Commentary on the Supreme Goddess
Parātriśikāvivṛti
SKतोद्वारा निणेंतुमुद्युक्ताः पातञ्जलहठयोगिपूर्वमीमांसकादयः | भैरवभट्टारकस्तु भक्तजनमनुग्रहीतुं स्पन्दात्मकेन परापश्यन्त्यादिवाक्चतुष्टयलक्षणेन स्रोतसा राजयोगशब्दवाच्येन ज्ञानक्रियाशक्तिसंघट्टात्मकेन अकारादिहकारान्तवर्णविकासत्मकमधिजिगमिषता अनुत्तराख्यं ज्ञानक्रियात्मकमध्वानमुपदिदिक्षति भैरवीप्रश्नप्रस्तावनया | तथा च श्रुतिः � चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः | गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति || इति श्रीभैरवी अनुत्तरं कथं देव सद्यः कौलिकसिद्धिदम् | येन विज्ञातमात्रेण खेचरीसमतां ब्रजेत् || १ || भोः देव अनुत्तरं न विद्यते प्रकृष्टमुत्तरं यतस्तदनुत्तरं चिद्धनं वस्तु कौलिकसिद्धिदं कुले देहे भवा कौलिकी सिद्धिश्चिदैकात्म्यं तां ददातीति तादृशम् कौलिकीसिद्धिर्जडस्यापि देहादेश्चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः | उक्तं च � देहादिषु चेत्यमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः (शक्तिसू० १६) कथं केन प्रकारेण भवेत् सद्य इति परिज्ञानक्षण एव | तमुपायं वद इत्यर्थः | येन उपायन अनुभूतमात्रेण अयं नरः खेचरीसमतां खेचरीणां तव चिदेकरूपस्य शक्तीनां साम्यं स्वातन्त्र्यरूपमाप्नोति मुक्तो भवतीत्यर्थः || १ || एतद्गुह्यं महागुह्यं कथयस्व मम प्रभो | हृदयस्था तु या शक्तिः कौलिकी कुलनायिका || २ || तां मे कथय देवेश येन तृप्तिं लभाम्यहम् | यद्यप्येतत् गुह्यं गोप्यं ततोऽपि महागुह्यं गुह्यतरं हे प्रभो प्रभवनशील! तदपि मम त्वदभिन्नायाः कथयस्व वैखरीवाचा बोधय भक्तानुग्रहार्थम् | वैखरीलक्षणं तु वाक्यपदीये स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा | वैखरीवाक्प्रयोक्तृणां प्राणवृत्तिनिबन्धना ||
SKइति | तथा या चिच्छक्तिर्हृदयस्था हृदये स्थिता कौलिकी देहादिव्याप्त्री कुलनायिका कुलस्य देहस्य नायिका चिदैकात्म्योपपादिका तां शक्तिं च स्वरूपतो मे कथय, हे देव येन श्रुतेन तृप्तिं निराकाङ्क्षतां लभेऽहम् || २ || श्रीभैरवः शृणु देवि महाभागे उत्तरस्याप्यनुत्तरम् || ३ || कौलिकोऽयं विधिर्देवि मम हृद्व्योम्न्यवस्थितः | कथयामि सुरेशानि सद्यः कौलिकसिद्धिदम् || ४ || हे देवि! उत्तरस्य चित्प्रकाशस्य अपि यदनुत्तरमुत्कृष्टं विमर्शात्मकं स्वरूपं तत् शृणु | अयं विधिरुपायः कौलिको जडस्य देहादेश्चिदेकरूपतासंपादकः, अग्निरिव आयसपिण्डस्य अग्नितोपपादकः | किन्तु अद्यावधि केनापि न पृष्टोऽयं विधिः, अतो मम हृद्व्योम्नि एव अवस्थितो न वहिः प्रकाशितः, सद्यः कौलिकसिद्धिदं देहादेश्चिदैकात्म्योपपादकमुपायं कथयामि व्रवीमि || ४ || तदेव वक्तुमुपक्रमते � अथाद्यास्तिथयः सर्वे स्वरा बिन्द्ववसानगाः | तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ || ५ || अथ इत्युपक्रमे आद्या अकाराद्या बिन्द्ववसानगा अंकारपर्यन्तास्तिथयः पञ्चदश वर्णाः स्वरास्तत्संशकाः तदन्तः तेषां वर्णानां उच्चारमध्ये कालयोगेन कालः कलना सूक्ष्मक्रियाशक्तिस्तस्य योगेन सम्बन्धेन प्राक् संवित् प्राणे परिणता इत्युक्तेः, सोमसूर्यौ प्राणापानौ प्रकीर्तितौ प्रवृत्तिहेतू प्रोक्तौ | अथच तिथयः प्रतिपदाद्याः सूर्याचन्द्रमसोः सन्निकर्षविकर्षाभ्यां कालयोगेन च प्रवर्तन्ते इति बाह्योऽर्थः श्लिष्टः सुगमः || ५ || अथ वर्णानां वाच्यवाचकतया सर्वात्मकत्वं वक्तुं प्रक्रमते � पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु | क्रमात् कादिषु वर्णेषु मकारान्तेषु सुव्रते || ६ || अकारादिविसर्गान्तं शिवतत्त्वं कादिङान्तं धरादिनभोन्तं भूतपञ्चकं, चादिञान्तं गन्धादिशब्दान्तं तन्मात्रपञ्चकम्, टादिणान्तं पादादिवागन्तं कर्माक्षपञ्चकम्, तादिनान्तं घ्राणादि श्रोत्रान्तं धीन्द्रियपञ्चकम्, पादिमान्तं मनोऽहङ्कारबुद्धिप्रकृतिपुरुषाख्यपञ्चकम् || ६ ||
SKवाय्वाग्निसलिलेन्द्राणां धारणानां चतुष्टयम् | तदूर्ध्वं शादि विख्यातं पुरस्ताद्ब्रह्मपञ्चकम् || ७ || वायवी- आग्नेयी � वारुणी- ऐन्द्री � (पार्थिवी) धारणास्तासां स्थानवाचकं यादि चतुष्टयं, तदूर्ध्वं शादीनां पञ्चानां ब्रह्मपञ्चकं ईशानतत्पुरुषाघोरवामदेवसद्योजाताख्यं विख्यातं वाच्यं | पश्यन्त्यात्मकसत्त्वानुवृत्त्या य स्पर्शः, इ रूपं, ल रसः, व गन्धः, देहव्यापकसूर्यरूपप्रणवचिन्तनं पार्थिवीधारणा, दक्षिणपादाङ्गुष्ठोत्थितकालाग्निज्वालाभिर्वाह्यान्तरदेहस्य भस्मीभूतत्वभावनाः आग्नेयी, चण्डवायुना शारीरभस्मनो दशदिग्गतत्वभावनं वायवी, द्वादशान्तपतितेन शाक्तामृतेन तत्स्थानस्य क्षालितत्त्वभावनं, ततो जीवस्य कुण्डलिन्या सहव्योमस्थितस्य प्राणप्रतिष्ठया अमृतेन हृद्यवतारणं वारुणीधारणा || ७ || अमूला तत्क्रमाज्ज्ञेया क्षान्ता सृष्टिरुदाहृता | अकारादिक्षकारान्ता वर्णसृष्टिर्वर्णक्रमेण अमूला अकारमूला अकारसमवायिकारणका कथिता ज्ञेया | अकारस्य सर्ववर्णात्मकत्वं श्रुतिराह � अकारो वै सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्नीर्नानारूपा भवति | इति | गीतास्वपि � अक्षराणामकारोऽस्मि --------------------------------------- | (१०|३३) इति तथाहि- परमेश्वरस्य स्वात्मविमर्शः अ इति, तत्रैव आनन्दशक्तिः, आ इति, पूर्णेच्छा इ इति, इच्छाज्ञानोन्मुखेशनं ई इति, भावोन्मेषोन्मुखं ज्ञानं उ इति, अनुत्तरसंवित्संकोचादूनीभूता ऊ इति, सैव स्वरूपविस्मरणेन सून्यीभूतेव बहिर्मुखा ॠऋ इति, निश्चलशुन्यताप्त्या ऌ ॡ इति, एतच्चतुष्कं शून्यत्वाप्त्या दग्धबीजमिव षण्ठरूपं भाष्यते, नतु सर्वथा बीजत्वव्यपगमः | अनुत्तरानन्दयोरिच्छेशनयोश्च मिथः संयोगे ए इति, उक्तं च � अवर्ण-इवर्णे ए इति (का० वृत्ति १|२|२)
SK(प्. ६) तदेवं रूपमनुवसत् ऐ इति, अ आ उ ऊ ओ इति, अ आ ओ इति, औ इति, उन्मेषेऽपि वाच्यम् | एवमिच्छाज्ञाने अनुत्तरपदलीने बिन्दुमात्रशेषतया अं इति, स एव परमेश्वरः शाक्तविसर्गप्रधानतया अः इति | धरादिशक्त्यन्तं कादिक्षान्तविमर्शशक्तिः षोडशी कला इति गीयते | उक्तं च तन्त्रालोके पुरुषे षोडशकले तामाहुः परमां कलाम् | इति | अकारस्य घनत्वं कवर्गः कण्ठ्यत्वात्, एवं इकारस्य चवर्गस्तालव्यत्वात्, उकारस्य पवर्ग औष्ठ्यत्वात्, ऋकारस्य टवर्गो मूर्धन्यत्वात्, ऌकारस्य तवर्गो दन्त्यत्वात्, यशौ चवर्गस्यान्तः रषौ टवर्गस्य लसौ तवर्गस्य, वकारोऽपि तपवर्गयार्धनता | एवममूर्तस्यापि चिद्धनस्य क्रियाशक्तिरूपतैव, स्वराः शिवबीजात्मकाः शाक्तरूपं कुसु मतया तिष्ठन्तः कादयः क्षान्ता योनिरित्यभिधीयते, एवं वर्णानां घनीभावोऽपरावाक्वपुषि तिष्ठन् वैखरीरूपं स्फुटी भवति || ८ || सर्वेषामेव मन्त्राणां विद्यानां च यशस्विनि || ८ || इयं योनि समाख्याता सर्वतन्त्रेषु सर्वथा | इयं वर्णसृष्टिरादिः क्षान्ता, योनिरुत्पत्तिकारणम् | उक्तं च महार्थमञ्जर्याम् मननमये निजविभवे निजसङ्कोचभये त्राणमयी | कवलितविश्वविकल्पा अनुभूतिः कापि मन्त्रशब्दार्थः || इति || ८ || (प्. ७) अथ महामन्त्रस्योद्धारमाह � चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् || ९ || तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः | अघोर इति त्र्यक्षरं स्वरेषु वर्तमानं, तृतीयं ब्रह्म अघोराख्यं यत् चतुर्दशस्वरेषु युतं संबद्धं स अकारः तिथिः पञ्चदशः स्वरः अंकारः तेन युतश्चासौ शान्तः शवर्गान्तो द्वः तेन अहमिति यो विमर्शः पश्यन्तीवाग्रूपः वाक्यपदीये � अविभागा तु पश्यन्ती सर्वतः संहृतक्रमः | स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी || इत्येवं लक्षितः तत् परा ब्रह्मैव केवला |
SKइत्युक्तेः परावाग्रूपस्य भैरवात्मनः सर्वव्यापकस्य चित्प्रकाशस्य हृदयं सारभूतो महामन्त्रः | तिथी कृदिकारादक्तिनः (ग० पा० ५० सू०) इति वाडीप् || यथा रजनी इति | उक्तं च � प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः | (अ० प्र० सि० २२) इति | तथा � सा स्फुरत्ता महासत्ता -------------------------- | इति --------------------------- हृदयं परमेष्ठिनः | (ई० प्र० १|५|१४) इति च | तथा � स्वभावमवभासस्य विमर्शं विदुरन्यथा | (प्. ८) प्रकाशोऽर्थोपरक्तोऽपि स्फुटिकादिजडोपमः || (ई० प्र० १ | ५ | ११ ) इति | अथच तृतीयं ब्रह्म अघोरमन्त्रः चित्परामर्शयुतो भैरवात्मनः स्वच्छन्दभैरवस्य हृदयं सारभूतो महामन्त्रः || ९ || एतन्नायोगिनीजातो नारुद्रो लभते स्फुटम् || १० || हृदयं देवदेवस्य सद्यो योगविमोक्षदम् | एतदहन्तापरामर्शात्मकं सर्ववेद्यं किमपि परमं हृदयं रहस्यभूतं देवदेवस्य चिदात्मनो नारुद्रो योगिनीव्यतिरिक्तजातो न स्फुटं लभते नोपलभते | यश्च रुद्रांशो भाविभैरवीभावो न स्यात् स च नोपलभते | स्फुटमिति देहाहंभावन्यक्कारेण चित्प्रधान्येन यच्चोपलभते स योगिनीजातो रुद्रांशश्च प्रत्यासन्नभैरवीभावः सद्यो लाभक्षण एव योगविमोक्षदं योगश्चिदात्मसमापत्तिर्विमोक्षश्चिदेकमयता तद्द्दातीति || १० || पश्यन्तीवाचोच्चारे कृतेऽस्य महिमानमाह � अस्योच्चारे कृते सम्यङ्मन्त्रमुद्रागणो महान् || ११ || सद्यस्तन्मुखतामेति स्वदेहावेशलक्षणम् | अस्य महामन्त्रस्य अहमित्येवंलक्षणस्य अघोरमन्त्रस्य च उच्चारे अविरतं तत्तद्देवतानुसंधानेन परामर्शे सम्यागिति देहाहंभावविस्मरणपूर्वं चित्प्रधान्येन कृते सति मन्त्रमुद्रागणो महान् मन्त्रमुद्रादेवतासमूहः सद्यो विमर्शक्षण एव तन्मुखतां तस्य योगिनः संमुखत्वमेति, कथं स्वदेहावेश लक्षणं स्वदेहे योगिदेहे आवेशो देवानां लक्षणं लक्ष्म यत्र संमुखत्वप्राप्तौ || ११ || (प्. ९) अथ समाधेः समयोगेन प्रभावमाह �
SKमुहूर्त स्मरते यस्तु चुम्मकेनाभिमुद्रितः || १२ || संबध्नाति तदा सर्वं मन्त्रमुद्रागणं नरः | अतीतानागतानर्थान् पृष्टोऽसौ कथयत्यपि || १३ || यो योगी चुम्बकेन शाक्तस्पर्शेन अभिमुद्रितः संबद्धो मुहूर्तं घटिकायुग्मं चिदात्मानं स्मरते निरन्तरं अहमित्येवं परामृशति, स एव नरो मन्त्रमुद्रागणं मन्त्राणां मुद्राणां च देवगणं, तदा स्वस्वामिभावेन संबध्नाति प्रत्यक्षीकुरुते, स एव व्युत्थाने केनचित शुभाशुभं स्वस्य जगतो वा पृष्टः सन् अतीतानागतान् भूतभविष्यत्कालेन व्यवहितान् अर्थान् प्रयोजनानि कथयति तस्य वाणी न व्यभिचरतीत्यर्थः || १३ || प्रहराद्यदभिप्रेतं देवतारूपमुच्चरन् | साक्षात्पश्यत्यसंदिग्धमाकृष्टं रुद्रशक्तिभिः || १४ || प्रहरादिति ल्यब्लोपे पञ्चमी, प्रहरमात्रं देवतारूपं चिदात्मानमधिष्ठाय समुच्चरन् परामृशन् समाधिस्थो योगी यद्यदभिप्रेतमभिमतमिन्द्रादिदेवतारूपं स्यात् तत्तद्देवतारूप मसंदिग्धं साक्षात् पश्यति रुद्रशक्तिभिः परमेशशक्तिंभिर्व्राह्म्यादिभिराकृष्टं नोदितम् || १४ || प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् | त्रयेण मातरः सर्वा योगेश्वर्यो महाबलाः || १५ || वीरा वीरेश्वराः सिद्धा बलवाञ्च्छाकिनीगणः | आगत्य समयं लब्ध्वा भैरवेण प्रचोदिताः || १६ || यच्छन्ति परमां सिद्धिं फलं यद्वा समीहितम् | प्रहरद्वयं चेत् स्मरन् समाधौ विश्रान्तो योगी व्योमस्थो जायते खगतिं प्राप्नोति समाधिविश्रान्तत्वात्, प्रहरत्रयं चेत् समाधिविश्रान्तस्तदा भैरवनाथादाज्ञामादाय तेन प्रेरिता मातरो ब्राह्म्याद्याः पञ्चविधकृतकारिण्यः वीरा योगिनो वीरेश्वरा योगीन्द्राः सिद्धाः कपिलादयः शक्तिनीगणो योगिनीसमूहः तस्मै प्रहरत्रयं समाधिस्थाय योगिने समीपमागत्य परमां पूर्णां सिद्धिं स्वस्याः प्रकृतेर्यथेष्टविनियोक्तृत्वलक्षणं स्वातन्त्र्यं, तथा यदन्यत् काङ्क्षितं फलं तद् दास्यन्ति || १६ ||
SKअनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः || १७ || यत् किञ्चिद्भैरवेतन्त्रे सर्वमस्मात् प्रसिध्यति | अनेनैवाहमिति � चिदानन्दविश्रान्तिलक्षणेन समाधिना अघोरमन्त्रेण च सिद्धा योगिनो जन्ममोक्षान्यतरपरिग्रहे स्वतन्त्राः संपद्यन्ते साधयन्ति अन्यानपि सिद्धान् संपादयिष्यन्ति | तथा अस्यैव महामन्त्रोपासकस्य यत् किञ्चिद् भैरवेतन्त्रे फलमुक्तं तत् सर्वमस्मात् महामन्त्रोपासनरूपात् समाधेरघोरमन्त्रतश्च सिद्ध्यति || १७ || अदृष्टमण्डलोऽप्येवं यः किञ्चिद्वेत्ति तत्त्वतः || १८ || स सिद्धिभाग् भवेन्नित्यं स योगी स च दीक्षितः | यः किश्चिदिति वर्णाश्रमविभागाधिकारव्यतिरिक्तस्तत्त्वतो देहाहंभावन्यक्कारेण एवं उक्तप्रकारेण महामन्त्रं वेत्ति, सोऽदृष्टमण्डलोऽपि दीक्षाविधाने यत् प्रयुक्तं मण्डलं कलशयागादिदेवताचक्रं तत् तेनादृष्टमपि, एवमीदृशः सन्नपि सिद्धिभाक् नित्ययोगी दीक्षितश्च भवति | उक्तं च � स्वस्वरूपपरिझानं मन्त्रोऽयं पारमार्थिकः | प्. ११) दीक्षेयमेष योगश्च क्रियाया अप्यनुत्तरः || इति | योगो नवनाभसंज्ञः, कलशमण्डलाझिसाधन � चरुसाधन � शिष्यसंस्कार � न्यासविधान � पाशसूत्रसंस्कार � स्वप्नपरीक्षा � यागविधान � रुद्रांशापादन � कलापञ्चकशोधन � योजनिकोपदेशाभिषेक � पवित्रारोहण � विसर्जनान्तायाः क्रियायाः कर्मानुष्ठानादपि अनुत्तरोऽत्युत्कृष्टः || १८ || अनेन ज्ञातमत्रेण ज्ञायते सर्वशक्तिभिः || १९ || शाकिनीकुलसामान्यो भवेद्योगं विनापि हि | अविधिज्ञो विधानज्ञो जायते यजनं प्रति || २० || अनेन महामन्त्रेण भैरवेश्वरस्य सर्वाभिः शक्तिभिर्ज्ञायते स्वकीयत्वे सः, तथा योगं विनापि व्युत्थाने वर्तमानः शाकिनीकुलसामान्यः शाकिनीकुलस्य योगिनीगणस्य सामान्यः साधारणः क्रीडनको भवेत् | पूर्वमविधिज्ञोऽपि अनेनैव महामन्त्रेण ज्ञातेन दीक्षाया यजनं प्रति विधानज्ञो जायते || २० || कालाग्निमादितः कृत्वा मायान्तं ब्रह्मदेहगम् | शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् || २१ ||
SKनिवृत्तिकलायाः पादाग्राद्गुल्फान्तं व्याप्तिः तत्रैव भूतत्त्वस्थितिः ब्रह्मणोऽधिकृतिः | प्रतिष्ठाया गुल्फान्नाभ्यन्तं व्याप्तिः तत्र जलतत्त्वमारभ्य प्रकृतितत्त्वान्तं चतुर्विंशतितत्त्वस्थितिः तत्र विष्णोरधिकृतिः | विद्याया नाभेस्ताल्वन्तं व्याप्तिः, तत्र पुरुषतत्त्वमारभ्य मायातत्त्वान्तं सप्ततत्त्वस्थितिः, तत्र रुद्रस्याधिकृतिः | शान्ताकलायास्तालुनो बिन्द्वन्तं व्याप्तिः तत्र शुद्धविद्यादितत्त्वत्रयस्थितिः, तत्र ईश्वरस्याधिकृतिः | पुरुषनियतिकालरागविद्याकलामायातत्त्वानि सप्त, शुद्धविद्यातत्त्वेश्वरतत्त्वसदाशिवाख्यानि त्रीणि तत्त्वानि, भूतानि पञ्च, घीन्द्रियानि पञ्च, कर्मेन्द्रियानि पञ्च, विषयाः पञ्च, अन्तःकरणानि त्रीणि, प्रकृतिरेका, निवृत्तावष्टोत्तरशतं भुवनानि, प्रतिष्ठायां षट्पञ्चाशत्, विद्यायां सप्तविंशतिः, शान्तायां सप्तदश, शान्त्यतीतायां षोडश, एवं सर्वाणि भुवनानि चतुर्विंशत्यधिकं द्विशतम् | शान्त्यतीताया बिन्दोः करन्ध्रान्तं व्याप्तिः, तत्र अनन्तव्याप्तशिवतत्त्वस्थितिः तत्र अनाश्रितशिवस्याधिकृतिः | अत्र तु संक्षेपेणैव एतत्क्रमः | कालाग्निं कालाग्निस्थानं पादाग्रं आदितः कृत्वा तदारभ्य मायान्तं मायातत्त्वान्तं ब्रह्मोत्युपलक्षणं तेन ब्रह्मविष्णुदेहगमिति ताल्वन्तं स्थितौ, ब्रह्म इति नपुंसको निर्देश एशः पाठः | शिवो मायोर्ध्वे विश्वाद्यनन्तान्तो विश्वभुवनाच्छुद्धविद्यादेरारभ्य अनन्तान्तो अनन्तभुवनावधि अधिष्ठाता स्थितः, अतः परं शक्तित्रयं विद्या � शान्ता � शान्त्यतीतादित्रयं सूक्ष्ममुत्कृष्टं च मतम् || २१ || कुत इत्याह � तदन्तर्वर्ति यत्किञ्चित् शुद्धमार्गे व्यवस्थितम् | अणुर्विशुद्धमचिरादैश्वरं ज्ञानमश्नुते || २२ ||
SKतस्य शक्तित्रयस्य अन्तर्वर्ति यदध्वरूपं तत्त्वभुवनावस्थादिमध्यस्थितं तत् शुद्धमार्गे व्यवस्थितं मायाकालुष्यतानवतारतम्यादणुर्जीवो योगमभ्यस्यन् शुद्धाध्वनि प्रतिष्ठितोऽचिराद् ऐश्वरं ज्ञानं विशुद्धं भेदप्रथारहितं प्राप्नोति | षडध्वानः वर्णपदमन्त्रभुवनतत्त्वकलात्मानः, त्रयो वाचकास्त्रयो वाच्याः || २२ || तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः | सर्वगो निर्मलः स्वच्छस्तृप्तः स्वायतनः शुचिः || २३ || तच्चोदकः तस्य ईश्वरज्ञानस्य चोदकोऽनुग्रहभाजनं कञ्चिदेव योगिवर्यं प्रति प्रयोजकः शिवकलाधिष्ठातज्ञेयः, यतः स एव सर्वज्ञः | यदुक्तम् � एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः | इति परमेश्वरोऽदेयमपि दातुं समर्थः | सर्वगो व्यापकः | सर्वगो मायीयमलरहितः | स्वच्छः आणवमलरहितः | तृप्तः कार्ममलरहितत्वात् निराकाङ्घः | स्वायतनश्चिदात्मनि प्रतिष्ठितः | शुचिर्निवासनः | ईतादृगन्यो देवः कोऽपि नास्ति | मलत्रयलक्षणं श्रीप्रत्यभिज्ञायाम् � स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता | द्विधाणवं मलमिदं स्वस्वरूपापहानितः || भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् | कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् || (ई० प्र० ३ | २ | ४ |) इति || २३ || ननु अणोर्जीवस्य सङ्कुचितस्य पूर्णव्यापकेश्वरज्ञानं दुर्घटमनुमीयते जलबिन्दोरिवार्णवत्वप्राप्तिरित्यतो दृष्टान्तनिदर्शनेन सम्यग्बोधयति � यथान्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः | तथा हृदयबीजस्थं जगदेतच्चराचरम् || २४ || (प्. १४) न्यग्रोधबीजे वटवृक्षबीजे शक्तिरूपो हृदयबीजं शुद्धचित्परामर्शात्मपरारूपं तत्र स्थितं चराचरात्मकं जगद्विस्तीर्णं हृदयबीजस्थं सूक्ष्मरूपेण स्थितमतो न किञ्चिदसमञ्जसम् || २४ || एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी | दीक्षा भवत्यसंदिग्धा तिलाज्याहुतिवर्जिता || २५ || तत्त्वेन देहाहंभावतिरस्कारेण चिदात्मप्रतिष्ठया यो वेत्ति संवेदयते | दीक्षेति �
SKददाति ज्ञानसद्भावं क्षपयत्यखिलं मलम् | बोधानुवेधाद् दीक्षोक्ता दानक्षपणधर्मिणी || इत्यादिना लक्षिता मोक्षावहा, तिलाज्या, इति बाह्योपक रणमनपेक्षमाणा, नात्र संशयः || २५ || एवमान्तरीं सूक्ष्मां पूजामभिधाय बाह्यपूजोपलक्षणमाः त्रमप्याह � मूर्ध्नि वक्त्रे च हृदये गुह्ये मूर्तौ तथैव च | न्यासं कृत्वा शिखां बद्ध्वा सप्तविंशतिमन्त्रिताम् || २६ || ईशानमूर्ध्ने नमः, तत्पुरुषवक्त्राय नमः, अघोरहृदयाय नमः, वामदेवगुह्याय नमः, सद्योजातमूर्तये नमः, इति मन्त्रेण न्यासं कृत्वा अघोरमन्त्रेण च सप्तविंशतिवारमष्टोत्तरशताक्षमालापादेन मन्त्रितां शिखां बद्ध्वा || २६ || एकैकं तु दिशां बन्धं दशानामपि योजयेत् | तालत्रयं पुरा दत्वा सशब्दं विघ्नशान्तये || २७ || छोटिकाभिर्दशभिः, भूताः प्रेताः पिशाचाश्च राक्षसाश्च सरीसृपाः | (प्. १५) अपसर्पन्तु ते सर्वे दिव्यास्त्रेण ताडिताः || इति मन्त्रेण दिग्बन्धं प्रयोजयेत्, अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः | ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया || इति मन्त्रेण पूर्वं पार्ष्ण्याघातत्रयं कृत्वा, पाषाण्डकारिणो भूता भूता भूम्यन्तरिक्षगाः | दिवि लोके स्थिता ये च ते नश्यन्तु शिवाज्ञया || इति | सशब्दं तालत्रयं दत्त्वा प्रत्यूहोपशमनाय || २७ || शिखासंख्यातिजप्तेन तोयेनाभ्युक्षयेत्ततः | पुष्पादिकं क्रमात् सर्वं लिङ्गे वा स्थण्डिलेऽथवा || २८ || चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना | नैरृतेऽस्त्रार्घपात्रे सप्तविंशतिवारमघोरमन्त्रेण मन्त्रितं तोयं विधाय ज्ञानस्वङ्गेन पुष्पगन्धाक्षतादिकं पूजोपकरणमभ्युक्षयेत् शोधनार्थं सिञ्चेत् | ततो मृन्मयादिलिङ्गे स्थण्डिले वा यागभूमौ विहिताष्टदलकमलादिके वा दर्पणप्रतिबिम्बिते चतुर्दशवारमघोराभिजप्तेन पुष्पेण इति पुष्पासनादिकां पूजां कुर्यात् || १८ || ततः सृष्टिं यजेद्वीरः पुनरेवासनं ततः || २९ || सृष्टिं तु संपुटीकृत्य पुनर्यजनमारभेत् |
SKततो वाह्यपूजानन्तरमकारादिहकारान्तां वर्णसृष्टिं यजेत् लिङ्गादौ च पूजयेत् अं नमः इत्येवम्, पुनरेव वीरो योगीन्द्रो ध्यानयोगासनं विधाय अकारादिहकारान्तां सृष्टिं संपुटीकृत्य प्रत्याहृत्य अहमिति चित्तत्त्वे प्रतिष्ठितो भूत्वा पुनर्यजनमान्तरीं पूजामारभेत् | आत्मामर्शनमेवाभ्यन्तरी पूजा || २९ || (प्. १६) ततो भावनया पूजा � सर्वतत्त्वसुसंपूर्णा सर्वाभरणभूषिताम् || ३० || यजेद्देवीं महेशानीं सप्तविशतिमन्त्रिताम् | ततः सुगन्धिपुष्पैस्तु यथाशक्त्या समर्चयेत् || ३१ || पूजयेत् परया भक्त्या आत्मानं च निवेदयेत् | सर्वतत्त्वैः षट्त्रिंशत् तत्त्वैः सुसंपूर्णां निर्भरां सर्वाभरणभूषितां महेश्वरीं परां देवीमघोरमन्त्रेण परया भक्त्या अत्यादरेण पूजयेत् गन्धपुष्पादिभिरात्मानं च निवेदयेत् समर्पयेत् || ३१ || एवं यजनमाख्यातमग्निकार्येऽप्ययं विधिः || ३२ || कृतपूजाविधिः सम्यक् स्मरन् बीजं प्रसिध्यति | एवं द्विप्रकारं यजनं पूजनमुक्तं अग्निकार्ये होमादावपि अयं विधिः, एष एव प्रकारो द्विविधः एवमुक्तविधया कृतपूजाविधिर्योगी सम्यग् देहाहन्तां विस्मार्य जगतो वर्णानां च बीजं मूलकारणं चित्तत्त्वं नित्यमनवरतं व्युत्थानेऽपि स्मरन् प्रत्यवमृशन् प्रसिध्यति अनुत्तरां ज्ञानधारामधिरोहति || ३२ || अथ ध्यानयोगनिष्ठस्य योगिनः सप्रकारं स्मरणे रहस्योपदेशमाह � आद्यन्तरहितं बीजं विकसत्तिथिमध्यगम् || ३३ || हृत्पद्मान्तर्गतं ध्यायेत् सोमांशं नित्यमभ्यसेत् | जगतो वर्णानां वा बीजं परारूपं चिदात्मकं तत्त्वं बीजं मां सर्वभूतानां ----------------------------- | (प्. १७) इति गीतासूक्तम् | विकसदिति विकसन्तो अकारादिहकारान्तं प्रसरन्तो अमूला तत् क्रमात् ज्ञेया ------------ | (८ श्लो० )
SKइत्यत्र ज्ञातमात्रेण व्यञ्जनरूपेण परिणमन्तो वैखर्यां वाचि स्पष्टतां गच्छतश्च ते तिथयः पञ्चदश स्वरास्तेषां मध्यगं तदन्तर्वर्ति अहमित्येवं स्वाभेदेन नतु ध्येयत्वेन हृत्पद्मान्तर्गतं ध्यायेत् राजयोगवित् गुरुपदेशेन अनुशीलयेत् गुरुरुपायः || (शि० सू० २ | ९ ) इत्युक्तम् | तथा च श्रुतिः � तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् || इति | कथं ध्यायेदित्याह � आद्यन्तरहितं आदिहान्तवर्णरहितं वर्णानां विकल्परूपत्वात् | स्पन्देऽपि � शब्दराशिसमुत्थस्य ------------------------------- | (स्प० का० ४ | १५ ) इत्युक्तम् | अविकल्पं यथा स्यात्तथा ध्यायेत् | केवलं बुद्ध्युपादानक्रमरूपानुपातिनी | प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते || इत्येवंलक्षणां मध्यमां वाचं प्रतिनिवर्त्य सत्त्वेन विमृशेत् | यदुक्तं श्रीपूर्वे � तदेतदहमित्येवं विसर्गानुत्तरात्मकम् | नाभिकुण्डलहृद्व्योम्नो योगिनोऽहमुपासते || इति | निर्विकल्पध्यानस्य एतदेव लक्षणम् | ध्यानयोगबलेन षट्चक्रभेदनपूर्वं सुषुम्नायां प्राणापानलयेन पादाग्रादारभ्य करन्ध्रान्तं विद्युद्वत् सहसोत्थिते चिदानन्दपूरे यदेव निमज्जनं तदेव ध्यानं अन्यथा दम्भचर्येति | अत्र व्युत्थाने स्मरणोपयोगिनीं युक्तिमाह � सोमांशंमिति, सोमांशं प्राणस्य अवसाने अपानस्य प्रविविक्षायां नित्यं अनवरतं अभ्यस्येत् चित्तत्त्वं विमृशेत् | न सा जीवकला काचित् सन्तानद्वयवर्तिनी | व्यात्री शिवकला यस्यामधिष्ठात्री न विद्यते || इत्युक्तेः | तदुक्तं वासिष्ठे � अस्तङ्गतवति प्राणे त्वपानेऽभ्युदयोन्मुखे | बहिः कुम्भकमालंब्य चिरं भूयो न शोच्यते || (वा० ६ प्र०) तथा � प्राणक्षयपदान्तस्थमपानक्षयकोटिगम् | अपानप्राणयोर्मध्यं चिदात्मानमुपास्महे || इति | तन्त्रालोकेऽपि �
SKतपः प्रभृतयो येच नियमस्तत्तदासनम् | प्राणायामाश्च तत्सर्वमेतद् बाह्यविजृम्भितम् || श्रीमद्वीरावलौ प्रोक्तं बोधमात्रे शिवात्मके | चित्तप्रलयबन्धेन प्रलीने शशिभास्करे || प्राप्ते च द्वादशे भागे जीवादित्ये सुबोधके | मोक्षः स एव कथितः प्राणायामो निरर्थकः || प्राणायामो न कर्तव्यः शरीरं येन पीड्यते | (तं० ४ आ० ) इति | प्रभृतिग्रहणेन तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः | यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ् गानि योगस्य इत्यादयो योगशास्त्रोक्ताः इति || ३३ || यान्यान् कामयते कामांस्तांस्तां शीघ्रमवाप्नुयात् || ३४ || अस्मात् प्रत्यक्षतामेति सर्वज्ञत्वं न संशयः | (प्. १९) कामानभिलाषान् अस्मादेव परतत्त्वाभ्यासात् प्रत्यक्षतामेति प्रादुर्भवति || ३४ || एवं मन्त्रफलावाप्तिरित्येतद्रुद्रयामलम् || ३५ || एतद्भ्यासतः सिद्धिः सर्वज्ञत्वमवाप्यते | एवं द्विप्रकारपूजनेन, रुद्रश्च रुद्राणी च रुद्रौ तयोः शिवशक्त्योर्यामलमुभयसंघट्टात्मकं रूपम् | सिद्धिर्बाह्याभ्यन्तरी च | तदुक्तम् � धर्माधर्मान्तरे चित्तं रुद्धं येन तदा तु सः | यद्वक्ति स भवेन्मन्त्रः किं पुनर्मान्त्रिकोत्थितः || इति | तथाच श्रुतिः � या वागुदिता या चानुदिता शिवा न शन्तमा भव | सुमृलीका सरस्वति मा ते व्योम सन्दृशे || हे सरस्वति परब्रह्मणोऽविनाभाविनि परामर्शात्मिकशक्ते या त्वं वाग्रूपा चित्परामर्शात्मिका उदिता वैखर्यात्मना आविर्भूता या च त्वमनुदिता मध्यमारूपेण सतीपरैरसंवेद्या, या च त्वं शिवा चिदात्मपरामर्शपरतया दुःखसंपर्कशून्या पश्यन्ती रूपा, या च त्वं शन्तमा चिदानन्दघनत्वेन परारूपा, सा त्वं नोऽस्माकं सुमृलीका विभावितालौकिकचिदानन्दा भव इत्याशंसा | तथा ते तव स्वरूपस्य व्योम चिदात्मपरामर्शविस्मरणलक्षणं छिद्रं च तुसृष्वपि वाक्षु मा संदृशे माद्राक्षम् | त्वत्स्वरूपसाक्षात्कारान्नित्यमप्रच्युतो भूयाममित्याशास्महे || ३५ ||
SKएकं यः स्वमुखं पिधाय जगतां सृष्टिं विधते स्वयं यश्चाच्छाद्य निजान्चतुर्दशभुजान्रक्षाविधाने पटुः | स्वानि द्वादशलोचनानि च तिरोधाय क्षिणोति क्षणाद्यस्तं कारणकारणं हितरतं स्वच्छन्दनाथं स्तुमः || दृष्ट्वा दुर्घटनां शास्त्रे गुप्तपादैर्विनिर्मिते | राजानलसकेनैषा त्रीशिकाविवृतिः कृता || इति शम् || इति श्रीराजानकलक्ष्मीरामकृता परात्रीशिकालघुविवृतिः समाप्ता || पाठकलेखकयोः श्रेयस्करी भूयादिति ||