[आ] श्रीमच्छन्दपादकेभ्यो नमः | श्रीमीनसहजानन्दं स्वकीयाङ्गसमुद्भवम् | सर्वमाधारगम्भीरमचलं व्यापकं परम् | मायामलविनिर्मुक्तं मीननाथं नमाम्यहम् || अथातः सम्प्रवक्ष्यामि अकुलवीरं महद्भूतम् | गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः || १ || अनुग्रहाय लोकानां सिद्धनाथेन भाषितम् | गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् || २ || संसारार्णवमग्नानां भूतानां महदाश्रयम् | यथा नदीनदाः सर्वे सागरे समुपागताः || ३ || तथा अकुलवीरेषु सर्वधर्मा लयङ्गताः | सर्वाधारमशेषस्य जगतः सर्वदा प्रभुः || ४ || सहजानन्दं न विन्दन्ति सर्वधर्मसमासृताः | अजानन्तमलैर्ग्रस्ता महामायान्धच्छादिताः || ५ || शास्त्रजालेन सन्तुष्टा मोहितास्त्यजयन्तिताः (?) | न विन्दन्ति पदं शान्तं कौलानां निष्कलं गुरुम् || ६ || संवादयन्ति ये केचिन् न्यायवैशेषिकास्तथा | बौधास्तु अरिहन्ता ये सोमसिद्धन्तवादिनः || ७ || (प्. ८५)
SK
मीमांस पञ्चस्रोताश्च वामसिद्धान्तदक्षिणाः | इतिहासपुराणञ्च भूततत्वन्तु गारुडम् || ८ || एभिः शैवागमैः सर्वैः परोक्षञ्च क्रियान्वितैः | सविकल्पसिद्धिसञ्चारं तत् सर्वं पापबन्धवित् || ९ || विकल्पबहुलाः सर्वैर्मिथ्यावादा निरर्थकाः | न ते मुञ्चन्ति संसारे अकुलवीरविवर्जिताः || १० || सर्वज्ञं सर्वमासृत्य सर्वतो हितलक्षणम् | सर्वेषां सिद्धिस्तत्रस्था सर्वसिद्धिञ्च तत्र वै || ११ || यत्रासौ अकुलवीरो दृश्यते सर्वतोमुखम् | तं विदित्वा परं रूपं मनो निश्चलतां व्रजेत् || १२ || शब्दरूपरसस्पर्शगन्धञ्चैवात्र पञ्चमम् | सर्वभावाश्च तत्रैव प्रलीणाः प्रलयं गताः || १३ || भावाभावविनिर्मुक्त उदयास्तमनवर्जितः | स्वभावमतिमतं शान्तं मनो यस्य मनोमयम् || १४ || अकुलवीरमिति ख्यातं सर्वाधारपरापरम् | नाधारलक्षभेदन्तु न नादगोचरे पठेत् || १५ || हृदि स्थाने न वक्त्रे च घण्टिका तालरन्ध्रके | न इडा पिङ्गला शान्ता न चास्तीति गमागमे || १६ || न नाभिचक्रकण्ठे च न शिरे नैव मस्तके | तथा चक्षुरुन्मीलने च न नासाग्रनिरीक्षणे || १७ || न पूरककुम्भके तत्र रेचके (च) तथा पुनः | न बिन्दुभेदके ग्रन्थौ ललाटे न तु वह्निके || १८ || (प्. ८६)
SK
प्रवेशनिर्गमे नैव नावाहनविसर्जनम् | न करणैर्नासनं मुद्रैर्नामासे भिन्नतालुके (?) || १९ || न निरोधो न चोद्धारो नातीतां चालनं न हि | न प्रेर्यप्रेरकञ्चैव न स्थानन्नैव चाश्रयम् || २० || न चात्मनैव तद् ग्राह्यं ग्राह्यातीतपदं भवेत् | एतत् पक्षविनिर्मुक्तं हेतुदृष्टान्तवर्जितम् | सबाह्याभ्यन्तरन्तत्र एकोच्चारं चराचरम् || २१ || न दूरे न च वै निकटे न भरितो न च रिक्तक(ः) | न उन्नो न सोऽधिक एभिः पक्षैर्विवर्जितम् || २२ || यश्च विंशात्मको ह्येष पुद्गल नास्ति यत्र वै | यत्र लक्षं न विद्येत अकुलवीर स उच्यते || २३ || यस्यैवं संस्थितं कश्चित् समरस संस्थितः | स ब्रह्मा सो हरिश्चेशः स रुद्रो स च ईश्वरः || २४ || स शिवः परमदेवः स सोमार्काग्निकस्तथा | स च सांख्यः पुराणाश्च अर्हन्तबुद्ध एव च || २५ || स्वयं देवी स्वयं देवः स्वयं शिष्यः स्वयं गुरुः | स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वत्र देवता || २६ || यादृशेन तु भावेन पुरुषो भावयेत् सदा | तादृशं फलमा(व)प्नोति नात्र कार्यविचारणात् || २७ || अस्यैव हि नामानि पृथग्भूतानि योगिभिः | अनाम तस्य गीयन्ते भ्रान्तिज्ञानविमोहितैः || २८ || धर्माधर्मसमाक्लिष्टाविकल्पतमश्छादिताः | तेन मुञ्चन्ति संसारं नरकं योनिसंकुलम् || २९ || (प्. ८७)
SK
अकुलवीरं महद्भूतं यदा पश्यन्ति सर्वगम् | स बाह्याभ्यन्तरे नित्यं एकाकारं चराचरम् || ३० || निस्तरङ्गं निराभासं पदभेदविवर्जितम् | सर्वावयवनिर्मुक्तं निर्लयं निर्विकारजम् || ३१ || अदृष्टनिर्गुणं शान्तं तत्त्वातीतं निरञ्जनम् | सर्वज्ञं परिपूर्णञ्च स्वभावश्चैवमक्षयम् || ३२ || कार्यकारणनिर्मुक्तमचिन्त्यमनामयम् | मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् || ३३ || समत्वं एकभूतञ्च ऊहापोहविवर्जितम् | अकुलवीरं महद्भूतम् अस्तिनास्तिविवर्जितम् || ३४ || न मनो न च वै बुद्धिर्न चिन्ताचेतनादिकम् | न कालः कलनाशक्तिर्न शिवो न च इन्द्रियः || ३५ || न भूते गृह्यते सो हि न सुखं दुःखमेव च | न रसो हि न सुखं दुःखमेव च (?) || ३६ || न रसो विरसश्चैव न कृतो न च जायते | न च्छाया न च तापस्तु न शीतो न च उष्णवान् || ३७ || न (दृश्यते मन्) स्तत्र उदयास्तमनवर्जितम् | न सीमा दृश्यते तत्र न च तीर्थ्यं न चैव हि (?) || ३८ || अद्वैतमचलं शान्तं संगदोषविवर्जितम् | निराकुलं निर्विकल्पञ्च निबद्धञ्च मलक्षणम् || ३९ || अनाथं सर्वनाथञ्च उन्मना मदवर्जितम् | अनिगूढमसन्धिञ्च स्थावरं जङ्गमेव च || ४० || (प्. ८८)
SK
ज्वलज्ज्वलनभूम्या च आपोञ्चैव तथैव च | सर्वं समरसं पूर्णं अकुलवीरन्तु केवलम् || ४१ || यस्यैषा संस्थिता मुक्तिः स मुक्तो भवबन्धनात् | न तस्य मातापिता (वा)बान्धवं न च देवता || ४२ || न यज्ञं नोपवासञ्च न क्रिया वर्णभेदकम् | त्यक्त्वा विकल्पसंघातम् अकुलवीरलयं गताः || ४३ || न जपो नार्चनं स्नानं न होमं नैव साधनम् | अग्निप्रवेशनं नास्ति हेमन्तभृगु नोदनम् || ४४ || नियमोऽपि न तस्यास्ति नोपवासो विधीयते | पितृकार्यं न करोताति तीर्थयात्राव्रतानि च || ४५ || धर्माधर्मफलं नास्ति न स्नानं नोदकक्रिया | स्वयं त्यज सर्वकार्याणि लोकाचाराणि यानि च || ४६ || समयाचारविचारञ्च कृतका बन्धकानि तु | संकल्पञ्च विकल्पञ्च ये चान्ये किल धर्मिणः || ४७ || भवे योगी निराचारो पशुचारविवर्जितः | सिद्धिश्च विविधाकारा पाताले च रसायनम् || ४८ || प्रत्यक्षञ्च या लब्धं न गृह्नीयात् कदाचन | सर्वञ्च पाशजालञ्च अधोमार्गप्रदायकः || ४९ || एतेषु मोचना नास्ति अकुलवीरविवर्जिताः | यथा मृताः (न) जानन्ति स्वादं कटुमधुरस्य तु || ५० || तथा अकुलवीरन्तु न जानन्ति स्वभावगम् | यथा मदिरा महान्तस्य कथितं नेवशकृते (?) || ५१ || Pअगे ८९ तो ९६ मिस्सिन्ग् (प्. ९७)