वादिलिङ्गञ्च तदालिङ्गं समुद्धरेत् | निर्गुणं यदि पीठं च तदापीठं समुत्सृजेत् || द्वारगेषु तथैव स्यात् प्रासादे चूलिकं तथा | द्विगुणं हि परित्याज्यं सगुणं रक्षयेत्तदा | पूजितव्यं प्रत्यत्नेन वास्तोर्मध्येन चान्यथा || अप * * * संस्थाप्यं * * * तिमिच्छताम् | प्राप्नोति पारमैश्वर्यं जीर्णानां चालने सुत || इति | मोहशूरोत्तरोक्ता च लिख्यते जीर्णसंस्कृतिः || जीर्णे तु संस्कृते नैव कर्तु * * * लिकं ततः | ततो जीर्णं सौद्धृत्य गुणवद्विन्यसेत् सुधीः || महाभवकरं जीर्णं अत्यन्तं क्रूररूपधृक् | दोषं करोति बहुधा राष्ट्रे राजनि सर्वदा || दुष्टलिङ्गेऽथ ते रा * * * देवता शून्यं दृष्ट्वा लिङ्गं गुणोज्झितम् || जयतां च समाश्रित्य जनयन्ति महद्भयम् | हीनं जीर्णं कृतं दग्धं स्थूल मानादिकं हरेत् || लक्ष्य शून्यञ्च गर्भार्धं सपुटं स्फु * * * भग्नञ्च स क्षतम् | मृष्टं तथा वतैस्त्याज्या * * * च्या पिण्डिकादिकम् | चलितं चालितं लिङ्गं * * * * * * पतितं हरेत् || प्. ६३६) मध्यस्थं विषमं निम्नं दिम्मूढामेति चोच्छ्रितम् |? स्थापनीयानि तत्रैव यद्येतान्यप्रमाणि च || परित्यक्तशिलायोगं निर्व्रणं च स लक्षणम् | स सक्तमुद्धरेद्वेति तन्नैव स्थापनाय च || जीर्णाद्यं पूजितं हन्ति निहन्ति तदपूजितम् | तस्मात्तदुद्धरेल्लिङ्गं शास्त्रवद्विधिपूर्वकम् || विधिं विनोद्धृतं लिङ्गं अशास्त्रज्ञैश्च देशिकैः | राष्ट्रा राष्ट्राधिपं सत्यं दूतमत्साद वेद्धरेत् || उद्धृतं विधिनालिङ्गं देशिकैः समयच्युतैः | तेन दोषविभागेन जयजिक्षयो भवेत् || दक्षे वा मण्टपस्त्वंशेऽज्य द्वारैक तोरणः | अत्रादि द्वारपूजादि स्थण्डिले तु शिवार्चनम् ||
SKमन्त्राणां तर्पणं कृत्वा दीपनञ्च यथा पुरा | शिवे च लिङ्गिनाभ्योज्य द्विष्ण्वादौ द्विजसत्तमाः | भूताअदिभ्यो बलिं दत्वा शिवमध्ये यशान्तिकम् | क्षीराज्य मधुदूर्वाभिः सुसमिद्भिर्विधाय च | गत्वा लिङ्गान्तिकं मन्त्रं तथा स्नाप्य प्रपूजयेत् || ॐ व्यापकेश्वरायेति नमोन्ते मूलवाचकः | ॐ व्यापक हृदयाय नमोन्तं हृदयं स्मृतम् | एवं हि ज्वालिनी वर्म नेत्राणि च क्रमेण च || प्. ६३७) ए * * स्तारासने लिङ्गं स्थण्डिलं च प्रपूजयेत् | तत्र तत्वाग्रतुं सक्ष श्रावयेदस्त्रमुच्चरन् || सत्वः कोऽपीहयः कश्चिल्लिङ्गमाश्रित्य तिष्ठति | लिङ्गं कृत्वा सयन्त्रेषु तन्तुयान्तु शिवाज्ञया || एवमुक्त्वा शिवास्त्रेण दत्वा चार्यं विसर्जयेत् | ततः पाशुपतास्त्रेण प्रतिभागं स्वभक्तितः || दर्भ मूलादिभिः स्पृष्ट्वा जप्त्वास्त्रंभोम संख्यया || अर्घ्यं पराङ्मुखं दता विसृजेत् तत्व तत्वपान् | दुष्क्रिये पीठमन्त्रांश्च भागत्रयमनूरपि || शिवसाङ्गं त्रिखण्डाध्व पतिनध्व समायुतान् | नाथं स्वनित्रेण हैमेनास्त्रेणा खानाखनेत् ||? बध्वा काजन पाशेन बलरज्वा च यत्नतः | स्कन्धस्थिताय वृषयोलिङ्गं पीठं शिवामपि | द्वयमेकं समस्तं वा यत्नादेवं समुद्धरेत् | सिवमन्त्र गृहं लोकैः क्षेपयेत् तर्जयेद्गुरुः || भूयः पुष्टिकरं हुत्वा दिक्पतीनां प्रतर्पणे | प्रासाद वास्तु शुद्ध्यर्थहतार्यञ्च शतं शतम् || महापाशुपतान्तानि रक्षणाय नियोजयेत् | पाशं नैवापरं लिङ्गं स्थाअयेद्वि * * * * नः || प्. ६३८) पूर्वमानान्वितं लिङ्गं तद्रूपं संस्कृतं तहा | तत्तत्स्थाने निवेश्याथ विधिना पूजयेत् सदा || सुरैश्च मुनिभिर्देवि तत्व विद्भिः प्रतिष्ठितम् | भग्नं वाप्यथवा जीर्णं विधिनापि न चालयेत् | विधिनैव प्रकुर्वीत जीर्णयाम समुद्धृतम् | त्रिस्त्रिंश योजयेन्मन्त्रा दर्पणे वा सुनिर्मले || अपरं त्वारभेत् पश्चात् पूर्वरूपं यथा भवेत् | समाप्ते मन्त्रसंयोगः प्रतिष्ठापि पुरोक्तवत् ||
SKवाक्षं यामेष्टकं कुर्यादष्टकञ्चोपलं हरेत् | हीनयामोत्तमैर्द्रव्यैः कुर्यात्तन्मयं शुभम् || यो यथा संस्थितो वास्तु दीर्घो वा समविस्तरः | तत्रैव कल्पयेद्भित्तिं हानिवृद्धिञ्च वर्जयेत् || भग्नौ सत्यांभजेन्मृत्युः वृद्धौद्रव्य क्षयो भवेत् | तस्मात्सर्व प्रयत्नेन हानिं वृद्धिं न कारयेत् || दक्षिणां वस्त्रहेमाद्यैः दत्वा सन्तोषयेद्गुरुः | क्षमस्वेति वदेद्वाक्यं शिवं सोऽपि वदेत्ततः || इति क्रियासमोपेतं लिङ्गमाश्रित्य साधकः | लभते समतासिद्धिं मोक्षं मोक्ष परायणम् | पद्मपत्रे यथा तोयं वातोद्धृतंसु चञ्चलम् || तद्वत्सु चञ्चलं शक्र प्राणिनां हत जीवितम् | प्. ६३९) अस्थिरं यौवनं शक्तद्रव्यमस्थिरमेव च | अस्थिरं पुत्र पौत्राद्यं रम्भासारोपमायतः || तस्मात्पुत्रकलत्राणि सुहृन्मित्रधनानि च | विहाय मोहजालानि कुर्याल्लिङ्गपरिग्रहम् || कालाञ्ज्वरे महेन्द्रे वा सह्येवा मलयेऽपि वा | गङ्गातटे समुद्रे वा श्रीशैलसरितां तटे पत्र पुष्पफलोपेते मृत्कुशोपचिते शुभे || सुतिथौ च सुनक्षत्रे सुयोगे करणान्विते || सम्पूज्य देव देवेसं कुर्याल्लिङ्गं रौ * * * | वयं भृतं सदाश्रेष्ठं देवैर्वा * * * * * || स्थापितं मुनिभिः पूर्वं सर्वलक्षणसंयुतम् | आश्रयेत्सि * * र्थं स्वयं वा परिकल्पितम् || गौरी हेरम्बदुर्गाद्यैः क्षेत्रेशैः गर्भसंस्थितैः | उपर्या परिलिं * * * * * जयेत्साधकः सदा || पूर्वास्यं पश्चिमास्यञ्च श्रेष्ठंलिङ्गं द्वयं हरे | याम्य कौबेर वक्त्रं यत्तान् सिद्ध्यै प्रशस्यते | परिग्रहेप्सितं लिङ्गं * * * स्त्रिं शत क्रतो || पूजयेत् सन्ततं मन्त्री ज्ञात्वा देहमशाश्वतम् || || इति श्री मज्ज्ञानरत्नावल्यां जीर्णोद्धरविधिः || श्रीमहागणपतये नमः || प्. ६४०) लिङ्गप्रासादयोष्टोक्ता पञ्चधा स्थापनं तथा | लिख्यते लिङ्गमस्यापि मोहशूरोत्तरोक्तवत् || मठं च दक्षदिग्भागे लिङ्गानां स्तीयते बहिः | यतस्ते दक्षिणेशायां वसेरवसेच्छिवभासितः ||
SKप्रासाद विस्तरं सूत्रं तन्मानं जगती बहिः | प्राकारं कारयेत्युक्त्वा ततश्चाश्रमिणां गृहम् || मठाश्रे तत्समं त्यक्त्वा सिंहायं दक्षिणे न्यसेत् | अर्घ्येवृषं गजं सौम्यें ध्वजायां पूर्वतः स्थितम् | विपुलं वा प्रकर्तव्यं कर्तुरिच्छा वशेन तु | चतुरश्रैः शरैर्भक्तैः मध्यं त्यक्त्वा पतन्ततः || ग्रहाणां स्वेच्छया न्यासः सौम्ये स्याद्वेशनिर्गमः | एक भौमं द्विभौमं वा त्रिभौमं वा यथा सुखम् | दीर्घशाला व्रतन्यासं यथा योगं निवेशयेत् | पूर्वोक्तमन्तरं साध्यं तस्याप्यर्थं यथा तथम् || मठकैकात्रयं कार्यं पट्ट्साला तु * * * * * || भूमयं पूर्वमुद्दिष्टं वित्ताभा * * * * कुटीम् | समसूत्रं सु संस्थानं वास्तुपूजा पुरस्सरम् || लिङ्गानां तद्गृहं कार्यं महापुण्य चिकीर्षया | संस्थाप्य * * * * ठे संस्थाप्य जङ्गमम् || इति || गुरुणा * * * * * * * * * * पुनदे | तत्तद्देवालयं कुर्यात्तेषामीशार्चना यथा || प्. ६४१) देव द्रव्यमथा कृत्वा देव कर्मसुयोजयेत् | तत्तपोवनमित्युक्तं ते च यान्ति परं पदम् ||
SKमठं संहृष्य वस्त्राद्यैस्त स * * * पणपूर्विका | वैश्य व्यासत्रिभागं स्यात् तत्पादोनं द्वितीयकम् | तृतीयमर्धभागेन दण्डमानमुदाहृतम् | ध्वजान्वितं समादाय प्रोक्ष्यास्त्रेण पटावृतम् | शिवतत्व विभागेन त्रितत्वं तत्वपान्न्यसेत् | अस्त्रन्यस्तं ततो विद्वान्सन्निधो * * * ता | मन्दिरे विन्यसेत्तत्वं शक्तिं विन्यस्य धारिकाम् | आत्मतत्वमथोभागे ब्रह्माण्डावधि विन्यसेत् | विद्या तत्वं न्यसेन्मध्ये बुद्धितत्व पदानुगम् | शितदूर्ध्वे शिवतत्वं स्याच्छुद्ध विद्यावसानिकम् | कारणि तयन्निस्त्वा शिवं साङ्गं च * * * * * | सान्निध्यं रोधनं पूजा सन्धानं प्रतितत्वकम् | एवं सर्वत्र विधिवत् विधानं पूर्णतां व्रजेत् | शुभलग्नं समासाद्य विन्यसेद्ध्वजमादरात् | मन्दिरं स्थापयेत् पश्चात् फलाद्यैः शुभवस्तुभिः | काष्ठिकातृण निर्वृत्ते मठे न्यासस्तु * * * * * * | तैजसंबन्धिने योज्यं दण्डकेषु च व * * * * | स्थूणासूर्योमतत्वं तु शिवं साङ्गं पुनर्न्यसेत् || प्.६४२) धनधान्यादि संपूज्य मठं कृत्वा गुण * * * * * | शिववत्पूजिते तस्मै तत्वातोयैः समर्पयेत् | कोकानां शिव शक्ते * * * * * प्रसादतः | श्रीसैवागम सागारस्य * * * * * | राजमार्गप्रवृत्तानां अपियद्वत्पदभ्रमः | तद्वदत्र प्रमादाच्चेत् सन्तः सन्तिपदास्पदम् || श्रीमदामार्दकास्थान श्रीदुर्वास महामुनिः | श्री * * * लोकरक्षार्थं शिवशास्त्रावतारकः | तच्छिष्योरणभद्रश्च श्रीमानिद्रोऽमराधिपः | तद्वंशतिलकः श्री * * * निष्पत्वेन्न समाधिकम् || श्रीप्रभाव शिवेनायं गोलकीस्थान संस्थितः | श्रीसोमशम्भुरित्यासीत्तत्सन्तान दिवाकरः | श्री धर्मशम्भुरित्येषः लक्षाध्यायीति विश्रुतः | तच्छिष्यो ज्ञानल शम्बुश्चः स्यात्तस्माच्च व्योमसंकरः | अज्ञान ध्वान्त विकलित कुपथा जन्तुजाता शृणुध्वं दीक्षापूता भवन्तो भवतपरगुरोः व्योमशंभोः सकाशात् | प्. ६४३)
SKतच्छिष्य प्रवरेण बोधपरमानन्दैकधाम्नापरं सिद्धान्तामृतपूरपूर्ण मनसा वारणसीवासिना | ऽस्रीमज्ज्ञानशिवेन शम्भुचरणाम्भोज द्वयाह * * वली || || श्रीमज्ज्ञानरत्नावली समाप्ता || || श्रीमहागणपतये नमः ||